1. Brahma Upanishad
Page 1
ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् । दिव्ये ब्रह्मपुरे सम्प्रतिष्ठिता भवन्ति कथम् सृजन्कस्यैष महिमा बभूव यो हाषे महिमा बभूव क एषः ।
तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येष आत्मा । आत्मनो महिमा बभुव देवानामायु: स देवानां निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मधुकरराजानं माक्षिकवदिति ।
यथा माक्षीकैकेन तन्तुना जालं वक्षपति तेनापकर्षति तथैवैष प्राणो यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा नाड्यः । सुषुपं शयेनाकाशवद्गृथा ख्व शयनमाश्रित्य याति स्वमालयं सुषुप्तो वृते यथैवेष देवदत्तो येष्वाडपि तद्गृहेण न यथैवामिष्पिपतेः शुभाशुभेन्त लिप्यते ।
यथा कुमारो निष्काम आनन्दमुपयाति तथैवेष देवदत्तः स्वप्न आनन्दमभियाति । वेद एव परं ज्योति: ज्योतिष्कामो ज्योतिरन्नदयते । भूयस्तनैव स्वप्नाय गच्छति जलौकावत् ।
यथा जलौकाग्रमग्रं नयत्यात्मानं नयति परं संधयु । यत्परं नापरं त्यजति स जाग्रदभिधीयते । यथैवैष कपालाष्कं सन्नयति । तमेव स्तन इव लम्बते वेददेवयोनिः ।
यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य स सम्प्रसारोड्न्यरामى खगः कर्कोटकः पुष्करः पुरुषः ग्राणो हिर्सा परापरं ब्रह्म आत्मा देवता वेदयति । य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥ १॥
अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिहृदयं कण्ठं मूर्धेति । तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति । जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरं आदित्यो विष्णुरेश्वररुद्र स पुरुषः
Page 2
2
स प्राणः स जीवः सोडग्निः सेश्वररश्व जाग्रत्तेषु मध्ये यत्परं ब्रह्मा विभाति । स्वयंममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं न तत्र लोकान लोकान वेदा न विदा देवा न देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुषा न स्नुषा चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव परं ब्रह्मा विभाति । हृदाकाशे तदिज्ञानमाकाशां तत्सुषिरमाकाशं तद्वेद्धं हृद्याकाशं यस्मिन्निदं संचारति वचरति यस्मिन्निदं सर्वमोतं प्रोतं । सं विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः पितर ऋषते प्रतिबुद्धाः सर्वविदिति ॥२॥
हृदिस्था देवथा: सर्वा हृदि प्राणा: प्रतिष्ठिता: । हृदि प्राण इष ज्योतिष्म त्रिवृत्सूत्रं च यन्महद ॥
हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं प्रजापतिर्यत्सहजं पुरस्ताद । आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत ॥
सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥
तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्वदर्शिवान ॥
बहिःसूत्रं त्यजेद्धीमान्योगमुतममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्धः स चेतनः ॥
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम ॥
ते चैव सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥
Page 3
३
ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥
कर्मण्यधिकता ये तु वैदिके ब्राह्मणादयः । तैः संधार्यीमिदं सूत्रं क्रियादृं तद्धि वै स्मृतम् ॥
शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥
इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥
एको मनीषी निष्कियाणां बहुनामेकं सन्तं बहुधा यः करोति । तमात्मानं येडनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥
तिलेषु तैलं दधिनीव सर्पिरापः स्वर्णेषु चात्रिः । एवमात्माडडत्मनि गृह्यतेsसौ सत्येनैनं तपसा योऽनुपश्यति ॥
ऊर्णनाभिरियथा तन्तून् संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥
पञ्चकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीया द्विश्वस्याडSडयतनं महत् ॥
नेत्रस्थं जाग्रतं विद्धि कण्ठे स्वप्नं विनिद्रितम् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्धि संस्थितम् ॥
यदात्मा प्रज्ञया डSत्मानं संधत्ते परमात्मनि । तेन सन्ध्या ध्यानमय तस्मात्सन्ध्याभिवन्दनम् ॥
निरोधकाध्यानसन्ध्या वाक्कायाक्लेशवर्जिता ।
Page 4
संधिनी सर्वभूतानां सा संध्या हृदकदण्डिनाम् ।।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आन्नन्दमेतज्ज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥
सर्वव्यापिनमात्मानं क्षीरे सर्पिर्वार्पितम् ।
आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् ।
सर्वात्मकत्वरीषीणां तद्ब्रह्मोपनिषत्परमिति ॥ ५ ॥
इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥