1. Brahmabindu Upanishad
Page 1
॥ ब्रह्मबिन्दूपनिषत् ॥ ११
अमृतबिन्दूपनिषद्रयं यत्परमाक्षरम् ।
तदेव हि त्रिपाद्रामचन्द्रार्ध्यं नः परा गतिः ॥
ॐ सहनाववतु । सन्तु शान्तिः ॥
१
ॐ मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
१
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥
२
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
२
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥
३
यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ।
३
तस्मान्निर्विषयं नित्यं मनः कार्ये मुमुक्षुणा ॥
४
निरस्तविषयासङ्गं सप्तिरुद्धं मनो हृदि ।
४
यदा यात्यनुभावं तदा तत्परं पदम् ॥
५
तावदेव निरोधव्यं यावदृदृधि गतं क्षयम् ।
५
एतज्ज्ञानं च ध्यानं च अतोऽन्यन्नो ग्रन्थविस्तरः ॥
६
नैव चिन्त्यं न वाचिन्त्यमचिन्त्यं चिन्त्यमेव च ।
६
पक्षपातविनिर्मुक्तं ब्रह्म संपश्यते तदा ॥
७
स्वरेरण सन्ध्येयोगमस्वरं भावयेत्परम् ।
७
अस्वरे हि भावेन भावो नाभाव इष्यते ॥
८
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
८
तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥
९
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
९
अप्रमेयमनादिं च ज्ञात्वा च परमं शिवम् ॥
१०
न निरोधो न चोत्पत्तिर्न बध्दो न च साधकः ।
१०
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥
११
एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
११
स्थानत्रयाद्वृत्तितस्म्य पुनर्जन्म न विद्यते ॥
१२
एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
१२
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
१३
घटसंवृतमाकारां लीयमाने घटे यथा ।
१३
घटो लीयेत नाकाशं तद्वज्जीवो नभोपमः ॥
१४
घटवद्वृधाकारं भिय्यमानं पुनः पुनः ।
१४
तद्गग्नं न च जानाति स जानाति च नित्यशः ॥
Page 2
१५
शब्दमायावृतो यावत्तावत्तिष्ठति पुष्करे । भित्ते तर्मसि चैतन्यमेक एवानुपश्यति ॥
१६
शब्दाक्षरं परं ब्रह्म तस्मिन्नक्षीर्णे यदक्षरम् । तदिद्वानक्षरं ध्यायेयदीच्चेच्छान्तिमात्मनः ॥
१७
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्ठातः परं ब्रह्माधिगच्छति ॥
१८
ग्रन्थमभ्यास्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेदग्रन्थमशेषतः ॥
१९
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥
२०
घृतमिव परयास निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्त्रयित्वं मनसा मन्थानभूतेन ॥
२१
ज्ञाननेत्रं समाधाय चोदरेद्धृदिहात्परम् । निष्कलं निर्मलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥
२२
सर्वभूताधिवासं च यद्यत्तेषु वसत्यपि । सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः तदस्म्यहं वासुदेव इति ॥
ॐ सहनाववतु । सन्तु: ॥ इति ब्रह्मविद्बिन्दूपनिषत्समाप्ता ॥