1. Chitramimamsa Appayya Dikshit Chitramimamsa Khandana Pandit Sivadatta Kasinath Pandurang Parab Nirnaya KM 38 1893
Page 1
KÂVYAMÂLÂ. 38.
THE
CHITRAMÎMÂMSÂ
OF
APPADÎKSHITA.
AND THE
CHITRAMÎMÂMSÂ-KHANDANA
OF JAGANNÂTH PANDIT.
EDITED BY
PANDIT S'IVADATTA
AND
KÂS'ÎNÂTH PÂŅDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKARAM JAVAJI
PROPRIETOR OF "JAVAJI DADAJI'S NIRNAYA-SAGARA" PRESS. BOMBAY.
Price 15 Annas.
Page 2
(Registered according to uct XXV of 1807.) (All rights reserved by the Publisher. )
Page 3
काव्यमाला ३८.
श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा
पण्डितराजजगन्नाथविरचितं चित्रमीमांसाखण्डनं च।
जयपुरम हाराजाश्रितम हामहोपाध्यायपण्डितदुर्गाप्रसाददारक- के दारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपर बोपाह्वपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् ।
तच्च
सुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम्।
१८९३
(अस्य अ्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयत्त्रालयाधि- पतेरेवाधिकार:)
मूल्यं १५ आणकाः ।
Page 4
काव्यमाला।
श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा।
अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः । वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम् ॥ त्रिविधं तावत्काव्यम्। ध्वनि-गुणीभूतव्यङ्गय-चित्रभेदात्। यत्र वाच्यातिशायि व्यङ्गयं स ध्वनिः। यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताघराः पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्या: स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रियास्वभाव- वर्णनेन देव्याः समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदाघतप्तदेहोपरि नि- पतनेन सुखपारवश्यसंभ्रमहेतौ प्रथमवृष्टावप्यविहता समाध्यवस्था व्यज्यते। तथा हि। 'नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टभ्य चाग्रतः ।' इति समाधिमतामवस्थानमाहुः। तत्र पक्ष्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते। सर्वथोन्मीलने पक्ष्मणामूर्ध्वाग्रत्वेन सर्वथा निमीलने तेषामधोग्रत्वेन च तेषु जलबिन्दूनांस्थित्यसंभवात्। प- क्ष्मभ्यश्च्युतानां तेषामास्याप्रवेशेनाधरोष्ठे निपत्य ततश््युतिकथनेन संवृता- स्यत्वं व्यज्यते। ततश्रयुतानां तेषां स्तनोत्सेधनिपतनादिवर्णनेन तूरोवि- ष्टम्भः । अलसवद्वनतावस्थाने हि स्तनयोरन्तः संकुचिताकारतया तदुत्से- धयोस्तेषां पतनं न स्यात्। क्थचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात्, न नाभिदेशप्राप्तिः। नाभौ च संवृतायां प्रवेशो न स्यात्। पक्ष्माधरादिपतनक्रमकथनेन च निश्चलत्वं व्यज्यते। मुखादि-
Page 5
२ काव्यमाला।
चलने सति पक्ष्मपतितानां तेषामधरपयोधरादिक्रमेण पतनासंभवात्। किं चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते। स्थिता इत्यनेन पक्ष्म- णामविरलतायाः क्षणमित्यनेन तेषां मसृणतायाः पक्ष्मपतनशिथिलवेगैरुदवि- न्दुभिस्ताडनोक्त्याघरस्यातिसौकुमार्यस्य पक्ष्माधरपंतनादिभि: शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णीभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि ब- लीषु तेषां स्खलनोक्त्या बलीनां विस्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेशकथ- नेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात्। एवं च वाच्यातिशायि व्यङ्गयम- त्रेति ध्वनेरुदाहरणमिदम् । यथा वा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' अत्र वापीं स्नातुं गतासि न तु तत्सकाशमिति वाक्यार्थे स्थिते तत्स- काशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते। तथा हि। अधमत्व- मपकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्ष नोत्तमना- यिका नायकस्य वदति। नापि स्वापराघपर्यवमायिदूतीसंभोगादिहीनक- र्मातिरिक्तेन कर्मणा। तादशं च दूतीसंभोगाल्प्राचीनं सर्वै सोढमेवेति नो- द्वाटनार्हम् । अन्यथा स्वयं दूतीसंप्रेषणानुपपत्तेः । तदनन्तरं च स्वप्रेषित- दूतीसंभोगरूपमेव र्वयं संनिहितचिह्नैर्ज्ञातुं शक्यं हीनकर्म संभवतीति त- त्पर्यवसायिनाधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यते। निःशेष- च्युतचन्दनं स्तनतटमित्यादीनि वाक्यानि संभोगचिद्ोद्धाटनेन तत्र साहा- यकमाचरन्ति। कथम्। निःशेषच्युतचन्दनं स्तनतटमित्यत्र तावद्वापीं स्ना- तुमितो गतासीति वाच्यार्थमुपादयितुमिहोत्तरीकर्ष(प)णेन चन्दनच्यु- तिरित्यन्यथासिद्धिपरिहाराय निःशेषविशेषणं कृतम्। ततश्चन्दनच्युतेः १. 'अपि व्यज्यते' क-घ. २. 'पतनातिशिथिल' क-घः 'पतनादिना शिथिल' ख, ३. 'हि दूतीसंप्रेषणादि' ख-ग. ४. 'स्वयं' क-घ-पुस्तकयोरनास्ति; 'स्वसंनिहित' ख. ५. 'इवोत्तरीयकर्षणेन' क; 'इवोत्तरीयापकर्षणेन' घ.
Page 6
चित्रमीमांसा।
स्नानसाधारण्यव्यावर्तनेन संभोगचिह्वोद्धाटनाय तटग्रहणम्। स्नाने हि स- र्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तटे उपरिभाग एव दश्यते, इय- माश्लेषकृतैवेति। तथा निर्मष्टरागोऽघर इत्यत्र ताम्बूलग्रहणविलम्बात्म्ना- चीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मष्टराग इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्रोद्धाटनाया- घर इति विशिष्य ग्रहणम् । उत्तरोष्ठे सरागेऽघरोष्ठमात्रस्य निर्मष्टरागता चुम्बनकृतैवेति। नेत्रे दूरमनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किं- चिद्विलुप्तमित्यन्यथासिद्धिपरिहाराय दूरमित्युक्तम्। दूरमत्यर्थमित्यापात- तोऽर्थः । कालतः स्नानेन वा सर्वतोऽञ्जनलोपः स्यात्, तव तु लोचनयोः क्कचित्प्रान्त एवानञ्जनत्वमिदं चुम्बनकृतमेवेति। पुलकिता तन्वी तवेयं तनुरित्यत्रापाततस्तन्वीति सहजतानवकीर्तनेन पुलकितेति स्नानचिह्रोप- न्यासः। पुलकितापि तन्वी वर्तत इति हृदिस्थितोऽन्वयः । तेन च स्नानेन पुलकिता तनुः किंचिदुच्छूसिता भवति, इयं तु न तथेति रतिक्लेशजनिता- वेव तानवपुलकोद्गमाविति मर्मोद्धाटनम्। एवमेभिर्वाक्यैरुपस्कृतेनाधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने प्राग्वाच्यार्थतादशायां वापीं स्नातुं गतासीत्येतदनुगुणार्थतयान्वितं मिथ्यावादिनीति संबोधनमपि व्य- ङ्यानुगुण एवार्थे पर्यवस्यति । ततश्र न्यग्भावितवाच्यमस्यापि व्यङ्गयं वाच्यातिशायीति इदमपि ध्वनेरुदाहरणम्। यत्र व्यङ्गयं वाच्यानतिशायि तहुणीभूतव्यङ्गयम् । यथा- 'गच्छाम्यच्युत दर्शनेन भवतः कीं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा।
माश्िष्यन्पुलकोत्कराश्चिततनुं गोपीं हरि: पातु वः ॥' अत्र गच्छाम्यच्युतेत्याद्यामन्त्रणेन त्वया रन्तुमेतावत्कालं स्थितं तन्न १. 'सर्वच्युतिः' ख-ग. २. 'निर्मृष्टतोक्ता' ख. ३. 'मिथ्यावादिनीत्यादि' क. ४. 'वाच्यादतिशायीति' ख.
Page 7
काव्यमाला । .50
लब्घमिति व्यङ्गयम्। तत्तु इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसामि- त्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान्न वाच्यातिशायि। अतो गुणी- भूतव्यङ्गयमिदम्। यथा वा- 'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेडथवा किमुत सकले याते वाह्ि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सवाप्पगलज्जलैः ।।' अत्र सकलमहः परमावधिः। ततः परं प्राणान्धारयितुं न शक्रोमीति व्यङ्गयं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वा- च्यानतिशायि। अत इदमपि गुणीभूतव्यङ्गयम् । यदव्यङ्गयमपि चारु तच्चित्रम् । तत्रिविधम्-शब्दचित्रमर्थचित्रमुभयचित्रमिति। शब्दचित्रं यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्। मृदुलतान्तलतान्तमलोकयत्स सुरमिं सुरभि सुमनोभरैः ॥' अर्थचित्रं यथा- 'स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ।' उभयचित्रं यथा- 'वराहः कल्याणं वितरतु स वः कल्पविरमे
खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ-
तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्गच्ययोरन्यत्रास्माभि: प्रपञ्चः कृतः श- व्दचित्रस्य प्रायोनीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणी- यमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचित्रमीमांसा प्रसन्नविस्तीर्णा प्रस्तूयते। १. 'उभयत्र' क.
Page 8
चित्रमीमांसा।
चिन्त्येऽत्र चित्रवर्गे प्रदर्श्ययोर्लक्ष्यलक्षणयोः । प्राचीनानामेव श्ोकाः प्रायेण लिख्यन्ते। इति चित्रमीमांसायां अन्थरम्भप्रकरणम्। ग्रन्था
उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान्। रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः । चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा। सैवोक्तिभङ्गीभेदेना- नेकालंकारभावं भजते। तथा हि। 'चन्द्र इव मुखं मुखमिव चन्द्रः' इत्यु- पमेयोपमा। 'मुखं मुखमिव' इत्यन्वयः । 'मुखमिव चन्द्रः' इति प्रती- पम्। 'चन्द्रं दृष्टा मुखं स्मरामि' इति स्मरणम्। 'मुखमेव चन्द्रः' इति रूपकम् । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः । 'किमिदं मुख- मुताहो चन्द्रः' इति संदेहः । 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्तिः इति भ्रान्तिमान्। 'चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वनमुखे रे- ज्यन्ति' इत्युल्लेखः । 'चन्द्रोडयं न मुखम्' इत्यपह्नवः। 'नूनं चन्द्रः' इत्यु- त्प्रेक्षा। 'चन्द्रोऽयम्' इत्यतिशयोक्तिः । 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता। 'निशि चन्द्रस्त्वन्मुखं च हृष्यति' इति दीपकम्। 'त्वन्मुख एवाहं रज्यामि चन्द्र ऐव चकोरो रज्यते' इति प्रतिवस्तूपमा। 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति दृष्टान्तः । 'मुखं चन्द्रश्रियं विभर्ति' इति निदर्शना। 'निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः। 'त्वन्मु- खेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः । 'मुखं नेत्राङ्करुचिरं स्मितज्योत्स्ोपशोभितम्' इति समासोक्तिः । 'अजेन सदशं वक्रं हरिणा- हितसैक्तिना' इति श्लेषः । 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा। एवमुक्तानेकालंकार विवर्तवतीयमुपमा। तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात्। ज्ञातं भवतीत्यादौ निरूप्यते निखिलमेदसहिता सा॥
१. 'अनुरज्यन्ति' क. २. 'एव हि' क, ३. 'शक्तिना' ख-ग.
Page 9
काव्यमाला।
अस्यास्तावदेवं लक्षणमाहु :- उपमानोपमेयत्वयोग्ययोरर्थयोई्योः । हृदं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः॥ कविसमयप्रसिद्धनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यसुपमा। न- त्वतथाभूतयोः । अत एव 'कुमुदमिव मुखं प्रसन्नम्' इत्यादि नोपमा। तथा- भूतयोरपि वस्तुत्वद्रव्यत्वादिकृतमहृद्यं साध्म्यै न तथा। किंतु हृद्यमेव कान्तिमत्त्वादिकम्। सर्वोऽपि ह्यलंकारः कविसमयप्रसिद्ध्यनुरोधेन हृद्य- तया काव्यशोभाकर एवालंकारतां भजते। अतः 'गोसदृशो गवयः' इति नोपमा। 'गौर्वाहीकः' इति न रूपकम् । 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न भ्रान्तिमान्। 'नायं सर्पः' इति नापह्ुतिः । 'पीनो देवदत्तो दिवा न भुङ्गे' इति न पर्यायोक्तम्। 'पर्वतो वह्निमान्' इति नानुमानम्। 'स देवदत्तः' इति न स्मरणम्। 'तस्थस्थमिपां तांतंतामः' इति न यथासंख्यम्। 'पुत्रेण सहागतः पिता' इति न सहोक्तिः। 'तेन विना गतः' इति न विनोक्तिः । 'श्वेतो धावति' इति न क्लेषः । इत्याद्यू- हनीयम्। अत्रेदं विचार्यते-द्योरिति विशेषणमिह किमर्थम्। स्वस्य स्वेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत्, एवमप्युपमान- स्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पनात्मिकायामुप- मेयोपमायां चातिव्याप्तिः । तयोः सादृश्यवर्णनसत्त्वादुपमात्वेन संग्राह्यत्वे तथैवानन्वयोSपि संग्राह्यः स्यादिति व्यर्थ द्वयोरिति पदम् । एतेन 'साधर्म्य- मुपमा भेदे-' इति काव्यप्रकाशिकोक्त(काशोक्त)लक्षणेSनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम्। नहि संभवत्साधर्म्यवर्णन एवोपमात्त्वम्। येन स्वस्य स्वेन साधर्म्यासंभवादनन्वयस्य व्यवच्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात्। तथात्वे 'हंसीव धवला कीर्तिः स्वर्गङ्गामवगाहते' इंत्यादौ क- विकल्पितसाधर्म्योपमाया अनुपमात्वप्रसङ्गात्। किं च सत्यामप्युपमानोप- मेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिङ्गवचनभेदादिदुष्टायामुपमायां 'हंसीव
१. 'उपमानोपमेयत्व' ख-ग-घ. २. 'काव्यप्राकाशिकोत्त' घ. ३. 'इन्यादेः' क.
Page 10
चित्रमीमांसा। ७
धवलश्चन्द्रः सरांसीवामलं नभः' इत्यादि रूपायामतिव्याप्तिः । उदाहरिष्य- माणे चोपमाध्वनावतिव्याप्तिः । न हि सोऽप्यलंकारः । अलंकार्यत्वात् ब्राह्मणश्रमणन्यायेन तत्रालंकारध्वनिव्यपदेश इति सिद्धान्तात्। यदि अेद च दुष्टादुष्टालंकार्यालंकारसाधारणोपमासामान्यलक्षणमिति नोक्तातिव्या- प्िस्तदोपमानोपमेयत्वयोग्ययोरिति हृद्यमिति च व्यर्थम्। कविसमयप्रसि- द्ध्यभावादिदुष्टोपमाया अपि संग्राह्यत्वात्। यत्तु विद्यानाथेन लक्षणमुक्तम्- 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥' इति। अत्र स्वतःसिद्धेनेत्युत्प्रेक्षाव्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात्। भिन्नेनेत्यनन्वयव्यावृत्तिः । संमतेनेति सर्वविधदुष्टो- पमाव्यावृत्तिः। कविससयप्रसिद्ध्यभावेन लिङ्गवचनभेदादिना वा यदयदसं- * मतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात्। धर्मत इति श्लेषव्यावृत्तिः। श्लेषे हि 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव।' इत्यादौ श- ब्दसाम्यमात्रमिवशब्देनोच्यते न गुणक्रियारूपधर्मसाम्यम्। अन्येन वर्ण्य- स्येत्यनेन प्रतीपव्यावृत्तिः । तत्र वर्ण्येन प्रकृतेन सेहाप्रकृतस्य सादृश्यवर्ण- नात्। एकदेत्यनेनोपमेयोपमाव्यावृत्तिः । वाच्यमित्यनेन व्यङ्गयोपमाव्या- वृत्तिः' इति। तत्रोत्प्रेक्षाव्यावृत्तये स्वतःसिद्धेनेत्युक्तमयुक्तम्। उत्प्रेक्षा- यामिवकारस्य विषयविषयिणोस्तादात्म्यादिसंभावनावाचकत्वेन तत्र साम्य- स्यावाच्यतया तत एव तद्यावृत्तेः। उक्त्तं हि चक्रवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति। तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्ध: कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः संभावनापरः ॥' इति। दृष्टं च लोके संभावनापरत्वमिवशब्दस्य। 'दूरे तिष्ठन्देवदत्त इव भाति' इति। कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । १. 'ध्वनित्व' ख; 'ध्वनित्वेन' ग. २. 'इति' ख-ग-पुस्तकयोर्नास्ति, ३. 'सिद्धित्वा' क; 'प्रसिद्धत्वा' ग. ४. 'अन्यस्य सादृश्य' ख-ग.
Page 11
काव्यमाला। V 'न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधान्न्ना विभाति लोके नवकाकतीन्द्रः।।' इति तदीयोत्प्रेक्षोदाहरण एवोपमानस्य स्वतःसिद्धत्वात् । इन्दुः क्षो- णितलावैतीर्णत्वाकारेण कविकल्पित इति चेत्तर्हि, 'चन्द्रबिम्बादिव विषं चन्दनादिव चानलः । परुषा वागितो वक्रादित्यसंभावितोपमा ।।' इत्युक्तायामसंभावितोपमायामव्याप्तिः। विपानलयोः स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात्। 'उभौ यदि व्योस्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः। भिन्नेनेत्यनन्वय- व्यावृत्यर्थमुपात्तमप्ययुक्तम्। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेप्विवाङ्क: ॥' इत्यस्यामुपपादकोपमायामव्याप्तेः। तत्रोपमेयदोपे गुणसामान्यान्तर्गतानामुँ- पमानानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात्। अथो-
दपि न युक्तम्। 'अनवरतकनकवितरणघृतजल्लवव व करतरङ्गितार्थिितिते ः । भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥।' इति रशनोपमायामव्याप्तेः। मतित्वादुपमानतावच्छेदकानामुपमेयताव- च्छेदकभिन्नत्वाभावात्। उपमेयोपमायासुपमानतावच्छेदक योर्वयोरपि त- द्विन्नत्वाभावेनोक्त विशेषणेनैव तद्यावृत्तिमिद्या एकदेत्यस्य वैयर्थ्यापत्तेश्र। 'रजोभि: स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्बन्व्योमेव भूतलम् ।।' २, 'वतीर्णत्वेन' क; 'वतीर्णत्वात्' ख. ३. इत्युक्तरपायां' स्त्र-ग, ४ 'गुणदोष' क. ५. 'उपात्तानां' क. ६ 'मिन्ने उप' ख, ७. 'व्छदकधमीवन्छिन्नत्व' क,
Page 12
चित्रमीमांसा।
पमेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भ्िन्नत्वमितिवि्षितमि- दमपि न सम्यक्। 'उपाददे तस्य सहस्ररश्मिस्त्वष्टर नवं निर्मितमातपत्रम् । से तहुकूलादविदूरमौलिर्बमौ पैतद्ङ्ग इवोत्तमाङ्गे ।।' 'द्वारं द्वारमटन्मिक्षुः शिक्षत्येवं न याचते। अदत्त्वा मादशो मा भूर्दत्त्वा त्वं त्वादशो भव ।।' इत्याद्यभिन्नधर्रमिकोपमास्वव्याप्तेश्व । तत्र परमेश्वरत्वादेः सवोपमेयताव- च्छेद कस्यैवोपमानतावच्छेदकत्वात्। श्लेषव्यावृत्त्यर्थ धर्मत इति विशेषण- मप्ययुक्तम्। तत्र न शब्दसाम्यमात्रमिवेनोच्यते किं तु गुणसाम्यमपीति तैदव्यावृत्तेः। ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं सुधांशुबिम्बे कलासाकल्यमिति, नैकोनुगतो गुणो लभ्यते। मैवम्। श्लेषभित्तिका- भेदाध्यवसायमूलया भेदेऽभेद इत्येवंरूपयातिशयोक्त्या धर्मसाधारण्यला- भात्। नह्युपमानोर्पमेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमालंकारः। 'पाण्ड्योऽयमंसार्पितलम्बहारः कवप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ।।' इत्यादौ हरिचन्दनवालातपहारनिर्झरादीनां बिम्बप्रतिबिम्बभावेन निर्दि- ष्टनामपि साधारणर्मत्वाङ्गीकारात्। ननु सकलकलमित्यादावपि गुण- साम्यं चेदुपमैव स्यादिति चेत्, शब्दसाम्यमात्रं चेदपि किमित्युपमा न स्यात्। नहि शब्दान्यगुणादिसाम्यमेवोपमाप्रयोजकं न शब्दसाम्य- मिति कुलधर्मः । 'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा। तथैव सोडभूदन्वर्थो राजा प्रकृतिरञ्जनात् ।।' १. 'इत्यनेन' ख-ग. २. 'अतद्दुकूलादवि' ख-ग. ३. 'वहन्गाङ्गमिव प्रवाहम्' क; 'पतदाङ्ग' ख-ग. ४. द्वारमित्यादिपूर्वार्ध क-ध-पुस्तकयोर्नीस्ति. ५. 'न तद्वयावृत्तिः' क-घ. ६. 'ल्लेषनिमित्तक' क-घ. ७. '5मेदो भेद:' ख. ८. 'पमेयानुगत्या' क. ९, 'अनुगतधर्मस्य' घ. १०. 'ननु' ख-ग-पुस्तकयोर्नास्ति. ११. 'चेत्तदपि' घ. २
Page 13
१० काव्यमाला।
इत्यत्रानुगतार्थनामरूपशब्दसाम्येऽप्युपमादर्शनात्। किं तु श्लेषस्यालं- कारान्तरविविक्तविषयाभावेन निरवकाशतया बलवत्त्वेनालंकारान्तरबाधक- त्वादुपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतुः श्रेष एव नोपमेति मेङ्गकादि- भिरभ्युपेयते। ततश्र यथा शब्दसाम्यमाश्रित्योपमाप्रतिभाने तद्वाधकत्वं
पमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तैदनुरोधेन न तत्र गुणसाम्यपरि- त्यागः। यत्तु रुद्रटेन-सकलकलमित्यादावुपमां समर्थयमानेन, 'स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु। आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ।।' इति शब्दसाम्यमात्रमिहोक्तम्, तदन्ततः शब्दसाम्यमात्रमाश्रित्याप्यु- पमा समर्थयितुं शक्येति भावेन, न त्वमेदाध्यवसायेनापि गुणसाम्यं न सं-
वैरपि समाश्रयणात्। तस्माद्धर्मत इत्यनेन न श्रलेपो व्यावर्तयितुं शक्यते। वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थ धर्मत इति विशेषणम्। अलं- कारान्तविविक्तस्तु श्रेषस्य विषयस्तत्प्रकरणे दर्शयिप्यते। किं च विवि- क्तविषयाभावेनालंकारान्तरवाधकत्वमिति वाचोयुक्तिरप्ययुक्ता। विषय- सद्भावमात्रेण निरवकाशत्वहानेर्विविक्तविषयानपेक्षणात्। नह्ययमलंकार- गोचरो लोकन्यायो यद्विविक्तविपयो वक्तव्य इति। अरन्ध्ररत्नानां सुवर्ण- विविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतुत्वेनालंकारान्तरत्वव्य- वस्थितेः । अप्यथा निरवकाशैररन्त्रप्रत्युप्तरत्नैः सावकाशस्य तदाश्रयसु- वर्णस्यालंकारता बाध्येत। नाप्ययं वाक्यवित्संमतः शास्त्रीयन्यायः पदे जु-
याभावेऽपि सविषयत्वमात्रेण प्तिष्ठितत्वात्। नाप्यसाधारण्येनतच्छास्त्र- न्यायः। सहोक्त्यादीनामतिशयोक्त्यादिविविक्तविपयाभावेऽपि तदबाधे- १. 'इत्यर्थानुगतार्थ' ख-ग. २. 'मङ्गकादि' क-ख-ग. ३. 'निमित्तिक' क-घ, ४, 'न तदनरोधेन तत्र' क-घ. ५. 'शक्यत इति' क. ६. 'क्षेपविषयः' ख-ग.
Page 14
चित्रमीमांसा। ११
नालंकारान्तरत्वव्यवहारादविरोध इहाप्यविशिष्टः। तस्मादत्रोपमाप्रतिभो- त्पत्तिहेतु: श्रलेषालंकार इत्ययुक्तम्। प्रत्युतोपमैवात्र श्लेषप्रतिभोत्पत्तिहेतुः । नहि पुरवर्णनप्रकरणे सकलकलमिति तद्विशेषणपदस्य सुघांशुबिम्बमिवे- त्युपमाया अनिबन्धने कलासाकल्यलक्षणार्थान्तरप्रतिभा संभवति। प्रतीप- व्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमित्युक्तं तत्रान्येनेत्ययुक्तम्। अनेनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात् । किं च वर्ण्यात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थस्तदा 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु। रजांसि समरोत्थानि तच्छोणितनदीण्विव ।।' इति समुच्चितोपमायामव्याप्तिः । तत्र समराङ्गत्वेन रजसां शोणितेषु पतनस्यापि वर्ण्यत्वात्। यदि तु स्वयं वर्ण्येनावर्ण्येन वा कुतश्चिद्वर्ण्यादन्ये- नेत्यर्थः। तदाप्युत्कृष्टगुणत्वादुपमानभावमप्यसहमानस्योपमानत्वकल्पनरू- पे प्रतीतेऽतिव्याप्तिः। यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तौत मा स्म दप्यः । ननु सन्ति भवादशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।' अत्र हि वर्ण्यानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोषत्वादुपमानभा- वमप्यसहमानेन साम्यनिबन्धनं प्रतीपम् । अत्र वर्ण्यस्येत्यप्ययुक्तम्। 'त्व- त्कीर्तेः पुरतो भाति ज्योत्स्ा ध्वान्तमलीमसा' इत्यप्रस्तुतप्रशंसासंकीर्णोपमा- यामव्याप्तेः । तत्र कीर्तेरेव वर्ण्यत्वेन ज्योत्स्नाया अवर्ण्यत्वात्। अपि च 'अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोऽर्थः। किमन्यप्रतियोगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यथाकथंचिद्वर्ण्यावर्ण्योभयनिरूपित साम्यं वाच्यम्। अथवा वर्ण्यानुपयोगिकत्वेन साम्यं वाच्यमिति। आद्ये 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते' इत्युभयवि- श्रान्तसादृश्योपमायामव्याप्तिः । द्वितीये प्रसिद्धप्रतीपेऽप्यतिव्याप्तिस्तद- वस्था। एवं तृतीये वर्ण्यस्य साम्यमित्येतावता विवक्षितार्थलाभादन्येनेत्यस्य १. 'प्रतिभाहेतुः' ख-ग. २. 'उत्तमयुक्तम्' क-घ. ३. 'मा स्म तात' क-घ.
Page 15
१२ काव्यमाला।
वैय्थ्यम्। उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम्। तेन 'ख- मिव जलं जलमिव खं' इत्यादौ पर्यायेण प्रवृत्तायासुपमेयोपमायामतिव्या- प्िनिरासेऽपि 'तद्वल्गुना युगपदुन्मिषितेन ताव- त्संद्यः परस्परतुलामधिरोहतां द्वे। प्रस्पन्दमानपरुषेतरतारमन्त- श्रक्षुस्तव प्रचलितभ्रमरं च पझ्मम् ।।' इति युगपत्प्रवृत्तायां तस्यामतिव्याप्यनिरासात्। अपि चवम्, 'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥' इति भिन्नसाधारणघर्मायां मालोपमायामव्याप्तिः । तत्रानेकदा साम्य- प्रतिपादनात्। न च बहूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येकं लक्षणमस्त्येवेति वाच्यम्। तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तद्यावृत्त्यर्थे विशेषणान्तरकरणायोगात्। संसृष्टिसंकरात्पृथग्ग्रन्थकृतां ले- खनमुभयत्रापि तुल्यम्। एवमुपमेयोपमाप्रकरणे उदाहरिप्यमाणायां 'रजोभि: स्यन्दनोद्धूतैः' इति परस्परोपमायामव्यापिः । व्यङ्गयोपमाव्यावृ- न्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पझं मुखमेवेदं न भृङ्गौ चक्षुपी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ।।' इत्युक्तरूपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेनाव्याप्यापत्तेः । 'त्वदाननमधीराक्षमाविर्दशनदीघिति। भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥'
श्यामा' इत्यादिवाचकलुप्तोपमायां 'चन्द्रसुहन्मुखम्' इत्यादिसाम्यलक्षकप- दवदुपमायां चाव्यात्यापत्तेश्र। कि च वाच्यमित्यत्र विधेयतया वाच्यतो- च्यते अनुवाद्यतया वा। आद्ये
Page 16
चित्रमीमांसा। १३
'स कर्षन्महतीं सेनां पूर्वसागरगामिनीम्। बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥।' इत्यादावेवेदं लक्षणं स्यात्। 'स सयौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा। अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥' इत्यादौ न स्यात्। द्वितीये यत्र व्यतिरेकालंकारे साम्यस्य निषेधायानु- वाद्यता 'मुखेन निष्कलङ्गेन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीद लक्षणं स्यात्। न च निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम्। 'असिमात्रसहायोऽपि प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोडयं महाद्युतिः ।।' इति व्यतिरेके तथाप्यतिव्यापत्तेः। न च निषेधप्रतियोगिकोट्यननुप्रविष्टतया वाच्यमिति विशेषणीयम्। 'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे। मालत्याः सदशीं क्कापि भ्रमन्नपि न लप्स्यसे ॥।' इत्युपमानलुप्तायमव्याप्तेः । तत्र सदशलाभनिषेधे साम्यस्यापि प्रति- योगिकोटिनिविष्टत्वात्। तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम्। यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- 'प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोगः सेहोपमा मता ॥' इति। तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम्- 'ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।I' इत्याद्युपमायामव्याप्तम् । 'उद्गर्भहूणतरुणीरमणोपमर्द- भग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
१. 'महाधृतिः' क. २. 'अपि व्याप्तेः' ग.
Page 17
१४ काव्यमाला।
बिम्बं कठोरबिसकाण्डकडारमेत- द्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥' 'सदो मुण्डितमत्तहूणचिबुकप्रस्पधि नारङ्गकम्' इत्यादौ प्रसिद्धिरहि- तोपमानायां कल्पितोपमायां चाव्याप्तम्। यत्त्वलंकारसर्वस्वकृतोक्तम्-"उपमानोपमेययोः साधर्म्ये भेदाभेदतु- ल्यत्वे वोपमा। साधर्म्ये त्रयः प्रकाराः। भेदप्राधान्यं दीपकतुल्ययोगिता- दृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु। अभेदप्राधान्यं रूपकपरिणाम- भ्रान्तिमदुल्ेखादिषु। द्वयोस्तुल्यत्वं यथा स्यामुपमायाम् । अत्र ह्युपमानो- पमेयासाधारणरूपाभ्यां भेद: साधारणघर्मेणाभेदश्चेति द्वयोरपि तुल्यतैव" इति तदप्युपमानोपमेयातिव्यात्यादिदुष्टमिति स्पष्टमेव। तस्माहुर्वचमस्या लक्षणमिति। अत्रोच्यते- 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।।' उपमानव्यापार उपमितिक्रियानिष्पादको व्यापारः सादृश्यवर्णना। सोऽयमुपमितिक्रियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालंकार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः। तत्र सादृश्यवर्णनासत्त्वेऽपि 'मुखेन निप्कल- ङ्रेन' इत्यादौ साक्षात्तस्यैव निषेधेन, 'नैवान्यतुच्छजनवत्' इत्यादौ तत्- योजकधर्मनिषेधेन चोपमितिक्रियाया अनिप्पत्तेः । नाप्यनन्वयेऽति- व्याप्तिः। तत्रापि स्वेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदन- वपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वे- नोपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य स्वेनोपमितिक्रियानिष्पत्तौ सदृशान्तरव्यवच्छेदेऽपि सर्वथानुपमत्वद्योतनं फलं न स्यात्। आहुश्च तस्य तदेव फलं भामहादय :- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता। असादृश्यविवक्षातो वदन्ति तमनन्वयम् ॥' इति। अत एव वर्ण्यमानमपि स्वस्य स्वस्मिन्साधर्म्य नान्वेतीत्यनन्वयपदव्यु
Page 18
चित्रमीमांसा। १९
त्पत्तिमलंकारसर्वस्वकारादयो वदन्ति। ततश्र यथाम्भसि कतकरजःसंयो- जनेन रजोन्तरव्यवच्छेदे सति कतकरजसोऽपि विलयनात्सर्वथानाविलमम्भः सिध्यति तथा 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यादौ स्वेन सादृश्य- वर्णनया सदृशान्तरव्यवच्छेदे सति वस्तुतः स्वेनाप्युपमाया असंभवादनु- पमं रामरावणयोर्युद्धमित्यत्रैव कविसंरम्भ इत्युपमितिक्रियाया अनिष्पत्ते- र्नानन्वयेऽतिव्याप्तिशङ्कावकाशः। एवं प्रतीपेऽपि यत्रोपमित्यनिष्पत्तिः, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि। शशाङ्कस्तव वक्रेण पामरैरुपमीयते।।' इत्यादौ ने तत्रातिव्याप्तिशङ्का। उपमितिक्रियानिष्पत्तिविरहात्। 'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे। सन्तीद्ृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि संग्राह्यमेवेति न. तद्यापनं लक्षणस्य दोषः । तथा हयुदाहृतं प्रतीपं तावदुपमाविशेष एव। सादृश्य- वर्णनस्य प्रकृतविषयत्व इवाप्रकृतविषयत्वेऽपि स्मृतिरूपकसंदेहभ्रान्त्य- नेकधाग्रहणापह्नवसंभावनासंभवद्व स्तुसंबन्धनिबन्धननिर्दिष्टसमर्थनादीनामिवा- लंकारान्तरत्वायोगात्। अन्यथा तेषामपि प्रकृतविषयत्व एव स्मरणरूपकसंदे-
षयत्वेऽपि चानलंकारत्वमिति कल्पनाप्रसङ्गात्। स्मृत्यादयश्च प्रकृतविषया इवाप्रकृतविषया अप्यलंकारभूतास्तत्र तत्रोदाहरिष्यन्ते। न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्णनात्मनैव तया भाव्यमिति। समुच्चयो- पमाद्युदाहरणेषु प्रकृतयोरेवाप्रकृतयोरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गी- कारात्। तद्वत्प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम्। एवं चो- पमेयोपमापि प्रकृताप्रकृतविषयोपमाद्वयरूपतया नालंकारान्तरतां भजते। अन्यथा तत्प्रकरणोदाहरिष्यमाणपरस्परोपमाया अप्यलंकारान्तरत्वप्रसङ्गात्। परस्परभ्रमनिबन्धनादिष्वप्यलंकारान्तरतापत्तेश्र। न चानन्वयप्रतीपोपमे-
१. 'नातिव्याप्ति' ख-ग. २. 'प्रकृताप्रकृतविषयत्वे' क.
Page 19
१६ काव्यमाला।
योपमासु सादृश्यवर्णनस्य पृथङ्गिरूपणस्य चाविशिष्टत्वेनानन्वयस्यानुपमा- त्वमितरयोरुपमात्वं च वक्तुमयुक्तमिति वाच्यम्। यत्रोपमितिक्रियानिष्प- त्तिस्तत्रोपमाशब्दप्रवृत्तिनिमित्तसद्भावेन, यत्र तदनिष्पत्तिस्तत्र तदभावेन च वैषम्यस्य स्फुटत्वात्। इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- ष्वननन्वयव्युदासार्थमेव यत्नः कृतो नोपमेयोपमादिव्युदासार्थम् । उपमेयो- पमादेरुपमान्तर्गतत्वेऽपि व्यङ्गयादिकृतवैचित्र्यविशेषेण पृथग्गणनं न विरु- ध्यते। रूपकपरिणामवत्। 'उभौ यदि व्योस्नि पृथक्प्रवाहौ' इत्यादौ लक्षणाभावो न दोषः। यदि तथाभूतौ प्रवाहौ स्यातां तर्ह्युपमीयेत। न च तौ संभवतः । तस्मान्न केनाप्युपमीयत इत्युपमापरपर्यायोऽयमित्यनिष्प- त्तावप्युपमात्वस्वीकारे तत्रोपमाशब्दस्य पारिभाषिकत्वापत्तेः । किंतु तत्रा- तिशयोक्तिविशेषोऽलंकारः । अत एवं काव्यप्रकाशिकायां 'प्रस्तुतस्य यद- न्वत्वं यद्यर्थोक्तौ च कल्पनम् इत्यतिशयोक्तिषु परिगणय्य यद्यर्थोक्तौ कल्पनस्य 'राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवासुयात् ।।' इत्युदाहृतम्। 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्। ततोऽनुकुर्याद्विशदस्य तस्य ताम्रौष्ठपर्यस्तरुचः सिितस्य ।।' इति तु कविकल्पितोपमानाया उत्पाद्योपमेति व्यवहृताया उदाहर- णम्। तत्र यद्युत्पाद्यस्योपमानस्य संभाविततया तेनोपमितिनिप्पत्तेर्लक्षणम- स्त्येवेति नाव्याप्तिः । न चैवं 'चन्द्रबिम्बादिव विषं' इत्यसंभावितोपमाया- मव्याप्तिः । तत्रासंभावितेनैवोपमानेनोपमितिक्रियानिप्पत्तेः । कविना वि- वक्षितत्वेन विवक्षानुसार्युपमितिक्रियानिष्पत्तिसेद्ावात्। नहि 'वस्तुसदर्था- निबन्धनोपमितिक्रियानिष्पत्तिरुपमा' इति लक्षणमुच्यते किं तु कविविवक्षा- निबन्धना। अत एव श्ोके विवक्षित इति विशेषणमर्थवत्। अन्यथा १. 'इत्यत्र' ग-घ. २. संभवात्' क.
Page 20
चित्रमीमांसा। १७
'चन्द्र इव मुखम्' इत्यादावपि लक्षणं न स्यात्। चन्द्रगतकान्त्यतिशयस्य वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना गत्यभावात्। 'चन्द्रधवला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात्। कीर्तौ घावल्यस्य लेशतोऽप्यभावात्। न चैवमनन्वयेऽपि कविविवक्षया स्वस्य स्वेनोपमितिक्रियानिष्पत्तिः संभ- वतीति वाच्यम्। सर्वथैवानुपमत्वद्योतने कविसंरम्भे सति तथा विवक्षानुद- यात्। 'वृथा चरसि किं भृङ्ग' इत्यादौ सादृश्याधिकरणस्यानुपलम्भोक्त्यो- पलभ्यमानेषु सादृश्यनिषेधपर्यवसानेऽप्यनुपलभ्यमानगतसादश्याभ्यनुज्ञाना- त्तत्रोपमितिक्रियानिष्पत्तिरस्तीति नाव्याप्तिः । अत एव तस्य विशिष्यानु- पादानाडुपमानलुप्तता । एवम् 'निरूप्यमाणं कविना सादृश्यं स्वात्मनो न चेत्। प्रतिषेधमुपादाय पर्यवस्यति सोपमा ।I' इत्यपि लक्षणमनुसंघेयम्।
स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा। इति द्विविधमप्येतदुपमासामान्यलक्षणम्। अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यङ्गयत्वविशेषितम्। विशिष्टोपमादिस्थले विशेषणाद्युपमानां
यैव तासां नालंकारतेति न तदव्यापनं दोषः। 'न पझ सुखमेवेदं' इत्यादौ नोपमालंकारः । किं तु प्रतिषेधाक्षिप्तप्रसक्तितया भ्रान्तिमान्, तदुपपादक- तयोपमा चेत्युभयं व्यङ्गयम्। तथापि भ्रान्तिमदादिकमपि साधर्म्यमूलत्वमा- त्रेणोपमामध्ये परिगणयता दण्डिना तत्त्वाख्यानोपमेत्येतादृशव्यवहार: कृतः परमिति न तत्राप्यव्याप्तिर्दोष इति दिक्। सा चेयमुपमा द्विविधा पूर्णा लुप्ता च। उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा। तेषामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता। १. 'सिद्धयर्थत्वात्' क. ३
Page 21
१८ काव्यमाला।
पूर्णायां क्वचित्साधारणधर्मस्यानुगामितया निर्देशः । क्वचिद्वस्तुप्रति- वस्तुभावेन । क्वचिद्विम्बप्रतिबिम्बभावेन। क्वचिच्छ्ेषेण। क्वचिदुपचारेण। क्कचित्समासान्तराश्रयेण। क्वचिदेषां यथासंभवं मिश्रणेन। लुप्तायां तु नैवं ेदाः । तस्यां साधारणधर्मस्यानुगामित्वनियमात्। किं तु प्रकारान्तरेण भेदा वक्ष्यन्ते। तत्र पूर्णायां धर्मस्यानुगामिता यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोनित्यसंबन्धित्वं प्रसि- द्धम्। उमामहेश्वरयोरप्यनयोर्न पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसिद्धम्। तथा च नित्यसंबन्धित्वरूपोऽत्र साधारणघर्मोऽनुगामितया निर्दिष्टः। यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंबन्धित्ववर्णनेन तयोनिरतिशयपरस्परप्रे- मशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनिगुणीभूतव्य- ङ्गयव्यवहारः । न खलु व्यङ्गयसंस्पर्शप्रतिभासादेवात्र चारुताप्रतीतिः, किं तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र संभवद्रसादिरूपं व्यङ्गयमलं- कारान्तरं चागणयित्वैव तत्तदलंकारा उदाह्नियन्ते। एकस्यैव धर्मस्य संबन्धिमेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः ।स तु शुद्धो न संभवति। किं तु विशेषणतया विशेष्यतया वा सर्वत्र विम्बप्र- तिबिम्बभावकरम्बितः । वस्तुतो भिन्नयोर्धर्मयोः परस्परसादृश्यादभिन्नत- याध्यवसितयोर्द्विरुपादानं बिम्त्प्रतिबिम्बभावः। तत्र वस्तुप्रतिवस्तुभावस्य वि- शेषणता यथा- 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोSमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्ष: ।।' अत्र बिम्बप्रतिबिम्बभावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृत्तश- १. 'श्रयणेन' क. २. 'तयोरतिशय' ख-घ.
Page 22
चित्रमीमांसा। १९
शब्दाभ्यामेक एव धर्मो विशेषणतया निर्दिष्टः। विशेष्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता । वानरेणातिलोलेन वाताधूतेव वल्लरी।।' अत्र साध्वसवातयोर्विम्बप्रतिबिम्बभावापन्नयोः कम्पिताधूतशब्दाभ्यामेक एव धर्मो विशेष्यतया निर्दिष्टः । शुद्धबिम्बप्रतिबिम्बभावो यथा-'पा- ण्ड्योSयमंसार्पितलम्बहारः' इत्यादि। अत्र हरिचन्दनबालातपौ हार- निर्झरौ च विम्बप्रतिबिम्बभावेन निर्दिष्टौ। श्लेषो यथा- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तव। पारावारसमानत्वं दधाति स्वपदच्युतः ।।' उपचारो यथा- 'उन्भवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ।' अत्र विकास: पुष्पधर्म उपमेयेषु वीक्षणेषूपचरितः । समासभेदाश्र- यणं यथा- 'तया विवृद्धाननचन्द्रकान्त्या प्रफुल्चक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥।' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासभेदेन प्रवर्तते। मिश्रणेष्वनुगामित्वबिम्बप्रतिबिम्बभावयोमिश्रणं यथा- 'भीमकान्तैर्नृपगुणैः स वभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरतैरिवार्णवः ॥' अत्राघृष्यत्वमभिगम्यत्वं च नृपगुणानां यादोरतानां च बिम्बप्रतिबि- म्बभावमपेक्ष्य लब्घात्मकं सधारणो धर्मः। अनुगामित्वश्रेषयोर्मिश्रणं यथा- 'गते तव भ्रातरि वत्स पश्चतां चिराय नश्चान्द्रमसं कुलं महत्। अदृष्टसंतानतया न शोभते वनं हरे: प्राब्मथनादिवोदधे: ॥' अत्र संतानशब्दश्ेषमपेक्ष्य लब्घात्मकं शोभारहितत्वं साधारणो धर्मः। अनुगामित्वोपचारयोर्मिश्रणं यथा- १. 'प्रसन्न' क-ध. २. 'साधारणधर्मः' ख-ग.
Page 23
२० काव्यमाला।
'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनी विलोकयन्। प्रिययेव भिया सकम्पया परिरेभे घृतघर्मपाथसा ।' अत्र सकम्पत्वानुगामिधर्मापेक्षया लब्घचारुभावं परिरम्भकर्तृत्वं भी- त्यामुपचरितम्। अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा- 'शयेनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ।।' अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समासभेदाश्रयणेन साधारण्य- मपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्चारुतातिशयं पुष्णाति। वस्तुप्रतिव- स्तुभावबिम्बप्रतिबिम्बभावयोमिश्रणं यथा- 'लिङ्गैर्मुद: संभृतविक्रियास्ते हवदाः प्रसन्ना इव गूढनक्राः । वैदर्भमामन्नय ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।I' अत्र विम्बप्रतिबिम्बभावापन्नयोः क्रोधनक्रयोः संवृतगूढशब्दाभ्यामेक एव धर्म उक्त इति बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावः । संतोषचिह्नप्र-
'पार्थनाशमुदिता नृपात्मजा बाष्पमूहुरविनीतमन्यवः । आतपक्कथितपाथसो बहिः शीतगर्भसलिला इव हदा ॥' अत्र बाष्पर्शब्दे श्रेषस्य नृपात्मजह्ृदविशेषणानां विम्बप्रतिबिम्वभाव- मपेक्ष्य चारुता। उपचारविम्बप्रतिबिम्बभावयोमिंश्रणं यथा- 'सा किलाश्वासिता चण्डी भत्री तत्संश्रुतौ वरौ।
अत्राश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगाणां च बिम्बप्रतिविम्त्भावमपेक्ष्यो- द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थस्य द्वयोरप्यसंभवात्। मुख्यार्थे तस्य ग्राम्यत्वाच्च। तैदाहु :- 'निष्ठय्ूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्। अतिसुन्दरमन्यत्तु(त्र) ग्राम्यकक्षां विगाहते ॥' इति। १ 'शब्देन' क, २. 'यदाहुः' क.
Page 24
चित्रमीमांसा। २१
एवमन्यदपि द्वयोर्मिश्रणमूह्यम्। अनुगामित्वबिम्बप्रतिबिम्बभावसमा- समेदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री। महीघरं मार्गवशादुपेतं स्त्रोतोवहा सागरगामिनीव ।।' अत्र व्यत्यगादित्यनुगामिधर्मः । अन्यवधूर्भवित्री सागरगामिनीत्यनयो- र्बिम्बप्रतिबिम्बभावः। आवर्तमनोज्ञनाभिरित्यत्र समासभेदाश्रयणमित्येतेषां मिश्रणम्। अनुगामित्वश्रेषोपचाराणां मिश्रणं यथा- 'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराघिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।' अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता। रामादिशब्दश्ेषः । चुम्बित- शब्दस्य वसन्तपक्षे उपचारः । इत्येतेषां मिश्रणम्। एवमन्येऽपि मिश्रणो- दाहरणभेदाः स्वयमेव द्रष्टव्याः । बिम्बप्रतिबिम्बभावोदाहरणेषु कश्चिद्वि-
यथा-'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ। क्वचिदप्रसिद्धसाधर्म्य-
'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ। अत्र हि शरदपर्णयोः स्वतोऽप्र- सिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रयणेनोपात्तसाधारणधर्मयो- रेव बिम्बप्रतिबिम्बभावः । यथाकथंचित्साधर्म्यप्रतीति विना बिम्बप्रति- बिम्बभावो न संभवत्येव। 'यथा त्वं गुणवाँल्लोके तथा ते निर्गुणो रिपुः । इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥' इत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः। तत्र हि सगुणत्वनिर्गु- णत्वयोर्नोपात्तेन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति। नैष दोषः । तत्राप्यात्यन्तिकत्वस्वाभाविकत्वादिघर्मेण प्रतीयमानेन तयोः साधर्म्यप्र- तीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निरालम्बनत्वप्रस- डात्। एवं पूर्णाया दिगुदाहृता। १. 'मिश्रणभेदोदाहरणाः' ख-घ.
Page 25
२२ काव्यमाला।
लुप्ताष्टविधा-वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमान- लुप्ता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, धर्मोपमानवाच कलुप्ता चेति। क्रमेणोदाहरणानि- 'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। प्रवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम् ।' अत्र कैलासगौरमित्यत्र वाचकलोपः। निकुम्भतुत्यमित्यत्र धर्मलोपः। वाचकलोपः सर्वन्र समासविधायकशास्त्रकृतः। धर्मलोपस्त्वैच्छिकः । प्र- भावादिना निकुम्भतुल्यमित्यपि वक्तुं शक्यत्वात्। 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः । उपनतमेतदकस्मादासीद्वत काकतालीयम् ।।' इत्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ। तेन काकागमनमिव तालपतनमिव काकतालमिति 'इवार्थे समासाच्च तद्विषयात्' इति ज्ञापकात्सुप्सुपेति समासः। उभयत्रोपमेयं क्रमेण देवदत्तागमनं द- स्यूपनिपातश्र। तेन देवदत्तदस्युसमागमः काकतालसमागमसदश इति फ- लति। ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थ 'समासाच्च तद्विषयात्' इति छप्रत्ययः । ततश्र पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दस्युभिर्देवदत्तस्य वध इत्यर्थः। यदाह भगवान्भाप्यकार :- 'एवं तर्हि द्वाविमावर्थौ काकागमनमिव तालपतनमिव काकतालं काकताल- मिव काकतालीयम्' इति। तच्च विवृतं कैयटेन- "तत्र काकागमनं देवदत्तागमनस्योपमानम्। तालपतनं दस्यूपनिपा- तस्य। तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वघस्योपमान- मिति। अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकार :- 'तेन काकतालीयं नामाकस्मादुपनतं चित्रीकरणमुच्यते।' इति। ततश्वात्र का- कागमनतालपतनसमागमनरूपस्य पतत्तालकृतकाकवघरूपस्य चोपमानस्या- नुपादानात्। प्रत्ययार्थोपमायामुपमानलोपः। समासार्थोपमायां वाचकोप- मानलोपः। अत्रैव 'किमिति ब्रूमो वयमिदम्' इति तृतीयपादपाठे प्रत्यया-
Page 26
चित्रमीमांसा। २३
र्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचकलोपः । अत्र धर्मलोपमात्रमैच्छिकम्। 'यं त्वं पालयसे धर्मे वृत्त्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ।।' अत्र राघवः शार्दूल इवेत्यर्थे 'उपमितं व्याघ्रदिभिः सामान्याप्रयोगे' इति समासे धर्मवाचकयोर्लोपः । अत्र वाचकलोपवद्धर्मलोपोऽपि शास्त्रीयः । सामान्यप्रयोग एवैतत्समासानुशासनात्। धर्मवाचकलुप्तायां धर्मलोपस्यै- च्छिकत्वमपि संभवति। यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्रञ्चा चन्द्रकलाधरम् ।।' अत्रापवर्ग इवाचरतीत्यर्थेSपवर्गतीत्यत्राचारार्थस्य क्विपो लोपाद्वाचकव- द्धर्मस्यापि लोपः । चञ्चेत्यत्र चञ्चा तृणपुरुष इवेत्यस्मिन्नर्थे 'इवे प्रतिकृतौ' इति विहितस्य कनो 'लुम्मनुष्ये' इति लुब्विधानाद्वाचकलोपो धर्मलोपश्च। अस्य श्रोकस्य 'यद्भ्क्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे नोभयत्रापि धर्मस्य श्रवणमपि संभवति। 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' अत्र वाचकोपमेययोर्लोपः। रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात्स्वा- त्मानं पुष्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्य लोप: कवेरैच्छिकः। न चैष इत्युपमेयस्योपादानमस्तीति शङ्कयम्। तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात्। अत्रैव हरिण- स्याक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेऽनुशिष्टे हरिणाक्षीणामिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तम्युपमानपूर्वपदस्य' इ- त्यादिशास्त्रकृत एव लोपः । त्रिलोपे धर्मलोपस्त्वैच्छिकोऽपि संभवति। यथा-
Page 27
२४ काव्यमाला।
'यच्चोराणामस्य च' इति श्रोकस्य द्वितीयपाठे समासार्थोपमायाम्। एवं लुप्ताया अष्टौ विधाः प्रदर्शिताः । काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः षड्डिधाः लुप्तायास्तु धर्मलुप्ता- दिष्ववान्तरभेदेन कैश्चिदेकोनविंशतिरन्यैर्विशतिविधाः प्रदर्शिताः । तत्रायं विभाग :- पूर्णा तावद्विविधा श्रौती आर्थी च। सादृश्यमात्रवाचकयथे- वादिशब्दवती श्रौती। सादृश्यविशिष्टधर्मिपर्याप्ततुल्यसदृशसंकाशादिशब्द- वती आर्थी। द्विविधापि वाक्ये समासे तद्धिते चेत्येवं षड्डिधा पूर्णा। धर्मलुप्तापि पूर्णावदेव विभागवती। किं तु श्रौती तद्धितेन संभवतीत्येवं पञ्चविधा। वाचकलुप्ता कर्मकर्तृणमुलोः कर्माधिकरणक्यचोः क्यडि णिनौ समासे चेत्येवं सप्तविधा। उपमानलुप्ता वाक्यसमासयोर्द्विविधा। धर्मवा- चकलुप्ता क्किप्समासयोर्द्विविधा। धर्मोपमानलुप्ता वाक्यसमासयोर्द्विविघा। उपमेयवाचकलुप्ता क्यचि एकविधा। धर्मवाचकोपमानलुप्ता समास एवै- कविधेति। यदाहु :- 'पूर्णा लुप्ता च सा द्वेधा श्रौत्यार्थी चेति ते पुनः। द्विविधे प्रथमा वाक्ये समासे तद्धिते भवेत्। तद्वछ्लप्तापि धर्मस्य लोपे श्रौती न तद्धिते। इवादिलोपे द्विविधे णमुलि क्यचि च क्यडि॥ तथा णिनौ समासे च सप्तधा परिकीर्तिता। उपमानस्य लोपे तु द्विधा वाक्यसमासयोः । इवादिघर्मलोपेऽपि द्विविधा क्किप्समासयोः । धर्मोपमानयोर्लेपे वाक्यगा च समासगा॥ इवादेरुपमेयस्य द्वयोरलपे भवेत्क्यचि। इवादिघर्मोपमानलोपे त्वेषा समासगा ॥' इति ॥ अन्रोदाहरणानि तन्मतरीत्या संगृह्यास्माभिर्लिख्यन्ते- 'यस्याज्ञा शिरसोह्यते सुमनसां वृन्दैर्यथा मालिका बड्ढा मुञ्जति यः पशूनिव जनान्यस्याभ्रवद्वैभवम् । १. 'लुप्तायां' क-घ. २. 'पर्यन्त' क. ३. 'तु' ख.
Page 28
चित्रमीमांसा। २१
हृद्यं शेवधिना समं ृिनत्यानन्दसारो ्म यं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमः शंभवे ॥।' अत्र षड्धापि पूर्णा दर्शिता। तत्र प्रथमवाक्ये वाक्यगा श्रौती। द्विती- यवाक्ये समासगा श्रौती। 'इवेन नित्यसमासो विभत्तयलोपः पूर्वपदप्रकृ- तिस्वरत्वं च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपदत्वात्। तृतीयवाक्ये तद्धितगा श्रौती। अभ्रवदिति षष्ठीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात्। 'हृद्यं शेवधिना म ृदि न्त ' इत्यत्र वाक्यगा आर्थी। आनन्दसारोपमं इत्यत्र समासगा आर्थी। हृद्यमिति विशेषणमत्राप्यपेक्ष्यते। अन्यथा धर्मलुप्तैव स्यान्न पूर्णा। शशिवदित्यत्र तद्धितगा आर्थी। तत्रत्यवतेः 'तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थे विहितत्वात्। 'मूर्तिर्यथा नवसुधा बलभिन्मणीव कण्ठप्रभा सुसदृशश्च जटास्तडिद्भिः । शङ्काक्षि काञ्चननिभं पदमन्नदेश्यं यस्यैष मेडस्तु हृदि दैवतसार्वभौमः॥।' अत्र पञ्चविधापि धर्मलुप्ता दर्शिता। तत्र मूर्तिर्यथा नवसुधेति वाक्यगा। बलभिन्मणीव कण्ठप्रभेति समासगा श्रौती। उभयत्रापि भातीत्यादिक्रि- याप्रयोगे सैव साधारणो धर्म इति धर्मलुप्ता न भवेत्, अतस्तदप्रयोगः । श्रौती तु धर्मलुप्ता तद्धिते न संभवति। षष्ठीसमर्थात्सप्तमीसमर्थाद्वा इवार्थे विहितस्य वतेर्धर्मोपादानं विनान्वयसौकर्याभावात्। न च वाच्यं 'इवे प्रतिकृतौ' इत्यधिकारे इवार्थे विहितस्य तद्धितस्य धर्मोपादानं विना नैरा- काङ्म्यमस्ति । 'कुशाग्रीया बुद्धि:' 'शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात्। अतस्तत्र श्रौती धर्मलुप्ता तद्धित उदाहर्तु शक्यत इति 'इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात्। अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन कुशाग्रीया बुद्धिरित्याद्युपमेयसा- मानाधिकरण्यासंभवात्सादृश्यविधानमपि सदशे पर्यवस्यति सामानाधि-
Page 29
२६ काव्यमाला।
करण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते। सुसदृशश्चेत्यादि वा- क्यत्रये क्र्मेणार्थी वाक्यगा समासगा तद्धितगा च। अज्जदेश्यमित्यत्रेष- दसमाततौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधि- करण्यात्सदशपर्यवसायी। ननु सदशादिशब्दप्रयोगे सादृश्यविशिष्टघ- र्मिपर्यन्तत्वादार्थीति युक्तम् सादृश्यादिशब्दप्रयोगे कथम्। कि श्रौती उतार्थी। यथा- 'परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु। मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।।' इत्यादौ श्रौत्येवेति बूमः । तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यार्थान्वयित्वात्। 'यं पश्यन्दीप दर्श सपदि मनसिजः कीटनाशं स नष्टः स्वान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक्। मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं वामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ।' अत्र सप्तविधापि वाचकलुप्ता दर्शिता। तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति क- र्तृणमुलि, स्वान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्तःपुरीयतीत्यधिकरणक्यचि, कुमारं स्कन्दमिवाचरतीति कर्मक्यच, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यडि, कोकिल इवालपतीत्यर्थे कोकि- लालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या। 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ॥।' अत्र यत्सममिति समासे येन सदशमिति वाक्ये चोपमानलुप्ता द्वि- विधापि दर्शिता। 'वृथा मम भ्रमत्यहो मनः स्थिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः ।
Page 30
चित्रमीमांसा। २७
षडङ्गयत्वदः सदा तदङ्गिपङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रमे ।।' अत्रावशिष्टाः षड्डिघा अपि लुप्ता प्रदर्शिताः । तत्र द्वितीयपादे वा- क्यसमासयोर्धमोंपमानलुप्ता द्विविधा, तृतीयपादे क्विप्समासयोर्धर्मवाचक- लुप्ता द्विविधा, चकोरकीयत्विति वाचकोपमेयलुप्ता, शशिप्रभ इति धर्मो- पमानवाचकलुप्ता च क्रमेण द्रष्टव्या। एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्र- व्युत्पत्तिकौशलप्रदर्शनमात्रप्रयोजनो नातीवालंकारशास्त्रे व्युत्पाद्यतामर्हति। न वा लुप्तानामयं सामस्त्येन विभागः । तथाहि-धर्मलुप्ता वाक्यसमासत- द्वितेषु दर्शिता द्विर्भावेऽपि दृश्यते-'पटुपदुर्देवदत्तः' इति। अत्र हि 'प्रकारे गुणवचनस्य' इति सादश्ये द्विर्भावविधानात्। पटुसदश इत्यर्थः । यो हि शास्त्रादिष्वपटुरेव पटुवदभिनयति स उच्यते पटठपटुरिति। न ता- वदियं वाक्ये धर्मलुप्ता। 'कर्मधारयवदुत्तरेषु' इति समाससन्भावविधानेनै- कपद्यसिद्धेः । अत एव न. समासेऽपि धर्मलुप्तेयम्। वाचकलुप्ता णिनि विनो कैश्चित्षडिधा दर्शिता। णिनिना सहापरैः सप्तविधा। क्वित्तैद्धितयो- रपि दश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्चश्चैव सवहिताकृतेः ॥' इति विवृतमेतदधस्तात्। वाक्यसमासयोरुपमानलुप्तापि दर्शिता। 'उ- पनतमेतदकस्मादासीद्वत काकतालीयम्' इति तद्धितेऽपि दृश्यते। वाच- कोपमानलुप्ता स्वरूपत एव नोदाहता। सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते। धर्मोपमानलुप्तापि तद्धिते काकतालीयमित्यत्र दृश्यते। धर्मवाचकलुप्ता क्विप्समासयोरिव तद्धितेऽपि दृश्यते। 'तं जगत्यभजन्म- त्यश्चञ्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम्। तस्माछ्वताविभागे दि- ्यात्रप्रदर्शनमेवेदं प्राचां न तु सामस्त्येन विभागः । ये चान्ये काव्यालो- १. 'अत्रावशिष्टा षड्िधाषि लुप्ता प्रदर्शिता' क-घ. २. 'विनापि' ख्. ३. 'लु- प्रक्किप्' क.
Page 31
काव्यमाला।
कादिषूपमायां प्रकारभेदा दर्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दर्शिताश्चे- हापि लेशतो लक्षणविचारप्रस्तावे। रूपकप्रकरणे चास्याः प्रकारभेदा-
पुनश्चेयमुपमा संक्षेपतस्त्रिधा-क्चित्स्ववैचित्रयमात्रविश्रान्ता यथा- 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ। क्वचिदुक्त्तार्थोपपादनपरा यथा- 'अनन्तरत्नप्रभवस्य' इत्यादौ। यथा वा- 'विश्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥' क्वचिद्यङ्गयप्रधाना सा झ्यङ्गयस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा। तत्र वस्तुध्वनिर्यथा- 'दर्पान्धगन्धगजकुम्भकपाटकूट- संक्रान्तिनिघ्नघनशोणितशोणरोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ।।' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुवलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते। अलंकारध्वनिर्यथा- 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले। भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ॥।' अत्रोपमालंकारेण यशसः पुण्डरीकवद्वैपुलस्य, गगनस्य च भ्रमरवद्ल्प- त्वस्य प्रतीतेराश्रयाश्रयिणोरनानुरूप्यलक्षणोऽधिकालंकारो व्यज्यते। रस- ध्वनिः 'वागर्थाविव' इत्यादावुदाहृतः । क्वचिदेकत्रैव त्रिविधोऽपि ध्वनिर्दश्यते यथा- 'पैश्यात्र नलिनीपत्ते बलाका परिद्ृश्यते। हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ।'
१. 'पश्याद्य' क-घ.
Page 32
चित्रमीमांसा। २९
किमावयोः संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छतश्च प्रच्छन्नकामुकस्याभिप्रायमिङ्गितेन विदितवत्या विदृग्घायाःसंकेतस्थान- सूचनार्थमिदं वचनम् । अत्र पद्मपत्रस्थितवलाकाया मरकतपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन तस्यास्तद्वन्निश्चलत्वप्रतीतेराश्वस्तत्वं व्यज्यते तेन तत्प्रदेशस्य निर्जनत्वं व्यज्यते इति वस्तुध्वनिः । ततश्च तदेव संकेतस्थान- मावयोरिति प्रकाशनात्संलक्षितसूक्ष्मार्थप्रकाशनरूपसूक्ष्मालंकारध्वनिः । एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यते इति रसध्वनिश्च। ननु रसादिध्वनिरसंलक्ष्यक्रम इति पसिद्धि: कथमत्र तस्यानुरणनेन व्यङ्गयतोच्यते। मैवम्। यत्र विभावाभावादिवशादाशु भाविनी रसाभि- व्यक्तिस्तत्रासंलक्ष्यक्रमता। अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यैः-'यद्यपि रसभावादिरर्थो ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोऽसंलक्ष्यक्रमस्य विषयः' इति। अत एव ध्वनिकारोऽपि- 'एवं वादिनि देवर्षो पार्श्चे पितुरघोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।।' इत्यत्र लज्जाख्यं संचारिभावमनुरणनव्येङ्गयमुदाजहार। अथोपमाव्यङ्ग्यप्रसङ्गादुपमाध्वनयः प्रदर्श्यन्ते। तत्र शब्दशक्तिमू- लोपमाध्वनिर्यथा- 'किरति प्रकरं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम्। कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वभाव एव ।।' एकस्माद्गुरोविद्यां शिक्षमाणानां केचिप्रगल्भन्ते नान्य इति विशेषो बोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति किं तु तत्स्वभावकृत इत्यस्मिन्नर्थे प्रकृतेऽप्रकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति नान्यानीत्येष विशेषस्तत्तत्पुष्पस्वभावकृत एव न तु चन्द्रस्य किरणवि- १. 'प्रसिद्धः' ख. २. 'रूपं' ग.
Page 33
३० काव्यमाला।
किरणविशेषकृतः । एवं गुरौ सर्वशिष्येष्वविशेषेण वाख्मयं विकिरति तेषु बोधाबोधविशेषोऽपि तत्तत्स्भावकृत एवेत्यत्र ्िष्टानां गोसुमन :- कलानिधिशब्दानां वागादिपर्यायपरिवृत्त्यसहिष्णुत्वाच्छब्दशक्तिमूलानुर- णनरूपध्वनिः । अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्टा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥ अत्रार्थशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं व्य- ज्यते। अलंकारेणोपमाध्वनिर्यथा- 'यैर्द्ष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान्दारयन्। येषां दुःसहकामदेहदहनप्रोद्भूतनेत्रानल- ज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ।।' अत्रान्यत्कार्य प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशेषालंकारः । उक्तरूपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुररिपुदर्शनमासीदिति निब- न्धनात्करणस्य क्रिया सामान्यात्मनो दर्शनेऽपि सन्भावाद्यद्यप्ययमर्थो न वाच्यस्तथापि तस्मिन्कौतुकास्तमयवर्णनाद्ङ्गयः । तेन तदा त्वं तथाभूतः पुररिपुरिव स्थितोऽसीत्युपमा व्यज्यते। एवमुपमादिगुदाहृता। अथोपमादोषाश्चिन्त्यन्ते-न्यूनत्वमधिकत्वं लिङ्गभेदो वचनमेदोऽसा- दृश्यमसंभव इत्यस्याः षड् दोषानाहुः। तत्रोपमेयादुपमानस्यापकृष्टत्वं न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वेति प्रत्येकं त्रिविधम्। तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' 'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ॥'
Page 34
चित्रमीमांसा। ३१
'पातालमिव नाभिस्ते पर्वताविव च स्तनौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ: ॥।' अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्थित इत्यनुचि- तार्थतायाभिमे न्यूनत्वाधिक्ये पर्यवस्यतः । धर्मतो न्यूनत्वाधिक्ये तु हीना- धिकपदत्वरूपौ दोषौ। यथा- 'स मुनिर्लाञ्छितो मौङ्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्किष्ट इवांशुमान् ।।' 'स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' अत्राद्य उपमानस्य मौञ्जीप्रतिबिम्बस्तडिल्लक्षणघर्मो न निबद्ध इति न्यूनत्वम्। द्वितीये उपमेयस्य शङ्कादेरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम्। लिङ्गवचनभेदो यथा- 'भाग्याभावात्करस्थोऽपि चिन्तारत्नमिव च्युतः । सक्तवो भक्षिता देव शुद्धा: कुलवधूरिव ।।' इमौ प्रक्रमभङ्गान्तर्भूतौ। कथं च्युतत्वादिरत्र साधारणधर्मो भवितुं नार्हति। उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूंप्यं तत्रैवास्य समन्वये- नोभयान्वयाभावात्। तथा चोपात्तविशेषणविशिष्टस्यैवोपमानत्वमुपमेयत्वं वा भवेत्। प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाह्या स्यात्। ततश्रोपमानोप- मेययोः कस्यचित्सविशेषणत्वमन्यस्य नेत्येवं विशेषणप्रक्रमभङ्गरूपता। केचित्तु कालपुरुषलोडर्थादिभेदमपि दोषमाहुः। यथा- 'तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ।।' अत्र समुद्रानेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति। पुरुषभेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूति: स्तम्बेन नीवार इवावशिष्टः ।।' निवारे आभातीत्यन्वेति न त्वाभासीति।
Page 35
३२ काव्यमाला।
विध्यादिभेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते। पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।I' भवन्तमलभतेत्यन्वेति न तु लभस्वेत्याशीः। असादृश्यासंभवावुपमाया- मनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा- 'प्रभनामि काव्यशशिनं विततार्थरश्मिम्' कार्व्यस्य शशिना सादृश्यमप्रसिद्धम्। यद्यर्थानां रश्मीनां च सादृश्यं प्रसिद्धं स्यात्तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादश्यमप्र- सिद्धमप्योनीयेत न च तदप्यस्ति। यथा वा- 'एष विन्ध्याचलः सान्द्रकुञ्जोल्लसितनिर्झरः।
असंभवो यथा- निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्घभाजः परिवेषिणोऽर्कात्॥ ज्वलन्त्योऽम्बुधारा: सूर्यमण्डलान्निष्पतन्त्यो न संभवन्तीत्यसंभवः । केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः । यथा- 'बाष्पदिग्घेक्षणं वक्रं तरुण्याः परिद्ृश्यते। तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ।।' अत्र वाष्पदिग्धेक्षणं तुषारसिक्तच्छदनमित्यनयोर्विम्बप्रतिबिम्बभावेन सादृश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेव दोषः । अथैषां दोषाणां यथासंभवमपवादाः प्रदर्श्यन्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्येन दोषौ। यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुत्यं त्वदाननम् । द्यणुकं मध्यसदशं मध्यं द्यणुकसंनिभम् ।।' १. 'काव्यशशिनोः' ग. २. 'आनीयते' ख. ३. 'सान्द्रः कुञ्जोच्चलित' क-ख, ४. 'निष्पेतुः' क-ख.
Page 36
चित्रमीमांसा। ३३
अत्र कविसमयप्रसिद्धेर्न किंचिदनौचित्यम्। उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकधर्मकानेकोपमार्थत्वेन वा साधारणधर्मवत्तासंपादनार्थत्वेन वा धर्मिस्वरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्यान्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ। यथा- 'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा। नवं नैवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥' इत्यत्रोपमेयगताधिक विशेषणोपादान स्यैकैक विशेषणकानेकोपमानार्थ- त्वात्। 'क्षीरोदवेला च सफेनपुञ्जा पर्याप्चन्द्रा च शरत्रियामा। अनुव्यधात्क्षौमनिवासिनीं तामच्छप्रभं दर्पणमादधानाम् ।।' इत्यस्यैव श्रोकस्य पाठे उपमानगतानेकधर्मोपादानमेकैकधर्मकोपमाद्व- यार्थमित्युपमानस्य धर्मत आधिक्यान्न दोषः । 'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्वदः ॥' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणघर्मवत्तासं- यादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादमभिगृह्कती तयोः प्रादुरास बहुलक्षपाछविः । ताडका चलकपालकुण्डला कालिकेव निविडा बलाकिनी ।।' अत्र निबिडेति विशेषणं. कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवत्तासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।' अत्रातिथिं नामेति विशेषणं धर्मिस्वरूपविशेषलाभार्थमित्याधिक्यं न दोषः । 'रसान्तराण्येकरसं यथा दिव्यं पयोऽश्रुते। देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥' १. 'नवक्षौम' क-घ. २. 'आधिक्यं' ग. ३. 'काले' घ. 5
Page 37
३४ काव्यमाला। अत्र दिव्यमिति विशेषणं धर्मिविशेषलाभार्थमित्यधिकत्वं न दोषः । एवं प्रकृतकथासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्रष्टव्यम्। एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां बिम्बप्रतिबिम्बभावेऽपि न सा- धारणघर्मतैकप्रयोजनतया संभाव्यमानानामुपमेयोपमानविशेषणानां प्रतिवि- शेषणानिर्देश एव न्यूनत्वमधिकत्वं च दोषः । कार्यान्तरार्थानामप्यनुगामितया विशेषणनिर्देशेन वा साधारणीकरणे त्वधिको गुणः । यथा-'ज्यानिनादमभिगृन्वती-' इति श्रोके ज्यानिना- दमभिगृह्नतीत्युपमेयविशेषणं ताडका स्वयमेव जिवांसया प्रादुर्भूय प्रथम- मभिद्रुतवती रामेण हतेति स्त्रीवधानौचित्यपरिहारार्थत्वेऽप्युपमानसाधा- रणम्। कालिकायामपि गर्जितशालिन्यामतिशयोकत्या तद्विशेपणानुवृत्तेः। तथा-'नृपं तमावर्त-' इति श्ोके 'अन्यवधूर्भवित्री' इत्यस्य व्यतिक्रम- णार्थत्वेऽपि सागरगामिनीति तत्प्रतिविशेषणनिर्देशः कृतः । यत्र लिङ्गवचनभेदेपि सामान्याभिवायिपदं स्वरूपभेदं नापद्यते स तन्र न दोषः। उभयानुगतिक्षमत्वात्। यथा-'भीमकान्तैर्नृपगुणैः' 'तद्वेषोऽसदशोऽन्याभि: स्त्रीभिर्मधुरताभृतः । दघते स्म परां शोभां तदीया विभ्रमा इव ।' सामान्याभिधायिपदस्य स्वरूपमेदापत्तावपि लिङ्गवचनभेदो महाकवि- प्रयोगेषु दृश्यते। 'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषघम्। त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ।।' 'प्रवृद्धो हीयते चन्द्रः समुद्रोऽपि तथाविधः। स तु तत्समवृद्धिश्च न चाभूत्ताविव क्षयी ।।' इत्यादौ। कालादिभेदे तु भूयांम्युदाहरणानि । 'एतादृशीपु लोकसि- द्धत्वाल्िङ्गादिभेदो न दोषः' इति वामनः । एवं गुणदोपव्यवस्थायां सह- द्यहृदयमेव प्रमाणम्। उक्तं हि दण्डिना- १. 'तत्र तत्र द्रष्टव्यम्' क.
Page 38
चित्रमीमांसा। ३९
'न लिङ्गवचने भिन्ने न हीनाधिकते अपि। उपमादूषणायालं यत्रोद्वेगो न धीमताम् ।। स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव। प्राणा इव प्रियोडयं मे विद्याधनमिवार्जिता॥ भवानिव महीपाल देवराजो विराजते। अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥' इत्येवमादि सौभाग्यं न जहात्येव जातुचित् । अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा।। हंसीव धवलश्चन्द्रः सरांसीवामलं नभः । भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥। ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम्।' इति। कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोषः। यथा-'चन्द्रधवला कीर्तिः' इत्यादौ। उपमेयगतासंभावितत्वविवक्षायामुपमानस्यासंभवो न दोषाय। यथा-'चन्द्रबिम्बादिव विषम्' इत्यादौ। श्लिष्टसाधारणघर्मा- यामन्यत्रापि सहृदयहृदयाह्लादिन्यां कल्पितोपमानायामुपमायामप्रसिद्धत्वं न दोषः । यथा- 'कविमतिरिव बहुलोहा सुघटितचक्र्ा प्रभातवेलेव। हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ।।' 'सदो मुण्डितमत्तहूणचिवुकप्रस्पर्द्धि नारङ्गकम्' इत्यादौ। एवमन्येऽपि दोषापवादप्रकारा विद्वन्िश्चिन्तनीयाः ॥ इति चित्रमीमांसायामुपमाप्रकरणम् । अथोपमेयोपमा निरूप्यते- उपमानोपमेयत्वं द्योः पर्यायतो यदि। उपमेयोपमा सा स्याद्विविधैषा प्रकीर्तिता ।। यदि द्वयोर्यद्वूर्ण्यते सोपमेयोपमेत्युच्यते तदा तुल्ययोगितायामति- व्याप्ति: । तत्र- १. 'अप्रसिद्धं' क; 'अप्रसिद्धिः' ग.
Page 39
३६ काव्यमाला। 'जनस्य तस्मिन्समये विगाढे बभूवतुद्वौ सविशेषकान्तौ। तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ॥' इति द्वयोर्नृपशशिनोर्युगपदेकधर्मान्वयवर्णनात्। अतः पर्यायेणेत्युक्तम्। तथापि- 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरङ्गमाणाम्। रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय भूयः ॥' इत्यत्रातिव्याप्तिः। तत्र रेणुपङ्कयोः पर्यायेण पङ्करेणुभाववर्णनात्। अत उपमानोपमेयत्वमित्युक्तम्। द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमेयोपमेत्यु- क्तेऽपि-'व्युष्ट प्रमाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा' इत्यु- भयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः। न च तत्रोभयोरपि सादृश्याश्र- यत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रतियोगित्वरूपस्योप- मानत्वस्यातो नातिव्याप्तिरिति वाच्यम् । मुखतः प्रतिपादनाभावेऽपि तयोः परस्परमुपमानत्वस्यार्थात्प्रतीतेः। न ह्युपमानोपमेयत्वं येत्र वाच्यमिति ल- क्षणे विवक्षितम्। व्यङ्गयोपमेयोपमासंग्रहाभावप्रसङ्गात्। अतः पर्यायेणे- त्युक्तम्। एवमपि-'भणितिरिव मतिर्मतिरिव चेष्टा' इत्यादिस्सनोप- मायां मतिचेष्टयोः पर्यायमेदेनोपमानत्वस्योपमेयत्वस्य च सत्त्वेनातिव्याप्ति- परिहारायैकस्मिन्पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम्। द्विविधैषेत्युक्तम् । द्वैविध्यं धर्मस्य साधारण्यवस्तुप्रतिवस्तुभावाभ्याम्। 'सुगन्धि नयनानन्दि मदिरामदपाटलम्। अम्भोजमिव ते वक्रं त्वद्वक्रमिव पङ्कजम् ।।' 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ।।' इति क्रमेणोदाहरणे। अत्रेदं विचार्यते। लक्षणस्य 'त्वद्वल्गुना युगपदुन्मिपितेन तावत्' इति १. 'वियोगवह्निना' क. २. 'तत्र' ख.
Page 40
चित्रमीमांसा। ३७
प्रागुदाहतायां युगपदुपमेयोपमायामव्याप्तिः। न चेयमुफमेयोपमा न भ- वति, किं तूभयविश्रान्तोपमामात्रमिति शङ्कनीयम्। परस्परतुलामित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यवयवार्थस्यावि- शिष्टत्वात्। अर्थादपि सिच्यतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन तृतीयसद्दशव्यवच्छेदरूपफललाभाच्च । किं च 'रजोभिः स्यन्दनोद्भूतैः' इति प्रागुदाहृतायां परस्परोषमायामतिव्याप्तिः। न च तत्राप्युपमेयोपमा । तृतीयसदशव्यवच्छेदाप्रतीतेः । द्विविधैषा प्रकीर्तितेति विभागासामञ्जस्य- प्रसङ्गाच्च। न ह्यत्र धर्मस्य साधारण्यं वस्तुप्रतिवस्तुभावो वास्ति। गग- नस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधारणघर्मः । भूतलस्य गगनेन सा- दश्ये गजानां मेघानां च बिम्बप्रतिबिम्बभाव इत्यत्यन्तविलक्षणत्वात्। अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेंदरूपं फलमपि न सिद्धति। एकध- र्माश्रयेण परस्परसाम्ये वर्ण्यमाने ह्यनयोरस्मिन्विषये तृतीयः सब्रह्मचारी नास्तीति फलति। कस्यचित्केनचित्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्य- मर्थसिद्धमपि सुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थं भवतीति हि त- त्फलकत्वे बीजम्। न चैतद्धर्मसाधारण्य इव धर्मभेदेऽपि लभ्यते। रजोभिर्ग- गनस्य भूतलसादृश्यवर्णनेन भूतलस्य मेघाकारैर्गजैर्गगनसादश्यस्यार्थतः सि- व्ययाभावात्। अपि च- 'पितासमाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन। पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव ।।' इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमायामतिव्याप्तिः । अत्र हि पुत्रः पिता चेत्युभावुपमेयोपमानभूतौ धर्मिंणौ। तयोस्तावेव व्यत्यासेन पितृमत्वं पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपात्तौ। तयोश्च बिम्बप्रतिबिम्ब- रूपसाधारण्यापादको धर्मो मतुबिनिप्रत्ययोपात्तं प्राशस्त्यम्। प्रशंसायां ह्यत्र तौ प्रत्ययौ पित्रा पितृमानिति संबन्धमात्रस्योवक्तव्यत्वात्। एवं च १. 'साधर्मे' क, २. 'अव्यक्तत्वात्' क,
Page 41
३८ काव्यमाला।
पुत्रस्य पितुश्च प्रशस्तपितृमत्वं प्रशस्तपुत्रवत्वं च विम्बप्रतिबिम्बकरम्बितेन वस्तुप्रतिवस्तुभावेन साधारणधर्म इति लभ्यते। तयोश्च पितापुत्रयोः प्रा- शस्त्यप्रतिपादके अधिकवत्सलेन समाराधनतत्परेणेति च विशेषणे। त- तश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्ब- प्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्पष्टम्। न चेयमुपमे- योपमा। पुत्रपित्रोर्धर्मिणोरुपमायां प्रशस्तपितृमत्वं प्रशस्तपुत्रवत्वं च वस्तु- प्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावकरम्बितेन साधारणो धर्मः। पितापुत्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यतिशयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्चयोपमया पुत्रोऽपि पितृभक्त्या प्रशस्तः पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतीयसब्रह्मचारिव्यवच्छेदालाभाच्च। न चात्र इवशब्दद्वयादियुक्तपर्यायद्वयाभावात्पर्यायविशेषणेनैवाति व्याप्तिनि- रासः स्यादिति वाच्यम्। वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्गयकक्षायां पि- तापुत्रयोरिति पर्यायद्वयसत्त्वात्। न हि पर्यायद्वयस्यापि वाच्यत्वमत्र विव-
हि व्यङ्गयोपमेयोपमासाधारण्यं न स्यादित्युक्तम्। न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वाच्यम्- 'नलिन्या इव तन्वङ्गयास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत।।' इत्यादौ बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात्। त- स्मात्तत्रातिव्याप्तिशङ्का दुर्वारा। अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते। अत्र ब्रूम :- अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ अन्योन्येनेति विशेषणान्न रशनोपमायामतिव्याप्तिः। व्यक्या वृत्त्य- १. 'बिम्बप्रतिबिम्बभाव' ख-ग. २. 'साधारण्ये' ख, ग. ३. 'उपपादके' क.
Page 42
चित्रमीमांसा। ३९
न्तरेण वा बोध्येति विशेषणाच्च नोभयविश्रान्तसादृश्योपमायामतिव्याप्तिः । पेरस्परप्रतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोगिकत्वविशिष्टो- पमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्ति बोध्या तद्विषयव्यक्ति निरपेक्षवृत्य- न्तरबोध्या वा भवति सोपमेयोपमेति पर्यवस्यति। ततश्चोभयविश्रान्त- सादृश्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमांशे वृत्त्य- न्तरमिति तयोः करम्बितत्वान्नातिव्याप्तिशङ्का। सामान्यलक्षणसिच्धर्थ च व्यक्तिवृत्त्यन्तरयोरन्यान्यत्वेन क्रोडीकृतयोर्ग्रहणम्। एवं हि 'तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तिबोध्यायामनलंकारभूतायां व्य- क्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारभूतायां चोपमायां लक्षणमनुगतं भव- ति। यद्यपि व्यङ्ग्यायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद्गतश- केरप्यपेक्षितत्वात् 'खमिव जलं जलमिव खम्' इत्यादौ वाच्याया- मपि गम्यसाधारणधर्मायां तस्यां धर्माशे व्यक्तेरपेक्षितत्वात्परस्परनैरपेक्ष्य-
कत्वं व्यक्तेः तद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव। इदमेव च व्यक्तिपदानपेक्षयालंकारूपाया विशेषलक्षणमपि। तत्र व्यक्तिपदपरित्यागे वृत्त्यन्तरमात्रबोध्येत्येतद्विशेषणं पर्यवस्यति । ततश्रोभयविश्रान्तसादृश्योप- माव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्यन्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम् । प्राकरणिकाप्राकरणिकयोः सादृश्यवर्ण- नेऽप्राकरणिकस्यैवोपमानत्वलाभेऽप्युभयोरपि प्राकरणिकत्वे विनिगमनावि- रहेण परस्परोपमानत्वप्रतीतेः । एवं धर्माश्रयविशेषणात् 'रजोभिः स्यन्दनो- त्कीर्णः' इति परस्परोपमायां नातिव्याप्तिः। उक्तविशेषणबलादेव 'पिता समाराधनतत्परेण' इत्युपमायामपि नातिव्याप्तिः । उभयत्राप्युपमेययोभिन्न- धर्माश्रयत्वात् । एकधर्माश्रयेत्यस्य चायमर्थः । कस्यचिदन्येनोपमायां यो धर्मः साधारणो वस्तुप्रतिवस्तुभावापन्नो वा स एवान्यस्य तेनोपमायामपीति। न त्वनुगामिधर्माश्रयेत्यर्थः। बिम्बप्रतिबिम्बगर्भवस्तुप्रतिवस्तुभावनिर्देशे तद- भावादिति दिक्। इदं तूपमेयोपमात्वप्रयोजकं लक्षणम्। अनुगतानतिप्रसक्तलक्षणं तु- १. 'तत्र' क.
Page 43
४0 काव्यमाला।
'सदृशस्य तृतीयस्य व्यवच्छेदाय यन्भवेत्। अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ॥' इति द्रष्टव्यम्। अत्रान्योन्येनेति विशेषणं 'अहमेव गुरु: सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थम्। अथोदाहरणानि। तत्र धर्मस्य साधारण्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।' इयं प्रतीयमानसाधारणधर्मा। वाच्यसाधारणधर्मा यथा-'सुगन्धि नयनानन्दि' इत्यादि। यथा वा- 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मदधारा मदधारेवास्य निर्झरः स्रवति ॥' अत्रोपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽघिकः । वस्तुप्रतिवस्तुभावो यथा-'सच्छायाम्भोजवदना' इत्यादि। इदं वस्तुप्रतिवस्तुभावस्य बिम्बप्रतिबिम्बविशेषणत्वे उदाहरणम्। त- द्विशेष्यत्वे यथा- 'वक्रं पद्ममिवैतस्या नेत्रं भृङ्गमनोहरम् । पद्मं वक्रमिवाभाति मृगलोचनभूषितम् ।।' एतानि पर्यायोपमेयोपमोदाहरणानि। युगपदुपमेयोपमोदाहरणं तु- 'तद्वल्गुना युगपदुन्मिषितेन' इत्यादि। तत्रापि यथासंभवं पूर्वोक्ता भेदा उन्नेयाः ॥ इत्युपमेयोपमाप्रकरणम् । अथानन्वय :- एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः। एवकारबलादेकस्यामेवोपमितिक्रियायामिति गम्यते। तेनोपमेयोप- मायाँ रसनोपमायां च नातिव्याप्तिः। उदाहरणम्-'गगनं गगनाकारं १. 'चित्रमीमांसायां' क.
Page 44
चित्रमीमांसा । ४१
सागर: सागरोपमः'। अयं प्रतीयमानधर्मः । निर्दिष्टधर्मो यथा- 'न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुघलास्यवासास्ते तद्विलासा इव तद्विलासाः ।।' ननु- 'पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ।।' इत्यत्रैकस्यैव रघुपतेरुपमानत्वमुपमेयत्वं च। न च तत्रानन्वयः । स- मुच्चयोपमया तस्य धर्मार्थकामेष्वनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्यतया सदशान्तरव्यवच्छेदे तात्पर्याभावात्। तथा 'त्यक्ष्यामि वैदेहसुतां पुरस्ता- त्समुद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति स्वस्यैवोपमानत्वमुपमेयत्वं च। त- त्रापि नानन्वयः । पितृनियोगात्क्षितित्याग इवापवादात्सीतात्यागे च सद- शान्तरप्रसक्त्यभावेन तव्यवच्छेदस्य फलत्वायोगाच्च। एवम्- 'उपाददे तस्य सहस्ररस्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम्। स तहुकूलादविदूरमौलिर्बभौ पतद्ङ्ग इवोत्तमाङ्गे ।' इत्यादावप्येकस्यैवोपमानोपमेयभावः स्पष्टः । न चैतेषु क्वचिद्धर्मादिषु वृत्तेरवरजेषु वृत्तेश्रोपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्यागस्य चापरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च। न तु क्वचिदप्येकस्यैव ध- र्मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेष्यबाधे विशेषणसं- क्रमौचित्यादिति वाच्यम्। यथा धर्मार्थकामेषु समवृत्ति प्रपेदे तथा- वरजेष्वित्यादिप्रकारेणैकस्यैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादीनामपि हारनिर्झरा- दीनामेवोपमानोपमेयभावः स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रविलोपप्र- सङ्गात् । 'रामरावणयोर्युद्धम्' इत्यादावभेदेप्युपमानोपमेयभावमभ्युपग- च्छतामलंकारिकारिकाणां विशेष्यबाधस्यापरिहरणीयत्वाच्च। तस्मादत्र 'सविशेषणे हि" इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालं- १. 'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामत इति'.
Page 45
४२ काव्यमाला।
कारमीमांसकानाम्। वाक्यमीमांसका ह्यमेदे उपमानोपमेयभावनिर्देश एव नास्तीति मन्यमाना 'रामरावणयोर्युद्धम्' इत्यादावद्यतनस्य पूर्वेद्युस्तनं युद्ध- सुपमानम्। एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति। तस्मादलंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्त- मिति चेत्। अत्र ब्रूम :- 'स्वस्य स्वेनोपमा या स्यादनुगाम्येकधर्मिका। अन्वर्थनामधेयोऽयमनन्वय इतीरितः ।।' स्वस्य स्वेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नातिव्याप्तिः । अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नातिव्याप्तिः। यद्यपि तेष्वपि समां वृत्ति प्रपेदे इत्याद्यंशेऽनुगामिधर्मप्रवेशः । तथाप्येको न भवति। धर्मार्थकामावरजादिबिम्बप्रतिविम्बभावकरम्बितत्वात्। अत ए- वैकग्रहणमप्यर्थवत्। अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम्। किं तु स्वेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवानन्वयो नान्यथेत्यत्रोपपत्तिमात्रप- रम्। धर्म्यैक्ये हि स्वस्य स्वेनोपमा नान्वेतीत्यनन्वय इत्यन्वर्थ नाम भवति। अनन्वय्यर्थनिबन्धनवशाच्चानुपमत्वद्योतनफलपर्यन्तं धावेत्। धर्मभेदेतु एक- धर्मावच्छिन्नेन स्वेनैव धर्मान्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रा न्वर्थ नाम, न वानन्वय्यर्थनिबन्धनाधीनानुपमत्वफललाभः। इदमनन्वयत्व- प्रयोजकं लक्षणम्। लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भाम- होक्तमनुसंधेयम्। 'उभौ यदि व्योम्ि पृथक्प्रवाहौ' इत्यतिशयोक्तिविशे- षेडनुपमत्वद्योतनफलसाम्यकल्पनावत्यतिव्याप्तिनिरासाय तेनव तस्येति वि- शेषणम्। अयमनन्वयो व्यङ्गयोऽप्यस्ति। यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीति- रबहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्तिभङ्गया त्व-
Page 46
चित्रमीमांसा। ४३
दागमनप्रभवप्रीतेः सैव सदृशी न त्वितरप्रभवेति व्यज्यते। एताद्ृशव्या- वृत्त्यर्थमनन्वयालंकारलक्षणेSव्यङ्गयत्वविशेषणं पूर्ववद्रष्टव्यम्। इत्यनन्वयप्रकरणम् ।
अथ स्मरणालंकार :- स्मृतिः सादृश्यमूला या वस्खन्तरसमाश्रया। स्मरणालंकृति: सा स्यादव्यङ्गयखविशेषिता ।। यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः र्फुरदरविन्दचारुहस्ताम्। उद्धीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्सार्षीज्जलनिधिमन्थनस्य शौरिः ॥' एकत्र सदशदर्शनात्तत्सदृशघर्मिका स्मृतिः । इतरत्र सदृशदर्शनात्त- त्सदशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमू- लकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदशासदशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्। 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता घत्ते कुरङ़गं यतः क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि।।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति। किं त्वेषा व्यङ्ग्या, अलंकार्यभूता च। त- द्वयावृत्त्यर्थमव्यङ्गयत्वविशेषणम्।
Page 47
४२ काव्यमाला।
कारमीमांसकानाम्। वाक्यमीमांसका ह्यमेदे उपमानोपमेयमावनिर्देश एवं नास्तीति मन्यमाना 'रामरावणयोर्युद्धम्' इत्यादावद्यतनस्य पूर्वेध्युस्तनं युद्ध मुपमानम्। एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति। तस्मादलंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्त- मिति चेत्। अत्र ब्रूम :- 'स्वस्य स्वेनोपमा या स्यादनुगाम्येकधर्मिका। अन्वर्थनामधेयोऽयमनन्वय इतीरितः ।।' स्वस्य स्वेनेति विशेषणादुपमेयोपमायां रसनोपमायां च नातिव्याप्तिः। अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेपेषु नातिव्याप्िः । यद्यपि तेष्वपि समां वृत्ति प्रपेदे इत्याद्यंशेऽनुगामिधर्मप्रवेशः । तथाप्येको न
वैकग्रहणमप्यर्थवत्। अन्वर्थनामधेय इति तु न लक्षणान्तर्गतम्। किं तु स्वेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवानन्वयो नान्यथेत्यत्रोपपत्तिमात्रप रम्। धर्म्यैक्ये हि स्वस्य सवेनोपमा नान्वेर्तीत्यनन्वय इत्यन्वर्थ नाम भवति। अनन्वय्यर्थनिबन्धनवशाच्चानुपमत्वद्योतनफलपर्यन्त धावेत्। धर्मभेदे तु एक- धर्मावच्छिन्नेन स्वेनैव धर्मान्तरावच्छिन्नम्य सवस्योपमान्वेतीति न तत्रा न्वर्थ नाम, न वानन्वय्यर्थनिबन्धनाधीनानुपमत्वफललाभः । इदमनन्वयत्व- प्रयोजकं लक्षणम्। लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भाम- होक्तमनुसंघेयम्। 'उभौ यदि व्योमनि पृथक्प्रवाही' इत्यतिशयोक्तिविशे- षेनुपमत्वद्योतनफलसाम्यकल्पनावत्यतिव्याप्तिनिरामाय तेनैव तस्येति वि- शेषणम्। अयमनन्वयो व्यङ्गयोऽप्यस्ति। यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीति- र्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्तिमङ्गया त्व-
Page 48
चित्रमीमांसा। ४३
दागमनप्रभवप्रीते: सैव सदृशी न त्वितरप्रभवेति व्यज्यते। एताद्ृशव्या-
इत्यनन्वयप्रकरणम् ।
अथ स्मरणालंकार :- स्मृतिः सादृश्यमूला या वस्खन्तरसमाश्रया। स्मरणालंकृति: सा स्यादव्यङ्गयत्नविशेषिता ॥ यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्दीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीज्जलनिधिमन्थनस्य शौरि: ।l' एकत्र सदशदर्शनात्तत्सदशधर्मिका स्मृतिः । इतरत्र सदशदर्शनात्त- त्सदशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयन्रापि सादृश्यमू- लकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदशासदशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्। 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ़गं यतः क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्चेति। किं त्वेषा व्यङ्गया, अलंकार्यभूता च। त- द्वयावृत्त्यर्थमव्यङ्गयत्वविशेषणम्।
Page 49
४४ काव्यमाला।
'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्रान्तासि तुम्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि याकट्ठुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।' स्तूयमानभूसंबन्धिनो भूभृद्भुजस्य स्मृतिर्न सादृश्यमूलेति नात्र सर- णालंकारः । किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयो- डलंकारः । 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्जयोतिर्मयान्सप्त सस्मार स्मरशासनः ।' अत्र चिन्तामूला स्मृतिः। विच्छित्तिविशेषाभावान्न कश्चिदलंकारः। ए- तदुभयव्यावृत्त्यर्थ सादृश्यमूलति विशेषणम्। एवमेते भेदाभेदसाधारण- साधर्म्यमूला अलंकारा: प्रदर्शिताः ॥ इति स्मरणालंकारप्रकरणम्। अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते- आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ अत्रारोपविषयस्येत्यनेनोत्प्रेक्षा तिशयोक्त्योर्व्यावृत्तिः । तत्र मुखादेरारो- पविषयत्वाभावात्। अतिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमदपह्ठुतीनां व्यावृत्तिः । तेषु संदेहभ्रान्त्यपह्नवैर्विषयस्य तिरोधानात् । उपरञ्जकमि- त्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोर्हि नोपरञ्जकत्वं विषयेष्वताद्रू- प्यापादकत्वलक्षणम्। समासोक्तौ व्यवहारमात्रसमारोपेण ताद्रूप्यप्रतीतेरे- वाभावात्। परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यापत्त्या विषयस्यारो- प्यमाणताद्रूप्यापत्त्यभावादित्याहुः ॥ अत्रेदं विचार्यते। आरोपाध्यवसाययोः कीदृशं भेदमभिसंधायारोप- विषय स्येत्यनेनोतेक्षाव्यावृत्तिरुच्यते। यदि विषयविषयिणोरभिहितयोरभे- दप्रतिपत्तिरारोपः । विषयनिगरणेन विषयिणस्तदभेद प्रतिपत्तिरध्यवसाय
Page 50
चित्रमीमांसा। ४५
इति भेदमभिसंधाय, तदोत्प्रेक्षारोपमूलैव स्यात्। तत्र 'नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिघानेन तन्निगरणाभावात् । ततश्र तत्रातिव्या- प्तिरनिवारितैव स्यात्। ताद्रूप्यप्रतिपत्तिरारोपस्तदभेदप्रतिपत्तिरध्यवसाय इति तयोर्भेंदः। 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्रूपं चन्द्रत्वं तेन रूपवत्तामात्रं मुखस्य प्रतीयते। न तु प्रसिद्धचन्द्राभेदः । 'मुखविषयायां चन्द्रः' इत्याद्यतिशयोक्तौ तु तदभेद एव प्रतीयते इति चेत्। न। वैपरी- त्यस्यापि वक्तुं शक्यत्वात्। न च वाच्यम्। 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते। निर्जरैः पीयमानोऽपि यः कदाचिन्न हीयते ।' इति मुखचन्द्रस्य प्रसिद्धचन्द्राव्यतिरेकवर्णनं तदभेदप्रतिपत्तौ न संभव- तीति रूपके ताद्रूप्यप्रतिपत्तिरेवेति। तथा सति हि
किरक््योत्स्नामच्छां लवलिफलपाकप्रणयिनीम्। उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ।।' 'अपरः पाकशासनः' इत्याद्यतिशयोक्तौ 'अपर इव पाकशासनः' इत्या- द्युत्प्रेक्षायां च रूपकवदेव प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेन ताद्रूप्यप्रति- पत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् । अथ तत्र प्रसिद्ध चन्द्राद्यभेद प्रतिपत्त्यभावेSप्युपात्तकल्पितापरचन्द्राद्यभेदप्रतिपत्तिः सं- भवतीति चेत्। रूपकेऽप्येवं वक्तुं शक्यमित्यसंभव एव लक्षणस्य स्यात्। किं चातिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमतोरतिव्याप्तिवारणेऽपि ना- पह्नवेऽतिव्याप्तिवारणम्। 'नेदं मुखं किं तु चन्द्रः' इत्यत्र मुखे मुखत्वा- भावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोधायकत्वाभावात्। आ- हार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षणस्यासंभवः स्यात्। उत्प्रे- क्षाया अप्याहार्यसंभावनारूपाया अतिरोहितरूपिण इत्यनेनैव व्यावृत्तिसि- द्धावारोपविषयस्येति विशेषणस्य वैयर्थ्य च स्यात् । अतिशयोक्तौ विष- यस्य निगीर्णस्य तिरोहितत्वेन तस्मा अप्यनेनैव व्यावृत्तिः । अपि च ।
Page 51
४ ६ काव्यमाला।
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: ॥l' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थता- द्रूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम्। तथा- प्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्ड्रीकरणमिति नि- दर्शनायामतिव्याप्तिः । 'अङ्गिदण्डो हरेरुर्ध्वमुत्क्षिप्तो बलिनिग्रहे। विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥' इति रूपकेऽव्याप्तिश्र। यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात्। उपमेये भवेद्वत्तिस्तदा तद्रूपकं विदुः ॥' इति। तदप्यतिशयोक्तावतिव्याप्तम् । 'मुखं चन्द्रः' इति रूपके चन्द्रशब्दस्य मुखे गौणसारोप्यलक्षणा। चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्षणेत्यालं- कारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रूपके इति शक्यं व्यवस्थापयितुम्। तथा हि। अतिशयोक्तौ विषयाभिधायिमुखादि- पदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्य- मास्थेया। रूपके विषयविषयिणोः स्वस्ववाचकाभिहितयोरभेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थ तत्र लक्षणा। अशक्या च तत्र लक्ष- णाभ्युपगन्तुम्। कथम्। मुखं चन्द्र इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्वं केन निमिर्तेन प्रवर्त्तेत। मुखत्वेन वा, मुखासाधारणकान्तिविशेषेण वा, च- न्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषेण वा, मुखचन्द्रोभयानुगतकान्तिसा- मान्येन वा, सुखगतचन्द्रसादृश्येन वा। नादः। सुखपदेन पौनरुक्त्यापत्तेः। मुखत्वस्य शक्यासंबन्धित्वेन तेन निमित्तेन लक्षणायोगाच। अत एव न द्वितीयः । न तृतीयचतुर्थौ। मुखावृत्तिघर्मयोस्तत्र प्रवृत्तिनिमित्तत्वायो- गात्। न पञ्चमः । कान्तिमान्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्या- पत्तेः। नापि षष्ठः । सादृश्यस्य शब्दप्रतिपाद्यत्वेनाव्यङ्गयत्वेन रूपकस्यो- १. 'मुखगतासाधारण' ख-ग.
Page 52
चित्रमीमांसा। ४७
पमापृथग्भावानुपपत्तेः। अभेदप्रधानं रूपकमिति सिद्धान्तविरोघाच्। त- स्मादरूपके स्वसपदाभिहितयोर्विषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति लक्षणस्यासंभवोपि दोषः । यदा तु 'वक्रेन्दौ तव सत्ययं य- दपरः शीतांशुरुज्जुम्भते'। 'द्वौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्यादौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न संभवतीति कथचिदिन्द्वादि- पदस्य विषये लक्षणा कल्प्यते। तथापि कान्तिमान्मुखचन्द्र इत्यादौ का- ठकाध्यापकादिवत्संसर्गमर्यादयैवाभेद प्रतिपत्तिसंभवेनातिक्विष्टलक्षणाश्रयणा- योगात्तत्राव्याप्तिर्वज्लेपायते। अपि च । 'सेतुः शैलैस्त्वया बद्ध: पूर्व जेतुं दशाननम् । कं जेतुमद्य बध्नासि यशश्चन्द्रोपलैः प्रभो ।।' 'चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम्। तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ।।' इत्यादौ व्यङ्गचरूपके चाव्याप्तिः । अत्र ह्यादे वर्ण्य प्रभुं प्रति रावण- वधाय त्वया सेतुर्बद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपकं व्यज्यते। न च तत्र विषये गौणं रामपदमस्ति। द्वितीये त्वामवलोकयता मम नेत्रेण चिरकाङ्कितं कल्पवृक्षावलोकनं लब्घमिति प्रतीयमानेन विशे- घालंकारेण त्वमेव कल्पवृक्ष इति रूपकं व्यज्यते। तत्र कल्पवृक्षपदं प्रसि- द्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम् । 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।।' इति शुद्धसारोपलक्षणामूलकरूपके चाव्याप्तिः। तत्र ह्यानन्दहेतुत्वा- दानन्दृत्वरूपणं न त्वौपम्यात्। यत्त्वायुर्घृतमित्यादौ विच्छित्तिविशेषाद- र्शनाच्छुद्धसारोपलक्षणास्थले न कश्चिदलंकार इति। तदयुक्त्तम्। गौर्वा- हीक इत्यादौ विच्छित्तिविशेषादर्शनेन, गौणसारोपलक्षणास्थलेऽप्यलंकार- त्वाभावप्रसङ्गात्। क्वचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवति स्थलेडलंकार- त्वमिहापि वक्तुं युक्तम्। 'नेत्रानन्देन चन्द्रेण'।
Page 53
४८ काव्यमाला।
'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान् विश्वासो, नयनोत्सनो मृगदशां, कीर्तेः प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां, वीरश्रियो जीवितं धर्मस्यैष निकेतनं, विजयते वीरः कलिङ्गेश्वरः ॥' इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्यदर्शनात्। यदि तु हेतुमता सह हेतोरभिधानमभेदतो हेतुरितिमन्ताराश्रयेण तत्र हेत्वलंकारो न रूप- कमित्यभ्युपगम्येत। तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाहृतलक्षणस्य तत्राव्याप्तिः। एवम्-'उपमैव तिरोभूतभेदा रूपकमुच्यते।' 'तद्रपकम- भेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्यात्यादिदोषा यथासंभ- वमुन्नेयाः । अत्र वदाम :- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपकं तदा ।।' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरत्नानाम्' इति निदर्श- नायां नातिव्याप्तिः । तत्र हि चन्द्रो यथा स्वतः शुभ्रत्वादनासञ्जनीयघा- वल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनीयारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जक- त्वेन। ततश्च तत्र विम्बभावान्ननखालक्तकविशिष्टे एव रञ्जने तत्रतिबि- म्बभूतचन्द्रचन्दनविशिष्टपाण्डुरीकरणमुपरञ्जकम्। एवमन्यत्रापि 'अर- ण्यरुदितं कृतम्' इत्यादिताद्रूप्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्बभावा- पन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्बविशिष्टमुपमानमुपरञ्जकमिति न क्वाप्यतिव्याप्तिः। रूपके तु न क्वचिदृपि बिम्बप्रतिबिम्बभावापन्नधर्मवि- शिष्टतया विषयविषयिणोरुपादानम्। सावयवरूपकेऽपि विशेष्यरूपणात्वृ- थगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये। 'अङ्गिदण्डो हरे- रूर्ध्वम्' इत्यत्राप्यङ्गिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्बविशिष्टता। तयोः
पमेयभावात्। किं तु विधातृविष्टरकमल्िष्टत्वरूपसाधारणधर्मवत्तासंपा- दनार्थ विशेषणविशिष्टतामात्रमुपमेयस्य।
Page 54
चित्रमीमांसा। ४९
निर्दिष्ट इति विशेषणान्न निगीर्णविषयायामतिशयोत्तयामतिव्याप्तिः । व्यङ्गयरूपकोदाहरणेषु विषयिवाचकाप्रयोगसंभवेऽपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः । 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मते विषय इत्यनेनोपमेय इत्येतदर्थकेन तद्यावृत्तिः। तत्रापि रूपकमित्येकावली- कारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम्। अनिहुते निषेधास्पृष्ट इति विशेषणादपहुतौ नातिव्यापिः। उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोतपेक्षासमा- सोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोर्निश्चयस्यैवा- भावात्। समासोक्तौ परिणामे च तस्य ताद्रूप्यागोचरत्वात्। समासोक्तौ व्यवहारमात्रसमारोपांत्। परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यगोचर- त्वात्। आ्रन्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वारसिकस्यैव निबन्धने तस्यानाहार्यत्वात्। अव्यङ्गयविशेषणाच्चैतदेवालंकारभूतस्य रूपकस्य लक्षणमिति सर्वे सु- स्थम्। तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितंच। निरवयवं केवलं माला चेति द्विविधम्। सावयवं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम्। परम्परितं ग्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्केवलं माला चेति द्वैविध्याच्चतुर्विधम्। एवमष्टविधो रूपकालंकारः । तत्र केवलं निर- वयवं यथा- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- त्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्। अनिद्रं यच्चान्तः सपिति तदहो वेदयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' मालानिरवयवं यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः कान्तेः कार्मणकर्म नर्मवचसामुल्ासनावासभूः।
१. 'नर्मरहसां' क-ख-ग. ७
Page 55
१० काव्यमाला।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' समस्तवस्तुविषयं सावयवं यथा- 'ज्योत्स्नाभस्मच्छुरणघवला बिभ्रती तारकास्थी- नन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्ीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।।' एकदेशविवर्ति सावयवं यथा- 'प्रौढमौक्तिकरुच: पयोमुचां बिन्दवः कुटजपुष्पबन्धवः। विद्युतां नभसि नाट्यमण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियम् ।।' अत्र नभसो नाट्यमण्डपत्वेन रूपणाद्विद्युतामर्थान्नर्तकीत्वं गम्यते। इ- त्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवर्ति। श्लिष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'अलौकिकमहालोक प्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ।।' अत्र त्वमेव मुक्तारत्नमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकद्वयमपि संभूतपरम्परमिति परम्परितम्। वंशे क्लिष्टशब्दनिबन्धनं च। तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्द्युते दुर्गामार्गणनीललोहित समित्सीकारवैश्वानर। सत्यप्रीतिनिधानदक्ष विजयप्राग्भाव भीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्चमुच्चैः क्रियाः ॥' अश्िलिष्टश्दनिबन्धनं केवलं परम्परितं यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपश्चम्। प्रथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः ॥'
१. 'बाणा: पश्चशिलीमुखस्य' ग.
Page 56
चित्रमीमांसा। ५१
तदेव मालापरम्परितं यथा- 'पर्यक्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः संग्रामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः। भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः खङ्गक्ष्मासौविदल्ः समिति विजयते मालवाखण्डलस्य ।।' इदं वैधर्म्येणापि दृश्यते। तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजुम्भितस्य। शस्त्रक्षताश्व्द्विपवीरजन्मा बालारुणोडभूद्रुधिरप्रवाहः ।' मालारूपकं यथा- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सुरलतायोगश्वपुच्छच्छटा। यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।' एवमष्टौ मेदा रूपकालंकारस्य प्राचीनैः प्रदर्शिताः । एवं भेदा उप- माया अपि वक्तुं शक्याः। एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेऽन्यत्राप्यु- न्नेतुं शक्या इति न प्रदर्शिताः । तथा हि। 'वागर्थाविव संपृक्तौ' इत्यादौ केवलनिरवयवोपमा। 'ज्योत्सनेव नयनानन्दः' इत्यादौ मालानिरवयवोपमा। 'ततः प्रतस्थे कौबेरीं भासवानिव रघुर्दिशम्। शरैरुस्त्रैरिवोदी च्यानुद्धरिष्यत्रसानिव ।।' इत्यत्र समस्तवस्तुविषयसावयवोपमा । 'नेत्रैरिवोत्पलैः पझ्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥' इत्यत्रैकदेशविवर्तिनी। 'अत्यन्तरागिणमपि निपीतवसुसंचयम्। गणिकेवापरदिशा पूषाणं निरकासयत् ।।' इत्यत्राप्येकदेशविवर्तिनी। पूर्वत्र विशेषणोपमायां विशेष्योपमा गम्यते, उत्तरत्र विशेष्योपमया विशेषणोपमेति भेद: ।
Page 57
१२ काव्यमाला।
'दूरादयश्चकनिभस्य तन्वी तमालतालीवनराजिनीला। आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ।।' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा। अत्र ह्यम्बुराशेरयश्चक्रे- णोपमा। तद्धारा्लिष्टकलक्करेखया वेलाया उपमा चेति द्यमपि संजातपर- म्परम्। यथा वा- 'अस्त्रज्वालावलीढ प्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्। कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ।' अत्र द्रोणस्यौर्वेणोपमा प्रतिबलजलघेरित्यत्रोपमायाः साधिकेत्युपमाद्वय- मपि संजातपरम्परम्। एवं 'राजहंसायते राजा विदुषामेष मानसे' इत्यत्र श्िलिष्टशब्दनिबन्धनकेवलपरम्परितोपमा। उभयत्रापि मालापरम्परितमनयैव रीत्योन्नेयम्। 'रेणुध्वान्तस्य रक्तौघो बालघर्मकरायते' इति वैधर्म्येण रूप- कवदुपमेति सर्वै समानम्। अयं तु विशेषः । समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति।
वावतरणात्। सावयवोपमा तु विशिष्टोपमां गमयति। 'ततः प्रतस्थे कौ- बेरीं भास्वानिव' इत्यत्र शैरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघोर्वि- शिष्टस्य किरणै रसाञ्शोषयितुमुत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात्। एवं च क्वचिदुपमयान्यत्रोपमाया गभ्यत्वं चतुर्धा पर्यवस्यति । क्वचिद्विशेषणोपमया विशेष्योपमायाः । 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्र पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठविधेः। क्कचिद्विशेष्योपमया विशेषणोपमायाः। वैकृतप्रधानविधिनेव प्राकृततदङ्ग- कलापविधेः। उभयमप्येकदेशविवर्तित्वेनोदाहृतम्। क्वचिदवयवोपमया विशिष्टोपमाया गम्यत्वम्। अङ्गप्रधानगोचरप्रत्येकविधिकलापेनेव सर्वा. ङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविषयोपमोदाहरणे
Page 58
चित्रमीमासा। ५३
दर्शितम्। एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदा- हरणम्। वाक्यभेदेनापि दृश्यते- 'हस्त इव भूतिमलिनो यथा यथा लङ्गयति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ।' अत्रावयवोपमा। यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षयन्तु- त्तरोत्तरं निर्मलीकुरुते। तथा खलः सुजनमधिकं घर्षयन्नुत्तरोत्तरं निर्मल- मेव कुरुते इति विशिष्टोपमा गम्यते । क्वचिद्विशिष्टोपमया तदवयवो- पमानां गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम्। यथा- 'त्वदाननमधीराक्षमाविर्दशनदीघिति। भ्रमद्वृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां केसर- नखदीधितीनां पङ्कजाननयोश्चोपमानोपमेयभावो ग्यते। एवमसंख्या उ- पमाविकल्पाः । तथा- 'किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति। नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥।' इत्येवमाद्या रसनारूपकाद्या रूपकविकल्पा अप्यसंख्याः । उक्त हि काव्यालोके- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिञ्भात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ।।' इति। इति रूपकप्रकरणम् ।
अथ परिणाम: 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणमुक्तम्। तत्र शङ्कयते। 'यामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाथ । जन्मजरामरणार्णवतरणतरण्यं तवाङ्गियुगम् ।।'
१. 'जगन्नाथम्' ख-ग.
Page 59
१४ काव्यमाला।
'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह कि नु वान्तश्चन्द्रोऽयमित्यार्ततरं रेरासे ॥' 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि। संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ।' इति श्रोकेष्वारोप्यमाणानां तरण्यनयनप्रसूनानां तरणनिरीक्षणावतंस- नरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपक- मङ्गीकृतम् । 'आत्मानं रथिनं विद्धिं शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥' इत्यादि श्रुतावारोप्यमाणानां रथिरथादीनां 'सोऽध्वनः पारमान्नोति त- द्विष्णोः परमँ पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोगे सत्यपि भगवता बादरायणेन 'नानुमानिकमप्येकेषामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकमङ्गीकृतम्। अ- तस्तेषु लक्षणस्यातिव्याप्तिः । एवम्- 'भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुच्चावचैरुपगतेषु सहस्रसंख्याम्। दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दघते नलिन्यः ।।' इति भ्रान्तिमति, 'विकसदमरनारीनेत्र नीला ्षण्डा - न्यधिवसति सदा यः संयमाधःकृतानि। न तु रुचिरकलापे वर्तते यो मयूरे
इत्यपह्दुतौ, वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥'
'उरोभुवा कुम्भयुगेन जुम्भितं नवोपहारेण वयःकृतेन किम् । त्रपासरिहुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।' १. 'ररास' क-ग. २. 'संप्रत्यहं पश्य तडिद्वधनाम्' ख; 'संप्रत्यहं यस्य तडिद्वधूनामू' ग; संप्रत्यहं 'यस्य हरिद्वधूनाम्' घ. १. 'खण्डानि' क-घ.
Page 60
चित्रमीमांसा।
इत्यतिशयोक्तौ,
श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ।।' इत्यनुमाने चातिव्याप्तिः । भ्रान्तिमत्यहिमांशोर्विकासे, अपह्रुतावमर- नारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्तौ कुम्भयुगस्य सरित्तरणे, अनु- माने माधवस्य चक्रे भ्रमणे च प्रकृतकार्योपयोगित्वात्। अपहुतौ तं यथा यथोपासते तथैव भवतीति तत्क्रतुन्यायेन संयमाधःकृतामरनारीनेत्राधिष्ठा- नस्य ब्रह्मचर्यवितरणोपयोगित्वम्। 'सुहदालापेनैव प्रणश्यति स्थासतुरान्तरः क्रेशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्ताप: ॥' इति दृष्टान्तसंकीर्णपरिणामे चाव्याप्तिः । अन्रारोप्यमाणस्योपमानकोट्य- न्तर्गताप्रकृतकार्योपयोगित्वादिति। अश्राहुः। आरोष्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति ल- क्षणार्थः। न चैवं सत्युदाहृतरूपकादिष्वतिव्याप्तिः। तेष्वारोप्यमाणानां तरण्यनयनप्रसूनसूर्यादीनां स्वात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसंभवेन तदर्थमङ्गियुगविद्युद्यशश्चन्द्रादिप्रकृतात्मतापत्त्यन- पेक्षणात् न चोक्तलक्षणस्य परिणामेऽसंभवः। यत्रारोप्यमाणं किंचित्का- र्योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्मता- पत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात्। यथा 'प्रसन्नेन दगजेन वीक्षते मदिरेक्षणा' इति। अत्र त्वञ्स्य वीक्षणोपयोगित्वं निब- ध्यते। मयूरव्यंसकादिसमासेनोत्तरपदार्थप्राधान्यात् । न चोपमितिस- मासाश्रयणेन पूर्वपदार्थप्राधान्याद्दृश एव तदुपयोगित्वं निबध्यत इत्य- स्त्विति वाच्यम्। प्रसन्नेनेति सामान्यधर्मप्रयोगात्। 'उपमितं व्याघा- दिभि: सह सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात्। अञ्स्य च वीक्षणोपयोगित्वं न स्वात्मना संभवति। अतः प्रकृतदगात्म- १. 'चक्रभ्रमणे प्रकृतकार्योपयोगित्वात्' ख-ग-घ. २. 'प्रकृतात्मतापरिणत्यनपे- क्षणातू' ख.
Page 61
५६ काव्यमाला।
तापत्त्यपेक्षणात्परिमाणालंकारः। नन्वेवं 'यामि मनोवाक्कायैः' इत्यादिष्वपि तरणादिशब्दलक्षितजन्मनाशाद्युपयोगित्वं तरण्यादीनामङ्गियुगाद्यात्मनैवेति तेष्वपि परिणामप्रसङ्गः । मैवम्। यस्य कार्यवाचिपदप्रथमप्रतीततन्मुख्या- र्थनिवर्तनसामर्थ्य तदात्मनोपयोगित्वस्य ग्राह्यत्वात्। तरण्यादिपदमुख्यार्थ- निवर्तनसामर्थ्यस्य च तरण्यादिष्वेव व्यवस्थितत्वात्। तस्मादुदाहृतेषु रूप- कमेव। तेषु च नातिव्याप्तिरिति। नन्वेवमुक्तातिव्याप्तिपरिहारेऽपि- 'सोडपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिकि भूयसोक्तेन वा। सर्वै विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरोऽपि सेव्यत इति भ्रातः क एष ग्रहः ॥' इत्यप्रस्तुतप्रशंसायामतिव्याप्तिः। तत्राप्रकृतवारणरसनाविपर्ययादीनां प्रकृतदुष्प्रभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगित्वात्। न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतुः, यथा तस्य त रसनाविपर्ययः शून्यकरता च तत्र हेतुः। मदः प्रत्युत तत्सेवायामेव हेतु- रिति तस्य तत्यागहेतुत्वं दूरापास्तम् । एवमपि यत्तेषां त्यागहेतुत्वं नि- बध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादात्म्यापत्त्यैव निर्वाह्य- मिति। 'सुहृदालापेनैव' इत्यत्रोदाहृतपैरिणामेऽव्याप्तिश्र तदवस्था। तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभावात्। उच्यते। प्र- कृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदाहृतपरिणामाव्याप्तिः। उपयोगित्वं च प्रकृतागमकार्ये प्रति विवक्षितम्। अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुष्प्रभुसेवात्यागगमकवारणसेवात्यागं प्रत्युपयोगित्वमिति न तत्रा- तिव्याप्तिः । एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम्। प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ॥।'
१. 'यत्कार्यवाचिपदं प्रथमं प्रतीतं तन्मुख्यार्थनिवर्तनसामर्थ्यरूपस्य' ग; 'का- यवाचिपद प्रथम प्रतीततन्मुख्यार्थ' घ. २. 'निषेव्यत इति' ख. ३. 'परिणामाव्यापतिश्च' ख.
Page 62
चित्रमीमांसा। ५७
इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्यानेन परिष्करणीयम्॥ अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम् । सामानाधिकरण्येन यथा- 'तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय। व्यामग्राह्यस्तनीभि: शबरयुवतिभिः कौतुकोदश्चदक्षं कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।।' अत्रारोप्यमाण आतरो विषयभूतसौमित्रिमैत्रीरूपतापत्त्या गुहोपकारल- क्षणकार्योपयोगीति परिणामः । उभयोविभक्त्यैक्यात्सामानाधिकरण्यम्। वैयधिकरण्येन यथा- 'पुन्नागजालकैर्हारान्काश्चीः केयूरदामभिः । कर्णिका: कर्णिकारैश्च विहर्तु विदधुर्वने ।।' अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वनक्री- डोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम्। इदं च वैयधिकरण्यं रूपकेऽपि संभवति। यथा- 'तारानायकशेखराय जगदाघाराय धाराघर- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे। नद्या शेखरिणे दशा तिलकिने नारायणेनास्त्रिणे नागैः कक्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।।' अत्र नदीदृशोर्विषययोविभक्तिरारोप्यमाणयोः शेखरतिलकयोर्नास्ति । यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुत्तयं विकल्प- श्विन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः ।
१ 'आरोपविषय' ख. 6
Page 63
६८ काव्यमाला।
द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः॥।' अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीनां च विभक्तिमेदः। अथ परिणामस्य व्यङ्गयतायां किमुदाहरणम्। 'नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजम्भते ॥।' इति विद्याधरेणोदाहृतम्। अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रा- रोप्यमाणस्य नृपस्याक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तद्युक्तम्। अत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्र्कमणोपयोगो न चन्द्रात्मना। विद्याधरेणापि विषयिणः स्वरूपेण कार्यानुपयोगे तदुपयो- गाय विषयिणे विषयात्मना परिणत्यपेक्षायामेव परिणामोऽङ्गीकृतः । यदाह- 'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया। परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ॥' विद्यानाथेन तूदाहृतम्- 'एष शाम्यति वस्तापो राजपादनिषेवया। कण्टकद्रुममूलेषु वासस्तं शमयेत्कथम् ।।' इति। नास्त्यत्र प्रागुक्तदोषानुषङ्गः। नृपचरणसेवायां प्रस्तुतायामारोप्यमा- णायाः चन्द्रचरणसेवायाः नृपचरणसेवात्मतयैव तापशान्तिहेतुत्वात्। तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव वि- वक्षितत्वात् । तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यात्। तथापि प्राचीनानां मत एवैतदुदाहरणम्। ते हि 'राजपादनिषेवया' इत्यस्य प्र- करणनियन्त्रितत्वादप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यञ्जना- व्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभि: श्लेषप्रकरणे व्यवस्थापयिष्यमाणत्वात्, इहापि 'राजपादनिषे- १. 'केलिकालस्य' ग. २. 'श्रीनृसिंहः' ख-ग. ३. 'विषयिणे' इति ग-पुस्तके नास्ति.
Page 64
चित्रमीमांसा। ५९
वया' इत्यत्र चन्द्रकिरणसेवायामप्यभिधैव व्यापारः । अतः प्रस्तुताप्र- स्तुतद्वयताद्रप्यप्रतीतेः श्लेषभित्तिकातिशयोत्तयादिष्विव संसर्गविधयैव ला- भात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच्च न क्वापि व्यञ्जनाव्या- पारापेक्षेति नेदं परिणामध्वनेरुदाहरणम्। इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम्। इदं तूदाहरणम्- 'चिराद्विषहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतलः शौरेः पादाजनखचन्द्रमाः ॥' अत्र चिरतापातै प्रति हरिपादाञ्जनखचन्द्रसद्भावप्रदर्शनेन तमेव निषे- वस्व, तन्निषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते । एवं रू- पकवैलक्षण्येन परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरूपापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्त- दुपजीव्यचक्रवर्तिनान्यथैव तयोर्वैलक्षण्यं वर्णितम् । मुखचन्द्र इति रूपके मुखं महारजतरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगितस्वरूपं भवति । 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखमनाच्छादितस्वरूपमेव भवति। चन्द्रस्य सुखात्मनैव विरहतापशान्तिहेतुत्वादिति। उक्तं च- 'विषय्याकारमारोप्य विषयस्थगनं यथा। रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भवेत्। उपयुक्त्यै तदाकारः परिणामस्तदा मतः ॥' इति । अत्रेदं विचारणीयम्। रूपके विषयस्य स्थगनं न तावत्तिरोहितरूप- त्वम्। रजतभ्रमेण शुक्तिस्वरूपस्येवाहार्यारोपेण विषयस्य तिरोधानासं- भवात्। शारीरके च 'य एवासौ तपति तमुद्गीथमुपांसीत' इत्यत्रोद्गीथ- स्यादित्यदृष्टिविषयत्वाङ्गीकारे रजतदृष्टिविषयशुक्तिस्वरूपमिवोद्गीथक्रिया- स्वरूपं तिरोधीयेतेत्याशङ्कयाहार्यदष्टेरतिरोधायकत्वस्योक्तत्वात्। नापि विषय्युपसर्जनत्वम्। परिणामेऽपि तुल्यत्वात्। उभयत्राप्युत्तरपदार्थप्रधा- नस्य मयूरव्यंसकादिसमासस्याविशेषात् । अत एव विषयिविशेषितत्वं स्थ-
Page 65
६० काव्यमाला।
गनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात्। तस्मात्स्थगनास्थगनवै- लक्षण्यवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूपकाद्वै- लक्षण्यं समर्थनीयमित्यलं विस्तरेण ।। इति परिणामप्रकरणम्।
अथ ससंदेह :- साम्यादप्रकृतार्थस्य या धीरनवधारणा। प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इष्यते ॥ त्रिविधश्चायं ससंदेहः। शुद्धो निश्चयगर्भो निश्चयान्तश्च।क्रमेण यथा- 'आनीय द्विषतां धनानि विपिने राजन्यचूडामणे तेष्वालोक्य विनिर्मलं हिमकलाखण्डं करण्डं पुनः । किं वादयं किमु पेषणं किमु धनं किं क्षेपणीयायुधं किं वा दैवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ॥' 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम्। कृतान्तः किं साक्षान्महिषवहनोSसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' 'किं तावत्सरसि सरोजमेतदारा- दाहोस्विन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकैर्बकसहवासिनां परोक्षैः ॥।' इति वदन्ति। अत्रेदं विचारणीयम् । साम्यादिति किमन्नाद्धेतोर्वसती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत स्वतो हेतुत्वविवक्षया। आ- द्येऽप्रकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात्। तथा सति 'आनीय द्वि- षताम्' इत्याद्युदाहरणेऽव्याप्तिः। न हि तत्र हिमकरण्डस्य वाह्यादिसाद- श्याभिव्यक्तौ कविसंरम्भः । किं तु द्विषत्पुरमीदृशीमवस्थामापन्नमिति १. 'संदेहः' क-ग-घ. २. 'हिमजलाखण्डं' ग.
Page 66
चित्रमीमांसा। ६१
राज्ञ: प्रतापातिशयाभिव्यक्तौ। द्वितीये साम्यादित्यनेन किमेकमेवाप्रकृत- साम्यं यावत्संदेहकोद्युच्छित्तिहेतुत्वेन विवक्षितम्, उतैकमनेकं वेत्यनि- यमः । आद्ये 'अयं मार्तण्डः किम्' इत्यादुदाहरणेऽव्याप्तिः । न हि तत्र 'किं लक्ष्मीरूर्वशी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादिविक- ल्पेष्वतिशयितसौन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वादिविकल्पेषु हेतुः, ... किं तु प्रतापेन दुर्निरीक्षत्वसाम्यं मार्तण्डत्वविकल्पे, दुराघर्षत्वसाम्यं कृ- शानुत्वविकल्पे, क्षणेन सकलसंहर्तृत्वसाम्यं कृतान्तविकल्पे च हेतुः । द्वि- तीये 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा' इति वि- कल्पालंकारेऽतिव्याप्तिः । अत्र दिग्विजयप्रवृत्तेन बलवता राज्ञा समरे प्रसक्ते यथा कलिङ्गनृ- पतिः- 'समक्रान्तो बलवता काङन्नभ्रंशिनीं श्रियम् । श्रयेत वैतसीं वृत्तीं न भौजङ्गीं कदाचन ।I' इति नीतिमनुसृत्यासंदिग्धं निजराज्यलक्ष्मीभ्रंशपेरिहारकामः शिरो न- मितवान्, तथा वा शिरो नमय, यथा करहाटनृपतिः 'जयेन लभ्यते ल- क्ष्मीर्मरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान् तथा वा धनुर्नमयेति समयोचिताप्तोपदेशे तद्राजचरितदृष्टान्तप्रापितानवस्थिता- र्थधीसत्वात्। न च तत्र श्रोके तादग्धीनिबन्धनं नास्तीति नातिव्याप्ति- रिति वाच्यम्। तन्निबन्धनस्यापि लक्षणान्तर्गतविवक्षायाम्- 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ।।' इत्यादिषु संदेहविषयनिबन्धनगम्यससंदेहालंकारेष्वव्याप्तिप्रसङ्गात्। उ- त्प्रेक्षायां वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन वाच्यगम्यभेदेन द्वैविध्यस्याङ्गीकर्तव्यत्वात्। अपि चानवधारणेति किमुच्यते । अनिश्चयात्मकत्वमिति चेत्। तथा
१. 'संहर्तकत्व' ख. २. 'परिहातुकामः' क. ३. 'उद्धताः' क.
Page 67
६२ काव्यमाला।
सति 'बालेन्दुवक्राण्य विकाशभावात्' इत्यादावुदाहरिष्यमाणायामप्रकृतसा- म्यनिमित्ततत्तादात्म्यसंभावनारूपायामुत्प्रेक्षायामतिव्याप्तिः। विरोधेन पर- स्परप्रतिक्षेपकतया निबद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत्। तथापि 'अङ्कं केऽपि शशङ्किरे' इत्यादावुदाहरिष्यमाणायामपह्ठुतावतिव्याप्तिः । संदेहविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्परप्रति- क्षेपसिद्धेः । 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रद: शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथ स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति संसदेहोदाहरणे चाव्याप्तिः। तत्र चन्द्रादीनां संदेहघर्मिणामेवा- नेकत्वम्। प्रकारस्तु सर्वत्र वर्णनीयवनितास्त्रषटृत्वमेकमेवेत्यनेककोटिक- त्वाभावात्। न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः । 'इतो गता सा क्व गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राह्य इति वाच्यम्। वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमार्याभ्यां पुष्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसं- पदा स्रष्टा, उत पुष्पमासः स्वकीयपुष्पसंपदेति संदेहनिबन्धनात् 'शृ- ङ्वारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुत्यमात्रपर्यवसा- यित्वेन किंचित्साम्यनिमित्तत्वाभावेऽपि चन्द्रवसन्तधर्मिकांशयोस्तन्निमित्त- त्वानिवारणात्। एवं च प्रकृतार्थाश्रयेत्येतदप्ययुक्तम्। उदाहृतसंदेहस्य वर्णनीयना- यिकानाश्रयत्वेनाव्याप्तिरिति चेत् । अत्र ब्रूमः । 'बुद्धिः सर्वात्मनान्योन्याक्षेपिनानार्थसंश्रया। सादृश्यमूला वार्थस्पृक्संदेहालंकृतिर्मता ॥' १. 'संभावनाया उत्कटकोटिसंदेहरूपत्वात्। विरुद्धानेककोव्यवगाहित्वं तदिति चेत्। तथापि मुखचन्द्र इति रूपकेऽतिव्याप्तिः' इत्यधिकं सत्र-पुस्तके.
Page 68
चित्रमीमांसा। ६३
यद्यप्यन्योन्यप्रतिक्षेपकविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति । त- थापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति कि तु पक्षे तत्प्रा- प्तिमनिरुध्य स्वप्राप्तिपक्ष एव स्वपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम्। न हि 'त्री- हिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे ब्रीहयो यवान् यवाश्च व्रीही- न्सर्वात्मना यागात्प्रतिक्षिपन्ति। तथा सति शास्त्रस्यास्या निर्णायकत्वेना- ननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात्। किं तु स्वस्वानुष्ठानपक्ष एव । अत एव 'ब्रीहिभिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'व्रीहिभिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूलसंदेहनिवर्तक- मनुष्ठापकं च दश्यते। प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षे- पार्थः । उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्भावात्। एवं विक- ल्पालंकारोदाहरणेऽपि द्विविधस्यापि नीतिशास्त्रस्य प्रामाण्यात्तदुपदिष्टफले- च्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरोधनुर्नमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालंकारे नातिव्याप्तिः। अपह्रवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्वेऽपि वाकारार्थस्पर्शाभावान्नातिव्याप्तिः। तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः । न तु वाकारार्थस्पर्शोऽस्ति। उत्प्रेक्षायामपि नातिव्याप्तिः। तत्र ह्युत्कटको- टिके संशयकोट्योः समवलत्वाभावेन वाकारार्थस्पर्शाभावात्। 'अस्याः सर्ग- विधौ' इत्युदाहरणे परस्परप्रतिक्षेपकनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूत- नानाधर्मिरूपार्थसमाश्रयत्वसत्त्वान्नाव्याप्तिरिति सर्वमवदातम्।
त्सवे- संदेहालंकारध्वनिर्यथास्मत्कुलकूटस्थवक्षःस्थलाचार्यकृते वरदराजवसन्तो-
'कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम्। वरदः संशयापन्नो वक्षःस्थलमवैक्षत ।I' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्। तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरत- स्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्गयत्वात्संदेहालं- कारध्वनिरत्रेति। यथा-
Page 69
६४ काव्यमाला।
'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया।' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थल- ज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपवत्त्वाभिमानिनी लक्ष्मीः पुरत एनां द्ृष्टरा कथं वर्तत इति संशयापन्न इति वा, इयं च व- क्षसि कुत्र निवेशनीयेति संशयापन्न इति वा, बहवः संशयाकारा वक्ष :- स्थलमवैक्षतेत्यनेन व्यङ्गयाः संभवन्ति, तथापि सर्वेषामपि संदेहानां साद- श्यमूलत्वाद्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि क्थंचित्सादृश्यमूलत्वात्सं- देहालंकारध्वन्युदाहरणत्वमिति युक्तमेव। इति संदेहालंकारप्रकरणम्।
अथ भ्रान्तिमान्- कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मत: ।। पिहितात्मनीत्यनेनारोप्यमाणानुभवस्य स्वारसिकं कविप्रतिभया क- ल्पनं विवक्षितम्। तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादौ ना- तिव्याप्तिः । उदाहरणम्- 'कपाले मार्जारः पय इति करांलेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति। रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रैभामत्तश्रन्द्रो जगदिदमहो विभ्रमयति ॥' अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्त: स्वारसिक एव विभ्रमः कविप्रतिभया चन्द्रिकोत्कर्षद्योतनाय निबद्धः ।
१. 'इयं वक्षसि' ख. २. 'प्रभावित्तः' ग.
Page 70
चित्रमीमांसा।
क्वचिद्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कार :- 'बेल्ाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गारशंङ्काकुलाङ्गी। कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुधावन्मधुकरनिकरैर्धूमशङ्कां करोति ॥' क्वचिद्भिन्नकर्तृकोत्तरोत्तरभ्रान्तिनिबन्धनेन चमत्कारः । 'शिञ्जानैर्मञ्जरीतिस्तनकलशयुगं चुम्बितं चश्चरीकै- स्तत्रासोलासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्ोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वद्रिमृगद्दशां नाप्यरण्यं शरण्यम् ।।'
'पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः । सोडपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥' 'विस्फूर्तिमत्यां कीर्तौ ते विधिवैकुण्ठशंकराः । आरोढुं शयितुं वस्तुमाकाङ्कन्ति महीतले ।।' इत्यत्र भ्रान्तिमदलंकारो व्यङ्गयः । सादृश्यान्यमूलौ संदेहविभ्रमौ ससंदेहभ्रान्तिमदलंकारप्रयोजकौ न भ- वतः। यथा- 'अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन्। निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥' 'दामोदरकराघातचूर्णिताशेषवक्षसा। दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।।' आद्ये दुर्जयविजयोद्योगसाहसप्रयुक्तः कीर्तिभ्रंशसंदेहः । द्वितीये गा- ढर्मेर्मप्रहारकृतचन्द्रविभ्रम इति। इति भ्रान्तिमत्प्रकरणम्।
१. 'जल्लाल' ग. २ 'शङ्कां करोति' ग. ३. 'श्वासामोदानुयातैः' ग-घ; 'श्वासामो- दप्रसक्ते मधुकरनिकरे' ङ. ४. 'मुष्टिप्रहार' ग.
Page 71
६६ काव्यमाला।
अथोल्लेखालंकार :- निमित्तभेदादेकस्य वस्तुनो यदनेकधा । उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते ।। यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तमेदादनेकेन ग्र- हीत्रानेकधोल्लिख्यते स उल्लेखः । 'की तिगङ्गाहिमक्ष्माभृदोजःसूर्योदयाचलः । शत्रुसेनाब्घिमन्थाद्रिगुणरत्नैकरोहणः ।' इति मालारूपके एकस्य राज्ञो यशस्वित्वादिधर्मयोगरूपनिमित्तमेदात्तुषा- राद्रित्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरासायानेकेत्युक्तम्। तत्र गृहीतृभेदनिबन्धनं न भवत्यनेकघोल्लेखनमिति नातिव्याप्तिः । 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम्। पश्यन्ति विबुधा: शूराः स्त्रियो वृद्धाश्च कौतुकात् ।' इत्यत्रैकस्य वर्ण्यस्य विद्याद्यनेकधर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रो- लेखनमस्तीति तत्रातिव्याप्तिवारणायानेकधेत्युक्तम्। तत्र कौतुकात्स्वरू- पालोकनमात्रनिबन्धनं नानेकधोल्लेखनमिति तद्यावृत्तिः । 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैः' इत्युदाहृतायामनेककर्तृकभ्रान्तिपरम्प- रायां स्तनादीनां मञ्जरीसादृश्यादिनिमित्तभेदादनेकेन चश्चरीकादिना मञ्ज- रीत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिवारणायैकस्य वस्तुन इ- त्युक्तम्। 'कीर्तौ विस्फूर्तिमत्यां ते मृडालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोलेखनं मुहुः ॥' इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंग रूपेण ग्रहीत्रा मृणालक्षीररूपत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्तिनिरा- साय निमित्तभेदादित्युक्तम्। तत्र कीर्तिगतं धावल्यमेकमुल्लेखद्वयेऽपि नि- मित्तम्। यद्यपि गजभुजंगानां स्वस्प्रियाहारलोभरूपनिमित्तभेदोऽप्यस्ति, तथापि निमित्तभेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तद्वयावृत्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति स्वरूपकथनमात्रम्। एवमपि यदि-
Page 72
चित्रमीमांसा। ६७
'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं दयम् ।' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया, तदानीमनेकधोल्लेखनं नि- षेघास्पृष्टत्वेन विशेषणीयम्। तत्राद्योलेखनद्वयं परमतत्वोपन्याससामर्थ्या- द्वम्यमाननिषेधमिति नातिव्याप्तिः । "स्त्रीभिः कामोऽर्थिभि: स्वर्द्टः कालः शत्रुभिरैक्षि सः।' अत्र चानेकधोल्लेखने रुच्यर्थित्वभयादिकं यथायोगं प्रयोजकम्। रु- चिरभिरतिः। अर्थित्वं लिप्सा । द्विविघश्चायमुल्ेखः । शुद्धोऽलंकारान्त- रसंकीर्णश्च। तत्र शुद्धो यथा- 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः। यथास्थितश्च बालाभिर्दष्टः शौरिः सकौतुकम् ॥' अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोऽयमादिपुरुष इति वृद्धाभिः संसाराज्भ्ीत्या तदभयार्थिनीभि: कृष्णः पुरः प्रविशन् दृष्टः, य- स्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्म्या अपि कामोपचारवैदग्ध्येन नित्यवल्लभः सोडयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिर्ष्टः, बालाभिर्बालस्वभावाद्यथा- स्थितरूपवेषयुक्तो दष्ट इति सर्वत्र वस्तुसता नानारूपेणोल्लेखादयं शुद्धः। यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्घर्वनगरमिति गायकैः, वि- श्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगो- ष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वाहिकैः,
१. 'स्त्रीभि: कामः' इत्यारभ्य 'अरथित्वं लिप्सा' इत्यन्तः पाठः क-पुस्तके नास्ति. २. 'चिन्तामणिभूमिः' इति हर्षचरिते. ३ 'वणिग्भिः' ग. ४ 'असुविवरमिति वातिकैः' इति हर्षचरिते. वातिकैर्विवरव्यसनिभिरिति तत्र टीकायामू.
Page 73
६८ काव्यमाला।
शक्याश्रम इति शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृह्यत।' अत्र तपोवनादिभूयिष्ठत्वात्तपोवनाघयुलेखः शुद्धः । अत्रैव यमनगरत्वा- घुल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसंकरः । यदि ताद्रूप्यानुभावगोचरतया, तदा भ्रान्तिमत्संकरः । अयं चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनायाचेतनकर्तृकोऽपि निबध्यते। यथा तत्रैव हर्षवर्णने- 'निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरितीन्द्रियैः, दुरुपसर्प इति कलिना, नीरस, इति व्यसनैः, भीरुरित्ययशसा, दुर्ग्रह- चित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षेण्ढ इति परकलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, विनैय इति सुहृद्भिः, कर्म- कर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्यमाणम्' इति। भ्रान्तिमदलंकारादयोSप्येवमचेतनकर्तृका निवध्यन्ते- 'भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुच्चाव चैरुपगतेषु सहस्रसंख्याम्। दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दघते नलिन्यः ॥l' इत्यादौ। 'मधुलुब्धा मधुकरास्तृषिताश्च चकोरकाः । सुगन्धि कान्तिसंपन्नमनुधावन्ति ते मुखम् ।' इत्यत्रोल्लेखो व्यङ्गयः। 'विद्याविक्रमसौन्दर्य' इति श्ोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किं तु विद्व- त्ताद्युलेखवदवलोकनकौतुकनिमित्ततायां पर्यवसानं तदा तत्राप्युल्लेखनगता- नेकधात्वविच्छित्तिविशेषस्य गम्यत्वादुल्लेखालंकारो गम्यः । 'परिव्राट्कामुकशुनामेकस्यामेव योषिति। कुणपः कामिनी भक्ष्यमिति तिस्त्रो विकल्पनाः ॥।' इत्यत्राप्युल्लेख इष्यत इति लक्षणस्य नातिव्यापिः । १. 'दुर्ग्राहचित्तवृत्तिः' ख. २. 'शण्ठः' इति हर्षचरिते. शण्ठः प्रजननाक्षम इति टीका. ३. 'विनेयः' क.
Page 74
चित्रमीमांसा । ६९
अथापर उल्लेखप्रकार :- 'गृहीतृभेदाभावेऽपि विषयाश्रयभेदतः । एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते ।।' तत्र विषयभेदादनेकधोल्लेखः शुद्धः संकीर्णश्र। शुद्धो यथा- 'अकृशं कुचयोः कृशं वलगने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेSरुणमाविरस्तु चित्ते करुणाशालिकपालिभागघेयम् ।।' 'गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्ते- जसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि' इ- त्यादौ श्लेषसंकीर्णः । 'हंसमयीव गतिषु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्राविण्मयीव पयोधरोन्नतौ, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युत्प्रेक्षासंकीर्णः। पयोधरोन्नतावित्यादौ विषयांशे श्लेषसंकी- र्णश्च। 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । 'युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याद्युन्नेयम् । अधिकरणभेदेनानेकधोललेखो यथा- 'वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो रत्नं मूर्धि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम्। अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो यस्याङ्गौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ॥' अत्र रूपकसंकीर्ण:। भगवल्ललाटमध्यकर्णान्तादितत्तदवयवाभिमुख- स्थितग्रहीतृभेदनिमित्तोल्ेखसंकीर्णश्र। एकस्यैव द्रष्टर्ललाटमध्ये कर्णान्तिके च रविदर्शनासंभवात्। 'यस्य वह्निमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसितेषु, क्षमामयोSङ्गेषु, आकाशमयः शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' अत्र वह्नि जलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रतापस्य चाभेदकथनं हेत्वलंकार इति तत्संकरः । मतान्तरे रूपकसंकरः ।
Page 75
७० काव्यमाला।
'कस्तूरीतिलकन्ति भालफलके, देव्या मुखाम्भोरुहे रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति। या: कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु- स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।' अत्रोपमासंकीर्ण: । केचित्तु तत्तदधिकरणौचित्यात्कस्तूरीतिलकादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि क्विबुत्प्रेक्षायां पर्यवस्यतीत्युपमो- पक्रमोत्प्रेक्षेयमित्याहुः । तन्मते उत्प्रेक्षासंकीर्णः । एवमलंकारान्तरसंकरो- डप्युन्नेयः । इत्युल्लेखप्रकरणम् ।
अथापह्नुति :- प्रकृतस्य निषेधेन यदन्यत्वमकल्पनम् ।
अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमात्रं 'नाहं दूती वरतनोरङ्ग- तापोऽतिभास्वरः' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम्। 'न पञ्च- विशिखः कामः किं त्वपञ्चशिलीमुखः' इत्यतिशयोक्तौ चातिव्याप्तमिति विशिष्टोपादानम्। न चैवं 'न पद्मं सुखमेवेदम्' इति तत्त्वाख्यानोपमायां विषये पद्मत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्याप्तिः । प्रकल्पन- पदस्यारोपपरत्वात्। 'निषिध्य विषयं साम्यादन्यारोपः' इति क्त्वाप्रत्य- येन लक्षणं नोक्तम्। वक्ष्यमाणोदाहरणे आरोपपूर्वकापह्रवेऽतिव्याप्ति- प्रसङ्गात्। इयं च साक्षान्निषेधकनञादिप्रयोगे परपक्षत्वादयुपन्यासे निषेधसाम- थ्र्याद्गम्यत्वे च वाक्यभेदेन प्रवर्तते। विषयासत्यत्वप्रतिपादकच्छद्मनिभक- पटव्याजादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभङ्गयादिशब्द- प्रयोगे च तदभेदेन । अत्र वाक्यभेदेSपह्नवपूर्वक आरोप आरोपपूर्वकापह्ववश्चेति द्वैविध्यम्।
Page 76
चित्रमीमांसा। ७१
क्रमेणोदाहरणानि- 'अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥' यथा वा- 'नेदं नभोमण्डलमम्बुराशिर्नेमाश्र तारा नवफेनपुञ्जाः । नायं शशी कुण्डलितः फणीन्द्रो नायं कलङ्क: शयितो मुरारिः॥' पूर्वत्र निरवयवापद्ुतिरत्र सावयवेति भेदः। 'अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे। इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीद्ृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे।।' इत्यत्राप्यपह्रवपूर्वक आरोपः । अपह्रवस्तु परपक्षोपन्यासादर्थसिद्धः । 'विकसदमरनारीनेत्र नीलाज्ज्षण्डा- न्यधिवसति सदा यः संयमाघ:कृतानि। न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' अत्रारोपपूर्वकोऽपह्रवः शाब्दः । 'मन्थानभूमिधर मूलशिलासहस्त्र- संघट्टनव्रणकिणः स्फुरतीन्दुमध्ये। छाया मृगः शशक इत्यपि पामराणां लोके गतानुगतिकः प्रथितः प्रवादः ॥' अत्राप्यारोपपूर्वकोऽपह्नवः । स च पामरवचनोपन्यासादर्थसिद्धः ।ए- तानि वाक्यभेदेनोदाहरणानि। एकवाक्यतायां तु- 'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेऽस्मिन्कामिलोके तथा हि। १. 'खण्डानि' ख-ग.
Page 77
७२ काव्यमाला।
उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोद्टङ्कितं कालकूटम् ।I' 'अमुष्मिँलावण्यामृतसरसि नूनं मृगदशः स्मर: शर्वप्ुष्टः पृथुजघनभारे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इत्यस- त्यत्वाभिधायिच्छलशब्दवशात्प्रतीयते। उत्तरत्र नेयं रोमावलिः किं तु धू- मशि खेत्यसत्वपर्यवसायिवपुःशब्दबलात्प्रतीयते। केचित्तु सादृश्यव्यक्तयेSपह्नववद्पह्ञवाय सादृश्यमप्यपहुत्यलंकारं व- दन्ति। यथाहु :- 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः । अपह्रवाय सादृश्यं यत्रास्त्येषाप्यपद्रुतिः ।।' इति। उदाहरन्ति च- 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लग्न: सुकण्ठ प्रसरति कुचयोर्दत्तगाढाङ्गसङ्ग: । बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स ताद्ृक्प्रियो मे बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत् ॥' अत्र वीक्षितं प्रियमपहुत्य चोलकत्वारोपः । तदर्थ च प्राक् प्रियचो- लसदृशघर्मोपन्यासः । अत्रेदमपह्नुतिकथनं व्याजोक्त्यलंकारं पृथगनङ्गी- कुर्वतामुद्भटादीनां मतमनुसृत्य। ये तु उद्िन्नवस्तुनिगृहनं व्याजोक्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव नापद्ुतिरिति रुचकादयः । दण्डी त्वपहुतेः साधर्म्यमूलत्वनियममनादृत्य 'किंचिदपह्रुत्य कस्यचित्प्रदर्शनमात्रमपह्ुतिः' इति लक्षयित्वोदाजहार- 'अपद्रुतिरपह्ुत्य किंचिदन्यार्थसूचनम्। न पञ्चेषुः स्मरस्तस्य सहस्रं पत्रिणामिति। १. 'पृथुजघनभागे' क. २. 'सादृश्यनियममनादृत्य' ग-घ. ३. 'सहसरं विशिखाः पुनः' ख.
Page 78
चित्रमीमांसा । ७३
चन्दनं चन्द्रिका गन्धो गन्धवाहश्र दक्षिणः । स्वयमग्निमयी सृष्टिः शीता किल परान्प्रति ॥ अमृतस्यन्दिकिरणश्रन्द्रमा मम नो मतः । अन्य एवायमर्कात्मा विषनिष्यन्ददीघितिः ।।' साधर्म्यमूला त्वपह्ुतिरिति तेन व्याहृता। 'त्वदालेख्ये कौतृहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि। अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ॥' इत्यादावपह्ुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं सा- धारण: पुरुषः किंतु पुण्डरीकाक्ष इति कयाचिद्यञ्जितम्। अन्यया तु तस्याप्येतादशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किं तु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम् ॥
अथोत्प्रेक्षालंकार :- यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम्। प्रकृतं हि भवेत्माज्ञास्तामुत्येक्षां पचक्षते ।। यथा- 'बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि। सदो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥I' अत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवऋरत्वलौहित्यसंबन्धा- न्नखक्षतत्वेनोपकल्पितानि। तर्कः संभावनामात्रं न त्ववधारणम्। तदी- यधर्मो हि तत्तादात्म्यसंभावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावलिङ्गवदवधारण- हेतुः। न चात्रेवशब्दस्य सादृश्यपरत्वमित्युपमाशङ्का कार्या। उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तनायकसमागत- वनस्थलीसंबन्धित्वविशेषणकल्पनानपेक्षत्वात्। पलाशमुकुलानां नखक्षत- १. 'सादृश्यपर्यवसानत्वं' ख. १०
Page 79
७४ काव्यमाला।
तादात्म्यसंभावनायामेव तथाविधविशेषणस्योपयुक्तत्वात्। एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युत्प्रे- क्षावगन्तव्या। यथा- 'उवाह या तनुलता भृङ्गालीरोमवल्लरीम्। पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ।।' उपमा यत्र क्वचित्स्थितयापि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोभागप्रतिविम्बितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था । यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः। अमुमेव विभागमभिप्रेत्य चक्रव- तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि। दण्डिना- पीवशब्दस्योत्प्रेक्षाव्यञ्जकत्वमुक्तम्। 'मन्ये, शङ्के, ध्रुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति। अत्रादिशन्देन तर्कयामि, संभावयामि, जाने, उत्प्रेक्षे, स्यात्, इत्येव- मादीनां संग्रहः। अत्र च 'कस्तूरिकामृगाणामण्डाद्गन्वगुणमखिलमादाय। यदि पुनरहं विधि: स्यां खलजिह्वायां निवेशयिप्यामि ॥' 'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम् । मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥' इत्यादिष्वतिव्याप्तिवारणाय धर्मसंबन्धादित्युक्तम्। तेपु हि 'यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, 'संभावनं यदीत्थं स्यादित्यू- होऽन्यस्य सिद्धये' इति संभावनालंकारविषयेपु वा निर्निमित्तमेव तथा त- थोपतर्कणम्। तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुखम्। येन सा मृगशावाक्षी सावित्री तरलीकृता।।' इत्यादिष्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम् ।
Page 80
चित्रमीमांसा। ७.१
तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति ना- तिव्याप्तिः। 'विरक्तसंध्यापरुषं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्धतो मां भरतः ससैन्यः ॥' इत्यत्रातिव्याप्तिवारणायान्यत्वेनेति विशेषणम्। तत्र ससैन्ये प्रत्युद्ध- न्तर्यन्यत्रापि दृष्टस्याग्रेरजोगमनस्य संबन्धेन निमित्तेन भरतः प्रत्युद्गतत्वेन वस्तुसद्रूपेणैवोपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः । 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम्। मार्गणास्तव संजाता: कथं सुमनसोऽन्यथा ॥' इत्यत्रातिव्याप्तिवारणायोपतर्कितमित्युक्तम्। तत्रानुमानालंकारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तिलिङ्गेन राज्ञि मन्मथत्वमवधृतं न संभाव- नामात्रम् । 'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा । कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' इत्यत्रातिव्याप्तिवारणाय प्रकृतमित्युक्तम्। तन्र निरतिशयसौन्दर्यसी- तावदनादिसंनिधानेन तद्वदनाद्युपमानेष्वपि निकर्षापादकेन प्रशस्तोपमा- नेष्विन्द्वादिष्वप्रकृतेष्वञ्जनलेपा दिनिकर्षसंभावना क्रियत इति नातिव्याप्तिः। नन्वेवमपि- 'अस्मद्विकमचेष्टितानि निखिलत्रैलोक् य हेला जय - प्रह्वीभूतसुरासुराणि भवतो भूमे: सुता शृण्वती। पत्यौ द्वेषकषायितेन मनसा स्त्निग्ना मयि स्थास्यति स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ।। इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दष्टस्त्रीत्वस्य संबन्धेन निमित्तेन व- स्तुतः प्रत्येकस्थिरचित्ता देवी सीता चश्चलत्वेनोपतर्किता । न च तत्रो-
Page 81
७६ काव्यमाला।
विच्छित्तिविशेषाभावात्। न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाह्लादी विवक्षितः, न तु साधारणधर्ममात्रम्। तथा च नोक्ताति- व्याप्तिः । स्त्रीत्वादेश्चान्चल्यादिसंभावनामात्रप्रयोजकत्वेऽपि सहृदयहृदया- ह्रादिसाधारणधर्माभावेनोपमालंकारप्रयोजकत्वाभावादिति वाच्यम्। तथा सति- 'स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम्। संभावयन्रघुपतिर्धावति स्म दिद्ृक्षया ॥' इत्यत्रातिव्याप्तेरवारणात्। न चाहार्यत्वं तर्कविशेषणम्। इह त्वना- हार्या संभावनेति वाच्यम्। तथा सति 'शङ्के हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तद्वयावृत्त्यर्थस्यान्यत्वेनेत्यस्य वैयर्थ्यप्रसङ्गा- दिति चेत्, मैवम्। अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवाहार्यत्ववि- शेषणपर्यवसायित्वात्। ननु तथापि नैतल्वक्षणम्, अव्याप्तेः । तथा हि। यत्र स्वमात्रधर्माद- न्यमात्रधर्माद्वा किंचिदुत्प्रेक्ष्यते तत्रान्यधर्मसंबन्धादिति लक्षणांशाभावाद- व्याप्तिः। यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुञ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।।' 'भूयस्तराणि यदमूनि तमस्विनीपु ज्योत्स्ीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया- मावतितैरुड्डभिरेव कृतोऽयमिन्दुः ॥' इत्यत्राद्योदाहरणेडङ्गुलीसदृशीभिर्मरीचिभिः केशसंचयसदशस्य तिमि- रस्य ग्रहणात्स्वमात्रधर्मादेव शशिनश्चुम्तनमुत्प्रेक्षितम्। द्वितीये ताराविर- लत्वाविरलत्वरूपेणान्यमात्रघर्मेण चन्द्रस्य संध्यानलमध्यगाम्वरमूपिकावर्ति ततारानिकरनिमित्तत्वमुत्प्रेक्षितम्। किं च हेतुफलधर्मस्वरूपोत्प्रेक्षास्वन्य- त्वेनेति लक्षणांशाभावादव्याप्तिः। यथा-
Page 82
चित्रमीमांसा।
'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमूर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्ललेषदुःखादिव बद्धमौनम् ॥।' इति हेतूत्प्रेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमि- त्तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखितादात्म्यम्, दुःखशब्दस्योपरि तुमुबाद्यश्रवणात् । एवम्- 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' इति फलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन द्रुमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति ध- रमतयोत्प्रेक्ष्यते न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम्, द्रष्ठमित्यस्य धर्मिपर्यन्तत्वाभावात्। तथा- 'पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ।I' इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्षणशिलाप्रान्तस्था- नीये तटे हस्तस्थानीयतरङ्गाग्रैः फेनचन्दनपेषकत्वेन शशाङ्कस्य करैर्दिंग- ङ्गनादिधवलीकरणेन च प्रतीयमानेन निमित्तेन तत्कर्तृकं पेषणलेपनमा- त्रमुत्प्रेक्ष्यते, न तु तयोः पेषणलेपनकर्तृतादात्म्यम्। पिनष्टि लिम्पतीत्या- ख्यातयोः कर्तृवाचकत्वेऽपि 'भावप्रधानमाख्यातम्' इति न्यायेन कर्तुः प्र- धानभूतक्रियोपसर्जनस्यान्यत्रान्वयासंभवात्। अत एव 'लिम्पतीव तमो- Sङ्गानि वर्षतीवाञ्जनं नभः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्तोदाहरणयो- रिवश्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशङ्कय 'कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे। स्वक्रियासाधने व्यग्रो नालमन्यद्यपेक्षितुम् ।।' इति दूषितम्। 'वृत्तानुपूर्वे च न चातिदीर्घे जङ्ढे शुभे सृष्टवतस्तदीये। शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥'
Page 83
७८ काव्यमाला।
व्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्रमात्रमु- लेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव। अपि चाप्रकृतधर्मिकोत्प्ेक्षायां प्रकृतमित्यंशाभावादव्याप्तिः। यथा- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेघसा। कृतमध्यबिलं विलोक्यते घृतगम्भीरखनीखनीलिम ॥' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोक्त्या कृ- तमध्यरन्ध्राकाशनैल्यत्वेनाध्यवसितो यः कलङ्कस्तद्वत्त्वेन निमित्तेन कल- क्काध्यवसितधृतमध्यरन्ध्राकाशनैत्यत्वनिमित्तोतेक्षितं कृतमध्यविलत्वेन नि- मित्तेन वा चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनोत्प्रेक्षितम्, न तु
द्वालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयो- डपि तस्या मुखम्।' इत्यत्रेव तथाशब्दान्वयाभावात्। ननु यथा शब्दतोऽन्वया- लाभेऽपि ब्राह्मणशतं भोज्यतामित्यत्र प्रधानमतिलङ्मयोपसर्जने क्रियान्वयपर्य- वसानम्, संख्याया भोजनान्वयायोग्यत्वात्, तथेहापि प्रधानमिन्दुमण्डल- मतिलङ्गयोपसर्जने दमयन्तीवदने इन्दुमण्डलाहृतसारांशनिर्मितत्वोत्प्रेक्षापर्य- वसानं स्यात्, अप्रकृतस्यावर्णनीयत्वादिति चेत्, न। अप्रकृतवर्णनस्याप्य- प्रस्तुतप्रशंसारूपेण प्रकृतातिशयाघानार्थतयान्वेतुं योग्यत्वात्। न च वाच्यं 'इन्दुर्लिंप् इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तर इवात्रापि संभावनामात्रमेव नोत्प्रेक्षेति। तत्र सहृदयहृदयाह्वादिनिमित्ताभावेनोतेक्षा सामग्री परिपूर्त्यभा- वादुत्प्रेक्षाया असंभवेऽप्यत्र तत्संभवादप्रस्तुतप्रशंसया संकरोपपत्तेः। त- स्मादव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत् । अन्र ब्रूमः । न तावत् 'हृतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वाभिमतमात्रपरत्वात्। न चैवं 'इन्दुलिप्त इव' इत्यादावतिव्याप्तिः। तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताञ्जनलिप्तत्वसंभाव-
Page 84
चित्रमीमांसा । ७९
नायामन्यधर्मत्वस्याप्रयोजकत्वात्, धर्मस्य सहृदयहृदयाह्वादिनो विवक्षि- तत्वाद्वा। अन्यत्वेनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्मस्वरूपोत्रे- क्षास्वव्याप्तिः। यत्र धर्मिणि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तत्र धर्म्यन्त- रमन्यः प्रकारः। यत्र तु कश्चिद्धर्म एव किंचित्प्रति हेतुतया फलतया स्वरूपेण चोत्प्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्वत्राप्यनुगतेः। यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा। तथा हि। 'सैषा स्थली यत्र विचिन्वता त्वाम्', 'चोलस्य यद्भीतिपलायितस्य' इत्या-
तया फलतया वा नोत्प्रेक्ष्यते। किं तु नूपुरयुगादिधर्मिक यन्निश्चलत्वकण्टक- संश्ल्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव दुःखहेतुकमौनललाटाक्षरदर्श- नार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते। अवश्यं च द्विविधस्यापि मौनादेस्तादा- त्म्येनाध्यवसाय आस्थेयः । अन्यथा निश्चलत्वादिहेतुके स्वाभाविकमौनादौ दुःखादेर्हेतुत्वादिनोत्प्रेक्षणमसमञ्जसं स्यात् । अङ्गीकृतश्च 'सैषा स्थली' इत्यादौ दुःखादिर्धर्म एव मौनादिहेतुतया नूपुरादिगतत्वेनोत्प्रेक्ष्यत इति वद्ताप्यलंकारसर्वस्वकृता द्विविधस्य मौनादेरभेदाध्यवसायः । 'हेतूत्प्रे- क्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायव- शादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात्। आवश्यकं चा- न्यत्रापि क्वचित्क्वचिद्धेतूत्प्रेक्षोदाहरणे निमित्तांशे तादात्म्याध्यवसायाश्र- यणम्। यथा- 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तैस्य सौन्दर्यदर्पः । नीतः शान्ति प्रसभमनया वक्रकान्त्येति हर्षा- छन्ना मन्ये ललिततनु ते पादयोः पझ्मलक्ष्मीः ।।' अत्र हेतुतया हर्षोत्प्रेक्षां प्रति तत्फलत्वाभिमतं पादयोः पद्मलक्ष्म्या लगनं निमित्तं वाच्यम्, तच्च सर्वथैवासिद्धम्। अतस्तत्र पादयोर्यः स्वा-
१. 'यस्य' ख.
Page 85
८० काव्यमाला।
भाविकशोभासंबन्धः स एव पद्मलक्ष्मीलग्नत्वेनाध्यवसितो निमित्तमिति समर्थनीयम्। एवं निमित्तांशे तादात्म्याध्यवसानावश्यंभावे तत्रैवोत्प्रेक्षा- विश्रान्तिरस्तु। न च तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम्। निश्च- लत्वहेतुकमौनस्य दुःखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेषकालभवत्वं निमित्तं कण्टकसंश्ेषहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थव्यापाटनत्वेनो- त्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि कियदनुभाव्यमने- नेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात्। अयमेव पक्षो दण्डिनोऽभिमतः । यदाह- 'अन्यथैव स्थिता वृत्तिश्च्वेतनस्येतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ॥ मध्यंदिनार्कसंतप्तः सरसीं गाहते गजः । मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ।। स्नातुं पातुं विसान्यत्तुं करिणो जलगाहनम् । तद्वैरनिष्क्यायेति कविनोत्प्रेक्ष्य वर्ण्यते ।।' इति। अत्र संतापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहनरूपा वृत्तिरन्यथा तद्वैरनिष्क्रयार्थजलावगाहनत्वेनोत्प्रेक्ष्यत इति स्वकृतलक्षणानु- सारेणैव योजितम्। काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोडभिमतः । तेन हि 'संभावनम- थोत्प्रेक्षा प्रकृतस्य समेन यत्' इत्युपमानोपमेयस्य तादात्म्यसंभावनमुत्ग्रे- क्षालक्षणमभिधाय 'उन्मेषं यो मम न सहते' इति तत्रोदाहरणं कृतम्। ततश्च स्वकृतलक्षणानुरोधेन स्वाभाविकी पादशोभैव स्ववरिजयप्रभवहर्पल- अ्नपझ्मलक्ष्मीत्वेनोत्प्रेक्ष्यत इत्यभिमतमिति स्फुटमेव। तथा 'पिनष्टीव तरङ्गाग्रैः' इत्यादिधर्मस्वरूपोत्मेक्षोदाहरणेप्वपि प्रेरणा- दिरेव पेषणादिरूपत्वेनोत्प्ेक्ष्यते। न च प्रेरणादेविषयस्यानुपादानं दोपः। अतिशयोक्ताविव तदुपपत्तेः । उत्प्रेक्षाया अध्यवसायगर्भतया तत्र विपय- निगरणस्योचितत्वाच्च। न च प्रेरणादेविपयत्वेन निमित्तत्वाभावे निमित्ता- १. 'परेण' ख.
Page 86
चित्रमीमांसा। ८१
न्तरमन्वेष्यं स्यादिति वाच्यम्। प्रेरणस्य पेषणरूपतयोत्प्ेक्षायां प्रान्तगत- फेनचन्दनपुञ्जीभवनं निमित्तम्। करव्यापनस्य दिगङ्गनालेपनत्वेनोत्पेक्षायां तद्धवलीकरणं निमित्तमिति निमित्तान्तरस्य जागरूकत्वात्। 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यादौ व्यापनादि लेपनादि- रूपतया संभावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्मस्वरूपोल्ये- क्षोदाहरणेषु तादात्म्योत्प्रेक्षणपक्ष एवाश्रितः । एवं 'चुम्बतीव रजनीमुखं शशी' इत्यादावपि रजन्या वदनत्वेनाध्यव- सितं यदारम्भाख्यं मुखं तस्य शशिनश्च संबन्धश्चुम्बनत्वेनोतप्रेक्ष्यते । 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नः पूर्वकत्वतादात्म्यो-
अन्यधर्मोऽनुगामितयैव न विवक्षितः, किं तूपमायां साधारणधर्म इव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैविवक्षितः । तथा च यथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तबकावनम्रा संचारिणी पैल्लविता लतेव ।I' इत्यत्र बिम्बप्रतिबिम्बभावकृताभेदाध्यवसायेन। 'तारुण्यकुअ्रारूढां विलासकमलाकुलाम्। मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ।l' इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृतसा- धारण्यादन्यधर्मसंबन्धः । तथा-'अङ्गुलीभिरिव' इत्यत्रान्वयभेदकृता- भेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसंबन्धः सुसंपाद इति न तत्राव्याप्तिः। नापि 'भूयस्तराणि' इत्यत्राव्याप्तिः । तत्रोपात्त- धर्माक्षिप्तधर्मान्तरसंबन्धस्य निमित्तत्वात्। तत्र हि चन्द्ररूपविषयगतसं- ध्यानलमध्यगाम्वरमूषिकावर्तिततारानिकर निर्मितत्वोत्प्ेक्षायां तारागतेन त- त्तद्रात्रिषु विरलत्वाविरलत्वरूपणोपात्तधर्मेण निमित्तेन धर्मस्य चन्द्रगतस्य
१. 'पल्लविनी' ख. ११
Page 87
काव्यमाला।
अयं चापरोऽपि विशेषः । अन्यधर्मसंबन्धादित्यन्यपदार्थो धर्म्युत्रे- क्षासु विषय्येव, धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः। एवं स्थिते य- त्रानुपात्तो निमित्तभूतो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विष- यस्य च संबन्धितया संभावनापद्वीमारोहति तथाभूतोऽन्वेप्यः । तत्र 'वर्षतीवाञ्जनं नभः' इत्यत्र नभोगतत्वेन वर्षणक्रियोत्ेक्षापक्षे नभसो भू- पर्यन्तगामिनीलिमव्याप्तत्वमञ्जनवर्षुकसाधारणनिमित्तम्। तमसो व्यापने नभ:कर्तृकाञ्जनवर्षणक्रियात्वोत्प्ेक्षेति पक्षे तु सकलवस्तुसान्द्रमलिनीकर- णादि। एवं 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादि गम्यं नि- मित्तमूहनीयम्। यत्र तु निमित्ततया धर्मस्योपादने सत्यपि तत्संबन्धो विषयस्यान्यपदार्थस्य वाञ्जसा न प्रतीयते, तत्र क्वचिन्निमित्तभूतधर्माद- न्यस्य कस्यचिद्धर्मस्य तत्ताद्रूप्यसंपादनेन तत्संबन्धः समर्थनीयः । क्वचि- द्विषयस्य चान्यपदार्थस्य वा तद्धर्माश्रयताद्रप्यसंपादनेन, क्वचिन्मिलितेन तेनोभयेन, क्वचिदुपात्तधर्मकृतधर्मान्तराक्षेपेण। तत्र धर्मान्तरस्य निमित्त- ताद्रूप्यसंपादनमुपमायां धर्मस्य संपादनमित्र विम्नप्रतिविम्बभावादिभिः प्रकारैस्ते प्रदर्शिताः । एवं विषयस्यान्यपदार्थस्य वा धर्माश्रयात्तादृप्यसंपादनं श्रेषादि- भङ्गया। तत्र विषयस्य श्रलेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली। नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभा रतसर्गयोग्यः ।I'
१. 'गाढनीलिम' ख. २. नैषधे सप्तमे सर्गे दमयन्तीवर्णनमिदम; तत्र 'अस्यामिति। अहं अस्यां व्यासादिमुनीनामपि मोहं ऊहे तर्कयामि। मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति। अथ च जितेन्द्रियाणामप्यस्यां विषये मोहं मदनविकारं तर्कयामि तेऽप्यनया मोहिता इत्यर्थः । य- स्मात् महान् अतितापसो भृगु: कुचशैलशीली कुचपर्वतसेवी। मुनीनां पर्वताश्रयत्वात्। पर्व- तबुड्चया स्तनावाश्रयति। अथ च कामपीडितत्व्ादत्युच्चावेतत्कुची गृहीतुमिच्छति। अथ च भृगुस्तटः पर्वताश्रयेण वर्तते कुचयोः पार्श्वभागस्तटतुल्य इत्पर्थः । शीलमेव शैलं कुचयो: शैलं स्वभावं शीलयति अभ्यस्यति परमद्यापि कुचस्वभावो नायातीत्यर्थः । मदन्पीडित- त्वादेतन्मुखं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैर्द्वात्रिशत्संख्याक रदैर्दन्तैरानन्दयत्य- तिसुन्दरमित्यर्थः । महाभारतस्य सर्गे निर्माणे योग्यः समर्थो व्यासः श्रितावूर येनैवंविधः।
Page 88
चित्रमीमांसा। ८३
अत्र भृग्वादिमुनिरूपविषयगतद्मयन्तीगोचरमोहोतेक्षायां यदेव त- त्कुचपरिशीलनादि निमितं न तद्विषयगतं किं तु तटादिगतम्। तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः। अपहुत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दुग्धां दग्धामरण्यानीं पश्यतीव विभावसुः ॥'
समारोहणं निमित्तम्। तदपि न विषयगतं किं तु किशुकपुष्पगतम्। तत्रापि यद्यपि मुख्यं समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम्, ततश्च तत्रापहुत्या विषयस्य किंशुकपुष्पतादू- प्यसंपादनेन धर्मसंबन्धनिर्वाहः । अन्यपदार्थस्य श्रलेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्या दोहदशालिन्या मुखमापाण्डरप्रभम्। सत्यं रेजिति मन्येऽद्य यद्भुवं भोक्तुमिच्छति ॥।' अत्र मुखस्य चन्द्रत्वोत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम्, तद्विष- यगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तत्र राजशब्दश्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः। धर्मान्तरस्य निमित्तधर्मताद्रूप्यसंपादनं विषयस्य तद्धर्माश्रयताद्ूप्यसंपा- दनं चेत्युभयमेलनं यथा-
निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले ।।' कदलीस्तम्भच्छायाबुद्ध्या एतदूर आश्रित्य तिष्ठति। अथ च कामपीडितत्वादेतदूरूसमा- लिङ्गय वर्तत इत्यर्थः । महती भा दीप्तिर्यत्य। रतं सुरतं तस्य सर्गो निर्माणं तत्र योग्य- स्ततः कर्मधारय इति वा। एवंविधो व्यासो विस्तारः श्रितावूरू येन। अतिविशालावूरू इति भाव: ।2 इति टीका, १. राजा चन्द्रो नृपश्च. २. भुवं गभिण्यभिलषितां मृदं पृथिवीं च.
Page 89
८४ काव्यमाला।
यन्निमित्तं चरणमूले वेष्टनं तत्तादात्म्यसंपादनं पर्यन्तवेष्टनस्य श्रेषेण विष- यस्य यत्ताद्रूप्यसंपादनमपहुत्या वेति मिलितेनोमयेन विषयस्यान्यधर्मसंब- न्धनिर्वाहः। उपात्तघर्मेण धर्मान्तराक्षेपस्तु दर्शित एव। तस्मादन्यधर्मसं- बन्धादित्येतदपि सर्वोत्नेक्षानुगतमिति न क्वाप्यव्याप्तमिति सर्वे समञ्जसम्। अलंकारसर्वस्वकृतेत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्पेक्षा द्विविधा। इवादिप्रयोगे वाच्या, तदप्रयोगे प्रतीय- माना। तत्र वाच्या जातिगुणक्रियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतु- विंधा। तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्टविधा। तेषु निमित्तगुणत्रियारूपत्वेन षोडशमेदाः । निमित्तस्य पुनरुपादानानुपादा- नाम्यां द्वात्रिशत्प्रकाराः । तेषु पुनः प्रत्येकं स्वरूपहेतुफलोत्ेक्षारूपत्वेन षण्णवतिर्भेदाः। तत्र द्रव्यस्य स्वरूपोत्प्रेक्षणमेवेति हेतुफलोलेक्षास्ततोपि विपातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोत्रे- क्षयोर्निमित्तस्यानुपादानं न संभवति ततश्चतुविशतिर्भेदा न्यूनाः । तथा च स्वरूपोत्पेक्षावैकल्येन द्वात्रिशद्ेदा, हेतुफलोलेक्षे प्रत्येकं द्वादशभेदे, इति षट्पञ्चाशज्देदा वाच्योलपेक्षा। प्रतीयमानोतेक्षायामप्येवमेव गणना। तत्र स्वरूपोत्प्रेक्षायामपि निमित्तानुपादानं न संभवतीति भेदः । ततश्च तत्र स्वरूपोत्प्ेक्षा षोडशभेदा, हेतुफलोलेक्षे पूर्ववद्धादशभेदे इति चत्वारिंश- मेदा गम्योत्पेक्षा। एवमेव मिलित्वा षण्णवतिभेदोलेक्षेति। विद्यानाथेन पुनर्द्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपात्तनिमित्तेषु ग- म्यस्य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादत्यान्यथा विभागो दर्शितः। वाच्यायां स्वरूपो- लेक्षा चतुर्विशतिभेदा, अनुपात्तनिमित्तायां गुणक्रियारूपभेदगणनाभावेन भेदाष्टकह्वासात्। हेतुफलोतेक्षे प्रत्येकं षोडशविधे। द्रव्योत्पेक्षागोच- राणां भावाभावाभिमानेन गुणक्रियानिमित्तत्वेन चतुर्णा भेदानामाधि- क्यात्। एवं षट्पश्चाशज्ेदा वाच्योलेक्षा। प्रतीयमानायां पुनः स्वरूपो-
Page 90
चित्रमीमांसा।
त्पेक्षापि षोडशप्रकारा। तन्र निमित्तानुपादानासंभवेन तन्निबन्धनभेदाष्टक- ह्वासात्। ततश्राष्टचत्वारिंशद्वेदा प्रतीयमानोत्पेक्षा। एवं मिलित्वा च-
अथोदाहरणानि दिव्बात्रेण प्रदर्श्यन्ते। उपात्तगुणनिमित्तजातिभाव- स्वरूपोल्पेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यों मूर्धनि ज्वलनकपिशे भाति निहितः । स्त्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्त: स्फटिकधवलेनाड्कुर इव ।।' अत्राक्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते। उपात्तः कौटिल्यगुणो निमित्तम्। एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोत्पेक्षोदाहर्तव्या। उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'निवेशितं यावकरागदीप्ये ल्नं तदीयाघरसीम्नि सिक्यकम् । रराज तत्रैव निवस्तुसुत्सुकं मधूनि निर्धूय सुधासधर्मिणि ॥' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते। उपात्ता लगनक्रिया निमित्तम्। एव- सुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तगुणनिमित्त- क्रियाभावस्वरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेतिदूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिगलडृदयस्त्रुतासृगनुलिप्तमिव ।।' अत्र रुधिरानुलेपनत्रियोत्रेक्ष्यते। उपात्त आरुण्यगुणो निमित्तम्। एवमुपात्तक्रियानिमित्तापि क्रियाभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तक्रिया- निमित्तद्रव्यभावस्वरूपोत्प्रेक्षा यथा- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्वान्यमन्यमुपगम्य परित्यजन्ती। एतां जगाद जगदर्चितपादपझ्मा पझ्मामिवाच्युतभुजान्तरविच्युतां सा ॥'
Page 91
८६ काव्यमाला।
अत्र पझ्माया एकतया द्रव्यत्वाद्ट्व्यमुत्प्रेक्ष्यते। उपात्ता उपगम्यपरि- त्यजनक्रिया निमित्तम्। एवमुपात्तगुणनिमित्तद्रव्यभावस्वरूपोत्प्रेक्षोदाह- र्तव्या। एवं भावाभिमानेषु जात्यादिषूपात्तनिमित्ता अष्टौ भेदाः संपन्नाः । अनुपात्तनिमित्तजातभावस्वरूपोत्प्रेक्षा यथा- 'वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुक्षितेषु। बोलेषु ताराकवकेष्विवैकं विकस्वरीभूतमवैमि चन्द्रम् ॥' अत्र कैवकजातिरुत्प्रेक्ष्यते। अनुपात्तो घावल्यवर्तुलत्वादिर्गुणो नि- मित्तम्। अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'अयमाभाति राजेन्द्रो विजिताखिलशात्रवः । अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ।।' अत्र प्रसादो गुण उत्प्रेक्ष्यते। अनुपात्तो बहुप्रदत्वसुखनिषेव्यत्वादि- र्निमित्तम्। अनुपात्तनिमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निप्फलतां गता ।' अत्र क्रियोत्प्रेक्ष्यते। अनुपात्तं व्यापनादि निमित्तम्। अनुपात्तनि- मित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा । अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ।।'
गस्त्रीपुरुषा कारशालित्वमनुपात्तं निमित्तम्। अर्धनारीश्वरान्तरोत्प्रेक्षाया- मपि वस्तुतोऽर्धनारीश्वरस्यैकत्वाद्रव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा- 'विललास जलाशयोदरे क्वचन दयौरनुतिम्बितेव या।
अत्र देवपुरीद्रव्यमुत्ेक्ष्यते। सौभाग्यातिशयः कुण्डिनपुरीगतोऽनुपात्तो निमित्तम्। एवं चतुर्विधानुपात्तनिमित्तोदाहता। अस्यां निमित्तस्य गुण- १. 'नैकेषु ताराकलिकेषु' क. २. 'कलिकात्वजातिः' क.
Page 92
चित्रमीमांसा।
क्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम्। एवं जात्याद्युत्प्ेक्षा भावाभिमा- नवत्यः षोडश संपन्नाः । अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपात्ते निमित्ते तद्यवस्थाया असंभवात्। यथा-'विललास ज- लाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम्। निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि। अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उपात्तगुणनिमित्तजातिगुणक्रियाणामभावोत्प्ेक्षा यथा-
अनञ्जनोछेखमिवाक्षियुग्मं स्वाभाविकैरेव गुणैरुदीक्षे ।।' अत्र कुङ्कमरजोयावकरागाञ्जनोलेखन रूपाणां जातिगुणक्रिया णामभा वा उत्प्रेक्ष्यन्ते। उपात्ताः स्वाभाविकगौरारुणनीलवर्णा निमित्तम्। एतासु क्रियानिमित्तमप्युदाहार्यम्। उपात्तक्रियानिमित्तद्रव्याभावोलेक्षा यथा- 'भ्ुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम्। अचन्द्रामिव पश्यापि दिवं शोभाविवर्जनात् ।I' अत्र चन्द्रस्य द्रव्यस्याभाव उत्प्रेक्ष्यते। उपात्ता वर्जनक्रिया निमित्तम्। एवमुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहार्या। एतावेव श्ोकौ 'इदं विशालाक्षि विभावयामि' 'पद्वीममृतान्घसाम्' इति चतुर्थपादयोः पाठे- डनुपात्तनिमित्तजात्याद्यभावोत्प्रेक्षोदाहरणे। एवमभावाभिमानवत्योऽपि स्व- रूपोत्प्रेक्षा: पूर्वोक्तरीत्या षोडश द्वादश वेति द्वान्रिशच्चतुर्विशतिर्वा स्व- रूपोत्प्रेक्षाभेदाः प्रदर्शितप्रायाः । एतासु विषयिणः क्वचित्तादात्म्येनाध्यवसायः । यथा-'स वः पा- यादिन्दुः' इत्यत्र। क्वचित्तु संसर्गितया यथा-'निवेशितं यावकराग- दीप्तये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूत्प्रेक्षा। उपात्तगुणनिमित्ता जातिहेतूत्प्रेक्षा यथा- 'तनुरेणशावकद्शस्तनीयसी शनकैरवाप शरकाण्डपाण्डताम्। उदरान्तरस्थितिमुपेयुषो हरे: करपाश्चजन्यकिरणैरिवोद्गतैः ।।'
Page 93
८८ काव्यमाला।
अत्र किरणजाति: पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते। स एव पा- ण्डिमा निमित्तम्। एवं क्रियानिमित्तापि जातिहेतूत्प्रेक्षोहनीया। क्रियानि- मित्ता गुणहेतूत्प्रेक्षा यथा- 'वैहतो बहुशैवलक्षतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ।' अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्प्रेक्ष्यते। सैव प्राप्तिक्रिया निमित्तम् । उत्तरत्रापि हेतूत्प्रेक्षायां सर्वत्र फलमेव निमि- त्तम्। एवं गुणनिमित्तापि गुणहेतूत्प्रेक्षा द्रष्टव्या। गुणनिमित्ता क्रियाहे- तूत्प्रेक्षा यथा- 'विवस्वता नायिषतेव मिश्राः सवगोसहस्त्रेण समं जनानाम्। गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥ अन्रान्ध्यगुणं प्रति नयनक्रिया हेतुत्वेनोत्पेक्ष्यते। एवं क्रियानिमित्तापि क्रियाहेतूतप्रेक्षोदाहार्या। क्रियानिमित्ता द्रव्यहेतूतेक्षा यथा- 'हृदयं परिपूतमेव नित्यं विदुषस्तस्य विशुद्धकर्मभाजः । विपदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरङ्गिपद्मात् ।।' अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते। एवं गुणनिमि- त्तापि हेतूत्प्रेक्षोदाहार्या। इत्थं भावाभिमानवत्यो हेतूत्प्रेक्षा उदाहिताः। अथाभावाभिमानवत्यः । 'रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोत्थिते ।' 'तस्मिन्नस्तंगते भानौ विधुस्तस्य पदे कियान्। इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ॥ 'वीणावादनसंरम्भाच्चकम्पे दक्षिणः स्तनः । अदृष्ट्वेवेतरं तैस्यास्तम्भाभोगतिरोहितम् ॥' अत्राद्यश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावौ हेतुत्वेनोत्प्रेक्ष्येते। द्वि- तीयतृतीय श्ोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ। सृष्टिमीलनकम्पक्रि- १. 'दधतो' क. १. 'सततोदिते' ख. २. 'तस्यास्तुम्ब्याभोग' ख.
Page 94
चित्रमीमांसा।
यास्तु निमित्तानि। एवं गुणनिमित्ता अप्यभावहेतूत्प्रेक्षा उदाहर्याः। एवं षोडशमेदा हेतूत्प्रेक्षा दर्शिता। अथ फलोत्प्रेक्षा :- 'सौधेषु यत्र मुखभासु मृगेक्षणानां ज्योत्स्नापहासचतुरासु विसृत्वरीषु। चन्द्रस्तदर्थमिव रात्रिषु बभ्रमीति कुर्वन्करप्रसरणान्यधिजालवर्गम् ।।' 'तव निर्वर्ण्य यद्वर्ण स्वर्ण वर्णाय तादशे। त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ।।' 'रैथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' 'दुग्धार्णवसहस्राय कैलासाचलकोटये। नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ।।' एषु श्रोकेषु क्रमेण सुखप्रभागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपाणि जातिगुणत्रियाद्रव्याणि फलत्वेनोत्प्रेक्ष्यन्ते। भ्रमणतीर्थवासप्रस्थानप्रसारण- क्रिया निमित्तानि। एवं गुणनिमित्ता अप्युदाहार्याः । अभावाभिमानवत्यः फलोत्प्रेक्षा यथा- 'त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः । कलङ्कपङ्काभावाय नूनं मज्जति सागरे ॥।' 'अरण्यवासाज्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । कलिन्ददेशेश्वर वैरिनार्यः पराख्युखा लोचनविभ्रमेषु ॥' 'हेमाद्रिकुञ्जेषु विहारभाजः स्निग्धाङ्गनाकल्पित चन्द्र कार्ान् । श्रीवीररुद्रस्य यशोविलासान्गायन्त्यसंस्प्रष्टुमिवान्धकारम् ।।' 'वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम्। रजःपिहितदिग्गोलं निराकाशमिवोत्थितम् ।।'
१. बिह्हणकृतविक्रमाङ्गदेवचरिते महाकाव्ये पद्यमेतत्. १२
Page 95
९० काव्यमाला।
एषु श्लोकेषु पङ्कवैरस्पर्शनाकाशानामभावाः फलत्वेनोतेक्ष्यन्ते। तेषु पराब्मुखत्वमेको गुणः । अन्याः क्रियाः। इत्थं गुणक्रियानिमित्तमेदा उ- दाहार्याः। एवं फलोतेक्षाः षोडश दर्शिताः । इति वाच्योत्प्रेक्षावर्गः । अथ गम्योत्प्रेक्षा दिव्मात्रेणोदाह्वियते- 'नभसि महसां ध्वान्तध्वाङ्कप्रमापणपत्रिणा- मिह विहरणैः श्येनंपातां रवेरवलोकयन।
तदधिगमनात्तारापारावतैरुदडीयत ।।' अत्र सूर्येण विसृष्टानां ध्वान्तकाकप्रमापणश्येनरूपाणां किरणानां वि- हरणेन निमित्तेन सूर्यस्य श्येनपातवती मृगयाविहारक्रियोतपेक्ष्यत इति कि- यास्वरूपोत्प्ेक्षा तावदेका। तस्माच्छशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्पेक्ष्यत इति हेतूत्प्रेक्षान्या। ततस्तदधिगमस्तारापारावतानां सु- ग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूत्प्ेक्षा। सर्वाश्चैता गम्याः। इवाद्यभावात्। एवमन्या अपि स्वयमेव बोध्याः। नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात्। प्रा- गुदाहृतानामेव श्रोकानां नूनमादिशन्दाविधानेन गभ्योत्प्रेक्षोदाहरणत्वसं- भवाच्च गम्योत्पेक्षा: पृथक्साकल्येन नोदाहृतः । इदं तु चिन्त्यते। गभ्योत्प्रेक्षासु जातिद्रव्यस्वरूपोत्प्रेक्षे संभवतो न- वेति। संभवत इति पक्षे- 'रुचयोस्तमितस्य भारवतः स्खलिता यत्र निराश्रयाः खलु। अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ॥' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ।।' इत्यादिनोदाहरणेन भाव्यम्। अभिमतं च तथा केषांचित्। अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः। एतदभिप्रायेणैव तेनोक्ततं ग- १. 'निरालयाः' ख.
Page 96
चित्रमीमांसा । ९१
म्योत्प्रेक्षाविभागे 'प्रायश्वात्र स्वरूपोत्प्रेक्षा न संभवति' इति। कस्तर्ह्- नयोस्तस्य। पक्षेSलंकारः। रूपकमेव। अत एव- 'पीयूषप्रसृतिर्न वा मखभुजां दात्रं तमोलूतये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृडालीलता। द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरी सागसा- माशातन्तुरुदश्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' इत्यत्र मालारूपकमुदाहरता 'स्वर्गङ्गा विमनस्का' इत्यादिष्वपि रूपक- मेवोररीकृतम्। तस्माज्जातिद्रव्योत्प्रेक्षे परिहृत्यैव गभ्योत्प्रेक्षावर्गः परि- गणनीयः । इदं चान्यद्वोद्धव्यम् । धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो धर्मोत्प्रे- क्षासु विषयाश्रयविषयानुगतो धर्मश्च निमित्तम्। तेन 'उवाह या तनुलता' इत्यादौ वैमल्यं निमित्तमित्यादिपक्षो न युक्तः। तस्य तादात्म्यसंभावनो- पयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात्। 'यत्रान्यधर्मसं- बन्घात्' इत्यादिलक्षणं वदद्भिः सर्वैरपि विषयधर्मस्यैव निमित्तत्वस्य व्यवह- तत्वादित्यलमतिविस्तरेण । अत्र ब्रूम :- 'विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा। यादर्शि नैव शोभा तयोपमायामिवोपमेयस्य ।। तदभावेSलंकारा: संभवमात्रेण न विभागम्। अर्हन्तीतरथास्या विषयोऽप्येवं विभक्तव्यः ॥ धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः। उपमायामिव सोऽपि न्यूनस्तदभावयोरसंकलनात् ॥ मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ वतंसनीलाम्बुरुहेण किं दशा विलोकमाने विमनीबभूवतुः। अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मगीद्शाम्।। इत्यादिषु पश्यामो गुणक्रिकियाभावयोरपि व्यक्तम्। उज्ज्वलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ।।'
Page 97
९२ काव्यमाला।
अत्र ह्यादे उदाहरणे नयनयोर्हृदयगतप्रियवीक्षणायान्तःप्रविष्टत्वो- त्प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रियगत- विलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणत्रियाभावो निमित्तम्। एवम्- 'वीरासनैर्ध्यानयुषामृषीणाममी समध्यासितवेदिमध्याः । निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ।।' इत्यादीन्यभावनिमित्तत्वे भूयांस्युदाहरणानि। 'अपि च समुच्चयभेद: परिगणनीयो निमित्तेषु। भावौ भावाभावौ समुच्चितावपि निमित्ततां भजतः ।I' 'अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः । उड्डीय युक्तं पतिता: स्रवन्तीवेशन्तपूरं परितः प्वन्ते ।' 'उडडपरिषदः किं नार्हन्ती निशः किमनौचिती पतिरिह नै यदृष्टस्ताम्यां गणेयरुचां गणः । स्फुटमुड्डपतेराइमं वक्षः स्फुरन्मलिनात्मन- इछविमदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ।।' 'एवमादिषु बह्रीषु निह्ोतुं केन शक्यते। समुच्चितनिमित्तत्वमुत्प्रेक्षासु निरीक्षितम् ।।' आद्ये उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्प्रेक्षायां धावल्यगुणो जलोपरि प्वनक्रिया चेत्युभयं निमित्तम्। द्वितीये उड्डपतिवक्षसोऽश्मवि- कारत्वोत्प्रेक्षायामश्मच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमित्तम् । किं च- 'उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि। तेनापि विकलां विध्वो निमित्तगणनामिमाम् ।।' 'द्रोण: स तत्र वितरिष्यति भाग्यलम्य- सौभाग्यकार्मणमयीमुपदां गिरिस्ते। तह्टीपदीप इव दीप्षिभिरोषधीनां
१. वेशन्तमल्पशरः, तत्पूरयित्वेति णमुलू.
Page 98
चित्रमीमांसा। ९१
अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीपस्योपरि स्थितं जलद्कज्जलं च निमित्तमिति जातेर्निमित्तत्वं दष्टम्। 'निशासु मूर्ध्नि स्फुरता यत्सौधो राजतीन्दुना । श्रीकण्ठो भक्तरक्षार्थ संनिधानं भजन्निव ।I' इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्धि स्फुरन्निन्दुर्निमित्तम्। एवम्-'भासवतालंकारेण, श्वेतरोचिषा स्मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लो- चनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रहमयीव' इत्यत्र वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्लेषेण तत्तडहरूपापन्नालंकारादयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दृष्टम्। न चोदाहृतेषु दीह्या- दिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम् । तथा सति 'ईदक्षां क्षामतां गतौ' इत्यादावपि गमनादिक्रियासंबन्ध एव निमित्तमिति क्रियाया एव निमित्तत्वप्रसङ्गात्। न च तथापि 'भाखवतालंकारेण' इत्यादौ श्रलेषेण सूर्यरूपताद्यापन्ना अलंकारादयो निमित्तं न त्वविशिष्टा जातिर्द्रव्यं वेति वाच्यम्। तथासति 'कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव' इत्यादा- वपि कपालोन्मुक्ताङ्कुरत्वादिविशिष्टमेवोत्प्रेक्षणीयं न त्वविशिष्टं जात्यादि- कमिति विषयिणोऽपि जात्यादिरूपेण विभागस्यासामञ्जस्य प्रसङ्गात्। तस्माद्विषयिण इव निमित्तस्यापि जात्यादिरूपेण चतुर्विधतया पुनः प्रत्येवं भावाभावाभ्यामष्टविधतया च विभाग: कर्तव्य इति न्यून एवायं विभागः । किं च यद्धेतूत्प्रेक्षायामनुपादानं निमित्तस्य क्वापि न संभव इति प्रतिश्रुतं तदपि नो चारु। 'मझना सुधायां किसु तन्मुखेन्दोर्लना स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुञ्चतास्य दृष्टिः क्रशीयः स्खलनान्दिया नु॥' 'इह हेतावुत्प्रेक्ष्ये मज्जनलगने निमित्तमनुपात्तम्। तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ।' स्यादेतत्। इह मज्जमलगनोत्प्रेक्षयोश्विरेण मुखकुचत्यागावनुपात्तौ १. 'वृक्षदीपय उपरि' क-ख. २. 'गुणानां समुच्चितत्वं दृष्टम्' ग.
Page 99
९४ काव्यमाला।
निमित्ते, तयोश्र न मज्जनलगने हेतुत्वयोग्ये इति। सत्यम्। तथापि हेतू- त्प्रेक्षैव। न हि हेतूभवनक्षमस्योत्प्रेक्षैव हेतूत्प्रेक्षा, किं तु हेतुत्वेनोत्प्रेक्षा। यथा-'सैषा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र। अत्र हि पश्चमी हेतु- त्वप्रतिपादिका । तथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।।' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः । 'मदनतापभरेण विदीर्य नो यदुदपाति वदा दमनस्वसुः ।
इत्यत्र हृदयस्य मदनतापेन स्फुटितत्वोत्पतनाभावे कुचद्वययन्त्रणाया हेतुत्वोत्प्रेक्षायामुत्पतनप्रतिबन्धकत्वपरः प्रतिबभ्नतीशब्दः फलतोऽनुत्पतन- हेतुत्वप्रतिपादकः। एतादृशेषु च फलस्य निमित्तस्योपादानं नियतमेव। अन्यथा पञ्चम्यादीनामन्वयसंघटनाभावात्। यत्र हेतुत्वप्रतिपादकः शब्दो नास्ति तत्र हेतुभवनक्षमस्यापि स्वरूपोत्प्रेक्षैव । अत एवालंकारसर्वस्वकृता- 'प्राप्या भिषेकमेतस्मिन्प्रतितिष्ठासति द्विपाम्। चकम्पे लोक्यमानार्थभयविह्वलितेव भू: ।।' इत्यत्र विह्वलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्पं प्रति हेतुभवनक्षमत्वेऽपि स्वरूपोत्प्रेक्षोदाहृतेति चेत्। भैवम् । एवं हि- 'स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् । च्युतकेसरदूषितेक्षणान्यवतंसोत्पलताडना नि चें । ।' इत्यत्र हेतूत्प्रेक्षा लक्ष्या न स्यात्। स्मरणगतहेतुत्वप्रतिपादकशब्दाभा- वात्। न चेष्टापत्तिः । 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यौ रयते न दीयते।।' १. 'वा' क.
Page 100
चित्रमीमांसा।
इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्रोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणे- नैव दर्शनं न दीयते किमिति हेतूत्प्रेक्षापरत्व एव सामञ्जस्यात्। यदि तु हेतुत्वप्रतिपादकशब्दाभावेपि पूर्वापरानुगुण्येनापि हेतूत्प्रेक्षा भवेत् तही- हापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दोपात्ते रख- लनभयस्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुचत्यजने म- ज्जनस्य लगनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् । यत्रापि हि फले फ- लत्वप्रतिपादकशन्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामवधीर्य हेतूत्प्रेक्षाङ्गीकार्या दृश्यते। यथा- 'हृत्तस्य यन्मन्त्रयते रहस्त्वां तव्यक्तमामन्त्रयते मुखं यत्। तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ।।' अत्र हि हृदयकृतरहस्यमन्त्रणोद्लेदनप्रत्यवमर्शकेन तच्छब्देन सख्यौचि- तीशब्दृस्य कर्मार्थकष्यञ्न्तस्य सामानाधिकरण्याच्छन्द्तो रहस्योद्वेदनस्य मुखगतहृदयवैरिमन्मथसुहच्चन्द्रसख्यकार्यत्वं प्रतीयते। तथापि तत्र स- ख्यस्य रहस्योद्वेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु रहस्योन्वेदनस्य सख्य- फलत्वेन। रहस्यो्ेदनं फलमुद्दिश्य सख्यं कृतमित्युत्प्रेक्षाया असामञ्ज- स्यात्। हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलो- त्प्रेक्षाया अनिर्वाहात्। एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्वचिदौचित्येन हेतूत्प्रेक्षामवधीर्य फलोत्प्रेक्षाङ्गीकार्या दृश्यते। यथा- 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः। स्नजं सृजन्त्या तदशोभि तेषु यत्रैकया सूचिशिखां निखाय ॥'
न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किं तु वैरशोधनार्थ निखननमिति वै- रशोधनमेव फलत्वेनोत्प्रेक्ष्यम्। सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीयत्वात्। इह तदुद्देशोत्प्रेक्षणसंभवाच्च। यथा वा- १. 'इत्युक्त्वानन्तरम्' क.
Page 101
९६ काव्यमाला।
'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ।।' अत्र हस्तलेखीकृतया सरोजसृष्ठेति करणविभक्तिसन्भ्ावेपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्प्रेक्ष्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिर्हस्तलेखकरणमिति तत्प्रकाशनमेव फलत्वेनो- त्प्रेक्ष्यम्। किं बहुना यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौचि- त्येन क्वचिदङ्गीकार्य दृश्यते। यथा- 'स्तनावालोक्य तन्वङ्गयाः शिरः कम्पयते युवा। तयोरन्तरनिर्मन्नां दृष्टिमुत्पाटयन्निव ।।' अत्र शतुर्हेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद् फलोत्प्रेक्षाङ्गीकरणीया। एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूत्प्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति। एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम्। अपि च- 'यथोपात्तनिमित्तत्वमनुपात्तनिमित्तता। प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते।।' यथा- 'मुनिद्रुमः कोरकितोऽसितद्यतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ।।' अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमनविशिष्ट- राहुरूपत्वे उत्प्रेक्ष्यमाणे विशिष्योत्प्रक्षानिमित्तमसितवर्णत्वमुपात्तम्, वि- शेषणोत्प्रक्षानिमित्तं तु कोरकविधुकलासाधर्म्यादिरूपं नोपात्तम् । यथा वा - 'त्वत्प्नाङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्गलिनो विभान्ति। आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ।' अत्र विशेषणभूतसापराधत्वोत्प्ेक्षानिमित्तं शृङ्गलितत्वमुपात्तम्, विशे- •यशैलरूपत्वोत्प्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम् । यथा वा- १. हस्तलेखो नाम रुचिरवर्णलेखसिद्धयै पूर्वमभ्यासदार््याय तदभ्यसनम्.
Page 102
चित्रमीमांसा। ९७
'अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥' अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामणिमाङ्कितैरिति निमित्तमुपात्तम्। अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमु- पात्तम्। रयप्रकर्षेत्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीयादश्वादपकृ- ष्टरयत्वं नोपात्तम्। एवमन्यत्रापि निमित्तोपादानानुपादानसमुचये उदाहर्त- व्यम्। तस्मानन्यूनः सतृणाभ्यवहारश्चायं विभागः । अतोऽत्र विषयिणो जात्यादिरूपेणाष्टघाविभागम्, धर्मस्य गुणक्रियारूपेण विभागं चापहाय वि- भागान्तरलम्या यावन्तो भेदास्तावन्त एव चमत्कारिणः । स्वरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरभेदा: संभवन्ति।यथा- स्वरूपोत्प्रेक्षा द्विविधा, अविशिष्टोत्प्रेक्षा विशिष्टोत्प्रेक्षा च। यत्र विष- यिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्त- रूपस्य वा विषयविशेषणस्याभावात् किं तु तद्विशेषणं विषयिणि विधान्त- रेणोपयुज्यते साविशिष्टोत्प्रेक्षा। यत्र तु विषयिणो विशेषणमप्युत्प्रेक्षणी- यमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयविशेषणस्योपादा- नात्सा विशिष्टोत्प्रेक्षा। तत्राद्या यथा- 'रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण। काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ।।' अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमित्तम् । अत- स्तावदुत्प्रेक्षणीयमवगम्यते तत्प्रत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृत- मिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते। तदंशे विषयस्य वाच्यस्य गम्यस्य वा निमित्तस्य वालाभात्। किं तु परमेश्वरदग्धस्य मदनदेहस्या- सुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं कर्तु शक्रोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्यविशिष्टोत्प्रेक्षेयम्। विशिष्टोत्प्रेक्षायां 'मुनिद्रुम: कोरकितोऽसितद्युतिः' 'त्वत्म्नाङ्गणे सुन्दर पाण्ड्यदेव' इत्याद्युदाहरणे विषयोपादानाद्विषयिविशेषणस्योत्प्रेक्षतावग- १३
Page 103
९८ काव्यमाला।
म्यते। द्वितीये निमित्तोपादानाद्धेतुफलोत्प्रेक्षे त्वसिद्धयोः सिद्धयोर्वा हेतु- फलभावेनोत्प्रेक्षणीयतया प्रत्येकं द्विविधे। 'सैषा स्थली यत्र विचिन्वता त्वाम्' 'चोलस्य यञ्भीतिपलायितस्य' इत्यादिषु नूपुरकण्टकिद्ुमादावसिद्ध योर्विश्लेषदुःखललाटलिपिदर्शनादिक योर्हे तुफलाभावेनोत्प्रेक्षणीयता। 'आलोहिततलावेतौ क्षितौ विक्षेपणादिव। वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौ ।।' 'पूरं विघुर्वर्धयितुं पयोधेः शङ्केयमेणाङ्कमणि कियन्ति। पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ॥' इत्यादिषु पादचन्द्रादौ स्वतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोर्हेतुफला- भावेनोत्प्रेक्षणीयता। प्रकारान्तरेणापि कतिचिदस्या भेदान्समासोक्ति- प्रकरणे दर्शयिष्यामः । यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम् । एपा क्वचिद्धर्मविषये छ्लिष्टा, क्वचिच्छलादिशब्देन सापह्नवा, क्वचित्पदार्थान्वयवेलायां सादृश्या-
मेणोत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमा चेति। तत्र धर्मविपये श्लिष्टत्वं किमित्युपन्यस्तम् । किं धर्मस्य निमित्तानुगामितयेव श्लेपेणापि निर्वाह्यत इति, किं वा धर्मोशेषु शुद्धतेव श्लेषेणालंकृतापि दृश्यत इति। आद्ये उपमायां साधारणघर्मस्यानुगामित्वादयो यावन्तो मेदाः साधारण्यनिर्वाह- कास्ते सर्वेऽप्युत्प्रेक्षायां धर्मस्य निमित्ततानिर्वाहकाः संभवन्तीति न्यूनो विभाग: । तथा हि 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादौ तावदनुगामित्वं स्पष्टम्। तथा- 'व्यराजत सखे तन्व्या वक्रं वलितकन्धरम्। लावण्यौघजलावृत्तनालदण्डमिवाम्बुजम् ।।2 इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः । द्वितीये निमित्तांशेन श्लेषेण वार्लकारान्तरेणाप्यलंकृतता दृश्यते इति १. 'अभिमन्त' ख-ग.
Page 104
चित्रमीमांसा।
न्यूनो विभाग:। तथा हि 'अङ्गुलीभिरिव केशसंचयम्' इति निमित्तांशे उपमालंकारः स्पष्टः । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल। धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाश्चिभिः ॥' इत्यत्रोत्प्रेक्षा। अन्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वो- त्प्रेक्षायां काञ्चीसहितासु वलीषु तदीयाङ्गलित्वोत्प्रेक्षालब्घमुदरगतं तदी- याङ्कुलिचतुष्टयधारणं निमित्तम् । 'अजस्रमारोहसि दूरदीर्घी संकल्पसोपानतति तदीयाम् । श्वासान्स वर्षत्यधिकं पुनर्यच्ध्यानादिव त्वन्मयतामेवाप्य ।।' इत्यत्रासंगतिः । यतोऽ्र नलस्य दमयन्तीरूपतावात्युत्प्रेक्षायां दमय- न्तीकर्तृकेण सोपानारोहणेन नलस्य श्वासवर्षणं निमित्तम्। 'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारदक्चारदृगप्यवर्तत ।।' इत्यत्र विरोधाभासः । अन्र हि विरुद्धधर्मगतस्याश्रयभेदकत्वत्यागोत्मे- क्षायां विरुद्धतयावभासमानधर्माणां नले सहवासो निमित्तम्। 'ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतिवेगतः। धृतिविरोधकरीं द्यणुकोदरी तदुदितः स हि यो यदनन्तरः ॥' इत्यत्रार्थान्तरन्यासः। यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसप- क्षवेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमान्रं न निमित्तं किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन 'तदुदितः स हि यो यदनन्तरः' इत्यर्थान्तरन्यासेनोपस्कृतम्। एवम्- 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्घतनूसमस्याम्। इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याम् ॥' इत्यत्र निमित्तांशे रूपकमित्याद्यूहनीयम्। तस्मादुभयथापि तत्र छि- ष्टत्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम्।
१. 'उपेत्य' ख.
Page 105
१०० काव्यमाला।
यत्तु सापह्रवत्वे- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनलवच्छलेन मुक्तादृहासेव विभाति शिप्रा ।।' इति स्वरूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापह्रवत्वे उपलक्षणं बोद्धव्यम्। तत्र सापह्ववहेतूत्पेक्षायाम्- 'मुग्धः स मोहात्सुभगात्तदेहादृदन्वद्मूरचनाय चापम्। भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदासीत् ।।' अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतोऽहेतोः सौन्दर्यस्य हेतुत्वमप- ह्रुत्य नलभ्रूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम्। सा- पह्नवफलोत्प्रेक्षा यथा- 'रवितप्तो गजः पद्मांस्तद्गृह्यान्बाधितुं ध्रुवम्। सरो विशति न स्नातुं गजस्रानं हि निष्फलम् ।' अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमपह्ुत्य पद्मबाधनमत्र फलत्वेनोत्प्रेक्षितम्। न च स्वरूपोत्प्रेक्षाया वास्तवविषय- स्वरूपापह्नव एव विच्छित्तिविशोषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पह्रव इत्यस्ति। प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः सिद्धहेतुफलापह्ञवोऽपि सहेतुकः न तूदाहृतविषयः स्वरूपापद्वववन्निर्हेतुक इत्यत्रैव चमत्कारातिश- यसत्त्वात्। तस्मादिमे अपि सापह्ववोत्प्रेक्षे इत्युपलक्षणतैव युक्ता। अन्य- दन्र विचारणीयं समासोक्तिपकरणे विचारयिप्यते। यत्तु 'कस्तूरीतिलकन्ति भालफलके' इत्यादावुपक्रान्ता उपमा औचि- त्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं तत्र भालादिस्थानविशेषसंबन्धस्य कस्तूरी- तिलकादितादात्म्यमात्रे औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योत्प्रेक्षायां पर्यवसानं वाच्यम्। तथा च- 'रक्षन्तु त्वामसितजलजैरञ्जलि: पादमूलै मीना नाभीसरसि हृदये कौस्तुभाख्या मुरारेः। १. 'मारबाणा मुरारेः' ग.
Page 106
चित्रमीमांसा । १०१
हारा: कण्ठे हरिमणिमया वक्रपझे द्विरेफाः पिच्छाचूडाश्रििकुरनिकरे घोषयोषित्कटाक्षाः।।' इत्यादौ रूपकप्रतीतिस्थलेऽपयुत्प्रेक्षोपगन्तव्या। तथा- 'पतत्रिणा तद्रुचिरेण वश्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ।'
'अथाजिनाषाढघरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा। विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥' इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम्। एवम् 'वरण: कनकस्य मानिनीं दिवमङ्कादमराद्विरागताम्। घनरत्नकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ।।' 'स्वधाकृतं यत्तनयैः पितृम्यः श्रद्धापवित्रं तिलमिश्रमम्भः । चन्द्रं पितृस्थानतयोपतस्थे तदङ्गरोचिःखचिता सुधैव ।।' इत्यादिरूपकप्रतीतिस्थलेपि तस्यां पर्यवसानमुपगन्तव्यम्। तादात्म्यसं- भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाभ्यात्। एवम्- 'पूर्णेन्दोः पेरिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युपैति गगनाभोगाज्जिगीषोर्जगत्। कामस्योच्छितमातपत्रमधुना पाण्डुप्रदोषश्रिया
इत्यपह्ुत्युदाहरणे इत्यपि द्रष्टव्यम्। अधिकं निदर्शनालंकारप्रकरणे चिन्तयिष्यते। ननु गम्योत्प्रेक्षाया अलंकारतया परिगणनमयुक्तम्। तस्या अलंकार- ध्वनित्वात्। उच्यते। विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचका- १. सर्वेषु पुस्तकेषु श्रोकार्ध एव दृश्यते. २. 'प्रविशेषकान्तवपुषः' ग. ३. 'मानो- न्नाहजना' ख. ४. 'हेतोरधुवम्' क. ५. ख-पुस्तकेSत्रैव 'इत्युत्प्रेक्षाप्रकरणम्। समा- सश्चायं समुपलभ्यमानो ग्रन्थः' इति ग्रन्थसमाप्तिः कृता. ग-पुस्तके तु 'अप्यर्धचि- त्रमीमांसा' अयं समापतिश्रोकोSत्र विलिख्य पुनर्े अधिकमित्यादि लिखितमस्ति. ६. केवल इवादि' ग.
Page 107
१०२ काव्यमाला।
प्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वादलंकार- तामेवासादयतीति। यथोदाहृतम्। यत्रोत्प्रेक्षणीयस्य विषयिणोऽप्यनुपा- दानं निद्धेन वस्तुनालंकारेण वा गम्योत्प्रेक्षा गूढा तत्रैवोत्प्रेक्षाध्वनिः। यथा- 'वीररुद्रभटान्टृष्टा जयलक्ष्म्यावृतानरणे। कर्षन्त्यरिवधूकेशान्कानने कण्टकिद्रुमाः ।।' अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीपितमन्मथा इवेत्युत्प्रेक्षा ध्वन्यते। 'वेलामतिक्रम्य पृथुर्मुखेन्दोरालोकपीयूपरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स्म दृष्टिः ॥' अत्रैकदेशविवर्तिरूपके मज्जनभयादिवेत्युतेक्षावगम्यते। एवमन्यत्रा- प्युदाहार्यम्। इत्युत्प्रेक्षाप्रकरणम्। अथातिशयोक्ति :- तैस्यास्तावत्- विषयस्यानुपादानाद्विपय्युपनिवध्यते। यत्र सातिशयोक्ति: स्यात्कविभौढोक्तिजीविता।। इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति। भेदेडमेदः, अभेदे भेद:, संबन्धेSसंबन्धः, असंबन्धे संबन्ध इति। एतेपामुदाहरणानि- 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।' 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा कमलपत्राक्षी सृष्टिः साधारणी विधेः ॥।' 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुप्पाकरः । १. 'अस्याः' क २. 'कुवलयमेतापि' ग.
Page 108
चित्रमीमांसा। १०३
वेदाभ्यासजडः क्थ स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिद रूपं पुराणो मुनिः ।।' 'दाहोऽम्भःप्रसृतिपचः प्रचयवान्वाष्पः प्रणालोचितः श्वासा: प्रेङ्ितदीप्तदीपकलिकाः पाण्डिम्नि मन्नं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥' अत्र कमलादीनां मुखादिभेदेऽप्यमेदः। रूपादीनां लोकसिद्धरूपाद्य- भेदेडपि भेद: । रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः । विरहादी- नामम्भःप्रस्तिपचत्वाद्यसंबन्धेऽपि संबन्धश्च क्रमेण निबद्धः। अन्रेदं वि- चार्यते। विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रति- पादकाभावः, तद्वाचकाभावो वा। आद्ये 'कमलमनम्भसि' इत्यादावपि ल- क्षणं न स्यात्। कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्रतिपादक- त्वात्। द्वितीये 'चुम्बतीव रजनीमुखं शशी' इत्यादिषु मुखशन्दादिश्लेष- मूलातिशयोक्तावव्याप्तिः । विषयिवाचकातिरिक्तविषयप्रतिपादकाभावो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पम्मानीवोदिते रवौ'
तत्रोन्मीलितशब्दस्य विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात्। विषयिप्रतिपादकातिरिक्तविषयप्रतिपादकाभाववि- वक्षायामपि- 'पल्वतः कल्पतरोरेष विशेषः करस्य ते वीर। भूषयति कर्णमेकः परस्तु कर्णै तिरस्कुरुते ।' इत्यत्र कर्णशब्दश्षेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविषयिणोः
वक्षित इति चेत्, तथापि- 'उरोभुवा कुम्भयुगेन जम्भितं नवोपहारेण वयस्कृतेन किम्। त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।'
Page 109
१०४ काव्यमाला।
इत्यत्र कुचद्ये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्त्तावव्याप्तिः । त- त्रोरःप्रभवत्वाकारेण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य स- द्ावात्। ननु विषयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण वि- षयप्रतिपादकस्याभावो विवक्षितः, उरःप्रमवत्वं तुन पयोघरयोर्विषय- तावच्छेदकमनेकसाधारणत्वादिति चेत्, एवमपि- 'ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे। औलूकमाहुः खलु दर्शनं यत्क्षमं तमस्तत्त्वनिरूपणाय ।' इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृश्यमेदाध्यवसायरू- पातिशयोक्तावव्याप्तिर्दुवारा। तत्र वैशेषिकमतमिति विषयतावच्छेदकप्र- कारेण विषयप्रतिपादकस्य संभवात्। अपि चैवम् 'रामरावणयोर्युद्धम्' इत्यनन्वयालंकारे चातिव्याप्तिः। तत्र विषयप्रतिपादकविलक्षणविषयप्र- तिपादकाभावात्। ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविपयिभावोऽत्र विवक्षित इति नोक्ता- तिव्याप्तिरिति चेत्, एवमपि 'विद्वन्मानसहंस' इत्यादिश्छिष्टरूपकेऽतिव्या- परिर्दुर्वारा। रूपके ताद्रूप्यारोपमात्रम्, अतिशयोक्तावभेदाध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता। सारूप्यनिबन्धनसमासोकत्यु- दाहरणेषु चातिव्याप्तिः । 'अप्यर्धचित्रमीमांसा न सुदे कस्य मांसला। अनूरुरिव घर्माशोरर्घेन्दुरिव धूर्जटे: ॥l'
समाप्तश्चायं समुपलभ्यमानो ग्रन्थः ।
१. क-पुंस्तके 'इति चेत्' इति नास्ति. २. 'निरीक्षणायाम्' क. ३. 'दुर्वारा। तत्र' इति क-पुस्तके नास्ति. ४. 'सद्भावात्' क. ५. 'अप्रस्तुतप्रशंसोदाहरणेषु' ग.
Page 110
काव्यमाला।
पण्डितराजश्रीजगन्नाथविरचितं चित्रमीमांसाखण्डनम्। नागेशकृतमर्मप्रकाशाडुद्वृतया टिप्पण्या सहितमू।
नामं नामं घनश्यामं धाम तामरसेक्षणम्। पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥ रसगङ्गाघरे चित्रमीमांसाया मयोदिताः । ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे॥ सूक्ष्मं विभाव्य मयका समुदीरिताना- मप्पय्यदीक्षितकृताविह दूषणानाम्। निर्मत्सरो यदि समुद्धरणं विदध्या- दस्याहमुज्ज्वलमतेश्चरणौ वहामि ।। यत्त्वादिभागे चित्रमीमांसायामप्पयदीक्षितैः 'निःशेषच्युतचन्दनं स्तन- तटम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन च- न्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्रोद्धाटनाय तट्ग्रहणम्। स्नाने हि स-
त्यादिना प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्िपरिहाराय दूरमिति। अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिराशः । पुनः स्नानसाधारण्यव्यावर्ज- (र्त)नेन संभोगचिहोद्धाटनाय दूरे प्रान्त इति हृदयस्थितोऽर्थः । कालतः स्रानेन सर्व- १. 'मया'.
Page 111
२ काव्यमाला।
र्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तट उपरिभाग एव दृश्यते। इयमाश्ल्लेषकृतैव। तथा निर्मृष्टरागोऽघर इत्यत्र ताम्बूलग्रहणविलम्बात्प्रा- चीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मृष्ट इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिह्ोद्धाटनाया- घर इति विशिष्य ग्रहणम्। उत्तरोष्ठे सरागेऽघरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण त- टादिघटिता वाक्यार्थाः 'स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्ेपचुम्बनादीनां प्रतिपादनेन प्रधानव्यङ्गयव्यञ्जने साहायकमाचरन्ति' इति, तदेतदालं- कारिकाणामतितमां हृदयारुंतुदतया नालंकारमीमांसकेन वक्तुं युक्तम्। एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीस्ानपक्षे बाघितत्वाद्वि- रोधिलक्षणया वापीं स्नातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ वि- गलितव्यञ्जनाव्यापारेण यथा-'अहो पूर्ण सरो यत्र लुउन्तः स्नान्ति मा- नवाः' इत्यत्र लुठन्त इत्यस्य विशेषणस्य मुख्येडर्थेऽनुपपत्त्या विरुद्ोऽर्यो भासमानोऽपि न व्यङ्गयः, एवमिहापि स्यात् । अपि च यथाकर्थचिदङ्गीकुरु वात्र व्यअ्जनाव्यापारं तथापि न तवेष्ट- सिद्धिः । वाच्यानां निःशेपच्युतचन्दनस्तनतटत्वादीनामवमत्वस्य चत्व- दुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गु- णीभूतव्यङ्गयत्वप्रसङ्गात्। किं चैवं सति 'भैम धम्मिअ वीसत्थ- इ- त्यादौ लिङ्गजलिङ्गिज्ञानरूपेणानुमानेन व्यक्ति गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादृपि
तोऽञ्जनलोप: स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानज्नत्वमिदं चुम्बनकृतमेवेन्यादि परिग्रहः । वाक्यार्थाः प्रधानवाक्यार्थाः । प्रधानव्यङ्गयं संभोगः । यथाकथंचि- दिति । अर्थापत्तिप्रमाणस्यातिरित्तस्याभावादिति भावः । अत्र रमणे। संभोग- मात्रेति। तदन्येन वाच्यसिद्धेरेवाभावादिति भावः । भमेति। 'त्रम धार्मिक वि- श्रब्ध: स शुनकोऽद मारितस्तेन। गोदानदीकच्छनिकुञवासिना दप्तसिंहेन॥' कुसुमावच- १. 'भम धम्मिअ वीसत्थो सो सुणओ अज मालिदो तेण। गोलाणइकच्छकुडहवा- सिना दरिअसीहेण ।I'.
Page 112
चित्रमीमांसाखण्डनम् ।
लिङ्गाव्यञ्जनमभ्युपगच्छन्तः सर्वेऽपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूला: स्युः । अन्यच्च येनोदाहृतं पद्यमायुष्मता व्याख्यातम्, तस्यापि विशेषणानामसाधा- रण्यमननुमतमेव। तथा च तेनैवोक्त्तं पञ्चमोलासशेषे-'निःशेषेत्यादौ ग- मकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भ- वन्ति। यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानी- त्यनैकान्तिकानि' इति। एवं च त्व(त)दुक्तिविरोधः स्फुट एव । त- स्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिका निरूपितानां विशेषणानाम्। तथा हि-अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालाति- क्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापीं स्नातुमितो ममान्ति- काद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाघमस्यान्तिकम्। यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलस्। वापीगतबहुलयुवज- नत्रपापारवश्यादंशदूयलग्नाग्रस्वस्तिकी कृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुरामर्शात्। एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽघरस्तु तदपेक्षया गण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा। किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गाह्दूरमुपरिभाग एवानञ्जने। शीतवशात्तानवाच्च तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढता- त्पर्योक्तिरुचिता। अन्यथा वैदग्ध्यभङ्गापत्तेः। एवं साधारणेषु वाक्यार्थेषु सुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यना- कलनात्कुतोSत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यना- यार्थ कुञ्जे धार्मिकभ्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम्। अत्र वाच्येन भीरू- स्वभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुञ्जे सिंहोपलब्ध्या भ्रमणनिषेधो व्यङयः । ग्रन्थ- विरोधमाह-अन्यञ् येनेत्यादि। गमकतयेति। संभोगेत्यादिः। अन्नैव निःशे- षेत्यादावेव। प्रतिबद्धानि जन्यतया न तत्रैव संबद्धानि। अनैकान्तिकानि सा- धारणानि। कथं तहिं तस्य व्यङ्गयत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्यार्थेति। वापी- स्नानेनेत्यर्थः । निरूपितेति। बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति। अन्तिक- मित्यत्र गतासीत्यनुषङ्गः । एवं त्रपापारवश्यात्। तथा निर्मृष्टरागः। तन्वीत्यस्यार्थ- माह-तानवाच्चेति। कृशत्वाच्चेत्यर्थः । उपसंहरति-एवमिति। उक्तप्रकारेत्यर्थः । मुख्यार्थे वापीसाने । अनन्तरमिति । वाच्यार्थप्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री
Page 113
काव्यमाला। oc
यकादीनां वैशिष्ट्यप्रतिपत्तौ सत्याममपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृ- त्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमित्तकदुःख- दातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दृतीसंभोगनिमित्तकढुःखदातृत्वाका- रेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्ष नोत्तमनायिका नाय- कस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन क- र्मणा। तादशं च दूतीसंप्रेपणात्प्राचीनं सोढमेवेति नोद्वाटनाहमितीतर- व्यावृत्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम्। विद्ग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य सवनायकापराघस्य स्फुटं प्रकाशयितुमतितमापनौचित्येन प्राचीनानामेव सोढानामप्यपराधाना- मसह्यतया दूतीं प्रति प्रतिपादयिपितत्वात्। यथैत्र हि- 'औणिहं दोव्वल्ं चिन्ता अलसन्तणं सणीससिअम्। मह मन्दभाअणीए केरं सहि तुह वि परभवइ ॥'
द्धव्यवैशिक्षवशात्तत्कामुकोपभोगजनितोन्निव्रादिपु पर्यवस्यन्ति। न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेपणमपेक्षन्ते सहृदयाः, एवमिहापि। अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्वननवेद्य- त्वमव्याहतमेवेति चेत्, नैवम् । 'अघमत्वं जात्या कर्मान्तरेण वा नोत्तम-
विदग्धोत्तमनायिका। बोद्धव्या दुःशीला दती। नायकल्ादशः । आदिना काकादि- परिग्रहः । अधमपदेनेति। बोधित इति शेपः । स्वेति। अधमपदप्रतनतिनिमित्तमि- त्यर्थः। साधारणेति। तादृशकर्मान्तरसाधारणेन्यर्थः। स्वापराधेति। स्वं नायिका। दूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्यमाह-विदग्धेति। तदुपभोगेति। दूत्युपभोगेत्यर्थः । अतितमामत्यन्तम्। प्राचीति। दृतीमंत्रेरणातित्वयादि: । अन्यथा वैदग्धादिभङ्गापत्तिः। औणिद्दमिति। 'औनिश्रं रषत्यं चिन्तालसत्वं सनिःश्वसितम्। मम मन्दभागिन्या: कृते सखिर त्वामपि परिभवति ॥' कृतकामुकसंभोगां दूरती प्रत्यु- पभोगचिहैस्तं ज्ञातवत्या नायिकाया इयमुक्ति:।साधारणानि। रोगादितोऽपि तत्संभ- १. 'स्वप्रवृत्तिनिमित्तप्रयोजकः' इति.
Page 114
चित्रमीमांसाखण्डनम्। 5
नायिका नायकस्य वक्ति' इत्यादिना संदर्भेण रमणस्यापि भवतैव श्रुता- र्थापत्तिवेद्यतायाः स्फुटं वचनात्। एतेन काव्यप्रकाशटीकाकृतामुक्त्तयः परास्ताः । विशेषणसाधारण्यपरस्य स्वमूलग्रन्थस्यैव तैरनाकलनात्। बाघा- भावेन लक्षणाया दूरापास्तत्वात्।- 2 यत्तु- 'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाहि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ।' इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्रोमीति व्यङ्गयं प्रियगमननिवारणरूपवाच्यसिद्ध्ङ्गम्' इति मध्यमकाव्योदाहृतिप्र- सङ्गे निगदितम्, तच्चिन्त्यम् । सबाष्पगलज्जलानां 'प्रहरविरतौ' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्यङ्गव्यङ्गयतया व्यङ्गयस्य गु- णीभावाभावात्। आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्रियाकरण- तायाः स्फुटं प्रतीतेः । न च व्यङ्गचस्यापि वाच्यसिद्धङ्गतात्र संभवतीति तथोक्तमिति वाच्यम्। 'निःशेषच्युतचन्दनम्' इत्यादावप्यधमत्वरूपवाच्य- सिद्यङ्गताया दूतीसंभोगादौ संभवाङ्गुणीभूतव्यङ्गत्वापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्कोमीति वाच्यसिद्धङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगा- दभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्।
वातू। यथात्रैव नायिकायास्तद्वियोगतः। प्रहरविरताविति। है प्रिय, त्वं किं प्रहरसमाततौ दिनमध्ये याते वा मध्याह्वादपि परेण ततीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैष्यस्यागमिष्यसि। इत्येवं प्रकारेण । आलापेऽस्यान्वयः । अग्रे स्पष्टम् । शतशब्द्ोSनियतसंख्यावाची। एवमुक्तव्यवच्छेदे। वयङ्गयस्य शक्ोमीत्यन्तस्य। ननु विनिगमनाविरहोऽत आह-आलापैरिति। प्रकृत्यर्थस्य तादृशालापस्य। अ- पिरुक्तसमुच्चये। ननु सबाष्पगलजलतदुक्तालापानां गमनोत्तरचिरकालावस्थितिनिवार- कतयाप्युपपत्तेर्व्यङ्गयसहितानाभेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति। आन्तरालिकव्यङ्गयमादायैव ध्वनिगुणीभूतादिव्यङ्गयव्यवहारस्योपपद्यमानतया 'विप्रलम्भेन
Page 115
काव्यमाला।
यक्षप्युभयचित्रप्रस्ताव उदाजह :- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धुन्वन्नौदन्वतमुदकमूर्वीमुदवहत्। खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ॥' एतच्च पद्यं दोषाविलत्वादनुदाहार्यमेव। तथा हि-प्रथमेडर्घे वाक्यद्व- यस्यापि समाप्तेनैराकाङ्मयादुत्तरार्धगतविशेषणे समाप्तपुनरात्तत्वम्। नि- वृत्त उद्वाहे मङ्गत्यपटहवादनप्रतिपत्तेरपस्थपदत्वम् । ऊर्ध्ववहननिप्पत्तौ च भूम्यूर्ध्वगानां कुलशिखरिणां कूटेपु कथंकारमधःस्थस्य भगवतो वरा- हस्य खुराघात इति व्याहतार्थत्वम्। एकार्घेडनेकक्रिकयत्वेन यत्पदाध्या- हारेण चासंछ्लुलत्वं चेति। अन्येऽप्येवंजातीयका बहवोऽत्र दोपाः । न ह्यवरं काव्यमिति दोषसहस्त्रग्रस्तमुदाह्ियते। तस्य काव्यतव नेत्यालंका- रिकसिद्धान्तात्। अयमपि कवेः सहृदयस्य च महान्दोपो यत्पुनरिद- मेव पद्यं पूर्वोत्तरार्धव्यत्यासेन न पद्यान्तरतामापितम्। एवमप्येकार्धगते नानेकक्रियत्वेन यत्पदाध्याहारेण चासंघुलत्वाच्चमत्कारापकर्पः स्थित एव ।। इति श्रीभट्टभट्वारक पेरुभट्वात्मजेन पण्डितराजापराभिधानेन जगनायभट्टेन निर्मिते चित्रमीमांसाखण्डने अ्रन्धारम्भप्रकरणदोपाः ।
अथोपमाप्रकरणदोषा :- यत्तु 'मुखस्य पुरतश्चन्द्रो निप्प्रभः' इति वाक्यमुपमाया विपुलालंकार- वर्तितां प्रतिपादयन्निः प्रायुज्यत, तद्याकरणाचिमर्शनिवन्धनम्। पुरत इति नगरवाचिन: पुरशब्दात्तसिलि मुखस्य नगरादित्यर्थस्यासंगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते। पूर्वशब्दात्तु 'पूर्वाधरावराणामसि
ध्वनित्वं को निवारयेत्' इति चिन्त्यम्। अन्यथा 'गमतरुणम्' इत्यादिगुणीभतव्य- ङयीयप्रकाशासयुक्तोदाहरणानामप्यसंपत्यापत्ती व्याकुली स्यात् तवापि व्यहयसंकेतभहेन वाच्यमुखमालिन्यातिशवरूपानुभावमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संकेतभहेन। तस्याकर्तव्यत्वबुञ्ध्यापि संभवादिति बोध्यम्। तसिलीति। इदं चिन्त्म्। तदप्रासेः।
Page 116
चित्रमीमांसाखण्डनम्। ७
पुरघवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम्। न तु पुरत इति। अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क महाकविः। एव- मेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥' इति वाचकोपमेयलुप्तोदाहरणमपि तैनिर्मितमपशब्दकलुषितमेव। तथा चाहुरवैयाकरणा :- 'पैत्या पुरतः परतः,' 'आत्मीयं चरणं दधाति पुरतः', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अ- पशब्दाः' इति।
र्णनमदुष्टमव्यङ्गयमुपमालंकारः', 'स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा त- थाभूतं तथा' इति लक्षणद्वयं तैरेव निर्मितम्, तदसत्। वर्णनस्य विल- क्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहेणोपमाया वाच्यालंकारता न स्यात्। तस्य सर्वथैवाव्यङ्गयत्वादव्यङ्गयत्वविशेषणवैय- थर्याच्च। अथ यदि वर्णनविषयीभूतं तादशसादृश्यमुपमेत्युच्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोपसर्जने च तुल्यम्' इत्यादावपि। अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्य तत्रापि आद्यादित्वात्तलावित्युचितम्। महाकवि: कालिदासः । तैः अप्पयदीक्षितैः । इद चिन्त्यम्। पुरत इति निपाताङ्गीकारात। अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते। इति केचित्। अन्ये तु-'दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्ावेन सिद्धेऽतसु- ज्विधानमन्यस्मादपीति ज्ञापनाय। तेन पचाद्यजन्तात्पुरश्दात्तस्मिन्निष्टसिद्धि :- इत्याहुः ॥ वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपधलक्षणे के सार्वत्रिकस्तसिः ।' इति बोध्यम् । वैयाकरण इति । प्राश्च इत्यादिः । विलक्षणशब्देति। श्दस्य वाच्यत्वमते नायं दोषोऽत आह-विलक्षणज्ञानेति। अव्यङ्ग्यत्वात् व्यङ््यत्वाभावात्। ताटशेति। अडुष्टाव्यङ्गयाद्यविशेषणद्वयान्यतरेत्यर्थः । इत्यादावपीति। उपमालंकारापत्तिरित्यस्यानुषङ्गः। आदिग्राह्यं चिन्त्यम् । तत्रापि १. 'पत्या पुरतः सरता'.
Page 117
८ काव्यमाला।
प्रतिपादनात्। न चात्र वचनभेदस्य दोपस्य स्त्वाददुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम्। एतद्वाक्योपप्ुतवाक्यान्तरप्रतिपादितै(कै)को- पमेयके सादृश्ये तथाप्यतिप्रसङ्गात्। न चात्रोपमितिक्रियानिप्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात्, चमत्कारिविषयककविव्यापा- रस्यैव वर्णनपदार्थत्वादिति वाच्यम्। एवं हि चमत्कारित्वस्य लक्षणे- Sवश्यं निवेश्यत्वेनोपमितिक्रियानिप्पत्तिविशेषणस्य वैयर्थ्यात्। नह्यनिष्प- न्नमापाततः प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते। एवं द्वितीयलक्षणे नि- पेधापर्यवसायित्वं निरर्थकम्। व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ कमलादिसादृश्यनिषेधस्य, अ[न]नवये च सर्वथा साद- श्यनिषेधस्य चमत्कारितया तत्प्रतिपत्तये प्रतियोगिविधया सादृश्यनिरूप- णमित्यलंकारिकैरभिधानात्। किं च- 'स्तनाभोगे पतन्भाति कपोलात्कुटिल्ोऽलकः । शशाङ्कविम्बतो मेरौ लम्बमान इवोरगः ॥' इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभृतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिप्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यङ्गचत्वस्य च] अत्रापि सत्तवात्। नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्। कल्पिनोपमाया निर्विषयत्वा- पत्तेः। न चेयमुपमा लक्ष्यैवेति वाच्यम्। ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः ।
कालोपसर्जनयोरपि। अत्र 'कालोपसर्जने च तुल्यम् दच्पत। विचचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोपोक्तिः। उपस्लुतेति। कल्पिनेव्वर्थः। प्रधानप्रन्ययार्थवच- नवत्काल इत्यादीति भावः । तदाह-पकोपमेयेति। अत्रेति। बधागौरित्यादावि- त्यर्थः । व्यतिरेक इति। तवाननस्येन्यादाविव्ययः। कमलादिसादृशयेति। कम-
तात्पर्यग्राहकमिदम्, न तु लक्षणशरीरपदकमिति चेन, तवाह-कि चेति। वाक्या र्थत्वनेति। तथा च न वाक्यार्थोपस्कारकत्वमिति भानः । तदाह-अनलमिति। ९. 'प्रतिपत्तिपादितैक'.
Page 118
चित्रमीमांसाखण्डनम् ।
'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः। क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।' इति स्वकृतसूत्रेऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानस्य, अलंका- रभूतोपमालक्षणत्वे तदेवादुष्टाव्यङ्गयत्वविशेषितमिति तत्रैव पुनरभिधानस्य चासंपत्त्यापत्तेश्र। नह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिदति- रिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात्। अपि च लक्षणे सादृश्यविशेषणं निरर्थकम्। 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभी- ष्टार्थलाभात्। अन्यच्चाव्यङ्गयत्वविशेषणमयुक्तम्। नहि व्यङ्गयत्वालंका- रत्वयोरस्ति कश्चिद्विरोधः। प्राधान्येन व्यङ्गयतायां तु प्रधानत्वालंकार- त्वयोर्विरोधादलंकारत्वलक्षणं तत्र मा प्रसाङ्कीदित्युपस्कारकत्वेन पुनर्विशे- षणीयम्, न त्वव्यङ्गयत्वेन। 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ।I' इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः अत एव त्वयाप्यदष्टाया आननं त्वत्सदशमिति व्यङ्गयायामुपमायां मूढपदध्वन्यमानचन्द्रविषयव- कृगतासूयालंकारभूतायामव्याप्तेः। विशिष्टोपमादिस्थले च विशेषणाद्युप- मानां वाच्यसिच्धयङ्गतया गुणीभूतव्यङ्गयत्वम्, सिद्धार्थस्योपस्करणाभा- वात्तु नालंकारतेति मम न काप्यसंगतिः । यदपि काव्यप्रकाशो क्तोपमाभेदाधिक मेदकथनप्रस्तावेऽभिहितम्-"ध- र्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता। द्विर्भावेऽपि दृश्यते। 'पटुपटुर्देव-
नन्वलंकरोतीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यस्वरूपत्वेन विशेषलक्षणेषु तद- निवेशेऽपि क्षत्यभाव इत्यत आह-अपि चेति। अत एव चित्रभूतोपमालक्षणं त्विति तैर्भोक्तम्। पूर्ववदस्यापि तात्पर्यप्राहकत्वादिदमपि चिन्त्यम्। अव्यङ्गयत्वं च तल्लक्षणे प्राधान्येनाव्यङयत्वं बोध्यमिति दिक। विनिभालितमिति । विशेषेण दृष्टमित्यर्थः । अत्रेति। व्यड् यायामित्यत्रास्यान्वयः । व्यङ्गयायामुपमायामिति। अत्रोपमान- स्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्गयत्वम्। मूढपदस्वारस्यात। चमत्कारातिश-
Page 119
१० काव्यमाला।
दत्तः' इत्यत्र 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्मावविधानात्" इति, तत्तुच्छम्। अत्र चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलुप्तायामेतदाधि क्यमुद्भावयितुमुचितम्। न तु धर्मलुप्तायाम्। धर्ममात्रलुप्तायाश्चान्तर्भावात्पृथगुपादानमसंगतमेव स्यात्। न चात्र द्विर्भावस्यैव वाचकस्य सत्त्वान्नास्ति तस्य लोपः, अपि तु धर्ममात्रस्येति वत्तुं शक्यम्। द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाप्यकैयटादिविरुद्धत्वात्। त- दुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमादाय कै- यटेन 'द्विर्वचनस्य प्रकृतिः स्थानी इति तदर्थो विशि्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्वयभिचाराभावात्। तद्रहणाद्गुणवचनो यः शब्दो निर्ज्ञातस्तस्य सादश्ये द्योत्ये द्वे भवत इति सूत्रार्थः' इति। एवं च द्विर्भा- वपदस्य सादृश्युद्दयोतकत्वमेव न वाचकत्वम्, अतो वाचकलोपोऽप्यत्रास्तीति वाचकधर्मलुप्ताया उदाहरणमेतत्, न धर्मलुप्तायाः । यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्याग्रहः, तदा तुष्यतु भवानू। यच्चान्यदभ्यधीयत तस्मिन्नेव प्रसङ्गे- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाघरम् ।' अत्र क्किप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयन्रापि" इति, तदरम- णीयमेव। चश्चेत्यत्र कनो वाचकस्य 'लुम्मनुप्ये' इति शास्त्रेण लोपेडपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चञ्चाचन्द्रसाधार- णस्य धर्मस्योक्तत्वात्कथं तावद्धर्मलोपः। न चोपमेयमर्त्यविशेषणतयोपा-
याच्च। किं हृष्यसीत्येतत्स्वारस्याच्चेति केचित्।अन्न चैति। चो तर्थ। सूत्रार्थ इति। द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शक्तत्वरूपवाचकत्वाभावाद्ाचकलोप इति तव हृदयम्। तत्तु इवादेर्दोतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहनमुखमित्यत्र च वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशिष्टान्यतरबोधकाभावस्यैव वाचकलुप्ताव्यव- हारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नास्ति वाचकलोप इति त- दाशयादबोधमूलकमिति चिन्त्यमिदम्। यञ्चान्यदिति । वक्ष्यमाणमन्यच्चेत्यर्थः । क्विब्लोपे तथोक्तेर्युक्तत्वेऽपि कन्लोपेऽयुक्तत्वमित्याह-कन इति। तामुपपादयति-
Page 120
चित्रमीमांसाखण्डनम्-। ११
त्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चश्चायामनन्वयान्न सा- दश्यमिति वाच्यम्। 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति।
इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति' इति स्वोक्तेरसंगत्यापत्तेः । इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादश्योपसर्जनेऽपव- र्गेडन्वयाभावात्कथंकारं धर्मस्य साधारण्यम्। उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये स- त्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत्, च- न्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेद- कतयैव चन्द्रकलाघरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्र स्वात्म- हिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान्। यच्चापि "सेयेमुपमा संक्षेपतस्त्रिधा-कचित्स्ववैचित्रयमात्रविश्रान्ता । यथा-'स च्छिन्नमूलः क्षतजेन रेणुः इत्यादौ। कचिदुक्तार्थोपपादनपरा। यथा-'अनन्तरत्नप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरोमणिभिरभ्य- धीयत। तदप्यहृद्यमेव। 'देवतुल्यैनरैर्भाति स देशः सुमनोहरः' इत्यादौ वाच्यभूतवस्तूपस्कारिकाया देवोपमाया अक्रोडीकरणात्। नह्यत्र स्ववै- चित्र्यमात्रें विश्रान्तिरस्ति । गुणानां प्रधानसान्निध्ये स्वातन्त्र्यायोगात्। नापि व्यङ्गयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति। अलंकारभूतो- पमासु स्ववैचित्र्यमात्रविश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमाना- यास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः। असंग्रहे तु तत्रैवालं- कारभूतोपमालक्षणस्यातिव्याप्तिरिति प्रागेवावेदनात्। अहो महदेवेदमन्या-
इहापीति। कथंकारं कथं कृत्वा। पाठान्तरवादी स्वाशयमाह-उपमेयेति। एव- मेवेति। एवं च तुल्यतेति भावः । प्रकारान्तरेण स्वाशयमाह-यदि वेति। तैरे- १. 'साधारणतानियामकम्'. २. आधुनिकपुस्तकेषु तु 'पुनश्चेयम्' इत्युपलभ्यते.
Page 121
१२ काव्यमाला।
य्यम्-यदलक्षणीयायाश्च स्ववैचित्र्यमात्रविश्रान्ताया उपमायाः संग्रहः, लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति। प्राचां तूपमासा- मान्यं लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववैचित्र्यमात्रविश्रा- न्तायाः संग्रहो नानुचितः । न तु स्वस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य। यदि च प्रबन्धव्यङ्गयोपस्कारकत्वे- नेयं संगृह्यत इत्युच्यते, तदा 'स्ववैचित्र्यमात्रविश्रान्ता' इति स्वोक्तिर्विरुद्धा स्यात्। 'अनन्तरत्नप्रभवस्य' इत्यत्र गुणसमूहसमानाधिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादितार्थसमर्थनात्मकस्य सामा- न्यात्मकस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरण- समानाधिकरणेडक्के उदाहृतः, न तूपमानतया निर्दिष्टः।सामान्याद्विशेषस्य मे- दाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालं- कारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्युदकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदा- ह्वियते, तद्वदत्रापीति। विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाघरादवसेयः। वेति। अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति। तवेत्यर्थः । नानुचित इत्यस्यानुपङ्गः। इयं स्त्रवैचित्र्यमात्रविश्रान्ता। विरुद्धा स्यादिति। वस्तुतस्तु-उपमासामान्यलक्षण- स्यापि प्रकृतत्वेनोपमासामान्यस्यैवायं विभागः । उपमानोपमेयताव्छेदकयोरमेदाव्चास्त्ये- वोपमितिनिष्पत्तिः । अत एव 'सेयमुपमा' इत्येवोक्तम्। नत्वलंकार इति। 'नयने शि- शिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तूक्तार्थोपपादनपरव मुखकर्तृकनयनकर्मक- शिशिरीकरणस्यैव कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपाद- नमू, उक्तार्थे वोपपादनमित्यर्थद्वयम् । विनिगमनाविरहात्। इति न दोष इति चिन्त्- मिदमिति बोध्यम् । उक्तार्थोपपादनपरोपमायास्तदुक्तमुदाहरणं दूशयति-अनन्तेति। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ।I' इत्यत्रेत्यर्थः। स्कुरतीन्यस्यार्थस्य ततीयचरणप्रतिपा- दस्य। तत्त्वेनानिर्दिष्टत्वे हेतुमाह-सामान्येति।अनवतारादिति। अप्रे तथा चेति शेष:। अलंकारोऽयमतिरिक्त इति। 'अदत्वा मादृशो मा भूदृत्वा त्ं त्वादृशो
रुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्ूदिहापि सामान्यधर्मविशेषधर्मयोस्तयोभेदेन १. 'सामान्यरूपस्य'. २. 'करणेंऽसुके'.
Page 122
चित्रमीमांसाखण्डनम्। १३
यत्तु 'लुप्तायां बिम्बप्रतिबिम्बादयो नैवं मेदाः । तस्यां साधारणघर्म- स्यानुगामितानियमात्' इत्युक्तम्, तन्न । 'मलय इव जगति पाण्डुर्वल्मीकसमो नृपोऽम्बिकातनयः । जम्बूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ।।' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योध- नादीनां च विम्बप्रतिबिम्बभावस्यैवोपमानिर्वाहकत्वात्। न च श्रौतोपादान- मन्तरेण नास्ति बिम्बप्रतिबिम्बभाव इति वाच्यम्। आर्थबिम्बप्रतिबिम्बने तद- नपेक्षणात् । अत एवाप्रस्तुतप्रशंसायां वाच्यव्यङ्गयवाक्यार्थावयवानां बि- म्बनमप्रत्यूहम् ॥ इति श्रीभट्टभट्वारकपेरुभट्ात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमाप्रकरणदोषा: । अथोपमेयोपमाप्रकरणदोषा :-
'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणं निरमीयत। अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्त- रीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति। अन्योन्यप्रतियोगिक- त्वविशिष्टां व्यक्त्या व्यञ्जनाव्यापारेण वृत्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयोपमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः। तन्निष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयात्। चिन्त्यमेतत्। 'उद- कोदकारे दधीकारस्य यः' इति पाठः ॥ प्राचीनेति। 'उपमानोपमेयत्वं दयोः पर्यायतो यदि। उपमेयोपमा सा स्यादविवि- धैषा प्रकीर्तिता ।' इत्यर्थः । अव्याप्तीति। 'तद्वल्गुना युगपदुन्मिषितेन तावत्' इत्य- त्राव्याप्तिः । 'रजोभि: स्यन्दनोद्ुतैः' इत्यत्रातिव्याप्तिरिति भावः । ततीयार्थः प्रतियोगि- त्वमित्याशयेनाह-अन्योन्यप्रतीति। लक्षणाया असंभवादाह-शक्त्येति। इवा- दिसत्वे इति भावः । विश्रान्तेति । उभयत्र पर्यवसिता न श्रौती तस्यामित्यर्थः । श
Page 123
१४ काव्यमाला।
अत्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्र शक्तिवेद्यत- या परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रतियोगिकत्वविशिष्टायास्तस्या अबोधनात्। परस्परनैरपेक्ष्यस्य लक्षणे वाकारेणाभिघानात्। एकधर्माश्र- येति विशेषणात् 'रैजोभिः स्यन्दनोद्धूतैर्गजैश्र घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।।' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधर्मैक्याभावात्। भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसदशगजानां बिम्बप्रतिबिम्त्रभावापन्नधर्मस्य च मे- दात्। व्यक्त्येति च विशेषणं व्यङ्गयोपमेयोपमासंग्रहार्थमितीदमुपमेयोप- मात्वप्रयोजकं लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखवै गौराङ्गि खेदं न कदापि यायाः । गवेषणेनालमिहापरेषामेषापि तुल्या नितरां भवत्याः ॥' अत्र 'पष्टयन्तात्सदशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविसिष्टाया उपमायास्तनुत्वादिरूपकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्र-
कीति। समंपदे(?)त्यादिः। ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्प- रेति। अन्यथा पक्षान्तरकथनासंगतेरिति भावः । रजसामिति। प्रयोजकीभूतरजो- भिन्नानुगामिधर्मस्येत्यर्थः । समानविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तन्न्रतव- मिति भाव: । एवमग्रेऽपि। घनगजयोर्भेदेन साधारणत्वं कथमत आह-बिम्बेति। प्रयोजकमिति । अनुगतानतिप्रसक्तलक्षणमात्रं तु-'सदशस्य तृतीयस्य व्यवच्छेदाय यद्दयोः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥' इति द्रष्टव्यम्। अत्रान्योन्येनेति वि- शेषणम् 'अहमेव गुरु: सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थमिति भावः । अह- मिति। लतानुयोगिकसादृश्याश्रयावहमित्यर्थः। असर्वे महान्तम्। एपापीति। त्वदनु- योगिकसादृश्यप्रतियोगिकेत्यर्थः । अन्रेत्यस्य इतीत्यादिः । तनुत्वेत्यस्य अनुपात्तेत्यादि:। १. 'व्यञ्जनाव्यापारमात्रवेधत्वेन'. २. 'शक्तिवोध्यतया'. ३. रसगहाधरे त्वत्र 'रजो- भिर्भरिव द्यौर्घनसंनिभैर्गजैश्र द्यौरिव भरिति कस्यचित्पदस्यायें परस्परोपमायां नाति- व्याप्तिः' इति पाठः. ४. 'तव तावदस्ति' इति रसगन्काधरे पाठ:
Page 124
चित्रमीमासाखण्डनम्। १९
तियोगिकत्वमुपमायां न प्रतीयते। लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्म- त्पदार्थेऽन्वयादिति वाच्यम् । 'मुखस्य सदशश्चन्द्रश्चन्द्रस्य सदशं मुखम्' इत्युपमेयोपमायामव्याप्तेः। नहि 'अहं लतायाः सदृशीत्यखर्वम्' इत्यत्रोप- मेयोपमा भवितुमर्हति। गर्वमात्रनिरासपरत्वेनोत्तरार्धगतोपमायास्तृतीयस- दृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्ध संगच्छते। 'तृतीयस- ब्रह्मचारिव्यवच्छेदो ह्युपमेयोपमाजीवितम्' इत्यालंकारिकसिद्धान्तात्। अ- न्यथा 'रजोभिः स्यन्दनोद्धूतैः' इति प्रागुक्तपरस्परोपमावारणप्रयासवैफल्य- प्रसङ्गात्। न च तृतीयसदृशव्यवच्छेदफलकत्वमुपमाविशेषणमिति वा- च्यम्। विशेषणान्तरवैयर्थ्यापत्तेः। तद्विशेषणव्यावर्त्यानामाधुनिकविशेषणे- नैव वारणात्। अन्योन्यप्रतियोगिकत्वविशिष्टोपमैकवृत्तिमात्रवेद्येत्यप्ययु- क्तमेव। 'ख़मिव जलं जलमिव खम्, हंसश्चन्द्र इव हंस इव चन्द्रः इ- त्यादौ खजलयोश्रन्द्रहंसयोश्च सादृश्यान्वये प्रैतियोगित्वस्य संसर्गत्वेन वृ-
लतादीति। लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवेत्यर्थः । एतेन सादृश्यव्यवच्छेदः । सादृश्यादिपदानां धर्मिबोधकत्वात्। एवं च सादश्यस्य तन्नान्वये इयम्, न तु तत्रेति भावः। मुखस्येति। अत्रापि सदृशपदसत्त्वेन तत्तुल्ययोगक्षेमत्वादिति भावः। नन्वेवं तथा दु- वचमिति यथैतत्संग्रहस्तथाह-लताया इति। अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिर्नात आह-नन्त्यमिति (?)। ननु तन्मात्रपरत्व एव किं बीजमत आह-अत एवेति। तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः । अन्यथा तुर्यचरणेनैवेष्टार्थ- लाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसदशव्यवच्छेदप्रती- तावेवेयमित्यत्र किं विनिगमकमत आह-तृतीयेति। सब्रह्मेति। सदृशेत्यर्थः । ए- वमग्रेऽपि बोध्यम्। 'सिद्धान्तः' इति पाठः । 'सिद्धान्तात्' इत्यपपाठः । अन्यथा तस्य तजीवितत्वानङ्गीकारे। वाच्यमिति । 'अहं लतायाः' इत्यत्राति[व्याप्ति]वारणाये- दानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति। अन्योन्येनेत्यादीत्यर्थः । नन्वेवं कथमुक्त- दोषनिरासोऽत आह-तद्विशेषणेति। विशेषणान्तरेत्यर्थः। तदुक्तमन्यहूषयति- अन्योन्येनेति। प्रतियोगित्वस्येति । अनुयोगित्वविशिष्टेत्यादिः। ननु तस्य वृत्ति-
१. 'उत्तरार्धमपि'. २. 'भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम्' इत्यत्राप्युपमेयो- पमात्वनिवारणप्रासवैयर्थ्यापत्तेः' इति रसगङ्गाघरे पाठ :. ३. 'प्रतियोगिकत्वस्य.'
Page 125
१६ काव्यमाला।
त्यविषयत्वात्। 'वृत्तिवेद्यानां पदार्थानां संसर्गो वृत्त्यवेद्यः' इति तात्पर्य वृत्तिमनङ्गीकुर्वाणैर्वाक्यविद्भिरभ्युपगमात् । अन्यथा प्रकारतापत्तेः ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापरभिधानेन जगन्नाथभट्टन निर्मिते चित्रमीमांसाखण्डने उपमेयोपमाप्रकरणदोषाः ।
अथानन्वय :- यच्च-"अयमनन्वयो व्यङ्गयोऽप्यस्ति 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्यम्। 'इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेन्नान्येन' इत्युक्तिमङ्गया 'त्वदागमनप्रभवप्रीतेः सव सदशी, नत्वितरप्रभवा' इति व्यज्यते" इत्य- भिहितम्, तन्न । 'अमुष्यास्त्वदागमनप्रभवायाः प्रीतेर्वारान्तरत्वदागमन- प्रभवा प्रीति: सदशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृप्णागमनजन्य- प्रीतिसामान्यावयवयोर्योः प्रीतिव्यक्त्योः सादृश्यस्याबाधाद्योगार्थाभावेना- नन्वय एव नायं भवितुमर्हति, 'स्वस्मिन्स्वसाहृश्यस्यान्वयाभावादनन्वयः' इत्युपमाप्रकरणे स्वयमेवाभिघानात्। उपमेयस्य प्रीतिव्यक्तिविशेषस्य सद- शान्तरव्यवच्छेदे बाधात्तादशप्रीतिसामान्यस्यावयविनो निरुपमतया प्रती- यमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच्च । न चात्र 'श्रीकृष्णागमन- प्रीतिसामान्यावयविनः स्वेन सादृश्यं मध्ये प्रतीयते' इति शपथः कर्तु- मुचितः । सहृदयत्वभङ्गप्रसङ्गात्। प्रयोजनविरहाच्च ॥ श्रीकृप्णागमन- विषयत्वं कुतो नेत्याह-वृत्तीति। उत्तग्रन्थस्यैकवृत्तिमात्रवेद्यत्वे न तात्पर्ये किं तु वृ- त्तिद्यवेद्यत्वाभावे। यद्वा तज्जन्यप्रतीती यथाकर्थंचिद्भासमानत्वमेव तन्मात्रवेद्यत्वम् । अस्ति च 'खमिव जलम्' इत्यादी। नास्ति च तत्रेति तन्निरास इत्याशयेनादोषाचचिन्त्यमिदम्।। अमुष्या इति। यत इत्यादिः। व्यक्त्योदितभेदेनेति शेष: । योगार्थेति। अनन्वयपदयोगार्थेत्यर्थेः । ननुं रूढमेवानन्वयपदमभिमतमत आह-स्वस्मिन्निति। व्यवच्छेदे बाधादिति। तस्य व्यवच्छेदकरणेSसामर्थ्यादित्यर्थः । कालान्तरस्थप्री- तिव्यक्तिविशेषस्य सदृशस्य सत्वादिति भावः । तादृशेति । श्रीकृष्णागमनजन्येत्यर्थः ।
Page 126
चित्रमीमांसाखण्डनम्। १७
प्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोजनम्-इति चेत् न ।
मेयभावेनैवावयविनि तत्सिद्धेः। यथा- 'एतावति प्रपञ्चे सुन्दरमहिलासहस्रभरितेऽपि। अनुहरति सुभग तस्या वामार्धै दक्षिणार्धस्य ।।' इत्यादाववयवयोर्वामार्धदक्षिणार्धयोः सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते। एवमिहापि ॥-नहि तन्रापि निरुपमत्वप्रतीत्यावय- विनः स्वेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते-इति वाच्यम् । निरुपमत्व- प्रतीतेरनन्वयनैयत्यविरहात्। अन्यथा 'गगनपुष्पमिवास्य वचः सखे' इ- त्यादिकल्पितोपमायामपि निरुपमत्वप्रत्ययेनानन्वयकल्पनापत्तेरिति न किं- चिदेतत् ॥ 'रत्नाकरोक्तस्यैवानन्वयप्रकारविशेषस्यात्र व्यङ्गयता' इत्यपि वक्तुमयु- क्तमेव। तस्य रसगङ्गाघरेSस्ाभिर्निरस्तत्वात्। प्रकृतेऽवाच्यत्वात्। स्व- यमनन्वयप्रकरणे तस्यानुक्तत्वाच्च । इदं पुनरनन्वयध्वनेरुदाहरणं मदीये गङ्गास्तवे- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तुः सुरधुनि कपर्दोऽघिरुरुहे। कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥' अत्रेतरयेत्येतन्माहात्म्यात् 'त्वयि तु तव तुला दीयेतैव' इत्यनन्वयो निरुपमत्वपर्यवसायी व्यज्यते। यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः। न भविष्यति नास्ति नाभवत्क्षितिप त्वत्तुलनाधरोऽपर: ॥I' महिला स्त्ी। दृक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी। अत्रोपमेयं समुदिता नायिका। ननूक्तरीत्या न व्यञ्जकत्वम्, किं तु रत्नाकरोक्तरीत्येति नोक्तदोषोऽत आह- रत्नेति। तस्य प्रकारस्य प्रकृतेऽवाच्यत्वात्। ननु त्वया दूषितोऽपि न मया दूषितः, तत्राह-स्वयमिति। 'अन्यथा-अलंकारध्वनेविषयापहारः स्यात्' इति रत्नाकरोक्तिं
Page 127
१८ काव्यमाला।
अत्राप्यपरशब्दमहिस्ता 'त्वंतु त्वत्तुलनाधरो वर्तसे' इति व्यज्यते। तस्याभावे त्वसमालंकार एवेति रसगङ्गाधरे व्यक्तमुपपादितमस्माभि: ॥ इति श्रीभट्टभह्वारकपेरुभद्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डनेSनन्वयप्रकरणम्।
अथ स्मरणालंकारप्रकरणम् । यत्त- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेषिता ॥ यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीणे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्दीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीज्जलनिधिमन्थनस्य शौरिः ।।' एकत्र सदशदर्शनात्तत्सदशकर्मिका स्मृतिः, अपरत्र सदृशदर्शनात्त- त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः। उभयन्रापि सादृश्यमूल-
खण्डयितुमाह-इदं पुनरिति। नगेभ्यः पर्वतेभ्यः । कपदीं जटाजूटः । अपीति। रघुवंशे दशरथमृगयावर्णनम्। स दशरथः । सादृश्यघोधकं केशपाशस्य विशेषणद्यम्। दिव्यानामिति। माघे जलक्रीडावर्णनम्। अम्भस्तो जलात्। मन्थनस्येति 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी ।। लक्ष्यद्वये बीजमाह-एकत्रेति। आद्य इत्यर्थः । इत(अप)रत्र अन्तये। सदशेति। लक्ष्मीसदृशनायिकेत्यर्थः । लक्षणं संगमयति- उभयत्रेति। तथा च द्वितीयलक्ष्यसंग्रह एव 'वस्त्वन्तरसमाश्रया' इति विशेषणफलमि- १. 'इतरत्र' चित्रमीमांसा-रसगङ्गाधरयो: पाठः
Page 128
चित्रमीमांसाखण्डनम् । १९
कवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव-सदशासदशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्। 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्जुम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथ नु भवता धत्ते कुरङ़गं यतः क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ।।' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदशसीतानयनस्मृति- श्रेति। किंत्वेषा व्यङ््या अलंकार्यभूता च। तद्यावृत्त्यर्थमव्यङ्गघत्व- विशेषणम्। 'अत्युच्चा: परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्वान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो सुद्रिताः ।' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मरणमलंकारः, किं तु स्मृतेः संचारिभावस्य भूभद्विषयकरतिभावाङ्गत्वा- त्प्ेयोSलंकारः। एतद्यावृत्त्यर्थ लक्षणे 'सादृश्यमूला' इति विशेषणम्" इत्याहुः ॥तदेतत्सर्वमरमणीयम्। यत्तावदुच्यते-"सदशासदृशयोः केश- पाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाशस्मरणस्येव त्याह-अत एवेति। द्वितीयस्य लक्ष्यत्वादेवेत्यर्थः । सदृशासदृशेति। स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः ॥ अव्यङ्गयत्वविशेषणफलमाह-सौमित्रे इति। हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम्। ननु निश्चयेन। चण्डांशु: सूर्यः ॥ तन्नयनेति । कुरङ्गनयनेत्यर्थः । तत्सदृशेति नयनविशेषणम्। इति 'भूता च' इत्यग्रे योज्यः । एषा सीतास्मृतिः। अलंकारसामान्यलक्षणमपि नास्ती- त्याह-अलमिति। सीतास्मृतेः प्राधान्यादिति भावः ॥ अत्युञ्चा इति। भुवं प्रत्यु- क्तिरियम्। प्रस्तौमि करोमि। इमां भुवम् ॥ न सादृश्येति। किंतु 'एकसं- बन्धि-' इति रीत्येति भावः ॥ रतिभावेति। कविनिष्ठेत्यादिः ॥ अरमणीयमिति। वक्ष्यमाणदोषादिति भावः ॥ तमेव दार्ळ्यायानूद्याह-यत्तावदिति । तन्र उच्यमाने तस्मिन्। ब्रूम इति शेषः। तदाह-सादश्येति। एवमग्रेऽपि। केशेति। तस्य सद्द-
Page 129
२० काव्यमाला।
जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशेषणमनर्थकम्। एकत्र सादृश्यदर्शनोद्ठुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्शनोह्ुद्धसं- स्कारजलक्ष्मीस्मरणोह्ुद्धसंस्कारजन्यत्वेन च, सादृश्यमूलकत्वस्याविशेषात्। नहि 'सादृश्यमूला' इत्युक्ते 'सदशविषया' इति लम्यते। येन जलनिधि- स्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि-"सौमित्रे ननु सेव्यताम्- इ- त्यत्र स्मृतिर्व्यङ्गयालंकार्यभूता च । तद्यावृत्त्यर्थमव्यङ्गयत्वविशेषणम्-" इत्युक्तम्, तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशास- मयोद्दीपितः संतापादिनानुभावित उन्मादेन च संचारिणा परितोषितो विप्रलम्भः प्रधानत्वेनालंकार्यः, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तद्यावृत्त्यर्थमव्यङ्गयत्वविशेषणमनुचितम्। नहि व्यङ्गयत्वालंकार- त्वयोर्विरोध इति वक्तुं शक्यम्, नित्यव्यङ्गयानां रसभावादीनां पराङ्गता- यामलंकारत्वाभ्युपगमात्। प्रधानव्यङ्गयव्यावृत्त्यर्थ पुनरुपस्कारकत्वं सर्वे- ष्वलंकारलक्षणेषु देयमिति प्रागेवावेदितम् । यदप्युक्तम्-"अत्युच्चाः परितः स्फुरन्ति-' इत्यत्र स्मृतेः संचा- रिभावस्य भूभद्विषयकरतिभावाङ्गत्वात्प्रेयोलंकारत्वम्' इति। तत्र हि भावस्य भावाद्यङ्गतायां प्रेयोलंकारत्वम्। न ह्यत्र स्मृतिर्भावः, तस्याः स्म- रतिना वाचकेनाभिघानात्। नहि वाच्यस्य व्यभिचारिणो भावत्वं वक्तुं युक्तम् । 'व्यभिचार्यञ्जितो भावः' इति सिद्धान्तस्य भङ्गापत्तेः। तथा
शत्वेन दृष्टान्तत्वमिति भावः । स्यादिति । इतीति शेषः । सादश्यपदस्य नियमसंबन्धि- कतया संबन्ध्याकाह्कायामुपस्थितस्मर्यमाणस्यैवान्वयापत्तिः । न हि 'जनकत्वमूला पूज्यते' इत्युक्ते पुत्रजनकत्वेन भार्या पूज्यते। अतो 'वस्त्वन्तरसमाश्रया' इन्यानश्यकमिति चि- न्त्यमिदम्।। नेयं स्सृतिरलंकार्यभूतेति । अत्र स्मृतेः 'हा क्रानि' इन्यादिपद्गम्य- त्वेन विवहनप्रवृत्तराजानुगम्यमानभृत्यवत् । 'शठेन विधिना निद्रादरिद्रीकृतः' इत्यादौ शठादिपद् गम्यासूया बुद्धा, तस्या एव प्राधान्यादलंकार्यत्वम्। अनुपस्कारकत्वाच्च विप्र- लम्भस्यैव तत्त्वाचेति चिन्त्यम् । विप्रलम्भः श्रीरामचन्द्रनिष्ठः । नितरामित्यस्यानौ- चित्येऽन्वयः । तदाशयं खण्डयति-नहीति ॥ नित्येति। सर्वधेत्यर्थः । कदाप्यवा- च्यलक्ष्येति यावतू। नन्वेवं प्राधान्येऽप्यलंकारलवापत्तिरत आह-प्रधानेति। सर्वेषु
Page 130
चित्रमीमांसाखण्डनम्। २१ चोक्तं सर्वस्वकृता-"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः। तत्रापि विभावाद्यागूरितत्वे। यथा-'अहो कोपेऽपि कान्तं मुखम्' इति, नतु स्वशब्दनिवेद्यत्वे। यथा- 'अन्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तखेदः। रहस्त्वदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥।' इत्यादौ" इति ।। ननु-'भावाधङ्गीभूतभावत्वं न प्रेयोलंकारत्वम्, अपि तु-भावाद्यङ्गीभूतसंचारित्वमात्रम्। तथा च प्रकृते स्मरणस्य स्व- शब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वमविरुद्ध- मेव-' इति चेत्। एवं तर्हि 'इतराङ्गीभूतस्थायित्वमात्रं रसालंकार- त्वम्, नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात्। एवं च 'चराचरोभयाकारजगत्कारणविग्रहम् । कल्पान्तकालसंक्ुद्धं हरं सर्वहरं नुमः ।।' इत्यत्र क्रोधस्य स्वशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाङ्गीभूतस्था- यित्वानपायाद्रसालंकारः स्यात् । न च-इष्टापत्तिः । अपसिद्धान्तात् । तस्माद्-व्यज्यमानस्यैवे संचारिणो भावादङ्गतायां प्रेयोलंकारत्वम्- इति नात्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम् । किं तु भूविषयकरतेः पूर्वार्धव्यङ्गयाया उत्तरार्धगतभूभृद्विषयकरतिभावाङ्गत्वाद्युक्ता प्रेयोलंकारता। उक्तं च मम्मटभट्टैः-'अत्र भूविषयो रत्याख्यो भावो राजविषयकरति-
न त्वत्रैव। तथा चालंकारसामान्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः । सिद्धा- न्तेति। मम्मटभद्ादीनामिति शेषः । तद्रन्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन । तत्रापि तदुक्तस्यापि, न स्मृतिष्वपि। आगूरितत्वे आविष्कृतत्वे। अत्रेति। पुष्पकेण लङ्कातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे। अनुगोदं गोदासमीपे ॥ वानीरेति। तणधान्येत्यर्थः । सुपं स्वापः। इषापतति परिहरति- एवं चेति। तथा सुवचलवे चेत्यर्थः । स्वशब्दस्येति कुद्धमितीत्यर्थः ॥ रतिभावेति । कविनि- छ्ठेत्यादिः। स्मृतिमादायेत्युक्तिफलमाह-किं त्विति। एवं च प्रेथोलंकारस्य सत्त्वेऽपि १. 'तन्न । भावस्य हि' इति रसगङ्गाधरपाठः. २. 'व्यज्यमानस्यैव स्थायिनः पराङगत्वे यथा रसालंकारत्वम्, एवं व्यज्यमानस्यैव सं' इति रसगङ्गाधरपाठः.
Page 131
२२ काव्यमाला।
भावस्य' इति ॥ अपि च महदिदमाश्चर्यम्। यत्स्वेनैव निर्मितः कुवलया- नन्दाख्यः संदर्भोऽपि विस्मृतः । उक्त्तं च तत्र शेषभागे-'विभावानुभावा- भ्यामभिव्यञ्जितो निर्वेदादिः स यत्रापरस्याङ्गं स प्रेयोलंकारः' इति। इति श्रीभट्टभद्वारकपेरुभट्ात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने स्मरणालंकारप्रकरणम्। अथ रूपकप्रकरणम्। यत्तु- "विम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्ुते। उपरञ्जकतामेति विषयी रूपकं तदा।। अन्र 'बिम्बाविशिष्टे' इति विशेषणात् 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥।' इति निदर्शनाया निरासः, तत्र विषयस्य मार्जनस्यालक्तकादिरूपवि- म्वविशिष्टत्वात्। 'निर्दिष्टे' इति विशेषणान्निगीर्णविषयायां 'कमलमन- म्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नातिव्याप्तिः । अनिहुते निषेधास्पृष्टे इति विशेषणादपहुतौ नातिव्याप्िः । 'उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोत्प्रेक्षयो- र्निश्चयस्यैवाभावात्। समासोक्तौ व्यवहारमात्रसमारोपात्। परिणामे चा- रोप्यमाणस्यैव विषयताद्ूप्यनिश्चयगोचरत्वात्। भ्रान्तिमति सतः कल्पि- त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भावः। भावस्येति। अङ्गमिति शेषः । स्वेनैव अप्पदीक्षितेनैव। तत्र कुवलयानन्दे। निर्वेदादिन्यस्त्रिंशत्। अपरस्य भावादेः ॥ बिस्बेति । अयं भाव :- यथा चन्द्रः स्व्तः शुभ्रत्वादनासभ्जनीयधावल्यः, तथा नखा: स्वतोऽरुणत्वादनासअनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्नप्र- तिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जकत्वेन सः। तथा च विम्बप्रतिबिम्ब- भावो यत्र नखालक्तकविशिष्ट एव रअ्जने तत्प्रतिबिम्बभूतचन्द्रचन्दनविशिषं पाण्डुरीकरण- मुपरञ्जकम्-इति ॥ निर्दिष्ट इति। उच्चारित इत्यर्थः ॥ तत्र येन यस्य व्यावृत्तिस्त-
दर्शस्थपाठः. १. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रहे स्मरणालंकारप्रकरणम्' इत्या-
Page 132
चित्रमीमांसाखण्डनम् । २३
तस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धनेन तस्यानाहार्य- त्वात्" इत्याहुः ॥ तन्न, 'त्वत्पादनखरत्नानाम्' इत्यादिनिदर्शनाव्यावृ- न्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव। तत्र वाक्यार्थरूप- कस्य वक्ष्यमाणत्वेन लक्ष्यत्वात्। यदि च 'मुखं चन्द्रः' इत्यादिरूपका- न्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम्। अपि तु निदर्शना-इत्यागृह्यते। तदा 'मुखं चन्द्र'' इत्यपि निदर्शना- इत्युच्यताम्। निरस्यतां च रूपकम् ॥ किं च- 'इन्दुशोभां वहत्या- स्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभां वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वात्तच्छोभासदशी शोभा लक्ष्यमाणा चन्द्रशोभया विष- यिस्था निगीर्णेति साध्यवसानलक्षणामूलत्वं तावन्निर्विवादम्। वाक्यार्थनि- दर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवारोपो न शाब्दः।यथा- 'त्वत्पादनखरतानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इत्यत्र। इह त्वत्पादनखरत्नकर्मकं यावककरणकं रञ्जनम्, इन्दुक- रमकचन्दनलेपकरणकपाण्डरीकरणभिन्नमित्यारोपस्य व्यङ्गयत्वान्भवति नि- दर्शना। 'त्वत्पादनखरत्नानाम्' इत्यत्र तु विषयविषयिणोः प्रथ[मा]न्त- शब्दोपात्तयोरभेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम्, न निदर्शना। रूपके बिम्बप्रतिबिम्बभावो नास्तीति तु भ्रान्ति- मात्रम्, 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकत्रान्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाङ्गीकुरुषे, मैवाङ्गीकुरु तर्हि तन्रेवयथादेः प्र- योगे उपमामपि। एवम् 'त्वयि कोपो महीपाल सुधांशाविव पावकः ।' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां ब्रूषे, ब्रूहि तर्हि तत्रैवेवस्य निरासे 'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।'
त्क्रमेणाह-ससमिति। अगोचरत्वे क्रमेण हेतूआह-समेति। अन्न त्वत्पादेत्यत्र
Page 133
२४ काव्यमाला।
इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिप्ताङ्गः कषायवसनो यतिः । कोमलातपबालाभ्रसंध्याकाल इवाबमौ।।' इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम्। 'त्वयि कोपः-' इत्यत्र कल्पितं रूपकम्, इह तु न तथेति विशेषः ॥ न च-एवमादौ प्रतीयमानोत्प्रेक्षा-इति वाच्यम्, निश्चीयमानत्वेनाभे- दस्य भानात् ।। किंच-आलंकारिकसंमतोऽयं रूपके बिम्बप्रतिबिम्बभावः। उक्त्तं हि विमर्शिन्याम्-
संलग्नाञ्जनपुञ्ज कालिमकलं गण्डोपधानं रतेः । व्योमानोकहपुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिन: सुधासरुचिरं बिम्बं कलङ्काङ्कितम् ।।' अत्र कलङ्कस्य दानाम्ब्वादिभि: प्रतिविम्बनम्, लञ्छितत्वाङ्कितयोः शुद्धसामान्यरूपत्वम्-इति ॥ तथा 'निर्दिष्टे शब्देनाभिहिते' इत्यस्य 'येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्-'उपमेयताव- च्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः । आद्ये- 'सुन्दरं कमलं भाति लतायामिदमद्भुतम्।' इत्यत्रातिशयोक्तावतिप्रसङ्ग:, सुन्दरपदेन सुन्दरत्वेन रूपेणेदंपदेन वाननस्य प्रतिपादनात्। न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमला- न्वय एव, न तु वदनरूपविषयान्वयः-इति वाच्यम्, कमलपदेन कमल- ताद्रूप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्त:,
कंदपेति । सर्वत्र षष्टीतत्पुरुषः । कम्वुः शङ्ः । कलं रमणीयम्। 'अनोकहः कुटः शालः ॥ शुद्धसामान्येति। अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चिन्त्यम् ॥ द्वितीयविशेषणं दूपयति-तथेति। आहोस्वित् अथवा। इत्यत्र रूपकातिशयो- क्तिविषये। अन्वय एवेति। तत एव चमत्कारात्सांनिध्याच्चेति भावः । रूपकातिश- योक्ति ध्वनयितुमाह-कमलेति। तत्रैव आनन एव । न त्विति। 'पदार्थः पदा-
Page 134
चित्रमीमांसाखण्डनम् । २९
न तु विशेषणीभूते कमले ॥ अथ 'तादशं विषयमुद्दिश्य विषयिताद्रूप्यं यत्र विधीयते' इत्यपि लक्षणवाक्यार्थः। प्रकृते च सुन्दरत्वाववच्छिन्नमु- ददिश्य कमलताद्ूप्यस्याविधानान्नातिप्रसङ्ग :- इति चेत्, न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोविषयविषयिणोः पृथग्विभक्तिमन्तरे- णोद्देश्यविधेयभावाबोघादव्याप्यापत्ते ॥ द्वितीये तु-'अनिहुत-' इति विशेषणवैयर्थ्यम्, अपह्ुतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रू- पेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः। निश्चयगताहार्यत्वविशेष- णवैयर्थ्य च, भ्रान्तिमति दोषविशेषेण प्रतिषिध्यमानतया नास्त्युपमेयता- वच्छेदकस्पर्शः, इति तावतैव वारणात् ॥ यच्चाप्युक्तम्-'अव्यङ्गयत्वविशेषणाचेदमेवालंकारभूतस्य रपकस्य ल- क्षणम्-' इति। तदपि निरस्तप्रायम्। न हि व्यङ्गयत्वालंकारत्वयोर्विरो-
र्थेन- इति न्यायादिति भावः। तादशं येनकेनचिद्रूपेण शब्देनाभिहितम्। इत्यपि उद्देश्यविधेयभावघटितोऽपि ॥ अविधानादिति। तादृशमाननमुद्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमलत्वादिविशिष्टे विशेषणत्वमेवोद्देश्यता- वच्छेदकत्वम्। इयांस्तु विशेष :- यद तिशयोक्तावुपमेयधर्मस्योद्देश्यतावच्छेदकत्वाभाव एव, रूपके त्वनियमः, इतीति भावः ॥ अत एवाह-मुखचन्द्रस्त्विति। पृथगिति। उद्देश्यविधेयभावेन बोधे भिन्नविभक्तिजन्योपस्थितेस्तन्त्रत्वात्। तथा च व्यस्ते तथा प्रतीतिः, न समस्ते, इत्यत्राव्याप्तिरिति भावः । ननूपमेयतावच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन न प्रागुक्त्तदोषोऽत आह-द्वितीये त्विति। अपह्नुती 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र। अनिर्द्िष्टत्वादेवेति। अन्र निषेधप्रतियोगिवि- धया निर्दिष्टत्वादिदं चिन्त्यम्। न च तथा निर्दिष्टत्वेSपि पुरस्काराभावः, तर्हि तावत्पर्यन्त- विवक्षाबोधनार्थमेवानिहुत इति विशेषणसाफल्यादिति बोध्यम्। तावतैव उक्तार्थकनिर्दिष्ट इति विशेषणेनैव। इदं चिन्त्यम्-आहार्यत्वविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थकथ- नतात्पर्यकत्वात्। अतिशयोक्तौ लक्षणामाहात्म्याज्ज्ञायमानज्ञानस्यानाहार्यस्यैव जायमानत्वेन तावतैत वारणात्। शक्यतावच्छेदकलक्ष्यतावच्छेदकयोर्भानमिति त्वल्लिखितमतान्तरेऽपि युगपदेवोभयोर्भानेन बाधस्यैवानुपस्थितत्व्ान्न तद्वुद्वेराहार्यत्वम्। किं च चन्द्रवृत्त्तिगुणवत्त्र- लक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथोविरोधाभावेन न बाधप्रतिसंधानम्। मुखत्वेन मुखं लक्ष्यत इति तवश्रद्वेयमेव। रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाव्यञ्जनया वा जाय- माना ताद्रूप्यप्रतिपत्तिराहार्येवेति दीक्षिताशय इति दिक॥ इदमेव प्रागुक्तं रूपकल- ४
Page 135
२६ काव्यमाला।
घोऽस्ति, प्रधानव्यङ्गयरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचितमित्यस- कृदावेदनात्। अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधान- वाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्रातिप्रसङ्गाच्च। रूपकलक्षणं तु रसगङ्गाघरादवगन्तव्यम् । इति चित्रमीमांसाखण्डने रूपकप्रकरणम् ।
अथ परिणाम: । यच्च वैयधिकरण्येन परिणामे दीक्षितेनोदाहृतम्- 'तारानायकशेखराय जगदाघाराय धाराघर- च्छायाधारककंघराय गिरिजासङ्गैकशङ्गारिणे। नद्या शेखरिणे दशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।' यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प- श्विन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्ति: । द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ।।' इति । अत्र चिन्त्यते-'तारानायकशेखराय-' इति पद्े तावत् गि- रिजासङ्गैकशृङ्गारिणि भगवति भवे नतिः प्रक्रान्ता। शङ्गारिता च शे- खरादीनि भूषणान्यपेक्षते इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगो न स्वरूपेण। एवं च दशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति॥ ननु-'परिणामे विषयाभिन्नतया विषयिणोऽवस्थानम्' इति भवतैवोक्तम्।
क्षणमेव। नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह-प्रधानेति। नन्वेवमपि विनिगमना- विरहात्तथोक्तिरत आह-अनलमिति। मन्मते तु तेनैवोभयोर्वारणमिति भावः ॥ इति रूपकप्रकरणम् ॥ अथ परिणामः ॥ तारेति। चन्द्रशेखरायेत्यर्थः । धाराधरति। नीलग्रीनाये- त्यर्थः । नद्या गङ्गया। दशा भालचक्षुषा। नगेन कैलासेन ॥ कोविदानां पण्डितानाम् ॥ शुद्धं रूपकामिश्रम ।I एवमिति। परेतु-"मीनवती नयनाभ्याम्'
Page 136
चित्रमीमांसाखण्डनम् । २७
तदत्र नद्यादेविषयस्य तृतीययाभेदः प्रतिपाद्यमानो विषयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात्-इति चेत् 'मीनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलवती। शैवालिनी च केशैः सरसेयं सुन्दरीसरसी।' इत्यत्र व्यधिकरणरूपके सुन्दर्या सरसीतादात्म्यस्य मीनकमलशैवाल- गतैर्नयनकरादिकेशाभेदैर्मनागप्यसमर्थनात्। प्रत्युत-नयनकरादिकेशग- तैर्मीनकमलशैवालाभेदैश्व समर्थनाद्यथा स्वनिष्ठाभेदे प्रतियोगित्वं तृती- यार्थः, एवं 'नद्ा शेखरिणे हशा तिलकिने-' इत्यत्रापीति क्व विष- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् ॥ यदि पुनरारोप्यमाणे यथा कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा 'प्रवृत्तोऽस्याः सेकुं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः। 'प्रेम- लतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वात् । विस्तृतिश्च रसगङ्गाधरादवसेया ॥ 'द्विर्भावः पुष्पकेतोः-' इति पद्येऽपि-कोविदानन्दजननजगदुत्कर्षो राज्ञो नृसिंहस्य कथ्येते। तत्र कोविदानन्दजनकत्वं राज आरोप्यमाणद्वितीयमन्मथादिताद्रूप्येण यथा संभवति, न तथा केवलेन स्वरूपेण। तथा हि-अहो नयनानामस्मदी- यानां साफल्यं यदयमपरो मन्मथोऽस्माभिरालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावत्पुष्पकेतुनैवोत्पाद्यते न राज्ञा। एवम्-अपरोडयं क- ल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्च, तथा वासवो भूगतोऽयमन्यो दारिद्य- इत्यत्र सुन्दर्या सरसीतादात्म्यरूपं रूपकं सुख्यवाक्यार्थः । तत्र च मीनवत्वादिः साधा- रणो धर्मः । तस्य च सुन्दर्यामभावात्प्राप्तबाधबुद्धिस्थगनाय 'नयनाभ्यां मीनवती' इति सु- न्दरीविशेषणम्। सरस्यां मीनवत्त्वं प्रसिद्धमेव। एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्रकृ- तकार्योपयोगिता मीनानां नयनात्मतापत्यैवेति तदशे परिणाम एवेति नयनप्रतियोगिका- भेदवन्मीनवतीति बोध इति दिक्। 'पादाम्बुजं भवतु नो विजयाय मञ्ज' इत्यादौ रूपकोप- मयोः संदेह एव' इति प्राहुः ॥ कथ्येते इति। शत्रन्तलडन्ताभ्यामिति भावः । तत्र द्वयोर्मंध्ये। 'द्विर्भावः पुष्पकेतोः-' इत्यस्यार्थमाह-द्वितीयमन्मथेति। 'विबुध- इति वाक्यार्थमाह-अपरोडयं कल्पतरुरिति। एवं च बहुवचनं कल्पभेदाभिप्रायेण। 'विकल्पश्चिन्तारत्नस्य' इत्यस्यार्थमाह-द्वितीयञ्चिन्तामणिरिति। द्वितीय इत्यस्या- ग्रेऽप्यनुषङ्गो बोध्यः। 'तपन-'इत्यादेरर्थमाह-कर्ण इति।भूगत इत्यनेन प्रसिद्धेन्द्राद्वय-
Page 137
२८ काव्यमाला।
मस्माकमपहरिष्यति। हरिः खल्वयं संसारं नः परिहरिष्यतीत्यभिमाना- ज्जायमानस्तेषामानन्दोऽप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उपयोगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः। अत एवेदं पद्यं रूपकप्रकरणे विमर्शिनीकारादिभिरालंकारिकैरुदाहृतमिति तङ्रन्थ- विरोधश्च ॥ यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूद्य दृपितम्। तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्र्म्य यशो यस्य विजम्भते ।।' अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रमण- रूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते-' इति ॥ तदयुक्तम्। तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्र्मणोपयोगः, न चन्द्रात्मना" इति। तदसत्। अत्र विजम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यश:कर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोगः स्यात्। अपि तु निरतिशयनैर्मल्यगुणवत्तायां रवसमानजातीयद्वितीयराहित्यप्रयुक्त: प्रौढिविशेषः। आक्रमणँ न्यग्भाव एव । एवं चैवंविधे विजृम्भणे चन्द्रक- र्मकमाक्रमणसुपयुज्यते, न तु नृपकर्मकमिति विपयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्र्कमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणा- मव्यङ्गयतायामुदाहरणम् ॥
तिरेक: सूचितः। 'द्वैतं देवस्य' इत्याद्यर्थमाह-हरिरिति। दुषितमित्यस्य 'चन्द्रा- त्मनेति' इत्यन्तेनान्वयः । अत्र प्रागुक्तपदे। गुणवत्तायां तद्पमाधारणधर्मे। एवं च विजम्भणाऋमणयोरुक्तरूपत्वे च । रमणीयमेवेति। अन्रेदं चिन्त्म्-"गज- शब्दस्यानेकार्थत्वात, विजृम्भतेश्र प्रागल्भ्यतदुक्तार्थोभयपरत्वात्, प्रकरणादेश्व शक्त- संकोचकस्याभावात्, तन्त्रेण शक्त्यैत्र तुल्यतयार्थद्वयोपस्थिता 'सर्वदोमाधवः पातु' इति न- चक्क्रेष एवायम्, न परिणामः। क्क वानुपस्य व्यज्यमानतेति प्रकृतनगसहराजोत्कर्षस्य च- न्द्रकर्मकाक्रमणेनेवेतरनृपाक्रमणेनापि सूपपादत्वात्। नच द्वयोरपि राजपदार्थयोरितरत्रि- यान्वये राजानाविति द्विवचनं स्यादिति वाच्यम्, 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेSप्येकशेषस्य कैश्विवद्वैयाकरणैरह्ीकाराच्। अस्तु वारोप:, तवापि नुपस्प- वारोप्यमाणत्वम, चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः । अत्रैव च दीक्षिततात्पर्यमू।
Page 138
चित्रमीमांसाखण्डनम्। २९
यद्यपि परोक्ति दूषयित्वा स्वयं परिणामव्यङ्गयतायामुक्तम्- "चिराद्विषहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतलं शौरेः पादाजनखचन्द्रमाः ॥' अत्र चिरतापातै प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निषे- वस्व, तन्निषेवणादयं तापस्तव शान्तिमेष्यति' इति परिणामो व्यज्यते" इति ।। तत्तुच्छमेव। 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योपयोगे परिणामः' इति स्वयमेवोक्त्तम्। तन्र प्रकृतकार्योपयोगमात्रं न परिणामश- रीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अवच्छेदकीभूत- विषयताद्रूप्यम् । अत एव रूपकप्रकारविशेषत्वमस्यान्यैरालंकारिकैः स्वयं च तत्र तत्राभिहितम्। एवं चात्र नखचन्द्रसद्भावप्रदर्शनेन 'तन्निषेवणा- दयं ते ताप: शान्तिमेष्यति' इति प्रकृतोपयोगिताया व्यङ्गयत्वेऽषि तदव- च्छेदकीभूतस्य विषयिणि विषयताद्वूप्यरूपस्य परिणामस्य वाक्यवाच्यत्वा- च्छुक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमुचितम्। विद्याधरोक्तोदाह- रणे तु नियन्नत्निताया अभिधाया विषयचन्द्राभेदवेदनाक्षमतया शब्दशक्तिमू- लानुसरणस्य नास्त्युपयोग: ।। इति चित्रमीमांसाखण्डने परिणामप्रकरणम्। अथ ससंदेहः । यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
अपि च प्रागल्म्यस्यापि विजम्भत्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभ- वति। अत एव विद्याधरेणापि 'विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषयात्मनोपरिगत्यपेक्षायामेव परिणामः' इत्युक्तम्। यदाह-'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया । परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ॥।' इति। ननु 'तात्पर्यविषयीभूतप्रकृतकार्यानुपयोगित्वमस्त्येव- इति चेत्, तस्यैव तात्पर्यविषयत्वे मानं विभावय-" इति ॥ परोक्तिं विद्यानाथोक्तिम्। स्वयमेव अप्यदीक्षितेनैव।। चिरतापार्त 'चित्तम्' इति शेषः ॥ वैयाकरणमतेनाह-वाक्येति। नैयायिकमते- नाह-शक्येति ।। इति परिणामप्रकरणम् ॥ अस्या इति। विक्रमोर्वशीये उर्वशीवर्णनमिदम् । मासो वसन्तः। वनिता-
Page 139
३० काव्यमाला।
वेदाभ्यासजड: कथ सविषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' अत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम्। प्रकारस्तु वर्णनीयवनिता- स्रष्टृत्वमेक मेवेत्यनेककोटित्वाभावात्-विरोधेन परस्परप्रतिक्षेपकतया निब- द्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ॥ तन्न। अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत्, स किं नु चन्द्रः, किं तु मदनः, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः। न च-अत्र चन्द्रादिधर्मिक: संशयो युक्तो वक्तुम्। एवं च प्रजापतेः प्रथमोद्देशे न स्यात्। दोषदानाय वाक्यान्तरकल्पनेन तथा कव्यभिप्रायवर्णनानौचित्यात्।। यदपि प्राचां लक्षणम् 'साम्यादप्रकृतार्थस्य या धीरनवघारणा। [प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इप्यते ॥]' इति महता प्रबन्धेन त एव दूपितवन्तः ॥ तदपि न। साम्यनिमि- त्तान्निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोषाभावात्। निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम् ॥ यदपि च संशयध्वन्युदाहरणप्रसङ्गे- 'कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव स्वयम्। वरदः संशयाविष्टो वक्षःस्थलमवैक्षत।।'
स्रषटृत्वं प्रजापतिशव्दबोध्यम्। अभावादित्यव्याप्तौ हेतु। संशयलक्षणमाह-विरो- धेनेति। हि यतः । अस्या उर्वश्याः । तदुपपादनं खण्डयति-न चात्रेति । एवं चेति। चो ह्यर्थे। यत एवं सतीत्यर्थः । विधेयस्य पाश्चात्यमिति नियमादिति भावः। त एव अप्यदीक्षिता एव । अनवधारणेत्यस्य तात्पर्यरार्थमाह-निश्चये- ति ।। नन्वेवमन्योन्याश्रयापत्तिरित्यत आह-निश्चयत्वं त्विति। कांचि-
वरद: काश्चीदेवता विष्णुः । तदिति। संशयेत्यर्थः । तत्र सामान्यज्ञाने। अ-
Page 140
चित्रमीमांसाखण्डनम्। ३.१
शयस्य स्वशन्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य 'वक्ष:स्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य कि पुरस्तिष्ठति' इत्येव संशयाकार- स्य 'वक्ष:स्थलमवैक्षत' इत्यनेन व्यङ्गयत्वात्संदेहालंकृतिध्वनिरत्रेति ॥ यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ।।' इत्यत्र 'कानि कान्यपि' इति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः स्वभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनि :- " इत्याहुः ॥ तदेतङ्गनितत्त्वज्ञैरुपहसनीयम्। तथाहि-'संशया- विष्टः' इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेदते। तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्कया व- क्षःस्थलावेक्षणेन 'वक्षःस्थलस्थैव लक्ष्मीस्ततोऽवतीर्य कि पुरस्तिष्ठति' इत्या- दिरर्थो व्यञ्जनव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशे- षणीभूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति। एवं च संशयमात्रस्य शक्त्या बोधनात् 'वक्ष:स्थलस्थितैव' इत्यादिविषयविभागस्यापि विरुद्धना- नार्थत्वेन सामान्याकारेणावलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्य- वसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वमुचितम्। सर्वथा वाच्यवृ- त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात्। तथा च द्वितीयोद्दयोते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिध्वनेः ॥'
वेक्षणेनेति। व्यञ्ञनार्थवृत्तिरपीति भावः। संशयमात्रस्येति सर्वस्य संशयस्य। अर्थत्वेन सामेति। एतद्रूपसामान्याकारेणेत्यर्थः । अवलीढेति बोध्यतयेत्यर्थः । तयैव शक्तैव। कवलीति। बोधनादित्यर्थः । नन्वेवमपि विशेषरूपेण व्यङ्गय- त्वमेवात आह-वाच्यार्थेति । विशेषसंशयस्येत्यादिः । तदाह-कस्यापीति।
१. 'संशयपदार्थस्य' इत्यादर्शपाठः.
Page 141
३२ काव्यमाला।
इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। ल(ह)सन्नेत्रार्पिताकूलं लीलापझमं निमीलितम्।।' अत्र 'संकेतकालमनसं विटं ज्ञात्वा लीलापझं निमीलितम्' इति वदता कविना लीलापद्निमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदितमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यङ्गयस्य मार्गः । यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र। अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ।।' 'अत्र निःशङ्कं रन्तुमायाहि' इत्यर्थश्चरणत्रयव्यङ्गयोऽप्यवसरव्याहृते- र्व्याजत्वं ब्रुवता कविना स्फुटं स्वोक्त्या निवेदित इत्ययमपि न ध्वनेर्मार्गः" इत्याहुरानन्दवर्धनाचार्याः। एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ्गयस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचित्काञ्चनगौरा- ङ्गीम्' इति पद्ये शब्दाभिहितव्यङ्गये ध्वनित्वं कथमिव स्वीकुर्वीरन् ॥ एतेन 'दर्पणे च परिभोगदर्शिनीम्-' इति प्रागुक्तपद्ये लज्जाध्वनित्वं य- दभ्यधीयत, तदप्यपास्तमिति दिक्॥ इति चित्रमीमांसाखण्डने संशयालंकृतिः ।
विशेषस्यापीत्यर्थः । सर्वथा केनापि प्रकारेण। तथात्वं ध्वनित्वम् । संकेतेति । को वावयो रतिकालस्तत्संकेतमित्यत्र (?) दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेष- णमू। इति वद्त्ेति। क्त्ान्तवाक्यविशिष्टं वदतेत्वर्थः । अन्यथा क्त्वान्तवाक्येनैवा- र्थात्तदभिव्यञ्जकत्वे सिद्धे क्तान्तवाक्यानर्थक्यं स्पष्टमेव। तदाह-स्वोक्त्यैवेति। क्त्वा- न्तवाक्येनेत्यर्थः । अन्न गृहप्रदेशविशेषे। एवमग्रेऽपि। कुम्भेति पान्थसंबोधनमिति क- श्चित्। तन्नामिका दासीत्यन्यः । जलाद्याहरणार्थ दासी, न क्रीडादासीति तत्त्वम्। वियो- गात्पापात्वम्। कतिपयेत्यनेन द्रुतमागमनाभावः सूचितः । अवसरे समय उत्तेर्व्याजपूर्व- मित्यर्थः । पूर्वोदाहरणाशयेनाह-व्यञ्जकेति । द्वितीयाशयेनाह-व्यङ्गयेति।।
Page 142
चित्रमीमांसाखण्डनम् । ३३
अथ भ्रान्तिमानू। यच्न- 'कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ।।' इति लक्षणं तैरुक्तम्, तन्न। 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भे स भ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विहाय रूपकव्यावृत्त्यर्थ 'पिहितात्मनि' इत्युच्यते, न चैतद्युक्तम्। न हि रूपक- वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते। न च-अ- त्रानुभवान्तं भ्रान्तेर्लक्षणम्, अग्निमं च भ्रान्तिमतः। तत्र भ्रान्तिलक्षणे रूप- कातिव्याप्तिवारणाय 'विषये पिहितात्मनि' इति विशेषणम् इति वा- च्यम्। अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके क- थमप्यवृत्तेः ॥ यदि च-रूपकपदं रूपकबुद्धिपरमिति ग्रन्थसामञ्जस्यं विधीयते, तदा विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेव वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' इति संशयेऽतिप्रसङ्ग: । 'कमलमिति चश्चरीकाः, चन्द्र इति चकोरा- स्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मके उल्लेखेऽतिव्यात्तेश्च ॥ अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रणमस्तीति दुग्धलक्षणं जलांशातिव्या- उच्यत इति। अयं भाव :- तद्विशेषणेनारोप्यमाणानुभवस्य स्वारसिकस्य कविप्रति- भया कल्पनं विवक्षितम्, तस्यैव विषयपिधानसामर्थ्यात्-इति ॥ अग्निमं चेति। यत्रेत्याद्युक्तमित्यर्थः ॥ तत्रेति । तद्वाक्यजानुभवस्य तत्रापि सत्त्वादिति भावः ॥ ननु नाम(?) संशयेSतिप्रसङ्गः, विषयस्यैवेति प्रतिपादनादत आह-कमलमिति। अत एव वक्ष्यति-'भ्रान्त्या संकीर्ण' इति। अतिव्याप्तेश्चेति। उल्लेखत्वम्रान्तित्वयोरत्र संकी- णेत्वं बाधकाभावाद्भूतत्वमूर्तत्वयोरिव । 'नरैर्वरगतिप्रद' इत्यत्रोल्लेख्त्रत्वस्य 'कनक इव' इत्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । 'वनितेति वदन्त्येतां लोकाः' इति त्वदु-
तिव्याप्तिस्तवाप्यस्ति। एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्य- ५
Page 143
३४ काव्यमाला। सिकं कर्तु युक्तम्। एकत्वविवक्षायाः स्वयमनुद्गारात्। तथा चास्मत्कृत- लक्षण एव पर्यवसानम् ॥ यैदपि च भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहरणं दत्तम्- 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चश्चरीकै- स्तत्रासोलासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदघिया ताडिता: काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगदशां नाप्यरण्यं शरण्यम्।।' इति ।। अत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रन्तिरुपनिबध्येत। 'दोषा- न्तरमूला तुसा नालंकारः' इत्यनुपदमेवोक्तम् ॥ अपि च-धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुद्वेजक- मेव सहृदयानाम्। 'नहि सादृश्यमूलैकालंकारावच्छिन्ने साद्यमूलमलं-ध कारान्तरं शोभते। यथा-मुखकमलं तव चन्द्रवत्प्तीमः' इति प्रागेवा- वेदनात्।। प्रत्युत-कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च। तथा 'तत्रासोलासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेया- विमर्शाद्विधेयान्तरमाकाङ्कितम् । कीरदष्टा इति तु भाव्यम्। जाता इत्य- ध्याहारेऽपि विवक्षितस्याविधेयत्वम्, अविवक्षितं च विधेयत्वं प्रसज्येत ।। एवम्-'तल्लोपायालपन्त्यः पिकनिनद्धिया ताडिताः काकलोकैः' इत्यत्र न तावत्पिकनिनदास्ताडनयोग्या: काकानाम्, येन तद्धिया आलपन्त्यस्तै- स्ताड्येरन्। नापि पिकनिनद्भ्रम आलपन्तीषु संभवति, संभवन्वा न सा- मिदमित्यपरे ॥ तावदादौ। उपेति । वर्ण्ेतेत्यर्थः॥ ननु यथाकर्थचित्सादृश्यमप्यस्ती- त्यत आह-अपि चेति। धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् ॥ अभ्युपे- त्याह-प्रत्युतेति। एवमाद्ये दोषमुकत्वा द्वितीये दोषमाह-तत्रासोछेति।त्रमरभ- यजनकजातचेष्ट इत्यर्थः ॥ विधेयाविमर्शादिति। विधेयस्याकयनादित्यर्थः । उद्दे- इयकोटिप्रविष्टं सर्वमिति भावः। पाणी उददिश्य विशिष्टस्व कीरकर्तकदष्त्वस्य विधेयत्वे को दोष इति चिन्त्यमिदम् ॥ पिवेति। इटत्वस्येत्यर्थः । तृतीयं तमाह-एवमिति। तल्ोपाय कीरदूरीकरणाय। तावदादौ। दोषमुलः संभवतीत्याह-संभवन्वेति। १. 'पर्यवसानमित्यन्तः पाठो रसगङ्गाधरेऽस्मिन्प्रकरणे नोपलभ्यते. २. 'यच्चापि' रसग०. ३. 'तत्र' रसग०.
Page 144
चित्रमीमांसाखण्डनम्। ३९
दृश्यमूलः । 'पिकनिकरघिया' इति तु भाव्यम्॥ अथ-तदालापेषु पिक- निनदबुद्धेरपि तासु पिकबुद्धयुत्पादनद्वारा संभवत्येव ताडनोपयोग इति प्र- योज्यत्वार्थकतृतीयया पिकनिनद्धीप्रयोज्यकाककर्तृकताडनकर्मत्वमालप- न्तीनां सुप्रतिपादमेव-इति चेत्। मैवम्। तथा प्रतीतेरसिद्धेः। 'चौर- बुच्द्या हतः साधुः' इत्यादौ चोरबुद्धिहननयोः सामानाधिकरण्येन हेतु- हेतुमन्ावगमकत्वव्युत्पत्तेः ॥ एवम्-'दन्तिबुद्या हतः शूरैर्वराहो वनगो- चरः ।' इत्यत्रापि विशेष्यतया वराहवृत्तेर्दन्तिबुद्धेर्वराहवृत्तिहननहेतुभा- वावगमः । त्वदुक्तरीत्या 'दन्तवुच्य्या' इति तु कृते बोधकदर्थनैव॥ किंच-पिकानां कूजितादिशब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः। सिंहदुन्दुभ्यादिशब्दप्रयोगयोग्यैः । तथा-प्रथमद्वितीयचरणस्थयोः स्तन- पाण्योर्यथाकथंचिद्यवहितमपि जातान्वयमपि 'त्वदरिमृगदशाम्' इत्येतत्ष- ष्ठयन्तमन्वेतुं शक्ुयात्, नतु तृतीयचरणस्थे 'तल्ोपायालपन्त्यः' इत्य- स्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्। विभक्तिविपरि- णामेऽपि क्रमभङ्गासंघुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम् । दीक्षितैस्तु भ्रान्त्यलंकारांशमादायोदाहृतमिति न तेषां तथा दोषः ।। इति चित्रमीमांसाखण्डने भ्रान्त्यलंकारः ।
अथोल्लेखः । यत्तु तरेवाभिहितम्-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्रं तव वयं ब्ूमस्तपसक्यं गतं द्यम्।।' इत्यपद्रवोदाहरणविशेपेऽतिव्याप्तिः शङ्कया ॥ तदानीमनेकधोलेखनं नि-
शब्दप्रयोगेति। शब्दे प्रयोगेत्वर्थः । आसत्याकाहयोः स्व्रारसिक्तकयोरभावादाह-य- थाकथंचिदिति। जातान्वयेति। 'नाप्यरण्यं शरण्यम्' इति संनिहितेनेति भावः । न त्विति। विभिन्नविभक्तित्वात्स्वस्मिन्स्वमदाभावाच्चेति भावः। ननु विभक्तिविपरिणा- मेनाभेदान्वय: सुलभोडन आाह-विभक्तीति। प्रक्रमेति। नन्वेवें दीक्षितैः कथमु- १ 'भ्रान्तिमदलंकार:' इति भवेत्.
Page 145
काव्यमाला।
षेधास्पृष्टत्वेन विशेषणीयम्। तत्राद्योलखनद्वयं परमतत्वोपन्याससामर्थ्या- द्वम्यमाननिषेधमिति नातिव्याप्ति :- " इति तन्न, "द्विविधश्चायमुलेख :- शुद्धोऽलंकारान्तरसंकीर्णश्च" इत्युक्त्वा "श्रीकण्ठजनपदवर्णने-'यस्तपोव- नमिति मुनिभिरगृह्यत' इत्यादो शुद्धः, "यमनगरमिति शत्रुभिः, वज्रपञ्ज- रमिति शरणागतैः, इत्यादौ भ्रन्तिरूपकादिसंकीणः" इति सवयमेवोक्त- त्वादिहाप्यपह्रुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्व्ात् ॥ यदि चैवंविधाप- हुतिवारणाय निपेधास्पष्टत्वं विशेषणमुच्यते, तदा 'कपाले मार्जारः पय इति करांलेढि शशिन- स्तरुच्छिद्रप्रोतान्विसमिति करी संकलयति। रतान्ते तल्पस्था हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगविदमहो विभ्रमयनि ॥' इति त्वदुदाहृतभ्रान्तावतिव्याप्ति: कर्थ नाम वार्यन, मार्जाराद्यनेकग्रही- तृकानेकधोल्लेखनस्य तत्रापि सत्त्वात्। सवस्वप्रियाहारलिप्सारूपनिमित्तमे दाच्च। तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एवेनि॥ इति चित्रमीमांसाखण्डन उद्देखप्नरूरणम।
दाहृतमत आह-दीक्षितरिति॥ एवमपि उन्विरेपणदानेडप। गम्येति। यहु- ब्रीहिः॥ श्रीकण्ठेति। शुद्धस्वैकमृदाहण सोपपादनमका्पदाह हनरति। इत्यादौ 'यस्तपोवनम्' इन्यादि गद्ये। अटृह्यतेन्वस्त सरंत संबन्द:। रचतचाव: श्रीरुण्ठजन- पदः। शुद्ध इति। तत्र तपोचनादिसमिनिष्वत्वादिनि भायः। यमनगरत्वादीनां तादप्या- नुभवगोचरतयान्वये आह-म्रान्तीति। बं नेषासपर तकतामायेणान्वय:, नदाह- रूपकेति। एवंविधेति। विलक्षणेवर्:। त्वदुदेति। वया प्रथम मुग्यलेनोदाहते- त्यर्थ:। तादृशभ्रान्तिविशेपस्वापि वारणायद्यकतास। अन्यवा सेकोण नन्कपमादाबुदा- हतम्। तद्विविक्तविषयस्पवादवदा्हर्दमी विचात अन्यवालंकारमेरो न स्वादिति भावः । १. 'निमित्तभेदादेकस्य वस्तुनो बदनेकथा। अकामनेकेन तमुदेखं प्रचक्षने।' इत्यु- लेखलक्षणे 'अनेकधा' इति विशेषणदानेडपीचर्:स्वान
Page 146
चित्रमीमांसाखण्डनम् । २७:
अथापहुतिप्रकरणम् । यत्तु-अपहुतिध्वनावुक्तम्- 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णीसुतमपि। अपि स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्ठाच्च लिखति ॥' इत्यादावपह्ुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्रसुपर्णलेखनेन नायं सा- धारण: पुरुषः, किंतु पुण्डरीकाक्ष: इति कयाचिद्यञ्जितम्। अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशयेन 'नायं पुण्डरीकाक्षः, अपि तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्ञितम्" इति। तदेतदापातरमणीयम्। यत्तावदुच्यते-'चक्रसुपर्णलेखनेन नायं साधा रण: पुरुषः, किंतु पुण्डरीकाक्ष :- इति कयाचिद्यञ्जितम्' इति। तत्रापडु- तेर्द्वौ भागौ-उपमेयनिषेधः, उपमानारोपश्च, इति। तयोस्तावदुपमाना- रोपभाग: 'पुण्डरीकाक्षोऽयम्' इत्याकारश्चक्रसुपर्णलेखनेन व्यङ्कं शक्यः, चक्रसुपर्णयोस्तत्संबन्धित्वात्। नतु-'नायं साधारणः पुरुषः' इत्युपमेय- निषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनेन चरितार्थतया सामर्थ्याभावात्। नाप्यनुभवसिद्धः सः, येन तद्यञ्जनायोपायो गवेष्येत। नापि गवेष्यमाणोSपि तद्यञ्जनोपायः शब्दोर्ऽर्यो वा उपलम्यते, येनानुभवकलहः स्यात्। नच-
अनेकधेति। पयस्त्वादीत्यर्थः । उपसंहरति-तस्मादिति। त्वदालेख्य इति। त्वत्प्रतिकृतिभूतचित्र इत्यर्थः । नायकं प्रति स्वसख्युक्तिः । एका तन्वी सखी। चक्रं सुदर्शनम्। सुपर्णीसुतं गरुडम्। अपि अथ । क्वचित्तथैव पाठः । अथ मार्जनयोग्य- त्वाय हेतुगर्भे विशेषणमू-स्विद्यत्पाणिरिति।अपरा तत्सखी। तस्यापि पुण्डरी- काक्षस्यापि। इत्याशयेन तथा लेखनेन। इति व्यञ्जितमित्यन्वयः । तदुभयं चक्र- सुपर्णद्यम् । तत्रेति । उच्यत इति शेषः । एवमग्रेऽपि भागो व्यङ्गं शक्य इत्यनुषज्यते। व्यञ्जकेति। चक्रसुपर्णलेखनस्येत्यर्थः । ननु कथं तदनुभवोऽत आह-नापीति ।
Page 147
३८ काव्यमाला।
साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्यारोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्, रूपकोच्छेदापत्तेः ॥ इति चित्रमीमांसाखण्डनेSपहुतिप्रकरणम्।
लभ्यत इति। प्रकृतपद्य इति शेष: । दुर्घट इति। तज्ज्ञानस्य तत्र प्रतिबन्धकत्वा- दिति भावः । सोऽपि निषेधभागोऽपि। अन्यथानुपपत्त्येति भाव: ।।
समाप्तोऽयं ग्रन्थ: ।
१. एतत्प्रणेतु: पण्डितराजजगन्नाथस्य विषये यद्वक्तव्यं तत्सर्व रसगङ्गाधरभूमिकायां महामहोपाध्यायपण्डितवरदुर्गाप्रसादर्वणितमिति तत एवावसेयम्. एतद्रन्धादर्शपुस्तकं तु जयपुरराजगुरुश्रीलक्ष्मीदत्तसूनुश्रीयुतश्रीदत्तशर्मभि: काव्यमालार्थ संवत् १७०९ (स्न्िस्तशतक १६५२) लिखितं १७ पत्रात्मकं दत्तमिति तेऽतीव वन्यवादार्हा :. २. एतद्रन्थप्रणेतुनागेशभट्टस्य विषयेSपि वत्तव्यं रसगङ्गाधरभूमिकायामेव महामहो- पाध्यायैर्वर्णितमिति तत एवावसेयम्. टिप्पण्यादर्शपुस्तकं तु नोपलब्धम्, किंतु मूलग्र- न्योपयोग्यंशोऽस्माभिरेव मैथिलवर्यश्रीयुतसुन्दरशर्मसाहाप्येनोद्वृत्य प्रकाशित :.