Books / Dattaatreya Upanishad

1. Dattaatreya Upanishad

Page 1

दत्तात्रेयीब्रह्मविद्यासवेदानन्दविग्रहं ।

त्रिपात्रारायणाकारं दत्तात्रेयमुपास्महे ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवा । । भद्रं पश्येमाक्षिभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्‌दधातु ॥

ॐ शान्तिः । शान्तिः । शान्तिः ॥ हरिः ॐ ॥

सत्यक्षेत्रे ब्रह्म नारायणं महासाम्राज्यं किं तारकं तन्त्रे ब्रह्म

भगवत्रियुक्तः सत्यानन्दचिदात्मकं सात्विकं मातृकं धामोपास्वेत्याह ।

सदा दत्तोऽहमस्मीति प्रत्येतत्संवर्दयन् येन ते संसारिणो भवन्ति

नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं

दत्तात्रेयं ध्यात्वा सद्‌ददति ।

दमिति हंसः । दामिति दीर्घं तद्‌द्रीजं नाम वीजस्मं ।

दामित्येकाक्षरं भवति ।

तदेतत्तारकं भवति । तदेवोपासितव्यं विजेयं गर्भादितारणम् ।

गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।

वटबीजस्थमिव दत्तबीजस्यं सर्वं जगत् ।

एतद्‌देवैकाक्षरं व्याख्यातम् । व्याख्यास्ये षडक्षरम् । ॐमिति

द्वितीयम् । हींमिति तृतीयम् ।

क्लींमिति चतुर्थम् । ग्लौंमिति पञ्चमम् । द्रांमिति षड्‌क्षरम् ।

षडक्षरोऽयं भवति । योगानुभवो भवति ।

गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।

द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः । दत्तात्रेयेति

सत्यानन्दचिदात्मकं । नम इति पूर्णानन्दकविग्रहं ।

गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।

Page 2

1

दत्तात्रेयायैत कीलकं । तदेव बीजं । नमः शक्तिभर्वति । ओमिति प्रथमम् । ऐंमिति द्वितीयं । हींमिति तृतीयम् । क्रोंमिति चतुर्थं । एहींति तदेव वदेत् । दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः । जगती छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजं । स्वाहेति शक्तिः । संबुद्धिरिति कीलकं । द्रंमिति हृदये । हीं कीमिति शीर्षे । एहींति शिखायां । दत्तेति कवचे । आत्रेयेयति चक्षुषि । स्वाहेत्यस्त्रे । तन्मयो भवति । य एवं वेद । षोडशाक्षरं व्याख्यास्ये । प्राणं देयं । मानं देयं । चक्षुर्देयं । श्रोत्रं देयं । षड्दशशिरश्चिन्त्त न षोडशाक्षरमन्वे न देयो भवति । अतिसेवापरभतगुणवच्चिछुष्याय वदेत् ।

1

ओंमिति प्रथमं भवति । ऐंमिति द्वितीयं । क्रोंमिति तृतीयं । क्लींमिति चतुर्थं । कूमीमिति पञ्चमं । हांमिति षष्टं । हींमिति सप्तमं । हूंमित्यष्टमं । सौरिति नवमं । दत्तात्रेयायैति चतुर्दशं । स्वाहेति षोडशं । गायत्री छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ॐ बीजं । स्वाहा शक्तिः । चतुर्दशान्तं कीलकं । ॐईंमिति हृदये । क्रां क्रीं कूमीमिति शिखायां । सौरिति कवचे । चतुर्दशान्तं चक्षुषि । स्वाहेत्यस्त्रे ।

1

यो नित्यमधीयानः सच्चिदानन्दसुखी मोक्षी भवति । सौरित्यन्ते श्रीवैष्णाव इत्युच्यते । तज्जापी विष्णुरूपी भवति । अनुष्टुप् छन्दो व्याख्यास्ये, सर्वत्र संबुद्धिरिमानीत्युच्यन्ते । दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुने बालपिशाच ज्ञानसागर ॥ १ ॥ इत्युपनिषत् ।

1

अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता दत्तात्रेयेति हृदये । हर इति शीर्षे । उन्मत्तानन्दिति शिखायां । दायकमुन इति कवचे । दिगम्बराति चक्षुषि । पिशाचज्ञानसागरेस्त्रे । आनुष्टुभोऽयं मयाधीतः । अब्रह्मजन्मदोषाश्व प्रणश्यन्ति । सर्वोपकारी मोक्षी भवति । य एवं वेदेत्युपनिषत् ॥ १ ॥ इति प्रथमः खंडः ॥ १ ॥

Page 3

2

ओमिति व्याहरेत् । ॐ नमो भगवते दत्तात्रेयाय स्मरणमात्रसन्तुष्टाय महाभयनिवारणाय महाज्ञानप्रदाय चिदानन्दात्मने बालोन्मत्तपिशाचवेषायेति महायोगिनेडवधूतायेत्यनसूयानन्दवर्धनायात्रिपुत्रायेतिं सर्वकामफलप्रदाय ओमिति व्याहरेत् । भवबन्धमोचनायेतिं हीमिति व्याहरेत् । सकलविभूतिदायेतिं क्रोमिति व्याहरेत् । साध्याकरषणायेतिं सौरिति व्याहरेत् । सर्वमन्नःशोभनायेतिं श्रीमिति व्याहरेत् । महोमितिं व्याहरेत् । चिरंजीविने वषडिति व्याहरेत् । वशीकुरुवशीकुरु वौषडिति व्याहरेत् । आकर्षयाकर्षय हुंमिति व्याहरेत् । विद्वेषयविद्वेषय फडिति व्याहरेत् । ठठेतिं व्याहरेत् । स्तम्भय स्तम्भय रक्षेतिं व्याहरेत् । उच्चाटयौच्चाटय ठठेतिं व्याहरेत् । स्तम्भयस्तम्भय रक्षेतिं व्याहरेत् मारयमारय नमः सम्पन्नाय नमः सम्पन्नाय स्वाहा पोषयपोषय परमन्त्रपरयन्त्रपरतन्वाश्चित्नुंच्छिन्द्रं प्रहात्रिवारय निवारय व्याधिनिवारयनिवाराय दु:खं हरहरय दारिद्रूयं विद्रावयविद्रावाय दहं पोषयपोषय चित्तं तोषयतोषयेतिं सर्वमन्त्रसर्वयन्त्रसर्वतन्रसर्वपन्नवस्वरूपायेतिं । ॐ नमः शिवायेतिंयुपनिषत् ॥ २ ॥

य एवंवेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । ओमिति बीजम् । स्वाहेतिं शक्ति: । द्रांमिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा भवन्ति । यो नित्यमधीते वाच्यग्निसोमादित्यब्रह्माविष्णुरुद्रैः पूतो भवति । गायत्रीं शतसहस्रं जपं भवति । महारुद्रशतसहस्रजापी भवति । प्रणवायुतकोटिजपो भवति । शतपूरवांज्छिततापरान्नुनातिं । सं पडिक्पावनो भवति । ब्रह्महत्यादिपातकेभ्यंको भवति । गोहत्यादिपातकेभ्यंको भवति । तुलापुरुषादिदाने: प्रपापन्नतः पूतो भवति । अशेषपापान्मुको भवति । भक्ष्याभक्ष्यपान्मुको भवति । सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो भवति ।

Page 4

तृतीयः खंडः

तस्माच्छिष्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्नुते । स जीवन्मुक्तो भवति । इत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥३॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि: । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः । शान्तिः । शान्तिः ॥ हरि: ॐ तत्सत् ॥

॥ इति दत्तात्रेयोपनिषत्समाप्ता ॥