Books / Brahma Sathya Jagan Mithaya Guru Swamy Sastri V.S.V

1. Brahma Sathya Jagan Mithaya Guru Swamy Sastri V.S.V

Page 1

Brahma Satyam-Jagan Mithya

BY Atmavidyabhushanam Sahityavisarada-Sahtiya-Vedanta Siromani

V. S. V. GURUSWAMY SASTRIGAL

Published by SRI SANKARA EDUCATIONAL TRUST 'NAVASUJA' Raja Annamalai Puram MADRAS - 600 028 1980

Page 2

All Rights Reserved By Publishers

First Edition October, 1980

Printed at Ramani Brothers (Printers) 4, C. P. Ramaswamy Iyer Street Madras-600 018

Page 3

INTRODUCTION

On the occasion of the 61st Birthday of Gurubhakta Siromani Dharmatma Dr. Vaidyasubramanya Iyer, his friends and admirers contributed towards an Endowment to commemorate the occasion. With this fund, the Sri Sankara Educational Trust arranges lectures to be delivered every year on Sri Sankara and Advaita Philoso- phy at selected centres.

Five Lectures in the Series were delivered by eminent scholars in Madras, Delhi and Bangalore. The Lecture for 1980 on "Brahma Satyam-Jagan-Mithya" by Atmavidyabhushanam Sahityavisarada - Sahitya - Vedanta Siromani Brahmasri v. S. V. GURUSWAMY SASTRIGAL P.O.L. was delivered in Sanskrit on the 18th April 1980. SRI GURUSWAMI SASTRIGAL after taking Sahitya Visarada, Sahitya Siromani, Vedanta Siromani, Certificate of Proficiency in Indo-European Comparative Philology with special reference to Sanskrit from Madras Sanskrit College and Madras University, joined the Govt. Sanskrit College, Trivandrum in 1944 as Lecturer in Vedanta and retired in 1968 as Professor and Head of the Department of Vedanta. He was awarded " Certificate of Honour" from the President of India in the year 1972. As an awardee Under the U. G. C. Scheme he worked as a

Page 4

ii

research scholar in the University of Kerala from 1975 to 1978.

The most auspicious aspect of this lecture is that, it was delivered for the first time in Kalady, the birth- place of Sri Sankara Bhagavatpada in the festive occasion of Sree Sankara Jayanthi, and in the august presence of Their Holinesses the Jagadguru Mahasannidhanam and Sri Sannidhanam of Sri Sringeri Sharada Peetham.

Sri Sankara Educational Trust has now published this in a book form which we hope and trust will be found to be a valuable contribution by all interested in Vedanthic studies. K. R. SUNDARAM IYER

President SANKARA EDUCATIONAL TRUST " Gomathi" No. 28, Sri Desikachari Road Mylapore Madras-600 004. 15-10-1980.

Page 5

॥ श्री शृङ्गेरी श्रीजगद्गुरुसंस्थानम् ॥

मुद्रा

श्रीमत्परमहंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण यमनियमा- सनप्राणायामप्रत्याहारध्यानधारणासमाध्यष्टाङ्गयोगानुष्ठाननिष्ठ तपश्चक्रव्त्यनाद्यविच्छिन्न श्रीशङ्कराचार्य गुरुपरम्पराप्राप्तषडूदर्शनस्थापनाचार्य व्याख्यानसिंहासनाघीश्वर सकलनिगमागमसारहृदय सांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतन्त्रस्वतन्त्रादि- राजधानीविद्यानगरमहाराजधानीकर्णाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराज- गुरुभूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुङ्गभद्रातीरवासि श्रीमद्विद्याशङ्करपाद- पद्माराधक श्रीजगद्गुरु श्रीचन्द्रशेखरभारतीख्वा मिगुरुकरकमलसन्ात श्रीजगद्गुरु शङ्गेरी श्रीमदभिनवविद्यातीर्थस्वामिभि: ॥ अस्मदत्यन्तप्रियशिष्यश्रीगुरुस्वामिशास्त्रिविषये नारायणस्मरणपूर्वक विरचिता आशिषस्समुल्लसन्तु। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः इत्युक्तिमनुसृत्य अद्वैतं ब्रह्मैकमेव सदिति श्रुतिस्मृतीनामुद्धोषः । भगवान् बादरायणोपि तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यादिभि: सूत्रैरिदमेव स्पष्टीचकार। श्रीमच्छक्करभगवत्पादाचार्याः इदमेव तत्त्वं श्रुतिसूत्रानुगुणं भाष्यग्रन्थेषु प्रपञ्चयामासुः। तदुत्तरं सुरेश्वराचार्यप्रभृतयो विद्वत्तल्वजाः तमेतं औपनिषदं अद्वैतसिद्धान्तं कण्टकोद्धारपुरस्सरं प्राचारयन्। वेदान्तशास्त्रे कृतभूरिपरिश्रमाः भवन्तः "ब्रह्मसत्यं जगन्मिथ्या" इतीमं विषयं नैकप्रमाणप्रदर्शनपुरस्सरं निरूपयन्तः कंचन लघुकायं निबन्धं न्यभान्तसुः । वयं चेमं निबन्धं कालट्यामश्रौण्म। अधुना पुनरवालोकयाम। शास्त्रेषु दृढप्रतिपत्ति विधुरा अपि अस्यावलोकनेन अद्वैतसिद्धान्तस्य परिचितिमवाप्तुं समर्था भविष्यन्तीति विश्वसिमः । निबन्धोयं जिज्ञासुजनकरपल्लवान्यलंकरोत्वित्याशास्म हे। शृङ्गेरी इति नारायणस्मरणम् रौद्रि आश्विन शुक्क प्रतिपत्-९-१०-१९८०

Page 6

विषयानुक्रमणिका विषया: पुटसङ््या

प्राङ्मुखम् 1

प्रतिपिपादयिषितवस्तुसमुद्देशः 3

चारुवाक लोकायतपक्ष: 4

445589 शून्यवादि - माध्यमिक - बौद्धपक्ष: 4

पूर्वभीमांसक निरीश्वरसाङ्गयभिन्नसर्वद्वैतिपक्ष: 4

औपनिषदानां अद्वैतिनां पक्षः 5

शून्यवादद्वैतिनोर्भेदः 5

औपनिषदपक्ष एव प्रामाणिक: 8

उक्तार्थे श्रतिप्रामाण्यम् 9

ज्ञाननिवर्त्यत्व - प्रतिपन्नोपाधौ त्रैकालिक - निषेधप्रतियोगित्वरूपयोः- मिथ्यात्वयोः श्रुतिसिद्धत्वम् 17

उक्तार्ये ब्रह्मसूत्रप्रामाण्यम् 17 उक्तार्थे भगवद्गीताप्रामाण्यम् 20

उक्तार्थे महाभारतप्रामाण्यम् 22

उक्तार्थे श्रीमद्भागवतप्रामाण्यम् 23

उक्तार्थे विष्णुपुराणप्रामाण्यम् 24

अद्वैतसिद्धान्ते त्रिविधं सत्यत्वं नित्यत्वं च 27

अद्वैतमते (ब्रह्मगतं) सत्यत्वम् 31

सत्तापदार्थः 33

अद्वैतमते - निथ्यात्वम् 34

उपसंहार: 41

अनुबन्ध: I - प्रमाणतया उद्धृतानां वाक्यानां आकरसूची 43

Page 7

प्राङमुखम्

॥ महागणपतये नमः ॥

श्रीगुरुम्यो नमः

भगवत्पादप्रादुर्भावपवित्रे कालटिप्रदेशे परमपावने च भगवत्पादजयन्ती- त्सिवकाले, सुतरां अभ्यर्हिततमे विद्यानगर महाराजधानी-कर्णाटकसिंहासन-

रवासि श्रीमद्विद्याशङ्गरपादपद्माराधक-श्रीजगद्गुरु पूज्य - श्रीदक्षिणान्नाय ङ्वेरीश्रीमदभिनवविद्यातीर्थपादानां, तदन्ते - वासिनां जगद्गुरु श्रीभारतीतीर्थ- मिनां च महनीये सान्निध्ये प्रणामपूर्व गुरुचरणानामनुग्रहपूर्विकामाज्ञा- तुरुन्धानोऽहं - "ब्रह्म सत्यं जगन्मिथ्या" इत्यमुं विषयमधिकृत्य लिखितं तरुं प्रबन्धं पठितुमुत्सहे। तत्रादौ अवश्यवक्तव्यार्थकथनाय द्वित्राणि वाक्यान्युच्यन्ते। श्रीमन्तः र्नात्मान: वैद्यसुब्रह्मण्यार्याः सर्वथा सार्थकबिरुदनामघेयाः, सदाचारसम्पन्नाः त्यमग्न्युपासकाः, निरुपमगुरुचरणपरिचरणपरायणाः वेदविद्याप्रचारे बद्ध- कणा:, द्विजकुलोद्द्वानामनुपनीतानां कुमाराणां, अविवाहितानां कुमारीणां उपनयनविवाहकरणे, बहुघनवितरणेन, बहूनुपकुर्वन्तः सनातनधर्म परिपाल- तः, शृङ्गेरिजगद्गुरुसनातनधर्मविद्यासमिति परिकल्प्य भगवत्पादीयाभाष्यादि- रान्तग्रन्थपाठनाय कक्ष्यां च प्रवर्तयन्तः, मद्रपुरीमतिवसन्तीति प्रसिद्ध- तद्। तेषां सद्गुणसम्पन्नानां षष्टयब्दपूर्तिवेलायां, तद्गुणानुरागिणः, तेषां सुहुदः भिमानिनश्च सुन्दरार्यप्रभृतयः सहृदयाः महान्तं निधि परिकल्प्य तेन च तिसंवत्सरं, शङ्करजयन्ती महोत्सवावसरे, वा, जगद्गुरूणां श्रीमदभिनवविद्या- र्थपादानां वर्धन्तीमहोत्सवावसरे, वा, विशिष्टेन विदुषा अध्यात्मविद्यासम्बन्धि

Page 8

2

प्रभाषणं, प्रबन्धपठनं, वा कर्तव्यमिति निश्चित्य, अतीतर्दशभिर्वत्सरैः, तथा कृत्वा श्रीमतो वैद्यसुब्रह्मण्यार्यानमानयन्। एकादशे, हायनेऽस्मिन् धर्मात्मनां तेषां बहुमाननावहे अस्मिन महे प्रभाषणं कर्तुमू अहमस्मि, नियुक्त:। तन्मदीयं कार्य निर्वोदुं ससन्तोषमारमे। सर्वथा गुरोर्जन्मभूमौ, गुरोर्जयन्त्यां गुरुणां सन्निधौ - जगद्गुरो: परमं सिद्धान्तं, "ब्रह्म सत्यं जगन्मिथ्या" इत्यमुं विषयमालम्ब्य भाषितुं मेऽवसरो लब्धः इति अद्य मे सफलं जन्म, धन्योऽहं कृतार्थोहमिति, गुरवे सविनयं निवेध पुनः प्रणभ्य प्रकृतमारमे ॥

वैशाख-शुद्ध-चतुर्थी भृगुवारः- 18-4-1980 व. श. वै. गुरुस्वामिशास्त्री

Page 9

श्रीमहागणपतये नमः | श्रीजगज्जनन्यै नमः

श्रीगुरुभ्यो नमः । श्रीराम: शरण मम "अद्वैत ब्रह्म सत्यम् - द्वैतं जगत् मिथ्या"

इत्यौपनिषदानां पक्षः

शान्तमद्वैतमानन्दं ब्रह्म सत्यं सनातनम्। व्यायामि मङ्गलं त्त्वं ध्यातव्यं सर्वदेहिभिः ॥

१. प्रतिपिपादयिषितषस्तुसमुद्देशः ब्रह्मैव सत्यं जवदेव मिथ्येत्याहुः समस्ता निगमान्तशब्दाः । ब्रह्मैव मिथ्या जगदेव सत्यं वदन्ति लोकायतचारुवाकाः ॥ सत्यं यथा ब्रह्म तथा जगच्चेत्यूचुश्च मीमांसकसांख्यभिन्नाः । मिथ्या जगद्रह्म समस्तमेवेत्याघोषयन्माध्यमिकाश्च बौद्धाः । इत्थं जगद्रह्म उमे अपेक्ष्य सत्यत्वमिथ्यात्वविचारणायाम्। चतुर्विधाश्चात्र भवन्ति पक्षाः परस्परात्यन्तविरुद्धरूपाः ॥ चतुर्षु पक्षेष्वपि सूपपन्नः श्रुत्यन्तसिद्धान्तित एव पक्षः । आह्यस्रयोऽन्ये समुपेक्षणीयाः युक्तया प्रमाणैः परिवर्जितत्वाद्। तद्ह्मसत्यत्वमहं प्रपश्चमिथ्यात्वमस्मिन् लघुनि प्रबन्धे। श्रुत्यादिमानरुपपत्तिभिश्व यथामनीषं प्रतिपादयामि ॥ वक्तव्यवस्तुप्रतिपादनार्थ प्रमाणभूताश् पुराणवाण्यः । प्रदर्शिता याः प्रकृतोपयुक्ता मया यथामत्युपपादितास्ताः ॥ वेदान्ता भगवद्गीता ब्रह्मसूत्राणि भारतम्। श्रीमद्भागवतं बिष्णुपुराणं सूतसंहिता॥

Page 10

4

भगवत्पादभाष्यं च भामती पञ्चपादिका । तत्त्वप्रदीपिका खण्डखण्डखादं च दुर्ग्रहम् ॥ तथा वेदान्तसिद्धान्तमुक्तावल्यपि वार्तिकम्। एवं संक्षेपशारीरं ख्यातं विवरणं तथा। सिद्धय श्रेष्टनैष्कर्म्यब्रह्माद्वैतानुगास्तथा। गौडब्रह्मानन्दयोगिरचिता लघुचन्द्रिका ॥ इत्येता: कृतयश्चात्र निर्दिष्टाः स्वेष्टसाधिकाः । इति वस्तुसमुद्देशःपद्यैः संक्षिप्य दर्शितः ॥

२. चारुवाकलोकायतपक्ष:

प्रपश्चे पुनरस्मिन् प्रत्यक्षमेकमेव प्रमाणमङ्गीकुर्वन्तः, बार्हस्पत्यमताव- लम्बिनश्चारुवाका: लोकायताः शास्त्रप्रामाण्यानङ्गीकारादेव ब्रह्म नाभ्यु- पगच्छन्ति। स्वाभाविकाविदाविषये प्रपश्चे पुनः सुतरामभिनिविष्टमानसाः- जगदेव सत्यं, ब्रह्म तु मिथ्यैवेत्यभिप्रयन्ति ॥

३. शून्यवादिमाध्यमिकवौद्धपक्ष:

प्रत्यक्षमनुमानमिति प्रमाणद्वयमभ्युपगच्छन्तः बुद्धदेवस्य मुख्यशिष्या बुद्धिकौशलशालिनो माध्यमिकाश्च, पूर्ववदेव वेदप्रामाण्यानभ्युपगमादेव वेद- विद्याविषयं ब्रह्म नाभ्युपगच्छन्ति। केनापि सुकृतविशेषेण, स्वाभाविकाविद्याविषये प्रपश्चे सर्वथाऽभिनिवेशरहिताः, तस्यापि शून्यतां वदन्तः, ब्रह्म जगत् सर्वमेव मिथ्येति सिद्धान्तयन्ति ॥

४. पूर्वमीमांसक - निरीश्चरसांख्यभिन्नसर्बद्वैतिपक्षः प्रत्यक्षानुमानानवबुद्धसारवत्तरानेकार्थप्रमापिकायाः श्रुते: प्रामाण्यं, स्वीकुर्वन्तः तत एव ब्रह्माभ्युपगच्छन्तोऽपि, स्वाभाविकाविद्याविषये प्रपञ्चे

Page 11

5

अनादिनिरूढवासनावशेनाभिवेशमपरित्यजन्तः, द्वैत - विशिष्टाद्वैतद्वैताद्वैतादि बहुविधावान्तरभेदयुतद्वैतमतानुयायिन, मीमांसकनिरीश्वरसांख्यभिन्नाः सर्वे dh4 पत्यमिति स्वसिद्धान्तं स्थापयन्ति।

श्रुतिप्रामाण्यं मुख्यतया, अमुख्यतया वा उररीकुर्वन्तोऽपि मीमांसका नेरीश्वरसांख्याश्च, ब्रह्माभिधानस्य परमेश्वरस्याङ्गीकारे सर्वोडप्यधिकारिवर्ग: नक्तिपूर्वकपरमेश्वराराधनपरिनिष्पन्नतदनुग्रहेणैव स्वाभिलषितं सरवें साधयेत्। न कोऽपि, कर्ममार्गे, विचारमार्गे वा प्रवर्तेत इति मत्या ब्रह्मच्छाद- रन्तो नाभ्युपगच्छन्ति। एवं ब्रह्मानभ्युपगमेऽपि, ते खलु मीमांसकाः सांख्याश्च, (वस्तुतोव्रह्माभेदयोग्यं) प्रत्यगात्मानं नित्यमेवाऽभ्युपगच्छन्ति। न तु चार्वाकवत् बौद्धवद्वा अनित्यं शरीरादिकमेवात्मानमभ्युपगच्छन्ति ॥

५. औपनिषदानामद्वैतवादिनां पक्ष: अद्वैतवादिनस्तु-मनुष्यजन्मनः पश्चादिजन्मापेक्षया वैशिष्टये वस्तुस- कारणं श्रुतेर्मनुष्याधिकारिकत्वभेव। तस्याश्च श्रुतेः मनुष्यमात्रसाधारण्याः श्वादिसाधारणप्रत्यक्षानुमानात्मकप्रमाणद्वयापेक्षया प्राबल्यं "प्राबलयमागमस्यैव नात्या तेषु त्रिषु स्मृतम्" इति स्मृतिमनुसृत्याङ्गीकुर्वन्तः, पारमेश्वरादेव सादात्, आनाद्यविद्याविषयजगदभिनिवेशविरहिताः श्रुतिपरमतात्पर्यपर्यन्तपर्या- ग्ेचनपरिपकरूवमतय :- "ब्रह्म सत्यं जगन्मिथ्या" इति सिद्धान्तयन्ति ॥

अयमेव, औपनिषदः सिद्धाम्तः, "श्लोकार्घेन प्रवक्ष्यामि यदुक्तं घास्त्रकोटिभिः । ब्रह्म सत्यं जगन्मिध्या जीवो ब्रह्मैव नापरः" इत्येकं जोघुव्यते लोके।। ६. शून्यवाद्यद्वैतवादिनोर्भेंद:

अत्र चांशदूयमस्ति ब्रह्मसत्यत्वं जगन्मिथ्यात्वं चेति। तत्र ब्रह्मसत्यत्व- रूपः प्रथमांशः परमेश्वराभ्युपगन्तृसकलद्वैतवादिमतसाधारणः तथा जगन्मि-

Page 12

6

थ्यात्वरूपो द्वितीयांशः शून्यवादिमाध्यमिकमतसाधारणः। तदुक्तं खण्डनकारै: -"सौगतब्रह्मवादिनोरयं विशेषः, यदादिमः सर्वमेवानिर्वचनीयं वर्णयति। ब्रह्मवादिनस्तु विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्यां विलक्षणं संगिरन्ते" इति। अद्वैतसिद्विव्याख्यायामप्यभिहितम् "वस्तुतो ब्रह्मभिन्ने शून्यवादिभिर- स्माकं साम्यमिष्टमित्यपि ध्येयम्" इति। तस्मादशद्वयं मिलितमेवाद्वैतिन मतमिति सिद्धम् ॥

अत एव सौगतानां ब्रह्मवादिनां च अद्यवादिन इति नामसाग्येऽपि महदिदमुभयेषां वैलक्षण्यं भवति। सौगताभिमतमद्वैतं तु न द्वैतमद्वैतमिति व्युत्पत्या द्वैतविरोधिनिरधिष्ठानद्वैताभावात्मकशून्यस्वरूपं भवति। ब्रह्मवाद्यभि- मतमद्वैतं हि न विद्यते द्वैतं यत्र तदिति व्युत्पत्या द्वैताभावाधिष्ठानद्वैता- भावोपलक्षितब्रह्म स्वरूपम् भवति।

इदं पुनरिहानुसन्घेयम्। मीमांसकान् निरीश्वरसांख्यांश्र वर्जयित्वा सर्वे वैदिकाः, द्वैतिनोऽद्वैतिनश्च श्रुतिप्रामाण्यवशात् श्रुतिप्रमाणकं ब्रह्म सत्यमिति उपगच्छन्ति ।

लौकायता माध्थमिका अन्ये च, अवैदिकाः श्रुतिप्रामाण्यानभ्युपगमादेव ब्रह्म नाभ्युपगच्छन्ति। अवैदिकेषु तेषु माध्यमिकभिन्ना जगत् सत्यमिति, माध्यमिकः। तन्मिथ्येति च सिद्धान्तयन्ति। उभये अषि, वेदवाह्याः स्वसिद्धान्तानु- सारेण, जगतः सत्यत्ववणने मिथ्यात्ववर्णने वा, श्रतिप्रामाण्यानङ्गीकारादेव श्रुतिं प्रमाणात्वेन नोदाहरन्ति। किन्तु प्रत्यक्षेणानुमानेन च तत्साधयन्ति । श्रुतिश्च यद्यपि क्वचित् क्वचित् ग्रत्यक्षानुमानसिद्धान् तदनुसारिवादि विशेषा- भ्युपगतांश्चार्थानन्यशेषतया अनुवदति। एवं तत्त्ववोधनोपयोगिचित्तशुद्धय- शुद्धिहेतुधर्माघर्मलक्षणानलौकिकानपि, अर्थान्वर्णयति। तथापि प्रत्यक्षाद्य- गोचरे, ब्रह्मण्येवातिगम्भीरे, वस्तुनि परमतात्प्यवती पारमार्थिक प्रामाण्यमश्नुते। ब्रह्मभिन्ने, जगति धर्मिणि, तन्निष्ठयोः, सत्यत्वमिथ्यात्वरूपयोर्धर्मयोः, विधिनिषेध-

Page 13

7

योर्वां श्रतेः परमं तात्पर्यं पारमार्थिकं प्रामाण्यं वा न विद्यते। किन्तु तस्याः जगदादिषु अवान्तरं तात्पर्य व्यावहारिकमेव च प्रामाण्यं भवति। उक्तार्थे च प्रमाणभूताः श्रुतय :- " सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि" नावेद् विन्मनुते तं बृहन्तम "तं त्वौपनिषदं पुरुषं पृच्छामि" "अतोऽन्य- दार्तम्" नेह नानास्ति किश्चन" इति। तत्रैवं सति श्रृत्यतात्पर्यविषये जगति मिथ्यात्वस्वीकारमात्रेणाद्वैतिनां बौद्धमतप्रवेशः, भास्करादिभिः कैश्चित दर्शनपारस्परिकमेदबुद्धिशून्यैरापादयते यत्तदसमन्जसम्। यदेवं तदा तादृशजग- द्विषये सत्यत्वस्वीकारमात्रेण द्वैतिनामपि लोकायतमतप्रवेशापत्तिर्दुर्निवारा स्यात् इति न किञ्चिदेतव्।

वस्तुतस्तु-अनिर्वचनीयख्यातिमङ्गीकुर्वलद्भिर द्वैतिभि: अभ्युपगत सदसद्विल- क्षणत्वलक्षणं जगन्मिथ्यात्वं, असत्ख्यातिमङ्गीकुर्वद्भिः, अतएव जगति, अस- द्वलक्षण्यमनङ्गीकुर्वद्गिरभ्युपगम्यमानात् जगतः, असत्त्वरूपान्मिथ्यात्वाद्विलक्षणमेव ।। एवमेव अद्वैतिसम्मतं ब्रह्मसत्यत्त्वमपि द्वैतिसम्मताद्वह्मसत्यत्त्वादत्यन्तविलक्षण- मेवेति बोध्यम्।

भगवत्पादाश्च "किश्चिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते+, यथा रज्ज्वादिषु सर्पादयः, अपरिशिष्यमाणे चान्यस्मिन् य इतरः प्रतिषेद्ुमारभ्यते प्रतिषेद्भुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः" इति वाक्येन- ब्रह्मसत्यत्वादेव जगन्मिथ्यात्वं, जगन्मिथ्यात्वादेव परिच्छेदत्रयरहितब्रह्मसत्यत्वमिति, जगद्व्यावृत्त ब्रह्मसत्यत्वमवबोधयन्ति। तस्मादद्वैतिसम्मतं ब्रह्मसत्यत्वं जगद्यावृत्तमिति सिद्धम्। द्वैतमते च ब्रह्मसत्यत्वस्य जगव्यावृत्तत्वाभावादेव-द्वतिप्रवरैः न्यायामृतकारैः- "यादृशं ब्रह्मणस्सर्वं तादृशं स्याज्जगत्यपि" इत्युद्धोषितम् ।

Page 14

8 सत्यत्वस्य भ्रमाधिष्ठानत्व - बाधावधित्वप्रयोजकत्वं श्रीमाधवाचार्याः -"एवं द्तारोपस्याधिष्टानत्वेन तद्वाधावधित्वेन च त्रिविधपरिच्छेदरहितं यत् अद्वितीयं तत्सत्यमेवेष्टव्यम्। इतरथा निरघिष्टानभ्रम - निरवघिकबाधयोः प्रसङ्गात्। असतश्च सर्वप्रकारेणापि निरुपारव्यत्वेन, अघिष्ठानत्वा- वधित्वानुपपत्तेः" इति ब्रह्मगीताव्याख्यायां सुविशदं प्रत्यपाद्यन्। गोडब्रह्मानन्दैश्-"ब्रह्मणः अबाध्यत्वोपलक्षितस्वरूपत्वात्मकसत्यत्वे भ्रमाधि- ष्टानत्वमेव प्रयोजकम्" इति लघुचन्द्रिकायां जगद्रभ्नमाधिष्टानत्वस्य ब्रह्मसत्यत्वप्रयोजकत्वमभ्यधायि ॥ तदेवं ब्रह्मसत्यत्वं जगन्मिथ्यात्वञ्च परस्पर- प्रयोजकं प्रत्येकमपि अद्वैतसिद्धान्तस्यैव, असाधारणो विषय इति

७. औपनिषद्पक्ष एव प्रामाणिक: ।

जगद्रह्मोभयसत्यत्व - जगद्वह्मोभयमिथ्यात्व - जगन्मात्रसत्यत्व - ब्रह्म- मात्रसत्यत्व - पक्षेषु चतुर्षु अद्वैतिसम्मतः, ब्रह्ममात्रसत्यत्वपक्ष एव, ब्रह्मसूत्रकृतां भवव्यासाचार्याणामभिमत इति बोध्यं। श्रीमच्छङ्करभगवत्पादाः 4प्रकृतैताव्त्वं प्रतिषेवति ततों ब्रवीति च भूयः " इति सूत्रभाष्ये प्रति- पादयन्ति। 'किमय (अथात आदेशो नेति नेतीति) प्रतिषेध: रूपं (जगदात्मकं ब्रह्मरूपं) रूपवच्च (ब्रह्म) उभयमपि प्रतिषेधति आहोस्विदेकतरं। यदाप्येकतरं तदापि कि ब्रह्म प्रतिषेधति रूपे (भूर्तामूर्तात्मिके) परिशिनष्टि इति कोटित्रयमुप- वर्ण्य, प्रथम-द्वितीयकोटिद्वयं निराकृत्य तृतीया ब्रह्ममात्रसत्वकोटिराचायैं: सिद्धान्तिता ॥।

आपे च श्रीकण्ठाचार्या: रामानुजाचार्याश्र उक्तसूत्रव्याख्याने, ब्रह्ममात्रसत्त्वपक्षमद्वैतिसम्मतं पूर्वपक्षत्वेनानूद तनिराकरणपूर्वकं ब्रह्म जगदुभय- सत्यत्वमतं अवर्णयन् ।।

Page 15

9

तत्र "ब्रह्म सत्यं जगन्मिथ्था" इतीदमेव पक्षं सर्वे वेदान्ताः तन्निर्णायकब्रह्मसूत्राणि तदुपबृंहण भगवद्गीता-विष्णुपुराण-भागवत-भारतादीनि च प्रमाणानि विमृश्यमानानि व्यवस्थापयन्ति॥।

८. उक्तार्थे श्रुतिप्रामाण्यम्

(१) तथाहि तैत्तरीयश्रुतिः, आनन्दवल्यां ब्रह्मस्वरूपजिज्ञासायां "सत्यं ज्ञानं, अनन्तं ब्रह्म " इति ब्रह्मणःसत्यत्वं लक्षणमाचक्षाणा ब्रह्मभिन्नम- सत्यं इति ज्ञापयति। यदि जगतोऽपि सत्यत्वं श्रुत्यभिमतं स्यात्, तदा ब्रह्मण: सत्यत्वं लक्षणं जगत्यतिव्याप्तं भवेत्। एवं तत्रैवानन्तत्वमपि ब्रह्मलक्षणं वदन्ती श्रुतिः ब्रह्मभिन्नं जगत्सर्वमपि, अन्तवत्वेनानित्यमिति बोधयति। तथा च सत्यत्वं नित्यत्वं च ब्रह्ममात्रवृत्तित्वेन समनियतमिति च, अवगमयति अत एव 'अतोऽन्यदातमिति, अपरा श्रुतिः ब्रह्मभिन्नमार्तमवोचत्। ब्रह्मसूत्र कारोऽपि भगवान् बादरायण: "आकाशस्तल्लिङ्गादित्यत्र अनन्तत्वलिङ्गेनैव ब्रह्म निर्धारयामास॥

अनन्तत्वस्य ब्रह्मासाधारणत्वादेव च "अतोऽनन्तेन तथाहि िङ्गम्" इति सूत्रे अनन्तपदेनैव ब्रह्म निरदिक्षत्। अतएव च श्रीमन्तो भामतीकारा:, सत्यत्वनित्यत्वयोः, तद्विरुद्धयोः, मिथ्यात्वानित्यत्वयोश्च समनियतत्वादेव, साधनचतुष्टयान्तर्गतनित्यानित्यवस्तुविवेकपदार्थ सत्यासत्यवस्तुविवेकरूपत्या व्याच- ख्यु: ॥ तैत्तिरीयोपनिषदि, आनन्दवल्यामेव "असन्नेव स भवति असत् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः"' इत्यनेन लोकायतिकमाध्यमिकादभिमतं ब्रह्मासतं निराकृत्य ब्रह्मसत्त्वपक्षः समर्थितः। एवं न कुत्रापि श्रुतिषु जगन्मिध्यात्वपक्षः, आशङ्कय निराकृतः । किन्तु समर्थित एव स सर्वत्रापि। अपिचानन्दवल्यां-सत्यं चानृतं च "सत्यमभवत् यदिदं किश्च तत्सत्यमित्याचक्षते" इति लौकिकसत्यानृतमेदभिन्नजगद्रपेण 2

Page 16

10

विवर्तमानं ब्रह्म बस्तुतः सत्यमिति प्रतिपादितम्। शिक्षावल्यां च "आकाश- शरीरं ब्रह्म सत्यात्म " इति विशिध्य ब्रह्मणो सत्यात्मत्वं, अभिहितम् ॥।

(२) छान्दोग्योपनिषदि षष्ठे अध्याये सद्विद्याप्रकरणे "सदेवः सोम्य इदमग्र आसीत् एकभेवाद्वितीयम् " स्त्वेव सोम्येदमग्र आसीदेकमेवाद्विती- यम् "सता सोम्य तदा सम्पन्नो भवति" "सन्मूलमन्विच्छ" इति द्वि 'सन्मूलाः सोम्येमा: सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा" इति च द्विः "सति सम्पद्य न विदुः सति सम्पद्यामह" इति "सत आगम्य न विदुः सत आगच्छामह" इति-पञ्चदशकृत्वः, जगत्कारणीभूतस्याद्वितीयस्य ब्रह्मणः सदूपत्वं निर्धारितम्।

तथा, "स य एषोऽणिमा ऐतदात्म्यमिदं सर्वे तत्सत्यं" इतिः नवकृत्वश्च ब्रह्मणः सत्यत्वमवधारितम् ।

एवमेव, 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्" "लोहमित्येव सत्यम्" कृष्णायसमित्येव सत्यम् "एवं सोम्य स आदेशो भवतीति" "अपागादग्नेरग्नित्वं" "अपागादादित्यादादित्यत्वम्" "अपागा- चन्द्राच्चन्द्रत्वम्" "अपागाद्विद्युतो विद्युत्वं" "वाचारम्भणं विकारो नामधेयँ त्रीणि रूपाणीत्येव सत्यम्" इति वाचारम्भणशब्द-नामधेयशब्द- एवकाराद्यभ्यासेन विकारात्मकस्य सर्वस्यैव प्रपश्चस्य मिथ्यात्वमभिधाय कारण- त्वोपलक्षितस्य ब्रह्मण एव सत्यत्वं सुष्टु निर्धारितम्" तप्तपरशुग्रहणदृष्टान्तेन च विकारात्मकप्रपञ्चाभिसन्धे पुरुषे बन्धप्रयोजकानृताभिसंधत्वस्य, ब्रह्माभिसन्घे पुसि मुक्तिप्रयोजकसत्याभिसन्धत्वस्य च संकीर्तनेन ब्रह्म सत्यं जगन्मिथ्ये- त्युच्चैरुद्धोषितम् ।।

II अस्यामेवोपनिषदि सप्तमाध्याये भूमविद्याप्रकरणे "एष तु वा अतिवदति यस्सत्येनातिवदति" "सोहं भगवस्सत्येनातिवदानीति"

Page 17

11

सत्यं त्वेव विजिज्ञासितव्यमिति" "सत्यं भगवो विजिज्ञास इति" "यदा वै विजानाति अथ सत्यं वदति, नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति" इति वाक्यैः प्राणादिप्रपश्चवादिनस्सत्यवादित्वं प्राणादेस्सत्यत्व चानुक्त्वा ब्रह्मवादिन एव सत्यवादित्वस्य, ब्रह्मण एव विजिज्ञासितव्यस्य वदनकर्मणः सत्यत्वस्य च सप्तकृत्वः सङ्कीर्तनेन ब्रह्म सत्यं जगन्मिथ्येति प्रकटीकृतम् । "यो वै भूमा तदमृतं अथ यदल्पं तन्मत्यम् " इति च भूमाख्यब्रह्मणि सत्यत्वसमनियतस्य नित्यत्वस्य, अल्पे प्रपच्चे च मिथ्यात्वसम- नियतस्य मर्त्यत्वस्य अभिधानेन ब्रह्मसत्यत्वं जगन्मिथ्यात्वमेव दृढीकृतम्। यद्वै किञ्चिदध्यगीष्ठा नामैवैतत्" इति नारदज्ञातस्य ब्रह्मव्यतिरिक्तस्य सर्वस्थापि नाममात्रत्वकथनेन मिथ्यात्वमुपवर्णितम्। किंच-"स एवाधस्तात् ... स एवेदं सर्वे "अहमेवाघस्तात्. ... अहमेवेदं सर्वं" "आत्मैवाघस्तात् ... आत्मैवेदं सर्वै" इति प्रत्यगभिन्नब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणपूर्वकं ब्रह्मण एव सर्वत्वप्रतिपादनमप्युक्तमेवाभिप्रायं प्रकटयति॥

III अस्यामेवोपनिषदि अष्टमाध्याये "एतदमृतमभयमेतङ्गह्म" इति पश्चकृत्वः, "विजरो विमृत्युः " इति त्रिकृत्वः "तद्वह्म तदमृतं स आत्मा" "तदस्यामृतस्याशरीरस्यात्मनः " इति च ब्रह्मणः अमृतत्वेन सत्यत्वं, "त इमे सत्याः कामाः अनृताभिधानाः", तेषां सत्यानां सतामनृतमभिधानं" अत्र ह्यस्यैते सत्याः कामाः अनृताभिधानाः" "एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोक न विन्दन्ति अनृतेन हि प्रत्यूढा:" इति वाक्यैः ब्रह्मात्मना सत्यानां कामानां ब्रह्मस्वरूपस्य चावारकस्य, अज्ञानाख्यभावपदार्थस्य चतुर्वारं अनृतत्वकीर्तनद्वारा अविद्याकृतकृत्स्नप्रपश्चस्य मिथ्यात्वं "मर्त्य वा इंदं शरीरमात्तं मृत्युना" इति स्थूलसूक्ष्मकारणा्य- शरीरत्रयात्मककृत्स्नप्रपश्चस्य मर्त्यत्वं चोद्धाटितम् ।। "एतत्सत्यं ब्रह्मपुर" मिति

अयमेवाशयः विशदीकृतः ॥ "तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति" इति

Page 18

12

च ब्रह्मणः इतरव्यावृत्तं सत्यमिति नाम कुर्वाणा छान्दोग्यश्रुतिः ब्रह्म सत्यं जगन्मिथ्येति मुक्तकण्ठमाचष्टे।। (३) ब्रह्मदारण्यकोपनिषदि च I उद्धीथब्राह्मणे "असतो मा सद्रमय" "तमसो मा ज्योतिर्गमय" मृत्योर्माऽमृतं गमय" इति जप्य- त्वेनोक्तैर्यजुर्मन्त्र: प्राप्यस्य वस्तुनः सज्ज्योतिरमृतरूपत्वं, त्याज्यस्य तद्वपरीत्येन असत्तमोमृत्युरूपत्वं च ब्रुवद्धि: प्राप्यं, ब्रह्म सदूपं, ज्योतिश्शब्दितचिद्रुपं अमृतशब्दितानन्दरूपश्चेति, त्याज्यो बन्धः तमश्शब्दितजडरूपः मृत्युशब्दितदुः- खरूपश्चेति अभिहितम्। मृत्युरिति, अमृतमिति च परस्परप्रतिद्वन्द्विवाच- कशब्दयोः दुःख-तत्प्रतिद्वन्द्वि सुखवाचकत्वं, "ये तद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति" इत्यत्रामृतदुःखशब्दयोः परस्परप्रतिद्वन्द्वितया निर्देशात् सिद्धम्। तथाच ब्रह्म सत्, जगदसत् सद्धिन्नं मिथ्येति सुतरामुपपन्नं भवति ॥ किश्च बृहदारण्यके एव, II अजातशत्रुब्राह्मणे III मूर्तामूर्तब्राह्मणे च क्रमेण "तस्योपनिषत् सत्यस्य सत्यमिति ्राणा वै सत्यं तेषमेष सत्यं" इति। "अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् इति च वाक्याम्यां प्रधानभूतप्राणग्रहणोपलक्षितस्य कृत्स्नस्य जगतः ब्रह्मणश्राबाध्य- त्वरूपसत्यत्वविषये सर्वदैवाबाध्यत्वं किंचित्कालमबाध्यत्वमित्येवं प्रकारं विना प्रकारान्तरेणोपपादयितुमशक्ययोरुत्कर्षाप कर्षयोर्वर्णनमुखेन ब्रह्म सत्यं जगन्मिथ्येति स्पष्टीकृतभेव। सत्यत्वस्य नित्यत्वरूपतया कोषांचिद्याख्यानपक्षेऽपि ब्रह्मैव नित्य- मनित्यमन्यत्सर्वमेवेति च स्फुटीकृतम्। नित्यत्वानित्यत्वाभ्यामेव तत्समनियतसत्य- त्वमिथ्यात्वे ज्ञाप्येते इति च पूर्वमेव प्रतिपादितम्। यथा च तैत्तिरीयोपनिषत्-"स वा एष पुरुषोऽन्नरसमयः अन्योन्तर आत्मा प्राणमयः अन्योन्तर आत्मा मनोमयः इत्यादिवाक्यैः, आन्तरान्तरवसत्वा-

Page 19

13

त्मत्वाभ्युपगमेन बहिर्बहिर्वस्त्वनात्मत्वं प्रतिपादयति तद्वदेव बृहदारण्यकोपनिषत् "नामरूपे सत्य प्राणा वै सत्य तेषामेष सत्यं इतिवाक्यैः स्थूलसूक्ष्मप्रपञ्चब्रह्मणां उत्तरोत्तरं सत्यत्वाभ्युपगमेन पूर्वपूर्वस्यासत्यत्वं स्फुट प्रतिपादयतीति तत्त्वचिन्त- कानामतिरोहितमेव।

तथा IV उषस्तब्राह्मणे "एष त आत्मा सर्वान्तरः अतोऽन्यदार्तम्" इति प्रत्यगात्मनोऽस्य V कहोलब्राह्मणे "अतोऽन्यदार्त" इति VI अन्तर्यामिब्राह्मणे "एष आत्मा अन्तर्याम्यमृतः अतोऽन्यदार्तम्" इति च ब्रह्मणोऽन्यस्य आर्तत्वं ब्रह्मण एव चामृतत्वमुक्तम्। आर्तत्वं च बिनाशित्वं तत्समनियतं, मिथ्यात्वं वा। अत एव "अतोऽन्यदार्त सकलं न सत्यन्तु निरूपणे" इति ब्रह्मगीतायां आर्तप्रतिद्वन्द्वि, सत्यत्वमुक्तम्। बृहारण्यकभाष्ये च भगवत्पादैः "आत विनाशि आर्तिपरिगृहीतं स्वनमायामरी- च्युदकसममसारमित्युक्तम्। एवं च ब्रह्मैव नित्यं सत्यं च। ब्रह्मभिन्नं जगत्सवें विनाशि मिथ्या च ब्रह्मभिन्नस्य प्रत्यग्भिन्नस्य चार्तत्वोक्तया प्रत्यग्रह्मामेदोऽपि आविष्कृतः। अन्यथा प्रत्यग्भिन्नस्य ब्रह्मणः ब्रह्मभिन्नस्य प्रतीच श्चार्तत्वमापद्येत । VII एवमेव ज्योतिर्ब्राह्मणे "यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्द्ष्टेर्विपरिलोपो विद्यतेSविनाशित्वात्, न तु तद्द्वितीयमस्ति ततोऽन्य- द्विमक्तं यत्पश्येत" इति, तथा VIII मैत्रेयीब्राह्मणे-"अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा" "इदं महद्दूतमनन्तमपारं "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" "यत्र त्वस्य सर्वमात्मैवाभूत तत्केन कं पश्येत" इति च वाक्यैः ब्रह्मात्मनः सुषुप्तिमुक्तयादिसर्वावस्थासु सत्यत्वनियतं अविना- शित्वं जगतः सुषुप्तिमुक्तयोरभावं, जाअत्स्वप्नयोः बन्धदशायामेव च प्रतीयमानत्वं, तत्रापि अपारमार्थिकत्वद्योतकेन इवकारेण काल्पनिकत्वं च स्पष्टमभिहितं भवति।

Page 20

14

तदुक्तं विमुक्तात्मश्रीचरणैः इष्टसिद्धौ प्रपश्वमिथ्यात्वनिरूपणप्रकरणे -"यत्र हीत्याद्यविद्यायां भेददृष्टिं वचो जगौ। यत्रत्वस्येति विद्यायां तदयुक्तिं जगावपि॥ दृशयदृष्टयोरभावेऽपि दृष्टिरप्यात्मनोऽचला । अविनाशी न हि द्रष्टुः स्वयज्योतिरिति श्रुतेः इति ॥

IX एवं शारीरक ब्राह्मणे "स वा एव महानज आत्मा अजरोऽमरोऽमृतो डयो ब्रह्म" इति ब्रह्मणः सत्यत्वनियतममृतत्वमुक्तम्। "यस्मिन्पश्च पश्- जना आकाशश्च प्रतिष्ठितः । तमेव मन्ये आत्मानं विदयात् ब्रह्मामृतोऽमृतम्।" इति पूर्वस्मिन्वाकूये अमृतशब्देन नित्यत्वेनोक्ते ब्रह्मणि कारणे सर्व जगत्प्रतिष्ठित- मित्युक्त्वा पश्चात् "मनसैवानुद्रष्टव्यं नेह नानास्ति किंचन। मृत्योस्स मत्युमा- स्नोति य इह नानेव पश्यति" इति वाक्येन वर्तमानकालेऽपि किंचिदपि वस्तु ब्रह्मणि नासति। तत्पश्यन् मृत्युामाप्नोति इत्युक्त्या नानेवेति इवशब्देन च जगन्मिथ्यात्वं च समर्थितम्। तदुक्तमिष्टसिद्धावेव 1 नेह नानास्ति मृत्योस्स वाचारम्भणमित्यपि। द्वैततद्दृष्टयभावोक्तः, मायानिर्वचनी- यता। नान्यत्र कारणात्कार्य न चेत्तत्र क्व तद्ेवत्। नानेवेत्युपमायो गात्, दर्शनाभासतोच्यते" इति॥

X तथा पुरुषविधव्राह्मणेऽपि "अथ योऽन्यां देवतामुपास्ते अन्योऽसौ अन्योहमस्मीति न स वेद यथा पशुरेवं स देवानां" इति भेददर्शिनः अज्ञानित्वप्रतिपादनेन, मैत्रेयीब्राह्मणे सर्वं तं परादात् योन्यत्रात्मनः सर्व, वेद इति भेददर्शिनः भ्रान्तत्वनिबन्धनकैवल्यभ्रंशकथनेन च द्वैतजातस्य मिथ्यात्वं स्थिरीकृतम् ॥ तथा मूर्तामूर्तब्राह्मणे "अथात आदेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्ति" इति XI शाकल्यब्राह्मणे XII कूर्चत्राह्मणे च स एष नेति नेत्यात्मा इति च ब्रह्मणः सर्वविशेषनिराकरणेनैव बोधनात् ब्रह्मणः सप्रपञ्चत्वं मिथ्येति निस्संशयं निरूपितम् ॥

Page 21

15

(४) ऐतरेयोपनिपदि च "तस्य त्रय आवसथास्त्रयस्स्वप्नाः" इति वाक्येन जाग्रत्-स्वप्न-सुषुप्तीनां तिसृणामप्यवस्थानां स्वप्नत्वोक्तया जगतो मिथ्यात्वं प्रकटीकृतम् ॥

ऐतरेयद्वितीयारण्यकप्रथमाध्याये "एष पन्था एतत्कर्म, एतद्ब्रह्म एतत्सत्यम्" इति वाक्यं कर्मब्रह्मणोः पुरुषार्थसाघनमार्गत्वमुपदिश्य, तन्मव्ये ब्रह्मणो विशिष्य सत्यत्व ब्रुवत् तद्धिन्स्य मिथ्यात्वं अवबोधयति॥

(५) मुण्डकोपनिषदि च "तदेतत्सत्यमिति" त्रिवारं "येनाक्षरं पुरुषं वेद सत्यं" इति च ब्रह्म सत्यमित्युक्त्वा "तदमृतं" "ब्रह्मैवेदममृतम्" इति सत्यत्वादेव अविनाशीति च निगदितम्। यदपि कर्मणोऽपि तत्र "तदेतत् सत्यं" इति एकवारं सत्यत्वमुक्तम्। तथापि तत् आपेक्षिकसत्यत्वं मिथ्यात्वाविरुद्धं बोध्यम्। अथवा कर्मणः फलसाधनत्वाव्यभिचार एव सत्यत्वं न स्वरुपाबाध्यत्वमिति व्येयम्। अत एव तत्र तदेतत्सत्यं एकान्तपुरुषार्थ- साधनत्वात् इति भगवत्पादा बभाषिरे।। "तमेवैकं जानथ आत्मानं अन्या वाचो विमुश्थ" इति च श्रुति: आत्मव्यतिरिक्तस्य सर्वस्य वाङ्मात्रत्वेन त्याज्यत्वं ब्रुवाणा तस्य मिथ्यात्वमभाषत। "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः। नानुध्यायाद्बहन्शब्दान् वाचो विग्लापनं हि तत्"। इति श्रत्यन्तरमपि उक्तमेवार्थ ब्रवीति।

(६) कठोपनिषदि च "न जायते म्रियते वा विपश्चित्", "अजोनित्यः शाश्वतोऽयं पुराणो न हन्यते" "अव्ययं" "नित्यं", "ध्रुवं' "अवस्थित" "ईशानो भूतभव्यस्य स एवाद्य स उ श्वः" "गुह्यं ब्रह्म सनातनं" "तदेव शुकं तद्ब्रह्म " तदेव शुक्र तदूब्रह्म तदेवामृत- मुच्यते" नित्यो नित्यानां "अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलन्यते।' "अस्तीत्येवोपलब्धव्यस्त्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः

Page 22

16

अ्रसीदति" "तं-विद्याच्छुकममृतं" इति "यदेवेह तदमुत्र यदमुत्र तदन्विह" "मृयोः स मृत्युमाप्नोति य इह नानेव पश्यति।" "मनसैवेदमाप्तव्यं नेह नानास्ति किश्चन" । "मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति।" इति च वाक्यैः ब्रह्मैव सत्य नित्यं, ब्रह्मभिन्नं जगन्मिथ्या अनित्यञ्चेति पौनःपुन्येन प्रतिपादितम्। तत्रैवं विमुक्तश्र विमुच्यते" इति मुक्तेः नित्यसिद्धत्वो- क्तया बन्धस्याविद्यकत्वं स्फुटीकृतम् । "उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत" इति द्वैतदर्शनावस्थायाः अज्ञाननिद्रात्वव्णनेन इदमेव प्रकटीकृतम ।

(७) केनोपनिषदि "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः" इति वाक्येन ज्ञाने सति सत्यब्रह्मप्राप्तिः, अन्यथा मिथ्याजगदविच्छेदेन विनष्टिरिति कथनेन ब्रह्म सत्यं जगन्मिथ्येति विवृतं भवति ॥

(८) माण्डूकूयोपनिषदि च "प्रपश्चोपशमं शान्तं शिवमद्वैतं" इति ब्रह्माद्वैतमुद्दोषितम् "यत्र सुप्तो न कञ्चन कामं कामयते न कंचन स्वप्नं पश्यति" इति सुषुप्तिनिरूपणावसरे जागरस्वप्नव्यावृत्तये "न कंचन स्वप्नं पश्यति" इति कथनं, जागरिकसर्वप्रपञ्चस्य मिथ्यात्वमावेदयति। तथ। च बृहदारण्यकोपनिषदि, भगवत्पादाः, "जागरिते यदर्शनं तदपि स्वप्नं मन्यते श्रतिरत आह न कंचन पश्यतीति व्यचक्षाणाः, उक्तमर्थ द्रढयन्ति ॥

(९) एवं वेताश्वतरश्रुतिरपि "यस्मात्परं नापरमस्ति किञ्चित्" इति वाक्येन ब्रह्मभिन्नप्रपश्चस्य, अस्तित्वरूपसत्वानिषेघेनाद्वैतमेव आविष्करोति।।

(१०) मैत्रायणीयश्रुतिरपि "द्वे वाव ब्रह्मणो रुपे मूर्त चामूर्तश्र अथ यन्मूर्त तत्सत्यं तद्ब्रह्मेति जगदात्मकब्रह्मरुपस्य मिथ्यात्वं ब्रह्मस्वरूपस्य

Page 23

९. ज्ञाननिवर्त्यत्व-प्रतिपन्नोपाधौ त्रैक्कालिकनिषेधप्रतियोगित्व- रुपयोरमिथ्यात्वयोः श्रुतिसिद्धत्वम् "तत्र को भोहः कः शोक: एकत्वमनुपश्यतः । "निचाय्य तन्मृत्युमु- खात्प्रमुच्यते" "तरति शोकमात्मवित्" "एवमेवास्य परिद्रष्टुरिमाष्षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति मिदेते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति"। "भिधते हृदयग्रन्थिश्छिदयन्ते सर्वसंशयाः । क्षींयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे" "तथा विद्वान्नामरूपाद्विमुक्तः" "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इतीशावास्य- काठक-छान्दोग्यप्रश्नमुण्डक-श्वेताश्वतराद्याः श्रतयः, बन्धस्य, ज्ञानमात्रा- पनोधत्वं, तस्याज्ञानात्मकत्वं ज्ञानभिन्नस्य बन्धनाशाहेतुत्वं च प्रतिपादयन्त्यः जगतो ज्ञाननिवर्त्यत्वलक्षणं मिथ्यात्वं बोधयन्ति। उक्तश्चैतत् इष्टसि- द्विकृद्धि विमुक्तात्मश्रीचरणः-"ज्ञानमात्रापनोद्यत्वं नान्यथा बन्धमोक्षयोः हेतुर्नाम्यस्तयोरूर्ध्व श्रूयते नापि युज्यते" इति ॥

एवं छान्दोग्योपनिषदि "स एवाघस्तात् स उपरिष्टात्, स पश्चात्, स पुरस्तात्, स दक्षिणतः स उत्तरतः, इति सर्वत्र देशे ब्रह्मव्यतिरिक्तप्रपञ्चस्य निषेघेन, तथा काठकोपनिषदि "ईशानो भूतभव्यस्य स एवाद्य स उश्वः" इति सर्वस्मिन् काले च ब्रह्मव्यतिरिक्तस्य निषेधेन, श्रुतिद्वयमपि, प्रपश्चस्य प्रतिपन्न- देशकालरूपोपाधौ निषिध्यमानत्वरूपं मिथ्यात्वं स्पष्टमेवावबोधयति॥ एतावता ग्रन्थेन वेदान्तानां ब्रह्मसत्यत्वे जगन्मिथ्यात्वे च तात्पयमित्येतत् कतिपयोदाहरणप्रदर्शनेन निरूपितम् ॥ १० उक्तार्थे ब्रह्मसूत्रप्रामाण्यम् अथ ब्रह्मसूत्राण्यपि किंचित् विमृश्यन्ते। ब्रह्मसूत्राण्यपि सम्यक् विचार्यमाणानि ब्रह्म सत्यं जगन्मिथ्येति पक्षमेव सुस्पष्टं प्रसाधयन्ति। तथाहि "असंभवस्तु सतोऽनुपपत्तेः " इति सूत्रेण ब्रहमसस्सादासवन नित्यत्व 3

Page 24

18

व्यवस्थापयन् ब्रह्मसूत्रकारः, ब्रह्म विशिष्य सत्पदेन निर्दिश्य सत्त्वं ब्रह्मासाधारणं प्रख्यापयन् ब्रह्मैव सत्यं तद्गिन्नं असत्यमिति निस्संशयं स्वाशयमाविष्करोति। एवं शारीरकमीमांसाशास्त्रे "असंभवस्तु सतोऽनुपपत्तेः, "चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्धावभावित्वात्" "नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः" "स एव तु कर्मानुस्मृतिशब्दविधिभ्यः इति चतुर्भिः सूत्रैः जीवब्रह्मणोद्वयोरेव नित्यत्वं स्थापितम् ॥ तदुभयभिन्नस्यापि वैकुण्ठकैलासादिलोकस्य वा अन्यस्य वा पदार्थस्य शारीरकमीमांसाशास्त्रे नित्यत्वं न कुत्रापि स्थापितम् प्रत्युत वियत्- मातरिश्व-प्राण-श्रेष्ठाधिकरणचतुष्ट्ये विन्मातरिश्व मुख्यामु ख्य प्राणोप लक्षितस्य सर्वस्यापि जगतः ब्रह्मकार्यत्वेन अनित्यत्वं साधितम्। ब्रह्मकार्थत्वे सत्येव जगतः प्रकृतिविकाराव्यतिरेकन्यायेन ब्रह्मणस्सकाशाद्वेदाभावसिद्धया ब्रह्मणि विदिते सर्व जगद्विदितं भवतीति एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मुण्डक - च्छान्दोग्य - बृहदारण्यकादिबह्ुश्रुतिगतं समर्थितं भवतीति युक्तिरपि "प्रतिज्ञाहानिरव्य तिरेकाच्छन्देभ्यः " इति सूत्रेण, उपवणिता॥ अविद्यादेरनादिपदार्थस्य तु ब्रह्माजन्यत्वेऽपि ब्रह्मण्यध्यस्तत्वेन ब्रह्माव्यतिरेकात सर्वविज्ञानप्रतिज्ञा नानुपपन्नेति "यावद्विकारं तु विभागो लोकवत्" इति सूचितं भवति। सूत्रकृद्विवक्षितश्च न्यायप्रयोगः, भामतीकृद्भिरेवं विवृत :- "अकाशदिक्कालमनःपरमाणवः, विकाराः, आत्मान्यत्वे सति विभक्तत्वात् घटशरा- वोदञ्चनादिवत्" इति। तत्र कल्पतरुकृद्धिरेवं व्याख्यातम् "विकारा इति पराधीनसत्तका इत्यर्थः। एवश्र विभक्तत्वमविद्यादौ नानैकान्तं तस्य प्रागभावत्वा- भावेऽपि अध्यस्तत्वेन परायत्तसत्ताकत्वात् जीवेश्वराघपि विभागविशिष्टरूपेण समारोपितमेव। नन्वद्वैतवादिन: कथमाकाशादे र विभक्तत्वसिद्धिरत आह-आत्मान्यत्वे सतीति। तत्त्त्वतो विभक्तत्वाभावेऽपि अविद्यया आकाशादेरन्यत्वकल्पनायां सत्यामस्ति विभक्तत्वमित्यर्थः । विभागश्च धर्मिसमानसत्ताको विवक्षितः । तथा च ब्रह्मणि न व्यभिचारः। तद्गतस्य आकाशादिप्रतियोगिकमेदस्य मिथ्यात्वेन ब्रह्मसमानस्त्वा- भावादिति। सम्यगिदं परिमलेऽपि श्रीमदप्पयदीक्षितै्विशदीकृतम्। तथाचा- विदयादीनामपि कार्यत्वाभावेऽपि अध्यस्तत्वेनैवानित्यत्वं सिद्धम् ॥ जीवस्वरूपस्य

Page 25

19

नित्यत्वेऽपि कार्यत्वाध्यस्तत्वयोरभावेऽपि "अंशो नानाव्यपदेशात्" "आत्मेति- :तूपगच्छन्ति ग्राहयन्ति च" "अविभागेन दृष्ठत्वात्" इत्यधिकरणत्रयोक्त- न्यायेन, "अवस्थितेरिति काशकृत्स्नः" "शास्त्रदृष्टया तूपदेशो वामदेववत्" उत्तराच्चेदाविर्भूतस्वरूपस्तु" इति सूत्रैश्च ब्रह्मणा साकमात्यन्तिकाभेदरूपैक्पसिद्रय न सर्वविज्ञानप्रतिज्ञाविरोधः । एवं च, ब्रह्मैक्य-ब्रह्मकार्यत्व-ब्रह्माध्य-I स्तत्वरूपहेतुत्रयनिबन्धनब्रह्माव्यतिरेकात् सर्वविज्ञानप्रतिज्ञासंगतिः सिद्धेति -बोध्यम् ।। तत्र जीवस्य ब्रह्मैक्यात् अविद्यादनादिपदार्थानां ब्रह्मण्यध्यासात्, आकाशादिसादिपदार्थानां ब्रह्मण्यव्यासात् ब्रह्मकायत्वाच्च ब्रह्माव्यतिरेक इति ोध्यम्। तस्मात्, आकाशादि वा अविद्यादि वा ब्रह्मभिन्नं जडवस्तु सर्व- मनित्यमेवेति ब्रह्मसूत्रकृतां बादरायणाचार्याणामभिप्रायः इति स्फुटमवगम्यते। किश्च-रूपादिमत्वाच्च विपर्ययो दर्शनात् इति सूत्रेण रूपादिमतां परमाण्वादीनां अनित्यत्वमुक्तम्। "न पर्यायादप्यविरोधः विकारादिभ्यः" इति सूत्रेण विकारवतां सर्वेषाभेत्रानित्यत्वमुक्तम्। एवञ्च ब्रह्मभिन्नं वस्तु सर्वमेवानित्यमिति ब्रह्मसूत्रकृदाशय इति सिद्धयति। अनित्यत्वस्य च मिथ्यात्वसमनैयत्यात् मिथ्यात्वमपि तत एव ब्रह्मसूत्रकृदभिप्रतममिति सिद्धयत्येव ।। शारीरकमीमांसा- शास्त्रे मिथ्यात्वमपि वहुत्र प्रतिपादितम। तथाहि-"तदनन्यत्वमार- "म्भणशब्दादिभ्यः " इत्यधिकरणे प्रपञ्चमात्रस्य मिथ्यात्वं वाचारम्भणादिश्रुतिमुखेन निर्धारितम् ।।

""आत्मनि चैवं विचित्राश्च हि" इति सूत्रेण च प्रतीचः स्वामपदार्थसृष्टिवत् ब्रह्मण: प्रपश्चसृष्टिर्मायामयीति प्रतिपादितम् ॥ "सन्ध्यधिकरणे" स्वामप्रपश्चस्य मिध्यात्वमुपवर्णितम्। "तद्गुणसारत्वात्तु तव्यपदेशः प्राज्ञवत्" इति सूत्रेण जीवे प्रतीयमानानां कर्तृत्वभोक्तृत्वपरिच्छिन्नत्वादिधर्माणां बुद्धयुपाघिघर्माध्यासानाम- तत्वेन मिथ्यात्वमुपपादितम्। "यथा च तक्षोभयथा" इत्यधिकरणेन च "ध्यायतीव लेलायतीव" इत्यादिश्वुत्यनुरोधेन जीवगतं कर्तृत्व विशिष्य मिथ्येत्युप- वर्णितम्। "न स्थानातोऽपि परस्योभयलिङ्गं सर्वत्र हि" "प्रकृतै- तावच्वं हि प्रतिषेधति ततो त्रवीति च भूयः" "परमतः सेतून्मानसम्बन्ध-

Page 26

20

भेदव्यपदेशेभ्यः" इत्यधिकरणत्रयेण ब्रह्मणःसविशेषत्वं सप्रपञ्चत्वं च मिथ्येत्युक्ति पूर्वकं ब्रह्मव्यतिरिक्तं वस्त्वन्तरमेव नास्तीति निर्धारितम्। "उपमर्द् च' "तानि परे तथाह्याह" "अविभागो वचनात्" इति त्रिभिः सूत्रः सर्वस्यः प्रपश्चस्य ब्रह्मज्ञानमात्रेण निरवशेषं बाध्यत्वमुक्तम्। "सूक्ष्मन्तु तदर्हत्वात्" "तदधीनत्वादर्थवत्" "सर्वोपेता च तद्दर्शनात्" इत्यादि- सूत्रैश्व ब्रह्मणो जगत्कारणत्वादिनिर्वाहिका अविद्या (शक्तिः) प्रसाधिता ॥ तदेवं ब्रह्मसूत्रकृतां वादरायणाचार्याणां "जीवब्रह्मणोरत्यन्तभेवाभेदः, जीवब्रह्मगता विरुद्धाः धर्माः औपाधिकाः अविद्याकल्पिताः, जागरिकस्वाप्नप्रपश्चद्वयं अनित्यं मिथ्याभूतं ज्ञानबाध्यञ्च ब्रह्मैव नित्यं सत्यश्चत्येवंरूपे, अद्वैतसिद्धान्त एव परमं तात्पर्यमिति स्फुटतरमवगभ्यते॥ तदेवं "ब्रह्म सत्यं जगन्मिथ्या" इति पक्षे, एव ब्रह्मसूत्राणामैदम्पर्य, इति कतिपयदृष्टान्तैः प्रदर्शितम्॥ ११. उक्तार्थे भगवद्गीताप्रामाण्यम् भगवद्गीतापि विचार्यमाणा ब्रह्म सत्यं जगन्मिथ्येत्येव स्वाभि- प्रायं प्रकाशयति। तथाहि "नासतो विद्यते भावो नाभावो विद्यते सतः" इति पद्ये, आत्मनः सत्पदेन, जगतोऽसत्पदेन च अनुवादात्, आत्मनोऽस्त्वं नास्तीति, जगतः स्त्वं नास्तीति च प्रतिपादनाच्च "ब्रह्म सत्यं जगन्मिथ्येति" स्पष्टमेवाभिहितम्। तदनन्तरञ्च - पूर्वोक्तसदसत्पदार्थनिरूपणपराभ्यां "अवि- नाशि तु तद्विद्धि येन सर्वमिंद ततम् ।" । इति "अन्तवन्त इमे देहा नित्यस्यो- क्ता: शरीरिणः इति च श्लोकाभ्यां ब्रह्म-जगतोः सत्यत्व-मिथ्यात्वसमनियतनित्य- त्वानित्यत्वे कीतिते।।

किश्च "मया ततभिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥न च मत्स्थानि भूतानि पश्य मे यीगमैश्वरम्" इति प्रपञ्चाधारतया प्रतिपन्ने ब्रह्मणि प्रपश्चनिषेधेन प्रपश्चमिथ्यात्वं प्रकटीकृतम् भगवत्पादाश्च एतद् गीतावचनाभिप्रायं शतश्रोक्यां सगम्यगाविश्चक्र :-

Page 27

21

"मायाध्यासाश्रयेण प्रविततमखिलं यन्मया तेन मस्था- न्येतान्येतेषु नाहं यदपि हि रजतं भाति शुक्तौ न रौप्ये।

शुक्तयंशस्तेन भूतान्यपि मयि न वसन्तीति विष्वग्विनेता प्राहास्मान् दृश्यजातं सकलमपि मृषैवेन्द्रजालोपमेयम्। इति।

एवं जीवगत कतृत्वादिकं बुद्धयाद्युपाधिधर्माध्यासनिबन्धनं मिथ्येत्येतत्, अधोलिख्यमानैः गीतापदैः प्रतिपादते। "प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते।" "न कतृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते" प्रकृत्येव च कर्माणि क्रियमाणानि सर्वशः"। "यः पश्यति तथात्मानमकर्तारं स पश्यति। " "शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते। " "नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति।" "नायं हन्ति न हन्यते" कर्मण्यकर्म यः पश्येत्।" "तत्रैवं सति कर्तारं, आत्मानं केवलं तु यः। पश्यत्यकृत- बुद्धित्वात न स पश्यति दुर्मतिः ।" इति ॥ परमात्मनोऽपि जगत्कर्तृत्व मिथ्येति "तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम्" इति पद्येन स्पष्टमुक्तम्। एवमेव- "नाहं प्रकाशः सर्वस्य योगमायासमावृतः" इत्यनेन, आत्मावारकत्वेन "मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इ्त्यनेन आत्मज्ञाननिव्त्यत्वेन च मायां व्यपदिश्य, एवमेव "अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" इति च आवारकत्वज्ञाननिवत्यत्वाभ्यामज्ञानमपि व्यपदिश्य एकलक्षणलक्षितयोर्मायाज्ञानयो- रैक्यं भावरूपत्व च संसूचित भवति। भगवांश्च श्रीवासुदेव :- मायाज्ञानपदा- भिलप्यायास्तस्या एव प्रकृतेः "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्" इत्यनेन जगत्परिणामित्वं ज्रुवन् प्रपश्चस्याज्ञानिकत्वं प्रकटीकरोति॥

Page 28

22

श्रीमद्भिः सर्वज्ञात्ममुनिभिश्च - मायाविद्ययोरैक्यं पूर्वोक्तं भगवद्गीतावचन मवलम्ब्यैव संक्षेपशारीरके निर्धारितम् :- "अज्ञानमावरणमावरणश्च माया सर्वेश्वरेण हरिणा दृढमभ्यधायि। चैतन्यवस्तुन इति प्रतिपद्यमानः तत्त्वं तदेकमिति निश्चयतः प्रतीमः ॥ ज्ञानं निवर्तकमपि द्वितयस्य तस्य गीतागतः करूणया भगवानुवाच। तेनापि तत्वमिद्मेकमिति प्रतीतिः, आनीयते कथितलक्षणतुल्यभावात्॥ नाहं प्रकाश इति तावदनेन माया अज्ञानेन चावृतमितीतरदप्यभाणि। मामेव ये तु परमं पुरुषं प्रपन्ना ज्ञानेन तु प्रभृतिना च धिया निवृत्तिः" ॥ इति। "क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत " । इति । "मद्भावं सोऽधिगच्छृति" इत्यादिभिर्बदुभिर्वचनैः, जीवब्रह्मैकूयं स्पष्टमेवोपवर्णितम्॥ तदेवं-उपनिषत् - ब्रह्मसूत्र - भगवद्गीतारूप - प्रस्थानत्रय- पर्यालोचनायां - ब्रह्म सत्य जगन्मिथ्या इति सिद्धान्त एव करतलामलकवत्प्रकाशते इति सिद्धम । १२. उक्तार्थे महाभारतप्रमाण्यम् श्रीमन्महाभारतं श्रीमदध्ागवतं श्रीविष्णुपुराणमपि, आमूलचूडं परामृश्य- मानं ब्रह्म सत्यं जगन्मिथ्येति सिद्धान्तमेव प्रकाशयति। महाभारते च शान्ति- पर्वणि सुवर्चलाश्वेतकेतूपाख्याने- "अकाशस्याप्यथाकाशं सदूपमिति निश्चितम्।

Page 29

23 सदर्थे कल्पित ह्येतत्तत्सत्यं विष्णुरेव च" "इत्यादिना सद्पत्रह्मणस्सत्यत्वं प्रपश्चस्य तत्र कल्पितत्वं स्पष्टमुक्तम्। भारतगतवचनान्तराणि विस्तरभिया नेह लिख्यन्ते। १२. उक्तार्थे श्रीमद्भागवतप्रमाण्यम् एवं श्रीमद्भागवते-"ईक्षेत विभ्रममिदं मनसो विलासं दृष्टं विनष्ट- मिति लोलमलातचक्रम्।" इति। अविधमानोऽप्यवभाति हि द्वयो ध्यातुर्घिया स्वप्नमनोरथौ यथा" इति। "तस्मादिदं जगदशेषमसत्स्वरुपं स्वम्ाभमस्तधिषणं पुरुदुःखदुःखम्। त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यत् अपि यत् सदिवावभाति" ॥ "एकस्त्वमात्मा पुरूषः पुराण: सत्यः स्वयंज्योतिरनन्त आद्यः। नित्योक्षरोजस्नसुखो निरञ्जनः पूर्णोडद्वयो मुक्त उपाधितोऽमृतः"॥ "एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते। गुर्वर्कलब्घोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम्"। "आत्मानमेव आत्मतयाSविजानतां- तेनैव जातं निखिलं प्रपञ्चितम्। ज्ञानेन मूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा"॥ "अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात्

Page 30

24

अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी"॥ "त्वामात्मानं परं मत्वा परमात्मानमेव च। आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताजता॥" "अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्यजन्तो मृगयन्ति सन्तः । असन्तमप्यन्त्य हिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः"॥ "अथापि ते देव पदाम्बुजद्य- प्रसादलेशानुगृहीत एव हि। जानाति तत्वं भगवन्महिस्रो नचान्य एकोऽपि चिरं विचिन्वन्"॥ इति वचनैः "ब्रह्म सत्यं जगन्मिथ्या, इति तत्त्वज्ञानं परमेश्वरप्रसादलम्यं इति च सप्रमाणं सोपपत्ति प्रपञ्चितम् ॥ १४. उक्तार्थे विष्णु - पुराणप्रामाण्यम् "ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः। तदेवार्थस्वरूपेण भ्रन्तिदर्शनतः स्थितम्॥ परमार्थस्त्वमेवैको नान्योऽस्ति जगतः पते। तवैव महिमा येन व्याप्तमेतच्चराचरं॥ यदेतत दृश्यते मूर्तमेतत ज्ञानात्मकं तव। भ्रान्तिज्ञानेन पश्यन्ति जगद्ूपमयोगिनः ॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः। अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्रवे।

Page 31

25

ये तु ज्ञानविदश्शुद्चेतसस्तेऽखिलं जगत्। ज्ञानात्मकं प्रपश्यन्ति त्वद्रपं परमेश्वर । वस्त्वेकमेव दुःखाय सुखायेरष्योद्भवाय च। कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः । ज्ञानात्मकमिदं सर्व न ज्ञानाद्विद्यते परं। ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्नतु वस्तुभृतः। ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि। यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम्। तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ वस्त्वस्ति किं कुत्रचिदादिमध्य- पर्यन्तहीनं च सदैकरूपम्। यच्चान्यथात्वं द्विज याति भूयो न तत्तथा यत्र कुतो हि तच्वम्। मही घटत्वं, घटतः कपालिका कपालिका चूर्णरजस्ततोऽणु:। जनैस्स्व कर्मस्तिमितात्मनिश्चयै- रालक्ष्यते ब्र हि किमत्र वस्तु ॥ तस्मान्न विज्ञानमृतेऽस्ति किंचित् क्कचित्कदाचित् द्विज वस्तु जातम् । विज्ञानमेकं निजकर्मभेद- विभिन्नचित्तबहुधाभ्युपेतम् ॥ 4

Page 32

26

ज्ञानं विशुद्धं विमलं च नित्यं अशेषशोकादिनिरस्तसङ्गम्। एकस्सदेक: परमः परेशः स वासुदेवो न यतोऽन्यदस्ति ॥ सद्भाव एव भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं धुवनाश्रितं ते।। सितनीलादिभेदेन यर्थकं दृश्यते नभः। भ्रान्तदृष्टिभिरात्मापि तथैकः सन् पृथक्कृतः । एकस्समस्तं यदिहास्ति किश्चित् तदच्युतो नास्ति परं ततोऽन्यत्। सोऽहं स च त्वं स च सर्वमेतत् आत्मस्वरूपं त्यज भेदमोहम् ॥। अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः। वदन्ति मेदं पश्यन्ति चावयोरन्तरं हर। ध्यानं नैवात्मनो भूप परमार्थार्थशब्दितम्। भेदकारि परेभ्यस्तत्परमार्थो न भेदवान् ॥ प्रत्यस्तभितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्य तज्ज्ञानं ब्रह्मसंजञितम्।। अमूर्त ब्रह्मणो रूपं यत् सदित्युच्यते बुधैः॥ विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते। आत्मनो ब्रह्मणो भेदमसन्तं क: करिष्यति।। निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः। कथं सर्गादिकर्तृत्वं ब्रह्मणोऽप्युपपद्यते।। शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सगोद्ा भावशक्तय:॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता इत्येवमादीनि परश्शतं वचनानि "ब्रह्म सत्यं जगत् मिथ्या" "निर्गुण्रह्मणो मायौपाधिकमेव जगत्कर्तृत्वम् इत्येतत् निस्संशयं, सयुक्तिकं प्रतिपादयन्ति ॥

Page 33

27

एवं सर्वाण्येत्र इतिहासपुराणादिरूपाणि उपबृंहणानि विमृश्यमानानि, एतमेबाथ द्रढयन्ति विस्तरमिया न तानीह समालोचितानि। तेषां सर्वेषामपि वचनानां स्वरसतः प्रतीयमान ब्रह्मसत्यत्वं जगन्मिध्यात्वं चार्थमपहाय अपार्थकल्पनया केषाश्चित्, कुत्सितव्याख्यानेन कदर्थनं तु सात्विकाः प्रामाणिका न श्रद्दधते॥

१५. अद्वैतसिद्धान्ते त्रिविध सत्यत्वं नित्यत्वं च इदन्त्विह, अवश्यमनुसन्घेयम्। नित्यो नित्यानां इति कठोपनिषदि, तथा "सत्यस्य सत्यमिति वृहदारण्यकोपनिषदि च ब्रह्म नित्यं सत्यमिति व्यपदिश्यते, तयोश्च व्यपदेशयोः यथा "तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्। पति पतीनां परमँ परस्तात् विदाम देवं भुवनेशमीडयम्" इति श्वेताश्वतरमन्त्रे, ईश्वरेश्वरत्व-देवतादैवतत्व-पतिपतित्व- व्यपदेशेषु ब्रह्मणः ऐश्वर्यादिविषये सवोंत्तरत्वं लभ्यते तथा नित्यत्वसत्यत्वविषयेऽपि ब्रह्मण: सर्वोत्तरत्वं प्रतीयते, इति स्फुटमवगम्यते। तथा च जगद्गत नित्यत्ंव सत्यत्वं च आपेक्षिकं निकृष्टं, ब्रह्मगतं तदुभयं निरपेक्षं निरतिशयमत एवो- त्कृष्टमिति च सिद्धथति। एवं तद्यपदेशपर्यालोचने जगद्वह्मोभयसाधारणं मध्य मं जगन्मात्रगतं निकृष्टं ब्रह्ममात्रगतमुत्कृष्टं च नित्यत्वं सत्यत्वं च त्रिधा पर्यवस्यति। विवरणाचार्यैश्र प्रकाशात्मश्रीचरणैः "अज्ञानस्य स्वकार्येण प्रविलीनेन वर्तमानेन वा सह ज्ञानेन बाध:" इति बाधस्वरूपमभिहितम्। एतदुक्तं भवति। ज्ञानेन, अज्ञानरूपकारणनिवृत्तिद्वारा सर्वस्थ कार्यस्य निवृत्तिरूप निरवशेष नाश्यत्वं बाध्यत्वम्। ज्ञानभिन्नकारणेन, कार्यस्य उपादानकारणे लीयमानत्वरूपं सावशेषं नाश्यत्वमनित्यत्वमिति बाध्यत्व-अनित्यत्वयोः प्रसिद्धा- द्वेदात् तदभावरूपसत्यत्वनित्यत्वयोरपि मेदः स्पष्ट एव ॥ तत्र "आकाशव- त्सर्वगतश्र नित्यः" इत्यादौ वियदादिजगद्वह्मसाधारणतया निर्दि- शयमानं आकल्पमात्रस्थायि बियदादि, सर्वदास्थायि ब्रह्म उभयानुगत चिरकाल

Page 34

28

स्थायित्वमात्ररूपं आद्य नित्यत्वम् । "ध्रुवा पृथिवी" "अक्षयंय ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादौ निर्दिश्यमानं जगन्मात्रगत "आभूत- संफनुवं स्थानममृतत्वं हि भाष्यते" इति प्रमाणानुरोघेन, आकल्पभेवावस्थायित्वरूपं, द्वितीयं नित्यत्वम्। "अजो नित्यः शाश्वतोडयं पुराणः" इत्यादौ निर्दिश्य- मान ब्रह्ममात्रगत कालत्रयापरिच्छिन्नत्वरूपं तृतीयं नित्यत्वम्॥ एवं सत्यानां मध्ये उत्कृष्टं सत्य इत्यर्थक- "सत्यस्य सत्य" मिति वाक्येन उत्कृष्ट - निकृष्टसत्य, - ब्रह्मजगत्साधारणतया सूचित, व्यवहारकालमात्राबाध्यजगत् - त्रिकालाबाध्यव्रह्मोभयानुगतं अब्राध्यत्वमात्ररूपमाद्यं सत्यत्वम्। "विश्वं- सत्यं" "नामरूपे सत्यं" "प्राणा वै सत्यं " "तदेतत्सर्त्य मन्त्रेषु कर्माणि कवयो यान्यपश्यन्"। इत्यादौ "सत्यं चानृतं च सत्यमभवत्" इति वाक्यस्थप्रथमसत्यपदे च निर्दिश्यमानं जगन्मात्रगतं "देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः ।" लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्" इत्यादिप्रमाणानुरोघेन ब्रह्मसाक्षात्कारकालभिन्नकालरूपव्यवहारकालमात्रा बाध्यत्व- रूपं द्वितीयं सत्यत्वम्। "सत्यं ज्ञानं" "तत्सत्यं स आत्मा" इत्यादौ सत्यं चानृतंच सत्यमभवत्" इति वाक्यस्थद्वितीयसत्यपदे च निर्दिश्यमानं ब्रह्ममात्रगतं कालत्रयाबाध्यत्वरूपं तृतीयं सत्यत्वम्। पूर्वोक्तं त्रिविधं सत्यत्वं नित्यत्वं च - सर्वज्ञात्ममुनिभि: संक्षेपशारीरके "आकाशादौ नित्यता तावदेका प्रत्य््ात्रे नित्यता काचिदन्या तत्सम्पर्कान्नित्यता तत्र चान्या व्युत्पन्नोऽयं नित्यशब्दस्तु तत्र। आकाशादौ सत्यता तावदेका प्रत्यङ्रमात्रे सत्यता काचिदन्या तत्संपर्कात्सत्यता तत्र चान्या व्युत्पन्नोडयं सत्यशब्दस्तु तत्र । स्पष्टमेवोपवर्णितम् ॥। उभयसाधारणं नित्यत्वं सत्यत्वमेव च नित्यसत्य- शब्दान्यां लोके व्यवहियते।

Page 35

29

"नित्यो नित्यानां" "सत्यस्य सत्यं" इत्यादिश्रुत्यर्थविचारणकाल एव विवेचकैः परं ब्रह्मव्यावृत्तजगद्गतनित्यत्वसत्यत्वे जगद्रव्यावृत्तब्रह्मगतनित्यत्व - सत्यत्वे विविच्य ज्ञातुं शक्येते। ततः पूर्व तु उभयसाधारणलोकव्यवहियमाण- नित्यत्वसत्यत्वे, एव ज्ञातुं शक्येते। एतादशं जगद्व्यावृत्तं श्रुतिषु तात्पर्येण प्रतिपाद्यमानं नित्यत्वं सत्यत्वं चाभिप्रेत्यैव ब्रह्मैव नित्यं ब्रह्मैव सत्यमिति निरूक्तस्य नित्यत्वस्य सत्यत्वस्य च प्रपञ्चेऽभावमभिप्रेत्यैव जगदनित्यं असत्यं मिथ्या इत्यद्वैतवेदान्तवादिनः, उद्धोषयन्ति॥

इदमत्र वस्तुतत्त्वम्। पूर्वोक्तं जगद्रह्मोभयसाधारणं नित्यत्वं सत्यत्वं च अभिप्रेत्य, जगदू ब्रह्मोभयं नित्यं सत्यमिति च व्यहारः, द्वैतिनामिवाद्वैति- नामपि इष्ट एव। न कथंचिदप्यनिष्ट इति विज्ञेयम। किन्तु द्वैतिनः पूर्वोक्तश्रुति- वशेन त्रिधा प्रतीयमानमपि नित्यत्वं सत्यत्वं चासङ्कीर्णतया विभज्याSविज्ञाय सामा- न्यतः नित्यं सत्यमिति संमुग्धतथा ऐकरूप्येण व्यवहरन्ति। अद्वैतिनस्तु पूर्वोंक्त- रीत्या पूर्वोक्तश्रुतिविवेचनपूर्वकं नित्यत्वं च त्रिधा विमज्य कुत्र कुत्र कीदशं नित्यत्क सत्यत्वं च प्रदर्शितमिति श्रुतिनिगूढमथ प्रकाशयन्तीति विद्वद्भिर्विभावनीयम् ॥

अपिच "सत्यस्य सत्यमिति वशात् यथा ब्रह्मणः सत्यसत्यत्वं तथा शुक्तिरूप्यादिप्रपश्चस्य मिथ्यामिथ्यात्वमपि झायते। कथमिति चेत पूर्वोक्त- प्रमाणवशात्, मिथ्यात्वेन निश्चितेऽपि प्रपक्चे "सत्यं चानृतं च सत्यमभवत्" इत्यादिश्रुत्या व्यावहारिकसत्यानृतवियदादि - शुक्तिरूप्यादि ब्रह्मकार्यद्वयवाचि- सत्यानृतशव्दाभ्यां सत्यानृतद्वैराश्यकरणात। तथा च उत्कृष्टमिथ्यावस्तु शुक्तिरूप्या- दिकं निकृष्टमिध्यावस्तु वियदादिकम। उत्कृष्टसत्यं ब्रह्म निकृष्टसत्यंवियदादिकम् । प्रपश्चस्य सत्यत्वविषये वा मिथ्यात्वविषये वा उत्कर्षो नास्त्येव। केवलसत्यं ब्रह्म केवलमिथ्या शुक्तिरूप्यादिकं, वियदादिप्रपश्चः सत्यत्वमिथ्यात्वोभयस- मुचयाधिकरणमिति सिद्धम्।

Page 36

30

पूवोंक्तसत्यत्वत्रैविध्यन्यायेनैव वियदादिशुक्तिरूप्यादिसाधारणं, वियदादि- मात्रगतं शुक्तिरूप्यादिमात्रगतं च मिथ्यात्वत्रैविध्यमपि सिद्धयति। तत्रोभयसा- धारणं भिथ्यात्वं ज्ञाननिव्त्यत्वादिरूपं। अनादविद्यादोषप्रयुक्तवियादादिमात्रगत मिथ्यात्वं ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति बाध्यत्वम्। आगन्तुकदोषप्रयुक्तशुक्ति- रूप्या दिमात्रगतं मिथ्यात्वं ब्रह्मप्रमातिरिक्तबाध्यत्वरूपम् ।

तत्र मिथ्यापदेन लोके शुक्तिरूप्यादिमात्रमेव व्यवहियते। वेदान्तप्रमाण- विवेचनशून्यैश्च लौकिकै: वियदादेर्ज्ञाननिवर्त्यत्वेनाग्रहणात्। अत एव लोके शक्तिरूप्यादिकमनृतं वियदादिकं सत्यमिति व्यवहारः । वेदे परं वियदादिक- मध्यनृतं ब्रह्मैव सत्यमिति व्यवहारः । अत एव च लोकैः जगतः परमार्थतया- अवगतत्वात् लौकिकपारमार्थिकमिति वेदान्तशास्त्रेषु व्यवहारो भवति ' तन्न्याये- नैव शक्तिरूप्यादिमात्रस्य लौकिकानृतमिति व्यवहारश्व कर्तुमुचितएव। एबं ब्रह्म वैदिकपारमार्थिक, वियदादि सर्व जगत् वैदिकानृतमिति च व्यवहारः शास्त्रपर्या- लोचनया कर्तुँ उचित एवेति प्रतिभाति। तथा च लोकवेददृष्टिमेदेन सत्यानृत- पदार्थयोरपि भेदस्सिद्धः । ब्रह्मसूत्रकारैर्बादरायणाचा्यैरपि, लोकदृष्टिश्शास्त्रदृष्टिरिति दृष्टिद्वियसत्वं तदनुसारेण व्यवहारभेद इति च "शास्त्रदृष्टया तु उपदेशो वामदेववत्" इति सूत्रेणाङ्गीकृतम्। तत्र शास्त्रदृष्टया जीवब्रह्माभेदः सवाभेदश्व लोकदृष्टया तु तद्वेद इत्युक्तं। तन्न्यायेन शास्त्रदृष्टया "ब्रह्मसत्यं जग न्मिथ्या लोकदष्टया तु अन्यथाभाव इत्यपि सिद्धयत्येव। पूर्वोक्तमिथ्याभूत पदार्थद्वयमध्थे परस्परवैलक्षण्यमभिप्रत्यैव ब्रह्मसूत्रकारा अपि "वैधर्म्याच्च न स्व्प्ना- दिवत्" इति सूत्रे उकष्टमिथ्यापदार्थभूतात् स्वामिकप्रपञ्चात् निकृष्टमिथ्या- पदार्थस्य जागरिकप्रपञ्चस्य वलैक्षण्यं व्यावहारिकसत्यत्वमाहुः ॥ एतावता तदनन्यत्वाधिकरणसिद्धस्य प्रपञ्चमिथ्यात्वस्य न विरोधलेशोऽपि भवति। एवं च शुक्तिरूप्य-स्वामिकादि - पदार्थमात्रगत-मिथ्यात्वाभिप्रायेण जगन्मिथ्येति

Page 37

31

व्यवहार: द्वैतिनामिव अद्वैतिनामपि नासम्मतः । अद्वैतिनां मते तु - वियदादि- प्रपश्चस्य मिथ्यात्वाभ्युपगमेऽपि शुक्तिरूप्यस्वामादिमिथ्यापदार्थवैलक्षण्यस्य, आब्रह्म- साक्षात्कारं अबाध्यत्वस्य "वैधर्म्याच्च न स्वप्नादिवत्" इति सूत्रोक्तन्यायेन, अङ्गीकृतत्वादेव, आब्रह्मसाक्षात्कारं, वियदादिप्रपञ्चाश्रयः सर्वो लौकिक - वैदिक - क्रियाकारक - प्रमाणप्रमेयादिव्यवहारः अप्रतिहतः प्रपञ्चसत्य त्ववादिनामिव किश्चिदप्यन्यूनः । स्वाप्नप्रपञ्चाश्रयव्वहारः जाग्रद्वोधपर्यन्तं यथा अप्रतिहतो वर्तते तद्वव्। एवं च लोकव्यवहारस्य मिथ्यात्वपक्षेऽपि न किश्चिदपि बाधकमिति सर्वमवदातम्।

१६. अद्वैतमते (ब्रह्मगतं) सत्यत्वम् अथेदानी ब्रह्मगतसत्यत्वं किंरूपमिति किंचिद्विचिन्त्यते। ब्रह्म मात्रगतं सत्यत्वं कालत्रयाबाच्यत्वरूपमिति पूर्वमेवोक्तम्। तच्च कालानवच्छिन्नो यो बाध्यत्वामावः तद्पम्, स च बाध्यत्वाभवः, अधिकरणीभूतब्रह्मस्वरूपः । अत्रेयमाशङ्का-अभावत्व सप्रतियोगिकमत एव सापेक्षं ब्रह्मणि कल्पितं न परमार्थभूतम्। तद्विशिष्टरूपेणाभावोऽपि शुद्धब्रह्मधर्मभूतः शुद्धब्रह्मणि कल्पित एव। तथा च बाध्यत्वाभावत्वविशिष्टब्रह्मरूपसत्यत्वधर्मस्य कल्पितत्वेन तस्याप्यभावे ब्रह्मणो मिथ्यात्वं प्रसज्येत इति चेत्-अत्र श्रीविद्यारण्य- स्वामिभिः तैत्तरीयोपनिषद्भाष्ये समुचितः परिहारः अभ्यधायि-तथाहि "यथा पादतले लग्नकण्टकमन्येन कण्टकेन समुद्धृत्य कण्टकद्वयं परित्यज्य केवलं पादमवशेषयति। तद्वत् सत्यशब्दः त्रह्मण्यारोपितं सत्यत्वचर्ममुपजीव्य तद्विरूद्धं मिथ्यात्वं निराकुर्वन् ब्रह्मणो निर्धर्मकत्वेन सत्यत्वधर्मश्यापि निराकस्णात् सत्यत्वमिथ्यात्वधर्मद्वयरहितं सन्मात्र ब्रह्मत्त्वं लक्षयति इति ॥ न च "परस्परविरोधे हि न प्रकारान्तरस्थितिः इति न्यायेन सत्यत्व- मिथ्यात्वोभयराहित्यं ब्रह्मण्ययुक्तमिति शङ्गनीयम्। नपुंसकव्यक्तिवत् तदुपपत्ते

Page 38

32

यथा परस्परविरुद्धस्त्रीत्वपुरुषत्वोभयरहिता सा व्यक्तिस्तद्वव्। व्यक्तिरसौ प्रत्यक्षेण प्रमीयते इति न विरुध्यते ब्रह्म तु कथमितिचेदत्रोच्यते "साक्षी चेता केवलो निर्गुणश्च " "यतो वाचो निवर्तन्ते" इत्याधा श्रुतिः सर्वशब्दप्रवृत्तिनिमित्त शून्यमत एव वागगोचरं ब्रह्य निर्विशेषमाहेति श्रत्या ब्रह्म प्रमीयते इति बोध्यम्। ब्रह्म च निर्धर्मकत्वेन वस्तुतर्स्त्यत्वधर्मरहितमपि निखिलप्रपञ्चकल्पनाधि- ष्ठानत्वात् सद्रपमेव। नासदपम। असतोऽविष्ठानत्त्वानुपःत्ते। श्रीर्मा्भ्ग:

"ननु सत्त्वाख्यधर्मानङ्गीकरे कथं तत्र "सदेव सोम्येमदग्र जासीत्" इत्यादौ सद्व्यतहारः । क्रिंचिद्वर्मपुरस्कारेणैत्र पदानां धर्मिप्रत्यायकत्वनियमत् इत्याशङ्कय आकाशादिपदेन आकाशरूपधर्मिमात्र प्रतिपादनेन, तादृश नियमासत्त्रेन इहापि सत्पदेन ब्रह्मरूप धर्मिमात्रप्रत्यायनसम्भवात इति परिह्वतं प्रथम- मिथ्यात्वविचारे लघुचन्द्रिकाव्याख्यायाम्। अत एव च मणिकृद्धि: शक्तिवादे अकाशपदस्य एकस्यामाकाशव्य- क्तावेव केवलायां शक्ति: स्वीकृता। अनन्तव्यक्तिषु शक्तिस्वीकारे खलु शक्तथनु- गमार्थ सकलव्यक्तिकरोडीकार हेतुकिचिद्धर्मविशिष्टे शक्तिस्स्वीकरणीया। शक्तथा- श्रयव्यक्तयैक्येऽनुगमकधर्मानपेक्षणत्। यद्पि पूर्वोक्तः बाध्यत्वाभावत्व विशिष्ट- रुपसत्यत्वधर्मः कल्पितः शुद्धब्रह्मस्वरूपो भवितुं नार्हति। तथाच सत्यं ज्ञानमित्यादिवाक्यश्य शुद्धब्रह्मस्वरूपलक्षणपरत्वं पूर्वाचार्योपवणितं न युज्येत। तथापि ब्रह्मस्वरुपलक्षणमिति बोध्यम्। एवभेवाद्वतसिद्विलघुचन्द्रिकादावुपवर्णितम् न चैवं ब्रह्मस्वरूपात्यन्ताभिन्नस्य सत्यत्वस्य करथ ब्रह्मधर्मत्वमिति वाच्यम्। ब्रह्मस्वरुपात्यन्ताभिन्नस्यापि निरुक्तसत्यत्वस्य बाध्यत्वाभावत्वविशिष्टतादात्म्योपल-

Page 39

33

क्षितत्वेन धर्मत्वं, स्वरूपतो धर्मित्वमिति कल्पितेन ब्रह्मभेदेन ब्रह्मधर्मत्वसंभवात्। तदुक्तम्-पञ्चपादां आनन्दो विषयानुभवः नित्यत्वं चेति ब्रह्मणस्सन्ति धर्माः, अपृथकत्वेपि चैतन्यात् पृथगिवावभासन्ते" इति।

वस्तुतस्तु वाध्यत्वाभावत्वविविशिष्ठतादात्म्योपलक्षितस्वरूपापेक्षया लघुभूतं वाध्यत्वाभावत्वोपलक्षितस्वरूपमेव ब्रहम स्वरूपलक्षणात्मकं सत्यत्वमिति मन्तव्यम्। विवरणाचार्यैस्तु - मिध्यात्वाभावत्वविशिष्टतादात्म्याकारमनोवृत्युत्तर- ब्रह्माकारनिर्विकल्पकमनोवृत्युपलक्षितं स्वरूपं सत्यत्वभिति वृत्तिघटनया सत्यत्वं परिष्कृतम्। सर्वथ। शुद्धब्रह्यस्वरूपात्मकमेव सत्यत्वं कथंचित् धर्मघर्मिभावकल्पनया ब्रह्मस्वरूपलक्षणमिति सर्वत्र स्वैः पूर्वाचार्यैव्यवहतम। एवं च ब्रह्मगतं सत्त्वं ब्रह्मस्वरूपात् वम्तुतो नातिरिच्यते॥ १७. सत्तापदार्थः (१) अत एव श्रीमन्भिर्वार्तिककारपादैः "प्रकृत्यर्थातिरेकेण अत्ययार्थो न गम्यते। सत्तेत्यत्र ततस्स्वार्थस्तद्वितोऽत्र भवन् भवेत् इत्यभिहितम्। (२) अतएव श्रीमद्भिरप्पय्यदीक्षितैःपरिमले प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम्। वचसामात्मसंवेदं तज्ज्ञानं ब्रह्मसंज्ञितम्" इति विष्णुपुराणवचनव्याख्यानावसरे "सत्तामात्रमित्यत्र तल्प्रत्ययः स्वार्थिकः । न तु प्रवृत्तिनिमित्तधर्मवाची इत्यभिहितम् ।। (३) एवमेव श्रीमन्गिर्माधवाचार्यैः सूतसंहिताव्याख्यायां- "सद्प परं ब्रह्मैव सदेव स्वस्मिन् परिकल्पितासु बह्वीषु व्यक्तिषु अधिष्ठानतयानु- वृत्तत्वात् सत्तेत्युच्यते। यदा ब्रह्मसाक्षात्कारेण अविद्यानिवृत्तौ तत्कार्यप्रपञ्चनिवृत्तिः तदा तद्वूह्म सदित्युच्यते न सत्ता इति अनुगन्तव्याभावेन स्वरूपस्य अनुग- आाभावा-दित्युक्तम्। 5

Page 40

34 (४) एवमेव श्रीमद्भिर्मण्डनमिश्रार्यैः ब्रह्मसिद्धौ ब्रह्मकाण्डे- संहताखिलमेदोऽतस्सामान्यात्मा स वर्णितः। हेमेव पारिहार्यादिभेद- संहारसूचितम् " यतश्च (वियदादि) विशेषप्रत्यस्तमयमुखेन तन्निरूपणमतोऽनयै ब्रह्मविद्याभियुक्ततः सामान्यरूपं ब्रह्म निरूपितम्। "सवा एष महानज आत्मा सत्तालक्षणः" तथा "सत्तैव सर्वभेदयोनिः प्रकृतिः परा" इति। यथा सुवर्णतत्त्वं कटकाङ्गलीयादिविशेषोपसंहारेण निरूप्यमाणं तत्सामान्यं, इति "सामान्यन्तूक्तं ब्रह्मवादिभिः विशेषप्रत्यस्तमयमुखेन निरूपणादुपचारतः" इति च वाक्यैः ब्रह्मणः वियदादिसर्वव्यक्तयनुगतस्याधिष्ठानस्य कल्पिततत्तद्व्यक्तिनिराकरण- मुखेन बोध्यमानत्वात् सत्ताख्यसामान्यरूपत्वमित्युक्तम्। सर्वथा ब्रह्मगतं सत्यत्वं ब्रह्मस्वरूपमेव नान्यदिति निष्कृष्टोर्थः ॥ १८. अद्वैतमते-मिथ्यात्वम् अथ जगद्रतं मिथ्यात्वमपि किंरूपमिति किञ्चिद्विचायते। (१) तत्र श्रीपद्मपादाचार्याः पञ्चपादिकायां "मिथ्याशब्दोऽनिर्वचनी- यतावचन:" इति मिथ्येत्यनिर्वचनीयतोच्यते" इति च वदन्तः अनिर्वचनीयत्वं मिथ्यात्वमिति बोधयन्ति। (२) श्रीमन्तः प्रकाशात्मयतयः विवरणे-"प्रतिपन्नोपाधौ, अभावप्रति- योगित्वमेव मिथ्यात्वं नाम" इति "अज्ञानस्य स्वकार्यण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः" इति च वदन्तः प्रतिपन्नोपाघावभावप्रतियोगित्वं, ज्ञानबाध्यत्वं च मिथ्यात्वमित्यवबोधयन्ति॥ (३) श्रीमन्तश्चित्मुखाचार्यास्तु-तत्त्वप्रदीपिकायां "सर्वेषामपि भावा- नामाश्रयत्वेन सम्मते। प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ।" इति वदन्तः स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमिति कथयन्ति ॥ (४) श्रीमन्तश्चानन्दबोधाचार्याः- न्यायदीपावल्यां "सत्यविवेकस्य मिथ्या- भावस्य साध्यत्वात् नाप्रसिद्धविशेषणता" इति वदन्तः सद्विविक्तत्वं मिथ्यात्वमिति प्रतिबोधयन्ति ॥

Page 41

35

श्रीमन्मधुसूदनसरस्वतीभि: अद्वैतसिद्धौ एतदेव पश्चविधं मिथ्यात्वं निर्दुष्टतया निरूपितम्। श्रीमद्भिगौडब्रह्माननदैश्र लघुचन्द्रिकायां मिथ्यात्वनिरूपणान्ते-"आद्यं स्यात्पञ्चपाद्युक्तं ततो विवरणोदिते। चित्सुखीयं चतुर्थ स्यात् अन्त्यमानन्दबोधजम्" इदि पद्येन तत्तन्मिथ्यात्वप्रदर्शकतत्तद्ग्रन्थप्रकाशनपूर्वकं मिथ्यात्वपाञ्चविष्यं दर्शितम । I सदसद्विलक्षणत्वरूपं पश्चपादिकोक्तं प्रथममिथ्यात्वम् पश्चपाद्युक्तमनिर्वाच्यत्वम् नाम सदसद्विलक्षणत्वं न तु अवाच्यत्वम्। तदुक्तमिष्टसिद्धौ "ननु उच्यते, अनिर्वचनीयमिति च विप्रतिषिद्धम्। नायं दोष: । सदसत्त्वाभ्यामिति विशेषणात। साहि (माया) युक्तया निरूप्यमाणा नास्तीति निश्चित्य वक्तुं शक्या। नापि नास्तीति सदसद्विलक्षणत्वेन तद्वचनान- र्हत्वाद्। तेन अनिर्वचनीया न पुनरवाच्येति" । इति ॥ "मायायाः सकार्यायाः अपि वस्तुत्वावस्तुत्वाभ्यामनिर्वचनीयत्वात् वस्त्वस्तुपक्षद्वयाश्रया दोषाः नास्मत्पक्ष कटाक्षेणापि वीक्षन्ते। तथाहि प्रपश्चस्य वस्तुत्वाभावात् नाद्वैतहानिः। अवस्तुत्वा- भावाच् प्रत्यक्षाद्यप्रामाण्याद्युक्तदोषाभावात् न यथोक्तब्रह्मासिद्धिः। तद्दर्शनाच्च मायातत्कार्यनिवृत्तेः न मोक्षासिद्धिः" इति । "सर्वेन भ्रान्तिबाधौ स्तां नासच्वे ख्यातिवाधकौ। सदसद्भ्यामनिर्वाच्याऽविद्या वेदैःसह भ्रमाः॥ सच्चेद्द्ाति कथं बाधः भाति चेत्तदसत्कथम्। सदसद्भ्यामतोऽवाच्यं शुक्ती रूप्यमिति स्थितम्।।" इति च ।। तत्त्वप्रदीपिकायाञ्च चित्सुखाचार्ये: "प्रत्येकं सदसच्वाभ्यां विचारपदवीं न यत्। गाहते तदनिर्वाच्यमाहुर्वेदान्तवेदिनः।।" इ्रति उक्तमेव प्रत्यपादि॥ सदसद्विलक्षणत्वघटक विलक्षणत्वशब्दिता-भावप्र- तियोगितावच्छेदकं सत्त्वं च त्रिकालाबाध्यत्वं ब्रह्ममात्रनिष्ठं, अस्त्वं

Page 42

36

सत्तादात्म्यशून्यत्वं कालासम्बन्धित्वं वा तुच्छमात्रनिष्ठम्। सदसतोस्तादातम्या- योगात् तुच्छस्य कालासंबन्धित्वाच्च। वियदादिप्रपश्चः शुक्तिरूप्यादिकश्चाघिष्ठान- साक्षात्कारबाध्यत्वात् सद्विलक्षणं सदूपब्रह्मणि कल्पितत्वेन तत्तादात्म्यवत्त्वात् कालसंबन्धित्वाच्च, असद्विलक्षणं च। प्रपश्चस्य अध्यस्तस्यासद्वेलक्षण्यं पञ्चपादिकायामेवोक्तं "नाप्यध्यस्तमप्यसदेव। तथात्वे प्रतिभासायोगात्। ननु सर्वमेवेदमसदिति भवतो मतम्। क एवमाह। अनिवर्चनीयाना- द्विद्यात्मकमित्युद्धोषितमस्माभि:। " इति। तत्वज्ञानानन्तरं प्रपश्चस्यासत्वं तु "अथ पुनर्विद्योदये अविद्याया निरुपाख्यतामङ्गीकृत्यासत्त्वमुच्येत। काममभि- घीयताम्। तथा च बाधकज्ञानं नेदं रजतं इति विशिष्टदेशकालसम्बद्ध रजतं विलोपयदेवोदेति" इति तत्रैव स्वीकृतम्। सदसद्विलक्षणत्वरूपमिध्यात्वश् "नासदासीनो सदासीत् तम आसीत्" इत्यादिश्रुतिसिद्धम् ॥ यद्यपि श्रुतौ तमस एव सदसद्विलक्षणत्वमुक्तम् तथापि तत्कार्यस्यापि प्रपञ्चस्य तदभिन्नस्य तत एव सदसद्विलणत्वसिद्धिरिति बोध्यम् । II प्रतिपन्नोपाधौ त्रैकालिकनिषेध प्रतियोगित्वरूपं द्वितीयमिथ्यात्वं विवरणोक्तं द्वितीयमिथ्यात्वमिदं "नेह नानास्ति किञ्चन" इति श्रुतिसिद्धम्। एतस्यां श्रुतौ, इहपदेन प्रपञ्चवत्तया पूर्ववाक्येषूक्तं ब्रह्म परामृश्य तत्र नाना किंचन, ब्रह्मभिन्नं किश्चिदपि वस्तु नास्तीति वर्तमानार्थकलटप्रत्यय- प्रयोगेण, द्वैताधिकरणकालरूपवर्तमानकालावच्छेदेनापि प्रपश्चाभावस्य बोधनात, द्वैतानधिकरणकालावच्छेदेन प्रपश्चाभावस्य सर्वसम्प्रतिपन्नत्वेन प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं तेन च मिथ्यात्वं प्रपश्चस्य लब्धम्। प्रपश्चस्य च प्रतिपन्नोपाधौ ब्रह्मणि निषेधः स्वरूपेण। केचित् पारमार्थिकत्वेनेति वदन्ति। तदा पारमार्थिकत्वेन प्रपञ्चो ब्रह्मणि नास्तीत्युक्तौ यथा भूतले घटत्वेन पटो नास्ति इत्युक्तौ पटे घटत्वं नास्तीति पर्यवस्यति न तु भूतले पटो नास्तीति व्यवहारवत् प्रपञ्चे पारमार्थिकत्वशब्दित स्त्वं नास्तीति पर्यवस्पेव

Page 43

37

न तु त्रह्यणि प्रपञ्चो नास्तीति। प्रपञ्चवत्वेऽपि ब्रह्मणः प्रपञचे पारमार्थि- कत्वाभावमात्रेण पारमार्थिकत्वेन ब्रह्मणि प्रपञ्चो नास्तीति व्यवहतु शक्यत्वात्। तथा च सदसद्विलक्षणत्वरूपमिथ्यात्वे एव द्वितीयमिथ्यात्वस्याप्यन्तर्भावस्स्यात्। स्वरूपेण प्रपश्चस्य ब्रह्मणि निषेधपक्षे तु प्रपञ्चाभावस्यैव ब्रह्मणि प्रतीतेः प्रपञ्चे सत्वाभावस्य अप्रतीतेश्र प्रथममिथ्यात्वापेक्षया द्वितीयमिथ्यात्वत्य पृथग्भावात् न पूर्वोक्तदोषः । 'नेह नानेति द्वितीयमिथ्यात्वबोधकश्रुतावपि पारमार्थिकत्वेनेति पदाभाव।त्, अध्याहारे च तस्यैव दोषत्वात्, अध्याहारं विनैव, अर्थबोघसंभवे- डध्य हारायोगाच्च स्वरूपेण प्रपञ्चनिषेध एव स्वरसतो बुध्यते। ननु ब्रह्मज्ञानानन्तरमेव प्रपञ्चाभावोऽस्तु, तर्त्पूवमपि प्रपश्चाभावः महता श्रमेण किमर्थमङ्गीक्रियते इति चेत् - न, ब्रह्मज्ञानानन्तरकालरूपकालान्तरावच्छेदेन प्रपञ्चाभावधियं, यथा "तरति शोकमात्मवित्" "विद्वान्नामरूपाद्विमुक्तः" "ज्ञात्व्रा देवं मुच्यते सर्वपाशैः" इति श्रुतयः बोधयन्ति, तथा "नेह नानास्ति- किञ्चन" "नात्र काचन भिदास्ति" इत्याद्याः श्रुतयः प्रपश्चप्रतीतिकालरूपेदानी- तनकालावच्छेदेन ब्रह्मणि प्रपश्चाभावं वोधयन्ति इति द्विविधस्यापि मिथ्यात्वस्य द्विविधश्रुतिप्रतिपन्नतया, द्विविधमपि मिथ्यात्वं विवराणाचार्येरभिहितम्॥ एवएव, प्रकाशानन्दश्रीचरणैः, "प्रतिपन्नोपाधौ त्रैकालिकनिषेवनिश्चय एव बाधनिश्चयो नाम नान्यादश" इति सुष्टु विचारितम्। तदनुसारेण इदानीं प्रपश्चाभावः अवश्याभ्युपेय एव। प्रमाणभूतानि तदीयान्येतानि वचनानि भवन्ति। "साक्षात्कृते त्विष्ठाने समनन्तरनिश्चितिः । अध्यस्यमानं नास्तीति बाध इत्युच्यते बुधैः"॥ इति। शुद्धेऽधिष्ठाने विपरीतमध्यस्य प्रवर्तमानस्य निवर्तमानस्य वा तदघिष्ठान- विषयकं बाधज्ञानं परोक्ष अपरोक्षं वा उत्पन्नं तदनन्तरं इदमिह कालत्रयेऽपि नास्तीति योऽयं निश्चयः स एव बाध इति सर्वजनानुभवसिद्धम्। एवं ब्रह्म- साक्षात्कारे जातेऽज्ञानं तत्कार्य च सर्व यावत्किंचित् तत्राध्यस्तं तत्सर्वं तत्र कालत्रयेऽपि नास्तीति यो निश्चयः स्वानुभवसिद्धः स एव तस्य तत्र बाध इत्युच्यते। अत एव प्रतिपन्नोपाधौ निषेधप्रतियोगित्वमनिर्वचनीयत्वर्मि संप्रदायविदां लक्षणमपि समश्चसम् ॥

Page 44

38

नचोत्तरकालीननिषेधप्रतियोगित्वेऽपि वर्तमानातीतकालयो: सत्वात् न त्रैकालिक निषेधप्रतियोगित्वमनिर्वचनीयत्वमिति वाच्यम् अनिर्वचनीयत्वानवबोघाद्। न हि कादाचित्कत्वमात्रेणानिर्वचनीयत्वं भवति। पराभिमतसत्यस्यापि घटादे- स्तथात्वात्। न चाविद्यकत्वेन विशेषः कारणस्य नामान्तरकरणापत्तेः । न च ज्ञानबाध्यत्वेन विशेषः। तस्यापि सतो नास्तित्वप्रमित्यनुपपत्तेः तस्मात् बाधकप्रत्ययोत्तरं, अध्यस्तस्य त्रैकालिकासत्त्वनिश्चयो बाघ इति सिद्धम् ।। एवभेव श्रीसुरेश्वराचार्या :- वार्तिके "अविद्या सह कार्येण नासीदस्ति भविष्यति" इति स्पष्टमभाषन्त ॥ तथैव श्रीचित्सुखाचार्या अपि, तत्त्वप्रदीपिकायां-"वाधो हि प्रति- पन्नोपाधौ, अभावबोधनं, अत एव प्रतिपन्नोपाधौ नाभूत् अस्ति भविष्यतीति कालत्रयसत्तानिषेधो बाध: तद्विषयत्वं च बाध्यत्वमिति केचिदाचार्याः " इति सप्रपश्चमूचिरे॥ III ज्ञानवाध्यत्वरूपं विवरणोक्तं तृतीयमिथ्यात्वम् इदं च मिथ्वात्व "विद्वानामरूपाद्विमुक्तः " इति श्रुतिसिद्धं भत्रति ॥ अस्यां च श्रुतौ नामरूपात्मकप्रपञ्चसामान्यस्य ब्रह्मज्ञानबलान्निवृत्तिः प्रतीयते । केचितु विशिष्टाद्वैमतानुयायिनः प्राकृतनामरूपयोरेव निवृत्तिः न त्वप्राकृतनामरूपयो- रिति वदन्ति। तन्न समीचीनम्। एवं सङ्कोचे प्रमाणाभावात्। "यथा नद्यः स्यन्दमाना: समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय" इति समुदप्रविष्टनदीदृष्न्तेन कृत्स्ननामरूपनिवृत्तेरेवं तद्वाक्ये प्रतीतेः। अन्यथा दृष्टान्तवैषम्यापत्तेः। नामरूपमात्रस्य प्रकृतिकार्यत्वेन, अप्राकृतयोस्तयोरभावाच्च। अन्यथा विदुषः प्राकृतशोकनिवृत्तिरेव "तरति शोकमात्मवित्" इति श्रुत्यर्थः इति अप्राकृत- नित्यशोकस्तस्य स्यात्। नामरूपसामान्यविमुक्तौ च ज्ञानमात्र प्रयोजकम् । "ज्ञानादेव तु कैवल्यम्" "नान्यः पन्था विद्यतेऽयनाय" इत्यादिवचनैः ज्ञानान्योगयनिराकरणात्। अधिष्ठानगोचरात् ज्ञानमात्रान्निवृत्तिश्र, अज्ञान- प्रयुक्तानां शुक्तिरूप्यादिमिथ्यापदार्थानामेव लोके दृष्टा। सेतुदर्शनमात्रात् न

Page 45

39

ब्रह्महत्यादिपापनिवृत्तिः तत्रत्यम्लेच्छादीनामपि तन्निवृत्त्यापत्तेः। किंतु नियम- कलापसहितसेतुदर्शनस्यैव पापनिवर्तकतेति ज्ञानमात्रात् सत्यपदार्थनिवृत्तौ न तदुदाहरणं भवितुमहति। एवमेवोदाहरणान्तराण्यपि अद्वैतसिद्धयादौ निराकृतानि। तथा च ब्रह्मज्ञानमात्रात्, प्रपश्चनिवृत्तिश्रुत्या शुक्तिज्ञानमात्रनिवर्त्यशुक्तिकल्पित- शुक्तिरूप्यादितौल्येन सर्वप्रपश्चकल्पनाधिष्ठाने ब्रह्मणि तदज्ञानकल्पितं सर्व जगदिति सिद्धयति। ज्ञानेन चाज्ञानस्य सर्वप्रपञ्चमूलकारणस्य, तत्प्रयुक्तस्य च स्थूल- सूक्ष्मरूपप्रपश्चस्य कृत्स्नस्य निरवशेषं निवृत्तेः न ज्ञानानन्तरमपि प्रपञ्चानुवृत्तिः । एवञ्च ज्ञानप्रयुक्तावस्थितिसामान्यविरह प्रतियोगित्वरूपं ज्ञाननिवर्त्यत्वमिथ्यात्वं प्रपञ्चस्य सिद्धम्। इदमेव सविलासाविद्यानिवृत्तिरूपं बाध्यत्वं बाधपदार्थ इति न्यायमकरन्दादावुक्तम्।। IV स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं चतुर्थमिथ्यात्वम् चित्सुखाचार्योक्तम् इदं तु मिथ्यात्वं विवरणाचार्योकात, प्रतिपन्नोषाधावभावप्रतियोगित्वरूपात् द्वितीय मिथ्यात्वान्नातीव भिधते। विशेषणविशेष्यभावव्यत्यासादिमात्रेण तु भेद: तदेतदद्वैतसिद्धावेत्र विशदमभिहितम्।। V सद्विविक्तत्वरूपं पश्चममिथ्यात्वं आनन्दबोधाचार्योक्तम् आनन्दबोधाचार्योक्तं मिथ्यात्वं पञ्चपाद्युक्ताव नातीव भिद्यते। यद्यपि आन- न्दबोधाचार्थै:शुक्तिरूप्यादेः, द्वैतिभिर सत्वाभ्युपगमात् तान्प्रति तद्दृष्टान्तेन प्रपश्चस्य सदसद्विलक्षणत्वं साधयितुं न शक्यते। साध्यवैकल्यादिदोषात् सद्विविक्तत्व- मात्रन्तु तद्दृष्ान्तेन साधयितुं शक्यत इति मत्वा तन्मात्रं मिथ्यात्वमुक्तम्। अतएव तैः न्यायदीपावल्यां "सत्यविवेकस्य साध्यत्वात् नाप्रसिद्धविशेषणता" इत्युक्तम। तच्च सदसद्विलक्षणत्वरूपप्रथममिथ्यात्वैकदेश एव। प्रपञ्चे सद्ि- विक्तत्वमात्रस्य वादिविशेषं प्रति साधनेऽपि, तन्मात्रस्य असति अतिव्यापकत्वात् मिथ्यालक्षणं न संभवतीति तदर्थमसद्विविक्तत्वमपि पूरणीयमेव। पूरितञ्चाद्वैर

Page 46

40

सिद्धौ। ज्ञाननिवर्त्यत्वव्यतिरिक्तमिथ्यात्वचतुष्टयेऽपि सत्तादात्म्यरूपविशेषणस्य, असद्वारकस्याद्वैतसिद्धावुक्तत्वात्। ज्ञान विनापि नित्यानिवृत्तेऽसति ज्ञाननिवत्यत्वा- भावादेवानतिव्याप्ते: ज्ञाननिवर्त्यत्वरूपमिथ्यात्वे तद्विशेषणमनुपयोगान्नोपात्तम्। तथा च प्रथममिथ्यात्वात् पञ्चममिथ्यात्वस्याविशेष एव। तथापि सद्विलक्षणत्वं, सद्विविक्त- त्वमित्युभयत्र, अभावप्रतियोगितावच्छेदकत्तया विवक्षितस्त्वनिर्वचनमेदेन भेदः । प्रथममिथ्यात्वघटकं स्त्त्वं त्रिकाळाबाव्यत्वं, सत्यमित्याकारकज्ञानविशेषविषयत्वं वा, पञ्चममिथ्यात्वघटकं सत्वन्तु प्रमाणसिद्धत्वं दोषाजन्यज्ञानविषयत्वरूपमिति भेद: । इदश्व अद्वैतसिद्धि -लघुचन्द्रिकयोः स्पष्टमुपपादितम् तथा च प्रथमपश्चमयोः, द्वितीयचतुर्थयोश्च अत्यन्तमेदाभावात् मिथ्यात्वत्रितयमेव अन्ततः पर्यवसन्नम्। अत एव चतुर्थपश्चममिथ्यात्वमूलभूतश्रुतिः पार्थक्येन चन्द्रिकादौ न प्रदर्शिता। इतरमिथ्यात्वत्रयस्य तु प्रदर्शिता। तत्रापि प्रपञ्चमिथ्यात्वे निविष्टं सद्विलक्षणत्वं प्रपश्चस्य कुत इति शङ्कायां वाध्यत्वादिति वक्तव्यम्। अत एव सच्चेन्न बाध्येत बाध्यते च प्रपञ्चः अतस्स सद्विलक्षण इत्यादि व्यवहतं ग्रन्थेषु। ततश्च सद्विलक्षणत्वोपपादकतया बाध्यत्वभेब वर्णनीयमित्यागतम्। दोषाजन्य- ज्ञानविषयरूपसद्विविक्तत्वं प्रपश्चस्य कुत इति शङ्कायां दोषजन्यज्ञानविषयत्वादिति वक्तव्यम्। प्रपञ्चज्ञानस्य अविद्याकामकमोदिरूपदोषजन्यत्वं कुत इति तदुपरि शङ्कायां भ्रमत्वादित्युत्तरम । अत एव चन्द्रिकायां सद्विविक्तत्वरूपभिथ्यात्वविचारान्ते "अत्र च भ्रमविषयत्वे तात्पर्य लाधवात्" इत्युक्तम् भ्रमत्वं कुन इति च शङ्कायां वाधितविषयत्वादित्युत्तरम् । तदपि कुत इति पृष्टे प्रपञ्चस्य बाध्यत्वादेवेति चरमो हेतुः प्रदर्शनीयः । एवश्व सदसद्विलक्षणत्व-सद्विविक्तत्वरूपमिथ्यात्वद्वयोप- पादकं बाध्यत्वमिति पर्यत्रसन्नम्। तच्च बाध्यत्वं प्रतिपन्नोपाधौ त्रैकालिकनिषेघ रूपं, अथवा सविलासाज्ञाननिवृत्तिरूपं इति द्विधा पर्यवसन्नम्। तस्मात्-

मपि मिथ्यात्वानां पर्यवसानं बोध्यम् ॥ एवं निरुक्तमिथ्यात्वमपि प्रपश्चनिष्टं सिद्धान्ते मिथ्यैब। न हि धर्मिणः प्रपञ्चस्य मिथ्यात्वे तद्र्मभूत मिथ्यात्वं सत्यं भवितुमहति । धर्मधर्मिणोस्तादात्म्याद्।

Page 47

41

अत एव प्राचीनाचार्यः "न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं संभवतीति"। न च मिथ्यात्वमिथ्यात्वे प्रपञ्चसत्यत्वापातः । प्रपञ्चतन्मि- थ्यात्वसाधारणदश्यत्वावच्छेदेन सर्वस्य मिथ्यात्वस्वीकारात॥ विस्तरस्तु सिद्धि- चन्द्रिकयोर्द्रष्टव्यः ॥ तत्सिद्धं ब्रह्म सत्यं जगन्मिथ्येति ॥

तस्मादहंब्रह्मास्मीति, चरमब्रह्मसाक्षात्कारवतः साक्षात्कारानन्तरं, अज्ञानस्य, तत्प्रयुक्तस्य जगतः तत्प्रत्ययस्य वा कस्यापि द्वितीयपदार्थरूपवन्धस्य अभावात्, कालत्रायाबाध्य-परिपूर्ण-स्वाभिन्न-स्वयं प्रकाशमान ब्रह्मानन्दप्रादुर्भावाच्च, महात्मन- स्तस्य ज्ञातज्ञेयता-लब्धलब्धव्यता-कृतकृत्यता चेति ब्रह्म सत्यं जगन्मिथ्या, जीवो ब्रह्मैवेत्येवं लक्षणमद्वैतदर्शन परममङ्गलं श्रेयस्कामैरादरणीयमिति शम्।

"इत्वेवं श्रुतिसूत्रयुक्तिनिकरैंः सम्यकूप्रतिष्ठापितं सत्यं ब्रह्म, जगत्समस्तमनृतं चाद्वैतिनां यन्मतम्। तन्नेच्छन्ति निजैरनेकदुरितैयें द्वैतवादे रताः तेप्यद्वैतपथानुगाः कुशलिनः कुर्याद्गुरूणां गुरुः ॥ चोलाभिधाने प्रथिते प्रदेशे कवेरजानीरपवित्रतीरे। अस्त्यग्रहारो वरहूरभिख्य: निवासभूमिर्धरणीसुराणाम् ।। तत्राभवत् सङ्कृतिगोत्ररत्नं भक्ताग्रणी: शङ्करवैद्यनाथः । धर्माम्बिका तद्दयिता सुशीला तयोर्गुरुस्वाम्यभिधस्तनुजः ॥ श्रीवैद्यनाथाभिधसद्गुरुणां कृपावलात् प्राप्तपरात्मविद्यः। 6

Page 48

42

लेभे स साहित्यविशारदत्वं साहित्यवेदान्तशिरोमणित्वम् ॥ निलिम्पवाण्यां निखिले च तन्त्रे नितान्तनिष्णात इतीममस्मै। सम्माननापत्र मदात्सभायां वीवीगिरिर्भारतराष्ट्रपालः।। प्राध्यापकोऽनन्तपुरे सुपर्व- विद्यालये वेदशिरोविभागे। विनीय नैकान्सुचिरं विनेयान् विश्रान्तिभागू मद्रपुरींश्रितोऽद।। गुरोर्जयन्त्यां गुरुजन्मभूमौ गुर्वोः समक्षं गुरुभिनियुक्त: । भक्तया गुरुस्वामिबुधः स्वक्कृप्तं प्रबन्धमेतं ह्यपठत्सभायाम्।

॥। ओं तत् सत् ब्रह्मार्पणमस्तु।।

Page 49

अनुवन्ध :- 1 ग्रन्थेऽस्मिन् प्रमाणतया उद्धतानां वाक्यानां आकरसूची ग्रन्था :- वाक्यानां प्रतीकञ (अकारादिक्रमेण) पुटसङ्गया

I श्रुतिवाक्यानि

१. अक्षय्यँ हवै 28 233 २. ध्रुवा पृथिवी तै. ब्रा. २ अष्ठकं 2 ३- नासदासीत् ऋग्वेद १०-१२९-१ 3 ४. तम आसीत् ऋग्वेद १०-१२९-३ 3 4 ५. विश्वं सत्यं ऋग्वेद २-२४-१२ 4 ६. एष पन्था एतत्कर्म [ऐ - आ 15

II उपनिषद्वाक्यानि

१- तत्र को मोहः ईश १७ 17 2. तस्य त्रय आवसथाः ऐतरेय ३-१२ 15 ३. इह चेदवेदीत् केन २-५ 16

कठोपनिषत्

१- अजो नित्य २-१८ 15,28

  1. अवस्थितं २-२२ 15

३. अव्ययं, नित्यं, ध्रुंव ३-१५

४. अस्तीति ब्रुवतोऽन्यत्र ६-१२ *

५. अस्तीत्येवोपलब्धव्यस्य ६-१३

६. ईशानो भूतभव्यस्य ४-१३ 15,17 ७. उत्तिष्ठत जाग्रत ३-१४ 16

6

Page 50

44

गुह्यं ब्रह्म ५-६ 15 ९. तदेव शुक्रं ५-८

१०. तं विधाव ६-१७ 16 ११. न जायते २-१८ 15 १२. निचाय्य तन्मृयुमुखात ३-१५ 10 १३. नित्यो नित्यानां ५-१३ . 15,27,29 १४. नेह नानास्ति ४-११ 7 १५. मनसैवेदं ४-११ .16,36,37 १६. मृत्योः स मृत्युं आप्नोति ४-१० 16 १७. मृत्योः स मृत्युं गच्छति ४-११ १८. यदेवेह तदमुत्र ४-१0 18 १९. विमुक्तश्र विमुच्यते ५-१ 7 २०. सर्वे वेदा: २-१५

छान्दोग्योपनिषत्

१. अत्र ह्यस्यैते ८-३-२ 11 2. अपागाचन्द्रात् ६-४-३ 10 ३. अपागादग्नेः ६-४-१ ४. अपागादादित्याव ५. अपागाद्विदुद ६-४-२ ६-४-४ 11 ६. अहमेवाधस्तात् ७-२५-२ ७. आत्मैवाधस्ताव ७-२५-२ ८. इमे सत्या: ८-३-१ ९. एतदमृतमभय ८-३-४ 11 १०. एतत्सरवं ब्रह्मपुर ८-१-५ ११. एवमेवेमा: ८-३-२

Page 51

45

१२. एवं सोम्य स आदेशो ६-१-६ 10 एष तु वा ७-१६-१ 31 १४. कृष्णायसं ६-१-६ 11. १५. तत्सत्यं स आत्मा ६-८-७ 28 १६. तद्वह्म तदमृत ८-१४-१ 11 १७. तदमृतस्य ८-१४-१ १८. तरति शोकं ७-१-३ .17,37,38 १९. तस्य ह वा ८-३-४ 11 २०. तेषां सत्यानां ८-३-१ २१- मत्ये वा ८-१२-१ • यदा वै ७-१७-१ . २३- यद्वै किश्चित् ७-१ -३ • २४. यो वै भूमा ७-२४-१ २५. लोहमित्येव ६-१-५ 10

२६. वाचारम्भण (मृत्तिका) ६-१-४ २७. वाचारम्भणं (त्रीणि) ६-४-४ ", २८. विजरो विमृत्युः ८-१-५ २९. स एवाधस्तात् ७-२५-१ 11,17

३०. सत आगत्य ६-१०-२ 10 ३१. सता सोम्य ६-८-१ ३२. सति संपद्य ६-९-२ . ३३- सत्यं त्वेव ७-१६-१ ३४. सत्यं भगवो ७-१६-१ ३५. सत्वेव सोम्य ६-२-१ 10

३६. सदेव सोम्य ६-२-१ ३७. सन्मूलं ६-८-४

Page 52

46

३८. सन्मूला: ६-८-४ 10

३९. स य एषः ६-८-७ ४ू. सोऽहं भगवः ७-१६-१

तैत्तिरीयकोपनिषत्

१. अन्योन्तर आत्मा प्राणमयः २-१-२ 12

  1. अन्योन्तर आत्मा मनोमयः २-१-३ 79 ३- असन्नेव स भवति २-६ 9

  2. आकाशशरीरं १-६-२ 10

५. यतो वाचो २-४-१ 32 ६. सत्यं चानृत च २-६-१ · 9,28,29 ७. सत्यं ज्ञानं २-१-१ 9,28 ८. स वा एष पुरुष: २-१-१ 12 १. एवमेवास्य परिद्रष्टः प्रश्न ६-५ 17

बृहदारण्यकोपनिषत्

१. अतोऽन्यदात ३-४-२; ३-५-१; ३-७-२३ 7,9,13

  1. अथ नामघेयं सत्यस्य सत्यं २-३-६ 12 अथ योऽन्यां देवतां १-४-१० 14

३ अथात आदेशो २-३-६ 14

४. अविनाशी वा अरे ६-४-५ 13,14 ५. असतो मा सद्रमय १-३-२८ 12

६. इदंमहद् भूतं २-४-१२ 13

७. एष त आत्मा ३-७-३ t० २३ 13.

८. एष त आत्मा सर्वान्तर: ३-४-१ 13

९. तन्त्वौपनिषदं ३-९-२६ 7

Page 53

47

१०. तमेव धीरो ४-४-२१ 15

११. तस्योपनिषत् सत्यस्य सत्यं २-१-२० 12, 27, 28, 29

१२. द्वे वा व ब्रह्मणो २-३-१ 16

१३. ध्यायतीव ४-३-७ 19

१४. नामरूपे सत्यं प्राणावै सत्यं १-६-३ 13,28

१५. नेह नानास्ति ४-४-१९ 36

१६० मनसैवानु ४-४-१९ 14

१७. य एतद्विदु: ४-४-१४ 12

१८. यत्र त्वस्य २-४-१४; ४-५-१५ 13

१९. यत्र हि द्वैतमिव २-४-१४; ४-५-१५ 13 २०. यद्वै तन्न पश्यति ४-३-१३ 13

२१. यस्मिन् पञ्च् ४-४-१७ 14

२२. स एष नेति नेति नेत्यात्मा ४-२-४

२३. सर्वे तं परादात् २-४-६ "

२४. स वा एष महान् ४-४-22

१- प्रपश्चोपशमं माण्डूक्य ७ 16

२. यत्र सुप्तो माण्डक्य ५

मुण्डकोपनिषद्

१. तद मृतम् २-२-२ 15

२. तदा विद्वान् ३-२-८ .17,37,38

३. तदेतत्सत्यं २-१-१; २-२-२; ३-२-११ 15

४. तदेतत्सत्यं (कर्मपरं) १-२-१ "1

५. तदेतत्सत्यं मन्त्रेषु १-२-१ 28

६- तमेवैक २-२-५ 15 .

७. ब्रह्मैवेदं २-२-१२

Page 54

48

८. भिद्यते २-२-९ 17 ९. यथा नधः ३-२-८ 38

१०. येनाक्षरं १-२-१३ 15

श्वेताश्वतरोपनिषद्

१. ज्ञात्वा देवं १-१८ 37

  1. तमीश्वराणां ६-७ 27 ३. तमेव विदित्वा ३-८ 17 8. नान्य: पन्था ३-८ 38 ५. यस्मात्परं ३-९ 16 ६. साक्षी चेता ६-११ 32

नृसिंहोत्तरतापनीयोपनिषद् नात्रकाचन भिदास्ति ८ 37

भगवद्गीता

१- अज्ञानेनावृतं ज्ञानं ५-१५ 21

  1. अन्तवन्त इमे देहाः २-१८ 20

३- अविनाशि तु तद्विद्वि २-१७ 8. कर्मण्यकर्म य: पश्येत ४-१८ 21

५. क्षेत्रज्ञं चापि मां विद्वि १३-२ 22

६. तत्रैवं सति कर्तारं १८-१६ 21

७. तस्य कर्तारमपि ४-१३ ८. न कतृत्वं न कर्माणि ५-१४ ९. नान्यं गुणेभ्यः १४-१९ १०. नायं हन्ति न हन्यते २-१९

Page 55

49

११. नासतो विद्यते २-१६ 20 १२. नाहं प्रकाशः ७-२५ 21 १३- प्रकृते: क्रियमाणानि ३-२७ १४. प्रकृत्यैव च कर्माणि १३-२९ " १५. मद्भावं सोधिगच्छति १४-१९ 22 १६. मया ततमिदं सर्वं ९-४ 20 १७. मयाध्यक्षेण प्रकृतिः ९-१० 21 १८. मामेव ये प्रपद्यन्ते

१९. य: पश्यति १३-२९ " २०. शरीरस्थोऽपि कौन्तेय १३-३१

ब्रह्मसूत्राणि

१- अतोऽनन्तेन ३-२-२६ 9 2. अवस्थिते: १-४-२२ 19 ३. अविभागेन दृष्टत्वात् 8-8-8 39 ४. अविभागो वचनात् ४-२-१६ 20 ५. अंशो नानाव्यपदेशाव २-३-४३ 19 ६. असंभवस्तु २-३-९ 17,18 ७. आकाशः १-१-२२ 9

८. आत्मनि चैवं २-१-२४ 19

९. उत्तराच्चेत् १-३-१९ " १०. उपमद च ३-४-१६ 20 ११. चराचर- २-३-१६ 18 १२. तदधीनत्वात् १-४-३ 20 १३- तदनन्यत्वं २-१-१४ 19 १४. तद्गुणसारत्वात् २-३-२९

Page 56

50

१५. तानिपरे ४-२-१५ 20

१६. न पर्यायात् २-२-३५ 19

१७. न स्थानतः ३-२-११ 18

१८. नात्माऽश्रुतः २-३-१७

२९. परमतसेतून् ३-२-३१ 19

२०. प्रकृतैताव्त्वं ३- २-२२ 19

२१. प्रतिज्ञाहानि २-३-६ 18

2२. यथा च तक्षोभयथा २-३-४० 19

२३- यावद्विकारं तु २-३-७ 18

२४. रूपादिमत्वाच्च २-२-१५ 19

२५. वैधर्म्याच्य २-२-२९ 30,31

२६ शात्रदृष्टया १-१-३० 19,31

२७. स एव तु कर्म ३-२-९ 18

२८. सर्वोपेता च २-१-३ 20

२८. सूक्ष्मन्तु १-४-२ 20

विष्णुपुराणम्

१. अमूरत ब्रह्मणो रूपं ६-७-६९b 26

  1. अविद्या मोहितात्मानः ५-३३.४९

३. एकस्समस्तं यदिहास्ति २-१६-२३ 17

४. ज्ञानं विशुद्ध २-१२-४४

५. ज्ञानस्वरूपमखिलं १-४-४० 24 ज्ञानस्त्वरूपमत्यन्त- १-२-६

७. ज्ञानस्वरूपोभगवान् २-१२-३९ 25

८. ज्ञानात्मकमिदं २-६-४८b

९. तस्मान्न विज्ञानं २-१२-४३

Page 57

51

१०. ध्यानं चैवात्मनो २-१४-२६ 26 ११. निर्गुणस्याप्रमेयस्य १-३-१ १२ परमार्थस्त्वमेवैको १-४-३८ 24 १३- प्रत्यस्तमितभेदं ६-७-५३ 26 १४. भवन्ति तपसां १-३-३ १५- मही घटत्वं २-१२-४२ 25 १६. यदा तु शुद्धं २-१२-४० १७. यदेतत् दृश्यते १-४-३९ 24 1. १८. ये तु ज्ञानविद: १-४-४१ 25 १९. वस्त्वेकमेव २-६-४५ 25

२०. वस्त्वस्ति किं २-१२-४१ " २१. विभेदजनके ६-७-९६ 26

शक्तय: सर्वभावानां १-३-२ सझाव एव २-१२-४५ २४. सितनीलादि मेदेन २-१६-२२ "१

भागवतम्

१- अज्ञानसंज्ञौ १०-१४-२६ 23

  1. अथापि ते देव १०-१४-२९ 23 ३. अन्तर्भवे १०-१४-२८ ४. अविद्यमानोऽपि हि 23

५ आत्मानमेव १०-१४-२५ 23 ६- ईक्षेतविभ्रमं ११-१३-३४ ७. एकस्त्वमात्मा १०-१४-२३ ८. एवं विधं त्वां १०-१४-२४ ९. तस्मादिदं जगत् १०-१४-२२ 23 8

Page 58

52

१०. त्वामात्मानं १०-१४-२७ 24-

संक्षेपशारीरकम्

१- अज्ञानमावरणं ३-१०८ 22

२. आकाशादौ नित्यता १-१८१ 28

३. आकाशादौ सत्यता १-१७८ 28

  1. ज्ञानं निवर्तक ३-१०९ 22-

५. नाहं प्रकाश इति ३-११०

वाक्यान्तराणि

१- अज्ञानस्य &c विवरण पु. २१५ 27,34

२. अतोऽन्यदात ब्रह्मगीतायां 13.

३- आत विनाशि बृहभाष्ये ३-५-१ पु. ४६५. 13

४. अत्र च भ्रमविषये लघुचन्द्रिका 40

५. अथ पुनः विद्योदये पञ्चपादिका पु. २४५ 36

६. अविद्या सहकार्येण वृह वार्तिकं III. १८३ 38

७. आकाश दिक्काल- भामती २-३-७-५८४ 18

८. आकाशस्याप्यस्थाकाशं महाभारत १२-२२० पु. ५६० 22

९. आद्यं पश्चपाद्युक्तं स्यात् लघुचन्द्रिका पु. २०६ 35

१०. आनन्दो विषयानुभवः पञ्चपादिका पु. ६७ 33

११. एवं द्वैतारोपस्याघिष्ठानत्वेन ब्रह्मगीता व्याख्यायां माधाचार्य: ३. २१/ पु. ७९४ 8

१२. किश्चिद्धि परमार्थ सूत्रभाष्य ३-२-२२ पु ४७७, 7

१३ किमयं (अथातआदेशः) पूर्वोंक्तं 8

१४. जागरिते यद्दर्शनं बृह भाष्ये 16

१५. ज्ञानमात्रापनोद्यत्वं इष्टसिद्धि १-३९ 17

Page 59

53

१६. तदेतत्सत्यं मुण्डकभाष्य १-२-१ 15

१७. देहात्मप्रत्यय: सूत्रभाष्ये चतु र्थाधिकरणे उद्धतं 28

१८. ननु उच्यते अनिर्वचनीयं इष्टसिद्धि 35

१९. ननु सत्वाख्य धर्मानङ्गीकारे लघुचन्द्रिकाव्याख्या विटूठलेशीया 32

२०. न हिस्वरूपतो प्राचीनाचार्या: 41

२१. नाप्यध्यस्तमपि पश्चपादिका पु. २४४ 36

२२. नेह नानास्ति इष्टसिद्धि I-३५ 35

२३. प्रकृतैतावत्वं सूत्रभाष्यं ३-२-२२ पु. ४७७ 8

२४. प्रकृत्यर्थातिरेकेण बृह वार्तिकं 33

२५. प्रतिपन्नोपाधौ विवरणं पु. २१२ 39

२५. a प्रतिपन्नोपाधौ बे. सि. मुक्तावली १२८ 37

२६. प्रत्यस्तमितभेंद परिमले उद्धतं विष्णुपुराणवचन 33

२७. प्रत्येकं सदसत्वाभ्यां तत्त्वप्रदीपिका पु. ७९ . 35 २८. प्राबल्य आगमस्यैव मनुस्मृति 5

२९. बाधो हि नाम तत्वप्रदीपिका पु. ७९. 38

३०. ब्रह्मण: अबाध्यत्व &c लघुचन्द्रिका 8

३१. मायाध्यासाश्रयेण शश्लोकी पु. ८२ 21

३२. मायायाः सकार्यायाः इष्टसिद्धि 35

३३. मिथ्याशब्द: पञ्चपादिका पु. ६८ 34 ३३ a मिथ्येति पश्चपादिका पु. ८८ 34

३४. यत्रहीत्यादि इष्टसिद्धि I-३७ 14

Page 60

54

३५. यदापादतले विद्यारण्यकृतं तैत्तिरीय

भांष्यवा क्यं 31

३६. यादशं ब्रह्मण: न्यायामृत पु. ९८ 7

३७. वस्तुतो ब्रह्मभिन्ने सिद्धिव्याख्या पु. १४० 6

३८. विकारा इति कल्पतरु: २-३-७ पु. ५८३ 8 8

३९. शुक्त्यशंस्तेन शतश्लोकी श्रो ८२ 21

४०. श्लोकार्घेन प्रवक्ष्यामि 3

४१. सच्चेत् भातिकथं इष्टसिद्धि I-१७ 35

४२. सर्वेन भ्रान्तिबाधौ इष्टसिद्धि I-९ 35

४३. सत्तैव सर्वभेदयोनि ब्रह्म सिद्धिकारेण उद्धृतं पु.३७ 34

४४. सत्यविवेकस्य न्यायदीपावलि 34

४५. सद्पं परं सूतसंहिताव्याख्या 33

४६. संहताडखिल ब्रह्मसिद्धि पु. ३७ 34

४७. सर्वेषामपिभावानां तत्त्वप्रदीपिका पु. ३९ - 34

४८. स वा एषमहान् ब्र. सि. कारेण उद्धृत पु. ३७ 34

४९- साक्षात्कृते बेदान्तसिद्धान्तमुक्तावली क्लो ४० 37

सामान्यन्तूक्तं ब्रह्मसिद्धि पु. ३७ 39

५१. सौगतब्रह्मवादिनोः खण्डनखण्डखाद्ं पु. १२५ 6

.स्वार्थिक: परिमले 33

१. आकाशषत्सर्वगतश्च नित्यः 28

२. आभूतसंपुव ज्ञानं अमृतत्वं हि भाष्यते विष्णुपुराण २-८-९७ 28

३. ज्ञानादेव तु कैवल्यं 38

४. नावेदविन्मनुते तं बृहन्तं तै. ब्रा. ३-१२-९-७ 7

Page 61

ग्रन्थेऽस्मिन् अधो निर्दिष्टाः ग्रन्था: प्रमाणत्वेन समाधृताः।

  1. अद्वैतसिद्धि श्रीमधुसूदनसरस्व्तीकृता। सिद्धिव्याख्या-लघुचन्द्रिका- तद्याख्याभि :- उपबृंहिता। संपादकः श्री अनन्तकृष्णशास्त्री। बाम्बे 1915 2. इष्टसिद्धि विमुक्तात्मकृता सं. श्री. मै. हिरियण्णा। बरोडा 1933 3. उपनिषद्भाष्यम् श्रीशङ्गरभगवत्पाद प्रणीतम्। Vol. II. Pt 1 पूना 1927 4. ऋग्वेदः सं. विश्वबन्धुः होषियार्पूर् 5. खण्डनखण्डखद्यम् श्रीहर्षकृतम्। सं. श्रीगङ्गानाथझा वाराणसी 1914 6. तत्वप्रदीपिका श्रीचित्सुककृता। सं. कशीनाथशास्त्री। बाम्बे 1915 7. तैत्तिरीयकभाष्यं विद्यारण्यकृतं पूना

  2. न्यायदीपावली आनन्दबोघाचार्यकृता। 9. न्यायामृतम् श्रीव्यासरायकृतम् सं. योगीन्द्रानन्दः वाराणसी 1977 10. बृहदारण्यक भाष्यं श्रीशङ्कराचार्य प्रणीतं। पूना 10-a बृहदारण्यकवार्तिकम् श्रीसुरेश्वराचार्यकृतम्। पूना 11. ब्रह्मगीता (सूतसंहितायाः) माधवाचार्यकृतव्यारूपा सहिता। मद्रासू 12. ब्रह्मसूत्रशाङ्करभाष्यम्। कामकोटिकोशस्थानावू मुद्रितम्। मद्रास् 1954

Page 62

56

12-a. " भामती - कल्पतरु-परिमलोपेतम्। सं. श्री. अनन्तकृष्ण- शास्त्री। बाम्बे 1938 12-b. , (चतुस्सूत्र्यन्तम्) भामत्यादिव्याख्यानवकोपेतम् । सं. श्री अनन्तकृष्णशास्त्री। कल्कत्ता 1933 13. ्रह्मसिद्धि श्री मण्डनमिश्रकृता सं. कुप्पुस्वामि शास्त्री। मद्रास् 1937

  1. भगवद्गीता गोरखपूर 15. भागवतम् गोरखूपूर्

  2. मनुस्मृति वाराणसी

  3. महाबारतम् संपुटचतुष्टयम् गोरख्पूर्। 18. विष्णुपुराणम् गोरख्पूर 19. वेदान्तसिद्धान्तमुक्तावली श्रीप्रकाशानन्दकृत। सं. आर्थर्- वेनिस् वाराणसी 1975 20. शश्श्लोली श्रीशङ्कराचार्यकृता श्रीरङ्गम् 21. संक्षेपशारीरकम् श्रीसर्वज्ञात्ममुनिकृतम्। वाराणसी 1924