1. Bodhasara Narahari Dipti Diwakara Swami Dayanand Chowkambha Part 1
Page 1
UNIVERSITY OF TORONTO 3 1761 00665605 2
Page 3
Digitized by the Internet Archive in 2010 with funding from University of Toronto
Page 4
١
Page 5
2.9
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE,
UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, PH. D. No. 89.
बोधसारः। श्रीविद्वद्वर्यनरहरिविरचितः ।
दयानन्दस्वामिना परिशोधितः। BODHSÂR, A TREATISE ON VEDANTA, BY SRI NARHARI, With a commentary by the author's pupil . PANDIT DIVÂKAR. EDITED BY SWÂMÎ DAYANAND. Fasciculus I. BENARES. Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot.
Printed at the Vidyâ vilas Press, BENARES. 1904.
DEC 21 1965 H6ITY OF TORONTO
Page 7
BENARES SANSKRIT SERIES; 23 A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT. COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A., C. I. E. AND G. THIBAUT, PH. D. Nos. 89.90. 94. 96. 101 .. 105. 108. 109. 111. & 113. Nara kari, Vedămta बोघसार:1 hadarah
श्रीविद्वद्वर्यनरहरिविरचितः । ताच्छष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः ।
दयानन्दस्वामिना परिशोधितः। BODHASÂR, A TREATISE ON VEDÂNTA,
SRÎ NARAHARI, BY
With a commentary by the author' s pupil PANDIT DIVÂKAR. EDITED BY SWÂMÎ DAYÂNAND.
BENARES: Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot. Printed at the Vidya Vilâs Press, BENARES.
1906 Registered under Act XXV.of 1867. (ALL RIGHTS RESERVED.)
Page 8
B 132 V3N37 1906
LIBRARY FEB 1 3 1967 .T TORONTO
Page 9
अथ सटीकबोधसारस्य भूमिका।
इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थो, 'न स पुनरावर्तत' इति श्रुतेः । पूर्वेषां त्रयाणा चानित्यत्वेन हेयतयाऽस्यैवोपादेयत्वमिति न तिरोहितं विदुषाम, तत्साधनश्च पसगात्मव्रल्मैक्यज्ञानम्, तत्साधनं साधनचतुष्ट- यसम्पन्नस्याधिकारिया: श्रवणादिकम, 'भात्मा वा भरे श्रोत- व्यो मन्तव्यो निदिध्यासितव्य इते श्षतेः । तदुपयोगिषु सूत्र- भाष्यादिबहुग्रन्थेषु सत्स्वपि गुर्वादिस्तुतिमभृत्यनेकगुणविशि- ष्टत्वेनाल्पबुद्धीनामनायासेन बोधोपयुक्तसुगमार्थत्वेन प्तिश्षोकं मिद्धान्तपतिपादकत्वेन च सर्वश्रेष्ठत्वमस्य ग्रन्थकारेण स्वमुखे- नैत्रोक्तं, तथाहि- आदौ गुरुस्तवो यत्र ान्ते च शिवपूजनम्। मध्ये मुकुन्दस्मरणं बोधसार: स उत्तमः ॥ १॥ सिद्धार्थः सुगमार्थश्च विशैषैर्बह्ुभिर्ष्टतः । ग्रन्थस्त्वेतादशस्तात न भूतो न भविष्यति ॥२ ॥ न स्तौमि न च निन्दामि कथयामि यथास्थितम्। एकैकस्मिश्रिह क्षोके प्रोक्त: सिद्धान्तनिर्यायः ॥ ३॥ यथा ब्रह्माण्डसर्वस्व पिण्डे पिण्डे व्यवस्थितम्।
Page 10
तथा सिद्धान्तसर्वस्वं क्षोके श्रोके निरुपितम् ॥४॥ इत्यादि। अस्य ग्रन्थस्य निर्माणसमयमारभ्य शरच्छत व्यतीयाये वृद्धयतिभ्योऽवगम्यते, अस्य मूलग्रन्थस्य निर्माता कश्रिद क्षिणात्यो ब्राह्मो नरहरिनामाडभूव, टीकाकारश् तच्छिष्य दिवाकरनामा, तत्तु नामद्वयं मूले टीकार्या च शतसहसर्श उपलभ्यत इति। अस्य चादर्शपुस्तकमेकं प्रसिद्धभिषग्वराद् दृद्धयतिवराद्
तसहस्रसाधूनां हृदयकमलानि ब्रह्मविद्यामयस्ववचनकिरणजा- लेनाSSत्पाडव्वाननिरसनद्वारा बोधयन्य उदासीनेषु पूज्यतमेभ्य उदासीनसंपदायस्थेभ्यः परमहंमवर्यपण्डितव्रह्मानन्दाभिधेभ्यः पाचार्येभ्यो लब्धविधेन त च्छिष्यैरधीतवेदान्ताशाखैरधिग- तशास्त्रार्थतच्तैः परोपकारनिरतैः परमहंसगोविन्दानन्दाभिधैः स्वगुरुभिः प्रेरितेन परमहंसदयानन्देन यथामति शोषितोडयं ग्रन्थ इति शमू॥ ॥ शुभंभूयात् ॥
Page 11
ॐ नमोऽन्तर्यामिणे। श्रीमदाचार्यनरहरिविरचितो
बोधसारः।
आचार्यदिवाकरकृतया दीप्त्या संवळितः ।
भवभयमपहन्तुं ज्ञानशास्त्रं विधाय तदनधिकृतमूढज्ञपये दैवतं च। तदनधिकृतजीव स्यापि कर्मार्थकाण्डं सकलजनगतिन्तं सद्गुरुं भावयामि ॥ १॥ पूर्वजन्मा नरहरिरूत्तरोऽस्मिन्दिवाकर: बोधसारप्रकाशाय जलबीचिलया यथा ॥२॥ नरहरिपदसेवालब्धविज्ञानसारो बुधजनहितकृत्यै बोधसारं विधाय। बुधदिनकरसाह्वो वोधसारार्थदीपिं विदधति सुजनानां प्राप्तये तत्पदंस्य॥। ३ ॥। यत्कारूण्यामृतजलनिधिस्रानमात्रेण सद्य स्तापध्वंसात्परसुस्निधिः प्राप्यते जायते च। दुःखध्वान्तं स्वशरणगते नाशयित्वा स्वरूपे चित्तस्थैर्ये नरहरिमहङ्कारणं भावयामि ।। ४॥ अजमभयमनाद्यनन्तमेकं सहजसुखाद्वयचित्स्वरूपमाद्यम्। स्वशरणभयहारकं समस्त गुरुमहमभयं वृसिंहमीडे।५।।
Page 12
२ मङ्गलाचरणम्
यद्दष्टि र न हि राति दृश्यमखिलं विश्वं सदित्यन्तरा तज्जन्ये च सुखेतरे त्वतितरामन्तर्न रात्येव यद्। यज्ज्ञानं च महातमोगजहरिर्ब्रह्मत्वतोऽसौ हरि
गौरीमुखेऽर्पितकरो गुडमोदके- षद्धासेन शोभितमुखश्चलितस्वकर्णः । दूर्वाङ्कुरैश्रहरितैर्विलसत्किरीटो विघ्नानि मे हरतु सिद्धिकरो गजास्यः ।। ७॥। बोधसारगुरुसत्कृपालवा द्वोधसारहृदयप्रकाशिनीम्। बोधसारहृदयं परिवोद्धुं बोधसारसुहृदां प्रतनोमि।।८।। इह कश्चिच्छीनरहरिचरणकमलचिन्मकरन्दमधुपस्तत्करुण- यैव चिदानन्दसमुद्रतरङ्गायितहृदयो दिवाकराह्वाभासो नरहरिचि- कीर्षित ग्रन्थं मनसि निधाय तदभिधाननिरूपणपुरःसरं तन्नि- रूपणं प्रतिजानीते, अर्थतश्र शास्त्रत्वसिद्धये तस्यानुबन्धचतुष्टय- मपि सूचयति। ॐ किञ्चित्कुतूहलेनैव विदुषां प्रियकाम्यया। मङ्गलाचरणं कृत्वा बोधसारो निरुप्यते ॥ १ ॥ किंचिदिति। किंचित्कुतूहलेनैवानिर्वचनीयस्वसुखसाक्षात्का- रविलासेनैव न त्वन्यरंजनादिना केनचित्प्रयोजनेनेत्यर्थः। अ- नेन स्व्प्रयोजनं स्वानन्दविलासलक्षणं सूचितम् । परप्रयोजनं घाह, विदुषां प्रियकाम्यया विवेकिनां स्वस्व्रूपानन्दे चित्तस्थै- र्यलक्षण हितेछया। नन्वत्र व्याख्याकृतिप्रतिज्ञाश्लोके ग्रन्थकृतिव्याख्याकृति- रूपक्रिययोरेकस्यैव दिवाकरस्य कर्तत्वमुक्तं, तथा दिवाकराह्वा-
Page 13
बोधसारे।
भासो नरहरिरित्यत्र दिवाकरगुरोर्नरहरेरेव कर्तत्वं सूचितं, तथा नत्वन्यरंजनादिनेत्यत्र स्वानन्दविलासेनैव ग्रन्थरचने प्रवृतति- रुक्ता, परप्रयोजनं चाहेत्यत्र परप्रयोजनार्थमपीति पूर्वापरविरोध इतिचेद्। न दिवाकराह्न आभासो यस्येति बहुव्रीहिणा विम्वमति-
च वास्तवाभेदसूचनात्। अत एव पूर्वत्राप्यनेनैवाशयेन बोधसारं विधायेति ग्रन्थरचनक्रियायां व्याख्याकरणक्रियायां चैकस्य कर्तृत्वमुक्तम्। किंच विदुषामित्यत्र स्वस्यान्यविदुषां च वैदुष्यसा- मान्याद् ब्रह्मविच्वेन च स्वस्यान्यविदुपामपि ब्रह्मरूपेणैक्याद् नख्वन्यरंजनादिनेत्युक्ति:, प्रातीतिकमात्रभेदापेक्षया तु परप्रयो- जनं चाहेत्युक्तिरेवं पूर्वापरविरोधाभावः। मयेत्यध्याहार्य, मङ्गला- चरणं मङ्गलस्य मङ्गलार्थस्याचरणं रचनं कृला विधाय। नन्वत्र मङ्गलाचरणं कर्थ संपन्नं मङ्गलवाचकशब्दानां देवतावाचकश- ब्दानां च मङ्गलार्थलेनसर्वत्रगृहीतलात्। तदुक्तम्।
'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे मङ्गलाः प्रोक्ता ग्राह्ा ग्रन्थादिमङ्गले'। इति।
तेषामेव शास्त्रेषु मङ्गलकारित्वमसिद्धेर्देवतावाचकशब्दाभा- वान्मङ्गलशब्दस्य चाचरणसंवन्धार्थवत्वेन मङ्गलार्थवत्त्वासिद्धे- श्चेति चेद्। नान्यार्थत्वेप्यस्य मङ्गलशब्दस्य पूर्गकुम्भन्यायेन म- ङ्लार्थत्वान्मङ्गलकारित्वसिद्धेः। किं च ग्रन्थसमाप्तिपचयागम- नाभ्यामपि तत्कृतमेवेति ज्ञेयम्। किं च बोधसारपदेनापि जीव- ब्रह्मैक्येष्टवस्तुप्मरणरूपं मङ्गलं स्पष्टमेवात्रेति सुष्ठूक्तं मङ्गला- चरणं कृच्वेति। मङ्गलाचरणस्य कर्त्तव्यतायां च महाभाष्यसं- मतिः। 'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि
Page 14
मङ्गलाचरणम
प्रथन्ते सिद्धार्थद्योतकानि सिद्धार्थाध्येतृकाणि च स्युरि'ति। बो- धसार एतम्रामकोग्रन्थो निरूप्यते कथ्यते। बोधपदेनात्र सम- ष्टिव्यष्टयन्तःकरणावछिन्नचिदाभासाः सारपदेन च तद्विम्वभूत चैतन्यं सामानाधिकरण्येनाभिन्नं गरृह्यते, तत्मतिपादकतया ग्र- न्थस्याप्यभेदोपचाराद्वोधसारत्वम् । अनेन ग्रन्थस्यास्य तत्म- तिपाद्याद्वयचैतन्यस्य च प्रतिपाद्यप्रतिपादकरूपो लक्ष्यलक्षकभा- वरूपो वा संबन्धो बोध्य इति सूचितं, तथैव बोधसारपदवाच्य- योरजीवत्रह्मणोरेक्त्वलक्षणो विषयश्च सूचितः। विदुषामिति प-
व्यवहारांविरोधेनाऽपि चित्तस्थै- र्येप्सवोऽधिकारिणश्च विशिष्टा अत्र सूचिताः। प्रयोजनम- पि किश्चित्कूतूहलेनेति पदेन स्वाऽज्ञाननिवृत्या सर्वदुःखनिव-
प्तिरूपं सूचितमिति ज्ञेयम्। अस्य चादिमध्यावसानेषु मङ्गलविधानान्महाशास्त्रत्वम्। वक्ष्यति हि। आदौ गुरूस्तवो यत्र प्रान्ते च शिवपूजनम्। मध्ये मुकुन्दस्मरणं वोधसारः स उत्तम ।। इति। तस्मादेतद्विचारेण स्वरूपे स्थैर्यलक्षणपुरुषार्थोऽधिकारि- णां स्यादेवेति निश्चेतव्यम् ॥ १॥ एवं सप्रयोजनं सानुवन्धं सेष्टस्मरणमङ्गलं ग्रन्थनिरूपणं प्रतिज्ञायेदानीं शिष्टाचाराविरोधेन स्वेष्टजीवव्रह्मैक्याविरोधेन च गणपतिस्मरणरूपं मङ्गलमाचरञ्शिष्याणां च तत्कर्त्तव्यताशि- क्षायै श्रोकेनोपनिवन्नाति। १ परव्यमनिनीवत्। २ व्यवहारावस्थायां समाध्यवस्थायां च सर्वदाखण्डेक्यचित्त-
Page 15
बोधसारे।
अनन्तशक्तिसन्दोहपूर्णस्य परमात्मनः । विघ्नविध्वंसिनीं शक्तिं गणराजमुपास्महे ॥ २॥ अनन्तेति। अनन्तशक्तिसन्दोह्पूर्णस्य अनन्ता अपरिमिताः शक्ती: सन्दोहयति परस्परानुकूल्येन स्वस्वकार्यजननक्षमाः करो- तीति तथा सा मूलशक्तिस्तयापूर्णस्य। अपूर्णत्वस्य मिथ्या- त्वेन तन्निषेधकस्य पूर्णत्वस्यापि शक्तिकार्यलम्। चितिशक्तिसले श्रतिः। 'देवात्मशक्तिं स्वगुणैर्निगूढामि'त्यादिः। परमात्मनः कार्य- कारणातीतस्यात्मवस्तुनो विन्नविध्वंसिनी सर्वकार्यपरिपन्थिवि- घ्रनिरासकत्री शक्तिं सामर्थ्यरूपां गणराजं गणराजनान्नीं गणे भौतिके स्वप्रकाशत्वेन विराजमानत्वात्। 'राजाहः सखिभ्यष्टजि' तिटच्। शक्तिशक्तिमतोः पृथक् सत्ाभावाच्छत्तयभिन्नमात्मा- नमेवेत्यर्थः। उपास्महे अखण्डैकरस्येन मदभिन्नत्वेन भावा- यामीत्यर्थः ॥२। एवमेव स्वेष्टाविरोधेन सरस्वतीस्मरणमपि कृला शिष्य- शिक्षायै तदपि श्रोकेनोपनिबन्नाति।
या प्रकाशविमशभ्यां स्वरूपावस्थितिङ्गता। स्मरामि तामहं भक्त्या ज्ञानशक्तिं सरस्वतीम् ॥३॥ येति। या प्रत्यक्षा विदुर्षा प्रकाशविमर्शाभ्यां प्रकाशेन स्व- रूपप्रकाशेन विमर्शः सदसद्विवेकस्तेन चोपलक्षिता सती स्वरू- पावस्थितिं स्वप्रकाशचिन्मात्रस्थितिं गता पाप्ता चिदानन्दघ- नाभिन्नत्वेन स्थितेति भावः । तामुक्तलक्षणां सरस्वतीं सर्वजीव- चैतन्यनदीसमुद्रायितत्वेन सरस्वत्यभिधां ज्ञानशक्तिं सर्वज्ञान- प्रकाशयितृसामर्थ्यरूपां स्वतश्र ज्ञानरूपां, परमात्मन इत्यत्राप्यनु-
Page 16
भङ्गलाचरणम
ञ्जनीयम्। अहं तत्प्रकाशाभिन्नोऽहंत्वावच्छिन्नोSहमाधारचित्स- हित्चिदाभासो भत्त्या निरतिशयप्रेमलक्षणयाऽहं ब्रह्मास्मीति प्र- मारूपया वृत्या स्मरामि मदभिन्नां चिन्तयामीत्यर्थः ॥३॥ एवं तावत्सर्वारिष्टनिरसनक्षमं गङ्गलाचरणं कृतेदानीं मु- मुक्षूणां मोक्षस्यैवेष्टत्वात्तस्य च तत्वज्ञानसाध्यलात्तस्य च श्रवण- जन्यलेन तस्य च गुरुप्सादलभ्यत्वात्तस्य च तद्भक्तिसाध्य-
च गुरुस्तवाभिधं प्रकरणमारभते द्वादशभिः। तत्र तावत् प्थमतो गुरो रौदार्यातिशयनिरूपणपूर्वकं तात्विकं गुरुस्वरूपं लक्षी- कृत्य प्रणमति। श्रीगुरून्परमानन्दस्वरूपानभिवादये। तापत्रयापहा येषां कृपा ब्रह्मामृतप्रपा ॥४॥
श्रीगुरूनिति। परमानन्दस्वरूपान् निरतिशयसुखमेव तत्वतः स्वरूपमसाधारणरूपं येषान्तान् श्रीगुरून्गृणन्ति हितसुपदि- शन्तीति गुरवस्तान् सर्वहितोपदेष्ट्त्वस्य वेदे प्रसिद्धत्वात्तस्य च 'यस्य निःश्वसितं वेदा' इति स्मृतेः, 'अस्य महतो भूतस्य निःश्व- सितं यद्दग्वेदो यजुर्वेद' इत्यादिश्रुतेश्र, परमानन्दस्वरूपपरमात्मन एव गुरुरूपत्वं तद्वाक्यत्वाद्वेदस्यातः परमानन्दरूपाविरोधेन स- र्वहितोपदेशकत्वेन च परमात्मन एव सुरुरूपत्वेन प्रणामः कृत इति वोध्यम्। अभिवादये प्रणतिपूर्वकं प्रस्तौमि वदिघातोरभि- वादनस्तुतिकरणमत्र प्रतिज्ञातमिति वोध्यम्। औदार्यमाह, येषामिति। येषां गुरुणां कृपा करुणैव स्वशर- णपथिकानां तापत्रयापहा आध्यात्मिकाधिदैविकाधिभौतिकताप- त्रयनिरसनकर्त्ी ब्रह्मामृतप्रपा अपरिच्छिन्नभूमानन्दजलपानार्थ
Page 17
बोधसारे। ७
पानीयशालिकाऽस्ति। एतेन समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुं तत्वज्ञानार्थमभिगछेत्। 'आचार्यवान्पुरुषो वेदे'ति श्रुतेः, तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवये'त्यादि स्मृतेश्र, मोक्षसाधनभूततत्त्व- ज्ञानस्य गुर्वधीनत्वश्रवणाद्गुरुकृपयैवब्रह्मानन्दाविर्भावे तापत्रय- निवृत्तिर्भवतीति बोध्यम्।।४।। अथगुरुस्तवः । ननु विष्णोरेव तत्र सत्रसर्वत्र श्रैष्ठ्यमुक्तं मुक्तिप्रदत्वं च श्रुतं, तथाहि 'विष्णोर्नुकं वीर्याणि प्रवोचमि'त्यादौ अगणितवी- र्यत्वं, नारायणाद्विधिर्जायते' इत्यादिषु सर्वकारणत्वेन ब्रह्मादि- भ्यः श्रैष्ठ्यं च । भागवते च'। 'सत्वं रजस्तम इति प्रकृतेर्गुणास्तै- र्युक्त: परः पुरुष एक इहास्यधत्ते। स्थित्यादये हरिविरिश्च्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्वतनोर्नृणां स्युः॥ इत्यादिषु मुक्तिप्रदत्वं च । अत स्तन्भजनं विहाय गुरु- भत्तयैव केवलं मुक्तिसिद्धिरिति कर्थ विरुद्धमुच्यत इत्याशङ्कय मोक्षप्रदत्वेन यद्विष्णुत्वं प्रसिद्धं तद्गुरावेवास्तीत्याशयेनाह। मद्मोहाभिधक्रूरमधुकैटभजिष्णवे। मोक्षलक्ष्मीनिवासाय नमः श्रीगुरुविष्णवे ॥५॥ मदमोहेति। मदमोहाभिधक्रूरमधुकैटभजिष्णवे मदयति वि- क्षेपयतीति मदोहङ्कारो मोहयति विस्मारयति स्वस्वरूपमिति मोहोऽज्ञानं तावेव क्रूरौ स्ववशंमाप्तस्यातीवदुःखदौ न तु तादृशं कौर्यमितरयोः' तत्र च तत्सत्वमपि तन्मूलकमितीतरयोन्यूनत्वं सूचितम्। अतस्तावेवमधुकैटभौ तयोर्जिष्णवे जयशीलाय' अन्य-
Page 18
गुरुस्तव:
विष्णौ तु यन्मधुकैटभजेतृत्वं तन्मदमोहकृतमेवेति गुरुविष्णोरित- रविष्णौ न्यूनत्वमुक्तमिति बोध्यम्। मोक्षलक्ष्मीनिवासाय मोक्ष- रूपैव लक्ष्मीर्नान्या 'भद्रैषां लक्ष्मीर्निहिताधिवाची'ति श्रुतौ भद्रेि विशेषणेन गुरुवाक्यस्थितलक्ष्म्या मोक्षरूपत्वप्रतिपादनात् । अ- न्यविष्णौ स्थितलक्ष्म्या बन्धनहेतुत्वेन निकृष्टत्वं' तेन च तद्वास- भूतान्यविष्णौ च तज्ज्ञेयम्। तस्या मोक्षलक्ष्म्या निवासायाश्रयाय' एतेनापि श्रीगुरुविष्णावन्यविष्णो रुत्कृष्टत्वं सूचितमिति बाध्यम्। श्रीगुरुविष्णवे सर्वेषां तत्तद्धितोपदेशकत्वेन सर्वव्यापकत्वाद्- गुरोर्व्यापकत्वेन विष्णुत्वं' अन्यस्य कस्यचिदगुरुत्वेन विष्णु- त्वमेव नास्तीत्यभिप्रायः। तस्मै नमः प्रहवीभावोस्तु। अतः श्री- गुरुरेव विष्णुर्नान्य इत्यभिप्रायः ॥५॥ ननु ब्रह्मादिष्वपि गुरुत्वमस्त्येवेत्याशङ्कय तस्य गुणकृ- तत्वाद्वौणत्वं गुरौ तु गुणनैरपेक्षेण स्वतो गुरुत्वात्मुख्यत्वमित्याह।
गुणैगौरवमायाता हरिब्रह्महरास्त्रयः । गुणातीततयाऽस्माकं गुरवो गुरुताङ्गताः ॥६। गुणैरिति। हरिब्रह्महरा विष्णुर्ब्रह्मा रुद्रश्वैते त्रयोपि म- सिद्धा गुरुत्वेन ते गुणैः सत्वरजस्तमोभि: पालनादिषु गौरवं गुरुत्वमायाताः प्राप्ता न तु स्वतः । अत एव तद्गुरुत्वमन्यो- न्यक्रियासु व्यावृच्मतस्तेषां गुरुत्वं नास्तीत्यर्थः । तु इति शेषः। अस्मार्क गुरवस्तु गुणातीततया गुणराहित्येन गुरुतां श्रैष्ठ्य गताः प्राप्ताः' अतो गुरूणां गुरुत्वं स्वतः सिद्धमिति सूचितम्।
त्प्रत्यक्षमिति ध्वनितम् ॥ ६ ॥ पराक्रमतोर्पीतरदेवेभ्यः श्रैष्ठ्यमाह।
Page 19
गुरुस्व: ।
पुरान्तकहरो रुद्र: कंसकेशिहरो हरिः । चण्डमुण्डहरा चण्डी सर्वद्वन्द्हरो गुरुः॥७॥ पुरान्तकेति। रुद्र: शिवः पुरान्तकहरः पुरस्य त्रिपुरस्या- न्तकस्य यमस्य च हरो घातकोऽस्तीति शेप:, पुरान्तकयोरेव ग्र- हणमत्र तत्पराक्रमस्य परिमितत्वज्ञापनायेति बोध्यम्। एवमुत्तर- त्रापिज्ञेयम् । हरिर्विष्णुः कंसकेशिहरः कंसस्य केशिनश्च हरो घातकः, चण्डी कोधवती देवी चण्डमुण्डहरा चण्डनाम्नो मुण्ड- नाम्नो Sसुरस्य हरा घातिकाऽस्ति, अत्रापि तु इति शेष:। गुरुस्तु सर्वद्वन्द्वहरः सर्वेषां द्वन्द्वानां सुखदुःखादीनां हरो घातकः, अस्तीति शेषोऽप्यत्र कर्त्तव्यः। इतरदेवतानां द्वन्दैर्ग्रस्तत्वात्तत्पराक्रमस्य चा- ल्पत्वान्न्यूनत्वं, गुरोस्तु इन्द्ैरनभिभूतत्वात्प्त्युत तन्नाशकत्वे- नापरिमितपराक्रमत्वाच्चेतरदेवताभ्यः श्रैष्ठ्यमिति भावः ॥७॥ इदानीमन्यदेवतानां बन्धनकारणधनादिफलदातृत्वेना- निष्टत्वादनुपास्यत्वं, गुरोस्तु केवलमोक्षप्रदज्ञानप्रदत्वेन मुमुक्षू- णामुपास्यत्वं चाह। यच्छन्ति देवतास्तुष्टा धनमायुः सुतं यशः। ज्ञानं के नाम दास्यन्ति विना श्रीगुरुपादुकाम्॥८॥ यच्छन्तीति । देवता ब्रह्मविष्णुहरादयस्तुष्टास्तपआदिभिः साधनैः प्रसादिताः सत्यो धनमायुः सुत पुत्रं यशः कीर्ति च यच्छन्ति ददति। एतदुपलक्षणं सर्वविपयाणाम्, एतेन बन्धकारण- विषयप्रदच्वेन मुमुक्षुभिरितरदेवताभजन आदरो न कर्त्तव्य इ- त्याशयः। श्रीगुरुपादुकां विना पादुकापदेनात् गुरुस्वरूपज्ञानाभावे मुमुक्षूणां गुरुपादुकैव प्रतिमादिवत्पूज्या नान्येति सूचितम्। ज्ञान- मात्यन्तिकमुक्तिसाधनं साक्षाज्जीवव्रह्मैक्यविषयक महावाक्य- २
Page 20
१० बोधसारे
जन्य ज्ञानं, के नाम ब्रह्मादयः प्रसिद्धा अपि दास्यन्ति नेत्यर्थः। ब्रह्मादिषु यत्पसिद्धं ज्ञानप्रदत्वं तदपि गुरुरूपेणैवेति भावः ।।८।। ननुब्रह्मादीनां कारणत्वेन यच्छ्ैष्ट्यं सर्वे तदनादृत्य कु- तो गुरोरेव श्रैष्ठ्यमुच्यत इत्याशङ्क्य तेषां गुणाभिमानित्वेनाना- दरणीयत्वं सुमुक्षूणां, गुरोस्तु गुणनाशकत्वेन मुक्तिमदत्वादादर- णीयत्वमित्याशयेनाह। जयति श्रीगुरूणां हि चरणाब्जरजोगुणः । हतास्त्रयो यदेकेन रजःसत्त्वतमोगुणाः ॥९॥ जयतीति। हि यस्मात्कारणाच्छीगुरूणामादरे बहुवचनं, चरणाब्जरजोगुण: पादकमलस्य परागवत्स्थितस्य शिष्यप्रेम- वासनारूपस्य प्रतापरूपो गुणो जयति सर्वोत्कृष्टो वर्त्तते। केन कार्येणेत्यत आह, यद्यस्मात्कारणादेकेनान्यकर्मोपासनादि- साधननिरपेक्षेणवेत्यर्थः । रजःसत्त्वतमोगुणाः कामज्ञानावरण- हेतुत्वेन प्रसिद्धास्ते हता: स्वस्वरूपप्रकाशज्ञानेन बाधिताः, अतो मुमुक्षूणां गुरुभक्तिरेव मुख्या नान्येति भावः ।। ९।। इदानीं मुमुक्षूणां गुरूपासनप्रकारं निरूपयितुं स्वकृतं गुरूपासनं रूपकेणाह। तार्या वयं तरिर्बोध स्तरणीयो भवार्णवः । तत्कर्णधाररूपेण तारकं श्रीगुरुं भजे ॥ १० ॥
तार्याइति। वयं गुरूपासका बहुवचनं मद्रदन्येषामपि गुरूपासकानां मुक्तिर्भवतीति ज्ञापनाय, तार्यास्तारितुं योग्या नान्ये गुर्वभक्ता:, वोधो जीवव्रह्मैक्यविपयक महावाक्यजन्यमपरोक्षज्ञानं तरिस्ती- र्यतेऽनया सा तरिस्तरणसाधनं नौका, भवार्णवो विषयजल-
Page 21
गुरुस्तन: । ११
पूर्णो रागादिग्राहपडर्मितरङ्गादिमत्वेन समुद्रः, स तर्र्तु योग्य- व्वात्तरणीयोऽस्ति, तत्कर्णधाररूपेण तत्र नाविकव त्तारकरूपतया तारकं तारक: प्रणवस्तन्नामानं श्रीगुरुं तद्वाच्यं लक्ष्यं वा भजे सोऽहमित्यभिन्नत्वेन चिन्तयामि॥ १०॥ ननु सर्वत्रेश्वस्याधिक्यप्रदर्शनात्कोयं निर्युक्तिक आग्रह ई- श्वराद्गुरोराधिक्य इत्याशङ्कयाह।
तारकस्योपदेशेन गुरुर्भूत्वा विमुक्तिदः । काश्यामपीश्वरस्तस्मा दीश्वरादधिको गुरु: ॥११॥ तारकस्येति। ईश्वरोपि स्वयमीश्वरः सन्नपीत्यर्थः, स्वस्मि- न्न्यूनता बुध्येति शेषः। काश्यां पुरि तारकस्य संसारतारणक्षमस्य प्रणवस्योपदेशेन उपदेशं निमित्तं कृत्वा गुरुर्भूत्वा गुरुरूपं धृ- त्वेत्यर्थः । विमुक्तिदो मुक्तिंपदो भवति, तस्मात्कारणादीश्वरा- दीशपदाद्गुरुर्गुरुपदमधिकं श्रेष्ठमित्यर्थः । नहि श्रेष्ठत्वं परित्यज्य निकृष्टत्वमङ्गीक्रियते कापि सामान्यविद्वद्धिरपि, तर्हि सर्वज्ञेनेश्वरेण न्यूनं चेद्गुरुपदं कथमङ्गीक्ियेतेति भाव ॥ ११ ॥ नन्वीश्वरदर्शनहेतुत्वेन गुरोः श्रैष्ठ्यमस्तु, तथापि फलत्वे- नेश्वरस्य तत्वरूपत्वाद्गुरुपसादेनैव तत्त्वमाप्तिश्रवणात्सर्वत्रेश्वर-
'यावन्नानुग्रहः साक्षाज्जायते परमेश्वरात्। तावन्नसद्गुरुं कश्षित्सच्छास्त्रमपि नो लभेद्'॥ इ- त्यादिषूपासनागुरोरीश्वरप्रसादहेतुत्वस्य प्रतिपादनात्सद्गुरे- स्तु ईश्वरमसादलभ्यतया तत्त्वस्वरूपताच्छ्ष्ठ्यमित्याशयेनाह। गुरोरनुग्रहादीश ईश्वरानुग्रहाद्गुरुः ।
Page 22
१२ बोधसारे।
श्रीगुरोर्दर्शनं हेतुः परं त्वीश्वरदर्शने ॥ १२॥ गुरोरिति। गुरोरुपासनोपदेष्टरनुग्रहात्मसादेन ईश ईश्वरः प्राप्यत इतिशेष:, तत ईश्वरानुग्रहादीश्वरप्रसादाद्गुरुः सद्गुरुर्मुक्तिपदः प्राप्यते, अतः श्रीगुरोर्दर्शनमुपासनोपदेष्डर्दर्शन मीश्वरदर्शन ईशपरसादलब्धौ हेतुः कारणमस्तीत्यध्याहार्य, तथापि श्रीगुरोदर्शनं तु मोक्षप्रदगुरोर्दर्शनं तु पर मीशपसादलभ्यत्वाद- तिश्रेष्ठमिति ज्ञेयम् । अतः श्रीगुरोरेव श्रैष्ठ्यात्तत्वरूपत्वमिति भाव: ॥१२ ॥ किं चेश्वरस्य सर्वकारणत्वाद्वन्धमोक्षकारणत्वेनातत्वत्वं गुरोस्तु केवलमोक्षप्रदत्त्वात्त्वत्वमित्याशयेनाह। ईश्वरः सर्वहेतुत्वा द्ेतुःसंसारमोक्षयोः । मोक्षस्यैव गुरुस्तस्मा न्नास्ति तत्वं गुरो: परम्॥१३॥ ईश्वरइति । सर्वहेतुत्वात् सर्वप्रपश्चकारणत्वात्, 'एपयोनिः' 'यतो वा इमादिभूतानि जायन्त' इत्यादिश्रुतिषु कारणत्वं सर्व- स्यास्यप्रसिद्धम्, ईश्वरः समष्टिकारणोपाधिकः सर्वज्ञत्वादिमान् संसारमोक्षयोः संसारस्य मोक्षस्य च हेतुः कारणं भवति, रजस्त- मोभ्यां कामादिभिर्मोहादिभिश्च संसारकारणं, सच्वेन प्रका- काशरूपेण मोक्षकारणं तदपि गुरुरूपेणेत्याशयः । गुरुस्तु मोक्ष- स्यैव कारणं ब्रह्मात्मैक्यज्ञानप्रदत्वेन केवलमोक्षस्यैवकारणं भ- वति, अत गुरोः परमन्यत्तत्वमनारोपितं पारमार्थिक रूपं नास्ति न विद्यते, अतो मुमुक्षुभिर्गुरुरेवोपास्य इति भाव:।।१३।। ननु 'काश्यां तु मरणान्मुक्तिरि' त्यादौ काश्यादिक्षेत्राणामपि मुक्तिपदत्वमुक्तमतः कर्थ गुरोरेव मुक्तिमदत्वमुच्यत इत्या- शङयाह।
Page 23
गुरुस्तव:। १३
विनापि क्षेत्रमाहात्म्यं गुरुमाहात्म्यतः किल। विमुक्तिर्यत्र कुत्रापि न काश्यां गुरुणा बिना।१४।। विनापीति। क्षेत्रमाहात्म्यं क्षेत्रस्य काश्यादिक्षेत्रस्य माहा- त्म्यं सामर्थ्य विनापि राहित्येनापि यत्र कुत्रापि मुक्तिपदक्षेत्रा- न्यभूमावपि अपिशब्दात्कुग्रामोपरकीकटादावपुण्यदेशेपि गुरु- माहात्म्यतः केवलगुरुकृपयैव विमुक्तिर्मोक्षो जायते किलेति प्रसिद्धमेतदागोपालं, गुरुणा विना गुरुं त्यक्क्का काश्यां मुक्ति- प्रदलेन प्रसिद्धायामपि मुक्तिरन जायते, अतोऽन्वयव्यतिरेकाभ्यां गुरोरेव मुक्तिप्रदव्वं, क्षेत्रस्य तु तदर्थवादमात्रमितिभावः ॥१४॥ इदानीं क्षमाप्रसादराहित्येनान्यदेवतानां निकृष्टत्वं गुरोस्तु ताभ्यां पूर्णताच्छ्ैष्ठ्यमाह। क्षम्यतामिति किं वाच्यं प्रसीदेति किमुच्यताम्। क्षमाप्रसादसंपूर्णः स्वभावादेव मे गुरु ॥१५॥ इतिश्रीबोधसारेगुरुस्तवाभिधं प्रकरणम् ॥ १॥ क्षम्यतामिति। अन्यदेवतास्विव गुरौ क्षम्यतां क्षमस्वेति किं वाच्यं किमर्थ वक्तव्यं निरर्थकमेव तत्तत्रेत्यर्थः। तथा प्रसीदेति प्रसन्नो भवेति किमुच्यतां किमर्थ वक्तव्यं तदपि निरर्थकं तत्रे- त्यर्थः । कुतो निरर्थकतवं क्षमापनप्रसादनयोस्तत्राह मे इति मद्दृटष्ट्येत्यर्थः, गुरुर्मोक्षप्रदोगुरुः परव्रह्मरूपलात्स्वभावादेव स्वत एव क्षमापसादसम्पूर्णः क्षमया सहनतया प्रसादेन प्रसन्नतया च संपूर्ण: परिपूर्णोऽस्ति, अतः क्षमापनपसा- दनयोनैरर्थक्यमिति भावः ॥१५॥ इतिश्रीनरहरिशिष्यदिवाकरकृतौ बोधसारदीपी गुरुस्तवार्थप्रकाशः प्रथमः ॥१॥
Page 24
१४ बोघसारे।
अथ शिष्यविवेकः।
एवं मुमुक्षूणां गुरौ सर्वदैवताभ्यः श्रैष्ठ्यनिरूपणेन गुरौ- भक्तिदार्ढ्य विधायेदानीं कुमतिकृतकुतर्कैः पण्डितमन्यैर्गुरुशि- ष्यसाम्यप्रतिपादनेन गुरुभक्तिशैथिल्यं माभूदिति गुरुशिष्यवि- वेकाख्यं प्रकरणमेकोनविंशतिश्लोकमारभ्यते, तत्र तावत्कुमतिक- ततर्केण गुरुशिष्यसाम्यं सूचयस्रपकमाह।
बीजं गुरूपदेशो हि जिज्ञासुः क्षेत्रमुच्यते। विवेकांकुरजो बोध द्रुमो मोक्षस्तु तत्फलम्॥१। वीजमिति। गुरूपदेशो महावाक्यजन्यं जीवब्रह्मैक्यविषयं ज्ञानं युक्त्या प्रतिपादितं बीजमहंब्रह्मेत्याकारनिश्चयव्वक्षस्य कार- णलेन वीजस्थानीयं, हि प्रसिद्धं बीजं वृक्षकारणमिति सर्वेषामि- त्यर्थः। जिज्ञासुः स्वस्वरूपं ज्ञातुमिछः शिष्यः क्षेत्रं प्रसिद्धबीज- वपनाय क्षेत्रमिवोपचर्यते उच्यतेऽतः भूमिरिति कथ्यते विद्व- द्विरिति शेप: । विवेकाङ्कुरजः सदसद्विवेक एवांकुरस्तस्माज्जात उत्पन्नो वोधद्रुम अहंव्रह्मास्मीति साक्षाज्ज्ञानं तदेव द्रुमो वृक्षो, मोक्षस्तु तत्फलं मुक्तिर्ज्ानवृक्षफलमित्युपर्च्यते, वस्तुतस्तु तु श- ब्देन मोक्षस्य जन्यलं नास्तीति सूचितम्। इति क्षेत्रबीजयोर्व्टक्ष- जननं प्रति कारणलेन साम्यमिव गुरुशिष्ययोर्बोधं प्रति सा- म्यमेवेत्याक्षेपः ॥। १ ।। सिद्धान्ती दृष्टान्तदार्ष्टान्तिकयोः कारणत्वे समानेपि नि- मित्तत्वोपादानत्वाभ्यां तयोरन्यूनाधिकत्वमित्याशयेनाह। यद्यपि क्षेत्रबीजाभ्यां बिना न द्रुमसंभवः ।
Page 25
गुरुशिष्यविेकः । १"
किं तु बीजमुपादानं निमित्तं क्षेत्रमुच्यते ॥२॥ यद्यपीति। यद्यपि एतत्सत्यमित्यर्थः, क्षेत्रबीजाभ्यां क्षेत्रेण बीजेन च विना ऋते द्रुमसम्भवो दृक्षोत्पत्तिर्न भवत्येव, तर्हि साम्यस्य कागतिरिति चेत्तत्राह किन्तु, तथापि वीजं वृक्षस्यो- पादानमुपादानकारणं क्षेत्रं भूमिर्निमित्तं निमित्तकारणमु- च्यते कथ्यते विवेकिभिरिति शेष:, इदमेव गुरो शिष्याच्छ्- ष्ठ्यमिति भावः ॥२॥ इदानीमुपादानपरिणामवत्वेन दृष्टान्तदार्ष्टान्तिकयोरुपा- दानस्यैव श्रेष्ठत्वमाह। द्रुमो बीजपरीणामो न क्षेत्रपरिणामकः । बोधो गुरुपरीणामो न शिष्यपरिणामकः ॥३ ॥ द्रुमइति। डुमो वृक्षो बीजपरीणामो बीजस्य सजातीयको- पादानस्य परीणामो विकार क्षेत्रपरिणामक क्षेत्रस्य भूमे प- रिणामको विकारो न न भवति, तथा बोधो जीवब्रह्मैक्यज्ञानं गुरुपरीणामो गुरोः सच्चिदानन्दरूपगुरोः परीणामो विकारः शिष्यपरिणामकश्रिज्जडरूपस्य शिष्यस्य परिणामको विकारो न न भवति, गुरुवोधयोरैकजात्येन बोधस्य गुरुकार्यत्वं बोध- शिष्ययोर्वैजात्येन निमित्तनमित्तिकत्वम्। अतः वोधं प्रति गुरो- र्मुख्यत्वं शिष्यस्य गौणत्वमिति भावः॥३॥ ननु वृक्षबोधयोर्वीजगुरुकार्यत्वं कुतो निश्चेयं तत्राह।
द्रुमो हि बीजजातीयः क्षेत्रजातीयको न हि। बोधो हि गुरुजातीयः शिष्यजातीयको न हि॥४।।
Page 26
१६ बोधसारे।
दुमोहीति। हि यस्मात्कारणाद् द्रुमो वृक्षो बीजजातीयो बी- जजातिभव: क्षेत्रजातीयको भूमिजातिभवो न हि नैवाऽस्ति, बोधो हि जीवात्मैकत्वज्ञानमपि गुरुजातीयो गुरुजातिभवः सच्चिदा- नन्दत्वस्यैक्यात्, शिष्यजातीयक: चिज्जडशिष्यजातिभवो न हि नास्त्येवेत्यर्थः ।४॥ एतदेव स्पष्टमाह।
बीजेन बीजजातीयस्तरुः क्षेत्रे समर्पितः । गुरुणा स्वात्मजातीयो बोधः शिष्ये समर्पितः ॥५॥ वीजेनेति। वीजेन वटादिकारणबीजेन बीजजातीयो बीज- जातिभवो वृक्षस्तरु: क्षेत्रे भूमौ समर्पितः स्थापितः, तथा गु- रुणा ब्रह्मस्वरूपेण महावाक्योपदेष्ट्रा स्वात्मजातीयोऽखण्डा नन्दव्रह्मस्वरूपो बोधो ब्रह्मात्मैक्यज्ञानं शिष्ये शुद्धान्त करणेड- धिकारिणि समर्पितः स्थापितः, अतः शिष्यो निमित्तत्वान्न्यूनो गुरुस्तूपादानत्वादधिक इति निश्चेतव्यम् ॥५॥ एवमुपादानतया गुरोर्बोधं प्रति प्राधान्यं निमित्ततया च शिष्यस्य गौणत्वं च प्रतिपाद्येदानीं तदेव स्थूणानिखननन्या- येन द्रढयितुमाक्षिप्य दृष्टान्तान्तरेण स्थापयति।
वह्निप्रभा हि वर्त्तिस्था तमो हन्ति प्रकाशते। तमोहन्त्री प्रकाशात्मा प्रभैव न तु वर्तिका॥ ६॥
वह्नीत्यादिद्वाभ्याम्। हि प्रसिद्धमेवेदं वह्निपभा अग्रेः प्रकाश- रूपा शक्तिर्वतिस्था कापाससूत्रमाश्रिता तमो गृहादि- स्थितं नेत्रावरकमन्धकारं हन्ति नाशयति स्वयं च प्रकाशते
Page 27
गुरुशिष्यविवेक: । १७ प्रकाशरूपा वर्त्तते। तत्नेति शेपः, वर्ततिपभासमूहे लोकदृष्ठ्याऽन्ध- कारनिवारणप्रकाशलक्षणे कार्ये साम्यप्रतीतावपि न तु सा प्रती- तिस्तालिकी भ्रान्तिरेव सा, विवेके तु तमो हन्त्र्यन्धकारनि- रसनक्षमा प्रकाशात्मा प्रकाशस्वरूपा प्रभैवाऽग्निशक्तिरेव न तु वर्त्तिका वर्त्तिका तु अन्धकारनाशक्षमा न भवतीत्यर्थः ॥६॥ दार्ष्टान्तिकमाह। गुरुप्रभा हि शिष्यस्था तमो हन्ति प्रकाशते। तमोहन्ता प्रकाशात्मा गुरुरेव न शिष्यकः ॥७॥ गुरुप्रभेति। हि स्तथार्थः, तथा गुरुप्रभा गुरुरूपाखण्डजीवा- त्मैक्यविषयाऽहंब्रह्मास्मीत्याकारा प्रमारूपा वृत्तिः शिष्यस्था साधनसंपन्नान्तःकरणविशिष्टचिदाभासमाश्रिता सती तमो वृत्तेः स्वरूपाज्ञानं हन्ति नाशयति प्रकाशते स्वयं प्रकाशात्मरूपतया डवशिष्यते, अत्रापि तत्रेतिशेषः। अज्ञाननाशप्रकाशनलक्षणे कार्ये उन्तःकरणावछिन्नचिदाभासस्य साधिष्ठानस्य गुरूपदिष्टज्ञानस्य च कारणले समे प्रतीतेपि सा प्रतीतिः पारमार्थिकी न भ्रान्ति- कृतैव सा, विवेके तु तमोहन्ता वृत्तेः स्वरूपाबोधलक्षणान्धका- रस्य तमसो हन्ता नाशकः प्रकाशात्मा स्वयंप्रकाशतयाऽवशि- प्टस्वरूपश्च गुरुरेवास्ति न शिष्यकोऽल्पः शिष्योऽज्ञाननाश- नसमर्थो न भवतीत्यर्थः। बोधे बोधावसाने च गुरोरेवावशिष्ट- वाच्छिष्यस्य च वोधकाले तस्य च स्वरूपलयावस्थायामपि असत्वाच् गुरोः प्राधान्यं शिष्यस्य गौणलमिति भावः ॥।७।। पुनरपि तदेव द्रठयति दृष्टान्तान्तरेण द्वाभ्याम्। यदश्निः काष्ठमारुह्य भस्मसात्कुरुते पुरीम्। भस्मासात्कारणं तत्र गुणो वह्नेर्न काष्ठगः ॥८॥ ३
Page 28
१८ बोधसारे
यदिति। यद्यस्मात्कारणादग्निर्दाहकलेन प्रसिद्धो वहिः काछठं दार्वादिक दाह्यं वस्तु आरुह्याश्रित्य पुरीं नगरीं भस्मसा- ददस्मावशिश्टं कुरुते, तत्र वह्निकाष्ठयोरुभयोरपि भस्माऽवशेषण- लक्षणे कार्ये कारणतप्रतीतिसाम्येपि अविवेक एव सा प्रतीतिः, विवेकदृष्ठ्यातु तत्र वह्निकाष्ठयोर्मध्ये भस्मसात्कारणं भस्माव- शेषणकार्यस्य कारणमुपादानकारणं वह्नेर्गुण एवाय्रेर्दाहकश- क्तिरेव न काष्ठगो दाहयकाष्ठनिष्ठा शक्तिर्भस्मावशेषणकार्ये नो- पादानरूपेत्यर्थः ॥८।। दार्ष्टान्तिकमाह।
बोधात्मना गुरुः शिष्यमाविश्य दहति क्षणात। यद्द्वैतं सा गुरोः शक्तिर्न शिष्यस्येति निर्णयः ॥९॥
बोधात्मनेति। एवं बोधात्मना जीवव्रह्मैक्यबोधरूपेणैव गु- रुरखण्डैकचिन्मात्र: परमात्मा शिष्यं साधनसहितान्तःकरण- वृत्युपहितचैतन्यरूपमाविश्य प्रविश्य क्षणात्क्षणमात्रेणैव यद्द्वैतं द्वैतप्रतीतिकारणं यदंशरूपमज्ञानं तद्दहति नाशयति सा द्वैत- नाशकर्त्री गुरोरखण्डचिन्मात्रपरमात्मनः शक्तिः सामर्थ्य शिप्यस्यान्तःकरणावछिन्नचिदाभासस्य न तत्सामर्थ्ये न भ- वतीत्यर्थः, तत्कार्यत्वात्तस्य इति निर्णय एवं निर्णीतोऽर्थः स- र्वशास्त्रेपु नास्मत्कपोलकल्पित इति भावः। अत्र युगलयोद्यो- रमध्ये पूर्वयुगले वह्निप्रभावर्त्योस्तिमोनाशप्रकाशनलक्षणकार्ये का- रणत्वसाम्यमिव बोधवोध्यरूपगुरुशिष्ययोरज्ञाननाशनस्वरूप- प्रकाशनलक्षणकार्य प्रति समानत्वमित्याक्षेपः, वह्निप्रभाया एव प्रधानत्वमिवाज्ञाननाशप्रकाशलक्षणे कार्ये गुरोरेव मुख्यत्वमिति समाधानम्। उत्तरयुगले तु भस्मावशेषलक्षणे कार्ये वह्िकाष्ठयोः
Page 29
गुराशष्यीविवेकः । १९
साम्यमिव द्वैतदाहलक्षणे कार्ये गुरुशिष्ययोः साम्यमित्याक्षेपः, समाधानं तु नगरदाहलक्षणे कार्ये वह्निशक्तेः प्राधान्यमिव हवै- तदाहस्वरूपे कार्ये गुरुशक्तेरेव प्राधान्यमिति विवेकः ॥ ९॥ इदानीं पुनरपि तदेव द्रढयितुं पूर्वोत्तरपक्षेण निर्णय- माह सार्धाभ्याम्। यद्यप्युदयने भानोर्यथा पदं प्रकाशते। न काशन्ते तथा पद्ा: काठ्ठपाषाणमृण्मयाः ॥१०॥ यद्यपीति । भानो: सूर्यस्योदयन उदये जाते सति यथा याहक् पझम कमलं प्रकाशते प्रफुल्लति, तथा तादक् काष्टपापा- णमृण्मयाः काष्टकृतानि पापाणकृतानि मृत्कृतानि च पद्माः क- मलानि 'पझ्मोऽस्त्री'त्युक्तत्वात्पुंस्त्वं नपुंसकत्वं चात्र पद्मशव्दस्य, न काशन्ते न प्रफुल्लन्ति तेपु तत्कमलत्वमारोपितं न तु वा- स्तवमिति भाव:॥ १० ।। दृष्टान्तपूर्वकं दार्ष्टान्तिकमाह। प्रकाशको रविर्यद्वत्पद्रमेव विकासयेत्। गुरुस्तथा बोधकः सञ्छिष्यमेव प्रबोधयेत्॥११॥ प्रकाशकइति । यद्दथा प्रकाशकः प्रकाशकर्त्ता रविः मूर्य: पद्ममेव वास्तवकमलमेव न. त्वारोपितं विकासयेत् प्रफुल्लं कु- र्यात्, तथा तद्वूद्वोधक उपदेष्टा गुरुः शिष्यमेव सच्छिष्यमेव न तु नाममात्रं प्रबोधयेत्पबोधितं कुर्यात् ।। ११।। इदानीमुक्तदृष्टान्तेन गुरुशिष्यसाम्यानुवादेनोक्तं तदूरीकरोति। प्रकाशकस्य महिमा प्रकाश्यादधिकः किल।
Page 30
२० घोधसारे।
सूक्ष्मं विशेषं वक्ष्यामि गुरुसूर्यस्य तं शृणु॥१२॥ प्रकाशकस्येति। हे शिष्य प्रकाश्यात्मकाशकर्मभूतात्कम- लादेः परिच्छिन्नात्मकाशकस्य प्रकाशयितुः सूर्यादेरपरि- छिन्नस्य महिमा महत्वमधिक उत्कृष्टः किलेति निश्चेतब्यं नात्र सन्देहः कार्य इति। एवं श्रीगुरोः शिष्यादाधिक्यं प्रतिपादे- दानीं पूर्वप्रकरणे सर्वदेवेभ्यः श्रीगुरोः श्रैष्ठयं प्रतिपादितं यत्त- दत्र सूर्यदृष्टान्तेन तत्साम्यस्फूर्त्या ध्वस्तमतस्ततोऽपीदानीं गुरोः श्रैष्ठयं दर्शयति तच्छूवणे च शिष्यं सन्मुखीकरोति सार्धाभ्यां सूक्ष्ममिति, हे शिष्य त्वं गुरुसूर्यस्य गुरुरूपादित्यस्य प्रसिद्धा- दित्यात्सूक्ष्मं विचारमन्तरेण ज्ञातुमशक्यं विशेष श्रेष्ठत्वेन का- रणत्वातिशयं वक्ष्यामि तं विशेषं त्वं शृणु सावधानतया श्रो- तव्य इत्यर्थः ॥ १२ ॥ तदेवाह। तत्तद्विवेकवैराग्ययुक्तवेदान्तयुक्तिभिः । शिष्यं नयति गुर्वर्कः स्वैक्यं स्वाद्मिन्नमप्यहो॥१३॥ तत्तदिति । गुर्वर्को गुरुरूपः सूर्यस्तत्तद्विवेकवैराग्ययुक्तवे- दान्तयुक्तिभिः, तत्तत्वमादिपदार्थयोर्विवेकश्रानात्मपदार्थेषु वै- राग्यं वैतृष्णं च ताभ्यां युक्ता या वेदान्तयुक्तयोऽन्वयव्य- तिरेकाद्यास्ताभिर्लक्षितर्वचनैरितिशेष:, स्वाद्गुरुरूपाद् भिन्नं भेदं प्राप्तमपि शिष्यं साधनसंपन्नमन्तःकरणावच्छिन्नं चिदाभासं स्वैक्यं स्वेनाखण्डैकरसब्रह्मणा सहैकत्वं नयति प्रापयति अहो इदमाश्चर्य गुराविति भावः ॥१३ ।। पसिद्धसूर्ये तदभावं दर्शयाि।
Page 31
गुरुशिष्यविवेकः । २१
विकासकोऽपि तपनो न पदं स्वैकतां नयेत्। तस्मात्सर्वात्मभावेन सेव्या श्रीगुरुपादुका ॥१४॥
विकासकोपीति। तपनः सूर्यो विकासकोऽपि पद्मानां प्रका- सकोऽपि पद्म कमलं स्वैकतां सूर्यभावं न नयेन्नपापयेत्। तस्मा- त्सूर्यादपि गुरोराधिक्यात्सर्वात्मभावेन सर्वत्रात्मभावनया श्री- गुरुपादुका गुरुचरणारविन्दं सेव्या सेवितुं योग्या मुमुक्षूणां न त्वन्यत्, पादुकापदं चात्र यथार्थगुरुस्वरूपज्ञानाभावे प्रतिमावद्- गुरुपादुकापूजाधिकार इति मुमुक्षूणां सूचनायेति ज्ञेयम् ॥१४। नतु दातु: पात्रस्य च दानक्रियां प्रति साम्यमिव बोध- क्रियां प्रति गुरुशिष्ययोः साम्यं कुतो न स्यादित्याक्षिप्य समाधत्ते। तत्सत्यं दातृपात्राभ्यां बिना दानं न सिद्धति। तथापि पात्रं पात्रं स्याद्दाता परमकारणम् ॥१५॥ तदिति। दातृपात्राभ्यां दाता दानकर्त्ता पात्रं प्रतिगृहीता च ताभ्यां विना तौ वर्जयित्वा दानं दानक्रिया न सिध्यति सिद्धा न भवति तत्सत्यं प्रामाणिकमेवेदं, तथापि तयोः साम्यं न भवति। कुतः, पात्रं प्रतिगृहीता पात्रं धान्यसंचयनाद्र्थ कुसू- लादिवत्पात्रं स्याद्दातुर्देयस्य संचयनार्थ पात्रमेव स्यादतो न मुख्यत्वं तस्येत्यर्थः। दाता दानकर्त्ता परमकारणं मुख्यं का- रणं तस्यैव तद्भोक्तृत्वादित्यर्थः। बोधं प्रत्युपादानत्वेन बोधा- वस्थायां तच्छेपत्वेन च गुरोरेव प्राधान्यं शिष्यस्य तु निमि- न्तमात्रत्वेन गौणत्वमिति भावः ॥१५।। इदानीं स्पर्शमणेरपि गुरोरवैलक्षण्यद्योतनेन ततोऽपि गुरोः श्रैष्ठ्यमाह द्वाभ्याम्।
Page 32
२२ ! बोधसारे।
भवेत्स्पर्शमणिस्पर्शालोहं स्वर्ण न तन्मणिः । गुरुस्पर्शमणिस्पर्शात्स एव भवति क्षणात् ॥१ ६।। भवेदिति। स्पर्शमणिस्पर्शात्स्पर्शनामकमणेः स्पर्शात्संयो- गाल्ोहमयः स्वर्ण कनकं भवेत्स्यात् तच्च मणिः स्पर्शमाणर्न न भवेत्,गुरुस्पर्शमणिस्पर्शाद् गुरुरेव स्पर्शमणिस्तत्संयोगा च्छिष्य: स एव गुरुरेव क्षणादुपदेशक्षणे एव भवति स्याद्,अय- मेव स्पर्शमणेर्विशेषो गुरुस्पर्शमणाविति भावः ॥१६ ॥ सिद्धान्तयति। एवं विवेकतो धीमन्नुपयोगो द्वयोरपि। शिष्यो निमित्तमात्रं स्याद्गरिष्ठा गुरुपादुका॥१७॥ एवमिति। हे धीमन्निति सम्बोधनेन मूर्खाणान्तु गुरुशिष्ययोः साम्यं भासतु तव लेतदयोग्यमिति सूचितम्। एवमुक्तरीत्या विवेकतो विवेकेन बोध उपयोगो फलजनकत्वं द्वयोरपि उभयो- रप्यविशेषेणास्ति, तथापि शिष्यो बुध्यवच्छिन्नः साधनसंप- न्नश्विदाभासो निमित्तमात्रं निमित्तमेव केवलं गुरुपादुका प्रा- धान्याहगुरुः पादुकापदप्रयोगतात्पर्य पूर्वमेवोक्तं गरिष्ठाऽति- श्रेष्ठाऽडदरार्हेत्यर्थः ॥ १७॥ नतु वासिष्ठे ग्रन्थे। . 'उपदेशकमो राम व्यवस्थामात्रपालनम् । ज्ञप्तेस्तु कारणं शुद्धा शिष्यमज्ञैव केवलम्' ॥ इत्यादिवाक्ये गुरोः सकाशाच्छिष्यस्यैव श्रैष्ठ्यमुक्तमत्र तद्विरुद्धं गुरोः श्रैष्ठचं भवद्भिः कथं प्रतिपाद्यत इत्याशङ्कय तस्या- न्यार्थकत्वान्मैवमिति परिहरति।
Page 33
ब्रह्मजिज्ञासाः । २३
उपदेशक्रमो राम व्यवस्थामात्रपालनम् । इत्यादि वचनं तत्तु शिष्योत्साहविवृद्धये॥ १८॥ उपदेशेति। 'उपदेशकमो राम व्यवस्थामात्रपालनमि'त्यादि- वचनं यत्तत्तु तत्सद्ृशमन्यदपि वाक्यजातमादिपदाद्गाह्यं शि- ष्योत्साहविदृद्धये शिष्यान्तःकरण उत्साहं विना बोधो न भवेदिति तदभिद्ृद्धचर्थ तदिति योज्यम्। अन्यथा। 'यावन्नानुग्रहः साक्षाज्जायते परमेश्वरात्। तावन्न सद्गुरुं कश्चित्सत्छास्त्रमपि नोलभेद्'॥ इत्यादिबहुवाक्यविरोधादिति भावः ॥ १८ ॥ इदानीमेतत्प्रकरणार्थप्रामाण्यप्रतिपादनपूर्वकं तत्फलोक्त्या तद्विचारकर्तव्यतां विधत्ते। सिद्धान्तः सर्वतन्त्राणां सद्यः प्रत्ययकारकः । सर्वदा भावनीयोडयं गुरुशिष्यविनिर्णयः ॥१९॥ इति श्रीनरहरिविरचिते बोधसारे गुरुशिष्यतत्वविवेकाख्यं द्वितीयं प्रकरणम् ॥२॥
सिद्धान्त इति। सर्वतन्त्राणां सर्वशास्त्राणां सिद्धान्तः सि- द्धान्तभूतोयम्। अनेन प्रामाण्यमुक्तं, एतत्प्करणस्य फलमाह सद्यः प्रत्ययकारको विचारसमय एव गुर्वाधिक्यप्रतीतिद्योतकः, अयं गुरुशिष्यविनिर्णयो गुर्वाधिक्यनिर्णायक प्रकरणमिंदं सर्वदा नि- रन्तरं भावनीयो विचार्यः ॥ १९ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारदीतौ गुरुशिष्यतत्वत्रिवेकप्रकाशो द्वितीयः ॥२॥
Page 34
२४ बोघसारे।
अथ म्रह्मजिज्ञासा। एवं शिष्यस्य गुरौ श्रद्धामान्य्यनिमित्त कुतर्कसूलं गुरौ स्व- साम्यं यदुत्पन्न तद्युक्त्या परिहृत्य यदर्थ गुरुसेवा कर्चव्या त- दर्थनिरूपणार्थमिदानीमुत्तरं प्रकरणमारभते पश्चभिः । अथातो ब्रह्मजिज्ञासा जिज्ञास्यं ब्रह्म केवलम्। तटस्थलक्षणेनाथ स्वरूपस्य च लक्षणात् ॥ १ ॥ अथेति। अथ गुरुशरणगमनानन्तरमतो मुमुक्षूणां ब्रह्मज्ञानस्यैवे- ष्टत्वादित्यर्थः, ब्रह्मजिज्ञासा कर्चव्येति शेषः । ब्रह्मण इति कर्मणि पष्ठी, नतु ब्रह्मणोज्ञानविषयत्वे सद्वितीयलं तेन चावस्तुत्वे तस्य ज्ञानप्रयोजकत्वेन शास्त्रापामाण्यापत्तिः, अद्वितीयत्वे च ज्ञा- नाविषयत्वेन तत्पतिपादकशास्त्रस्य निर्विषयत्वेनापरामाण्याप- त्तिः, अतः कर्थ ब्रह्मणो जिज्ञासाकर्मत्वमित्याशङ्गयाह के- वलं निरुपाधिकं ब्रह्म देशकालवस्तुपरिच्छेदशून्यं जि- ज्ञास्यं ज्ञानेच्छाविषयो न तु सोपाधिकमतः पूर्वोक्तदोषो नेति भावः। सर्वनिषेधेन तस्यैवावशेषत्वाचज्ज्ञानस्य पुरुषार्थत्वं त- त्प्रतिपादकशास्त्रस्याऽपि सप्रयोजनत्वेन च प्रामाण्यमिति भाव:, नतु निरुपाधिकस्य कथं ज्ञानविषत्वं तत्राह तटस्थेति, तटस्थ- लक्षणेन तत्कारणत्वादिद्योतकानि लक्षणानि शास्त्रादीनि य- थैकदेशस्थत्वेपि चन्द्रलक्षकाणि तद्वदेतानि ब्रह्म वस्तुतोऽस्पृद्टैव तल्लक्षकाणि भवन्ति, अतस्तेषां तटस्थत्वं जातित्वादेकवचनं च, स्व- रूपस्य चाथ तटस्थलक्षणेन लक्षयित्वाऽनन्तरमित्यर्थः, स्वरूपस्य सत्यज्ञानादिस्वरूपस्य लक्षणानि प्रतिपादकानि तैर्लक्षणैर्ब्रह्म केवलं ज्ञानविषयो भवतीति भावः। एताभ्यां लक्षितं ज्ञानेछा- विषय इत्युपचर्यते न तु वास्ववविषयत्वं ब्रह्मणो जिज्ञासा- या इत्याशय: ॥ १॥
Page 35
ग्रहमजिज्ञासा। २५
तत्र तटस्थलक्षणं निरूपयति। उत्पत्तिस्थितिनाशानां भूलकारणमीश्वरः । सर्वज्ञः सत्यसङ्कल्प इत्यादिषु तटस्थता ॥ २ ॥ उत्पतीति।उत्पत्तिस्थितिनाशानां जगत उत्पत्तेः स्थिते र्नाशस्य च मूलकारणं कारणं माया तदाधारो मूलकारणमीश्वर इशनादि- शक्तिमान्सर्वज्ञः सर्वजगत्मकाशकः सत्यसंकल्पः सफलसंकल्प- वानित्यादिषु 'यतो वा इमानि भूतानि जायन्त'इत्यादिष वाक्ये- व्वित्यर्थः' तटस्थता तटस्थलक्षणं ज्ञेयम् ॥२॥ स्वरूपलक्षणमाह। सच्चिदानन्दरूप तत्स्वप्रकाशं परात्परम् । अनण्वित्यादिवेदोक्तं स्वरूपस्य तु लक्षणम् ॥३। सदिति। तङ्रह्म सच्चिदानन्दरूपं सदवाध्यं चिज्ज्ञप्तिमा- त्रस्वरूपमानन्दं निरतिशयसुखं रूपं यस्य तत् 'सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्मे'त्यादिषूक्तं स्वप्रकाशं स्वयं ज्योतिः स्वरूपम्, 'अत्रायं पुरुषः स्वयं ज्योतिर्भवती'ति श्रुतावुक्तं परा- त्परं परं कारणं जगतो माया तस्या अपि परं तयाऽस्पृष्टमित्य- र्थः। अनण्वित्यादिवेदोक्तमणुत्वादिप्रतिषेधकविशेषणैरुक्तं य- त्तत्स्वरूपस्य तुपदेन पूर्वलक्षणादेतस्य महद्वैलक्षण्यं द्योतितं, लक्षणं लक्षकं ब्रह्मणो ज्वेयम् ॥ ३ ॥ इदानीमस्मिन्ग्रन्थे मोक्षे प्रधानसाधनभूतस्य ज्ञानस्या- पेक्षितान्यन्यसाधनानि सन्ति तन्निरूपणं प्रतिजानीते। गुणप्रधानभावेन यद्यत्किश्चिद्पेक्षितम्। नानाप्रकरणव्याजैस्तत्सर्वमभिधीयते ॥ ४ ॥ ४
Page 36
२६ बोधसारे
गुणेति। गुणप्रधानभावेन गौणमुख्यभावेन यद्यत्साधनं प्रधानसाधनभूतज्ञानस्यापेक्षितमीप्सितं तत्सर्व ज्ञानानुकूल्येना- स्मिन्ग्रन्थे नानाप्रकरणव्याजैरनेकप्रकरणमिषेण मयेत्यध्या- हार्यम्, अभिधीयते प्रतिपाद्यते ॥ ४ ॥ तन्निरूपणक्रमपीठिकां रचयति। बहिरङ्गान्तरङ्गाणां साधनानामनुक्रमः । यदन्तरङ्गं यस्मान्तु तत्पश्चात्तु निरूष्यते ॥ ५ ॥ इति श्रीनरहरिविरचिते बोधसारे ब्रह्मजिज्ञासाप्रकरणं तृतीयम॥३॥
बहिरिति। साधनानां प्रधानसाधनज्ञानसाधनानां वहि- रङ्गान्तरङ्गाणां कतिचिजज्ञानस्य बहिरङ्गाणि कतिचिदन्तर- आाणीति साधनानां भेद:, अतस्तेषामनुक्मोऽनुक्रम्यन्तेऽने- नेत्यनुक्मः क्मेणज्ञानमपेक्षितमतो यस्मात्साधनाद्यद्यद्य- दित्यर्थः, तत्तत्तदित्यर्थः, पश्चादनन्तरं बहिरङ्गं प्रथमतो निरूप्य पश्चात्ततोन्तरङ्गमित्यर्थः, तुपदेन वैलक्षण्यद्योतनपूर्वकमिति ज्ञेयं, निरूप्यते कथ्यते। एवमस्मिन्ग्रन्थे उत्तरप्रकरणेषु क्रमो ज्ञेयः॥५॥ इति श्रीनरहरिशिष्यदविवाकरविरचितायां बोधसारार्थदीपौ ब्रह्मजिज्ञासार्थप्रकाशस्तृतीयः॥३॥
अथ वैराग्यपीठिका बन्धः । एवं मोक्षे मुख्यसाधनभूतज्ञानस्य साधनानुक्मनिरूपणं प्- तिज्ञायेदानीं सर्वसाधनेभ्यो बहिरङ्गत्वेन प्राथम्याद्वैराग्यस्य त- उज्ञानं प्रथममपेक्षितमतस्तदर्थ वैराग्यपीठिकाबन्धाख्यं सार्धपट्- पष्टिश्लोकं प्रकरणमारभते। तत्नावान्तरप्रकरणानि सप्त वैराग्यभेद- निरूपण कायाविडम्बना वृत्तिविण्डवना कामविडम्बना क्ोध-
Page 37
घैराग्यपीठिका बन्धः । २७
विडम्बना लोभविडम्बना कर्मविडम्बनाSSख्यानि सन्ति, तानि कमेण निरूप्यन्ते। तत्रादौ वैराग्यभेदनिरूपणाख्यं पश्चदश छोकं निरूपितं तव्वाख्यायते तत्नादावेतत्पकरणश्रवणाय शिष्यं प्रेरयति । वैराग्यपीठिकाबन्धं प्रथमं शृणु सन्मते। न नेमिरेव यत्रास्ति स्थितिश्वऋस्य कीदशी॥ १॥
वैराग्येति। हे सन्मत इति सम्बोधनेनैतच्छुत्वाSवधारणमेव- सन्मतित्वं तव युक्तमिति सूचितं, त्वं प्रथममादौ वैराग्यपीठि- कावन्धो वैराग्यस्य पीठिकाऽनुक्मो बध्यते रच्यतेऽनेनेति वै- राग्यक्रमबोधक प्रकरणं शृणु श्रवणे सावधानो भवेत्यर्थः, ननु मुमु-
पादकवेदान्तश्रवणाद्येव कर्त्तव्यं किं वैराग्येणत्याशङ्कय वैराग्यं विना कृते डपि श्रवणादौ ज्ञानस्थिरता न न भवेदि त्याशायेनाह नेति, यत्र चक्रे नेमिरेव सर्वाङ्रेषु सत्स्वपिं तच्चलनकारणभूताधारैव केव- लं नास्ति तस्य चक्रस्य स्थितिश्वलनरूपे कार्ये स्थिरता कीदृशी कथं स्यान्न कथमपीत्यर्थः, तथा वैराग्यं विना ज्ञानस्याज्ञानना- शनलक्षणे कार्ये सामर्थ्यमेव न स्यादिति भावः॥१॥ एतदेवस्पष्टमाह। न शूद्रे वेदसंस्कारस्तैलश्व सिकतासु न। न स्यात्करतले रोम तथा मुक्तिर्न रागिणि ॥२॥ नेति। शूद्रे वेदसंस्कारो वेदोक्तो व्रतबन्धादिसंस्कारो न नास्ति सिकतासु वालुकासु तैलञ्च तैलमपि न नास्ति। यथेति सर्व- त्र योज्यं, यथा याद्टक्वरतले हस्ततले रोम केशो न नास्ति तथा ताह-
Page 38
२८ घोधसारे।
ग्रागिणि विषयासक्तपुरुषे मुक्तिर्ज्ञानफलरूपो मोक्षो न स्यान्न सम्भवेदतो मुम्ुक्षूणां प्रथमं वैराग्यमेवेष्टमित्याशयः ॥ २॥ एवं ज्ञानमुख्यसाधनभूतवैराग्यस्वरूपपतिपादकशास्त्रश्र- वणे शिष्यमभिमुखकित्येदानीन्तन्ेदं निरूपयति। वैराग्यं द्विविधं सूक्ष्मं तन्ेदमवधारय। जिज्ञासामुख्यमेकं स्याज्जिहासामुख्यमेव च॥ ३॥ वैराग्यमिति। वैराग्यं विषयवैतृष्ण्यं द्विविरध द्विपकारमस्ती- तिशेष:, ननु वैराग्यं स्वरूपणैकधैव प्रतीयतेऽतः कथ द्वैविध्यमु- च्यत इत्याशङ्कयाह सूक्ष्ममिति, सूक्ष्मं तल्लक्षणभेदज्ञानं बिना दुर्जेयं तच्देदं तस्य वैराग्यस्य भेदं मत्तोऽवधारय श्रुत्वा निश्चिनु, तमेव प्रतिज्ञातं निरूपयति जिज्ञासेति, एकं वै- राग्यं जिज्ञासामुख्यं ब्रह्मज्ञानेच्छैव मुख्या निदानभूता यस्मिन्तत्स्यान्भवेच्च पुनरन्यञ्जिहासामुख्यमेव त्यागेच्छैव मु- ख्या निदानभूता यत्र तदपि द्वितीयं वैराग्यमित्यर्थः ॥ ३॥ ननु किंविषया जिज्ञासा जिहासा चेति तज्ज्ञानापेक्षायामाह। जिहासा संसृतेर्व्रह्मजिज्ञासेति द्वयं मुने। एकमेव तथाप्यस्ति विशेष: कश्चिदत्र हि॥ ४ ॥
जिहासेति। संसतेः संसारस्य जिहासा त्यक्तुमिच्छा ब्रह्म- जिज्ञासा ब्रह्मणोऽपरिच्छिन्नात्मवस्तुनो जिज्ञासा ज्ञातुमिच्छेति जिहासाजिज्ञासर्योविषयभेदोऽवगन्तव्यः, इदानीं तयोरपि भेदं निरूपयितुं तत्र विशेष दर्शयति द्वयमिति। दय द्वितयमपि एकमे- कैकमेवे त्यावृत्तिरेकैकरूपमपीत्यर्थः, तथापि उभयत्नैकैकथा भती-
Page 39
वैराग्यमेदः। २९
तावपीत्यर्थः, कश्रिद्विशेपः किश्चिद्वैलक्षण्यमत्र द्विविधवैराग्येऽस्ति विद्यते हीति प्रसिद्धिद्योतकेनेदं विशेभानं विदुपा प्रसिद्धमेवति सूचितम्॥४ ॥ तत्रोभयत्राऽपि मन्दमध्योत्तमभेदेन त्रैविध्यमस्ति, तेष्वपि प्रथमतो मन्दं जिहासामुख्यं सोदाहरणं लक्षयति। राज्यभ्रष्टा दीर्घरोगाः पराधीना हतश्रियः । ये विरक्तास्तपस्यन्ति जिहासामुख्यमेव तत् ॥।५॥ राज्येति। राज्यभ्रष्टा राज्याच्च्युताः पुनाराज्यामापि कारणैनिश्चित्य दीर्घरोगा जन्मत आरभ्य मरणपर्यन्तं स्वश- रीरे निश्चित्तरोगा: पराधीना मरणपर्यन्तं स्वपराधीनत्वनि- श्वया हतश्रिय गतसंपचिकाः पुनस्तत्पाप्त्यभावनिश्चया एतदादिकारणैर्ये पुरुषा विरक्त्ता विषयभोगवितृष्णासन्तस्तप- स्यन्ति एतादृशं जन्म मा भूदितोप्युत्कृष्टं स्वाधीनसर्वसंपचिकं जन्म स्याद्यस्मिन्नेतानि दुःखानि न स्युरितीच्छया तपः कुर्वन्ति तदिह जन्मनि प्रतीयमानं यद्विषयवैतृष्ण्यं तत्यागेच्छामूल- कत्वाज्जिहासामुख्यमेव त्यागेच्छाप्रधानमेव ज्ञेयमिति शेषः। अस्य च जन्मान्तरीयभोगहेतुकत्वादधमत्वमिति भावः ॥५॥ इदानीं सोदाहरणमधमं जिज्ञासामुख्यं लक्षयति द्वाभ्याम्। आधिव्याधिभयोद्देगपारतन्त्र्यादिवर्जिताः । ये धीरा मुक्तिमिच्छन्ति शृणु तेषामयं क्रमः ॥६॥ आधीति। आधिव्याधिभयोद्वेगपारतन्त्र्यादिवर्जिता आ- धिर्मानसं चिन्तादिजन्यं दुःखं व्याधिर्देहदुखं ज्वरादिजन्यं भयं भीतिरुद्वेगश्रिचास्थैर्यजन्यः केशः । पारतन्त्रयं पराधीनते
Page 40
३० बोधसारे।
त्यादिभिर्दुःैर्वर्जिता रहिता ये धीरा ब्रह्मचर्यादिसाधन- संपन्ना दुःखाद्यनुद्वियाश्च सन्तो मुक्तिं मोक्षमिच्छन्ति तेषां तद्वैर।ग्यं जिज्ञासामुख्यमेव ज्ञानेच्छामुख्यमेव ज्ञेयमित्युत्तरेणान्वयः, ए- तद्वैराग्यवत उदाहर्तु तच्छवणे शिष्यमभिमुखीकरोति। शृण्विति, तेषामुक्तलक्षणानां जिज्ञासामुख्यवैराग्यवतामयं मद्राक्स्थितो मत्प्रत्यक्षः क्रमो मन्दजिज्ञासावैराग्यवत्वबोधक आचारः कथ्यत उत्तरश्चोके तं शृणु श्रुत्वा चावधारय तदा चारे ज्ञाते तेषु स्थितमन्दजिज्ञासामुख्यवैराग्यञ्ञानं स्यादिति भाव: ॥६।। तदेवोदाहरति। कामधेनुगहे येषां निवासो नन्दनेवने। कश्यपाद्यास्तपस्यन्ति जिज्ञासामुख्यमेत्र तत्।।७।। कामधेनुरिति। येषां कश्यपादीनां गुहे मन्दिरे कामधेनुः सर्वकामदोधी गौः सुरभिरस्ति येषां कश्यपादीनां निवासो वसत्यस्मिन्निति निवासो गृहं नन्दने वने नन्दननान्नीन्द्रवने- डस्ति, सर्वभोगप्राप्तिकारणकामधेनुपास्तौ सर्वे कल्पतरवः सर्व- कामपूरका यत्र सन्ति तत्रैव वासपाप्तौ सत्यामपि सर्वभोगसुखे सत्यपि नन्दनादेत्य कश्यपाद्या ऋषयो वैराग्यपूर्वकं तपस्यन्ति तपः कुर्वन्ति, इदमेवाधमजिज्ञासामुख्यं वैराग्यमिति भाव:।।७। एवं मन्दजिहासामुख्यजिज्ञासामुख्ययोवैराग्ययोर्भेदं प्र- दर्श्य मध्यमयोस्तयोर्भेदज्ञानाय वैलक्षण्यं प्रदर्शयति त्रिभिः। तत्र प्रथमतो मध्यमं जिहासामुख्यं लक्षयत्येकेन। आधिव्याधिभयोद्वेगपारतन्त्र्यादिपीडिताः ।
Page 41
वैराग्यभेद: । ३१
ये जीवा मोक्षमिच्छन्ति जिहासामुख्यता तुसा॥८॥ आधीति। आधिव्याधिभ योद्वेगपारतन्त्र्यादिपीडिताः आ- ध्यादीनामर्थ उक्त एव तैः पीडिताः पीडां प्राप्ताः सन्तो ये केचिज्जीवा मोक्षं संसारदुःखान्मुक्तिमिच्छन्ति अभिलपन्ति सा तु विरक्तता तुपदेन पूर्वोक्तजिहासामुख्यवैराग्यान्मुक्तीच्छारहिता- नमुक्तीच्छाजनकत रूपं वैलक्षण्यमत्र सूचितं, जिहासामुख्यताडस्ति जिहासायास्त्यागेच्छाया मुख्यता प्राधान्यं यस्यां विरक्तताया सा तथोक्ताऽतोऽस्य वैराग्यस्य मध्यमत्मिति भावः ॥८॥। जिज्ञासामुख्यं मध्यमं वैराग्यं लक्षयति द्वाभ्याम्। मानुष्यं दुर्लभं प्राप्तं सच्छास्त्रैः संस्कृता मतिः । यदि न व्रह्मविश्रान्तिस्तदस्माभिः किमर्जितम् ॥९॥ मानुष्यमिति। दुर्लभं दुःसाध्यं बहुपुण्यैः प्राप्यमित्यर्थः, मानुष्यं मनुष्यजन्म प्रापं लब्धं तत्रापि सच्छास्त्रैर्वेदा- न्तानुकूलै: शास्त्रैः सह वेदान्तैरित्यर्थः, मतिर्वुद्धि: संस्कृता सू- क्ष्मा जाता यदि अथापि यर्हि ब्रह्मविश्रान्तिरपरिच्छिन्नानन्दे चितस्थैर्य न न स्याच्चेत्तत्तहि अस्माभि: किमर्जितं कि संपा- दितं न किमपीत्यर्थः, मिथ्याखात्सर्वस्येत्यर्थः ॥ ९॥
इत्येवं व्यवसायेन ह्याकाशफलपातवत्। जिज्ञासयन्ति ये धीरा जिज्ञासामुख्यता तु सा॥१। इतीति। इत्येवं एवंप्रकारेण व्यवसायेन निश्चयेनाका- शफलपातवत्काकतालीयन्यायेनेत्यर्थः, हि प्रसिद्धमेतद्वासिष्ठा- दावित्यर्थः, धीराः साधनसंपन्नाः सन्तो ये रामादयो जिज्ञास-
Page 42
३२ बोधसारे।
यन्ति जिज्ञासां कुर्वन्ति 'तत्करोति तदाचष्टे' इति णिच्। सा तेषां विरक्तता जिज्ञासामुख्यता ज्ञानेच्छाया मुख्यता यस्यां सा तथा ज्ञेयेति शेषः ॥। १० ॥ एतद्वैराग्यवतोऽप्युदाहरति। विरोचनः कार्तवीर्यो बलिः श्रीराघवादयः । विरक्ता राजलीलायां ते हि तत्र निदर्शनम् ॥११॥ विरोचनइति। विरोचनो दैत्यो बलेः पिता कार्त्तवीर्य: कृतवीर्यस्य राज: पुत्रः सहस्रार्जुन इत्यर्थः, बलिर्विरोचनपुत्रो दैत्यः श्रीराघवादयः श्रीराघवो रामचन्द्रस्तदादयस्तत्प्रभृतयः पुराणेषु प्रसिद्धा बहवः सन्ति राजलीलायां सहजेपि राजक- र्मणि दुःखरहितेपि प्रजापालनादिरूपे कर्मणीत्यर्थः, विरक्ता उदासीना: स्थिता इति शेषः। ते हि प्रसिद्धास्ते तत्र मध्यमजि- ज्ञासामुख्यवैराग्ये निदर्शनं निदर्श्यते प्रदर्श्यतेऽनेनेति तदु- दाहरणमित्यर्थः, करणे ल्युड्ज्ञेयमिति शेषः ॥ ११ ॥ एवं मध्यमजिहासामुख्यजिज्ञासामुख्यवैराग्ये दर्शयिलो- त्तमे ते दर्शयति द्वाभ्यां, तत्रादावुत्तमं जिहासामुख्यं दर्शयति।
वैराग्यं पुण्यजीवानां जिहासामुख्यमेव तत् ॥१२। तीव्रादिति। तीव्राद्वेगवत्तरात्संसारवैराग्यात्ससारे वै- राग्यं प्राप्येत्यर्थः, यदि यर्हि ब्रह्मजिज्ञासनं ब्रह्मज्ञानेच्छा केवलं स्यात्तद्वैराग्यं पुण्यजीवानां तद्वहुपुण्यैर्जीवानां जायते प- रन्तु जिहासामुख्यमेव जिहासैव मुख्या यत्र तत्तथा ज्ञेय- मिति शेषः ॥ १२ ॥
Page 43
वैराग्यभेद: । ३३
उत्तमं जिज्ञासामुख्यं वैराग्यं दर्शयति। ब्रह्मजिज्ञासया तात तीव्रया यो विधीयते। विरागो दृश्यभावेषु जिज्ञासामुख्यमेव तत् ॥। १३ ॥। ब्रह्मेति। हे तात यो विरामो यद्वैराग्यं दृश्यभावेपु द्रष्टव्यपदा- र्थेषु तीव्रया दृढया ब्रह्मजिज्ञासया ब्रह्मज्ञानेच्छया विधीयते करि- यते तद्वैराग्यं जिज्ञासामुख्यमेव जिज्ञासैव मुख्या यत्र तत्तथा जिज्ञासाया एव प्रथमत उत्पन्नलादिति भावः ॥१३।' अथ सप्तमं पूर्वषद्गैराग्यविलक्षणं वैराग्यमाहार्घेन। सहजं यस्य वैराग्यं का वाच्या तस्य मुख्यता। अथ दोषा: प्रदर्श्यन्ते वैराग्यं दोपदर्शनात् ॥१४॥ सहजमिति। यस्याधिकारिधुरीणस्योत्तमाधिकारिण इत्यर्थः, सदजं स्वाभाविक न तु दोपद्ृष्टिजनित सर्वत्रात्मदर्श-
तस्य का मुख्यता जिहासाजिज्ञासयोर्मध्ये कस्य प्रधानता वाच्या वक्तव्या न कयोरपीत्यर्थः, अत एव पूर्वोक्तपद्वैराग्येभ्य इदं श्रेष्ठं विलक्षणं चेति भावः। एवं सप्तविधं वैराग्यं सलक्षण- मभिधायेदानीं तस्य दोपदर्शनजन्यत्वात्तज्जननार्थ दोषपद- शनं प्रतिजानीते सार्धेनाथेति, अथ वैराग्यभेदपदर्शनानन्तरं दोपदर्शनाद्दोपज्ञानाद्वैराग्यं जायतेऽतः दोपा दूपणानि प्रद- शर्यन्ते प्रदर्शयित्वा निरूप्यन्त इत्यर्थः ॥ १४ ॥ कथयामि समासेन सावधानमनाः शृणु। ५
Page 44
३४ बोधसारे
असमञ्जसतां साधो समारभ्य शरीरतः ॥१५॥ इतिश्रीबोधसारे वैराग्यपीठिकाबन्धे वैराग्यविधेचनं प्रकरणम ॥ १ ॥ कथयामीति। हे साधो वैराग्यादिसाधनसंपादक शरीरतः शरीरात्समारभ्य प्रारभ्य सर्वविषयेषु असमञ्जसतां दोष- रूपत्वं समासेन संक्षेपेण कथयामि निरूपयामि त्वं सावधान- मनाः स्थिरचितो भूच्वेत्यर्थः, शृणु अवधारय ॥१५॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी वैराग्यपीठिका बन्धार्थप्रकाशे वैराग्यविवेचनार्थप्रकाशः प्रथमः ॥ १॥
एवं वैराग्यं विविच्य दर्श येत्वा प्रतिज्ञातान्विषयदोषान्द- रशयिष्यन्प्रथमतः शरीरदोषान्दर्शयितुं कायविडम्बनाख्यं प्र- करणमाह नवभिः, तत्र. तावच्छरीरे रम्यताप्रतीतिरन्यद्र- व्यकृता न तु स्वतो रम्यत्वं शरीर इत्याशयेनाह। यं भूषयन्ति कनकैवसनैश्चन्दनैरपि। अविचारत एवायं कायो रम्यत्वमागतः ॥ १ ॥ यमिति। लोकाः कनकै सौवर्णालङ्कारैर्वसनैर्वस्त्रैः क-
भूपयन्ति भूपणैर्वस्त्नथालं कुर्वन्ति चन्दनादिभिः सुगन्धयन्तीति विवेक:, यदि देहे स्वतो रम्यत्वं स्याचर्हि भूषणादिधारणं व्यर्थ स्याचथा यदि सुगन्धित्वं स्यात्तर्हि चन्दनादिलेपनं व्यर्थ स्याद्, अरम्यत्वमेव स्व्रतो देहे तत्तिरस्कारार्थ भूपणादि- धारंण तथा दुर्गन्धित्वं स्वतो देहे तद्ूरीकरणाय चन्दनादि-
Page 45
कायविम्बडना। ३'१
ना लेप: क्रियतेSतोऽरम्यत्वं प्रत्यक्षमेव, तथापि अविचारत एव केवलमविवेकेनैवायमरम्यतया प्रत्यक्ष: कायः शरीरं रम्यत्वं सुन्दरत्वमागतः प्राप्तः सुवर्णवस्त्रादीनां सुन्दरत्वं चन्दनादीनां सुर्गन्धित्वमरम्ये दुर्गन्धिस्वभावे देह आरोप्य तस्यारम्यत्वं दुर्गन्धित्वं च तिरस्कृत्यायमेव देहो रम्यः सुगन्धरूप इति प्रती- तिरस्ति, सा भ्रान्तिमात्रमिति भावः ॥ १॥। इदानीमरम्यत्वमेव देहस्य स्पष्टमाह। अस्य क्रव्यादभक्ष्यस्य कृशानोरिन्धनस्य च। परिणामकृशस्यैव केन कायस्य रम्यता ॥ २ ॥ अस्येति। कव्यादभक्ष्यस्य क्रव्यादा मांसाहारिणो जीवा व्याघ्रादयस्तेपां भक्षितुं योग्यस्य कृशानोरिन्धनस्य चा- डग्रे: काष्ठादिवद्दाह्यस्य, एताभ्यां मांसादिरूपत्वेन दाहसमये- डनुभूयमानदुर्गन्धित्वेन चारम्यता स्पष्टैवेति ज्ञापितं, जाड्यरूप- त्वेन च परिणामकृशस्यैव ज्वरादिभिर्मध्ये मध्ये वृद्धत्वेन चा- न्ते दुर्बलस्यापि, एतेन कृशावस्थायामरम्यत्वं दुर्गन्धित्वं च स्प- ष्टमेवेति ज्ञापितमिति ज्ञेयम्। अस्य कायस्योक्तलक्षणस्य शरीरस्य रम्यता सुन्दरत्वं स्नेहास्पदत्वं कैव किं विषया न कापीत्यर्थः ॥२॥ ननु सुखभोगाश्रयत्वेन स्नेहास्पदत्वमस्त्यतो रम्यत्वमि- त्याशड् तन्नामनिरुत्त्या तदभावं दर्शयति। कलेर्वरमिदं स्थानं विग्रहो मूर्त्तिमानसौ। पञ्चभतनिवासोऽयं कथ तत्र सुखी भवेत् ।३॥ कलेरिति। इद शरीरं कले: कलहस्याधर्मबहुलस्य काल- स्यापि वरं श्रेष्ठं स्थानं स्थीयतेस्मिन्निति स्थानं गृहं दग च
Page 46
३६ बोघसारे।
यथा सार्वभौमस्य सर्वा पृथिवी स्थानमपि निजाभिमानविषयं गृहं दुर्गे वा कचिदेशे वर्तते, तत्र तत्स्थितिर्नित्यं दृश्यते। तथा कलहकलिकालयोरपि सर्वव्रह्माण्डव्याप्तयोः शरीरे सवीयाभिमा- नेन नित्यं स्थितिर्जेया, अतः किंचित्कालं स्थितयोः कचिदेशे तयोर्दुःखहेतुत्वं दृष्टं तत्कुतस्तयोर्नित्यस्थाने देहे सुखाशङ्केति भावः । पुनश्रासौ देहो मूर्ततिमानाकारवान्विग्रहो युद्धं स- वभूतानां भौतिकानामिन्द्रियाणां च परस्परं विरुद्धस्वभाव वच्वेन तेपां च कार्यत्वाद्देहस्य विग्रह रूपत्वमिति भावः । किं चा- डयं देहः पश्चभूतनिवासः पञ्चभूतानां निवासो वसतिर्यस्मिन्स गृहमस्ति, यत्र यत्र युद्धं भूतप्रवेशश्च जायते तत्र तत्र सुखं न भवतीति प्रत्यक्षमतः सर्वदा विग्रहरूपे पञ्चभूतनिवासे च देहे कुतः सुखाशङ्केति भाव:, तत्र देहे कथ सुखी भवेन्न कथ- मपीत्यर्थः॥ ३॥ ननु देहे सर्वदा सुखं मास्तु तथापि गर्भवासे सर्ववाह्योपा- ध्यभावात्तत्र सुखं स्यादिति तत्रैव वासः सर्वप्रयत्रैः साध्यः शुकेनापि गर्भे द्वादशवर्ष स्थितमत एवेति पुराणप्रसिद्धेरि- त्याशड्का तत्रापि दुःखसत्वे हेतुमाह। कारागृहं गर्भवासो बाल्यं केवलमूढता। तत्रापि दुःसहात्यन्तं पराधीनतया स्थितिः ॥ ४ ॥ कारागृहमिति। गर्भवासो मातुरुदरे वास: स्थितिः कारा- गृहं कारा वन्धनं तस्य गृहं शालाऽस्ति वन्धनहेतुत्वात्तत्रापि न सुखमिति भाव:, ननु गर्भस्थशरीरे सुखं मास्तु वालत्वे तु स्नेह: सर्वः क्रियतेऽतस्तत्व सुखं स्यादिति तदेव सर्वदा स- र्वपयत्नैः संपादमित्याशङ्का तत्रापि तदभावहेतुं दर्शयति बा-
Page 47
कायचिडम्बना। ३७
ल्यमिति, बाल्यं बालत्वं केवलमूढता केवलमत्यन्तं मूर्खत्व- मेव। तहुःखहेतोरज्ञानस्य तत्र सत्वात्सुखहेतोर्ज्ञानस्य चा- त्यन्ताभावाच्चात्यन्तं दुःखास्पदमेव वाल्यमिति भावः, कि च त- त्रापि अतिदुःखहेतावपि वाल्ये पराधीनतयाऽडहारविह्दा- रादिषु अस्वाधीनतया स्थितिः स्थानमत्यन्तमतिशयं दुःसहा- सोडुमशक्या, इवं दुःखं तु सार्वजनीनानुभवविषयमिति भाव्रः।४।। ननु युवावस्थायां शरीरे सर्वकार्ये च स्वातन्त्र्यात्सर्ववि- पयभोगजन्यसुखसत्वाच्च तदेव साध्यमित्याशङ्का तत्नापि तद- भावहेतुनिरूपणपूर्वकं तदसत्त्व दर्शयति। कामबाणैर्यत्र पीडा कामिनीविरहज्वरः । पुष्कला पापसंपत्तियाँवनं विपदां वनम् ॥ ५ ॥ कामवाणैरिति। यत्र युवदेहे कामवाणैः कामस्य मनोभवस्य वाणैर्मोहनादिभिर्वाणसद्दशैर्विकारैः पीडा दुःखं भवतीति शेप:, किं च कामिनीविरहज्वरः कामिनीनां कामवतीनां स्त्रीणां वि- रहेणापाप्तिजन्यदुःखेन ज्वरः सन्तापो भवति यौवने, किंच यौवने पुष्कला वद्ी पापसंपत्तिः सर्वदुःखकारणभूतपापनिष्प- त्तिर्जायतेऽतो यौवनं युवावस्था विपदां दुःखवृक्षाणां वनं समूह एव कुतः सुखाशङ्का तत्नेति भावः ॥५॥ ननु जरावस्थारयां कामाद्यभावात्पुत्रादिभिरादरणीयत्वाच्च
उन्नताऽनततां यातो जराक्षारविधूसरः । पुराणकूष्माण्डसमः कायो वृद्स्य गर्हितः ॥ ६ ॥ उन्नतेति। उन्नतानततां गमने क्र्कियमाणे उन्नततामुच्चलमा-
Page 48
३८ बोधसारे।
नततां नम्रतं च यातः प्राप्तः कटिदेशे निर्वळलेनोन्नमनानमने पीडाजन्ये एवेति भाव:, किं च जराक्षारविधूसरो वृद्धलनि- मित्तकक्षारेण धूसरवर्णो भवतीत्यर्थः, क्षारपदेनात्र तज्जनितं त- दुःखं लक्ष्यते । किं च पुराणकूष्माण्डसमः पुराणकूष्माण्डव- दन्तर्निःसार इत्यर्थः, दद्धस्य जरिणः कायो देहो गर्हितः सर्व- जनैरनादतो भवतीति शेष:, सर्वजनकृतानादरजन्यं दुःखं तत्र भवतीति सूचितम् ॥ ६॥ ननु मरणे सर्वदुःखकारणदेहाद्युपाधिरहितत्वात्सुखं स्या- दित्याशङ्कमानं प्रत्याह।
मरणस्य तु किं वाच्यं मृत्युदूतभयं ततः । नरके तु महद्दःखं स्वर्गे पतनजं भयम् ॥७ ॥
मरणस्येति। मरणस्य तु मृतेस्तु किं वाच्यं तत्र दुःखं व- चनानर्हमेव सर्वदुःखपरमावधित्वस्य सर्वलोकप्रत्यक्षत्वादनिर्वच- नीयत्वाच्च न वाच्यं तदिति भाव:, ननु मरणानन्तरं सुखं स्यादि- त्याशद्काह मृत्युदूतेति, ततः मरणानन्तरं मृत्युदूतभयं मृत्योर्यमस्य ये दूतास्तेभ्यो भयं भीतिर्जायतेऽतस्तत्ापि दुःखमस्तीत्याशयः, तत इत्यावर्सनीयम्, अनन्तरं नरके तु तुशब्देनोक्तसर्वदुःखेभ्यो नरके महद्दुःखं भवतीति सूचितं, नतु पुण्यकर्मिणां स्वर्ग- प्राप्तौ तत्र दुःखाभावेन तत्पार्थ्यमेव स्यादित्याशद्काह स्वर्ग- इति, स्वर्ग इन्द्रादिलोके तत्तद्विपयसुखे सत्यपि पतनजं प- तनाज्जायमानं भयं भीतिरस्तीति शेष:, भयजनितदुःखस- त्वात्तत्राऽपि तस्य दुःखरूपत्वमिति भावः ।।७।। भोगकालेऽपि स्वर्गसुखे दुःखहेतुं दर्शयति।
Page 49
कायविडम्बना। ३९
उत्तमाधमभावेन तत्राप्यस्ति विडम्बना। यदि पश्चादियोनिः स्यात्तदा दुःखस्य का कथा॥८॥ उत्तमेति। तत्रापि स्वर्गसुखभोगसमयेऽपि उत्तमाधमभावेनो- च्वनीचत्वबुद्धया विडम्बना तिरस्कारादिजनितदुःखमस्ति व- र्नतेऽतः स्वर्गे सुखं नास्त्येवेति भावः । ननु तर्हि स्वर्गनर- कयोः सुखाभावेऽपि अन्यत्रैव गतौ सुखं कचित्स्यादतः सैव प्रार्थनीया भवेदिति शङ्कामालक्ष्योभयगत्यभावे तृतीया गतिस्त- त्रापि दुःखं दर्शयति यदीति, पश्वादियोनिः स्याद्वेद्यदि यहि तदा ति दुःखस्य दुःखसम्बन्धिनी कथा वार्त्ता का न कापीत्यर्थः, सर्वकार्येषु पराधीनत्वस्य स्पष्टत्वादन- न्तत्वाच्च वचनानर्हमिति भावः ॥८।। ननु मरणानन्तरं पुनर्जन्म नेति नास्तिकमतं श्रुत्वा पुनर्ज- न्मास्ति वा नवेति सन्दिहानं प्रत्याह। पुनर्जन्म पुनर्मृत्यु: पुनर्दु:खं पुनर्भयम्। न जानाति गति जन्तुर्निमन्नो मोहसागरे ॥ ९ ॥ इति कायविडम्बना ॥ २ ॥ पुनरिति। जन्म जननं पुनर्मरणानन्तरं स्याद्भवेन्मृत्यु- र्मरणं पुनर्जननानन्तरं स्यादु:खं पुनर्दुःखानन्तरं स्या- ददयं मृत्यु: पुनर्जन्मानन्तरंस्यात्, ननु तर्हि जन्ममरणातीत- गतिः कुतो न साध्यते सर्वैरित्याशख्ाह नेति, जन्तुर्जीवो मोहसागरे मोहो मूलाज्ञानं तदेव सागर इवापारत्वात्त- स्मिन्निमग्नस्तादात्म्याभिमानं प्राप्तः सन्गतिं सर्वप्रपञ्चाती- तमोक्षरूपां स्थितिं न जानाति अतस्तत्साधन आदर प-
Page 50
४० बोधसारे।
रित्यज्य पुनः पुनः संसारापत्तिकारणानि कर्माण्येव करोती- ति भाव: ॥। ९।। इति श्रीनरहरिशिष्यदिघाकरविरचितायां बोधसारार्थ- दीप्तौ वैराग्यपीठिकार्थप्रकाशे कायविडम्बनार्थप्र- काशो द्वितीय: ॥२॥ अथ वृत्तिविडम्बना। एवं शरीरदोषान्प्रदर्श्येदानीं तज्जीवनभूतदृत्तिदोषान्म- दर्शयितुं वृत्तिविडम्वनाख्यं प्रकरणं सार्धद्विश्लोकमाह, तत्र प्र- थमं क्षत्रवृत्तेर्दोषानाह पादेन। क्षत्रधर्मे परा हिंसा याच्चायां लाघवं महत। असत्यमेव वाणिज्ये नानृतात्पातकं परम् ॥ १ ॥ क्षत्रेति। क्षत्रधर्मे क्षत्रियकर्मणि परा हिंसोत्कृष्टा हिंसा डस्ति अतोऽत्रासक्तिर्न योग्या, ननु ब्राह्मणजीविका निर्दोषेति चेत्तत्राह याच्चायामिति, याच्चायां भिक्षावृत्तौ महद्धह्डु लाघवम- नादरणमस्ति, अतोऽनादरजन्यं दुःखमसह्यं तत्रेति भाव:, तर्हि वै- श्यवृत्तौ दोषो न स्यादिति चेत्तत्राह वाणिज्ये, व्यापारवृत्ताव- सत्यमेवानृतमेव केवलमस्ति, ननु असत्ये दुःखहेतुत्वं न
पापं न नास्ति तदेव श्रेष्ठं पापमित्यर्थः, दुःखहेतोः पा- पस्य सत्वात्तत्रापि दुःखमस्तीत्याशयः ॥१॥ ननु तर्हि शूद्रवृत्ति: श्रेष्ठा चेत्तत्राह। सेवायां परमं कष्ट मृत्कीटस्तु कृषीबलः । द्यूते सर्वस्वनाशः स्याच्चौर्ये राजभयं महत ॥ २ ॥ सेवायामिति। सेवा शुद्रवृत्तिस्तस्यां परममुत्कष्ट कष्ट दुःखं
Page 51
४१
परसिद्धमेवातः शूद्रवृत्तावष्यादरो न कार्य इति भावः, कृषि- वृत्तावंपि दोपं दर्शयति मृदिति, कृपीवल: कर्षको मृत्कीटो मृदि कीट इव सदा तिष्ठतीत्यर्थः, तुपदेन सर्ववृत्तिभ्योऽपि तत्र कृषिवृत्तौ दुःखाधिक्यं सूचितमिति ज्ञेयं, ननु द्यूतवृत्तिस्तर्हि समीचीना स्यान्तत्राह द्यूत इति, द्यूते द्यूतवृत्तौ सर्वस्वनाशः स्यात्स्न्रीधनगृहादिनाशः स्याद्वेदतस्तत्रापि दुःखमेवेति भाव:, चौरवृत्तौ तु तत्मसिद्धमेवेत्याशयेनाह चौर्य इति, चौर्ये चौर- दृस्ौ महदतीव राजभयं राज्ञो भीतिरस्तीति शेषः ॥ २॥। नाकाशात्पतति द्रव्यं जीविका सुरदा कथम्। इति श्रीनरहरिविरचिते बोधसारे वैराग्यपीठिकाबन्धे वृत्ति- विडम्बनाख्यं तृतीयं प्रकरणम् ॥ ३॥ नन्वेताभ्यः पड्दृत्तिभ्योऽन्या काचिद्वृत्तिराश्रयणीयेत्या- शङ्माह नेति, द्रव्यं सर्वजीविकानिदानभूत द्रव्यं धनमाकाशा- द्वियत्तो न पतति न वर्षति एता वृत्तीर्विना न लभ्यत इति भावः, अतो जीविका जीवनहेतुभूतं द्रव्यं वस्तुमात्रमित्यर्थः, सुखदा सुखपापिका कथ केन प्रकारेण स्यान्न कथप्रपीत्यर्थः। इति श्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थदीप्ी वैराग्य पीठिकाबन्धार्थप्रकाशे वृत्तिविडम्बनार्थप्रकाश- स्तृतीय ।। १ ।.
अथ कामविडम्बना। एवं वृत्तिदोषान्प्रदर्श्येदानीं कामस्यैव सर्वसंसारमूलत्वं 'सोडकामयत, कामो दाता कामः प्रतिगृहीते'त्यादि श्रुतिभ्यः प्रसिद्धमतस्तत्रासक्तिनिपेधार्थ तद्दोपान्दर्शयितुं का- ६:
Page 52
४२ घोधसारे।
मविडम्वनाख्यं प्रकरणमारभते पञ्चभिः श्ोकैः, तत्र तावन्म- नुष्येषु मनुष्यस्वभावमाच्छाद्य पिशाचस्वभावं कोर्यादिदोपरूपं पिशाचेभ्योऽप्यतिमलिनं प्रकटयति एवं रूपं कामदोषमाह। चर्वयन्ति महामांसं गते प्राणे पिशाचकाः । जीवत्परस्परं मांसं स्त्रीपुंसाश्चतुराननाः ।।१॥ चर्वयन्तीति। पिशाचकाः पिशाचाः कप्त्ययेन कामिपि- शाचेभ्यः पिशाचेषु पिशाचलं न्यूनमेवेति सूचितं, ते पाणे गते सति प्राणवियोगे जाते सति प्रेतानां महामांसं पुरुपादिमांसं स्वयमपि प्राणवियोगे जाते पिशाचत्वं प्राप्येत्यर्थोऽपि ज्ञेयः, चर्वयन्ति खादन्ति तत्तेषां स्वधर्मत्वान्न कौर्य गणनीयमिति भाव:, तेभ्यः पुरुषेषु कामिषु तदाधिकक्यं दर्शयति जी- वदिति, स्त्रीपुंसाः स्त्रियश्च पुमासश्च स्त्रीपुंसाः परस्परं मि- धुनीभूयेत्यर्थः, जीवत्परस्परं जीवतामेव परस्परमन्योन्यमित्यर्थः, मांसं चर्वयन्ति खादन्ति। ननु परस्परमांसभक्षणे कृते कुतो न ज्ञायते मन्मांसं भक्षतीति, ज्ञाते च कुतो न निवारयन्तीत्या- शङ्माह चतुरानना भक्षणे चतुराण्याननानि मुखानि येषां ते, सर्वप्रयत्नैः संपादितानि प्राणवत्पियाणि धनान्येव मांसतु- ल्यानि वा परस्परदुःपरिहारादिजीवनादिचिन्तया परस्पर मांसशोषणं भवति तदेव भक्षणमुपचर्यते, भक्षकत्वेपि परस्परं भक्षकत्वापतीतिरेवाननानां चातुर्यमिति विवेक:, मनुष्यत्वं दूरी- कृत्य पिशाचत्वं संपादितमित्ययं कामस्य महान्दोपो दर्शित इति ज्ञेयम् ॥ १ ॥ पुनरपि तदेव प्रकारान्तरेण दर्शयति। नृदेहैर्निशि नृत्यन्ति शमशानेषु पिशाचकाः ।
Page 53
कामचिडम्बना। ४३
विचित्रैरङ्गविन्यासैर्गृहेषु गृहमेघिनः ॥ २ ।। नृदेहैरिति। पिशाचकाः पिशाचाः कप्रत्ययार्थस्तूक्त एव नृदेहैः स्वदेहैर्नृत्यं कर्त्तु लज्जिता इव मनुष्यशरीराणि धृत्वे- त्यर्थः, तत्रापि निशि रात्रौ तत्रापि शमशानेपु अमङ्गलस्थानेपु शवदाहदेशेषु नृत्यन्ति तृत्यं कुर्वन्ति गृहमेधिनो गृहधर्मेषु हिं- सापायेषु शीलं येपान्ते तथोक्ताः कामिनः स्वदेहैरेव दिने रात्रौ च निर्लज्जा भूत्वा गृहैषु स्वस्थानेष्वेव विचित्रैर्भावहा- वविशिष्टैरङ्गविन्यासैर्हस्ताद्यङ्गस्थापनैर्नृत्यं कुर्वन्ति, अतः का- मिनां पिशाचेभ्योऽप्यतितरामविवेकित्वं तत्कामस्यैव दोपजात- मिति भावः॥२।। एवं कामिपु पिशाचचेष्टानुकरणं प्दर्श्येदानीं श्वचेष्टाम- पि तेषु दर्शयति। लिहति स्पृशति भ्रान्तो मुहुर्जिघ्रति खादति। ग्रामसिंहानुरूपेयं ग्राम्यधर्मव्यवस्थितिः ॥ ३ ॥ लिहतीति। यथा श्वा कश्चिदन्नमांसचर्मादिपदार्थ दृष्ट्वा भ्रा- न्तः सन्दिशि दिशि भ्रममाणः प्रथमतस्तं स्पृशति स्पर्शेन नि- श्रिनोति मुहुः पुनस्तत्र भक्ष्यं वाऽन्यत्किश्चिदिति संदेहे जिघ्रति घ्राणेन निश्चिनोति तत्रापि संदेहे लिहृति जिह्वया स्वादु वाऽ- स्वादु निश्चिनोति ततश्र निःसंदेहं खादति भक्षति, एवं श्वस्व्- भावव्यवस्था दृष्टैव सर्वैरित्यर्थः, एवमेव ग्राम्यधर्मव्यवस्थितिः कामवर्ता स्वभावव्यवस्थाऽपि। सेयं ग्रामसिंहानुरूपा शुनामेव योग्येत्यर्थः, एवं विपरीतस्वभावः कामकृत एवेति भावः ॥ ३॥। विषयेषु दुःखरूपेषु सत्स्वपि कामेन भ्रान्तानामेव तेपु सुखरूपत्वनिश्चयो भवतीत्याशयेनाइ।
Page 54
४४ बोधसारे।
कण्डूयनेन यत्कण्डसुखं तटिक भवेत्सुखम्। पश्चाद्यत्र महापीडा तथा वैषयकं सुखम् ॥४ ॥ कण्डूयनेनेति। कण्डूयनेन नखादिना घर्षणेन कण्डूसुखं घर्ष- णजन्यं सुखमिव यत्प्रतीयते तत्कि सुखं भवेन्नैव तत्सुखमित्यर्थ:, कुतो न तत्सुखमित्यत आह यत्र घर्पणजन्ये सुखे पश्चाद्वर्ष- णानन्तर महापीडा महतीव पीडा दुःखमस्ति तथा तद्वद्वैष- यिकं विषयघर्षणजन्यं सुखं सुखमिव प्रतीयते परन्तु तह्दुःखमेव
तत्सुखं दुःखमेवेति भावः॥ ४ ॥ स्त्रीघु तु स्वस्य पुनः पुनर्मारकत्वेनातीव शत्रुरूपत्वे सत्य- पि मित्रबुद्धिस्तत्र कामकृतभ्रान्त्यैवेत्याशयेनाह। नादासक्तं मृगं व्याधश्छिनत्ति निशितैः शरैः । रूपासक्तं नरं नारी रतिच्छुरिकयाऽसकृत ॥५।। इति कामषिडम्बना ॥ ५ ॥ नादेति। ब्याधो मृगयुर्नादासक्तं मृगयुकृतगायनलुब्धं मृगं हरिणं निशितैस्तीक्ष्णैः शरैरबाणैश्छिनच्ति भिनत्ति तत्तु एकवारमेव नारी स्त्री रूपासक्त स्वरूपलुब्धं नरं पुरुषं रतिच्छुरिकया रतिर्मै- थुनमेव च्छुरिका क्षुरस्तयाऽसकृन्नित्यमेव च्छिनत्तीत्यहो व्या- धादपि क्रूरत्वं स्त्रीणामतीदेति भावः ॥५॥ इति श्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थदीपौ वैराग्यपीठिकाबन्धार्थप्रकाशे कामचिडम्बनार्थ- प्रकाशश्चतुर्थः॥४॥
Page 55
कोधविडम्बना । ४'
अथ क्रोधविडम्बना । एवं कामदोपान्पदर्श्येदानीं क्रोधेऽतिदुष्टत्वस्य सर्वजन- प्रसिद्धत्वात्संक्षेपेण तद्दोषान्पदर्शयितुं करोधविडम्बनाख्यं प्र- करणमेक श्लोकमारभते राक्षसादप्यतिक्रार्य क्रौधवति दर्शयति। रुधिरं पिवति स्वीयं दिवा तमसि नृत्यति । भीषयत्यात्मनात्मानं क्रूरः क्रोधी न राक्षसः॥१॥ इति श्रीबोधसारे क्रोधविडम्बनाख्यं प्रकरयाम् ॥५॥ रुधिरमिति। क्रोधी क्रोधवान्स्ीयं स्वकीयं रुधिरमसकपि- बति प्राश्नाति, स्वीयदेहेपि निर्दयस्य परदेहे कुतो दयाशङ्केति भावः, 'स्वापत्यभक्षणं यत्र परापत्येषु कादये'ति न्यायाद्राक्षसस्तु परकीयं रुधिरं पिवति न स्वीयमतो दयासतात्कदाचिदपि परदेहेऽपि सा स्यादिति राक्षसे कौर्यन्यूनलमिति भावः, कि- श्च क्रोधी दिवा दिवस एव तमसि अन्धकारे नृत्यति तृत्यं क- रोति क्रोधिन: प्रकाशरूपेऽपि दिनेऽन्धकारप्रतीतेरतीवाविवेकितं राक्षसे तु तमस्येव तमःप्रतीतेरविवेकस्य न्यूनत्वमिति भावः । किश्च क्रोध्यात्मना स्वेनैवात्मानं स्वं भीपयति भयं प्रा- पयति राक्षसस्तु अन्यं भीपयति अतः स्वस्मिन्सदयत्वस्य वि- द्यमानत्वात्कदाचिदन्येष्वपि तत्ततः स्याक्रोधवति तु तदभा- वान्न तदाशङ्केति भाव:, अतः क्रोध्येव क्रूरो निष्ठुरतरो न रा- क्षसो राक्षसस्तु क्रूरो न क्रूरतर इति भावः ॥ १॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थ- दीप्तौ वैराग्यपीठिकार्थप्रकाशे क्रोधविडम्बनार्थप्र- काश: पश्चम: ।५।
Page 56
४६ बोधसारे।
अथ लोभविडम्बना। एवं कोधदोपान्प्रदर्श्येदानीं लोभस्यैव सर्वमोक्षसाधन- परिपन्थित्वात्तस्य दोपान्विस्तरेण प्रदर्शयितुं लोभविडम्चना- र्यं प्रकरणमेकविंशतिश्लोकमारभते, तत्रादौ पिशाचादिभ्योऽपि वुद्धेरतिभ्रामकत्वं लोभे दर्शयति। न पिशाचा न डाकिन्यो न भुजङ्गा न वृश्चिकाः । संभ्रान्तयन्ति मनुजं यथा लोभोधियं रिपुः ॥१॥ नेति। पिशाचाः प्रेता न डाकिन्यो न भुजङ्गाः सर्पा न दृश्चिका न, एते सर्वेपि प्रत्येकं मिलिता वा मनुजं मनुष्यं सं- भ्रान्तयन्त्यपि तथा न संभ्रान्तयन्ति, तथा कथं, यथा येन प्र- कारेण लोभो लोभाख्यो वृत्तिविशेषो धियं बुद्धिं संभ्रान्त- यति तथा, अतः स एव रिपुः शत्रुतर इति भावः। मनुष्यपदेन वृश्चिकादीनां मनुष्यत्वबुद्धिमात्रभ्रामकत्वं न त्वन्यजन्मविषय- बुद्धिभ्रामकत्वमतस्तेषु शत्रुत्वं प्रसिद्धमेव न शत्रुतरत्वं, लोभस्य तु केवलबुद्धिमात्रभ्रामकत्वेन जन्मान्तरविषयवुद्धिभ्रामकत्व- सिद्धेः शत्रुतरत्वं गोश्वौ पशू इति न्यादिति भावः ॥१॥ एवं लोभस्य शत्रुत्वं प्रदश्येदानीं शत्रुजयेच्छायां शत्रुजयो- पायाश्चत्वारः सामदानभेददण्डाखया: सन्ति, तेषु समञ्जसे शत्रौ सामोपयुज्यते लोभे त्वसामञ्जस्येन तस्यानुपयोगं निश्चित्य दानरूपोपायेन शत्रुं जिगीपुमालक्ष्य शिष्यं गुरुस्तदनुपयोगं दर्शयति। मेरवो घृतबिन्द्वाभा दुराशादावपावके। कथं सहस्रलक्षाद्ैस्तर्हि तृप्यतु लोभवान् ॥ २ ।। मेरव इति। मेरवः कनकाचला अपरिमिता दुराशादाव-
Page 57
लोभविम्बडना। ४७
पावके विषयाशैवारण्याग्निस्तस्मिन्घृतविन्द्वाभा घृतविन्दुतुल्या भवन्तीत्यर्थः, तदा तर्हि लोभवान्स लोभो यस्मिन्विद्यने स पुरुपविशेषः सहस्रलक्षादैः सहस्रलक्षादिसङ्कयापरिमितैर्द्रव्यै- रिति शेषः, करथं तृप्यतु तृप्तो भवेन्न कथमपीत्यर्थः, अतो दा- नरूपोपायोऽपि निरुपयोगीति भावः ॥२॥ एवं लोभरूपशत्रुजये सामदानयोरनुपयोगित्वं प्रदर्श्याSत्र भेदोपयोगं निश्चित्य तस्मिन्व्लावलविचारस्य कर्त्तव्यतारयां तद्वलं दर्शयति। आनिद्रं प्रातरारम्य जाग्रति स्वप्नपूर्ष्वपि। भ्रमन्नो लभते शान्ति स लोभस्य पराक्रमः ॥३॥ आनिद्रमिति। अयं जीवः प्रातरारभ्य प्रातर्जागरणादा- रभ्याऽऽनिद्रं निद्रापर्यन्तं जाग्रति जागरावस्थायां भ्रमन्- भ्रान्तः सन्स्वप्रपूर्ष्वपि स्वमनगरेष्वपि अपिशब्दान्मनोरथादौ भ्रान्तः सञ्छान्ति स्थैर्यसुखं नो लभते न प्राम्मोति तत्कारणं यत्स लोभस्य लोभरूपशत्रोः पराक्रमो वलं निश्चेतव्यम् ॥३॥ इदानीं मनुष्यत्वं दूरीकृत्य सर्पभूतादिस्वभावजननमपि लोभबलकृतमेवेत्याह। निधानं यक्षसर्पाद्या यदाक्रामन्ति यत्नतः । न पिबन्ति न खादन्ति तेषां हि गुरवः शठाः॥४॥ निधानमिति। ये यक्षसर्पाद्या यक्षाः प्रेतादयः सर्पाद्याः सर्पवृश्चिकादयो निधानं द्रव्यपूर्ण पात्रं दानभोगाद्यनुपयोगेऽपि आक्रामन्ति आक्रम्य तिष्ठुन्ति यत्नतो यत्नेन न पिवन्ति न खा- दन्ति खानपानाछयुपायेन व्ययं न कुर्वन्तीत्यर्थः, तेपां मध्ये शठा
Page 58
४८ बोधसारे।
दानाद्युपयोगरहितधनरक्षका गुरवः श्रेष्ठाः, यद्वा तेषां गुरव उपदेष्टारस्तेषां पिशाचादीनां तथा धनरक्षणमेतस्माच्छिक्षित- मिति तेषां न्यूनत्वमेतस्मादिति भाव:, तेर्षा पिशाचादीनां ज्ञा- नाभावेऽनुपयोगितया द्रव्यरक्षणं न निन्धमिति ध्वनितं, मनु- व्याणां तु तत्सत्वेऽपि पिशाचवत्तद्रक्षणं निन्दमेवेति पिशाचे- भ्योऽपि निकृष्टत्वसम्पादनमिति लोभपराक्रमः सूचितः ॥४॥ इदानीं दानभोगहीनधनरक्षणं व्यर्थमेवेत्याह। दानभोगविहीनं च यदेव धनिनो धनम् ! न तु तस्य मुखे धूलिर्दीयते भूमिगोपनैः ॥५॥ दानेति। दानभोगविहीनं दानाभावात्परलोकहितं न भ- वति भोगाभावादैहिकसुखासाधकं च भवति अतो यदुभय- लोकासाधकं धनिनो धनवतो धनं द्रव्यमस्ति तुशब्देन तन्ना- स्त्येवेति सूचितं, ननु मरणसमये मुखे सुवणादि निक्षिप्यते प्रेत- क्रियाश् कुर्वन्ति पुत्रादयस्तदुपयोगित्वाद्धनरक्षणमुचितमेवेत्याश- ्वाह नत्विति, तस्योक्तलक्षणस्य यक्षवित्तस्य सुखे तु आस्येऽपि
द्रव्यकणगमनशङ्कया न दीयते दूरे क्रियायां धनस्योपयोगा- शङ्केति भावः ॥५।। ननु'आपदर्थे धनं रक्षेदि'त्यादीनि नीतिवाक्यानि, 'सत्पात्रे स्थापितं द्रव्यं परलोकहितं भवेदि'ति, 'दढे पात्रे तु निक्षिप्ं धनं भद्रं भवेदि'त्यादिवाक्यानि पण्डितजनमुखेन श्रुत्वा परलोकाय धनं दृढे ताम्रादिनिर्मितपात्रे निक्षिप्य भूम्यां स्थापयन्ति तद्वि- हितमेवेति तत्कुतो निन्दत इत्याशद् तद्राक्यतात्पर्यमज्ञात्वैव धनं द्रव्यं रक्षेयदि त्हिं तद्रक्षणं तद्धनं वाऽडपदर्थे स्यात्-
Page 59
लोभविडम्बना। ४९
स्वनाशायैव स्यात्। यद्वा धनं रक्षेचेद्रक्षणं न सम्भवति, कुतः ! अर्थे धन आपन्नाशः स्यादेव, यद्वा धन आपन्नाशोस्ति अत- स्तदायासं त्यत्काऽऽत्मानमित्यपकृष्य तमेव रक्षेदित्यर्थः, स- त्पात्रे तु श्रोत्रियत्वादिगुणविशिष्ट इत्यर्थः, अस्तदेव दंढ भूमि- निक्षेपणं तु सर्वजगदुत्पत्तिकारणभूम्यां निक्षेणं ब्रह्मार्पणमि- त्यादिवाक्योक्तमेव विहितम्, इममर्थमज्ञात्वा केवलताम्रादिपात्रे द्रव्यनिक्षेपो मौर्ख्र्यविलसितमेवेत्याशयेनाह।
मूढस्ताम्रमये पात्रे संस्थापयति किं धनम् । पात्रे स्थितं धनं भद्रं किन्तु पात्रं परकषिय ॥ ६॥
मूढ इति। मूढो मूर्खस्ताम्रमये ताम्रादिरचिते पात्रे भाण्डे धनं द्रव्यं स्थापयति स्थापनं करोति तत्क न किमपि तदित्यर्थः, पात्रे स्थितं धनं भंद्रं सत्पात्रे विद्यमानं द्रव्यं भद्रं सुखाय भवति तत्सत्यमुक्तं किं तु पात्रं सत्पात्रं परीयक्ष परीक्ष्य ज्ञातव्य- मित्यर्थः॥ ६॥ इदानीं मानं शरीरसुखाशां च त्यक्त्वा याच्चायै भ्रमणं गृहं गृहं प्रति लोभपराक्रमकृतमेवेति दर्शयति। काकविष्ठाधनस्यार्थे कायक्लेशेन भूयसा । मदान्धा धनिनः सेव्या महतीयं विडम्बना॥७॥
काकविष्ठेति। काकविष्ठाधनस्य वायसविष्ठातुल्यस्य ध- नस्याडर्थे निमित्ते भूयसाऽधिकेन कायलेशेन शरीरजन्यक्लेशेन मदान्धा द्रव्यमदेनान्धा हिताहितज्ञानशून्या धनिनो धनवन्तः सेव्याः सेवितव्या इयमुक्तलक्षणा कदर्थना सह्या सा म- ७
Page 60
बोधसारे।
हत्यतीव विडम्बनाऽनार्यतैव सेत्यर्थः, इदमपि लोभपरा- कमकृतमेवेति भावः।।७।। न लोभस्योपचाराय मणिमन्त्रौषधादयः । मणिमन्त्रौषधल्लाघी सोऽपि लोभपरायणः ॥ ८ ।। ननु लोभरोगनिवारण औषधाद्युपायोस्ति वा नवेति स- न्दिह्यमानं प्रष्टुमिच्छन्तं शिप्यमालक्ष्याह नेति, लोभस्य लोभना- म्रो रोगस्योपचाराय निवारणाय मणिमन्त्रौषधादयो मणिश्च मन्त्रश्वौषधश्चादीनि येपां ते न न सन्ति, नतु लोभनिवार- कं मण्यादिकं नास्तीति कुतोऽवगतमित्यत आह मणीति,
आत्मानं कृत्थते सोऽपि असौ च लोभपरायणो लोभपर एव दृष्ट इति शेप:, अत एवावगतमिति भावः ॥८॥। इदानीं मनुष्येपु मनुष्यस्वभावं तिरस्कृत्य श्वस्वभावस- म्पादनमपि लोभकृतमेवेत्याशयेनाह। किञ्चिद्वनकणं ध्यात्वा मुखमाद्यस्य पश्यसि। करोषि श्वेव चाटूनि लोभेनापकृतं स्मर ॥ ९ ॥ किश्चिदिति । यथा श्वा किश्चित्स्वल्पं धनकणं स्वभक्ष्यक- णिकां ध्यात्वा ममतावत्पाप्नुयादिति निश्चित्याळ्यस्य ध- निनोऽन्नसमृद्धिमतो मुखमास्यं पश्यति अवलोकयति चाटूनि तद्रञ्जनार्थमुदरदर्शनपुच्छचालनपादप्रक्षेपणादीनि करोति त- द्वत्किश्चित्सर्व द्रव्यं कोऽपि न ददाति तत्र ढव्बूकादिकणिकामा- त्रं ददाति न वा ददातीति जानन्नपि धनवतो मुखं प्रति पश्य- सि प्रतीक्षां कुर्वन्नेव तिप्ठसि ततश्र तद्रंजनार्थ चादूनि गायनहा- करोपीत्ययं श्वस्वभाव-
Page 61
लोभविडम्बना। ५१
स्त्वयि उत्तमं मनुप्यस्वभावं दूरीकत्य सम्पादित एल्ललोभे- नाऽपकृतं लोभनाम्ना शत्रुणाऽपकृतमपकारः कृत इति स्मर जानीहीत्यर्थः ॥ ९॥ इदानीं लोभनामनिरुत्त्याऽपि लोभप्रतापं सूचयति। लोहार्गलो भद्रहरो लोलताङ्को भयप्रदः । लुनात्युभौ च यल्लोकौ तेन लोभः प्रकीर्त्तितः॥१०॥ लोहार्गल इति। लोहार्गल आयसी शृङ्गलेव यत्र यत्र विषये लोभवतो बुद्धि: संलग्ना ततो विपयात्सा निर्गन्तुम- स्वाधीनाडतो लोभशृङ्गलया रुद्धाडतो लोभस्य लोहार्गलखमत एव लोभनाम्नि लोकारस्य सिद्धिरिति भावः, किं च भद्रहरो भद्रस्य सुखस्य हरो नाशको यस्य बुद्धौ लोभस्तस्य सुखं नैव स्यादित्यर्थः, अतो लोभनाम्नि भकारसिद्धिर्जेया, किश्च लोल- ताङ्को लोलता चाश्चल्यं तदेवाङ्कं चिह्नं यस्य स यत्र यत्र सचेतनेषु चाश्चल्यं लक्ष्यते तत्र तत्र लोभसत्वमनुमीयते डयं लोभवान् क्रि- यावखात्तद्वत्। ननु ज्ञानिष्वेतव्यभिचारः, न तत्रापि व्यवहा- रकाले तत्सत्वात्समाधिकाले तु व्यवहाराभावाल्लोभासत्व- मिष्टमेव, ननु ज्ञानिनि तत्सत्वे तत्वमेव व्याहन्येत 'रागो लि- ङ्गमबोधस्ये'ति श्रुते रागवृत्तेर्विशेपस्यैव लोभत्वादिति चेन्न बा- धितत्वेन तत्सत्वेप्यकिश्चित्करत्वात् 'सन्तु रागादयो बुधे' इति शास्त्रान्तरेण तस्य तेष्वकिञ्चित्करत्वोक्तः, 'जीवन्नाखुर्न मा- जारं हन्ति हन्यात्कथ मृत' इति न्यायेनावाधकत्वसिद्धेश्व ज्ञा- निषु तदवाधकत्वान्न ज्ञानित्वव्याहतिरत इदमनुमानमव्यभि- चारि लोलताङ्क इति, अतोऽपि लोभनाम्नि लोकारसिद्धिर्जेया। किं च भयप्रदो यत्र यत्र भयं तत्रापि लोभसत्वमनुमीयतेSतो
Page 62
बोधसारे।
लोभनाम्नि भकारसिद्धिर्जञेया, किश्च यद्यतो लोभ उभौ लोका एतल्लोकपरलोकौ दानभोगाप्रवर्त्तकतया लुनाति खण्ड- यति नाशयति, ननु लुभधातुप्रकृतिकत्वे प्रसिद्धे लोभस्य कथं लूञूप्रकृतिकत्वमुच्यते येन च्छिदिक्रियावत्वं स्यादिति चेन्न लु- भधातोर्विमोहनार्थवत्वेन विमोहनस्य चोभयलोकघातकत्वप्- सिद्धेर्लोभशब्दस्यार्थतो लूञ्पकृतिकत्वात्तेन कारणेन लोभो लोभनाम्ना प्रकीर्तितः प्रसिद्धत्वेन प्रतिपादितः, एतेनाऽपि लो- भप्रतापो ज्ञेय इति भावः ॥१० ॥ एवं लोभरूपशत्रोर्बलं प्रतिपाद्यातिबलित्वे निर्णीते तज्जये भेदोडपेक्षितः। स च द्विविधः, शत्रुबलन्यून्यत्वसाधकदानसामोपा- यैस्तन्मन्त्र्यादिवशीकाररूप एक:, अपरः समाश्रयः । समाश्रयो पि द्विविधः शश्ष्त्रोरन्याधिकबलिसंश्रयः शत्रुसंश्रयश्च। तत्र दानसाम्नोरसामञ्जस्येन लोभरूपशत्रोस्तन्मन्त्र्यादिष्वपि त- थात्वादनुपयोग:, अतः प्रथरमानुपयोग एव। शत्रुसमा- श्रयस्यापि तथैव दुःसाध्यत्वात्तमपि विहाय तदधिकवल- समाश्रयेण स जेतव्य इति तदधिकबलिजिज्ञासायां तद्दोर्लभ्यं परमयत्नादरार्थ दर्शयति। सकामा: कामिनीलुब्धा निष्कामा मोक्षलोभिनः ! भावलुब्धो हि भगवान्निलोभोऽत्यन्तदुर्लभः॥११॥ सकामा इति। सकामाः कामेन सह वर्त्तमाना ये जगति प्रसिद्धास्ते कामिनीलु्धाः कामिनीत्युपलक्षणं धनादिसर्व- विपयाणामतस्तेपां लोभग्रस्तत्वं प्रत्यक्षमेवेति तदाश्रयोऽकिं- चित्कर इति भाव:, किश्च निष्कामाः कामरहिता विरक्ता (१) शत्रुतः। (२) प्रथमयोः सामदानयोः ।
Page 63
लोभविडम्बना । ५३
इत्यर्थः, ते मोक्षलोभिनो मोक्षे लोभो विद्यते येपां ते तथोक्ता अतस्तेषामपि समाश्रयो लोभशत्ुजयेऽप्रयोजक एवेति भावः । किश् हि प्रसिद्धो भगवान्पड्गुणैश्वर्योऽपीश्वरो भावलुब्धो भावे प्रेम्णि लुब्धो लोभी भवति अतस्तस्यापि लोभग्रस्तत्व- मेवेति तदाश्रयो लोभनाशेडकिश्चित्कर एव तस्यापि तन्मूलक- त्वादिति भाव:, तर्हि निर्लोभो नास्त्येव किं तर्हि असाध्यलो- भजयविचारेणेत्याशङ्काह निर्लोभो लोभरहितः केवलब्रह्मनिष्ठो जीवन्मुक्त इत्यर्थः, अत्यन्तदुर्लभोऽत्यायासैर्वहुसाधनैर्लभ्यः प्राप्यः स इति तत्प्राप्तिसाधनेषु दृढो भूत्वा प्रदृटत्तिः का- रयेति सूचितम्, अतः केवलं तदाश्रयेणैव स जेतुं शक्यो नान्य- थेति भावः ॥११॥ ननु ईश्वरेऽपि लोभसत्वं कर्थ निश्ेयमित्याशड्क तत्सम्भा- वनायै तद्विभूत्यां राजनि तं दर्शयति। दुग्धफेनोज्ज्वला शय्या बाला चरणसेविनी। निद्रां न लभते भूपः परराष्ट्रजिगीषया ॥ १२॥ दुग्धेति। दुग्धफेनोज्ज्वला दुग्धफेनवत्कोमलस्पर्शा नि- र्मला च शय्या शयनसाधनं कशिपुयुक्तपर्यङ्को Sस्तीति शेपः, वाला पूर्ववयस्का स्त्री चरणसेविनी पादसेवां कर्त्तु विद्यते इति शेपः, एतादृशनिद्रासाधनानुकूल्येपि भूपः स्वीयराज्वलाभवा- नपीत्यर्थ:, परराष्ट्रजिगीपयान्यराजदेशगृहृणेच्छया निद्रां निद्रा- सुखं न लभते न प्राम्नोतीति लोभसत्वं तत्र प्रसिद्धमेवात ए- तादृशसर्वविभूतिमतीश्वरेऽपि लोभोऽस्तीति भावः ॥१२॥ ननु निर्लोभस्यातीव दुर्लभत्वात्तदाश्रयं बिना लोभजया- सम्भवादस्तु स को वाधस्तेनेत्याशद्क बुद्धेर्विपरीतकारित्वेन
Page 64
५४ बोधसारे।
लोभेऽनिष्टत्वमेव दर्शयतीतः परं द्वाभ्यां, तत्रादौ हितेष्वहि- तबुद्धिमहितेपु हितबुद्धिं जनयतीत्येवं वाधकत्वं लोभे दर्शयति। मार्गेषु मिलिताश्चौराः सख्यं तैः सह वर्धितम् । ते गता धनमादाय पश्चाच्छोचति मन्दधीः ॥१३॥ मार्गेष्विति। मार्गेपु प्रसिद्धपथिपु भवमार्गेपु च चौरा: प्र- सिद्धचौरा भार्यापुत्रादयश्र चौरसादृश्याच्ौरा मिलिताः स- ङ्रतास्तैः सह भार्यापुत्रादिभिश्चौरैश्र साकं सख्यं हितबुद्धित्वं वर्धित वृद्धिं पापितं ततस्ते चौरा भार्यापुत्रादयोऽपि धन भो- गसाधनभूतं द्रव्यमादाय गृहीत्वा गता याताः पश्चादनन्तरं म- न्दधीर्मन्दवुद्धिः शोचति शोकं करोति अयं बुद्धिविपर्यासो लोभकृत एवेति भाव: ॥१३ ॥।
रीतकारित्वं लोभस्यैवेत्याशयेनाह। स्वामी तु चौरवद्दव्यं गोपायति यतस्ततः । भार्यापुत्रादयश्रौरा भुञ्जते स्वामिनो यथा ॥ १४ ॥ स्वामीति। स्वामी तु स्वाम्यपि स्वयं चौरवद्यथा चौरा इतस्ततो गोपायन्ति तथा द्रव्यं धनं व्ययभयाद्यतस्ततो गो- पायति आछाद्य रक्षति न ददाति न भुनक्ति चेत्यर्थः, भार्यापु- त्रादयः स्त्र्यपत्यादयश्चौरा धनहारित्वाच्चौरसादृश्याच्चौरा यथा यद्वत्स्वामिन: प्रकट भुञ्जते तथा तद्व्यं भुञ्ते भक्षणादिना हरन्ति एवं स्वामिनि चौरत्वं चौरेपु स्वामित्वं च विपरीततया लोभे- नैव सम्पादितमिति भाव: ॥ १५ ।। तर्हि सर्वेभ्योऽपि धनं गोपनीयमेव नेत्याह।
Page 65
लोभचिडम्बना। ५१
पुत्रमित्रकलत्रेभ्यो गोप्यते यद्धनं जनैः । तेन मन्येऽवनं पापं सुकृरत्या गोप्यते नहि॥१५॥ पुत्रमित्रेति। पुत्रमित्रकलत्रेभ्यः पुत्रान्मित्रात्कलत्राच जनै- र्लोकैर्धनं द्रव्यं गोप्यते रक्ष्यते यद्यत इह लोकेपि सुखाभा- वादिति भावः, तेन कारणेनावनं रक्षणं धनस्येति शेष:, पापं पापमेव केवलं तद्, अतः सुकृती पुण्यकर्मा यः कश्चित्तेन न हि नैव गोप्यते रक्ष्यते ॥ १५ ॥ ननु विरक्तवेपा अपि मुखतश्च वैराग्योपदेष्टारो वहवो धन लुब्धा दृश्यन्ते तत्राह। रागिणी गणिका वित्तं यद्दाञ्छति वरा हि सा। धिक्तं वैराग्यवक्तारं वाचालं वित्तलम्पटम्॥१६॥ रागिणीति। रागिणी रागवती पसिद्वैव गणिका वेश्या यद्नादि वाञ्छतीच्छति सा वरा श्रेष्ठा प्रसिद्धरागत्वा- द्वैराग्यवक्तारमन्येषां वैराग्योपदेष्टारं वित्तलम्पटमन्तर्धनलुब्ध- मत एव वाचालं निरर्थकवाक्यं तं धिग्धिक्कारोस्तु स चात्य- धम इति भावः॥१६ ।। ननु वहवः शास्त्रवक्तारोपिं धनार्जनक्िष्टास्तत्कुतो निन्ध- ते भवद्िस्तत्राह। धनिभ्यो धनमादाय ल्लाघत शास्त्रपाठकः । बहुभ्यो मिथुनीभूय धनिभ्यो गणिका यथा ॥१७॥ धनिभ्य इति। बहुभ्योऽनेकेभ्यो धनिभ्यो धनवज्ो मि- थुनीभूय रति कृत्वा धनं द्रव्यमादाय गृहीत्वा गणिका वेश्या (१) पात्े समर्पणेन।
Page 66
५६ बोधसारे।
यथा यद्वच्छ्ाघते कत्थते डहमेव धनवती स्वरूपवती चातुर्य- वती चेति आत्मानं प्रशंसतीत्यर्थः, तथा तद्वच्छास्त्रपाठकः शा- स्त्रवक्ता बहुभ्यो धनिभ्यो धनवज्स्तत्तद्रञ्जनं कृत्वा धनमा- दाय द्रव्यं सम्पाद्य श्ाघतेऽहमेव पण्डितः मयैतावद्ूव्यं सम्पादितं कोन्यो मत्सदृशोस्तीति कत्थते कामिपु वेश्यातुल्य एव स इति भाव:।।१७। ननु वेदान्तवक्तारोऽपि धनलुब्धा दृश्यन्ते तत्राह। न शोभते तथैवायं लोभी वेदान्तवाचकः । चौर्येण निगडे दत्तो जटाभस्मधरो यथा॥१८॥ नेति। यथा यद्वज्जटाभस्मधरः शिरसि जटाजूटधारि अद्गे च विभूतिधारि एवं वैराग्यवेषवानपि चौर्येण तस्करकर्मणा निगडेऽवरोधककाष्ठे दत्तोऽर्पितः स न शोभते तथैव तद्वदेवायं भवदुक्तो वेदान्तवाचको वेदान्तवक्ता लोभी लोभवान्न शोभते शोभां न प्राम्नोतीत्यर्थः, उभयो र्विरोधादिति भावः ॥१८॥ नतु धनं विना गौरवं लोके न स्यादिति तदर्थ तत्स- म्पादं विदुपामित्याशख्ाह। यदि वित्तार्जनेनैव विद्वांसो यान्ति गौरवम्। कस्तर्हि वेश्याविदुषोर्विशेष इति वर्णय ॥ १९॥ यदीति। विद्वांसः पण्डिता वित्तार्जनेनैव द्रव्यसम्पादने- नैव केवलं गौरवं प्रतिष्ठां यान्ति प्राप्तुवन्ति यदीति यर्हि सम्भाव्यते त्वया तर्हि तथा सति वेश्याविदुपोरुभयोर्ज्ञाने स- माने सति को विशेषो भेद इति तद्वर्णय कथय त- स्माद्विदुर्पा विद्ययैव गौरवं तद्धनकृतमिति ज्ञानं भ्रमएवेति भाव: ॥ १९ ॥
Page 67
ळोभविडम्बना।
ननु मुखेनानित्यरता प्रतिपाद्यन्तः पुनस्तानेव सेवमाना अपि वहवो दृश्यन्ते तत्राद। अनित्यमिति यो वक्ति सेवते नित्यमेव तत् । बहिर्मुखस्य तस्यास्यं मा दर्शय महेश्वर ॥ २० ॥ अनित्यमिति। हे महेश्वर हे परमेश्वर यः कोऽपिज्ञानिमन्यो- डनित्यं नाशवत्सर्वमिदमिति एवं वक्ति ब्रूते परन्तु तदनि- त्यवस्तु नित्यमेव सर्वकालमपि सेवते ुनक्ति तस्य वहिर्मुखस्य विरक्तापसदस्यान्तविपययण आस्यं मुखं मा दर्शय न दर्शनं भवेद्यथा तथा कुरु तादृशस्य मुखदर्शनमपि न कर्त्तव्य- मिति भावः॥२०॥। एवं लोभबलं प्रदर्श्य तदधिकवलब्रह्मनिष्ठदौर्लभ्यमदर्शने- न तदाश्रये साधनात्यादरं विधाय तत्समाश्रयेण स जेतव्य इति ज्ञापयित्वेदानीं शत्रुसमाश्रयपक्षे दोपप्रदर्शनपूर्वकं तज्जये च फलं दर्शयति। कामकिंकरतां प्राप्य सकामा: सर्वर्किंकराः। कामेनैव परित्यक्तो निष्कामः कस्य किंकरः॥२१॥ इति थ्रीनरहरिविरचिते बोधसारे वैराग्यपीठिकाबन्धे लोभविडम्बना ॥ ६ ॥
कामेति। कामकिंकरतां काम्यन्ते विपया अनेनेति कामो लोभस्तस्य किंकरतां सेवकत्वं प्राप्य लोभसमाश्रयं कृत्वेत्यर्थः, सकामाः सर्वविषयेच्छावन्तो जायन्त इति शेपः, ततश्र सर्व- किङ्कराः सर्वसेवकत्वमङ्गीकार्य महाननर्थोयं लोभसमाश्रय इति भाव :; अतो निर्लोभसमाश्रयेण तज्जये तु कामेनैव परि- ८
Page 68
५८ बोधसारे।
त्यक्त: कामो लोभस्तेन परित्यक्तो लोभनाशेन तद्धीनः पु- रुषो निष्कामः स कस्य किङ्करो न कस्यापि किङ्कर इति स्वा- राज्यसिद्धिफलं दर्शितम् ॥ २१॥ इति श्रीनरहरिशिष्यदिवाकरविरचितार्यां बोधसारार्थदीपौ बैराग्यपीठिकायन्धार्थप्रकाशे लोभषिडम्बनार्थप्रकाशः षछ: ॥६॥
अथ कर्मविडम्बना। एवं लोभदोषान्प्रदर्श्य तन्मूलककाम्यकर्मदोषान्मदर्शयितुं कर्मविडम्बनाख्यं प्रकरणं चतुर्दशश्लोकमारभते, तत्रादौ कर्मणो- डपूर्णतया श्रमहेतुत्वादनादरणीयत्वमाह। वंशपात्रमिवापूर्ण पूर्ण घटशतैरपि। क्रियाजालं कथं साधो विरागाय न जायते ॥२२॥
वंशेति। हे साधो क्रियासाधनपर घटशतैरपि घटपदेनात्र तत्परिमितं जलं ग्राह्यं लक्षणया 'भावानयने द्रव्यानयनमि'ति न्यायेन वा शतपदं चात्रासंख्यातपरमसंख्यघटजलैरित्यर्थः, पूर्णमपि अपूर्ण वंशपात्रमिव वंशशकलनिर्मितभाण्डमिव क्रिया- जालं कर्मरूपं जालमिव स्ववन्धकारणं विरागाय विराग जन- यितुं कथ कुत इत्यर्थः; न जायते न भवति बन्धनहेतुत्वाच्छ्रम- हेतुत्वाच्च विरागयोग्ये कर्मणि रागोऽहोन्तःकरणमौढ्यमेत- दिति भाव:॥। १।।
ननु कृते च कर्मणि पूर्णता स्यादित्याशध्काह। ब्रह्मणो दिनमारभ्य यावदद्य कृताः क्रियाः ।
Page 69
५९
मुहूर्त्त हन्त संसारी नैव निश्चिन्तताङ्गतः ॥२॥ ब्रह्मण इति। व्रह्मणोऽजस्य दिनं दिनादारभ्य प्रारम्भं कृत्वाद्य यावदद्यपर्यन्तं क्रियाः कर्माणि कृताः कृतानि तेषु कृतेष्वपि मुहूर्त्त क्षणमात्रं संसारी जीवो निश्चिन्ततां चि- प्तस्थैर्यजन्यं सुखं नैव गतो नैव प्राप्तो हन्त इति खेदे तत्पूर्ण- ताशाऽद्यापि तव वर्त्ततेऽयं मम खेदो भवतीति भावः ॥२॥ ननु पुत्रात्सुखं स्यादिति प्रसिद्धिलोके 'नापुत्स्य लो- कोडस्ती'ति श्रुतेः, पुत्रं विना परलोकासिद्धेःश्राद्धादिकर्मणा च पुत्रकृतेन परलोकसुखसिद्धेः पुत्रजननोपयोगि विवाहादि कर्म कार्यमेवेत्याशङ्का तत्नापि साम्रा दोषं दर्शयति त्रिभिः। तत्रादौ पुत्रद त्तपिण्डोप जीवनं पराधीनजीवनत्वाद्दौर्भाग्यमेवेत्याह।
अभाग्यं परमं पुंसां परपिण्डोपजीवनम्। तत्कथ नाम सौभाग्यं पुत्रपिण्डोपजीवनम् ॥३॥
अभाग्यमिति। पुंसा पुरुषार्थिनां दृष्ट्येति शेष:, परपिण्डो- क्षपणमात्रं तज्जीवनमिइ लोके परलोके च सुखासाधकत्वात्तत्परमं केवलमभाग्य- मेव दौर्भाग्यमेव प्रसिद्धमिद लोकेऽपि तत्तस्मात्पुत्रपिण्डोप- जीवनं पुत्रदत्तपिण्डादिना परलोक इहापि पुत्रादेः पिण्डस्य शरीरस्यार्थे पुत्राद्यर्थशरीरेण वोपजीवनं पराधीनमेव नाम प्रसिद्धं चेद कथ केन प्रकारेण सौभाग्यं संपन्नत्वं न कथमपि परमं दारिद्मेव तदिति भावः॥ ३॥ तत्राप्यतीवानादरेण दत्तान्नादिना जीवनं त्वतीव दुःखा- स्पदत्वादतीव दौर्भाग्यमेवेत्याशयेनाह।
Page 70
बोधसारे।
मृतशब्देन सम्बोध्य मृतपिण्डं मृताहनि। मृताय दास्यते पुत्रस्तद्वरं किमुतामृतम् ॥४ ॥ मृतशब्देनेति। मृतशब्देन मृतस्य शब्देन प्रेत इति नाम्ना सम्वोधनं कृत्वा हे प्रेतेति, इदानीमपि यस्य कस्यापि त्वं प्रेतो- सीत्युक्ते दुःखं मन्यते स तर्हि क्थ तत्तव तदा सुखकारकं स्यादिति भाव:, पुत्रः स्वपालकस्य यस्य कस्याप्येतादृटशं वचनं दुःसहं तत्कि वाच्यं स्वपाल्यस्य पुत्रस्य तादृशं वचनं दुःसद्द- मिति भाव:। मृतपिण्डं मृतिनिमित्तं पिण्डं मृतमेव पिण्डं शरी- रमिति वा मृतशरीरोत्पादकत्वात्पिण्डस्येति भावः, मृतेरमि- यत्वात्तन्निमित्तकपिण्डस्यापि दुःखकारणत्वं मृतशरीरमपि क- स्यापि न रोचते तत्कथ मृतशरीरोत्पादकः पिण्डः सुखदः स्या- दिति भाव:, मृताहनि मृतदिने मृतदिने मृतसम्वन्धिनामपि दुःखेनान्नादयरुचिर्द्दश्यते मृतस्य तर्हिं मूर्च्छावत्वादन्नादिभोगो दुर्घटस्ततिंक पुनस्तस्याप्यरुचिरन्नादिष्विति वक्तव्यमिति भावः। तत्रापि मृताय मरणमूर्च्छिताय दास्यतेऽरपयिष्यति भविष्यदर्थेन दानप्रयोगेण तदपि बुध्यादिचाञ्चल्येन मरणादिना पुत्रस्य स्यान्नवेति तत्र निश्चयाभावः सूचित इति ज्ञेयम्, तत्तादृशपुत्रादि- संपादनेन मृत्वा तद्दत्तपिण्डादिना जीवनं वरं श्रेष्ठं किमुत किं वाऽमृतं मोक्षसुखं वरं श्रेष्ठमित्येवं विचार्यतामित्यर्थः ॥४॥ शास्त्रतोऽपि श्राद्धादिभोजनं निन्दमित्याशयेनाह। अशनायां पिपासां च शोकं मोहं जरां मृतिम् । प्राप्नुवञक्कुतिशास्त्रेभ्यो मा भव श्राद्धभक्षकः ॥५॥ अशनायामिति। त्वमशनारयां रोगादिना भक्षितान्नादेर्भ- स्मीभावेन पुनः पुनर्भोक्तुमिच्छामन्नाद्यमाप्त्या बहुवुसुक्षुलमि-
Page 71
कर्मचिडम्बना। ६१
त्यर्थः, पिपासां च तृड्वाहुल्यमपि शोकमाधि मोहं कर्त्तव्या- स्फुरणरूपां स्तब्धतां जरामकाले तु धातुक्षीणतादिना वा- धक्यं मृतिमकालमृत्युमित्यादिफलानि श्रुतिभ्यः 'श्राद्धीयमन्नं भुञ्जनप्रेतोशनायातृद्शोकजरामूर्च्छाकालमृत्युभ्यः शङ्गमानो जीवन्नेव मृतो न तत्समश्रीयादि'त्यादिभ्यः श्रुतानि, शास्त्रे- भ्योपि कर्मविपाकादिभ्यः श्रूयन्तेऽतस्तानि प्राप्तुवन्नङ्गी- कुर्वन्सञ्छाद्धभक्षकः पुत्राद्युत्पादनेन तत्कृतश्राद्धभोजनेप्सुर्मा भव न भवितव्यं निन्द्लादेतदयोग्यमिति भावः ॥५॥ ननु मास्तु पुत्राद्युत्पादनादिश्राद्धान्तं कर्म, ऐहिकसुखभो- गहेत्वायुर्वर्धायकं तु कर्म कर्त्तव्यमेवेत्याशङ्का तत्रापि दोषं दर्शयति। दीर्घमायुर्जराभुक्त्यै धनं भूरि दुराधये ! पुत्रा: कलहदुःखाय संसारे दुःखमद्ुतम् ॥ ६ ॥ दीर्घमिति। दीर्घ बहुकालमायुर्जीवनं जराभुत्त्यै सर्व- लोकतिरस्कार्य स्वस्य चानपेक्ष्यमशत्त्यादिदोपवत्वाद्वद्धत्वं तद्भोगाय तस्य भोगं कर्त्तु तत्स्यादतस्तत्साधककर्मण्यादरो न युक्त इति भाव:, नतु धनस्य सर्वविषयभोगहेतुत्वेन सुखहे- तुत्वात्तत्साधनभूते कर्मण्यादरो विधेय इत्याशद्काह धन- मिति, भूरि बहु धनं द्रव्यं दुराधये चिन्तायै स्याद्, भूरिपदे- नात्र जीवनमात्रकारणभूतं धनं तु जीवनकारणपारब्धेनैव स्या- त्तद्विशेषभोगार्थ तु विशेषकर्मणेति तदर्थ कर्मण्यादरा न कर्त्त- व्य इति सूचितं झेयम्। ननु पुत्राणां पारलौकिकसुखहेतुत्वाभा- वेप्यैहिकसुखहेतुत्वेन तत्साधककर्मण्यादरो युक्त एवेत्याशड्वाह पुत्राइति, पुत्रा अपत्यानि कलहदुःखाय स्वे- प्सितादाने स्वेन सह स्वधनार्थ तेषां वा परस्परेण सह यः
Page 72
६२ बोधसारे।
कलहो विग्रहस्तद्वारा दुःखं जनयितुं स्युः, अतस्तदर्थकर्मण्या- दरो न युक्त इति भाव: ननु सर्वेप्येते दुःखदा एवेति कुतो न- ज्ञायते सवैरित्याशद्ाह संसार इति, संसारेऽसारेपि संसा- रनाम्रि दुःखं दुःखमपीत्यर्थः, अङ्गुतमत्याश्चर्यरूपमित्यर्थः, असारत्वेपि संसारत्वप्रतीतौ दुःखे सुखप्रतीतिर्युक्तैवेति भावः॥६॥ ननु रूपसाधने तर्हि कर्मण्यादरोस्तु तत्राह। छायां पश्यति कायस्य रायो गर्वेण मुह्यति। जायां भजति भावेन मायां नो वेद वैष्णवीम्॥।७। छायामिति। कायस्य शरीरस्य च्छायां प्रतिरूप दर्पणादौ पश्यति अवलोकयति ततस्तत्र सुन्दरत्वं यत्प्रतीयते तद्रायो द्रव्यस्य न तु देहस्य तथैव तत्सुन्दरत्वं स्वदेह आरोप्य गर्वेण सु- न्दरोहमित्यभिमानेन मुह्यति तदासक्िं करोति अतो विमोह- कत्वादरूपस्य तत्साधनभूते कर्मण्यादरो न कर्त्तव्य इति भाव:, एवं भार्यासाधनभूतं कर्म त्याजयितुं भार्यायामपि दोषं दर्शय- त्यर्धेन जायामिति। जायां जायते स्वयं पुत्ररूपेण पतिरूपेण च यस्यां सा जाया माता ता भावेन भार्याबुध्या भजति भु- नक्ति अहो अन्याय इत्यर्थः । ननु मातरि भार्याबुद्धि: कथ स्यादित्याशख्ाह। मायामिति वैष्णवीं विष्णुसम्बन्धिनीं माया- मघंटितघटनाचातुरीं नो वेद न जानाति'तज्जाया जाया भवति यदस्यां जायते पुनरि'ति श्षतेः, तस्यां पुत्ररूपेणोत्पन्नत्वाद्भा- र्याया मातृत्वं प्रसिद्धं प्रमाणसिद्धमेव युक्त्यापीदं स्वस्यापि प- तिरूपेण तस्यामेवोत्पन्नत्वासम्भावनीयं मायापदेनापि मायाया विपरीतकारित्वं प्रसिद्धमेवरेति सूचितं, वैष्णवीमिति पदेन च विष्णो्जगत्स्थापकत्वात्तस्येयं स्त्रीरूपा मायैव मूर्ततिमती सा
Page 73
कर्मविडम्बना। ६३
स्वं रूप तिरस्कृत्य विपरीतबुद्धिमुत्पाद्य स्वासक्तं पुरूषं करोति तेन च जगत्स्थितिनिर्वाहो जायत इति सूचितम् ॥७॥ अतः सर्वत्र स्त्रीपुत्रादिषु ममता त्याज्येत्याह। यात्रासमागमसमे नतर्कितगतागते। पशुपुत्रकलत्रादौ ममता न मता समा ॥ ८ ॥ यात्रेति। यात्रासमागमसमे कचिद्यात्रायामपि असम्ब- न्धिनां समागमः संगो जायते तत्तुल्ये नतर्कितगतागते नतर्किते तर्कागोचरे गतागते संयोगवियौगौ यस्मिन्तादृटशे पशुपुत्र- कलत्ादौ पशवस्तुरगगजादयः पुत्राश्च कलत्रं स्त्री चादयो पस्मिन्तस्मिन्सर्वस्मिन्ममताSSसक्ति: समा सुखदा न मता न संमता मुनिभिरिति शेष:, तदासक्तिर्न कार्येति भावः ॥।८।। तर्हि सा ममता कथ त्याज्येत्याशङ्का गुरुसेवां विना न त्यक्तास्यादित्याशयेनाह। सुतरां गुरवोऽस्माकं वैयाकरणसत्तमाः । आदिश्य ममतास्थाने समतां साधयन्ति ये ॥९॥
सुतरामिति। अस्माकमस्मदृष्ठ्या गुरवो दैशिका वैया- करणश्रेष्ठाः सुतरामत्यन्तं ज्ञेया, किं तह्ुरुणां वैयाकरणश्रेष्ठत्वं तदाह ये गुरवो ममतास्थाने ममतारूपे समतां समतारूपमा- दिश्यादेशं कृला साधयन्ति, इदमेव वैयाकरणश्रेष्ठत्वं गुरू- णामिति भावः।। ९।। ननु स्त्नीपुत्रादित्यागो दुष्कर इत्याशद्ाह। त्यक्ष्यंत्यवश्यं च त्वान्त्वं च त्यक्ष्यसि यानपि।
Page 74
६४ बोघसारं।
येषां त्यागे महत्सौख्यं तेषां त्यागेऽपि कः श्रमः॥१०॥ त्यक्ष्यन्तीति। ये च विपयास्त्वां तदासक्तमपि त्वामवश्यं निश्चयेन त्यक्ष्यन्ति परित्यज्य गभिष्यन्ति त्वं च त्वमपि यानपि पुत्रादिविषयानपि त्यक्ष्यसि परित्यज्य गभिष्यसि स्वमरणका- लेऽवश्यभाविवियोगकाले वेत्यर्थः, किश्च येषां विषयाणां स्व- तस्त्यागे कृते सति महदतीव सौरयं सुखं भवति तेपां वि- षयाणां त्यागेऽपि त्यागनिमित्तकः कः श्रमः किं दुःखं जायते प्रत्युत सुखेनैव भाव्यमिति भावः ॥१० ॥ नतु विषयत्यागेन वैराग्ये क्रियमाणे सुहृज्जनकृतनिन्दा दुःसहेत्याशड्ाह। व्यवहारविमूढानां स्तुतिनिन्दामयः क्रमः। सोपि तत्कायपर्यन्तः कायः कतिदिनान्वयी॥११॥
व्यवहारेति। व्यवहारविमूढानां व्यवहारेपि ये विमूढा विशिष्टा मूर्खा व्यवहारेप्यर्थसाधनं तेपां न स्यादिति भाव:, व्यवहारेऽपि स्तुतिनिन्दयोः सत्वात्तत्र च निन्दाभयेन व्यवहार- लोपः प्रसज्येतातस्त उभयज्ञानशून्यास्तेपां स्तुतिनिन्दामयः क्रमः स्तुतिः प्रशंसा निन्दा जुगुप्सा च तत्प्रचुरः क्रमो व्यवहारो नं तूभयज्ञानिनां स्तुतिर्निन्दा चेति स्वकार्यपरत्वमेव तेषां व्यव- हार इति भाव:, अतः स्वकार्यपरत्वमेव तवोचितमिति सूचितं, तथापि न सहते चेत्तत्राह सोपीति, सोपि स्तुतिनिन्दामयक्रमोपि तत्कायपर्यन्तस्तेपां सम्बन्धिशरीरपर्यन्तमेव, अतः स कायस्त- त्सम्बन्धि शरीरं कतिदिनावयी कतिदिनपर्यन्तं तव सम्वन्धी स्याव, शरीरपर्यन्तं निन्दा सह्या परन्तु 'स्वकार्य साधयेद्धीमा-
Page 75
कर्मविडम्बना। ६५५
नि'ति नीतिवाक्येन स्वकार्यपरस्यैव धीमत्वप्रतिपादनात्तव स्व- कार्यपरतैव योग्येति भावः ॥११॥ एवं नीति प्रदर्श्य विपयासक्तौ भयमपि दर्शयति। एकतः सकला लोका विकर्षन्ति यथाबलम्। पदार्थमालां बलवानेकः कालो गिलत्यसौ ॥१२॥ एकत इति। सकलाः सर्वे लोका जीवाः पदार्थमालां विषयस्रजं यथावलं वलमनतिक्रम्य स्वस्वशत्त्यनुसारेणेत्य- र्थः, एकत एकदेशेन विकर्न्ति स्वस्वाभिमुख्येन ममैवेयमिति स्वीकुर्वन्तीत्यर्थः, अन्यत्र देश एकोऽसहायी बलवान्महा- बलः कालः सर्वजगत्कलनसमर्थ ईश्वरस्ताङ्गिलति ग्रसति असौ, विषयासत्त्या कालसुखे न गन्तव्यं तत्त्यागेनामृतो भ- वेति भावः ॥१२।। ननु यावद्विपयभोगसुखहेतुत्वाद्विपयाणां कुतस्त्याज्यत्व- मित्याशङ्ा तत्र विषयाणां वृत्तीनां भोक्तुश्च क्षणिकत्वेना- न्योन्याभावे जीवनस्यैवाभावः कुतो भोगजन्यसुखाशङ्केत्या- शयेनाह। लोला लक्ष्मीर्वय लोला लोला विषयवृत्तयः । किं सुखं तत्र यत्राङ्ग जीवनस्यैव संशयः ॥१३॥ लोलेति। लक्ष्मीर्विपयभोगसंपत्तिर्लोला चश्चला क्ष- णिकेत्यर्थः, वयमस्मदादयो भोक्तृत्वाभिमानिनो लोला: क्ष- णिका विषयवृत्तयो विपयाकारान्तःकरणवृत्तयो भोगसाध- नभूता लोला: क्षणिकाः, एवं सर्वेपां क्षणिकत्व उत्तरोत्तर- क्षणेऽभावसत्वादन्योन्यत्राभावे सिद्धे यत्र विपयवृटत्तौ भो-
Page 76
६६ बोधसारे।
करि च भोग्येपि जीवनस्यैव केवलसत्वस्यैव संशयोऽस्ति न वेति सन्देहस्तत्र विषयभोगे किं सुखं सुखसत्वं कुतो नि- श्वेयं यव्रासक्ति: स्यादिति भावः ॥ १३ ॥ इदानीं तत्र क्षणिकसुखेपि अनेकदुःखमिश्रितत्वेन दुःख- रूपत्वमेवेति तदासक्तिर्न कार्येति सिद्धान्तयन्तुपपादितम- रथमुपसंहरति। शोकमोहौ भयं दैन्यमाधिर्व्याधि: क्षुधा तृषा। इत्यादि विविधं दुःखमिति संक्षेपकीर्त्तनम् ।।१४।। इति बोधसारे वैराग्यपीठिकाबन्धे कर्मविडम्बना समाप्ता ॥७॥ शोकेति। शोकमोहौ शोको गतार्थगुणचिन्ताजन्यं दुःखं मोहो दुःखेन कर्त्तव्याकर्त्तव्यविस्मृतिर्भीतिः प्रसिद्धा दैन्यं स्व- विपयालाभजन्यं दुःखमाधिः व्याधिज्वरादिरोगजनितपीडा क्षुधा वुभुक्षाजनितदुःखप्रतीति- स्तृपा पिपासाजनितपीडेत्यादि एतदादि विविधमनेकप्रकारं दुःखं तत्र सुखाभासेऽस्ति दुःखमिश्रितत्वेन तत्सुखं दुःख- मेव विपमिश्रितान्नं विपमिवेति भावः, संक्षेपकीर्त्तनं विषयदो- पाणां संक्षेपतो निरूपणमिति समाप्तमित्यर्थः ॥ १४॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ौ वैराग्यपीठिकाबन्धार्थप्रकाश कर्मविडम्बनार्थ- प्रकाश: सप्रमः ॥७॥
अथ धर्मजिक्ञासा। एवं सर्वविषयदोपान्पदर्श्य तत्र कर्मविडम्बनार्यां कर्मणां त्याज्यत्वे सर्वकर्मणां त्यागेन सुमुक्षूणां चित्तशुद्धिर्न स्यादिति ग्र।हं कर्म ग्राहयितुं धर्मजिज्ञासामारभत एकोनत्रिंशन्न्निः श्रोकै:,
Page 77
धर्मजिक्षासा। ६७
तत्रावान्तरप्रकरणानि धर्मजिज्ञासा तपस्यातात्पर्य ग्रतव्यवस्था वेपविचार मौनमीमांसा दानज्ञान तीर्थतत्वा चारचातुर्याख्या- न्यष्टौ सन्ति तानि क्रमतो व्याख्यास्यामः, तत्रादौ धर्मजिज्ञासाम- करणमेकादशश्चोकं व्याख्यायते, तत्र तावद्धर्मजिज्ञासानिरूपण सभेदं प्रतिजानीते। अथातो धर्मजिज्ञासा धर्मः प्रोक्तश्रतुर्विधः । नित्यो नैमित्तिक: काम्यः प्रायश्चित्तमिति क्रमात्॥१॥ अथेति। अथ वेराग्यनिरूपणानन्तरं यतो ग्राह्यत्याज्य- धर्मज्ञानं विना ग्राह्यधर्मसंग्रहो न स्यात्तेन विना मुमुक्षोश्चित- शुद्धिर्नस्या'त्तमेतं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसानाशकेने'त्यादि श्रुतेः, कर्मणां शुद्धिद्वारा वेदनेच्छा- जनकत्वं श्रुतं, वक्ष्यति हि वेदनेच्छा वेदनं वा चित्रा सत्कर्मणां गतिरि'ति, अतः कारणाद्धर्मजिज्ञासा धर्मस्य जिज्ञासा ज्ञानेच्छा कर्त्तव्येति शेषः। तस्यां च कर्त्तव्यायां सत्यां शिप्यं प्रति धर्म ज्ञापयितुं तद्देदमाह धर्म इति, धर्मो विहितधर्मरूपश्वतुर्विध- श्रतुःप्रकारः प्रोक्तः कथितो मन्वादिभिरिति शेपः, चातुर्वि- ध्यमेव दर्शयति नित्य इति, नित्यो एको नैमित्तिको निमित्ता- दुत्पन्नो द्वितीयः काम्यः कामनानिमित्तस्तृतीयः प्रायश्चित्तं प्रायश्चित्तनामा चतुर्थ इति एवं क्रमात्क्रमेण स चतुर्विधो ज्ञेय:॥१॥ तत्रादौ नित्यधर्म लक्षयत्येकेन । वर्णाश्रमसमाचारा: शौचस्ानादयश्च ये। आवश्यकास्ते नित्याः स्युरकृत्य प्रत्यवैति यान्॥२॥ वर्णेति। ये धर्मा वर्णाश्रमसमाचारा वर्णानां ब्राह्म- णादीनामनुलोमादीनां चाश्रमाणां ब्रह्मचारिगृहस्थवानप्र-
Page 78
६८ बोधसारे।
स्थयतीनां समाचाररूपा विविक्ता आचाररूपाः शौचस्नाना- दयश्र शौचमान्तरं रागत्यागरूपं वाह्यं स्नानादिरूपं देहमल- त्यागरूपमेते आदिनी येषां संध्यावन्दनादीनां ते तथोक्ताः, सा- धारणलक्षणमाह आवश्यका इति, आवश्यका यैर्विनेह लोके परत्र वा भ्रष्टाः स्युस्ते, तानेव स्पष्टमाह यान्धर्मानकृत्य न कृत्वा प्रत्यवैति प्रत्यवायो दोषस्तद्वान्भवति ते धर्मा नित्याः स्युर्भवेयु: ॥२ ॥ नैमित्तिकाँलक्षयत्येकेन। देशकालनिमित्ता ये ते तु नैमित्तिका: स्मृताः ।
देशेति। ये धर्मा देशकालनिमित्ता देशा: क्षेत्राणि कु- रुक्षेत्र प्रयागादीनि काला व्यतीपातसंक्रान्तिग्रहणादय- स्ते एव निमित्तं येषां धर्माणां ते तुपदेन नित्यधर्मादस्य कादा- चित्कत्वं दर्शितं, ते धर्मा नैमित्तिका निमित्तभवाः स्मृताः स्मृतिभिः प्रतिपादिताः, तानेव स्पष्टमाह संक्रान्तीति, संक्रा- न्तिग्रहणस्नानदानश्राद्धजपादयः संक्रान्तिग्रहणे च कालौ, अ- न्येषामप्युपलक्षणमेतव्वतीपातादीनां देशाना चेति ज्ञेयं, तन्नि- मित्तकाः स्नानं प्रसिद्ध दानं द्रव्यादीनां सत्पात्रे प्रक्षेपणं श्राद्धं पितृकार्य जपश्च गायत्र्यादिमन्त्रावृत्तिरादयो येषां य- ज्ञोपवासादीनां ते तथोक्तास्ते सर्वे नैमित्तिका ज्ेयाः॥ ३॥ तेषु ग्राह्यत्वात्प्रथमं प्रायश्चित्तधर्मान्दर्शयति। प्रायश्चित्तात्मका धर्माः कृच्छ्रचान्द्रायणादयः । कामनापूर्वकं काम्यं मुमुक्षोर्न विधीयते ॥ ४ ॥ प्रायश्चित्तेति। कृच्छचान्द्रायणादयः कृच्छूं च शरीरशोपणा-
Page 79
धर्मजिज्ञासायां कमेत्यागात्यागनिर्णय। ६९
दिना पापनिवर्त्तकं तप्तकृच्छ्ादि चान्द्रायणं च मासादिनियमे- न एकग्रासत एकैकोत्तरं पश्चदशग्रासवृद्धया पश्चदशदिनानि व्यतीत्य तत एकैकहासेनैकग्रासावशेपरूपमादिनी येपां ते धर्माः प्रायश्चितात्मका प्रायश्चित्तनामकाः दोपनिवर्त्तका ज्ेयाः काम्यधर्मनिरूपणपूर्वकं तत्र मुमुक्षोः प्रृत्ति वारयति कामनेति, कामनापूर्वकं कामनया यक्कियमाणं तत्काम्यं कर्म ज्ञातव्यं त- न्मुमुक्षो र्मोक्षेच्छोर्न विधीयते न कथ्यते तत्र विरक्तत्वात्तस्ये- त्यर्थः, काम्यकर्मणस्तु कामिविषयत्वादिति भावः ॥ ४ ॥ ननु निष्कामकर्मणां चित्तशुद्धिनिमित्तत्वादुपासना- याश्च भगवत्प्रसादनिमित्तत्वाच्छूवणादीनां च मोक्षकामना- निपित्तत्वाच्च सर्वमपि कर्मकाम्यत्वात्याज्यमित्याशङ्का तस्य का- मनानिवर्त्तकत्वान्न त्याज्यत्वमित्याशयेनाह। हरिप्रसादकाम्या च चित्तशुद्धेश्र कामना। मोक्षस्य कामना चेति कामनेयं न कामना ॥ ५॥ हरीति। हरिप्रसादकाम्या च हरेर्भगवतः प्रसादः प्रस- न्नता तस्य काम्या कामनापि च पुनश्वित्तशुद्धेश्चित्तस्यान्तः- करणस्य शुद्धिनिर्मलत्वं तस्याः कामनेच्छा च पुनर्मो- क्षस्य मुक्त्ते: कामनेच्छेयं कामनापीच्छापि न कामना- डकामनैव सा स्वनाशहेतुत्वादिति भाव ॥५॥ सिद्धान्तयाति। तस्मात्तया कामनया स्नानदानजपादिकम्। तीर्थव्रततपोनिष्ठा मोक्षकामैर्विधीयताम् ॥ ६॥ तस्मादिति। तस्माद्वेतोः कर्मणः कामनिवर्त्तकलादित्यर्थः, तया कामनया तया भगवत्पसादादीच्छारूपेच्छया स्नान-
Page 80
७० बोधसारे।
दानजपादिकं स्नानं च प्रसिद्ध दानं च द्रव्यादीनां सत्यात्रे निक्षेपो जपश्च गायत्र्यादिमन्त्रस्यावृत्तिरूप आदयो यस्य त- त्सर्वमपि कर्मादिपदादुपासनश्रवणमननादयो गृह्यन्ते मोक्षका- मैर्मुमुक्षुभिस्तीर्थत्रततपोनिष्ठा तीर्थानि पुष्करादीनि व्रतानि एकादश्युपवासादीनि तपांसि स्वस्वकर्माचरणे क्लेशसहनरूपाणि तेपु निष्ठा सहजप्रीतिर्विधीयतां क्रियताम्॥ ६॥ नन्वत्र किं प्रमाणं तत्राह। कर्मणां निर्णयं त्वेवं गीतायामाह माधवः । सर्वथा न परित्याज्यं नित्यं कर्म मुमुक्षुणा॥७॥ कर्मणामिति। माधवः श्रीकृष्ण उभयविधलक्ष्मीच्छावता- मनुल्लंध्यवचनवं माधवपदेन सूचितमिति ज्ञेयं, गीतायां भगव- द्वीतायां कर्मणां विहितकर्मणां त्यागेऽत्यागेवैवमनेन प्रका- रेण निर्णयं निश्चयमाहोक्तवान, किमुक्तवांस्तत्ाह यज्ञ इति, यज्ञो नित्यो ब्रह्मयज्ञादिर्दानं च तपश्च मनीपिणां विवेकवतां मुमुक्षूणामित्यर्थः, पावनानि अन्तःकरणशुद्धिकारणानि सन्ती- ति एवमुक्तवानित्यर्थः, तथा च गीतायां 'यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्। एतान्यपि तु कर्माणि संङ्गं त्यत्क्का करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसे'ति, अतः सर्वथा स- र्वप्रकारेण मुमुक्षुणा मोक्षेच्छुना नित्यं कर्मावश्यकं सन्ध्याव- न्दनादि न परित्याज्यं नैव त्यक्तव्यम् ॥७॥ ननु जिज्ञामूनां कर्मकर्ततव्यतायां विहितायामपि ज्ञानिनां तु तत्यागो विहित एवेत्याशङ्क वृथाज्ञानिताभिमानेन न क- र्त्तव्य इत्याह। ज्ञाने जातेपि न त्याज्यं लोकानुग्रहहेतुना।
Page 81
धर्मजिज्ञासायां कर्मस्यागात्यागनिर्णयः। ७१
यो वासनापरित्यागः कर्मत्यागः स एबहि ॥८॥ ज्ञान इति। ज्ञाने देहादतीतात्मज्ञाने जातेपि उत्पन्नेपि लोकानुग्रहहेतुना लोकान्कर्म ग्राहयितुमिच्छया न त्याज्यं कर्म न त्यक्तव्यमयमपि निर्णयो भगवद्गीतामूक्तः, 'लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसी'त्यादिभिः।ननु 'त्यागेनैके अमृतल्वमानशुरि'ति श्रुतौ मुसुक्षूगां कर्मत्यागो विहित इत्याशद्काह य इति, यो वासनापरित्यागो वासनानां जगन्मिथ्यात्वबुध्या वासनाना- मत्यन्ताभावज्ञानमेव परित्यागः स एव कर्मत्यागः कर्मणां त्यागः संन्यासो हि प्रसिद्ध उक्तः श्रुतावित्यर्थः ॥ ८॥ कर्मणो वाह्यस्य त्यागो नैव कार्यः किन्तु मनसा कर्तृक- रण्रियाणां मिथ्यात्वदढीकरणं कार्यमित्याशयेनाह।
न कर्मणां परित्यागः कर्मत्यागो मनोमयः । यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्॥ ९॥ नेति। कर्मणां क्रियाणां स्वरूपेण परित्यागः सर्वभावेन संन्यासो न न कर्त्तव्य इत्यर्थः, किन्तु मनोमयः मनसैव त्रिपु- टीमिथ्यात्वदृष्टिरूप: कर्मत्यागः कर्मणां विहितानां त्यागः सं- न्यास: कर्त्तव्य इति शेष:, नतु यज्ञादिकर्मणां कुतो न त्या- ज्यत्वं तत्राह मनीषिणामिति, यज्ञो ब्रह्मयज्ञादिर्दानं प्रसिद्धं सत्पात्रे द्रव्यनिक्षेपरूपं तपश्र स्वस्वकर्मसु केशसहनादर एतानि मनीपिणां मननवतां विवेककारणत्वात्पावनानि चित्तशोध- कानि सन्तीति अतो न त्याज्यानीत्यर्थः ॥ ९॥ एवं कर्मत्यागे दोषं निरूप्येदानीं कर्मणां चित्तशुद्धिद्वारा ज्ञानोपकारकत्वात्तत्यागे मित्रद्रोहसम्भवात्तेन दोषेण ज्ञाना-
Page 82
७२ बोधसारे।
भावे जन्ममरणरूपसंसारनरकपातरूपानिष्टपदर्शनेन कर्मण्या- दरं विधत्ते।
कर्मणा चित्तशुद्धि: स्यात्तया तीव्रा मुमुक्षता। ततो विवेकान्मुक्ति: स्यात्कर्म त्याज्यं क्थं तुतत्॥१०॥ कर्मणेति। कर्मणा विहितकर्माचरणेन चित्तशुद्धिश्चि- त्तस्यान्तःकरणस्य शुद्धी रागादिमलापाकरणं स्यान्भवेत्तया चित्तशुध्या तीव्रा यत्रसहिता मुमुक्षुता मोक्षेच्छास्थैर्य स्यात्ततो मुमुक्षास्थैर्याद्विवेकाद्विवेको जायते तस्मान्मुक्तिर्मोक्षः स्या- द्ववेत्तत्तु ईद्टशं कर्मोपकारकं कर्म विहिताचाररूपं कथ केन प्रकारेण त्याज्यं त्यागयोग्यं भवेन्न कथमपीत्यर्थः, अतस्तत्या- गेऽनिष्टमेव स्यादिति भावः ॥१० ॥ ननु तर्हि शुकादिपु त्याग: कर्थ श्रूयते तत्राह। ये तु बोधेन संप्राप्तास्तात कर्मातिगां दशाम् । न विधे: किंकरास्तस्मात्स्वच्छन्दं विचरंतुते॥११॥ इति श्रीबोधसारे धर्मजिज्ञासायां कर्मत्यागात्यागनिर्णयः।।१।
ये त्विति। तुपदेनोक्तपूर्वकर्माधिकारिभ्यो वैलक्षण्यमेतेपु सूचितं, ये त्वदाशङ्गिताः शकादयो बोधेन ज्ञानेन कर्मातिगां दशां कर्मणामगोचरामवस्थां संप्राप्ता याता हे तात ते दत्ता- दयोऽवधूता विधेर्वेदाज्ञायाः किङ्करा दासा अधिकारिण इत्यर्थः, न न भवन्ति तथाचोक्तं वृद्धैः 'वर्णाश्रमाभिमानेन श्रुतेर्दासो भवेन्नरः। वर्णाश्रमविहीनश्च वर्चते श्रुतिमूर्धनी'ति,यावद्देहात्म-
Page 83
तपस्यातात्पर्यम्। ७३
विज्ञानं वाध्यते न प्रमाणतः । प्रामाण्यं कर्मशास्त्राणों तावद्देधु- पपद्यते' इति च, भगवताप्युक्तं 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्व मानवः। आत्मन्येवात्मना तुष्टस्तस्य कार्य न विद्यते॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। न चास्य सर्वभूतेषु कश्चिदर्थव्यपा- श्रय' इति, तस्मात्कर्मण्यनधिकृतत्वात्कृतकृत्यत्वाच्च स्वच्छन्दं स्वे- च्छया कर्मण्यकर्मणि वा विचरन्तु वर्त्तता; तथा च श्रुतिः 'स- माधिमथ कर्माणि मा करोतु करोतु वा। हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशय' इति, तेषां जीवन्मुक्तानां कृतेऽकृते वा कर्मणि गुणो दोषो वा नेति भावः ॥ ११। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ी धर्मजिक्षासार्थप्रकाशे धर्मत्यागात्यागविवेकार्थ- प्रकाश: प्रथमः ॥१॥
अथ तपस्यातात्पर्यम्। एवं धर्मत्यागात्यागनिर्णयं कृत्वेदानीं तत्प्रसङ्गेन तपस्त्या- गात्यागनिर्णयं निरूपयितुं तपस्यातात्पर्यार्यं प्रकरणमारभते चतुर्भिः श्लोकैः, तत्रादौ त्याज्यत्वेनाधमां तपस्यां लक्षयति। कृता कपटभावेन दम्भलोभपरायणैः । हद्दे नगरमध्ये वा सा तपस्याऽधमा स्मृता ॥१॥ कृतेति। दम्भलोभपरायणैर्दम्भो लोककृतस्तुतीच्छया स्वतपस्वित्वख्यापनं लोभो द्रव्यादिपराप्तीच्छा तावेव परमयनं मनोनिवासो येषान्तैः कपटभावेन च्छलेन हट्टे व्यापारिजनद्ृदग्- गोचरस्थाने नगरमध्ये वा नगरग्रामादिषु मध्येपि कृता या तपस्या तपःक्रिया साडधमा निकृष्टा स्मृता प्रोक्ता मुनि- भिरिति शेषः, अतो नाङ्गीकार्या सेति भावः ॥१॥ मध्यमां काम्यतपस्यां लक्षयति। १०
Page 84
७४ बोधसारे।
वेदशास्त्रोक्तविधिना शीतोष्णादिसहिष्णुना। या कृता कामनापूर्व सा तपस्या तु मध्यमा ॥२॥ वेदेति। वेदशास्त्रोक्तविधिना वेदेन शास्त्रेण चोक्त्ेन वि- धिनाSSचरणेन शीतोष्णादिसहिप्णुना शीतोष्णादिसुखदुःख- सहनशीलेन कर्त्ा या कृता तप्ता कामनापूर्व कामनानिमित्तका च यथा तथा सा तपस्या तत्तपस्तु पूर्वविलक्षणा मध्यमा मु- मुक्षुभिर्नादरणीया सेत्यर्थः ॥२॥ उत्तमां मुमुक्षुग्राह्यां तपस्यां लक्षयति। मनसो निग्रहार्थाय परमार्थपरायणा। अकामा तत्वजिज्ञासोः सा तपस्योत्तमा मता॥३॥ मनस इति। तत्वजिज्ञासोरनारोपितात्मज्ञानेच्छोर्म- नसोऽन्तःकरणस्य निग्रहार्थाय वशीकरणमेवार्थस्तदर्थ तथा परमार्थपरायणा परमार्थो मोक्ष: स एव परायणं मुख्यं साध्यं यस्याः सा तथोक्ता, अकामैहिकपारलौकिकविषयेच्छाही- ना या सा तपस्या सा तपःक्रिियोत्तमा श्रेष्ठा स्मृता मुनि- भिरिति शेपः; अतो मुमुक्षुभिरियमन्तःकरणशुध्यर्थ्यमङ्गी- कार्येति भावः ॥ ३।। इदानीं पूर्वोक्ताभ्यो विलक्षणां जीवन्मुक्तेषु स्थितां ता स- र्वश्रेष्ठां लक्षयति। आगते स्वागतं कुर्याद्वच्छन्तं न निवारयेत्। यथाप्राप्तं सहेत्सर्व सा तपस्योत्तमोत्तमा ॥ ४ ॥ इति श्ीनरहरिकृतौ बोधसारे धर्मजिज्ञासाप्रकरणे तपस्यातात्पर्यम्॥२॥ आगत इति। आयाते प्राप्ते पुरुषे वा कस्मिंश्चित्पदार्थ
Page 85
वतव्यवस्था। ७५
स्वागतमादरं कुर्यात्क्रियतां गच्छन्तं गन्तारं पुरुषं वा कश्चि- त्पदार्थ न निवारयेन्न निरुन्ध्यात, किश्च यथा प्राप्तं येन सु- ररूपेण वा दुःखरूपेण प्रकारेण प्राप्तमागतं सर्वे सुखं दुःखं वा सहेत सोढव्यं सोक्तलक्षणा तपस्या तपश्चर्योत्तमोत्त- माऽतीवश्रेष्ठेयं जीवन्मुक्तेपु जीवन्मुक्तिस्थितिलक्षणरूपैवेति भाव:॥ ४ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी धर्मजिज्ञासार्थप्रकाशे तपस्यातात्पर्यार्थप्रकाशो द्वितीय. ॥२ ॥
अथ व्रतव्यवस्था। इदानीं मुमुक्षूणां ग्राह्य व्रतं निर्णेतुं व्रतव्यवस्थाख्यं प्रकः रणमारभते द्विश्लोरकं, तदेव व्रतं दर्शयति। परदारपरद्रव्यपरद्रोहविवर्जनम्। रागद्वेषपरित्यागो व्रतानामुत्तमं व्रतम् ॥ १ ॥ परेति। परदारपरद्रव्यपरद्रोहविवर्जनं परेषामन्येपां दारा: स्त्रियस्तथा परेपामन्येपां द्रव्याणि गृहधनादीनि तथा परे- पामन्येपां द्रोहो.Sनिष्टचिन्तनपूर्वकस्तदुद्योगस्तेपां विवर्जनं त्यागः, तथा रागद्वेपपरित्यागो रागो विषयस्नेहो द्वेपोऽप्री- तिस्तयोः परित्यागः सर्वथानङ्गीकार एतदेव व्रतानामेका- दम्युपवासादिवतानां मध्य उत्तगमतिश्रेष्ठं व्रतं नियमेनानुप्ठेय- मित्यर्थः ॥ १ ॥ अत्र पमाणमाह। तदुक्तं काशीखण्डे, तदुक्तमिति। तन्मन्निर्णीतमेव व्रतं काशीखण्डे ग्रन्थेप्युक्तं ज्ञेयं कथितमिति ज्ञेयमित्यर्थः ।
Page 86
७६ बोधसारे।
तत्रत्यं वाक्यमाह। 'परदारपरद्रव्यपरद्रोहपराङ्मुखः। गङ्गाप्याह कदागत्य मामयं पावयिष्यति' ॥ २ ॥। परेति। गङ्गापि सर्वान्पवित्रयितुं समर्थापि प्रसिद्धा गङ्रा परदारपर द्रव्यपरद्रोहपराङ्मुखः परदारेषु परस्त्रीषु परद्रव्येषु परधनेषु परद्रोहे परानिष्टचिन्तने च पराङ्मुखो निदृत्तो ड्पवृत्त इत्यर्थः अयं प्रसिद्धगुणः पुरुष आगत्यागतः सन्मां सर्व- जनसङ्गजन्यपापैर्मलिनां कदा कस्मिन्काले पावयिष्यति पवित्री- करिष्यतीत्याहैवं प्राह, अत एवोक्तं विश्वास्यमिति भावः॥२॥ इति थ्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थंदीसौ धर्मजिज्षासार्थप्रकाशे व्रतव्यवखार्थप्रकाश- स्तृतीयः ॥ ३॥
अथ वेषविचारः। इदानीं संन्यासादिवेषस्यैव मुक्तिहेतुत्वप्रसिद्धेस्तन्निर्ण- यार्थ वेपविचाराख्यं प्रकरणं त्रिश्लोकमारभते, तत्र तावन्मुक्ते- हेतृत्वं वेपे नास्तीत्याह। मुक्तिर्नास्ति जटाजूटे न काषाये न मुण्डने। न भस्मनि न कन्थायां तिलके वा कमण्डलौ।।१॥ मुक्तिरिति। जटाजूटे जटानां मुकुटवद्रचिते व्यूहे मुक्ति- मोक्षो नास्ति न विद्यते तथा काषाये गैरिकादिरंजिते वस्त्रे मु- क्तिर्न विद्यते मुण्डने शिखाशमश्चादिवपनेन विशिष्टवेषावधारणे मुक्तिरन विद्यते भस्मनि विभूतिलेपने मुक्तिर्न विद्यते कन्थायां
Page 87
षेपविचारः। ७७
वस्त्रखण्डादिनिर्मिते वसनादौ मुक्तिर्नास्ति तिलके वा गोपी- चन्दनादिना तिलके विशिष्टे धृतेपि तस्मिन्मुक्तिर्नास्ति कम- ण्डलौ मृदादिनिर्मिते पात्रे मुक्तिर्न विद्यते, एतेन सर्वेपि वेषा मुक्तिहेतवो न भवन्तीति सूचितमिति ज्ञेयम् ॥१॥ नन्वेते वेषास्तर्हि शास्त्रेपु विहिता: कुत इत्याशक्का सर्वा- ण्यपि वेषचिह्नानि मनोव्यापृतिसङ्कोचार्थवत्वेनेति तद्दारैवमृक्ति- साधनानि भवन्ति, तदभावे तु व्यर्थान्येवेत्याशयेनाइ। द्वेषेन ताड्यते सर्पो वृथा वल्मीकताडनम्। मनसो निग्रहो नास्ति वृथा कायस्य मुण्डनम्॥२॥ द्वेपेनेति। द्वेपेन शत्रुभावेन सर्पो भुजङ्गः केवलं ताड्यते मार्यते बुधैरिति शेष:, वल्मीकताडनं मृद्विकारस्य सर्पगृहस्य ताडनं मूर्खैः क्रियमाणं दण्डादिभिर्ईननमित्यर्थः, वृथा व्यर्थ निष्फलमेवेत्यर्थः, तथा मनसोन्तःकरणस्य निग्रहो व्यापारनि- द्ृत्तिर्नास्ति न विद्यते तर्हि कायस्य शरीरस्य मुण्डनं वेषा- न्तरधारणं तथा वृथा निष्फलमित्यर्थः ॥२॥ तर्हि शास्त्रेषु तत्र तत्र कुतो वेपमहिमा कृत इत्याशक्का वै- राग्येण चित्तविक्षेपन्यूनत्वार्थ न तु तदासत्त्या तद्ृद्धयर्थमि- त्याशयेनाह। चित्तविक्षेपशान्त्यर्थ जटाकन्थादिधारणम्। कुरुते वीतरागश्रेदुच्तमोत्तममेव तत् ॥ ३ ॥ इतिश्रीनरहरिकृतबोधसारे धर्मजिज्ञासाप्रकरणे घेषविचार:॥३। चित्तेति। वीतरागो वीता रागा विषयस्ने हादिवृत्तयो यस्य स निवृत्तस्नेहः पुरुपश्चित्तविक्षेपशान्त्यर्थ चित्ते मन-
Page 88
बोधसारे।
सि ये विक्षेपाः कार्यविशेषस्मृत्यादयस्तेषां शान्त्यर्थ नित्ृत्त्यर्थ जटाकन्थादिधारणं जटा असंस्कृतकेशाः कन्थाः जीर्णवस्त्रा- दिखण्डनिर्मिता आदिपदेन भस्मकमण्डल्वादयो गृह्यन्ते, तेपां धारणमङ्गीकारं कुरुते चेत्कर्त्रभिपायक्रियाफलार्थेनात्मनेपद प्रयोगेण दम्भादिना तद्धारणं निपिद्धमिति ज्ञेयं, तदेतादृशवेप- धारणमुत्तमोत्तममेवात्युत्तमं सफलत्वात्तद्विहितमिति भाव: ॥ ३ ॥। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ी धर्मजिज्ञासार्थप्रकाशे वेषविचारार्थप्रकाशश्चतुर्थः॥४॥
अथ मौनमीमांसा। इदानीं ग्राह्याग्राह्यत्वं मौनस्य निर्णेतुं मौनमीमांसाख्यं प्र- करणं चतुःश्लोकमारभते, तत्रादौ मौनभेदनिरूपणपूर्वकं तन्भे- देषु भेदद्रयं सलक्षणमाह। मौनं चतुर्विधं प्रोक्तं वाग्मौनं वाग्विनिग्रहः । ज्ञानेन्द्रियाणां संरोधस्त्वक्षमौनमुदाहृतम् ॥ १॥ मौनमिति। मौनं लोके प्रसिद्धं यन्मौनशब्देन तच्चतु- ्विधं शास्त्रे चतुःप्रकारं प्रोक्तं निरूपितं, तेपु प्रथममाह वा- गिति, वाग्विनिग्रहो वाचो वाण्या विनिग्रहो निरोधः स वा- औौनं वाच एव केवलं मौनं तूप्णीम्भावो वाझौननाम्ना शा- सष्वभिहितं, द्वितीयमाह ज्ञानेति, ज्ञानेन्द्रियाणां ज्ञानसाधनानिं रूपादिज्ञानकरणानि यानीन्द्रियाणि तेपां संरोधोऽवरोधः स्व- स्वविपयान्निवृत्तिरित्यर्थः, तुपदेनास्य पूर्वमौनादान्तरत्वं सूचि- तमिति ज्ञेयम्, अक्षमौनमक्षमौननाम्रोदाहृतं कथितम् ॥ १॥ तृतीयं मौनमाहार्घेन।
Page 89
मीनमीमांसा।
कर्मेन्द्रियाणां सरोधः काष्ठमौनं तु काष्ठवत्। गौणं तु त्रिविध मौनमुत्तमं तु मनोलयः ॥ २ ॥ कर्मेति। कर्मेन्द्रियाणां क्रियासाधनानि यानीन्द्रियाणि तेपां सरोधो गमनादिविषयेभ्यो निवृत्तिः, तुशब्देन पूर्वादेतस्य जाड्येन न्यूनत्वादग्राह्यत्वं सूचितं, तदेतदतिजाड्यात्काष्ठवत्- काष्टादिसदृशमतः काष्ठमनं काष्ठमौननाम्नाभिहितं शोस्त्प्वि- त्यर्थः, एतत्रितयस्याग्राह्यत्वं मुमुक्षणामाह गौणमिति, त्रि- विधं तु एतत्रिविधमपि मौनं गौणं निकृष्टमग्राह्यमित्यर्थः, इदानीं पूर्वत्रिविधमौनेभ्यो विलक्षणं मुमुस्ुग्राह्यं मौनमाहोत्तममि- ति, मनोलयस्तु मनसोन्तःकरणस्य जगत्मतीतिकारणस्य ल- योऽत्यन्ताभावः कालत्रयासत्वप्रतीतिरेवोत्तमं तमोनिवर्त्तक- त्वादतिश्रेष्ठमिदमेव मुमुक्षुभिर्ग्राह्यमिति भावः ॥२॥ एतदभावेन्यमौनेपु तल्लक्षणाभावं दर्शयति। न मौनी मूकतां यातो न मौनी दुग्धबालकः । न मौनी व्रतनिष्ठोपि मौनी संलीनमासः ॥ ३ ॥
नेति। मूकतां वागव्यापारहीनत्वं यातो गतो मौनी मौनवान्न न भवति वाचोवरोधे यदि मौनं भवेत्तर्हि मूकेपि त- त्मसक्तिरिति भाव:, किश्च दुग्धवालको दुग्धपानो वालको डिम्भो मध्यमपदलोपी समासो मौनी मौनवान्न न भवति केवल- कर्मेन्द्रियावरोधे मौनं स्यात्तर्हि विशेषकर्माभावेनेन्द्रियास- त्वाद्वालेपि तत्प्रसक्तिरिति भाव:, किश्र व्रतनिष्ठोपि व्रतेषु चान्द्रायणादिनियमेपु निष्ठा स्नरेहपूर्विकास्थितिर्यस्य सोपि मौनी मौनवान्न न भवति केवलज्ञानेन्द्रियव्यापाराभावे यदि मौन
Page 90
८० बोधसारे।
स्यासर्हि व्रतनिष्ठेपि तत्मसक्तिरिति भावः, तर्हि मौनी भवन्मते कस्तत्राह मौनीति, संल्लीनमानसः संलीनं का- लन्रयेऽसत्वमापन्नं मनोन्तःकरणं यध्य स तथोक्तो मौनी मोनवान्विश्ेयो नान्ये। ३ ॥ ननु लीनमानसे मौनित्वं न प्रसिद्धं लोके कापीत्याशक्काह। मुने र्भावस्तु मौनं स्याच्छन्दशास्त्रव्यवस्थया। मुनिभावो यर्हि नास्ति तर्हि मौनं निरर्थकम् ॥8॥ मुनेरिति। मुनेर्मननवतो भावः सत्ताऽडशयो वा मौनं मौननामकमर्थतः स्यान्निर्मनस्कत्वं मौनमित्युक्तं भवति, एवं शब्दशास्त्रव्यवस्थया शब्दशास्त्रं व्याकरणं तस्य व्यवस्था प्रकृति प्रत्यययोरर्थमर्यादा तया मौनशब्दार्थोयमेव, स मुनिभावो नि- र्मनस्करूपो यर्हि यदा नास्ति न विद्यते तर्हि तदा मौनं लोक- प्सिद्धं निरर्थकं व्यर्थ निष्फलमेवेत्यर्थः ।।४॥ इति श्रीनरहरिशिष्यदिवाककरविरचितायां बोधसारार्थदीप्ौ धर्मजिक्षासार्थप्रकाशे मौनमीमांसार्थप्रकाशः पश्चम: ॥५॥
अथ दानज्ञानम। दानस्यापि ग्राह्याग्राह्यविचारेण ग्राहं दानं ग्राहयितुं दा- नज्ञानाख्यमेक श्रोकमेत्र प्रकरणमाह, तत्र तावददानानां भेदमाह। कीर्ततिदानं कामदानं दयादानमिति त्रिधा। उत्तरादुत्तरं श्रेप्ठं तेभ्यः कृष्णार्पणं परम् ॥ १॥ कीर्तिदानमिति। कीर्तिदानं कीच्यैं थशोर्थे दानं यत्त-
Page 91
तपस्यातात्पर्यम्। ८१
दानमिदमधमं कामदानं कामेनेह परत्र वा मम फलमेतद्ानेन स्यादितीच्छया यद्ीयते तत्कामदानमिदं मध्यमं कामिनामेव तस्य विहितत्वाद्यादानं दयया मद्धनेन दारिद्यवतां केपां चि- त्सुखमेव भूयादितीच्छया यद्दीयते तद्दानं दयादानमिदं मुमुक्षु- भिरपि कर्त्तव्यमेवातः श्रेष्ठमित्यर्थः, इति एवं प्रकारणैतद्दानं त्रिया त्रिप्रकारकम्। पूर्वोक्ततय उक्तमधमत्वादि स्पष्ट- यति उत्तरादिति, उक्ततं त्रिविधदानमुत्तरात्पूर्वाद्धमादु- चरं श्रेष्ठ तस्मादुत्तरादपि उत्तरमुपरितनं श्रेष्ठमुत्तममुत्त- रोत्तरापेक्षया पूर्वपूर्वस्याधमत्वं पूर्वपूर्वापेक्षयोत्तरोत्तरस्य श्रैष्ठ्य- मिति भाव:, इदानीमत्युत्तमं दानं जीवन्मुक्तेषु स्थितमाह ते- भ्य इति, तेभ्यः पूवोक्त त्रिविधदानेभ्यः कृष्णार्पर्णं 'कृपिर्भूवा- चकः शब्दो णश्च निर्षृत्तिवाचकः। तयोरैक्य परं ब्रह्म कृष्ण इ- त्यभिधीयत' इत्युक्ततात्कृष्णस्य ब्रह्मणोऽर्पणं कृतदाने ब्रह्म- सत्ताया Sवलोकनरूपं 'नान्योतोस्ति द्रष्टा नान्योतोस्ति श्रोता नान्योतोस्ति विज्ञाते'त्यादिश्रुतिदृष्टया दातृप्रतिगृहीत्रादित्रिपु- टीवाधेन यद्दीयते तद्दानं कृष्णार्पणमित्युच्यते, तत्परमत्युत्तम मिदं जीवन्मुक्तेपु स्थितं मुमुद्ुभिस्तु साध्यमिति भावः ।। १॥ इति थ्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीती धर्मजिसार्थप्रकाशे दानक्षानार्थप्रकाशः पष्ठः॥६॥
अथ तीर्थनिर्णयं निरूपयितुं तीर्थतत्वाख्यं प्रकरणं श्षोक- चतुष्कमारभते, तत्र तावत्तीर्थमिति भ्रान्तिज्ञानं तत्यागार्थमाह द्वाभ्याम्। इदं तीर्थमिदं तीर्थमितस्तीर्थमतः परम्। इतो दूरंतर तीर्थ मया दृष्टं न तु त्वया॥ १॥ ११
Page 92
ट२ बोधसारे।
तब तीर्थफलं स्वल्पं मम तीर्थफलं महत्। इति भ्रमन्ति ये तीर्थ ते भ्रान्ता न तु तैर्थिकाः ॥२॥
इदमिति। इदन्तीर्थमिदं मत्पुरतो दृश्यते तदिदं कूपतडा- (युग्मम् )
गादिरूपमेव तीर्थमिति भ्रमेण तत्रैव कतिचिद्दिनानि स्थित्वा ततोन्यत्न तीर्थ श्रुत्वा तत्र पूर्वतीर्थेऽश्रद्धां कृत्वान्यतीर्थे गत्वेदं तीर्थ पूर्व यच्छुतं तदिदं तीर्थ पवित्रताकारक ममेति मत्वा किंचित्कार्ल तत्र स्थित्वेतस्तीर्थमितोप्यन्यत्तीर्थमस्तीति म- त्वा तथैव तत्र गत्वा च तत्नापि पूर्ववदतोस्मादपि तीर्था- त्पर श्रेठ्ठं तीर्थमस्तीति मत्वा तत्र गत्वा तत्रापि केनचिदित एतस्मात्तीर्थाहूरतरं तीर्थमतिदूरे वर्त्तमानं तीर्थ मानसा- दिकमपि अन्यच्छेष्ठमस्ति तन्मया दृष्टं तीर्थाधिकारिणा मयैव दृष्टं न तु त्वया न्यूनतीर्थस्नायिना भवता नैव दृष्टं तदतस्तव ते तीर्थफलं तीर्थानां फलं स्वल्पं न्यूनमस्ति मम मे तीर्थफलं तीर्थस्नानज पुर्ण्य महद्धहु अस्तीति एवं प्रकारेण ये पुरुषा- धमास्तीर्थ तीर्थाभास प्रति भ्रमन्ति गच्छन्ति मात्ं ते पुरुषा भ्रान्ता भ्रमणवन्त एव केवलं न तु नैव तैर्थिकास्तीर्थ स्वरूपविदस्ते- पां भ्रान्तिरेव फलं भ्रमणस्य नतु तीर्थफलमिति भावः ॥१।।२।। इदानीं तीर्थतत्वनिरूपणपूर्वकं तद्विद आह। तीर्थे पापक्षयः स्नानैस्तीर्थ साधुसमागमः । तार्थे वैराग्यचर्चा स्यात्तीर्थमीश्वरपूजनम् ॥ ३ ॥ तीर्थ इति। तीर्थे पुष्करादौ स्नानैरवगाहैरिदं चोपल- क्षण दानदेवपैत्रकर्मणां, पापक्षयः पापानां दुष्कृतकर्मरां क्षयो नाशो भवतीनि निश्चयः कार्यः, तीर्थे पुष्करादौ साधुसमागम:
Page 93
व्रतव्यवस्था। ८३
साधूनां विवेकिनां समागमः सङ्गतिः स्यान्मम भूयादिति निश्चयः कर्त्तव्यस्तदेव तीर्थमित्यर्थः, पूर्वतोपि उत्तरत्रादर: क- र्तव्य इति भाव:, तीर्थे सत्सङ्गरूपे तीर्थे वैराग्यं विषयवैरस्यं तस्य तत्पतिपादकशास्त्रस्य चर्चा निरूपणं स्याद्भवेदत्रापि पूर्वत आदरो विशिष्टो विधेय इत्याशयः, तीर्थ ततोपि पवित्र- कारकमीश्वरपूजनमीश्वरस्यान्तर्यामिणः पूजनं तल्क्षणैर्ज्ञान मस्ति पूर्वतोप्यत्रादरो विशेषः कार्य इति भावः ॥ ३ ॥ तीर्थ शीतोष्णसहनं तीर्थ निःसङ्गचारिता। इति जानन्ति ये तीर्थ तीर्थतत्व्रविदो हि ते॥४ ॥ इति श्रीबोधसारे धर्मजिज्ञासायां तीर्थतत्वासयं प्रकरणम्।।७।। तीर्थमिति। ततोपि तीर्वमन्तःकरणयुद्धिकारणं शीतो- ष्णसहन शीतं शैत्यजन्यं दुःखमुष्णं तापजन्यं दुःखं तदादि- द्वन्द्वसहिष्णुत्वमधिकं ज्ञेयं, किश्च तीर्थमन्तःकरणशुद्धिकरं निः सङ्गचारिता स्वासङ्गत्वानुभवस्तदेतेपूत्तरोत्तरं विशिष्टाद- रणीयत्वमेवेत्येवं ज्ञात्वा ये विवेकिन उक्तपकारेण तीर्थे यथार्थ तीर्थस्वरूपं जानन्ति विदन्ति ते हि ते एव नखवन्ये तीर्थतत्ववि- दस्तीर्थानामन्तकरणशुध्युपायभूतानां तत्त्वं यथार्थस्वरूपं वि- दन्ति ते तथा मन्तव्यास्तान्पृष्वा स्वयमपि तथा कर्त्तव्यमिनि भावः। इति थीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थद्ीतौ धर्मजिज्ञ।सार्थप्रकाशे तीर्थतत्वार्थप्रकाशः सप्तमः ॥ ७।
अथाचारचातुरी। आचारोपि ग्राह्यस्त्याज्यथ्रेति द्विविधोऽतस्तत्र ग्राहयं ग्रा- हयितुं त्याज्यं त्याजयितुमाचारचातुर्याख्यमेक्श्चोकं प्रकरण-
Page 94
बोधसारे।
मारभते, तत्र चानाचारनिपिद्धाचारयोर्लक्षणनिरूपणपूर्वक स- दाचारलक्षणं निरूपयति। अनाचारस्तु मालिन्यमत्याचारस्तु मूर्खता। विचाराचारसंयोगः सदाचारस्य लक्षणम् ॥ १ ॥ इति श्रीनरहरिकृतौ बोधसारे धर्मजिज्ञासायामाचारचातुरी॥८॥ अनाचार इति। अनाचारस्तु केवलमाचारत्याग एव प- त्यवायजनकलवादन्तःकरणशोधको न भवति प्रत्युत मालिन्यं मलिनत्वकारणमेव स्यादिति शेष:, किश्चात्याचारस्तु समी- चीनदृष्ठ्यान्येपां वर्णभेदेनाश्रमभेदेन वा श्रेष्ठानां य आचार: स स्वस्य मलिनत्वकारकत्वात्तस्मिन्प्रवत्तिश्रेत्सा मूर्खता मू- खत्वमेव, तत्तर्हि कः सदाचारस्तत्राह विचाराचारसंयोगो वि- चार: स्वस्य ग्राह्याग्राह्यविवेक आचारः स्वयोग्यकर्माचरणं तयोः संयोगः सहवर्तन तदेव सदाचारस्य प्रामाणिकाचरणस्य लक्षणं चिह्नं ज्ञेयमिति शेष:, तथा स्वयमपि ज्ञात्वाचरेति भावः॥१॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी धर्मजिज्ञासार्थप्रकाशे आचारचातुर्याख्यप्रकरणार्थ- प्रकाशोऽष्टमः ॥ ८।।
अथ रागत्यागात्यागनिर्णयः। एवं सभेदां धर्मजिज्ञासां निरूप्येदानीं वैराग्यस्य मुक्ति हेतुत्वप्रसिद्धेस्तथापि वाह्यत्यागमात्रेण कृतार्थता न स्यादिति ज्ञापयितुं रागत्यागनिर्णयाख्यं पटश्लोकं प्रकरणमारभते, तत्र तावद्वाह्यत्यागमात्रस्य वैराग्यत्वेतिप्रसङ्गदर्शनपूर्वकं मुख्यवै- राग्यलक्षणमाह।
Page 95
घेषविचारः। ८५
न विरक्ता धनैस्त्यक्ता न विरक्ता दिगम्बराः । विशेषरक्ताः स्वपदे ते विरक्ता मता मम ॥ १ ॥ नेति। धनैर्द्रव्यैस्त्यक्ता रहिता विरक्ता वैराग्यवन्तो न न भवन्ति केवलबाह्यधनादित्यागमात्रं विरक्त्तलक्षर्ण चेनिर्द्रव्येषु तत्प्रसक्तिरिति भावः, किंच दिगम्बरा न- ग्रा न विरक्ता वैराग्यवन्तो न भवन्ति नग्नत्वमेव वैराग्यल- क्षणं चेद्वालादिपु तत्पस्तिरिति भावः, तर्हि विरक्ताः के तत्राह विशेषेति, ये पुरुपाः स्वपदे स्वस्वरूपे वा स्वाधिकारा- नुरूपे स्वस्वभावानुकूल्येन पाप्ते वा वर्णाश्रमाद्याचाररूपे कर्मणि वा विशेपरक्ताः स्वस्वरूपस्थितिमविस्मृत्य बाधितत्वदृष्ठ्या वर्त्तमाना अपि लोकद्ृष्टयाऽऽसक्ता इव स्थिता: स्वरूपे तु अ- त्यन्तासक्ता एव ते एतादृशा मे मम मद्दृष्टयेत्यर्थः, विरक्ता वैराग्यवन्तो मता निश्चिता न तु बाह्यत्यागमात्रेण वैराग्य- वन्तो भवन्तीति भावः ॥ १ ॥। बाह्यत्यागमात्रेण वैराग्याभावमेवोदाहृत्य दर्शयति द्वाभ्याम्। चौरस्त्यजन्ति गेहं स्वं भयेनैव न बोधतः । जारास्त्यजन्ति गेहं स्वं कामेनैव न बोधतः ॥ २ ॥ चौर इति। चौरस्तस्करः कदाचित्स्वकर्मणः पाकट्येन राजादिभयात्स्वं स्वीयं गेहं गृहमुपलक्षणं चैतत्कुट्ुम्बक्षेत्रवि- नादेः, सर्वमित्यर्थः, त्यजति परित्यज्य गच्छति स तस्य त्यागो भयेनैव दण्डादिभीत्यैव केवलं न बोधतो न तु ज्ञानेन, केवलं गृहादित्यागमात्रेण बोर्धं विना विरक्तश्ेचौरेपि तत्सक्तिरिति भाव:, किश्च जाराः परस्त्रयासक्ता उपपतयः स्वकर्मणः प्रा-
Page 96
८६ बोघसारे।
कट्ये परस्त्रियं गृहीत्वा त्यत्का वा स्वं स्वीयं गेहं गृह स्वगृह- कुटुम्बपुत्रक्षेत्रवित्तादि सर्वमपीत्यर्थः, त्यजन्ति परित्यज्य गच्छ- न्ति देशान्तरं स त्यागः कामेनैव कामनिमित्तक एवं स न बोधतो न तु ज्ञानेन, ज्ञानं विना केवलगृहादित्यागमात्रेण विर- क्तत्वे जारेष्वपि तत्प्रसक्तिरिति भावः ॥२॥ क्रुद्वस्त्यजति गेहं स्वं प्रतिवादिविरोधितः । रुद्स्त्यजति गेहं स्वं रोधेनैव न बोधतः ॥ ३ ॥ क्रुद्ध इति। क्रुद्धः करोधवान्स्वं स्वीयं गेहं गृह सर्वमि- त्यर्थः, त्यजति परित्यज्य देशान्तरं गच्छति स त्यागः प्रतिवा- दिविरोधतः स्ववन्धुजनविरोधेन वा परकीयशवुजनविरोधेन वा न तु वोधेन वाह्यगृहादित्यागमात्रेण विरक्तत्वे कोधिष्वपि तत्प्रसक्तिरिति भाव:, किश्च रुद्रो निगडादिना कारागृहेऽव- रुद्ध: स्वं स्वीयं गेहं गृहं धनादिसर्वमपीत्यर्थः, त्यजति परित्य- ज्य गच्छति देशान्तरं स त्यागो रोधेनैवावरोधनिमित्तक एव न वोधतो न तु ज्ञानेन, तथा च वाह्यत्यागमात्रेण विरक्तत्वे रुद्धत्यागेपि तत्प्रसक्तिरिति भावः ॥ ३॥। एवं बोधाभावे त्यागासिद्धिं प्रदर्श्य वोधे सति तु त्याग: सिद्ध एवेति वाह्यत्यागेनात्यागेन वा न किश्चित्मयोजनमित्याह। निःसङ्गतासुखं प्राप्ताः कया चिद्वोधलीलया। गृहं त्यजन्ति मुनयो गृहस्था वाबने स्थिताः॥४।। निःसङ्गतेति। कया चिदनिर्वचनीयया विद्वदनुभवगम्यया बोधलीलया ज्ञानमेव लीलाSनायासचेष्टा तद्रपया निःसङ्गता- सुखमसङ्गसुखं प्राप्ता गताः सन्तो मुनयो विवेकिन: गृहं गृ-
Page 97
मौनमीमांसा।
हादिकं सर्वे त्यजन्ति मिथ्येत्यनुभवन्ति, ततश्व गृहस्था गृहे एव स्थिता वा वने स्थिता गृहादि त्यत्क्का वनादुपलक्षिते स्थाने स्थितास्त उभयेपि समाना एवेत्यर्थः ॥४॥ अस्मिन्नर्थे वृद्धसंमतिमाह । तदुक्तम्। तदुक्तमिति, इदमेवोक्तं द्धैरित्यर्थः, तद्वाक्यं पठति। 'मूढः किं त्यजतु प्रमत्तमनसस्त्यागेन वा किं फलं। विज्ञः कर्म करोतु वा न कुरुतां त्यागेऽवलिप्तो न यत्। इत्येवं कृतनिश्चयः प्रवचनैरद्वैतविद्यावतां। रागत्यागनिरादरो मुनिजन: पारे गिरां खेलति॥५॥ मूढ इति। मूढो मूर्खः किं किमपिवस्तु त्यजतु नाङ्गीक- रोतु प्रमत्तमनसः प्रमर्त्त कार्याकार्यविचारहीनं मनोन्तःकरणं यस्य तस्य कृतेनापि त्यागन वैराग्येण किं फल न किमपि फलं तादृशत्यागस्य तस्येत्यर्थः, तुपकण्डनवञ्चर्थमेव तदिति भाव :; किश्च विज्ञः कर्तृत्वादिमिथ्याज्ञानवान्तस्मिन्सर्वस्यापि वाधि- तत्वात्स कर्म क्रियां करोतु आचरतु वा न कुरुतां नाचरतु तदुभयमपि तस्य सममित्यर्थः, कुत इत्यत आह यद्यस्मात्कार- णाच्यागेपि कर्मानाचरणेऽपिशब्दात्तदाचरणेपि अवलिप्ंः कर्तृत्वाकर्तृत्वरूपलेपवान्न भवति अतस्तम्य त्यागात्यागौ स- मावेवेति भाव:, इत्येवमनेन प्रकारेणाद्वैतविद्यावतामद्रैतज्ञानिनां पवचनैः स्वोपदेशकवाक्यैः कृतनिश्वयो दृढनिश्चयवान्मुनिजनो विवेकिसार्थो रागत्यागनिरादरो रागः स्नेहस्त्यागस्संन्यास- स्तयोरादररहितः सन्गिरां विध्यतीतत्वाद्वेदवचसां पारेऽगोचरे ब्रह्मणि खेलति कदाचित्कर्मणा कदाचित्यागेन वा क्रीडति
Page 98
८८ बोधसारे।
न तूभयमपि तस्य गुणकृतदोपकृद्वा स्यादिति भावः ॥५॥ उक्तमुपसंहरति। इत्ययं योगयुक्तानां रागत्यागविनिर्णयः । त्यजतैव हि तज्ज्ञेयमिति वेदान्तनिर्णयात् ॥६॥ इति श्रीनरहरिकृतौ बोधसारे रागत्यागात्यागनिर्णयः ॥६॥ इतीति। योगयुक्तानां जीवात्मैकत्वज्ञानमेव योगस्तद्वता- मयमुक्तलक्षणो रागत्यागविनिर्णयो रागस्य स्नेहस्य त्यागः संन्यासस्तस्य विनिर्णयो विनिर्णीयते डनेति विनिर्णयः प्रकरणमिति समाप्तमित्यर्थः, नन्वेतन्निरूपणस्य किं कारणम- त्रेत्यत आह त्यजतेति, यस्माद्धि वेदान्तनिर्णयाद्वेदान्तो ब्रह्मा- त्मैकत्वं तन्निर्णीयतेनेनेति वेदान्तनिर्णयमुपनिपत्सूत्रवार्ति- कादिकं तच्छ्वणादिव्यापारादित्यर्थः, त्यजतैव त्यागं कृतवतै- वात्मरूपं तद्ययार्थ ज्ञेयं ज्ञातुं शक्यमस्ति नात्यागवतेति अतो हेतोस्त्यागनिर्णयः प्रोक्त इति भावः ॥६॥ इति श्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थदीपौ रागत्यागविनिर्णयार्थप्रकाशः पष्ठः ॥६।।
अथाधिकारपरीक्षा। एवं रागत्यागनिर्णयं निरूप्येदानीं यत्र धर्मे येन प्रवर्ति तव्यमधिकारिणा तज्ज्ञानार्थमधिकारपरीक्षाख्यं पद्श्लोकं प्र- करणमारभते, तत्रादौ धर्माणां बहुत्वादधिकारिणोपि बहुत्वं त- चद्धर्माधिकारिनिरूपणार्थमाह। धर्मा बहुविधाः प्रोक्ताः शास्त्रे धर्माधिकारिणाम्। तत्र तीव्रा मुमुक्षैव मोक्षे मुख्याधिकारिता ॥ १॥
Page 99
अधिकारपरीक्षा। ८९
धर्मा इति। शास्त्रे वेदे धर्माधिकारिणां यत्र यत्र धर्मे ये- पामधिकारोस्ति तेपां बहुविधा अनेकप्रकारा धर्माः मोक्ताः सन्तीति शेपः, तत्र मोक्षधर्मेधिकारिणमाह तत्रेति, तत्र धर्मेषु मध्ये मोक्षे मोक्षधर्मे तीव्रा फलपर्यवसाना मुमुक्षैव मोक्षेच्छैवा- Sधिकारिताऽधिकारित्वं मतोक्ता मुनिभिरिति शेषः ॥१॥ इदानीमन्यधर्मेषु अधिकारिनिरूपणपूर्वकं पुनरपि मोक्ष- धर्माधिकारिणमाह। ज्योतिष्टोमे स्वर्गकामो विवाहे पुत्रकामवान्। वाणिज्ये लोभवान्मोक्षे मुमुक्षुरधिकारवान् ॥ २॥ ज्योतिष्टोम इति। स्वर्गकाम: स्वर्गसुखे काम इच्छा यस्य स ज्योतिष्टोमे ज्योतिष्टोमनान्नि यज्ञेऽधिकारवानधिकारी ज्ञेयः, विवाहे स्त्रीपरिणयनादिकर्मणि पुत्रकामवान्पुतेऽपत्ये काम इच्छा यस्य विद्यते सोऽधिकारी ज्ञेयः, किश्च वाणिज्ये व्यापारकर्मणि लोभवान्धनलोभ्यऽधिकारवानधिकारी ज्ञेयः, मोक्षे मोक्षसाधनभूते कर्मणि मुमुक्षुर्मुक्तीच्छावानधिकार- वानधिकारी ज्ञेयः॥ ३॥ ननु मोक्षधर्माधिकारिणा मुमुक्षुणा बुद्धिमान्दे सति कुत्र प्रवर्त्तितव्यं तत्राह। तीव्रा मुमुक्षा यद्यर्ति प्रज्ञामान्दं च वर्त्तते। सच्छास्त्रविद्वच्चर्चाभिः प्रथमं तन्निवारयेत् ॥ ३ ॥ तीत्रेति। यदि य्हि तीत्रा वेराग्यादियुक्ता दृढा मुमुक्षा मोक्षेच्छास्ति विद्यते प्रज्ञामादं च बुद्धेर्मन्द्ेनार्थधारणासा- मर्थ्यमपि वर्त्ततेस्ति यस्य सोधिकारी प्रथममादौ सच्छास्त्र १२
Page 100
९० बोधसारे।
विद्वच्चर्चाभि: सच्छास्त्राणि वेदान्तग्रन्था विद्वांसो वेदान्तता- त्पर्यानुसन्धानपूर्वकं स्वमात्रनिष्ठास्तेपां तैः सह वा चर्चाभि: प्रश्नपूर्व तदुत्तरं विचार्याज्ञाते पुनः प्रश्नादिरूपास्ताभिस्त- द्रुद्धिमौढ्यं निवारयेन्निराकुर्यादेवं बुद्धौ सर्वपदार्थधारणसा- मर्थ्य संपादयेदिति भावः ॥३॥ ननु तीव्रमुमुक्षायां सत्यामपि बुद्धिमान्धे च विद्यमाने वेद- श्रवणानधिकारिणा शूद्रादिना कथ बुद्धिमान्यं निवार्य, मोक्षे प्रधानसाधनभूतं ज्ञानं च कथ संपादं तत्राह। वेदे नास्त्यधिकारोस्य मुमुक्षा यदि वर्त्तते। विचारस्तेन कर्त्तव्यः पुराणश्रवणादिना ॥ ४ ॥ वेद इति। अस्य मुमुक्षोः शूद्रादेर्वेद उपनिषदादिश्र- वणेऽधिकारो योग्यता नास्ति न विद्यते परन्तु मुमुक्षा मो- क्षेच्छा यदि यर्हि विद्यतेस्ति तर्हि तेन वेदश्रवणानधिका- रिणा शूद्रादिना विचारः श्रवणमनननिदिध्यासनरूपः पुरा- णश्रवगादिना पुराणानां भागवतादीनां श्रवणमादिर्यस्य मननादेस्तत्तथा तेन, अनेनेदानीन्तनग्रन्थभाषाग्रन्थादिसर्वमुप- लक्ष्यंत तेनेत्यर्थः, कर्त्तव्यः कुर्यात् ॥४॥ नतु वेदश्रवणजं ज्ञान पुराणश्रवणेन कथ स्यात्तताह। यदेव वेदे कथितं पुराणेपि तदेव हि। न तु वेदाक्षरं श्राव्यमिति भाष्ये विनिर्णयः ॥५॥ यदिंति। वेद उपनिषदादिरूपे ज्ञानप्तिपादकभागे यदेव यञ्च ज्ञानं कथितं प्रतिपादितमस्ति पुराणेपि पुराणशब्दवाच्य आर्षग्रन्थे वासिष्ठादौ तदेव वेदोक्तं ज्ञानमेवास्ति नान्य-
Page 101
सत्सङ्गसुधा। ११
त्कथितं हि निश्चये, ननु वेदोक्तमेव ज्ञानं पुराणेष्वप्यस्ति चे- द्वेदश्रवणं कुतो निपिध्यते तत्राह नत्विति, वेदाक्षरं वेदानामुप- निपदामक्षरं वर्णा जातावेकवचनं न तु नैव श्राव्य श्रोतव्य- मिति एवंप्रकारो भाष्यविनिर्णयो भाप्ये शारीरके विनिर्णयो निर्णीतोर्थोस्ति अतो मया निषिध्यत इति भावः ॥५॥ ननु मास्तु वेदश्रवणेधिकारो वेदश्रवणे कृते तु ज्ञानं स्यादेवेत्याशक्काविहितकरणे फलं न स्यात्मत्युत दोष एव स्यादित्याह। यथाधिकारविहितं कर्म सिध्यति चान्यथा। कार्यसिधिर्न जायेत प्रत्यवायो महान्भवेत् ॥६॥ इति श्रीनरहरिकृतौ बोधसारेऽधिकारपरीक्षा ॥७॥ यथेति। यथाधिकारविहितं स्वाधिकारमनुल्लङ्ख्य यत्तद्था- धिकारं तच्च तद्विहितं चेति तत्तथा कर्म क्रिया सिध्यति फलति अन्यथा स्वाधिकारमुल्लङ्म्य परविहितं कर्म कृतं चेत्कार्य- सिद्धिः कार्यस्य कर्मणः सिद्धिः फलं न जायेत न भवेत्मत्युत महाननिवार्यः प्रत्यवायो दोषो भवेत्स्यादत आग्रहो- नधिकारिणान्यविहिते कर्मणि न कार्य इति भावः ॥६॥ इति थ्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीता- घधिकारपरीक्षार्थप्काशः सप्तमः ॥७॥
अथ सत्मंगसुधा। एवमधिकारिमेदनिर्णयेन तत्तत्कार्यनिर्णयं विधायेदानी सर्वसाधनमुख्यज्ञानकारणभूतं सत्सङ्गं विधातुं तत्पशंसार्थ स- त्स ङ्रसुधाख्यमष्टश्चोकं प्रकरणमारभते, तत्रादौ सत्सङ्गेन मनसि सुखाविर्भावे स्वमोहमुक्ति: स्यादेवेति निश्चेतव्यमित्याह।
Page 102
१२ बोधसारे।
सत्संगसुधया तात मन आनन्दितं यदा। निश्चेतव्यं तदा मोहान्मम मुक्तिर्भविष्यति ॥ १॥
सत्सङ्गेति, हे तात सत्सङ्गसुधया सतां विवेकिनां सङ्ग: स ङ्तिः स एव सुधाऽमृतं सुखदत्वान्मतिनिवर्त्तकत्वाच्चेति भाव:, तथा मनोन्तःकरणं यदा यस्मिन्काल आनन्दित सञ्जातसुखं स्यात्तदा तस्मिन्काले मम मे मोहादज्ञानान्मुक्तिर्मोक्षो भविष्यति स्यादिति निश्चेतव्यं निश्चयः कार्यः, सत्सङ्गपेमैव मुख्यं भावि- मोक्षस्य चिन्हमिति भावः ॥ १ ॥ नतु सत्स्वन्यसाधनेषु किं सत्सङ्गत्या तत्राह। साधनानां हि सर्वेषां वरिष्ठा साधुसङ्गतिः । एतया सिद्धया सिद्धं सर्वमेव हि साधनम् ॥२॥ साधनानामिति। सर्वेषां समस्तानां साधनानां साधन- भूतानां करणानां मध्ये साधुसङ्गतिः साधूनां सज्जनानां स- ङ्रतिः सङ्गो वरिष्ठा श्रेष्ठा सैव सर्वसाधनमूलमित्यर्थः, तदेव र्पष्टयति एतयेति, एतया सत्सङ्गत्या सिद्धया जातया सर्वे साधनं समस्तसाधनजातं सिद्धं प्राप्तं हस्तगतमिति यावन्भवति जायतेऽतः सत्सङ्ग एव सर्वसाधनेषु श्रेष्ठतर इति भावः ॥२॥ ननु सतां किं लक्षणं येषां सङ्गे विधीयते तत्राह। शश्वदीश्वरभक्ता ये विरक्ताः समदर्शनाः । साधवः सेवितव्यास्ते मोक्षशास्त्रविशारदाः ॥३॥ शश्वदिति। ये पुरुषाः शश्वन्निरन्तरमीश्वरभक्ता ईश्व- रस्य शिवस्य विष्णोर्वा भक्ता दासा: सेवका इत्यर्थ:, वि-
Page 103
सत्स ङ्गसुधा। ९३
रक्ता ईश्वरातिरिक्ताखिलपदार्थेषु वैराग्यवन्तः समदर्शिनः समं ब्रह्म पश्यन्ति साक्षादनुभवन्ति ते तथा मोक्षशास्त्रविशा- रदा मोक्षस्य मोक्षसाधनज्ञानस्य च प्रतिपादकं यच्छास्त्रं वे- दान्तास्तस्मिन्विशारदाः पदपदार्थविदस्ते साधवः परकार्य- साधने दक्षास्ते सेवितव्याः सेवितुं योग्यास्तेपां सेवा का- र्येति भावः॥। ३।। अन्यान्यपि साधुलक्षणान्याह चतुर्भि: । येषां दर्शनमात्रेण मोक्षे श्रद्धा विवर्धते। येषां च वाग्विलासेन संशयो विनिवर्त्तते॥ ४॥ येषामिति। येषां पुरुषविशेषाणां दर्शनमात्रेण केवलं द- शनेनैव मोक्षे मोक्षशास्त्रे श्रद्धा विश्वासो विवर्धते दृद्धा भवति, किश्च येपामिति, येपां च पुरुषविशेषाणां वाग्विलासेन प्र- श्नप्रत्युत्तरवचनरूपक्रीडयैव संशयः सन्देहो विनिवर्त्तते नि- छृत्तो भवति ॥ ४॥ किश्च। उपक्रमादितात्पर्यलिङ्गैस्तात्पर्यनिर्णयः । विशेषसामान्यतया शास्त्रार्थानां व्यवस्थितिः॥५॥ उपक्रमेति। उपक्रमादितात्पर्यलिङ्गैरुपक्रमः प्रकरण- प्रतिपाद्यस्य वस्तुनः प्रकरणारम्भ उद्देशः स आदिर्येपा- सुपसंहाराभ्यासापूर्वताफलार्थवादोपपत्तीनां तानि उपक्रमादि- तात्पर्यलिङ्गानि तात्पर्यस्य सर्वप्रकरणार्थस्यावद्योतकानि चि- ह्वानि तैस्तात्पर्यनिर्णयस्तात्पर्यस्य प्रकरणप्रतिपाद्यार्थस्य नि- ्णयो निर्णीयते निश्चीयतेनेनेति निर्णयो निश्चयो येपां वाक्या- दवाप्यते इति तृतीयस्थेन सहान्वयः, तथा शास्त्रार्थानां व्यव- स्थितिः शास्त्राणां सर्ववाक्यानामर्था विषयास्तेपां व्यवस्थि-
Page 104
९४ बोधसारे।
तिर्व्यवस्था विशेषसामान्यतया केपां चिद्विशेपत्वेन केषांचि- त्सामान्यत्वेन सर्ववाक्यानां स्वस्वार्थेप्रतिबोधकत्वेप्येकार्थपरि- निष्ठत्वमित्यर्थः, इयं व्यवस्थितिर्येषां वाक्यादवाप्यते ॥५॥ किश्न। वेदशास्त्राविरोधेन मोक्षमार्गप्रवेशनम् । संप्रदायपरिज्ञानं मतभेदविनिर्णयः ॥ ६॥ वेदेति। वेदशास्त्राविरोधेन वेदा ऋगादयः शास्त्राणि मीमांसादीनि तेपामविरोधेन विरोधपरिहारेण मोक्षमार्गप्रवे- शनं मोक्षस्य मुक्तेर्मर्गे साधनभूते ज्ञाने प्रवेशनं प्रविश्यतेनेनेति प्रवेशनं प्रटत्तिज्ञानं करणे ल्युड्, येषां वाक्यादवाप्यते, किश्न् मतेति, मतभेदपरिज्ञानं मतानां शैववैष्णवादीनां भेदस्य वैल- क्षण्यस्य परिज्ञानं यथार्थसम्यग्बोधो येषामिति पूर्ववत, किश्न संप्रदायेति, संप्रदायविनिर्णयः शैववैष्णवादिमतप्रवर्त्तकानामा- शयनिर्णयो यथार्थस्फुरणं येषामिति पूर्ववत् ॥ ६॥ केन प्रकारेणावाप्यते तदाह। पर्वोत्तराभ्यां पक्षाभ्यां येषां वाक्यादवाप्यते। ज्ञानिनः कर्णधारास्ते सेवितव्या हि साधनः॥७॥ पूर्वोत्तराभ्यामिति। पूर्वोत्तराभ्यां पक्षाभ्यां स्वकतेन पू- र्वपक्षेण वक्तश्चोत्तरपक्षेण च येपां पुरुपविशेषाणां वाक्यात्सं- वादादिरूपाद्वचनविल।सान्पूर्वोक्तं सर्वमवाप्यते ्राप्यते ते ज्ञानिनो जीवब्रह्मैक्यज्ञानवन्तो लौकिकव्यवहारे सम्यग्ज्ञानव- न्तश्च कर्णधाराः संसारसमुद्रे मुमुक्षञज्ञाननाव्यारोप्य तारका: साधवः परकार्यसाधनप्रयोजनास्ते सेवितव्याः सेवितुं यो- ग्या ज्ञेयाः ॥ ७॥
Page 105
समन्वयसरखती।
अस्मिन्नर्थे गीतावाक्यं प्रमाणयति। तथा च गीता। तथाचेति। इममर्थ गीताप्याहेत्यर्थः, केन वाक्येनेत्या- शङ्का तदाह । तद्विद्ि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥८।। इनि श्रीनरहरिकृतौ बोधसारे सत्सङ्गसुधा ॥८॥ तदिति। हे अर्जुन तज्ज्ञानं ज्ञेयं च प्रणिपातेन प्रणामेन परिप्रश्नेन प्रश्नादिवार्त्तिया सेवया तेषां प- रिचर्यया विद्धि जानीहि लभस्व वा तेभ्यो ज्ञानप्राप्तौ सन्देहो न कर्त्तेव्य इत्याहोपदेक्ष्यन्तीति, ते साधवो ज्ञानिनो ज्ञान- वन्तस्तत्वदर्शिन अनांरोपितमेव स्वरूपं पश्यन्ति ते तथा ज्ञानं ज्ञानसाधनमुपदेक्ष्यन्ति उपदेशं करिष्यन्तीत्यर्थः ॥८॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीती सत्सङ्गसुधार्थप्रकाशोऽष्टमः ॥।८।।
अध समन्वयसरस्वती। एवं सर्वसाधनानां प्रधानकारणभूतसत्सङ्गकर्त्तव्यतां वि- धायेदानीं सर्वशास्त्राणां वेदान्तानुकूल्यं दर्शयितुं तत्तद्वारेणो- पयोगनिरूपणार्थ समन्वयसरस्वत्याख्यं पद्श्चोकं प्रकरणमा- रभते, तत्नादौ निरूपपितव्यप्रकरणश्रवणे श्रद्धां जनयितुं फल- प्रदर्शनेन शिप्यं तदभिमुखीकरोति। अवगाह्या विशेषेण समन्वयसरस्वती । जायेत मतभेदाख्यपङ्कप्रक्षालनं यया ॥ १ ॥
Page 106
९६ बोधसारे।
अवगाह्येति। हे शिष्य भवताऽन्यैश्चाधिकारिभिः स- मन्वयसरस्वती सम्यगेक्मिन्नेवार्थेऽन्वयः तात्पर्यवोधकः सम्बन्धो यस्याः सा सरस्वती भारती वाग्रूपा विशेपेण पर- मादरेणाऽवगाह्या विचार्या, ननु समन्वयसरस्वत्यवगाहनेन किं फलं तत्राह जायेतेति, यथा समन्वयसरस्वत्या मतभेदाख्य- पङ्कप्रक्षालनं मतानां व्याकरणादिशास्त्रप्रतिपाद्यानामर्थानां भेदो भेदप्रतीति: सैवाख्या नाम यस्य तदेव पङ्को मलस्तस्य प्रक्षालन निवर्त्तनं जायेत भवेदिदमेव फलं तस्येति भावः ।।१।। एवं फलदर्शनेनैतत्प्रकरणं श्रोतुं सन्मुखीकृत्येदानीं सर्व- शास्त्राणां ब्रह्मणि समन्वयं वक्तुं प्रथमं मोक्षे यानि साध- नानि तान्याह। पदं पदार्थो वाक्यार्थस्तत्वानि मनसो यमः । महावाक्यार्थविज्ञानं साधनानि क्रमेण हि॥ २॥ पदमिति। पद सुप्तिडन्तं प्रसिद्धं पदमेकं, 'सुप्तिङनतं पदमि'ति सूत्रितत्वात्पदार्थो पदस्य वाच्यो लक्ष्यो वार्थो द्वितीयं, वा- क्यार्थः पदसमूहो वाक्यं सक्रियापदमित्युक्तलक्षणस्य वाक्य- स्यार्थस्तात्पर्य तृतीयं, तत्वानि प्रकृतिपुरुषौ द्वौ महदादयः सप्त मनआदयो विकारा: पोडशैवं पश्चविंशतिसंख्यानि चतुर्थ, म- नसो यमश्चित्तस्य निरोधाख्यो योगः पञ्चमं, महावाक्यार्थ- विज्ञानं महावाक्यानि तत्त्वमस्यादिवाक्यानि तेपामर्थो जीवव्र- ह्मणोरेकत्वरूपस्तस्य विज्ञानमनुभवः पष्ठम्, एतानि पद्साध- नानि मोक्षस्य कारणानि क्रमेण क्मतो हि प्रसिद्धानि वि- दुपामित्यर्थः ॥ २ ॥ तेषु सर्वसाधनेषु सर्वशास्त्राणामुपयोगनिरूपणं प्रतिजानीते।
Page 107
सूचौपत्रम्। गणपाठ: ०४ गोलप्रकाश: २ ८
गंगालहरी १ गुरसारणी जातकतत्वम् १२ तत्वदीप १ तर्कसंग्रह: १ ६ O
V दत्तकमीमांसा धर्म्मशास्त्रसंग्रह: १ O ६ (शिला -) ) २ O धातुपाठ: O धातुरूपावली २ O ६ नैपध चरित नारायणी टीका टाइप 0 aC
परिभाषापाठ: O पाणिनीयशिक्षा भाष्यसहिता O २ प्रथम परीक्षा २ O प्रथमपुस्तक हिन्दी १ प्रश्नभूषणम (प्रश्न विचार का बहुत उत्तम ग्रन्थ ) O वीजगणितम् (म० म० पं० सुधाकरकृतटिप्पणीसहित) १ ४ भट्टीकाव्य ५ सर्ग ६ मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता ४ लक्षणावली २ लीलावती (म० म० पं० सुधाकरकृतटिप्पणीसहित) १ घसिष्ठसिद्धान्त: १ ६ घार्तिकपाठ: विष्णुसहस्रनाम १ शब्दरूपावली १ ६ शृङ्गार सप्तशती १ समासचक्रम् १ समासचन्द्रिका १ O
सरस्वतीकण्ठाभरणम् ३ साङ्गयचन्द्रिका टिप्पणीसहिता O साङ्गयतत्त्वकीमुदी ६ सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता ३ उपसर्गवृत्ति १
Page 108
विज्ञापनम् । 1:o :-
इयं पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केिदङ्गलभापानुघा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति। तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये पि विद्वांस: शोधयन्ति। यैर्गा- हकमहारायैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- ककस्य खण्डस्य ।।) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशयैर्येः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां १) मूल्यं प्रापणव्ययश्च =)देय इति॥ तत्र मुद्रिता ग्रन्थाः । आ० सिद्धान्ततत्त्वविवेक: खण्डानि ५ O अर्थसङग्रहः अंग्रेजीभाषानुवादसहितः १ तन्त्रवार्ततिकम् खण्डानि १३ १३ 0 कात्यायनमहर्षिप्रणीतं शुक्कयजुःप्रातिशाख्यम् सभाष्यं ६ 0 सांख्यकारिका चन्द्रिकाटीकागोडपादभाष्यसहिता १ 0 वाक्यपदीयम् खण्ड़ानि ३ ३ रसगङ्गाधरः खण्डानि ९ परिभाषावृत्ति: खण्डे २ २ O वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्ड २ २ 0 शिक्षासङ्ग्रह: खण्डानि ५ ५ नैष्कर्म्यसिद्धि: खण्डानि ४ ४ महर्षिका त्यायनप्रणीतं शुक्कयजुस्सर्वानुक्रमसूत्रम सभाष्यं ३ ऋुग्वेदीय शौनकप्रातिशाख्यं सभाध्यम् खण्डानि ४ (बृहत्) वैयाकरणभूषणम् पदार्थदीपिकासहितम् ४ विवरणोपन्यासः सटीकवाक्यसुधासहित: खण्डे २ २ तत्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम ) वेदान्तदीप: (श्रीभगवद्रामानुजाचार्यविराचतः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ४ 0
रसमञ्जरी। व्यङ्गयार्थकीमुद्या प्रकाशेन च सहिता ३ भेदधिक्कार: व्याख्यासहित: १ ooo बोधसारो नरहरिकृत: तच्छिष्यदिवाकरकृत टीकया स०(वे०) १ न्यायलीलावती (यन्त्रस्था) व्रजभूषगा दास और कम्पनी
Page 109
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, .. . UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, PH. D. No. 90.
बोधसारः। श्रीविद्दद्वर्यनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः ।
दयानन्दस्वामिना परिशोधितः । BODHSÂR, A TREATISE ON VEDANTA, BY SRI NARHARI, With a commentary by the author's pupil PANDIT DIVÂKAR. EDITED BY SWÂMÎ DAYÂNAND. Fasciculus II. BENARES. Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot.
Printed at the Vidyâ vilas Press, BENARES. 1904.
DEC 21 1960
Page 111
समन्वयसरखती। ९७
सर्वेषां तत्र तन्त्राणामुपयोगो यथायथम् । वदामि तत्समासेन सर्वमेव यथातथम् ॥ ३ ॥ सर्वेषामिति। तत्र तेपु साधनेपु सर्वेपां समस्तानां त- न्त्राणं शास्त्राणां यथायर्थ येन येनोपयोगेनोपयोगः प्रयो- जनमस्ति तत्सर्वमेव तत्समस्तमपि यथार्थ समासेन संक्षेपेण वदामि कथयामि त्वं शृण्वित्यर्थः ॥३॥
जायते शब्दशास्त्रेण पदव्युत्पत्तिरुत्तमा। व्युत्पत्तिश्र पदार्थानां न्यायवैशेषिकोक्तिभिः ॥४॥ जायत इति। शब्दशास्त्रेण व्याकरणेनोत्तमा यथार्था पदव्युत्पत्तिः पदानां सुप्तिडन्तानां व्युत्पत्तिर्ञानं जायते भ- वति, न्यायादीनामुपयोगमाह न्यायवैशिपिकोक्तिभिः, न्यायस्य वैशेपिकस्योक्तिभिर्वाक्यैः पदार्थानां पदानां लक्ष्या वाच्या वार्डर्थास्तात्पर्याणि तेपां व्युत्पत्तिश्च ज्ञानमपि भवति॥४॥ मीमांसोपयोगमाहार्घेन। मीमांसया च वाक्यार्थव्युत्पत्तिः परिनिषठिता। व्यक्तिः सांख्येन तत्त्वानां योगेन मनसो यमः॥५॥ मीमांसयेति । मीमांसया मीमांसाशास्त्रेण वाक्यार्थव्यु- त्पत्तिर्वाक्यानां पदसमूहानामर्थस्तात्पर्त्य तस्य व्युत्पत्तिश्च ज्ञानं परिनिष्ठिता स्थिरा भवति; सांख्योपयोगमाह पादेन व्य- क्तिरिति, सांख्येन सम्यगसांकर्येण ख्यायन्ते तत्वानि प्र- कृतिपुरुषादीनि अनेनेति सांख्यं तेन तत््वानां प्रकृत्यादीनां व्यक्तिरसाङ्गर्येण प्रतीतिर्जायते, योगोपयोगमाह पादेन १३
Page 112
योधसारे।
योगेनेति, योगेन चतुर्विधेन शैवेन पातञ्जलेनैकविधेन च मन- सोन्तःकरणस्य यमोवरोधो निरोधाख्यसमाधिरूपो जायते।५॥ वेदान्तोपयोगमाह। महावाक्यार्थविज्ञानं वेदान्तैर्व्रह्मनिष्ठया। इत्येवं सर्वतन्त्राणां ब्रह्मण्येव समन्वयः ॥ ६ ॥ इति श्रीषोधसारे समन्वयसरखती । ९॥। महावाक्येति। वेदान्तैरुपनिषद्वाक्यैर्महावाक्यार्थविज्ञानं महावाक्यानि तत्वमस्यादीनि तेपामर्थस्तात्पर्य जीवव्रह्मणोरे- कत्वं तस्य विज्ञानं बोधो जायते परन्तु ब्रह्मनिष्ठया ब्रह्मणि निष्ठा सहजं प्रेम तया स्यान्न तु केवलेन वेदान्तार्थविचारे- णेति भावः ॥६॥। इति श्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थदीतौ समन्वयसरख्वत्यर्थप्रकाशो नवमः ॥ ९॥
अथाविरोधबोधः। एवं सर्वशास्त्राणां वेदान्तार्थे जीवब्रह्मैक्ये समन्वयेनानुकूल्यं मदर्श्यैतत्मसङ्गेनैव वेदान्तवाक्यजन्ये वोधे जातेपि तस्मिन्द्वैता- दीनां भिन्नार्थलेन विरोधित्वप्रतीतिर्वाधिका स्यादिति हेतोस्त- ननिरासायाविरोधवोधाखयं सप्तश्लोकं प्रकरणमारभते, तत्र ताव- त्समन्वयनिरूपणप्रसङ्गेनैव तदनन्तरमविरोधबोधनिरूपणं प- तिजानीतेऽर्वेन।
प्रसङ्गादविरोधस्य बोधोप्यत्र निरूप्यते। व्यवहारे द्वैतसत्वं द्वैताद्वैतमते समम् ॥१ ॥
Page 113
अविरोधबोधः । १९
प्रसङ्गादिति। प्रसङ्गात्सर्वशास्त्रनिरूपणप्रसङ्गेनैवावि- रोधस्य द्वैताद्वैतादिसर्वमतानामानुकूल्यस्य बोधो विज्ञानमपि अत्रास्मिन्ग्रन्थे प्रकरणेनेत्यर्थः, निरूष्यते कथ्यते प्रतिपाद्यत इत्यर्थः, त्वं शृण्विति शेपः; तत्र तावद्वैताद्वैतविवाद परिहर्तु है- ताद्वैताविरोधमाहार्धेन व्यवहारे इति, व्यवहारे व्यवहियते व्या- प्रियतेनेनेति व्यवहारो व्यापारस्तस्मिन्द्ैतसत्वं द्वैतस्य सच्च सत्यत्वं द्वैताद्वैतमते द्वैतमतेऽद्वैतमते च समं तुल्यमर्ति वे- दान्तिभिरपि व्यवहारे द्वैतस्याद्गीकृतत्वाद्वैतवादिभिरपि प्रती- तिविपयत्वेनैव द्वैतस्त्वस्याङ्गीकृतत्वाद्ययोर्मतयोर्न विरोध इति भाव: ।। १।।
च्वात्कथमविरोध इत्याशड्का वेदान्तिभिः प्रातीतिकद्वैतापवादा- र्थकत्वेनाद्वैतेपि तथात्वस्याङ्गीकृतत्वान्न सिद्धान्ते विरोध- स्तेनेत्याह। अद्वैतकल्पितत्वं चाविरोधोतो मतद्ये। विवदन्ति मुहुर्वादरसैस्तद्विवदन्तु ते ॥ २ ॥ अद्वैतकल्पितत्वमिति । अद्वैतकल्पित्त्वं चाद्रैतस्य क- ल्पितत्वमारोपितत्वमपि द्वैताद्वैतमत उभयत्रापि सममिति पूर्वेणै- वान्वयः, वेदान्तिनोपि सिद्धान्तेऽद्रैतस्य कल्पितत्वं मन्यन्ते त- देव द्वैतवादिनोष्यद्वैतकल्पितत्वं प्रतिपादयन्तीत्याशयः, अतः कारणान्मतद्रये मतयोरद्वैताद्वैतयोद्रये युग्मेऽविरोधो विरोधो नाम्तीत्यर्थः, ननु तर्हिं द्वेताद्वैतिनोविषयेऽविरोधे कथविवादः प्रवर्त्तत इत्याशख्काह विवदन्तीति, ये वादरसिका: केवलं वा- दरसैर्वादेषु ये रसाः प्रातीतिकाः स्वस्मादन्यपराभवस्वाधिक्या-
Page 114
१०० बोधसारे।
दिजन्याः सुखविशेषास्तैर्निमित्तभूतैर्मुह्ुः पुनः पुनर्विवदन्ति परस्पर विरुद्धं वदन्ति तत्तस्मात्ते मूर्खा विवदन्तु विरुद्ध व- दन्तु विवेकिभिर्जिज्ञासुभिश्चा विरोधं ज्ञात्वा विवादस्त्याज्य इति भावः॥२।। एवं द्वैताद्वैतविरोधं परिहृत्य विशिष्टाद्वैताद्वैतयोर्विरोधः प- रिहर्त्तव्यः। तत्र तावद्विंशिष्टाद्वैतिनो हि अद्वैतब्रह्मपरिणामो जीवो जगच्च मन्यन्ते, अद्वैतवादिनस्तु जीवो ब्रह्मैव जगच्चाद्वैत- ब्रह्मविवर्त्त इति मन्यन्त इति यद्यपि विरोधः प्रतीयते, तथापि जीवोपाधेर्जगतश्च मायापरिणामत्वेन वेदान्तिभिरप्यङ्गीकृतत्वात्, किश्च साधनसम्पत्तेर्वेदान्तिनामपीष्टत्वाच्च विशिष्टाद्वैतिभिरपि साधनादराय ब्रह्मपरिणामत्वं जीवस्य स्थापयित्वा तन्निरासाय साधनसम्पत्या जीवत्वनाशेनाद्वैतेश्वरत्वप्राप्तिः प्रतिपाद्यतेऽत- स्तदविरोधं ज्ञापयितुं यमादिसर्वसाधनानां सर्वसंमतत्वमाह द्वाभ्यामू। यमास्त्वहिंसासत्याद्या नियमा: शुचितादयः । सुखासने च संस्थानं प्रत्याहारस्तु सर्वतः ॥३॥
यमास्त्विति। यमा: पश्चाहिंसासत्याद्या अहिंसा च हिंसात्याग आवश्यकं बिना स च ज्ञेयः, सत्यं सत्यवचन स- त्यप्रतिज्ञत्वादिराद्यः प्रथमं येपामस्तेयब्रह्मचर्यापरिग्रहार्ण ते यमा ज्ञेयाः, तथा शुचितादय शुचिता निर्मलत्वमादिः प्र- थमं येपां सन्तोषस्वाध्यायतपईश्वरप्रणिधानानां शुचितादयो नियमा ज्ञेयाः। संस्थानं च सम्यकूस्थी- ते
यतेनेनेति संस्थानं शरीरस्य स्थैर्यसम्पादनं, सुखासन इति निमित्ते सप्तमी चर्मणि द्वीपिनं हन्तीतिवत्, सुखासननि- मित्तजं शरीरे स्थैर्य सम्पाद्यमिति भावः, यद्वा सुखेन यदा-
Page 115
अविरोधबोधः । १०१
सनं स्थितिरेतादृश्येव शरीरस्थिरता सैवासनं मुख्यमित्यर्थः, यद्वा सुखे सुखरूपे ब्रह्मणि आस्यते स्थीयतेनेनेति सुखासनं दृत्तेव्रह्मणि स्थैर्यमेवात्र शरीरस्थैर्यकारणताच्छरीरस्थिरता नान्या बद्धपद्मासनादिरूपा शरीरस्थिरता मतेत्यर्थः, तथा स- र्वतः सर्वेभ्यो विपयेभ्य इन्द्रियाणामिति शेपः, स तु प्रत्या- हारो ज्ञेयः ॥ ३ ॥ धारणा च तथा ध्यानं समाधानं च चेतसः । योगाङ्गसप्तकं त्वेतत्सर्वेषामपि संमतम् ॥४ ॥ धारणेति। धारणा च कस्मिंश्चिद्विपये चित्तस्थैर्यास्थैर्ये ज्ञातुं तस्यैव स्थापनं धारणाशब्देनोच्यत इत्यर्थः, तथा ध्यानं
द्धयानमित्युच्यते चेतसस्त्रिपुटीरूपस्य चित्तस्य समाधानं ध्येयमात्रावस्थानं समाधिर्ज्ञेयः, एतन्तु इदमपि योगाङ्गसप्नकं योगस्य निर्वीजसमाध्याख्यस्य निरोधापरपर्यायस्याङ्गानां सा- धनानां सप्तकं सप्तानां समूहः समूहे कन्पाणायामस्य तु सवै- रेवाङ्गीकृतखात्तं विना सप्तैवात्रोक्तानीति ज्ञेयं, सर्वेपामपि द्वै- ताद्वैतवाद्यादीनामपि संमतमिष्टमतस्तदर्थवतो विशिष्टाद्वैतस्य न केनापि विरोध इति भावः ॥।४।। इदानीं लयादीनामपि सर्वेषां विरोधं परिहरति। लये मन्त्रे हठे राज्ि भक्तौ सांख्ये हरेर्मते ! मतैक्यमर्ति सर्वेषां ये बुधा मोक्षमार्गगाः ॥५॥
लय इति। लये लययोगे 'निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये। लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनमि'त्या-
Page 116
१०२ बोधसारे।
दिपु लयप्रतिपादकेषु लय आत्मचिन्तनायोक्तस्तस्मिन्नपि न वेदान्तिभिः सह विरोध इत्यर्थः, आत्मचिन्तनोपयोगित्वादिति भावः। मन्त्रे मन्त्रयोगे शैववैष्णनादिमन्त्राणामपि देवताप्रसाद- हेतुत्वात्तस्य च ज्ञानपाप्तिहेतुत्वात्तस्याश्च मुक्तिहेतुत्वान्न वि- रोधो वेदान्तिनां मन्त्रयोगिनां चेति भावः। तथा हठे हठयोगे हृठस्यापि शिवशक्तिसमायोगफलत्वात्तस्य च साम्यरूपत्वा- त्तस्य चान्तःकरणशुद्धिद्वारा ज्ञानहेतुत्वान्न विरोधो हठवेदा- न्तयोरिति भावः, राजि राजयोगे राजयोगस्य च स्वरूपस्थि- तिरूपत्वान्न कोपि विरोध इति भावः, भक्तौ भक्तियोगे भक्ति- योगस्याप्यन्तःकरणशुद्धिद्वारा ज्ञानप्राप्त्या मुक्तिहेतुत्वान्न वि- रोधो वेदान्तेन सहेति भावः, सांख्ये सांख्यमते सांख्यस्यापि तत्वविवेचनद्वारा पुरुषासङ्गत्वज्ञानेन त्वंपदार्थशोधन उपयो- गित्वाद्वेदान्तिभि: सह सांख्यानां न विरोधः, हरेमैते श्रीक- प्णस्य 'यत्करोषि यदश्नासि यज्जुहोपि ददासि यत्। यत्तप- स्यसि कौन्तेय तत्कुरुष्व मदर्पणमि'त्यादयुक्तलक्षणे भागवतधर्म इत्यर्थः, एतस्मिन्नपि कर्तृत्ववाधेन 'नान्योतोस्ति द्रष्टे'त्यादिश्रु- त्यर्थानुकूल्येनाविरोधो वेदान्तेन सहेति भाव:, एवं सर्वेपां स- र्वशास्त्राणां मतैक्यं मतस्येष्टार्थस्यैक्यमविरोधोऽस्ति विद्यते य एवं विदुरिति शेपः, ते बुधा ज्ञानिनस्ते मोक्षमार्गगा मो- क्षस्य मार्गो जीवव्रह्मैक्यज्ञानं तेन गच्छन्ति प्रवर्त्तन्त इति तथो- क्तास्ते ज्ञेया:, यदि मतेपु तात्पर्यभेदं पश्यन्ति तर्हि तेऽज्ञा- निन इति भाव ॥५॥ ननु हृठयोगे माणायामादिना केशवाहुल्यमित्याशद् प्रा- णायामेन मनःस्थैर्यलक्षणप्रयोजनसद्भावात्तस्यापि सर्वसंम- तत्वमित्याह।
Page 117
साङ्गयाजन शलाका। १०३
हठिनामधिकस्त्वेकः प्राणायामपरिश्रमः । प्राणायामे मनःस्थैर्य स तु कस्य न संमतः॥६॥
हठिनामिति। हठिनां हठयोगिनामेको मुख्यः प्राणाया- मपरिश्रमस्तु प्राणानामायामो नियमनन्तु अन्येभ्यो विलक्षणो धिको विशेषोस्ति तस्मिश्च प्राणायामे सिद्धे सति मनःस्थैर्ये मनसश्चित्तस्य स्थैर्य स्थिरत्वं जायत इति शेपः, अतः स तु प्रा- णायामश्च कस्य साधकस्य न संमतो नेष्टः सर्वस्यापीष्ट इत्यर्थः॥६॥ तस्मात्सर्वमतानां मुक्तिफलत्वं सिद्धमित्याह।
विमुक्तिर्वादिनां तस्मान्मतभेदो न कश्चन। कश्चित्कश्चिन्मते भेदस्त्वस्ति वेदान्तिनामपि॥।७॥
इति श्रीनरहरिकृतौ बोधसारेऽविरोधबोधः॥७॥ विमुक्तिरिति। तस्मात्फलेSविरोधाद्वादिनां सर्वेपां स्वस्वमतवादशीलानां विमुक्तिर्मोक्षः स्यादतः फलैकत्वा- त्कथ्चन कोपि मतभेदो मतेपु भेदो भिन्नत्वं न नास्ति, ननु तैः स्वस्वप्रत्रियासु अन्यथान्यथा प्रतिपाद्यतेऽतः कुतो न भेदस्ते- प्वित्याशङ्काह कश्विदिति, वेदान्तिनामपि अद्रैतवादिनामपि मते सिद्धान्ते कश्चित्कश्चित्कोपि कोपि भेदो भिन्नत्वमेकजी- वत्वानेकजीवत्वादिरूपोडस्ति वर्त्तते प्रक्रियाभेदेन विषयभेदे वेदान्तेपि विषयभेदः स्यादिति भावः ॥७॥
इति श्रीनरहरिशिष्यदिवाकर विरचितार्यां बोधसारार्थादीप्ा- वघिरोधबोधार्थप्रकाशो दथमः ॥ १० ॥
Page 118
१०४ बोधसारे।
अथ सांख्याञ्ञनशलाका। एवं सर्वमतानामविरोधं प्रदर्श्येदानीं सांख्यस्यापि असङ्ग- पुरुपज्ञानसाधनत्वात्तस्य च त्वंपदार्थशोधनेन त्वंपदलक्ष्ये कूटस्थ उपयोगात्तदर्थज्ञानाय सांख्यं निरूपयितुं सांख्याञ्ज- नशलाकाख्यमेकविशतिश्लोकं प्रकरणमारभते, तत्रादौ सांख्या- अनशलाकेतिप्रकरणनामार्थ सम्भावयितुं तदर्थनिरूपणाय च रूपकमाह। नेत्रयोरञ्जनं कार्य सांख्यांजनशलाकया। ततस्तिमिरनाशेन सक्ष्मवस्तु विलोक्यते ॥ १ ॥ नेत्रयोरिति। हे शिष्य त्वया सांख्याञ्जनशलाकया स- म्यग्निःसन्देहं यथा तथा ख्यायन्ते कथ्यन्ते तत्वानि प्रकृति- पुरुपादीनि अनेनेति सांख्यं शास्त्रं तदेवाञ्जनशलाका तया ने- त्रयो: प्रकृतिपुरुपज्ञानरूपयोनीयते प्राप्यतेऽसङ्ग तत्वं याभ्या- मिति नेत्रे तयोरनेत्रसद्टशयोः प्रकृतिपुरुषविषयकज्ञानयोरित्यर्थः, अञ्जनमज्यते व्यज्यते स्वरूपमनेनेति अञ्जनमसङ्गत्वज्ञानं शा- स्त्रजन्यं तत्कार्य कर्त्तव्यं, किं फलं तस्येत्यपेक्षायां फलं दर्श- यति तत इति, ततः कृतनेत्नाञ्जनात्तिमिरनाशेन नेत्रस्थिताज्ञा- ननाशेन सूक्ष्मवस्तु अदृश्यत्वात्मूक्ष्मं वस्तु यथार्थभूतं स्वरूपं विलोक्यते प्रत्यक्षमनुभूयते, इदमेव फलं ज्ञेयम् । १॥ एवं फलप्रदर्शनेन मुमुक्षूणां सांख्यश्रवणे रुचिमुत्पाद्ये- दानीं तेपां तत्र विश्वासं जनयितुं सांख्यसंप्रदायश्रैप्ठ्याय त- त्संप्रदायमाह। कपिलेन मुकुन्देन देवहूती प्रबोधिता। सर्वतत्त्व्रविवेकेन तत्सांख्यमभिधीयते ॥ २ ॥
Page 119
साख्याञ्नशलाका। १०५
कपिलेनेति। मुकुन्देन मुक्तिदेन परमेश्वरेणैव कपिलेन क- पिलनामकेनाचार्येण सर्वतत््वविवेकेन सर्वाणि तत्वानि स- मस्तानि प्रकृतिपुरुषादीनि तत्वानि विविच्यन्ते पृथग्लक्षणैर- सङ्कीर्य ज्ञाप्यन्तेस्मिन्निति सर्वतत्त्वविवेकं सांख्यशास्त्रं तेन कृत्वा येनेत्यध्याहार्य, देवहूतीनान्नी स्वमाता प्रबोधितोप- दिष्टा तच्छास्त्रं सांख्यं सांख्यनामकमभिधीयते कथ्यतेतो- त्र विश्वासः कार्य इति भावः ॥२॥ एवमत्र विश्वासञ्जनयिलेदानीं सांख्यप्रतिपाद्येषु तत्वेपु मध्ये मूलकारणभूतां प्रकृतिं प्रधानापरपर्यायां लक्षयति। सर्वा विकृतयो यस्या: स्थूलसूक्ष्माश्चराचराः । अस्ति काचिदनिर्देश्या प्रकृतिस्त्रिगुणात्मिका॥ ३॥ सर्वा इति। यस्या: कारणभूतायाः स्थूलसूक्ष्माः स्थूलाः पश्चीकृतभूतभौतिकरूपाः सूक्ष्मा अपश्चीकृतभूतभौतिकरूपाश्च चराचराः पश्चीकृतभौतिकेष्वपि चरा जङ्गमा अचराश्र स्था- वराः सर्वाः समस्ता अपि विकृतयः विकाराः कार्याणीत्यर्थः, भवन्ति एतादृशी त्रिगुणात्मिका त्रयाणां गुणानां सत्वरज- स्तमोभिधानानां साम्यावस्थारूपाडनिर्देश्या सच्वेनासच्वेन वा केनापि रूपेण निर्देशानर्हाडत एव काचिदनिर्वचनीया प- कृतिः सर्वजगत्कारणरूपत्वात्प्रकृतिनाम्न्यस्ति विद्यते तद- सत्वे जगत्सत्त्वप्रतीत्यनुपप तेरिति भावः, तथा चात्र सांख्याना कारिका 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप् । पोडशकस्तु विकारो न प्रकृतिरन विकृतिः पुरुष' इति ॥ ३ ॥ एवं मूलप्रकृतिलक्षणं निरूप्येदानीं सप्त प्रकृतिविकृतीराह। १४
Page 120
१०६ बोधसारे।
महतत्वमहङ्कारः पञ्च तन्मात्रकाणि च। प्रकृतिर्विकृतिश्चेति सप्तैतानि भवन्ति हि ॥ ४ ॥ महत्तत्वमिति 1 महत्तत्वमेकमहङ्कारो द्वितीय: पश्च प- श्वसंख्यानि तन्मात्रकाणि च शब्दस्पर्शरूपरसगन्धाख्यानि अपि एतानि हि प्रसिद्धानि उक्तानि सप्त सप्तसंख्याकानि प्र- कृतिः कारणरूपाणि विकृतिश्च कार्यरूपाण्यपि भवन्ति जा- यन्ते ॥। ४ ॥ नन्वेनेषां कारणत्वं कार्यत्वं चैकैकस्य परस्परं विरुद्धं कर्थ सम्भाव्यमित्याशख्ाह। स्वकारणानां विकृतिः प्रकृतिः स्वोभ्जवस्य यत् । एवमष्टौ प्रकृतयस्ततो विकृतयो भवन् ॥ ५ ॥
स्वेति। यद्यस्मात्कारणान्महदादीनि प्रत्येकं स्वका- रणानां स्वस्य स्वस्य च यानि यानि कारणानि प्रकृत- यस्तेषां विकृतिः स्वयं विकारः कार्यमित्यर्थः, तथा स्वोन्भवस्य स्व्रस्मात्स्वस्मात्कारणरूपादुद्भव उत्पत्तिर्यस्य यस्य कार्यरूपस्य तस्य तम्य स्वयं प्रकृतिः प्रक्रियते कार्यमनया सा प्रकृतिः का- रण भवतीति शेपः, सर्वप्रकृतिसंख्यामाह एवमिति, एवमुक्तरी- त्या प्रकृतयः प्रकृतिशब्दवाच्यानि कारणानि अष्टावष्टसंख्या मूलप्रकृत्या सहेति ज्ञेयाः, ताभ्य एव विकृतिसम्भवमाह तत इति, ततस्ताभ्योष्टप्रकृतिभ्यो विकृतयो विकारा पोडशसंख्याका वक्ष्यमाणा अभवञ्जाताः ॥५।। तानेव विकारान्संख्यया सह निरूपयति। व्योमादिपञ्चभूतानि पञ्च ज्ञानेन्द्रियाणि च।
Page 121
सांख्याञ्ञनशलाका। १०७
कर्मेन्द्रियाणि पञ्चैत्र मनसा सह षोडश ॥ ६ ॥ व्योमादीति। व्योमादिपश्चभूतानि व्योमाकाशमादिर्येषां वाय्वादीनां चतुर्गी तानि व्योमादीनि तानि पश्चसंख्यानि भूतानि च तथा तानि, तथा ज्ञानेन्द्रियाणि च शब्दादिज्ञानसा- धनान्यपि करणानि पश्च पञ्चसंख्यानि पूर्वपञ्चकेन सह दश भवन्ति, तथा कर्मेन्द्रियाणि क्रियाजनकानि करणानि पश्चैव पञ्चसंख्याकान्येव, एवं पूर्वदशकेन सह पञ्चदश भवन्ति, तानि सर्वागि मनसाऽनतःकरणेन सह साकं पोडशसंख्याका एते विकारा ज्ेयाः ॥ ६॥ तानेव विकारान्स्पष्ट नामतो निर्दिशति सपादद्वाभ्याम। खं. वायुरभिस्तोयं भूर्भूतपञ्चकमुच्यते। शब्दस्पर्शौ रूपरसौ गन्धस्तेषां गुणाः क्रमात्॥७॥ खमिति। खमाकाश वायुरनिलोऽग्निस्तेजस्तोयं जलं भू: पृथ्व्येतद्रूतपश्चकं भूतानामाकाशादीनां पश्चक पश्चसमूद: समूहे कन्, उच्यते कथ्यते मुनिभिरिति शेपः, प्रसङ्गात्तेपां गु- णानप्याह शब्देति, शब्दसपर्शी शब्दश्व प्रतिध्वनिरूपः स्पर्शश्रा- नुष्णाशीतरूपस्तौ द्रौ रूपरसौ रूपं च प्रभारूपं रसश्व माधुर्य- रूपस्तौ द्वावेवं पूर्वाभ्यां सह चत्वारः, गन्धः सामान्यगन्धः पश्चमः, एते पञ्च तेपां गुणा वियदादीनां गुणा धर्माः क्रमा- त्क्रमेण ज्ञेयाः ।।७॥ इन्द्रियाणां दशकमाह। श्रोत्रं त्वक्कक्षु रसनं घ्राणं ज्ञानेन्द्रियाणि च। वाक्याणिपादपास्वादि पञ्च कर्मेन्द्रियाणि च ॥८॥
Page 122
१०८ बोधसारे।
श्रोत्रमिति। श्रोत्रं श्रुति: शब्दज्ञानकरणमित्यर्थः, त्वक्स्प- शज्ञानकरणमित्यर्थः, चक्षुर्नेत्रगोलकस्थं रूपज्ञानकरणं, रसनं रस्यतेनेनेति रसनं रसज्ञानकरणं जिह्नागोलकस्थं, घ्राण नासिका गोलकस्थं गन्धज्ञानसाधनमेतानि पश्च ज्ञानेन्द्रियाणि ज्ञान- करणानि ज्ञेयानि, कर्मजनकानीन्द्रियाण्याह वागिति, वाग्व- चनजनकं जिह्वास्थं करणं, पाणिर्ग्रहणत्यागजनकं हस्तस्थं करणं, पादो गतिक्रियाजनकमंध्रिस्थं करणं, पायुर्गुदस्थं मलो- त्सर्गक्रियाजनकमिन्द्रियमादिपदेनोपस्थं शिश्स्थं रतिसुखज- नकं करणमेतानि कर्मेन्द्रियाणि च क्रियाजनकानीन्द्रियाि अपि पञ्च ज्ञेयानि ।। ८।। मनसः स्वरूपमाह। उभयात्मा मनस्तेन चतुर्विशतिरीरिता। तत्वानां तद्विकारस्तु सर्वे चैव जगत्त्रयम् ॥ ९ ॥ उभयात्मेति। मनः संकल्पविकल्परूप संशयात्मिकान्तः- करणवृत्तिरुभयात्मोभयेषां ज्ञानकर्मेन्द्रियाणामात्मा कारण- मुभयेन्द्रियसाधनभूतमित्यर्थः, सर्वत्त्वानां संख्यामाह तेनेति, तेन कारणेन त्च्चानां पुरुपवर्जितानां चतुर्विशतिश्चतुर्विशतिपरि- मिता संख्येरिता कथिता, एवं सर्वतत्वसंख्यामुन्केदानी- मेतत्सर्वतत्वकार्यत्वं जगतो दर्शयति तदिति, सर्व समस्त ज- गञ्रयं चैव भुवनत्रयमपि तद्विकारस्तेपां तत्वानां विकारः कार्य अस्ति तु ।। ९ ॥ इदानीं जगतः प्रकृतिकार्यत्वं दर्शयितुं प्रकृतेस्त्रैगुण्यनि- रूपण पूर्वकं सर्वजगतस्त्रिगुणकार्यत्वेन गुणमात्रत्वं दर्शयति। प्रकृतेस्त्रिगुणात्मत्वात्सर्व हि त्रिगुणात्मकम् ।
Page 123
१००.
रक्तश्वेतश्यामरूपा रजःसत्त्वतमोगुणाः ॥१०।। प्रकृतेरिति। प्रकृतेः सर्वजगत्कारणभूतायाः प्रधानापरप-
गद्धि प्रसिद्ध चेदं त्रिगुणात्मकं सत्वरजस्तमोमात्रमस्ति जगतो गुणमात्रत्वमेव ज्ञापयितुं गुणानां वर्णतो रूपमाहार्ेन रक्तेति, रजः सत्वतमोगुणा रजश्च सच्वं च तमश्चैतन्नामकास्त्रयो रक्तो लो- हितः श्वेतः शुक्कःश्यामः कृष्ण एतानि रूपागि येपां तथाविधाः, एतेनैव जगतोपि रक्तश्वेतश्यामरूपत्वेन गुणामात्रत्वं निश्चेय- मिति भावः ॥१० । इदानीं जगतो गुणकार्यलं गुणस्वभावकथनेन सूचयत्यर्धेन। रजश्चलं तमः स्तब्धं प्रकाशस्सात्विको मतः । तमोधमं रजो मध्यं सत्त्वमुत्तममेव हि ॥ ११ ॥ रज इति। रजो रजोगुणश्चलं चश्चलस्वभावमस्ति त- मस्तमोगुणः स्तब्धं स्तब्धस्वभावं स्थिरमित्यर्थः, अस्ति प्काशो ज्ञानं साखिविकः सत्त्वधर्मो मतो निश्चितो मुनिभिरिति शेषः, पुनरपि जगतो गुणकार्यत्वं ज्ञापयितुं नीचत्वादीन्धर्मान्गुणा- नामाह तम इति, तमस्तमोगुणोऽधमं नीचस्वभावं रजो रजोगुणो मध्यं मध्यस्वभावं सत्वं सत्वगुण उत्तममेवोच्च- स्वभावमेवास्ति हि प्रसिद्धमेतद्विदुषामिति भावः ॥११॥ इदानीं गुणकार्यतोपि जगतो गुणमात्रत्वं दर्शयितुं गु- णानां कार्याण्याह। लोभादयो रजोभावास्तमसो जडतादयः । सुखप्रसादबोधाद्या भावाः सत्त्वस्य कीर्ततिताः॥१२॥
Page 124
११० बोघसारे।
लोभादय इति। लोभादयो लोभः प्राप्तेपि वस्तुनि स्पृ-
भावा रजोगुणकार्याणि ज्ञेयानि, जडतादयो जडता मोह आ- दिर्येपां क्रोधादीनां ते तमसत्तमोगुणस्य भावाः कार्याणि वि- दन्ते, सुखप्रसादवोधाद्याः सुखानि पियमोदपमोदाख्याः सु- खविशेपाः प्रसादोन्तःकरणनैर्मल्यं बोधो ज्ञानं चाद्याः प्र- मुखा येषां शमादीनां ते भावाः कार्याणि सत्त्वस्य सत्वगुणस्य कीर्तिता: कथिता मुनिभिरिति शेष:, एवं प्रकारेण विचारे कृते जगतः प्रकृतिगुणकार्यत्वं सिद्धमेवेति ज्ञेयमिति भावः ॥१२॥ इदानीं स्पष्टमेव जगतो गुणकार्यत्वं दर्शयति। देवादयः सात्तिरिकाः स्युर्नरादया राजसाः स्मृताः । तामसाः पशुभूतादा एवं सर्वै विविच्यताम्॥१३॥ देवादय इति। देवादयो देवा इन्द्रादय आदयो येषां विद्याधरकिंनरगन्धर्वादीनां ते तारतम्येन सात्विका: सत्वग- णोद्धवाः स्युर्भवेयुः, तथा तद्रन्नरादा नरो मनुष्य आद्यो येपां मुनिऋष्यादीनां ते राजसा रजोगुणोद्वाः स्मृताः प्रोक्ताः पुराणेतिहासादावित्यर्थः, पशुभूताद्ाः पशवो गोश्वादयश्च भू- ताश्च पेतादय आद्या मुख्या येषु पतङ्गकीटवृक्षादिपु ते ता- मसास्तमोगुगोद्रूताः, यद्यपि 'भूतोमी देवयोनय' इत्यमरसिंहेन देवयोनित्वमुक्तं तथापि तदन्तर्धानादिशक्तिमत्वेनेति ज्ञेयं, ता- मसत्वं कौर्याद्यतिशयवत्वादिति भावः, उक्तमन्यत्राप्यतिदि- शति एवमिति, एवमुक्तप्रकारेण सर्वे वस्तुजातं विविच्यतां साच्विकादिभेदेन पृथक्पृथग्ज्ञायतामित्यर्थः ॥१३॥ एवं जगतो गुणकार्यत्वं प्रदर्श्येदानीं सांख्यस्य वेदान्ता-
Page 125
साङ्गयाजनशलाकका। १११
नुकूल्याय तत्कारणभूतप्रकृतेर्मायात्वं ज्ञापयितुं गुणानामघ- टितघटनाकारित्वं दर्शयति। विरोधिनस्सहायाश्च मिथः कार्य च कारणम् । मिलित्वा कार्यकर्त्तारो गुणा विषमचेष्टिताः॥'४॥ विरोधिन इति। गुणाः प्रकृतिलक्षका धर्मा रजःसच्वत- मोरूपा मिथोऽन्योन्यं विरोधिनो विरोधो विद्यते येपां ते तथोक्ताः परस्परनाशकम्वभावा इत्यर्थः, सहायाश्च मिथो डन्योन्यमनुकूलास्तत्तत्कार्यजननेऽन्योन्यमनुकूला इत्यर्थः, स- न्तीति शेष:, अन्योन्यं कार्य कारणं च परस्परं कार्यकारणरूपा अपि भवन्ति, किश्च गुणाः सत्त्वरजस्तमोभिधा विपमचेष्टिता विषममन्योन्यनाशकं चेष्टितं चेष्टा येषां ते प्रकाशकं सत्वं चा- ख्चल्यादिमद्रजो लयरूपं तमः, एवं वैषम्याद्गुणानां परस्परं प्रा- तिकूल्यमिति भावः, ते गुणाः मिलित्वैकीभूय कार्यकर्तारः कार्यस्य जगतो जननस्थितिनाशरूपस्य कर्त्तारः कारका भ- वन्ति, एतेन गुणानामघटितघटनारूपत्वेन तत्कार्यस्य जग- तोपि तथात्वादुभयत्र मायालक्षणसिद्धेर्मायात्वं सिद्धं तेन च तत्कारणभूतप्रकृतावपि तत्सिद्धमेवरेत्यूह्यमिति भावः ॥ १४ ॥ एवं प्रकृतेर्मायात्वं प्रदर्श्येदानीं पुरुपस्यासङ्गत्वं दर्शयितुं विश्वस्यात्मनश्च वैलक्षण्यं दर्शयति।
विश्वं गुणात्मकं सर्वमात्मा निर्गुण एत हि। प्रकाशकतया तत्र प्रविष्ट इव भासते ॥ १५॥ विश्वमिति। सर्व समस्तं विश्वं जगद्ुणात्मक गुणा ए- वात्मा स्वरूपं यस्य तह्रुणरूपमित्यर्थः, आत्मा पुरुषो हि वि-
Page 126
११२ बोधसारे।
लक्षणत्वेन प्रसिद्धो विदुपां निर्गुगा एव गुणरहित एवातस्तत्र जगति गुगाकार्ये प्रकाशकतया गुणानां जगतश्च प्रकाशकलक्ष- खाभासरूपसम्बन्धाभासेन प्रविष्ट इव प्रविष्टसद्दशो भासते प्र- तीयते वस्तुतस्तु न प्रविष्ट इत्यर्थः, अत एव न केन चित्स- म्बन्ध आत्मनः सम्भवति तेन चासङ्गत्वं सर्वदैवात्मनः सि- द्धमिति भाव ॥१५॥ इदानीं सर्वतत््वेभ्यो वैलक्षण्यं पुरुषस्य सदष्टान्तमाह। यथा द्वात्रिंशद्दन्तस्था रसज्ञा रसवेदिनी। चतुर्विशतितत्वान्तः स्वात्मज्ञस्तत्त्ववित्तथा ॥१६॥ यथेति। यथा यद्वद्दान्रिंशद्दन्तस्था द्वात्रिशत्संख्यदन्त- समूहस्था रसज्ञा रसान्मधुरादीञ्जानातीति रसज्ञा जिह्वा स- र्वरसानुभवित्रीत्यर्थ, रसवेदिनी रसवेदनशीला रसज्ञानरूप- क्रियाकरणरूपेत्यर्थः, न तु दन्ता रसवेदनशीलाः, तथा तद्रचतु-
शयति स्व्रसत्ताकर्पणेन स तथा स्वात्मज्ञ: स्वात्मानं जाना- तीति तथा स्वप्रकाश इत्यर्थः, तत्ववित्तत्वानि चतुर्विशतिसं- ख्यानि वेत्तीति तथा स पुरुषो ज्ञेय:, स्वतः सत्तास्फूर्तिरहि- ततत्वेभ्यः सदवूपत्वस्वप्रकाशत्वसर्वप्रकाशकत्वेन सिद्धमात्मनो- ऽसङ्गत्वमिति भावः ॥१६ ॥ एवमात्मनोऽसङ्गत्वं स्वपकाशत्वं च प्रदर्श्य तस्य वास्तवै- कत्वे बहुत्वस्य मायामात्रत्वं दर्शयति। एकमेव निजं नार्थ माया विषयलम्पटा। बहुरूपधरं कृत्वा वेश्येव खलु खेलति ॥१७॥
Page 127
सांख्याञ्जनशलाका। ११३
एकमिति। विपयलम्पटा विषयेषु भोग्येपु लम्पटा लो- लुपा मायैव प्रकृतिरेव केवलमेकं तत्वतो भेदरहितं निजं स्व- कल्पितं स्वीयं निर्माय स्वरूप एकत्वानेकत्वयोरभावादित्यर्थः, नाथमीश्वरं बहुरूपधरं कृत्वाऽनेकरूपजननशक्तिमन्तं कृच्वा विधाय तेन सहैव वस्तुतः शुद्धात्मनस्तत्सम्बन्धानुपपत्तेर्वे- श्येव यथा वेश्या जारैः सह कीडति तथेयं खेलति क्रीडति खलु निश्चयेऽत्रार्थे सन्देहो न न कार्य इत्यर्थः, पुरुपनिष्ठमने- कत्वं यत्प्रतीयते तन्मायिकमेव न पारमार्थिकमिति भाव॥१७॥ ननु मायाया अत्यन्तपृथत्के तत्कृतानेकत्वस्य मतीति- रत्मनि कथं स्यादित्याशङ्का मायातत्कार्ययोरात्मनश्च सत्तै- कलान्मायानिष्ठानेकतवस्यात्मनि भ्रान्त्या प्रतीतिर्जायत इ- त्याशयेनाह।
अपृथग्भावरूपेण मिलित्वा पुरुषेण हि। विचित्राकाररूपैस्तं सन्नर्त्तयति नर्त्तकी ॥ १८॥ अपृथगिति। नर्त्तकी नर्त्तनक्त्री स्वयं मायाऽपृथग्भा- वरूपेण न विद्यते पृथग्भिन्नो भावः सत्ता यस्य तत्तच्च त- दूप च स्वरूपं यस्य स तथोक्तो मायापुरुषयोरेकसत्ताकत्व- मिति भाव:, तेनारोपितेन पुरुषेण साधिष्ठानबुद्धिस्थचिदाभा- सेन सह मिलिलैकीभूय विचित्राकाररूपैः स्वीयानि यानि विचित्राकाराणि विलक्षणाकृतीनि रूपाणि तैः कृता तं स्व- कृतमेव पुरुषं न तु शुद्धं सन्नर्त्तयति स्वनृत्यं तस्मिन्नारोप्य त- दभिन्नं दर्शयतीत्यर्थः, हि प्रसिद्धं चैतद्विवेकिरना माया स्वका- र्यमनेकत्वं मायिकपुरुपे समारोप्य तच्च तं च पारमार्थिके Sसङ्े चिदात्मनि समारोप्यात्मनोनेकत्वं प्रत्याययति सा प्रतीतिन पार- १५
Page 128
११४ बोघसारे।
मार्थिकी भ्रान्तिरेव सेति भावः ॥ १८ ॥ ननु मायिकपुरुषशुद्धपुरुषयोः पारमार्थिकैकत्वज्ञानं कर्थ स्यादित्याश्का मायाया मायाकार्यभूतपुरुषस्य च भिन्नस्व्रा- भाव्यान्मायिकपुरुषस्य दुःखप्रतीतिर्मायायां यदा स्यात्तदा वै- सग्योत्पत्या स्वस्योपाधेश्र विविक्तत्वज्ञानेन स्वस्य निर्माया- त्मनश्वैकत्वज्ञानं स्यादित्याशयेनाह।
निर्दोषो निश्चलो नाथः सदोषा चञ्चला वधूः । दम्पत्योरनयोर्ननं रसभङ्गो भविष्यति ॥ १९ ॥ निर्दोष इति। नाथो मायाकल्पितो मायानियन्ता जीवो व- स्तुतो निर्दोष उपाधिरहितः शुद्धात्मांशत्वादतो निश्चलश्ा- ख्वल्यरहितः सदैकरूप इत्यर्थः, वधूः स्वधबन्धनकारणभुता माया प्रकृत्यपरपर्याया सदोपा सोपाधिकाऽत एव चश्चलाऽस्थिराऽ- नेकरूपेत्यर्थः, अस्तीति शेषः, अनयोरुक्तयोरेव भिन्नल- क्षायोरेवेत्यर्थः, दंपत्योः प्रकृतिपुरुपयोर्जगत्पजाजननाय- जायापतिभावेन वर्तमानयोर्भिन्नस्वाभाव्यादेव नूनं निश्चयेन रसभङ्गो रसः सुखं तस्य भङ्गो नाशो दुःखं भविष्यति उत्प- त्स्यति ततश्र वैराग्येण स्वस्य प्रकृतेश्र भिन्नत्वज्ञानं भविष्य- सीति भावः ॥ १९ ॥। ततश्च प्रकृतिनाश: स्यादित्याशयेनाह। पृथक्ेन परिज्ञाता दुष्टरूपतया पि च। न मुखं द्शयत्येषा सलज्जा म्रियतेपि च ॥ २० ॥ पृथक्केनेति। एपा प्रकृतिरूपा वधू: पृथक्लेन स्व्रविलक्ष- गस्वाभाव्येन च पुनर्दुष्टरूपतयापि सर्वदोपकारणवत्वेन च
Page 129
सांख्याख्नशलाका। ११५
परिज्ञाता सर्वदाऽनुभूता सती स्वस्याग्रे मुखमास्यं न द- शयति प्रतीतिविषयं न करोति अपि च किन्तु सलज्ा त्रपा- भरासहा च सती म्रियते विनश्यति॥ २० ॥ तनश्च प्रकृतिविकृत्योः पृथक्सच्वाभावे प्रकृतेरपि पुरुषा- त्पृथगसच्चे च सिद्धे पुरूषस्य शुद्धबुद्धस्वरूपत्वेन नित्यासङ्गत्वं सिद्धमित्याह। प्रकृतिर्विकृतिर्नापि पुरुषो निश्चलात्मकः । शुद्धबुद्धस्वरूपोसाविति सांख्यविनिर्णयः ॥ २१ ॥ इति श्रीनरहरिकृतौ बोधसारे सांख्याञ्जनालाका॥११॥ प्रकृतिरिति। विकृतिर्महत्तच्वादिग्रह्माण्डपर्यन्ता कार्य- रूपा न नास्ति प्रकृतेः पृथगसत्वात्तथा प्रकृतिरपि महदादि- कारणभूता न नास्ति तस्या अपि पुरुषात्पृथगसच्वादित्यर्थः, अतोऽसावुक्तलक्षणः पुरुष आत्मा निश्चलात्मक एकत्वाने- कत्वादिरूपचाश्चल्यहीनोऽत एव शुद्रवुद्धस्वरूप: शुद्धं मा- यातत्कार्यास्पृष्टमसम्बद्धमित्यर्थः, बुद्ध स्वयंप्रकाशरूपं च रूपं स्वरूपं यस्य स एताटशोऽस्ति, उक्तमुपसंहरतीतीति, सां- ख्यविनिर्गायः सांख्यस्य प्रकृत्यादितत्त्ववित्रेचकशास्त्रस्य वि- निर्णयो विशेषनिर्णय इति सम्पूर्णः सम्यकख्यायते तत्त्वम- नेनेति साङ्कयनामनिरुक्तेरेतदन्यथार्थप्रतिपादकस्य कस्य चि- च्छास्त्रस्य सांख्याभासत्वेन तस्य प्रामाण्यं नाभ्युपेयमिति भाव: ॥ २१॥।
सांख्याअ्ञनशलाकार्थप्रकाश एफादृश: ।११।।
Page 130
११३ बोधसारे।
अथ योगदीक्षाचिन्तामणौ पातञ्जलयोगः। एवं सांख्यं वेदान्तानुकूलतया प्रतिषाद्येदानीं मलिनान्तः- करणानां जिज्ञासूनां सांख्योक्त जीवात्मैक्यासंगलक्षणपुरुषे चित्तस्थितिर्न स्यादिति तदन्तःकरणमलनिरासकनिरोधारययो- गेन चित्तशुद्धौ विवेकाविर्भावेन तत्रैव चित्तस्थैर्य स्यादिति त- दर्थ योगं निरूपयितुं योगदीक्षाचिन्तामण्याख्यमेकोत्तरशत- श्लोकं प्रकरणमारभते, तत्र चावांतरप्रकरणे द्वे पातञ्जलाख्यं शै- वाख्यं चेति; तत्रापि पातञ्जलस्यैकविध्यादाद्यमेव पद्विंशतिश्रोकं भवति, इतरस्यच चातुर्विध्यात्तत्र चत्वारि प्रकरणानि मन्त्रयोग हठयोग शिवशक्तिपराक्रम लययोगाख्यानि क्रमेण चतुःश्रोकै कोनविशतिश्लोक पोडशश्लोक पद्तरिंशच्छोकानि सन्ति, तान्यनुक्रमतो व्याख्यास्यामः। तत्रादौ पातअ्ञलं योगं निरूप- यति, तत्र तावद्योगप्रतिपादकस्यास्य प्रकरणस्य योगदीक्षाचि- न्सामणिनाम्नोर्थ तत्र पवटत्ति जनयितुं सफलं दर्शयति।
अथातो योगदीक्षायाश्चिन्तामणिरुदार्यते। तत्प्राप्त्याऽबोधदारिद्यं सर्वमेव विनश्यति॥१॥ अथेति। अथ सांख्यप्रतिपादनानन्तर सांख्योक्ते तच्वे मलिनान्तःकरणानां मुमुक्षूर्णां केन चित्पतिवि- न्धेन चित्तस्थैर्ये न भवति यतोऽत इति हेतो- रित्यर्थः, योगदीक्षाया योगस्य निरोधाख्यस्य दीक्षा सं- स्कारस्तस्याश्चिन्तामणिः कल्पितधारणाजन्यफलप्रदत्वाच्चिन्तामणिरिति नाम प्करणस्य स उदीर्यते निरूप्यते त्वं शृणु, ननु चिन्तामणिप्राप्त्या दा- रिद्ं नश्यत्यनेन किं स्यादित्यत आह तदिति, तत्माप्त्या तस्य
Page 131
योगदीक्षाचिन्तामणिः । ११७
योगदीक्षाचिन्तामणेः प्राप्त्या लाभेनाऽबोधदारिव्यमवोधो- डज्ञानं नदेव सर्वदारिद्यमूलत्वाद्दारिदं दरिद्रत्वं तत्सर्वमेव स- मस्तमपि विनश्यति निवनतेऽतोऽस्य योगदीक्षाचिन्तामणि- रिति नामेति भावः ॥ १॥ अस्य च संप्रदायतः प्रामाण्यं वक्तुं योगप्रवर्त्तकान्द्राभ्यामाह।
महायोगेश्वरः शम्भुः महायोगेश्वरो हरिः । महायोगेश्वरो ब्रह्मा भवानी सिद्धयोगिनी ॥ २ ॥ महायोगेश्वर इति। शम्भु: शं सुखं भवत्यस्माललोकाना- मिति स शम्भु: शङ्कर इत्यर्थः, महायोगेश्वरो महाञ्छेष्ठो यो- गानां मन्त्रादियोगानामीश्वरः प्रवर्तक आचार्य इत्यर्थः, तथा हरिर्हरति सर्वे दुःखं भक्तानां स हरिर्विष्णुर्महायोगेशवरो महान्सर्वमान्यो योगेश्वरो योगप्वर्त्तकोऽस्ति तथा ब्रह्मा परमेष्ठी महायोगेश्वरो महाञ्जगत्पूज्यो योगेश्वरो योगप्रव- र्त्तकोडस्ति तथा भवानी सर्वजगज्जीवयित्री चिच्छक्ति: सि- द्धयोगिनी स्वतःसिद्धयोगवत्यस्ति, एतेपां सर्वजगच्छेष्ठत्वं योगफलमेव योगानां प्त्नत्तिरपि तेभ्य एवेति भावः ॥२॥। तदितरेषामपि योगेन सिद्धिपाप्तिमपि तदितरेपां तत्र रुचि जनयितुं प्रदर्शयति। सनकाद्याः वसिष्ठादाः कचदत्तशुकादयः । अरुन्धतीप्रभृतयो योगात्सिद्धिमुपागताः ॥ ३॥ सनकेति। सनकाद्याः सनक आद्यो मुख्यो येषु ते नै- प्ठिका, वसिष्ठाद्या वसिष्ठ आद्यो मुख्यो येपां पुलस्त्यादीनां ते सर्वे गृहियाः, तथा कचदत्तशुकादयः कचो बृहस्पतेः पुत्रो
Page 132
११८ बोधसारे।
दत्तो हात्रे: पुत्रः शुको व्यासपुत्र एत आदयो मुख्या येपामा- र्पभादीनां ते सर्वेपि परमहंसाः, तथाऽरुन्धतीप्रभृतयोऽरुन्धती वसिष्ठपत्री प्रभृतिरादिर्यासां देवहूत्यादीनां ताः स्त्रियः, एते
क्तिमपि उपागता प्राप्ता अतो मुमुक्षुभिर्योगः साध्य ए- वेति भावः॥ ३।। नतु योगशब्दवाच्यार्थानां मतभेदेन बहुत्वप्रतीतेरमुख्यो योगशब्दार्थ: को विवक्षित इत्याशङ्कायामाह। आत्मज्ञानेन यो योगो जीवात्मपरात्मनोः । स योगस्तस्य हेतुत्वाद्योगा बहुविधा मताः ॥४॥ आत्मज्ञानेनेति। यो वेदान्तेपु प्रसिद्ध आत्मज्ञानेन आ- त्मस्वरूपयथार्थज्ञानेन तत्वमसीत्यादिवाक्यजन्याहंव्रह्मेत्याका- रेण जीवात्मपरमात्मनोर्जीवस्य प्राणोपाधिकस्य साधिष्ठानबु- द्विस्थचिदाभासस्यात्मा शोधितस्त्वंपदार्थः कूटस्थः, परमश्रा- सावात्मा च परमात्मा शोधितस्तत्पदार्थो जगदारोपाधिष्ठानं ब्रह्मेत्यर्थः, तयोरुभयोर्योग एकत्वं यत्पारमार्थिकं स स एवेत्यर्थः, योगो योगशब्दवाच्यो मुख्यो भवति, तत्र तर्हि कुतो बहुत्वं दृश्यते तत्र तत्न शास्त्रेपु तत्राह तस्य, योगस्य हेतुत्वात्साधनत्वात्तेपि योगा योगशब्दवाच्यार्था भवन्ति, अतस्ते बहुविधा अनेकप्रकारा मता मुनिभिस्तत्तच्छास्त्रेषु निर्णीताः, याथार्थ्यात्मज्ञानस्यैव योगशब्दमुख्यार्थत्वमितरेपा तु तत्साधनभूतत्वाद्गौणं योगशब्दार्थत्वमिति भावः ॥४॥ एवं मुख्यं योगशब्दार्थ प्रतिपाद्येदानीं भगवत्पतिपादितं योगशब्दार्थ दर्शयति।
Page 133
योगनीक्षाचिम्तामणिः । ११९
विरोधिलक्षणान्यायादभद्रा भद्रिका यथा ! सर्वदुःखवियोगस्तु योग इत्याह केशवः ॥ ५ ॥
विरोधीति । केशवः सर्वान्तर्यामी श्रीकृष्णः सर्वदुःख- वियोगस्तु सर्वेपामाध्यात्मिकादीनां दुःखानां वियोगो विश्ल्लेपः स्वस्मिन्दुःखासत्वप्रतीतिः स एव योगो योगशब्दवाच्योर्थोS- स्तीति एवं प्राहोक्तवान् 'तं विद्याहु:खसंयोगवियोगं यो- गसंज्ञितमि'त्यादिप्विति ज्ञेयं, ननु आत्मनस्तत्वतो योगवियोग- योरसम्भवात्तस्मिन्योगशब्दवाच्यार्थो माऽस्तु दुःखवियोगे तु- तदभाववति करथ योगत्वमुच्यत इत्याशङ्का योगत्वं तत्र सम्भा- वयितुं न्यायमाह विरोधीति, विरोधिलक्षणान्यायाद्यत्र यद्विरो- धोस्ति तत्र तद्वाचकशब्दप्रयोगो विरोधिलक्षणान्यायो तदभा- ववति तन्भाववचन इत्युक्तलक्षण इत्यर्थः, तत्रोदाहरणमभद्रेति, यथा यद्वदभद्रा स्वरूपतोऽकल्याणरूपापि भद्रिका भद्रिकेति कल्यायावाचकशब्देनोच्यते लोके तथा वियोगोपि योगशब्दे- नोक्त इति भावः ॥५।। ननूक्तलक्षणस्य योगस्य किं फलं तत्सदृष्टान्तमाह।
अत्यन्तचपलस्यापि मनसो योगशक्तितः । निश्चलत्वं प्रजायेत विन्ध्यस्येव महागिरेः ॥ ६ ॥
अत्यन्तेति। अत्यन्तचपलस्यापि निरन्तरचञ्चलस्वभाव- स्यापि मनसश्चित्तस्य योगशक्तितो योगाभ्यासजन्यसामथर्येन निश्चलत्वं स्थिरत्वं प्रजायेत स्यात्तत्र दृष्टान्तो महागिरेरती- वददस्य विन्ध्यस्येव विन्ध्यनान्नः पर्वतस्येव यथा विन्ध्यप-
Page 134
१२० बोधसारे।
र्वतस्याचलत्वं त्यत्क्का वृद्धिरूपं चाश्चल्यं दृद्धं तदगहत्यमुनि- कृतयोगेन चाश्चल्यं परित्याज्य स्थावरत्वं स्थापितं स्वकृत- योगेन वागस्त्याज्ञानुल्लङ्गनाय स्थिरत्वं सम्पादितं तद्दद्योगेन योगी स्वत आत्मरूपत्वादचश्चलस्यापि मनसोऽचाश्चल्यं त्यत्का चश्चलत्वं गृहीतं तत्परित्याज्य स्थिरत्वमात्मस्वरूपभूतं सम्पा- दयतीत्याशयः ॥६॥ योगस्य मनश्राश्चल्यनिवर्त्तकत्वे भुशुण्डसम्मतिरस्तीत्याह। तथा च भुशुण्डः । तथेति। भुशुण्डश्व भुशुण्डोपीत्यर्थः, तथाच तमेवार्थमाह। केन वाक्येनेत्याशड्ा तद्राक्यं पठति। नाभसीं धारणां बद्धा तिष्ठामि विगतज्वरः । यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ॥७॥ नाभसीमिति। अहं भुशुण्डनामा काको वायोरपि लय आसन्ने नाभसीं सर्ववाय्वादिभूतभौतिकरहितं नभ एवाहमि- त्येवं नभसम्बन्धिनीं धारणां भावनां वद्धा सन्धार्य तया च विगतज्वरो वायवादिनाशेन स्वनाशभीतिरहितः सन्नाका- शमात्ररूपस्तिष्ठामि स्थिरो भवामि, कियत्पर्यन्तमित्यत आह यावदिति, कमलजो ब्रह्मा कमलेन सह सम्भूय वर्त्तमानो या- वद्यावता कालेन पुनर्भूयः सृष्टिकर्मणि सृज्यतेनया सा स- प्टिस्तदरपे कर्मगि क्रियायां तिष्ठति संस्थितो भवति तावत्का- लपर्यन्तमित्यर्थः ॥७॥ एवं योगफलं प्रदश्येदानीं पातअ्लं योगं वक्तुं मुख्यं पातअ्लयोगलक्षणमाह। चित्तवृत्तिनिरोधस्तु मुख्य: पातञ्जलो मतः ।
Page 135
पोगदीक्षाचिन्तामणौ पातञ्जलयोगः। १२१
प्राणवृत्तिनिरोधस्तु गौणस्तत्साधनत्वतः ॥ ८ ।। चित्तेति। पातञ्जलः पतञ्जलिना प्रोक्तः पातञ्जलः 'तेन मोक्तमि'ति तद्धितोऽण,मुख्यः प्रधानो योगस्तु हठादिभ्यो वि-
हादिविषयाकाराणां निरोधोऽवरोध एव मत इषटः, तत्र भग- वतः पतञ्जले: सूत्रं 'योग्चित्तत्रत्तिनिरोध' इति, प्राणवृत्तिनिरो- धस्तु प्राणस्य शरीरावच्छिन्नस्य वायोर्वत्तयः माणापानादय- स्तासां निरोधोऽवरोध: प्राणायामादिना स्थैर्यसम्पादनं हं- ठिनां प्रधानभूतोपि पातञ्जजलानां तत्साधनत्वतस्तस्य चित्ततृ- त्तिनिरोधनाम्नोः योगस्य साधनरूत्वाद्गौणो न मधानलेन संमत इत्यर्थः ॥ ८ ।। एवं पातञ्जलयोगस्वरूपं प्रदर्श्येदानीं तत्साधनानि दर्श- यितृं तत्प्रतिपादकं सूत्रं प्रमाणयति। तत्र सूत्रं 'यमनियमासनप्राणायाम- प्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि' ॥ १॥ तत्रेति। तत्र योगाङ्गेपु सूत्रं पतअ्जले: सूत्रमस्तीत्यर्थः, तदे- वोदाहरति यमेति, यमा: पञ्च, नियमाः पश्च, आसनानि सुखा- सनप्रभृतीनि, प्ाणायाम आभ्यन्तरवाह्यभेदेन द्विविधोपि, प्रत्या- हार इन्द्रियाणां स्वस्वविपयेभ्यो व्यावृत्तिरूपो, धारणा देश- विशेपसन्वन्धश्चित्तस्य, ध्यानं विजानीयप्रत्ययानन्तरितध्येय- सजातीयप्रत्ययत्रत्तिप्रवाहः, समाधिः सविकल्पकापरपर्यायः संप्रज्ञातः; एतान्यष्टौ योगस्याङ्गानि सन्ति ॥ १॥ एवं योगाष्टाङ्गप्तिपादकं पातञ्जलसूत्रमुपन्यस्येदानीं य- मादीन्यङ्गानि दर्शयितुमुपक्रमते चतुर्भिः । १६
Page 136
१२२ बोधसारे।
यमोस्तेयऋतार्हिंसाब्रह्मचर्यापरिग्रहाः । नियमः शौचसन्तोषतपःपाठेश्वरार्पणम् ॥ ९॥ यम इति। अस्तेयं चौर्याभाव ऋतं सत्यवक्तृत्वादि अ- हिंसा हिंसातः सदा निष्टत्तिर्व्रह्मचर्यमष्टाङ्गमैथुननिदृत्युपल- क्षितं नैष्ठिकादि। 'स्मरणं कीर्त्तनं केलि: प्रेक्षणं गुह्यभाषणम्। एकान्तवासो रमणं स्पर्शोष्टविधमैथुनमि'ति। एतन्निव्टत्तिर्व्रह्मचर्य, अपरिग्रहो योगाननुकूलविषयास- प्रहः, एते पञ्च यमो जातित्वादेकवचनं यमा ज्ेया, यमयन्ति निवर्त्तयन्ति हिंसादिभ्यः पुरुषविशेषं ते यमा इत्यर्थः; तत्र पतअ्ले: सूत्रम्, 'अहिंसासत्यास्तेयव्रह्मचर्यापरिग्रहा यमा' इति। यमानुक्क्ा नियमानाह नियम इति, शौचसन्तोषौ शौचं बाह्ं स्नानादि आन्तरं रागत्यागादीत्गेवं द्विविध, सन्तोषो यथालब्धे विषयेऽलंबुद्धिस्तपः स्वस्ववर्णाश्र- मधर्मनिष्ठापूर्वकक्लेशसहिष्णुत्वं, पाठेश्वरार्पणं पाठश्र स्वाध्याय ईश्वरार्पणं च यद्यत्क्रियते स्वयं तत्तदीश्वरेयौव कृतमिति नि- श्रय, एते पञ्च नियमा :; अत्रापि जातित्वादेकवचनं, जन्मप्रदक- मभ्यो व्यावर्त्य मोक्षकारणे निष्कामकर्मणि नियमयन्तीति नियमनाम्नोक्ता ज्ञातव्या:, अत्रापि पातञ्जलं सूत्रं 'शौचसन्तो- पतपःस्वाध्यायेश्वरप्रणिधानानि नियमा' इति। यमनियमफ- लान्यपि कानि चित्सूत्रितानि तान्यपि प्रदर्शयामः, यमेषु तावद- हिंसाफलप्रतिपादकं सूत्रम्, 'अहिंसाप्रतिष्ठयां तत्सन्नि- धौ वैरत्यागः'। सत्यफले सूत्रं, 'सत्यप्रतिष्ठायां क्रियाफलाश्रय- त्वं'। अम्तेयफले सूत्रं, 'अस्तेषप्रंतिष्ठयां सर्वरत्रोपस्थानं' ब्रह्म- रचयफले मूत्रं, व्रह्मचर्यपतिष्ठार्या वीर्यलाभः,। अपरिग्रहफले सूतरं
Page 137
यागदीक्षाचिन्तामणी पातञ्लयोगः। १२३
'अपरिग्रहस्थैर्ये जन्मकथन्तासंबोध' इति क्रमेणज्ञेयानि। नियमफ- लान्यपि सूत्रैरदरशितानि, तत्र शौचफलप्तिपाद के सूत्रे 'शौचात्स्वा- इजुगुप्सा परैरसंसर्ङ्ग:, सत्वशुद्धि सौमनस्यैकाग्ग्रेन्द्रियजयात्मर्दश- नयोग्यत्वानि च'। सन्तोपफलमाह 'सन्तोषादनुत्तमसुखलाभ' इति। तप: फलमाह 'कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपस' इति। स्वाध्या- यफलमाह 'स्वाध्यायादिष्टदेवतासंप्रयोग' इति। ईश्वरप्रगिधान- फलमह 'समाधिसिद्धिरीश्वरप्रणिधानादि' ति । ९ ।। आसनमाणायामावाह। आसनं सुखरूपेण शरीरस्थिरता मता। प्राणायामः प्राणदण्डः कुम्भपूरकरेचकैः ॥ १० ॥ आसनमिति। सुखरूपेण पद्मकस्वस्तिकादीनि आसनानि प्रोक्तानि, तत्र याद्टशेन देहस्थापनरूपेणासनेन यस्य पुरु- षस्यावयवेषु व्यथानुत्पत्तिस्तदेव सुखरूपमासनं तेन शरीर- स्थिरता देहेऽचाश्चल्यं स्यादित्यध्याहार्य, तदेवासनमास्य- तेस्मिन्नित्यासनं मतगिष्टं ज्ञेयम्; अत्रापि पतञ्जले: सूत्रं 'स्थिरसु- खमासनमि'ति। अस्योपायप्रतिपादकं पतञ्जले: सूत्रमपि 'प्रयत्र- शैथिल्यानन्तसमापत्तिभ्यामि'ति। अस्यार्थः, प्रयत्रशैथिल्यं प्रय- वरस्य लौकिकवैदिकस्य गमागममैथुनगृहकत्यव्यापारादि- रूपस्य तीर्थयात्रास्नानयागहोमादिरूपस्यच मानसोत्साहरूपस्य शैथिल्यं कर्त्तव्यं तेन, तदभावे च मानस उत्साहो बलाद्देहमुत्था- प्यान्यत्र चालयेदेवेत्यर्थः; अनन्तसमापत्तिश्र फणासहस्त्रेण पृ- थिवीं धृत्वा स्थिरः स्थितोनन्त एवाहमस्मीति दृढधारणाS- नन्तसमापत्ति: स्वस्मिन्ननन्तल्ापादनं स्थिरत्हेतुस्तेन चोपाये- नासनसिद्धिर्जायत इत्यर्थः। आसनसिद्धिफलमपि सूत्रांशेनाह भगवान्पतञ्जलिः, 'ततो द्वन्द्वानभिघात' इति। अस्यार्थ आसने
Page 138
१२४ पोधसारे।
सिद्धे ततोऽनन्तरं द्वन्द्ैः सुखदुःखादिलक्षणैरनभिघातो न पराभवो जायते योगिन इत्यर्थः। प्राणायाममाह म्राणायाम इति, कुम्भपूरकरेचकैः कुम्भकेन द्विविधेनान्तरेण बाह्येन चेति, कुम्भकस्य द्वैविध्यं वसिष्ठ आह। 'अपानेस्तङ्गते प्राणो यावन्नाभ्युदितो हृदि । तावत्सा कुम्भकावस्था योगिभिर्याऽनुभूयते।। बहिरस्तं गते प्राणे यावन्नापान उद्गतः । तावत्पूर्गा समावस्था बहिप्ठं कुम्भकं विदुरि'ति ॥ तेनोक्तलक्षयोन कुम्भकेन, पूरकेण= 'वक्रेणोत्पलनालेन तोयमाकर्षयेन्नरः। एवं वायुर्गृहतिव्यः पूरकम्येति लक्षणम्'॥ इत्युक्तलक्षणेन पूरकेण, रेचकेन च= 'उति्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् । शून्यभावेन युञ्जीत रेचकस्येति लक्षणम्।। इत्युक्तलक्षणेन रेचकेन यः प्राणदण्ड: म्राणस्य श- रीरावच्छिन्नवायोर्दण्डो नियमनं स प्राणायामः माणाया- मनाम्नोक्तो मुनिभिरिति शेपः। आसनानन्तरमेव प्राणा- यामप्रतिपादकं पतञ्जले: सूत्रं, 'तत्मिन्सति श्वासप्रश्वासयो- गतिविच्छेद: म्राणायाम' इति। तस्यैतस्याभ्यासप्रतिपादकमपि पतञ्जले: सूत्रं, 'वाह्याभ्यन्तरस्तम्भवत्तिर्देशकालसङ्वयाभिः परि- दृष्टो दीर्घसूक्ष्म' इति। अध्यार्थः, वाह्यवृत्ती रेचक, आभ्यनतरवृत्तिः पूरक:, स्तम्भवृत्तिः कुम्भकः, तत्रैकैको देशकालसख्व्याभि: प- रीक्ष्यः। तथाहि, स्वाभातिकरेचके हृदयदेशान्निर्गनस्य वायोः नासाग्रसमदेशा द्वह्िर्द्वादशाङ्गुलपर्यनतं श्वासस्य समाप्तिर्भवति अभ्यासे च तस्य क्रमेण नाभेरवां मूलाधाराद्वायुनिर्गमे च-
Page 139
योगदीक्षाचिन्तामणी पातअ्लयोगः। १२१
तुविशत्यङ्गुलिपर्यन्ते समाप्तिर्वति अम्मिश् प्रयताधिक्ये जाते नाभेर्वा मूलाधारस्य क्षोभेणान्तर्निश्चयो भवति, बहिरपि मूक्ष्मं सूत्रादि धृत्वा तच्चाश्चल्येन परीक्ष्यो भवति, इयमेव देशपरीक्षा। कालतोपि परीक्षा यथा, रेचककाले प्रणवस्यावृत्तयो दश वा विशतिर्वा त्रिशद्वेत्येवं कालतः परीक्षा। अत्मिन्मासे दश नि- त्यमग्रिममासे विशतिर्विशतिः, तदुत्तरे मासे च त्रिंशत्तिंशदि- त्येवं सङ्वया परीक्षा। एवं त्रिविधपरीक्षा पूरकेपि ज्ेया। कुम्भ- के तु कालसङ्व्याभ्यां द्विविधा परीक्षा स्पष्टा, परन्तु यथा तू- लपिण्डः प्रसार्यमाणो विरलः सूक्ष्मश्र भवति तद्वत्पाणो देश- कालसङ्याधिक्येनाभ्यस्यमानो, दीर्घो दुर्लक्ष्यत्वात्मूक्ष्मश्च भ- षति। एवं पूर्वोक्तरेचककुम्भकपूरकेभ्योन्यं प्राणायाममपि पत- जलि: मूत्रयामास 'बाह्याभ्यन्तरपूर्वत्रयापेक्षोपि चतुर्थ' इति। अस्यार्थः, यथाशक्ति सर्वे विरिच्य ततः कृतः कुम्भको वाह्यः, तथान्तर्वायुमापूर्य ततः कृतः कुम्भक आन्तर, एवं च रेचकपू- रकापेक्षया कुम्भकस्तृतीयः, एतत्त्रयापेक्षया रेचकपूरकौ त्य- का केवलकुम्भकश्चतुर्थो भवति। निद्रालम्यादिवलवद्दोपवतां पू- रवत्रिकं निर्दोषाणां चतुर्थ इति ज्ञेयम्। प्राणायामफलमप्याह पत- ञजलि: सूत्राभ्यां 'ततः क्षीयते प्रकाशावरणमि'ति। 'धारणासु च योग्यता मनस' इति च। अनयोरर्थ:, प्रकाशस्य सत्त्वस्यावरणं तमा निद्रालस्यादिकारणं तस्य नाशो भवति, प्राणायामान्म- नसस्तमोनाशे धारणासु योग्यताधिकारित्वं जायत इत्यर्थ:।।१.०॥ मत्याहारधारणे प्राह। प्रत्याहारस्त्विन्द्रियाणां चलानां प्रतिरोधनम् । क्वचित्प्रदेशे चित्तस्य स्थापनं धारणा मता ॥११॥
Page 140
१२६ घोधसारे।
प्रत्याहार इति। चलानां चश्चलानामिन्द्रियाणां श्रोत्रादीना प्रतिरोधनं स्वध्वविपयाच्छब्दादेर्निवर्त्तनं प्रत्याहारस्तु स प्र- त्याहारोपि ज्ञेयः, अत्रापि पतञ्जलेः सूत्रं 'स्वविषयासंप्योगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहार' इति। अस्यार्थः, शब्दस्पर्शादिविषयेभ्यो निवर्त्तिताः श्रोत्रादयश्चित्तस्वरूमनुछ- र्वन्तीवावतिप्ठन्ते स पत्याहार इत्यर्थ, । श्रुतिश्र; 'शब्दादिविषयान्पश्च मनश्चैवातिचश्चलम्। चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते' इति॥ प्रत्याहारफलमप्याह पतञ्जलिः 'ततः परमावश्यतेन्द्रि- याणामिति। धारणामाह क्चिदिति, कचित्कुत्रचित्मदेशे आधारस्वाधिष्ठानादिचक्रे कचिद्धाह्ये प्रतिमादौ सौन्दर्यवत्स्त्ीपुरुष- योवा चित्तस्य मनसः स्थापनं स्थैर्यसंपादनं धारणा धारणापदवा- च्या मतेष्टत्वेन गृहीता योगिभिरिति शेषः, तथा चात्र प- तञ्जले: सूत्रं 'देशवन्घश्चित्तस्य धारणे'ति ॥ ११ ॥ ध्यानसमाधी आह। निरन्तरश्चित्प्रवाहो ध्येयस्य ध्यानमीरितम्। समाधिरष्टमो ज्ञेयस्तदात्मकतया स्थितिः ॥ १२॥। निरन्तर इति।ध्येयस्य ध्यानगोचरस्य ध्येयस्य विषयत्वात्त- तसम्वन्धवानित्यर्थ:, निरन्तरो ध्येयविजातीयविषयप्त्ययैरननत- रितश्चित्पवाहश्चितां वृत्तीनां प्रवाहो जलप्रवाह इव सातत्यं तद्ध्यानं ध्याननाम्नेरितमुक्तम्, अत्र च पतञ्जलेः सूत्रं 'तत्र प्रत्ययैकतानता ध्यानमि'ति 'समाधिमाह समाधिरिति, चित्त- स्येत्यपकर्ष: पूर्वश्रलोकात्, चित्तस्य मनसस्तदात्मकतया तद्धये यमेवात्मा स्वरूपं यस्य तस्य भावस्तत्ता तया ध्येयाकार प-
Page 141
पोगदीक्षाचिन्तामणो पातञ्जलयोगः। १२७
रिणामेनेत्यर्थः, स्थितिः स्थानं समाधि: समाधिनामको ज्ञेयः, स चोक्तेपु योगाङ्रेषु अष्टमः, अयं च सविकल्पक एव सम्प्रज्ञाता- परपर्यायो ज्ञेयः। अत्रैव पतञ्जले: मूत्रं 'तदेवार्थमात्ननिर्भासंस्व- रूपशून्यमिव समाधिरि'ति, अयं च ध्यानपरिणामरूपत्वाद्धया- नभेद एव ॥ १२ ॥। इदानीं योगाङ्गभूतं योगाखयं च समाधिं विवेक्तुं समा- धिभेदमाह। संप्रज्ञातस्तदन्यश्च समाधिर्द्विविधो हि सः । यमादिपञचबहिरङ्गमन्तरङ्गमथापरम् ॥१३॥
संप्रज्ञात इति । स उक्तलक्षणः समाधिर्ध्येयाकारपरि- गामरूपो द्विविधो द्वे विधे प्रकारौ यश्य स तथोक्तः। हि तौ दवौ पकारा प्रसिद्धौ पातञ्जल इत्यर्थः । तावेव प्रकारौ दर्शयति संपरज्ञात इति, संप्रज्ञातः संप्रज्ञातनामैकः, तदन्यश्च तस्मा- त्संप्रज्ञातादन्य इतरश्चासंप्रज्ञात इत्यर्थः । एतत्समाधि- द्वयप्रतिपादके पतञ्जले: सूत्रे, 'शान्तोदितौ तुल्यप्रत्ययौ चि- त्त स्यैकाग्रतापरिणाम' इति 'सर्वार्थतैकाग्रतयोः क्षयोदयौ चि- प्तस्य समाधिपरिणामः' इति च । एतयोरर्थ, शान्तो ह्यतीत उदित उत्पन्नो वर्त्तमान इत्यर्थः, प्रत्यंयः प्रतीतिरनुभव इत्य- र्थः, तावुभौ तुल्यप्रत्ययावेकावपयौ प्रत्ययौ चित्तस्य म- नसो यांद स्तस्तदैकाग्रता परिणाम एकाग्रतयैकविषयतया- परिणामः समाधिः संप्रज्ञातनामा जायत इत्यर्थः । मर्वार्थतै- काग्रतथे।: क्षयोदयौ स्वाभावकी या रजोगुणेन जायमाना चि- नम्य सर्वार्थता तस्या रजोगुणरोधकपयत्रेन योगिकृतेन क्षयो भवति, ततश्र चित्तस्यैकाग्रताया ऐकाग््रलक्षणस्य स्वैर्यस्थो-
Page 142
१२८ बोधसारे।
दपो भवति, तदा चित्तैकाग््रस्य परिणामोडतिस्थैर्य समाधि- रित्यभिधीयते, सोडसंप्रज्ञात इत्यर्थः। अस्य समाधेर्यमादीनि प- श्च वाहरङ्गसाधनानि परण्यन्तरङ्गांन ज्ेयानि ॥१३॥ एवं द्विविरध समाधि प्रतिपादेदोनीं तयोरादयस्य सहेतुका- न्भेदानाह। वितर्केण विचारेणानन्देनास्मितया तथा। अनुस्यूतः समाधिस्तु संप्रज्ञातश्रतुर्विधः ॥१४॥ वितर्केणेति। संप्रज्ञातस्तु संप्रज्ञातनामा समाधिरपि ध्येया- कारपरिणामरूपो वितर्केण परोक्षतया विशिष्टतर्केण ध्येयं गोच- रीकत्य तदाकारपरिणाम एक, विचारेण विवेकेन ध्येयं गो- चरीकृत्य तदाकारपरिणामः समाधिर्द्वितीयः, आनन्देन स्वा- नन्दपतीत्याविर्भावे तदाकारपरिणामस्तृतीय, अस्मितयाSS- त्मसत्वप्रतीत्या तदाकारपरीणामरूपः समाधिश्चतुर्थः। तदेव स्प- प्टमाह अनुम्यूत इति। एतैश्रतुभिरतुस्यूतोऽन्वित इति हेतु- गर्भ. विशेषणमत एव स समाधिश्चतुर् विधश्चतुःप्रकारोडस्ती- ति शेष: ॥ १४ ॥ इदानीमसंपज्ञातभेदं वक्तमसंप्रज्ञातलक्षणमाह। यत्र न ज्ञायते किश्चित्सोऽसंप्रज्ञात उच्यते। द्विवा भतप्रत्ययवानुपायप्रत्ययक् सः॥१५॥ यत्रेति। यत्र समाधौ किश्चिद्धयात ध्यानं वा ध्येयं वा किमपीत्यर्थः, न ज्ञायते न मतीयते सोऽसंपज्ञातोऽसंमज्ञात- नामा समाधिरुच्यते कथ्यत इत्यर्थ, तस्यापि भेदमाह द्वि- धेति, सोऽसंप्रज्ञातनामा समाधिर्भवपत्ययवान्भवत्यस्मादिति भवः मकृतिर्वा महत्तत्वं वा तस्य प्रत्ययोनुभवः स म्रत्ययो वि-
Page 143
योगदीक्षाचिन्तामणी पातञ्जलयोगः। १२९
द्यते यत्र सूक्ष्मरूपेण स तथोक्त एक, उपायप्रत्ययस्तूपैति अनेनेत्युपायः स्वमापकः स च प्रत्ययोऽनुभवो यत्र स तथोक्त आत्मस्वरूपप्रापकानुभववानित्यर्थः, सोपि एवं द्विधा द्विमकारो ज्ञेय इति शेषः ॥ १५ ॥ तयोराद्यमुदाहृत्य स्परष्ट दर्शयति। मूढानामपि जायेत तपोदार्ढ्र्यान्मनोलयः । प्रकृतौ वा महत्तत्वे भवप्रत्यय एव सः ॥१ ६॥ मूढा नामिति। मूढानामपि अज्ञानिनामपि तपोदार्ढ्यात्त- पसो दार्ढ्ये निरन्तराचरखेन दृढता ततः प्रकृतौ गुणसाम्याव- स्थारूपायां महत्तत्वे वा सत्वगुणवति प्रकृतिविकारे वा मनो- लयो मनसोन्तःकरणस्य लयो नाशो जायेतोत्पद्येत स भव- प्रत्यय एव भवप्रत्यनामा समाधिरसम्पज्ञात एव ज्ञेयः ॥ १६ ॥ नन्वयं समाधि: कस्य जात इत्याशद्कात्रोदाहरणं दर्शयति। तैलोक्यराज्यकामस्य हिरण्यकशिपोर्यथा। शरीरं क्रिमिभिर्भुक्तं वल्मीकेनापि संवृतम् ॥१७॥ त्रैलोक्येति। त्रैलोक्यराज्यकामस्य त्रैलोक्यस्य यद्राज्यं त- स्मिन्काम इच्छा यस्य तस्य हिरण्यकशिपोर्दैत्यस्य यथा येन समाधिप्रकारेण शरीरं देहः क्रिमिभि: कीटकैः भुक्तं भक्षित व- ल्मीिन संतृतमपि अवरुद्धं च तत्तेन न ज्ञातं स तस्य समा- धिर्भवप्रत्ययनामाऽसंप्राज्ञात इति भावः ॥१७॥ एवं भवप्रत्यय नामानमसंप्रज्ञ।तसमाधि प्रदर्श्येदानीमुपायम- त्ययमसंप्रज्ञातं दर्शयति। श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकम् । १७
Page 144
१३० बोधसारे।
मनोलयो मुनीन्द्राणामुपायप्रत्ययस्तु सः ॥१८॥ श्रद्धेति। श्रद्धावीर्यस्मृतिप्रज्ञाकामवर्जनपूर्वकं श्रद्धा च गुरुवेदान्तवाक्येपु विश्वासः, वीर्यमिन्द्रियदमन उत्साहः प्रापश्चि- कसुखमतीतावपि अनुद्वेगश्च शीतादि सहिष्णुत्वमपि, स्मृति- गुरुमुखाचुतस्य श्रुतिस्मृत्युदितार्थस्याविस्मरणं, प्रज्ञा वैराग्यादि संस्कारपूर्विका शुद्धा महावाक्यार्थनिष्ठा बुद्धिः, कामवर्जनं चात्मज्ञानं वा समाधाने कामनापूर्वकमितरकामनिष्ृत्तिरि- त्यादि पूर्व साधनभूत यस्य स मनोलयो मुनीन्द्राणां श्रेष्ठमु- नीनां मनसोन्तःकरणस्य लयो नाशो यो भवति स तूपाय- प्रत्यय उपायपत्ययनामा समाधिर्जञयः ॥१८॥ एवं षड्धिधं समाधि प्रदरश्येदानीं समाध्युत्थितानां पुनः समाधिं प्रविविक्षतां तत्सिद्ध्यर्थमुपायमाह। उक्तं व्युत्थितचित्तानां समाधानमभीप्सताम् । तपश्च वेदपाठश्च सर्वकर्मार्पणं हरौ॥ १९ उक्तमिति। व्युत्थितचित्तानां वासनोद्धोधेन समाधितो व्युस्थितमागतं संसारे चित्तं मनो येपां तेषां समाधानं नि- रोधापरपर्यायमसंपज्ञातसमाधिमीप्सतामिच्छितवर्तां तपश्च वि- चारोपि एक: 'तप आलोचन' इत्यनुशासनादुपायोस्तीति भावः, तथा वेदपाठश्चोपनिपदादीनामर्थविचारपूर्वकं पठन- मपि द्वितीय उपायः, तथा हरौ सर्वद्वैतहरणस्वभावे ब्रह्मणि स- रवकर्मार्पणं सर्वेषां समर्पणसहितानां समर्पणं 'नान्योतोस्ति द्रष्ट नान्योतोस्ति श्रोते'त्यादिश्रुतिदशितदृशा कर्तृत्ादित्रिपुटीवाध- रूपं तृतीय उपायः, एतरुपायैः पुनश्चित्तस्थैर्ये स्यादिति भावः॥१९॥
Page 145
योगदीक्षाचिन्तामणी पातञ्जलयोगः। १३१
एवं पुनः समाधिप्रवेशोपायं प्रदश्येदानीं पुरुपस्य ध्येयं द- र्शयितुं पुरुषादीश्वरे वैलक्षण्यमाह सपादन। क्ेशकर्मविपाकैश्र चित्ररूपैस्तदाशयैः । अपरामृष्ट एवैकः कश्चित्पुरुष ईश्वरः ॥ २०॥ क्लेशेति । क्लेशकर्मविपाकैः क्ेशाः पश्चाविद्यास्मितार।गद्वे- पाभिनिवेशा:। कर्माणि सश्चितपारब्क्रियमाणाख्यानि अशुक्र- कृष्णानि योगिनामितरेपां शुक्ककृष्णलाहितानि वा; अस्मिन्नर्ये- पतञ्जले: सूत्रं, 'कर्माशुक्काकृष्णं योगिनस्त्रिविधमितरेषा।'मति। विपाका आयुर्जातिभोगाख्याः कर्मफलरूपास्तैः सवैः। चित्ररूपै- स्तदाशयैविषयवैचित्र्येण चित्राणि परस्परं विलक्षणानि रू- पाणि येषां तैस्तदाशयैस्तेषां ल्लेशकर्मविपाकानामाशया वासनास्तैरपि अपरामृष्टोऽस्पृष्टः कश्चित्कोपि वस्तुतःपुरुषा- द्विन्नवेनाभिन्नलेन वा भिन्नाभिन्नत्वेन वा वैलक्षण्याभावान्नि देशानहः पुरुष एव विशेष: पुरुष एवेत्यर्थः। ननु पुरुषत्वावै- शिष्टये कुतो विशेषत्वं तदभावे च कुतो ध्येयत्वं सामान्यपु- रुपे च ध्यातृत्वं चेत्याशड्का तमेव विशेषं दर्शयति एक इत्या- दिविशेषणैः, एक: पुरुषस्तु व्यवहारेऽनेकोडयं ध्येयो विशिष्ट- पुरुषो एक भेदरहितः। ननु ध्यातृरूपः पुरुषस्तत्वतो भिन्न ए- वेत्याशङ्काह स ईश्वरो नियन्ता सर्वेपां पुरुषाणामीशनादिश- क्तिमानित्यर्थः, अयं पुरुषस्तस्य नियम्य इति भावः ॥२०॥ नन्वेतस्यापि नियम्यत्वं न वास्तवमित्याशङ्का विशेषान्तरमाह। स सर्वज्ञः स्वभावेन प्रणवस्तस्य वाचकः । तदयं भावनापूर्व तज्जपो मोक्षसाधनम् ॥ २१ ॥ स इति। स विशिष्टः पुरुपः स्वभावेन स्वत एव सर्वज्ञः
Page 146
१३२ बोधसारे।
सर्वे सामान्यतो विशेषतश्च जानातीति सर्वज्ञः, तस्य स्वतः स- र्वज्ञत्वमेतस्य तु साधनसाध्यमित्ययं भेदोस्तीति स एवात्र यो- गेषु ध्येयो विषय इति भाव:, एवं ध्येयस्वरूपं निर्गीय तदर्थ- प्रतिपादकं मन्त्रं जपायाह। प्रणव इति, तस्य ध्येयतया विशिष्टपुरुषस्येश्वरस्य वा- चको नाम प्रणव ओङ्कारस्तदयं प्रणवो मन्त्रो ज्ञेयः, तज्जप- स्तस्य प्रणवस्य जप उपाश्वावृत्तिरूपो भावनापूर्व तदर्थविचा- रपूर्व प्रेम्णा यथा तथा कार्य इति शेषः, स च मोक्षसाधनं मो- क्षस्य प्रपश्चनिवृत्तिरूपाया मुक्तेः साधनमुपायोस्ति, ततो मोक्ष: स्यादिति भाव:॥२१।। इदानीं योगोपदेशकशास्त्रस्य चातुर्विध्यं दर्शयितुं दृष्टा न्तमाह। यथा रोगस्तन्निदानं भेषजं चाप्यरोगता। विवेचनीयभेदेन चिकित्सास्ति चतुर्विधा ॥ २२॥ यथेति। यथा याद्य्रोगो रोगस्वरूपनिर्णायकप्रकरण- विभाग:, तन्निदानं तस्य रोगस्य निदानं मूलकारणं तत्प्रतिपा- दको ग्रन्थविभागो, भेषजं च तनन्निवर्त्तकमौषर्धं तत्प्रतिपादक- मपि, अरोगता फलं तत्प्रतिपादकं प्रकरणम्। एवं विवेचनीयभेदेन विवेक्तुं पृथक्कृत्य दर्शयतुं योग्यस्य विषयस्य भेदेन भिन्नत्वेन चिकित्सा चिकित्साशास्त्रं चतुर्विधा चतुःप्रकाराऽस्ति वर्त्तते।।२२॥ दार्ष्टान्तिकमाह। जन्मदुःखं तथा मोहो विज्ञानं च विमुक्तता। विवेचनीयभेदेन योगशास्त्रं चतुर्विधम् ॥ २ ॥ जन्मेति। तथा तद्वज्जन्मदुःखं जन्मनो दुःखरूपत्वप्रतिपादकं
Page 147
योगदीक्षाचिन्तामणी पातञ्ञलयोगे:। १३३
योगप्रकरणं, मोहो मूलाज्ञानं तत्स्वरूपप्रतिपादकं प्रकरणं च, विज्ञानं च विज्ञानप्रतिपादकं तत्साधनप्रतिपादकं च पकरणजातं, विमुक्तिता विमुक्ति: स्वस्वरूपेणावस्थानं तस्य प्रतिपादकं शा- स्त्रम्, एवं विवेचनीयभेदेन चतुर्विधत्वेन योगशास्त्रं चतुर्विधं योगपतिपादकं शास्त्रं चतुःप्रकारं ज्ञेयमिति शेषः ॥ २३ ॥ इदानीं मोहस्वरूपं तस्य दुःखफलत्वं च तन्निवर्त्तकज्ञान स्वरूपं तत्फलभूतां दुःखनिवृतिं च क्रमेण दर्शयति। अविवेक: पुंप्रकृत्योः स मोहो दुःखकारणम्। समत्वपुरुषान्यत्वख्यातिबोधेन नश्यति ॥ २४॥ अविवेक इति। यः पुंपकृत्योः पुरुषस्य प्रकृतेश्च।विवेकः पृथगज्ञानं स स एव मोहयति स्वाधीनं पुरुषमिति मोहोऽज्ञानं स एव दुःखकारणं जन्ममरणस्वरूपभूतस्य दुःखस्य कारणं हे तुरस्ति, स च मोहः समत्वपुरुषान्यत्वख्यातिबोधेन समत्वं गुणसाम्यरूपत्वं प्रकृतेस्तस्य, पुरुषोSसङ्गाद्यनित्यानन्दस्वरूप- स्तस्य चान्यत्वं वैलक्षण्येन पृथत्कं तस्य ख्यातिः ख्यायते प्र- कथ्यते जनया सा ख्यातिरुभयोर्भिन्नत्वप्रतिपादिका सांख्य- योगस्मृतिवाग्वेदान्ताविरोधिनी तस्या बोधेन ज्ञानेन नश्यति नष्टा भवति, ततो दुःखमपि नश्यति च्छत्रापाये च्छायापायन्याये- नेति भाव:॥ २४।। एवं ससाधनं योग सफलं प्रतिपाद्येदानीं तदभ्यासिनां विघ्नरूपासु सिद्धिषु नादर: कार्य इत्याह। योगाभ्यासप्रसक्तस्य सिद्धयो भोगदायिकाः ! आयान्ति नादर: कार्यो ह्यन्तराया मता यतः॥२५॥ १ तन्निवर्तकविज्ञानप्रतिपादकं तत्साधन प्रतिपादकश्च।
Page 148
१३४ बोधसारे।
योगेति। योगाभ्यासपसक्तस्य मुक्तीच्छयोक्तलक्षणस्य यो- गस्याभ्यासः पुनः पुनरावृत्तिस्तस्मिन्प्रसक्तः सस्नेहस्तस्य पु- रुपस्य भोगदायिका भोगं दत्वा तल्ोभेन योगभ्रंशहेतुभूता: सिद्धयः दूरश्रवणदूरदर्शनाकाशगमनादय आयान्ति प्राप्तु- वन्ति, तासु योगिनाऽSदरः पीतिर्न कार्यो न कर्तव्यः, कुत इत्यत आह हीति, यतो हेतोरन्तराया योगस्य विघ्नरूपा मता ज्ञाता योगिभिरिति शेषः । अत्र पतञ्जले सूत्रं 'ते समा- धावुपसर्गा व्युत्थाने सिद्धय' इति ॥ २५॥ ननु ताः सिद्धयो लक्षणतः कारयतः कार्यतश्च निरूपि- तव्या इत्याशख्कानुपयोगान्न निरूपणं तासामत्र क्रियते इत्याह। धारणाध्यानवैचित्र्यात्सिद्धिभेदो य ईरितः । अत्यन्तानुपयोगित्वात्स तु नात्र निरूपितः ॥।२६।। इतिपातञ्जलो योगः । इति श्रीनरहरिकृतौ बोधसारे योगदीक्षाचिन्तामणौ पातञ्जलयोगः । धारणेति। यः पातञ्जले धारणाध्यानवैचित्र्याद्धारणानां ध्या नानां च यद्वैचित्रयं वैलक्षण्यं तस्मात्सिद्धिभेदः सिद्धीनामा- काशगमनादीनां भेदः पार्थक्यमीरित उक्तः, स तुस चात्य- न्तानुपयोगित्वादत्यन्तं निरन्तरमनुपयोगित्वादुपयोगाभाव- वत्वेनात्रास्मिन्ग्रन्थे न निरूपितो न प्रोक्तः ॥२६।। इतीति पातञ्जलः पतञ्जलिना प्रोक्तो योग इति संपूर्ण इत्यर्थः। इति श्रीनरहरिशिष्यदिवाकरविरचितायां वोधसारार्थदीपी योगदीक्षाचिन्तामण्यर्थप्रकाशे पातञ्जलयोगार्थप्रका- शः प्रथम: ॥१॥
Page 149
योगदीक्षाचिन्तामणी रैवो मन्त्रयोग:। १३१
एवं पातञ्जलं योगं निरूप्येदानीं शैवयोगनिरूपणं म- ति जानीते। अथ रैवयोगः । योगः शैवो निरूप्यते मन्त्रो लयो हठो राजयोगो योगश्चतुर्विधः ॥ १॥ अथ मन्त्रयोगः । योग इति। हे शिष्य शैव: शिवेन प्रोक्तः 'तेन प्रोक्तमि'ति तद्धितोऽण्, योगो योगसाधनप्रतिपादकं शास्त्रं निरुप्यते कथ्यते त्वं शृणु, एतस्य भेदानाह मन्त्रो मन्त्रयोगः, लयो लययोगः, हठो हठयोगः, राजयोगः। एवं योगो योगसाधनं चतुर्विधश्चतुःप्रका- रमित्यर्थः ॥१॥ एवं शैवयोगान्नामभेदेन चतुरः प्रदर्श्य तत्र तावत्प्रथमं प्रधानमन्त्रोदाहरणेन दर्शयति त्रिभिः । नारायणाष्टाक्षरवासुदेवद्वादशाक्षरौ। नृसिंहरामगोपालमन्त्रास्ते तापिनीस्तुताः ॥२॥। नारायणेति। नारायणाष्टाक्षरवासुदेवद्वादशाक्षरौ नारा- यणस्य जलशायिनो जीवान्तर्यामिणो वा सर्वजगत्साक्षिणो वाऽट्टाक्षरोऽष्टावक्षराणि वर्णा यस्मिन्स नारायणाशाक्षर ऊनमो नारायणायेत्येवं रूप एको मन्त्रः, तथा वासुदेवस्य वसु- देवपुत्रस्य सर्वभूतनिवासस्य यद्वा वा विकल्पेनामून्पाणाद्यु- पाधीन्दीव्यति प्रकाशयतीति वासुदेवो जगतोऽसत्वादप्रका- शकस्तत्सत्वेन प्रकाशकश्चेत्यर्थः, तस्य जगत्पकाशकत्वाप्रकाश- कत्वाभ्या लक्षितस्य परमात्मनो वा द्वादशाक्षरो द्वादशाऽक्ष-
Page 150
१३६ बोधसारे।
राणि वर्णा यत्रेति स तथोक्त ऊनमो भगवते वासुदेवायेति मन्त्रो द्वितीयः, तथा नृसिंहरामगोपालमन्त्रा नृसिंहस्य रामस्य गोपालस्य च मन्त्रा ये सन्ति ते तापिनीस्तुतास्तापिनीषु स्तु- ताः प्रोक्तास्तापनीयोपनिषत्सु प्रतिपादिता इत्यर्थः ॥ २ ॥ शैवानपपि प्रधानान्मन्त्रानाह । शिवपञ्चाक्षरी श्रेष्ठा दक्षिणामूर्त्तिरुत्तमा । यतीनां तु महावाक्यं केवल: प्रणवस्तथा ॥ ३॥ शिवेति । शिवस्य परमानन्दरूपस्य पश्चाक्षरी पञ्चानामक्ष- राणां वर्णानां समाहारः पश्चाक्षरी नमः शिवायेति विद्या म- न्त्ररूपा श्रेष्ठोत्तमा शैवमन्त्रेष्वित्यर्थः, तथा तेष्वेव दक्षिणामूर्ति- दक्षिणामूर्त्तेरुपासना मन्त्रावृत्तिरूपोत्तमा श्रेष्ठेत्यर्थः, उक्तेषु मन्त्रेषु सर्वाधिकारः, नियमितानाह यतीनां तु संन्यासिनामेव केवलं महावाक्यं तत्वमसीत्यादिरूपं मन्त्रः, तथा केवल एक: प्रणव ऊँकार एव मन्त्रः ॥ ३ ॥ एवं मन्त्रान्पदरश्येदानीं तदुपसंहारपूर्वकं तत्फलं चाह। इत्यादयो महामन्त्राः पुरश्चर्यादिभिः कमैः। सिद्धा देवप्रसादेन सदो मुक्तिप्रदा मताः ॥४॥ इति श्रीनरहरिविरचिते बोधसारे योगदीक्षाचिन्तामणौ मन्त्रयोगः। इत्यादय इति। इत्यादय इति एवं निरूपिता मन्त्रा आदयः प्रमुखा येषां ते सर्वे सात्विका अतो महामन्त्राः श्रेष्ठा- मन्त्रास्ते पुरश्चर्यादिभिः क्रमैः पुरश्चर्याः पुरश्वरणानि आदीनि येषां ध्यानादीनां तैश्र क्रमैरनुष्ठानैः सिद्धाः स्वाधीनीभूताः सन्तः देवप्रसादेन देवस्याराध्यस्य कृपया सदयस्तत्क्षण मुक्ति-
Page 151
योगदीक्षाचिन्तामणौ शैवो हठयोगः । १३७
प्रदा मोक्षदा भवन्तीति मता अङ्गीकृता मुनिभिरिति शेष: ॥।४॥ इति श्रीनरहरिशिष्यदिवाक्करविरचितायां बोधसारार्थदीतौ योगदीक्षचिन्तामयर्थप्रकाशे मन्त्रयोगार्थप्रकाशो द्वितीय: ॥२॥
अथ हठयोगः । एवं मन्त्रयोगं प्रतिपाद्येदानीं हठयोगाख्यमेकोनविशति- श्ोकं प्रकरणमारभते, तत्र तावद्धठयोगमुख्यक्रिया तत्फलं चाह। गङ्गायमुनयोर्मध्ये बालरण्डां तपस्विनीम् । बलात्कारेण गृह्लीयात्तद्विष्णो: परमं पदम् ॥ १ ॥ गङ्गेति। गङ्गायमुनयोर्गङ्गात्रेडानाम्नी नाडी वामनासा- पुटवर्त्तिनी वायुसश्चरणाय सूक्ष्मा धमनीव स्थिता, यमुना च पिङ्गलानाम्नी नाडी दक्षिणनासापुटवर्त्तिनी वायुप्रचाराय सूक्ष्मा धमनीव स्थिता, तयोमध्ये मध्यदेशवर्त्तिनीं तपस्विनीं- प्रकाशबहुलां वालरण्डां बाल: केशः स इव सूक्ष्मां रण्डां वा- युसश्चारवतीं सुपुम्णां नाडीमित्यर्थः, वलात्कारेण प्राणाया- माद्यभ्यासेन गृह्लीयाद्वशीकुर्यात्तत्तस्या वशीकरणमेव वि- ष्णोव्यापनलक्षणस्य परमात्मनः परमं.केवलं मायातत्कार्याभ्या- मस्पृष्टं पदं स्वरूपं ज्ञेयं, सुपुम्णावशीकार एव फलं हठयोग- स्येति भावः ॥। १ ॥ तदेतस्मिन्योगे गोरक्षसंमतिमाह। तत्रगोरक्षः । तत्रेति। तत्रोक्ते हठयोगे गोरक्षो गोरक्षोप्याहेत्यर्थः, त- च्छोकं पठति। १८
Page 152
१३८ योधसारे।
एतद्विमुक्तिसोपानमेततकालस्य वञ्चनम्। यद्यावृत्तं मनो भोगादासक्तं परमात्मनि ॥ २ ॥ एतदिति। यन्मनोन्तःकरणं भोगाद्विषयजन्यसुखाव्या- वृत्तं निद्टत सत्परमात्मनि कार्यकारणाभ्यामतीत आत्मनि- आसक्तं स्थिरं जातं तदित्यव्याहार्य, तदेतदिदं, विमुक्तिसोपानं विमुक्तेर्मोक्षस्य सोपानमारोहणमार्गः, तथैतदिदं कालस्य मृत्योर्वश्चनं जयसाधनमेतेनोपायेन मृत्युरपि निवृत्तः स्या- दिति भावः॥२॥ इदानीं साधनान्याह। परमं यदि वैराग्यमाहारस्तु यथोदितः । नित्यमेकान्तवासश्रेढटयोगो न दुर्लभः ॥ ३ ॥ परममिति। परमं ब्रह्मपदान्ते वैपयिकसुखे काकविष्ठा- यामिव वैतृष्ण्यं वैराग्यमरुचिर्यदि स्यात्तर्हि, किश्चाहारश्व यथोदित आहारो भोजनमपि यथोदितो याद्टगुक्तः शास्त्रेष्विति शेपः, तच्चोक्तं 'दौ भागौ पूरयेदन्नैर्जलेनैकं प्रपूरयेत। शेषं वायोः प्रचारार्थ भागं शिष्येत वै बुध' इति, तथा नित्यं निरन्तरमे- कान्तवासो जनसम्वाधरहितस्थाने वासः स्थितिर्यदि स्या- प्तहि हठयोगो दुर्लभो लब्धुमशक्यो न न भवति ॥ ३ ।। मुख्यं साधनमाह। परन्तु गुरुदीक्षाभिर्लभ्यते नान्यथा त्वयम्। व्यतिक्मे महान्दोषः क्रमलाभे महान्गुणः ।।४।। परं त्विति। परन्तु वैराग्यादिसाधनेषु सत्स्वपि अयं हठ-
Page 153
योगदीक्षाचिन्तामणौ शैधो हठयोगः। १३९
योगो गुरुदीक्षाभिर्गुरुभिः कृता दत्ता दीक्षा गुरुदीक्षा म- ध्यमपदलोपी समासः, ताभिः कृला लभ्यते पाप्यतेऽ्न्यथा तु गुरुदीक्षां बिना न न प्राप्यते इत्यर्थः, व्यतिक्रम उक्ताहारा- दिवैपरीत्ये सति महान्दोषो मरणान्तोनर्थः स्यात्,क्रमलाभ उक्तसाधनक्रमेण लाभे हठस्य प्रास्तौ सत्यामित्यर्थः, महान्गुणः सर्वदु:खनिव्टत्तिरूप: श्रेष्ठो गुयाः स्याद् ॥४॥ अस्य प्रामाण्यसिद्धये संप्रदायज्ञानाय चाचार्यमाह। अनन्तविस्तारमयो हठः प्रोक्तः पुरारिणा। सारं तु बन्धत्रितयं तावता सिद्धिराप्यतै ॥ ५॥ अनन्तेति। पुरारिणा त्रिपुरशत्रुणा त्रिपुटीलक्षणत्रिपुर- नाशकेन वा स्थूलसूक्ष्मकारणाख्यत्रिपुरसंहर्ता वोक्तलक्ष- णत्रिपुरनाशायैवानन्तविस्तारमयो न विद्यतेन्तः पारो यस्य स विस्तारस्तेन प्रचुरो हठो हृठयोगः प्रोक्तो वर्णितः, तत्न त सारं मुख्यं बन्धत्रितयं वध्यन्ते रोध्यन्ते प्राणा एभिस्ते ष- न्धास्तेषां त्रितयं त्रयं प्रोक्तं तावता तु तावन्मात्रेणैव सिद्धि- र्मुक्तिरथवा यस्य येप्सिताSSकाशगमनादिका सापि आ- प्यते प्राप्ता भवति ॥५ ॥ तदेव वन्धत्रितयं स्थानतो नामतश्च दर्शयति। मूले तु मूलबन्धः स्यान्मध्ये स्यादुडियानकः । कण्ठे जालन्धरस्तेन सिद्धो भवति मारुतः ॥६॥ मूलेत्विति। मूलबन्धस्तु मूलं मूलाधारं वध्यते रोध्यते- नेनेति मूलबन्धः स च मूले मूलाधारे स्याद्वेद्, उडियानक एतलामको बन्धो मध्ये स्वाधिष्ठानादौ स्याद्भवेन, कण्ठे वि-
Page 154
१४० बोधसारे।
शुद्धिचक्रादिस्थाने जालन्धरो जालं मुखनासानेत्रकर्णच्छद्राणां जालमिव प्राणवायोः सश्चारद्वारं धरति अवरोधयतीति जा- लन्धर एतन्नामा वन्धः स्याद्भवेद्, एतेपा फलमाह तेन बन्ध- त्रयेण मारुतो वायुः सिद्धः स्वाधीनो भवति जायते ॥ ६ ॥ इदानीं स्वाधीनीभूतवायोर्ब्रह्मरन्ध्रं नीतस्य फलंदर्शयति। कुण्डलिन्याः सुषुम्णायां प्रविष्टो ब्रह्मरन्ध्रतः । मूलस्थाने स्थिता शक्तिर्व्रह्मस्थाने सदाशिवः॥७॥ कुण्डलिन्या इति। स एव मारुतो कुण्डलिन्या: कुडलिनीं प्रविश्यानन्तरं सुपुम्णायां सुषुम्णाख्यनाड्यां प्रविष्टः प्रवेशं कृला ब्रह्मरन्ध्रतः ब्रह्मरन्धाख्ये सप्तमे चक्रे प्रविष्टो भवति; तस्मिंश् तत्र स्थिरे सति किं फलं तत्राह मूलेति, शक्ति: कु- ण्डलिनी मूलस्थाने मूलाधारे स्थिता तिष्ठति, ब्रह्मस्थाने व्र- ह्मरन्धरस्थाने सदाशिवः सर्वदा सुखरूपः कूटस्थः परमात्मा- डस्ति, तयोः समायोगो वायोः स्थैर्यफलमिति भावः ॥७॥ शिवशक्तिसमायोगहेतुलेनाजपाजपं विधत्ते। अजपा नाम गायत्री योगिनां मोक्षदायिनी। तस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥८॥ अजपेति। अजपा नाम स्वयमेवोच्छ्रासनिश्वासरूपेण प्रयत्नं विना प्रवर्त्तमानलादजपेति प्रसिद्धा गायत्री हंसः सो- हमित्येवं सकारेण शक्तिवाचकेन हकारेण शिववाचकेन चो- भयोः सामानाधिकरण्येन शिवशत्त्यैक्यमनुसन्धाय गायन्तमु- च्चरन्तं तायते रक्षतीत्यतो गायत्री, यद्वा गायत्री प्रकृतित्वादपि गायत्रीव जपार्हा सा जप्ता चेद्योगिनां योगाभ्यासवतां योग- सिद्धिं दत्वा मोक्षदायिनी संसारान्मुक्तिदायिनी मुक्तिदात्री
Page 155
योगदीक्षाचिन्तामणौ शैवो हठयोगः । १४१
स्यादतस्तस्या अजपाया सङ्कल्पमात्रेण केवलं सङ्कल्पेनैव सर्वपापैः समस्तपातकै रागद्वेपादिरूपैः कर्तृभिः सङ्कल्पक्त्ता मुच्यतेऽत्यन्तं त्यज्यते कि पुनस्तस्या अनुसन्धानपूर्वकजपेन मुच्यत इति वक्तव्यमिति भावः ॥८।। इदानीं प्राणस्थैर्यार्थ द्वारभूतानि चक्राण्याह द्वाभ्याम्। आधारं प्रथमं चक्रं. स्वाधिष्ठानं तथैव च। मणिपूरं तृतीयं स्याच्चतुर्थकमनाहतम् ॥ ९ ॥ आधारमिति। आधारमेतन्नामकं चक्रं स्थानं प्रथममाद्यं भवति, स्वाधिष्ठाननामकं स्थानं च तथैव द्वितीयमित्यर्थः, तथा मणिपूरमेतन्नामकं स्थानं तृतीयं स्याद्भवेद्, अनाइतमनाहतसंजं चक्रं चतुर्थकं तुरीयं भवति ॥ ९॥ विशुद्धि: पञ्चमं चक्रमाज्ञाचक्रं तु षष्ठकम्। सप्तमं ब्रह्मरन्ध्रं स्याञ्जूमरस्य गुहा हि सा ॥१०। विशुद्धिरिति। विशुद्धिनामकं चक्रं स्थानं पश्चमं भवति, आज्ञाचक्रं तु आज्ञाचक्रनामकं स्थानं च पष्ठकं पछठं भवति, व्र- ह्रन्ध्रं ब्रह्मरन्धनामकं स्थानं सप्तमं स्याद्रवेत्, तस्यैव ग्रन्थभेदे नामान्तरमाह भ्रमरस्येति, सा हि भ्रमरस्य सैव भ्रमं राति मोहमादत्ते जीवभावेनेति भ्रमरः परमात्मा तस्य गुहा गुहत आवृणुते परमात्मा शुद्धजीवस्त्वंपदलक्ष्यो यस्यां सा गुह्ा स्थानं तदित्यर्थः ॥ १० ॥ इदानीं सत्स्वन्येप्वासनेपु मुख्यत्वेन सिद्धासनं लक्षयति। योनिस्थानकमङ्ध्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम्।
Page 156
१४२ बोधसारे।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं ह्येतन्मोक्षकपाटभेदनकरं सिद्धासनं प्रोच्यते॥११॥ योनीति। अङ्गिमूलघटितं पादमूलेनामर्दितं योनिस्था- नकं शिश्नस्थानं कृत्वाऽडवद्ध्य, अथानन्तरं मेठ्रे दृपयामूल एकं द्वितीयं पादं चरणां नियतमेव नित्यमेव दृढं गाढं यथा भवति तथा विन्यसेत्संस्थापयेत्, ततश्च विग्रहं शरीरं समं समानग्री- वाद्यवयवं कृत्वा संयमितेन्द्रियो नियमितबाह्येन्द्रियः स्थाणुः स्थाणुश्छिन्नव्ृक्षमूलं तद्वत्स्थिरश्र भूत्वा, अचलद्दशा स्थिरतारया दृष्ठ्या भ्रुवोर्भ्जकुट्योरन्तरं मध्यं पश्यन्सन्, एतदित्यादिल- क्षणैर्लक्षितं हि प्रसिद्धमेतद्वठयोग इत्यर्थः, मोक्षकपाटभेदनकरं मोक्षस्य मुक्ते: कपाटमिवावरकमज्ञानं यद्वा मोक्षस्य शिवशक्ति- समायोगाख्यस्य साम्यस्थितिरूपस्य च कपाटानि मूलाधा- रादि व्रह्मरन्धान्तानि चक्राणि तेषां पूर्वोक्तकपाटसहि- तानां भेदनं भेद उद्धाटनं तस्य करं कर्त सिद्धासनं सिद्धास- ननामकं प्रोच्यते कथ्यते योगिभिरिति शेषः ॥ ११॥ एवमासनं प्रदर्श्येदानीं शक्तिप्रबोधनप्रकार निरूपयति द्वाभ्यां। कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु सिद्धासनं गाढं वक्षसि सन्निधाय चुबुकं ध्यानं ततश्चेतसि। वारं वारमपानमू्ध्वमनिलं प्रोत्सार्य सन्धारय- न्प्राणं मुश्चति बोधयंश्र शनकैः शक्तिप्रबोधो भवेत्॥१२॥ कृत्वेति । पूर्वमुक्तलक्षणमेव सिद्धासनं दृढतरमतिगाढं वध्वा प्रसाध्य करौ हस्तौ ततोनन्तरं सम्पुटितौ सम्पुटाकारौ कृत्वा चुबुकं तु मुखाधोगलादूर्ध्वमव्रयवश्चुयुकस्तमपि वक्षसि
Page 157
योगदीक्षाचिन्तामणौ शैवो हठयोगः । १४३
कण्ठादघोभागे वक्षोमध्ये गाढं हढ सन्निधाय संस्थाप्य ततस्त- दनन्तरं चेतसि चित्ते ध्यानं ध्येयानुसन्धानं सन्निधाय कृत्वा- डपानमनिलधोवर्त्तिनमपाननामानं वायुममुपरितने देशे वारं वारं पुनः पुनः प्रोत्सार्य प्रचार्य प्राणं प्राणवायुं सन्धारयन्न- वरुन्धन्सञ्छनकैश्चिरेण शक्तिं कुण्डलिनीं प्रबोधयन्व्युत्थाप- यन्सन, एवं शक्तिप्रबोध: शक्ते: कुण्डलिन्याः प्रवोधो व्युत्थानं भवेत्स्यात, एवं कृते सा मुश्चति स्थानं मूलाधारमित्यर्थः ॥१२॥ पुच्छे प्रगृह्य भुजगीं सुप्तां प्रबोधयेत्सुधीः । निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते बलात्॥१ ३॥ पुच्छ इति। सुधीर्गुरुशिक्षया स्वतश्र कुशलमतिः सु्प्ता निद्रितां संसारस्वम्वतीमविद्यानिद्रावतीं वा पुच्छे मूलाधार- स्थितपुच्छे प्रगृह् सन्धार्य प्रबोधयेत्संसारविमुखलं सम्पाद्य शिवसंमुखत्वं सम्पादयेत्, ततः सा शक्ति: कुण्डलिनी निद्रां प्रपश्चसंमुखतां स्वरूपाज्ञानतां वा विहाय त्यत्क्का बलाद्वेगेनो- धर्वे व्रह्मरन्ध्रप्रदेशमुत्तिष्ठत ऊर्ध्वमुखी भूत्वा चलति ॥१३ ॥ ननु वायुलयस्य किंफलं तत्राह। ऊर्ध्व निलीनप्राणस्य त्यक्तनिःशेषकर्मणः । योगेन सहजावस्था स्वयमेव प्रजायते ॥ १४ ॥ ऊर्ध्वमिति। ऊर्ध्व ब्रह्मरन्धे निलीनप्राणस्य निःेषं लीनो नष्टः प्राणो यस्य तस्याऽत एव त्यक्तनिःशेषकर्मणस्त्यक्तानि निःशेषाणि समस्तानि कर्माणि येन स तथोक्तस्तस्य योगेन शिवशक्तिसमायोगेन सहजावस्था सहजास्थितिर्जीवन्मुक्ति- रित्यर्थः, स्वयमेव स्वत एवेत्यर्थः, प्रजायत उत्पद्यते पाप्ता भ- वेदित्यर्थः ॥ १४॥
Page 158
१४४ बोधसारे।
ननु 'ज्ञानादेव तु कैवल्यं पाप्यते येन मुच्यते' इत्यादिश्रु- त्या मोक्षस्य ज्ञानसाध्यत्वमुक्तं किं शिवशक्तिसमायोगेन तत्सा- धनभूतह्ठयोगेन वेत्याशङ्क मनोनाशस्य हठयोगजत्वात्तेन विना तन्नाशाभावे ज्ञानाभावान्मोक्षो न स्यादित्याशयेन शिव-
ज्ञानं कुतो मनसि जीवति देवि याव- त्प्राणो न नश्यति मनो म्रियते न तावत्। प्राणो मनो द्वयमिदं प्रलयं प्रयाति मोक्षं स गच्छति नरो न कदाचिदन्यः ॥१५॥ ज्ञानमिति। हे देवि हे पार्वति मनसि अन्तःकरणे जीवति विद्यमाने सति ज्ञानं जीवव्रह्मैक्यज्ञानं कुतो न कुतोपि स्यादि- त्यर्थः, तहि मनो नाश: कदा स्यात्तत्राह प्राण इति, यावत्माणो जीवोपाधिभूतो मनसश्चाश्चल्यहेतुवायुर्न नश्यति नष्टो न भ- वति तावत्तावत्कालं मनोन्तःकरणं न म्रियते नैव नश्यतीत्यर्थः, अतः प्राणो मनश्चाश्चल्यहेतुः पवन मनश्च प्राणजीवनहेतुभूत- मधिष्ठानसहितमन्तःकरणप्रतिबिम्वितं चैतन्यं सङ्कल्पधर्मीदं द्यमेतद्युग्मं यस्य योगाभ्यासवतो हठेन प्रलयं प्रयाति नाशं प्रामोति स नरः स पुरुषो मोक्ष मुक्तिसाधनभूतं ज्ञानं गच्छति प्राम्नोति अन्य उभयलयरहितः पुरुषः कदाचित्कस्मिन्नपि काले न ज्ञानं न प्ाम्नोतीत्यर्थः ॥१५॥ समस्तमुद्रासु शाम्भव्या: श्रैष्ठ्यात्तामेव सलक्षणामाह। अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्त्तते दृष्ट्यानिश्चलतारया बहिरिदं पश्यन्नपश्यन्नपि।
Page 159
योगदीक्षाचिन्तामणौ शैवो हठयोगः । १४५
मुद्रेयं किल शाम्भवी भगवती या स्यात्प्रसादाहुरो: शून्याशून्यविलक्षणं मृगयते तत्त्वं पदं शांभवम्॥१६॥। अन्तरिति। योगी योगाभ्यासी यदा यस्मिन्कालेऽन्त- र्लक्ष्यविलीनचित्तपवनोन्तरभ्यन्तरे यल्लक्ष्यं शिवशक्तिसमायो- गरूपं जीवव्रह्मैक्यं च तस्मिल्लीनौ चित्तपवनौ चित्तं मनः प- वनः प्राणश्च यस्य तथोक्तः स सन्निश्चलतारया स्थिरकनी- निकया दृष्ट्या दृशा वहिर्वाह्यमिदं दृश्यं जगत्पश्यन्नालोक- यन्नपि सन पशयन्नालोकयन्सन्वर्त्तते वर्त्तमानो भवति, सेयं प्रत्यक्षा भगवती भगमणिमाद्यैश्वर्यमस्यामस्तीति भगवती शां- भवी शम्भुना पार्वत्यै प्रोक्ता तस्येदमित्यण च शम्भुसम्बन्धिनी वा साधकाना शम्भवत्यस्याः सा शाम्भवी वा सर्वसाधकार्ना सुखदात्रीत्यर्थः, मुद्राऽवस्थारूपा या गुरोरदेशिकस्य प्रसादाढ्व- रुकृपातः स्याद्वेव, किं फलं तस्या इत्यत आह शून्येति, य- येत्यध्याहार्य, यया मुद्रया शून्याशून्यविलक्षणं जगतोऽसत्वं शुन्यं तत्सत्वंचाशून्यं ताभ्यामसतः सत्तापदत्वाच्छन्याज्जगतोऽशून्यरू- पादपि विलक्षणमुभयलक्षणहीनं शाम्भवं शम्भु: शिवस्तत्सम्बन्धि तत्स्वरूपभूतमित्यर्थः, भेदव्यपदेशस्तुराहो: शिरोवत्, त्त्वमना- रोपितं पदं स्वरूपं मृगयते शोध्यत इदमेव फलमेतस्या इत्यर्थः ॥१६ ॥ उक्तं सफलं हठमुपसंहरति। प्राणवृत्तौ विलीनायां मनोवृत्तिर्विलीयते। शिवशक्तिसमायोगो हठयोगेन जायते ॥ १७ ॥ प्राणवृत्ताविति । हठयोगेन हठाख्ययुत्त्या प्राणृत्तौ प्रा- १९
Page 160
१४६ बोधसारे।
णाख्यवायोर्व्टत्ति: श्वासोच्छ्ासरूपा तस्यां विलीनायां लयं प्राप्तायां सत्यां मनोवृत्तिर्मनसोन्त:करणस्य वृत्तिः संकल्पवि- कल्परूपा विलीयते नष्टा भवति, ततश्च शिवशक्तिसमायोगो ब्र- ह्मरन्ध्रस्थितस्य शिवस्य मूलाधारस्थितायाः शक्तेश्र समायोगः संयोग ऐक्यमित्यर्थः, जायते भवति ॥ १७॥ ऊक्त हठपरोचनायावान्तरफलप्रदर्शनपूर्विका माचार्यपरि- पाटीमाह। गोरक्षचर्पटिप्राया हठयोगप्रसादतः । वञ्चयित्वा कालदण्डं ब्रह्माण्डं विचरन्ति हि॥१८॥ गोरक्षेति। गोरक्षचर्पटिपायाः प्रायःशब्दोत्र प्रभृतिवा- चको गोरक्षश्र चर्पटी चैतौ दौ प्रायावादी येषां ते तथो- क्तास्ते हठयोगप्रसादत उक्तहठयोगस्य हठाख्ययुक्ते: प्रसादत- स्तत्साधनेनैव सार्वविभक्तिकस्तसिरत्र, कालदण्डं कालस्य जग- त्कलयितुरीश्वररूपस्य दण्डो मृत्युरूपस्तं वश्चयिलाSनादृत्य व्र- ह्माण्डं मृत्युक्रीडास्थानं ब्रह्माण्ड इत्यर्थः, विचरन्ति प्रारब्धभो- गान्भुञ्जते गच्छन्ति च हि प्रसिद्धमेतदित्यर्थः ॥१८॥ एवं सफलां हठक्रियां निरूप्य तस्याः वेदान्तानुकूल्याय मनसो गुणसाम्ये गुशसाम्यस्य च स्फुरणविषयत्वसम्पादने च तयोर्लयलक्षणं शिवशक्तिसमायोगं कुर्यादित्याशयेनाह। शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम्। शिवशक्तिसमायोगं कुर्वन्ति हठयोगिनः ॥१९। इति श्रीनरहरिविरचिते बोधसारे योगदीक्षाचिन्तामणौ हठयोगः॥३॥ शक्तीति। मनः साम्यस्फुरणरूपं तत्संकल्पविकल्परूपावृत्तिः
Page 161
योगदीक्षाचिश्तामणौ शैय: शिवशक्तिपराक्रमः । १४७
शक्तिमध्ये साम्यकारणभूतायां चिच्छक्तो कृत्वा शत्त्यभिन्नम- नुभूय शक्तिं साम्यस्फूर्त्तिकारणरूपां चिच्छक्तिं मानसमध्यगां साम्यसंकल्पविकल्परूपमनःकल्पितत्वात्तन्मध्ये विद्यमानां त- दभिन्नामित्यर्थः, कृत्वाऽनुभूय हृठयोगिनो हठाख्यक्रियाभ्या- सिन एवं शिवशक्तिसमायोग शिवस्यात्मनः शक्तेर्गुणसाम्य- रूपप्रकृतेश्र समायोगमैक्यानुभवरूपं कुर्वन्ति विदधतीत्यर्थः ॥१९॥ इति श्रीनरहरिशिष्यदिवाक्करविरचितारयां बोधसारार्थदीसी योगदीक्षाचिन्तामययर्थप्रकाशे हठयोगार्थप्रकाश- स्तृतीयः ॥ ३ ॥
अथ शिवशक्तिपराक्रमः । एवं सफलं हठ प्रतिपाद्यानन्तरं लये क्रमानुरोधेन नि- रूपितव्ये तं त्यक्त्का व्युत्क्रमेण शैवमतं राजयोगं निरूपयितुं शिवशक्तिसमायोगप्रसङ्गेन शिवशक्तिपराक्रमाख्यं चतुर्दशक्षोकं प्रकरणमारभते, तत्र तावच्छिवशक्तिपराक्रमनिरूपणं प्रतिजानीते। अथ वक्ष्ये स्तुतिव्याजाच्छिवशक्तिपराक्रमम् । शोधिते सक्ष्मया दृष्ट्या यस्मिन्निर्विस्मयो भवेत्॥१॥ अथेति। अथ हठयोगनिरूपणानन्तरं तत्मसङ्गेनैव स्तु- तिव्याजात्स्तवनमिषेणैव शिवशक्तिपराक्रमं शिवस्य परमान- न्दरूपस्य परमात्मनो या शक्तिर्जगज्जननसामर्थ्य तस्या: परा- कमं प्रतापं चरित्रमित्यर्थः, वक्ष्ये कथयिष्यामि त्वं शृण्विति शेपः, नन्वेतच्छूवणस्य किंफलं तत्राह शोधित इति, सूक्ष्म- या विचारसंस्कारेण सूक्ष्मीभूतया दृष्ठ्या बुद्ध्या यस्मिञ्छि- वशक्तिपराक्रमे शोधिते विचारिते सति विचारको निर्विस्मयः श क्ते रघटितघटनापटीयस्त्वज्ञानाद।श्चर्यभूतबुद्धिरहितो गर्वर-
Page 162
१४८ बोधसारे।
हितश्र भवेत्स्यात् ॥ १ ॥ तामेव शक्तिं विशेषणैर्विशिष्टां स्मरति। तां द्वैतरूपिणीमेव द्वैताद्वैतस्वरूपिणीम्। अद्वैतरूपिणीं शक्तिं स्मरामि परमात्मनः ॥ २ ॥ तामिति। द्वैतरूपिगीं द्वैतमनेकविर्ध कार्य जगदरूप तदेव रूपं स्वरूपं यस्याः सा तथोक्ता ता कार्यरूपामित्यर्थः, तथा द्वैताद्वैतस्वरूपिणीं साधनकाले च द्वैतं वाक्यार्थज्ञानसाधनजातं गुरुशिष्यशास्त्रश्रवणमननादिकं वाक्यतो लक्षितं चाद्वैतमपि रूपं स्वरूपं यस्यास्तां कार्यफलोभयरूपामित्यर्थः, मुक्तिदशाया चाद्वैतरूपिणीमद्वैतमैक्यमेव रूपं स्वरूपं यस्याः सा तथा भूता तां परमात्मनः कार्यकारणातीतस्यात्मनः शक्तिं जगज्ज- ननसामर्थ्यरूपां स्मरामि चिन्तयामि लौकिकव्यवहारे सत्य- रूपेण प्रतीयमानां वैदिके तु तस्मिन्साध्यसाधनोभयरूपां समा- ध्यादौ मोक्षावस्थायां चाखण्डैक्यरूपां च क्रमेण परमार्थत- श्वात्मनोऽभिन्नां च चिन्तयामीति भावः ॥२॥ इदानीं निश्चयाविषयतया तामेव स्मरन्प्रणमति। केयं कस्य कुतः केन कस्मै कं प्रति कुत्र वा। कथं कदेत्यनिर्णीता तां वन्दे शक्तिमद्भुताम् ॥३॥ केयमिति। इयं दृश्यमाना शक्तिरूपा माया का कारणरूपा कार्यरूपा च द्विविधापि का किं सति उतासती वा सदसती वा, न तावत्सत्या वाधितत्वात्तत्सत्यत्वे वाधानुपपत्तेः श्रतिश्च वाधितत्वेस्ति 'अथात आदेशो नेति नेति, नेह नानास्ति किं- च ने'तिप्रभृतिका तस्मान्नसत्या, नाप्यसत्या सर्वजगत्कार्यजन-
Page 163
योगदीक्षाचिन्तामणौ शैयो हठयोगः। १४९
कत्वाच्छक्तेरसत्वे च तदनुपपत्तिः, न ह्यत्यन्तासतः शशशृ- झादेः कार्यजनकत्वं दृष्टं जगत्तु तत्कार्य दृश्यतेऽतो नासला, ना- प्युभयरूपापि सत्यासत्ययोर्विरुद्धस्वाभाव्येनैककाल एक- वम्तुनिष्ठत्वानुपपत्तेः, नहि तमःप्रकाशौ सूर्ये वान्यत्र वैककाले प्रतीयमानौ कचिद्दृष्टावन्योन्यं व्यावत्तौ च सर्वानुभूतावतो नोभयरूपत्वम्, एवं चिच्छक्ति: किश्चिदूपा वाडचिद्रपोत चिद- चिद्रूपा, नादः शक्तेश्चिच्वे शक्तिशक्तिमतोरवैलक्षण्येन श- क्तिशक्तिमत्त्वासिद्धेः, नापि द्वितीयः शक्ते: पृथगसत्वेन त- त्निष्ठस्याचित्वस्यासिद्धेः, तत्सिद्धावपि चितोऽसङ्गत्वेन प्रकाश- कत्वानुपपत्या शक्तिभानासम्भवात्तदमाने च तत्कार्यजगद- भानेन जगदांध्यप्रसङ्गाच्, नह्यसङ्गेडदैते भास्यं किश्चिदस्ति येन भासकत्वरूपो विकार: स्यात्, नापि जडः स्वयं घटादिपदार्थो भासमानो दृश्यते, नापि च जडे कारणे मृदादौ तत्कार्यघटा- दिप्रकाशकत्वं च दृष्टमतो नाचिदरपेण निश्चयविषया, नाि तृतीयश्रिदचिद्रूपत्वस्य विरुद्धत्वेनापास्तत्वात। एवं किं शक्ति:
क्येति भावः। एवं स्वरूपेण निर्णयाविषयत्वं प्रदर्श्येदानीं संव- न्धतोपि तदाह कस्येति, इयं शक्ति: कस्य सम्वन्धिनीसनिर्णीता निर्णयाविषया, तथाहि सच्छक्तिः किं सत्सम्बन्धिनि उता- सत्संवन्धिनी, नादः सदमतोः सम्बन्धायोगान्न हि श- शशृङ्गादिकं शशादिसम्बन्धि दृष्टम्। नतु शक्तेः कार्य- जननक्षमलान्नासखमिति चेन्न कार्यस्यापि सतो रज्जुसर्पादेस्तादृटशभयकम्पादिजनकत्वस्य दृश्यमानत्वाच्च, तथालाद
ननु अत्यन्तासतस्तु शशशृङ्गादेर्न कार्यजननक्षमत्वमिति चेन्न 'मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्घरः ।
Page 164
१५० बोधसारे।
एष बन्ध्यासुतो याति खपुष्पकृतशेखरः'॥ इत्यादिवाक्यात्पदार्थज्ञानशून्येपु वालादिपु तत्तदर्थ- प्रतीतिरूपकार्यस्य दृश्यमानत्वात्, तस्मान्न सत्सम्बन्धिनी । नापि द्वितीयोऽसतः शशभृङ्गादेस्तत्कल्पितस्य च शक्तिशक्ति- मच्वसम्बन्धवत्वानुपपत्तेः, नहि धनुःशक्तिः शशभृङ्गसम्वन्धिनी कापि दृष्टा श्रुता वा नाप्युपपन्ना तदाश्रयस्य सम्बन्धस्य दु- र्निरूपत्वाच्च, किश्च सम्बन्धोपि दुर्निरूप एव, तथाहि सम्बन्धः किं सम्बन्धिभ्यां भिन्नोडभिन्नो वा, नाद: सम्बन्धिभिन्नस्य तस्य निराश्रयत्वेनासिद्धेस्तद्भ्िन्नस्य च तस्य तत्त्वानुपपत्तेश्र, नापि- द्वितीयः सम्बन्ध्यभिन्नत्वे सम्बन्धस्यैवासत्वेन सम्बन्धस्वरूपा- सिद्धेस्तदसिद्धौ च सम्बन्धिनोरप्यसिद्धेश्चेत्यादयो दोषा: स्व्राराज्यसिद्ध्यादौ द्रष्ठव्याः, अत्र तु विस्तरभयान्न प्रदर्श्यन्ते तत्प्रदर्शने प्रव्नत्तौ तु रसहानिः स्यादस्य ग्रन्थस्य च रसेप्सूना रसानुभूत्यर्थ प्रत्टत्तेर्नात्र ते प्रदश्यन्ते। एवं सम्बन्धतो विपयानहत्वं प्रतिपाद्य कार्यका- रणतोपि विपयानहतां शक्तेः स्मरन्प्रणमति इनि, इयं शक्तिः कुतः कारणादास्त इत्यनिर्णीता, कुत
तथाहि इयं सत्कारणोताऽसत्कारणा, नादः सत्कार्यत्वे सद्भिन्नत्वेन तत्कार्यत्वानुपपत्तेरभिन्नत्वेपि कार्य- शक्तेः
कारणत्वाभावात्सत्कार्यत्वाभावाच्च, ननु सतो भिन्नं सद्विलक्षणं शक्ते: कारणमस्तु इति चेन्न शक्तेरपि सद्विलक्षणत्वेनाभेदा- त्कार्यकारणसम्भवेऽसत्कार्यत्वस्य तुल्यत्वात्, ननु कार्यसापे- क्षस्य कारणस्य कार्यकारणताकत्वमस्त्त्रिति चेन्न शक्ते: कार्या- पृथग्भावेन तत्कारणभूतशक्तरसत्कारणकतावत्वस्यैव सुस्थित- त्वादन्योन्याश्रयादिदोपप्रसक्तेश्व, न द्वितीयोऽसतः ख-
Page 165
योगदीक्षाचिन्तामणौ शैषः शियशक्तिपराक्रमः । १११
पुप्पादे: सुगन्धकारणत्वस्य काप्यदष्टत्वात्न हि शशशृङ्गादिकं धनुरादेः कारणं कापि दृष्टं, एवं कारणतो निर्यायानर्तां प्रति- पाद्य निमित्ततोपि निराकर्त्तु प्राह केनेति, केन निमित्तेनेत्यनि- र्णीता, तथाहि शक्तेर्निमितं किं सदुतासद्, न तावत्सदसटू- पशक्ते: सन्निमित्तत्वायोगाद् न हि स्वाप्रघटस्य जाग्रत्कुलाल- निमित्तकत्वं दृष्टं श्रुतं वेत्यादि द्रष्टव्यमाकरग्रन्थेषु, अत्र तु वि- स्तरभयात्तद्दूपणजातं न प्रतिपादते। एवं निमित्ततोपि निर्ण- याविषयत्वं प्रदर्श्य प्रयोजनतोपि तदाह कस्मा इति, कम्मै प्रयो- जनायेत्यनिर्णीता, तथाहि शक्तिम्त्तिपयोजनं किं सन्निष्ठमु- तासन्निष्ठमुत शक्तिनिए्ठं किमुत कार्यनिष्ठं नाद, आनन्दघन- त्वेन प्रयोजनापेक्षासिद्धेः, न द्वितीयोऽसतो बन्ध्यापुत्रादेः प्रयोजनापेक्षायोगासिद्धेः, न शक्तिनिष्ठत्वपक्षोपि तस्या अपि- जाड्यासत्वाभ्यां प्रयोजनापेक्षाभाववत्वात्, नापि कार्यनिष्ठं का- र्येपि जाड्चेन प्रयोजनवत्वायोगाद्, ननु मास्तु प्रयोजनं को दोष इति चेन्न प्रयोजनाभावे च प्रव्टससिद्धेः प्रव्ृत्तिस्तु शक्तेदश्यते- उतः प्रयोजनतोपि निर्णयानहत्वं शक्तेरिति भावः । एवमेव क- र्मतोपि निर्णयाविपयत्वं शक्तेराह कम्पतीति, कमर्थ प्राप्तुं क्रियया शक्ते: वृत्तिरित्येवमपि निर्णयाविषयाऽर्थस्य क्रिया- याश्च सन्निष्ठत्वेनासन्निष्ठत्वेन च निर्यायासम्भवादिति भावः, त- थैवाधाराधेयत्वतोपि शक्ते: स्वरूपनिर्णयाभावमाह कुत्र वेति, क- स्मिन्नाधारे शक्तिराधेयेत्यनिर्णीता, सतो वाऽसतश्चाघाराघेय- त्वासिद्धेः शक्तेः कार्यस्य चासत्वादेवाधेयत्वासिद्वेश्व न हि खत्ृक्षस्य खस्य चाधाराधेयत्वं युक्तिसहं दृषटं, प्रकारतोपि निर्णयाविषयत्वमाह कथमिति, कथ शक्तिः किं प्रकारेत्यनिर्णी- ता शक्तिम्रकारस्यापि तदसत्वेन भासमानत्वेन निर्णयाविषय-
Page 166
१५२ बोधसारे।
त्वमिति मात:, कालतोपि निर्णयाविषयत्वमाह कदेति, कदा कस्मिन्काले सा शक्तिरस्तीसनिर्णीता कार्यमिथ्यात्वेन शक्तेर्मि- थ्यात्वे च तदपेक्षितकालस्यापि तथात्वात्तत्परिच्छेद्यत्वासम्भवः शक्तौ, तथापि तत्कार्ये कालपरिच्छेद्यत्वसम्भवेन शक्तावपि त- त्परिच्छेद्यत्वसम्भवस्य भासमानत्वान्न कालतोपि निर्णय- विषयत्वमिति भाव:, अत एवाद्भुतामाश्चर्यरूपां तामुक्तरूपां शक्तिं शिवस्य शक्तिं वन्दे प्रणमामि ॥ ३॥ परमशिवेऽमङ्गत्वेन कर्तृत्वासम्भवेपि तस्मिन्कर्तृत्वमारोप्य निमित्तमात्रतां शक्तेर्लक्षीकृत्य ता प्रणमति। शिवः कर्त्ता शिवो भोक्ता शिवो वेत्ता शिवः प्रभु। उपसर्जनमात्रं या तां वन्दे शक्तिमहहुताम् ॥४॥ शिव इति। शिवः सदानन्दरूपः परमात्मा कर्त्ता जगदु- त्पततिस्थितिलयादिसर्वक्रियासु स्वतन्त्रत्वेन कर्तृत्वाच्छक्तेर्जड- त्वेन कर्तृत्वासम्भवः शिवे तु चिद्रूपत्वात्तत्सम्भव इति भाव:, एवं शिवो नित्यानन्दरूपः परमात्मा भोक्ता भोगकर्त्ता चैतन्यरूपत्वादात्मनि भोक्तृत्वं जडत्वाच्च शक्तौ तदभाव:, एवं शिव आत्मा वेत्ता ज्ञाता चेतनरूप- त्वादात्मनि वेत्तृत्वं शक्तौ तु जाड्येन तदभावः, तथैव शिव आत्मा प्रभुर्नियन्ता चेतने नियन्तृत्वमचेतने तु तदसम्भव इति भाव:, तत्रासङ्गे कर्तृत्वादिधर्मोत्पत्तौ या शक्तिरुपसर्जन- मात्रमुपसृज्यत उत्पाद्यते शिवे कर्तृत्वादिकमनेनीत उपसर्जनं निमित्तं तदेव तन्मात्रं भवाति तामितादि पूर्ववत् ॥४ ॥ इदानीं निर्विकारे शिवे चिन्मान्ररूपेपि कर्तृत्वादिकमसम्भा- व्यमिति वोधेनात्मनि शिवे साक्षिमात्रत्वं प्रदर्श्य स्वस्यामेव क-
Page 167
योगदीक्षाचिन्तामणौ शैवः शिवशक्तिपराक्रमः । १५३
र्वत्वादिकप्रदर्शनरूपां तां लक्ष्यीकृस प्रयामति। स्वयं कर्त्री स्वयं भोक्री स्वयं वेत्री स्वयं प्रभुः । साक्षिमात्रं शिवो यस्यास्तां वन्दे शक्तिमद्जताम्॥५॥ स्वयमिति। स्वयमधिष्ठानाश्रया शक्तिरेवाधारस्चित्वेन सचचिद्ूपेव सती कर्त्री कर्तृत्वधर्मवती तथा स्वयं शक्तिरेव भी- त्क्री भोकतृत्वधर्मवति अद्वितीयासङ्गकूटस्थात्मनि कर्तृत्वभो- क्तृत्वयोरयोगाच्छक्तिकार्यमेव तदिति भावः, किश्र स्वयं शक्ति- रेव केवलं वेत्त्री ज्ञात्री भवतीति सर्वत्र योज्यम्, अद्वितीयासङ्रे त्रिपुठ्यभावाज्ज्ञातृत्वं शक्तावेवेति भाव:, तथा स्वयं शक्तिरेव प्रभुर्नियन्त्री भवति असङ्गे नियन्तृत्वायोगाच्छक्तावेव निय- न्तृत्वमिति भावः, किश्च यस्याः शक्तेः साक्षिमात्रमव्यवधानेन प्रकाशकः साक्षीत्युच्यते स एव साक्षिमात्रं शिवोऽसङ्गकू- टस्थ आत्मा भवति तामित्यादि पूर्ववद् ॥५ ॥ इदानीं स्वरूपलक्षगौरेव तां लक्ष्यीकृत्य प्रणमति। स्वलक्षणे महादेवे स्वलक्षणतया स्थिताम्। वित्तां स्वलक्षणैरेव तां वन्दे शक्ति० ॥ ६ ॥ स्वलक्षणा इति । स्वलक्षणे स्वरूपभूतानि लक्षणानि लक्ष- कानि चिन्हानि यध्य स तथाभूतः परमात्मा तस्मि=महा- देवेऽपरिच्छिन्नचैतन्ये स्वलक्षणतया स्वानि स्वरूपभूतानि लक्षणानि चिन्हानि यस्याः सा तथाभूता तस्या भावस्तत्ता तया तदूपेणेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुभिः स्व- लक्षणैरेव स्वानि स्वरूपभूतानि च तानि लक्षणानि च तथा तेरैव कृत्वा वित्तां ज्ञातां तामित्यादि पूर्ववत्॥ ६ ॥ सलक्षणे परमात्मनि तां सक्षणतया लक्ष्यीकृत्य प्रणमति। २०
Page 168
१५४ बोधसारे।
सलक्षणे महादेवे सलक्षणतया स्थिताम्। वित्तां सलक्षणैरेव तां बन्दे शक्ति•॥७ ॥ सलक्षण इति। सलक्षयो लक्षणैः सहिते साकार इत्यर्थः, महादेवे वास्तवपरिच्छेदशून्ये चैतन्ये सलक्षणतया लक्षणैः स- हिता सा तथोक्ता तस्या भावस्तत्ता तया साकाररूपतयेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुत्वेनोपासकैः सलक्षणैरेव लक्षणैः सहितानि यानि साकाररूपाणि तैरेव कृत्वा वित्तां ज्ञातां तामित्यादि पूर्ववद ॥७॥ इदानीं निर्गुणरूपेणापि ता लक्ष्यीकृत प्रणमति। विलक्षणे महादेवे विलक्षणतया स्थिताम्। वित्तां विलक्षणैरैव तां वन्दे शक्ति० ॥८॥। विलक्षण इति। विलक्षणे विगतानि लक्षणानि चिन्हानि यस्मात्तस्मिन्निर्गुण इत्यर्थः, महादेवेऽपरिच्छिन्नचैतन्ये वि- लक्षणातया विगतानि लक्षणानि यस्या: सा तथोक्ता तस्या भावस्तत्ता तया निर्गुणत्वेनेत्यर्थः, स्थितां विद्यमानामत एव मुमुक्षुभिर्लक्षणावत्या विलक्षणैरेव तिगतानि यानि लक्ष- यानि चिन्हानि तैरेव केवलं वित्ा ज्ञातां तामित्यादि पूर्ववत्॥।८।। इदानीं चैतन्ये चेतनाहेतुत्वेन तां लक्ष्यीकृस प्रणमति। अचेत्यचित्स्वरूपत्वादचेतन इव स्थिते। चैतन्ये चेतनाहेतुस्तां वन्दे शक्तिमळुताम्॥९॥
अचेत्येति। चैतन्ये चिन्मात्रस्वरूप आत्मनि अचेत्यचि- तसवरूपत्वान्न विद्यते चेत्यं चेतनाविषयो यस्यां साऽचेत्य-
Page 169
योगदीक्षाचिन्तामणौ शैवः शिवशक्तिपराक्रमः।
चित्सैव स्वरूपमात्मा यस्याः सा तथोक्ता तस्या भावस्तत्वं तस्माद्वेतोरचेतन इव जडवतिस्थिते विद्यमाने चैतन्ये व्य- वहारेचेतनत्वेन प्रतीयमान आत्मनि चेतनाहेतुश्चेतनाया विषयप्रकाशनरूपाया हेतुः कारणं भवति, चेत्यं विना चेतन- त्वापतीते: शक्त्ते श्वेतनाहेतुत्वमिति भावः, तामित्यादि पूर्ववद।।९।। शक्त्तेश्रेतनाहेतुत्वमेव विशदयति। चेतिता चेतनेनेति सविकल्पस्वरूपतः । चैतन्ये चेतनाहेतुस्ताम्०॥१०॥ चेतितेति। सविकल्पस्वरूपतो विकल्पैर्विविधकल्पनाभि। सह वर्त्तमानं यत्स्वरूपं तदस्यास्तीति सविकल्पस्वरूपं ततस्तेन सार्वविभक्तिकस्तसिः, चेतनेन चिन्मात्रस्वरूपणात्मना चेतिता प्रकाशिता शक्तिरिति हेतोश्चैतन्ये चेत्यरहिते चिन्मात्रे चे. तनाहेतुश्चेतनाया व्यावहारिकविषयप्रकाशनस्य हेतुः कारणं भवति तामित्यादि पूर्ववत् ॥१० ॥ इदानीं शिवे सर्वकर्तृत्वहेतुत्वेन तां लक्ष्पीकृत्य प्रणमति । शक्तिरेव न यस्यास्ति सोऽशक्तः किं करिष्यति। शक्त्या यया शिवः शक्तस्तां वन्देशक्तिमह्हुताम्॥११॥ शक्तिरिति । यस्य शिवस्य शक्तिरेव सामर्थ्यमेव नास्ति न विद्यते सोडशक्तः सामर्थ्यहीनः कि कार्य करिष्यति कु- र्यान्न किमपि कर्त्तु शक्त इत्यर्थः, अतो यया शक्त्या येन ज- गज्जननसामर्थ्येन शिवोऽसङ्गसुखचित्स्वरूप आत्मा शक्तः स- मर्थः कार्य कर्त्तु भवति अर्शआद्यच एतद्, श्रीमदाचारयैरषि सौ- न्दर्यलहर्यामुक्त 'शिवः शत्त्या युक्तो यदि भवति शक्तः प्रभं-
Page 170
१५६ बोधसारे।
वितुमि'त्यादिना तामित्यादि पूर्ववत । ११ ॥। इदानीं शिवाश्रयणेनैव शक्तिमज्जगद्गतपदार्थेषु स्थित्वा शक्तः सर्वकार्यक्षमत्वं लक्ष्यीकृत्य तां प्रणमति। शक्ता नूनं हि कार्येषु शक्तिः शक्तिमति स्थिता। शिवाश्रयाद्टतेऽशक्ता तां वन्दे० ॥ १२ ॥ शक्तेति । शक्तिमति शक्तिमत्पदार्थे तद्वति पुरुषे वा स्थिता विद्यमाना कार्येषु तत्तत्कृतेषु नूनं निश्चयेन शक्ता स- मर्था हि प्रसिद्धा शिवाश्रयाहटते शिवाश्रयं विनाऽशक्ता न स- मर्था भवति सदधिष्ठानं विनाऽसतः कार्यक्षमत्वायोगादिति भाव:, तामित्यादिदपूर्ववत् ॥ १२॥ इदानीं वाक्तेस्तद्वतोष्यसत्वस्मृतिपूर्वकं निर्विकल्पे सामर- स्येन तां लक्ष्यीकृत्य प्रणमति । शक्तिशक्तिमतोर्यस्मान्निर्विकल्पे न वस्तुता । सामरस्यं शिवे याता ताम्० ॥१३ ॥ शक्तिशक्तिमतोरिति। यस्मात्कारणान्निर्विकल्पे निर्गता विपरीता विविधा विलक्षणा वा विशिष्टा वा कल्पना नाम- जासादयो भावना यस्मात्तन्निरविकल्पमात्मस्वरूपं तस्मिञ्छ क्तिशक्तिमतोः शक्तिश्च जगज्जननसामर्थ्म परमात्मनिष्ठं शक्ति- मांश्च शवल आत्माऽव्याकृतापरपर्यायस्तयोर्वस्तुता सत्यलं न नास्ति तदा शिवे भूमानन्दरूपे परमात्मनि सामरस्यमैक्यं याता पाप्ता तामित्यादि पूर्ववद् ॥ १३ ।। इदानीं शिवशक्तिपराक्रमविचारफलमाह। भाविते भावुकैरेवं शिवशक्तिपराक्रमे।
Page 171
योगदीक्षाचिन्तामणौ शैव: शिवशक्तिपराक्रमः । १५७
स्वयमुल्लसति स्वान्ते सामरस्यरसार्णवः ॥ १४ ॥ भावित इति। भावुकैर्विशिष्टभावनाचतुरैरात्मप्रेमिभि- रित्यर्थः, शिवशक्तिपराक्रमे शिवस्यात्मनो या शक्तिर्जग- ज्जननसामर्थ्य तस्याः पराक्रमे प्रतापनिरूपणे प्रकरणे तत्म- तिपाद्येर्थे चोक्तप्रकारेण भाविते विचारिते ध्याते च सति सा- मरस्यरसार्णवः समरसस्याखण्डैकसुखरूपस्य भावः सत्ता सा- मरस्यं तच्चासौ रसश्चानन्दस्तस्य जलस्थानीयस्यार्णवः समुद्र इव वर्त्तमान: स स्वान्ते हृदि स्वयं स्वत एवायत्रेनैवोलसति आविर्भवति॥१४ ॥ इदानीं सर्वव्यापित्वस्मरणपूर्वकं परमपदे परमानन्दरूप- त्वेन तामेव स्मरन्प्रणमति। भक्ते भक्तिमयीं पशौ पशुमयीं विद्वत्सु विद्यामयीं सृष्टौ ब्रह्ममयीं स्थितौ हरिमयीं कल्पात्पुरश्चिन्मयीम्। जीवे वृत्तिमयीं जडे जडमयीं शक्ति शिवस्यान्ुतां तांध्यायामि पदे परात्परतरे स्वानन्दलीलामयीम्॥१५॥ भक्त इति। भक्ते भजतीति भक्तस्तस्मिन्कर्त्तरि क्तः, भ- जनक्रियापवर्तकभजनविषयस्नेहवतीत्यर्थः, भक्तिभयीं भज्यते सेव्यत आत्मा विषयो वाऽनया सा भक्तिर्भजनक्रियावति भजनविषयस्नेहरूपान्तःकरणवृत्तिस्तन्मयीं तत्प्रचुरां तद्रूपााम- त्यर्थः, पशौ मूढे पशुमयीमज्ञानरूपां विद्वत्सु ज्ञानिषु जीव- व्रह्मैक्यप्रतीतिमत्सिवत्यर्थः, विद्यामयीं देहेऽहंप्रतीतिवत्स्वात्मा- हंग्रतीत्या तदितरानात्म्यनिश्चयरूपान्तःकरणवृत्तिरविद्या त- त्प्चुरां सृष्टौ जगत्सर्जनरूपक्रियायां ब्रह्ममयीं ब्रह्मा विरश्च-
Page 172
१५८ बोधसारे।
स्तदरूपां स्थितौ स्थीयतेऽनया सा स्थितिर्जगत्पालनेच्छा तथा च तद्वति अन्तःकरणसमष्टौ हरिमयीं हरति तत्तत्सुखप्रदानेन दुःख सर्वस्येति हरिस्तद्रूपां तथा कल्पात्पुरः कल्प्यते शक्ति: कार्य चानेनेति कल्पः'सोकामयते'ति श्रुत्युक्तः संकल्पस्तम्मातपुरः पूर्व चिन्मयीं स्वयम्प्रकाशचिन्मात्रप्रधानां, तथा जीवे साधि- प्ठानवुद्धिस्थचिदाभासे प्राशोपाधिके चैतन्ये वृत्तिमयीं वृत्तय- स्तनद्विपयविषयकवासनास्तन्मयीं तत्प्रचुरां तथा जडे कापठलो- ष्टादौ जडमयीं जाड्यप्रचुरां शिवस्य चित्सुखरूपस्यात्मनोS द्ुनामाश्चर्यरूपां शक्ति सर्वकार्यनिर्वाहकसामर्थ्यरूपां ध्यात्वे- त्यध्याहार्य, चिन्तयित्वाऽहं तां शक्तिं परात्कारणादव्याकृता- ख्यात्परतरे परमधिष्ठानचैतन्यं ततोपि पर आद्ये यस्य मिथ्या- त्वेनाधारस्यापि तथात्वात्तद्रहिते शुद्धे पदे स्वाभिन्ने व्रह्मणि स्वानन्दलीलामयीं स्वात्मभूतो य आनन्दः सुखं सैव लीला- डनायासचेष्टा तन्मयीं तत्प्रधाना ध्यायामि चिन्तयामि अहं ब्रह्मास्मीति लक्षितलक्ष्यरूपां चिन्तयामीसाशयः ॥१५॥ इदानीं त्याज्यसर्वविषयजन्यानन्दरूपशक्तिस्मरणपूर्वकं परमानन्दरूपलेन तां स्मरति। आनन्दानपि संविहाय विषयानन्दानमन्दादरा- दादानार्थिभिरर्थितानपि जडैरानन्दलेशानमून्। आनन्दोपनिषत्प्रमाणपठितामानन्दसीमाशिखा- मानन्दामृतवाहिनीं भगवतीमानन्दरूपां भजे॥१६॥ इति श्रीनरहरिवि० बोध० योगदीक्षाचिन्ताम० शैवः शिवश- क्तिपराक्रमः॥४॥ आनन्दानपीति। अहंशक्ेस्तालिकरूपचिन्तकः सा-
Page 173
योगदीक्षाचिन्तामणी शैवः शिवशकक्तिपराक्रमः। ११
घिष्ठानोऽन्तःकरणसत्ववृत्तिस्थशिदाभासो विषयानन्दान्विषय- भोगजन्यसुखानि अमन्दादरादतीबादरेणादानार्थिभिग- दानं विषयभोगजन्यसुखानुभवस्तमर्थितुं याचितुं शीलं येपां ते तथोक्तास्तैर्जडैर्मूटैरजैरित्यर्थः, अर्थितानीप्सितानपि आ- नन्दान्विपयजन्यसुखलवान् यद्यपि ते मूर्खानुभवेनानन्दा: प्रतीयन्ते तथापि ते नानन्दा इत्यर्थः, कुत इत्यत आहान- न्दलेशानिति, आनन्दलेशानानन्दस्य ते लेशा अंशाः प्र- तिविम्बानीत्यर्थः, तानमून्पसिद्धानपि संविहाय त्यत्का- SSननदोपनिपत्पमाणपठितामानन्दस्य प्रतिपादिकोपनिपदान- न्दोपनिषत् 'सैपानन्दस्य मीमांसा भवति, युवा स्यात्साधु- युवाध्यायक:, आशिष्टो दृढिष्ठो बलिष्ठः, तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि'त्यादिना मानुपानन्दज्ञानाय मानुपान- न्दलक्षणानि प्रतिपाद्य 'स एको मानुष आनन्द' इति मानुषा- नन्दं लक्षयित्वा 'ते ये शतं मात्रुषा आनन्दाः स एको मनुष्य- गन्धर्वीणामानन्द' इत्यादिका 'स यश्चायं पुरुपे यश्चासावादित्ये स एकः' इत्यन्ता सैव प्रमाणं तस्मिन्पठितां मानुषानन्दादुत्त- रोत्तरं शतशतगुशात्वेन प्रतिपादितामानन्दसीमाशिखामान- नदानां मानुषानन्दादिव्रह्मानन्दान्तानां सीमाऽ्वधिर्व्रह्मानन्द- स्तस्य शिखाचदूर्ध्व 'स यश्चायं पुरुपे यश्चासावादित्ये स एकः' इति श्रुत्योपास्यादित्यतदुपासकपुरुपस्थितानन्दैकत्वेन प्रति- पादित आनन्दः स्थितस्तदरपामानन्दमात्रोपलक्षितामित्यर्थः, आनन्दामृतवाहिनीमानन्दो निरतिशयसुखं स एवामृतं जग- ज्जीवकत्वादमृतमितर जलमित्यर्थः, तस्य वाहिनी प्रवहनशीला तां यथा नदी निरन्तरं जलप्रवाहेनोपलक्षिता तथाखण्डानन्द-
Page 174
१६० बोधसारे।
ज्ञेयं, वस्तुतस्तु परमानन्दाभिन्नत्वादानन्दरूपामानन्द एव रूपं य स्यास्तां भगवतीं पद्ुणैश्वर्यसंपन्नां शक्तिं भजे चि-तयामि ॥१६॥
योगदीक्षाचिन्तामण्य र्थप्रकाशे शिवशक्तिपराक्रमा - र्थप्रकाशश्चतुर्थः ॥४॥
अथ लययोगः । एवं शिवशक्तिपराक्रमं निरूप्येदानीं लयभेदप्रकारनिरु- पणाय लययोगाखयं पद्त्रिंशच्छोकं प्रकरणमारभते, तत्रादौ ल- यप्रयोजनमाह। चञ्चलं हि न जानाति मनो निश्चलतासुखम् । तद्विचिन्तयितुं तस्मै मुनिभिर्दर्शितो लयः ॥१॥ चश्चलमिति। हि प्रसिद्धं गीतादौ तथाच गीता 'चञ्चलं हि मनः कृष्ण प्रमाधि बलवद्दृढं। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करमि'ति चश्चलमास्थिरं मनोन्तःकरणं कर्त निश्चलतासुखं निश्चलतया स्थैर्येण यत्सुखं जायते यत्तन्न जानाति न वेत्ति अतो मुनिभिर्विवेकिभिस्ततसुखं विचिन्तयितुमनुभवितुं तस्मै मनःस्थैर्पाय लयो लीयते मनोनेनेति लयो मनश्राञ्चल्यनि- वर्त्तको योगभेदो दर्शितः प्रतिपादित इत्यर्थः ॥ १॥ इदानीमेतत्संप्रदायज्ञापनपूर्वकमेतस्यानन्ततया संक्षेपनि- रूपणं प्रतिजानीते। आख्याताः शम्भुना गौर्ये ह्यसंख्याता लयक्र्माः ! केन ज्ञेया: केन वर्ण्याः किश्चित्तु कथयान्यहम्॥२॥
Page 175
योगदीक्षाचिन्तामणी शेषो लययोगः। १६१
आख्याता इति। शम्मुना शिवेनासङ्याता न स- इयाता न गणिता इत्यर्थः, लयक्रमा लयस्य लययोगस्य क्रमा भेदा गौर्ये पार्वत्या आख्याता उपदिष्टाः सन्तीति शेपः, ते केनेदानीन्तनेन पुरुषेण स्वल्पायुर्दुद्धिवलवीर्यवता ज्ञेया ज्ञातुं शक्या न केनापीत्यर्थः, किश्र केन पुरुपेण वर्ण्या वर्णितुं शक्या न केनापीत्यर्थः, ननु तर्हि तज्ज्ञानं कथं स्यात्तत्राह किश्चिदिति, अहं तु अह्मपि किश्चित्सवल्पं यथा तथा कथ- यामि वर्णयामि॥२॥ एवं लयनिरूपणं प्रतिज्ञायेदानीं लयस्थाननिदर्शनपूर्वकं लयानन्तरं कार्यमुपदिशति। निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये। लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनम्॥३॥ निद्रादाविति। निद्रायाः पूर्वक्षणे जागरस्यान्ते जाग्रतो- उन्तक्षणे तथा निद्रान्ते निद्रायाः सुपुप्तेरंतक्षणे जागरोदये जाग- रो जागृतिस्तस्योदय उदयोपलक्षितकाले निद्राजागरयोरुभय- सधावित्यर्थः, चित्तस्यान्तःकरणस्य लयो नाशो भवति जायत एतत्सर्वानुभवसिद्धं, तन्न तस्मिन्काल आत्मचिन्तनं निर्मन- स्कस्थित्युपलक्षितस्यात्मनश्चिन्तनं ध्यानं तत्प्रत्ययादृटत्तिरूपं का- र्ये कुर्यादित्यर्थः ॥३ ॥ अन्यदपि लयस्थानं दर्शयति यदेति। यदा शिथिलतां याति भारं त्यक्त्वेव भारिकः । आत्मादरेण कर्त्तव्यं तदैव शिवपूजनम् ॥४ ॥ यदेति। आत्मान्तःकरणोपाधिको जीवो भारं सत्केव २१
Page 176
१६२ बोधसारे।
काष्ठादिभारं त्यक्ता विसृज्य शिरस्तो दूरीकृत्येत्यर्थः, भारिक इव भारवाहीव व्यवहाररूपं भारं त्यक्का यदा यस्मिन्काले शिथिलतां मनसि व्यवहारविषयकशैथिल्यमौदासीन्यमित्पर्थः, याति प्रामोति तदैव तस्मिन्नेव काल आदरेय प्रेम्णा शिवपू- जनं शिवस्य प्रत्यगानन्दरूपस्यात्मनः पूजनं ध्यानं कर्त्तव्यं कार्यम् ॥४ ॥ उक्तलय स्थानाभ्यामन्येष्वपि लयस्थानेषु आत्मध्यानादरो विधेय इत्याह। यदा यदा शिथिलतां याति चित्तं तदा तदा। चिन्तनीयो महेशानस्तदेव शिवपूजनम् ॥ ५ ॥ यदा यदेति। चित्तमन्तःकरणं यदा यदा यह्मिन्यस्मि- न्काले शिथिलतामुदासीनवत्तां याति प्रामोति तदा तदा त- स्मिस्तस्मिन्काले महेशानः परमेश्वरश्चिन्तनीयो ध्येयस्तदेव ध्यानमेव शिवपूजनं शिवस्यात्मनः पूजनं ध्यानरूपा पूजा भवतीति शेषः ॥ ५॥ इदानीं सर्वेष्वपि कालेपु लयोपायकथनपूर्वकं ध्यानं विधत्ते। सर्वेष्टानिष्टभावानामिष्टत्वेनैवभावनात्। नीरागद्वेषता चित्ते या सैव शिवपूजनम् ॥ ६ ॥ सर्वेति। सर्वेष्टानिष्टभावानां सर्वे च त इष्टाश्वानिष्टाथ्ष ये भावाः पदार्थास्तेषामिष्टत्वेनैव प्रीतिविपयत्वेनापि भावना- चिन्तनाचित्ते मनसि नीरागद्वेपता रागद्वेपरहितत्वं योदेति सैव शिवपूजनं शिवस्य सुखरूपस्यात्मनः पूजनं पूजा झञेया ॥ ६ ॥ तामेत भावनामुदाहृत्य दर्शयति पीडैवेत्यादिभिः।
Page 177
योगदीक्षाचिन्तामणी शेषो लययोगः । १६३
पीडैव परमा पूजा यथा चरणपीडनम्। दुःखमेत परा पूजा रूक्षमुद्दर्त्तनं यथा॥७॥ पीडेति। पीडैव दुःखमेवैवोप्यर्थः, हि प्रसिद्ध सर्वज- नेपु परमा श्रेष्ठा पूजा पूजनं भवति, ननु दुःखस्य परमप्रसाद- कारणपूजात्वं कथमित्याशक्का दृष्टान्तेन तत्तत्र सम्भावयति यथेति, यथा यद्वच्चरणपीडनं चरयायोरङ्ग्यो पीडनं मर्दनं तहुःखरूपमपि सुखहेतुलाद्यथा सुखं भवति तथा दुःखमपि स्वनाशेन सुखपर्यवसायित्वात्पुण्यवासनाजनकत्वाच्च पुण्य- क्रियया च सुखफलत्वेन सुखरूपत्वाच्च पूजवेति भाव:, एवं सु- खकारणतो दुःखस्य सुखरूपत्वं प्रदर्श्य स्वरूपतोपि तदाह दुःखमेवेति, दुःखमेव स्व्रतो दुःखं पीडापि परा श्रेष्ठा पूजा पू- जनमात्मनो भवति, ननु दुःखस्य चित्तमालिन्यकारणत्वप्रसिद्धेः कथं चित्तप्रसादहेतुपूजात्वं तत्राह रूक्षमिति, यथा यद्दूक्षं शुष्कमामलकचणकादिचूर्णादिना कृतमुद्दर्त्तनं मलनिवर्त्तकं शरी- राभ्यअ्नं तद्यथा दुःखरूपमपि मलापकर्षणेन शरीरका- न्त्यभिव्यअ्जकत्वात्सुखं भवति तथा दुःखमपि स्वभोगेन पापरूप- मलनिवर्त्तकत्वादन्तःकरणप्रसादहेतुत्वेन पूजैव सेति भावः ।।७।। ननु दुःखाविर्भावे खेदो जायते मनसीसाशकाह। खेद एव परा पूजा खेदे चिति मनोलयः । भयं हि परमा पूजा 'भीषाऽस्मादि'ति च श्रुतेः॥८॥ खेद इति। खेदश्चित्तवैक्लव्यं स एव सोपीत्यर्थः, परा श्रेष्ठा पूजाऽर्चा जायते, ननु खेदस्य कथ पूजात्वं तत्राह खेद इति, खेदे वैक्व्ये सति चिति चैतन्ये मनोलयो मनसोन्तःकरणस्य लयो नाशो भवति चितः सर्वाधिष्ठानत्वेन खेदे च मनोलय-
Page 178
१६४ बोधसारे।
स्याधिष्ठानमात्रपरिशेषात्पूजात्वमिति भावः, ननु खेदान्भयं भ- वतीत्याशद्गाह भयमिति, हि प्रसिद्धं चैतद्विद्रत्सु भयं भीति: पुण्यकर्मणि प्रवर्त्तकत्वान्भयहेतुत्वेन प्रसिद्धात्मानुसन्धायकत्वाच्च परमा पूजा श्रेष्ठा पूजा भवति, ननु भयस्य पुण्यकर्मणि भ्रव- तकत्वमात्मानुसन्धायकत्वं च कुतो ज्ञात तत्नाह भीषेति, हि उपनिपत्सु प्रसिद्धाया भीषास्मादिति च 'भीपास्मादि'त्यादि- कायाः श्रुतेर्वेदवाक्यतो ज्ञातमित्यर्थः ॥८॥ दानस्यापि पूजात्वमाह। दानं तु परमा पूजा दीयते परमात्मने। अदानं परमा पूजा यदि चित्तं प्रसीदति ॥९॥
दानमिति। दानं तु स्वस्वीयत्व्रनिवृत्तिपूर्वकं पदार्थे पर- स्वीयत्वप्रतिपादनमित्युक्तलक्षणं दानमपि अन्तःकरणशोधक- त्वात्प्रलादहेतुत्वाच्च परमा पूजा भवति, ननु दानस्य कथं पू- जात्वं तत्राह दीयत इति, यद्दीयते दानं क्रियते तत्परमात्मने कार्यकारणातीतायात्मने 'नान्योतोस्ति द्रष्टे'त्यादिश्रुतेः स्वम्मिन्- कर्त्तृत्वनिषेधेन प्रसादहेतुत्वात्पतिग्रहीतुरपि पृथगसत्वेन दा- नस्य परमात्मार्थत्वाच्च दानस्य पूजात्वं सिद्धमेवेति भाव:, ननु तरहि अद्रानं निपिद्धं स्यात्तत्र मे मनसः स्वाभाविकी प्रवृत्तिस्तत्र किं कर्त्तव्यमित्याशङ्काहादानमिति, अदानं दानविरोधि- प्रतिग्रहः करग्रहो वा लोभेन दानाभावो वा परमा पूजा भ- वति, ननु अदानस्य कथ पूजात्वं तत्राह यदीति, चित्तमन्तःक- रणमदाने यदि यहिं प्रसीदति प्रसन्नं भवति तर्हि पूजा स्या- दित्यर्थः, पृजादिसर्वकर्मणश्चित्तपसादार्थत्वादतोऽदानं चित्तप- सादे सति पूर्जैवेति भावः ।। ९॥
Page 179
योगदीक्षाचिन्तामणी शैचो लययोगः । १६१
इदानीं रोगेष्वपि पूजात्वं सम्भावयति। रोगा एव परा पूजा रोगैः पापक्षयो यतः । आरोग्यं परमा पूजा नैरोग्यं मुक्तिसाधनम् ॥१०॥ रोगा इति। रोगा एव व्याधयोपि परा पूजा भवति, ननु रोगेपु कुतः पूजात्वं तत्राह रोगैरिति, यतो यस्मात्कारणा- द्रोगैव्याधिभि: पापक्षयः पापानां किल्विपाणां क्षयो नाशो भवात पूजाया: पापक्षयकारकत्वप्रसिद्धे रोगाणामापे तथा- त्वात्पूजात्वं सम्भाव्यमिति भावः, आरोग्ये तु प्रभिद्धं पूजात्वं दर्शयति आरोग्यममिति, निर्गता रोगा यस्मात्स नीरोगस्तस्य भावो नैरोग्यं रोगराहित्यं मुक्तिसाधनं मुक्तर्मोक्षस्य साधनं स- र्वसाधनेषु श्रवणमननादिषूपयोगित्वेनोपचारात्साधनामित्यर्थः, अतः पूजाया: मुक्तिफलत्वादारोग्यं रोगराहित्यं परमा पूजा भवति॥१०॥ कर्मण्यपि तदर्शयति। क्रिया तु परमा पूजा शिवार्थ क्रियते डखिलम् । अक्रियैव परा पूजा निश्चला ध्यानरूपिणी॥११॥ क्रियेति। क्रिया तु क्रियते सा क्रियापि परमा पूजा भवति कुत इत्यत आहाखिलं सर्व यत्क्रियते तच्छिवार्थ शिव आत्मा तदर्थमेव, अत्र वृहदारण्यकीयाश्रुतिरपि 'आत्मनस्तु कामाय सर्वे प्रियं भवती'त्यादि:, दृद्धा अप्याहुः, आत्मा चवं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विपयोपभोगरचना निद्रा समाधिस्थितिः । सश्चारः पदयोः प्रदक्षिणविधिः स्तोव्राणि सर्वा गिगे 11 यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनमि'ति॥
Page 180
१६६ बोधसारे।
अतः सर्वक्रियाया आत्मार्थत्वात्पूजात्वमिति भाव:, ननु क्रियाया: पूजात्वमस्तु मम तु सा नैव रोचते तत्राहाक्रियेति, अक्रियैव क्रियात्यागोपि परा पूजा भवति, ननु अक्रियायां प्र- त्यवायसत्त्वात्कथ पूजात्वं सम्भाव्यं तत्राह निश्चलेति, निश्चला चात्तल्यहीना हेतुगर्भ विशेषणं निश्चलत्वादेव ध्यानरूपिणी ध्यानं चिन्तनमेव रूपं यस्याः सा तथोक्ता त्रिपुटीराहित्यमेवात्मनो- ध्यानमित्यक्रियायाः ध्यानत्वमिति भावः॥११॥ सत्सङ्गेपि तद्दर्शयति। सत्सङ्ग: परमा पूजा सत्सङ्गो मोक्षसाधनम् । असत्सङ्ग: परा पूजा यत्र मोहः परीक्ष्यते ॥१२॥ सत्सङ्ग इति। सत्सङ्ग: सर्ता जीवन्मुक्तानां सङ्गः परमा पूजा भवति सत्सङ्गस्य कथ पूजात्वं तत्राह सत्सङ्ग इति, सत्सङ्ग: सरतां ज्ञानिनां सङ्ग: सत्सङ्गो मुक्तिसाधनं मुक्तर्मोक्षस्य साधनं कारणं भवति मोक्षकारणत्वेन सत्सङ्गस्य विधीयमानत्वाच्छा- स्त्रेपु मोक्षकारणत्वं सत्सङ्गस्य प्रसिद्धमेवेति भाव:, ननु सत्स- ङ्रस्य मुक्तिसाधनत्वाद्स्तु तदसत्सङ्गे तु तदभावात्तदभावो मम तु तत्रैव रुचिर्भवति किं कर्त्तव्यमित्याशख्काहासत्सङ्ग इति, असत्सङ्गोऽसतां विषयिणां दुष्टानां च सङ्गः संयोगः सोंपि परा पूजा भवति असत्सङ्गस्य कथ पूजात्वं तत्राह यत्रेनि, यत्रासत्सङ्गे मोहोऽज्ञान परीक्ष्यते ज्ञायते दुःसङ्गनिकषं विना मोहहेम्नः शेषपरीक्षा न स्यादिति भावः ॥ १२॥ इदानीं धैर्येपि तत्सम्भावयति। धैर्य तु परमा पूजा धीरो ह्यमृतश्नुते। अधैर्य परमा पूजा शीघ्रं कार्यविमोक्षतः ॥ १३ ॥
Page 181
योगदीक्षाचिन्तामणौ शेवो लययोग: । १६७
धैर्य त्विति। धैये तु धीरत्वमपि परमा पूजा भवति कुत इत्यत आह हि, यस्मात्कारणद्धीरः प्राप्तेप्वपि सुखदुःखेपु क्षो- भहीनः पुरुषोऽमृतं मोक्षमश्तुते प्रामोति, ननु तर्हि अधै- र्यस्य मुक्तिहेतुत्वाभावान्न पूजात्वमित्याशक्का तत्रापि तत्सम्भा- वयति अधैर्यमिति, अधैर्य कस्मिश्चिदपि कार्ये सत्वरं प्रवृत्ति- स्तदपि परमा पूजा भवति कुत इत्यत आह शीघ्रमिति, शीघ्रं सत्वरं यथा स्यात्तथा कार्यविमोक्षतः कार्यात्कर्तव्याद्विपोक्षो नि- वृत्तिस्तस्मात्कार्यमकृत्वा हृदि रुद्धचित्तेन मलिनेन्तःकरणे श्रवणादि सम्यक् न स्यादिसधैर्येण कृते तस्मिस्तावन्मात्रमलनि- वृतेरधैर्येपि पूजात्वमिति भावः ॥ १३ ॥ स्तुतौ प्रसिद्ध तद्दशयति। स्तुतिरेव परा पूजा स्तुतौ देवः प्रसीदति । निन्दैव परमा पूजा सुहृदां गालयो यथा॥ १४ ॥ स्तुतिरिति। स्तुतिरेव स्तुतिः स्तवनमपि परा पूजा भवति कुतस्तदाह स्तुताविति, स्तुतौ कृतायां ससां देव आत्मा प- सीदति पसन्नो भवतीति प्सिद्धमावालगोपमिति भावः, ननु तहि सा निदार्यां न स्यादित्याशङ्काह निन्देति, निन्दैव गर्हापि परमा पूजा भवति, ननु निन्दाया असन्तोपकारयत्वं स्पष्टमतः कथं सन्तोपकारणभूतपूजात्वं तस्यामित्याशङ्का दृष्टान्तेन त- त्तस्यां सम्भावयति सुहृदामिति, यथा यद्वत्सुहृदां सम्बन्धिनां श्यालादीनां गालयो निन्दारूपा अपि सन्तोपकारणानि भव- न्तीत्यर्थः, तद्वन्निन्दापि भावनया सुखहेतुरपि भवती- ति भावः ॥ १४ ॥ इदानीं तृष्णायामपि पूजात्वं सम्भावयति।
Page 182
१६८ बोधसारे।
तृष्णैत परमा पूजा देवार्थ वहु काङ्ते। सन्तोष: परमा पूजा देवः सन्तोषलक्षणः ॥ १५॥ तृष्णैवेति। तृष्णैव तृष्णापि परमा पूजा भवति कुत इ- त्यत आह देवार्थमिति, यदित्यध्याहार्य, यद्धहु अधिकं द्रव्यादि काङ्कत इच्छति तद्देवार्थ देव आत्मा तदर्थ तत्प्रयोजनायेसर्थः, 'नान्योतोस्ती'त्यादिश्रुत्यात्मनो व्यतिरिक्तभोक्तृत्वस्य प्रतिषेध- नात्तदर्थविषयतृष्णाया अपि पूजात्वमिति भावः, सन्तोपे तु त- त्मसिद्धमेवेसाह सन्तोष इति, सन्तोषो निरिच्छत्वं वैतृष्ण्यमि- त्यर्थः, परमा पूजा भवति कुत इत्यत आह देव इति, देव- श्चैतन्यस्वरूपः आत्मा सन्तोषलक्षणः सन्तोषो वैतृष्ण्यमेव लक्षणं चिह्नं यस्य स तथाभूतोऽतः सन्तोपस्यापि पूजात्व- मिति भावः॥१५।। गमनेपि तदर्शयाति। यात्रा हि परमा पूजा देवस्यैतत्प्रदक्षिणम्। आसनं परमा पूजा स्वासनं योग उत्तमः ॥१६॥ यात्रेति। यात्रा हि गमनमपि परमा पूजा भवति केन रूपे- गोत्यत आह देवस्येति, एतद्रमनं देवस्यात्मनः प्रदक्षिणं प्रदक्षि- णारूपं भवति, नतु यस्य गमनेप्यरुचिस्तस्य तदभावात्सा न स्पादित्याशक्का तत्रापि तत्सम्भावर्यात आसनमिति, आसन- मास्यते स्थीयतेस्मिन्नित्यासनं स्थिरत्वं तदपि परमा पूजा भतति कुत इत्यत आह स्वासनमिति, स्व्रासनं सुष्ठ आसनं स्थैर्यमुत्तमः श्रेष्ठो योगो धारणाविशेष एव ज्ञेयः, अतः पूजैव तादिति भावः ॥ १६ ।। भोजनेपि तत्सम्भावयति।
Page 183
योगदीक्षाचिन्तामणी शेषो लययोगः। १६९
भोजनं परमा पूजा देवनैवेद्यरूपतः । अभोजनं परा पूजा ह्युपवासप्रियो हरिः ॥ १७॥ भोजनमिति। भोजनं भुज्यने त्भोजनमाहारस्तदपपि परमा पूजा भवति, कुतो भोजनस्य पूजात्वं तत्राह देवेति, देवनैवेद्य- रूपतो देवश्चिदात्मनोऽभिन्नो भोक्ता तस्य नैवेद्यो निवेदनं स- मर्पणमित्यर्थः, स एव रूपं यस्य तस्माद्, इदानीमभोजनेि वत्सम्भावयति अभोजनमिति, अभोजनमनाहार: परा पूजा भतति, अभोजने कुतः पूजात्वं तत्राह हीति, हि यस्मात का- रणाद्धरिः सर्वदुःखहरणशीलः प्रत्यगभिन्नः परमात्मोपवास- प्रिय उपवास एव तस्य पूजेति भावः ॥१७॥ स्थितावपपि पूजात्वं सम्भावयति। स्थितत्त्वं परमा पूजा तदुपस्थानमात्मनः । पतनं परमा पूजा नमस्कारस्वरूपिणी ॥ १८॥
स्थितत्वमिति। स्थितत्वं स्थितं स्थानं तस्य भावस्तत्वं तदेव परमा पूजा भवति, ननु स्थितौ कथं पूजात्वं तत्राह त- दिति, तत्स्थानमात्मनः प्रत्यगात्मनः प्रकाश्यरूपेण समीप- त्वादुपस्थानरूपं भवति, इदानीं पतनेषि तत्सम्भावयति प- तनमिति, पतन भूमौ स्वस्य निपातः परमा पूजा भवति, पतने कथं पूजात्वं तत्राह नमस्कारेति, नमस्कारस्वरूपिणी नमस्कारो नमनकिगैव स्वरूपं यस्याः सा तथोक्ता पूजार्या भूमो निपात एव नमस्कार इति सार्वजनीनप्रसिद्धिरिति भावः ॥ १८ ॥ भाषणेपि तत्सम्भावयति। भाषणं परमा पूजा सर्व स्तुतिमयं हरे: । २२
Page 184
१७० बोधसारे।
मौनं तु परमा पूजा मौनं व्याख्यानमस्य तत् ॥।१ ९।। भाषणमिति। भाषाणं लौकिकं वैदिकं च सर्ववचनमपि परमा पूजा भवति, ननु भापणे स्तुतिनिन्दयोः सत्वात्सर्वभा- पणे कथं पूजात्वं तत्राह सर्वमिति, हरे: सर्वद्वैतहरणशीलस्य त- स्मिन्सर्वस्य समत्वात्सर्वे भाषगं स्तुतिमयं स्तुतिपधानं भ- वति, यद्वा तस्यैवेश्वरत्वादीशवरे च धर्माधर्मज्ञानाज्ञानवैराग्यावै-
स्तोत्रमेव सर्वभापणमित्यर्थः, यद्वा साकारे विष्णौ सर्व- कार्यनिर्वाहात्सर्वकार्यनिर्वाहत्त्त्वस्य सर्वशब्दप्रतिपाद्यत्वात्सर्व- भाषणस्य स्तुतित्वमित्यर्थः, यद्वाऽहमावच्छिन्ने चिदात्मनि सर्वभाषणस्य स्व्रेष्टसंपादकत्वेन स्तुतिमयच्वमियर्थः, मौनेपि त- त्सम्भावयति मौनमिति, मौनं तु मौनं लोकप्रसिद्ध वाग्रोधन- रूपमपि पूजा भवति, मौने कथं पूजात्वं तत्राह मोनमिति, य- न्मौनमसम्भापण तदात्मदेवस्यास्य व्याख्यानं प्रतिपादनं भ- वति 'यतो वाचो निवर्त्तन्ते अप्राष्य मनसा सह, यद्वाचानभ्यु- दितम्, अथात आदेशो नेति नेती'त्यादिश्रुतिभ्यो वाग्विषय- त्वनिषेधात् 'त्रैगुण्यविषया वेदा' इति गीतायामपि वेदानां त्रि- गुगाविषयत्वप्रतिपादनाच्च मौनस्यात्मशिवरूपप्रतिपादनेन स्तु- तिरूपत्वात्पूजात्वं सम्भाव्यीमीत भावः ।। १९ ।। इदानीं मनोबुद्धीन्द्रियचेष्टासु तद्दर्शयति। चेष्टैव परमा पूजा चेष्टते तत्प्रकाशतः । अचष्टा हि परा पूजा जोषमास्त्रेति वेदवाक् ॥२०॥ चेष्टैवेति। चेष्टैव मनोबुद्धीन्द्रियाणां व्यापारोपि परमा पूजा भवांत हि यस्मात्कारणात्तत्पकाशतस्तस्य शिवस्य प्रकाशतः
Page 185
योगदीक्षाचि्तामणौ शैवो लययोगः । १७१ मकाशाच्चेष्टते व्यापृणोति सर्वचेष्टाप्रकाशनलक्षणेन लक्षणेन- लक्षकत्व।चेष्टायामपि पूजात्वं सम्भाव्यमिति भावः, चेष्टा- डभावेपि तत्सम्भावयति अचेष्टेति, अचेष्टा तूप्णीं स्थितिः सापि परमा पूजा भवति, नन्वचेष्टायां करथ पूजात्वं सम्भाव्यं तत्राह जो- पमिति, जोपं तूप्णीं यथा तथाSSस्व् भवेति एवं वेदवाग्वेदवच- नमस्ति देवस्याज्ञ।रूपत्वाद्वेदस्येति तदाज्ञाङ्गीकारवत्वादेवाचेष्टायां पूजात्वमिति भाव: ॥२०॥ जन्मैत्र परमा पजा सोवतारो हरेःसतः । जीवनं परमा पूजा जीवन्कार्याणि साधयेत् ॥२१।।
जन्मैवेति। जन्मैव जननमपि परमा पूजा भवति, जन्मनः कथ पूजात्वं तत्राह स इति, सतः सद्रूपस्य हरे: सर्वद्वतहरणशी- लस्यावतारो विभूतिर्ईेयो जन्माभावे निराकारस्य पूजा न सम्भवति अतः पूजायामुपयोगाज्जन्मनः पूजात्वमिति भाव:, जीवनेपि तदरशयति जीवनमिति, जीवनमायुः परमा पूजा भवति, कथमित्यत आह जीवन्निति, जीवन्सन्पुरुषः कार्याणि कर्त्तव्यानि श्रवणकीतिनादीनि साधयेत्सम्पादयेत्सर्वकार्यसा- धनोपयोगित्वाज्जीवनस्यापि पूजात्वमिति भावः ॥ २१।। दीर्घायुष्यपि तद्दर्शयति। दीर्घायुः परमा पूजा योगिनो दीर्धजीविनः । स्वल्पायुः परमा पूजा सद्ो ह्यस्माद्विमुच्यते॥२२॥ दीर्घायुरिति। दीर्घ चिरकालं वर्त्तमानमायुरायुष्यं q- रमा पूजा भवति, ननु दीर्घायुषि कथं पूजात्वं तत्राह योगिन इति, योगिनो योगाभ्यासिनो दीर्घजीविनश्चिरजीवनवन्तो
Page 186
१७२ बोधसारे।
भवन्ति योगदार्ढ्यसाधनोपयोगाद्योगिनस्तद्योगेन साधयन्ति तत्स्वतः सिद्धं दीर्घायुः परमा पूजैव श्रवणाद्युपयोगेनेति भाव:, तर्हि स्व्ल्पायुषि तदतम्भवोस्त्विति तत्राह स्वल्पायुरिति, स्वल्पायुः स्वल्पं चाचिरमायुश्च जीवनं तत्परमा पूजा भवति हि यस्मात्कारणादस्मात्संसारदुःखात्सय्यः शीघ्रं विमुच्यते मुक्तो भवति शीघ्रं संसारदुःखमे।चकत्वात्स्वल्पायुषि पूजा- त्वमिति भावः ॥२२।। मरणेपि तत्संभावयति। मरणं परमा पूजा निर्माल्यत्यागरूपिणी। शोको हि परमा पूजा शोको वैराग्यसाधनम्॥२३॥ मरणामिति। मरणं देहत्यागस्तदपि परमा पूजा भवति, ननु मरणे कथ पूजात्वं सम्भाव्यं तत्राह निर्माल्येति, निर्मा- ल्यत्यागरूपिणी निर्माल्यस्यानद्यतनपृजाद्रव्यवन्निर्माल्यरूपो देहस्तस्य त्यागो विसर्जनं तदेव रूपं यस्याः पूजायाः सा त- थोक्ता पूजायां निर्माल्यत्यागस्यावश्यकत्वाद्देहत्यागस्यापि त- थात्वात्पूजात्वमिति भाव:, ननु मरणेपि शोको जायत इत्या- शख्ाह शोक इति, शोको वैराग्यसाधनं वैराग्यस्य विषय- वैतृष्ण्यस्य साधनं कारणं भवति अतः शोकस्तु शोकोपि प- रमा पूजाभवति वैराग्ये कारणत्वाच्छोकस्य पूजात्वं सम्भा- व्यमिति भावः ॥।२३। हर्पेपि तत्सम्भावयति। हर्ष एव परा पूजा हृष्टरूप: सदा हरिः । पुष्टिस्तु परमा पूजा स्वस्थचित्तो हि पुष्टिमान्॥२४॥ हर्ष इति। हर्ष आनन्दोपि परमा पूजा भवति, कुत इत्यत
Page 187
योगदीक्षाचिन्तामणौ शैवो लययोगः । १७३
हृष्टरूप इति, हि यस्मात्कारणाद्धरिः सर्वदुःखर्सहारको देवो हृष्टरूपो हुषटं सुखमेव रूपं यम्य स तथोक्तः सदा नित्यमस्ति देव- स्वरूपत्वादेव हर्षस्य पूजात्वमिताशयः, पुष्टावपि तत्सम्भावयति पुष्टिस्त्विति, पुष्टिस्तु पुष्टिरपि परमा पूजा भवति हि यम्मात्का- रणात्पुष्टिमान्पुष्टः पुरुषः स्वस्थचित्तः स्वस्थं स्थिरं चित्तं चेतो यस्य स तथाभूतो भवति ॥ २४ ॥ इदानीं कृशत्वेपि पूजात्वं सम्भावयति। कृशत्वं परमा पूजा कृशगात्रा हि योगिनः । लाभ एव परा पूजा लाभः सन्तोषकारणम्॥ २५॥ कृशत्वमिति। कृशत्वं क्षीरत्वं परमा पूजा भवति हि यस्मात्कारणाद्योगिनो योगाभ्यासवन्तः कृशगात्राः कृशं क्षीणं गात्रमङ्गं येपां ते तथोक्ता भवन्ति गात्रकार्श्यस्य यो- गसाघनत्वात्पूजात्वमिति भाव:, लाभेपि तत्सम्भावर्यात लाभ एवेति, लाभ एवादायोपि परा पूजा भवति, कुतो लाभे पूजात्वं तत्राह लाभ इति, लाभो द्रव्यादे: प्राप्तिः सन्तोषकारणं सन्तोपस्य तमे: कारणं हेतुर्भवति॥२५॥ हानावपि पूजात्वं दर्शयति। हानिरेत परा पूजा तस्मादेव विमुच्यते। गुण एव परा पूजा साधूनां संमतो गुणी ।। २ ६।। हानिरेवेति। हानिरेव द्रव्यादेर्नाशोपि परा पूजा भवति, ननु हानौ कुतः पूजालं तत्राह तस्मादिति, तस्मादेव यस्य यस्य धनादेरनाशो जायते तस्मात्तम्मादित्यर्थः, तत्तद्रक्षणादिचिन्तात इत्याशयः, विमुच्यते मुक्तो भवति द्रव्यादिरक्षणादिचिन्ताया: पुरुषस्य विमोचकत्वाद्धानेरपि पूजात्वमिति भाव:, गुणेप्वपि
Page 188
१७४ बोधसारे।
तत्सम्भावयति गुणा एवेति, गुणा एव विद्यादिगुणा अपि परा पूजा भवति, गुणेषु कुतः पूजात्वं तत्राह साधूनामिति, गुगी गुणवान्साधूनां सज्जनानां सम्मतो मान्यो भवति स- ज्जनकृतसन्मानविषयत्वाद्गुणेषु पूजात्वमिति भावः ॥ २६।। इदानीं दोषेपि तत्सम्भावयति। दोषा एव परा पूजा निरहङ्कारता यतः। मान एव परा पूजा मान्यते परमेश्वरः ॥ २७॥
दोषा एवेति। दोषा एव लाञ्छनान्यपि परा पूजा भ- वति, नतु दोषे कथं पूजात्वं तत्राह निरहङ्गारतेति, यतो येभ्यो दोपेभ्यो निरहङ्कारता निर्गतो निवृत्तोऽहङ्कारो यस्य तस्य भाव- स्तत्ता सा भवति अहङ्गारानुदयकारणत्वेन दोषेष्वपि पूजात्व- संभव इति भाव:, इदानीं मानेपि तद्दर्शयति मानएवेति, मान एव मान आदरोपि परा पूजा भवति, ननु माने क्थ पूजारू- पत्वं संभाव्यं तत्राह मान्यत इति, परमेश्वरः परमः कार्यका- रणातीत आत्मा स एवेश्वर नियन्ता सर्वत्र नियन्तृत्वेन स्थित आत्मा शिव एव मानाहत्वान्मान्यत आद्रियतेऽतः पूजात्वं मा- नेपि संभवतीति भावः ॥२७॥ ननु तर्ह्यपमाने तन्नस्यादित्याशड्क तत्रापि तत्संभावयति। अपमानः परा पूजा योगी सिद्धेदमानतः । धनं हि परमा पूजा धनं धर्मस्य साधनम् ॥२८॥ अपमान इति। अपमानोऽनादर: परा पूजा भवति, कुत इत्यत आह योगीति, योगी योगाभ्यास्यमानतोऽनाद- रात्सिद्धयेद्योगसिद्धिं प्राप्नुयादतवो ना दरप ्योस्य
Page 189
योगदीक्षाचिन्तामणौ रैवो लययोगः । १७
त्कर्मणो वा फलसाधकतया पूजात्वं संभाव्यमिति भाव:, दृद्धा अप्याङ्गु:। 'मानितः पूजितो योगी दुग्धा गौरिव गच्छती'ति। अपमानपुरस्कारेणार्थसिद्धौ नीतिवाक्यम्।। 'अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठुतः। स्वकार्य साधयेद्धीमान्कार्यभ्रंशो हि मूर्खते'ति। इदानीं धनित्वेपि तत्संभावयति सधनत्वमिति, सधनत्वं धनं द्रव्यं तेन सहितः सधनस्तस्य भावस्त्त्वं तदपि परा पूजा भवति, कुत इत्यत आह धनमिति, धनं द्रव्यं धर्मस्यान्तःकर- णशुद्धिकारणभृतस्य दानादेः साधनं साधकं भवति अतः स- धनत्वे पूजात्वं संभाव्यमिति भावः ॥ २८ ॥ इदानीं निर्धनत्वेपि तद्दर्शयति। निर्धनत्वं परा पूजा ब्रह्म प्राप्तमकिञ्चनैः । अप्रमाद: परा पजा ह्यप्रमत्तो हि सिद्धति ॥२९॥ निर्धनत्वमिति। निर्धनत्वं निर्धनो धनहीनस्तस्य भाव- स्तत्वमपि परा पूजा भर्वात, कुत इत्यत आह ब्रह्मेति, अकि- श्चनैरनिर्धनैर्निष्किश्चनैरित्यर्थः, ब्रह्म. देशकालवस्तुकृतपरिच्छे- दशून्यं भूमानन्दरूपं प्राप्तमनुभूतम्, आकश्चनत्वस्य भूमानन्द- प्रापकत्वात्पूजात्वमनुमन्धेयमति भावः, दक्षतायामपि तत्संभा- वयति अप्रमाद इति, अप्रमादोऽविस्मरण परा पूजा भवति हि यस्मात्कारणादप्रमत्तः सावधानः सिद्ध्यति कार्यफल- भागी भवात अत एवाप्रमादेपि कार्यसाधकत्वात्पूजात्वं सम्भा- व्यमिति भाव: ॥ २९॥ प्रमादेपि तद्दशयति।
Page 190
१७६ बोधसारे।
प्रमाद: परमा पूजा कर्त्तव्यं विस्मरेद्यतः । सुषुप्तिः परमा पूजा समाधिर्योगिनां हि सः ॥३०॥ प्रमाद इति। प्रमादः कर्त्तव्यविस्मृतिः परमा पूजा भवति, कुत इत्यत आह कर्त्तव्यमिति, यतः प्रमादात्कर्त्तव्यं कार्य वि- समाधीप्सूनामिष्टत्वा- त्तत्साधनत्वेन प्रमादोपि पूजैवेति भावः, इदानीं सुपुप्तावपि पूजात्वं सम्भावयति स्तुपुप्तिरिति, सुपुप्तिर्निद्रा परमा पूजा भर्वात, नतु निरर्थिकायां सुषुप्तौ कुतः पूजात्वं तत्राह समाधिरिति; हि यस्मात्कारणात्स सुप्तिरूपो योगिनां ज्ञानिनां समाधिः समं ब्रह्माधीयतेऽनुभूयतेस्मिन्निति समाधिर्निर्विकल्पसमाधिरित्यर्थः, ज्ञानिदृष्ठ्या निद्रासमाध्योरैक्यात्सुप्तेरपि समाधित्वात्पूजात्व- मिति भावः॥३०॥ कर्मयोगेपि तत्साधयति। कमयोगः परा पूजा कर्म ब्रह्मार्पणं हरौ। भक्तियोगः परा पूजा यो मद्भक्तः स मे प्रियः॥३१॥ कर्मयोग इति। कर्मयोग: कर्माचरणं परा पूजा भवति, कर्मयोगे कुतः पूजात्वं तत्राह कर्मीत, हरौ सर्वद्वैतहरणशीलेऽख- ण्डरसात्मक आत्मनि वास्तवकर्माभावाद् 'नान्योतोस्ति श्रोते' त्यादिश्रुतेः कर्तुः पृथगसत्वादपि सर्वे कर्म ब्रह्मार्पणं ब्रह्माण अर्पणं ब्रह्मार्पणं ब्रह्मरूपेणैव दृश्यं भवतीत्यर्थः, भक्तौ तत्सम्भा- वयति भक्तियोग इति, भक्तियोगो भजनं भक्तिस्तस्या योग- र्संयोगस्तदङ्गीकरणमिसर्थः, परा पूजा भरवात, कुत इत्यत आह य इति, यः पुरुषो मद्भक्तो मम भक्तः सेवको भवति स पुरुषो मे मम मिय इष्टो भवतीति भगवदुक्तत्वादित्यर्थः, भगव-
Page 191
योगदीक्षाचिन्तामणी शैयो लययोगः। १७७
त्मीतिसाधनत्वाद्धक्तियोगस्य पूजात्वमिति भाव: ।। ३१ ।। ज्ञानयोगेपि पूजात्वं सम्भावयति। ज्ञानयोग: परा पूजा ज्ञानात्कैवल्यमश्नुते। तुरीयं परमा पूजा साक्षात्कारस्वरूपिणी ॥ ३२ ॥ ज्ञानयोग इति। ज्ञानयोगो युज्यतेनेनेति योगो जीवब्रह्मैक्यं ज्ञानमेव योगो ज्ञानयोग: परा पूजा भवति, कुत इस्त आह ज्ञा- नादिति, ज्ञानात्तत्वमसीत्यादिवाक्यजन्यादहं ब्रह्मास्मीति पान्नोति 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते' इति श्रुतेः, ज्ञाला देवं सर्वपाशापहानिः क्षीणैः क्रेशैर्जन्ममृत्युप्रहाणिरि'ति च श्रुतेः, 'तमेत विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये'ति च श्रुतेरपे ज्ञानस्यव साक्षान्मुक्तिसाधनल्वात्पृजात्वं प्रेसिद्धमेवरेति भावः, तुरीयेपि तत्सम्भावयति तुरीयमिति, तुरीयं तुर्यावस्था- रूपं साक्षिचतन्यं परमा पूजा भवति, कुत इत्यत आह सा- क्षादिति, साक्षात्कारस्वरूपिणी साक्षात्कार: प्रत्यक्षानुभवः स एव स्वरूपमसाधारणं रूपं यस्यास्तुर्यावस्थारूपपूजायाः सा तथोक्ता स्वरूपत्वादेव तुर्यस्य पूजात्वमिति भावः ॥ ३२।। श्रवणे तत्सम्भावयति। श्रवणं परमा पूजा श्रूयते परमेश्वरः । मननं परमा पूजा मननं ध्यानसाधनम् ॥ ३३ ॥ श्रवणमिति। श्रवरं तु श्रवणमपि परा पूजा भवति, कुतः श्रवणे पूजात्वमित्यत आह श्रूयते इति, परमेश्वरः कार्यकार- णातीत ईश्वर ईशनादिशक्तिमानात्मा श्रूयते श्रवणविषयी- क्रियतऽतः श्रवणस्य पूज्यात्मविपयतया पूजात्वमिति भाव:, २३
Page 192
१७८ घोधसारे।
मननेपि तां सम्भावयति मननमिति, मननं श्रुतस्यार्थस्य युत्त्या सम्भावनं तत्परमा पूजा भवति, मनने कथं पूजानुस- न्धेया तत्राह मननमिति, मननं श्रुतार्थसम्भावनरूप ध्यान साधनं ध्यानम्य विजातीयपत्ययानन्तरिततत्सजातीयप्रत्यय- पवाहरूपस्य साधनं साध्यतेनेनेति साधनं कारणमतो मनन- मपि पूजवेति भावः ॥ ३३ ॥ ननु सर्वेष्विष्टानिष्टपदार्थेषु इष्टबुद्धिरेव विधेयेत्युक्तं तन्तु- दुर्घटामत्याशङ्का मद्ठुरुसदृटशगुरुलाभे सुलभमेवेत्याह। मद्गुरो: सदृशः कश्चिद्गुरु: कर्णे लगेद्यदि सवमेव तदा पूजा देवस्य लयरूपिणी ॥ ३४ ॥ मद्रुरोरिति। मद्गुरोर्मम गुरोदैशिकस्य सदृश- स्तुल्यः कश्वित्कोपि गुरुदैशिक: कर्रो कर्णमूले लगेदुपदिशे- दयदि यहिं तर्हि सर्वमेव समस्तमपि लयरूपिणी साम्येन लयो नाश एव रूपं यस्याः सा तथोक्तात एव देवस्य चैतन्य शिवस्य पूजार्चा भवेत्स्याद॥ ३४॥ इदानीमुक्तसर्वलयेम्यो नादानुसन्धानस्य श्रैष्ठ्यमाह। लयानामपि सर्वेषां विश्वविस्मृतिहेतुतः । श्रेष्ठं नादानुसन्धानं नादो हि परमो लय: ॥३५॥ लयानामिति। सर्वेपामपि समस्तानामप्युक्तलक्षणानां ल- यानां लयोपायानां मध्ये निर्धारणे पष्ठी'यतश्व निर्धारणमि'ति सूत्राद्, विश्वविस्मृतिहेतुतो विश्वस्य समस्तवाह्यपदार्थजातस्य विस्मृतिरननुसन्धानं तस्य हेतुतः कारगत्वान्नादानुसन्धानं दक्षिणकर्णस्थितानाहतस्य नादस्यानुसन्धानं श्रवणं श्रेष्ठ-
Page 193
भक्तिरसायनम । १७१ मुत्तमं हि यस्मात्कारणान्नादो नादानुसन्धानं परमः श्रेष्टो लयो लयोपायोऽस्ति, लोकेपि गायनवाद्यादिनादलुब्धस्य सर्वकार्यविस्मृतिर्द्श्यत इति भावः ॥३५ ॥ उक्तमेव नादानुसन्धानश्रैष्ठ्यं सदष्टान्तं सहेतुकं चाह। मकरन्दम्पिबन्भृङ्गो यथा गन्धं न काङ्कति नादासक्तं तथा चित्तं विषयान्नाभिकाङ्गति ॥३६॥ इति श्रीनरहरिविरचिते बोधसारे योगदिक्षाचिन्तामणी लययोगः ॥ ६।। मकरन्दमिति। भृङ्गो भ्रमरो मकरन्दं पुप्परसं 'मकरन्दः पुप्परस' इस्पमरसिंहः, पिवन्पानं कुर्वन्सन्गन्धं तद्वहिर्व्त्तिनं केसरस्थं परिमलं न काङ्कति नेच्छति यथा यद्वत्तथा तद्वन्नादा- सक्तमनाहतनादे वाहे वासक्तं रक्तं चित्तमन्तःकरणं विप- यान्नादातिरिक्तविपयान्नाभिकाङ्गति नेच्छति अतो नादा- नुसन्धानस्य श्रैष्ठ्यमिति भाव:, राजयोगपक्षे तु आकाशगुणत्वेन शब्दस्य नाममात्रत्वानुसन्धानेन तद्वाच्यजगतोपि मिथ्यात्वेन च स्वरूपमात्रशेपलक्षणमेत्र नादानुसन्धानं लयोपायमङ्गीकु- र्यादिति भावः॥ ३६ ॥
योगदीक्षाचिन्तामण्यर्थप्रकाशे लययोगार्थप्रकाशः पञ्चम: ॥५॥ इति श्रीयोगदीक्षाचिन्तामण्यथंप्रकाशो द्वादशाः । १२।
अथ भक्तिरसायनम् एवं सर्वसाधनानि प्रतिपाद्येदानीं सर्वसाधनशिरोभूतं सर्वसाधनमुख्यसाधनं स्वतोन्यसाधननिरपेक्षं भत्त्याख्यसाधनं
Page 194
१८० बोधसारे।
प्रतिपादयितुं भक्तिरसायनाख्यं सार्धद्विपश्चाशच्छोकं प्रकरण- मारभते, तत्र तावदेतत्पकरणश्रवणे शिष्यं पेरयति। अथ सिद्धान्तसर्वस्वं शृणु भक्तिरसायनम् जन्ममृत्युजराव्याधिभेषजं तद्रसायनम्॥ १ ॥ अथेति। अथ योगश्रवणानन्तरं हे शिष्य सिद्धान्त- सर्वस्वरं सिद्धान्तस्य सर्वशास्त्रतात्पर्यस्य सर्वस्वं मुख्यतात्पर्यभूतं भक्तिरसायनं भक्तिर्भजनं स एव रसः सुखं तस्यायनं मार्ग- भूतं प्रापकमित्यर्थः, एतन्नामकं प्रकरसं शृणु अवधारय, ननु भक्तिपतिपादकस्य प्रकरणस्य कुतोरसायनशब्दयोगस्तत्राह जन्मेति, तद्भक्तिरूपं साधनं जन्ममृत्युजराव्याधिभेपजं जन्म देहाहम्भावरूपो मृत्युरत्यन्तदेहविस्मृतिरूपो जरा वृद्धत्वरूपो दैहविकारविशेषस्तेन चान्येपि विकारा ग्राह्या:, व्याधयश्च त- न्मूलज्वरादयस्तेपां भेपजमौपधं तन्निवर्त्तकमित्यर्थः, अतो रसा- यनं रसायननाम्नाभिहितमित्यर्थः ॥ १। उक्तमेव सर्वसाधनश्रैष्ठ्यं भक्तर्विशदयति। धर्मार्थकाममोक्षाणं ज्ञानवैराग्ययोरपि अन्तःकरणशुद्धेश्र भक्ति: परमसाधनन् ॥ २ ॥ धर्मति। धर्मार्थकाममोक्षाणां धर्मश्र स्वस्ववर्णाश्रमोचित- कर्माचरणरूपोडर्यश्च द्रव्याद्यर्थमुद्योगप्रतिपादकं शास्त्रं तत्म- तिपाद्य उपायश्च, कामश्चेन्द्रियविषयसंयोगसुखच्छारूपस्तया च- तल्लाभस्तत्प्रतिपादकशास्त्रोक्तमाधनानि च ग्राह्याणि, मोक्षश्र मोक्षप्रधानार्थशास्त्रं च तत्प्तिपादितानि तत्साधनानि च ग्रा- ह्यागि, तेपां ज्ञानवैराग्ययोरपि ज्ञानस्य जीवात्मैक्यविपयस्य
Page 195
भक्तिरमायनम् । १८१
वैराग्यस्यापि अन्तःकरणशुद्धेश्रान्तःकरणं चित्तं तम्य शुद्धी रागादिमलविसर्गस्तस्या अपि भक्ति: स्रेहरूपात्ति: परमसा- धनं श्रेष्ठं माधनं मुख्यकारणमित्यर्थः ॥ २ ॥ भक्तिलक्षणमाह। ययात्र रत्त्या जीवोयं दधाति ब्रह्मरूपताम् । साधिता सनकादैः सा भक्तिरित्यभिधीयते ॥३॥ ययेति। अयं जीवः प्रत्यक्षः प्राणाद्युपाधिमानघिष्ठानस- हितो बुद्धिस्थश्चिदाभासोऽत्र प्रतक्परोक्षादिरहिते चिदात्मनि यया रत्त्या रागरूपया वृत्या पेमापरपर्यायया ब्रह्मरूपतां ब्रह्मणो देशकालवस्तुपरिच्छद्शून्यस्य रूपं सच्चिदानन्दैकरस्यं तस्या भावस्तत्ता तां दधाति धारयति या च सनकादैः सनक आद्यो येपां सनन्दनादीनां ते तथोक्तास्तैः साधिता कृता, आदिप- देन नारदादीनामपि ग्रहणं, सोक्तलक्षणा भक्तिरित्यभिधीयते भक्तिरित्येवं नाम्ना प्रतिपाद्यते शास्त्रेप्वित्यर्थः ॥ ३॥ एवं भक्तेर्लक्षणं प्रतिपादयेदानीं भक्तिहीनानां सर्वसाध- नानां वैय्यर्थ्यमाह। सर्वा साधनसंपतिरस्ति भक्तिस्तु नास्ति चेतू । तर्हि साधनसंपातस्तुषकण्डणवहृथा॥ ४ ॥ सर्वेति। सर्वा नित्यानित्यवस्तुविवेकादिका साधनस- म्पत्ति: साधनानां मोक्षकारणभूतानां सम्पत्तिः सम्पादनमस्ति विद्यते भक्तिस्तु प्रेमलक्षणा वृत्तिस्तु तुशब्दोत्र भक्ते: सर्वसां- धनसापेक्षत्वेन स्वतोन्यनिरपेक्षत्वेन च वैलक्षण्यं दर्शयति नास्ति चेत्तन्न विद्यते चद्यदि तर्हि तदा साधनसम्पत्तिः साधनानां १ सर्वसाधनानि सांपक्षाणि यत्र तस्या भावस्तत्व तेन।
Page 196
१८२ बोधसारे।
सर्वसाधनानां सम्पत्तिः सम्पादन तृथा व्यर्था तत्र हृष्टान्तस्तुप- कण्डनवत्तुपस्य धान्योपरितनधान्यहीनत्वचः कण्डनं सुस- लादिना कुट्टनं तद्यथा निष्फलं श्रममात्रं तद्वद्वक्तिहीनानि सर्वसाधनानि श्रममात्राणीत्यर्थः ।४॥ एवं भक्तेरन्येसाधनसापेक्षता प्रतिपाधेदानीं तस्या अन्य- साधननिरपेक्षत्वं प्रतिपादयति । यद्यन्यत्साधनं नास्ति भक्तिरस्ति महेश्वरे। तदा क्रमेण सिद्धन्ति विरक्तिज्ञानमुक्तयः ॥५॥ यदीति। अन्यत्साधनं नित्यानित्यवस्तुविवेकादिक सा- धनं नास्ति न विद्यते यदि यहीश्वर ईशनादिशक्तिमति वात्म- तत्वे वा भक्तिरुक्तलक्षणा प्रेमवृत्तिरस्ति विद्यते तदा तर्हि क्रमेशानुक्रमतो विरक्तिज्ञानमुक्तयो विरक्तिवैराग्यं ज्ञानं जीवव्रह्मैक्यविपयं महावाक्यजन्यं मुक्तिर्मोक्ष एत सिद्धयन्ति सिद्धाः भवन्तीत्यर्थः ॥५॥ ननु 'ज्ञानादेव तु कैवल्यं प्राप्यते येन मुच्यते' इत्यादिश्रुते- र्ञानस्यैव मोक्षहेतुत्वप्रतिपदिनात्किं भत्तयेत्याशङ्का भत्तयैवे- श्वरपसादे ज्ञानं जायते ततो मोक्ष इति ज्ञानद्वारैव भक्तर्मुक्तिहे- तुत्वमित्याशयेनाह। न हि कश्चिज्भवेन्मुक्त ईश्वरानुग्रहं बिना। इश्वरानुग्रहादेव मुक्तिरित्येष निश्चयः ॥ ६ ॥ नहीति। कश्चित्कोपीश्वरानुग्रहं विनेशनादिशक्तिम- तोन्तर्यामिरेऽनुग्रहो दया तामृते मुक्तो मोक्षं प्राप्तः संसारा- दुतीर्ण इत्यर्थः, न न भवेद्धि प्रसिद्धमित्यर्थः, व्यतिरेकमु- १ अन्यसाधनानि सापेक्षाणि यत्र तस्या भावस्तत्ता ताम।
Page 197
भक्तिरसायनम्। १८३ खेन दर्शितमर्थमन्वयमुखेन दर्शयतीश्वरेति, ईश्वरानुग्र- हादेवेश्वरस्यान्तर्यामिणोनुग्रहः कृपा तत एव केवलं मुक्ति- मोर्क्षो भवतीति शेप:, एपोडयं निश्चयो निश्चीयतेऽनेनेति नि- श्वयो निर्णयोऽस्ति मुक्तेः प्रधानसाधनभूतज्ञानस्य गुर्वधीन- त्वाद्गुरोश्षेश्वरानुग्रहपाप्यत्वादीश्वरानुग्रह एव देशिकमापण- द्वारा मुक्तिहेतुरिति भावः॥६॥ ननु तर्हीश्वरप्रसादस्य मुक्तिहेतुत्वे किं भत्तयेत्याशक्का भक्ति विना तदौर्लभ्यादित्याह। ईश्वरः परिपूर्णत्वान्न तु किञ्चिदपेक्षते । प्रीत्यैवाशु प्रसन्नः सन्पर कुर्यादनग्रहम् ॥ ७॥ ईश्वर इति। ईश्वर ईशनादिशक्तिमान्सर्वनियन्ता परिपूर्ण- त्वात्सच्चिदानन्दघनतयाSSप्कामत्वाक्कि चिद्यज्ञदानादिकं स्व- भोगोपयोगि द्रव्यादिकमपि न तुनैवापेक्षत इच्छति अतः प्रीत्यैव केवलं प्रेम्णैवाशु शीघ्रम, अनेन यज्ञदानस्वधर्मानुष्ठा- नजपादिनेश्वरः प्रसीदति तथापि बहुकालेन तत्रापि भक्तिसा- पेक्षितेन भत्त्या त्वन्यनिरपेक्षितयैवेश्वरशीघ्रपसादोपलब्धिरिति भाव:, प्रसन्नः प्रीतः सन्परं ज्ञानप्दगुरुपरापकमनुग्रहं प्रसारद कुर्याद्, अन्यसाधनैर्भक्तिस।पेक्षितैः सांसारिकफलकारणमीश्व- रानुग्रहो जायते केवलभक्त्या तु केवलेश्वरानुग्रहेण गुरुप्राप्त्या ज्ञानपाप्तिद्वारा मोक्षपाप्तिरिति भावः ॥७॥ एवं प्रेमलक्षणवृत्तेरेव केवलमीश्वरप्रसादहेतुत्वं प्रतिपाधे- दानी पेमलक्षणवृत्तेरेवेश्वरे स्थैर्य पार्थयति। या प्रीतिरविवेकानां विषयेष्वनपायिनी। त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥८॥
Page 198
१८४ बोधसारे।
येति। अविवेकानां विकेकहीनानां विपयेषु वनितास्त्र- कूचन्दनादिपु अनपायिनि अव्यभिचारिणि अनेकविधदुर्ल- द्व्यविध्नान्यविगणय्य तत्रैव प्रवर्त्तमानेत्यर्थः, या प्रीतिर्य- द्वत्स्न्नेहरूपा वृत्तिरस्ति विद्यते सा सेव तादृशीत्यर्थः, त्वा- मीशनादिशक्तिमन्तं त्वामनुस्मरतस्तया वृत्त्या सदा चिन्तयतो मे मम हृदयादन्तःकरणान्मापसर्पतु मा गच्छतु त्वद्विपया सा सदैव तिष्ठत्वित्यर्थः, यद्वा सा त्वैद्विपया श्रीतिर्हृदयाद्धे माप लक्ष्मीपते सर्पतु निवृत्ता भवतु इति पार्थना ।। ८।। पूर्वप्रीतिलक्षणे सूत्रमपि प्रमाणयति। तथा च शाण्डिल्यं सत्रं 'सापरानुक्तिरीश्वर' इति। तथाचेति। तथा च तस्मिन्नुक्ते भक्तिलक्षणे शाण्डिल्यस्य मुने: सूत्रमस्ति तदाह सेति, येत्यध्याहार्यम; ईश्वर ईशनादिश- क्तिमत्यन्तर्यामिणि परे ब्रह्मणि वा परा निरतिशयाऽनुरक्ति: स्मेहः सा भक्तिरित्यर्थः ॥१॥ एवं भक्तिलक्षणप्रतिपादकं सूत्रमुपन्यस्येदानीं भक्ति- सिद्धौ सर्वसाधनसिद्धि: स्यादित्याह। परमात्मनि विश्वेशे भक्तिश्वेत्प्रेमलक्षणा। सर्वमेव तदा सिद्धं कर्तव्यं नावशिष्यते॥ ९ ॥ परमात्मनीति । विश्वेशे विश्वस्य जगत ईशे नियन्तरि परमात्मनि वस्तुतः कार्यकारणहीने ब्रह्मणि व्यावहारिकद्ृष्ट्या त्वीश्वर इत्यर्थ:, प्रेमलक्षणा प्रेम स्नेह एव लक्षणं यस्याः सा तथाभूता भक्तिश्चिन्त्याकारा द्ृो्तिश्वेद्यदि सिद्धा भवति तदा १ त्वत्तोऽन्यविषया।
Page 199
भक्तिरसायनम। १८५ तर्हि सर्वमेव समस्तमपि साधनजातं सिद्धं भवति तदा कर्तव्यं कार्य नावशिष्यते नैव शिष्ट विद्यते, भक्तिसिद्धौ तु सर्वमेव सिर्द्ध भवतीति भावः ॥ ९॥ वेदान्तपतिपादिताया अपरोक्षानुभूतेरि भक्तिफळत्वमाह। अपरोक्षानुभतिर्या वेदान्तेषु निरूपिता। प्रेमलक्षणभक्तेस्तु परिणामः स एव हि ॥ १ ॥ अपरोक्षानुभूतिरिति । या विद्वदनुभवसिद्धा वेदान्तेषु वेदान्तशास्त्रेषु प्रतिपादिता निरूपिताऽपरोक्षानुभूतिरपरोक्षा प्रत्यक्षाऽनुभूतिरतुभवः सा पेमलक्षणभक्तेस्तु प्रेमा निरतिश- यस्नेहः स लक्षणं यस्या भक्तेः सा तथोक्ता तस्या एव परि- णामः फलमेव निश्चयेन ज्ञेयं हि विद्ृत्सु प्रसिद्धमेतदित्यर्थः ॥१०॥ ननु ज्ञानहेतुकत्वं कृतकृत्यत्वफलाया अपरोक्षानुभूतेर्वे- दान्तेषु प्रसिद्ध दृश्यते तत्कथ विरुद्धं भक्तिफलत्वं तस्या उच्यत इत्याशङ्का स्याप्यद्वैतरूपत्वेन च ज्ञानभत्त्योर्वैलक्षण्याभावाच्तयोरैक्यं द- शयति द्वाभ्याम्। शास्त्रार्थः संपरिज्ञातो जातं प्रेम महेश्वरे। प्रेमानन्दप्रकारेण द्वैतं विस्मरणं गतम् ॥ ११।। शास्त्रार्थ इति। शास्त्रार्थः शास्त्रार्णा व्याकरणादिवेदान्ता- न्तानामर्थस्तात्पर्य संपरिज्ञातः सम्यग्ज्ञातो निश्चितश्चानन्तरं म- हेश्वरे वेदान्तप्रतिपादित ईश्वरत्वारोपाधिष्ठानभूते तत्त्वे प्रेम स्नेहो जातमुत्पन्नं यदेअध्याहार्य यदा यस्मिन्समये तदा तस्मि- नसमये पेमानन्दपकारेण प्रेम्णा स्नेहेन य आनन्दः सुखं तस्य प्रकार उल्लासस्तेन द्वैतं जगद्विस्मरणमभानं गत प्राप्तं भवति।।११। २४
Page 200
१८६ बोधसारे।
वासुदेवमयं सर्व वासुदेवात्मकं गजत्। इत्थं द्वैतरसाढ्यस्य ज्ञानं किमवशिष्यते ॥ १२॥ तदा तस्य भक्तस्य सर्वे समस्तं वासुदेवमयं वा वि- कल्पेनामूनां पाणाद्युपाधीनां देवः प्रकाशकः प्रकाश्य- मिथ्यात्वेनाप्रकाशको व्यवहारावस्थायां प्रकाश विना प्रकाश्यानिर्वाहाच्च प्रकाशकश्चेति विकल्पेन पकाशकत्वं वासुदेवशब्दार्थस्तन्मयं तत्प्रधानं प्रतीयत इत्यर्थः, अतो जग- द्विश्वं वासुदेवात्मकं वासुदेवो जगदारोपाधिष्ठानं जगतो वि- कल्पेन प्रकाशकं चैतन्यमात्मा यस्य तत्तथा वासुदेवान्यन्न प- तीयत इत्यर्थः, इत्थमेवं प्रकारेण द्वैतरसाढ्यस्य द्वैते जगति यो रस आनन्दस्तेनाळ्यस्य संपन्नस्य पुरुपस्य ज्ञानमद्वैतात्मस्वरूंप- मनशिष्यतेऽवशिष्टं भवेत्किन्नैवेत्यर्थः, तस्यैवाद्वैतलक्षणज्ञानव- त्वान्न भक्ति ज्ञानयोर्भेद सिद्धिरिति भावः ॥ १२ ।। इदामीं ज्ञानभत्त्योरुक्तामेददार्ढ्याय विष्णुशिवभक्तयो- र्भजनप्रकारं चतुर्भि: श्रोकैराह। वासुदेवः परं ब्रह्म परमात्मा परात्परः । अन्तर्वहिश्र तत्सर्व व्याप्य नारायण: स्थितः॥१३॥ वासुदेव इति। वासुदेवो 'वासनाद्वासुदेवस्य वासितं भुवनत्रयम । सर्वभूतनिवासोसि वासुदेव नमोस्तुते'। इति वचनाद्वासुदेवसत्तया सर्वसत्तानिर्वाहलक्षणेन सर्वमूत- निवासत्वात्सर्वव्यापित्वलक्षणेन च लक्षित वासुदेवं स्मरन्वासुदेव इति नामोच्चरति, परं ब्रह्म परं जगत्कारणं ब्रह्म बृहद्देशकालवस्तु- परिच्छेदशून्यं ब्रह्मशब्दार्थ विचिन्त्य परं ब्रह्मेति नामोच्चरति, तथा
Page 201
मक्तिरसायनम । १८७
परमात्मा कार्यकारयत्वहीन: परमः परमश्चासावात्मा चेति स तथोक्त इसर्थानुसन्धानपूर्वकं परमात्मेति नामोश्चरति कार्यकारण- हीनमात्मानमनुस्मृत्यैतन्नामोच्चारं करोतीति भाव:, तथा परा- त्परः पराज्जगदारोपाधिष्ठानत्वेन कारणादारोप्यमिथ्यात्वेन परस्तद्तीत इत्येवमर्थमनुसन्धाय परात्परमित्येवं आमोच्चरती त्यर्थः, तथा तत्स्व तत्सर्वमिति पदद्वयेन समस्तः कार्यकास्या- त्मकः प्रपश्च उच्यतेऽन्तर्वहिश्वाSडनतरं देशे बाहयं देशमपि व्याप्यं व्याप्तुवन्सन् स्थितो वर्ततेऽतो नारायणो नृणां जी- बानां समूहो नारं तदेवायनं स्थानं पापकत्वान्मार्गभूतं बा यस्य स तथोक्तः, यद्वा- 'आपो नारा इति प्रोक्ता आपो वैनरमूनवः । अयनं तस्य ताः प्रोक्तास्तेन नारायण: परः ॥ इति स्मृतेः, नरात्पुरुषाज्जाता नारा जलानि ता अयनं य- स्येसर्थः, अत्रापि 'अम्भो मंरीचीर्मरमाप' इति श्रुतेर्जलप्रधा- नकारणके कार्यरूपे जगति व्यापकत्वमेव नारायणशब्दार्थ एचमुभयपक्षेपि व्यापकत्वमव्यभिचरितमित्यादिनारायखपदा- र्थानुसन्धानेन नारायण इति नामोच्चरतीत्यर्थः ॥१३॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गृणो महान्। इत्यादिवचनैर्भक्तो वैष्णवः स्तौति केशवम् ॥१४॥ अणुरिति। अणुर्बुद्ध्यादीनामव्यक्तत्वात्मूक्ष्म इत्यणु- शब्दार्थ लक्ष्यीकृत्याणुरिति नामोच्चरति, तथा वृहद्देशाद्परि- च्छिन्नत्वात्महानित्यर्थानुसन्धानपूर्वकं वृद्ददिति नामावृत्ति क- रोतीत्यर्थः, कृशः कृशत्वस्यापि तव्तिरेणासिद्धेर्घटाभिश्ने घटे घटत्वमिवेश्वराभिन्ने कृश ईश्वरत्वात्तन्नाम््यपि नामा- भेदोपचारादीश्वरनामैव कृश इति ज्ञात्वा कृश इत्येवं नामोच-
Page 202
१८८ बोधसारे।
रतीत्यर्थ:, एवं स्थूल इति च नामोच्चरति, तथा गुणभृद्ग- णानामाश्रय इत्यर्थानुसन्धानपूर्वकमेतन्नामोच्चरतीत्यर्थ:, तथा निर्गुणो गुणानां मिथ्यात्वात्सदैव गुणरहित इत्येवमनुसन्धाय निर्गुण इति नाम जपतीत्यर्थः, तथा महाऊच्छरेष्ठो सर्वजगत्वूज्य इत्यर्थः, इत्यादिवचनैरेवमादिभिर्वाचकैः शब्दैर्वैष्णवो वि- ष्णुसम्बन्धी विष्णुदेवताको वोक्त उपासकः केशवं केऽन्तः- करणे शेते स्वपिति अन्तःकरणमननुसन्धाय स्वरूपमनुसन्दधा- तीत्यर्थः, तमन्तर्यामियं स्तौति वर्णयति ॥१४॥ एवं विष्णुभक्तभजनप्रकारं प्रदर्श्य शिवभक्तस्यापि तं दर्शयति। शिव: कर्ता शिवो भोक्ता शिवः सर्वेश्वरेश्वरः । शिव अत्मा शिवो जीवः शिवादन्यन्न विद्यते॥१५॥ शिव इति। शिवः प्रत्यगात्मा कूटस्थः कर्ता कर्मेन्द्रिय- व्यापारवान्बुद्धिस्थश्चिदाभासोडस्ति तथा शिवो भोक्ता शिव एव सुखदुःखादिसाक्षात्कारवानानन्दमयोपाधिको बुद्धिस्थो 'नान्योतोस्ति द्रष्टे'त्यादिश्रुतेः, 'क्षेत्रज्ञं चापि मां विद्धी'त्यादिस्मृ- तेश्च कर्तुर्भोक्तुश्च प्रत्यगात्मनोऽपृथत्कपतिपादनादिति भाव:, तथा शिव आत्मा सर्वेश्वरेश्वरो सर्वस्य जगतो य ईश्वरा व्र- ह्मविष्णुरुद्राख्यास्तेषामपशवरो नियन्ता तथा शिवो जगत्सुख- कारणं परमात्मा घटाकाशमहाकाशयोरिव प्रत्यगात्मशिवयोर- भेद इत्यर्थः, तथा शिवो जीव: शिवः समष्टयुपाध्याछटतं चैतन्यं तत्पदवाच्यार्थ एव जीवो देहत्रयसहितः साधिष्ठानशचिदाभासोS स्ति उपाध्यैक्यादुपहितयोरप्यैक्यमिति भावः, अत्शिवात्प- रमात्मनोऽन्यद्भिन्नं किमपि न विद्यते नास्तीत्यर्थः, आत्मनो व्यतिरिक्तस्यासत्वादिति भावः ॥१५।।
Page 203
भक्तिरसायनम् । १८०
अष्टाभिरष्टमूर्ति च शांभवः स्तौति शङ्करम् ॥१ ६। किश्र खभिति । खंवायुतेजोजलभूक्षेत्रज्ञार्केन्दुमूर्तिभि: खमाकाशं वायु: पवनस्तेजोडग्निर्जलं सलिलं भू: पृथ्वीः झे- त्रज्ञो जीवोडर्कः सूर्य इन्दुश्चन्द्र इत्येवमभिधाभिर्मूर्तिभिर- ष्टाभिरष्टसङ््याभिः शाम्भवः शिवभक्तोऽष्टमूर्तिमष्टौ मूर्तयो रूपाणि यस्य तं सर्वरूपामतर्थः, शङ्करं सकलजगदानन्दकर- मात्मानं स्तौति प्रशंसति ॥ १६ ॥ एवं विष्णुशिवभक्तयोर्भजनप्रकारं निरूप्येदानीं पूर्वोक्त- मेव ज्ञानभत्त्योरैक्यं सिद्धान्तयति। इदं यदा परिणत प्रेम तज्ज्ञानमेव हि इदमिति। इदमुक्तलक्षणमेतादृशं भजनमेव यदा यस्मि- न्काले परिणतं परिणामं प्राप्तं निरतिशयसुखरूपेण वर्यत्रसि- तमित्यर्थः, तत्पेम स्नेहो भवति तदेव ज्ञानं ज्ञानशब्देनोच्यते ही-
उक्तभक्तिज्ञानैक्ये युक्तिरप्यस्तीत्याह। अथ युक्त्यन्तरम् । अथेति। अथात्रेत्यर्थः, युत्त्यन्तरमन्या युक्तिरप्यस्ती- त्यर्थ:, तामेवाह त्रिभिः श्रोकैः वालक इत्यादिना। बालकस्तात तातेति जनकं प्रति भाषते। न पुनस्तातशब्दार्थ स तु जानाति किञ्चन ॥१७॥ बालकोर्भकस्तात ततेति हे तात हे तात एवं प्रकारेण जनकं पितरं प्रति उद्दिश्येत्यर्थः, भाषते ब्रूत एव केवलं पु-
Page 204
१९० बोधसारे।
नरन्यत्स तु वालकस्तातशब्दार्थ पितृवाचको यस्तातशब्दस्त- स्थार्थ पितृरूपं किश्चन किमपिन जानाति वेत्ति नैवेत्यथेः।१७॥ यदा तातपदार्थस्य व्युत्पति यात्यसौ क्रमात्। तदा तु सत्यमेव्रायं तात इत्येति निश्चयम् ॥१८। यदेति। असौ स बालो यदा यस्मिन्काले क्रमात्कमेश तातपदार्थस्य तातेति यत्पितृवाचकं पदं नाम तस्यार्थः पि- तृरूपस्तस्य व्युत्पत्ति ज्ञानं याति प्राप्नोति तदा तु तस्मिन्काले चायमेष बालस्तात एव पितैव सत्यं तथ्यमित्येवं निश्चयं निर्णयमेति प्राम्नोति यथा ॥१८॥ तथा भक्तो भजन्देवं वेदशास्त्रोदितैः क्रमैः । व्युत्पति परमां प्राप्य मुक्तो भवति हि करमात्॥१९॥ तथेति। तथा तद्वद्भक्तोऽव्युत्पन्नो भजनक्रियावान्वे- दशास्त्रोदितैवैदाश् ऋगादयः शास्त्राणि वेदान्तानुकूलानि
उक्तास्तैः क्रमैः पक्रियाभिर्देवमीश्वरं भजन्सेवमानः सन्न- न्तःकरणशुध्या परमां यथार्थी व्युत्पत्ति वाच्यलक्ष्यभेदेन श- ब्दार्थज्ञानं पाप्य लब्ध्ा क्रमाज्ज्ञानस्थैर्यक्रमेश मुक्तो मोक्षं प्ाप्तो भवति जायते हिं एनत्सर्वत्र प्रसिद्धमित्यर्थः ॥ १९॥ अन्यदपि ज्ञानभक्तयोरभेदे कारणं दर्शयति। किं च लक्षणभेदो हि वस्तुभेदस्य कारणम्। न भक्तज्ञानिनोर्द्ृष्टा शास्त्रे लक्षणभिन्नता॥ २० ॥ किश्चेति। किश्चान्यदपि शृण्वित्यर्थः, हि यस्मात्कारगा- द्वस्तुनः पदार्थस्य भेदोन्यलं तस्य कारणं हेतुर्लक्षणभेदो ल-
Page 205
भक्तिरसायनम्। १९१
क्ष्यते भेदो याभ्यां ते लक्षणे तयोभेदो भिन्नलं भवति जायते तत्र तदभावं दर्शयति नेति, भक्तज्ञानिनोरुपासकबुद्धयोर्ज्ञानी- त्वत्र यथार्थस्वरूपवेत्ता लक्षणभिन्नता लक्षणयोश्चह्रयोभिन्नता पार्थक्यं चिह्नभेद इत्यर्थः, शास्त्रे वेदान्त उपासनाप्रतिपादके च शास्त्रे न दृष्टा नैव दष्टातो ज्ञानभक्त्योर्लक्षणैक्यादैक्यमेव सिद्धमिति भावः ॥। २० ॥। तान्येव ज्ञानभक्त्योर्लक्षखानि स्फुट दर्शयति। विरागश्र विचारश्र शौचमिन्द्रियनिग्रहः । वेदे च परमा प्रीतिस्तदेकं लक्षणं हयोः ॥२१॥ विराग इति। विरागश्च विरागो विषयवैतृष्ण्यमेकं लक्षणं, विचारश्च विचारो विवेकोपि द्वितीयं, शौचमान्तरं रागादि- मलराहित्यं वाहं स्नानादिशौचं शुद्धिहेतु: क्रिया तृतीयम्, इन्द्रि- यनिग्रह इन्द्रियाणां श्रोत्रादीनां निग्रहः स्वस्वविषयेभ्यो ज्ञा- नभक्तिसाधनव्यतिरिक्तेभ्यो व्यावत्तिश्चतुर्थ, वेदे च श्रुता- वपि परमाऽव्यभिचारिणी प्रीतिः प्रेमा पश्चममित्यादीन्य- न्यान्यपि ज्ञेयानि तत्तस्मात्कारणाद् द्वयोर्भक्तिज्ञानयोर्लक्षणं लक्षकं चिन्हमेकमभिन्नमतो ज्ञानभत्तयोर्न भेद इत्यर्थः ॥२१॥ ननु ज्ञानभक्त्योर्लक्षणैक्यं क हष्टं तत्राह। अध्याये भक्तियोगाख्ये गीतायां भक्तिलक्षणम्। यदुक्तमष्टभिः श्लोकैर्दृष्टं ज्ञानिषु तन्मया । २२॥। अध्याये इति। गीतायां श्रीमन्भगवद्गीतायां भक्तियो- गाख्ये भक्तियोग इत्येतमाख्या यस्य तस्मिन्नध्याये द्वाद- शाध्यायेऽष्टभिः श्रोकैः 'अद्वेष् सर्वभूतानामि'त्मादिभिः, 'भ-
Page 206
१९२ बोधसारे।
क्तास्ते तीव मे प्रिया' इत्यन्तैरष्टसङ्व्याकैः श्रोकैर्यद्यादशं भक्तिलक्षणं भक्तेर्भजनस्य लक्षणं चिह्नं जातित्वादेकवचनमुक्तं कथितमस्ति तत्तदेव लक्षणं ज्ञानिपु ज्ञानवत्सु मयोभयल- क्षणपरीक्षकेण तत्रैव त्रयोदशाध्याये 'अमानित्वमदम्भित्वमि'- त्यादिभिः 'एतज्ज्ञानमिति प्रोक्ताम'त्यन्तैः पादोन पश्चभिःश्रोकैः प्रतिपादितं दृष्टमवलोकितं तस्मादपि ज्ञानभत्त्योरैक्यमेव सि- द्धमिति भावः ॥२२॥ तवास्मीति भजत्येकस्त्वमेवास्मीति चापरः । इति किञ्चिद्दिशेषेपि परिणामः समों द्योः ॥२३॥ ननु ज्ञानिभक्तयोः सोहंभावदासोहंभावरूपभजनाभ्यां वै- लक्षण्यमस्तु तेन च भेदोपि स्यादित्याशङ्काह तवेति, द्वयोर्ज्ञानिभक्तयोर्मध्य एको भक्तस्तव तेऽहं त्वदंशत्वात्से- वक एवास्मि भवामीत्येवं भजति सेवते, अपरोऽन्यो ज्ञानी त्वमेव 'निष्कलं निष्क्रियं शान्तमि'ति श्रुतौ निरंशत्वप- तिपादनान्नापि त्वदशोहं किन्तु त्वमेव त्वदभिन्न एवाहमस्मि भवामीसेवं प्रकारेण, यद्वा त्वं सर्वजगत्कारणं सर्वाधिष्ठानं स- र्वज्ञ ईशनशक्तिमान्त्वमेवाहं समा्टिव्यष्टउपाध्योरैक्याव्यावहारि- कभेदेपि न परिमार्थिकभेदकल्पनायुक्तेति भाव:, भजति सेवते इति किश्चिद्विशेषेपि एवं प्रकारेण स्वल्पे भेदे सत्यपि तयोः प- रिणामः परिपाकः सम एकरूपोऽतोपि ज्ञानिभक्तयोरैक्यमेव सिद्धमिति भाव: ॥२३॥ ननु भक्तज्ञानिनोर्भजनैक्यलक्षणः परिणामः क दृष्ट इ- साशख्वाह सार्घेन। अन्तर्वहिर्यदा देवं देवभक्तः प्रपश्यति ।
Page 207
सूचौपनम्। गणपाठ: गोलप्रकाश: २ गंगालहरी १ गुरसारणी जातकतत्त्वम ० १२ तत्वदीप १ तर्कसंग्रह: १ ६ दत्तकमीमांसा धर्म्मशास्त्रसंग्रह: १ धातुपाठ: (शिला -)) O २ धातुरूपावली २ नैषध चरित नारायणी टीका टाइप परिभाषापाठ: 0 0 पाणिनीयशिक्षा भाष्यसहिता २ प्रथम परीक्षा २ प्रथमपुस्तक हिन्दी १ O प्रश्नभूषणम (प्रश्न विचार का बहुत उत्तम ग्रन्थ) बीजगणितम (म० म० पं० सुधाकरकृतटिप्पणीसहित) १ ४ भट्टीकाव्य ५ सर्ग ६ O मनोरमा शब्दरतसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लक्षणावली २ लीलावती (म० म० पं० सुधाकरऊतटिप्पणीसहित) १ O घसिष्ठसिद्धान्तः १ 6 धार्तिकपाठ: ४ O विष्णुसहस्रनाम १ शब्द रूपावली १ 0 शङ्गार सप्तशती १ ८ समासचक्रम २ समासचन्द्रिका १ सरख्वतीकण्ठाभरणम साङ्ग्यचन्द्रिका टिप्पणीसहिता O साङ्गयतत्त्वकीमुदी ६ सिद्धान्तकामुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता O O उपसर्गवृत्ति १
Page 208
विज्ञापनम् । 1:0 :- बनारससंस्कृतसीरीजनाम्नी वाराणसेयसंस्कृतपुस्तकावली। इय पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमीत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति। तांश्च ग्रन्थानू काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये Sपि विद्वांस: शोधयन्ति। यैरग्ना- हकमहाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ।।।) मूल्यं प्रापणव्ययश्च) देयः । अन्यैर्म- हाशयैयेः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति॥। तत्र मुद्रिता ग्रन्था:। रु० आ० सिद्धान्ततत््वविवेक: खण्डानि ५ 0 अर्थसङग्रहः अंग्रेजीभाषानुवादसहितः १ 0 0 तन्त्रवार्ततिकम् खण्डानि १३ १३ कात्यायनमहर्रिप्रणीतं शुक्कयजुःप्रातिशाख्यम् सभाष्यं ६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता १ O वाक्यपदीयम खण्डाननि ३ ३ इसगङ्गाधर; खण्डानि ९ ٥ परिभाषावृत्ति: खण्डे २ २ O वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रह: खण्डानि ५ ५ नैष्कर्म्यसिद्धि: खण्डानि ४ मरहर्षिका त्यायनप्रणीतं शुक्कयजुस्सर्वानुक्रमसूत्रम सभाष्यं ३ O ऋुग्वेदीयशौनकप्रातिशाख्यं सभाष्यम खण्डानि ४ 0 cC (बृहत) वैयाकरणभूषणम् पदार्थदीपिकासहितम ४ विवरणोपन्यासः सटीकवाक्यसुधासहित: खण्डे २ २ नत्वदीपनम् (पश्चपादिकाविवरणस्य व्याख्यानम) ८ वेदान्तदीप: (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ 0 टुप्टीका खण्डानि ४ ४ 0
रसमञ्जरी। व्यङ्गयार्थकीमुद्या प्रकाशेन च सहिता ३ भेदधिक्कार: व्याख्यासहित: 0o बोधसारो नरहरिकृत: तच्छिष्यदिवाकरकृत टीकया स० (वे०) २ १
न्यायलीलावती (यन्त्रस्था) व्रजभूषगा दास और कम्पनी
Page 209
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLE GE, .. UNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND .G. THIBAUT, PH. D. No. 94.
बोधसारः। श्रीविद्दद्वर्यनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्थदीप्त्या सहितः। श्रीमवुद्ासीनवर्यस्ामिगोविन्दानन्दशिष्येण दयानन्दस््रामिना परिशोधितः। BODHSÂR, A TREATISE ON VEDANTA, BY SRI NARHARI, With a commentary by the author's pupil PANDIT DIVÂKAR. EDITED BY SWÂMÎ DAYÂNAND. Fasciculus III. BENARES. Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot.
Printed at the Vidyâ vilas Press, BENARES. ABRAR 1905.
EPSITV O 70
Page 211
भक्तिरसायनम्। १९३
दासोहं भावयन्नेव दाकारं विस्मरत्यसौ॥ २४॥ अन्तरिति। देवभक्तो देवस्य चिन्मात्ररूपिणः परमात्मनो भक्त: सेवको दासोहं भावयन्नेव दास: सेवक एवाहमिति चि- न्तयन्सन्नपि तादृशभजनेनैव शुद्धान्तःकरणो यदा यस्मन्का- लेऽनतर्वुद्धय हङ्कारादिसर्ववृत्तिसाक्षितया वृत्तिसन्धिपकाशक- तथा च वहिर्जगत्पकाशकतया जगद्वतघटपटादिपदार्थसन्धिम- काशकतया च देवं चिन्मात्रैकस्वभावमात्मानं प्रपश्यति साक्षा- त्करोति तदा तस्मिन्कालेडसौ भक्तो दाकारं विस्मरति भेद- बोधकं दा-इसेवं पूर्वमक्षरं नानुसन्धत्ते ॥ २४॥ दृष्टमेकान्तभक्तेषु नारदप्रमुखेषु तत्। किंचिद्विशेषं वक्ष्यामि त्वमेकाग्रमनाः शृणु॥२५॥ दृष्टमिति। एकान्तभक्तेषु अव्यभिचारिभक्तेषु नारदम- मुखेपु नारदः प्रमुख आद्यो येषां तेषु तद्दाकारविस्मरणं दृष्ट- मवलोकितमतो ज्ञानभत्त्योरैक्यमेव सिद्धमिति भाव:, एवं ज्ञानभत्त्यरिक्यं प्रसाध्य भक्तिश्रद्धाविवृद्धये ज्ञानतो भक्तेरा- धिक्यं दर्शयितुं किश्चिद्वैलक्षण्यं दर्शयति सार्द्धाभ्यां किश्चि- दिति, अहं किश्चित्सूक्ष्मं विशेषं ज्ञानतो भक्तेराधिक्यं वक्ष्यामि कथयिष्यामि तं त्वमेकाग्रमना एकाग्रं स्थिरं मनोन्तःकरयां यस्य स तथाभूत: सञ्चृणु अवधारय ॥ २५॥ एवं भत्त्याधिक्यश्रत्रणे शिष्यमभिमुखीकृत्येदानीं तपो- रैक्यनिरूपणपूर्वकं किश्चिद्वैलक्षण्यं दर्शयति।
यदीश्वररसी भक्तस्तदीश्वररसी बुधः । उभौ यद्यप्येकरसौ तथापीषद्विलक्षणौ ॥ २३ ॥ २५
Page 212
१९४ बोधसारे।
यदिति। भक्तो यदीश्वररसी यस्येश्वरस्य रसः सुखं वि- द्यते यस्य स तथोक्तोऽस्ति बुधो ज्ञानी तदीश्वररसी तस्यैवे- श्वरस्य रसः सुखं तद्विदते यस्य स तथोक्तोऽस्ति एवं यद्यापि सत्यमित्यर्थः, उभौ भक्तज्ञानिनावेकरसावेकसुखविषयौ स्त- स्तथापीषद्विलक्षणावीपत्स्वल्पं विशेषं लक्षणं चिन्हं ययोसतौ तथोक्तौ भवतः ॥ २६ ॥ तदेव वैलक्षण्यं दर्शयति। बुद्धा बोधरसादन्यरसनीरसतां गताः । तथाधिकप्रेमरसान्न तु भक्ता: कदाचन ॥ २७॥ बुद्धा इति। यथा बुद्धा ज्ञानिनो वोधरसाद्वोधो ज्ञानं तदेव रसः सुखं 'रसो वै स' इतिश्रुतेः, तस्मादन्यरसनीरसर्ता गता अन्यो वैषयिको रसः सुखं तस्मिन्नीरसतां वैरस्यं गताः पाप्तास्तथा तद्वदधिकप्रेमरसादघिको विम्बरससहित- त्वेन द्विगुणत्वेन प्रतीयमानः प्रेमा तद्रसविषयकस्रेहरूपा तृ- तिस्तद्विपयभूतो रसः सुखं तर्माद्धेतोर्भक्ता उपासकाः क- दाचन कस्मिन्नपि काले न तु नैवान्यरसविरसत्वं याता ज्ञा- निनः स्वरूपसुखमात्रं भक्तस्य तु तत्सहितवृत्तिसुखमतो भक्ते सुखाधिक्याज्ज्ञानितो वैशिष्ठ्यमिति भावः ॥२७॥ एवं ज्ञानिभक्तयोर्मध्ये भक्ते वैशिष्ठ्यं प्रदर्श्येदानी भक्तेर्ज्ानं ज्ञानान्मोक्ष इत्येवं व्यवस्थासिद्ध्यै ज्ञानभक्त्योरेकनिष्ठत्वसिद्धेः शास्त्रषु वसिष्ठादिषु ज्ञानित्वं नारदादिषु तुभक्तत्वं च भिन्नत्वेन कुतः प्रतिपाद्यते तत्र हेतुं ज्ञापायतुं प्रश्नमुत्थापनं प्रतिजानीते। अथप्रश्नः । अथेति।अथेदानीं प्रश्न उत्थाप्यत इत्यर्थः, तमेवाह सार्धाभ्याम्।
Page 213
भक्तिरसायनम । १९५
ननु ज्ञानं बिना मुक्तिर्नारित युक्तिशतैरपि। तथा भक्तिं बिना ज्ञान नास्त्युपायशतैरपि॥ २८॥ नन्विति। ननु इयमत्राशङ्का ज्ञानं विना ज्ञानं जीवब्रहै- क्यविपयं महावाक्यजन्यमपरोक्षं विन ऋते युक्तिशतैर्रप यु- क्तीनां योगधारणानां शतैः शतसङ््याकैरसङ्वययोगधार- णाभिरित्यर्थः, मुक्तिरमोक्षो नास्ति न भवति तथा तद्रद्भक्तिं विना प्रेमलक्षणदृत्तिमीश्वरविषयां विन ऋते ज्ञानमात्मवोध उपायशतैरपि उपायानां कर्मोपास्त्यादीनां शतैरपि असङ्गये- योपायैरित्यर्थः, नास्ति न भवतीत्येवं निर्णयः सर्वशास्त्रे- षविति भावः॥ २८। भक्तेज्ञीनं ततो मुक्तिरिति साधारणक्रमः । ज्ञानिनस्तु वसिष्ठाद्या भक्ता वैनारदादयः ॥२९॥ भक्तेरिति। भक्तेरीश्रवरविषयकमेमवृत्तेर्ज्ञानं जीवव्रह्मै- क्यवोधो भवति ततो बोधान्मुक्तिर्मोक्षो भवतीति एवं क्रमो निर्णयः साधारणः सामान्योडस्ति एवं सत्यपि वसिष्ठाध्ास्तु वसिष्ठ आद्यो मुख्यो येपां ते तथोक्तास्त एव ज्ञानिनो ज्ञान- वन्तो भवन्ति नारदादयो वै नारद आदिर्येषां ते तथोक्तास्त एव भक्ता ईश्वरविषयकप्रेमलक्षणवृत्तिमन्तो भवन्ति ॥ २९॥ एवमादिव्यवस्थायाः कारणं किं निरूप्यताम् । अत्रोच्यते विचित्रं यत्कारणं तन्निशामय ॥ ३०॥ एवमिति । एवमादिव्यवस्थाया एवंरूपा याऽऽदि: प्राचीना व्यवस्था मर्यादा तस्याः कारणं वीजं किमस्ति तन्नि- रूप्यतां कथ्यताम्, इदानीं दृष्टान्तसहितोत्तरश्रवणे शिप्यं प्रेरयति
Page 214
१९६ बोधसारे।
अत्रेति, अत्रास्या व्यवस्थारयां विचित्रं विलक्षणं यदादसं कारणं बीजमस्ति तदुच्यते मया कथ्यते तत्कारणं त्वं नि- शामय शृणु ॥ ३०॥ तत्कथनं प्रतिजानीते। कथयामि सदृष्टान्तं येनार्थ: स्फुटतां व्रजेत। स्यात्तापस्य च पापस्य गंगास्नानेन हि क्षयः ॥३१॥ कथयामीति। अहं सद्ष्टान्तं द्ृष्टान्तेन सहितं यथा तथा तत्कारणं कथयामि निरूपयामि येन निरूपणेनार्थः पृष्टोर्थः स्फुटतां प्राकठ्यं व्रजेद्गच्छेत, प्रतिज्ञातार्थनिरूपणे तावद्दृष्टान्त- माह स्यादित्यादित्रिभिः, गङ्गास्नानेन गङ्गाया अवगाहनेन ता- पस्य शरीरगतौष्ण्यस्य पापस्य च कलुपस्यापि क्षयो नाशः स्यान्वेद्धीदं सर्वलोकशास्त्रयोः पसिद्धमियर्थः॥ ३१॥ यस्तु स्यात्तापशान्त्यर्थी तस्यापि स्यादघक्षयः । यस्तु स्यादघशान्त्यर्थी तापस्तस्यापि नश्यति ॥३२॥ यस्त्विति। यस्तु योपि तापशान्सर्थी ताप उष्णत्वं तस्य शा- न्तिर्नाशस्तामर्थते प्रार्थयतीति स तथोक्तस्तस्यापि शीतेच्छु- पुरुपस्यापि अघक्षयोऽयं पापं तस्य क्षयो नाशः स्यान्भवेद्, यस्तु योपि अघशान्त्यर्थि अरघं पापं तस्य शान्तिर्नाशस्तामर्थत इच्छति स तथोक्तः स्याद्रवेत्तस्यापि पापक्षयेच्छुपुरुषस्यापि ताप औष्ण्यं नश्यि नष्टो भवति ॥ ३२॥ तापपापक्षयौ स्नानं त्रयमेतत्समं हयोंः । तथाप्येकस्तु शैत्यार्थी शुद्धर्थी तु द्वितीयकः ॥३३ ॥ तापेति। तापपापक्षयौ तापश्ोष्णत्वं पापं च कलुपं तयो:
Page 215
मक्तिरसायनम्। १९७
क्षयौ नाशौ स्नानं चैतत्तयमिद त्रितय दयास्तापपापक्षया- र्थिनोरुमयोरपि समं तुल्यं भर्वाति यद्यपि यर्द्यपि तथापि तयो- र्मध्य एकस्तु एक एव शैत्यार्थी शीतलत्वार्थीति लोके नात्रों- च्यते द्वितीयकस्तु अन्य एव शुद्धयर्थी पापनिष्टसर्थीति नाम्रो- च्यत इत्यर्थः ॥ ३३॥। यथैत भावभेदेन नामभेदस्तयोरभूत् । एवमे वुधैर्येस्तु देवो मुक्त्यर्थमाश्रितः ॥ ३४॥ यथेति। एवमनेन प्रकारेण यथा यद्वन्धावभेदेन वास- नाभिन्नत्वेन द्वयोरुभयोर्नामद्वयमेव द्वे एव नामनी जातं व्यव- हार उत्पन्नम्, दार्श्टान्तिकमाह सार्धत्रिभिरेवमिति, एवमेनरैवं प्रकारेणैव बुधैर्विवेकिभिर्यर्याद्टशैर्देवश्वेतनरूपः परमात्मा मुत्त्यर्थ
भत्त्या ज्ञानमवाप्यैव ये मुक्ता ज्ञानिनो हि ते। यैस्तु संसारविरसैर्भक्त्यर्थ हरिराश्रितः ॥ ३५ ॥ भत्त्येति। ते बुधा भत्त्या पेमवृत्या सहैव ज्ञानं जीवव्रझ्मै- क्यवोधमवाप्य संप्राप्य मुक्ता मोक्षं प्राप्तास्ते ज्ञाने भक्तौ च समाभ्यासवन्तो ज्ञानिनो ज्ञानिनामानो हि प्रसिद्धा लोके शा- स्त्रे चेत्यर्थः, यैस्तु यैरपि संसारविरसैः संसार ऐहिकपारलौ- किप्रपश्चे विरसैर्दोपदृत्ठ्या विरत्तैर्ज्ञानमोक्षयोरवज्ञानात्तदि- च्छाभावेन भत्त्यर्थ केवलं भक्तिरर्थः प्रयोजनं यस्यामाश्रयक्रि- यायां यथा तथा हरिर्भक्तदुःखहारक आश्रितोवलम्बितः॥३५॥ ततो भक्तिप्रभावेन स्वभावाज्ज्ञानमुद्गतम् । तज्ज्ञानं प्राप्य मुक्ता ये तेभक्ता इति वर्णिताः॥३६॥
Page 216
१९८ बोधसारे।
तत इति। ततो इरेराश्रयणाज्जक्तिपभावेन भक्तेर्भजन- स्य प्रभावः प्रतापस्तेन स्वभावाद्रागादिमलनिवृत्या स्वस्या- त्मनो भावात्सत्तानुभावाज्ज्ञानं जीवव्रह्माणेरैक्यलक्षणमुद्र तमु- त्पन्नं भवतीति शेपः, तज्ज्ञान ते बो्ध प्राप्य लब्ध्वा ये पुरुषा भक्ता इति भक्ता एवं प्रकारेण वर्णिताः कथिता: पुराणा- दिष्वित्यर्थः ॥ ३६॥ उभयो: फलैक्यं दर्शयति। विरक्तिभक्तिविज्ञानमुक्तयस्तु समा दयोः । तथापि भावभेदेन नामभेदस्तयोरभूत ॥ ३७॥ विरक्तीति। द्वयोर्ञानिभक्तयोस्तु अपि विरक्तिभक्तिविज्ञा- नमुक्तयो विरक्तिश्च वैराग्यं भक्तिश्च पेमलक्षणा विज्ञानं जीव- व्रह्मैक्यविपयं मुक्तिश्च मोक्ष एता समास्तुल्याः सन्ति तथापि फलसाम्ये सत्यपि तयोर्ज्ानिभक्तयोभीवभेदेन भावयोर्भिन्न- विपयकवासनयोभैदेन भिन्नत्वेन नामभेदो नाम्नोरभिधान- योर्भेदः पृथत्कमभूज्जातम्।। ३७ । एवं फलैक्ये भक्तज्ञानिनोरैक्य प्राप्त तत्प्रकरणविरुद्धत्वा- न्निवारयितुं ज्ञानतो भक्तेराधिक्यं दर्शयति। मुक्तिर्मुख्यफलं ज्ञस्य भक्तिस्तत्साधनत्वतः । भक्तस्य भक्तिर्मुख्यैव मुक्तिः स्यादानुषङ्गिकी॥३८॥ मुक्तिरिति। ज्ञस्य ज्ञानिनो मुक्तिरमोक्षो मुख्यफलं मुर्यं प्रधान च तत्फलं च मुख्यफलमस्ति भक्तिरीश्वरविपयकं प्रेम तत्साधनत्वतस्तस्य मोक्षस्य साधनत्वादेव हेतोर्न मुख्यफल- मस्ति भक्तस्योपासकस्य भक्तिरवेश्वरविषया प्रेमवृत्तिरेव
Page 217
भक्तिरसायनम्। १९९
मुख्या प्रधाना भवति मुक्तिर्मोक्ष आनुपङ्गिकी भक्तिफलरूपेय भक्तिसहचारिणी स्यान्वेत् ॥ ३८ ॥ रीत्यानयापि सुमते वरिष्ठा भक्तिरीश्वरे । अथान्योपि महिमा परमानन्दरूपोसौ परमात्मा स्वयं हरिः ॥ ३९॥ रीत्येति। हे सुमत इदमेव ते सुमतित्वं यद्भक्तिमहचरि- तव्ञानेन मुक्तिसम्पादनमित्यनेन सम्बोधनेन सूचितम, अनयो- क्तया रीत्या प्रकारेगोश्वरे परमात्मनि भक्ति: प्रेमलक्षणा- वृत्तिरेव्र वरिष्ठा श्रेष्ठा, एवं ज्ञानतो भक्तेराधिक्यं प्रतिपाधेदानी भक्तेरेव प्रकारान्तरेण महिमानं निरूपयितुं प्रतिजानीते-अ- थेति, अथ भक्तिश्रैष्ठ्यनिरूपणानन्तरमन्योपि उक्तप्रकारा- द्विलक्षणोपीत्यर्थः, महिमा भक्तर्महत्त्वं निरुप्यत इत्यर्थः, तमेव प्रकारमाह परमानन्दरूप इति, असौ स परमात्मा कार्यका- रणातीत आत्माऽत एव परमानन्दरूपः परमो निरतिशयो य आनन्दः सुखं तदेव रूपमाकृतिर्यस्य स तथोक्तोऽत एव हरिः सर्वदुःखहरयाशीलः स्वयमात्मापि॥ ३९॥ शिवभक्ति पुरस्कृत्य भुङ्क्त्त भक्तिरसायनम्। सनकाद्या वसिष्ठाद्या नन्दिस्कन्दशुकादयः ॥ ४० ॥ शिवभक्तिमिति।शिवस्य कूटस्थस्यात्मनो भक्ति पेमलक्षणां वृर्त्ति पुरस्कृत ध्वजीकृत्यभक्तिरसायनं सर्वसुखानां विम्बभूतानन्द- विषयाद्धक्तेः रसायनत्वमित्यर्थः, ज्ञानस्य तु परब्रह्मस्वरूपतवेन परमानन्दरूपत्वे सत्यपि तस्य निर्विषयत्वात्मेमलक्षणवृत्तेस्तु वृत्तिविषयकानन्दस्य परमानन्दस्य च सत्वात्सर्ववैपयिकानामपि
Page 218
२०० बोधसारे।
तत्रैव सत्वाच्च परेमातिशयेन सर्वदुःखतिरोभावेन च केवलसु- ख समूह रूपत्वाच्च भक्तौ विष्णोरपि प्रवृत्तिरूद्येत्याशयः, जीव- न्मुक्ति सुखादपि भक्तिसुखमधिकमिति सनकादिप्रवृतिनिरू- पगोन दृढीकरोति सनकाद्या इति, सनकाद्याः सनक आदो मुख्यो येषां सनत्कुमारादीनां ते तथोक्तास्तथा वसिष्ठाधा वसिष्ठ आद्ो मुख्यो येषां व्यासादीनां ते तथोक्तास्तथा नन्दिस्कन्दशु- कादयो नन्दिः शिववाहनभूतो वृपभः स्कन्दो गुहः शुको व्यास- पुत्र एत आदयो येपां ते तथोक्ताः ।। ४० ।। भुञ्जते तत्पदं प्राप्ता अपि भक्तिरसायनम् । द्वैतं बिना कथं भक्तिरिति तत्रोत्तरं शृणु॥४१ ॥ मुञ्रत इति। तत्पदं तत्प्रत्यगभिन्नं पदं स्वरूपं पाप्ता अपि तद्रूपाः सन्तोपि भक्तिरसायनं भक्तिसुखं भुअतेऽनुभवन्ति। ननु भक्तेर्द्वैतमिश्रितत्वे 'नाल्पे सुखमस्ती'ति श्रुत्या विपसंपृक्ता- स्नस्य विपत्वमिव भक्तेर्दुःखमश्रितत्वेन दुःखरूपत्वात्कथ सुख- रूपत्वं श्रुतिविरुद्ध पतिपाद्यत इत्याशङ्कामुद्भाव्योत्तरयति सा- र्धेन द्वैतमिति, द्वैतं बिना भेदमृते भक्तिर्भजनं कथ केन प्रकारेण स्यान्न कथमपीसर्थः, इति चेदेवं यदि वदसि तर्हि तत्र प्रश्न उ- चरं प्रत्युत्तरं शृणु अवधारय ॥ ४१ ॥
द्वैत मोहाय बोधात्प्राक्प्राप्ते बोधे मनीषया। भत्तयर्थ कल्पितं द्वैतमद्वैतादपि सुन्दरम् ॥ ४२ ॥ द्वैतमिति। द्वैतं भेदो बोधात्माग्जीवव्रह्मैक्यज्ञानात्पूर्व मो- हृयितुं भवति बोधे प्राप्ते जीवात्मैकत्वज्ञाने लब्धे सति मनीपया स्वेछया भत्तयर्थ भक्तिं कर्त्तु कल्पितं कल्पनया कृतं दैतं
Page 219
भक्तिरसायनम्। २०१
द्वैतं पृथत्तकमद्वैतादपि सामान्यैकरूपात्मुखादपि सुन्दरमतिमुख- मेवाह्ति आनन्दद्वैगुण्यादिति भावः ॥४२॥ अत्रार्थे भागवतं प्रमाणयति। तथा चोक्तं भागवते तथा चेति। तथा च तथैवेत्यर्थः, भागवते भगवल्लीला- प्रतिपादनप्रधाने शास्त्र उक्तं, तद्वाक्यं पठति। 'आत्मारामाश्र मुनयो निग्रन्था अप्युरुक्रमे। कुर्वन्त्यहेतुकीं भक्तिमित्थंभूतगुणो हरिः ॥ ४३ ॥ आत्मारामा इति। आत्मारामाश्चात्मनि सचिदान- न्दघन आरमन्ते क्रीडन्ति ते तथोक्तास्तथाभूता अपि नि- ग्रेन्था अत एव ग्रन्थनिरपेक्षा अि मुनयो मननवन्त उ- रुक्रम उरुर्बहुः क्रमः पादविक्षेपो यस्य तस्मिन्नहैतुकीं फलापे- क्षाहीनां भक्ति श्रवणकीर्त्तनादिनवलक्षणामन्तःकरणवृत्ति कुर्वन्ति प्रवर्त्तयन्ति, ननु 'प्रयोजनमनुद्दिश्य न मन्दोपि मव- र्त्तत' इति न्यायात्फलापेक्षारहितानां परमानन्दानुभविरना च मुनीनां क्रियारूपायां भक्तौ कथं पदटतत्तिस्तत्राहेत्थमिति, हरि: समस्तदुःखहारी विष्णुरित्थंभूतगुण इत्थंभृता निरपेक्षत्वेपि पुरुपाणां स्वेषु प्रवर्त्तका गुणा यस्य स तथोक्तोऽस्ति गुणसं- स्कार एव गुणेषु प्रवर्त्तको गुणाना भवतीति भावः ।।४३ ॥। उक्तमेव भत्तयर्थकल्पितद्वैतस्य सुखातिशयरूपत्वं दृष्टा- न्तेन विशदयति। जाते समरसान्दे द्वैतमप्यमृतोपमम् । मित्रयोरिव दंपत्योर्जीवात्मपरमात्मनोः ॥ ४४ ॥ जाते इति। समरसानन्दे सम एकरूपो रसः सुखरू- २६
Page 220
२०२ बोधसारे।
पत्वं यस्य स चासावानन्दश् स तथोक्तो जीवब्रह्मणोरैक्य- लक्षयो सुख इत्यर्थः, जाते पाप्ते सत्यपि जीवात्मपरमात्म- नोर्जीवस्य परमात्मनश्च यद्भत्तयर्थ भक्ति कर्तु कल्पितं कल्प- नयाङ्गीकृतं द्वैतं पृथक्त्वं तदमृतोपमममृतं मुक्तिसुखमेवोपमा तुला यस्य तत्तथाभूतमस्ति तत्र दृष्टान्तो मित्रयोरिति, मि- त्रयोः परस्परं प्रेमवतोर्दम्पत्योरिव जायापसोः पृथक्तमि- वेति।४४॥ दृष्टान्तं विशदयति। हृदये वसति प्रीत्या लोकरीत्या च लज्जते। यथा चमत्कारमयी नित्यमानन्दिनी वधूः ॥४५॥ हृदय इति। यथा यद्वद्वधूर्जाया 'वधूर्जाया स्तुपा स्त्री- चे'ति विश्वः, हृदयेन्तःकरणे प्रीत्या पतिमेम्णैव वसति तिष्ठति लोकरीत्या च लौंकिकव्यवहारेण च लज्जते तपते यथा यादशी चमत्कारमयि आश्चर्यवती नित्यं सर्वदाऽडनन्दिनी पत्यावा- नन्दवर्धनशीला भवति एतत्पसिद्धं सर्वेष्विति भावः ।। ४५।। नतु परमानन्दरूपमुक्ति त्यक्त्वा किं दुःखरूपद्वैतरूपभ- स्ये त्याशक्काह। पारमार्थिकमद्वैतं द्वैतं भजनहेतवे। तादृशी यदि भक्तिश्वेत्सा तु मुक्तिशताधिका॥४ ६॥ पारमार्थिकमिि। अद्वैतं जीवब्रह्मैक्यं पारमार्थिकं ता- विवकमित्यङ्गीकृत्य द्वैतं पृथक्त्वं भजनहेतवे भजननिमित्तमङ्गी- करोति गुरुशिष्यादिरूपं द्वैनमङ्गीकरोतीसर्थः, यद्वा भजनं भ- क्तिस्तदेव हेतु: फलं तदर्थ द्वैतं गुरुशिप्यादिद्वारा श्रवणमन- नादिरूपं सेव्यसेवकादिरूपं चाङ्गीकरोतीत्यर्थः, तादृशि एवं
Page 221
भक्तिरसायनम्। २०३
रूपा भक्तिर्भजनं चैद्यदि अङ्गीकृता तर्हि सा भक्तिस्ता- दशी उक्तलक्षणा मुक्तिशताधिका मुक्तीनां शत मुक्तिशतं त- स्मादप्यधिकोत्कृष्टा ॥४६ ॥ पुनर्भक्तेराधिक्यप्रतिपादनाय भक्तिज्ञानयोरेकफलखमति पादनाय च वृत्तमाह। प्रियतमहृदये वा खेलतु प्रेमरीत्या पद्युगपरिचर्या प्रेयसी वा विधत्ताम्। बिहरतु विदितार्थों निर्विकल्पे समाधौ ननु भजनविधौ वा तद्द्वयं तुल्यमेव ॥ ४७ ॥ प्रियतमेति। प्रेयसी प्रियतरा स्त्री प्रियतमदृदयेऽति- प्रीतिविषयः प्ियतमस्तस्य हृदये वक्षसि वेति पक्षे प्रेमरीत्या मेमप्रकारेण खेलतु क्रीडतु इत्येकः पक्षः, वाऽथवा पदयुग- परिचर्या पदयोरङ्ग्योर्युंगं युग्मं तस्य परिचर्या सेवां विधत्तां क्रियतामुभयत्र सुखं तुल्यमिति भावः, यथा यदूत्तथा विदि- तार्थो ज्ञाततत्वो निर्विकल्पे विकल्पा नामरूपजासादयस्ते निर्गता निवृत्ता यस्मात्तस्मिन्समाधौ समं ब्रह्माधीयते ल- क्ष्यतेऽस्मिन्निति समाधिस्तस्मिन्विहरतु क्रीडतु वेत्येक: पक्ष:, अथवा भजनविधौ भक्तिपकारे विहरतु क्रीडतु तद्द्वयं तदुभ- यमपि तुल्यमेवैकमेवास्ति ननु निश्चय इसर्थः ॥४७॥ एवमुभयोः साम्यं प्रतिपाद्येदानीं प्रकरयविषयत्वान्क्तेः श्रैष्ठ्यं सदष्टान्तमाह। विश्वेश्वरस्तु सुधिया गलितेपि भेदे भावेन भक्तिसहितेन समर्चनीयः ।
Page 222
२०४ बोधसारे।
प्राणेश्वरश्चतुरया मिलितेपि चित्ते चैलाञ्चलव्यवहितेन निर्रीक्षणीयः ॥ ४८॥ विश्वेश्वर इति। सुधिया तु शोभना रागादिरहिता धीर्म- तिर्यस्य स तथोक्तस्तेनापि भेदे सेव्यसेवकादिलक्षणे पृथक्त्वे गलितेपि निवृत्ते सत्यपि भक्तिसहितेन श्रवणादिनवलक्षणल- क्षितयान्तकरणवृत्त्या सहितेन भावेन प्रेम्णा विश्वेश्वरो जग- दीश्वरः परमात्मा समर्चनीयः पूज्यः, तत्र दृष्टान्तः प्राणेश्वर इति, चतुरया बुद्धिमत्या स्ति्रिया चित्तेन्तःकरणो मिलितेपि एकीभूते सत्यपि चैलाञ्चलव्यवहितेन चैलमूर्ध्ववस्त्रं तस्याश्चलमंशस्ते- नान्तररितं तेन चक्षुपेति शेषः, प्रायेश्वरः पतिर्निरीक्षणीयः प्रेक्षणीयोऽन्यथा सुखं न स्यादथा तथा श्रवणादिभक्ति वि- नापि केवलसमाधौ सुखं न स्यादिति भावः ॥ ४८ ॥ उक्ते भक्तिश्रैष्ठ्ये दृद्धवाक्यं प्रमाणयितुमाह। अथ भक्तिरसमाश्रित्य क्लोकः । अथेति। अथात्रेत्यर्थः, भक्तिरसमाश्रिस भक्तिसुखमव- लम्ब्य श्रोक श्लोकावित्यर्थः, जातित्वादेकवचनमस्ति तमे- वोदाइरति। योगे नास्ति गतिर्न निर्गुणविधौ सम्भावनादुर्गमे नित्यं नीरसया धिया परिहते द्वे ऐहिकामुष्मिके। गोप: कोपि सखाकृतः स तु पुनर्नानाङ्गनासङ्गवा- नस्माकं पदमर्थयन्ति मुनयाश्चत्रं किमस्मात्परम्॥४९॥ योग इति। अष्टाङ्गसहिते योगे चित्तनिरोधाख्ये स- माधौ मम गतिः प्रचारो नास्ति न विद्यते किश्च सम्भावना- दुर्गमे सम्भावनाया निश्चयट्टत्तेर्दुर्गमोऽमाप्तिर्यस्मिन्, यद्वा सम्भा-
Page 223
भक्तिरसायनम । २०५
वनया दुर्गमे दुष्पापे निर्गुणविधौ निर्गुणं गुणरहितं ब्रह्म वि- धीयते निश्चीयतेडस्मिन्निति तथाभूते वेदान्त इत्यर्थः, गतिः प्र- चारो नास्ति ताह वैपयिके सुखे एव प्रचारोस्तु तत्राह नियं सर्वदा नीरसयोदासीनया धिया बुद्धैहिकामुष्मिके इह लोके भवमैहिक स्रक्कन्दनवनितादिविषयजं सुखमामुष्मिक चामृतभोगादिविषयजन्यं पारलौकिक सुखं च ते द्वे उभे अपि परिहते त्यक्ते अतो नात्र मनसो रमणमिति भाव:, पुनः पश्चादन्यदेव विचार्य मया कृतं किं तदित्यत आह गोप इति, मया कोपि अनिर्वचनीयो गोपो गोपालो ग्रामीण इत्यर्थः, स तु सोपि नानाङ्गनासङ्गतान्नानाऽनन्ताश्च ता अङ्गनाः स्त्रियश्च तासां सङ्ग सम्भोगोस्यास्तीति तथाभूतः स सखा मित्रं कृतः आश्रितो मित्रत्वेनाश्रित इत्यर्थः, ननु गोपालसङ्गत्या बुद्धिभ्रं- शेनाधः पात एव स्यात्तत्र किं पुनर्वक्तव्यं नानाङ्गनासङ्गवद्गो- पालसङ्गेनाधः पात इतिशङ्कायामाहास्माकामेति, मुनयो मन- नवन्तोपि अस्माकं तादृशगोपालसङ्गवताः न पदं प्रेमानन्दस्थि- तिरूपमधिकारमित्यर्थः, अर्थयन्ति मार्थयन्तीत्यर्थः, अतोस्मा- त्परमेतदाश्वर्यादन्यदाश्चर्य श्रेष्ठ कि न किमपीत्यर्थः, इदमेवा- तिश्रेष्ठमाश्चर्यींमति भावः ॥ ४९॥ आश्चर्यान्तरमाह। रोमाञ्चेन चमत्कृता तनुरियं भक्त्या मनो नन्दितं प्रेमाश्रूणि विभूषयन्तिं वदन कण्ठं गिरो गद्रदाः । नास्माकं क्षणमात्रमप्यवसरः कृष्णार्चनं कुर्वतां मुक्ति द्वारि चतुर्विधापि किमियं दास्याय लोलायते ॥५०॥ रोमाश्जेति । कृष्णार्चनं कृष्णस्य भूमानन्दरूपस्यार्चनं
Page 224
२०६ बोधसारे।
ध्यानरूपं वाह्यमपि साकारस्य पूजनं कुर्वतामस्माक नः । 'कृपिर्भूवाचकः शब्दो णश्च निर्द्टतवाचकः । तयोरैक्यं परं ब्रह्मकृष्ण इत्यभिधीयते' ॥ इति प्रभृतिवचनैः कृष्णशब्दार्थस्य भूमानन्दत्वेन प्रतिपा- दनादियमेषा तनुर्देहयष्टी रोमाश्चेन रोम्णां वालानामश्चः पुलकस्तेन चमत्कृता चमत्कारवती दृश्यत इति शेप:, मनश्चा- न्तःकरणं भत्त्या प्रेमलक्षणया दृत्याऽऽनन्दितमानन्देन समृद्ध प्रेमाश्रूणि स्नेहाऽडविर्भृतानि अश्रूणि नेत्रजलानि वदनं मुखं विभूपर्यान्त अलंकुर्वन्ति गद्गदाऽव्यक्ताक्षरा गिरो वाण्य: कष्ठं गलमनरोधयन्तीति शेष:, एवंलक्षणवतामस्माकं क्षगा- मात्रमपि क्षयमात्रं तावन्मात्रमपि अवसरः समयोऽन्यविषय- मङ्गीकर्त्तु न न विद्यते तथापि चतुर्विधापि सायुज्यसार्ष्टिसामीप्य- सारूप्यभेदेन चतु:प्रकारापि मुक्तिर्मोक्षो द्वारि पारिमार्थिक- जीवव्रह्मैक्यलक्षणमोक्षद्वारमूते भजने दास्याय दास्यं कर्त्तु लो- लायते लोला चञ्चलेवाचरांत अतश्चतुर्विधा मुक्ति: प्रपञ्चनि- वृत्तिः किं न किमपि अति तुच्छेत्यर्थः ॥ ५० ॥ उक्त श्लोकौ मधुसूदनकृताबुदाहतौ स्वश्लोकेनापि भत्तया- धिक्यप्रतिपादकेनाश्चर्यान्तरमाह। घन: कामोऽस्माकं तब तु भजनेऽन्यत्र नरुचचि- स्तवैवांधिद्वन्द्वे नतिषु रतिरस्माकमतुला। सकामे निष्कामा सपदि तु सकामा पदगता सकामास्मान्मुक्तिर्भजति महिमायं तब हरे ॥५१॥ इति श्रीनरहरिविरचिते बोधसारे भक्तिरसायनम ॥१३ ॥ घन इति। तव तु तवैव नान्यस्येत्यर्थः, भजने भक्ताव- स्माकं त्वद्दक्तिरुचिमतां नो घनो गाढ: काम इच्छाऽस्ति
Page 225
राजयोगे भूमिकाभेदभास्करः । २०७
अन्यत्र कर्मणि ज्ञाने वाऽन्यभजने वापि रुचिः प्रीतिर्न नास्ति कुत इसत आह तवेति, तवैव त एव केवलमङ्घ्रद्वन्द्वेऽङ्ग्रो: पादयोद्वन्द्वं युग्मं तस्मिस्तद्विपयिणीप्वित्यर्थः, नतिपु प्रणामेपु अस्माकं त्वद्भक्तार्ना रतिः प्रीतिरतुला न विद्यते तुलोपमा या्याः सा तथाभृताऽस्ति यतोऽत इत्यर्थः, किश्च सकामे विषयेच्छावति पुरुपे निष्कामेच्छारहिता तु अपि यद्वा तु प्रसिद्धेत्यर्थः, सकामा कामवती भूत्वेति शेषः, मुक्ति: सायुज्य- सार्ष्टिसामीप्यसारूप्यरूपा सपदि शीघ्रं पदगता पदयोश्चरणयो- र्गता लग्ना सती सकामास्मान्कामसहितान्नो भजति सेवते हे हरे है सर्वद्ुःखांनरासक अयमेप महिमा महत्वं तन तेऽस्ति ।।५१।। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी भक्तिरसायनार्थप्रकाशस्त्रयोदशः ॥१३।।
अथ राजयोग भूमिका भेदभास्करः । एवं सर्वसाधनानि प्रतिपाद्येदानीमेतैः साधनैः साध्या- मवस्थां निरूपपितुमुतरग्रन्थारम्भ:, तत्र च फलरूपां तामवावस्था भूमिकाभेदेन निरूपयितुं मूमिकाभेदभास्कराख्यं प्रकरणं सार्ध- चतुःपण्डुयतरशतश्चोकमारभते, तत्र च त्याज्यग्राह्यभेदेन भूमि- काश्चतुदर्श प्रतिपाद्यितुं प्रकरणद्वयमस्ति, तत्रादौ त्याज्यसप्- भूमीस्त्याजयितुं तज्ज्ञानार्थमज्ञानभूमिका निर्णेतुमज्ञानभूमिकानि- र्णयाख्यं पादोनचतुर्दशश्लोकं प्रकरणमारभते, तत्राप्यादौ ता- वद्ुत्तरग्रन्थ इत ऊर्ध्व राजयोगनिरूपणं प्रतिजानीते। भूमिकाभेदमारभ्य यावद्ग्रन्थसमापनम् । अगाधबोधसारेSस्मिन्राजयोगो निरूप्यते ॥१ ॥
Page 226
२०८ बोधसारे।
भूमिकाभेदमिति। भूमिकाभेर्द भूमिकानां चतुर्दशयूमीरना भेदं भेदांनरूपक प्रकरणमारभ्यारम्भं कृत्वा ग्रन्थसमापनं पाव- द्रन्थस्य बोधसाराख्यग्रन्थस्य समापनं समाप्तिर्यावद्रन्थसमाप्ति- पर्यन्तमित्यर्थः। अस्मिन्प्रकृतेऽगाधबोधसारेऽगाधो दुरवगाहोऽ- नुभवं विनाडर्थतो दुरवगाह इत्यर्थः, स चासौ बोधसारश्रै- सन्नामको ग्रन्थस्तस्मिन्राजयोगो राजञां नृपाणां स्वस्थाने स्थि- त्वापि साधयतुं शक्यत्वात्तत्सम्बन्धी योगो जीवव्रह्मैक्यविषय- कज्ञानलक्षणो निरुप्यते प्रतिपाद्यते ॥ १ ॥ एवमुत्तरग्रन्थार्थनिरूपणं प्रतिज्ञायेदानीं प्रकरणार्थ थोतुं फलमर्दशनेन शिष्यं मेरयति। अथायं हृदि कर्तव्यो भूमिकाभेदभास्करः । यस्य प्रसादमात्रेण तमो हार्द बिलीयते ॥ २ ॥ अथेति। अथ साधनश्रवणानन्तरमयं प्रत्यक्षो निरूप्यमाणो भूमिकाभेदभास्करो भूमिकानामवस्थानां निरूपयिष्यमाणारना चतुर्दशसंख्यानां भेद: परस्परवैलक्षण्येन पार्थक्यं तस्य भास्करः सूर्य इत प्रकाशको ग्रन्थो हृदि अन्तःकरणे कर्तव्योऽवधार्यः, नन्वेतदवधारणे कि फलं तत्राह यस्येति, यस्य भूमिकाभेदभा- ह्करस्य प्रसादमात्रेण प्रसन्नतयैव केवलं हार्द हृदि भवमन्तः- करण उत्पन्नं तमोऽज्ञानलक्षणमान्ध्यं विलीयते नश्यति ॥२॥ एवं प्रकरणार्थविचारस्य फलं प्रदर्श्येदानीं प्रकरणप्रति- पाद्यसर्वभूमिकासंख्यामाह। अज्ञानभूमिकाः सप्त सप्तैव ज्ञानमूमिकाः । बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥ ३ ।। अज्ञानेति। अज्ञानभूमिका अज्ञानस्य मोहस्य भूमिका
Page 227
राजयोंगे भूमिकाभेदभास्करः। २०९
अवस्था: सप्त सप्तसङ्खयाः सन्ति, ज्ञानभूमिका एवाज्ञाननिर्त्तव- कस्य विवेकस्य भूमिका अवस्था अपि सप्त सप्तसङ्याः सन्ति, एवं भूमिकासङ्क्यां प्रदर्श्य त्याज्यत्वेनाज्ञानभूमिकाज्ञानार्थ प्रथम- मजानभूमिका: सप्त नामभेदेन र निदिशत बीजजाग्रदिति, बीज- जाग्रद्ीजजाग्रन्नाम्न्येका, तथा तद्ज्जाग्रज्जाअ्रन्ास्नी द्वि- तीया, तथैव च तद्वदेव महाजाग्रदेतन्नास्री तृतीया,। जाग्रत्स्वप्रस्तथा स्वप्रः स्व्रम्रजाग्रत्सुषुप्तकम्। इति सप्तविधो मोहस्तेषां विवरणं शृणु ॥ ४ ॥ तथा जाप्रतस्वप्रो जाग्रत्स्वम्रनाम्नी चतुर्थी, तथा तद्वत्स्व- परनाम्नी पश्चमी, तथा स्वप्रजाग्रन्नाम्नी पष्ठी, तथा सुपुप्तक सुपुप्तिनाम्री सप्तमी, सर्वसंख्यामाहेतीति, एवं प्रकारेण मो- होडज्ञानं सप्तविध: सप्तमकारोडस्ति, तासां भेदज्ञानाय ता निरूपयितुं तच्छवणे शिष्यं पेरयति तेषामिति, तेषां सप्त- विधमोहानां विवरयं विस्तरं शृणु अवधारय ॥ ३ ४॥ तामु प्रथमां लक्षयति सार्घेन। कुसूले संस्थितं बीजं तत्र सर्वो यथा द्रुमः । तथा यत्र स्थितं विश्वं न तु व्यक्तिमुपागतम्॥५॥ बीजरूपं स्थित जाग्रद्वीजजाग्रत्तदुच्यते। संसारप्रथमावस्था महामोहः स एव हि ॥ ६ ॥ कुमूल इति। कुसूले धान्यसश्चयार्थ मृदादिना निर्मिते पात्रे संस्थितं पूर्व स्थापितं बीजं चणकादिधान्यानां कारणभूतं धान्यमस्ति तत्र बीजे सर्वः शाखाकाण्डपुष्पफलो- पेनो द्रुमो दृक्षो यथा यद्वदस्ति तथा तद्दत्र मायाशबले ब्रह्मणि २७
Page 228
२१ बोधसारे।
विश्वं जगत्स्थितमस्ति व्यक्ति प्रकटता न तु नैवोपागतं मासं तदेव जगज्ाग्रच्छब्दवाच्यं वीजरूपत्वाद्वीजमिव जगत्कारणं मायाशबलं ब्रह्म तदेव रूपं यस्य तत्तथाभूतं स्थितं तिष्ठति त- त्कारणमेव वीजजाग्रदेतन्नामकमुच्यते कथ्यते मुनिभिरिति शेपः, तस्यैव ग्रन्थान्तरे नामान्तराणि सन्ति तान्याह संसारेत्या- दिना, संसारपथमावस्था संसारस्य ब्रह्माण्डस्य प्रथमा गर्भस्थिति रूपाडवस्था स्थितिरिति सैवोच्यते स एव हि उक्तलक्षण एव हि प्रसिद्धो महामोहो मूलाज्ञानमिति नामान्तरैरुच्यते ॥५६॥ तदेवाज्ञानमित्युक्तं यत्स्वबोधेन लीयते। कुसूले संस्थितं बीजं क्षेत्रे निक्षिप्यते यदा॥७॥ तदेव वीजजाग्रदेवाज्ञानं ज्ञानविरोधि भावरूपमिति एवं नाम्नोक्तं कथित वेदान्तेष्विसर्थः । कुत इत्यत आह यदिति, यद्यस्मात्कारणात्स्ववोधेन स्वस्याज्ञानस्य बोधो ज्ञानं तेन, यद्वा स्वस्यात्मनो वोधो ज्ञानं तेनेतर्थः, लीयते नश्य- तीत्यन इत्यर्थः, द्वितीयां सदष्टान्तां लक्षयति कुसूल इति सा- धाभ्यां, कुसूने धान्यसश्चयनार्थ मृदादिना निर्मिते पात्रे संस्थितं पूर्व संस्थापितं बीजं चणकादिकारणभूतं चणकादि यदा यस्मिन्काले क्षेत्रे भूमौ निक्षि्यत उप्यते ।।७॥ तदेत्यध्याहार्य, तदा तस्मिन् काले। अंकुरोन्मुखतां याति सावस्था जाग्रदुच्यते। इदमेव महत्तत्त्वमिति सांख्यैर्निरूप्यते ॥८॥ अङ्करोन्मुखतां किश्चिदङ्कुरोत्पत्या वृक्षजनने सन्मुखता याति प्राम्नोति तस्यावस्थ्ेवावस्थानं या सा जाग्रन्नाम्नोष्यते
Page 229
राजयोगे भूमिकाभेदभास्करः । २११
कध्यते तस्या एतस्या अप शास्त्रान्तरे नामान्तराणि सन्ति तान्याहेदमित्यादिसार्धेन, इदमेवेयमवस्थैव सांख्येः सांख्य- शास्त्रविद्भिर्मह त्ततत्त्वमितत एं वं न्न् न रु प् ्ते तत पा त ै ईक्षणं चेति वेदान्तैः सामान्याहङ्कृतिस्तथा। आनन्दमयकोशश्र तत्साक्षी त्वीश्वरः स्मृतः ॥९॥ तथा तद्वद्वेदान्तैरुपनिषद्व।क्यैः 'स ईक्षते'त्यादिभिरीक्षणं चेक्षणमवलोकनमिति नाम्नेदमेव प्रतिपाद्यते तथा तद्वत्सामा- न्याहङ्कतिः समष्ठ्यद्दङ्गार इति आनन्दमयकोशश्चेति च तैरेव वेदान्तिभिरभिधीयते तत्साक्षी तु तस्या जाग्रतः साक्ष्यव्यवधा- नेन प्रकाशकस्तद्विलक्षणश्वेश्वर इति स्मृत उक्तः ॥८९॥ तृतीयां लक्षयति त्रिभि: पादैः । विशेषाहङ्कृतिः सुक्ष्माङ्कुरवद्दयावहारिकी। महाजाग्रद्ुधैः प्रोक्ता व्यष्ट्यवस्थात्रये तु सा।१०। जाग्रत्स्वप्रसुषुप्ताख्येवस्था जाग्रदिति स्मृता । जाग्रदेव यदा जीवो मनोराज्यं करोति हि ॥१ १॥ विशेपेति। सूक्ष्माङ्कुरवद्यवादिधान्यानां परिचितिकारणं यद्वत्तद्वव्वावहारिकी व्यवहारे भवा विशेपाहङ्कतिर्विशेषा सुख्यहं दुःखयहं काणोहं बधिरोहं पुष्टोह कृशोहं ब्राह्मणोहं क्ष-
जाग्रदेतन्नाम्ना प्रोक्ता कथिता, अस्या एव नामान्तरं व्यावहा- रिकमाह व्यष्टीति, सा तु सैव जाग्रत्स्वप्रसुपुप्त्याख्ये जाग्रच्चे
रणाज्ञानमात्रावस्थाने जाग्रत्संस्कारजः प्रसयवान्स्वम इत्युक्त
Page 230
२१२ बोधसारे।
लक्षणः, सुपुप्तिश्राज्ञानमात्रस्थितिरूपा, एता आख्या आहा यस्य तस्मिन्व्यष्ठ्यवस्थात्रये व्यस्तरूपबुद्धेरवस्था जाग्रत्स्वप्रसुपु- प्यस्तासां त्रयं तस्मिआ्जाग्रदिति नाम्ना स्मृता प्ोक्ता सु- निभिरिति शेषः, चतुर्थीं लक्षयति जाग्रदेवेति, जीवः साधि- छ्ठानबुद्धिस्थश्चिदाभासो यदा यस्मिन्काले जाग्रदेव जाग्रत्स- न्नपि मनोराड्यं मानसं संसारं करोति संकल्पयति हि न- सिद्धमेतत्सर्वेषमित्यर्थः ॥१०॥११॥
जाग्रतः स्वप्न इव यत्स जाग्रत्स्वप्न उच्यते। लोकप्रसिद्धोयः र्वप्नःस स्वप्न इति कथ्यते॥१२॥
जाग्रत इति। जाग्रतो जागरयावतः स्वम् इव स्वमवद- न्मनोराज्यं स जाग्रत्स्वमो जागरत्स्वम्नाम्न्यवस्थोच्यते कथ्यते, पश्चमीमाह लोकप्रसिद्ध इति, यो लोकपसिद्ध आगो- पालं सर्वैरनुभूतः स्वमोऽस्ति स स एव स्वप्नाम्नी कथ्यते निरूप्यते ॥ १२ ॥ पष्ठी लक्षपति।
जातेपि जागरे जन्तोः स्वप्नदृष्टार्थभासनम्। प्रत्यक्षमिव संस्कारात्स्वप्रजाग्रत्तदुच्यते ॥ १३॥। जातेपीति। जन्तोर्जीवस्य जागरे जागरणे जातेपि उत्पन्नेपि
गगोचराभवेनाप्रत्यक्षमपि प्त्यक्षवत्स्मृतिविषयं स्वपदृष्टार्थभा- सन रवने ये दृष्टा अर्था गिरिनदीनगरादयस्तेषां भासनं मतीति- स्तद्रासनं स्वम्रजाग्रदेतन्नाम्न्यवस्थोच्यते कथ्यते ॥१३॥
Page 231
राजयोगे भूमिकाभेदभास्कर: । २१३
सप्तर्मी लक्षयति। षडवस्थापरित्यागे सुषुप्तिः सप्तमी मता। अज्ञानभूमिकास्त्वताः शृणु विज्ञानभूमिका ॥१४॥ इति श्रीनरहरिकृती बो० भूमिकाभेदभास्करेSज्ञानभूमिनिणयः। पडिति। पडवस्थापरित्यागे पण्णामुक्तलक्षणाना जाग्रवाद्- वस्थाना परित्यागेऽभावे सति या सुपुप्तिर्निद्रा सा सप्तमी स- प्म्यवस्था मतोक्ता मुनिभिरिति शेपः, उक्तमज्ञानभूमिका- निरूपणमुपसंहरति अज्ञानेति, हे शिष्य एता निरूपिता अ- ज्ञानभूमिका अज्ञानस्य महामोहस्य भूमिका अवस्था उक्ता इति शेष:, एवं सलक्षणा अज्ञानभूमिकाः पतिपादेदानीं ज्ञान- भूमिका: श्रोतुं शिष्यं प्रेरयति भृण्विति, विज्ञानभृमिका विज्ञा- नस्य विवेकस्य भूमिका अवस्या: पूर्व सप्त निर्दिष्टास्ता इ- दानी त्वं शृणु अवधारय॥ १४ ॥ इति शीनरहरिशिष्यदिवाकरविरचितायां बोधसाराथंदीप्ी
निर्णयार्षंप्रकाशः प्रथमः ॥१॥
अथ ज्ञानभूमिका। एवं अज्ञानभूमिकाः सलक्षणाः सप्त निरुप्येदानीं ज्ञानभू- मिकाः प्रतिपादयितुं ज्ञानभूमिनिर्णयाख्यं प्रकरणमेकोनसार्धश- तश्लोकमारभते, तत्र चावान्तरप्रकरणानि प्रथमभूमिका द्विती- यभूमिका तृनीयभूमिका चतुर्थ भूमिका पश्चमभूमिका षष्ठभूमिका- सप्तमभूमिकानिर्णय।ख्यानि सप्तभूमिकाशास्त्रार्थनिर्णयाख्यं च- त्यष्टौ क्रमेणैकोनत्रिशच्चतुख्िरिंश देकादशाष्टादशद्वाविशतिनवनवस- प्तदश श्लोकानि सन्ति तत्रादौ प्रथमभूमिका निर्णयाख्यमेकोनत्रिंश-
Page 232
२१४ बोधसारे।
पलोकं प्रकरणमारभते, तत्र च तावन्निरुप्यमाणभूमिकानामान्याह। जिज्ञासाथ विचाराख्या ततस्तु तनुमानसा। सत्त्वापत्तिरसंसक्तिः पदार्थाभाविनी तथा ॥ १ ॥ सप्तमी तुर्यमित्युक्ता तुर्यातीतमतः परम्। जिज्ञासेत्यादिसार्घेन। जिज्ञासा ज्ञातुमात्मनस्तात्विक रूपमिच्छेति जिज्ञासानाम्न्येका, अथानन्तरं विचाराख्या वि- चारो विवेक: प्रकृतिपुरुषात्मानात्मादीनां सैवाख्या यस्याः सा तथोक्तैतनाम्री द्वितीया, ततस्तु द्वितीयभूमिकानन्तरं तु ताभ्यां विलक्षणा तनुमानसा तनवः सूक्ष्मा मानसा मनोवि- कारा: कामादयो यस्यां सा तथोक्तैतन्नाम्नी तृतीया, ततो- नन्तरं सत्वापीत्तिः सत्वस्य सत्त्वगुणस्यापत्तिः प्राप्तिर्यस्यां सा तथोक्ता यद्राऽन्यासत्वदष्ठ्यात्मनः स्वस्य कालत्रयाबा- धितस्याप्ति: प्राप्तिर्पस्यां सा तथोक्ता चतुर्थी ज्ञेया, ततोनन्तरम- संसक्तिर्न विद्यते संसक्तिः केनापि सम्बन्धपतीतिः स्वस्मि- न्यस्यां सैतन्नाम्नी पश्चमी ज्ञेया, तथा तद्वत्पदार्थाभाविनी पदानि जीवेश्वरादिनामानि अर्थास्तद्वच्यानि रूपाणि तेषाम- भावोऽसत्वं विद्यते यस्यां सा पदार्थाभाविनी पष्ठी नाम्ना हेया, तुर्यमित्युक्ता तुर्यमिसेवं नाम्नोक्ता मुनिभिः कथिता सा स- प्तमी शेया, अतः परं सप्तमभूम्यस्पृष्ट तुर्यातीतमेतन्राम तत्वमस्ति ॥ १॥ आसां भूमिकानां ग्रन्थान्तरे नामभेददर्शनेन भ्रमो माभू- दिति नामान्तराण्यीि वक्तुं प्रतिजानीते। आसामेव नामान्तराणि । आसामिति। आसामेवोक्तनाम्नीनां भूमीनां नामान्त-
Page 233
राजयोगे भूमिकाभेदभास्करः । २११
राणि अन्यानि नामानि उच्यन्त इति शेप:, तान्येवाह। सुमुक्षा च समक्षा च परीक्षा च परोक्षका॥ २॥ मुमुक्षेति। मुमुक्षा मोक्तुं मंसारवपनादिच्छा मुमुक्षा प्रथमा भूमिका ज्ञेया, च पुनः समक्षा सम्यगक्षं समीचीनं विचार रूपं नेत्रं यश्यां सा तथोक्ता द्वितीया, च पुनः परीक्षा परीक्षणं परीक्षा मननं तदस्यामस्तीति सा तथोक्ता तृतीया, च पुनः परोक्षका परोक्षं परोक्षतया ज्ञातं कं ब्रह्म यस्यां सा तथोक्ता चतुर्थी ह्ञेया ॥२॥ अपरोक्षा महादीक्षा पराकक्षेति सप्त ताः । प्रथमा त्वधिकारास्या द्वितीया श्रवणात्मिका ॥ ३॥ अपरोक्षेति। अपरोक्षा न परोक्षं ब्रह्म यस्यां सा तथोक्ता ब्रह्मसाक्षात्कारवतीत्यर्थः, पश्चमी; महादीक्षा महत्यनवच्छिन्ना दीक्षाऽहं ब्रह्मत दीक्षणं संस्कारविशेषो यस्यां सा तथोक्ता पष्ठी ज्ञेया, तथा पराकक्षा परोत्कृष्टा ब्रह्मपाप्तेः कक्षा द्वारभूता स- समी, इत्येवं ता भूमिका: सप्त सप्तविधा ज्ञेयाः, पुनश्च ग्रन्थान्तर- स्थितं भूमिकानामभेदमाह प्रथमेति, अधिकारारुयाऽघिका- रित्वं सैव्राख्या नाम यस्याः सा तथोक्ता प्रथमा प्रमथभूमिका ज्ञया, तथा श्रनणात्मिका श्रवणं वाक्यानामादिमध्यावमानेपुए- कस्मिन्व्रह्मक्यलक्षणेर्थे तात्पर्यप्रतीतिरित्युक्तलक्षगोऽर्य आ- त्मा स्वररूपं यस्याः सा तथोक्ता द्वितीया भूमिका जञेया॥३ ॥ तृतीया मननप्राया निदिध्यासश्चतुर्थिका। साक्षात्कारः पञ्चमी स्यात्पष्ठी परिणतिः स्मृता ॥४॥ तृतीयेति। मननप्राया मननं श्रृतार्थस्य युत्त्या संभावित- त्वानुसन्धानं मननमित्युक्तलक्षणं प्रायं बहु यस्यां सा प्रायश-
Page 234
२१६ घोधसारे।
नदोत्राकारान्तः सा तृतीया पेया, निदिध्यासः श्रुतार्थस्य सजा- तीयम्रसयानुदृत्तिर्विजातीयमरत्ययरहितित्युक्त लक्षणे विपरीतभा- वनानितर्तको निदिध्यासो वृत्तिविशेषः सा चतुर्थिका चतुर्थभू- मिका जेया, साक्षात्कारः साक्षात्करोतीति साक्षात्कारो जीव- व्रल्मैक्याव्यवहितानुभवरूपा वृत्तिः सा पश्चमी भूमिका हेया, प- रिणतिस्तास्मिन्नेव जीवब्रह्मैक्ये परिणतिः परिणामरूपा वृत्तिः सा पष्ठी भूमिका स्मृता मुनिभिरिति शेषः ॥। ४ ॥ सप्तमी तु परा काष्ठा सैव तुर्यमितीरिता। प्रथमायां तु विद्यार्थी द्वितीयायां पदार्थवित् ।।५।। सप्तमीति। पराकाष्ठा तु जीवब्रह्मैक्यार्थपरिणतिरूपा रृ- ततिरेव परा काष्ठा निरतिशयसुखरूपेया गाढं परिणता सती स- पतमी भूमिका जेया, सैव सप्तम्येव तुर्यमिति तुर्येत्येवं नाम्ने- रिता कथिता, एवं भूमिकानामान्यभिधायेदानीं तास्वारूढपुरु- पलक्षणपतिपादनेन तारसा लक्षणं विस्तरेण भतिपादयितुं ता- हवेवारूढलक्षणं संक्षपेणाह दाभ्या, पथमायां प्रथमभूमिकायां जिज्ञासाSडहायामारूढो विद्यार्थीति विद्यां जीवब्रह्माभेदाप- रोक्षज्ञानमर्थते तच्छीलो भवति, तु पुनर्द्वितीयायां विचारा- रूयायां भूमिकायामारूढः पदार्थवित्पदानि तत्वमसीत्यादीनि तेषामर्था वाच्यलक्ष्यौ तत्त्वमोदवयोरैक्यं चासिपदस्येसादयस्ता- न्वेत्तिति स तथोक्तो भवति ॥ ५ ॥ निःसंशयस्तृतीयायां चतुर्थ्या पण्डितो भवेत्। प्राप्तानुभूतिः पञ्चम्यां षष्ठ्यामानन्दघूर्णितः ॥६॥ निःसंशय इति।तनुमानसानाम्न्यां तृतीयभूमिकायां निःसं-
Page 235
राजयोगे भूमिकाभेदभास्करः । २१७
शयो निर्गताः संशया यस्मात्स तथोक्तो भवति, चतुर्थ्या चतुर्थ- भूमिकार्या सतत्वापत्तिनाम्न्यामारूढ: पण्डितः समस्तपदपदार्थेपु समबुद्धिर्भवेत्स्यात्, तथा पञ्चम्पां पश्चमभूमिकायामसंसक्ति- नाम्न्यामारूढ: प्राप्तानुभूति: प्राप्ता लब्धाऽनुभूतिर्जीवात्मक्य- स्यानुभवो येन स तथोक्तो भवति, तथा पष्ठ्यां पष्ठभूमिकार्या पदार्थाभाविनीनाम्न्यामारूढः पुरुष आनन्दघूर्णित आनन्दे- न भूमानन्देन घूर्गितो व्याप्तो भवेदानन्दानन्यास्वादीभवे- दित्यर्थः ॥ ६ ॥ सप्तमी सहजा तुर्या तुर्यातीतमतः परम्। भूमिका त्रितयं पूर्व त्वत्र जाग्रदिति स्मृतम् ॥७॥ सप्तमीति। सप्तमी सप्तमभूमिका तुर्यैतन्ाम्नी सह- जा सहजस्वभावा तदारूढ: सहजानन्दवान्भवतीत्यर्थः, अतः परं तुर्याख्यसप्तम भूमे: परमुत्कृष्टन्तदस्पृष्टन्तदन्यच्च तुर्यातीतं तुर्यायाः सप्तमभूमेरतीतमस्पृष्टं तत््वं ज्ञेयमित्यर्थः, एवं सप्तभूमिका- स्वारूढलक्षणं संक्षेपतः प्रदर्श्येदानी सप्तमभूमेस्तुर्यशब्दवाच्यत्वं पदुक्तं तद्विशद्यितुं सप्तभूमिकासु चतस्त्रोवस्था दर्शयति सा- र्धाभ्यां भूमिकात्रितयममिति, अत्र तु अत्र ज्ञानेपि पूर्व प्रथमम- वस्थात्रितयमवस्थानां भूमिकानां त्रितयं त्रिकं जिज्ञासाविचा- रातनुमानमाखयं जाग्रदिपति जाग्रन्नाम्ना स्मृतं प्रोक्त मुनिभि- रिति शेष:॥७॥ कुत इत्यत आह। जिज्ञासोरत्र संसारो यथापूर्व यतः स्थितः । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥।८।। जिज्ञासोरिति। यद्यस्मात्कारणादत्र भूमित्रये जिज्ञासो- २६
Page 236
२१८ बोधसारे।
मुमुक्षोर्यथापूर्व पूर्वमनतिक्रम्पेति यथापूर्वमज्ञानावस्थार्या यथा संसारः स्थितस्तथवेसर्थः, संसारो दृश्यदर्शनद्रष्टृरूप: स्थितस्तिष्ठति अत इत्यर्थ :; अयं भावः, एतद्रूमित्रिके पूर्ववत्सं- सारपतीतौ सत्यामपि भूमित्रिकस्यैतस्य मोक्षसाधनल्ाज्ज्ञान- लेन तुर्थले जाग्रत्ुर्यत्वं जाग्रत्वं तु सप्तमीभूमिकायास्तुर्यात्वा- पेक्षयेति ज्ञेयं, एवं भूमित्रिके जाग्रत्वं प्रदर्श्येदानीमेतदपेक्षया च- तुर्ध्यी स्वम्त्वं साधयति चतुर्थीति, चतुर्थी चतुर्थभूमिका स- व्वापत्तिनाम्नी स्वम् इत्युक्ता स्वम इत्येंनं नाम्नोक्ता कथिता कुत इत्यत आह स्वम्ाभमिति, यद्यतः कारणाद्यत्र चतुर्थभृ- मिकायां जगद्विश्वं स्वम्रामं स्वनस्याभेवाभा यस्य तत्तथाभूत- मस्ति प्रतीयत इत्यर्थः, अत इति योज्यम्। अत्राप्ययं भावः, ज्ञा- नसाधनत्वाउज्ञानत्वेप्यस्यां जगतो मिथ्यात्वपूर्वप्रतीतेः स्वमत्वं स्वम्रोस्थितपुरुषे स्वप्नपदार्थप्तीतिरिवास्यां जगतस्तात्कालि- कमिथ्यात्वेन स्वन्नतुर्यत्वमिति ।८।। इदानीं सुपुप्त्यवस्थाभेदप्रदर्शनपूर्वकं भूमिकाद्ये क्रम- प्राप्तं सुपुतं दर्शयति।
सुषुप्ति: शिथिला गाढा द्विविधाऽडद्या तु पञ्चमी। षष्ठी गाढसुषुप्ति: स्यात्सप्तमी तुर्यमुच्यते ॥ ९ ॥
सुषुप्तिरिति। सुपुप्तिर्निद्रा द्विविधा द्विपकाराऽस्ति एका शिथिलाऽपरा गाढा घना तत्राद्या तु शिथिला सुपुप्तिस्तु पश्चमि असंसक्तिनाम्नी पश्चमभूमिका ज्ञेया, षष्ठी पदार्थाभाविनी भू- मिका गाढसुपुप्तिर्गाढा घना सुपुप्तिर्निद्रा सा तथोक्ता स्याद्, एवं च शिथिलात्वगाढात्ववैलक्षण्येनाभयत्र भेदेपि सुपुप्तित्वं स-
Page 237
राजयोगे भूमिकाभेदभास्करः । २१९
ममेव। अयं भावः, प्रपश्चाम्फूर्त्या सुपुप्तत्वमहङ्कारलयाभावेन स्वरूपस्फूर्त्या च सुपुप्ततुर्यत्वमिति, यदर्थमवस्थात्रयं प्रदर्शितं त- दिदानीं तुर्यत्वं सप्तम्यां दर्शयति सप्तमीति, सप्तमी सप्तमभूमिका तुर्ये तुर्यावस्थोच्यते विद्वद्भिः कथ्यते पूर्वावस्थापदूस्थिता- वस्थात्रयापेक्षया सप्तम्यास्तुर्यात्वं पूर्वावस्थापद्कस्य ज्ञानत्वेन-तु- यत्वापेक्षया तु तुर्यतुर्यात्वमिति भावः ॥९॥ एवं ज्ञानभूमिका: सप्तापि संक्षेपतो निरुप्येदानीं ता एव विस्तरतो वर्णयितुमज्ञानभूमिकाभ्यो ज्ञानभूमिकास्त्रवतरणे कारणं ज्ञापयितुं प्रश्नमुत्थापयति त्रिभिः । अत प्रश्नः । अत्रेति। अत्र ज्ञानभूम्यवतरणकारण इस्र्थः, प्रश्नोनुयोगः क्रियत इति शेष:, तमेवाह। संसारमेव यो वेत्ति मोक्षमार्ग न वेत्ति यः । तस्य संसारिण: पूर्व मुमुक्षा जायते कथम् ॥१०॥ संसारमिति। यः कश्चिदज्ञानी संसारमेव केवल संसारं मपश्चमेव वेति जानाति केवलं वर्त्तमानमेव दृश्यं जानातीत्यर्थः, न तु पारमार्थिकं रूपं पारलौकिकं च, यश्चाज्ञानी मोक्षमार्गे मोक्षस्य ब्रह्मात्मभावस्थितर्मार्गमु- पायभूत साधनं शास्त्रं च न वेत्ति न जानाति उभगोरैहिकमा- त्रज्ञानपारलौकिकज्ञानाभ्यां भेदे ससपि मोक्षमार्गाज्ञानं समा- नमेवेति भावः, तस्य तथाविधस्य संसारिणः संमारपट्टत्तस्य पुरुपस्य पूर्व प्रथमं मुमुक्षा मोक्षेच्छा कथ केन प्रकारेण जायते भवति तत्कथ्यताम ॥ १० ॥ इदानीं पृष्टमेवार्थमाक्षिप्य पुनः पृच्छति।
Page 238
२२० बोधसारे।
यादृशो यस्य संस्कारस्तादृशी तस्य वासनाः ! संसारसंस्कारवतो मुमुक्षा जायते कथम् ॥ ११ ॥ यादृश इति। यस्य पुरुषस्य यादृशो यद्वत्संस्कार: पू- र्वजन्मकर्मजन्यो वासनाविधानकारणं भवति तस्य पुरुषस्य वासनेच्छाविशेषस्तादृशी तद्वद्भवेत्तत्र संसारसंस्कारवत इ- दानीं संसारपटत्तस्य पूर्वमपि संसारसंस्कार एवानुमीयते- डतस्तद्वतः पुरुषस्य मुमुक्षा मोक्षेच्छा कथ केन कारणेन जायते भवति। अत्रायं प्रयोगः, अयं संसारसंस्कारवान्भवितुमर्हति सं- सारे प्रवर्तमानत्वाज्जाग्रत्संसारसंस्कारेण स्वप्नमंसारप्रतृत्तव- दिति, इह जन्मनि संसारपटटत्तस्य पूर्वजन्मन्यपि संसारसंस्कारे- णैव भाव्यमिति तस्य न मोक्षमार्गे प्रदृत्तिः सम्भवतीति भावः।। ११॥ ननु त्रिषयसुखलोभेन विषयज्ञानेन विषयसाधनपवृत्तिव- न्मोक्षविषयकज्ञानेनैव मोक्षेच्छया मोक्षसाधनेपु प्रवृतिः स्यादि- साशङ तस्याज्ञानित्वाद्विपयप्रात्यक्ष्येण मोक्षस्य चापात्यक्ष्ये- णाऽपिं तन्न भवतीत्याशयेनाह।
मोक्षे तु विषयो नास्ति सुखं न विषयैर्विना। इति मूढधियां पूर्व मुमुक्षैव कथं भवेत् ॥। १२ ।।
मोक्षेत्वििति । विषयस्तु सुखसाधनभूतो विषयश्च मोक्षे वेदान्तप्रतिपाधे मोक्षाख्ये ब्रह्मणि नास्ति न विद्यते सुखं श- र्मापि विपयैर्विना सुखकारणभूतविषयानृते न नास्तीति एवं मूढधियां मूढाऽ़ज्ञानवती धीर्निश्चयात्मिकान्तःकरणवृत्ति- र्येपां तेपां विपरीतज्ञानिनामित्यर्थः, मुमुक्षैव मोक्षच्छैव पूर्व प्रथमं कर्थ केन प्रकारेण भवेत्स्यान्न कथमपि भवेदत एवाज्ञा-
Page 239
राजयोगे भूमिकाभेदभास्करः । २२१
नभूभ्योऽज्ञानिनः ज्ञानभूम्यवतरणं केन हेतुना स्यात्तत्कथ्यता- मिति पश्नतात्पर्यम् ॥ १२ ॥ एवं प्रश्नमुत्थाप्य तदुत्तरं वक्तुमाह। अत्रोतरम् । अत्रेति। अत्राज्ञानभूमिकाभ्यो ज्ञानभूम्यवतरणकारणपश्न इत्यर्थः, उत्तरं प्रतिवाक्यमुच्यत इति शेपः, तदेवाह। निष्कामा वा सकामा वा भक्ति्विष्णोः शिवस्य वा। सप्रेम हृदये जाता मुमुक्षाकारणं हि तत् । १३ ॥। निष्कामेति। विष्योर्जगद्व्यापकस्य परमात्मनः साका- रस्य विष्णुरूपस्य वा शिवस्य वा सुखरूपस्याहन्तादिसाक्षि- णस्त्वंपदलक्ष्यस्य वा निष्कामा निर्गतः कामो हेतुर्यस्याः सा तथोक्ता तदभावपक्षद्ोतको वाशव्दः, सकामा वा काम इच्छा- विषयभोगानां तेन सहिता वा सप्रेम प्रेम स्नेहस्तेन सहितं य- था तथा हृदपेन्तःकरणे भक्तिर्भजनानुरागवती वृत्तिर्जातो- त्पन्ना चेत्तत्तदवेत्यर्थः, मुमुक्षाकारण मुमुक्षायां हेतुर्भवति हि प्-
स्थानभेवेनापि कृतस्य विशिष्टनपसी मोक्षेच्छाहेतुत्वमाह। कदाचिच्छुद्वभावेन गङ्गातीरे तपः कृतम्। तत्पुण्यपरिपाकेन मुमुक्षा जायते सताम् ॥१४॥ कदाचिदिति। कदाचिदिह निष्कामत्वेनेह जन्मनि ज- न्मान्तरे वा शुद्धभावेन निष्कामतया गङ्गातीर उपलक्षणमेत- त्कस्मिश्चिद्रङ्गाद्युपलक्षिते पुण्यस्थाने तपः शीतोष्णादि सहि- ष्णुतया स्वस्ववर्णाश्रमोचितकर्मानुष्ठानं कृतमाचीर्ण तत्पुण्य-
Page 240
२२२ बोधसारे।
परिपाकेन तस्य पुण्यस्य तपःपुण्यस्य परिपाकः फलदाने प्र- वृत्तिस्तेन सतां शुद्धान्त:करणानां मुमुक्षा मोक्षेच्छा जायत उत्पद्यते ॥ १४॥ कारणान्तराण्याह। बिदुषां वीतरागाणामन्नपानादिसेवया। सङ्गत्या प्रणयेनापि मुमुक्षा SSकस्मिकी भंवत् ॥१५॥ विदुपामिति। वीतरागाणां वीतो रागो विषयस्रेहो येपां तेषां विदुर्षा विवेकिनां ज्ञानिनामित्यर्थः, अन्नपानादिसेवया- डद्यते तदन्नं यवगोधूमादिकं सिद्धमन्नं वा पीयते तत्पानं ज- लादिकं ते आदिनी ये्षा दर्शनसंभाषणादीनां ते तथोक्तास्तर्षा सेवाङ्गीकारस्तया तेपामेव सङ्गया समागमेन प्रणयेनापि नम- स्कारेण चाकस्मिक्यकस्मान्भवाSडकस्मिकी कारणाननुसन्धानपू- विकेसर्थः, मुमुक्षा मोक्षविपयिणीच्छा भवेत्स्यात् ॥ १५।। आकस्मिकमोक्षेच्छोत्पत्तौ गीतापि पमायामस्तीत्याह। तदुक्तम् । तदिति। तदाकस्मिकमोक्षेच्छाजन्म गीतायां भगगद्गीताया- मुक्तं कथितं, केन वाक्येनेत्याशका तद्वाक्यं पठति। मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मांवेत्ति तत्त्वतः ॥१ ६।। मनुष्याणामिति। मनुष्याणामध्रीतवेदवेदाङ्गस्त- दर्थज्ञः शमादिगुणवान्पापभीरुर्युवा दढः सक्कल्पितविषयगा- पिमान्वलवांथ्चैनाट्टशस्य सप्तदीपवती पृथिवी राज्यं धनधा- न्यसमृद्धिमद्यदि स्यात्तर्हि स मनुष्य इत्युच्यते ताद्टशानां
Page 241
राजयोगे भूमिकाभेदभास्करः । २२३
मनुष्याणां सहस्त्रेपु सहस्रसङ्गधेपु बहुसङ्गेपु मध्ये क- थित्कोपि विरलः सिद्धये मुक्त्यर्थ यतति निष्कामकर्मा- दिविचारान्तेपु सम्यक्पवर्त्तते यततामपि तादृशयत्रं कुर्व- तामपि बहूनां मध्ये कश्चिद्विरलः सिद्धो मुक्तो भर्वात ताह- शाना मध्ये कश्िद्विरलो मामात्मानं यथार्थभूतं तत्वतस्तार्व- करूपेण वेत्ति जानाति अस्मिन्नर्थे श्रुतिर्राप 'श्रवणायापि बहुभि- र्यो न लभ्यः शृण्वन्तोपि बहवो यत्र विद्युरि'ति, अन्यापि 'कश्चि-
वासिष्ठव।क्यमपि पमाणयितुमाह। तथा च वासिष्ठे। तथाचेति। तथा च तथैव वासिष्ठ वासिष्ठनाम्नि ग्रन्थ उक्तमिति शेपः, कथितमित्यर्थः । केन वाक्येनेत्याशङ्कायां तद्वाक्यं पठति। चलार्णवयुगच्छिद्र कूर्मग्रीवाप्रवेशवत्। अनेकजन्मनामन्ते विवेकी जायते पुमान्॥१७॥ चलेति । चलार्णवयुगच्छिद्रकूर्मग्रीवामवेशवच्चलौ चञ्चलौ यावर्णवावर्णसा जलेन वातो गच्छतस्तावर्णतौ तरङ्गौ पृ- पोदरादित्तात्सलोपस्तयोर्युग युग्मं तस्यच्छिद्र मध्यवर्त्याकाशं तत्र स्थितो यः कूर्मः कमठस्तस्य कच्छपस्योभययार्श्े बहुकालं निरन्तरं तरङ्गकृतताडनेन विह्वलत्वे ग्रीचापवेशो ग्रीवा कण्ठ-
नेकजन्मनामनन्तजन्ममरणोपलक्षितसुखदुःखानां स्पर्शेन खि- न्नस्तदन्त:करणवाह्यकरणानि स्वस्तविपयेभ्यो व्यावर्त्य वि- वेक्यात्मानात्मविवेकवाआयते भवति ॥१७॥ निष्कामत्वेन कृतानामुपास्तिसहितानां कर्मणामपिं मो-
Page 242
२२४ बोधसारे।
सोपास्तीनां कर्मणां तु चित्तशुद्धि: फलं मतम्। वेदनेच्छा वेदनं वा चित्रा सत्कर्मणां गतिः ॥ १८॥ सोपास्तीनामिति। सोपास्तीनामुपासनासहितानां कर्मणं स्त्रस्ववर्णाश्रमोचितक्रियागां तु अन्यफलेपु सत्स्वपि तद्विल- क्षणं चित्तशुद्धिश्चित्तस्यान्तःकरणस्य शुद्धी रागादिमलविसर्ज- नमेव फलं मुख्यप्रयोजनं मतमिष्टं ज्ञेयम्, अन्तःकरणस्यातीव म- लविसर्जने सति तेपामेव कर्मणां वेदनेच्छा वेदनं ज्ञानं तस्ये- च्छा स्पृहा जिज्ञासेत्यर्थः, तदेव फलं भवति, ततोप्यतिशयान्तः- करणायुद्धौ सत्यान्तेषामेव कर्मणां वेदनं वा ज्ञानमेव फलं भ- वति, ननु वन्धहेतूनां कर्मणां मुक्तिकारणं ज्ञानं कथ फलं स्या- दित्याशक्काह चित्रेति, सत्कर्मणां काम्यानां निष्कामानां वा सत्कर्मणां विध्युक्तकर्मणां गतिः फलं चित्राऽडश्वर्यरूपास्ति कर्कव्य।दिपु काम्यतपसोपि मुक्तिहेतुज्ञानलाभः श्रूयते वासिष्ठे, दाशूरेपि मौठ्यग्रस्तत्व्रेपि वह्नचाराधनेन तद्दत्तकदम्ववृक्षस्थित्या तत्रैव कर्म कृत्वान्तःकरगाशुद्ध्या ज्ञानं जातमित्यादि च, तस्मा- दुपास्तयः कर्माण्यपि मुमुक्षाकारणानि भवन्तीत्यर्थः ॥१८॥ साम्प्रदायिकैर्वेदान्तेपु कर्मणोङ्गीकृतत्वादपि कर्मणो मुमु- क्षाहेतुत्वं ज्ञेयमित्याशयेनाह। वेदान्तैरपि जिज्ञासोस्तस्मात्कर्मोररी कृतम्। श्रद्धा चित्तस्य शान्तिश्व दान्तिश्चोपरमस्तथा। मुमुक्षा साधनानां हि संपत्प्रथमभूमिका ॥ १९॥ वेदान्तैरपीति। यतो ज्ञानसाधनं कर्म तस्मात्कारण।दवेदा- न्तैरपि उपनिषदादिभिर्ज्ञीनप्रधानफलप्रतिपादकैरपि ग्रन्थैजि-
Page 243
राज· भूमिकाभेद उ्ज्ञानप्रथमभूमिकानिर्णयः । २२१
स्ववर्णाश्रमोचितनित्यनैमित्तिकं प्रायश्चितारयमुररीकृतमङ्गी- कृतमतोपि ज्ञानेच्छाहेतुत्वं कर्मणः सिद्धमिति भावः । एवं मुमुक्षाकारणानि प्रदर्श्येदानीं तदोराहणाय तत्साधन- भूतां सम्पदं प्रथममाह। श्रद्धेति। श्रद्धा गुरुवेदान्तवाक्येपु विश्वासस्तथा चित्तस्पान्त :- करणस्य शान्तिर्निर्वासनत्वं च पुनर्दान्तिर्वाहेन्द्रियाणां नि- ग्रहः पुनरुपरमः सर्वविपयेषु विरसता तथा यद्रन्मुमुक्षाभूमि- रुत्तरभूमीनां तथेयमपि मुमुक्षा साधनानां जिज्ञासाख्यभूमे: सा- धनानां कारखभूतानां सम्पत्माप्तिः प्रथमभूमिका जिज्ञासायाः पथमसाधनभूता तदारोहणार्थ वेदिका ज्ञेया, तुपदेनोक्तसर्वसा- धनभ्य एतस्या आवश्यकत्वं सूचितम् ।। १९ ।। ततोप्यन्तरङ्गमावश्यकं साधनमाह।
गुरूपसदनं पर्व कर्त्तव्यं हि मुमुक्षुणा। गुरुमेवाभिगच्छेच विज्ञानार्थमिति श्रुतिः ॥२०॥ गुरूपसदनमिति। पूर्व प्रथमं मुमुक्षुणा मोक्षेच्छुना गुरूपसदनं गुरोर्वदान्तवक्तुरुपसदनं सेवकतया समीपस्थानं कर्त्तव्यङ्कार्य व श्रुतौ पसिद्धमेतत। तामेत श्रुतिमर्थतः पठति गुरुमिति, वि- ज्ञानार्थ ज्ञानपाप्त्यर्थ गुरुमुक्तलक्षखं दैशिकमेवेति तं विना- ज्ञानं न स्यादिति सूचितम, अभिगछेच्छरणं भृयादिति एवं श्रुतिरस्तीति शेषः ॥ २० ॥ एवं मुमुक्षारोहणे हेतूंस्तत्साधनान्युक्केदानीं जिज्ञासाभूमि- का रूढलक्षण निरूपणेन जिज्ञासालक्षणानि वक्तुमाह। २९
Page 244
२२६ बोधसारे।
तल्लक्षणानि। तस्या जिज्ञासाया लक्षणानि चिह्नानि उच्यन्त इति शेपः। तान्येवाह नवभिंः । मोक्ष एव ममास्त्वीश मास्तु संसारदर्शनम् । इति यः सुदृढो भावो मुमुक्षालक्षणं हि तत । २१॥ मोक्ष इति। हे ईश हे अन्तर्यामिन्मम मे मोक्षेच्छोर्मोक्ष एव मुक्तिरेत्र केवलमस्तु भवतु संसारदर्शनं संसारस्य संसारका- रणस्याज्ञानस्य तत्कार्यस्य विक्षेपस्यापि दर्शनं प्रतीतिर्मास्तु मा भवतु इसेवं प्रकारेश सुदृढोऽनवच्छिन्नो यो यत्पकारको भावोन्तःकरणप्रीतिः सोस्तु भवतु इति यत्पार्थनं तन्मुमुक्षाल- क्षणं मुमुक्षाया जिज्ञासाभूमेरलेक्षणं चिह्नं ज्ेयम॥ २१ ॥ ळक्षणान्तरमाह। पुण्यक्षेत्रेषु या बुद्धि: पुण्यतीर्थेषु या रुचिः । मोक्षधर्मेषु या श्रद्धा मुमुक्षाल० ॥ २२॥ पुण्यक्षेत्रेष्तिति। पुण्यक्षेत्रेषु पुण्यानि पवित्रागि यानि क्षे- त्राणि कुरुक्षेत्रादीनि तेषु या बुदद्धिर्निश्चयविशिष्टान्तःकरण- पीतिः, किश्च पुण्यतीर्थेषु या रुचिः पुण्यानि पवित्राणि यानि तीर्थानि पुष्करादीनि तेपु या रुचि प्रीतिः, किश्न मोक्षधर्मेपु मोक्षस्य मुक्तर्ये साधनभूता धर्मा निष्कामधर्मा गुरुसेवना- दिविवेकान्ता वा तेपु श्रद्धा विश्वासो या प्रसिद्धा तद्धि तदपि मुमुक्षालक्षणं ज्ञेयम ॥ २२ ॥ अथान्यदप्याह। यतः कुतश्चिदानीय ज्ञानशास्त्राण्यवेक्षते।
Page 245
२२७
चिन्तयंस्तस्य तात्पर्य मुमुक्षा०॥२३॥ यत इति। यतः कुतश्चिदत्र कुत्रापि मिलितानि ततस्त- तोपि ज्ञानशास्त्राणि वेदान्तशास्त्रगनग्रन्थानानीय संगृह्या- वेक्षतेवलोकयति तस्य ग्रन्थस्य तात्पर्यमर्थ चिन्तयन्विचारय- न्सन्तिप्ठुति तदेतद्धि पसिद्ध मुमुक्षालक्षरां जिज्ञासाभूमिकाया- श्रिह्नं ज्ेयम् ॥ २३।। अन्यान्यप लक्षणान्याह। महतापि प्रयत्नेन कुर्यात्पण्डितसङ्गतिम् । संस्थापयित्वा मूर्धानं तेषां चरणपङ्कजे ॥ २४ ॥ महतेति। तेषां विदुपं चरयापङ्गजे चरणोऽङ्गिरेव पङ्कजं कमलं तस्मिन पङ्कजपदेन यथा भ्रमरः कमल आसक्तस्तथायं मुमुक्षुर्गुरुचरण आसक्तो भवेदिति सूचितमत्र मूर्धानं शिर: संस्थापयित्वा समर्प्य महतापि अखण्डेनैव प्रयन्नेन पौरुपेण विघ्नानविगयय परयत्रः कार्य इति विशेयः, पण्डितसङ्गर्ति पण्डि- तानां विवेकिनां सङ्गतिं सह वासं कुर्यात्कर्तव्यो मुमुक्षूणां सर्वदैव गुरुसेवा विहितेति भावः ॥ २४॥ किश्च । प्रश्नान्मनोगतान्पृच्छेत्स्वाज्ञानं च प्रकाशयेत। तेषामुतरवाक्यानां तात्पर्य हृदि भावयेत ॥२५॥ प्रश्नानिति। मनोगतान्मनसि स्थितान् प्रश्नान्मष्टव्यार्थान्- पृच्छेत्कुर्यादितर्थः, च पुनः स्वाज्ञानं स्वस्यात्मनोऽज्ञानं प्रका- शयेद्रिवे किनामग्रे प्रकटये त्ततस्तेर्षा विवेकिनामुत्तरवा- क्यानां प्रतिवाक्यानां तात्पर्यमर्थ हदि अन्तःकरये भावयेद्- १ आशयः ।
Page 246
२२८ बोधसारे।
विचारयेदिदमपि मुमुक्षालक्षणं झेयम् ॥ २५॥ अन्यच्च। नाधर्मो रोचते यस्य यस्य धर्मे सदा रुचि: । काम्यधर्मे न च श्रद्धा मुमुक्षालक्षणं हि तत्॥।२६।। नेति। यस्य पुरुषस्याऽधर्मोडविहिताचरणरूपो न रो- चते न प्रियो भवति, किश्च यस्य पुरुपस्य धर्मे श्रुतिस्मृत्युदि- ताचारलक्षणे सदा सर्वदा सम्पद्यापदि च रुचि: प्रीतिरस्ति, किश्च काम्पधर्म ऐहिकपारलौकिकविपयसाधनभूते श्रुतिस्मृत्यु- दिताचारे न च नैव श्रद्धा विश्वासोऽनेनैवाइ सुखीकृतार्थश्व स्यामिति मतिरित्यर्थः, तदेतद्धि पसिद्धं मुमुक्षा लक्षणं ज्ञेयम् ॥२६।। अन्यच्च। रागद्वेषमदक्रोधलोभमत्सरवृत्तिषु। स्वभावाद्ग्लानिमाप्नोति मुमुक्षालक्षणं हि तत् ॥२७॥ रागेति। रागद्वेपमदक्रोधलोभमत्सरवृत्तिषु रागः सत्रया- दिपु स्नेहो द्वेपोस्तेप्वेव प्रतिकूलेष्वप्रीतिर्मदो देहाद्यहन्तया स्वोत्कृष्टत्ववुद्धि: क्रोधो रोपो लोभस्तृष्णा मत्सरः परोत्कर्षा- सहनमेतासु वृत्तिपु स्वभावात्सहजतयैव न तु दोपदृष्ठ्या ग्लानिं वैरस्यमामोति याति तदेतद्धि प्रसिद्धं मुमुक्षाल- क्षणं ज्ञेयम् । २७ ।। एतद्वक्षणबोधने शृद्गारश्लोकं वक्तुमाह। तत्र श्लोकः । तत्रेति। तत्र मुमुक्षालक्षणनिरूपणे श्रोकोऽसतीति शेपः, जातित्वादेकवचनं श्रोकौ स्त इस्र्थः । तमेवाह।
Page 247
राज• भूमिकाभेद ० ज्ञान प्रथमभूमिका निर्णयः । २२९
प्रेक्षितुं न विजानाति प्रेक्षणे कुरुते मनः । लज्ां जहाति नैवेयं वयःसन्धिरयं किल ॥२८॥ प्रेक्षितुमिति। इयं सन्निकृष्टा पुरो दृश्यमाना काचिन्नायिका पति स्वेष्ट भर्तारं प्रेक्षितुं द्रष्ठुं न विजानाति न वेत्ति मनश्र सङ्क ल्पविकल्परपा वृत्ति: पेक्षगे अवलोकने कुरुते प्रेरयति मनोभिल- पितप तिदर्शने दृशोऽप्रवृत्तो हेतुमाह लज्जामिति, लज्जां त्रपां नैव जहाति नैव त्यजति तदेतल्लक्षणेन लक्षितोऽयं पुरो दृश्यमानना- यिकायामारूढो वयःसन्धिर्वाल्ययौवनाख्यवयसोः सन्धिर्मध्यं कि लेति निश्चयेन ज्ञातव्य:, इदमेव लक्षणं मुमुक्षारूढवुद्धौ योज्यं, तथाहि प्रेक्षितुं वेदान्तशास्त्रं तत्प्रतिपाद्यमर्थ जीवत्रह्ैक्परूपं द्रष्डुं न विजानाति न वेत्ति मूढत्वाल्लज्ालुत्वाल्ोकहास्यादिशङ्कया वा न प्रवर्त्तत इसर्थः, मनः सङ्कल्पविकल्परूपामन्तःकरणदृत्ति प्रेक्षणे वेदान्तावलोकने तद्रक्तृगुरुदर्शनपि कुरुते प्रेरयति, तर्हि कुतो न प्वर्त्तते तत्रेत्यत आह लज्जामिति, इयं मुमुक्षुमतिः प्र- कृता लज्जां त्रपां नैव जहाति नैव त्यजति तदेनल्लक्षणवानयं दृश्यमानो वयःसन्धिरज्ञानज्ञानलक्षितकालगो: सन्धिर्मध्यं किलेति निश्चयेन व्ञेयः ॥ २८ ॥ तहि स सन्धावेव स्थिरो भवतूत्तरत्र प्रव्ृत्तः स्यान्नवेति सन्दिहानं प्रत्याह। चलिता स्वामिगेहाय वधूः खिद्यति रोदिति। इदमत्र समाधानं पदमग्रे दधाति यत् ॥ २९ ॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे प्रथम- भूमिकानिर्णयः ॥ २ ॥ चलितेति। वयःसन्धिमती स्त्री 'वधूर्जाया स्तुपा स्त्री
Page 248
२३० बोधसारे।
चे'नि कोशः, स्वामिगेहाय स्वामिनः पतेर्गेहं गृहं तद्गन्तुं चलि- ता पितृगृहाद्वहिर्निःृता सती खिद्यति खिन्ना भनति रोदिति अश्रुपातं करोति यदा तदेत्यध्याहार्य तदाग्रे चलति वा नेति सन्देहेऽत्रास्मिन्संशये यत्पदमङ्गिमग्रे पुरतो दधाति धत्ते तदिदं प्रत्यक्षं समाधानं प्रत्युत्तरं सन्देहनिवर्त्तकत्वाज्ज्ञेयं, तथा वधूर्वधयति बन्धयति आत्मानं सा वघूर्बुद्धि: स्वामिगेहाय स्वामिनो जीवस्य गेहं निवासस्थानं निर्विकारमात्मरूप गन्तुं चलिता पितृगृहात्पालकत्वात्पिता मोहस्तस्य गेहं कार्यरूप देहत्रयं तत्कारणं महामोहश्च तस्माच्चलिता चलायमाना सती खिद्यतति पूर्वस्नेहसंस्कारात्खिन्ना भवति रादिति विरक्ततया रजःप्रधानां रागरूपां वृत्ति च स्वस्यास्त्यजति अत्रात्तरत्र ज्ञानभूमिकासु आरोहति वा नवेति सन्देहे पदं यत्पद्यतेनेनेति पदं स्थानं स्थितिमित्यर्थः, अग्रे तूतरभूमिकासु क्रमेण दधाति धरतत तदिदं प्रत्यक्षं समाधानं प्रत्युत्तरं सन्देहनिवर्त्तकं ज्ञेयम्॥।२९।। इति श्रीनरहरिशिष्यदिवाकरविरंचितायां बोधसारार्थदीपौ भूमिभेदभास्करार्थप्रकाशान्तर्गतज्ञानभूमिकार्थप्रकाशे प्रथमभूमिकार्थप्रकाशो द्वितीयः ॥२॥
एवं सविस्तरां सलक्षणां प्रथमभूमिकां निरूप्येदानीं चतु- स्ितिरिंशच्छोकैर्द्विनीयां निरूपयितुमाह। अथ द्वितीया।
अथेति। अथ जिज्ञासानिरूपणानन्तरं द्वितीया विचा- राख्या भूमिका निरूप्यत इति शेष, तत्र तावदूद्वितीयभूमिकाल- क्षणान्याह पश्चभिः ।
Page 249
२३१
प्रकृतेर्लक्षणं त्वेतदिदं विकृतिलक्षणम् । स्वरूपं पुरुषस्येदं तद्विचारस्य लक्षणम् ॥ १ ॥ प्रकृतर्गुणस।म्यावस्थारूपायाः कारणभूतायाः प्रकृत्या- रूयाया लक्षण लक्षकं चिन्हमेतदिदांमति विकृतिलक्षणात्पुरुप- लक्षणाच्च विविच्यैतदिति प्रत्यक्षतयानुभवति, तथा विकृतिल- क्षणं विकृतेः कार्यनर्गस्य लक्षणं चिह्नमपीदमेतदिति प्रकृनि- लक्षणात्पुरुपलक्षणाच्न विविच्यैतदिति प्रसक्षनयानुभवनं, तथा पुरुपस्यासङ्गोदासीनस्यात्मनः स्वरूप स्वरेनात्मना रूप्यते पकाशासङ्गरूपं चिन्हमिदमेतिति प्रकृतिलक्षणाद्रिकृतिलक्षणाच् विविच्य साक्षात्करणं तदुक्तं विचारस्य लक्षणं चिन्हं ज्ञेयम् ॥१॥ अन्यदप्याह।
इदं सत्यमिदं मिथ्या त्विदं चेत्यमियं हि चित्। इदं ब्रह्म त्वियं माया तद्विचारस्य लक्षणम् ॥२॥
इदमिति। सत्यं कालत्रयावाधमात्मस्वरूपमिदमिति सदसती निविच्य सतो विलक्षणत्वेन साक्षात्करणं, तथा मिथ्या प्र- कृनिविकृतिजातं सतो विविच्येदमेतदिंत साक्षादमच्वेनानु- भवनं, तथा चेत्यं चेतनाविपयजातं प्रकृतिविकतिरूपमिदमितति चतनतो विविच्येदमिति साक्षात्करणं, चिौ्ध्धि चेतनाि अ-
त्वेनानुसन्धानं, तथा ब्रह्म देशकालवस्तुभिरपरिच्छिन्नं सचचि- दानन्दलक्षणामदमेतदिति साक्षात्करगां, तथेयं माया माया तु अघटितघटनाममर्था शक्तिरपीयमेपेति ब्रह्मतो विविच्य सा- क्षादनुभवनं, तदेतद्विचारस्य लक्षणं ज्ञयमिति पूर्वतत् ॥२॥
Page 250
२३२ बोधसारे।
किश्च। कस्मिन्निदं कुतश्वेदं किमिदं केन वा कृतम्। कथमेतद्विलीयते तद्विचारस्य लक्षणम् ॥ ३ ॥ कस्मिन्निति। इदं दृश्यं कार्यकारणजात कस्मिन्नाधारेडस्ति सति वाऽसति, नाद्ः सदसतोराधाराघेयत्वायोगाद्, न हि खद्टक्षस्य व्यावहारिकसत्खमाधारं दृष्ट श्रुतं वोपलभ्यते, नचा- सति असतो निरात्मकस्य व्यावहरिकसदाधारत्वायोगादतो जगदिदं निराधारकत्वेन दृश्यमानमपि मिथ्यैवेति निश्चयः, तथेदं दृश्यं कुतः कारणादुत्पन्नं किं सत उतासतः, न ताव- दाद्योऽसंतो दृश्यस्य सत्कार्यत्वासम्भवाद्, नापि द्वितीयो- डसतः शून्यात्मकस्य व्यावहारिकसत्वेन प्रतीयमानस्य दृश्यस्य कारणत्वायोगाव, किश्च जगतोऽसत्कार्यत्वे त्वसदसदिति प्र- तीतिः स्यादू, न हि जगदसदसदिति प्रतीयतेऽतो जगतोऽसत्का- यत्वं नेति निश्वयः, तथा किमिदमिद दृश्यं किं सदुतासद्, न सदुत्पत्तिलयवत्वात, सतो हि उत्पतिलयवत्वासम्भवाच्च, पतः श्रुतिरप्यसत्वं वदति 'अतोन्यदार्त्तमि'ति, अतश्वापवदति श्रुतिः, 'नेह नानास्ति किश्चने'ति, अतो न सन्नाप्यसदसतः
दृशयन्ते सत्सदितिपतीतिविपयं चेदमतो नासत, सदस्त्वपक्ष स्य विरुद्धत्वान्नोभयत्वमिति निश्चयः, तथा केन वा कर्त्रा कृतमिद दृश्यजातमुत्पादितं, तथाहि-इदं सत्कर्तृकमुतासत्कर्तृकं, न तावत्सत्कर्तकममतः कार्यस्य सत्कर्तृकत्वायोगाद् न हि श- शशृङ्गधनुपः सद्धनुष्कारकर्तकत्वं दृष्टं नाप्यसत्कर्तकं व्यावहा- रिकसत्पतीतिविषयस्य जगतोऽसत्कर्तृकत्वेऽसदसदिति प्रती- विविषयत्वसम्भवाद् न च दृश्यमसदसदिति प्रतीयतेऽतो ना-
Page 251
२३३
सत्कर्तृकत्वं जगत इति निश्चयः, तदिदं जगत्कथं केनो- पायेन विलीयते विनश्येत कर्मणोत योगेनऽथवा ज्ञानेन, न तावत्कर्मणा मिध्याभुतस्य जगतः कर्मनाश्यत्वायोगान्न हि रज्जुसर्पो दण्डादिताडनरूपकर्मणा विनाशिनो दृष्टोऽतो न कर्मनाशयं जगद्, न तावद्योगेन योगस्यापि कर्मसहायत्वेन द्वैत- विनाशकत्वासम्भवात् कचिद्योगेन विनष्टत्वेन प्रतीतावपि बीज- सत्वाच्च तस्मात्परिशेषाज्ज्ञानेनैव नश्येतेति निश्चयः, अथवेदं दृश्यं सदाघारकं रज्जुसपदिरज्जाधारत्ववत, तथेदं दृश्यं स दुत्पन्न रज्जूत्पन्नरजुसर्पवत, तथेदं सदुसतदित्येवं विचार्यमाण उत्पत्यादिमच्तेनासदेवेति निश्चयः, तथाऽसत्कर्तृकत्वेऽतन्ता
तेति विचारयमाणे ज्ञानेनैवेति निश्चयस्तदेतदिति व्याख्यातम् ॥३॥ किश्च क ईश्वरश्ष को जीवः का मुक्ति: किन्तु बन्धनम्। किं द्वैतं कथमद्वैतं तद्विचारस्य लक्षणम् ॥ ४ ॥
क इति। ईशनादिशक्तिमानीश्वरः क इति सन्दिह्य- विचार्य चेशनादिशक्तिमान्सर्वज्ञः सर्वकरणान्तर्यामी विद्यो- पाधिको निमित्तकारणमित्यादिलक्षणैर्लक्षितः पुरुपविशेष इति निश्चयः, जीवश्च क इति संदिह्याविद्योपाधिक: किश्चिज्ज्ञादिल- क्षणवान्कूटस्थसाक्षिचिदात्मसहितो बुद्धिस्थश्चिदाभासो जीव इति निश्चयः, तस्य च का मुक्तिर्मोक्ष: कः किंस्वरूपमिति सन्दिह्य कूटस्थरूपेया ब्रह्माभिन्नं यथा भवात तथा स्थितिरेव मुक्तिरिति निश्चयः, तथा बन्धनं तु बन्धनमपि किं किरूपमेवं सन्दिद्ोक्तात्मरूपविपर्ययेयवस्थानं बन्धनमिति निश्चयः, तथा
Page 252
२३४ बोधसारे।
कि द्वैतं द्वैतं किरूपमिति सन्दिह्य पृथक्सत्वाभावादसद्रूपमिति निश्चयः, तथाउ्द्वैतं द्वैतरहितमात्मस्वरूपं क्थ केन प्रकारेणा- स्तीति सन्दिह्य सर्नदा द्वैतानुत्पत्तिमत्वादसङ्गत्त्वाच्चात्मरूप द्वै- तास्पृष्टमिति निश्चयः, तदेतद्विचारस्य लक्षयं ज्ञेयम् ॥४॥ नित्यानित्यविवेकेन नित्यवस्तुनि वस्तुता। अनित्ये तुच्छताबुद्धिस्तद्विचारस्य लक्षणम् ॥५॥ नित्येति। नित्यानियविकेन नित्यमात्मस्वरूपमनित्य- मनात्मस्वरूपं प्रकृतितिकृत्यादि तयोर्विवेको विवेचनं तेन निसवस्तुनि नित्यं त्रिकालावाव्यं यद्वस्तु आत्मस्वरूपं तस्िन् वस्तुता ससत्वप्रतीतिः, ततोऽनित्येऽनात्मनि मायायां तत्कार्ये जगति च तुच्छताबुद्धिस्तुच्छत्वमुदासीनविपयत्वं तस्य बुद्धिर्नि- श्वयः, तदेतद्विचारस्य लक्षयां ज्ञेयं पूर्वमेव व्याख्यातम् ॥५॥ मौढविचारलक्षयामाह। एवमभ्यासयोगेन विदुषां मनसा सह। जायते व्रह्मवादो यः सा तु प्रौढविचारणा ॥ ६॥ एवमिति। विदुपां विवेकिनामेवमुक्तरीत्याऽ्भ्यास- योगेनाभ्यासः पुनः पुनरावर्त्तनं तस्य योगः सम्बन्धस्तेन कृच्ना मनसा सहान्तःकरणेन समं यो ब्रह्मवादो देशकाल- वस्तुकतपरिच्छेदशून्यं ब्रह्म तस्मिन्वाद: पशयंत्याख्यवाचा स- म्भापणं जायते भवति सा तु सा च मौढविचारण मौढा हढा विचारणा विचारो ज्ञैया॥ ६॥ तामेव शिष्यबुद्धिरोहायोदाहगति स्वयममित्यादिभि: के- वलं ब्रह्म निष्ठतीत्यन्तैरष्टाविंशातभिः श्रोकैः।
Page 253
राज•्भूमिकाभेद उव्ञानव्वितीयभूमिकानिणयः । २३१
स्वयं प्रकाशरूपोऽयं पृष्टः कोसीति संवदेत्। अहमज्ञो न जानामि मामहं कोहमित्युत ॥७॥ स्वयमिति। अयं जीवः स्वयं प्रकाशरूपो वस्तुतः स्व्रतो उन्यप्रकाशनिरपेक्षतया प्रकाशरूपः प्रकाश एव रूपं मूर्ततिर्यस्य स तथोक्तोपि केन चिज्ज्ञानिना प्सङ्गेन त्वं कोसीति त्वं किं- रूपोसीयेवं पृष्ट आक्षिप्तः सन्मामात्मानमहं जीवोऽहम- हमित्येवं सर्वदा व्याप्रियमाणः कः किरूपः कि देहरूप उते- न्द्रियरूपः किं वा प्राणरूपोऽयवा मनोरूपो किंवा बुद्धिरूपः किं वाहङ्काररूपः किं वाज्ञानरूपः, एवं निश्चयेन नजानामीत्यत हेतोरहमज्ञोऽज्ञानमेवेति सम्वदेत्पतिवचनन्दद्यात्।।७। तत्र प्रतिबचने विचारो यथा कर्तव्यस्तथाह। आत्मभानादटते नाहमज्ञ इत्युक्तिसम्भवः । आत्मानमेव नो वेत्ति तर्ह्ययं जड एव हि ॥ ८ ॥ आत्मभानादिति। देहादिनिरासक्रमेण बुद्धिपर्यन्ते सर्व-
रारोपाधिष्ठानमात्मा तस्य भानात्मकाशनादृत आत्मभानं व- र्जयित्वाऽहमज्ञ आत्मन्यारोपितस्याज्ञानविशिष्टस्याहमः स्फृ- र्तिर्न स्यात्तां विना च तद्विपयकाज्ञोहमिन्युक्तिर्भाषणं तस्या: सम्भवः सम्भावना न भवतीसर्थ:, 'यन्मनसा ध्यायति तद्ाचा वदती'ति श्रुत्या वचनविषयज्ञानं बिना वाचकशब्दानुच्चारस्य प्रतिपादितत्वादिति भावः, ननु केवलात्मज्ञानाभावेप अज्ञा- नभानेन तद्विशिष्टाहंपदवाच्यात्मज्ञानेन वाज्ञोहमित्येवं प्रतीति- सम्भवात्तया चाज्ञोहमित्युक्ति: मम्भवेदित्याशक्कात्माभानेडङ्गी- कृतेपि तेनात्मनो जडत्वेन घटादिवदज्ञाहंभावस्यापि प्रकाश-
Page 254
२३६ बोधसारे।
कत्वासम्भवात्प्रकाशाभाव इत्ाशयेनाहात्मानमिति, आत्मान- मेवाज्ञानमहङ्कारश्न त्यक्क्का केवलमात्मानं नो वेत्ति न जानाती- ति चेत्तर्हि तस्मिन्पक्षे हि अपि अयमात्मा जड एवाभानरूप एव केवलं भवेद्धि प्रसिद्धमेवेदं स्वतोऽभानरूपेषु घटादिषु॥८॥ इष्टापत्तिर्जगदभानेनेत्याशड्ा जगदान्ध्यपसङ्गेन दूपयति। जडत्वाच्च घटादीनि कथमेव प्रकाशयेत्। तस्मादयं स्वमात्मानं जानात्येवेति निर्णयः ॥९॥ जडत्वादिति। एवं चात्मन एवाभानेऽड्रीकृते सति जड- त्वादभानरूपत्वादात्मा घटादीननि घटो जडत्वेन प्रत्यक्ष: कुम्भ आदिः प्रथमो येपां पटादिवस्तूनां तानि वस्तूनि कथं केन प- कारेण प्रकाशयेत्प्रकाशितानि कुर्यान्न कथमपीत्यर्थः, जडस्य घटादेः पटादिपकाशकत्वाभाववतत्त्वस्य प्रात्यक्ष्यात्तद्वदात्मनोप्य- भानरूपत्वेन जडत्वे जगदान्ध्यप्रसङ्ग इति भावः, अतो भानमेव सर्वदात्मनोङ्गीकार्यमिति सिद्धान्तयति तम्मादिति, तस्मात्कार- णादयं जीवः स्वंस्वीयमात्मानं स्नरूपं जानासेव वेत्येवेसेवं निश्चयो निर्णयोऽस्तीत्येवं सिद्धान्त: ॥ ९॥ ननु सर्वदाऽडत्मभाने सिद्धेऽहमज्ञ इत्युक्तिवाच्यस्याहमज इति स्कुरणस्य कागतिरित्याशङ्काह। अथात्मानमसौ वेत्ति परन्तु न हि वेत्ति यत्। विशेषं स्वगत तस्मात्स्वरूपज्ञानवानयम् ॥१०।। अथेति। अथातः कारणादऽसावात्माSत्मानं स्वस्व- रूपं वेत्ति जानाति परन्तु तथापि न वेत्ति न जानातीति हि- प्रसिद्धं यत्तत्स्वगतं स्वस्मिन्नेव स्थितं विशेषं स्वयं प्रकाशचिद्रू- पापेक्षया परप्रकाश्याचिद्रपत्वाद्विशेपरूपमज्ञानमस्ति तस्मात्तेन
Page 255
राज०भूमिकाभेद·ज्ञानद्वितीयभूमिका निर्णयः। २३७
कारणेनायमात्मा स्वरूपाज्ञानवान्स्वस्यात्मनो रूपमसङ्गा- द्वितीयस्वप्रकाशचिन्मात्रं तस्याज्ञानं तद्वान्भवति स्वस्मित्रज्ञा- नमारोप्याज्ञानवानिव प्रतीयत इति भाव ॥ १० ।। अत्र ब्रूमो विशेषोत्र नास्त्यवाच्ये तु चिढ्ने। निर्विशेषस्वरूपेऽत विशेषं यदि वेत्ति सः ॥११॥ अत्रेति। अत्रात्मन्यज्ञानस्फृर्तौ त्रमः कथयामोऽत्रात्मनि चिद्धने सघनचिन्मात्रस्वरूपेऽवाच्ये वाचामविपये 'यतो वाचो निवर्त्तन्ते, यद्वाचा नभ्युदितमि'सादिश्रुतिभ्यः, कल्पयितुरभा- वात्कल्पितस्यावास्तवत्वाच्च विशेषः कल्पिताज्ञानस्तरूपो ना- स्ति न विद्यते तुपदेनासन्तासत्वं सृचितमज्ञानस्य, नन्वज्ञानस्य कल्पितत्वं कथ निश्चेयं तत्राह निर्विशेपेति, निर्विशेषस्वरूपे निः- शेपं गनो व्यावृत्तो विशेषोऽज्ञानस्वरूपो यस्मात्स तथोक्त: स एव स्वमसाधारणं रूपमाकृतिर्यस्य तस्मिन्नत्रात्मनि स आत्मा विशेषमज्ञानस्वरूपं याि याह वेत्ति जानाति तर्हि॥११॥ वेद्यत्वात्कल्पितः स्वस्मिस्तेन किं तद्विचारणैः। निर्विशेषतया ज्ञातो निर्विशेषस्वरूपवान् ॥ १२ ॥ वैद्यत्वादिति । स विशेषः स्वस्मिन्नात्मननि अतस्मि- सतद्दुद्धिरिति तल्लक्षणसत्वात्कल्पित आरोपितस्तत्र हेतुर्वे- द्यत्वाद्वेदनविपयत्वात्तथा चार्य प्रयोग:, अयं विशेष आरो- पित आधारात्पृथगसच्वे सति वेदनवपयत्वान्मानोरथिकपुर- वद्, अयमात्माऽनारोपितो विद्यमानत्वे सति अवेद्यत्वान्मनोर- थकर्तृवत्, तेनाज्ञानस्य कल्पितत्वेन तद्विचारणैस्तस्य मिथ्या- भूतस्य विशेषस्य विचारणैः किमस्य कारणं कि चास्य स्वरूपं किं चास्य कार्यमिसादिविचारैः किं कि फलं न किमपीत्यर्थः,
Page 256
२३८ योधसारे।
तत्र वाधर्दाष्टिरेत कर्त्तव्या न विचारः कर्त्तव्य इति भावः, ननु निविशेषात्मज्ञानमेव विचारस्य फलमस्तु तत्राह निर्विशेषतयेति, यदि यर्हि निर्विशेषस्वरूपव।न्निर्गतो वि- शेषोऽज्ञानरूपो यस्मात्तत्स्वरूपं यस्यासाधारणं रूपं तदेवा- स्यास्तीति तद्रानसदैव निवृत्ताविद्य इत्यर्थः, आत्मा निर्विशेषतया निवृत्ताज्ञानरूपत्वेन ज्ञात उक्तविचारेण साक्षात्कृतश्ेव ।१२।। पूर्णबोधस्तर्हि जातो जिज्ञासैव निरर्थिका। किञ्जातीय: किंगुणोऽसौ किश्चेष्टो नाम तस्य किम्॥१३॥ तर्हि तदानीमेव पूर्णबोधः परिपूर्ण ज्ञान जात उत्पन्नस्ततश्च जिज्ञासा निर्विशेपात्मज्ञानेच्छा यया विशेषविचारोपेक्ष्यते सैव निरर्थिका निष्फलैवातो विशेपविचारो निसर्थक एवेति भावः। ननु निर्विशेषात्मज्ञानमात्मनोस्ति नवेति शङ्कायां तथा- दृशमात्मभानं स्पष्टीकर्तु तज्जात्यादिप्रश्नमुत्थापयति। कि जातीय इति, असावात्मा किजातीयः का जातिर्य- स्यात्मनः स तथोक्त आत्मनः का जातिरित्यर्थः, तथाऽसा- वात्मा किंगुगा: के गुणा यस्य स तथोक्त आत्मनो गुगाश्च क इति द्वितीयः प्रश्नः, तथाऽसावात्मा किंचेष्टः काश्चेष्टा यस्य स तथोक्त आत्मनश्चेष्टाश्च का इति तृतीयः प्रश्नः, तथा तस्या- त्मनो नामाभिधानं किमिति चतुर्थ: पश्नः, । किं प्रकार: किमाकारः किंविचारश्र पृच्छसि। न जातिर्निर्गुणस्यास्य निश्रेष्टो नाम तस्य न ॥१४।। तथा किंपरकारोऽसावात्मा किंप्रकार: कः प्रकार प्रकृतिः स्वभावो यम्य स तथोक्त आत्मनः का प्रकृतिरिति पश्चमः, तथा किमाकारः क आकार आकृतियस्य स तथोक्त आत्मन आका-
Page 257
२३९
रश्च क इति पषठः प्श्नः, तथा किंविकारश्च को विकारो विक्र- तिर्यस्य स तथोक्त आत्मनः कार्यमि किमिति सप्तमः प्रश्नः, एवं यदि त्वं पृच्छसि पश्नान्करोपि यदि तर्हि त्वं शृण्विति शेपः । अस्य निर्गुणस्य निर्गता निवृत्ता गुणा यस्मात्स तथोक्त- स्तस्यात एवास्यात्मनो जातिर्नित्यमेकमनेकवृटत्तिसामान्यमित्येवं- लक्षणलक्षिता जातिरन न विद्यने गुणवद्स्तुनिष्ठत्वाज्जातेरात्मनि गुगस्य जातेश्चाभाव इत्याशयः, तथा गुणजातिरहितत्वा- देव निश्चेष्टो निर्गता निदत्ता चेष्टा व्यापारो यस्मात्स तथो- क्तोऽत एव तस्यात्मंनो नामाभिधानं न नास्ति नाम्नः क्रियाव- द्वस्तुनिष्ठत्वादात्मनि क्रियाभावेन नाम्नोष्यभाव इति भावः।। १४।। निष्प्रकारो निराकारो निर्विकारः स निश्चितः । सच्चिदानन्दरूपेण जिज्ञास्य इति चेद्वदेत् ॥१५॥
निष्प्रकार इति। गुगजातिक्रियानामरहितत्वादेवात्मा स निष्पकारो निर्गतः प्रकार: प्रक्रिया यस्मात्स तथोक्तो- डस्ति अत एव निराकार आकृतिहीनोऽत एव निर्विकारो विकाररहितः स आत्मा निश्चित निर्णीत उपनिपत्धिवसर्थः, अनो जात्याद्यभावादात्मनस्तंद्रशिष्ठ्याभावव्त्वं तेन च तद्वि- शिष्टात्मज्ञानाभावेपि केवलात्मज्ञानस्य विद्यमानतेन जिज्ञा- साया नैसर्थक्यं सिद्धमिति भावः, ननु सामान्येनात्मनि ज्ञातेपि सचचिदानन्दलक्षणैर्ज्ञातत्वाभावाज्जिज्ञासायाः सार्थक्यमस्तु इति प्रश्नमुत्यापयति सदिति, आत्मा सचचिदानन्दरूपेण सत्कालत्रयाS- वाध्यं चिज्ज्ञानरूपमानन्दः सुखमेतत्तयमाभिन्नं स्वरूपं यस्य तेन लक्षणेन जिज्ञास्यो ज्ञानेच्छाविषय: कर्त्तव्यः, एवं च जिज्ञासाया: सार्थकतेति चेद्रदेद्बूयाचेत्तर्हि॥१५॥
Page 258
२४० बोधसारे।
सच्चिदानन्दरूपेण ज्ञात एवायमेव हि। अस्य विवरणम् । अयमात्मा स्वमात्मानं सद्रपेण न वेत्ति किम् ॥१ ६॥ सच्चिदानन्दरूपेणेति। अयमात्मा सचचिदानन्दरूपेण स- द्विद्यमानत्वं चिज्ज्ञानमानन्दः सुखमेतद्रूपमाकारो यस्य स त- थोक्तप्तेन रूपेण ज्ञात एवानुभूत एव हीति निश्चयः। आत्मनः सच्चिदानन्दरूपत्वेनज्ञानसत्वमेव स्पष्टीकर्त्तु प्रतिजानीते। अस्येति, अस्य प्रतिज्ञातार्थस्य विवरणं विस्तरः क्रियत इति शेपः, तदेव निरूपयति अयमिति, हे शिष्य अय प्रत्यगात्मा ह्वीयमात्मानं स्व्ररूपं सद्रपेण विद्यमानरूपत्वेन न वेत्ति किं न जानाति किमिति प्रश्नः सिद्धान्तिनः ॥ १६ ॥ नेति चेत्तत्र पृच्छति सिद्धान्ती। अहमस्मीति जानाति नाहमस्मीति तद्दद। अहमस्नीति जानाति पश्चाद्विज्ञेय आत्मनः ॥१७॥ धर्मे चार्थे च कामे च मोक्षे च यतते स्वयम्। तस्मात्सद्रूपतायां तु नास्त्येवाज्ञानमात्मनः ॥१८।
अहमिति। हे शिष्य अहं सामान्याहन्त्वावच्छिन्नः प्रत्य- गात्माडस्मि विद्यमान इत्येवं जानाति वेत्ति वा नाहमस्मीति अहमविद्यमान एवेत्येवं जानाति तत्त्व पृष्टं वद ब्रूहि एतत्पृष्ठं विचार्य निश्चित्य ब्रूहीसर्थ:, विचार्यमाये च किं निश्चीयते तदाह धर्म इति, पूर्व प्रथममहमात्माडस्मि विद्यमान इत्येवं वेत्ति जानाति पश्चादनन्तरमात्मनः स्वस्य विज्ञेय इदन्तया स्फूर्ति-
Page 259
राज• भूमिकाभेद वव्ञानद्वितीयभूमिकानिर्णयः । २४१ दिपये धर्मे श्रुतिस्मृत्युदिते स्व्रवर्णाश्रमोचिते परलोकसाधन- भूते कर्मणि च पुनरर्ये द्रव्यादिसाधनभूते नीसादौ च पुनः काम इन्द्रियभोगजन्यमुखसाधने विवाहादिकर्मणि च पुनर्मोक्षे मुक्तिसाधनभूते गुरुसेवाश्रवण्ादिकर्मणि आत्मा स्वयं यतते यत्रं करोति आत्मनः सत्वज्ञानाभाव आत्मनः कस्मित्रप कर्मणि पटचिर्न स्यादिति भावः, उक्तमर्थमुपसंहरति तस्मादिति, तस्मा- त्कारणादात्मनः स्वस्य सङ्ूपतायां सत्कालत्रयावाध्यं रूप दव- भावो यस्य तस्य भावस्तता तस्यां विषये स्वस्यात्मनोऽज्ञान- मस्फुरणं न विद्यते तु नास्येवेति निश्चयः ॥१७॥१८॥ एवमात्मनः स्वसद्पताविषयं ज्ञानं प्रसाध्येदानीं चिदूप- वाविषयं ज्ञानं साध्यते। चेतनोऽहं विजानामि घटादीनीति यो वदेत्। स्वस्य चिद्रूपतायां तु तस्याज्ञानं न विद्यते॥१ ९॥ चेतन इति। य आत्मा घटादीनि घटः कुम्भ आदि- रवेपां पटादिवस्तूनां तानि अहमहन्तावच्छिन्नः कूटस्थ आत्मा विजानामि सामान्यतया कूटस्थरूपेण विशेपतया तत्सहितचि- दाभासरूपेण वैदीति अतो हेतोश्चेतनोहं चैतन्यस्वरूपोऽहम- सीति वदेदेवं ब्रूयात्तस्यात्मनः स्वस्य स्वस्वरूपभूतायां रा- होशिर इति वदभेदे पष्ठी चिद्रूपतार्या चिन्मात्रस्वरूपत्वविषये- डज्ञानमभानं न तु विद्यते नैवास्ति स्वचिद्रपतास्फृत्ति विना- डहं जानामीति वागुचार एव न सम्भवति 'यन्मनसा ध्यायति तद्राचा वदती'तिश्रुत्या वाच्यज्ञानं विना वचनोच्चारासम्भवस्य प्रतिपादितत्वादिति भावः ॥ १९ ।। एनमात्मनः सच्चिद्रपत्वभानं प्रसाध्येदानीमानन्दरूपत्व- भानं मसाध्य दर्शयति। ३१
Page 260
२४२ बोधसारे।
सर्व प्रियं स्व्कामाय तस्मात्प्रियतमः स्वयम् । तेनात्मनस्तु सा युक्ता र्पष्टैवानन्दरूपता ॥२०॥ सर्वमिति। सर्व स्त्रीपुत्रादिविषयजातं स्वकामाय स्वस्या- त्मनो भोक्तृभावेन कल्पितस्य कामाय काम्यत इति कामो भोगस्तस्मै तदर्थ प्रियमिष्टं भवति सर्वविपयजातं भोक्तृशेषं न तु भोग्यशेषो भोक्तेति भावः, तथा च श्रुतिः 'नवा अरे सर्वस्य कामाय सर्वे पियं भवसात्मनस्तु कामाय सर्व पियं भवती'ति, तस्मादात्मार्थमेव सर्वस्य मियत्वात्स्वयमात्मा पियतमोऽतिश- यितः प्रियोऽस्तीति निश्चयः, तेन श्रुतियुत्त्यनुभवसिद्धेन मिय- तमत्वेनातिपरेमविषयत्वेन सुखस्यैवागोपालं लोके पियत्वप्रसिद्धे- रात्मनः स्वस्यानन्दरूपता सुखरूपता स्पष्टैव व्यक्तैवानुभूयते, अनन्दरूपत्वज्ञानमप्यात्मनोस्सेवेति भावः ॥ २०॥ उपसंहरति। तेनात्मनसु सा व्यक्ता सच्चिदानन्दरूपता । तस्मात्स्वयं प्रकार्शेडस्मिन्सच्चिदानन्दरूपिणि ॥२१॥ तेनेति। तेनात्मनः सचचिदानन्दरूपत्वज्ञानसच्वेना- त्मन आत्मसम्बन्धिनी सा तु सापि सच्चिदानन्दरूपता स- त्कालत्रयावाध्यं चिज्ज्ञानमानन्दः सुखमेतत्त्रयमभिन्नं रूपं यस्य से तथा तस्यात्मनो भावस्तत्ता व्यक्ता भाताऽतो जिज्ञासाया निरर्थकत्वं सिद्धमिति भाव:, तस्मात्कारणात्सचचिदानन्दस्वयं- पकाशात्मनि अज्ञानस्यामम्भवेनारोपितत्वं सिद्धमित्याह सद- ष्टान्तं द्राभ्यां तस्मादिति, तम्मात्सचिदानन्दरूपेय भासमान- त्वात्स्वयंप्रक।शेऽवेद्यत्वे सयपरोक्षत्वं स्वप्रकाशत्वमित्युक्तलक्ष- णस्त्रप्रकाशलक्षणवति सच्चिदानन्दरूपिणि सदवाध्यं चिज्ज्ञान-
Page 261
२४३
मानन्दः सुखमेतञ्रयमभिन्नं रूपं विद्यते यस्य तस्मिन्नस्मि- न्पकाशमान आत्मनि ॥२१ ॥ आकाशे नीलिमा यद्वत्तोयं मरुमरीचिषु। जले च नैल्यमन्येन चेतनेन प्रकल्पितम् । अज्ञानं चित्स्वरूपेण स्वयं स्वस्मिन्प्रकल्पितम्॥२२॥ आकाश इति। चित्स्वरूपेण चिज्ज्ञानमेव स्वममाधारणं रूपमाकृतिर्यस्य तेनात्मना स्व्रयमात्मनैवारोपककर्त्रा स्व्- स्मिन्नात्मन्येवाबारेऽज्ञानं ज्ञानविरुद्ध व्यावहारिकभावरूप- मानं प्रकल्पितमारोपितं तत्र दृष्टान्ता अन्येन भिन्नेना- रोपितादत्यन्तविविक्तेनेसर्थः, चेतनेन ज्ञानवता पुरुपेणाका- शेऽवकाशरूपे द्रव्ये वियत्संज्ञके नीलिमा नीलत्वं यद्रद्यथा तथान्येन चेतन पुरुषेण मरुमरीचिपु मरुर्धन्वा नाम देशविशेष- स्तस्मिन्ये मरीचयः मूर्यकिरणास्तेषु तोयं जलमारोपितं यद्व- प्थान्येन चेतनपुरुषेगा जले स्वतः शुक्करूपे तोये नैल्यं नी- लत्वं प्रकल्पितमारोपितं यद्वत्तद्वदिति योज्यम ॥२२।। तस्य चान्यथा स्फृर्तिहेतुकत्वमाह। मोहस्यापि स्वभावोऽयं विश्वरूपेण भासनम् । विद्यया नाशिते मोहे तत्स्वभावो न भासते ।२३। मोहस्येति। यद्विश्वरूपेण विश्वं जगत्तदेव रूपमाकार- स्तेन भासनं प्रकाशनं तदयं प्रत्यक्षो मोहस्यापि अज्ञानस्यैव स्वभाव: स्वरूपमस्ति तस्य लयस्तर्हि कर्थ स्यात्तत्राह विद्य- येति, मोहेडज्ञाने विद्यया ज्ञानेन नाशिते नाशं मापिते सति तत्स्वभावस्तस्य मोहस्याज्ञानापरपर्यायस्य स्वभावः स्वरूपं
Page 262
२४४ बोधसारे।
जगद्रूपेणान्यथा भासनं न भासते न प्रतीतो ववति निमित्ता- पाये नैमित्तिकस्याप्यपायादिति भावः ॥२३॥ एतदेव सदृष्टान्तं निरूपयत द्वाभ्याम। जीवचैतन्यभास्यानां वृत्तीनां प्रलये लयः । वृत्तीनां प्रलयादेव न भासन्तेऽत्र वृत्तयः ॥२४॥ जीवेति। यथेत्यध्याहार्य जीवचैतन्यभास्यानां जीवनाम- कमाधारभूतकूटस्थचैतन्यसहितं बुद्धिप्रतिविम्वितं यच्चैतन्यं तस्य भास्या: प्रकाश्यास्तासां वृत्तीनां कामादिसर्वतृत्तीनां प्र- लयेऽन्तःकरणस्य कारणरूपेडज्ञाने लये सति अज्ञानमात्राकारेण स्थितौ ससामित्यार्थः, लयो नाशो भवति अत्र पलये वृत्तीनां कामादिव्टतीनां प्लयान्नाशादेव वृत्तयः कामादिका न भा- सन्ते न प्रकाशन्ते ॥ २४॥ तत्पुनर्जीवचैतन्यं यथा चूर्व हि वर्तते। न पुनर्वृत्तिभासात्मा जीवस्तत्र विनश्यति ॥२५॥ तत्पुनरिति । तत्तत्र पुनः पश्चाज्जीवचैतन्यमधिष्ठानस- हितबुद्धिस्थचिदाभासरूपं चैतन्यं यथा पूर्व प्रथमं दृत्तिव्यवहा- रकाले यथा स्थितं तथैव वर्त्तते वर्तमानमस्ति हि प्रसिद्धमे- तद्विद्वत्सु पुनः पश्चादपि दृत्तिभासात्मा वृत्तीनां प्रकाशक आत्मा तत्र वृत्तिलये सति न विनश्यति न नष्टो भवति ॥ २५॥ दार्ष्टान्तिकमाह। आत्मचैतन्यभास्यस्य मोहस्य प्रलये तथा। मोह एव निवर्तेत यथा पूर्व लसत्यसौ ॥ २६॥ आत्मेति।आत्मचैतन्यभास्यस्यात्मचैतन्यप्रकाश्य स्य मोहस्या-
Page 263
राज०भूमिकाभेद० जानद्वितीयभूमिका निर्णयः । २४१
ज्ञानस्य पलपे प्रकर्षेण लये नाशे सति तथा तद्वन्मोह एव अज्ञान मेव केवलं निवर्त्तेत निवृसं भवेदसौ स आत्मा सचचिन्मात्रस्व- रूपो यथा पूर्व मोहस्थितिकाले यथा स्थितस्तथैव लसति प- काशते ॥ २६ ॥ ननु बोधेन मोहे विनाशितेपि बोध: शिष्टः स्यात्तेन चात्मनः सद्वितीयत्वं भवत्विरिसाशक्का तन्नाशी भवेदिति स ह- ष्टान्तमाह। दीपप्रभायामायातौ श्वेतकृष्णपटौ यथा। तौ तया काशितौ पश्चात्तनाशे सा यथा स्थिता॥२७।।
दीपेति द्वाभ्याम। दीपप्रभायां दीपस्य प्रकाशे क्रमेण यु- गपद्वा श्वेतकृष्णपटौ श्वेतः शुक्तःकृष्णः श्यामस्तौ च तौ पटौ वस्त्रे आयातौ पाप्तौ तौ च तावेव तया दीपप्रभया काशितौ प्रकाशितौ तदापि दीपप्रभास्ति तन्नाशे तयो: श्वेतकृष्णपटयोर्नाशेऽन्यत्र न- यने तया दाहेन नाशे वा जाते सति पश्चादनन्तरमपि सा दीप- प्रभापि यथापूर्व प्रथमं यथा यद्वत्तथा तथैव स्थिता ॥ २७॥ आत्मभायां समायातौ मोहबोधौ यथाक्रमात्। तया प्रकाशितौ पश्चात्तन्ाशेन सा यथा स्थिता॥२८।। आत्मेति। आत्मभायामात्मन आत्मचैतन्यस्य भा प्र- काशस्तस्यां समायातौ काकतालीयन्यायेन प्राप्तौ क्रमात्क्रमेण मोहबोधौ मोहोऽज्ञानं वोधश्व ज्ञानं तौ च मोहवोधौ तया- SSत्मप्रभया प्रकाशिती भासितौ तदापि आत्मभा यथा स्थिता तथैव तन्नाशे तयोर्मोहबोधयोर्नाशे लये सति पश्चात्तु अनन्तर- मपि यथा यद्न्मोहबोधयोः प्रकाशसमये स्थिता तद्न्मोहवो-
Page 264
२४६ बोधसारे।
धनाशसमयेपि स्थितेसर्थः, यथाग्निर्दाहं काष्ठादि दध्वा स्वयमपि नश्यति तथा बोधोपि स्वविरुद्धमज्ञानं विनाश्य स्वयमपि नश्य- त्येव ततश्चात्माशेषसम्बन्धरहितः प्रकाशत इति भावः ॥२८॥ एवं द्वितीयभूमिकालक्षणनिरूपणप्रसङ्गेन विचारस्वरूपं फ- लपर्यन्तं प्रदर्श्येदानीं द्वितीय भूमिकाभ्यासफलं निरूपयति चतुर्भि:। वेदान्तसंप्रदायेन कृत इत्यादिचिन्तने। असम्भावनया युक्ता विपरीतत्वभावना ॥ २९॥ वेदान्त इति। वेदान्तसंपदायेन वेदान्तस्योपनिषदादेः संप्रदायस्तदर्थानुसन्धानं तेन तदनुकूल आचारस्तेन चेत्यादि- चिन्तन इत्येवमुक्तलक्षयां चिन्तनमादि यस्य तस्मिश्चिन्तनेऽर्थ- विचारे कृते पुनः पुनरभ्यासिते सति असम्भावनयोक्तार्थ- स्यासम्भावनाऽनङ्गीकारस्तया युक्ता सहिता विपरीतत्वभा- वनाऽसङ्गाद्वितीयकुटस्थात्मनि सर्ववेदान्तप्रमाणसंसिद्धेपि वि- परतित्वेन ससङ्गसद्वितीयसविकारजीवरूपत्वेन भावना प्रतीति- र्याऽस्ति॥२९॥ सा नश्यति द्वितीयायां प्रज्ञातैक्ष्ण्यं च वर्धते। 'दृश्यते त्वग्रयया बुद्धा' सा बुद्धिस्तस्य जायते॥।३०॥ सेति। सा विपरीतभावना द्वितीयारयां विचाराख्यायां न- इयति नष्टा भवति च पुनः प्रज्ञतैक्ष्ण्यं प्रज्ञा बुद्धिस्तस्यास्तै- क्षण्यमज्ञानभेदनसामर्थ्य वर्धते वृद्ध भवति अत्रार्थे श्रुतिमाि प्रमाणयति दृश्यते इति, अग्ग्रयाडग्रे भवाडग्रया सूक्ष्मेयर्थः, तया बुद्ध्या मत्या दृश्यते साक्षादनुभूयत आत्मेति शेष:, सा श्रुत्युक्ता बुद्धिर्मतिस्तस्य द्वितीयभूम्यारूढस्य जायत उत्प- न्ना भवति ॥ ३०॥
Page 265
२४७
विचारफलं सदष्टान्तमाह द्वाभ्याम्। सक्षारैरमनिसंस्कारैर्विहिते हेमशोधने। श्यामिका क्षयमायाति केवलं हेम तिष्ठति ॥३१॥ सक्षारैरिति। सक्षारैः सारद्रव्यसहितैरग्निसंस्कारैरग्नि- कृतदाहादिसस्कारैर्हेमशोधने हेम्रः सुवर्णस्य शोधने शुद्धौ वि- हिते कृते सति श्यामिका कृष्णता क्षयं नाशमायाति पाप्नोति ततः केवलं शुद्ध हेम सुवर्ण तिष्ठति अवशिष्टं भवति यथा तथे- त्यध्याहार्यम् ॥ ३३ ॥ सतकैर्बोधसंस्कारैर्विहिते ब्रह्मशोधने। अविद्या क्षयमायाति केवलं ब्रह्म तिष्ठति ॥३२॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे द्वितीय- भूमिकानिर्णयः ॥२॥ सतकैरिति। तथा तद्वत्सतर्कैस्तर्कसहितैर्वोधसंस्कारैवों- धस्य विवेकस्य दृढाभ्यासजन्यैः संस्कारैर्वासनारूपैर्ब्रह्मशोधने
वेचने विहिते कृते सति अविद्या कार्यकारणरूपाऽज्ञानापर- पर्याया क्षयं नाशमायाति प्राम्नोति ततश्च केवलमसङ्गाद्विती- यकूटस्थात्मस्वरूपं ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं वस्तु तिष्ठुति अवशिष्टं भवति, इदमेव द्वितीयभूमिकाभ्यासफलमिति भावः ॥ ३२।। इति शीनरहरिशिष्यदिवाककरविरचितायां बोधसारार्थदीती भूमिकाभेदभास्करार्थप्रकाशे ज्ञानद्वितीयभूमिकानि- र्णयार्थप्रकाशस्तृतीयः॥३॥
Page 266
२४८ बोधसारे।
एवंलक्षणां द्वितीयभूमिकां निरूप्येदानी सलक्षणां तृती- यभूमिकामेकादशश्लोकां निरूपययितुं प्रतिजानीते। अथ तृतीयभूमिकानिर्णयः। अथेति। अथ द्वितीयभूमिका निरूपणाऽनतर तृतीया तृती- यभूमिका निरूप्यत इति शेपः, तत्रादौ पूर्वभूमिकाभ्यासहेतुकां तत्पाप्तिमाह। भूमिकाद्वितयाभ्यासात्तृतीया तनुमानसा। मननापरपर्याया भवेत्तलक्षणं शृणु॥१ ॥ भूमिकेति। भूमिकाद्वितयाभ्यासाद्रूमिकयोजिज्ञासाविचा- राख्ययोर्द्वितयं युग्मं तस्याभ्यासात्पुनः पुनरावर्त्तनलक्षणा- न्मननापरपर्याया मननमित्यपरोऽन्यः पर्यायो नाम यस्याः सा तथोक्तैतन्नाम्री तृतीया पूर्वद्वयापेक्षया तृतीया भूमिका भवेत्स्यात्तल्लक्षणं तृतीयभूमिकाया लक्षणं चिह्नं शृणु अ- वधारय ॥१॥ तदेव प्रतिज्ञांत चिह्नं दर्शयति। सान्धकारमृहस्थस्य पर्यालोचनया चिरम् । सक्ष्मोर्थों भासते यद्वत्तृतीयायां तथा मुनेः ॥२॥ सान्धकारेति। यद्वद्यादटक् सान्धकारगृहस्थस्यान्ध- कारेण तमसा सहित युक्तं यद्नहं मन्दिरं तस्मिन्स्थः स्थितो वर्हिर्देशादागत्य दीप्रचक्षुष्टया स्थितस्तस्य पुरुषस्य चिरं बहुकालं तत्रैव स्थित्वा पर्यालोचनया सर्वतोऽवलोकनेन सूक्ष्मः पूर्व दृष्ठयगोचरोऽर्यो घटादिपदार्थो भासते दृश्यते तथा तद्व- नृषीयायां तृतीयभूमिकायां मनननाम्न्यां प्रथमद्वितीयभूमिका-
Page 267
राज०भूमिका भेदउ्जञानतृतीयभूमिफानिर्णयः । २४९ भ्यासेन तृतीयार्या पविष्टस्य तत्र चिर स्थित्वा मुनेर्मननवतः पु- रुपस्य पर्यालोचनया मननेन सूक्ष्मः पूर्व दृत्तेः स्थूलत्वात्तद- गोचरोरऽर्थस्तत्वंपदयोरर्थो वाच्यो लक्ष्यश्च भागलक्षणया जी- वव्रह्मैक्यलक्षणो भासतेऽनुभवार्ढो भर्वत ॥२ ॥ मुनेर्जात्यन्तरपाप्तिरूपं तृतीयारूढस्य चिन्हं सदष्टान्तमाह। बालस्य शूद्रकल्पस्य गायत्या उपदेशतः । यथा द्विजत्वमायाति तथा जात्यन्तरं मुनेः ॥३॥ वालस्येति। वालस्य द्विजातिभवार्भकस्य शूद्रकल्पस्य थू- द्रतुल्यस्य गायत्र्या गायन्तमावर्तयन्तं पुरुषं त्रायते या सा गायत्री त्रिपदा चतुर्विशसक्षरा तस्या उपदेशत उपदेशेन सार्वविभक्तिकस्तसिः, यथा यद्वद्द्विजत्वं द्वाभ्यां जन्मसंस्का- राभ्यां जातो द्विजस्तस्य भावस्तत्वं द्विजत्वरूपं जात्यन्तरमिसर्थ:, आयाति प्राम्नोति तथा तद्वन्मुनेस्तृतीयभूमिकारूढस्य मुनित्व- रूपं जात्यन्तरं द्वितीया जातिरित्यर्थः, जायत इति शेप:, इद- मपि तृतीयारूढस्य चिन्हं ज्ञेयम् ॥ ३ ॥ लक्षणान्तरमाह। दृष्ट्रा लोकस्थिति लोलां सविस्मय इव स्थितः । अन्तरेव विषीदेत तृतीयालक्षणं हि तत् ।। ४॥ दृष्ट्रेति। लोकस्थितिं लोकानां दृश्यपदार्थानां स्थिति गर्ति लोलां क्षणपरिगामिनीं दृष्ट्रावलोक्य सविस्मय इव विस्मय आश्चर्ये तेन सहित इव स्थितो वर्तमानः सर्वपदार्थानां नित्य- परिणामित्वात्तेपां परिणामेन वास्तवाश्चर्यरहितोपि साश्चर्यव- द्वर्त्तमान इति भावः, अतोन्तरेवान्तःकरण एव केवलं श्रव- णादिसाध्यफलप्राप्तिपर्यन्तं शरीरादिस्थैर्याविश्वासेन विषीदेत ३२
Page 268
२५० बोधसारे।
विषण्णो भवेत्तद्धि तत्प्रसिद्धं विवेकिषु तृतीयालक्षणं तृतीया- यास्तनुमानसाया लक्षणं चिन्हं ज्ञेयम्, एतत्पूर्वव्रोत्तरत्र च योज्यम्॥४ ॥ अन्यच्च। दिनं गत गता रात्रिर्गतमायुर्गतं वयः । कदा स्थास्यामि निष्ठायां यत्र मोहो न बाधते ॥५॥ दिनमिति। दिनं दिनमिदं गतमतीतं तथा रात्रिरियं रा- त्रिर्निशा गताऽतीता तथाSडयुर्जीवनं गत नष्टं तथा वयस्ता- रुण्यं गुरुसेवाविसाधनेषु क्षमं तदपि गतं नष्टं यत्र यस्यामव- स्थायां मोहोऽज्ञानं न बाधते न व्यथयति तज्जन्यं दुःखं च न व्यथयति तस्यां निष्ठायां स्थितावहं कदा कास्मिन्समये स्थास्यामि स्थितो भविष्यामि एवं सदा चिन्तयति तदपि तृती- पालक्षणं जेयम् ॥५ ॥ अन्यदपि। गतेहि शोचति मुहुर्गतनाह्ना किमर्जितम्। गतायां च तथा रात्रौ कि मे रात्र्यानयार्जितम्॥ ६॥ गत इति। अह्वि दिने गते व्यतीते सति गतेनातीतेनाह्वा दिवसेन मोक्षेच्छुना मया मोक्षसाधनं किमर्जित कि सम्पादितं न किमपीत्यर्थः, एवं विचार्य मुहुः पुनः पुनः शोचति शोकं करोति तथा गतारयां यातायां रात्रौ निशि सत्यामनयैतया राश्या निशीथिन्या मया मुमुक्षुणा किमर्जित किं सम्पादितं न किमपीत्यर्थः, एवं मुह्दुः पुनः पुनः शोचति शोकं करोति तृती- यालक्षणं हि तदिति च योज्यम् ॥ ६ ॥ अन्यच्चापि।
Page 269
२११ अनिषिद्धेषु भोगेषु प्रप्तिप्तपि यदृच्छया। निषिद्वानिव तान्पश्येत्सा स्थितिस्तनुमानसा॥७॥ अनिपिद्धेप्विति। अनिपिद्धेपु शास्त्रलोकाविरुद्धेपु भोगेपु भुज्यन्त इति भोगा भोग्यविपयास्तपु यदच्छया पूर्वकर्मानुसा- रेण प्राप्तेष्वपि लब्धेपु सत्स्वपि तान्भोगान्निपिद्धानिव निपिद्धा: शास्त्रलोकविरुद्धास्तानिव तद्वत्पश्येदवलोकयेद् यस्यां स्थित्यां सा स्थितिः सावस्था तनुमानसा तनुमानसानाम्नी तृतीया भूमिका झेया ॥७ ॥ तथान्यच्च। बहिर्मुखजनस्तुत्या लज्जते निन्दितो यथा। परमार्थिजनस्तुत्या प्रसादमधिगच्छति ॥८॥ वहिरिति। बहिमुखजनस्तुत्या बहिर्वाह्यविषयेषु भोजने मुखमिव भोगे प्रवृटत्तवाह्येन्द्रियस्तादशो जनः पुरुपस्तस्य स्तुतिः पशंसनं तया वहिर्मुखजनकृतय। स्व्रस्तुत्या वा यथा निन्दितः सन्निन्दास्पदीभूतो यद्रल्ज्जते तद्वल्लज्जते त्रपते परमार्थिजन- स्तुत्या परमः कार्यकारणातीत आत्मैवार्थो विषयः सत्यतया यस्य सेव्योस्ति तस्य तादृशजनस्य स्वकृतयान्यकृतया वा स्व- स्पैवान्यतादृशजनेन कृतया वा स्तुत्या स्तवनेन मसादं पस- न्नतामधिगच्छति अधिक यथा तथा प्ामोति तदिदमपि तृतीया लक्षणं व्ेयम् ॥८ ॥ एवं तृतीयालक्षणान्युक्त्वा शृङ्गारश्ोकेनापि तानि नि- रूपयितुमाह। तत्र क्लोकः । तत्रेति। तत्र तृतीयभूमिकालक्षणनिरूपणे श्ोक: शृङ्गार- रसिक: श्ोको जातित्व।देकवचनमस्ति।
Page 270
२५२ बोधसारे।
अस्यै तु पतिरात्मानं दातुमुत्कण्ठितः सदा। आदातुं न विजानाति नित्यमुत्कण्ठितापि सा ॥९॥ तानेवोदाहरति अस्या इति। पतिस्तु पातीति पतिर्भर्तापि अस्यै नायिकाया आत्मानं आत्मा देहस्तं तत्कृतं भोगमिसर्थः, दातुमर्पितुं सदा नित्यमुत्कण्ठित उद्युक्तो वर्तते तथापि सा पत्री नित्यं सर्वदोत्कण्ठितापि उद्युक्तापि लज्जाद्याधिक्यादादातु- मङ्गीकत्तुं न विजानाति न वेत्ति यथा तथा प्रस्तुतेऽर्थेपि योज्यं पातीति पतिः स्व्रसच्चिदानन्ददानेन पालक एव बुद्धेरस्यै मोक्षेच्छावसै तृतीयारूढायै बुद्ध्या आत्मान सच्चिदानन्दासङ्गकू- टस्थस्वरूपमात्मभावमिसर्थः, दातुमर्पितुं सदा नित्यं उत्कण्ठितः उद्युक्तोऽस्ति परन्तु सा मननवनी बुद्धिर्नित्यं सदोत्कण्ठि तापि उद्युक्तापि आदातुमात्मभावमङ्गीकर्तु लोकेपगादिभि- रवरुद्धा सती न विजानाति नवेत्ति निःशङ्कतया, इदमपि तृती- यालक्षणं ज्ञेयम् ॥ ९॥ ननूभयत्रापि दृष्टान्तदार्ष्टान्तिकयोः परस्परमुत्कण्ठितत्वं कुतो निश्चीयते तत्राह। सौभाग्यकामिनी नारी नायको रतिदायकः । परन्तु मुग्धभावेन किं चित्कालं विलम्बनम् ॥१० ॥ सौभाग्येति। नारी स्त्री सौभाग्यकामिनी लोके हि द- म्पसो: परस्परं भोगसुखमेव सौभाग्यनाम्ना प्रसिद्धं तत्काम- यितुं शीलमस्या सा तथोक्ताऽस्ति तथा नायको नीयन्ते माध्यन्ते पत्न्या भोगा अस्मात्स नायकः पुरुपो रतिदायको रतेर्भोगमुखस्य दायको दानशीलोऽस्ति अतः परस्पररागव- स्व्रेनैव परस्परमिच्छाप्तीति ज्ञायत इति भावः, तर्हि कुतो न र-
Page 271
राज०भूमि काभेद० ज्ञानतृतीयभूमिका निर्णयः । २५३
तिस्तत्राह परन्त्विति, परन्तभयोरिच्छायां सत्यामपि मुग्ब- भावेन मुग्धस्य मौठ्यस्य भावो विद्यमानत्वं तेन किश्चित्कालं किश्चित्कालपर्यन्तं विलम्बनं विलम्बो भवतीति ज्ञेयं, प्रस्तुते तु न रातीति नरो वैराग्यादिसम्पन्नः पुरुपस्तस्येयं नारी प्र- पञ्चविरक्ता बुद्धि: सा सौभाग्यकामिनी सु शोभनं भगमैश्वर्य- मसक्गाद्वितीयरूपं तत्कामयितुं शीलमस्याः सा तथोक्ताऽस्ति तथा नायको नयति प्रापयति ब्रह्मभावं स नायको जीवोपाधि- बुद्धेर्व्रह्मभावप्रापको विवेको रतिदायको रतेर्जीवव्रह्मैक्यभावेन सुखस्य दायको दाताऽस्ति परन्तु एवं साधनसम्पन्नबुद्धौ विद्यमानायां विवेके च विद्यमाने सति मुग्धभावेन मुग्धं मौढ्यं तस्य भावः सत्व तेन किश्चित्कालं किश्चित्कालपर्यन्तं यात्रत्म- तिबन्धक्षयमित्यर्थः, विलम्बनं विलम्बोडस्ति प्रतिबन्धक्षये जीवब्रह्मैक्यानुभवजन्यसुखाविर्भावः स्यादिति भावः ॥१० ॥ ननूभयत्र मौठ्यमेव सुखप्रतिबन्धकमिति कुतो निश्चेयं तत्राह।
इदमेव कथं नु स्यादिति क्विश्यति चात्मना। भूय: कटाक्षकलहं करोति स्वामिना सह ॥ ११॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे तृतीयभूमिकानिर्णयः ॥४॥ इदगेवरेति। इय नायिकेदमेवेवं मनोभिलपितं पत्या सह भोगमुखमेत्र करथ कीहक्स्याद्भ्वेन्तु इति वितर्कयति च पुनररित्येवं वितर्क्यात्मनान्न:करणेन लिश्यति तत्पाप्त्य- भावेन किष्टा भवति तंत्रैकमत्येनोभयोः केवलसुखपाप्तिसम्भवे सति सुखच्छायां च सत्यां विरुद्धमनित्वेन दुःखानुभवन मौठ्य- कारणकमेवेति भावः, ननु सुखेच्छायां सत्यामपि विरुद्धमति-
Page 272
२५४ बोधसारे।
त्त्रमस्तीत्येतत्कुतोऽवगम्यत इत्याशङ्ाह भूय इति, इय नायि- का स्वामिना पत्या सह समं भूय: पुनः पुनः कटाक्षकलहं कटाक्ष: स्रोहपूर्वकं नेत्रप्रान्तेनावलोकन कलहश्ामीत्या विरु- द्धवचनं च तयोः समाहारो भूयः कटाक्षकलहं करोति क्रिय- माणा दृश्गते लोकेऽतः सुखसाधने सम्भोगे विद्यमाने सति सुखे- चछारया च सत्यां दुःखजनकाचारो मौठ्यविलसितमवेति भाव:, प्रकृते तु इयं साधनसंपन्ना मुमुक्षुबुद्धिरिदमेवात्मसुखं प्रपश्च- जन्यदुःखरहितं केवलं सुखं कथं कीद्कू स्याद्रवेदिति एव तु- वितर्कयति च पुनरात्मनान्त:करणेन क्रिश्यति किष्टा भवति तत्साधनेषु क्लेशं करोतीत्यर्थः, भोगच्छया मोक्षसुखसाधनेपु क्लेशनती, आत्मसुखेच्छया च तेपु विरज्ज्यात्मसुखमाप्तीचक्कावती य पुनः पुनर्भवतीति केवलात्मसुखेच्छायां सत्यामपि कादाचित्क-
गेन केवलस्वाधीनदुःखरहितससैकसुखाननुभवो मौठ्यं वि- नानुपपन्न इति भाव:, नन्वत्र मौठ्यमस्तीत्येतत्कुतो निश्चेयं त- त्राह भूप इति, इयं मुमुक्षुबुद्धिः स्वामिना स्त्रपालकेनात्मना सह समं भूय: पुनः कटाक्षः सपेमसूक्ष्मदृष्ठ्यावलोकनं 'दृश्यते त्वग्रचया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरि'ति श्रुतेः कलहश्च वर्त- मानपतिबन्धहेतुककुतर्केण विरुद्धवचनोच्चारस्तयोः समाहारः भूय: कटाक्षकलहं कदाचिदात्मावलोके रमणं कदाचिद्विरुद्ध- वाद इति भावः, करोति कुर्वती दृश्यते तदिंद मौढ्यं विनातु- पपन्नमिति मौढ्यमेवात्र कारणं निश्चेयमिति भाक: ॥ ११॥ इि श्रीनरहरिशिष्यदिवाकतरविरचितारयां बोधसारार्थदीपी भूमिकाभेदभास्करार्थप्रकाशे ज्ञानतृतीयभूमिकानि- र्णंयार्थप्रकाशश्चतुर्थः॥४॥
Page 273
राज०भूमिका भेद०ज्ञानचतुर्थभूमिफानिणयः। २५५
अथ चतुर्थभूमिकानिर्णयः। एनं सलक्षगा तृतीयभूमिकां प्रतिपाद्येदानीं चतुर्थभूमिका- श्ो० १८ मष्टादशक्षोकां निरूपपितुमाह। अयेति। अथ तृतीयभूमिकानिरूपणानन्तरं चतुर्थी चतुर्थ- भूमिका सच्वापतिनाम्नी निरूप्यत इति शेषः, तत्र तावत्पूर्वभू- मिकाभ्यासेन रजस्तमोनाशेन सत्त्वदृद्धया चतुर्थी प्राप्यत इत्याह। तृतीयभूमिकाभ्यासान्नाशमेति रजस्तमः । सत्त्वापतिश्चतुर्थी स्यान्निदिध्यासनरूपिणी ॥ १ ॥ तृनीगेति। तृतीयभूमिकाभ्यासात्तृतीयाया मननापरपर्या- यापास्तनुमानसाख्यभूमिकाया अभ्यासात्पुनःपुनरावर्त्तनल- क्षणाद्रजो रजोगुणस्तमस्तमोगुणस्तत्कार्येण रागमौढ्यरूपेगा सहैत नाशं लयमेति प्राम्नोति यदा तदेसध्याहार्य निदि- ध्यासनरूपिणी निदिध्यासनं निश्चयो ध्यानं वा तदेव रूपं स्व्र- भावो यस्याः सा तथोक्ता सत्त्वापत्तिनान्नी चतुर्थी भूमिका स्याद्भ्रवेत्पाप्ता स्यादित्यर्थः ॥१॥ ननु सत्वापत्तेर्मुक्तिहेतुत्वे देवानां तदापन्नानां कुतो न मु- क्तिरित्याशक्का परिहरति। अत्राक्षेपपरीहारः। अत्रेति। अत्र मुक्तिमाधनभूतसत्त्वप्राप्तौ सत्ामपि देवानां मुत्त्यभावे शङ्कायामक्षपपरीहार आक्षेपस्याशङ्कायाः परिहार उत्तरमुच्यत इति शेप: प्रतिज्ञातं परिहारमेवाह द्वाभ्याम। भोगार्थमेव देव्त्वं प्राप्ता देवा न मुक्तये। मुमुक्षाविरहात्तेपां सत्त्वापत्तिर्न मुक्तिकृत ॥ २ ॥
Page 274
२५६ बोघसारे।
भोगार्थमिति।देवा अमरा भोगार्थमेव सुज्यन्त इति भोगा वि- पयास्तदर्थ तदिच्छयैव केवलं देवत्वं सत्वगुणप्धानममरत्त्वं प्राप्ता याता न मुक्तये नैव मुत्त्यर्थमतो मुमुक्षाचिरहान्मोक्तुमिच्छा मुसु- क्षा तस्या विरहाद्वियोगात्तेपां देवाना सच्वापत्तिः सत्वस्य सत्वगुणस्यापत्तिः प्ाप्तिर्मुक्तिकन्मोक्षदा न नैव भवतीसर्थः ॥२॥ एवं मोक्षेच्छाव्यतिरेकेण सतत्वापतर्मुक्तिकारणत्वाभावं प्ति- पादेदानीं मुक्तीच्छान्वयेन तस्या एव मोक्षहेतुत्वमपि दर्शयति। देवेष्वपि तथा शक्र्कुवेरवरुणादयः । ये मुमुक्षां गतास्तेषां मुक्तिप्राप्ति: किमन्ूतम्।।३॥ देवेष्वपीति। देवेष्वपि सत्वापतिमत्स्वपि अमरेषु तथा मुक्ती चछावन्त इत्यर्थः, शक्रकुवेरवरुणादयः शक्र इन्द्रः कुवेरो वितेशो वरुणो जलेश आदयो मुख्या येपु ते तथोक्ता ये ये य इसर्थः, मुमुक्षां मोक्षेच्छां गताः प्राप्ताः सन्ति तेपां देवाना सत्वापत्ति- मतामपि मुक्तिपाप्तिर्मुक्तिलाभो जातस्तत्रस्तत्र किमद्भुतं किमा- श्वर्य सप्तम्यन्तपाठे मुक्तिलाभविषय इत्यर्थः, न किमप्याश्चर्य- मित्यर्थः, तस्मान्मुक्तीच्छापूर्वकसत्वापतर्मुक्तिकारणत्वं न भोगे- च्छापूर्विकाया इति भावः।। ३ ।। एवं सत्ापतिप्राम्तिं सहेतुकां साक्षेपपरिहारा निरुप्येदानीं तल्लक्षणनिरूपणं पतिजानीते। अथ लक्षणानि। अथेति। अथेतः परं सच्वापत्तिपाप्तिक्रमनिरूपणानन्तरमि- त्यर्थः, लक्षणानि सत्वापज्ञेश्चिह्ानि निरूप्यन्त इति शेप:, सान्ये- वाह पञ्चभिः। एकान्ते मुक्तिगाथानां गानं रोदनमेव च।
Page 275
२७
रोमाश्जो गद्रदः कण्ठे सत्त्वापत्तेस्तु लक्षणम् ।।४।। एकान्त इति। एकान्ते निर्जनस्थाने स्थित्वेति शेप:, मुक्तिगाथानां मुक्तिर्मोक्षस्तस्यास्तत्साधनभूतवैराग्यादेश्व प्रति- पादिका गाथा ग्रन्थविशेषास्तासां गानं पठनं तस्मिंश्च मध्ये मध्ये स्वस्य मुत्त्यभावस्मरणेन रोदनमश्रुपातो मध्ये मध्ये रो- माञ्चो रोमोत्थानं कण्ठे च गले गद्गदोऽस्पष्टाक्षरोचार:, इंद सर्वे सच्वापत्तेस्तु सत्वापतिनाम्न्याश्चतुर्थभूमिकाया लक्षणं चिह्नं ज्ञेयम॥४ ॥ इदं च परमतेन लक्षणमुक्तमिति सूचयति। स्वमतमाह। स्वमतमिति। स्त्रमतं स्वस्य ग्रन्थकारस्य मतमिष्टं सत्त्वाप- चेश्चिन्हमाह कथयति। तदेवाह। वेदान्ता: सभ्यगभ्यस्ता अथ ध्येयो महेश्वरः । प्राप्तातिसौरभे भृङ्गे रसपानं गुणाधिकम् ॥५ ॥ वेदान्ता इति। मुमुक्षुरेवं विचारयति मनसि वे- दान्ता उपनिपत्सूत्रभाष्यादयः सम्यक्पूर्वापराविरोधेनाभ्य- स्ताः पुनः पुनरवलोकिता अथेतः परं मया सुमुक्षुणा महेश्वरः सर्ववेदान्तनिर्णीतजीवव्रह्मैक्यलक्षणलक्षित आत्मे- श्वरत्वाधिष्ठानरूपत्वादश्वरतत्वं ध्येय ध्यातव्यो वेदान्तग्र- न्थाभ्यासं परित्यज्य तत्प्रतिपाद्यात्मरूपमेव चिन्तनीयमिति भाव:, अस्मिन्नर्थे दृष्टान्तमाह यथा प्राप्तेति, पाप्तातिसौरभे पाप्त लब्धमतिसौरभमतिगन्धवत्केसरस्थानं येन तस्मिन्भृङ्गे भ्रमरे रसपानं रसस्य तदन्तर्गतमधुनः पानं प्राशनं गुणाधिकं गुणेन ३३
Page 276
२५८ बोधसारे।
तृप्तिहेतुत्वेन मिष्टतया चाधिकमुत्कष्टम ॥। ५।। अन्यदपि सत्वापत्तेर्लक्षणमाह।
नित्योऽस्मि शु्द्ध एवास्मि क्वाज्ञानंक्क च बन्धनम्। एवमादिचमत्कारः सत्त्वापत्तेस्तु लक्षणम् ॥ ६ ॥ नित्य इति। अहं नित्यः सदूपोडस्मि भवामि अहङ्कारादिश- रीरन्तलक्षणादनित्याद्विन्नमात्मानं लक्ष्यीकृत्याहमविनाश्यस्मी- ति चिन्तयतीत्यर्थः, तथा शुद्ध एवास्मि शुद्धोमायाऽविद्यादिम- लरहिनो निश्चयेनाहं भवामि स्वस्य स्वयं पकाशरूपत्वानमा- याSविद्ययोर्जडासत्वरूपत्वेन चासद्गत्वादात्मनः शुद्धत्वं नि- चिनोति, तथा क कुवाज्ञानं मोहोऽस्ति न कापीसर्थः, तथाहि अज्ञानमात्मनि विद्यते वाज्ञान उत जगति, नाद आत्मनः
र्विरुद्रत्वेन प्रकाशतमसोरिवाधाराधेयत्वासिद्धेः मत्युतनाश- कत्वाच्च, नापि द्वितीयः स्वस्य स्वाधारत्वासम्भवादसत्वेनाप्यु- भयोराधाराधेयत्वाभावाच्, नच तृतीयोपि जगतोऽज्ञानकार्यतेन तदाधारत्वायोगाद् न हि कारणभूताया मृदो मृत्कार्यो घट आ- धारो दृष्टः कार्यस्योत्पसादिमच्वेनोत्पत्ते: प्रागभावात्कारणस्या- नुत्पन्नत्वेन सत्वान्न कार्यकारणयोरधाराधेयत्वमिति भाव:, किश्च क च बन्धनं वद्ध्यतेऽनेनेति बन्धनं बन्धसाधनं द्वैतं तत्का- रणस्याज्ञानस्यासच्वे क कुत्र न कुत्राप्यस्तीत्यर्थः, अतो नित्य- मुक्तः शुद्रोजज्ञानादस्पृष्ट एवाहमस्मीसर्थः, एवमादिचमत्कार एवमिसेवरूप आदि: प्रमुखो यस्य तथाभूतश्चमत्कारः स्व- स्फुरगां सत्वापत्तेः सत्वापत्तिनाम्न्याश्चतुर्थभूमेलक्षणं चिह्न ज्ञयम् ॥ ६॥
Page 277
२५९
अन्यचापि लक्षणमाह। यथा निजकथास्तद्वच्छृणोत्युपनिषतकथाः । यथान्यस्य कथास्तद्वच्छृणोति जनसंकथाः॥७॥ यथेति। यथा यद्वन्निजकथा अन्यकृताः स्वगुणख्यापका वार्त्ता: स्वस्तुतिपियः पुरुपः हर्षाविर्भावपूर्वकं शृणोति अवधा- रयति तद्वत्सत््वापसारूढः पुरुप उपनिपत्कथा उप समीपे नि- पण्णं वाच्यलक्ष्यभावेन ध्येय लक्ष्यं च श्रेयो ब्रह्मसुखं यासु- ता उपनिषदस्तासां कथा वात्ता आत्मतत्त्वपकाशिका वार्त्ता इत्यर्थः, शृणोत्यवधारयति, किश्न् यथेति, यथा यद्धदन्यस्य पर- स्य शत्रोरित्यर्थः, कथास्तद्रुगाख्यापका वार्त्ता अमरीसा शृणोति तद्वत्तथा जनसंकथा जनस्य जन्मनः सम्बन्धिनीः कथा लौ- किकी: पुराणादिष्वपि धर्माधर्मादिकथा अवतारादिचरित्रा- ण्यपि संसारोत्कर्षवोधिनीर्वार्त्ता अपि अप्रीसा शृणोसवधार- यति, इदर्माप सत्वापत्तेर्लक्षयां जेयम् । ७ ॥ अन्यदपि चतुर्थीलक्षणमाह।
निराक्ष्य विविधाश्रेष्ट आस्ते विस्मितवन्मुनिः॥८॥ देहेन्द्रियेति। देहेन्द्रियमनःमाणबुद्ध्यहङ्कारचेतसां देहस्या- न्नमयाख्यस्य स्थूलदेहस्य जन्ममरणवाल्यतारुण्यवार्धक्यस्थूलकृ- शव्याधिगौरकाष्ण्यदिय:, इन्द्रियारखं करणानां वधिरत्वाबधिर- त्वकाणत्वाकारणत्त्रान्धत्वानन्धत्वादिरूपा:, मनसश्चेष्टाः संकल्प- विकल्पाध्यासादयः, प्राणस्य श्वासाद्यः, बुद्धेश्वेष्टा जाग्रत्स्वमसुपुप्ति निश्चयादयः, अहङ्कारस्य कमतत्वाकर्तृत्वसुखित्वदुःखित्वादिरपाः,
Page 278
२६० बोधसारे।
विविधा अनेकप्रकारा एताश्रेष्टाः क्रिया निरीक्ष्यावलोक्य वि- स्मितवदाश्चर्यवानिवास्ते वर्तते, इदमपि चतुर्थीलक्षणं ज्ञेयम्॥८॥ अथान्यदपि लक्षणमाह। ज्ञत्वकर्तृत्वभोक्तृत्वजन्ममृत्युजरादिकान्। भावानन्यस्य जानाति तदन्यं भावमात्मनः ॥ ९॥। ज्ञत्वेति। ज्ञत्वकर्तृत्वभोक्तृत्वजन्ममृत्युजरादिकाञ्ज्ञत्वं ज्ञा- नेन्द्रियसहितस्य बुद््यवस्थितचिदाभासस्य, कर्तृत्वं कर्मेन्द्रियस हितस्य बुद्ध्यवस्थितचिदाभासस्य, भोक्तृत्वमानन्दमयोपहित- चिदाभासस्य जन्ममृत्युजरादिका: स्थूलदेहस्य, तत्र तादात्म्या- पन्नस्य चिदाभासस्य वा, एतान्सर्वान्भवान्विकारानन्यस्य स्त्रात्मतो विविक्तस्य चिदाभासस्य जानाति वेत्ति आत्मनः स्वस्य भावं स्वरूपं तदन्यं तेभ्य उक्तेभ्यो विकारेभ्योऽन्यं विल- क्षणं जन्ममृत्युजराकर्तृत्वभोक्कृत्वज्ञत्वादिरहितं जानाति वेत्ति अनुभवतीसर्थः ॥ ९ ॥ अन्यच्चापि लक्षणमाह। मोहजालाद्विनिर्गत्य जालादिव विहङ्गमः । खेचरत्वमनुप्राप्तो धन्यतामनुविन्दति ॥ १० ॥ मोहजालादिति। जालादानायाद्विहङ्गमः पक्षी विनि- र्गय विमुच्यातु पश्चात्खेचरत्वमाकाशगामित्वं प्राप्तः सँल्ल- ब्धाः सन्ननु पश्चाद्धन्यतां कृतकृत्यतां विन्दति प्राम्ो- तीव यथा तथाडयं सत्चापन्नो मोहजालान्मोह आत्माज्ञानं स एव स्वनाशहेतुत्व्राज्जालमित जालं तस्माद्विनिर्गय विमुच्यानु
Page 279
राज०भूमिकाभेद०जानच तुर्थभूमिकानिर्णयः । २६१
तृत्वं प्राप्तः लब्धः सन्ननु पश्चाद्धन्यर्ता कृतकृत्यत्वरूपां निरङ्कुशा तृप्तिं विन्दति प्रामोतीत्यर्थः, इदमपि चतुर्थीलक्षणं ज्ञेयम॥१०॥ अन्यच्चापि सच्वापतेर्लक्षणमाह। दरिद्र इत संप्राप्य निधानं विस्मयं गतः । ईश्वरानुग्रहो जात इति नृत्यति हृष्यति ॥ ११॥ दरिद्र इवरेति। निधानं निधीयते द्रव्यमत्मिन्निति निधानं द्र व्यपूर्ण भाण्डं संमाप्योपलभ्य विस्मयमाश्चर्यगतः प्राप्तो दरिद्र इव निर्धन: पुरुष इव गर्वे प्राप्त इत्यर्थः, तथा तद्वन्मुनिः सत्वापन्न आत्मानन्द एव निधानं निधीयन्त आध्रियन्ते सर्वाणि सुखान जगन्ति च यस्मिन्निति निधानं परमानन्दस्वरूपमात्मानं प्रा- प्योपलभ्य विस्मयमाश्चर्य गतः प्राप्तः सन्नीश्वरानुग्रहो जात ईश्वरस्येशनादिशकत्तियुक्तस्य गुरोरनुग्रहः प्रसादो मयि जात- उपन्न इति एवं मत्वा तृत्यति नृत्यं करोति हृप्यति हर्ष मा- प्रोति; एतदपि स्त्वापन्नस्य लक्षयां ज्ञेयम् ॥११॥ अन्यदपि च लक्षणमाह। विषयैः शब्दसंस्पर्शगन्धरूपरसैर्न यः । प्रियैरपि भवेत्ताद्टक्सान्विकानन्दमागतः ॥१२।। विपयैरिति। यः पुरुषः प्रियैरपि मौढ्यावस्थायामिष्टैरपि शब्दसंस्पर्शगन्धरूपरसैः शब्दश्राकाशगुणत्वेन प्सिद्धः संर्प- शश्च वायुगुणो रूपश्च तेजोगुणो गन्धक्ष पृथिवीगुणो रसश्च जल- गुण एतन्नामकैर्विपयैगोचरेस्तादग् याद्ृटकपूर्व हर्षखेदादिवि- कारवान्स्थितस्ताट्क्तद्रन्न भवेन्नस्यात्तत्र हेतुमाह सात्विकानन्द- मिति, सात्विकानन्दं सत्वगुणोपाधिकमानन्दं सुखमागतः प्राप्तः, इदमपि सत्वापन्नस्यैव लक्षगां ज्ञेयम् ॥ १२ ॥
Page 280
२६२ बोधसारे।
अन्यदपि लक्षगामाह। व्यतिरिक्तमिवात्मानं पश्यन्भावेषु सन्नपि। चाण्डालीमित यो मायां न स्पृशन्दूरवत्स्थितः॥१३।। व्यतिरिक्तमिति। यः पुरुषो भावेषु पदार्थेषु स्त्रान्वया- भावे तेषामसत्वाव्थवहारायोग्यत्वाव्धवहारकाले तेषु सत्नपि अस्तिभातिपियरूपेण नामरूपात्मकेषु तेषु विद्यमानोपि अनु- दृत्तोपीत्यर्थः, आत्मानं तेष्वनुद्टत्तं सचचिदानन्दरूपं भावानामस- व्वात्ततः पृथत्कस्यापि तथालाव्यतिरिक्तमिव पृथगिव पश्य- =सन्पश्यमानश्चाण्डालीमिव नटरज्जुगनचाण्डालीं तत्स्थकृत्रि- मब्राह्मणीमित्र मायामविद्यापरपर्यायां न स्पृशन्स्पर्शमकुर्बाण एव दूरवदात्मसत्तान्वयाभावे मायातत्कार्ययोनिर्वाहायोगा- न्मायायां तत्कार्ये चान्व्रितोपि तयोमिथ्यात्वेन ततो दूरत्वस्यापि सत्वाभावाहूर इत स्थितो विद्यमानोऽस्ति, इदमपि चतुर्थीलक्षणं ज्ञेयम ॥१३॥ सच्वापत्तेः परीपाकस्य लक्षणमाह। औदासीन्येन यः पश्येत्स्वप्राभं जागरे जगत्। सतत्वापत्तिपरिपाकलक्षणं तदुदाहतम् ॥ १४ ॥ औदासीन्येनेति । यो विशिष्टः पुरुष औदासीन्येन उदासीनोऽनासक्तस्तस्य भाव औदासीन्यमनासक्तत्वं तेन जा- गरे जागरावस्थायामेव किं पुनः स्वमावस्थायां वक्तव्य- मित्यर्थः, जगत्तिपुटीरूपं विश्वं स्वमाभ स्वमस्याभेवाभा का- न्तिर्यस्य तत्तथा स्वम्नोत्थितपुरुषस्य स्मृतिविपयं स्वप्जगदि- वेत्यर्थः, पश्येदवलोकयेत्तदेतदुक्तं सत्वापत्तिपरीपाकलक्षणं स- प्वापत्तेश्रतुर्थभूमे: परिपाकः स्थैर्येणोत्तरभूमिकासु परिणामयो-
Page 281
राज•भूमिका मेद०ज्ञानचतुर्थभूमिफानिणयः । २६३
ग्यन्वं तस्य लक्षणं चिन्हमुदाद्वतं कथितं मुनिभिरिति शेष: ॥१४॥ इदानीं सत्वापत्ेरेव लक्षणं स्फुटं बोधयितुमाह। अत्र छ्लोकः । अत्रेति। अत्र चतुर्थीलक्षणबोधने शृङ्गारश्लोकोडस्ति अ- आ्रापि जातित्वादेकवचनं श्रोकाः सन्तीत्यर्थः, तानेव क्रमेणाद। भाव: सम्पक्परिज्ञातो ग्रहणेपि मनः कृतम् । आदानमवशिष्टं हि कृत्वाभूषणमात्मनः ॥१५॥ भाव इति। भाव आशयः सम्यग्यथार्थ परिज्ञातः परीक्षित उभयोराशय उभाभ्यां ज्ञात इत्यर्थः, आत्मनः शरीरस्य भूपणम- लङ्गारं कृत्वा विधाय ततो गृहणेपि परम्परमङ्गीकारेपि मनः संकल्परूपमन्तःकरणां कृत प्रवर्त्तितं परं तु कयाचिच्छङ्कया- Sप्दानं केवलमङ्गीकरणमवशिष्टमुर्वरितं यथा, तथा मुमुक्षुबुद्ध्या निदिध्यासनवत्या भावः सत्ताऽडत्मन इत्यर्थः, सम्यक् संशय विपर्ययरहितं यथा तथा परिज्ञातोऽवलोकितस्तत आत्मनो बुद्धे: सांघनचतुष्टयमेत भूषणमलङ्करणं कृत्वा विध्याय गृहणेपि आत्मत्वाङ्गीकारेपि मनः संकल्परूपमन्तःकरणं कृतं मेरितं त- थापि आदानं हि आत्मभावाङ्गीकरणमेव केवलगवशिष्टं केन चित्पतिबन्धेनोर्वरितम, एतच्च चतुर्थभूमिस्थितपुरुपबुद्धिलक्षणं झ्ञयम ॥१५॥ तमेव परीक्षाविषयं भाव विशदयति। अहं त्वनूढा तरुणी न कस्यापि परिग्रहः। एनमेव वरिष्यामि पातिं को वा हसिष्यति ॥ १६ ॥ अहं त्विति।तरुणी तु यौवनापन्नापि अहमनूढा न केनापि विवाहिता विवाहविधिपूर्व नाङ्गीकृताऽस्मि मम मे केनापि पु-
Page 282
२६४ बोधसारे।
रुपेण सह परिग्रहः परिग्रह्मते हस्तोऽस्मिन्निति परिग्रहो विव्ाहो जातो नेति एनमेव मम मनःतियं पुरोवर्ततिनमेव नान्यं पति मम पालनक्षमं पुरुषं वरिष्यामि विधिपूर्वकं परिणेष्यामि अनेन सह परिणयने जाते सति मां मा को वा पुरुषो हसिष्यति हासं करिष्यति विधिपूर्वकं परिणयने जात उपहासाभावेन निःशङ्कं भोगसुखं स्यादिति भाव:, यथा तथा म्ुमुक्षुबुद्धिरपि निश्चिनोति तमेव निश्चयमाह-अहमिति, तरुणी तु यौवनसंपन्ना मोक्षसुखानु- भवे क्षमेत्यर्थः, अनूढा न मोहादिभिर्वरैःपरिणीता तैरस्पृष्टेत्यर्थः, अहं मोक्षेच्छावती बुद्धिरात्माकारास्मि स्थितवती-अत एव न कस्पांपि अहङ्कारादेः परिग्रहः सत्वेनाङ्गीकारो मय्यस्तीति शेपः, अतः स्व्रतः स्थातुमशक्यत्वादेनमेव पुरो दृश्यमानमेव पति स्त्र- चित्सुखदानेन पालकमात्मानं वरिष्यामि अभिन्नत्वेनाङ्गीकरि- व्यामि अहंब्रह्मास्मीत्येवं महावाक्यविचारलक्षणवेदोक्तविधि- नाऽनुभविष्यामीति भावः, अत्र महावाक्यप्रमाणेनाहंब्रह्मेति स्व्रस्य व्रह्माभिन्नत्वसाक्षात्करणे मां को वा हसिष्यति न कोपि हसिष्यति विधिपूर्वकं श्रुत्यादिपामाण्येन ब्रह्माहंभावेऽङ्गीकृते सति नोपहासास्पद भवेदिति निश्चयः, सत्वापन्नबुद्धिलक्षणमे- वेति भावः॥१६॥ पुनरपि सत्वापन्नवुद्धिलक्षणमेत्राह । हतः कामी कटाक्षेण कयाचिन्मृगचक्षुषा। व्यसनित्वमवाप्नोति तथायं मुक्तिकान्तया ॥१७॥ हत इति। यथा कामी स्त्रीकामवान्पुरुपः कया चिदती- चसुन्दर्या मृगचक्षुपा मृगस्य हरिणस्य चक्षुरिव चक्षुर्नेत्रं यस्या: सा तथोक्ता तया कान्तया कटाक्षेण नेत्रपान्तेन हतस्ताडितः सन् व्यसनित्वं तत्माप्त्यभावेन विह्लत्वं विरहव्यथावत्वमित्यर्थः,
Page 283
२६१
अवामोति यथा यद्रत्तथा तद्दयं प्रकृतः सत्वापन्नः पुरुषो मुक्तिकान्तया मुक्तिर्मोक्ष एन कमनीयत्वात्कान्ता तया कया- चिदनिर्वचनीयया मृग्यते शोध्यते ब्रह्मसुखं येन तन्मृगमेता- दृशं चक्षुर्व्रह्मावलोकनसाधनभूता वृत्तिर्यस्याः सा तथोक्ता तया कटाक्षेण कटति आवृयाति ब्रह्मसुखमिति कटं तच्च तदक्षं नेत्रं च तेन हतः प्राप्तः सन्नहं ब्रह्मास्मीति विद्धः सन्निसर्थः, व्यस- नित्वं मुक्तिसुखानुभवेऽत्यासक्तत्वमत्रामोति प्रामोतीत्यर्थः, इदमपि सत्तापन्नस्यैव लक्षणं ज्ञेयम ॥ १७ ॥ ननु सत्वापन्नस्य मुक्तिमुखानुभवेऽयासक्ति: कुनो ज्ञेया तत्राह। गुञ्जह्ृङ्गिध्वनिं श्रुत्वा गुञ्जन्कीटो यथा बिले। ्रह्मास्मीति तथैवायं भवितुं व्रह्म गुञ्जति ॥१८॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे ज्ञानचतुर्थभूमिकानिर्णयः ॥५॥ गुञ्जदिति। यथा यद्त्कीटः क्रिमिर्विले मृदादिनिर्मिते छिद्रे स्थितः सन्गुअ्द्भृद्गिध्वनिं गुञ्जन्गुआ्जारवं कुर्वाणो यो भृङ्गी भ्रमरविशेपस्तस्य ध्वनिं रवं वहिर्देशाच्ुत्वा श्रवणे- नावधार्य स्व्रयं क्रिमिर्गुञ्जन्गुआ्रवं कुर्वन्सन्तिष्ठति तथा त- द्वदयं प्रकृतः सत्वापन्नः पुरुपः स्वदेहरूपे विले स्थित्वा तद्वहिःस्थितस्य गुरुभ्रमरस्वाहं ब्रह्मास्मीति जीवब्रह्मैक्यल- क्षकं महावाक्यरूप ध्वनि श्रुत्वा श्रवणादिना निश्चित्येव ब्रह्म- भवितुं स्वयमपि गुरुरूपत्रह्माभिन्नभावं प्राप्तुं ब्रह्मास्मीत्येवं गुञ्जति वाक्यव्ृत्तिरूपं गुञ्जारवं सर्वदैव करोतीत्यर्थः ॥१८॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीती भूमिकाभेदभास्करार्थप्रकाशे ज्ञानचतुर्थभूमिकानि- णैयार्थप्रकाशःपञ्चम: ॥५॥
३४
Page 284
२६६ 1 वोधसार।
एवं सलक्षणों संविस्तरों चतुर्थभूमिकां निरूप्येदानीं पञ्च- मंभूमिका निर्णयार्यं द्वाविशतिश्लोक प्रकरणं निरूपयितुमाह। अथ पञ्चमी भूमिका। अथेति। अथ चतुर्थ भूमिकानिरूपणानन्तरं पश्चमी पश्चमी भूमिका निरूप्यत इत्यर्थः। तत्र तावत्सहेतुकां तत्माप्तिमाह। दशाचतुष्टयाभ्यासादसंसक्तिस्तु पंचमी । सुषुप्तिप्रथमावस्था साक्षात्कारनवांकुरा ॥। १॥ दशेति। दशाचतुष्टयाभ्यासादशानां भूमिकानां चतुष्टयं च- तुष्कं तस्याभ्यास: पुनः पुनस्तासु चित्तस्थिरीकरणं तस्माद्- हेतास्तुपदेन पूर्वाभ्यो वैलक्षण्यमस्या: सूचितम, असंसक्तिरमं- सक्तिनान्नी सुपुप्तिमथमावस्था सुषुप्तेविद्वन्निद्रारूपायास्तुरी- याख्यायाः पथमा शिथिलाख्या वक्ष्यमाणावस्थारूपाडतः सांक्षात्कारनवाङ्कुरा साक्षात्कारः प्रत्यक्षानुभवस्तस्य नदस्त- त्कालोलान्रोडडुर उद्गमो यस्यां सा तथोक्ता पश्चमी प. श्चमभूमिका लभ्यत इति शेषः, माप्यत इत्यर्थः ॥ १॥ तल्क्षणनिरूपणपतिज्ञापूर्वकं तलक्षणान्याह। साडपरोक्षा नैव निशा शृणु तस्यास्तु लक्षणम् । प्रथमः स्वचमत्कारः स्वरूपानन्दलक्षणम् ॥ २॥ सेति । तस्यास्तु तस्या अपि लक्षयां लक्षणानीत्यर्थः, जातित्वादेकवचनं शृणु अवधारय तान्येवाह सा भूमिरप- रोक्षा न परोक्ष ब्रह्म यस्या सा तथोक्ताऽत एव नैव निशा विषयरूपद्वैतप्रकाशाभावेन निशात्वेन निशात्वेपि स्वप्रंकाश ब्रह्मापारोक्ष्यान्नैव रात्रिः सा पश्चमभूमिरित्यर्थः, प्रथमस्वच- मत्कारः प्रथम आद्यः स्वस्यात्मनश्चमत्कारोऽनुभवः, इदमपि
Page 285
२६७
लक्षणं पश्चम्या ज्ञेयं, स्वरूपानन्दलक्षणं स्वरेनैव रूप्यते पकाश्यत इति स्वरूपो य आनन्दः सुखं तल्लक्ष्यतेडनेनेति स्वरूपानन्दलक्षणं चिह्नं स्व्ररूपसुखलक्षकत्वमपि पश्चमभूषेलक्षणमित्यर्थः ॥२॥ लक्षणान्तराण्याह। ब्रह्मत्वसंस्मृतिः सैव सैव जीवत्वविस्मृतिः । तदेवाज्ञानमरणममृतत्वं तदेव हि॥ ३ ॥ --
ब्रह्मतवसंस्मृतिरिति। सैव पश्चमभूमिकैव ब्रह्मत्वसंस्मृतिः स्वस्य यत्पारमार्थिक ब्रह्मत्वं तस्य संस्मृतिर्ढस्मरणं पञ्चम्या लक्षणं ज्ञेय, जीवत्वविस्मृतिः स्व्रस्मिन्नारोपितं यज्जीवत्वं तस्य विस्मृतिरननुसन्धानमपि सैव पश्चमीभूमिरेव ज्ञेया, आरोपितस्य जीवत्वस्य मिथ्यात्वेन तद्विस्मृतेरपि मिथ्यात्वाद्विस्मृतिश्वविस्मृ- त्तिरिति व्याख्येयं सा पश्चमी भूमिकेत्र्थः, तथा तदेव पश्चम्येवा इज्ञानमरणमज्ञानस्य महामोहस्य मरणं नाशस्तदपि पञ्चम्या ल- क्षणं ज्ञेयम, अमृतत्वं मोक्षस्तदेव हि तदज्ञानमरणनान्ना म- सिद्धमेत्र विवेकिनाम्, एतच्चापि पश्चमीलक्षणं झेयम ॥ ३॥ अन्यदपि लक्षणमाह। आविर्भूता तु सा नैव नाविर्भूतत्वभाक्पुनः । कथं भूयो भ्रमत्येष भ्रान्तिरेतर गता यदि ॥४॥ आविर्भूतेति। सा साक्षात्काररूपा पश्चम्यवस्था तु सर्वाभ्यो विलक्षणाविर्भूता पाकट्यं पाप्ता सती पुनः पश्चाध्मवहारेण व्यवधाने ससृपि नाविर्भूतत्वभाकूनाविर्भूतत्वमनाविर्भूतत्वं भजते तच्छीला नैव भवेदिदमेव पूर्वाभ्यो वैलक्षण्य रूपं पश्चम्या लक्षणमिति भाव:, तदारूढवैलक्षण्यनिरुपुणद्वारापि तल्लक्षणमाह भूय इति,
Page 286
२६८ बोधसारे।
एष पचम्यारूढो जातसाक्षात्कार: पुरुषो यदि यर्हि तस्य भ्रान्तिर्भ्रमो गतैव निष्ृत्तैव यतोऽतः भूयो पुनर्न भ्रमति भ्रान्तिमान्न भवति, एतदपि पञ्चम्या लक्षणं ज्ञेयम्॥ ४॥ अन्यदपि लक्षणमाह। यथा वर्तुलपाषाणा गिरेः शिखरतश्च्युताः । ध्वंसंत्येव न तिष्ठन्ति विकारास्तद्वदत् हि॥ ५॥ यथेति। वर्त्तुलपाषाणाः कपित्थादिवद्वर्त्तुलाकाराः पा- षाणा अश्मानो गिरेः पर्वतस्य शिखरतः शृङ्गाच्च्युता अधः पतिताः सन्तः ध्वंसन्सेवाघोधः पतन्सेव न तिष्ठन्ति मध्ये मध्ये स्थिरा न भवन्ति यथा यद्दत्तद्वत्तथा विकार रागद्वे- पादयोऽत्र पश्चम्यारूढे पुरुषे च्युता ग्रन्थिभेदेन स्वात्मनो- भिन्नत्वेनान्तःकरणे स्थिता निर्वला: सन्तः क्रमेण ध्वंसन्त्येव नश्यन्त्येव न तिष्ठन्ति न स्थिरा भवन्ति, एतदपि पञ्चम्या लक्षणं ज्ञेयम् ॥ ५ ॥ ननु स्वस्माच्चयुतानामपि विकाराणां कुतो न स्थानं तत्राह। मुनिरर्धकाटक्षेण यं विकारमवेक्षते। सदः पतत्यसौ पृथ्व्यां नोत्तिष्ठति यथा पुनः ॥६॥ मुनिरिति। मुनिर्मननशीलो जातसाक्षात्कारोऽर्धक- टाक्षेणेपद्विवेकवृत्या यं मुनिवृत्तिगोचरं यं यं विकारं का- मादिकं विकारमवेक्षते पश्यति असौ विकारः पृथ्व्यां प्रथ- यति आत्मानमनेकरूपेणेति पृथ्वी क्षेत्रशब्दवाच्या बुद्धि- स्तस्यां सदयस्तत्कालमेव पतति पतितो भवति क्षेत्रे एव स्थितो भवतीत्पर्थः, यथा पुनर्यथा यद्वत्पूर्वमात्मनि प्रतीयमान उ- त्थितोऽभूत्तथा पुनर्भूयः स्वात्मसाक्षात्कारानन्तरं नोत्तिषृति
Page 287
राज०भूमिकाभेद० ज्ञानपञ्चमभूमिकागिर्णयः । २६९
नोदितो भवति प्रारब्धशेषपर्यन्तं प्रतीयमानोपि बुद्धावेव पती- यते नात्मनि प्रतीयत इति भावः, तदुक्तं विद्यारण्यस्त्रामिभि: 'अप्रवेश्य विदात्मानं पृथक्पश्यन्नहृङ्कृतिम् । इच्छस्तुं कोटिकस्तूनि नवाधो ग्रन्थिभेदत' इति । गीतायामपि। 'पश्यन्शण्वन्पृशन् ।िघ्रन्नश्नन्गच्छन्स्व पञछ्सन्नि'सादिना, 'गुण।गुणेपु वर्त्तन्त इति मत्वा न सज्जते'इसन्तेनोक्तमेतदेव।। ६४ अन्यदप्याह। अविगीते न तुष्येत्तु विगीते न विषीदति। विस्मरत्यखिलं कार्य रमते स्वात्मनात्मनि॥७॥ अविगीतेनेति। अयं पश्चम्यारूढः पुरुपोऽविगीते वि- गीतं विरुद्धं वचनं लौकिकं शास्त्रीयं वा तन्न विद्यते यस्मिन्वाक्ये तस्मिन्नुच्चरिते सति न तुष्येन्न सन्तृष्टो भवेत्तु पुनर्वि- गीते केन चिल्लोकशास्त्रविरुद्धे वचन उच्चिते सति न विषी- दति न खिद्यति अखिलं संपूर्ण कार्यमवश्यकर्तव्यं विस्मरति नानुसन्धत्ते स्वात्मनान्तःकरणसाक्ष्यभिन्नेनान्तःकरणेनात्मनि व्रह्माभिन्नकूटस्थे रमते क्रीडति, इदमपि पश्चमीलक्षं ज्े- यमिति भावः ।।७।। ननु तर्हि अखिलकार्यविस्मरणे सति कर्माचरणं बिना देहः करथं वर्तेत तत्राह। भूताविष्ट इवाकस्माद्वर्णाश्रमविधिकरमम् । प्रेरितः पर्वसंस्कारैः करोति न करोत्यपि॥ ८॥ भूनाविष्ट इति। भृताविष्ट इव यथाभूताविष्टो भृतः पिशाच आविष्टः प्रविष्टो यस्मिन्स तथोक्तः स पुरुपोऽकस्माद-
Page 288
२७० बोधसारे।
नुसन्धानरहितोपि तत्क्षणमेव पूर्वसंस्कारैः पूर्व प्रथमं यानि कृतानि कर्माणि तेषां ये संस्कारा वासनाविशेषास्तैः कृत्वा प्रेरितो नोदितः सन्वर्णाश्रमविधिक्रमं वर्णाश्च ब्राह्मणादय आश्रमाश्च ब्रह्मचारिप्रभृतयस्तेषां विधिर्वेदकृतं मेरणं 'ब्रह्म- चर्यमामरणान्तं द्वादशवार्षिकं वाचरेत्, सन्ध्यामुपासीते'त्यादि- रूपस्तस्य क्रममाचरणं करोत्यपि कर्तारं बिना कर्म निर्वा- हायोगात्तत्कृतं कर्म प्रतीयमानमपि न करोति भूतावेशेन स- दनुसन्धानाभावान्न तत्कर्तकं तत्कर्मेति भावः, तथा तद्वत्पश्च- म्यारूढो जातमाक्षात्कार: पूर्वसंस्कार: पूर्वमज्ञानावस्थायां कृ- तानि यानि स्वस्मिन्पारमार्थिककर्तृत्वनिश्चयेन कृतानि कर्माणि तेषां संस्कारा वासनास्तैः कृत्वा प्रेरितो नोदितः सन्नक- स्मात्पूर्वापरानुसन्धानरहितस्तत्क्षणमेवेसर्थः, वर्णाश्रमविधिक्रमं स्ववर्णाश्रमोचितवेदमेरणानुकूलं कर्म करोसपि कर्तृत्वं विना कर्मनिर्वाहायोगात्तत्कर्तकं कर्म प्तीयमानमपि न करोति कर्तृत्वस्य वाधितत्वादसङ्ग आत्मनि च तदयोगात्कर्मणी- प्यसत्वाच्च तस्मिस्तत्कर्म च तत्कर्तृत्वं चोभयमप न सम्भाव्यः मिति भाव:, एतदपि पश्चमीलक्षणं झेयम॥८॥ पुनश्र लक्षणान्तरमाह सार्घेन। यथैव लौकिकज्ञाने प्रमाणं चक्षुरादयः। ब्रह्मज्ञानस्य विषये तथैवोपनिषन्मता ॥ ९॥ यथैवेति यथा यद्रल्लौकिकज्ञाने लोके भवा लौकिका घटादयो दृश्यपदार्थास्तेषां ज्ञानं प्रतीतिस्तस्मिश्चक्षुरादय- श्रक्षू रूपप्रकाशसाधनं नेत्रगोलकस्थमिन्द्रियं तदादि येषां त्व- गादीनां ता दृत्तीः प्रमाण पमाभूतमेव्रास्ति तथा तद्वङ्रह्म- ज्ञानस्य विषये ब्रह्मणो देशकालवस्तुकृतपरिच्छेदरहितस्यात्मनो
Page 289
२७१
ज्ञानं मानं राहो: शिर इति वदभेदे भेदव्यपदेशो ब्रह्मस्वरूपमेव्र ज्ञानमिति भावः, तस्य विषये तत्सम्बन्ध्यर्थवर्णने तज्ज्ञाने चो- पनिषदुप समीपे निपण्णं स्थितं वाच्यत्वेन लक्ष्यत्वेन च ब्रह्म- स्वरूपभूत सुखं यस्यां सोपनिपत्तत्वमसीत्यादिवाक्य रूपा तज्जन्यं ज्ञानं च ममेयत्वे ब्रह्मणः प्रकाशकं मानं मताऽङ्गी- कृता मुनिभिरिति शेषः ॥ ९ ॥ यत्साक्षित्वात्प्रमाणानि तानि कस्तत्र संशयः विधिकिङ्करतां त्यक्त्वा ह्यकिञ्चित्करतां गतः । अकिञ्चनत्वमापन्नो न चिन्तयति किञ्च न ॥१०॥
पदिति। तानि लौकिकानि चक्षुरादीनि वैदिकं ब्रह्मणि विषय उपनिषदुपनिषद्वाक्यजातं तज्जन्यं ब्रह्मविषयकं ज्ञानं चैतानि स्वतो जडत्वासत्वाभ्यां तेषां मामाण्याभावाद्यत्सा- स्षित्वाद्यस्य पञ्चम्यारूढस्य व्रह्माभिन्नत्वसाक्षात्कारवतो ब्रह्म- रूपत्वात्तस्यैव सांक्षित्वात्मकाश्यत्वेन प्रमाणानि प्रमेयप्रकाश- कानि भवन्ति आत्मचैतन्यकृतमेव प्रामाण्यन्तेषु न स्वत इति भावः, तत्रान्यपमाणनिरपेक्षतया स्वतः प्रमाणभूत आत्मस्वरूपे पश्चम्यारूढपुरुषे संशयः संदेहः कः किं रूपो न कोपीसर्थः, इदं निःसंशयत्वमपि पश्चमीलक्षणं ज्ञेयम, अन्यदप्याह विधिकिङ्क- रतामिति, अय पञ्चम्यारूढो विधिकिङ्करतां विधेर्वेदाज्ञायाः कि- ङरो दासस्तस्य भावस्तत्ता तां त्यक्तकाऽनादृत्याSकिश्चित्करतां न किश्चित्करोतीत्यकिश्चित्करस्तस्य भावस्तत्ता ता गतः प्राप्तः, तत्र हेतुमाहाकिश्चनत्वमिति, अकिचनत्वं 'नेह नानास्ति किश्न- ने'ति श्रुत्या निषेधितं यत्किश्चनपदवाच्यं द्वैतं यत्र तदकिश्चनं तेन सर्वद्वैतनिपेधविधितया लक्षितं ब्रह्म ग्राह्यं तस्य भावस्तत्वं ब्रह्म
Page 290
२७४ बोधसारे।
पुरुषैः सह क्रीडति रमते कदाचिन्निद्राति तैरेव सह निद्रासुखमपि अनुभवति तथा हसत्यपि तैः सह हास्यादिकं करोति तथा वदत्यपि तैः साक भाषणमपि करोति एतादृशव्यवहारे तेन कृतेपि तस्य योगित्वं न नश्यतीति भावः । तत्र दृष्टान्तः, पिशाचै- रिवेति, शङ्कर: सकलजगदानन्दकर: शिवो यथा पिशाचै- र्भूतप्रेतादिभिः सह कीडादिक कुर्वन्नपि जगदानन्दकरस्वभा- वाम्न च्यवति तद्वदित्यर्थः ॥१४॥ ननु पश्चम्यारूढे किं सुखमस्ति येन ब्रह्मेन्द्रादिपदपापक- कर्मत्यागेन तत्रैवासक्तो भवेत्तत्राह। न प्राप्तपरमार्थस्य तुलामर्हति वासवः । वासवस्तत्पदाकांक्षी न स वासवताप्रियः ॥१५॥ नेति। वासव इन्द्र उपलक्षणमेतद्रह्मादीनामपि प्राप्तप- रमार्थस्य पाप्तो लब्धः परमोतिश्रेष्ठोर्थस्तत्वं येन स तथोक्तो जातमाक्षात्कार इत्यर्थः, तस्य तुलां तुलनां नाहीत योग्यो न भवति कुत इसत आह वासव इति, वासव इन्द्रस्तत्पदाकाङ्की तस्य पश्चम्यारूढस्य पदं पश्चमीभूमिकास्थितिरूपं तस्याSडका- ङच्छावानस्तीति शेप:, स जातमाक्षात्कारः पञ्चम्यारूढः पुरुषो वासवतामियः वासवो इन्द्रस्तस्य भावस्तत्तेन्द्रपद- मित्यंर्थः, उपलक्षणामेतद्रह्मादिपदानां सा मिया यस्य सत- थोक्तो न न भवति ब्रह्मादिपदसुखस्यात्मानन्दकणत्वेनासत्वेन च ज्ञानीच्छाविषयत्वाभावः, ज्ञानिमाप्तसुखे तु पारमार्थिकत्वेन ब्रह्मेन्द्रादिकामनाविषयत्त्रमिति भावः ॥१५। ननु ज्ञानिनां प्रारब्धशेपे देहधारणस्य प्रतीयमानत्वात्कर्थ देहराहिसं तरिमंश् सति कर्मफलेच्छाभावेन कर्मण्यप्रत्नतौ तां विना देहनिर्वाहः कथं स्यादित्याशद्ा द्ृष्टान्सेन तत्सम्भावयति।
Page 291
२७'
वन्हिपक्ं यथा मांसं पूर्ववत्स्थितमस्थिपु। संसक्तमप्यसंसक्तं स्वशरीरे तथा मुनिः ॥१६ ॥ वन्हिपक्मिति। वह्निपकं वह्निरग्निस्तस्मिन्पकं पाचित्तं स- नमांस पिशितं यथा यद्रदस्थिषु अस्थिनि तत्सन्धौ च पूर्व- षदपकावस्थायामित स्थितं वर्तमानमपि न स्थिनं नैव निष्ठति कुत इत्यत आह संसक्तमिति, तन्मांसं संसक्तमपि अस्थिसंलग्न- मपि दृश्यमानत्वादसंसक्तं न संसक्तं नैव्र संलय्न वृद्धादि- परिणामस्यादृश्यमानत्वात्तथा तद्रन्मुनिर्जातसाक्षात्कारवान्पश्च- म्यारूढ: स्वशरीरे स्वस्यात्मनः शरीरं देहस्तस्मिनासक्तोपि देहाभिमानाभावे देहचलनाद्ययोगादासक्त इन प्रतीयमानोपि नासक्तो वाधितत्वेनाहङ्कारादेरसक्तो न भवतत पूर्ववद- विद्यावस्थायामित्र लोकवद्याप्रियमागात्वात्स्वशरीरे स्थितोपि विद्यमानोपि तद्दृध्ठ्या वाधितत्वान्न स्थितो नैत्र विद्यमानः, इदर्माप पश्चपीलक्षणं ज्ञेयम ॥ १६ ॥ उक्तपश्चमीलक्षणानुभवायैव शृद्गारश्षोकैस्तु तल्लक्षणं नि- रूपयितुं प्रतिजानीते तत्रेति। तत्र श्रोकाः । तत्र पश्चमीलक्षणबोधने श्लोकाः सन्ति। तानेवोदाहरति। इयं पराङ्मुखीभय पत प्रत्यगवक्षते। प्रेमप्रसन्नया दृष्ट्या ह्यस्या यौवनमागतम् ॥१७। इयमिति। इयं पुरोदृटश्यमाना काचिन्नायिका पराङ्मु- खीभूय पतिसन्मुखं पृष्ठं कृत्वा पेमपसन्नया प्रेम्णो स्रेहेन प्- सन्ना मुदिता तया दृष्ठ्या नेत्रेगा पति स्वभर्त्तारं प्रत्यक्पृष्टतो यथा तथाऽवेक्षते पश्यति अतोऽनेनैव लक्षणेनास्याः पुरोव- र्तिन्या नायिकाया यौवनं तारूण्यं पत्या सह भोगक्षमं वय
Page 292
२७६ बोधसारे।
इसर्थः, आगतमारूढमिति लक्ष्यते यथा तथेदमपि प्रकृते योज्यं तद्यथा, इयं पश्चम्यारूढबुद्धिरियं प्रकृता पति पाति रक्षतीति पतिरात्मा स्व्रसत्सुखदानेन बुद्धिपालक इत्यर्थ:, तं पराङ्मु- खीभूयाहङ्कारादिशरीरान्तेषु सन्मुखत्वेन व्यवहारावस्थाया- मात्मानं पृष्ठतः कृत्वापि प्रेमपसनया दृष्ड्या प्रेम्णा निरतिश- यस्नेहेनात्मविषयकस्नेहेनेत्यर्थः, प्रसन्ना रागादिहीनत्वेन नि- र्मला तया दृष्ठ्या दृश्यत आत्माऽनया सा दृष्टिः पत्यगात्मांव- पयान्तःकरणवृत्तिस्तया पाति स्वमिति पतिरात्मा तं प्रत्यग- न्तर्मुखं यथा तथाऽवेक्षतेऽवलोकयात यदा तदेसध्याहार्य यदा यह्मिन्काले तदा तस्मिन्समये हि प्रसिद्धमस्या विवेकिनां दृश्यमानाया अहं ब्रह्मास्मीत्याकारप्रमावृत्तेर्योवनं स्व्रात्मसु- खानुभवसामर्थ्यवत्स्वरूपमागतं प्राप्तमिति ज्ञेयं, यद्वा स्वात्मना सह मिश्रणामिश्रणेनात्मानुसन्धानपूर्वकव्यवहारक्षमत्वं प्राप्तमि- त्यर्थ:, युमिश्रणामिश्रणार्थकधातुप्रकृतिकत्वादिति भावः ॥१७।। अन्यच्च लक्षणान्तरमपि द्ृष्टान्तदार्ष्टान्तिकोक्त्याह। न खेलति वयस्याभि: शिथिला गृहकर्मणि। रहः पश्यतिं चिन्हानि प्राप्ता प्राणपतेः सुखम् ॥१८॥ नेति। यदेत्यध्याहार्य यदा यस्मिन्काल इयं नाययिका व- यस्याभि: क्रीडासहायाभिः समानवयस्काभिः कन्याभिः सह न खेलति न क्रीडति तथा गृहकर्मणि गृहस्य मन्दिरस्य कर्म लेप- नसमार्जनादिक तस्मिञच्छथिला मन्दा भवति तथा रह ए- कान्ते चिन्हानि यौवनलक्षणानि स्तनादीनि भोगजन्यानि नख- रादीनि वा पश्यति अवलोकयति तदा तस्मिन्काले प्राणपतेः पत्युः सकाशात्सुखं शर्म माप्ता लब्धवतीति ज्ञायते, एवं पश्च- क्यारूढमतावपि योज्यं तथाहि, इयं पश्चम्यारूढा बुद्धिर्यदा य-
Page 293
राज० भूमिकाभेद० ज्ञानपक्चमभूमिकानिर्णयः। २७७ स्मिन्काले वयस्याभिरात्मक्रीडामहायाभि: सान्तिदान्त्या- दिभि: समानवृत्तिरपसखीभिः सह प्रयोजनमिद्धी ताभिः सह- क्रीडाया निप्फलत्वान्न खेलति न क्रीडति तथा गृहकर्मणि गृ- ह्यते स्वात्मतयाङ्गीक्रियत इति गृहं शरीरं तस्य कर्म स्वस्वर्णा- श्रमावहितक्रिकिया वैिक लौकिकं च भोजनादिकं तस्मिकिचक्- थिलाहङ्कारस्य वाधितत्वान्मन्दं मन्दे प्रवर्त्तमाना भवति ग्रह- कर्मणीनि पाठे ग्रहा इन्द्रियाणि तेपां कर्मासि श्रवणादीनि -तेषु जातित्वादेकवचनं शिथिला 'नान्योतोस्ति द्रष्टे'त्याि श्रुत्या SSत्मनः पृथत्कस्य द्रष्टृत्वादिपु वाधितत्वादनादरवतीसर्थः । नायिका पक्षे तु ग्रहेति पाठे ग्रहागामिन्द्रियाणां यत्कर्म वचना- दानादि कर्मेन्द्रियाणां अन्यवात्तश्रवणादि ज्ञानेन्द्रियाणां तह्मि- जिच्छथिला पतिसंभोगसुखानुसन्धाने सक्ततया मन्दादरेत्र्थः, तया रह एकान्ते स्थित्वंति शेषः, चिन्हानि स्वात्मनि स्वैर्यास्थैर्य- न्यूनत्वाधिकत्वादिलक्षणानि स्वात्मनो वा लक्षणानि सच्चिदान- न्दादीनि पश्यति साक्षादनुभवति तदा तस्मिन्काले प्राणपतेः प्राणस्य बुद्धेर्जीवनस्य पतिः पालक आत्मा तस्य सुखमानन्द प्राप्ता लब्धेति ज्ञेया, एतदपि पश्चम्या लक्षणं ज्ञेयम् ॥१८॥ ननु शारीरः 'सन्न्यासादिवष सन्यासयोगादि'त्यादिश्रु- तिपु श्रूयते तत्कुतस्तत्कर्मण्यनादरो ज्ञानिवुद्धेरित्याशख्काह। न वेषो विहितः कश्चिन्न वा वचनचातुरी। किन्तु प्रेमातिसातत्याद्वालया लालितो हरिः ॥१९॥ न वेप इति। वालया राधया कश्चित्कोपि वेपः शृद्गारो न विहितो हरिश्रीत्यर्थ न धृनस्तथा वचनचातुरी वचनानां वा- क्यानां चातुरी कुशलता न विहिता न कृतेत्यर्थः, किन्तु किं त्हि कृतमित्याशङ्गायामाह पेमेति, मेमातिसातत्यात्मेम्णः स्नेह-
Page 294
२७८ बोधसारे।
स्यातिसातसं नैरन्तर्य सन्ततप्रवाहवत्वं तस्मादेव केवलं तया राधया हरिर्भक्तदुःखहरणशील: श्रीकृष्णो लालितः क्रीडितो वशीकृत इत्यर्थः, अतः शरीरवेषेण पाण्डित्येन वा न भगवान्व- शीभवति किन्तु प्रेम्णैव केवले वशः स्यादिति भावः, पकृतेपीदं- योज्यं तद्यथा, वालया वाल: केशस्तद्वदतिसृक्ष्मया 'दृश्यते त्व- त्वग्रथया बुद्ध्या सूक्ष्मया मूक्ष्मदर्शिभिरि'ति श्रुतेः पश्चम्य।रूढ- बुद्ध्या वेपः संन्यासादि: कश्चित्कोपि न विहित आत्मसाक्षा- त्काराय न धृतस्तथा वचनचातुरी वचनानां वाक्यानां चातुरी पाण्डिसं न वा नैव कृता किन्तु किं तर्हि कृतमित्येपक्षायामाह प्रेमेति, प्रेमातिसातत्यात्प्रेम्णः निरतिशयस्त्नेहस्यातिसातत्यं निर- न्तरपवाहस्तस्मादेव कारणात्केवलं तया बुद्धा हरिर्हरति सर्वे द्वैनमिति हरिरात्मा लालितो वशीकृतोऽतो नाश्रमवेष- पाण्डिसादिकमात्मज्ञाने हेतुरिति भावः ।। १९ ।। अत एवालङ्कारादीनां स्वरूपप्राप्त्यभावे वैय्यर्थ्यमेवेत्याह।
नालङ्कृता नो कुलीना न विदग्धा न सुन्दरी। यस्यां तु रमते स्वामी सा सौभाग्यवती वधूः॥२॥
नेति । वधू: स्त्री 'वधूर्जाया स्नुपा स्त्रीचै'त्यनेकार्थः, अल- डूकरृता भूपणैर्भूपितापि पत्या सह रमणाभावान्न सौभाग्यवती सौभाग्यं पतिभोगपुत्रादिजन्यं सुखं विद्यते यस्या सा तादृशी नैव भवात अलङ्ककृतायामपि विधवायां व्यभिचारेण पुरुप- भोगजन्यसुख सत्याप पुत्रजन्यसुखाभावान्न सौभाग्यव्त्त्वं व्य- भिचाररहितायाश्र तस्यामुभयाभावात्तदभावः प्रसिद्ध एव सधवायां चालङ्कृतायां सत्यामपि पत्युः प्रेमाभावेन तत्र त- द्रमणाभावान्न सौभाग्यवत्त्वमुभयत्रोभयप्रेमाभावे च परस्पर-
Page 295
२७९
भोगेनापि तदभावः प्रसिद्ध एव, अतः स्वामी तु पतिरेव यस्यां भार्यारयां तत्प्रेम्ख वशीकूनः सत्रमते क्रीडति सा सौभाग्यवती सौभाग्यं पतिपुत्रादिजन्यं सुखं विद्यते यस्यां सा तादृश्य- स्तीति श्ेया, तथा कुलीना सत्कुलमवा श्रेष्ठकुलोद्धवेत्यर्थः, न सौभाग्यवती न सौभाग्यसम्पन्ना भवति तथा सुन्दरी सुरूपा वधू: स्त्री न सौभाग्यवती नैव सौभाग्यसंपन्ना भर्वात तथा विदग्धा चतुरी स्त्री न सौभाग्यवती भवात यस्यां त्विति व्याख्यातं तत्सर्वत्रैव थोज्यं, तम्मादलङ्कारकुलवेदग्ध्यसुन्दरत्वादयो गुणा न सौभाग्ये हेतवो भवन्ति किन्तु प्रियस्नेहेन स्वस्मिस्तद्रमणमेव सौभाग्यकारणांमति भावः, एवं प्रकृतेपि योज्यं तद्यथा, वधयति बन्धयतीति वधुबुद्धिः सालङ्कता शृङ्गारादिरसज्ञानवती संन्यासादिवेषपूर्व शान्त्यादिवृत्तिभिर्वा भूषितापि न सौ- भाग्यवती सु शोभनं भगमेश्वर्यादिषद्ठ तद्विद्यते यस्यां सा त- थोक्ता पडैश्वर्यवती सुक्ता न नैव भवति लोके तद्ूत्त्वेपि तद्वत्वा- भावदर्शनात्तथा वधूर्बुद्धि: कुलीना कौ क्षेत्रे लीना नष्टा क्षेत्रा- कारत्वान्नष्टेत्यर्थः, यद्वा श्रेष्ठकुलजत्वाभिमानवती न सौभाग्य- वती सौभाग्यसम्पन्ना मुक्तत्वेम पडैश्वर्यवती न भवतीत्यर्थः, तथा विदग्धा लौकिकपाण्डिसादिगुणवत्याप वधूर्बुद्धिर्न सौभाग्यवतीति पूर्वव त्तथा सुन्दरी निर्मलत्वेन सुन्दरत्वाभिमानेन वा युक्तापि वधूर्वुद्धिर्न सौभाग्यवती भवति तहि का सौभा- ग्यवतीत्यपेक्षायामाह यस्यां त्विति स्वामी बुद्धिपालकः सच्चि- दानन्ददानेन बुद्धिसाक्षी कूटस्थस्तुपदेन बुद्धेर्विलक्षणत्वमा- त्मनः सूचितं, यस्यां बुद्धितो वैलक्षण्येन निरतिशयस्रेहवत्यां बुद्धौ रमते सहजमुखरूपेणाविर्भरवात सा वधूारयावर्तनीयं वा- क्यमेदात्सा वधयति हिंसति सर्वे द्वैतमिति वधूर्युद्धिरद्वँतात्मा-
Page 296
२८० बोधसारे।
कारा मतिः सौभाग्यवती पद्ुणैश्वर्यवती मुक्ता निसतृप्तिमती- सर्थः, भवति तस्मादात्मसुखाविर्भावाभावेडलङ्कारादिक सर्व डयर्थमेवरेति भावः ॥। २० ।। स्वरूपसुखानुभवं बिना स्वरूपज्ञानाभावे दष्टान्तमाह। यस्मिन्देशे सिता नार्ति तद्देश्यो वेत्ति किं सिताम्। स एव वेद माधुर्य येनैवास्वादिता सिता ॥ २१॥ यस्मिन्निति। यस्मिन्देशे यत्र जनपदे सिता खण्डं नास्ति न- विद्यते तद्देश्यस्तस्मिन्देशे भचः पुरुषः सितां खण्डं वेत्ति कि जा- नाति किं नैव जानातीत्यर्थः, तर्हि को जानाति तमाह स ए- वेति, येनैव पुरुषेण सिता खण्डमास्वादिता भक्षिता स एव ख- ण्डास्वादक एव नान्यो माधुर्य मधुरतां वेद जानाति यथा तथा- तमसुखाननुभवी नात्मसुखं वेत्ति तदतुभव्येवात्मसाक्षात्कार- वानिति भाव: ।। २१॥ पुनश्च पश्चम्यारूठलक्षणमाह। तृष्णां विहाय तुच्छेभ्यो मुनिर्निःशल्यतां गतः । स्वरसायनतृप्तात्मा दिनानुदिनमेधते ॥२२ ॥ तृष्णामिति। मुनिर्मननवान्पश्चम्यारूढः पुरुपस्तुच्छेभ्य- स्तुच्छान्विपयान्भोक्तुं या तृप्णेइच्छा तां विहाय परित्यज्य निः- शल्यतामन्तर्वासना: शल्यमित्र दुःखहेतुत्वाच्छल्यं तन्निर्गतं यस्मा- त्सनिःशल्यस्तस्य भावस्तत्ता ताङ्गतः प्राप्तः सन्सवरसायनतृप्ता- त्मा स्वमात्मरूप रसानां मानुपानन्दादिहिरण्यगर्भानन्दान्तार्ना सुखानामयनं स्थानं लयाधारं वा सनत्कुमारेण नारदायोक्तं छान्दोग्ये 'यो वै भूमा तत्सुखमि'ति श्रुत्या भूमाशब्दवाच्यमा- तममुखं तेन तृप्तः सुखित आत्माऽन्तःकरणं यस्य स तथाभूतः
Page 297
राज०भूमिका मेदश्ज्ञानवष्ठभूमिकानिणंयः । २८१
सन् दिनातुदिनं पूर्वपूर्वदिनादुत्तरोत्तरदिन इसर्थ :, इदं चोपल - क्षणं लवक्षणादेरित्यर्थः, एधते वर्षते। इदमीप पश्चम्पारूदल- क्षयां हेयम् ॥ २२ ॥।
र्णंयार्थप्रकाशः पछठः॥६॥
एवं पश्चमभूमिकां सलक्षणां सविस्तर्रा निरूप्पेदानी नव- श्ोकां पष्ठीं भूमिका निर्णेतुमाह। अथ पष्ठी भूमिका । अथेति। अथ पश्चमभूमिकानिरूपणानन्तरं पष्ठी पष्ठी भू- मिका निरूष्यते इति शेप:, सहेतुकं तज्जन्माह। भूमिकापश्चकाभ्यासात्पदार्थाSभाविनी भवेत् । पष्ठी घनसुषुप्ति: स्यान्महादीक्षेति सा भवेत् ॥१॥ भूमिकेति। भूमिक।पश्चकाभ्यासाडूमिकानामुक्तलक्ष- णानां पञ्चकं तस्याभ्यासस्तत्र तत्र चेतसः स्थिरीकरणं तस्मा- द्वेतोः पष्ठी भूमिका पदार्थाभाविनी पदानि नामानि अर्था रूपाणि तेपामभावो विद्यते यस्यां सा तथोक्ता नामरूपपार- मार्थिकास्फुरणवतीत्यर्थः, भवेत्स्यात्तस्या नामान्तरैः सहोत्पत्ति निरूपयति सार्धेन घनेति, सा सैवेत्यर्थः, घनसुपुप्तिर्घना पदा- र्थास्फुरणेन निविडा सुपुप्तिनिंद्रानाम्नी स्यान्भवेत्तथा सा सैव पष्टी भूमिका महादीक्षा महती दीक्षाऽज्ञत्वनिरासेन ज्ञानित्व- संस्काररूपा यस्यां सा तथोक्तैतन्नाम्री सा स्याद्वेव ॥ १॥ महानिद्रेति सा प्रोक्ता यस्यामानन्दघूर्णिता। ३६
Page 298
२८२ बोधसारै।
पदार्थविस्मृतिः सैव प्रोक्ता परिणतिश्र सा ॥२॥ महानिद्रेति। सा पष्ठी भूमिका महानिद्रेति, पश्चम्या: शिथिलनिद्रात्वापेक्षया महती गाढात्यन्तविपयाऽस्फूर्सा सुपु्ति- रमहानिद्रेति नाम्नी प्रोक्ता कथिता ग्रन्थान्तर इति शेप:, तथा यस्यां पष्ठभूमिकायामानन्दघूर्णिताSSनन्दस्य सुखस्य घूर्णिता व्याप्तिरस्ति आनन्दमात्रस्फूर्त्या सर्वदुःखास्फूर्तिस्तस्यां भवती- त्यर्थः,। तथा सैव पष्ठभूमिकैव पदार्थविस्मृतिः पदानि नामानि अर्था रूपाणि तेपां विस्मृतिरभानं यस्यां सा तथोक्तैतन्नामी भवेत्मा च षष्ठी भूमिकैव परिणतिरात्मनि परिणामात्परि- तिनाम्नी प्रोक्ता कथिता मुनिभिरिति शेषः ॥२ ॥ तल्लक्षणानि वक्तुमाह। तलक्षणानि। तदिति। तल्लक्षणानि तस्या: पष्ठभूमिकाया लक्षणानि चिह्वानि उच्यन्ते इति शेपः, तान्येवाह सप्तभिः। नरवाहनसंरूढा: सुप्ता एव यथा नृपाः । चलन्ति तद्वत्स्वानन्दे सुप्त एव चलत्यसौ॥ ३॥ नरेति। सुप्ता एवं निद्रिता एव नरवाहनसंरूढा नरेरुह्यते माप्यते देशान्तर इति नरवाहनं शिविकादिकं तस्मिन्संरूढा आ- रूढा तृपा राजानो यथा चलन्ति गच्छन्ति अगच्छति राजि यथा गमनं व्यवहियते तद्वत्तथाऽसौ पष्ठयारूढः पुरुपः स्व्रा- नन्दे भूमानन्दे स्थित्वा पपश्चे सुप्तः सन्निद्रित एव नरादभिधे शरीरे स्थितः सन्नहङ्कारादिभिः कृत्वा चलतीत्युपलक्षणं व्या- पृणोनीसर्थः, इदं च पप्ठ्यारूढलक्षणं ज्ञेयम् ॥ ३॥ अन्यदपि लक्षमाह।
Page 299
२८३
ध्यानाध्वरविधौ यस्य पशवश्चक्षुरादयः । स्त्रयमेव्ोपतिष्ठन्ति रन्तिदेवमख यथा ॥ ४ ॥ ध्यानेति। यश्रा यद्वदन्तिदेवमखे रन्तिदेवस्य राजो मखे पशव अज्ञा: स्वयमेदोपस्थिताः, एतच् पुराणेपु प्रसिद्धम्। रन्तिदेवनामा राजेक्ष्वराकुवंशोद्गवः कश्चिद्दयाशीलस्तं चर्पयो य- ज्ञैपजयितुं पृटत्तास्तेन च तन्नाङ्गीकृतं हिंमाभयात्तदा ब्राह्म- गौस्तव हिंसा न स्याद्यथा तथा कुर्म इति प्रतिज्ञाय ततो ब्रा- ह्मणै: स्व्रयमेत पशतः पशुवधार्थमभिमन्त्रिते शस्त्रे स्वस्वशिरो यथा च्छेत्स्यन्ति तथाभिमन्त्रितास्तैश्र ततः स्व्रयमेत् स्वस्त्रशि- रामि च्छित्वा तस्तदेवताभ्यः स्वस्वशरीराण्यर्पितानीति तथा यस्य पष्ठ्यारूढस्य पुरुषस्य ध्यानाध्वरविधौ ध्यानमात्मचिन्तनं तदेवाध्वरो यज्ञस्तस्य विधिर्विधानं क्रिया तम्मिश्रक्षुरादयश्च- क्षुर्ने त्रगोलकस्थं रूपज्ञानसाधनमिन्द्रियं तदादि येपां ते पशवो वहिमुखत्वात्पशब इव पसवः स्व्रयमेव मठाहारादि प्रयत्रं वि- नैवोपतिप्ठन्ति स्वस्वदेवतासु दिगादिपु लीना भवन्तीसर्थः, 'गताः कलाः पश्चदश प्रतिष्ठा देवाश्च मर्वे प्रतिदेवतामु' इति श्रुतेः, इदमपि पष्ठी लक्षणं जेयम् ॥४॥ अन्यदप्याह। पूर्णे बोधे समुत्पन्ने मनोबुद्दीन्द्रियादयः । अपणाः पूर्णतां यान्ति का वाच्या तस्य पूर्णता।।५।। पूर्ण इति। मनोबुद्धीन्द्रियादयो मनश्च संशयात्मिकान्तः- करगावत्ति रूपं बुद्धिश्च निक्चयात्मिकान्तःकरणवृत्तिकपा-इन्द्रि- याणि श्रोत्रादीनि शब्दादिज्ञानकरणानि कर्णादिगोलकस्थानि तानि आदीनि येपां देहादीनां ते सर्वे प्याविद्यकत्वात्स्व्वतो-
Page 300
२८४ बोधसारे।
डपूर्णा अपि पूर्णतां विद्ययाऽविद्यानाशे सति तेपामप्यात्मत्वा- त्पूर्णतामानन्दरूपत्वेनान्यसुखनिरपेक्षतां यान्ति प्राप्तुवन्ति कस्मिन्सतीसतआह पूर्ण इति, पूर्ग आनन्दघनत्वेन परिपूर्णे बोधे ज्ञाने समुत्पन्ने सम्यक्संशयविपर्ययरहित्त्वेनोत्पन्न उदिते सति तहि तदा तस्य सर्वदा परिपूर्णस्यात्मत्वात्पष्ठ्यारूढस्य पुरुषस्य पूर्णे बोधे समुत्पन्ने सति पूर्णताऽडनन्दघनान्यसुखनि- रपेक्षता का वाच्या किंकथनीया, इदं च पष्ठ्या रूढलक्षणं जेयम्॥।५॥। पुनरन्यल्लक्षणमाह। तत्सर्वरममृतं तस्य यत्खादति पिवत्यपि। यत्र तिष्ठति सा काशी स जपो यत्प्रजल्पति ॥६॥ तदिति। स पप्ठ्यारूढः पुरुषः यदन्नादिकं खादति भक्षति यदपि जलादिकं पिवति माश्नाति तद्भक्ष्यं पेयं च सर्व- मपि सकलमपि तस्य पष्ठ्यारूढस्य ज्ञानिन इत्यर्थः, 'यदश्नाति तदस्य हविरि'ति श्रुया ज्ञानिनो ज्ञानयज्ञे भक्ष्यस्यैत्र हविद्टप- तिपादनात्तस्य च यर्ज्ञशिष्टत्वेन यज्ञशिष्टामृतभुज इति भगवता गीतायाममृतत्वप्रतिपादनाच्चामृतं भवति अमृतस्य च भोज- नेनामृतत्वपाप्तिप्सिद्धेर्ज्ञानिनश्च वाधितत्वेन खानपानयोरात्मह-
तद्भोजनेनामरत्वमप्या/त्मनः प्रसिद्धमेवेति भावः, नतु च तस्य सर्वेषामित्र मुत्त्यर्थ काश्यां गमनं विहितमेवातस्तत्कर्तव्यमेवेत्या- शङ्माह यत्रेति, स पठ्ठ्यारूढो यत्र यस्मिन्स्थाने तिष्ठति व- सति सा तदेव स्थानं काशी वाराणसी जायत इति शेष:, तस्य षष्ठयारूढस्य ज्ञानित्वेन 'ब्रह्मविद्रह्मैव भवती'ति श्रुतेः, 'क्षेत्रज्ञं चापि मां विद्धीति स्मृतेश्र, क्षेत्रज्ञस्य तत्साक्षिणश्चैकत्वपतिपा- दनाच साक्षित्रह्मणोरेकत्वस्य सिद्धान्तितत्वादीश्वरत्वं तद्रास-
Page 301
राज· भूमिकाभेद ०ज्ञानषष्ठभूमिका निर्णयः । २८५ त्वेन तत्सङ्रेन चान्येषामपि ज्ञानपाप्त्या मुक्तिहेतुताज्ज्ञानिवा सस्थानस्य काशीत्वमिति भावः, तथा स षष्ठवारूढो यलीककिकं वैदिक वा पजल्पति सहजं भापते स तत्सर्वमपि वचनजातं जपो भवति जपस्थान्त:करणशुद्धा ज्ञानप्रदत्वपासद्धेर्ज्ञा- निभाषणस्यापि सर्वेषां स्वस्य चान्तःकरणशोधनेन विवेकज- नकत्वेन साफल्याज्जपत्वमिति भावः ॥६॥ ननु ज्ञानिना तीर्थयात्रादिक त्ववश्यं कर्त्तव्यमिसाशख्वाह। संचारस्तीर्थसंचारः समाधिः शयनं मुनेः। यं पश्यति स विश्वेशः शृणोत्युपनिषच्च सा ॥७॥ सञ्चार इति। तस्य पण्ठ्यारूढस्य ज्ञानिनः सश्चारः स्वा- भाविकं गमनं तीर्थसश्चारस्तीर्थानां पुष्करादीनां शुद्धिकारणारना सश्चारो गमनं भवति ज्ञानिनो ब्रह्मरूपत्वेनेश्वरत्वनात्सर्वतीर्थानां
मनं ज्ञानिगमनेनैव भवतीति भाव:, यद्वा ज्ञानिनाऽत्मसुखप- रिपूर्णत्वेन निरपेक्षत्वाद्। 'निरपेक्षं मुनि शान्तं निर्वैरं समदर्शनम। अनुव्रजाम्यहं नित्यं पूयेयेत्यंत्रिरेणुभि'रिति॥ श्रीभागवते ज्ञानिगमनानुगमन स्वस्य भगवतैवोक्तमतो ज्ञानिगमने भगवच्चरणस्थितसर्वतीर्थसञ्चारः सम्भाव्य इति भावः, ननु तहि मा करोतु ज्ञानी तीर्थगमनं समाधिस्तु चित्तविक्षेपपरिहाराय कर्त्तव्य एव तस्येत्याशङ्काह समा- धिरिति, मुनेर्मननवतः पष्ठ्यारूढस्य शयनं निद्रापि मन- नेनैव जाग्रदवस्थायां सर्वद्वतजातस्य वाधितत्वाज्जाग्रतीवा- त्मसुखस्फूर्ते: सत्वाद्द्वैतास्फुरणस्यैव लोके समाधित्वप्रसिद्धे- निद्रा समाधिर्भवति किं पुनर्ज्जाग्रत्स्वम्समाधीनां तस्य स- माधित्वं भवतीति वक्तव्यमिति भाव:, ननु ज्ञानिवासस्य वि-
Page 302
२८६ बोधसारे।
श्वेश्वरवामाभावे तत्र कथ काशीत्वं तत्राह यमिति, ज्ञानी यं पटघटपृथिव्यादिकं यं यं पवार्थ पश्यति अवलोकरयात स प- दार्थो नामरूपयोर्वाधितत्वात्तद्दृष्टेरपि वाधितत्वाच्च स्वात्मनो विश्वेश्वररूपत्वेन सर्वत्र सर्वदैवावलोकनाद्विश्वेशो विश्वस्ये- शवर आत्मा जगदीश्वरो भवति एवं च ज्ञानिनः सर्वत्र सर्वदैव विश्वेश्वरदर्शनात्तद्वासस्थानस्य काशीतवं निःसन्देहं सम्भा- व्यमिति भावः, नतु ज्ञानिनस्तूपनिपच्छूवणं विहितमतस्तत्कर्तव्य- मेवेत्याशद्वाह शृणोतीति, ज्ानी यां वाणीं लौकिकीं वैदिकीं तिरश्चा वा शृणोति अवधारयति सा चोपनिपदुप समीपे तस्मिन्तस्मिन्वाक्ये ध्वनौ वा तच्छूतणे तच्छ्रोतर्यपि निषण्ण त्रि- पुटीनामरूपवाधपर्यवशेपेण स्थितं ब्रह्म यत्र सा तथोक्ता भवति व्ञानिनः सर्वत्र मनुष्यादिपतङ्गन्तजाते तत्साक्षित्वेन व्रह्मात्म- न एव प्रतीतेर्ज्ञा निश्रात्रगतशब्दमात्रस्योपतिषत्वमिति भावः।।७।। ननु तर्हि ज्ञानिनः सर्वत्रानादरेपि प्रेमलक्षणभक्तिस्तु कर्त- वपैव तेनेसाशडका:ह। पीयते प्रेम पीयृषं ल्लिष्यते परमा कला। भुज्यते परमानंदो योगिना न स भोगिना ॥८ ॥ पीयते इति। योगिना जीवव्रह्मैक्यज्ञानवता पष्ठ्यारूढपुरु- पेण प्रेम पीयू्ष पेमात्मविषयको निरतिशयस्रेहस्तदेव सुखरूप त्वेन नित्यतृप्तिहेतुत्वात्पीयूपमिव पीयूपममृतं पीयते पाश्यते 'सर्व खल्विदं ब्रह्मे'ति ्तिदृष्ठ्या नामरूपात्मकप्रपश्चस्य सर्वश- व्दवाच्यसष्य वाधितत्वाल्लोकदृष्ठ्या सर्वत्र यत्पेम पीयते तत्तद्दृटष्ठ्या व्रह्मात्मविषयमेव्रेति सर्वदैव योगिनः प्रेमामृतसेवनं मिद्धमिति सम्भाव्यमिति भावः, ननु ब्रह्माकारा वृत्तिस्तु कर्तव्यैवेत्याशख्वाह श्रिप्यत इति, योगिना परमा कला परं कार्यकारणातीत ब्रह्म
Page 303
राज०भूमिकाभेद०ज्ञानषष्टभूमिकानिणंयः। २८७
माति साक्षादभिन्नतया विपयीकरोति सा परमा ब्रह्मविषया कला शुद्धसत्वान्तःकरणवृत्तिरहंब्रह्मास्मीयेवं रूपा कप्यन आलिङ्काने यावद्वत्तीनां सर्वविषयवाधेन ब्रह्मण एव शेपितत्वा- त्सर्ववृत्तीनां ब्रह्मविपतया ब्रह्माकारत्वाद्योगिनः पष्ठच।रूदस्य ब्रह्माकारवृत्तिपवाहः सर्वदैव सिद्ध इति न तत्कर्तव्यता तस्येति भाव:, ननु तर्हि ब्रह्मसुखानुभवस्तु कर्तव्य एवेत्यादशक्काद भु- ज्यते इति, योगिना परमानन्दः परमो निरतिशय आनन्दः सुखं भुज्यतेऽनुभूयते सर्वसुखानां ब्रह्मपतिविम्बत्वेन ब्रह्मा-
ज्ञानिना यत्सुखमनुभूयते तद्र्ह्ममुखमेवरेति पष्ठ्यारढस्य संदेव परमानन्दानुभवान्नतत्मयासः पृथगपेक्षित इति भाव:, भोगिषु तु तच्यागेन तत्कर्त्तव्यतादृढत्वाय तदभावमाह नेति, स प- रमानन्दो भोगिना भोग्यसत्वनिश्चयपूर्वकस्वरभोक्तृस्त्वप्रतीति मता पुरुषेण न भुज्यते नैवानुभूयते तस्य तु प्रपश्चसुखदुःखा- नुभव एत न ब्रह्मसुखानुभव इति भावः ॥८॥ ननु षष्ठ्यारढस्य परमानन्दनितानुभवसच्वे किं लक्ष- णं तत्राह। संप्राप्ते परमानन्दे न शोचति गतं वयः । भूतं भवद्भविष्यच्च सर्वमानन्दतां गतम् ॥ ९ ॥ इति श्रानरहरिकृता बोधसारे भूमिकाभंदभास्करे
सम्प्राप्त इति।पष्ठ्यारूढ: पुरुपः परमानन्दे निरतिशयभूमा- खयसुखे सम्पाप्ते लब्धे सति गनमतीतं वय आयुः सफलत्वा- त्तस्य न शोचति न धिकरोति-इदमेंकं चिन्हं, द्वितीयं त्वाह भू- तमिाति, भूतमतीतं जन्मादि भवद्रर्तमानं भविष्यच्च भाव्यमपि
Page 304
. २८८ बोधसारे।
सर्वे सुखदुःखादिकारणं फलभूतसुखद्दुःखाभ्यां सहानन्दरता सुखरूपतां गत प्राप्तं न तु तस्य सुखदुःखादि कि चिदपि स- चवेन प्रतीयत इति आव: ।। ९ ॥ इति श्रीनरहरिशिष्यड्िवाकरविरचितायां बोधसारार्थदीपी भूमिका भेदभास्करार्थप्रकाशे षष्ठीनिर्णयार्थप्रकाशः सप्तम:॥७॥
एवं पष्ठीं सलक्षणा निरूप्येदानी नवश्लोर्का सप्तमीं निरूप यितुमाइ अथेति। अथ सप्तमी। अथ पष्ठीनिरूपाणानन्तरं सप्तमी सप्तमी भूमिका नि- रूप्यते इति शेष:, तत्र तावत्षष्ठ्यारूढस्य षष्ठसुल्लङ्गन पूर्व सप्त- मीपाप्तिमाह। ततः षष्ठीमतिक्रम्य तुरीयां याति सप्तमीम्। महाकक्षेति सैवोक्ता सैव गूढसुषुप्तिका ॥ १ ॥ तत इति। ततः षष्ठयारोहणानन्तरं षष्ठीं पदार्थाभाविनी- नामीं भूमिकामतिकम्योल्लङ्ड्य योगी तुरीयां व्यावहारिकजा- ग्रदाद्यवस्थात्रयापेक्षया तुरीयां चतुर्थी सर्वज्ञानभूमीनां तुर्य- त्वापेक्षया तु तुरीयातुरीयां पूर्वज्ञानभूमिषद्वापेक्षया सप्तमीं याति प्राम्नोति। तस्या एव नामान्तराणि स्मारयति महाक- क्षेति, सैव सप्तम्येव महाकक्षा महती निरावरणाSडत्म- पाप्तौ कक्षा द्वारभूताऽतो, महाकक्षेत्येवं नाम्नी ग्रन्थान्तर उक्ता कथिता सैव सप्तम्येव गूढसुषुप्तिका गूढाSडच्छ्न्ना सु- पुप्तिकाऽल्पसुषुप्तिर्यस्यां सा तथोक्तातो गूढसुषुप्तिरिति- नाम्नी ग्रन्थान्तर उक्ता कथिता ॥ १॥
Page 305
सूचोपनम्। गणपाठ: गोलप्रकाशः २ गंगालहरी १ गुरसारणी ४ जातकतत्वम १२ तत्वदीप १ 0 तर्कसंग्रह: 2 ६ O दृत्तकमीमांसा V O
१ ६ धातुपाठ: (शिला - )) २ O धातुरूपावली २ to नैपध चरित नारायणी टोका टाइप O 0 परिभाषापाठ: ٥ पाणिनीयशिक्षा भाष्यसहिता २ प्रथम परीक्षा २ O 0 प्रथमपुस्तक हिन्दी प्रश्नभूषणम (प्रश्न विचार का बहुत उत्तम ग्रन्थ) घीजगणितम् (म० म० पं० सुधाकरकतटिप्पणीसहित) १ भट्टीकाव्य ५ सर्ग ६ मनोरमा शब्दरतसहिता (टाइप) ९ लघुकामुदी टिप्पणीसहिता लक्षणावली २ लीलावती (म० म० पं० सुधाकरकतटिप्पणीसहित) १ वसिष्ठसिद्धान्तः १ धार्तिकपाठ: विष्णुसहस्रनाम O शब्दरूपावली O १ शृङ्गार सप्तशती समासचक्रम् समासचन्द्रिका १ सरखवतीकण्ठाभरणम् 3 0 साङ्गयचन्द्रिका टिप्पणीसहिता साङ्गयतत्वकीमुदी O सिद्धान्तकीमुदी O सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता उपसर्गवृत्ति 0 O १
Page 306
वनास्ससंस्कृतसीरीजनाम्री वाराणसेयसंस्कृतपुस्तकावली। इयं पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृतभाषा- निवद्धा बहवः प्राचीना वुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति। तांश्र ग्रन्थान् काशिकराजकी- य संस्कृतपाठशालीयपण्डिता अन्ये पि विद्वांस: शोधयन्ति। यर्थो- हक़महाशयैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकुस्य ख़ण्डस्य ।।I) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशयैयेः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =)देय इति॥ तत्र मुद्रिता ग्रन्थाः । रु० भा० सिद्धान्ततत्वविवेक: खण्डानि ५ O अर्थसङ्ग्रह: अंग्रेजीभाषानुवादसह्रितः १ 0 तत्त्रवार्ततिकम खण्डानि १३ १३ का त्यायनमहर्षिप्रणीतं शुक्कयजुःप्रातिशाख्यम,सभाष्यं ख०६६ O wam. सांख्यकारिका चन्द्रिकाटीका गौडपादभाष्यसहिता 9 वाक्यपदीयम खण्डानि ३ O. रसगङ्गाधरः खण्डानि ९ परिभाषावृत्ति: खण्डे २ २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्णीत- भाष्यसहितम् खण्डे २ २ शिक्षा सङ्ग्रह: खण्डानि ५ ५ नेकर्म्यसिद्धि: खण्डानि ४ ४ O महर्षिका त्यायनप्रणीतं शुक्कयजुस्सर्वानुकमसूत्रम सभाष्यम ऋग्वेदीयशौनकप्रातिशाख्यं सभाध्यम खण्डानि ४ (बृहत्) वैयाकरणभूपणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहित: खण्डे २ २ 0 तत्वदीपनम (पञ्चपादिकाविवरणस्य व्याख्यानम्) स्व० ८८ वेदान्तदीप: (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ४
व्याकरणमिताक्षरा। श्रीमदस्नंभट्टप्रणीता खण्डानि० ५ रसमक्जरी। व्यङ्यार्थकीमुद्या प्रकाशेन च सहिता ख० ३३ ० मेदधिक्कार: व्याख्यासहित: श्रीमदप्पयदीक्षितकृत उपक्रमप राक्रमसहित: खराडे २ २ बोधसारो नरहरिकतः तच्छिष्यदिवाकरकृतटीकया स०स०३३ ब्रह्म सूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता। १ व्रजभूषगा दास और कम्पनी चांदनीचौक के उत्तर नई सड़फ बनारस।
Page 307
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS
EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, ENDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, PH. D. No. 96.
बोधसारः । श्रीविद्वद्वर्यनरहरिविरचितः ।
श्रीम दुदासीन वर्यस्वामिगोविन्दानन्दशिष्येण दयानन्दस्वामिना परिशोधितः । BODHSÂR, A TREATISE ON VEDANTA, BY SRI NARHARI, With a commentary by the author' s pupil PANDIT DIVÂKAR. EDITED BY SWÂMÎ DAYÂNAND. Fasciculus IV. BENARES. Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot.
Printed at the Vidyâ vilâs Press, BENARES.
- SRAR
Page 308
सूचौपत्रम्। गणपाठ: गोलप्रकाश: V २ गंगालहरी गुरसारणी a जातकतत्वम् 0 १२ तत्वदीप १ O तर्कसंग्रह: ६ 0 दत्तकमीमांसा V O धर्म्मशास्त्रसंग्रहः १ ६ धातुपाठ: (शिला. -) ). २ धातुरूपावली 0 २ ६ नैषध चरित नारायशीी टीका टाइप ४ 0 परिभाषापाठ: १ 0 पाणिनीयशिक्षा भाष्यसहिता २ 0 प्रथम परीक्षा २ 0 प्रथमपुस्तक हिन्दी १ 0 प्रश्नभूषणम् (प्रश्न विचार का बहुत उत्तम प्रन्थ ) बीजगणितम (म० म० पं० सुधाकरकृतटिप्पणीसहित) १ ८ भट्टीकाव्य ५ सर्ग ६ मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता ४ O लक्षणावली २ लीलावती (म०म० पं० सुधाकरकतटिप्पणीसहित) ٥
१ वसिष्ठसिद्धान्तः १ वार्तिकपाठ: ४ O विष्णुसहस्रनाम शब्दरूपावली १ Lo शृङ्गार सप्तशती U १ समासचक्रम् १ समासचन्द्रिका १ सरख्वतीकण्ठाभरणम् ३ साङ्ग्यचन्द्रिका टिप्पणीसहिता ८ 0 साङ्ग्यतत्त्वकौमुदी ६ सिद्धान्तकौमुदी ४ सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता 3 उपसर्गवृत्ति १
Page 309
२८९
योगनिद्रेति सा प्रोक्ता परा काष्ठेति सा स्मृता। अनुत्तरं च सहजं स्वरूपस्थितिरित्यपि ॥ २ ॥ योगनिद्रेति। सैव सप्तम्येव योगनिद्रेसेवं नाम्ना पुराणे- पूक्ता कथिता तथा सा सप्तम्यवस्था परा श्रेष्ठा काष्ठा स्थि- तिरित्येवं नाम्ना स्मृता चिन्तिता मुनिभिरितिशेप:, सहजं स्वा- भाविकमनुत्तरं नोतरं प्रतिवाक्यं यह्ंमिस्तत्तथोक्तं सहजानु- त्तरनाम्न्यपि सैवोच्यत इत्पर्थः, तथा स्वरूपस्थितिः स्वेनैव रू- प्यते प्रकाश्यत इति स्वरूपा सा चासौ स्थितिरवस्थेत्येवं नाम्नापि सोक्ता कथिता ॥ २ ॥ अत एवास्या निरूपणावरिपयत्वरूपं लक्षणमाह। मौनमेवावलम्बन्ते यस्यां हरिहरादयः ! सा तु वर्णयितुं शक्या न केनापि कदाचन ॥ ३॥ मौनमिति। यस्यां सप्तमभूमिकायामारुढा सन्तो हरि- हरादयो हरिर्विष्णुर्हरः शिव आदी प्रमुखौ येषां ब्रह्मेन्द्रप- भृतीनां ते सर्वेपि मौनमेव मननफलभूतं स्वमकाशात्मस्वरूपं चिन्मात्रमेव केवलमवलम्वन्त आश्रयन्ते न तु वागादिव्या- पारं किश्चिदपि कुर्वन्तीति भावः, कुत इत्यत आह सात्विति, सा तु सा संप्मी भूमिका तुपदेनास्याः पूर्वभूमिकाभ्यो वैल- क्षण्यं श्रेष्ठत्वं च सूचितं, तदेवाह केनापि, सर्ववेदयोनिना ब्रह्म- णापीदं चोपलक्षण हरिहरादीनां, कदाचन कस्मिन्नपि काले वर्णयितुं वर्णनविषयीकर्तु न शक्या न संभाव्या, इदं च लक्षणं सप्तम्या ज्ञेयम ॥ ३ ॥ सप्तम्यारूढस्य वोधेपि निरपेक्षरूपत्वे लक्षणान्तरमाह। चिदङ्गे कोमले लग्नो दैवादज्ञानकण्टकः। ३७
Page 310
२९० बोधसारे।
तं बोधकण्टकेनायं विनिवार्य सुखं स्थितः ॥ ४ ॥ चिदङ् इति। कोमल ईपदप्यज्ञानकण्ठकासहे चिदड्े चिन्मात्ररूपेऽद्रे स्वरूपे दैवात्काकतालीयतोऽज्ञानकण्टको- ड्ज्ञानमेव दुःखप्रदत्वात्कण्टक इव कण्टको लग्न: स्पृष्टोडयं स- प्रम्पारूढ: पुरुषो बोधकण्टकेन बोधस्तत्वमस्यादिवाक्यजन्यं संशयविपर्ययरहितमहं ब्राह्मास्मीत्याकारकमपरोक्षं ज्ञानं जीव- व्रह्मैक्यविषयं स एवाज्ञानलक्षणकण्टकनिष्कासनोपयोगात्कण्ट- कसादृश्यात्कण्टकस्तेन तमज्ञानकण्टकं विनिवार्य निष्कास्य सुखं यथा भवात तथा स्थितस्तिष्ठतीसर्थः, सप्तम्यारूढस्याज्ञानमिन्र ज्ञानमप्यनादरणीयमेतदपि ति भाव: ॥ ४ ॥ लक्षणान्तरं सप्तम्यारूढस्ये-
इदानीं सप्तम्यारूढस्य स्थिति वर्णयति त्रिभिर्ष्टत्तैः। अमृनजलधौ यस्मिन्वार्त्ता न मीनतरंगयो- न च परिचयः पारावारस्थितेरपि कुत्रचित् । समरसपरब्रह्मानन्दप्रणुन्नविकल्पनः सहजगलितद्वैतज्वालः स भाति महामुनिः ॥५॥ अमृतेति। यथा कस्मिंश्चिद्यस्मिन्विलक्षणो प्रलयवृद्धेडमृ- तजलधावमृतमिव मिष्ट जलमुदकं धीयते ध्रियते यस्मिन्निति अमृतजलधिस्तस्मिन्मीनतरङ्गयोर्मीनो मत्स्यस्तरङ्र ऊर्मिस्तयो- र्वार्ता वृत्तान्तः समुद्रस्थागाधत्वेन नास्ति च पुनः कुत्रचित्क- स्मिन्नपि भागे तस्मिन्समुद्रे पारावारस्थितेरपि पारा परतरा अ- वारा अर्वाचीना स्व्रदग्गोचरा स्थितिः स्थानं तस्या: परिचयोपि अनुभवोि न च नैव विद्यते केवलं तत्र समरसपरव्रह्मानन्दप- णुन्नविकल्पनः सम एकरूपो रसः सुखं यत्र स चासौ परं का-
Page 311
राज• भूमिकाभेद ०व्ञानसप्तमभूमिफानिर्णयः । २९१ र्यक/रणातीतं ब्रम्म देशादिभिरपरिच्छिन्नं भूमापरपर्यायं तदूप आनन्दश्व सुखं तेन कृत्वा प्णुन्नं निवारितं बाधितमिसर्थः, विकल्प्यते विपरीतत्वेन भाव्यतेऽनेनेति विकल्पनमज्ञानं का- रणकार्योभयरूपं येन स तथाविधो विकल्पनमित्यत्र करणेल्युड् अत एव सहजगलितद्वैतज्वालः सहजं स्वभावेनैव गलिता नष्टा द्वैतं नानात्वमेव ज्वालेव तापहेतुत्वाज्ज्वाला यत्र स त- थोक्तः स पुराणादौ प्रसिद्धो महामुनिर्ब्रह्मा भाति प्रकाशते स्वयमेवेत्यर्थः, प्रस्तुतार्थे तु यथाऽमृनं सुखमेव समुद्रे जलमिव पूर्ण धीयते ध्रियते यत्र सो Sमृतजलाधरिति मुनिविशेपगां, यद्रा-अमृतं सुखं जडमचलं स्थिरमित्यर्थः, डलयोरभेद।द्वीयते ध्रियतेऽस्िन्निति स तथोक्तः स्थिरसुखाधारत्वेनोपलक्षित इत्यर्थः, यह्मिश्व महामुनौ मीनतरक्रयोर्मीनो मीयत आत्रियत इति मीनो जीवः शिष्यभावापन्नस्तरन्तारक वाक्यजातं गायति उपदिशतीति तरङ्गो महावाक्योपदेष्ट वेदोच्चारकश्चेश्वरो गुरुभावापन्न ईश्वरश्वेसर्थः, तयोवीर्ता कथनं न न विद्यते च पुनर्यस्मिन्कुत्रचित्कस्मिन्नाप काले देशे वा पारवारस्थिते: पारा कारगरूपा निर्गुणा वाडवारा कार्यरूपा सगुणा वा या स्थि- तिरवस्था तस्याः परिचयो भानमाप न चन विद्यते तत्र हेतु: समरसपरब्रह्मानन्दप्रणुन्नविकल्पनः सम एकरूपो रमः सुखं यस्मिन्स चामौ परव्रह्मानन्दः कार्यकारणहीनं भूमशद्दवाच्यं सुखं तेन कृत्वा प्रणुन्नं विकल्पनं विकल्पकारखमज्ञानं येन स तथोक्तोडन एव सहजगलिनद्वैतज्वाल: सहजे इनाभाविकं यथा तथा गलिता नष्टा द्वैतं भेद एच तापकत्वाज्ज्वालेव ज्वाला य स्मिन्स सप्तम्यारूढो महामुनिर्मुनिश्रेष्ठो भाति प्रकाशते, इदं च सप्तमीलक्षणं ज्ञेयम् ॥। ५॥
Page 312
२९२ बोधसारे।
किञ्च।
बंधध्वंसमभीप्सुना सुमनसा जिज्ञासया तीव्रया। ज्ञाते ब्रह्मणि बाघिताक्षविषये बोधे चमत्कुर्वति।
भाति ज्ञानसुखात्मकः स्वयमयं योग्यापगानां पतिः।।६।।
बन्धेति। वन्धध्वंस बन्धयति अवरोधयति नित्यमुक्तमप्या- त्मानमिति बन्धोडज्ञानं तस्य ध्वंसो नावस्तमभीप्सत इत्यभी- पसुरिच्छवांस्तेन सुमनसा साधनसंपन्नं यन्मनस्तेन कर्त्ा तीव्रया दृढया जिज्ञासया ज्ञानेच्छ्या करणभूतया ब्रह्मणि अपरिच्छिन्ना- त्मवस्तुनि ज्ञाते साक्षादनुभूते सति ततो बाघिताक्षविषये वा घिता निरस्ता अक्षविपया इन्द्रियगोचरा यस्मिन्स तथोक्तस्त- स्मिन्वोधे ज्ञाने चमत्कुर्वति सर्वदा पकाशमाने सति स्वान्तः
घिष्ठानसहितबुद्धिस्थचिदाभासः पमाता विपरीत मन्यतेऽने- नेति विमाना मतिः करणे घञू मान्यं मन्तव्यमेतत्रिपुटीरूपा या विद्ृतिर्भ्रान्तिस्तस्या व्यावृत्तिर्निवृत्तिस्तया कृत्वा नि- भेङ्रको निस्तरङ्गो विक्षेपरहित इत्यर्थ:, अत एव ज्ञानसुखा- त्मको ज्ञानं वोधस्तदभिन्नं सुखमानन्दः स पवात्मा स्वरूपं यस्य स तथोक्तः स्वयं स्त्रतः सिद्धोडयं सप्तम्यारूढो योग्यापगानां योगिनोऽतर पूर्वभूमिकाषद्वस्थिता ग्राह्यास्ते एवापगा नद्य इव नद्यस्तेषामुत्तरोत्तरभूमिकासु वृत्तनदीव सन्ततगमनवत्वान्न- दीच्वं तालां पतिः पालकः आत्मत्वात्सर्वेपां पालकत्वं सप्तम्या- रूदस्य स उक्तलक्षणो भाति स्वयं मकाशरूपेण विराजते ॥६॥
Page 313
राज०भूमिकाभेद वजानसप्तमभूमिका निर्णयः । २९३
किश्र। वाचा मौनमयी गतिः स्थितिमयी निद्रामयो जागरो निद्रा बोधमयी निशा दिनमयी नक्तंमयो वासरः । कर्म ब्रह्ममयं जगत्सुखमयं किश्चिन्न किञ्चिन्मयं दुर्लङ््ध्यं गुणवर्त्म लङ्गितवतो वार्त्ता कर्थं वर्ण्यताम्॥७॥ वाचति। दुर्लङ्व्यं दुःखेनातियत्नेन लद्गितुं योग्यं दु- ्लङ्घ्यं गुणवर्त्त्म गुणानां सत्वरजस्तमर्सा वर्त्म मार्गे लद्वित- वतोऽतिकान्तवतः सप्तम्यारूढस्य वार्त्ता वृत्तान्तः कर्थ केन प्रकारेण वर्ण्यतां वर्णनीया न केनामि प्रकारेण वर्णनीया, उक्त- मवर्णनीयत्वमेव विशदयाति वाचेत्यादिविशेषणैः तस्य वाचा वाणी मौनमयी मौनरूपा भवति 'नेह नानास्ति किश्चने'ति श्रु- त्या सर्वशब्दवाच्यपपश्चस्य वाधितत्वाद्वक्तृवचनवाच्यरूपपप- श्चमिथ्यात्वेन 'यद्वैतन्न वदति वदम्तर तेन्न वदति न हि वक्तु- र्वक्तर्विपरिलोपो विद्यतेSविनाशित्वान्न तु तद्द्वितीयमस्ति ततो न्यद्विभक्तं यद्वदेदि'ति श्रुत्या वचनस्य वक्तुः स्वरूपत्व्रप्तिपा- दनात्ततः पृथगसकवप्रतिपादनाच् वाच्यस्यापि पृथगसत्वाच बागभावेन लोके प्रतीयमानाया वाचोपि पारमार्थिकत्वाभा- वाच्च तस्या मौनत्वं सिद्धमिति भावः, तथा गतिर्गमनं लोके पतीयमानापि स्थितिमयी स्थैर्यरूपा भवति 'अपाणिपादो ज- घनो ग्रहीते' सादिश्रुत्या पादराहित्येपि गमनवत्वपतिपादना- स्पादराहित्येन गमनं यत्प्रतीयते तत्पारमार्थिकं न भवतीत्यतो गमनेपि स्थैर्य संभाव्यमिति भावः, तथा तम्य जागरो जागर- णमपि निद्रामयो निद्रारूपो भवति लोके निद्रावस्थायां सर्व- त्रिपुटीलयप्रसिद्धे: सप्तम्यारूदस्य त्रिपुटीमिथ्यात्वपतीत्या जा- १ वक्तव्यम्।
Page 314
२९४ बोधसारे।
गरस्थापि निद्धात्वमिति भाव:, तथा सस्य निद्रा सुपुप्तिरपि बोधमयी जागररूपा भवति सुखमहमस्वाप्स न किश्चिदवेदि- षमित्युस्थितस्मरणान्यथानुपपच्याऽज्ञानबोधस्य तत्र सच्वात्तद्विप- याज्ञानस्य च सश्वात्तत्र ज्ञातृज्ञानज्ञेयरूपतत्रिपुठ्या विद्यमानतवेन जाग्रल्लक्षणसच्ान्निदाया जागरत्वमिि भाव ता तस्य निशा रात्रिर्दिनमयी दिवसरूपा भवति लोकदृष्ठ्यान्धकारसत्वेपि निशार्या सप्तम्यारूदस्य प्रकाश विनाऽपकाशमतीत्यतुपपत्या तत्पकाशकप्रकाशवच्वेन रात्रर्दिनत्वमिति भावा, तथा तस्य वा- सरो दिवसो नक्तंमयो रात्रिमयो भवति व्यवहारस्य मिथ्या- त्वेन तत्पतीतेरपि पारमार्थिकत्वाभावे तत्पकाशस्यापि तथा- त्वादन्धकारस्वरूपरात्रित्वं दिनश्य सम्भाव्यीमिति भावा, तथा तस्य कर्म क्रियापि ब्रह्ममर्यं निष्क्रियब्रह्मरूप भवति कर्त्तृकरगा- कार्यरूपत्रिपुव्याः सप्तम्यारूढदृष्ठ्या परिमार्थिकत्वाभावान्नि- ष्क्रयव्रह्मरूपत्वं कर्मयाः सिद्धमिति भावः, यद्वा 'ब्रह्मार्पणं ब्रह्म हविर्व्रह्मानौ ब्रह्मणा हुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधि- ने'ति भगवदुत्त्या कर्तृहविरग्नितदर्पणफलेषु नामरूपवाधेन पर्ष- वशेषितब्रह्मरूपधारयाया त्रिपु्यभावेन ब्रह्मरूपत्वप्रतिपादना- तकमर्गा एव समाधित्वपतिपादनानुसन्धानेन सप्तम्यारूढस्य कर्मणोपि निष्क्रियब्रह्मरूपत्वमिति भाव:, तथा तस्य जगल्लो- कपसिद्धं दुःखमयं जगद्विश्वं सुखमयं सुखस्वरूपं ब्रह्मैव भवति सप्तम्यारूददृष्ठ्या जगतो मिथ्यात्वानुसन्धानेन तत्र प्तीयमा- नस्यापि दुःखस्यात्यन्तासत्वाच् जगद्गतसुखस्य च केवलघ्रह्मसु- खाभिन्नत्वानुमन्धानेन च जगतः सुखमयत्वं सिद्धमिति भाव:, तथा तम्य किश्चिद्द्दग्विषयजातमेव न किश्चिन्मयं न किश्चिद्द्ट- गगोचर आत्मा तन्मयं तदूषं भवति 'सर्व खल्विदं ब्रह्म नेह ना-
Page 315
२११
नास्ति किश्नने'ति ्रुयां बाघसामानाधिकरण्यस्य ब्रह्मेदंशब्दयोः प्रतीयमानत्वादूदृग्गोचरस्य सर्वपदवाच्यस्य जगतोऽसन्तासच्ेन दृश्यं जगदेवादृश्यं व्रह्मेति भावः, एवं च सप्तम्यारूढवात्तार्या वर्णनस्य विरुद्धत्वेन मतीयमानत्व्रादर्णनासम्भव इति भावः।।9।। इदानीं सप्तम्यारूदस्य प्रतापनिरूपणेन तल्लक्षणमाह। अत्यन्तहीनो बलपौरुषाभ्यामकिंचनो यो गलिताभिमानः। तेनैव नीता रिषवो विनाशं न ये हतास्तात महेन्द्रमुख्यैः ॥८॥ अस्यन्तेति। लोके तावद्वलवान्धनी साभिमानी शत्रून्नाशयति अत्र त्विवमाश्चर्य यः पुरुषो बलपौरुषाभ्यां बलं शरीरदार्ढ्ये पौरुष मुद्योगस्ताभ्यामत्यन्तहीनोऽसन्तरहितः पुनश्चाकिञ्चनो निष्किश्चनः पुनश्च गलिताभिमानो गलितो नष्टोऽ्भि- मानो यस्य स तथोक्तो योऽस्ति तेनैव नान्येन पुरुषेण रिपव: शत्रत्रो विनाशं लयं नीता: प्रापिताः, इदमाश्चर्ये सप्तम्यारूढेऽस्तीति भावः, ननु वलादिहीनेन ये नाशिता: शत्रवस्ते निर्बला एव भ- वेयुरित्याशङ्काह नेति, हे तात हे शिष्य ये शत्रवः कामादयो म- हेन्द्रमुख्यैरमहेन्द्रो मघत्रा मुख्यो आदिर्येषु ते तथोक्तासैर्न हता न मारिता: प्रत्युत तैः कामादिशत्रुभिरेवेन्द्रादयो जित्वा स्वनशे स्थापितास्ताइशाः परबला अपि शत्रवः सप्तम्य।रूढेन पौ- रुपादिहीनेनापि नाशिता इति भावः ॥ ८ ।। रूपकेण सप्तम्यारूढस्थिति बुध्यारोहायाह। ब्रह्मविद्रह्मविद्यायां भवान्यां पुत्रतां गतः । निजाङ्गे लालयत्येनं परमात्मा सदाशिवः ॥ ९।। इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे ज्ञानसप्तमभूमिकानिरणयः ॥८।।
Page 316
२९६ बोधसारे।
ब्रह्मविदिति।ब्रह्मविङ्वह्म देशतः कालतो वस्तुतश्वापरिच्क्विन् वस्तु वेत्ति जानाति स तथाभूतः पुरुषो ब्रह्मविद्यायां ब्रह्मणों देशादिपरिच्छेदरहितस्य वस्तुनो विद्या ज्ञानमेतन्नाम्न्यामि- त्यर्थः, भवान्यां पार्वर्या पुत्रतां पुत्रभावं गंतः प्राप्तो यदा तदे- त्यध्याहाये परमात्मा कार्यकारण्ातीत आत्मा सदाशिवः सर्व- दैव सुखरूपत्वाच्छङ्कर एनं ब्रह्मविदं सप्तम्यारूढमिसर्थः, नि- जाङ्गे निजं स्वीयमंशत्वादङ्गं शबलं ब्रह्म तस्मिन्नभेदेन लालय- ति प्रीत्या खेलयति ॥ ९ ॥
भूमिकाभेदभास्करार्थप्रकाशे सप्तमभूमिकानिर्णयार्थ- प्रकाशोSषमः ॥८॥
एवं सप्तविधां सलक्षणां ज्ञानभूमि पतिपादेदानीं तासां निर्णयाय भूमिकाशास्त्रार्थनिर्णयाख्यं सप्तदशश्लोकं प्रकरणं वक्तुं पाह। अथ भमिकाशास्त्रार्थनिर्णयः । अथेति। अथ सप्तभूमिकानिरूपणानन्तरं भूमिकाशास्त्रार्थ- निर्णयो भूमिकानां पूर्वोक्तसप्तभूमीनां शास्त्रार्थः शासकवाक्या- र्थस्तस्य निर्णयो निश्चयो निरूप्यत इति शेषः, तमेवाह। भूमिकात्नितयं जाग्रच्चतुर्थी स्वप्र उच्यते। तावती साधकावस्था तारतम्येन योगिनाम् ॥ १ ॥ भूमिकेति। पूर्व जिज्ञासा-विचारा-तनुमानसाख्यं भूमिकात्रि- तयं भूमिकानामवस्थानां त्रितयं जाग्रज्जागराख्यावस्थोच्यते क- ध्यते तथा चतुर्थी सत्त्वापत्याख्या भूमिः स्वमः स्वन्ावस्थो-
Page 317
राज• भूमिकाभेद०भूमिकाशास्त्रार्थनिणंयः। २९७
व्यते कथ्यते तावती चतुर्थभूमिपर्यन्ता योगिनां जिज्ञामूर्ना तारतम्येन न्यूनाधिकत्वेन साधकावंस्था साधकत्वरूपाSवस्था स्थितिरिति जेया॥ १ ॥ तत उत्तरावस्थासु सिद्धाऽवस्थात्वं तारतम्येन दर्शयति। पञ्चमीं तु समारम्य सिद्धावस्थैव सा त्रिधा। तिसृणामप्यवस्थानां दृष्टान्तोऽत्र निरूप्यते॥२॥ पश्चमीमिति। पश्चमीमसंसक्तिनाम्रीं भूमिकां समारभ्य स- म्यगङ्गीकृत्योत्तरा सिद्धावस्थैव सिद्धस्थितिरेव ज्ञेयाऽडत्मा- परोक्ष्यात् सा सिद्धावस्था त्रिधा त्रिप्रकारा ज्ेया तद्रेदस्वरूपं द- शयितुं दृष्टान्तनिरूपणं प्रतिजानीते तिसृणामिति, तिसृणां त्रि- संख्यानामपि अवस्थानां भूमिकानामत्रास्मिन् प्रकरणे दृष्टान्तो युत्त्यपरपर्याय उदाहरणमित्यर्थः, निरूप्यते कथ्यते ॥ २॥ प्रतिज्ञातमेत्र द्ृष्टान्तमाह द्राभ्याम्। सुषुप्तेः प्रथमावस्था तस्यां यत्सुखमाप्यते। सुषुप्तेर्या घनावस्था तस्यामपि तदेव हि ॥ ३ ॥ सुपुप्तेरिति। सुपुप्तेर्लोकमसिद्धनिद्राया या प्रथमा शिथिला- डवस्था स्थितिस्तस्यामवस्थायां यतसुखं यत्पकारकं सुखमा- व्यते लभ्यते तदेव तत्सुखमेव सुपुप्तेर्निद्राया या घनावस्था निविडा स्थितिरस्ति तस्यामप्यवस्थायामाप्यते प्राप्यते हि प्रसिद्धमिद लोक इत्यर्थः ॥ ३ ॥ सुखं घनसुषुप्तौ तत्सुखं गाढसुपुप्तके। तुर्यायामपि सप्तम्यामानन्दानुभवः समः ॥४॥ मुखमिति। यत्सुखं शर्म घनसुपुप्तौ घना निविडा सुपुप्ति- ३८
Page 318
२९८ बोधसारे।
रनिद्रा तस्यामस्ति ततसुखमेवानन्दो गाढसुपुप्तके गाढ दृढ य तसुषुप्तकं निद्रा तम्मिन्नस्ति अतस्त्रिविधसुप्तौ शिथिलघनगाढत्व- भेदेन त्रिपकारायामीप निद्रायामानन्दानुभव आनन्दस्य सु- खस्यानुभवः प्रतीतिः सम एक एव स्यान्ववेद्यथा यद्दत ॥।४ ।. दार्ष्टान्तिके यो जयति। तथा य एव पञ्चम्यां षष्ठ्यामपि स एव हि। तुर्यायामपि सप्तम्यां ब्रह्मानन्दः स एव हि ॥ ५॥ तथेति। तथा तद्वय एव विद्वत्पसक्षो ब्रह्मानन्दो भूमश- व्दवाच्यं सुखं पश्चम्यामसंसक्तिनाम्न्यां पश्चमभूमिकायामस्ति स एव हि असावेव ब्रह्मानन्दः पष्ठ्यामपि पदार्थाभाविनीना- म्न्नामप्यवस्थायामस्ति हि प्रसिद्धं तथा यो ब्रह्मानन्द: षष्ठ्या- मस्ति स एव हि असावेव पसिद्धो ब्रह्मानन्दस्तुर्यायां तुर्या- खयारयां सप्तमभूमिकायामपि अस्ति अतस्तिसृष्वप्यवस्थासु व्र- ह्मानन्दस्वेक एवेति भावः ॥५॥ नन्वानन्दस्यैकत्वे कुतो भूमिभेदस्तत्राह। अभ्यासतारतम्येन तारतम्ये चिरस्थितौ। अपरोक्षानुभतेस्तु तारतम्यं मनाङ़ हि॥ ६ ॥ अभ्यासेति। अभ्यासतारतम्येनाभ्यासो वित्रेकावृत्ति- रूपस्तस्य तारतम्यं न्यूनाधिकभावस्तेन चिरस्थितौ चिरं बहु कालं या स्थितिरवस्थानमानन्दाकारता तस्यां तारतम्ये सती त्यर्थः, अपरोक्षानुभूतेरपरोक्षा प्रत्यक्षा याऽनुभूतिरतुभव- स्तस्या मनागीपदपि तारतम्यं न्यूनाधिक्यं न हि नैव विद्यते॥ ६॥ अपरोक्षानुभूतेर्न्यूनाधिक्याभावे दृष्टान्तमाह।
Page 319
राज· भूमिकाभेद०भूमिकाशास्त्रार्थनिर्णयः । २९९
नास्वादिता सिता यावत्तावन्नास्वादितैव सा। एकदास्वादिता चत्सा नैव नास्वादिता भवेत् ॥७॥ नेति। सिता श्वेतखण्डं यावद्यत्कालपर्यन्तं नास्वादिना न भक्षिता भवति तावत्तत्कालपर्यन्तं सा सिता श्वेतखण्डं ना- स्वादिता नैव भक्षिता भवेत्स्यात् सा सितैकदास्व्रादितै- कस्मिन्समय एकवारमपि आस्व्रादिता खादिता स्याचेद्रवेद्यदि सर्हिं नास्वादिता न भक्षिता नैव भवेन् स्यादेकदैव भ- क्षितारयां तस्यां बहुवारं वा भक्षितायां च स्वादस्पैकरूपत्वं यथा यद्धत् ।। ७ ।। दार्ष्टान्तिकमाह। जाता चेत्सा तु जातैव जातु नाजातता भजेतू। कथं भयो भ्रमत्येष भ्रान्तिरेव गता यदि ॥ ८ ॥ जातेति। तथा सा तु अपरोक्षानुभूतिश्च जाता चेदु उत्पन्ना यदि स्यात्तहि जातु कदाचिदपि अजाततामनुत्पन्नता न भजेन् व्रजेत, कुतः इत्यत आह कथमिति, एप. पच्चम्यारूढो जातसाक्षात्करो जीवो यदि यर्हि भ्रान्तिरेव केवलं भ्रमोपि गता निृत्ता तहि भूय: पुनः कथ केन प्रकारेय भ्रमति वि- क्षिप्यते न कथमपीअर्थः ॥८ ॥ एवमपरोक्षानुभव स्यैकरूपता तस्मिंश्च सति पुनर्भ्रन्त्यभावं च प्रदर्श्येदानीं तत्रोपाधिकृतविशेषं दर्शयितुमाह। अथ कश्चिद्विशेषः । अथेति। अथेदानीमपरोक्षानुभुतौ कश्चित्कोि विशेषो भेदोऽस्ति स उच्यत इति शेषः, तमेत विशेषं दर्शयति सार्धाभ्याम।
Page 320
३०० योधसारे।
तुरीया प्रथमाभासे विद्युदाभासलक्षणा। ततश्चञ्चलदीपाभा ततो निश्चलदीपवत् ॥ ९॥ तुरीयेति। तुरीया जाग्रदाद्यवस्थात्नयाडपेक्षयाऽपरोक्षा- नुभूति: पश्चम्यादिभूमिकात्रयरूपा तुरीया चतुर्थी ज्ञेया सा प- थमाभ।से प्रथम: पश्चमभूमिकायामाभासोनुभवस्तस्मिन् विद्युदा- भासलक्षा विद्युतस्तडित आभास: प्रकाशः स एव लक्षणं चिह्न यस्यां सा तादृशी ज्ञेया ततोऽनन्तरं षष्ठभूमिकाया आरम्भे चश्चलदीपाभा चञ्चलो वायुचालितो यो दीपस्तस्याभेवाभा कान्तिर्यस्या: सा तादृशी भवति। ततस्तदनन्तरं षष्ठ्यामेव प- रिणामेन निश्चलदीपवत्सापरोक्षानुभूतिर्निश्चलः स्थिरो यो दीपस्तद्वस्तस्य प्रभेवेसर्थः, सा भवति ॥९॥ सूर्यप्रभावच्च ततः सप्तमी चिरवर्त्तिनी। उदयास्तविहीना सा दिनपक्षर्त्तुवत्सरम् ॥ १० ॥ सूर्येति। ततोनन्तरं सप्तम्यां साडपरोक्षानुभूतिः सूर्यप्रभा- वत्सूर्यस्यादिसस्य मभा भकाशस्तद्वत्तततुल्या भवति च पुनः स- समी तुर्याख्याऽपरोक्षानुभूतिश्चिरवर्तिनी चिरं वर्तितुं शील- मस्याः सा तथोक्ता भवति बहुकालस्थिरेसर्थः, सा च सप्तम्य- परोक्षानुभूतिः परिणता सती दिनपक्षर्तुवत्सरं दिनं दिवस:, पक्षश्च शुक्ककृष्णभेदेन पश्चदशदिनसमूहात्मक:, ऋतुश्च मासद्वया- तमको वसन्तादिर्वत्सरश्च द्वादशमासात्मकः प्रभवादि: काल ए- तेषां समहारद्वन्द्वैकवद्भावोऽत्यन्तसंयोगे द्वितीया तेष्वित्यर्थः॥१०॥ पुष्कला निश्चला पूर्णा परमानन्दसुन्दरी॥ ११ ॥ निश्चला स्थिरेत्यर्थ:, अत एव पुष्कला परिपुष्टा पूर्णा सर्वत्र
Page 321
३०१
परिपूर्णा तथा परमानन्दसुन्दरी परमानन्दो निरतिशयमुखं तेन सुन्दरी सर्वेपां कमनीया॥ ११॥ एवमपरोक्षानुभवे तारतम्यं प्रदर्श्येदानीमपरोक्षानुभववतां सामर्थ्य निरूपयति। येषां ध्यानकलायां च लीयन्ते गुणपङ्गयः । येषां कृपाकटाक्षेण सदो मुक्तिरवाप्यते ॥ १२ ॥ येपामिति। येषामपरोक्षानुभविनां जिज्ञासुभिरन्यैः कृतं यद्ध्यानं तस्य कलांशस्तस्यां गुणपङ्कयो गुखानां सत्वर जस्तमसा तत्कार्याणां कामादीनां च पङ्कयः समूहा लीयन्ते लीना भ- वन्ति तथा येषामपरोक्षानुभववतां कृपाकटाक्षेण कृपया दयया- यः कटाक्ष नेत्रैकदेशेनावलोकनं तेन जिज्ञामूनां सदयस्तत्का- लमेव मुक्तिर्मोक्षोऽवाप्यते माप्यते, इदमप्युत्तरभूमित्रयारूढ लक्षयं ज्ञेयम् ॥ १२ ॥ पश्चम्यादिभूमित्रयारूढस्य पुनर्जन्माभावमाह। पञ्चमीमथवा षष्ठीं सप्तमीं वा समाश्रिताः । न तेषां पुनरावृत्ति: कल्पकोटिशतैरपि॥ १३ ॥ पश्चमीमिति। ये पुरुषाः पश्चमीममंसक्तिनाम्रीं भूमिका- मथवा यद्रा पष्ठीं पदार्थाभाविनीनास्नीं सप्तमीं वा तुर्याख्यां सप्तमभूमिकां वा समाश्रिताऽडश्रित्य स्थिता: सन्ति तेषां पुरु- पाणां कल्पकोटिशतैरपि कल्पानां ब्रह्मदिनानां ब्रह्मायुप्य रूपाणां महाकल्पानां वा शतानि अनन्तानि तैर्व्यतीतैरपि पुनगशात्तः पुनः पश्चान्मुक्तेरनन्तरमादृत्ति जन्ममरणरूपा संसृरतिर्न न भवति॥१३॥
Page 322
३०२ बोधसारे।
एवमुत्तरावस्थात्रये स्थितानां सिद्धावस्थात्वं मुक्तत्वं च प्रतिपाद्ेदानीं पूर्वावस्थाचतुष्कस्थितानामपि मरणादिना केन- चित्पतिबन्धेन तत्वज्ञानानुत्पत्तौ मुत्त्यभावेपि जन्मान्तरे पूर्वव- दभ्यासेन मुक्तिपाप्तिमाह सार्घेन। पूर्वावस्थाचतुष्के ये स्थिता देहं विहाय ते। पुनर्देहान्तरं प्राप्य ब्रह्माभ्यासं प्रकुर्वते ॥ १४ ॥ पूर्वेति। ये मुमुक्षवः पूर्वावस्थाचतुष्के पूर्वाः प्रथमा या अ- वस्था भूमयो जिज्ञासा विचारा तनुमानसा सत्वापयाख्यास्तासा चतुष्कं चतुष्टयं तस्मिन केन चित्प्रतिबन्धेन ततत्वसाक्षात्कारा- लाभेन स्थिता वर्त्तमाना भवन्ति ते पुरुषा देहं शरीरं वि- हाय त्यक्क्का पुनर्भूयो जन्मान्तरमन्यज्जन्म प्राप्य लब्धा ब्र- ह्माभ्यासं। तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रवोधनम्। एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः॥ इत्युक्तलक्षणं ब्रह्मपाप्तिसाधनभूतं यत्नं प्रकुर्वते प्रकर्षेणानुशी- लयन्ति ॥ १४ ॥ ननु पूर्वभूमिकाचतुष्कस्थितानामन्यजन्मनि मोक्षो भव- तीति स्व्रकपोलकल्पितमियाशड्ाह। योगभ्रष्टास्त उच्यन्ते क्रमेण ब्रह्मगामिनः । योगिनो योगसिद्धाश्च दत्ताद्या जनकादयः ॥१५॥ योगभ्रष्टा इति। ते पूर्वभूमिकाचतुष्कस्थिता योगभ्रष्टा योगभ्रष्टनामका उच्यन्ते कथ्यन्ते गीतादाविति शेष:, तथा च गीता।
Page 323
राज०भूमिकाभेद०भूमिकाशास्त्रार्थनिणयः। ३०३
'प्राप्य पुण्यकृता लोकानुपित्वा शाश्वतीः समाः। शुचीनां श्रीमर्ता गेहे योगभ्रष्टोभिजायते॥। अथवा योगिनामेत्र कुले भवति धीमतामू। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम। त्रत तं बुद्धिसंयोगं लभते पौर्वदैहिकाममि'ति। ते च श्रुतिषु क्रमेणोत्तरोप्तरलोकप्राप्तिक्रमेण ब्रह्मगामिनो ब्रह्मप्राप्ता भविष्यन्तीत्युक्तास्तथा च श्रुतिः, । 'वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धमच्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृता परिमुच्यन्ति सर्वे' इति॥ एवं पूर्वभूमिकाचतुष्टयस्थितानां जन्मान्तरे मुक्तिं सम्भा- व्येदानीं सिद्धानपि काश्चिदुत्तरभूमित्रयारूढानुदाहृत्य दर्श- यति योगिन इति, ब्रह्मादयस्तु स्वत एव योगिनो योगशब्द- वाच्यजीवव्रह्मैक्यज्ञानवन्तः स्वत एवेत्यर्थस्तथा दत्ताद्या दत- नामाडत्रिपुत्र आद्यो मुख्यो येषां ते तथोक्तास्तथा जनका- दयो जनको मैथिलः स आदिर्मुख्यो येपां ते तथोक्तास्ते सर्वे योगसिद्धा योगेन इठादिना वा तत्फलभूतजीवब्रह्मैक्यज्ञानेन घा सिद्धा मुक्ता जाता इत्यर्थः ॥१५॥ तथा। ईश्वरानुग्रहं प्राप्ता अर्वाचीनाक्च के चन। स्वरूपानुभवं प्राप्ता मुक्तास्ते सर्व एव हि ॥१ ६॥ ईश्वरेति। केचन कति चित्पुरुपा अर्वाचीनाश्रेदानी- न्तना अपि ईश्वर।नुग्रहमीश्वरस्येशनादिशक्तियुक्तस्यानुग्रह- मनुग्रहः कृपा तदुपलक्षितं सद्गुरुमाप्तिसच्छास्त्रसेवनरूप पाप्ता लब्धास्तत्माप्त्या मोक्षं प्राप्ता इति भाव:, तदुक्त।
Page 324
३०४ बोधसारे।
'यावन्नानुग्रहः साक्षाज्जायते परमेश्वराद। तावन्न सह्ठुरुं कश्चित्सच्छ्ास्त्रमपि नौ लभेदि'ति॥ सर्व एव त उक्ता: समस्ता अपि पश्चम्यादिभूमित्रयारूढा इत्यर्थः, मुक्ता मोक्षं प्राप्ता भवन्ति हि विद्वत्स्वेतत्मसिद्धमित्यर्थः, तत्र हेतुमाह स्वरूपेति, स्वरूपानुभवं स्वस्यात्मनो रूपं स- व्िदानन्दघनत्वं तस्यानुभवः साक्षात्कारस्तं माप्ता लब्धा अतो मुक्ता इसर्थः ॥१६ ॥ एवं सिद्धान्प्रदर्श्येदानीं तेर्षा भूमिकाभेदसत्वेपि मुक्तेरेक- रूपलं दर्शयति। सुषुप्तौ केचिदाश्वस्ताः केचिद्नसुषुप्तके। केचिद्वाढसुषुप्तौ च सर्वेषाममृतं समम् ॥१७॥ इति श्रीनरहरिकृतौ बोधसारे भूमिकाभेदभास्करे भूमिकाशास्त्रार्थनिर्णयः॥९॥ सुपुप्ताविति। केचित्सनत्कुमारनारदप्भृतयो व्यवहारीव
त्यर्थः, आश्वस्ता विश्वस्ता, इयमेव परा काष्ठेति निश्चित्य तत्रैव स्थिता इति भाव:, केचिद्धनसुषुप्तके केचिव्यांसहस्पतिप्रमुखा: परेच्छया वासनोद्वोधेन व्यवहारे मर्वर्तमाना दृश्यन्तेऽतस्ते घनसुपुप्तके निविडसुषुमौ षष्ठ्यामित्यर्थः, आश्वस्ताः कृतार्थत्वं निश्चित्य स्थिता इत्यर्थः, तथा केचिद्रह्मविष्णुपभृतयः परमा- र्थतो व्यवहारापवृत्तेगासुपुप्तौ गाढा दढा सुषुप्तिर्निद्रा प- रकृतवोधेनापि व्युत्थानानहा सप्तमी भूमिस्तस्यामाश्वस्ता वि- 5वस्य स्थिताः, अयं भाव, पश्चम्यारूढानां कदाचित्स्व्रत एव मपश्चसत्वदृष्ठ्या व्यवहारपवृत्तिः, षष्ठ्यारूढानां परकृतवोधनेन मपश्चसत्वबुद्ध्या कदाचिव्ववहारपवृत्तिः, सप्तम्यारूढानां तुस्वतः
Page 325
३०५
परनोपि प्रपश्चसत्ववुद्ध्या व्यवहारापवृत्तिरिति भेद:, मिथ्यात्व- बुद्ध्या तु सर्वेषां व्यवहारप्रवृत्तिस्तुल्यैवेति, तथा सत्यपि अमृतं मोक्षसुखं सर्वेषां भूमित्रयस्थितानां सममेकरूपमस्ति अतः पञ्चम्यादिभूमित्रयं सिद्धावस्थैवेति भावः ॥१७॥ इति थीनरहरिशिष्यदिवाकरविरचितायां बीधसारार्थदीसी भूमिकाभेदभास्करार्थप्रकाशे सप्तमभूमिकानिर्णयार्थ- प्रकाशी नवमः ॥९॥ समाप्तं चेदं प्रकरणम्ं ।
एवं ज्ञानाज्ञानभूमीश्चतुर्दश सलक्षणाः प्रदर्श्येदानीं प्रद र्शितमेत्र पूर्वप्रकरगार्थ विशदीकर्तु प्रकारान्तरेणावस्था व्य- वस्थापयितुं चावस्थाव्यवस्थाभिधं पदूत्रिशरुछोकं प्रकरणं भवक्तुमाह। अथावस्थाव्यवस्था। अथेति। अथ भूमिकाभेदभास्करनिरूपणानन्तरमवस्था- व्यवंस्थाऽवस्थानां वक्ष्यमाणानां जाग्रदादीनां व्यवस्था व्य- वस्थितिर्मर्यादेसर्थः, तन्निरुपकत्वादवस्थाव्यवस्थाख्यं प्रकरण- मिति भाव:, निरुष्यत इि शेषः। प्रतिज्ञातमेव प्रंकरणं निरूप- यितुं तच्छ्रवणे शिष्यं प्रेरयति। अथावस्थाव्यवस्थाख्यं किश्चित्प्रकरणं शृणु। यस्मिन्परीक्षिते सम्यक्परीक्ष्यं नावशिष्यते ॥१॥ अथेति। हे शिष्य त्वमथातः परं किश्चित्स्वल्पं सं- क्षिप्तमित्यर्थः, अवस्थाव्यवस्थाख्यमवस्थानां वक्ष्यमाणलक्ष- णानां व्यवस्था मर्यादास्ति यस्यामिति अर्शआध्यज् अत एतदारूयमेतन्नामकं प्रकरणं मया वक्ष्यमाणं शृणु अव- ३९
Page 326
३०६ i; बोधसारे।
धारय, नन्वेतच्छतणे कि फलं तत्राह यस्मिन्पकरणे सम्यश्य- थार्थ परीक्षितेऽवलोकिते सति पुनः पुनर्द्टढं विचार्य धृते सती-
द्यते सर्वत्र परीक्ष्यवस्तुन एतत्प्रकरणपतिपाद्यवस्तुमात्रत्वा दिति भावः॥।१. ॥ प्रतिज्ञातप्रकरणनिरूपणायैव तत्प्रतिपाद्ा अवस्था नाम- सङ्क्याभ्यां निर्दिशति। जाग्रत्स्वप्नः सुषुप्तिश्र तथा मूढसमाघिता। मूर्च्छा मृत्युस्तुरीयञ्चेत्यवस्थाः सप्त कीर्तिताः ।।२।। जाग्रदिति। जाग्रज्जागरनाम्न्येकावस्था स्वमः स्त्रम्- नाम्नी द्वितीया तथा सुषुप्तिः सुप्तिनाम्नी तृतीया तथा त- द्वन्मूढसमाधिता मूढसमाधिनाम्नी चतुर्थी तथा मूर्च्छा मूर्च्छा- नाम्नी पश्चमी तथा मृत्युर्मरणमेतन्नाम्नी च षष्ठी तथा तुरीयं च तुर्यनाम्नी सप्तमी-इति एवं प्रकारेणावस्थाऽन्तःकरय- स्थितयः सप्त सप्तसङ्ग्याः कीर्तिता कथिता विद्वन्िरि- ति शेषः॥२ ॥ ता एव विशदयति। जाग्रत्स्वप्नः सुषुप्तिश्च व्यक्ता मूढसमाधिता। मूर्च्छा मृत्युस्तुरीयं च व्यक्ता नित्यानुभूतितः ॥३॥ जाग्रदिति। जाग्रदिन्द्रियैरर्थोपलब्धिर्जागरितमित्युक्तल- क्षणावस्था, स्वम्ो लीनेष्विन्द्रियेषु जागरसंस्कारजो विषया- भास: स स्वप्न इत्युक्तलक्षणा स्वन्नावस्था, सुषुप्तिश्च निद्रा वि- पयाभानरूपा, एतास्तिस्रोवस्थाः सर्वत्रोक्तत्वात्सर्वानुभवसिद्ध- त्वाच्च व्यक्ता: सर्वेपामावालगे।पं प्रकटा एव भवन्त्यतस्तन्नि
Page 327
३०७
रूपणं न क्रियत इत्यर्थः, सूढसमाधिता मूढसमाधिनाम्न्यवस्था मूर्छा मुग्धेडर्सम्पत्तिरिति सूत्रोपदर्शिता मूछीवस्था मृत्युर्मर- गा।वस्था तुरीयं च तुर्याख्यानस्था चैतश्वतस्त्रोवस्था नि० त्यानुभूतितो नित्यानुभवरूपेणात्मचैतन्येनैव व्यक्ता: प्रकाशशिता भवन्तीति ह्ेयाः ॥ ३॥ मूढ समाध्यवस्था तु पूर्वमेवोक्ताडतो नोच्यत इसाह। उक्तं मृढसमाधानं भवप्रत्ययसंज्ञकम् । पुराSसंप्रज्ञातनामसमाधेर्भेदवर्णने ॥ ४॥ उक्तमिति। पुरा योगदीक्षाचिन्तामण्यारयप्रकरणेडस-
वमत्ययसंज्ञकं भवस्य संसारस्य प्रत्ययोनुभवो वीजरूपेणास्मि- न्नस्तीति भवप्रत्यय इत्येवं संज्ञा नाम यस्य तत्तथोक्तं. मूढस- माधानं मूढममाधिरुक्तं कथितमतः पुनर्नोच्यत इति भावः ॥ ४।। तदेव बाजरूपेणवस्थानं प्पश्चस्य तत्स्थव्यवहारोदाहरयो- न विशदयत्यर्धेन। तत्समाधि्थिता जित्वेन्द्रादीवस्वर्गेशतां ययुः । मृत्युर्मर्च्छा प्रसिद्धेति तुरीयमभिधीयते ॥ ५॥ तदिति। तत्समाधिस्थिताः स एव भवप्रत्ययनामा समाधिस्त- स्ममाधिस्तस्मिन्स्थताः स्थिरीभूता ये हिरण्यकशिप्वादयस्से समाधिव्युत्थानादनन्तरमिन्द्रो मरुच्वानादि: प्रथुमो येपाम- स्नियमादीनां ते तथोक्तास्ताञ्ित्वा युद्धे पराभूय स्वर्गेशतां स्व र्गेस्येशतामीश्वरत्वं ययु: प्रापुरती मूढसमाधौ बीजरूपेण संसारु प्रत्ययो विद्यत इनिकि भावः, ननु तर्हि मृत्युमूर्छे एव निरुप्येतामि- त्याशक्का ते अपि प्रसिद्धत्वान्मुमुक्षूगामनादरणीयत्वाच्च न नि रूप्येते इत्याशयेनाह मृत्युरिति, मृत्युर्मरणं मूर्च्छाडर्धमृतिनाम्ना
Page 328
३०८ बोधसारे।
प्रसिद्धाऽनुभूतैवेति अतो हेतोस्ते अपि पारत्यज्य प्रथमँ मुमुक्षू- यामादरणीयत्वात्तुरीयं तुर्यार्यैवावस्थाडभिधीयते निरुप्यत इत्यर्थः ॥ ५ ॥ प्रतिज्ञातामेव तुर्यावस्थां निरूपयति। वेदान्तसंप्रदायेन निदिध्यासनदार्ढ्यतः । परमात्मनि चित्तस्य लयस्तु तुर्मुच्यते ॥ ६ ॥ वेदान्तेति। वेदान्तसंप्रदायेन वेदान्तस्योपनिषदादिग्र- न्थस्य संप्रदाय: परिपादी तेन तदनुकूलतयेत्यर्थः, निदिध्यास-
दाढ्यनो दृढ़त्वेन परमात्मनि कार्यकारणातीत आत्मनि चित्त- स्यान्तःकरणस्य लयस्तद्रपेणावस्थानं यत्तत्तु तक्षेत्र तुर्ये तुरी- यनामकमुच्यते कथ्यते विद्ृद्भिरिति शेषः ॥ ६॥ तस्मिश्च सति कि फलं तदाह। तत्र साक्षात्कृतं ब्रह्म मूलाविद्याविनाशकृत्। तत्र प्रश्नः । स्वप्नजागरयोस्तुल्यः संसाराड़म्बरो मुने ॥७॥ तत्रेति। तत्र तुर्यावस्थायां ब्रह्म देशकालवस्तुकृतपरिच्छेद- शून्यं वस्तु स्वस्मिभेव साक्षात्कृतं स्वाभिन्नमनुभूतं सन्मूला त्रिद्याविनाशकन्मूलाविद्या स्वस्य ब्रह्मणश्चैक्याज्ञानं मूलाविद्या तस्या विनाश: क्षयस्तस्य कृत्कर्तृं भवतीति फलं तुर्यपाप्तौ ज्ञेयम्, एवं सङ्गपतोवस्थाः सप्तापि प्दरश्येदानीं ता एव विस्तरतो वक्तु प्श्नावतरणं प्रतिजानीते तत्रति, तत्रावस्थासु मध्ये प्रश्नोऽनु- यगः क्रियत इति शेष: तमेवाह स्वम्नेति, हे मुने मननशील हे गुरो संसाराडम्बरः संसाररूपो घटाटोपः स्वम्रजागरयोः रवमे
Page 329
राज०भूमिकाभेद०भूमिकाशास्त्रार्थनिर्णयः । ३०९
स्वमावस्थायां च जागरे च जाग्रदवस्थायां तुल्यः सम एत सुखदुःखप्रतीतिः समैवोभयत्रेति भावः ॥७॥ तर्हि केन विशेषेण संज्ञा भेदस्तयोर्वद। अत्रोत्तरम् । जानीहि प्रथमं तात भेदं विस्मृतिबोधयोः ॥॥ तहीति। तर्हि तदा केन विशेषेण केन वैलक्षरायेन तयो: स्वम्नजागरयोः संज्ञाभेदः संज्ञयोरभिधानयोर्भेद पृथत्कं तत्कारयं वद ब्रूहीति प्रश्नार्थः ।अस्योत्तरं वक्तुमाह। अत्रेति। अत्रोक्तमश्न उत्तरं प्रतिवाक्यमुच्यत इति शेप:, तदेवाह जानीहीति, हे तात हे शिष्य त्वं पथमं पूर्व विस्मृतिबो- धयोर्विस्मृतिश्र विस्मरणं बोधश्च ज्ञानं तयोर्भेंदं पृथक्त जा- नीहि विद्धि पश्चादनन्तरं स्वप्रजागरयोः स्वप्नश्च जाग्रदविपयवा- सनावासितबुद्धौ विषयानुभवाभासलक्षणो जागरश्व जागृति- रिन्द्रियैरर्थोपलव्धिज्गगरितमित्युक्तलक्षणा तयोर्भेंदं पृथवत्वं झास्यसि वेत्स्यसि अतः पूर्व तं विस्मृतिबोधभेदं शृणु अ- वधारय॥ ८॥ एवं शिष्यं निरुप्यमामाभेदश्रवणे संमुखीकृत्येदानीं प्रति- ज्ञातमेत्र भेदं दर्शयति। स्वप्नजागरयोभेदं पश्चाज्ज्ञास्यीस तं शृणु। विस्मृतिर्यन्न भासेत बोधो मिथ्यात्वनिश्चयः॥९॥ जागरानन्तरं निद्रा तत्र स्वप्ो यदा भवेत्। सवप्ने स्याज्जागराभानं न तु जागरबोधनम् ॥१०॥ विस्मृतिरिति। यत्पदार्थजातं किमपि न भासेत न प्रती-
Page 330
३१७ बोघसारे।
येत सा विस्मृतिर्विस्मरण ज्ञेया तथा मिथ्यात्वनिश्चयः पदा- र्थानां मिथ्यात्वस्यासत्वस्य निश्चयोऽध्ववसायः स बोधो ज्ञानमित्युच्यत इदमेव विस्मृतिबोधयोर्वैलक्षण्यं ज्ञेयमिति भावः, एवं विम्मृतिबोधवैलक्षण्यं मदशयैदानी प्रस्तुतजाग्रत्सव- प्रयोरभेदं दर्शयति जागरेति, जागरानन्तरं जागरो जागृति- स्तंस्या अनन्तरं पश्चान्निद्रा सुपुप्तिर्भवतीति स्पष्टमेन्राबालगोपं तत्र तस्यां सुषुप्तौ यदा यस्मिन्काले स्वमः प्रातिभासिकवि- पयस्फुरणरूपो भवेत्स्यात्तदा तस्मिन्काले रवने स्वप्नावस्थार्या जागराभानं जाग्रद्दशाया अभानं विस्मृतिर्भवेत्स्याज्जागरबोधनं जागरस्य जाग्रदवस्थाया बोधनं भान जागरमिथ्यात्वनिश्चय इत्यर्थः, न तु भवेनैव स्याव ॥ ९॥१०॥ एतदेव स्पष्टमाह। जागरोडयं तु मिथ्येति बुद्धि: रवप्े न वर्तते। किन्तु जागरविस्मृत्या रवपे स्वप्नार्थदर्शनम्॥११॥ जागर इति। अयं प्रतक्षतया दृश्यमानो जागरो जागृति- प्रपश्चो मिथ्या भ्रान्तिरूप इसेवं प्रकार बुद्धिर्निश्चयरूपान्त :- करणवृत्ति: रवने स्वन्नावस्थायां न तु नैव वर्त्तते ैव विद्यत इत्यर्थः, किन्तु किं त्हि स्व्रमे स्वन्नावस्थायां जागरविस्मृत्या- जागरस्य जागरयास्य विस्मृतिरभानं तया स्वमार्थदर्शन स्व- मे स्व्रन्नावस्थायां ये प्रातिभासिका अर्थास्तेषां दर्शनं प्रतीति- रस्ति विद्यते जाग्रन्मिथ्यात्वनिश्चयाभावो जागराभानं च सवमे ज्ञागृतिता वैलक्ष्यण्यं ज्ञेयमिति भावः ॥११ ॥ उक्ते जाग्रतः स्वमस्य वैलक्षण्यं निगमयति। स्वप्नस्यैतन्निजं रूपं जागरस्याधुना शृणु। स्वप्नस्यानन्तरं तात जागरो हि यदा भवेत् ॥१२॥
Page 331
राज·भूमिकाभेद०भूमिकाशास्त्रार्थनिर्णयः । ३११
स्वम्नस्येति। एतदिदमुक्तलक्षणं स्वप्स्य स्वम्नावस्थया निजं स्व्रीयं रूप झेयम, एवं जाग्रदशातः स्वप्नस्य वैलक्षण्यं प्रदश्येदानीं जागरस्यापि स्त्रप्नतो वैलक्षण्यं श्रोतुं शिष्यमभिमुखीकरोति जागरस्येति, हे शिष्य अधुनेदानीं जागरस्य जागरणस्य स्वरूपं भृणु श्रोतव्यं, प्रतिज्ञातमेत जाग्रस्वरूपनिरूपयां करोति स्वम- स्येति, हे तात हे शिष्य स्वप्नम्य स्वन्नावस्थाया अनन्तरं पश्रा- ददा य्मिन्काले हि प्रसिद्धो जागरी जागरणं भवेत्स्यात्॥१२। स्वप्नमिथ्यात्वबुध्यात्मस्वप्नबोधस्तदा भवेत्। अन्यच्च। स्वप्रे तु यादृशी तात भवेज्जागरविस्मृतिः ॥१३॥ स्वप्नेति। तदा तस्मिन्समये स्व्रप्नमिथ्यात्वबुद्धा स्वन्नस्य सविषयस्वम्ावस्थाया मिथ्यात्वमसत्त्वं तस्य बुद्धिर्निश्चयात्मि- आत्मनः स्वप्नद्रष्टः स्वस्यैव स्वम्ावस्थाया बोधो ज्ञानं भवेत्स्याज्जागरे स्वमा- विस्मरणं स्व्नवोधश्चेति स्वन्नतो जागरस्य वैलक्षण्यं सिद्धमिति भावः, अन्यदपि वैलक्षण्यं वक्तुमाहान्यच्चेति, अन्यच्च लक्ष- णान्तरमपि उच्यत इति शेष:, तदेवाह सवमे त्विति, हे तात हे शिष्य स्वने स्वम्नावस्थायां जागरविस्मृतिस्तु जागरविस्मृति- र्जागराभानमपपि यादशी यद्वन्भ्रवेत्स्याव्।। १३॥। जागरे तादृशी नास्ति स्वप्नसंसारविस्मृतिः । जागरे स्मर्यते स्वप्नस्तस्य मिथ्यात्वदर्शनम्॥ १४॥ जागर इति। जागरे जाग्रदवस्थायां स्वप्नसंसारविस्मृतिः सवने स्त्रम्ावस्थार्या यः प्रतीयमानः संसार: सुखदुःखजन्ममर- णादिरूपस्तस्य विस्मृतिरभानं तादृशी तद्वन्नास्ति न विद्यत
Page 332
३१२ बोधसारे।
इदं च वैलक्षण्यं स्पष्टमेवेति भाव:, अन्यदपि वैलक्षण्यान्तरमाह जागर इति, जागरे जागरावस्थायां स्वम्नः सविषया स्वभाव- स्था स्मर्यतेऽनुसन्धीयते तस्प स्वम्स्य मिथ्यात्वदर्शनं मिथ्या- स्वस्यासत्त्वस्य दर्शनं भानमस्तीति शेषः ॥ १४ ॥ रवप्ने न स्मर्यते जाग्रन्न तन्मिथ्यात्वदर्शनम् । अनेनातिविशेषेण स्वप्नजागरयोर्भिदा ॥१५॥ स्वम्न इति। यथा तथेअध्याहार्यवमे स्वमावस्थायां जा- प्रत्सविषया जाग्रदवस्था न स्मर्यते नानुसन्धीयते तम्मिथ्यात्व- दर्शनं तस्या जाग्रदवस्थाया मिथ्यात्वमसत्वं तस्य दर्शनम पीसध्याहार्य, न नैव विद्यते, उक्तं स्वम्रजाग्र्देदनिरूपणमुपसंह- रति अनेनेति, अनेनोक्तेनातिविशेषेण त्रिपकारेणाप्यतिवैल- क्षण्येन स्वप्नजागरयोः स्त्रप्नश्चोक्तलक्षणा स्वमावस्था जागरश्ष जागृतिस्तयोरभिंदा भेद: सिद्ध इति भाव: ॥१५ ॥। एवं सप्तावस्थासु मध्ये पूर्वमवस्थाद्वयं भेदेन प्रदश्येदानीमु- प्तरा: पश्चाप्यवस्था भेदेन प्रदर्शयितुं प्रश्नोत्थापनमवतारयति। अथप्रश्नान्तरम् । अथेति। अथ पूर्वावस्थाद्वयभेदज्ञानानन्तरं प्रश्नान्तरमन्यो द्वितीयः प्रश्नोनुयोग: प्रश्नान्तरं पूर्वप्श्नापेक्षया द्वितीय: प्रश्न इ- त्यर्थ:, क्रियत इति शेषः। तमेवाह। ननु मूढसमाधौ च मूर्च्छामृत्युसषुप्तिषु। तुरीये च न दृश्यश्रीस्तर्हि तेषां भिदा कुतः ॥१ ६॥ नन्विति। नन्विति शङ्कायामियं ममाशङ्का जाता मू- ढसमाधौ पूर्वोक्तलक्षणे मूढसमाधाने भवप्रसयनामके पु- नश्च मूछीमृत्युसुपुप्तिषु मूर्छा चार्धमृतिरूपा मुग्धेर्धसम्प- त्तिरितिसूत्रोपदर्शिता मृत्युश्च प्राणादिवियोगेन बेहपत-
Page 333
भवसाव्यवस्था। ३१३
नरूपः प्रसिद्ध। सर्वेपु, सुपुप्तिश्वान्तःकरखेन्द्रियादीना कारण- ज्ञानमात्ररूपेणावस्थानं निद्रापरपर्याया तासु तुरीये च तुर्या- वस्थायामपि दृश्यश्रीर्द्टश्यस्य त्रिपुटीरूपपपश्चस्य श्रीः शोभा न न विद्यते दृश्याभानं पञ्चावस्थास्वपि तुल्यमिति, तदा तर्हि तेर्षा मूर्च्छादितुर्यान्ताऽवस्थालक्षणानां भिदा भेद: कुतः कुतः का- रणादस्ति वैलक्षण्याभावान्न कुतोपि भेदः सम्भवतीति भाव:॥ १६ ॥। एवं मश्नं निरूप्योत्तरं वक्तुं पतिजानीते। अत्रोत्तरम् । अत्रेति। अव द्वितीये प्रश्न इत्यर्थः, उत्तरं पतिवाक्यमुच्यत इति शेषः। तदेवाह। सिद्धिकामनया यैस्तु तप उग्रं कृतं महत् । देहोपि विस्मृतस्तैस्तु क्रिमिकीटादिभक्षितः ॥१७॥ सिद्धीति । यैस्तु संसाररसिकैर्हिरण्यकशिप्वादि- भिः सिद्धिकामनया सिद्धीनामिन्द्रादिपदपाप्तिरूपाणा का- मनेच्छा तया महद्वहूग्रं त्रैलोक्यसन्तापकं तपः शीतो- ष्णादिक्लेशसहनेन ब्रह्माराधनरूपं कृतमाचीर्ण तैस्तूक्तैहि- रण्यकशिप्वादिभिर्देहोपि कायोपि विस्मृतो न ज्ञातः, ननु तैर्दे- हो विस्मृत इति कुतो निश्चितं तत्राह क्रिमिकीटेति, क्रिमिकीटा- दिभक्षितः क्रिमयश्च पिपीलिका: कीटास्तद्विशेषा एव त आदयो येपां ते तथोक्तास्तैर्भक्षितो जग्धः स न ज्ञातोऽत एव ते्षा भानं देहे नास्तीति निश्चीयत इति भावः ॥१७ ॥ नेयं मूर्च्छा न रोगोयं न मृत्युर्जीवनादयम्। सुपुप्तानन्दविरहान्न सुषुप्तिरिति स्फुटम् ॥ १८॥ ४०
Page 334
३१४ बोधसारे।
वस्था न न भवतति कुतो न मूर्छात्वमस्यास्तत्राह नेति, अयं तपःक्केशो रोगो व्याधिर्न न विद्यते, नन्वस्या मूर्च्छातं मास्तु मृत्युत्वं कुतो न स्यादिसाशङ्ाह नेति, इयं वि- स्मृतिर्मृत्युर्मरणं न न भर्वात, कुतो नास्या मृत्युत्वं तत्राह जी- वनात्माणधारणादियर्थः, माणवियोगस्यैव मृत्युत्वपसिद्धेरिति भावः, नन्वस्य समाधेर्मूच्छात्वं मृत्युत्वं च मा भूतां सुषुप्तत्वमस्तु तत्राह सुषुप्तेति, सुषुप्तानन्दविरहात्सुपुप्तं निद्रा तस्मिन्य आ- नन्दः सुखमस्ति उत्थितस्य पुरुषस्य सुखमहमस्वाप्समिति स्मृ- त्यन्यथानुपपच्यानुमेयं यत्सुखं तेन विरहाद्वियोगान्न सुपुप्तिर्न निद्रा सुपौ हि स्वैः सुखमनुभूयतेऽतस्तद्रहितत्वान्नास्य सुषुप्ति- त्वमिति भाव:, इति एतत्सफुटं प्रकटमस्ति अत्र न कस्यापि सन्देह इति भाव: ॥१८ ॥ नन्वस्या विस्मृतेर्मास्तु सुपुप्तित्वं तुर्यत्वमस्त्वत्याशक्काह। स्वरूपलाभविरहान्मूढत्वान्न तुरीयकम्। दृश्यभानं तु नास्त्यासु तावता न कृतार्थता॥१९॥ स्वरूपेति। इयं विस्मृतिस्तुरीयकं तुरीयावस्थापि न न भवति, नन्वस्याः कुतो न तुर्यात्वं तत्राह स्वरूपेति, स्वरूपस्थ स्व्प्रकाशचिन्मात्रस्वभावस्यात्मनो लाभः साक्षादनुभवस्तेन विरहो वियोगस्तस्माद्धितोः स्वमकाशात्मलाभ एव तुर्यशब्द- वाच्यः सर्वशास्त्रेषु प्रसिद्धोऽतः परिशेषान्मूढत्वाच्च मूढभावा- दस्या विस्मृतेर्मूढसमाधित्वं सिद्धममिति ज्ञेयम। अयं भावः, मौढ्य- शेषेण तपःक्लेशेन च देहादिविस्मृतिर्मूढसमाधिरित्युच्यते, रोगा- दिपीडापूर्विका देहादिविस्मृतिर्मूर्छा, पराणादिवियोगपूर्विका देहादिविस्मृतिर्मृत्युरित्युच्यते, सुखानुभवपूर्विका मौठ्यवशिष्टा
Page 335
अनस्थाव्यवस्था । ३१५
देहादिविस्मृतिः सुपुप्तिरुच्यते स्वयं प्रकाशात्मलाभपूर्विका मौ- ढ्य हीना तुर्येति विवेक:, नतु मूढसमाध्यादितुर्यान्तावस्थापश्चके दृश्यभानाभावमात्रेणैव मौढ्यशेषेपि मुक्तिसिद्धि: कुतो नेत्या- शङ्का तदर्षाङ्गीकारेण शेप समाधत्ते दृश्यभानमिति, आसु तू- क्तपञ्चावस्थास्त्रपि दृश्यभानं दृश्यस्य जगतो भानमनुभवो नास्ति न विद्यते सत्यमेतत्परन्तु तावता दृश्यभानाभावमात्रेगौव केवलं न कृतार्थता कृतकृत्यत्वलक्षणा नियतृप्तिर्न न भवेद ॥१९ ॥ कुत इयत आहह। व्युत्थानानन्तरं तेषां संसारोपि यदास्थितः । यदात्मदर्शनं नास्ति संसारोऽबाधितस्ततः ॥२०॥ व्युत्थानेति। तेपां मूढसमाध्यादिसुषुप्त्यन्तावस्थाचतु- षकस्थितानां व्युत्थानानन्तरं तत्तदवस्थातो व्युत्थानं देहादि- व्यापारपवृत्तिस्तस्मादनन्तरं पश्चात्संसारोपि सुखदुःखजन्म- मरणादिरूपा संसृतिरपि यद्यतः कारणादास्थितोऽभि- व्याप्यान्तःकरणं स्थितो विद्यमान इत्यर्थः, दृश्यते इति शेषः । ननु मूढसमाध्यादिसुपुप्त्यन्तास्व्रनस्थास्विव व्युत्थानानन्तरं दृश्यप्रतीतिस्तुर्येपि समानवेोति पूर्वावस्थाचतुष्कतुर्ययोः को वि- शेषो येन तुर्यस्य मुक्तिरूपत्वमन्यासां नेत्युच्यत इत्याशक्का व्यु- त्थानकाले संसारप्रतीतौ समायामपि दृश्यसंसारवाधितावाधित- त्वलक्षणं तयोवैलक्षण्यं दर्शयति यदिति, यद्यतः कारणान्मूढस- माध्यादिसुपुप्त्यन्तावस्थाचतुष्क आत्मदर्शनमात्मनः सच्चिदा- नन्दघनस्य स्वस्य दर्शनं ज्ञानं नास्ति न विद्यते ततस्तस्मा- त्कारणात्तास्त्रवस्थासु संसारो जन्मादिरूपोऽवाधितोऽसत्त- दृष्ठ्या नावलोकितः स्थितो वर्त्तत इति शेषः, अतः पूर्वांतस्था- चतुष्के संसारभानाभावमात्रेण न तु सिद्धिः, तुर्ये च तत्स्त्वेपि
Page 336
३१६ घोधसारे।
वाधितत्वाद्व्युत्थानादौ तदसत्वस्य प्रतीयमानत्वेन सर्वदैव संसा- राभाने सति मुक्तिसिद्धिरिति भावः ॥ २० ॥ उक्तार्थे दृष्टान्तकथनं प्रतिजानीते। कथयाम्यत्र दृष्टान्तं सावधानमना: शण। स्वप्ने तु विस्मृतं जाग्रज्जाग्रत्स्वप्ने न बाधितम् ॥२१।। कथयामीति। अहं अत्रोक्तार्थे दृष्टान्तमुपमानं कथयामि निरूपयामि त्वं सावधानमना अवधानमुक्तार्थावधानं तेन सह वर्त्तत इति सावधानमुक्तार्थग्रहगाक्षमं मनोन्तःकरणं य- स्थ स तथाभूतः सञ्छृणु अवधारय; प्रतिज्ञातमेव दृष्टान्तं सार्धे- नाह सवमे त्विति, रवमे स्वनावस्थायां जाग्रज्जागरच्यापारजातं विस्मृतं तु विस्मृतमपि अभातमपीत्यर्थः, लयावस्थयाऽभातं तज्जाग्रज्जागरयां सवमे स्वनावस्थायां न वाधितं नासत्वेन नि- श्वितम्॥ २१ ॥ तस्मादनन्तरं जाग्रत्स्वप्नस्य च यथास्थितम्। जागरे बाधितः स्वप्नस्तेन मिथ्यात्वमागतः ॥२२।। तस्मात्कारणात्स्वपस्य स्वमावस्थाया अनन्तरं पश्चाद् यथा स्थितं यथा यद्वत्पूर्व जाग्रदवस्थायां स्थितं वर्तमानं तथा तद्वज्ाग्रज्जागरयं स्थितं विद्यत एवेति सिद्धं सर्वलोकप्रत्य- क्षमिदमिति भावः । किश्च जागर इति, स्वम्नः स्वन्नव्यवहारो जागरे जाग्रदवस्थायां वाधितोऽसच्वेन ज्ञातोडस्ति तेन कारणेन मिथ्यात्वमसत्वमागतः प्राप्तो भासमानोपि असन्नेव स इत्यर्थः, यथेति शेषः ॥ २२ ॥ दार्ष्टान्तिकमाह द्राभ्याम्।
Page 337
अवस्थाव्यवस्था । ३११
तथा मूढसमाधौ तु विस्मृत सकलं जगत्। व्युत्थानानन्तरं पश्चाद्यथापूर्वमवस्थितम् ॥ २३ ॥। तथेति। तथा तद्वन्मूढसमाधौ तूक्तलक्षणे भवप्रत्यय- नाम्नि समाधानेपि सकलं सम्पूर्ण जगद्विश्वं विस्मृतमभात- मपि न वाधितमसत्वबुद्ध्या न निश्चितं यत इत्यध्याहार्य, अतो हेतोः पश्चात्समाध्युत्थानानन्तरं यथापूर्व यथा यद्व- त्पूर्व प्राकूसमाधेः स्थितं तथा तद्वत्सत्यतयैवावस्थितं वीजरूपेय समाध्यवस्थायामपि स्थितमियर्थः, उपलक्षणमेतन्मूर्छामृत्युसु- पुप्ीनामपि॥ २३॥ किश्च। तुरीये बाधितं विश्वं तस्मान्मिथ्यात्वमागतम्। व्युत्थानेपि मुनेस्तात तन्मिथ्यैव न वास्तवम् ॥२४।। विश्वं जगत्समस्तत्रिपुटीरूपं तुरीये तुर्यावस्थायां बाधितं मिथ्यात्वनिश्चितमस्ति तस्मात्कारणात्तद्विश्वं मिथ्यात्वमसत्व- मागतं प्राप्तं यतः कारणाद अतस्तद्विश्वं व्युत्थानेपि समा- धितो व्युत्थाने जागरणे जाते सत्यपि तद्विश्वं प्रतीयमानमपि मिथ्यैवासदेव न वास्तवं नैव सत्यं भवेदिति ज्ञेयमतस्तुर्या रूढानां सर्वदैव तुर्यास्थितिः सिद्धेति भांवः ॥ २४॥। उक्तार्थमेव द्रढयितुं द्ृष्टान्तान्तरमाह द्वाभ्याम्। रज्जुसर्प यथा दृष्ट्रा कश्िदेशान्तरं गतः । यदा पुनः समायाति तदा तस्माद्विभेत्यसौ ॥२५॥ रज्जुमर्पमिति। यथा कश्चित्पुरुपो देवदत्ताद्यभिधो र- ज्जुमर्प रज्जुविवर्त्ते भुजङ दृष्ट्राऽवलोक्य तत्रैव विचारमक त्वैव देशान्तरं स्थानान्तरं गतः प्राप्तः । स यदा यस्मिन्समये
Page 338
३१८ बोधसारे।
पुनर्भूयः समागाति आगच्छति तदा त्मिन्समये तम्माद्रज्वाव- तसर्पादसौ देवदत्ताद्यभिधः पुरुषो बिभेति भीतिं पामोति ।२५। नायं सर्प इति ज्ञात्वा यदि देशान्तरं गतः । यदा पुनः समायाति तदा तस्माद्विभेति न ॥२६॥ नायमिति। स देवदत्ताद्यभिधः पुरुषो रज्जुसर्पभ्रान्ति- स्थले स्थित्वा दीपादिकमानीय रज्जुं द्ृष्ट्राडयं मद्दृष्टिगोचरः सर्पः सर्पो न भवनि किन्तुरज्जुरेवेयमित्येवं ज्ञात्वाऽनुभूय यदि यर्हि देशान्तरमन्यस्थानं गतः प्राप्तः, तत्र च कार्य कृत्वा यदा यस्मिन्समये पुनर्भूयः समायाति आगच्छति तदा तस्मिन्काले सर्पस्य वाधितत्वान्मिथ्यात्वेनावलोकितत्वान्मिथ्यात्वेनापि स्मृ- तिमायाते सर्पे प्रतीयमाने मतपि तस्मात्सपात्न विभेति भयं न पाप्नोति यथा यद्वत् ॥ २६ ।। दार्ष्टान्तिकमाह द्वाभ्याम्। तथा मूढसमाधानाद्गतः संसारविस्मृतिम् । यदा व्युत्थानमाप्नोति तदा संसारजं भयम् ॥२७॥ तथेति। तथा तद्वन्मूढसमाधानान्मूढत्वपूर्वकं यत्समाधानं भवप्रत्ययसंज्ञकं तस्माद्धेतोः संसारविम्मृति संसारस्य जन्ममर- णादिरूपप्रपश्चस्य विस्मृति विस्मरणमभानमित्यर्थः, गतः पाप्तो भवति, स पुरुपो यदा यस्मिन्समये व्युत्थानं प्रपश्चस्फुरणरूपं जागरणं ततः समाधेराप्नोति आयाति तदेत्यध्याहार्थ तदा तस्मिन्काले संसारजं संसाराज्जन्ममरणादिरूपाज्जातं भयं भीतिं पामोति॥२७॥ किश्च। यदि विद्वत्समाधानाद्रतः ससारविस्मृतिम्।
Page 339
अवस्थाष्य वस्पा। ३१९
यदा व्युत्थानमाप्नाति बाधितत्वाद्विभेति न ॥२८।। यदीति। स पुरुषो यदि यर्हि विद्वत्समाधानाज्ज्ञानपूर्व यत्समाधानं समाधिस्तस्माद्धेतोः संसारविस्मृर्ति संसारस्य ज- न्ममरणसुखदुःखादिरूपस्य मपश्चस्य विस्मृतिमभानं गतः प्राप्तो भवति, स च यदा यम्मिन्समये ततः समाधव्युत्थानं प्रपश्चस्फुर- णरूपं जागरयामाप्नोति आयाति तदेसध्याहार्य तदा त्मि- नसमये प्रपश्चस्य पूर्वसंस्कारेण प्रतीतारवाप वाधितत्वादसच्वेन निश्चितत्वान्न विभेति भयं न प्राम्नोति ॥२८॥ ननु प्रपश्चविस्मरणादेव कृतार्थता न वाधितत्वेनावलोक नादित्याग्रहं कुर्वाणं प्रत्याह। यदि विस्मरणादेव मुक्तिर्भविति देहिनः । सुषुप्तिर्जायते नित्यं तया मुक्तो न किं भवेत्॥२९॥ यदीति। यदीति सम्भावनार्या देहाभिमानिनो जीवस्य विस्मरणादेव प्रपश्चमानाभावादेव केवलं ज्ञानं विना मुक्ति- र्मोक्षो भवेदिति सम्भाव्यते, तर्हि तदा नित्यं सर्वदैव सुपुप्तिर्निद्रा जायते भवति तत्र प्रपश्चविस्मृतिसत्वेपि विना बोधतया सुपुप्त्या मुक्तो मोक्षं प्राप्तो न किं भवेत्कुतो न भवेन्न स्याददि विस्मृ- त्यैव कृतार्थना स्यात्तर्हलं गुरुसेव्र।दिपयंत्रैरितिभावः ॥२९॥ तस्मात्तुरीया सर्वासामुत्तमा च विलक्षणा। षडप्यवस्था एतस्या: कलां नार्हन्ति षोडशीम्॥३०॥ तस्मादिति। तस्मात्कारणात्सर्वासां सर्वावस्थानां मध्ये तु- रीया तुर्यावस्थोत्तमा श्रेष्ठाविलक्षणा लक्षौरीि भिन्नास्ति, तदेवोक्तं तुर्यश्रौष्ठ्यं पुनर्द्रवयति पडपीति, पडपि पड्संख्याका
Page 340
३२० बोधसारे।
तस्यास्तुरायाया अवस्थाया: षोडशीं षोडशसंख्याकां कलामंशं नाहति नाप्तुवन्ति अतस्तुर्यावस्था सर्वावस्थासु श्रेष्ठेति ज्ञेया॥३०। साच श्रद्धादिसाधनैर्विना कर्मर्भिस्तत्साध्येषु लोकेषु न लभ्यत इत्याशयेनाह। आब्रह्मकल्पं गरुडो यदि धावेत्सवेगतः । न चाप्नोति तथाप्येनं दूराद्दूरतरैव सा ॥ ३१॥ आब्रह्मेति। गरुडो वैनतेय आब्रह्मकल्पं ब्रह्मणो विरिश्चेः कल्पं नाशमाऽभिव्याप्येसाब्रह्मकल्पं द्विपरार्धकालपर्यन्तमिसर्थः, सवे- गतः स्वसंभ्रमेण सह धावेत शीघ्रं गच्छेद्यदि यर्हि तथापि तह्यपि सा तुर्यावस्थैनं गरुडं न चाप्नोति नैव पाम्नोति च पुनर्दूराहूरतरैव दूरतोपि दूरा भवति विना ज्ञानादिसाधनैर्न प्राप्यत इति भाव:। तर्हि कैः साधनै मा्यत इसाशक्का तानि दर्शयति।
श्रद्धा यद्यस्ति वेदान्ते तीव्रा यदि मुमुक्षुना। ध्यानाभ्यासस्तथा गाढः सर्वत्र सुलभैव सा ।३२।। श्रद्धेति। कस्यापि पुरुषस्य वेदान्ते वेदान्तशास्त्रे श्रद्धा वि- श्वासरूपान्तःकरणवत्तिर्यदि यर्हि स्याद्भवेत्तथैव तद्वदेव तीव्रा- जनवच्छिन्ना दृढेत्यर्थः, मुमुक्षुता मोक्षेच्छुत्वं यदि यर्हि स्यान्ग- वेत्तथा तद्वद्वाढो दृढो निरन्तर इत्यर्थः, ध्यानाभ्यासो ध्यानं विजातीयप्रत्ययानन्तरितसजातीयात्मपसयपवाहरूपं तस्मिन्न- भ्यास: पुनः पुनरावर्त्तनरूपो यदि यर्हि स्यान्भवेत्तहि सा तुर्या- वस्था सर्वत्र स्ववासस्थानेऽन्यत्र ब्रह्मलोकादिनरकान्तस्थाने-
Page 341
अवस्थाव्यवस्था। ३२१
ष्वपि, यद्रा सर्वत्र स्वस्य जाग्रदादिपडवस्थास्वपीत्यर्थः, सुलभैव सुखेन लब्धुं शक्यत्यर्थः, स्वरूपत्वादिति भावः ॥ ३२॥। उक्तावस्थासु मध्ये तिसृणां निप्फलतामाह। मृत्युमूर्च्छासुषुप्तिश्र न तपस्तेन निष्फलाः। रूढमढसमाधानं तप उग्रं महाफलम् ॥ ३३ ॥ मृत्युरिति। मृत्युर्मरणावस्था पीडादिना देहादज्ञानरूपा मूर्च्छा- वस्था सुपुप्तिश्च निद्रापि लोकपसिद्धा-एतास्तिस्त्रोऽवस्था न तपः। तप इत्युपलक्षणं पारलौकिककर्माद्यभावेनैहिकसुखसाधनकमाद्- भावाच्च तेन कारणेन निष्फला निष्पयोजना भवन्ति अत- स्तासु अतीवानादरः कर्तव्य इति भावः, सांसारिकफलेप्सुभिस्तु मूढसमाधावेवादरो विधेयो न सुमुक्षुभिरित्याशयेनाह रूढेति, रू- ढमूढसमाधानं रूढं मापं मूढत्वपूर्वकं समाधानं समाधिरुग्रं शापातुग्रहसामर्थ्यजनकमतो महाफलं महच्छेए्ठं फलं राज्यादिकं यस्मात्तत्तथोक्तं तपस्तपो भवति अतस्तत्र सांसारिकफलेप्सुभिरे- वादरो विधेयो न मुमुक्षुभिरिति भावः॥ ३३ ॥ मुमुक्षुभिस्तु तुर्यायामेवादरो विधेय इत्याशयेन तुर्यास्व- रूपं तत्फलं च निरूपयति। विद्या वविद्वत्समाधिस्तु तेन मोक्षप्रदो हि सः। सप्तानामप्यवस्थानामेवंरूपा व्यवस्थितिः ॥३४।। विद्येति। विद्वत्समाधिस्तु विदुपां ज्ञानिना समाधि: समं व्र- ह्माऽडधीयते साक्षाक्रिकियतेऽस्मिन्निति समाधिस्तुर्यावस्था तु- पदेन मूढसमाधेरस्यातिवैलक्षण्यं सूचितं, विद्या ज्ञानमेवास्ति स विद्वत्समाधिस्तेन विद्यारूपत्वेन मोक्षपदो मोक्षस्य मुक्ते: पदो दाता भवति हि प्रसिद्धमेतद्विद्वत्सु अतो मुमुक्ुभिरत्रैवादरो ४१
Page 342
३२२ बोधसारे।
विवेय इति भाव:, उक्तमवस्थानिर्णयमुपसंहरति सप्तानामिति, हे शिष्य सप्तानामपि सप्संख्याकानामपि अवस्थानां स्थितीनां व्यवस्थितिर्व्यवस्या मर्यादेत्यर्थः, एवंरूपैवमीदशं रूपं स्वरूपं यस्या: सा तथोक्ता हेया ॥ ३४ ॥ एवं सप्ताप्यवस्था निरूप्येदानीमेतत्सप्तावस्थानिरूपणं सप्तावस्थावच्चित्तसाक्षिचिन्मात्रज्ञानार्थ निरुपितमिति द्योतयात। सप्तावस्था इमाः सन्ति चित्तस्यैव चितेस्तु न। अवस्थाभवनं चित्तमवस्थासाक्षिणी तु चित् ॥३५॥ सप्तेति। इमा निरूपिताः सप्त सप्तसंख्या अवस्था भू- मयश्चित्तस्पैवान्तःकरणस्यैव सन्ति विद्यन्ते, चितस्तु अवस्थासा-
सूचितं, नैव सन्ति। कुतः इत्यत भाहावस्थेति, अव- स्थाभवनमवस्थानां जाग्रदादितुरीयान्तानां स्थितीनां भवनं क्षेत्रं गृहं वोतत्पादकत्वान्निवासत्वाच्च चित्तमन्तःकरणमस्ति चिच्चैतन्यं तद्विलक्षणाऽस्ति, तदेव वैलक्षण्यमाहाऽवस्थेति, अवस्थासाक्षिण्यवस्थानां सप्तानां भूमीनां साक्षिण्यव्यवधानेन प्रकाशिका डस्ति॥ ३५॥ एतत्पकरणाभ्यासफलमाह। अवस्थानां व्यवस्थेयं यदि भूयो विभाव्यते ! अवस्थानां तदा साक्षी साक्षात्प्रत्यक्षमीक्षते ॥३ ६।। अनस्थानामिति। यदि यर्हीयं निरूपिताऽवस्थानां सप्त संख्याकानां स्थितीनां व्यवस्था व्यवस्थितिर्मर्यादेत्यर्थः, भूयः पुनः पुनर्विभाव्यते विचार्यते तदा तर्हि अवस्थानां जाग्रदा- दीनां सप्तावस्थानामेतद्विचारकः साक्षी साक्षादव्यवधानेन प-
Page 343
अवस्थाव्यवस्था । ३२३
काशकश्चिन्मात्ररूपोऽहमस्मीति साक्षात्पसक्षमेव स्व्रयं प्रत्य- क्षमपरोक्षं यथा तथेक्षते पश्यति जानातीत्यर्थः, अतो मुमु- श्षुभिः सर्वदैवेयं विचार्येति भावः ॥ ३६ ॥ इति श्रीनरहरिशिष्य दिवाकरघिरचितायां घोधसारार्थदीप्ता- वस्थाव्यवस्थार्थप्रकाशः पञ्चदशः ॥१५॥
अथमुनीन्द्रदिनचर्या। एवमवस्थाव्यवस्थां निरूप्येदानीं तत्फलभूतचिन्मात्रस्व- रूपे Sवस्थाSवस्थातत्साक्षिणि मनःस्थिरतासिद्धै मुनीन्द्रदिनच- र्यामिषेण तत्स्वरूपं निरूपयिष्यन्मुनीन्द्रदिनर्चाख्यं सार्धव्वशीत्यु- त्तरशतश्लोकं प्रकरणमारभते, तत्र चावान्तरप्रकरणानि जाग- रण शौच प्रातःस्मरण स्नानकाल स्नान वस्त्रधारण पवित्रादि- धारणचमन मातःसंध्या प्राणायामार्धदान गायत्रीजपोपस्था- न सहोमाङ्गहोम यज्ञशालादिमायश्चित्तारयुद्धरणहोमाहुत्यन्त- ब्रह्मयज्ञ तर्पण देवपूजा देवपूजोपयुक्तशास््ार्थ पञ्चमहायज्ञोपयज्ञ दान मध्यान्हमंध्या वैश्वदेव वलिदान भोजन ताम्बूलग्रद्दण- वामकुक्षिशयन पुरागा सायंसंध्या रात्रिकवत्य दिनचर्याफल- निर्णयाख्यानि क्रमेण त्रि चतुः पश्च त्यैकैक सार्धव्चेक सार्धत्रि पोडश त्रि चतुर्दवि पश्चदश पञ्चैक चतुर्दश ससैक त्र्यैकैकैकै- कैकैक द्वि सार्द्धद्रासप्तति द्वि द्वि त्रीणि श्लोकानि क्रमेणोपन्य- स्तानि, तत्र तावत्तां मुनीन्द्रदिनचर्या प्रतिज्ञातां निरृपयितुं पतिजानीते। अथ मुनीन्द्रदिनचर्या। अथेति। अथावस्थाव्यवस्थानिरूपणानन्तरं मुनीन्द्रदिनचर्या मुनयो मननवन्तस्तेपामिन्द्राः श्रेष्टास्तेपां दिनं वक्ष्यमाणमहस्तस्य
Page 344
३२४ बोधसारे।
सम्बन्धिनी चर्याऽडचारो मुनिसम्बन्धिदिवसे मुनीनामिवाचार इतर्थः, निरूप्यत इति शेषः। एवं प्रकरणनिरूपणं प्रतिज्ञायेदानीं मुनीन्द्रदिनचर्यानिरूपणे स्वमयोजनमाह। विचित्राक्षरविन्यासैः पवित्ार्थकथारसैः । पावयामि निजां वाणीं मुनीन्द्रदिनचर्यया ॥ १॥ विचित्रेति। अहं विचित्राक्षरविन्यासैर्विचित्रा अक्षराणा विन्यासा वर्णस्थापना येषु पदेषु तैस्तथा पवित्रार्थकथारसैः प- वित्रोऽर्थो यासां कथानां तास्तथोक्ताः कथास्तासां कथाना रसा: सुखविशेषा यत्र विद्यन्ते तथाभूतैः पदैर्युक्तयेति शेषः, मुनीन्द्रदिनचर्यया मुनीन्द्रा मुनिश्रेष्ठाः पश्चमभूमिकाद्यारूढा- स्तेषां दिनं स्वात्मनः साक्षात्मकाशरूपं तत्र या चर्याSडचार- स्तया तत्प्रतिपादकेन प्रकरणेनेत्यर्थः, निजा स्व्रीयां वाणीं भार्षा पावयामि पवित्रां करोमि, एतदेव स्वपयोजनमिति भावः ॥१। एवं स्वपयोजनमभिधायेदानीमेतत्पकरणस्य मामाण्यायै- तत्संप्रदायज्ञानाय च गौरीमहेश्वरसंवादेनैतत्माकठ्यं दर्शयति। गौरीं महेश्वरः प्राह चिदानन्दमयीं स्थितिम्। वदामि तन्मतच्छायां दिनचर्यापदेशतः ॥ २ ॥ गौरीमिति। महेश्वरो महान्व्रह्मादिष्वतिश्रेष्ठः स चासा- वीश्वरः सर्वनियन्ता सदाशिव इसर्थः, गौरीं पार्वतीं प्रति चि. दानन्दमयीं चिच्चेत्यरहितं चिन्मात्रं तदभिन्नो य आनदस्तदूपां स्थितिमवस्थां प्राधान्ये मयद् माहोक्तवानहमपि अत्र प्रक- रगे दिनचर्यापदेशतो दिनस्य मुनीन्द्रसन्वन्धिदिवसस्य चर्या मुनीन्द्राणामेवाचारस्तस्या अपदेशो व्याजं तेन कृत्वा सार्वि- भक्तिकस्तसि, तन्मतच्छायां तस्य शिवस्य यन्मतं चिदभिन्नस-
Page 345
मुनीन्द्र० प्रातर्जागरणनिर्णयः । ३२१
खनिरूपकाभिमायस्तस्य च्छायामंशमात्रमित्र्थः, वदामिकथयामि अत एतत्मकरणनिरुप्यार्थस्य मामाण्यमिति भावः ॥ २।। इदानीं मुनीन्द्राणां दिनचर्यी निरूपयितुं मुनीन्द्रदिनवो- धनाय तत्पातर्जागरणं लक्षयति। यस्मिञ्जागरणे प्राप्ते पुनर्निद्रा न जायते। सुमङ्गलं मुनींद्राणं प्रातर्जीगरणं हि तत् ॥ ३ ॥ इति बो० मुनीन्द्र० प्रातर्जागयानिर्णयः प्रथमः॥१॥ यस्मिन्निति। लौकिकार्थस्तावद्यस्मिन्पसिद्धे लौकिके जागरण इन्द्रियैरर्थोपलब्धिर्जागरितमित्युक्तलक्षणे जागरिते पाप्ते लब्धे सति पुनर्भुयस्तददिने निद्रा सुपुप्तिरिन्द्रियैः सहा- न्तःकरणस्य कारणाज्ञानमात्रस्थितिः सुपुप्तिरित्युक्तलक्षण्ा न जायते न भवति तदुक्तलक्षणं मुनीन्द्राणां श्रेष्ठकर्मशास्त्रज्ञा- निना विधिनिषेधज्ञानवतामित्यर्थः, पातर्जागरयं सूर्योदयात्मा- गुपलक्षिते प्रातः पभाते जागरणं जागृतिर्ज्ञेयं हि प्रसिद्धमेत- त्सर्वजनेष्वित्यर्थः, प्रकृतेर्थे तु यस्मिन्प्रपश्चपसिद्धविलक्षणे जा- गरगो स्वस्वरूपस्फुरयालक्षणे जागरिते 'यो जागार तमृचः का- मयन्ते यो जागार तमु सामानि यन्ति यो जागार तमयं सोम आह तत्राहमस्मि सख्येन्योकाः, इति श्रुतेः । 'या निशा सर्वभूनानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशापश्यतो मुनेः' ॥इति। स्मृतेश्र, प्राप्ते लब्धे सति सोहमिति स्वात्मन्यनुसं- हिते सनीसर्थः, पुनर्भूयो निद्रा स्वरूपास्फुरणरूपा सु- प्तिर्लोकपरसिद्धा निद्रापि न जायते न परादुर्भवति सत्ववनी न भवतीत्यर्थः, मुनीन्द्राणां मननशीलेपु श्रेष्ठानां पञ्चम्यादा-
Page 346
३२६ बोधसारे।
रूढानामित्यर्थः, सुमझलं शोभनं मङगलं मोक्षरूपं यत्र तदुक्तल- क्षणं प्रातर्जागरयं चिदादित्योदयोपलक्षिताहं ब्रह्मास्मीति वृत्तौ भवं प्राभातिकं जागरणं जागृतिर्भवति हि एतद्विद्वत्सु प्रसि- द्धमित्यर्थः ॥ ३॥ इति श्रीनरहरिशिष्यदि० बोधसारा० मुनीन्द्रद्विनचर्यार्थ- प्रकाशे प्रातर्जागरणार्थप्रफाशः प्रथमः ॥१॥
अथ शौचनिर्णयः। एवं मुनीन्द्राणां जागरणं निर्णीयेदानीं तेषामेव शौचं निर्णेतुं मुनीन्द्रशौचनिर्णयाख्यं चतुःश्रोकं प्रकरणमारभते, त- त्रादौ मुनीन्द्राणां शौचं प्रदर्शयितुमशौचकारणमाह। देहेन्द्रियमनःप्राणबुद्धहङ्कारचेतसि। अशुचावात्मभावोसावशुचित्वस्य कारणम् ॥१॥ देहेति। ददेन्द्रियमनःपाशाबुद्ध्यहङ्कारचेतसि देहश्च काय:, इन्द्रियाणि च श्रोत्रत्वक्चक्षूरसनघ्राणाखूयानि पश्च शब्दस्प- र्श रूपर सगन्धज्ञानकरणानि, वाक्पाणिपादपायूपस्थाख्यानि पञ्च वचनादानगमनविसर्गानन्दाख्यक्रियासाधनानि, मनश्च संशय- रूपान्त:करयावृत्तिः, बुद्धिश्च निश्चयात्मिकान्तःकरणवृत्तिः, अह- द्वारश्वैतेपु तादात्म्यभ्रमरूपान्तःकरणवृत्तिः, चेतश्र स्मृतिप्रत्य- भिज्ञानुभवकरणारूपान्तःकरणृत्तिः, एतेपां समाहारे द्वन्द्व एक- वद्दाव एकवचनान्तप्रयोगः, एतस्मिन्समूह आविद्यकत्वेन म- लिनत्वादशुचावशुद्धे य आत्मभाव आत्मानं विस्मृसात्मनः सत्तां तत्रारोप्य तस्मिन्नात्मप्रतीतिरसौ सोऽनात्मन्यात्म- भावोऽशुचित्वस्य परमशुद्धात्मन्यशुद्धतायाः कारणं निमित्तं
Page 347
मुनीन्द्रदि० प्रातःशैधनिर्णयः। ३२१
भवति अतः शौचमपेक्षितमिति भावः, लोके तावदेहे विड्मू- त्रादिना मलिनद्रव्येण लिप्ते सति अशुचित्वं यत्पतीयते, इन्द्रियेपु
माणे च तेपामशुचित्त्रसङ्गल्पादिनाऽशुचित्वं, वुद्धौ च तेपाम- शुचित्वनिश्चय एवाशुचित्वम, अहङ्गारे च तेपु आत्मतादात्म्ये- नाहमशुचिरियशुचित्वं, चेतसि तु तेपामहङ्कारादिदेहान्तानाम- शुचित्वानुसन्धानरूपमशुचत्व्रम, इदमेव सर्वमशुचित्वस्य कारणं भवति अत एवैतदनुसन्धानाभाव आवालगोपमाशौंचवध्य- भावोपि दृश्यत इति भावः ॥। १ ॥ एवमशुचित्वकारणं निरूप्येदानीं शौचं विधत्ते। साक्षित्वभावनातोयैस्तथा वैराग्यमृत्स्या। गन्धलेपक्षयकरं शौचं कुर्यादतान्द्रितः ॥ २॥ साक्षित्वेति। यथा लोके निर्मलोदकेन शुद्धमृदा च मलमू- त्रादिधावनपूर्वकं तद्गन्धनिषृतत्तिपर्षन्तं गुदहस्तपादादिपक्षालनरूपं शौचमालस्यं परित्यज्य क्रियते तद्वदत्र अतन्द्रितोऽनलसो भूत्वेति शेष:, आलस्यं परित्यज्य प्रवर्त्तमान इत्यर्थः, एतादृशो मुनिः साक्षित्वभावनातोयैर्देहादिचित्तान्तेपु यत्साक्षित्वं सा- क्षादव्यवधानेन प्रकाशयितृत्वं स्वस्य तस्य भावना चिन्तन- मखण्डसचचिदानन्द आत्माहमितिअनुसन्धानमिसर्थः, तदेव स- र्वमलक्षालकत्वात्तोयानि जलानि तैः कृत्वा तथा तद्वद्वैराग्य- मृत्स्नया विगतो रागो यस्मात्स विरागो ब्रह्मलोकान्तसर्वविप- येषु विरसस्तस्य भावो वैराग्यं देहादिचित्तान्तेष्वनात्म- पदार्थेपु विरसत्वमित्यर्थः, तदेव तेषु स्वस्य वासनारूपगन्धनि- वर्त्तकत्वान्मृत्स्ा प्रशस्ता मृत्तया 'पशस्ता तु मृत्स्ा मृत्सा च मृ-
Page 348
३१८ बोधसारे।
त्तिके समरसिंहः, गन्धलेपक्षयकरं गन्धस्याहङ्गारचित्तादिदेहा- न्तेषु अनात्मभूतेषु वासना एव गन्धवत्तदाश्रयद्रव्यस्मारकत्वा- द्रन्धस्तत्य लेपः सम्वन्धः स्वस्मिन्तेर्षां साक्षिभूते पूर्वकालिक- तादात्म्याध्याससंस्कारेण स्फुरणात्तद्वत्त्वप्रतीतिरूपस्तस्य क्षयो नाशस्स्य करं कारकमिति शौचविशेषगां शौचमनात्मभूतदेहा- दिचि त्तान्तपदार्थानां सत्व पूर्वकस्फूर्तिनिरासमपं शुद्धात्मस्फूर्ति- रूपं वा कुर्यात्सम्पादयेद्, यद्वा गन्धलेपक्षयकरमिति क्रिकियावि- शेषणं तस्मिंश्व पक्षे गन्धलेपक्षयकरं यथा भवति तथा शौचं सम्पादयेदियर्थः ॥२॥ एवं पादादिप्रक्षालनरूपशौचवन्मुनीनां पूर्वाङ्गभूतं शौचं निरूप्येदानीं मङ्गलपदार्थदर्शनस्पर्शनलक्षणशौचवच्छौचं मुनि- सम्बन्धि दर्शयति अर्धेन। एवं विधेन विधिना यत्सर्वै मंगलार्जनम् । एतदेव मुनीन्द्राणां प्रातःशौचं विशुद्धिकृत ।।३।। एवमिति। एवं विधेनोक्तमकारेण विधिना शौचानुष्ठा- नेन यद्यादृटशं सर्व सर्वशब्दवाच्यं द्वैतजातं व्यवहारकाले स- माधिकाले च तद्वाधेन व्रह्मैव प्रतीयते तत 'सर्व खल्विदं ब्रह्मे'- तिश्रुतिदृष्ठ्या ब्रह्मैवेति मङ्गलार्जनं मङ्गलस्य शुभस्यार्जनं सम्पा- दनमेव ज्ञेयं, उक्तं शौचमुपसंहरति एतदेवेति, मुनीन्द्राणां श्रेष्ठमु- नीनां पश्चम्यादिभूमिकारूढानाममिसर्थः, विशुद्धिकद्वेहादिम- लनिरासकत्वादत्यन्तशुद्धिकारकं प्रातःशौचं लौकिकप्रातःशौ- पात :- काले शौचं शुद्धिकारणं कर्मैतदेवोक्तलक्षणमिदमेव क्षेयं ना- न्यल्लोकप्रसिद्धं गुदहस्तपादादिप्रक्षालनरूपं दर्पणधेतुसूर्यादि- दर्शनरूपमङ्गलार्जनरूपं वा तत्तु सर्वे लौकिकमात्रमिति भावः।। ३॥
Page 349
मुनीभ्द्र० प्रातःस्मरणनिर्णयः। ३२९
एवं इस्तपादादिमक्षालनशौचवच्छौचं मङलपदार्थदर्शन- स्पर्शनं च मुनीनां निरूप्येदानीं सुखमक्षालनं मुनीनामाह। ज्ञानयोगप्रसन्नानां मुमुक्षा मुखमुच्यते। श्रद्धाजलेन तच्छुद्धिर्मुखप्रक्षालनं हि तत् ॥ ४ ॥ ज्ञानयोगेति । लोके तावत्मसिद्धमुखस्यैव प्रसिद्धजल- वन्तमार्जनचूर्णादिना शुद्धि: प्रसिद्धा, ज्ञानिनां त्वेतद्विलक्षणा ज्ञानयोगमसन्नानां ज्ञानमेव जीवव्रह्मैक्यपमारूपं महावाक्यजन्यं म्ञानमेव जीवब्रह्मयोगकारणत्वाद्योगस्तस्मिन्तेन वा पसन्नाना शुद्धान्तःकरणानां वैराग्यपूर्वकतदभ्यासनिष्ठानामित्यर्थः, मुमुक्षा तीव्रा मो्ेच्छा प्थमभूम्यारूढचित्तवत्तिरेव मुखं भोजनसाधनं मुखमिव 'चेतो मुख' इति श्रुतेः, मुक्तिसुखभोजनसाधनत्वान्मुख- सुच्यते कथ्यते विद्वन्भिरिति शेषः, एवं ज्ञानिनां मुखं पदश्ये- दानी मुनीन्द्राणां तत्पक्षालनमाह श्रद्धेति, श्रद्धाजलेन मुमुक्षा- र्यभूम्युत्तरभूमिका विचारणादिकास्तदभ्यासे श्रद्धा विश्वासः सैव मोक्षेच्छानिवृत्तिक्रमेण मोक्षपाप्याऽत्यन्ततत्मक्षालकत्वाज्ज- लमिव जलं तेन तच्छुद्धिस्तस्य मुमुक्षाखयमुखस्य शुद्धिर्मल- निवृत्तिर्भवतीति शेषः, नित्यमुक्तत्वनिश्चयेन स्वस्मिन्मुक्तीच्छा- भाववत्वं भवतीसर्थः, तदुक्तलक्षयां मुखप्रक्षालनं मुखधावनं हि ज्ञानिषु प्रसिद्धं ज्ञेयं, पसिद्धमुखपक्षालनं तु व्यवहारयोग्य- तामात्रापादकमिति भावः ।। ४ ।। इति श्रीनरहरिशिष्यदि० मुनीन्द्रदिनचर्यार्थप्रकाशे शौचनि- र्णंयार्थप्रफाशो द्वितीयः ॥२॥
भय मातःस्मरणम। एवं मुनीन्द्राणां प्रातःशौचं निर्णीयेदानीं तेषामेव पात्ःहमरणं
Page 350
३३० बोधसारै।
निर्मे तुं पातःसमरणनिर्णयाख्यं प्रकरणं पश्चश्लोकमभिदधान आहा प्रातः स्मरन्ति मुनयो देवस्य सवितुर्महः । वरेण्यं तद्धियः साक्षि तदेवास्मीति संततम् ॥१।। अथेति। अथ प्रातःशौचनिर्णयानन्तरं पातःस्मर्ण मुनी- न्द्राणामेव प्ातः प्रभाते ज्ञानसूर्योदयात्मागुपलक्षिते पश्चमभूम्यु- दये तदारूढवृत्तौ स्मरणं चिन्तनं कथ्यत इति शेष:, लोके हि देव- ताग्रहपुण्य कर्मपुरुषादिस्मरं क्रियते यथा तथा मुनीनामपि स्मः र्न्व्येष्टदेवतास्वरूपं निरूपयिष्यन्तत्स्मरणाय श्लोकानुदाहरति, तत्रादौ गायत्यर्थद्वारा तत्प्रतिपाद्यसर्वजगत्कारणत्वाद्युपलक्षित- ब्रह्माभिन्नात्मस्मरणमनुसन्धापयति प्रातरिति, मुनयः पश्चम्या- द्यारूढा जातसाक्षात्कारा इसर्थः, प्रातः स्वात्मसूर्योदयोपलक्षित- कालात्माक्काल: पातःकालस्तस्मिन्पश्चम्यारोहणसमय इत्य- र्थः, सवितुर्मायोत्पादनशीलस्य सर्वजगत्कारणस्येत्यर्थः, देवस्य- स्वतो द्योतमानस्य स्वयं प्रकाशस्येत्यर्थः, तस्याचन्मात्ररुपस्यात्म- नस्तच्कुतिभि: परोक्षतेन निर्दिष्टं वरेण्यं वरणमङ्गीकारस्तद्योग्यं सुखरूपत्वात्सर्वजनमार्थनाविषयमियर्थः, महश्चिद्ूपत्वात्पकाश- रूपं तेज इत तेजः कर्मभूत घियः समष्टिबुद्धे:साक्षि अव्यवहितम- काशकं तदेव सर्वजगत्मकाशकत्व्रादिलक्षणैरुपलक्षितमेवातः स- र्वबुद्धिसाक्षित्वात्तस्य स्वस्य च व्यष्टिबुद्धिसाक्षित्वेन साक्षिमात्र- त्वस्योभयत्रैक्यात्तत्पदलक्ष्यं ब्रह्मचैतन्यमेवाहम्पदलक्ष्यं कूटस्थ- चैतन्यमस्मि भवामीति एवं प्रकारेण स्मरन्ति अनुसन्दघतीति विद्वत्पक्षेऽर्थः, उपासनापक्षे तु मुनय उपासनाशास्त्रद्।रोपासना- ज्ञानवन्त इसर्थः, प्रातः सूर्योदयात्मागुपलक्षिते प्रभाते तद् 'येनसू- र्यज्योतिपा वाधसे तमो जगच्च विश्वमुदियर्षि भातुने'ति श्रुत्या तमो- वाधनसर्वजगत्पकाशकत्वादिगुयाविशिष्टं निरूपितं वरेण्यं सवैं-
Page 351
मुनीन्द्र० पातःस्मरणनिर्णयः। ३३१
वर्यव हारिजनैर्व्यवहारोपयोगितयैष्टव्यं यतो धियः साक्षि धियो ज्ञानेद्रियविशेषस्य चक्षुपः साक्षि साक्षादव्यवधानेन प्रका- शकं सवितु: सूर्यस्य देवस्य प्रकाशरूपस्य महस्तेजस्तदेवोक्तलक्ष- णमेव तेजोऽहं चक्षुःक्रियाभिमानी द्रष्टा चक्षुपः पृथगसत्वेन द्रष्टु- रपि तथात्वात्मूर्यतेजोमात्ररूप एव द्रष्टाहमस्मि भवामीत्येवं रम- रन्ति चिन्तयन्ति तेषां फलं सूर्यत्वपाप्तिरूप श्रुतिपूक्तं, ज्ञानिनान्हु पूर्वोक्तलक्षणेन स्मरणेन ब्रह्मत्वपाप्तिरुपं फलं च भवतीति- झ्ञयम् ॥१॥
स्मरणं विदुपामाह। अन्वयव्यतिरकाम्यां जाग्रत्स्वप्नसुषुप्तिषु। यदेकं केवलं ज्ञानं तदेवाहमहं हि तत् ॥ २ ॥ अन्वयेति। जाग्रत्स्व्प्रसुपुप्तिषु जाग्रच्चेन्द्रियैरर्थोपलब्धि- र्जागरितमित्युक्तलक्षणा जागरावस्था, स्वप्नश्च जाग्रद्दृष्टश्रुता- नुभूतविषयमंस्कारवासनावासितबुद्धौ प्रपश्चाभासरूप इत्यु- क्तलक्षणा स्वप्नावस्था, सुपुप्तिश्च जाग्रत्स्वप्वविपयाकारवृत्तिभि: सहैव बुद्धेर्लयेन कारणाज्ञानमात्रात्मतया स्थितिरित्युक्तलक्षणा निद्रा, एतासु तिसृष्ववस्थासु अन्वयोऽनुवृत्तिर्ज्ञानस्य व्यतिरेको व्यावृत्तिरवस्थानां परस्परं ताभ्यां कृत्वा ज्ञानं विनाऽवस्थापका-
शनादवस्थानां व्यतिरेक इति विवेकस्ताभ्यामेन लक्षितं यत्के- वलमभिन्नं ज्ञानमस्ति तदेवावस्थात्रयेण तद्गतत्रिपुटीभिश्चा- स्पृष्टत्वादभिन्नमत एव सजातीयविजातीयस्वगनभेदरहितं ज्ञानं कूटस्थचैतन्यमस्ति तदेवोक्तलक्षणं कूटस्थचैतन्यमेव।हमहम्प-
Page 352
३३२ बोधसारे।
दवाच्यो देहद्रयविशिष्टश्चिदाभासोऽस्मि भवामि उपाधिवि- विक्तस्य चिदाभासस्य कूटस्थज्ञानाभिन्नत्वमुभयोर्लक्षणैक्या- दिति भाव:, अन्वयमुखेनोक्तं कूटस्थचिदाभासयोरैक्यं व्यतिरे- कमुखेनाप्याहाऽहमिति, अहमहम्पदवाच्यश्चिदाभासस्तत्कूटस्थ- चैतन्यमस्मि भवामि हि एतच्चिदाभासकूटस्थचिदात्मनोरैक्यं यदुक्तं तद्विद्वत्सु श्रुतिष्वपि प्रसिद्धमिति द्योतितं हिपदेन। 'न पृथ्वी न जलं नाग्निर्न वायुरदौर्न वा भवान। एपां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये,।। इत्यादिश्लौकैरयमेवार्थो विद्वद्भिः पदर्शितः । श्रुतयश्च, 'जाग्रत्स्वप्रसुषुप्सादिपपश्चं यत्मकाशते। तड्ह्माऽहमिति ज्ञात्वा सर्वबन्धैः ममुच्यते'।
इदानीं ज्ञानाज्ञानादिसर्वमपश्चपकाशययितृत्वेन तस्मिभ्रेव- ज्ञाने ब्रह्मलक्षणसम्भावनेन स्वस्मिन्रहम्पदवाच्ये चिदाभासे तदभिन्नत्वानुसन्धानरूपं विदुषां प्रातःस्मरणमाह। ज्ञानाज्ञाने तद्विषयौ तदहङ्गार एव च। प्रकाश्यन्ते येन भम्ना तदहं ह्यहमेव तत ।। ३ ॥। ज्ञानाज्ञाने इति। ज्ञानाज्ञाने ज्ञानं च घटपटादिमतीतिरुप मज्ञानं च पटाधभानरूपं ते उभे तद्विषयौ च तयोर्ज्ञानाज्ञानयो- विषयौ ज्ञानविषयो ज्ञानपकाश्यो ज्ञातघटोऽज्ञानविषयोडज्ञाना- वृतोऽज्ञातघटस्तौ च च पुनस्तद हङ्कारस्तयोर्ज्ञानाज्ञानयोरह- द्वारो ज्ञान्यहमज्ञान्यहमित्यपि एते सर्वे येन स्वयं प्रकाश- त्वेन प्रसिद्धेन भूम्ना व्यापकेन चैतन्येन प्रकाश्यन्ते प्रकाशिता भवन्ति ज्ञानाज्ञानयोस्तत्सन्धौ च ज्ञाताज्ञातविषययोस्तत्सन्धौ
Page 353
मुनीन्द्र० प्रातःस्मरणनिर्णयः । ३३३
च ज्ञानाज्ञानाहम्भावयोस्तत्सन्धौ च तेषां सर्वेषां प्रकाशयितृ- त्वेन विद्यमानत्वात्स्च्वं ज्ञात्रादित्रिपुटीनां तत्सन्धौ च भान- रूपेणानुद्टत्तत्वाद्यापकत्वं च तस्य ्ेयं, तद्धमाखयं चैतन्य- महमहम्पद्वाच्यं साधिष्ठानमाभासचैतन्यं समष्ठ्यहम्पदवाच्य- चैतन्यतल्लक्ष्यसर्वजगत्पकाशकचैतन्ययोरैक्येन तस्य व्यष्ठ्यह-
क्षिचैतन्याहम्पदवाच्यचैतन्ययोरपि उपाधिनिरसनेन वास्तव- मभिन्नत्वमिति भाव:, अस्मि। अ्न्वयमुखेनोक्तं व्यतिरेकमुखे- नाहाऽइमिति, अहमेत तदहम्पदवाच्याभिन्नस्तलक्ष्यः कूट- स्थमात्रं तद्गूमाख्यचैतन्यमस्मि हि प्रसिद्धमिदं विदुषा- मिसर्थः ॥ ३॥ इदानी शरीरत्रयतद्भिमानित्रयपकाशककूटस्थ चैतन्यस्य शरीरत्रयनिरासेन तत्स्थचिदाभासस्य चैक्यानुसन्धानरूपं वि- दुपां प्रातःस्मरणमाह। विश्वश्च तैजसः प्राज्ञो नास्म्यहं सत्स्वरूपतः । यतस्ते तु प्रकाश्यन्ते तदहं नोस्मि चेतरत् ॥४ ॥ विश्व इति। विश्वः स्थूलदेहतादात्म्यापन्नो जाग्रदभिमानी विश्व इत्युच्यते सोडहं नास्मि न भवामि, तथा तैजसस्तेजोम- यान्त:करणरूपलिङ्गशरीरतादात्म्यापन्नः स्वप्नाभिमानी तैजस इत्युच्यते सोडहं नास्मि न भवामि, तथा प्राज्ञश् कारणशरी- राभिमान्यहमज्ञ इत्यनुभववान्माज्ञ इत्युच्यते स च सोप्यहं नास्मि न भवामि, तत्र हेतुमाह सदिति, सत्स्वरूपतः सत्काल- त्रयावाध्यं सवं स्वीयं रूप यस्य स तथोक्तो, यद्रा सत्कालत्र- १ हहमेत तत्।
Page 354
३३४ बोधसारे।
यावाध्यं स्वं स्व्तः सिद्धं स्वयमेव रूप्यत इति रूप: प्रकाशो यस्य स तथोक्तस्ताटशरूपत्वान्ममाSतोऽहं ते न भवामीति योज्यं, विश्वादीनामन्योन्य्मिन्व्यावत्तत्वात्तत्सन्धौ च तेषाम- भावात्तदसत्वं मम तु तज्ज्ञत्वेन तेष्वनुस्यूतत्वात्तत्सन्धौ च स- न्धिप्रकाशकत्वेन विद्यमानत्वात्सत्वमित्युभयोर्वैलक्षण्यस्यानु- भूयमानत्व्रात्तेऽहं न भवामीति भाव:, प्रकाश्यप्रकाशकत्वरूपं वै- लक्षण्यमप्यनुसन्धत्ते यत इति, ते विश्वतैजसमाज्ञा उक्तलक्षणा पतो यस्मान्निर्विकारचैतन्यात्मकाश्यन्ते प्रकाशिता भवन्ति तत्तु सर्वदेहादिज्ञानविलक्षणं चैतन्यं ब्रह्म विश्ववैश्वानरयोस्तदु- पाध्योः समष्टिव्यष्टिस्थूलदेहयोश्च वनवृक्षयोस्तदवच्छिन्नाकाश- योश्वैक्यमिवैक्यात्तैजसहिरण्यगर्पयोश्च तदुपाध्योरपि समष्टिव्य-
पाज्ञेश्वरयोस्तदुपाध्योः समष्टिव्यष्टिकारणशरीरयोरपि तथै- क्यात्माज्ञादीनां प्रकाशकचैतन्यस्यैव वैश्वानरादीनामपि प्रका- शकत्त्ताड्रह्मत्वमतो ब्रह्माभिन्नं तद्विश्वादिप्रकाशकं कूटस्थ- चैतन्यमहमहम्पदवाच्यार्थीनरासेनास्मि भवामि, इनरत्कूट- स्थचैनन्यादितरद्भिन्नं चिदाभासरूपं विश्वादिरूपं वा तदुपा- धिजातं वा तद्भिन्नं ब्रह्म वा ततश्च भिन्नं कूटस्थचैतन्यं वा ब्र- ह्मप्रकाशयमीश्वरादि चैतन्यं तदुपाधिभूतं समष्टिशरीरत्रयं वा- डहं नास्मि किन्तु सच्चिदानन्दाखण्डैकरस एवाहमस्मीत भाव:, पाठान्तरे व्यतिरेकेणाहम्पदलक्ष्यकूटस्थस्य तत्पदलक्ष्यब्रह्मण-
इदानीं ज्ञानाज्ञानप्रपश्चतल्वयसाक्षितवेन सर्वदा सवसचिद्रू- पत्वानुमन्धानरूपं विदु्षा पातःस्मरणमाह। ज्ञानाज्ञानप्रपश्चेSस्मिञ्ज्ञानाज्ञानेन नाशिते।
Page 355
मुनीन्द्रदि० खानकालनिणयः।
यत्सच्छिष्टं परं व्रह्म ह्यहं तन्नेतरत्स्मरेत् ॥ ५ ॥ ज्ञानेति। अस्मिश्चतन्यात्मनो मम प्रकाश्यत्वेन मत्यक्षे ज्ञानाज्ञानप्रपश्चे ज्ञानं च साभामान्तःकरयावत्तिरित्युक्तलक्षण- मज्ञानं च ज्ञानविरोधिभावरूपमज्ञानमित्युक्तलक्षणं तयोः प्र- पञ्चः ज्ञाताज्ञातरूपस्तस्मिव्ज्ञानाज्ञानेन ज्ञानं च साभासान्त :- करणवृत्तिरूपं तेनाऽज्ञानं च चिदाभासव्यक्तिहीनं ज्ञानविरोधि- भावरूप तेन च समाहारे एकवद्धावो नाशिते नाशं प्रापिते सति ज्ञानाज्ञानयोः परस्परं विरोधाज्ज्ञानेन साज्ञानाज्ञातप्रप- ख्वलयोऽज्ञानेन सज्ञानतत्पपश्रलय इति विवेकस्तदा घटादि- ज्ञानाज्ञानभावाभावावस्थायां घटादिभावाभावावस्थायां दीप इव यदनिर्वचनीयं चित्स्वरूपं शिष्टमुर्वरितं तत्सत्कालत्रया- वाध्यमात्मचैतन्यं चैतन्य रूपोऽहमस्मि तचैतन्यस्य च घटावच्छिन्नाकाशस्य तत्स्थजलप्रतिविम्बिता- काशस्य चैक्यवचैक्यस्य पारमार्थिकत्वादिति भावः, अन्वयोक्तं व्यतिरेकेणापि दर्शयति हीति, अहमहंवृत्तिपतिविम्वितश्चिदा- भासस्तदुपाध्यहङ्कारासच्वेनाभासस्य च पृथगसच्वेन तत्सदूष व्र- ह्माभिन्नं कूटस्थचतन्यमेवाडस्मि भवामीतरत्कूटस्थचैतन्यादन्य- त्किमपि न नास्ति सत्यं न भवतीत्यर्थः, इसेवं स्मरेदऽनुस- न्दध्याद् हि एतत्कूटस्थचतन्यचिदाभासचैतन्ययोरैक्यं विद्वत्सु प्रसिद्धमिति ह्यर्थः ॥ ५ ॥ इति_थीनरहरिशिप्यदि० मुनीन्द्रदिनच०प्रातःस्मरणनिणं- यार्थप्रकाशस्तृतीयः ॥ ३॥
एवं मुनीन्द्राणां पातःस्मरयं निरुप्येदानीं तेपामेव स्ना-
Page 356
३३६ बोघसारे।
नकालनिर्यायपूर्वकं स्रानविधि निर्णेतुं द्विश्लोकं स्नानकालनि- र्णयाख्यं प्रकरणमारभते, तत्र तावत्स्ानकाल एव स्नानकर्त- व्यतावश्यतारयां बौधायनस्मृतिमुदाहरति। अरुणकिरणग्रस्तां प्राचीमवलोक्य स्नायादिति वचनात्सानम् । अरुणेति। अरुगाकिरणग्रस्तामरुणस्य सूर्यसारथेः कि- रणा: करास्तैर्ग्रस्तां व्याप्तां परार्ची पूर्वी दिशमवलोक्य प्र- दर्श्य स्नायात्स्रानं कुर्यादिसेवं बौधायनवचनात्स्नानं कुर्यादि- ति शेष: ॥ १ ॥ तथा मुनीनां स्नानयोग्यमरुणोदयकालं निर्णेतुमाद। तथाहि। तथाहीति। तथा हि स एव स्नानकाल: भदर्श्यत इसर्थः। तमेवाह। नश्यन्त्या मोहनिद्रायामन्धकारे गलत्यथ। आरोहति विचाराद्रिशिखरे ज्ञानभास्करे ॥ २॥ मोहनिद्रायामिति। लौकिकार्थे तावत्सर्वपपञ्चविस्मारकत्वा- रस्वात्मविस्मारकमोह इव निद्रायां सुप्तौ नश्यन्त्यां नाशं पा- प्तुवसा सत्यां अथानन्तरमन्धकारे ध्वान्ते गलति नश्यति सति तथा ज्ञानभास्करे ज्ञानस्य रूपविशेषज्ञानकरणस्य चक्षुषः भास्करे प्रकाशके सूर्ये विचाराद्रिशिखरं विचारवद् दिख्ोह- निवर्त्तकोऽद्रि: पूर्वाचलस्तस्य शिखरं शृङ्गमारोहति आरो- हयां कुर्वति सति, प्रकृतेर्थे तु मोहनिद्रायां मोह एव स्वात्मवि- हमारकत्वात्मपञ्चस्वम्कारणत्वात्निद्रा मुप्िस्तस्यां नश्यन्त्या
Page 357
मुनीनद्र० सानकार्लनर्णयः। ३३७ नाशं प्राप्तुवत्यां सत्यामथानन्तरमन्धकारेऽन्धं स्वात्मदर्श- नहीनं करोतीति अन्धकार आत्मदर्शनवृत्तिचक्षुर्ीनकर्तेत्यर्थः, तस्मिस्तादशेऽज्ञाने गलात नश्यति सति तथा ज्ञानभा- स्करे ज्ञानमेव सर्वपपश्चपकाशकत्वाद्धास्करः सूर्य इत भास्कर: सूर्पस्तस्मिन् विचाराद्विशिखरं विचारो विवेक एवाद्रिरिवा- भ्यासेन स्थिरीभृतत्वात्पर्वतो, यद्रा विचार आत्मानात्मविवेक एतात्तीति सर्वानात्मनाशकत्वादद्रिस्तस्य शिखरं पश्चमपप्ठसप- मभूमिकारूपं शृङ्गमारोहति आरोहणं कुर्वति सति, यद्रा विचा- राख्य स्याद्रेरभ्यासेन स्थिरीभूताया द्वितीयभूमिकायाः शिखरमितर तृनीयचतुर्थभूमिकाख्यमिति व्याख्येयं ततः परं साक्षात्कारादिति भावः ॥२।। किश्व।
दिक्षु किंचित्प्रकाशासु दिङ्मोहे गलिते सति। संदेहकौशिके नष्टे जाते प्रागरुणोदये ॥ ३ ॥
इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्वदिनचर्यायां स्नानका- लनिर्णयश्चतुर्थः ॥४॥
दिक्ष्विति। लौकिकार्थस्तावद् दिक्षु पूर्वादिदिशासु किं- चित्स्वल्पं यथा भवति तथा प्रकाशासु प्रकाशी विद्यते यासु तथा भूतासु सतीपु ततो दिश्मोहे दिग्भ्रमे गलिते नष्टे सति ततः सन्देहकौशिके सन्देहः संशय इवामङ्गलरूपः कौशिक उलूक- स्तस्मिन्नष्टे नाशं प्राप्ते सति गमनाशक्तनया कापि लीने सती- त्यर्थ:, परागरुणोदये माग्मूर्योदपात्पूर्वमरुणस्य सूर्यमारथेरु- दये उर्ध्वागमने जाते भवति सतीत्यर्थः। प्रकृते तु दिक्षु दिश्यते ४३
Page 358
३३८ बोधसारे।
ब्रह्माSडभिरिति ब्रह्मानुभवकारणभूता दिशो गुरूपदेश पूर्वकमहा- वाक्पजन्याहं ब्रह्मास्मीति प्रमारूपा वृतयस्तासु किश्चित्मकाशासु किश्चित्स्वल्पः प्रकाशोडलौकिको ब्रह्मापारोक्ष्यरूपो यासु तासु पञ्चम्यारूढवृत्तिषु सत्स्वित्यर्थः, अत एव दिझ्ोहे दिश्यते व्र- हाभिस्ता दिशः प्रमारूपा वृत्तयस्तासां मोह आत्मव्रह्मै- क्यास्फूर्तिरूपस्तस्मिन्गलिते नष्टे सति, यद्वा दिक्षु अन्तःकरण- वृत्तिषु किश्चिद्वह्मम्फुरणरूपासु सतीष्वित्यर्थः, दिख्ांहे लौ- किकं पूर्वादिदिग्ज्ञानं मोहकार्यत्वान्मोहो भ्रम एवेसर्थ:, तस्मिन् गलिते नष्टे सति। उपासनापक्षे तु विवेकः पूर्वा दिगविवेक: पश्चिमा दिगुभयत्र चिदादित्योदयास्तपतीते: कर्मज्ञानं दक्षिणा दिगुपासनाज्ञानमुत्तरा दिक्पितृलोकदेवलोकमाप्तिसाधनत्वाद 'कर्मणा पितृलोको विद्यया देवलोक' इति श्रुतेः, एतज्ज्ञानेन लोकपसिद्धदिग्ज्ञानमेव दिग्भ्रमस्तस्मिन्नष्टे सतीसर्थः, ततः स- न्देहकौशिके सन्देहः संशयोऽहं देहादिभ्यो भिन्नो वाऽभिन्न, देह। दिभिन्नोपि सविकारो वा निर्विकारः, निर्विकारोपि ब्रह्मा- भिन्नो वा भिन्न इत्यादिरूप स एव कौशिक इवान्धकारचा- रित्वादमङ्गलरूपत्वाच्चोलूकस्तस्मिन्नष्टे निवृत्ते सति। उ- पासनापक्ष तु तत्तदुपास्यज्ञानगतसंशय एवोलूकोऽमङ्गल- रूपत्वात्ततः प्रागरुणोदये चित्मूर्योदयात्मागुपलक्षितकालेऽ-
तायां पश्चम्यारूढबुद्धौ किश्चित्साक्षात्कारप्काशोदये सति। उ- पासनापक्षेपि उपास्यविषये किश्चित्पकाश आविर्भूते सती- ति योज्यम् ॥ ३॥ इति श्रीन० मु थंप्रकाशे स्नानकालनिर्णयार्थप्रकाशश्चतुर्थः॥४॥
Page 359
मुनीम्द्र० स्नाननिर्णयः । ३३१
अथ स्नाननिर्णयः। एवं गुनीनां स्नानकालं निर्णीयेदानीं तेषामेत्र स्नानं नि- गेतुं स्नामनिर्णयाख्यमेकश्चोकं पकरणमारभते। अथ स्नाननिर्णयः । अथेति। अथ स्नानकालनिर्णयानन्तरं स्नाननिर्णयः स्ना- नस्यावग।हनस्य निर्णयो विचारः क्रियत इति शेपः, तमेवाह। ज्ञानगङ्गाहृदे शुद्धे मझो नखशिखावधि। यः स्नाति मूलमंत्रेण सर्वदैव स निर्मलः ॥१॥ इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिनचर्यायां ्राननि- र्णंयः पञ्चमः ॥५॥ ज्ञनेति। लौकिकपक्षे तावदुक्तलक्षणपसिद्धारुणोदयकाले ग- स्वेनि शेष:, शुद्धे निर्मले ज्ञानगङ्गाहदे ज्ञानमिव 'न हि ज्ञानेन सहशं पवित्रमिह विद्यते' इति स्मृतेः, ॐ अस्नाविरं शुद्धमपापाचि- द्धमि'ति श्रुतौ च ज्ञानस्य शुद्धत्वमुक्त द्रष्टव्यं, गङ्गायास्तु पाप- निवर्तकत्वं प्रसिद्धमेव पुराणादौ स्वतः पतरित्ररुपत्वात्पवित्रका- रकत्वाच्च गङ्गा भागीसथ्यस्ति तस्या हदोड्गाधजलोवयव- स्तत्र नखशिषावधि नखानि अङ्गिकरजानि शिखा च चूडा ते अ- वधी मर्यादे यस्यां कक्रियायां भूततस्तत्तथ।SSनखमाशिखमि- त्यर्थः, मग्रः सदेहं जले प्रविष्टः सन्यः कर्मविशेषज्ञानवान्कर्ग- कर्त्ता कश्चित्पुरुपो मूलमन्त्रेण मूलं स्मृतिपुराणादीनां श्रुति- स्तद्रूपमन्त्रेण/क्षरसमूहात्मकवाक्येन 'इम मे गङ्गे'इत्यादिकेन गा- यश्रीरूपेण मन्त्रेण वा 'गङ्गागङ्गे'त्यादयः पुराणोक्ताश् मन्त्रा ग्राह्यास्तैर्जातित्वादेकवचनं सर्वदैव सर्वेकालमेत्र प्रतिदिन- मित्यर्थः, स्नाति अवगाहने स पुरुपो निर्मल: शुद्धोस्तीति ज्ञा- तव्यः। प्रकते तु यः पश्चमभूम्याद्यारूढो मुनीन्द्र शुद्धे ज्ञातृज्ञा- नज्ञेयारुयत्रिपुटीरूपमलरहिते ज्ञानगङ्गाहृदे ज्ञानं महानाक्यज-
Page 360
३४० बोधसारे।
न्यमहं ब्रह्मास्मीत्यपरोक्षं तदेव सर्वाविद्यादिमलनिवर्तकत्वाद्ग- ङ्रेव गङ्गा सन्ततपटटत्तं तस्या हदोडगाधजल: स इव निर्विक- ल्पाख्यः समाधिस्तस्मिन् नखशिखावधि न विद्यन्ते खानी- न्द्रियाणि तज्जन्यज्ञानानि तदविपयाश्च तेपामपीन्द्रियमात्रत्वा- त्खमात्रत्वं शिखा वक्ष्यमाणाऽथर्वशीरप्थज्ञानरूपा यस्मिन्क- र्मणि तद्यथा भवति तथा मग्न आत्माकारतामापन्नः सन् मूलम- न्त्रेणाऽहं व्रह्माह्पि सोहमोङ्करादिमन्त्रैर्जातित्वादेकवचनं स- र्वजगत्कारणभूतब्रह्मतत्त्वप्रतिपादकत्व्रादेपां मूलमन्त्रत्वं तेन च तदर्थानुसन्धानपूर्व स्वस्य ब्रह्मभावानुसन्धानेनेसर्थः, स्नाति अवगाहते तत्स्वात्मसुखमेवानुसन्धत्त इसर्थ, स ज्ञानी सर्वदैव सर्वकालमपि निर्मलोडविद्यादिमलरहित एवास्तीति निश्चे- तव्यम्। उपासना पक्षे तु यः कोप्युपामकः शुद्धे सिद्धिकामना- रूपमलहीने ज्ञानगङ्गाहदे ज्ञानमत्र परोक्षमुपास्यब्रह्मावषयं त-
हदोऽगाधजलवतिस्थिरीभूनत्वाद्गद इत ध्यानरूपेण परि- णतं तस्मिन् नखशिखावधि प्रत्यक्षनखशिखापर्यन्तं यथा भ- वति तथा मग्नो लीनः सन् स नखशिखदेहास्फुरणवाञ्जातः स- न्नित्यर्थः, यद्वा न न विद्यन्ते खानीन्द्रियाणि शिखाश्चाथर्वशी- र्पज्ञानरूपा यस्मिन्तन्नखशिखं तदवधिः सीमा यस्मिन्कर्मणि तद्यथा भवति तथा मग्नो लीनः सन्नित्यर्थः, मूलमन्त्रेण सोहमिति मन्त्रेगा सर्वदैव नित्यमेव स्नाति अत्रगाहते ध्यानेन ध्येयाकारो भवतीत्यर्थः, स उपासको निर्मलः शुद्ध एव ज्ञेयः ।। १ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपौ मुनीन्ददिन चर्यार्थ प्रकाशे स्नाननिर्णयार्थप्रकाशः पञ्चम: ॥५॥
Page 361
मुनीन्द्र० वस्त्रधारणनिर्णयः। ३४१
एवं मुनीन्द्राणां स्नानं निर्णीयेदानीं तेपामेव वस्र्रधारण- निर्गायपूर्वकं पूर्वाभिमुखस्थिति निर्णेतुं वस्त्रधारणनिर्णयाख्यमे- कश्लोकं मकरगामारभमाण आह। अथ वस्त्रधारणम्। अथेनि अथ स्नानानन्तरं वस्त्रधारणं निर्णीयत इनि शेष:। तदेवाह। अथ भक्तिप्रसादाख्ये परिधायांशुके मुनिः । यत्रोदयः सैव पुर्वा काष्ठा तस्याश्र सन्मुखः ॥१॥ इति श्रीनरहरिकृती बोधसारे मुनीन्द्रदि० वस्त्रधारणनिर्णयः॥६॥ अथेति। अथ स्नानानन्तरं मुनिर्मननशीलो मुनीन्द्र इत्यर्थः, भक्तिपसादाख्ये भक्तिः प्रेमलक्षणा वृत्तिः प्रमादो रागादिरा- हित्येन निर्मलत्वं ते आखुये आह्वे ययोस्ते तथोक्त ते यथा ज्ञा- नसाधने तथा कर्मसाधने इत्यर्थः, अंशुके वस्त्रे परिधाय परि- धानं कृत्या यत्र यस्यां दिशि उदय: सूर्याविर्भावो भवति सैव नान्या पूर्वा पाची काष्ठा दिग् भवति तस्याश्च प्राच्याश्च सन्मुखो- डभिमुखो भनेत्। पकते तु अथोक्त लक्षणस्नानानन्तरं मुनिर्मनन- वान् पश्चम्पाद्यारूढ इत्यर्थ:, भक्ति: पेमलक्षणा जीवत्रह्मैक्यवि- पयान्तःकरणवृत्तिः प्रसादश्च रागादिमलनिवृत्तिपूर्वकद्रताम्फु- रणलक्षणा चित्तस्थिरता ते आख्ये आह्वे ययोस्ते अंशूके वस्त्रे परिधाय सन्धाय यत्र वृत्तावुदयश्चित्मूर्योदयश्चिन्मात्रस्व- रूपात्माविर्भावो भवति सैव सा वृत्तिरेव पूर्वा प्रथमा काष्ठा स्थितिरवस्थेसर्थः, तस्याश्च स्थितेः सन्मुखोडभिमुखो भवे- दिति शेप: ॥ १ ॥ इति श्रीन० मुनी० वस्त्रधारणनिर्णयार्थप्रकाशः पषठः॥६॥
Page 362
३४२ घोधसारे।
अथ पवित्रादिधारणनिर्णयः । एवं मुनीनां वस्त्रधारणनिर्णयं निरुष्येदानीं तेपामेव पवित्रा- दिधारणं निर्गोतुं पवित्रादिधारयनिर्रायाखयं सार्धद्विश्लोकं प- करणं वक्तुमाह। अथ पवित्रादिधारणनिर्णयः । अथेति। अथ वस्त्रधारणनिर्णयानन्तरं पवित्रादिधारणं प- वित्रमादि मुख्यं येषां तिलकादीनां ते पवित्रादयस्तेषां धारण- मङ्गीकरणं नन्निर्णीयत इति शेषः । तत्रादौ कुशनिर्णयमाह। पवित्राः सूक्ष्मशास्त्रार्थास्तीक्ष्णाग्रा हरिताश्च ये। शातना कुत्सितस्यैते कुशा इति निरूपिताः॥१॥ पवित्रा इति। तत्र तावलौकिकपक्षे पवित्राः शुद्धिकारण- त्वात्स्वतः पूतास्तथा सूक्ष्मशास्त्रार्थाः शस्त्राण्येव शास्त्राणि स्वार्थेण् मूक्ष्माणि सूक्ष्मधारागि क्षुरादीनि तेपामर्थः प्रयोजनं यभ्यो जायते ते तथोक्ताः क्षुगदिभ्यश्छेदनमिव कुशेभ्योपि जायमानत्वादित्यर्थः, अत एव तीक्ष्णाग्रास्तीक्ष्णानि तीव्राणि अ- ग्राणि येषां ते तथोक्ता हरिताश्च हरितवर्णाश्चैतादृशा ये प्- सिद्धा भवन्ति त एते कुत्सितस्य पापस्य विघ्नादिरूपस्यामङ्ग- लस्य शातनाश्छेदका यनो भवन्ति अतः कुशा इत्येवं नाम्ना निरूपिता: कथिताः। प्रकते तु पवित्रा अज्ञानसंशयादिनिवृत्तिपू- वकवेदान्ताविरोधेन निर्णीतत्वात्पूता इतर्थः, सूक्ष्मशास्त्रार्थाः सू- क्ष्माणि सूक्ष्णार्थानि शास्त्राणि तेपां स्थूलौकिटगगोचरत्वात्मूक्ष्मा ये शास्त्रागामर्था उपदेशकवाक्यानां निर्णीतार्थास्तेपां तात्पर्यरूपा इत्यर्थः, अत एव तीक्ष्णाग्रास्तीक्ष्णानि तीव्राणि अज्ञानभेदने स- मर्थानि अग्रागि तात्पर्यपर्यतसानानि येषां ते तथोक्तास्तथा हरिताश्च हरिता नवीना: सदा बुद्धौ स्फुरिता इसर्थः, त एत उ-
Page 363
मुनीन्द्रदि० पबित्रादिधारणनिर्णयः । ३४३
क्तलक्षणााः कुत्सितस्य बन्धकत्वादशुभस्य संमारस्य शातना नाशका यनो भवन्ति अतस्ते शास्त्रार्था एव कुशा इत्येनं नाम्रा निरूपिता: कथिता ज्ञेया नान्ये लौकिका: कुशा इत्यर्थः ॥१॥ यदर्थ कुशनिर्याय: कृनस्तदाह। तत्पवित्रकरो भुत्वा मुनिः सव्येन वर्त्मना । वेदान्तसुत्रं यत्सूत्रं यस्याथर्वशिखा शिखा ॥ २ ॥ तदिति। तत्पविवकरस्तेषां कुशानां पवित्रे करयोहप्तयोर्यस्य स तथोक्तस्तथा विधो भूत्या मुनिः कर्मज्ञानी मव्येन वर्न्मना वामस्कघनो दक्षिणाकुक्षी स्थितन वेदान्तसूत्रं यथा ज्ञानसाधनं तद्वत्कर्मसाधनं सूत्रं यज्ञोपवीतं तत्मूत्रं धृत्वा तथा तद्रदथ- वशिखाऽथर्वशीर्पतच्छिखा शिखा चूडा कर्मठपक्षेयमर्थः। प्रकते तु मुनिर्ज्ञानी पश्चम्याद्यारूढ इत्यर्थः, तत्पवित्रकरस्तैश्रोक्तैः शा- स्त्रार्थरूपेः कुशैः पतरित्रौ वेदान्तार्थाविरुद्धौ करौ साङ्व्ययोगा- ख्यौ हस्तौ यस्य वेदान्तनिष्ठावतो ज्ञानिनः स तादगो भूत्वा सव्येन वर्त्मनाउद्वैततात्पर्यरूपेण शङ्करोक्तरीत्येर्थः, यत्मसिद्धं वे- दान्तसूत्रं वेदान्ता उपनिषदस्तेपां सूवाणि उपनिषदर्थसंग्राह- कागिा व्यासपणीतानि शारीरकमूत्रायि जातावेकवचनं तदर्थ धारगामेव यज्ञोपवीतधारणमित्यर्थः, शिखामाह यस्येति, यस्य ज्ञानिनोऽथर्वशिखाऽथर्वशीर्पाणां मन्त्राण।मर्थः शिखा चूडा- डस्ति ॥२ ॥ तिलकनिर्णयमाह। जिज्ञासा दीर्घतिलको ब्रह्मकर्म समारभेत्। इति श्रीनरहरिकृनी बोधसारे मुनीन्द्रदिनचयायां पवित्रा दिधारणनिर्णय: ।।७।।
Page 364
३४४ बोधसारे।
जिज्ञासेति। कर्मिपक्षे जिज्ञासा ज्ञानेच्केत्र दीर्घस्तिलको यस्य स तथोक्तो ब्रह्मकर्म ब्रह्म वेदस्तदुक्तं कर्म संध्यादि कर्म समारभे- त्कुर्याद्। ज्ञानिपक्षे जिज्ञासा Sडत्मज्ञानेच्छैव दीर्घो लम्वायमान- स्तिलको यस्य स तथोक्तो ब्रह्मकर्म 'ब्रह्मार्पणं ब्रह्म हविरि'ति स्मृत्युक्तं कर्म समारभेत्कुर्यादित्यर्थः ॥ ३॥ इति श्रीन० दि० बो० मुनीन्द्रदिन० पवित्रादिधारणनिर्णयार्थ- प्रकाशः सप्तमः ॥७॥
अथाचमननिर्णयः । एवं पवित्रादिधारणं निर्णीयेदानी मुनीनामाचमनं वक्तु- माचमननिर्णयाख्यं प्रकरणमेकश्लोकमभिदधान आह। अथाचमननिर्णयः । अथेति। अथ पवित्रादिधारणनिर्णायानन्तरमाचमनं मुनी- न्द्राणामाचमनमाचामो निर्णीयत इति शेपः। तदेवाह। जडं करतले कृत्वा समुद्रमिव कुंभज: । यदाचामति योगीन्द्रस्तदाचमनमुत्तमम् ॥१॥ इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिनचर्यायामाचमन- निर्णयोऽष्टमः ॥८॥ जडमिति। योगीन्द्रो युज्यते संयोगं प्राप्यते कर्मफलेन स योग: कर्म सं येषामस्तीति योगिनस्तपामिन्द्रस्तेषु श्रेष्ठ इत्यर्थः, कर्मठो जडं डलयोरभेदाज्लं करतले करस्य हस्तस्य तलमुपरिभागस्तस्मिन् कृत्वा सन्धार्य कुम्भजः कुम्भात्कलंशाज्ातः कुंभजोऽगस्त्यः समुंद्र सागरमित्र यत्पसिद्धमाचामति पिवति तत्तार्दशमाचमन- माचाम उत्तमं श्रेष्ठभित्यर्थः । प्रकृतेर्थेतु योगीन्द्रो योगो जीवव्र- ह्वैक्यं तज्ज्ञानं च तद्येपामस्ति ते योगिनः प्रथमादिच तुर्थ्यन्तभू-
Page 365
मुनीन्द्र दिन० आचमनप्रातःसन्ध्यानिर्णयः। ३४५
मिकासु आरूढास्तेष। भिन्द्रस्तेपु श्रेष्ठ इत्यर्थः, पश्चम्याद्यारूढो जा- तसाक्षात्कार इति भाव:, जडं 'तदेतज्ड मोहात्मक मायामात्र- मि'ति श्रुतेः, मायारूपं तत्कार्य च करतले करोति आत्मानात्म- विवेचनमिति करः सांख्यं स एव साउ्यद्वैतत्यागसाधनत्वाद्- हस्त इवेसर्थः, तस्य तलमित्र तलं करोपरितनभागस्तद्वत्पुरुषोपि साङ््यहस्तोपरितनभागत्वात्करतलं तस्मिन् कृत्वा तन्भोग्यत्वेन जगतः 'आत्मनस्तु कामाय सर्व पियं भवती'तिश्रुतेः, स्वमपदा- र्थभोक्तरि स्वन्नपदार्थजातमित तदभिन्नत्वेनालोक्येत्यर्थः, कुम्भ- जोऽगस्य: समुद्रं सागरमिव पुरुषमात्रावशेषं यथा भवति तथा यद्यादृशं मुनिप्रत्यक्षमाचामति पिवति तत्तादृशमाचमनमाचाम उत्तमं श्रेष्ठमित्यर्थः । जगत्करतले-इति पाठे कर्मठपक्षे ग- च्छति व्रजते पुनः पुनः स्वक्रियायामिति जगत्तलक्षणः करो हस्तस्तस्य तले जलमिसध्याहार्य। ज्ञानिपक्षे तु 'अम्भो मरीची- र्मरमाप' इति श्रुतः, जलकार्यत्व्रप्रतिपादनात्कार्यकारणयोरभेदाच्च जगदेव जलमन्यन्तु पूर्ववत्॥ १ ॥ इति शीनरहरिशिष्यदिवा० घोध० मुनीन्द्रदि० भाचमन- निर्णयार्थप्रकाशोष्टमः ॥८।।
भथ प्रातःसन्ध्यानिर्णयः । एवं मुनीनामाचमनं निरुप्येदानीं मुनीनां पातःसन्ध्या- निरणेतुं पातःसंध्यानिर्णयाखयं सार्धत्रिश्लोकं प्रकरणमाह। अथ प्रातःसंध्यानिर्णयः । अथेति। अथाचमननिर्णयानन्तरं प्रातःसंध्यानिणयः प्रभाते या संध्या तस्य निर्णयो विचारः क्रियत इति शेषः । समेव प्रतिजानीते।
Page 366
३४६ बोधसारे।
अथोपयुक्तः क्रियते प्रातःसन्ध्याविनिर्णयः । मनोजन्म जगज्न्म मनोनाशो जगल्लयः ॥ १ ॥ अथेत्यर्धेन।अथाचमननिर्णयानन्तरमुपयुक्त: प्रातःसन्ध्यो- पयोगी प्रातःसन्ध्याविनिर्णयो मुनीनां प्रातः प्रभाते या संध्या र्कम तस्या विनिर्गायो विचारः क्रियते निरुप्यत इत्युभयत्रा- प्येक एवार्थः, प्रतिज्ञ।तामेव मुनीनां प्रातःसध्यां निर्णेतुं प्रातः- संधिमाह मन इति, कर्मठानां तुप्रातःसन्धिः स्पष्ट एवेति तमुप- क्ष्य मुनीनामेव तं निर्णीय दर्शयात मनोजन्मेति, मनसः संकल्प- विकल्पात्मकान्तः करणवृत्तेर्जन्माविर्भावः स एव तत्संकल्पितम्य जगतो जन्माविर्भावो मनःकल्पितस्य जगतो मनोमात्रत्वान्मनो- जननमेव जगज्जननमिति भावः अन्वयमुखेनोक्तं व्यतिरेकमु- खेनाप्याह मनोनाशो मनसः संकल्पविकल्परूपांतःकरणवृत्तर्ना- शो लयः स एव जगल्यो जगतो विश्वस्य लयो नाशः सुपुत्यादौ मनोलये सति सर्वप्रपंचलयदर्शनाज्जाग्रति च मनस उदयेनैव सर्वप्रपंचोदयदर्शनाच्चेति भाव॥ १ ॥ तत्र हेतुमाह। तस्योन्मेषनिमेषाभ्यामुदयप्रलयौ यतः । समाध्यभ्यासशीलस्य पूर्वसंस्कारकारणात् ॥ २ ॥ तस्येति। यतो हेनोस्तस्य मनस उन्मेषनिमेषाभ्यामु- न्मेषः संकल्परूपेणापपश्चसन्मुखत्वं निमेषश्र संकल्पयागेन प- पश्चांवमुखत्वं ताभ्यां जगत उदयमलयावुदय उत्पततिः प्रलयो ना- शस्तौ भवतोऽनो मनस आविर्भावे जगत आविर्भावस्तल्लये च तल्लय इति भावः। तत्र समाधिरूपप्रपश्चलयस्य जाग्रदा दिरूपपपश्चोद्भवम्य च मनोलयमनोजन्मनोः संधिरेव संध्याकालो मुनीनामित्याह।
Page 367
मुनीन्द्र दिनर प्रातःसन्ध्याप्राणायामनिर्णयः । ३४७
समाधीति। समाध्यभ्यासशीलस्य मनोजन्ममनोलयमा- क्षिचैनन्याकारपरिणामो मनमः समाधिस्तस्य योऽभ्यास पुनः पुनस्तत्र वृत्तेः स्थिरीकरणं तदेव शीलं स्वभावो यस्य तम्य पुरु- पम्य मनसो वा पूर्वसंस्कारकारगत्पूर्व माग्यत्पपश्चाकारवृ- त्तित्वं तस्य संस्कारो वासनारूपः स एत कारयं निमिन्तं व्युत्थाने तस्माद्वेतोः ॥२॥ यदुत्थानं समाधानात्स सन्धिः सन्धिरत्र हि। तत्रापि प्राप्ततत्वानां गुरूणामुपदेशतः ॥ ३ ॥ समाधानात्ममाधितो यत्पससिद्धमुस्थानं प्रपश्चे जागग्णं जायते स प्रपश्चलयम्य प्रपञ्चाविर्भावस्य च मनोलयम्य मनआविर्भा- वम्य च वा मध्यरूपो सन्धिः सम्यग्धीयते चिन्त्यते निरुपा- धित्वेनात्मा यत्र स संधिशब्दवाच्यः कालोऽत्र मुनीन्द्रसंध्याक- र्मणि निहितः काल; संधि: संधिनामको ज्ञेगः, हि पसिद्धश्वायं शास्त्र उक्त:, तथोक्तं। 'निद्रादौ जागरस्यान्ते निद्रान्ते जागरोदये। लयो भवति चित्तस्य कार्य तत्रात्मचिन्तनमिति ॥ ३॥ एनं संधिमुक्का मंध्यामाह। खण्डितं नानुसन्धानं सा सन्ध्येत्युच्यते बुघैः॥।४। इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिन० मुनीन्द्रप्रातःसन्ध्या- निर्णयो नबमः ॥९॥ तत्रापीति। गुरूणां महावाक्यार्थद्वारा स्वस्मिन्ब्रह्मत्वो- पदेष्टृणामुपदेशत उपदेशेन मार्वविभक्तिकस्तसिः, प्राप्ततच्वानां पापं लब्धं तत्वमनारोपितात्मस्त्ररूपं यैस्ते तथोक्तास्तेषां तत्रापि उत्थाने जातेपि।। ३।।
Page 368
३४८ बोधसारे।
अनुसंधानं स्फुरयां स्वात्मस्फुरणमित्यर्थः, न खण्डितं न भग्रं यदि तहि सा स्वात्मानुसंधानरूपा संभ्येति प्रपश्चसाक्षिणः प्रपश्चोद्धवस्य च सन्धिभवत्वात्स्वात्मानुसन्धानवृत्ते: सन्ध्या- स्वमिसेवं बुधैर्विवेकिभिरुच्यते कथ्यते ॥ ४ ।। इति श्रीन० मुनी० मुनीन्द्रप्रातःसन्ध्यानिर्णयार्थप्रकाशो नवमः ॥ ९॥
भथ प्राणायामनिर्णयः। एवं मुनीन्द्रारणां सन्ध्यां निर्णीयिदानीं तेषामेव प्रायायामं निर्शेतुं प्राणायामनिर्णयार्यं षोडवशलोकं प्रकरणमारभमाण माह । अथ प्राणायामनिर्णयः । अथेति। अथ प्रातःसन्ध्यानिरूपण्णानन्तरं मागायामो मुनीन्द्राणां पाणायामो निर्यीयत इत्ति शेषः। तमेन निर्णयमाह। शरीराभ्यन्तरो वायुः प्राणापान इतीरितः । स एव गतिभेदेन संज्ञादशकमागतः ॥ १॥ शरीरेति। शरीराभ्यन्तरः शरीरस्य वषुषोऽ्भ्यन्तरः श- रीरावच्छिन्नो वायुर्मारतः प्राणापानः प्रकर्षेणानिति जीव- यति देहेन्द्रियादिसंघातं स प्राणोऽपानिति निःसत्य बहिः पारयति देहेन्द्रियादिसंघातं सोऽपान इत्येवं नाम्नेरित: कथिंतः, ननु शारीरस्य वायोर्दशविधत्वं तत्र तत्र शास्त्रेपु दृष्टं तत्कथमत्र द्वैविध्यमेवोच्यते तत्राह सएवेति, स एव प्राणापाना- ख्यः शारीरो वायुरेव गतिभेदेन गतिर्गमनं तस्या भेदेनोर्ष्वाध इत्यादिस्थानैश्चलनभिन्नत्वेन संज्ञादशकं संज्ञानां ना्म्ना द- शकं दशत्वमागतः प्रातः प्राणापानव्यानोदानसमाननागकू- १ मारयतीति वा पाठः।
Page 369
मुनीन्द्र दिन० प्राणायामनिणयः । ३४९
रमकृकरदेवद त्तधनंजयाख्यां माप्त इसर्थः ॥ १ ॥ ननु तर्हत्र द्वैविध्यमेत्र कुत उक्तं तत्राह। ऊर्ध्बाधोगतिमुख्यं द्विरूपं तस्य गतिद्वयम्। ऊर्ध्व गच्छन्भवेत्प्राणस्त्वपानः स्यादधश्चलन्॥२॥ ऊर्ध्वाध इति। तस्य शारीरस्य वायोरूर्ध्वे चाधश्रोध्वधि ऊर्ध्वाधश्र ते गती च गमने ते मुख्ये प्रधाने यस्य तत्तथोक्तं ग- तिद्वयं गत्योर्गमनयोर्द्वयं युग्म द्विरूपं दवयो रूपयोः समाहारो द्विरूपमस्तीति शेषः, ननु कया गया कि नाम तस्येत्यत आहो- ध्वमिति, ऊर्ध्वमुपरि गच्छञ्चलन् सन् स शारीरो वायु: माण: प्राणनामा भवेदुपरितनभागे नासाग्रसमवर्तिषोडशा- न्तस्थाने चलन्पाणो भवेदित्यर्थः, तथा स एव शारीरे वायु- रधः पोडशान्तादधो हृदयकमलान्तं चलन्गच्छन्सन्नपानो- डपाननामा स्यान्वेव॥ २ ॥ ननु प्राणरूपेणापानरूपेण वा शरीर एव कुतस्तिष्ठति वहि: कुतो न गच्छति तत्राह। अपान: कर्षति प्राणं प्राणोऽपानं च कर्षति। अनयो: शृङ्खला देहे तेन जीवो न निश्चलः॥३॥ अपान इति। अपानोऽधोगत्युपलक्षितः शारीरो वायु- विशेषः प्राणमूर्ध्वगमनशीलं शारीरं वायुं कर्पति आकर्षति ततः पायाः पाणनामा वायुरपानमपाननामानं वार्यु चापि कर्पति आकर्पति, नन्वधऊर्ध्वगतिमतोर्वायतोः परस्परमाकर्षणं परस्पर- कृतं कथं सम्भवतीत्याशङ्काहनयोरिति, अनयो मराणा- पानयोर्देहे शरीरे शृङ्खला शृह्गलेव परस्परं बन्धनं ग्रन्थिरि-
Page 370
३५० बोधसारे। त्यर्थ:, अस्तति शेष :; तयोः परस्परं शृद्गलासच्वे चिन्हमाह ते- नेति, तेन प्राणापानशृह्गलासच्चेन जीवो जीनोपाधिश्चित्तं न- निश्चलो न स्थिरो भवति अतः माणापानयोर्बन्धनमस्तीति निश्चेतव्यमिति भावः, अतः प्राणापानावरोधं विना चितस्थैर्य न स्यादिति भावः ॥ ३॥ तत्रापि मतभेदमाह। चले वाते चलं चित्तं निश्चले निश्चलं भवेत्। चित्ते चले चलः प्राणो निश्चले निश्चलो भवेत्॥४॥ चल इनि। वाते प्राणवायौ चले चञ्चले सति चित्तमन्तः- करगां जीवोपाधिभूनं चलं चश्चलं भवेत्स्यात्तस्मिन्नेव्र प्रायावायौ निश्चले स्थिरे सति चित्तमन्तःकरणं निश्चलं स्थिरं भवेत्स्यादिति केषां चिन्मतं। तथा केषां चिन्मते चल इति, चित्ते जीवोपा- धिभूत्तेऽन्तःकरणे चले संकल्पविकल्परूपेण चलायमाने सति प्राणः शरीरावच्छिन्नो वायुश्चलश्चञ्चलो भवेत्स्यात्तस्मिन्नेव जीवोपाधिभूतेऽनतःकरणे निश्चले संकल्पविकल्पत्यागेन स्थिरी- भूते सति स एव शारीरो वायुर्निश्चलः स्थिरो भवेत्स्यादिसेवं केपां चिन्मतं ज्ञेयम् ।४ ॥ मतभेदमेव किंचित्स्पष्टीकुर्वन्नाह। कश्चित्प्राणजयेनैव मनोनिश्चलतां भजेत। कश्चिन्मनोजयेनैव प्राणनिश्चलतां भजेत ॥ ५॥ कश्चिदिति। कश्चित्कोपि हठयोगीत्यर्थः, माणजयेनैव प्राणः शरीराभ्यन्तरो वायुस्तस्य जयः स्थैर्येण स्वाधीनीकरणं तेनैव केकलं मनोनिश्चलतां मनसोन्तःकरणस्य निश्चलतां स्थैर्य भजेत्पा- पनुया त्तथाऽन्यः सांख्य: पातञ्ञलश्चत्यर्थः, मनोजयेनैव मनसो
Page 371
मुनीन्द्रदि० प्राणायामीनणंयः । ३५१ डन्तःकरणस्य जयः स्थैर्यसम्पादनं तेनैव केवलं प्राणनिश्चल- ता प्रायास्य शरीरावच्छिन्नस्य वायोनिश्चलतां स्थिरत्वं भजे- त्माप्नुयात् ॥ ५ ॥ अन्यदपि मतमाह। कश्चिद्द्वयजयेनैव मनोनिश्चलतां भजेत् । इति योगगतिज्ञानां त्रिविधा योगिनां गतिः ॥६।। कश्रिदिति। कशश्चित्कोपि मुनिर्मननवान्वेदान्तीसर्थः, द्रय- जेनैव द्वयं मनःप्रागायोर्द्वयं युग्मं तस्य जयः स्वाधीनीकरगां स्थैर्यसम्पादनामिसर्थः, तनैतर निश्चलतां स्व्रात्मनि स्थैर्य भजेत्मा- प्नुयाद्, उक्तं मतभेदमुपसंहृत्य निगमयतीतीति, इत्येवं प्रकार योगगनिज्ञानां योगस्य जीवव्रह्मैक्यज्ञानस्य गतिः प्राप्तिस्तां जानन्ति विदन्ति ते तथोक्तास्तेवां योगिनां योगवतां गतिर्गमनं योगपापकं साधनमित्यर्थः, त्रिविधा त्रिप्काराऽस्तीत शेपः, अन्तःकरणशुद्धिद्वारा जीवव्रह्मैक्यकारयं त्रिप्रकारं ज्ञेयमिति भाव: ॥ ६॥। नन्वेतानि केर्षा मतानीति ज्ञानापेक्षायामाह। प्राणद्वारा मनः साध्यं मतं हि हठयोगिनाम्। मनसैव मनः साध्यमिति विज्ञानयोगिनाम् ॥७॥ प्रायद्वारेति। प्राणद्वारा प्राणानरोधनद्वारभूतेन माणायामा दिरूपेण हठेन मनः स्वान्त साध्यं स्थिरत्वेन स्वाधीनं कार्य हि एतद् हठयोगिनां हठयोगवर्ता मतं निश्चितमस्तीति शेपः, तथा मनसैत विवेकरूपण मनोशेनैव केवलं मनः संकल्पतिकल्परूपो मनोशः साध्यं संकल्पविकल्पलयेन स्थिरं कार्यममिति एवं रूपं मतं निश्चितं विज्ञानयोगिनां पातञ्ञलसांख्यादीनामस्ति। तत्र
Page 372
३५२ बोधसारे।
केवलनिवेकेनैव मनःस्थैर्य न भवति किन्तु पाणावरोधेनैव योगि- व्वेत्र तत्स्थैर्यस्य दृश्यमानत्वादिति हठमतं, केवलपाणायामादिना कृतेपि प्राणावरोधे मनोमौठ्यावशेषाद्वीजरूपेण मनोवशिष्टमिति सुप्तिर्मूछादिष्विव न मनोलयरूपः पुरुषार्थः सिद्ध्यतीति विवे- केनैव केवलं मन्तव्यमिथ्यात्वमतीतौ दृढततरायां सत्या मनसः शैथिल्येन क्रमाल्लयरूप: पुरुषार्थः सिद्धेदिति ज्ञानिनां मतमिति विवेक: ॥। 9 ॥ वेदान्तमतमाह। मनःप्राणद्वययुजस्ते तु श्रेष्ठतराः स्मृताः । चेच्छुष्कहठिनो मूढास्ते भण्डा न तु योगिनः।।८।। मनःप्राणेति । ये तूक्तोभयविलक्षणा इति तुपदार्थः, तदेव वैलक्षण्यमाह मन इति, मनश्रान्तःकरणं प्राणश्र शारीरो वायुस्तयोर्द्यं युग्मं तद्युअन्ति लीनं स्वात्मनि कुर्वन्तीति ते त- थोक्तास्ते श्रेष्ठतरा अतिश्रेष्ठा इत्यर्थ:, स्मृता उक्ता मुनिभिरि ति शेष:, विनैव गुरुदीक्षां स्वबुद्धया हठे प्रवृत्तान्निन्दति चेदिति, मूढा हठक्रियाज्ञानशून्या गुरुशिक्षारहिता इत्यर्थ, अत एव शुष्कहठिनो निष्फलहठाभ्यासरताश्चेद्यदि भर्वान्त तर्हि ते शु- ष्कहठाभ्यासिनो भण्डा हठक्रियाविनोदिन एव ज्ञेया:, तु पुन- स्त्रे योगिनो हठयोगाभ्यासिनो न न भवन्ति हठमिषण ते लोक- वश्चका ज्ञेया इति भाव: ।। ८ ।। इदानीं सिद्धयनादरेण मुक्तावादरं विधातुं सिद्धिकामेन इठेपछत्तानां क्षुद्र्त्वं दर्शयति। ते त्वर्धयोगिनः प्रोक्ता: क्षुद्रसिद्धर्थयोगिनः । पिङ्गलेडा सुषुम्णा च मुख्यास्तिस्रस्तु नाडिषु।९॥
Page 373
मुनीन्द्रदिन० प्राणायार्मनिर्णयः । ३५३
ते त्विति। ये तु तुपदेन गुरुशिक्षया हठाभ्यामिषु पूर्वेभ्यः श्रष्ठ्यं सूचितं, स्षुद्रामद्ध्यर्थयोगिनः क्षुद्रास्तुच्छा: परकायम- वेशाकाशगमनादिका मोक्षांवन्नभूना या: सिद्धयस्ता एवार्थ: प- योजनं तत्मै तत्पाप्तुं योगिनो योगाभ्यासिनो भवन्ति तेडर्पयो- मधानफल- भूतमोक्षाभावात्तपां क्षुद्रत्वाच्चर्वयोगिन: प्रोक्ता: कथिता मु. मुक्षुभिस्तत्रादरो न कर्तव्य इति भावः, अत्र पतअ्जलिरप्याह 'ते समाधावुपसर्गा व्युन्थाने सिद्धय' इति। अस्यार्थः, याः सिद्धयो डन्तर्धानादयस्ते समाधौ मुक्तावुपसर्गा विघ्नभूता भतन्ति, ननु समाधावन्तकरणलये सति कर्थं सिद्धयनुभवस्तत्राह व्युत्थान इति, समाधितो व्युत्थानेन प्रपंचोद्भवे सति य एव सिद्धयः सिद्धिशब्दवाच्योर्थ इत्यर्थः, स एव विन्नभूनो ज्ञेय इति, अतः सिद्ध्यादरं परित्यज्य मुक्तिहेतुकं योगमभ्यसितुं योगाङ्गभतं पाणायामं निरूपयिप्यन्तदुपोद्धातत्वेन नाडीभेदमाह पिंगलेति, नाडिषु द्वासप्ततिसहस्त्रमंख्यासु देहान्तर्वर्तिनीषु नाडिपु मध्ये मु. ख्या: प्रधानास्तिस्त्रस्तु त्रिसंख्याका नाड्यो भवन्ति तदधीन- त्वात्मर्वासामिति भावः, तुपदेन द्वामप्ततिमहस्त्रनाडीभ्यास्तिस्रो- Sतिविलक्षणा इति सूचिनं, ता एव नामतो निर्दिशति पिङ्गलेति, पिङ्गला पिङ्गलानाम्न्येकेडेडानास्नी. द्वितीया सुपुम्णा- च सुधुम्णानाम्न्यपि तृनीया भवति ॥ ९॥ स्थानतोपि ता निर्दिशति। इडा वामा पिङ्गलान्या सुपुम्णा मध्यवर्तिनी। वामदक्षिणमार्गेण सदा वहति मारुतः ॥ १०॥ इडेनि। वामा वामभागे प्रवर्तमानेडेडानाम्नी ज्ञेया, अन्या दक्षिणा दक्षिगाभागे प्रवर्तमाना नाडी पिङ्गला पिङ्गल-
Page 374
३५४ बोधसारे।
नाम्नी भवति, तथा मध्यवर्तिनी मध्ये प्रवर्तमाना नाडी सुपुम्णा सुपुम्णानाम्नी ज्ञेया, यदर्थ नाडीभेद उक्तस्तमाह वामेति, मा- रुनः शारीरो वायुर्वामदक्षिणमार्गेण वामः सव्यो दक्षिणोऽ- पसव्यो मार्गो नाडीच्छिद्रं तेनेडापिङ्गलानाडीभ्यामित्यर्थ, सदा नियं वहति चलति॥ १० ॥ तर्हि सुषुम्णायां कदा चलतीत्यत आह।' यदा द्ावपि रुध्येते प्राणमार्गो सुयोगिना। तदान्यत्सर्पवत्प्राणो रन्ध्रमाविशति स्वयम् ॥११।। यदेति। सुयोगिना सम्यग्योगाभ्यासवता पुरुषेण द्वावपी- डापिङ्गलानामानावुभावपि प्रासमार्गौ प्राशस्य शरीरावच्छि- न्नस्य वायोर्मार्मो पन्थानौ रुद्धयेते रुद्धौ भवतो यदा यस्मि- न्काले तदा तस्मिन्काले प्राण: शारीरो वायुः सर्पवद्यथा सर्पः सर्वेपु चिछ्विद्रेषु रुद्धेषु सत्सु तदन्यत्सूक्ष्ममपि चिछद्र प्रविशति त- द्ृदन्यदिडापिङ्गलाभ्यां भिन्नं रन्धं छिद्रं तृतीयं सुषुम्णाख्यं स्वयं स्वन एवाविशति प्रविशति, इडापिङ्गलारोधनमेवापेक्षितं न तु ततोन्यः सुपुम्णायां वायोः प्रवेशने प्रयत्नोऽपेक्षित इति भाव: ॥। ११ ॥ सुपुम्णाप्रव्रेशनक्रममेवाह। . स्थिता कुण्डलिनी मूले जीवशक्तिरनुत्तमा ।' तामुत्थाप्य तया सार्ध सुषुम्णां प्राण आविशेत्॥१२॥ स्थितेति। मूले मूलाधाराख्यचक्रे गुदस्थान इत्यर्थ:, अनुत्तमा न विद्त उतमा श्रेष्ठा यस्याः सा तथाभूताऽतिश्रेष्ठे- त्वर्थ:, जीवशक्तिर्जीवस्य साधिष्ठानबुद्धिस्थचिदाभाम- स्यत्यर्थः, शक्ति: सामभ्येरूपा कुण्डलिनी कुण्डलिनीनाम्री
Page 375
मुनीन्द्रदिन० प्राणायामनिर्णयः । नाग्रदादिमोक्षपर्यन्तजीवसंसारजनयित्रीत्यर्थः, स्थिना वर्तमाना- डस्तीति शेषः, अस्तु किं तन इत्यन आह तामिति, माणः शारीरो वायुः पराणायामाभ्यासेनावरुद्धस्तां कुण्डलिनी- मुस्ाप्यान्तर्मुखी कृच्चा जीवस्य यत्पारमार्थिकं शिवस्व्ररूपं तदभिमुखीं कृत्वेसर्थः, तया जीवशत्त्या सार्ध सह सुपु- म्णां ब्रह्मनाडीमाविशेत्मनेशं कुर्यादेवं प्राणस्य सुपुम्णा- प्रवेशक्रमो ज्ञेयः ॥ १२ ।। ततः किमित्यत आह। सपुम्णावाहिनि प्राणे ब्रह्मरन्ध्रं गते सति । तत्र निश्चलतां याते मनो निश्चलतां व्रजेत् ॥१३॥ सुपुम्णेति। प्राणे प्राणनायौ सुपुम्णावाहिनि सृपुम्णा ब्रह्मनाडी तस्यां वाहिनि प्रवेशवति सनि नतस्तया नाड्या ब्र- ह्मरन्धं भ्रमरगुहानामकं स्थानं मत गते प्राप्ते सति ततश्च तत्र ब्रह्मरन्धे निश्चलतां स्थिरतां याते प्राप्ते सति ततो मनः सङ्क- ल्पतिकल्पात्मकं जीवोपाधिभूतमन्तःकरणं निश्चलतां स्थैर्य व्रजेत्माप्नुयाद् ॥१३॥ एनं हठक्रमेण मनोलयप्रकारमुक्केदानीं ज्ञानक्रमेणापि तमाह। मनो यदि निरुध्येत केवलं ज्ञानयोगिना। प्राणापानौ नश्यतस्तु मनोनाशन तत्क्षणात्॥ १४ ॥ मन इति। ज्ञानयोगिना ज्ञानयोगाभ्यासवता केवलं प्रा- गोपाधितो विनिक्तं सद्यदि यर्हि विवेकेन मनः सङ्कल्पवि- कल्पात्मकमन्तःकरणं सङ्कल्पविकल्परूपांशं संसाज्य निरुध्येता- वरुन्ध्यात्तर्हि तदा मनोनाशेन सङ्कल्पनिकल्पांशमनसो नाशेन लयन तत्क्षणात्सय एव प्राणापानौ प्राणापाननामानौ वायू
Page 376
३५६ बोधसारे
नश्यतो नष्टौ भवतो निद्रामूच्छादौ मनोलये सति प्राणापान- प्रव्राहस्य विद्यमानत्वेपि बाघादर्शनादिति मनोलयेनैव तयोनीश इति भाव: ॥१४॥ एचमुभयमतं निरुप्येदानी मुमुक्षुग्राहं वेदान्तमतमाह। तस्मात्सिद्धान्त एवैको हृठविज्ञानयोगिनो:। शास्त्रोक्तमिति विज्ञाय निर्णयं प्राणचेतसोः ॥१५॥ तस्मादिति। हठविज्ञानयोगिनोहठयोगज्ञानयोगाभ्या- सवतोस्तस्मान्मनोलयस्यैवोभयत्र साध्यत्वाद्धेतोः सिद्धान्तो निश्चय एक एव सम एव भवतीत्येवं शास्त्रोक्त वेदान्तशा- स्त्रोक्तं प्राणचेतसोः शरीरावच्छिन्नस्य वायोर्मनसश्च निर्णयं सि- द्धान्तं विज्ञाय जञात्वा ॥ १५ ॥ प्राणायामं मुनिः कुर्यान्मनोलयसमन्वितम् ॥ १६ ॥ इतिश्रीन० बो० मुनीन्द० प्राणायामनिर्णयो दय्मः॥१०॥ मुनिर्मननवान् सन् विवेकपूर्वकमित्यर्थः, पाखायामं प्रा- णानां शारीरवायूनामायाममवरोधनं मनोलयसमन्वितं म- नसः सङ्कल्पविकल्पात्मकव्टत्तेर्लयो नाशस्तेन समन्वितं स- हितं यथा भवति तथा कुर्यात्क्रियतामित्यर्थः, केवलप्राणाया- मेन प्राणस्थैर्येपि विवेकाभावेन बीजनाशाभावान्मनोनाशाभावः केवलतिवेक्ेन मेनोनिरोधे माणायामाभावात्पुनः पुनस्तदुद- यान्मनोनाशाभाव इति मनोमलनिवसै माणायामोपेक्षितस्ततो विवेकेनोत्पन्नेन मनोलयो भवतीति निश्चयोयं मुमुक्षुभिर्ग्राह्य इति भावः ॥ १६ ॥ इति श्रीनरहरिशिष्यदिवाक० वो० मुनीन्द्रदिनचर्यार्थप्रकाशे प्राणायामनिर्णयार्थप्रकाशो दशमः॥१०॥
Page 377
मुनीन्द्रदिन० अघदाननिणंय। ३५७
अथार्घदाननिर्णयः। एवं प्राणायामनिर्णयमभिषायेदानी मुनीनामर्धदानं नि- णेतुमधर्यदानानर्णयाख्यं पकरसं त्रिश्लोकमारभमाया आह। अथार्घदानम् । पूणाञ्जलिमयासत्र्यर्घा भावनागाङ्गचारिणा। सर्वपापविशुद्धर्थ प्रदेयाः कर्मसाक्षिणे ॥ १॥ अथेति। अथ प्राणायामनिर्णयानन्तरमर्धदानमर्घाणां दानं समर्पगां निर्णीयत इति शेषः, तत्र लौकिकार्घदाने तु प्र- सिद्ध जलपूर्णेनाअलिना प्रसिद्धेनैव त्रयोर्धा दीयन्ते। ज्ञान्यर्घदाने तु जलं किमञ्जलिश्च कः प्रयोजनं च कि कस्मै देयश्च तत्स- र्वमाह पूर्णेति, मुनिना पूर्णाञ्जलिमया: पूर्गा ब्रह्म तदेव जल- स्थानीयं रसरूपत्वाद् 'रसो वैस' इति श्रुतेः, अञ्जलिश्चोभयक- रमंहतिरूपः प्रभिद्धो लोके, अत्र तु वक्ष्यमाणसाङ्गययोगाख्य- करपोरविरोधज्ञानरूपोडअ्लिः पूर्णस्य ब्रह्मणोञ्जलिः सा-
योगं च यः पश्यति स पश्यनी'तिभगवदुक्तत्वात, सङ्ख्यामाह 5यर्घा इति, त्रिसख्याका अर्घाः, जलमाह भावनेति, भावना- गाङ्गवारिगा साङ्व्ययोगयोरविरोधस्य भावना चिन्तनं तदेव- गाङ्ग वारि गङ्गाजलं तेन, फलमाह सर्वेति, सर्वपापविशुद्धयर्थ सर्व मर्वपदवाच्यं द्वैतमेव पापं दुःखकारणत्वात्तम्य विशुद्धि: 'सर्वे खल्विदं ब्रह्मे'ति श्रुसर्थबोधेन सर्वपदवाच्यद्वैतवाधनाङ्र- ह्मत्वपतीतिरूपा तदर्थ ताद्टशपयोजनाय देवतामाह प्देया इति, कर्ममाक्षिणे लोके तावत्सूर्यायार्घो दीयते, एते त्वर्घाः कर्मसा- क्षिणे कर्मणः क्रियायाः साक्षिणे साक्षात्मकाशकाय चिद्ादि-
Page 378
३१- बोधसारे
त्याय मदेयाः समर्प्याः ॥१॥ प्तिज्ञातमर्घत्रित्वं स्पष्टय्ति सार्घेन। इदं दृश्यमहँद्रष्टा प्रथमोर्घो मनीषिणाम् ब्रह्म सत्यं जगन्मिथ्या द्वितीयोर्घस्ततः परः ॥२॥ इदमिति। इदमहङ्कारादिदेहान्तं त्वम्पदलक्ष्यकूटस्थचैत- न्यभास्यं तथा देहादिमायान्तं सर्वे तत्पदलक्ष्यब्रह्मचैतन्यभास्यं तयोर्ब्रह्मचैतन्यकूटस्थचैतन्ययोर्घटाकाशमहाकाशयोरिव वास्त- वाभेदात्तत्सर्वे ब्रह्माभिन्नकूटस्थस्य मम दृश्यं पकाश्यमस्ति अहं ब्रह्माभिन्नः कूटस्थोहं तम्य सर्वस्य दृश्यजातस्य द्रष्टा भा- सकोऽस्मीत्येवं वोधो मनीषिगां विवेकिनां पथम आद्यो- डर्घो ज्ञेयः, द्वितीयं दर्शयति ब्रह्मेति, ब्रह्मदेशकालवस्तुकृतपरि- च्छेदशून्यं वस्तु भूमशब्दवाच्यं सत्यं कालतयेप्यवाधितत्वात्प- रमार्थरूपमा्ति जगच्चश्चलस्वभावं मायातत्कार्य चान्योन्य- स्मिन्व्यावृत्तत्वान्मिथ्याऽससमित्येवं बोधस्ततः प्रथमादर्घात्परो डन्यो द्वितीय इत्पर्थः, अर्घोऽनर्यमस्तीति ज्ञेयः ॥ २ ॥ एवं द्विनीयमर्घ निरूप्येदानीं तृतीयमर्ध निरूपयति। नेदमस्त्यहमेवास्मि तृतीयोर्घः परात्परः । एवं विधार्धदानेन चिदादित्यः प्रसदिति ॥ ३ ॥ इति श्रीनरह० बो० मुनीन्ददिनचर्यायामर्धदाननिर्णयः॥११॥ नेदमिति। इदं सर्व दृश्यजातं नास्ति नैव विद्यते किं तु अहमेव ब्रह्माभिन्नः कूटस्थचैतन्यरूपस्त्वम्पदलक्ष्य एव केवल- मस्मि भवामि 'नेहनानास्ति किश्च ने'ति श्रुतेर्द्वैतजातस्य बा- धितत्वादिति भाव:, इत्येनं वोधः पराद्द्वितीयात्परोऽन्य- स्तृनीयोर्घोऽध्थ ज्ञेयं, फलमाहैवमिति, एवं विधार्घदानेनैवं-
Page 379
मुनीन्द्रदि० गायत्रीजपनिणंयः । ३१९
दानेनात्मनः परथ-
त्मैनादित्यः सूर्यः सर्वजगत्प्रकाशकत्वात्पसीदतति निर्मलः स- न्स्वयं प्रकाशते ॥ ३ ॥ इति श्रीनरहरिशिष्य दि०बोघसारा्थंदीप्ी मुनीन्द्र दिनचर्यार्थप्रकाशे- 5घंदाननिर्णयार्थप्रकाश एकादशः॥११।।
अथ गायत्रीजपनिर्णयः । एवं मुनीन्द्राणामर्घदानं निणीयेदानी तेषामेव गायत्रीजपं निर्णेतुं गायत्रीजपनिर्णयाख्यं चतुःश्रोकं प्रकरयं वक्त- काम आह। अथ गायत्रीजपनिर्णयः । अथेति। अथार्दाननिर्णयानन्तरं गायत्रीजपो मुनीन्द्रागां गायत्र्या गायत्रीमन्त्रस्य जपो निर्णीयत इति शेषः। तमेवाह । अखण्डमण्डलाकार देवं ज्योतिर्मयं स्मरन्। उपदेशात्सदाऽऽवृत्तिरिति वेदान्तसूत्रतः ॥ १॥ तिष्ठेञ्जपेच् गायत्रीमष्टोत्तरशतत्रयम् । गायन्तं तायत्ते यस्माद्वायत्री तेन सा स्मृता ।।२।। अखण्डेति। मुनिरखण्डमण्डलाकारमखण्डमेकरसं म- ण्डलं विम्बमाकार आकृतिर्यस्य स तथोक्तसतं देवं ज्योतिर्मयं चिन्मात्रस्वरूपं देवं स्व्रप्रकाशमात्मानं स्मरन्ननुसन्दधानः सन् तिष्ठेदासीत, अत्र प्रमाणमाहोपदेशादिति, 'उपदेशात्सदाळ- त्तिरि'ति वेदान्तसूतन उपदेशादुपदेशादारभ्य सदा निलमा- वृत्तिरावर्तनमुपदिष्टार्थस्य जीवव्रह्मैक्यरूपस्यानुसन्धानपूर्वक-
Page 380
३६० बोधसारे।
मुपदेशकवाक्यजातस्य पुनः पुनः श्रवणाद्ावर्त्तनमिसर्थः, कर्तत- व्येति शेष:, इत्येवं वेदान्तसूत्रपामाण्याद्वेतोर्गायत्रीं च ज- पाख्यां जपेदावर्तयेद्, जपमंख्यामाहाष्टोत्तरशतत्रयमष्टावष्टौ चो- त्तरागि अधिकानि येषु शतेषु तेषां त्रयं त्रिकं यथा तथा जप- श्रतुर्निशत्यधिकानि त्रिशतानीसर्थः, उपलक्षणमेतव षट् शताधि- कैकविंशतिसहस्त्रसख्ख्याया अजपायाः, नित्यं गायवीजपस्य च- तुर्विशयधिकत्रिशतसंख्याकस्य नियकर्मत्वेन पापनिवृत्तिफल- कत्वाद्, अजपाया अपि षद्शताधिकैकविंशनिसहस्त्राया अपि
वत्त्या सर्वदुःखनिवर्तकत्वाद् नित्यकर्मत्वाच्च चतुर्विशसधिक- त्रिशतसंख्यग।यत्रीजपस्य षद्शताधिकैकविंशतिसहस्त्रजपस्य च साम्यत्वमात्मानुसन्धायकत्वेनाजपाया एव जाप्यत्वं मुनी- न्द्रारं, ननु अजपाया गायत्रीत्वं कुत इत्यत आह गायन्त- मिति, गायन्तमात्मानुसन्धानपूर्वकं स्वमुच्चरन्तं यस्माद्यतः का- रणात्तायते रक्षति साडजपा तेन कारणेन गायत्री गायत्री- नाम्री स्मृतोक्ता मुनिभिरिति शेषः ॥ १ ॥ ननु गायत्र्यर्थस्याजपार्थस्य च भिन्नत्वात्कथमजपाया गायत्रीत्वमिसाशद् गायत्र्यर्थमजपार्या सम्भावयितुं गायतरपर्थ तावदाह। अन्तर्यामिस्वरूपेण सर्वधीवृत्तिनोदकम् । सवितृमण्डले ध्येयं गायतर्यर्थपरं महः ॥ ३ ॥ अन्तर्यामीति। अन्तर्यामिस्वरूपेण'यः पृथिव्यां तिष्ठन्नि'सादि यः सर्वेपु तिष्ठन्सर्वान्यमयती'श्रुत्या सर्वान्तर्याम्युक्तः स स्वरूपं यस्य तत्तथोक्तं तेन कृत्वा सर्वधीदृत्तिनोदकं सर्वपदवाच्यं यद्द्वैतजातं तदाकारा या धवितयो बुद्धिवृत्तयस्तासां नोदकं प्रे-
Page 381
मुनीन्द्र० गायश्रीजपनिर्णयः। ३६१
रक सायत्र्यर्थपरं 'तत्सवितुरि'ति प्रसिद्धगायत्रीमन्त्रार्थतात्पर्य- भूतं महस्तेजः सर्वप्रकाशकं चिन्मात्रमित्यर्थः, सवितृमण्डले स- वितुर्मायातत्कार्यप्रसवितुः शवलाख्यस्य जगत्कारणभूतस्य ब्रह्मणो मण्डले बिम्बभूते चिन्मात्रे ततः पृथगसत्वाद्विम्घभूतमेत्र तद्धयेयं चिन्तनीयम्। अजपायामपि तदहंशब्दवाच्यस्य तच्छ- ब्दवाच्यस्य च परोक्षप्रत्यक्षादिविरुद्धांशत्यागेन भागलक्षणया लक्षित जीवव्रह्मैक्यं लक्षयन्त्यां गायत्र्यर्थवत्वेन गायत्रीत्वं सं- भाव्यमिति भावः॥३॥ ननु व्यक्षराया अजपाया गायत्रीत्वे लोकमसिद्धगायत्र्यां चतुर्विशसक्षरपाठगौरवं किमर्थमित्याशङ्काह। चतुर्विशत्यक्षरया गायत्र्या ब्रह्मविद्यया। चतुर्विशतितत्वानां लयकृद्राह्मणः शुचिः ॥४ ॥ इति शीनरहरिकृती बोधसारे मुनीन्द्रदिनचर्यायां गायत्री- जपनिर्णयो द्वादशः ॥ १२।। चतुर्विशतीति। चतुर्विशत्यक्षरया चतुर्विशतिसंख्यान्यक्षराणि वर्गा यम्यां सा तथोक्ता तया ब्रह्मविद्यया ब्रह्मोपासनाङ्गमन्त्र- रूपया, यद्रा व्रह्मज्ञानार्थवत्त्वाड्गह्मविद्यात्वं गायत्र्यास्तथा चतु- रविशतितच्वानामष्टौ प्रकृतयः पोडशविकाराश्चेत्येवं चतुर्विशति- संख्यानां सांखयोक्ततत्वानां लयकृन्नाशकृत्मकृतितत्कार्यलये कृते सति पुरुषस्यासङ्गसच्चिदानन्दव्रह्मलक्षयावत्वज्ञानेन स्वस्यापि ब्रह्माभिन्नत्वज्ञाने सति ब्राह्मणो ब्रह्मविन्भवति अत एव स शुचिर्निर्मलो जायत इति शेप:, इदमेव प्रयोजनं चतुर्विशत्य- क्षरपयोगे ज्ञेयम् ॥४॥ इति श्रीनरहरिशिप्यदिवाकरविरचितायां बोधसारार्थदीपी मुनीन्द्रदिन चर्यार्थ प्रकाश गायत्रीजपमिर्णयार्थ- प्रकाशो द्वादथ: ॥१२ ॥
४६
Page 382
३६२ बोधसारे।
अथोपस्थाननिर्णयः । एवं गायत्रीजपनिर्णयं निरुप्येदानीं मुनीन्द्राणामुपस्थानं निर्णीय मदर्शयितुसुपस्थाननिर्णयाख्यं द्विश्लोकं पकरणं क- थयन्नाह। अथोपस्थाननिर्णयः । अथेति अथ गायत्रीजपनिर्णयनिरूपणानन्तरमुपस्थान- निर्णयः क्रियत इति शेष:, तमेव निरूपयितुं हस्तौ निर्णीय दर्शयति। मुनिः प्रसार्य सरलौ प्रलम्बौ सपवित्रकौ सांख्ययोगौ निजौ बाहू उपतिष्ठेत भास्करम्॥ १ ॥ मुनिरिति। लोके तावत्प्रसिद्धावेव करौ प्रसिद्धकुशपवित्रस- हितावुपरि लम्बायमानौ कृत्वा प्रसिद्धसूर्यसन्मुखं स्थित्वा 'मित्रो जनान्यातयती'सादि मन्त्रैरुपस्थानं क्रियते। अत्र तु ह- इतादिविशेषसहितमुपस्थानविशेषमाह मुनिर्मननशीलो ज्ञानी-
रोधत्यागेन वेदान्तातुकूलौ पलम्बौ जीवब्रह्मैक्यबोधपर्यन्तौ स पवित्रकावुक्तसर्वसूक्ष्मशास्त्रार्थरूपकुशपवित्रसहितौ सांख्ययोगौ सांख्यशास्त्रयोगशास्त्राख्यौ निजावात्मीयौ बाहू हस्तावना- त्मत्यागस्यात्मग्रहणस्य च साधनत्वात्मसार्य वेदान्तादरेण तयोरादरशैथिल्पेन शिथिलौ कृत्वेत्यर्थः, भास्करं भा जगत्म- काशस्तस्य करं कर्त्तारं 'तस्य भासा सर्वमिदं विभाती'ति- श्रुतेश्चिदात्मानमित्यर्थः, उप समीपे पारमार्थिकात्मस्त्ररूपेण व्यावहारिकचिदाभासस्य बाधितत्वदृष्ठ्या व्यवहारनिर्वाहक- त्वात्समीपवर्तित्वमिति ज्ञेयं, तिष्ठेत स्थितिं कुर्यात् ॥ १॥
Page 383
मुनीन्द्रदिन० उपस्धाननिर्णयः । ३६३
मन्त्रमाह। नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे। तयीमयाय त्रिगुणात्मधारिणे विरिञ्जिनारायणशङ्करात्मने ॥२॥ इति श्रीनरहरिकृती बोधसारे मुनींद्रदिनचर्यायामुयस्थान- निर्णयस्त्रयोदशः ।१३।। नम इति। सवित्रे मायायास्तत्कार्यस्य च जनकायेति तटस्थलक्षणलक्षितायेसर्थः, स्वरूपलक्षणेन लक्षयति जगदिति, जगदेकचक्षुपे जगतो द्वैतजातस्यैकं मुख्यं चक्षुर्दर्शनसाधन- भूतं चक्षुरित चक्षुश्चिन्मात्रं तस्ै जगत्पकाशकायेत्यर्थः, पुनस्त- टस्थलक्षणेन लक्षयति जगदिति, जगत्पसूतिस्थितिनाशहेतवे ज- गतो द्वैतजातस्य प्रसूतिरुत्पत्तिः स्थिति: स्थानं नाशो लयस्तेषां हेतुः कारगं तस्मै यं बिना जगदुत्पत्तिस्थितिलया न भवन्ती- सर्थः, पूर्वत्र मायातत्कार्ययोरधिष्ठानत्वेन कारणत्वमत्र तूपादा- नकारणत्वमिति विवेक:, अत एव त्रिगुखात्मधारिणेत्रयो गुणा: सच्वरजस्तमोभिधास्तानात्मनि धारयतीति तच्छीलायाऽत एव विरिश्चिनाराययशङ्करात्मने विरश्चिर्व्रह्मा नारायणो विष्णुः शङ्करो रुद्रस्तेपामात्मनेऽन्तर्यामिरूपिणे, यद्वा वि- रश्चिर्व्रह्मा नारायणो विष्णुः शङ्करो रुद्रस्त्रयाणां गुणानां र- जःसत्व तमसामभिमानिनस्त एवात्मानो देहा यस्य तथा वि- धायेसर्थः, अत एव त्रयीमयाय त्रयी वेदत्रयी तन्म- याय तद्योनित्वेन सर्वज्ञत्वादिलक्षणलक्षिताय, यद्वा त्रयी वेद- त्रयी तन्मयाय वेदत्रयप्रतिपाद्यायेत्यर्थः, तथाहि सूत्रं 'शास्त्रयो- नित्वादि'ति॥२॥
Page 384
३६४ घोधसारे।
इति भीनरहरिशिष्य द्विवाकरविरचितायां बोधसा० मुनीन्द्रदिनच् यार्थ प्रकाश उपस्थाननिर्णयार्थप्रकाशस्त्रयोदशः।१३।।
अथ सहोमाङ्गहोमनिर्णयः। एवमुपस्थाननिर्यायं निरूप्येदानीं होमाङ्गसहितं होमं नि- णेतुं सहोमाङ्गहोमनिर्णयाख्यं सार्धचतुर्दशश्लोकं प्करणमार- भमाया आह। अथ सहोमाङ्गहोमनिर्णयः । एवं समाप्प विधिना प्रातः संध्याविधिं मुनि। होमस्यावसरं ज्ञात्वा यज्ञशालां ततो विशेत ॥ १ ॥ अथेति। अथोपस्थाननिर्णयानन्तरं सहोमाङ्गहोमनिर्यायो होमस्य हवनस्याङ्गानि यज्ञशालापायश्वित्तादीनि तैः सहितस्य होमस्य हवनस्य निर्णयः सिद्धान्तः क्रियत इति शेष:, तत्रादा- वितिकृसमाहैवमिति, एवमुक्तमकारेण विधिना विधानेन प्रा- तःसन्ध्याविधि प्रातःकालीना या सन्ध्योक्तलक्षणा सन्ध्या- ख्या क्रिया तस्या विधिमनुष्ठानं समाप्य समाप्तं कृत्वा मुनिर्म- ननवान् होमस्य वक्ष्यमाणलक्षणहोमस्यावसरं समयं यत्र का- लेडहन्ताममते वाधकत्वेन स्फुरतस्तं कालमिअर्थः, ज्ञात्वाऽबगस ततोऽनन्तरं यज्ञशालामिज्यते पूज्यत आत्मानेनेति यज्ञः स- माधिस्तस्य शाला स्थानं वक्ष्यमाणमाविशेत्मविशेत। लौकिक- पक्षे तु मुनिः कर्मकाण्डविवेकवानेवमनेन प्रकारेण विधिना विधानेन प्रातःसन्ध्याविधिं प्रातःकालीना या सन्ध्या सन्धिभवा क्रिया तस्या विधिमनुष्ठानं समाप्य समाप्तं कृत्वा ततः स- न्धय।कर्मानन्तरं होमस्य गार्हपसहोमस्यावसरं समयं सूर्योदय-
Page 385
मुनीन्द्रदिन० सहोमाङ्गह्ोमनिर्णयः । ३६
काल मित्यर्थः, ज्ञात्वाऽ्वलोक्य यज्ञशालां यज्ञस्य यजनस्य शालां मृहं विशेत्मपिशेत। प्रकृते तु यज्ञशाला वक्ष्यमाणा जेया॥ १ ॥ लोके तावत्मसिद्धा यज्ञशालाऽत्र तु विशिष्टां तामेवाहार्धेन। यज्ञशाला भूमिका स्यात्तृतीया तनुमानसा। सव्यार्हन्सिव्यतः कुर्यादसव्यार्हीनसव्यतः । संचरेत तथा नैव प्रायश्चित्तीयते यथा ॥२ ॥ यज्ञशालेति। तृतीया भूमिका भूमिस्तनुमानसा तनुमा- नसा तनुमानसानाम्नी तनवः सूक्ष्मा मानसा मनोधर्माः स- कल्पविकल्परागद्रेपेच्छाकामादयो यत्रेति तन्नात्नीत्यर्थ:, यज्ञशाला ज्ञानियज्ञस्य शाला विशिष्टं गृहं स्यान्भ्वेत्तां प्रविशदिति पूर्व- त्रान्वयः, ततः किंकुर्यादित्यत आह सच्यारहानिति। लोके ताव- दयमर्थः, सव्यार्हान्मव्ये वामाङ्गेडर्हान्योग्यान्पदार्थान्होमसामग्री- भूतान्मव्यतः सव्ये वामभागे कुर्यात्स्थापये त्तथाऽसव्यार्हा- नसव्येऽपमव्ये दक्षिणभाग इत्यर्थः, अर्हान्याग्यान्पदार्थान्हो- दक्षिणभाग इत्यर्थः, उभयत्र सप्तम्यन्तात्तसिः, यथा येन प्रकारेगा प्रायक्चित्तीयते प्रा- यश्चित्ती भवति तथा तेन प्रकारेण नैत्र सश्चरेत नैव वर्तेतेत्यर्थः। पकृते तु सव्यार्हानिड्द्वैतं मोक्षसाधनत्वात्सव्यं तत्राहीन्योग्या- न्विवेकादीन् सव्यतोऽद्वैतात्मस्वरूपपाप्तिमाधनत्वादात्मनः पृथ- क्सच्वरहितत्व्राच्चाद्वैत आत्मनि कुर्यात्स्थापयेदद्रैतात्मवत्ता- नपीष्टत्वेनाङ्गीकुर्यादिनि भानः, तथाऽसच्यारहनसव्येऽप- सव्यवत्पितृलोकप्राप्तिकारणतवेन कर्मनिर्वाहकं द्वैतं तत्रारहीन् योग्यान्यज्ञादिधर्मान्माधनैः सहितानमव्यतोऽपसव्ये द्वैन- रूपसंसारे कुर्यात्तत्कारणत्वेन विभाव्य तत्रोपेक्षां कुर्यादित्यर्थः,
Page 386
३६६ बोधसारे।
एवं साधनानि द्वैनाद्वैतोपयोगेन विविच्य यथा येन प्रकारेण परायो बहुशश्चित्तीयते चित्तं द्वैतकार्थसाधनरतमन्तःकरणं त- स्याचरणमिवाचरणं क्रियते यथा तथा तेन प्रकारेग नैव स- श्चरेत संपवर्तेत केवलाद्वितीवात्मपाप्तिसाधनेषु विवेकादिष्वेव पवर्तेतेति भावः ॥२॥ तथापि पूर्ववासनया कदाचिच्चित्तस्य चित्तधर्मेषु पटृटत्तौ सत्यां तन्निवर्त्तकचित्तधर्माङ्गीकाररूपं प्रापश्चित्तं विधत्ते। अथ कर्मातिपातः स्याद्दुर्गत्वाद्कह्मकर्मणः । प्रायश्चित्तविधिं ज्ञात्वा तच्च सद्यः समाचरेत् ॥३॥ अथेति। अथऽथापि चित्तधर्मेषु चेतः पट्टतौ रुद्धायामपी सर्थः, ब्रह्मकर्मणो ब्रह्मस्वरूपभूतकर्मणः समाधिरूपस्येत्यर्थः, दुर्गत्वाद्दुःसाध्यत्वात्कर्मातिपातः कर्मणो ब्रह्मस्वरूपभूतस्य क- र्मणः समाधेरित्यर्थः, अतिपातो नाशः प्रपश्चव्युत्थानरूप इ- त्यर्थः, स्याद्वेत्तदा प्रायश्चित्तविधिं मायो बहुशश्चित्तविधि चित्तनाशविधि वक्ष्यमाणं ज्ञात्वाऽवलोक्य निश्चित्येसर्थः, तच्च तदपि चित्तधर्मनिवर्त्तकचित्तधर्मविशेषाङ्गीकरणरूपं पायश्चित्त- मिसर्थः, सदस्तत्कालमेव नोपेक्षया विलम्बः कर्त्तव्य इति भाव:, समाचरेत्कुर्वीत। लौकिकार्थस्तावदथाथापि सावधा- नतया पवृत्तौ ससामपीसर्थः, ब्रह्मकर्मणो ब्रह्म वेदस्तदुक्तस्य कर्मणो दुर्गत्वाद्दुःसाध्यत्वात्कर्मातिपातः कर्मणः क्रियाया अतिपातो विघातः स्याद्गवेत्तदा प्रायश्चित्तविधिं प्रायश्चित्ताना कमांतिपातजन्यदोषनिवर्तककर्मणां विधिं प्रकारं ज्ञात्वा निश्चित्य तच्च प्रायश्चित्तमपि सदयस्तत्कालं समाचरेत कुर्वीत नतूपेक्षां कु- र्यादिति भावः ॥ ३।। सदः प्रायश्चित्तकर्तव्यतायां बोधायनस्मृतिमुदाहति।
Page 387
मुनीन्द्रदिन० सहोमाङ्गहोमनिर्णयः । ३६७
'कर्मातिपाते प्रायश्चितं तत्कालमि'ति वचनात्प्रायश्चित्तानि ॥ ४५ ॥ कर्मेति। कर्मातिपाते कर्मणो विघाते सति प्रायश्चित्तं कर्मा- तिपातजन्यदोषनिवर्तककर्मरूपं तत्कालं तदानीमेव कर्तव्य- मितिशेषः, इति वचनादिसेवं वौधायनवाक्याद्वेतोः॥४॥ लौकिकपरायश्चित्तविलक्षयानि मुनीनां प्रायश्चित्तानि व- क्तुमाह। अथ प्रायश्वित्तानि। अथेति। अथ प्रायश्चित्तकर्तव्यतायां पमाणनिरूपणानन्तरं प्रायश्चित्तानि मुनीनां कर्मातिपातजन्यदोपनिवर्त्तकानि चित्तध- माङ्गीकरणरूपाणि उच्यन्त इति शेष:, तान्येवाह। क्षमयैव जयेत्क्रोधं सत्येनैवानृतं जयेत्। अश्रद्धां श्रद्धया जित्वा दानैः कृपणतां जयेत् ॥५॥ क्षमयेति। क्षमयैव क्षान्त्यैव केवलं नान्येनोपायेन क्रोर्ध कोपं जयेन्नाशयत्तथाSश्रद्धां गुरुवेदान्तवाक्येष्वश्रद्धारूपं कर्मातिपातजं दोष श्रद्धया गुरुवेदान्तवाक्येपु विश्वासेनैव जये- न्नाशयेत्तथां दानैरुदारचित्ततया सत्पात्रंसमर्पितैर्थैः कृत्वा कृ- पणतामनुदारतारूपं समाधिरूपब्रह्मकर्मातिपातजं दोषं जयेत्ा- शयेद ॥५॥ अत्रोक्तेर्थे प्रमाणता साधयत्यर्धेन। इतीमे सेतुसामोक्ताश्वत्वारः सेतवो दृढाः । उपलक्षणमवैतदन्यानपि तथा जयेत् ॥ ६ ॥ इतीति। इत्येवमिम एते चत्वारश्चतुःसंख्या दृढा वलिष्ठाः
Page 388
३६८ बोधसारे।
सेतवो मार्गा: सेतुसा मोक्ता: सेतवो मार्गास्तत्मतिपादकं साम 'सेतूं- स्तरेदि'त्यादिगीतरूपं तास्मिन्नुक्ता: कथिता ज्ञेयाः, अत एतद- प्ामाणिकं न मन्तव्यमिति भावः, नन्वेते किश्नत्वार एव नेत्या।हो- पलक्षणमिति, एतच्चतुःसेतुनिरूपणमुपलक्षणमुपलक्षकमन्येषा- मपि एव निश्चेतव्यं तथा तथासति उपलक्षणत्वे सतीत्यर्थः, अ- न्यार्ना कर्मातिपातजान्दोषाञ्जयेन्निवारयेव ॥६॥ तानेव दर्शयति। उत्थानेन जयेन्निद्रां कामं सङ्कल्पवर्जनातू। सन्तोषेण जयेल्ोभं मोहं बोधदृशा जयेत् ॥७॥ उत्थानेनेति। उत्थानेनोत्थानं निद्रानिदृत्यै स्थानान्त- रगमनादिकं तेन निद्रां सुषुपतिं जयेन्नाशयेत्तथा सङ्कल्पवर्जना- त्सङ्कल्पस्य गुणबुद्ध्या चिन्तनरूपस्य वर्जनं सागस्तस्मात्कामं मनसोभिलापरूपां वृत्ति जयेन्नाशयेत्तथा लोभं लोभरूपां वृत्तिं सन्तोषेण सन्तोपोऽलंबुद्धिस्तया जयेन्नाशयेत्तथा बोधदृशा बोधो ज्ञानं सैव दृग्दष्टिः स्वात्मस्मृतिरिसर्थः, तया मोहमात्म- साक्षात्कारसाधनानवधानरूपं स्वात्मविस्मृतिरूप वा जयेन्ना- शयेत ।७ ।। मदमत्सरमुख्यांश्र सर्वभूतात्मभावनांत्। अन्यानपि जयेद्दोषान्नित्यानित्यविचारणात् ॥।८।। मदेति। मदमत्सरमुख्यांश्र मदः सर्वगुगैः स्वस्मिन्नाधि- क्यबुद्धिर्मत्सरः परोत्कर्पासहनं तौ मुख्यौ येषां कामादीनां ते तथोक्तास्तानपि सर्वभूतात्मभावनात्सर्वाणि समस्तानि यानि भूतानि पृथिव्यादीनि तत्कार्याणि च तेपु आत्मनोडस्ति- भातिभियरूपेण स्वस्य भावनं नाम चिन्तनं नामरूपासत्वप-
Page 389
मुनीन्द्रदिन० सहोमाङ्गद्दोमनिर्णयः। ३६९
तीतिपूर्वक सच्चिदानन्दरूपेण चिन्तनं ततस्तेनेसर्थः, जयेन्ना- शेयत्तथाऽन्यानपि उक्तदोपेभ्योतिरिक्तानपि दोपान्स्वसा-
नन्दरूपेण सर्वत्र नामरूपात्मकेपु स्थिनमनित्यं चानात्म- रूपमसज्जडरूपं दुःखरूपं च माया तत्कार्य चानयोविचार- णाद्विविच्य दर्शनाज्जयेन्नाशयेदात्मानात्मविचारणादिति पा- ठेपि स एवार्थ: ॥ ८॥ लये सम्बोधयेच्ित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानायात्समप्राप्तं न चालयेत ॥ ९।। लय इति। लये सुपुप्ती लीने सति चित्तं मनः प्रबोधये- दयोगेन समाधौ निरुध्यमानं चेतो विषयेभ्यो व्यावृत्तमपि ल- याभिमुखं चेत्तदानीमुत्थापनप्रयननेन, यद्वा लयकारणनिरासेन तत्सम्यगुत्थापयेद्, लयकारखानि पातञ्जल उक्तानि 'लयहेतवो निद्राशेषोऽजीर्णवह्वशनश्रमा' इति।अस्यार्थः, लयस्य लयाभि- मुखस्य चेतसो लयसन्मुखत्वे हेतवः कारणानि निद्राशेषो नि- द्राया अपूर्णतैकः, अजीर्ण भक्षितान्नस्योदरे परिपाकाभावो द्वितीयो, वह्वशनं स्वाहाराद्धिकान्नभक्षणं तृतीयः, श्रमश्र च- तुर्थ इत्येवंरपाश्चत्वारो हेतवो भर्वन्ति तन्निवारगेन जाग्र- दभिमुखं कृत्वा ततः समाधौ निरुन्ध्यादिति भावः। ततो लया- दुत्थापितं चित्तं यदि विक्षिप्तं स्यान्नियं जाग्रद्विपयपतीत्य भ्यासवशात्कामभोगेपु विक्षिप्तं विक्षेपं प्राप्त भवेच्चञ्चलं भ- वेदित्यर्थः, तर्हि पुनर्भूयोपि शमयेद्विवेकिपत्यक्षभोग्यवस्तुस्थि- तसर्वप्रकारदुःखानुसन्धानेन शास्त्रार्थानुसन्धानेन जन्मावि- विकाररहिताद्वितीयात्मानुसन्धानेन वा भोग्यावस्तुत्वनिश्चयेन ४७
Page 390
३७० बोधसारे।
वा शमयेननिर्वासनं कुर्यात्ततश्र तच्चितं सकषायं कषायस्ती- त्रचित्तदोपस्तीव्ररागद्वेषपादिवासना तया ग्रस्तं यदि भवेत्तर्हि तद्विजानीयात्कदाचित्समाधिस्थितमिव लयविक्षेपशून्यं दुःख- काग्रमचतिष्ठते तादृटशं चित्तं विजानीयात्समाहितचित्ताद्विविच्य जानीयादिसर्थः, असमाहितमिदमिति निश्चित कपायपतीकारं कुर्यादिति भावः, तथा समपाप्तं समं ब्रह्म 'सम सर्वेषुभूतेष्वि'त्या- दिस्मृतेः, तत्पापं तदाकारं यदि भवेत्तर्हि तच्चितं कपायलय- ग्रस्तत्वभ्रमेण ततो न चलितं कुर्यात्समे ब्रह्मणि चित्ते स्थापि ते सति तत्रैव स्थिरं तत्कुर्यादिति भावः ॥ ९॥ ततोपि किं कार्यमित्यत आह। नास्वादयेद्रसं तत्र निःसङ्ग: प्रज्ञया भवेत्। विशदेकाग्रया बुद्या सिद्धिमेवमवाप्नुयात् ॥१०॥ नेति। तत्र समे ब्रह्मणि चेतसि स्थापिते सति परमानन्दा- विर्भावः स्यात्तत्र तस्मिन्परभानन्दाविर्भावे सति रसमानन्दं ना- स्वादयेन्नानुभूयाद् 'रसो वै स' इति श्रुतेः,। ननु 'सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियमि'ति स्मृतेः। समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेद। न शक्यते वर्णयितुं तदा गिरा स्वयं तदन्तःकरणे न गृहते।। इति श्रुतेश्च, समाधावाविर्भूतस्य ब्रह्मानन्दस्य श्रुति- स्मृतिभ्यां बुद्धिग्राह्यत्वमुक्तं भवता तु तद्विरुद्धं बुद्ध्यग्रा- ह्यत्वं कथमुच्यत इति चेन्नायं दोषः समाधिविरोधि-
ष्मदिनेपु मध्याह्वे जाह्नव्यादिनदीजलनिमग्रेनाप्यनुभूयमानं शै- त्यसुखं तदा वक्तुमशक्यं पश्चात्ततो निःसृतेनोच्यते, यथा वा
Page 391
मुमीष्ट्रदिन० सहोमाङ्गहोमनिर्णयः। ३७१
दानी सविकल्पेनान्तःकरणेन गृहीतुमशक्यमपि प्रबोधकाले तु स्पष्टं तत्परामृशांत, तथा समाधौ वृत्तिरहितेन संस्कारमात्रशे- पतया सूक्ष्मेण चित्तेन सुखानुभवः श्रुनिस्मृतिविवक्षितः, अस्मा- भिस्तु महदिदं समाधिमुखमन्त्रभूतमिति व्युत्थितस्य स्मृति- विषयः सविकल्पो रसास्वादशब्देनानन्दोभिहितः स च प्रति पिध्यतेऽतो न विरोधः। एतदभिपायं विशदयितुमाह निः- सङ्ग इति, प्रज्ञया प्रकृष्टं सविकल्पकं ज्ञानं प्रज्ञा तया निःसङ्ग: सङ्ग: सम्बन्धस्तद्रहितो भवेत्स्याद्, यद्रा धृतिगृहीता बुद्धि: प्रज्ञा तया निःसङ्ग: समाधिसुखनिरूपणाद्यासक्तिरहितो भवेत्स्या- दिसर्थः, यद्वा प्रज्ञया समाधिरूपदृत्त्या निःसङ्गस्तात्विकसम्बन्ध हीन: शुद्धचिन्मात्रो भवेदित्यर्थः, एतदभिपायेणाप्याह विशेिति, एकाग्रयैकं स्वगतादिभेदरहितमग्रं पर्यवसानं यस्याः सा त- थोक्ता स्वलयेन ब्रह्ममात्ररूपयेसर्थः, बुद्ध्या निश्चयात्मिकान्तः- करगावृत्या विशेल्लीनो भवेद्रह्माकारो भवेदित्यर्थः, ततः किं तत्राह सिद्धिमिति, एवं प्रकारेय सिद्धिं मुक्तिमवाप्तुपात्मा-
एवं होमविघ्मतकानि प्रायश्चित्तानि निरूप्येदानीं होपा- क्ेतिकर्तव्यतामाह। उद्धृते गार्हपत्यामनौ तत्तत्संस्कारसंस्कृते ! सत्यरूपः स्वयं यज्बा श्रद्धा पत्नी पतिव्रता॥ ११ ॥ उद्धृत इति । गार्हपत्याय्ौ वक्ष्पमाणे गार्पतनामन्यग्रावु- द्वृते वक्ष्यपाशलक्षगोनोद्धरणेनोद्धने वहिरनिष्कासिते सति नत- स्तत्तत्संस्कारसंस्कृते ते ते तच्छ्ुद्धिकारणभूताः संस्कारा जीव- स्य ये विवेकिपसिद्धा: शान्त्यादयस्तैः संस्कृते शोधिते सत
Page 392
३७२ बोधसारे।
जीवरूपेडय्ौ सत्यरूपस्त्वंपदलक्ष्यः शुद्धजीवः स्वयमात्मा यज्वा होमकर्त्ता भवति पतिव्रता पत्युरात्मनो व्रतं स्वसुखचित्सन्मात्र- स्थितिरूप व्रतं यस्या:सा तथोक्ता श्रद्धा गुरुवेदान्तवाक्येषु विश्वासरूपा वृत्तिः सा पत्नी यज्वपत्री भवति ॥ ११ ॥ लोके तावद्रार्हपत्योग्नि: प्रसिद्ध एवात्र तु गाईपतशब्दनि- रुत्त्या तं विशिष्टं लक्षयति। गृहं देहः पतिर्जीवश्छादितो मोहभस्मना। जीवस्य गार्हपत्याग्नेस्तदुद्रणमुत्तमम् ॥१२ ॥ गृहमिति। देहः शरीरं गृंहं ग्रह्यत आत्मभ्रान्ताङ्गीक्रियत इति गृहं मन्दिरं जीवो जीवयति शरीरमिति जीव:, यद्वा जी- वति पाान्धरतीति जीवः पतिः पाति रक्षतीति पतिः शरीरस्य जीवकत्वात्माणधारकत्वाच्चास्ति स मोहभस्मना मोहोऽज्ञानं जीवाग्न्याच्छादकत्वान्भ्स्मेव भस्म तेनाच्छादित आवतो भवति तत्ततो मोहभस्मतो जीवस्य जीवरूपस्य गार्हपत्याग्रे: शरीरगृ- हपालकस्य तत्मकाशत्वाच्चाय्नेः। यद्ा तत्त्रज्ञानेन शरीरगृहदा- हकत्वेनाग्रेस्तस्य च सच्वसमर्पणेन पालकस्थ चोद्धरमु-
श्रेष्ठमिति भावः ॥१२ ॥ द्वे आहुती जुहोत्येते अभिहोत्रविधानतः। ममतां प्रथमं हुत्वाहन्तां च जुहुयात्ततः ॥१३ ।। द्वे आहुती जुहोतीति। श्रुति मामाण्येन लौकिके गार्ह- पत्पाय द्े आहुती पक्षिप्येते अतोत्राप्येतत्मामाण्येनैतदाहुतिद्वय- विलक्षणमाहुतिद्वयमाह द्वे इति, अग्निहोत्रविधानत उक्तलक्षणे- नाग्निहोत्रविधानेनैते वक्ष्यमाणे द्वे द्विसङ्ये आहुती मुनिर्म-
Page 393
मुनीन्द्रदिन० सहोमा क्गामानर्णयः । ३७३
ननवाञ्जुहोति पक्षिपति ते एवार्ेन दर्शयति ममतामिति, प्रथममादौ ममता ममत्वं हुत्ता प्क्षिप्य ततोऽनन्तरमहन्नां चाहन्त्वमपि जुहुयात्मक्षियेद्ठुद्ध्यादौ शरीरान्तेपु आत्मन- स्तादात्म्यबुद्धि सजेदित्यर्थः ॥ १३ ॥ नन्वेतदाहुतिद्वयं जीवस्वरूपे गार्हयत्याय्रौ प्रक्षिप्यते चे- त्ततः कि फलं भवेत्तत्राह। हुते चेदाहुती एते सर्वमेतडुतं भवेत् । श्रद्धापत्नीसमेतानां मुमृक्षागृहवासिनाम् ।१४।। अग्निहोत्रमिदं नित्यमकृत्य प्रत्यवैति यत्। इ० न० बो० मु० होमांगसहितहोमनिर्णयः ॥१३॥ हुते चेदिति। एते उक्तमकारे आहुनी हुते चेदुक्तलक्षणे गाईपत्याय्रौ पक्षिप्ते यदि ततस्तर्हि एतत्सर्व दृश्यमानं सर्वे ज- गद्धुतमग्नावुक्तलक्षणे पक्षिप्तं भवेत्स्याद्, नन्विदमग्निहोत्रं न काप्युक्तमिसाशक्का तैतिरीयकोपनिषदि 'तस्यैवं विदुषो यज्ञ- स्यात्मा यजमानः श्रद्धा पत्री'त्यादिनोक्तत्वान्मैवमिसाह श्र- द्वेति, श्रद्धापन्नीसमेतानां गुरुवेदान्तवाक्यपु विश्वासबुद्धिरेव श्रद्धा मैव पत्नी भार्या तया समेतानां संयुक्तानां मुमुक्षा गृह- वासिनां मुमुक्षा मोक्षेच्छा सैव गृहं मन्दिरं तत्र वस्तुं वासं कर्तु शीलं येपां तेषां 'सुप्यजातौ िनिस्ताच्छील्ये' इति गिनि:, इद- मेतदुक्तविधमिसर्थः, अग्निहोत्रमग्निहोताख्यं कर्म कार्यमवक्य- कर्तव्यं विहितमित्यर्थः, यदिदं प्रमिद्ध ज्ञान्यग्निहोत्रमकृत्य प- रिसज्य प्रत्यवैति पसवायी भवति अतोग्निहोत्रमिदं नित्यं क- र्तव्यमिति भाव: ॥१४॥१५॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपौ मु. मीन्द्रदिन चर्यार्थप्रकाशे होमाङ्गसहितहोमनिर्णयार्थप्रका शस्त्रयोदयः ॥ १३ ॥
Page 394
३७४ बोघसारे।
अध ग्रह्मयश्निर्णयः । एवं होमनिर्यायं परिसमाप्येदानीं ज्ञानिनां ब्रह्मयम नि- गेतुं ब्रह्मयज्ञनिर्णयाख्यं प्रकरणं पश्चश्चोकमभिदधान आह।
अथ ब्रह्मयज्ञनिर्णयः ।
अथेति। अथ होमनिर्णयानन्तरं ब्रह्मयज्ञो विदुषां ब्रह्म- यज्ञो निरूप्यत इति शेष:, तत्र तावल्लौकिकब्रह्मयज्ञे पमिद्धह- स्तयो: सम्पुटीकरणं विहितं तद्वदत्र ज्ञानिविहितब्रह्मयज्ञे लौ- किकहस्तविलक्षणहस्तयोर्लौकिकसम्पुटीकरणविलक्षणं सम्पु- टीकरणमाह।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ। इति पञचाङ्गुलिमयो यमनामा तु सत्करः॥१॥
अहिंसेति। अहिंमा हिंसासागः, सत्यं सत्यवचना- दिग्रहः, यद्राऽसद्वस्तुत्यागेन सद्रस्तुग्रहः, अस्तेयं स्तेयं चौर्य त- त्यागः, ब्रह्मचर्यापरिग्रहौ ब्रह्मचर्यमष्टाङ्गमैथुनत्यागरूपम, अपरि- ग्रहश्च योगप्रतिकूलविषयासंग्रहः, एतेषां फलान्यपि सूत्रितानि पतञ्जलिना 'अहिंसापतिष्ठायां तत्संनिधौ वैरत्यागः, स- त्यमतिष्ठायां क्रियाफलाश्रयत्वम, अस्तेयप्रतिष्ठायां सर्वरत्रोप- स्थानं, व्रह्मचर्यप्रतिष्ठायां वीर्यलाभः, अपरिग्रहस्थैर्ये ज; न्मकथन्ता सम्बोध' इति पञ्चयमफलानि क्रमेण प्रतिपादिता- नीत्येवं पञ्चाङ्गुलिमयः पश्च पश्चसङ्वया अङ्गुलयस्तन्मय- स्तत्प्रचुरो यमनामा यमान्नामयति स्वाङ्गमुख्यत्वेन प्रगटयतीति यमनामा साङ्ग्याख्यः सत्करः सन्मोक्षार्थोपयोगी करो
Page 395
मुनीन्द्रद्विन० ब्रह्मयश्षनिर्णयः । ३७५
इस्तो यमानां साङय एव प्रधानत्वात्तुपदेन लौकिकहस्ततोऽस्य हस्तस्य वैलक्षण्यं सूचितम् ॥ १ ॥ द्विनीयं करं निरर्िशति। शौचं संतोषः स्वाध्यायस्तप इश्वरधारणा। इति पञ्चाङ्गुलिमयो नियमो नाम सत्करः ॥२॥ शौचमिति। शौचं बाह्यं स्नानादि आन्तरं रागादित्याग- रूपमुभयं, सन्तोपो यथालब्धेपु भोगेष्वलंबुद्धि:, स्वाध्यायः स्वा- त्मनिरूपकवेदांतग्रन्थानां विवारपूर्वक: पाठः, तपः स्वस्ववर्णाश्रम- विहितकर्म।चरणनिमित्तं शीतवातादिक्केश महनरुपं स्वरुपपाप्तिमा- धननिमित्तं क्लेशसहनमिति च द्विविधम्, ईश्वरधारग्ा सर्वत्रास्ति- भातिप्रियरूपेण सचचिदानन्देश्वरपतीतिरूपा तद्व्यतिरिक्त्कनाम- रूपासत्वनिश्चयपूर्विका, इत्येवं पश्चाङ्गुलिमयः पञ्च पञ्चसङ्कया अङ्गुलय इवाङ्गुलयः करशाखास्तन्मयस्तत्पधानो नियमो नाम नियम इति प्रसिद्धो योगे नियमानां प्राधान्यान्नियमम- धानाङ्वैरुपलक्षितो योग इत्यर्थः, सत्करः सन्मोक्षरूपार्थसाधन- भूतः करो हस्तोऽस्ति। एतेषामपि फलानि सूत्रितानि पतञ्र- लिना 'शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः, सत्वशुद्धिः सौमनस्यैका- ग्ये न्द्रियज यात्मदर्शनयोग्यत्वानि चेति; संतोपादनुत्तमसुखलाभः,
योगः, समाधिसिद्धिरीश्वरपणिधानादि'ति क्रमेया नियमारना फलानि झेयानि॥२॥ एवमङ्गुलिभिरुपलक्षितौ इस्तौ निर्णीय तयो: सम्पुटी- करणं विशिष्टमाह। संघुटीकृत्य हस्तो दौ मुनिर्नियमसंयमौ।
Page 396
३७६ बोघसारे।
ब्रह्मस्तुतिमयं साक्षाद्वह्मयज्ञं समाचरेत ॥ ३ ॥ सम्पुटीकृत्येति। मुनिर्ज्ञानी नियमसंयमौ नियमा: पञ्ष प्रोक्तास्तदुपलक्षितो योगः संयमश्चोक्तपश्चयमोपलक्षितश्च सा- ङ्वचस्तौ द्वो द्विसह्वयौ हस्तौ करौ द्वैतत्याग।द्वैतग्रहणसाधनौ स- कृत्वा साक्षाद्वाच्यार्थत्यागेन प्रत्यक्षं यथा भवति तथा ब्रह्मस्तुतिमयं ब्रह्मणः सच्चिदानन्दरूपस्य स्तुतिः प्रशंसा यत्र वाक्ये तन्मयं तत्प्रधानं वाक्यार्थावत्तिरुप ब्रह्मयज ब्रह्मेज्यतेऽनेनेति ब्रह्म- यज्ञो बेदान्तपाठस्तं चरेत्कुर्गात ॥ ३ ॥ नन्वीदृशब्रह्मयज्ञनिरूपगो किंपमाणमित्याशख्ाह। तदुक्तं पातंजले। तदिति। तद्रह्मयज्ञारूयं कर्म पातञ्जले पतअ्ञलिप्रणीते योगशास्त्र उक्तं कथितं केन वाक्येनेत्यपेक्षायां तद्वाक्यमुदाहरति। 'स्वायाद्योगमासीत योगात्स्वाध्यायमामनेत्। योगस्वध्यायसंपत्त्या परमात्मा प्रकाशत' इति॥४॥ स्वाध्यायादिति। स्वाध्यायात्स्वस्यात्मनोऽध्यायः प्रति- पादको ग्रन्थो वेदान्तशास्त्रं तत्पाठः कर्तव्यस्तस्मिंश्चित्तस्यौदा- सीन्यमालक्ष्य ततः योगं चित्तवृत्तिनिरोधमासीताभ्यसेत्तत्रापि चित्तस्यौदामीन्यमालक्ष्य योगाद्योगाभ्यासाच्चितं निवर्त्य स्वा- ध्यायं स्वस्यात्मनः प्रतिपादकं शास्त्रमामनेद्विचारयेत्कामा- दिटत्तीनामवसरं न दद्यादिति भावः ।। १० ।। एवं कृते किं स्यात्तदाह। वेदशास्त्रपुराणेषु यद्यत्युण्यफलं स्मृतम्।
Page 397
मुनीन्द्रदिन० तर्पणनिर्णयः। ३७७
सर्वस्मादपि संप्रोक्तं व्रह्मायज्ञफलं महत् ॥ ५ ॥ इति श्रीनर० बोध०मुनीन्द्र ब्रह्मयह्ञनिर्णयः ॥ १५ न योगेनि। योगस्वाध्यायसंपत्या योगश्वितृृत्तिनिरोधलक्षणः स्वाध्यागश्च विचारपूर्वकं वेदान्तपाठस्तपोः सम्पत्या मिद्ध्या सम्पादनेनेयर्थः, परमात्मा कार्यकारणातीन आत्माSखण्डै- करस आत्मा प्रकाशते स्वयमेत प्रकाशितो भवतीतीत्थं पातअ्ले प्रोक्तमस्तीसर्थः ॥४ ॥ एनस्य विद्वद्वम्मयज्ञस्य फलमाह। वेदेति। वेदशास्त्रपुराणेपु वेदः स्वनः प्रमाणत्वेनान्यप्र- माणनिरपेक्षोऽपौरुषयवाक्यकदम्वरूपः शास्त्राणि मुनिप्रगी- तानि वेदार्थप्रतिपादकानि वेदान्तमीमांमादीनि पुरागानि च व्यासादिपगीतानि भागवतादीनि सेतिहाससयुक्तिकवेदशा- स्त्नार्थसंग्राहकाणीत्यर्थः, तेषु विचारपूर्व पठितेषु सत्सु यद्- त्तत्र तत्रोक्तं पुण्यफलं पवित्रकारकं फलं प्रयोजनं स्मृतं कथितं तस्मात्सर्वस्मादपि फलात्समूहीभूताद्ररह्मयज्ञफलमेतस्य विद्वद्वि- हितब्रह्मयज्ञस्य फलं प्रयोजनमात्मप्राप्तिरुपत्वान्महच्छेपं संप्रोक्तं कृथितमतोयमेव ब्रह्मयज्ञः कर्तव्यो विद्वव्विरिति भावः ॥५॥
मुनीन्द्रदिनचर्यार्थप्रकाशे ब्रह्मयशनिर्णयार्थपकाशः पञ्चदशः॥ १५ ॥
अथ तर्पणनिर्णयः। एवं मुनीनां ब्रह्मयज्ञं निरुप्येदानीं तत्प्रसङ्गात्तेपामेक- श्लोकं तर्पणनिर्णयाख्यं प्रकरणं निरूपयन्नाह। अथ तर्पणनिणयः । अथेति। अथ व्रह्मयज्ञनिर्णयनिरूपणानन्तरं नर्पणनिर्णयस्तर्प- ४८
Page 398
३७८ बोधसारे।
सस्य मुनीन्द्रतर्पणस्य निर्णयो निश्चयः क्रियत इति शेपः, तमेवाह। देवर्षिपितृभूतेभ्यो दत्तो येन जलाञ्जलिः । ब्रह्मैवास्मीतिमंत्रेण तर्पणं तत्सुतर्पणम् ॥ १॥ इति श्रीनरहरिकृतौ बोधसारे मुनींद्रदविनचर्यायां तर्पणनिर्णयः ॥१६॥ दवषीति। देवर्षिपितृभूतेभ्यो यथा लोके देवर्षिपितृभू- तेभ्यो जलाअ्लिदीयने तद्रदत्रापि देवा इन्द्रियाधिष्ठानारः स- मष्टिव्यष्टिरूपा ऋषयश्च ब्रह्मादयः पितरश्चाश्निष्वातादयः स्त्रपितरश्च भूतानि वियदादीननि भौतिकाः पेतादयश्च सर्वे प्राणिनस्तेभ्यो ब्रह्मैवास्मीनिमन्त्रेणाहं सच्चिदानन्दलक्षणस्यो-
स्मीत्यर्थानुमन्धानपूर्वकमनेन मन्त्रेण कृत्वा जलाअ्लिर्ज- डस्य जडभागस्योभयो: पदयोर्वाच्यांशस्य विरुद्धस्याधेया- धारत्वेन मम्बन्धरूपोञ्जलिः साङ््ययोगहस्तयोरेकार्थपर्यव- सानरूपोडञ्जलिर्दत्तः समर्पितः स्वसम्बन्धं परित्यज्य देवर्षि- पितृभूतसम्बन्धत्वेनान्ुभूत इत्यर्थः, तन्निषधस्यापि तत्सम्बन्ध- वत्तमेनेति भावः, तदतदज्ञानिनां परोक्षमपि ज्ञानिनां तप- रोक्षमिसर्थः तर्पणं तृप्तिजनक कर्म सुनर्पणं नित्यतप्तिजनकं नान्यन्नियतृप्तिजनकमतो विद्धद्विरेतदेव कर्तव्यमिति भावः।।१।। इति श्रीनरहरिशिर्ष्यादवाकरविरचितायां बोधसारार्थंदीपी मुनी- न्द्र दिन चर्यार्थप्रकाश तर्पणनिर्णयार्थप्रकाश: बोडशः ॥ १६॥।
अथ देवपूजानिर्णयः। एवं नर्पणं निरुप्येदानीं मुनीनां देवपूजां वक्तुं देवपूजा- निर्यायाख्यं चतुर्दशश्चोकं प्रकरणं निरूपयत्नाह।
Page 399
मुनीन्द्रदिन० देवपूजानिर्णयः। ३७०.
अथ देवपूजाचतुर्दशीः। अथेति। अध तर्पणनिरूपणानन्तरं देवपूजाचतुदशी देवपूजा या श्चतुर्दशी चतुर्दश श्लोकसमाहाररूपं प्रकरणं निरप्यत इनि शेपः। तत्र तावज्ज्ञानिनां पूर्जा निरूपगितुं तत्पूज्यदे- वतातच्वानुसन्धानं कृत्वा पूज्यपूजानिरूपणं प्रतिजानीने। मायाशक्तिविलासतो नगणितब्रह्माण्डभाण्डोदरे क्रीडाकौतुकसंभ्रमात्मकमपि प्रत्यक्प्रकाशात्मकम् । ध्यात्वा किंचिदचिन्त्यचिद्धनरसं स्वानदसत्ताद्वयं सिद्धांतस्वरसेन पूजनविधिं वक्ष्याम विश्वात्मनः॥१॥ मायेति। मायाशक्तिविलासतो मागानास्नी शक्तिजंग- ज्ननमामर्थ्परूपा तस्गा विलासतो विलासरूपे सप्तम्यन्तात्त- सिलू, नगणितव्रह्माण्डमाण्डोदरे नगणितान अनन्तानि यानि व्रह्माण्डरूपाणि भाण्डानि पात्रागि तेपामुदरे जठरे क्रीडाकौ- तुकसंभ्रमात्मकमपि क्रीडायां विलामे यत्कोतुकमाश्चर्य तस्य संभ्रम आवेशः स एनात्मा स्वरूपं यस्य तत्तादृशमपि लौ- किकदष्ड्या तादृशं प्रतीतमपीसर्थः, प्रसक्पकाशात्मक प्र- त्यक्सर्वप्रकाशकत्वेनान्तक्चित्पकाशः स आत्मा स्वरूपं यम्य तत्तथोक्तमस्तीति शेपः. तदेन किश्चित्सत्वामत्वादिना केनापि प्रकारेण निर्देशानर्हमचिन्त्यचिद्धनरसं स्वानन्दसत्तादयं न चिन्त्यश्चिन्तनस्य ध्यानस्य विपयो भवितुमहः स चासौ चि- देव चिन्मात्रं तदूंपगा घनः सघनो निविड इसर्थः, रसः मासो यत्र स ताद्टश आनन्दः स्वरूपभूत आनन्दस्तस्य सत्ता भाव- स्तयाऽदूयं भेदरहिनमिष्टदेवतास्वर्वपं ध्यात्वा चिन्नयित्वा त- दवाहमित्यनुभूपेत्यर्थः, अहं सिद्धान्त्स्वरसेन सिद्धान्तः सर्व-
Page 400
३८0 बोघसारे।
वेदान्तलक्ष्यो य स्वरस आत्मस्वरूपसुखं तेनैव केवलं वि- श्वात्मनः सर्वात्मशिवस्य पूजननिधिं पूजनस्पार्चनस्य विधिं प्रकारं वक्ष्यामि कथिष्यामि॥ १ ॥ एवं प्रकारनिरूपणं प्रतिज्ञामेदानीं विशिष्टमावाहनं लक्षयति। सेव्य: श्रीगुरुवेदवाक्यजनितश्चिद्वोध आवाहनं सर्वव्यापकताविनिश्चयमतिः पर्ण पवित्रासनम् । त्वत्तोनान्यद्वैमि किंचिदिति तत्पुण्याम्बु षादोदकं त्वय्येवास्त्वचला ममेश मतिरित्यर्घोस्तु ते सुंदरः॥२॥ सेव्य इति। श्रीगुरुवेदवाक्यजनितः श्रीगुगेवैराग्याद्ै- श्वर्ययुक्तस्य गुगेदैशिकम्योपदेशनाकयैर्वेदवाक्यैः कृत्वा ज- नित उत्पन्नधिद्वोघश्चितधिन्मावरुपस्यात्मनो बोधो ज्ञानं मेव्योडङ्गीकार्यः सोङ्गीकार एनान्न ज्ञानिपूजायामावाहन- मावाहनरूपोपचारो भवनीति शेव:, एवमावाहनमुक्का Ssसन- माह सर्वेति, सर्वव्यापकताविनिश्चयमतिस्तस्यैवात्मशिवस्य सर्वत्र उयापकताऽस्तिभातिपियरूपेण विद्यमानता तस्या विनिश्चयो- ध्यवसायस्तद्रपा मतिर्मननरूपास्तःकरणवृत्ति: पूर्गा तत्र स्था तुर्देवस्यात्मशिवस्य योग्यं पवित्रासनं पवित्रं निर्मलमासनं ज्ञेयं, पाद्माह त्वत्त इनि, त्वत्त: सच्विदाननदरूपादात्मनोऽन्यद्भिन्नं किश्चित्किमपि नावैमि न जानामीत्येतद्यज्ज्ञानं तदेनस्यां पू- जायां पुण्याम्तु अन्तःकरणोपाधिमलनिवर्तकत्वात्पुरायं पवित्र- मम्बु जलं पादोदकं पादाभ्यामङ्गिभ्यामुदकं जलं पाद्यमि- त्यर्थ:, ज्ञेयम, अधर्यमाह त्व्रयीति, है ईश हे शिव ममान्तःकरणा- वच्छिन्नम्य साधिष्ठानचिदाभामस्य मतिर्मननरूपा वृत्तिस्त्वययेवो पाधिं निरस्याखण्डैकरसे भवतु केवलमस्तु स्यादिति
Page 401
मुनीन्द्रदविन० देवपूजानिणयः । ३८१
एवं प्रकार पार्थनरूपा वत्तिः सुन्दरः सुखजनकत्वात्कम- नीयस्ते स्व्रात्मशिवार्थमर्घोडमर्यमस्तु भनतु ॥२ ॥ मधुपर्कर्माप विशिष्टमाह। शीतोष्णं कटुतिक्तमम्लमधुरं क्षारं विचित्रं रसै र्यत्तस्यास्य समत्वभावमधुना पर्क: कृतश्रेद्यदि। मुख्योयं मधुपर्क उत्तमरसस्तेनामुना सादरं पूज्यानामपि पूज्य एप परमो देवः सदा पूड्यताम्॥३॥ शीतोष्णमिति। रसैः सुखविशषैः शीतोष्णं शीतं शीत- गुणवदुष्णं च तापकं समाहारे एकनद्ावस्तथा कटुक- पायरसवत्तिक्तं मधुररसबद्गुडादिकमत्रापि समाहारैकवचनं क्षारं क्षारग्सवद्- यत्पदार्थजातं तदाकारमन्तःकरणं च विचित्रं विचित्ररसव- त्प्रतीयते तस्योक्तस्यानेकरससहितस्यान्तःकरणस्यास्य सा- क्षिणो मम प्रकाश्यस्य समत्वभावमधुना ममत्वमस्तिभाति- प्रियरूपेण समत्वान्नामरूपयोगपि पृथगमत्त्वाच्च सर्वनस्तुनस्तदा- कारान्तःकरगास्य च ममत्वं तस्य भावो भावना तदेवोत्कृष्ट- पारमार्थिकरसरूपत्व्ान्मधु तेन पर्कः लपः स्वात्मशिते कृतः सम्पादितो यदि चेद्यदि भवेतहि अय बिवेकिनां प्रसिद्ध उ- त्तमरम उनम उद्गतं निव्टनं तमोड़ज्ञानें तत्करनमावरणं च य- स्मात्तथाभूनो रसः सुखं यत्रात एन मुख्यः प्रधानो मधु- पर्कः मधुना पर्को लेपो भवति तेनोक्तलक्षणेनामुना मम सा- क्षिण: प्रत्यक्षेण मधुपर्केण पूज्यानामि पूज्या: सर्वजगत्पूज्या ब्रह्मादयस्तेपामपि पूज्यः पूजा पररिचर्या तदह एप प्रसकप- रोक्षरहितो व्रह्माभिन्नपत्यगात्मरूप परम कार्यकारणरहितो
Page 402
३८२ बोधसारे।
देवश्चित्स्वरूप आत्मा सदा सर्वांवस्थासु निरन्तरमिसर्थ, पू- ज्यतां पूज्य: ॥ ३ ॥ एवं मधुपर्क निरुष्य स्नानमाह। सर्वाङ्गीणसुखावहं मुहुरहो यज्जन्मनो मज्नं शुद्धे बोधसुधाम्बुधौ शुचितरे स्नानंविशुद्धिप्रदम् । आभानं स्फुरति द्वितीयमिव यत्तत्सर्वमाचम्यता मित्युक्तो गुरुभिस्तदेष विधृतश्चित्ते स एवाचम:॥४॥ सर्वाङ्गीणेति। यत्प्रसिद्धं ज्ञानिनां जन्मनः जन्मकारण- दज्ञानानत्कार्याज्जीवत्वाच्च निःससेति शेषः, शुद्धे कार्यकारगा-
द्यामलरहितत्वाच्चातीव शुद्धे 'न हि ज्ञानेन सदश पनित्रमिह विद्यत' इति स्मृते बोधसुधाम्बुधौ बोधो जीवात्मैक्यज्ञानं महा- वाक्यजन्यमहं ब्रह्मास्मीतिसाक्षात्काररूपं म एव सुधाऽमृतं सुखरूपं जलस्थानीयं तस्याम्बुधिः समुद्र इवाधार: स्वरूपान- न्दस्तस्मिन्स्नानमनगाहनं मुहुर्भूयो भूयस्तत्सर्वाङ्गीणसुखा- वहं सर्वे सर्वपदवाच्यं द्वैतं तदवाङ़गं शरीरं तत्न भवं सर्वाङ्गीणं यत्सुखं तस्यावहं पापकं द्वैतजाति आत्मसुखमतीतिकारकमि- सर्थ:, अहो इत्याश्चर्ये, स्यान्भ्रवद्विशुद्धिपदमन्तःकरणमलनि- टृसात्यन्तशुद्धिकरं भवति, आचमनमाह आभानमिति, द्विती- यमित्रात्मभानादन्यदिव यत्पसिद्धमाभानमा-ईषद्धानं चिदा- भासरूपं जगत्पकाशकं स्फुरति भासत तत्सर्वमाचम्यतां त- तसकलमपि प्राशयतामात्मनः पृथङ्गास्तीसेवं बाध्यतामि- सर्थः, इत्येनंप्रकारेण गुरुभिर्महावाक्यार्थोपदेष्टृभिरुक्त उप- दिष्टस्तदप उक्तलक्षण उपदेश शवित्ते चेतसि विधृतोऽङ्गीकृतः
Page 403
मुनीन्द्रदिन० देवपूजानिर्णयः । ३८३
स एवास्यां पूजाया माचम आचमनं भवति ॥ ४ ॥
श्रद्धा निर्ममता विरागशुचिता निःसङ्गना पूर्णता भक्तिप्रेमरसप्रसादपरमानन्दादयो ये गुणाः। वस्त्रालङ्करणानि तत्र विदुषा दयानि विश्वम्भरे सोहंभावमनोहरेण विधिना यद्यदथा रोचते ।५॥। श्रद्धेति। श्रद्धा गुरुवेदान्तवाक्येषु विश्वासबुद्धिरनिर्ममता ममत्त्रराहिसं निरागशुचिता विरागेण वैतृष्ण्येन सहिता शु- चितान्त:करणनिर्मलत्वं निःभङ्गताडलिप्त्वं पूर्गोना व्यापक- त्व्रांनश्रयो भक्तिपेमरसममादपरमानन्दादयो भक्ति: साकारध्या- नसेवादिरतिः पेमरसो निरतिशयसुखात्मविषगकनिरतिशय- स्नेहसुखं प्रमाद: पसन्नता परमानन्द आत्मसुखानुभव एत- दादयो ये योगिपु प्रसिद्धा गुणाः सत्तगुगाव्टनयः सन्ति ते सर्वे विदुषा ज्ञानिना वस्त्ालङ्करणानि वस्त्राणि अलङ्गाराश्र तत्र तस्मिन्विश्वम्भरे जगदाधारे आत्मनि यद्यद्रस्तं वाडल- क्रणं वा तदन्यत्किमपि सुगन्धादि द्रव्यं वा यथा यद्द्रोचते प्रियं भवति तत्तत्तथा सोहंभावमनोहरेण स इति परोक्ष: प- रमात्मा डहमहंपदलक्ष्यः प्रत्यक्ष आत्मा तयोः प्रसक्परोक्षता- सागेन भागलक्षगाया लक्षितमखण्डैकरसात्मानुभवपूर्वकं त- दर्थप्रतिपादकेन सोहमितिमन्त्रेण मनोहरेया मनःप्रीतिकरेण विधिना विधानेन देयानि समर्प्याणि॥५॥ चन्दनमाह। अद्वैतप्रतिपत्तिरात्मविषया सा सामरस्यान्चिता गात्रालेपनचारुचन्दनमिदं देवस्य देयं प्रियम् ।
Page 404
३८४ घोभसारे।
शान्तिः क्षान्तिरलोलता सरलता निर्मत्सरत्वादयः शास्त्रार्था यदि न क्षताश्च वितुषाः शुद्धास्त एवाक्षताः॥६।। अद्वैतेति। आत्मविषयाSडत्मा ब्रह्माभिन्नः प्रत्यगात्मा विषयो गोचरो यस्या: सा तथोक्ताउद्वैतप्तिपत्तिरखण्डै- करसात्मानुभूतिः सोक्तलक्षगा सामरस्याश्चिता सामरस्यं द्वैताद्वैतमेदनिरासेनैकरस्येनाश्चिता युक्ता चेन्भव्ति तर्हीद- मुक्तलक्षणं विद्वत्पसक्षं गात्रालेपनचारु गच्छति लयमिति गा जगद्दृष्टिस्तां त्राति रक्षतीति गात्रं सचचिदानन्दघनं तस्याले- पनं लक्ष्यलक्षकत्वेन किश्चित्सम्वन्धाहै तेन चारु सुन्दरं च- न्दनमाल्हादकं देवस्य चित्स्वरूपस्य ियमिष्टं देयं समर्पणी- यम्, अक्षनानाह शान्तिरिति, शान्तिरन्तःकरणनिर्वासनता क्षान्तिः सहनताऽलोलतान्तःकरणस्य स्थैर्य सरलता निष्का- पट्यं निर्मत्सरत्वमीष्यारहितत्वमादि प्रथम येषां तेऽक्रो- धादयस्ते शास्त्रार्थाः शास्त्राणं वेदान्तादीनामर्थास्तात्पर्यागि यदि यहि न क्षता वेदान्तानुकूल्येनाखण्डमनुसन्धिताः स्यु- श्चेत्तर्हि ते एवात्रास्यां पूजायां वितुषा भेदतुपरहिता अत एव शुद्धा निर्मला अक्षता अवाधितत्वादक्षता ज्ेयाः ॥ ६ ॥ पुष्पाण्याह। संफुल्लैर्निजभावशुद्धकुसुमैः सद्वासनासुन्दरैः संपज्यो हि महेश्वरः सुमनसांसा धन्यता वर्णिता। कमज्ञानमयो यदिन्द्रियगणः क्षिप्तो विरागानले देवस्यास्य दशाङ्गदाहसुरभिर्धूपः सदा वल्भः॥७॥ संफुल्लैरिति । संफुल्लैः प्रसन्नतासहितैः सद्वासनासुन्दरैंः
Page 405
विज्ञापनम्।
बनारससंस्कृतसीरीजनाम्नी वाराणसेयसंस्कृतपुस्तकावली।
इयं पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृतभाषा- निबद्धा वहवः प्राचीना दुर्लभा उत्तमोत्तमाः कचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्दिता भवन्ति। तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये Sपि विद्वांसः शोधयन्ति। यैरग्रा- हकमहाशायैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- कैकस्य खण्डस्य ।।।) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशयर्येः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक खण्डानां १) मूल्यं प्रापणव्ययश्च =) देय इति॥ तत्र मुद्रिता ग्रन्था:। रु० आ०
सिद्धान्ततत्त्वविवेक: खण्डानि ५ अर्थसङ्ग्रहः अंग्रेजीभाषानुवादसहितः १ तन्त्रवार्ततिकम खण्डानि १३ १३ O का त्यायनमहार्षिप्रणीतं शुक्कयज्ञुःप्रातिशाख्यम् सभाष्यं ख० ६ ६ 0 सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता १ वाक्यपदीयम खण्डानि ४ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३। द्वितीयभागः तृतीयाका- ण्डमू हेलाराजटीकासहित खण्ड १) ४ रसगङ्गाधरः खण्डानि ९ परिभाषावृत्ति: खण्डे २ २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ र D शिक्षासङ्ग्रह: खण्डानि ५ नैष्कर्म्यसिद्धि: खण्डानि ४ म हर्षिका त्यायनप्रणीतं शुक्कयजुस्सर्वानुक्रमसूत्रम सभाष्यम ३ ऋुग्वेदीयशौनकप्रातिशाख्यं सभाध्यम खण्डानि ४ ४ (बृहत) वैयाकरणभूषणम पदार्थदीपिकासहितम खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहित: खण्डे २ २
Page 406
तत्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम) ख० ८८ वेदान्तदीप: (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ o O टुप्टीका खण्डानि ४ ४
ज्याकरणमिताक्षरा। श्रीमदन्नंभट्टप्रणीता खण्डानि० ५ ५ रसमश्जरी। व्यङ्गयार्थकौमुद्या प्रकाशेन च सहितार भेदधिकार: व्याख्यासहित: श्रीमदप्पयदीक्षितकृत उपक्रमप राक्रमसहित: ख़राडे २ २ बोधसारो नरहरिकृत: तच्छिष्यदिवाकरकृतटीकया स० ख०४४ O ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता। १
व्रजभूषण दास और कम्पनी जांदनीचौक के उत्तर नई सड़क बनारस।
Page 407
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BEVARES SANSKRIT COLLEGE, CNDER THE SUPERINTENDENCE OF R. T. H. GRIFFITH, M. A.,C. I. E. AND G. THIBAUT, PE. D. No. 101.
बोधसारः । श्रीविद्वद्वर्यनरहरिविरचितः । तच्छिष्यश्रीदिवाकरकृतयाऽर्यदीप्त्या सहितः।
द्यानन्दस्वामिना परिशोधितः । BODHASÂR, A TREATISE ON VEDANTA,
ŚRI NARHARI, BY
With a commentary by the author' s pupil PANDIT DIVÂKAR. EDITED BY SWÅMI DAYÂNAND. Faseiculus Y. BENARES. Piblished by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot. Printed at the Vidyâ Vilâs Preus, BENÀRES. 1905.
Page 408
सूचीपन्रम्। गण पाठ: गोलप्रकाशः २ गंगालहरी १ गुरसारणी जातकतत्त्वम १२ O तस्वदीप १ तर्कसंग्रह: १ ६ O दत्तकमीमांसा V O धर्म्मशास्त्रसंग्रह: १ धातुपाठ: (शिला -)) 0 २ धातुरूपावली २ नैषध चरित नारायणी टीका टाइप परिभाषापाठ: १ पाणिनीयशिक्षा भाष्यसहिता O २ प्रथम परीक्षा २ प्रथमपुस्तक हिन्दी १ 0 प्रश्नभूषणम् (प्रश्न विचार का बहुत उत्तम ग्रन्थ) ४ O धीजगणितम (म० म० पं० सुधाकरकतटिप्पणीसहित) V भट्टीकाव्य ५ सग मनोरमा शब्दरत्नसहिता (टाइप) O लघुकौमुदी टिप्पणीसहिता लक्षणावली २ O लीलावती (म०म० पं० सुधाकरकृतटिप्पणीसहित) १ घसिष्ठसिद्धान्तः १ धार्तिकपाठ: विष्णुसहस्रनाम 8
O शब्दरूपावली १ शङ्गार सप्तशती १ समासचक्रम् १ समासचन्द्रिका १ सरखतीकण्ठाभरणम ३ साङ्गयचन्द्रिका टिप्पणीसहिता V साङ्गयतत्त्वकौमुदी सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पणीसहिता C उपसर्गवृत्ति १
Page 409
मुनीन्द्रदिन० देवपूजानिर्णयः। ३८५
सत आत्मस्वरूपस्य वागनाः संस्कारास्ताभिः सुन्दरैः शोभा- यमानैर्निजभानशुद्धकुसुमैनिजः स्व्रीय आत्मीयो भावस्ता- दात्म्यं तेन शुद्धै नैमलैः कुसुमैः पुप्पैः सुमनसां सुष्ठु शोभनं मनोन्तःकरणं येषां तेपां निमलमनसामिसर्थः, महेश्वर ईश्व- रत्वगेपाधिष्ठानं ब्रह्म सम्पूज्य: सम्यक्पूजनीयः सा सैव ध- न्यता कृतकृत्यता वर्णिाता किता शास्त्रेप्विति शेपः, धृपपाह कर्मेत, कर्मज्ञानमयः कर्म क्रिया ज्ञानं शब्दादिविषयो बोध- स्तन्मयस्तज्जनको यांदान्द्रयगणो यः मसिद्ध इन्द्रियाणां कर- णानां गगा: समूहो दशेन्द्रयाणीत्यर्थः, विरागानले विरागो वैतृप्ण्यं तदेवानलोऽग्निप्तास्मन् क्षिप्तः समर्पितश्चेत्तरहि सोयं मसिद्धो ज्ञानिनामस्य प्रत्यगात्मनो देवस्य चिन्मात्ररूपम्य दशाङ्गदाहसुरभिर्दशानां दशसङ््यानामङ्गानामवयवानामिन्द्रि- यरूपाग्ामितर्थः,।दाहो दहनं नाश इत्यर्थः, तेन सुरभिः सुग- न्धिः, सदात्मवासनावत्वाद्धूपो धूपरूपोपचारः सदा नित्यं व- लभः प्रियो भवति॥ ७॥ दीपमाह। यस्मिन्नुञ्ज्वलिते न तिष्ठति तमो बाह्यं न चाभ्यन्तरं सोयं ज्ञानमयः प्रकाशपरमो दीपः समुज्ज्ाल्यताम्। यद्भक्ष्यं प्रियमस्य यस्य परमा तृत्तिर्भवेद्भक्षणे द्वैतं तत्तु निवेदनीयममितं नैवेद्यमत्युत्तमम् ॥८॥ यस्मित्निीति। यस्मिवज्ञानरूप दीप उज्ज्लिते सनि म- जवालिते सांत वाहां ब्रह्मविपयं जगत्पदार्थीपयं च तमोऽज्ञानं नं तिष्ठति न स्थिर्ति प्राम्नोति आभ्यन्तरं च पसगात्मविषयमह- झारादिविषयं च तमोऽज्ञानं न निष्ठति न स्थिरति प्रामोति स
Page 410
३८६ बाधसारे।
उक्तलक्षणो ज्ञानिमत्यक्षोयं प्रकाशपरम प्रकाशेन श्रेष्ठः 'यस्य भासा सर्वमिदं विभाति, येन सूर्यस्तपति तेजमेद्ध' इत्यादि- श्रुतेः, ज्ञानमयो ज्ञानरूपो दीपो दीपयति प्रकाशयनि स्वात्मान- मिति दीपः समुज्जाल्यतां प्रज्वाल्यतां नैवेद्यमाह यदिति, अस्य विद्वत्पत्यक्षस्य देवस्य चिन्मात्ररूपस्यात्मनो यत्मसिद्धं भक्ष्यं भ- क्षितु योग्यं प्रियमिष्टं भर्वात यस्य भक्ष्यस्य भक्षगो भोजने कृते- सनि अम्य देवस्य परमा तृप्तिर्निरंकुशाख्या तृप्तिर्भवत्म्यात्तत्तु द्वैतं तदुक्तलक्षणं द्वैन सर्व जगन्तुपदेनाज्ञानिपूजानैवेद्यादति विलक्षणत्वमस्य नैवेद्यस्य सूचितम्, अमितमपरिमितमनन्तमि- सर्थः, एनमेनात्र पूजायां निवेदनीयं समर्पणीयं नैवेध् नैवेधयरूपो- पच।रमत्युत्तगमनिश्रेषठं वदन्ति मुनय इि शेषः ॥८ ।। आचमनीयमाह। पश्चादाचमनीयमत्र विहितं सदो विशुद्धिप्रदं सन्तोषामृतमेत्र पूजनविधौ पानीयमानीयताम्। यन्मैत्र्यादिचतुष्ट्यं मुनिमते पातञ्जले वर्णितं ताम्बूलं वदनप्रसादजनकं देवाग्रतः स्थाप्यताम् ॥९॥ पश्चादिति। अत्रास्मिन्पूजाविधावात्मशिवस्य पूजाविधाने विहिनं योग्यं सद्यस्तत्कालमेव विशुद्धिपदं विशुद्धी रागादि- राहित्येन निर्मलता तां प्रददाति प्रयच्छति तत्तथोक्तं सन्तोषामृ- नमेव सन्नोषो विषयेषु अलम्बुद्धिस्तदेवामृतं सुखरूपत्वाज्जलं नदेवाचमनीयमाचमनाय हिनं पानीयं च प्राशने हित च, आत्मसुखलाभे सति विषयसुखेच्छाडभावात्पूर्गकामत्वाच्च वि- पयेषु दुःखदरशनाधिक्याच्च चिपयालम्युद्धि: सन्तोषशब्दार्थः, आनीयतां स्व्रात्मशित समर्प्यतां ताम्बूलमाह यादतति, मुनिमते
Page 411
मुनीनद्रदिन० देवपूजानिर्णयः। ३८७
मुनीनां योगिनां मने विबेकिनां च मते मान्ये चिचदृत्तिनिगो- धद्वारा ब्रह्ममापकत्वात्पानअ्ञले पतञ्जलप्रोक्त शास्े यत्पससिद मैत्र्यादिचतुष्टयं मैत्री स्वसमेषु मित्रताSडिर्यामां करुणामुदि- तोपेक्षाणां तामां चतुष्टयं चतुष्कं वर्णित कथित तत्तदेव, तत्र च करुणा दया स्वन्यूनेपु जिज्ञासुपु, मुदिता पसन्नता स्वाधिकयद- शैने, उपेक्षोदासीनता स्ववाक्येऽश्रद्धालुपु मूढेपु बदनपसादज- नकं वदन मुखमात्मानन्दभोजनसाधनं शुद्ध चेनः 'चेतो मुख' इति श्रुतेः, तस्य पसादो निर्मलत्वेन शोभायमानत्व तस्य जनकमु- त्पादक लोकेपि ताम्बूलमक्षणस्य मुखशोभाकारित्वप्रसिद्धे:, न- देव ताम्बूलं देवाग्रतो देवस्यात्मीशिवस्याग्रनोडग्रभागे स्थाप्यता- मर्ध्यताम, आनन्दानुगवाकारवृत्तिनैर्मल्यमात्मशिवस्य मदास्फु- रयविषयं यथा तथा क्रियतामिति भावः ॥ ९॥ फलार्पणमाह। निष्कामोत्तमधर्मसंभ्रमजुषां जन्मावलीनां फलं भक्ति: सा परमेश्वरस्य पदयोरांवदनीया मया। सर्वस्वं मम तत्किलेति स मया क्लप्तस्य पूजाविधे: पूर्णत्वाय निवेदितो निजमनश्चिन्तामणिर्दक्षिणा॥१०॥ निष्कामेति। निष्कामोत्तमधर्गमंभ्रमंजु्पा निष्कामा: का मनारहिता अत एवोत्तमाः श्रेष्ठाः ये धर्मा नियनित्तिक- कर्माणि तेषु संभ्रमः प्रीत्युल्लासस्तं जुपन्ते सेवन्ते नाम्तथोक्ता- स्तासां जन्मावलीनां जन्मनामावल्य: पक्कयस्नासा फलंफवरूपा- डनन्तजन्मनां फलभूनेत्पर्थः, भक्तिरीश्वरचरणांवपयकपेमरूपा वृत्ति: सा सैव फलरूपत्वेन परमेश्वरस्य पग्म ईश्वरत्वाधष्ठन- रूपेणातिश्रेष्ठ ईश्वरो व्रह्माभिन्नः प्रत्यगात्मा तस्य पदयो-
Page 412
३८८ बोधसारे।
ररोपापवादद्वयाधिष्ठानत्वेन कल्पितांशयोगवेदनीया मया साधिष्ठानबुद्धिस्थचिदाभासरूपण पूजेकनावेदनीया सम- र्पणीया तत्रैव सा द्रष्टव्या नात्मनीति भावः, दक्षिणामाह सर्वस्वमिति, मम साधिष्ठानबुद्धिस्थचिदाभासस्य पूजकस्य मे त- त्सर्वविवेकिषु प्रत्यक्षं मनः सर्वस्वं सर्वजगद्रूपं स्वं धनं किल निश्वयेन निजमनाश्चन्तामणिर्निविजं र्वीयं मनः संकल्पावक- ल्पान्तःकरगावृत्तिरूपं तदेव चिन्तामणिश्चिन्तनद्वारा फलम- दत्वात्स मया क्लृसस्य कल्पितस्य पूजाविधे: स्वात्मशिवपूजा- त्रिधानस्य पूर्णत्वाय समाप्तिसिद्ध्यर्थमन्यथा पूजाविधानासमापि- रेवेति भाव:, दक्षिणा दक्षिणोपचारो निवेदितः समर्पितः ॥१०॥ स्तुतिमाह। यावन्त्येव भुतरां रजांस्यगणितब्रह्माण्डकोटिस्पृशां तावद्धी रजसां गणर्गणयितुं शक्या गृणा यस्य न। त्वं ताद्टगगुणवांस्तथापि मुनिभिर्यन्निर्गुणः स्तूयसे ततिक स्तौमि महेश हे शिव भवद्रूपं बिदूरं घियाम् ॥११॥ यात्रन्तीति। ब्रह्माण्डकोटिस्पृशाब्रह्मणो वस्तुतो ब्रह्मरूपस्य जीवस्य जन्मकारणशूनानि पक्षिगामण्डानीवारडानि ब्रह्माण्डा- नि.तेषां कोटगः काटसंख्या अमितान्यण्डानीत्यर्थः, ताः स्पृ- श-तीनि नास्तथोक्तास्तेषु ब्रह्माण्डेषु स्थिता इत्यर्थः, तासाम्भुवां पृथ्वीनां यावन्येव यावत्संख्याकान्येव रजामि धूलीकणाः सन्ति तावद्भ्िस्तावत्परिमितै रजसां धूलीकणा शङ्गणः समूहर्गशाययितुं गणनां कर्तु यस्य स्वात्माशवस्य गुणा जगदुत्पादनादिधर्मा न शक्याः शक्या न भर्वन्ति हे महेश हे ईश्वरत्वाधिष्ठानभूत त्वं ता दृशा ये गुखाः सत्वरजस्तमोतिकारास्ते विद्यन्ते यस्मिस्वयि
Page 413
मुनीन्द्रदिन० देवपूजानिणयः । ३९.
तथाविधम्तममि वर्त्तसे तथापि तवेदृशगुणवत्वे सत्यपि मुननि- भिर्मननशीलैर्वितेकिभिरित्यर्थः, यद्यतः कारणान्निर्गुणो गुणा- स्पृष्ट एव स्तूयसे प्रतिपाद्यसेऽनुभूयसे तत्ततः कारणाद्धे शिव हे सुखात्मन्नहं परिच्छिन्नो जीवो धियां बुद्धिवृत्तीनां विद्- रमगोचरं भवद्रपमुभयमपि तत स्वरूपं किं स्तौम कि वर्णयामि वचनविषयत्वाभावादिनि भावः ॥। १ १ ॥। नमस्कारमाह। श्वेतं श्याममिति प्रकाशयति चेदर्कः स किं श्यामतां श्वेतत्वं च दधाति तद्ददितरो मुग्धेषु बुद्ेषु यः । द्वैताद्वैतविकल्पजालकलनातीताय शुद्धात्मने जाग्रत्स्वानुभवप्रकाशमहसे देवाय तस्मै नमः ॥१२॥ श्वेतमिति। स आकाशस्थोडर्कः सूर्यः सामान्यरपेण मक।शयप्रागिनेत्रस्थविशिष्टपेणच श्वेतं शुक्ं सुधारूप्यादिद्रव्य- मिदं शुक्कमिसेवं प्रकाशयति व्यक्तीकरोति चेद्यदि तथा श्यामं नीलं कज्जलादिद्रव्यं श्याममिसेवं प्रकाशयति व्यक्तीकरोति चेद्यदि तर्हि स आकाशस्थश्चक्षुष्ठो वा सूर्यः श्यामतां नी- लत्वं श्वेनत्वं च शुक्कत्वमपि दधाति धरति कि नैव दपातीसर्थः, चक्षुष्ठः सूर्योपि परमार्थतः श्वेतत्वं इयामत्वं वा न दधाति च- क्षुष्ठसूर्यस्यापि आकाशस्थसूर्यमात्रत्वात् कि पुनराकाशस्थसूर्यो न दधानीति वक्तव्यमति भावः, तद्वत्तथा मुग्धेपु अज्ञानिषु बुद्धेषु ज्ञानिषु इतरो भिन्नो ज्ञानाज्ञानयोः सामान्यपकाशरू- पोपीदं ज्ञानमिदमज्ञानमिति विशेषपरकाशकतया स्थिनोपि य आत्मास्ति म सामान्यप्रकाशकरूपो विशेषप्रकाशकरूपो वा ज्ञानाज्ञानाभ्यां तद्व्यां च भिन्नोडस्ति ज्ञान्पज्ञानित्वे चिदाभा-
Page 414
३९० बोधसारे।
सेपि परमार्थनो न स्तः किं पुनर्वक्तव्यं न चिदात्मनीति भाव:, य एवं भूनस्तस्मे द्वैतविकल्पजालकलनातीताय द्वैतं कल्पितं ज- गदद्वैतं तन्निषेधकं कल्पितं शबलं ब्रह्म तयोर्विकल्पः सच्चि- दानन्दलक्षणलक्षितात्मविपरीतत्वेन कल्पना तदेव जालमा- वरकत्वात्तस्य कलना कल्पना तस्या अतीताय मुक्तायात एव शुद्धात्मने मायातत्कार्यास्पृष्टरूपाय जाग्रत्स्वानुभनप्रकाश- महमे जाग्रदूत्पकाशमानः स्वोऽसाधारणोडनुभवो यत्र त- त्तथोक्तं तथाभूतं प्रकाशरूपं महस्तेजो यस्य तस्मै देवाय चि- न्मात्रस्वरूपायात्मशिवाय नमो नमस्कारोडस्तु स्व्रात्मनश्चिदाभा- सस्य पृथत्काभाव एव नमस्कार: कल्पनीय इति भाव: ॥१२। क्षमापनमाह। संप्राप्यापि पदारविन्दपदवीमद्वैतविद्यावता मेतावन्तमनेहसं न तु वयं लीना: सदा ब्रह्मणि। मुक्तानामपि मोहतः समरसत्वद्ावपूर्णात्मना- मस्माकें ह्यपराध एव परमः क्षन्तव्य एवं प्रभो॥१३॥ संपराप्येति। अद्वैतविद्यावतामद्वैतं भेदरहित्तमात्मवस्तु तस्य विद्या ज्ञानं सा येषां विद्यते ते तथोक्तास्तषां ज्ञानिनामि- त्यर्थ, पदारविन्दपदवीं पदं पादः स एवारविन्दं कमलं सैव प- दवी पद्धतिर्मोक्षस्य मार्गभूता तां संभाप्यापि उपलभ्यापि वय- मेतावन्तमद्यपर्यन्तमनेहसं कालं ब्रह्मणि अखण्डैकरसे सच्चि- दानन्दे सर्वदैव निरन्तरं न तु नैव लीनास्तदाकारा न जाता इत्यर्थः, ननु तर्हि द्वैतादर्शनाभावे मुक्तिसुखानुभवो न स्या- त्तत्राह मुक्तानामिति, मोहतोऽज्ञानान्मुक्तानामपि मोक्षं पाप्ता- नामपि ज्ञानमत्रेणाज्ञाननिवृत्तेर्मोक्षससिद्धिस्तु जातैवेति भाव:,
Page 415
मुनीन्द्रदिन० देवपूजापयुक्तशास्त्रार्थनिर्णयः । ३०.१
ननु तर्हि द्वैतरूपदुःखानिवृत्तौ वैषयकसुखेच्छया परमसुखानु- भवो न स्यादिसाशक्काह समरसेति, समरसत्वद्धावपूर्गात्मिनां समः मदैकरूपो रस सुखं यत्र तादृशो यस्त्द्भावस्त्वत््वरूपत्वं तेन पूर्णात्मनां निततप्तमन्तःकरणं येषां तादृशानामस्माकं ज्ञानेन वाधिते द्वते प्रतीयमानेपि अवाधिनाद्रैतसुखानुभवो भ- वसेवोत भावः, अस्माकं त्वत्पूजकानां साधिष्ठानबुद्धिस्थिदा- भासरूपाणामिसर्थः, हि प्रसिद्ध एपोडयमेनर परमोऽतिश्रेप्री- डपराधाऽन्यायो हे प्रभो हे समर्थ हे शिव त्वया क्षन्तव्य एव क्षम्यतागेव पारब्धक्षयपर्यन्तं विद्यमानस्य द्वेतजानस्य त- तक्षये क्षयसम्भवात्तत्क्षयपर्यन्तं सहनमेवोचितमिति भावः ॥१३॥ पुष्पाअ्लिमाह। आत्मैवायमनन्तचिद्नरसो नित्यं विमुक्त: स्व्रयं को बन्धः किमु बन्धनं कथमसौ बद्धा वरिमुक्त: कथम्। सानन्दाश्रु सगद्रदं सपुलकं चिद्वोधपूजात्रिधौ देवस्यास्तु मदीयविस्मयमयः संपूर्णपुष्पाञ्जलिः ॥१४॥ इति श्रीनरहरि० बो० मु० देवपूजानिर्णयः ॥१७॥ आत्मैवायमिति। अयमधिष्ठानसहितो बुद्धिस्थश्चिदाभासः साक्षिणो मम प्रतक्ष आत्मनः परमार्थतोऽभिन्नत्वादात्मैव स- चिदानन्दलक्षणः प्रत्यगभिन्नः परमात्मैवानन्तचिद्धनरमो य- तोडनन्ता देशकालवस्तुकृतपरिच्छेदरहिता चिच्चेतना तया घनो निविडो यो रसः सुखं तद्यास्मिन्विद्यते स तथोक्तोऽर्श आद्यज्, अथना घनो निविडो रसः सुखरूपोडत एव स्वयं स्व्रतो नित्यं सर्नदा विमुक्तो बन्धनरहितोऽस्ति अतोस्य को वन्धः कीह- शोऽवरोधोऽनतन्त्व।देव बन्धासिद्धेरने कोपि बन्ध इत्यर्थ:, ब-
Page 416
३९२ बोधसारे।
न्धकारणाभावादपि बन्धाभावमाह किम्विति, बन्धनं बध्यतेने- नेति बन्धनं बन्धसाधनं रज्जवादीव गुणास्तत्कार्य वा किसु किमस्ति न किमपीत्यर्थः, धर्म्यत्यन्तामच्वेन धर्मासत्ादिति भावः, अतोमावात्मा कथ केन प्रकारेण बद्धो न केनापि प- कारेण बद्ध इत्यर्थः, अतोसावात्मा तिमुक्तो बन्धराहतः कथं केन प्रकारेण न मुक्तोपीत्यर्थः, बन्धमापेक्षत्वान्मुक्तर्मोक्षोप्या- त्मनि नैव वास्तव इति भावा, एवं मदीयतरिस्मयमयो मम सा- धिष्र नबुद्धिस्थांचदाभासरूपस्य पूजकस्य विस्मय आश्चर्यातु- भनस्तन्मयस्तेन प्रचुरोऽनतःकरणवृत्तिममूह एव चिद्धोधपूजा- तिधौ चिचचिन्मात्र आत्मैव तस्य बोधो ज्ञानमेव पूजावविधि: पूजाप्रकारस्तस्मिन् सानन्दाश्रु आनन्दस्यात्मसुखानुभवस्याश्रु जलं तेन सह यथा भवति तथा, तथा सगद्गदं गद्गदः कण्ठव- रोधेनाक्षरशैथिल्यं तेन सहितं यथा भवात तथा, तथा सपुलकं पुलको रोमाश्चस्तेन सहितं यथा भनति तथास्य देवस्य स- दैव प्रत्यक्षस्यात्मशिवस्य सम्पूर्णपुष्पाञ्जलि सम्पूर्गाय पूजा- पूर् तायै पुष्पाञ्जलिः साङ्ग्ययोगाख्यहस्तयोरेकार्थानुकूल्य- रूप उक्तवृत्तिपुष्पाणामञ्जलिरिवाञ्जललिरस्तु भवतु ॥ १४॥ इति श्रीनग्हरिशिष्यदिवाकरविरचितायां बोधसारार्थदीतौ मु- नीन्द्रदिनचर्यार्थ प्रकाशे देवपूजानिर्णयार्थप्रकाशः सप्तदशः ।।१७।।
अथ देवपूजोपयुक्तशास्त्रार्थनिर्णयः। एवं देवपूजां निरूप्येदानीं देवपूजाज्ञानसिध्यै देवपूजो- पयुक्तशास्त्रार्थ निर्णेतुं देवपूजोपयुक्तशास्त्रार्थनिर्णयारूयं सप्त- श्चोकं प्रकरणमभिदधान आह अथेति।
Page 417
अथ देवपूजा निर्गायानन्तरं देवपूजोपयुक्तशास्त्रार्थनिर्णयो देवस्य चिन्मान्नस्वरूपस्यात्मनः पूजोक्तलक्षणार्चा तस्यामुपयुक्त उपयोगी यः शास्त्रार्थः सिद्धान्तस्तस्य निर्णयो विचारः क्रियत इति शेपः, तत्र तावदज्ञानपूजात्यागेन ज्ञानपूजैवाङ्गीकार्येत्याह। त्यक्त्वा मोहमयीं पूजां पूजां बोधमयीं कुरु। चन्दनैरर्चनीयोयं न तु पङ्केन शंकरः ॥ १ ॥ त्यक्केति। हे शिष्य त्वं मोहमयीमज्ञानप्रचुरां पूर्जा लो- कममिद्धां परिचर्या त्यकत्वा विसृज्य बोधम्यी बोधो ज्ञानं त- त्साधनं वाडद्रोहादिक गीतोक्त तन्म्यी तत्प्धानां पूजामर्ची कुरु विधीयतां कुत इत्यत आह चन्दनैरिनि, अयं मत्यक्षो ज्ञा- निपूज्य: शङ्करः स्वयं सुखरूपः समस्तजगदानन्दकरश्चास्ति
वतेति शेष:, न तु पङ्केनाज्ञानकार्यत्वाद्दुःखरूपत्वाच्च पङ्केन स्वस्वरूपलेपकारणभूतेन लोकप्रसिद्ध चन्दनादिद्रव्यार्पणरूपपूज- नेन न तु नैन पूज्योऽतोऽज्ञानपूजा सत्का ज्ञानपूजैवाङ्गीका- र्येति भावः, चन्दनैरित्यत्र चादघातोः करणे ल्युद्ू ॥१॥ ज्ञानाभावे देवपरिचयाभावेन पूजैव न स्यादित्याह। परिचीय पुरा देवं देवपूजापरो भत। देवे परिचयो नास्ति वद पूजा कर्थं भवेत् ॥ २ ॥ परिचीयेति। हे शिष्य त्वं पुरा प्रथमं देवं चिन्मात्ररूपमात्मानं परिचीय ज्ञात्वा ततो देवपूजायां परो रतः सनभव तिष्ठ, ननुदेव- पूजा देवपरिचयाभावे सति कुतो न स्यादित्याशक्काह देव इति, देवे पूज्ये चिदात्मनि परिचयो ज्ञान नास्ति न विद्यते चेत् पूजा- ٩٥
Page 418
३९४ बोधसारे।
डर्चा कथं कीदृशी स्यान्भवेत्तद्वद कथय, परिचयाभावे देवस्य पू- जैव न स्यादिति भावः ॥ २ ॥ कुतः परिचयाभावे पूजा न स्यात्तत्राह।. तावत्पूजां न मनुते यावत्परिचयो न हि । जाते परिचये देवः पूजामपि न काङृति॥ ३॥ तावदिति।देवश्चिन्मात्र आत्मा यावद्यत्कालपर्यन्तं परिचयो ज्ञानं न हि न विद्यते तावत्तत्कालपर्यन्तं कृतामप पूजामर्चा न मनुते नैवाङ्गीकरोति तर्हि झञात्त्रव तं देवं पूजा कर्तव्या तत्राह जात इति, देवश्रिन्मात्र आत्मा परिचयेनुभवे जात उत्पन्ने सति पूजा- माप अर्चामेव न काङ्गांत नेच्छति स्वस्य सुखरूपत्वमतीतौ ससां तत्सुखप्रनीतिप्रतिपक्षत्वाद दुःखरूपस्य पूज्यपूजकभावस्यानङ्गी- कारादेव तत्माध्यपूजेच्छाभाव इति भावः ॥ ३ ॥ ननु तहि ज्ञाने पूजाSसम्भनावज्ञानपूजैव कर्त्तव्येत्याशझाह। पक्षद्वयेषि पश्यामि पूर्जा देवस्य दुर्घटाम्। पूज्यपूजकता न ज्ञे मूर्खस्त्वज्ञानसूतकी ॥ ४ ॥ पक्षद्रय इति। हे शिष्य अह पक्षद्वयेपि पक्षयोर्ञा नाजानपक्षयो- द्रयं युग्मं तस्मिन् देवस्य चिन्मात्स्यात्मनः पूजामर्ची दुर्घटा दुःमंपादां पश्यामिजानामि कुत उभयपक्षेपि पूजाया दुःसंपादतवं तत्राह पूज्यपूजकता पूजितुं योग्य: पूज्यः पूजार्ह ईश्वरभावः पूजति अहति स पूजको जोवभावः पूजाकर्त्ता तयोभीवः स:ता न नास्ति अनो ज्ञानवाति पूजाडभावः सिद्ध इति भाव:। मूर्खस्वु अज्ञानी तु अज्ञानसूतक्यज्ञानं ज्ञानविरोधिभावरूपं तदेव सू- तकमाशौच विद्यतेऽस्प स तथोक्त: सूतकिन: पूजानिषेध: क-
Page 419
मुनीन्द्रदिन० देवपूजोपयुक्कतशास्त्रार्थनिणयः । ३९.१
र्मैकाण्डे प्रसिद्ध एव तुश्देनाऽज्ञानिनो ज्ञानितोऽतीव वैलक्षण्यं सूचितमिति ज्ञेयम ॥ ४ ॥ ज्ञानिविहितदेवपूजायां धूपदीपादीनामप्यपेक्षा नास्तीसाह। न जाने क पलायन्ते धूपदीपाक्षनादयः । अस्माकं देवपूजायां देव एवाविशिष्यते ॥ ५ ॥ नेति। अस्माक नो ज्ञानिनामित्यर्थः, देवपूजायां देवस्य चि- दात्मशिवस्य पूजार्चा तस्यां क्रियमाणायां गत्यामित्यर्थः, धूपदी- पाक्षतादय := कर्मज्ञानमयो यदिन्द्रिगगा इत्यत्रोक्तलक्षणो धूपो लौकिकोपि, दीपश्च यह्मिन्तुज्वलिते न तिष्ठति तम इस्त्रोक्तल- क्षणो लोकपसिद्धोपि, अक्षताः शांन्तिः क्षान्तिरलोलता सरलता इत्यत्रोक्तलक्षणा लोकमसिद्धा अपि, आदयो मुख्या येपां ने- वेद्यादीनामुक्तलक्षणानां लोकप्रसिद्धानामपि ते तथोक्तास्ते क कुत्र पलायन्ते गच्छन्तीयहं न जाने नैव जानामि तर्हि सर्व- वृत्तीनां शून्यत्वे शून्यपरिशेष: स्पन्नियाहास्माकमिति, सर्वो पचाराभावेपि अहं ब्रह्मास्मतिव्ृत्तविषयभूनो देव एव केवलं चिन्मात आत्माऽवशिष्यतेऽवशिष्टो भवति ॥५॥ अन्यत्र लोकपसिद्धपूजायां पूजाक्रमनिस्सृतिस्तु विघा- सायैन भवति। अत्र तु सैव पूजाफलरूपत्याह। देवानुसंधानधिया विस्मृते पूजनक्रमे। पूजायां जायते विन्नः पर्णपजाफलं हि तत् ॥ ६॥ देवेति। देवानुमन्धानधिया देवश्चिन्मात्रस्तरूप आत्मा तस्यानुसन्धानं तद्विपयकविजातीयप्रत्ययानन्तरितसजाता- प्रत्ययपवाहरूपं तदरूपा धीर्वुद्धिस्तया पूजनक्रमे पूजनस्योक्तल- क्षणास्योक्तलक्षणे कमे विस्मृते विस्मृतिविपये जाते सति पूजा-
Page 420
३९६ बोघसारे। यामुक्तपूजाकल्पनायां विघ्रो विघातो जायते भवति हि प्रसि- द्धमेत्र सर्वेषामेतन, तद्विघ्नरूप लोकदृष्ठ्या यत्तत्पूर्णपूजाफलं पूर्ण- ब्रह्माकाररूपलात्पूर्ण पूजाया उक्तलक्षणायाः पूजाया: फलं प्रयोजनं ज्ञेयं लौकिक्या आप तज्ज्ञेयं तस्मिंश्र सति नोभय- विधपूजायां प्रयासः कार्य इति भावः ॥ ६॥ ननु भतदुक्तपूजाधिकारिणि विदुषि पूज्यधूजकता न ह इसनेनोभयभावो निषिद्धः, तथा त्यत्का मोहम्यीं पूजामित्यत्र बोधमयपूजने पवर्तितव्यं नाज्ञानपूजायामिति अतः पूर्वापर वि- रोधोडतोस्यां पूजायां पूज्यपूजकत्वाभावे कथं पूजायां पछ- न्तिर्ज्ञानिनः स्यादित्याशड पारम्भे जिज्ञासायां सत्यामज्ञानां- शेन पूज्यपूजकत्व्रसम्भवात्तत्र प्रवृत्ति: पूर्णो ज्ञानेऽज्ञानांशस्य निवारितत्वात्पूज्यपूजकत्वाभावो ज्ञानिनि सम्भवत्यतो न वि- रोध इसाशयेनाह। आनन्दघनगोविन्दपूजनारम्भकर्मणि । बोधे स्फुरति मोहात्मा यजमानः पलायितः॥७॥ इति श्रीनरहरिकृतौ बोधसारे मुनीद्रदिनचर्यायां देवपूजो
आनन्देति। आनन्दघनगोविन्दपूजनारम्भकर्मणि आ- नन्दो निरतिशयसुखं 'यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति श्रुतौ यद्गूमशब्दवाच्यं सुखं तेन घनो निबिडो निश्छिद्र इत्यर्थः, स तादृश एव गोविन्दो 'घियो यो नः मचोदयादिगत गाय- तयास्तृनीयपादे बुद्ध्धिमेरकत्वेन निर्दिष्टः स्वसत्वदानेन गां बुद्धि द्रिदिति रक्षतीति धातूनामनेकार्थत्वाद्गोविन्दो बुद्धिसाक्षी व्रह्माभिन्नः प्रत्यगात्मा तस्य पूजनं पूजाऽडरभ्यते प्रत्रिकयते- डस्मिस्तच्च तत्कर्म क्रिया तस्मिन बोधे केवलात्मज्ञाने स्फुरति
Page 421
१९७
प्रकाशमाने सति मोहात्मा मोहोडज्ञानं तत्कार्यरूपो भ्रमश्चा- SSत्मा स्वरूपं यस्य स तथोक्तो यजमानः पूजको जीवभावः पलायितो गतो नष्ट इसर्थः, अखण्डेकरसात्माशवपूजारम्भे के-
सम्भवाललौकिकपूज्यपूजकलयोषि सम्भाठय इति भान: ॥।७। हांत शरीनरहरिशिष्यदिवाक्कर विरचितायां बोधासाराथदीपनी मु-
प्रकाशोSष्टादशः ॥ १८।
अथ पञ्चमहायश्ञनिर्णयः। एवं ज्ञानिनां देवपूर्जा सशास्त्रार्था निर्णीयेदानी तेपामेन
मभिदधान आह। अथ पञ्च महायज्ञाः । अथेति। अथ देवपूजोपयुक्तशास्त्रार्थनिर्णयानन्त्र पश्च पञ्चसंख्या महायाज्ञा महान्तः श्रेष्ठा यज्ञाः ऋतनो निर्गीयन्त इति शेष:, तानेवाह। ज्ञाननिष्ठा क्षमा सत्य वरिवेक: परिपूर्णता। एते पञ्च महायज्ञा: संमता ब्रह्मवेदिनाम् ॥१॥ इति नर० बोध० मुनीन्द्र० पश्चमहायश्ञननिर्णय॥ १९॥ ज्ञाननिष्ठेति। ज्ञाननिष्ठा ज्ञाने भागत्यागमक्षणया महा- वाक्यजन्याहंब्रह्मास्मीतिसाक्षात्काररूपे निष्ठा सहजपीतिरेकः, क्षमा सुखदुःखादिद्न्द्वानां सहनता द्वितीयः, सत्यं सत्यपतिज्ञा सत्यभाषणादि च तृतीयः, विवेको विनिस्यते आत्मानात्मपदा- र्थावनेनेति विनेको विचारश्चतुर्थः, परिपूर्णता सर्वत्र स्वपरि- पूर्णत्वनिश्चयः पश्चमः, एत इमे पक्च पञ्चमङ्खयाः महायज्ञा श्रेष्ठा
Page 422
३९८ बोघसारे।
यज्ञा व्रम्मनेदिनां ब्रह्मज्ञानिनां संमता इष्टा ज्ञातव्याः।। १।। इति श्रीनरहारशिष्यदियाकरविरचितायां बोधसारार्थदीप्ी मुनीन्द्रदिनवर्यार्थप्रकाशे पञ्चमहायक्षनिर्णयार्थप्रकाश एकोनविंशः ॥ १९।।
अथोपयशनिर्णयः। एवं ज्ञानिनां पञ्चमहायज्ञान्निरुप्पेदानी तेषामुपयज्ञाप्विर्णे- तुमुपयज्ञानर्णयाभिधं त्रिश्कोकं प्रकरणमभिदधान भराह। अथोपयज्ञनिर्णयः । अथेत। अथ पञ्चमहायज्ञनिरूपणानन्तरसुपयज्ञा नैमि- त्तिका यज्ञाः क्रतवां निरुप्यन्त इति शेष:, तत्र तावज्ज्ञानिनामु- पयज्ञकर्त्तव्यतां विधत्ते। एतस्यां दिनचर्यायां प्राप्ते पर्वण पर्वणि। मध्ये मध्ये चोपयज्ञाः कर्तव्या दीक्षितेन हि॥१॥ एतस्यामिति। एनस्यामुक्तलक्षणायां विवेकिपसक्षायां दि- नचर्यायां मुनीन्द्रदिनव्यवहतौ पर्वीया पर्वशि उक्तलक्षयादिन- व्यवहारतद्विरुद्धव्यवह। रयोः सन्धौ सन्धौ मासे लब्धे सति मध्ये मध्ये तदन्तरन्तरे चोपयज्ञा नैमित्तिका यज्ञा दीक्षितेन गुरू- पदेशरूपदीक्षावता मुमुक्षुणा कर्त्तव्याः कार्या हि एते चोपयज्ञा ज्ञानिषु प्सक्षाः ॥।१ ॥ तानेव विशिष्टान्दर्शयति। यत्परोडशतां याति कालखण्डं मनः पशोः। कत्तव्यास्तादशा यज्ञा देवेन्द्रप्रीतिहेतवे ॥ २ ॥
Page 423
मुनीन्द्रदिन० उपयक्षनित्यदाननिर्णयः । ३९९
चित्त।हङ्कतिबुद्धिमानसमयैर्युक्तं चतुर्भि: पदै- शिछित्वान्तः करणं पशुं परशुना बाधेन तीक्ष्णेन यः । इत्यादि, कालखण्डं कालस्यापि मनसा कल्पितत्वान्मनः पशुमम्बन्धिकाल एन खण्डं शकलमंश इत्यर्थ:, यत्पुरो डाशतां येषां ज्ञानियज्ञानां तेपामाप ज्ञानरूपत्वात्पुरोडाशनां पुरोडाशो यजमानभक्षणीयो हुतशेषस्तस्य भावस्तत्ता तां याति प्राम्नोति; वक्ष्यति हि, कालेन भक्षिन विश्व कालो बोधेन भक्षित इत्यादिना तादृशास्तादग्लक्षणवन्तो यज्ञाः क्रतवो देवेन्द्रपीत-
न्तोषो नित्यतृप्तिरित्यर्थः, तस्या हेतवे तदर्य कर्त्तव्याः कार्या मुमुक्षुभिशित शेषः ॥ २ ।। तादृशा इत्युत्त्या तेपां लक्षणज्ञानमपेक्षितमिति तल्लक्षयाज्ञानाय ज्ञ।निविहितमृपर्णचपनलक्षणं तत्फलं चान्ययज्ञलक्षगानि ज्ञातुमाह एकीकृत्य सुपर्णो द्वौ चीयते चेत्सुपर्णचित। जीयते तन्मुनीन्द्रेण शतस्याग्निचितां फलम् ॥ ३ ॥ इति श्रीनरहरिकृतौ वो० मुनी० उपयज्ञनिर्णयों विंशः ॥२०॥ एकीकृतेति। द्वावुभौ सुपणौ व्यावहार्कदृष्ठ्या द्विलेन प्रतीतौ सु शोभनौ पगों पक्षौ ययोस्तौ सुपर्गो जीवस्य धर्माधमा- विष्टानिष्टग तिमाधनत्वात्पक्षी, ईश्वस्य तुजगत्पालनादि प्रष्टात्तसा- धनं मायार्प एक:, द्वितीयः स्वरूपस्थितिसाधनभूतो ज्ञानरूप इति विवेक:, सुपर्णत्वं च हंसत्व्रमनगो: श्रुसोपासनार्थमुक्तं तथा च श्रुतिः 'द्रा सुपर्णा सयुजा सखाया समनं त्क्षं परिषस्वजाते तयोरन्यः पिप्पलं स्व्रादवच्यनश्नन्नन्यो अभिचाकशीती'ति, एता-
Page 424
४०० बोधसारे।
देकत्ं संपाध्यानयोरेकत्वं च तदुत्तरश्रुसैवोक्तत्वात्पारमार्थिक- मिंति निश्चित्येर्थः, तथा च तदुत्तरमन्त्रः । 'एकः सुपर्णः स समुद्रमाविवेश। स इदं विश्वम्भुवनं वि- चष्ट'इत्यादिः । ममुद्र इति वाचो नाम वाक्मतिपादत्वाद्वाजमत्रं जग- दित्यर्थः, चीगते एकीभावेनावलोक्यते मुनिना चेद्यदि तहि सु- पर्णचित् सुपर्णचयननामा यज्ञो जायत इति शेष:, तत्तर्हि मुनी- द्रेण मननवत्सु श्रेष्ठेनोक्तलक्षणसुपर्गाचयनकृता पुरुषेणाभि चितां लोकममिद्धानामझनिचयनाना शतकस्य फल पुण्यं जी- यते पाध्यते ।। ३ ।।
मुनीन्द्रदिनचर्यार्थप्रकाश उययक्षानर्णयार्थप्रकाशो षिंशनितमः ॥ २०॥
अथ नित्यदाननिर्णयः। एवमुपयज्ञान्न्णीयेवानीं निसदानं निर्णेतुं निसदान- निर्गायाखयमेकश्षोकं प्रकरणमारभमाण आह। अथनित्यदानम् । अथेति। अथोपयज्ञनिरुपण्ानतरं निसदानं मुनीरना निसदानं निर्गाीयत इति शेष:, तदेवाह। समाधितीर्थे मुनिना ग्रहणे चंद्रसूर्ययोः । दत्तमात्मसमं हेम पात्राय परमात्मने ॥ १ ॥ इति श्रीन० वा० मुनी० नित्यहाननिर्णय एकविंश: ॥२१॥ समाधितीर्थ इनि। लोके तावन्नित्यदानं कास्यपात्रसुव- णघृतादिकं दीपते तत्पसिद्धमेव तदपि देशकालतीर्थभेदेन नि-
Page 425
मुनीन्द्रदिन० मध्यान्हसन्ध्यनर्णयः । ४०१
मित्तमेदेन च पुण्यपदं तारतम्येन भवति तीर्थभेदेन पुष्करादि- निमित्तेन देशभदेन कुरुक्षेत्रादौ कालभेदेन संक्रान्तिग्रहणादौ निमित्तणेदेन पुत्रजन्मादौ दानं च तुलादिकं श्रोत्रियाय पा- वाय दीयत इंत प्रसिद्धम् अत्र तु तत्सर्वमलीकिकं, तद्यथा मुनि- ना मननवता ज्ञानिनेत्यर्थः, समाधितीर्थे सम्यगाधीयते चिन्त्यते ब्रह्म यस्मिन्स समाधिः, यद्वा समं ब्रह्माऽडधीयते लक्ष्यतेस्मि- त्निति समाधिः, यद्रा समा ब्रह्माकारा आधय मानसदुःखानि अस्मिन्निति समाधिः स एवतीर्थ सर्वमलनवर्तकत्वात्तस्मिन् निंमतमाह ग्रहण इति, चन्द्रमूर्ययोश्चन्द्रश्चन्दयति आल्हाद- यतीनि चन्द्र आत्मसुखानुभवः, सूर्यः प्रकाशकत्वादात्मस्वरू- पस्य सूर्यो विवेकस्तत्फलरूपोऽनात्मवाधस्तयोग्रहणेऽड्गीकारे कृते सति, यद्वा चन्द्रोऽपान: सूर्य प्राणः, 'अपानश्चन्द्रमा भोक्तः माणः सूर्य: प्रकीर्तित' इत्युक्तेस्तयोग्रेहयां वशीकारस्तस्मिन्सतीत्यर्थः, पात्रमाह परमात्मन इति, परमात्मने परः कार्यकारणातीत आ- त्मेश्वरस्तस्मै पात्राय पात्रभूताय व्रह्माभिन्नः प्रत्यागात्मैवात्र पातं झ्ञेयं, देयमाह दत्तमिति, आत्मसममात्मनः मत्यगात्मनः सर्म सदशं चिदाभासरूपं हेम सुनर्णवत्तेजारूपं पकाशवहुलमित्यर्थ, दत्तं सम्पितं तदभिन्नमनुभूतमित्यर्थ ॥ १॥ इति श्रीनरह० बोध० मुनीन्द्रदिन नित्यद्वाननिर्णयार्थप्रकाश एकविंद: ॥ २१।
एवं नित्यदानमुत्का मध्याह्नमन्ध्या निर्णेतु मध्याह्म- न्ध्यानिर्णयाखयमेकश्चोक भकरणमारभमाण आह ५१
Page 426
४०२ बाधसारे।
अथ मध्याहसन्ध्या। अथेति। अथ नित्यदाननिर्णयानन्तरं मध्याह्वसंध्याऽहो दिनस्य मध्यं मध्याह्ं तस्य सन्धिस्तत्र भना मध्याह्वसन्ध्या मध्याह्सन्ध्याख्या क्रिया निर्गीयत इति शेषः, तामेवाह। दर्शनस्पर्शनघ्राणरसनश्रवणादिषु। यश्चैतन्यचमत्कारो मुनेर्माध्याह्निकं तु तत् ॥ १ ॥ दर्शनेति। दर्शनस्पर्शनघ्राणरसनश्रवणादिषु लौकिकं मा- ध्याह्निकं प्रसिद्धमेव, इदं त्वलौकिकं ज्ञानभास्करोदयाद्युपलक्षि- तस्य ज्ञान्यह्रो मध्यता तीव्रपकाशोपलक्षितः कालस्तदा च द- शनं चक्षुद्रारानिर्गनान्तःकरणवृत््पा, नीलपीतादिरूपसाक्षात्कारः, स्पर्शन त्वकूद्वारा निर्गतान्तःकरणवृत्या शीतोष्णमृदुकाठिन्या- दिस्पर्शसाक्षात्कारः, घ्राणं घ्राणद्वारा निर्गतान्तःकरणवत्या सुगन्धदुर्गन्धादिविषयसाक्षात्कारः, रसनं रसनाद्वारानिर्गता- न्तःकरणवृत्या मधुरकटुतीक्ष्णादिरससाक्षात्कारः, श्रवणं श्रो- त्रद्वारा निर्गतान्तःकरणवृत्त्या शब्दंवषयसाक्षात्कार, एतानि आदीनि प्रथमनो येषां तेषु आविपदेनात्र वचनादानादिकर्मे- न्द्रियव्यापारा ग्राह्यास्तषु विद्यमानेषु व्यवहारकाले सत्स्वपि यः सर्वत्रिपुटीबाधपूर्वे यः प्रसिद्धो योगिषु चैतन्यचमत्कारश्रै- तन्यस्य चिदात्मनः सामान्यरूपेण चमत्कारः स्फुरणं भवति तत्तदेव मुनेर्मननवतो ज्ञानिन इत्यर्थः, माध्याह्निकं मध्यस्थज्ञा- नभास्करोपलक्षितदिवसमध्यभवं कर्म ज्ञेयमिति शेष: ॥ १ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ी मु- मीन्ददिनचर्यार्थप्रकाशे मध्याह्वसन्ध्या निर्णयार्थप्रकाशो द्राविंशः॥ २२॥।
Page 427
मुनीन्द्र दिन० वैश्वदेवबलिदाननिर्णयः । ४०३
अथ वैश्वदेयनिर्णयः । एवं मध्याह्वसन्ध्यां निणीयेदानीं मुनीनां वैश्वदेवारयं कर्म नियेतुं वैश्वदेवनिर्णयाख्यमेकश्षोकं पकरणं वकतुमाह। अथ वैश्वदेवः । अथेति। अथ मध्याह्ममन्ध्यानिरूपणानन्तरं वैश्वदेवो वै- वरदेवाखयं कर्म निर्णीयत इति शपः, तमेवाह। आत्मा विश्वस्य देवोयं विश्वेन हविषेजयते। तत्कर्म वैश्वदेवाख्यं सर्वसूनानिवृत्तये॥ १॥ इति धीन० बोधसारे मुनौददिनचर्यायां वैश्वदेषन र्णयस्त्रयोवि्य:।।२३।। आत्मेति। अय तरिनेकिषु अ्मदादिषु प्रतक्षत्व्रपरोक्षत्वर- हितत्वेन स्वयं प्रकाशमानः प्रत्यक्ष आत्मा प्रत्यगभिन्न: परमा- त्मा विश्वस्य समस्तस्य जगतो देवशश्चिन्मात्ररूपेण प्रकाशकः स विश्वेन समस्तजगता हविषा होमद्रव्येणेज्यते हूयते तत्सम- इतजगद्धोमद्रव्येगात्मपूजनरूपं कर्म करिया वैश्वदेवारूयं विश्व- देवाख्यं विश्वदेव आत्मा तस्येदं विश्वदेवसम्बन्धीत्यर्थः, त- स्येदमिति तद्धितोण्, वैश्वदेव आख्या आहा यस्य तत्तथोक्त झेगं, यद्वा विश्वदेवायात्मने हिनमिति व्याख्येयं तम्म हितमिति, त- द्वितोण्। फलमाह सर्वेति; सर्वसूनानिव्वत्त,ये 'सर्वे खालदं ब्रमेति' श्रुतिदृष्डया सर्वपदवाच्यस्य द्वैतस्य या सूना हिंसा तब्नित्रतये त- त्पररेहाराय भवतीति प्रयोजन दर्शित, यद्रा सर्वदोषपारहार येति प्रसिद्ध एवार्थ: ॥ १ ॥ इति शीनर० बोधसारे मुनींद्र० वैश्ववननिर्णयार्थप्रकशख योविंशः॥२३॥
Page 428
बोधसारै।
अथ बलिदानगिरशायः । एवं वैश्वदेवं निर्णीयेदानीं तेषामेव बलिदाननिर्णेतुं बलि- दाननिर्यायाख्यमेकश्लोंकं प्रकरणमभिदधान आह। अथ बलिदानम्। अथेति। अथ वैश्वदेवनिर्णयानन्नरं वालवानं बलेभूनबले ्दानं समर्पणं निर्खीयत इति शेष:, तदेव लौकिकबलिदानविल- क्षणं मुनीनां बलिदानं दर्शयति। नवद्वारां पुरीमेतामाश्रित्यो दयालुना। भूते्योपि बलिर्देयः खानपानादिलक्षणः ॥ १ ॥ इति श्रीनरहरिकृतौ बोधसारे मुनीन्द्रदिनचर्यायां बलिदाननि- र्गायश्चतुर्विशः ॥२४॥ नवद्वारामिति। एतां सर्वजनपत्यक्षां नवद्वार्रा नव नवसं- ख्यानि द्वारागि च्छिद्रागिा यस्यांसा तथोक्ता द्वे श्रोत्र्छिद्रे द्वे नयनच्छिद्रे द्वे नासा च्छिद्रे एकं मुखच्छिद्रमित्युपरि सप्त, एकं गुद- च्छिद्रमेकं शिश्चच्छिद्रमिति द्वे अध, एवं नत द्वाराणि ज्ञेयानि, पुरी नगरीं 'नवद्वारे पुरे देही'ति गीतोक्तामाशितेभ्य आश्रिसस्थि- तेभ्यो भूतेभ्योपि वियदादिभ्यो भूतेभ्योऽपिशब्दात्तत्कार्येभ्य इन्द्रियेभ्यो दयालुना दयावता पुरुषेण एतानि भूतानि किमेतैर्म- मेति नोपेक्षा कर्त्तव्या तेषां तद्धासदानाभावे तत्क्षोभेगा वृत्तिस्थैये न स्यादिति भावः, खानपानादिलक्षणः खानमन्नदेर्भक्षणं पानं च जलादे: माशन ते आदिनी येषामिन्द्रियभोगादीना श्रवणा- दयनुकूलानां तान्येव लक्षगानि यस्य स तथोक्तो वलि: पूजा देयो दातुं योग्यः ॥। १ ॥ इनि श्रीन० बोध मुनौंद्रदिनवर्यार्थ० बलिदाननिर्णयार्थप्रका- शश्तुर्विशः ॥२४॥
Page 429
मुनीन्द्रदिन० भोजनताम्बूलग्रहणनिर्णयः । ४०"
अथ भोजननिर्गायः । एवं मुनीनां भूतबलिं निर्णीयेदानीं नेपामेव भोजनांवधि- निर्णयाख्यमेकश्लोकं प्रकरगामीभदधान आह। अथ भोजनविधिः । अथेति। अथ वालदाननिर्णयानन्तर भोजनांवधिर्मुनीना भोजनस्य विधिर्विधानं निर्णीयत इति शपः, तमेव निर्णीय द- र्शयान। गुरुभिश्र सतीर्थ्येश्र शिष्येश्र सहितस्तथा। सुरसं चारु भोक्तव्यं ज्ञानपीयूषमुत्तमम् ॥ १॥ इति थ्रीनरहरिकृती बोधसारे मुनीन्द्रादनच्चर्यायां भोजन निणेय: पञ्चविंश्यः॥२५॥ गुरुभिरिति। लोके हि पितृभि: पितृव्यैश्र स्व्रपुत्रैरभ्र्र्तृभिश्व सह मिष्टानं भुज्यत तद्वढत्रापि गुरुभिः स्वस्य महावाक्योपदेष्ट- भिः पितृस्थानीयैः मतीर्थ्यैश्च समानमेकं तीर्थ गुरुर्येपां ते तथो- क्ता गुरुवन्धव इत्यर्थः, तैरपि पितृव्यस्थानीपैरित्यर्थः, चका- रात्स्वसती्थ्या: स्वरगुरुबन्धवोषि स्वभ्रातस्थानीया ग्राह्याः, तथा सद्रच्क्विष्यैश् स्व्रशिष्यैः पुत्रस्थानीयैः सहितो युक्तः मन्मुनिना सुरमं सुष्ठु शोमनो रमः सुखं यत्र तत्तथोक्तं 'रमो वै स'इति श्रुतेः, उत्तमं श्रेष्ठमुद्गतं निरस्तं तमोऽज्ञानलक्षगां यतस्तत्तथोक्तं ज्ञानपीयू्ष ज्ञानं महवाक्यजन्ग जीवव्रह्मैक्यविषयकमपराक्षं तदेव पीयूषममृतमित मरणानिवर्त्तकत्वादहं व्रम्माम्मीति सा-
ज्ञानस्येति भावः, चारु सपेम संशयविपर्ययादिरहितं गथा तथा भोक्तव्यमनुभाव्यमिदमेव विदुपां भोजनं नान्यदिति भानः।।१।। इति श्रीनरहरिशिष्यदिवाकराबरन्निनायां बोधसागथं० मुनी-
पञ्चविंशाः ॥२५॥
Page 430
४०६ बोधसारे।
अथ ताम्बूलग्रहणनिर्णयः । एवं मुनीन्द्राणां भोजनविधिं निर्णीयेदानी तेषामेव ताम्बू- लग्रहणं निर्णेतुं ताम्बूलग्रहणनिर्णयाख्यमेकश्चोकं पकरयामभि- दधान आह। अथ ताम्बूलग्रहणनिर्णयः । अथेति। अथ भोजनविधिविर्णयानन्तरं ताम्बूलग्रहणनिर्णय- स्ताम्बूलस्य ग्रहण सेवनं तस्य निर्णयो विचारः क्रियत इतिशेष:, तदेव ज्ञानिनामलौककं ताम्बूलं दर्शयति। सत्यं प्रियं च पथ्यं च ब्रह्मचर्चात्मकं वचः । ताम्बूलग्रहणं कार्य वदनं येन राजते ॥ १ ॥ सत्यमिति। सत्यं प्रामाणिक केवले सत्यवचसि अमियता च सम्भवति अतस्तां निराकरोति प्रियं चेति, म्रियं च पगेक्ष- तया प्रियं सत्यांप्रये वचास परिणामे दुःखमपि कचिद्दृश्यतेऽत- स्तदपि निराकरोति पथ्यं चेति, पथ्यं च दुःखपरिणामहीनमेत- द्विशेषणविशिष्टवाक्यं स्पष्ट निर्दिशति ब्रह्मचर्चात्मकामति, ब्रह्म- चर्चात्मकं ब्रह्मगो देशकालवस्तुकृतपरिच्छेदहीनस्यात्मनश्चर्चा वाच्यार्थतया निरूपयां यत्र तदात्मा स्वरूपं यस्य तत्तथोक्तं वचो वचनं ब्रह्मणः सद्रूपत्वात्तन्निरूपकवचसः सत्यत्वं तथा ब्रह्मणः सुखरूपत्वात्तत्प्रतिपादकवचसः प्रियत्वं तथा ब्रह्मणः परिणा- महीनत्वात्तत्प्रतिपादकवचसो दुःखपरिणामहीनत्वं तादृशं वच- नमेव ताम्बूलग्रहणं ताम्बूलस्य ग्रहगां सेवनं कार्य मुनिभिः क- र्त्तव्यं, नतु ब्रह्मचर्चात्मकवचमः कुतस्ताम्बूलत्वमिसाशक्ा वद- नशोभाकारित्वस्योभयत्र साम्यादिसाशयेनाह वदनमिति, येनो- क्तलक्षगाताम्बूलग्रहणेन वदनं मुखं राजते शोभते, 'यद्वा चेतो सुख, इति श्रुतेव्रह्मसुखानुभवकरणरूपान्तःकरणवृत्तिः प्मा-
Page 431
मुनीन्द्रदिन० वामकक्षिशयननिर्णयः । ४०७
रयैव भोजनसाधनं मुखमिव ब्रह्मसुखामृनभोजनसाधनत्वाद्वदनं राजते स्वयं प्रकाशतया शोभत इसर्थः, अतोत्र विदुषामिदमेव ताम्बूलग्रहणमुचितमिति भावः ॥१॥ इति श्रीनरहरििष्यदिवाकरविरचित्तारयां बोधसारार्थदीप्ी
प्रकाश: पद्धिंशः ॥२६॥
भथ घामकुक्षिशयननिर्यायः । एवं मुनीरना ताम्बूलग्रहण निर्णीयेदानीं प्रसङ्गमासतं तेषा- मेवं विशिष्टं वामकुक्षिशयनं निर्णेतुं वामकुक्षिशयननिर्णय।खूयं द्विश्लोकं प्रकरणमारभमाण श्राह। अथ वामकुक्षिशयननिर्णयः । अथेति। अथ ताम्बूलग्रहणनिर्णयानन्तरं वामकुक्षिशयन- निर्णयां वामे सव्ये भागे कुक्षिस्तमधः कृखा यच्छयनं निद्रा मुनिविहिना विशिष्टा तन्निर्णयस्तस्य वरिचारः क्रियत इति शेपः, तत्र तावदादौ शयनार्थ निश्चिन्तताऽपेक्षिताSतस्तन्नि- ्ंयं करोति। यावच्छरीरपतनं प्राचीनैः र्कमभिः कृतौ। योगक्षेमौ न चिन्त्यौ हि निर्योगक्षेम आत्मवान्॥१॥ यावदिति। हि यतः कारणाद्योगक्षेमौ योगोडपाप्तपदा- र्थानां माप्तिरूप: क्षेमश्च प्राप्तपदार्थपरिरक्षणरूपस्तौ द्वावि या- वच्छरीरपतनं यात्रत्कालं शरीरपतनं शरीरस्य देहस्य पतनं पातो भवात तावत्तत्कालपर्यन्तं शरीरनाशावधीसर्थः, माचीनैः पूर्वजन्मभवैः कर्मभिरेतच्छरीरारम्भकैः प्रारब्धाख्यैः कर्मभिः कृनौ सम्पादिताविसेवं निश्चित्य तौ नानुमन्धातव्यौ किन्तु
Page 432
४०८ बोधसारे।
आत्मवानाऽडत्मा प्रत्यगात्मा ब्रह्माभिन्नश्चिन्त्यतया विद्यते यस्य स तथाविधो भूत्वा निर्योगक्षेमो योगक्षेमचिन्तारहितो भवेदिात शेष:, इयमेव निश्चिन्तता वक्ष्यमायाशयनोपयोागनी नान्योत भावः ॥ १॥ एवं शयनोपयोंगनीं निश्चिन्ततां निर्णीयेदानीं शयनोप- योगिभामग्रीनिर्णयपूर्वकं शयनं निर्णीय दर्शयति। समाधिशयने शुभ्रे सुखनद्रां विधाय च। क्षणं विश्रम्य तत्पश्चात्पुराणश्रवणं चरेत् ॥। २ ।। सपाधीति। लोके तावच्छुभ्रे निर्मलवस्तैनिर्मिते शेते समा- पिशयने समाधिर्ध्येगाकारान्त:करणवृत्तिपरिणामः स यथा सुखसाधनभूतस्तद्वद्यच्छयनं शेतेस्मिन्निति शयनं पर्यङ्कस्त- स्मिन्, यद्वा समा आधय मानसव्यापारा यत्र भवन्ति तथाभूते झयने पयंक्के सुखनिद्रां सुखाय निद्रा सुषुसिस्तां विधाय कृला च पुनस्तत्ततः पश्चादनन्तरं क्षण क्षणकालं विश्रम्य यावदा- लस्यक्षयं तत्र पर्यक्के विश्रामं कृत्वेसर्थः, पश्चादनन्तरं पुराणश्र- वसं पुराणानां भागवतादीनां श्रवणं चरेत्कुर्यात, पकृते तृ शुद्ध शुभ्र निर्विकल्प इत्यर्थ:, समाधिशयने समाधिरेव शयनं पर्य- इस्तम्मिन सुखनिद्रां भूमशब्दवाच्यसुखस्वरूपां निद्रां प्रपश्चा- इ्फूर्तिरू सुप्ति विधाय कृत्वा च पुनस्तत्तत उत्थान तत्र क्षण क्षणपरिमाणकालं विश्रम्य विश्रामं कृत्वा पश्चादनन्तरं पुराया- श्रवण पुरायानां भारतादीनां श्रवणं वक्ष्यमायलक्षया श्रव- णांमत्युपलक्षगां मननादीनां चरेत्कुर्यात् ।।२।। इति श्रीनरहर्गिशष्यदिवाकरविरचितायां बोधसारार्थदीपी मु- नीन्द्रदिन चर्यार्थप्रकाशे वामकुक्षिशयननिर्णयार्थप्रफाय: सप्तविंशः॥२७॥
Page 433
मुनीन्द्रदिन० पुराणश्रवणे भारतभरवणनिर्णयः । ४०३
अथ पुरासाध्रवणनिर्णयः । एवं वामकुक्षिशयनं निर्णीयेदानीं ततोत्र विहितं पुराण- श्रवण निर्णेतुं पुरायाश्रवणनिर्यायाख्यं सार्द्धद्विसप्ततिश्लोक प्रकरयामारभमाण आह । अथ पुराणश्रवणनिर्णयः । अथेति। अथ वामकुक्षिशयननिर्यायानन्तरं पुराणश्रवणनि- णयः पुराणानां भारतादीनां श्रवण वक्ष्यमाणलक्षणं तस्य निर्रायो विचार: क्रियत इति शेप:, सुनिभिः कथं पुराणादि श्रो- तव्यं तन्निर्णीयत इसर्थः, तत्र तावत्मसिद्धान्यस्मिन्समये भारत- भागवतरामाययानि अतस्तेपामेव प्रथम निर्णयः क्रियते, तत्र च तावत्सर्वधर्मसंग्रहत्वाद्ारतमेव प्रथमं निर्णायते चतुर्भि: श्रोकैः, तदेव प्रतिजानीते। अथ भारतश्रवणनिर्णयः । अथेति। अथ पुराणश्रवणनिर्गायपतिज्ञानानन्तर भार- तश्रवयानिर्यायो भारतस्य भारताख्यशास्त्रस्य श्रवण तस्य निर्णयो विचारः क्रियत इति शेष:, तत्र तावज्जिज्ञासूनां श्रोत- व्यतया विहितं भारतमभिनीय दर्शनयति। अष्टादशाध्यायमयी यत्र गीता निरूपिता। सर्वोपनिषदां तत्वं तन्महाभारतं शृणु ॥ १ ॥ अष्टादशेति। यत्र यह्मित्रर्थे जीवब्रह्मैक्य रूपेऽष्टादशाध्या- यमय्यष्टौ च दश चाष्टादशाष्टादशसंख्या येऽष्टादशपर्त्रस्थानीया अध्यायास्तन्मयी तन्मुख्या गीता श्रीभगवतार्ऽर्जुनाय शि- व्याय गीता कथिताऽतो गीतानास्नी वाक्यसंहतिरूपा निरूपिता कथिता सा च सर्वोपनिषदामुप समीपे निषण्ण श्रेयो मोक्षरूप यासु ता उपनिषदः सर्वा समस्ता या उपननिषद :- ५२
Page 434
४१० बोधसारे।
'ईशके नकठमश्रमुण्ड माण्डूक्यतित्तिरिः। ऐंतरेयं च च्छान्दोग्यं वहदारण्यक दशे'ति।। दशसंख्याका उक्त्तास्तारसां तत्व तात्पर्यरूपमस्ति तदुक्त- लक्षणं महाभारतं भारतोर्जुनस्तदर्थ निरूपितत्व्रान्महतो मोक्ष- रूपार्थस्य प्रतिपादकत्वाच्च महाभारतं शृणु श्रोतव्यं त्व. येति शेष: ॥ १ ॥ ननु शतसहस्त्रमंख्ये भारते गीतैव श्रीतव्या चेद्भारतकर्त्रा व्यासेनेतिहामैः कुतो विस्तार: कृत इंत्याशख्ाह। भारते व्यासमुनिना कथानां विस्तर: कृतः। कथामात्रमिदं विश्वमिति तेन प्रकाशितम् ॥ २॥। भारत इति। भारते भारतनाम्नि ग्रन्थे व्यासमुनिना व्या- सनाम्ना विवेकिना कथानां कथनीयार्थानां विस्तरो विस्ता- रेण वर्णनं कृत उक्तस्तेन कथाविस्तारेण कृतेनेदं सर्वेषां प्रत्यक्षं विश्वं जगत्कथामात्रं कथा कथन वाक्तन्मात्रं 'वाचारम्भ- यां विकारो नामधेयं मृत्तिकेत्येव सत्यमि'ति श्रुतेरित्येवं पका- शित सर्वेषामनुभवगोचरं कृतं सर्वस्य भारस्यानेकराजमुनीति- हामनिरूपकत्वादनेकेर्पा राजमुन्यादीनां तत्र तव वर्णनीयार्था- श्रितानामिदानीं दृग्वििषयत्वाभावाच्च तेषां कथनमात्रत्वेन ज. गतोपि तल्लक्षणवत्वाद्वाआ्मात्रत्वं निश्चित्य मुमुक्षुभिस्तत्रादरं प- रिसज्य गीताश्रवण एवादरः कर्त्तव्य इतीममर्थ बोधयितुं कथा- विस्तारः कृत इति भावः॥२ ॥ किश्च भारतान्ते रचितेन शान्तिपर्वाख्यप्रकरणेनापीद- मेव सूचितमित्याह। समाप्ते भारते ग्रन्थे शान्तिपर्व निरूपितम्। तदुक्तं सर्वशास्त्राणां शान्तौ परिसमापनम् ॥३॥
Page 435
मुनीम्द्रदिन० पुराणश्र० भारतश्रवणनिर्णयः। ४११
समाप्त इति। भारते भारतनाम्नि ग्रन्थे समाप्ते ग्रथ्यते शास्त्रार्थोडनेनेति ग्रन्थः शास्त्रं तस्मिन समाप्त्युपसन्ने सति व्या- समुनिना शान्तिपर्वारयं प्रकरणं निरूपितं तत्तेन शान्तिपर्वर- चनेन सर्वशास्त्राणां मर्वेषां ममस्तानां शास्त्राणामुपदेशकग्रन्थाना शान्तौ वासनालयात्मनि मोक्षे परिसमापनं वात्पर्यपर्यवसान- मुक्तं कथितं। 'सर्व कर्माखिलं पार्थ ज्ञाने परिसमाव्यत'इति स्मृतेः, अतो भारतविस्तारश्रवय आदरं परित्यज्य शान्तिसाधनज्ञान- पतिपादकगीताश्रवण एवादरो विधेय इति भावः।। ३ ।। ननु भारते तत्र तत्र वर्णधर्मा आश्रमधर्मा राजधर्मादय- श्रोक्ता हृश्पन्ते तत्कथं तच्छूवणं परित्यञ्य गीतैव श्रोतव्ये- स्पभिधीयते तत्राह। नानाख्यानैर्महारन्या मोक्षधर्मा निरूपिताः । तदुक्तं सर्वधर्माणां मोक्षधर्मा परा मताः ॥४॥ इति श्रीन० बोंध०मु० पु०.भारतश्रवणनिर्यायः प्रथमः।१।। नानेति । मोक्षधर्मा मुक्तिसाधनभूना धर्मा, निष्काम- धर्मा भारते तत्र तत्र व्यासेन नानाख्यानैरनकरििह।सै- र्महारम्या अतिरमणीया निरूपिताः कथितास्तत्तेन मोक्षधर्म- विस्तारनिरूपयोन सर्वधर्माणां समस्तानां धर्माणा मध्ये मोंक्ष- धर्मा मुक्तिसाधनभूता धर्माः पराः श्रेद्ठा ममेत्यध्याहाये मम धर्मनिरूपणकर्तुर्मता निश्चिना इत्येवमुक्तं कथितं व्या- सेनेति शेयम, अतो मोक्षधर्मपतिपादकलादप गीतैवः श्रोतव्या नान्यत्र भारतश्रवण आदर: कर्तव्य इति भावः ।। ४ ॥ इति श्रीनरहरिशिष्यद्विवाकरविरचित्तायां योधसारार्थदीपह मुनीन्द्रदिनचर्यार्थप्रकाशे पुरायाश्रवणनिर्णयार्थप्रकाशा- वतागंतो भारतथवणनिर्णयार्थप्रकाय: प्रथम्ः।१॥।
Page 436
४१२ बोधसारे।
अथ भागवतश्रणनिर्णयः। एवं भारतश्रवणनिर्रायमभिधायेदानीं मुनीन्द्राणां भाग- वतश्रवणं निर्णेतुं भागवतश्रवणनिर्णयाख्यं पञ्चश्लोकं पकर- णमारभमाण आह। अथ भागवतश्रवणनिर्णयः । अथेति। अथ भारतश्रवणनिर्णयनिरूपणानन्तर भागवतश्रवसनिर्णयो भागवतस्य ब्रह्मये भगवता पोक्त- स्य पतिपादकत्वाद्वागवताभिघस्य शास्त्रस्य 'तेन भोक्त'मि- अणू, यद्वा भगवत इद भागवतं 'तस्येद'मियण् भगवत्स्वरूपनि- रूपकत्वा्दगवत्सम्बन्धिशास्त्रस्य श्रवणं कर्तव्यतया विहितं तस्य निर्णयो विचार: क्रियत इति शेषः, तत्र तावदशमः श्रोतव्य- तया प्रधान: श्रीभागवतमाहात्म्य उक्तस्तत्रापि रासपञ्चाध्या- थ्या: माधान्यमतस्तत्र गोपीभि: सह भगवतः क्रीडा निरूपिता तस्यास्तात्पर्यमाह। वृत्तिगोपीजनैः क्रीडन्ब्रह्मचर्य न मुञ्चति। यत्रान्तरात्मा गोपालस्त्भागवतमुत्तमम् ॥ १॥ षृत्तिगोपीजनैरिति। यत्र भागवते भगवत्मतिपादिते ज्ञा- नशासत्रे वृत्तिगोपीजनैर्र्टत्तयोऽन्त:करणत्तयस्ता एवं गो- पस्य सर्वेन्द्रियपालकस्याहङ्कारस्य स्त्रियस्तासां वत्तिगोपीनां ज- नाः समूहास्तैः सह क्रीडन्यमाण: सन्नपि अन्तरात्मा सर्वभू- तभौतिकप्रकाशत्वेन सर्वान्तर्यामिरूप आत्मा ब्रह्माभिन्नः प- त्यगात्मा गोपालो गा बुद्धिदृटत्तीः पालयतीति स्वसच्चित्सु- खदानेन रक्षतीति गोपालः साधिष्ठानबुद्धिस्थचिदाभासो त्र- साभिन्नमत्यगात्माभिन्नशचिदाभास इत्यर्थ:, 'नान्योतोस्ति द्रष्टे'- सादिश्रुते :-
Page 437
मुनीन्द्रदिन० पुराण० भागवतश्रवणनिर्णयः । ४१३
'क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेपु भारने'त्यादिम्मृतेश्र, अन्तरात्मैव गोपालो नान्य इति भानः, व्रह्मचर्य ब्रह्मणि तत्प- दलक्ष्ये जगत्कारणेडभिन्नत्वेन चरितुं स्थातुं शीललं न मु- श्चति न सजति व्यवहारसमपे सर्वान्तःकरणतत्तिमम्बद्धोपि परमार्थतस्तदस्पृष्टो ब्रह्माभिन्नः प्रत्यगात्मैत्र चिदाभामः सम- ष्टिव्यष्टिरूपः सिद्धान्तित इति भावः, तदुक्तलक्षणार्थप्रधानगेव भागवतं भगवता ब्रह्मण उक्तं ज्ञानशास्त्रं उत्तममुद्गतं नितत्तं तपो यस्मात्तत्तथोक्तं ज्ञेयमतस्तदेव श्रोतव्यतया विहितं ज्ञानि- नामिति भाव, लौकककार्थस्तावद् यत्र भगवद्गुणवर्णनप्रधाने शास्त्नेडन्तरात्मा सर्वान्तर्यामी परमात्मैव गोपालो भूत्वा वृत्ति- गोपीजनैः सर्वे गृहकृत्यं परित्यज्य रासक्रीडायां वृत्ताः प्रवृत्ता अतो वृत्तयश्च ता गोप्यो गोपस्त्रियस्तासां जनाः समूहास्तैः सह क्रीडव्रममाणः सन्नपि ब्रह्मचर्य ब्रह्मचारिधर्म जितेन्द्रियत्वामे त्यर्थ:, न मुञ्चति न त्यजति तदुक्तार्थपधानं भागवतं भगतद्गु- णवर्णनप्रधानं शास्त्रमुत्तमं श्रेष्ठं ज्ञेयं नान्यद्देवीभागवतादिकमि- ति भावः ॥ १ ॥ एवं रासकरी डातात्पर्यमुत्कका पूतनावधनिरूपणातात्पर्यमाह। बालानां भक्षिका भीमा पतना दुष्टवासना।- कृष्णेन रुधिरं पीत्वा प्रापिता सापि तत्पदम् ।।२।। बालानामिति। तत्रादौ मुनिग्राह्योर्थों निरुष्यते बालानामज्ञात- तश्वानामविवेकिनामित्यर्थः, भक्षिका भक्षयाकर्त्री भीमा तेपामेव भयजनयित्री पूतना पू्त पवित्रं रागादिहीनमन्तःकरणं नाशयति रागादिभिर्मलिनीक रोतीति पूनना 'अन्येष्वप दृश्यते' इति नशे- रड़ो डित्वाट्टिलोप:, एतादृशी दुष्टवासना दुष्टा विषयैर्मलिनां वासना मूक्ष्मा विपयेच्छासंस्काररृपा वृत्तिरस्ति या सापि
Page 438
४१४ बोधसारे।
उक्तमलैरयन्तं मोक्षायोग्यापि कूष्णेन ब्रह्माभिन्नेन सुखस्वरूपेण चिदात्मना तदभिन्नध्वानुसन्धानवता चिदाभासेनेत्यर्थः, तदुक्तं 'कृषिर्भूनाचकः शब्दो णश्च निर्टतिव्राचकः। सयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत' ॥ इति। रुचिरं तस्या आवरणं स्वस्मिन्यत्तत्पीता प्राश्य स्वस्मि-
अमात्मरूपं पदं स्वरूप प्रापिता तत्स्वरूपलन संपादिता म- सगात्मन: पृगसत्वात्तस्या: सा त न्मात्रत्वेनावलोकिता, लौ- किकार्थस्तु दुष्टवासना दुष्टा वालघातविषया वासनेच्छा यस्या: सा तथोक्ताडत एव वालानामर्भकाणां भक्षिका भक्षणकत्री भीमा भयङ्कुरा पूतना पूतनानाम्नी राक्षसी तस्या रुधिरमसकपीत्वा माश्य कृष्णेन गोपालेन सापि एतादृशीदुष्टापि तत्पदं तत्कृष्णा- ख्यं पदं स्वरूप पापिता स्वस्मिल्लीना कृतेत्यर्थ ॥२॥ कालियदमनस्यापि तात्पर्यमाह। अबलानां स्वनाथानाममृतत्वाय विष्णुना। ताडितः कालसर्पोपि सर्वमानन्दितं जगत ॥३॥
अबलानामिति। अबलानां नास्ति सामर्थ्य कस्मिन्नपि कार्ये वतो येषा ते तथोक्तास्तेषामत एव स्वनाथानां स्वयमात्मैव नाथ: स्वामी पालको येषा ते तथोक्तास्तेषां स्वसच्चित्सुखदानेन पालितानां चिदाभासानामिसर्थः, अमृतत्वायाSमृतत्वं मोक्षस्त- दर्थममृतत्व्रं प्रापयितुमियर्थः, विष्णुना सामान्यरूपेण व्यापकेन प्रत्यगात्मना कालसर्पोपि कलयति क्षोभयति जगदिति काल सर्पति गच्छात सर्वत्रेति कालसर्पो गुशक्षोभकत्वेन मृत्युरूपेण च सर्वत्र विद्यमानत्वाद स ताहृशरूपोपि ताडितो दण्डितः सम्मा-
Page 439
मुनीन्द्र दिन० पुराण० भागवतश्रवणनिर्णयः । ४१५
त्पृथगसत्वबुद्ध्या बाधित इसर्थः, यदा तदेसव्याहार्य, तदा सर्व समस्तं जगद्विश्वं देहायहङ्कारान्तमातरं वहिश्चेश्वरपर्यन्तमान- न्दितमानन्दः सुखं सञ्जातोऽस्य तदानन्दितं सुखितमित्यर्थः, 'त- दस्य सख्जातंतारकादिभ्य इतजि'तीतज्,आत्मज्ञानेनात्मनो मृत्योः पृथगसत्वे निश्चिते सति परमानन्दो जीवानां स्यादिति कालि- यदमनतात्पिर्य ज्ञेयमिति भावः, लौकिकार्थस्तु अबलानां निर्ब- लानां स्वयं कृष्ण एव नाथ: स्व्रामी येपां तेषां वत्सगोगोपा- लानाममृतत्वाय मरयानिवृत्तये विष्णुना श्रीकृष्णेन कालस- र्ोपि काल: श्यामः सर्पो भुजङ्गोपि कालियनामा सर्प इत्यर्थः, ताडितो दण्डिनो यदा तदा सर्व यमुनाजलजीवि जगत्माणिजा- तमानन्दितं सुखितम ॥ ३॥। अघासुरवधतात्पर्यमाह। ब्राह्मणा इव ता गावस्तीरस्था वन्यवृत्तयः मोहाजगरनिर्गीर्णा गोविन्देन समुडृताः ॥४॥ ब्राह्मणा इति। यथा ब्राह्मणा ब्रह्मविदस्तीरस्था: पप- श्वनदीपारतटं निर्विकारस्वरूपं तत्र स्थितो वन्यवृत्तयो वन्यं सम्भजनीयं जीवव्रह्मैक्यं तदाकारा वृत्तयोऽहंब्रह्मास्मीसेवं रूपा येषां ते तथोक्तास्ते कदाचचिन्मोहाजगरनिर्गीर्णा मोहो जीवत्रह्मैक्याज्ञानं मूलाज्ञानं तेन निर्गीर्णा गिलिता यदा भ- वन्ति तदा गोविन्देन स्वासङ्गसचच्चिदानन्ददात्रा मत्यगात्मना समुद्ृता मोहाजगरोदरात्पुनर्निष्कास्य जीवव्रह्मैक्यनिश्चये स्थापिता भवन्ति तद्त्ता ब्रह्मवित्सम्बन्धिन्यो गावो वृत्तयो वन्यं सेव्यं ब्रह्मसुखं तत्र वृत्ति: प्रवृत्तिर्यारसा ता मोहाजगरनि- ्गीर्णा मोहोडज्ञानं स एन सर्वजगद्गसनशीलत्वादजगरो महा- सर्पस्तेन निर्गीर्णा आवृता यदि भवन्ति तर्हि गोविन्देन बुद्धेः
Page 440
४१६ बोधसारे।
स्व्रामङ्गसच्चित्सुखत्वदात्रा प्रत्यगात्मना समुद्धता मोहसर्पोद- रान्निष्काश्य स्वस्मिन्स्थिरीकृताः भवन्तीत्यघासुरवघतात्पर्य ज्ञेयं, लौकिकार्थस्तु यथा ब्राह्मणा ब्रह्मजिज्ञासवस्तपस्विन- स्तीरस्था गङ्गादितटस्था वन्यवृत्तयो वने भवं वन्यं कन्दमू- लादिक वृत्तिर्जीविका येषां ते तथोक्ता मोहाजगरनिगीरणा मोहोज्ञानं तदेवाजगरो महासर्पस्तेन निर्गीर्णा गिलिता ते गो- विन्देन तेषां बुद्धिमां्षणा मत्यगात्मना समुद्धता मोहान्नि- ष्कास्य स्वानुसन्धाने स्थापिता भवन्ति तथा ता ब्रजस्था गावो धेनवस्तीरस्था तीरं यमुनातटं तत्र स्था वन्यवृतयो वने भवं वन्यं तृणपर्णादिक वृत्तिर्जीविका यासां तास्तथोक्ता मोहव- द्वहुग्रासेनाजगरसर्पेणाघासुरेय निर्गीर्णा गिलितास्ते गोविन्देन गोपालेन समुद्धृतास्तदुदरान्निष्काश्य जीवायितेत्यर्थः ॥४॥ कंसवधतात्पर्यमाह। स मूर्त्तिमानहङ्कारः कंसो नाम महाबलः । स्वयमुत्पत्य कृष्णेन धृत्वासौ विनिपातित: ॥।५।। स इति। यः प्रसिद्धो भागवते कंसो नाम कंसनाम्ना वर्णितो महावलो महज्ज्ञानं विनान्यसाधनैरनिवार्य बलं सामर्थ्य यस्य स तथोक्त स कं सुखं स्पति खण्डयतीति व्युत्पत्या मूर्ति- मानाकारवानहङ्कार एव ज्ञेयोऽसावहङ्गार: त्मनैव कृष्णेन व्रह्माभिन्नेन परमानन्दरूपेणोत्पत्याहङ्कारादुड्डी- स्वयमा-
याखण्डसच्चिदानन्दरूपो भूत्वा धृत्वा स्वात्मनि कल्पितनिश्च- येन सन्धार्य विनिपातितो मारितो बाधित इत्यर्थः। लौकिका- र्थस्तु यो भागवते प्रसिद्धः कंसो नाम कंसनाम्ना प्रसिद्धो म- हाबलो महत्सहस्त्रगजानां बलं सामर्थ्य यस्य स तथोक्तः स कंसो मूर्तिमान्साकारोडहङ्कार एव ज्ेय:, स कृष्णेन वासुदे-
Page 441
मुनीन्द्रदिन० पु० रामायणधवणनिर्णयः । ४१७
बन हाय स्वत एनोत्फयोड्डीयाडसी कंमौ धृत्या केशेषु संगृत विनिपातितो मारित एनगन्यलीलानामपि तात्पर्यमुन्नयम ।।५।। इति श्रीनरहरिशिष्यव्याकर विराचितायां बोधसारार्थदीप्ती मु -र नीनद्रदिनचरयार्थप्रकाशे पुराणश्रवणनिर्णयार्थप्रकाशान्त गंतो भागतनथवणनिर्णयार्थप्रकाशो द्वितीयः ॥२॥
अध रामायणश्रतणनिर्णयः । एवं भागपतश्रवगा निर्णीयेदानी रामाययाश्रवणं निर्णेतुं रामा- यणश्रवणनिर्गायारूयं पञ्चश्ोकं प्रकरगामभिदभान आह। अथ रामायणश्रवणनिर्णयः । प्रथेति। अथभागनतक्षवर्णानर्णयानन्तरं रामायगाश्रत्ण निर्गायो रामायगास्य रामचरितस्य श्रवण तस्य निणयो वि- चार: क्रियत इति शेषः, आत्मनोन्यस्प सर्वस्य जडत्वे चिदा भासानामपि तथात्त्रावैशिष्ठ्य।'त्तदेतज्जडं मोहात्मक मायामात्र- मितति श्रुतेश्रिदाभासानामपि जडलेन देहादिजगतः पकाशक- त्वासम्भवादात्मनस्त्वसङ्गत्वेन देहादिपकाशकत्वायोगाच्च कर्थ प्रकाशकं विना प्रकाश्यनिर्वाह इति शङ्कापनोदायाहिल्योद्धा- रलीला कृनेति दोतनाय तत्रादौ अहिल्योद्धरगातात्पर्यमाह। आभासरेणुभिस्तद्वजडं देहादि चेतति। अहिल्यापि शिला यद्द्रामस्य पदपांसुभिः ॥१॥ आभास्ेति। यद्ूय्यथा रामस्य दाशरथेः पदपांसुभि: पद- योरह्षग्रो: पांसुभिर्धूलीकणैः शिलाप गौतमशापेन शिली- भृतापि अहिल्याऽहिल्यानाम्नी गौतमस्त्री चेतिता चेतनीकृता तद्वत्तथा रामस्येति पुनर्योज्यं रमस्य रगन्ते योगिनोस्मिन्निति रामोऽधिकरणे घञ्् योगिनां हृदि वा रमतेडसी रामः सुख- ५३
Page 442
४१८ बोधसारे।
स्वरूप आत्मेत्यर्थः, तस्याभासरेणुभिर-ईपद्भासन्ते पकाश- न्त इसाभामाश्रिदाभामा इत्यर्थः, ते एत रेणव इव वा- युरूपापाधिनाकाशपसरणोपलक्षिता इन हृदयाकाशप्रसरण- शीलत्वाद्धलीकणास्तैरात्मनोन्यस्य सर्वस्य जडत्वनिर्णयादे- हादि सर्व जडं स्वतोऽपकाशरूप जडैरप्याभामिश्चेतति सवस- विषयं पकाशययति एवं संभाव्यमिति भावः ।। १ ॥। एवमहिल्योद्वरणतात्पर्यमुक्का हनूमत्कृतसमुद्रोल्लङ्गनता- त्पर्यमाह। वानरो यत्प्रमादेन संतीर्ण: क्षारसागरम् । नरः किं तत्प्रसादेन न तरेद्द्वसागरम् ॥ २ ॥ वानर इति यत्पसादेन यस्य रामस्य प्रसादो दया तेन कृत्वा वानगे वा विकल्पेन नरोडर्घमृगार्धनराकार इसर्थ:, स हनूमान्- क्षारसागरं क्षारजनपूर्ण सगग्पुत्रैश्च संतधित ममुद्र संतीरण: सम्यक्तीत्वा परतीर गतस्तनेदं सूचितं नरो न राति आदत्ते सयत्नवुद्ध्या विषयानिति नरो वैराग्यादिमाधनसम्पन्नशचि दाभामो वेदान्तश्रवगाद्यधिकारी जीव इत्यर्थ:, स तत्मसादेन तस्य गमप्पात्मन इत्पर्थः, प्रमादः 'मर्वे खल्विदं ब्रह्मे'ति श्रु- निदृष्ट्या सर्वशब्दवाच्यद्वैतवाधेन सर्वस्य ब्रह्मत्वे सिद्धे रामेपि गत्यग।त्मनि तद्र्ह्मत्वं पूर्वमेव ससिद्धमिति निश्चय एव प्रमाद- स्तन कृत्वा भवमागरं संसारममुद्रं न तरेदिक किन्तु तरेदेवे- सेवं सम्भावनाजननाय हनूमत्कुनसमुद्रोल्लङ्गनं निरूपितममिति भान: ॥2॥ एव हनूमत्कृतममुद्रोल्लङ्टनतात्पर्यमुक्त्वा सेतुनैतर समुद्रत- ग्णनात्पर्थमाइ।
Page 443
मुनीन्ददिन• पु० रामायणश्रवणनिर्णयः ।
प्राह रामस्तरन्सिन्धुं शिलारूपेण सेतुना। संसारसिन्धुतरणं निर्विकल्पसमाधिना ॥ ३ ॥। पाहेतिरामो दाशरथि: शिलारूपेण शिला: पाषाण एव रूपमाकारो यम्य म तथोक्तस्तन मेतुना वारयन्धेन सिन्धुं ममुद्रं तग्ललँद्गमानः सन्माहोक्तवान् किमुक्तवांस्तदाह संमारेंत, संसारमिन्धुतरणं संमारो भवः स एन iसन्धुः समु- द्रस्तम्य तरगामुत्तारो निर्विकल्पसपाधिना गिर्गता निवृनाः विपरीता निविधाश्च कल्पाः कलना यत्र स नथाभूतः समा- षिरसंपज्ञातनामा, तेन भवेत्स्यादिति ज्ेयम्॥३॥ सीतानयनरानणवधरामायगानां तात्पर्यमाहू। शान्तिसीता समानीता निहतो मोहरावणः । आत्मारामेण समेण तद्रामायणमुत्तमम् ॥ ४॥ शान्ति सीतेति। शान्तिर्निर्वासना ब्रह्मसुखानुभूतिरूप।- न्तःकरणवृांत्तरेव सीता सीतगति तापत्रयनिवृर्ति करोतीत सीता तालव्यादिर्दन्त्यंदशागं शब्द: समानीनाडङ्गीकृता र- मणेति शेष:, तथा तेगैक मोहराक्णो मोहो मूलज्ञानं, जीवब्रह्मं- क्यास्फुरणरूपं स एव राबगो दशेन्द्रियदशमुखो निहतो मा- रित आत्माशमणात्मन्येवासेगमाचिदानन्दरूप आग्मन आ- क्रीडत इत्यात्मारामस्तेन रामेण 'अत्मक्रड आत्मरतति'रिति श्रृत्युकलकष्षणो सामो रमन्ते यामिनो गम्मिव्षित गमो गोगिना च हांद रमने स रामो ब्रह्मतिद्गसैत भवतीति श्रुतेज्ञीननिनो व्र
र्वयोगियुद्धहृदपारामत्वाज्ज्ञानिरामेण मोहरानगां विनाइग शा- नगार्यसीतानयनं यत्रंमिहितं तव्तादशार्थवद्ेव रामायर्ण सर्व-
Page 444
४२० बोघसार।
योग्पारामभूनस्य ब्रह्मात्मनोऽयनं पापकं मागभूतमित्यर्थः, उत्तमं श्रेष्ठं ज्ञेय नान्यल्लौकिकार्थवद्रामायणं श्रेषठमित्यर्थः ॥४॥ एवं रामायणाभिपायमुक्त्वा तमेवार्थ सम्भावयितुं राम- शब्दार्थ स्पष्टमाह। रमन्ते योगिनो यस्मिन्नमते योगिनां त्ददि। तारकं ब्रह्म रामाख्पं रमतां हृदये सम ॥ ५ ॥ इतिश्ीन०बो०मु०पु० रामायणश्रवणनिर्णयः॥३॥ रमन्त इति। योगिनो जीवव्रहैक्यज्ञानवन्तो योगाभ्यासव- न्तश्च यस्मिन ब्रह्मणि रमन्ते क्रीडन्ति तदेव योगिनां जीवम्र- ह्मैक्यज्ञानिनां हृदि चेतमि सर्वदा रमते क्रीडति समाधिमता च समाधिसमये रमते क्रीडति तत्तारकं ब्रह्म तारक: प्रगावस्त- तद्वाच्यं देशकालवस्तुकृतपरिच्छेदशून्यमात्मवस्तु रामारूयं म- त्यगभिन्नं ब्रह्मोक्तार्थवत्वेन राम इत्याख्या यस्य तत्तथोक्तं ज्ञेयं तन्मम मे ब्रह्मात्मन इत्यर्थः, हृदयेऽन्तः करणे रमतां क्रीडतु इति प्रार्थना। ५ ॥ इति थीनरहरिश्िष्यदिवाकरविरचितायां बोधसाराथ० मुनी- न्द्दिनचर्यार्थ प्रकाशे पुराणश्वशानिर्णयार्थप्रका शा्तर्गतो रामायणश्रवणनिर्णयार्थप्र- काशस्तृतीय: ॥३॥
प्रकरणमारभमाण आह। अथाष्टादशविद्यास्थाननिर्णयः । अथेति। अथ रामायणश्तणनर्णयानन्तरमष्ादशविद्या
Page 445
मुनीन्द्रदिन० अष्टादशविद्यास्थानेषु पुराणनिर्णयः। ४०२
स्थाननिर्णपोऽषच दश चाष्टादश यानि विद्यास्थानाननि ज्ञा- नाश्रयभूतंन शास्त्राणि तेपां निर्णयोविचार क्रियन इनि शेष:, तत्र तावत्पथमं निरूपगिष्यमाणाष्टादशविद्यास्थानज्ञापिकां या झ्नल्क्यस्मृ्ति निरुपगितुमाह। तदुक्तं याज्ञबल्क्यसमृतौ। तदिति। तद्वियास्थानानामष्टादशत्वं यवल्क्यस्मृन्त याज्ञ ल्कयस्य समृत्याख्ये वाक्य उक्तं कथितं, तामेव स्मृतिमुदाहरांत। पुराणन्यायमीमांसाधर्मशास्त्राङ्गामश्रताः । वेदा: स्थानानि विद्यानां धर्मस्य च चदुर्दश ।१। पुगणोंन। पुराणन्यायमीमांसाधमंशास्त्राङ्गमिश्रिता: पुग- यानि भागवतादीनि, न्यायो न्यायशास्त्र गौतमप्रणीतं, मीमांसा कर्मकाण्डार्थनिर्णायको जैमिन्यादिरचितो ग्रन्थकदम्यः, धर्मशाखत्रं मन्वांदभिः संग्राहितो धर्मनिंगार्यिक: स्मृनिवाक्यकदम्बः, अ-
रितनिरपकाणि पञ्चलक्षणानि, न्यायः पोडशपदार्थविनेचको ग्रन्थः, पनैर्मिशचिता: युक्ता वेदाश्वत्वारोडपीरुपेयचाक्यकदम्व- रूपा: स्वतः प्रगागाभूता ऋग्यजुःसामाथर्वाखया:, एवं चतुर्दश चत्वारश्च देश च चतुर्दशसंख्यानि विद्यानां ज्ञानानां धर्मस्य च धर्मस्यापि स्थानाननिं आधारभूतानि मन्दिराणीत्यर्थः, स्ेया- नीति शेष: ॥ १ । आयुर्वेदों धनुवेदी गान्धर्य चाथशास्त्राकमिनि ॥ २ ॥ तथाऽडयुर्वेद: आयुषा ज्ञानमाधनं चिकित्माशस्र, धनु-
Page 446
४२२ बाभसारे।
वेंदो धनुपोपलक्षिनसर्वशस्तर स्रमयोगज्ञानसाधनं शासत्रं, गान्वर्व ग/नज्ञानसाधनं शास्त्ूप। अर्थशास्त्रकं चार्डर्थाना द्रव्यादीनां पा- प्रिज्ञानसाधनं शास्त्र नीत्याख्यमेवं चत्वारि, पूर्वचतुर्दशभिः सहिनान्येतान चत्वारि मिांलत्वाष्टादश भवन्तीति हयांन।२।। "अथ पुराणनिर्णयः। एमष्टादश विद्यास्थानान्यभिधायेदानीं तनि क्रमेण निर्गोतुं प्रथमं पुराणनिर्गायारयं द्विश्लोकं प्रकरणमभिदधान आह। तत्र प्रथमं घुराणनिर्णयः। तगोति। तत्र निरुपयिष्यमाणेषु अष्टादशविद्यास्थानेषु मथममादौ पुरामा निर्गाय: पुसगनां भागवतादीनां निर्रायो विचारः क्रियत इति शेष:, तमेवाह। न घना प्रीतिरुत्पन्ना पुराणपुरुषे यदि तदाष्टादाशभदेन पुराणश्रवणेन किम् ॥ १ ॥ नेनि यदि याहि पुराणपुरुषे जर्गांदविकारहीनः सर्व- जगतः पाक्कालीनः पुरुषः परिपूर्णो ब्रह्माभिन्नः मत्यग:त्मा तांस्मनूघना निविडा म्रींतः प्रेमा नोत्पन्ना न जाता चेत्तवा तरहि अदशमेदेन अष्ट दशसङ्गयाभेदभिन्नेन पुरागाश्रवणेन पुराणानां भागवतादीनां श्रवणेन कृतेनापि किं फलं न किमपीत्यर्थः, पुगणश्रवणं तत्मतिषाद्याखण्डैकरसे ब्रक्माभिन्ने पत्यगात्गान प्रेमोन्पदानार्थ तदभावे ईश्वर वाऽतस्तदभावे पुराणश्रतणं कृनमपि निष्फलप्रयास एवेति भाव: ।।१।। पुरांणश्रचणशब्दार्थपतिपादनेनापि तमेवार्थ द्रदयति। पुराणोपि न जीणों यः स पुराणस्तु न श्रुतः।
Page 447
मुनीन्ददिन० अष्टादश• न्यायशास्त्रनिणयः । ४२३
कायः पुराणतां प्राप्तः पुराणश्रतणेन किम ॥ २ ॥ इनि० यो० मुनी० अष्टादश० पुराणनिर्णयः प्रथमः ॥१। पुरागोपीति। यः पुराणेषु प्रतिपादिनः पुगणोपि स- र्वजगत्कारणत्वेन जगतः माक्कालीनोपि न जीर्गो जरादिनि- करैन निकृत: स तु पुरागो लौकिकपुर गाविलक्षणो न श्रुतः पुरागाश्रवणन वृत्तिगोचरीकृतः, किश्र पुराणश्रवणं कुर्वनस्तन कायः शरीरं पुराणनां जीणतां प्राप्ती यातस्तर्हि पुरागाश्रव- नेनाष्टादशभेदभिन्नपुराणानां श्रवणेन कृतेन किं फलं सम्पा- दतं न ककिमपि मम्पादितमिसर्थः ॥२॥ इननि श्रीनरहरिशषिष्यदिवाकरव्रिरचित्तारयां बोधसारारथदीप्ी मुनीन्द्रदिन चर्यार्थप्रकाशऽष्टाव शवद्यास्थानननर्णयार्थ प्रकाशान्तगंतः पुराणानर्णयार्थप्रकाशः प्रथम: ॥। १ ॥
अथ न्यायशास्त्रनिरणयः । एवं पुराणनिर्णयमभिधायेदानीं क्मपाप न्यायशास्त्र नि- रणेनुं न्यायशास्त्रनिर्णयाखयं पश्चक्षोकं प्रकरगामभिदधान आह। अथ न्यायशास्त्रनिर्णयः । अथेनि। अथ पुराणनिर्णयानन्तर न्यायशारखत्रांनगायो न्यायशासत्रम्य मुनिविहितस्य निर्गायो विचारः क्रियन इंत शेषस्तमेत्र वेदान्तानुकूलं न्यायं लक्षयांत। यदात्मतत्त्वे बिमले विश्रान्तिरचला भंवत । स एव न्याय इत्युक्त: शेषं त्वन्यायलक्षणम् ॥१॥
Page 448
४२४ बोबसारे।
यदितनि। यद्येन या विवेकिनां प्रत्यक्षा विमले निर्मले मायाSनिद्यादिमलरहित इसर्थः, आत्मतत्व आत्मस्त्ररूपे त- त्वेडनारोपिते वम्तुनीत्पर्थः, अचला स्थिरा विश्रान्तिर्विश्राम- रूपा वृत्तिभवेत्स्यात् स एवात्मविश्रान्तिसाधनभूत एव न्याय इत्युक्तो न्यायनाम्ना कथितो विद्रद्विरिति शेष:, शेष तु तव्ञ-
न्यायस्यापराधस्य लक्षणं चिन्हं जेयमतस्तन्मुक्षुभिर्नाङ्गीकार्य- मिनि भावः ।। १॥
यशःखस्य कथमन्यायत्वमियाशक्कोक्तन्यायविदा तत्पोडशपदा- थंचिन्तनमनिष्टमेव केनलात्मविश्रान्तिरवेष्टेसन्यायत्वं तस्येत्या- शयेनाह। अचिन्तन पदार्थानां न्यायं न्यायविदो विदु:। अन्यायमार्गरसिकः स कथ न्यायशास्त्रवित् ॥२।। अचिन्तनमिति। न्यायविद उक्तन्यायविदो वेदान्तानुकू- लन्यायनेत्तार इसर्थः, पदार्थानां नामरूपमात्राणां पोड़शपदा-
नीतिं विदुर्जानीयुः, ननु तहिं षोडशपदार्थविवेचन प्रधानन्या- यशास्त्राभ्यासिनामेव न्यायशास्त्रवेत्तृत्वं कुत उच्यते लोक इसा- शद्घाह अन्यायेोत, स षोडशपदार्थीवनेचकन्यायशास्त्राभ्या-
वाच्ान्यायस्यापराधस्य मार्ग: माप्तिसाधनभूतः षोडशप- दार्थवितेकस्तत्र रमिको रसज्ञोतः करथं न्यायशास्त्रविन्न्या- योपदेशकग्रंथज्ञः कर्थ केन प्रकारेण भवति नैव से न्यायशा- खनेतत्यर्थ: ॥ २॥
Page 449
मुनीन्द्रदिन० अष्टादश० न्यायशास्त्रनिर्णयः । ४२५
किश्च ते्षा विरुद्धमापित्वादपि तेपां मतं मुमुक्षुभिर्नैव मन्तव्यमित्याह। स्वयं यत्तार्किक: प्राह तर्कोडनिष्टप्रसञ्जनम् । तत्तार्किकस्य तर्केण कथमिष्टं प्रसज्ज्यते। स्वयमिति।यद्यतः कारणात्तार्किकस्तर्के वेत्ति स तार्किको गौतमः स्वयं तर्कशास्त्रपणेतापि तर्कोडनिष्टपसञ्जनम'अनिष्टपस- ञ्जनलक्षणत्रान्तर्क' इति तर्कलक्षणप्रत्तिपादकं मूत्रं प्राह कथि- तवान्तत्ततः कारणात्तार्किकस्येदांनीतनतर्काभ्यासवतः कृतेन तर्केणानुगानेन श्रुतिविरुद्धनर्केणेत्यर्थः, इषं सुमुक्षूणां मोक्षाखूयं प्रियं सुखममित्यर्थः, कर्थ केन प्रकारेगा प्रमज्यते मसक्तं भवति न कथमपीत्यर्थः, अतः श्रुतिविरुद्धं तर्के परित्यज्य श्रुत्यर्थानु- कूलतर्क एवादरो विधेय इति भावः ॥ ३ ॥ ननु श्रुतिनिरुद्धतर्कस्यैव कुतस्साज्यत्वमित्याशख्ानातम- गोचरत्वेन निष्फलश्रमत्वादित्याशयेनाह। न तर्कितं परं ब्रह्म मेधया तीक्ष्णतर्कया। तदा कुतार्किकस्यास्य तर्कककशता वृथा॥४॥ नेति। तार्किकेया तीक्ष्गतर्कया तीक्ष्णोऽज्ञानभेदने ती- व्रस्तर्कोनुमानं यस्या: सा तथोक्ता तया मेधया धारणावत्या बुद्धिव्टत्त्या परं ब्रह्म कार्यकारणातीतं देशकालवस्तुकतपरि- चछ्वेदशून्यमात्मनस्तु तर्कितं न तर्कगोचरंन कृतं यदा तदा ताह अस्य पोडशपदार्थत्रिवेचकस्य लोकपसिद्धनार्किकस्य कुतार्कि- कस्य कुत्सिनस्य तर्काभ्यासिनो वृथा व्यर्थ निष्फलेत्यथः, तर्क- कर्कशना तर्केऽनुमाने कर्कशता कठोरता जेया॥४ ॥ ननु पोडशपदार्थविवेचकस्य तर्कस्य कुतो नैष्फल्यमित्या- ५४
Page 450
४२६ बोधसारे।
षोडशापि पदार्थास्ते त्वया तार्किक तर्किताः । तर्को नवस्थितस्तर्हि तर्कातीते मनः कुरु ॥५॥ इतिश्रीनर० बो० मु० अष्टादश० न्यायशास्त्रनिर्णयः। षोडशेति। हे तार्किक हे तर्कज्ञ त्वया तर्काभिनिवेशवता भवता ते तर्कशास्त्रे प्रतिपादिता: पोडश षोडशसङ्गयाः पदा- र्थास्तच्वानि तर्किना आ्प्रंप तर्कविषयीकृता यद्यपि तथापि त- रकोडनुमानं नावस्थितोऽवस्थिति न प्राप्तो यदि तर्हि तदा तादृशं तर्के परित्यज्य मनश्चित्तं तर्कातीते तर्कागोचर आत्मनि विषये कुरु स्थापय मननतदन्तःकरणं तर्काभ्यासपरित्यागेना- त्मविषयमननेनात्मनि लीनं कुरुष्वेतिमावः ॥५॥। इति श्रीनरहरिशिष्यदिवाकर चिरचितार्यां बोधसारार्थदीपौ मु-
ततर्कशास्त्रार्थनिर्णयार्थप्रकाशो द्वितीयः ॥२॥
अथ वैशेषिकादिनिर्णयः । एवं न्यायशास्त्रनिर्णयमभिधायेदानीं तत्मसङ्गाद्वैशेषिक- साङ्गयपातञ्जलानां निर्णयमभिदधान आह। अथ तर्कप्रसंङ्गन निर्णयः क्रियतेधुना। वैशेषिकस्य सांख्यस्य तथा पातञ्जलस्य च।। १॥ अ्रथेति।अथ न्यायशास्त्रनिर्णयानन्तरं तर्कममङ्गेन तर्कस्य तर्कशास्त्रस्य प्रसङ्गेन मसङ्गादधुनेदानीं वैशेषिकस्य षटू- पदार्थवित्रेचनपरधानस्य शास्त्रस्य, तथा साङ्ग्यस्य सम्यकूख्या- पन्ते प्रकथ्यन्ते तच्वानि प्रकृत्यादीननि अस्मित्निति साङ्ख्यं
Page 451
मुनीन्द्रदिन० अशादश० बेशैविकनिर्णयः । ४२७
तस्य, यद्वा तत्वानां सझ्या पश्चविशतिपर्द्िशत्यष्टाविशत्याद्या- स्तत्प्रतिपादकत्वात्सङ्वयं संङ््या अस्मिन्सन्तीति व्युन्पत्या म- तुवर्थेऽर्श आद्यच् ततः स्वार्थेऽण, तथा पातअलस्य च तद्वत्प- तञ्जलिपोक्तस्य योगशास्त्रस्य निर्णयो विचारः क्रियते निरद- प्यते, एतेपां तर्कस्य चाङ्गाङ्गिच्वात्तर्कपमङ्गादेवन्निर्णयः कथ्यन इति भान: ॥ ९ ॥ तत्रादावष्टश्लोंकं वैशेपिक निर्गायारुग प्रकरण वक्तुकाम आह। तत्र प्रथमं वैशेषिकनिर्णयः । तत्रेति। तत्र प्रतिज्ञातेषु मध्य आ्रादौ प्रथमं वैशेषिकनिर्णयो वैशेषिकस्य विशेषिरूपणदधानस्य शास्त्रस्य निर्णयो विचार: क्रियन इनि शेष:, तत्रादौ सविशेषपदार्थनिरूपण एव कुशलो वैशेपिको न निर्विशेषत्रह्मनिरूपण इत्याह। सविशेषा: पदार्था ये तत्र वैशेषिक: कृती। निर्विशेषं परं ब्रह्म तत्र वैशेषिकस्य किम् ॥१॥ सविशेषा इति। ये संसारे प्रसिद्धाः सविशेषा विशे- पेण नैलस्षण्यन सह वर्त्तमाना: पदार्थाः पदानि नामानि अर्था स्तद्ाच्यानि रृपाणि नत्र तत्रैव तेपु पदार्थेपु वैशेषिको वैशेषिकशास्त्रभिनिवेशनान्कणादाद्यः पुरुपः कृनी कृतकृत्यो भवेदिति शेप:, नान्पत्र ब्रह्मणीत्पर्थः, कुतो ब्रह्मागा वैसेषि- काविषयत्वं तत्राह निर्विशेषमिति, अम्माकं मुत्त्यधिनां, त्विएं परं कार्यकारणत्वधर्मराहनं ब्रह्म देशकालवस्तुकृतपरिच्केदर हिनमात्मनस्तु निर्विशेर्ष निर्गतो निवत्तो विशेषे भेदो यत- स्तत्तथोक्तमस्ति अतस्तत्र तस्मिन्व्रव्मणि विषये वैशेपिकस्य वैशेषिकशास्त्रस्य तज्ज्ञस्य वा किं किङ्कार्ये न किमीप कार्य
Page 452
४२८ बोधसारे।
तत्र तस्पेत्यर्थः ॥ १ ॥ ननु तत्त्रज्ञानं वैशेषिके निरृप्यते मत्रतोपीषटं तत्वज्ञान- मतो वैशेषिकस्य सपयोजनत्वमस्त्वित्याशख्काह। मुक्तं साधर्म्यवैधर्म्यैस्तत्वज्ञानं हि मुक्तये। साधर्म्यवैधर्म्यकृतं तत्त्वज्ञानं न मुक्तये ॥ २ ॥ मुक्तमिति। साधर्म्यवैधम्यैः सह वर्त्तते धर्मैः तत्सधर्म तस्य भावः साधर्म्य विगतो धर्मो यस्मात्तद्रिधर्म तस्य भावो वैध्म्य धर्मरहितत्वं तैर्मुक्तं हीनं तत्वज्ञानं तत्वस्यानारोपि- तस्यात्मतत्वस्य ज्ञानं वेदनं हि मयक्षं तद्विवेकिनां मुक्तये मोक्षाय मुक्तिं पाप्तुं साधनं भवति साधर्म्यवैधर्म्यकृतं सा- धर्म्येण वैधर्म्येण च कृतमुत्पादितं यत्तत्वज्ञानं साधम्यैवैध- मर्यविशिष्टतच्वानां षट्पदार्थानां ज्ञानं वेदनं मुक्तये मोक्षाय न न भवति अतो वैशेषिकमते मुमुक्षुभिरादरो न कर्त्तव्य इति भाव: ।। २ । वैशेपिकमते मुसुक्षुभिरनादरणीयत्वे हेत्वन्तरमाह। श्रुतिः सर्वपदार्थानां विस्मृत्या मुक्तिमाह यत। तर्हिं सर्वपदार्थानां चिन्तनैः किं प्रयोजनम्॥२॥ श्रुतिरिति। यद्यतः कारणाच्ुत्तिर्वेदवाक् सर्वपदा- र्थानां सर्वपदवाच्यानां द्वेतजातवस्तूनां नामरूपाणामित्यर्थः, विस्मृत्याऽननुसन्धानेन मुक्तिं मोक्षमाह वदति तर्हि तदा सर्वपदार्थानामस्माकं श्रुतिमामाण्यानां मुसुक्षूणां सर्वपदवा- च्यद्वैत त्रस्तुजातानां वैशेपिकनिरुपितपदार्थानामियर्थः, चिन्त- नैर्विचारः कि प्रयोजनं किं फलं न किमपीत्यर्थः, अतो वैशे- िकमतस्य मुमुक्षूणां प्रयोजनाभावादनादरणीयत्वमेत्र नि-
Page 453
मुनीन्द्रदिन० अष्टादश० वैशेषिकनिर्णयः । ४२९
श्वितामति भावः ॥ ३ ॥ ननु साधर्म्यवैधम्ययोस्तत्वज्ञानकारगात्व। नत्प्रतिपःदक त्वेन वैशेपिकस्य सप्रयोजनतमस्तिवयाशक्काममदीयनत्वे सा-
कथं साधर्म्यवैधर्म्ये तत्त्वज्ञानस्य कारणम्। न च साधर्म्यवैधर्म्यमद्ये परमात्मनि ॥ ४ ॥ कथमति। साध्म्यवैधम्यें साधर्म्ये सह धर्मधर्मिभाव- वच्तं वैधर्म्ये तद्रहितत्वरं चते उभे तत्वज्ञानम्य मोक्षसाधन- भूतस्य पारमार्थिकतत्वज्ञानस्य कारणं हेतु: कथं केन मका- रेगा भवतो न कथमपीसर्थः, कुन इत्यत आह न चेति, अदूये न विद्यने दवय भेदो यत्र तस्मिस्तथाभृते परमात्मन कार्यका- रणातीत आत्मवस्तुनि साधर्म्यवैधर्म्ये सहधर्मवत्वं समानध- मवत्वं च वैधर्म्ये धर्मरािनत्वं विरुद्धधर्मवत्त्वं च तयोः समा- हार एकतद्धावः, न चास्ति नैवास्ति अनो वेदान्तपतिषाधे ब्रह्मणि साधम्भवैधम्याभावान्न वैशेषिकस्य तत्र सपयोजन- त्वमिति भावः ।। ४ ।।
स्माभि: क्रियनेऽतः सपरयोजनत्वं वैशेषिकम्यास्त्विसाशड्ा
शयेनाह। पदार्थानां विवेकेन परमात्मा प्रकाशते। इति चेद्वदसि प्राज्ञ तर्हींदं मम संमतम् ॥ ५ ॥ पदार्थानामिति। पद़ार्थानां वैशेषिकप्रतिपादिताना पद्- पदार्थानां नामरूपात्मकाना विवेकेन निवेचनेन भिन्नत्वज्ञानेन
Page 454
४३० बोघसारे।
परमात्मा कार्यकारगात्वहीन आत्मा प्रकाशते स्फुट प्रतीतो भवति अतो वेदान्तानुकूल्याद्वैशेषिकमतमङ्गीकार्यमित्येवं वदास कथयांस चेद्यदि तहींदं मतं मम मुमुक्षोः संमतांमष्टमेव न त्वयं वैशषिकसिद्धान्तः किन्त्वस्मदीय एवेति भावः ॥५॥ ननु वैशेषिकैस्तार्किकैश् नानात्मत्वं प्रतिपाद्यते वेदान्ति- भिन्तु तांद्वरुद्धमकात्म्यमतः कथमविरोध इसाशक्का व्यवहार- छशायां बद्धमुक्तव्यवस्थाये नानात्मत्वस्य तैरङ्गीकृतत्वाद्वे दान्तिभिरपि व्यानहारिकनानात्मत्वस्य मायिकस्याङ्गीकृत- सात्पामार्थिकमैकात्म्यमुभाभ्यामपि सिद्धान्तितमतो न. वि- रोध इस शयेनाह। बद्धमुक्तव्यवस्थायां नानात्मानो न वस्तुतः । नानात्मानो व्यवस्थान इत्याह मुनिगौतमः ॥६॥ वद्रमुक्तेति। बद्धमुक्तव्यवस्थारया बद्धानां मुक्तानां च व्यवस्था मर्यादा तस्यां निमित्तभूतायां सत्या तन्निमितमि- सर्थः, नानात्मानो नानाडनेक आत्मानो जीवाः सन्ति व- क्तुनः परमार्थतो नानेके सन्तीसर्थ:, इत्ेवं तार्किकाणा वैशे- पिकागां च मतं तद्वेदान्तिनामप्यनुकूलमिति भाव, ननु ता- किकवैशेषिकयोर्मते बद्धमुक्तव्यवस्थायायेत नानात्मत्वं न प- रमार्थत इति कुतो ज्ञातं भवतेसाशङ्ा गौतमप्रीतमूत्रादेवे- साशयेन गौतमसूत्रोदाहरगोन गौतमाशयं प्रदर्शयति नाना- त्मान इंत, नानात्मानो नाना बहवो आत्मानो जीवाः सन्ति व्यवस्थाने व्यवस्थानं व्यवस्था बद्धमुक्तानां मर्यादेत्यर्थः, त- स्मिन्तन्निमित्तमित्यर्थः, चर्मणि द्वीपिनं हन्तीति वन्निमित्ते स- समी, इसेवं मुनिगौतमो मुनिर्मननतान्गौतसनाम ऋषिराह पोक्तवानतो स्माभिर्ज्ञीतमिति भाव ॥ ६॥
Page 455
मुनीष्द्रदिन० अष्टादश० साङ्ग्यनिणयः । ४३१
किश्च तेषां मते कल्पनालाघवं साध्यते तदपि तेषां क- ल्पनागौरवमेव सिध्यति, वेदान्ते तु मायाङ्गीकारे कल्पनाला- घर्व मिध्यसतस्तेपामपि मायात्तत्व्ाङ्गीकार इष्टपवेत वेदा- न्ताङ्गीकार: कर्त्तव्य इसाशयेनाह। कल्पनागौरवं दोष: कल्पनालाघवं गुणः । इति यत्तार्किकैरुक्तं तदव मम रोचते ॥ ७॥ इति० घो० मु० अष्टा० वैशेषिर्कानर्णयः ॥३॥ कल्पनेति। कल्पनागौरवं कल्पनानां गौरवमाधिक्यं दोपोडचातुरी कल्पनालाघवं कल्पनानां लाघवं न्यूनत्वं गु. णश्चातुर्यमत्येवं यत्पसिद्ध तार्किकरुक्तं न्यायशास्त्रविद्धि: क- थितमेव केनलं न तु अङ्गीकृतं मायाङ्गीकारं बिना तत्र न मि- ध्यतीति भावः, मम तु मायातत्वाङ्गीकर्तुस्तदेव कल्पनाल।घमेव रोचन इष्टं भवान अतस्तर्कवैशेषिकमतादरं परित्यज्य वेदान्त एवादरो विधेय इति भावः ॥ ७॥ इति थ्रीनरहरिशिष्यदिवाककरविरचित्तायां बोधसारार्थदीसी मुनीन्द्रदिन चर्यार्थ प्रकाशेSष्टादशविद्यास्थाननिर्णयार्थ- प्रकाशान्तगंतो वेशेषिकनिर्णयार्थप्रकाश स्तृनीय: ॥ ३॥
अथ सांख्यनिर्णयः । एवं वैशेषिकनिर्गाथमभिधायेदानीं प्रसङ्गपाप्तं सांख्यनिर्ण- याख्यं चतुःश्रोकं मकरणमभिदधान आह। अथ सांख्यनिर्णयः । अथेति।अथ वैशेषिक निर्णयानन्तरं सांख्यनिगीयः सांखयस्य सांख्याभिषशास्त्रस्य निर्णयो विचार: क्रियत इति शेषः, तत्र
Page 456
४३२ बाधसारे।
सावत्प्रथमं संख्यातीनस्य ब्रह्मणः केवलतत्वसंख्यामात्रनिर्णा यकसांख्यविषयत्वाभावात्सांख्यस्य निष्फलश्रमत्वं देशयति। असंख्याः सांख्य तत्त्वानां संख्या: संख्यातवानास। किं सांख्य संख्यया ब्रह्म संख्यातीतं विचिन्तय ।।१।। भ्रसंरना इति। हे सांख्य सम्यक्खयायन्ते प्रकथ्यन्ते त- त्वान्यांस्मन्तत्सारूगं तद्रेत्ति अधीते वा सांख्यस्तस्य सम्बो- धो हे सांख्य त्वं तच््वानां प्रकृतिपुरुषादीनामसङ्खया न- विद्यन्ते मङ्ग्या गणना यासां तास्तथोक्ताः सङ्ख्या गणनाः
दयसे तहिं साङ्गयसङ््यया साङ्व्यशास्त्रनिरूपितया संङ्ख्यया गानया किमस्माकं मुमुक्षूणां किं फलं न किमपि फलमि- सर्थः, अनः साङ्ग्यस्यापि निष्फलश्रमत्वात्साख्ख्यादरं परि- सज्य ब्रह्मचिन्तने प्रवर्तितव्यांमति साङ्ग्यं प्रेरयति ब्रह्मेति, त्वं ब्रह्म देशकालवस्तुकृतपरिच्छेदरहितमात्मवस्तु तिचिन्तय स्मर, ननु साङ्गयविचारेणापि ब्रह्मैव चिन्यत इति चेन्नेत्याह सह््यातीतांमात, सङ्ग्यातीतं साङ्व्योक्तसङ््यया विषयीकृतं न भवन ब्रह्माऽनः माङ्वचस्य निष्पयोजनश्रममात्रत्वात्त्यक्का परं ब्रह्मैत चिन्तनीयमिति भावः ॥।१॥ ननु तत्वज्ञानं मोक्षसाधनत्वेन भवतामपीएं साङ्गर्यं च तक्ज्ञानप्निपादकं तत्कुतः साङ्ख्य नाङ्गीक्रियते भवा्विरि- त्याशख्ाह। तत्त्वज्ञानं त्वया प्रोक्तं तत्त्वज्ञानं मतं मम । तत्त्वातीतस्य विज्ञानं तत्त्वज्ञानं हि मुक्तये ॥२। तच्वज्ञारनामति। ह साझ्थ त्वया भवता तत्वज्ञानं तत्वाना
Page 457
मुनीन्द्रदिन० अष्टादश० साङ्ग्यनिर्णयः । ४३३
प्रकृतिपुरुपादीनां ज्ञानं बोधनं प्रोक्त कथितं मम मे मुमुक्षो- स्तत्वज्ञानं त्त्त्रवोधनमेव मतमिष्टं तथापि त्वत्पतिपादितं त- क्वज्ञानं न मोक्षसाधनं तर्हि तत्कीदृशं मोक्षसाधनं तत्वज्ञानं तत्राह तत्वातीतस्येति, तत्वातीतस्य तत्त्वेभ्यो भतदुक्तपकृतिपु- रुंपादितत्वेभ्योऽतीतस्य भिन्नस्य तत्त्वास्पृष्टस्पेत्यर्थः, विज्ञा- नमनुभवस्तत््वज्ञानं तत्त्तस्यानारोपितस्वरूपस्य जीवव्रह्मैक्यल- क्षरस्य ज्ञानं वोधनमस्माकमिष्टं तदेव मुक्तये मुत्त्यर्थ भवति न तवत्मोक्तं मुक्तये तत्वज्ञानं भवतीत्यर्थः, अतस्तन्नाङ्गीक्रियते- डस्माभिरिति भाव: ॥२॥ ननु तत्त्रविवेचनं पुरुषज्ञानार्थमस्माभि: कृतमित्याशख््ा- ड्रीकरोति। पुरुषस्य परीक्षार्थ मया संख्या निरूपिता। सांख्य एवं यदि प्राह तरहीदं मम संमतम् ॥ ३ ॥ पुरुषस्येति। पुरुपस्य प्रकृतिविकृतिविलक्षणस्यासङ्गस्या· त्मनः, तदुक्त। 'मूलप्रकृतिरविकृतिर्महदाघ्याः प्रकृतिचिकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः' इति॥ परीक्षार्थे ज्ञानार्थ मया साङ्वयशास्त्रमणेत्रा सङ्व्या तत्वारना मकृत्यादीनां पश्चविशतिष्विंशत्याद्या निरूपिता प्रतिपादिते- चमनेन प्रकारेण यदि यर्हि साङ््यः साङ्ख्यशास्त्रप्रणेता कपिलस्तदध्ययनत्रान्तज्ज्ञो वाडन्यः कोपि म्राह वक्ति तर्हि तदेदं वचनं साङ्ग्यापसिद्धान्तापातेन त्वंपदार्थशोधनमात्रो- पयोगितया च मम मुमुक्षोः संमतमिष्टं भवति भवान्साङयसि- द्धान्तं परितज्य वेदान्त आगत इति भावः ॥ ३ ॥। तर्हि तत्त्वसङ्खयायाः पुरुषपरीक्षामात्रोपयोगित्वाङ्गीकारे ५५
Page 458
४३४ बाधसारे।
तत्रैवाभिनिवेशो न कर्त्तव्य इत्याह।
पुरुषान्नपरं किश्चित्सा काष्ठा सा परा गतिः। पुरुषं पश्य रे सांख्य संख्यया कि प्रयोजनम् ॥४॥ इ० बो० मु० अष्टा० सांख्यनिर्णयश्चतुर्थः॥४॥ पुरुषादिति। पुरुषादमङ्गसचचिदानन्दपरिपूर्गा रुपा दात्म नः परं श्रेष्ठं किश्चित्किमपि न न विद्यते सैव काष्ठा सर्व- सुखावधिरूपा सोक्तलक्षणा परोत्कृष्टा गतिः स्थितिर्ज्ञया, अरे साङ्ग्य सङ्ग्यायामभिनिवशित्वान्नीचसम्बोधनं त्वं पु- रुषं परिपूर्णरूपमात्मानं पश्यावलोकय तं सत्का सङ्ग्यया त- कानां गगानया किं प्रयोजनं किं फलं न किमपीसर्थः, अतः सङ्ग्याभिनिवेशेन व्यर्थश्रमो न कर्त्तव्य इति भानः ।। ४ ॥ इनि श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी मुनीन्द्रदिन चर्यार्थ प्रकाशेSष्टाद शविद्यास्थाननिर्णयार्थ- प्रकाशान्तगंतः साङ्ग्यनर्णयार्थप्रकाशश्चतुर्थः।४।
अथ पातञ्जलनिर्णयः। एवं साङ्व्यनिर्णयमभिधायेदानीं पातञ्जलयोगं निर्णेतुं पातञ्जलनिर्णयाख्यं दशश्लोकं प्रकरगामभिदधान आह। अथ पातञ्जलनिर्णयः । प्रथेति। अथ साङ्ग्यनिर्णयानन्तरं पातञ्जलनिर्याय: प- तक्चलिना प्रोक्त पातअ्ञलं शास्त्रं तस्य निर्णयो विचार: क्रियत इति शेष:, पातञ्जलमिसत्र 'तेन मोक्तमि'तिसूत्रेणाण, तत्रादौ योगसिद्धिमसत्त्या श्रमहेतुत्वे मुमुक्षूणामादरं साजयितुं पात- अलस्य दर्शगति।
Page 459
मुनीन्द्रदिन० अष्टादश पातअलनिर्णयः । ४३१
योगसिद्धिप्रसक्तोयं पातञ्जलपरिश्रमः । कलाकौशलमेवेदं न स्वरूपस्थितिर्हि सा।। १।। योगसिद्धीति। अयं पतञ्जलिप्रोक्तो योगाख्य: परिश्रमः सर्वकालं श्रम एव यतो योगसिद्धिमसक्तो योगानां धारणा- विशेषाणां सिद्धय आक।शगमनाद्यास्तासु मसक्तोऽत्याम- क्तोऽतः पातअ्ञलपरिश्रमः पानञ्जले पतञ्जलिपोक्ते शास्त्रे प- रिश्रम एव केवलं ज्ञेयो न तत्रोक्तमाधनैर्मोक्ष इति भावः, तर्हि कि तत्रत्साधनैर्भवतीत्याशङ्काह कलेति, इद पातअ्जलं कला- कौशलमेव कलासु योगभिद्धिपु कौशलं कुशलत्वं चातुर्यमात्रं केवलयित्यर्थः, सा कुशलता न स्वरूपस्थितिः स्व्रस्यात्मनो रूपं तस्य स्थितिस्तदाकारा स्थितिरित्यर्थः, न न बवनि हि एतद्विवेकिनां प्रसिद्धम् ॥ ॥ कायव्यूहसिद्धिप्रसत्त्या योगाभ्यासप्रमक्तं प्रत्याह। रे योगसिद्ध जीवानां कायव्यूहो न दुर्लभः । विदेहमुक्तता सिद्धि: कायव्यूहो, न सिद्धये ।।२।। रे योगसिद्धेति। रे योगसिद्ध रे इति नीचमम्बोधने यो- गसिद्धिपसक्तत्वान्नीचत्वं हे योगसिद्धयासक्त जीवानां जी- वत्वं पाप्तानां कायव्यूहः कायानां देहानां व्यूहः समूहो न दुलभो न दुःष्पापः किन्तु सुलभ एवेत्यर्थः, ननु योगाभ्या- से न विना जीवानां कायव्यूहो दुर्लभ एवेति चेन्न भ्रमजन्य- स्वाप्नमानोरथिकपपश्चादावनन्तद्हानां तदीयतवेन दर्शना ज्ाग्रत्मपश्चस्यापि विचारदृष्ठ्या हहिरण्यगर्भस्तप्नत्ना,तैजसाहि रण्यगर्भयोरभिन्नत्वस्य पारमार्थिकत्वात्स्वप्रत्वस्य तुल्पत्वे कायव्यूहत्वभिद्धेः सुलभत्वं कायव्यूहस्य जीवानामति भावः,
Page 460
४३६ बोधसारे।
ननु तहि तत्र तत्र वेदान्ते तच्वज्ञानात्सिद्धिरवाप्पत इत्युच्यते तत्कथं सिद्धिर्निन्ध्यते भवद्भ्िरिति चेत्तत्राह विदेहति, विदेह- मुक्तता देहरहितत्वेन ब्रह्मरूपतया स्थितिरेव सिद्धि: सिद्धि- शब्देनाभिहिता वेदान्ते कायव्यूहः शरीरसमूहधारयोनाने- कभोगभोगो न सिद्धये मुक्तये न भवतीति तत्र तत्र वेदान्ते निश्चितमिति भावः ॥ २ ॥ एवं कायव्यूहसिद्धिं विदूष्येदानीं परकायप्वेशरूपा सिद्धिं दूषयन्परकायमवेशसिद्धीच्छया योगाभ्यासासक्तं प्रसाह। हे योगसिद्ध जानासि परकायप्रवेशनम्। परं तु नैव जानासि परकायप्रवेशनम्॥ ३॥ हे योगसिद्धेति। हे योगसिद्ध हे योगधारणया सिद्ध- मन्य त्वं परकायप्रवेशनं परेषामन्यप्राणिनां कायेषु देहेषु म- वेशनं प्रवेशयुक्तिं जानासि वेत्सि तथाप्ययमभिमान एव तव परकायप्रवेशनं नैवर वेत्सि कुत इसत आह परं त्विति, परस्तु तथापि त्वं परकायप्रवेशनं परं परमात्मानं कायति वक्ति भा- गलक्षणयोपदिशतीसर्थः, तत्परकायं महावाक्यजातं तत्त्वमस्या- दिरूपं तस्मिन्दृढमोक्षेच्छया पवेशनं तदर्थावगाहनं, यद्रा परका- येन महावाक्योपदेशेन प्रवेशनं प्रवेशोरऽर्थादात्मनीतवगन्तव्ये तन्नैव जानासि नैव वेत्सीति मन्येहम ॥ २ ॥ ननु मास्तु महावाक्यद्वारात्मनि पवेशनमन्यशरीरमवेश- रूपा सिद्धिस्त वर्त्तत एत ममेसाशख्काह। भूतादयोपि जानंति परकायप्रवेशनम्। सा सिद्धिर्नैव बन्धः सा यद्धि कायप्रवेशनम् ॥२॥
Page 461
मुनीन्द्रदिन० अप्ठादश० पातञ्ञलनिर्णयः । ४३७
भूनादय इति। भूनादयो भृताः पिशाचा आदयो मुख्या थेषों ते रोगञरादयोप्यादिशन्देन ग्राह्यास्ते परकायमवेशनं परेपामन्यमागिनां कायेषु प्रवेशनं प्रवेशयुक्ति जारनन्ति वि- नदन्ति तद्योनिपापकेन क्षुद्रकर्मणापि तादृशयोनिपाप्त्या मा स्य।देवाऽतस्तदर्थ महांश्ित्तावरोधयोगरूपः प्रयासो नैवापे- क्षितोऽनस्तयैन न कृतार्थतेति भावः, ननु परकायप्वेशरूपा सिद्धिर्पोगफलमेवातः कुतो भवद्भिर्निन्धन इति चेतत्राह सेनि, यत्परसिद्धं कायमवेशनं काये शरीरे प्रवेशनं प्रवेश इति सा कायप्रवेशरूपा नैत्र भिद्धिरनैव मुक्तिर्मत्रति किन्तु सा प- रकायप्वेशरूपा बन्धो वन्धनमेत भवति हि प्रसिद्धामदं सर्व- शास्त्रेषु विवरेकिपु चातः परकायप्रवेशांसद्धिसाधनभूतयोग- धारणासक्ति परित्यज्य मोक्षसाधनभूने वेदान्तश्रवणादाचेव प्रवर्त्तितव्यमिति भावः ॥३॥ एवं परकायपवेशादरं परित्याज्य चिरजीनितसिद्धिकार- णभूतयोगधारणसक्तं पसाह। अवश्यं मरण तर्हि कीदृशी चिरजीविता। जन्ममृत्युजराध्वरंसि त्वं विज्ञानामृतं पित्र ॥ ५ ॥ अवश्यमिति । हे योगसिद्ध यत्र चिरजीवनेऽवशयं नि- श्वयेन मरणं मृत्युर्भवति तहि तदा सा चिरजीविता बहुकालं जीवनता कीदशी कर्ष सिद्धा न कथमपीसर्थः, यथा जन्मतो मरणान्तं रुग्यास्य समाशतं जीवनमपि न तज्जीवनत्वेन गृ-
मरणतुल्यत्वात्तथा मरणभीत्या योगधारणायां स्थितः सन्- चिरजीवित्वं साधितं तत्राप्यन्तेऽवश्यं मरणे मिद्धे निरन्तर
Page 462
४३८ बोधसारे।
तत्मतीत्या तद्भगेन निरन्तर धारणायामेव स्थितस्यैहिकभो- गमाधनव्यवहारे प्रतृत्ययोगेन भोगाभावाद्योगधारणायाक्ष चिरजीवितसिद्धिफलकत्वें चरितार्थत्वात्तस्या अन्यलोकभो- गफलकत्वाभावाच तदन्यधर्मादिसाधनाचरणासिदेश्च पारलौ- किकभोगाभाववत्त्वं तस्या मोक्षसाधनश्रवणाद्यनुष्ठानासिद्धे-
तिज्ञाला तस्मिस्तद्धारणायां चानादरो मुमुक्षुभिः कर्त्तव्य इति भाव:, ननु तर्हि मरणनिष्टत्तेरेव मोक्षत्वान्मोक्षस्य च भवता- मपीष्टत्वाश्चिरजीववित्वं भवतामपीष्टमतः कुतो निन्ध्ते तत्राह जन्मेति। सं भवञ्जन्ममृत्युजराध्वंसि जन्म सददैतानृनद्वै-
क्षितं जन्म तथा मृत्युरपि विवेकेन सदद्वैतानृतद्वैनयोर्विवेचने- न पृथत्कावलोकनरूप मरणमिति लक्षितो मृत्युर्लोकप्रसक्षे जन्ममरणे वा जरा वार्धक्यं तेषां विध्वंसि नाशकं विज्ञानामृनं विज्ञानं जीवब्रह्मैक्यसाक्षातकाररूपं तदेवोभयलक्षयामरणनि- वर्त्तकत्वादमृतमिवामृत मोक्षरूप तदेवास्म/कमिष्टं तत्त्वं पिब मा- शयाङ्गीकुर्विसर्थः, मुमुक्षूगामिष्टो मरणनिषत्तिरूपो मोक्षो ज्ञा- नेनैव साध्यः स एवासन्तमरणनिदात्तरूप: परमपुरुषार्थरूप:, ननु एकदेशिकया कयाचिद्योगधारणया चिरजीविताऽतस्त- दादरं परित्यज्य मुमुक्षुभिर्वेदान्तश्रवणादिष्वेवादरः कर्तव्य इति भान:।५॥। एवं चिरजीवितसाधनभूतयोगधारणां विदूष्येदानीं पर
परचित्तस्थितं वस्तु त्वया ज्ञातं ततश्र किम्।
Page 463
मुनीन्द्रदिन० अष्टादश० पातअ्जलनिर्णयः। ४३१
स्वचित्तसंस्थितं वस्तु परं ब्रह्म बिलोकय ॥ ६ ॥ परेति। स्वया हे योगिन्भवता धारणावता परचित्तस्थित परे- पामन्यपराणिनां चित्तान्यतःकरयानि तेषुस्थिनं चिन्त्यतया वर्त- मानं वस्तु पदार्थजातं ज्ञातमवबुद्ध ततश्च ततो ज्ञानादपि तष- किं कि फलं न किमपीत्यर्थः, पग्मात्मनोन्यत्कलल्पितं चित्तं तत्रसं वस्त्वपि कल्पितमतस्तत््सर्वेषामप्यस्ति अतस्तावन्म।त्रेगा- कृतार्थता नैव मंतव्या तदर्थ महान्योगरूपः प्रयासश्च नैत्र क- र्त्तव्य इति भाव:, तर्हि किकर्त्तव्यमियत आह स्व्रेति, स्वचि- त्तसंस्थित स्वस्य चित्तमन्तःकरणं तत्र संस्थितं वस्तु सत्यरूप परं ब्रह्म कार्यकारणत्वरहितं देशकालवस्तुकतपांरच्छेदशून्मात्म- स्वरूपं विलोकय साक्षात्पश्य स्व्रतः पृथक्तया भ्रान्तिांसिद्धं सम-
भ्रमरूपत्वादस्माकं तेनापि प्रयोजनं नगंस्त तहि तदेकदेशव्य-
स्तीति किं वक्तव्यमतस्तवादरं परितज्य स्वचित्तवाधेन स्व्र- चित्तस्थितव्रह्मसाक्षात्कारसाधनेषु वेदान्तश्रवणादिष्वेवादरो मु- मुभिः कर्त्तव्य इति भावः ॥६॥ इदानीं दूग्श्रवणदर्शनाख्यसिद्धिमाधनभूनधारणाभ्यास्त- रतं पसाह। निकटस्थस्यात्मनश्चेन्न स्याच्छूवणदर्शनम्। का सिद्धि: सा तु या सिद्धिर्दरश्रवणदर्शनम् ॥।७।।
तिन आत्मनः स्वात्मनः स्व्रात्मवस्तुनः श्रवणदर्शनं श्रवण- मित्युपलक्षणं मनननिदिध्यासनयोः, तद्वारा दर्शनं च साक्षा-
Page 464
४४० बोधसारे।
त्कारस्तयो: समाहार एकवद्धावः, न स्याच्चेन्न भवेदादे सहि या तु योगशास्त्रे प्रसिद्धा दूरश्रवणदर्शनं दूरस्थपुरुषाद्युच्चा- रितशब्दानां श्रवयां तथा दूरस्थितपदार्थानां दर्शनमवलोकनं चेति मिद्धिर्विभूतिरस्ति सा का न सा मिद्धिर्गणनारईसर्थः, दूरश्रवणदर्शनरूपसिद्धयोरनात्मविषयत्वेन मिथ्यात्त्रात्तदभ्या- सस्य च व्यर्थश्रमत्वात्तदादरं परित्यज्यात्मविषयकवेदान्त- श्रवगामनननिनिदिध्यासनेष्वेव प्रयत्रः कर्त्तव्यो नान्यत्रेति भावः । ७॥। एवं दूरश्रवणदर्शनाखूये सिद्धी प्रत्याख्यायेदानीमाका- शगमनाख्यसिद्धीच्छया तत्साधनभूतयोगधारणाभ्यासासक्तं मत्याह। भवन्ति वायसादीनामपि खचरतादयः । सिद्धिभिर्नैव सिध्येत सिद्धिभिः किं प्रयोजनम् ॥८।। भवन्तीति। खेचरतादयः खेचरताSडकाशगतित्वमादिर्ये- षामन्तर्धानप्भृतीनां तास्तथोक्तास्ता: सिद्धयो वायसादीनामपि वायसः काक आदिर्येषां श्येनभासगरुडादीनां तेषामपि विना योगधारखां भवन्ति प्राप्तुवन्ति काकादीनार्माप विना योग- धारणमाकाशगमनसिद्धेरपिशब्दाद्ूतादीनामपि विना योग- धारणामन्तर्द्धानादिसिद्धेः प्रत्युत तेषां योनिपाप्तेरविहितक- र्मफलत्वेन तुच्छत्व्ात्न तत्रादरो मुमुक्षुभिर्विधेय इति भावः एतमेत सर्वसिद्धीनामपि निष्पयोजनत्वं दर्शयति सिद्धिभिरिति, सिद्धिभि: पातञ्जलोक्ताभिरकाशगमनादिरुपमिद्धिभिर्नैव सि- द्ध्येत नैव निश्चयेन मुच्येत तर्हिं मुमुक्षूणामस्माकं सिद्धिभिः परकायपवशादिरूपाभिः सिद्धिभिः कि पयोजनं किं फलं न किमपीत्यर्थः ॥८॥
Page 465
मुनीन्द्रदिन० पुराण अष्टादश० पातञ्जलनिर्णयः । ४४१
ननु योगसिद्धिरेत्र मुक्ति: सा तु भवतामपीष्टातः कुतः सा निन्द्यत इसाशख्काह। न सिद्धिर्योगसिद्धिर्हि बलवीर्यादिसिद्धिक्कृत् । एतेन योगः प्रत्युक्त इति वेदान्तभाषितम् ।९।। नेति। हि यस्मात्कारणाद्योगसिद्धिर्योगधारणाभिर्या सि- द्विर्जायते सा न सिद्धिर्न मुक्तिर्वेदान्ते मुक्तिरेत्र सिद्धि- पदेनोक्ता नाकाशगमनादिरूपोक्ता सिद्धिशब्देनेत्पर्थः, सा यो गसिद्धिस्तु योगधारणया या सिद्धिर्जाता सा वलवीर्यादिपि- द्विक्रुद्वलं च शरीरदार्ढ्ये वीर्ग च शुक्रभूयस्तवं पतापभूपसत्वं च ते आदिनी येषामन्तर्धानोध्वरेतस््त्वादीनां तेषां सिद्धि: पाप्ति- स्नस्या: कृत्कर्तती भनांत नतु मुक्तिकृदित्यर्थः, अनो मुमुक्षुभिस्त- त्रासक्तिर्नैव कार्येति भाव:, ननु योगपसारूयानं स्वकपोलक- लिपितत्वादपमायमित्याशङ्का तत्र श्रीवादरायणमूतं पमाण्यात एतेनेति, 'एतेन योगः पत्युक्तः' एतेन साङ्व्यप्रत्याखयानेन यो- गो योगसिद्धान्तः प्रत्युक्तः प्रत्यारपातो न पृतक्पयासः कर्त्तव्य इति भातः, इति एवं वेदान्तभाषितं वेदान्त उपनिषदर्थसंग्राहके शारीरकसूत्रेषु मध्ये भाषितं कथितमस्तीति शेषः, अतो यो- गमतखराडनमिदं मुमुक्षुभिः प्रमाणापूर्वमस्तीति ज्ञेयमिति भावः।।९॥ नन्वात्मज्ञानमेत् सिद्धिपदवाच्यं योगशास्त्रे प्रतिपादितम- न्यसिद्धयस्तत्साधनभूतधारणाविशेषाश्च तत्तज्ज्ञानपूर्वकं तत्या- गायैवेत्याशङ्कौतच्च मत वेदान्तातुकूल्यादस्माकमिष्टमेव्रेति यो- गसिद्धान्तापहतिरित्याशयेनाह । सिद्धिरात्त्मपरिज्ञानमन्तरायास्तु सिद्धयः । इति चैद्योगवित्प्राह मतमस्माकमेव तत् ॥ १० ॥ इ० बो० मु० पु० अष्टा० पातञ्जलनिर्णयः पञ्चमः ॥५॥ ५६
Page 466
४४२ बोधसारे।
सिद्धिरिति। आत्मपरिज्ञानमात्मनो ब्रह्माभिन्नस्य प्रत्यगा- त्मन: परिज्ञानं बोध: स एव सिद्धि: सिद्धिशब्देनोक्त: सिद्ध- यस्तु तदन्याडकाशगमनादिरूपा: सिद्धयोऽन्तराया आत्म- ज्ञानस्य विघ्नरूपाः सन्ति अनस्तास्तत्र तज्ज्ञानपूर्व तत्यागायैवा- भिहिता इति भाव:, इसेवं योगविद्योगतात्प्यवेत्ता कश्चित्माह वक्ति चेद्यदि तहीदं तदद मतं मम वदान्तिनः संमतामिष्ट न तु योगसिद्धान्तः स इति भावः ॥१० ।। इति श्रीनरहरिशिष्यदिवाकरविराचितायाँ बोधसारार्थदीती मु- नीन्द्रदिनचर्यार्थप्रकाशे पुराणश्रवणनिर्णयेऽश्ादशविद्या स्थाननिर्णयप्रकाशान्तर्गतः पातक्जलनिर्णयार्थ- प्रकाश: पश्चम:।५।
अथ मीमांसानिर्णयः । एवं पातअ्ञलनिर्णयमभिधायेदानीं मी्मामानिर्गायमभिघा- तुं मीमांमानिर्णयाख्यं सप्तश्चोकं प्रकरणमभिधास्यन्नाह। अथ मीमांसानिर्णयः। अथेति। अध पातञ्जलनिर्णयानन्तरं मीमांसानिर्णयो मीमा- साया निर्गायो विचार: क्रियत इति शेप:, तत्र तावत्पथमं त- न्मताग्र हत्वज्ञापनाय तन्मौढ्यं दर्शयति। कष्टं कर्मेत्ययं न्यायो मतो मीमांसकस्य चेत्· आत्मनः कृशभागित्वं तेनैवांगीकृतं तदा॥ १ ॥ कष्टमिति'कष्टे कर्मेलयं कर्म क्रिया कष्टं दुःखरूपमस्तीति शेषः, अयमुक्तः प्रसक्षो न्यायः सिद्धान्तो मीमांसकस्य मीमां- साशास्त्रजञस्य जैमिनेर्मत इष्टश्वेद्यदि भवेत्तदा तर्हि आत्मनः स्व्रस्य कर्मकर्तृन्वामिनिवेशवनः क्वेशभागित्वं दुःखभोक्तृतं ते- नैत्र मीमांसकेनैत कोक्षकारक्रिम्यादिनेवाङ्गीकृतं भवेदिति शे
Page 467
मुनीन्द्रदिन० पुराण० अष्टादश० मीमांसानिर्णय:। ४४३
पः, सर्वशास्त्रपु सुखस्यैवेष्टत्ेन प्रतिपादनात्सर्वजनेषु सुखस्यवे- ष्टत्वेनानुभूयमानत्वाच्चाहो मीमांगकस्यातीन मौठ्यं सिद्धं य- तः कर्मशो दुःखरूपत्वं निश्चिय्व तस्यैवेष्ठत्वेनाङ्गीकरणमिति त- त्तस्यापि मूर्खत्वमन्येपामपि तद्वचननिश्वासेन तत्र मवृत्तानाम- पि मूर्खत्वमेवेति न तत्रादरो मुमुक्षुभिः कर्त्तव्य इति भाव ।।१। ननु तहि कष्ट कर्मेति वदनः कोभिप्राय इत्याशख्काह। मीमांसक: सत्यमाह कष्टं कर्मेति कर्मवित्। वर्हि तस्यापि जिज्ञास्यं ब्रह्मानिष्टनिवृत्तये ॥२॥ मीमांसक इति। मीमांसको मीमांसाशास्त्रपणेता जैमिनि: कष्टं कर्मेति कर्म क्रिया कष दुःखमेव केवलमस्तीयेवगाह कथिनवान्यत्तत्सत्यं तथ्यमेव नानृतमित्यर्थः, यतोऽसौ जैमिनि: कर्मवित्कर्मगः क्रियाया वेत्ता ज्ञातार्डास्ति कर्मारम्भकाले दुःखं- शसिद्धमेव सर्वेषां फल च दुःखरूपं जन्ममरगा रूपं तत्र भोगानामपि डपाप्ी तत्पाप्तौ च तद्ररक्षणन्यूनत्वनाशस्वतोन्यगोगाधिक्यदर्श- नादिभि: दुःखमननेति तत्रादरो न कर्त्तव्य इसयमाशयो जैमिने- रिति भावः, तर्हि तदा कर्मणो दुःखरूपत्वे ज्ञाते सति तस्य मी- मांसकस्यापि मुमुक्षूगां किं वाच्यमित्यपेरर्थः, अनिष्टनिवृत्तयेअ्र्र- निष्टस्य निव्ृत्तये नाशाय परमानन्दपाप्या सर्वदुःखानि नाशयि- तुमित्यर्थः, ब्रह्म भूमशब्दवाच्यं परमानन्दरूप ब्रह्म केवल नान्य- त्कर्म वा तत्फलंच वा जिज्ञास्यं जिज्ञासितुं योग्यमस्तीात शषः, अनो मुमुश्षुंभः कर्ममीमांसायां नैवादर: कर्नव्य इति भाव ॥२॥ ननु कर्मणो विषयजन्यसुखमाधनत्वेनेष्टत्वं सवतो दुःखरू- पत्वेप्यस्तु अनस्तत्रादरो विधेय एवेत्याशड्ा जन्ममरणादिरूप- कर्मफलस्यातीव दुःखरूपतेन सर्वजनेष्वनुभूयमानत्वाद्विपया-
Page 468
४४४ बाधसारे।
णामपि तत्फलभूतानां दुःखग्रस्तत्वेन दुःखरूपत्वाच्च स्वतोपि दुःखरूपत्वात्कर्मणो नादरविषयतेत्याशयेनाह। कर्मणा संभवेज्जन्म जन्मना कर्मसंभवः । तर्हि कर्मजडस्यास्य जन्ममुक्ति: कथं भवेत्॥ ३॥ कर्मणेति। कर्मणा विहितनिषिद्धादिरूपया क्रियया जन्म ज- ननं मरणस्याप्येतदुपलक्षणं सम्भवेत्स्यात्ततश्व जन्मना धृतेन कर्मसम्भवः कर्मणां विहितनिषिद्धादिरूपार्णा क्रियाणां स- म्भव उत्पतिर्भवतीति शेषः, तर्हि जन्ममरणरुपदुःखफलत्वेन क- र्मणः स्वतोपि दुःखरूपत्वे सिद्धे तत्रैवाभिनिवेशवतो मीमांस- कस्य मौरख्र्यस्यातिशयात्कर्मजडस्य कर्मणीष्टानिष्टज्ञानशून्य- त्वेन प्रवृत्तस्यास्य मीमांसकस्य जन्ममुक्तिर्जन्ममरयरूपाद् दुःखान्मुक्तिर्मोक्षः कथ केनोपायेन भवेत्स्यान्न केनापीसर्थः ॥३॥ नतु कर्मशो जन्मफलकत्वं कुनो ज्ञातमिसाशङ्क ज्ञा- नकर्मशो मोक्षजन्मफलकत्वस्य सिद्धान्तितत्वादिताशयेनाह । मुक्तिप्राधान्यमेवासि्तिं बोधप्राधान्यवादिनाम्। जन्यप्राधान्यमेवास्ति कर्मप्राधान्यवादिनाम् ॥४।। मुक्तीति। बोधपाधान्यवादिनां बोधस्य जीवब्रह्मैक्य- ज्ञानस्य पाधान्यं मुक्तिहेतृत्वान्मुख्यत्वं वदितुं शीलं येषां ते तथोक्तास्तेषां 'सुप्यजातौ णिनिस्ताच्छील्य' इति णिनिः, तेषां मुक्तिपाधान्यं मुक्तेर्मोक्षस्य पाधान्यं मुख्यत्वमस्ति विद्यते न तु जन्मप्राधान्यमित्यर्थः, तथा कर्मपाधान्यवादिनां कर्मणः क्रियाया: माधान्यं मुख्यत्वं ये वदन्ति तच्छीलानामत्रापि णिनिः, तेषं जन्मप्राधान्यं जन्मनो जननस्य पाधान्यं मुख्यत्व- मास्ति विद्यते॥ ४ ॥
Page 469
मुनीन्द्रदिन० पुराण० भष्टादश० मीमांसानिर्णयः । ४४५ ननु मीमांसकैर्यज्ञाद्नधिकारिणां निष्कामकर्मणि ज्ञाने वाधिकार इत्युच्यते, तथाहि। 'ये कायावधिरा मूका अन्धपङ्ग्वादयक्चये। तेषां निष्कामकर्माणि ज्ञानं वापि विधीयते'॥
यः स्वयं कर्मजाड्येन यज्ञेष्वनधिकारतः । निष्काममशुचिप्रायं जगाद स क्थं शुचिः ॥५॥ य इति। स्वयं मीमांसक: कर्मजाड्येन कर्मणि क्रियायां यज्जाड्यं मौढ्यं तेन कृत्वान्घादीनां यज्ञेषु सोमचयनादिपु अनधिकारतोऽधिकाराभावाद् व्यङ्गलवेन निष्कामं कामना- रहितमशुचिप्रायं स्वतः दित्येवं जगाद कथितवान् स कर्मजडः क्थं केन मकारेगा शुचचिः शुद्धः स्यान्न कथमपीसर्थः, अन्तःकरणशोधककर्मण्य- नादरेण न कथमपि शुद्धो भवेदिति भावः ॥५॥ ननु कर्मणामन्तःकरणशोधकत्वादस्माभिरपि तत्रैव स० रवेषां रुचिमुत्पादयितुं तदाग्रहः क्रियत इत्याशक्कीतदस्मदनुकू- लमेवेत्याशयेन कष्टं कर्मेतिन्यायस्य केवलकाम्यकर्मविषयत्वं सिद्धान्तयति। शुद्धिकृत्कामनिर्मुक्तं कर्म मीमांसितं वदेत्। तत्काम्यकर्ममीमांसा केवलं कष्टरूपिणी ॥ ६ ॥ शुद्धिकृदिति। कामनिर्मुक्तं कामनावर्जितं कर्म वर्णाश्र- मविहितं कर्म शुद्धिकृदन्तःकरणशोधकं भवति अतस्तदेवा- स्माभिर्मीमांसितं विचारितमिति वदेद्ब्ूयाच्चेत्तत्तर्हि केवलं निष्कामकर्मवर्जिता काम्यकर्ममीमांसा काम्यकर्माभिशंसकं शास्त्रं कष्टरूपिणी दुःखरूपैव सिद्धा, काम्यकर्मायि ज्योतिष्टोम-
Page 470
बोघसारे।
पुत्रेष्ठ्यादीनि पारलौकिकैहलौकिकसुखसाधनभूतानि ज्ञेयानि तेषां मीमांमा विचारप्रक्रियाऽनस्वदादरं परियज्य मुमुक्षु- भिरन्तःकरणगलनितृत्तिमात्रसाधनं कर्म नित्यनैमिन्तिकरूपम- द्रीकार्यमिति भावः ॥ ६॥ निष्कामकर्मप्ान्त:करणशुद्धिद्वारा मोक्षसाधनज्ञानमाप- कत्तप्रतिपादनेन वेदान्तानुकूल्य प्रतिपादयतिं। कर्मभिश्चेतसः शुद्धि: शुद्धा विज्ञानमाप्यते। इति चत्कर्मठः प्राह तर्हीदं मम संमतम् ॥ ७॥ इति० बो० मु० पु० अश० मीमांसानिर्णयः। कर्मभिरिति। कर्मभिः स्वस्ववर्णाश्रमत्रिहिताभिः क्रिया भिश्चेतमोन्तःकरणस्य शुद्धी रागादिमलनितृत्या विचार- योग्यत्वरूपा निर्मलता जायत इति शेप:, तया च शुद्धयाऽन्तः करणमलनिवृत्या विज्ञानं जीवव्रम्मैक्यसाक्षात्काररूपमहं ब्रह्मा- स्पीति ज्ञानमाध्यते प्राप्यत इत्येवं कर्मठो मीमांसक: प्राह्- वदनि चेद्यदि तहि तदानीमिदं भाषणं मम मे वेदान्तिनः सं- मतमिष्टं जातामति शेष:, अस्माकं वेदान्तिनामेवायं सिद्धान्तो न तु मीमांमासिद्धान्नः, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपमा नाशकेने'यादिश्रुतेः, 'कर्मगौव हि संसिद्धिमास्थिता जनकादय' इसादि स्मृते- श्रेति भावः ।। ७।। इति श्रीनरहरिशिष्यदिव्ाकरविरचितायां बोधसारार्थदीप्ी मु- नीन्द्रदिनचर्यार्थप्रकाशे पुराणश्रवणनिर्णयप्रकाशेSष्टाद- शविद्यास्थाननिर्णयार्थप्रकाशान्तगंतो मीमांसानिर्ण- यार्थप्रकाशः पष्ठः ॥६॥
Page 471
मुनीन्द्रदिन पुराणः अष्टादश धर्मशास्त्रनिर्णयः। ४४७
अथ धर्मशास्त्रनिर्णयः । एं मीमांसानिर्णयमभिधायेदानी धर्मशाखतरं निर्गेतु ६- मशास्ननिर्णयाख्यं द्विश्लोकं प्रकरणमभिदधान आह। अथ धमशास्त्रनिर्णयः । अथेति। अथ मीमांसानिर्णयानन्तरं धर्मशास्त्रनिर्णयो घ- मशास््रस्य निर्णयो विचारः क्रियत इति शेपस्तत्र तावद्र्म- शास्त्रनिचारणापि फलवाहुल्यादनायासेन कर्त्तु शक्यत्वादS- करणे प्रत्यनायाभावाच् मोक्षधर्मस्यैव श्रप्ठयं दर्शयाते। धर्मशास्त्रविचारेण मोक्षधर्मो महाफलः । नेहाभिक्रमनाशोस्ति प्रत्यवायो नविद्यते ॥ १ ॥ धर्मशास्त्रेति। धर्मशास्त्रविचारेण धर्मशास्त्रस्य धर्मपतिपा- दकशास्त्रस्य विचारेश विवेकेन कृतेन मोक्षधर्मो मोक्षसाधन- भूनो निष्कामधर्मो महाफलो महद्धहु मोक्षरूपं फलं मयोजनं यस्य स तथोक्तोऽस्ति अतस्तम्य श्ष्ठत्वमिति भाव:, निष्का- मधर्मस्य श्रैष्ठ्ये हेत्वन्तरमाह नेति, इह मोक्षसाधनभूते धर्मे- डभिक्रमनाशोऽअभिकमस्य पौर्वापर्यक्रमस्य नाशो विघातो डनुकमनाशजन्यो दोष इत्यर्थः, नासित न विद्यतेऽन्यत्र का- म्यधर्मेपु क्रमविघाते धर्मनाशोऽनस्ततोऽस्य श्रैष्ठ्यमिति भाव:, हेत्वन्तरमप्याह प्रत्यवाय इात, इहेत्यनुवर्तनीयमिह मोक्षधर्मे प्र- त्यवायोऽकरगो दोपो न विद्यते नैवास्तीत्पर्थः, तथा च गी- तायामपि भगवतोक्तं। 'नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यने । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयादि'ति॥ अतोत्ैंवादेरो मुमुक्षिविषय इति भावः ॥। १ ॥
Page 472
४४८ बोधसारे।
अस्मित्रर्थे याज्ञवल्क्यवाक्यं प्रमाणयितुमाह। तथा च याज्ञवल्क्य: । तथाचेति। तथा च तथैव याज्ञवल्क्यो याज्ञवल्क्यनामा मुनिराहेति शेष:, केन वाक्येनेत्याशड्ा तद्वाक्यमुदाहरतीज्येति। इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम्। अयमेव परो धर्मो यद्योगेनात्म्रदर्शनम् ॥ २॥ इ० बो० मु० पुराण० अष्टा0घर्मेशन्स्निर्णयः।।७। इज्येति। इज्याचारदमाहिंसादानस्व्राध्यायकर्मगामिज्या यागक्रियाऽडचार: स्व्रस्ववर्णाश्रमोचितधर्मानुष्ठानं दमो बा- हेन्द्रियायां स्वाधीनताहिंसा सर्वभूतेषु दयालुता दानं स- त्पात्रेषु विधिपूर्वक द्रव्यादे: समर्पणं स्वाध्यायः स्वशाखोक्त- व्रतपूर्वकं स्वशाखापाठ एतन्नामकानि यानि कर्माणि तेषां मध्ये परः श्रेष्ठो धर्मो विहितकर्मरूपोऽयमेव, अयं क इत्यतः स्पष्टं दर्शयत यदिति, यद्विवेकिषु प्रत्यक्षं योगेन जीवात्मै- क्यज्ञानेनात्मदर्शनमात्मनो ब्रह्माभिन्नपत्यगात्मनो दर्शनं दृश्यते ब्रह्माभिन्नः प्रत्यगात्माऽनेनेति दर्शनं साक्षात्कारो भवति सो- यमित्यर्थः, अन्तःकरणमलनिषृत्तिद्वारा ज्ञानोत्पादको निष्का- मधर्म एव श्रेष्ठ इति भावः ॥ २ ॥ इति श्रीनरहरिशिष्यदिवाकरबिरचितायां बोधसारार्थ० मुनी- न्द्रदिनचर्यार्थप्रकाशे पुराणश्रवयानिर्णयार्थप्रका- शान्तर्गताष्टरादशविद्यानिर्णयार्थप्रकाशे धर्मशास्त्र निर्णयार्थप्रका- शस्सप्तमः ॥७॥
Page 473
मुनीन्द्रदिन० पुराण० अष्टादश श्रीतस्मार्तनिर्णयः। ४४९
अथ औौतस्मार्तनिर्णयः । एवं धर्मशास्त्रनिर्णयमभिधायेदानीं तत्प्रसंगाच्क्रौतस्मार्तत- निर्णयं वक्तुं श्रौतस्मार्तनिर्यायारयं द्विश्लोक प्रकरणमभिदधा- न आह। अथ श्रौतस्मार्त्तीिर्णयः । अथेति। अथ धर्मशास्त्रनिर्णयानन्तरं प्रसङ्गपाप्तो धर्मशास्त्रनिर्णपम- सङ्गेन प्राप्तो वर्णानायागतः श्रीतस्मार्त्तनिर्णयः श्रौताख्यकर्मणः स्मार्त्ताख्यकर्मणश्च निर्णयो विचारः क्रियत इति शेषः, त- मवाह। श्रवणं श्रौतमित्युक्तं स्मरणं स्मार्तमुच्यते। श्रवणं मननं चेति श्रौतस्मार्तविनिर्णयः ॥१॥ श्रवणमिति। श्रवयं शारीरकप्रथमाध्यायोक्तकक्षतिसमन्वयेन सर्वं- वाक्यानां तात्पर्यभूतव्रह्मचिन्तनपूर्वकं वेदान्तश्रवणमेव श्रौतना- मकं कर्मेसेवमुक्तं कंथितं मुनिभिरिति शेष:, स्मरर्ण श्रुत्युक्ता- र्ानुचिन्तनमेव स्मार्त कर्मेसेवमुच्यते कथ्यते विवेकिभिरिति शे- षः, इस्यतो हेतो: श्रवणं मननं च सर्ववेदान्तवाक्यानामादिमध्या- वसनेषु अखण्डैकरसे तात्पर्यावधारणलक्षणं श्रवण मननं च श्रुतार्थस्य युत्त्या सम्भावितत्वानुसन्धानलक्षणं शारीरकद्वि- तीयाध्यायोक्तं मननमपि कर्त्तव्यमित्ययं श्रौतस्मार्त्तविनिर्णयः श्रौतस्मार्ताख्यकर्मणो विनिर्यायो विवेक: सिद्धान्त इत्यर्थः, ज्ञेय इति शेप: ॥१ ॥ पकारान्तरेणाप्याह। श्रुतं श्रीगुरुवक्र्कम्यः स्मृतमव न विस्मृतम्। ५७
Page 474
४५० बोधसारे।
श्रौतस्मार्तमिदं येषां श्रौतस्मार्त्तविदो हि ते ॥२ ॥ श्रुतमिति । श्रीगुरुवक्रभ्यो वैराग्यादिसम्पत्तिमन्तो ये गुरवो महावाक्योपदेष्टारस्तेषां वक्रेभ्यो मुखेभ्यः श्रुतं श्रव- योन विषयीककतं तदेव श्रौतं ज्ञेयं, तत्समृतमेव सर्वदानुसन्ध- प्रमेव न विस्मृतं विस्मरणविषयं नैव कृतं तदेव स्मार्ति ज्ञेयम्, इदं श्रवणस्मरणरूपं श्रौतस्मार्त श्रौतस्मार्त्तार्यं कर्म येर्षा विवेकिनामस्ति हि ते विवेकिन एव प्रसिद्धाः श्रौतस्मार्त्तविद: श्रौतस्मार्त्तारयकर्मवेत्तारो भवन्ति नान्ये ॥ २ ॥ इति श्रीनरहरिशिष्यदिवाकतरविरचितायां बोधसारार्थदीप्ी मु- नीन्द्रदिनचर्यार्थप्रकाशे पुराणश्रवणनिर्णयप्रकाशेSष्टाद- शविद्यास्थाननिर्णयार्थप्रकाशान्तर्गती श्रौतस्मार्प्तनि- ्ोंयार्थप्रकाशोऽष्टमः ॥८।।
अथ ङ्ानि। एवं श्रौतस्मार्त्तनिर्णयमभिधायेदानीमङ्गानि निर्णेतुमङ्गनि- र्रयाख्यं मकरणमभिदधान आह। अथाङ्गानि। अथेति। अथ श्रौतस्मार्तनिर्णयानन्तरमङ्गानि निर्गी- यन्ते शिक्षादीन्यङ्गानि विचार्यन्त इत्यर्थः, तत्रादावङ्गानि सं- गरृह्य दर्शयति। शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ज्योतिषं च षडङ्गानि तेषामेव निर्णयः ॥ १॥ शिक्षेति। शिक्षा शिक्षानामक पाणिनिकृतमेकं, तथा कल्पः कल्पनामकं श्रुसर्थानां कर्मोपासनादिरूपाणां प्रतिपा- दकं द्वितीयं, तथा व्याकरणं शब्दशास्त्रं तृतीयं, तथा निरुक्तं
Page 475
मुनीन्द्रदिन० पुराण० भष्टावश० शिक्षानिर्णयः । ४५१
निरुक्तनामकं यास्करचितं वेदनिघण्ट्रर्थसंग्राहकं चतुर्थ, तथा च्छ- न्द एव च च्छन्दोनामकं वैदिकलौकिकच्छन्दोलक्षणज्ञापकं शासत्रं पिङ्गलनागनिर्मित पश्चमं, तथा ज्योतिषं च ज्योतिषनामकं य-
षषठम्, एतानि पठ् पट्सड्व्यानि अङ्गानि वेदस्यावयवरूपाणि तेपामङ्गानामेषो वक्ष्यमाणो विनिर्णयो विचारो ज्ञेयः ॥१॥ अथंशिक्षानिर्णयः। तत्रादौ शिक्षानिर्यायाख्यमेकश्रलोकं शिक्षा निर्णेतुं मक- रणशारभमाण आाह। अथ शिक्षानिर्णयः । अथेति।अथाङ्गनिरूपणपतिज्ञानानन्तरं शिक्षानिर्णयः शिक्षायाः शिक्षातात्पर्यस्य निर्णयो विचार: क्रियत इति शेप:, तमेवाह। शुद्धो विदेहभावेन शिक्षितः शिक्षया: यया। सा.शिक्षा यदि न प्राप्ता शिक्षया शिक्षितं किमु ॥।२॥ शुद्धेति। यया विवेकिपसिद्धया शिक्षगा महावाक्योप- देशरूपया शिक्षित उपदिष्टः सन्विदेहभाव्रेन देहासन्तास- व्वज्ञानेन शुद्धो देहाद्स्पृष्टो भवति माणी सा शिक्षा स उ- पदेशो यदि यहि न पाप्ता न लब्धा गुरुतस्तर्हि तदा शि- क्षया पाणिन्युक्तया शिक्षयारयाच्छक्षित वर्गास्वरस्थानादि ज्ञातमपि तात्कमु अतितुच्छं तदिति भावः ॥ २।। इति श्रीनरहरिशिष्यदिवाकरविरचचितारयां बोधसारार्थदीप्ती मु- बीन्द्रदिनचर्यार्थप्रकाशे पुराणनिर्णयार्थप्रकाशSप्टादश- विद्यास्थाननिर्णयार्थप्रकाशान्तर्गतः शिक्षा- निर्णयार्थप्रकाशो नवमः ॥९॥
Page 476
४५२ बाधसारे।
एवं शिक्षानिर्णयं निरुप्येदानीं कल्पं निर्णेतुं कल्पनिर्ण याख्यं द्विश्लोक प्रकरणमारभमाण आह। अथ कल्पसूत्रनिर्णयः । अथेति। अ्थ शिक्षानिर्णयानन्तरं कल्पसूत्रनिर्यायः क- लपसूत्राणां निर्णयो विचार कियत इति शेष:, तत्र तावत्सर्व- कल्पनाधारभूतं निःशेषविकल्परहितं न ज्ञातं चेत्तत्र कल्पित- विषयनिर्णायककल्पसूत्राणां निरर्थकतामाह। कल्पानां प्रथम: कल्पो निर्विकल्पमिद न चेत्। विकल्पसंकल्पमयै कल्पसूतैः किमर्जितम् ॥ १॥ कल्पानामिति। कल्पानां कल्प्यन्ते निरुप्यन्ते कर्माण्यु- पासनानि च यैस्ते कल्पास्तेषां कल्पाभिघसूत्राणां कल्पनानां चाधारत्वेन कल्पितत्वात्पथमः पूर्वः कारणभृत इत्र्थः, कल्प आत्मा निर्विकल्प निर्गता विकल्पा विपरीतनामजात्यादि- कल्पना यतः कर्मगि यथा भवन्ति तथेदमिति साक्षान्न वेत्ति चेन्न जानाति यदि, यद्वा सर्वकल्पनाधारभूत आत्मैव नि- विकल्पं ब्रह्म तदिदमिति साक्षान्न कृतं चेद्यदीत्यर्थः । सर्वकल्पनाधारभूतं ब्रह्मैव निर्विकल्पपदेनोक्तोऽहमादिक- ल्पनाधारभूतः मसगात्मा प्रथमकल्पपदाभ्यामुक्तस्तयो: कल्पितं सर्वे जगदिदमिति पदेनोक्तं तत्र 'नेह नानास्ति किश्चनातो- न्यदार्त्तमि'त्यादिश्रुतिभ्यो द्वैतजाते बाधितदृष्टिं कृत्वा 'तत्वमसि, प्रज्ञानं ब्रह्माहंब्रह्मास्मि, अयमात्मा ब्रह्मे'त्यादिश्रुतिभ्यस्तत्वमा- दिपदार्थभूतयोः शोधितयोः शुद्धजीवेश्वरयोः मत्यक्षपरोक्षत्वा- दिविरुद्धांशत्यागेन चिन्मात्रस्वरूपत्वेनैक्यमनुभूय यावत्मार- कघमाभासमात्रत्वेन दृश्यमानं जगज्जातं 'सर्व खल्विदं ब्रह्मे'ति-
Page 477
भुनीन्द्रदिन० पुराण० अष्टादश० फल्पसूघनिर्णयः। ४'३
श्रुतिदृष्ड्या सर्वत्र व्रह्मदृष्टिर्न कृता चेद्यदीत्यर्थः, तर्हि तदा विकल्पमङ्कल्पमयैर्विकल्पसङ्कल्पप्रचुरैः कल्पमूत्रैः कल्पाभिधैः सूत्रैः किमर्जितं कि सम्पादितं न किमपीत्यर्थः, तैः प्तिपादि- तस्यावस्तुत्वादिति भावः ॥ १ ॥ ननु कल्पविचारो विहितस्तत्कि निन्धते भवतेत्याशक्का सुमुक्षूणां ब्रह्मभावकल्पस्यैव विहितत्व्रात्तदभावे निरर्थकत्वं क- ल्पाभ्यासस्येत्याशयेनाह। कल्पको येन कल्पेन ब्रह्मभूयाय कल्पते। स कल्पो नैव क्लप्तश्चैत्कल्पसूतं निरर्थकम् ॥२ ॥ कल्पक इति। कल्पकः कल्पनाकुशलो येन कल्पेनाई- ब्रह्मास्मीति अहं ब्रह्मशब्दार्थयोः शुद्धजीवब्रह्मणोर्भागलक्ष- याया प्रत्यक्षत्वपरोक्षत्वरूपविरुद्धांशत्यागेन चिन्मात्रैक्यलक्ष- णलक्षितसाक्षात्करणरूपकल्पेन कल्पनारुपेण पृथत्कस्य क- ल्पितत्वादपृथत्कस्यापि कल्पितत्व्रमिति भावः, ब्रह्मभ्याय ब्रह्मभावमङ्गीकर्तु कल्पते योग्यो भवति स उक्तलक्षयाः कल्पः कल्प्यते ब्रह्मभावोनेनेति कल्पोऽहंव्रह्मास्मीति साक्षात्काररूप: क्लृप्ः प्राप्तो नैत्र चेन्न विद्यते यदि तर्हि कल्पसूत्रं कल्पसूत्र- नामकं वाक्यजातं निरर्थक व्यर्थ ज्ञेयं कल्पमूत्रपतिपादितेर्थे- मुमुक्षुप्रयोजनाभावात्तत्र तैर्नाभिनिवेश: कर्त्तव्य इति भावः ॥२॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसाराथंदीप्ी मुनीद्रदिन चयार्थप्रकाशे पुराणश्रवणनिर्णयार्थप्रकाशे-
निर्णयार्थप्रकाशो दशमः ॥१०।।
Page 478
४५४ बोघसारे।
अथ व्याकरणनिर्णयः । एवं कल्पनिर्गायमभिधायेदानीं व्याकरणं निर्णेतुं व्याक- रण निर्णयाख्यं त्रिश्चोकं प्रकरणमभिदधान आह। अथ व्याकरणनिर्णयः। अथेति। अथ कल्पनिर्णयानन्तरं व्याकरणनिर्खयो व्याक- रणस्य व्याकरणशास्त्रस्य निर्णयस्तात्पर्यविचारः क्रियत इति शेषः, तत्र तावन्महावाक्यार्थज्ञानाय महावाक्यस्थपदानामर्थस्य घ व्युत्पत्तये व्याकरणाभ्यासीभिहितस्तदभावे चस व्पर्थ इत्याह। पदव्युत्पत्तिरन्वेष्या महावाक्यार्थबुद्धये। स एव यदि न ज्ञातस्तर्हि व्याकरणेन किम्॥१॥ पदच्युत्परिति। महावाक्यार्थबुद्धये महान्ति श्रेष्ठानि यानि वाक्यानि तत्वमसीत्यादीनि तेषामर्थस्तात्पर्य तस्य बुद्धिबोध- स्तस्मै तदर्थमियर्थ, पदव्युचत्पत्तिः पदानां तत्त्तमसीत्यादीना व्युत्पत्तिर्ज्ञानमन्वेष्याSन्वेषटव्या पदबोधोपयोगितयैव केवलं व्या- करणमध्येतव्यमित्ि भाव:, स एव महावाक्यार्थ एव यदि यर्हि नज्ञातस्तदा व्याकरणे न व्याकरणशास्त्रेण तदध्ययनेनेत्यर्थः : किं कृतमिति शेष:, न किमपि कृतमित्पर्थः, महाव्राक्यार्थज्ञा- नाभावे व्याकरणाध्ययनप्रयासो व्यर्थ एवेति भावः ।। १॥ • व्याकरगापदनिरुत्तयापि तमेवार्थ द्रढयति। येनेदं व्याकृतं विश्वं तदेव व्याकृतं न चेतू। बृहन्नो वेत्ति यत्तर्हि तद्दि व्याकरणेन किम् ॥ २ ॥ येनेति। येन ब्रह्मणेदं विश्वं ज्ञानविषयातं प्रत्यक्षं ज- गद्याकृतं वितिधाकारवत्कृतं तदेव तद्रहैव व्याकृतं जग द्वेपरी- ताकारेणSखएडसच्विदानन्दरूपं साक्षाज्ज्ञातं न चेन्न यदि तर्हि
Page 479
मुनीन्द्रदिन० पुराण० अष्टादश० निरुक्तच्छन्दोनिर्णयः। ४५१
उक्तमेवार्थ स्पष्टमाह बृदददिति, बृहद्रह्म यद्यदा नो वेत्ति न जा- नाति तहि तदा व्याकरणेन व्याकरुणशास्त्राभ्यासेन कि कृत- मिति शेष:, न किमपि कृतमिसर्थः। यद्रा कि फलं न किमपी- सर्थः, अतः पदव्युत्पतिपर्यन्तमेव व्याकरणाभ्यासो विहित- स्ततो वेदान्तश्रवणादिप्रयास एव कार्यो मुमुक्षुभिरिति भावः।।२।। नतु महावाक्यार्थोपयोगितया महावाक्यपदव्युत्पत्तिस्त- स्प्रयोजनतयैत व्याकरणोपयोगश्चेत्तत्रान्येपि शब्दा कुतः सा- घिता इसाशङ्ा प्रकृयर्थप्रत्ययार्थज्ञानद्वारा तेपां पदार्थानां स्व्र- रूपेण हयत्वज्ञानेन तांस्सक्त्का महावाक्यश्रवंणादिषु प्रद्टत्यर्थ- मिलाशयेनाह। यतस्तु परिनिष्पन्ञैः शब्दैः शास्त्रान्मुहुमुहुः । हैयादेयौ न विज्ञातौ तर्हि व्याकरणेन किं॥ ३ ॥ इति श्रीन० घो० मु० पु० अष्टा० व्याकरणनिर्णय: ।।१।। यत इति। यस्मादेव व्याकरणाच्छास्त्रात्परिनिष्पन्नैरुत्प न्नैः शब्दैरन मभिर्मुद्दुर्मुहुर्वारं बारं हेयोपादेयावनात्मत्वेन हेयस्त्या- ड्यो मायातत्कार्यरूपः पपश्च टस्थामङ्ग इसादिशब्दवानामर्थभूतस्तौ न विज्ञातौ न बुद्धौ यदि तर्हि तदा व्याकरणेन व्याकरयाशास्त्राभ्यासेन कि कि फलं भवति न किमपीत्यर्थः, अतो व्याकरणस्यानन्तशब्दसाधकत्वेोप महावाक्यपदमाधनपरतैवेति मुमुक्षुभिस्तदधीत्य महावाक्यार्थ- निष्ठैव विधेया न व्याकरणाध्ययनाभिनिवेशः कार्य इति भावः ॥ ३ ॥ इति श्रीनरहरिशिष्य दिवाकरविरचितायां बोधसारार्थ० मुनी- नददिन चर्यार्थ प्रकाशे पुरासाश्रवणनिर्णयार्थप्रकाशंऽष्टादश- विद्यास्थािर्णयार्थ प्रकाशान्तर्गतो व्याकरणनि- रणंयार्थप्रकाश एकादृयः ॥११॥
Page 480
४५६ बोघसारे।
एवं व्याकरणनिर्णयमभिधायेदानी निरुक्तं निर्णेतुं निरुंक्त- नियीयाख्यमेकश्षोकं पकरणमभिधान आह। अथ निरुक्तनिर्णयः। अथेति। अंथ व्याकरणनिर्णयानन्तरं निरुक्तनिर्णयो निं रुक्तस्य यास्कपणीतस्य 'समाम्नायः समाम्नात' इत्यादिवाक्य- कदम्बरूपस्य निरुक्ताख्यग्रन्थस्य निर्णयो मुमुक्षुग्राह्यो विचार: क्रियत इति शेष:, तमेव निरुक्तशब्दनिरुत्त्याह। निरुक्तं चिद्वस्थानं निरुक्तं बोधनं चितः। तन्निरुक्तं न चेद्वेद निरुक्तस्य किमुक्तिभिः ॥१॥
निरुक्तममति। चिदवस्थानं चितश्चिन्मात्ररूपस्यात्मनो डवस्थानं स्थितिर्निरुक्तं निर्गत निदृत्तमुक्तं भाषयं यस्मात्त- त्निरुक्तं वचनाविषयमित्यर्थः, अस्तीति शेष:, तथा चितश्चि- न्मात्ररूपस्यात्मनो बोधनं बोध्यतेऽनेनेति बोधनमुपदेशस्त ननिरुक्तं वागविषयं 'यतो वाचो निवर्त्तते अप्राप्य मनसा सह, यद्वाचानभ्युदितमवचो नैव प्रोवाच सह तूष्णीं वभूवे, सा- दिश्रुतेः, तदुक्तविधं निरुक्तं चिदवस्थानें चिदवबोधनरूपं न वेद न वेत्ति चैद्यदि तहि निरुक्त्तस्य यास्ककृतनिरुक्ताभिधग्रन्थस्यो क्तिभिर्भाषणैः किं किं फलं मुमुक्षूणां न किमपीत्यर्थः, अतो
श्रवणादयेवावर्तनीयमिति भावः ॥१॥ इति श्रीनरहरिशिष्यदिवाकरचिरचितायां बोधसारार्थदी- तो मुनीन्द्रदिनचर्यार्थप्रकाशे पुराणनिर्णयार्थप्रकाशे Sष्टादयविद्यास्थाननिर्णयार्थप्रकाश्ान्तर्गतो नि- रुक्त निर्णयार्थप्रकाशोद्वादराः ॥१२॥
Page 481
भुनीन्द्रदिन० पुराण० अष्टादश० छन्दोज्यौतिषनिर्णयः ।४५७
अथ च्छन्दोनिर्यायः। एवं निरुक्तनिरयायं कृत्वा च्छन्दो निर्णयं कर्त्ु कन्दोनिर्ण पाख्यमेकश्रोकं प्रकरणमभिदधान आह। अथ च्छन्दोनिर्णयः । अथेति। अथ निरुक्तनिर्णयानन्तरं छन्दोनिर्णयश्छन्दः श- कदवाच्यस्याडर्थस्य निर्यायो विचारः क्रियत इति शेपः, तमेवाह। तच्छन्दो यदि न ज्ञातं स्वछन्दो येन खेलति। यरस्तजभ्नमोपेतैश्छन्दोभिः किं प्रयोजनम् ॥१॥ इ० बोध० मु० पु० अ० छन्दोनिर्णयः ॥१३॥ तदिति। तज्जीवन्मुक्तेपु प्रसिद्धं छन्दः स्वाभाविकव्यवहाररुपं सहजवर्तनं न ज्ञातंन विदितं यदि यर्हि तत्कि येन स्वच्छन्दचा- रित्वेन स्वच्छन्दः स्वाधीनः सन् खेलति क्रीडति तदिति योज्य, सर्हि यरस्तजभ्नमोपेतैः 'लध्वादिसमन्वितं यकाराख्यमि'ति पि- ङलसूत्रोक्तलक्षया लक्षितो यो यगण:, तथा रो रगणो 'लघुमध्यमं तु रेफमि'त्युक्तलक्षणः, सः सगण 'सकारमन्ते गुरुनिवद्धमि'त्यु- क्तलक्षयः, तस्तगणो 'लध्वन्त्यं हि तकारमित्युक्तलक्षयः, जो जगणो 'जकारमुभयोर्लघुं विजानीयादि'त्युक्तलक्षणः, भो भगण 'आ- विगुरुं च भकारमि'त्युक्तलक्षणः, नो नगणो 'नकारमिह पैङ्गले त्रिलद्युमित्युक्तलक्षणः, मो मगणः 'त्रिगुरुं विद्धि मकारमि'त्युक्त- लक्षयाः, एतैरुक्तलक्षणैर्गणैरुपेतानि युक्तानि तैश्छन्दोभिरार्यादि-
प्रयोजनं किं फलं मुमुक्षूणां न किमपीत्यर्थ:, छन्दःशास्त्रादरं परि- त्यज्य मुमुक्षुभिरवेदान्तश्रवणादिष्वेवादरो विधेय इति भावः ।।१। इति श्रीनरहरिशिष्यदियाकरविरचितायां बोधसारार्थदीपी
Page 482
४५८ बोधसारे।
काशस्त्रयोदर्शः ॥१३ ॥
अथ ज्यौतिषनिर्णयः। एवं छन्दोनिर्णयमभिधायेदानी ज्यौतिषं निणेंतुं ज्यौ- तिषनिर्यायाख्यमेकश्लोकं पकरणमभिदधान आह। अथ ज्यौतिषनिर्णयः । अ्रथेति। अथ च्छन्दोनिर्यायानन्तरं ज्यौतिषनिर्यायो ज्यौ- तिषस्य ज्यौतिषशास्त्रस्य निर्णयो मुमुक्षुविहितो विचार: क्रि- यत इति शेष:, तमेवाह। ज्योतिषा येन सूर्यादि ज्योतिर्भाति न वेत्ति तत। यदि येन तदा तेन ज्योतिर्ग्रन्थेन किं कृतम् ॥१॥ इति श्रीनरहकृतौ वो०मु० पु०अ० ज्योतिःशास्त्रनिर्णयः। ज्योतिषेति। येन विदुरषा प्रत्यक्षभूतेन ज्योतिषा स्वयं पका- शरूपेगा चिद्रपेण 'तदेव ज्योतिषां ज्योतिः, आत्मैवास्य ज्यो- तिर्भवती'इत्यादिश्रुतिभ्यः, सूर्यादि सूर्य आदिस आदिर्षस्पा- पनिचन्द्रवाग्रूपस्य ज्योतिषस्तत्तथोक्तं ज्योतिर्व्यवहारपकाश- सांधनं सूर्यादिरूपं भाति प्रकाशते सूर्यादीनां ज्योतिष्टे श्रुत- यस्तावद 'सूर्य एवास्य ज्योतिर्भरवत, चन्द्रमा एवास्य ज्योतिर्भ- वति अगनिरेवास्य ज्योतिर्भवति वागेवास्य ज्योतिर्भवती'त्या- दय:, तदात्मरूप ज्योतिर्येन ज्यौतिषशास्त्रेया न वेत्ति न जा- नाति यदि यर्हि तदा तर्हि तेन लोकमसिद्धज्योतिपा सूर्यादे- निरूपणाप्रधानेन ज्योतिर्ग्रन्थेन ज्यौतिषशास्त्रेण किं कृतं किं
Page 483
मुनीन्द्रदिन० पुराणश भष्टादृश० शुग्यचचुर्वेदनिर्णयः। ४५९. सम्पादितं न किमपीत्यर्थः, तत्साध्यस्य सर्वार्थस्यानात्मत्व्ा- दिति भाव:, सूर्यादिज्योतिष आत्मज्योतिःप्रकाश्यत्वे श्रुन- यस्तावद्'येन सूर्यस्तपति तेजसेद्ः, तस्य भासा सर्वमिदं वि- भाति, आत्मनैव ज्योतिषास्ते'इसायाः ॥१॥ इति श्रीनरहरिशिष्यदिवाकरविरच्ितायां बोधसारार्थदीती मु- नीन्द्रदिन चर्यार्थप्रकाशे पुराणभरवणनिर्णयार्थप्रकाशेऽष्टाद- शविद्यास्थाननिर्णयार्थप्रकाशन्तर्गतो ज्यौतिषनिर्या- यार्थप्रकाशश्चतुर्दशः॥१४॥
अथ वेदनिर्णयः । एवमक्गा निनिर्णीयाङ्गिनो वेदान्निर्णेतुमाह। अथ वेदा:। अथेति अथाङ्गनिर्णयानन्तरं वेदा ऋगाद्याश्चत्वारो वेदा निर्णीयन्त इति शष:, तेष्वाद।वृग्वेदं निर्गोतुमृग्वेदननिर्ण- यारुयमेकश्लोकं प्रकरणमारभमाण आह।
तत्रेति। तत्र वेदनिर्णय आदौ प्रथममृग्वेदनिर्याय ऋगु- पलक्षितमन्त्रसमूहस्य वेदस्य ज्ञानसाधनभूतस्य निर्णयो मुमुक्ष- पयोगी विचारः क्रियत इति शेप:, तमेवाह। यः परानन्ददः स्वात्मा तं त्वा वयं यजामहे। इत्याहुतो न विश्वात्मं ऋचा हौत्रिण किं तदा ॥ १॥ इति श्रीन० बो० मु० पु० अ० ऋुग्वेदनिर्यायः ॥१५॥ थ इति। यो विवेकिषु प्रसिद्ध: परानन्ददः परो निर- तिशयो य आनन्दः सुखं तं ददाति यच्छति सतथोक्त: 'एप
Page 484
बाधसारे।
हेवानन्दयाती'तिश्रुतेः, स्वात्मा स्वरूपभूत आत्माऽस्तीति तमुक्तलक्षणं त्वा त्वामात्मरूपं यजामह इदंममास्पदसर्वविष- याहुया पूजयाम इसेवं विश्वात्मा विश्वस्य जगत आत्मा स्व- रूपभूतो न आहुतः सर्वजगदाहुया न तर्पितो यदि यर्हि तदा तर्हि ऋचा ऋगुपलक्षितेन 'इत्थं भृतलक्षणे' इति तृतीया, हौत्रेया हौवराख्यकर्मखा कि कि फलं मुमुक्षूणां न किमपीसर्थः, सर्व- उर्वेदमन्त्राणामात्मज्ञानमेव फलमतोन्यकर्मप्रतिपादकमन्त्रानना- हसात्मज्ञानपतिपादकमन्त्रसमूह एवादरो विधेय इति भाका१।। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थ० मुनी-
विद्यास्थांनिर्णयार्थप्रकाशान्तर्गत ऋग्वेदनिर्ण- यार्थप्रकाशः पञ्चदशः ॥१५।।
अथ यजुर्वेदनिर्णयः । एव मृग्वेद निर्णीयेदानीं यजुर्वेद निर्णतुं यजुर्वेदनिर्णया- वव्यमेक श्रोंकं प्रकरणमभिदधान आह। अथ यजुर्वेदनिर्णयः । अथेति। अथग्वेदनिर्णयानन्तरं यजुर्वेदनिर्यायो यजुर्वेदस्य निर्णयो मुमुक्षूणामुपयोगी विचारः क्रियत इति शेष:, तमेवाह। लोहिता धवला कृष्णा प्रजाहेतुरजा यदि। नोपालब्धा ब्रह्मसत्रे यजुषाध्वर्यवेण किम् ॥१॥ इति श्रीन०बोध०मु०पु०अ०यजुर्वेदंनिर्णयः ॥१६॥ लोहितेति। लोहिता रक्ता रजोगुगावतीसर्थः, धतला शुक्का सत्वगुणावतीसर्थः, कृष्णा श्यामा तमोगुणवतीसर्थ:, ए-
Page 485
मुनीन्द्रदिन० पुराण० अष्टादश० सामाथर्वणवेदनिर्णयः। ४६१
यन्त उत्पद्यन्त इति पजा महदाद्याः प्रकृतिविकृतिरूपास्तासां हेतुः कारणभूता जगज्नयित्रीसर्थः, अजा मायात्वादेवानुत्पन्ना गुणसाम्यावस्थारूपा शक्तिर्व्रह्मसत्रे ब्रह्म देशकालवस्तुकृत- परिच्छेदशून्यमात्मवस्तु व्यापकं तदेव सत्रमित सत्रं सर्वसत्रफ- फलरूपत्वाद् ब्रह्मरूप सदात्मवस्तु त्रायते रक्ष्यतेस्मिन्निति सत्रं 'ब्रह्मार्पणं ब्रह्म हवि'रित्यादिनोक्तलक्षणं तस्मित्निति वा, नोपा- लब्धा लौकिकयज्ञे प्रसिद्धाऽजेव न हिंसिता 'सर्व खल्विति, नेह नानास्ती'सादिश्रुतिदृष््या न वाधितेसर्थः, यदि त्हि तदा य- जुषा यजुर्मन्त्नैरनिर्वाहितेनाध्वर्यवेणाध्वर्युककृतेन कर्मणा किं किं फलं न किमपीसर्थः ॥ १॥ इति श्रीनरहरिशिष्यदिवाककरविरचितायां बोधसारार्थदीप्ी मु. नीन्द्रदिनचर्यार्थप्रकाशे पुराणनिर्णयार्थप्रकाशेऽष्टादश- विद्यास्थाननिर्णयार्थप्रकाशान्तर्गतो यजुर्वे- दनिर्णयार्थप्रकाशः षोडशः ॥ १६।।
भथ सामवेदनिर्णयः। एवं यजुर्वेदं निर्णीयेदानीं सामवेद निर्णेतुं सामवेदनि- शांयाख्यमेकश्लोक प्रकरणमभिदधान आह। अथ सामवेदनिर्णयः । अथेति। अथ यजुर्वेदनिर्णयानन्तरं सामवेदनिर्णयः सा- मवेदस्य गीतिप्रधानस्य वेदस्य निर्ययो विचारो मुमुक्षुग्राह्य: क्रियत इति शेष:, तमेवाह। छान्दोग्येनोपनिषदा प्रेमगद्रदया गिरा। साम्ना गीतं न चेह्रह्म सामोद्रात्रेण किं तदा ॥१।। इति श्रीन० बो० मु० पु० अ० सामवेदनिर्णय: ।।१।।
Page 486
४:8 बोधसारे।
क्वान्दोग्पेनेति। व्क्कान्दोग्येन च्छान्दोग्यनाम्नोपनिष- दोष निपण्णं समीपे स्थित विचारद्वारा श्रयो मुक्तिरुप यस्यां सोपनिषतया, आविष्टलिङ्गत्वेन विशेषणाविशेष्यभा- वस्तदुक्तं। 'लिङ्गसङ्वयातरिभेदेपि विशेषणविशेष्यता। विभक्ति: पुनरेकैव विशेषयाविशेष्ययोः ॥ आविष्टलिङ्गं तत्मोक्तमि'ति। मेमगद्गदया गिरा मेम्ा निरतिशयस्नेहेन कृत्वा गद्गदयाऽवरुद्धकण्ठनिःसतया गिरा वाण्या ब्रह्म देशकालचस्तुकृतपरिच्छेदहीनमात्मवस्तु गीतं गा- नविषयीकृतं न चेन्न यदि तदा तर्हि सामौद्वात्रेण सामपोक्ते- नौद्धात्राख्यकर्मया कि कि फलं भवेन्न किमपीत्यर्थः, अतो- डनात्मविषयकं सर्वै साम परिसज्यात्मविषयकमेव साम श्रोतुं मन्तुं निदिध्यासितुं गातुमादरो विधेयोमुसुक्षुभिरिति भाव:।।१।8 इति श्रीनरहरिशिष्यद्दिवाकरविरचितायां बोध्सासर्थदीपौ मु-
प्याननिर्णयार्थप्रकाशान्तर्गतः सामवेद निर्णयार्थप्रका- शः सप्दशः॥१७॥
अथाथर्वणवेदनिर्णयः। एवं सामनेदनिर्णयमभिधायेदानीमथर्वणवेदं निर्णेतुमथर्व- गवेदनिर्याया ख्यमेक श्षोकं पकरणमारभमाण आह। अथाथर्वणवेदनिर्णयः । अथेति। अथ सामवेद निर्णयानन्तरमथर्वणवेदनिर्णयोऽय- जगावेदस्याथर्वशानाम्नो वेदस्य निर्णयः मुमृक्षूपयोगी विचार: क्रियत इति शेष: तमेवाह। आथर्वणी ब्रह्मविद्या पिप्पलादमुखाच्च्युता॥
Page 487
मुनीन्द्रदिन० पुराण० अष्टादश० आयुर्वेदनिर्णयः। ४६३
चमत्कृता न हृदये किं फलं तर्ह्यथर्विः ॥१॥ इति श्रीनर० बो० मु.पु०अ० अथर्वणवेदनिर्णयः ॥।१२॥। आथर्वयीति। आथर्वण्यथर्वयावेदोद्भवा ब्रह्मविद्या पि- व्पलादमुखाच्च्युता पिष्पलफलानि अत्ति भक्षयतीति पिप्प- लाद एतेन वैराग्यातिशयो ध्वनितः, तस्य मुखाद्वदनारुचयुता निःसृताऽनेन मुमुक्षुभिरत्यादरणीयत्वं ध्वनितं, ब्रह्मविदा व्र- ह्वणो देशकालवस्तुकृतपरिच्छेदरहितस्यात्मवस्तुनो विद्या ज्ञापिका ब्रह्मज्ञानप्रतिपादयित्रीत्यर्थः, हृदयेन्तःकरणे चमन्कृ- ताSSविर्भूता न चेन्न यदि तर्हि तदाऽथर्वभिरन्पैसथर्वण- प्रयोगैः किं फलं कि प्रयोजनं न किमपीत्यर्थः, ब्रह्मज्ञानेतर- विषय प्रतिपादकमर्थतणवाक्यसमूहमनादृत्य ब्रह्मज्ञानविषयका- थर्वणवाक्यसमूहश्रवणादिष्वेव पव्ृत्तिर्मुमुक्षुभिः कर्त्तव्येति भावः ॥१॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसाराथदीपी मुनीन्द्रदिनचर्यार्थप्रकाशे पुराणश्रवयानिर्णयार्थप्रका- शेS शाद शविद्यास्थान निर्णयार्थप्रकाशन्तर्गतोSथर्व-
अधायुर्वेदनिर्णयः। एवं वेदनिर्णयमभिधायेदानीमायुर्वेदं निर्णेतुमायुर्वेदनिर्ण- याख्यमेकश्लोकं प्रकरणं वक्तुकाम आह। अथायुर्वेदनिर्णयः । प्रथेति। अथाथर्ववेदनिर्णयानन्तरमायुर्वेदनिर्णय आ- युपो वेदस्य ज्ञानस्य ज्ञानसाधनस्य चिकित्साशास्त्रस्येस्र्थः, नि- णयो मुमुक्षूपयोगी सिद्धान्तः क्रियत इति शीष:, तमेवाह।
Page 488
४६४ बोघसारे।
ज्ञानामृतं न चेत्पीतममृतत्वं न साधितम् । मृत्युरेव पुनः प्राप्त आयुर्वेदो निरर्थकः ॥ १॥ इति श्रीन० बो० पु० अ० आयुर्वेदनिर्णयः॥१९ ॥ ज्ञानामृतमिति। ज्ञानामृत ज्ञायते ब्रह्माडनेनेति ज्ञानं महावा- क्यजन्यं साक्षात्काररूपमहं ब्राह्मास्मीत्याकारं तदेवामृतं पी- यूषं जरामरणादेनिवर्त्तकत्वात् तत्पीतं प्राशितं न नास्ति चेघ्य- दि तर्हि तदाऽमृतत्वं न मृतं ब्रह्म तस्य भावस्तत्त्व न साधितं न संपादितं स्यात्तदा तर्हि पुनर्भूयो मृत्युरेव मरणमेव प्ाप्तो लब्धस्तदाऽडयुर्वेद आयुष: साधनभूतं यज्ज्ञानं तत्प्रतिपादको ग्रन्थो निरर्थको व्यर्थ इत्पर्थः, अत आयुर्वेदादरं परित्यज्य मो- क्षसाधनभूतज्ञानसाधनवेदान्तश्रवर्णादिष्वादरो मुमुक्षुभि कर्त- व्य इति भावः ॥ १ ॥ इति श्रीनरहरिशिष्यददविवाकरविरचितारयां बोधसारार्थदी- सौ मुनीददिनचर्यार्थप्रकाशे पुराणनिर्णयार्थप्रकाशे-
दनिर्णयार्थप्रकाश एकोनविंश्ः ॥ १९॥।
अथ धनुर्वेदनिर्णयः। एवमायुर्वेद निर्णीयेदानीं धनुर्वेदं निर्णेतुं धनुर्वेदनिर्ण- या ख्यमेक श्लोकं पकरणमारभमाण आह। अथ धनुर्वेदनिर्णयः । प्रथेति। अथायुर्वेदनिर्यायानन्तरं धनुर्वेदनिर्णयो धनुषो धनुरुपलक्षितस्य शस्त्रास्त्रसमूहस्य वेदः प्रेरणाकर्षणादिज्ञान- प्रतिपादक शास्त्रं तस्य निर्णयो मुमुक्षुसंमतः सिद्धान्तः क्रि- यत इति शेष:, तमेवाह।
Page 489
मुनीन्द्रदिन० पुराण० अष्टादश० धनुर्गान्धर्ववेदनिर्णयः। ४६५ प्रणवेनैव धनुषा प्रबोधेन शरेण च। लक्ष्यं ब्रह्म न चेद्विद्धं धनुर्वैदो निरर्थकः ॥१॥ इति न० बो० मु० पु० अ० धनुर्वेदमिर्णयः ॥२०॥ प्रणवेनेति। मणवेनैवोङ्कारेणैव धनुपा वाणासनेन क- रणेन प्रवोधेन ज्ञानेन 'अमित्येतदक्षरमिदशसर्व भूतं भतद्भवि- व्यच्च सर्वमोङ्कार एवे त्यादिमाण्डक्योपनिषदुक्तपकारज्ञानरू- पेण शरेय च सायकेनापि बाह्यकरणेन तस्य वोधस्य प्रणव- द्वारकत्वात्मयावस्य धनुष्वं ज्ञानस्य च शरत्वं ब्रह्म देशकालव- स्तुकृतपरिच्छेदशून्यमात्मवस्तु लक्ष्यं लक्षितुं योग्यं तस्य वो- धवायास्य लक्षखातृत्या विषयत्वाद्वेघार्हमुच्यते श्रत्येति शेष, कथ्यते। तथा च श्रुतिः । 'प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेदि'ति॥ लक्ष्यं लक्षणावृत्त्या बोधविषयं ब्रह्म देशकालवस्तुकृतप- रिच्छेदशून्यमखण्डसच्चिदानन्दरूपं वस्तु विद्धं वेधितं बुद्धमिस- र्थः, न नास्ति चैद्यदि तर्हि तदा धनुर्वेदो धनुरुपलक्षित स- वशस्त्नास्त्रपयोगाकर्षणज्ञानप्तिपादकं शास्त्रं निरर्थको निष्पयो- जन इत्पर्थ:, तत्र मुमुक्षुविषयाभावादिति भावः ॥ १ ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी मु- नीन्द्रदिनचर्यार्थप्रकाशे पुराणश्रवणनिर्णयार्थप्रकाशेSष्टादय- विद्यासाननिर्णयार्थप्रकाशान्तर्गतो धनुर्वेदनिर्णयार्थ प्रकाशो विशः ॥२० ॥
अथ गान्धर्वनिर्णयः । एवं धनुर्वेदनिर्णयमभिधायेदानीं गान्धर्वनिर्णयाख्यमेक- श्लोकं पकरणं निरूपयिष्यत्राह। ६९
Page 490
४६६ बोधसारे।
अथ गान्धर्ववेदनिर्णयः । अथेति। अथ धतुर्वेदनिर्णयानम्तरं गान्धर्वनिर्णयो गान्धर्वस्य गानज्ञानप्रतिपादकस्य शास्त्रस्य निर्णयः सिद्धान्तो मुमुक्षुग्राहः क्रियत इति शेष:, तमेवाह। आत्मा कलेन गीतेन गान्धारेण स्वरेण हि। न चेद्रन्धर्ववद्गीतो गान्धर्वेण कृतं किमु ॥ १ ॥ इति श्रीनर० बोध० मुनीन्द्र० पुराण० अष्टादश० गान्धि- र्वैनिर्णयः ॥ २१॥ आत्मेति। गान्धर्वेण गन्धर्वकर्मभूतेन स्व्ररेया जातित्वादेकव- चनं निषादादिस्वरैः कृत्वा कलेन मधुरेण गीतेन गानेनात्मा स- चिदानन्दलक्षणो ब्रह्माभिन्नः प्रसगात्मा गन्धर्ववत् यथा गन्धर्वा गायन्ति तद्वद्गीतो गीनेन लक्ष्यीकृतो न नास्ति चेदयदि तदा गा- नधर्वेण गान्धर्ववेदाभ्यासेन किमु कृतं कि संपादितं न किमपी- त्यर्थः, आत्मनो व्यतिरिक्तविषयस्य गान्धर्वस्य निष्मयोजनत्वा- तदादरं परित्यज्यात्मविषयकगान्धर्ववेदमात्र आदरो विधेय इति भाव: ॥ ? ॥ इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीप्ौ मु- नीन्द्रदिननचर्यार्थ प्रकाशे पुराणश्रवणनिर्णयार्थप्रकाशेSष्टादश- विद्यास्थाननिर्णयार्थप्रकाशान्तर्गतो गान्धर्वमिर्णयार्थ- प्रकाश एकविंशः ॥। २१।।
अथार्थशास्त्रनिर्णयः। एवं गान्धर्वनिर्णयमभिधायेदानीमर्थशास्त्रं निर्णेतुमर्थशा- सनिर्णयाखयमेक श्लोक प्रकरणमारभमाण आह । अथार्थशास्त्रनिर्णयः ।
Page 491
मुनीन्द्रदिनचर्यायां सायंसन्ध्यानिर्णयः । ४६७
धनादे: साधनभृतज्ञानप्रतिपादकं शास्त्रं ग्रन्थस्तस्य निर्णयो मुमु- श्रुविहितः सिद्धान्तः क्रियत इति शेषः, तमेनाह। अनर्थाः सर्व एवार्थाः सदर्थ: परमार्थदृक्। परमार्थो न लब्धश्वेदर्थशास्त्रं निरर्थकम् ॥ १ ॥ इति श्रीनर० बो० मु० पु० अर अर्थशास्त्रनिर्णयः ॥२२॥ अनर्था इति। सर्वे लोकप्रसिद्धा धर्मार्थकामाख्या अर्ा अनर्था एव दुःखास्पदत्व्ादर्थशून्पा एव केवलं ज्ञेयाः, कस्तहीर्थ इत्यत आह सदर्थ इति, परमार्थटकूपरमः कार्यकारणरहितो यो- डथेः सद्रूप आत्मा तस्य दक् ज्ञानं तदेव सदर्थ: संश्वासावर्घश्च कालत्रयावाध्योऽर्थः सुखरूपत्वात्मयोजनरूपो ज्ञेयः स पर- मार्थ: सच्चित्सुखात्मरूपोर्डर्यो न लब्धो न प्राप्तश्चेर्धांद तर्हि- अर्थशास्त्रमर्थपापतिसाधनबोधकं शास्त्रं नीत्याूयं शास्त्रमित्य- र्थः, निरर्थकमर्थशून्यं ज्ञेयमत आत्मरूपार्थान्यार्थपाप्तिसाधन- बोधकार्थशास्त्र आदर परित्यज्य, मोक्षाख्यार्थपाप्तिसाधनभू- तज्ञानोपदेशके वेदांतशास्त्र एवादरो, विधेयो मुमुक्षुभिरि- रंत भावः । १ ॥ इति, श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसासर्थद्रीपी.मु. नीन्द्रदिनचर्यार्थप्रकाशे पुरानश्रवयनिर्णयार्थप्रकाशेण-
शास्त्रनिर्णयार्थप्रकाशो द्वारविशः॥२२।।
अथ सायंसन्ध्यानिर्णयः। एवं पुसयानिर्णयं सविशेष निरूप्येदानीं मुनीनां सार्यं- सन्ध्यानिर्गा याख्यं द्विश्लोकं मकरखमारगमाण आह।
Page 492
४६८ बोधसारे।
अथ सायंसन्ध्यानिर्णयः। अथेति।अथ पुराणश्रवणनिर्खयानन्तरं सायंसन्ध्यानिरणयो मुनीनां सायंकालीना या सन्धया सन्ध्याख्यं कर्म तस्या नि- र्णयः सिद्धान्तो सुमुक्षुविहितः क्रियत इति शेषः, तत्र तावत्पूर्वो- क्तदिनाचाराचर सेनोक्तलक्ष णदिनस्थान्ते सायं कालपाप्तिमाह। इत्थं ज्ञानविनोदेन वेदशास्त्रकुतूहलैः। दिवसं सकलं यातं सायंसन्ध्या समागता।। १॥ इत्थमिति। इत्थमुक्तपकारेण ज्ञानविनोदेन ज्ञानरूपेण वि- नोदेन परिहासेनोपलक्षितं वेदशास्त्रकुतुहलैर्वेदानामृगादीनां शास्त्राणां न्यायादीनां कुतुहलैरुक्तलक्षणैः कौतुकैः कृत्वा सकलं समस्तं दिवसं दिनं यातं व्यतीतं ततश्च सार्यसन्ध्या सायं- कालीना सन्ध्या तदुपलक्षितः काल इत्यर्थ:, समागता प्राप्ता जञेया॥ ?॥ तत्र मुनीनां सायंसन्ध्यां निर्णीय दर्शयति। एवमेव कियत्कालं व्यवहारावलोकिन: । पुनः समाधौ सन्धानं सायंसन्ध्या हि सा स्मृता॥२।। इति श्रीनर० बो० मु० सायंसन्ध्यानिर्णयः॥२९॥ एवमेवेति। एवमेवानेनोक्तम का रेणैव कियत्कालं यावद हिम न्तुक्तलक्षणे विनोदे रुचिस्तावत्पर्यन्तं कालं व्यवहारावलोकि- न उक्तलक्षणां व्यवहारमवलोकयितुं शीलमस्य सतथोक्त- स्तस्य मुने: पुनर्भूयः समाधौ समाधिविषयकं संधानं स्मरणं यद् हि विदुषामनुभवविषया सोक्तलक्षणा सायङ्कालीना स- नध्या स्मृता कथिता मुनिभिरिति शेष:, उक्तलक्षणव्यवहारोप- संहारात्सायकालत्वं वस्योपसंहारस्य, उक्तलक्षणदिनसमा-
Page 493
मुनीन्द्रदिनचर्यायां निशाव्यवहारनिर्णयः । ४६९
धिरात्रयोः सन्धिभवत्व्रादनुसन्धानस्य सन्ध्यात्वं ज्ञेयमि- ति भावः॥२॥ इति श्रीनरहरिशिष्यदिवाकरविरचितार्या बोधमाराथंदीती मुनीन्द्रदिनचर्यायां सायसंध्यानिर्णयार्थप्रकाश एकोन्रिश: ॥।२९॥
अथ निशाव्यवहारनिर्णयः। एवं सायसन्ध्यां निर्णीयेदानीं मुनीनां निशाकृसं नि- गेतुं निशाव्यवहारनिर्णयाख्यं द्विश्लोक प्रकरयं निरूपयि- व्यन्राह। अथ निशाव्यवहारनिर्णयः । प्रथेति। अथ. सायसन्धयानिर्णयानन्तरं निशाव्यवहारो निशायां रात्रौ यो व्यवहारो व्यवहृतिः कृतमिसर्थः, निर्यीयत इति शेष:, तमेवाह द्वाभ्याम्। यातेऽथ व्यवहारनाम्ि दिवसे भुक्ते च सन्ध्यासुखे जातायां निशि निश्चलेन मनसा दत्वा कपाटार्गलाः । पीत्वा संप्रति शुद्धबोधमधुरं क्षीरं यथेष्टं युवा पर्यङ्के सुसमाधिनामनि मुहुः काश्िुनक्ति प्रियाम्॥१॥ यात इति। व्यवहारनास्नि, व्यवहियतेस्मिन्निति व्यव- हर उक्तलक्षयास्तदेव नाम यस्य तस्मिन्दिवसेऽहनि याते व्यतीते सति अथानन्तरं सन्ध्यासुखे पूर्वोक्तज्ञानिव्यवहार उदासीनतयोपसंहृतेऽनन्तर पूर्वोक्तज्ञानिव्यव हा रोपलक्षित दिव- सस्य समाध्युपलक्षितरावेश्च सन्धिभवं यत्पूर्वमुक्तं. सन्ध्याख्यं कर्म तस्य सुखं वासनानन्दापरपर्षायं तस्मिन्भुक्तेऽनुभूते
Page 494
४७० बाधसारे।
सतीदमेव सायभोजनं सुनीनामिसर्थः, ततो निशि पूर्वोक्त- व्यन हाराहपदार्थास्फुरणलक्षणायां रात्रौ समाधिरूपायां रात्रा- वित्वर्थः, जातायां प्राप्तायां सत्यामाविर्भावोन्मुखायां सत्या- मित्यर्थः, निश्चलेन स्थिरीभूतेन मनसा चेतसा कपाटार्गला: कं सुखं पाट्यन्ति खण्डयन्तीति कपाटानीन्द्रियाणि तेषाम- र्गला: शृद्गलावद्रोधकत्वात्मयाहारलक्षणाः शृङ्गला दत्वा म- दाय प्रत्याहारं कृत्वेस्यर्थः, इदमेव कपाटबन्धनं मुनीनां झेयं, संप्रति तात्कालिकं तात्कालिकस्यैव दुग्धस्य वैदके पौष्टिकत्वो- क्तेवक्ष्यमाणवोधलक्षणस्य पयसोपि तत्कालभवस्यैन मुक्तिहे- तुत्वोक्तेश्र संप्रतीत्युक्तं, शुद्धबोधमधुरं शुद्धो मायाविद्याख्यम- लगहितो यो बोधश्चिद्वन आत्मैव सुखरूपत्वान्मधुरं मिष्ट त्रिविधमायारहितं शुद्धास्मस्वरूपसुखमेव्रेत्यर्थः, क्षीरं स्वानुस- न्धानवर्ता क्षरति स्रवत्यात्मसुखमिति क्षीरं पयो यथेष्टमातृप्ति यथा भवति तथा निःसंशयसाक्षात्कारेय नित्यतृप्तिपर्यन्तमि- त्यर्थः, पीत्वा प्राश्याहंब्रह्मास्मीत्यनुभवर्माप स्वस्मिन्विलीये- सर्थः, युवा यौवनसम्पन्न आत्मनि स्थैर्योत्साहशक्तिमनि- त्यर्थ:, मुनिर्मननवानू ज्ञानीत्यर्थः, सुसमाधिनामनि सुशो- भनो निर्विकल्पाख्यः समाधि: स एव नाम वाचकमभिधानं यस्य स तथोक्तस्तस्मिनपर्यड्गे मश्चे परितः सर्वंतोऽङं चिह्नं सच्चिदानन्दरूपं यत्र स्फुरति तत्रेत्यर्थः, काश्िदनिर्वचनीयां सच्वेन तावन् निर्वक्तु शक्या 'नेह नानास्ति किश्चन, अतोन्य- दात्तीम त्यादिश्रुतिभिरविद्वदनुभवेन च शक्तिमतः पृथगसत्वस्य शक्तेरनुमितत्वेन चः बाधितत्वस्य सर्वत्र शास्त्रेषु दृश्यमानत्वाद, नः चासच्वेन कार्यरूपेण तत्कारणरूपेगा चानुभूयमानत्वात् स- स्वासत्वगोश् परस्परं विरुद्धत्वात् काश्चिदित्युक्त, मियां सुख-
Page 495
मुनीन्द्रदिनचर्यायां निशाव्यवह्यारनिर्णयः ।
रूपत्वादिष्टां प्रीतिविषयामित्यर्थः, धुनक्ति अनुभवति आत्मनः सांचदानन्दरूपां शक्तिमेवानुभवतीति भावः।।१।। तामेत विशेषणैर्निरूपयन्प्रापं भोगित्वं मुनौ निवार्यति। तन्बङ्गीं तरुणीं विलासरसिकां चित्ते चमत्कारिणीम् जाते प्रेमणि नित्यमेव सुखदामानन्दलीलामपीम्। खेलन्तीमुरसि प्रियां निजकलामालिङ्गय तत्सङ्गमा द्वोंगीन्द्रत्वमुपागतः सुखनिधिर्योगीन्द्रचूडामणिः ॥२॥ तन्वङ्गीमति। तन्वङ्गीं तनु मूक्ष्ममङ्गं स्वरूपं यस्या वु द्वयाद्यगोचराका रामित्यर्थ, तरुणीमात्मपुरुषेच्छानुरूपजग दुन्पा- दने स्व्रात्मसुखानुभवे वा सामर्थ्यवयोन्विितां निलासरससिकां विलासे प्रपश्चांनर्माणरूपे तल्लयेन स्वात्ममात्रपरिशेषरूपे वा र- सिकां रसवतीमत एव चित्ते स्व्रात्मपुरुषोपाधिभूते चेतसि च- मत्कारीणीं चिदाभासचमत्करिणीं परमार्थतस्त्वात्मरूपाविर्भा- वलक्षणचमत्कारकारिणीं पेर्माण स्नेहे जाते स्वात्मशक्तिपरिया यां स्वात्मपुरुषाचतस्रेह उत्पन्ने सतीसर्थः, नियमेत सर्वदैव सु- खदामानन्ददात्रीमाननदलीलामयीमानन्दः सुखें तद्रूपा लीला क्रीडा तन्मयीं तद्रूपां खेलतीं क्रीडन्तीं निजकलां निजा स्वीयां कलामंशरूपां प्रियां सुखरूपत्वादिष्टामुरसि परमार्थतः स्व्रा- भिन्ने व्यवहारदृष्ठ्या तत्काल्पतैकदेशलक्षणे स्वाङ्गविशेष आ- लिड् परिरभ्य स्व्राभिन्नामवलोक्येलर्थः, तत्सङ्गमात्तस्या उ-
भोगिन आनन्दमयकोशोपाधिका व्यष्टिजीवास्तपामिन्द्रत्वमी- श्रवरत्वं प्रेरकत्वमिसर्थः, उपागतः प्राप्तोपि योगीन्द्रचूडा- माणर्योगिनो जीवन्रस्मैक्यसाक्षात्कारवन्तो जीवन्मुक्ता बा-
Page 496
४७२ बोधसारे।
धितप्रपश्चा इसर्थः, तेषामिन्द्रा जीवन्मुक्तश्रेष्ठा ब्रह्मादीशवरान्ता स्तेषामप्याधारशुद्धब्रह्मरूपत्वाच्चूडामणिरिव भवतीति क्ञेयः, उभयत्र हेतु: सुखनिधिः सुखानां वैषयिकमानुषादिसुखानां बिम्बभूतसुखरूपत्वान्निधिः समुद्र इवाडतो भोगीन्द्रत्वं योगी- न्द्रचूडामणित्वं चोभयमप्येकत्र सम्भाव्यमिति भावः॥ २ ॥। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी मु. नीन्द्रदिनचर्यायां रात्रिकृत्यार्थप्रकाशस्त्रिंय॥ ३०॥।
एवं मुनीन्द्राणां रात्रिकृसं निर्णीयेदानीं मुनीन्द्रदिनचर्या- फलं निर्णेतं मुनीन्द्रदिनचर्याफलनिरूपणाखयं तिश्लोकं प्रकरयं वक्तुकाम आह। अथ मुनीन्द्रदिनचर्याविचारफलनिरूपणम्। अथेति। अथ रात्रिकृतनिर्यायानन्तरं मुनीन्द्रदिनचर्याफल- निरूपणं मुनीन्द्रदिनचर्याया: फलस्य प्रयोजनस्य निरुपयां भ- तिपादनं क्रियत इति शेष:, तदेवाह। मुनीन्द्रदिनचर्येयं चिन्तनीया दिनेदिने। न चिराच्चिन्तनेनास्या नरो निश्चिन्ततां व्रजेत् ॥१॥ मुनीन्द्रेति। हे शिष्य इयं निरूपिता मुनीन्द्रदिनचर्या मुनी- नां मननवतां मध्ये य इन्द्राः श्रेष्ठास्तेरषां दिनचर्याSSह्ि- कनिरूपयाप्रकरणं दिने दिने प्रस्हं नित्यमेवेत्यर्थः, चिन्तनी- या विचारणीया भवताऽन्यैरपि मुमुक्षुभिः, नन्वस्या विचारणे- न किं फलन्तत्राह नेति, नरो न राति आदत्ते विषयानिति नरो वैराग्यादिसाधनसंपन्नः पुरुषोडस्या मुनीन्द्रदिनचर्याया-
Page 497
मुनीन्द्रदिनचर्यायां मुनीन्द्रदिनचर्याफलनिरूपणम्। ४७३
श्विन्तनेन विचारेण न चिराच्छीघ्रमेव निश्चिन्ततां स्वात्मनि- स्छिरता व्रजेत्पाप्नुयात्॥१॥ एतत्प्रकरणविचाररीतिनिरूपणपूर्वकमस्या विचारे विशिष्ठं फलं निर्दिशति। साध्यसाधनसंबन्धफलसंस्कारयुक्तिभिः । ज्ञातायां सम्यगेतस्यां ज्ञातव्यं नावशिष्यते ॥ २ ॥ साध्येति। साध्यसाधनसम्बन्धफलसंस्कारयुक्तिभिः सा- ध्यमखण्डैकरसं ब्रह्मत्वं, साधनानि अस्मिन्मकरय उक्तानि रूपकैः पातःशौचादिपदवाच्यव्रह्माकारवृत्तिरूपायि, संवन्धश्च तासां वृत्तीनां तत्साध्यस्य ब्रह्मणश्च साध्यसाधनरूपो लक्ष्य- लक्षकरूपो वा, फलं च समाध्युत्थानसमयेपि उक्तलक्षणव्यवहा- रेगा ब्रह्मात्माविस्मृतिरूप, संस्कारश्वान्तःकरण एतत्मकरण- निरूपितवृत्त्यनुसन्धानेन ब्रह्मात्माभेदवासनारूप:, युक्तिश्व व्र- आात्मनि चेतसः स्थिरीकरयरूपाSविरोधशब्दवाच्या, एताभि: साधनभूनाभि: सहैतस्यां मुनीन्द्रदिनचर्याख्यप्रक्रियायां ज्ञा- तायां विचारितायां ससां ज्ञातव्यं विचारणीयमन्यत्किमपि शास्त्रं नावशिष्यतेऽवशिष्टं न भवति सर्वमाप ज्ञातं भवतीसर्थः, एतत्पकरणविचारस्य सर्वशास्त्रविचारफलरूपत्वादिति भावः।।२॥ इदानीं मुनीन्द्रदिनचर्याया मुनीन्द्रवागगोचरत्वनिरूपण- पूर्वकं स्वस्य तत्र वाचाटत्वं क्षमापयति। मुनीन्द्रदिनचर्येयं मुनीन्द्रैरपि दुर्वचा। मम वाचालतां तत्र क्षम्यतां पार्वतीपतिः ॥३॥ इति श्रीनर यो० मुनीन्द्रदिनचर्यायां मुनीन्द्वदिनचर्या षिचारफलनिणेयः ॥ ३१॥ मुनीन्द्रेति। इयं मदुक्ता मुनीन्द्रदिनचर्या मुनयो मनन- ६९
Page 498
४७४ बोघसारे।
शीला: प्रथमादिचतुर्थ्यन्तभूमिकास्थितास्तेषु मध्य इन्द्राः श्रष्ठाः पश्चम्यादिसप्तम्यनतभूमिकासु स्थितास्तेषां दिनचर्याSSह्विक- निरूपणाख्या प्रकरयारूपा मुनीन्द्रैरप श्रेष्ठमुनिभिरपि दुर्वचा निरूपयितुमशक्याऽस्ति, ननु तहि भवता कर्थं निरूपिता तत्राह ममेति, तत्र मुनीन्द्रदिनचर्यानिरुपणे मम तन्निरूपग- समर्थस्य मे वाचालतां वाचाटत्वं पार्वतीपतिः पार्वत्याः पंतिः स्व्रामी शितः क्षम्यतां सहतु पार्वतीपतिरियनेन पूर्वजन्मान सत्या दक्षकन्यायाः स्व्रपितृदक्षाध्वरगंमननिवारणजनितकोपेन स्वस्मिन्सतीकृतं वाचाटत्वमनुभूयापीह पार्वतीजन्मनि पर्व- तस्य जाड्याधिक्येन तत उत्पन्नायाः पार्वया अपि जाड्याधि- क्यस्यानुमेयत्वात्तत्मूलकस्य वाचाटत्वस्यापि आधिक्येनानु- मयस्य सत्वात्तत्तादृशवाचालाया: पार्वया अङ्गीकाराच्छिवे वाचालत्वक्षमावत्वाधिक्यमस्त्यतो मद्दाचालत्वं क्षन्तु योग्य: शिव एवेति भाव: ॥। ३। इति श्रीनरहरिशिष्यदिवाकरविरचितायां बोधसारार्थदीपी मु- नीन्द्रदिननचर्यार्थप्रकाशे मुनीन्द्रदिनचर्याफलनिरूपणार्थ- प्रकाश एकत्रिंश: ॥३१ ।। इति मुनीन्द्रदिनचर्यार्थप्रकाश: बोडय:॥१६॥
अथ निरञ्जनपश्चाशत्कम्। एवं मुनीन्द्रदिनचर्या निरूप्येदानीमात्मनः सर्वधर्मैरलि- सत्वं साक्षात्कारयितुं जिज्ञासूनां निरञ्नपश्चाशत्कारूयं पश्चा- शच्छांकं प्रकरणमभिदधान आह। अथ निरञ्जनपञ्चाशत्कम्। अथेति। अथ मुनीन्द्रदिनचर्यानिरूणांनन्तरं निरञ्न- सर्वसम्बन्धकारण-
Page 499
निरअनपआ्चाश:कम ४७१
खात्स निर्गतो निवृत्तो यस्मात्स निरञ्जनो निरुपाधिक आत्मा तस्य पश्चाशत्कं पश्चाशरतां पञ्चाशच्छोकानां समूहः पश्चाशत्कं समूहे कन,अस्य पकरणस्य तत्मतिपाध्यात्मनश्च निरूप्यनिरु- पकभावरूपः सम्बन्धोऽतोस्य मकरणस्याभिधानमपि निरञ्ञ- नवश्चाशत्कं तनिरुप्यत इति शेपः, तत्रादावत्रेतत्मकरणस्य प्रा- माण्यसिद्धये मामाण्यहेतुज्ञापनपूर्व निरूपयितव्यपकरयाविष- य निरूपयं पतिजानीते। यत्र प्रमाणं: वेदान्ता अनुभूतिस्तथा सताम्। देवो निरञ्जनः सोयं बोधसारे निरूप्पते ॥ १ ॥ पत्रेति। यत्र र्यास्मन्देवे वेदान्ता वेदशिरोभागा उप- निषद इसर्थः, प्रमाणं प्रमास्ति तथा तद्वत्सतां सदर्थ मोक्षं पा- मानां जीवन्मुक्तानामितर्थः, अनुभूतिरनुभवो यत्र देवे, ममा- णमस्ति उक्तद्विविधपरमाणसिद्धः सोडयं महुद्धिवृत्तिप्रत्यक्षो देवशचिन्मात्रस्वरूप आत्मा निरञ्जन उपाधिरहितोSत्रास्मि- :प्रकरणे विविच्य सर्वोपाधिभ्य: पृथककुस प्रदर्श्यते मुमुक्षू- णामनुभवगोचरो यथा भवति तथा प्रकर्षेण निरुप्यत इत्यर्थ:।9। तत्र तावदादौ अज्ञत्वाभिमानरूपोपाधिरात्मानं, विविच्य दर्शयति। अहमज्ञो न जानामि मामहं कोहमित्युत ।: अज्ञानप्रभवो भाव आत्मा शुद्धो निरञ्जनः ॥२।। अहमिति। अहमहमावच्छिन्नश्चिदाभासोऽहं क :- अहं. चिद्नूपोऽचिद्ठूपो वा ससङ्गो निःसङ्गे वा जीवो ब्रह्म वेत्यु- तेत्यपि मां मा न. जानामि न वेदयि अनोहगज्ञोऽहमज्ञान्य- स्मीत्यनुभवरूपो भावः पदार्थोऽज्ञानप्रभवोऽज्ञानं इ्नीवरुद्ध
Page 500
४७६ बोधसाऐे।
भावरूपमज्ञानमिति लक्षणलक्षितादविद्यापरपर्यायात्मभव त्पत्तिर्यस्य स तथोक्तोऽस्ति आत्मा ब्रह्माभिन्नः पत्यगा- त्माऽज्ञानस्य तज्जन्याहङ्कारस्याऽहमज् इति भावस्य च प्र- काशकत्वात्ताभ्यां मिन्नो निरञ्जनः स्वयंप्रकाशरूपत्वादज्ञा-
्दा चिन्तनीयमिति भावः॥२ ॥ एवमज्ञानतदहङ्काराभ्यां विविच्यात्मानं दर्वयित्वा जी- वस्य ब्रह्मविषयकध्पेयत्वभ्रमोपाधेरात्मानं विविच्य दर्शयति। यदियं ब्रह्मविषया जीवस्य ध्येयतामतिः । स हि भ्रान्तिमयो भाव आत्माशुद्धो निरज्जनः॥३॥ यदिति। यद्या ध्यानिषु प्रत्यक्षेयं साक्षिचैतन्यप्रकाश्या ब्रह्मविषया ब्रह्म देशकालवस्तुकृतपरिच्छेदशून्यं ब्रह्म शवलं त- द्विषयो ध्येयं यस्या: सा तथोक्ता जीवस्य माणोपाधिकस्य साधिष्ठानबुद्धिस्थचिदाभासस्य जीवसम्बन्धिनीत्यर्थः, ध्येयता- मतिर्ध्यानविषयत्वनिश्चयरूपा वृत्तिरस्ति तस्याः साक्षिपका-
न्नेव परमार्थतो ब्रह्मस्वरूपे सति जीवत्वनिश्चयाच् स उक्तो भांवः पदार्थो भ्रन्तिमयो भ्रान्तिरेत्र केवलमस्ति अतस्त- त्माक्षी-आत्मा ब्रह्माभिन्नो प्रत्यगात्मा निरअनोऽज्य- तेनेनेत्यअनसुपाधिरुक्तभ्रान्तिरूपः स निर्गतो निवृत्तो य- समात्स तथोक्तोत एव शुद्धो निर्मलो भ्रान्तिसाक्षित्वमलरहित इत्पर्थः, अस्तीति शेप:, विद्यते एवं निश्चेतव्यमिति भावः ॥३॥ एवमुक्तलक्षणं भ्रान्तेरात्मानं विविच्य दर्शयित्वेदानी
Page 501
निरअनपञ्चाशत्कम। ४७७
गुणत्रयात्तत्कृतवन्धना न्तदभिमानाच्चात्मानं विविच्य दर्शयति। त्रिभिर्गुणैर्निबद्धोहं संसारे संसराम्यहम्। इत्यादयाः प्राकृता भावा: आत्मा शुद्ो निरञ्जन:॥४॥ त्रिभिरिति। अहमन्तःकरणस्यान्तरा वृत्तिरहमिति त- द्विपयोहं तद्रेध्ो ब्रह्माभिन्नः मत्यगात्मा परमार्थतः सत्रपि अ्रन्तःकरणविषयत्वेन प्रतीयमानः सोडहं त्रिभिस्त्रिमङ्गया- कैर्गुयौः सच्वरजस्तमोभिधैर्निवद्धो बन्धनं प्राप्तोड्म अनः सत्तगुणबद्धत्वादहं ज्ञानीतिप्रतीतिरहं शमवाञ्जितेन्द्रियो विरक्तो मुमुक्षुरित्याविपतीतिश्र स्व्रस्मिन्करोति, रजोगुणबद्ध- त्वादहङ्कामी कर्त्ता लोभीसादिप्रतीति स्वस्मिन्करोति, तमो- गुणवद्धत्वाददमज्ञानी कोधी स्तब्ध इत्यादिपतीनि स्वस्मि- करोतीत्पतस्त्रिगुणबद्धत्वमिति भावः, अत एव संसारे सम्य- कूसरति प्रसरतीति संसारः प्पश्चोऽज्ञानतत्कार्यरूपस्तस्मिन्नेव- संसरामि वर्त्ते Sहं सािष्ठानबुद्धिस्थचिदाभासी जन्ममरणादि- संसारमङ्गीकरोमीत्यर्थः, इत्याद्या एवमादय भावा साक्षिदृश्या: पदार्थाः प्राकृता: प्रकृतिसम्भवाः प्रकृतेस्त्रिगुणात्मत्वात्तेषां धर्माणां च गुणकार्यत्वमिति ज्ञेयम्, आत्मा तत्साक्षी निरज्जनः
एवं प्कृतितह्ुणतत्कृतवन्धनतद्वद्धोपाधिभ्य आत्मानं वि- विविच्य दर्शयित्वेदानीमन्तःकरणचतुष्टयरूपोपाधेरपि तं वि- विच्य दर्शयति। मनोबुद्धिरहङ्कारश्षितं चेति चतुष्टयम् । अन्तःकरणजा भावा आत्मा शुद्धो निरज्जनः ॥५॥
Page 502
४७८ बाधसारे।
मन इति। मनः संकल्पविकल्पात्मिकान्तःकरणावृत्तिः,
तीतिरूपन्तःकरणव्ृत्तिः, चित्तं चानुभवपतभिज्ञास्मृतिघर्मर- पान्तःकरणवृत्तिरित्येवं चतुष्टपं चतुष्कं यदस्ति तत्स भावः प- दार्थोऽन्तःकरगाः पश्चभूतसत्वगुणभागकार्यरूपं द्रव्यं तम्मा- ज्ात उत्पन्नोऽन्तःकरयाविकृतिरूपो ज्ञेय आत्मा ब्रह्माभिन्न
शुद्धस्तत्साक्षितमलरहितोऽस्तीत्वनुसन्धेयम् ॥५॥ एवमन्तःकरणचतृष्टयोपाधेरात्मानं विविच्य दर्शयिते- दानीं मनोवत्तिभ्योपि तं विविच्य दर्शयति। यच् सङ्कल्प्यते पूंर्व सङ्कल्प्य च विकल्प्यते। एते मनोभवा भावा आत्मा शुद्धो निरज्जनः ॥ ६ ॥ यच्चेति। यत्सर्वेषु प्रसिद्धं पूर्व प्रथमतः संकल्प्यत इदं समी- चीनमिति सम्यक्तया चिन्त्यते तत्संकल्प्य सम्यक्तया विचिन्स विकल्प्यते च विपरीतत्वेनासमीचीनत्वेन चिन्त्यतेऽपि एते उक्ताः संकल्पविकल्परूपा भावा विकाश मनोभवा मनसो मनो- नाम्न्या अन्तःकरणव्ृत्तर्भवा उत्पन्ना मनोदृत्तय इत्यर्थः, झेया आत्मा ब्रह्माभित्नः प्रत्यगात्मा निरअ्नो मनस्तदृत्युपाधि- भिन्नस्तदस्पृष्ट इत्यर्थः, अत एव शुद्धो मनस्तदटत्तिसाक्षिलमलर- हितोऽस्ीच्यनुसन्धेयम् ॥ ६॥ एवं मनोवृत्तिभ्योप्यात्मानं विविच्य दर्शयित्वेदानीं बुद्धित्ध- न्तिभ्योप्यात्मानं विविच्य दर्शयति। इदमित्थमिदनेत्थमिति निश्चीयते तु यत्। स हि बुद्धिमयो भाव आत्मा शुद्धो निरज्जन: ॥७॥
Page 503
निरञ्जमपश्चाशत्केम्। ४७९
इदमिति। इदं घटादि द्रव्यं पुरो दृश्यमानमित्थमेतादशं घ- टादिरूपमेव तथेदं रज्जवादि द्रव्य नेत्थं नेतादृशं मर्पादिरूप नैव भनतीत्येवं यत्पसिद्धं निश्चीयते निश्चयेन ज्ञायते स हि स उक्तो हि प्रमिद्धो भावो विकारे बुद्धिभवो बुद्धिजन्योऽस्तांत ज्ञेयम्, आत्मा तत्साक्षी प्रत्यगात्मा निरञ्जनो निर्गत सर्वदा नि- वृत्तमअनं बुद्धितद्ृत्त्युपाधिर्यस्मात्स तथाभूतो डत एव शुद्ध-
इदानीमहङ्कारवृत्तिभ्योप्यात्मानं विविच्य दर्शर्यात। ज्ञत्वकर्तृत्वभोक्तृत्ववध्यघातकतादयः । अहङ्कारभवा भावा आत्मा शुद्धो निरञ्जन: ॥८।। ज्त्वेति। इ्ञत्वकर्तृत्वभोक्तृत्ववध्यघातकतादयो ज्ञत्वं ज्ञाने- न्द्रियव्यापारकर्तत्वाभिमानित्वं कर्तृत्वं कर्मेनन्द्रियव्यापारकर्तृत्वा- भिमानित्वमेतदुभयं विज्ञानमयाभिमानजन्यं, भोक्तृत्वमहं भा- क्ेसेव मभिमानित्वमेतदानन्द मय को शाभिमानवृत्तिः, वध्योडह- मेतस्य वधाई इत्ेवं स्थूलशरीराभिमानित्वं, घातकता घातको- हमेतस्येस भिमानस्तस्य भावस्तत्ताऽडदिर्येषां ते तथा भूतास्ते सर्वेपि भावा विकारपदार्था अहङ्गारादुद्वव उत्पततिर्येषां ते तथा भूता ज्ञेया आत्माऽइङ्कारतद्वृतिसाक्षी प्रसक्कैतन्यरूपो
इदानीं चित्तदृत्तिरूपोपाधिभ्य आत्मानं विविच्य दर्शयति। स्मृतिः पूर्वानुभूतस्य प्रत्यभिज्ञा च तादृशी। एते चित्तभवा भावा आत्मा शुद्धो निरञ्जनः ॥९॥ स्मृतिरिति। पूर्वानुभूतस्य पूर्व पूर्वकाले कदादिदनुभूनो
Page 504
४८० बोधसारे।
नुभवगोचरः कृतो यः पदार्थस्तस्य घटादिपदार्थस्य स्मृति: स्मरणं, तादृटशी तद्वत्परत्यभिज्ञा चानेकवृत्तिविषयाणामनेकवृ- त्तीनामेकविषयत्वपूर्वकमेकवृत्तित्वप्रती तिरिति लक्षयालक्षिता सा प्रत्यभिज्ञाख्या वृत्तिः, एताभ्यामनुभवाख्या वृत्तिरपि ग्राह्या, एते स्मृत्यादयो भावाः पदार्था विकारा इत्यर्थः, चित्तभवाच्चित्ता- च्विताख्याया अन्तःकरणवृत्ते भैव उत्पतिर्येषां ते तथोक्ता जेया, आत्मा चित्ततद्ृत्तिसाक्षी प्रत्यगात्मा निरअ्नश्चित्ततद्- वृत्ति रूपोपाधिरहितोऽत एव शुद्धश्चित्ततद्वृतिसाक्षित्वमलरर्हितो- डस्तीत्यनुसंधेयम् ॥ ९॥ एवमन्तःकरणचतुष्टयततद्वृत्युपाधिभ्य आत्मान विविच्य दर्शयित्वेदानी शरीरत्रयतदभिमानिभ्योप्यात्मानं विविच्य द- शपति।
ये विश्वतैजसप्राज्ञा जाग्रत्स्वप्रसुषुप्तिषु। अवस्थाभेदजा भावा आत्मा शुद्धो निरज्जनः॥१॥ ये इति। जाग्रत्स्वप्रसुपुप्तिषु जाग्रतीन्द्रियैरथोपलब्धिर्जा- गरितमित्युक्त लक्षाणायां जाग्रदवस्थारयां स्प्ने च जाग्रदवस्था- धत्सर्वेन्द्रियेषु सुप्तौ लीनेषु सत्सु जागरत्संस्कारजः प्रसयःस स्वम इत्युक्तलक्षणायां स्त्रम्नावस्थायां च सुषुप्तौ च सर्वेन्द्रियाणां स्व- कारणाज्ञाने लयेन स्वकारणाज्ञानमात्रत्वमित्युक्तलक्षणायां सुषु- प्त्यवस्थायां क्रमेण ये मसिद्धा लोके च शास्त्रे च तत्तदव- स्थाभिमांनिनो विश्वतैजसपाज्ञा विश्वश्च जाग्रदभिमानी विश्वा- भिधस्तैजसश्च स्वभावस्थाभिमानी तैजसनामा पाजञश्र सुषुप्स- भिमानी माजनामकः सन्ति ते सर्वेप्येतेऽवस्थाभेदजा अव- स्थानां जाग्रदायवस्थानां ये भेदा वैलक्षण्यानि सन्ति तेभ्य:
Page 505
बनारससंस्कृतसीरी जनान्नी वाराणसेयसंस्कृतपुस्तकाचली।
इयं पुस्तकावली खण्डशो मुद्रिता भवति। अस्यां संस्कृंतभाषा निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा- दसहिताश्च ग्रन्था मुद्रिता भवन्ति । तांक्च ग्रन्थान् ाशिकराजकी- यसंस्कृतपाठशाली यपण्डिता अन्ये Sपि विद्वांस: शोधयन्ति। यैग्रां- हकमहारायैरियं पुस्तकावली नियमेनाविच्छेदेन संग्राह्या तैस्तदे- केकस्य खण्डस्य ।।।) मूल्यं प्रापणव्ययश्च =) देयः । अन्यैमे- हाशय्येः कानिचित् खण्डानि संग्राह्याणि तैश्च- प्रत्येकं खण्डानां १) मूल्यं प्रापणव्ययश्च =)देय इति।। तत्र मुद्रिता ग्रन्थाः । ह० म०
सिद्धान्ततत्वविवेक: खण्डानि ५ 0 अर्थसङ्ग्रह अंग्रेजीभाषानुवादसहित: १ तन्त्रवार्ततिकम खण्डानि १३ १३ O कात्यायनमहार्षिप्रणीतं शुक्कयजुःप्रातिशाख्यम सभाष्यं स०६६ ० सांख्यकारिका चन्द्रिकाटीका गौडपादभाष्यसहिता १ O वाक्यपदीयम खण्डानि४ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३। द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड १). ४ रसगङ्गाधरः खण्डानि ९ 0 परिभाषावृत्ति: खण्डे २ २ 0. वैशेषिकदर्शनं किरणावलीटीका संव लितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ O शिक्षासङ्ग्रह: खण्डानि ५ O
नैष्कर्म्यसिद्धि: खण्डानि ४ 0 Oc महर्षिका त्यायनप्रणीतं शुक्क यजुस्सर्वानुक्रमसुत्रम सभाष्यम ३ ऋुग्वेदीयशौनकप्रातिशाख्यं सभाष्यम खण्डानि ४ (बृहत्) वैयाकरणभूषणम पदार्थदीपिकासहितम खण्डानि ४ ४. ० विरणोपन्यासः सटीकवाक्यसुधासहित: खण्डे २ २ O तत्वदीपनम (पञ्चपादिकाविवरणस्य व्याख्यानम) ख० ८८० वेदान्तदीप: (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ ० टुप्टीका खण्डानि ४ ४ 0
Page 506
CA व्याकरपमिताक्षरा। श्रीमदन्नंभट्टप्रणीता खण्डानि ६ ६ रसमश्जरी। व्यङ्गयार्थकौमुदा प्रकाशेन च सहिता ख० ३३ ० ेदधिक्ार: व्याख्यासहित: श्रीमदप्पयदीक्षितकृत उपक्रमप- राक्रमसहित: खरडे २ २ बोधसारो नरहरिकृत: तच्छिष्यद्दिवाकरकृतटीकया स० ख०५५ ब्रह्मसूत्रदीपिका श्रीमच्छङ्करानन्दभगवद्विरचिता। १ दैवज्ञकामधेतुः अर्थात् प्राचीनज्योतिषग्रन्थः । १ श्री.मदणुभाष्यम्। श्रीश्रीवल्लभाचार्यविरचितम। गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचितभाष्यप्रकाशाख्य- व्याख्या समतम्। १
व्रजभूषस दास और कम्पनी सवांदनीचौक के उत्तर नई सड़क बनारस
Page 509
BINDING SECT. FEB 13 1967
B Narahari, Vedāntācarya 132 Bodhasarah V3N37 1906 pt.1
PLEASE DO NOT REMOVE
CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY
Page 510
UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 13 08 07 06 002 5