1. Brahama Vida Ashirvada of Vidyaranya Radhakrishna Sastri S.V
Page 1
विद्यारण्यविद्यापीठ-प्रथमग्रन्थः
Vidyaranya-Vidya-Pitha PUBLICATION No. I
श्रीविद्यारण्यविरचितः
ब्रह्मविदाशीर्वादः BRAHMAVIDĀSĪRVĀDAH OF ŚRI VIDYĀRAŅYA
MAMBI
Published by VIDYĀRANYA VIDYĀPĪTHA TRUST HAMPI
1981
Page 3
विद्यारण्यविद्यापीठ-प्रथमग्रन्थः
Vidyaranya-Vidya-Pitha PUBLICATION No. I
श्रीविद्यारण्यविरचितः
ब्रह्मविदाशीर्वादः BRAHMAVIDĀSÍRVĀDAH
OF ŚRĪ VIDYĀRAŅYA
Published by VIDYĀRANYA VIDYĀPĪTHA TRUST HAMPI
1981
Page 4
All Rights Reserved By Publishers
Śrī Vidyāraņya Vidyā Pitha Trust, Mrithyunjaya Nagar HOSPET-583201 blV (Bellary Dt.,-Karnataka).
First Edition 1981 HAGAVA2ACIVAMHASIS
Printed at Ramani Brothers (Printers) 4, C. P. Ramaswamy Iyer Street Madras-600 018
Page 5
श्रीगुरुभ्यो नमः
- 220 उपोद्धातः
श्रुतिस्मृतिपुराणानामालयं करुणालयम्। STR नमामि भगवत्पादशङ्करं लोकशङ्करम् ।। विद्यातीर्थाच्छङ्करानन्दपादाल्लब्धप्रज्ञं भारतीतीर्थपादात्। ब्रह्म ग्रन्थैर्वेदयन्तं यतीन्द्रं विद्यारण्यं देशिकं तं नमामः ॥
सर्वतन्त्रस्वतन्त्रा: परिव्राजकवरेण्या विद्यारण्यस्वामिनो ब्रह्मविदां महा- पुरुषाणां संश्रयं तेषामाशिषश्च ब्रह्मविद्याधिगमे हेतुं पश्यन्तः, महतां ब्रह्मविदां चरणेषु प्रणिपत्य तेषां सन्निधौ ब्रह्म जिज्ञासुना प्रार्थनारूपेण विज्ञाप्यं सर्व संगृहीतवन्तो ब्रह्मविदाशीर्वादाख्ये अस्मिन् लघुनि प्रबन्धे ब्रह्म विविदि- घूणामुपकाराय।
"बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते" इत्याह श्रीभगवान् गीताचार्यः। बह्वसंख्याकजननमात्रेण नेदं ब्रह्मज्ञानं साधयितुं शक्यते। तत्तादृशा- संख्याकजनिमृत्यन्तरालगतसमयभूतानामायुषां निरन्तरालं ज्ञानाधिग मैकपरतय यापनेन, महापुरुषसंश्रयेण, दैवानुग्रहेण च ज्ञानं सिध्यति, तेन भगवत्प्रपत्तिश्च। तथा आयुर्यापनसमये अवलम्बनीया उपायाः के? मार्गः क आश्रयणीयः ? मार्गमध्ये कानि कानि निष्ठानानि सिद्धयेरन्, येन सुपथगमनं तदिति निश्चीयेत ? अपसार्या: कण्टकाः के के तत्र उपकुर्यु :? के तत्र प्रतिहन्युः ? मार्ग उपकुर्वतां साहाय्यं कथमादेयम्? प्रतिघातिनां उत्सारणं च कथम्? लक्ष्य किम् ? लक्ष्याभासतया पुरोभूय चित्तं विमोह्य लक्ष्यात् के के च्यावयेयुः के के संशया मध्ये मध्ये उत्तिष्ठेयुः ? कथं ते परिहार्याः? इत्येवं वेद्यकोटौ बहवो- नतर्मत्रन्ति। विदितेष्तरपि परिहार्याणां काले परिहरणे, उपादेयानामुचितया रीत्या उपादाने च, देशिकरूपेण दर्शिताम्युदयो भगवानेव शरणीकरणीयो भवति ।
Page 6
4
अनादिना संसारेणाहितानां उद्धतानामनुद्धतानां च वासनानां आचार्यानुग्रहावलम्ब -- मात्रेण क्षपणात्, अनारतं सद्वासनाभ्यसनाच्च दृढे शान्ते चित्ते, दृढगृहीतायां च विद्यायां अवभासते स्वयमेव तद् वेदं ब्रह्म। एतत्स्वं पौरुषप्रयत्नमात्रासाध्यं विजानन् विद्वान् श्रेयसे सिद्धये, नावमिव तितीर्षुः, ब्रह्मविदामाशीर्वादान् अवलम्बते शरणमिति। अतिकुशलो हि ब्रह्म यो जिज्ञासति। अतो हेयोपादेयविवेकचतुरः ब्रह्मैव ब्रह्मविद्रपेण प्रणतायाभ्युदयं दित्सु चरतीति दृढनिश्चयः, तेभ्यो ब्रह्मविद्धयः एता आशिषः सुसम्पन्नाः प्रतीक्षते। विद्यारण्यस्वामिनश्च कृपया, साधकमतिदौर्बल्यं जानन्तः, प्रार्थनीयाः के इत्यपि ते न जानीयुरिति घिया, ताननुजिघृक्षुः ब्रह्मविदाशीर्वादनामकं अ्रन्थं तदर्थसड्ग्रहपरं निरमासुः। असकृदस्यानुसन्धानेन विविदिषां साधनसम्पत्तिश्व प्राप्य ब्रह्मवेदने बद्धश्रद्धाः सिद्धिं विन्देम गुरुकृपाबलादिति शम् ।
श्रीगुरुभ्यो नमः
शि. वे. राधाकृष्ण शास्त्री.
Page 7
PREFACE
SALUTATIONS TO THE LOTUS FEET OF ŚRĪ VIDYĀRANYA!
This very succint work entitled, 'Brahmavidasirvadah '- perhaps the smallest of Vidyaranya's productions-has been brought out, fittingly, as the first of a series of publications of the invaluable works of Sage Vidyāranya, proposed to be published by the recently started Vidyāranya Vidya Pitha, Hospet. Moreover it is a matter for jubilation to know that this first publication, being of a benedictory nature, is to be sent to all scholars, all over the country. The quintessence of the precept of Advaita has been reduced to the form of blessings in this small work by Śri Vidyāraņya. What all that one interested in attaining knowledge of the Brahman should try to achieve and with what kind of effort have been in- dicated in this Āsīrvādapaddati. Altogether the paddhati contains fifty-three gems of blessings. The opening benediction vouchsafes on the seeker for knowledge, the ideal of a continued steadfast understanding of the identity of the individual soul with that Single Paramatman, (Caitanya) pervading through everything from 'Hiranyagarbha' down to static objects. The last āśīrvāda purports to indicate that the idea that everything (with form or taste) in this illusory universe is untrue, should get strengthened. Though the entire work is in the nature of blessings, the real content behind is an epitomisation of the path to be followed for the realisation of the Supreme Spirit and that too by one who has visualised the Brahman. No doubt the Bhagavad Gīta and other philosophic treatises have clearly vivified that only after a number of births in this mundane world one can get deliverance. On what should one concentrate, what path he should take, what he
Page 8
6
must discard-all these should be decided upon with discerning knowledge. When and where such decision and discerning are difficult to be accomplished, the blessings of the great come in as aid. Knowing fully well the limitations and shortcomings of the human mind and also the deficiencies likely to creep in human endeavour, especially in the attainment of the knowledge of the Brahman, the learned seek for the blessings of the great souls and take refuge therein. And those fortunate in acquiring such blessings are bound to reach the cherished goal. Sage Vidyā- raņya has finely put in a nutshell, in this succinct work, pearls of wisdom for the one striving to attain a proper perspective of of the Supreme.
It may be said that the Vidyāranya Vidya Pitha has done a singular service to our country and our ancient culture and philo- sophy with the publication of this shortest work of the great sage, the blessings of a great Brahmavid.
-- A Devotee
Page 9
॥ श्रीः ।। अद्वतविचार:
१ श्रीमत्परमहंसपरित्राजकश्रीविद्यारण्यमुनिभ्यो नमः ।
श्रीमत्परमहंसपरिव्राजक-श्रीविद्यारण्यस्वामिविरचितः श्रीब्रह्मविदाशीर्वादः । अस्मिन्नाशीर्वादात्मके ग्रन्थे 'केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि' इति वचनानुसारेण केनापि प्रेरितोऽहं निबन्धलेखने प्रयत्नं करोमि।
श्रीविद्यारण्यमुनीनां सर्वशास्त्रेषु गाढं स्वच्छं च पाण्डित्यमासीत्। तेषां ग्रन्थानामवलोकनेनेदं ज्ञायते यत्तेषां तत्त्वबोधः करतलस्थितामलकवत् निर्मल आसीत्। तेषां ग्रन्थाः सुलभतया बोधं जनयन्ति। विरलैव अ्न्थसरणिरेतादृशी। अधोनिर्दिष्टास्तेषां ग्रन्थाः - व्याकरणे माधवीयधातुवृत्तिः । मीमांसायां जैमिनीयन्यायमाला। स्मृतिषु - पराशरसंहितायां पराशरमावधः
कालमाघवश्च निबन्धौ। दर्शनेषु - सर्वदर्शनसंग्रहः। काव्येषु - शांकरदिग्विजयः पुराणेषु - स्कंदपुराणान्तर्गतसूतसंहिताया अद्वैततत्वदर्शनपटीयसी विशदटीका। वेदान्तेषु-विवरणप्रमेयसंग्रहः, बृहदारण्यकवार्तिकसारः, पंचदशी, जीवन्मुक्तिविवेक:, अनुभूतिप्रकाश: अपरोक्षानुभूतिटीका, ऐतरेयोपनिषद्दीपिका छान्दोग्योपनिषद्दीपिका चेति तैः प्रणीता ग्रंथा: ।
वेदान्ते पंश्चदशी प्रसिद्वैव। अस्मिन् ग्रन्थे पंचदशप्रकरणैः मुमुक्षूणाम् यद्यदावश्यकं तत्सर्वं प्रतिपादितम्। अयं नित्यं अभ्यसनीयो ग्रन्थः । तत्र प्रथमे
तत्त्वविवेकप्रकरणे, संविद् एका सर्वत्रानुस्यूतत्वात्, नास्ति तस्याः प्रागभाव-
Page 10
8
प्रतियोगित्वं नापि व्वंसप्रतियोगित्वं इति सा नित्या। संविदः साधननिरपेक्ष- प्रत्यक्षत्वात् स्व्रप्रकाशत्वम्। आत्मनोऽपि स्वप्रकाशत्वं नित्यत्वं चेति संविदात्मनो- रेकलक्षणत्वाद् मिन्नलक्षणत्वाभावाच्च तयोरैक्यम्। घटपटयोर्गधवत्वरूपैक- लक्षणवत्वेऽपि भिन्नलक्षणसत्वात् तयोर्मेंदः। अत्र तु संविदात्मनोर्भिन्नलक्षणत्वा- भावात् तयोरैक्यम।
आत्मा तावदानन्दस्वरूपः 'सच्चिदानंदो ब्रह्म' इति श्रुतेः । आत्मनः परमप्रेमास्पदत्वेन आनन्दरूपत्वं युक्तयाऽपि सिध्यति। तत्र अयं प्रयोगः, आत्मा परमानन्दरूप: परप्रेमास्पदत्वात् । यन्नैवं तन्नैव यथा घट इति।
'अयमात्मा ब्रह्म, तत्त्वमसि, अहं ब्रह्मास्मि' इत्यादिश्रुतिभिर्जीवब्रह्मणोः ऐक्यं प्रतिपादितम्। तत्र किंचिद्विचार्यते ।
जीव: अहं सुखी, अहं दुःखी, अहं कर्ता, अहं भोक्ता, अहं मरणधर्मा इति सर्वेषां आगोपालानामनुभवः । अतः जीवब्रह्मणोः श्रुतिप्रतिपादितमैक्यं कथं संभवति?
उच्यते। 'सच्चिदानन्दं ब्रह्म, ब्रह्मणः यन्मायायां प्रतिबिंबम्, स ईश्वरः, तस्यैव च मायाकार्येऽन्तःकरणे यत्प्रतिबिंब्रम्, स जीवः । अय बिंबप्रतिबिंब- भाव: 'रूपं रूपं प्रतिरूपो बभूव' इति श्रुतौ अपि श्रूयते । बिंबस्य केचन गुणाः प्रतिबिंबेऽपि आगच्छन्ति इति प्रसिद्धम्। यथा सूर्यस्य दर्पणस्थप्रतिबिंबे प्रकाशकत्वादिकम् ! प्रतिबिंबे तावत् उपाधिधर्मा अपि आगच्छन्ति यथा दर्पणस्थप्रतिबिंबे चलनादिकम् । तथा ब्रह्मप्रतिबिंबरूपे जीवेऽपि कर्तृत्वं भोक्तृत्वं,
Page 11
9
सुखित्वं दुःखित्वं चेत्यादयः। उपाधिमेदेन च जीवानां प्रतिबिंबरूपाणां भिन्नत्वमपि उपपद्यते । बिंबप्रतिबिबयोरैक्यम् सर्वे जानन्त्येव। अतः प्रतिबिंबरूपस्य जीवस्य बिंबरूपस्य ब्रह्मणश् ऐक्यं न युक्तिविरुद्धम्। परं तु अनाद्विद्यया जातो यस्तादात्म्याध्यासः परस्परधर्माध्यासश्व तस्य निवृत्त्यनन्तरं वास्तविकं स्वस्वरूपज्ञानं 'तत्वमसि अहं ब्रह्मास्मि' इत्यादिवाक्यैर्भवत्येव ।
परन्तु अत्र प्रतिबिंबवादे केचन प्रत्यवतिष्ठंते। लोके तावत् निर्गुण- निर्विकारस्य प्रतिबिंबं न दृश्यते। अपि तु सगुणस्य सरूपस्यैव प्रतिबिंबं दृश्यते । इति युष्माकं बिंबप्रतिबिंबकल्पना अनुभवविरुद्धा। इति चेन्न। लोके नीरूपस्य रुपस्य, नीरूपस्य आकाशस्य प्रतिबिंबदर्शनात्। इति आपातरमणीयत्वात् शंकायाः अनाद्यविद्यया जातस्याध्यासस्य निवृत्तये किमपि साधनं नास्ति। तस्य अनादित्वात् भ्रमनिवर्तकाभावेन च चंद्रप्रादेशिकभ्रमवत् शास्त्रेणापि न निवर्तेत। 'अहं सुखी अहं कर्ता अहं दुःखीइति जीवस्य वास्तविकं स्वरूपमेव। अत एव न कोऽपि तादृशवाक्यज्ञानेन परमानदवान् दृश्यते। संदिग्धं सप्रयोजनं च प्रेक्षावद्विचा- रविषयं भवति इति जीवविषये संदेहाभावात् विचारफलाभावाच्च व्यर्थमेव 'तत्वमसि' अहं ब्रह्मास्मि इत्युपदेशसाहसम् । अत्र समाधानम्।
'आत्मा वारे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्यः'। 'दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः' इत्यादिश्रुतिभिः आत्मसाक्षात्कारस्य उपायाः प्रदर्श्यन्ते।
सत्यं 'अहं सुखी, अहं दुःखी, अहं कर्ता' इति लोकानामनुभवः । ते यदि प्रमात्मकाः तदा श्रुतीनामुपदेशो व्यर्थ एव। परन्तु अपौरुषेयवेदेन 'अह ब्ह्मास्मि' 'अयमात्मा ब्रह्म' इति प्रतिपादितम्। तत्र वेदस्य तात्पर्ये इति
Page 12
10
मीमांसाविचारेण सिद्धम् । 'तत्तु समन्वयात्' इति सूत्रभाष्ये च सम्यग्विचारितम्। प्रत्यक्षस्य क्वचित्प्रमात्वं क्वचिच्चाप्रमात्वम् । श्रुतेस्तावन्निर्दुष्टत्वात् तज्जन्यो बोध: प्रमात्मक एव। प्रत्यक्षप्रमाणस्य ज्येष्ठत्वेऽमि तस्य प्रमोत्पादने न ज्येष्ठत्वम् ।
दोषयुक्तत्वसंभवात्। अतः वेदवाक्यस्य श्रुतेः प्रत्यक्षात् प्रबलत्वं। इति केवल- प्रमाणबलाबलविचारे कृतेऽपि 'अहं ब्रह्मास्मि' इत्यादिश्रुतिवाक्यात् प्रमात्मक एव बोघो भवेत्। ननु शतवारं श्रुत्वाऽपि श्रुतिवाक्यात जाते बोधे 'अहं सुखी, दुःखी, कर्ता' इति लोकिको बोधः न निवर्तते इति प्रश्नः पुनरवशिष्ट एव। उच्यते। अयं लौकिको भ्रमः प्रत्यक्षात्मकः। प्रत्यक्षम्रमनिवृत्तये प्रत्यक्षमेव ज्ञानं अपेक्ष्यते। 'अहं ब्रह्मास्मि' इत्यादिवाक्यात् अस्माकं नानादोषवरता शाब्दात्मकं ज्ञानं भवति इति तादृशभ्रमस्य न निवृत्तिः। 'यत्साक्षादपरोक्षाव् ब्रह्म ' इति ब्रह्म अपरोक्षमपि अस्ति। तस्यापरोक्षज्ञानार्थमेवोपरिनिर्दिष्टश्रुतीना- मवतारः । 'भात्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति विधिवाक्येभ्यः ज्ञानं विधिविषयं भवति इति भासते। तत्र ज्ञानं विधिविषयो भवति न वा इति विचार्यते।
शब्देन प्रथमं परोक्षज्ञानं उत्पद्यते। अनंतरम् साक्षात्कारार्थ 'आत्मा
वारे द्रष्टव्यः' इत्यादिवाक्यानि ब्रह्मप्रतिपत्ते्विघिबोधकानि इति एकदेशिनः । (वैयासिकन्यायमाला)। तत्रेदं समाधानं श्रीविद्यारण्यमतेन। ज्ञानं न विधिविषयो भवति तदनर्हत्वाद्। ज्ञानं वस्तुतन्त्रम् । विध्यर्थ: क्रिया, सा च पुरुषतन्त्रा । सा पुरुषेण कर्तु अकर्तुं अन्यथा कर्तुं वा शक्यते। ज्ञानं तावत् प्रमाणेनैव जन्यते
Page 13
11
इति प्रमाणतन्त्रम्। यत् प्रमाणतंत्रं तदेव वरतुतंत्रम् भवति प्रमणजन्यज्ञानार्थ RANYA VIDYA वस्त्वपेक्षा वर्तते। अवस्तुनि प्रमाणगतिर्नार्ति इति ज्ञाने वस्तुतनम् प्रमाणतत्र बत उच्यते। अग्नौ द्रव्यत्यागरूपक्रिया पुरुषजन्या इतिसा पुरुषतंत्री।/यशन ज्ञानमे ] यथा घटप्रत्यक्षं प्रमाणसंबंधमात्रेणोत्पद्यते। पुरुषर NOSROT YS स केवलं प्रमाणं वस्तून्मुखीकरणाय। तद्यथा अंतःकरणाद्वृत्तिः जायते, वृतः संबंधः वस्तुनि, ततः ज्ञानं, इति पुरुषस्य ज्ञाने कारणत्वं नास्ति यथा क्रियाय
वर्तते इति। विषयज्ञानं विषयगतचैतन्यप्रतिबिंबमेव इति ज्ञानस्य कुतः पुरुष-
तन्त्रत्वम्?। 'आत्मा वारे द्रष्टव्यः' इत्यादिवाक्यानि न ज्ञानविध्यर्थानि अपि तु विधिच्छायानि। साक्षात्कारात् पूर्व पराङ्मुखस्य मनसः विषयेभ्यो निवर्तनार्थानि । यथा दर्पणस्थं प्रतिबिंबं न पुरुषतंत्रं किंतु वस्तुतंत्रम्। पुरुषस्य प्रतिबिंबे कर्तृत्वं नास्ति। पुरुषस्य तत्रोपयोग एव न इति न। तस्य दर्पणसंमुखे मुखकरणाय दर्पणं वा मुखसंसुखे करणायोपयोगः । यथा कुलालपितु: घटे न उपयोग: इति न तस्य कुलालार्थे उपयोग: अतः न घटकारणत्वं, तथैक पुरुषस्य न ज्ञानकारणत्वम्। अपि तु उपयोगित्वम् ।
पञ्चदश्यां 'वाक्यमप्रतिबद्धं सत् प्राक् परोक्षावभासिते। करामलकवद्वोधं अपरोक्षं प्रसूयते'। वैयासिकन्यायमालायाम् 'प्र. अ प्रथमे पादे तृतीयाधिकरणे, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इत्युद्धृत्य जीवब्रह्मैक्यज्ञानं, 'तत्वमसि, अहं ब्रह्मास्मि, अयमात्मा ब्रह्म' इत्यादिश्रुतिवाक्यैरेव जायते। तच्च साक्षात्कारा- त्मकं, तेनैव च प्रत्यक्षभ्रमनिराकरणात्। अत्र शब्दापरोक्षज्ञानं भवितुमर्हति
Page 14
12
न वा इति विचार्यते। किमर्थ ज्ञानापेक्षा? अज्ञाननाशाय ज्ञानापेक्षा।
यद्विषयकाज्ञानं तद्विषयकमेव ज्ञानं अज्ञानं नाशयति । अज्ञानमूलको भ्रमः अपरो-
क्षश्चेत् तन्नाशार्थ अपरोक्षं ज्ञान अपेक्ष्यते। अहं कर्ता, भोक्ता, सुखी, दुःखी इति भ्रमः प्रात्यक्षिको दृश्यते। तस्य निवर्तकं ज्ञानं प्रत्यक्षं अपेक्षते। नो चेत् चंद्रो महान्
इति परोक्षज्ञानेन चंद्रः प्रादेशिक इति भ्रमो निवर्तेत, न निवर्तते इति सवेषामनु-
भवारूढम्। नाहं कर्ता नाहं भोक्ता किं तु सच्चिदानंदन्रह्मस्वरूपः इति प्रत्यक्षप्रमाज्ञानं आवश्यकम्। 'यत्साक्षादपरोक्षाद्वह्म' इत्यादिश्रुत्यैव ब्रह्मणोऽपरो- क्षत्व कथितम्। अतो विचारावसरो वर्तते। श्रत्या ब्रह्मणो निर्गुणनिर्विकारत्व- मुक्तम् । तस्य इंद्रियजन्य प्रत्यक्षविषयत्वं तु न संभवति । शब्दस्य तु 'अत्यन्त_
मसत्यप्यर्थे शब्दः ज्ञानं करोति वै' इति न्यायेन शब्दात् ज्ञानं भवेत्, यथा 'तव माता वन्ध्या' इति वाक्यात् ज्ञानं भवत्येव, यतः वाक्यं श्रुतवतः पुरुषस्य
क्रोधो जायते इति शब्दस्य इतरप्रमाणापेक्षया वैलक्षण्यम। तत्रापि उपरि निर्दिष्टं क्रोधजनक यज्ज्ञानं 'तव माता वन्ध्या' इति वाक्याज्जातं तद् भ्रमात्मकं। तथापि प्रत्यक्षम्रमात्मकमुत शाब्दभ्रमात्मकम् ? वह्िमान् हदो वह्न्यभाववान् इति आहार्य ज्ञानसदशमेव इदम्। नैयायिकै: एतादृशशव्देम्यः योग्यत्वाभावात् शाव्दोत्पत्तिर्न भवति इति मन्यते। इति परिशेषात् आहार्य प्रत्यक्षमेव तदिति तेषां मते आयातम्। वेदान्तिमते तु तस्य 'शब्दज्ञानान्तःपातिवस्तुशून्यो विकल्पः इति शाब्दे अन्तर्भावः । अपि च 'दशमस्त्वमसि' इति वाक्यादपरोक्षं जायते। तस्यापरोक्षभ्रमनिवर्तकत्वात्। मनसस्तु स्वातन्त्र्येण ज्ञानजनकत्वं न
Page 15
13
दृष्टम्। तस्य अन्येन्द्रियसहकारेणैव ज्ञानजनकत्वात्। सुखप्रत्यक्ष साक्षिप्रत्यक्षम् इति अहं 'व्रह्मास्मि' इत्यादिमहावाक्यैः प्रत्यक्षज्ञानमेवोत्पद्यते। तेन च अहं कर्तेत्यादिप्रत्यक्षभ्रमस्य समूलसंसारदुःखस्य च निवृत्ति: परमानन्दावाप्तिश्च। एतेन अपरोक्षत्वं 'अहं ब्रह्मास्मि' इति वाक्यजन्यज्ञानावृत्ति वाक्यजन्यत्वात् चंद्रो महान् इति वाक्यजन्यबोधवत् इत्यनुमानमपि अद्वैतसिद्धिचित्सुखीत्यादिग्रन्थोक्तं निरस्तम्। व्यभिचारदोषेणानुमित्यजनकं इति।
इदानीम् 'अहं ब्रह्मास्मि' इत्यादिवाक्यात् अज्ञाननिवृत्ति: परमानन्दावाप्तिश्च
कस्य? अंतःकरणावच्छिन्नचैतन्यस्य जीवस्य उत अन्तःकरणोपहितस्य साक्षिण: ? उच्यते। प्रथमं जीवसाक्षिणोः स्वरूपस्य विवेचनं क्रियते। अन्तःकरणावच्छिनं चैतन्यं जीवः इत्यत्र अंतःकरणं विशेषणम्। यद्विशेषण तत् कार्यान्वयि। अहं घटं पश्यामि इत्यत्र दर्शनकार्ये अन्तःकरणविशिष्ट- जीवस्यान्वयः अहंशव्देन ज्ञायते। सर्वज्ञानानामनुसंधानार्थ एक अंतःकरणा- वच्छिनं चैतन्यं जीवः अस्ति इति किमर्थ साक्षी अन्यः कल्प्यते? उच्यते। अन्त:करणावच्छिन्नस्य जीवस्य प्रमातुः जडविशिष्टत्वात् तस्य न स्वप्रकाशने सामर्थ्यम्, यथा जडस्य। इति त्रिपुटीप्रकाशनार्थ प्रमातृज्ञानार्थ वा साक्षी आव- श्यकः । तत्रापि साक्षिणि जीवोऽव्यस्तः । अयं तादात्म्याव्यासः । स्वयमहं गच्छामि इति व्यवहारो दृश्यते। तत्र स्वयमिति अधिष्ठानं, अहमिति अध्यस्तांशः । यथा इंदं रजतं हत्यत्रेदमिति अधिष्ठानांशः, रजतमिति अध्यस्तांशः । इदमिति सामान्यांशः रजतमिति विशेषांशः । तथा अत्रापि स्वयममिति सामान्यांशः ।
Page 16
14 सः स्वयं गच्छति, त्वं स्वयं गच्छसि, अहं स्वयं गच्छामि, इति लोकानुभवात्।
अस्याध्यासस्य कारणं अविद्या एव। साक्षिणि अव्यस्तः जीवः अंतःकरणावच्छिन्नं चैतन्यं) सुखदुःखभाकू परलोकगामी चेति। अधिकं पश्चदश्यादिंग्रथेषु द्रष्टव्यं इति ।
ब्रह्म विदाशीर्वादात्मकस्य ग्रंथस्योत्तरभागे श्रीविद्यारण्यमुनीनां चरितं लिखितं इति नात्र लेखनस्य आवश्यकता इति तन्न लिख्यते।
अस्मिन् निबंधे 'नीरक्षीरन्यायोऽवलंबयितव्यः इति विदुषामग्रे निवेध
विरम्यते। इति शम् ।
पण्डित विद्याभूषणम् काशीनाथ शास्त्री जोषी, अध्यक्ष:, श्रीमदाद्यङ्कराचार्य-मन्दिरम्, सतारा।
Page 17
HAMPI FOSPET
THE CAVE OF PATALESVARA WHERE SRI VIDYARANYA PERFORMED PENANCE
Page 19
17
विद्यारण्यविरचिता: ग्रन्था:
माधवीयधातुवृत्ति:
जैमिनीय-न्यायमाला-विस्तर: वैयासिक-न्यायमाला-विस्तरः पराशरमाधवीयम् मनुस्मृति-व्याख्या स्मृतिसङ्ग्रह: कुरुक्षेत्रमाहात्म्यम् सूंतसंहिता-अद्वैत-प्रकटन-पटीयसी-विशद-टीका
पुराणसारः कालमाधवम् माधवीय-ज्योतिषम् तिथिनिर्णयः
लघुजातक-टीका सूर्य-सिद्धान्त-टीका
Page 20
18
विद्यारण्य विरचिता: ग्रन्थाः
श्रीविद्यार्थ-दीपिका सङ्गीतसार: सर्वदर्शनसङ्ग्रहः विवरणप्रमेयसड्ग्रह: पञ्चदशी जीवन्मुक्तिविवेक: अनुभूतिप्रकाशः अपरोक्षानुभूति-टीका ब्रह्मविदाशीर्वाद:
बृहदारण्यक-वार्तिकसारः ऐतरेयोपनिषद्दीपिका कैवल्योपनिषद्दीपिका तैत्तिरीयोपनिषद्दीपिका नृसिंहोत्तरतापनीयोपनिषद्दीपिका छान्दोग्योपनिषद्दीपिका पुरुषार्थसुघानिधि:
Page 21
VIDYARANYA - PROCESSION ( From an Old Painting in :Virupaksha Temple ) - By Courtesy of Directorate of Archaeology, Mysore.
Page 22
सहैश्वर्य सवाहनम्। विद्यारण्यगुरुस्वामी कैलासालयमाविशत् ॥ [Quoted by Mahamahopadhyaya Kokkandram Venkatratnam Pantulu, (Professor of Telugu, Presidency College, Madras), in his work-' Sankara Matha-Tatvaprakasikartha-Sangraha '- Printed at the Sanjivini Press, Peddunaickanpet, Madras-1877 - A. D.]
Page 23
॥ श्रीः ।। श्रीमत्परमहंसपरिव्राजकाचार्य श्रीविद्यारण्य स्वामिविरचितः श्रीब्रह्मविदाशीर्वादः हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति, तदेवाह मस्मीति दृढज्ञानं निरन्तरं भूयात् ॥१ ॥ निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविश्नेन ब्रह्मणि अवस्थितं भूयात् ॥ २ ॥ नित्यनिर्विकारासङ्गाद्वितीय परिपूर्णस च्िदानन्दस्वप्रकाशचिदेकरस- ब्रह्मानुभवसिद्धिर्भृयात् ॥ ३॥ अहमादि दृश्य विलक्षणास्मत्प्रत्ययालम्बनभूतप्रत्यक्चिन्मात्रस्वरूपा- नुभवसिद्धिर्भृयात् ॥४॥ सजातीय विजातीय स्वगतभेदर हिता खंडसचिदानन्दाद्वितीयब्रह्मा - त्मानुभवसिद्िर्भृयात् ॥५॥
॥६ ॥। स्वगतादि भेदरहिताखण्डसचिदा नन्दलक्षणत्रह्माभिन्नकूटस्थप्रत्यक्- स्वरूप: सर्वसाक्षीति चिद्रपानुभवसिद्धिर्भूयात् ॥७॥ स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत् स्वाविद्या- विलसितत्वेन स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभव- सिद्धिर्भूयात् ॥८।। असंभावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मा- स्मीति अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभ्यात् । ९ ॥
Page 24
22
यो ब्रह्मादिस्तम्वपर्यन्तानां सर्वषां प्राणिनां देहमध्ये, तत्तदेह- साक्षित्वेन भासमानः, परिपूर्णात्माऽस्ति, सोडयं परमात्मा, केवलं मुमुक्षोः पुरुषस्य मे स्वरूपमित्येवंरूपात्मसाक्षात्कारो दृढीभूयात् ॥ १०॥ वासनाक्षय - मनोनाश - तत्वज्ञानाभ्यासवशात्, ज्ञानरक्षा, तपःसिद्धिः, सर्वसमत्वं, दुःखनिवृत्तिः, सुखाविर्भावः इत्येतत्पश्चप्रयोजन- सिद्धिर्भृयात् ॥ ११ ॥ मैत्री - करुणा - मुदितोपेक्षारूपसद्वासनापाटवेन रागादिदुर्वासना- क्षयः सम्यग्भूयात् ॥१२ ॥ निरन्तरस्वात्मानुसंधानवशात् मनसो वृत्तिरूपपरिणामत्यागेन, निरुद्ताकारेण आत्मपरिणामो ढढीभूयात् ॥ १३ ॥ शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासवलात्, विषयासक्तिः, प्रज्ञामान्ययं, विपर्ययः, दुराग्रहश्रेति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा, अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभृयात् ॥१४ ॥ उपक्रमादिषइ्विधलिङ्गैः, अशेषवेदान्तानां अद्वैते ब्रह्मणि तात्पर्या- वधारणं दृढीभूयाद् ॥ १५ ॥ श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनः, वेदान्तानुगुणयुक्तिभिः अनवरत- मनुचिन्तनं भृयात् ॥ १६ ॥ विजातीय देहादिप्रत्ययानन्तरित - सजातीयसच्चिदानन्दात्मप्रत्यय- प्रवाहो निरन्तरं भृयात् ॥ १७ ॥ असङ्गोऽहं, चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहिते, संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते, आत्मनः स्वरूपभूत- परमानन्दो निरन्तरं सम्यगाविर्भृयात् ॥१८॥
Page 25
23
अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः; नाज्ञानं; नापि तत्कार्य; किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः; तत्र च अन्तस्समाधिना दृग्दश्यविवेके, बहिस्समाधिना ब्रह्मसर्गविवेके च दढे जाते, तेन विवेकद्वयेनायं गलित- देहाभिमान:, विज्ञातपरमात्मतत्वश्च भूयात् ॥ १९ ॥ देहाद्वहिः सकलनामरूपात्मकेषु वस्तुष्वपि, सर्पधारादिषु रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणो यः परमात्मा, स एव परशब्देनोच्यते। अन्तः अहमादिदृश्यविलक्षणः, अस्मत्प्रत्ययालम्वनभूतः, प्रत्यक्चिन्मात्र- स्वरूप:, यः साक्ष्याख्यो जीवात्मा, स एव अवरशब्देनोच्यते। परश्चासौ अवर्श्रेति परावरः, प्रत्यगभिन्नः परमात्मा। तस्मिन् एवं अन्तर्वहिश्व पररूपेण अवररूपेण च अवस्थिते, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि 'त्वं वा अहमस्मि भगवो देवते; अहं वै त्वमसि' इति श्रुत्यनुसारेण 'अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि' इति व्यतिहारेण, अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षा- त्कारेण, अस्य परावरब्रह्म साक्षात्कृतवतो मम हृदयग्रन्थिभेद-सर्व- संशयनिवृत्ति-सर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भृयात् ॥२० ॥ अहंकारात्मनोः एकत्वभ्रमनिवृत्तिरूपोडयं ग्रन्थिभेद: दढी- भृयात् । २१ ॥ आत्मा देहादिव्यतिरिक्तो वा न वा, व्यतिरिक्तत्वेऽपि, कर्तृत्वादि- धर्मयोगी वा न वा, अकर्तृत्वेऽपि, तस्य ब्रह्मणा भेदोऽस्ति वा न वा, अभेदेपि, तज्ज्ञानं कर्मादिसहितं वा मुक्तिसाधनं केवलं वा, तथापि, आत्मा साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मत्वमस्ति वा न वा,
Page 26
24
ब्रह्मत्वे सत्यपि, तद्बुध्या वेदितुं शक्यते वा न वा, शक्यत्वेऽपि, तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, मम परमार्थतः ब्रह्मत्वे सत्यपि ताद्यूपं साक्षात्कृतं वा न वा, साक्षात्कृतेऽपि, इतः परं कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि, इदानीं मम जीवन्मुक्तिरस्ति वा न वा, जीवन्मुक्तत्वेऽपि, वर्तमानदेहपातानन्तरं विदेहमुक्ति: भविष्यति वा न वा, तत्प्राप्तावपि, कालान्तरे पुनर्जन्म भविष्यति वा न वा, इत्यादि- सर्वसंशयनिवृत्तिर्भूयात् ॥ २२ ।। अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां संचितकर्मणां निवृत्तिरूपः परमपुरुषार्थः सम्यगावि- रभृयात् ॥ २३ ॥ यः पूर्णानन्दैकबोधः तद्रह्माहमस्मीति ब्रह्मात्मानुभवमात्रपर्यवसाने बुद्विर्निरन्तरं भूयात् ॥ २४॥ यस्मिन् काले द्वैतभानं नास्ति, निद्राऽपि नागच्छति, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धि: निरन्तरं भृयात् ॥ २५॥ मनोव्यापाराभावसमये यत्सुखं भासते, तत् सुखमात्मस्वरूप- मिति आत्मनिश्चयः सम्यग्भूयात् ॥ २६ ॥ स्वम्ः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्त्रातिरेकेण नास्ति ; तेन अद्वितीयात्मानुभवसिद्धिः सम्यग्भृयात् ॥२७॥ वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते, संशय- विपर्यय दोषद्वयाभावेन उत्पनं ब्रह्मज्ञानं अवाधितत्वेन सुरक्षितं भृयात् ॥ २८ ॥
Page 27
25
पश्चम्यादिभूमित्रयरूपायां जीवन्मुक्तौ संवाद्यमानायां द्वैत- ानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्वज्ञानं अवाधितत्वेन सुरक्षिंतं भूयात् ॥ २९ ।
स्वप्ने स्थूलशरीराभावेपि, सुषुप्तौ सूक्ष्मशरीराभावेऽपि, समाधौ कारणशरीराभावेऽपि, जाग्रदाद्यवस्थाचतुष्टयेऽपि यः चिद्रपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते, स चिद्रू पात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्ति तत्साक्षिचैतन्यस्यानुवृत्ति च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात्॥३० ॥
भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि अनुग्रहार्थ भगवान् वासुदेव: आत्मभावस्थः सन्, विवेकप्रत्ययरूपेण, भक्तिप्रसादस्नेहयुक्त्तन, तन्दावनाभिनिवेशवातेरितेन, ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना, विरक्तान्त:करणाधारेण, विषयव्यावृत्तरागद्वेषाकलुषितचित्तनिवातापवर- कस्थेन, नित्य प्रवृत्तैकाग्रयध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं मोहान्धकारं तमो नाशय- त्वित्याशी: निरन्तरं भृयात् ॥ ३१ ॥ परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन सम्य- गदर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते, तं बुद्धियोगं भगवान् वासुदेवः मे ददातु इति आशीनिरन्तरं भृयात् ॥ ३२।।
विकारमन्तरेण स्वाध्यस्तं सर्व साक्षादव्यवधानेन स्वरूपबोधेन ईक्षते पश्ञयतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात् ॥ ३३ ॥ FIPITI 4
Page 28
26
देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रप इति चिदा- त्मानुभवसिद्धिः सम्यग्भूयात् । ३४॥ आत्मनि कदाचिदपि अप्रियाभावेन, परमप्रेमास्पदत्वेन च, आत्मा परमानन्दरूप इति, आनन्दानुभवसिद्धिः सम्यग्भूयात् ॥ ३५॥ अभारूपस्य विश्वस्य भानं, भासकसन्निधिं विना कदाचिदपि न संभवतीति, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भृयात् ॥ ३६ ॥ असज्जडदुःखात्मकाहंकारादिभ्यो विलक्षणतया, प्रातिकूल्येन सत्यज्ञानानन्दरूपेण अश्चति, प्रकाशत इति, प्रत्यगात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३७॥ पश्चाद्द्धासमानस्य जडस्य, प्रथमतो भासमानं चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य, जडमुपेक्ष्य, चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भृयात् ॥३८ ।। 'सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति' इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं निर्णीतं, तदेव 'एष ब्रह्म' इत्यादिवाक्येन जगत्कारणतया निर्णीत परं ब्रह्म, न चानयोरीषदपि भेदोऽस्ति इति, ऐतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ३९ ॥ यतः, सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतो मयि अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशेषात् इति ऐतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञान- सिद्धिः निरन्तरं भूयात् ॥४० ॥ आत्मसन्निधौ विद्यमानत्वेन, जडरूपस्यापि देहेन्द्रियादेः चेतन- त्वेन भासमानत्वात्, आत्मा चिदूप इति चिदात्मानुभवसिद्धि: सम्यग्भूयात् ॥ ४१ ॥
Page 29
27
आत्मसहितत्वेन, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्, आत्मा परमानन्दरूप इति, आनन्दात्मानुभवसिद्धिः सम्यग्भृयात् ॥ ४२। देशतः, कालतः, वस्तुतः, परिच्छेदरहिताद्वितीयात्मानुभवसिद्धि: सम्यग्भूयात् ॥ ४३। पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतोः चित्तसंस्कारस्य, विवेकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्, वाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः सम्यग्भूयात् । "यस्य प्रसादादहमेव विष्णुः, मय्येव सकलं परिकल्पित चे"ति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयोः अचश्चला भक्ति: निरन्तरं सम्यग्भूयात् ॥ ४५। अचिद्रपस्य जगतः चित्सन्निधेविद्यमानत्वात्, चिद्र पात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धि: सम्यग्भृयात् ॥४६॥ सर्वार्थसाधकत्वहेतुना, सर्वसंवन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥४७॥ देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्, साधनान्तरनिरपेक्ष- तया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरोक्ष इति अपरो- क्षानुभवसिद्धिः सम्यग्भूयात् ॥४८॥ यत्र यद्वस्तु अस्तीति ईक्षते, तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असंग इति, असंगात्मानुभवः सम्यग्भूयात् ॥ ४९॥ निरवयवत्वेन असंगत्वेन च, आत्मनः केनापि संबन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपानुभवः सम्यग्भूयात् ॥५०॥
Page 30
28
अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्, आत्मा स्वय- प्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥५१॥ साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥५२॥ इदं सर्व आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं, न त्वेतत् वस्तुतोऽस्तीति तत्वनिश्चयो दढीभूयात् ॥५३॥ इति श्रीमत्परमहंसपरित्राजक श्रीविद्यारण्यस्वामिविरचितः
ब्रह्मविदाशीर्वाद: संपूर्ण: ।।
Page 32
साम्राज्यवेदवेदान्तैः धर्मकामार्थमोक्षदम् । विद्यारण्यन्नुमः पुण्यं योऽविद्यारण्यमच्छिनत्।