Books / Brahmavidya Upanishad

1. Brahmavidya Upanishad

Page 1

स्वाविय्यातत्कार्यंजातं यद्वियापद्वं गतं ।

तद्‌द्वंसविद्यानिष्पत्रं रामचन्द्रपदं भजे ॥

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ ब्रह्मविद्योपनिषद्युच्यते ॥

प्रसादाद्ब्रह्मणस्तस्य विष्णोर्‌ऋतकर्मणः ।

रहस्यं ब्रह्मविद्याया ध्रुवागिनं संपचक्षते ॥

ॐ इत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ।

शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥

तत्र देवास्त्रयः प्रोक्ता लोकास्त्रयोऽग्नयः ।

तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥

ऋग्वेदो गाह‌ऋपत्‍य च पृथ्वी ब्रह्मैव च ।

आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥

यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ।

विष्णुः भगवान्‌देव उकारः परिकीर्तितः ॥

सामवेदस्तथा चो‌ऽश्वाहवनीयस्तथैव च ।

ईश्वरः परमो देवो मकारः परिकीर्तितः ॥

सूर्यमण्डलमध्ये‌ऽडथ उकारः शड्‌खमध्येगः ।

उकारधन्र‌संकाशस्तस्य मध्ये व्यवस्थितः ॥

मकारस्त्वग्निसंकाशो विधुमो विद्युतोपमः ।

तिस्रो मात्रास्तथा जेया सोमसूर्याग्निरूपिणः ॥

शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते ।

अर्धमात्रा तथा जेया प्रणवस्योपरि स्थिता ॥

१०

पद‌सूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा ।

१०

सा नाड़ी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा ॥

११

द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि ।

११

वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति ॥

१२

कांस्यघण्टानिनादस्तु यथा लीयति शान्तये ।

१२

ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥

यस्मिन्न्विलीयते शब्‌दस्तत्परं ब्रह्म गीयते ।

Page 2

१३

भियं हि लीयते ब्रह्म सोडमृतत्वाय कल्पते । वायु: प्राणस्थाकाशस्थिविधो जीवसञ्जक: । स जीव: प्राण इत्युक्तो वाग्रशतकल्पित: ॥ १४ ॥ नाभिस्थाने स्थितं विश्वं शुद्धतत्वं सुनिर्मलम् । आदित्यमिव दीप्यन्तं रश्मिभिश्चाक्षिलं शिवम् ॥ १५ ॥ सकारं च हकारं च जीवो जपति सर्वदा । नाभिरन्थाद्विनिष्कान्तं विषयव्याप्तिवर्जितम् ॥ १६ ॥ तेनेऽं निष्कलं विद्यात्क्षीरात्पिण्डियन्था तथा । करणेनात्मना युक्त: प्राणायामेषु पञ्जभि: ॥ १७ ॥ चतुष्कला समायुक्तो भाम्यते च हृदि स्थित: । गोलकस्तु यदा देहे क्षीयते वा हत: ॥ १५ ॥ एतस्मिन्नवसते श्रीगर्भमविशान्तं महाखग: । यावत्क्षरिसतो जीवस्तावत्क्षरतां गत: ॥ १९ ॥ नभस्यं निष्कलं ध्यात्वा मुख्यते भवबन्धनात् अनाहतध्वनियुतं हंसं यो वेद हृदत्मतं ॥ २० ॥ स्वप्रकाशचिदानन्दं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा कुंभकेन स्थित: सुधी: ॥ २१ ॥ नाभिकन्दे समौ कृत्वा प्राणापानौ समाहित: । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२ ॥ दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । अभिपिच्यामृतानेव हंसं हंसेऽति यो जपेत् ॥ २३ ॥ जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुयादणिमादिविभूतये ॥ २४ ॥ ईश्वरत्वमवाप्नोति सदाभ्यासरत: पुमान् । बहवो नैकमागेण प्राप्ता नित्यत्वमागताः ॥ २५ ॥ हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाख्यां परमेश्ररीम् ॥ २६ ॥ तस्य दास्यं सदा कुयात्प्रणया परया सह । शुभं वाडशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥ २७ ॥ तत्कुर्यादविचारेण शिष्य: सन्तोषसंयुत: । हंसविद्यामिमां लब्धवा गुरुग्रुश्रूषया नर: ॥ २५ ॥ आत्मानमात्मना साक्षाद्ब्रह्म बुद्धवा सुनिश्चलम् । देहजात्यादिसम्बन्धवणश्रमसमन्वितान् ॥ २९ ॥ वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुयाच्छ्रेयसे भूससे नर: ॥ ३० ॥ गुरुरेव हरि: साक्षात्त्रान्न्य इत्यब्रवीच्च्छुति: ॥ ३१ ॥

Page 3

३२

श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् । श्रुत्या विरोधे न भवेत्प्रमाणं भवेदन्थोयं विना प्रमाणम्

३३

देहस्थः सकलो ज़ेयो निष्कलो देहवर्जितः । आप्तोपदेशगम्योऽसौ सर्वत्र समवस्थितः

३४

हंसहंसेति यो बृंहाद्रं सो ब्रह्म हरिः शिवः । गुरुवक्त्रात् लभ्येत प्रत्यक्षं सर्वतोमुखम्

३५

तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन् बाह्याभ्यन्तरे तथा

३६

उल्काहस्तो यथालोके दृव्यमालोक्य तां त्यजेत् । ज्ञानेन ज़ेयमालोक्य पश्चाज्ज्ञानं परित्यजेत्

३७

पुष्पवत्सकलं विद्याद्बन्धनस्थस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला

३८

निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयैष निष्कलः

३९

सकले सकलो भावो निष्कले निष्कलस्थथा । एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः

४०

अर्धमात्र परा ज़ेया तत ऊर्ध्वं परात्परम् । पञ्वधा पञ्वदेवत्य सकलं परिपघ्यते

४१

ब्रह्माणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रस्तालाटस्थो महेश्वरः

४२

नासाग्रे अच्युतं विद्यात्स्थान्ते तु परं पदम् । परत्वातु परं नास्तीत्येवं शास्त्रस्य निर्णयः

४३

देहातीतं तु तं विद्याद्विद्यात्रासाग्रे द्वादशाङ्कुलम् । तदन्तं विजानीयात्तत्त्वस्थो व्यपयेत्प्रभुः

४४

मनोऽप्यनत्र निक्षिप्तं चक्षुरनत्र पातितम् । तथापि योगिनां योगो दृविच्छिन्नः प्रवर्तते

४५

एतत्तु परमं गुह्यंमेततु परमं शुभम् । नातः परतरं किंचिन्नात्रातः परतरं शुभम्

४६

शुद्धज्ञानामृतं प्राप्य परमाक्षरनिरर्णयम् । गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः

४७

नापुत्राय प्रदातव्यं नाशिष्याय कदाचन । गुरुदेवाय भक्ताय नित्यं भक्तिपराय च

४८

प्रदातव्यमिदं शास्त्रं नेतरेम्यः प्रदापयेत् । दातास्य नरकं याति सिद्धूयते न कदाचन

Page 4

49

गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमाक्षरविच्त्सदा ॥

50

विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञानादेवास्य शास्त्रास्य सर्वावस्थोऽपि मानवः ॥

51

ब्रह्महत्याश्रमेभ्यादः: पुण्यपापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदः परः स्मृतः ॥

52

इत्येषं त्रिविधो जेय आवार्यस्तु महीतले । चोदको दर्शनेमार्गे बोधकः स्थानमाचरेत् ॥

53

मोक्षदस्तु परं तत्वं यज्ञात्वा परमश्नुते । प्रत्यक्षयजनं देहं संक्षेपाच्छृणु गौतम ॥

54

तेनेष्टवा स नरः याति पराश्च्वतं पदमव्ययम् । स्वयमेव तु संस्पर्शेद्देहे विन्दुं च निष्कलम् ॥

55

अयने द्रु च विषुवे सदा पश्यति मार्गावित्त । कृत्वायां पुरा वत्स रेपुराकुम्भकान ॥

56

पूर्वं चोभयमुच्चार्य अच्युतं यथाक्रमम् । नमस्कारेण योगेन मुंद्रयारभ्य वाचयेत् ॥

57

सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवक्तं तोये तोयं यथा तथा ॥

58

एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः । तस्माद्योगे समादाय सर्वदुःखवहिष्कृतः ॥

59

योगध्यानं सदा कृत्या ऋषीनां तन्मयतां ब्रजेत । ज्ञानात्स्वरूपं परमं हुंस्मन्त्रं समुच्चरेच ॥

60

प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । हंस एव परं सत्यं हंस एव तु शक्तिकम ॥

61

हंस एव परं वाक्यं हंस एव तु वादिकम । हंस एव परो रुद्रो हंस एव परात्परम ॥

62

सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः । पृथिव्यादिशिवान्तं तु आकाराद्याष्ट वर्णकाः ॥

63

कूटान्ता हंस एव स्यान्मात्रकोटि व्यवस्थिताः । मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥

64

हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम । दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत ॥

65

सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् । निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम ॥

66

मध्ये देशे परं हंसं ज्ञानमुद्रात्नरूपकम । प्राणोऽपानः समानश्वोदाव्यानौ च वायवः ॥

Page 5

६७

पञ्चकर्मेन्द्रैयैरकता: क्रियाशक्तिबलोद्यता: । नाग: कूर्मेष कृको देवदत्तो धनञ्जय: ॥

६८

पञ्चज्ञानेञ्द्रियैैयुक्ता ज्ञानशक्तिबलोद्यता: । पावक: शक्तिमध्ये तु नाभिचक्रे रवि: स्थित: ॥

६९

बन्धमुद्रा कृत येन नासाग्रे तु स्वलोचने । आकारेवद्धिरित्याहुरुकारे हृदि संस्थित: ॥

७०

मकारे च भुवोर्मध्ये प्राणशक्त्या प्रभोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिहकारे स्थित: ॥

७१

रुद्रग्रन्थिभुवोर्मध्ये भिद्यतेक्षरबायुना । आकारे संस्थतो ब्रह्मा उकारे विष्णुरास्थित: ॥

७२

मकारे संस्थतो रुद्रस्ततोऽस्यान्त: परात्पर: । कण्ठं सड्कुच्य नाड्यादौ सञ्चरते येन शक्तित: ॥

७३

रसना पीडयमानेन शोधयीत वोध्वगामिनि । त्रिकूटं त्रिविधा चैव गोलार्कं निक्षरं तथा ॥

७४

त्रिशङ्खद्वजमोडारमूर्ध्वनालं भुवोर्मुखकम । कुण्डलीं चालयन्र्राणान्बोधयन्र्राशिमण्डलम् ॥

७५

साधयन्न्जकुम्भानि नवद्वाराणि बन्धयेत् । सुमन:पवनारूढ: सरागो निर्गुण:स्थथा ॥

७६

ब्रह्मस्थाने तु नाद: स्याच्छ्रवणाकिन्यामृतवर्षिणी । षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥

७७

सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । आत्मारूपं तमालोक्य ज्ञानरूपं निरामयम् ॥

७८

दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जन: । हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रित: ॥

७९

सप्राणापानयोगेन्थाररजपेत्यभिधीयते । सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा ॥

८०

उच्चरन्पठितो हंस: सोऽहमित्यभिधीयते । पूर्वभागे ह्यभोलीडं शिविन्यां चैव पश्चिमम् ॥

८१

ज्योतिर्लिङ्गं भुवोर्मध्ये नित्यं ध्यायेत्सदा यति: । अच्युतोऽहमचिन्त्योऽहमकर्त्योऽहमजोऽस्म्यहम् ॥

८२

अप्राणोऽहमकायोऽहमनझोऽस्म्यभयोऽस्म्यहम् । अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वय: ॥

८३

अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् । अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् ॥

अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् । अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षण: ।

Page 6

58

अगोत्रोऽहं गोत्रोऽहं मचक्रुष्टकोऽस्म्यवागहं ॥ ५८ ॥

अदृश्योऽहमदृश्योऽहमदृश्योऽस्म्यहमद्वतः ।

59

अश्रुतोऽहमदृष्टोऽहमदृष्टव्यो मरौडस्म्यहं ॥ ५९ ॥

अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यंहं ।

60

अमृतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यंहं ॥ ६० ॥

अरजस्कोऽतमस्कोऽहं सतत्वोऽस्म्यगुणोऽस्म्यहं ।

61

अमायोऽनुभवात्माहमनन्यो विषयोऽस्म्यहं ॥ ६१ ॥

अद्वैतोऽहंपूर्णोऽहं बहिरोऽहं मनंतरः ।

62

अश्रोतोऽहमदीर्घोऽहं ह्यक्तोऽहं मनामयः ॥ ६२ ॥

अद्वयानन्दविज्ञानघनोऽस्म्यहविक्रियः ।

63

अनिच्छोऽहं लेपोऽहं कर्ताऽस्म्यहद्वयः ॥ ६३ ॥

अवियाकार्यहीनोऽहमवाग्रसनगोचरः ।

64

अनल्पोऽहं शोकोऽहं विकल्तोऽस्म्यविज्वलन ॥ ९० ॥

आदिमध्यान्तहीनोऽमाकाश सदृशोऽस्म्यहं ।

65

आत्मचैतन्यरूपोऽहं ह्यमानन्दचिदघनः ॥ ९१ ॥

आनन्दामृतरूपोऽहं आत्मसंस्थोऽहं नंतरः ।

66

आत्मकामोऽह्माकाशात्मपर्मात्मेश्वरोऽस्म्यहं ॥ ९२ ॥

ईशानोऽस्म्यहमीशोऽहं ह्यमूर्तमपुरुषः ।

67

उत्कृष्टोऽहं उपद्रष्टा अहमततरतोऽस्म्यहं ॥ ९३ ॥

केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः ।

68

गुहाशयोऽहं गोप्ता हि चाक्षुषष्कुरस्म्यहं ॥ ९८ ॥

चिदानन्दोऽस्म्यहं चेता चिदघनऽस्म्यहं ।

69

ज्योर्तिमयोऽस्म्यहं ज्यायाज्ज्योतिषां ज्योर्तिरस्म्यहं ॥ ९९ ॥

तमः साक्ष्यं हि तुर्तुर्योऽहं तमः परः ।

70

दिव्यो देवोऽस्मि दुर्देशो दृष्टाद्द्यायो भुवोऽस्म्यहं ॥ ९६ ॥

नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः ।

71

निर्मलो निर्विकल्पोऽहं निराक्यातोऽस्मि निःश्वलः ॥ ९७ ॥

निर्विकारो नित्यपूतो निर्गुणो निर्नुःखोऽस्म्यहं ।

72

निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९५ ॥

पुरुषः परमात्माहं पुराणः परमोऽस्म्यहं ।

73

परावरऽस्म्यहं प्राज्ञः प्राज्ञोपशमोऽस्म्यहं ॥ ९९ ॥

परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः ।

74

पूर्णानन्दैकबोधोऽहं प्रत्यगेकरस्म्यहं ॥ १०० ॥

प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाथः परमेश्वरः ।

75

एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥ १०१ ॥

बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहं ।

Page 7

१०२

महाजेयो महानस्मि महोजेयो महेश्वरः ॥ विमुक्तोऽहं विभुरहं वरेज्यो व्यापकोऽस्म्यहं । वैश्वानरो वासुदेवो विश्वतश्शुरस्म्यहं ॥

१०३

विश्वाधिकोऽहं विश्रादो विष्णुर्विश्वकुदस्म्यहं । शुद्धोऽस्मि शुकः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहं ॥

१०४

सर्वभूतान्तरात्समहमस्मि सनातनः । अहं सकृद्भातोऽस्मि स वि महिम्नि सदैव स्थितः ॥

१०५

सर्वान्तरः स्वयंज्योति: सर्वाधिपतिरस्म्यहं । सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहं ॥

१०६

समस्तसाक्षी सर्वात्मा सर्वभूतगुहाश्रयः । सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥

१०७

स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहं । सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहं ॥

१०८

सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । सत्स्वरूपसन्मात्रसिद्धस्वान्तकोऽस्म्यहं ॥

१०९

सर्वाधिष्ठानसन्मात्रः स्वात्मवन्धहरोऽस्म्यहं । सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभवरहं ॥

११०

एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् । ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति ब्रह्मविद्योपनिषत्समाप्ता ॥