Books / Candrajñāna Āgama — Sanskrit Text

1. Candrajñāna Āgama

vidyāpurāṇe pañcākṣarapaṭalaṃ samāptam

1

हरिः ओम् चन्द्रज्ञानम् पञ्चाक्षरं परं गुह्यं परमानन्दरूपिणम् । परापररहस्यं स्यात् शृणु त्वं तु हिते प्रिये

hariḥ om candrajñānam pañcākṣaraṃ paraṃ guhyaṃ paramānandarūpiṇam | parāpararahasyaṃ syāt śṛṇu tvaṃ tu hite priye


2

स्थूलसूक्ष्म विभावेन सूक्ष्मात् सूक्ष्मं द्विभावनम् । आनन्दं प्रणवं बीजं आनन्दरूपनृत्तकम्

sthūlasūkṣma vibhāvena sūkṣmāt sūkṣmaṃ dvibhāvanam | ānandaṃ praṇavaṃ bījaṃ ānandarūpanṛttakam


3

ध्यानं नटेश्वरं प्रोक्तं पञ्चाक्षरपरं शिवम् । पञ्चाक्षरं परं ब्रह्म पवित्रं पावनाशनम्

dhyānaṃ naṭeśvaraṃ proktaṃ pañcākṣaraparaṃ śivam | pañcākṣaraṃ paraṃ brahma pavitraṃ pāvanāśanam


4

यकारमीशवक्त्रं तु वकारं तत्पुरुषवक्त्रकम् । शिकारं घोरव * * * * * * * * * *

*yakāramīśavaktraṃ tu vakāraṃ tatpuruṣavaktrakam | śikāraṃ ghorava * * * * * * * * * **


5

              • वकारं ईश्वर दैवतम् । यकारं च सदाशैवं पञ्चदैवाधिदैवतम्

** * * * * * * vakāraṃ īśvara daivatam | yakāraṃ ca sadāśaivaṃ pañcadaivādhidaivatam*


6

स्थूल सूक्ष्मपरं ज्योतिः पञ्चाक्षरविधिं शृणु । नकारं च मकारं च शिकारं च वकारकम्

sthūla sūkṣmaparaṃ jyotiḥ pañcākṣaravidhiṃ śṛṇu | nakāraṃ ca makāraṃ ca śikāraṃ ca vakārakam


7

यकारं पञ्चसंयुक्तं प्रणवादि षडक्षरम् । अक्षरात् प्रणवं मुख्यं अक्षरं ज्ञानपूर्वकम्

yakāraṃ pañcasaṃyuktaṃ praṇavādi ṣaḍakṣaram | akṣarāt praṇavaṃ mukhyaṃ akṣaraṃ jñānapūrvakam


8

प्रणवं अक्षरं प्रोक्तं सर्वमन्त्रं तदास्पदम् । प्रणवेन विहीनं स्यात् तन्मन्त्रं प्राणहीनकम्

praṇavaṃ akṣaraṃ proktaṃ sarvamantraṃ tadāspadam | praṇavena vihīnaṃ syāt tanmantraṃ prāṇahīnakam


9

सर्वमन्त्रेषु मन्त्राणां प्राणान् प्रणवमुच्यते । प्रथमस्वरसंयुक्तं पञ्चमस्वरसंयुतम्

sarvamantreṣu mantrāṇāṃ prāṇān praṇavamucyate | prathamasvarasaṃyuktaṃ pañcamasvarasaṃyutam


10

षड्वर्गान्तसमायुक्तं बिन्दुनादसमन्वितम् । एवं तत्प्रणवं प्रोक्तं सर्वसिद्धिकरं शुभम्

ṣaḍvargāntasamāyuktaṃ bindunādasamanvitam | evaṃ tatpraṇavaṃ proktaṃ sarvasiddhikaraṃ śubham


11

धान्तं भन्तं च शान्तं च तृतीयस्वरसंयुतम् । लान्तदीर्घस्वरोपेतं मान्तं पञ्चाक्षरं परम्

dhāntaṃ bhantaṃ ca śāntaṃ ca tṛtīyasvarasaṃyutam | lāntadīrghasvaropetaṃ māntaṃ pañcākṣaraṃ param


12

ओंकारं च नकारं च मकारं चाक्षरत्रयम् । पुल्लिङ्गं स्याद् वकारं शिकारं स्त्रीयुतं भवेत्

oṃkāraṃ ca nakāraṃ ca makāraṃ cākṣaratrayam | pulliṅgaṃ syād vakāraṃ śikāraṃ strīyutaṃ bhavet


13

यकारं नपुंसकं ज्ञेयं त्रयस्त्वेवं ततः क्रमात् । ऋग्वेदं स्यान्नकारं च यजुर्वेदं मकारकम्

yakāraṃ napuṃsakaṃ jñeyaṃ trayastvevaṃ tataḥ kramāt | ṛgvedaṃ syānnakāraṃ ca yajurvedaṃ makārakam


14

शिकारं सामवेदं स्यात् मकारमथर्वर्णं भवेत् । इतिहासं यकारं च सर्वदेवमयं तथा

śikāraṃ sāmavedaṃ syāt makāramatharvarṇaṃ bhavet | itihāsaṃ yakāraṃ ca sarvadevamayaṃ tathā


15

वर्णं देवंस्तथा शक्तिस्त्वाधारछन्द एव च । ऋषिस्थानं च ब्रह्मं च आयुधं तु तथैव च

varṇaṃ devaṃstathā śaktistvādhārachanda eva ca | ṛṣisthānaṃ ca brahmaṃ ca āyudhaṃ tu tathaiva ca


16

कलागुणं च चक्रं च प्रकाशं करणमेव च । वायुर्ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात्

kalāguṇaṃ ca cakraṃ ca prakāśaṃ karaṇameva ca | vāyurjñānendriyaṃ caiva ityete ṣoḍaśa kramāt


17

नकारं पृथिवीरूपं ब्रह्मं तत्राधिदैवतम् । सावित्रीं शक्तिरित्युक्तं आधारं पृथिवी तथा

nakāraṃ pṛthivīrūpaṃ brahmaṃ tatrādhidaivatam | sāvitrīṃ śaktirityuktaṃ ādhāraṃ pṛthivī tathā


18

अनुष्टुप्छन्दसंयुक्तं वसिष्ठस्तु ऋषिस्तथा । स्थानं पश्चिमतो वक्त्रं सद्योजातं तु ब्रह्मकम्

anuṣṭupchandasaṃyuktaṃ vasiṣṭhastu ṛṣistathā | sthānaṃ paścimato vaktraṃ sadyojātaṃ tu brahmakam


19

आयुधं वज्रमेवोक्तं कला निवृत्तिरेव च । गुणाङ्कने मेनां तु घनेन चतुश्रवोक्तं चक्रमेव च

āyudhaṃ vajramevoktaṃ kalā nivṛttireva ca | guṇāṅkane menāṃ tu ghanena catuśravoktaṃ cakrameva ca


20

ज्वालिताग्निप्रकाशेन करणमहंकारमेव च । प्राणवायुसमायुक्तमिन्द्रियं चैव गन्धकम्

jvālitāgniprakāśena karaṇamahaṃkārameva ca | prāṇavāyusamāyuktamindriyaṃ caiva gandhakam


21

इत्येते षोडशानां तु नकाराक्षरमुच्यते । नकाराक्षरमिदं प्रोक्तं मकाराक्षरमथ शृणु

ityete ṣoḍaśānāṃ tu nakārākṣaramucyate | nakārākṣaramidaṃ proktaṃ makārākṣaramatha śṛṇu


22

मकारं जलरूपं तु दैवं विष्णुस्तथैव च । लक्ष्मीशक्तिसमायुक्तमाधारं जलमेव च

makāraṃ jalarūpaṃ tu daivaṃ viṣṇustathaiva ca | lakṣmīśaktisamāyuktamādhāraṃ jalameva ca


23

त्रिष्टुप्छन्दस्समायुक्तं विश्वामित्रो? ऋषिस्तथा । स्थानमुत्तरतो वक्त्रं वामदेवं तु ब्रह्मकम्

triṣṭupchandassamāyuktaṃ viśvāmitro? ṛṣistathā | sthānamuttarato vaktraṃ vāmadevaṃ tu brahmakam


24

पद्मायुधं चैव? प्रतिष्ठा तु कला हि च । गुणद्रव्यं स्यादपि च चक्रमर्धेन्दुजं तथा

padmāyudhaṃ caiva? pratiṣṭhā tu kalā hi ca | guṇadravyaṃ syādapi ca cakramardhendujaṃ tathā


25

सोमसूर्यप्रकाशेन करणं बुद्धिरेव च । अपाने वायुरूपं तु रसं ज्ञानेन्द्रियं भवेत्

somasūryaprakāśena karaṇaṃ buddhireva ca | apāne vāyurūpaṃ tu rasaṃ jñānendriyaṃ bhavet


26

इत्येते षोडशानां तु मकाराक्षरमुच्यते । मकार * * * * शिकाराक्षरमथ शृणु

ityete ṣoḍaśānāṃ tu makārākṣaramucyate | makāra * * * * śikārākṣaramatha śṛṇu


27

शिकारमग्निरूपं तु रुद्रस्तत्राधिदैवतम् । गौरीशक्तिसमायुक्तं आधारमग्निरेव च

śikāramagnirūpaṃ tu rudrastatrādhidaivatam | gaurīśaktisamāyuktaṃ ādhāramagnireva ca


24

त्रिष्टुप्छन्दस्संयुक्तो जमदग्निस्तथा * * * । स्थानं दक्षिणतो वक्त्रं अघोरं ब्रह्ममेव च

triṣṭupchandassaṃyukto jamadagnistathā * * * | sthānaṃ dakṣiṇato vaktraṃ aghoraṃ brahmameva ca


29

स्वस्तिकायुधमेवोक्तं विद्याग्नि तु कला हि च । गुणदीप्तिसमायुक्तं चक्रं तु त्र्यग्रमेव च

svastikāyudhamevoktaṃ vidyāgni tu kalā hi ca | guṇadīptisamāyuktaṃ cakraṃ tu tryagrameva ca


30

तटित्तुल्यं प्रकाशेन करणं तु मनस्तथा । व्य * * * * * यक्तं ज्ञानेन्द्रियं तु रूपकम्

taṭittulyaṃ prakāśena karaṇaṃ tu manastathā | vya * * * * * yaktaṃ jñānendriyaṃ tu rūpakam


31

इत्येते षोडशानां तु शिकाराक्षरमुच्यते । शिकाराक्षरमिदं प्रोक्तं वकाराक्षरमथ शृणु

ityete ṣoḍaśānāṃ tu śikārākṣaramucyate | śikārākṣaramidaṃ proktaṃ vakārākṣaramatha śṛṇu


32

वकारं वायुरूपं स्यात् अधिदैवतमीश्वरम् । अम्बिका तु महाशक्तिर्वायुराधारमेव च

vakāraṃ vāyurūpaṃ syāt adhidaivatamīśvaram | ambikā tu mahāśaktirvāyurādhārameva ca


33

बृहती छन्दस्संयुक्तं ऋषिः काश्याप उच्यते । स्थानं तु पूर्वतो वक्त्रं ब्रह्मं तत् * * * * *

*bṛhatī chandassaṃyuktaṃ ṛṣiḥ kāśyāpa ucyate | sthānaṃ tu pūrvato vaktraṃ brahmaṃ tat * * * * **


34

आधारं बिन्दुरूपं तु कला शान्तिस्तथैव च । गुणस्पर्श न संयुक्तं षडग्रं चक्रमेव च

ādhāraṃ bindurūpaṃ tu kalā śāntistathaiva ca | guṇasparśa na saṃyuktaṃ ṣaḍagraṃ cakrameva ca


35

दीपप्रकाशमेवोक्तं करणं चित्तमेव च । * * * वायुसंयुक्तं स्पर्शं ज्ञानेन्द्रियं भवेत्

dīpaprakāśamevoktaṃ karaṇaṃ cittameva ca | * * * vāyusaṃyuktaṃ sparśaṃ jñānendriyaṃ bhavet


36

इत्येते षोडशानां तु वकार * * मुच्यते । वकाराक्षरमिदं प्रोक्तं यकाराक्षरमथ शृणु

ityete ṣoḍaśānāṃ tu vakāra * * mucyate | vakārākṣaramidaṃ proktaṃ yakārākṣaramatha śṛṇu


37

यकार * * रूपं तु दैवं चैव सदाशिवम् । उन्मनीशक्तिसंयुक्तमाधारं व्योममुच्यते

yakāra * * rūpaṃ tu daivaṃ caiva sadāśivam | unmanīśaktisaṃyuktamādhāraṃ vyomamucyate


38

जगती छन्द संयुक्तं भरद्वाज ऋषिस्तथा । स्थानमूर्ध्वमुखं विद्यात् ब्रह्ममीशानमेव च

jagatī chanda saṃyuktaṃ bharadvāja ṛṣistathā | sthānamūrdhvamukhaṃ vidyāt brahmamīśānameva ca


39

आयुधानां त्रिशूलं स्यात् शान्त्याती च कला हि च । गुणं चैव तु शून्यं स्यात् प्रकाशं चन्द्रिकामणेः

āyudhānāṃ triśūlaṃ syāt śāntyātī ca kalā hi ca | guṇaṃ caiva tu śūnyaṃ syāt prakāśaṃ candrikāmaṇeḥ


40

करणं प्रकृतिरूपं स्यात् समानवायुस्तथैव च । शब्द ज्ञानेन्द्रियं चैव इत्येते षोडश क्रमात्

karaṇaṃ prakṛtirūpaṃ syāt samānavāyustathaiva ca | śabda jñānendriyaṃ caiva ityete ṣoḍaśa kramāt


41

यकाराक्षरमिदं प्रोक्तं न भूतो न भविष्यति । पञ्चाक्षरमिदं प्रोक्तं प्रणवाक्षरमथ शृणु

yakārākṣaramidaṃ proktaṃ na bhūto na bhaviṣyati | pañcākṣaramidaṃ proktaṃ praṇavākṣaramatha śṛṇu


42

प्रणवं आत्मरूपं तु परमात्माधिदैवतम् । स्वाहादेवी महाशक्तिराधारं परमं पदम्

praṇavaṃ ātmarūpaṃ tu paramātmādhidaivatam | svāhādevī mahāśaktirādhāraṃ paramaṃ padam


43

गायत्री छन्दसंयुक्तं ऋषीणां परमं पदम् । स्थानं शिवमुखं प्रोक्तं ब्रह्मं शिवमुखं भवेत्

gāyatrī chandasaṃyuktaṃ ṛṣīṇāṃ paramaṃ padam | sthānaṃ śivamukhaṃ proktaṃ brahmaṃ śivamukhaṃ bhavet


44

आयुधं शून्यमेवोक्तं शून्यका तु कलाऽपि च । निर्गुणीं निरामयं चक्रं प्रकाशं शतसहस्रकम्

āyudhaṃ śūnyamevoktaṃ śūnyakā tu kalā'pi ca | nirguṇīṃ nirāmayaṃ cakraṃ prakāśaṃ śatasahasrakam


45

निष्करमिति निर्वायुरिन्द्रियाणां तु षोडश । इत्येते षोडशानां तु प्रणवं प्रणवे नमः

niṣkaramiti nirvāyurindriyāṇāṃ tu ṣoḍaśa | ityete ṣoḍaśānāṃ tu praṇavaṃ praṇave namaḥ


46

अकारं च उकारं च मकारो बिन्दुरेव च । अर्धचन्द्रनिरोधी च नादौ नादान्तमेव च

akāraṃ ca ukāraṃ ca makāro bindureva ca | ardhacandranirodhī ca nādau nādāntameva ca


47

शक्तिश्च व्यापिनी चैव समाना चोन्मना तथा । समानान्तं पाशजालं स्यान्मन्यन्ते परश्शिवः

śaktiśca vyāpinī caiva samānā conmanā tathā | samānāntaṃ pāśajālaṃ syānmanyante paraśśivaḥ


48

सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् । एकबीजं महामन्त्रं तुर्यातीतं मनोलयम्

saptakoṭimahāmantraṃ cittavyākulakāraṇam | ekabījaṃ mahāmantraṃ turyātītaṃ manolayam


49

द्विरष्टककलोपेतं प्रणवं यो न विन्दति । नासो मन्त्री न चाचार्यो वृथा क्लिश्यति कर्मसु

dviraṣṭakakalopetaṃ praṇavaṃ yo na vindati | nāso mantrī na cācāryo vṛthā kliśyati karmasu


50

बुजस्योच्चारणं चाग्रं स्वप्नो बिन्दुपरिग्रहेः । सुषुप्तिर्नादसंयोगस्तुर्यं शक्तिसमागतः

bujasyoccāraṇaṃ cāgraṃ svapno binduparigraheḥ | suṣuptirnādasaṃyogasturyaṃ śaktisamāgataḥ


51

तुर्यातीतं लयं शान्तं परो महसि पठ्यते । प्राणायामं त्रयं कृत्वा शास्त्रदृष्टेन कर्मणा

turyātītaṃ layaṃ śāntaṃ paro mahasi paṭhyate | prāṇāyāmaṃ trayaṃ kṛtvā śāstradṛṣṭena karmaṇā


52

नकारं सृष्टिरूपं स्यान्मकारं स्थितिरूपकम् । शिकारं संहृतिश्चैव वकारं तु तिरोभवम्

nakāraṃ sṛṣṭirūpaṃ syānmakāraṃ sthitirūpakam | śikāraṃ saṃhṛtiścaiva vakāraṃ tu tirobhavam


53

यकारमनुग्रहं चैव पञ्चाक्षरमिदं जगत् । नकारं कृतयुतं स्यान्मकारं त्रेतायुगं भवेत्

yakāramanugrahaṃ caiva pañcākṣaramidaṃ jagat | nakāraṃ kṛtayutaṃ syānmakāraṃ tretāyugaṃ bhavet


54

शिकारं द्वापरं चैवकारं कलियुगं तथा । यकार युगान्तरं चैव पञ्चाक्षरमिदं जगत्

śikāraṃ dvāparaṃ caivakāraṃ kaliyugaṃ tathā | yakāra yugāntaraṃ caiva pañcākṣaramidaṃ jagat


55

शैवं पाशुपतं चैव बौद्धमार्हतं तथा । कापालं पाञ्चरात्रं च षडेते समया स्मृताः

śaivaṃ pāśupataṃ caiva bauddhamārhataṃ tathā | kāpālaṃ pāñcarātraṃ ca ṣaḍete samayā smṛtāḥ


56

ब्रह्मचारी न्यसेत् सृष्टि ग्रहस्थस्य स्थितिर्भवेत् । वानप्रस्थयतीनां तु संहारन्यासमुच्यते

brahmacārī nyaset sṛṣṭi grahasthasya sthitirbhavet | vānaprasthayatīnāṃ tu saṃhāranyāsamucyate


57

अङ्गुष्ठेन यकारं स्यात् वकारं तर्जनीं न्यसेत् । शिकारं मध्यमाङ्गुल्या मकारं तु अनामिकम्

aṅguṣṭhena yakāraṃ syāt vakāraṃ tarjanīṃ nyaset | śikāraṃ madhyamāṅgulyā makāraṃ tu anāmikam


58

कनिष्ठेन नकारं स्यात् सृष्टिन्यासमुदाहृतम् । यकारं मूर्ध्नि विन्यस्य वकारं तु ललाटके

kaniṣṭhena nakāraṃ syāt sṛṣṭinyāsamudāhṛtam | yakāraṃ mūrdhni vinyasya vakāraṃ tu lalāṭake


59

शिकारं हृदये न्यस्य मकारं नाभिदेशतः । नकारं पादयो न्यस्य सर्वाङ्गे प्रणवं न्यसेत्

śikāraṃ hṛdaye nyasya makāraṃ nābhideśataḥ | nakāraṃ pādayo nyasya sarvāṅge praṇavaṃ nyaset


60

नकारं आत्मशुद्ध्यर्थं मकारं स्थानशोधनम् । शिकारं लिङ्गशुद्धिस्तु पञ्चशुद्धिर्विधिक्रमम्

nakāraṃ ātmaśuddhyarthaṃ makāraṃ sthānaśodhanam | śikāraṃ liṅgaśuddhistu pañcaśuddhirvidhikramam


61

                                • । * * * * * * * * * * * * * * * *

** * * * * * * * * * * * * * * * | * * * * * * * * * * * * * * * **


62

अनन्तं पृथिवी ज्ञेयं आपस्सिंहासनं तथा । आग्नियोगमिदं प्रोक्तं वायुरूपं तथैव च

anantaṃ pṛthivī jñeyaṃ āpassiṃhāsanaṃ tathā | āgniyogamidaṃ proktaṃ vāyurūpaṃ tathaiva ca


63

आकाशं विमलं चैव पञ्चासनविधिक्रमम् । आवाहनं नकारेण स्थापनं तु मकारकम्

ākāśaṃ vimalaṃ caiva pañcāsanavidhikramam | āvāhanaṃ nakāreṇa sthāpanaṃ tu makārakam


64

शिकारेण तु सान्निध्यं वकारेणार्घ्यमेव च । पूजयेत्तु यकारेण शिवं परमकारणम्

śikāreṇa tu sānnidhyaṃ vakāreṇārghyameva ca | pūjayettu yakāreṇa śivaṃ paramakāraṇam


65

पीठं प्रणवरूपं तु कल्पयेत्तु विचक्षणः । नकारस्य कलाः पञ्च मकारस्य चतुष्कलाः

pīṭhaṃ praṇavarūpaṃ tu kalpayettu vicakṣaṇaḥ | nakārasya kalāḥ pañca makārasya catuṣkalāḥ


66

शिकारस्य कला चाष्टौ वकारस्य त्रयोदश । यकारस्य कला चाष्टौ पञ्चाक्षरकला न्यसेत्

śikārasya kalā cāṣṭau vakārasya trayodaśa | yakārasya kalā cāṣṭau pañcākṣarakalā nyaset


67

शिकारं शिवरूपं तु वकारं शक्तिरेव च । यकारमात्मरूपं तु नकारं तु तिरोभवेत्

śikāraṃ śivarūpaṃ tu vakāraṃ śaktireva ca | yakāramātmarūpaṃ tu nakāraṃ tu tirobhavet


68

मकारं मलरूपं तु इति पञ्चाक्षरं स्मृतम् । आवाहनं नकारं च मकारं पद्ममुद्रिका

makāraṃ malarūpaṃ tu iti pañcākṣaraṃ smṛtam | āvāhanaṃ nakāraṃ ca makāraṃ padmamudrikā


69

शिकारं मुष्टिमुद्रा च वकारं योगमुद्रिका । यकारं लिङ्गमुद्रा च शिवमुद्रां नियोजयेत्

śikāraṃ muṣṭimudrā ca vakāraṃ yogamudrikā | yakāraṃ liṅgamudrā ca śivamudrāṃ niyojayet


70

यकारं लिङ्गसंयुक्तं वकारं नालमेव च । शिकारमूर्ध्वपद्मं तु मकारं कण्ठमेव च

yakāraṃ liṅgasaṃyuktaṃ vakāraṃ nālameva ca | śikāramūrdhvapadmaṃ tu makāraṃ kaṇṭhameva ca


71

अधोपद्मं नकारं च अक्षरं लिङ्गमुच्यते । पूजया विपुलं राज्यं अग्निकार्येण संपदः

adhopadmaṃ nakāraṃ ca akṣaraṃ liṅgamucyate | pūjayā vipulaṃ rājyaṃ agnikāryeṇa saṃpadaḥ


72

जपेन पापसंशुद्धिर्ध्यानमानन्दमुक्तिदम् । नकारं पापहरणं मकारं पापमोचनम्

japena pāpasaṃśuddhirdhyānamānandamuktidam | nakāraṃ pāpaharaṇaṃ makāraṃ pāpamocanam


73

महादेवो समो देवो नास्ति कश्च जगत्त्रये । पञ्चाक्षरसमो मन्त्रो नास्ति नास्ति महामुने

mahādevo samo devo nāsti kaśca jagattraye | pañcākṣarasamo mantro nāsti nāsti mahāmune


74

पञ्चाक्षरं महामन्त्रं भस्मेति परमौषधम् । महादेवः परो बन्धुरिति शास्त्रस्य निश्चयः

pañcākṣaraṃ mahāmantraṃ bhasmeti paramauṣadham | mahādevaḥ paro bandhuriti śāstrasya niścayaḥ


75

आगमे - मध्ये शिवस्ततश्शक्तिः ततो ह्यात्मेति विस्मृतः । तत्पूर्वो बन्धकः प्रोक्तस्तत्पूर्वे तन्निवारकः

āgame - madhye śivastataśśaktiḥ tato hyātmeti vismṛtaḥ | tatpūrvo bandhakaḥ proktastatpūrve tannivārakaḥ


76

अन्यत्र - शिकारं शिवरूपं स्यात् वकारं शक्तिरुच्यते । यकारमात्मसंयुक्तं नकारं तु तिरोभवम्

anyatra - śikāraṃ śivarūpaṃ syāt vakāraṃ śaktirucyate | yakāramātmasaṃyuktaṃ nakāraṃ tu tirobhavam


77

मकारं मलरूपं स्यात् पञ्चाक्षरमिति स्मृतम् । देविकालोत्तरे - रोधनं जलमित्युक्तं आत्मशक्ति शिवात्मकम्

makāraṃ malarūpaṃ syāt pañcākṣaramiti smṛtam | devikālottare - rodhanaṃ jalamityuktaṃ ātmaśakti śivātmakam


78

पञ्चाक्षरमिदं देवी रहस्यं न प्रकाशयेत् । उग्रिपञ्चाक्षरम् । भगवन्देवदेवेश सर्वज्ञ करुणालय

pañcākṣaramidaṃ devī rahasyaṃ na prakāśayet | ugripañcākṣaram | bhagavandevadeveśa sarvajña karuṇālaya


79

पञ्चाक्षररहस्यं हि श्रोतुमिच्छामि तत्त्वतः । पञ्चाक्षरं परं मन्त्रं रहस्यं मुक्तिदायकम्

pañcākṣararahasyaṃ hi śrotumicchāmi tattvataḥ | pañcākṣaraṃ paraṃ mantraṃ rahasyaṃ muktidāyakam


80

कामार्त्थाय ससंभाय गोपनीयं प्रयत्नतः । नापुत्राय च दातव्यं नाशिष्याय कदाचन

kāmārtthāya sasaṃbhāya gopanīyaṃ prayatnataḥ | nāputrāya ca dātavyaṃ nāśiṣyāya kadācana


81

सप्तकोटिमहामन्त्रं चित्तव्याकुलकारणम् । पञ्चाक्षरमिदं देवी त्रिषु लोकेषु विश्रुतम्

saptakoṭimahāmantraṃ cittavyākulakāraṇam | pañcākṣaramidaṃ devī triṣu lokeṣu viśrutam


82

पुण्यं पवित्रं पापघ्नं पञ्चाक्षरमिदं जपेत् । यस्य स्मरणमात्रेण ब्रह्महत्या व्यपोहित

puṇyaṃ pavitraṃ pāpaghnaṃ pañcākṣaramidaṃ japet | yasya smaraṇamātreṇa brahmahatyā vyapohita


83

एवं पञ्चाक्षरं देवी शृउणुतं त महामनुम् । अतः परं प्रवक्ष्यामि पञ्चाक्षरविधिक्रमम्

evaṃ pañcākṣaraṃ devī śṛuṇutaṃ ta mahāmanum | ataḥ paraṃ pravakṣyāmi pañcākṣaravidhikramam


84

ओं । नमश्शिवाय संकल्प्य व्याख्यानं नाम पञ्चकम् । नकारं च मकारं च शिकारं च तथैव च

oṃ | namaśśivāya saṃkalpya vyākhyānaṃ nāma pañcakam | nakāraṃ ca makāraṃ ca śikāraṃ ca tathaiva ca


85

वकारं च यकारं च इदं पञ्चाक्षरं विदुः । एतत् पञ्चाक्षरं देवी पञ्च देवाः प्रकीर्तिताः

vakāraṃ ca yakāraṃ ca idaṃ pañcākṣaraṃ viduḥ | etat pañcākṣaraṃ devī pañca devāḥ prakīrtitāḥ


86

पञ्चाक्षरं पवित्रं च पञ्चब्रह्ममयं तथा । पृथिव्यापस्तथा तेजो वायुराकाशमेव च

pañcākṣaraṃ pavitraṃ ca pañcabrahmamayaṃ tathā | pṛthivyāpastathā tejo vāyurākāśameva ca


87

पञ्चब्रह्ममहादेवः पञ्चतत्त्वे व्यवस्थितः । ब्रह्मा? विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः

pañcabrahmamahādevaḥ pañcatattve vyavasthitaḥ | brahmā? viṣṇuśca rudraśca īśvaraśca sadāśivaḥ


88

नकारं ब्रह्मणो रूपं मकारं विष्णुरूपकम् । शिकारं रुद्ररूपं तु वकारमीश्वरं तथा

nakāraṃ brahmaṇo rūpaṃ makāraṃ viṣṇurūpakam | śikāraṃ rudrarūpaṃ tu vakāramīśvaraṃ tathā


89

यकारं सदाशिव ज्ञेयमित्येते अधिदैवताः । नकारं स्वर्णवर्णं तु मकारं कृष्णवर्णकम्

yakāraṃ sadāśiva jñeyamityete adhidaivatāḥ | nakāraṃ svarṇavarṇaṃ tu makāraṃ kṛṣṇavarṇakam


90

शिकारमग्निवर्णं तु वकारं श्यामवर्णकम् । यकारं स्फटिकाकारं वर्णभेदाः प्रकीर्तिताः

śikāramagnivarṇaṃ tu vakāraṃ śyāmavarṇakam | yakāraṃ sphaṭikākāraṃ varṇabhedāḥ prakīrtitāḥ


91

नकारं सद्यवक्त्रं तु मकारं वामदेवकम् । शिकारं घोरसंयुक्तं वकारं पुरुषं स्मृतम्

nakāraṃ sadyavaktraṃ tu makāraṃ vāmadevakam | śikāraṃ ghorasaṃyuktaṃ vakāraṃ puruṣaṃ smṛtam


92

यकारं गगनं प्रोक्तं वक्त्रभेदाः प्रकीर्तिताः । ऋग्वेदं तु नकारं स्यात् यजुर्वेदं मकारकम्

yakāraṃ gaganaṃ proktaṃ vaktrabhedāḥ prakīrtitāḥ | ṛgvedaṃ tu nakāraṃ syāt yajurvedaṃ makārakam


93

शिकारं सामवेदं तु वकारं चाप्यथर्वणम् । इतिहासं यकारं च सर्ववेदादिवैभवम्

śikāraṃ sāmavedaṃ tu vakāraṃ cāpyatharvaṇam | itihāsaṃ yakāraṃ ca sarvavedādivaibhavam


94

तस्मात् पञ्चाक्षरं मन्त्रं वाचकस्य सदा भवेत् । ओंकारपरमं देवमोंकारं परमं तथा

tasmāt pañcākṣaraṃ mantraṃ vācakasya sadā bhavet | oṃkāraparamaṃ devamoṃkāraṃ paramaṃ tathā


95

ओंकारादियकारान्तं मन्त्रमेतत् षडक्षरम् । नकारं शान्तिकं ज्ञेयं मकारं पौष्टिकं तथा

oṃkārādiyakārāntaṃ mantrametat ṣaḍakṣaram | nakāraṃ śāntikaṃ jñeyaṃ makāraṃ pauṣṭikaṃ tathā


96

शिकारमभिचारं च वकारं वश्यमेव च । यकारं मुक्तिदं चैव एकमूर्तिक्रमेण तु

śikāramabhicāraṃ ca vakāraṃ vaśyameva ca | yakāraṃ muktidaṃ caiva ekamūrtikrameṇa tu


97

यावत् सिद्धिर्यदासिद्धिर्नित्यमेव जपं तथा । पदे पदे जपं देवी यो दद्यात् स विचक्षणः

yāvat siddhiryadāsiddhirnityameva japaṃ tathā | pade pade japaṃ devī yo dadyāt sa vicakṣaṇaḥ


98

पञ्चाक्षरं परं चैतत् सर्वसिद्धिकरं भवेत् । एवं पञ्चाक्षरं ज्ञेयं मन्त्रं त्रैलोक्यदुर्लभम्

pañcākṣaraṃ paraṃ caitat sarvasiddhikaraṃ bhavet | evaṃ pañcākṣaraṃ jñeyaṃ mantraṃ trailokyadurlabham

candrajñāne kriyāpāde śrīpañcākṣarapaṭalaṃ samāptam

1

उकारं च उमादेवी अकारं शिव ईरितम् । उभयोस्संपुटं चैव पीठं लिङ्गमिति स्मृतम्

ukāraṃ ca umādevī akāraṃ śiva īritam | ubhayossaṃpuṭaṃ caiva pīṭhaṃ liṅgamiti smṛtam


2

चिदम्बररहस्ये - नकारपादौ च मकारकुक्षिश्शिकारसस्यो मुखवायुमूर्ध्वा । क्रमेण पञ्चाक्षर दिव्यरूपं स्मरन्ति दं गच्छति जीवमुक्तिम्

cidambararahasye - nakārapādau ca makārakukṣiśśikārasasyo mukhavāyumūrdhvā | krameṇa pañcākṣara divyarūpaṃ smaranti daṃ gacchati jīvamuktim


3

शिकारं मकुटं प्रोक्तं वकारं बाहुरुच्यते । यकारमभयं हस्तं नकारं चाग्निरूपकम्

śikāraṃ makuṭaṃ proktaṃ vakāraṃ bāhurucyate | yakāramabhayaṃ hastaṃ nakāraṃ cāgnirūpakam


4

मकारं पादपद्मं यो अपस्मारं भवेत् सदा । स्थित्वा तदूर्ध्व आनन्दताण्डवं कुरुते शिवः

makāraṃ pādapadmaṃ yo apasmāraṃ bhavet sadā | sthitvā tadūrdhva ānandatāṇḍavaṃ kurute śivaḥ


5

ताण्डवेशस्य सततं श्रीवासि प्रणवं भवेत् । आनन्दताण्डवे कृत्यमात्मनः कुरुते शिवः

tāṇḍaveśasya satataṃ śrīvāsi praṇavaṃ bhavet | ānandatāṇḍave kṛtyamātmanaḥ kurute śivaḥ


6

सृष्टि स्याद्डमरुके स्थितिं तत् स्यादभयहस्तके । संहारं चाग्निरूपे स्यात्तिरोभावं स्थिराङ्घ्रिके

sṛṣṭi syādḍamaruke sthitiṃ tat syādabhayahastake | saṃhāraṃ cāgnirūpe syāttirobhāvaṃ sthirāṅghrike


7

अनुग्रहं चापराङ्घ्रौ आत्मनः कुरुते शिवः । विधूय मायां पापं च दग्ध्वं पा ज्ञाननाशनम्

anugrahaṃ cāparāṅghrau ātmanaḥ kurute śivaḥ | vidhūya māyāṃ pāpaṃ ca dagdhvaṃ pā jñānanāśanam


8

कृत्वोद्धृत्य शिवज्ञानहस्तेनानन्द सागरे । स्थापितं परमात्मानं सन्ततं शिवताण्डवम्

kṛtvoddhṛtya śivajñānahastenānanda sāgare | sthāpitaṃ paramātmānaṃ santataṃ śivatāṇḍavam


9

पञ्चाक्षरं परामध्ये पञ्चाक्षरमयं नटम् । सप्तकोटिमहारण्यं सप्तकोटिचराचरम्

pañcākṣaraṃ parāmadhye pañcākṣaramayaṃ naṭam | saptakoṭimahāraṇyaṃ saptakoṭicarācaram


10

सप्तकोटिमहालिङ्गं तत् शिवं ताण्डवालयम् । ताण्डवालयमध्ये तु निष्कलं परदुर्लभम्

saptakoṭimahāliṅgaṃ tat śivaṃ tāṇḍavālayam | tāṇḍavālayamadhye tu niṣkalaṃ paradurlabham


11

इदं रहस्यमपरं अप्रकाश्यमिवाचकम् । प्रकटयस्वेदं मज्ज्ञानं मद्भक्तानां परानने

idaṃ rahasyamaparaṃ aprakāśyamivācakam | prakaṭayasvedaṃ majjñānaṃ madbhaktānāṃ parānane


12

रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा । पादाङ्गुष्ठकनिष्ठान्तं पञ्चाक्षरेण पूरितम्

rakṣaṇīyaṃ prayatnena taskarebhyo dhanaṃ yathā | pādāṅguṣṭhakaniṣṭhāntaṃ pañcākṣareṇa pūritam


13

पाष्णोयं तु नकारेण गुल्फजं वै मकारकम् । जानु ऊरु शिकारं च वकारं गुह्यदेशकम्

pāṣṇoyaṃ tu nakāreṇa gulphajaṃ vai makārakam | jānu ūru śikāraṃ ca vakāraṃ guhyadeśakam


14

आधारं प्रणवं चैव तस्य मध्ये नकारकम् । यकारं तु कटिः प्रोक्तो रकारं पृष्ठभागकम्

ādhāraṃ praṇavaṃ caiva tasya madhye nakārakam | yakāraṃ tu kaṭiḥ prokto rakāraṃ pṛṣṭhabhāgakam


15

शिकारं नाभिरित्युक्तं मकारं कुक्षिदेशिकम् । वकारं हृदयं स्थानं यकारं स्तनदेशकम्

śikāraṃ nābhirityuktaṃ makāraṃ kukṣideśikam | vakāraṃ hṛdayaṃ sthānaṃ yakāraṃ stanadeśakam


16

नकारं च उरस्थानं शिकारं बाहुदेशकम् । मकारं कोपरं प्रोक्तं वकारं मणिबन्धनम्

nakāraṃ ca urasthānaṃ śikāraṃ bāhudeśakam | makāraṃ koparaṃ proktaṃ vakāraṃ maṇibandhanam


17

यकारं च तलारूढं अङ्गुष्ठादि पुरा क्रमात् । डमरुस्तु मकारं च वलयं प्रणवो भवेत्

yakāraṃ ca talārūḍhaṃ aṅguṣṭhādi purā kramāt | ḍamarustu makāraṃ ca valayaṃ praṇavo bhavet


18

तन्तुर्नकारमित्युक्तं शिकारं चर्म ईरितम् । वकारं तटिरित्याहुर्नादं च नाम मन्त्रकम्

tanturnakāramityuktaṃ śikāraṃ carma īritam | vakāraṃ taṭirityāhurnādaṃ ca nāma mantrakam


19

तथा चाभयहस्तं तु शृणुष्वैव महेश्वरी । तस्य हस्ते भुजङ्गस्तु सूक्ष्मपञ्चाक्षरं भवेत्

tathā cābhayahastaṃ tu śṛṇuṣvaiva maheśvarī | tasya haste bhujaṅgastu sūkṣmapañcākṣaraṃ bhavet


20

वामहस्ताग्निरूपेण मम ज्योतिर्महेश्वर । तथाचापरहस्तेन सृष्टिस्थित्यन्तकारणम्

vāmahastāgnirūpeṇa mama jyotirmaheśvara | tathācāparahastena sṛṣṭisthityantakāraṇam


21

नकारं ग्रीवमित्युक्तं मकारं कण्ठदेशकम् । शिकारं हनुदेशं तु वकारं चास्यदेशकम्

nakāraṃ grīvamityuktaṃ makāraṃ kaṇṭhadeśakam | śikāraṃ hanudeśaṃ tu vakāraṃ cāsyadeśakam


22

यकारं नासिदेशं तु नेत्रत्रयं ततश्शृणु । नकारं सर्वनेत्रं तु मकारं वामनेत्रकम्

yakāraṃ nāsideśaṃ tu netratrayaṃ tataśśṛṇu | nakāraṃ sarvanetraṃ tu makāraṃ vāmanetrakam


23

ऊर्ध्वनेत्रं शिकारं तु वकारं श्रवणेन तु । भ्रूमध्ये प्रणवं चैव मध्ये हंसं सुदीप्तकम्

ūrdhvanetraṃ śikāraṃ tu vakāraṃ śravaṇena tu | bhrūmadhye praṇavaṃ caiva madhye haṃsaṃ sudīptakam


24

यकारं शिरसि न्यस्य अङ्गप्रत्यङ्गके तथा । द्वादशाक्षरमन्त्रं तु जटाचूडमितीरितम्

yakāraṃ śirasi nyasya aṅgapratyaṅgake tathā | dvādaśākṣaramantraṃ tu jaṭācūḍamitīritam


25

मायाबीजं जलं चैव धूर्द्धरादिस्तथैव च । सर्वाक्षरमिश्रकं स्यात् इन्दुखण्डमिति स्मृतम्

māyābījaṃ jalaṃ caiva dhūrddharādistathaiva ca | sarvākṣaramiśrakaṃ syāt indukhaṇḍamiti smṛtam


26

पञ्चाक्षरेण देहस्तु देही वै नाममन्त्रतः । आनन्दनृत्तममलं नृत्यन्तं निष्कलं शिवम्

pañcākṣareṇa dehastu dehī vai nāmamantrataḥ | ānandanṛttamamalaṃ nṛtyantaṃ niṣkalaṃ śivam


27

पञ्चाक्षरमिदं यन्त्रं बिजानीयाद् गुरोर्मुखात् । नापुत्राय प्रदातव्यं नाशिष्याय तथैव च

pañcākṣaramidaṃ yantraṃ bijānīyād gurormukhāt | nāputrāya pradātavyaṃ nāśiṣyāya tathaiva ca


28

पुत्राय पुत्रतुल्याय धार्मिकाय दृढाय च । सभायन्त्रमिदं प्रोक्तं दक्षिणाराधनं शृणु

putrāya putratulyāya dhārmikāya dṛḍhāya ca | sabhāyantramidaṃ proktaṃ dakṣiṇārādhanaṃ śṛṇu


29

॥ नृत्तपञ्चाक्षरम् समाप्तम्

|| nṛttapañcākṣaram samāptam


1

श्रीः चन्द्रः - देवदेव महेशान सुरनागेन्द्र भूषणम् । स्नपनं तु समाख्यातमुत्सवं वद शंकर

śrīḥ candraḥ - devadeva maheśāna suranāgendra bhūṣaṇam | snapanaṃ tu samākhyātamutsavaṃ vada śaṃkara


2

ईश्वर उवाच - अथ वक्ष्ये कलानाथ संयोगादुत्सवं परम् । उत्सवं सप्तधा ज्ञेयं शृणुष्वैकाग्रमानसः

īśvara uvāca - atha vakṣye kalānātha saṃyogādutsavaṃ param | utsavaṃ saptadhā jñeyaṃ śṛṇuṣvaikāgramānasaḥ


3

शाक्तं चार्वं ब्राह्मं मौक्त शाम्भवमाणवम् । अर्कजत्विति विख्यातं सन्नवदं निशाकर

śāktaṃ cārvaṃ brāhmaṃ maukta śāmbhavamāṇavam | arkajatviti vikhyātaṃ sannavadaṃ niśākara


4

नवाहं शाक्तमित्युक्तं सप्ताहं चार्षकं भवेत् । पञ्चाहं ब्राह्मकं प्रोक्तं त्रियहं मौक्तिमुच्यते

navāhaṃ śāktamityuktaṃ saptāhaṃ cārṣakaṃ bhavet | pañcāhaṃ brāhmakaṃ proktaṃ triyahaṃ mauktimucyate


5

एकाहं शान्तिदं विद्यात् ब्राह्मणं भ्रमणं भवेत् । अर्कजन्वर्कवारे तु सप्तधा चोत्सवात्त्विह

ekāhaṃ śāntidaṃ vidyāt brāhmaṇaṃ bhramaṇaṃ bhavet | arkajanvarkavāre tu saptadhā cotsavāttviha


6

शाक्ते च तथा ब्राह्मे च ध्वजमारोपयेत् क्रमात् । म न्त श्यामम षष्ठे पाप्यर्क तेज द्ध्वजोद्धृति

śākte ca tathā brāhme ca dhvajamāropayet kramāt | ma nta śyāmama ṣaṣṭhe pāpyarka teja ddhvajoddhṛti


7

तद्दिनं त्रिगुणं द्वे च द्विगुणाद्ये च नाद्यके । ध्वजमारोपयेत् पूर्वं उत्तमं मध्यमाधमम्

taddinaṃ triguṇaṃ dve ca dviguṇādye ca nādyake | dhvajamāropayet pūrvaṃ uttamaṃ madhyamādhamam


8

वक्ष्ये तीर्थदिनात् सम्यक् शृणुष्व शरालाञ्छन । चित्रा विशाखामूलं च उत्तराषाढमेव च

vakṣye tīrthadināt samyak śṛṇuṣva śarālāñchana | citrā viśākhāmūlaṃ ca uttarāṣāḍhameva ca


9

श्रविष्ठा श्रवणाश्विन्यः कृत्तिकार्द्रा पुनर्वसु । मखा चोत्तरनक्षत्रं मेषादि द्वादशेषु च

śraviṣṭhā śravaṇāśvinyaḥ kṛttikārdrā punarvasu | makhā cottaranakṣatraṃ meṣādi dvādaśeṣu ca


10

सर्वमासेषु कर्तव्यं आर्द्राः पूर्वान्तमुत्सवम् । कृष्णाष्टम्यान्तक ज्येष्ठे माखे षष्ठ्यन्तकं भवेत्

sarvamāseṣu kartavyaṃ ārdrāḥ pūrvāntamutsavam | kṛṣṇāṣṭamyāntaka jyeṣṭhe mākhe ṣaṣṭhyantakaṃ bhavet


11

अमावास्यां पौर्णमास्याम(पा)न्यत्पुण्यदिनेऽपि वा । राज्ञां जन्मलये युद्धे यजमानस्य जन्मनि

amāvāsyāṃ paurṇamāsyāma(pā)nyatpuṇyadine'pi vā | rājñāṃ janmalaye yuddhe yajamānasya janmani


12

प्रतिष्ठादिवसे तीर्थं प्रकल्प्यं भुक्तिमुक्तिदम् । धर्मार्थं कामदं श्रेष्ठं कर्मजं मासमेव हि

pratiṣṭhādivase tīrthaṃ prakalpyaṃ bhuktimuktidam | dharmārthaṃ kāmadaṃ śreṣṭhaṃ karmajaṃ māsameva hi


13

अथवा चन्द्रमासं च सृष्टिदं त्विति कथ्यते । यस्मिन् मासे तु कर्तव्यमुत्सवं शशालाञ्छन

athavā candramāsaṃ ca sṛṣṭidaṃ tviti kathyate | yasmin māse tu kartavyamutsavaṃ śaśālāñchana


14

तस्मिन् मासेषु कर्तव्यं तदशेष विधानतः । ध्वजाङ्कुरादि तीर्थान्तं तस्मिन् मासे परं स्मृतम्

tasmin māseṣu kartavyaṃ tadaśeṣa vidhānataḥ | dhvajāṅkurādi tīrthāntaṃ tasmin māse paraṃ smṛtam


15

ध्वजादि तीर्थपर्यन्तं तस्मिन् मासे तु मध्यमम् । पूर्वमासे ध्वजोत्थानं तस्मिन् चैवोत्सवं तु यत्

dhvajādi tīrthaparyantaṃ tasmin māse tu madhyamam | pūrvamāse dhvajotthānaṃ tasmin caivotsavaṃ tu yat


16

अधमन्त्विति विख्यातं विधिमन्यं प्रचक्ष्महे । पूर्वमासे प्रतिष्ठाप्य यागं तस्मिन् सुतीर्थकम्

adhamantviti vikhyātaṃ vidhimanyaṃ pracakṣmahe | pūrvamāse pratiṣṭhāpya yāgaṃ tasmin sutīrthakam


17

कृतं तेषामभावात्तु सुखदं परमं मतम् । एकवास्तुक देवानां उत्सवानां तु संकरम्

kṛtaṃ teṣāmabhāvāttu sukhadaṃ paramaṃ matam | ekavāstuka devānāṃ utsavānāṃ tu saṃkaram


18

राष्ट्रक्षोभाय वि * * तद्विहीन वदामि ते । यद्वास्तु कलितं चन्द्र तदेव द्विविधं भवेत्

rāṣṭrakṣobhāya vi * * tadvihīna vadāmi te | yadvāstu kalitaṃ candra tadeva dvividhaṃ bhavet


19

प्रकीर्णं क्षुद्रमाख्यातं उत्सवं भावकं शृणु । प्राक पादारकासीमात् परितो वैकदेशतः

prakīrṇaṃ kṣudramākhyātaṃ utsavaṃ bhāvakaṃ śṛṇu | prāka pādārakāsīmāt parito vaikadeśataḥ


20

प्राकारस्य बहिर्यस्य वास्तोष्यं तत् प्रकीर्णकम् । प्राकारान्तं तथा ब्राह्म्यं कल्पित क्षुद्र वास्तुकम्

prākārasya bahiryasya vāstoṣyaṃ tat prakīrṇakam | prākārāntaṃ tathā brāhmyaṃ kalpita kṣudra vāstukam


21

तत्सीमान्तः पदं ब्राह्ममैन्द्राद्यैश्शान्तकं पदम् । एधस्मात्तस्मात्त्वैस्मात्वैक वास्तुकं * * * *

*tatsīmāntaḥ padaṃ brāhmamaindrādyaiśśāntakaṃ padam | edhasmāttasmāttvaismātvaika vāstukaṃ * * * **


22

तत्र पूजितं देवानां बलिदानं प्रदक्षिणम् । तस्मिन्नैव प्रकर्तव्यं सर्वसिद्धिमभीप्सिता

tatra pūjitaṃ devānāṃ balidānaṃ pradakṣiṇam | tasminnaiva prakartavyaṃ sarvasiddhimabhīpsitā


23

राजधानीर्विनाचास्मिन्वास्तौ यत्र शिवोत्सवम् । यः कुर्यादन्य देवानां दक्षिणं तीर्थदानतः

rājadhānīrvinācāsminvāstau yatra śivotsavam | yaḥ kuryādanya devānāṃ dakṣiṇaṃ tīrthadānataḥ


24

तीर्थेऽप्यनोत्सवे काले सतीर्थं शैवमुत्सवम् । सूक्ष्मासि तन्तु सुश्लक्ष्णं मनोरम्यं पटन्नव

tīrthe'pyanotsave kāle satīrthaṃ śaivamutsavam | sūkṣmāsi tantu suślakṣṇaṃ manoramyaṃ paṭannava


25

आयामं पञ्चधा कृत्वा विस्तारं चैक भागतः । तारेण तु समं पूर्वं तदूर्ध्वं शिखरं भवेत्

āyāmaṃ pañcadhā kṛtvā vistāraṃ caika bhāgataḥ | tāreṇa tu samaṃ pūrvaṃ tadūrdhvaṃ śikharaṃ bhavet


26

द्विपुच्छत्रिपुकायुक्तं शिखरे किङ्किणीयुतम् । तन्मध्ये वृषभं लाञ्छ्यं सितरक्तादिवर्णकैः

dvipucchatripukāyuktaṃ śikhare kiṅkiṇīyutam | tanmadhye vṛṣabhaṃ lāñchyaṃ sitaraktādivarṇakaiḥ


27

स्थानकं शायिकं वाऽथ कल्प्य पद्मासनोपरि । छत्रं तु चामरौ कुम्भं * * * * लिखेत् क्रमात्

sthānakaṃ śāyikaṃ vā'tha kalpya padmāsanopari | chatraṃ tu cāmarau kumbhaṃ * * * * likhet kramāt


28

ध्वजस्य लक्षणं प्रोक्तं ध्वजदण्डं शृणु क्रमात् । चन्दनं चम्पकं सालं पनसं देवदारुकम्

dhvajasya lakṣaṇaṃ proktaṃ dhvajadaṇḍaṃ śṛṇu kramāt | candanaṃ campakaṃ sālaṃ panasaṃ devadārukam


29

वकुलं मध्यकं वाऽपि * * * * * आसनम् । बिल्वं पुन्नागखदिरक्रमुकान्नालिकेरकम्

vakulaṃ madhyakaṃ vā'pi * * * * * āsanam | bilvaṃ punnāgakhadirakramukānnālikerakam


30

स्णैवं? तु समाख्यातं प्रासादात् त्रिगुणं परम् । द्विगुणं वा समं वाऽथ पादहीनमथार्धकम्

sṇaivaṃ? tu samākhyātaṃ prāsādāt triguṇaṃ param | dviguṇaṃ vā samaṃ vā'tha pādahīnamathārdhakam


31

वृषान्तं गोपुरान्तं वा यथोक्तं तु यथोदितम् । कवाटार्धमथो हित्वा शेषमुत्सेधमुच्यते

vṛṣāntaṃ gopurāntaṃ vā yathoktaṃ tu yathoditam | kavāṭārdhamatho hitvā śeṣamutsedhamucyate


32

पञ्चतालं चतुस्तालं त्रितालं नाहमुच्यते । दण्डोत्सेधस्य पाञ्चांशं द्विभागेनैव संदृढम्

pañcatālaṃ catustālaṃ tritālaṃ nāhamucyate | daṇḍotsedhasya pāñcāṃśaṃ dvibhāgenaiva saṃdṛḍham


33

लेपनेन च संयुक्तं तालं नाहं तु वैष्णवम् । यष्टिं ग्राह्य तदर्धे तु त्रितालस्य तु मध्यमे

lepanena ca saṃyuktaṃ tālaṃ nāhaṃ tu vaiṣṇavam | yaṣṭiṃ grāhya tadardhe tu tritālasya tu madhyame


34

आयसं वलयं योग्यं दण्डाग्रे संप्रयोजयेत् । त्रितालाधिक्यमग्रे तु दापयेद्दण्डिकात्रयम्

āyasaṃ valayaṃ yogyaṃ daṇḍāgre saṃprayojayet | tritālādhikyamagre tu dāpayeddaṇḍikātrayam


35

बन्धयेन्मूलमध्याग्रदण्डाग्रेण दृढं शुभम् । मध्यमाङ्गुलिनाहं तु रज्जुं कृत्वा सुतन्तुना

bandhayenmūlamadhyāgradaṇḍāgreṇa dṛḍhaṃ śubham | madhyamāṅgulināhaṃ tu rajjuṃ kṛtvā sutantunā


36

दण्डस्य द्विगुणं दीर्घं वलये संप्रयोजयेत् । यष्ट्यग्रे कूर्चसंयुक्तं दर्भमालासमावृतः

daṇḍasya dviguṇaṃ dīrghaṃ valaye saṃprayojayet | yaṣṭyagre kūrcasaṃyuktaṃ darbhamālāsamāvṛtaḥ


37

पीठगोपुरयोर्मध्ये पुरतो वृषभस्य वा । ध्वजोत्थान दिनात् पूर्वे स्थापयेत् ध्वजदण्डकम्

pīṭhagopurayormadhye purato vṛṣabhasya vā | dhvajotthāna dināt pūrve sthāpayet dhvajadaṇḍakam


38

विश्वतालं पञ्चतालं चतुस्तालं वटं खनेत् । निष्कं त्रिपादमर्धं वा पादहेमार्धमेव वा

viśvatālaṃ pañcatālaṃ catustālaṃ vaṭaṃ khanet | niṣkaṃ tripādamardhaṃ vā pādahemārdhameva vā


39

कूर्मं वा वृषभं वाऽथ हेमाब्जं वा वटे क्षिपेत् । हृदयेन तु मन्त्रेण स्थापयेदचलं दृढम्

kūrmaṃ vā vṛṣabhaṃ vā'tha hemābjaṃ vā vaṭe kṣipet | hṛdayena tu mantreṇa sthāpayedacalaṃ dṛḍham


40

पीठं प्रकल्पयेद्धीमान् षट्पञ्चयुगतालकैः । विस्तार सममुत्सेधं पादहीनमथाऽपि वा

pīṭhaṃ prakalpayeddhīmān ṣaṭpañcayugatālakaiḥ | vistāra samamutsedhaṃ pādahīnamathā'pi vā


41

मेखलात्रिद्विसंयुक्तमेक मेखलयाऽथवा । पङ्कजं कल्पयेदूर्ध्वे कर्णिकातालसंयुतम्

mekhalātridvisaṃyuktameka mekhalayā'thavā | paṅkajaṃ kalpayedūrdhve karṇikātālasaṃyutam


42

आरोहणदिनात् पूर्वे रात्रावधिवसेद्ध्वजम् । तस्मिन् दिनेऽथवा कार्यं प्रातःकालेऽधिवासनम्

ārohaṇadināt pūrve rātrāvadhivaseddhvajam | tasmin dine'thavā kāryaṃ prātaḥkāle'dhivāsanam


43

प्रासादपुरतस्सम्यक् मण्डिते मण्टपे शुभे । गोमयालेपिते शुभ्रे प्रोक्षिते तु शिवाम्भसा

prāsādapuratassamyak maṇḍite maṇṭape śubhe | gomayālepite śubhre prokṣite tu śivāmbhasā


44

स्थण्डिलं तत्र कर्तव्यं षड्देशे तु विचक्षणः । पद्मं प्रकल्पयेद्धीमानासनं कल्पयेत् क्रमात्

sthaṇḍilaṃ tatra kartavyaṃ ṣaḍdeśe tu vicakṣaṇaḥ | padmaṃ prakalpayeddhīmānāsanaṃ kalpayet kramāt


45

दर्भैः प्रस्तरणं कुर्यात् प्रत्येकं पूजयेत् शनैः । पश्चिमे स्थण्डिले स्थाप्य चन्द्रशेखरमादरात्

darbhaiḥ prastaraṇaṃ kuryāt pratyekaṃ pūjayet śanaiḥ | paścime sthaṇḍile sthāpya candraśekharamādarāt


46

अन्नलिङ्गं तदग्रे तु शूलं तस्याग्रतो यजेत् । वृषकुम्भं तदग्रे तु ध्वजं तस्याग्रतस्तथा

annaliṅgaṃ tadagre tu śūlaṃ tasyāgrato yajet | vṛṣakumbhaṃ tadagre tu dhvajaṃ tasyāgratastathā


47

भेरीं संस्थाप्य तत्पूर्वे क्रमेणैव समर्चयेत् । प्रत्येकं नववस्त्रेण * * * * दिभिर्यजेत्

bherīṃ saṃsthāpya tatpūrve krameṇaiva samarcayet | pratyekaṃ navavastreṇa * * * * dibhiryajet


48

हविं क्षिपेत्ततो दद्यात्ताम्बूलं च प्रदापयेत् । नयने मोक्षणं कुर्यात् ध्वजोक्षस्य विशेषतः

haviṃ kṣipettato dadyāttāmbūlaṃ ca pradāpayet | nayane mokṣaṇaṃ kuryāt dhvajokṣasya viśeṣataḥ


49

कौतुकं बन्धयेत् तत्र दक्षिणे तु विषाणके । सुकुमं? तन्तुना वेष्ट्य चाढकद्वयपूरितम्

kautukaṃ bandhayet tatra dakṣiṇe tu viṣāṇake | sukumaṃ? tantunā veṣṭya cāḍhakadvayapūritam


50

गन्धापपूर्णवस्त्राढ्य हेम क्षि * * * * तत् । परितः कलशानष्टौ लोकपालाधिदैवतान्

gandhāpapūrṇavastrāḍhya hema kṣi * * * * tat | paritaḥ kalaśānaṣṭau lokapālādhidaivatān


51

विधानकूर्चसंयुक्तान् प्रत्येकं वस्त्रवेष्टितान् । स्वमूलेनैव संपूर्तिस्तदग्निं कल्पयेत्ततः

vidhānakūrcasaṃyuktān pratyekaṃ vastraveṣṭitān | svamūlenaiva saṃpūrtistadagniṃ kalpayettataḥ


52

कुण्डे वा स्थण्डिले वाऽथ होमयेत्तु विधानतः । अन्यथानादिकं कृत्वा पञ्चसंस्कारसंस्कृताः

kuṇḍe vā sthaṇḍile vā'tha homayettu vidhānataḥ | anyathānādikaṃ kṛtvā pañcasaṃskārasaṃskṛtāḥ


53

उद्धानाद्य? समित्भिस्तु * * * * सर्षपैः । वृषमूलाङ्गकैर्युक्तं जुहुयात्तु शताहुतिः

uddhānādya? samitbhistu * * * * sarṣapaiḥ | vṛṣamūlāṅgakairyuktaṃ juhuyāttu śatāhutiḥ


54

वृषगायत्रिमन्त्रेण पृष्ठाचाक्षर सुदर्भया । पञ्चभिर्ब्रह्मभिर्जुहुयात् पूर्ण * रिं त साधयेत्

vṛṣagāyatrimantreṇa pṛṣṭhācākṣara sudarbhayā | pañcabhirbrahmabhirjuhuyāt pūrṇa * riṃ ta sādhayet


55

मूललिङ्गादिबेरांश्च विशेषात् सहिभिर्यजेत् । रात्रावैवं प्रकर्तव्यं प्रभाते * * * * *

*mūlaliṅgādiberāṃśca viśeṣāt sahibhiryajet | rātrāvaivaṃ prakartavyaṃ prabhāte * * * * **


56

धामप्रदक्षिणं कृत्वा सर्वालंकारसंयुतम् । ध्वजारोहण पूर्वश्चेत् ध्वजेनैवाह्नि देशिकाः

dhāmapradakṣiṇaṃ kṛtvā sarvālaṃkārasaṃyutam | dhvajārohaṇa pūrvaścet dhvajenaivāhni deśikāḥ


57

कृत्वा प्रदक्षिणा रौप्या रात्रौ * * * * चरेत् । यन्त्रेण रोहयेत् केतुं वृषगायत्रिमन्त्रतः

kṛtvā pradakṣiṇā raupyā rātrau * * * * caret | yantreṇa rohayet ketuṃ vṛṣagāyatrimantrataḥ


56

बद्ध्वा तु रोहाणं पश्चात् क्रमाद्युक्त्या तु रोहयेत् । साधितैः कलशैस्सम्यक् स्थापये * * * * लके

baddhvā tu rohāṇaṃ paścāt kramādyuktyā tu rohayet | sādhitaiḥ kalaśaissamyak sthāpaye * * * * lake


59

मुद्गान्नं पायसं गौलं शुद्धान्नं कृसरं ददेत् । ततो रातौ च कृत्वान्न लिङ्गपूजां समारभेत्

mudgānnaṃ pāyasaṃ gaulaṃ śuddhānnaṃ kṛsaraṃ dadet | tato rātau ca kṛtvānna liṅgapūjāṃ samārabhet


60

गन्धपुष्पादिभिर्देवान् हव्यान्तं पूजयेत् क्रमात् । भेरीं तथार्चयेत् पश्चादाचार्यं पूजयेत्ततः

gandhapuṣpādibhirdevān havyāntaṃ pūjayet kramāt | bherīṃ tathārcayet paścādācāryaṃ pūjayettataḥ


61

वस्त्राभरणगन्धाद्यैः पुष्पमालावभूषणैः । प्रहारेण त्रिधाचार्यो भेरीं गायत्रि विद्यया

vastrābharaṇagandhādyaiḥ puṣpamālāvabhūṣaṇaiḥ | prahāreṇa tridhācāryo bherīṃ gāyatri vidyayā


62

संताडयेत्तु सर्वेषां लोकानां तु प्रसिद्धयेत् । पादकं पूजयेत् पश्चात् वाद्यतालवितालकान्

saṃtāḍayettu sarveṣāṃ lokānāṃ tu prasiddhayet | pādakaṃ pūjayet paścāt vādyatālavitālakān


63

वृषाभपरिवारांस्तु बलिं दद्यात् विशेषतः । ग्रामप्रदक्षिणं कुर्यात् अस्त्रदेवादिसंयुतम्

vṛṣābhaparivārāṃstu baliṃ dadyāt viśeṣataḥ | grāmapradakṣiṇaṃ kuryāt astradevādisaṃyutam


64

इन्द्रादिलोकपालांश्च त्रय स्त्रिंशश्च देवतान् । आहूयाभ्यर्चयत्तेन बलिं दद्यात् स्वमन्त्रतः

indrādilokapālāṃśca traya striṃśaśca devatān | āhūyābhyarcayattena baliṃ dadyāt svamantrataḥ


65

आचार्यतीर्थ दीपाश्च आचार्यस्तुष्टमानसः । ध्वजारोहण पूर्वं तु ख्यातं सत्यमया तवा

ācāryatīrtha dīpāśca ācāryastuṣṭamānasaḥ | dhvajārohaṇa pūrvaṃ tu khyātaṃ satyamayā tavā


66

भेरीं तु ताडयेत् रात्रौ ध्वजेनैव प्रदक्षिणम् । कृत्वा तु रोपयेत् केतुं भेरीताडन पूर्वकम्

bherīṃ tu tāḍayet rātrau dhvajenaiva pradakṣiṇam | kṛtvā tu ropayet ketuṃ bherītāḍana pūrvakam


67

उत्सवादिदिने सम्यक् आदिशैवोत्तमो गुरुः । अङ्कुरार्पणपूर्वश्च भेरीं संताडयेत्त्ततः

utsavādidine samyak ādiśaivottamo guruḥ | aṅkurārpaṇapūrvaśca bherīṃ saṃtāḍayetttataḥ


68

ध्वजमारोपयेत् पश्चात् अङ्कुरार्पणपूर्वके । पूर्वाह्ने द्विज ऋद्धि स्यात् रात्रौ शूद्रविवर्धनम्

dhvajamāropayet paścāt aṅkurārpaṇapūrvake | pūrvāhne dvija ṛddhi syāt rātrau śūdravivardhanam


69

सर्वनाहं तु रात्रौ चेद्ध्वजोत्थानं निशाकर । विशेषात् पूजये नित्य ध्वजं चैव त्रिशूलकम्

sarvanāhaṃ tu rātrau ceddhvajotthānaṃ niśākara | viśeṣāt pūjaye nitya dhvajaṃ caiva triśūlakam


70

रथानीन्युत्सवाङ्गानि तत्पूर्वे कारयेत् क्रमात् । रथान्नाङ्गांश्च शिबिकान् सर्वयन्त्रविशेषकान्

rathānīnyutsavāṅgāni tatpūrve kārayet kramāt | rathānnāṅgāṃśca śibikān sarvayantraviśeṣakān


71

शकटान् वाहना यानान् गजाश्वादिकान् बहून् । छत्र पिञ्छविशेषाणि चामरव्यञ्जनानि च

śakaṭān vāhanā yānān gajāśvādikān bahūn | chatra piñchaviśeṣāṇi cāmaravyañjanāni ca


72

पताकांश्च वितानानि ध्वजानि विविधानि च । वस्त्रान्या भरणाश्चैव सर्वपात्र विशेषकान्

patākāṃśca vitānāni dhvajāni vividhāni ca | vastrānyā bharaṇāścaiva sarvapātra viśeṣakān


73

सर्वं संभाव्यमतिमान्यथा शक्ति समाचरेत् । उपानात् स्थूपिपर्यन्तं विमानं भूषयेत् क्रमात्

sarvaṃ saṃbhāvyamatimānyathā śakti samācaret | upānāt sthūpiparyantaṃ vimānaṃ bhūṣayet kramāt


74

प्राकारमण्टपाश्चैव गोपुरादीनि मण्टपेत् । यत्रेच्चादेशतः कुर्यात् परिवेषे यागमण्टपम्

prākāramaṇṭapāścaiva gopurādīni maṇṭapet | yatreccādeśataḥ kuryāt pariveṣe yāgamaṇṭapam


75

परितो मण्टपस्याथ प्रासादं परतोऽपि च । प्रपां कृत्वादि भद्रांश्च वितानध्वजशोभितम्

parito maṇṭapasyātha prāsādaṃ parato'pi ca | prapāṃ kṛtvādi bhadrāṃśca vitānadhvajaśobhitam


76

विचित्रवस्त्र संछिन्नगात्रामौक्तिकमालकैः । पुष्पस्रक् पट्टदेवाङ्गैः घण्टाचामरपल्लवैः

vicitravastra saṃchinnagātrāmauktikamālakaiḥ | puṣpasrak paṭṭadevāṅgaiḥ ghaṇṭācāmarapallavaiḥ


77

नालिकेरक्रमुकाणां फलपुष्प प्रलम्बिताम् । सर्वालंकारसंयुक्तमेवं कृत्वा विशेषतः

nālikerakramukāṇāṃ phalapuṣpa pralambitām | sarvālaṃkārasaṃyuktamevaṃ kṛtvā viśeṣataḥ


78

द्वाराणि भूषयेत् सम्यक् धूपदीपैश्च पुष्पकैः । तोरणध्वजवस्त्रैश्च कदलीक्रमुकैरपि

dvārāṇi bhūṣayet samyak dhūpadīpaiśca puṣpakaiḥ | toraṇadhvajavastraiśca kadalīkramukairapi


79

पल्लवैर्दर्भमूलाभिः पूर्णकुम्भाङ्कुरैरपि । एवं द्वाराणि संभूष्य ग्रामदेवालयं स्तथा

pallavairdarbhamūlābhiḥ pūrṇakumbhāṅkurairapi | evaṃ dvārāṇi saṃbhūṣya grāmadevālayaṃ stathā


80

संभूष्य सिद्धिपूर्वेण ग्रामवीध्युपवीधिकान् । निम्नोन्नत समं कृत्वा संशोध्य जलसेचनम्

saṃbhūṣya siddhipūrveṇa grāmavīdhyupavīdhikān | nimnonnata samaṃ kṛtvā saṃśodhya jalasecanam


81

प्रलिप्य पिष्टचूर्णैश्च चित्रयित्वा विशेषतः । शोभितं स्यात् पताकैश्च ध्वजैराकाशकेतुभिः

pralipya piṣṭacūrṇaiśca citrayitvā viśeṣataḥ | śobhitaṃ syāt patākaiśca dhvajairākāśaketubhiḥ


82

कदली क्रमुकैर्द्वारकुम्भैर्दीपैश्च धूपकैः । गन्धमाल्याङ्कुरैश्छत्रं कुम्भैर्वस्त्रैश्च छत्रितः

kadalī kramukairdvārakumbhairdīpaiśca dhūpakaiḥ | gandhamālyāṅkuraiśchatraṃ kumbhairvastraiśca chatritaḥ


83

भवनं प्रति संभूष्य कारयेद्यागमण्टपम् । ऐशान्यां वह्निदेशे वा षोडशस्तम्भ संयुतम्

bhavanaṃ prati saṃbhūṣya kārayedyāgamaṇṭapam | aiśānyāṃ vahnideśe vā ṣoḍaśastambha saṃyutam


84

नवसप्तवञ्चकरैर्वरमध्यं कन्यसैः । दिग्वारतोरणैर्युक्तमवितानध्वज भूषितम्

navasaptavañcakarairvaramadhyaṃ kanyasaiḥ | digvāratoraṇairyuktamavitānadhvaja bhūṣitam


85

स्तम्भे वेष्टनसंयुक्तं दर्भमालाङ्कुरादिभिः । एकाशीति पदेष्वन्तर्वेदि स्यान्नवभिः पदैः

stambhe veṣṭanasaṃyuktaṃ darbhamālāṅkurādibhiḥ | ekāśīti padeṣvantarvedi syānnavabhiḥ padaiḥ


86

रत्नमात्रसमुत्सेधं दर्पणोदरसन्निभम् । पूर्वोक्त विधिना कुण्डं कुर्यात्तत्र विशेषतः

ratnamātrasamutsedhaṃ darpaṇodarasannibham | pūrvokta vidhinā kuṇḍaṃ kuryāttatra viśeṣataḥ


87

समं सर्वत्र कृत्वा तु लिप्य गोमयवारिणा । पञ्चचूर्णैरलंकृत्य पल्लवादि विशोभितम्

samaṃ sarvatra kṛtvā tu lipya gomayavāriṇā | pañcacūrṇairalaṃkṛtya pallavādi viśobhitam


88

धूपदीपाक्षतैः पुष्पैः प्रच्छन्नपटलान्वितः । कृत्वैवं यागशालां तु वनयात्रार्थमण्टपम्

dhūpadīpākṣataiḥ puṣpaiḥ pracchannapaṭalānvitaḥ | kṛtvaivaṃ yāgaśālāṃ tu vanayātrārthamaṇṭapam


89

किंचिद्दूरे समीपे वा कुर्याद्देशे तु वाञ्छिते । छन्नैश्चम्पकाशोकसालचम्पक बिल्वकैः

kiṃciddūre samīpe vā kuryāddeśe tu vāñchite | channaiścampakāśokasālacampaka bilvakaiḥ


90

लवङ्गकर्णिकारौप्यारश्व धाममयुककैः । पनसैर्नालिकेरैश्च कदलीक्रमुकाम्रकैः

lavaṅgakarṇikāraupyāraśva dhāmamayukakaiḥ | panasairnālikeraiśca kadalīkramukāmrakaiḥ


91

पुन्नागकुरवैः * * * * * * न पाटलैः । केतकीमातुलङ्गैश्च लिकुचैः पिप्पलैरपि

punnāgakuravaiḥ * * * * * * na pāṭalaiḥ | ketakīmātulaṅgaiśca likucaiḥ pippalairapi


92

औदुम्बरवटप्लक्षपलाशैः पत्रपुष्पकैः । त्रिन्त्रणी * * * * * निम्बदारुकपित्थकैः

audumbaravaṭaplakṣapalāśaiḥ patrapuṣpakaiḥ | trintraṇī * * * * * nimbadārukapitthakaiḥ


93

एवमादितरूणां तु भूषितैः पुष्पवारिभिः । मण्टपं मध्यमे कुर्यात् जलक्रीडाय पार्श्वतः

evamāditarūṇāṃ tu bhūṣitaiḥ puṣpavāribhiḥ | maṇṭapaṃ madhyame kuryāt jalakrīḍāya pārśvataḥ


94

          • तदादीन् उत्पलाम्भोज शोभितान् । बहिः प्राकारसंयुक्तं द्वारगोपुर शोभिताम्

** * * * * tadādīn utpalāmbhoja śobhitān | bahiḥ prākārasaṃyuktaṃ dvāragopura śobhitām*


95

एवं कृत्वा विशेषेण सर्वाभरणसंयुतम् । एवमन्या बहून् सर्वान् उत्सवाङ्गान्विशेषतः

evaṃ kṛtvā viśeṣeṇa sarvābharaṇasaṃyutam | evamanyā bahūn sarvān utsavāṅgānviśeṣataḥ


96

स्थित्वा स्मृत्वा तु कर्तव्यं उत्सवं पूर्वतज्जनैः । तीर्थसुदिनपूर्वे तु दशमे दिवसे निशि

sthitvā smṛtvā tu kartavyaṃ utsavaṃ pūrvatajjanaiḥ | tīrthasudinapūrve tu daśame divase niśi


97

यागं प्रतिष्ठापयेद्देवन्नावहस्य विधीयते । धातुबाणगुणैकाहन्ना * * * * * क्षिषु

yāgaṃ pratiṣṭhāpayeddevannāvahasya vidhīyate | dhātubāṇaguṇaikāhannā * * * * * kṣiṣu


98

पुरतो रात्रिषु स्थाप्य यागां तारकनायकः । यागमण्टपमध्ये तु वेदिकोपरि देशिकः

purato rātriṣu sthāpya yāgāṃ tārakanāyakaḥ | yāgamaṇṭapamadhye tu vedikopari deśikaḥ


99

स्थण्डिलं का * * मध्ये पञ्चभाग विभागिके । अष्टद्रोणे तु शालीनामूर्ध्वे तस्यार्धतण्डुलैः

sthaṇḍilaṃ kā * * madhye pañcabhāga vibhāgike | aṣṭadroṇe tu śālīnāmūrdhve tasyārdhataṇḍulaiḥ


100

तस्यार्धैस्तन्तु ना * * * * * * * * न्धयेत् । हृन्मन्त्रं तु समुच्चार्य मध्यपत्रे तु बन्धयेत्

tasyārdhaistantu nā * * * * * * * * ndhayet | hṛnmantraṃ tu samuccārya madhyapatre tu bandhayet


101

स्थण्डिलं प्रस्तरेद्दर्भं द्रोणतोय प्रपूरितान् । सूत्रेणावेद्य कुम्भांस्तु त्रिवित् सूत्रविचित्रितान्

sthaṇḍilaṃ prastareddarbhaṃ droṇatoya prapūritān | sūtreṇāvedya kumbhāṃstu trivit sūtravicitritān


102

आसनं तु ततः कल्प्य कर्णिकादक्षिणार्धके । विन्यस्य तस्य वामाद्यैर्वर्धनीं चापि मूलतः

āsanaṃ tu tataḥ kalpya karṇikādakṣiṇārdhake | vinyasya tasya vāmādyairvardhanīṃ cāpi mūlataḥ


103

गन्धादिभिस्समभ्यर्च्य नवरत्नानि विन्यसेत् । रत्नालाभे तु हेमाब्जं वर्धन्यां हेममुत्पलम्

gandhādibhissamabhyarcya navaratnāni vinyaset | ratnālābhe tu hemābjaṃ vardhanyāṃ hemamutpalam


104

विधानकूर्चसंयुक्तं नववस्त्रेण वेष्ट्य च । गन्धपुष्पादिना पूज्य हविर्मूलेन दापयेत्

vidhānakūrcasaṃyuktaṃ navavastreṇa veṣṭya ca | gandhapuṣpādinā pūjya havirmūlena dāpayet


105

परितोऽष्टदले स्विष्टविद्येश्वरघटो न्यसेत् । गन्धाम्बुपूरितान् सर्वान् अर्चयेत् स्वस्वमन्त्रतः

parito'ṣṭadale sviṣṭavidyeśvaraghaṭo nyaset | gandhāmbupūritān sarvān arcayet svasvamantrataḥ


106

तेषु वज्रादिशूलान्तहैमास्त्राणि च निक्षिपेत् । वस्त्रैः प्रत्येकमाच्छाद्य कूर्चचक्रकसंयुतान्

teṣu vajrādiśūlāntahaimāstrāṇi ca nikṣipet | vastraiḥ pratyekamācchādya kūrcacakrakasaṃyutān


107

नवसप्तपञ्चवह्निस्त्रिवह्नि स्वैकमेव वा । वित्तानुसारतः कश्चित् रिच्छाया परिकल्पयेत्

navasaptapañcavahnistrivahni svaikameva vā | vittānusārataḥ kaścit ricchāyā parikalpayet


108

दिग्विदिक्षु नवाग्रे तु पूर्वे गानं तदा भवेत् । पूर्वादिदक्षिणे चाप्ये सौम्ये चैशानगोचरे

digvidikṣu navāgre tu pūrve gānaṃ tadā bhavet | pūrvādidakṣiṇe cāpye saumye caiśānagocare


109

ईशानचक्रयोर्मध्ये सप्ताह्नौ परिकल्पयेत् । चतुर्दिक्षु प्रदानं च पञ्चाग्न परिकल्पयेत्

īśānacakrayormadhye saptāhnau parikalpayet | caturdikṣu pradānaṃ ca pañcāgna parikalpayet


110

इन्द्रो याम्ये च त्रिके चैकानलाग्रतः * * * । अग्न्याधानादिकं कुर्यात् पूर्वोक्तेन विधानतः

indro yāmye ca trike caikānalāgrataḥ * * * | agnyādhānādikaṃ kuryāt pūrvoktena vidhānataḥ


111

समिदाज्यान्नशालिस्तु * वगोधूमवैष्णवम् । नीवारजाल सन्ताश्च माषमुत्गकुलस्थकान्

samidājyānnaśālistu * vagodhūmavaiṣṇavam | nīvārajāla santāśca māṣamutgakulasthakān


112

निष्पापं तरलं चैव राजमाषाढकं तिलम् । प्रियङ्गुसर्षपं चैव मधुदध्ना पयोयुतम्

niṣpāpaṃ taralaṃ caiva rājamāṣāḍhakaṃ tilam | priyaṅgusarṣapaṃ caiva madhudadhnā payoyutam


113

फलापूपं तु ताम्बूलं षड्विंशद्रव्यमुच्यते । उत्तमं त्विति विख्यातं कलंस्थं तं तु मध्यमम्

phalāpūpaṃ tu tāmbūlaṃ ṣaḍviṃśadravyamucyate | uttamaṃ tviti vikhyātaṃ kalaṃsthaṃ taṃ tu madhyamam


114

वैष्णवान्तं कनिष्ठं स्यात् त्रिविधं परिकीर्तितम् । समिदाज्यौ तु मूलेन हृदयेन च ग्रस्तथा

vaiṣṇavāntaṃ kaniṣṭhaṃ syāt trividhaṃ parikīrtitam | samidājyau tu mūlena hṛdayena ca grastathā


115

शिरोमन्त्रेण शाल्यादीन् शिखया लाजसक्तुकौ । कवचेनादिमाषादीन् नेत्रेण तु तिलं हुनेत्

śiromantreṇa śālyādīn śikhayā lājasaktukau | kavacenādimāṣādīn netreṇa tu tilaṃ hunet


116

प्रियङ्गुश्चास्त्रमन्त्रेण ईशानेन तु सर्षपम् । मधु वक्त्रेण होतव्यं दधि घोरेण होमयेत्

priyaṅguścāstramantreṇa īśānena tu sarṣapam | madhu vaktreṇa hotavyaṃ dadhi ghoreṇa homayet


117

क्षीरं वामे तु होतव्यं फलं सद्येन होमयेत् । दशाक्षरेण पूर्वं तु गायत्री फलवक्त्रकम्

kṣīraṃ vāme tu hotavyaṃ phalaṃ sadyena homayet | daśākṣareṇa pūrvaṃ tu gāyatrī phalavaktrakam


118

द्रव्यान्ते व्याहृति हुत्वा स्रवपूर्णेन सर्पिषा । अग्निकार्याविधानोक्तमादौ कुर्याद्विशेषतः

dravyānte vyāhṛti hutvā sravapūrṇena sarpiṣā | agnikāryāvidhānoktamādau kuryādviśeṣataḥ


119

पूर्णाहुतिं च मूलेन परिषेचनमारभेत् । साये स्यादुत्सवारम्भे प्रातस्वापभृतोर्भवेत्

pūrṇāhutiṃ ca mūlena pariṣecanamārabhet | sāye syādutsavārambhe prātasvāpabhṛtorbhavet


120

उदयाद्मग्मयामं तु प्रातः कालमिति स्मृतम् । अस्तमानस्य पूर्वे तु वाममेकं तथाचरेत्

udayādmagmayāmaṃ tu prātaḥ kālamiti smṛtam | astamānasya pūrve tu vāmamekaṃ tathācaret


121

यामं सायमिति प्रोक्तं उत्सवस्य निशाकर । गोमान्ते तु बलिं दद्याद्दिनदेव प्रियापहम्

yāmaṃ sāyamiti proktaṃ utsavasya niśākara | gomānte tu baliṃ dadyāddinadeva priyāpaham


122

होमाद्यं होमम * * होमान्तं बलिदानकम् । होमाद्यं शान्तिकं प्रोक्तं होममध्यं तु पौष्टिकम्

homādyaṃ homama * * homāntaṃ balidānakam | homādyaṃ śāntikaṃ proktaṃ homamadhyaṃ tu pauṣṭikam


123

होमान्ते पूजयाम्यर्चबलिकालफलं त्विदम् । अन्नेन कारयेल्लिङ्गमुत्तमं बलिपात्रके

homānte pūjayāmyarcabalikālaphalaṃ tvidam | annena kārayelliṅgamuttamaṃ balipātrake


124

पाशुपदं समावाह्य यागेशानन्नलिङ्गके । संपूज्यज्यास्त्रं च मुकुलं पद्ममुद्रां च दर्शयेत्

pāśupadaṃ samāvāhya yāgeśānannaliṅgake | saṃpūjyajyāstraṃ ca mukulaṃ padmamudrāṃ ca darśayet


125

बलिदानं प्रकर्तव्यं शङ्ख भेर्यादिनिस्वनैः । त्रिशूलमन्नलिङ्गे वा न वेदास्त्रं समावृतम्

balidānaṃ prakartavyaṃ śaṅkha bheryādinisvanaiḥ | triśūlamannaliṅge vā na vedāstraṃ samāvṛtam


126

वृषादिपरिवाराणां तद्दिने द्रव्यकैरपि । पूर्वं बलि प्रदातव्यं स्वैस्वैर्मन्त्रर्विशेषतः

vṛṣādiparivārāṇāṃ taddine dravyakairapi | pūrvaṃ bali pradātavyaṃ svaisvairmantrarviśeṣataḥ


127

रङ्गस्योपरि संस्थाप्य त्रिशूलादीन्विशेषतः । छत्र प * ध्वजाद्यैश्च स्तोत्रमङ्गलवाचकैः

raṅgasyopari saṃsthāpya triśūlādīnviśeṣataḥ | chatra pa * dhvajādyaiśca stotramaṅgalavācakaiḥ


128

धूपदीपसमायुक्तं बलितालसमायुतम् । परिचारकसंयुक्तं सर्वभक्तजनावृतम्

dhūpadīpasamāyuktaṃ balitālasamāyutam | paricārakasaṃyuktaṃ sarvabhaktajanāvṛtam


129

सोष्णीषस्सोत्तरीयं च सर्वाभरणभूषितम् । गन्धलिप्तस्सुपुष्पाढ्यस्त्वाचार्यस्सकलीकृतः

soṣṇīṣassottarīyaṃ ca sarvābharaṇabhūṣitam | gandhaliptassupuṣpāḍhyastvācāryassakalīkṛtaḥ


130

रङ्गोर्ध्वे मध्यपीठे तु बलिं दद्यात् विशेषतः । आचार्यश्शिष्यो वा दद्यादनुज्ञातस्तु तेन वै

raṅgordhve madhyapīṭhe tu baliṃ dadyāt viśeṣataḥ | ācāryaśśiṣyo vā dadyādanujñātastu tena vai


131

रङ्गभावे च हित्वा तु लिङ्गं गच्छेत् प्रदक्षिणम् । ब्रह्माद्यैशान्तमिन्द्राद्यब्रह्मान्तं वा बलिं क्षिपेत्

raṅgabhāve ca hitvā tu liṅgaṃ gacchet pradakṣiṇam | brahmādyaiśāntamindrādyabrahmāntaṃ vā baliṃ kṣipet


132

अथवा तु बलिं दद्यात् ग्रामवास्त्वनुकूलतः । पश्चिमद्वारहर्म्ये तु नित्यादित्रितयेष्वपि

athavā tu baliṃ dadyāt grāmavāstvanukūlataḥ | paścimadvāraharmye tu nityāditritayeṣvapi


133

वरुणादिनिमित्यन्तं लोकबालाबलिं क्षिपेत् । नवस्थानेषु संपूज्य यन्त्रपीठे दिनाधिपान्

varuṇādinimityantaṃ lokabālābaliṃ kṣipet | navasthāneṣu saṃpūjya yantrapīṭhe dinādhipān


134

स्वैर्मन्त्रैरुच्य तेषां तु तत्तद्द्रव्यैर्बलिं दहेत् । नवाहेष्टादश बलिस्सप्ताहे तु चतुर्दश

svairmantrairucya teṣāṃ tu tattaddravyairbaliṃ dahet | navāheṣṭādaśa balissaptāhe tu caturdaśa


135

पञ्चाहं त्र्यह एकादश षड्द्विबलिस्तथा । विघ्नेशभूत गन्धर्वा सुरेशमुनि माधवाः

pañcāhaṃ tryaha ekādaśa ṣaḍdvibalistathā | vighneśabhūta gandharvā sureśamuni mādhavāḥ


136

असुराश्च शिवाह्येते प्रोक्ता नवदिनाधिपाः । भूतेन्द्र विष्णुपूर्वास्स्युः सुर षट् ब्राह्ममूर्तिकम्

asurāśca śivāhyete proktā navadinādhipāḥ | bhūtendra viṣṇupūrvāssyuḥ sura ṣaṭ brāhmamūrtikam


137

एकाहं शैवमित्येव मुक्ता नव सदेवताः । नन्द्यावर्तिं च शुद्धान्नं लड्डुकामोदकं घृतम्

ekāhaṃ śaivamityeva muktā nava sadevatāḥ | nandyāvartiṃ ca śuddhānnaṃ laḍḍukāmodakaṃ ghṛtam


138

विघ्नेश्वरबलिः प्रोक्तं रक्तपद्मं च पायसम् । रम्भाफलगुलाज्यानि बलिस्स्यात् ब्राह्मणः प्रियः

vighneśvarabaliḥ proktaṃ raktapadmaṃ ca pāyasam | rambhāphalagulājyāni balissyāt brāhmaṇaḥ priyaḥ


139

जयन्ती कृसरान्नं च नालिकेरं घृतान्वितम् । भूतानां तु बलिः प्रोक्तं * * * कुसुमैर्युतम्

jayantī kṛsarānnaṃ ca nālikeraṃ ghṛtānvitam | bhūtānāṃ tu baliḥ proktaṃ * * * kusumairyutam


140

हरिद्रान्नरसकूश्माण्डाज्यं गन्धव्यसुप्रियम् । जातिपुष्पं गुलान्नं च पनसाम्रफलं स्मृतम्

haridrānnarasakūśmāṇḍājyaṃ gandhavyasupriyam | jātipuṣpaṃ gulānnaṃ ca panasāmraphalaṃ smṛtam


141

इन्द्रस्य बलिरित्युक्तः लक्ष्मीपुष्पं तु दूर्वया । वे * न्नं दधिसंयुक्तं मुद्गमाषघृतान्वितम्

indrasya balirityuktaḥ lakṣmīpuṣpaṃ tu dūrvayā | ve * nnaṃ dadhisaṃyuktaṃ mudgamāṣaghṛtānvitam


142

पद्मकन्द समायुक्तं ऋषीणां बलिरुच्यते । तुलसी च गुलान्नं च घृतं च बृहतीफलम्

padmakanda samāyuktaṃ ṛṣīṇāṃ balirucyate | tulasī ca gulānnaṃ ca ghṛtaṃ ca bṛhatīphalam


143

मालतीकरवीरं च केतकीपुष्पसंयुतम् । कृसरं चैव जाला चा पूपं नालिकेरकम्

mālatīkaravīraṃ ca ketakīpuṣpasaṃyutam | kṛsaraṃ caiva jālā cā pūpaṃ nālikerakam


144

मधुना गुलसंयुक्तं असुराणां बलिं क्षिपेत् । आरग्वधं च शुद्धान्नं निष्पापं पनसाज्यकम्

madhunā gulasaṃyuktaṃ asurāṇāṃ baliṃ kṣipet | āragvadhaṃ ca śuddhānnaṃ niṣpāpaṃ panasājyakam


145

शिवप्रियमिदं प्रोक्तं बलिद्रव्यं प्रकीर्तितम् । पुष्पालाभे यथालाभं पुष्पं ग्राह्य बलिं ददेत्

śivapriyamidaṃ proktaṃ balidravyaṃ prakīrtitam | puṣpālābhe yathālābhaṃ puṣpaṃ grāhya baliṃ dadet


146

मध्य * * * द्धान्नम सर्वेषां वापि दापयेत् । द्रोणमर्धं तदर्धं वा बल्यर्धं तण्डुलं भवेत्

madhya * * * ddhānnama sarveṣāṃ vāpi dāpayet | droṇamardhaṃ tadardhaṃ vā balyardhaṃ taṇḍulaṃ bhavet


147

बलिं दद्यात्तु सर्वेषां कुक्कुटाण्डप्रमाणतः । * * * * * * पीठे प्रोक्तं तत् बलिलक्षणम्

baliṃ dadyāttu sarveṣāṃ kukkuṭāṇḍapramāṇataḥ | * * * * * * pīṭhe proktaṃ tat balilakṣaṇam


148

बलिं क्षिप्य महापीठे यागस्थानं प्रवेशयेत् । पादप्रक्षालनं कृत्वा प्रविश्याभ्यन्तरं बुधा

baliṃ kṣipya mahāpīṭhe yāgasthānaṃ praveśayet | pādaprakṣālanaṃ kṛtvā praviśyābhyantaraṃ budhā


149

यष्ट्वान्नं * * * * * * र्वस्थाने विचक्षणः । पूषा पर्युषितं पुष्पं चण्डेशाय निवेदयेत्

yaṣṭvānnaṃ * * * * * * rvasthāne vicakṣaṇaḥ | pūṣā paryuṣitaṃ puṣpaṃ caṇḍeśāya nivedayet


150

बलिपीठे त्वन्नलिङ्गे तदन्ते तु विसर्जयेत् । बलेरनुगतो * * * * न्तो वा प्रदक्षिणम्

balipīṭhe tvannaliṅge tadante tu visarjayet | baleranugato * * * * nto vā pradakṣiṇam


151

अथवा स्याद्दिने भक्त्या गणेशं संप्रपूज्य च । हविर्निवेद्य भस्मानि दत्त्वालंकृत्य भूषणैः

athavā syāddine bhaktyā gaṇeśaṃ saṃprapūjya ca | havirnivedya bhasmāni dattvālaṃkṛtya bhūṣaṇaiḥ


152

ग्रामप्रदक्षिणं कुर्यात् सर्वविघ्नप्रशान्तये । * * प्रतिष्ठा दिवस स्यापरे दिवसे बुधः

grāmapradakṣiṇaṃ kuryāt sarvavighnapraśāntaye | * * pratiṣṭhā divasa syāpare divase budhaḥ


153

अङ्कुरानर्पयेत् सम्यक् यथा विधि विशेषतः । साये चास्त्रसमायुक्तं भक्तचण्डेश संयुतम्

aṅkurānarpayet samyak yathā vidhi viśeṣataḥ | sāye cāstrasamāyuktaṃ bhaktacaṇḍeśa saṃyutam


154

वितानच्छत्रसंयुक्तं चामरैरङ्कुरैर्युतम् । नवाम्बर सृजोपेतं अन्येनापि च संयुतम्

vitānacchatrasaṃyuktaṃ cāmarairaṅkurairyutam | navāmbara sṛjopetaṃ anyenāpi ca saṃyutam


155

तटाका रामवल्मीके नद्यां वाऽपि समुद्रके । शुद्धदेशं व्रजेद्विद्वान् भूतलं प्रोक्ष्य चास्त्रतः

taṭākā rāmavalmīke nadyāṃ vā'pi samudrake | śuddhadeśaṃ vrajedvidvān bhūtalaṃ prokṣya cāstrataḥ


156

पुण्याहं वाचयित्वा तु भूदेवीं सम्यगर्चयेत् । मूलमन्त्रेण तं खात्वा पात्रे ग्राह्य मृदं पुनः

puṇyāhaṃ vācayitvā tu bhūdevīṃ samyagarcayet | mūlamantreṇa taṃ khātvā pātre grāhya mṛdaṃ punaḥ


157

शिवद्विजेन संधार्यं गणिकोत्तमथाऽपि च । चातुर्वर्णोद्भवैरन्यैर्भक्तैर्वापि च यान् पुनः

śivadvijena saṃdhāryaṃ gaṇikottamathā'pi ca | cāturvarṇodbhavairanyairbhaktairvāpi ca yān punaḥ


158

अङ्कुरानर्पयेद्रात्रौ विधिना देशिकोत्तमः । ध्वजारोहणपूर्वे च भेरीताडनपूर्वके

aṅkurānarpayedrātrau vidhinā deśikottamaḥ | dhvajārohaṇapūrve ca bherītāḍanapūrvake


159

एवमेव प्रकर्तव्यमङ्कुरार्पणपूर्वके । पूर्वोदितविधानेन कारयेन्मन्त्रवित्तमः

evameva prakartavyamaṅkurārpaṇapūrvake | pūrvoditavidhānena kārayenmantravittamaḥ


160

हैमं वा क्षौमकार्पाससूत्रं वा पात्रतण्डुले । एकविंशतिबेरांस्तु सुखासनपुरस्कृतान्

haimaṃ vā kṣaumakārpāsasūtraṃ vā pātrataṇḍule | ekaviṃśatiberāṃstu sukhāsanapuraskṛtān


161

कौतुकं बन्धयेद्रात्रौ यात्रार्थं गुरुसत्तमः । पद्मं लिख्य न्यसेद् बिम्बद्वादशाङ्गुलदैर्घ्यकम्

kautukaṃ bandhayedrātrau yātrārthaṃ gurusattamaḥ | padmaṃ likhya nyased bimbadvādaśāṅguladairghyakam


162

कलात्रयात्मकं सूत्रं त्रिगुणं पद्ममध्यमे । हृदा गन्धादिभिर्यष्ट्वा स्थाप्य शिष्यशिरोपरि

kalātrayātmakaṃ sūtraṃ triguṇaṃ padmamadhyame | hṛdā gandhādibhiryaṣṭvā sthāpya śiṣyaśiropari


163

धाम प्रदक्षिणीकृत्य धामं वै सर्वमङ्गलैः । प्रविश्याभ्यन्तरं पश्चात् पुण्याहं स्वस्ति वाचयेत्

dhāma pradakṣiṇīkṛtya dhāmaṃ vai sarvamaṅgalaiḥ | praviśyābhyantaraṃ paścāt puṇyāhaṃ svasti vācayet


164

पाद्यमाचमनं चार्घ्यं गन्धं पुष्पं च धूपकम् । दीपं ताम्बूलकं दत्त्वा पद्ममुद्रां प्रदर्शयेत्

pādyamācamanaṃ cārghyaṃ gandhaṃ puṣpaṃ ca dhūpakam | dīpaṃ tāmbūlakaṃ dattvā padmamudrāṃ pradarśayet


165

अस्यावसानकात् शम्भो सदा सन्निहितो भव । एवं ज्ञाप्य हृदा बद्ध्वा प्रकोष्ठे दक्षिणे बुधः

asyāvasānakāt śambho sadā sannihito bhava | evaṃ jñāpya hṛdā baddhvā prakoṣṭhe dakṣiṇe budhaḥ


166

सर्वालंकारसंयुक्तान् पूजितानुपचारकैः । रथमारोप्य वारम्भे शिबिकायां च भक्तितः

sarvālaṃkārasaṃyuktān pūjitānupacārakaiḥ | rathamāropya vārambhe śibikāyāṃ ca bhaktitaḥ


167

शस्त्रपाणिर्भटाश्चाग्रे हयारूढो व्रजेदनु । गजौघास्त्वानुगास्तेषां ध्वजसङ्घा व्रजेदनु

śastrapāṇirbhaṭāścāgre hayārūḍho vrajedanu | gajaughāstvānugāsteṣāṃ dhvajasaṅghā vrajedanu


168

वाजियन्त्रा हस्तियन्त्रास्सिंहोक्षाश्च मृगाश्वकाः । डोलादिव ध्वजोपेता तोरणानुपुरान्विताः

vājiyantrā hastiyantrāssiṃhokṣāśca mṛgāśvakāḥ | ḍolādiva dhvajopetā toraṇānupurānvitāḥ


169

गेयपाठ्यसुनृत्ताढ्या मण्टपाशैवमालिकाः । वाजिवक्त्रं समारभ्य मालिकायन्त्रिकां क्रमात्

geyapāṭhyasunṛttāḍhyā maṇṭapāśaivamālikāḥ | vājivaktraṃ samārabhya mālikāyantrikāṃ kramāt


170

ध्वजानामनुगास्त्वेते पूर्वोक्तेन क्रमेण तु । एतेऽलंकारसंयुक्ता गणिकाभिस्समायुताः

dhvajānāmanugāstvete pūrvoktena krameṇa tu | ete'laṃkārasaṃyuktā gaṇikābhissamāyutāḥ


171

सुखासनादिबेरांस्तु तदन्ते क्रमशो व्रजेत् । सिखासनं च कल्याणं उमया सहितं तथा

sukhāsanādiberāṃstu tadante kramaśo vrajet | sikhāsanaṃ ca kalyāṇaṃ umayā sahitaṃ tathā

candrajñāne kriyāpāde śrīpañcākṣarapaṭalaṃ samāptam (cont. 2)

172

वृषेशं त्रिपुरघ्नं च नृत्तकं चन्द्रशेखरः । अर्धनारीं च विष्णुं च भिक्षाटनं च कालहम्

vṛṣeśaṃ tripuraghnaṃ ca nṛttakaṃ candraśekharaḥ | ardhanārīṃ ca viṣṇuṃ ca bhikṣāṭanaṃ ca kālaham


173

कौमारीं लिङ्गमध्यस्थं उमामहेश्वरं तथा । चण्डेश्वरं प्रसादं च दक्षिणमूर्तिमेव च

kaumārīṃ liṅgamadhyasthaṃ umāmaheśvaraṃ tathā | caṇḍeśvaraṃ prasādaṃ ca dakṣiṇamūrtimeva ca


174

गजारिं चैव कङ्कालमर्जुन प्रदमेव च । गङ्गाधरमेकपादमेकविंशति * क्रमात्

gajāriṃ caiva kaṅkālamarjuna pradameva ca | gaṅgādharamekapādamekaviṃśati * kramāt


175

सहत्भिः पूज्य संभूष्य क्रमेणैव नयेद् बुधः । एकद्वयं त्रयं पञ्च सप्तमं वा चतुर्दश

sahatbhiḥ pūjya saṃbhūṣya krameṇaiva nayed budhaḥ | ekadvayaṃ trayaṃ pañca saptamaṃ vā caturdaśa


176

सर्वावेच्छा तु यस्मिंस्स्यात् एकविंशतिमूर्तिषु । ता * बद्ध्यकौकचन्द्र उत्सवान्तं नयेद्बुधः

sarvāvecchā tu yasmiṃssyāt ekaviṃśatimūrtiṣu | tā * baddhyakaukacandra utsavāntaṃ nayedbudhaḥ


177

सर्वालंकारसंयुक्तं पिञ्छचामरसंयुतम् । * * * थ गेयैश्च वाद्यसंयुक्तं तदन्तके

sarvālaṃkārasaṃyuktaṃ piñchacāmarasaṃyutam | * * * tha geyaiśca vādyasaṃyuktaṃ tadantake


178

अन्ते पाशुपतास्सर्वे महाव्रतधरास्तथा । महाशैवो व्रजेदन्ने ब्रह्मणस्तदनु व्रजेत्

ante pāśupatāssarve mahāvratadharāstathā | mahāśaivo vrajedanne brahmaṇastadanu vrajet


179

गेयगा नर्तकाश्चैव व्रजेदनु विशेषतः । ईश्वरश्शक्तिसहितस्सर्वालंकारसंयुतः

geyagā nartakāścaiva vrajedanu viśeṣataḥ | īśvaraśśaktisahitassarvālaṃkārasaṃyutaḥ


180

योषिद्भिरावृतस्सर्वभूषणाद्यैरलंकृतः । नानाछत्रध्वजैः पिञ्छैर्नानाचामरभूषितः

yoṣidbhirāvṛtassarvabhūṣaṇādyairalaṃkṛtaḥ | nānāchatradhvajaiḥ piñchairnānācāmarabhūṣitaḥ


181

यन्त्रदीपैर्हस्तदीपैर्यष्टिस्त्रिशूलदीपकैः । पताकाभिर्वितानैश्च भेर्यैर्वाद्यैस्समायुतम्

yantradīpairhastadīpairyaṣṭistriśūladīpakaiḥ | patākābhirvitānaiśca bheryairvādyaissamāyutam


182

चण्डेश्वरो व्रजेदन्ते सर्वालङ्कारसंयुतम् । सर्वातोद्यैस्तदन्ते तु घोषयेत्तु विशेषतः

caṇḍeśvaro vrajedante sarvālaṅkārasaṃyutam | sarvātodyaistadante tu ghoṣayettu viśeṣataḥ


183

सर्वेषामग्रतश्चैव महाशब्दं प्रघोषयेत् । शूद्रो गच्छेत्तदन्ते तु सर्वे वर्णास्तदन्तके

sarveṣāmagrataścaiva mahāśabdaṃ praghoṣayet | śūdro gacchettadante tu sarve varṇāstadantake


184

स्त्रियो बालाश्च वृद्धाश्च युवानो भक्तिसंयुताः । ये तु गच्छन्ति देवेशधातास्तद्भृत मानसाः

striyo bālāśca vṛddhāśca yuvāno bhaktisaṃyutāḥ | ye tu gacchanti deveśadhātāstadbhṛta mānasāḥ


185

विमुक्तास्सर्वपापेभ्यस्सर्वभोगसमाश्रयाः । पद्यैकस्यश्वमेधस्य प्राप्नुवन्ति महत् फलम्

vimuktāssarvapāpebhyassarvabhogasamāśrayāḥ | padyaikasyaśvamedhasya prāpnuvanti mahat phalam


186

ग्रामप्रदक्षिणं चैव शनैः कृत्वालयं विशेत् । प्रपां कृत्वा समास्थाय मण्टपे समलंकृते

grāmapradakṣiṇaṃ caiva śanaiḥ kṛtvālayaṃ viśet | prapāṃ kṛtvā samāsthāya maṇṭape samalaṃkṛte


187

सिंहे पद्मासने वाऽपि गच्छेत् पर्यङ्कमध्यमे । अन्येस्वासनभेदेषु वाञ्छितेषु हरं नयेत्

siṃhe padmāsane vā'pi gacchet paryaṅkamadhyame | anyesvāsanabhedeṣu vāñchiteṣu haraṃ nayet


188

अग्रतस्संस्थितास्सर्वे भृङ्गादिमहिताजनः । नर्तको मर्दकस्सर्वे वामतो वंशगायकौ

agratassaṃsthitāssarve bhṛṅgādimahitājanaḥ | nartako mardakassarve vāmato vaṃśagāyakau


189

आचार्यस्सर्वतो वामे गजराजसमस्थितः । पार्श्वयोर्देवगणिका विद्यन्नृत्तसगेयकम्

ācāryassarvato vāme gajarājasamasthitaḥ | pārśvayordevagaṇikā vidyannṛttasageyakam


190

देवस्यापरभागे तु परिचारास्समास्थिताः । नारीभिः पार्श्वयोर्विज्य चामरव्यजनादिभिः

devasyāparabhāge tu paricārāssamāsthitāḥ | nārībhiḥ pārśvayorvijya cāmaravyajanādibhiḥ


191

सुगन्धधूपदीपैश्च कुसुमाद्यैरलंकृतः । पाद्यमाचमनं चार्घ्यं दत्त्वा संपूज्य भक्तितः

sugandhadhūpadīpaiśca kusumādyairalaṃkṛtaḥ | pādyamācamanaṃ cārghyaṃ dattvā saṃpūjya bhaktitaḥ


192

सर्वोपचारसंयुक्तं सर्वालंकारसंयुतम् । यद्वैवं कारयेत् पश्चात् साये नीराञ्जनं बुधः

sarvopacārasaṃyuktaṃ sarvālaṃkārasaṃyutam | yadvaivaṃ kārayet paścāt sāye nīrāñjanaṃ budhaḥ


193

दीपं पिष्टे तु विन्यस्य भस्म पुष्पं च पात्रके । पूर्वमाचमनं दत्त्वा मूर्ध्नि पुष्पं तु निक्षिपेत्

dīpaṃ piṣṭe tu vinyasya bhasma puṣpaṃ ca pātrake | pūrvamācamanaṃ dattvā mūrdhni puṣpaṃ tu nikṣipet


194

शिरस्यर्घ्यं तु विन्यस्य गन्धमाचमनं बुधः । धूपं दीपं प्रदातव्यः पिष्टदीपेन देशिकः

śirasyarghyaṃ tu vinyasya gandhamācamanaṃ budhaḥ | dhūpaṃ dīpaṃ pradātavyaḥ piṣṭadīpena deśikaḥ


195

प्रदक्षिणत्रयं कुर्यात् शिरोर्ध्वे शङ्खनृत्तकैः । जयशब्दादिसंयुक्तं स्नोत्रम * ल गीतिभिः

pradakṣiṇatrayaṃ kuryāt śirordhve śaṅkhanṛttakaiḥ | jayaśabdādisaṃyuktaṃ snotrama * la gītibhiḥ


196

भस्मं दत्त्वा तदन्ते तु दर्पणं दर्शयेत् पुनः । नीराञ्जनमिति प्रोक्तमारार्त्त्यादि च गद्यते

bhasmaṃ dattvā tadante tu darpaṇaṃ darśayet punaḥ | nīrāñjanamiti proktamārārttyādi ca gadyate


197

पूजान्ते कारयेद्देव साये रक्षार्थकं शुभम् । शङ्खकाहलपूर्वं च महाशब्दं प्रघोषयेत्

pūjānte kārayeddeva sāye rakṣārthakaṃ śubham | śaṅkhakāhalapūrvaṃ ca mahāśabdaṃ praghoṣayet


198

बहित्वा गणिकाभिस्तु सपाद्यं बाह्यतः क्षिपेत् । राज्ञश्च जगतां रक्ष्या कृते त्वेवं सुखावहम्

bahitvā gaṇikābhistu sapādyaṃ bāhyataḥ kṣipet | rājñaśca jagatāṃ rakṣyā kṛte tvevaṃ sukhāvaham


199

सर्वोपचारक कुर्यात् स्मृत्वा स्मृत्वा विशेषतः । उष्णीषमुत्तरीयं च हैमं दद्याद्गुरोस्तदा

sarvopacāraka kuryāt smṛtvā smṛtvā viśeṣataḥ | uṣṇīṣamuttarīyaṃ ca haimaṃ dadyādgurostadā


200

पर्यष्टि परिचाराणां गणिकानां विशेषतः । भक्तानां नर्त्तकादीनां वस्त्रादीनि प्रदापयेत्

paryaṣṭi paricārāṇāṃ gaṇikānāṃ viśeṣataḥ | bhaktānāṃ narttakādīnāṃ vastrādīni pradāpayet


201

एवं दिने दिने कुर्याद् विधानेन विशेषतः । क्रमात् संक्षेपतः प्रोक्तं परिवेष्टक्रमं तव

evaṃ dine dine kuryād vidhānena viśeṣataḥ | kramāt saṃkṣepataḥ proktaṃ pariveṣṭakramaṃ tava


202

विघ्नोद्भवप्रकारं च इदमन्यत् प्रचक्ष्महे । अतिवृष्टौ महावाते राष्ट्रक्षोमादिसंभवे

vighnodbhavaprakāraṃ ca idamanyat pracakṣmahe | ativṛṣṭau mahāvāte rāṣṭrakṣomādisaṃbhave


203

एवमादिषु विघ्नेषु प्रसादे वा बलिं क्षिपेत् । प्रसादवृषमध्ये तु ब्रह्मस्थानं बलिं क्षिपेत्

evamādiṣu vighneṣu prasāde vā baliṃ kṣipet | prasādavṛṣamadhye tu brahmasthānaṃ baliṃ kṣipet


204

मर्यादौ परितो दद्यादिन्द्रादीशान्तकं बलिम् । पूर्वतस्तु महापीठे बलिं दत्त्वा समापयेत्

maryādau parito dadyādindrādīśāntakaṃ balim | pūrvatastu mahāpīṭhe baliṃ dattvā samāpayet


205

बेरप्रदक्षिणीग्रामे प्रासादे वा समाचरेत् । वास्तौ बेरे विमाने च एवमेवं समाचरेत्

berapradakṣiṇīgrāme prāsāde vā samācaret | vāstau bere vimāne ca evamevaṃ samācaret


206

महावास्तोश्च वा पक्षः शृणु ब्रह्मपदाद्बहिः । अन्तर्वीर्यां बलिं दत्त्वा बेरयात्राऽपि तत्र वा

mahāvāstośca vā pakṣaḥ śṛṇu brahmapadādbahiḥ | antarvīryāṃ baliṃ dattvā berayātrā'pi tatra vā


207

एवमेवं विधानेन युक्तिदं कारयेद् बुधः । असुरे दिवसे प्रातर्दत्वास्तेषां बलिं प्रियम्

evamevaṃ vidhānena yuktidaṃ kārayed budhaḥ | asure divase prātardatvāsteṣāṃ baliṃ priyam


208

ईश्वरं शक्तिसहितं पूजयित्वा विशेषतः । भीमरूपं रणोद्युक्तं ह्येति व्याग्राग्रपाणिनाम्

īśvaraṃ śaktisahitaṃ pūjayitvā viśeṣataḥ | bhīmarūpaṃ raṇodyuktaṃ hyeti vyāgrāgrapāṇinām


209

किरातवेषवच्चापि कृत्वा देवीं च पूर्ववत् । शिबिकोपरि संरोप्य रुद्रं कुर्यात् प्रदक्षिणम्

kirātaveṣavaccāpi kṛtvā devīṃ ca pūrvavat | śibikopari saṃropya rudraṃ kuryāt pradakṣiṇam


210

पिञ्छं च कर्णं भेरीवाद्यध्वजैर्युतम् । सर्वालंकारसंयुक्तं शङ्खभेर्यादिघोषणैः

piñchaṃ ca karṇaṃ bherīvādyadhvajairyutam | sarvālaṃkārasaṃyuktaṃ śaṅkhabheryādighoṣaṇaiḥ


211

हस्त्यश्वरथसंरूढा भटा युद्धसमुत्सुकाः । धनुर्धरं * * * * * * * * * * * *

*hastyaśvarathasaṃrūḍhā bhaṭā yuddhasamutsukāḥ | dhanurdharaṃ * * * * * * * * * * * **


212

अङ्गानां लक्षणं वक्ष्ये स्यन्दनानां विशेषतः । भारादिवर्गत्रितयं अश्वपर्जत्यादिकत्रयम्

aṅgānāṃ lakṣaṇaṃ vakṣye syandanānāṃ viśeṣataḥ | bhārādivargatritayaṃ aśvaparjatyādikatrayam


213

सिंहासनं रथाङ्गं च प्रत्यङ्गमभिधीयते । उपपीठं मधिष्ठानन्नाटकं देवभारादिपङ्क्तित्रितय

siṃhāsanaṃ rathāṅgaṃ ca pratyaṅgamabhidhīyate | upapīṭhaṃ madhiṣṭhānannāṭakaṃ devabhārādipaṅktitritaya


214

मश्वतासनम् । प्रधानाङ्गमिति ज्ञेयं विद्वद्भिर्मतिमत्तरैः । तद्भक्तिमङ्गुलेनैव शोधयेदाय पूर्वकम्

maśvatāsanam | pradhānāṅgamiti jñeyaṃ vidvadbhirmatimattaraiḥ | tadbhaktimaṅgulenaiva śodhayedāya pūrvakam


215

तदङ्गुलेन निर्दिष्टं अधिष्ठान द्विजोत्तमः । आयादिशुभसिद्ध्यर्थमेकात् सप्ताङ्गुलान्तकम्

tadaṅgulena nirdiṣṭaṃ adhiṣṭhāna dvijottamaḥ | āyādiśubhasiddhyarthamekāt saptāṅgulāntakam


216

पृथ्वीहानिं प्रकर्तव्यं यथा शोभावशान्नयेत् । अधिष्ठानसमं वाऽथ त्रिपादं वार्धमेव वा

pṛthvīhāniṃ prakartavyaṃ yathā śobhāvaśānnayet | adhiṣṭhānasamaṃ vā'tha tripādaṃ vārdhameva vā


217

पञ्चांशे त्र्यंशकं वाऽपि सपादं सार्धमेव वा । पादोनं द्विगुणं वाऽथ द्विगुणं वोपपीठकम्

pañcāṃśe tryaṃśakaṃ vā'pi sapādaṃ sārdhameva vā | pādonaṃ dviguṇaṃ vā'tha dviguṇaṃ vopapīṭhakam


218

अधिष्ठानादयस्सक्तः कल्पयेत्तं विचक्षणैः । अधिष्ठानोपरिष्टात्तु नाटकं संप्रकल्पयेत्

adhiṣṭhānādayassaktaḥ kalpayettaṃ vicakṣaṇaiḥ | adhiṣṭhānopariṣṭāttu nāṭakaṃ saṃprakalpayet


219

एकाङ्गुलं समारभ्यां ललाद्ध्या षोडशाङ्गुलम् । अधिष्ठानोदयाद् ग्राह्यं तन्मानं सिद्धिकाङ्क्षिभिः

ekāṅgulaṃ samārabhyāṃ lalāddhyā ṣoḍaśāṅgulam | adhiṣṭhānodayād grāhyaṃ tanmānaṃ siddhikāṅkṣibhiḥ


220

देवासनं तदूर्ध्वे तु कल्पयेत् कल्पवित्तमः । देवासनोपरिष्टात्तु सिंहासनं प्रकल्पयेत्

devāsanaṃ tadūrdhve tu kalpayet kalpavittamaḥ | devāsanopariṣṭāttu siṃhāsanaṃ prakalpayet


221

अष्टोत्तरादिस्थूप्यन्तं शान्तिकादौ प्रगृह्यताम् । अङ्गानान्तप्रवेशं तु पूर्वमेव सुभाषितम्

aṣṭottarādisthūpyantaṃ śāntikādau pragṛhyatām | aṅgānāntapraveśaṃ tu pūrvameva subhāṣitam


222

बेदार्थं कौतुकार्थं च शूलार्थं त्रियहा भवेत् । त्रिशूले तर्पयेत्तैलं हृदयेन तु मन्त्रतः

bedārthaṃ kautukārthaṃ ca śūlārthaṃ triyahā bhavet | triśūle tarpayettailaṃ hṛdayena tu mantrataḥ


223

चूर्णं तु शिरसा दद्यात् कौतुके मूललिङ्गके । वृषादिपरिवाराणां तैलचूर्णं तु दापयेत्

cūrṇaṃ tu śirasā dadyāt kautuke mūlaliṅgake | vṛṣādiparivārāṇāṃ tailacūrṇaṃ tu dāpayet


224

शेषं दत्त्वा तु भक्तानां अस्त्राणां तु प्रदक्षिणैः । कृत्वा ग्रामादिकान्वाऽपि प्रासादं वा विशेषतः

śeṣaṃ dattvā tu bhaktānāṃ astrāṇāṃ tu pradakṣiṇaiḥ | kṛtvā grāmādikānvā'pi prāsādaṃ vā viśeṣataḥ


225

अस्त्रं चण्डेश्वरैशक्तैर्नयेत्तीर्थेऽधिवासयेत् । तस्य तीरे प्रपायां तु कुर्याद्वै स्थण्डिलद्वयम्

astraṃ caṇḍeśvaraiśaktairnayettīrthe'dhivāsayet | tasya tīre prapāyāṃ tu kuryādvai sthaṇḍiladvayam


226

त्रिशूलं पश्चिमे चास्त्रे स्मृतं स्थाप्याष्टमङ्गलैः । संपूज्य च यथोक्तं तु तदग्रे कलशान् न्यसेत्

triśūlaṃ paścime cāstre smṛtaṃ sthāpyāṣṭamaṅgalaiḥ | saṃpūjya ca yathoktaṃ tu tadagre kalaśān nyaset


227

मध्यमे स्थापयेत् कुम्भमशिवाम्बु परिपूरितम् । ससूत्रान्हेम वस्त्राढ्यान् कूर्चचक्रीकयायुतान्

madhyame sthāpayet kumbhamaśivāmbu paripūritam | sasūtrānhema vastrāḍhyān kūrcacakrīkayāyutān


228

मध्यकुम्भे समावाह्य गङ्गादेवीं यजेद्बुधः । किं कुर्यादि चक्रन्यान्त मिन्द्रादीशान्तकं यजेत्

madhyakumbhe samāvāhya gaṅgādevīṃ yajedbudhaḥ | kiṃ kuryādi cakranyānta mindrādīśāntakaṃ yajet


229

पुण्याहं वाचयेत् सर्वदेवानावाहयेत्ततः । अस्त्रराजानमाराध्य स्नपनं तत्र कारयेत्

puṇyāhaṃ vācayet sarvadevānāvāhayettataḥ | astrarājānamārādhya snapanaṃ tatra kārayet


230

तीर्थमध्येऽस्त्र राजानमवगाह्य गुरूत्तमः । त्रियम्बकेन मन्त्रेण चण्डेशं शिष्यकेन च

tīrthamadhye'stra rājānamavagāhya gurūttamaḥ | triyambakena mantreṇa caṇḍeśaṃ śiṣyakena ca


231

सहाभिषेचनं कुर्यान् मुच्यते पापपुञ्जरैः । मुक्तिदावालभन्ते च सर्वतीर्थफलानि वै

sahābhiṣecanaṃ kuryān mucyate pāpapuñjaraiḥ | muktidāvālabhante ca sarvatīrthaphalāni vai


232

प्राप्य तीरमलंकृत्य भक्ताभ्यर्च्चविशेषतः । प्रविशेदालयं पश्चाद्यागेशं पूजयेत्ततः

prāpya tīramalaṃkṛtya bhaktābhyarccaviśeṣataḥ | praviśedālayaṃ paścādyāgeśaṃ pūjayettataḥ


233

पूर्णाहुतिं ततः कुर्यात् शिवकुम्भं च वर्धनीम् । परितः स्थापितान् कुम्भान् उद्धृत्याभ्यन्तरं विशेत्

pūrṇāhutiṃ tataḥ kuryāt śivakumbhaṃ ca vardhanīm | paritaḥ sthāpitān kumbhān uddhṛtyābhyantaraṃ viśet


234

शिवकुम्भेन संस्थाप्य शिवमन्त्रेण मन्त्रवित् । गौरीमन्त्रेण संस्नाप्य वर्धन्यां तु विचक्षणः

śivakumbhena saṃsthāpya śivamantreṇa mantravit | gaurīmantreṇa saṃsnāpya vardhanyāṃ tu vicakṣaṇaḥ


235

स्वैः स्वैर्मन्त्रविशेषेण कुम्भेनैवाभिषेचयेत् । यथोक्तं पूजयेत् पश्चात् पायसादि निवेदयेत्

svaiḥ svairmantraviśeṣeṇa kumbhenaivābhiṣecayet | yathoktaṃ pūjayet paścāt pāyasādi nivedayet


236

प्रभूतहविषं दद्याद् यथा विभवविस्तरम् । आचार्यं पूजयेद्धेमवस्त्राङ्गुलीयकादिभिः

prabhūtahaviṣaṃ dadyād yathā vibhavavistaram | ācāryaṃ pūjayeddhemavastrāṅgulīyakādibhiḥ


237

दक्षिणां दापयेत् पश्चात् यथाशास्त्रपुरस्सरम् । पञ्चनिष्कं च निष्कं च त्रिनिष्कं च द्विनिष्ककम्

dakṣiṇāṃ dāpayet paścāt yathāśāstrapurassaram | pañcaniṣkaṃ ca niṣkaṃ ca triniṣkaṃ ca dviniṣkakam


238

निष्कमर्धं च पादं च शुद्धहेमं सुशीतलम् । नवाद्याद्यर्कजान्तानां क्रमेणैव विशेषतः

niṣkamardhaṃ ca pādaṃ ca śuddhahemaṃ suśītalam | navādyādyarkajāntānāṃ krameṇaiva viśeṣataḥ


239

सप्तानामुत्सवानां तु सप्तधोक्तं तु दक्षिणा । गुरुं प्र * * * * च क्षमेयेति क्षमापयेत्

saptānāmutsavānāṃ tu saptadhoktaṃ tu dakṣiṇā | guruṃ pra * * * * ca kṣameyeti kṣamāpayet


240

परिचारकभक्तानां यथाशक्त्या तु दक्षिणे । ध्वजावरोहणं कुर्याद् रात्रौ स्नपनसंयुतम्

paricārakabhaktānāṃ yathāśaktyā tu dakṣiṇe | dhvajāvarohaṇaṃ kuryād rātrau snapanasaṃyutam


241

मूललिङ्गं तु संस्नाप्य संपूज्य च विशेषतः । हवींषि विविधो दद्यान्नमस्कृत्वा तु भक्तितः

mūlaliṅgaṃ tu saṃsnāpya saṃpūjya ca viśeṣataḥ | havīṃṣi vividho dadyānnamaskṛtvā tu bhaktitaḥ


242

पूज्य चण्डेशमुद्वास्य ध्वजस्थं वृषभं पुनः । ध्वजस्य दण्डमूलं तु छित्वास्त्रेण विधानतः

pūjya caṇḍeśamudvāsya dhvajasthaṃ vṛṣabhaṃ punaḥ | dhvajasya daṇḍamūlaṃ tu chitvāstreṇa vidhānataḥ


243

घृतं त्वन्नं * * * * सोपदंशं गणप्रियम् । अस्त्रान्नलिङ्गचण्डेशयुक्तं ग्रामबलिं ददेत्

ghṛtaṃ tvannaṃ * * * * sopadaṃśaṃ gaṇapriyam | astrānnaliṅgacaṇḍeśayuktaṃ grāmabaliṃ dadet


244

देवान् विसृज्य सर्वांश्च चण्डेश्वराज्ञया सह । प्रासादं प्रविशेत् पश्चात् प्रणमेत्तु सदाशिवम्

devān visṛjya sarvāṃśca caṇḍeśvarājñayā saha | prāsādaṃ praviśet paścāt praṇamettu sadāśivam


245

यज्ञोपशिष्टं यद्द्रव्यमाचार्यस्य धनं भवेत् । गृहीतं चेत्तु तद्द्रव्यं राज्ञो राष्ट्रस्य दोषकृत्

yajñopaśiṣṭaṃ yaddravyamācāryasya dhanaṃ bhavet | gṛhītaṃ cettu taddravyaṃ rājño rāṣṭrasya doṣakṛt


246

ब्राह्मणं वक्ष्य * * * * क्षपात् शशलाञ्छन । एककाले तु संपूर्णं ब्राह्मणार्थं शिवं क्रमात्

brāhmaṇaṃ vakṣya * * * * kṣapāt śaśalāñchana | ekakāle tu saṃpūrṇaṃ brāhmaṇārthaṃ śivaṃ kramāt


247

प्रातःकाले तु समये यस्मिनृक्षे तु तत्पुनः । तद्दिने वै प्रकर्तव्यं ग्रामादीनां प्रदक्षिणम्

prātaḥkāle tu samaye yasminṛkṣe tu tatpunaḥ | taddine vai prakartavyaṃ grāmādīnāṃ pradakṣiṇam


248

वाञ्छादेशं ततो गत्वा सर्वलीलासमन्वितम् । होमाधिवासाद्याश्च बलिं तीर्थेन्न कारयेत्

vāñchādeśaṃ tato gatvā sarvalīlāsamanvitam | homādhivāsādyāśca baliṃ tīrthenna kārayet


249

आलयं प्रविशेत् पश्चात् स्नपनं तत्र कारयेत् । प्रभूतश्च ततो दत्त्वा नृत्तगेयसुवाद्यकैः

ālayaṃ praviśet paścāt snapanaṃ tatra kārayet | prabhūtaśca tato dattvā nṛttageyasuvādyakaiḥ


250

ब्रह्मणोत्सवमाख्यातमर्कवारोत्सवं शृणु । अर्कवारे विशेषेण यजेत् प्रातश्शिवं क्रमात्

brahmaṇotsavamākhyātamarkavārotsavaṃ śṛṇu | arkavāre viśeṣeṇa yajet prātaśśivaṃ kramāt


251

पूजयेत् सर्वदेवांस्तु हविं दद्याद्विशेषतः । सर्वोपचारसंयुक्तं पूजयेच्चन्द्रशेखरम्

pūjayet sarvadevāṃstu haviṃ dadyādviśeṣataḥ | sarvopacārasaṃyuktaṃ pūjayeccandraśekharam


252

नित्यान्ते गेयवाद्यैश्च सर्वालंकारकैर्युतम् । ग्रामप्रदक्षिणं कुर्यात् प्रासादं वा प्रदक्षिणम्

nityānte geyavādyaiśca sarvālaṃkārakairyutam | grāmapradakṣiṇaṃ kuryāt prāsādaṃ vā pradakṣiṇam


253

प्रविश्याभ्यन्तरं पश्चात् स्नपनं तत्र कारयेत् । * * सहविषं दद्यात् ताम्बूलं तु प्रदापयेत्

praviśyābhyantaraṃ paścāt snapanaṃ tatra kārayet | * * sahaviṣaṃ dadyāt tāmbūlaṃ tu pradāpayet


254

अर्काजान्ते तु शक्त्याद्यमुत्सवं समुदीरितम् । एवं यत्कुरुते मुख्यः मुक्तपापस्सुपुण्यवान्

arkājānte tu śaktyādyamutsavaṃ samudīritam | evaṃ yatkurute mukhyaḥ muktapāpassupuṇyavān


284

सर्वदोषविनिमुक्तश्शिवलोकमवाप्नुयात्

sarvadoṣavinimuktaśśivalokamavāpnuyāt


285

इति चन्द्रज्ञाने श्रीमुखतन्त्रे शिवोत्सवस्य विधिः एकविंशतितमः

iti candrajñāne śrīmukhatantre śivotsavasya vidhiḥ ekaviṃśatitamaḥ


1

श्रीः अतः परं प्रवक्ष्यामि महालक्ष्म्या विधिं शृणु । आलये तु गिरिशस्य वायुवारुणमध्यमे

śrīḥ ataḥ paraṃ pravakṣyāmi mahālakṣmyā vidhiṃ śṛṇu | ālaye tu giriśasya vāyuvāruṇamadhyame


2

स्थापनं तु महालक्ष्म्याः कर्तव्यं देशिकोत्तमैः । निर्माय शिल्पिवर्येण लक्ष्मीं पद्मासनस्थिताम्

sthāpanaṃ tu mahālakṣmyāḥ kartavyaṃ deśikottamaiḥ | nirmāya śilpivaryeṇa lakṣmīṃ padmāsanasthitām


3

हस्तद्वयगृहीताब्ज शोभितां हेमवर्णिनीम् । हस्तिशुण्डाग्रकुम्भाभ्यां सिच्यमानशिरोभाराम्

hastadvayagṛhītābja śobhitāṃ hemavarṇinīm | hastiśuṇḍāgrakumbhābhyāṃ sicyamānaśirobhārām


4

परिवृतपदद्वन्द्वां पद्मपत्रनिभेक्षणाम् । पार्श्वयोरपि कन्याभ्यां चामराभ्यां विशेषतः

parivṛtapadadvandvāṃ padmapatranibhekṣaṇām | pārśvayorapi kanyābhyāṃ cāmarābhyāṃ viśeṣataḥ


5

बीज्यमानां महालक्ष्मीं विशालां विष्णुवल्लभाम् । शुभे मुहूर्ते सुदिने अङ्कुरं कारयेद्बुधः

bījyamānāṃ mahālakṣmīṃ viśālāṃ viṣṇuvallabhām | śubhe muhūrte sudine aṅkuraṃ kārayedbudhaḥ


6

वास्तुहोमं ततः कृत्वा महालक्ष्म्याश्च सन्निधौ । दिग्भ्यां इत्यनुवाकेन अङ्गहोममथाचरेत्

vāstuhomaṃ tataḥ kṛtvā mahālakṣmyāśca sannidhau | digbhyāṃ ityanuvākena aṅgahomamathācaret


7

पूर्वोक्तविधिना चैव अक्षिमोचनमाचरेत् । अधिवासत्रयं कृत्वा क्षीरगव्यं जलेषु च

pūrvoktavidhinā caiva akṣimocanamācaret | adhivāsatrayaṃ kṛtvā kṣīragavyaṃ jaleṣu ca


8

ग्रामप्रदक्षिणं कृत्वा यागशालां प्रविश्य च । पुण्याह प्रोक्षणं कृत्वा पञ्चगव्यैस्तथैव च

grāmapradakṣiṇaṃ kṛtvā yāgaśālāṃ praviśya ca | puṇyāha prokṣaṇaṃ kṛtvā pañcagavyaistathaiva ca


9

वेद्योपरि विशेषेण धान्यैस्तु दशभारकैः । आस्तीर्य पञ्चचयने च साधयित्वा मनोन्मनीम्

vedyopari viśeṣeṇa dhānyaistu daśabhārakaiḥ | āstīrya pañcacayane ca sādhayitvā manonmanīm


10

प्रासार्य परितो धान्यैर्लिखित्वा पद्मरेखया । नवकुम्भं सुसंस्थाप्य तन्तुना वेष्टितं परम्

prāsārya parito dhānyairlikhitvā padmarekhayā | navakumbhaṃ susaṃsthāpya tantunā veṣṭitaṃ param


11

नवां च लक्ष्मी प्रतिमां कुम्भेषु परिनिक्षिपेत् । नवरत्नादि निक्षिप्य नालिकेराम्रपल्लवम्

navāṃ ca lakṣmī pratimāṃ kumbheṣu parinikṣipet | navaratnādi nikṣipya nālikerāmrapallavam


12

आच्छाद्य नववर्णैश्च कूर्चद्वन्द्वं विनिक्षिपेत् । मध्यं कुम्भे महालक्ष्मीं सिद्धिं दक्षिणतस्तथा

ācchādya navavarṇaiśca kūrcadvandvaṃ vinikṣipet | madhyaṃ kumbhe mahālakṣmīṃ siddhiṃ dakṣiṇatastathā


13

पश्चिमे वीर्यलक्ष्मीं च उत्तरे विजयदायिनीम् । पूर्वे तु कार्यलक्ष्मीं च आवाह्याभ्यर्चयेद् गुरुः

paścime vīryalakṣmīṃ ca uttare vijayadāyinīm | pūrve tu kāryalakṣmīṃ ca āvāhyābhyarcayed guruḥ


14

उमां सरस्वतीं चैव सावित्रीं गायत्रीमेव च । आग्नेयादिषु कुम्भेषु आवाह्याभ्यर्चयेद् बुधः

umāṃ sarasvatīṃ caiva sāvitrīṃ gāyatrīmeva ca | āgneyādiṣu kumbheṣu āvāhyābhyarcayed budhaḥ


15

प्रधानकुम्भपरितो लक्ष्मीशक्तीस्तु पूजयेत् । चतुर्दिक्षु चतुर्वेद्यां निर्यातीन् पूजयेत् क्रमात्

pradhānakumbhaparito lakṣmīśaktīstu pūjayet | caturdikṣu caturvedyāṃ niryātīn pūjayet kramāt


16

अधोभागे उमावेद्यामष्टशक्तीस्तु पूजयेत् । अग्निकार्याणि विधिवत् पूर्वोक्तेनैव वर्त्मना

adhobhāge umāvedyāmaṣṭaśaktīstu pūjayet | agnikāryāṇi vidhivat pūrvoktenaiva vartmanā


17

प्रणीत्वा चतुरो विप्रान् उपदर्शनमेव च । होतव्यं तैस्तु विधिवन् नवकुण्डेषु पृथक् पृथक्

praṇītvā caturo viprān upadarśanameva ca | hotavyaṃ taistu vidhivan navakuṇḍeṣu pṛthak pṛthak


18

हिरण्यवर्णां तु गायत्रीं श्रिये जातश्रियं तथा । पद्मप्रियेति मन्त्रैस्तु आम्रपुष्पसमित्कुशैः

hiraṇyavarṇāṃ tu gāyatrīṃ śriye jātaśriyaṃ tathā | padmapriyeti mantraistu āmrapuṣpasamitkuśaiḥ


19

प्रत्येकं पञ्चसाहस्रं नवधान्यैस्तु भावयेत् । एवमेवं तु सप्ताहं पञ्चाहं त्र्यहमेव वा

pratyekaṃ pañcasāhasraṃ navadhānyaistu bhāvayet | evamevaṃ tu saptāhaṃ pañcāhaṃ tryahameva vā


20

सहस्रमयुतं वापि शतमष्टोत्तरं हुनेत् । हविभिः पुष्कलाभिश्च गायत्र्या वहयेद् बुधः

sahasramayutaṃ vāpi śatamaṣṭottaraṃ hunet | havibhiḥ puṣkalābhiśca gāyatryā vahayed budhaḥ


21

नवादीनाम कर्तव्यं * * * ब्राह्मणोत्तमैः । नवैः पुष्पैश्च धान्यैश्च मधुभिश्शर्करैस्तथा

navādīnāma kartavyaṃ * * * brāhmaṇottamaiḥ | navaiḥ puṣpaiśca dhānyaiśca madhubhiśśarkaraistathā


22

आज्यैर्हविभिर्दधिभिः समिद्भिः फलसंयुतैः । प्राग्भागे पद्मकुण्डे तु मूलेन स्वगुणादयः

ājyairhavibhirdadhibhiḥ samidbhiḥ phalasaṃyutaiḥ | prāgbhāge padmakuṇḍe tu mūlena svaguṇādayaḥ


23

होतव्यं तु विशेषेण ध्यानपूर्वपुरस्सरम् । होमकाले द्विजश्रेष्ठाद् वेदपारायणे रतान्

hotavyaṃ tu viśeṣeṇa dhyānapūrvapurassaram | homakāle dvijaśreṣṭhād vedapārāyaṇe ratān


24

स्वस्तिसूक्तं जपेयुश्च पुराणपठने रताः । ईकारत्यनुवाकेन होतव्यं सगुणा? तथा

svastisūktaṃ japeyuśca purāṇapaṭhane ratāḥ | īkāratyanuvākena hotavyaṃ saguṇā? tathā


25

पूर्णाहुतिं ततः कृत्वा प्रायश्चित्तं ततो हुनेत् । जयादीन् वाहयित्वापि होमशेषं समाचरेत्

pūrṇāhutiṃ tataḥ kṛtvā prāyaścittaṃ tato hunet | jayādīn vāhayitvāpi homaśeṣaṃ samācaret


26

रात्रिशेषं तु गनितं नीत्वा मङ्गलकादिभिः । स्नात्वा प्रभातसमये आचार्यो मूर्तिपैस्सह

rātriśeṣaṃ tu ganitaṃ nītvā maṅgalakādibhiḥ | snātvā prabhātasamaye ācāryo mūrtipaissaha


27

पूर्वामुपास्य सन्ध्यां तु गायत्रीं च जपेद्गुरुः । आलयं संप्रविश्याऽथ श्रीसूक्तं प्रजपन् सताम्

pūrvāmupāsya sandhyāṃ tu gāyatrīṃ ca japedguruḥ | ālayaṃ saṃpraviśyā'tha śrīsūktaṃ prajapan satām


28

प्रदक्षिणीकृत्य नमस्कृत्वा पुनः पुनः । गन्धद्वारेति मन्त्रेण ध्यात्वा देवीं न दिक्सुताम्

pradakṣiṇīkṛtya namaskṛtvā punaḥ punaḥ | gandhadvāreti mantreṇa dhyātvā devīṃ na diksutām


29

आसीनोदङ्मुखस्तत्र मूलमष्टोत्तरं जपेत् । आचार्यः कुम्भमादाय पुरो गच्छेत्तु वाग्यतः

āsīnodaṅmukhastatra mūlamaṣṭottaraṃ japet | ācāryaḥ kumbhamādāya puro gacchettu vāgyataḥ


30

चयनाद् बिम्बमादाय अनुगच्छेत्ततो गुरुः । आलयं संप्रविश्याऽपि बिम्बं संस्थाप्य चासने

cayanād bimbamādāya anugacchettato guruḥ | ālayaṃ saṃpraviśyā'pi bimbaṃ saṃsthāpya cāsane


31

कुम्भं तु पुरतः स्थाप्य आसीनोदङ्मुखो गुरुः । प्राणानायम्य विधिना रेचपूरककुम्भकैः

kumbhaṃ tu purataḥ sthāpya āsīnodaṅmukho guruḥ | prāṇānāyamya vidhinā recapūrakakumbhakaiḥ


32

अङ्गन्यासकरन्यासमन्तर्मातृकया बहिः । यथात्मनि तथा बिम्बे न्यासं कृत्वा विशेषवित्

aṅganyāsakaranyāsamantarmātṛkayā bahiḥ | yathātmani tathā bimbe nyāsaṃ kṛtvā viśeṣavit


33

यजमानेन संयुक्तो दशदानानि कारयेत् । नवग्रहप्रतिग्रहं दानं कृत्वा संभूरिक भवेत्

yajamānena saṃyukto daśadānāni kārayet | navagrahapratigrahaṃ dānaṃ kṛtvā saṃbhūrika bhavet


34

संयज्ञं पूजयेत् पूर्वं यथा विभवविस्तरात् । पूर्वोक्तैर्मन्त्रनिचयैर्बिम्बं स्पृष्ट्वा विधानवित्

saṃyajñaṃ pūjayet pūrvaṃ yathā vibhavavistarāt | pūrvoktairmantranicayairbimbaṃ spṛṣṭvā vidhānavit


35

श्रीमन्त्रं मूर्ध्नि कृत्वा तु श्रीसूक्तं प्रजपन्मुदा । कुम्भात् शक्तिं समादाय बिम्बे विन्यस्य वा ततः

śrīmantraṃ mūrdhni kṛtvā tu śrīsūktaṃ prajapanmudā | kumbhāt śaktiṃ samādāya bimbe vinyasya vā tataḥ


36

आवाह्य मूलमन्त्रेण ध्यात्वा देवीं वरप्रदाम् । अभ्यर्च्य गन्धकुसुमैष्षोडशैरुपचारकैः

āvāhya mūlamantreṇa dhyātvā devīṃ varapradām | abhyarcya gandhakusumaiṣṣoḍaśairupacārakaiḥ


37

निवेद्य परमान्नं च पश्चात् ताम्बूलमेव च । सन्निधौ तु महालक्ष्म्याः प्रार्थयित्वा मनोरथान्

nivedya paramānnaṃ ca paścāt tāmbūlameva ca | sannidhau tu mahālakṣmyāḥ prārthayitvā manorathān


38

आचार्यं पूजयेत् पश्चाद् वस्त्राभरणकुण्डलैः । गोभिर्भूम्या च वसुभिः इष्टकाम्यैस्तथैव च

ācāryaṃ pūjayet paścād vastrābharaṇakuṇḍalaiḥ | gobhirbhūmyā ca vasubhiḥ iṣṭakāmyaistathaiva ca


39

तोषयित्वा गुरुं नत्वा ऋत्विजश्च तथा पुनः । आशीर्वचनमालप्यन् तथा संतोष्य भूसुरान्

toṣayitvā guruṃ natvā ṛtvijaśca tathā punaḥ | āśīrvacanamālapyan tathā saṃtoṣya bhūsurān


40

मोदमानोद्ग्रहं गच्छेत् पितृभिः सह बान्धवैः । एवं यः कुरुते भक्त्या श्रद्धाप्रीतिपुरस्सरम्

modamānodgrahaṃ gacchet pitṛbhiḥ saha bāndhavaiḥ | evaṃ yaḥ kurute bhaktyā śraddhāprītipurassaram


41

तस्य पापानि नश्यन्ति करस्थास्सर्वसंपदः । अवाप्य धनधान्यानि दासीदासगृहं तथा

tasya pāpāni naśyanti karasthāssarvasaṃpadaḥ | avāpya dhanadhānyāni dāsīdāsagṛhaṃ tathā


42

कलत्र पुत्रसंवृद्धिं कुर्युरारोग्यमेव च । इह तु विपुलान् भोगान् गीर्वाणदुर्लभान्

kalatra putrasaṃvṛddhiṃ kuryurārogyameva ca | iha tu vipulān bhogān gīrvāṇadurlabhān


43

दिव्यं विमानमारुह्य लोकान् लोकान्तरानपि । संचरन् श्रीप्रसादेन श्रीसायुज्यमवाप्नुयात्

divyaṃ vimānamāruhya lokān lokāntarānapi | saṃcaran śrīprasādena śrīsāyujyamavāpnuyāt


329

इति चन्द्रज्ञाने उत्तरभागे शक्तिविषयप्रसङ्गे लक्ष्मीप्रतिष्ठाविधिर्नाम एकोनाशीतिपटलः

iti candrajñāne uttarabhāge śaktiviṣayaprasaṅge lakṣmīpratiṣṭhāvidhirnāma ekonāśītipaṭalaḥ


15

धर्मादि । अधर्मादि । अधच्छदनाय नमः । ऊर्ध्वच्छदनाय नमः । कन्दाय नमः । मध्यकुम्भे ध्यानम् । एकवक्त्रां द्विनेत्रां च द्विभुजां पद्महस्तका । करण्डमकुटोपेतां लम्बपादद्वयान्विताम्

dharmādi | adharmādi | adhacchadanāya namaḥ | ūrdhvacchadanāya namaḥ | kandāya namaḥ | madhyakumbhe dhyānam | ekavaktrāṃ dvinetrāṃ ca dvibhujāṃ padmahastakā | karaṇḍamakuṭopetāṃ lambapādadvayānvitām


331

हस्तद्वयोद्धृतैः कुम्भैः अभिषेककृतान्विताम् । सर्वालंकारसंयुक्तां ध्यायेल्लक्ष्मीं तु पूजयेत्

hastadvayoddhṛtaiḥ kumbhaiḥ abhiṣekakṛtānvitām | sarvālaṃkārasaṃyuktāṃ dhyāyellakṣmīṃ tu pūjayet


15

आवाहनम् । ओं श्रां श्रीं श्रूं श्रैं श्रौं श्रः महालक्ष्म्यै नमः । ह्लां हृदयायै नमः । श्रीं शिरसे नमः । स्रूं शिखायै वौषट् । श्रैं कवचाय हुम् । श्रौं नेत्रत्रयाय वौषट् । श्रः अस्त्राय फट्

āvāhanam | oṃ śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ mahālakṣmyai namaḥ | hlāṃ hṛdayāyai namaḥ | śrīṃ śirase namaḥ | srūṃ śikhāyai vauṣaṭ | śraiṃ kavacāya hum | śrauṃ netratrayāya vauṣaṭ | śraḥ astrāya phaṭ


1

गन्धपुष्प । वैष्णव्यै नमः । जानकयै नमः । रश्मिन्यै नमः । वाराह्यै नमः । हरिप्रियायै नमः । पद्मालयायै नमः । महालक्ष्म्यै नमः । अर्चयित्वा पूर्वाद्यष्टकुम्भेषु श्रीदेव्यै नमः । लोकमात्रे नमः । क्षीराब्धि तनयायै नमः । हरिप्रियायै नमः । क्षमायै नमः । पद्मधारिण्यै नमः । गुरुरूपं परान्यार्थं गुरुरूपं परात्परम् । गुरुरूपं परं ज्ञानं गुरुरूपं पराशिवम्

gandhapuṣpa | vaiṣṇavyai namaḥ | jānakayai namaḥ | raśminyai namaḥ | vārāhyai namaḥ | haripriyāyai namaḥ | padmālayāyai namaḥ | mahālakṣmyai namaḥ | arcayitvā pūrvādyaṣṭakumbheṣu śrīdevyai namaḥ | lokamātre namaḥ | kṣīrābdhi tanayāyai namaḥ | haripriyāyai namaḥ | kṣamāyai namaḥ | padmadhāriṇyai namaḥ | gururūpaṃ parānyārthaṃ gururūpaṃ parātparam | gururūpaṃ paraṃ jñānaṃ gururūpaṃ parāśivam


2

गुरुर्देवो महादेवो गुरुपत्नी मनोन्मनी । गुरुपुत्रो गुहः प्राप्तो गुरुदासश्च चण्डवत्

gururdevo mahādevo gurupatnī manonmanī | guruputro guhaḥ prāpto gurudāsaśca caṇḍavat


3

पञ्चकृत्यमिदं प्रोक्तं सर्वमन्त्राधिमन्त्रकम् । सृष्टिस्थितिं च संहारं तिरोभावमनुग्रहम्

pañcakṛtyamidaṃ proktaṃ sarvamantrādhimantrakam | sṛṣṭisthitiṃ ca saṃhāraṃ tirobhāvamanugraham


4

सर्वकारणकार्याणां सर्वसंपत्सुखावहम् । पञ्चहस्तमुदीचीनं प्राचीनं मण्टपं तथा

sarvakāraṇakāryāṇāṃ sarvasaṃpatsukhāvaham | pañcahastamudīcīnaṃ prācīnaṃ maṇṭapaṃ tathā


5

द्वादशाङ्गुलसंयुक्तं मध्यताश्चतुरङ्गुलम् । दक्षिणोत्तरसंयुक्तं पूर्णकुम्भैरलंकृतम्

dvādaśāṅgulasaṃyuktaṃ madhyatāścaturaṅgulam | dakṣiṇottarasaṃyuktaṃ pūrṇakumbhairalaṃkṛtam


6

चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् । अष्टद्रोणं तु शालीनां तदर्धं तण्डुलं तथा

caturdvārasamāyuktaṃ catustoraṇabhūṣitam | aṣṭadroṇaṃ tu śālīnāṃ tadardhaṃ taṇḍulaṃ tathā


7

तदर्धं तु तिलं चैव तदर्धं लाजपुष्पकम् । पञ्चकुम्भं तथा स्थाप्य वर्धनीं हेमकूर्चकम्

tadardhaṃ tu tilaṃ caiva tadardhaṃ lājapuṣpakam | pañcakumbhaṃ tathā sthāpya vardhanīṃ hemakūrcakam


8

वस्त्रापिधान संयुक्तं तन्तुना वेष्टयेत्ततः । सप्ततालमुदीचीनां प्राचीनां च तथैव च

vastrāpidhāna saṃyuktaṃ tantunā veṣṭayettataḥ | saptatālamudīcīnāṃ prācīnāṃ ca tathaiva ca


9

पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं लिखेत् ततः । प्राक्सूत्रं रुद्रसूत्रं स्यात् उदक्सूत्रं तथैव च

pītaṃ śvetaṃ tathā raktaṃ kṛṣṇaṃ dhūmraṃ likhet tataḥ | prāksūtraṃ rudrasūtraṃ syāt udaksūtraṃ tathaiva ca


10

सूत्रान् सूत्रान्तरं तालं चतुरङ्गुलविस्तरम् । एकं तु ब्रह्मचर्याणां गृहस्थं च द्वितीयकम्

sūtrān sūtrāntaraṃ tālaṃ caturaṅgulavistaram | ekaṃ tu brahmacaryāṇāṃ gṛhasthaṃ ca dvitīyakam


11

तृतीयं वानप्रस्थं च सन्यसेत् चतुरश्रकः । कृते त्रेतायुगे चैव द्वापरे च कलौ तथा

tṛtīyaṃ vānaprasthaṃ ca sanyaset caturaśrakaḥ | kṛte tretāyuge caiva dvāpare ca kalau tathā


12

ज्ञानयोगक्रियाणां च आचार्यं तु चतुष्पदम् । ऋग्यजुस्सामाथर्वाणां वेदपादमिदं स्मृतम्

jñānayogakriyāṇāṃ ca ācāryaṃ tu catuṣpadam | ṛgyajussāmātharvāṇāṃ vedapādamidaṃ smṛtam


13

पञ्चविंशत् पदं ज्ञानं योगानां पञ्चविंशतिः । पञ्चविंशत्क्रियाणां तु आचार्यः पञ्चविंशतिः

pañcaviṃśat padaṃ jñānaṃ yogānāṃ pañcaviṃśatiḥ | pañcaviṃśatkriyāṇāṃ tu ācāryaḥ pañcaviṃśatiḥ


14

इत्युक्तं शतपदं ज्ञेयं चतुष्पादमिदं स्मृतम् । गोरोचना च लिखितं कुङ्कुमं चन्दनानि च

ityuktaṃ śatapadaṃ jñeyaṃ catuṣpādamidaṃ smṛtam | gorocanā ca likhitaṃ kuṅkumaṃ candanāni ca


15

सूत्रान्तरात् करान्तं स्याद् वर्णानां तु न्यसेद् बुधः । पीतं श्वेतं तथा रक्तं कृष्णं धूम्रं तु वर्णकम्

sūtrāntarāt karāntaṃ syād varṇānāṃ tu nyased budhaḥ | pītaṃ śvetaṃ tathā raktaṃ kṛṣṇaṃ dhūmraṃ tu varṇakam


16

पञ्चचक्रविधिः प्रोक्तः वर्णान्ते तु पृथक् पृथक् । कौशिकः काश्यपश्चैव भारद्वाजश्च गौतमः

pañcacakravidhiḥ proktaḥ varṇānte tu pṛthak pṛthak | kauśikaḥ kāśyapaścaiva bhāradvājaśca gautamaḥ


17

अनुष्टुप्च्छन्दस्य जगतृष्टुप्गायत्रियः । ब्रह्मा विष्णुश्च रुद्रश्च महेशश्च सदाशिवः

anuṣṭupcchandasya jagatṛṣṭupgāyatriyaḥ | brahmā viṣṇuśca rudraśca maheśaśca sadāśivaḥ


18

सरस्वती लक्ष्मीश्चैव उमा गौरी च पार्वती । प्रणवं प्रधानबीजं तु द्वितीयं श्रीबीजमुच्यते

sarasvatī lakṣmīścaiva umā gaurī ca pārvatī | praṇavaṃ pradhānabījaṃ tu dvitīyaṃ śrībījamucyate


19

तृतीयं ह्रींकारबीजं च चतुर्थं श्रीबीजमुच्यते । पञ्चमं प्रणवं बीजं बिन्दुनादं लिखेद् बुधः

tṛtīyaṃ hrīṃkārabījaṃ ca caturthaṃ śrībījamucyate | pañcamaṃ praṇavaṃ bījaṃ bindunādaṃ likhed budhaḥ


20

पञ्चाक्षरक्रमेणैव सृष्टिचक्रमथ शृणु । धान्तं भान्तं च वान्तं चलान्तं मान्तं तथैव च

pañcākṣarakrameṇaiva sṛṣṭicakramatha śṛṇu | dhāntaṃ bhāntaṃ ca vāntaṃ calāntaṃ māntaṃ tathaiva ca


21

मान्तं धान्तं च लान्तं च वान्तं भान्तं परात्परम् । भान्तं लान्तं च मान्तं च धान्तं वान्तं वरप्रदम्

māntaṃ dhāntaṃ ca lāntaṃ ca vāntaṃ bhāntaṃ parātparam | bhāntaṃ lāntaṃ ca māntaṃ ca dhāntaṃ vāntaṃ varapradam


22

वान्तं मान्तं च धान्तं च भान्तं लान्तमतः परम् । लान्तं वान्तं च भान्तं मान्तं धान्तं तथैव च

vāntaṃ māntaṃ ca dhāntaṃ ca bhāntaṃ lāntamataḥ param | lāntaṃ vāntaṃ ca bhāntaṃ māntaṃ dhāntaṃ tathaiva ca


23

इत्येवं सृष्टिचक्रं स्यात् स्थितिचक्रमतः परम् । भान्तं लान्तं च मान्तं च धान्तं वान्तमतः परम्

ityevaṃ sṛṣṭicakraṃ syāt sthiticakramataḥ param | bhāntaṃ lāntaṃ ca māntaṃ ca dhāntaṃ vāntamataḥ param


24

वान्तं मान्तं च धान्तं च भान्तं लान्तं तथैव च । लान्तं वान्तं च भान्तं च मान्तं धान्तमतः परम्

vāntaṃ māntaṃ ca dhāntaṃ ca bhāntaṃ lāntaṃ tathaiva ca | lāntaṃ vāntaṃ ca bhāntaṃ ca māntaṃ dhāntamataḥ param


25

धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च । मान्तं धान्तं च लान्तं च वान्तं भान्तं परं पदम्

dhāntaṃ bhāntaṃ ca vāntaṃ ca lāntaṃ māntaṃ tathaiva ca | māntaṃ dhāntaṃ ca lāntaṃ ca vāntaṃ bhāntaṃ paraṃ padam


26

स्थितिचक्रमिति चैव संहारं तमथ शृणु । वान्तं मान्तं च वान्तं च भान्तं लान्तमतः परम्

sthiticakramiti caiva saṃhāraṃ tamatha śṛṇu | vāntaṃ māntaṃ ca vāntaṃ ca bhāntaṃ lāntamataḥ param


27

लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च । धान्तं भान्तं च वान्तं च लान्तं मान्तं तथैव च

lāntaṃ vāntaṃ ca bhāntaṃ ca māntaṃ dhāntaṃ tathaiva ca | dhāntaṃ bhāntaṃ ca vāntaṃ ca lāntaṃ māntaṃ tathaiva ca


28

मान्तं धान्तं च भान्तं च वान्तं लान्तं ततः परम् । भान्तं लान्तं च मान्तं च धान्तं वान्तं ततः परम्

māntaṃ dhāntaṃ ca bhāntaṃ ca vāntaṃ lāntaṃ tataḥ param | bhāntaṃ lāntaṃ ca māntaṃ ca dhāntaṃ vāntaṃ tataḥ param


29

इति संहारचक्रं च तिरोभावमथ शृणु । लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च

iti saṃhāracakraṃ ca tirobhāvamatha śṛṇu | lāntaṃ vāntaṃ ca bhāntaṃ ca māntaṃ dhāntaṃ tathaiva ca


30

धान्तं यान्तं च वान्तं च भान्तं मान्तमतः परम् । मान्तं धान्तं च लान्तं च वान्तं पान्तं परात्परम्

dhāntaṃ yāntaṃ ca vāntaṃ ca bhāntaṃ māntamataḥ param | māntaṃ dhāntaṃ ca lāntaṃ ca vāntaṃ pāntaṃ parātparam


31

भान्तं लान्तं च मान्तं च धान्तं वान्तं वरानने । वान्तं धान्तं च मान्तं च भान्तं लान्तं परात्परम्

bhāntaṃ lāntaṃ ca māntaṃ ca dhāntaṃ vāntaṃ varānane | vāntaṃ dhāntaṃ ca māntaṃ ca bhāntaṃ lāntaṃ parātparam


32

तिरोभावेति चक्रं तु अनुग्रहमथ शृणु । मान्तं धान्तं च लान्तं च वान्तं भान्तमतः परम्

tirobhāveti cakraṃ tu anugrahamatha śṛṇu | māntaṃ dhāntaṃ ca lāntaṃ ca vāntaṃ bhāntamataḥ param


33

भान्तं लान्तं च मान्तं च धान्तं वान्तं तथैव च । वान्तं मान्तं च धान्तं च भान्तं लान्तं च भावनम्

bhāntaṃ lāntaṃ ca māntaṃ ca dhāntaṃ vāntaṃ tathaiva ca | vāntaṃ māntaṃ ca dhāntaṃ ca bhāntaṃ lāntaṃ ca bhāvanam


34

लान्तं वान्तं च भान्तं च मान्तं धान्तं तथैव च । धान्तं मान्तं च वान्तं च लान्तं भान्तं परात्परम्

lāntaṃ vāntaṃ ca bhāntaṃ ca māntaṃ dhāntaṃ tathaiva ca | dhāntaṃ māntaṃ ca vāntaṃ ca lāntaṃ bhāntaṃ parātparam


35

इत्यनुग्रहचक्राणां चक्रं पञ्चविधं भवेत् । इत्येतत् पञ्चचक्राणां पञ्चविंशत्शतं शृणु

ityanugrahacakrāṇāṃ cakraṃ pañcavidhaṃ bhavet | ityetat pañcacakrāṇāṃ pañcaviṃśatśataṃ śṛṇu


36

गालवो ऋषिभिश्चैव वृहती च तथैव च । देवस्सदाशिवज्ञेयः उन्मनीशक्तिसंयुतम्

gālavo ṛṣibhiścaiva vṛhatī ca tathaiva ca | devassadāśivajñeyaḥ unmanīśaktisaṃyutam


37

बीजं प्रधानं तन्मध्ये आकारोकारमेव च । विंशत्पदं तु ब्राह्माणां पदं प्रति पदं प्रति

bījaṃ pradhānaṃ tanmadhye ākārokārameva ca | viṃśatpadaṃ tu brāhmāṇāṃ padaṃ prati padaṃ prati


38

सान्तं धान्तं समायुक्तं विंशादीनां परं पदम् । मध्यमेकपदं स्थाप्य ओंकारं परमेश्वरम्

sāntaṃ dhāntaṃ samāyuktaṃ viṃśādīnāṃ paraṃ padam | madhyamekapadaṃ sthāpya oṃkāraṃ parameśvaram


39

तन्मध्ये स्थापितं लिङ्गं ओंकारं परमं पदम् । धान्तं नकारमेवोक्तं भान्तंमकारमेव च

tanmadhye sthāpitaṃ liṅgaṃ oṃkāraṃ paramaṃ padam | dhāntaṃ nakāramevoktaṃ bhāntaṃmakārameva ca


40

वान्तं शिकारसंयुक्तं लान्तं वकारमेव च । मान्तं यकारमेवोक्तं नमश्शिवाय मन्त्रकः

vāntaṃ śikārasaṃyuktaṃ lāntaṃ vakārameva ca | māntaṃ yakāramevoktaṃ namaśśivāya mantrakaḥ

candrajñāne pratiṣṭhātantre ādrāvratavidhiḥ dvāviṃśatiḥ paṭalaḥ

1

॥ एकविंशतिपटलः

|| ekaviṃśatipaṭalaḥ


1

आर्द्राव्रतं प्रवक्ष्यामि सर्वप्राणि सुखावहम् । सर्वमङ्गलरक्षार्थं सर्वशत्रुक्षयं भवेत्

ārdrāvrataṃ pravakṣyāmi sarvaprāṇi sukhāvaham | sarvamaṅgalarakṣārthaṃ sarvaśatrukṣayaṃ bhavet


2

नवाहं चैव सप्ताहं अङ्कुरार्पणपूर्वकम् । मृगशीर्षनक्षत्रे तु अधिवासनमारभेत्

navāhaṃ caiva saptāhaṃ aṅkurārpaṇapūrvakam | mṛgaśīrṣanakṣatre tu adhivāsanamārabhet


3

गौरीं तु स्नपयेत् पश्चात् श्वेतवस्त्रेण वेष्टयेत् । सर्वाभरणभूष्यं तु सर्वाङ्गं समलंकृतम्

gaurīṃ tu snapayet paścāt śvetavastreṇa veṣṭayet | sarvābharaṇabhūṣyaṃ tu sarvāṅgaṃ samalaṃkṛtam


4

मण्टपे सर्वसंयुक्ते स्थण्डिलं कारयेत् क्रमात् । तन्मध्ये गौरीमास्थाप्य कृत्वा कौतुकबन्धनम्

maṇṭape sarvasaṃyukte sthaṇḍilaṃ kārayet kramāt | tanmadhye gaurīmāsthāpya kṛtvā kautukabandhanam


5

स्थलिके तण्डुले चैव तन्मध्ये तन्तुरक्षकम् । परिचारकमुद्धृ * * * * * * दक्षिणम्

sthalike taṇḍule caiva tanmadhye tanturakṣakam | paricārakamuddhṛ * * * * * * dakṣiṇam


6

धूपदीपहरो दत्त्वा पुण्याहं वाचयेत्ततः । शङ्खदुन्दुभिनिर्घोषैश्श्रोत्रमङ्गलवाचकैः

dhūpadīpaharo dattvā puṇyāhaṃ vācayettataḥ | śaṅkhadundubhinirghoṣaiśśrotramaṅgalavācakaiḥ


7

वेदध्वनि समायुक्तं नृत्तगेयसमन्वितम् । त्रियम्बकेन मन्त्रेण कौतुकं बन्धयेत्ततः

vedadhvani samāyuktaṃ nṛttageyasamanvitam | triyambakena mantreṇa kautukaṃ bandhayettataḥ


8

नैवेद्यं दापयेत् पश्चात् अपूपं तु सुयोजयेत् । धूपदीपौ हरौ दत्वा ताम्बूलं तु निवेदयेत्

naivedyaṃ dāpayet paścāt apūpaṃ tu suyojayet | dhūpadīpau harau datvā tāmbūlaṃ tu nivedayet


9

द्वितीये दिवसे चैव उमादेवीं तु स्नापयेत् । नववस्त्रैरलंकृत्य समस्ताभरणैरपि

dvitīye divase caiva umādevīṃ tu snāpayet | navavastrairalaṃkṛtya samastābharaṇairapi


10

सर्वमाल्यैर्विशेषेण पूजयेत् परमेश्वरम् । शिवाग्रे स्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः

sarvamālyairviśeṣeṇa pūjayet parameśvaram | śivāgre sthaṇḍilaṃ kuryāt aṣṭadroṇaiśca śālibhiḥ


11

तदूर्ध्वे वस्त्रमावेष्ट्य तन्मध्ये लवणं क्षिपेत् । तदूर्ध्वे गौरीमास्थाप्य * * * * * * * *

*tadūrdhve vastramāveṣṭya tanmadhye lavaṇaṃ kṣipet | tadūrdhve gaurīmāsthāpya * * * * * * * **


12

गौरीदक्षिणदिग्भागे विश्वेशं पूजयेत्ततः । वामपार्श्वे तु दुर्गां च पूजयेत्तु विशेषतः

gaurīdakṣiṇadigbhāge viśveśaṃ pūjayettataḥ | vāmapārśve tu durgāṃ ca pūjayettu viśeṣataḥ


13

हरिद्राणि तथा कुर्यात् दीरसन्निधिसंस्थितः । तन्निम्बप्रस्थपूर्णं तु पूर्वाग्रेण च संयुतम्

haridrāṇi tathā kuryāt dīrasannidhisaṃsthitaḥ | tannimbaprasthapūrṇaṃ tu pūrvāgreṇa ca saṃyutam


14

शक्रचूर्णं हि संयुक्तं रजनी लवणं तथा । एकपात्रं गृहीत्वा ततो दूर्वाक्षतं यथा

śakracūrṇaṃ hi saṃyuktaṃ rajanī lavaṇaṃ tathā | ekapātraṃ gṛhītvā tato dūrvākṣataṃ yathā


15

गौरीदक्षिणहस्ते तु पानीयं त्रिप्रदक्षिणम् । प्रस्थचूर्णं तु तण्डुल्यं दापयेद्देशिकोत्तमः

gaurīdakṣiṇahaste tu pānīyaṃ tripradakṣiṇam | prasthacūrṇaṃ tu taṇḍulyaṃ dāpayeddeśikottamaḥ


116

हस्तेन संग्रहीत्वा तु पायसान्नं समुद्धृतम् । पुण्याहं वाचयित्वा तु आर्द्राव्रतं समाचरेत्

hastena saṃgrahītvā tu pāyasānnaṃ samuddhṛtam | puṇyāhaṃ vācayitvā tu ārdrāvrataṃ samācaret


17

देशिको हस्तदोग्रह्य पानीयं दापयेद् गुरुः । हरिद्राणि समादाय तण्डुलं दर्शनं परम्

deśiko hastadograhya pānīyaṃ dāpayed guruḥ | haridrāṇi samādāya taṇḍulaṃ darśanaṃ param


18

कूर्चवर्णं च पादाब्जैर्व्रीहिं च नाभिदेशके । रजनीं हृदये न्यस्य लवणं कण्ठदेशके

kūrcavarṇaṃ ca pādābjairvrīhiṃ ca nābhideśake | rajanīṃ hṛdaye nyasya lavaṇaṃ kaṇṭhadeśake


19

पूर्वाक्षरं तु मूर्ध्नि स्यात् दापयेत्तु मनोन्मनीम् । आचार्यं पूजयेत्तत्र पवित्रहेमाङ्गुलीयकैः

pūrvākṣaraṃ tu mūrdhni syāt dāpayettu manonmanīm | ācāryaṃ pūjayettatra pavitrahemāṅgulīyakaiḥ


20

ब्राह्मणान् पूजयेत् तत्र तिलैरपि सुपूजयेत् । शङ्खदुन्दुभिसंयुक्तं नृत्तगेयसमायुतम्

brāhmaṇān pūjayet tatra tilairapi supūjayet | śaṅkhadundubhisaṃyuktaṃ nṛttageyasamāyutam


21

पायसान्नं समुद्धृत्य परिचारकहस्तयोः । ग्रामप्रदक्षिणं कृत्वा मङ्गलानि च हस्तयोः

pāyasānnaṃ samuddhṛtya paricārakahastayoḥ | grāmapradakṣiṇaṃ kṛtvā maṅgalāni ca hastayoḥ


22

आर्द्राव्रतं समाचरेन्नृत्तालं कारमेव च । पूर्वरात्राधिवासं स्यात् तीर्थाधिवासनं कुरु

ārdrāvrataṃ samācarennṛttālaṃ kārameva ca | pūrvarātrādhivāsaṃ syāt tīrthādhivāsanaṃ kuru


23

स्नपनं पञ्चविंशत्यं नृत्तमूर्तिं सुपूजयेत् । वस्त्रेण वेष्टनं कृत्वा सर्वाभरणभूषितम्

snapanaṃ pañcaviṃśatyaṃ nṛttamūrtiṃ supūjayet | vastreṇa veṣṭanaṃ kṛtvā sarvābharaṇabhūṣitam


24

सर्वपुष्पैरलंकृत्य सर्वगन्धानुलेपयेत् । नैवेद्यं दापयेत् पश्चात् ताम्बूलं तु निवेदयेत्

sarvapuṣpairalaṃkṛtya sarvagandhānulepayet | naivedyaṃ dāpayet paścāt tāmbūlaṃ tu nivedayet


25

शङ्खघोषसमायुक्तं नृत्तगेयसमायुतम् । वेदध्वनिसमायुक्तं स्तोत्र ध्वनि समन्वितम्

śaṅkhaghoṣasamāyuktaṃ nṛttageyasamāyutam | vedadhvanisamāyuktaṃ stotra dhvani samanvitam


27

ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं त्विति ।

grāmapradakṣiṇaṃ kṛtvā praviśedālayaṃ tviti |

candrajñāne śivarātrivratakalpavidhistrayoviṃśatipaṭalaḥ

1

श्रीः वक्ष्यामि शिवरात्र्यां तु पूजयेत्तु द्विजोत्तमः । कृतत्रेतायुगद्वन्द्वे द्रापरे च कलौ युगे

śrīḥ vakṣyāmi śivarātryāṃ tu pūjayettu dvijottamaḥ | kṛtatretāyugadvandve drāpare ca kalau yuge


2

युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् । त्रेतायां विघ्नकृत् पूज्य द्वापरेह्यच्युते यजेत्

yuge yuge tu saṃpūjya kṛtāyāṃ tu guho yajet | tretāyāṃ vighnakṛt pūjya dvāparehyacyute yajet


3

ब्रह्मेन्द्रमुनिभिश्चैव कलौ संपूज्यते हरः । माघे कृष्णचतुर्दश्यां फाल्गुने च द्वितीयके

brahmendramunibhiścaiva kalau saṃpūjyate haraḥ | māghe kṛṣṇacaturdaśyāṃ phālgune ca dvitīyake


4

चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपञ्चमी । ज्येष्ठाशक्लतृतीये च आषाढे चाष्टपञ्चमी

caitramāse trayodaśyāṃ vaiśākhe kṛṣṇapañcamī | jyeṣṭhāśaklatṛtīye ca āṣāḍhe cāṣṭapañcamī


5

द्वादश्यां श्रवणे चैव पूर्वाषाढे तु पञ्चमी । तुरके सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिके

dvādaśyāṃ śravaṇe caiva pūrvāṣāḍhe tu pañcamī | turake saptamī caiva kṛṣṇāṣṭamyāṃ tu kṛttike


6

द्वादश्यां मार्गशीर्षे तु पुष्यमासे तथाष्टमी । एवं संवत्सरे पूज्य शिवरात्रिरुपास्यताम्

dvādaśyāṃ mārgaśīrṣe tu puṣyamāse tathāṣṭamī | evaṃ saṃvatsare pūjya śivarātrirupāsyatām


7

माघमासे चतुर्दश्यां तत्फलशिवरात्रिकम् । एकमासे द्विपक्षे तु रात्र्याधिक्या हि तं परम्

māghamāse caturdaśyāṃ tatphalaśivarātrikam | ekamāse dvipakṣe tu rātryādhikyā hi taṃ param


8

शिवं संपूज्य तत्राभ्यां तत्फलं लभते नरः । पक्षं तु समवेगस्स्यात् पूर्वरात्रौ विशेषतः

śivaṃ saṃpūjya tatrābhyāṃ tatphalaṃ labhate naraḥ | pakṣaṃ tu samavegassyāt pūrvarātrau viśeṣataḥ


9

रात्रावधिकपक्षे तु शिवपूजा विधीयते । तद्रात्रिश्शिवरात्रिस्स्यात् एवं सान्निध्यमेव च

rātrāvadhikapakṣe tu śivapūjā vidhīyate | tadrātriśśivarātrissyāt evaṃ sānnidhyameva ca


10

शर्वरी पक्षहीनायां सा दोषबहुला स्मृता । यामं प्रति विशेषेण शिवपूजाविशेषतः

śarvarī pakṣahīnāyāṃ sā doṣabahulā smṛtā | yāmaṃ prati viśeṣeṇa śivapūjāviśeṣataḥ


11

नवाहे चैव सप्ताहे चाङ्कुरार्पणकं कुरु । अङ्कुराण्यर्पयेत् पश्चात् पूर्वोक्तविधिना सह

navāhe caiva saptāhe cāṅkurārpaṇakaṃ kuru | aṅkurāṇyarpayet paścāt pūrvoktavidhinā saha


12

तद्दिनस्य तु पूर्वे तु मण्टपं शोधयेत् पुनः । पञ्चगव्येन संप्रोक्ष्य कौतुकं बन्धयेत्ततः

taddinasya tu pūrve tu maṇṭapaṃ śodhayet punaḥ | pañcagavyena saṃprokṣya kautukaṃ bandhayettataḥ


13

बिल्वपत्रं च संपूज्य सर्वगन्धसमन्वितम् । वस्त्रेण वेष्टयेद् धीमान् बिल्वपत्राधिवासनम्

bilvapatraṃ ca saṃpūjya sarvagandhasamanvitam | vastreṇa veṣṭayed dhīmān bilvapatrādhivāsanam


14

प्रभापविमले धीमान् देशिकः स्नानमाचरेत् । पूर्वाह्ने तर्पणं चैव मध्याह्ने * प्रदक्षिणम्

prabhāpavimale dhīmān deśikaḥ snānamācaret | pūrvāhne tarpaṇaṃ caiva madhyāhne * pradakṣiṇam


15

सायाह्ने पूजनं कृत्वाप्येवमेव व्रतं चरेत् । ब्रह्मक्षत्रिय विद्शूद्रा ह्युपवाससमन्वितम्

sāyāhne pūjanaṃ kṛtvāpyevameva vrataṃ caret | brahmakṣatriya vidśūdrā hyupavāsasamanvitam


16

द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि । सर्वेषां चैव नारीणां उपवासं तथैव च

dvijānāṃ śivabhaktānāṃ sarveṣāṃ prāṇināmapi | sarveṣāṃ caiva nārīṇāṃ upavāsaṃ tathaiva ca


17

निद्राहीनः प्रयत्नेन सर्वकार्याणि साधयेत् । सत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च

nidrāhīnaḥ prayatnena sarvakāryāṇi sādhayet | satphalaṃ sarvasiddhiṃ ca iṣṭakāmyaṃ tathaiva ca


18

आयुष्करं च सिद्धिं च सर्वमोक्षं तहैव च । अमङ्गल्यप्युपासेन पुनर्जन्मस्सुमङ्गली

āyuṣkaraṃ ca siddhiṃ ca sarvamokṣaṃ tahaiva ca | amaṅgalyapyupāsena punarjanmassumaṅgalī


19

अपत्नीकोप्युपासीनः पुनः पत्नीसमन्वितः । इष्टकामफलं वाऽपि शिवरात्रिमुपासने

apatnīkopyupāsīnaḥ punaḥ patnīsamanvitaḥ | iṣṭakāmaphalaṃ vā'pi śivarātrimupāsane


20

निद्रायां तु फलं हीनं निद्राहीनं तु यत्फलम् । तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम्

nidrāyāṃ tu phalaṃ hīnaṃ nidrāhīnaṃ tu yatphalam | tasmāt sarvaprayatnena upavāsamanidrakam


21

ऋग्यजुस्सामवेदैश्च चतुर्भिः प्रतियामकम् । ब्रह्मेन्द्रमुनिभिस्सार्धं देशिकस्संप्रपूजयेत्

ṛgyajussāmavedaiśca caturbhiḥ pratiyāmakam | brahmendramunibhissārdhaṃ deśikassaṃprapūjayet


22

विघ्नेशं पूजयेत् पूर्वं सौरपूजा ततः परम् । शालिभिस्तण्डुलं कृत्वा पुण्याहं वाचयेत्ततः

vighneśaṃ pūjayet pūrvaṃ saurapūjā tataḥ param | śālibhistaṇḍulaṃ kṛtvā puṇyāhaṃ vācayettataḥ


23

पूर्वे तु पञ्चगव्यं स्याद् द्वितीये पञ्चामृतं भवेत् । तृतीये मधुना स्नाप्य इक्षुसारं चतुर्थके

pūrve tu pañcagavyaṃ syād dvitīye pañcāmṛtaṃ bhavet | tṛtīye madhunā snāpya ikṣusāraṃ caturthake


24

यामं प्रति विशेषेण पूजयेद्देशिकोत्तमः । पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं जपेत्

yāmaṃ prati viśeṣeṇa pūjayeddeśikottamaḥ | pūrve tu snapanaṃ proktaṃ aṣṭottaraśataṃ japet


25

द्वितीये स्नपनं प्रोक्तं पञ्चाशत्कलशं भवेत् । तृतीये स्नपनं चैव पञ्चविंशति संख्यया

dvitīye snapanaṃ proktaṃ pañcāśatkalaśaṃ bhavet | tṛtīye snapanaṃ caiva pañcaviṃśati saṃkhyayā


26

चतुर्थे स्नपनं चैव नवकुम्भैस्सुपूजयेत् । यामं प्रति विशेषेण स्नपनं कारयेद् बुधः

caturthe snapanaṃ caiva navakumbhaissupūjayet | yāmaṃ prati viśeṣeṇa snapanaṃ kārayed budhaḥ


27

पूर्वयाम्ये तु संपूज्य बिल्वपत्रैस्समर्चयेत् । द्वितीये पत्रपुष्पैश्च तृतीये जातिपुष्पकैः

pūrvayāmye tu saṃpūjya bilvapatraissamarcayet | dvitīye patrapuṣpaiśca tṛtīye jātipuṣpakaiḥ


28

नन्द्यावर्तैस्तु संपूज्य चतुर्यामे तु पूजयेत् । चतुस्सन्ध्यार्चनं कुर्याद् बिल्वपत्रैस्समन्वितम्

nandyāvartaistu saṃpūjya caturyāme tu pūjayet | catussandhyārcanaṃ kuryād bilvapatraissamanvitam


29

मुद्गान्नं प्रथमं चैव द्वितीये पायसान्नकम् । तृतीये कृसरान्नं स्यात् शुद्धान्नं स्यात् चतुर्थके

mudgānnaṃ prathamaṃ caiva dvitīye pāyasānnakam | tṛtīye kṛsarānnaṃ syāt śuddhānnaṃ syāt caturthake


30

यामं प्रति विशेषेण क्षेत्रपालं समर्चयेत् । यामान्ते तु विशेषेण बलिहोमं समाचरेत्

yāmaṃ prati viśeṣeṇa kṣetrapālaṃ samarcayet | yāmānte tu viśeṣeṇa balihomaṃ samācaret


31

देशिकं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः । ब्राह्मणं पूजयेत् तत्र शिवभक्तान् सुपूजयेत्

deśikaṃ pūjayet tatra vastrahemāṅgulīyakaiḥ | brāhmaṇaṃ pūjayet tatra śivabhaktān supūjayet


32

पूजयेत् परिचारांश्च वस्त्रहेमाङ्गुलीयकैः । श्रीकरं विजयं पुण्यं आयुरारोग्यवर्धनम्

pūjayet paricārāṃśca vastrahemāṅgulīyakaiḥ | śrīkaraṃ vijayaṃ puṇyaṃ āyurārogyavardhanam


33

एवं संपूज्य विधिवत् शिवलोके महीयते ।

evaṃ saṃpūjya vidhivat śivaloke mahīyate |

candrajñāne kriyāpāde balidānavidhiścaturviṃśati paṭalaḥ

1

श्रीः अतः परं प्रवक्ष्यामि बलिदानं बृहस्पते । सर्वरोगविनाशार्थं सर्वशान्तिकरं भवेत्

śrīḥ ataḥ paraṃ pravakṣyāmi balidānaṃ bṛhaspate | sarvarogavināśārthaṃ sarvaśāntikaraṃ bhavet


2

ग्रामवृद्धिकरं पुण्यं सर्वैश्वर्यप्रदायकम् । सर्वदेवः प्रियार्थं च राष्ट्रदुर्भिक्षनाशनम्

grāmavṛddhikaraṃ puṇyaṃ sarvaiśvaryapradāyakam | sarvadevaḥ priyārthaṃ ca rāṣṭradurbhikṣanāśanam


3

स्वायम्भुवं दैविकं च आर्षं तु गाणपं तथा । मानुषं चैव पञ्चैतद् बलिदानं विधिः क्रमात्

svāyambhuvaṃ daivikaṃ ca ārṣaṃ tu gāṇapaṃ tathā | mānuṣaṃ caiva pañcaitad balidānaṃ vidhiḥ kramāt


4

सर्वातोद्यसमायुक्तं सर्वालंकारसंयुतम् । नानादीपसमायुक्तं गणिकादिभिरावृतम्

sarvātodyasamāyuktaṃ sarvālaṃkārasaṃyutam | nānādīpasamāyuktaṃ gaṇikādibhirāvṛtam


5

द्वारस्य दक्षिणे चैव नदीं गङ्गां च संयजेत् । द्वारस्य वामपार्श्वे तु कालां च यमुनां यजेत्

dvārasya dakṣiṇe caiva nadīṃ gaṅgāṃ ca saṃyajet | dvārasya vāmapārśve tu kālāṃ ca yamunāṃ yajet


6

ऋषभं पुरतो यष्ट्वा सागस्त्यं चाग्निगोचरे । दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम्

ṛṣabhaṃ purato yaṣṭvā sāgastyaṃ cāgnigocare | dakṣiṇe bhṛṅgarājaṃ ca saptamātṛgaṇairyutam


7

लम्बोष्ठं वीरभद्रं च बलिं दद्यात् स्वमन्त्रकैः । नैर्-ऋत्यां विनायकं चैव वारुण्यां सण्मुखं तहा

lamboṣṭhaṃ vīrabhadraṃ ca baliṃ dadyāt svamantrakaiḥ | nair-ṛtyāṃ vināyakaṃ caiva vāruṇyāṃ saṇmukhaṃ tahā


8

ज्येष्ठां वायव्यदिग्भागे सोममार्गं च संयजेत् । ऐश्यान्यां भानुमेवं स्याद् भूतनाथेशमग्रके

jyeṣṭhāṃ vāyavyadigbhāge somamārgaṃ ca saṃyajet | aiśyānyāṃ bhānumevaṃ syād bhūtanātheśamagrake


9

प्रथमे च बलिं दत्त्वा द्वितीये च विशेषतः । गोपुरं वाद्यनिश्शब्दशङ्खघोषसमन्वितम्

prathame ca baliṃ dattvā dvitīye ca viśeṣataḥ | gopuraṃ vādyaniśśabdaśaṅkhaghoṣasamanvitam


10

द्वारं प्रति विशेषेण वरिष्ठं भुजगं यजेत् । इन्द्रं चैव तथाग्निं च यमश्च नि-ऋतिस्तथा

dvāraṃ prati viśeṣeṇa variṣṭhaṃ bhujagaṃ yajet | indraṃ caiva tathāgniṃ ca yamaśca ni-ṛtistathā


11

वारुणं चैव वायुं च सोममीशानमेव च । नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके

vāruṇaṃ caiva vāyuṃ ca somamīśānameva ca | ni-ṛtiṃ dakṣiṇe viṣṇuṃ brahmāṇaṃ tvīśavāmake


12

सोमशंकरयोर्मध्ये क्षेत्रपालं समर्चयेत् । क्षेत्रेशस्य ब * * * * * * * नकम्

somaśaṃkarayormadhye kṣetrapālaṃ samarcayet | kṣetreśasya ba * * * * * * * nakam


13

द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु । अनन्तेशस्तथा सूक्ष्मश्शिवोक्तश्चैकनेत्रकः

dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śṛṇu | ananteśastathā sūkṣmaśśivoktaścaikanetrakaḥ


14

एकरुद्रस्त्रिमूर्तिं च श्रीकण्ठश्च शिखण्डिनः । तृतीयावरणं प्रोक्तं चतुर्थं वरणं शृणु

ekarudrastrimūrtiṃ ca śrīkaṇṭhaśca śikhaṇḍinaḥ | tṛtīyāvaraṇaṃ proktaṃ caturthaṃ varaṇaṃ śṛṇu


15

शिवः पशुपतिश्चात्र रुद्रश्चैव भवस्तथा । ईशानं च महादेवो भीमश्चेत्यष्टमस्तथा

śivaḥ paśupatiścātra rudraścaiva bhavastathā | īśānaṃ ca mahādevo bhīmaścetyaṣṭamastathā


16

चतुर्थावरणं प्रोक्तं पञ्चमं वरणं शृणु । वज्रं शक्तिं च दण्डं च खड्गं पाशाङ्कुशं तथा

caturthāvaraṇaṃ proktaṃ pañcamaṃ varaṇaṃ śṛṇu | vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśāṅkuśaṃ tathā


17

गदा त्रिशूलं * * * पद्मं चेति दशायुधम् । एवमावरणं चैव महापीठं पृथक् पृथक्

gadā triśūlaṃ * * * padmaṃ ceti daśāyudham | evamāvaraṇaṃ caiva mahāpīṭhaṃ pṛthak pṛthak


18

प्रथमादि तृतीयान्तं शाम्बरीबलिपीठकः । पृथग्देशे बलिं दत्त्वा चैव मावरणं त्रयम्

prathamādi tṛtīyāntaṃ śāmbarībalipīṭhakaḥ | pṛthagdeśe baliṃ dattvā caiva māvaraṇaṃ trayam


19

            • पीठे आमोदादीन् बलिं क्षिपेत् । द्वितीये च महापीठे बलिं दत्वाष्टमूर्तये

** * * * * * pīṭhe āmodādīn baliṃ kṣipet | dvitīye ca mahāpīṭhe baliṃ datvāṣṭamūrtaye*


20

कर्णिकायां महाभूतं पञ्चवक्त्रे प्रदापयेत् । प्रतिमावरणं पीठं महापीठं * * * *

*karṇikāyāṃ mahābhūtaṃ pañcavaktre pradāpayet | pratimāvaraṇaṃ pīṭhaṃ mahāpīṭhaṃ * * * **


21

      • यावरणे पीठे मोदादीन् बलिं क्षिपेत् । द्वितीयावरणं न्यूनं प्रथमे भूतपीठके

** * * yāvaraṇe pīṭhe modādīn baliṃ kṣipet | dvitīyāvaraṇaṃ nyūnaṃ prathame bhūtapīṭhake*


22

बलिं कृत्वा विशेषेण उत्तमा मध्यमाधमा । बलिदेवमिति प्रोक्तं बलिद्रव्यमथ शृणु

baliṃ kṛtvā viśeṣeṇa uttamā madhyamādhamā | balidevamiti proktaṃ balidravyamatha śṛṇu


23

बलिं बेरसमायुक्तं अस्त्रराजसमन्वितम् । पौष्टिकं चान्नलिङ्गं च शान्तिकं चार्घ्यमेव च

baliṃ berasamāyuktaṃ astrarājasamanvitam | pauṣṭikaṃ cānnaliṅgaṃ ca śāntikaṃ cārghyameva ca


24

अथवा बलिबेरं वा अस्त्रराजोनमेव वा । अथवा देशिकं चैव बलिदानं * * * *

*athavā baliberaṃ vā astrarājonameva vā | athavā deśikaṃ caiva balidānaṃ * * * **


25

  • वद्यात् षोडशभागैकं दधिगोघृतप्लुतम् । गन्धं षट् द्वादशांशं तु पुष्पं पत्रं च द्रोणकम्

** vadyāt ṣoḍaśabhāgaikaṃ dadhigoghṛtaplutam | gandhaṃ ṣaṭ dvādaśāṃśaṃ tu puṣpaṃ patraṃ ca droṇakam*


26

बलिद्रव्यमिति प्रोक्तं बलिदानं स्वाहा स्वधा । प्रातर्मध्याह्नसायाह्ने त्रिसन्ध्यां बलिमाचरेत्

balidravyamiti proktaṃ balidānaṃ svāhā svadhā | prātarmadhyāhnasāyāhne trisandhyāṃ balimācaret


27

अन्यासु सर्वसन्ध्यासु नाचरेत्तु बलिक्रमम् । स्नानं तु विधिना कृत्वा त्रिपुण्ड्री शुक्लवस्त्रकः

anyāsu sarvasandhyāsu nācarettu balikramam | snānaṃ tu vidhinā kṛtvā tripuṇḍrī śuklavastrakaḥ


28

सोष्णीषं चोत्तरीयं च धायेद् देशिकोत्तमः । अर्घ्यपात्रक * * * सपवित्रकरो गुरुः

soṣṇīṣaṃ cottarīyaṃ ca dhāyed deśikottamaḥ | arghyapātraka * * * sapavitrakaro guruḥ


29

परिचारकमाहुय सोष्णीषं चोत्तरीयकम् । याने वा रङ्गके वाऽपि चन्द्रशेखरमूर्तिनम्

paricārakamāhuya soṣṇīṣaṃ cottarīyakam | yāne vā raṅgake vā'pi candraśekharamūrtinam


30

स्वस्यैव शिरसि न्यस्य बलिंक्रमणमाचरेत् । मार्जनं प्रोक्षणं कृत्वा देवदासी विशेषतः

svasyaiva śirasi nyasya baliṃkramaṇamācaret | mārjanaṃ prokṣaṇaṃ kṛtvā devadāsī viśeṣataḥ


31

पुनश्शिष्योऽभिषिच्याभिः प्रोक्षयेद्देशिकोत्तमः । गन्धं षड्बिन्दुमात्रेण गन्धद्वारेति मन्त्रवित्

punaśśiṣyo'bhiṣicyābhiḥ prokṣayeddeśikottamaḥ | gandhaṃ ṣaḍbindumātreṇa gandhadvāreti mantravit


32

पुष्पं स्वनाममन्त्रेण चार्चयेत् कर्णिकोर्ध्वतः । पाद्यं दत्त्वा पुनश्चैव अर्घ्यमन्त्रैः प्रदापयेत्

puṣpaṃ svanāmamantreṇa cārcayet karṇikordhvataḥ | pādyaṃ dattvā punaścaiva arghyamantraiḥ pradāpayet


33

धूपमुद्रां प्रदर्श्याथ अङ्गुष्ठं तर्जनी क्रमात् । अङ्गुष्ठानामिकायुक्तां दीपमुद्रां प्रदर्शयेत्

dhūpamudrāṃ pradarśyātha aṅguṣṭhaṃ tarjanī kramāt | aṅguṣṭhānāmikāyuktāṃ dīpamudrāṃ pradarśayet


34

मन्त्रेण शूलमुद्रां च बलिदाने विशेषतः । पानीयं च पुनर्दत्त्वा नमस्काराख्यमेव च

mantreṇa śūlamudrāṃ ca balidāne viśeṣataḥ | pānīyaṃ ca punardattvā namaskārākhyameva ca


35

उपचाराणि सर्वाणि द्वितीये तु विशेषतः । उपचारान्तरं वाऽपि पृथक् कृत्वा बलिं क्षिपेत्

upacārāṇi sarvāṇi dvitīye tu viśeṣataḥ | upacārāntaraṃ vā'pi pṛthak kṛtvā baliṃ kṣipet


36

बलिकाले गणांश्चैव स्वामिनं चाभिवीक्षयेत् । शुचौ देशे विशेषेण बलिं सर्वत्र दापयेत्

balikāle gaṇāṃścaiva svāminaṃ cābhivīkṣayet | śucau deśe viśeṣeṇa baliṃ sarvatra dāpayet


37

पञ्चमावरणं न्यूनं द्वितीयावरणं ददेत् । द्वितीयावरणे न्यूनं प्रथमे तु विशेषतः

pañcamāvaraṇaṃ nyūnaṃ dvitīyāvaraṇaṃ dadet | dvitīyāvaraṇe nyūnaṃ prathame tu viśeṣataḥ


38

एकप्राकारयुक्तं चिन्महापीठे बलिं क्षिपेत् । तत्पुष्पेत्तु दुर्गां च तत्त * * * * बुद्धिमान्

ekaprākārayuktaṃ cinmahāpīṭhe baliṃ kṣipet | tatpuṣpettu durgāṃ ca tatta * * * * buddhimān


39

एवं प्रदक्षिणं कृत्वा वृतं पात्रकमेव च । प्रविशेद्धाम्निकद्वारे पादप्रक्षालनं कुरु

evaṃ pradakṣiṇaṃ kṛtvā vṛtaṃ pātrakameva ca | praviśeddhāmnikadvāre pādaprakṣālanaṃ kuru


40

मूलबेरं समायोज्य चन्द्रशेखरमूर्तिनम् । पाद्यमाचमनं चार्घ्यं ददेन्नीराञ्जनं ततः

mūlaberaṃ samāyojya candraśekharamūrtinam | pādyamācamanaṃ cārghyaṃ dadennīrāñjanaṃ tataḥ


41

गन्धपुष्पादिनाभ्यर्च्य दीपान्तं चैव कारयेत् । मूलबेरं समभ्यर्च्य प्रतिसन्धिं समाचरेत्

gandhapuṣpādinābhyarcya dīpāntaṃ caiva kārayet | mūlaberaṃ samabhyarcya pratisandhiṃ samācaret


42

पूर्वद्वारमिति प्रोक्तं पश्चिमे तु बृहस्पते । पूर्वद्वारोक्तवत् सर्वं विशेषं किञ्चिदस्ति हि

pūrvadvāramiti proktaṃ paścime tu bṛhaspate | pūrvadvāroktavat sarvaṃ viśeṣaṃ kiñcidasti hi


43

नित्यहोमावसाने तु बलिदेवान् समर्चयेत् । बलिबेरयुतं वाऽपि प्रत्येकं वितरेद् गुरुः

nityahomāvasāne tu balidevān samarcayet | baliberayutaṃ vā'pi pratyekaṃ vitared guruḥ


44

देवस्य दक्षिणे वामे नन्दिनागौ बलिं क्षिपेत् । अग्रतो वृषभं यष्ट्वा दुर्गां वायव्यगोचरे

devasya dakṣiṇe vāme nandināgau baliṃ kṣipet | agrato vṛṣabhaṃ yaṣṭvā durgāṃ vāyavyagocare


45

ज्येष्ठां सौम्ये तु संपूज्य भानुं चैशान्यगोचरेद् । चक्रस्यांशे तु भुजेव सागस्त्यं वह्निगोचरेत्

jyeṣṭhāṃ saumye tu saṃpūjya bhānuṃ caiśānyagocared | cakrasyāṃśe tu bhujeva sāgastyaṃ vahnigocaret


46

दक्षिणे भृङ्गराजं च सप्तमातृगणैर्युतम् । विघ्नेशं वीरभद्रं च बलिं दत्त्वा यथाक्रमम्

dakṣiṇe bhṛṅgarājaṃ ca saptamātṛgaṇairyutam | vighneśaṃ vīrabhadraṃ ca baliṃ dattvā yathākramam


47

नैर्-ऋत्यां विनायकं चैव बलिं दत्त्वा विशेषतः । प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु

nair-ṛtyāṃ vināyakaṃ caiva baliṃ dattvā viśeṣataḥ | prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu


48

गोपुरद्वारपालाभ्यां विकिरं तु बलिं पुनः । पश्चिमे वरुणं यष्ट्वा वायव्ये वायुमेव च

gopuradvārapālābhyāṃ vikiraṃ tu baliṃ punaḥ | paścime varuṇaṃ yaṣṭvā vāyavye vāyumeva ca


49

सोमे सोमं समाराध्य ईशे ईशं च संयजेत् । ऐन्द्रे इन्द्रं समाराध्य वह्निं वह्नौ तु गोचरे

some somaṃ samārādhya īśe īśaṃ ca saṃyajet | aindre indraṃ samārādhya vahniṃ vahnau tu gocare


50

यमं याम्ये तु संपूज्य संपुजन्नै-ऋतिं तथा । नि-ऋतिं दक्षिणे विष्णुं ब्रह्माणं त्वीशवामके

yamaṃ yāmye tu saṃpūjya saṃpujannai-ṛtiṃ tathā | ni-ṛtiṃ dakṣiṇe viṣṇuṃ brahmāṇaṃ tvīśavāmake


51

सोमचारयुतं वाऽपि स्वस्वमन्त्रैर्बलिं क्षिपेत् । महापीठे विशेषेण चामोदादि दलाग्रके

somacārayutaṃ vā'pi svasvamantrairbaliṃ kṣipet | mahāpīṭhe viśeṣeṇa cāmodādi dalāgrake


52

कर्णिकोर्ध्वे महाभूतं पञ्चवक्त्रे प्रदापयेत् । एवं प्रदक्षिणं कृत्वा देवतं वरुणं प्रति

karṇikordhve mahābhūtaṃ pañcavaktre pradāpayet | evaṃ pradakṣiṇaṃ kṛtvā devataṃ varuṇaṃ prati


53

द्वारदेशे समानीय पादप्रक्षालनं कुरु । बलिबेरं समभ्यर्च्य ततो नीराञ्जनं ददेत्

dvāradeśe samānīya pādaprakṣālanaṃ kuru | baliberaṃ samabhyarcya tato nīrāñjanaṃ dadet


54

त्रिसन्ध्यं च विना कुर्याद् बलिदानं बृहस्पते । अन्यथा च कृतं चेत्तु राष्ट्रदोषं भवेदिह

trisandhyaṃ ca vinā kuryād balidānaṃ bṛhaspate | anyathā ca kṛtaṃ cettu rāṣṭradoṣaṃ bhavediha


55

बलिदानयुतं चैव कुर्यान्नित्योत्सवं ततः । नित्योत्सवं विना यत्र ग्रामं ऋद्धिं न यच्छति

balidānayutaṃ caiva kuryānnityotsavaṃ tataḥ | nityotsavaṃ vinā yatra grāmaṃ ṛddhiṃ na yacchati


56

तत्ग्रामं राजराष्ट्रं च वर्ध्यतेत्तु न संशयः । नित्योत्सवस्य याने तु ये नरास्तु प्रदक्षिणम्

tatgrāmaṃ rājarāṣṭraṃ ca vardhyatettu na saṃśayaḥ | nityotsavasya yāne tu ye narāstu pradakṣiṇam


57

ते कुर्वन्ति सुखं नित्यं शिवलोकमवाप्नुयात् । एवं पूजयते भक्त्या सोऽन्ते सायुज्यमाप्नुयात्

te kurvanti sukhaṃ nityaṃ śivalokamavāpnuyāt | evaṃ pūjayate bhaktyā so'nte sāyujyamāpnuyāt

candrajñāne āśaucavidhiḥ viṃśatiḥ paṭalaḥ

1

श्रीः अतः परं प्रवक्ष्यामि द्विजाशौचमथ शृणु । जन्माशौचं मृताशौचं दशाहे शुद्धिरुच्यते

śrīḥ ataḥ paraṃ pravakṣyāmi dvijāśaucamatha śṛṇu | janmāśaucaṃ mṛtāśaucaṃ daśāhe śuddhirucyate


2

स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत् । दशाहमपितुरस्ति पूत्री चेत् सहजात्मनाम्

svagotre putrajātaścet tadgotrā hyaghamācaret | daśāhamapiturasti pūtrī cet sahajātmanām


3

तुरीये दशरात्रं स्यात् षण्णिशा पुंसि पञ्चमे । षष्ठे चतुरहात् शुद्धिः सप्तमे तु दिनत्रयम्

turīye daśarātraṃ syāt ṣaṇṇiśā puṃsi pañcame | ṣaṣṭhe caturahāt śuddhiḥ saptame tu dinatrayam


4

अन्यगोत्रप्रविष्टानां दाममाशौचमेव च । यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः

anyagotrapraviṣṭānāṃ dāmamāśaucameva ca | yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ


5

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः । पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते

athavānyaprakāreṇa pravakṣyāmi samāsataḥ | pitroryo dātrimaḥ putrastasyāśaucaṃ vidhīyate


6

आशौचज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च । पितृभ्यां शैशवेऽन्यत्र दात्रार्यस्तत्र कर्म तु

āśaucajñātibhissārdhaṃ tasya nāsīt krameṇa ca | pitṛbhyāṃ śaiśave'nyatra dātrāryastatra karma tu


7

उक्तभारी स एव स्यात्तस्याघमधुनोच्यते । पूर्वगोत्रेऽन्यसंबन्धं पितृभ्यां तु विना तदा

uktabhārī sa eva syāttasyāghamadhunocyate | pūrvagotre'nyasaṃbandhaṃ pitṛbhyāṃ tu vinā tadā


8

यत्क्रिया शिष्यो ह्यारभ्य वाचार्य परिचारकाः । यजमानः क्रिया पू * * * * * * * पुरा

yatkriyā śiṣyo hyārabhya vācārya paricārakāḥ | yajamānaḥ kriyā pū * * * * * * * purā


9

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् । आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात्

gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret | āśaucamācaret paścāt tadā yogyadinaṃ kramāt


10

दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् । उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत्

dīkṣitānāṃ vratasthānāṃ yatīnāṃ brahmacāriṇām | utpannaṃ yadi yatkāle tadvadāśaucamācaret


11

संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः । स कारयेत् संस्कारादि तत्कर्माणि समाचरेत्

saṃskārādimakarmāṇāṃ svagotraṃ nāsti cet punaḥ | sa kārayet saṃskārādi tatkarmāṇi samācaret


12

पश्चादांयोग्यदिनं गव्यस्नानं गव्यं कृत्वा । पुनः कर्माणि सर्वाणि कारयेच्च न संशयः

paścādāṃyogyadinaṃ gavyasnānaṃ gavyaṃ kṛtvā | punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ


13

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् । शवेन शुध्यते सूतिर्नसूतिश्शवशोधनी

śāvāśauce samutpanne sūtikaṃ tu yathā bhavet | śavena śudhyate sūtirnasūtiśśavaśodhanī


14

सूतिकं सूतिकेनैव शावं शावेन शुध्यति । कल्पादि पञ्च दिनादिनादिकं दशदिनं गच्छेत् दिशा भाक् गमः । पूर्वस्यान्त्यं दिने यदि द्वितीवसात् शुद्ध्यत् प्रभाते क्रमात् ॥ 13 1/2

sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati | kalpādi pañca dinādinādikaṃ daśadinaṃ gacchet diśā bhāk gamaḥ | pūrvasyāntyaṃ dine yadi dvitīvasāt śuddhyat prabhāte kramāt || 13 1/2


15

द्विजाशौचमिति प्रोक्तं क्षत्रियाशौचमथ शृणु । जन्माशौचमृताशौचं द्वादशाहेति शुद्धिमान् ॥ 14 1/2

dvijāśaucamiti proktaṃ kṣatriyāśaucamatha śṛṇu | janmāśaucamṛtāśaucaṃ dvādaśāheti śuddhimān || 14 1/2


16

स्वगोत्रे पुत्रजातंश्च तद्गोत्राश्शौचमाचरेत् । आरभ्याहं पितुरस्ति पुत्रीचेत् सहजात्मनाम् ॥ 15 1/2

svagotre putrajātaṃśca tadgotrāśśaucamācaret | ārabhyāhaṃ piturasti putrīcet sahajātmanām || 15 1/2


17

तुर्येकादशरात्रं स्यात् सप्ताहे पुंसि पञ्चमि । षष्ठे पञ्चदिनात् शुद्धि सप्तमेव चतुर्दिनम् ॥ 16 1/2

turyekādaśarātraṃ syāt saptāhe puṃsi pañcami | ṣaṣṭhe pañcadināt śuddhi saptameva caturdinam || 16 1/2


18

अन्यगोत्रप्रविष्टानां दायमाशौचमेव च । यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः ॥ 17 1/2

anyagotrapraviṣṭānāṃ dāyamāśaucameva ca | yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ || 17 1/2


19

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः । पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते ॥ 18 1/2

athavānyaprakāreṇa pravakṣyāmi samāsataḥ | putroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate || 18 1/2


20

आशौचज्ञातिभिस्सार्धं तस्या नासीत् क्रमेण च । पितृभ्यां शैशवेऽन्यत्र पित्रोर्यस्तत्र कर्मकृत् ॥ 19 1/2

āśaucajñātibhissārdhaṃ tasyā nāsīt krameṇa ca | pitṛbhyāṃ śaiśave'nyatra pitroryastatra karmakṛt || 19 1/2


21

रुग्महारीं स एव स्यां तथा गमधुनोच्यते । पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना गदम् ॥ 20 1/2

rugmahārīṃ sa eva syāṃ tathā gamadhunocyate | pūrvagotrena saṃbandhaḥ pitṛbhyāṃ tu vinā gadam || 20 1/2


22

यत्क्रियात् शिष्यो च मारभ्य चाचार्यपरिचारकः । यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चरत् ॥ 21 1/2

yatkriyāt śiṣyo ca mārabhya cācāryaparicārakaḥ | yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ carat || 21 1/2


23

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् । आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् ॥ 22 1/2

gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret | āśaucamācaret paścāt tadāyogyadinaṃ kramāt || 22 1/2


24

दिक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् । उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् ॥ 23 1/2

dikṣitānāṃ vratasthānāṃ yatīnāṃ brahmacāriṇām | utpannaṃ yadi yatkāle tadvadāśaucamācaret || 23 1/2


25

संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः । कारयेत् संस्कारादितत्कर्माणि समाचरेत् ॥ 24 1/2

saṃskārādimakarmāṇāṃ svagotraṃ nāsti cet punaḥ | kārayet saṃskārāditatkarmāṇi samācaret || 24 1/2


26

पश्चादायोग्यदिनं नवकस्नानगव्यं कृत्वा । पुनः कर्माणि सर्वाणि कारयेच्च न संशयः 25 1/2

paścādāyogyadinaṃ navakasnānagavyaṃ kṛtvā | punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ 25 1/2


27

शावाशौचे समुत्पन्ने आदिकं तु यथा भवेत् । शावेन शुद्ध्यते सूतिं न सूतिशवशोधनैः ॥ 26 1/2

śāvāśauce samutpanne ādikaṃ tu yathā bhavet | śāvena śuddhyate sūtiṃ na sūtiśavaśodhanaiḥ || 26 1/2


27

सूतकं सूतिकेनैव शावं शावेन शुद्ध्यति

sūtakaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


28

अल्पात् पञ्चदिनादिकं दशदिनं गच्छेद् दशाहाघः * * * * * * * । पूर्वस्यान्त्यदिने यदि * * * * * * * द्वितीयदिवसाश्शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādikaṃ daśadinaṃ gacched daśāhāghaḥ * * * * * * * | pūrvasyāntyadine yadi * * * * * * * dvitīyadivasāśśuddhe prabhāte tryahāt


29

अयं अर्धदिनं प्रभृत्येकद्वित्रिक्रमेण वर्धयेत् । क्षत्त्रियाशौचमिति प्रोक्तं ज्ञाताशौचमथ शृणु

ayaṃ ardhadinaṃ prabhṛtyekadvitrikrameṇa vardhayet | kṣattriyāśaucamiti proktaṃ jñātāśaucamatha śṛṇu


30

जन्माशौचमृताशौचं त्रयोदशाहे शुद्धिमान् । सगोत्रे पुत्त्रोजातश्चेत् तद्गोत्रे चार्यमाचरेत्

janmāśaucamṛtāśaucaṃ trayodaśāhe śuddhimān | sagotre puttrojātaścet tadgotre cāryamācaret


31

त्रयोदशाहं पितुरस्ति पुत्त्री चेत् सहजात्मनाम् । तुर्योचा दशरात्रं स्यादष्टाहे पुंसि पञ्चमी

trayodaśāhaṃ piturasti puttrī cet sahajātmanām | turyocā daśarātraṃ syādaṣṭāhe puṃsi pañcamī


32

षष्ठे रसहात् शुद्धि सप्तमे बाणदिनं क्रमात् । अन्यगोत्रप्रविष्टानां अघमौशौचमेव च

ṣaṣṭhe rasahāt śuddhi saptame bāṇadinaṃ kramāt | anyagotrapraviṣṭānāṃ aghamauśaucameva ca


33

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


34

पुत्रोर्योद्दातिमं * * * न्तस्यां शौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च

putroryoddātimaṃ * * * ntasyāṃ śaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsti krameṇa ca


25

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । वित्तहारी स एव स्यात् तथाऽयमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | vittahārī sa eva syāt tathā'yamadhunocyate


36

पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कथम् । यत्क्रियाश्शिष्योऽथारभ्य आचार्यपरिचारकाः

pūrvagotrena saṃbandhaḥ pitṛbhyāṃ tu vinā katham | yatkriyāśśiṣyo'thārabhya ācāryaparicārakāḥ


37

यजमानः क्रियापूर्तेः पुनराशौचमुत्पन्न चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ punarāśaucamutpanna cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


38

    • समाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम्

** * samācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yatīnāṃ brahmacāriṇām*


39

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिमकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādimakarmāṇāṃ svagotraṃ nāsti cet punaḥ


40

कारयेत् स तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यदिनं गव्यस्नानं पुण्याहं कृत्वा

kārayet sa tu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyadinaṃ gavyasnānaṃ puṇyāhaṃ kṛtvā


41

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


42

शावेन शुध्यते सूति न सूतिश्शावशोधनी । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śudhyate sūti na sūtiśśāvaśodhanī | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


43

अल्पात् पन्नदिकं दशदिनं गच्छेद शु * * * * * * * मम् । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात् * * * * *

*alpāt pannadikaṃ daśadinaṃ gaccheda śu * * * * * * * mam | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt * * * * **


44

अयं अर्धदिनं प्रभृति द्वित्रिक्रमेण चर्द्धियेत् । जाताशौचं प्रोक्तं गरीकगणीकाशौचं शृणु

ayaṃ ardhadinaṃ prabhṛti dvitrikrameṇa carddhiyet | jātāśaucaṃ proktaṃ garīkagaṇīkāśaucaṃ śṛṇu


45

जन्माशौचं चतुर्दशाहेन शुद्ध्यति । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्राह्यघमाचरेत्

janmāśaucaṃ caturdaśāhena śuddhyati | svagotre putrajātaścet tadgotrāhyaghamācaret


46

तुर्यं दशाहं पुत्री चेत् तदेव सहजात्मनाम् । त्रयोदशरात्रं स्यान्नवाहे यदि पञ्चमी

turyaṃ daśāhaṃ putrī cet tadeva sahajātmanām | trayodaśarātraṃ syānnavāhe yadi pañcamī


47

ष * * * * * * * * प्ते षड्दिनमचरेत् । अन्यगोत्रप्रविष्टानां दिवमौशौचमेव च

ṣa * * * * * * * * pte ṣaḍdinamacaret | anyagotrapraviṣṭānāṃ divamauśaucameva ca


48

यन्नास्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yannāsti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


49

तुर्यो * * * * * * स्तस्याशौचं विधीयते । आशौचज्ञातिभिस्सार्धं तस्य नास्ति क्रमेण च

turyo * * * * * * stasyāśaucaṃ vidhīyate | āśaucajñātibhissārdhaṃ tasya nāsti krameṇa ca


50

मातृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रुग्मभागी स एव स्यात् तथाघमधुनोच्यते

mātṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rugmabhāgī sa eva syāt tathāghamadhunocyate


51

पूर्वगोत्रोद्भवस्यापि पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो * ह्यारभ्य चाचार्य परिचारकाः

pūrvagotrodbhavasyāpi pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo * hyārabhya cācārya paricārakāḥ


52

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


53

आशौचमाचरे * * * * * * स्नानं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācare * * * * * * snānaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


54

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादि कर्माणां स्वगोत्रेन्नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādi karmāṇāṃ svagotrennāsti cet punaḥ


55

कारयेत् संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं पुण्याहं कृत्वा

kārayet saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ puṇyāhaṃ kṛtvā


56

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


57

शावेन शुद्ध्यते सूतिर्न सूतिस्शावशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śuddhyate sūtirna sūtisśāvaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


58

अल्पात् पञ्चदिनाकंददिनं गच्छेद् दशात् समम् । पूर्वान्त्यदिने यदि द्विदिवसार्धे प्रभाते त्र्यहात्

alpāt pañcadinākaṃdadinaṃ gacched daśāt samam | pūrvāntyadine yadi dvidivasārdhe prabhāte tryahāt


59

अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । रुद्रगणिकाघं प्रोक्तं देवदास्याशौचं शृणु

ayaṃ ardhadinaṃ prabhṛti ekadvitrikrameṇa vardhayet | rudragaṇikāghaṃ proktaṃ devadāsyāśaucaṃ śṛṇu


60

जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् । स्वगोत्रे पुत्रजातिश्चेत् तद्गोत्रोह्यघमाचरेत्

janmāśaucaṃ mṛtāśaucaṃ pakṣāhe śudhyati kramāt | svagotre putrajātiścet tadgotrohyaghamācaret


61

पञ्चदशाहे पुत्री चेत् तद्देवसहजातानाम् । स चतुर्दशरात्रं स्याद् दशाहे यदि पञ्चमी

pañcadaśāhe putrī cet taddevasahajātānām | sa caturdaśarātraṃ syād daśāhe yadi pañcamī


62

षष्ठे च वसुहाश्शुद्धिस्सप्ते सप्तदिनं क्रमात् । अन्यगोत्र प्रविष्टानां दायमं चाशौचमेव च

ṣaṣṭhe ca vasuhāśśuddhissapte saptadinaṃ kramāt | anyagotra praviṣṭānāṃ dāyamaṃ cāśaucameva ca


63

यत् स्नाति भर्तुराशौचं भार्यांशाश्चास्ति न संशयः । अथवान्य प्रकारेण प्रवक्ष्यामि समासतः

yat snāti bharturāśaucaṃ bhāryāṃśāścāsti na saṃśayaḥ | athavānya prakāreṇa pravakṣyāmi samāsataḥ


64

मातुर्योद्दात्रिमा पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

māturyoddātrimā putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


65

मातृभ्यां शैशवेऽन्यत्र दात्रो यस्तत्र कर्मकृत् । रुत्थहारि स एव स्यात्तदाघमधुनोच्यते

mātṛbhyāṃ śaiśave'nyatra dātro yastatra karmakṛt | rutthahāri sa eva syāttadāghamadhunocyate


66

पूर्वगोत्रेण संबन्धं मातृभ्यां तु विना कदा । यत्क्रियाशिष्योह्यारभ्य चाचार्य परिचारकाः

pūrvagotreṇa saṃbandhaṃ mātṛbhyāṃ tu vinā kadā | yatkriyāśiṣyohyārabhya cācārya paricārakāḥ


67

यजमानक्रियापूर्तेः पुनराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānakriyāpūrteḥ punarāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


68

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


69

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं संप्रोक्षणं कृत्वा

utpannaṃ yadi yatkāle tadvadāśaucamācaret | paścādāyogyadinaṃ gavyasnānaṃ saṃprokṣaṇaṃ kṛtvā


70

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावौशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvauśauce samutpanne sūtikaṃ tu yathā bhavet


71

शावेन शुध्यते सूतिर्न सूतिश्शव शोधनैः । सूतिकं सूतिकेनैवं शावं शावेन शुध्यति

śāvena śudhyate sūtirna sūtiśśava śodhanaiḥ | sūtikaṃ sūtikenaivaṃ śāvaṃ śāvena śudhyati


72

अल्पात् पञ्चदिनाधिकदशदिनं गच्छेद्दशाभाद्गमः । पूर्वस्यांतदिने यदि द्विवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikadaśadinaṃ gaccheddaśābhādgamaḥ | pūrvasyāṃtadine yadi dvivasāt śuddhe prabhāte tryahāt


73

अयं अर्धदिनं प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । पुरुषोक्तवदाचार्य देवदास्याश्च कल्पिताः

ayaṃ ardhadinaṃ prabhṛti ekadvitrikrameṇa vardhayet | puruṣoktavadācārya devadāsyāśca kalpitāḥ


74

मोक्षगोत्रास्त्वन्योन्यमाचरेदघमद्यथाः । एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तये

mokṣagotrāstvanyonyamācaredaghamadyathāḥ | etat śāstraṃ parityajya cānyaśāstraṃ na cintaye


75

देवदास्याशौचं प्रोक्तं अपारशावाशौचं शृणु । जन्माशौचं मृताशौचं चक्षुषो शुध्यति क्रमात्

devadāsyāśaucaṃ proktaṃ apāraśāvāśaucaṃ śṛṇu | janmāśaucaṃ mṛtāśaucaṃ cakṣuṣo śudhyati kramāt


76

स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रेन्य च माचरेत् । पञ्चदशाहं पुत्री चेत् तदैव सहजात्मनाम्

svagotre putrajātaścet tadgotrenya ca mācaret | pañcadaśāhaṃ putrī cet tadaiva sahajātmanām


77

स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी । षष्ठेषु सस्यहात् शुद्धिसप्ते स क्रमात्

sa caturdaśarātraṃ syāddaśāhe yadi pañcamī | ṣaṣṭheṣu sasyahāt śuddhisapte sa kramāt


78

अन्यगोत्र प्रविष्टानां दायमाशौचमेव च । यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः

anyagotra praviṣṭānāṃ dāyamāśaucameva ca | yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ


79

अथवान्यप्रकारेण प्रवक्ष्यामि समासतः । पुत्रोर्यात् दात्रं पुत्रस्तस्याशौचं विधीयते

athavānyaprakāreṇa pravakṣyāmi samāsataḥ | putroryāt dātraṃ putrastasyāśaucaṃ vidhīyate


80

आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च । पितृभ्यां शैशवेऽन्यत्र दत्रो यस्तत्र कर्मकृत्

āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca | pitṛbhyāṃ śaiśave'nyatra datro yastatra karmakṛt


81

रिक्षहारी स एव स्यात् तदाघमधुनोच्यते । पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा

rikṣahārī sa eva syāt tadāghamadhunocyate | pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā


82

यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः । यजमानः क्रियापुत्रे पुराशौचमुत्पन्नं चेत्

yatkriyāśśiṣyo hyārabhya cācāryaparicārakāḥ | yajamānaḥ kriyāputre purāśaucamutpannaṃ cet


83

गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत् । आशौचमाचरेत् पश्चात् कदा योग्यदिनं क्रमात्

gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret | āśaucamācaret paścāt kadā yogyadinaṃ kramāt


84

दीक्षितानां व्रतस्थानां योगिनां च तथैव च । उत्पन्नं यदि यत्काले तद्वदाशौच माचरेत्

dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca | utpannaṃ yadi yatkāle tadvadāśauca mācaret


85

संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः । कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत्

saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ | kārayettu saṃskārādi tatkarmāṇi samācaret


86

पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा । पुनः कर्माणि सर्वाणि कारयेच्च न संशयः

paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā | punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ


87

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् । शावेन शुद्ध्यते सूतिन्नसूतिश्शवशोधनैः

śāvāśauce samutpanne sūtikaṃ tu yathā bhavet | śāvena śuddhyate sūtinnasūtiśśavaśodhanaiḥ


88

सूतिकासूतिकेनैव शवाश्शावेन शुद्ध्यति । अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहागमः

sūtikāsūtikenaiva śavāśśāvena śuddhyati | alpāt pañcadinādhikaṃ daśadinaṃ gaccheddaśāhāgamaḥ


89

पूर्वस्यान्त्यदिने वदि द्विदिवसार्धे प्रभाते त्र्यहात् । अयं अर्धदिनं प्रभृति एकद्वित्रि क्रमेण वर्धयेत्

pūrvasyāntyadine vadi dvidivasārdhe prabhāte tryahāt | ayaṃ ardhadinaṃ prabhṛti ekadvitri krameṇa vardhayet


90

पारश्शवाशौचं प्रोक्तं माहेश्वराशौचं शृणु । जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात्

pāraśśavāśaucaṃ proktaṃ māheśvarāśaucaṃ śṛṇu | janmāśaucaṃ mṛtāśaucaṃ pakṣāhe śudhyati kramāt


91

स्वगोत्रे पुत्रजाता हेतद्गोत्रस्समाचरेत् । पञ्चादशाहं पुत्री चेत् तदैव सहजात्मनाम्

svagotre putrajātā hetadgotrassamācaret | pañcādaśāhaṃ putrī cet tadaiva sahajātmanām


92

स चतुर्दशरात्रं स्याद्दशाहे यदि पञ्चमी । षष्ठे तु सहसा शुद्धे सप्ते सप्तदिनं क्रमात्

sa caturdaśarātraṃ syāddaśāhe yadi pañcamī | ṣaṣṭhe tu sahasā śuddhe sapte saptadinaṃ kramāt


93

अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च । यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः

anyagotre praviṣṭānāṃ dāyamāśaucameva ca | yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ


94

अथवान्य प्रकारेण प्रवक्ष्यामि समासतः । पित्रोर्योदत्रिः? पुत्रस्तस्याशौचं विधीयते

athavānya prakāreṇa pravakṣyāmi samāsataḥ | pitroryodatriḥ? putrastasyāśaucaṃ vidhīyate


95

आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च । पितृभ्यां शैशवेऽन्यत्र दत्तोऽयं तत्र कर्मकृत्

āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca | pitṛbhyāṃ śaiśave'nyatra datto'yaṃ tatra karmakṛt


96

रूडहारी स एव स्यात् तथाघमधुनोच्यते । पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

rūḍahārī sa eva syāt tathāghamadhunocyate | pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yat kriyāśśiṣyo hyārabhya cācārya paricārakāḥ


97

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


98

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


99

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


100

कारयेत् संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayet saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


101

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


102

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावा शावेन शुध्यति

śāvena śuddhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvā śāvena śudhyati


103

अल्पात् पञ्चदीन शाहाद्गमः * * * * । पूर्वस्यान्तदिने यदि द्विदिवसं शुद्धे प्रभाते त्र्यहात्

alpāt pañcadīna śāhādgamaḥ * * * * | pūrvasyāntadine yadi dvidivasaṃ śuddhe prabhāte tryahāt


104

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । माहेश्वराशौचं प्रोक्तं वैश्याशौचं अथ शृणु

ayaṃ ardhadina prabhṛti ekadvitrikrameṇa vardhayet | māheśvarāśaucaṃ proktaṃ vaiśyāśaucaṃ atha śṛṇu


105

जन्माशौचं मृताशौचं पक्षाहे शुध्यति क्रमात् । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत्

janmāśaucaṃ mṛtāśaucaṃ pakṣāhe śudhyati kramāt | svagotre putrajātaścet tadgotrohyaghamācaret


106

पञ्चदशाहं पुत्री चेत् तदेव सहजात्मनाम् । स च तु * * * * स्याद्दशाहे यदि पञ्चमी

pañcadaśāhaṃ putrī cet tadeva sahajātmanām | sa ca tu * * * * syāddaśāhe yadi pañcamī


107

षष्ठे रहसात् शुद्धिः सप्ते सप्तदिनं क्रमात् । अन्यगोत्र प्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe rahasāt śuddhiḥ sapte saptadinaṃ kramāt | anyagotra praviṣṭānāṃ dāyamāśaucameva ca


108

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न शंशयः । अथवान्य प्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāścāsti na śaṃśayaḥ | athavānya prakāreṇa pravakṣyāmi samāsataḥ


109

पुत्रोर्यो दात्रिमा पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

putroryo dātrimā putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


110

पितृभ्यां शैश * * * * * यस्तत्र कर्मकृत् । रूढहारी स एव स्यात्तथाघमधुनोच्यते

pitṛbhyāṃ śaiśa * * * * * yastatra karmakṛt | rūḍhahārī sa eva syāttathāghamadhunocyate


111

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत् क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yat kriyāśśiṣyo hyārabhya cācāryaparicārakāḥ


112

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


113

आशौचमाचरेत् पश्चात् तदायोग्यदिनं भवेत् । दीक्षितानां व्रतस्थानां योगिनां तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ bhavet | dīkṣitānāṃ vratasthānāṃ yogināṃ tathaiva ca


114

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


115

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


116

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने * * * * यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne * * * * yathā bhavet


117

शावेन शुध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति

śāvena śudhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


118

अल्पात् पञ्चदिनादिकं दशदिनं गच्छेद्दशाभाद्गमाः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādikaṃ daśadinaṃ gaccheddaśābhādgamāḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


119

    • द्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । वैश्याशौचमिति प्रोक्तं शूद्राशौचमथ शृणु

** * ddhadina prabhṛti ekadvitrikrameṇa vardhayet | vaiśyāśaucamiti proktaṃ śūdrāśaucamatha śṛṇu*


120

जन्माशौचं मृताशौचं एकमासेन शुध्यति । स्वगोत्रे पुत्र जातश्चेत् तत्घोरक्रममाचरेत्

janmāśaucaṃ mṛtāśaucaṃ ekamāsena śudhyati | svagotre putra jātaścet tatghorakramamācaret


121

एकमासेन पुत्री चेत् तदैव सहजात्मनाम् । अघपञ्चदशाहं स्यादेकादशाहे पञ्चमी

ekamāsena putrī cet tadaiva sahajātmanām | aghapañcadaśāhaṃ syādekādaśāhe pañcamī


122

षष्ठे वा हात् शुद्धिस्सप्तवसुदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe vā hāt śuddhissaptavasudinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


123

यद्यस्ति भुर्तुराशौचं भार्याश्चास्ति न संशयः । अथवान्य प्रकारेण प्रवक्ष्यामि समासतः

yadyasti bhurturāśaucaṃ bhāryāścāsti na saṃśayaḥ | athavānya prakāreṇa pravakṣyāmi samāsataḥ


124

पुत्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

putroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


125

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रूढहारी स एव स्यात् तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rūḍhahārī sa eva syāt tathāghamadhunocyate


126

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācārya paricārakāḥ


127

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


128

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


129

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādi karmāṇāṃ svagotraṃ nāsti cet punaḥ


130

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


131

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


132

शावेन शुद्ध्यते सूतिर्नसूतिश्शवशोधनैः । सूतिकस्सूतिकेनैव शावं शावेन शुध्यति

śāvena śuddhyate sūtirnasūtiśśavaśodhanaiḥ | sūtikassūtikenaiva śāvaṃ śāvena śudhyati


133

अल्पं पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहाद् गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpaṃ pañcadinādhikaṃ daśadinaṃ gaccheddaśāhād gamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


134

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । शूद्राशौचमिति प्रोक्तं करकोलाशौचं शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | śūdrāśaucamiti proktaṃ karakolāśaucaṃ śṛṇu


135

जन्ममृताशौचं त्रिंशद्दिने शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत्

janmamṛtāśaucaṃ triṃśaddine śuddhyatī vā | svagotre putrajātaścet tadgotrohyaghamācaret


136

चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् । अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी

catustriṃśaddine putrī cet tadā sahajātmanām | aghaṃ ṣaḍdaśarātraṃ syāddvādaśāhe ca pañcamī


137

षष्ठे दशाहशुद्धिस्स्यात् सप्ते नवदिनं क्रमात् । अन्यगोत्रे प्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe daśāhaśuddhissyāt sapte navadinaṃ kramāt | anyagotre praviṣṭānāṃ dāyamāśaucameva ca


138

यद्यस्ति भर्तुराशौ च भायीञ्चास्ति न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśau ca bhāyīñcāsti na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


139

पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

putroryo dātrimaḥ putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


140

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । रूढहारी स एव स्यात्तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | rūḍhahārī sa eva syāttathāghamadhunocyate


141

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācārya paricārakāḥ


142

यजमानः क्रियापूर्ते पूराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte pūrāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


143

संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः । कारयेत् संस्कारादि तत्कर्माणि समाचरेत्

saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ | kārayet saṃskārādi tatkarmāṇi samācaret


144

पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा । पुनः कर्माणि सर्वाणि कारयेच्च न संशयः

paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā | punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ


145

शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत् । शावेन शुध्यते सूतिर्नसूतिश्शवशोधनैः

śāvāśauce samutpanne sūtikaṃ tu yathā bhavet | śāvena śudhyate sūtirnasūtiśśavaśodhanaiḥ


146

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशात् गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gaccheddaśāt gamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


147

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । कारकोलाशौचं प्रोक्तं भट्टार्या शौचं शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | kārakolāśaucaṃ proktaṃ bhaṭṭāryā śaucaṃ śṛṇu


148

जन्ममृताशौचौ तु स्त्रिंशद्दिने शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmamṛtāśaucau tu striṃśaddine śuddhyatī vā | svagotre putrajātaścet tadgotrā hyaghamācaret


149

चतुस्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् । अघं षड्दशरात्रं स्यात् अर्हो दशाहे च पञ्चमी

catustriṃśaddine putrī cettadā sahajātmanām | aghaṃ ṣaḍdaśarātraṃ syāt arho daśāhe ca pañcamī


150

षष्ठदशाहात् शुद्धिस्स्यात् सप्ते नवदिनं क्रमात् । अन्यगोत्र प्रविष्टानां दायमाशौचमेव च

ṣaṣṭhadaśāhāt śuddhissyāt sapte navadinaṃ kramāt | anyagotra praviṣṭānāṃ dāyamāśaucameva ca


151

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः । अथवान्य प्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ | athavānya prakāreṇa pravakṣyāmi samāsataḥ


152

पुत्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

putroryo dātrimaḥ putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


153

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । रूढहारी स एव स्यात् तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | rūḍhahārī sa eva syāt tathāghamadhunocyate


154

पूर्वगोतेन संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

pūrvagotena saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācārya paricārakāḥ


155

यजमानः क्रियापूर्ते पुरा शौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte purā śaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


156

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


157

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कृत्वा दिनकर्माणां स्वगोत्रन्नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskṛtvā dinakarmāṇāṃ svagotrannāsti cet punaḥ


158

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


159

पुनः कर्माणि सर्वाणि कारयेत् च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayet ca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


160

शावेन शुद्ध्यते सूतिर्न सूतिश्शव शोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति

śāvena śuddhyate sūtirna sūtiśśava śodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


161

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gacchet daśātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


162

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । भट्टार्याशौचं प्रोक्तं शाल्याशौचं ततश्शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | bhaṭṭāryāśaucaṃ proktaṃ śālyāśaucaṃ tataśśṛṇu


163

जन्ममृताशौचौ चतुस्त्रिंशद्दिने शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmamṛtāśaucau catustriṃśaddine śuddhyatī vā | svagotre putrajātaścet tadgotrā hyaghamācaret


164

चतुस्त्रिंशद्दिने पुत्री चेत् तदा सहजात्मनाम् । अघं षड्दशरात्रं स्याद्द्वादशाहे च पञ्चमी

catustriṃśaddine putrī cet tadā sahajātmanām | aghaṃ ṣaḍdaśarātraṃ syāddvādaśāhe ca pañcamī


165

षष्ठे दशाह शुद्धिस्सप्ते नवदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe daśāha śuddhissapte navadinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


166

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


167

पित्रो यो दात्रिमः पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धस्तस्य नासीत् क्रमेण च

pitro yo dātrimaḥ putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhastasya nāsīt krameṇa ca


168

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रूढहारी स एव स्यात्तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rūḍhahārī sa eva syāttathāghamadhunocyate


169

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्योह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyohyārabhya cācāryaparicārakāḥ


170

यजमानः क्रियापूर्ते * * शौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte * * śaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


171

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


172

उत्पन्नं यदि यत्काले द्वादशाशौचमाचरेत् । संस्कारादिकर्मणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle dvādaśāśaucamācaret | saṃskārādikarmaṇāṃ svagotraṃ nāsti cet punaḥ


173

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


174

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


175

शावे न शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāve na śuddhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


176

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद् दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gacched daśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


177

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । शाल्याशौचमिति प्रोक्तं शिल्पाशौचमथ शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | śālyāśaucamiti proktaṃ śilpāśaucamatha śṛṇu


178

जन्ममृताशौचे पञ्चःस्त्रिंशद्दिनेन शुध्यति वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रोह्यघमाचरेत्

janmamṛtāśauce pañcaḥstriṃśaddinena śudhyati vā | svagotre putrajātaścet tadgotrohyaghamācaret


179

पञ्चाशद् दिन पुत्री चेत् तदा सहजात्मनाम् । युगसप्तदशाहं स्यात् त्रयोदश दशाहेति पञ्चमी

pañcāśad dina putrī cet tadā sahajātmanām | yugasaptadaśāhaṃ syāt trayodaśa daśāheti pañcamī


180

षष्ठे रुद्रदिनात् शुद्धिः सप्तदशदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe rudradināt śuddhiḥ saptadaśadinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


181

यद्यस्ति भर्तुराशौचं भार्याश्चास्ति न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāścāsti na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


182

पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryo dātrimaḥ putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


183

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । रूढहारी स एव स्यात् तदाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | rūḍhahārī sa eva syāt tadāghamadhunocyate


184

पूर्वगोत्रेन संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotrena saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācāryaparicārakāḥ


185

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


186

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


187

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


188

कारयेत्तु संस्कारादिकर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādikarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


189

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


190

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति

śāvena śuddhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


191

अल्पात् पञ्चादिनाधिकं दशदिनं गच्छेद्दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcādinādhikaṃ daśadinaṃ gaccheddaśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


192

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । शिल्प्यघमप्रोक्तं कुलालाशौचं शृणु क्रमात्

ayaṃ ardhadina prabhṛti ekadvitrikrameṇa vardhayet | śilpyaghamaproktaṃ kulālāśaucaṃ śṛṇu kramāt


193

जन्ममृताशौचौ पञ्चस्त्रिंशद्दिनेन शुद्ध्यति वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmamṛtāśaucau pañcastriṃśaddinena śuddhyati vā | svagotre putrajātaścet tadgotrā hyaghamācaret


194

पञ्चत्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् । युगसप्तदशाहं स्यात् त्रयोदशाहे पञ्चमी

pañcatriṃśaddine putrī cettadā sahajātmanām | yugasaptadaśāhaṃ syāt trayodaśāhe pañcamī


195

षष्ठे रुद्रदिनात् शुद्धिस्सप्तमे दशदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe rudradināt śuddhissaptame daśadinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca

candrajñāne āśaucavidhiḥ viṃśatiḥ paṭalaḥ (cont. 2)

196

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


197

पित्रोर्यात् दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryāt dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


198

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रूढहारी स एव स्यात् तदाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rūḍhahārī sa eva syāt tadāghamadhunocyate


199

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācāryaparicārakāḥ


200

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


201

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


202

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


203

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


204

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


205

शावेन शुद्ध्यते सुतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति

śāvena śuddhyate sutirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


206

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gaccheddaśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


207

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । कुलालाघमिति प्रोक्तं राजकान्विमथ शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | kulālāghamiti proktaṃ rājakānvimatha śṛṇu


208

जन्माशौचं मृताशौचं * * * * शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmāśaucaṃ mṛtāśaucaṃ * * * * śuddhyatī vā | svagotre putrajātaścet tadgotrā hyaghamācaret


209

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् । युगमूर्ति दशाहं स्यात् चतु * * * * * *

*ṣaṭtriṃśaddine putrī cettadā sahajātmanām | yugamūrti daśāhaṃ syāt catu * * * * * **


210

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe bhānudināt śuddhissapta rudradinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


211

तदस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्य प्रकारेण प्रवक्ष्यामि समासतः

tadasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānya prakāreṇa pravakṣyāmi samāsataḥ


212

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


213

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रुत्थहारी स एव स्यात् तदाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rutthahārī sa eva syāt tadāghamadhunocyate


214

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाशिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśiṣyo hyārabhya cācāryaparicārakāḥ


215

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


216

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


217

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


218

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


219

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


220

शावेन शुद्ध्यते सूतिर्न सूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुद्ध्यति

śāvena śuddhyate sūtirna sūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śuddhyati


221

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gaccheddaśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


222

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । राजकाघमिति प्रोक्तं सूचिकाघमथ शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | rājakāghamiti proktaṃ sūcikāghamatha śṛṇu


223

जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmāśaucaṃ mṛtāśaucaṃ ṣaṭtriṃśaddinena śuddhyatī vā | svagotre putrajātaścet tadgotrā hyaghamācaret


224

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् । युगमूर्ति दशाहं स्यात् चतुर्दशाहे पञ्चमी

ṣaṭtriṃśaddine putrī cettadā sahajātmanām | yugamūrti daśāhaṃ syāt caturdaśāhe pañcamī


225

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe bhānudināt śuddhissapta rudradinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


226

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


227

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


228

पितृभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रुत्थहारी स एव स्यात् तदाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rutthahārī sa eva syāt tadāghamadhunocyate


229

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācārya paricārakāḥ


230

यजमानः क्रियापूर्ते पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrte purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


231

आशौचमाचरेत् पश्चात् तदायोग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadāyogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


232

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


233

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


234

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


235

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śuddhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


236

अल्पान् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः । पूर्वस्यान्त्यदिने यदिद्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpān pañcadinādhikaṃ daśadinaṃ gaccheddaśāhātgamaḥ | pūrvasyāntyadine yadidvidivasāt śuddhe prabhāte tryahāt


237

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । सूचिकाघमिदं प्रोक्तं तैलविक्रयाशौचं शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | sūcikāghamidaṃ proktaṃ tailavikrayāśaucaṃ śṛṇu


238

जन्माशौचं मृताशौचं षट्त्रिंशद्दिनेन शुद्ध्यती वा । स्वगोत्रे पुत्रजातश्चेत् तद्गोत्रा ह्यघमाचरेत्

janmāśaucaṃ mṛtāśaucaṃ ṣaṭtriṃśaddinena śuddhyatī vā | svagotre putrajātaścet tadgotrā hyaghamācaret


239

षट्त्रिंशद्दिने पूत्रीचेत् तदा सहजात्मनाम् । युगमूर्तिदशाहं स्यात् चतुर्दशाहे च पञ्चमी

ṣaṭtriṃśaddine pūtrīcet tadā sahajātmanām | yugamūrtidaśāhaṃ syāt caturdaśāhe ca pañcamī


240

षष्ठे भानुदिनात् शुद्धिस्सप्त रुद्रदिनं क्रमात् । अन्यगोत्र प्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe bhānudināt śuddhissapta rudradinaṃ kramāt | anyagotra praviṣṭānāṃ dāyamāśaucameva ca


241

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


242

पित्रोर्यो दात्रिमः पुत्रस्तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryo dātrimaḥ putrastasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


243

पित्रभ्यां शैशवेऽन्यत्र दत्तो यस्तत्र कर्मकृत् । रुत्थहारी स एव स्यात् तथाघमधुनोच्यते

pitrabhyāṃ śaiśave'nyatra datto yastatra karmakṛt | rutthahārī sa eva syāt tathāghamadhunocyate


244

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्य परिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācārya paricārakāḥ


245

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


246

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


247

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रं नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotraṃ nāsti cet punaḥ


248

कार्ययेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kāryayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


249

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


250

शावेन शुद्ध्यते सूतिर्न्नसूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śuddhyate sūtirnnasūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


251

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेद्दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gaccheddaśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


252

अयं अर्धदिन प्रभृति एकद्वित्रिक्रमेण वर्धयेत् । तैलविक्रया शौचं प्रोक्तं ताम्बूलविक्रयाशौचं प्रोक्तं

ayaṃ ardhadina prabhṛti ekadvitrikrameṇa vardhayet | tailavikrayā śaucaṃ proktaṃ tāmbūlavikrayāśaucaṃ proktaṃ


253

          • ताम्बूल विक्रयाघमथ शृणु । जन्माशौचं मृताशौचं षट्त्रिंशत् दिनेन शुध्यतीव

** * * * * tāmbūla vikrayāghamatha śṛṇu | janmāśaucaṃ mṛtāśaucaṃ ṣaṭtriṃśat dinena śudhyatīva*


254

स्वगोत्रे पुत्र जातश्चेत् तद्गोत्राह्यघमाचरेत्

svagotre putra jātaścet tadgotrāhyaghamācaret


255

षट्त्रिंशद्दिने पुत्री चेत्तदा सहजात्मनाम् । युगमूर्ती दशाहं स्यात् चतुर्दशाहे पञ्चमी

ṣaṭtriṃśaddine putrī cettadā sahajātmanām | yugamūrtī daśāhaṃ syāt caturdaśāhe pañcamī


256

षष्ठे भानुदिनात् शुद्धिस्सप्ते रुद्रदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe bhānudināt śuddhissapte rudradinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


257

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


258

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण च

pitroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa ca


259

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । रुत्थहारी स एव स्यात् तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | rutthahārī sa eva syāt tathāghamadhunocyate


260

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācāryaparicārakāḥ


261

यजमानः क्रियापूर्तेः पुरा शौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्मसमाचरेत्

yajamānaḥ kriyāpūrteḥ purā śaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarmasamācaret


262

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vrasthānāṃ yogināṃ ca tathaiva ca


263

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादि कर्माणां स्वगोत्रं नास्ति चेत्पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādi karmāṇāṃ svagotraṃ nāsti cetpunaḥ


264

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


265

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


266

शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śudhyate sūtirna sūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


267

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात्गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gacchet daśāhātgamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


268

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । ताम्बूलं विक्रिया प्रोक्तं गोपालाघमथ शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | tāmbūlaṃ vikriyā proktaṃ gopālāghamatha śṛṇu


269

जन्माशौचं मृताशौचं एकमासेन शुध्यति । स्वगोत्रे पुत्रजातश्चेत् तत् गोत्राह्यघमासेत्

janmāśaucaṃ mṛtāśaucaṃ ekamāsena śudhyati | svagotre putrajātaścet tat gotrāhyaghamāset


270

एकमासेन पुत्री चेत् तदेव सहजात्मनाम् । स पञ्चदशाहं स्यादेकादशाहे पञ्चमी

ekamāsena putrī cet tadeva sahajātmanām | sa pañcadaśāhaṃ syādekādaśāhe pañcamī


271

षष्ठे नवाहात् शुद्धिस्सप्ते वसुदिनं क्रमात् । अन्यगोत्रप्रविष्टानां दायमाशौचमेव च

ṣaṣṭhe navāhāt śuddhissapte vasudinaṃ kramāt | anyagotrapraviṣṭānāṃ dāyamāśaucameva ca


272

यद्यस्ति भर्तुराशौचं भार्यायाश्च न संशयः । अथवान्यप्रकारेण प्रवक्ष्यामि समासतः

yadyasti bharturāśaucaṃ bhāryāyāśca na saṃśayaḥ | athavānyaprakāreṇa pravakṣyāmi samāsataḥ


273

पित्रोर्यो दात्रिमः पुत्रः तस्याशौचं विधीयते । आशौचं ज्ञातिभिस्सार्धं तस्य नासीत् क्रमेण तु

pitroryo dātrimaḥ putraḥ tasyāśaucaṃ vidhīyate | āśaucaṃ jñātibhissārdhaṃ tasya nāsīt krameṇa tu


274

पितृभ्यां शैशवेऽन्यत्र दत्तोयस्तत्र कर्मकृत् । रुत्थहारी स एव स्यात् तथाघमधुनोच्यते

pitṛbhyāṃ śaiśave'nyatra dattoyastatra karmakṛt | rutthahārī sa eva syāt tathāghamadhunocyate


275

पूर्वगोत्रे न संबन्धः पितृभ्यां तु विना कदा । यत्क्रियाश्शिष्यो ह्यारभ्य चाचार्यपरिचारकाः

pūrvagotre na saṃbandhaḥ pitṛbhyāṃ tu vinā kadā | yatkriyāśśiṣyo hyārabhya cācāryaparicārakāḥ


276

यजमानः क्रियापूर्तेः पुराशौचमुत्पन्नं चेत् । गव्यस्नानं ततः कृत्वा शेषकर्म समाचरेत्

yajamānaḥ kriyāpūrteḥ purāśaucamutpannaṃ cet | gavyasnānaṃ tataḥ kṛtvā śeṣakarma samācaret


277

आशौचमाचरेत् पश्चात् तदा योग्यदिनं क्रमात् । दीक्षितानां व्रतस्थानां योगिनां च तथैव च

āśaucamācaret paścāt tadā yogyadinaṃ kramāt | dīkṣitānāṃ vratasthānāṃ yogināṃ ca tathaiva ca


278

उत्पन्नं यदि यत्काले तद्वदाशौचमाचरेत् । संस्कारादिकर्माणां स्वगोत्रन्नास्ति चेत् पुनः

utpannaṃ yadi yatkāle tadvadāśaucamācaret | saṃskārādikarmāṇāṃ svagotrannāsti cet punaḥ


279

कारयेत्तु संस्कारादि तत्कर्माणि समाचरेत् । पश्चादायोग्यदिनं गव्यस्नानं प्रोक्षणं कृत्वा

kārayettu saṃskārādi tatkarmāṇi samācaret | paścādāyogyadinaṃ gavyasnānaṃ prokṣaṇaṃ kṛtvā


280

पुनः कर्माणि सर्वाणि कारयेच्च न संशयः । शावाशौचे समुत्पन्ने सूतिकं तु यथा भवेत्

punaḥ karmāṇi sarvāṇi kārayecca na saṃśayaḥ | śāvāśauce samutpanne sūtikaṃ tu yathā bhavet


281

शावेन शुध्यते सूतिर्न सूतिश्शवशोधनैः । सूतिकं सूतिकेनैव शावं शावेन शुध्यति

śāvena śudhyate sūtirna sūtiśśavaśodhanaiḥ | sūtikaṃ sūtikenaiva śāvaṃ śāvena śudhyati


282

अल्पात् पञ्चदिनाधिकं दशदिनं गच्छेत् दशाहात् गमः । पूर्वस्यान्त्यदिने यदि द्विदिवसात् शुद्धे प्रभाते त्र्यहात्

alpāt pañcadinādhikaṃ daśadinaṃ gacchet daśāhāt gamaḥ | pūrvasyāntyadine yadi dvidivasāt śuddhe prabhāte tryahāt


283

अयं अर्धदिनप्रभृति एकद्वित्रिक्रमेण वर्धयेत् । गोपालाघमिति प्रोक्तं विशेषाघमथ शृणु

ayaṃ ardhadinaprabhṛti ekadvitrikrameṇa vardhayet | gopālāghamiti proktaṃ viśeṣāghamatha śṛṇu


284

उत्सवादीनि तीर्थान्तं सूतकप्रेतकन्न हि । दीक्षितस्यैकपुत्रस्य मातापित्रो मृते सति

utsavādīni tīrthāntaṃ sūtakapretakanna hi | dīkṣitasyaikaputrasya mātāpitro mṛte sati


285

संस्कुर्यात् यागशालायां यागशेषं समाचरेत् । तत्पुत्रस्य विशेषोऽस्ति सद्य स्नानेन शुध्यति

saṃskuryāt yāgaśālāyāṃ yāgaśeṣaṃ samācaret | tatputrasya viśeṣo'sti sadya snānena śudhyati


286

दीक्षितानां व्रतस्थानां यतीनां ब्रह्मचारिणाम् । जन्माशौचं मृताशौचं न कदाचन विद्यते

dīkṣitānāṃ vratasthānāṃ yatīnāṃ brahmacāriṇām | janmāśaucaṃ mṛtāśaucaṃ na kadācana vidyate


287

विकारवयोधिक्यं वा ब्रह्मचर्यं न योग्यकम् । एतत् शास्त्रं परित्यज्य चान्यशास्त्रं न चिन्तयेत्

vikāravayodhikyaṃ vā brahmacaryaṃ na yogyakam | etat śāstraṃ parityajya cānyaśāstraṃ na cintayet


288

यत् क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः । आचार्याश्चेत् पुरा तेषां निर्दोषमिति कथ्यते

yat kriyāścaiva ārabhya kriyāpūrteraghodbhavaḥ | ācāryāścet purā teṣāṃ nirdoṣamiti kathyate


289

यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः । मूर्तयश्चेत् पुरा तेषां निर्दोषमिति कथ्यते

yatkriyāścaiva ārabhya kriyāpūrteraghodbhavaḥ | mūrtayaścet purā teṣāṃ nirdoṣamiti kathyate


290

कर्तारश्चेत् पुरा तेषां निर्दोषमिति कथ्यते । यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः

kartāraścet purā teṣāṃ nirdoṣamiti kathyate | yatkriyāścaiva ārabhya kriyāpūrteraghodbhavaḥ


291

कर्माणि श्चेत् पुरा तेषां निर्दोषमिति कथ्यते । यत्क्रियाश्चैव आरभ्य क्रियापूर्तेरघोद्भवः

karmāṇi ścet purā teṣāṃ nirdoṣamiti kathyate | yatkriyāścaiva ārabhya kriyāpūrteraghodbhavaḥ


292

विशेषाघमिति प्रोक्तं प्रायश्चित्त विधिः शृणु । आरम्भस्य क्रियाकाले दोषमुत्पन्न कारयेत्

viśeṣāghamiti proktaṃ prāyaścitta vidhiḥ śṛṇu | ārambhasya kriyākāle doṣamutpanna kārayet


293

क्रियापूर्णं तु दोषाय जिह्वाकाकबलिं क्षिपेत् । गव्येन देवकर्माणि कुर्वन्त्यतित एव तु

kriyāpūrṇaṃ tu doṣāya jihvākākabaliṃ kṣipet | gavyena devakarmāṇi kurvantyatita eva tu


294

स्नपनं शान्तिहोमं च कारयेद्देशिकोत्तमः । शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम्

snapanaṃ śāntihomaṃ ca kārayeddeśikottamaḥ | śuddhānnaṃ dāpayet paścāt śuddhānnaṃ ca samanvitam


295

शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् । त एव तु स मोहेन युद्धमेवे शयं त्यदि

śaṅkhadhvani samāyuktaṃ vādyaghoṣasamākulam | ta eva tu sa mohena yuddhameve śayaṃ tyadi


296

स्नपनं मूर्तिहोमं च कारयेद्देशिकोत्तमः । शुद्धान्नं दापयेत् पश्चात् पश्चात् शुद्धसमन्वितम्

snapanaṃ mūrtihomaṃ ca kārayeddeśikottamaḥ | śuddhānnaṃ dāpayet paścāt paścāt śuddhasamanvitam


297

शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् । पीठवृत्तं प्रभृत्येव गर्भगेहान्तमेव च

śaṅkhadhvanisamāyuktaṃ vādyaghoṣasamākulam | pīṭhavṛttaṃ prabhṛtyeva garbhagehāntameva ca


298

यत्परे स्पर्शने चैव विशेषकर्मोदाहृतः । अश्मोद्वासनदूर्वे वा वेशयत्यादि एव ते

yatpare sparśane caiva viśeṣakarmodāhṛtaḥ | aśmodvāsanadūrve vā veśayatyādi eva te


299

उक्तस्थानेषु स्नपनं बेरस्पृष्टौ च कारयेत् । शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम्

uktasthāneṣu snapanaṃ beraspṛṣṭau ca kārayet | śuddhānnaṃ dāpayet paścāt śuddhānnaṃ ca samanvitam


300

शङ्खध्वनिसमायुक्तं वाद्यघोषसमाकुलम् । आशौचद्रव्यसंबन्धं कारयेद्यदि मन्त्रवित्

śaṅkhadhvanisamāyuktaṃ vādyaghoṣasamākulam | āśaucadravyasaṃbandhaṃ kārayedyadi mantravit


301

ततस्तु देवपूजानां स्नपनं शान्तिहोमकम् । शुद्धान्नं दापयेत् पश्चात् शुद्धान्नं च समन्वितम्

tatastu devapūjānāṃ snapanaṃ śāntihomakam | śuddhānnaṃ dāpayet paścāt śuddhānnaṃ ca samanvitam


302

शङ्खध्वनि समायुक्तं वाद्यघोषसमाकुलम् । आशौचविधिराख्याता सर्वशास्त्रेषु भाषितम्

śaṅkhadhvani samāyuktaṃ vādyaghoṣasamākulam | āśaucavidhirākhyātā sarvaśāstreṣu bhāṣitam

Candrajñāna Āgama

1

श्रिः

śriḥ

candrajñānabhede devyā mate mahotsavavidhiḥ paṭalaḥ

1

महोत्सवविधिं वक्ष्ये शृणुष्वैकाग्रमानसः । सर्वराष्ट्र विवृद्ध्यर्थं सदा विजयवर्धनम्

mahotsavavidhiṃ vakṣye śṛṇuṣvaikāgramānasaḥ | sarvarāṣṭra vivṛddhyarthaṃ sadā vijayavardhanam


2

सर्वरोगविनाशार्थं सर्वमतप्रियावहम् । ध्वजाङ्कुरार्पणं पूर्वं द्वितीयं चोत्सवाङ्कुरम्

sarvarogavināśārthaṃ sarvamatapriyāvaham | dhvajāṅkurārpaṇaṃ pūrvaṃ dvitīyaṃ cotsavāṅkuram


3

तीर्थाङ्कुरं तृतीयं च त्रिविधं चोत्सवान्तकम् । प्रथमं वृषयागं तु द्वितीयं देवतासनम्

tīrthāṅkuraṃ tṛtīyaṃ ca trividhaṃ cotsavāntakam | prathamaṃ vṛṣayāgaṃ tu dvitīyaṃ devatāsanam


4

तृतीयं भेरिघोषं स्याद् बलिदानं चतुर्थकम् । रोहणं पञ्चमं कृत्वा षष्ठं तु यागशालकम्

tṛtīyaṃ bherighoṣaṃ syād balidānaṃ caturthakam | rohaṇaṃ pañcamaṃ kṛtvā ṣaṣṭhaṃ tu yāgaśālakam


5

सप्तमं कौतुकं कुर्यात् अष्टमं होमकर्मणि । नवमे चोत्सवं कुर्याद्दशमं परिवेष्टकम्

saptamaṃ kautukaṃ kuryāt aṣṭamaṃ homakarmaṇi | navame cotsavaṃ kuryāddaśamaṃ pariveṣṭakam


6

गणपतेः स्नानमेवोक्तं कौतुकालं कृतं भवेत् । ग्रामप्रदक्षिणं कृत्वा अपूपं कदलीफलम्

gaṇapateḥ snānamevoktaṃ kautukālaṃ kṛtaṃ bhavet | grāmapradakṣiṇaṃ kṛtvā apūpaṃ kadalīphalam


7

एकादशं रथारोहं द्वादशे अवरोहणम् । त्रयोदशममृ * * चूर्णोत्सवं चतुर्दशम्

ekādaśaṃ rathārohaṃ dvādaśe avarohaṇam | trayodaśamamṛ * * cūrṇotsavaṃ caturdaśam


8

तीर्थारम्भे तदन्ते च चण्डयागं तु षोडश । ध्वजावरोहणं पश्चात् शुद्धस्नानमतः परम्

tīrthārambhe tadante ca caṇḍayāgaṃ tu ṣoḍaśa | dhvajāvarohaṇaṃ paścāt śuddhasnānamataḥ param


9

गौरीयागं तदन्ते तु भक्तोत्सवमनन्तरम् । विंशद्भेदमिति ख्यातं ज्ञात्वा कर्म समाचरेत्

gaurīyāgaṃ tadante tu bhaktotsavamanantaram | viṃśadbhedamiti khyātaṃ jñātvā karma samācaret


10

उत्सवं त्रिविधं ज्ञेयं पुष्कलं विजयं भवेत् । पैत्रं तु द्वादशाहं तु दशमं शैवमेव च

utsavaṃ trividhaṃ jñeyaṃ puṣkalaṃ vijayaṃ bhavet | paitraṃ tu dvādaśāhaṃ tu daśamaṃ śaivameva ca


11

      • सौख्यमेवं तु उत्सवं त्रिविधं भवेत् । ध्वजारोहणपूर्वे तु अङ्कुरं भेरिपूर्वकम्

** * * saukhyamevaṃ tu utsavaṃ trividhaṃ bhavet | dhvajārohaṇapūrve tu aṅkuraṃ bheripūrvakam*


12

अङ्कुरार्पणपूर्वे तु तद्दिने ध्वजमारभेत् । त्रिगुणे द्विगुणे काले कारयेद्देशिकोत्तमः

aṅkurārpaṇapūrve tu taddine dhvajamārabhet | triguṇe dviguṇe kāle kārayeddeśikottamaḥ


13

उत्सवं च प्रतिष्ठायां प्रदोषदिनमारभेत् । पूर्वाह्ने रविमध्ये तु सायाह्ने रोहणं भवेत्

utsavaṃ ca pratiṣṭhāyāṃ pradoṣadinamārabhet | pūrvāhne ravimadhye tu sāyāhne rohaṇaṃ bhavet


14

तद्दिने तु मुहूर्तं वा एवं वापेच्च बुद्धिमान् । पूर्वाह्ने ब्रह्मवर्गस्य मध्याह्ने * * * * नम्

taddine tu muhūrtaṃ vā evaṃ vāpecca buddhimān | pūrvāhne brahmavargasya madhyāhne * * * * nam


15

सायाह्ने सर्वरक्षार्थं सदा विजयवर्धनम् । ध्वजोत्थानादि तीर्थान्तं साकल्यं चेति कथ्यते

sāyāhne sarvarakṣārthaṃ sadā vijayavardhanam | dhvajotthānādi tīrthāntaṃ sākalyaṃ ceti kathyate


16

वृषध्वजं विना भौमं शेषं पूर्वदेव तु । वापनान्तं समाख्यातं शान्तं तत्तद्यदृच्छया

vṛṣadhvajaṃ vinā bhaumaṃ śeṣaṃ pūrvadeva tu | vāpanāntaṃ samākhyātaṃ śāntaṃ tattadyadṛcchayā


17

भक्त्या केचित् काले शिवात्सवम् * * * * * * । शान्तमेवं समाख्यातं मङ्गलं तु तथोच्यते

bhaktyā kecit kāle śivātsavam * * * * * * | śāntamevaṃ samākhyātaṃ maṅgalaṃ tu tathocyate


18

पूर्वाह्ने वा पराह्ने वा केवलं चोत्सवं कृतम् । एतं मङ्गलमित्युक्तं त्रि * * * * * * *

*pūrvāhne vā parāhne vā kevalaṃ cotsavaṃ kṛtam | etaṃ maṅgalamityuktaṃ tri * * * * * * **


19

सौरं च सावनं चैव चन्द्रनक्षत्रमेव च । एतच्चतुर्विधे मासे कारयेदुत्सवं तदा

sauraṃ ca sāvanaṃ caiva candranakṣatrameva ca | etaccaturvidhe māse kārayedutsavaṃ tadā


20

सौरं सावनतीर्थान्तं सालोक्यादिफलं भवेत् । चन्द्रनक्षत्रतीर्थान्तं सर्वसंपत्सुखावहम्

sauraṃ sāvanatīrthāntaṃ sālokyādiphalaṃ bhavet | candranakṣatratīrthāntaṃ sarvasaṃpatsukhāvaham


21

भास्करस्य गतिर्यावत् सौरराशौ तमेव च । स्थण्डिलस्य ददेद्देवं हस्तेनैव त्रयस्तथा

bhāskarasya gatiryāvat saurarāśau tameva ca | sthaṇḍilasya dadeddevaṃ hastenaiva trayastathā


22

पश्चात् प्रतिसरं बद्ध्वा त्र्यंबकेनैव मन्त्रतः । देवानां दक्षिणे हस्ते बन्धनं प्रतिसरस्य वै

paścāt pratisaraṃ baddhvā tryaṃbakenaiva mantrataḥ | devānāṃ dakṣiṇe haste bandhanaṃ pratisarasya vai


23

बृहत्सामेति मन्त्रेण देव्याः प्रतिसरं तथा । मन्त्रवासस्य मन्त्रेण मन्त्रवासं ददेद्बुधः

bṛhatsāmeti mantreṇa devyāḥ pratisaraṃ tathā | mantravāsasya mantreṇa mantravāsaṃ dadedbudhaḥ


24

आयुष्मान् पञ्चभिर्मन्त्रैर्घोषयेद् ब्रह्मसंघकैः । अक्षतांश्च ददेद्देवे धूपं दीपं च दापयेत्

āyuṣmān pañcabhirmantrairghoṣayed brahmasaṃghakaiḥ | akṣatāṃśca dadeddeve dhūpaṃ dīpaṃ ca dāpayet


25

मुद्गान्नं तड्डुकं चैव अपूपानेक भक्षणैः । सर्वोपदंशसंयुक्तं आज्यं दुग्धेन संयुतम्

mudgānnaṃ taḍḍukaṃ caiva apūpāneka bhakṣaṇaiḥ | sarvopadaṃśasaṃyuktaṃ ājyaṃ dugdhena saṃyutam


26

मधुवाता ऋतो येति हविर्निवेदयेत् तदा । पश्चात् विसृज्य निर्माल्यं * * * * * * * * त्

madhuvātā ṛto yeti havirnivedayet tadā | paścāt visṛjya nirmālyaṃ * * * * * * * * t


27

पश्चात् ताम्बूलकं दत्त्वा दर्पणं दर्शयेत् ततः । छत्रं च चामरं चैव दापयेत्तु विचक्षणः

paścāt tāmbūlakaṃ dattvā darpaṇaṃ darśayet tataḥ | chatraṃ ca cāmaraṃ caiva dāpayettu vicakṣaṇaḥ


28

ब्राह्मणान् दर्शयेच्चैव ब्रह्मजज्ञानमन्त्रतः । गौर्धेन भव्या मन्त्रेण संवत्साङ्गं प्रदर्शयेत्

brāhmaṇān darśayeccaiva brahmajajñānamantrataḥ | gaurdhena bhavyā mantreṇa saṃvatsāṅgaṃ pradarśayet


29

नन्दीशं प्रतिसरं बद्ध्या महावाद्यं प्रताडयेत् । आहूय वाद्यकान् सर्वान् महानाड्यां च दर्शयेत्

nandīśaṃ pratisaraṃ baddhyā mahāvādyaṃ pratāḍayet | āhūya vādyakān sarvān mahānāḍyāṃ ca darśayet


30

                • गीतं वाद्यं च घोषयेत् । गीतं चैव समायुक्तं पूतो त्येन सनर्तकैः

** * * * * * * * gītaṃ vādyaṃ ca ghoṣayet | gītaṃ caiva samāyuktaṃ pūto tyena sanartakaiḥ*


31

शिबिकां रोपयेद्धीपान् सर्वालङ्कारसंयुतम् । हर्म्य प्रदक्षिणं कृत्वा आस्थानमण्टपं विशेत्

śibikāṃ ropayeddhīpān sarvālaṅkārasaṃyutam | harmya pradakṣiṇaṃ kṛtvā āsthānamaṇṭapaṃ viśet


32

नृत्तगेयादि संयुक्तं रात्रौ जागरमेव च । प्रभाते विमले स्नानमाचार्यश्च समाचरेत्

nṛttageyādi saṃyuktaṃ rātrau jāgarameva ca | prabhāte vimale snānamācāryaśca samācaret


33

सोष्णीषं चोत्तरीयं च सर्वगन्धानुलेपनम् । सर्वाभरण संभूष्य सर्वमाल्यैपि भूषयेत्

soṣṇīṣaṃ cottarīyaṃ ca sarvagandhānulepanam | sarvābharaṇa saṃbhūṣya sarvamālyaipi bhūṣayet


34

नटेश्वरं वस्त्रेणाच्छाद्य सर्वालंकारसंयुतम् । स्थण्डिलद्वितयं कृत्वा प्रतिमां चैकतो न्यसेत्

naṭeśvaraṃ vastreṇācchādya sarvālaṃkārasaṃyutam | sthaṇḍiladvitayaṃ kṛtvā pratimāṃ caikato nyaset


35

आगरो कृष्णसत्गन्धैः द्वितीये संस्थिलोपरि । तस्मिन् गन्धं त्रिधा भज्य पूण्याहं वाचयेत्ततः

āgaro kṛṣṇasatgandhaiḥ dvitīye saṃsthilopari | tasmin gandhaṃ tridhā bhajya pūṇyāhaṃ vācayettataḥ


36

गन्धशुद्ध्यर्थकंरेण देवं व्रत समाचरेत् । होमयेत्तु विशेषेण अग्निकार्यं सुबुद्धिमान्

gandhaśuddhyarthakaṃreṇa devaṃ vrata samācaret | homayettu viśeṣeṇa agnikāryaṃ subuddhimān


37

गन्धशुध्यर्थकारेण गन्धद्वारेति मन्त्रतः । अष्टोत्तरशतं हुत्वा आज्येन समिधान्नकैः

gandhaśudhyarthakāreṇa gandhadvāreti mantrataḥ | aṣṭottaraśataṃ hutvā ājyena samidhānnakaiḥ


38

व्रतस्य सदृशं चैव वनपरैः मूलमन्त्रकैः । आज्येन चरुणा चैव तिलमुद्गयवैस्तथा

vratasya sadṛśaṃ caiva vanaparaiḥ mūlamantrakaiḥ | ājyena caruṇā caiva tilamudgayavaistathā


39

लाजेन जुहुयाद्धीमान् प्रत्येकं तु शताहुतिः । होमं कृत्वा विशेषेण देशिकश्चैव बुद्धिमान्

lājena juhuyāddhīmān pratyekaṃ tu śatāhutiḥ | homaṃ kṛtvā viśeṣeṇa deśikaścaiva buddhimān


40

होमव्यापिनमेवोक्त्वा गामदत्त्वा वकुर्वतान् । * * * * * * * * गन्धं चैवाधिकं भवेत्

homavyāpinamevoktvā gāmadattvā vakurvatān | * * * * * * * * gandhaṃ caivādhikaṃ bhavet


41

मासनक्षत्रमेवोक्तं जात्वैवं ह्येवमेव च । प्रतिसंवत्सरं मासं तिथिं निश्चित्य ऋक्षयुक्

māsanakṣatramevoktaṃ jātvaivaṃ hyevameva ca | pratisaṃvatsaraṃ māsaṃ tithiṃ niścitya ṛkṣayuk


42

आरम्भमुत्सवे हीने यथेष्टं मासि वा नयेत् । उत्तमं मध्यमं चैव कन्यसं त्रिविधं भवेत्

ārambhamutsave hīne yatheṣṭaṃ māsi vā nayet | uttamaṃ madhyamaṃ caiva kanyasaṃ trividhaṃ bhavet


43

        • र्थनक्षत्र व्यक्ता सोत्य प्रतिक्रिया । यागारम्भस्य पूर्वे तु व्यत्यासो ज्ञातये सति

** * * * rthanakṣatra vyaktā sotya pratikriyā | yāgārambhasya pūrve tu vyatyāso jñātaye sati*


44

                                • । * * * * * * * श्चा तद्भावारोपयेत् पुनः

** * * * * * * * * * * * * * * * | * * * * * * * ścā tadbhāvāropayet punaḥ*


45

प्रायश्चित्तं तु कर्तव्यं शान्तिहोमं समाचरेत् । आर्द्रान्तं वैष्णवान्तं वा रोहिण्यन्ममथापि वा

prāyaścittaṃ tu kartavyaṃ śāntihomaṃ samācaret | ārdrāntaṃ vaiṣṇavāntaṃ vā rohiṇyanmamathāpi vā


146

सर्वमासेषु कर्तव्यं किं कर्तव्यमिति स्मृतौ । एकमासे विधानेन का * * * * * * *

*sarvamāseṣu kartavyaṃ kiṃ kartavyamiti smṛtau | ekamāse vidhānena kā * * * * * * **


47

                                • । * * * * * * * * * * * तीर्थमाचरेत्

** * * * * * * * * * * * * * * * | * * * * * * * * * * * tīrthamācaret*


48

शिवोत्सवारम्भकाले तु नैष्टमन्योत्सवं ततः । अन्यदेवोत्सवे काले महादेवोत्सवं कृतम्

śivotsavārambhakāle tu naiṣṭamanyotsavaṃ tataḥ | anyadevotsave kāle mahādevotsavaṃ kṛtam


49

पुरारब्धान्य देवानामुत्सवं न च दोषभाक् । तस्मात् शिवोत्सवान्मध्ये त्वारब्धस्सर्वदोषभाक्

purārabdhānya devānāmutsavaṃ na ca doṣabhāk | tasmāt śivotsavānmadhye tvārabdhassarvadoṣabhāk


50

शिवयागं च योऽन्यं च एककाले कृतं यदि । विफलं तदवाप्नोति चैकस्मिन् न च वस्तुनि

śivayāgaṃ ca yo'nyaṃ ca ekakāle kṛtaṃ yadi | viphalaṃ tadavāpnoti caikasmin na ca vastuni


51

ध्वजाध्वजं न कर्तव्यं कर्तव्यं वृषभध्वजम् । देवानामपि कल्याणे नृकल्याणं न कारयेत्

dhvajādhvajaṃ na kartavyaṃ kartavyaṃ vṛṣabhadhvajam | devānāmapi kalyāṇe nṛkalyāṇaṃ na kārayet


52

कारयेद्यदि शोकं तु व्याधिशोकमवाप्नुयात् । ग्रामे वा नगरे वापि पत्तने राजधानिके

kārayedyadi śokaṃ tu vyādhiśokamavāpnuyāt | grāme vā nagare vāpi pattane rājadhānike


53

सर्वदेवोत्सवं कुर्याद् दोषमत्र न विद्यते । त्रिविधं उत्सवारम्भं कारयेत्तु विचक्षणः

sarvadevotsavaṃ kuryād doṣamatra na vidyate | trividhaṃ utsavārambhaṃ kārayettu vicakṣaṇaḥ


54

सप्तविंशतिनक्षत्रे ध्वजारोहणमारभेत् । अष्टाविंशद्दिनानां तु भेरीताडन पूर्ववत्

saptaviṃśatinakṣatre dhvajārohaṇamārabhet | aṣṭāviṃśaddinānāṃ tu bherītāḍana pūrvavat


55

अङ्कुरार्पणपूर्वे तु सद्योऽधिवासनं शृनु । ध्वजारोहणपूर्वे तु पश्चात् भेरीं तु ताडयेत्

aṅkurārpaṇapūrve tu sadyo'dhivāsanaṃ śṛnu | dhvajārohaṇapūrve tu paścāt bherīṃ tu tāḍayet


56

भेरीघोषणपूर्वे तु पश्चादारोहणं भवेत् । अङ्कुरार्पण पूर्वं स्यात् पश्चात् भेरीं तु ताडयेत्

bherīghoṣaṇapūrve tu paścādārohaṇaṃ bhavet | aṅkurārpaṇa pūrvaṃ syāt paścāt bherīṃ tu tāḍayet


57

एतद्दिनं समासेन एवं वै प्रथमेऽहनि । सद्योऽधिवासनं कुर्यात् तद्दिनं सर्वमेव च

etaddinaṃ samāsena evaṃ vai prathame'hani | sadyo'dhivāsanaṃ kuryāt taddinaṃ sarvameva ca


58

ध्वजपटलक्षणं कुर्यात् द्वादशं हस्तमेव च । दशहस्तं समायुक्तं सप्तहस्तमथापि वा

dhvajapaṭalakṣaṇaṃ kuryāt dvādaśaṃ hastameva ca | daśahastaṃ samāyuktaṃ saptahastamathāpi vā


59

षट्तालं पञ्चतालं वा चतुस्तालमथापि वा । त्रिपुच्छं शिखरं ज्ञेयं पुच्छद्वयसमायुतम्

ṣaṭtālaṃ pañcatālaṃ vā catustālamathāpi vā | tripucchaṃ śikharaṃ jñeyaṃ pucchadvayasamāyutam


60

तत्पदं पञ्चधा भज्य मध्यमं वृषपालिके । श्वेतपद्मासनं युक्तं स्थितं वा शयनं तु वा

tatpadaṃ pañcadhā bhajya madhyamaṃ vṛṣapālike | śvetapadmāsanaṃ yuktaṃ sthitaṃ vā śayanaṃ tu vā


61

श्वेतवर्णं च धूम्रं च रक्तवर्णमथापि वा । कृष्णवर्णं लिखित्वा चेत् नृपराष्ट्रं विनश्यति

śvetavarṇaṃ ca dhūmraṃ ca raktavarṇamathāpi vā | kṛṣṇavarṇaṃ likhitvā cet nṛparāṣṭraṃ vinaśyati


62

वृषभं श्वेतवर्णेन राजराष्ट्रं विवर्धयेत् । सर्वशान्तिकरं पुण्यं सर्वलोकसुखावहम्

vṛṣabhaṃ śvetavarṇena rājarāṣṭraṃ vivardhayet | sarvaśāntikaraṃ puṇyaṃ sarvalokasukhāvaham


63

श्वेतवर्णं तु रूपाणां श्रीगौ चारक्तबाहुकौ । कर्णौ तु पीतवर्णं स्यात् पुच्छं तद्वर्णमालिखेत्

śvetavarṇaṃ tu rūpāṇāṃ śrīgau cāraktabāhukau | karṇau tu pītavarṇaṃ syāt pucchaṃ tadvarṇamālikhet


64

कृष्णं श्वेतं तथा नीलं नयनं लेख्यमेव च । पादाग्रान् रक्तवर्णेन नीलवर्णं प्रसारयेत्

kṛṣṇaṃ śvetaṃ tathā nīlaṃ nayanaṃ lekhyameva ca | pādāgrān raktavarṇena nīlavarṇaṃ prasārayet


65

पार्श्वे तु दीपमेवोक्तं शूलवत् कारयेद् बुधः । छत्रं च चामरे चैव स्वस्तिकं चोर्ध्वमेव च

pārśve tu dīpamevoktaṃ śūlavat kārayed budhaḥ | chatraṃ ca cāmare caiva svastikaṃ cordhvameva ca


66

धूपं घण्टा इति प्रोक्तं दीपं चापि लिखेत्ततः । अङ्कुरं पूर्णकुम्भं च पुष्पवत् कारयेद्बुधः

dhūpaṃ ghaṇṭā iti proktaṃ dīpaṃ cāpi likhettataḥ | aṅkuraṃ pūrṇakumbhaṃ ca puṣpavat kārayedbudhaḥ


67

सर्वालंकार संयुक्तं शिवज्ञानस्य कारणम् । हेत्नानयन मोक्षं च द्वितियं वृषयागकम्

sarvālaṃkāra saṃyuktaṃ śivajñānasya kāraṇam | hetnānayana mokṣaṃ ca dvitiyaṃ vṛṣayāgakam


68

देवाग्रे स्थण्डिलं कुर्याद् अष्टद्रोणैश्च शालिभिः । पद्ममष्टदलं लिख्य तन्मध्ये कर्णिकां कुरु

devāgre sthaṇḍilaṃ kuryād aṣṭadroṇaiśca śālibhiḥ | padmamaṣṭadalaṃ likhya tanmadhye karṇikāṃ kuru


69

मध्यमे * * * * * * * * * * * * * * । * * * * * * * * परितोष्टौ घटा न्यसेत्

madhyame * * * * * * * * * * * * * * | * * * * * * * * paritoṣṭau ghaṭā nyaset


70

मध्यमे वृषभं स्थाप्य लोकपालान् घटेषु च । तत्तत्स्वानाम मन्त्रेण लोकपालन् समर्चयेत्

madhyame vṛṣabhaṃ sthāpya lokapālān ghaṭeṣu ca | tattatsvānāma mantreṇa lokapālan samarcayet


71

वृष बीजेन गन्धाद्यैरचयेच्चैव बुद्धिमान् । समिदाज्यचरुणां च होमयेत् द्रव्यमेव च

vṛṣa bījena gandhādyairacayeccaiva buddhimān | samidājyacaruṇāṃ ca homayet dravyameva ca


72

जयादिरभया धानं च राष्ट्रभृच्च हुनेत् क्रमात् । पूर्णाहुतिं च शिरसा कुम्भं संस्थाप्यमेव च

jayādirabhayā dhānaṃ ca rāṣṭrabhṛcca hunet kramāt | pūrṇāhutiṃ ca śirasā kumbhaṃ saṃsthāpyameva ca


73

एवं मन्त्रं स * * * * * * * * * * * । * * * * * * * * * सद्वृषभदेऽपि च

evaṃ mantraṃ sa * * * * * * * * * * * | * * * * * * * * * sadvṛṣabhade'pi ca


74

त्रिमूर्तिश्च * * * * * * * * * * * * । धूपं दीपं तु तत्काले नैवेद्यं तु निवेदयेत्

trimūrtiśca * * * * * * * * * * * * | dhūpaṃ dīpaṃ tu tatkāle naivedyaṃ tu nivedayet


75

वृषयागं समाख्यातं अस्त्रयागं ततः क्रमात् । द्वितीय मा * पूज्य तृतीयमावाहनं भवेत्

vṛṣayāgaṃ samākhyātaṃ astrayāgaṃ tataḥ kramāt | dvitīya mā * pūjya tṛtīyamāvāhanaṃ bhavet


76

पुण्याहं वाचयेत् तत्र कौतुकं शूलमध्यमे । त्रिमूर्तिं च त्रिपत्राणां पत्रमूले त्रिशक्तिका

puṇyāhaṃ vācayet tatra kautukaṃ śūlamadhyame | trimūrtiṃ ca tripatrāṇāṃ patramūle triśaktikā


77

पालिका गुहमेव * * * कं तत्र मेव च । चण्डेशं क्षेत्रपालं च भास्करं तु तथैव च

pālikā guhameva * * * kaṃ tatra meva ca | caṇḍeśaṃ kṣetrapālaṃ ca bhāskaraṃ tu tathaiva ca


78

महाशास्ता महाकाली महामोदी तथैव च । मातरस्सप्त ताश्चैव विघ्नेशं वीरभद्रकौ

mahāśāstā mahākālī mahāmodī tathaiva ca | mātarassapta tāścaiva vighneśaṃ vīrabhadrakau


79

विद्येश्वराणां पादौ तु दण्डमूले तु पृथ्वीकाम् । शूलवत् कारयेद्धिमान् सर्वदेवप्रियार्थकम्

vidyeśvarāṇāṃ pādau tu daṇḍamūle tu pṛthvīkām | śūlavat kārayeddhimān sarvadevapriyārthakam


80

गन्धं पुष्पं च धूपं च दीपमर्घ्यं च पाद्यकम् । तृतीयं पूज्य विधिवत् चतुर्थं भेरिताडनम्

gandhaṃ puṣpaṃ ca dhūpaṃ ca dīpamarghyaṃ ca pādyakam | tṛtīyaṃ pūjya vidhivat caturthaṃ bheritāḍanam


81

सप्ततालं तु पटहं पञ्चतालं तु भेरिका । चतुस्तालमध्यमं प्रोक्तं त्रितालमधमं भवेत्

saptatālaṃ tu paṭahaṃ pañcatālaṃ tu bherikā | catustālamadhyamaṃ proktaṃ tritālamadhamaṃ bhavet


82

समदं चर्णकं चैव देवदारुकमेव च । उशिलान्ते तरु ग्राह्य भेरिकालक्षणं भवेत्

samadaṃ carṇakaṃ caiva devadārukameva ca | uśilānte taru grāhya bherikālakṣaṇaṃ bhavet


83

दक्षिणे रुद्रमभ्यर्च्य वामे विष्णुं समर्चयेत् । मध्ये प्रजापतिं तस्य प्रहारे स्कन्दमेव च

dakṣiṇe rudramabhyarcya vāme viṣṇuṃ samarcayet | madhye prajāpatiṃ tasya prahāre skandameva ca


84

वासुकीमपि सूत्रे च वलये ह्यपि चन्द्रमाः । जयखण्डीं तु दैवत्य कर्मणाश्चापि रुद्रकः

vāsukīmapi sūtre ca valaye hyapi candramāḥ | jayakhaṇḍīṃ tu daivatya karmaṇāścāpi rudrakaḥ


85

वश्यं तम्बुरुदैवत्यं वीणायां चैव नारदम् । शङ्खं चन्द्रासिदैवत्यं तिमिले दित्यदेवता

vaśyaṃ tamburudaivatyaṃ vīṇāyāṃ caiva nāradam | śaṅkhaṃ candrāsidaivatyaṃ timile dityadevatā


86

सर्ववाद्यादिदैवत्यं आचार्यः पुष्पमेव च । आहूय वाद्यकं चैव सुस्नाताश्शुद्धवस्त्रधृत्

sarvavādyādidaivatyaṃ ācāryaḥ puṣpameva ca | āhūya vādyakaṃ caiva susnātāśśuddhavastradhṛt


87

दीक्षिता शुद्धपरा शिवा अन्यजातीं तु वर्जयेत् । रोगिणं अङ्गहीनं च शक्तिहीनं च वर्जयेत्

dīkṣitā śuddhaparā śivā anyajātīṃ tu varjayet | rogiṇaṃ aṅgahīnaṃ ca śaktihīnaṃ ca varjayet


88

सर्वलक्षणसंपन्नो सर्वसंपत्कराय च । धूपं दीपं हृदा दत्त्वा कौतुकं बन्धयेत् क्रमात्

sarvalakṣaṇasaṃpanno sarvasaṃpatkarāya ca | dhūpaṃ dīpaṃ hṛdā dattvā kautukaṃ bandhayet kramāt


89

यज्ञोपवीतमेवं तु उत्तरीयं च वस्त्रकम् । वाद्यकान् सर्वमेवं तु अर्चयेत् भेरिमेव च

yajñopavītamevaṃ tu uttarīyaṃ ca vastrakam | vādyakān sarvamevaṃ tu arcayet bherimeva ca


90

सप्ततालविधि प्रोक्तं आचार्यश्शिष्य एव च । भेरिघोष समायुक्तं सन्धिदेवान् समर्चयेत्

saptatālavidhi proktaṃ ācāryaśśiṣya eva ca | bherighoṣa samāyuktaṃ sandhidevān samarcayet


91

त्रिशूलं चान्नलिङ्गं च वाद्यकाले समर्चयेत् । ब्रह्मजज्ञानमेवं तु पूर्वं घोरेण ताडयेत्

triśūlaṃ cānnaliṅgaṃ ca vādyakāle samarcayet | brahmajajñānamevaṃ tu pūrvaṃ ghoreṇa tāḍayet


92

इदं विष्ण्विति मन्त्रेण द्वितीयं ताडयेद् बुधः । त्रियम्बकेन मन्त्रेण तृतीयप्रहरमेव च

idaṃ viṣṇviti mantreṇa dvitīyaṃ tāḍayed budhaḥ | triyambakena mantreṇa tṛtīyapraharameva ca


93

वाद्यको पुष्पहस्तश्च नमस्तुत्वा च भेरिकाम् । सप्ततालविधिः प्रोक्तं आचार्यश्शिष्य एव च

vādyako puṣpahastaśca namastutvā ca bherikām | saptatālavidhiḥ proktaṃ ācāryaśśiṣya eva ca


94

भेरीघोषसमायुक्तं सन्धिदेवान् समर्चयेत् । त्रिशूलं चान्नलिङ्गं च बलिपात्रं तथैव च

bherīghoṣasamāyuktaṃ sandhidevān samarcayet | triśūlaṃ cānnaliṅgaṃ ca balipātraṃ tathaiva ca


95

वृषभध्वजसंयुक्तं चन्द्रशेखरमेव च । ग्रामप्रदक्षिणं कृत्वा सन्धिदेवान् समर्चयेत्

vṛṣabhadhvajasaṃyuktaṃ candraśekharameva ca | grāmapradakṣiṇaṃ kṛtvā sandhidevān samarcayet


96

वृषभं पूजयेत्तत्र ध्वजदण्डं विधीयते । चम्पकं चन्दनं चैव क्रमुको वेणुदण्डकम्

vṛṣabhaṃ pūjayettatra dhvajadaṇḍaṃ vidhīyate | campakaṃ candanaṃ caiva kramuko veṇudaṇḍakam


97

बिल्वं च देवदारुं च अकनं खदिरं तथा । वक्रभिन्नं च सुषिरं कृमिकोटर वर्जयेत्

bilvaṃ ca devadāruṃ ca akanaṃ khadiraṃ tathā | vakrabhinnaṃ ca suṣiraṃ kṛmikoṭara varjayet


98

ध्वजदण्ड विमानेन उत्सेधं तु विधीयते । वक्षस्थलसमायुक्तं गुलान्तं स्थूप्यन्तमेव वा

dhvajadaṇḍa vimānena utsedhaṃ tu vidhīyate | vakṣasthalasamāyuktaṃ gulāntaṃ sthūpyantameva vā


99

त्रितालस्य समं वापि गोपुरस्य समं तु वा । एकतालसमं वापि स्थूप्यन्तं वा विशेषतः

tritālasya samaṃ vāpi gopurasya samaṃ tu vā | ekatālasamaṃ vāpi sthūpyantaṃ vā viśeṣataḥ


100

पूर्वं विमानहीनं च शिवोत्सव निवर्तयेत् । जीर्णोद्धारकृतिं कृत्वा शिवयागं समाचरेत्

pūrvaṃ vimānahīnaṃ ca śivotsava nivartayet | jīrṇoddhārakṛtiṃ kṛtvā śivayāgaṃ samācaret


101

                          • मेव च । एकविंशत्समायुक्तं दण्डोत्सेधं विधीयते

** * * * * * * * * * * * * meva ca | ekaviṃśatsamāyuktaṃ daṇḍotsedhaṃ vidhīyate*


102

दण्डोत्सेधविमानं हि ध्वजस्थानं विधीयते । गोपुरे पीठमध्यस्थं पीठाग्रे वा वृषाग्रगे

daṇḍotsedhavimānaṃ hi dhvajasthānaṃ vidhīyate | gopure pīṭhamadhyasthaṃ pīṭhāgre vā vṛṣāgrage


103

महामय्यादिमध्ये वा ध्वजस्थानं विधीयते । हस्तद्वयं तथायामं खानयेत् पृथिवीं ततः

mahāmayyādimadhye vā dhvajasthānaṃ vidhīyate | hastadvayaṃ tathāyāmaṃ khānayet pṛthivīṃ tataḥ


104

स्थण्डिलं शालिभिः कुर्यात् हेमकूर्चं च विन्यसेत् । षट्तालं पञ्चतालं वा नवतालं तथोत्तमम्

sthaṇḍilaṃ śālibhiḥ kuryāt hemakūrcaṃ ca vinyaset | ṣaṭtālaṃ pañcatālaṃ vā navatālaṃ tathottamam


105

उपदण्डं समासेन ध्वजयष्ट्यन्तु दैर्घ्यकम् । त्रिविधं तत्समं कृत्वा रूपं तत् चादुवाकृति

upadaṇḍaṃ samāsena dhvajayaṣṭyantu dairghyakam | trividhaṃ tatsamaṃ kṛtvā rūpaṃ tat cāduvākṛti


106

सुषिरद्वयान्वितं चैव अर्धं सुषिरमेव वा । सन्धित्रयं तु दण्डाग्रे त्रिप्रदेशसमं तरम्

suṣiradvayānvitaṃ caiva ardhaṃ suṣirameva vā | sandhitrayaṃ tu daṇḍāgre tripradeśasamaṃ taram


107

अष्टाङ्गुलिपरीणाहं रज्जुवत् कारयेद् बुधः । वलयं रज्जुवलयं द्विगुणं मूलमाशृतम्

aṣṭāṅguliparīṇāhaṃ rajjuvat kārayed budhaḥ | valayaṃ rajjuvalayaṃ dviguṇaṃ mūlamāśṛtam


108

दर्भमालां समविष्ट्य वेदिकालक्षणं शृणु । हस्तद्वयं तु विस्तारं उत्सेधं हस्तमानतम्

darbhamālāṃ samaviṣṭya vedikālakṣaṇaṃ śṛṇu | hastadvayaṃ tu vistāraṃ utsedhaṃ hastamānatam


109

त्रिमेखलासमायुक्तं एकैकं पर्वताङ्गुलम् । मध्यमे कर्णिकां कुर्यात् कल्पयेत् कल्पवित् सुधीः

trimekhalāsamāyuktaṃ ekaikaṃ parvatāṅgulam | madhyame karṇikāṃ kuryāt kalpayet kalpavit sudhīḥ


110

एकमेखलयुक्तं वा कर्णिकामध्यमे न्यसेत् । उपवेदिसमं रक्तं त्रियङ्गुलं च तत्समम्

ekamekhalayuktaṃ vā karṇikāmadhyame nyaset | upavedisamaṃ raktaṃ triyaṅgulaṃ ca tatsamam


111

गोमयालेपनं कृत्वा शिल्पिमुद्वासयेत्ततः । पञ्चगव्येन शुद्धेन जलसंप्रोक्षणं कुरु

gomayālepanaṃ kṛtvā śilpimudvāsayettataḥ | pañcagavyena śuddhena jalasaṃprokṣaṇaṃ kuru


112

दण्डमूले ब्रह्मतत्त्वं मध्यमे विष्णुतत्त्वकम् । अग्रे तु रुद्रतत्त्वं स्यात् शिवतत्त्वं पटे च तु

daṇḍamūle brahmatattvaṃ madhyame viṣṇutattvakam | agre tu rudratattvaṃ syāt śivatattvaṃ paṭe ca tu


113

दण्डे तु सव्यदेवानां इत्येवं कल्पयेत् सुधीः । पूर्वे तु कुम्भसंस्थाप्य दण्डमूलेऽभिषेचयेत्

daṇḍe tu savyadevānāṃ ityevaṃ kalpayet sudhīḥ | pūrve tu kumbhasaṃsthāpya daṇḍamūle'bhiṣecayet


114

वृषगायत्रिमन्त्रेण लोकपालान् स्वमन्त्रकैः । दिक्तालपादयेच्चैव नृत्तं गीतं च वाद्यकैः

vṛṣagāyatrimantreṇa lokapālān svamantrakaiḥ | diktālapādayeccaiva nṛttaṃ gītaṃ ca vādyakaiḥ


115

धूपदीपं तदा दत्त्वा नैवेद्यान्तं निवेदयेत् । मद्गान्नं लड्डुकं सर्वं कदलीफलमेव च

dhūpadīpaṃ tadā dattvā naivedyāntaṃ nivedayet | madgānnaṃ laḍḍukaṃ sarvaṃ kadalīphalameva ca


116

कपित्थं फलमात्रेण पिण्डं तद्दशमेव च । सुमङ्गल्यावृतं चेत्तु पुत्रवत् कारयेत्ततः

kapitthaṃ phalamātreṇa piṇḍaṃ taddaśameva ca | sumaṅgalyāvṛtaṃ cettu putravat kārayettataḥ


117

अमङ्गल्यकन्यकानां तु कर्तव्यं न कदाचन । सर्वघोषसमायुक्तं षड्विधं पूजयेत् ततः

amaṅgalyakanyakānāṃ tu kartavyaṃ na kadācana | sarvaghoṣasamāyuktaṃ ṣaḍvidhaṃ pūjayet tataḥ


118

सप्तमां यागशालां तु यागशालां विधीयते । षोडशस्तम्भमेवं तु द्वात्रिंशस्स्तम्भमेव वा

saptamāṃ yāgaśālāṃ tu yāgaśālāṃ vidhīyate | ṣoḍaśastambhamevaṃ tu dvātriṃśasstambhameva vā


119

चतुस्तम्भसमायुक्तं मण्टपं कारयेत् ततः । मध्यमे वेदि संस्थाप्य कुण्डान् संकल्पयेत् सुधीः

catustambhasamāyuktaṃ maṇṭapaṃ kārayet tataḥ | madhyame vedi saṃsthāpya kuṇḍān saṃkalpayet sudhīḥ


120

नवग्निमुत्तमः प्रोक्तं पञ्चाग्निं मध्यमे भवेत् । एकान्निरधमां विद्यात् कल्पयेत्तु विचक्षणः

navagnimuttamaḥ proktaṃ pañcāgniṃ madhyame bhavet | ekānniradhamāṃ vidyāt kalpayettu vicakṣaṇaḥ


121

गोमयालेपनं कृत्वा पर्यग्निकरणं कुरु । दर्भमालिं तु संवेष्ट्य वितानोपरि शोभितम्

gomayālepanaṃ kṛtvā paryagnikaraṇaṃ kuru | darbhamāliṃ tu saṃveṣṭya vitānopari śobhitam


122

युगतोरणसंयुक्तं चतुर्दिक्षु प्रकल्पयेत् । अष्टमङ्गलमेवं तु वेदिवाह्ये तु पूजयेत्

yugatoraṇasaṃyuktaṃ caturdikṣu prakalpayet | aṣṭamaṅgalamevaṃ tu vedivāhye tu pūjayet


123

शङ्खं च दीपमेवं च स्वस्तिकं चामरौ तथा । वृषभं पूर्णकुम्भं च दर्पणं लक्ष्मीं तथा

śaṅkhaṃ ca dīpamevaṃ ca svastikaṃ cāmarau tathā | vṛṣabhaṃ pūrṇakumbhaṃ ca darpaṇaṃ lakṣmīṃ tathā


129

दशायुधधरादेव कुम्भबाह्ये तु पूजयेत् । मध्यमे शिवकुम्भं तु वर्धनीं तु तदोत्तरे

daśāyudhadharādeva kumbhabāhye tu pūjayet | madhyame śivakumbhaṃ tu vardhanīṃ tu tadottare


130

अभितोऽष्टौ घटं पूज्य लोकपालान् समर्चयेत् । चतुर्द्वारसमोपेतं द्वारकुम्भं तु पूजयेत्

abhito'ṣṭau ghaṭaṃ pūjya lokapālān samarcayet | caturdvārasamopetaṃ dvārakumbhaṃ tu pūjayet


126

ऐशान्ये कुम्भसंस्थाप्य अष्टविद्येश्वरावृतान् । यद्वाराभिमुखं लिङ्गं तद्द्वारं कुम्भपूजयेत्

aiśānye kumbhasaṃsthāpya aṣṭavidyeśvarāvṛtān | yadvārābhimukhaṃ liṅgaṃ taddvāraṃ kumbhapūjayet


127

पूर्ववत् स्थान संकल्प्य द्वारादीन् पूजयेत्ततः । निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च

pūrvavat sthāna saṃkalpya dvārādīn pūjayettataḥ | nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca


128

निवृत्तिः पूर्वतः पूज्य प्रतिष्ठां दक्षिणे तथा । विद्यां वै पश्चिमे पूज्य उत्तरे शान्तिमेव च

nivṛttiḥ pūrvataḥ pūjya pratiṣṭhāṃ dakṣiṇe tathā | vidyāṃ vai paścime pūjya uttare śāntimeva ca


129

द्वारतोरण संपूज्य चतुर्वेदांस्तु पूजयेत् । वेदिकां वेदिमूर्तिं तु चोपवेदी समुद्रिका

dvāratoraṇa saṃpūjya caturvedāṃstu pūjayet | vedikāṃ vedimūrtiṃ tu copavedī samudrikā


130

आयुधं सर्वदैवत्यं मङ्गले न्यष्टसुन्दरी । यागेशं पूजयेत्तत्र उमास्कन्देश्वरं यजेत्

āyudhaṃ sarvadaivatyaṃ maṅgale nyaṣṭasundarī | yāgeśaṃ pūjayettatra umāskandeśvaraṃ yajet


131

मण्टपाग्रे सुसंस्थित्वा कौतुकं बन्धयेत्ततः । स्वर्णसूत्रं विशेषेण अथ कार्पासमेव च

maṇṭapāgre susaṃsthitvā kautukaṃ bandhayettataḥ | svarṇasūtraṃ viśeṣeṇa atha kārpāsameva ca


132

नववस्त्रेण संयुक्तं भस्मकूर्चं तु विन्यसेत् । परिचारहस्तसंयुक्तं प्राकारे तु प्रदक्षिणम्

navavastreṇa saṃyuktaṃ bhasmakūrcaṃ tu vinyaset | paricārahastasaṃyuktaṃ prākāre tu pradakṣiṇam


133

देवसंनिधिसंप्राप्ते पुण्याहं वाचयेत्ततः । त्रियम्बकं सुमन्त्रेण रक्षासूत्रप्रबन्धनम्

devasaṃnidhisaṃprāpte puṇyāhaṃ vācayettataḥ | triyambakaṃ sumantreṇa rakṣāsūtraprabandhanam


134

धूपदीपसमायुक्तं होमकर्म समाचरेत् । ब्राह्मणान् भोजयेत्तत्र भक्तानां भोजयेत्ततः

dhūpadīpasamāyuktaṃ homakarma samācaret | brāhmaṇān bhojayettatra bhaktānāṃ bhojayettataḥ


135

नैवेद्यं दापयेत्तत्र ताम्बूलं तु सुयोजयेत् । भेरीताडनमारभ्य ग्रामे तु बलिसंग्रहे

naivedyaṃ dāpayettatra tāmbūlaṃ tu suyojayet | bherītāḍanamārabhya grāme tu balisaṃgrahe


136

ग्रामप्रदक्षिणं कृत्वा उमास्कन्देश्वरो भवेत् । दीपयन्त्रं तदन्ते तु डोलायन्त्रं तदन्तके

grāmapradakṣiṇaṃ kṛtvā umāskandeśvaro bhavet | dīpayantraṃ tadante tu ḍolāyantraṃ tadantake


137

वाजियन्त्रं ततः पश्चात् गर्भयन्त्रं नृवाहनम् । नानादीपसमायुक्तं नानाभक्तजनैर्युतम्

vājiyantraṃ tataḥ paścāt garbhayantraṃ nṛvāhanam | nānādīpasamāyuktaṃ nānābhaktajanairyutam


138

नानाध्वज समायुक्तं नानाछत्रसमायुतम् । शङ्खकाहलसंयुक्तं भेरीघोषसमायुतम्

nānādhvaja samāyuktaṃ nānāchatrasamāyutam | śaṅkhakāhalasaṃyuktaṃ bherīghoṣasamāyutam


139

गच्छेयुर्लिखित्वा तु यन्त्रदन्तिमनन्तरम् । यन्त्राश्वा यन्त्रवाद्यं च यन्त्रनृत्तमनन्तरे

gaccheyurlikhitvā tu yantradantimanantaram | yantrāśvā yantravādyaṃ ca yantranṛttamanantare


140

नदीशमुत्तरे वा पूरो वापि प्रकल्पयेत् । भक्ताश्चापि तदन्तेषु ब्राह्मणानामनन्तरे

nadīśamuttare vā pūro vāpi prakalpayet | bhaktāścāpi tadanteṣu brāhmaṇānāmanantare


141

नृपाणां त्वपरे भागे नृणा ज्ञानामनन्तरे । रुद्राणामपरे गत्वा पाषण्डीनामन्तरे

nṛpāṇāṃ tvapare bhāge nṛṇā jñānāmanantare | rudrāṇāmapare gatvā pāṣaṇḍīnāmantare


142

समधीना महासेना बलिद्रव्यापनं क्षिपेत् । चन्दनं चाक्षतं पुष्पं धूपदीपं तथैव च

samadhīnā mahāsenā balidravyāpanaṃ kṣipet | candanaṃ cākṣataṃ puṣpaṃ dhūpadīpaṃ tathaiva ca


143

पाद्यमाचमनं चार्घ्यं पात्रे पात्रे निधाय च । दिनं प्रति बलिद्रव्यं बलिपात्रे विनिक्षिपेत्

pādyamācamanaṃ cārghyaṃ pātre pātre nidhāya ca | dinaṃ prati balidravyaṃ balipātre vinikṣipet


144

लड्डुकं चैव मुद्गान्नं गुलसक्तुं तिलं तथा । प्रथमेऽहनि दातव्यं द * * * * * न्त्रतः

laḍḍukaṃ caiva mudgānnaṃ gulasaktuṃ tilaṃ tathā | prathame'hani dātavyaṃ da * * * * * ntrataḥ


145

लोकपालान् स्वनामेन बलिं नित्यं ददेत् क्रमात् । निशापूर्णं च पद्मे च पायसं तिलसंयुतम्

lokapālān svanāmena baliṃ nityaṃ dadet kramāt | niśāpūrṇaṃ ca padme ca pāyasaṃ tilasaṃyutam


146

द्वितीयदिवसे चैव ब्रह्ममन्त्रमनुस्मरन् । 213) प्रिया घृतान्नपिष्टं च का * * * लमेव च

dvitīyadivase caiva brahmamantramanusmaran | 213) priyā ghṛtānnapiṣṭaṃ ca kā * * * lameva ca


147

तृतीयेऽहनि दातव्यं भूतमन्त्रमनुस्मरन् । निशिपूर्णं नालिकेरघृतान्नं सरलं तथा

tṛtīye'hani dātavyaṃ bhūtamantramanusmaran | niśipūrṇaṃ nālikeraghṛtānnaṃ saralaṃ tathā


148

चतुर्थे दिवसे चैव गान्धर्वं च मनुस्मरन् । प्रियङ्गुघृतमिश्रं च * * * * * * * *

*caturthe divase caiva gāndharvaṃ ca manusmaran | priyaṅgughṛtamiśraṃ ca * * * * * * * **


149

                • नां दोष पृष्ठे तु सेव । पानीयं मुखवासं च ताम्बूलं हस्तमेव च

** * * * * * * * nāṃ doṣa pṛṣṭhe tu seva | pānīyaṃ mukhavāsaṃ ca tāmbūlaṃ hastameva ca*


150

आचार्यो दापयेत्तत्र सव्यहस्तेन दापयेत् । सव्यपाद्यसमायुक्तं रुद्रस्य गणिका भवेत्

ācāryo dāpayettatra savyahastena dāpayet | savyapādyasamāyuktaṃ rudrasya gaṇikā bhavet


151

सर्वालंकारसंयुक्तं सर्व * * * * युगम् । मृगयात्रा * * * * * * * * * * * *

*sarvālaṃkārasaṃyuktaṃ sarva * * * * yugam | mṛgayātrā * * * * * * * * * * * **


152

मूले शूलं तथा बिम्बं * * * * * * * * । बन्धयेत्तत्र कुर्वीत स्थण्डिलोपरि विन्यसेत्

mūle śūlaṃ tathā bimbaṃ * * * * * * * * | bandhayettatra kurvīta sthaṇḍilopari vinyaset


153

अष्टद्रोणैस्तु शालिभ्यां तदर्धैस्तण्डुलैस्तिलैः । हिरण्यकूर्चवस्त्रेण पूजयेद् गन्धपुष्पकैः

aṣṭadroṇaistu śālibhyāṃ tadardhaistaṇḍulaistilaiḥ | hiraṇyakūrcavastreṇa pūjayed gandhapuṣpakaiḥ


154

स्नात्वा शुद्धोदकेनैव बीजमुख्येन मन्त्रतः । त्रिगन्धेषु त्रिव * * * * * * * * * *

*snātvā śuddhodakenaiva bījamukhyena mantrataḥ | trigandheṣu triva * * * * * * * * * **


155

अपरे दिवसे रात्रौ पूजयेन्मूललिङ्गकम् । कुम्भान् कुण्डाग्नि संयष्ट्वा गन्धादीन् पूर्ववत् क्रमात्

apare divase rātrau pūjayenmūlaliṅgakam | kumbhān kuṇḍāgni saṃyaṣṭvā gandhādīn pūrvavat kramāt


156

पूर्णाहुतुं ततः कुर्यात् शेषद्रव्याणि देशिकः । अग्निमूर्तिं विसृज्याथ पूजयेद्यागमूर्तिपान्

pūrṇāhutuṃ tataḥ kuryāt śeṣadravyāṇi deśikaḥ | agnimūrtiṃ visṛjyātha pūjayedyāgamūrtipān


157

यागेशान् शास्त्रराजान मि प्रासादं तु प्रदक्षिणम् । प्रविशेत् गर्भगेहं तु स्थापयेत् स्थण्डिलोपरि

yāgeśān śāstrarājāna mi prāsādaṃ tu pradakṣiṇam | praviśet garbhagehaṃ tu sthāpayet sthaṇḍilopari


158

लिङ्गशुद्धि * * * * * * * * * * त्ततः । यागेशं पूजयेल्लिङ्गं वर्धनीं पिण्डिकोपरि

liṅgaśuddhi * * * * * * * * * * ttataḥ | yāgeśaṃ pūjayelliṅgaṃ vardhanīṃ piṇḍikopari


159

परितोषघटानष्टौ विन्यसेत्तु दलाग्रतः । स्नपनं तु ततः कुर्यात् अष्टोत्तरशतेन तु

paritoṣaghaṭānaṣṭau vinyasettu dalāgrataḥ | snapanaṃ tu tataḥ kuryāt aṣṭottaraśatena tu


160

प्रभूत हविषं दत्त्वा ताम्बुलं तु निवेदयेत् । चण्डेशं पूजयेत् रात्रौ चण्डगायत्रीमुच्चरन्

prabhūta haviṣaṃ dattvā tāmbulaṃ tu nivedayet | caṇḍeśaṃ pūjayet rātrau caṇḍagāyatrīmuccaran


161

स्नपनं नवकुम्भेषु स्नापयेत् तु विशेषतः । चण्डाग्रे होममेवं तु चण्डगायत्रिमन्त्रतः

snapanaṃ navakumbheṣu snāpayet tu viśeṣataḥ | caṇḍāgre homamevaṃ tu caṇḍagāyatrimantrataḥ


162

वृषस्य तु वृषायेति वृषदेवं प्रपूजयेत् । वृषगायत्रिमन्त्रेण ध्वजमूले समर्चयेत्

vṛṣasya tu vṛṣāyeti vṛṣadevaṃ prapūjayet | vṛṣagāyatrimantreṇa dhvajamūle samarcayet


163

वास्तुदेवान् बलिं दद्यात् यथापूर्ववदेव तु । विसर्जयेत् क्रमेणैव तत्तद्वास्तु वदन्तरे

vāstudevān baliṃ dadyāt yathāpūrvavadeva tu | visarjayet krameṇaiva tattadvāstu vadantare


164

चण्डेशं पूजयेत् पश्चात् हविषं तु निवेदयेत् । अपरे दिवसे चैव मूललिङ्गं तु पूजयेत्

caṇḍeśaṃ pūjayet paścāt haviṣaṃ tu nivedayet | apare divase caiva mūlaliṅgaṃ tu pūjayet


165

नित्यपूजा तथारभ्य मौनं हस्तमनर्चयेत् । तस्यान्ते स्नपनं कुर्यात् शुद्धस्नानमनन्तरम्

nityapūjā tathārabhya maunaṃ hastamanarcayet | tasyānte snapanaṃ kuryāt śuddhasnānamanantaram


166

महाहविषं ततः कुर्यात् * * * * * * * । * * * * * * * * * वज्रं पूजयेत्ततः

mahāhaviṣaṃ tataḥ kuryāt * * * * * * * | * * * * * * * * * vajraṃ pūjayettataḥ


167

भक्तानां परिचाराणां पूजयेत्तु विशेषतः । यथा विभवविस्तारं राजा सर्वान् प्रपूजयेत्

bhaktānāṃ paricārāṇāṃ pūjayettu viśeṣataḥ | yathā vibhavavistāraṃ rājā sarvān prapūjayet


168

शिवोत्सवमिति ख्यातं प्रत्यब्दं कारयेत् ततः । आयुष्यं विभवं पुत्रान् पौत्रान् सर्वान् विवर्धयेत्

śivotsavamiti khyātaṃ pratyabdaṃ kārayet tataḥ | āyuṣyaṃ vibhavaṃ putrān pautrān sarvān vivardhayet


169

राजा राष्ट्रहितं सर्वं भुक्तिमुक्ति सुखावहम् । शिवसायुज्यमाप्नोति शिवोत्सव प्रभावतः

rājā rāṣṭrahitaṃ sarvaṃ bhuktimukti sukhāvaham | śivasāyujyamāpnoti śivotsava prabhāvataḥ

candrajñāne jñānadarśanapaṭalaḥ

1

हरिः ओम्

hariḥ om


1

श्रीः कामिकस्य न कर्तव्यं प्रत्यहं तर्पणं बलिम् । एकाहमेव दाहान्ते ईशादिस्त्रिभिरेव च

śrīḥ kāmikasya na kartavyaṃ pratyahaṃ tarpaṇaṃ balim | ekāhameva dāhānte īśādistribhireva ca


2

तदर्धं तर्पणं कुर्यात् तदर्धं पूजयेत् शिवम् । ज्ञानरत्नावलाः । अथा * * * * नं च कथ्यते पेशतोऽधुना

tadardhaṃ tarpaṇaṃ kuryāt tadardhaṃ pūjayet śivam | jñānaratnāvalāḥ | athā * * * * naṃ ca kathyate peśato'dhunā


3

अत्रोत्क्रान्त्यापिपन्नो यो योगिनिर्दिह्यकल्मजः । तस्य मन्त्रमयं शुद्धं दहेद्देहं शिवाग्निना

atrotkrāntyāpipanno yo yoginirdihyakalmajaḥ | tasya mantramayaṃ śuddhaṃ daheddehaṃ śivāgninā


4

न च पिण्डक्रिया कार्या न च चैवोदक क्रिया । किं तु शिष्यैस्तदा कार्यं अनृणार्थं शिवार्चनम्

na ca piṇḍakriyā kāryā na ca caivodaka kriyā | kiṃ tu śiṣyaistadā kāryaṃ anṛṇārthaṃ śivārcanam


5

                  • तत्त्वज्ञानदर्शनम् । अथातस्संप्रवक्ष्यामि तत्त्वज्ञाननिदर्शनम्

** * * * * * * * * tattvajñānadarśanam | athātassaṃpravakṣyāmi tattvajñānanidarśanam*


6

सृष्टिक्रमं च संहारं स्थिति भेदमिदं परम् । अवस्थादर्शनं चैव अर्थपञ्चकमुच्यते

sṛṣṭikramaṃ ca saṃhāraṃ sthiti bhedamidaṃ param | avasthādarśanaṃ caiva arthapañcakamucyate


7

षट्त्रिंशत्तत्त्वभेदं च पशुपाशमिति स्मृतम् । पतिज्ञानं च सायुज्यं आत्मलाभं तथा भवेत्

ṣaṭtriṃśattattvabhedaṃ ca paśupāśamiti smṛtam | patijñānaṃ ca sāyujyaṃ ātmalābhaṃ tathā bhavet


8

इत्येवं दश भेदानि क्रमेणैव तु चोच्यते । परापरं पराशक्तिः कुटिलोत्पन्ननादकम्

ityevaṃ daśa bhedāni krameṇaiva tu cocyate | parāparaṃ parāśaktiḥ kuṭilotpannanādakam


9

नादाद् बिन्दुस्समुद्भूतः बिन्दोत्पन्नस्सदाशिवम् । सदाशिवोत्पन्न ईशं तु शुद्धविद्या ततोत्भवेत्

nādād bindussamudbhūtaḥ bindotpannassadāśivam | sadāśivotpanna īśaṃ tu śuddhavidyā tatotbhavet


10

पूर्वबिन्दुसमुद्भूता सूक्ष्मा वैखर्यान्तकम् । वैखरीवर्णमुत्पन्नं वर्णो मन्त्रास्ततोत्भवाः

pūrvabindusamudbhūtā sūkṣmā vaikharyāntakam | vaikharīvarṇamutpannaṃ varṇo mantrāstatotbhavāḥ


11

सप्तकोटिमहामन्त्रैश्शास्त्रजालं ततोदितम् । तत्त्वं सृष्टिं च शब्देषु शुद्धतत्त्वं च वर्धते

saptakoṭimahāmantraiśśāstrajālaṃ tatoditam | tattvaṃ sṛṣṭiṃ ca śabdeṣu śuddhatattvaṃ ca vardhate


12

अनन्तदेवकृपया अथो मायासमुद्भवाः । कालं नियतिश्चोत्पन्नं कला विद्या च रागकः

anantadevakṛpayā atho māyāsamudbhavāḥ | kālaṃ niyatiścotpannaṃ kalā vidyā ca rāgakaḥ


13

रुद्रदेव कलोत्पन्ना प्रकृतिस्त्रिगुणोद्भवा । प्रकृत्या चैव अव्यक्ते चित्तबुद्धिसमुद्भवः

rudradeva kalotpannā prakṛtistriguṇodbhavā | prakṛtyā caiva avyakte cittabuddhisamudbhavaḥ


14

बुद्धेरुत्पन्नेऽहंकारमहंकारस्त्रिधा भवेत् । तैजसो वैखरीभूतं त्रिविधं नाममुच्यते

buddherutpanne'haṃkāramahaṃkārastridhā bhavet | taijaso vaikharībhūtaṃ trividhaṃ nāmamucyate


15

तैजसस्सात्त्विकगुणो मनो ज्ञानेन्द्रियोद्भवः । अहंकारे वैखरीयुः कर्मेन्द्रियसमुद्भवः

taijasassāttvikaguṇo mano jñānendriyodbhavaḥ | ahaṃkāre vaikharīyuḥ karmendriyasamudbhavaḥ


16

तामसे भूताहंकारे तन्मात्रं च समुद्भवः । शब्दे आकाशमुत्पन्नं स्पर्शे वायुस्तथोदितः

tāmase bhūtāhaṃkāre tanmātraṃ ca samudbhavaḥ | śabde ākāśamutpannaṃ sparśe vāyustathoditaḥ


17

रूपे गुणाग्निस्संभूतं राजसे जलमुद्भवम् । गन्धे मही समुद्भूत तत्त्वकार्ये न चेष्टितम्

rūpe guṇāgnissaṃbhūtaṃ rājase jalamudbhavam | gandhe mahī samudbhūta tattvakārye na ceṣṭitam


18

पुनस्तत्त्वेषु बन्धेन गन्धे पृथ्वीं वियोजयेत् । सलिलं रसबन्धेषु रूपेणाग्निं सुयोजयेत्

punastattveṣu bandhena gandhe pṛthvīṃ viyojayet | salilaṃ rasabandheṣu rūpeṇāgniṃ suyojayet


19

स्पर्शे तु वायुमिश्रं च आकाशं शब्दसंपदे । शब्दादि पञ्चतन्मात्रं रूपेऽहंकार बन्धयेत्

sparśe tu vāyumiśraṃ ca ākāśaṃ śabdasaṃpade | śabdādi pañcatanmātraṃ rūpe'haṃkāra bandhayet


20

कर्मेन्द्रियं च पञ्चैते राजसे वैखरीयुते । ज्ञानेन्द्रियं च पञ्चैतेऽहंकारस्तैजसे गते

karmendriyaṃ ca pañcaite rājase vaikharīyute | jñānendriyaṃ ca pañcaite'haṃkārastaijase gate


21

भूतादि वैखरी चैव तैजसं बुद्धि चित्तयुक् । चित्तक्षेत्रज्ञ युक्तेषु पञ्चविंशतिरागके

bhūtādi vaikharī caiva taijasaṃ buddhi cittayuk | cittakṣetrajña yukteṣu pañcaviṃśatirāgake


22

रागविद्या कला नियति काल तत्त्वेषु बन्धयेत् । शास्त्रजालं च मन्त्राणि मन्त्रे वर्णेषु योजयेत्

rāgavidyā kalā niyati kāla tattveṣu bandhayet | śāstrajālaṃ ca mantrāṇi mantre varṇeṣu yojayet


23

वर्णाणि वैखरीयुक्ते वैखरीमध्यमायुते । मध्यमा चैव पश्यन्ति पश्यन्ती सूक्ष्म योजयेत्

varṇāṇi vaikharīyukte vaikharīmadhyamāyute | madhyamā caiva paśyanti paśyantī sūkṣma yojayet


24

सूक्ष्माश्चतस्रो वाग्रूपा पूर्वबिन्दु सुयोजयेत् । शुद्धविद्या शिवान्तानि कुटिले योजयेत्ततः

sūkṣmāścatasro vāgrūpā pūrvabindu suyojayet | śuddhavidyā śivāntāni kuṭile yojayettataḥ


25

पराशक्ति परे युक्तो शृवं तत्त्वानि योजयेत् । सृष्टिसंहारमेवोक्तं स्थितिक्रममथोच्यते

parāśakti pare yukto śṛvaṃ tattvāni yojayet | sṛṣṭisaṃhāramevoktaṃ sthitikramamathocyate


26

परश्शिवः परोत्भूतः इच्छाज्ञानक्रियात्मिका । पूर्वकर्म * * * * * ष्ठाग्नि चक्रवद्भ्रमात्

paraśśivaḥ parotbhūtaḥ icchājñānakriyātmikā | pūrvakarma * * * * * ṣṭhāgni cakravadbhramāt


27

व्योमादिपञ्चभूतानि श्रोत्रादीनि ह्यधिष्ठितम् । शब्दादि पञ्चतन्मात्रं वर्तते धामसन्निधौ

vyomādipañcabhūtāni śrotrādīni hyadhiṣṭhitam | śabdādi pañcatanmātraṃ vartate dhāmasannidhau


28

वागादिकर्मपञ्चानि वचनादीनि वर्तते । मनो बुद्धिरहंकारं चित्तं चैव चतुर्थकम्

vāgādikarmapañcāni vacanādīni vartate | mano buddhirahaṃkāraṃ cittaṃ caiva caturthakam


29

निश्चय * * गव्यं च चिन्तनं तत् क्रिया बिदुः । आत्मतत्त्वमिति ख्यातं दर्शनं च ततः शृणु

niścaya * * gavyaṃ ca cintanaṃ tat kriyā biduḥ | ātmatattvamiti khyātaṃ darśanaṃ ca tataḥ śṛṇu


30

भूतं भव्यं भविष्यश्च वर्तते कालतत्त्वकम् । नियतिर्निश्चयं कुर्यात् कलान्नीत्वा क्रियोत्भवा । विद्या ज्ञानादिकं चैव रा * * * * * * *

*bhūtaṃ bhavyaṃ bhaviṣyaśca vartate kālatattvakam | niyatirniścayaṃ kuryāt kalānnītvā kriyotbhavā | vidyā jñānādikaṃ caiva rā * * * * * * **


31

विषयादि पञ्च चेष्टन्ते साक्षित्वं पुरुषं भवेत् । माया चित्तं भ्रमं कुर्यात् * ग काण्डमिति स्मृतम्

viṣayādi pañca ceṣṭante sākṣitvaṃ puruṣaṃ bhavet | māyā cittaṃ bhramaṃ kuryāt * ga kāṇḍamiti smṛtam


32

ज्ञानाधिक्यं क्रियान्यूनं शुद्धविद्या च तत्त्वकम् । ज्ञानसूक्ष्मं क्रियाधिक्यमीशतत्त्वमिति स्मृतम्

jñānādhikyaṃ kriyānyūnaṃ śuddhavidyā ca tattvakam | jñānasūkṣmaṃ kriyādhikyamīśatattvamiti smṛtam


33

            • क समं सादाख्यं च ततो विदुः । शक्तितत्त्वं क्रियोत्पन्नं शिवतत्त्वं ततोऽधिकम्

** * * * * * ka samaṃ sādākhyaṃ ca tato viduḥ | śaktitattvaṃ kriyotpannaṃ śivatattvaṃ tato'dhikam*


34

प्रेरकाण्डं च पञ्चैते शिवतत्त्वमिति स्मृतम् । स्थूलं सूक्ष्मं परं चैव षट्त्रिंशत् तत्त्वदर्शनम्

prerakāṇḍaṃ ca pañcaite śivatattvamiti smṛtam | sthūlaṃ sūkṣmaṃ paraṃ caiva ṣaṭtriṃśat tattvadarśanam


35

माया * * * * * ञ्च सत्यन्तं सूक्ष्मरूपकम् । शिवतत्त्वं परं चैव गुरुवक्त्रे प्रदर्शयेत्

māyā * * * * * ñca satyantaṃ sūkṣmarūpakam | śivatattvaṃ paraṃ caiva guruvaktre pradarśayet


36

षण्णवत्याधिके तत्त्वे चक्रवत् भ्रमते सदा । विश्राम्यं च तदात्मा च पञ्चावस्थाक्रियोद्भवाः

ṣaṇṇavatyādhike tattve cakravat bhramate sadā | viśrāmyaṃ ca tadātmā ca pañcāvasthākriyodbhavāḥ


37

जाग्रत्स्वप्न सुषुप्तिश्च कुर्याव्योमेति पञ्चधा । ललाटे कण्ठहृदये नाभिलिङ्गावसानकम्

jāgratsvapna suṣuptiśca kuryāvyometi pañcadhā | lalāṭe kaṇṭhahṛdaye nābhiliṅgāvasānakam


38

अधो भागं च वर्तन्ते पञ्चावस्था ततश्शृणु । श्रोत्रादिपञ्चकं चैव शब्दादि पञ्चकं भवेत्

adho bhāgaṃ ca vartante pañcāvasthā tataśśṛṇu | śrotrādipañcakaṃ caiva śabdādi pañcakaṃ bhavet


39

वागादि पञ्चतत्त्वानि वचनादीनि पञ्चधा । प्राणादि दशवायुश्च मनादि पुरुषपञ्चयुक्

vāgādi pañcatattvāni vacanādīni pañcadhā | prāṇādi daśavāyuśca manādi puruṣapañcayuk


40

पञ्चत्रिंशति वर्तन्ते जाग्रत् स्थाने ललाटके । प्राणादि वायुभिश्चैव शब्दमादिकं दश

pañcatriṃśati vartante jāgrat sthāne lalāṭake | prāṇādi vāyubhiścaiva śabdamādikaṃ daśa


41

करणं च चतुर्थं च पञ्चविंशतिकण्टके । जाग्रे विषयभोगं च वासना स्नपनमेव च

karaṇaṃ ca caturthaṃ ca pañcaviṃśatikaṇṭake | jāgre viṣayabhogaṃ ca vāsanā snapanameva ca


42

अयसाग्नि समायोगे विदग्निरिव वायु च । चित्तप्राणौ च क्षेत्रन्यो हृदये च सुषुप्ति हि

ayasāgni samāyoge vidagniriva vāyu ca | cittaprāṇau ca kṣetranyo hṛdaye ca suṣupti hi


43

स्पप्नं च विस्मृतिजाग्रे सुषुप्तिं चैव दर्शयेत् । आत्मप्राणश्च कुर्ये तु वर्तते नाभिमूलके

spapnaṃ ca vismṛtijāgre suṣuptiṃ caiva darśayet | ātmaprāṇaśca kurye tu vartate nābhimūlake


44

स्वप्नं नास्ति श्रुतं नास्ति स्तुर्याभावस्स मुच्यते । लिङ्गमूले तु क्षेत्रज्ञो तुर्यातीतन्नमश्यते

svapnaṃ nāsti śrutaṃ nāsti sturyābhāvassa mucyate | liṅgamūle tu kṣetrajño turyātītannamaśyate


45

स्थूलं सूक्ष्मं सुसूक्ष्मं स्यात् अतिसूक्ष्मं ततोऽधिकम् । चतुरङ्गबलो मन्त्री राजाचान्तःपरं गतः

sthūlaṃ sūkṣmaṃ susūkṣmaṃ syāt atisūkṣmaṃ tato'dhikam | caturaṅgabalo mantrī rājācāntaḥparaṃ gataḥ


46

इत्येवं पञ्चधाऽवस्था जीवात्मा च वहन्नृपः । अथोऽवस्था च इत्येवं मध्यावस्था ततः शृणु

ityevaṃ pañcadhā'vasthā jīvātmā ca vahannṛpaḥ | atho'vasthā ca ityevaṃ madhyāvasthā tataḥ śṛṇu


47

जाग्रस्थाने ललाटे तु अतीतान्तानि दर्शयेत् । अथोवस्था च मध्या च ज्ञात्वा चैवं विचक्षणः

jāgrasthāne lalāṭe tu atītāntāni darśayet | athovasthā ca madhyā ca jñātvā caivaṃ vicakṣaṇaḥ


48

शुद्धतत्त्वानि पञ्चैते चतुस्त्रीणि द्व्येकशः । परासंस्था इति ज्ञेया जाग्रादीनां च भावयेत्

śuddhatattvāni pañcaite catustrīṇi dvyekaśaḥ | parāsaṃsthā iti jñeyā jāgrādīnāṃ ca bhāvayet


49

एवं पञ्चदशावस्था त्रिधावस्था च संयुतम् । केवलस्सकलो शुद्धो दर्शनं च ततश्शृणु

evaṃ pañcadaśāvasthā tridhāvasthā ca saṃyutam | kevalassakalo śuddho darśanaṃ ca tataśśṛṇu


50

जाग्रावस्थादि तुर्यान्तं सकला च इति स्मृतम् । अतीतं केवलावस्था शुद्धा च स्मरसीयुता

jāgrāvasthādi turyāntaṃ sakalā ca iti smṛtam | atītaṃ kevalāvasthā śuddhā ca smarasīyutā


51

अधोभागं च मध्यं च ऊर्ध्वभागं त्रिधा भवेत् । मायावस्था च एवोक्तं जाग्रद्दृश्यं ततश्शृणु

adhobhāgaṃ ca madhyaṃ ca ūrdhvabhāgaṃ tridhā bhavet | māyāvasthā ca evoktaṃ jāgraddṛśyaṃ tataśśṛṇu


52

शिवादिश्च कलादिश्च मनादी च चतुष्टयः । श्रोत्रादि एकतत्त्वं च शब्दादि एकसंयुतम्

śivādiśca kalādiśca manādī ca catuṣṭayaḥ | śrotrādi ekatattvaṃ ca śabdādi ekasaṃyutam


53

तत्त्वमष्टादशायुक्तो जाग्रत्कालेषु दृश्यते । शिवसन्निधिमात्रे तु आत्मानं वर्तते सदा

tattvamaṣṭādaśāyukto jāgratkāleṣu dṛśyate | śivasannidhimātre tu ātmānaṃ vartate sadā


54

जाग्रत् स्थानेषु दृश्यन्ते योगान्न्यासेन बुद्धिमान् । जागे दृश्यप्रवृत्तिश्च प्रत्याहारेण शाम्यति

jāgrat sthāneṣu dṛśyante yogānnyāsena buddhimān | jāge dṛśyapravṛttiśca pratyāhāreṇa śāmyati


55

धारणेन जयेत् स्वप्नं ध्यानेनैव सुषुप्ति हि । समाधिना तु तुर्यं तु तुर्यातीतं शिवेन तु

dhāraṇena jayet svapnaṃ dhyānenaiva suṣupti hi | samādhinā tu turyaṃ tu turyātītaṃ śivena tu


56

सद्गुरोरुपदेशेन स्वप्रकाशेन निश्चलम् । इत्येवं निर्मलावस्था अर्थपञ्चकमुच्यते

sadgurorupadeśena svaprakāśena niścalam | ityevaṃ nirmalāvasthā arthapañcakamucyate


57

मलं कर्मा च माया च महामाया तिरोधकम् । अर्थपञ्चकमेवोक्तं प्रत्यक्षं लक्षणं शृणु

malaṃ karmā ca māyā ca mahāmāyā tirodhakam | arthapañcakamevoktaṃ pratyakṣaṃ lakṣaṇaṃ śṛṇu


58

इच्छाज्ञान क्रियारूपि आत्मबोधन्न दृश्यते । ताम्रकालीकवत् कृत्वा आणवं शक्तिरुच्यते

icchājñāna kriyārūpi ātmabodhanna dṛśyate | tāmrakālīkavat kṛtvā āṇavaṃ śaktirucyate


59

प्रारब्धं संचितं चैव आगामि च त्रिरूपकम् । माया च वस्तुरूपाणि चित्तभ्रम इति स्मृताः

prārabdhaṃ saṃcitaṃ caiva āgāmi ca trirūpakam | māyā ca vasturūpāṇi cittabhrama iti smṛtāḥ


60

निष्कलं शिवभेदं च नादबिन्द्वादिकारणम् । तनुज्जारणविज्ञाने महामाया इति स्मृताः

niṣkalaṃ śivabhedaṃ ca nādabindvādikāraṇam | tanujjāraṇavijñāne mahāmāyā iti smṛtāḥ


61

आत्मा च शिवयोर्मध्ये दर्पणं च य पार्श्वयुक् । द्रव्यदृश्यात्मपक्वं च तिरोभाव इति स्मृतः

ātmā ca śivayormadhye darpaṇaṃ ca ya pārśvayuk | dravyadṛśyātmapakvaṃ ca tirobhāva iti smṛtaḥ


62

एवं पञ्चमलं नीत्वा शक्तिपादं ततश्शृणु । पुण्यपाप समायुक्तो शिवशक्तिनिपाततः

evaṃ pañcamalaṃ nītvā śaktipādaṃ tataśśṛṇu | puṇyapāpa samāyukto śivaśaktinipātataḥ


63

तेषां लिङ्गं च विज्ञानं मुक्तौ पुंसत्वमेव च । द्वेष्यं त्यवस्थितिभावो शिवभक्तेषु भक्तिभिः

teṣāṃ liṅgaṃ ca vijñānaṃ muktau puṃsatvameva ca | dveṣyaṃ tyavasthitibhāvo śivabhakteṣu bhaktibhiḥ


64

तच्चासनेषु श्रद्धा च ज्ञानाचार्येण वाञ्छितः । रविसन्निधिमात्रेण सूर्यकान्तोऽग्निरुद्भवः

taccāsaneṣu śraddhā ca jñānācāryeṇa vāñchitaḥ | ravisannidhimātreṇa sūryakānto'gnirudbhavaḥ


65

गुरुसन्निधिमात्रेण शिष्यज्ञानं प्रकाश्यते । मन्दं मन्दतरं चैव तीव्रं तीव्रतरं भवेत्

gurusannidhimātreṇa śiṣyajñānaṃ prakāśyate | mandaṃ mandataraṃ caiva tīvraṃ tīvrataraṃ bhavet


66

कदली चार्द्रकाष्टं च इन्धनं मूलमेव च । पक्वापक्वं चतुर्भेदं ज्ञात्वा भेदेन बुद्धिमान्

kadalī cārdrakāṣṭaṃ ca indhanaṃ mūlameva ca | pakvāpakvaṃ caturbhedaṃ jñātvā bhedena buddhimān


67

ज्ञानं योगः क्रिया चर्या सोपानं मोक्षदं पदम् । चर्यापादः क्रियापादः दासो * * वमुच्यते

jñānaṃ yogaḥ kriyā caryā sopānaṃ mokṣadaṃ padam | caryāpādaḥ kriyāpādaḥ dāso * * vamucyate


68

शिवोऽहं भावयोगं च सायुज्यं ज्ञानपादकम् । एवं शैवागमे मुख्यं पाशात् पशुपतिक्रमात्

śivo'haṃ bhāvayogaṃ ca sāyujyaṃ jñānapādakam | evaṃ śaivāgame mukhyaṃ pāśāt paśupatikramāt


69

तत्र मन्त्रोपदेशं च त्रिविधं भेदमुच्यते । बाह्यभावं मनोभावं अन्तर्भावमिति स्मृतम्

tatra mantropadeśaṃ ca trividhaṃ bhedamucyate | bāhyabhāvaṃ manobhāvaṃ antarbhāvamiti smṛtam


70

त्रिशू * * * * लं च मनोभावं च मन्त्रकम् । अन्तर्भावोपदेशं च पाशः पशुपतिर्भवेत्

triśū * * * * laṃ ca manobhāvaṃ ca mantrakam | antarbhāvopadeśaṃ ca pāśaḥ paśupatirbhavet


71

निष्कलं च निराधारमाधारं चात्र योगकम् । लयाविकारभोगं च मणिमन्त्रौषधं भवेत्

niṣkalaṃ ca nirādhāramādhāraṃ cātra yogakam | layāvikārabhogaṃ ca maṇimantrauṣadhaṃ bhavet


72

इत्येव * * * * * * * * र्थेन दर्शयेत् । तत्सारं संप्रवक्ष्यामि शृणुष्वेकाग्रमानसः

ityeva * * * * * * * * rthena darśayet | tatsāraṃ saṃpravakṣyāmi śṛṇuṣvekāgramānasaḥ


73

षट्त्रिंशत् तत्त्वभेदं च पाशज्ञानमिति स्मृतम् । तत्त्वातीतं च यत् प्रोक्तं आत्मज्ञानमितिर्भवेत्

ṣaṭtriṃśat tattvabhedaṃ ca pāśajñānamiti smṛtam | tattvātītaṃ ca yat proktaṃ ātmajñānamitirbhavet


74

एकमेव द्वयोर्ज्ञानं * * * * * * * * । इत्येवं त्रिविधं ज्ञात्वा सायुज्यं भवति ध्रुवम्

ekameva dvayorjñānaṃ * * * * * * * * | ityevaṃ trividhaṃ jñātvā sāyujyaṃ bhavati dhruvam


75

ज्ञानपाशः पशोर्भावः पतिज्ञान समाश्रयम् । सप्तधातुमयं देहो ह्यनित्यश्च यथा विदुः

jñānapāśaḥ paśorbhāvaḥ patijñāna samāśrayam | saptadhātumayaṃ deho hyanityaśca yathā viduḥ


76

व्योमादिपञ्च भूतानां नश्यते भावयेत् बुधः । * * * * * तानीत्या शब्दादीनां तु चेष्टितम्

vyomādipañca bhūtānāṃ naśyate bhāvayet budhaḥ | * * * * * tānītyā śabdādīnāṃ tu ceṣṭitam


77

करणं त्वापरं तीत्वा कालादिज्ञान नश्यति । गुणत्रयं ततो भिन्नं शुद्धविद्या सदाशिवम्

karaṇaṃ tvāparaṃ tītvā kālādijñāna naśyati | guṇatrayaṃ tato bhinnaṃ śuddhavidyā sadāśivam


78

नश्यन्ते प्राणवायुश्च बिन्दुशक्तिगतो भवेत् । देहज्ञानेन्द्रिय * * * * * गुणवायु तम्

naśyante prāṇavāyuśca binduśaktigato bhavet | dehajñānendriya * * * * * guṇavāyu tam


79

एवं पञ्चाभिमानं च पञ्चावस्था च दर्शयेत् । तत्त्वादिशक्तिपर्यन्तं तत्त्वानि सह भावयेत्

evaṃ pañcābhimānaṃ ca pañcāvasthā ca darśayet | tattvādiśaktiparyantaṃ tattvāni saha bhāvayet


80

तत्त्वज्ञानं जीवभावं नित्या तु शिवतत्त्वकम् । एवं षट्त्रिंशतत्त्वानि नश्यन्ते दर्शनं च यत्

tattvajñānaṃ jīvabhāvaṃ nityā tu śivatattvakam | evaṃ ṣaṭtriṃśatattvāni naśyante darśanaṃ ca yat


81

तत् ज्ञानं त्मदर्शनं च पतिज्ञानं तदुच्यते । तत्त्वातीतं यत् ज्ञानं तत्ज्ञानं परजाग्रजम्

tat jñānaṃ tmadarśanaṃ ca patijñānaṃ taducyate | tattvātītaṃ yat jñānaṃ tatjñānaṃ parajāgrajam


82

विश्वभक्षण मेवोक्तं तत्भावं परस्वप्नकम् । तत्ज्ञानं वेदशान्तिं च सुषुप्तिः परमेव च

viśvabhakṣaṇa mevoktaṃ tatbhāvaṃ parasvapnakam | tatjñānaṃ vedaśāntiṃ ca suṣuptiḥ parameva ca


83

दशत्रियं ततो नीत्वा स्वप्रकाशं गुरो पदम् । पतिज्ञानमिति प्रोक्तं सायुज्यं च ततश्शृणु

daśatriyaṃ tato nītvā svaprakāśaṃ guro padam | patijñānamiti proktaṃ sāyujyaṃ ca tataśśṛṇu


84

तत्पदं शिवरूपं च त्वत्पदं आत्मभावकम् । असिशब्दं च सायुज्यं तत्त्वज्ञानमिति स्मृतम्

tatpadaṃ śivarūpaṃ ca tvatpadaṃ ātmabhāvakam | asiśabdaṃ ca sāyujyaṃ tattvajñānamiti smṛtam


85

वेदान्तं यत् परं सूक्ष्मं सिद्धान्तं च ततो विदुः । समंरसी भावमेवोक्तं मातृभावमथोच्यते

vedāntaṃ yat paraṃ sūkṣmaṃ siddhāntaṃ ca tato viduḥ | samaṃrasī bhāvamevoktaṃ mātṛbhāvamathocyate


86

प्रा * भावमुत्सृज्य शिवोऽहमिति भावयेत् । सर्वचिन्ताविनिर्मुक्तः एकेनैव विवर्जितम्

prā * bhāvamutsṛjya śivo'hamiti bhāvayet | sarvacintāvinirmuktaḥ ekenaiva vivarjitam


87

पादाङ्गुष्ठा * मूर्धा तं स्थानं ध्यानविवर्जितम् । आकारं च निराकारं वाच्यवाचकवर्जितम्

pādāṅguṣṭhā * mūrdhā taṃ sthānaṃ dhyānavivarjitam | ākāraṃ ca nirākāraṃ vācyavācakavarjitam


88

ज्ञात्वा शिवमयं मध्ये ज्योति * क्षि प्रकाशिते । श्रोत्रं नास्ति श्रुतिस्तत्र चक्षुर्नास्ति स पश्यति

jñātvā śivamayaṃ madhye jyoti * kṣi prakāśite | śrotraṃ nāsti śrutistatra cakṣurnāsti sa paśyati


89

घ्राणं नास्ति सुगन्धिं च वाग्विना वचनं तथा । जिह्वा नास्ति रसं गृह्य त्वक्विना स्पर्शनं विदुः

ghrāṇaṃ nāsti sugandhiṃ ca vāgvinā vacanaṃ tathā | jihvā nāsti rasaṃ gṛhya tvakvinā sparśanaṃ viduḥ


90

पाणिं नास्ति स गृह्णाति पादौ नास्ति स गच्छति । मनो नास्तीति संकल्प्य त्रैलोक्यं सचराचरम्

pāṇiṃ nāsti sa gṛhṇāti pādau nāsti sa gacchati | mano nāstīti saṃkalpya trailokyaṃ sacarācaram


91

  1. प्रकृतिर्विना महापुरुषो जगन्नास्तीति चेष्टितम् । चराचरमिदं सर्वं वेष्टते भुजते सदा

239) prakṛtirvinā mahāpuruṣo jagannāstīti ceṣṭitam | carācaramidaṃ sarvaṃ veṣṭate bhujate sadā


92

ब्रह्मादि स्तम्भपर्यन्तं परिपूर्णेन चेष्टितम् । ज्योतिरूपं परं दिव्यं प्रलयाम्बु पूरितम्

brahmādi stambhaparyantaṃ paripūrṇena ceṣṭitam | jyotirūpaṃ paraṃ divyaṃ pralayāmbu pūritam


93

गुह्यं पवित्रमाग्राह्यमानन्दमचलं ध्रुवम् । सर्वतत्त्वविनिर्मुक्तमप्रतर्क्यमचिन्तनम्

guhyaṃ pavitramāgrāhyamānandamacalaṃ dhruvam | sarvatattvavinirmuktamapratarkyamacintanam


94

तन्मध्ये कुरुचात्मानं आत्ममध्ये च तं कुरु । साक्षात् शिवमयं कृत्वा न किंचिदपि चिन्तयेत्

tanmadhye kurucātmānaṃ ātmamadhye ca taṃ kuru | sākṣāt śivamayaṃ kṛtvā na kiṃcidapi cintayet


95

ज्ञातृज्ञानं गुरुश्शिष्यं ज्ञेयं चैव तु वर्जयेत् । निष्कलं शिवमातत्त्वं तन्मयामामलाभकम्

jñātṛjñānaṃ guruśśiṣyaṃ jñeyaṃ caiva tu varjayet | niṣkalaṃ śivamātattvaṃ tanmayāmāmalābhakam


96

इत्येवं स्वप्नभूतिं च मौनमुद्रां प्रदर्शयेत् । तद्ध्यानं तज्जपं पूजा होमकार्यन्न साधनम्

ityevaṃ svapnabhūtiṃ ca maunamudrāṃ pradarśayet | taddhyānaṃ tajjapaṃ pūjā homakāryanna sādhanam


97

तीर्थपात्रवितानं च वर्णाश्रमविवर्जितम् । सन्न्यासी सर्वकर्माणि शिवमेव तु भावयेत्

tīrthapātravitānaṃ ca varṇāśramavivarjitam | sannyāsī sarvakarmāṇi śivameva tu bhāvayet


98

दिग्देशस्थानकालं च आसनं चैव वर्जयेत् । तिष्ठन् गच्छन् स्वपन् जाग्रन् स्त्रीसङ्गे भोजनेऽपि च

digdeśasthānakālaṃ ca āsanaṃ caiva varjayet | tiṣṭhan gacchan svapan jāgran strīsaṅge bhojane'pi ca


99

वातशीतोष्णकालेषु भयदारिद्र्यरागके । गर्वक्रोधमनोभावो ज्ञानाज्ञान इति भ्रमे

vātaśītoṣṇakāleṣu bhayadāridryarāgake | garvakrodhamanobhāvo jñānājñāna iti bhrame


100

सर्वदा सर्वकालेषु शिवभावेन निश्चलम् । गुरुपादात् परं नास्ति आत्मलाभात् परोदयम्

sarvadā sarvakāleṣu śivabhāvena niścalam | gurupādāt paraṃ nāsti ātmalābhāt parodayam


101

तस्माद् गुरुपदार्थं च पूर्णभावपरोदयम् । सृष्ट्यादि आत्मलाभान्तं दशभेदं क्रमोच्यते

tasmād gurupadārthaṃ ca pūrṇabhāvaparodayam | sṛṣṭyādi ātmalābhāntaṃ daśabhedaṃ kramocyate


102

सद्गुरोरुपदेशेन दर्शयेज्जीवमुक्तिकः । गुरुरूपं परं ज्ञानं गुरुरूपं परं शिवम्

sadgurorupadeśena darśayejjīvamuktikaḥ | gururūpaṃ paraṃ jñānaṃ gururūpaṃ paraṃ śivam


103

गुरुरूपं परं ज्योतिर्गुरुरूपं परात्परम् । ध्यानरूपो गुरो मूर्ति पूजाभावो गुरोत्पदम्

gururūpaṃ paraṃ jyotirgururūpaṃ parātparam | dhyānarūpo guro mūrti pūjābhāvo gurotpadam


104

मन्त्रमूलो गुरोर्वाक्यं मूर्तिमूलो गुरोः कृपा । गुरुः पिता गुरुर्माता सर्वं गुरुमयं विदुः

mantramūlo gurorvākyaṃ mūrtimūlo guroḥ kṛpā | guruḥ pitā gururmātā sarvaṃ gurumayaṃ viduḥ


105

तस्माद् गुरुं शिवं पश्येत् सायुज्यं भवति ध्रुवम् । शैवराजेन्द्रतत्वज्ञो शिवभावेन राजितम्

tasmād guruṃ śivaṃ paśyet sāyujyaṃ bhavati dhruvam | śaivarājendratatvajño śivabhāvena rājitam


106

नवतत्त्वज्ञदर्शनं महात्मानं क्रमाद्विदुः । शास्त्रार्थं गुरुवाक्यं च स्वानुभूत्या समं विदुः

navatattvajñadarśanaṃ mahātmānaṃ kramādviduḥ | śāstrārthaṃ guruvākyaṃ ca svānubhūtyā samaṃ viduḥ


107

मनोवाक्काय इत्येतदपराधं क्षमस्व मे । श्रीमूल शिवपादार्थदर्शनं तत्प्रभावतः

manovākkāya ityetadaparādhaṃ kṣamasva me | śrīmūla śivapādārthadarśanaṃ tatprabhāvataḥ


109

दृश्यं दृश्यभावं च दृश्यं चैव परोदयम् ।

dṛśyaṃ dṛśyabhāvaṃ ca dṛśyaṃ caiva parodayam |

Candrajñāna Āgama

1

समाप्तम्

samāptam


2

एस् आर् शिवसुब्रह्मण्यंशास्त्रिणः ########### END OF FILE #######

es ār śivasubrahmaṇyaṃśāstriṇaḥ ########### END OF FILE #######