Books / Dakshinaamurti Upanishad

1. Dakshinaamurti Upanishad

Page 1

यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।

महामौनपदं याति स हि मे परमा गतिः ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ ब्रह्मावर्तं महाभाण्डीरवटमूले महासत्राय समेत

महर्षयः शौनकादयः ह समीत्पाणयस्तत्त्वजिज्ञासवो

मार्कण्डेयं चिर जीविनमुपसस्मेत्य पप्रच्छुः केन त्वं

चिरं जीवासि केन वानन्नमुभवसीति । परमरहस्यशिव-

तत्त्वजानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।

तत्को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा ।

किं तज्ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः ।

किं तत्वानुसंधानमिति । स होवाच । येन दक्षिणामूर्तिं शिवोऽपरोक्षीकृतो

भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यः सर्वोत्तमे काले

सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते

वा स देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा

दक्षिणामूर्तिमनुत्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः ।

देवता दक्षिणामूर्तिः । मन्त्रेणाङ्गन्यासः । ॐ आदौ नम उच्चार्य

ततो भगवते पदम् । दक्षिणेति पदं पञ्चान्मूर्तये पदमुद्धरेत् ॥?॥

अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रजां पदं वदेत् ।

समुच्चार्य ततो वायुबीजं च्छं व ततः पठेत् ।

अग्निजायां तत्स्वेश चतुर्विंशाक्षरो मनुः ॥ २॥

स्फटिकरजतवर्णं मुक्तिकीमक्षमाला-ममृतकलशप्रविचां ज्ञानमुद्रां कराप्रे ।

दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं

विधृतविविधभूषणं दक्षिणामूर्तिमीडे ॥ ३॥

मन्त्रेण न्यासः ।

आदौ वेदादिमुच्चार्य स्वराव्यं सविसर्गकम् ।

पञ्चवाणं तत उद्धृत्य अन्तरं सविसर्गकम् ।

अन्ते समुद्रेरेतारं मनुरेष नवाक्षरः ॥ ४॥

मुद्रां भद्रार्थदात्रीन् स परगुरिणं वाहुबिर्वाहुमेकं

Page 2

जान्वासक्तं ध्यानो भुजगविलसमावद्धकक्ष्यो वटाधः । आसीनश्शन्रक्षण्डप्रतिथटितजटाक्षीरगौरस्वनेत्रो दयादृष्टः शुकादिमुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ मन्त्रेण न्यासः ब्रह्मर्षिन्यासः - तारं ब्रह्नम उच्चार्यं मायां वाग्भवमेव च । दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६॥ ज्ञानं देहि पदं पश्चाद्विजायां ततो न्यसेत् । मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७ ॥ भस्मव्यापाण्डुराढ्यः शशिशकलधरो ज्ञानमुद्राक्षमालावीणापुस्तकतैर्विराजत्करकमलधरो योगपट्टाभिराम । व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृतिकवासः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८ ॥ मन्त्रेण न्यासः । [ ब्रह्मर्षिन्यासः ।] तारं परं रमावीजं वदेत्स्वाहाशिवाय च । तुभ्यं चानलजायं मन्त्रादर्शवर्णकं ॥ ९॥ वीनां करैः पुस्तकमक्षमालां विभ्राणमभागलं वराङ्गम् । फणीनद्रकक्ष्यं मुनिभिः शुकादैः सेव्यं वटाधः कृत्तनीडमीडे ॥ १०॥ विष्णु ऋषिरनुष्टुप् छन्दः । देवता दक्षिणास्यः । मन्त्रेण न्यासः । तारं नमो भगवते तुभ्यं वटपदं ततः । मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ ११॥ प्रजामेधापदं पश्चादादिसिद्धिं ततो वदेत् । दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १२॥ वागीशाय ततः पश्चान्महाज्ञानपदं ततः । वह्निजायां ततस्त्वेष द्वात्रिशदर्णको मनुः ॥ १३॥ आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्पमोतमः । ध्यानम् । मुद्रापुस्तकवहिनागविलसद्वाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलभासस्वत्किरीटोज्ज्वलम् । अज्ञानापहमादिमादिमगिरामयं भवानीपतिं नग्रोधान्तनिवासिनं परगुरूं ध्यायाम्यभीष्टापतये ॥१४॥ मौनमुद्रा । सोऽहंमिति यावदास्थितः सनिष्ठा भवति । तदभेदन मन्त्राभ्रेडनं ज्ञानसाधनम् ।

Page 3

१५

वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते । प्रबोधपूर्णपात्रे तु ज्वप्तदीपं विलोकयेत् ॥

१६

मोहान्धकारे निःसारे उदेति स्वयमेव हि । वैराग्यमरणि कृत्या ज्ञानं कृत्योत्तरारणिम् ॥

१७

गाढतामिस्रसंस्थान्त्ये गूढमर्थं निवेदयेत् । मोहभानुसंक्रान्तं विवेकाकाशं मुखण्डजम् ॥

१८

तत्त्वाविचारपवनैर्न बुद्धेर्भयातुरम् । उज्जीवयत्निजानन्दे स्वस्वरूपेण संस्थितः ॥

१९

शेमुषी दक्षिणा प्रोक्ता सा यस्माभीक्ष्णे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥

२०

सर्गान्तिकाले भगवान्विरजि- रुपास्यैनं सर्गसामर्थ्यमाप्य । तुतोष चित्ते वाञ्छिततार्थष लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥

य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति । य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥