Books / Chitramimamsa Appayya Dikshit Chitramimamsa Khandana Pandit Sivadatta Kasinath Pandurang Parab Nirnaya KM 38 1941

1. Chitramimamsa Appayya Dikshit Chitramimamsa Khandana Pandit Sivadatta Kasinath Pandurang Parab Nirnaya KM 38 1941

Page 1

UNIVERSITY OF DELHI

TY OF

UN

INSTITUTE OF POST GRADU- ATE (E) STUDIES LIARARY

Page 2

INSTITUTE OF POST GRADUATE (E) STUDIES LIBRARY CI. r 015 :9xJ50,C HI Ac. No. E 8521 This book should be returned on or before the last date stamped below. An overdue charge of 5 Paise/25 Paise (Text-books) will be collected for each day the book is kept overtime.

Page 3

[All rights reserved by the publisher.]

Publisher :- Satyabhamabai Pandurang, ? Nirnaya-Sagar Press, Printer :- Ramchandra Yesu Shedge, 26-28, Kolbhat Street, Bombay.

Page 4

काव्यमाला ३८. श्रीमदप्पयदीक्षितप्रणीता चित्रमीमांसा।

(पण्डितराजजगन्नाथविरचितं चित्रमीमांसाखण्डनं च।)

जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, काशीनाथ पाण्डुरङ्ग परब इत्येताभ्यां च संशोधिता।

तृतीयावृत्ति: ।

सा च मुम्बय्यां सत्यभामाबाई पाण्डुरङ्ग इत्येताभिनिर्णयसागराख्ययब्रालये तस्यैव कृते मुद्रयित्वा प्राका्यं नीता।

१९४१

मूल्यं 3 रूप्यकां।

Page 6

काव्यमाला।

श्रीमदप्पदीक्षितप्रणीता चित्रमीमांसा।

अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः । वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम्॥ त्रिविधं तावत्काव्यम्। ध्वनि-गुणीभूतव्यङ्गय-चित्रभेदात्। यत्र वाच्यातिशायि व्यज्ञयं स ध्वनिः। यथा- 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥' अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रिया- स्वभाववर्णनेन देव्याः समाध्युचितावस्थानाभिव्यक्तिद्वारा चिरनिदाघत- पदेहोपरि निपतनेन सुखपारवश्यसम्भ्रमहेतौ प्रथमवृष्टावप्यविहता समा- ध्यवस्था व्यज्यते। तथा हि- 'नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलः । ध्यायीत मनसा देवमुरो विष्टम्य चाग्रतः ।।' इति समाधिमतामवस्थानमाहुः। तत्र पक्ष्मसु स्थिता इत्यनेन नासाग्र- न्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते। सर्वथोन्मीलने पक्ष्मणामूर्ध्वा- ग्रत्वेन सर्वथा निमीलने तेषामधोग्रत्वेन च तेषु जलबिन्दूनां स्थित्य- संभवात्। पक्ष्मभ्यश्ष्युतानां तेषामास्याप्रवेशेनाधरोष्ठे निपत्य ततश्र्यु-

Page 7

२ काव्यमाला।

तिकथनेन संवृतास्यत्वं व्यज्यते। ततश्र्युतानां तेषां स्तनोत्सेधनिपत- नादिवर्णनेन तूरोविष्टम्भः। अलसवदवनतावस्थाने हि स्तनयोरन्तःसंकु- चिताकारतया तदुत्सेधयोस्तेषां पतनं न स्यात्। कथंचित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात्, न नाभिदेश- प्राप्तिः। नाभौ च संवृतायां प्रवेशो न स्यात्। पक्ष्माधरादिपतनक्रम- कथनेन च निश्चलत्वं व्यज्यते। मुखादिचलने सति पक्ष्मपतितानां तेषामधरपयोधरादिक्रमेण पतनासंभवाद्। किं चैभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते; स्थिता इत्यनेन पक्ष्मणामविरलतायाः, क्षणमित्यनेन तेषां मसृणतायाः, पक्ष्मपतनशिथिलवेगैरुदबिन्दुमिस्ताड- नोक्त्याऽधरस्यातिसौकुमार्यस्य पक्ष्माधरपेतनादिभि: शिथिलवेगानां तेषां स्तनोत्सेधे चूर्णीभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्मेपि वलीषु तेषां स्खलनोक्त्या वलीनां विस्पष्टतायाः सर्वबिन्दूनां नाभावेव प्रवेश- कथनेन नाभेरतिगभीरतायाश्चाभिव्यञ्जनात्। एवं च वाच्यातिशायि व्यङ्ग्यमत्रेति ध्वनेरुदाहरणमिदम्। यथा वा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा (मे?) वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' अत्र वापीं सातुं गतासि न तु तत्सकाशमिति वाक्यार्थे स्थिते तत्सकाशमेव रन्तुं गतासीत्यधमपदेन प्राधान्येन व्यज्यते। तथा हि- अधमत्वमपकृष्टत्वम्, तच्च जात्या कर्मणा वा भवति। तत्र जात्याऽपकर्ष नोत्तमनायिका नायकस्य वदति। नापि स्वापराध्रपर्यवसायिदूतीसंभोगा- १. 'अपि व्यज्यते' क-घ. २. 'पतनातिशिथिल' क-घ; 'पतनादिना शिथिल'ख.

Page 8

चित्रमीमांसा।

दिहीनकर्मातिरिक्तेन कर्मणा। तादशं चे दूतीसंभोगात्प्राचीनं सर्व सोढमेवेति नोद्धाटनार्हम्। अन्यथा, स्वयं दूतीसंप्रेषणानुपपत्तेः । तवं- नन्तरं च खप्रेषितदूतीसंभोगरूपमेव स्वयं संनिहितचिह्नैर्ज्ञातुं शक्यं हीनकर्म संभवतीति तत्पर्यवसायिनाSधमपदेन तस्यान्तिकमेव रन्तुं गता- सीति व्यज्यते। निःशेषच्युतचन्दनं स्तनतटमित्यादीनि वाच्यानि सभो- गचिहोद्वाटनेन तत्र साहार्यकमाचरन्ति। कथम्? 'निःशेषच्युतचन्दनं स्तनतटम्' इत्यत्र तावद्वापीं स्ातुमितो गतासीति वाच्यार्थमुपपादयितुमि- होत्तरीकर्ष(ष)णेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषविशे- षणं कृतम्। ततश्रन्दनच्युतेः स्ानसाधारण्यव्यावर्तनेन संभोगचिह्रो- द्वाटनाय तटग्रहणम्। सत्नाने हि सैर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तटे उपरिभाग एव दृश्यते, इयमाश्लेषकृतैवेति। तथा निर्मृष्टरा- गोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात्म्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथा- सिद्धिपरिहाराय निर्मृष्टराग इति रागस्य निःशेषमृष्टतोक्ता। पुनः सान- साधारण्यव्यावर्तनेन संभोगचिहोद्वाटनायाघर इति विशिष्य ग्रहणम्। उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैवेति। नेत्ने द्ूर- मनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासि- द्विपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमित्यापाततोऽर्थः। कालतः स्नानेन वा सर्वतोऽज्जनलोप: स्यात्, तव तु लोचनयोः क्वचित्पान्त एवा- नञ्जनत्वमिदं चुम्बनकृतमेवेति। 'पुलकिता तन्वी तवेयं तनुः' इत्यत्रापात- तस्तन्वीति सहजतानवकीर्तनेन पुलकितेति सानचिह्नोपन्यासः । पुलकि- ताऽपि तन्वी वर्तत इति हृदि स्थितोऽन्वयः । तेन च स्नानेन पुलकिता १. 'हि दूतीसंप्रेषणादि' ख-ग. २. 'सयं' क-घ-पुस्तकयोर्नास्ति; 'स्वसंनिहित' ख. ३. 'इवोत्तरीयकर्षणेन' क; 'इवोत्तरी यापकर्षणेन' घ. ४. 'सर्वच्युतिः' ख-ग. ५. 'निर्मृष्टताक्ता' ख.

Page 9

काव्यमाला।

तनुः किंचिदुच्छुसिता भवति, इयं तु न तथेति रतिक्लेशजनितावेव तौ नवपुलकोद्गमाविति मर्मोद्धाटनम्। एवमेभिर्वाक्यैरुपस्कृतेनाघमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने प्राग्वाच्यार्थतादशायां वापीं सत्नातुं गतासीत्येतदनुगुणार्थतयाSन्वितम्, मिथ्यावादिनीति संबोधनमपि व्यङ्गयानुगुण एवार्थे पर्यवस्यति। ततश्र न्यग्भावितवाच्यमस्यापि व्यङ्गयं वाच्यातिशायीति इदमपि ध्वनेरुदाहरणम्। ·यत्र व्यङ्गयं वाच्यानतिशायि तद्रुणीभूतव्यङ्गयम्। यथा- 'गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किंत्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा। इत्यामब्रणभङ्गिसूचित वृथावस्थानखेदालसा- माश्रिष्यन्पुलकोत्कराञ्चिततनुं गोपीं हरि: पातु वः ॥' अत्र गच्छाम्यच्युतेत्याद्याम्रणेन त्वया रन्तुमेतावत्कालं स्थितम्, तन्न लब्घमिति व्यन्नयम्। तत्तु इत्यामब्रणभङ्गिसूचितवृथावस्थानखेदालसा- मित्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान्न वाच्यातिशायि। अतो.

यथा वा- 'प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा किमुत सकले याते वाहि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥।' अत्र सकलमहः परमावधिः, ततः परं प्राणान्धारयितुं न शक्रोमीति १. 'मिथ्यावादिनीत्यादि' क. २. 'वाच्यादतिशायीति' ख.

Page 10

चित्रमीमांसा। ५

व्यङ्गयं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वा- च्यानतिशायि। अत इदमपि गुणीभूतव्यङ्गयम् । यदव्यङ्गयमपि चारु तच्चित्रम् । तत्रिविधम्-शब्दचित्र-मर्थचित्र-मुभयचित्रमिति। शब्दचित्रं यथा- 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्। मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरः ।' अर्थचित्रं यथा- 'स च्छिन्नमूल: क्षतजेन रेणुसतस्योपरिष्टात्पवनावधूतः । अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे ।।' उभयचित्रं यथा- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धुन्वन्नौदन्वतमुदकमुर्वीमुदवहृत्। खुराधातत्रुट्यत्कुलशि खरिकूट प्रविलुठ- च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ।।' तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्गययोरन्यत्रास्माभि: प्रपश्चः कृतः । शब्दचित्रस्य प्रायो नीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणीयमतीवोपलभ्यत इति शब्दचित्रांशमपहायार्थचित्रमीमांसा श्रसन्नविस्तीर्णा प्रस्तूयते। चिन्त्येऽत्र चित्रवर्गे प्रदर्श्ययोर्लक्ष्यलक्षणयोः। प्राचीनानामेव श्रोकाः प्रायेण लिर्यन्ते ॥ इवि चित्रमीमांसायां अ्न्थारम्भप्रकरणम्।

Page 11

w काव्यमाला।

उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान्। रञ्जयति काव्यरक्के नृत्यन्ती तद्विदां चेतः ॥ चन्द्र इव मुखमिति सादृश्यवर्णनं तावदुपमा। सैवोक्तिभङ्गीमेदेना- नेकालक्कारभावं भजते। तथा हि-'चन्द्र इव मुखं मुखमिव चन्द्रः' इत्युपमेयोपमा। 'मुखं मुखमिव' इत्यनन्वयः। 'मुखमिव चन्द्रः' इति प्रतीपम्। 'चन्द्रं दृष्ट्रा मुखं स्मरामि' इति स्मरणम्। 'मुखमेव चन्द्रः' इति रूपकम्। 'मुखचन्द्रेण तापः शाम्यति' इति परिणामः। 'किमिदं मुख- मुताहो चन्द्रः' इति संदेहः। 'चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिमान् । 'चन्द्र इति चकोराः कमलमिति चश्चरीकास्त्वन्मुखे रैज्यन्ति' इत्युल्लेखः। 'चन्द्रोडयं न मुखम्' इत्यपह्नवः। 'नूनं चन्द्रः' इत्युत्प्रेक्षा। 'चन्द्रोडयम्' इत्यतिशयोक्ति। 'मुखेन चन्द्रकमले निर्जिते' इति तुल्ययोगिता। 'निशि चन्द्रस्त्वन्मुखं च हृष्यति' इति दीपकम्। 'त्वन्मुख एवाहं रज्यामि चन्द्र ऐव चकोरो रज्यते' इति प्रतिवस्तूपमा। 'दिवि चन्द्रो भुवि त्वन्मुखम्' इति हष्टान्तः । 'मुखं चन्द्रश्रियं बिभर्ति' इति निदर्शना। 'निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः। 'त्वन्मुखेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः। 'मुखं नेत्राङ्क- रुचिरं स्मितज्योत्सोपशोभितम्' इति समासोक्तिः। 'अब्जेन सदृशं वक्रं हरिणाहितसक्तिना' इति श्षेषः। 'मुखस्य पुरतश्रन्द्रो निष्प्रभः' इत्य- प्रस्तुतप्रशंसा। एवमुक्तानेकालङ्कारविवर्तवतीयमुपमा। तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात्। ज्ञातं भवतीत्यादौ निरूप्यते निखिलभेदसहिता सा।।

१. 'अनुरज्यन्ति' क. २, 'एव हि' क. ३. 'शक्तिना' ख-ग.

Page 12

चित्रमीमांसा। ७

अस्यास्तावदेवं लक्षणमाहु :- उपमानोपमेयत्वयोग्ययोरर्थयोईयोः। हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेि॥ कविसमयप्रसिद्ध्यनुरोधेनोपमानोपमेयत्वयोग्ययोरेव साधर्म्यमुपमा । नत्वतथाभूतयोः। अत एव 'कुमुदमिव मुखं प्रसन्नम्' इत्यादि नोपमा। तथाभूतयोरपि वस्तुत्वद्रव्यत्वादिकृतमह्द्यं साधर्म्यं न तथा। किंतु हृद्य- मेव कान्तिमत्त्वादिकम्। सर्वोडपि हयलङ्कारः कविसमयप्रसिद्धयनुरोधेन हृद्यतया काव्यशोभाकर एवालङ्कारतां भजते। अतः 'गोसदृशो गवयः' इति नोपमा। 'गौर्वाहीकः' इति न रूपकम्। 'स्थाणुर्वा पुरुषो वा' इति न संदेहः । 'इदं रजतम्' इति न आ्रान्तिमान्। 'नायं सर्पः' इति नाप- हुतिः। 'पीनो देवदत्तो दिवा न भुङ्गे' इति न पर्यायोक्तम्। 'पर्वतो वह्िमान्' इति नानुमानम्। 'स देवदत्तः' इति न स्मरणम्। 'तस्थस्थ- मिपां तांतंतामः' इति न यथासङ्यम्। 'पुत्रेण सहागतः पिता' इति न सहोक्तिः। 'तेन विना गतः' इति न विनोक्तिः। 'श्वेतो धावति' इति न श्लेषः । इत्याघ्यूहनीयम् । अत्रेदं विचार्यते-द्योरिति विशेषणमिह किमर्थम्। सवस्य स्वेनैव साधर्म्यवर्णनात्मकस्यानन्वयस्य व्युदासार्थमिति चेत्, एवमप्युं- पमानस्योपमेयत्वकल्पनात्मके प्रतीपे द्वयोः पर्यायेणोपमेयत्वकल्पना- त्मिकायामुपमेयोपमायां चातिव्याप्तिः । तयोः सादृश्यवर्णनसत्त्वा- दुपमात्वेन संग्राह्यत्वे तथैवानन्वयोऽपि संग्राह्यः स्यादिति व्यर्थं द्वयो- रिति पदम्। एतेन 'साधर्म्यमुपमा भेदे-' इति कोव्यप्रकाशिकोक्त- (काशोक्त)लक्षणेऽनन्वयव्युदासाय कृतं भेदग्रहणमपि प्रत्युक्तम्। नहि १. 'उपमानोपमेयत्व' ख-ग-घ, २, 'काव्यप्राकाशिकोक्त' घ.

Page 13

काव्यमाला।

संभवत्साधर्म्यवर्णन एवोपमात्वम्। येन स्वस्य स्वेन साधर्म्यासंभवादन- न्वयस्य व्यवच्छेद्यत्वमितरयोः संग्राह्यत्वं न स्यात्। तथात्वे 'हंसीव धवला कीर्ति: स्वर्गङ्गामवगाहते' इत्यादौ कविकल्पितसाधर्म्योपमाया अनुपमात्वप्रसङ्गात्। किश्च, सत्यामप्युपमानोपमेयत्वयोग्यतायां सत्यपि हृद्यत्वे लिंङ्गवचनभेदादिदुष्टायामुपमायां 'हंसीव धवलश्चन्द्रः सरांसीवा- मलं नभः' इत्यादिरूपायामतिव्याप्तिः। उदाहरिष्यमाणे चोपमाध्वनाव- तिव्याप्तिः। न हि सोऽप्यलङ्कारः; अलक्कार्यत्वात् ब्राह्मणश्रमणन्यायेन तत्रालक्कारध्वेनिव्यपदेश इति सिद्धान्तात्। यदि च दुष्टादुष्टालक्कार्या- लङ्कारसाधारणोपमासामान्यलक्षणमिति नोक्ताति व्याप्तिस्तदोपमानोपमेय- त्वयोग्ययोरिति हृद्यमिति च व्यर्थम्। कविसमयप्रसिद्धभावादिदुष्टोप- माया अपि संग्राह्यत्वात्। यन्तु विद्यानाथेन लक्षणमुक्तम्- 'स्वतःसिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥' इति। अत्र स्वतःसिद्धेनेत्युत्प्रेक्षाव्यावृत्तिः । तत्रोपमानस्य कविकल्पितत्वेन लोकसिद्धत्वाभावात्। भिन्नेनेत्यनन्वयव्यावृतिः । संमतेनेति सर्वविध- दुष्टोपमाव्यावृत्तिः । कविसमयप्रसिद्ध्यभावेन लिङ्गवचनभेदादिना वा यद्यदसंमतं तस्य सर्वस्यापि संमतपदेन व्यावर्तनात्। धर्मत इति श्रेष- व्यावृत्तिः। श्रेषे हि-'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव।' इत्यादौ शब्दसाम्यमात्रमिवशब्देनोच्यते, न गुणक्रियारूपधर्मसाम्यम्। अन्येन वर्ण्यस्येत्यनेन प्रतीपव्यावृत्तिः। तत्र वर्ण्येन प्रकृतेन सेहाप्रकृतस्य १. 'इत्यादेः' क. २. 'धनित्व' ख; 'ध्वनित्वेन' ग. ३. 'इति' ख-ग-पुस्त- कयोर्नास्ति. ४. 'सिद्धित्वा' क; 'प्रसिद्धत्वा' ग. ५. 'अन्यस्य सादृश्य' ख-ग.

Page 14

चित्रमीमांसा। ९

सादृश्यवर्णनात्। एकदेत्यनेनोपमेयोपमाव्यावृत्तिः। वाच्यमित्यनेन व्यङ्गयोपमाव्यावृत्तिः' इति। तत्रोत्प्रेक्षाव्यावृत्तये सवतःसिद्धेनेत्युक्तम- युक्तम्। उत्प्रेक्षायामिवकारस्य विषयविषयिणोस्तादात्म्यादिसम्भावना- वाचकत्वेन तत्र साम्यस्यावाच्यतया तत एव तद्यावृत्तेः । उक्तं हि चक्र्कवर्तिना- 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति। तदोपमैव येनेवशब्दः साधर्म्यसूचकः ॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः सम्भावनापरः ॥' इति। दृष्टं च लोके सम्भावनापरत्वमिवशब्दस्य। 'दूरे तिष्ठन्देवदत्त इव भाति' इति। कथं च स्वतःसिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः ? 'न नित्यमस्मिन्परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः । आनन्दयन्निन्दुरिव स्वधान्ना विभाति लोके नवकाकतीन्द्रः ।।' इति तदीयोत्प्रेक्षोदाहरण एवोपमानस्य स्वतःसिद्धत्वात्। इन्दुः क्षोणि- तलावतीर्णत्वाकारेण कविकल्पित इति चेत्तर्हि, 'चन्द्रबिग्वादिव विषं चन्दनादिव चानलः । परुषा वागितो वक्रादित्यसंभावितोपमा ।।' इत्युक्तायामसंभावितोपमायामव्याप्तिः। विषानलयोः स्वतःसिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात्। 'उभौ यदि व्योञ्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥' इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः। भिन्नेनेत्यनन्वय- व्यावृत्त्यर्थमुपात्तमप्ययुक्तम्। १. 'वतीर्णत्वेन' क; 'वतीर्णत्वात' ख. २. 'इत्युक्तरूपाया' ख-ग.

Page 15

१० काव्यमाला।

'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' इत्यस्यामुपपादकोपमायामव्याप्ेः । तत्रोपमेयदोषगुणसामान्यान्तर्गता- नामुपमानानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात्। अथोपमेयतावच्छेदकभिन्नोपमानतार्वेच्छेद का वच्छिन्नत्वमुपमानस्य तद्भि- न्नत्वमेतदपि न युक्तम्।

भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥' इति रशनोपमायामव्यापेः, मतित्वाद्युपमानतावच्छेदकानामुपमेयतावच्छे- दकभिन्नत्वाभावात्। उपमेयोपमायामुपमानतावच्छेदकयोर्द्वयोरपि तद्ि- न्नत्वाभावेनोक्तविशेषणेनैव तद्यावृत्तिसिद्ध्या एकदेत्यस्य वैयर्थ्यापत्तेश्र। 'रजोभि: स्यन्दनोद्धूतैर्गजैश्र घनसंनिमैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।।'

मेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमिति" विवक्षित- मिदमपि न सम्यक्। 'उपाददे तस्य सहस्ररश्मिस्त्वष्टरा नवं निर्मितमातपत्रम्। स तद्दुकूलादविदूरमौलिर्बभौ पँतद्गङ्ग इवोत्तमाङ्गे ।I' 'द्वारं द्वारमटन्मिक्षुः शिक्षत्येवं न याचते। अदत्त्वा मादशो मा भूर्दत्त्वा त्वं त्वादशो, भव ।।'

१. 'गुणदोष' क. २. 'उपात्तानां' क. ३. 'मिन्ने उप' ख. ४. 'वच्छेदकधर्मा- वच्छिन्नत्वं'क. ५. 'इत्यनेन' ख-ग. ६. 'अतद्दुकूलादवि' ख-ग. ७. 'वहन्गाङ्ग- मिव प्रवाहम्' क; 'पतद्वाङ्ग' ख-ग. ८. 'द्वारमित्यादिपूर्वार्ध क-घ-पुस्तकयोनास्ति.

Page 16

चित्रमीमांसा। ११

इत्याद्यभिन्नधर्मिकोपमास्वव्याप्तेश्र। तत्र परमेश्वरत्वादेः खोपमेयतावच्छे दकस्यैवोपमानतावच्छेदकत्वात्। श्रेषव्यावृत्त्यर्थ धर्मत इति विशेषण- मप्ययुक्तम्। तत्र न शब्दसाम्यमात्रमिवेनोच्यते, किंतु गुणसाम्यमपीति तेदव्यावृत्तेः। ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं सुधांशुबिम्बे कलासा- कल्यमिति, नैकोडनुगतो गुणो लभ्यते, मैवम्; श्लेषेभित्तिकाभेदाध्य- वसायमूलया भेदेऽमेद इत्येवंरूपयातिशयोक्त्या धर्मसाधारण्यलाभात्। नह्युपमानोर्पेमेययोरेनुगत्या धर्मस्य मुख्यसाधारण्य एवोपमाल्कारः । 'पाण्ड्योऽयमंसार्पितलम्बहारः कृप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराज: ॥' इत्यादौ हरिचन्दनबालातपहारनिर्झरादीनां बिम्बप्रतिबिम्बभावेन निर्दि- ष्टानामपि साधारणघर्मत्वाङ्गीकारात्। नँनु सकलकलमित्यादावपि गुणसाम्यं चेदुपमैव स्यादिति चेत्, शब्दसाम्यमात्रं चेदँपि किमित्युपमा न स्यात्। नहि शब्दान्यगुणादि- साम्यमेवोपमाप्रयोजकं न शब्दसाम्यमिति कुलंधर्मः । 'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा। तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात्।।' ईत्यत्रानुगतार्थनामरूपशब्दसाम्येऽप्युपमादर्शनात्। किन्तु श्लेषस्यालङ्का- रान्तरविविक्तविषयाभावेन निरवकाशतया बलवत्वेनालक्कारान्तरबा- धकत्वादुपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतु: श्रेष एव नोपमेति मेङ्ग- १. 'न तद्यावृत्तिः' क-घः २. 'श्रेषनिमित्तक' क-घ. ३. 'sभेदे भेदः' ख. ४. 'पमेयानुगत्या' क. ५. 'अनुगतधर्मस्य' घ. ६. 'ननु' ख-ग-पुस्तकयोर्नास्ति. . 'चेचदपि' घ. ८. 'इत्यर्थानुगतार्थ' ख-ग. ९. 'मङ्गकादिः' क-ख-ग.

Page 17

१२ काव्यमाला।

कादिभिरभ्युपेयते। ततश्र यथा शब्दसाम्यमाश्रित्योपमाप्रतिभाने तद्वा- धकत्वं श्लेषस्य तथा श्लेषभित्तिकाभेदाध्यवसायलब्धाभेदगुणसाम्यमात्र- माश्रित्योपमाप्रतिभानेऽपि तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुण- साम्यपरित्यागः । यत्तु सुद्रटेन-सकलकलमित्यादावुपमां समर्थयमानेन, 'स्फुटमर्थालक्कारावेतावुपमासमुच्चयौ किंतु। आश्रित्य शब्दमात्रं सामान्यमिहापि सम्भवतः ॥' इति शब्दसाम्यमात्रमिहोक्त्तम्, तदन्ततः शब्दसाम्यमात्रमाश्रित्याप्यु- पमा समर्थयितुं शक्येति भावेन, न त्वभेदाध्यवसायेनापि गुणसाम्यं न

रेषु सर्वैरपि समाश्रयणाद्। तस्माद्धर्मत इत्यनेन न श्रलेषो व्यावर्तयितुं शक्यते। वस्तुतस्तु सकलकलमित्यादावुपमैवेति व्यर्थ धर्मत इति विशे- षणम्। अलङ्कारान्तरविविक्तस्तु श्रवेर्षेस्य विषयस्तत्प्रकरणे दर्शयिष्यते। किश्च, विविक्तविषयाभावेनालक्कारान्तरबाधकत्वमिति वाचोयुक्तिरप्य- युक्ता। विषयसद्भावमात्रेण निरवकाशत्वहानेर्विविक्तविषयानपेक्षणात्। नह्ययमलङ्कारगोचरो लोकन्यायो यद्विविक्तविषयो वक्तव्य इति। अर- नधरत्नानां सुवर्णविविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतु- त्वेनालङ्कारान्तरत्वव्यवस्थितेः। अन्यथा निरवकाशैररन्ध्रप्रत्युप्तरत्नैः साव- काशस्य तदाश्रयसुवर्णस्यालक्कारता बाध्येत। नाप्ययं वाक्यवित्संमतः शास्त्रीयन्यायः पदे जुहोतीत्यादीनामिवोत्तरार्धे जुहोतीत्यादीनामाहव- नीयशास्त्रादिविविक्तविषयाभावेऽपि सविषयत्वमात्रेण प्रतिष्ठितत्वाद्। नाप्यसाधारण्येनैतच्छास्त्रन्यायः। सहोक्त्यादीनामतिशयोक्त्यादिविविक्त- १. 'निमित्तक' क-घ. २. 'न तदनुरोधेन तत्र' क-घ. ३. 'शक्यत इति' कं. ४. ''ेषविषयः' ख-ग.

Page 18

चत्रमीमांसा। १३

विषंयाभावेडपि तदबाधेनालङ्कारान्तरत्वव्यवहारादविरोध इहाप्यवि- शिष्टः । तस्मादत्रोपमाप्रतिभोत्पत्तिहेतुः श्रेषालद्कार इत्ययुक्तम्। प्रत्यु- तोपमैवात्र श्वेषप्रतिभोत्पत्तिहेतुः। नहि पुरवर्णनप्रकरणे सकलकलमिति तद्विशेषणपदस्य सुधांशुबिम्बमिवेतयुपमाया अनिबन्धने कलासाकल्यल- क्षणार्थान्तरप्रतिभा सम्भवति। प्रतीपव्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमि- त्युक्तं तत्रान्येनेत्येयुक्तम्। अनेनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात्। किंच, वर्ण्यात्प्रकृतादन्येनाप्रकृतेनेति यद्यर्थस्तदा- 'इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु। रजांसि समरोत्थानि तच्छोणितनदीष्चिव !।' इति समुच्चितोपमायामव्याप्तिः । तत्र समराङ्कत्वेन रजसां शोणितेषु पतनस्यापि वर्ण्यत्वात्। यदि तु स्वयं वर्ण्येनावर्ण्येन वा कुतश्चिद्वर्ण्या- दन्येनेत्यर्थः । तदाप्युत्कृष्ट्गुणत्वादुपमानभावमप्यसहमानस्योपमानत्वक- ल्पनरूपे प्रतीपेऽतिव्याप्तिः। यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । ननु संति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।।' • अत्र हि वर्ण्यानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोषत्वादुपमान- भावमप्यसहमानेन साम्यनिबन्धनं प्रतीपम्। अत्र वर्ण्यस्येत्यप्ययुक्तम्। 'त्वत्कीर्तेः पुरतो भाति ज्योत्स्ना ध्वान्तमलीमसा' इत्यप्रस्तुतप्रशंसास- क्कीर्णोपमायामव्याप्तेः। तत्र कीर्तेरव वर्ण्यत्वेन ज्योत्साया अवर्ण्यत्वात्। अपि च, 'अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोर्थः । किमन्यप्रति- योगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यथाकथञ्चिद्र्ण्यावर्ण्यो- भयनिरूपितं साम्यं वाच्यम्, अथवा वर्ण्यानुपयोगिकत्वेन साम्यं वाच्य- १. 'प्रतिभाहेतुः' ख-ग. २. 'उत्तमयुक्तम्' क-घ. ३. 'मा स्म तात' क-घ.

Page 19

१४ काव्यमाला।

मिति। आद्ये, 'सरसिजमिदमाननं च तस्याः सममिति चेतसि संमद विधत्ते' इत्युभयविश्रान्तसादृश्योपमायामव्याप्तिः। द्वितीये, प्रसिद्धप्रती- पेडप्यतिव्याप्तिस्तदवस्था। एवं तृतीये वर्ण्यस्य साम्यमित्येतावता विव- क्षितार्थलाभादन्येनेत्यस्य वैयर्थ्यम्। उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम्। तेन 'खमिव जलं जलमिव खं' इत्यादौ पर्यायेण प्रवृत्तायामुपमेयोपमायामतिव्याप्तिनिरासेडपि, 'तद्वल्गुना युगपदुन्मिषितेन ताव- त्सद्यः परस्परतुलामधिरोहतां द्वे। प्रस्पन्दमानपरुषेतरतारमन्त- श्रक्षुस्तव प्रचलितभ्रमरं च पद्मम् ।।' इति युगपत्परवृत्तायां तस्यामतिव्याप्यनिरासात्। अपि चैवम्, 'ज्योत्सेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।' इति भिन्नसाधारणधर्मायां मालोपमायामव्याप्तिः। तत्रानेकदा साम्यप्र- तिपादनात्। न च बहुपमामेलनमेव मालोपमा नैका, तासु च प्रत्येकं लक्षणमस्त्येवेति वाच्यम्। तथा सत्युपमेयोपमाप्युपमाप्रतीपमेलनमेवेति तद्यावृत्त्यर्थ विशेषणान्तरकरणायोगात्। संसृष्टिसंकरात्पृथम्म्रन्थकृतां लेखनमुभयत्रापि तुल्यम्। एवमुपमेयोपमाप्रकरणे उदाहरिष्यमाणायां 'रजोभि: स्यन्दनोद्धूतैः' इति परस्परोपमायामव्याप्तिः। व्यङ्ञयोपमाव्या- वृत्त्यर्थ वाच्यमित्युक्तमप्ययुक्तम् । 'न पझं मुखमेवेदं न भृङ्गौ चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥।' इत्युक्तरूपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेनाव्यास्यापचेः।

Page 20

चित्रमीमांसा । १५

'त्वदाननमधीराक्षमाविर्दशनदीघिति। अ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम्।।'

श्यामा' इत्यादिवाचकलुपोपमायां 'चन्द्रसुहन्मुखम्' इत्यादिसाम्यलक्षक- पदवदुपमायां चाव्यास्यापत्तेश्र। किंच, वाच्यमित्यत्र विधेयतया वाच्यतोच्यते अनुवाद्यतया वा? आद्ये, 'स कर्षन्महतीं सेनां पूर्वसागरगामिनीम् बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥' इत्यादावेवेदं लक्षणं स्यात्। 'स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा। अहिताननिलो द्धूतैस्तर्जयन्निव केतुभिः ।' इत्यादौ न स्यात्। द्वितीये, यत्र व्यतिरेकालंकारे साम्यस्य निषेधायानु- वाद्यता 'मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीदं लक्षणं स्यात्। नच निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम्। 'असिमात्रसहायोऽपि प्रभूतारिपराभवे। नैवान्यतुच्छजनवत्सगर्वोऽयं महाद्युतिः ।।' इति व्यतिरेके तथाप्यतिव्याप्तेः। न च निषेधप्रतियोगिकोट्यननुप्रवि- ष्टतया वाच्यमिति विशेषणीयम्। 'वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे। मालत्याः सदृंशीं क्वापि भ्रमन्नपि न लप्स्यसे !।' इत्युपमानलुप्तायामव्याप्तेः । तत्र सदृशलाभनिषेधे साम्यस्यापि प्रतियो- गिकोटिनिविष्टत्वात्। तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम्। १. 'महाधृतिः' क. २. 'अपि व्याप्तेः' ग.

Page 21

१६ काव्यमाला।

यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्- 'प्रसिद्धेरनुरोधेन यः परस्परमर्थयोः । भूयोऽवयवसामान्ययोग: सेहोपमा मता ॥' इति। तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम्-

तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।।' इत्याद्युपमायामव्याप्तम्। 'उदगूर्भहूणतरुणी रमणोपमर्द- भग्नोन्नतस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरबिसकाण्डकडारमेत- द्विष्णो: पदं प्रथममग्रकरैर्व्यनक्ति ।।' 'सदयोमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्' इत्यादौ प्रसिद्धिर- हितोपमानायां कल्पितोपमायां चाव्याप्तम्। यत्त्वलक्कारसर्वस्वकृतोक्तम्-"उपमानोपमेययोः साधर्म्ये भेदाभेंदतु- ल्यत्वे वोपमा। साधम्यें त्रयः प्रकाराः। भेदप्राधान्यं, दीपकतुल्ययो- गितादृष्टान्तप्रतिवस्तूपमासहोक्तिव्यतिरेकादिषु। अभेदप्राधान्यं, रूपक- परिणामभ्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं, यथास्यामुपमायाम्। अत्र ह्युपमानोपमेयासाधारणरूपाभ्यां भेदः साधारणधर्मेणाभेदश्चेति द्वयोरपि तुल्यतैव" इति तदप्युपमानोपमेयातिव्यात्यादिदुष्टमिति स्पष्टमेव । तस्माद्वुर्वचमस्या लक्षणमिति। अत्रोच्यते- 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।।' उपमानव्यापार उपमितिक्रियानिष्पादको व्यापारः सादृश्यवर्णना।

Page 22

चित्रमीमांसा। १७

सोऽयमुपमितिक्र्ियानिष्पत्तिपर्यन्तं विवक्षिता चेदुपमालक्कार इत्यर्थः । तथा च व्यतिरेके नातिव्याप्तिः। तत्र सादृश्यवर्णनासत्त्वेऽपि 'मुखेन निष्कलङ्केन' इत्यादौ साक्षात्तस्यैव निषेधेन, 'नैवान्यतुच्छजनवत्' इत्यादौ तत्प्रयोजकधर्मनिषेधेन चोपमितिक्रियाया अनिष्पतेः । नाप्यः नन्वयेऽतिव्याप्तिः। तत्रापि खेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदनवपोत्खननाद्यर्थवादेऽसदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्ण्यमानत्वेनोपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य खेनोपमिति- क्रियानिष्पत्तौ सदृशान्तरव्यवच्छेदेऽपि सर्वथानुपमत्वद्योतनं फलं न स्यात्। आहुश्र तस्य तदेव फलं भामहादय :- 'यत्र तेनैव तस्य स्यादुपमानोपमेयता। असादृश्यविवक्षातो वदन्ति तमनन्वयम् ।।' इति। अत एव वर्ण्यमानमपि स्वस्य खस्मिन्साधर्म्यं नान्वेतीत्यनन्वयपद्- व्युत्पत्तिमलक्कारसर्वस्वकारादयो वदन्ति। ततश्र यथाम्भसि कतकरजः- संयोजनेन रजोन्तरव्यवच्छेदे सति कतकरजसोऽपि विलयनात्सर्वथाना- विलमम्भ: सिध्यति तथा 'रामरावणयोर्युद्धं रामरावणयोरिव' इत्यादौ खेन सादृश्यवर्णनया सदृशान्तरव्यवच्छेदे सति वस्तुतः सवेनाप्युपमाया असंभवादनुपमं रामरावणयोर्युद्धमित्यत्रैव कविसंरम्भ इत्युपमितिक्रि- याया अनिष्पत्तेर्नानन्वयेऽतिव्याप्तिशंक्कावकाशः। एवं प्रतीपेऽपि यत्रो- पमित्यनिष्पत्तिः, 'आकर्णय सरोजाक्षि वचनीयमिदं भुवि। शशाङ्कस्तव वक्रेण पामरैरुपमीयते।।" इत्यादौ ने तत्रातिव्याप्तिशङ्कां। उपमितिक्रियानिष्पत्तिविरहात्। १. 'नातिव्याप्ति' ख-ग. २ चि० मी०

Page 23

१८ काव्यमाला।

'गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।।1 इत्यादि प्रतीपमुपमेयोपमा चेत्युभयमपि सङ्गाह्यमेवेति न तद्यापनं लक्षणस्य दोषः । तथा हयुदाहृतं प्रतीपं तावदुपमाविशेष एव। साद- श्यवर्णनस्य प्रकृतविषयत्व इवाप्रकृतविषयत्वेऽपि स्मृतिरूपकसन्देह- आ्रान्त्यनेकधाग्रहणापह्नवसम्भावनासम्भवद्वस्तु संबन्धनिबन्धननिर्दिष्टसमर्थ- नादीनामिवाल क्वारान्तरत्वायोगात्। अन्यथा तेषामपि प्रकृतविषयत्व एव स्मरणरूपकसन्देहभ्रान्तिमदुललेखाप हुत्युत्प्रेक्षानिदर्शनार्थान्तरन्यासा- दलङ्कारत्वम्। अप्रकृतविषयत्वेऽपि चानलङ्कारत्वमिति कल्पनाप्रसंगात्। स्मृत्यादयश्च प्रकृतविषया इवाप्रकृतविषया अप्यलङ्कारभूतास्तत्र तत्रो- दाहरिष्यन्ते। न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्ण- नात्मनैव तया भाव्यमिति। समुच्चयोपमाद्युदाहरणेषु प्रकृतयोरेवाप्रकृत- योरेव वा सादृश्यवर्णनस्याप्युपमात्वाङ्गीकारात्। तद्वत्प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम्। एवं चोपमेयोपमापि प्रकृताप्रकृतवि- षयोपमाद्वयरूपतया नालङ्कारान्तरतां भजते। अन्यथा तत्प्रकरणोदाह- रिष्यमाणपरस्परोपमाया अप्यलङ्कारान्तरत्वप्रसंगात्। परस्परभ्रमनिब- न्धनादिष्वप्यलक्कारान्तरतापत्वेश्र। न चानन्वयप्रतीपोपमेयोपमासु साद- श्यवर्णनस्य पृथडिरूपणस्य चाविशिष्टत्वेनानन्वयस्यानुपमात्वमितरयोरु- पमात्वं च वक्तुमयुक्तमिति वाच्यम्। यत्रोपमितिक्रियानिष्पत्तिस्तत्रोप- माशब्दप्रवृत्तिनिमित्तसद्भावेन, यत्र तदनिष्पत्तिस्तन्न तदभावेन च वैष- म्यस्य स्फुटत्वात्। इममेव विशेषमभिप्रेत्य काव्यप्रकाशिकादिलक्षणे- ष्वनन्वयव्युदासार्थमेव यत्ः कृतो नोपमेयोपमादिव्युदासार्थम्। उपमे-

१. 'प्रकृताप्रकृतविपयत्वे' क.

Page 24

चित्रमीमांसा। १९

विरुध्यते, रूपकपरिणामवत्। 'उभौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यादौ लक्षणाभावो न दोषः । यदि तथाभूतौ प्रवाहौ स्यातां तर्युप- मीयेत। न च तौ संभवतः । तस्मान्न केनाप्युपमीयत इत्युपमापरप- र्यायोऽयमित्यनिष्पत्ावप्युपमात्वखीकारे तत्रोपमाशब्दस्य पारिभाषिक- त्वापत्तेः । किंतु तत्रातिशयोक्तिविशेषोडलंकारः । अत एव काव्यप्र- काशिकायां 'प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयो- क्तिषु परिगणय्य यद्यर्थोक्तौ कल्पनस्य, 'राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवामुयात् ।।' इत्युदाहृतम्। 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविदुमस्थम्। ततोऽनुकुर्याद्विशदस्य तस्य ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।' इति तु कविकल्पितोपमानाया उत्पाद्योपमेति व्यवहताया उदाहरणम्। तत्र यद्युत्पाद्यस्योपमानस्य संभाविततया तेनोपमितिनिष्पत्तर्लक्षणमस्त्ये- वेति नाव्याप्तिः । न चैवं 'चन्द्रबिम्बादिव विषं' इत्यसंभावितोप- मायामव्याप्तिः, तत्रासंभावितेनैवोपमानेनोपमितिक्रियानिष्पचेः कविना विवक्षितत्वेन विवक्षानुसार्युपमितिक्रियानिष्पत्तिसद्धावात्। नहि 'वस्तु- सदर्थानिबन्धनोपमितिक्रियानिष्पत्तिरुपमा' इति लक्षणमुच्यते किंतु कविविवक्षानिबन्धना। अत एव क्लोके विवक्षित इति विशेषणम: र्थवत्। अन्यथा 'चन्द्र इव मुखम्' इत्यादावपि लक्षणं न स्यात्। चन्द्रगतकान्त्यतिशयस्य वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना ग- १. 'इत्यत्र' ग-घ. २. 'संभवात' क.

Page 25

२० काव्यमाला।

त्यभावात्। 'चन्द्रधवंला कीर्तिः' इत्यादौ च सर्वथैव लक्षणं न स्यात्। कीर्तौ धावल्यस्य लेशतोऽप्यभावात्। न चैवमनन्वयेऽपि कविविवक्षया स्वस्य सवेनोपमितिक्रियानिष्पत्तिः संभवतीति वाच्यम्। सर्वथैवानुपमत्व- द्योतने कविसंरम्भे सति तथा विवक्षानुदयात्। 'वृथा चरसि किं भृङ्गं' इत्यादौ सादृश्याधिकरणस्यानुपलम्भोक्त्योपलभ्यमानेषु सादृश्यनिषेधपर्य-

स्तीति नाव्याप्तिः। अत एव तस्य विशिष्यांनुपादानादुपमानलुप्तता। एवम्, 'निरुप्यमाणं कविना सादृश्यं स्वात्मनो न चेत् । प्रतिषेधमुपादाय पर्यवस्यति सोपमा ।I' इत्यपि लक्षणमनुसंधेयम्। उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा। स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा। इति द्विविधमप्येतदुपमासामान्यलक्षणम्। अलंकारभूतोपमालक्षणं त्वे- तदेवादुष्टाव्यङ्गयत्वचिशेषितम्। विशिष्टोपमादिस्थले विशेषणाद्युपमानां वांच्यभूतविशिष्टोपमादिसिद्यङ्गत्वात्। वाच्यसिद्धयङ्गरूपगुणीभूतव्य- ऋयतयैव तासां नालंकारतेति न तदव्यापनं दोषः। 'न पदमं मुखमेवेदं' इत्यादौ नोपमालंकारः । किं तु प्रतिषेधाक्षिप्तप्रसक्तितया भ्रान्तिमान्, तदुपपादकतयोपमा चेत्युभयं व्यङ्गयम्। तथापि भ्रान्तिमदादिकमपि साधर्म्यमूलत्वमात्रेणोपमामध्ये परिगणयता दण्डिना तत्वाख्यानोपमेत्येता- दशव्यवहारः कृतः परमिति न तत्राप्यव्याप्तिर्दोष इति दिक्। सा चेयमुपमा द्विविधा-पूर्णा लुपा च। उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामुपादाने पूर्णा। १. सिध्यर्थत्वात्' क.

Page 26

चित्रमीमांसा। २१

तेषामेकस्य द्वयोस्रयाणां वा लोपे सति लुप्ता। पूर्णायां क्वचित्साधारणधर्मस्यानुगामितया निर्देशः । कचिद्वस्तुप्रति वस्तुभावेन। क्वचिद्विम्बप्रतिविम्बभावेन । क्वचिच्छ्ेषेण। कचिदु- पचारेण। क्वचित्समासान्तराश्रयेण। क्वचिदेषां यथासंभवं मिश्रणेन। लुप्ायां तु नैवं भेदाः। तस्यां साधारणधर्मस्यानुगामित्वनियमात्। किं तु प्रकारान्तरेण भेदा वक्ष्यन्ते। तत्र पूर्णायां धर्मस्यानुगामिता यथा- 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। ज़गतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।' औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इति वागर्थयोर्नित्यसंबन्धित्वं प्रसिद्धम्। उमामहेश्वरयोरप्यनयोर्न पृथग्भावः चन्द्रचन्द्रिकयोरिवेति तत्प्रसि- द्धम्। तथा च नित्यसंबन्धित्वरूपोSन्र साधारण्धर्मोऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसंबन्धित्ववर्णनेन तयोर्निरति- शयपरस्परप्रेमशालित्वं महामहिमत्वमित्यादि व्यज्यते तथापि न ध्वनि- गुणीभूतव्यङ्मयव्यव्रहारः । न खलु व्यङ्गयसंस्पर्शप्रतिभासादेवात्र चारुता- प्रतीतिः, किं तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र संभवद्रसादिरूपं व्यङ्यमलंकारान्तरं चागणयित्वैव तत्तदलंकारा उदाहियन्ते। एकस्यैव धर्मस्य संबन्धिभेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः । स तु शुद्धो 'न संभवति। किं तु विशेषणतया विशेष्यतया वा सर्वत्र विम्वप्रतिबिम्बभावकरम्बितः । वस्तुतो भिन्नयोधमयोः परस्परसादश्या- दभिन्नतयाध्यवसितयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । तत्र वस्तुप्रति- चस्तुभावस्य विशेषणता यथा- 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । १. 'श्रयणेन' क. २. 'तयोरतिशय' ख-ध.

Page 27

२२ क्राव्यमाला।

दिग्धोडमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ।।' अत्र बिम्बप्रतिबिम्बभावेन निर्दिष्टयोः कंधरावृन्तयोर्वलितावृच्तश- ब्दाभ्यामेक एव धर्मो विशेषणतया निर्दिष्टः। विशेष्यता यथा- 'सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता। वानरेणातिलोलेन वाताधूतेव वल्लरी ।।' अत्र साध्वसवातयोर्विम्बप्रतिबिम्बभावापन्नयोः कम्पिताघूतशब्दाभ्या- मेक एव धर्मो विशेष्यतया निर्दिष्टः। शुद्धबिम्बप्रतिबिम्बभावो यथा- 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादि। अत्र हरिचन्दनबालातपौ हारनिर्झरौ च बिम्बप्रतिबिम्बभावेन निर्दिष्टौ। श्रेषो यथा- 'नरसिंह महीपाल समस्तोऽपि रिपुस्तव। पारावारसमानत्वं दधाति स्वपदच्युतः ॥।' उपचारो यथा- · 'उद्धवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः । पङ्कज़ैरिव कुमारमीक्षणैर्विस्मयेन विकचैः पपुर्जनाः ।।' अत्र विकास: पुष्पधर्म उपमेयेषु वीक्षणेषूपचरितः । समासभेदा- श्रयणं यथा- 'तया विवृद्धाननचन्द्रकान्त्या प्रंफुल्लचक्षुःकुमुदः कुमार्या। प्रसन्नचेतःसलिल: शिवोऽभूत्संसज्यमानः शरदेव लोकः ।।' अत्र विवृद्धाननचन्द्रकान्त्येति विशेषणं देव्यां शरदि च समासमे- देन प्रवर्तते। मिश्रणेष्वनुगामित्वबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्।) अधृष्यश्चाभिगम्यश्च यादोरलैरिवार्णवः ।।' १. 'प्रसन्न' क-घ.

Page 28

चित्रमीमांसा। २३

अत्राधृष्यत्वमभिगम्यत्वं च नृपगुणानां यादोरलानां च बिम्बप्रतिबि- म्वभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः। अनुगामित्व श्लेषयोर्मिश्रणं यथा- 'गते तव भ्रातरि वत्स पञ्चतां चिराय नश्चान्द्रमसं कुलं महत्। अदृष्टसंतानतया न शोभते वनं हरे: प्रास्मथनादिवोदघेः ॥' अत्र संतानशब्दश्लेषमपेक्ष्य लब्धात्मकं शोभारहितत्वं साधारणो धर्मः। अनुगामित्वोपचारयोर्मिश्रणं यथा- 'तडिदुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन्। प्रिययेव भिया सकम्पया परिरेभे धृतधर्मपाथसा ।।' अत्र सकम्पत्वानुगामिधर्मापेक्षया लब्धचारुभावं परिरम्भकर्तृत्वं भीत्यामुपचरितम् । अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा- 'शयेनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः । अङ्गना इव रजखला दिशो नो बभूवुरवलोकनक्षमाः ।I' अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समासभेदाश्रयणेन साधा- रण्यमपेक्ष्यानवलोकनक्षमत्वमनुगामिधर्मश्रारुतातिशयं पुष्णाति। वस्तु- प्रतिवस्तुभावविम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'लिक्गर्मुद: संवृतविक्रियास्ते हदाः प्रसन्ना इव गूढनकाः । वैदर्भमामन्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ।।' अत्र बिम्बप्रतिबिम्बभावापन्नयोः क्रोधनक्रयोः संवृतगूढशब्दाभ्यामेक एव धर्म. उक्त इति बिम्बप्रतिबिम्बभाववस्तुप्रतिवस्तुभावः । संतोषचिह्न- प्रसादयोर्बिम्बप्रतिविम्बभावश्च। श्लेषविम्बप्रतिबिम्बभावयोर्मिश्रणं यथा- 'पार्थनाशमुदिता नृपात्मजा बाष्पमूहुरविनीतमन्यंवः । आतपक्कथितपाथसो बहिः शीतगर्भसलिला इव हदाः ॥' १. 'साधारणंधर्म:' ख-ग,

Page 29

२४ काव्यमाला।

अत्र बाष्पशब्दे श्रेषस्य नृपात्मजहृदविशेषणानां बिम्बप्रतिबिम्बभा- वमपेक्ष्य चारुता। उपचारबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा 'सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ।

अत्राश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगाणां च बिम्बप्रतिबिम्बभावमपेक्ष्यो- द्वमनमुपमानोपमेययोर्द्वयोरप्युपचरितम्। मुख्यार्थस्य द्वयोरप्यसंभवात्। मुख्यार्थे तस्य आ्म्यत्वाच्च। तेदाहुः- 'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्तु (त्र) ग्राम्यकक्षां विगाहते ॥' इति। एवमन्यदपि द्वयोर्मिश्रणमूह्यम्। अनुगामित्वबिम्बप्रतिबिम्बभावसमा- समेदाश्रयणानां मिश्रणं यथा- 'नृपं तमावर्तमनोज्ञनाभि: सा व्यत्यगादन्यवधूर्भवित्री। महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ।।' अन्न व्यत्यगादित्यनुगामिधर्मः । अन्यवधूर्भवित्री सागरगामिनीत्य- नयोर्विम्बप्रतिबिम्बभावः । आवर्तमनोज्ञनाभिरित्यत्र समासभेदाश्रयणमि- त्येतेषां मिश्रणम्। अनुगामित्वक्लेषोपचाराणां मिश्रणं यथा- 'असौ मरुचुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरद्दष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।' अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता। रामादिशब्दश्रेषः । चु- म्वितशव्दस्य वसन्तपक्षे उपचारः। इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणोदाहरणभेदाः स्वयमेव द्रष्टव्याः। बिम्बप्रतिबिम्बभावोदाहरणेषु कश्चिद्विशेषः । क्वचित्प्रसिद्धसाधर्म्यतया प्रतीयमानसाधर्म्ययोर्बिम्बप्रति- १. 'शब्देन' क. २. 'यदाङ्ुः' क. ३. 'मिश्रणमेदोदाहरणाः' ख-घ.

Page 30

चित्रमीमांसा। २५

बिम्बभावः । यथा-'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ। क्वचिद- प्रसिद्धसाधर्म्यतया येनकेनचित्प्रकारेणोपात्तसाधारणधर्मयोर्विम्बप्रतिबि- म्बभाव: । यथा-'तया विवृद्धाननचन्द्रकान्त्या' इत्यादौ। अन्र हि शरदपर्णयोः स्वतोऽप्रसिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रय- णेनोप्ात्तसाधारणधर्मयोरेव बिम्बप्रतिबिम्बभावः । यथाकथंचित्साधर्म्य- प्रतीतिं विना बिम्बप्रतिबिम्बभावो न संभवत्येव। 'यथा त्वं गुणवाँल्लोके तथा ते निर्गुणो रिपुः । इतीदमुपमानं तु विपरीतमिति स्मृतम् ॥।' इंत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः। तत्र हि सगुणत्वनि- र्गुणत्वयोरनोपात्तेन न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नैष दोषः । तत्राप्यात्यन्तिकत्वखवाभाविकत्वादिधर्मेण प्रतीयमानेन तयोः साधर्म्यप्रतीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निराल- म्वनत्वप्रसङ्गात्। एवं पूर्णाया दिगुदाहृता। लप्ताष्टविधा-वाचकलुप्ा, धर्मलुप्ता, उपमानलप्ता, वाचकोपमान- लुप्ता, धर्मोपमानलुप्ता, धर्मवाचकलुप्ा, वाचकोपमेयलुप्ता, धर्मोपमानवा- चकलुप्ता चेति। क्रमेणोदाहरणानि- 'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्ते: कुम्भोदरं नाम निकुम्भतुल्यम् ।।' अत्र कैलासगौरमित्यत्र वाचकलोपः। निकुम्भतुल्यमित्यत्र धर्म- लोपः । वाचकलोपः सर्वत्र समासविघायकशास्त्रकृतः । धर्मलोपस्त्वै- च्छिकः । प्रभावादिना निकुम्भतुल्यमित्यपि वत्तुं शक्यत्वात्। 'यच्चोराणामस्य च समागमो यच्च तैर्वधोऽस्य कृतः। उपनतमेतदकस्मादासीद्वत काकतालीयम् ।।'

Page 31

२६ काव्यमाला।

इत्यत्र काकतालशब्दौ वृत्तिविषये काकतालसमवेतक्रियावर्तिनौ। तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे 'समासाच्च तद्विषयात्' इति ज्ञापकात्सुप्सुपेति समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च। तेन देवदत्तदस्युसमागमः काकतालस- मागमसदृश इति फलति। ततः काकतालमिव काकतालीयमिति द्वितीये इवार्थे 'समासाच्च तद्विषयात्' इति छप्रत्ययः। ततश् पतता तालफलेन यथा काकस्य वध एवमुपनिपतितैर्दस्युभिर्देवदत्तस्य वघ इत्यर्थः । यदाह भगवान्भाष्यकार :- 'एवं तर्हि द्वाविमावर्थौ काकागमनमिव तालपतनमिव काकतालं काकतालमिव काकतालीयम्' इति। तच्ब विवृतं कैयटेन- "तत्र काकागमनं देवदच्ागमनस्योपमानम्। तालपतनं दस्यूपनिपा- तस्य। तालेन तु यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमान- मिति। अकस्मादुपनतत्वं च समानो धर्मः । तदाह वृत्तिकारः-'तेन काकतालीयं नामाकस्मादुपनतं चित्रीकरणमुच्यते' इति। ततश्रात्र काकागमनतालपतनसमागमनरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमा -: नस्यानुपादानात्। प्रत्ययार्थोपमायामुपमानलोपः। समासार्थोपमायां वाच- कोपमानलोपः । अत्रैव 'किमिति ब्रूमो वयमिदम् ।' इति तृतीयपादपाठे प्रत्ययार्थोपमायां धर्मोपमानलोपः । समासार्थोपमायां धर्मोपमानवाचक- लोपः । अत्र धर्मलोपमात्रमैच्छिकम्। 'यं त्वं पालयसे धर्म वृत्त्या च नियमेन च। स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ।।' अत्र राघवः शार्दूल इवेत्यर्थे, 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति समासे धर्मवाचकयोर्लोपः । अत्र वाचकलोपवद्धर्मलोपोऽपि

Page 32

चित्रमीमांसा। २७

शास्त्रीयः। सामान्यप्रयोग एवैतत्समासानुशासनात्। धर्मवाचकलुप्तायां धर्मलोपस्यैच्छिकत्वमपि संभवति। यथा- 'नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्रश्चा चन्द्रकलाधरम् ।I' अन्रापवर्ग इवाचरतीत्यर्थेऽपवर्गतीत्यत्राचारार्थस्य किपो लोपाद्वाच- कवद्धर्मस्यापि लोपः । चश्चेत्यत्र चश्चा तृणपुरुष इवेत्यस्मिन्नर्थे 'इवे प्रतिकृतौ' इति विहितस्य कनो 'लुम्मनुष्ये' इति लुब्विधानाद्वाचक- लोपो धर्मलोपश्च। अस्य श्रोकस्य 'यद्गक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्चञ्चैवात्महिताकृतेः ॥' इति पाठे नोभयत्रापि धर्मस्य श्रवणमपि संभवति। 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुष्पायुघीयति ।।' अ्र वाचकोपमेययोलोपः। रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात्स्वा- त्मानं पुष्पायुधमिवाचरतीत्यस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्म लोपः कवरैच्छिकः। न चैष इत्युपमेयस्योपादानमस्तीति शङयम्। तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतीत्यत्रोपमेयासमर्पकत्वात्। अत्रैव हरिण- स्याक्षिणी इवायते अक्षिणी आसामित्यस्मिन्नर्थेडनुशिष्टे हरिणाक्षीणा- मिति पदे धर्मोपमानवाचकानां लोपः । सर्वोऽप्ययं 'सप्तम्युपमानपूर्वप- दस्य' इत्यादिशास्त्रकृत एव लोपः। त्रिलोपे धर्मलोपस्त्वैच्छिकोSपि संभ- वति। यथा- 'यच्चोराणामस्य च' इति श्लोकस्य द्वितीयपाठे समासार्थोपमायाम्। एवं लुसाया अष्टौ विधाः प्रदर्शिताः । १. 'लुप्तायां' क-घ.

Page 33

काव्यमाला।

काव्यप्रकांशिकाकारादिभिस्तु पूर्णाया: षड़िधा: लुप्तायास्तु धर्मलुप्ता- दिष्ववान्तरमेदेन कैश्चिदेकोनविंशतिरन्यैविशतिविधाः प्रदर्शिताः। तत्रायं विभाग :- पूर्णा तावहिविधा श्रौती आर्थी च। सादृश्यमात्रवाचकय- थेवादिशब्दवती श्रौती। सादृश्यविशिष्टधर्मिपर्याप्ततुल्यसदृशसंकाशादि- शब्दवर्ती आर्थीं। द्विविधापि वाक्ये समासे तद्धिते चेत्येवं पड्डिधा पूर्णा। धर्मलुप्तापि पूर्णावदेव विभागवती। किं तु श्रौती तद्धितेन संभ- वतीत्येवं पश्चविधा। वाचकलुपा कर्मकर्तृणमुलोः कर्माधिकरणक्यचोंः- क्यडि णिनौ समासे चेत्येवं सप्तविधा। उपमानलुप्ता वाक्यसमासयोर्द्वि- विधा। धर्मवाचकलुता किप्समासयोर्द्विविधा। धर्मोपमानलुप्ता वाक्यस- मासयोर्द्विविधा। उपमेयवाचकलुप्ता क्यचि एकविधा। धर्मवाचकोप- मानलुप्ता समास एवैकविधेति। यदाहु :- 'पूर्णा लुप्ता च सा द्वेधा श्रौत्यार्थी चेति ते पुनः। द्विविधे प्रथमा वाक्ये समासे तद्धिते भवेत्॥। तद्वल्कुप्तापि धर्मस्य लोपे श्रौती न तद्धिते। इवादिलोपे द्विविधे णमुलि क्यचि च क्यडि॥ तथा णिनौ समासे च सप्तधा परिकीर्तिता। उपमानस्य लोपे तु द्विधा वाक्यसमासयोः। इवादिधर्मलोपेऽपि द्विविधा किप्समासयोः। धर्मोपमानयोलोंपे वाक्यगा च समासगा॥ इवादेरुपमेयस्य द्योलोंपे भवेत्क्यचि। इवादिधर्मोपमानलोपे त्वेषा समासगा ॥' इति ॥

१. 'पर्यन्त' क. २. 'तु' ख.

Page 34

चित्रमीमांसा। २९

अत्रोदाहरणानि तन्मतरीत्या संगृह्यास्माभिलिख्यन्ते- 'यस्याज्ञा शिरसोह्यते सुमनसां वृन्दैर्यथा मालिका बद्धा मुञ्चति यः पशूनिव जनान्यस्याभ्रवद्वैभवम्। हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं यं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमः शंभवे ॥' अत्र षड़िधापि पूर्णा दर्शिता। तत्र प्रथमवाक्ये वाक्यगा श्रौती। दद्वितीयवाक्ये समासगा शरौती। 'इवेन नित्यसमासो विभत्तयलोपः पू- र्वपद्प्रकृतिस्वरत्वं च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपद- तवात्। तृतीयवाक्ये तद्धितगा श्रौती। अभ्रवदिति षष्ठीसमर्थाद्वतेः 'तत्र तस्येव' इति सूत्रेणेवार्थे विहितत्वात्। 'हृद्ं शेवधिना सम हृदि भज- न्ति' इत्यत्र वाक्यगा आर्थी। 'आनन्दसारोपमं' इत्यत्र समासगा आर्थी। ह्द्यमिति विशेषणमत्राप्यपेक्ष्यते। अन्यथा धर्मलुत्तैव स्यान्न पूर्णा। शशिवदित्यत्र तद्धितंगा आर्थी। तत्रत्यवतेः 'तेन तुल्यं क्रिया चेद्वतिः' इति तुल्यार्थे विहितत्वात्। 'मूर्तिर्यथा नवसुधा बलभिन्मणीव कण्ठप्रभा सुसदृशश्र जटास्तडिद्वि: । शङ्काक्षि काञ्चननिभं पदमब्जदेश्यं यस्यैष मेऽस्तु हृदि दैवतसार्वभौमः ॥' अत्र पञ्चविधापि धर्मलुपता दर्शिता। तत्र मूर्तिर्यथा नवसुघेति वाक्यगा। बलभिन्मणीव कण्ठप्रभेति समासगा श्रौती। उभयत्रापि भातीत्यादिक्रियाप्रयोगे सैव साधारणो धर्म इति धर्मलुप्ता न भवेत्, अत -- सतदप्रयोगः। श्रौती तु धर्मलुप्ता तद्धिते न संभवति। षष्ठीसमर्थात्सप्त- मीसमर्थाद्वा इवार्थे विहितस्य वतेर्धर्मोपादानं विनान्वयसौकर्याभावाद्।

Page 35

३० काव्यमाला।

न च वाच्यं 'इवे प्रतिकृतौ' इत्यधिकारे इवार्थे विहितस्य तद्धितस्य धर्मोपादानं विना नैराकाङ्डयमस्ति। 'कुशाग्रीया बुद्धिः' 'शैलेयं दधि' 'पौण्डरीकं मुखम्' इति दर्शनात्। अतस्तत्र श्रौती धर्मलुप्ता तद्धित उदाहर्तु शक्यत इति 'इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात्। अन्यथा तेषां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभा- वेन कुशाग्रीया बुद्धिरित्याद्युपमेयसामानाधिकरण्यासंभ वात्सादृश्यविधा नमपि सदशे पर्यवस्यति सामानाधिकरण्यदर्शनादिति सूत्रे इवग्रहणं न विरुध्यते। सुसदृशश्च्वेत्यादि वाक्यत्रये क्रमेणार्थी वाक्यगा समासगा तद्धितगा च। अव्जदेश्यमित्यत्रेषदसमास्तौ विहितोऽपि देश्यप्रत्ययः सादृश्ये प्रयुज्यते सोऽपि सामानाधिकरण्यात्सदृशपर्यवसायी। ननु सद्द- शादिशब्दप्रयोगे सादृश्यविशिष्टधर्मिपर्यन्तत्वादार्थीति युक्तम्। साद- श्यादिशब्दप्रयोगे कथम्। किं श्रौती उतार्थी। यथा- 'परस्पराक्षिसादृश्यमंदूरोज्झित वर्त्मसु। मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।।' इत्यादौ श्रौत्येवेति त्रूमः । तत्र तद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यार्थान्वयित्वात्। 'यं पश्यन्दीप दर्श सपदि मनसिजः कीटनाशं स नष्टः स्वान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक्। मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं वामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला तं भजामि ।।' अत्र सप्तविधापि वाचकलुप्ता दर्शिता। तत्र दीपमिव पश्यन्नित्यथे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति कर्तृणमुलि, स्वान्तेऽन्तःपुर इवाचरतीत्यर्थेऽन्तःपुरीयतीत्यधिकरणक्यचि;

Page 36

चित्रमीमांसा। ३१

कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्त मूलस्तम्भ इवा- चरतीत्यर्थे मूलस्तम्भायत इति कर्तृक्यडि, कोकिल इवालपतीत्यर्थे कोकि- लालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्मेण वाचकलुप्ता द्रष्टव्या। 'पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् । यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ।।' अत्र यत्सममिति समासे येन सदशमिति वाक्ये चोपमानलुप्ता द्विविधापि दर्शिता। 'वृथा मम अमत्यहो मनः सिथिते महेश्वरे श्रुतोऽस्ति तेन किं समः स्मृतोऽथवास्ति तत्समः । षडड्डयत्वद: सदा तदङ्गिपङ्कजद्वये चकोरकीयतु स्थिरं तदानने शशिप्रभे।।' अंन्रावशिष्टाः षडिधा अपि लुपाः प्रदर्शिताः । तत्र द्वितीयपादे वाक्यसमासयोर्धर्मोपमानलुप्ता द्विविधा, तृतीयपादे किप्समासयोर्धर्मवा- चकलुप्ता द्विविधा, चकोरकीयत्विति वाचकोपमेयलुप्ता, शशिप्रभ इति धर्मोपमानवाचकलुप्ता च क्रमेण द्रष्टव्या। एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशा- स्त्रन्युत्पत्तिकौशलप्रदर्शनमात्रप्रयोजनो नातीवालंकारशास्त्रे व्युत्पाद्यतामह- ति। न वा लुपानामयं सामस्त्येन विभागः। तथाहि-धर्मलुत्ता वाक्य- समासतद्धितेषु दर्शिता द्विर्भावेऽपि दृश्यते-'पटुपदुर्देवदत्तः' इति। अत्र हिं 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानाद्। पटुसद्दश इत्यर्थः । यो हि शास्त्रादिष्वपटुरेव पट्ठवदभिनयति स उच्यते पटुपटठ- १. 'अत्रावशिष्टा षद्गिधापि लुप्ता प्रदर्शिता' क-घ. .

Page 37

३२ काव्यमाला।

रिति। न तावदियं वाक्ये धर्मलुप्ता। 'कर्मधारयवदुत्तरेषु' इति समा- ससद्धावविधानेनकपद्यसिद्धेः। अत एव न समासेऽपि धर्मलुप्तेयम्। वाचकलुप्ता णिनिं विना कैश्चित्षडिधा दर्शिता। णिनिना सहापरैः सप्त विधा। कविशैद्धितयोरपि दृश्यते- 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्चञ्चैव स्वहिताकृतेः ॥' इति विवृतमेतदधस्तात्। वाक्यसमासयोरुपमानलुप्तापि दर्शिता। 'उपनतमेतदकस्मादासीद्वत काकतालीयम्' इति तद्धितेऽपि दृश्यते। वाचकोपमानलुप्ता स्वरूपत एव नोदाहृता। सापि काकतालीयमिति प्रकृतिभूते समासे दृश्यते। धर्मोपमानलुप्तापि तद्धिते काकतालीयमित्यत्र दृश्यते। धर्मवाचकलुप्ता किप्समासयोरिव तद्धितेऽपि दृश्यते। 'तं जग- त्यभजन्मर्त्यश्चश्चा चन्द्रकलाधरम्' इति हि प्रागुदाहृतम्। तस्माल्लप्तावि- भागे दिख्मात्रप्रदर्शनमेवेदं प्राचां नतु सामस्त्येन विभागः । ये चान्ये काव्यालोकादिषूपमायां प्रकारभेदा दर्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दार्शताश्चेहापि लेशतो लक्षणविचारप्रस्तावे। रूपकप्रकरणे चास्याः प्रका- रभेदान्कांश्चित्प्रदर्शयिष्यामः । पुनश्रेयमुपमा संक्षेपतस्त्रिधा-क्चित्स्ववैचित्र्यमात्रविश्रान्ता यथा- 'स च्छिन्नमूल: क्षतजेन रेणुः' इत्यादौ। कचिदुक्तार्थोपपादनपरा यथा- 'अनन्तरतप्रभवस्य' इत्यादौ। यथा वा- 'विश्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥'

१. 'विनापि' ख. २. 'लुप्तकिप्' क.

Page 38

चित्रमीमांसा। ३३

क्वचिद्यङ्यप्रधाना सा, व्यन्कयस्य वस्त्वलंकाररसरूपतया त्रैविध्यात्रि- विधा। तत्र वस्तुध्वनिर्यथा- दर्पान्धगन्धगजकुम्भकपाटकूट- संक्रान्तिनिन्नघनशोणितशोणरोचिः। वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाण: ।।' अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुबलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते। अलंकारध्वनिर्यथा- 'यशसि तव विकसिते नृप हिमकरकिरणच्छटाधवले। भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ।।' अत्रोपमालंकारेण यशसः पुण्डरीकवद्वैपुल्यस्य, गगनस्य च भ्रमरव- दल्पत्वस्य प्रतीतेराश्रयाश्रयिणोरनानुरूप्यलक्षणोऽधिकालंकारो व्यज्यते। रसध्वनिः 'वागर्थाविव' इत्यादावुदाहृतः । क्वचिदेकत्रैव त्रिविधोऽपि ध्वनिर्दश्यते यथा- 'पंश्यात्र नलिनीपत्रे बलाका परिदृश्यते। हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ॥।' किमावयो: संकेतस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छतश्र प्रच्छन्नकामुकस्याभिप्रायमिङ्गितेन विदितवत्या विदग्धायाः संकेतस्थान- सूचनार्थमिदं वचनम्। अत्र पद्मपत्रस्थितबलाकाया मरकतपात्रप्रतिष्ठित- शुक्तिकासादृश्यवर्णनेन तस्यास्तद्वन्निश्चलत्वप्रतीतेराश्वस्तत्वं व्यज्यते, तेन तत्प्रदेशस्य निर्जनत्वं व्यज्यत इति वस्तुध्वनिः। ततश्च तदेव संकेत- स्थानमावयोरिति प्रकाशनात्संलक्षितसूक्ष्माथे प्रकाशनरूपसूक्ष्मालंकार-

१. 'पश्याद्य' क घ. ३ चि० मी०

Page 39

३४ 'काव्यमाला।

व्वनिः। एवं तदभिप्रायानुरूपवर्णनात्परस्परं रतिभावो व्यज्यत इति रसध्वनिश्च। ननु रसादिध्वनिरसंलक्ष्यक्रम इति प्रसिद्धि: कथमत्र, तस्यानुरणनेन व्यङ्गयतोच्यते। मैवम्। यत्र विभावाभावादिवशादाशु भाविनी रसा- भिव्यक्तिस्तत्रासंलक्ष्यक्रमता। अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव। तदुक्तमभिनवगुप्तपादाचार्यः-'यद्यपि रसभावादिरर्थो ध्वन्यमान एव न वाच्यः कदाचिदपि तथापि न सर्वोडसंलक्ष्यक्रमस्य विषयः' इति। अत एव ध्वनिकारोऽपि- 'एवंवादिनि देवर्षो पार्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।।' इत्यत्र लज्जारव्यं संचारिभावमनुरणनव्येङ्गयमुदाजहार। अथोपमाव्यङ्गयप्रसङ्गादुपमाध्वनयः प्रदर्श्यन्ते। तत्र शब्दशक्तिमू- लोपमाध्वनिर्यथा- 'किरति प्रकरं गवां प्रकामं सुमनःस्वच्छतरं निधौ कलानाम्। कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वभाव एव ।।' एकस्माद्गुरोविद्यां शिक्षमाणानां केचित्प्गल्भन्ते नान्य इति विशेषो बौधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति, किं तु तत्स्वभावकृत इत्यस्मिन्नर्थे प्रकृतेऽपकृतार्थस्योपमानत्वकल्पनयात्रैवमुपमा व्यज्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति नान्यानीत्येष विशेषस्तत्तत्पुष्पस्वभावकृत एव न तु चन्द्रस्य किरणवि- शेषकृतः । एवं गुरौ सर्वशिष्येष्वविशेषेण वाब्यं विकिरति तेषु बोधा- बोधविशेषोऽपि तत्तत्स्वभावकृत एवेत्यत्र ्रिष्टानां गोसुमनःकलानिधि-

१. 'प्रसिद्ध:' ख. २. 'रूप' ग.

Page 40

चित्रमीमांसा। ३५

ध्वनिः । अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा- 'वाहि वात यतः कान्ता तां स्पृष्टा मामपि स्पृश। त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥' अत्रार्थशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं व्यज्यते। अलंकारेणोपमाध्वनिर्यथा- 'यैर्दष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्ुतिपाटलीकृतपुरोभागः परान्दारयन्। येषां दुःसहकामदेहदहनप्रोद्धूतनेत्रानल- ज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ।।' अन्रान्यत्कार्य प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशेषालंकारः । उक्तरूपं त्वां पश्यतो यथोक्तविशेषणविशिष्टपुररिपुदर्शनमासीदिति निब- न्धनात्करणस्य क्रियासामान्यात्मनो दर्शनेऽपि सद्भावाद्यद्यप्ययमर्थो न वाच्यस्तथापि तस्मिन्कौतुकास्तमयवर्णनाद्यङ्मयः । तेन तदा त्वं तथाभूतः पुररिपुरिव स्थितोऽसीत्युपमा व्यज्यते। एवमुपमादिगुदाहृता। अथोपमादोषाश्चिन्त्यन्ते-न्यूनत्वमधिकत्वं लिङ्गभेदो वचनभेदोऽ- सादृश्यमसंभव इत्यस्याः षड् दोषानाहुः। तत्रोपमेयादुपमानस्यापकृष्टत्वं न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वेति प्रत्येकं त्रिविधम्। तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा- 'चण्डालैरिव युष्माभिः साहसं परमं कृतम्।' 'वह्िस्फुलिङ्ग इव भानुरयं चकास्ति।' - 'अयं पद्मासनासीनश्चकवाको विराजते। 'युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ॥'

Page 41

३६ काव्यमाला।

'पातालमिव नाभिस्ते पर्वताविव च स्तनौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ: ॥।' अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यन्तमेव कदर्ित इत्यनु- चितार्थतायामिमे न्यूनत्वाधिक्ये पर्यवस्यतः। धर्मतो न्यूनत्वाधिक्ये तु हीनाधिकपदत्वरूपौ दोषौ। यथा- 'स मुनिर्लाञ्छितो मौल्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्रिष्ट इवांशुमान् ।।' 'स पीतवासाः प्रगृहीतशार्ङ्गें मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' अत्राद्य उपमानस्य माञ्जीप्रतिबिम्बस्तडिल्लक्षणधर्मो न निबद्ध इति न्यूनत्वम्। द्वितीये उपमेयस्य शङ्कादेरनिर्देशेन शशिनो ग्रहणमतिरि- च्यत इत्याधिक्यम्। लिङ्गवचनभेदो यथा- 'भाग्याभावात्करस्थोऽपि चिन्तारत्नमिव च्युतः । सक्तवो भक्षिता देव शुद्धा: कुलवधूरिव ।।' इमौ प्रक्रमभङ्गान्तर्भूतौ। कथं च्युतत्वादिरत्र साधारणघर्मो भवितुं नार्हति। उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूप्यं तत्रैवास्य समन्व- येनोभयान्वयाभावात्। तथा चोपात्तविशेषणविशिष्टस्यैवोपमानत्वमुपमे- यत्वं वा भवेत्। प्रतीयमानेन तु धर्मान्तरेणोपमानिर्वाद्या स्यात्। तत- श्रोपमानोपमेययोः कस्यचित्सविशेषणत्वमन्यस्य नेत्येवं विशेषणप्रकमभ- ङरूपता । केचित्तु कालपुरुषलोडर्थादिभेदमपि दोषमाहुः। यथा- 'तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः। त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ।।'

Page 42

चित्रमीमांसा। ३७

अत्र समुद्रनेमिमत्यजमित्यन्वेति न तु त्यक्ष्यामीति। पुरुषमेदो यथा- 'शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः। आरण्यकोपात्तफलप्रसूति: स्तम्बेन नीवार इवावशिष्टः ।।' नीवारे आभातीत्यन्वेति न त्वाभासीति। विध्यादिभेदो यथा- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते। पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।' भवन्तमलभतेत्यन्वेति न तु लभखेत्याशीः । असादृश्यासंभवावुप मा- यामनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा- 'ग्रश्नामि काव्यशशिनं विततार्थरश्मिम्।' कार्व्यस्य शशिना सादृश्यमप्रसिद्धम्। यद्यर्थानां रश्मीनां च सादृशयं प्रसिद्धं स्यात्तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादृश्यमप्र- सिद्धमप्योनीयेत न च तदप्यसिति। यथा वा- 'एष विन्ध्याचलः सान्द्रकुञ्जोल्लसितनिर्झरः । भालेक्षणम्फुरद्वाह शेखाटोप इवेश्वरः ॥' असंभवो यथा- 'निपेर्तुरास्यादिव तस्य दीप्ाः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाज: परिवेषिणोडर्कांत् ॥I' ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्न्िष्पतन्त्यो न संभवन्तीत्यसंभवः । १. 'काव्यशशिनो:'ग. २. 'आनीयते' ख. ३. 'सान्द्र: कुओच्चलित' क-ख. ४. 'निष्पेतुः' क-ख.

Page 43

३८ काव्यमाला।.

केचिदुपमानाप्रसिद्धिं पृथग्दोषमाहुः। यथा- 'बाष्पदिग्घेक्षणं वक्रं तरुण्याः परिद्दश्यते। तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ।।' अत्र 'बाष्पदिग्घेक्षणं तुषारसिक्तच्छदनमित्यनयोर्बिम्बप्रतिबिम्बभावेन सादृश्यसंभवेऽप्युत्पलस्य मुखं प्रत्युपमानत्वाप्रसिद्धिरेव दोषः । अथैषां दोषाणां यथासंभवमपवादाः प्रदर्श्यन्ते-कविसमयसंमतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्ये न दोषौ। यथा- 'तवाननसमश्चन्द्रश्चन्द्रतुल्यं त्वदाननम्। द्यणुकं मध्यसद्दशं मध्यं द्यणुकसंनिभम् ।।' अत्र कविसमयप्रसिद्धेर्न किंचिदनौचित्यम्। उपमेयोपमानगताधिक- धर्मोपादानस्यैकैकधर्मकानेकोपमार्थत्वेन वा साधारणधर्मवत्तासंपादनार्थ- त्वेन वा धर्मिस्वरूपविशेषलाभार्थत्वेन वा विधान्तरेण वा प्रस्तुतकार्या- न्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ। यथा- 'क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा। नवं नैवं क्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना।।' इत्यत्रोपमेयगताधिक विशेषणोपादानस्यैकैक विशेषणका नेकोपमाना- र्थत्वात्। 'क्षीरोदवेला च सफेनपुञ्जा पर्याप्तचन्द्रा च शरत्रियामा। अनुव्यधात्क्षौमनिवासिनीं तामच्छप्रभं दर्पणमादधानाम् ।।' इत्यस्यैव श्रोकस्य पाठे उपमानगतानेकधर्मोपादानमेकैकधर्मकोपमा- द्वयार्थमित्युपमानस्य धर्मत आधिक्यान्न दोषः। १. 'नवक्षौम' क-घ. २. 'आधिक्यं' ग.

Page 44

चित्रमीमांसा। ३९

'इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्मीन इव हदः ।।' अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्ता- संपादनार्थमिति न्यूनत्वं न दोषः । 'ज्यानिनादमभिगृह्लती तयोः प्रादुरास बहुलक्षपाछविः॥' ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।।' अत्र निबिडेति विशेषणं कालिकायां बहुलक्षपाछविरिति साधारण- धर्मवत्तासंपादनार्थमित्याधिक्यं न दोषः । 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।।' अन्रातिथथिं नामेति विशेषणं धर्मिस्वरूपविशेषलाभार्थमित्याधिक्यं न दोषः । 'रसान्तराण्येकरसं यथा दिव्यं पयोऽश्रुते। देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥' अत्र दिव्यमिति विशेषणं धर्मिविशेषलाभार्थमित्यधिकत्वं न दोषः । एवं प्रकृतकथासंघटनचमत्कारादिकार्यान्तरत्वेऽपि द्रेष्टव्यम्। एवं च प्रस्तुतकार्यान्तरोपयोगरहितानां बिम्बप्रतिविम्बभावेऽपि न साधारणधर्मतैकप्रयोजनतया संभाव्यमानानामुपमेयोपमानविशेषणानां प्रतिविशेषणानिर्देश एव न्यूनत्वमधिकत्वं च दोषः । कार्यान्तरार्थानामप्यनुगामिनामतया विशेषणनिर्देशेन वा साधारणी- करणे त्वधिको गुणः । यथा-'ज्यानिनादमभिगृह्णती-' इति श्रोके ज्यानिनादमभिगृह्ृतीत्युपमेयविशेषणं ताडका स्वयमेव जिघांसया प्रादु- १. 'काले' घ. २. 'तत्र तत्र द्रष्टव्यम्' क.

Page 45

४२ काब्यमाला।:

'जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ। तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च।।' इति द्वयोर्नृपशशिनोर्युगपदेकधर्मान्वयवर्णनात्। अतः पर्यायेणेत्युक्तम्। तथापि- 'तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरङ्गमाणाम्। रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय भूय: ॥' इत्यत्रातिव्याप्तिः । तत्र रेणुपङ्कयोः पर्यायेण पङ्करेणुभाववर्णनात्। अत उपमानोपमेयत्वमित्युक्तम्। द्वयोर्यदुपमानोपमेयत्वं वर्ण्यते सोपमे- योपमेत्युक्तेऽपि-'वयुष्टं प्रमाणं च वियोगेवेदनाविदूननारीकमभूत्समं तदा' इत्युभयविश्रान्तसादृश्यायामुपमायामतिव्याप्तिः। न च तत्रोभयो- रपि सादृश्याश्रयत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यप्रतिः योगित्वरूपस्योपमानत्वस्यातो नातिव्याप्तिरिति वाच्यम्। मुखतः प्रति- पादनाभावेऽपि तयोः परस्परमुपमानत्वस्यार्थात्प्रतीतेः । न ह्युपमानोपमे- यत्वं येत्र वाच्यमिति लक्षणे विवक्षितम्। व्यङ्गयोपमेयोपमासंग्रहाभाव- प्रसङ्गात्। अतः पर्यायेणेत्युक्तम्। एवमपि-'भणितिरिव मतिर्मति- रिव चेष्टा' इत्यादिरसनोपमायां मतिचेष्टयोः पर्यायभेदेनोपमानत्वस्यो- पमेयत्वस्य च सत्त्वेनातिव्याप्तिपरिहारायैकस्मिन्पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यायान्तरे उपमेयत्वं विवक्षणीयम्। द्विविधैषेत्युक्तम्। द्वैविध्यं धर्मस्य साधारण्यवस्तुप्रतिवस्तुभावा- भ्याम्। 'सुगन्धि नयनानन्दि मदिरामदपाटलम्। अम्भोजमिव ते वक्रं त्वद्वक्रमिव पङ्कजम् i।' - १. 'वियोगवह्निना' क. २. 'तत्र' ख.'

Page 46

चित्रमीमांसा। ४३

'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजाः । वाप्योऽड्ना इवाभान्ति यत्र वाप्य इवाङ्गनाः ।।'

इति क्रमेणोदाहरणे। अत्रेदं विचार्यते। लक्षणस्य 'त्वद्वल्गुना युगपदुन्मिषितेन तावत्' इति प्रागुदाहृतायां युगपदुपमेयोपमायामव्याप्तिः। न चेयमुपमेयोपमा न भवति, किं तूभयविश्रान्तोपमामात्रमिति शङ्कनीयम् । परस्परतुला- मित्यनेन द्वयोरपि प्रतियोगित्वस्यापि प्रतिपाद्यमानतया उपमेयोपमेत्यव- यवार्थस्याविशिष्टत्वात्। अर्थादपि सिद्धतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन तृतीयसदृशव्यवच्छेदरूपफललाभाच्च । किं च 'रजोभिः स्यन्दनोदद्रूतैः' इति प्रागुदाहृतायां परस्परोपमायामतिव्याप्तिः। न च तत्राप्युपमेयोपमा। तृतीयसदृशव्यवच्छेदाप्रतीतेः । 'द्विविधैषा प्रकी- तिते' ति विभागासामञ्जस्यप्रसङ्गाच्च। न ह्यत्र धर्मस्य साधारण्यं वस्तु- प्रतिवस्तुभावो वास्ति। गगनस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधार- णधर्मः । भूतलस्य गगनेन सादृश्ये गजानां मेघानां च बिम्बप्रतिबिम्ब- भाव इत्यत्यन्तविलक्षणत्वात्। अत एवात्र तृतीयसब्रह्मचारिव्यवच्छेद- रूपं फलमपि न सिद्ति। एकधर्माश्रयेण परस्परसाम्ये वर्ण्यमाने ह्यन- योरस्मिन्विषये तृतीयः सब्रह्मचारी नास्तीति फलति। कस्यचित्केनचि- त्सादृश्ये वर्णिते तस्याप्यन्येन सादृश्यमर्थसिद्धमपि मुखतो वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थ भवतीति हि तत्फलकत्वे बीजम्। न चैतद्ध- र्मसाधारण्य इव धर्मेदेऽपि लभ्यते। रजोभिर्गगनस्य भूतलसादृश्यव- र्णनेन भूतलस्य मेघाकारैगजैर्गगनसादृश्यस्यार्थतः सिद्ध्यभावात्।

१. 'साधर्में' क.

Page 47

४४ क़ाव्यमाला।.

अपि च- 'पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन। पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव ।।' इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमायामतिव्याप्तिः। अन्र हि पुत्रः पिता चेत्युभावुपमेयोपमानभूतौ धर्मिणौ। तयोस्तावेव व्यत्यासेन पितृ- मत्त्वं पुत्रित्वमिति साधारणधर्मकोटिप्रविष्टतयोपात्तौ। तयोश्च बिम्बप्र- तिबिम्बरूपसाधारण्यापादको धर्मो मतुबिनिप्रत्ययोपात्तं प्राशस्त्यम् । प्रशंसायां ह्यत्र तौ प्रत्ययौ पित्रा पितृमानिति संबन्धमात्रस्यावक्तव्यत्वात्। एवं च पुत्रस्य पितुश्र प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च विम्वप्रतिबि- म्बकरम्बितेन वस्तुप्रतिवस्तुभावेन सौधारणघर्मे इति लभ्यते। तयोश्र पितापुत्रयोः प्राशस्त्यप्रतिपादके। अधिकवत्सलेन समाराधनतत्परेणेति च विशेषणे। ततश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपाद के बिम्बप्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्प- ष्टम्। न चेयमुपमेयोपमा। पुत्रपित्रोर्धर्मिणोरुपमायां प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावकरम्बितेन साधारणो धर्मः । पितापुत्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यति- शयकृतं प्राशस्त्यमनुगतसाधारणधर्म इति पूर्वोदाहरणसारूप्यात्समुच्च- योपमया पुत्रोऽपि पितृभत्त्या प्रशस्तः पितापि पुत्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतीयसब्रह्म चारिव्यवच्छेदालाभाच्च। न चात्र इवशब्द- द्वयादियुक्तपर्याय द्वयाभावात्पर्याय विशेषणेनैवातिव्याप्तिनिरासः स्यादिति वाच्यम्। वाच्यकक्षायां पुत्रपित्रोरुपमा व्यङ्गयकक्षायां पितापुत्रयोरिति पर्यार द्वयसत्त्वात्। न हि पर्यायद्वयस्यापि वाच्यत्वमत्र* विव्रक्षितम्। १. 'अव्यक्तत्वाद् क. २. 'विम्बप्रति।बम्वभाव' ख.ग. ३. 'साधारण्ये' ख-ग. ४. 'उपपादके' क.

Page 48

चित्रमीमांसा। ४५

येनेवशब्दद्वययुक्तपर्यायद्वयाभावादतिव्याप्तिर्निरस्येत। तथा सति हि व्यन्नयोपमेयोपमासाधारण्यं न स्यादित्युक्तम्। न चात्र धर्मिणोरेवोपमा धर्मयोस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते नोपमेति वा- च्यम्- 'नलिन्या इव तन्वञ्ञ्यास्तस्याः पद्ममिवाननम् । मया मधुकरेणेव पायं पायमतृप्यत ।।' इत्यादौ बिम्बप्रति बिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकरणस्याप्युपमाप्रयोजकत्वात्। तस्मात्तत्रातिव्याप्तिशङ्का दुर्वारा। अतोऽनुपपन्नमेवेदं लक्षणं लक्ष्यते। अत्र श्रूम :- 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' अन्योन्येनेति विशेषणान्न रशनोपमायामतिव्याप्तः। व्यक्त्या वृत्त्यन्त- रेण वा बोध्येति विशेषणाच्च नोभयविश्रान्तसादृश्योपमायामतिव्यापिः। पैरस्परप्रतिक्षेपकविकल्पार्थेन वाकारेण हि या परस्परप्रतियोगिकत्वविशि- ष्टोपमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्तिबोध्या तद्विषयव्यक्तिनिरपेक्षवृत्त्य- न्तरबोध्या वा भवति सोपमेयोपमेति पर्यवस्यति। तत्श्ोभयविश्रान्तसाद- ्योपमायामन्योन्यप्रतियोगिकत्वांशे व्यक्तिः सादृश्यरूपोपमांशे वृत्त्यन्त- रमिति तयो: करम्बितत्वान्नातिव्याप्तिशङ्का। सामान्यलक्षणसिध्दयर्थं च व्यक्तिवृत्त्यन्तरयोरन्योन्यत्वेन क्ोडीकृतयोर्ग्रहणम्। एवं हि 'तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरापेक्षव्यक्तिबोध्यायामनलंकारभूतायां व्यक्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलंकारभूतायां चोपमायां लक्षणमनुगवं १. 'तत्र' क.

Page 49

४६ काव्यमाला।

भवति। यद्यपि व्यङ्ञ्यायामप्युपमेयोपमायां शब्दस्य सहकारित्वेन तद्ध- तशक्तेरप्यपेक्षितत्वात् 'खमिव जलं जलमिव खम्' इत्यादौ वाच्याया- मपि गम्यसाधारणधर्मायां तस्यां धर्मांशे व्यक्तेरपेक्षितत्वात्परस्परनैरपेक्ष्य-

पेक्षकत्वं व्यक्ते: तद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य चास्त्येव। इदमेव च व्यक्तिपदानपेक्षयालंकाररूपाया विशेषलक्षणमपि। तत्र व्यक्तिपदप- रित्यागे वृत्त्यन्तरमात्रबोध्येत्येतद्विशेषणं पर्यवस्यति। ततश्रोभयविश्रा- न्तसादृश्योपमाव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरित्य- न्योन्यपदेनैव व्यावृत्ताविदं व्यर्थमिति वाच्यम्। प्राकरणिकाप्राकरणि-

कत्वे विनिगमनाविरहेण परस्परोपमानत्वप्रतीतेः । एवं धर्माश्रयविशेष- पात् 'रजोभि: स्यन्दनोत्कीर्णैः' इति परस्परोपमायां नातिव्याप्तिः। उक्तविशेषणबलादेव 'पिता समाराधनतत्परेण' इत्युपमायामपि नाति- व्याप्ति:। उभयत्राप्युपमेययोर्भिन्नधर्माश्रयत्वात्। एकधर्माश्रयेत्यस्य चाय- मर्थः । कस्यचिदन्येनोपमायां यो धर्मः साधारणो वस्तुप्रतिवस्तुभावापन्नो वा स एवान्यस्य तेनोपमायामपीति। न त्वनुगामिधर्माश्रयेत्यर्थः । बिम्ब- प्रतिविम्बगर्भवस्तुप्रतिवस्तुभावनिर्देशे तदभावादिति दिक्। इदं तूपमेयोपमात्वप्रयोजकं लक्षणम्। अनुगतानतिप्रसक्तलक्षणं

'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्भवेत्। अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ॥।' इति द्रष्टव्यम्। अत्रान्योन्येनेति विशेषणं 'अहमेव गुरु: सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थम्।

Page 50

चित्रमीमांसा। ४७

अथोदाहरणानि। तत्र धर्मस्य साधारण्ये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।।' इयं प्रतीयमानसाधारणधर्मा। वाच्यसाधारणधर्मा यथा-'सुगन्धि नयनानन्दि' इत्यादि। यथा वा- 'गिरिरिव गजराजोऽयं गजराज इवोच्चकैर्विभाति गिरिः। निर्झर इव मद्धारा मदधारेवास्य निर्झरः स्रवति ॥' अत्रोपमेयोपमाद्वयस्य परस्परानुगरृहीतत्वेन विच्छित्तिविशेषोऽधिकः । वस्तुप्रतिवस्तुभावो यथा-'सच्छायाम्भोजवदना' इत्यादि। इदं वस्तुप्रतिवस्तुभावस्य विम्बप्रतिबिम्बविशेषणत्वे उदाहरणम्। तद्विशेष्यत्वे यथा- 'वक्रं पद्ममिवैतस्या नेत्रं भृङ्गमनोहरम् । पझ्मं वक्रमिवाभाति मृगलोचनभूषितम् ।।' एतानि पर्यायोपमेयोपमोदाहरणानि। युगपदुपमेयोपमोदाहरणं तु-'तद्वल्गुना युगपदुन्मिषितेन' इत्यादि। 1

तत्रापि यथासंभवं पूर्वोक्ता भेदा उन्नेयाः ॥ इत्युंपमेयोपमाप्रकरणम्।

अथानन्वय :- एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः। एवकारबलादेकस्यामेवोपमितिक्रियायामिति. गम्यते। तेनोपमेयोप- मायां रसनोपमायां च नातिव्यापिः। उदाहरणम्-'गगनं गगनाकारं १. 'च्चित्रमीमांसायां' क.

Page 51

1 ४८ काव्यमाला।

सागरः सागरोपमः' । अयं प्रतीयमानधर्मः । निर्दिष्टधर्मो यथा- - 'न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ॥' ननु- 'पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः । धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ।।' इत्यत्रैकस्यैव रघुपतेरुपमानत्वमुपमेयत्वं च । न च तत्रानन्वयः । समुच्चयोपमया तस्य धर्मार्थकामेष्वनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्य- तयासदृशान्तरव्यवच्छेदे तात्पर्याभावात्। तथा 'त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति स्वस्यवोपमानत्वमुपमेयत्वं च । तत्रापि नानन्वयः । पितृनियोगात्क्षितित्याग इवापवादात्सीता त्यागे च सदृशान्तरप्रसक्त्यभावेन तद्यवच्छेदस्य फलत्वायोगाच्च। एवम्- 'उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बमौ पतद्ङ्क इवोत्तमाङ्गे ।।' इत्यादावप्येकस्यैवोपमानोपमेयभावः स्पष्टः। न चैतेषु क्वचिद्धर्मादिषु वृत्तेरवरजेषु वृत्तेश्रवोपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्या- गस्य चापरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च। न तु क्वचिदप्येकस्यैव धर्मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेष्यबाधे विशेष- णसंक्मौचित्यादिति वाच्यम्। यथा धर्मार्थकामेषु समवृत्ति प्रपेदे तथा वरजेष्वित्यादिप्रकारेणैकस्यैवोपमानोपमेयभावे निबद्धेऽपि तस्य विशेष- णसंक्रान्तिकल्पने 'पाण्ड्यो Sयमंसार्पितलम्बहारः' इत्यादीनामपि हारनि- झरादीनामेवोपमानोपमेयभावः स्यादिति बिम्बप्रतिबिम्बोदाहरणमात्रवि- लोपप्रसङ्गात्। 'रामरावणयोर्युद्धम्' इत्यादावभेदेSप्युपमानोपमेयभावम-

Page 52

चित्रमीमांसा। ४९

भ्युपगच्छतामालंकारिकारिकाणां विशेष्यबाधस्यापरिहरणीयत्वाच्च । तस्मादत्र 'सविशेषणे हि' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालंकारमीमांसकानाम्। वाक्यमीमांसका ह्यमेदे उपमानोपमेयभावनि- र्देश एव नास्तीति मन्यमाना 'रामरावणयोर्युद्धं' इत्यादावद्यतनस्य पूर्वे- दुस्तनं युद्धमुपमानम्। एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति। तस्मादालंकारिकमते एतेष्वेकस्यैवोपमानोपमेयभाव इति लक्षणमतिव्याप्तमिति चेत्। अत्र ब्रूम :- 'स्वस्य खेनोपमा या स्यादनुगाम्येकधर्मिका। अन्वर्थनामघेयोऽयमनन्वय इतीरितः ॥' स्वस्य खनेति विशेषणादुपमेयोपमायां रसनोपमायां च नाति- व्याप्तिः। अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नाति- व्याप्तिः। यद्यपि तेष्वपि समां वृत्तिं प्रपेदे इत्याद्यंशेऽनुगामिधर्मप्र- वेशः । तथाप्येको न भवति। धर्मार्थकामावरजादिबिम्बप्रतिबिम्बभाव- करम्बितत्वात्। अत एवैकग्रहणमप्यर्थवत्। अन्वर्थनामघेय इति तु न लक्षणान्तर्गतम्। किं तु स्वेन स्वस्योपमाप्यनुगाम्येकधर्मा चेदेवान- न्वयो नान्यथेत्यत्रोपपत्तिमात्रपरम्। धर्म्यैक्ये हि स्वस्य खेनोपमा नान्वे- तीत्यनन्वय इत्यन्वर्थ नाम भवति। अनन्वय्यर्थनिबन्धनवशाचानुपम- त्वद्योतनफलपर्यन्तं धावेत्। धर्मभेदे तु एकधर्मावच्छिन्नेन खेनैव धर्मा- न्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रान्वर्थ नाम, न वानन्वय्यर्थ- निबन्धनाधीनानुपमत्वफललाभः । इदमनन्वयत्वप्रयोजकं लक्षणम्। लक्षणमात्रं तु 'यत्र तेनैव तस्य स्यात्' इति भामहोक्तमनुसंघेयम्। १. 'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्ामत इति'. ४ चि० मी०

Page 53

५० काव्यमाला।

'उभौ यदि व्योम्ि पृथक्प्रवाहौ' इत्यतिशयोक्तिविशेषेऽनुपमत्वद्योतन- फलसाम्यकल्पनावत्यतिव्याप्तिनिरासाय तेनैव तस्ेति विशेषणम्। अयमनन्वयो व्यन्योड़प्यसिति। यथा- 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीतिर्वहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत् नान्येनेत्युक्ति- मन्या त्वदागमनप्रभवप्रीतेः सैव सदृशी न त्वितरप्रभवेति व्यज्यते। एतादृशव्यावृत्त्यर्थमनन्वयालंकारलक्षणेऽव्यज्यत्वविशेषणं पूर्ववद्दष्टव्यम्।। इत्यनन्वयप्रकरणम् ।

अथ- सरणालंकार :- स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया। स्मरणालंकृतिः सा स्ादव्यञ्ञयत्वविशेषिता ॥ यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्दीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीज्जलनिधिमन्थनस्य शौरि: ।l'

Page 54

चित्रमीमांसा। ५१

एकत्र सदशदर्शनात्तत्सदृशधर्मिका स्मृतिः। इतरत्र सदशदर्शनाच- रसदशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयन्नापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासद्शसाधारण्या- र्थंतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्। 'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुज्म्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽ्यमुन्मीलति। वत्सैतद्विदितं कथं नु भवता धत्ते कुरक्कं यतः क्कासि प्रेयसि हा कुरञनयने चन्द्रानने जानकि।।' अत्र श्रुतकुरक्संबन्धिनस्तन्नयनस्य स्मरणाचत्सदृशसीतानयनस्मृति- स्तत्संबन्धिसीतास्मृतिश्र्ेति। किं त्वेषा व्यन्नया, अलंकार्यभूता च। तद्यावृत्त्यर्थमव्यङ्गयत्वविशेषणम्। 'अत्युच्चा: परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्ान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्ुव- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' स्तूयमानभूसंबन्धिनो भूभृद्धुजस्य स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालं कारः। किं तु स्मृतेः संचारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात्प्रेयोऽलंकारः। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्चयोतिर्मयान्सप्त सस्मार स्मरशासनः ।l' अत्र चिन्तामूला स्मृतिः। विच्छित्तिविशेषाभावान्न कश्चिदलंकारः। एतदुभयव्यावृत्त्यर्थ सादृश्यमूलेति विशेषणम्। एवमेते भेदामेदसाधा- रणसाधर्म्यमूला अलंकाराः प्रदर्शिताः ॥ इति स्मरणालंकारप्रकरणम् ।

Page 55

५२ ,काव्यमाला।

अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते- आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरञ्जकमारोप्यमाणं तद्ूपकं मतम् ॥ अत्रारोपविषयस्येत्यनेनोत्प्रेक्षातिशयोक्त्योर्व्यावृत्तिः । तत्र मुखादे- रारोपविषयत्वाभावात्। अतिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमदप- ह्ुतीनां व्यावृत्तिः। तेषु संदेहभ्रान्त्यपद्ववैर्विषयस्य तिरोधानात्। उपर- ञ्जकमित्यनेन समासोक्तिपरिणामव्यावृत्तिः । तयोर्हि नोपरञ्जकत्वं विष- येष्वताद्रूप्यापादकत्वलक्षणम्। समासोक्तौ व्यवहारमात्रसमारोपेण ताद्रू- प्यप्रंतीतेरेवाभावात्। परिणामे आरोप्यमाणस्यैव विषयताद्रप्यापत्त्या विषयस्यारोप्यमाणताद्रूप्यापत्त्यभावादित्याहुः ॥ अत्रेदं विचार्यते। आरोपाध्यवसाययोः कीदशं भेदमभिसंधायारोप- विषयस्येत्यनेनोत्प्रेक्षाव्यावृत्तिरुच्यते। यदि विषयविषयिणोरभिहितयोर- मेदप्रतिपत्तिरारोपः । विषयनिगरणेन विषयिणसतदभेदप्रतिपत्तिरध्यवसाय इति भेदमभिसंधाय, तदोत्प्रेक्षारोपमूलैव स्यात्। तत्र 'नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात्। ततश्च तत्राति- व्याप्तिरनिवारितैव स्यात्। ताद्रूप्यप्रतिपत्तिरारोपस्तदमेदप्रतिपत्तिरध्यव- साय इति तयोर्भेंदः। 'मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्रपं चन्द्रत्वं तेन रूपवत्तामात्रं सुखस्य प्रतीयते। न तु प्रसिद्धचन्द्राभेदः। 'मुखवि- पयायां चन्द्रः' इत्याद्यतिशयोक्तौ तु तदभेद एव प्रतीयत इति चेत्। न। वैपरीत्यस्यापि वक्तुं शक्यत्वात्। न च वाच्यम्। 'इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यतें। निर्जरै: पीयमानोऽपि यः कदाचिन्न हीयते ।'

Page 56

चित्रमीमांसा। ५३

इति मुखचन्द्रस्य प्रसिद्धचन्द्राव्यतिरेकवर्णनं तदभेदप्रतिपत्तौ.न' संभवतीति रूपके ताद्रूप्यप्रतिपत्तिरेवेति। तथा सति हि 'सुधाबद्धग्रासैरुपवनचको रैरनुस्टतां किरञ्जयोत्सामच्छां लवलिफलपाकप्रणयिनीम्। उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' 'अपरः पाकशासनः' इत्याद्यतिशयोक्तौ 'अपर इव पाकशासनः' इत्याद्युत्प्रेक्षायां च रूपकवदेव प्रसिद्धचद्राद्यभेदप्रतिपत्त्यभावेन ताद्रप्य- प्रतिपत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्ात्ं।

प्रतिपत्तिः संभवतीति चेत्। रूपकेऽप्येवं वकुं शक्यमित्यसंभव एव लक्षणस्य स्यात्। कि चातिरोहितरूपिण इत्यनेन ससंदेहभ्रान्तिमतोरं- तिव्याप्तिवारणेपि नापह्वेऽतिव्याप्तिवारणम्। 'नेदं मुखं किं तु चन्द्रः इत्यत्र मुखे मुखत्वाभावारोपस्य चन्द्रत्वारोपस्य चाहार्यत्वेन विषयतिरोघा- यकत्वाभावात्। आहार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षण- स्यासंभवः स्यात्। उत्प्रेक्षाया अप्याहार्यसंभावनारूपाया अतिरोहित- रूपिण इत्यनेनैव व्यावृत्तिसिद्धावारोपविषयस्येति विशेषणस्य वैयर्थ्य च, स्यात्। अतिशयोक्तौ विषयस्य निगीर्णस्य तिरोहितत्वेन तस्या अप्यनेनैव व्यावृत्तिः। अपि च । 'त्वत्पादनखरतानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो:।।' इति निदर्शनायामतिव्याप्तिः । तत्रोपमेयवाक्यार्थे उपमानवाक्यार्थ' ताद्रूप्यारोपसद्धावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम्।

Page 57

५४ काव्यमाला।

तथाप्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्डुरीकरणमिति निदर्शनायामतिव्याप्तिः । 'अङ्गिदण्डो हरेरूर्घ्वमुति्क्षप्तो बलिनिग्रहे। विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥।' इति रूपकेऽ्व्याप्तिश्च। यत्तु सरस्तीकण्ठाभरणोक्तं लक्षणम्- 'यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात्। उपमेये भवेद्धत्तिस्तदा तद्रूपकं विदु: ॥' इति। तदप्यतिशयोक्तावतिव्याप्तम्। 'मुखं चन्द्रः' इति रूपके चन्द्रश- ब्दस्य मुखे गौणसारोप्यलक्षणा। चन्द्र इत्यतिशयोक्तौ साध्यवसानलक्ष- णेत्यालंकारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा नं तु रू- पके इति शक्यं व्यवस्थापयितुम्। तथाहि । अतिशयोक्तौ विषयाभि- धायिमुखादिपदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्र लक्षणावश्यमास्थिया। रूपके विषयविषयिणोः सवस्ववाचकाभिहितयोर- भेदप्रतिपत्तिः संसर्गमर्यादयैव संभवतीति किमर्थ तत्र लक्षणा, अशंक्या च तत्र लक्षणाभ्युपगन्तुम् । कथम्। 'मुखं चन्द्र' इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रत्व केन निमित्तेन प्रवर्तेत। मुखत्वेन वा, मुखासाधार- णकान्तिविशेषेण वा, चन्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषण वा, मुखचन्द्रोभयानुगतकान्तिसामान्येन वा, मुखगतचन्द्रसादृश्येन वा? नाद्यः । मुखपदेन पौनरुत्त्यापत्तेः। मुखत्वस्य शक्यासंबन्धित्वेन तेन निमित्तेन लक्षणायोगाच्च। अत एव न द्वितीयः । न तृतीय चंतुर्थौ। मुखावृत्तिधर्मयोस्तत्र प्रवृत्तिनिमितत्वायोगात्। न पश्चमः । कान्तिमा- न्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्यापत्तेः । नापि षष्ठः। साह- श्यस्य शब्दप्रतिपाद्यत्वेनाव्यन्नयत्वेन रूपकस्योपमापृथग्भावानुपपत्तेः । "१. 'मुखगतासाधारण' ख-ग.

Page 58

चित्रमीमांसा। ५५

अमेदप्रधानं रूपकमिति सिद्धान्तविरोधाच्च। तस्माद्रपके स्वस्वपदाभि- हितयोर्विषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादयेत्येव वक्तव्यमिति लं- क्षणस्यासभवोंडपि दोषः। यदा तु 'वक्रेन्दौ तव सत्ययं यदपरः शी- तांशुरुजृम्भते'। 'दौ चन्द्रौ जगतो राजन्स दिवि त्वं महीतले' इत्या- दौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न संभवतीति कथंचिदिन्द्वादिपदस्य विषये लक्षणा कल्प्यते। तथापि 'कान्तिमान्मुखचन्द्र' इत्यादौ काठ- काध्यापकादिवत्संसर्गमर्यादयैवा भेदप्रतिपत्तिसंभवेनातिक्किष्टलक्षणाश्रय-

'सेतुः शैलैस्त्वया बद्धः पूर्व जेतुं दशाननम्। कं जेतुमद्य बभ्नासि यशश्रन्द्रोपलैः प्रमो।।' 'चिराद्यत्कौतुकांविष्टं कल्पवृक्षमुदीक्षितुम्। तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ।।' इत्यादौ व्यञ्यरूपके चाव्याप्तिः। अत्र ह्याद्ये वर्ण्य प्रभुं प्रति राव- णवधाय त्वया सेतुर्बद्ध इति निर्दिश्यमानेन वस्तुना त्वमेव राम इति रूपकं व्यज्यते। न च तत्र विषये गौणं रामपदमस्ति। द्वितीये त्वाम- वलोकयता मम नेत्रेण चिरकाङ्कितं कल्पवृक्षावलोकनं लब्धमिति प्रती- यमानेन विशेषालंकारेण त्वमेव कल्पवृक्ष . इति: रूपकं व्यज्यते। तत्र कल्पवृक्षपदं प्रसिद्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम्। 'ततः कुमुदनाथेन क़ामिनीगण्डपाण्डना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।।' इति शुद्धसारोपलक्षणामूलकरूपके चाव्याप्तिः।तत्र ह्यानन्दहंतुत्वा- दानन्दत्वंरूपणं न त्वौपम्यात्। यत्तु 'आयुर्घृत'मित्यादौ. विच्छित्तिवि- शेषादर्शनाच्छुद्धसारोपलक्षणांस्थले न कश्िविंदलंकार. इति.। तदयुक्तम।

Page 59

काव्यमाला।

'गौर्वाहीक' इत्यादौ विच्छित्तिविशेषादर्शनेन गौणसारोपलक्षणास्थलेंड- प्यलंकारत्वाभावप्रसङ्गात्। क्वचिद्वैचित्र्यादर्शनेऽप्यन्यत्र वैचित्र्यवति स्थलेऽलंकारत्वमिहापि वक्तुं युक्तम्। 'नेत्रानन्देन चन्द्रेण' इति। 'आयुर्दानमहोत्सवस्य, विनतक्षोणीभृतां मूर्तिमान् विश्वासो, नयनोत्सवो मृगदशां, कीर्ते; प्रकाशः परः । आनन्दः कलिताकृतिः सुमनसां, वीरश्रियो जीवितं धर्मस्यैष निकेतनं, विजयते वीर: कलिङ्गेश्वरः ॥' इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्र्यदर्शनात्। यदि तु हेतु- मता सह हेतोरभिधानंमभेदतो हेतुरिति मतान्तराश्रयेण तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत। तदा 'आरोपविषयस्य स्यात्' इति पूर्वोदाह- तलक्षणस्य तत्राव्याप्तिः। एवम्-'उपमैव तिरोभूतमेदा रूपकमुच्यते।' 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिलक्षणेष्वप्यतिव्याप्यादिदोषा यथासंभवमुन्नेयाः । अत्र वदाम :- 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्ठुते। उपरञ्जकतामेति विषयी रूपकं तदा ।।' बिम्बाविशिष्ट इति विशेषणात् 'त्वत्पादनखरलानाम्' इति निद- र्शनायां नातिव्याप्तिः । तत्र हि चन्द्रो यथा स्वतः शुभ्रत्वादनासञ्जनी- यधावल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनीयारुण्या इति सादश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः। अलक्तचन्दनयोरन्यत्र स्वव- ्णोसञ्जकत्वेन।. ततश्र तत्र बिम्बभावान्नखालक्तकविशिष्टे एव रज्जने

त्रापि"अरण्यरुदितं कृतम्' इत्यांदिताद्रप्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्भावापन्नवस्तुविशिष्ट एवोपमेये तत्प्रतिबिम्बविशिष्टमुपमानमुपरञ्ज

Page 60

चित्रमीमांसा । ५७

कमिति न क्वाप्यतिव्यापिः। रूपके तु न क्वचिंदपि बिम्बप्रतिबिम्बभा- वापन्नधर्मविशिष्टतया विषयविषयिणोरुपादानम्। सावयवरूपकेऽपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये। 'अङ्गिदण्डो हरेरूर्घ्वम्' इत्यत्राप्यङ्गिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्ब- विशिष्टता। तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्रिष्टत्वा- द्यनुगामिधर्मेणैवोपमानोपंमेयभावात्। किं तु विधातृविष्टरकमलश्किष्ट- त्वरूपसाधारणधर्मवत्तासंपादनार्थ विशेषणविशिष्टतामात्रमुपमेयस्य। निर्दिष्ट इति विशेषणान्न निगीर्णविषयायामतिशयोक्त्यामतिव्याप्तिः। व्यङ्गयरूपकोदाहरणेषु विषयिवाचकाप्रयोगसंभवेSपि विषयनिर्देशः सार्व- त्रिक इति न तत्राव्याप्तिः। 'नेत्रानन्देन' इत्यादौ हेत्वलंकार इति मते विषय इत्यनेनोपमेय इत्येतदर्थकेन तद्यावृत्तिः। तत्रापि रूपकमित्येका- वलीकारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम्। अनिहुते निषेधास्पृष्ट इति विशेषणादपह्दुतौ नातिव्यापिः। उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षा- समासोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोर्निश्चय- स्यैवाभावात्। समासोक्तौ परिणामे च तस्य ताद्रप्यागोचरत्वात्। समा- सोक्तौ व्यवहारमात्रसमारोपात्। परिणामे आरोप्यमाणस्यैव विषयता- द्रूप्यगोचरत्वात्। आ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वारसिकस्यैव निबन्धने तस्यानाहार्यत्वात्। अव्यङ्भ्यविशेषणाच्चैतदेवालंकारभूतस्य रूपकस्य लक्षणमिति सर्व सुस्थम्। तच्च रूपकं त्रिविधम्-निरवयवं सावयवं परम्परितं च। निरवयवं केवलं माला चेति द्विविधम्। सावयवं तु समस्तवस्तुविषय- मेकदेशविवर्ति चेति द्विविधम्। परम्परितं च क्िष्टाश्िष्टशब्दनिबन्ध-

Page 61

१८ काव्यमाला।

नत्वेन द्विविधं सत्केवलं माला चेति द्वैविध्याचतुर्विधम्। एवमष्टविधो रूपकालंकारः । तत्र केवलं निरवयवं यथा- 'कुरज्नीवाङ्गानि स्तिमितयति गीतध्वनिषु य- त्सखी कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्। अनिद्रं यच्चान्तः स्वपिति तदहो वेदयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' मालानिरवयवं यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्किया प्राणा: पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' समस्तवस्तुविषयं सावयवं यथा- 'ज्योत्साभस्मच्छुरणघवला बिभ्रती तारकास्थी- नन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाद्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।।' एकदेशविवर्ति सावयवं यथा- 'प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः । विद्युतां नभसि नाट्यमण्डपे कुर्वते स्म कुसुमाञ्जलिश्रियम् ।' अ्र नभसो नाट्यमण्डपत्वेन रूपणाद्विद्युतामर्थान्नर्तकीत्वं गम्यते। इत्येकदेशे रूपकस्य विशेषणवाच्यतया वर्तनादिदमेकदेशविवर्ति। :१ 'नर्मरहसां' क ख-ग. २. 'बाणाः पञ्नशिलीमुखस्य' ग.

Page 62

चित्रमीमांसा। ५९

छ्विष्टशब्दनिबन्धनं केवलपरम्परितं यथा- 'अलौकिकमहालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारतं न कैर्भवान् ।।' अत्र त्वमेव मुक्तारत्नमित्यारोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुरित्यारोप इति रूपकट्वयमपि संभूतपरम्परमिति परम्परितम्। वंशे श्रिष्टशब्दनिबन्धनं च। तदेव मालापरम्परितं यथा- 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्द्युते दुर्गामार्गणनीललोहित समित्खीकारवैश्वानर। सत्यप्रीतिनिधानदक्ष विजयपराग्भाव भीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्ैः क्रियाः ।' अश्िष्टशब्दनिबन्धनं केवलं परम्परितं यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपश्चम्। प्रथममिह भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्डिकन्दः ॥' तदेव मालापरम्परितं यथा- 'पर्यक्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः सङ्गामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाहः। भग्नप्रत्यर्थिवंशोल्वणविजय करिस्त्यानदानाम्वुपट्टः खङ्गक्ष्मासौविदल्ः समिति विजयते मालवाखण्डलस्य ।I' इदं वैधर्म्येणापि दृश्यते। तत्केवलं यथा- 'आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य। शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोडभूद्रुधिरप्रवाहः॥' मालारूपकं यथा- 'सौजन्याम्बुमरुस्थली सुजनतालेख्यद्युमित्तिर्गुण- ज्योत्साकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा।

Page 63

६० काव्यमाला।

यैरेषापि दुराशया कलियुगें राजावरली सेविता" तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।' एवमष्टौ भेदा रूपकालंकारस्य प्राचीनैः प्रदर्शिताः। एवं भेदा उप- माया अपि वक्तुं शक्याः । एकत्र प्रदर्शितेन प्रकारेण संभवस्थलेज़न्य- त्राप्युन्नेतुं शक्या इति न प्रदर्शिताः । तथाहि। 'वागर्थाविव संपृक्तौ' इत्यादौ केवलनिरवयवोपमा। 'ज्योत्सेव नयनानन्दः' इत्यादौ माली- निरवयवोपमा। 'ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम्। शरैरुसैरिवोदीच्यानुद्धरिष्यत्रसानिव ।।' इत्यत्र समस्तवस्तुविषयसावयवोपमा । 'नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः सतनैरिव ॥' इत्यत्रैकदेशविवर्तिनी। 'अत्यन्तरागिणमपि निपीतवसुसंचयम्। गणिकेवापरदिशा पूषाणं निरकासयत् ।।' इत्यत्राप्येकदेशविवर्तिनी। पूर्वत्र विशेषणोपमायां विशेष्योपमा गम्यते, उत्तरत्र विशेष्योपमाया विशेषणोपमेति भेदः। 'दूरादयश्चकनिभस्य तन्वी तमालतालीवनराजिनीला। आभाति वेला लवणाम्बुराशेर्घारानिबद्धेव कलङ्करेखा।' इत्यत्राश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा। अत्र ह्यम्बुराशेरय- श्वक्रेणोपमा:। तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि संजातपरम्परम्। यथा वा- 'अस्त्रज्वालावलीढप्रतिबलजलघेरन्त रौर्वाय माणे सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्।

Page 64

चित्रमीमांसा। ६१

कर्णालं संभ्रमेण ्रज कृप समरं सुञ्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥' अत्र द्रोणस्यौर्वेणोपमा प्रतिबलजलधेरित्यत्रोपमायाः साधिकेत्युपमा- द्वयमपि संजातपरम्परम्। एवं 'राजहंसायते राजा विदुषामेष मानसे' इत्यत्र श्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा। उभयत्रापि मालापरम्प- रितमनयैव रीत्योन्नेयम्। 'रेणुध्वान्तस्य रक्तौघो वालघर्मकरायते' इति वैधर्म्येण रूपकवदुपमेति सर्व समानम्। अयं तु विशेषः। समस्तवस्तुविषयं रूपकं न विशिष्टरूपकं भवति।

वावतरणात्। सावयवोपमा तु विशिष्टोपमां गमयति। 'ततः प्रतस्थे कौबेरी भाखानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुमुत्तरां दिशं प्रस्थितस्य रघो- र्विशिष्टस्य किरणै रसाञ्शोषयितुमुत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात्। एवं च क्कचिदुपमयान्यत्रोपमाया गम्यत्वं चतुर्घा पर्यवस्यति। क्वचिद्विशेषणोपमया विशेष्योपमायाः । 'विश्वजित्सर्वपृष्ठोऽतिरात्रः' इत्यत्र पृष्ठगतसर्वताविधिनेव तद्विशेष्यपृष्ठ- विधेः। क्वचिद्विशेष्योपमया विशेषणोपमायाः। वैकृतप्रधानविधिनेव प्राकृततदङ्गकलापविधेः । उभयमप्येकदेशविवर्तित्वेनोदाहृतम्। कचि- द्वयवोपमया विशिष्टोपमाया गम्यत्वम्। अङ्गप्रधानगोचरप्रत्येकविधि- कलापेनेव सर्वाङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविष- योपमोदाहरणे दार्शेतम्। एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदाहरणम्। वाक्यभेदेनापि दृश्यते- "हस्त इव भूतिमलिनो यथा यथा लङ्डयति खलः सुजनम्। दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ।'

Page 65

६२ काव्यमाला।

अत्रावयवोपमा। यथा भूतिमलिनो हस्तो दर्पणमधिकमघिकं घर्षय- त्ुत्तरोत्तरं निर्मलीकुरुते। तथा खलः सुजनमधिकं धर्षयन्नुत्रोत्तरं नि- र्मलमेव कुरुते इति विशिष्टोपमा गम्यते। कचिद्विशिष्टोपमया तदवय- वोपमानां गम्यत्वम् । विशिष्टविधिनेव विशेषणविशेष्यविधीनाम्। यथा- 'त्वदाननमधीराक्षमाविर्दशनदीधिति। भ्रमद्भङ्गमिवालक्ष्यकेसरं भाति पड्जम् ।।' अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां के- सरनखदीधितीनां पङ्कजाननयोश्चोपमानोपमेयभावो गम्यते। एवमसंख्या उपमाविकल्पाः । तथा- 'किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति। नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदन: ।।' इत्येवमाद्या रसनारूपकाद्या रूपकविकल्पा अप्यसंख्याः । उक्त हि काव्यालोके- 'अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः । दिडबात्रं दर्शित धीरैरैनुक्तमनुमीयताम् ।।' इति। इति रूपकप्रकरणम्।

अथ परिणाम :- 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति तल्लक्षणंमुक्तम् । तत्र शब्यते। 'यामि मनोवाक्कायैः शरणं करुणात्मकं जैगन्नाथ। जन्मजरामरणार्णवतरणतरण्यं तवाङ्गियुगम् ।।' १. 'जगन्नाथम्' ख-ग.

Page 66

चित्रमीमांसा। ६३

'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्रन्द्रोऽयमित्यार्तंतरं रैरासे।।' 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि।. संप्रत्यहं पश्यत दिग्वधूनां यश:प्रसूनान्यवतंसयामि।।' इति श्रोकेष्वारोप्यमाणानां तरण्य-नयन-प्रसूनानां तरण-निरीक्षणा- वतंसनरूपप्रकृतकार्योपयोगे सत्यप्युक्तलक्षणकृतालंकारसर्वस्वकारेणैव रूपकमङ्गीकृतम्। 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।।' इत्यादिश्रुतावारोप्यमाणानां रथिरथादीनां 'सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्' इति वक्ष्यमाणाध्वपारगमनरूपप्रकृतकार्योपयोगे सत्यपि भगवता बादरायणेन 'नानुमानिकमप्येकेषामिति चेत् न शरीर- रूपकविन्यस्तगृहीतेर्दर्शयति च' इति शारीरकसूत्रे रूपकमङ्गीकृतम्। अतस्तेषु लक्षणस्यातिव्याप्तिः। एवम्- 'मिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो- रुचावचैरुपगतेषु सहस्रसंख्याम्। दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ।।' इति. आन्तिमति, 'विकसदमरनारीनेत्रनीलाब्जपण्डा- न्यधिवसति सदा यः संयमाधःकृतानि। १. 'ररास' क-ग. २. 'संप्रत्यहं पश्य तडिद्वधूनाम्' ख; 'संप्रत्यहं यस्य तडिद्र- धूनाम्' ग; 'संप्रत्यहं यस्य हरिद्वधूनाम्' घ. ३. 'खण्डानि' क-घ.

Page 67

६४ काव्यमाला।

न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' इत्यपहुतौ, 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम्। त्पासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।' इत्यतिशयोक्तौ,

श्रुत्यन्तखेलनत्वान्मशक त्वामेव माधवं मन्ये ।।' इत्यनुमाने, चातिव्याप्तिः। भ्रान्तिमत्यहिमांशोर्विकासे, अपह्गुतावम- स्नारीनेत्राणां ब्रह्मचर्यवितरणे, अतिशयोक्तौ कुम्भयुगस्य सरित्तरणे, अनुमाने माधवस्य चक्रे भ्रमणे च प्रकृतकार्योपयोगित्वात्। अपहुतौ 'तं यथा यथोपासते तथैव भवति' इति तत्कतुन्यायेन संयमाधःकृतामरना- रीनेत्राधिष्ठानस्य ब्रह्मचर्यवितरणोपयोगित्वम्। 'सुहृदालापेनैव प्रणश्यति स्थासुरान्तरः क्केशः । कान्तामुखचन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः ।।' इति दृष्टान्तसंकीर्णपरिणामे चाव्यापिः । अत्रारोप्यमाणस्योपमान- कोट्यन्तर्गताप्रकृतकार्योपयोगित्वादिति। अत्राहु :- आरोप्यमाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति लक्ष- णार्थः। न चैवं सत्युदाहृतरूपकादिष्वतिव्यापिः। तेष्वारोप्यमाणानां तर- ण्यनयनप्रसूनसूर्यादीनां स्वात्मनैव तरणनिरीक्षणावतंसनकमलविकासना- दिकार्योपयोगित्वसंभवेन तदर्थमङ्गियुगविद्युदशश्चन्द्रादिप्रकृतात्मतापत्त्य- १. 'चक्रभ्रमणे प्रकृतकार्योपयोगित्वात्' ख-ग-घ. २. 'प्रकृतात्मतापरिणत्यनपे- क्षणात' ख.

Page 68

चित्रमीमांसा। ६५

नपेक्षणात् न चोक्तलक्षणस्य परिणामेऽसंभवः। यत्रारोप्यमाणं किंचि- त्कार्योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासंभवात्प्रकृतात्म- तापत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात्। यथा 'प्रसन्नेन गब्जेन वीक्षते मदिरेक्षणा? इति। अत्र त्वब्जस्य वीक्षणोपयोगित्वं निबध्यते। मयूरव्यंसकादिसमासेनोत्तरपदार्थ प्राधान्यात्। न चोपमितिसमासाश्रय- णेन पूर्वपदार्थप्राधान्याद्दश एव तदुपयोगित्वं निब्रध्यत इत्यस्त्विति वाच्यम्। प्रसन्नेनेति सामान्यधर्मप्रयोगात्। 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एवोपमितसमासानुशासनात्। अब्जस्य चं वीक्षणोपयोगित्वं न स्वात्मना संभवति । अतः प्रकृतदगात्मतापत्त्य- पेक्षणात्परिणामालंकारः। नन्वेवं 'यामि मनोवाक्कायैः' इत्यादिष्वपि तरणादिशब्दलक्षितजन्मनाशाद्युपयोगित्वं तरण्यादीनामङ्गियुगाद्यात्मनै- वेति तेष्वपि परिणामप्रसङ्गः । मैवम्। यंस्य कार्यवाचिपदप्रथमप्रतीत- तन्मुख्यार्थनिवर्तनसामर्थ्य तदात्मनोपयोगित्वस्य ग्राह्यत्वात्। तरण्यादि- पदमुख्यार्थनिवर्तनसामर्थ्यस्य च तरण्यादिष्वेव व्यवस्थितत्वात्। तस्मा- दुदाहृतेषु रूपकमेव। तेषु च नातिव्याप्तिरिति। नन्वेवमुक्तातिव्या- प्िपरिहारेडपि- 'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टि: सा मदविस्मृतस्वपरदिकिं भूयंसोक्तेन वा ।. सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा- वन्तः शून्यकरोऽपि सेव्यत इति भ्रातः क एष ग्रहः ॥' इत्यप्रस्तुतप्रशंसायामतिव्याप्तिः। तत्राप्रकृतवारणरसनाविपर्ययादीनां • १. 'यत्कार्यवाचिपदं प्रथमं प्रतीतं तन्मुख्यार्थनिवर्तनसामर्थ्यरूपस्य' गः 'कार्यवा- चिपदप्रथमप्रतीततन्मुख्यार्थ' घ. २.'निषेव्यत इति' ग.

Page 69

६६ काव्यमाला।

प्रकृतदुष्प्रभुरसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगि- त्वात्। न हि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यागे हेतु:, यथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः। मदः प्रत्युत तत्से- वायामेव हेतुरिति तस्य तत्त्यागहेतुत्वं दूरापास्तम्। एवमपि यत्तेषां त्यागहेतुत्वं निबध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादात्म्याप- त्यैव निर्वाह्यमिति। 'सुहृदालापेनैव' इत्यत्रोदाहृतपरिणामेऽव्याप्िश्र तदवस्था। तत्र चन्द्रवन्मुखस्याप्यप्रकृतत्वेन प्रकृतात्मनोपयोगित्वाभा- वात्। उच्यते। प्रकृतात्मनेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदा- हृतपरिणामाव्याप्तिः। उपयोगित्वं च प्रकृतागमकार्यं प्रति विवक्षितम्। अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुष्प्रभुसेवात्यागगमकवारणसेवात्यागं प्रत्यु- पयोगित्वमिति न तत्रातिव्याप्तिः। एवं च- 'आरोप्यमाणमारोपविषयात्मतया स्थितम्। प्रकृतस्योपयोगि स्यात्परिणाम उदाहृतः ।।' इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृतगमकस्येति व्याख्या- नेन परिष्करणीयम् ।। अयं च परिणामो द्विविधः । सामानाधिकरण्यवैयधिकरण्याभ्याम्। सामानाधिकरण्येन यथा- 'तीर्त्वा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय। व्यामंग्राह्यस्तनीभि: शबरयुव्रतिभि: कौतुकोदञ्चदक्षं कृच्छादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।।'

१. 'परिणामाव्याप्तिश्च' ख.

Page 70

चित्रमीमांसा। ६७

अन्रारोप्यमाण आन्तरो विषयभूतसौमित्रिमैत्रीरूपतापत्या गुहोप- कारलक्षणकार्योपयोगीति परिणामः। उभयोर्विभत्तयैक्यात्सामानाधि- करण्यम्। वैयधिकरण्येन यथा- 'पुन्नागजालकैर्हारान्काञ्चीः केयूरदामभिः। कर्णिका: कर्णिकारैश्र विहर्तु विदघुर्वने ।।' अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वन- क्रीडोपयोगिन इति परिणामः । विभक्तिभेदाद्वैयधिकरण्यम्। इदं च वैयधिकरण्यं रूपकेऽपि संभवति। यथा- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककन्धराय गिरिजासङ्गैकशृङ्गारिणे। नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' अत्र नदीदृशोर्विषययोर्विभक्तिरारोप्यमाणयोः शेखरतिलकयोर्नास्ति। यथा वा- 'द्विर्मावः पुष्पकेतोर्विबुधविटपिनां पौनरुत्तयं विकल्प- श्विन्तारतस्य वीप्सा तपनतनुमुवो वासवस्य द्विरुक्तिः । द्वैतं देंवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनसिंहक्षितीन्द्रः ॥' अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीनां च विभक्तिभेद:। अथ परिणामस्य व्यङ्ञयतायां किमुदाहरणम्।

१. 'आरोपविषय' ख. २. 'केलिकालस्य' ग. ३. 'श्रीनृसिंहः' ख-ग.

Page 71

६८ काव्यमाला।

'नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजम्भते॥। इति विद्याधरेणोदाहृतम्। अत्र राजपदेन चन्द्रे विषये. निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्कमणरूपकार्योपयोगिनः, प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम्। अत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रम- णोपयोगो न चन्द्रात्मना। विद्याधरेणापि विषयिण: स्वरूपेण कार्या- नुपयोगे तदुपयोगाय विषयिणे विषयात्मना परिणत्यपेक्षायामेव परि- णामोऽद्रीकृतः। यदाह- 'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया। परिणमति यत्र विषयः प्रस्तुतकार्योपयोगाय ।।' विद्यानाथेन तूदाहृतम्- 'एष शाम्यति वस्तापो राजपादनिषेवया। कण्टकद्रुममूलेषु वासस्ं शमयेत्कथम् ।I' इति। नास्त्यत्र प्रागुक्तदोषानुषङ्गः। नृपचरणसेवायां प्रस्तुतायामारोप्य- माणायाः चन्द्रचरणसेवायाः नृपचरणसेवात्मतयैव तापशान्तिहेतुंत्वात्। तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव विव- क्षितत्वात्ं। तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यात्। तथापि प्राचीनानां मत एवैतदुदाहरणम्। ते हि 'राजपादनिषेवया' इत्यस्य प्रकरणनियत्रितत्वादप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यञ्ज- नाव्यापार इति मन्यन्ते। वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इत्यस्माभि: श्रेषप्रकरणे व्यवस्थापयिष्यमाणत्वात्, इहापि 'राज- पादनिषेवया' इत्यत्र चन्द्रकिरणसेवायामप्यभिघैव व्यापारः। अतः १. 'विषयिण' इति ग-पुस्तके नास्ति.

Page 72

च्ित्रमीमांसा। ६९

प्रस्तुताप्रस्तुतद्वयताद्रूप्यप्रतीतेः श्लेषभित्तिकातिशयोत्तयादिष्विव संसर्ग- विधयव लाभात्तस्य प्रकृतकार्योपयोगितायास्तृतीयाया लाभाच्च न क्ापि व्यञ्जनाव्यापारापेक्षेते नेदं परिणामध्वनेरुदाहरणम्। इदं च दूषणं पूर्वोदाहरणेऽपि तुल्यम्। इदं तूदाहरणम्- 'चिराद्विषहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः (।' अत्र चिरतापार्त प्रति हरिपादाब्जनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व, तन्निषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते। एवं रूपकवैलक्षण्ये परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरू- पापन्नं भवुति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्तदुपजीव्यचक्रवर्तिनान्यथैव तयोरवैलक्षण्यं वर्णितम्। मुखचन्द्र इति रूपके मुखं महारजतरूपेण पटवदारोप्यमाणचन्द्ररूपेण स्थगित- स्वरूपं भवति। 'मुखचन्द्रेण तापः शाम्यति' इति परिणामे तु मुखम- नाच्छादितस्रूपमेव भवति। चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतु- त्वादिति। उक्त च- 'विषय्याकारमारोप्य विषयस्थगनं यथा। रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ॥' 'यदा तु विषयो रूपात्स्वस्मादप्रच्युतो भवेत् । उपयुक्त्यै तदाकारः परिणामस्तदा मतः ॥' इति। अत्रेदं विचारणीयम्। रूपके विषयस्य स्थगनं न तावचिरोहितरू- पत्वम्। रजत्रमेण शुक्तिस्वरूपस्येवाहार्यारोपेण विषयस्य तिरोधानासं- भवात्। शारीरके च 'य एवासौ तपति तमुद्गीथमुपासीत' इत्यत्रोद्गी- थस्यादित्यदृष्टिविषयत्वाङ्गीकारे रजतदृष्टिविषयशुक्तिस्वरूपमिवोद्गीथक्रि

Page 73

७० काव्यमाला।

विषय्युपसर्जनत्वम्। परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्र- धानस्य मयूरव्यंसकादिसमासस्याविशेषात्। अत एव विषयिविशेषितत्वं स्थगनमित्यपि निरस्तम्। विषयिणो विशेष्यत्वात्। तस्मात्स्थगनास्थग- नवैलक्षण्यवचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूप- काद्वैलक्षण्यं समर्थनीयमित्यलं विस्तरेण ।

इति परिणामप्रकरणम्।

अथ ससंदेह :- साम्यादप्रकृतार्थस्य या धीरनवधारणां। प्रकृतार्थाश्रया तज्ज्ञैः ससंदेहः स इष्यते॥ त्रिविधश्चायं ससदेहः । शुद्धो निश्चयगर्भो निश्चयान्तश्र। क्मेण यथा- 'आनीय द्विपतां धनानि विपिने राजन्यचूडामणे तेष्वालोक्य विनिर्मलं हिमेकलाखण्डं करण्डं पुनः । किं वाद किमु पेषणं किमु धनं किं क्षेपणीयायुधं किं वा दैवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ।।' 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैव नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥'

१. 'सदेहः' क-ग घ. २. 'हिमजलाखण्डं'ग.

Page 74

चित्रमीमांसा। ७१

'किं तावत्सरसि सरोजमेतदारा- दाहोख्विन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्बोकर्वकसहवासिनां परोक्षैः ।।' इति वदन्ति। अन्रेदं विचारणीयम्। साम्यादिति किमन्नाद्धेतोर्वसती- तिवत्फलत्वेन हेतुत्वविवक्षया पञ्चमी, उत स्वतो हेतुत्वविवक्षया। आ- द्येडपकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात् । तथा सति 'आनीय द्विष- ताम्' इत्यादयुदाहरणेडव्याप्तिः । न हि तत्र हिमकरण्डस्य वाद्यादिसाह- श्याभिव्यक्तौ कविसंरम्भः । किं तु द्विषत्पुरमीदृशीमवस्थामापन्नमिति राज्: प्रतापातिशयाभिव्यक्तौ। द्वितीये साम्यादित्यनेन किमेकमेवाप्रकृ- तसाम्यं यावत्संदेहकोट्युच्छित्तिहेतुत्वेन विवक्षितम्, उतैकमनेक ं ् वेत्य - नियमः । आद्े 'अयं मार्तण्डः किम्' इत्याद्युदाहरणेऽव्याप्तिः । नहि तत्र 'किं लक्ष्मीरुर्वशी वेयं रम्भा वा मेनकाथ वा' इत्यत्र लक्ष्मीत्यादि- विकल्पेष्वतिशयितसौन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वादिविक- ल्पेषु हेतु:, किं तु प्रतापेन दुर्निरीक्षत्वसाम्यं मार्तण्डत्वविकल्पे, दुरां- धर्षत्वसाम्यं कृशानुत्वविकल्पे, क्षणेन सकलसंहर्तृत्वसाम्यं कृतान्तविकल्पे च हेतुः । द्वितीये 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाट- वद्धनुर्वा' इति विकल्पालंकारेऽतिव्यापिः । अत्र दिग्विजयप्रवृत्तन बलवता राज्ञा समरे प्रसके यथा कलिङ्र- नृपति :- 'समाक्ान्तो बलवता काङ्ृन्नम्रंशिनी श्रियम् । श्रयेत वैतसीं वृत्तिं न भौजद्गीं कदाचन ।I'

१. 'संहर्तृकत्व' ख.

Page 75

७२ काव्यमाला।

इति नीतिमनुसृत्यासंदिग्धं निजराज्यलक्ष्मीभ्रंशपरिहारकामः शिरो नमितवान्, तथा वा शिरो नमय, यथा क़रहाटनृपतिः 'जयेन लभ्यते लक्ष्मीर्मरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान्, तथा वा धनुर्नमयेति समयोचिताप्ोपदेशे तद्राजचरितदृष्टान्तप्रापितानव- स्थितार्थधीसत्त्वात्। न च तत्र श्रोके तादग्धीनिबन्धनं नास्तीति नाति- व्याप्तिरिति वाच्यम्। तन्निबन्धनस्यापि लक्षणान्तर्गतविवक्षायाम्- 'जीवनग्रहणे नम्रा गृहीत्वा पुनरुन्नताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्रस्य दुर्जनाः ।।' इत्यादिषु संदेहविषयनिबन्धनगम्यससंदेहालंकारेष्वव्याप्तिप्रसङ्गात् उत्प्रेक्षायां वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन वाच्यगम्य- भेदेन द्वैविध्यस्याङ्गीकर्तव्यत्वात्। अपि चानवधारणेति किमुच्यते। अनिश्चयात्मकत्वमिति चेत् । तथा सति 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादावुदाहरिष्यमाणायामप्रकृत-

परस्परप्रतिक्षेपकतया निबद्धानेककोट्यवगाहित्वं विवक्षितमिति चेत्। तथापि 'अङ्कं केऽपि शशङ्किरे' इत्यादावुदाहरिष्यमाणायामपह्नुतावति- व्याप्तिः । संदेहविकल्पयोर्वाकारादिनेव तत्रापि तत्तन्मतत्वोपन्यासेन परस्पर प्रतिक्षेपसिद्धेः। 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शरृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । १. 'परिहातुकामः' क. २. 'उद्धताः' क. ३. 'सभावनाया उत्कटकोटिसंदेह- रूपत्वात्। विरुद्धानेककोट्यवगाहित्वं तदिति चेत। तथापि मुखचन्द्र इति रूपकेऽति- व्याप्तिः' इत्यधिकं ख-पुस्तके.

Page 76

चित्रमीमांसा। ७३

वेदाभ्यासजड: कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' इति ससंदेहोदाहरणे चाव्याप्तिः। तत्र चन्द्रादीनां संदेहधर्मिणामेवाने- कत्वम्। प्रकारस्तु सर्वत्र वर्णनीयवनितास्त्रष्टृत्वमेकमेवेत्यनेककोटिकत्वा- भावात्। न च साम्यनिमित्तत्वाभावान्न तत्र ससंदेहः। 'इतो गता सा क्व गता न जाने गृहं गता मे हृदयं गता वा' इति संदेहो न संग्राद्य इति वाच्यम्। वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमा- र्याभ्यां पुष्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्रन्द्रः स्वकान्तिसंपदा स्रष्टा, उत पुष्पमास: स्वकीयपुष्पसंपदेति संदेहनिबन्ध- नात् 'शृङ्गारैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गारविभ्रमबाहुल्यमात्र- पर्यवसायित्वेन किंचित्साम्यनिमित्तत्वाभावेऽपि चन्द्रवसन्तधर्मिकांशयो- स्तन्निमित्तत्वानिवारणात्। एवं च प्रकृतार्थाश्रयेत्येतदप्ययुक्तम्। उदाहृतसंदेहस्य वर्णनीय- नायिकानाश्रयत्वेनाव्याप्तिरिति चेत्। अत्र ्रूमः । 'बुद्धिः सर्वात्मनान्योन्य,क्षेपिनानार्थसंश्रया। सादृश्यमूला वार्थसपृवसंदेहालंकृतिर्मता ।।' यद्यप्यन्योन्यप्रतिक्षेपकविरुद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति। तथापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति किं तु पक्षे तत्प्राप्तिमनिरुध्य स्वप्राप्तिपक्ष एव स्वपरिपन्थिप्राप्तिप्रतिक्षेपकत्वम् । न हि 'ब्रीहिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे व्रीहयो यवान् यवाश्च त्रीहीन्सर्वात्मना यागात्प्रतिक्षिपन्ति। तथा सति शास्त्रस्यास्यानिर्णाय- कत्वेनाननुष्ठापकत्वेन चापामाण्यप्रसङ्गात्। किं तु स्वस्वानुष्ठानपंक्ष एव। अंत एव 'ब्रीहिमिर्यवैर्वा यष्टव्यम्' इति संदेहेन पृष्टवन्तं प्रति 'ब्रीहि-

Page 77

७४ काव्यमाला।

भिर्यवैर्वा यष्टव्यम् इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूल- संदेहनिवर्तकमनुष्ठापकं च दृश्यते। प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षेपार्थः। उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्भा- वात्। एवं विकल्पालंकारोदाहरणेडपि द्विविधस्यापि नीतिशास्त्रस्य मामाण्यात्तदुपदिष्टफलेच्छानुसारेणोभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरो- धनुर्नमनयोर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालंकारे नाति- व्याप्तिः । अपह्रवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्त्वेऽपि वाकारार्थ- स्पर्शाभावान्नातिव्याप्तिः । तत्र हि केचिदन्य इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः। न तु वाकारार्थस्पर्शोऽस्ति। उत्प्रेक्षाया- मपि नातिव्याप्तिः । तत्र ह्यत्कटकोटिके संशयकोट्योः समबलत्वाभावेन वाकारार्थस्पर्शाभावात्। 'अस्याः सर्गविधौ' इत्युदाहरणे परस्परप्रतिक्षेप- कनानाकोटिसमाश्रयत्वाभावेऽपि तथाभूतनानाधर्मिरूपार्थसमाश्रयत्वस- रवान्नाव्याप्तिरिति सर्वमवदातम्।

सन्तोत्सवे- 'कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम्। वरद: संशयापन्नो वक्षःस्थलमवैक्षत ।I' अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्। तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरत- स्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ञयत्वात्संदेहालं कारध्वनिरत्रेति। यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य विम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्या ।।'

Page 78

चित्रमीमांसा। ७५

इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थलज्जा- शब्दप्रयोगेपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यपि 'संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, निःसमाधिकरूपवत्त्वाभि- मानिनी लक्ष्मीः पुरत एनां दृष्ट्रा कथं वर्तत इति संशयापन्न इति वा, इयं च वक्षसि कुत्र निवेशनीयेति संशयापन्न इति वा, बहवः संशया- कारा वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ञ्याः संभवन्ति, तथापि सर्वेषामपि संदेहानां सादृश्यमूलत्वाद्यतिरेकमूलसंदेहस्याप्यत्र संभवेऽपि कथंचित्सा- दृश्यमूलत्वात्संदेहालंकारध्वन्युदाहरणत्वमिति युक्तमेव ।। इति संदेहालंकारप्रकरणम्।

अथ भ्रान्तिमान्- कविसंमतसादृश्याद्विपये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः । पिहितात्मनीत्यनेनारोप्यमाणानुभवस्य स्वारसिकं कविप्रतिभया कल्पनं विवक्षितम्। तस्यैव विषयपिधानसामर्थ्यात्। अतो रूपकादौ नातिव्याप्िः। उदाहरणम्- 'कपाले मार्जारः पय इति करांलेढि शशिन- स्तरुच्छिद्रप्रोतान्बिसमिति करी संकल्यति। रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रेभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥' अत्र लेहनादिप्रवृत्तिपर्यन्ततोक्त: स्वारसिक एव विभ्रमः कविपति- भया चन्द्रिकोत्कर्षद्योतनाय निबद्धः। १. 'इयं वक्षसि' ख. १. 'प्रभावित्तः' ग.

Page 79

७६ काव्यमाला।

क्वचिद्रान्तेरुत्तरोत्तरं पल्लवेन चमत्कार :- 'वैल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यादाय रत्नान्युरुतर खदिराङ्वारशङ्काकुलाङ्गी। कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती

'शिञ्जानैर्म्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तन्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्ोपायालपन्त्यः पिकनिनदधिया ताडिता: काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगद्दशां नाप्यरण्यं शरण्यम्।।' क्वचिदन्योन्यविषयभ्रान्तिनिबन्धनेन। यथा- 'पलाशकुसुमम्रान्त्या शुकतुण्डे पतत्यलिः। सोडपि जम्बूफलभ्रान्त्या तमां धर्तुमिच्छति ।।' 'विस्कूर्तिमत्यां कीर्तो ते विधिवैकुण्ठशंकराः । आरोढुं शयितुं वस्तुमाकाद्कन्ति महीतले ।।' इत्यत्र भ्रान्तिमदलंकारो व्यङ्गयः । सादृश्यान्यमूलौ संदेहविश्रमौ ससंदेहभ्रान्तिमदलंकारप्रयोजकौ न भवतः । यथा- 'अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन्। निमज्ज़यामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्ये ।।'

१. 'जलाल' ग. २. 'शङ्कां करोति' ग. ३. 'शवासामोदानुयातैः' ग.घ. 'श्ासामोदप्रसक्त मधुकरनिकरे' ङ:

Page 80

चित्रमीमांसा। ७७

'दामोदरकराघातचूर्णिताशेषवक्षसा। दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।।' आद्ये दुर्जयविजयोद्योगसाहसप्रयुक्त: कीर्तिम्रंशसंदेहः । द्वितीये गाढमर्मेप्रहारकृतचन्द्रविभ्रम इति। इति भ्रान्तिमत्प्रकरणम्।

अथोल्लेखालंकार :- निमित्तभेदादेकस्य वस्तुनो यदनेकधा। उल्लेखनमनेकेन तमुल्लेखं प्रचक्षते॥। यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रानेकधोल्िख्यते स उल्लेखः । 'कीर्तिगङ्गाहिमक्ष्माभृदोजःसूर्योदयाचलः ।

इति मालारूपके एकस्य राज्ञो यशस्वित्वादिधर्मयोगरूपनिमित्तमेदान्तुषा- राद्रित्वाद्यनेक प्रकारे णोललेखन मस्तीति तत्राति व्याप्ति निरा सायाने केत्युक्तम् । तत्र ग्रहीतृभेदनिबन्धनं न भवत्यनेकधोललेखनमिति नातिव्यापिः। 'विद्याविक्रमसौन्दर्यतपसां निधिमागतम् । पश्यन्ति विबुधा: शूराः स्त्रियो वृद्धाश्च कौतुकात्।' इत्यत्रैकस्य वर्ण्यस्य विद्याद्यनेकधर्मयोगरूपनिमित्तमेदादनेकेन ग्रही- त्रोलेखनमस्तीति तत्रातिव्याप्तिवारणायानेकधेत्युक्तम्। तत्रं कौतुका- त्स्वरूपावलोक्कनमात्रनिबन्धनं नानेकधोल्लेखनमिति तद्यावृत्तिः । शिञ्जा- नैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चश्चरीकैः' इत्युदाहृतायामनेककर्तृक- १ 'सुष्टिम्रहार' ग.

Page 81

काव्यमाला।

भ्रान्तिपरम्परायां स्तनादीनां मञ्जरीसादृश्यादिनिमित्तभेदादनेकेन चश्चरी कादिना मञ्जरीत्वाद्यनेकप्रकारेणोललेखनमस्तीति तत्राति व्यात्तिवारणायैकस्य वस्तुन इत्युक्तम्। 'कीर्तौ विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः । द्वयेऽपि नागास्तन्वन्ति जिह्वान्तोलेखनं मुहुः ॥' इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजंगरूपेण ग्रहीत्रा मृणालक्षीररूपत्वाद्यनेकप्रकारेणोल्लेखनमस्तीति तत्रातिव्याप्ति- निरासाय निमित्तमेदादित्युक्तम् । तत्र कीर्तिगतं धावल्यमेकमुल्लेख- द्वयेऽपि निमित्तम्। यद्यपि गजभुजंगानां स्वस्वप्रियाहारलोभरूपनिमित्त- भेदोऽप्यस्ति, तथापि निमित्तमेदादित्यनेनैकनिमित्तविरहो विवक्षित इति तद्यावृत्तिः । तस्य संग्राह्यत्वे निमित्तभेदादिति स्वरूपकथनमात्रम् । एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरमेणाम्बुजं परे। वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं दयम् ।।' इत्यपह्ृवोदाहरणविशेषेऽतिव्याप्तिः शङ्या, तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम्। तत्रादयोलेखनद्वयं परमतत्वोपन्यास- सामर्थ्याद्रम्यमाननिषेधमिति नातिव्यापिः । स्त्रीभि: कामोऽर्थिभि: स्वर्द्धुः कालः शत्रुभिरैक्षि सः ।' अत्र चानेकघोललेखने रुच्यर्थित्वभयादिकं यथायोगं प्रयोजकम्। रुचिरभिरतिः। अर्थित्वं लिप्सा। द्विविधश्चायमुल्लेखः । शुद्धोऽलंका- रान्तरसंकीर्णश्च। तत्र शुद्धो यथा- 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः। यथास्थितश्र बालाभिर्द्ृष्टः शौरिः सकौतुकम् ॥' १. 'स््ीभि: कामः' इत्यारभ्य 'अरथित्वं लिप्सा' इत्यन्तः पाठः क-पुस्तके नासिति.

Page 82

चित्रमीमांसा। ७९

अत्र यस्तथा भीतं भक्तं गजं त्वरया त्रायते स्म सोडयमादिपुरुष इति वृद्धाभि: संसाराद्ीत्या तदभयार्थिनीभि: कृष्णः पुरः प्रविशन् दृष्टः, यस्तथा चञ्चलत्वेन प्रसिद्धाया लक्ष्म्या अपि कामोपचारवैदग्ध्येन नित्य- वल्लभः सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिर्दष्टः, बालाभिर्बालस्व- भावाद्यथास्थितरूपवेषयुक्तो दृष्ट इति सर्वत्र वस्तुसता नानारूपेणोललेखा- दयं शुद्धः। यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने- 'यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशा- लेति लासकैः, यमनगरमिति शत्रुभि:, चिन्तामणिरित्यर्थिभिः, वीरक्षेत्र- मिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असु- रविवरमिति वाहिकैः, शक्याश्रम इति शमिभिः, अप्सरःपुरमिति का- मिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृद्यत।' अत्र तपोवनादिभूयिष्ठत्वात्तपोवनाद्युलेखः शुद्धः। अत्रैव यमनगर- त्वाद्युल्लेखः संकीर्णः । तत्र यदि यमनगरत्वादी नामुपरञ्जकतामात्रेणान्व- यस्तदा रूपकसंकरः । यदि ताद्रूप्यानुभावगोचरतया, तदा भ्रान्तिमत्सं- करः। अयं चोल्लेखो वर्ण्यगुणोत्कर्षर्यापनायाचेतनकर्तृकोऽपि निब- ध्यते। यथा तत्रैव हर्षवर्णने- 'निःस्ेइ इति घनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरिती- न्द्रियैः, दुरुपसप इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, १. 'चिन्तामणिभूमिः' इति हर्षचरिते. २. 'वणिग्भिः' ग. ३. 'असुविवरमिति वातिकैः' इति हर्षचरिते वातिकैविवरव्यसनिभिरिति तत्र टीकायाम्.

Page 83

काव्यमाला।

दुर्ग्रह-चित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षैण्ढ इति पर- कलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, विनैय इति सुहृद्भि:, कर्मकर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्यमाणम्' इति। भ्रान्तिमदलंकारादयोSप्येवमचेतनकर्तृका निबध्यन्ते- 'भिन्नेषु रत्नकिरणः किरणेण्विहेन्दो- रुचावचैरुपगतेषु सहस्रसंख्याम्। दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥' इत्यादौ। 'मधुलुब्धा मधुकरास्तृषिताश्च चकोरकाः । "* सुगन्धि कान्तिसंपन्नमनुधावन्ति ते मुखम्॥' इत्यत्रोल्लेखो व्यङ्कयः। 'विद्याविक्रमसौन्दर्य' इति श्रोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किं तु विद्व- त्ताद्युल्लेख वदवलोकनकौतुकनिमित्ततायां पर्यवसानं तदा तत्राप्युल्लेखन- ग्रतानेकधात्वविच्छित्तिविशेषस्य गम्यत्वादुललेखालंकारो गम्यः । 'परिव्राट्कामुकशुनामेकस्यामेव योषिति। कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥' इत्यत्राप्युल्लेख इष्यत इति लक्षणस्य नातिव्याप्तिः । अथापर उल्लखप्रकार :- 'गृहीतृभेदाभावेडपि विषयाश्रयभेदतः । एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते ।।'

१. 'दुर्ग्ाहचित्तवृत्तिः' ख. २. 'शण्ठः' इति हर्षचरिते. शण्ठः प्रजननाक्षम इति टीका. ३. 'विनेयः' क.

Page 84

चित्रमीमांसा। ८१

तत्र विषयभेदादनेकधोललेखः, शुद्धः संकीर्णश्र। शुद्धो यथा- 'अकृशं कुचयोः कृशं वलसे विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालिकपालिभागघेयम् ।।' 'गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्े- जसि, सुमत्रो रहसि, बुघः सदसि, अर्जुनो यशसि, भीष्मो धनुषि' इत्यादौ श्लेषसंकीर्ण: ॥ 'हंसमयीव गतिषु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्रावृण्मयीव पयोधरोन्नतौ, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फल- दानेषु' इत्याद्युत्प्रेक्षासंकीर्णः । पयोधरोन्नतावित्यादौ विषयांशे श्रेषसं- कीर्णश्र। 'युधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसंकीर्णः । 'युधिष्ठिरसमः सत्यवचसि' इत्यादावुपमासंकीर्ण इत्याद्युन्नेयम्। अधिकरणभेदेनानेकघोलेखो यथा- 'वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो रल्नं मूर्धि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम्। अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो यस्याङ्गौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ॥' अत्र रूपकसंकीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तदवयवाभिमुख- स्थितग्रहीतृभेद निमित्तोलेखसंकीर्णश्च। एकस्यैव द्रष्टुर्ललाटमध्ये कर्णा- न्तिके च रविदर्शनासंभवात्। 'यस्य वह्विमयो हृदयेषु, जलमयो लोचनपुरेषु, मारुतमयः श्वसि- तेषु, क्षमामयोडङ्गेषु, आकाशमयः शून्यतासु, पश्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।' ६ चि० मी०

Page 85

८२ काव्यमाला।

अत्र वहिजलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रता- पस्य चाभेदकथनं हेत्वलंकार इति तत्संकरः । मतान्तरे रूपकसंकरः । 'कस्तूरीतिलकादि भालफलके, देव्या मुखाम्भोरुहे. रोलम्बन्ति, तमाललोलमुकुलोत्तंसन्ति मौलिं प्रति। या: कर्णे विकचोत्पलन्ति, कुचयोरंशे च कालागुरु" स्थास्यन्ति, प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः।I' अत्रोपमासंकीर्णः । केचित्तु तत्तदधिकरणौचित्यात्कस्तूरीतिलक्ादि- तादात्म्यसंभावनायामुपमार्थे विहितोऽपि किबुत्प्रेक्षायां पर्यवस्यतीत्युपमो- पक्कमोत्प्रेक्षेयमित्याहुः। तन्मते उत्प्रेक्षासंकीर्णः । एवमलंकारान्तरसंक- रोऽप्युन्नेयः । इत्युल्लखप्रकरणम्।

अथापहुति :- प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम्। साम्यादपह्ुतिर्वाक्यभेदाभेदवती द्विधा। अन्यत्वकल्पनमात्रं रुपके, विषयनिषेघमात्रं 'नाहं दूर्ती वरतनोरन्न- तापोऽतिभास्वरः' इत्याक्षेपे, उभयमपि साम्यविशेषणरहितम्। 'न पश्च- विशिखः कामः किं त्वपञ्चशिलीमुखः' इत्यतिशयोक्तौ चातिव्यास्तमिति विशिष्टोपादानम्। न चैवं 'न पझम सुखमेवेदम्' इति तत्त्वाख्यानोप- मायां विषये पद्मत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्यापिः। प्रकल्पनपदस्यारोपपरत्वात्। 'निषिध्य विषयं साम्यादन्यारोपः' इति क्त्याप्रत्ययेन लक्षणं नोक्तम्। वक्ष्यमाणोदाहरणे आरोपपूर्वकापह्रवेऽति-

Page 86

चित्रमीमांसा। ८३

इयं च साक्षान्निषेधकनजादि प्रयोगे परपक्षत्वादयुपन्यासे निषेधसाम- थ्याद्गम्यत्वे च वाक्यभेदेन प्रवर्तते। विषयासत्यत्वप्रतिपादकच्छद्मनि भकपटव्यानादिशब्दपयोगे विषयासत्यत्वपर्यवसायिरूपवपुर्नामभज््यादि- शब्दप्रयोगे च तदभेदेन। अत्र वाक्यभेदेऽपहवपूर्वक आरोप आरोपपूर्वकापह्ववश्चेति द्वैवि- ध्यम्। कमेणोदाहरणानि- 'अवाप्त; प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिंरे रतिश्रान्ता शेते रजनिरमणी गाढमुरंसि ॥' यथा वा- 'नेदं नभोमण्डलमम्बुराशिर्नेमाश् तारा नवफेनपुञ्जाः। नायं शशी कुण्डलित: फणीन्द्रो नायं कलङ्क: शयितो मुरारिः॥।' पूर्वत्र निरवयवापह्रुतिरत्र सावयवेति भेद:। 'अङ्कं केऽपि शशंक्किरे जलनिधेः पङ्कं परे मेनिरे सारङं कतिचिच्च संजगदिरे भूच्छायमैच्छन्परे। इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।।' इत्यत्राप्यपह्वपूर्वक औरोपः। अपह्ृवस्तु परपक्षोपन्यासादर्थसिब्

न्यधिवसति सदा यः संयमाधःकृतानि।

१. 'खण्डानि' ख-ग.

Page 87

काव्यमाला।

न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' अन्रारोपपूर्वकोऽपह्ववः शाब्दः । 'मन्थानभूमिधरमूलशिलासहस्र- संघट्टनत्रणकिण: स्फुरतीन्दुमध्ये। छाया मृग: शशक इत्यपि पामराणां लोके गतानुगतिकः प्रथितः प्रवादः ॥' अत्राप्यारोपपूर्वकोऽपहवः । स च पामरवचनोपन्यासादर्थसिद्धः। एतानि वाक्यभेदेनोदाहरणानि। एकवाक्यतायां तु- 'बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकशेऽस्मिन्कामिलोके तथा हि। उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोद्टड्कितं कालकूटम् ।।' 'अमुष्मिल्लावण्यामृतसरसि नूनं मृगदशः स्मरः शर्वष्ठुष्टः पृथुजघनभारे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इत्य- सत्यत्वाभिघायिच्छलशब्दवशात्प्रतीयते । उत्तरत्र नेयं रोमावलिः ्कि तु धूमशिखेत्यसत्वपर्यव सायिवपुःशब्दबलात्प्रतीयते। केचित्तु सादृश्यव्यक्तयेSपह्ववदपह्नवाय सादृश्यमप्यपहुत्यलंकार वदन्ति। यथाहु :-

१. 'पृथुजघनभागे' क.

Page 88

चित्रमीमांसा। ८५

सादृश्यव्यक्तये यत्रापह्वोऽसावपह्दुतिः । अपहवाय सादृश्यं यत्रास्त्येषाप्यपहुतिः ॥' इति। उदाहरन्ति च- 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लमः सुकण्ठः प्रसरति कुचयोर्दन्तगाढाङ्गसङ्गः। बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा निरस्ता न हि न हि सरले चोलकः किं त्रपाकृत्॥' अत्र वीक्षितं प्रियमपहुत्य चोलकत्वारोपः । तदर्थ च प्राक् प्रिय- चोलसदृशधर्मोपन्यासः। अत्रेदमपह्ुतिकथनं व्याजोक्त्यलंकारं पृथग- नङ्गीकुर्वतामुद्धटादीनां मतमनुसृत्य । ये तु उद्धिन्नवस्तुनिगूहनं व्याजो - क्तिरिति व्याजोक्त्यलंकारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव नापह्ुतिरिति रुचकादयः । दण्डी त्वपह्ुतेः साधर्म्यमूलत्वनियममनादृत्य 'किंचिदपहुत्य कस्यचित्प्रदर्शनमात्रमपद्दुतिः' इति लक्षयित्वोदाजहार- 'अपद्ठुतिरपह्ुत्य किंचिदन्यार्थसूचनम्। न पश्चेषुः स्मरस्तस्य सेहसत्रं पत्रिणामिति। चन्दनं चन्द्रिका गन्धो गन्धवाहश्र दक्षिणः । स्वयमगनिमयी सृष्टिः शीता किल परान्प्रति ॥ अमृतस्यन्दिकिरणश्चन्द्रमा मम नो मतः । अन्य एवायमर्कात्मा विषनिष्यन्ददीधितिः॥' साधर्म्यमूला त्वपद्दुतिरिति तेन व्याहृता। 'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमपि। १. 'सादृश्यनियममनादृत्य' ग-घ. २. 'सहसत्रं विशिखाः पुनः' ख.

Page 89

८६ काव्यमाला।

अथ खिवद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच् लिखति।' इत्यादावपह्ुतिध्वनिरुदाहर्तव्यः। अत्र हि चक्रसुपर्णलेखनेन नायं साधा- रण: पुरुषः किं तु पुण्डरीकाक्ष इति कयाचिद्यञ्ञितम्। अन्यया तु तस्याप्येतादृशं रूपं न संभवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि किं तु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्ञितम्।। इत्यपह्धुति प्रकरणम्।

अथोत्प्रेक्षालंकार :- यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम्। प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते।। यथा- 'बालेन्दुवक्राण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि। सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम्।।' अत्र प्रकृतानि पलाशकुसुमान्यप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसंब- न्धान्नखक्षतत्वेनोपकल्पितानि। तर्कः संभावनामात्रं न त्ववधारणम्। तदीयधर्मों हि तच्ादात्म्य संभावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावलि्ञवद- वधारणहेतुः। न चात्रेवशब्दस्य सादृश्यपरत्वमित्युपमाशङ्का कार्या। उपमाया यत्र क्वचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया वसन्तना- यकसमागतवनस्थलीसंबन्धित्वविशेषणकल्पनानपेक्षत्वात्। पलाशमुकु- लानां नखक्षततादात्म्यसंभावनायामेव तथाविधविशेषणस्योपयुक्तत्वात्।

१. 'सादृश्यप्यंवसानत्व' ख.

Page 90

चित्रमीमांसा। ८७

एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसंभावनोपयुक्तविशेषणकल्पना तत्र सर्वत्राप्युत्प्रेक्षावगन्तव्या। यथा- 'उवाह या तनुलता भृङ्गालीरोगवल्लरीम्। पश्चाद्विमुक्तां वैमल्याद्विम्बितामिव वेणिकाम् ।।' उपमा यत्र क्वचित्स्थितयापि वेणिकया वत्तुं शक्येति तत्रानुपयुक्ता, वैमल्यात्पुरोभागप्रतिबिम्बितत्वरूपविशेषणकल्पना तादात्म्यसंभावनार्था। यत्र तु संभावनोपयुक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र पर- मिवशब्दः सादृश्यपर इत्युपमालंकारः। अमुमेव विभागमभिप्रेत्य चक्र- वर्तिनोक्तम् 'यदायमुपमानांशो लोकतः सिद्धिमृच्छति' इत्यादि।

'मन्ये, शङ्के, ध्ुवं, प्रायो, नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ॥' इति। अत्रादिशब्देन तर्कयामि, संभावयामि, जाने, उत्प्रेक्षे, स्यात्, इत्ये- वमादीनां संग्रहः। अत्र च 'कस्तूरिकामृगाणामण्डाद्न्धगुणमखिलमादाय। यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ॥' 'यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम्। मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥।' इत्यादिष्वतिव्याप्तिवारणाय धर्मसंबन्धादित्युक्तम्। तेषु हि 'यद्य- थोंक्तौ च कल्पनम्' इत्यतिशयोक्त्यलंकारविषयेषु, 'संभावनं यदीत्थं स्यादित्यूहोऽन्यस्य सिद्धये' इति संभावनालंकारविषयेषु वा निर्निमित्त- मेव तथा तथोपतर्कणम्। तथापि- 'सर्वातिशायिसौन्दर्य शङ्के सत्यवतो मुखम्। येन सा मृगशावाक्षी सावित्री तरलीकृता ।।'

Page 91

८८ काव्यमाला।

इत्यादिष्वतिव्याप्तिः स्यादिति तद्वारणायान्यधर्मसंबन्धादित्युक्तम्। तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति नातिव्यापिः । 'विरक्तसंध्यापरुषं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्धतो मां भरतः ससैन्यः ॥' इत्यत्राति व्याप्तिवारणायान्यत्वेनेति विशेषणम्। तत्र ससैन्ये प्रत्यु- द्वन्तर्यन्यत्रापि दृष्टस्याग्रेरजोगमनस्य संबन्धेन निमित्तेन भरतः प्रत्युद्ध- तत्वेन वस्तुसद्रूपेणैवोपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः। 'नरसिंहमहीपाल विदुस्त्वां मकरध्वजम्। मार्गणास्तव संजाताः कथं सुमनसोऽन्यथा ।' इत्यत्राव्याप्तिवारणायोपतर्कितमित्युक्तम्। तत्रानुमानालंकारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तिलिङ्गेन राज्ि मन्मथत्वमवधृतं न संभा- वनामात्रम्। 'इन्दुर्लिप इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेमप्रभा। कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥' इत्यत्रातिव्याप्तिवारणाय प्रकृतमित्युक्तम्। तत्र निरतिशयसौन्दर्य- सीतावदनादिसंनिधानेन तद्वदनाद्युपमानेष्वपि निकर्षापादकेन प्रशस्तोप- मानेष्विन्द्वादिप्वप्रकृतेष्वञ्जनलेपादिनिकर्षसंभावना क्रियत इति नाति- व्याप्तिः। नन्वेवमपि- 'अस्मद्विकरमचेष्टितानि निखिलत्रैलोक्यहेलाजय- प्रह्लीभूतसुरासुराणि भवतो भूमे: सुता शृण्वती।

Page 92

चित्रमीमांसा।

पत्यौ द्वेषकषायितेन मनसा सिनिग्धा मयि स्थास्यति स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्चलम् ।।' इत्यत्र चाञ्चल्यसहचरितत्वेनान्यत्र दृष्टस्त्रीत्वस्य संबन्धेन निमित्तेन वस्तुतः प्रत्येकस्थिरचिता देवी सीता चञ्चलत्वेनोपतर्किता। न च तत्रो- त्प्रेक्षालंकारः। रावणकृततदीप्सितसंघटनानुकूलविचारमात्रस्य निबद्धत्वेन विच्छित्तिविशेषाभावात्। न चान्यधर्मसंबन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाह्वादी विवक्षितः, न तु साधारणधर्ममात्रम्। तथा च - सहृदयहृदया ह्रा दिसाधारणधर्माभावेनोपमालंकारप्रयोजकत्वाभावादिति वा- च्यम्। तथा सति- 'स्तनाभिरामस्तबकां नूनं सीतेति वल्लरीम्। संभावयन्रघुपतिर्धावति स्म दिद्दक्षया ।।' इत्यत्रातिव्याप्तेरवारणात्। न चाहार्यत्वं तर्कविशेषणम्। इह त्वनाहार्या संभावनेति वाच्यम् । तथा सति 'शङ्के हनूमत्कथितप्रवृत्तिः' इति संभावनाया अप्यनाहार्यत्वेन तद्यावृत्त्यर्थस्यान्यत्वेनेत्यस्य वैयर्थ्य- प्रसङ्गादिति चेत्, मैवम् । अन्यत्वेनेत्यस्यान्यत्वेनावगतपरतया तस्यैवा- हार्यत्वविशेषणपर्यवसायित्वात्। ननु तथापि नैतल्क्षणम्, अव्यापेः। तथा हि। यत्र स्वमात्रधर्मा- दन्यमात्रधर्माद्वा किंचिदुत्प्रेक्ष्यते तत्रान्यधर्मसंबन्धादिति लक्षणांशा- भावादव्याप्तिः। यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिमिः । कुडलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।।'

Page 93

९० क्राव्यमाला।

'भूयस्तराणि यदमूनि तमखििनीषु ज्योत्सीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकाया- मावर्तितैरुड्ुमिरेव कृतोऽयमिन्दुः ॥' इत्यत्राद्योदाहरणेडङ्गुलीसद्दशीभिर्मरीचिमि: केशसंचयसदृशस्य तिमि- रस्य ग्रहणात्स्वमात्रधर्मादेव शशिनक्षुम्बनमुत्प्रेक्षितम्। द्वितीये तारा- विरलत्वाविरलत्वरूपेणान्यमात्रधर्मेण चन्द्रस्य संध्यानलमध्यगाम्बर- मूषिकावर्तिततारानिकरनिमित्तत्वमुत्प्रेक्षितम्। किं च हेतुफलधर्मस्वरूपो- त्प्रेक्षास्वन्यत्वेनेति लक्षणांशाभावादव्यापतिः। यथा- 'सैषा स्थली यत्र विचिन्वता त्वां अ्रष्टं मया नूपुरमेकमुर्व्याम्। अदृश्यत त्वच्चरणारविन्दविश्रेषदुःखादिव बद्धमौनम् ।।' इति हेतूतेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमि- त्तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखितादात्म्यम्, दुःखशब्दस्योपरि तुमुबाद्यश्रवणात्। एवम्- 'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ।।' इति फलोत्प्रेक्षोदाहरणे द्रुमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन दुमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति धर्मतयोत्प्रेक्ष्यते न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम्, द्रष्टुमित्यस्य धर्मिपर्यन्तत्वाभावात्। तथा-

、 'पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् । 'तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ।।' इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्षणशिलाप्रान्तस्थानीये

Page 94

चित्रमीमांसा। ९१

तटे हस्तस्थानीयतरङ्काग्रैः फेनचन्दनपेषकत्वेन शशाङ्कस्य करैर्दिगञ्जना- दिघवलीकरणेन च प्रतीयमानेन निमित्तेन तत्कर्तृकं पेषणलेपनमात्र- मुत्प्रेक्ष्यते, न तु तयोः पेषणलेपनकर्तृतादात्म्यम्। पिनष्टि लिम्पतीत्या- ख्यातयो: कर्तृवाचकत्वेऽपि 'भावप्रधानमार्यातम्' इति न्यायेन कर्तुः प्रधानभूतक्कियोपसर्जनस्यान्यत्रान्वयासंभवात्। अत एव 'लिम्पतीव तमोऽङ्वानि वर्षतीवाञ्जनं नभः' इत्युत्प्रेक्षामुदाहृतवता दण्डिनोक्त्तोदा- हरणयोरिवशब्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशङय- 'कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे। स्वक्रियासाधने व्यग्रो नालमन्यद्यपेक्षितुम् ।।' इति दूषितम्। 'वृत्तानुपूर्वे च न चातिदीर्घे जङ्डे शुभे सृष्टवतस्तदीये। शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्ः ॥' इत्यत्र निरतिशयलावण्यशालिजङ्घासृष्ठनुमितेन निःशेषलावण्यको- शव्ययेन निमित्तेन विधातुः शेषाङ्गनिर्माणोपयुक्तलावण्योत्पादने यत्र- मात्रमुत्प्रेक्ष्यते, न तु तथाभूतयत्वत्तादात्म्यमिति स्पष्टमेव। अपि चाप्रकृतधर्मिकोत्प्रेक्षायां प्रकृतमित्यंशाभावादव्याप्तिः। यथा- 'हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा। कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ।I' अत्र कृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयातिशयोक्त्या कृतमध्यरन्धराकाशनैल्यत्वेनाध्यवसितो यः कलङ्कसतद्वत्त्वेन निमित्तेन

-त्वेन निमित्तेन वा चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनो-

Page 95

९२ काव्यमाला।

ल्पेक्षितम्, नतु प्रकृतं दमयन्तीवदनमेवोक्तप्रकारा हृतेन्दवसारांशनिर्मि - तत्वेनोत्प्रेक्षितम्। 'यद्वालेन्दुकलोच्चयादुपचितैः सारैरिवोत्पादितं तत्प- श्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्।' इत्यत्रेव तथाशब्दान्वया- भावात्। ननु यथा शब्दतोऽन्वयालाभेऽपि 'ब्राह्मणशतं भोज्यता'मि- त्यत्र प्रधानमतिलज्च्योपसर्जने क्रियान्वयपर्यवसानम्, संख्याया भोजना- न्वयायोग्यत्वात्, तथेहापि प्रधानमिन्दुमण्डलमतिलङ्ज्योपसर्जने दमय- न्तीवदने इन्दुमण्डलाहृससारांशनिर्मितत्वोत्प्रेक्षापर्यवसानं स्यात्, अप्र- कृतस्यावर्णनीयत्वादिति चेत्, न। अप्रकृतवर्ण नस्याप्य प्रस्तुतप्रशंसारू- पेण प्रकृतातिशयाधानार्थतयान्वेतुं योग्यत्वात्। नच वाच्यं 'इन्दुर्लिप्त इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तर इवात्रापि संभावनामात्रमेव नोत्मरे-

दुत्प्रेक्षाया असंभवेऽप्यत्र तत्संभवादप्रस्तुतप्रशंसया संकरोपपत्तेः । तस्मा- दव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत्-

अत्र ब्रूमः । न तावत् 'हृतसारम्' इत्यादावव्याप्तिः। प्रकृतशब्दस्य विषयत्वाभिमतमात्रपरत्वात्। न चैवं 'इन्दुर्लिप् इव' इत्यादावतिव्याप्तिः। तत्र सीतावदनसंनिधाने वस्तुतोऽन्यधर्मत्वे सत्यपीन्दुगताञ्जनलिप्तत्वसं- भावनायामन्यधर्मत्वस्याप्रयोजकत्वात्, धर्मस्य सहृदयहृदयाह्वादिनो वि- वक्षितत्वाद्वा। अन्यत्वेनेत्यस्यान्येन प्रकारेणेत्यर्थ इति न हेतुफलधर्म- स्वरूपोत्प्रेक्षास्वव्याप्तिः। यत्र धर्मिणि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तत्र धर्म्यन्तरमन्यः प्रकारः। यत्र तु कश्चिद्धर्म एव किंचित्प्रति हेतुतया फलतया स्वरूपेण चोत्प्रेक्ष्यते तत्र स एव धर्मोऽन्यः प्रकार इति सर्व- त्राप्यनुगतेः। यद्वा हेतुफलधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवो- त्प्रेक्षा। तथा हि। 'सैषा स्थली यत्र विचिन्वता त्वाम्', 'चोलस्य यद्भी-

Page 96

चित्रमीमांसा। ९३

तिपलायितस्य' इत्यादिहेतुफलोत्प्रेक्षोदाहरणयोस्तावद्वि श्रेषदुःखललाटाक्ष- रदर्शनादिधर्मो हेतुतया फलतया वा नोत्प्रेक्ष्यते। किं तु नूपुरयुगादि- धर्मिकं यन्निश्चलत्वकण्टकसंश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेव

वश्यं च द्विविधस्यापि मौनादेस्तादात्म्येनाध्यवसाय आस्थेयः । अन्यथा निश्चलत्वादिहेतुके स्वाभाविकमौनादौ दुःखादेहेतुत्वादिनोत्प्रेक्षणमसम- असं स्यात्। अङ्गीकृतश्र 'सैषा स्थली' इत्यादौ दुःखादिर्धर्म एव मौना- दिहेतुतया नूपुरादिगतत्वेनोत्प्रेक्ष्यत इति वदताप्यलंकारसर्वस्वकृता द्विवि- धस्य मौनादेरमेदाध्यवसायः। 'हेतूत्प्रेक्षायां यस्य प्रकृतसंबन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोडध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेनाश्रीयते' इत्यादितद्वचनात्। आवश्यकं चान्यत्रापि क्वचित्कचिद्धेतूत्पेक्षोदाहरणे निमित्तांशे तादात्म्याध्यवसायाश्रयणम्। यथा- 'उन्मेषं यो मम न सहते जातिवैरी निशाया- मिन्दोरिन्दीवरदलदृशा तैस्य सौन्दर्यदर्पः । नीतः शान्तिं प्रसभमनया वक्रकान्त्येति हर्षा- ल्म्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥' अत्र हेतुतया हर्षोत्प्रेक्षां प्रति तत्फलत्वाभिमतं पादयोः पद्मलक्ष्म्या लगनं निमिच्तं वाच्यम्, तच्च सर्वथेवासिद्धम् । अतस्तत्र पादयोर्यः साभाविकशोभासंबन्धः स एव पद्मलक्ष्मीलस्नत्वेनाध्यवसितो निमित्त- मिति समर्थनीयम्। एवं निमित्तांशे तादात्म्याध्यवसानावश्यंभावे तत्रै- वोत्प्रेक्षाविश्रान्तिरस्तु। नच तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम्। निश्चलत्वहेतुकमौनस्य दुःखहेतुमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्रेष- १. 'यस्य' ख.

Page 97

९४ क़ाव्यमाला।

कालभवत्वं निमित्तं कण्टकसंश्लेषहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थ- व्यापाटनत्वेनोत्प्रेक्षायां महाराजोऽप्येवं कष्टमनुभवति, इतः परमपि किय- द्रनुभाव्यमनेनेति जिज्ञासोत्थापकपलायनकालभवत्वमित्यादेः स्पष्टत्वात्। अयमेव पक्षो दण्डिनोडभिमतः । यदाह- 'अन्यथैव स्थिता वृत्तिश्चवेतनस्येतरस्य वा।. अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।। मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः। मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुमुद्यतः ॥। स्नातुं पातुं विसान्यतुं करिणो जलगाहनम्। तद्वैरनिष्कयायेति कविनोत्प्ेक्ष्य वर्ण्यते ॥।' इति। अत्र संतापनिवृत्त्यर्थत्वेनान्यथैव स्थिता करिणश्चेतनस्य जलगाहन- रूपां वृत्तिरन्यथा तद्वैरनिष्कयार्थजलावगाहनत्वेनोत्प्रेक्ष्यत इंति स्वकृत- लक्षणानुसारेणैव योजितम्। काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽभिमतः । तेन हि 'संभावन- मथोत्प्ेक्षा प्रकृतस्य समेन यत्' इत्युपमानोपमेयस्य तादात्म्यसम्भावन- मुत्प्रेक्षालक्षणमभिधाय 'उन्मेषं यो मम न सहत' इति तत्रोदाहरणं कृतम्। ततश्र स्वकृतलक्षणानुरोधेन स्वाभाविकी पादशोभैव स्ववैरिजय- प्रभवहर्षलप्नपझ्मलक्ष्मीत्वेनोत्मरेक्ष्यत इत्यभिमतमिति स्फुटमेव। तथा 'पिनष्टीव तरङ्गाग्रैः' इत्यादिधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि प्रेरणादिरेव पेषणादिरूपत्वेनोत्प्रेक्ष्यतें। न च प्रेरणादेर्विषयस्थानुपादानं दोषः । अतिशयोक्ताविव तदुपपत्तेः । उत्प्रेक्षाया अध्यवसायगर्भतया तत्र विषयनिगरणस्योचितत्वाच्च। न च प्रेरणादेर्विषयत्वेन निमित्तत्वा- १. 'परेण' ख.

Page 98

चित्रमीमांसा। ९५

भावे निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम्। प्रेरणस्य, पेषणरूपतयो- त्प्रेक्षायां प्रान्तगतफेनचन्दनपुञ्जीभवनं निमित्तम्। करव्यापनस्य दिग- डनालेपनत्वेनोत्प्रेक्षायां तद्धवलीकरणं निमित्तमिति निमित्तान्तरस्य जाग- रूकत्वात्। 'लिम्पतीव तमोSद्गानि वर्षतीवाञ्जनं नभः' इत्यादौ व्यापनादिलेप- नादिरूपतया सम्भावितमिति वदता काव्यप्रकाशिकाकारेणापि धर्म- स्वरूपोत्पेक्षोदाहरणेषु तादातम्योत्प्रेक्षणपक्ष एवाश्रितः । एवं 'चुम्बतीव रजनीमुखं शशी'त्यादावपि रजन्या वदनत्वेनाध्यव- सितं यदारम्भार्यं मुखं तस्य शशिनश्च संबन्धश्रुम्बनत्वेनोत्पेक्ष्यते। 'वृत्तानुपूर्वे च' इत्यत्रायत्नपूर्वके शेषाङ्गनिर्माणे यत्नपूर्वकत्वतादात्म्यो-

अन्यधर्मोऽनुगामितयव न विवक्षितः, किं तूपमायां साधारणधर्म इंव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैविवक्षितः । तथा च यथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तबकावनम्रा. संचारिणी पल्लविता लतेव ।।' इत्यत्र बिम्बप्रतिबिम्बभावकृताभेदाध्यवसायेन। 'तारुण्यकुञ्जरारूढां विलासकमलाकुलाम्। मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ।।' इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृत- साधारण्यादन्यधर्मसंबन्धः । तथा-'अङ्गुलीभिरिव' इत्यत्रान्वयभेद- कृताभेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसंबन्धः

१ 'पलविनी' ख.

Page 99

९६ काव्यमाला।

सुसंपाद इति न तत्राव्याप्तिः । नापि 'भूयस्तराणि' इत्यत्राव्याप्तिः। तत्रो- पात्तधर्माक्षिप्तधर्मान्तरसंबन्धस्य निमित्तत्वात्। तत्र हि चन्द्ररूपविषय-

गतेन तत्तद्रात्रिषु विरलत्वाविरलत्वरूपेणोपात्तधर्मेण निमितेन धर्मस्य चन्द्रगतस्य तद्विरलत्वाविरलत्वानुविधायिवृद्धिह्ासशालित्वस्याक्षेपः। अयं चापरोऽपि विशेषः। अन्यधर्मसंबन्धादित्यन्यपदार्थो धर्म्युत्प्रे- क्षासु विषययेव, धर्मोत्प्रेक्षासु तु विषयिणो धर्मस्याश्रयः। एवं स्थिते यत्रानुपात्तो निमित्तभूतो धर्मस्तन्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विष- यस्य च संबन्धितया संभावनापदवीमारोहति तथाभूतोऽन्वेष्यः। तत्र 'वर्षतीवाञ्जनं नभः' इत्यत्र नभोगतत्वेन वर्षणक्कियोत्प्रेक्षापक्षे नभसो

पने नभःकर्तृकाञ्जनवर्षणक्कियात्वोत्प्रेक्षेति पक्षे तु सकलवस्तुसान्द्रमलि- नीकरणादि। एवं 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादि गम्यं निमित्तमूहनीयम्। यत्र तु निमित्ततया धर्मस्योपादाने सत्यपि तत्संबन्धो विषयस्यान्यपदार्थस्य वाञ्जसा न प्रतीयते, तत्र क्वचिन्निमित्तभूतधर्माद- न्यस्य कस्यचिद्धर्मस्य तत्ताद्रूप्यसंपादनेन तत्संबन्धः समर्थनीयः । क्कचि- द्विषयस्य चान्यपदार्थस्य वा तद्धर्माश्रयताद्रूप्यसंपादनेन, क्वचिन्मिलितेन तेनोभयेन, क्चिदुपात्तधर्मकृतधर्मान्तराक्षेपेण। तत्र धर्मान्तरस्य निमि- चताद्रूप्यसंपादनमुपमायां धर्मस्य संपादनमिव बिम्बप्रतिबिम्बभावादिभिः प्रकारैस्ते प्रदर्शिताः । एवं विषयस्यान्यपदार्थस्य वा धर्माश्रयात्ताद्रूप्यसंपादनं क्रेषादि- भङ्गया। तत्र विषयस्य श्रेषेण धर्माश्रयताद्रप्यसंपादनं यथा-

१. 'गाढनीलिम' ख.

Page 100

चित्रमीमांसा। ९७

"अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली। नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ।।' अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव तत्कुचपरिशीलनादि निमित्तं न तद्विषयगतं किं तु तटादिगतम्। तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः। अपहुत्या यथा- 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः । दग्धां दग्धामरण्यानीं पश्यतीव विभावसुः ।।'

समारोहणं निमित्तम्। तदपि न विषयगतं किं तु किंशुकपुष्पगतम्। तत्रापि यद्यपि मुख्यं समारोहणं नास्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम्, ततश्र तत्रापहुत्या विषयस्य किंशुकपुष्पता- द्रूप्यसंपादनेन धर्मसंबन्धनिर्वाहः।

१. नैषधे सप्तमे सगें दमयन्तीवर्णनमिदम्, तत्र 'अस्यामिति। अहं अस्यां व्यासादिमुनीनामपि मोहं ऊहे तर्कयामि। मुनयोऽप्येतामाश्रित्य तिष्ठन्तीति। अथ च जितेन्द्रियाणामप्यस्यां विषये मोहं मदनविकारं तर्कयामि। तेऽप्यनया मोहिता इत्यर्थः। यस्माव महान् अतितापसो भृगु: कुचशलशीली कुचपर्वतसेवी। मुनीनां पर्वताश्रयत्वात् पर्वतबुच्धा स्तनावाश्रयति। अथ च कामपीडितत्वादत्युच्चावेतत्कुचौ मर्दयितुमिच्छति। अथ च भृगुरतटः पर्वताश्रयेण वर्तते। कुचयोः पार्श्भागोऽतटतुल्य इत्यर्थः । शीलमेव शैलं कुचयोः शैलं स्वभावं शीलयति अभ्यस्यति, परमद्यापि कुचस्वभावो नायातीत्यर्थः । सुखं नारदमाह्लादयतीति नारदाहादि, न नारदाह्लादि अनारदाह्लादि, एवंविध न भवति, किं तु नारदाहाघेव। गानकलाभ्यासार्थ नारदो मुखसेवां करोतीत्यर्थः। मदनपीडि- तत्वादुन्मुखं चुम्बनाभिलाषिणं नारदमानन्दयतीत्यर्थः । मुखं नानाविधैरद्वात्रिशत्संख्याकै. रदैर्दन्तैरानन्दयत्यतिसुन्दरमित्यर्थः । महाभारतस्य सगें निर्माणे योग्यः समथों व्यासः श्रितावूरू येनैवंविधः । कदलीस्तम्भच्छायाबुच्या एतदूरू आश्रित्य तिष्ठति। अथ च कामपीडितत्वादेतदूरू समालिङ्गय वर्वत इत्यर्थः । महती भा दीप्तिर्यस्य। रतं सुरतं तस्य सर्गो निर्माणं तत्र योग्यस्ततः कर्मधारय इति वा । एवंविधो व्यासो विस्तारः श्रितावूरू येन । अतिविशालावूरू इति भाव: ॥' इति टीका. ७ चि० मी०

Page 101

९८ काव्यमाला।

अन्यपदार्थस्य क्लेषेण धर्माश्रयताद्रूप्यसंपादनं यथा- 'अस्या दोहदशालिन्या मुखमापाण्डुरप्रभम् । सत्यं राजेति मन्येडद्य यद्भुवं भोक्तुमिच्छति ।।' अत्र सुखस्य चन्द्रत्वोत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम्, तद्वि षयगतमपि नान्यपदार्थभूतचन्द्रगतम्। अतस्तत्र राजशब्द क्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसंपादनेन धर्मस्य तदीयतानिर्वाहः। धर्मान्तरस्य निमित्तधर्मताद्रप्यसंपादनं विषयस्य तद्धर्माश्रयताद्रप्य- संपादनं चेत्युभयमेलनं यथा- 'आकृष्टिवेगविवलद्द्भु जगेन्द्रभोग- निर्मोकपट्टपरिवेष्टनयाम्बुराशेः । मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमचेष्टत पादमूले।।'

यन्निमित्तं चरणमूले वेष्टनं तत्तादात्म्यसंपाद नं पर्यन्तवेष्टनस्य श्लेषेण विषयस्य यच्ताद्रूप्यसंपादनमपहुत्या वेति मिलितेनोभयेन विषयस्यान्यधर्मसंबन्ध- निर्वाहः। उपात्तधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव। तस्मादन्यधर्मसंब- न्धादित्येतदपि सर्वोत्प्रेक्षानुगतमिति न क्वाप्यव्याप्तमिति सर्व समञ्जसम्। अलंकारसर्वस्वकृतेत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेति तावदुत्पेक्षा द्विविधा। इवादिप्रयोगे वाच्या, तदप्रयोगे प्रतीय- माना। तत्र वाच्या जातिगुणक्रि्ियाद्रव्याणामप्रकृतानामध्यवसेयत्वेन चतुर्विधा। तेषां च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्ट- विघा। तेषु निमित्तगुणक्रियारूपत्वेन षोडशमेदाः। निमित्तस्य पुनरु- १. राजा चन्द्रो नृपश्र. २. सुवं गार्मिण्यभिलषिता मृदं पृथिवीं च.

Page 102

चित्रमीमांसा। : .९९

पादानानुपादानाभ्यां द्वात्रिशत्प्रकाराः। तेषु पुनः प्रत्येकं स्वरूपहेतुफ- लोत्प्रेक्षारूपत्वेन षण्णवतिर्भेदाः। तत्र द्रव्यस्य स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षास्ततोऽपि विपातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोत्प्रेक्षयोर्निमित्तस्यानुपादानं न संभवति ततश्रतु- रविशतिर्भेदा न्यूनाः। तथा च स्वरूपोत्प्रेक्षावैकल्येन द्वान्रिशद्धेदा, हेतु- फलोत्प्रेक्षे प्रत्येकं द्वादशभेदे, इति पञ्चपश्चाशद्गेदा वाच्योत्प्रेक्षा। प्रती- यमानोत्प्रेक्षायामप्येवमेव गणना। तत्र स्वरूपोत्प्रेक्षायामपि निमित्तानु- पादानं न संभवतीति भेदः । ततश्र तत्र स्वरूपोत्प्रेक्षा षोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववद्दादशभेदे इति चंत्वारिंशद्वेदा गम्योत्प्रेक्षा। एव- मेव मिलित्वा षण्णवतिभेदोत्प्रेक्षेति। विद्यानाथेन पुनर्द्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्यानुपाचनिमित्तेषु गम्यस्य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादृत्यान्यथा विभागो दर्शितः। वाच्यायां स्वरूपोत्प्रेक्षा चतुर्विशतिभेदा, अनुपात्निमित्तायां गुणक्रियारूपभेदग- णनाभावेन भेदाष्टकह्ासात्। हेतुफलोत्प्रेक्षे प्रत्येकं षोडशविधे। द्रव्यो- त्प्रेक्षागोचराणां भावाभावाभिमानेन गुणक्रियानिमित्तत्वेन चंतुर्णां भेदा- नामाधिक्यात्। एवं षट्पञ्चाशद्भेदा वाच्योत्परेक्षा। प्रतीयमानायां पुनः स्वरूपोत्प्रेक्षापि षोडशप्रकारा। तत्र निमित्तांनुपादानासंभवेन तन्निबन्ध- नभेदाष्टकह्ासात्। ततश्राष्टचत्वारिंशद्धेदा प्रतीयमानोत्प्रेक्षा। एवं मिलित्वा चतुरुत्तरशतभेदोत्प्रेक्षेति। अथोदाहरणानि दिष्मात्रेण प्रदर्श्यन्ते। उपात्तगुणनिमित्तजातिभा- वस्वरूपोत्प्रेक्षा यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यो मूर्ध्टि ज्वलनकपिशे भाति निहितः।

Page 103

१०० काव्यमाला।

स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपांलेनोन्मुक्त: स्फटिकधवलेनाङ्कर इव ।।' अत्राङ्करशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते। उपात्तः कौटिल्य- गुणो निमित्तम्। एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोत्प्रेक्षोदाह- र्तव्या। उपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'निवेशितं यावकरागदीतये लसं तदीयाधरसीम्नि सिक्यकम्। रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मिणि ॥' अत्रौत्सुक्यं गुण उत्प्रेक्ष्यते। उपात्ता लगनक्रिया निमित्तम्। एव- मुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तगुणनिमि- त्तक्रियाभावस्वरूपोत्प्रेक्षा यथा- 'अथ सांध्यसान्द्रकिरणारुणितं हरिहेतिदूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिगलद्धृदयस्तुतासृगनुलिप्तमिव ।।' अन्र रुधिरानुलेपनक्रियोत्पेक्ष्यते। उपात्त आरुण्यगुणो निमित्तम्। एवमुपात्तक्रियानिमित्तापि क्रियाभावस्वरूपोत्प्रेक्षोदाहर्तव्या। उपात्तक्रि- यानिमित्तद्रव्यभावस्वरूपोत्प्रेक्षा यथा- 'एकैकमुद्गतगुणं च्युतदूषणं च हित्वान्यमन्यमुपगम्य परित्यजन्ती। एतां जगाद जगदर्चितपादपझ्मा पझ्मामिवाच्युतभुजान्तरविच्युतां सा ।।' अत्र पद्माया एकतया द्रव्यत्वाद्रव्यमुत्परेक्ष्यते। उपात्ता उपगम्यपरि- त्यजनक्रिया निमित्तम्। एवमुपात्तगुणनिमित्तद्रव्यभावस्वरूपोत्प्रेक्षोदाह-

Page 104

चित्रमीमांसा। १०१

र्तव्या। एवं भावाभिमानेषु जात्यादिपूपात्तनिमित्ता अष्टौ भेदा: संपन्नाः। अनुपात्तनिमित्तजातभावस्वरूपोत्पेक्षा यथा- 'वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुक्षितेषु। बोलेषु ताराकवकेष्विवैकं विकस्वरीभूतमवैमि चन्द्रम् ।।' अत्र केवकजातिरुत्प्रेक्ष्यते। अनुपात्तो धावल्यवर्तुलत्वादिर्गुणो नि- मित्तम्। अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा- 'अयमाभाति राजेन्द्रो विजिताखिलशात्रवः । अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ।।' अत्र प्रसादो गुण उत्प्रेक्ष्यते। अनुपात्तो बहुप्रदत्वसुखनिषेव्यत्वादि- र्निमित्तक्रियाभावोत्प्रेक्षा यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।।' अत्र क्रियोत्प्रेक्ष्यते। अनुपातं व्यापनादि निमित्तम् । अनुपात्त- निमित्तद्रव्यभावोत्प्रेक्षा यथा- 'देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा । अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ।।' अत्रार्धान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्पेक्ष्यते । प्रतिबिम्बव्यत्यस्त- भागस्त्रीपुरुषाकार शालित्वमनुपातं निमित्तम्। अर्धनारीश्वरान्तरोत्प्रेक्षा- यामपि वस्तुतोऽर्धनारीश्वरस्यैकत्वाद्व्योत्प्रेक्षात्वमविरुद्धम्। यथा वा- 'विललास जलाशयोदरे कचन दयौरनुबिम्बितेव या। परिखा कपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ।।' अत्र देवपुरीद्रव्यमुत्प्रेक्ष्यत्ने। सौभाग्यातिशयः कुण्डिनपुरीगतोऽनु- १. 'नैकेषु ताराकलिकेषु' क. २. 'कलिकांत्वजातिः' क.

Page 105

१०२ काव्यमाला।

पात्तो निमित्तम्। एवं चतुर्विधानुपात्तनिमित्तोदाहता। अस्यां निमित्तस्य गुणक्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम्। एवं जात्यादयुत्प्रेक्षा भावाभिमानवत्यः षोडश संपन्नाः । अथ वा विद्यानाथोक्तप्रकारेणानुपात्तनिमित्तगुणक्रियाभेदो न चिन्त- नीयः । अनुपाचे निमित्ते तव्यवस्थाया असंभवात्। यथा-'विललास जलाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वत्तुं शक्यम्। निरतिशयसौभाग्यभागित्वं क्रियानिमित्तमित्यपि। अतो द्वाद- शैव भेदाः । अथाभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः। उपात्तगुण निमित्तजाति गुणक्रियाणामभावोत्प्रेक्षा यथा-

अनञ्जनोल्लेखमिवाक्षियुग्मं स्वाभाविकैरेव गुणैरुदीक्षे।।' अत्र कुङ्कगमरजोयावकरागाञ्जनोल्लेखनरूपाणां जातिगुण क्रियाणाम- भावा उत्प्रेक्ष्यन्ते। उपात्ताः साभाविकगौरारुणनीलवर्णा निमित्तम्। एतासु क्रियानिमित्तमप्युदाहार्यम्। उपात्तक्रियानिमित्तद्रव्याभावोत्प्रेक्षा यथा- 'भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम्। अचन्द्रामिव पश्यामि दिवं शोभाविवर्जनात् ।।' अत्र चन्द्रस्य द्रव्यस्याभाव उत्प्रेक्ष्यते। उपात्ता वर्जनक्रिया निमि- तम्। एवसुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षोदाहार्या। एतावेव श्रोकौ 'इदं विशालांक्षि विभावयामि' 'पद्वीममृतान्घसाम्' इति चतुर्थपादयोः

स्वरूपोत्प्रेक्षा: पूर्वोक्तरीत्या षोडश द्वादश वेति द्वान्रिंशचतुर्विशतिर्वा स्वरूपोत्प्रेक्षाभेदाः प्रदर्शितपायाः ।

Page 106

चित्रमीमांसा। १०३

एतासु विषयिणः क्वचित्तादात्म्येनाध्यवसायः । यथा-'स वः पायादिन्दुः' इत्यत्र । क्कचित्तु संसर्गितया यथा-'निवेशितं यावकराग- दीप्ये' इत्यत्रौत्सुक्यस्येत्ययमपि भेदो बोद्धव्यः । अथ हेतूत्प्रेक्षा। उपात्तगुणनिमित्ता जातिहेतूत्प्रेक्षा यथा- 'तनुरेणशावकद्दशस्तनीयसी शनकैरवाप शरकाण्डपाण्ड्ुताम्। उदरान्तरस्थितिमुपेयुषो हरे: करपाञ्चजन्यकिरणैरिवोदतैः ॥' अत्र किरणजातिः पाण्डिमानं प्रति हेतुत्वेनोत्प्रेक्ष्यते। स एव पाण्डिमा निमित्तम्। एवं क्रियानिमित्तापि जातिहेतूतपेक्षोहनीया। क्रियानिमित्ता गुणहेतूत्पेक्षा यथा- 'वेहतो बहुशैवलक्षतां धृतरुद्राक्षमधुव्रतं खगः। स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ॥' अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्पेक्ष्यते। सैव प्राप्तिक्रिया निमित्तम्। उत्तरत्रापि हेतूत्परेक्षायां सर्वत्र फलमेव निमि- त्तम्। एवं गुणनिमित्तापि गुणहेतूलेक्षा द्रष्टव्या। गुणनिमित्ता क्रिया- हेतूत्प्रेक्षा यथा- 'विवस्वता नायिषतेव मिश्राः स्वगोसहस्त्रेण समं जनानाम्। गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ।' अत्रान्ध्यगुणं प्रति नयनक्रिया हेतुत्वेनोतपेक्ष्यते। एवं क्रियानिमि- त्तापि क्रियाहेतूत्पेक्षोदाहार्या। क्रियानिमित्ता द्रव्यहेतूत्प्ेक्षा यथा- 'हृदयं परिपूतमेव नित्यं विदुषस्तस्य विशुद्धकर्मभाजः । विपदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरङ्िपद्मात् ॥।' अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते। एवं गुणनिमि- त्तापि हेतूत्प्रेक्षोदाहार्या। इत्थं भावाभिमानवत्यो हेतूत्पेक्षा उदाहताः । १. 'दधतो' क.

Page 107

१०४ काव्यमाला।

अथाभावाभिमानवत्यः । 'रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । भूमौ प्रतापयशसी सृष्टवान्सततोत्थिते ।।' 'तस्मिन्नस्तंगते भानौ विधुस्तस्य पदे कियान्। इत्यनादरतो नूनं मीलत्यम्बुरुहाकर: ।' 'वीणावादनसंरम्भाच्चकम्पे दक्षिणः सनः । अदृष्ट्रेवेतरं तंस्यास्तम्भाभोगतिरोहितम् ।।' अत्राद्यश्लोके रविचन्द्रयोर्जातिद्रव्ययोरभावौ हेतुत्वेनोत्प्रेक्ष्येते। द्वि- तीयतृतीय क्रोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ। सृष्टिमीलनकम्पक्रि- यास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूतपेक्षा उदाहार्याः । एवं षोडशभेदा हेतूत्प्रेक्षा दर्शिता। अथ फलोत्प्रेक्षा :- 'सौधेषु यत्र मुखभासु मृगेक्षणानां ज्योत्सापहासचतुरासु विसृत्वरीषु। चन्द्रस्तदर्थमिव रात्रिषु बंग्रमीति कुर्वन्कर प्रसरणान्यधिजालवर्गम् ।।' 'तव निर्वर्ण्य यद्वर्ण स्वर्ण वर्णाय तादृशे। त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ।।' 'रैथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम्। उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।।'

१. 'सततोदिते' ख. २. 'तस्यास्तुम्ब्याभोग' ख. ३. बिह्वणकृतविक्रमाङ्गदेव- चरिते महाकाव्ये पद्यमेतत्.

Page 108

चित्रमीमांसा। १०५

'दुग्धार्णवसहस्राय कैलासाचलकोटये। नूनं प्रतापरुद्रेण यशो दिश्षु प्रसारितम् ।।' एषु क्रोकेषु क्रमेण मुखप्रभागौरवर्णपरिवर्तनदुग्धार्णवकैलासरूपाणि जातिगुणक्रियाद्रव्याणि फलत्वेनोत्पेक्ष्यन्ते। भ्रमणतीर्थवासप्रस्थानप्रसा- रणक्रिया निमित्तानि। एवं गुणनिमित्ता अप्युदाहार्याः । अभावाभिमानवत्यः फलोत्प्रेक्षा यथा- 'त्वदाननेन सादृश्यं प्रासुकामो निशाकरः ।' कलङ्खपङ्काभावाय नूनं मज्जति सागरे ॥' 'अरण्यवासाज्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः । कलिन्ददेशेश्वरवैरिनार्यः पराडुखा लोचनविभ्रमेषु ॥' 'हेमाद्रिकुञ्जेषु विहारभाजः स्त्िग्धाङ्गनाकल्पितचन्द्रकार्थान्। श्रीवीररुद्रस्य यशोविलासान्गायन्त्यसंस्प्रष्टुमिवान्धकारम् ।।' 'वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम्। रजःपिहितदिग्गोलं निराकाशमिवोत्थितम् ।।' एषु श्रोकेषु पङ्कवैरस्पर्शनाकाशानामभावाः फलत्वेनोतपेक्ष्यन्ते। तेषु परा्मुखत्वमेको गुणः । अन्या: क्रियाः । इत्थं गुणक्रियानिमित्तमेदा उदाहार्याः। एवं फलोत्प्रेक्षाः षोडश दर्शिताः । इति वाच्योत्प्रेक्षावर्गः। अथ गम्योत्प्रेक्षा दिब्मात्रेणोदाहियते- 'नभसि महसां ध्वान्तध्वाङ्कप्रमापणपत्रिणा- मिह विहरणैः श्येनंपातां रवेरवलोकयन्। शशविशसनत्रासादाशामगाच्चरमां शशी तद्धिगमनात्तारापारावतैरुदडीयत।।' अत्र सूर्येण विसृष्टानां ध्वान्तकाकपमापणश्येनरूपाणां किरणानां

Page 109

१०६ काव्यमाला।

विहरणेन निमित्तेन सूर्यस्य श्येनपातवती मृगया विहारक्रियोत्परेक्ष्यत इति क्रियास्वरूपोत्प्रेक्षा तावदेका। तस्माच्छशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूत्प्रेक्षान्या। ततस्तदधिगमस्तारापारावतानां मुग्धत्वेनाध्यवसितः तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यंत इत्यपरा च हेतूत्प्रेक्षा। सर्वाश्चैता गम्याः। इवाद्यभावात्। एवमन्या अपि स्वय- मेव बोध्याः। नूनमादिशब्दविरहेण पूर्वोक्तप्रकाराणामुन्नेतुं शक्यत्वात्। प्रागुदाहृतानामेव श्रोकानां नूनमादिशब्दाविधानेन गम्योत्प्रेक्षोदाहरण- त्वसंभवाच्च गम्योत्प्रेक्षाः पृथक्साकल्येन नोदाहताः । इदं तु चिन्त्यते। गम्योत्प्रेक्षासु जातिद्रव्यस्वरूपोत्प्रेक्षे संभवतो नवेति। संभवत इति पक्षे- 'रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निराश्रयाः खलु। अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ।।' 'परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः । फणिभाषितभाप्यफक्किका विषमा कुण्डलनामवापिता ।।' इत्यादिनोदाहरणेन भाव्यम् । अभिमतं च तथा केषांचित्। अलं- कारसर्वस्वकारस्य तु न संभवत इति पक्षः । एतदभिप्रायेणैव तेनोक्तं गम्योत्प्रेक्षाविभागे. 'प्रायश्रात्र स्वरूपोत्प्रेक्षा न संभवति' इति। कस्त- र्ह्यनयोस्तस्य। पक्षेडलंकारः रूपकमेव। अत एव- 'पीयूषप्रसृतिर्न वा मखभुजां दात्रं तमोलूतये स्र्गङ्गाविमनस्ककोकवदनस्रस्ता मृडालीलता। द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरी सागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ॥' १. 'निरालयाः' ख.

Page 110

चित्रमीमांसा। १०७

इत्यत्र मालारूपकमुदाहरता 'स्वर्गङ्गा विमनस्का' इत्यादिष्वपि रूपक- मेवोररीकृतम् । तस्माज्जातिद्रव्योत्प्रेक्षे परिहृत्यैव गम्योत्प्रेक्षावर्गः परि- गणनीयः । इदं चान्यद्वोद्धव्यम्। धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो धर्मोत्पेक्षासु विषयाश्रयविषयानुगतो धर्मश्र निमित्तम्। तेन 'उवाह या तनुलता' इत्यादौ वैमल्यं निमिच्तमित्यादिपक्षो न युक्तः। तस्य तादात्म्यसंभावनोपयुक्तप्रतिबिम्बघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात्। 'यत्रान्यघर्मसंबन्धात्' इत्यादिलक्षणं वदद्धिः सर्वैरपि विषयधर्मस्यैव निमित्तत्वस्य व्यवहृतत्वादित्यलमतिविस्तरेण। अत्र ब्रूम :- 'विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा। यादर्शि नैव शोभा तयोपमायामिवोपमेयस्य । तदभावेऽलंकाराः संभवमात्रेण न विभागम्। अर्हन्तीतरथास्या विषयोऽप्येवं विभक्तव्यः ॥ धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः। उपमायामिव सोऽपि न्यूनस्तदभावयोरसंकलनात् ।। मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः । ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि॥ वतंसनीलाम्बुरुहेण किं दशा विलोकमाने विमनीबभूवतुः। अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीद्ृशाम्।। इत्यादिषु पश्यामो गुणक्ियाभावयोरपि व्यक्तम्। उजजवलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ।।' अत्र ह्यादे उदाहरणे नयनयोर्हृदयगतप्रियवीक्षणायान्तःप्रविष्टत्वो-

Page 111

१०८ काव्यमाला।

त्प्रेक्षणायां बाह्यवस्तुग्रहणशक्त्यभावो निमित्तम्। द्वितीये श्रोत्रेन्द्रिय- गतविलोकनैकाग्रत्वोत्प्रेक्षायां श्रवणक्रियाभावो निमित्तम्। एवम्- 'वीरासनैर्ध्यानयुषामृषीणाममी समध्यासितवेदिमध्याः। निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ।।' इत्यादीन्यभावनिमित्तत्वे भूयांस्युदाहरणानि। 'अपि च समुच्चयभेदः परिगणनीयो निमित्तेषु। भावौ भावाभावौ समुच्चितावपि निमित्ततां भजतः ।।' 'अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्वपलाः पुलाकाः । उड्डीय युक्तं पतिता: स्रवन्तीवेशन्तपूरं परितः प्रवन्ते॥' 'उडपरिषद: किं नार्हन्ती निशः किमनौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचां गणः । स्फुटमुड्डपतेराश्मं वक्ष: स्फुरन्मलिनात्मन- इछविमदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ।।' 'एवमादिषु बह्वीषु निह्वोतुं केन शक्यते। समुच्चितनिमित्तत्वमुत्पेक्षासु निरीक्षितम्।।' आद्ये उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्परेक्षायां धावल्यगुणो जलोपरि पवनक्रिया चेत्युभयं निमित्तम्। द्वितीये उड्डपतिवक्षसोऽइम- विकारत्वोत्प्रेक्षायामश्मच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमि- त्तम्। किं च- 'उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि। तेनापि विकलां विन्नो निमित्तगणनामिमाम् ।।2

· १. वेशन्तम्पसर:, तत्पूरयित्वेति णमुल्.

Page 112

चित्रमीमांसा। १०९

'द्रोण: स तत्र वितरिष्यति भाग्यलभ्य- सौभाग्यकार्मणमयीमुपदां गिरिस्ते। तह्दीपदीप इव दीप्तिभिरोषधीनां चूडामिलज्जलद्कज्जलदर्शनीयः॥' अत्र द्रोणाचलस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीपस्योपरि स्थितं जलदकज्जलं च निमित्तमिति जातेर्निमित्तत्वं दृष्टम्। 'निशासु मूर्धनि स्फुरता यत्सौधो राजतीन्दुना। श्रीकण्ठो भक्तरक्षार्थ संनिधानं भजन्निव ।I' इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुर्निमित्तम्। एवम्-'भास्वतालंकारेण, श्वेतरोचिषा स्मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा नितम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लोचनोत्पलेन, त्रिभुवनविजयकेतुना रूपेण, ग्रह्मयीवे'त्यन्न वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्रेषेण तत्तदहरूपापन्नालंकारा- दयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दष्टम्। न चोदाहृतेषु दीघ्यादिसंबन्धो निमित्तं स च सर्वो गुण एवेति वाच्यम्। तथा सति 'ईदृक्षां क्षामतां गतौ' इत्यादावपि गमनादिक्कियासंबन्ध एव निमित्तमिति क्रियाया एव निमित्तत्वप्रसक्गात्। न च तथापि 'भास्वता- लंकारेण' इत्यादौ श्रेषेण सूर्यरूपताद्यापन्ना अलंकारादयो निमित्तं न त्वविशिष्टा जातिर्द्रव्यं वेति वाच्यम्। तथासति 'कपालेनोन्मुक्त: स्फटि- कधवलेनाङ्कर इव' इत्यादावपि कपालोन्मुक्ताङ्करत्वादिविशिष्टमेवोत्प्रेक्ष- णीयं न त्वविशिष्टं जात्यादिकमिति विषयिणोऽपि जात्यादिरूपेण विभा- गस्यासामन्जस्यप्रसङ्गात्। तस्माद्विषयिण इव निमित्तस्यापि जात्यादिरू- १. 'वृक्षदीप्य उपरि' क-ख. २. 'गुणानां समुच्चितत्वं दृष्टम्' ग.

Page 113

११० काव्यमाला।

पेण चतुर्विधतया पुनः प्रत्येकं भावाभावाभ्यामष्टविधतया च विभागः कर्तव्य इति न्यून इवायं विभाग:। किं च यद्धेतूत्प्रेक्षायामनुपादानं निमित्तस्य क्वापि न संभव इति प्रतिश्रुतं तदपि नो चारु। 'मझा सुधायां किमु तन्मुखेन्दोर्लया स्थिता तत्कुचयोः किमन्तः । चिरेण तन्मध्यममुञ्चतास्य दृष्टिः क्रशीयः स्खलनाद्गिया नु ॥' 'इह हेतावुत्परेक्ष्ये मज्जनलगने निमित्तमनुपात्तम्। तत्कार्य दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ।।' स्यादेतत्। इह मज्जनलगनोत्प्रेक्षयोश्विरेण मुखकुचत्यागावनुपात्तौ निमित्ते, तयोश्च न मज्जनलगने हेतुत्वयोग्ये इति। सत्यम्। तथापि हेतूत्पेक्षैव। न हि हेतूभवनक्षमस्योत्प्रेक्षैव हेतूत्प्रेक्षा, किं तु हेतुत्वेनो- त्पेक्षा। यथा-'सैषा स्थली यत्र विचिन्वता त्वाम्' इत्यत्र। अत्र हि पश्चमी हेतुत्वप्रतिपादिका। तथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ।।' इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्व प्रतिपादकः । 'मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः ।

इत्यत्र हृदयस्य मदनतापेन स्फुटितत्वोत्पतनाभावे कुचद्वययब्रणाया हेतुत्वोत्प्रेक्षायामुत्पतनप्रतिबन्धकत्वपरः प्रतिबन्नतीशब्दः फलतोऽनुत्प- तनहेतुत्वप्रतिपादकः। एतादृशेषु च फलस्य निमित्तस्योपादानं नियत- मेव। अन्यथा पञ्चम्यादीनामन्वयसंघटनाभावात्। यत्र हेतुत्वप्रतिपा- दक: शब्दो नास्ति तत्र हेतुभवनक्षमस्यापि स्वरूपोत्प्रेक्षैव।

Page 114

-- चित्रमीमांसा। १११

अत एवालंकारसर्वस्वकृता- 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम्। चकम्पे लोक्यमानार्थभयविह्वलितेव भू: ॥' इत्यत्र. विह्वलितत्वस्योत्प्रेक्ष्यस्य हेतुत्वप्रतिपादकशब्दरहितस्य कम्पं प्रति हेतुभवनक्षमत्वेऽपि स्वरूपोत्प्रेक्षोदाहृतेति चेत्। मैवम्। एवं हि- 'स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्।

इत्यत्र हेतूत्प्रेक्षा लक्ष्या न स्यात्। स्मरणगतहेतुत्वप्रतिपादकशब्दा- भावात्। न चेष्टापत्तिः । 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्तौ रयते न दीयते।।' इत्युक्त्यनन्तरं प्रवृत्तस्यास्य श्रोकस्य, अथ वा मत्पूर्वकृतापराधस्मरणे- नैव दर्शनं न दीयते किमिति हेतूत्पेक्षापरत्व एव सामञ्जस्यात्। यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूतमेक्षा भवेत् तर्हींहापि तृतीयोत्प्रेक्षासमभिव्याहारात्तस्यां चिरेण मध्यत्यजने शब्दो- पात्ते स्खलनभयस्यैवाद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुच- त्यजने मज्जनस्य लगनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम्। यत्रापि हि फले फलत्वप्रतिपादकशब्दस्तत्राप्यौचित्येन फलोत्प्रेक्षामवधीर्य हेतूत्प्रेक्षा- ब्रीकार्या दृश्यते। यथा- 'हृत्तस्य यन्मब्रयते रहस्त्वां तद्यक्तमामन्रयते मुखं यत्। तद्वैरिपुष्पायुधमित्रचन्द्रसर्यौचिती सा खलु तन्मुखस्य ।।' १. 'वा' क. २. 'इत्युक्त्वानन्तरम्' क.,

Page 115

११२ काव्यमाला।

अत्र हि हृदयकृतरहस्यमत्रणोद्वेदनप्रत्यवमर्शकेन तच्छब्देन सख्यौ- चितीशब्दस्य कर्मार्थकष्यञन्तस्य सामानाधिकरण्याच्छब्दतो रहस्यो- द्वेदनस्य मुखगतहृदयवैरिमन्मथसुहच्चन्द्रसख्यकार्यत्वं प्रतीयते। तथापि तत्र सर्यस्य रहस्योद्ेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु हरस्योद्वेदनस्य सख्यफलत्वेन। रहस्योद्वेदनं फलमुद्दिश्य सर्यं कृतमित्युत्प्रेक्षाया असा- मञ्जस्यात्। हेतुत्वमात्रेण हेतूत्पेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलोत्प्रेक्षाया अनिर्वाहात्। एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्वचिदौचित्येन हेतूत्प्रेक्षामवधीर्य फलोत्प्रेक्षाङ्गीकार्या दश्यते। यथा- 'स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः। स्रजं सृजन्त्या तदशोभि तेषु यत्रैकया सूचिशिखां निखाय॥' अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकक्त्वाप्रत्ययसद्भावेऽपि न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किं तु वैरशोधनार्थं निखननमिति वैरशोधनमेव फलत्वेनोत्प्रेक्ष्यम्। सिद्धासिद्धयोरपि सिद्धस्योत्प्रेक्षणीय- त्वाद्। इह तदुद्देशोत्प्ेक्षणसंभवाच्च। यथा वा- 'अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ।।' अत्र हस्तलेखीकृतया सरोजसृक्षेति करणविभक्तिसद्भावेऽपि न सां. विधातृकर्तकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्परेक्ष्यते, किं तु तत्प्रकाशनार्थ सरोजसृष्टिर्हस्तलेखकरणमिति तत्प्रकाशनमेव फलत्वेनो- त्पेक्ष्यम्। किं बहुना यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौचि- त्येन क्वचिदङ्गीकार्य दृश्यते। यथा- 'स्तनावालोक्य तन्वङ्मयाः शिरः कम्पयते युवा। तयोरन्तरनिर्ममां दृष्टिमुत्पाटयन्निव ।।' १. हस्तलेखो नाम रुच्चिरवर्णलेखसिध्धै पूर्वमभ्यासदार्ढ्याय तदभ्यसनम्.

Page 116

चित्रमीमांसा। १११३

अत्र शतुर्हेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथंचिद्धेतुत्वमित्युप- पाद्य फलोत्प्रेक्षाङ्गीकरणीया। एवं च फलत्वादिप्रतिपादनमप्यनादृत्य हेतूतप्रेक्षादिकमौचित्येनाङ्गीकार्य तदा किमु वक्तव्यं विरोधिशब्दाभावे औचित्यानुशरणं कार्यमिति। एवमनया दिशान्यत्रापि निमित्तानुपादानं संभवदूहनीयम् । अपि च- 'यथोपात्तनिमित्तमनुपात्तनिमित्तता। प्रत्येकं वर्तते तद्वत्समुच्चित्यापि दृश्यते।' यथा- 'मुनिद्रुमः कोरकितोऽसितद्युतिर्वनेमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ।।' अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमन- विशिष्टराहुरूपत्वे उत्प्रेक्ष्यमाणे विशिष्योत्प्रेक्षानिमित्तमसितवर्णत्वमुपा- त्तम्, विशेषणोत्प्रेक्षानिमित्तं तु कोरकविधुकलासाधर्म्यादिरूपं नोपा- त्तम्। यथा वा- 'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृङ्धलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः ।।' अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्कलितत्वमुपात्तम्, वि- शेष्यशैलरूपत्वोत्प्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम्। यथा वा- 'अजस्भूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥' अत्र विशेष्यभूतचेतोरुपत्वोत्प्रेक्षायामणिमाङ्कितैरिति निमित्तमुपा- तम्। अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमुपात्तम्। रयप्रकर्षेत्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीया- ८ चि० मी०

Page 117

११४ काव्यमाला।

दश्वादपकृष्टरयत्वं नोपात्तम्। एवमन्यत्रापि निमित्तोपादानानुपादानसमु- च्चये उदाहर्तव्यम्। तस्मानन्यूनः सतृणाभ्यवहारश्रायं विभागः । अतो- त्र विषयिणो जात्यादिरूपेणाष्टधाविभागम्, धर्मस्य गुणक्रियारूपेण विभागं चापहाय विभागान्तरलभ्या यावन्तो भेदास्तावन्त एव चम- त्कारिणः । स्वरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणाप्यवान्तरमेदाः संभवन्ति। यथा-स्वरूपोत्प्रेक्षा द्विविधा, अविशिष्टोत्परेक्षा विशिष्टोतेक्षा च। यत्र विषयिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्नि- मित्तरूपस्य वा विषयविशेषणस्याभावात् किं तु तद्विशेषणं विषयिणि विधान्तरेणोपयुज्यते सा विशिष्टोत्परेक्षा। यत्र तु विषयिणो विशेषण- मप्युत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयवशे- षणस्योपादानात्सा विशिष्टोलेक्षा। तत्राद्या यथा- 'रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण। काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतिनिराशम् ।।' अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशालित्वमस्ति निमित्तम् । अतस्तावदुत्प्रेक्षणीयमवगम्यते तत्प्रत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृतमिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते। तदंशे विषयस्य वाच्यस्य गम्यस्य वा निमित्तस्य वालाभात्। किं तु परमेश्वरदग्धस्य मदनदेहस्यासुरदग्धस्य कचदेहस्य शुक्र इव न कश्चिदन्यः प्रत्यर्पणं कर्तु शक्कोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इत्य- विशिष्टोत्प्रेक्षेयम्। विशिष्टोत्प्रेक्षायां 'मुनिद्रुमः कोरकितोऽसितद्युतिः' 'त्वत्प्राङ्गणे

Page 118

चित्रमीमांसा। ११५

सुन्दर पाण्ड्यदेव' इत्याद्युदाहरणे विषयोपादानाद्विषयिविशेषणस्योत्पे- क्षतावगम्यते। द्वितीये निमित्तोपादानाद्वेतुफलोत्प्रेक्षे त्वसिद्धयोः सिद्ध- योर्वा हेतुफलभावेनोत्प्रेक्षणीयतया प्रत्येकं द्विविधे। 'सैषा स्थली यत्र विचिन्वता त्वाम्' "चोलस्य यद्धीतिपलायितस्य' इत्यादिषु नूपुरकण्ट-

लेक्षणीयता। 'आलोहिततलावेतौ क्षितौ विक्षेपणादिव। वर्णयेम कथ तन्व्याः पादौ पल्लवकोमलौ ।।' 'पूरं विघुर्वधयितुं पयोधेः शङ्केयमेणाङ्कमणिं कियन्ति। पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ॥' इत्यादिषु पादचन्द्रादौ स्वतःसिद्धयोरेव विक्षेपपयोवर्धनादिकयोर्हेतुफला- भावेनोत्प्रेक्षणीयता। प्रकारान्तरेणापि कतिचिदस्या भेदान्समासोक्तिप- करणे दर्शयिष्यामः । यत्तु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम्। एषा क्कचिद्धर्मविषये श्रिष्टा, कचिच्छलादिशब्देन सापह्वा, क्कचित्पदार्थान्वयवेलायां सा-

चित्यक्रमेणोत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमा चेति। तत्र धर्मविषये श्रिष्टत्वं किमित्युपन्यस्तम्। किं धर्मस्य निमित्तानुगामितयेव क्रषेणापि निर्वाद्यत इति, किं वा धर्माशेषु शुद्धतेव ल्लेषेणालंकृतापि दृश्यत इति। आद्े उपमायां साधारणधर्मस्यानुगामित्वादयो यावन्तो भेदाः साधार- ्यनिर्वाहकास्ते सर्वेऽप्युत्परेक्षायां धर्मस्य निमित्ततानिर्वाहका: संभवन्तीति

१. 'अभिमन्तृ' ख-ग.

Page 119

११६ काव्यमाला।

न्यूनो विभाग: । तथा हि 'बालेन्दुवक्राण्यविकाशभावात्' इत्यादौ तावदनुगामित्वं स्पष्टम्। तथा- 'व्यराजत सखे तन्व्या वक्रं वलितकन्धरम्। लावण्यौघजलावृत्तनालदण्डमिवाम्बुजम् ।।' इत्यत्र वस्तुप्रतिवस्तुभावः। बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः। द्वितीये निमिच्तांशेन श्लेषेण वालंकारान्तरेणाप्यलंकृतता दृश्यते इति न्यूनो विभाग: । तथा हि 'अङ्गुलीभिरिव केशसंचयम्' इति निमित्तांशे उपमालंकारः स्पष्टः । 'उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किल। धृततच्तुरङ्गुलीव यद्वलिभिर्भाति सहेमकाश्चिमिः॥' इत्यत्रोत्प्रेक्षा। अत्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वो- त्प्रेक्षायां काश्चीसहितासु वलीषु तदीयाङ्गलित्वोत्प्रेक्षालब्धमुदरगतं तदीयाङ्गुलिचतुष्टयधारणं निमित्तम्। 'अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम्। श्वासान्स वर्षत्यधिकं पुनर्यच्यानादिव त्वन्मयतार्मवाप्य॥।' इत्यत्रासंगतिः। यतोऽत्र नलस्य दमयन्तीरूपतावाह्युत्प्रेक्षायां दमयन्ती- कर्तृकेण सोपानारोहणेन नलस्य श्वासवर्षणं निमित्तम्। 'प्रतीपभूपैरिव किं ततो भिया विरुद्धघर्मैरपि भेत्तृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारद्दगप्यवर्तत।।' इत्यत्र विरोधाभासः। अत्र हि विरुद्धघर्मगतस्याश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयावभासमानधर्माणां नले सहवासो निमित्तम्।

१ 'उपेत्य' ख.

Page 120

चित्रमीमांसा। ११७

'ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतिवेगतः । धृतिविरोधकरीं द्यणुकोदरी तदुदितः स हि यो यदनन्तरः ।।' इत्यत्रार्थान्तरन्यासः । यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसपक्ष- चेगो हेतुत्वेनोत्प्रेक्ष्यते, तथापि तत्रोत्प्रेक्षायामध्ययनफलमात्रं न निमित्तं किं त्वन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निबद्धेन 'तदुदितः स हि यो यदनन्तरः' इत्यर्थान्तरन्यासेनोपस्कृतम्। एवम्- 'गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम्। इतीव मध्ये विदघे विधाता रोमावलीमेचकसूत्रमस्याम् ।।' इत्यत्र निमित्तांशे रूपकमित्याद्यूहनीयम्। तस्मादुभयथापि तत्र क्रिष्ट- त्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम्। यत्तु सापह्वत्वे- 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु। यत्रोल्लसत्फेनलवच्छलेन मुक्तादृहासेव विभाति शिप्रा ।।' इति स्रूपोत्प्रेक्षायामुदाहृतं तदपि हेतुफलोत्प्रेक्षयोरपि सापह्ववत्वे उप- लक्षणं बोद्धव्यम्। तत्र सापह्ववहेतूत्प्रेक्षायाम्- 'मुग्धः स मोहात्सुभगात्तदेहाददद्भवभ्नूरचनाय चापम्। अ्रूभङ्गजेयस्तव मन्मनोभूरनेन रूपेण यदा तदासीत् ।।' अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतोऽहेतोः सौन्दर्यस्य हेतुत्व- मपह्ुत्य नलभ्रूरचनाय स्वचापादानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम्। सापहवफलोत्प्रेक्षा यथा- 'रवितप्तो गजः पद्मांस्तद्रृद्यान्वाधितुं ध्रुवम्। सरो विशति न स्नातुं गजस्ानं हि निष्फलम् ॥' अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्ानस्य फलंत्वमपद्दुत्य

Page 121

११८ काव्यमाला।

पद्मबाधनमत्र फलत्वेनोत्प्रेक्षितम्। न च स्वरूपोत्प्रेक्षाया वास्तवविषय- स्वरूपापह्व एव विच्छित्तिविशेषो न तु फलोत्प्रेक्षयोः प्रसिद्धहेतुफला- पहव इत्यस्ति। प्रत्युतोदाहृतयोर्हेतुफलोत्प्रेक्षयोः सिद्धहेतुफलापह्नवोऽपि सहेतुकः न तूदाहृतविषयः खरूपापह्मवोत्प्रेक्षे इत्युपलक्षणतैव युक्ता । अन्यदत्र विचारणीयं समासोक्तिप्रकरणे विचारयिष्यते। यत्तु 'कस्तूरीतिलकन्ति भालफलके' इत्यादावुपक्ान्ता उपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं तत्र भालादिस्थानविशेषसंबन्धस्य कस्तूरीतिलकादितादात्म्यमात्रे औचित्यं चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसंभावनायामौचित्यमुपगम्योस्प्रेक्षायां पर्यवसानं वाच्यम्। तथा च- 'रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये कौस्तुभार्या मुरारेः। हारा: कण्ठे हरिमणिमया वक्रपझे द्विरेफाः पिच्छाचूडाश्चिकुरनिकरे घोषयोषित्कटाक्षाः ।।' इत्यादौ रूपकप्रतीतिस्थलेऽप्युत्पेक्षोपगन्तव्या। तथा- 'पतत्रिणा तद्रुचिरेण वश्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम्। चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ।।' 'लोकोश्रयो मण्डपमादिसृष्टिर्ब्रह्माण्डमाभात्यनुकायमस्य।' 'अथाजिनाषाढघरः प्रगल्भभाग्ज्वलन्निव ब्रह्ममयेन तेजसा। विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥' इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम्। एवम्- 'वरणः कनकस्य मानिनीं दिवमङ्कादमराद्विरागताम्। घनरत्नकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ।।' १. 'मारबाणा मुरारेः' ग. २. सर्वेषु पुस्तकेषु श्रोकार्ष एव दृश्यते.

Page 122

चित्रमीमांसा। ११९

'स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलमिश्रमम्भः । चन्द्रं पितृस्थानतयोपतस्थे तदङ्गरोचिःखचिता सुधैव ।।' इत्यादिरूपकप्रतीतिस्थलेड़पि तस्यां पर्यवसानमुपगन्तव्यम्। तादात्म्यसं- भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात्। एवम्- 'पूर्णेन्दोः पंरिपोषकान्तवपुषः स्फारप्रभाभासुरं नेदं मण्डलमभ्युपैति गगनाभोगाज्जिगीषोर्जगत्। कामस्योच्छिरितमातपत्रमधुना पाण्डप्रदोषश्रिया

इत्यपह्ुत्युदाहरणे इत्यपि द्रष्टव्यम्। अधिकं निदर्शनालंकारप्रकरणे चिन्तयिष्यते। ननु गम्योत्प्रेक्षायां अलंकारतया परिगणनमयुक्तम्। तस्या अलंका- रध्वनित्वात्। उच्यते । विषयविषयिनिमित्तेषूपात्तेषु केवैलमिवादिवाच- काप्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते सात्यन्तं स्फुटत्वाद्वाच्यायमानत्वाद- लंकारतामेवासादयतीति। यथोदाहृतम्। यत्रोत्प्रेक्षणीयस्य विषयिणो- डप्यनुपादानं निबद्धेन वस्तुनालंकारेण वा गम्योत्प्रेक्षा गूढा तत्रैवोत्परे- क्षाध्वनिः। यथा- 'वीररूद्रभटान्टष्टरा जयलक्ष्म्यावृतानरणे। कर्षन्त्यरिवधूकेशान्कानने कण्टकिद्रुमाः ॥' अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीपितम- न्मथा इवेत्युत्प्रेक्षा ध्वन्यते। १. 'प्रविशेषकान्तवपुषः' ग. २. 'मानोन्नाहजना' ख. ३. 'हेतोर्ध्ुवम्' क. ४. ख-पुस्तकेऽत्रैव 'इत्युत्प्रेक्षाप्रकरणम्। समाप्तश्चायं समुपलभ्यमानो ग्रन्थः' इति ग्रन्थसंमाप्तिः कृता. ग-पुस्तके तु 'अप्यर्थचित्रमीमांसा' अयं समाप्तिक्रोकोडत्र विलिख्य पुनरत्रे अधिकमित्यादि लिखितमस्ति. ५. 'केवल इवादि' ग.

Page 123

१२० काव्यमाला।

'वेलामतिकरम्य पृथुर्मुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रागाम्बुनिधौ विवृद्ध तुङ्गौ कुचावाश्रयति स् दृष्टिः ॥' अत्रैकदेशविवर्तिरूपके मज्जनभयादिवेत्युत्प्रेक्षावगम्यते। एवमन्य- त्राप्युदाहार्यम्। इत्युत्प्रेक्षाप्रकरणम्।

अथातिशयोक्ति :- तेस्यास्तावत- विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्ति: स्यात्कविप्रौढोक्तिजीविता ।। इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति। भेदेडमेदः, अमेदे मेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्ध इति। एतेषामुदाहरणानि- 'कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्।।' 'अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी। नैषा कमलपत्राक्षी सृष्टिः साधरणी विधेः ॥' 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।' 'दाहोऽम्भः प्रसृतिंपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेङ्गितदीपदीपकलिकाः पाण्डिम्नि मसं वपुः । १. 'अस्याः' क. २. 'कुवलयमेतापि' ग.

Page 124

चित्रमीमांसा। १२१

किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥' अन्न कमलादीनां मुखादिमेदेडप्यभेदः। रूपादीनां लोकसिद्धरूपा- दयमेदेऽपि भेदः । रूपस्य पुराणप्रजापतिसृष्टिसंबन्धेऽप्यसंबन्धः। विर- हादीनामम्भ:प्रसृतिंपचत्वाद्यसंबन्धेSपि संबन्धश्र क्रमेण निबद्धः। अत्रेदं विचार्यते। विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रतिपादकाभावः, तद्वाचकाभावो वा। आद्ये 'कमलमनम्भसि' इत्यादा- वपि लक्षणं न स्यात्। कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्र- तिपादकत्वात्। द्वितीये 'चुम्बतीव रजनीमुखं शशी' इत्यादिषु मुख- शब्दादिक्लेषमूलातिशयोक्तावव्याप्तिः । विषयिवाचकातिरिक्तविषयप्रति- पादकाभावो विवक्षित इति चेत्, तथापि 'उन्मीलितानि नेत्राणि पझमा- नीवोदिते रवौ' इत्यादावुन्मीलितशव्दवाच्यलक्ष्यार्थाध्यवसायरूपातिश- योक्तावतिव्याप्तिः। तत्रोन्मीलितशब्दस्य विषयीभूतविकाशलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात्। विषयिप्रतिपादकातिरिक्त- विषयप्रतिपाद काभावविवक्षायामपि- 'पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर। भूषयति कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥' इत्यत्र कर्णशब्दश्लेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविष-

वो वा विवक्षित इति चेत्, तथापि- 'उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्। त्रपासरिद्दर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।' इत्यत्र कुचद्वये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्तावव्यापिः।

Page 125

१२२ काव्यमाला।

तत्रोरःप्रभवत्वाकारेण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य सद्भावात्। ननु विषयिप्रतिपादकविलक्षणस्य विषयतावच्छेदकप्रकारेण विषयप्रतिपादकस्याभावो विवक्षितः, उरःप्रभवत्वं तु न पयोघरयोविंष- यतावच्छेदकमनेकसाधारणत्वादिति चेत्, एवमपि- ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे। औलूकमाहुः खलु दर्शनं यत्क्षमं तमस्तत्त्वनिरूपणाय ।।' इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्षभेदाध्यवसाय- रूपातिशयोक्तावव्याप्तिर्दु्वारा। तत्र वैशेषिकमतमिति विषयतावच्छेद- कप्रकारेण विषयप्रतिपादकस्य संभवात्। अपि चैवम् 'रामरावणयोर्यु- द्धम्' इत्यनन्वयालंकारे चातिव्याप्िः। तत्र विषयप्रतिपादकविलक्षण- विषयप्रतिपादकाभावात्। ननु यत्र कश्चिदभेदेनाध्यवसीयते स विषयः, यस्तु तथाध्यवसीयते स विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्तातिव्याप्तिरिति चेत्, एवमपि 'विद्वन्मानसहंस' इत्यादिश्िष्टरूप- केऽतिव्याप्तिर्दुर्वारा। रूपके ताद्रूप्यारोपमात्रम्, अतिशयोक्ताव भेदा- ध्यवसाय इति कल्पना तु रूपकविचारलक्षण एव निरस्ता। सौरूप्य- निबन्घनसमासोक्त्युदाहरणेषु चातिव्याप्तिः । 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला। अनूरुरिव घर्मांशोर्घेन्दुरिव धूर्जटेः ॥' समाप्तश्चायं समुपलभ्यमानो ग्रन्थः ।

१. क-पुस्तके 'इति चेत' इति नास्ति. २. 'निरीक्षणायाम्' क. ३. 'दु्वारा। तत्र' इति क-पुस्तके नास्ति, ४. 'सद्भ्ावात्' क. ५. 'अप्रस्तुतप्रशसोदाहरणेषु' ग.

Page 126

काव्यमाला।

पण्डितराजश्रीजगन्नाथविरचितं चित्रमीमांसाखण्डनम्। नागेशकृतमर्मप्र काशादुद्ध तया टिप्पण्या सहितम्।

नामं नामं घनश्यामं धाम तामरसेक्षणम्। पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम्।। रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोषास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे॥ सूक्ष्मं विभाव्य मयका समुदीरिताना- मप्पय्यदीक्षितकृताविह दूषणानाम्। निर्मत्सरो यदि समुद्धरणं विदध्या- दस्याहमुज्वलमतेश्ररणौ वहामि।। यत्त्वादिभागे चित्रमीमांसायामप्पयदीक्षितैः 'निःशेषच्युतचन्दन स्तनतटम्' इति पद्यं ध्वन्युदाहरणप्रसङ्गे व्याख्यातम्-'उत्तरीयकर्षणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिहाराय निःशेषग्रहणम् । ततश्चन्दनच्युतेः

व्याख्यातमिति। व्याख्यानमेवाह-उत्तरीयेत्याद्याचरन्तीत्यन्तेन इत्यादीत्यादिना प्रातर्दत्तमज्ञनं कालविलम्बेन किंचिद्विलुप्तमित्यन्यथासिद्धिपरिहा- राय दूरमिति। अत्यर्थमित्यापाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः

१. 'मया'

Page 127

१२४ काव्यमाला।

स्नानसाधारण्यव्यावर्तनेन संभोगचिह्ोद्वाटनाय तटग्रहणम्। सनाने हि सर्वत्र चन्दनच्युतिः स्यात्, तव तु स्तनयोस्तट उपरिभाग एव दृश्यते। इयमाश्लेषकृतैव। तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बा- त्प्राचीनरागस्य किंचिन्मृष्टतेत्यन्यथासिद्धिपरिहाराय निर्मृष्ट इति रागस्य निःशेषमृष्टतोक्ता। पुनः स्नानसाधारण्यव्यावर्तनेन संभोगचिहवोद्धाटना- याधर इति विशिष्य ग्हणम्। उत्तरोष्ठे सरागेऽधरोष्ठमात्रस्य निर्मृष्ट- गता चुम्बनकृतैव' इत्यादिना 'इदमपि ध्वनेरुदाहरणम्' इत्यन्तेन संदर्भेण तटादिघटिता वाक्यार्थाः 'स्नानव्यावृत्तिद्वारा संभोगाङ्गानामाश्लेषचुम्बना- दीनां प्रतिपादनेन प्रधानव्यज्क्यव्यञ्जने साहायकमाचरन्ति' इति, तदे- तदालंकारिकाणामतितमां हृदयारुंतुदतया नालंकारमीमांसकेन वकतुं युक्तम्। एवं च तटादिघटितानां वाक्यार्थानां मुख्यार्थवापीस्तानपक्षे बाधितत्वाद्विरोधिलक्षणया वापीं सनातुं न गतासि किं तु तदन्तिकमिति प्रतिपत्तौ विगलितव्यञ्जनाव्यापारेण यथा-'अहो पूर्ण सरो यत्र लुठन्तः स्नान्ति मानवाः' इत्यत्र लुठन्त इत्यस्य विशेषणस्य मुख्येऽर्थऽनुपपत्त्या विरुद्धोऽर्थो भासमानोऽपि न व्यङ्गयः, एवमिहापि स्यात्। अपि च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्ट- सिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन

स्नानसाधारण्यव्यावर्जे(र्त)नेन संभोगचिहोद्वाटनाय दूरे प्रान्त इति हृदयस्थि- तोऽर्थः। कालतः स्नानेन सर्वतोऽअनलोकः स्यात्तव तु लोचनयोः क्वचित्प्रान्त एवानज्जनत्वमिदं चुम्बनकृतमेवेत्यादि परिग्रहः। वाक्यार्थाः प्रधानवाक्यार्थाः। प्रधानव्यङ्गयं संभोग:। यथाकथंचिदिति । अर्थापत्ति प्रमाणस्यातिरिक्त्स्या - भावादिति भावः । अत्र रमणे। संभोगमात्रेति। तदन्येन वाच्यसिद्धेरेवा-

Page 128

चित्रमीमांसाखण्डनम् । १२५

गुणीभूतव्यङ्ञ्यत्वप्रसङ्गात् । किं चैवं सति 'भम धम्मिअ वीसत्थ- इत्यादौ लिङ्गजलिद्विज्ञानरूपेणानुमानेन व्यक्तिं गतार्थयतो व्यक्तिविवेक- कृतो मतं प्रत्याचक्षाणा व्यभिचारित्वेनासिद्धत्वेन च संदिह्यमानादपि लिङ्गाव्यञ्जनमभ्युपगच्छन्तः सर्वेडपि ध्वनिमार्गप्रवर्तकास्तव प्रतिकूलाः स्युः। अन्यच्च येनोदाहृतं पद्यमायुष्मता व्याख्यातम्, तस्यापि विशेष- णानामसाधारण्यमननुमतमेव। तथा च तेनैवोक्तं पञ्चमोल्लासशेषे- 'निःशेषेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कार- णान्तरतोऽपि भवन्ति। यतश्चात्रैव स्नानकार्यत्वेनोपात्तानीति नोपभोग एव प्रतिबद्धानीत्यनैकान्तिकानि' इति। एवं च त्व(त)दुक्तिविरोधः स्फुट एव। तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्घनायिकानिरूपि- तानां विशेषणानाम्। तथा हि-अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्मभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव

भावादिति भावः । भमेति। 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद् मारित- स्तेन । गोदानदीकच्छनिकुञ्जवासिना हप्तसिहेन ।' कुसुमावचयार्थ कुञे धार्मिक- भ्रमणेन खण्डितसंकेतायास्तन्निवारणोक्तिरियम्। अत्र वाच्येन भीरुखभावस्य गृहे श्वनिवृत्त्या भ्रमणेन निकुजे ।िंहोपलब्ध्या भ्रमणनिषेधो व्यङ्गयः । ग्रन्थविरोध- माह-अन्यच्च येनेत्यादि। गमकतयेति। संभोगेत्यादिः। अत्रैव निःशे- षेत्यादावेव। प्रतिवद्धानि जन्यतया न तत्रैव संवद्धानि। अनैकान्तिकानि साधारणानि। कथं तर्हि तस्य व्यङ्गयत्वं प्रकाशाद्युक्त्माह-तस्साद्वाच्यार्थेति। वापीस्ानेनेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या सार्थेति। अन्तिकमित्यन्न गतासीत्यनुषङ्गः। एवं त्रपापारवश्यात्। तथा निर्मृष्ट- रागः। तन्वीत्यस्यार्थमाह-तानवाच्चेति। कृशत्वाच्चत्यर्थः । उपसंहरति-

१. 'भम' धम्मिअ वीसत्थो सो सुणओ अज्ज मालिदो तेण। गोलाणइकच्छकुडङ्ग- वासिना दरिअसीहेण ॥'.

Page 129

१२६ काव्यमाला।

वापीं स्नातमितो ममान्तिकाद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम्। यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम्। वापीगतबहुलयुव जनत्रपापारवश्या दंशद्वयलमाग्रस्वस्तिकी- कृतभुजलतायुगलेन. तटस्यैवोन्नततया मुहुरामर्शात्। एवं त्वरया सम्य- गक्षालनेनोत्तरोष्ठो न निर्मृष्टरागोऽधरस्तु तदपेक्षया गण्डूषजलरदनशो- धनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा। किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गादूरमुपरिभाग एवानञ्जने। शीतवशात्तानवाच तव तनुः पुलकितेति। एवं तस्या विदग्धाया गूढतात्पर्योक्तिरुचिता। अन्यथा वैदग्ध्यभङ्गापत्तेः । एवं साधारणेषु वाक्यार्थेषु मुख्यार्थे बाघाभावात्तात्पर्यार्थस्य झटित्य- नाकलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तर्वक्तृबोद्ध- व्यनायकादीनां वैशिष्टयप्रतिपत्तौ सत्यामधमपदेन संप्रवृत्तिप्रयोजको दुः- खदातृत्वरूपो धर्मः साधारणात्मा प्राग्वाच्यार्थदशायामपराधान्तरनिमि- त्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदु :- खदातृत्वाकारेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन 'अध- मत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति। तत्र जात्यापकर्ष नोत्त-

एवमिति। उक्तप्रकारेत्यर्थः । मुख्यार्थे वापीसाने। अनन्तरमिति। वाच्यार्थ- प्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री विदग्धोत्तमनायिका। वोद्ध व्या दुः शीला दूती। नायकस्तादशः। आदिना काक्कादिपरिग्रहः। अधमपदेनेति । बोधित इति शेषः । स्वेति। अधमपदप्रवृत्तिनिमित्तमित्यर्थः। साधारणेति। तादृशकर्मान्तर-

१. स्वप्वृत्तिनिमित्तप्रयोजकः' इति.

Page 130

चित्रमीमांसाखण्डनम्। १२७

मनायिका नायकस्य वक्ति। नापि स्वापराधपर्यवसायिदूतीसंभोगादिही- नकर्मातिरिक्तेन कर्मणा। तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्धाटनार्हमितीतरव्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम्। विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपादयिषितत्वात्। यथैव हि- 'औण्णिदं दोब्बह्ं चिन्ता अलसन्तणं सणीससिअम्। मह मन्दभाअणीए केरं सहि तुह वि परभवइ ।।'

बोद्धव्यवैशिष्षवशात्तत्कामुकोपभोगजनितौन्नि्यादिषु पर्यवस्यन्ति । न चात्र वाच्यार्थव्यावर्तकं किंचिद्विशेषणमपेक्षन्ते सहृदयाः, एवमिहापि। अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणमात्रस्य लक्ष्यशक्तिमूलध्व- ननवेद्यत्वमव्याहतमेवेति चेत्, नैवम्। 'अधमत्वं जात्या कर्मान्तरेण वा नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदर्भेण रमणस्यापि भवतैव श्रुतार्थापत्तिवेद्यतायाः स्फुटं वचनात्। एतेन काव्यप्रकाशटीका- कृतामुक्तयः परास्ताः । विशेषणसाधारण्यपरस्य स्वमूलग्रन्थस्यैव तैरना- कलनात्। बाधाभावेन लक्षणाया दूरापास्तत्वात्।

साधारणेत्यर्थः । स्वापराधेति । सवं नायिकादूती संभोगादिरूपं यद्धीनकर्मेत्यर्थः । एवेनेत्यस्यार्थमाह-विदग्धेति। तद्ुपभोगेति। दूत्युपभोगेत्यर्थः । अति- तमांमत्यन्तम्। प्राचीति। दूती संप्रेषणादित्यादिः। अन्यथा वैदग्धादिभङ्गा- पत्तिः । औण्णिद्दमिति। 'औन्निवं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम। मम मन्दभागिन्याः कृते सखि त्वामपि परिभवति ॥' कृतकामुकसंभोगां दू्तीं प्रत्यु- पभोगचिह्ैस्तं ज्ञातवत्या नायिकाया इयमुक्तिः। साधारणानि। रोगादितोऽपि

Page 131

१२८ काव्यमाला।

यत्तु- 'प्रहरविरतौ मध्ये वाहस्ततोऽपि परेण वा किमुत सकले याते वाहि प्रिय त्वमिहैष्यसि। इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सवाष्पगलज्जलैः ॥' इत्यत्र 'सकलमहः परमावधिस्ततः परं प्राणान्धारयितुं न शक्रोमीति व्यङ्गयं प्रियगमननिवारणरूपवाच्यसिद्धङ्गम्' इति मध्यमकाव्योदाहृति- प्रसङ्गे निगदितम्, तच्चिन्त्यम्। सबाष्पगलज्जलानां 'प्रहरविरतौ' इत्या- द्यालापानामेव प्रियगमननिवारणरूपवाच्यसिद्धङ्गव्यन्ञ्यतया व्यङ्गयस्य गुणीभावाभावात्। आलापैरिति तृतीयया प्रकृत्यर्थस्य हरणक्ियाकरण- तायाः स्फुटं प्रतीतेः। न च व्यङ्ञयस्यापि वाच्यसिद्धङ्गतात्र संभवतीति तथोक्तमिति वाच्यम्। 'निःशेषच्युतचन्दनम्' इत्यादावप्यघमत्वरूप- वाच्यसिच्धङ्गताया दूतीसंभोगादौ संभवाद्गुणीभूतव्यङ्गत्वापत्तेः । अस्तु वा ततः परं प्राणान्धारयितुं न शक्रोमीति वाच्यसिद्धङ्गतया गुणीभाव- स्तथापि नायकादेर्विभावस्य बाष्पादेरनुभावस्य चित्तावेगादेश्च संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत्।

तत्संभवात्। यथात्रैव नायिकायास्तद्वियोगतः । प्रहरविरताविति। हे प्रिय, त्वं किं प्रहरसमाप्तौ दिनमध्ये याते वा मध्याह्वादपि परेण तृतीयप्रहरेण यातेन वा सर्वदिने गते वेह मत्समीपे उत निश्चयेनैष्यस्यागमिष्यसि। इत्येवंप्रकारेण। आलापेऽस्यान्वयः । अग्रे स्पष्टम्। शतशब्दोऽनियतसंख्यावाची। एवमुक्तव्यव- च्छेदे। व्यङ्गयस्य शक्कोमीत्यन्तस्य। ननु विनिगमनाविरहोऽत आह-आला- पैरिति। प्रकृत्यर्थस्य तादृशालापस्य। अपिरुक्तसमुच्चये। ननु सबाष्पगलज्ज- लतदुक्त्तालापानां गमनोत्तरचिरकालाव स्थिति निवार कतयाप्युपपत्तेर्व्यक्गय सहिताना मेव गमननिवारणसामर्थ्यमत आह-अस्तु वेति। आन्तरालिकव्यङ्कयमादा-

Page 132

चित्रमीमांसाखण्डनम्। १२९

यदप्युभयचित्रप्रस्ताव उदाजदु :- 'वराहः कल्याणं वितरतु स वः कल्पविरमे विनिर्धुन्वन्नौदन्वतमुदकमुर्वीमुदवहत्। खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ-

एतच्च पद्यं दोषाविलत्वादनुदाहार्यमेव । तथा हि-प्रथमेऽर्घे वाक्य- द्वयस्यापि समाप्तेर्नैराकाड्डयादुत्तरार्धगतविशेषणे समाप्तपुनरात्तत्वम् । निवृत्त उद्वाहे माङ्गल्यपटहवादनप्रतिपत्तेरपदस्थपदत्वम्। ऊर्ध्ववहन- निष्पत्तौ च भूम्यूर्ध्वगानां कुलशिखरिणां कूटेषु कथंकारमधःस्थस्य भग- वतो वराहस्य खुराघात इति व्याहतार्थत्वम्। एकार्घेडनेकक्तियत्वेन यत्पदाध्याहारेण चासंघ्ुलत्वं चेति। अन्येऽप्येवंजातीयका बहवोऽत्र दोषाः । न ह्यवरं काव्यमिति दोषसहस्रग्रस्तमुदाह्नियते। तस्य काव्यतैव नेत्यालंकारिकसिद्धान्तात्। अयमपि कवेः सहृदयस्य च महान्दोषो यत्पुनरिदमेव पद्यं पूर्वोत्तरार्धव्यत्यासेन न पद्यान्तरतामापितम्। एव- मप्येकार्घगतेनानेकक्रियत्वेन यत्पदाध्याहारेण चासंछ्ुलत्वाच्चमत्कारापकर्षः स्थित एव ।i इति श्रीभट्टभट्टारकपेरुभद्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने ग्रन्थारम्भप्रकरणदोषः ।

अथोपमाप्रकरणदोषा :- यत्तु 'मुखस्य पुरतश्चन्द्रो निष्प्रभः' इति वाक्यमुपमाया विपुला-

यैव ध्वनिगुणीभूतादिव्यङ्ग्यव्यवहारस्योपपद्यमानतया 'विप्रलम्भेन ध्वनित्वं को निवारयेत्' इति चिन्त्यम्। अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्यीयप्रका- ९ चि० मी०

Page 133

१३० काव्यमाला।

लंकारवर्तितां प्रतिपादयद्भिः प्रायुज्यत, तद्याकरणाविमर्शनिबन्धनम्। पुरत इति नगरवाचिनः पुरशब्दात्तसिलि मुखस्य नगरादित्यर्थस्या- संगत्यापत्तेः । न हि पूर्ववाचकः पुरशब्द: क्वापि श्रूयते । पूर्वशब्दाततु 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम्। न तु पुरत इति। अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क महाकविः । एवमेव च- 'रूपयौवनलावण्यस्पृहणीयतराकृतिः । पुरतो हरिणाक्षीणामेष पुप्पायुधीयति ।' इति वाचकोपमेयलुप्ोदाहरणमपि तैर्निर्मितमपशब्दकलुषितमेव। तथा चाहुर्वैयाकरणा :- 'पत्या पुरतः परतः,' 'आत्मीयं चरणं दधाति पुरतः,' 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः इति।

शाद्युक्ोदाहरणानामप्यसंपत्त्यापत्तौ व्याकुली स्यात्। तत्रापि व्यङ्गय संकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभाव्रमुखेनैव विप्रलम्भाभासपोषणं न केवलेन संके- तभङ्वेन। तस्याकर्तव्यत्ववुद्धापि संभवादिति बोध्यम्। तसिलीति। इदं चिन्त्यम्। तदप्राप्तेः । आद्यादित्वात्तलावित्युचितम्। महाकविः कालिदासः । तैः अप्पयदीक्षितैः । इदं चिन्त्म्। पुरत इति निपाताङ्गीका रात्। अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुर- तश्च पश्चात्' इति भवभूतिश्व संगच्छते । इति केचित्। अन्ये तु-'दक्षि- णोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्माद- पीति ज्ञापनाय। तेन पचादजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः-इत्याहुः ॥ वस्तुतस्तु-'पुर अग्रगमने' इति चौरादिकाण्णिजभावे 'इगुपधलक्षणे के सार्वत्रिकस्तसिः ।' इति बोध्यम् । वैयाकरण इति । प्राश्च इत्यादिः ।

१. 'पत्या पुरतः सरता'

Page 134

चित्रमीमांसाखण्डनम्। १३१

• यदपि चोपमालक्षणसिद्धान्त :- 'उपमितिक्रियांनिष्पत्तिमत्सादृश्य- वर्णनमदुष्टमव्यङ्ञयमुपमालंकारः', 'स्वनिषेधापर्यवसायि सादृश्यवर्णनं वा तथाभूतं तथा' इति लक्षणद्वयं तैरेव निर्मितम्, तदसत्। वर्णनस्य विलक्षणशब्दात्मकस्य, विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविरहे- णोपमाया वाच्यालंकारता न स्यात्। तस्य सर्वथैवाव्यन्ञयत्वादव्यङ्गयत्व- विशेषणवैयर्थ्याच्च। अथ यदि वर्णनविषयीभूतं ताद्ृशसादृश्यमुपमेत्यु- च्यते तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापत्तेः । एवं 'कालोप- सर्जने च तुल्यम्' इत्यादावपि। अशिष्यत्वादिना प्रधानप्रत्ययार्थवचन- सादृश्यस्य तत्रापि प्रतिपादनात्। न चात्र वचनभेदस्य दोषस्य सत्त्वाद- द्रुष्टत्वविशेषणेनैव वारणं भविष्यतीति वाच्यम्। एतद्वाक्योपप्ठुतवाक्या- न्तरप्रतिपादितै(कै)कोपमेयके सादृश्ये तथाप्यतिप्रसङ्भात्। न चात्रोप- मितिक्रियानिष्पत्तावपि न सादृश्यवर्णनम्, विषयस्याचमत्कारित्वात्, चमत्कारिविषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम्। एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशे- षणस्य वैयर्थ्यात्। नह्यनिष्पन्नमापाततः प्रतीयमानं सादृश्यं चमत्कृति- माधत्ते। एवं द्वितीयलक्षणे निषेधपर्यवसायित्वं निरर्थकम्। व्यतिरेके

विलक्षणशब्देति। शब्दस्य वाच्यत्वमते नायं दोषोऽत आह-विलक्षण- ज्ञानेति। अव्यङ्ञ्यत्वात् व्यङ्गयत्वाभावात्। तादृशेति। अदुष्टाव्यक्वयाद्यविशेषण- द्वयान्यतरेत्यर्थः । इत्यादावपीति। उपमालंकारापत्तिरित्यस्यानुषभ्गः। आदिग्राह्यं चिन्त्यम्। तत्रापि कालोपसर्जनयोरपि। अत्र 'कालोपसर्जने च तुल्यम्' इत्यत्र द्विवचनोपादानादिति भावः । एतदर्थमेव द्वितीयदोषोक्तिः । उपस्ठुतेति। कल्पितेत्यर्थः । प्रधानप्रत्ययार्थवचनवत्काल इत्यादीति भावः । तदाह-एको- पमेयेति। अत्रेति। यथा गौरित्यादावित्यर्थः । व्यतिरेक इति। तवान- १. 'प्रतिपत्तिपादितैक'.

Page 135

१३२ काव्यमाला।

'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ कमलादिसादृश्य- निषेघस्य, अ[न]न्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तत्मति- पत्तयें प्रतियोगिविधया सादृश्यनिरूपणमित्यलंकारिकैरभिधानात्। किं च- 'सतनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥I' इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्तिः। उपमिति- क्रियानिष्पत्तिमत्सादृश्यवर्णनस्य [अदुष्टाव्यङ्ञयत्वस्य च] अत्रापि सत्त्वात्। नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्। कल्पितोपमाया निर्विषयत्वा- पत्तेः। न चेयमुपमा लक्ष्यैवेति वाच्यम्। ध्वन्यमानोपमानिवारणप्रया- सस्य वैयर्थ्यापत्तेः। 'व्यापार उपमानाख्यो भवेद्यदि विवक्षितः । क्रियानिप्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ।।' इति स्वकृतसूत्रेडलंकारभूतोपमाया एव लक्ष्यत्वेनाभिघानस्य, अलंकार- भूतोपमालक्षणत्वे तदेवादुष्टाव्यञ्वयत्वविशेषितमिति तत्रैव पुनरभिधानस्य चासंपत्त्यापत्तेश्। नद्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादस्ति कश्चिद- तिरिक्तो वाक्यार्थः, येनोपमा तमलंकुर्यात्। अपि च लक्षणे सादृश्य-

नस्येत्यादावित्यर्थः । कमलादिसादृश्येति। कमलादिनिष्ठसादृश्येत्यर्थः । ननु वर्णनपदस्य चमत्कारजनकज्ञानविषयीभूतानुयोगिकत्वार्थे तात्पर्यग्राहकमिदम्, न तु लक्षणशरीरपद्कमिति चेत्, तत्राह-किं चेति। वाक्यार्थत्वेनेति। तथा च.न वाक्यार्थोपस्कारकत्वमिति भावः। तदाह-अनलमिति। नन्वलंकरो- तीति योगबोधितोपस्कारकत्वस्यालंकारसामान्यसवरूपत्वेन विशेषलक्षणेषु तदनि- वैशेऽपि क्षत्यभाव इत्यत आह-अपि चेति। अत एव चित्रभूतोपमालक्षणं

Page 136

चिन्रमीमांसाखण्डनम्। १३३

'विशेषणं निरर्थकम्। 'उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा' इत्येतावतैव स्वाभीष्टार्थलाभात्। अन्यच्चाव्यङ्वयत्वविशेषणमयुक्तम्। नहि व्यंद्नघत्वा- लंकारत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्जयतायां तु प्रधानत्वा- लंकारत्वयोर्विरोधादलंकारत्वलक्षणं तत्र मा प्रसाङ्कीदित्युपस्कारकत्वेन पुनर्विशेषणीयम्, न त्वव्यङ्ञयत्वेन। 'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि। भूमण्डलमिदं मूढ केन वा विनिभालितम् ।।' इत्यत्र कस्यचिद्विदेशस्थस्य किरणैरात्मानं तापयन्तं चन्द्रं प्रति वाक्ये अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः अत एव त्वयाप्यदष्टाया आननं त्वत्सदृशमिति व्यङ्ञयायामुपमायां मूढपदध्वन्यमानचन्द्रविषयवक्तृ- गतासूयालंकारभूतायामव्याप्तेः । विशिष्टोपमादिस्थले च विशेषणाद्युप- मानां वाच्यसिच्धङ्गतया गुणीभूतव्यङ्गयत्वम्, सिद्धार्थस्योपस्करणाभावात्ु नालंकारतेति मम न काप्यसंगति: । यदपि काव्यप्रकाशोक्तोपमा भेदाधिक भेदकथनप्रस्तावेऽभिहितम्- 'धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता। द्विर्मावेऽपि दृश्यते। 'पटुपट्ठ- र्देवदत्तः' इत्यन्न 'प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात् इति, तत्तुच्छम्। अत्र चोपमावाचकस्याप्यनुपादानाद्वाचकधर्मलुप्ताया- मेतदाधिक्यमुद्धावयितुमुचितम्। न तु धर्मलुप्तायाम्।

त्विति तैर्नोंक्तम्। पूर्ववदस्यापि तात्पर्यग्राहकत्वादिदमपि चिन्त्यम्। अव्यज्ञयत्वं च तल्लक्षणे प्राधान्येनाव्यज्ञयत्वं बोध्यमिति दिक्। विनिभालितमिति। विशे- षेण दृष्टमित्यर्थः । अन्रेति । व्यङ्र्यायामित्यत्रास्यान्वयः। व्यङ्गयायामुपमाया- मिति। अन्नोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यञ्ञयत्वम्। मूढपदखार- स्यात्। चमत्कारातिशयाच। कि हुष्यसीत्येतत्खारस्याच्चेति केचित। अत्र चेति-।

Page 137

१३४ काव्यमाला।

धर्ममात्रलुप्तायाश्रान्तर्भावात्पृथगुपादानमसंगतमेव स्यात्। न चात्र द्विर्भावस्यैव वाचकस्य सत्त्वान्नास्ति तस्य लोपः अपि तु धर्ममात्रस्येति वक्तुं शक्यम्। द्विर्भावस्य सादृश्यवाचकत्वोक्तेर्भाष्यकैयटादिविरुद्धत्वाद्। तदुक्तम्-'प्रकारे गुणवचनस्य' इति सूत्रे सिद्धं त्विति प्रतीकमादाय कैयटेन 'द्विर्वचनस्य प्रकृतिः स्थानी' इति तदर्थो विशिष्यते न तु प्रकारः । तत्र सर्वस्य गुणवचनत्वाद्यभिचाराभावात्। तद्रहणाद्गुणवचनो यः शब्दो निर्ज्ञातस्तस्य सादृश्ये द्योत्ये द्वे भवत इति सूत्रार्थः इति। एवं च द्विर्भावपदस्य सादृश्युद्त्योतकत्वमेव न वाचकत्वम्, अतो वाच- कलोपोडप्यत्रास्तीति वाचकधर्मलुप्ताया उदाहरणमेतत्, न धर्मलुप्तायाः। यदि तु द्योतकोऽपि वाचकपदेनात्र विवक्षित इत्याग्रहः तदा तुष्यतुं भवान्। यच्चान्यदभ्यघीयत तस्मिन्नेव प्रसङ्गे- "नृणां यं सेवमानानां संसारोऽप्यपवर्गति। तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ।।" अन्र "किक्कनोलोंपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" इति तदर-

चो ह्र्थे। सूत्रार्थ इति। द्विर्भावस्य सादृश्यद्योतकत्वेऽपि शकतत्वरूप- वाचकत्वाभावाद्वाचकलोप इति तव हृदयम्। तन्तु इवादेर्दयोतकतानये चन्द्र इव मुखमित्यत्र, चन्द्रसुहन्मुखमित्यत्र च वाचकलुप्ताव्यवहाराभावाय सादृश्यतद्विशि- षन्यतरबोधकाभावस्यैव वाचकलप्ताव्यवहारप्रयोजकत्वस्य वाच्यत्वेन द्योतकस्यापि बोधकत्वानपायेन नारित वाचकलोप इति तदाशयादबोधमूलकमिति चिन्त्यमि- दम्। यच्चान्यदिति। वक्ष्यमाणमन्यच्चेत्यर्थः। क्विब्लोपे तथोकर्युक्तत्वेऽपि

Page 138

चित्रमीमांसाखण्डनम्। १३५

मणीयमेव । चश्चेत्यत्र कनो वाचकस्य 'लुम्मनुष्ये' इति शास्त्रेण लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधरभजनराहित्यरूपस्य चश्चाचन्द्र- साधारणस्य धर्मस्योक्तत्वात्कथं तावद्धर्मलोपः। न चोपमेयमर्त्यविशेषण- तयोपात्तस्य चन्द्रकलाधरभजनराहित्यस्य सादृश्योपसर्जने चन्चायामनन्व- यान्न सादृश्यमिति वाच्यम्। 'यद्धक्तानां सुखमयः संसारोऽप्यपवर्गति। तं शंभुमभजन्मर्त्यश्रञ्चैवात्महिताकृतेः ॥' इति पाठे 'धर्मश्रवणमप्युभयत्रापि संभवति' इति खोक्तेरसंगत्यापत्तेः। इहाप्युपमेयसंसारविशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽप- वर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम्। उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभया- न्वये सत्यपि वस्तुत उभयनिष्ठताज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः। यदि चोप- मेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम्, साघा- रणधर्मश्च स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान्। य्चापि "सेयमुपमा संक्षेपतस्त्रिधा-कचित्स्ववैचित्र्यमात्रविश्रान्ता। यथा-'स च्छिन्नमूल: क्षतजेन रेणुः' इत्यादौ। कचिदुक्तार्थोपपादन- परा। यथा-'अनन्तरलप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरो-

कन्लोपेडयुक्तत्वमित्याह-कन इति। तामुपपादयति-इहापीति। कथंकारं कथं कृत्वा। पाठान्तरवादी खाशयमाह-उपमेयेति । एवमेवेति। एवं च तुल्यतेति भावः। प्रकारान्तरेण खाशयमाह-यदि वेति । तैरेवेति। १. 'साधारणतानियामकम्'. २. आधुनिकपुस्तकेषु तु 'पुनश्चेयम्' इत्युपलभ्यते.

Page 139

१३६ काव्यमाला।

मणिभिरभ्यधीयत । तदप्यह्द्यमेव। 'देवतुल्यैनरैर्भाति स देशः सुमनो- हरः' इत्यादौ वाच्यभूतवस्तूपस्कारिकाया देवोपमाया अक्रोडीकरणात्। नह्यत्र स्ववैचित्र्यमात्रे विश्रान्तिरस्ति गुणानां प्रधानसान्निध्ये स्वातब्र्या- योगात्। नापि व्यज्नयोपकारकत्वमेवालंकाराणामिति नियमोऽस्ति। अलंकारभूतोपमासु स्ववैचित्र्यमात्रविश्रान्ताया उपमाया असंग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्गयत्वविशेषणदानदुराग्रहः। असंग्रहे तु तत्रैवालंकारभूतोपमालक्षणस्यातिव्याप्तरिति प्रागेवावेदनात्। अहो महदेवेदमन्याय्यम्-यदलक्षणीयायाश्च स्ववैचित्र्यमात्रविश्रान्ताया उप- मायाः संग्रहः, लक्षणीयायाश्च प्रागुक्तासूयालंकारभूताया असंग्रह इति प्राचां तूपमासामान्यं लक्षयतां ध्वन्यमानाया इव वाच्याया अपि स्ववै- चित्र्यमात्रविश्रान्तायाः संग्रहो नानुचितः । न तु स्वस्य यलेन ध्वन्य- मानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य। यदि च प्रबन्ध- व्यज्गयोपस्कारकत्वेनेयं संगृद्यत इत्युच्यते, तदा 'स्वचैचित्र्यमात्रविश्रान्ता' इति खोक्तिर्विरुद्धा स्यात्। 'अनन्तरत्प्रभवस्य' इत्यत्र गुणसमूहसमा-

अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति। तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः। इयं स्ववैचित्र्यमान्नविश्रान्ता। विरुद्धा स्यादिति । वस्तुतस्तु-उपमासामान्य- लक्षणस्यापि प्रकृतत्वेनोपमासामान्यस्यैवायं विभाग:। उपमानोपमेयतावच्छेदक- योर्भेदाच्ास्त्येवोपमितिनिष्पत्तिः। अत एव 'सेयमुपमा' इत्येवोक्तम्। नत्वलंकार इंति। 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तूकार्थोपपाद- नपरैव मुखकर्तृकनयकर्मकशिशिरीकरणस्यैव कव्युक्तस्येन्दूपमयैवोपपत्तेः। उक्ता- र्थोपपादनेत्यस्य चोक्तार्थस्योपपादनम्, उक्तार्ये वोपपादनमित्यर्थद्वयम्। विनिग- मनाविंरद्दात। इति न दोष इति चिन्त्यमिदमिति बोध्यम्॥ उक्तार्थोपपादनप- रोपमायास्तदुक्तमुंदाहरणं दूषयति-अनन्तेति। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणे-

Page 140

चित्रमीमांसाखण्डनम्। १३७

नाघिकरणे एको दोषो दोषत्वेन न स्फुरतीत्यस्यार्थस्य पूर्वार्धप्रतिपादि- तार्थसमर्थनात्मकस्य सामान्यात्मकस्य विशेषरूपोदाहरणप्रदर्शनमन्तरेण सम्यगनाकलनादिन्दुकिरणसमानाधिकरणेडक्के उदाहृतः न तूपमानतया निर्दिष्टः । सामान्याद्विशेषस्य भेदाभावेनोपमितिक्रियाया अनिष्पत्त्या उपमालंकृतेरत्रानवतारादुदाहरणालंकारोऽयमतिरिक्तः । यथा 'इको यणचि' इति वाक्यार्थस्य सामान्यात्मनो विज्ञानायोकारे यकारो दध्यु- दकेकारस्येवेति वाक्यान्तरेण तद्विशेष उदाह्ियते, तद्वदत्रापीति। विशेषस्तूदाहरणालंकारप्रकरणे रसगङ्गाधरादवसेयः । यत्तु 'लुप्तायां बिम्बप्रतिबिम्बादयो नैवं भेदाः । तस्यां साधारणधर्म- स्यानुगामितानियमात्' इत्युक्तम्, तन्न । 'मल्य इव जगति पाण्डुर्वल्मीकसमो नृपोऽम्बिकातनयः । जम्वूनदीव कुन्ती गान्धारी सा हलाहलेव सरित् ।।' इत्यत्रानुगामिधर्मस्याप्रत्ययाच्चन्दनानां पाण्डवानाम्, सर्पाणां दुर्योधना- दीनां च विम्बप्रतिबिम्बभावस्यैवोपमानिर्वाहकत्वात्। न च श्रौतोपादान- मन्तरेण नास्ति बिम्बप्रतिबिम्बभाव इति वाच्यम् । आर्थबिम्बप्रतिबिम्बने तदनपेक्षणात्। अत एवाप्रस्तुतप्रशंसायां वाच्यव्यङ्गयवाक्यार्थावयवानां बिम्बनमप्रत्यूहम् ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमाप्रकरणदोषाः।

ष्विवाङ्क: ॥l' इत्यत्रेत्यर्थः । स्फुरतीत्यस्यार्थस्य तृतीयचरणप्रतिपाद्यस्य। तत्त्वना- निर्दिष्टत्वे हेतुमाह-सामान्येति। अनवतारादिति। अग्रे तथा चेति शेषः। अलंकारोऽयमतिरिक्त इति। 'अदत्वा मादशो मा भूदृत्वा त्वं

१. 'सामान्यरूपस्य'. २. 'करणेंडशुके'.

Page 141

१३८ काव्यमाला।

अथोपमेयोपमाप्रकरणदोषा :- यत्तु प्राचीनलक्षणमव्यात्यादिभिर्दूषयित्वा 'अन्योन्येनोपमा बोध्या व्यक्त्या वृत्यन्तरेण वा। एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥' इति स्वयं लक्षणं निरमीयत । अस्यार्थः सपदकृत्यः संक्षेपेण तदुक्त- रीत्या सहृदयानां सौकर्यायोच्यते-अन्योन्येनेति। अन्योन्यप्रतियोगि- कत्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या, एकधर्माश्रया एकधर्मप्रयोज्या या उपमा सा उपमेयो- पमा मतेत्यन्वयः । अन्योन्येनेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरासः। अन्रान्योन्यप्रतियोगिकत्वस्य व्यञ्जनव्यापारगम्यत्वेनोपमायाश्च शैक्तिवेद्यतया परस्परनिरपेक्षेणैकेन व्यापा रेणान्योन्यप्रतियोगिकत्वविशि- ष्टायास्तस्या अबोधनात्। परस्परनैरपेक्ष्यस्य लक्षणे वाकारेणाभिधानात्। एकधर्माश्रयेति विशेषणात्।

मितिक्रिया निष्पत्तेरुपमालंकारव्यवहारस्य च सर्वसंमतत्वेन तद्वदिहापि सामान्यधर्म- विशेषधर्मयोस्तयोर्भेदेन तन्निष्पत्तेः संभवादुदाहरणालंकारो मास्त्वतिरिक्त इति तदाशयात्। चिन्त्यमेतत्। 'उदकोदकारे दधीकारस्य यः' इति पाठः ॥ प्राचीनेति। 'उपमानोपमेयत्वं द्वयोः पर्यायतो यदि। उपमेयोपमा सा स्याद्विविधैषा प्रकीर्तिता ॥।' इत्यर्थः । अव्याप्तीति। 'तद्वल्गुना युगपदुन्मिषि- तेन तावत्' इत्यत्राव्याप्तिः । 'रजोभि: स्यन्दनोदूतैः' इत्यन्नातिव्याप्तिरिति भावः। तृतीयार्थः प्रतियोगित्वमित्याशयेनाह-अन्योन्यप्रतीति। लक्षणाया असंभ- वादाह-शक्त्येति। इवादिसत्त्वे इति भावः । विश्रान्तेति। उभयत्र पर्य- वसिता न श्रौती तस्यामित्यर्थः । शक्तीति। सप्तंपदे(?)त्यादिः। ननु मिथो निरपेक्षत्वं न निविष्टमत आह-परस्परेति। अन्यथा पक्षान्तरकथनासंगते-

Page 142

चित्रमीमांसाखण्डनम्। १३९

'रंजोमि: स्यन्दनोद्धूतैर्गजैश्र घनसंनिमैः। भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ।।' इत्यत्र परस्परोपमायां नातिव्याप्तिः । तत्रोपमाप्रयोजकधर्मैक्याभावात्। भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि- कायां प्रयोजकस्य घनसदशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात्। व्यक्त्येति च विशेषणं व्य्गयोपमेयोपमासंग्रहार्थमितीदमुप- मेयोपमात्वप्रयोजकं लक्षणमिति, तन्न । 'अहं लतायाः सदृशीत्यखर्व गौराङ्गि खेदं न कदापि यायाः। गवेषणेनालमिहापरेषामेषापि तुल्या नितेरां भवत्याः ॥।' अत्र 'षष्ठयन्तात्सदशादयः शब्दाः सादृश्यप्रतियोगिवचनाः' इत्युक्त- तयान्योन्यप्रतियोगिकत्वविशिष्टाया उपमायास्तनुत्वादिरूपैकधर्माश्रयाया वृत्त्यन्तरेण शक्त्या बोधनादुपमेयोपमात्वापत्तेः । न चात्रान्योन्यप्रति- योगिकत्वमुपमायां न प्रतीयते। लतादिसंबन्धिसादृश्याश्रयत्वस्यैवास्म-

रिति भावः। रजसामिति। प्रयोजकीभूतरजोभिन्नानुगामिधर्मस्येत्यर्थः। समा- नविभक्तिकत्वस्येव समानवचनत्वस्याभेदान्वये न तत्रत्वमिति भावः । एवमग्रेऽपि। घनगजयोभेंदेन साधारणत्वं कथमत आह-बिम्बेति। प्रयोजकमिति। अनुगतानतिप्रसक्तलक्षणमान्रं तु-'सदृशस्य तृतीयस्य व्यवच्छेदाय यद्योः । अन्योन्येनोपमेयत्वमुपमेयोपमा मता ॥' इति द्रष्टव्यम्। अत्रान्योन्येनेति विशेष- णम् 'अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्थमिति भावः। अह- मिति। लतानुयोगिकसादृश्याश्रयावहमित्यर्थः। अखर्वे महान्तम्। एषा- पीति। त्वदतुयोगिकसादृश्यप्रतियोगिकेत्यर्थः । अत्रेत्यस्य इतीत्यादिः। तनुत्वे- त्यस्य अनुपात्तेत्यादिः। लतादीति। लताद्यनुयोगिकसादृश्यप्रतियोगिकत्वस्यैवे- त्यर्थ: । एतेन सादृश्यव्यवच्छेदः। सादृश्यादिपदानां धर्मिबोधकत्वात्। एवं च १. रसगङ्गाधरे त्वत्र 'रजोभिमूरिव दयौर्घनसंनिभैर्गजैश्च दयौरिव भूरिति कस्यचित्पद- स्यार्थे परस्परोपमायां नातिव्याप्तिः'इति पाठः. २ 'तव तावदस्ति' इति रसगङ्गाधरे पाठ:,

Page 143

१४० काव्यमाला।

स्पदार्थेऽन्वयादिति वाच्यम्। 'मुखस्य सदशश्चन्द्रश्चन्द्रस्य सदशं मुखम्' इत्युपमेयोपमायामव्याप्ेः । नहि 'अहं लतायाः सदृशीत्यखर्वम्' इत्य- त्रोपमेयोपमा भवितुमर्हति। गर्वमात्रनिरासपर त्वेनोत्तरार्धगतोपमायास्तृ- तीयसदृशव्यवच्छेदाप्रतिपत्तेः । अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषां गवेषणेन किं फलमित्येतदर्थकं गवेषणेनेत्युत्तरार्घ संग- चछते। 'तृतीयसब्रह्मचारिव्यवच्छेदो हयुपमेयोपमाजीवितम्' इत्यालंका- रिकसिद्धान्तात्। अन्यथा 'रजोभि: स्यन्दनोदूतैः' इति प्रागुक्तपरस्प- रोपमावारणप्रयासवैफल्यप्रसङ्गात्। न च तृतीयसद्दशव्यवच्छेदफलक- त्वमुपमाविशेषणमिति वाच्यम्। विशेषणान्तरवैयर्थ्यापत्तेः । तद्विशेष- णव्यावर्त्यानामाधुनिकविशेषणेनैव वारणात्। अन्योन्यप्रतियोगिकत्व-

सादृश्यस्य तन्रान्वये इयम्, न तु तत्रेति भावः । मुखस्येति। तन्रापि सदृश- पदसत्त्वेन तत्तुत्ययोगक्षेमत्वादिति भावः। नन्वेवं तथा दुर्वचमिति यथतत्संग्रहं- स्तथाह-लताया इति। अस्यापि संग्रह इष्ट एवेत्यतिव्याप्तिर्नात आह- नन्त्यमिति। (?)। ननु तन्मात्रपरत्व एव किं बीजमत आह-अत एवेति। तत्परत्वेन तस्याः साफल्यादेवेत्यर्थः । उत्तरार्ध तदेकदेशः । अन्यथा तुर्यचरणे- नैवेष्टार्थलाभे मध्ये एतत्कथनानर्थक्यं स्पष्टमेवेति भावः । नन्वेवमपि तृतीयसद- शव्यवच्छेद प्रतीतावेवेयमित्यत्र किं विनिगमकमत आह-तृतीयेति। सव्र- होति। सदृशेत्यर्थः । एवमग्रेऽपि बोध्यम्। 'सिद्धान्तः' इति पाठः। 'सिद्धा- न्तात्' इत्यपपाठः । अन्यथा तस्य तज्जीवितत्वानङ्गीकारे । वाच्यमिति। 'अहं लतायाः' इत्यत्राति[व्याप्ति]वारणायेदानीं वक्तव्यमित्यर्थः । विशेषणान्तरेति। अन्योन्येनेत्यादीत्यर्थः। नन्वेवं कथमुक्तदोषनिरासोऽत आह-तद्विशेष- णेति। विशेषणान्तरेत्यर्थः। तदुक्कमन्यहूषयति-अन्योन्येनेति। प्रति- योगित्वस्येति। अनुयोगित्वविशिष्टेत्यादिः। ननु तस्य वृत्तिविषयत्वं कुतो

१. 'उत्तरार्धमपि'. २. 'भुवस्तलमिव व्योम कुर्वन्न्योमेव भूतलम्' इत्यत्राप्युपमे- योपमत्वनिवारणप्रयासवैयर्थ्यापत्तेः' इति. रसगङ्गाधरे पाठ :.

Page 144

चित्रमीमांसाखण्डनम् । १४१

विशिष्टोपमैकवृत्तिमात्रवेद्येत्यप्ययुक्तमेव। 'खमिव जलं जलमिव खम्, हंसश्चन्द्र इव हंस इव चन्द्रः' इत्यादौ खजलयोश्चन्द्रहंसयोश्च सादृश्या- न्वये प्रतियोगित्वस्य संसर्गत्वेन वृत्त्यविषयत्वात्। 'वृत्तिवेद्यानां पदा- र्थानां संसर्गो वृत्त्यवेद्यः' इति तात्पर्यवृत्तिमनङ्गीकुर्वाणैर्वाक्यविद्भिरभ्यु- पगमात् । अन्यथा प्रकारतापत्तेः ॥ इति श्रीभट्टभट्टारकपेरुभट्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने उपमेयोपमाप्रकरणदोषाः।

अथानन्वय :- यच्च-"अयमनन्वयो व्यङ्गयोऽप्यस्ति 'अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।।' अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्यम्। 'इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेन्नान्येन, इत्युक्ति- भङ्गया 'त्वदागमनप्रभवप्रीतेः सैव सदशी, नत्वितरप्रभवा' इति व्यज्यते इत्यभिहितम्, तन्न। 'अमुष्यास्त्वदागमनप्रभवायाः प्रीतेर्वारान्तरत्वदा- गमनप्रभवा प्रीतिः सदृशी' इति प्रत्ययस्य सर्वजनसिद्धतया श्रीकृष्णागमन- जन्यप्रीतिसामान्यावयवयोर्द्वयोः प्रीतिव्यक्तयोः सादृश्यस्याबाघाद्योगार्था-

नेत्याह-वृत्तीति। उक्तग्रन्थस्यैकवृत्तिमात्र वेद्यत्वे न तात्पर्य किं तु वृत्तिद्वय- वेद्यत्वाभावे। यद्वा तज्जन्यप्रतीतौ यथाकर्थचिद्भासमानत्वमेव तन्मान्नवेद्यत्वम्। अस्ति च 'खमिव जलम्' इत्यादौ। नास्ति च तत्रेति तन्निरास इत्याशयेनादो- षाचिन्त्यमिदम् ॥। अमुष्या इति। यत इत्यादिः। व्यक्तयोदितभेदेनेति शेषः। योगार्थेति। १. 'प्रतियोगिकतवस्य'.

Page 145

१४२ काव्यमाला।

भावेनानन्वय एव नायं भवितुमर्हति, 'स्वस्मिन्स्वसादृश्यस्यान्वया- भावादनन्वयः' इत्युपमाप्रकरणे ख्यमेवाभिधानात्। उपमेयस्य प्रीति- व्यक्तिविशेषस्य सदृशान्तरव्यवच्छेदे बाधात्तादशप्रीतिसामान्यस्यावय- विनो निरुपमतया प्रतीयमानस्यानुपमेयत्वेन फलवैयधिकरण्यप्रसङ्गाच्च।। न चात्र 'श्रीकृष्णागमनप्रीतिसामान्यावयविनः खेन सादृश्यं मध्ये प्रती- यते' इति शपथः कर्तुमुचितः । सहृदयत्वभङ्गप्रसङ्गात्। प्रयोजनविर- हाच्च ॥ श्रीकृष्णागमनप्रभवप्रीतिसामान्यस्य निरुपमत्वसिद्धिरेव प्रयोज- नम्-इति चेत् न। एतत्कालावच्छिन्नकालान्तरावच्छिन्नतादृशप्रीति- व्यक्त्योरवयवयोरुपमानोपमेयभावेनैवावयविनि तत्सिद्धेः। यथा- 'एतावति प्रपश्चे सुन्दरमहिलासहस्त्रभरितेऽपि। अनुहरति सुभग तस्या वामार्ध दक्षिणार्धस्य ।।' इत्यादाववयवयोर्वामार्घदक्षिणार्घयोः सादृश्येनावयविनः कान्तारूपस्या- नुपमत्वं प्रतीयते। एवमिहापि ॥-नहि तत्रापि निरूपमत्वप्रतीत्या- वयविनः खेन सादृश्यप्रत्ययोऽन्तरा कल्प्यते-इति वाच्यम्। निरुप- मत्वप्रतीतेरनन्वयनैयत्यविरहात्। अन्यथा 'गगनपुप्पमिवास्य वचः सखे' इत्यादिकल्पितोपमायामपि निरुपमत्वप्रत्ययेनानन्वयकल्पनापत्तेरिति न किंचिदेतत् ॥। 'रत्नाकरोक्त्तस्यैवानन्वयप्रकारविशेषस्यात्र व्यङ्नयता' इत्यपि वक्तुमयु-

अनन्वयपद्योगार्थत्यर्थः । ननु रूढमेवानन्वयपदमभिमतमत आह-स्वस्मि- न्निति। व्यवच्छेदे बाधादिति। तस्य व्यवच्छेदकरणेऽसामर्थ्यादित्यर्थः । कालान्तरस्थप्रीतिव्यक्तिविशेषस्य सदृशस्य सत्त्वादिति भावः। तादृशेति। श्रीक- ष्णागमनजन्येत्यर्थः। महिला स्त्री। दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी। अन्रोपमेयं समुदिता नायिका॥ ननूक्तरीत्या न व्यज्कत्वम्, किं तु रत्ना- करोक्रीत्येति नोकदोषोऽत आह-रतनेति। तस्य प्रकारस्य प्रकृतेऽवाच्य-

Page 146

चित्रमीमांसाखण्डनम्। १४३

क्तमेव । तस्य रसगङ्गाधरेऽस्माभिर्निरस्तत्वात्। प्रकृतेऽवाच्यत्वात्। स्वयमनन्वयप्रकरणे तस्यानुक्तत्वाच्च। इदं पुनरनन्वयध्वनेरुदाहरणं मदीये गङ्गास्तवे- 'नगेभ्यो यान्तीनां कथय तटिनीनां कतमया पुराणां संहर्तु: सुरधुनि कपर्दोऽधिरुरहे। कया वा श्रीभर्तुः पदमितरयाक्षालि सलिलै- स्तुलालेशो यस्यां तव जननि दीयेत कविभि: ।।' अन्रेतरयेत्येतन्माहात्म्यात् 'त्वयि तु तव तुला दीयेतैव' इत्यनन्वयो निरुपमत्वपर्यवसायी व्यज्यते। यथा वा- 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विवुधैश्च दानवैः। न भविष्यति नास्ति नाभवत्क्षितिप त्वतुलनाघरोऽपर: ॥I' अत्राप्यपरशब्दमहिम्ना 'त्वं तु त्वतुलनाधरो वर्तसे' इति व्यज्यते। तस्याभावे त्वसमालंकार एवेति रसगङ्गाधरे व्यक्तमुपपादितमस्माभिः ॥ इति श्रीभट्टभट्टारकपेरुभद्टात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डनेऽनन्वयप्रकरणम्।

अथ स्मरणालंकारप्रकरणम्। यत्तु- "स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया। स्मरणालंकृतिः सा स्यादव्यङ्गयत्वविशेषिता ।।'

त्वात्। ननु त्वया दूषितोऽपि न मया दूषितः, तत्राह-स्वय· मिति। 'अन्यथा-अलंकारध्वनेर्विषयापहारः स्यात्' इति रत्नाकरोकिं खण्ड- यितुमाह-इदं पुनरिति । नगेभ्यः पर्वतेभ्यः । कपर्दो जटाजूटः।

Page 147

१४४ काव्यमाला।

यथा- 'अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्षीचकार। सपदि गतमनस्कश्चित्रमाल्यानुकीणें रतिविगलितबन्धे केशपाशे प्रियायाः ।'

यथा वा- 'दिव्यानामपि कृतविस्मयां पुरस्ता- दम्भस्तः स्फुरदरविन्दचारुहस्ताम्। उद्दीक्ष्य श्रियमिव कांचिदुत्तरन्ती- मस्मार्षीज्जलनिधिमन्थनस्य शौरि: ।I' एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः, अपरत्र सदृशदर्शनात्त- त्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्य- मूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव-सदशासदशसाधार- प्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत्।

अपीति। रघुवंशे दशरथमृगयावर्णनम्। स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम्। दिव्यानामिति। माघे जलक्ीडावर्णनम्। अम्भस्तो जलातू। मन्थनस्येति। 'अधीगर्थ-' इति कर्मणि शेषे षष्ठी ।। लक्ष्यद्वये बीजमाह- एकत्रेति। आदय इत्यर्थः । इत(अप)रत्र अन्तये। सदृशेति। लक्ष्मीसदृश- नायिकेत्यर्थः । लक्षणं संगमयति-उभयत्रति। तथा च द्वितीयलक्ष्यसंग्रह एव 'वस्त्वन्तरसमाश्रया' इति विशेषणफलमित्याह-अत एवेति। द्वितीयस्य लक्ष्यत्वादेवेत्यर्थः । सदशासदृशेति। स्मृतेः सदृशासदृशान्यतरविषयकत्व-

१. 'इतरत्र' चित्रमीमांसा-रसगङ्गाधरयो: पाठ :.

Page 148

चित्रमीमांसाखण्डनम् । १४५

'सौमित्रे ननु सेव्यतां तरुतलं चण्डांशुरुजम्भते चण्डांशोर्निशि का कथा रघुपते चन्द्रोऽयमुन्मीलति। वत्सैतद्विदितं कथं नु भवता धत्ते कुरङं यतः क्वासि प्रेयसि हा कुरङ्नयने चन्द्रानने जानकि।।'

श्रेति। किंत्वेषा व्यङ्गया अलंकार्यभूता च। तव्यावृत्त्यर्थमव्यङ्गयत्व- विशेषणम्।. 'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्ान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्व- स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचसततो मुद्धिताः ॥' अत्र स्तूयमानभूसंबन्धिनो भूभृतः स्मृतिर्न सादृश्यमूलेति नात्र स्मर णमलंकारः, किंतु स्मृतेः संचारिभावस्य भूमृद्विषयकरतिभावाङ्गत्वात्मरे- योडलंकारः। एतद्यावृत्त्यर्थ लक्षणे 'सादृश्यमूला' इति विशेषणम्" इत्याहुः ॥ तदेतत्सर्वमरमणीयम्। यत्तावदुच्यते-"सदृशासद्ृरयोः

लाभार्थतयेत्यर्थः ॥ अव्यङ्ग्यत्वविशेषणफलमाह-सौमित्रे इति। हनुमच्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम्। नतु निश्चयेन। चण्डांशु: सूर्य: ॥ तन्नयनेति। कुरङ्गनयनेत्यर्थः । तत्सदृशेति नयनविशेषणम्। इति। 'भूता च' इत्यग्रे योज्यः । एषा सीतास्मृतिः। अलंकारसामान्यलक्षणमपि नास्तीत्याह-अलमिति। सीतास्मृतेः प्राधान्यादिति भावः। अत्युच्चा इति। भुवं प्रत्युक्तिरियम्। प्रस्तौमि करोमि। इमां भुवम् ॥ न सादृश्येति। किं तु 'एकसंबन्धि- इति रीत्येति भावः ॥ रतिभावेति। कविनिष्ठेत्यादिः। अरमणीयमिति। वक्ष्यमाणदोषादिति भावः ॥ तमेव दार्व्यायानूदाह- यत्तावदिति । तत्र उच्यमाने तस्मिन् । ब्रूम इति शेषः । तदाह १० चि० मी०

Page 149

१४६ काव्यमाला।

केशपाशजलनिधिमन्थनयोः संग्रहाय लक्षणे वस्त्वन्तरग्रहणमर्थवत्" इति, तत्र 'सादृश्यमूला स्मृतिः स्मरणालंकारः' इत्येतावतैव केशपाश- स्मरणस्येव जलनिधिमन्थनस्मरणस्यापि संग्रहाद्वस्त्वन्तरसमाश्रयत्वविशे- षणमनर्थकम्। एकत्र सादृश्यदर्शनोद्वुद्धसंस्कारजन्यत्वेन, अपरत्र च सादृश्यदर्श नोद्दुद्धसंस्कारजलक्ष्मीस्मरणोद्वुद्धसंस्कारजन्यत्वेन च, साद- श्यमूलकत्वस्याविशेषात्। नहि 'सादृश्यमूला' इत्युक्ते 'सदशविषया' इति लभ्यते। येन जलनिधिस्मृतेरसंग्रहः स्यात् ॥ * ॥ यदपि- "सौमित्रे ननु सेव्यातम्-' इत्यत्र स्मृतिर्व्यज्ञयालंकार्यभूता च.। तद्या- वृत्त्यर्थमव्यङ्गयत्वविशेषणम्-" इत्युक्तम्, तत्र नेयं स्मृतिरलंकार्यभूता, किं तु जानक्यालम्बनो निशासमयोद्दीपितः संतापादिनानुभावित उन्मा- देन च संचारिणा परितोषितो विप्रलम्भः प्रधानत्वेनालंकार्य:, तस्य स्मृतिरुत्कर्षहेतुत्वादलंकार एव, अतो नितरां तद्यावृत्त्यर्थमव्यङ्गयत्व- विशेषणमनुचितम्। नहि व्यङ्गयत्वालंकारत्वयोर्विरोध इति बत्तुं शक्यम्, नित्यव्यङ्गचानां रसभावादीनां पराङ्तायामलंकारत्वाभ्युपग-

सादृश्येति। एवमग्रेऽपि। केशेति। तस्य सदृशत्वेन दृष्टान्तत्वमिति भावः। स्यादिति। इतीति शेषः । सादृश्यपदस्य नियमसंबन्धिकतया संबन्ध्याकाङ्णा- यामुपस्थितमर्यमाणस्यैवान्वयापत्तिः । न हि 'जनकत्वमूला पूज्यते' इत्युक्ते पुत्र- जनकत्वेन भार्या पूज्यते। अतो 'वस्त्वन्तरसमाश्रया' इत्यावश्यकमिति चिन्त मिदम् ॥ नेयं स्मृतिरलंकार्यभूतेति। अत्र स्मृतेः 'हा क्कासि' इत्यादिप- दगम्यत्वेन विवहनप्रवृत्तराजानुगम्यमानमृत्यवत्। 'शठेन विधिना निद्रादरिद्री- कृतः' इत्यादौ शठादिपद्गम्यासूया बुद्धा, तस्या एव प्राधान्यादलंकार्यत्वम्। अनुपस्कारकत्वाच्च विप्रलम्भस्यैव तत्त्वाच्चेति चिन्त्म्।। विग्रलम्भः श्रीराम- चन्द्रनिष्ठः । नितरामित्यस्यानौचित्येऽन्वयः । तदाशयं खण्डयति-नहीति॥ नित्येति। सर्वथेत्यर्थः । कदाप्यवाच्यलक्ष्येति यावत्। नन्वेवं प्राधान्येऽप्यलं

Page 150

चित्रमीमांसाखण्डनम्। १४७

मात्। प्रधानव्यङ्गयव्यावृत्त्यर्थ पुनरुपस्कारकत्वं सर्वेष्वप्यलंकारलक्षणेषु देयमिति प्रागेवावेदितम्। यदप्युक्तम्-"'अत्युच्चाः परितः स्फुरन्ति- इत्यत्र स्मृतेः संचा- रिभावस्य भूभृद्विषयकरतिभावाङ्गत्वात्प्रेयोलंकारत्वम्" इति। तत्र हि भावस्य भावाद्यङ्गतायां प्रेयोलंकारत्वम्। न ह्यन्र स्मृतिर्भावः, तस्याः स्मरतिना वाचकेनाभिधानात्। नहि वाच्यस्य व्यभिचारिणो भावत्वं वत्तुं युक्तम्। 'व्यभिचार्यज्जितो भावः' इति सिद्धान्तस्य भङ्गापतेः। तथा चोक्तं सर्वस्वकृता-"प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्ो- त्थापिता स्मृतिर्विषयः । तत्रापि विभावाद्यागूरितत्वे। यथा-'अहो क्ोपेऽपि कान्तं मुखम्' इति, नतु सशब्दनिवेद्यत्वे। यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन निवृत्तखवेदः । रहस्त्वदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ।।' इत्यादौ" इति ॥ ननु-'भावादङ्गीभूतभावत्वं न प्रेयोलंकारत्वम्) अपि तु-भावाद्यङ्गीभूतसंचारित्वमात्रम् । तथा च प्रक्ृते स्मरणस्य स्वशब्दनिवेद्यत्वेन भावत्वविरहेऽपि संचारित्वानपायात्प्रेयोलंकारत्वम- विरुद्धमेव-' इति चेत्। एवं तर्हि 'इतरांङ्गीभूतस्थायित्वमात्रं रसा-

कारत्वापत्तिरत आह-प्रधानेति। सर्वेषु न त्वत्रैव। तथा चालंकारसामा- न्यलक्षणप्राप्तत्वात्तस्य नातिप्रसङ्ग इति भावः ॥ सिद्धान्तेति। मम्मटभट्टादी- नामिति शेषः । तद्रन्थमाह-प्रेयोलमित्यादि इतीत्यन्तेन। तत्रापि तदुक्तस्यापि, न स्मृतिष्वपि। आगूरितत्वे आविष्कृतत्वे। अत्रेति। पुष्पकेण लड्ढातोऽयोध्यां गच्छतः श्रीरामस्य सीतां प्रत्युक्तिरियं रघुवंशे। अनुगोदं गोदा- समीपे॥ वानीरेति। तृणधान्येत्यर्थः । सुपं खापः। इष्टापत्तिं परिहरति- १. 'तन्न । भावस्य हि' इसि रसगङ्गाधरपाठः.

Page 151

१४८ काव्यमाला।

लंकारत्वम्, नतु व्यज्यमानत्वविशिष्टम्' इत्यस्यापि सुवचत्वात्। एवं च 'चराचरोभयाकारजगत्कारणविग्रहम्। कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ।।' इंत्यत्र क्ोधस्य स्वशब्दनिवेद्यत्वेऽपि देवताविषयकरतिभावाङ्गीभृतस्था- यित्वानपायाद्रसालंकारः स्यात्। न च-इष्टापत्तिः । अपसिद्धान्तात् I तस्माद्-व्यज्यमानस्यैव संचारिणो भावादङ्गतायां प्रेयोलंकारत्वम्- इति नान्र स्मृतिमादाय प्रेयोलंकारत्वं वाच्यम्। किं तु भूविषयकरतेः

रता। उक्तं च मम्मटभट्टैः-'अत्र भूविषयो रत्या्यो भावो राज- विषयकरतिभावस्य' इति॥ अपि च महदिदमाश्चर्यम्। यत्सवेनैव निर्मितः कुवलयानन्दारव्यः संदर्भोऽपि विस्मृतः । उक्तं च तत्र शेष- भागे-'विभावानुभावाभ्यामभिव्यञ्जितो निर्वेदादिः स यत्रापरस्याङ्कं स प्रेयोलंकारः इति। इति श्रीभट्टभट्टारकपेरुभटटात्मजेन पण्डितराजापराभिधानेन जगन्नाथभट्टेन निर्मिते चित्रमीमांसाखण्डने स्मरणालंकारप्रकरणम्।

एवं चेति। तथा सुवचत्वे चेत्यर्थः। स्वशब्दस्येति। क्रुद्धमितीत्यर्थः ॥ रतिभावेति। कविनिष्ठेत्यादिः । स्मृतिमादायेत्युक्तिफलमाह-किं त्विति। एवं च प्रेयोलंकारस्य सत्त्वेऽपि त्वत्कृतं तदुपपादनं चित्रमीमांसास्थमयुक्तमिति भाव: । भावस्येति। अङ्गमिति शेषः । सवनैव अप्पदीक्षितेनैव। तत्र कुवल- यानन्दे। निर्वेदादिस्या्निंशत्। अपरस्य भावादेः ॥

१. 'व्यज्यमानस्यैव स्थायिन: पराङ्गत्वे यथा रसालंकारत्वम्, एवं व्यज्यमानस्यैव सं०' इति रसगङ्गाधरपाठः २. 'इति रसगङ्गाधरान्तर्गतचित्रमीमांसाखण्डनसंग्रहे सरणालंकारप्रकरणम्' इत्यादर्शस्थपाठ :.

Page 152

चित्रमीमांसाखण्डनम्। १४९

अथ रूपकप्रकरणम्। यत्तु- "बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते। उपरञ्जकतामेति विषयी रूपकं तदा।। अत्र 'बिम्बाविशिष्टे' इति विशेषणात् 'त्वत्पादनखरलानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधो: इति निदर्शनाया निरासः, तत्र विषयस्य मार्जनस्लक्तकादिरूपबिम्ब- विशिष्टत्वात्। 'निर्दिष्टे' इति विशेषणान्निगीर्णविषयायां 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नाति- व्याप्तिः । अनिह्रुते निषेधास्पृष्टे इति विशेषणादपह्नुतौ नातिव्यापिः। 'उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेति' इत्यनेन ससंदेहोत्प्रेक्षयो- र्निश्चयस्यैवाभावात् । समासोक्तौ व्यवहारमात्रसमारोपात्। परिणामे चारोप्यमाणस्यैव विषयताद्रप्यनिश्रयगोचरत्वात् । आ्रन्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकत्रमस्यैव निबन्धनेन तस्या- नाहार्यत्वात्" इत्याहुः ॥ तन्न, 'त्वत्पादनखरलानाम्' इत्यादिनिदर्शना- व्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव। तत्र वाक्या- र्थरूपकस्य वक्ष्यमाणत्वेन लक्ष्यत्वात्। यदि च 'मुखं चन्द्रः' इत्यादि-

बिम्बेति॥ अयं भाव :- यथा चन्द्रः खतः शुभ्रत्वादनासज्ञनीयधावल्यः, तथा नखाः खतोऽरुणत्वादनासञ्जनीयारुणा इति सादृश्येन नखानां चन्द्रस्व च बिम्बप्रतिबिम्बभावः । अलक्तक्रचन्दनयोरन्यत्र स्ववर्णोसजकत्वेन सः। तथा च बिम्बप्रतिबिम्बभावो यत्र नखालक्तकविशिष्ट एव रजने तत्प्रतिबिम्बभूतचन्द्रच- न्दनविशिष्टं पाण्डरीकरणमुपरञजकम्-इवि। निर्दिष्ट इति। उच्चारित

Page 153

१५० काव्यमाला।

रूपकान्तर इवात्रापि वस्तुविशेषे वस्त्वन्तरतादात्म्यारोपे सत्यपि नेदं रूपकम्। अपि तु निदर्शना-इत्यागृह्यते। तदा 'मुखं चन्द्रः' इत्यपि निदर्शना-इत्युच्यताम्। निरस्यतां च रूपकम् ॥ किं च-'इन्दु- शोभां वहत्यास्यम्-' इत्यादिपदार्थनिदर्शनायां कथमन्यस्यान्यः शोभां वोढुं समर्थ इति संबन्धस्यानुपपन्नत्वात्तच्छोभासदृशी शोभा लक्ष्यमाणा चन्द्रशोभया विषयिस्था निगीर्णेति साध्यवसानलक्षणामूलत्वं तावन्निर्वि- वादम्। वाक्यार्थनिदर्शनायां तु विषयविषयिणोरुपादानेऽप्यार्थ एवा- रोपो न शाब्दः। यथा- 'त्वत्पादनखरतानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इत्यत्र। इह त्वत्पादनखरत्नकर्मकं यावककरणकं रञ्जनम्, इन्दुकर्मक- चन्दनलेपकरणकपाण्डुरीकरणभिन्नमित्यारोपस्य व्यङ्ञयत्वाद्भवति निद- र्शना। 'त्वत्पादनखरतानाम्' इत्यत्र तु विषयविषयिणोः प्रथ[मा]न्त- शब्दोपात्तयोरभेदसंसर्गेण बोधाच्छाब्द एवारोपो नार्थ इति रूपकमेव युक्तम्, न निदर्शना। रूपके बिम्बप्रतिबिम्बभावो नास्तीति तु आ्रान्ति- मात्रम्, 'ययोरिवादिशब्दप्रयोगे उपमा, तयोरेकत्रान्यारोपे रूपकम्' इति नियमादत्र यदि रूपकं नाङ्गीकुरुषे, मैवाङ्गीकुरु तर्हि तत्रेवयथादे: प्रयोगे उपमामपि। एवम्- 'त्वयि कोपो महीपाल सुधांशाविव पावकः ।' इत्यादौ स्वकल्पितेन विशिष्टेन धर्मिणा सादृश्यस्य प्रत्ययादुपमां त्रूषे, जूहि तर्हि तत्रैवेवस्य निरासे

इत्यर्थः ॥ तत्र येन यस्य व्यावृत्तिस्तत्क्रमेणाह-सममिति॥ अगोचरत्वे

Page 154

चित्रमीमांसाखण्डनम्। १५१

'त्वयि कोपो महीपाल सुधांशौ हव्यवाहनः ।' इत्यादौ रूपकमपि, तथा 'कुङ्कुमद्रवलिपाङ्ग: कषायवसनो यतिः। कोमलातपबालाभ्रसंध्याकाल इवाबमौ ।।' इत्यत्र 'संध्याकालो न संशयः' इति कृते रूपकं भवितुं युक्तम्। 'त्वयि कोप :- ' इत्यत्र 'कल्पितं रूपकम्' इह तु न तथेति विशेषः ॥ न च- एवमादौ प्रतीयमानोत्प्रेक्षा-इति वाच्यम्, निश्चीयमानत्वेनाभेदस्य भानात् ॥ किंच-आलंकारिकसंमतोऽयं रूपके बिम्बप्रतिबिम्बभावः । उक्त्त हि विमर्शिन्याम्- 'कंदर्पद्विपकर्णकम्बुमलिनैर्दानाम्बुभिः क्षालितं संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः। व्योमानोकहपुष्पगुच्छमलिभि: संछाद्यमानोदरं पश्यैतच्छशिनः सुधासरुचिरं बिम्बं कलङ्काङ्कितम् ।।' अत्र कलङ्कस्य दानाम्ब्वादिभिः प्रतिबिम्बनम्, लाञ्छितत्वाङ्कितयोः शुद्धसामान्यारूपत्वम्-इति ॥ तथा 'निर्दिष्टे शब्देनाभिहिते' इत्यस्य 'येन केनचिद्रूपेण शब्देनाभिहिते' इत्यर्थः, आहोस्वित्-'उपमेयता- वच्छेदकरूपेण शब्देनाभिहिते' इत्यर्थः, आद्ये- 'सुन्दरं कमलं भाति लतायामिदमङ्भुतम्।' इत्यत्रातिशयोक्तावतिप्रसङ्ग:, सुन्दरपदेन सुन्दरत्वेन रूपेणेदंपदेन वान-

क्रमेण हेतू आह-समेति। अत्र त्वत्पादेत्यन्न कंदपेति। सर्वत्र षष्ठीतसपु- रुष: । कम्वुः शङ्कः। कलं रमणीयम् । 'अनोकहः कुटः शालः' ॥ शुद्ध- सामान्येति। अनयोर्वस्तुप्रतिवस्तुभावापन्नत्वादिदं चिन्त्यम्॥ द्वितीयविशे- घ्रणं दूषयति-तथेति। आहोखित् अथवा। इत्यन्र रूपकातिशयोकि-

Page 155

१५२ काव्यमाला।

नस्य प्रतिपादनात्। न च-अत्र सुन्दरपदार्थस्यारोप्यमाणकमलान्वय एव, न तु वदनरूपविषयान्वयः-इति वाच्यम्, कमलपदेन कम- लताद्रुप्येणाननस्यैव लक्षणयोपस्थापनात्तत्रैव सुन्दरादिपदार्थान्वयो युक्तः, न तु विशेषणीभूतेषु कमले ।। अथ 'तादृशं विषयमुद्दिश्य विषयिताद्रुप्यं यत्र विधीयते' इत्यपि लक्षणवाक्यार्थः । प्रकृते च् सुन्दरत्वावच्छिन्नमुद्दिश्य कमलताद्रूप्यस्याविधानान्नातिप्रसङ्ग :- इति चेत्, न 'मुखचन्द्रस्तु सुन्दरः' इत्यादिरूपके समासं गतयोर्विषयविष- यिणो: पृथग्विभक्तिमन्तरेणोद्देश्यविधेयभावाबोधादव्यात्यापत्तेः ॥ द्वितीये तु-'अनिहुत-' इति विशेषणवैयर्थ्यम्, अपह्वुतावुपमेयतावच्छेदकस्य निषिध्यमानतया तेन रूपेण विषयस्यानिर्दिष्टत्वादेव लक्षणस्याप्रसक्तेः।

विषये। अन्वय एवेति। तत एव चमत्कारात्सांनिध्याच्चेति भावः। रूपका- विशयोकिं ध्वनयितुमाह-कमलेति। तत्रैव आनन एव। न त्विति। 'पदार्थः पदार्थेन-' इति न्यायादिति भावः। तादशं येनकेनचिद्रूपेण शब्देना- भिहितम्। इत्यपि उद्देश्यविधेयभावघटितोऽपि। अविधानादिति। तादृश- माननसुद्दिश्य भानक्रियाया एव विधेयत्वादिति भावः । यद्वा सुन्दरत्वादेः कमल- त्वादिविशिष्टे विशेषणत्वमेवोद्देश्यतावच्छेदकत्वम्। इयांस्तु विशेष :- यदतिश- योक्तावुपमेयधर्मस्योद्वेश्यतावच्छेदकत्वाभाव एव, रूपके त्वनियमः, इतीति भावः ॥ अत एवाह-मुखचन्द्रस्त्विति। पृथगिति। उद्देश्यविधेयभावेन बोधे भिन्नविभक्िजन्योपस्थितेस्तन्र्वात्। तथा च व्यस्ते तथा प्रतीतिः, न समस्ते इत्यन्नाव्याप्तिरिति भावः । ननूपमेयतावच्छेदकरूपेण शब्देनाभिहिते इति तदर्थेन प्रागुक्तदोषोऽत आह-द्वितीये त्विति। अपहुतौ 'नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम्' इत्यत्र। अनिर्दिष्टत्वादेवेति। अन्न निषेधप्र- वियोगिविधया निर्दिष्टत्वादिदं चिन्त्म्। न च तथा निर्दिष्टत्वेऽपि पुरस्कारा- भाव:, तर्हि तावृत्पर्यन्तविवक्षाबोधनार्थमेवानिह्वत इति विशेषणसाफल्यादिति

Page 156

चित्रमीमांसाखण्डनम्। १५३

निश्चयगताहार्यत्वविशेषणवैयर्थ्य च, भ्रान्तिमति दोषविशेषेण प्रति- षिध्यमानतया नास्त्युपमेयतावच्छेदकस्पर्शः, इति तावतैव वारणात् ।।

लक्षणम्-' इति। तदपि निरस्तप्रायम्। न हि व्यङ्गयत्वालंकारत्वयो- विरोधोऽसि्ति, प्रधानव्यङ्गयरूपकवारणाय पुनरुपस्कारत्वं विशेषणमुचित- मित्यसकृदावेदनात्। अनलंकारत्वस्य तुल्यतया प्रधानव्यङ्गयरूपकस्येव प्रधानवाच्यरूपकस्यापि वारणीयतया तद्वारकविशेषणाभावेन तत्राति- प्रसङ्गाच्। रूपकलक्षणं तु रसगङ्गाधरादवगन्तव्यम् ।। इति चित्रमीमांसाखण्डने रूपकप्रकरणम्।

अथ परिणामः । यच्च वैयधिकरण्येन परिणामे दीक्षितेनोदाहृतम्- 'तारानायकशेखराय जगदाधाराय धाराधर- च्छायाधारककंधराय गिरिजासङ्गैकश्ृङ्गारिणे।

बोध्यम्। तावतैव उक्तार्थकनिर्दिष्ट इति विशेषणेनैव। इदं चिन्त्यम्-आहा- र्यत्वविशेषणस्य निर्दिष्ट इति विशेषणलब्धार्थकथनतात्पर्यकत्वात्। अतिशयोकौ लक्षणामाहात्म्याज्ज्ञायमानज्ञान स्यानाहार्यस्यैव जायमानत्वेन तावतैव वारणात्। शक्यतावच्छेदकलक्ष्यतावच्छेदकयोर्भानमिति त्वल्लिखितमतान्तरेऽपि युगपदेवो- भयोर्भानेन बाधस्यैवानुपस्थितत्वान्न तद्वुद्वेराहायेत्वम्। किं च चन्द्रवृत्तिगुणवत्त्व- लक्ष्यतावच्छेदकस्य चन्द्रत्वस्य च मिथोविरोधाभावेन न बाधप्रतिसंधानम्। मुखत्वेन मुखं लक्ष्यत इति त्वश्रद्धेयमेव। रूपके तु बाधस्य स्फुटमुपस्थितत्वेन साक्षाद्यजनया वा जायमाना ताद्रूप्यप्रतिपत्तिराहार्यैवेति दीक्षिताशय इति दिक्॥। इद्मेव प्रागुक्त रूपकलक्षणमेव। नन्वेवं कथमतिप्रसङ्गनिरासोऽत आह- प्रधानेति। नन्वेवमपि विनिगमनाविरहात्तथोक्तिरत आह-अनलमिति । मन्मते तु तेनैवोभयोर्वारणमिति भावः । इति रूपकप्रकरणम् ॥ 1 अथ परिणामः ॥ तारेति। चन्द्रशेखरायेत्यर्थः । धाराधरेति। नील-

Page 157

१५४ काव्यमाला।

नंद्या शेखरिणे दशा तिलकिने नारायणेनास्त्रिणे नागैः कक्कणिने नगेन गृहिणे नाथाय सेयं नतिः।।' यथा वा- 'द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प-' श्रिन्तारत्स्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः। द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्व- न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ।।' इति ।। अत्र चिन्त्यते-'तारानायकशेखराय-' इति पद्े तावत् गिरिजासङ्वैकश्रृङ्गारिणि भगवति भवे नतिः प्रकान्ता। शृङ्गारिता च शेखरादीनि भूषणान्यपेक्षते इति नद्या आरोप्यमाणशेखररूपतयैवोपयोगो न स्वरूपेण। एवं च दशोऽपि तिलकरूपतयेति रूपकमेव शुद्धं भवितुमर्हति ॥। ननु-'परिणामे विषयाभिन्नतया विषयिणोऽवस्थानम्' इति भवतैवोक्तम् । तदत्र नद्यादेर्विषयस्य तृतीययाभेदः प्रतिपाद्यमानो विषयिणि शेखरादौ भासत इति कथं नाम रूपकं स्यात-इति चेत् "मीनवती नयनाभ्यां करचरणास्यैः प्रफुल्लकमलवती। शैवालिनी च केशैः सरसेयं सुन्दरीसरसी ।।' इत्यत्र व्यधिकरणरूपके सुन्दर्या सरसीतादातम्यस्य मीनकमलशैवालग- तैर्नयन करादिकेशाभेदैर्मनागप्यसमर्थनात्। प्रत्युत-नयनकरादिकेशग-

ग्रीवायेत्यर्थः । नद्या गङ्या। दशा भालचक्षुषा। नगेन कैलासेन ॥ कोवि- दानां पण्डितानाम्·।। शुद्धं रूपकामिश्रम् ॥ एवमिति। परे तु-"मीनवती नयनाभ्याम्" इत्यत्र सुन्दर्या सरसीतादात्म्यरूपं रूपकं मुख्यवाक्यार्थः। तन्न च मीनवत्त्वादिः साधारणो धर्मः । तस्य च सुन्दर्यामभावातप्राप्तबाधबुद्धिस्थग- नाय 'नयनाभ्यां मीनवती' इति सुन्दरीविशेषणम्। सरस्यां मीनवत्त्वं प्रसिद्ध-

Page 158

चित्रमीमांसाखण्डनम् । १५५

तैरमीनकमलशैवालाभेदैश्र समर्थनाद्यथा स्वनिष्ठाभेदे प्रतियोगित्वं तृती- यार्थः एवं 'नद्या शेखरिणे दशा तिलकिने-' इत्यत्रापीति क्व विष- यिणि विषयप्रतियोगिकाभेदपर्यवसानम् । यदि पुनरारोप्यमाणे यथां- कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, तदा 'प्रवृत्तोऽस्याः सेक्ततं हृदि मनसिजः प्रेमलतिकाम्' इति त्वदुदाहृतरूपकस्य परिणामतापत्तेः। 'प्रेमलतिकाम्' इति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणाया- मभेदेन विशेषणत्वात्। विस्तृतिश्र रसगङ्गाधरादवसेया। 'द्विर्भावः पुष्पकेतो :- ' इति पद्येऽपि-कोविदानन्दजननजगदुत्कर्षौ राज्ञो नृसिं- हस्य कथ्येते। तत्र कोविदानन्दजनकत्वं राज्ञ आरोप्यमाणद्वितीयम- न्मथादिताद्रूप्येण यथा संभवति, न तथा केवलेन स्वरूपेण। तथा हि-अहो नयनानामस्मदीयानां साफल्यं यदयमपरो मन्मथोऽस्माभि- रालोक्यत इति मन्यमानानां तेषां नयनानामानन्दस्तावतपुष्पकेतुनैवोत्पा- द्यते न राज्ञा। एवम्-अपरोडयं कल्पतरुः, द्वितीयश्चिन्तामणिः कर्णश्र, तथा वासवो भूगतोऽयमन्यो दारिद्यमस्माकमपहरिप्यति।

मेव। एवं च सुन्दर्या मीनवत्त्वसंपादनरूपप्रकृतकार्योपयोगिनां मीनानां नयना- त्मतापत्त्यैवेति तदंशे परिणाम एवेति नयनप्रतियोगिकाभेदवन्मीनवतीति बोध इति दिक। 'पादाम्वुजं भवतु नो विजयाय मक्ु' इत्यादौ 'रूपकोपमयोः संदेह एव' इति प्राहुः ॥ कथ्येते इति। शत्रन्तलडन्ताभ्यामिति भावः। तत्र द्वयोमध्ये। 'द्विर्भावः पुष्पकेतोः-' इत्यस्यार्थमाह-द्वितीयमन्मथेति । 'विबुध-' इति वाक्यार्थमाह-अपरोऽयं कल्पतरुरिति। एवं च बहुवचनं कल्पभेदाभिप्रायेण। 'विकल्पश्चविन्तारत्वस्य' इत्यस्यार्थमाह-द्वितीयश्चिन्ता- मणिरिति। द्वितीय इत्यस्याग्रेऽप्यनुषज्गो बोध्यः। 'तपन-' इत्यादेरर्थमाह- कर्ण इति। भूगत इत्यनेन प्रसिद्धेन्द्राद्यतिरेकः सूचितः । 'दवैतं देवस्य' इत्या-

Page 159

१५६ काव्यमाला।

हरि: खल्वयं संसारं नः परिहरिष्यतीत्यभिमानाज्जायमानस्तेषामानन्दो- डप्यारोप्यमाणैः कल्पवृक्षादिभिरेवेति न विषयात्मना विषयिण उप- योगः, अपि तु स्वात्मनैवेति कुत्रास्ति परिणामः। अत एवेदं पद्यं रूप- कप्रकरणे विमर्शिनी का रादिभिरालंकारिकैरुदाहृतमिति तद्रन्थविरोधश्च ॥ यच्च विद्याधरोक्तं परिणामध्वन्युदाहरणमनूद्य दूषितम्। तथाहि- "नरसिंह धरानाथ के वयं तव वर्णने। अपि राजानमाक्रम्य यशो यस्य विजृम्भते।। अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्रम- णरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यते-इति ॥ तदयुक्तम्। तत्र ह्यारोप्यमाणस्य नृपस्य नृपात्मनैवाक्रमणोपयोगः, न चन्द्रात्मना" इति। तदसत्। अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेर- भिप्रेतम्, येन यशःकर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोग: स्यात्। अपि तु निरतिशयनैर्मल्यगुणवत्तायां सवसमानजातीयद्वितीय- राहित्यप्रयुक्तः प्रौढिविशेषः । आक्रमणं न्यग्भाव एव। एवं चैवंविधे विजृम्भणे चन्द्रकर्मकमाक्रमणमुपयुज्यते, न तु नृपकर्मकमिति विषयि- तया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यङ्कयतायामुदाहरणम् ।।

दर्थमाह-हरिरिति । दूषितमित्यस्य 'चन्द्रात्मनेति' इत्यन्तेनान्वयः। अत्र प्रागुक्तपदे। गुणवत्तायां तद्रूपसाधारणधर्मे। एवं च विजृम्भणाक्मण- योरुकरूपत्वे च ॥ रमणीयमेवेति। तत्रेदं चिन्त्यम्-"राजशब्दस्यानेका- र्थत्वात्, विजृम्भतेश्व प्रागल्भ्यतदुक्तार्थोभयपरत्वात्, प्रकरणादेश्व शक्तिसंकोच- कस्याभावात्, तन्त्रेण शक्त्ैव तुल्यतयार्थद्वयोपस्थितौ 'सर्वदो माधवः पातु' इतिवच्छ्रेष एवायम्, न परिणामः । क्व वा नृपस्य व्यज्यमानतेति प्रकृतनरसिंह-

Page 160

चित्रमीमांसाखण्डनम्। १५७

यद्यपि परोक्तिं दूषयित्वा स्वयं परिणामव्यङ्गयतायामुक्तम्- "चिराद्विषहसे तापं चित्त चिन्तां परित्यज। नन्वस्ति शीतलं शौरे: पादाब्जनखचन्द्रमाः ।।' अत्र चिरतापार्तं प्रति हरिपादनखचन्द्रसद्भावप्रदर्शनेन 'तमेव निषे- वस्व, तन्निषेवणादयं तापस्तव शान्तिमेष्यति' इति परिणामो व्यज्यते" इति । तत्ुच्छमेव। 'आरोप्यमाणस्य विषयात्मकत्वेन प्रकृतकार्योप- योगे परिणामः' इति स्वयमेवोक्तम्। तत्र प्रकृतकार्योपयोगमात्रं न परिणामशरीरम्, अपि तु विषयिगतायाः प्रकृतकार्योपयोगिताया अव- च्छेदकीभूतविषयताद्रप्यम्। अत एव रूपकप्रकारविशेषत्वमस्यान्यैरा- लंकारिकैः स्वयं च तत्र तत्रामिहितम्। एवं चात्र नखचन्द्रसद्भावप्रद- शनेन 'तन्निषेवणादयं ते तापः शान्तिमेष्यति' इति प्रकृतोपयोगिताया व्यङ्गयत्वेऽपि तदवच्छेदकीभूतस्य विषयिणि विषयताद्रप्यरूपस्य परि-

राजोत्कर्षस्य चन्द्रकर्मणाक्मणेनेवेतर नृपाकमणेनापि सूपपादत्वम्। न च द्वयोरपि राजपदार्थयोरितरक्रियान्वये राजानाविति द्विवचनं स्यादिति वाच्यम्, 'न ब्राह्मणं हन्यात्' इतिवदुपपत्तेः । समाहारद्वन्द्वविषयेऽप्येकशेषस्य कैश्विद्वैयाकरणैरङ्गीका- राच्। अस्तु वारोपः, तथापि नृपस्यैवारोप्यमाणत्वम्, चन्द्रस्यैव विषयत्वमित्यत्र नियामकाभावः। अत्रैव च दीक्षिततात्पर्यम्। अपि च प्रागल्भ्यस्यापि विजृम्भ- त्यर्थत्वेन प्रकृतकार्योपयोगिना नृपत्वेनापि नृपस्य संभवति। अत एव विद्याधरे- णापि 'विषयिणः स्वरूपेण प्रकृतकार्यानुपयोगित्वे तदुपयोगाय विषयिणो विषया- त्मनोपरिगत्यपेक्षायामेव परिणामः' इत्युक्तम्। यदाह-'तं परिणामं द्विविधं कथयन्त्यारोप्यमाणविषयतया। परिणमति यत्र विषयी प्रस्तुतकार्योपयोगाय ।।' इति। ननु 'तात्पर्यविषयीभूत प्रकृतकार्यानुपयोगित्वमस्त्येव-' इति चेत्, तस्यैव तात्पर्यविषयत्वे मानं विभावय-" इति ॥ परोकिं विद्यानाथोक्तिम। स्वयमेव अप्पदीक्षितेनैव। चिरतापार्त 'चित्तम्' इति शेषः ॥ वैयाकरणमतेनाह-

Page 161

१५८ काव्यमाला।

णामस्य वाक्यवाच्यत्वाच्छक्यसंसर्गत्वाद्वा सर्वथैव न व्यङ्गयत्वं वक्तुमु- चितम्। विद्याधरोक्तोदाहरणे तु नियन्रिताया अभिधाया विषयचन्द्रा- भेद्वेदनाक्षमतया शब्दशक्तिमूलानुसरणस्य नास्त्युपयोगः ॥ इति चित्र मीमांसाखण्डने परिणामप्रकरणम्।

अथ ससंदेहः। यत्तु- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं सविषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो सुनिः ।।' अत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम्। प्रकारस्तु वर्णनीयव- नितास्त्रटृत्वमेकमेवेत्यनेककोटित्वाभावात्-विरोधेन परस्परप्रतिक्षेपक- तया निबद्धानेककोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः ॥ तन्न । अत्र हि 'अस्याः सर्गविधौ यः प्रजापतिरभूत्, स किं नु चन्द्रः; किं नु मदन:, किं वा नु वसन्तः' इति संशयः प्रजापतिधर्मिकश्चन्द्र- त्वादिनानाकोटिक एवेति कुत्राव्याप्तः। न च-अत्र चन्द्रादिधर्मिक: संशयो युक्तो वक्कुम्। एवं च प्रजापतेः प्रथमोद्देशो न स्यात्। दोष- दानाय वाक्यान्तरकल्पनेन तथा कव्यभिप्रायवर्णनादौचित्यात्।।

वाक्येति। नैयायिकमतेनाह-शक्येति। इति परिणामप्रकरणम् ॥ अस्या इति। विक्रमोर्वशीये उर्वशीवर्णनमिदम्। मासो वसन्तः । वनिता स्रष्टत्वं प्रजापतिशब्दबोध्यम्। अभावादित्यव्याप्तौ हेतुः। संशय- लक्षणमाह-विरोधनेति। हि यतः। अस्या उर्वश्याः। तदुपपादनं खण्ड- यति-न चात्रेति। एवं चेति। चो हथे। यत एवं सतीत्यर्थः। विधेयस्य

Page 162

चित्रमीमांसाखण्डनम्। १५९

  • यदपि प्राचां लक्षणम् 'साम्यादप्रक्ृतार्थस्य या धीरनवधारणा। प्रकृतार्थाश्रया तज्जैः ससंदेहः स इष्यते ॥' इति महता प्रबन्धेन त एव दूषितवन्तः ॥ तदपि न। साम्यनिमित्ता- न्निश्चयसंभावनान्यतरभिन्ना या धीः इति तदर्थकरणे दोषाभावाद्। निश्चयत्वं तु संशयाघटितमेव निर्वक्तव्यम्॥ यदपि च संशयध्वन्युदाहरणप्रसङ्ग- 'कांचित्काञ्चनगौराङ्गी वीक्ष्य साक्षादिव स्वयम्। वरदः संशयाविष्टो वक्षःस्थलमवैक्षत ।I' इत्यस्मत्कुल कूटस्थवक्ष:स्थलाचार्यकृतवरदराजवसन्तोत्सवान्तर्गते पद्ये सं- शयस्य स्वशब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोज- कस्य 'वक्ष:स्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य कि पुरस्तिष्ठति' इत्येक संशयाकारस्य 'वक्षःस्थलमवैक्षत' इत्यनेन व्यङ्गयत्वात्संदेहालंकृतिध्वनि- सत्रेति॥ यथा- 'दर्पणे च परिभोगदार्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ।।' इत्यत्र 'कानि कान्यपि' इति सामान्यतो निर्दिष्टानुभावविशेषप्रती- त्यर्थ लज्जाशब्दप्रयोगेडपि तस्याः स्वभावानुभावाभ्यां रसानुगुणाभि- व्यक्तिरूपो ध्वनिः-" इत्याहुः ॥ तदेतद्धनितत्त्वज्ञैरुपहसनीयम् ।

प्राश्चात्यमिति नियमादिति भावः । त एव अप्पदीक्षिता एव ।I अनवधारणे- व्यस्य तात्पर्यार्थमाह-निश्चयेति॥ नन्वेवमन्योन्याश्रयापत्तिरित्यत आह- निश्चयत्वं त्विति ॥ कांचिदिति। इदं च पद्यमप्पदीक्षितमूलपुरुषवक्ष :- स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम्। वरद: काथीदेवता विष्णुः। तदिति।

Page 163

१६० काव्यमाला।

तथाहि-'संशयाविष्टः' इत्यत्र संशयपदेनैकस्मिन्पदार्थ विरुद्धनाना- पदार्थसंबन्धावगाहिज्ञानं साक्षादेव निवेदयते। तत्र कोडसौ विरुद्धो नानार्थ इति विशेषाकाइया वक्ष:स्थलावेक्षणेन 'वक्षःस्थलस्थैव लक्ष्मी- स्ततोऽवतीर्य किं पुरस्तिष्ठति' इत्यादिरर्थो व्यञ्जनव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणीभूतेन सामान्यार्थेन साकम- भेदेन पर्यवस्यति। एवं च संशयमात्रस्य शक्त्या बोधनात् 'वक्ष:स्थल- स्थितैव' इत्यादिविषयविभागस्यापि विरुद्धनानार्थत्वेन सामान्याकारेणा- वलीढतया तयैव कवलीकरणाद्वाच्यार्थसंशयपर्यवसायकत्वाच्च न कस्यापि ध्वनिव्यपदेशहेतुत्वमुचितम् । सर्वथा वाच्यवृत्त्यचुम्बितस्यैव तथात्वमिति ध्वनिमार्गप्रदर्शकैः सिद्धान्तितत्वात्। तथा च द्वितीयोक्ष्योते- 'शब्दार्थशक्त्याक्षिप्तोऽपि व्यन्नयोऽर्थः कविना पुनः । यत्राविष्क्रियते खवोक्या सान्यैवालंकृतिर्ध्वनेः ॥' इति सूत्रयित्वा 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया । लु(ह)सन्नेत्रार्पिताकूलं लीलापझमं निमीलितम्।।'

संशयेत्यर्थः । तत्र सामान्यज्ञाने। अवेक्षणेनेति। व्यज्ञनार्थवृत्तिरपीति भावः । संशयमात्रस्येति। सर्वस्य संशयस्य। अर्थत्वेन सामेति। एतद्रूपसामा- न्याकारेणेत्यर्थः । अवलीढेति। बोध्यतयेत्यर्थः । तयैव शक्त्ैव। कव- लीति। बोधनादित्यर्थः। नन्वेवमपि विशेषरूपेण व्यङ्गयत्वमेवात आह- वाच्यार्थेति। विशेषसंशयस्येत्यादिः। तदाह-कस्यापीति। विशेषस्या- पीत्यर्थः । सर्वथा केनापि प्रकारेण। तथात्वं ध्वनित्वम्। संकेतेति। को वावयोरतिकालस्तत्संकेतमित्यत्र (?) दत्तचित्तमित्यर्थः । हसदिति क्रियाविशेष-

१. 'संशयपदार्थस्य' इत्यादर्शपाठः.

Page 164

चित्रमीमांसाखण्डनम्। १६१

अत्र 'संकेतकालमनसं विटं ज्ञात्वा लीलापदं निमीलितम्' इति वदता कविना लीलापद्मनिमीलनस्य प्रदोषाभिव्यञ्जकत्वं स्वोक्त्यैव निवेदिंतमिति ध्वनिमार्गादयमपर एव गुणीभूतव्यज्नयस्य मार्गः। यथा वा- 'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र। अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ।।' 'अत्र निःशङ्कं रन्तुमायाहि' इत्यर्थश्चरणत्रयव्यङ्गयोऽप्यवसरव्याहृते- व्याजत्वं ब्रुवता कविना स्फुटं स्वोक्त्यां निवेदित इत्ययमपि न ध्वने- मार्गः" इत्याहुरानन्दवर्धनाचार्याः। एवं चैवंविधेषु विषयेषु व्यञ्जकत्वस्य व्यङ््यस्य वा मनागुक्तिसंस्पर्शमात्रेण ध्वनित्वं निराकुर्वाणाः 'कांचि- त्काश्चनगौराङ्गीम्' इति पद्ये शब्दाभिहितव्यङ्गये ध्वनित्वं कथमिव स्वीकुर्वीरन् ।।' एतेन 'दर्पणे च परिभोगदर्शिनीम्-' इति प्रागुक्तपद्ये लज्जाध्वनित्वं यदभ्यंधीयत, तदप्यपास्तमिति दिक्॥ इति चित्रमीमांसाखण्डने संशयालंकृतिः।

णम्। इति वद्तेति। क्त्वान्तवाक्यविशिष्टं वदतेत्यर्थः । अन्यथा क्त्वान्त- वाक्येनैवार्थात्तदभिव्यअकत्वे सिद्धे क्तान्तवाक्यानर्थक्यं स्पष्टमेव। तदाह- स्वोक्त्यैवेति। क्त्वान्तवाक्येनेत्यर्थः । अत्र गृहप्रदेशविशेषे। एवमग्रेऽपि। कुम्भेति पान्थसंबोधनमिति कश्चित्। तन्नामिका दासीत्यन्यः। जलाद्याहरणार्थ दासी, न क्रीडादासीति तत्त्वम्। वियोगात्पापात्वम्। कतिपयेत्यनेन दतमागम- नाभाव: सूचितः । अवसरे समय उक्तेर्व्याजपूर्वमित्यर्थः। पूर्वोदाहरणाशयेनाह- व्यक्षकेति। द्वितीयाशयेनाह-व्यङ्गयेति॥ ११ चि० मी०

Page 165

१६२ काव्यमाला।

अथ भ्रान्तिमान्। यच्च- 'कविसंमतसादृश्याद्विषये पिहितात्मनि। आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥।' इतिलक्षणं तैरुक्तम्, तन्न। 'कविसंमतसादृश्यप्रयोज्यो विषय आरो- प्यमाणो यत्र वाक्संदर्भे स आ्रान्तिमान्' इति भ्रान्तिमतो लक्षणं विहाय रूपकव्यावृत्त्यर्थ 'पिहितात्मनि' इत्युच्यते, न चतद्युक्तम्। न हि रूपक- वाक्य आरोप्यमाणस्यानुभवो वर्ण्यते, किं तु तस्माज्जायते। न च- अत्रानुभवान्तं आ्रान्तेर्लक्षणम्, अग्रिमं च आ्रन्तिमतः । तत्र भ्रान्तिल- क्षणे रूपकातिव्याप्तिवारणाय 'विषये पिहितात्मनि' इति विशेषणम् इति वाच्यम्। अनुभवत्वघटितस्य भ्रान्तिलक्षणस्यानुभूयमानाभेदात्मके रूपके कथमप्यवृत्तेः ॥ यदि च-रूपकपदं रूपकबुद्धिपरमिति ग्रन्थ- सामञ्जस्यं विधीयते, तदा विषयतावच्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेव वा तमालः । रघुपतिमवलोक्य तन्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' इति संशयेऽतिप्रसङ्गः । 'कमलमिति चश्चरीकाः, चन्द्र इति चकोरा- स्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मके उल्लेखेऽतिव्याप्ेश्र ॥

अथ भ्रान्तिमान् । उच्यत इति। अयं भाव :- तद्विशेषणेनारोप्यमाणानुभवस्य स्वारसिकस्य कविप्रतिभया कल्पनं विवक्षितम्, तस्यैव विषयपिधानसामर्थ्यात्-इति ।। अग्रिमं चेति। यत्रेत्याद्युक्मित्यर्थः ॥ तत्रेति। तद्वाक्यजानुभवस्य तन्रापि सत्त्वादिति भाव: ॥ ननु नाम(?) संशयेऽतिप्रसङ्गः, विषयस्यैवेति प्रतिपादनादत आह-कमलमिति। अत एव वक्ष्यति-'भ्रान्त्या संकीर्ण' इवि। अति- व्यापेश्रेति। उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्णत्वं बाधकाभावाद्भूतत्वमूर्तत्वयो-

Page 166

चित्रमीमांसाखण्डनम्। १६२

अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नद्येतावतोल्लेखांशातिव्यापिर्न दोषः। नहि दुग्धभागजलभागानां व्यामिश्रणमस्तीति दुग्धलक्षणं जलां- शातिव्याप्तिकं कर्तु युक्तम्। एकत्वविवक्षायाः स्वयमनुद्गारात्। तथा चास्मत्कृतलक्षण एव पर्यवसानम्। येदपि च भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहरणं दत्तम्- 'शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै- स्तत्रासोल्वासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै- रित्थं चोलेन्द्रसिंह त्वदरिमृगद्दशां नाप्यरण्यं शरण्यम्।।' इति॥ अत्र विचार्यते-सतनकलशयुगे हि न तावन्मञ्जरीसादृशयं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत। 'दोषान्तरभूला तु सा नालंकारः' इत्यनुपदमेवोक्तम् ॥ अपि च- धर्मिणि कलशरूपकानुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमा- नमुद्वेजकमेव सहृदयानाम्। 'नहि सादृश्यमूलैकालंकारावच्छिन्ने साद- श्यमूलमलंकारान्तरं शोभते। तथा-'मुखकमलं तव चन्द्रवत्प्रतीमः'

रिव। 'नरैर्वरगतिप्रद' इत्यन्नोल्लेखत्वस्य 'कनक इव' इत्यत्र भ्रान्तित्वस्य साव- काशत्वादिति कश्चित्। 'वनितेति वदन्तयेतां लोकाः' इति त्वदुदाहृतापह्नुतिसंकी- रणोल्लेखे उपमेय तावच्छेदक निषे धसामा नाधिकर ण्येनोत्थाप्या पह्गति लक्षणाति व्याप्ति- स्तवाप्यस्ति। एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दुर्वारेति चिन्त्य- मिदमित्यपरे॥ तावदादौ। उपेति। वर्ण्येतेत्यर्थः ॥ ननु यथाकथंचित्साद- श्यमप्यस्तीत्यत आह-अपि चेति। धर्मिणि खनरूपे। मुखकमलमिति १. पर्यवसानमित्यर्थः पाठोऽयं रसगङ्गारेऽस्मिन्प्रकरणे नोपलभ्यवे. २. 'यच्चापि' रसगo. ३. 'तत्र' रसग०,

Page 167

२६४ काव्यमाला।

इति प्रागेवावेदनात्।। प्रत्युत-कलशरूपकेण मञ्जरीसादृश्यतिरस्का- राच। तथा 'तत्रासोलासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र : विधेयाविमर्शाद्विधेयान्तरमाकाङ्गितम्। कीरैर्दष्टा इति तु. भा- व्यम्। जाता इत्यध्याहारेऽपि विवक्षितस्याविधेयत्वम्, अविवक्षित च विधेयत्वं प्रसज्येत ॥। एवम्-'तल्लोपायालपन्त्यः पिकनिनदधिया ताडिता: काकलोकैः' इत्यत्र न तावत्पिकनिनदास्ताडनयोग्याः काका- नाम्, येन तद्धिया आलपन्त्यस्तैस्ताड्येरन्। नापि पिकनिनदभ्रम आल- पन्तीषु संभवति, संभवन्वा न सादृश्यमूलः । 'पिकनिकरधिया' इति तु भाव्यम् । अथ-तदालापेषु पिकनिनदवुद्धेरपि तासु पिकबुच्धुत्पादन- द्वारां संभवत्येव ताडनोपयोग इति प्रयोज्यत्वार्थकतृतीयया पिकनिनद- धीप्रयोज्यकाकर्तृकताडनकर्मत्वमालपन्तीनां सुप्रतिपादमेव-इति चेत्। मैवम्। तथा प्रतीतेरसिद्धेः। 'चौरुद्या हतः साधुः' इत्यादौ चोर- बुद्धिहननयोः सामानाधिकरण्येन हेतुहेतुमद्भावगमकत्वव्युत्पत्तेः ॥ एवम्-'दन्तिबुद्दया हतः शूरैर्वराहो वनगोचरः।' इत्यत्रापि विशेष्य- तया वराहवृत्तर्देन्तिबुद्धेर्वराहवृत्तिहननहेतुभावावगमः । त्वदुक्तरीत्या 'दन्तबुच्द्या' इति तु कृते बोधकदर्थनैव॥ किंच-पिकानां कूजितादि- शब्दैरेव शब्दो वर्ण्यते, न तु निनदादिशब्दैः सिंहदुन्दुभ्यादिशब्दप्र-

रूपकम्॥ अभ्युपेत्याह-प्रत्युतेति। एवमाद्ये दोषमुक्त्वा द्वितीये दोषमाह- तन्नासोलेति । भ्रमरभयजनकजातचेष्टा इत्यर्थः ॥ विधेयाविमर्शादिति। विघेयस्याकथनादित्यर्थः। उद्देश्यकोटिप्रविष्टं सर्वमिति भावः। पाणी उद्दिश्य विशिष्टस्य कीरकर्तृकदष्टत्वस्य विधेयत्वे। को दोष इति चिन्त्यमिदम्। विवेति। इष्टत्वस्येत्यर्थ: ॥ तृतीयं तमाह-एवमिति। तल्लोपाय कीरदूरीकरणाय। तावदादौ। दोषमूल: संभवतीत्याह-संभवन्वेति। शब्दप्रयोगेति।

Page 168

चित्रमीमांसाखण्डनम्। १३५

योगयोग्यैः । तथा-प्रथमद्वितीयचरणस्थयोः 'स्तनपाण्योर्यथांकथं- चिद्धवहितमपि जातान्वयमपि 'त्वदरिमृगद्शाम्' इत्येतत्षष्ठयन्तमन्वेतुं शक्कुयात्, न तु तृतीयचरणस्थे 'तल्लोपायालपन्त्यः' इत्यस्मिन्विशेषणे विशेष्यभावेनेति तासां ताटस्थ्यमेव स्यात्। विभक्तिविपरिणामेऽपि करमभङ्गासंछुलत्वाभ्यां स्थितमेवेति पद्यमव्युत्पन्ननिर्मितमेवेदम्॥ दीक्षि- तैस्तु भ्रान्त्यलंकारांशमादायोदाहृतमिति न तेषां तथा दोषः ।। इति चित्रमीमांसाखण्डने भ्रन्त्यलंकारः ।

अथोल्लेखः । यत्तु तैरेवाभिहितम्-"एवमपि यदि- 'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे। वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ।।' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्या ।। तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योलेखनद्वयं परमतत्वोपन्यास- सामर्थ्याद्गम्यमाननिषेधमिति नातिव्याप्तिः-" इति तन्न, "द्विविधश्चाय- मुललेख :- 'शुद्धोऽलंकारान्तरसंकीर्णश्" इत्युक्त्वा "श्रीकण्ठजनपद-

शब्दे प्रयोगेत्यर्थः। आसत्त्याकाइ्वयोः खवारसिकयोरभावादाह-यथाकथंचि- दिति। जातान्वयेति। 'नाप्यरण्यं शरण्यम्' इति संनिहितेनेति भावः । न त्विति। विभिन्नविभक्तित्वात्खस्मिन्खभेदाभावाच्चेति भावः । ननु विभक्तिविप- रिणामेनाभेदान्वयः सुलभोऽत आह-विभक्तीति। प्रक्रमेति। नन्वेवं दीक्षितैः कथमुदाहृतमत आह-दीक्षितैरिति ॥ एवमपि उक्तविशेषणदा- नेऽपि। गम्येति। बहुव्रीहिः ॥ श्रीकण्ठेति। शुद्धस्यैकमुदाहरणं सोपपाद- १. 'भ्रान्तिमदलंकारः' इति भवेत्. २. 'निमित्तमेदादेकस्य वस्तुनो यदनेकथा। उल्लेखनमनेकेन तमुलेखं प्रचक्षते ।I' इत्युलेखलक्षणे 'अनेकघा' इति विशेषणदानेऽपी- त्यर्थ: स्याद.

Page 169

१६६ काव्यमाला।

वर्णने-यस्तपोवनमिति मुनिभिरगृह्यत" इत्यादौ शुद्धः, "यमनगरमिति शत्रुभि: वज्रपञ्जरमिति शरणागतैः, इत्यादौ आ्रन्तिरूपकादिसंकीर्णः इति स्वयमेवोक्तत्वादिहाप्यपहुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात्।। यदि चैवंविधापह्ुतिवारणाय निषेधास्पष्टत्वं विशेषणमुच्यते, तदा, 'कपाले मार्जारः पय इति कराँल्लेढि शशिन- स्तरुच्छिद्रपोतान्बिसमिति करी संकलयति। रतान्ते तल्पस्था हरति वनिताप्यंशुकमिति प्रभामत्तश्रन्द्रो जगदिदमहो विभ्रमयति ॥' इति त्वदुदाहृतभ्रान्तावतिव्याप्तिः कथं नाम वार्येत, मार्जारादनेक- ग्रहीतृकानेकवोल्लेखनस्य तत्रापि सत्त्वात्। स्वस्वप्रियाहारलिप्सारूप- निमित्तभेदाच्। तस्मात्संकीर्णनिवारणाय यत्नोऽनर्थक एवेति। इति चित्र मीमांसाखण्डन उल्लेखप्रकरणम्।

'त्वदालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चकं रचयति सुपर्णीसुतमपि।

नमुक्त्वान्यदाह हर्षचरिते। इत्यादौ 'यस्तपोवनम्' इत्यादि गये। अगृह्यते- व्यस्य सर्वत्र संबन्धः । इच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति। तत्र तपो- वनादिभूमिनिष्ठत्वादिति भावः। यमनगरत्वादीनां ताद्रूप्यानुभवगोचरतयान्वये आह-भ्रान्तीति। यदि तेषामुपरअ्जकतामात्रेणान्वयः, यदाह-रूपकेति। एवंविधेति। विलक्षणेत्यर्थः । त्वदुदेति। त्वया प्रथमं मुख्यत्वेनोदाहते- त्यर्थः। तादृशभ्रान्तिविशेषस्यापि वारणावश्यकत्वात्, अन्यथा संकीर्ण तत्कथ- मादाबुदाहृतम्। तद्विविक्कविषयस्यैवादावुदाहर्तुमौचित्यात्। अन्यथालंकारभेदो न स्यादिति भावः ॥ अनेकधेति। पयस्त्वादीत्यर्थः। उपसंहरति-तस्मा- दिति। त्वदलेख्य इति। त्वत्प्रतिकृतिभूतचित्र इत्यर्थः। नायकं प्रति खस- ख्युक्तिः। एका तन्वी सखी। चक्रं सुदर्शनम्। सुपर्णीसुतं गरुडम्। अपि

Page 170

चित्रमीमांसाखण्डनम्। १६७

अपि सििद्यंत्पाणिस्त्वरितमपमृज्यैतदपरा' करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति॥' इत्यादावपद्दुतिध्वनिरुदाहर्तव्यः । अत्र हि चक्र्सुपर्णलेखनेन नायं साधारण: पुरुषः, किंतु पुण्डरीकाक्षः इति कयाचिद्यज्जितम्। अन्यथा तु, तस्याप्येतादृशं न संभवतीत्याशये 'नायं पुण्डरीकाक्ष:, अपि तु मन्मथः' इति तदुभयमपमृज्य पुष्पसायकमकरध्वजलेखनेन व्यञ्जितम्" इति। तदेतदापातरमणीयम्। यच्ावदुच्यते-'चक्रसुपर्णलेखनेन नायं साधारणः पुरुषः किंतु पुण्डरीकाक्षः-इति कयाचिद्यञ्जितम्' इति। तत्रापहुतेर्द्वो भागौ-उपमेयनिषेधः उपमानारोपश्च इति। तयोस्ताव- दुपमानारोपभागः 'पुण्डरीकाक्षोऽयम्' इत्याकारश्वकसुपर्णलेखनेन व्यक्कुं शक्य:, चक्रसुपर्णयोस्तत्संबन्धित्वात्। नतु-'नायं साधारणः पुरुषः' इत्युपमेयनिषेधभागोऽपि, व्यञ्जकस्यारोपमात्रव्यञ्जनेन चरितार्थतया सा- मर्थ्याभावात्। नाप्यनुभवसिद्धः सः, येन तद्यञ्ञनायोपायो गवेष्येत । नापि गवेष्यमाणोऽपि त्यज्जनोपायः शब्दोऽर्थो वा उपलभ्यते, येना-

अथ। क्वचित्तथैव पाठः। अथ मार्जनयोग्यत्वाय हेतुगर्भ विशेषणम्-स्विद्य- त्पाणिरिति। अपरा तत्सखी। तस्यापि पुण्डरीकाक्षस्यापि। इत्याशयेन तथा लेखनेन। इति व्यज्जितमित्यन्वयः । तदुभयं चक्रसुपर्णद्वयम् ॥ तत्रति। उच्यत इति शेष: । एवमग्रेऽपि भागो व्यङ्कुं शक्य इत्यनुषज्यते। व्यक्जकेति। चक्रसुपर्णलेखनस्येत्यर्थः। ननु कथं तदनुभवोऽत आह-नापीति लभ्यत

Page 171

१६८ काव्यमाला।

नुभवकलहः स्यात्। नच साधारणपुरुषमन्तरेण पुण्डरीकाक्षतादात्म्या- रोपो दुर्घट इति सोऽपि व्यज्यत इति वाच्यम्, रूपकोच्छेदापत्ते: ॥ इति चित्रमीमांसाखण्डनेSपह्ुतिप्रकरणम्।

इति। प्रकृतपद्य इति शेषः। दुर्घट इति। तज्ज्ञानस्य तन्न प्रतिबन्धकत्वा- दिवि भावः । सोऽपि निषेधभागोऽपि। अन्यथानुपपत्त्येति भावः ॥

इति रसगङ्गाधर मैर्म प्रकाशोद्धृ तटिप्पण्याम पह्ुतिप्रकरणम्।।

समाप्तोडयं ग्रन्थः ।

१. एतत्प्रणेतुः पण्डितराजजगन्नाथस्य विषये यद्क्तव्यं तत्सवं रसगङ्गाधरभूमिकायां महामहोपाध्यायपण्डितवरदुर्गा प्रसादैर्वर्णित मिति-तत एवावसेयम्. एतद्वन्थादर्श पुस्तकं तु जयपुरराजगुरुश्रीलक्ष्मी दत्तसूनुश्रीयुतश्रीदत्तशर्मभि: काव्यमालार्थ संवत् १७०९ (खित्िस्तशतक १६५२) लिखितं १७ पत्रात्मकं दत्तमिति तेऽतीव धन्यवादार्हा :. २. एतद्वन्थप्रणेतुर्नागेशभटृस्य विषयेऽपि वक्तव्यं रसगङ्गाधरभूमिकायामेव महाम- होपाध्यायैर्वरणितमिति तत एवावसेयम्. टिप्पण्यादर्शपुस्तकं तु नोपलब्धम्, किंतु मूल ग्न्थोपयोग्यंशोडस्माभिरेव मैथिलवर्यश्रीयुतसुन्दरशर्मसाहाय्येनोद्धत्य संकलित: