1. devibhagavata_purana
Page 1
श्रीदुर्गादेव्य नमः श्रीमद्देवीभागवतमाहात्म्यम्
सृष्टो या सर्गरूपा जगदवनविधौ पालिनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडनं याऽपराख्या। पश्यन्ती मध्यमाऽथो तदनु भगवती वैखरीवर्णरूपा साऽस्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधिताऽलङ्गरोतु ॥१॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २॥ ऋषय ऊचुः सूत जीव समा बह्नीर्यस्त्वं श्रावयसीह नः । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥ सर्वपापहरं पुण्यं विष्णोश्चरितमद्दुतम् । अवतारकथोपेतमस्माभिर्भक्तितः श्रुतम् ॥४।। शिवस्य चरितं दिव्यं ,भस्मरुद्राक्षयोस्तथा । सेतिहासं च माहात्म्यं श्रुतं तव मुखाम्बुजात् ।।५।। अधुना श्रोतुमिच्छामः पावनात्पावनं परम्। भुक्तिमुक्तिप्रदं नृणामनायासेन सर्वशः ॥६॥ तत्त्वं ब्रूहि महाभाग येन सिद्धयन्ति मानवाः । कलावपि वरं त्वत्तो न विद्यः संशयच्छिदम् ॥७ सूत उवाच साधु पृष्टं महाभागा लोकानां हितकाम्यया। सर्वशास्त्रस्य यत्सारं तदो वक्ष्याम्यशेषतः॥८।। तावद्गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रूयते सम्यग्देवीभागवतं नरैः ॥९॥ तावत्पापाटवी नृणां क्लेशदाऽदभ्रकण्टका। यावन्न परशुः प्राप्तो देवीभागवताभिधः ॥१०॥ तावत्क्लेशावहं नृणामुपसर्गमहातमः । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः ॥११॥ ऋषय ऊचु: सूत सूत महाभाग वद नो वदतांवर। कीदृशं तत्पुरायणं हि विधिस्तच्छ्ववणे च कः ॥१२॥ कतिभिर्वासरैरेतच्छोतव्यं किं च पूजनम् । कैर्मानवैः श्रुतं पू्वं कान्कान्कामानवाप्नुयुः॥१३॥
Page 2
२ श्रीमद्देवीभागवतमाहात्म्य अध्यायः १
मूत उवाच विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात्। विभज्य वेदांश्चतुरः शिप्यानध्यापयत्पुरा ॥१४॥ व्रात्यानां द्विजबन्धूनां वेदेष्वनघिकारिणाम्। स्त्रीणां दुर्मेधसां नृणां धर्मज्ञानं कथं भवेत् ।।१५।। विचार्येतत्तु मनसा भगवान्वादरायणः । पुराणं संहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥ अष्टादश पुराणानि स कृत्वा भगवान्मुनिः । मामेवाध्यापयामास भारताख्यानमेव च ॥१७॥। देवीभागवतं तत्र पुराणं भोगमोक्षदम्। स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥ पूर्व यस्य पिता राजा परीक्षित्तक्षकाहिना। संदष्टस्तस्य संशुद्धर्यं राज्ञा भागवतं श्रुतम् ॥१९॥ नर्वभिर्दिव सै श्रीमद्वेदव्यासमुखाम्बुजात् । त्रलोक्यमातरं देवीं पूजयित्वा विधानतः ॥२०॥ नवाहयज्ञे सम्पृर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात् ॥२१॥ पितुर्दिव्यां गति राजा विलोक्य जनमेजयः । व्यास मुनिं समभ्यर्च्य परां मुदमवाप है ॥२२॥ अष्टादशपुराणानां मध्ये सर्नोत्तमं परम्। देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥ ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम्। तेषां सिद्धिर्न दूरस्था तस्मात्मव्या सदा नृभिः ॥ २४ ॥ दिनमर्द्ध तदर्ध वा मुहूत्तं क्षणमेव वा। ये शृण्वन्ति नरा भक्त्या न तेपां दुर्गतिः क्वाचत् ॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् । सकृत्पुराणश्रवणात्तत्फलं लभते नरः ॥२६॥ कृता दो बहवो धर्माः कलो धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥ धर्मांचारविहीनानां कलावल्फायुषां नृणाम्। व्यासो हिताय विदधे पुराणास्यं सुधारसम् ॥२८। सुधां पिवन्नेक एव नरः स्यादजरामरः। देव्याः कथामृतं कुर्यात्कुलमेबाजरामरम् ।२९॥ मासानां नियमो नात्र दिनानां नियमोऽपि न। सदा मेव्यं सदा सेव्यं देवीभागवतं नरैः ॥३०॥ आश्विने मधुमासे वा तपोमामे शुचौ तथा। चतुर्पु नवरात्रेष विशेषात्फलदायकम् ॥३१॥ अतो नवाहयज्ञोऽयं सर्वस्मात्पुण्यकर्मणः । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम्॥३२॥ ये दुहृंदः पापरता विमूढा मित्रदगुहो वंदविनिंदकाश्च। हिंसारता नास्तिकमार्गसक्ता नवाहयजञेन पुनति ते कलो ।। ३३ ।। परस्वदाराहणेतिऽलुब्धा ये वै नराः वल्मपभारभाजः । गोदेवताब्राह्मणभक्तिहीना नवाहज्ञेन भवन्ति शुद्धाः ॥ ३४॥ तपोभि रुग्रव्रततीर्थसेव नैद निरने कैनिय मैरमर्व्वैश्च् हुतर्जपैर्यच्च फलेन लभ्यते नवाहयजेन तदाप्यते नृणाम् ॥३५ ॥
Page 3
श्रीमहेतीभागवतमाहात्म्ये अध्याय: २ तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम्। पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः॥। ३६।। अतो भागवतं देव्याः पुराणं परतः परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥ आश्विनस्य सिते पक्षे कन्याराशिगते रवौ। महाष्टम्यां समभ्यर्च्य हैकसिंहासनस्थितम् ॥३८॥ देवीप्रीतिपदं भक्त्या श्रीभागवतपुस्तकम्। दद्याद्विप्राय योग्याय स देव्याः पदवीं लभेत् ॥३९॥ देवीभागवतस्यापि श्लोकं श्लोकार्द्धमेव वा। भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् । उपसर्गभवं घोरं महामारोसमुद्ङ्वम्। उत्पातानखिलांश्चापि हंति श्रवणमात्रतः ॥४१।। बालग्रहकृत यच्च भूतप्रेतकृनं भयम् । देवीभागवतस्यास्य श्रवणाद्याति दूरतः ॥४२॥ यस्तु भागवतं देव्याः पठेद्धक्त्या शृणोति वा। धर्ममर्थ च कामं च मोक्षं च लभते नरः ॥४३॥ श्रवणाद्वसु देवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद है॥४४॥ य एतां शरृणुयाद्द्क्त्या श्रीमद्धागवतीं कथाम् । भुक्ि मुक्ति स लभते भक्त्या यश्च पठेदिमाम् ॥ अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् । रोगी रोगात्प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥ वंध्या वा काकवंध्या वा मृतवत्सा च याङगना। देवीभागवतं श्रुत्वा लभेत्पुत्रं चिरायुषम् ॥४७॥ पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीरथंभूतं हि वसतां पापनाशकम् ॥४८॥ अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः । यः पठेच्छृणुयाद्वापि स सिद्धि लभते पराम्॥४९॥. पठन्द्विजो वेदविदग्रणीर्भवेद्वाहुप्रजातो धरणीपतिः स्यात् । वैश्यः पठन्वित्तसमृद्धिमेति शूद्रोऽपि शृण्वन्स्वकृतोत्तमः स्यात् ॥ ५०॥ इति श्रीस्कन्द पुराणे मानसरण्ड देवीभागवतमाहात्म्ये प्रथमोऽध्यायः ।१।।
अथ द्वितीयोऽध्यायः ऋषय ऊचु: वमुदेवो महाभाग: कथ पुत्रमवाप्वान्। प्रसेनः कुत्र कृष्णेन भ्रमताजन्वेषितः कथम् ॥१। त्रिधिना केन कस्माच्च देवोभागवतं श्रुतम् । वसुदेवेन सुमते वद मूत कथामिमाम् ॥२॥ सूत उवाच सत्राजिद्द्ोजवंशीयो द्वारवत्यां सुखं वसन् । सूर्यस्याराधने युक्तो भक्तश्च परमः सखा ॥३॥ अथ कालेन कियता प्रसन्नः सविताज्भवत्। स्वलोकं दर्शयामास तद्द्क्त्या प्रणयेन च ॥४॥
Page 4
श्रीमद्देवीभागवतमाहात्म्ये अध्याय: २ तस्मै प्रतीतस्य भगवान्स्यमंतकर्मण ददौ। स तं बिभ्रन्मणि कण्ठे द्वारकामाजगाम है ॥५॥ दृष्टा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः । कृष्णमूचूः समभ्येत्य सुधर्मायामवस्थितम् ॥६॥ एष आयाति सविता दिदृक्षुस्त्वां जगत्पते । श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि ॥७॥ सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन्। स्यमन्तकेन चायाति भास्वदृत्तेन भास्वता॥ ८ ॥ अथ विप्रान्समाहूय स्वस्तिवाचनपूर्वकम्। प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम् ॥९॥ न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् । यत्रास्ते स मणिनित्यमष्टभारसुवर्णदः ॥१॥ अथ सत्राजितो भ्राता प्रसेनो नाम कहिचित्। कण्ठे बद्ध्वा मणि सघो हयमारुह्य सैंधवम् ॥ ११ ॥ मृगयार्थं वनं यातस्तमद्राक्षीन्मृगाधिपः । प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम् ॥१२॥ जाम्बवानृक्षराजोऽथ दृष्टा मणिधरं हरिम्। हत्वा न तं बिलद्ारि मणि जग्राह वीर्यवान् ।१३। स तं मणि स्वपुत्राय क्रीडनार्थमदात्प्रभुः । अथ चिक्रीड बालोऽपि मणि संप्राप्य भास्वरम् ॥ १४ ॥ प्रसेनेSनागते चाथ सत्राजित्पर्यतप्यत । न जाने केन निहतः प्ररोनो मणिमिच्छता ।१५॥ अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् । कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना ॥१६॥। स तं शुश्राव कृष्णोपि दुर्यशो लिप्तमात्मनि। माष्टुं तत्तस्य पदवीं पुरौकोभिः सहागमत् ॥१७॥ गत्वा स विपिनेऽपश्यत्प्रसेवं हरिणा हतम् । ययौ मृगेन्द्रमन्विष्यन्नसृग्बिद्वंकिताध्वना ॥१८।। अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च। उवाच भगवान्वाचं कृपया पुरवासिनः ॥१९॥ तिष्ठध्वं यूयमत्रंव यावदागमनं मम। प्रावशामि बिलं त्वेतन्मणिहारकलब्धये ॥२०॥ तथेत्युक्त्वा तु ते तस्थुस्तत्रंव द्वारकौकसः। जगामांतर्विलं कृष्णो यत्र जाम्बवतो गृहम् ॥२१। कक्षराजसुतं दृष्टा कृष्णो मणिधरं तदा। हर्तुमच्छन्मण तावद्धात्री चुक्रोश भीतवत् ॥२२॥ श्रुत्वा धात्रींरवं सद्यः समागत्यर्थक्षराट् तदा। युयुधे स्वामिना साकमविश्राममहर्निशम् ॥२३॥ एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयो; । कृष्णागमप्रतीक्षास्ते तस्थुर्द्वारि पुरोकसः ॥२४॥ द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् । तत्र ते कथयामासुर्वृत्तांतं सर्वमादितः ॥२५॥ सत्राजितं शपंतस्ते सर्वे शोकाकुला भृशम्। वासुदेवो महाभागः श्रुत्वा पुत्रस्यतां कथाम् ॥२६। मुमोह सपरीवारस्तदा परमया शुचा। चिन्तयामास बहुधा कथं श्रेयो भवेन्मम ॥२७। अथाजगाम भगवान्देवर्षिर्ब्रह्मलोकतः। उत्थाय तं प्रणम्यासौ वसुदेवोऽ्म्यपूजयत् ॥२८। नारदोऽनामयं पृष्टा वासुदेवं महामतिम्। प्रपच्छ च यदुश्रेष्ठं कि चिंतयसि तद्वद ।२९
Page 5
श्रीमद्देवीभागवतमाहात्म्ये अध्याय: २ वसुदेव उवाच पुत्रो मेडतिप्रियः कृष्णः प्रसेनान्वेषणाय तु। पौरैः साकं वनं गत्वा निहतं तं तदैक्षत ॥३०।। प्रसेनघातकं दृष्टा बिलद्वारे मृतं हरिम् । द्वारि पौरानधिष्ठाय बिलांतर्गतवानस्वयम् ॥३१॥ बहवो दिवसा याता नायात्यद्यापि मे सुतः। अतः शोचामि तद् ब्रहि येन लप्स्ये सुतं मुने ॥ ३२ ॥ नारद उवाच पुत्रप्राप्त्यै यदुश्रेष्ठ देवोमाराधयांबिकाम्। तस्या आराधनेनैव्र सद्यः श्रेयो ह्यवाप्स्यसि ॥३३॥ वसुदेव उवाच भगवन्का हि सा देवी किंप्रभावा महेश्वरी। कथमाराधनं तस्या देवषँ कृपया वद ॥३४॥ नारद उवाच वसुदेव महाभाग शृणु संक्षेपतो मम। देव्या माहात्म्यमतुलं को वक्तुं विस्तरात्मः ॥ ३५ ॥ या सा भगवती नित्या सच्चिदानन्दरूपिणी। परात्परतरा देवी यया व्याप्तमिदं जगत् ॥३६॥ यदाराधनतो ब्रह्मा सृजतीदं चराचरम्। योच स्तुत्वा विनिर्मुक्तो मधुकैटभजान्ड्यात् ।३७।।
संतारबंधहेतुर्या विष्णुर्यत्कृपया विश्वं विरभ्ति भगवानिदम्। रुद्रः संहरते यस्याः कृपापांगनिरीक्षणात् ॥३८। सैव मुक्तिप्रदायिनी। सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी ॥३९॥ नवरात्रविधानेन सम्पूज्य जगदंबिकाम् । नवाहोभिः पुराणं च देव्या भागवतं शृणु॥४० ।। यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि। भुक्तिर्मु।क्तर्न दूरस्था पठतां शृण्वतां नृणाम् ।४१।। इत्युक्ो नारदेनासौ वसुदेवः प्रणम्य तम्। उवाच परया प्रोत्या नारदं मुनिसत्तमम् ॥४२॥ वसुदेव उवाच भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः । श्रयतां तच्च वक्ष्यामि देवीमाहात्म्यसंभवम् ॥४३॥ पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः। ज्ञात्वात्ममृत्युं पापो मां सभार्या न्यरुणन्दिरिया ४४H कारागारेऽहमवसं देवक्या सह भार्यया। जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत् ॥४५॥। षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् । अतप्यद्देवकी देवी नक्तंदिवमनिन्दिता ॥४६॥ तदाऽहं गर्गमाहय मुनि नत्वाऽभिपूज्य च। निवेदय देवकीदुश्मवोचं पुत्रकाम्यया ॥४७।। भगवन्करुणासिन्धो यादवानां गुरुर्भवान् । आयुष्मत्पुत्रसंप्राप्तिसाधनं वद मे मुने ॥४८।।
Page 6
श्रीमहेती मागवतमाहान्म्ये अध्याय: २ ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः । वसुदेव महाभाग शृणु तत्साधनं परम्॥४९ ॥ या सा भगवती दुर्गा भक्तदुर्गतिहारिणी। तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि५०॥ यदाराधनतः सर्वे सर्वान्कामानवाप्नुयुः। न किंचिद्दुर्लभं लोके दुर्गार्चनवता नृणाम् ॥५१॥ इत्युक्तोऽहं मुदा युक्त: सभार्यो मुनिपुङ्गवम् । प्रणम्य परया भक्त्या प्रावोचं विहितांजलि: ॥५२॥ वसुदेव उवाच यद्यस्ति भगवन्प्रीतिमयि ते करुणानिधे। तदा पुरा मदर्थे त्वं समाराधय चण्डिकाम् ।५३। निरुद्धः कंसगेहेऽहं न किंचित्कर्तुमुत्सहे। अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते ॥५४॥ इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः । वसुदेव तव प्रीत्या करिष्यामि हितं तव ।।५५॥ अथ गर्गमुनि: प्रीत्या मया संप्रार्थितोऽगमत् । आरिराधयिषुर्दुरगां विंध्याद्रिं ब्राह्मणैः सह ॥५६॥ तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम्। आराधयामास मुनिर्जपपाठपरायण: ॥५७।। यतः समाप्ते नियमे वागुवाचाशरीरिणी। प्रसन्नाऽहं मुने कार्यसिद्धिस्तव भविष्यति ॥५८॥ भूभारहरणार्थाय मया संप्रेषितो हरिः । वसुदेवस्य देवक्यां स्वांशेनावतरिष्थति ॥५९॥ कंसभीत्या तमादाय बालमानकदुंदुभिः । प्रापयिष्यति सद्ृस्तु गोकुले नन्दवेश्मनि ॥६०॥ यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे। दास्यत्यथ च तां हंतु कंस आक्षेप्स्यति क्षितौ ६१।। सा तद्धस्ताद्विनिर्गत्य सद्यो दिव्यवपुर्द्रा। मदंशभूता विंध्याद्रौ करिष्यति जगद्वितम् ॥६२॥। इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम्। गर्गो मुनिः प्रसन्नात्मा मथुरामगमत्पुरीम् ॥६३॥ वरदानं महादेव्या गर्गाचार्यसुखावहम्। श्रुत्वा सभार्यः संप्रीतः परां मुदमथागमत् ॥६४॥ तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् । अधुनापि हि देवर्पे श्रुतं तव मुखांबुजात् ॥ ६५॥ अतो भागवतं देव्यानत्वमेव श्रावय प्रभो। मद्भाग्यादेव देवर्षे संप्राप्तोऽसि दयानिधे ॥६६॥ वसुदेववचः श्रृत्वा नारदः प्रीतमानसः । सुदिने शुभनक्षत्रे कथारंभमथाकरोत् ॥६७।। कथाविघ्नविघातार्थ द्विजा जेपुर्नवाक्षरम्। मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा ॥६८॥ प्रथमस्कंधमारभ्य श्रीनारदमुखोद्गतम्। शुश्राव वसुदेवश्र भक्त्या भागवतामृतम् ॥६९। नवमेजन्नि कथापूर्तौ पुस्तकं वाचकं तथा। प्रसन्नः पूजयामास वसुदेवो महामनाः ॥७०॥ अथ तत्र बिलस्यांतः कृष्णजांबवतोमृ धे। कृष्णमुष्टिविनिष्पातश्लथाङ्गो जांबवानभूत् ॥७१॥ अथागतस्मृतिः सो हि भगवंतं प्रणम्य च। उवाच परया भक्त्या स्वापराधं क्षमापयन् ॥७२। ज्ञातोऽसि रधुवर्यस्त्वं यद्रोषात्सरितां पतिः । क्षोभं जगाम लंकां च रावणः सानुगो हतः॥७३॥
Page 7
श्रीमरेवीभागवतमाहात्म्ये अध्याय: ३ स एवासि भवान्कृष्ण मद्दौरात्म्यं क्षमस्व भोः । ब्रूहि यत्करणीयं मे भृत्योऽहं तव सर्वथा ।।७४॥ श्रुत्वा जांबवतो वाचमब्रवीज्जगदीश्वरः । मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम्॥७५॥ ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतों निजाम्। ददो कृष्णाय संपूज्य स्यमंतकमणि तथा ॥ ७६॥ स तां पत्नीं समादाय मणि कंठे तथा दधत्। अभिमंत्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति ॥७७॥ कथासमाप्तिदिवसे वसुदेव उदारघीः । ब्राह्मणान्भोजयामास दक्षिणाभिरतोषयत् ।।७८।। आशीर्वादं प्रयुञ्ाना द्विजा यत्समये हरिः। आजगाम क्षणे तस्मिन्यत्या सह मणि दधत् ।७९॥ भार्यया सहितं कृष्णं वसुदेवपुरोगमाः । दृष्टा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम् ॥८०॥ देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः । आमंत्र्य वसुदेवं च कृष्णो ब्रह्मसभां ययौ ।।८१।। हरिचरितमिदं यत्कीरतितं दुर्यशोघ्नं पठति विमलभक्त्या शुद्धचित्तः शृणोति। स भवति सुखपूर्णः सर्वदा मिद्धिकामो जगति च वपुषोऽन्ते मुक्तिमार्ग लभेच्च ।८२।। इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात््ये द्वितीयोऽध्यायः ॥२॥
अथ तृतीयोऽध्यायः सून उनाच अथेतिहासमन्यच्च शृणुंध्वं मुनिसत्तमाः । देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥१॥ एकदा कुंभयोनिस्तु लोपामुद्रापतिर्मुनिः । गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥२॥ स तस्म भगवान्स्कन्दः कथयामास भूरिशः । दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥३॥ वाराणस्याश्र माहात्म्यं मणिकर्णोभवं तथा। गंगायाश्चापि तीर्थानां व्णितं बहुविस्तरम् ॥४।। श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् । पुनः पप्रच्छ लोकानां हिताथ कुंभसंभवः ॥५॥ अगस्त्य उवाच भगवंस्तारकाराते देवीभागवतस्य तु। माहात्म्यश्रवणे तस्य विधि चापि वद प्रभो ॥६॥ देवीभागवतं नाम पुराणं परमोत्तमम् । त्रैलोक्यजननो साक्षाद्गीयते यत्र शाश्वनी ।।७।। स्कन्द उवाच श्रीभागवतमाहात्म्यं को वक्तु विस्तरात्क्षमः । श्ृणु संक्षेपतो ब्रह्मन्कथयिष्यामि सांप्रतम् ।।८। या नित्या सच्चिदानन्दरूपिणी जगदम्बिका। साक्षात्समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥९॥ अतस्तद्वाङ्मयी मूर्तिर्देवीभागवते मुने । पठनाच्छ्रवणाद्यस्य न किचिदिह दुर्लभम् ॥१॥॥
Page 8
श्रीमद्देवीभागवतमाहात्म्ये अध्यायः ३ आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥११॥ होतारं प्रार्थयामास श्रद्धाऽथ दयिता मनोः । कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥१२॥ मनसा चिन्तयन्होता कन्यामेवाजुहोद्धविः । ततस्तद्वयभिचारेण कन्येला नाम चाभवत् ॥१३॥ अथ राजा सुतां दृष्टा प्रोवाच विमना गुरुम्। कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥१४।। तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम्। ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥१५॥। मुनेस्तपः प्रभावाच्च परेशानुग्रहात्तथा। पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥१६॥ गुरुणा कृतसंस्कार: सुद्युम्नोऽथ मनोः सुतः । निधिर्बभूव विद्यानां सरितामिव सागरः ॥१७॥ अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च। मृगयार्थ वनं यातो हयमारुह्य सैन्धवम् ॥१८। वनाद्वनांतरं गच्छन्बहु बभ्राम सानुगः । दैवादधस्ताद्वेमाद्रेः स कुमारो वनं ययौ ॥१९॥ कस्मिश्चित्समये यत्र भार्ययाऽपर्णया सह। अरमद्देवदेवस्तु शङ्करो भगवान्मुदा ॥२०॥ तदा तु मुनयस्तत्र शिवदर्शनलालसाः। आजग्मुरथ तान्दृष्टा गिरिजा व्रीडिताऽभवत् ॥२१॥ रममाणौ तु तौ दृष्टा गिरिशौ संशितव्रताः। निवृत्ता मुनयो जम्मुर्वेकुष्ठनिलयं तदा ॥२२॥ प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप है। अद्यारभ्य विरोद्योऽत्र पुमान् योषिन्द्वेदिति ॥ २३ ॥ तत आरभ्य तं देशं पुरुषा वर्जयति हि। तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥२४॥ स्त्रीभूतानुगानश्वं वडवां वीक्ष्य विस्मितः । अथ सा सुन्दरी योषा विचचार वने वने ॥२५॥ एकदा सा जगामाथ बुधस्याश्रमसन्निधो। दृष्टा तां चारुसर्वाङ्गी पीनोन्नतपयोधराम् ॥२६॥ बिंबोष्ठी कुन्ददशनां सुमुखोंमुत्पलेक्षणाम्। अनङ्गशरविद्धांगश्चकमे भगवान्बुधः ॥२७।। सापि तं चकमे सुभ्रः कुमारं सोमनंदनम् । ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ।२८।। अथ कालेन कियता पुरूरवसमात्मजम्। स तस्यां जनयामास मित्रावरुणसंभवः ॥२९॥ अथ वर्षेषु यातेषु कदाचित्सा बुधाश्रमे। स्मृत्वा स्वंपूर्ववृत्तान्तं दुःखिता निर्जगाम ह॥३०॥ गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥३१॥ वसिष्ठो ज्ञातवृत्तांतो गत्वा कैलासपुर्वतम्। संपूज्य शंभु तुष्टाव भक्त्या परमया युतः ॥३२।। वसिष्ठ उवाच नमो नमः शिवायास्तु शंकराय कप्दिने। गिरिजारद्ध्ङ्गदेहाय नमस्ते चंद्रमोलये ॥३३॥ भृडाय सुखदात्रे ते नमः कैलासवासिने। नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥३४॥ 1
शिवाय शिवरूपाय प्रपन्नभयहारिणे। नमो वृषभवाहाय शरण्याय परात्मने ॥३५॥ ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च । नमो देवाधिदेवाय वरदाय पुरारये ॥३६॥
Page 9
श्रीम द्देवीभागवतमाहात्म्ये अध्याय: ३ यज्ञरूपाय यजतां फलदात्रे नमो नमः । गंगाधराय सूर्येन्दुश्निखिनेत्राय ते नमः ॥३७॥ एवं स्तुतः स भगवान्प्रादुरासीज्जगत्पतिः । वृषारूढोऽम्बिकोपेतः कौटिसूर्यसमप्रभः ॥३८॥ रजताचलसंकाशस्त्रिनेत्रश्चंद्रशेखरः । प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥३९॥। श्रीभगवानुवाच वरं वरय विप्रर्षे यत्ते मनसि वर्तते। इत्युक्तस्तं प्रणम्येलापुँस्त्वमभ्यर्थयन्मुनिः ॥४०॥ अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् । मासं पुमान्स भविता मासं नारी भविष्यति ॥४१।। इति प्राप्य वरं शंभोर्महर्षिर्जगदम्बिकाम्। वरदानोन्मुखीं देवीं प्रणनाम महेश्वरीम् ॥४२॥ कोटिचंद्रकलाकान्ति सुस्मितां परिपूज्य च। तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ४३॥ जय देवि महादेवि भक्तानुग्रहकारिणि। जय सर्वसुराराध्ये जयानंतगुणालये ॥४४॥ नमौ नमस्ते देवेशि शरणागतवत्सले। जय दुर्गे दुःखहंत्रि दुष्टदैत्यनिपूदिनि ॥४५॥ भक्तिगम्ये महामाये नमस्ते जगदम्बिके। संसारसागरोत्तारपोतीभूतपदाम्बुजे ।४६ ।। ब्रह्मादयोऽपि विबुधास्त्वत्पादांबुजसेवया। विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥४७॥ प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि। कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्म्यहम्४८॥ एवं स्तुता भगवती दुर्गा नारायणी परा। भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥४९।। तदोवाच महादेवी प्रणतातिहरी मुनिम् । सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥५०॥ सुधुम्नं श्रावय प्रीत्या पुराणं मत्प्रियंकरम्। देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ।।५१।। श्रवणादेव सततं पुंस्त्वमस्य भविष्यति। इत्युक्त्वा च तिरोधानं गच्छतःस्म शिवेश्वरौ॥।५२।। वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् । समाहय च सुद्युम्नं देव्याराधनमादिशत् ॥५३॥ आश्विनस्य सिते पक्षे संपूज्य जगदंविकाम। नवरात्रविधानेन श्रावयामास भूपतिम् ॥५४॥। श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम्। प्रणम्याभ्यर्च्च च गुरं लेभे पुंस्त्वं निरंतरम् ५५॥ राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा। भुव शशास धर्मेण प्रजाश्चैवानुरंजयन् ॥५६॥ ईजे च विविधैर्यज्ञैः संपूर्णवरदक्षिणः । पुत्रेषु राज्यं संदिश्य प्राप देव्याः सलोकताम्॥५७।। इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्तया मानवो वा शृणोति। स इह सकलकामान्प्राप्य देव्याः प्रसादात्परममृतमथान्ते याति देव्याः सलोकम् ॥५८॥ इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥३॥
Page 10
९० श्रीमहदेवीभागवतमाहात्म्ये अध्याय: ४ अथ चतुर्थोऽध्यायः सूत उवाच इति श्रुत्वा कथां दिव्यां विचित्रां कुंभसंभवः । शुश्रषुः पुनराहेदं विशाखं विनयान्वितः ॥१॥ अगस्त्य उवाच देवसेनापते .देव विचित्रेयं, श्रुता कथा। पुनरन्यच्च माहात्म्यं वदभागवतस्य मे ॥२॥ स्कन्द उवाच मित्रावरुणसंभूत .मुने शृणु कथामिमाम् । यत्रकदेशमहिमा प्रोक्तो भागवतस्य तु ॥३॥ वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च । गायत्र्या महिमा यत्र तद्दागवतमिष्यते ॥४।। भगवत्या इदं यस्मात्तस्माद्दागवतं विदुः। ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा ॥।५।। कतवागिति विर्यातो मुनिरासीन्महामतिः । तस्य पुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे ।।६।। स तस्य जातकर्मादि क्रियाश्चक्रे यथाविधि। चूडोपनयनादींश्र संस्कारानपि सोऽकरोत् ॥७॥ यत आरभ्य जातोऽसी पुत्रस्तस्य महात्मनः । तत एवाथ स मुनिः शोकरोगाकुलोऽभवत् ।।८।। रोषलोभपरीतात्मा तथा मातापि तस्य च । बहुरागार्दिता नित्यं शुचा दुःखीकृता भृशम् ।।९।। ऋतवाक्स मुनिश्चिन्तामवाप भृशदुःखितः । किमेततत्कारणं जातं पुत्रो मेऽत्यंतदुर्मतिः ॥१०॥ कस्यचिन्मुनिपुत्रस्य बलात्पत्नों जहार च। मेने शिक्षा पितुर्नासौ न च मातुरबिमूढधीः ॥११॥ ततो विषण्णचित्तस्तु ऋतवागब्रबीदिदम् । अपुत्रता वरं नृणां न कदाचित्कुपुत्रता ॥१२। पितृन्कुपुत्रः स्वर्यातान्निरये पातयत्यपि। यावज्जीवेत्सदा पित्रोः केवलं दुःखदायकः ॥१३॥ पित्रोर्दुःखाय धिग्जन्म कुपुनस्य च पापिनः । सुहृदां नोपकाराय नापकाराय वैरिणाम् ॥१४॥ धन्यास्ते मानवा लोके सुपुन्रो यद्गृहे स्थितः । परोपकारशीलश्र पितुर्मातुः सुखावहः॥१५॥ कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः । कुपुत्रेणेह चामुत्र दुःखं. निरययातनाः ॥१६॥ कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया। कुभोजनेन दिवसः कुमित्रेण सुखं कुतः ॥१७॥ स्कन्द उवाच एवं दुष्टस्य पुत्रस्य दुष्टराचरणरमुनिः । तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत ।।१८।। ऋतवागुवाच भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत्प्रभो। ज्योतिःज्ञास्त्रस्य चाचार्य पुत्रदौःशील्यकारणम् ।१९॥ गुरुणुश्रषया वेदा अधीता विधिवन्मया। ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत्कृतः ॥२०॥
Page 11
श्रीमद्देवीभागवतमाहात्म्ये अध्यायः ४ भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् । पंचयज्ञविधानं च मयाऽकारि यथाविधि ॥२१॥ नरकाद्विभ्यता विप्र न तु कामसुखेच्छया। गर्भाधानं च विधिवत्पुत्रप्राप्त्यै मया कृतम् ।२२।। पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने। जातो दुःखावहः पित्रोर्दुःशीलो बंधुशोकदः ॥२३॥ एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा। विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत् ॥२४॥ गर्ग उवाच मुने नैवापराधस्ते न मातुर्न कुलस्य च। रेवत्यंतं तु गण्डान्तं पुत्रदौःशील्यकारणम् ॥२५॥ दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने। तेनैव तव दुःखाय नान्यो हेतुर्मनागपि ॥२६॥ तद्दुःखशांतये ब्रह्मअ्गतां मातरं शिवाम्। समाराधय यत्नेन दुर्गा दुर्गतिनाशिनीम् ॥२७॥ गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्छितः । रेवतीं तु शशापासौ व्योम्नः पततु रेवती ॥।२८।। दत्ते शापे तु तेनाथ पूष्णो भं च पपात खात्। कुमुदाद्रो भासमानं सर्वलोकस्य पश्यतः ॥२९॥ ख्यातो रैवतकश्चाभूत्तत्पातात्कुमुदाचलः । अतीव रमणीयश्च ततःप्रभृति सोऽप्यभूत् ॥३०॥ दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः । समाराध्यांबिकां देवीं सुखसौभाग्यभागसृत् ।३१।। स्कन्द उवाच रेवत्यृक्षस्य यत्तेजस्तस्माज्जाता तु कन्यका। रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत् ॥३२॥। अथ तां प्रमुचः कन्यां रेवतीकांतिसंभवाम्। दृष्ठा नाम चकारास्या रेवतीति मुदा मुनिः ॥३३॥ निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः । ब्रह्मषिः प्रमुचो नाम कुमुदाद्रौ सुतामिव ॥३४॥ अथ कालेन च प्रौढां दृषा तां रूपशालिनीम्। स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत् ॥३५। बहुधाऽन्वेषयंस्तस्या नाससादोचितं पतिम्। ततोग्निशालां संविश्य मुनिस्तुष्टाव पावकम् ॥३६॥ कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट्। धर्मिष्ठो बलवान्वीरः प्रियवागपराजितः ॥७॥ दुर्दमो भविता भर्ता मुनेऽस्याः पृर्थिवीपतिः । इति श्रुत्वा वचो वह्नेः प्रसन्नोभून्मुनिस्तदा ॥३८॥ दैवादाखेट कव्याजात्तत्क्षणादागतो नृपः । दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः॥३९॥ पुत्रो विक्रमशीलस्य बलवान् वोर्यवत्तरः । कालिन्दीजठरे जातः प्रियव्रतकुलोद्गवः ॥४०॥ मुनेराश्रममाविश्य तमदृष्टा महामुनिम् । आमंत्र्य तां प्रिये चेति रेवतीं पृष्टवान्नृपः॥४१॥ राजावाच महषिर्भगवानस्मादाश्रमात्वव गतः प्रिये। तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः ॥४२॥
Page 12
१२ श्रीमद्देवीभागवतमाहात्म्ये अध्याय: ४
कन्योवाच अग्निशालामुपगतो महाराज महामुनिः । निश्चक्रामाश्रमात्तणं राजाप्याकर्ण्य तद्वचः ॥४३॥ तथाऽग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः। राजलक्षणसंयुक्तमपश्यत्प्रश्रयानतम् प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह। गौतमानीयतामर्ध्यमर्ध्ययोग्योऽस्ति भूपतिः॥४५॥ आगतश्चिरकालेन जामातेति विशेषतः । इत्युक्त्वार्ध्यं ददौ तस्मै सोपि जग्राह चिन्तयन्॥४६।। मुनिरासनमासीनं गृहीताघ्यं च भूपतिम्। आशाभिरभिनंद्याथ कुशलं चाप्यपृच्छत ।।४७।। अपि तेऽनामयं राजन्बले कोशे सुहृत्सु च। भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप ॥४८।। भार्याऽस्ति ते कुशलिनी यतः सात्रैव तिष्ठति । अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ राजोवाच भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम। एतत्कुतूहलं ब्रह्मन्मद्धार्या काडतर विद्यते ॥५०॥ ऋपिरुवाच रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि। विद्यतेऽत्र कथं पत्नीं ता न वेत्सि महीपते ॥५१॥ राजोवाच सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो। जानामि तास्तु भगवन्न वै जानाम रेवतीम् ।५२॥ ऋषिरवा च प्रियेति सांप्रतं राजंस्त्वयोक्ता या महामते। सा विस्मृता क्षणादेव या ते श्लाध्यतमा प्रिया ॥ राजोवाच त्वयोक्तं यन्मृषा तन्नो तर्थवामन्त्रिता मया। मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि ।५४।। ऋषिरुवाच राजनुक्तं त्वया सत्यं न भावो दूषितस्तव। वन्निना प्रेरितेनेत्थ भवता व्याहृतं वचः ॥५५॥ अद्य पृष्टो मया वह्निः कोऽस्या भर्त्ता भविष्यति। तेनोक्तं दुर्दमो राजा भविताऽस्याः पति्ध्रुवम् ॥५६॥ तदादत्स्व मया दत्तामिमां कन्यां महीपते। प्रियेत्यामंत्रिता पूर्वं मा विचारं कुरुष्व भोः ॥५७॥ श्रुत्वैतत्सोऽभवत्तष्णीं चिंतयन्मुनिभाषितम्। वैत्राहिकं विधिं तस्य मुनिः कर्तु समुद्यतः ॥५८॥ अथोद्यतं विवाहाय दृष्टा कन्याऽन्रवीन्मुनिम्। रवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि ॥५९॥ ऋृषिरुवाच वत्से विवाहयोग्यानि संत्यन्यर्क्षाणि भूरिशः । रेवत्यां कथमुद्राहः पौष्णभं न दिवि स्थितम् ॥६०॥
Page 13
श्रीमद्देवीभागवतमाहात्म्ये अध्याय: ४ १३
कन्योवाच रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि। अतः संप्रार्थयाम्येतद्विवाहं पौष्णभे कुरु॥६१॥ ऋ षिरुवाच ऋतवाङ्मुनिना पूर्वं रेक्तीभं निपातितम्। भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात्कथं तव ।६२। कन्योवाच तपः कि तप्तवानेक ऋतवागेव केवलम्। भवता कि तपो नेदक्तपं वाक्कायमानसः ॥६३॥ जगत्स्रष्टुं समर्थस्त्वं वेद्मयहं ते तपोबलम् । रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु॥६४॥ ऋषिरुवाच एवं भवतु भद्रं ते यर्थव त्वं ब्रवीषि माम्। त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ६५॥ स्कन्द उवाच एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात्। यथापूर्व तथा चक्रे सोममार्गे घटोद्दव ।६६।। रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः। रेवतीं प्रददौ राज्ञे दुर्दमाय महात्मने ॥६७॥ कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत्। किं तेडभिलषितं वीर वद तत्पूरयाम्यहम् ॥६८।। राजोवाच मनो: स्वायंभुवस्याहं वंशे जातोऽस्मि हे मुने। मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये ॥६९॥ मुनिरुवाच यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु। भविष्यत्येव ते पुत्रो मनुर्मन्वंतराधिपः ॥७०॥ देवीभागवतं नाम पुराणं यत्तु पंचमम् । पंचकृत्वस्तु तच्छ्रुत्वा लप्स्यसेऽभिमतं सुतम्॥७१॥ रेवत्या रैवतो नाम पंचमो भविता मनुः । वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः ॥७२॥ इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् । भार्यया सह मेधावी जगाम नगरं निजम् ॥७३॥ पितृपैतामहं राज्यं चकार स महामतिः । पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान्॥७४॥ एकदा लोमशो नाम महात्मा मुनिरागतः । प्रणिपत्य तमभ्यर्च्य प्रांजलिश्राब्रवीन्नृपः ॥७५॥ राजोवाच भगवंस्त्वतप्रसादेन श्रोतुमिच्छामि भो मुने। देवीभागवतं नाम पुराणं पुत्रलिप्सया ॥७६।। श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः । धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ७७॥ सुरासुरनराराध्या या परा जगदम्बिका। तस्यां चेद्दक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति ।।७८।। अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप । यस्य श्रवणमात्रेण न किंचिदपि दुर्लभम् ॥७९॥ इत्युक्त्वा सुदिने ब्रह्मन्कथारंभमथाकरोत्। पंचकृत्वः स शुश्राव विधिवद्धार्यया सह।८०।।
Page 14
१४ श्रीमद्देवीभागवतमाहात्म्ये अध्यायः ५ समाप्तिदिवसे राजा पुराणं च मुनि तथा। पूजयामास धर्मात्मा मुदा परमया युतः ॥८१। हुत्वा नवार्णमंत्रेण भोजयित्वा कुमारिकाः । वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत् ॥८२। अथ कालेन कियता भगवत्याः प्रसादतः । ग्भ दधार सा राज्ञी लोककल्याणकारकम् ॥८३॥ पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसंगतैः । सर्वमंगलसंपन्ने रेवती सुषुवे सुतम् ॥८४॥ श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः । स सुवर्णांभसा चक्रे जातकर्मादिकाः क्रियाः ॥८५॥ यथाविधि च दानानि दत्त्वा विप्रानतोषयत् । कृतोपनयनं राजा सांगान्वेदानपाठयत् ॥८६॥। सर्वविद्यानिधिर्जातौ धर्मिष्ठोऽस्त्रविदां वरः । धर्म्स्य वक्ता कर्ता च रैवतो नाम वीर्यवान् ।८७।। नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे। मन्वन्तराधिपः श्रीमान्गां शशास सधर्मतः ॥८८॥ इत्थं देव्याः प्रभावोऽयं संक्षेपेणोपवणितः । पुराणस्य च माहात्म्यं को वक्तु विस्तरात्क्षमः ॥८९। सूत उवाच कुंभयोनिस्तु माहात्म्यं विधिं भागवतस्य च। श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ ॥९॥ इदं मया भागवतस्य विप्रा माहात्म्यमुक्तं भवतां समक्षम् । शृणोति भक्त्या पठतीह भोगान्भुक्त्वाऽखिलान्मुक्तिमुपैति चांते ।९१। इति श्रीस्कन्दपुराणे मानसखण्डे श्रीदेवीभागवतमाहात्म्ये चतुर्थोऽध्यायः॥। ४ ॥।
अथ पश्चमोऽध्यायः ऋृषय ऊचु: सूत सूत महाभाग श्रुत माहात्म्यमुत्तमम् । अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥१॥ सूत उवाच श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम्। नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी ॥२॥ आदौ दैवज्ञमाहूय मुहूतं कल्पयेत्सुधीः। आरभ्य शुचिमासं तु मासषट्कं शुभावहम् ॥३॥ हस्ताश्चिमूलपुष्यक्षे ब्रह्ममंत्रेन्दुवैष्णवे। सत्तिथौ शुभवारे च पुराणश्रवणं शुभम्॥४॥ गुरुभाद्वेद४वेदा४ब्ज १शरां५गा६ब्धि४गुणैः४क्रमात्। धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम् ॥५॥ पीडाजथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम्। पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम् ॥६॥ अयवा प्रीतये देव्या नवरात्रचतुष्टये। शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते ॥।७॥ संभारं तादृशं कार्यं विवाहादौ च यादृशम्। नवाह्यज्ञे चाप्यस्मिन्विधयं यत्नतो वुधैः ॥८॥ सहाया बहवः कार्या दम्भलोभविवर्जिताः । चतुराश्र वदान्याश्र देवीभकतिपरा नराः ॥९॥
Page 15
श्रीमद्देवीभागवतमाहालये अध्यायः ५ १५ प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने । आगन्तव्यमिहावश्यं कथा देव्या भविष्यति ॥१०॥ सौराश्र गाणपत्याश्च शैवाः शाक्ताश्र वैष्णवाः । सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः ॥११॥ श्रीमद्देवीभागवतपीयूषरसलोलुपैः । आगंतव्यं विशेषेण कथार्थं प्रेमतत्परैः ॥१२॥ ब्राह्मणाद्याश्र ये वर्णाः स्त्रियश्चाश्रमिणस्तथा। सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम् ॥१३॥ नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः । आगंतव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः ॥१४॥ विनयेनैव कर्त्तव्यमेवमाकारणं नृणाम् । आगतानां च कर्त्तव्यं वासस्थानं यथोचितम् १५।। कथास्थानं प्रकर्त्तव्यं भूमौ मार्जनपूर्वकम् । लेपनं गोमयेनाथ विशालायां मनोरमम् ॥१६॥ कार्यस्तु मण्डपो रम्यो रंभास्तंभोपशोभितः । वितानमुपरिष्ठात्तु पताकाध्वजराजितः ।।१७।। वन्तुश्रवासनं दिव्यं सुखास्तरणसंयुतम् । रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम् ॥१८।। यथोचितानि कुर्वीत श्रोतृण्मासनानि च। नृणां चैवाथ नारीणां कथाश्रवणहेतवे ॥१९॥ वाग्मी दांतश्र शास्त्रज्ञो देव्याराधनतत्परः । दयालुर्निस्पृहो दक्षो धीरो वक्त्तोत्तमो मतः ॥२०॥ ब्रह्मण्यो देवताभक्त: कथारसपरायणः । उदारोऽलोलुपो नम्र: श्रोता हिंसादिवर्जितः ॥२१॥ पाखण्डनिरतो लुब्धः स्त्रंणो धर्मध्वजस्तथा। निष्टरः क्रोधनो वक्ता देवीयज्ञे न शस्यते ॥२२॥ संशयच्छेदनायक: पण्डितश्च तथागुणः । श्रोतृबोधकृदव्यग्र: कार्य्यो वक्तुः सहायकृत् ॥२३॥ मुहत्तं दिवसादर्वा्वक्तश्रोतादिभिर्जनैः । कर्त्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् ॥२४॥ अरुणोदयवेलायां स्नायाच्छौचं विधाय च । संध्या तर्पणकार्यं च नित्यं संक्षेपतश्चरेत् ॥।२५।। कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् । समस्तविघ्नहर्तारमादौ गणपति यजेत् ॥२६॥ कलशांश्रापि संस्थाप्य पूजयेत्तत्र दिग्भवान्। वटुकं क्षेत्रपालं च योगिनीर्मातृकास्तथा ।२७। तुलसीं चापि संपूज्य ग्रहान्विष्णुं च शंकरम् । नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम् ॥२८॥ सर्वोपचारैः संपूज्य श्रीभागवतपुस्तकम्। श्रीदेव्या वाङ्मयीं मूतत यथावच्छोभनाक्षरम्२९।। कथाविध्नोपशांत्यर्थ वृणुयात्तं च वाडवान्। जाप्यो नवार्णमंत्रस्तैः पाठयः सप्तशतीस्तवः ३०॥ प्रदक्षिणनमस्कारान्कृत्वांते स्तुतिमाचरेत् । कात्यायनि महामाये भवानि भुवनेश्वरि ॥३१॥ मंसारसागरे मन्नं मामुद्धर कृपामये। ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदंबिके ॥३२॥ मनोभिलषितं देवि वरं देहि नमोऽस्तु ते। इति संप्रार्थ्य शृणुयात्कथां नियतमानसः ॥३३॥ वक्तारं चापि संपूज्य व्यासबुद्धया तदात्मवान्। माल्यालंकारवस्त्राद्यः संभूष्य' प्रार्थयेच्च तम्॥३४॥ सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते। कथाचंद्रोदयेनांतस्तमःस्तोमं निराकुरु ॥३५॥
Page 16
५६ श्रीमद्देवीभागवतमाहात्म्ये अध्याय: ५ तदग्रे तु नवाहान्तं कर्त्तव्या नियमास्तदा। विप्रादीनुपवेश्यादौ- संपूज्योपविशेत्स्वयम् ॥३६॥ श्रोतव्यं सावधानेन चतुर्वर्गफलाप्ये। गृहपुत्रकलत्रा प्तधनचिन्तामपास्य च ॥३७॥ सूर्योदयं समारभ्य किंचित्सूयेंऽवशेषिते। मुहूर्त्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः ॥३८॥ मलमूत्र जयायैषां लघु भोजनमिष्यते। हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना ॥३९॥ अथवा स्यात्फलाहारी पयोभुग्वा घृताशनः । यथा स्यात्र कथाविघ्नस्तथा कार्य विचक्षणैः ४०॥ कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः । ब्रह्मविष्णुमहेशानां मध्ये ये भेददशिनः ॥४१॥ देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः। विप्रद्रुहो नास्तिका ये न ते योग्याः कथाश्रवे ॥४२॥ ब्रह्मत्वहरणे लुब्धा परदारधनेषु च । देवस्वहरणे तेषां नाधिकारः कथाश्रवे ॥४३॥ ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः । कथासमाप्तौ भुंजीत पत्रावल्यां यतात्मवान् ४४॥ वृंताकं च कलिन्दं च तैलं च द्विदलं मधु। दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद्व्रती ।४५।। आमिषं च मसूरान्नमुदक्या दृष्टमेव च । रसोनं मूलकं हिंगुं पलांडुं गृञ्जनं तथा॥४६॥। कूष्मांडनलिकाशाकं न भुंजीत कथाव्रती। कामं क्रोधं मदं लोभं दंभं मानं च बर्जयेत् ।४७।। विप्रधरुक्पतितव्रात्यश्वपाकयवनांत्यजः । उदक्यया वेदबाह्यार्न वदेद्यः कथाव्रती ॥४८॥ वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा। देवानां देवभक्तानां न निंदां शृणुयादपि।।४९।। विनयं चार्जवं शौचं दयां च मितभाषणम्। उदारं मानसं चैव कुर्याद्यस्तु कथाव्रती ॥५०।। वंध्या वा काकवंध्या वा दुर्भगा वा मृताभका। दरिद्रश्वानपत्यश्च भक्तर्य मां शृणुयात्कथाम् ।५१।। वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका। पतद्गर्भांगना या च ताभि: श्राव्या तथा कथा ५२।। धर्मार्थकाममोक्षांश्र यो वांछति विना श्रमम्। भगवत्या भागवतं श्रोतव्यं तेन यत्नतः ॥५३॥ कथादिनानि चैतानि नययज्ञैः समानि हि। तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत् ।५४॥ एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत्। महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः ॥५५॥ निष्कामाः श्रवणेनैव पूता मुक्ति व्रजन्ति हि। भोगमोक्षप्रदा नृणां यतो भगवती परा ॥५६॥ पुस्तकस्य च वक्तुश्र पूजा कार्या तु. नित्यशः । वक्त्रा दत्तं प्रसादं तुगृह्ीाद्दक्तिपूर्वक्म् ॥५७॥ कुमारी: पूजयेन्नित्यं भोजयेत्प्रार्थयेच्च यः। सुवासिनीश्र विप्रांश्र तस्य सिद्धिर्न संशयः ॥५८% भायत्र्या नामसाहस्रं समाप्तावथ वा पठेत्। विष्णोर्नामसहस्त्रं च सर्वदोषोपशान्तये ।५९॥ यस्य स्मत्या च नामोक्तया तपोयज्ञक्रियादिषु। न्यूनं संपूर्णतां याति तस्माद्विष्णुं च कीर्तयेत् ६०॥ देव्याः सेष्तशतीमंत्रः समाप्तौ होममाचरेत्। देवीमाहात्म्यमूलेन नवार्णमनुनाऽथवा ।६१॥
Page 17
२ श्रीमेवीभागवतमाहात्म्ये अध्यायः ५ भायत्या त्वथवा होमः पायसेन ससर्पिषा। यतो भागवतं त्वेतद्रायत्रीमयमीरितम् ॥६२॥ बांचकं तोषयेत्सम्थग्वस्त्रभूषाधनादिभिः । प्रसन्ने वाचके सर्वाः प्रसन्ना उस्य देवताः ॥६३।। ब्राह्मणान्भोजयेद्द्क्त्या दक्षिणामिश्र तोषयेत्। पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम् ॥६४।। सुवासिनीः कुमारीश्र देवीभक्तया च भोजयेत्। ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः ॥६५॥ वधाहानानि चान्यानि सुवर्णं गाः पयस्विनीः । हयानिभान्मेदिनीं च तस्य स्यादक्षयं फलम् ॥६६॥। बेवीभागवतं चैतल्लिखितं शोभनाक्षरम् । हेमसिंहासने स्थाप्यं पट्टवस्त्रेण वेष्टितम् ॥६७॥। बहम्यां वा नवम्यां च वाचकायाचिताय च । दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ६८।। बरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा। पुराणवेत्ता वैद्यःस्यात्पूज्यो मान्यश्र सर्वदा ॥६९।।: सन्ति लोकस्य बहवो गुरवो गुणजन्मतः । सर्वेषामपि तेषां च पुराणजः परो गुरुः ॥७॥ पोराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः । असमाप्ते प्रसंगे तु नमस्कुर्यान्न कस्यचित्॥७१।। पौराणिकीं कथां दिव्यां येऽपि शृण्वंत्यभक्तितः । तेषां पुण्यफलं नास्ति दुःखदारिद्रयभागिनाम् ॥७२॥ असंपूज्य पुराणं तु ताम्बूलकुसुमादिभिः । ये पृण्वंति कथां देव्यास्ते दरिद्रा भवंति हि ७३।। कीर्त्यमानां कथां त्यक्त्वा ये व्रजंत्यन्यतो नराः। भोगान्तरे• प्रणश्यंति तेषां दाराश्र सम्पदः ॥७४॥ ये व तुंगासनारूढा: कथां शण्वंति दांभिकाः । ते वायसा भवंत्यत्र भुक्त्वा निरययातनाम् ॥७५॥। ये चाठयासनसंस्थाश्र ये वीरासनसंस्थिताः । शृण्वंति च कथां दिव्यां ते स्युरर्जुनशाखिनः ७६॥ कंथायां कीर्त्यमानायां ये वदंति दुरुत्तरम्। रासभास्ते भवंतीह कुकलासास्ततः परम्॥७७॥ निरदति ये पुराणज्ञान्कथां वा पापहारिणीम् । ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः ॥७८। ये शृष्वंति कथां वक्तुः समानासनसंस्थिताः । गुरुतल्पसमं पापं लभंते नरकालयाः ॥७९॥ ये चाप्रणम्य शृण्वंति ते भवन्ति विषद्रुमाः । शयाना येऽपि शृण्वंति भवंत्यजगराहयः ॥८०॥ ये कदाचन पौराणीं न शृण्वंति कथां नराः । ते घोरं नरकं भुक्त्वा भवन्ति ग्रामसूकराः ॥८१ ये कथां नानुमोदंते विघ्नं वुर्वन्ति ये शठाः । कोटयब्दं निरयं भुक्त्वा भवंति ग्रामसूकराः ८२॥ आसनं भाजनं द्रव्यं फलं वस्त्राणि कम्बलम् । पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरे: पदम् ।।८३॥ पुराणपुस्तकस्यापिं ये पट्टवसनं नवम् । प्रयच्छन्ति शुभं सूत्रं ते नरा. सुखभागिनः ॥८४॥ पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत्। तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत्।८५।।
Page 18
१८ श्रीमद्देवीभागवतमाहात्म्ये अध्याय: ५ यथा सरित्सु प्रवरा गंगा देवेषु शंकरः । काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः ॥८६।। आह्लादकानां चन्द्रश्च धनानां च यथा यशः । क्षमावतां यथा भूमिर्गाम्भीये सागरो यथा ।।८७! मंत्राणां चैव सावित्री पापनाशे हरिस्मृतिः । अष्टादशपुराणानां देवीभागवतं तथा॥८८। येन केनाप्युपायेन नवकृत्वः शृणोति चेत्। न शक्यं तत्फलं वक्तुं जीवन्मुक्तःस एव ह ॥८९॥ राजशत्रुभये प्राप्ते महामारीभये तथा। दुर्भिक्षे राष्ट्रभंगे च तच्छांत्यै शृणुयादिदम् ।९०।। भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः । पुत्रलाभाय श्रृणुयाददेवीभागवतं द्विजाः ॥९१॥ श्रीमन्द्ागवतं यस्तु पठेद्वा शरृणुयादपि। श्रोकार्द्धं श्रलोकपादं वा संयाति परमां गतिम् ॥९२॥ भगवत्या स्वयं देव्या श्रोकार्द्धेन प्रकाशितम्। शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् ।९३॥ न गायत्र्याः परो धर्मो न गायत्र्या: परं तपः। न गायत्र्याः समो देवो न गायत्र्याः परो मनुः ॥९४॥ गातारं त्रायते यस्माद्गायत्री तेन सोच्यते। साऽत्र भागवते देवी सरहस्या प्रतिष्ठिता ।९५॥ अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च। महांत्यपि पुराणानि कलां नाहति षोडशीम् ॥९६॥ श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः । गायत्र्याश्र रहस्यमत्र च मणिद्वीपश्च संवणितः श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥९७॥ तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् । अतः सदैव संसेव्यं देवीभागवतं दविजाः ॥९८॥ यस्या: प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः । अंशांशका अपि च ते किमुतान्यदेवास्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥९९॥ यत्पादपंकजरजः समवाप्य विश्वं ब्रह्मा सृजन्यनुदिनं च बिभ्त विष्णुः । रुद्रश्च संहरति नेतरथा समर्थास्तस्यै नमोऽस्तु. सततं जगदम्बिकायै ॥१००॥ सुधाकूपारांतस्त्रिदशतरुवाटीविलसिते मणिद्रीपे चिन्तामणिमयगृहे चित्ररुचिरे। विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्ष च लभते ॥१०१॥ ब्रह्मेशाच्यु तशक्राद्र्महर्षिभिरुपासिता । जगतः श्रेयसे साऽस्तु मणिद्वीपाधिदेवता ॥१०२ इति श्रीस्कन्दपुराणे मानसखण्डें देवीभागवतमाहात्म्ये श्रवणविधिवर्णनं नाम पञ्ञमोऽध्यायः ॥५॥ समाप्तमिदं स्कान्दीयं श्रीमद्देवीभागवतमाहात्म्यम् ।
Page 19
श्रीगणेशाय नमः
श्रीमद्देवीभागवतम्
प्रथम: स्कन्धः -: e :- प्रथमोऽध्यायः ॐ सर्वचैतन्यरूपां तामाद्यां देवीं च धीमहि। बुद्धिं नः प्रचोषयात् ।१।। शौनक उवाच सूत सूत महाभाग धन्योऽसि पुरुषर्षभ । यदधीतास्त्वया सन्यवपुराणसंहिताः शुभाः ॥२॥ अष्टादश पुराणानि कृष्णेन भुनिनाऽनघ । कथितानि सुदिव्यानि पठितानि त्वयाऽनघ ॥३॥ पंचलक्षणयुक्तानि सरहस्यानि मानद । त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात्।।४।। अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् । दिव्यं विश्वसमं पुण्यं कलिदोषविवजितम् ॥५॥
दीर्घायुर्भव समाजोऽयंमुनीनांहिश्रोतुकामोऽस्तिपुण्यदाम् । पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥६॥ सर्वत्र तापत्रयविवर्जितः । कथयाद्य महाभाग पुराणं ब्रह्मसंमितम् ॥७॥ श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः। नशृण्वन्तिपुराणानि वंचिता विधिना हि ते ॥८। यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते। तथा श्रोत्रेंद्रियाह्लादो वचोभिः सुधियां स्मृतः ॥९॥ अश्रोत्रा: फणिनः कामं मुह्यंति हि नभोगुणैः । सकर्णा ये न शृण्वंति तेप्यकर्णाः कथं न च ।१०।। अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः । वतंते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥११॥ येन केनाप्युपायेन कालातिवाहनं स्मृतम् । व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिंतनैः ॥१२।। शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च । (त्रिविधानि पुराणानि शास्त्राणि विविधानि च ॥। वितंडाच्छलयुक्तानि गर्वामर्षकराणि च ।।१॥) नानार्थवादयुक्तानि हेतुमंति बृहंति च।।१३।।
Page 20
२० श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः २ सातत्विकं तत्र वेदान्तं मीमांसा राजसं मतम्। तामसं न्यायशास्त्रं च हेतुवादाभियंत्रितम् ।१४।। तथव च पुराणानि त्रिगुणाननि कथानकैः। कथितानि त्वया सौम्य पंचलक्षणवंति च ॥१५॥ तत्र भागवतं पुण्यं पंचमं वेदसंमितम्। कथितं यत्त्वया पूर्व सर्वलक्षणसंयुतम् ॥१६॥ उद्देशमात्रेण तदा कीर्तितं परमान्द्ुतम् । मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥१७॥ विस्तरेण तदाख्याहि पुराणोत्तममादरात्। श्रोतुकामा द्विजा: सर्वे दिव्यं भागवतं शुभम् ॥१८॥ त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल। कृष्णोक्तां गुरुभक्तत्वात्सम्यक्सत्त्वगुणादयः ।१९।। श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च । नैव तृतिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥२०॥ घिवसुधां पिबतां सूत मुक्तिर्नेव कदाचन। पिबन्भागवतं सदो नरो मुच्येत संकटात् ।२१॥ सुधापाननिमित्तं यत्कृता यज्ञा. सहस्रशः। न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥२२॥ मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः। एवं संसारचक्रेऽस्मिन्भ्रमणं च निरंतरम् ॥२३॥ विना ज्ञानेन सर्वज्ञ नैव मुक्ति: कदाचन। भ्रमतां कालचक्र्ेडत्र नराणां त्रिगुणात्मके ॥२४॥ अतः सर्वरसोपेतं पुण्यं भागवतं वद। पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥२५॥ इति श्रीदेवीभागवत महापुराणे प्रथमस्कन्धे शौनकप्रश्नो नाम प्रथमोऽध्यायः ॥१॥ अथ द्वितीयोऽध्यायः श्रीसूत उवाच धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः । यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम् ॥१॥ तदहं संप्रवक्ष्यामि सर्वश्रुत्यर्थसंमतम्। रहस्यं सर्वशास्राणामागमानामनुत्तमम् ॥२॥ नत्वा तत्पदपङ्गजं सुललितं मुक्तिप्रदं योगिनां ब्रह्माद्यरपि सेवितं स्तुतिपरैध्येयं मुनीन्द्रैः सदा। वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणात्तमं भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः ॥३॥ या विद्येत्यभिधीयते श्रुतिपथे शक्ति: सदाऽडद्या परा सर्वज्ञा दुर्ज्ञेया भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता। सुदु रात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा ॥४॥ सृष्टाइखिलं जगदिदं सदसत्स्वरूपं शक्तया स्वया त्रिगुणया परिपाति विश्वम्। संहृत्य कल्पसमये रमते तर्थका तां सर्वविश्वजननों मनसा स्मरामि ॥५॥
Page 21
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः २ २१ ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं पौराणिकैश्च कथितं खलु वेदविद्ध्िः। विष्णोस्तु नाभिकमले किल तस्य जन्म तैरुक्तमेव सृजते न हि स स्वतंत्रः ॥६॥ विष्णुस्तु शेषशयने स्वपतीति काले तन्नाभिपद्ममुकुले खलु तस्य जन्म। आधारतां किल गतोऽत्र सहस्रमौलि: सम्बोध्यतां स भगवान् हि कथं मुरारि: ॥७।। एकार्णवस्य सलिलं रसरूपमेव पात्रं विना न हि रसस्थितिरस्ति कच्चित् । या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं शरणं गतोऽस्मि :॥ योगनिद्रामीलिताक्षं. विष्णुं दृष्टांबुजे स्थितः । अजस्तुष्टाव यां देवीं तामहं शरणं व्रजे ।९॥ तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा। वक्ष्ये पुराणमखिलं शृण्वंतु मुनयस्त्विह ।१०।। पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् । अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः ॥११॥ स्कन्धा द्वादश चंवात्र कृष्णेन विहिता: शुभाः । त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः ॥१२॥ विरशात प्रथमे तत्र द्वितीये द्वादशैव तु। त्रिशच्चव तृतीये तु चतुर्थे पंचरविशतिः ॥१३। पंचनरिशत्तथाऽध्यायाः पंचमे परिकीर्तिताः। एकत्रिशत्तथा षष्टे चत्वारिंशच्च सप्तमे ॥१४॥ अष्टमे तत्त्वसंख्याश्र पंचाशन्नवमे तथा। त्रयोदश तुसंप्रोक्ता दशमे मुनिना किल ॥१५॥ तथा चैकादशस्कन्धे चतुर्विशतिरीरिता। चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः ॥१६॥ एवं संख्या समाख्याता पुराणेऽस्मिन्महात्मना। अष्टादशसहस्रीया संख्या च परिकीर्तिता ॥१७॥ सर्गश्र प्रतिसर्गश्र वंशो मन्वंतराणि च। वंशानुचरितं चैव पुराणं पंचलक्षणम्॥१८।। निर्गुणा या, सदा नित्या व्यापिका विकृता शिवा। योगगम्याऽखिलाधारा तुरीया या च संस्थिता॥१९॥ वस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा। महालक्ष्मी सरस्वती महाकालीति ताःस्त्रियः॥२०॥ वासां तिसृणां शक्तीनां देवांगीकारलक्षणः । सृष्टयर्थं च समाख्यातः सर्गः शास्त्रविशारदैः ॥२१॥ हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता पालनोत्पत्तिनाशार्थ प्रतिसर्गः स्मृतो हि सः ॥२२॥ सोमसूर्योद्गवानां च राज्ञां वंशप्रकीर्तनम्। हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः ॥२३।। स्वायंभुवमुखानां च मनूनां परिवर्णनम् । कालसंख्या तथा तेषाँ तत्तन्मन्वंतराणि च ॥२४॥ तेषां वंशानुकथनं वंशानुचरितं स्मृतम्। पंचलक्षणयुक्तानि भवंति मुनिसत्तमाः ॥२५॥ सपादलक्षणं च तथा भारतं मुनिना कृतम्। इतिहास इति प्रोक्तं पञ्चमं वेदसंमतम् ॥२६॥ शौनक उवाच कानि तानि पुराणानि ब्रूहि सूत सविस्तरम्। कतिसंख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह ।।२७।। कलिकालविभीताः स्मो नैमिषारण्यवासिनः । ब्रह्मणाऽत्र समादिष्टाश्चक्रं दत्त्वा मनोमयम् ॥२८।
Page 22
२२ श्रीमरेवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः ३ कथितं तेन नः सर्वान्गछंत्वेतस्य पृष्ठतः । नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः ॥२९॥ कलेस्तत्र प्रवेशो न कदाचित्संभविष्यति। तावत्तिष्ठतु तत्रव यावत्सत्ययुगं पुनः ॥३०॥ तच्छरत्वा वचनं तस्य गृहीत्वा तत्कथानकम्। चालयन्निर्गतस्तूणं सवदेशदिदृक्षया ।।३१।। प्रेत्यात्र चालयंश्रकं नेमिः शी्णोऽत्र पश्यतः । तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम् ॥३२॥ कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया। मुनिभिः सिद्धसंघंश्र कलिभीतैर्महात्मभिः ॥३३॥ पशुहीना: कृता यज्ञा: पुरोडासादिभिः किल। कालातिवाहनं कार्यं यावत्सत्ययुगागमः ॥३४॥ माग्ययोगेन संप्राप्तः सूत त्वं चात्र सर्वथा। कथयाद्य पुराणं हि पावनं ब्रह्मसंमतम् ॥३५॥ सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ । निर्व्यापारा वयं नूनमेकचित्तास्तथव च॥३६॥ त्वं सूत भव दीर्घायुस्तापत्रमविवर्जितः । कर्थयाद्य पुराणं हि पुण्यं भागवतं शिवम् ॥३७॥ यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम्। विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल३८॥ द्वपायनेन मुनिना कथितं यच्च पावनम्। न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम् ॥३९॥ सकलगुणगणानामेकपात्रं पवित्रमखिलभुवनमातुर्नाटयवद्यद्विचित्रम्। निखिलमलगणानां नाशकृत्कामकंदं प्रकटय भगवत्या नामयुक्तं पुराणम् ॥।४०।। इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धे द्वितीयोऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः सूत उवाच शृण्वंतु संप्रवक्ष्यामि .पुराणानि मुनीश्वराः । यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात् ।।१।। मडयं भद्वयं चंव व्रत्रयं वचतुष्टयम् । अनामलिंगकूस्कानि पुराणानि पृथक्पृथक् ॥२॥ चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम्। तथा ग्रहसहस्त्रं तु मार्कण्डेयं महान्द्गुतम् ॥३॥ चतुर्दश सहस्राणि तथा पंचशतानि च । भविष्यं परिसंख्यातं मुनिभिस्तत्त्वदर्शिभिः।४।। अष्टादशासहस्रं वै पुण्यं भागवतं किल। तथा चायुतसंख्याकं पुराणं ब्रह्मसंज्ञकम् ॥५॥ द्वादशव सहस्राणि ब्रह्मांडं च शताधिकम्। तथाष्टादशसाहस्त्रं ब्रह्मववर्तमेव च ॥६॥ अयुतं वामनाख्यं च वायव्यं षट्शतानि च । चतुर्विशतिसंख्यातः सहस्राणि तु शौनक ।७॥। त्रयोविशतिसाहस्रं वैष्णवं परमान्भुतम्। चतुर्विशतिसाहस्त्रं वाराहं परमान्दुतम् ।८।। बोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् । पंचर्विशतिसाहस्त्रं नारदं परमं मतम् ।९॥ पञ्चपञ्चाशत्साहस्त्रं पाद्ाख्यं विपुलं मतम् । एकादशसहस्राणि लिंगाख्यं चातिविस्तृतम् ।१०।। एकोनविशत्साहस्रं गारुडं हरिंभाषितम् । सप्तदशसहस्त्रं च पुराणं कूर्मभाषितम् ॥११॥ एकाशीतिसहस्राणि स्कंदास्यं परमान्द्ुतम्। पुराणाख्या च संख्या च विस्तरेण मयानघा: १२॥।
Page 23
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः ३ २३ वर्थदोपपुराणानि शृण्वंतु ऋषिसत्तमाः । सनत्कुमारं प्रथमं नारसिंहं ततः परम्॥१३॥ नारदीयं शिवं चैव दौर्वाससमनुत्तमम्। कापिलं मानवं चैव तथा चौशनसं स्मृतम् ॥१४॥ वारुणं कालिकाख्यं च सांबं नंदिकृतं शुभम् । सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम् ।१५॥ माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् । एतान्युपपुराणान कथितानि महात्मभिः ॥१६॥ अछादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमतुलं चक्रे तदुपबृंहितम् ॥१७॥ मन्यन्तरेषु सर्वेषु द्वापरे द्वापरे युगे। प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि ॥१८॥ द्वापरे द्वापरे विष्णुर्व्यासरूपेण सर्वदा। वेदमेकं स बहुधा कुरुते हितकाम्यया।१९॥ अल्पायुषोऽल्पबुद्धींश्र विप्राञ्ज्ञात्वा कलावथ । पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे ॥२०। खत्रीशूद्वद्विजबंधूनां न वेदश्रवण मतम्। तेपामेव हितार्थाय पुराणानि कृतानि च ॥२१॥ मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे। अष्टाविशतिमे प्राप्ते द्वापरे मुनिसनमाः ॥२२॥ व्यासः सत्यवतीसूनुर्गुरुमे धर्मवित्तमः । एकोनत्रिशत्संप्राप्ते द्रौणिर्व्यासो भविष्यति ॥२३॥ अतीतास्तु तथा व्यासाः सप्तविशतिरेव च । पुराणसंहितास्तैस्तु कथितास्तु युगे युगे ॥२४॥ सूहि सूत महाभाग व्यासाः पूर्वयुगोद्गवाः । वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे ॥२५॥ ऋषय ऊचु:
सूत उवाच द्वापरे प्रथमे व्यस्ताः स्वयं वेदा: स्वयंभुवा। प्रजापतिद्वितीये तु द्वापरे व्यासकार्यकृत् ॥२६॥ तृतीये चोशना व्यासश्रतुर्थे तु बृहस्पतिः । पंचमे सविता व्यासः षष्ठे मृत्युस्तथापरे ॥२७॥ मधवा सप्तमे प्राप्ते वसिष्ठस्त्व्रष्टमे स्मृतः । सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥२८॥ एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम्। त्रयोदशे चांतरिक्षो धर्मश्चापि चतुर्दशे ॥२९॥ त्रय्यारुणिः पंचदशे षोडशे तु धनंजयः । मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥३०॥ अन्निरेकोनविशेऽथ गौतमस्तु ततः परम्। उत्तमश्रैकर्विशेऽथ हर्यात्मा परिकीरतितः ॥३१॥ बेनो वाजश्रवश्चव सोमोडमुष्यायणस्तथा। तृणबिंदुस्तथा व्यासो भार्गवस्तु तंतः परम् ॥३२॥ :........ ततः शक्तिर्जातुकर्ण्यः कृष्णद्वपायनस्ततः । अष्टाविशतिसंख्येयं कथिता या मया श्रुता ॥३३॥ कृष्ण द्वँपायनात्प्रोक्तं पुराणं च मया श्रुतम् । श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम् ॥३४॥ कामदं मोक्षदं चैव वेदार्थपरिवृंहितम्। सर्वागमरसारामं मुमुक्षूणां सदा प्रियम्।३५॥ व्यासेन कृत्वाऽतिशुभं पुराणं शुकाय पुत्राय महात्मने यत्। वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसंभवाय॥३६॥ श्रुतं मया तत्र. तथा गृहीतं यरथार्थवद्वयासमुखान्मुनीद्राः ।
Page 24
श्रीमद्ेवीभागवते महापुराणे प्रथमस्कन्सें अध्याय: ४ पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्र ॥३७॥ सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम्। अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम् ॥३८॥ संसाराणवदुर्विगाह्यसलिलं संहर्तुकामः शुकः । सत्तम:
नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाSशृणोद्द्गुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविध: कः क्षितौ ॥३९॥ पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् । भुकत्वा भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामांकितं सुंदरम् ॥ या निर्गुणा हरिहरादिभिरप्यलम्या विद्या सतां प्रियतमाऽथ समाधिगम्या। सा तस्य चित्तकुहरे प्रकरोति भावं यः संश्ृणोति सततं तु सतीपुराणम् ।।४१।। संप्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् । संप्राप्य वाचकमहो न शृणोति मूढः सो वश्चितोऽत्र विधिना सुखदं पुराणम् ।४२।। यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी शृणोति सततं च परापवादान्। सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुती न शृणुते भुवि मंदबुद्धि:।।४३।। इति श्रीदेवीभागवते महापुराणे प्रथमस्कंधे तृतीयोऽध्यायः ॥३॥ चतुर्थोऽध्यायः सौम्य व्यासस्य भार्यायां कस्यां जातः सुतःशुकः । कथं वा कीदृशो येन पठितेयं सुसंहिता ॥१॥ ऋषय ऊचु: अयोनिजस्त्वया प्रोक्तस्तथा चारणिजः शुकः । संदेहोऽस्ति महांस्तत्र कथयाद्य महामते ॥२॥ गभयोगी श्रुतः पूर्वं शुको नाम महातपाः । कथं च पठिंतं तेन पुराणं बहुविस्तरम् ॥३॥ सूत उवाच पुरा सरस्वतीतीरे व्यासः सत्यवतीसुतः । आश्रमे कलविको तु दृष्टा विस्मयमागतः ॥४II जातमात्रं शिशुं नीडे मुक्तमण्डं मनोहरम्। ताम्रास्यं शुभसर्वाङ्गं पिच्छांकुरविवर्जितम् ॥५॥ तो तु भक्ष्यार्थमत्यंतं रतो श्रमपरायणौ। शिशोश्चञचुपुटे भक्ष्यं क्षिपंतौ च पुनः पुनः ॥६॥ अंगेनांगानि बालस्य घर्षयंती मुदान्वितो। चुंबंतो च मुखं प्रेम्णा कलविको शिशोः शुभम् ७॥ वीक्ष्य प्रेमाद्दतं तत्र बाले चटकयोस्तदा। व्यासश्ितातुरः कामं मनसा समचितयत् ॥८।। तिरश्रामप्रि यत्प्रेम पुत्रे समभिलक्ष्यते । कि चित्रं यन्मनुष्याणां सेवाफलमभीप्सताम् ।९॥
Page 25
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः ४ २५ किमेतौ चटकौ चास्य विवाहं सुखसाधनम्। विरच्य सुखिनौ स्यातां दृष्टा वध्वा मुखं शुभम् ॥ अथवा वार्धके प्राप्ते परिचर्यां करिष्यति। पुत्रः परमधर्मिष्ठः पुण्यार्थं कलविंकयोः ॥११॥ अर्जयत्वाऽथवा द्रव्यं पितरौ तर्पयिष्यति। अथवा प्रेतकार्याणि करिष्यति यथाविधि ॥१२॥ अथवा कि गयाश्राद्धं गत्वा संवितरिष्यति। नीलोत्सर्गं च विधिवत्प्रकरिष्यति बालकः ॥१३॥ संसारेऽत्र समाख्यातं सुखानामुत्तमं सुखम् । पुत्रगात्रपरिष्वंगो लालनं च विशेषतः ॥१४॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च। पुत्रादन्यतरन्नास्ति परलोकस्य साधनम् ॥१५॥ मन्वादिभिश्च मुनिभिर्धर्मशास्त्रेषु भाषितम् । पुत्रवान्स्वर्गमाप्नोति नापुत्रस्तु कथंचन ।१६।। दृश्यतेऽत्र समक्षं तन्नानुमानेन साध्यते। पुत्रवान्मुच्यते पापााप्तवाक्यं च शाश्वतम् ॥१७॥ आतुरो मृत्युकालेऽपि भूमिशय्यागतो नरः । करोति मनसा चिंतां दुखितः पुत्रवर्जितः ॥१८॥ ध्मं मे विपुलं गेहे पात्राणि विविधानि च । मंदिरं सुंदरं चैतत्कोऽस्य स्वामी भविष्यति ॥१९॥ मृत्युकाले मनस्तस्य दुःखेन भ्रमते यतः । अतोऽस्य दुर्गतिर्नूनं भ्रांतचित्तस्य सर्वथा ॥२०॥ एवं बहुविधां चिन्तां कृत्वा सत्यवतीसुनः । निःश्वस्य बहुधा चोष्णं विमनाः सम्बभूय है ॥२१॥ विचार्य मनसाऽत्यर्थं कृत्वा मनसि निश्चयम्। जगाम च तपस्तपुं मेरुपर्वतसन्निधौ॥२२॥ मनसा चिन्तयामास कं देवं समुपास्महे। वरप्रदाननिपुणं वाञ्छितार्थप्रदं तथा ॥२३॥ विष्णुं रुद्रं सुरेन्द्रं वा ब्रह्माणं वा दिवाकरम्। गणेशं कार्तिकेयं च पावकं वारुणं तथा ॥२४॥ एवं चिन्तयतस्तस्य नारदो मुनिसत्तमः । यदृच्छया समायातो वीणापाणिः समाहितः ।२५।। तं दृष्टा परमप्रीतो व्यासः सत्यवतीसुतः । कृत्वाऽर्ध्यमासनं दत्त्वा पप्रच्छ कुशलं मुनिम् ॥२६॥ श्रुत्वाऽथ कुशलप्रश्नं पप्रच्छ मुनिसत्तमः । चिंतातुरोऽसि कस्मात्त्वं द्वैपायन वदस्व मे ॥२७॥ व्यास उवाच अपुत्रस्य गतिर्नास्ति न सुखं मानसे ततः । तदर्थ दुःखितश्राहं चिंतयामि पुनः पुनः ॥२८॥ तपसा तोषयाम्यद्य कं देवं वांछितार्थदम् । इति चितातु रोऽस्म्यद्य त्वामहं शरणं गतः ॥२९॥ सर्वज्ञोसि महर्षे त्वं कथयाशु कृपानिधे। कं देवं शरणं यामि यो मे पुत्रं प्रदास्यति ॥३०॥
इति व्यासेन पृष्टस्तु नारदो वेदविन्मुनिः । उवाच परया प्रीत्या कृष्णं प्रति महामनाः ॥३१॥ सूत उवाच
नारद उवाच पाराशर्य महाभाग यत्त्वं पृच्छसि मामिह । तमेवार्थ पुरा पृष्टः पित्रा मे मधुसूदनः ॥३२॥ ध्यानस्थं च हरिं दृष्टा पिता मे विस्मयं गतः । पर्यपृच्छत देवेशं श्रीनाथं जगतः पतिम् ॥३३॥ कौस्तुभोद्भासितं दिव्यं शंख्चक्रगदाघरम्। पीताम्बरं चतुर्बाहुं श्रीवत्सांकितवक्षसम् ॥३४॥
Page 26
२६ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ४ कारणं सर्वलोकानां देवदेवं जगद्गुरुम्। वासुदेवं जगन्नाथं तप्यमानं महत्तपः ॥३५॥ ब्रह्मोवाच देवदेव जगन्नाथ भूतभव्यभवत्प्रभो। तपश्ररसि कस्मात्त्वं किं ध्यायसि जनार्दन ॥३६॥ विस्मयोऽयं ममात्यर्थं त्वं सर्वजगतां प्रभुः । ध्यानयुक्तोऽसि देवेश किञ्च चित्रमतः परम् ॥३७॥ त्वन्नाभिकमलाज्जातः कर्ताऽहमखिलस्य ह। त्वत्तः कोऽप्यधिकोऽस्त्यत्र तं देवं ब्रूहि मापते ॥३८॥ जानाम्यहं जगन्नाथ त्वमादिः सर्वकारणम् । कर्ता पालयिता हर्ता समर्थः सर्वकार्यकृत् ॥३९॥ इच्छया ते महाराज सृजाम्यहमिदं जगत् । हरः संहरते काले सोऽपि ते वचने सदा॥४०॥ सूर्यो भ्रमति चाकाशे वायुर्वाति शुभाशृभः । अग्निस्तपति पर्जन्यो वर्षतीश त्वदाज्ञया ॥४१॥ त्वं तु ध्यायसि कं देवं संशयोडयं महान्मम। त्वत्तः परं न पश्यामि देवं वै भुवनत्रये ॥४२॥ कृपां कृत्वा वदस्वाद्य भक्तोऽस्मि तव सुव्रत। महतां नैव गोप्यं हि प्रायः किञ्चिदिति स्मृतिः॥४३॥ तच्छ्रुत्वा वचनं तस्य हरिराह प्रजापतिम्। शृणुष्वैकमना ब्रह्मंस्त्वां ब्रवीमि मनोगतम् ॥४४।। यद्यपि त्वां शिवं मां च स्थितिसृष्टयंतकारणम् । ते जानंति जनाः सर्वे सदेवासुरमानुषाः॥४५॥ स्रष्टा त्वं पालकश्चाहं हरः संहारकारकः । कृताः शवयेति संतर्कः क्रियते वेदपारगैः ॥४६॥ जगत्सअ्जनने शक्तिस्त्वयि तिष्ठति राजसी । सात्त्विकी मयि रुद्र च तामसी परिकीतिता ॥४७।। तया विरहितस्त्वं न. तत्कर्मकरणे प्रभुः । नाहं पालयितुं शक्त: संहतुं नापि शंकरः ॥४८॥ तदधीना वयं सवें वर्तामः सततं विभो। प्रत्यक्षे च परोक्षे च दृष्टांतं शृणु सुव्रत ।४९।। शेषे स्वपिमि पर्यंके परतन्त्रो न संशयः । तदधीनः सदोत्तिष्ठे काले कालवशं गतः ॥५०॥ तपश्चरामि सततं तदधीनोऽस्म्यहं सदा। कदाचित्सह लक्ष्म्या च विहरामि यथासुखम् ।५१॥ कदाचिद्दानवैः सार्द्ध संग्रामं प्रकरोम्यहम्। दारुणं देहदमनं सर्वलोकभयंकरन् ॥५२॥ प्रत्यक्षं तव धर्मज्ञ तस्मिन्नेकार्णवे पुरा। पञ्चवर्षसहस्त्राणि बाहुयुद्धं मया कृतम् ॥५३॥ तौ कर्णमलजौ दुष्टौ दानवो मदगर्वितौ। देव देव्याः प्रसादेन निहतौ मधुकैटभी॥५४॥ तदा त्वया न किं ज्ञातं कारणं तु परात्परम्। शक्तििरूप महाभाग किं पृच्छसि पुनः पुनः॥५५॥ यदिच्छः पुरुषो भूत्वा विचरामि महार्णवे। कच्छपः कोलसिंहश्र वामनश्र युगे युगे ॥५६॥ न कस्यापि प्रियो लोके तिर्यग्योनिषु संभवः । नाभवं स्वेच्छया वामवराहादिषु योनिषु ॥५७॥ विहाय लक्ष्म्या सह संविहारं को याति मत्स्यादिषु हीनयोनिषु। शय्यां च मुक्त्वा गरुडासनस्थः करोमि युद्धं विपुलं स्वतंत्रः ॥५८॥ पुरा पुरस्तेऽज शिरो मदीयं गतं धनुर्ज्यास्खलनात्क्व चापि। त्वया तदा वाजिशिरो गृहीत्वा संयोजितं शिल्पिवरेण भूयः ॥५९॥
Page 27
श्रीमहेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: ५ २७ हयाननोऽहं परिकीतितश्च प्रत्यक्षमेतत्तव लोककर्तः । विडंबनेयं किल लोकमध्ये कथं भवेदात्मपरो यदि स्यात् ॥६०॥ तस्मान्नाहं स्वतंत्रोऽस्मि शक्त्यधीनोऽस्मि सर्वथा। तामेव शक्ति सततं ध्यायामि निरंतरम् ॥६१॥ नातः परतरं किंचिज्जानामि कमलोद्गव। नारद उवाच इत्युक्तं विष्णुना तेन पद्मयोनेस्तु सन्निधौ ॥६२॥ तेन चाप्यहमुक्तोऽस्मि तथैव मुनिपुंगव। तस्मात्त्वमपि कल्याण पुरुषार्थाप्तिहेतवे ॥६३।। असंशयं हृदंभोजे भज देवीपदांबुजम् । सर्वं दास्यति सा देवी यद्यदिष्टं भवेत्तव ॥६४।। नारदेनवमुक्तस्तु व्यासः सत्यवतीसुतः । देवीपादाब्जनिष्णातस्तपस प्रययौ गिरौ ॥६५॥ सूत उवाच
इति श्रीदेवीभागवते महापुराणे प्रथमस्कंधे चतुर्थोऽध्यायः ॥४ ॥ अथ पश्चमोऽध्यायः ऋषय ऊचु: सूतास्माकं मनः कामं मग्नं संशयसागरे। यथोक्तं महदाश्चयं जगद्विस्मयकारकम् ॥ १ ॥ यन्मूर्द्धा माधवस्यापि गतो देहात्पुनः परम्। हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः ॥२ ॥ वेदोऽपि स्तौति यं नित्यं देवाः सर्वे यदाश्रयाः । आदिदेवो जगन्नाथः सर्वकारणकारणः ॥ ३ ॥ तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा । तत्सवं कथयाशु त्वं विस्तरेण महामते ॥ ४॥ भृण्वंतु मुनयः सर्वे सावधानाः समंततः । चरितं देवदेवस्य विष्णोः परमतेजसः ॥५॥ सूत उवाच
कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः । दशवर्षसहस्त्राणि परिश्रांतो जनार्दनः ॥ ६ ॥ समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः । अवलंब्य धनुः सज्यं कंठदेशे धरास्थितम् ॥ ७॥ दत्त्वा भारं धनुष्कोटयां निद्रामाप रमापतिः । श्रांतत्वाद्दैवयोगाच्च जातस्तत्रातिनिंद्रितः ॥। ८ ।। तदा कालेन कियता देवाः सर्वे सवासवाः। ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः ॥ ९॥ गताः सर्वेऽथ वैकुंठं द्रष्टुं देवं जनार्दनम्। देवकार्यार्सिद्धयर्थं मखानामधिपं प्रभुम् ॥१०॥ अदृष्टा तु तदा तत्र ज्ञानदृष्ट्या विलोक्य ते। यत्रास्ते भगवान्विष्णुर्जग्मुस्तत्र तदा सुराः ॥११।। ददृशुस्ते तदेशानं योगनिद्रावशं गतम्। विचेतनं विभुं विष्णुं तत्रासांचक्रिरे सुराः ॥१२॥ स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतो । चिंतामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः ॥१३॥
Page 28
२८ श्रीमद्ेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ५ तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः । निद्राभंगः कथं कार्यश्चितयंतु सुरोत्तमाः ॥१४॥ तमुवाच तदा शंभुर्निद्राभंगेऽस्ति दूषणम्। कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः ॥१५॥ उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना। तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम् ॥१६॥ भक्षितेग्रे तदाऽनिम्नं गमिष्यति शरासनम् । तदा निद्राविमुक्तोऽसी देवदेवो भविष्यति ॥१७॥ देवकार्यं तदा सर्वं भविष्यति न संशयः । स वम्रीं संदिदेशाथ देवदेवः सनातनः ॥१८॥ तमुवाच तदा वम्री देवदेवस्य मापतेः । निद्राभंगः कथं कार्यो देवस्य जगता गुरोः ॥१९॥ निद्राभंग: कथाछेदो दंपत्योः प्रीतिभेदनम् । शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम् ॥२०॥ तत्कथं देवदेवस्य करोमि सुखनाशनम् । किं फलं भक्षणाद्देव येन पापं करोम्यहम् ।२१॥ सर्व: स्वार्थवशो लोक: कुरुते पातकं किल। तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम् ॥२२॥ ब्रह्मोवाच तव भागं करिष्यामो मखमध्ये यथा शृणु। तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम् २३ होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति। तत्ते भागं विजानीहि कुरु कार्य त्वरान्विता ॥२४॥ सूत उवाच इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता। चखाद संस्थितं भूमौ विमुक्ता ज्या तदाऽभवत् ॥ प्रत्यंचायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा। शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा ॥२६। ब्रह्मांडं क्षुभितं सर्वं वसुधा कंपिता तदा । समुद्राश्च समुद्विग्नास्त्रेसुश्र जलजंतवः ॥२७॥ ववुर्वातास्तथा चोग्राः पर्वताश्च चकंपिरे। उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः ॥२८॥ दिशो घोरतराश्चासन्सूर्योऽप्यस्तंगतोऽभवत्। चिंतामापुः सुराः सर्वे कि भविष्यति दुर्दिने ॥२९॥ एवं चिंतयतां तेषां मूर्धा विष्णोः सकुंडलः । गतः समुकुटः क्वापि देवदेवस्य तापसाः ॥३०॥ अंधकारे तदा घोरे शांते ब्रझ्महरौ तदा। शिरोहीनं शरीरं तु ददृशाते विलक्षणम् ॥३१॥ दृष्टा कबंधं विष्णोस्ते विस्मिताः सुरसत्तमाः । चिंतासागरमग्नाश्र रुरुदुः शोकक्शिताः ॥३२॥। हा नाथ किं प्रभो जातमत्यद्भतममानुषम्। वैशसं सर्वदेवानां देवदेव सनातन ॥३३॥ मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् । अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा॥३४॥ एवंगते त्वयि विभो मरिष्यन्ति च देवताः । कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे ॥३५॥ नायं विघ्नः कृतो दैत्यैर्न यक्षर्न च राक्षसैः । देवैरेव कृतः कस्य दूषणं च रमापते ॥३६॥ पराधीना: सुराः सर्वे किं कुर्मः क्व व्रजाम च। शरणं नैव देवेश सुराणां मूढचेतसाम् ॥३७॥ न चैषा सात्त्विकी माया राजसी न च तामसी। यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः ३८।। क्रंदमानांस्तदा दृष्टा देवाञ्छिवपुरोगमान् । बृहस्पतिस्तदोवाच शमयन्वेदवित्तम: ॥३९॥
Page 29
श्रीमहेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ५ २९ रुवितेन महाभागा: क्रंदितेन तथापि किम्। उपायश्ात्र कर्तव्यः सर्वथा बुद्धिगोचरः ॥४०॥ देवं पुरुषकारश्च देवेशसदृशावुभौ। उपायश्च विधातव्यो दैवात्फलति सर्वथा ॥४१॥ इन्द्र उवाच दैवमेव परं मन्ये धिक्पोरुषमनर्थकम् । विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम् ४२। ब्रह्मोवाच अवश्यमेव भोक्तव्यं कालेनापादितं च यत्। शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः ।।४३।। वेहवान्सुखदुःखानां भोक्ता नैवात्र संशयः । यथा कालवशात्कृतं शिरो मे शंभुना पुरा ॥४४।। तथैव लिंगपातश्र महादेवस्य शापतः । तर्थवाद्य हरेर्मूर्धा पतितो लवणांभसि ॥४५॥ सहस्रभगसं प्राप्तिर्दुःखं शचीपतेः । स्वर्गाद्त्रंशस्तथा वास: कमले मानसे सरे ॥४६॥ एते दुःखस्य भोक्तार: केन दुःखं न भुज्यते। संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजंतु वै ।। चितयंतु महामायां विद्यादेवीं सनातनीम्। सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा ॥ मह्मविद्यां जगद्ात्रीं सर्वेषां जननीं तथा। यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥४९॥ सूत उवाच इत्युक्त्वा वै सुरान वेधा निगमानादिदेश ह। देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये ॥५०।। ब्रह्मोवाच स्तुवंतु परमां देवीं ब्रह्मविद्यां सनातनीम्। गूढ़ाङ्गीं च महामायां सर्वकार्यार्थसाधनीम् ॥५१॥ वच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः । तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम् ॥५२॥ वेदा ऊचु: नमो देवि महामाये विश्वोत्पत्तिकरे शिवे। निर्गुणे सर्वभूतेशि मातः शंकरकामदे ॥५३॥ त्वं भूमि: सर्वभूतानां प्राणः प्राणवतां तथा। धीः श्रीः कांतिः क्षमा शांतिः श्रद्धा मेधा धृतिः स्मृतिः ॥५४॥ त्वमुद्गीथेऽर्धमात्राऽसि गायत्री व्याहृतिस्तथा। जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ त्वां संस्तुमोऽम्ब भुवनत्रयसंविधानदक्षां दयारसयुतां जननीं जनानाम्। विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्त्रीम् ॥५६॥ ब्रह्मा हरः भुवनाधिनाथाः । ते त्वत्कृता: संति ततो न मुख्या माता यतस्त्वं स्थिरजंगमानाम् ॥५७॥ सकलभुवनमेतत्कर्तुकामा यदा त्वं सृजसि जननि देवान्विष्णुरुद्राजमुख्यान्। स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव क्थंचिद्देवि संसारलेशः ॥५८॥
Page 30
३० श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ५ न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां संख्या ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥५९॥ न देवानां मध्ये भगवति तवांनंतविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी। कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम् ॥६०॥ निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति। कथंकारं वाच्यः सकलनिगमागोचरगुणप्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम् ॥६१॥ न कि जानासि त्वं जननि मधुजिन्मौलिपतनं शिवे कि वा ज्ञात्वा विविदिषसि शक्ति मधुजितः । हरे: किवा मातर्दुरितततिरेषा बलवती भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम् ॥६२॥ उपेक्षा का चेयं तव सुरसमूहेऽतिविषमा हरेमूर्ध्नो नाशो मतमिह महाश्रर्यंजनकम्। महद्दुःखं मातस्त्वमसि जननच्छेदकुशला न जानीमो मौलेविघटनविलंबः कथमभूत् ॥६३॥ ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते किंवा विष्गावमरजनितं दुष्कृतं पातितं ते। विष्णोर्वा कि समरजनितः कोपवर्गोऽतिवेगाच्छेत्तुं मातस्तव विलसितं नैव विद्योऽत्र भावम् ॥६४॥ कि वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तप्त्वा भगवति वरं लब्धवद्धिर्भवत्या। अन्तर्धानं गमितमधुना विष्णुशीषं भवानि द्रष्टुं किंवा विगतशिरसं वासुदेवं विनोदः ॥६५॥ सिंधोः पुत्र्या रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम्। क्षंतव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदितां तां कुरुष्व ।६६।। एते सुरास्त्वां सततं नमंति कार्येषु मुख्याः प्रथितप्रभावाः । शोकार्णवात्तारय देवि देवानुत्थाप्य देवं सकलाधिनाथम् ॥६७/ मूर्धागतः क्वाम्ब हरेरन विद्यो नान्योऽस्त्युपायः खलु जीवनेऽद्य। यथा सुधा जीवनकर्मदक्षा तथा जगज्जीवितदासि देवि ।।६८।। सूत उवाच एवं स्तुता तदा देवी गुणातीता महेश्वरी। प्रसन्ना परमा माया वेदैः सांगैश्च सामगैः ॥६९॥ तानुवाच तदा वाणी चाकाशस्था शरीरिणी। देवान्प्रति सुखैः शब्दैर्जनानंदकरी शुभा॥७०॥ मा कुरुष्वं सुराश्चितां स्वस्थास्तिष्ठंतु चामराः । स्तुताऽहं निगमैः कामं संतुष्टाऽस्मि न संशयः ॥ यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम्। पठिष्यति सदा भक्तया सर्वान्कामानवाप्नुयात्॥ शृणोति वा स्तोत्रमिदं मदीयं भक्तया त्रिकालं सततं नरो यः । विमुक्तदुःखः स भवेत्सुखी च वेदोक्तमेतन्ननु वेदतुल्यम् ।७३॥ शृण्वंतु कारणं चाद्य यद्गतं वदनं हरेः । अकारणं कथं कार्य संसारेऽत्र भविष्यति ॥७४॥
Page 31
श्रीमद्देवोमागवते महापुराणे प्रथमस्कन्धे अध्याय: ५ ३१ उदघेस्तनयां विष्णुः संस्थितामंतिके प्रियाम्। जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम् ।७५॥ तया जातं हरिर्नूनं कथं मां हसति प्रभुः । विरूपं हरिणा दृष्टं मुखं मे केन हेतुना ।७६॥। विनापि कारणेनाद्य कथं हास्यस्य सम्भवः । सपत्नीव कृता तेन मन्येऽन्या वरवणिनी ॥७७॥ ततः कोपयुता जाता महालक्ष्मी तमोगुणा। तामसी तु तदा शक्तिस्तस्या देहे समाविशत् ।।७८।। केनचित्कालयोग़ेन देवकार्यार्थसिद्धये । प्रविष्टा तामसी शक्तिस्तस्या देहेतिदारुणा ॥७९॥ तामस्याविष्टदेहा सा चुकोपातिशयं तदा। शनकैः समुवाचेदमिदं पततु ते शिरः ॥८०॥ स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः । अविचार्य तदा दत्तः शापः स्वसुखनाशनः ॥८१।। सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति। विचित्य मनसेत्युक्तं तामसी शक्तियोगतः ।८२।। अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निदयत्वं च स्त्रीणां दोषाः स्वभावजाः॥८३॥ सशोषं वासुदेवं तं करोम्यद्य यथा पुरा। शिरोऽस्य शापयोगेन निमग्नं लवणांबुधौ ॥८४॥ अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः । भवतां च महत्कायं भविष्यति न संशयः ॥८५॥ पुरा दैत्यो महाबाहुरह्यग्रीवोऽतिविश्रुतः । तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम् ॥८६॥ जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम। निराहारो जितात्मा च सर्वभोगविवर्जितः ।८७॥। ध्यायन्मां तामसीं शक्ति सर्वभूषणभूषिताम्। एवं वर्षसहस्त्रं च तपश्चक्रेऽतिदारुणम् ।।८८।। तदाहं तामसं रूपं कृत्वा तत्र समागता। दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम् ।।८९।। सिंहोपरि स्थिता तत्र तमवोचं दयान्विता। वरं ब्रूहि महाभाग ददामि तव सुव्रत ॥९०॥ इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः । प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा ॥९१॥ दृष्टा रूपं मदीयं स प्रेमोत्फुल्लविलोचनः । हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा ।।९२।। ह्यग्रीव उवाच नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि। भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे।९३। धराम्बुतेजःपवनखपञ्चानां च कारणम् । त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः ॥९४॥ घ्राणं च रसना चक्षुस्त्ववश्रोत्रमिंद्रियाणि च। कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महे्श्वरि ।९५॥ श्रीदेव्युवाच कि तेऽभीष्टं वरं ब्रूहि वांछितं यद्ददामि तत् । परितुष्टाऽस्मि भक्तया ते तपसा चाद्द्ुतेन च ।।९६।। ह्यग्रोव उवाच यथा मे मरणं मातर्न भवेत्तत्तथा कुरु। भवेयममरो योगी तथाऽजेयः सुरासुरैः ॥९७॥
जातस्य हि ध्रुवं मृत्युर्ध्रुंवं जन्म मृतस्य च । मर्यादा चेदृशी लोके भवेच्च कथमन्यथा ।९८।। श्रीदेव्युवाच
Page 32
३२ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ६ एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम। वरं वरय चेष्टं ते विचार्य मनसा किल ॥९९॥ ह्यग्रीव उवाच हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके। इति मे वांछितं कामं पूरयस्व मनोगतम् ॥१००॥ श्रीदेवयुवाच गृहं गच्छ महाभाग कुरु राज्यं यथासुखम्। हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति ॥१०१॥ इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा। मुदं परमिकां प्राप्य सोपि स्वभवनं गतः ॥१०२॥ स पीडयति दुष्टात्मा मुनीन्वेदांश्र सर्वशः । न कोऽपि विद्यते तस्य हंताऽद्य भुवनत्रये ॥१०३॥। तस्माच्छीषं हयस्यास्य समुद्धृत्य मनोहरम् । देहेऽत्र विशिरो विष्णोस्त्वष्टा संयोजयिष्यति१०४॥ हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् । पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया ॥१०५॥ सूत उवाच एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह। देवास्तदातिसंतुष्टास्तमूचुर्देवशिल्पिनम् ।।१०६।। देवा ऊचु: कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् । दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति ॥१०७॥ सूत उवाच इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः । वाजिशीर्ष चकर्ताशु खड्गेन सुरसन्निधौ॥१०८॥ विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम्। हयग्रीवो हरिर्जातो महामायाप्रसादतः ॥१०९॥ कियता तेन कोलेन दानवो मददर्पितः । निहतस्तरसा संख्ये देवानां रिपुरोजसा ॥११०॥ य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः । सर्वदुःखविनिर्मुक्तास्ते भवंति न संशयः ॥१११॥ महामायाचरित्रञ्च पवित्रं पापनाशनम्। पठता शृण्वतां चैव सर्वसंपत्तिकारकम् ॥११२॥ इति श्रीदेवीभागवते प्रथमस्कंधे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥५॥ अथ षष्ठोऽध्यायः ऋषय ऊचु: सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे। मधुकैटभयोः सार्द्धं पञ्चवर्षसहस्त्रकम् ॥ १ ॥ कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले। महावीर्यौ दुराधर्षो देवैरपि सुदुर्जयौ॥२॥ कथं तावसुरौ जातौ कथं च हरिणा हतौ। तदाचक्ष्व महाप्राज्ञ चरितं परमान्दुतम् ॥३॥ श्रोतुकामा वयं सर्वे त्वं वक्ता चे बहुश्रुतः । दैवाच्चात्रव सञ्जातः संयोगश्च तथावयोः ॥४॥ मूर्खेण सह संयोगो विषादपि सुदुर्जरः । विज्ञेन सह संयोगः सुधारससमः स्मृतः ॥५॥ जीवन्ति पशवः सर्वे खादन्ति मेहंयन्ति च। जानन्ति विपयाकारं व्यवायसुखमद्द्रतम् ॥ ६॥
Page 33
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ६ ३३ न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः । पशुभिस्ते समा मा येषां न श्रवणादरः ॥७॥ मृगाद्याः पशवः केचिज्जानंति श्रावणं सुखम् । अश्रोत्राः फशश्रव मुमुहुर्नादपानतः ॥८II पंचानामिद्रियाणां वै शुभे श्रवणदर्शने। श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरंजनम् ॥९॥ श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा। तामसं च महाभागा: सुज्ञोक्तं निश्चयान्वितम् १०॥ सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम्। तामसं युद्धवार्ता च परदोषप्रकाशनम् ॥११॥ सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्धिश्च पण्डितैः। उत्तमं मध्यमं चैव तर्थवाधममित्युत ॥१२॥ उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा। अधमं भोगदं प्रोक्तं निर्णोय विदितं बुघैः ॥१३॥ साहित्यं चंथ त्रि विधं स्वीयायां चोत्तमं स्मृतम् । मध्यमं वारयोषायां परोढायां तथाऽधमम् ॥१४॥ तामसं त्रिविधं ज्ञेयं विद्वद्द्ि: शास्त्रदशिभिः। आततायिनियुद्धं यत्तदुत्तममुदाहृतम् ॥१५॥ मध्यमं चापि विद्वेषात्पांडवानां तथारिभिः । अधमं निर्निमित्तं तु विवादे कलहे तथा ॥१६। तदत्र श्रवणं मुख्यं पुराणस्य महामते। बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम्॥१७॥ तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् । श्रुतां द्वपायनात्पूर्व सर्वार्थस्य प्रसाधिनीम् ॥१८॥ सूत उवाच यूयं धन्या महाभागा धन्योऽहं पृ्थिवीतले। येषां श्रवणबुद्धिश्च ममापि कथने किल ॥१९॥ पुरा चंकार्णवे जाते विलीने भुवनत्रये। शेषपर्यंकसुप्ते च देवदेवे जनार्दने ॥२०॥ विष्णुकर्णमलोद्धूतो दानवौ मधुकैटभौ। महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले ॥२१॥ क्रीडमानौ स्थितौ तत्र विचरंतावितस्ततः । तावेकदा महाकायौ क्रीडासक्तौ महार्णवे ॥२२॥ चिंतामवापतुश्चित्ते भ्रातराविव संस्थितौ। नाकारणं भवेत्कार्यं सर्वत्रैषा परंपरा ॥२३॥ आधेयं तु विनाधारं न तिष्टति कथंचन । आधाराधेयभावस्तु भाति नो चित्तगोचरः ॥२४॥ कव तिष्टति जलं चेदं सुखरूपं सुविस्तरम्। केन सृष्टं कथं जातं मग्नावावाञ्ञजले स्थितौ ॥२५॥ आवां वा कथमुत्पन्नो केन वोत्पादितावुभौ। पितरो क्वेति विज्ञानं नास्ति कामं तथावयोः ॥२६॥ सूत उवाच एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् । उवाच कैटभस्तत्र मधुं पाश्वे स्थितं जले ।।२७॥ कैटभ उवाच मधो वामत्र सलिले स्थातुं शक्तिर्महाबला। वर्तते भ्रातरचला कारणं सा हि मे मता ॥२८॥ तया ततमिदं तोयं तदाधारं च तिष्टति।सा एव परमा देवी कारणं न तथावयोः ॥२९॥ एवं विबुध्यमानौ तौ चिंताविष्टौ यदाऽसुरौ। तदाकाशे श्रुतं ताम्यां वाग्वीजं सुमनोहरम् ॥३०॥ गृहीतं च ततस्ताम्यां तस्याभ्यासो दृढ़ः कृतः । तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा।
Page 34
३४ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ७ ताभ्यां विचारितं तत्र मंत्रोऽयं नात्र संशयः । तथा ध्यानमिदं दृष्टं गगने सगुणं किल ॥३२॥ निराहारो जितात्मानो तन्मनस्करौ समाहिती। बभूवतुर्विचित्यैवं जपध्यानपरायणो ॥३३॥ एवं वर्षसहसत्रं तु ताभ्यां तप्तं महत्तपः । प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः ॥३४॥ खिन्नौ तो दानवौ दृष्टा तपसे कृतनिश्चयौ। तयोरनुग्रहार्थाय वागुवाचाशरीरिणी ॥३५॥ वरं वां वांछितं दैत्यौ ब्रूतं परमसंमतम् । ददामि परितुष्टाऽस्मि युवयोस्तपसा किल ॥३६॥ सूत उवाच इति श्रुत्वा तु तां वाणीं दानवाट चतुस्तदा। स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते ॥३७॥ वागुवाच वांछितं मरणं दैत्यौ भवेद्वां मत्प्रसादतः । अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः ॥३८॥ सूत उवाच इति दत्तवरौ देव्या दानवौ मददर्पिती। चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ ॥३९॥ कालेन कियता विप्रा दानवाभ्यां यदृच्छया। दृष्टः प्रजापतिब्रह्मा पद्मासनगतः प्रभुः॥४०॥ दृष्टा तु मुदितावास्तां युद्धकामौ महावलौ। तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत ॥४१॥ नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् । यदित्वं निर्बलश्चासि क्व योग्यं शुभमासनम् ४२॥ वीरभोग्यमिदं स्थानं कातगेऽसि त्यजाशु वै। तयोरिति वचः श्रुत्वा चिंतामाप प्रजापतिः ॥४३॥ दृष्टा च बलिनौ वीरो कि करोमीति तापसः । चिंताविष्टस्तदा तस्थौ चिंतयन्मनसा तदा ॥४४॥ इति श्रीदेवीभागवत महापुराणे प्रथमस्कंधे षष्टोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः सूत उवाच तौ वीक्ष्य बलिनौ ब्रह्मा वदोपायानचिंतयत् । सामदानभिदादीश्च युद्धांतान्सर्वतंत्रवित् ॥१॥ न जानेऽहं बलं नूननमेतयोर्वा यथातथम् । अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥२॥ स्तुर्ति करोमि चेदद्य दुष्टयोमदमत्तयोः । प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥३॥ वधिष्यति तदैकोपि निर्वलत्वे प्रकाशिते। दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥४॥ विष्णुं प्रबोधयाम्यद्य गेपे सुप्तं जनार्दनम् । चतुर्भुजं महावीरं दुःखहा स भविप्यति ॥५॥ इति संचित्य मनसा पद्मनालगतोऽ्जजः । जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥६॥ तुष्टाव बोधनार्थ तं शुभैः सम्बोधनैर्हरिम्। नारायणं जगन्नाथं निस्पंदे योगनिद्रया ॥७॥
दीनानाथ हरे विष्णो वामनोतिष्ठ माधव। भक्तात्तिहृद्घृषीकेश सर्वावास जगत्पते ।।८। ब्रह्मोवाच
Page 35
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ७ ३५
अन्तर्यामिन्नमेयात्मन् वासुदेव जगत्पते। दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर।९।। सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित। उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥१०॥ विश्वम्भर विशालाक्ष पुण्यश्रवणकोर्तन। जगद्योने निराकार सर्गस्थित्यंतकारक ॥११॥ इमौ दैत्यौ महाराज हंतुकामौ मदोद्धतौ। न जानास्यखिलाधार कथं मां सकटे गतम् ॥१२॥ उपेक्षसेऽतिदुःखार्त यदि मां शरणं गतम् । पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥१३॥ एवं स्तुतोउपि भगवान्न बुबोध यदा हरिः । योगनिद्रासमाक्रांतस्तदा ब्रह्मा ह्यचितयत् ॥१४॥ नूनं शक्तिसमाक्रांतो विष्णुर्निद्रावशं गतः। जजागार नधर्मात्मा कि करोम्यद्य दुःखितः।१५॥ हंतुकामावुभौ प्राप्तो. दानवौ मदगर्वितौ। कि करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ।। इति संचिंत्य मनसा निश्चयं प्रतिपद्य च। तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥१७॥ विचार्य मनसाऽप्येवं शक्तिमें रक्षणे क्षमा। यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पंदवजजितः ।।१८।। व्यसुर्यथा न जानाति गुणाञ्छब्दादिकानिह । तथा हरिर्न जानाति निद्रामोलितलोचनः ॥१९॥' न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ। मन्ये नास्य वशे निद्रा निद्रयाऽयं वशीकृतः ॥२०॥ यो यस्य वशमापन्नः स तस्य किंकरः किल। तस्माच्च योगनिद्रेयं स्वामिनो मापतेर्हरेः ॥२१॥ सिंधुजाया अपि वशे यया स्वामी वशीकृतः । नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥२२॥ अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा। सर्वे वयं वशे यस्या नात्र किचिद्विचारणा ॥२३॥ हरिरप्यवशः शेते यथाऽन्यः प्राकतो जनः । ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् २४॥ स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः । घटयिष्पति युद्धं च वासुदेवः सनातनः ॥२५॥ इति कृत्वा मति ब्रह्मा पद्मनालस्थितस्तदा । तुष्टाव योगनिद्रां तां विष्णोरंगेष संस्थिताम् ॥२६॥ ब्रह्मोवाच देवि त्वमस्य जगतः किल कारणं हि ज्ञातं मया सकलवेदव चोभिरम्ब। यद्विष्णुरप्यखिललोकविवेककर्ता निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥२७॥ को वेद ते जननि मोहविलासलीलां मूढोऽस्म्यहं हरिरयं विवशश्च शेते। ईदृक्तया सकलभूतमनोनिवासे विद्वत्तमो विबुधकोटिपु निर्गुणायाः ॥२८॥ सांख्या वदंति पुरुषं प्रकृति च यां तां चैतन्यभावरहितां जगतश्र कर्त्रीम्। किं तादृशाऽसि कथमत्र जगन्निवासश्चैतन्यताविरहितो विहितस्त्वयाऽद्य ॥२९॥ नाटयं तनोषि सगुणा विविधप्रकारं नो वेत्ति कोऽपि तव कृत्यविधानयोगेम्। ध्यायंति यां मुनिगणा नियतं त्रिकालं संध्येति नाम परिकल्प्य गुणान्भवानि ॥३०॥ बुद्धिहिं बोधकरणा जगतां सदा त्वं श्रीश्रासि देवि सततं सुखदा सुराणाम् ।
Page 36
श्रीमदेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: ७ कीरतिस्तथा मतिमृतो किल कांतिरेव श्रद्धा रतिश्र सकलेषु जनेषु मातः ॥३१॥ नातः परं किल वितर्कशतैः प्रमाणं प्राप्तं मया यदिह दुःखगति गतेन। त्वं चात्र सर्वजगतां जननीति सत्यं निद्रालुतां वितरता हरिणाऽत्र दृष्टम् ॥३२॥ त्वं देवि वेदविदुषामपि दुर्विभाव्या वेदोऽपि नूनमखिलार्थतया न वेद। यस्मात्त्वदुद्भवमसौ श्रुतिराप्नुवाना प्रत्यक्षमेव सकलं तव कार्यमेतत् ॥३३॥ कस्ते चरित्रमखिलं भुवि वेद धीमान्नाहं हरिन च भवो न सुरास्तथाऽम्ये। श्ञातुं क्षमाश्र मुनयो न ममात्मजाश्र दुर्वाच्य एव महिमा तव सर्वलोके ।।३४।। यज्ञेषु देवि यदि नाम न ते वदंति स्वाहेति वेदविदुषो हवने कृतेऽपि। न प्राप्नुवति सततं मखभागधेयं देवास्त्वमेव विबुधेव्वपि वृत्तिदाऽसि ॥३५॥ त्राता वयं भगवति प्रथमं त्वया वै देवारिसंभवभयादधुना तथैव। भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि घोरं निरीक्ष्य मधुना सह कैटभं च ॥३६। नो वेत्ि विष्णुरधुना मम दुःखमेतज्जाने त्वयात्मविवशीकृतदेहयष्टिः। मुंचादिदेवमथवा जहि दानवेंद्रो यद्रोचते तब कुरुष्व महानुभावे ।।३७॥ जानंति ये न तव देवि परं प्रभावं ध्यायंति ते हरिहरावपि मंदचित्ताः । ज्ञातं मयाजद्य जननि प्रकटं प्रमाणं यद्विष्णुरत्यतितरां विवशोऽथ शेते ॥३८॥ सिन्धूद्धवापि न हरि प्रतिबोधितुं वै शक्ता पर्ति तव वशानुगमद्य शक्त्या। मन्ये त्वया भगवति प्रसभं रमापि प्रस्वापिता न बुबुधे विवशीकृतेव ॥३९॥ धन्यास्त एव भुवि भक्तिपरास्तवांघ्रो त्यकत्वाऽन्यदेवभजनं त्वयि लीनभावाः । कुवति देवि भजनं सकलं निकामं ज्ञात्वा समस्तजननीं किल कामधेनुम्॥४०॥ धीकांतिकीतिशुभवृत्तिगुणादयस्ते विष्णोर्गुणास्तु परिहृत्य गता: क्व चाद्य। बंदीकृतो हरिरसौ ननु निद्रयाज्त्र शक्त्या तवैव भगवत्यतिमानवत्याः ॥४१॥ त्वं शक्तिरेव जगतामखिलप्रभावा त्वन्निमितं च सकलं खलु भावमात्रम्। त्वं क्रीडसे निजविनिमितमोहजाले नाटये यथा विहरते स्वकृतौ नटो वै ॥४२॥ विष्णुस्त्वया प्रकटितः प्रथमं युगादौ दत्ता च शक्तिग्मला खवलु पालनाय। त्रातं च सर्वमग्विलं विवशीकृतोऽद्य यद्रोचते तव तथाम्ब करोपि नूनम्।४३॥ सृष्टाऽत्र मां भगवति प्रविनाशितुं चेन्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् । कस्मादिमो प्रकटितो किल कालरूपौ यद्वा भवानि ह्रसितुं नु किमिच्छसे माम् ॥४४।। ज्ञातं मया त विचेष्टितमद्द्ुतं व कृत्वाऽखिलं जगदिदं रमसे स्वनंत्रा।
Page 37
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ८ ३० लीनं करोषि सकल किल मां तथव हंतुं त्वमिच्छसि भवानि किमत्र चित्रम् ।४५।। कामं कुरुष्व वधमद्य ममव मातर्दुःखं न मे मरणजं जगदम्बिकेऽत्र । कर्ता त्वयैव विहितः प्रथमं स चायं दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम् ॥४६॥ उत्तिष्ट देवि कुरु रूपमिहाद्भुतं त्वं मां वा त्विमौ जहि यथेच्छसि बाललोले। नोचेत्प्रबोधय हरिं निहनेदिमौ यस्त्वत्साध्यमेतदखिलं किल कार्यजातम् ॥४७॥ सूत उवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा। निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा ॥४८।। त्यक्त्वांऽगानि च सर्वाणि विष्णोरतुलतेजसः । निर्गता योगनिद्रा सा नाशाय च तयोस्तदा ।।४९।।' विस्पंदितशरीरोऽसौ यदा जातो जनार्दनः । धाता परमिकां प्राप्तो मुदं दृष्टा हरि ततः ॥५0॥ इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥॥ अथ अष्टमोऽध्यायः ऋषय ऊचु: संदेहोऽत्र महाभाग कथायां तु महाद्भुतः । वेदशास्त्रपुराणश्च निश्चितं तु सदा बुघैः ॥ १॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवाः सनातनाः । नतः परतरं किचिद्ब्रह्मण्डेऽस्मिन्महामते ॥२॥ ब्रह्मा सृजति लोकान्वै विष्णुः पात्यखिलं जगत्। रुद्रः संहरते काले त्रय एतेऽत्र कारणम् ॥ ३ ॥ एका मूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । रजःसत्त्वतमोभिश्व संयुताः कार्यकारकाः ॥४ ॥ तेषां मध्ये हरिः श्रेष्टो माधवः पुरुपोत्तमः । आदिदेवो जगन्नाथः समर्थः सर्वकर्मसु ॥५॥ नान्यः कोऽपि समर्थोऽस्ति विष्णोरतुलतेजसः । स कथं स्वापितः स्वामी विवशो योगमायया ॥ ६॥ कव गतं तस्य विज्ञानं जीवतश्चेष्टितं कुतः । संदेहोडयं महाभाग कथयस्व यथाशुभम् ॥७॥ का साशक्ति: पुरा प्रोक्ता यया विष्णुजितः प्रभुः । कुतो जाता कथं शक्ता का शक्तिर्वद सुव्रत ॥८॥' यस्तु सर्वेश्वरो विष्णुर्वासुदेवो जगद्गुरुः । परमात्मा परानन्दः सच्चिदानन्दविप्रहः ॥९॥ सर्वकृत्सवंभृत्स्रष्टा विरजः सर्वगः शुचिः । स कथं निद्रया नीतः परतन्त्रः परात्परः ॥१०॥ एतदाश्चर्यभूतो हि सन्देहो नः परंतप । छिंधि ज्ञानासिना सूत व्यासशिष्य महामते ॥११॥ सूत उवाच कः सन्देहं भिनत्त्येनं त्रैलोक्ये सराचरे। मुह्यंति मुनयः कामं ब्रह्मपुत्राः सनातनाः ॥१२॥ नारदः कपिलश्रैव प्रश्नेऽस्मिन्मुनिसत्तमाः । कि ब्रवीमि महाभागा दुर्घटेऽस्मिन्विमर्शने ॥१३॥ देवेषु विष्णुः कथितः सर्वगः सर्वपालकः । यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥१४।।
Page 38
३८ श्रीम देवीभागवते महापुरागे प्रथमस्कन्धे अध्याय: ८ ते सर्वे समुपासन्ते नत्वा देवं परात्परम्। नारायणं हृपीकेशं वासुदेवं जनार्दनम् ॥१५॥ तथा केचिन्महादेवं शंकरं शशिशेखरम्। त्रिनेत्रं पञ्चवक्त्रं च शूलपारणि वृषध्वजम् ॥१६॥ तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम्। कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥१७॥ कैलासवासनिरतं सर्वशक्तिसमनन्वितम् । भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥१८।। तथा सूर्यं वेदविदः सायंप्रातर्दिने दिने। मध्याह्नेतु महाभागा स्तुवंति विविधैःस्तवैः ॥१९॥ यथा वेदेषु सर्वेषु सूर्योपासनकत्तमम् । परमात्मेति विख्यातं नाम तस्य महात्मनः ॥२० ॥ अग्निः सर्वत्र वेदेषु संस्तुतो वेदवित्तमैः । इन्द्रश्चापि त्रिलोकेशो वरुणश्र तथापरः ॥२१॥ यथा गंगा प्रवाहैश्र बहुभिः परिवर्तते। तथैव सर्वदेवेपु विप्णुः प्रेक्तो महर्षिभिः ॥२२। त्रीण्येव हि प्रमाणानि पठितानि सुपण्डितैः । प्रत्यक्षं चानुमानं च शाब्दं चव तुतीयकम् ॥२३॥ चत्वार्येवेतरे प्राहुरुपमानयुतानि च । अर्थापत्तियुतान्यन्ये पञ्च प्राहुर्महाधियः ॥२४॥ सप्त पौराणिकाश्रैव प्रवदन्ति मनीषिणः । एतैः प्रमाणदुर्ज्ञेयं यद्ब्रह्म परमं च तत् ॥२५॥ वितर्कश्रात्र कर्तव्यो बुद्धया चैवागमेन च। निश्चयात्मिकया युक्त्या विचार्य च पुनः पुनः ॥२६॥ प्रत्यक्षतस्तु विज्ञानचिंत्यं मतिमतां सदा। दृष्टान्तेनापि सततं शिष्टमार्गानुसारिणा ॥२७॥ विट्वांसोऽपि वदन्त्येवं पुराणैः परिगीयते। द्रुहिणे सृष्टिशक्तिश्च हरौ पालनशक्तिता ।२८। हरे संहारशक्तिश्च सूर्ये शक्ति: प्रकाशिका। धराधरणशक्तिश्र शेषे कूर्मे तथैव च ।२९॥ साडद्या शक्ति: परिणता सर्वस्मिन्या प्रतिष्ठिता। दाहशक्तिस्तथा वह्नौ समीरे प्रेरणात्मिका ॥३०॥ शिवोऽपि शवतां यांति कुंडलिन्या विदर्जितः । शक्तिहीनस्तु यः कश्चिदसमर्थः स्मृतो बुधैः ॥३१॥ एवं सर्वत्र भूतेपु स्थावरेपु चरेषु च । ब्रह्मादिस्तंबपर्यन्तं ब्रह्मांडेऽस्मिन्महातपाः ॥३२॥ शक्तिहीनं तु निंदं स्याद्वस्तुमात्रं चराचरम्। अशक्तः शत्रुविजये गमने भोजने तथा॥३३॥ एवं सर्वगता शक्ति: सा ब्रह्मेति विविच्यते। सोपास्या विविधैःसम्यग्विचार्या सुधिया सदा ३४।। विष्णौ च सात्त्विकी शत्ति स्तया हीनोऽप्यकर्मकृत्। द्रुहिणे राजसीं शक्तिर्यया हीनो ह्यसृष्टिकृत् ३५।। शिवे च तामसी शक्तिस्तया संहारकारकः । इत्यूह्यं मनया सर्व विचार्य च पुनः पुनः ॥३६॥ शक्ति: करोति ब्रह्मांडं सा वै पालयतेऽखिलम् । इच्छया संहरत्येपा जगदेतच्चराचरम् ॥३७॥ न विष्णुर्न हरः शक्रो न ब्रह्मा न च पावकः । न सूर्यो वरुणः शक्तः स्वेस्वेकार्ये कथंचन ॥३८। तथा युक्ता हि कुर्वति स्वानि कार्याणि ते सुराः । सैव कारणकार्येषु प्रत्यक्षेणावगम्यते ॥३९॥ सगुणा निर्गुणा सा तु द्विधा प्रोक्ता मनीषिभिः । सगुणा रागिभि: सेव्या निर्गुणा तु विरागिभिः ॥ धर्मार्थकाममोक्षाणां स्वामिनी सा निराकुला। ददाति वांछितान्कामान्यूजिता विधिपूर्वकम् ४१॥ न जानंति जना मूढास्तां सदा माययावृताः । जानन्तोऽपि नराः केचिन्मोहयंति परानपि ॥४२॥
Page 39
श्रीमह्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ९ ३९ पंडिता; स्वोदरार्थं वै पाखंडानि पृथकपृथक्। प्रवर्तयंति कलिना प्रेरिता मंदचेतसः ॥४३॥ कलावस्मिन्महाभाग नानाभेदसमुत्थिताः। नान्ये युगे तथा धर्मा वेदवाह्याः कथंचन ॥४४॥ विष्णुश्चरत्यसावुग्रं तपो वर्षाण्यनेकशः । ब्रह्मा हरस्त्रयो देवा ध्यायंतः कमपि ध्रुवम् ॥४५॥ कामयाना: सदा कामं ते त्रयः सर्वदैव हि। यजंति यज्ञान्विविधान्ब्रह्मविष्णुमहेश्वराः ॥४६॥ ते वै शक्ति परां देवीं ब्रह्माख्यां परमात्मिकाम्। ध्यायंति मनसा नित्यं नित्यां मत्वा सनातनीम् ४७।। तस्माच्छक्तिः सदा सेव्या विर्द्वा्द्धि: कृतनिश्चयैः । निश्चयः सर्वशास्त्राणां ज्ञातव्यो मुनिसत्तमाः ॥४८॥ कृष्णाच्छ्रुतं मया चैतत्तेन ज्ञातं तु नारदात् । पितुः सकाशात्तेनापि ब्रह्मणा विष्णुवाक्यतः ॥४९॥ न श्रोतव्यं न मंतव्यमन्येषां वचनं बुघैः । शक्तिरंव सदा सेव्या विद्व्ध्िः कृतनिश्चयैः ॥५०॥ प्रत्यक्षमपि द्रष्टव्यमशक्तस्य विचेष्टितम्। अतः सर्वेषु भूतेपु ज्ञातव्या शक्तिरेव हि ॥५१॥ इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धेऽष्टमोऽध्यायः ॥ ८॥ अथ नवमोऽध्यायंः
यदा विनिर्गता निद्रा देहात्तस्य जगद्गुरोः। नेत्रास्यनासिकाबाहुहृदयेभ्यस्तयोरसः सूत उवाच
निःसृत्य गगने तस्थौ तामसी शक्तिमत्तमा । उदतिष्ठज्जगन्नाथो जुम्भमाणः पुनः पुनः ॥२॥ तदाऽपश्यत्स्थितं तत्र भयत्रस्तं प्रजापतिम्। उवाच च महातेजा मेधगंभीरया गिरा ॥३॥
किमागतोऽसि भगवंस्तपस्त्यकत्वाऽत्र पद्मज । कस्माच्चितानुरोऽसि त्वं भयाकुलितमानसः ॥४॥ विष्णुरुवाच
ब्रह्मोवाच त्वत्कर्णमलजौ देव देत्यौ च मधुकैटभौ। हंतुं मां समुगयातौ घोररूपौ महाबलौ ॥५॥ भयात्तयोः समायातस्त्वत्समीपं जगत्पते । त्राहि मां वामुदेवाद्य भयत्रस्तं विचेतनम् ॥६॥ विष्णुरुवाच तिष्ठाद्य निर्भयो जातस्तौ हनिष्याम्यहं किलं। युद्धायाजग्मतुर्मूठौ मत्समोपं गतायुपो।।७।। सूत उवाच एवं वदति देवेशे दानवौ तौ महाबलौ। विचिन्ववानावजं चोभौ संप्राप्तौ मदगर्वितौ ।।८।। निराधारौ जले तत्र संस्थितौ विगतज्वरौ। तावूचतुर्मदोन्मत्ती ब्रह्माणं मुनिसप्तमाः ॥९॥ पलायित्वा समायातः सन्निधावस्य किं ततः । युद्धं कुरु हनिष्यावः पश्यतोऽस्यैव सन्नियौ ॥१०॥ पश्चादेनं हनिष्यावः सर्पभोगोपरि स्थितम्। त्वमद्य कुरु संग्रामं दासोऽस्मीति चवावद ॥११।
Page 40
४0 श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ९ सूत उवाच तच्छ्रत्वा वचनं विष्णुस्तावुवाच जनार्दनः । कुरुतां समरं कामं मया दानवपुङ्गवौ ॥१२॥ हरिष्यामि मदं चाहं युवयोर्मत्तयोः किल। आगच्छतं महाभागौ श्रद्धा चेद्वां महाबलौ ॥१३॥ सूत उवाच श्रुत्वा तद्वचनं चोभौ क्रोधव्याकुललोचनौ। निराधारौ जलस्थौ च युद्धोद्युक्तौ बभूवतुः ॥१४॥ मधुश्र कुपितस्तत्र हरिणा सह संयुगम् । कर्तुं प्रचलितस्तूणं कैटभस्तु तथा स्थितः ॥१५॥ बाहुयुद्धं तयोरासीन्मल्लयोरिव मत्तयोः। श्रान्ते मधौ कैटभस्तु संग्राममकरोत्तदा ॥१६॥ पुनर्मधुः कैटभश्र युयुधाते पुनः पुनः । बाहुयुद्धेन रागान्धौ विष्णुना प्रभविष्णुना ॥१७॥ प्रेक्षकस्तु तदा ब्रह्मा देवी चैवातरिक्षगा। न मम्लतुस्तदा तौ तु विष्णुस्तु ग्लानिमाप्वान् ॥ पञ्चवर्षसहस्राणि यदा जातानि युद्धयता । हरिणा चितितं तत्र कारणं मरणं तयोः ॥१९॥ पञ्चवर्षसहस्त्राणि मया युद्धं कृतं किल। नश्रांतौदानवौघोरौ श्रांतोऽहं चंतदद्दुतम् ॥२०॥ क्व गतं मे बलं शौर्यं कस्माच्चेमावनामयौ। किमत्र कारणं चित्यं विचार्य मनसा त्विह ॥२१॥ इति चिंतापरं दृष्टा हरिं हर्परावुभी। ऊचतुस्तौ मदोन्मत्तौ मेघगंभीरनिःस्वनौ।२२॥ तव नोचेद्वलं विष्णो यदि श्रांतोःसि युद्धतः । ब्रूहि दासोऽस्मि वा नूनं कृत्वा शिरसि चांजलिम् ॥ नोचेद्युद्धं कुरुष्वाद्य समर्थोऽसि महामते। हत्वा त्वां निहनिष्यावः पुरुषं च चतुर्मुखम् ॥२४॥ सूत उवाच श्रुत्वा तद्दाषितं विष्णुस्तयोस्तस्मिन्महोदधौ। उवाच वचनं श्लक्ष्णं सामपूर्व महामनाः ॥२५॥ हरिरुवाच श्रांते भीते त्यक्तशस्त्रे पतिते बालके तथा। प्रहरंति न वीरास्ते धर्म एष सनातनः ॥२६॥ पञ्चवर्षसहस्त्राणि कृतं युद्धं मया त्विह । एकोऽहं भ्रातरौ वां च बलिनौ सदृशौ तथा ॥२७॥ कृतं विश्रमणं मध्ये युवाभ्यां च पुनः पुनः । तथा विश्रमणं कृत्वा युध्येऽहं नात्र संशयः ॥२८॥ तिष्ठता हि युवां तावद्वलवंती मदोत्कटौ। विश्रम्याहं करिष्यामि युद्धं वा न्यायमार्गतः ।२९। सूत उवाच इति श्रुत्वा वचस्तस्य विश्रब्धौ दानवोत्तमी । संस्थितौ दूरतस्तत्र संग्रामे कृतनिश्चयौ ॥३०॥ अतिदूरे च तौ दृष्टा वासुदेवश्चतुर्भुजः । दध्यौ च मनसा तत्र कारणं मरणे तयोः ॥३१॥ चिंतनाज्ज्ञानमुत्पन्नं देवीदत्तवरावुभौ। कामं वांछितमरणौ न मम्लतुरतस्त्विमौ ॥३२॥ वृथा मया कृतं युद्धं श्रमोडयं मे वृथा गतः। करोमि च कथं युद्धमेवं ज्ञात्वा विनिश्चयम् ॥३३॥ अकृते च तथा युद्धे कथमेतौ गमिष्यतः । विनाशं दुःखदौ नित्यं दानवौ वरदर्पितौ १४॥
Page 41
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ९ ४१ भगवत्या वरो दत्तस्तया सोऽपि च दुर्घटः । मरणं चेच्छया कामं दुःखितोऽपि न वांछति॥३५॥ रोगग्रस्तोऽपि दीनोऽपि न मुमूर्षति कश्चन । कथं चेमौ मदोन्मत्तौ मर्तुकामौ भविष्यतः ॥३६॥ नन्वद्य शरणं यामि विद्यां शक्ति सुकामदाम् । विना तया न सिद्धयन्ति कामाः सम्यकप्रसन्नया ॥ एवं संचित्यमानस्तु गगने संस्थितां शिवाम्। अपश्यद्भगवान्विष्णुर्योगनिद्रां मनोहराम् ।३८॥ कृताञजलिरमेयात्मा तां च तुष्टाव योगवित् । विनाशाश तयोस्तत्र वरदां भुवनेश्वरीम् ॥३९॥ विष्णुरुवाच नमो देवि महामाये सृष्टिसंहारकारिणि। अनादिनिधने चंडि भुक्तिमुक्तिप्रदे शिवे ।।४०।।' न ते रूपं विजानामि सगुणं निर्गुणं तथा। चरित्राणि कुतो देवि संख्यातीतानि यानि ते ॥४१।। अनुभूतो मया तेऽद्य प्रभावश्चातिदुर्घटः । यदहं निद्रया लीनः संजातोऽस्मि विचेतनः ॥४२॥ ब्रह्मणा चातियत्नेन बोधितोऽपि पुनः पुनः । न प्रबुद्धः सर्वथाऽहं सङ्कोचितषडिंद्रियः ॥४३॥ अचेनत्वं सम्प्राप्तः प्रभावात्तव चाम्बिके । त्वया मुक्तः प्रबुद्धोऽहं युद्धञ्च बहुधा कृतम् ॥४४।। श्रांतोऽहं न च तौ श्रांतौ त्वया दत्तवरौ वरौ। ब्रह्माणं हंतुमायातौ दानवौ मदगर्वितौ॥४५॥ आहूतौ च मया कामं द्वन्द्वयुद्धाय मानदे। कृतं युद्धं महाधोरं मया ताभ्यां महार्णवे ॥४६॥ मरणं वरदानं ते ततो ज्ञातं महाद्भतम्। ज्ञात्वाहं शरणं प्राप्तस्त्वामद्य शरणप्रदाम् ॥४७॥ साहाय्यं कुरु मे मातः खिन्नोऽहं युद्धकर्मणा। दृप्तौ तौ वरदानेन तव देवार्तिनाशने ॥४८॥ हंतुं मामुद्यतौ पापौ किं करोमि क्व यामि च । इत्युक्ता सा तदा देवी स्मितपूर्वमुवाच है।४९।। प्रणमन्तं जगन्नाथं वासुदेवं सनातनम् । देवदेव हरे विष्णो कुरु युद्धं पुनः स्वयम् ॥५०॥ वंचयित्वा त्विमौ शूरौ हंतव्यौ च विमोहितौ। मोहयिष्याम्यहं नूनं दानवौ वक्रया दृशा ॥५१॥ जहि नारायणाशु त्वं मम मायाविमोहितौ। तच्छ्रुत्वा वचनं विष्णुस्तस्याः प्रीतिरसान्वितम् ॥ संग्रामस्थलमासाद्य तस्थौ तत्र महार्णवे। तदायातौ च तौ वीरौयुद्धकामौ महाबलौ ॥५३॥ वीक्ष्य विष्णुं स्थितं तत्र हर्षयुक्तौ बभूवतुः। तिष्ठ तिष्ट महाकाय कुरु युद्धं चतुर्भुज ॥५४॥ दैवाधीनौ विदित्वाऽद्य नूनं जयपराजयौ। सबलो जयमाप्नोति दैवाज्जयति दुर्बलः ॥५५॥ सर्वथव न कर्तव्यौ हर्षशोकौ महात्मना। पुरा वै बहवो दैत्या जिता दानववैरिणा ॥५६॥ अधुना चानयोः साधं युध्यमानः पराजितः । सूत उवाच इत्युक्त्वा तौ महाबाहू युद्धाय समुपस्थितौ ॥५७॥ वीक्ष्य विष्णुर्जघानाशु मुष्टिनाऽद्भ्ुतकर्मणा। तावप्यतिबलोन्मत ज्नतुर्मुष्टिटिन हरिम् ॥५८॥ एवं परस्परं जातं युद्धं परमदारुणम् । युध्यमानौ महावीर्यौ दृष्टा नारायणस्तदा ।५९।।
Page 42
४२ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ९ सूत उवाच अपश्यत्सम्मुखं देव्याः कृत्वा दीनां दृशं हरिः। तं वीक्ष्य तादृशं विष्णुं करुणारससंयुतम् ॥६०॥ जहासाती ताम्राक्षी वीक्षमाणा तदासुरौ। तो जघान कटाक्षैश्र कामबाणैरिवापरैः ॥६१॥ मन्दस्मितयुतैः कामं प्रेमभावयुतैरनु। दृष्टा मुमुहतुः पापौ देव्या वक्त्रं विलोकयन् ।।६२।। विशेषमिति मन्वानौ कामबाणातिपीडितौ। वीक्षमाणौ स्थितौ तत्र तां देवीं विशदप्रभाम् ॥ हरिणाडपि च तद्दृष्टं देव्यास्तत्र चिकीषितम् । मोहितौ तौ परिज्ञाय भगवान्कार्यवित्तमः ॥६४॥ उवाच तौ हसन् श्लक्ष्णं मेधगम्भीरया गिरा। वरं वरयतां वीरौ युवयोर्योडभिवांछितः ।६५।। ददामि परमप्रीतो युद्धेन युवयोः किल। दानवा बहवो दृष्टा युध्यमाना मया पुरा ॥६६॥ युवयोः सदृशः कोऽपि न दृष्टो न च वै श्रुतः । तस्मात्तुष्टोऽस्मि कामं वै निस्तुलेन बलेन च ।६७॥। भ्रात्रोश्च वांछितं कामं प्रयच्छामि महावलौ। तच्छ्रुत्वा वचनं विष्णोः साभिमानौ स्मरातुरौ ॥
सूत उवाच वीक्षमाणौ महामायां जगदानन्दकारिणीम्। तमूचतुश्च कामार्तौ विष्णुं कमललोचनौ ॥६९॥ हरेऽनया च का वा वां त्वं किं दातुमिहेच्छसि। ददावतुल्यं देवेश दातारौ नौ न याचकौ ॥७०॥ प्रार्थय त्वं हृषीकेश मनोऽभिलषितं वरम्। तुष्टौ स्वस्तव युद्धेन वासुदेवान्द्ुतेन च ।७१।। तयोस्तद्वचनं श्रुत्वा प्रत्युवाच जनार्दनः । भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥७२॥ · सूत उवाच तच्छ्रत्वा वचनं विष्णोर्दानवौ चातिविस्मितौ। वंचिताविति मन्वानौ तस्थतुः शोकसंयुतौ॥७३॥ विचार्य मनसा तौ तु दानवौ विष्णुमूचतुः । प्रेक्ष्य सर्ब जलमयं भूमिं स्थलविवर्जिताम् ॥७४॥ हरे योऽयं वरो दत्तस्त्वया पूर्व जनार्दन। सत्यवागसि देवेश देहि तं वांछितं वरम् ॥७५॥ निर्जले विपुले देशे हनस्व मधुसूदन । वध्यावावां तु भवतः सत्यवाग्भव माधव ॥७६॥ स्मृत्वा चक्रं तदा विष्णुस्तावुवाच हसन्हरिः । हन्म्यद्य वां महाभागौ निर्जले विपुले स्थले ॥७७॥ इत्युक्त्वा देवदेवेश ऊरू कृत्वाऽतिविस्तरौ। दर्शयामास तौ तत्र निर्जलं च जलोपरि ॥७८। नास्त्यत्र दानवौ वारि शिरसी मुञ्चतामिह। सत्यवागहमद्यैव भविष्यामि च वां तथा॥७९॥ तदाकर्ण्य वचस्तथ्यं विचिंत्य मनसा च तौ। वर्धयामासतुर्देहं योजनानां सहस्रकम् ॥८०॥ भगवान्द्विगुणं चक्रे जघनं विस्मितौ तदा। शीर्षे सन्दधतां तत्र जघने परमा्गुते ॥८१॥ रथांगेन तदा छिन्ने विष्णुना प्रभविष्णुना । जघनोपरि वेगेन प्रकृष्टे शिरसी तयोः ॥८२॥ गतप्राणौ तदा जातौ दानवौ मधुकैटभौ। सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥८३॥
Page 43
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १० ४३ मेदिनीति ततो जातं नाम पृथ्व्याः समंततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥८४॥ इति वः कथितं सर्वं यत्पृष्टोऽस्मि सुनिश्चितम् । महाविद्या महामाया सेवनीया सदा बुधैः ॥ ८५॥ आराध्या परमा शक्ति: सर्वेरपि सुरासुरैः। नातः परतर किचिदधिकं भुवनत्नये ॥८६॥ सत्यं सत्य पुनः सत्यं वेदशास्त्रार्थनिर्णयः। पूजनीया परा शक्तिनिर्गुणा सगुणाथवा ॥८७ इति श्रीदेवीभागवते महापुराणे प्रथमस्कंधे नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः ऋषय ऊचु: सूत पूर्व त्वया प्रोक्तं व्यासेनामिततेजसा। कृत्वा पुराणमखिल शुकायाध्यापितं सुभम् ॥१॥ व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः । विस्तर ब्रूहि सकलं यच्छ्रुत कृष्णतस्त्वया ॥२॥ सूत उवाच प्रवक्ष्यामि शुकोत्पत्ति व्यासात्सत्यवतीसुतात् । यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः ॥३॥ मेरुशृंगे महारम्ये व्यासः सत्यवतीसुतः । तपश्चचार सोत्युग्रं पुत्रार्थ कृतनिश्रयः ॥४॥ जपन्नेकाक्षरं मंत्रं वाग्बीजं नारदाच्छ्रुतम्। ध्यायन्परां महामायां पुत्रकामस्तपोनिधि: ॥५॥ अग्नेर्भूमेस्तथा वायोरतरिक्षस्य चाप्ययम्। वोर्येण संमितः पुत्रो मम भूयादिति स्म है॥६॥ अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः। आराधयन्महादेवं तथव च सदाशिदम् ॥।७।। शक्ति: सर्वत्र पूज्येति विचार्य च पुनः पुनः । अशक्तो निंदते लोके शक्तस्तु परिपूज्यते ।।८। यत्र पर्वतशृंगे वै कणिकारवनान्डते। क्रीडंति देवताः सर्वे मुनयश्च तपोऽधिकाः ॥९॥ आदित्या वसवो रुद्रा मरुतश्चाश्चिनौ तथा। वसंति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः ॥१०॥ तत्र हेमगिरे: शृंगे संगीतध्वनिनादिते। तपश्चचार धर्मात्मा व्यासः सत्यदतीसुतः ॥११॥ ततोस्य तेजसा व्यातं विश्वं सर्वं चराचरम्। अग्निवर्गा जटा जाता पाराशर्यस्य धीमतः ॥१२॥ ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः । तुरासाहं तदा दृष्टा भयत्रस्तं श्रमातुरम् ॥१३॥ उवाच भगवान् रुद्रो मघवंतं तथास्थितम्। कथमिंद्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर ॥१४।। शंकर उवाच अमर्षो नैव कर्तव्यस्तापसेषु कदाचन । तपश्चरंति मुनयो ज्ञात्वा मां शक्तिसंयुतम् ॥१५॥ न त्वेतेऽहितमिच्छंति तापसाः सर्वथैव हि। इत्युक्तवचनः शक्रस्तमुवाच वृपध्वजम् ॥१६॥ कस्मात्तपस्यति व्यास: को्ऽर्थस्तस्य मनोगतः । शिव उवाच पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम् ॥१७॥
Page 44
४४ श्रीमदेवीभागवते महापुराणे :1कन्धे अध्याय: ३१ पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम्। रृत्युक्वा नासव रुद्रो दयया मुवनानन: ॥।१८। सूत उवाच गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः । उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः ॥१९॥ सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघः । अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा ॥२०॥ भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः । तदाकर्ण्य वचः श्लक्ष्णं कृष्णर्द्वपायनस्तदा ॥२१॥ सूव उवाच शूलपाणि नमस्कृत्य जगामाश्रममात्मनः । स गत्वाऽडश्रममेवाशु बहुवर्षश्रमातुरः ॥२२॥ अरणीसहितं गुह्यं ममंथाग्नि चिकीर्षया। मंथनं कुर्वतस्तस्य चित्ते चिंताभरस्तदा ॥२३॥ प्रादुर्बभूव सहसा सुतोत्पत्तो महात्मनः । मंथानारणिसंयोगान्मंथनाच्च समुद्वः ॥२४॥ पावकस्य यथा तद्वत्कथं मे स्यात्सुखोद्भवः । पुत्रारणिस्तु व्याख्याता सा ममाद्य न विद्यते ॥२५॥ तरुणी रूपसम्पन्ना कुलोत्पन्ना पतिव्रता। कथं करोमि कांतां च पादयोःशृंखलासमाम् ॥२६॥ पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् । पतिव्रताऽपि दक्षाऽपि रूपवत्यपि कामिनी ॥२७॥ सदा बंधनरूपा च स्वेच्छासुखविधायनी। शिवोऽपि पर्वंते नित्यं कामिनीपाशसंयुतः ॥२८।। कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् । एवं चिंतयतस्तस्य घृताची दिव्यरूपिणी ॥२९॥ प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता। तां दृष्टा चञ्चलापांगी समीपस्थां वराप्सराम् ॥३०॥ पञ्चबाणपरीतांगस्तूर्णमासीद्धृतव्रतः । चिंतयामास च तदा किं करोम्यद्य संकटे ॥३१॥ धर्मस्य पुरतः प्राप्तेकामभावे दुरासदे। अङ्गीकरोमि यद्येनां वंचनार्थमिहागताम् ॥३२॥ हसिष्यंति महात्मानस्तापसा मां तु विह्वलम् । तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह ॥३३।। दृष्टाऽप्सरां च विवशः कथं जातो महातपाः । कामं निंदापि भवतु यदि स्यादतुलं सुखम् ॥३४॥ गृहस्थाश्रमसंभूतं सुखदं पुत्र कामदम् । स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा ।३५॥ न भविष्यति तन्नूनमनया देवकन्यया। नारदाच्च मया पूर्व श्रुतमस्ति कथानकम् ॥ यथोर्वशीवशो राजा पराभूतः पूरूरवाः ॥३६॥ इति श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे दशमोऽध्यायः ॥११॥ अथ एकादशोऽध्यायः ऋषय ऊचु: कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका। कथं कष्टं च संप्राप्तं तेन राज्ञा महात्मना ॥१॥ सर्व कथानकं ब्रूहि लोमहर्षणजाधुना। श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम् ॥२॥ अमृतादपि मिष्टा ते वाणी सूत रसात्मिका। न तृप्यामो वयं सर्वे सुधया च यथाऽमराः ॥३॥
Page 45
श्रीमद्वेवीमागवते महापुराणे प्रथमस्कन्धे अध्यायः ११ ४५
सूत उवाच शृण६ मुनयः सर्वे कथां दिव्या मनोरमाम् । वक्ष्याम्यहं यथाबुद्धया श्रुतां व्यासवरोत्तमात् ४।। गुरोस्तृ दयिता भार्या तारा नामेति विश्रुता। रूपयौवनयुक्ता सा चावंगी मदविह्वला ।५।। गतँकदा विधोर्धाम यजमा नस्य भामिनी । दृष्टा च शशिनाऽत्यर्थ रूपयोवनशालिनी ॥६॥ कामानु-ल्तदा जातः शशी शशिमुखीं प्रति। साऽपि वीक्ष्य विधुं कामं जाता मदनपीडिता ।७।। ताननाम प्रेमयुक्तो स्मरातों व बभूवतुः। ताराशशी मदोन्मत्तौ कामबाणप्रपीडितौ ॥।८।। रेजते मदमत्त तो परस्परत्ृहान्दिती। दिनानि कतिचितत्र जातानि रभमाणयोः ॥९॥ बृहपतिन्त: दुःखारसस्तारामानयितुं गृहम् । प्रेषयामास शिथ्यं तु नायाता सा वशीकृता १०॥। पुनः र्यदा शिष्यं परावर्तत चन्द्रमाः । बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि॥११॥ गत्वा सोमगृहं तत्र वाचस्पतिरुदारधों:। उवाच शशिनं क्रद्धः स्मयमानं मदान्वितम् ॥१२॥ किं कृत फिल शीतायो कर्म धर्मविगहितम्। रक्षिता मम भार्येयं सुन्दरी केन हेतुना ।१३।। तव देव गुरुश्राहं यजमानोऽसि सर्वथा। गुरुभार्या कथं मूढ भुक्ता कि रक्षिताऽथवा ॥१४।। ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः । महापातकिनो ह्मोते तत्संसर्गी च पञ्चमः ॥१५॥ महापातकयुक्तस्त्वं दुराचारोऽतिगहितः । न देवसदनार्होऽसि यदि भुक्तेयमङगना ॥१६॥ मुञ्चेमामसितापाड़गों नयामि सदनं मम। नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम् ॥१७॥ इत्येवं भाषमाणं तमुवाच रोहिणीपतिः। गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम् ॥१८॥ इन्दुरुवाच क्रोधात्ते तु दुराराघ्या ब्राह्मणा: क्रोधवाजताः । पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा ॥१९॥ आगमिष्यति सा कामं गृहं ते वरर्वणिनी । अत्रैव संस्थिता बाला का ते हानिरिहानघ ॥२०। इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा। दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति ॥२१।। त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा। न स्त्री दुष्यति चारेण न विप्रो वेदकमंणा ॥२२॥ इत्युक्त: शशिना तत्र गुरुरत्यन्तदुःखितः । जगाम स्वगृहं तूर्ण चिन्ताविष्टः स्मरातुरः ॥२३॥ दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः । यथावथ गृहं तस्य त्वरि तश्चौषधीपतेः ॥२४॥ स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषाऽन्वितः । नाजगाम शशी तत्र चुकोपाति बृहस्पतिः ॥२५॥ अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् । जग्राह बलतोऽधर्मी शिक्षणीयो मयाऽधुना ॥२६॥ उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः। कि शेषे भवने मंद पापाचार सुराधम ॥२७॥ देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम्। करोमि भस्मसान्नूनं न ददासि प्रियां मम ॥२८॥
Page 46
४६ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १५ सूत उवाच क्रराणि चैवमादीनि भाषणानि बृहस्पतेः । श्रुत्वा द्विजपतिः शोघ्रं निर्गतः सदनाद्वहिः २९॥ तमुवाच हसन्सोमः किमिदं बहु भाषते। न ते योग्याऽसितापांगी सर्वलक्षणसंयुता ॥३०॥ कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज। भिक्षुकस्य गृहे योग्या नेदृशी वरर्वणिनी ॥३१॥ रतिः स्वसदृशे कांते नार्याः किल निगद्यते। त्वं न जानासि मंदात्मन्कामशास्त्रविनिर्णयम् ॥ यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम्। यच्छक्यं कुरु तत्कामं न देया वर्वणिनी ३३॥ कामार्तस्य च ते शापो न मां बाधितुमर्हति। नाहं ददे गुरो कांतां यथेच्छसि तथा कुरु ३४॥ सूत उवाच इत्युक्त: शशिना चेज्यश्चितामाप रुषान्वितः । जगाम तरसा सद क्रोधयुक्तः शचीपतेः ॥३५॥ दृष्टा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् । पाद्या्र्याचमनीयादैः पृजयित्वा सुसंस्थितः ३६॥ पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम्। का चिंता ते महाभाग शोकार्तोऽसि महामुने । केनापमानितोऽसि त्वं मम राज्ये गुरुश्र मे। त्वदधीनमिदं सर्व सैन्यं लोकाधिपैः सह ॥३८॥ ब्रह्मा विष्णुस्तथा शंभुर्ये चान्ये देवसत्तमाः । करिष्यंति च साहाय्यं का चिंता वद सांप्रतम् ॥ गुरुरुवाच शशिनाइपहृता भार्या तारा मम सुलोचना। न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः ४०॥ कि करोमि सुरेशान त्वमेव शरणं मम। साहाय्यं कुरु देवेश दुःखितोस्मि शतक्रतो॥४१॥ इंद्र उवाच मा शोकं कृरु धर्मज्ञ दासोऽस्मि तव सुव्रत। आनयिप्याम्यहं नूनं भार्यां तव महामते ॥४२॥ प्रेषिते चेन्मया दूते न दास्यति मदाकुलः । ततो युद्धं करिष्यामि देवसैन्यैः समावृतः ॥४३॥ ृत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम्। प्रेपयामास सोमाय वातशिंसिनमनद्ुतम् ॥४४॥ स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः । उवाच वचनेनैव वचनं रोहिणीपतिम् ॥४५॥ प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया। कथितं प्रभुणा यच्च तद्ब्रवीमि महामते ॥४६॥ धर्मज्ञोऽसि महाभाग नीति जानासि सुव्रत। आत्रः पिता तं धर्मात्मन् न निंदं कर्तुमहंसि ॥ भार्या रक्ष्या सर्वभूतयथाशक्ति ह्यतंद्रितैः । तदर्थे कलहः कामं भविता नात्र संशयः ॥४८॥ यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे। आत्मवत्सर्वभूतानि चितय त्वं सुधानिधे ॥४९॥ अष्टाविशतिसंख्यास्ते कामिन्यो दक्षजा: शुभाः । गुरुपत्नी कथं भोक्तुं त्वमिच्छसि सुधानिधे।। स्वर्गे सदा वसंत्येता मेनकाद्या मनोरमा। भंक्ष्व ताः स्वेच्छ्या कामं मुंच पत्नीं गुरोरपि ॥ ईश्वरा यदि कुर्वन्ति जुगुप्सितमहंतया। अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत् ॥५२॥
Page 47
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: ११ ४७ रस्मान्मुंच महाभाग गुरोः पत्नीं मनोरमाम् । कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा ॥५३।। सूत उवाच सोम: शक्रवच: श्रुत्वा किंचित्क्रोधसमाकुलः । भंग्या प्रतिवचः प्राह शक्रदूतं तदा शशी ।५४।। इंदुरुवाच धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वथम् । पुरोधापि च ते तादृग्युवयोः सदृशी मतिः ॥५५॥ परोपदेशे कुशला भवंति बहवो जनाः। दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वथा ॥५६॥ बार्हस्पत्यप्रणीतं च शास्त्रं गृह्न्ति मानवाः । को विरोधोऽत्र देवेश कामयानां भ्जनस्त्रियम् ॥ स्वकीयं बलिनां सर्व दुर्बलानां न किंचन । स्वीया च परकीया च भ्रमोऽयं मंदचेतसाम् ५८।। तारा मय्यनुरक्ता घ यथा न तु तथा गुरौ। अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा ५९॥ गृहारंभस्तु रक्तायां विरक्त्तायां कथं भवेत् । विरक्तेयं यदा जाता चकमेऽनुजकामिनीम् ६०॥ न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् । ईश्वरोऽपि सहस्राक्ष यदिच्छसि कुरुष्व तत् ।६१॥ सूत 'उवाच इत्युक्त: शशिना दूतः प्रययौ शक्रसन्निधिम्। इंद्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना ॥६२॥ तुराषाडपि तच्छ्रत्वा क्रोधयुक्तो बभूव ह। सेनोद्योगं तथा चक्रे साहाय्यार्थ गुरोविभु: ॥६३॥ शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ। मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति ॥६४॥ साहाय्यं ते करिष्यामि मंत्रशक्त्या महामते। भविता यदि संग्रामस्तव चेंद्रेण मारिप ।६५॥ शंकरस्तु तदाकर्ण्य गुरुदाराभिमर्शनम्। गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा ॥६६ ॥ संग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम्। बहूनि तत्र वर्षाणि तारकासुरवत्किल ॥६७॥ देबासुरकृतं युद्धं दृष्टा तत्र पितामहः । हंसारूढो जगामाशु तं देशं क्लेशशांतये ॥६८॥ राकापति तदा प्राह मुंच भार्यां गुरोरिति। नोचेद्विष्णुं समाह्य करिष्यामि तु संक्षयम् ।६९। भृगुं निवारयामास ब्रह्मा लोकपितामहः । किमन्यायमतिर्जाता संगदोषान्महामते ॥७०॥ निषेधयामास ततो भृगुस्तं चौषधीपतिम्। मुंच भार्यां गुरोरद्य पित्राऽहं प्रेषितस्तव ।७१॥ सूत उवाच दविजराजस्तु तच्छ्रत्वा भृगोरवंचनमद्भ्तम्। ददौ च तत्प्रियां भार्यां गुरोरगर्भवतीं शुभाम् ॥७२॥ प्राप्य कांतां गुरुर्हृष्टः स्वगृहं मुदितो ययौ। ततो देवास्ततो दैत्या ययुःस्वान्स्वान्गृहान्प्रति ७३।। ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्कगरः । बृहस्पतिस्तु संतुष्टः प्राप्य भार्यां मनोरमाम् ॥७४॥ ततः कालेन कियता ताराऽसूत सुतं शुभम् । सुदिने शुभनक्षत्रे तारापतिसमं गुणैः ॥७५॥ दृष्टा पुत्रं गुरुर्जातं चकार विधिपूर्वकम्। जातकर्मादिकं सर्वं प्रहृष्टेनांतरात्मना ॥७६॥
Page 48
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १२ श्रुतं चंद्रमसा जन्म पुत्रस्य मुनिसत्तमाः । दूतं च प्रेषयामास गुरुं प्रति महामतिः ॥७७॥ न चायं तव पुत्रोऽस्ति मन वीर्यसमुद्भवः। कथ त्वं कृतवान्कामं जातकर्मादिकं विधिम् ॥७८॥ तच्छ्रत्वा वचनं तस्य दूतस्य च बृहस्पतिः । उवाच मम पुत्रो मे सदृशो नात्र संशयः ॥७९॥ पुनर्विवाद: संजातो मिलिता देवदानवाः । युद्धार्थमागतास्तेषां समाजः समजायत ॥८०॥ तत्रागतः स्वयं ब्रह्मा शांतिकामः प्रजापतिः। निवारयामास मुखे संस्थितान् युद्धदुर्मदान् ।८१॥ तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे। सत्यं बद बरारोहे यथा क्लेशः प्रशाम्यति ॥८२॥ तमुवाचासितापाङ्गी लज्जमानाऽप्यधोमुखी। चन्द्रस्येति शनैरन्तर्जगाम व्ररवर्णिनी॥८३। जग्राह तं सुतं सोमः प्रहृष्टेनांतरात्मना। नाम चक्रे बुध इति जगाम स्वगृहं पुनः ॥८४। ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः । यथागत गतं सर्वेः सर्वशः प्रेक्षकैर्जनैः ॥८५॥ कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः । यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात् ।८६।। इति श्रीदेवीभागवते प्रथमस्कन्धे बुधोत्पत्तिर्नामकादशोऽध्यायः ॥११॥ अथ द्वादशोऽध्यायः सूत उवाच ततः पुरूरवा जज्ञे इलायां कथयामि वः। बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः ॥ १॥ सुद्युम्नो नाम भूपाल: सत्यवादी जितेन्द्रियः । सैंधवं हयमारुह्य चचार मृगयां वने ॥२॥ युतः कतिपयामात्यैदंशितश्रारुकुंडलः। धनुराजगवं बद्ध्वा बाणसंघं तथा्गुतम् ॥ ३ ॥ स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् । शशांश्र सूकरांश्रैव खड्गांश्र गवयांस्तथा॥४॥ साम्भरान्वनकुक्कुटान्। निध्नन्मेध्यान्पशूत्राजा कुमारवनमाविशत् ।५॥ मेरोरधस्तले दिव्यं मंदारद्रुमराजितम । अशोकलतिकाकीणं बकुलैरधिवासितम् ॥ ६ ॥ सालस्तालैस्तमालेश्र चंपकैः पनसैस्तथा। आम्रर्नीपैर्मधूकँश्च माधवीमण्डपावृतम् ॥७॥ दाडिमैर्नारिकेलश्र कदलीखंडमण्डितम्। यूथिकामालतीकुंदपुष्पवल्लीसमावृतम् ।।८।। हंसकारंडवाकीणं कीचकध्वनिनादितम्। भ्रमरालिरुतारामं बनं सर्वमुखावहम् ॥ ९ ॥ दृष्वा प्रमुदितो राजा सुद्युम्नः सेवकर्वृतः । वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमंडितान् १०॥ प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः । अश्वोऽपि वढवा जातश्चिताविष्टः स भूपतिः ॥११॥ किमेतदिति चिंतार्तश्चित्यमानः पुनः पुनः । दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः ॥१२।। कि करोमि कथं यामि गृहं स्त्रीभावसंयुतः । कथं राज्यं करिष्यामि केन वा वंचितो ह्यहम् ॥१३॥ ऋषय ऊचु: सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण। सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः ॥१४॥
Page 49
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १२ ४९ कि तत्कारणमाचक्ष्व वने तत्र मनोहरे । किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत ॥१५॥ सून उवाघ एकदा गिरिशं द्रष्टुमृषयः सनकादयः दिशो वितिमिराभासा: :कुर्वन्तः समुपागमन् ॥ तस्मिश्र समये तत्र शङ्करः प्रमदायुतः । क्रीडासक्ता महादेवी विवस्त्रा कामिनी शिवा ॥ उत्संगे संस्थिता भर्तू रममाणा मनोरमा। तान्विलोक्यांबिका देवी विवस्त्रा व्रीडिता भृशम् ॥ भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात्। लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी ॥१९॥ ऋृषयोऽपि तयोर्वीक्ष्य प्रसंगं रममाणयोः । परिवृत्य ययुस्तूर्ण नरनारायणाश्रमम् ॥२०॥ ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान् हरः । कथ लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम् ॥२१॥ अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने। वनं च प्रविशेदेतत्स वै योषिद्दविष्यति ॥२२। इति शपतं वनं तेन ये जानंति जना: क्वचित्। वर्जयंतीह ते कामं वनं दोषसमृद्धिमत् ॥।२३॥ सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह। तर्थव स्त्रीत्वमापन्नस्तैः सहेति न संशयः ॥२४॥ चिंताविष्टः स राजर्पिर्न जगाम गुहं हिया। विचचार बहिस्तस्माद्वनदेशादितस्ततः ॥२५॥ इलेति नाम संप्रातं स्त्रीत्वे तेन महात्मना । विचरंस्तत्र एंप्राप्तो बुधः सोमसुतो युदा ॥२६॥ स्त्रीभि: परिवृतां तांतु दृष्टा कांतां मनोरभाम् । हावभावकलायुक्तां चकमे भगवान् बुधः ।२७॥। साऽपि तं चकमे कांतं बुधं सोमसुतं पतिम्। संयोगस्तत्र संजातस्तयोः प्रम्णा परस्परम् ॥२८॥॥ स तस्यां जनयामास पुरूरवसमात्मजम् ॥२९॥ साऽप्रसूत सुतं बाला चिंताविष्टा वने स्थिता। सस्मार स्वकुलाचार्य वसिष्ठं मुनिसत्तमम् ॥३०॥ स तदाऽस्य दशां दृष्टा सुद्युम्नस्य कृपान्वितः । अतोषयन्महादेवं शंकरं लोकशंकरम् ॥३१॥ सस्म स भगवांस्तुष्टः प्रददौ वांछितं वरम् । वसिष्ठःप्रार्थयामास पुस्त्वं राज्ञः प्रियस्य च ॥३२॥ शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह। मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल ३३॥ इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः । चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात्॥३४॥ स्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशासत च । प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम्॥३५॥ काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा। प्रतिष्ठां नृपतिस्तस्म दत्त्वा राज्यं वनं ययौ ॥३६॥ गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले। नारदान्मंत्रमासाद्य नवाक्षरमनुत्तमम् ॥३७॥। जजाप मंत्रमत्यर्थ प्रेमपूरितमानसः । परितुष्टा तदा देवी सगुणा तारिणी शिवा ॥३८। सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा । बारुणीपानसंमत्ता मदाघूरणितलोचना ॥३९॥ दृष्टा तां दिव्यरूपां च प्रेमाकुलितलोचनः । प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम् ॥४०॥
Page 50
श्रीमद्ेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: १२ इलोवाच दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् । वंदे त्वदंनिकमलं सुरसंघसेव्यं कामप्रदं जननि चापि विमुक्तिदं च॥४१।। को वेति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यंति यत्र मुनयश्च सुराश्र सवें। ऐश्वर्यमेतदाखिलं कृपणे दयां च दृष्टृव देवि सकलं किल विस्मयो मे ॥४२॥ शंभुहरि: कमलजो मघवा रविश्र वित्तेशवह्निवरुणाः पवनश्च सोमः । जानंति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः ॥४३॥ जानाति विष्णुरमितद्युतिरम्ब साक्षात्वां सातत्विकीमुदधिजां सकलार्थदां च। को राजसीं हर उमा किल तामसीं तवां वेदांबिके न तु पुनः खलु निर्गुणां त्वाम् ॥४४॥ क्वाहं सुमंदमतिरप्रतिमप्रभावः ववायं तवातिनिपुणो मयि सुप्रसादः। जाने भवानि चरितं करुणासमेत यत्सेवकांश्र दयसे त्वयि भावयुक्तान्॥४५॥। वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्र। पादो तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभी पवित्री ।।४६।। वांछत्यहो हरिरशोक इवातिकामं पाद्ाहति प्रमुदितः पुरुषः पुराणः । तां त्वं करोषि रुपिता प्रणतं च पादे दृष्टा प्ति सकलदेवनुतं स्मगर्तम् ॥४७॥ वक्ष:स्थले वससि देवि सदैव तस्य पर्यंकवत्सुतरिते विपुलेऽतिशांते। सौदामनीव सृघने सुविभूषिते च कि ते न वाहनमसो जगदीश्वरोऽपि॥४८॥ त्वं चेज्जहासि मधुसूदनमंब कोपान्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः । प्रत्यक्षमेव पुरुषं स्वजनास्त्यजंति शान्तं श्रियोज्अितमतीवगुणवियुक्तम्॥४९॥ ब्रह्मादयः सुरगणा न तु किं युदत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति। मन्ये त्वयैव विहिताः खलु ते पुमांसः कि वर्गयामि तव शक्तिमनन्तवीये ॥५०॥ तवं नापुमान्न च पुमानिति मे विकल्पो या कासि देवि सगुणा ननु निर्गुणा वा। तां न्वा नमामि सततं किल भावयुक्तो वांछामि भक्तिमचलां त्वयि मातरं तु ॥५१॥ सूत उवाच इति स्तुत्वा महीपालो जगाम शरणं तदा। परितुष्टा ददी देवी तत्र सायुज्यमात्मनि ॥५२॥ सुदयुम्नस्तु ततः प्राप पदं परमकं स्थिरम्। तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम् ॥५३॥ इति श्रीमदेवीभागवते प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १२॥
Page 51
श्रीमद्वेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: १३ अथ त्रयोदशोऽध्यायः सूत उवाच सुदुम्ने तु दिवं याते राज्यं चक्रे पुरूरवाः। सगुणश्र सुरूपश्र प्रजारंजनतत्परः ॥१॥ प्रतिष्ठाने पुरे रम्ये राज्यं सर्वनमस्कृतम्। चकार सर्वधर्मज्ञः प्रजारक्षणतत्पर: ॥२।। मंत्रः सुगुप्तस्तस्यासीत्परत्राभिज्ञता तथा। सदैवोत्साहशक्तिश्च प्रभुशक्तिस्तथोत्तमा ।।३।। सामदानादयः सर्वे वशगास्तस्य भूपतेः । वर्गाश्रमान्स्वधर्मस्थान्कुर्वत्राज्यं शशास ह॥४। यज्ञांश्र विविधांश्चके स राजा बहुदक्षिणान्। दानानि च पवित्राणि ददावथ नराधिपः ॥५॥ तस्य रूपगुणौदार्यशीलद्रविणविक्रमान्। श्रुत्वोर्वशी वशीभूता चकमे तं नराधिपम् ।६।। ब्रह्मशापाभितप्ा सा मानुषं लोकमास्थिता। गुणिनं तं नृपं मत्वा वरयामास मानिनी ॥७॥ समयं चेदृशं कृत्वा स्थिता तत्र वराङ्गना। एतावुरणकौ राजन्न्यस्ती रक्षस्व मानद ।।८। धृतं मे भक्षणं नित्यं नान्यतिकचिन्नृपाशनम्। नेक्षे त्वां च महाराज नग्नमन्यत्र मैथुनात् ॥९॥ भाषाबंधस्त्वयं राजन् यदि भग्नो भविष्यति। तदा त्यक्त्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम्१०॥ अङ्गीकृतं च तद्राज्ञा कामिन्या भाषितं तु यत्। स्थिता भाषणबंधेन शापानुग्रहकाम्यया॥११॥ रेमे तदा स भूपालो लनो वर्षगणान्बहून्। धर्मकर्मादिक त्यक्त्वा चोर्वश्या मदमोहितः ॥१२॥ एकचित्तस्तु संजातस्तन्मनस्को महीपतिः। न शशाक तया हीनः क्षणमप्यतिमोहितः ॥१३॥ एवं वर्षगणान्ते तु स्वर्गस्थः पाकशासनः । उर्वशों नागतां दृष्टा गंधर्वानाह देवराट्॥१४॥ उर्वशोमानयध्वं भो गंधर्वाः सर्व एव हि। हृत्वोरणौ गृहात्तस्य भूपतेः समये किल ॥१५॥ उर्वशीरहितं स्थानं मदीयं नातिशोभते। येन केनाप्युपायेन तामानयत कामिनीम् ॥१६॥ इत्युक्तास्तेऽथ गंधर्वा विश्वावसुपुरोगमाः । ततो गत्वा महागांढे तमसि प्रत्युपस्थिते ॥१७॥ जह्नस्तावुरणौ देवा रममाणं विलोक्य तम्। चक्रंदतुस्तदा तौ तु ह्रियमाणौ विहायसा ।१८।। उर्वशी तदुपाकर्ण्य क्रंदितं सुतयोरिव। कुपितोवाच राजानं समयोऽयं कृतो मया ॥१९॥ नष्टाऽहं तव विश्वासाद्धृतौ चौरैर्ममारणौ। राजन्युत्रसमावेतौत्वंकिं शेष स्त्रिया समः ॥२०॥ हताऽस्म्यहं कुनाथेन नपुंसा वीरमानिना। उरणौ मे गतौ चाद सदा प्राणप्रियौ मम ॥२१॥ एवं विलप्यमानां ता दृष्टा राजा विमोहितः । नग्न एव ययौ तूर्ण पृष्ठतः पृथिवीपतिः ॥२२॥ विद्युत्नकाशिता तत्र गंधर्वैर्नृपवेश्मनि। नग्नभूतस्तया दृष्टो भूपतिर्गन्तुकामया ॥२३॥ त्यक्त्वोरणौ गताः सर्वे गंधर्वाः पथि पार्थिवः । नंग्नो जग्राह तौ श्रांतो जगाम स्वगृहं प्रति ॥२४॥ सदोर्वशों गतां दृष्टा विललापातिदुःखिनः। नग्नं वोक्ष्य पति नारो गता सा वरर्वणिनो ॥२५॥
Page 52
५२ श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १४ क्रन्दन् स देशदेशेषु बभ्राम नृपतिः स्वयम् । तच्चित्तो विह्वलः शोचन्विवशः काममोहितः २६॥ भ्रमन्वै सकला पृथ्वीं कुरुक्षेत्रे ददर्श ताम् । दृष्ठा संहृष्टवदनः प्राह सूक्तं नृपोत्तमः ॥२७॥ अये जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि। मां त्वं त्वन्मनसं कांतं वशग चाप्यनागसम् ॥२८॥ स देहोडयं पतत्यत्र देवि दूरं हृतस्त्वया। खादंत्येनं वृकाः काकास्त्वया त्यक्तंवरोरु यत् २९।। एवं विलपमानं तं राजानं प्राह चोर्वशी। दुःखितं कृपणं श्रांतं कामार्तं विवशं भृशम् ॥३०॥ उर्श्युवाच मूर्खोडसि नृपशार्दूल ज्ञानं कुत्र गतं तब। क्वापिसख्यं न च स्त्रीणां बृकाणामिव पार्थिव।३१॥ न विश्वासो हि कर्तव्यः स्त्रीषु चौरेषु पार्थिवैः। गृहं गच्छ सुखं भुंक्ष्व मा विषादे मनः कृथाः ॥३२॥ इत्येवं बोधितो राजा न विवेदातिमोहितः । दुःखं च परमं प्राप्तः स्वैरिणीस्नेहयंत्रितः ॥३३॥ सूत उवाच इति सर्व समाख्यातमुर्वशीचरितं महत्। वेदे विस्तारितं चैतत्संक्षेपात्कारथतं मया ॥३४॥ इति श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥५३॥ अथ चतुर्दशोऽध्यायः सूत उवाच दृष्टा तामसितापांगीं व्यासश्चितापरोऽभवत् । किं करोमि न मे योग्या देवकन्येयमप्सराः ॥१॥ एवं चिंतयमानं तु दृष्टा व्यासं तदाप्सराः । भयभीता हि संजाता शापं मां विसृजेदयम् ॥२॥ सा कृत्वाऽथ शुकीरूपं निर्गता भयविह्वला। कृष्णस्तु विस्मयं प्राप्तो विहंगी तां विलोकयन् ॥३॥ कामस्तु देहे व्यासस्य दर्शनादेव संगतः । मनोऽतिविस्मितं जातं सर्वगात्रेषु विस्मितः ॥४॥ स तु धैर्येण महता निगृहन्मानसं मुनिः । न शशाक नियंतुं च स व्यासः प्रसृतं मनः ॥५॥ बहुशो गृह्यमाणं च घृताच्या मोहितं मनः । भावित्वान्नैव विधृतं व्यासस्यामिततेजसः ॥६॥ मथनं कुर्वतस्तस्य मुनेरग्निचिकीर्षया। अरण्यामेव सहसा तस्य शुक्रमथापतत् ।।७॥ सोऽविचिंत्य तथा पातं ममन्थारणिमेव च । तस्माच्छुकः समुद्द्ूतो गसाकृतिमनोहरः ॥८॥ विस्मय जनयन्बालः संजातस्तदरण्यजः । यथाध्वरे समिद्धोऽग्निर्भाति हव्येन दीप्रिमान् ।।९।। व्यासस्तु सुतमालोक्य विस्मयं परमं गतः । किमेतदिति संचित्य वरदानाच्छिवस्य वै ॥१०॥ तेजोरूपी शुको •जातोऽप्यरणीगर्भसंभवः । द्वितीयोग्निरिवात्यर्थ दीप्यमानः स्वतेजसा ॥११॥ विलोकयामास तदा व्यासस्तु मुदितं सुतम्। दिव्येन तेजसा युक्तं गार्हपत्यमिवापरम् ॥१२॥ गङ्गांतः स्नापयामास समागत्य गिरेस्तदा। पुप्पवृहटिस्तु खाज्जाता शिशोरुपररि तापस ॥१३॥
Page 53
श्रीमटेवीमागवते महापुराणे प्रथमस्कन्धे अध्यावः १४ ५३
जातकर्माटिकं चक्रे व्यासस्तस्य महात्मनः। देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥१४।। ज्रगुर्गन्धर्वपतयो मुदितास्ते दिदृभ्षवः । विश्वावसुर्नान्दश्र तुबुरुः शुकसंभवे ॥१५॥ तुष्टुवुर्मुदिताः सर्वें देवा विद्याधरास्तथा। दृष्टा व्याससुतं दिव्यमरीगर्भसंभवम् ॥१६॥ अंतरिक्षात्पपातोर्व्यां दंड: कृष्णाजिनं शुभम् । कमंडलुस्तथा दिव्यः शुकस्यार्थे द्विजोत्तमः ॥१७॥ सद्यः स वबुधे बालो जातमात्रोऽतिदीपिमान्। तस्योपनयनं चक्रे व्यासो विद्याविधानवित् ।१८।। उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः । उपतस्थुर्महात्मानं यथाऽस्य पितरं तथा ॥१९॥ यतो दृष्टं शुकीरूपं घृताच्याः संभवे तदा। शुकेति नाम पुत्रस्य चकार मुनिसत्तमः ॥२०॥ बृहस्पतिमुपाध्यायं कृत्व्रा व्याससुतस्तदा। व्रतानि ब्रह्मचर्यस्य चकार विधिपूर्वकम् ॥२१॥ सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससंग्रहान् । धर्मशास्त्राणि सर्वाणि कृत्वा गुरुकुले शुकः ।।२२।। गुरवे दाक्षिणां दत्त्वा समावृत्तो मुनिस्नदा । आजगाम पिनुः पार्श्व कृष्गद्वंपायनस्य च ॥२३॥ दृष्टा व्यास: शुकं प्राप्तं प्रेम्णोत्थाय ससंभ्रमम् । आलिलिंग मुहुर्ताणं मूध्नि तस्य चकार है॥२५॥ पप्रच्छ कुशलं व्यासस्तस्थौ चाध्ययनं शुचिंः। आश्वास्य स्थापयामास शुकं तत्राश्रमे शुभे ।।२५॥ दारकर्म ततो व्यासः शुकस्य पर्यचितयत् । कन्यां मुनिसुनां कांतामपृच्छदतिवेगवान् ॥२६॥ शुकं प्राह सुतं व्यासो वेदोऽधीतस्त्वयाऽनघ । धर्मशास्त्राणि सर्वाणि कुरु भार्यां महामते ॥२७॥ गार्हस्थ्यं च समासाद्य यज देवान्पितृनथ। ऋणान्मोचय मां पुत्र प्राप्य दारान्मनोरमान् ॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च। तस्मात्पृत्र महाभाग कुरुष्वाद्य गृहाश्रमम् ।२९। कृत्वा गृहाश्रमं पुत्र सुखिन कुरु मां शुक। आशा मे महती पुत्र पूरयस्व महामते ॥३०॥ तपस्तप्त्वा महाघोरं प्रातोऽसि त्वमयोनिजः । देवरूपी महाप्राज्ञ पाहि मां पितर शुक ।३१॥ सूत उवाच इति वादिनमभ्याशे प्राप्तः प्राह शुकस्तदा। विरक्तः सोऽतिरक्ततं साक्षात्पितरमात्मनः ॥३२॥ शुक उतराच कि त्वं वदसि धर्मज्ञ वेदव्यास महामते। तत्त्वेन शाधि शिष्यं मां त्वदाज्ञां करवाण्यलम् ॥ व्यास उवाच त्वदये यत्तपस्ततं मया पुत्र शनं समाः । प्राप्तस्त्वं चातिद्ुःखेन शिवस्याराधनेन च ॥३४॥ ददामि तव वितं तु प्रार्थयित्वाज्थ भूपनिम्। सुखं भुंक्ष् महाप्राज्ञ प्राप्य योवनमुत्तमम् ॥३५॥
कि सुखं मानुपे लोके ब्रूहि तात 'निरामयम्। दुःखविद्धं सुखं प्राज्ञा न वदति सुखं किल ॥३ ६॥ शुक उवाच
स्वियं कृत्वा महाभाग भवामि तद्टशानुगः। सुखं कि परतंत्रस्य स्ोजितस्य विशेषतः ॥३७॥
Page 54
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः १४ कदाचिदपि मुच्येत लोहकाष्ठादियन्त्रितः । पुत्रदारनिबद्धस्तु न विमुच्येत कहिचित् ।३८।। विष्मूत्रसम्भवो देहो नारीणां तन्मयस्तथा। कः प्रीति तत्र विप्रेन्द्र विबुधः कर्तुमिच्छति॥३९॥ अयोनिजोऽहं विप्रर्षे योनौ मे कीदृशी मतिः । न वांछाम्यहमग्रेऽपि योनावेव समुद्वम् ॥४०॥ विट्सुखं किमु वांछामि त्यक्त्वात्मसुखमद्दुतम् । आत्मारामश्च भूयोऽपि न भवत्यतिलोलुपः ॥४१॥ प्रथमं पठिता वेदा मया विस्तारिताश्र ते। हिंसामयास्ते पठिताः कर्ममार्गप्रवर्तकाः ॥४२॥ बृहस्पतिर्गुरुः प्राप्तः सोऽपि मग्नो गृहार्णवे । अविद्याग्रस्तहृदयः कथं तारयितुं क्षमः ॥४३॥ शोगग्रस्तो यथा वैद्यः पररोगचिकित्सकः । तथा गुरुर्मुमुक्षोमें गृहस्थोऽयं विडम्बना ॥४४॥ कृत्वा प्रणामं गुरवे त्वत्समीपमुपागतः । त्राहि मां तत्त्वबोधेन भीतं संसारसर्पतः ॥४५॥ संसारेऽस्मिन्महाघोरे भ्रमणं नभचत्रवत्। न च विश्रमणं क्वापि सूर्यस्येव दिवानिशि ॥४६॥ किं सुखं तात संसारे निधनत्वविचारणात्। मूढानां सुखबुद्धिस्तु विट्सु कीटसुखं यथा।।४७।। अधीत्य वेदशास्त्राणि संसारे रागिणश्च ये। तेभ्यःपरोन मूर्खोडस्ति सधर्मा श्वाश्वसूकरैः ॥४८॥ मानुष्यं दुर्लभं प्राप्य वेदशास्त्राण्यधीत्य च। बध्यते यदि संसारे को विमुच्येत मानवः॥४९।। नातः परतरं लोके क्वचिदाश्चर्यमद्द्तम्। पुत्रदारगृहासक्तः पण्डितः परिगीयते ॥५०॥ न बाध्यते यः संसारे नरो मायागुणस्त्रिभिः । स विद्वान्स च मेधावी शास्त्रपारं गतो हि सः॥ किं वृथाऽध्ययननेनात्र दृढबंधकरेण च। पठितव्यं तदेवाशु मोचयेद्वबन्धनात् ॥५२॥ गृह्हाति पुरुषं यस्माद्गृहं तेन प्रकीर्तितम्। क्व सुखं बंधनागारे तेन भीतोऽस्म्यहं पितः ॥५३॥ येडबुधा मन्दमतयो 'विधिना मुषिताश्र ये। ते प्राप्य मानुषं जन्म पुनर्बधं विशंत्युत्त ।।५४। व्यास उवाच न गृहं बंधनागारं बंधने न च कारणम्। मनसा यो विनिर्मुक्तो गृहस्थोऽपि विमुच्यते ॥५५॥ न्यायागतधनः कुर्वन्वेदोक्तं विधिवत्क्रमात्। गृहस्थोऽपि विमुच्येत श्राद्धकृत्सत्यवाक्शुचिः ५६॥। ब्रह्मचारी यतिश्रव वानप्रस्थो व्रतस्थितः । गृहस्थं समुपासन्ते मध्याह्नातिक्रमे सदा ॥५७॥ श्रद्धया चान्नदानेन वाचा सूनृतया तथा। उपकुर्वन्ति धर्मस्था गृहाश्रमनिवासिनः ॥८॥ गृहाश्रमात्परो धर्मो न दृष्टो न चे वै श्रुतः । वसिष्ठादिभिराचायर्ञानिभिः समुपाश्रितः ॥५९॥ किमसाध्यं महाभाग वेदोक्तानि च कुर्वतः । स्वर्गमोक्षं च सज्जन्म यद्यद्वांछति तद्गवेत् ॥६०॥ आश्रमादाश्रमं यच्छेदिति धर्मविदो विदुः । तस्मादगि्नि समाधाय कुरु कर्माण्यतन्द्रितः ॥६१॥ देवान्पितृन्मनुष्यांश्र सन्तर्प्य विधिवत्सुत। पुत्रमुत्पाद्य धर्मज्ञ संयोज्य च गृहाश्रमे ॥६२॥ त्यक्त्वा गृहं वनं गत्वा कर्ताऽसि व्रतमुत्तमम्। वानप्रस्थाश्रमं कृत्वा संन्यासं चततः परम् ॥६३॥ इन्द्रियाणि महाभाग मादकनि सुनिक्रितम्। अदारस्य दुरन्तानि पंचंव मनसा सह॥६४॥
Page 55
श्रीमदेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: १५ ५५ तस्माद्दारान्प्रकुर्वीत तज्जयाय महामते। वार्धके तप आतिष्ठेदिति शास्त्रोदितं वच: ॥६५॥ बिशामित्रो महाभागस्तपः कृत्वाऽतिदुश्चरम् । त्रीणि वर्षसहस्त्राणि निराहारो जितेन्द्रियः ॥६६।। मोहितश्र महातेजा वने मेनकया स्थितः । शकुन्तला समुत्पन्ना पुत्री तद्वीर्यजा शुभा ॥६७॥ दृष्ध दाशसुतां कालीं पिता मम पराशरः। कामबाणादितः कन्यां ता जग्राहोडुपे स्थितः ॥६८॥ ब्रह्माऽपि स्वसुतां दृष्टा पंचबाणप्रपीडितः । धावमानंश्र रुद्रेण मूर्छितश्र निवारितः ॥६९॥ तस्मात्त्वमपि कल्याण कुरु मे वचनं हितम्। कुलजां कन्यकां वृत्वा वेदमार्ग समाश्रय ।७०।। इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धे चतुर्दशोऽध्यायः॥१४॥ अथ पश्चदशोऽध्यायः श्रीशुक उवाच नाहं गृहं करिष्यामि दुःखदं सर्वथा पितः । वागुरासदशं नित्यं बंधनं सर्वदेहिनाम् ॥१॥ धर्नाचतातुराणां हि क्त सुखं तात दृश्यते। स्वजनैः खलु पीडयन्ते निर्धना लोलुपा जनाः ॥।२॥ इन्द्रोडपि न सुखी तादृग्यादृशो भिक्षुनि स्पृहः । कोऽन्यः स्यादिह संसारे त्रिलोकीविभवे सति ॥३॥ तपंतं तापसं दृष्टा मघवा दुःखितोऽभवत्। विघ्नान्बहुविधानस्य करोति च दिवस्पतिः॥४॥ ब्रह्माऽपिन सुखी विष्णुलक्ष्मीं प्राप्य मनोरमाम्। खेदं प्राप्नोति सततं संग्रामैरसुरैः सह॥५॥ करोति विपुलान् यत्नांस्तपश्चरति दुश्चरम्। रमापतिरपि श्रीमान्कस्यास्ति विपुलं सुखम् ॥६।। शंकरोऽपि सदा दु.खी भवत्येव च वेद्मयहम् । तपश्चयां प्रकुर्वाणो दैत्ययुद्धकरः सदा॥७॥ कदाचिन्न सुखो शेते धनवानपि लोलुपः । निर्धनस्तु कथं तात सुखं प्राप्नोति मानवः ।८।। जानन्नपि महाभाग पुत्रं वा वीर्यसंभवम्। नियोक्ष्यसि महाघोरे संसारे दुःखदे सदा ।।९॥ जन्मदुःखं जरादुःखं दुःखं च मरणे तथा। गर्भवासे पुनर्दुःखं विष्ठामूत्रमये पितः ॥१०॥ तस्मादतिशयं दुःखं तृष्णालोभसमुद्धवम्। याञ्चायां परमं दुःखं मरणादपि मानद ॥११॥ प्रतिग्रहधना विप्रा न बुद्धिबलजीवनाः । पराशा परमं दुःखं मरणं च दिने दिने ॥१२॥ पठित्वा सकलान्वेदाञ्ास्राणि च समंततः । गत्वा च धनिनां कार्या स्तुतिः सर्वात्मना बुघैः ॥ एकोदरस्य का चिन्ता पत्रमूलफलादिभिः । येन केनाप्युपायेन संतुष्टया च प्रपूर्यते ॥१४॥ भार्या पुत्रास्तथा पौत्राः कुटुम्बे विपुले सति। पूरणार्थ महद्दुःखं बव सुखं पितरद्द्रुतम् ॥१५॥ योगशास्त्रं वद मम ज्ञानशास्त्रं सुखाकरम्। कर्मकांडेऽखिले तात न रमेऽहं कदाचन ॥१६।। वद कर्मक्षयोपायं प्रारब्धं संचितं तथा। वर्तमानं यथा नश्येत्त्रिविधं कर्म मूलजम् ॥१७॥ जलोकेव सदा नारी रुधिरं पिबतीति वै। मूर्खस्तु न विजानाति मोहितो भावचेष्टितः ॥१८।।
Page 56
५६ श्रीभद्देवीगागवते महापुराणे प्रथमस्कन्धे अध्याय: १५ भोगैर्वीर्य धनं पूर्णं मनः कुटिलभाषणैः । कांता हरति सर्वस्वं कः स्तेनस्तादृशोऽपरः ॥१९॥ निद्रासुखविनाशार्थं मूर्खस्तु दारसंग्रहम् । करोति वंचितो धात्रा दुःखाय न सुखाय च ॥२०॥
एवंविधानि वाक्यानि श्रुत्वा व्यास: शुकस्य च । संप्राप महतीं चिंतां कि करोमीत्यसंशयम् ।२१॥ सूत उवाच
तस्य सुस्रुवुरश्रूणि लोचनाददुःखजानि च । वेपथुश्र शरीरेऽभूद्ग्लानि प्राप मनस्तथा ॥२२॥ शोचंतं पितरं दृष्टा दीनं शोकपरिप्लुतम्। उवाच पितरं व्यासं विस्मयोत्फुल्ललोचनः ॥२३॥ अहो मायाबल चोग्रं यन्मोहयति पंडितम्। वेदांतस्य च कर्तारं सर्वज्ञं वेदसमितम् ॥२४॥ न जाने का च सा माया किस्वित्साऽतीव दुष्करा। या मोहयति विद्वांसं व्यासं सत्यवतीसुतम् ॥ २५ ॥ पुराणानां च वक्ता यो निर्माता भारतस्य च। विभागकर्ता वेदानां सोऽपि मोहमुपागतः ॥२६॥ तां यामि शरणं देवीं या मोहयति वै जगत्। ब्रह्मविष्णुहरादींश्व कथाऽन्येषां च कीदृशी ॥२७॥ कोऽप्यस्ति त्रिषु लोकेषु योन मुह्यति मायया। यन्मोहं गमिताः पूर्वे ब्रह्मविष्णुहरादयः ॥२८॥ अहो बलमहो वीर्यं देव्या खलु विनिर्मितम्। माययव वशं नीतः सर्वज्ञ ईश्वरः प्रभुः ॥२९॥ विष्ण्वंशसंभवो व्यास इति पौराणिका जगुः । सोऽपि मोहार्णवे मग्नो भग्नपोतो वणिग्यथा ॥३०। अश्रुपातं करोत्यद्य विवशः प्राकृतो यथा। अहो मायाबलं चैतद्दुस्त्यजं पंडितैरपि ॥३१॥ कोऽयं कोऽहं कथं चेह कीदृशोऽयं भ्रमः किल। पंचभूतात्मके देहे पितापुत्रेति वासना ॥३२॥ बलिष्ठा खलु मायेयं मायिनामपि मोहिनी। ययाऽभिभूतः कृष्णोऽपि करोति रोदनं द्विजः ॥३३॥ तां नत्वा मनसा देवीं सर्वकारणकारणाम्। जननीं सर्वदेवानां ब्रह्मादीनां तथेश्वरीम् ॥३४॥ मितरं प्राह दीनं तं शोकार्णवपरिप्लुतम्। अरणीसंभवो व्यासं हेतुमद्वचन शुभम् ॥३५॥ श्रीशुक उवाच पाराशर्य महाभाग सर्वेषां बोधदः स्वयम् । किं शोक कुरुषे स्वामिन् यथाऽज्ञः प्राकृतो नरः॥३६॥ अद्याहं तव पुत्रोऽस्मि न जाने पूर्वजन्मनि। कोऽहं कस्त्वं महाभाग विभ्रमोडयं महात्मनि ॥३७॥ कुरु धैयं प्रबुध्यस्व मा विषादे मनः कृथाः । मोहजालमिम मत्वा मुंच शोकं महामते ॥३८॥ क्षधानिवृत्तिर्भक्ष्येण न पुत्रदर्शनेन च । पिपासा जलपानेन याति नैवात्मजेक्षणात् ।३९॥ घ्राणं सुखं सुगंधेन कर्णजं श्रवणेन च। स्त्रीसुखं तु स्त्रियां नूनं पुत्रोऽहं किं करोमि ते ।।४०।। अजीगतेन पुत्रोऽपि हरिश्चंद्राय भूभुजे। पशुकामाय यज्ञार्थं दत्तो मौल्येन सर्वथा॥४१॥। सुखानां साधनं द्रव्यं धनात्सुखसमुच्चयः। धनमर्जय लोभश्चेत्पुत्रोऽहं कि करोम्यहम् ॥४२॥ मां प्रबोधय बुद्धया त्वं दैवज्ञोऽसि महामते। यथा मुच्येयमत्यंतं गर्भवासभयान्मुने ।४३।।
Page 57
श्रीमद्ेवीभागवते सहापुराणे प्रथमस्कन्धे अध्याय: १५ ५७ दुर्लभं 'मानुषं जन्म कर्मभूमाविहानघ। तत्रापि ब्राह्मणत्वं वै दुर्लभं चोत्तमे कुले ॥४४॥ बद्धोऽहमिति मे बुद्धिनपिसर्पत चित्तत । संसारवातनाजाले निविष्टा वृद्धगामिनी ।४५।। सूत उवाच इत्युक्कस्तु तदा व्यासः पुत्रेगामितबुद्धिना। प्रत्युवाच शुक शांतं चतुर्थाश्रममानसम् ॥४६॥ ड्यास उवाच पठ पुत्र महाभाग मया भागवतं कृतम्। शुभं न वातिविस्तीणं पुराणं ब्रह्मसंमितम् ॥४७।। स्कन्धा द्वादश तत्रव पञ्चलक्षणसंयुतम्। सर्वेपां च पुराणानां भूषणं मम संमतम् ॥४८। सदसज्ज्ञानविज्ञानं श्रुतमात्रेण जायते। येन भागवतेनेह तत्पठ त्वं महामते ॥४९॥ वटपत्रशयानाय विष्णवे बालरूपिणे। केनास्मि बालभावेन निर्मितोऽहं चिदात्मना ॥५०।। किमर्थ केन द्रव्येण कथ जानामि चाखिलम्। इत्येवं चित्यमानायं मुकुंदाय महात्मने ।५१॥ श्लोकार्धेन तथा प्रोकं भगवत्याऽविलार्थदम्। सर्व खल्विदमेवाहं नान्यदस्ति सनातनम् ॥५२॥ तद्वचो विष्णुना पूर्व संविज्ञातं मनस्यपि। केनोक्ता वागियं सत्या चिंतयामारा चेतसा ॥५३॥ कथ वेद्यि प्रवक्तारं स्त्रीपुंभी वा नपुंसकम्। इति चिंताप्रपन्नेन धृतं भागवतं हृदि ॥५४॥ पुनः पुनः कृतोच्चारस्तस्मिन्नवास्तचेतसा। वटपत्रे शयानः सन्नभूच्चिन्तासमन्वितः ॥५५॥ तदा शांता भगवती प्रादुरास चतुर्भुजा। शंखचक्रगदापद्मवरायुधधरा शिवा ॥५६॥ दिव्यांबरघरा देवी दिव्यभूषणभूषिता। संयुता सदृशीभिश्च सखीभि: स्वविभूतिभिः ॥५७॥ प्रादुर्बभूव तस्याग्रे विष्णोरमिततेजसः । मंदहास्यं प्रयुआना महालक्ष्मीः शुभानना ॥५८॥। सूत उवाच तां तथा संस्थितां दृष्टा हृदये कमलेक्षणः । विस्मितः सलिले तस्मिन्निराधारां मनोरमाम् ५९॥ रतिर्भूतिस्तथा बुद्धिर्मतिः कीर्तिः स्मृतिधृतिः । श्रद्धा मेघा स्वधा स्वाहा क्षुधा निद्रा दया गतिः ॥ तुष्टिः पुष्टिः क्षमा लज्जा जुम्भा तंद्रा च शक्तयः । संस्थिताः सर्वतः पाश्वं महादेव्याः पृथक् पृथक् ॥ बरायुधधराः सर्वा नानाभूषणभूषिताः । मंदारमालाकुलिता मुक्ताहारविराजिताः ॥६२॥ तां दृष्टा ताश्च संवीक्ष्य तस्मिन्नेकार्णवे जले । विस्मयाविष्टहृदयः संबभूव जनार्दनः ॥६३॥ चितयामास सर्वात्मा दृष्टमायोतिविस्मितः । कुतोभवाः स्त्रियः सर्वाः कुतोऽहं वटतल्पगः ॥६४॥ अस्मिन्नेकार्णवे घोरे न्यग्रोधः कथमुत्थितः । केनाहं स्थापितोऽस्म्यत्र शिशु कृत्वा शुभाकृतिम् ॥ ममेयं जननी नो वा माया वा कापि दुर्घटा। दर्शनं केनचित्वद्य दत्तं वा केन हेतुना /६६।। कि मया चात्र वत्तव्यं गंतव्यं वान वा क्वचित् । मौनमास्थाय तिष्ठेयं बालभावादतंद्रितः ।।६७।। इति श्रीमरेवीमागव्रते महापुराणे प्रथमम्कन्धे पञ्चदशोऽध्यायः॥१५॥
Page 58
५८ श्रीमदेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: १६ अथ षोडशोऽध्यायः व्यास उवाच दृष्टा तं विस्मितं देवं शयानं वटपत्रके। उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि ॥१॥ महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा। प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः ॥२॥ निर्गुणा सा परा शक्ति: सगुणस्त्वं तथाऽप्यहम् । सास्विकी किल या शक्तिस्तां शक्ति विद्धि मामिकाम् ॥३॥ त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः । स कर्ता सर्वलोकस्य रजोगुणसमन्वितः ॥४ स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् । रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम् ।५॥ सगुणान्पञ्चभूताँश्र समुत्पाद्य महामतिः। इन्द्रियाणींद्रियेशांश्र मनःपूर्वान्समंततः ॥६॥ करिष्यति ततः सर्ग तेन कर्ता स उच्यते। विश्वस्यास्य महाभाग त्वं वै पालयिता तथा॥७॥ तद्भ्रुवोर्मध्यदेशाच्च कोधाद्रुद्रो भविष्यति। तपः कृत्वा महाघोरं प्राप्य शक्ति तु तामसीम् ८।। कल्पांते सोऽपि संहर्ता भविष्यति महामते। तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम् । स्थास्येऽहं त्वत्समीपस्था सदाऽहं मधुसूदन । हृदये ते कृतावासा भवामि सततं किल ॥१०॥ विष्णुरुवाच श्लोकस्यार्धं मया पूर्व श्रुतं देवि स्फुटाक्षरम्। तत्केनोक्त्तं वरारोहे रहस्यं परमं शिवम्। १ १। तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने। निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः ॥१२ व्यास उवाच विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना । उवाच परया प्रीत्या वचनं चारुहासिनी ।१३॥ महालक्ष्मीरुवाच शृणु शौरे वचो मेडद्य सगुणाऽहं चतुर्भुजा। मां जानासि न जानासि निर्गुणां सगुणालयाम्॥१४॥ त्वं जानीहि महाभाग तया तत्प्रकटीकृतम्। पुण्यं भागवतं विद्धि वेदसारं शुभावहम् ॥१५॥ कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन। यया प्रोंक्तं परं गुह्यं हिताय तव सुव्रत ॥१६॥ रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन। सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम् १७॥ नातः परं वेदितव्यं वर्तते भुवनत्रये। प्रियोसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः १८।। व्यास उवाच इति श्रुत्वा वचो देव्या महालक्ष्म्याश्रतुर्भुजः । दधार हृदये नित्यं मत्त्वा मंत्रमनुत्तमम् ॥१९॥
Page 59
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १६ ५९ कालेन कियता तन्र तन्नाभिकमलोद्दवः। ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः ॥२०॥ तव: कृत्वा महायुद्धं हत्त्वा तो मधुकैटभी। जजाप भगवान्विष्णुः श्लोकार्घ विशदाक्षरम् २१॥. जपन्तं वासुदेवं च दृष्टा देवः प्रजापतिः । प्रपच्छ परमप्रीतः कञ्जजः कमलापतिम् ॥२२॥ कि त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोस्ति वै । यत्स्मृत्वा पुंडरीकाक्ष प्रीतोसि जगदीश्वर ॥२३॥ हरिरुवाच मयय त्वयि च या शक्ति: क्रियाकारणलक्षणा। विचारय महाभाग या सा भगवती शिवा ॥२४॥ यस्याधारे जगत्सवं तिष्ठत्यत्र महा्णवे। साकारा या महाशक्तिरमेया च सनातनी ॥२५॥ मया विसृज्यते विश्वं जगदेतच्चराचरम्। सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥२६॥ सा विद्या परमा मुक्तेहेतुभूता सनातनी। संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥२७।। अहं च त्वखिलं विश्वं तस्याश्चिच्छक्तिसंभवम्। विद्धि ब्रह्मन्नसंदेहः कर्तव्यः सर्वदाऽनघ ॥२८॥ श्लोकार्धेन तया प्रोक्तं तरद्व भागवतं किल। विस्तरो भविता तस्य द्वापरादौ युगे तथा ॥२९॥ व्यास उवाच ब्रह्मणा संगृहीतं च विष्णोस्तु नाभिपङ्गजे। नारदाय च तेनोक्तं पुत्रायामितबुद्धये ॥३०॥ नारदेन तथा मह्यं दत्तं हि मुनिना पुरा। मया कृलमिदं पूर्णं द्वादशस्कन्धविस्तरम् ॥३१॥ तत्पठस्व महाभाग पुराणं ब्रह्मसंमितम्। पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम् ॥३२॥ तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् । धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम् ॥३३॥। वृत्रासुरवधोपेतं नानाख्यानकथायुतम् । ब्रह्मविद्यानिधानं तु संसारार्णवतारकम् ॥३४॥ गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः । पुण्यं भागवतं नाम पुराणं पुरुषर्षभ ॥३५॥ अष्टादशसहस्त्राणां श्रोकानां कुरु संग्रहम्। अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम् ॥३६॥ सुखदं शांतिदं धन्यं दीर्घायुष्यकरं शिवम्। शृण्वतां पठतां चेदं पुत्र पौत्रविवर्धनम् ॥३७॥ शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः । पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम् ॥३८॥ सूत उवाच इत्युक्तं तेन पुत्राय मह्यं च कथितं किल। मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम् ॥३९॥ शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे । न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः ॥४०॥ एकांतसेवी विकल: स शन्य इव लक्ष्यते। नात्यन्तभोजनासक्तो नोपवासरतस्तथा॥४१॥ चिंताविष्टं शुकं दृष्टा व्यासः प्राह सुतं प्रति। किं पुत्र चिंत्यते नित्यं कस्माद्वयग्रोऽसि मानद ४२॥ आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः । का चिंता वर्तते पुत्र मयि ताते तु तिष्ठति ।४३।। सुखं भुंक्ष्व यथाकामं मुञ्च शोकं मनोगतम् । ज्ञानं चिंतय शास्त्रोक्तं विज्ञाने च मति कुरु॥४४॥
Page 60
६० श्रीम देवीभागवते महापुराणे प्रथमस्कन्धे अध्यायः १७ न चेन्मनसि ते शांतिवचसा मम सुव्रत। गच्छ त्वं मिथिलां पुत्र पालितां जनकेन है।४५ स ते मोहं महाभाग नाशयिष्यति भूपतिः । जनको नाम धर्मात्मा विदेहः सत्यसागरः ॥४६ तं गत्वा नृप्ति पुत्र सन्देहं स्वं निवर्तय। वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम् ।४७। जीवन्मुक्त: स राज्षिर्ब्रह्मज्ञानमतिः शुचिः । तथ्यवक्तातिशांतश्र योगी योगप्रियः सदा ॥४८॥
सूत उवाच तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः । प्रत्युवाच महातेजाः शुकश्रारणिसंभवः ॥४९॥ दंभोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना/ जीवन्मुक्तो विदेहश्र राज्यं शास्ति मुदान्वितः ५०॥ वंध्यापुत्र इवाभाति राजाऽसौ जनकः पितः । कुर्वन् राज्यं विदेहः कि संदेहोऽयं ममाद्दुतः ॥५१॥ द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम्। कथं तिष्ठति संसारे पद्मपत्रमिवांभसि ॥५२॥ सन्देहोडयं महांस्तात विदेहे परिवर्तते। मोक्षः किं वदता श्रेष्ठ सौगतानामिवयपरः ॥५३॥ कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम्। व्यवहारः कथं त्याज्य इंद्रियाणां महामते ॥५४॥ माता पुत्रस्तथा भार्या भगिनी कुलटा तथा। भेदाभेदः कथं न स्याद्यदेतन्मुक्तता कथम् ॥५५॥ कटु क्षारं तथा तीक्षणं कषायं मिष्टमेव च। रसना यदि जानाति भुंक्त्ते भोगाननुत्तमान् ।५६॥ शीतोष्णसुखदं खादिपरिज्ञानं यदा भवेत्। मुक्त्तता कीदृशी तात संदेहोऽयं ममाद्ुतः ।५७॥ शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा। व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः ।५८॥ चौरं वा तापसं वापि समामं मन्यते कथम्। असमा यदि बुद्धिः स्यान्मुक्तता तह कीदृशी ५९॥ दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्र भूपतिः । शंकेयं महती तात गृहे मुक्तः कथं नृपः ॥६०॥ दिदृक्षा महती जाता श्रुत्वा तं भूपत तथा। संदेहविनिवृत्त्यर्थ गच्छामि मिथिलां प्रति ॥६१॥ इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धे षोडशोऽध्यायः ॥१६॥ अथ सप्तदशोऽध्यायः
सूत उवाच इत्युक्त्वा पितरं पुत्रः पादयोः पतितः शुकः । बद्धाअ्लिरुवाचेदं गन्तुकामो महामनाः ॥१॥ आपृच्छे त्वां महाभाग ग्राह्यं ते वचनं मया। विदेहान्द्रष्टुमिच्छामि पालिताञनकेन तु॥२॥ बिना दंडं कथं राज्यं करोति जनकः किल। धर्मे न वर्तते लोको दंडश्चेन्न भवेद्यदि ॥३॥ धर्मस्य कारणं दण्डो मन्वादिप्रहितः सद्ा। स कथं वर्तते तात संशयोऽयं महान्मम ॥४॥ मम माता त्वियं वंध्या तद्रद्गाति विचेष्टितम्। पृच्छामि त्वां महाभाग गच्छामि च परंतप ।।५।।
Page 61
श्रीमद्वेवोभागवते महापुराणे प्रथमस्कन्धे अध्याय: १७ ६१
सूत उवाच तं दृष्टा गंतुकामं च शुकं सत्यवतीसुतः । आलिंग्योवाच पुत्रं तं ज्ञानिनं निःस्पृहं दृढम् ॥६॥ व्यास उवाच स्वस्त्यस्तु शुक दोर्घायुर्भव पुत्र महामते। सत्यां वाचं प्रदत्त्वा मे गच्छ तात यथासुखम् ७॥। आगंतव्यं पुनर्गत्वा ममाश्रममनुत्तमम् । न कुत्रापि च गंतव्यं त्वया पुत्र कथंचन ।।८।। सुखं जीवामि पुत्राहं दृष्टा ते मुखपंकजम् । अपश्यन्दुःखमाप्नोमि प्राणस्त्वमसि मे सुत ।९॥ दृष्टा त्वं जनकं पुत्र संदेहं विनिवर्त्य च । अत्रागत्य सुखं तिष्ठ वेदाध्ययनतत्परः ॥१०॥ सूत उवाच इत्युक्त: सोऽभिवाद्यार्य कृत्वा चंव प्रदक्षिणाम्। चलितस्तरसाऽतीव धनुर्मुक्तः शरो यथा ।११॥ संपश्यन्विविधान्देशॉल्लोकांश्र वित्तधर्मिणः । वनानि पादपांश्रैव क्षेत्राणि फलितानि च ॥१२॥ तापसांस्तप्यमानांश्र याजकान्दीक्षयान्वितान् । योगाभ्यासरतान् योगिवानप्रस्थान्वनौकसः ॥१३॥ शंवान्पाशुपतांश्रैव सौराञ्छाक्तांश्र वैष्णवान् । वीक्ष्य नानाविधान्धर्माञ्ञगामातिस्मयन्मुनिः १४॥। वर्षद्वयेन मेरुं च समुल्लंध्य महामतिः । हिमाचलं च वर्षेण जगाम मिथिलां प्रति ॥१५॥ प्रविष्टो मिथिलां मध्ये पश्यन्सर्वद्धिमुत्तमाम् । प्रजाश्र सुखिताः सर्वाः सदाचाराः सुसंस्थिताः ॥ क्षत्रा निवारितस्तत्र कस्त्वमत्र समागतः। कि ते कार्य वदस्वेति पृष्टस्तेन न चाब्रवीत् ॥१७। निःसृत्य नगरद्वारात्स्थितः स्थाशुरिवाचलः । विस्मितोऽतिहसंस्तस्थौ वचो नोवाच किंचन १८।। प्रताहार उवाच ब्रूहि मूकोऽसि किं ब्रह्मन्किमर्थ त्वमिहागतः । चलनं च बिना कार्य न भवेदिति मे मतिः १९॥ राजाज्ञया प्रवेष्टव्यं नगरेऽस्मिन्सदा द्विज । अज्ञातकुलशोलस्य प्रवेशो नात्र सवंथा ॥२०॥ तेजस्वी भासि नो नूनं ब्राह्मणो वेदवित्तमः । कुलं कार्य च मे ब्रूहि यथेष्टं गच्छ मानद ।२१॥ शुक उवाच यदर्थमागतोऽस्म्यत्र तत्प्राप्तं वचनात्तव। विदेहनगरं द्रष्टुं प्रवेशो यत्र दुर्लभः ॥२२॥ मोहोऽयं मम दर्बुद्धेः समुल्लंध्य गिरिद्रयम् । राजानं द्रष्टुकामोऽहं पर्यटन्समुपागतः ।२३॥ वंचितोऽहं स्वयं पित्रा दूषणं कस्य दीयते। भ्रामितोऽहं महाभाग कर्मणा वा महीतले ॥२४॥ धनाशा पुरुषस्येह परिभ्रमणकारणम् । सा मे नास्ति तथाप्यत्र संप्राप्तोस्मि भ्रमात्किल ॥ निराशस्य मुखं नित्यं यदि मोहे न मज्जति। निराश्ोऽहं महाभाग मग्नोऽस्मिन्मोहसागरे ॥२६॥ क्व मेममिथिला क्वेयं पन्दयां च समृपारत । परिश्रमफलं कि मे वंचितो विधिना किल ।२७।
Page 62
६२ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १७ प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवाऽशुभम् । उद्यमस्तद्वशे नित्यं कारयत्येव सर्वथा ॥२८। न तीर्थ न च वेदोऽत्र यदर्थमिह मे श्रमः । अप्रवेशः पुरे जातो विदेहो नाम भूपतिः ॥२९॥ इत्युक्त्वा विररामाशु मौनीभूत इव स्थितः । ज्ञातो हि प्रतिहारेण ज्ञानी कश्चिद्द्विजोत्तम: ॥३०॥ सामपूर्वमुवाचासी तं क्षत्ता संस्थितं मुनिम्। गच्छ भो यत्र ते कार्यं यथेष्टं द्विजसत्तम ॥३१। अपराधो मम ब्रह्मन्यन्निवारितवानहम् । तत्क्षंतव्यं महाभाग विमुक्तानां क्षमाबलम् ॥३२॥
'कि तेऽत्र दूषणं क्षत्तः परतन्त्रोऽसि सर्वथा। प्रभुकार्यं प्रकर्तव्यं सेवकेन यथोचितम् ॥३३॥ शुक उवाच
न भूपदूषणं चात्र यदहं रक्षितस्त्वया। चोरशत्रुपरिज्ञानं कर्तव्यं सर्वथा बुघैः ॥३४॥ ममव सर्वथा दोषो यदहं समुपागतः। गमनं परगेहे यल्लघुतायाश्र कारणम् ॥३५॥ प्रताहार उवाच कि सुखं द्विज किं दुःखं किं कार्य शुभमिच्छता। कः शत्रुहितकर्ता को ब्रूहिं सर्वं ममाद्य वै ॥३६॥
द्वैविध्यं सर्वलोकेषु सर्वत्र द्विविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्विधा पुनः ॥३७॥ शुक उवाच
विरागी त्रिविध: कामं ज्ञातोऽज्ञातश्र मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्र चतुरस्तथा ।३८।। चातुर्य द्विविधं प्रोक्तं शास्त्रजं मतिजं तथा। मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्वथा ॥३९॥ प्रताहार उवाच यदुक्तं भवता विद्वन्नार्थज्ञोऽहं द्विजोत्तम। तत्सर्वं विस्तरेणाद्य यथार्थं वद सत्तम ॥४०।। शुक उवाच रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं च विविधं पुनः।।४१।। धनं प्राप्य सुतान्दारान्मानं च विजयं तथा। तदप्राप्य महद्दुःखं भवत्येव क्षणे क्षणे ।।४२।। कार्य तस्य सुखोपायः कर्तव्यं सुखसाधनम् । तस्यारातिः स विज्ञेयः सुखविघ्नं करोति यः ४३॥ सुखोत्पादयिता मित्रं रागयुक्तस्य सवथा। चतुरो नैव मुह्येत मूर्खः सर्वत्र मुह्यति ॥४४।। विरक्तस्यात्मरक्तस्य सुखमेकांतसेवनम्। आत्मानुचितनं चैव वेदांतस्य च चिंतनम् ।४५।। दुःखं तदेतत्सर्वं हि संसारकथनादिकम् । शत्रवो बहवस्तस्य विज्ञस्य शुभमिच्छतः ॥४६॥ काम: क्रोधः प्रमादश्र शत्रवो विविधा: स्मृताः । बन्धुः संतोष एवास्य नान्योऽस्ति भुवनत्रयं ।।४७॥ सूत उवाच तच्छ्रत्वा वचनं तस्य मत्त्वा तं ज्ञानिनं द्विजम्। क्षत्ता प्रवेशयामास कक्षां चातिमनोरमाम् ।४८॥ नगरं वीक्षमाणः संस्त्रविध्यजनसंकुलम्। नानाविपणिद्रव्याढयं क्रयविक्रयकारकम् ॥४९॥
Page 63
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १८ ६३
राग द्वेषयुतं कामलोभमोहाकुलं तथा । विवदत्सुजनाकीणं वसुपूणं महत्तरम् ॥५०॥ पशयन्स त्रिविधॉल्लोकान्प्रासरद्राजमंदिरम् । प्राप्तः परमतेजस्वी द्वितीय इव भास्करः ॥५१॥ निवारितश्र तत्रव प्रतीहारेण काधवत्। तत्रव च स्थितो द्वारि मोक्षमेवानुचिंतयन् ॥५२॥ छायायामातपे चंव समदर्शी महातपाः। ध्यानं कृत्वा तर्थकांते स्थितः स्थाणुरिवाचलः५३॥। तं मुहूर्तादु पागत्य राज्ञोऽमात्यः कृतांजलिः । प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥५४॥ तत्र दिव्यं मनोरम्यं पुष्पितं दिव्यपादपम्। तद्वनं दर्शयित्वा तु कृत्वा चातिथिसत्क्रियाम् ५५॥ वारमुख्यः स्त्रियस्तत्र राजसेवापरायणाः । गीतवादित्रकुशलाः कामशास्त्रविशारदाः ॥५६॥ ता आदिश्य च सेवार्थं शुकस्य मंत्रिसत्तमः । निर्गतः सदनात्तस्माद्वयासपुत्रः स्थितस्तदा ॥५७॥ पूजितः परया भक्तया ताभि: स्त्रीभिर्यथाविधि। देशकालोपपन्नेन नानान्नेनातितोषितः ॥५८॥ ततोऽन्तःपुरवासिन्यस्तस्यांतःपुरकाननम् । रम्यं संदर्शयामासुरंगनाः काममोहिताः ।५९॥ स युवा रूपवान्कांतो मृदुभाषी मनोरमः । दृष्ठा ता मुमुहुः सर्वास्तं च काममिवापरम् ॥६०॥ जितेंद्रियं भुनि मत्त्वा सर्वाः पर्यचरंस्तदा। आरणेयस्तु शुद्धात्मा मातृभावमकल्पयत् ॥६१।। आत्मारामो जितक्रोधो न हृष्यति न तप्यति । पश्यंस्तासां विकारांश्र स्वस्थ एव स तस्थिवान् ॥ तस्म शय्यां सुरम्यां च ददुर्नार्यः सुसंस्कृताम् । परार्ध्यास्तरणोपेतां नानोपस्करसंवृताम् ॥६३॥ स कृत्वा पादशौचं च कुशपाणिरतंद्रितः । उपास्य पश्चिमां संध्यां ध्यानमेवान्वपद्यत ॥६४॥ याममेकं स्थितो ध्याने सुष्वाप तदनंतरम्। सुप्त्वा यामद्वयं तत्र चोदतिष्ठत्ततः शुकः ॥६५॥ पाश्रात्यं यामिनीयामं ध्यानमेवान्वपद्यत । स्नात्वा प्रातःक्रियाः कृत्वा पुनरास्ते समाहितः ६६।। इति श्रीदेवीभागवते महापुराणे प्रथमस्कन्धे सप्तदशोऽध्यायः ॥१७॥ अथ अष्टादशोऽध्यायः सूत उवाच श्रुत्वा तमागतं राजा मंत्रिभि: सहितः शुचिः । पुरः पुरोहितं कृत्वा गुरुपुत्रं समभ्यगात् ॥१॥ कृत्वाऽहणां नृपः सम्यग्दत्तासनमनुत्तमम् । पप्रच्छ कुशलं गां च विनिवेद्य पयस्विनीम् ।।२॥ स च तां नृपपूजा वै प्रत्यगृह्नाद्यथाविधि। पप्रच्छ कुशलं राज्ञे स्वं निवेद्य निरामयम् ॥३॥ कृत्वा कुशलसंप्रश्नमुपविष्टं सुखासने। शुकं व्याससुतं शांतं पर्यपृच्छत पार्थिवः ॥४।। कि निमित्तं महाभाग निःस्पृहस्य च मां प्रति। जातं ह्यागमनं ब्रहि कार्यं तन्मुनिसत्तम ।।५॥। शुक उवाच व्यासेनोक्तो महाराज कुरु दारपरिग्रहम् । सर्वेषामाश्रमाणां च गृहस्थाश्रम उत्तमः ॥६॥
Page 64
६४ श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १८ मया नांगीकृतं वाक्यं मत्वा बंधं गुरोरपि। न बंधोऽस्तीति तेनोक्तो नाहं तत्कृतवान्पुनः ।।७।। इति संदिग्धमनसं मत्वा स मुनिसत्तमः । उवाच वचन तथ्यं मिथिलां गच्छ माशुचः ॥८॥ याज्योऽस्ति जनकस्तत्र जीवन्मुक्तो नराधिपः । विदेहो लोकविदितः पाति राज्यमकंटकम् ॥९॥ कुर्वन् राज्यं तथा राजा मायापाशैर्न बध्यते। त्वं बिभेषि कथं पुत्र वनवृत्तिः परंतप ॥१०॥ पश्य तं नृपशार्दूलं त्यज मोहं मनोगतम् । कुरु दारान्महाभाग पृच्छ वा भूपति च तम् ॥११॥ संदेहं ते मनोजातं कर्थयष्यति पार्थिवः । तच्छ्रुत्वा वचनं तस्य मामेहि तरसा सुत ॥१२॥ संप्रोक्तोऽहं महाराज तत्पुरे च तदाज्ञया। मोक्षकामोऽस्मि राजेंद्र ब्रूहि कृत्यं ममानघ ।१३।। तपस्तीर्थव्रतेज्यांश्र स्त्राध्यायस्तीर्थसेवनम्। ज्ञानं वा वद राजेंद्र मोक्षं प्रति च कारणम् ॥१४॥ जनक उवाच शृणु विप्रेण कर्तव्यं मोक्षमार्गाशरितेन यत्। उपनीतो वसेदादौ वेदाभ्यासाय वै गुरौ॥१५॥ अधीत्य वेदवेदांतान्दत्त्वा च गुरुदक्षिणाम् । समावृत्तस्तु गार्हस्थ्ये सदारो निवसेन्मुनिः ॥१६।। नान्यवृत्तिस्तु संतोषी निराशीर्गतकल्मषः । अग्निहोत्रादिकर्माणि कुर्वाणः सत्यवाक्शुचिः १७।। पुत्रं पौत्रं समासाद्य वानप्रस्थाश्रमे वसेत् । तपसा षड्रिपूित्वा भार्यां पुत्रे निवेश्य च ।१८।। सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित्। वसेत्तर्याश्रमे श्रांतः शुद्धे वैराग्यसम्भवे॥१९॥ विरक्तस्याधिका रोस्ति संन्यासे नान्यथा क्वचित्। वेदवाक्यमिदं तथ्यं नान्यथेति मतिर्मम ॥२०॥ शुकाष्टचत्वारिंशद्वै संस्कारा वेदबोधिताः । चत्वारिंशद्गृहस्थस्य प्रोक्तास्तत्र महात्मभिः २१॥ अष्टौ च मुक्तिकामस्य' प्रोक्ताः शमदमादयः ! आश्रमादाश्रमं गच्छेदिति शिष्टानुशासनम् ॥२२॥ श्रीशुक उवाच उत्पन्ने हृदि वैराग्ये ज्ञानविज्ञानसंभवे।,अवश्यमेव वस्तव्यमाश्रमेषु वनेषु ना ॥२३॥ जनक उवाच इन्द्रियाणि बलिष्ठानि न नियुक्तानि मानद । अपक्वस्य प्रकुर्वति विकारांस्ताननेकशः ॥२४॥ भोजनेच्छां सुखेच्छां च शय्येच्छामात्मजस्य च। यती भूत्वा कथं कुर्याद्विकारे समुपस्थिते ॥२५॥ दुर्जरं वासनाजालं न शांतिमुव्याति वै। अतस्तच्छमनार्थाय क्रमेण च परित्यजेत् ॥२६॥ ऊ्ध्वं सुप्तः पतत्येव न शयानः पतत्यधः । परिव्रज्य परिभ्रष्टोन मार्ग लभते पुनः ॥२७॥ यथा पिपीलिका मुलाच्छाखायामधिरोहति। शनैः शनैः फलं याति सुखेन पदगामिनी ॥२८।। विहंगस्तरसायाति विघ्नशंकामुदस्य वै। भ्रांतो भवति विश्रम्य सुखं याति पिपीलिका ॥२९॥ मनस्तु प्रबलं काममजेयमकृतात्मभिः । अतः क्रमेण जेतव्यमाश्रमानुक्रमेण च॥३०॥ गहस्थाश्रमसंस्थोऽपि शांतः सुमतिरात्मवान्। न च हृष्येन्न च तपेल्लाभालाभे समो भवेत् ।३१।।
Page 65
५ श्रीमद्देबीभागवते महापुराणे प्रथमस्कन्पे अध्याय: १८ बिहितं कर्म कुर्वाणस्त्यजंश्रितान्वितं च यत्। आत्मलाभेन सन्तुष्टो मुच्यते नात्र संशयः ॥३२।। पश्याहं राज्यसंस्थोऽपि जीवन्मुक्तो यथानव। विचरामि यथाकामं न मे किचितप्रजायते ।।३३।। भुंजानो भविष्यामि यथाऽहं त्वं तथा मुक्तो भवानघ ।।३४।। कथ्यते खलु यद्वश्यमवश्यं बध्यते कुतः। दृश्यानि पंचभूतानि गुणास्तेषां तथा पुनः ॥३५॥ आत्मा गम्योऽनुमानेन प्रत्यक्षो न कदाचन । स कथं बध्यते ब्रह्मन्निर्बिकारो निरञ्जनः ॥३६॥ मनस्तु सुखदुःखानां महतां कारणं द्विज। जाते तु निर्मले ह्यस्मिन्सवं भवति निर्मलम् ॥३७॥ भ्रमन्सर्वेषु तीर्थेषु स्नात्वा स्नात्वा पुनः पुनः । निर्मलं न मनो यावत्तावत्सवं निरर्थकम् ॥३८॥ न देहो न च जीवात्मा नेट्रियाणि परंतप। मन एव मनुष्याणां कारणं बंधमोक्षयोः ॥३९॥ शुद्धो मुक्त: सदैवात्मा न वै बध्येत कहिंचित् । बंधमौक्षौ मनःसंस्थौ तस्मिञ्छांते प्रशाम्यति ४०॥ शत्रुमित्रमुदासीनो भेदाः सर्वे मनोगताः। एकात्मत्वे कथं भेदः संभवेद्द्वंतदर्शनात्।४१। जीवो ब्रह्म सदैवाहं नात्र कार्या विचारणा। भेदबुद्धिस्तु संसारे वर्तमाना प्रवर्तते ॥४२॥ अविद्येयं महाभाग विद्या चैतन्निवर्तनम् । विद्याविद्ये च विज्ञेये सर्वदैव विचक्षणैः॥४३॥ विनाऽडतपं हि छायाया ज्ञायते च कथं सुखम्। अविद्यया विना तद्वत्कथं विद्यां च वेत्ति वै ॥४४।। गुणा गुणेषु वर्तते भूतानि च तर्थव च। इन्द्रियाणींद्रियार्थेपु को दोषस्तंत्र चात्मनः ॥४५॥ मर्यादा सर्वरक्षार्थ कृता वेदेषु सर्वशः । अन्यथा धर्मनाशः स्यात्लोगतानामिवानघ ॥४६।। धर्मनाशे विनष्टः स्यावर्णाचारोऽतिवर्तितः । अतो वेदप्रदिष्टेन मार्गेण गच्छता शुभम् ॥४७॥
श्रीशुक उवाच
संदेहो वर्तते राजन्न निवर्तति मे वर्वचित्। भवता कथितं यत्तच्छृष्वतो मे नराधिप ॥४८॥ वेदधर्मेषु हिंसा स्यादधर्मबहुला हि सा। कथं मुक्तिप्रदो धर्मो वेदोक्तो बत भूपते ॥४९॥ प्रत्यक्षेण त्वनाचारः सोमपानं नराघिप। पशूनां हिंसनं तहद्वूक्षणं चामिषस्य च ॥५०।
Page 66
६६ श्रीमहेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: १९ सोत्रामणौ तथा प्रोक्तः प्रत्यक्षेण सुराग्रहः । द्यूतक्रीडा तथा प्रोक्ता वतानि विविधानि च ।५१॥ श्रूयतेस्म पुरा ह्यासीच्छ्शबिंदुर्नृपोत्तमः । यज्वा धर्मपरो नित्यं वदान्यः सत्यसंगरः ॥५२। गोप्ता च धर्मसेतूनां शास्ता चोत्पथगामिनाम् । यज्ञाश्र विहितास्तेन बहवो भूरिदक्षिणाः ॥५३। चर्मणां पर्वतो जातो विध्याचलसमः पुनः । मेघांबुप्लावनाज्जाता नदी चर्मण्वती शुभा ।५४॥ सोऽपि राजा दिवं यातः कीतिरस्याचला भुवि। एवं धर्मेषु वेदेषु न मे बुद्धिः प्रवर्तते ॥५५॥ खोसंगेन सदा भोगे सुखमाप्नोति मानवः । अलाभे दुःखमत्यंतं जीवन्मुक्तः कथं भवेत् ।।५६।। जनक उवाच हिंसा यज्ञेषु प्रत्यक्षा साडहिंसा परिकीतिता । उपाधियोगतो हिंसा नान्यथेति विनिर्णयः ॥५७॥ यथा चेंधनसंयोगादग्नो धुमः प्रवर्तते । तद्वियोगात्तथा तस्मिन्निर्धूमत्वं बिभाति वै ॥५८॥ अहिंसां च तथा विद्धि वेदोक्तां मुनिसत्तम। रागिणां सापि हिंसैव निःस्पृहाणां न सा मता ॥५९॥ अरागेण च यत्कर्म तथाऽहंकारवजितम् । अकृतं वेद विद्वांसः प्रवदंति मनीषिणः ॥६०॥ गृहस्थानां तु हिंसैव या यज्ञे द्विजसत्तम। अरागेण च यत्कर्म तथाऽहंकारवर्जितम् ॥६१॥ साहिमैव महाभाग मुमुक्षूणां जितात्मनाम् ॥६D। इति श्रीदेवीभागवनं महापुराणे प्रथमस्कन्धेष्टादशोऽध्यायः॥१८॥ अथ एकोनविंशोऽध्यायः श्रीशुक टवाच संदेहोऽयं महाराज वर्तते हृदये मम। मायामध्ये वर्तमानः स कथं निस्पृहो भवेत् ॥१॥ शास्त्रज्ञानं च संप्राप्य नित्यानित्यविचारणम् । त्यजने न मनो मोहं स कथं मुच्यने नरः ॥२॥ अंतर्गतं तमश्छेत्तु शास्त्राद्वोधा हि न क्षमः । यथा न नश्यति तमः कृतया दीपवार्नया ॥३॥ अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुरधः । म कथं गजयार्दूल गृहस्थस्य भवेत्तथा ॥४॥ चित्तंषणा न ते शांता तथा राज्यसुखंषणा। जयंषणा च संग्रामे जीवन्मुक्तः कथं भवेः ॥५॥ चोरेषु चौरबुद्धिस्ते साधुबुद्धिस्तु तापसे। स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप ।।६।। कटुतीक्ष्णकषायाम्लरसान्वेत्सि शुभाशुभान्। शुभेषु रमते चित्तं नाशुभेपु तथा नृप।।७।। जाग्रत्स्वप्नसुपुप्िश्र तव राजन्भर्वाति ह। अवस्थास्तु यथाकालं तुरीया तु कथं नृप ।।८।।
Page 67
श्रीमदेवीमागवते महापुराणे प्रथमस्कन्धे अध्याय: १९ ६७ पदात्यश्वरथेभाश्र सर्वे वै वशगा मम। स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे ॥९॥ मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा ! मालायां च तथा सर्पे समदृक्क्व नृपोत्तम ॥१० विमुक्तस्तु भवेद्राजन्समलोष्टाश्मकांचनः एकात्मबुद्धिः सरवंत्र हितकृत्सर्वजंतुषु ॥११॥ न मेऽद रमते चित्तं गृहदारादिषु क्वचित् । एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः ॥१२॥ निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः । मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः ॥१३॥ किं मे गृहेण वित्तेन भार्यया च सुरूपया। विरागमनसः कामं गुणातीतस्य पार्थिव ॥१४॥ विविधाकारं नानारागसमाकुलम् । दंभोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे ॥१५॥ चिंत्यसे
कदाचिच्छत्रजा चिंता धनजा च कदाचन। कदाचित्सैन्यजा चिंता निश्चिंतोऽसि कदा नृप ॥१६।। वैखानसा ये मुनयो मिताहारा जितव्रताः । तेऽपि मुह्यंति संसारे जानंतोपि ह्यसत्यताम् ॥१७॥ तव वंशसमुत्थानां विदेहा इति भूपते। कुटिलं नाम जानीहि नान्यथेति कदाचन ॥१८।। विद्याधरो यथा मूर्ो जन्मांधस्तु दिवाकरः । लक्ष्मीधरो दरिद्रश्व नाम तेषां निरर्थकम् ॥१९॥ तव वंशोद्द्वा ये ये श्रुताः पूर्वे मया नृपाः । विदेहा इति विख्याता नामतः कर्मतो न ते ॥२०॥ निमिनामाऽभवद्राजा पूर्व तव कुले नृप। यज्ञार्थ स तु राजषिर्वसिष्ठं स्वगुरुं मुनिम् ॥।२१। निमंत्रयामास तदा तमुवाचं नृपं मुनिः। निमंत्रितोस्मि यज्ञार्थं देवेन्द्रेणाधुना किल ॥२२॥ कृत्वा तस्य मखं पूर्ण करिष्यामि तवापि वै। तावत्कुरुष्व राजेंद्र संभारं तु शनैः शनैः ॥२३॥ इत्युक्त्वा निर्ययो सोऽथ महेंद्रयजने मुनिः। निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम् ॥२४॥ नच्छ्रुत्वा कुपितोऽत्यर्थ वसिष्ठो नृपति पुनः । शशाप च पतत्वद्य देहस्ते गुरुलोपक ॥२५॥ राजापि तं शशापाथ तवापि च पतत्वयम् । अन्योन्यशापात्पतितौ तावेव च मया श्रुतम् ॥२६॥ विदेहेन च राजेंद्र कथं शप्तो गुरु: स्वयम् । दिनोद इव मे चित्ते विभाति नपसत्तम ।२७॥ जनक उवाच सत्यमक्तं त्वया नाव मिथ्या किचिदिदं मतम्। तथापि शृणु विप्रेन्द्र गुरुर्मम सुपूजितः ॥२८।। पितुः संगं परित्यज्य त्वं वनं गन्नुमिच्छसि। मृगैः सह सुसंबंधो भविता ते न संशयः ॥२९॥ महाभूतानि सर्वत्र निःसंगः क्व भविष्यसि । आहारार्थ सदा चिता निश्चिंतः स्याः कथं मुने ॥३०॥ दंडाजिनकृता चिंता यथा तव वनेऽपि च। तथैव राज्यचिंता मे चिन्तयानस्य वा न वा ३१।।
Page 68
६८ श्रीमदेवीमागवते महापुराणे प्रथमस्कन्धे अध्बाब: १९ बिकल्पोपहतस्त्वं वै दूरदेशमुपागतः । न मे विकल्पसंदेहो निर्विकल्पोस्मि सर्बथा ॥३२॥ सुसं स्वपिमि विप्राहं सुखं भुंजामि सर्वदा। न बढ्धोस्मीति बुद्धयाहं सर्वदैव सुखी मुने ॥३३॥ त्वं तु दुःखी सदैवासि बद्धोऽहमिति शंकया। इति शंकां परित्यज्य सुखी भव समाहितः ।।३४।। देहोऽयं मम बंधोऽस्ति न ममेति च मुक्तता। तथा धनं गृहं राज्यं न ममेति च निश्रयः ॥३५॥ सूत उवाच
तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाऽभवत् आपृच्छय तं जगामाशु व्यासस्याश्रममुत्तमम् ॥३६॥ आगच्छंतं सुतं दृष्टा व्यासोपि सुनमाप्तवान् । आलिंग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः ॥३७।। स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः । वेदाध्ययनसंपन्नः सर्बशास्त्रविशारदः ॥३८ जनकस्य दशां दृष्टा राज्यस्थस्य महात्मनः । स निवृत्ति परां प्राप्य पितुराश्रमसंस्थितः ॥३९॥ पितृणां सुभगा कन्या पीवरी नाम सुन्दरी। शुकश्रकार पत्नीं तां योगमागस्थितोपि हि ॥४०॥ स तस्यां जनयामास पुत्रांध्तुर एव हि। कृष्णं गौरप्रभं चव भूरि देवश्रुतं तथा॥४१॥ कन्यां कीर्ति समुत्पाद्य व्यासपुत्रः प्रतापवान् । ददौ विभ्राजपुत्राय त्वणुहाय महात्मने ॥८२॥ अणुहस्य सुतः श्रीमान्त्रह्मदत्तः प्रतापवान् ! ब्रह्मज्नः पृथिवीपालः शुककन्यासमुनद्वः ॥४३॥ कालेन कियता तत्र नारदस्योपदेशतः। जानं परमकं प्राप्य योगमार्गमनुत्तमम् ॥४४॥ पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम्। मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम् ।४५॥ नारदस्य प्रमादेन ज्ञातं सदो विमुक्तिदम् । कैलासशिखरे रम्ये त्यक्त्वा संगं पितुः शुकः॥४६॥ ध्यानमास्थाय विपुलं स्थितः संगपराङ्मुखः । उत्पपात गिरः शृंगात्सिद्धिं च परमां गतः ॥४७॥ आकाशगो महातेजा विरराज यथा रविः। गिरेः शृङ्गंदविधा जातं शुकस्योत्पतने तदा ।४८।। उत्पाता बहवो जाताः शुकश्राकाशगोऽभवत्। अन्तरिक्षे यथा वायुः स्तूयमान: सुरर्पिभिः॥४९॥। तेजसाऽतिविराजन्वै द्वितीय इव भास्करः ।
व्यासस्तु विरहाक्रांनः क्रंदन्पुत्रेति चासकृत् ।।५0 ।। गिरेः शृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत्। क्रंदमानं तदा दीनं व्यासं मत्वा श्रमाकुलम् ॥५१॥ सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा। तत्राआपि गिरे:शृङ्ग प्रतिशब्द:स्कुटोभवेत्।५२॥ रुदंत तं समालक्ष्य व्यासं शाकसमन्वितम्। पुत्र पुत्रेति भापन्तं विरहेण परिप्लुतम् ॥५३॥
Page 69
श्रीमदेबीमागवते महापुराणे प्रथमस्कन्धे अध्याय: २० ६९ विवस्तन समागत्य पाराशर्यमबोधयत्। व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः ।५४॥ बरनां गतिमापन्नो दुर्लभा चाकृतात्मभिः। तस्य शोको न कर्तव्यस्त्वया शोकं विजानता ।।५५।। कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ। व्यास उवाच न शोको याति देवेश कि करोमि जगत्पते ॥५६॥ अतृप्त लोचने मेऽ्द्य पुत्रदर्शनलालसे! महादेव उवाच छायां द्रक्ष्यसि पुत्रस्य पारश्वस्थां सुमनोहराम् ॥५७॥। वीक्ष्य मुनिशार्दूल शोकं जहि परंतप।
सूत उवाच तदा ददर्श व्यासस्तु छायां पुत्रस्य मुम्रभाम्॥"८। दत्त्वा वरं हरस्तस्मै तनैवांतरवीयत।
अन्तहिते महादेवे व्यास: स्वाश्रममभ्यगात् ।५९।।
शुकस्य विरहेणापि तनः परमदुःखितः ॥६०।।
इति श्रीदेवीभागवते महापुराणे प्रथनस्कन्धे एकानविंशोऽध्यायः ॥ १९ ॥
अथ विंशोऽध्यायः
ऋपय ऊचु: घुकस्तु परमां सिद्धिमाप्तवान्देवसत्तम । किं चकार ततो व्यासस्तन्नो ब्रृहि सविस्तरम् ॥१॥ सूत उवाच शिष्या व्यासस्य येऽप्यासन्वेदाभ्यासप रायगाः । आज्ञामादाय ते सर्वे गताः पूर्वं महीतले ॥२॥ असितो देबलश्चैव वैशंपायन एव च । जैमिनिश्च सुमंतुश्र गताः सर्वे तपोघनाः ॥३॥ दानेतान्बीक्ष्य पुत्रं च लोकांतरितमप्युत। व्यासः शोकसमाक्रांतो गमनायाकरोन्मतिम् ॥४॥ सस्मार मनसा व्यासस्तां निषादसुतां शुभाम्। मातरं जाह्नवीतीरे मुक्त्तां शोकसमन्विताम् ।।५।। समृता सत्यवतीं व्यासस्त्यक्त्वा तं पर्वतोत्तमम् । आजगाम महातेजा जन्मस्थानं स्वकं मुनिः ॥६॥ हीपं प्राप्याथ पप्रच्छ कव गता सा वरानना। निषादास्तं समाचख्युर्दत्ता राज्ञे तु कन्यका ।।७।।
Page 70
श्रीमद्देवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: २० दासराजोऽपि संपूज्य व्यासं प्रीतिपुरःसरम्। स्वागतेनाभिसत्कृत्य प्रोवाच विहितांजलि: ॥।८।। दासराज उवाच अद्य मे सफलं जन्म पावितं नः कुलं मुने। देवानामपि दुर्दशं यज्जातं तव दर्शनम् ॥ ९॥ यदर्थमागतोऽसि त्वं तदब्रूहि द्विजसत्तम । अपि दारा धनं पुत्रास्त्वदायत्तमिदं विभो ॥१०॥ सरस्वत्यास्तटे रम्ये चकाराश्रममंडलम्। व्यासस्तपःसमायुक्तस्तत्रवास समाहितः ।११।। सत्यवत्याः सुतौ जातौ शंतनोरमितद्युतेः । मत्ना तो भ्रातरी व्यासः सुखमाप वने स्थितः १२॥ चित्रांगद: प्रथमजो रूपवाणन्नुतापनः । बभूब नृपतेः पुत्रः सर्वलक्षणसंयुतः ॥१३॥ विचित्रवीर्यनामासौ द्वितीयः समजायत। सोऽपि सर्वगुणोपेतः शंतनोः सुखवर्धनः ॥१४॥ गांगेय: प्रथमस्तस्य महावीरो बलाधिकः । तर्थव तो सुतौ जातो सत्यवत्यां महाबलो ।१५॥। शंतनुस्तान्सुतान् वीक्ष्य सर्वलक्षणसंयुतान् । अमंस्ताजय्यमात्मानं देवादीनां महामनाः ॥१६॥ अथ कालेन कियता शंतनु: कालपर्ययात्। तत्याज देहं धर्मात्मा देही जीर्णमिवांबरम् ॥१७॥ कालघर्मगते राज्ि भीष्मक्चक्रे विधानतः। प्रेतकार्याणि सर्वाणि दानानि विविधानि च ।१८॥ चित्रांगदं ततो राज्ये स्थापयामास वीर्यवान्। स्वयं न कृतवान् राज्यं तस्माहेवद्रतोजभवत् ॥१९।। चित्रांगदस्तु कीर्येंण प्रमत्तः परदुःखदः। बभूव वलवान् वीरः सत्यवत्यात्मजः शुचिः ॥२०॥ अरथंकदा महाबाहुः सैन्येन महता वृतः। प्रनचार वनोद्देशान्पश्यन्वध्यान्नृगान् रुरून् ।२१। चित्रांगदस्तु गंधर्वो दृष्टा तं मार्गग नृपम् । उत्तत्तारांतिकं भूमेर्विमानवरमास्थित: ॥२२॥ तत्राभूच्च महदुद्धं 'तयोः सदृशबीर्ययोः । कुरुक्षेत्रे महास्थाने त्रीणि वर्पाणि तापसाः ॥२३॥ इन्द्रलोकमवापाशु गंधर्वेण हतो रणे । भीष्मःश्रुत्वा चकाराशु तस्यौर्ध्वदैहिकं तदा ॥२४॥ गांगेयः कृतशोकस्तु मंत्रिभिः परिवारितः । विनिन्नवीर्यनामानं राज्येशं च चकार ह।२५॥ मंत्रिभिर्बोधिता पश्चाद्गुरुभिश्र महात्मभिः । स्वपुंत्रं राज्यगं दृष्टा पुत्रशोकहताऽपि च॥२६॥ सत्यवत्यतिसंतुष्टा बभूव वरवर्गिनी । व्यासोपि भ्रातरं श्रुत्वा राजानं मुदितोऽभवत् २७॥ योवनं परमं प्राप्तः सत्यवत्याः सुतः शुभः । चकार चिंतां भीष्मोपि विवाहार्थं कनीयसः ॥२८॥ काशिराजसुतास्तिस्रः सर्वलक्षणसंयुताः । तेन राज्ञा विवाहार्थं स्थापिताश्च स्वयंवरे ।२९॥ राजानो राजपुत्राश्र समाहताः सहस्रशः । इच्छास्वयंवरार्थ वै पूज्यमानाः समागताः ॥३०॥ तत्र भीष्मो महातेजास्ता जहार बलेन वै। निर्मथ्य राजकं सर्वं रथेनैकेन वीर्यवान् ।३१। स जित्वा पार्थिवान्सर्वास्तांश्रादाय महारथः। बाहुवीर्येण तेजस्वी ह्याससाद गजाह्नयम् ।३२।। मातृबद्भगिनीवच्च पुत्रीवच्चिंतयन्किल। तिस्त्रः समानयामास कन्यका वामलोचनाः ॥३३॥ सत्यवत्यै निवेद्याशु द्विजानाहूय सत्वरः । दैवज्ञान्वेदविदुषः पर्यपृच्छच्छुभं दिनम् ॥३४॥
Page 71
श्रीमदेवीभागवते महापुराणे प्रथमस्कन्धे अध्याय: २० ७ कत्बा विवाहसंभारं तदा वै भ्रातरं निजम्। विचित्रवीर्यं धर्मिष्ठ विवाहयति ता यदा ॥३५॥ तदा ऋ्येषठोऽप्युवाचेदं कन्यका जाह्नवीसुतम् । लज्जमानासितापांगी तिसृणां चारुलोचना ॥३६।। गंगापुत्र कुरुश्रेष्ठ धर्मज्ञ कुलदीपक। मया स्वयंवरे शाल्वो वृतोऽस्ति मनसा नृपः ३७॥ वृताऽहं तेन राज्ञा वै चित्ते प्रेमसमाकुले। यथायोग्यं कुरुष्वाद्य कुलस्यास्य परंतप ॥३८। तेनाहं वृतपूर्वास्मि त्वं च धर्मभृतां वर। बलवानसि गांगेय यथेच्छसि तथा कुरु॥३९॥ सूत उत्राच एवमुक्तस्तया तत्र कन्यया कुरुनंदनः । अपृच्छद्ब्राह्मणान्वृद्धान्मातरं सचिवांस्तथा ॥४०।। सर्वेषां मतमाज्ञाय गांगेयो धर्मवित्तमः । गच्छेति कन्यकां प्राह यथारचि वरानने॥४१॥ विसरजिताथ सा तेन गता शाल्वनिकेतम्। उवाच तं वरारोहा राजानं मनमेप्सितम् ॥४२॥ विनिर्मुक्तास्मि भीष्मेण त्वन्मनस्केति धर्मतः । आगताऽस्मि महाराज गृहाणाद्य करं मम ॥४३॥ धर्मपत्नी तवात्यंतं भवामि नृपसत्तम । चिंतितोऽसि मया पूर्व त्वयाहं नात्र संशयः ॥४४॥ शाल्व उनाच गृहीता त्वं वरारोहे भीष्मेण पश्यतो मम । रथे संस्थापिता तन न ग्रहाष्ये करं तव ।।४५।। परोच्छिष्टां च कः कन्यां गृह्ाति मतिमान्नरः। अतोहं न ग्रहीष्यामि त्यक्ता भीष्मेण मातृवत्॥४६॥ रुदती विलपंती सा त्यक्ता तेन महात्मना। पुनर्भोष्मं समार्गत्य रुदती चेदमत्रवोत् ॥४७॥ शाल्वो मुक्तां त्वया वीरन गृह्हाति गृहाण माम् । धर्मज्ञोसि महाभाग मरिष्याम्यन्यथा ह्यहम् ॥४८।। भीष्म उवाच अन्यचित्तां करथं त्वां वै गृह्ामि वरवणिनि। पितर वं वरारोहे त्रज शीघ्रं निराकुला ॥४९॥ तथोक्ता सा तु भीष्मेण जगाम वनमेव हि। तपश्चकार विजने तोरथे परमपावने ॥५०॥ द्वे भाये चातिरूपाढये तस्य राज्ञो वभूवनुः। अम्बालिका चांबिका च काशिराजसुते शुभे ।।५१। राजा विचित्रवीर्योडसौ ताभ्यां सह महावलः । रेमे नानाविहारैश्र गृहे चोपवने तथा ॥५२॥ वर्णाणि नव राजेन्द्र: कुर्वन् क्रीडां मनोरमाम्। प्रापासी मरणं भूयो गृहोतो राजयक्ष्मणा :५३॥। मृते पुत्रेऽतिदुःखार्ता जाता नत्यदती तदा। कारयामास पुत्रस्य प्रेतकार्याणि मंत्रिभिः ॥५४।। भीष्ममाह तदेकान्ते वचनं चातिदुःखिता। राज्यं कुरु महाभाग पितुस्ते शंतनोः सुत ॥५५॥ भ्रातुर्भारयां गृहाण त्वं वंशं च परिरक्षय। यथा न नाशमायाति ययातेर्वंश इत्युत ॥५६।। भीष्म उत्राच प्रतिश्ञा मे श्रुता मातः पित्रर्थे या मया कृता। नाहं राज्यं करिष्यामि न चाहं दारसंग्रहम् ॥५७।।
Page 72
श्रीमद्ेवीमागवते महा राणे प्रथमस्कन्धे अध्याय: २० सत उवाच तदा चितातुरा जाता कथं वंशो भबेदिति। नालसाद्धि सुखं मह्यं समुत्पन्ने ह्यराजके ।।५८।। गांगेयस्तामुबाचेदं मा चिंतां कुरु भामिनि। पुत्रं विचित्रवीर्यस्य क्षेत्रजं चोपपादय ।।५९।। कुलीनं द्विजमाहूय वध्बा सह नियोजय। नात्र दोषोऽस्ति वेदेऽपि कुलरक्षाविधौ किल ६०॥ नीतं पैव समुत्पाद्य राज्यं देहि शुचिस्मिते। अहं च पालयिष्यामि तस्य शासनमेव हि ॥६१॥ तच्मुत्बा बचमं तस्य कानीनं स्वसुतं मुनिम्। जगाम मनसा व्यासं- द्वैपायनमकल्मषम् ।।६२। स्मृतमात्रस्ततो व्यास आजगाम स तापसः । कृत्वा प्रमाणं मात्रेऽथ संस्थितो दीप्तिमान्मुनिः ॥६३।। भीष्मेण पूजितः कामं सत्यवत्या च मानितः । तस्थो तत्र महातेजा विधूमोऽग्निरिवापरः ॥६४॥ समुबाच मु्नि माता पुत्रमुत्पादयाधुना। क्षेत्रे विचित्रवीर्यस्य सुन्दरं तव वीर्यजम् ॥६५॥ व्यासः श्रुत्वा वचो मातुरातवाक्यममन्यत। ओमित्युक्त्वा स्थितस्तत्र ऋतुकालमचिंतयत् ६६। अंबिका च यदा स्नाता नारी ऋतुमती तदा। संगं प्राप् मुनेः पुत्रमसूतांधं महाबलम् ॥६७।। जन्मान्वं च सुतं वीक्ष्य दुःखिता सत्यवत्यपि। द्वितीयां च वधूमाह पुत्रमुत्पादयाशु वै ।।६८।। वुतुकालेऽथ संप्राप्ते व्यासेन सह संगता। तथा चांबालिका रात्री गर्भ नारी दधार सा।।६९।। खोऽपिपांडु: सुलो जातो राज्ययोग्यो न संमतः। पुत्रार्थे प्रेरयामास वर्षान्ते च पुनर्वधूम्॥७॥ आहूय न ततो व्यासं संप्रार्थ्य मुनिसत्तमम्। प्रेषयामास रात्रौ सा शयनागारमुत्तमंम् ॥७१।। न गता व वघुस्तत्र प्रेष्या संप्रेषिता तया। तस्यां च बिदुरो जातो दास्यां धर्माशतः शुभः ॥७२॥ एवं व्यासेन ते पुत्रा धृतराष्ट्रादयसयः । उत्पादिता महाबीरा बंशरक्षणहेतबे ।s३॥ एतव्रः वर्वमार्यातं तस्य बंशसमुद्दबम्। व्यातेन रक्षितो बंशो भ्रातृधर्मविदाऽमथाः ।।७४। इति श्रीदेणीभागवते महापुराणेऽइदससाइस्रधां संहितायां प्रथमस्कन्धे विंशोऽड्वांच: १२०॥ वेदाष्टेंदुक्षितिमितैः [११८४ ] सार्धे: श्लोकैः सबिस्तरम्। देवीभागवतस्यास्य प्रथमस्कन्ध ईरितः ॥ १ ॥
समाप्ोऽयं प्रथमः स्कन्धः ।
Page 73
श्रीगणेशाय नमः
श्रीमद्देवीभागवतम्
द्वितीयः स्कन्ः
-8 :-
प्रथमोऽभ्यायः
भाश्वर्यकरमेतसे बचनं गर्भहेतुकम् । सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥१॥ माता व्यासस्य मेधाविन्नाम्ता सत्यवतीति च । बिवाहिता पुरा जाता राज्ञा शन्तनुना यथा ॥।२।। सत्या: पुत्रः कथं व्यास: सती स्बभवने स्थिता। ईदृशी सा कबं राज्ञा पुनः शन्तनुना बृता ।।३।। तस्बां पुत्रावुभ जातो तत्त्बं कथय सुव्रत। बिस्तरेण महाभाग कथां परमपावनीम् ॥४॥ अल्स्ि वेवव्यासस्य सत्यबत्मास्तथा पुनः । श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥५॥
सूत उवाच शवम्ब परनां शक्ति चतुर्बगंप्रदायिनीम् । आदिशकत्ति वदिष्यामि कथां पौराणिकीं शुभाम् ॥ करोज्पारणमात्रेण सिद्धिर्भरवति शाश्वती। व्याजेनाषि हि बीजस्य वाग्भबस्य विशेषतः ॥७॥। ्यावर्रणना सबेः सर्वकामार्थसिद्धये। स्मर्तव्या सर्वथा देवी वांछितार्थप्रदायिनी ॥८॥ रामोमरिचरो नाम धार्मिकः सत्यसंगरः । चेदिदेशपतिः श्रीमान्वभूव द्विजपूजक: ।।९॥ तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् । दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ।१०।। तेनारूडस्तु सर्वत्र याति दिव्येन भूपतिः। न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥११॥ विल्वातः सर्बलोकेषु धर्मनित्यः स भूपतिः । तस्य्र भार्या बरारोहा गिरिकानाम सुन्दरी ।१२।।
Page 74
श्रीमदेवीमागवते महापुराणे द्वितीयस्कन्धे अध्याय: १ पुत्राश्रास्य महावीर्याः पञ्चासन्नमितौजसः । पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥१३॥ वसोस्तु पत्नी गिरिका कामान्काले न्यवेदयत् । ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥१४।। तदहः पितरश्रैनमूचुर्जहि मृगानिति । तच्छ्रुत्वा चिंतयामास भार्यामृतुमती तथा ॥१५॥ पितृवाक्यं गुरुं मत्त्वा कर्तव्यमिति निश्चितम्। चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥१६॥ वने स्थितःस राजषिश्चित्ते सस्मार भामिनीम् । अतीवरूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥१७॥ तस्य रेतः प्रचस्कंद स्मरतस्तां च कामिनीम्। वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ।।१८।। इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम्। ऋतुकालं च विज्ञाय मति चक्रे नृपस्तवा ॥१९॥ अमोधं सर्वथा वीर्य मम चतन्न संशयः । प्रियायँ प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥२०॥ शुक्रप्रस्थापने काले महिष्याः प्रसमीक्ष्य सः। अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥२१॥ पार्श्वस्थं श्येनमाभाष्य राजोवाच द्रिजं प्रति। गृहाणेदं नहाभाग गच्छ शोघ्रं गृहं मम ॥२२॥ मत्प्रीत्यर्थमिदं सौम्य गृहीत्वा त्वं गृहं नय। गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥२३।।
इत्युक्त्वा प्रददौ पर्ण श्येनाय नृपसत्तमः । स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥२४॥ सूत उवाच
गच्छंतं गगनं श्येनं धृत्वा चंचुपुटे पुटम्। तमपश्यदथायान्तं ख्गं श्येनस्तथाऽपरः ॥२५॥ आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् । तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥२६॥ युद्धयतोरपतद्रेतस्तच्चापि यमुनांभसि। खगी तौ निर्गतो कामं पुटके पतिते तदा ॥२७॥ एतस्मिन्समये काचिदद्रिका नाम चाप्सराः । ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥२८॥ कुर्वती जलकेलिं सा जले नग्ना चचार सा। जग्राह नरणं नारी द्विजस्य वरर्वर्णिनी ॥२९॥ प्राणायामपरः सोऽथ दृष्टा तां कामचारिणीम । शजापभव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥३०॥ सा शप्ता विप्रमुर्येन बभूव यमुनाचरी। शफरी रूपसम्पन्ना ह्यद्रिका च दराप्सर ॥३१॥ श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी। जग्राह तरसाऽ्भ्येत्य साडद्रिका मत्स्यरूपिणी ३२॥ अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः । संत्राप्ते दशमे मासि बबंध तां मनोरमाम् ॥३३॥ उदरं विददाराशु स तस्या मत्स्यजीवनः । गुग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥३४॥। बाल: कुमार: सुभगस्तथा कन्या शुभानना। दृष्टाऽडश्रर्यमिदं सोऽथ विस्मयं परमं गतः ॥३५॥ राजे निवेदयामास पुत्रौ द्वौ तु झषोद्दवौ। राजाउपि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ स मत्स्यो नाम राजाऽसौ धार्मिक: सत्यसंगरः । वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥३७॥ कालिका वसुना दत्ता तरसा जलजीविने। नाम्ना कालीति बिस्याता तथा मत्स्योदरीति च ।। मत्स्यगन्घेति नाम्ना वै गुणेन समजायत । विवर्धमाना दासस्य गृहेसावासवी वृभा ॥३९॥
Page 75
श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे अध्यायः २ ७५
ऋषय ऊचु: अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः । विदारिता च दाशेन मृता च भक्षिता पुनः॥४०॥ कि बभूव पुनस्तस्या अप्सराया वदस्व तत्। शापस्यांतं कथं सूत कथं स्वर्गमवाप सा।४१।। सूत उवाच शप्ता यदा स मुनिना विस्मिता संबभूव ह। स्तुति चकार विप्रस्य दीनेव रुदती तदा ॥४२॥ दयावान्ब्राह्मण: प्राह तां तदा रुदतीं स्त्रियम्। मा शोकं कुरु कल्याणि शापांतं ते वदाम्यहम् ४३॥। मत्क्रोधशापयोगेन मत्स्ययोनिं गता शुभे। मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥४४।। इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले। बालकौ जनयित्वा सा मृता मक्ता च शापतः।४५॥ संत्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च। जगामामरमार्गं च शापांते वरवणिनी ॥४६॥ एवं जाता वरा पुत्री मत्स्यगंधा वरानना। पुत्री च पाल्यमाना सा दाशगेहे व्यवर्धत ॥४७॥। मत्स्यगंधा तदा जाता किशोरी चातिसुप्रभा। तस्य कार्याणि कुर्वाणा वासवी नातिसुनभ ॥४८।। इति श्रीमद्देवीभागवते द्वितीयस्कन्धे मत्स्यगन्यो पत्तिर्नाम प्रथमोऽघायः ॥ १ ॥ अथ द्वितीयोऽध्यायः
एकदा तीर्थयात्रायां व्रजन्पाराशरो मुनिः । आजगाम महातेजाः कारलिंदास्तटमुनमम् ॥१॥ सूत उवाच
निषादमाह धर्मात्मा कुर्बन्तं भोजनं तदा। प्रापयस्त्र परं पारं कालिंद्या उडुपेन माम् ॥२॥ दाश: श्रुत्वा मुनर्वाक्यं कुर्वाणो भोजनं तटे। उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम्॥३॥ उडपेन मुनिं बाले परं पारं नयस्व ह। गंतुकामोजस्ति धर्मात्मा तापसोऽयं शुचिस्मिते ॥४॥ इत्युक्ता सा तदा पित्रा मत्स्यगंधाजथ वासवी। उडपे मुनिमासीनं संवाहयति भामिनी ॥५॥ व्रजन् सूर्यसुतातोये नावित्वाद्दैवयोगतः। कामार्तस्तु मुनिर्जातो दृष्टा तां चारुलोचनाम् ॥६॥ गृहीतुकाम: स मुनिदृष्टा व्यंजितयौवनाम्। दक्षिणेन करेणैनामस्पृशदक्षिणे करे॥७॥ तमुवाचासितापांगी स्मितपूर्वमिदं वचः । कुरुस्व सदृशं वः कि श्रुतस्य तपसश्र किम् ॥८॥ त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः । कि चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः ॥९॥ दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम । तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः ॥१०॥ कुलेन शीलेन तथा श्रुतेन द्विजोत्तमस्त्वं किल धर्मविच्च। अनार्यभावं कथमागतोऽसि विप्रेंद्र मां वीक्ष्य च मीनगन्धाम् ।११।। मदीये शरीरे द्विजामोघबुद्धे शुभं किं समालोक्य पाणि ग्रहीतुम्। समीपं समायासि कामातुरस्त्वं कथं नाभिजानासि धर्म स्वकीयम् ॥१२।
Page 76
७६ श्रीमहेवीमागवते महापुराणे द्वितीयस्कम्चे अध्याय: २ अहो मंदबुद्धिर्द्विजोडयं ग्रहीष्यञ्जले मग्न एवाद्य मां वै गृहीत्वा। मनो व्याकुलं पञ्चबाणातिविद्धं न कोऽपीह शक्त: प्रतीपं हि कर्तुम् ।।१३।। इति संचित्य सा बाला तमुवाच महामुनिम्। धैर्य कुरु महाभाग परं पारं नयामि ै ॥।१४।। सूत उवाच पाराशरस्तु तच्छ्रत्वा वचनं हितपूर्वकम्। करं त्यक्त्वा स्थितस्तत्र सिंधोः पारं गतः पुनः ॥ मत्स्यगंधां प्रजग्राह मुनिः कामातुरस्तदा। वेपमाना तु सा कन्या तमुवाच पुरःस्थितम् ॥१६॥ दुर्गधाऽहं मुनिश्रेष्ठ कथं त्वं नोपशंकसे। समानरूपयोः कामसंयोगस्तु सुखावहः ॥१७॥ इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी। कृता योजनगंधा तु सुरूपा च वरानना ।।१८।। मृगनाभिसुगंधां तां कृत्वा कांतां मनोहराम्। जग्राह दक्षिणे पाणौ मुनिर्सन्मथपीडितः ।१९॥ ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा । मुने पश्यति लोकोडयं पिता चवं तटस्थितः ॥२०॥ पशुधर्मो न मे प्रीति जनयत्यतिदारुणः । प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी ॥२१॥ रात्रौ व्यवाय उदिष्टो दिवा न मनुजस्य हि। दिवासंगे महान्दोषः पश्यंति किल मानवाः ॥२२॥ कामं यच्छ महाबुद्धे लोकनिंदा दुरासदा। तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः ॥२३॥ नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै। नीहारे च समुत्पन्ने तटेऽतितमसा युते ॥२४॥ कामिनी तं मुनि प्राह मृदुपूर्वमिदं वचः। कन्याऽहं टिजशार्दूल भुक्त्वा गंतासि कामतः ॥२५॥ अमोघवीर्यस्त्वं ब्रह्मन्का गतिर्मे भवेदिति। पितरं कि ब्रवीम्यद्य सगर्भा चेद्द्रवाम्यहम् ॥२६॥ त्वं गेमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत्। पाराशर उवाच कांतेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥२७। बृणीष्व च वरं भीरू यं त्वमिच्छसि भामिनि। सत्यवत्युवांच यथा मे पितरौ लोके न जानीतौ हि मानद ॥२८। कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम । पुत्रश्र त्वत्समः कामं भवेदद्दुतवीर्यवान् ।२९॥ गंधोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम्। पाराशर उवाच शृणु सुंदरि पुत्रस्ते विष्ण्वंशसंभवः शुचिः ॥३०॥ भविष्यति च विख्यातस्त्रंलोक्ये बरबगिनि। क्रेनचित्कारणेनाहं जातः कामातुरस्त्वयि ॥३१॥ कदापि च न संमोहो भूतपूर्वो बरानने । दृष्टा चाप्सरसां रूपं सदाऽहं वैर्यमावहम् ॥३२/।
Page 77
श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्पे अध्बायः २ दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम्। वत्किंचित्कारणं विद्धि दैवं हि दुरतिक्रमम् ॥३३॥। दृषाऽहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् । पुराणकर्ता पुत्रस्ते भविष्यति वरानने ॥३४॥ वेदविद्वागकर्ता च व्यातश्र भुवनत्रये।
सूत उबाच इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः ॥३५॥ जगाम तरसा स्नात्बा कालिंदीसलिले मुनिः । साऽपि सत्यवती जाता सद्यो गर्भवती सती ॥३६॥ सुधुवे यमुनाद्वीपे पुत्रं काममिवापरम् । जातमात्रस्तु तेजस्बी तामुवाच स्वमातरम् ॥३७॥ तवस्येव मनः कृत्बा विविशे चातिवीर्यवान् । गच्छ मातर्यथाकामं गच्छाम्यहमतः परम्॥३८॥ तपः कतुं महाभागे दर्शयिष्यामि वै स्मृतः । मातर्यदा भवेत्कार्यं तव किचिदनुत्तमम् ॥३९॥ स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि। स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिंतां सुखं वस।४०।। इत्युक्त्वा निर्ययो व्यास: साऽपि पित्रंतिकं गता। द्वीपे न्यस्तस्तया बालस्तस्मादर्द्वपायनोऽभवत् ।४१।। जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः । तीर्थे तीर्थे कृतस्नानश्रचार तप उत्तमम् ॥४२। एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्। चकार वेदशाखाश्र प्राप्तं ज्ञात्वा कलेर्युगम् ॥४३॥ वेदविस्तारकरणाद्वयासनामाऽभवन्मुनिः ।पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥४४॥ शिष्यानध्यापयामास वेदान्कृत्वा विभागशः । सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च ॥४५॥ असितं देवलं चैव शुक्रं चैव स्वमात्मजम् । एतच्च कथितं सर्वं कारणं मुनिसत्तमाः ॥४६॥
सूत उवाच सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा । संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः ॥४७॥ महतां चरिते चैव गुणा ग्राह्या मुनेरिति । कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे ॥४८।। पाराशरेण संयोग: पुनः शन्तनुना तथा। अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत्।४९।। अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः। सकारणेयमुत्पत्तिः कथिताऽऽश्चर्यकारिणी ॥५०॥ श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा। य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः ॥५१॥ न दुर्गतिमवाप्नोति सुखी भवति सर्वदा ।५२। इति श्रीदेवीभागवते महापुराणे द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥२॥
Page 78
श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे अध्यायः ३ अथ तृतीयोऽध्यायः ऋृषय ऊचु: उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः । सत्यवत्यास्तथा सूत विस्तरेण त्यवाऽनघ ॥१॥ तथाप्येकस्तु संदेहश्चित्तेऽस्माकं सुसंस्थितः । न निवर्तति धर्मज्ञ कथितेन त्वयाऽनघ ॥२॥ माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा। सा कथं नृपति प्राप्ता शन्तनुं धर्मवित्तमम् ।३।। निषादपुत्रीं स कथं वृतवान्नृपतिः स्वयम् । धर्मिष्ठः पौरवो राजा कुलहीनामसंवृताम्॥४॥ शन्तनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना। भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ॥५॥ त्वया प्रोक्तं पुरा सूत राजा चित्रांगदः कृतः । सत्यवत्याः सुतो वीरो भीष्मेणामिततेजसा ॥६॥ चित्रांगदे हते वीरे कृतस्तदनुजस्तथा। विचित्रवीर्यनामाऽसौ सत्यवत्याः सुतो नृपः ॥७॥ ज्येष्टे भीष्मे स्थिते पूर्व धर्मिष्ठे रूपवत्यपि । कृतवान्स कथं राज्यं स्थापितस्तेन जानता ।।८।। मृते विचित्रवीये तु सत्यवत्यतिदुःखिता। वधूम्यां गोलको पुत्रो जनयामास सा कथम् ।९॥ कथं राज्यं न भीष्माय ददौ सा वरर्वणिनी। न कृतस्तु कथं तेन वीरेण दारसंग्रहः ॥१०॥ अधर्मस्तु कृतः कस्माद्वयासेनामिततेजसा। ज्येष्ठेन भ्रातृभार्यायां पुत्रावुत्पादिताविति ।।११।। पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः । सेवनं परदाराणां भ्रातुश्चंव विशेषतः ॥१२॥ जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः । शिष्टाचारः कथं सूत वेदानुमितिकारकः ॥१३॥ व्यासशिष्योऽसि मेधाविन्सन्देहं छेत्तुमर्हसि। श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणा: ॥१४॥ सूत उवाच इक्ष्याकुवंशप्रभवो महाभिष इति स्मृतः । सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ॥१५॥ अश्वमेधसहस्त्रेण वाजपेयशतेन च । तोषयामास देवेन्द्रं स्वर्गं प्राप महामतिः ॥१६॥ एकदा ब्रह्मसदनं गतो राजा महाभिषः । सुराः सर्वे समाजग्मुः सेवनार्थ प्रजापतिम् ॥१७॥ गंगा महानदी तत्र संस्थिता सेवितुं विभुम् । तस्या वासः समुद्धूतं मारुतेन तरस्विना ।१८।। अधोनुखाः सुराः सर्वेन त्रिलोक्यैव तां स्थिताः । राजा महाभिषस्तां तुनिःशंकः समपश्यत ॥१९॥ साडप तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी। दृष्टा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ॥२०॥ ब्रह्मा चुकोप तो तू्णं शशाप च रुषान्वितः । मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ॥२१॥ पुण्येन महताविष्टस्त्वमवाप्स्यसि सर्वथा। गंगां तथोक्तवान्त्रह्मा वीक्ष्य प्रेमती नृपे ।।२२।। विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोऽन्तिकात्। स नृपांश्चितयित्वाजथ भूलोंके धर्मतत्परान् ॥२३॥ प्रतीपं चिन्तयामास पितरं पुरुवंशजम्। एतस्मिन्समये चाष्टी वसवः स्त्रोसमन्विताः ॥२४॥ वसिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया। पृथ्वादीनां वसूनां च मध्येकोऽपि दमूत्तमः ॥२५॥
Page 79
श्रीमद्ेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ३ ७९ योर्नामा तस्य भार्याऽथ नंदिनीं गां ददर्श ह। दृष्टा पति सा पप्रच्छ कस्येयं धेनुरुत्तमा ॥२६।। चोस्तामाह वसिष्ठस्य गौरिः शृणु सुन्दरि। दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽय वा २७। अयुतायुर्भवेन्नूनं सदैवागतयौवनः । तच्छ्रुत्वा सुन्दरी प्राह मृत्युलोकेऽस्ति मे सखी २८।। उशोनरस्य राज्षें: पुत्री परमशोभना। तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम् ।२९॥ आनयास्वाश्रमं श्रेष्ठं नंदिनों कामदां शुभाम् । यावदस्या: पयः पीत्वा सखी मम सदैव हि ॥३०॥ मानुषेषु भवेदेका जरारोगविवरजिता। तच्छ्रुत्वा वचनं तस्या द्योजहार च नंदिनीम्।३१॥ अवमन्य मुर्नि दान्तं पृथ्वाद्यः सहितोऽनघः| हृतायामथ नंदिन्यां वसिष्ठस्तु महातपाः ॥३२॥ आजगामाश्रमपथं फलान्यादाय सत्वरः। नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ॥३३॥ मृगयामास तेजस्वी गह्वरेषु वनेष्वपि। नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ॥३४॥ वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् । वसुभिमे हृता धेनुर्यस्मान्मामवमन्य वै ॥३५॥ तस्मात्सवें जनिष्यंति मानुषेषु न संशयः । एवं शशाप धर्मात्मा वसूंस्तान्वारुणि: स्वयम् ॥ श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते। शप्ताः स्म इति जांनंत ऋषि तमुपचक्रमुः ॥३७॥ प्रसादयंतस्तमृषि वसवः शरणं गताः । मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरःस्थितान् ॥ अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ। येनेयं विहृता धेनुनंदिनी मम वत्सला ॥३९॥ तस्मादयौर्मानुषे देहे दीर्घकालं वसिष्यति। ते शप्ताः पथि गच्छन्तीं गंगा दृष्टा सरिद्वराम् ॥ ऊचुस्तां प्रणताः सर्वे शप्तां चिंतातुरां नदीम् । भविष्यामो वयं देवि कथं देवाः सुधाशनाः॥४१॥। मानुषाणां च जठरे चिंतेयं महती हि नः । तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ॥४२। शंतनुर्नाम राजर्षिस्तस्य भार्या भवानघे। जाताआ्जताञ्जले चास्मान्निःक्षिपस्व सुरापगे ।।४३।। एवं शापविनिर्मोक्षो भविता नात्र संशयः । तथेत्युक्ताश्र ते सर्वे जन्मुलोकं स्वकं पुनः ॥४४॥ गंगाऽपि निर्गता दैवी चिंत्यमाना पुनः पुनः । महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ।४५। शंतनुर्नाम राज्ञषिर्धर्मात्मा सत्यसंगरः । प्रतीपस्तु स्तुरि चक्रे सूर्यस्यामिततेजसः ॥४६॥ तदा च सलिलात्तस्मान्निःसृता वरर्वणिनी। दक्षिणं शालसंकाशमूरुं भेजे शुभानना ।४७। अंके स्थितां स्त्रियं चाह मां पृष्टा किं वरानने। ममोरावास्थिताऽसि त्वं किमर्थ दक्षिणे शुभे॥४८॥ सा तमाह वरारोहा यदर्थ राजसत्तम । स्थिताऽस्म्यंके कुरुश्रेष्ठ कामयानां भजस्व माम् ॥ तामवोचदथो राजा रूपयौवनशालिनीम्। नाहं परस्त्रियं कामाद्गच्छेयं वर्वणिनीम् ॥५०॥ स्थिता दक्षिणमूरुं मे त्वमाश्िष्य च भामिनि । अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ॥ स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते। भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ॥५२॥ तथेत्यकत्वा गता सा वै कामिनी दिव्यदर्शना। राजा चापि गृहं प्राप्तश्चितयंस्तां स्त्रियं पुत्ः ॥५३।
Page 80
८० श्रीमहेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ४ ततः कालेन कियता जते पुत्रे पयस्विनी। वनं जिगमिषू राजा पुत्रं वृत्तांतमूचिबान्।५४ वृत्तांतं कथयित्वा तु पुनरूचे निजं सुतम्। यदि प्रयाति सा बाला त्वां वने चारुहासिनी कामयाना वरारोहा तां भजेथा मनोरमाम्। न प्रष्टव्या त्वया काऽसि मन्नियोगान्नराधिप।।५६ धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल। सूत उवाच एवं संदिश्य तं पुत्रं भूपतिः प्रीतमानसः ॥५७॥ दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश है। तत्रापि च तपस्तप्त्वा समाराध्य परांबिकाम्॥५८ जगाम स्वर्गं राजाऽसौ देहं त्यक्त्वा स्वतेजसा। राज्य प्राप्य महातेजाः शंतनुः सार्वभौमिकम्। प्रजा वै पालयामास धर्मदंडो महीपतिः ॥६० ॥ इति श्रीदेवीभावते महापुराणे द्वितीयस्कन्धे तृतीयोऽध्यायः ॥३॥ अथ चतुर्थोऽध्यायः सूत उवाच प्रतीपेऽथ दिवं याते शंतनुः सत्यविक्रमः । बभूव मृगयाशीलो निध्नन्व्याघ्रान्मृगान्नृपः॥ १॥ स कदाचिद्वने घोरे गंगातीरे चरन्नृपः । ददर्श मृगशावाक्षी सुंदरी चारुभूषणाम् ॥२ दृष्ट्रा तां नृपत्तिर्मग्नः पित्रोक्तेयं वरानना। रूपयौवनसंपन्ना साक्षाल्लक्ष्मीरिवापरा॥ ३। पिबन्मुखांबुजं तस्या न तृप्तिमगमन्नृपः। हृष्टरोमाभवसतत्र व्याप्तचित्त इवानघ ॥। ४ ॥ महाभिषं साडपि मत्वा प्रेमयुक्ता बभूव ह। किंचिन्मंदस्मितं कृत्वा तस्थावग्रे नृपस्य च ।। ५॥ वीक्ष्य तामसितापांगी राजा प्रीतमना भृशम्। उवाच मधुरं वाक्यं सांत्वयञ्लक्ष्णया गिरा॥। ६॥। देवी वा त्वं च वाभोरु मानुपी वा वरानने। गंधर्वी बाथ यक्षी वा नागकन्याऽप्सरापि वा ॥७॥। यासि काडसि वरारोहे भार्या मे भव सुंदरि। प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥८॥ सूत उवाच राजा तां नाभिजानाति गंगेयमिति निश्चितम् । महाभिपं समुत्पन्नं नृपं जानाति जाह्नवी ॥ ९॥ पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम्। उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥१०॥ स्त्र्युवाच जानामि त्वां नृपश्रेष्ट प्रतीपतनयं शुभम्। कान वांछति चार्वगी भावित्वात्सदृशं पतिम् ॥ वाग्बंधेन नृपश्रेष्ठ करिष्यामि पति किल। शृणु मे समयं राजन्वृणोमि त्वां नृपोत्तम ।१२।। यच्च कुर्यामहं कार्य शुभं वा यदि वाऽशुभम्। न निपेध्या त्वया राजत् वक्तव्यं तथाऽप्रियम् ॥ मवा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः । तदा मुक्त्वा गमिष्यामि स्व्रेष्टदेशं च मारिष ॥१४।।
Page 81
६ श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ४ स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि। महाभिषस्य प्रेमाथ विचित्यैव च जाह्नवी ॥१५॥ तथेत्युक्ताऽथ सा देवी चकार नृपति पतिम् । एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी॥१६।। नृपस्य मंदिरं प्राप्ता सुभगा वरर्वणिनी। नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ।१७ साऽपि तं रमयामान भावज्ञा वै वराङगना। न जुबोध नृपः क्रीडन्गतान् वर्षगणानथ ।१८। स तया मृशावाक्ष्या शच्या शतक्रतुर्यथा। सा सर्वगुणसंपन्ना सोऽपि कामविचक्षणः ॥१९।। रेमाते मंदिरे दिव्ये रमानारायणाविव। एवं गच्छति काले सा दधार नृपतेस्तदा ॥२०।। गर्भ गङ्गा वसुं पुत्रं सुषुवे चारुलोचना। जातमात्रं सुतं वारि चिक्षेपैवं द्वितोयके ।२१। तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ट एव च। सप्तमे वा हते पुत्रे राजा चिंतापरोऽभवत् ॥२२॥ कि करोम्यद्य वंशो मे कथं स्यात्सुस्थिरोभुवि। सप्त पुत्रा हता नूनमनया पापरूपया ॥२३। निवारयामि यदीमां त्यकत्वा यास्यति सर्वथा । अष्टमोऽयं सुसंप्राप्तो गर्भो मे मनसीप्सितः ॥२४॥ न वारयामि चेदद्य सर्वथेयं जले क्षिपेत्। भविता वा न वा चाग्रे संशयोऽयं ममाद्दुतः ॥२५॥ संभवेऽपि च दुष्टेयं रक्षयेद्वा न रक्षयेत् । एवं संशयिते कार्ये किं कर्तव्यं मयाऽधुना ॥२६॥ वंशस्य रक्षणार्थं हि यत्न: कार्यः परो मया। ततः काले यदा जातः पुत्रोऽयमष्टमा वसुः ॥२७॥ मुनेर्येन हृता धेनुर्नदिनी स्त्रीजितेन हि। तं दृष्टा नृपतिः पुत्रं तामुवाच पतन्पदे ।२८।। दासोस्मि तव तन्व्गि प्रार्थयामि शुचिस्मिते। पुत्रमेकं पुषाम्येनं देहि जीवितमद् मे ॥२९॥ हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः । अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥३०॥ अन्यद्व प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम्। वंशो मे रक्षणीयोऽद्य त्वया परमशोभने॥३१॥ अपुत्रस्य गतिर्नास्ति स्वगें वेदविदो विदुः। तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥३२॥ इत्युक्तापि गृहीत्वा तं यदा गंतुं समुत्सुका। तदा स कुपितो राजा तामुवाचातिदुःलितः ३३।। पापिष्टे किं करोम्यद्य निरयान्न बिभेषि किम्। काऽसि पापकराणां त्वं पुत्री पापरता सदा ३े४। यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह। किं करोमि त्वया पापे वंशांतकरयाऽनया ॥३५॥ एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् । गच्छंती वचनं कोपसंयुता तमुटाच है॥३६॥ पुत्रकामा सुतं त्वेनं पालयामि वने गता। समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥३७॥ गंगां मां वै विजानीहि देवकार्यार्थमागताम्। वसवस्तु पुरा शप्ता वसिष्ठंन महात्मना ॥३८॥ व्रजंतु मानुपी योनिस्थितां चितातुरास्तु माम् । दृष्टेदं प्रार्थयामासुर्जननी नो भवानघे ॥३९।। तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम। देवकार्यार्थसिद्धयर्थ जानीहि संभवो मम ॥४०॥ सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते। कियंतं कालमेकोऽयं तव पुत्रो भकय्यति॥४१॥ गंगादत्तमिमं पुत्रं गृहाण शंतनो स्वयम् । वसुं देवं विदितवैनं गुखं भुक्ष्व सुतोद्द्वम् ॥।४२।।
Page 82
८२ श्रीमद्देवीमागवते महापुराणे द्वितीयस्कन्धे अध्याय: ४ गांगेयोऽयं महाभाग भविष्यति बलाघिकः । अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥४३॥ दास्यामि योवनं प्राप्तं पालयित्वा महीपते। न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥४४। इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् । राजा चातीव दुःखार्तः संस्थितो निजमंदिरे ॥४५। भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् । सर्वदा चिंतयन्नास्ते राज्यं कुर्वन्महीपतिः ॥४६॥ एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः । निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ।।४७। गंगातीरमनुप्राप्तः स राजा शंतनुस्तदा। नदीं स्तोकजलां दृष्टा विस्मितः स महीपतिः ४८।। तत्रापश्यत्कुमारं तं मुंचंतं विशिखान्बहून्। आकृष्य च महाचापं क्रीडंतं सरितस्तटे ।।४९। तं.वीक्ष्य विस्मितो राजा न स्म जानाति किंचन। नोपलेभे स्मृर्ति भूपः पुत्रोऽयं मम वा न वा ॥५०॥ दृष्वाऽप्यमानुषं कर्म बाणेषु लघुहस्तताम्। विद्यां वाऽप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥५१॥ पप्रच्छ विस्मितो राजा कस्य पत्रोऽसि चानघ। नोवाच किचिट्ठी रोऽसो मुंचञ्छिलीमुखानथ ।।५२। अंतर्धानं गतः सोऽथ राजा चिंतातुरोऽभवत्। कोऽयं मम सुतो बालः कि करोमि व्रजामि कम् ५३॥ गंगां तुष्टाव भूपालः स्थितरनत्र समाहितः । दर्शनं सा ददो चाथ चारुरूपा यथा पुरा।५४।। दृष्टा तां चारुसवांगीं बभाषे नृपतिः स्वयम्। कोडयं गंगे गतो बालो मम त्वं दर्शयाधुना ।५५॥। गंगोवाच पुत्रोऽयं तब राजेंद्र रक्षितश्चाष्टमो वसुः । ददामि तव हस्ते तु गांगेयोऽयं महातपाः ॥५६॥ कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रतः । पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ।५७।। वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव । सवविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥५८॥ यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव। गृहाण गच्छ राजेंद्र सुखी भव नराघिप ।।५९।। इत्युक्स्वांऽतर्दधे गंगा दत्त्वा पुत्रं नृपाय वै। नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥६०॥ समालिग्य सुतं राजा समाघ्राय च मस्तकम् । समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ।।६१॥ गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम्। दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ।६२॥ समाहृत्य प्रजा: सर्वाः सचिवान्सर्वशः शुभान् । यौवराज्येऽथ गांगेयं स्थापयामास पार्थिवः ॥६३।। कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम्। सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ।।६४।। सूत उवाच एसद्वः कथितं सर्वं कारणं वः सुशापजम् । गांगेयस्य तथोत्पत्ति जाह्नव्याः संभवं तथा ॥६५॥ गंगावतरणं पुण्यं वमूनां संभ्वं तथा। यः श्रृणोति नरः पापान्मुच्यते नात्र संशयः ॥६६॥ पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः । यथा मया श्रुतं व्यासात्पुराणं वेदसंमितम् ॥६७।।
Page 83
श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ५ शीमद्भागवतं पुण्यं नानाख्यानकथान्वितम्। द्वैपायनमुखोद्दूतं पञ्चलक्षणसंयुतम् ॥६८।। शृष्वतां सर्वपापघ्नं शुभदं सुखदं तथा। इतिहासमिदं पुण्यं कीर्तितं मुनिसत्तमाः ॥६९॥ इति श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे चतुर्थोऽध्यायः॥।४॥ अथ पश्चमोऽध्यायः ऋषय ऊचु: बसूनां संभव: सूत कथितः शापकारणात्। गांगेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥१॥ माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती। कथं शंतनुना प्राप्ता भार्या गंधवती शुभा ।।२।। तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं वृता। राज्ञा धर्मवरिष्ठेन संशयं छिधि सुव्रत ॥३॥ सूत उवाच शंतनुर्नाम राजर्षिमृगयानिरतः सदा। वनं जगाम निघ्नन्वै मृगांश्र महिषात्रुरून् ॥४। चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः । रममाणः सुखं प्राप कुमारेण यथा हरः ॥५॥ एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान्। स कदाचिद्ठनं प्राप्तः कालिंदीं सरितां वराम् ॥६॥ महीपतिरनिर्देश्यमाजिघ्रद्गंधमुत्तमम् । तस्य प्रभवमन्विच्छन्संचचार वनं तदा।।७।। न मंदारस्य गंधोऽयं मृगनाभिमदस्य न । चंपकस्य न मालत्या न केतक्या मनोहरः ॥८॥ कृतोऽयमेति वायुवै मम घ्राणतिमोह्नः।९॥ इति संचिन्त्यमानोऽसौ बभ्राम वनमण्डलम् । मोहितो गंधलोभेन शंतनुः पवनानुगः ॥१॥ स ददर्श नदीतीरे संस्थितां 'चारुदर्शनाम्। शृङ्गारसहितां कांतां सुस्थितां मलिनांबराम्।।११॥ दृष्टा तामसितापांगीं विस्मितः स महीपतिः । अस्या देहस्य गंधोऽयमिति संजातनिश्रयः ॥१२॥ तदद्दुतं रूपमतीव सुंदरं तथव गन्धोऽखिललोकसंमतः । वयश्च तादृङनवयौवनं शुभं दुष्टैव राजा किल विस्मितोऽभवत् ॥१३॥ केयं कुतो वा समुपागताऽधुना देवागना वा किमु मानुषी वा। गंधर्वपुत्री किल नागकन्या जाने कथं गंधवतीं नु कामिनीम् ॥१४॥ संचिंत्य चैवं मनसा नृपोऽसौ न निश्चयं प्राप यदा ततः स्वयम्। गङ्गां स्मरन्कामवशं गतोऽथ पप्रच्छ कांतां तटसस्थितां च ॥१५॥ काडसि प्रिये कस्य सुताऽसि कस्मादिह स्थिता त्वं विजने वरोऱ। एकाकिनी किं वद चारुनेत्रे विवाहिता वा न विवाहिताऽसि ॥१६॥ संजातकामोऽहमरालनेत्रे त्वां वीक्ष्य, कांतां च मनोहरां च। ब्रूहि प्रिये याऽसि चिकीर्षसि त्वं किं चेति सर्वं मम विस्तरेण ।१७।।
Page 84
श्रीमरेवीभागवते महापुराणे द्वित्ीवस्वन्धे अध्याय: ५ इत्येनमुक्त्ता सृदती नृपेण प्रोवाच तं सस्मितमंनुजेक्षणा। दाशस्य पुत्रीं त्वमवेहि राजन्कन्यां पितुः शासनसंस्थितां च ॥१८। तरीमिमां धर्मनमित्तमेव संवाहयामीह जले नृनेंद्र। पिता गृहे मेजद्य गतोडस्ति कामं सत्यं ब्रवीम्यर्थपते तवाग्रे ॥१९॥ इत्येवमुक्त्वा विरराम बाला कामातुरस्तां नृर्पातर्वभाषे। कुरुप्रवीर कुरु मां पति त्वं वृथा न गच्छेन्ननु यौवनं ते ॥२०॥ न चास्ति पत्नी मम वै द्वितीया त्वं धर्मपत्नी भव मे मृ्गाक्षि। दासोर्जस्म तेऽहं वशगः सदैव मनोभवस्तापयति प्रिये माम् ॥२१॥ गता प्रया मां परिहृत्य कांता नान्या वृताऽ्हं विधुरोर्जस्म कांते। त्वां वक्ष्य सर्वावयवातिरम्यां मनो हि जातं विवशं मदीयम् ।।२२।। श्रुत्वा-मृतास्वादरसं नृपस्य वचोऽतिरम्यं खलु दासकन्या। उवाच तं सात्विकभावयुक्ता कृत्वार्जतिधैर्यं नृपति सुगंधा ।।२३।। यदात्थ राजन्माय तत्तथव मन्येऽहमेतत्तु यथा वचस्ते। नास्मि स्वतंत्रा त्वमवेहि कामं दाता पिता मेऽर्थय तं त्वमाशु ॥२४॥ न स्वैरिणी हास्म्याप दाशपुत्री पितुर्वशेह सततं चर्राम। स चेद्ददाति प्रथितः पिता मे गृहाण पाणि वशगाइस्मि तेडहम् ॥२५॥ मनोसवस्त्यां नृप कि दुनोति यथा पुनर्मा नवयोवनां च। दुनोति तत्रापि हि रक्षणीया धृतिः कुलाचारपरंपरासु ॥२६॥ सूत उवाच इत्याकण्यं वचस्तस्या नृपततिः काममोहितः । गतो दाशपतेगेहं. तस्या याचनहेतबं ।।२७।। दूष्टा नृपतिमायांतं दाशोतिविरमयं गतः। प्रणामं नृपतेः कृत्वा कृतांजलरभाषत ॥२८॥ दाश उवाच दासोर्ऽस्सि तव भूपाल वृतार्थोऽहं तवागमे। आज्ञां देहि महाराज यदर्थीमह चागमः ॥२९॥ राजोवाच धर्मपत्नों करिष्यामि सुतामेतां तवानघ। त्वया चेद्दीयते मह्यं सत्यमेतद्बवीमि ते ॥३०॥ दाघ उवाच कन्मारत्नं मदीयं चैद्यत्त्वं प्रार्थयसे नृप। दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ।३१। तस्याः पुत्रो महाराज त्वदंते पृथिवीर्पातः । सर्वथा चाभिषेत्तव्यो नान्य: पुत्रस्तर्वेति ने ॥३२॥
1
Page 85
श्रीमदेवीमागवते महापुराणे द्वितांबस्कन्धे अध्यायः ५ सूत उवाच भुर्त वाक्यं तुदाशस्य राजा चिंतातुरोऽभवत्। गांगेयं मनसा कृत्वा नोवाच नृयनिस्तवा ।३३।। अवातुरो गृहं प्राप्तरश्रिताविष्टो महीपतिः । न सस्नौ बुभुजे नाथ न सुष्वाम गृहं गतः ॥३४॥ बिय्यापुरं दु तं दृष्टा पुत्रो देवव्रतस्तदा। गत्वाऽपृच्छन्महीपालं तदसंतोषकारणम्॥३५॥ पुर्णबः कोर्उस्ति शत्रुस्ते करोमि वशगं तव। का चिंता नृपशादूल सत्यं वद नृगेत्तम ।३६।। कि तेन जातेन सुतेन राजन्दुःखं न जानाति न नाशयेद्यः। ऋणं ग्रहीतुं समुपागतोऽसो प्राग्जन्मज़ं नात्र विचारणाऽस्ति ।३७॥। बिमुच्य राज्यं रघुनन्दनोऽपि ताताज्ञया दाशरथिस्तु रामः । वनं गतं लक्ष्मणजानकीम्यां सहैव शैलं किल चित्रकूटम्।३८।। सुतो हरिश्रन्द्रनृपस्य राजन् यो रोहितश्रेति प्रसिद्धनामा। क्रीतोऽथ पित्रा विपणोद्यतश्र दासा्पितो विप्रगृहे तु नूनम् ॥३९॥ तथाऽजिगर्तस्य सुतो वरिष्ठो नाम्ना शुनःशेप इति प्रसिद्धः । क्रीतस्तु पित्राप्यथ यूपबद्धः संमोचितो गात्रिसुनेन पश्चात्।४०।। पित्राज्ञया जामदग्न्येन पूर्वं छिन्नं शिरो मानुरिति प्रसिद्धम् । अकार्यमप्याचरितं च तेन गुरोरनुज्ञा च गरीयसी, कुता॥४१॥ इदं शरीरं तव भूपते न क्षमोडस्मि नूनं वद कि करोम्यहम् । न गोचनीयं मयि वर्तमानेऽप्यसाध्यमर्थ प्रनिपादयाम्यदः ।।४२।। प्रब्हि राजंस्तव काऽस्ति चिंता निवारयाम्यद्य धनुगृहोत्वा। देहेन मे चेच्चरितार्थता वा भवत्वमोघा भवतश्चिकोर्षा ॥४३।। विकं सुतं यः पितुरीप्मितार्थ क्षमोऽपि सत्न प्रतिपादयेद्यः । जातेन कि तेन सुतेन कामं पितुर्न चिंतां हि समुद्धरेद्यः ॥४४॥ सूत उवाच भिसम्पेति वचस्तस्य पुत्रस्य शंतनुर्नुपः। लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥४१॥ राजोवाच पिता मे महतो पुत्र यस्त्वमेकोऽसि मे सुतः। शूरोऽतिवलत्रान्मानी ससंप्रामेष्वपराङ्मुखः ॥४६॥ एजापत्यस्य मे तात वृथेदं जोवितं किल। मृने त्वयय मृधे कवापि कि करोमि निराश्रयः ॥४७।। एवा मे महती चिंता तेनाद् दुःखितोस्स्यहम्। नान्या चिताऽस्ति मे पुत्र यां तवाग्रे वदाम्यहम् ४८।।
Page 86
८६ श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ६ सूत उवाच पांडे सदाकर्ष्याथ गांगेयो मंत्रिवृद्धानपृच्छत । न मां वदतत भूपालो लज्जयाऽद्य परिप्लुतः॥४९॥ वित्त वार्तां नृपस्याद्य पृष्टा यूयं विनिश्चयात् । सत्यं ब्रुवंतु मां सर्वं तत्करोमि निराकुलः ॥५०॥ सच्छुत्वा ते नृपं गत्वा संविज्ञाय च कारणम्। शशंसुर्विदितार्थस्तु गांगेयस्तदचितयत् ॥५१॥ सहितस्तैर्जगामाशु दाशस्य सदनं तदा। प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥५२॥ कि गांगेय उवाच सू पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम्। माता मेडस्तु सुतेयं त दासोऽस्म्यस्याः परंतप ५३॥ दाश उवाच त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज । पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥५४॥ गांगेय उवाच मातेयं मम. दाशेयी राज्यं नैव करोम्यहम्। पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः॥५५॥ दाश उवाच सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवत्। सोऽपि राज्यं बलालनूनं गृह्लीयादिति निश्चयः॥५६॥ गांगेय उवाच न दारसंग्रहं नूनं करिष्यामि हि सर्वथा। सत्यं मे वचनं तात मया भीष्मं.व्रतं कृतम् ।५७॥ सूत उवाच एवं कृतां प्रतिज्ञां तु निशम्य झपजीवकः। ददौ सत्यवती तस्मै राज्ञे सर्वांगशोभनाम् ॥५८॥ अनेन विधिना तेन वृता सत्यवती प्रिया। न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥५९॥ इति श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्धे पंचमोऽध्यायः ॥५॥ अथ षष्ठोऽध्यायः सूत उाच एवं सत्यवती तेन वृता शंतनुना किल। द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि ।।१।। व्यासवीर्यात्तु संजातो धृतराष्ट्रोऽन्ध एव च। मुनि दृष्टाऽथ कामिन्या नेत्रसंमोलने कृते ।।२। श्वेतरूपा यतो जाता दृष्टा व्यासं नृपात्मजा। व्यासकोपात्समुत्पन्नः पांडुस्तेन न संशयः ॥३॥ संतोषितस्तया व्यासो दास्या कामकलाविदा । विदुरस्तु समुत्पंन्नो धर्माशः सत्यवाक्सुचिः ॥४।। राज्ये संस्थापितः पांडुः कनीयानपि मंत्रिभिः । अंधत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः ।५॥ भीष्मस्यानुमते राज्यं प्राप्तः पांडर्महाबलः । विदुरोऽप्यथ मेधावी मंत्रकार्ये नियोजितः ॥६॥ धृतराष्ट्रस्य द्वे भारये गांधारी सौबली स्मृता। द्वितीया च तथा वैश्या गार्हस्थ्येषु प्रतिष्ठिता॥७।
Page 87
शीमरेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ६ पांडोरपि तथा पतन्यों द्वे प्रोक्ते वेदवादिभिः । शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा ।।८।। गम्बारी सुषुवे पुत्रशतं परमशोभनम्। वैश्याप्येकं सुतं कांतं युयुत्सुं सुषुवे प्रियम् ।।९॥। कुन्ती तु प्रथमं कन्या सूर्यात्कणं मनोहरम्। सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः ॥१०॥ किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम। जनितश्र सुतः पूर्व पाण्डुना सा विवाहिता ।११।। ऋषय ऊचु: सूर्यात्कर्ण: कथं जातः कन्यायां वद विस्तरात् । कन्या कथं पुनर्जाता पांडुना सा विवाहिता ॥१२॥ सूत उवाच शूरसेनसुता कुन्ती बालभावे यदा द्विजाः। कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा ॥१३॥ कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता। सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी ॥१४।। दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः । परिचर्या कृता कुंत्या मुनिस्तोषं जगाम ह ॥१५॥ बदी मंत्रं शुभं तस्यै येनाहूतः सुरः स्वयम् । समायाति तथा कामं पूरयिष्यति वांछितम् ॥१६॥ गते मुनी ततः कुन्ती निश्चयार्थ गृहे स्थिता । चिन्तयामास मनसा कं सुरं समचिन्तये ॥१७॥ उदितश्र तदा भानुस्तथा दृष्टो दिवाकरः । मंत्रोच्चारं तथा कृत्वा चाहूतस्तिग्मगुस्तदा ॥१८।। मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम्। अवातरत्तदाकाशात्समोपे तत्र मन्दिरे ।।१९।। दूष्टा देवं समायांतं कुंती भानुं सुविस्मिता । वेपमाना रजोदोपं, प्राप्ता सद्यस्तु भामिनी ॥२०॥ कतार्आल: स्थिता सूर्यं बभाषे चारुलोचना। सुप्रीता दर्शनेनाद् गच्छ त्वं निजमंडलम् ॥२१॥ सूर्य उवाच बाहूतोऽस्मि कथं कुंति त्वया मन्त्रबलेन वै। न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् ॥२२॥ कामातोऽस्म्यसितापांगि भज मां भावसंयुतम्। मंत्रेणाधीनतां प्रातां क्रीडितुं नय मामिति ॥।२३।। कन्याइस्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम। तवाप्यहं न दुर्वाच्या कुलकन्याऽस्मि सुव्रत ॥२४॥ कुन्त्युवाच
सूंय उवाच लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा । वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः ॥२५॥ पप्स्यामि तं द्विजं चाद्य येन मंत्रः समर्पितः । त्वां चापि सुभृशं कुंति नोचेन्मां त्वं भजिष्यसि ॥ कन्याधर्म: स्थिरस्ते स्यान्न ज्ञास्यंति जना: किल । मत्समस्तु तथा पुत्रो भविता ते वरानने ॥२७॥ इत्युक्त्वा तरणिः कुंतीं तन्मनस्कां सुलज्जिताम्। भुक्त्वा जगाम देवेशो वरं दत्त्वाऽतिवांछितम् ॥ नमं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता। धात्री वेद प्रिया चैका न माता न जनस्तथा ।२९।। गुः सदनि पुत्रस्तु जातश्रातिमनोहरः । कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः ।३०।
Page 88
८८ श्रीमहेतरीभागवत महापुराणे द्वित.यस्कन्धे अध्याय: ६ द्रितीय इव सूर्यस्तु कुमार इव चापरः। करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ।३१॥ निमंत्रयेS कां चिंतां करभोरु त्वमाधत्सेऽद्यस्थिताऽस्म्यहम। मंजूषायां सुतं कुंती मुंचंती वाक्यमन्ीत्।३२॥ भर्तुर्वाक्ये कि करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम्। मंदभाग्या त्यजामि त्वां स्वलक्षणसंयुतम् ।३३॥ बायोर्वृक पातु त्वां सगुणाऽगुणा भगवती सर्वेश्वरी चाम्बिका माद्री प्र स्तन्यं सैव ददातु विश्वजननी कात्यायनी कामदा। प्रार्थिता द्रक्येहं मुखपङ्गजं सुललितं प्राणप्रियाहं कदा स्मृत्वा त्यकत्वा त्वां विजने वने रविसुतं दुष्टा यथा स्वैरिणी ॥३४॥ एवं ते पूर्वस्मिन्नपि जन्मनि त्रिजगतां माता न चाराधिता एकसि न ध्यातं पदपङ्गजं सुखकरं देव्याः शिवायाश्चिरम्। मा मा तेनाहं सुत दुर्भगाडस्मि सततं त्यक्त्वा पुनस्त्वां वने बथा तप्स्यामि प्रिय पातकं स्मृतबती बुद्धया कृतं यत्स्वयम् ॥३५॥ प्रस्था सूत उवाघ मृतः इत्युक्त्वा तं सुतं कुन्ती मंजषायां धृतं किल। धात्रीहस्ने ददौ भीता जनदर्शनतस्तथा॥३६॥ बक्रे स्नात्बा त्रस्ता तदा कुंती पितृवेष्मन्युवास सा। मज्जूपा वहमाना च रप्ता ह्यविरथेन वै ॥३७॥। जल राधा सूतस्य भार्या वै तयाऽसौ प्राथितः सुतः। कर्णेडभूढलवान्वीरः पालितः सूतसझमनि ॥३८॥ सां कुन्ती विवाहिता कन्या पाण्डुना सा स्वयंवरे। माद्री चवापरा भार्या मद्रराजसुता शुभा ॥३९॥ पप्र मृगयां रममाणस्तु वनें पाण्डुर्महाबलः । जघान मृगबुद्धया तु रममाणं मुनिं वने ॥४०॥ शसस्तेन तदा पाण्डुर्मनिना कुपितेन च । स्त्रीसंगं यदि कर्ताऽसि तदा ते मरणं ध्रुवम् ।४१॥ सा
इति शप्तस्तु मुनिना पांडुः शोकसमन्वितः । त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥४२॥ कुंती माद्री च भार्ये द्वे जग्मतुः सह संगते। सेवनार्थ सतीधमं संश्रिते मुनिसत्तमाः ॥४३॥ ग
गङ्गातीरे स्थितः पाण्डु्मुनीनामाश्रमेषु च / शृष्वानो धर्मशास्त्राणि चकार दुश्षरं तपः ॥४४॥ कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् । अशृणोदचनं राजा सुपृष्टं मुनिभाषितम् ।४५।। अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तु परंतप । येन केनाप्युपायेन पुत्रश्य जननं चरेत्।४६।। अंशज: पुत्रिकापुनः क्षेत्रजो गोलकस्तथा। कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ॥४७॥ दत्त: केना।प चाशक्तौ धनग्राहिसुताः स्मृताः । उत्तरोत्तरनः पुत्रा निकृष् इति निश्चयः ॥४८।। इत्याकर्ण्य तदा प्राह कुंती कमललोचनाम् । सुतमृत्पादयाशु त्वं मुनि गत्बा तपोन्वितम् ॥४९।। ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना । वसिष्ठाज्जनितः पुत्रः सौदासेनेति मेश्रुतम् ॥५०॥ तं कुन्ती वचनं प्राह मम मंत्रोऽस्ति कामदः । दत्तो दुर्बाससा पूर्व सिद्धिदः सर्वथा प्रभो ॥५१॥
1
Page 89
श्रीमहेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ७ निमंत्रयेऽहं यं देवं मंत्रेणानेन पार्थिव। आगच्छेत्सर्वथासौ वै मम पार्श्व निमंत्रितः ।।-॥ भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्म सुरोत्तमम्। संगम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ।५३॥ वायोर्वृकोदरं पुत्रं जिष्णुं चंत्र शतक्रतोः । वर्षे वर्षे त्रयः पुत्राः कुंत्या जाता महावलाः ॥५४॥ माद्री प्राह पति पांडुं पुत्रं मे कुरु सत्तम। कि करोमि महाराज दुःखं नाशय ने प्रभो ॥५५॥ प्रार्थिता पतिना कुन्ती ददी मंत्रं दयान्विता । एकपुत्रप्रबंधेन माद्रो पतिमते स्थिता ॥५६॥ स्मृत्वा तदाश्चिनौ देवौ मद्रराजसुता सुतौ। नकुलः सहदेवश्र सुषुवे वरवगिनी ॥५७।। एवं ते पांडवाः पञ्च क्षेत्रोत्पन्नाः सुरात्मजाः । वर्षवर्षान्तरे जाता वने तस्मिन्द्रिजोत्तमाः ॥५८॥ एकस्मिन्समये पांडुर्माद्रीं दृष्टाऽथ निर्जने। आश्रमे चातिकामारतो जग्राहागतवैशसः ॥५९॥ मा मा मा मेति बहुधा निषिद्धोऽपि तया भृरम् । आलिलिंग प्रियां दैवात्पपात धरणीतले ॥६०॥ यथा वृक्षगता वल्ली छिन्ने पतति वै दरुमे। तथा सा पतिता बाला कुर्वती रोदनं वहु ।।६१।। प्रत्यागता तदा कुन्ती रुदती बालकास्तथा। मुनयश्च महाभाग श्रुत्वा कोलाहलं तदा ॥६२।। मृतः पांडुस्तदा सर्वे मुनयः संशितव्रताः। सहाग्निभिविधि कृत्वा गंगातीरे तदाऽदहन् ।६३॥ बक्रे सहैव गमनं माद्री दत्त्वा सुती शिशू। कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः ॥६४॥। जलदानादिकं कृत्वा मुनयस्तत्र वासिनः। पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥६५॥ सां प्राप्तां च समाज्ञाय गांगेयो विदुरस्तथा। नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः ॥६६॥। पप्रचछुश्र जना: सर्वे कस्य पुत्रा वरानने। पांडोः शापंसमाज्ञाय कुन्ती दुःखान्विता तदा ६७।। तानुवाच सुराणां वै पुत्राः 'कुरुकुलोद्गवाः। विश्वासार्थ समाहूताः कुंत्या सरबे सुरास्तदा ॥६८।। मानत्य ले तदा तैस्तु कथितं नः सुताः किल। भीष्मेण सत्कृतं वाक्यं देवानां सत्कृता: सुता: ६९ गता नागपुरं सर्वे तानादाय सुतान्वधूम्। भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः । एवं पार्थाः समुत्पन्ना गांगेयेनाथ पालिताः।।७०।। इति श्रदेवीभागवते महापुराणे द्वितीयस्कन्धे षष्टोऽध्यायः ॥। ६॥ अथ सप्तमोऽध्यायः पञ्ञानां. द्रौपदी भार्या सा. मान्या सा पतिव्रता। पञ्च पुत्रास्तु तस्याः स्युर्भर्तृम्योऽतीव सुंदराः ।१।। सूत उत्ाय अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा। सुभद्रा या हृता पूर्व जिष्णुना हरिसंमते ।।२।। तस्यां जातो महावीरो निहतोऽसौ रणाजिरे ; अभिमन्युर्हतस्तत्र द्रौपद्याश्र सुतः किल॥३॥ भभिमन्योरबरा भार्या वैराटी चातिसुंदरी। कुलांते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥४॥ भीगितः स तु कृष्णेन भाजिनेयसुन: स्वयम् । द्रौणिवाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ।।५।।
Page 90
९० श्रीमद्वेवीभागवते अहापुराणे द्विवीयस्कम्पे अध्याय: ७ परिक्षीणेषु वंशेषु जातो यस्माद्वर: सुतः । तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥६॥ निहृतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः । तस्थौ पांडवराज्ये च भीमवाग्बाणपीडितः ।७॥ गांधारी च तथाऽतिष्टत्पुत्रशोकातुरा-भृशम्। सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥८॥ विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत्। युघिष्ठिरस्यानुमते भ्रातृपाशवं व्यतिष्ठत।।९। धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः। पुत्रशोकोद्रवं दुःखं तस्य विस्मारयन्निव ॥१०॥ यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः । वाग्बाणेनाहनत्तं तु श्रावयन्संस्थिताअ्नान् ॥११। मया पुत्रा हता: सर्वे दुष्टस्यांधस्य ते रणे। दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥१२। भुनक्ति पिण्डमंधोडयं मया दत्तं गतत्रपः । ध्वांक्षवद्रा श्ववच्चापि वृथा जीवत्यसौ जनः ॥१३॥ एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् । आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् १४।। अष्टादशैव वर्षाणि स्थित्वा तत्रंव दुःखितः। धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम्॥१५॥ अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः । पुत्रेभ्याऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥१६॥ बृकोदरेण सर्वेषां कृतमत्रौध्वदैहिकम्। न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥१७॥ ददासि चेद्धनं मह्यं कृत्वा चवौरध्वदैहिकम् । गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥१८॥ एकांते विदुरेणोक्तो राजा धर्मसुतः शुचिः। धनं दातुं मनश्चक्े धृतराष्ट्राय चार्यिने ॥१९॥ समाहूय निजान्सर्वानुवाच पृथिवीपतिः । धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥२०॥ तच्छ्रत्वा वचनं भ्रातुर्ज्येष्ठस्यामिततेजसः । संग्रहेऽस्व महाबाहुर्मारुतिः कुपितोऽश्रवीत् ॥२१॥ धनं देयं महाभाग दुर्योधनहिताय किम्। अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् २२॥ तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम्। द्रौपदी च महाभागा समानीता दुरात्मना ।२३। विराटभवने वासः प्रसादात्तव सुव्रत। दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥२४॥ देविता त्वं न चेज्ज्येष्ठः प्रभवेत्संक्षयः कथम् । सूपकारो विराटस्य हत्वाऽभूवं तु मागधम् ॥२५॥ बृहन्नला कथ जिष्णुर्भवेद्वालस्य नर्तकः । कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥२६॥ गांडीवशोभितौ हस्तौ कृतौ कंकणशोभितौ। मानुषं चवपुः प्राप्य कि दुःखं स्यादतः परम् २७॥ दृष्टा वेणीं कृतां मूध्नि कज्जलं लोचने तथा। असिं गृहीत्वा तरसा छेद्ययहं नान्यथा सुखम्॥२८॥ अपृट्टा च महोपालं निक्षिप्तोऽग्निर्मया गृहे। दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोजनः॥२९॥ कीचका निहताः सर्वे त्वामपृष्ठा जनाधिप। न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥३०॥ मूर्खत्वं तव राजेन्द्र गंधर्वेभ्यश्च मोचिताः । दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥३१॥ दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि। नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥३२॥ इत्युक्त्वा निर्गते भीमे त्रिभि: परिवृतो नृपः । ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः॥३३॥
Page 91
श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ७ ९१ कत्योष्वदैहिकं सवं गांधारोसहितो नृपः। प्रविवेश वनं तूर्ण कुंत्या च विदुरेण च।।३५। संजयेन परिज्ञातो निर्गतोऽसौ महामतिः । पुत्रनिवार्यमाणोऽपि शूरसेनसुता गता ॥३६॥ विलपन्भीमसेनोऽपि तथाऽन्ये चापि कौरवाः । गंगातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥३७॥ से गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् । कृत्वा तृणैः कुटों तत्र तपस्तेपुः समाहिताः ॥३८। गतान्यब्दानि षट् तेषां यदा याता हि तापसाः । युधिष्ठिरस्तु विरहात्तनुजानिदमव्रवीत् ॥३९॥ स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता। मनो मे जायते द्रष्टुं भातरं पितरौ तथा॥४०॥ बिदुरं च महात्मानं संजयं च महामतिम् । रोचते यदि वः सर्वान्व्रजाम इति मे मतिः ॥४१॥ ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा। वैराटी च महाभागा तथा नागरिको जनः ॥४२॥ प्राप्ताः सर्वजनः सार्ध पांडवा दर्शनोत्सुकाः । शतयूपाश्रमं प्राप्य ददशुः सर्व एवं ते॥४३॥ बिदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा । क्वास्ते स विदुरो धीमांस्तमुवाचांविकासुतः॥४४॥। बिरक्श्चरते क्षत्ता निरीहो निष्परिग्रहः । कुतोऽप्येकांतसंवासी ध्यायतेऽतः सनातनम् ॥४५॥ गंगां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः । ददर्श विदुरं क्षामं तमसा शसितव्रतम् ॥४६॥ दृष्टोवाच महीपालो वंदेहं त्वां युधिष्ठिरः । तस्थौ श्रत्वा च विदुरः स्थाणुभूत इवानघः ॥४७॥ क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम्। लीनं युधिष्टिरस्यास्ये धर्मांगत्वात्परस्परम् ॥४८॥ क्षता जहो तदा प्राणाञ्छुशोचातियुधिष्टिरः । दाहार्थ तस्य देहस्य कृतवानुदयमं नृपः ॥४९॥ शृण्वतस्तु तदा राजो वागुवाचाशरीरिणी। विरक्त्तोडयं न दाहारहो यथेष्टं गच्छ भूपते ॥५०॥ श्रत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले। गत्वा निवेदयामासुर्धृतराष्ट्रय विस्तरात् ।५१॥ स्थितास्तन्राश्रमे सर्वे पांडवा नागरैः सह। तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥५२॥ मुनयोऽन्ये महात्मानश्चागता धर्मनंदनम्। कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम्॥५३॥ कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः । मनो मे तप्यतेऽत्यर्थ दर्शयस्व तपोधन ।५४॥ गांधायुवाच समर्थोडसि महाभाग कुरु मे वांछितं प्रभो। दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥५५॥ सुभद्रोवाच तं दर्शय मुनिश्रेष्ट पुत्रं मे त्वं सहानुजम्। अभिमन्युं महावीरं प्राणादप्यधिकं= प्रियम् ॥५६॥ द्रष्टुकामाडस्मि सर्वज्ञ दर्शयाद्य तपोधन । एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥५७॥ प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् । संध्याकालेऽथ संप्राप्ते गङ्गायां मुनिसत्तमः ॥५८॥ सर्वास्तांश्र समाहूय युधिष्टिरपुरोगमान्। तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥५९॥ प्रकृति पुरुषारामां सगुणां निर्गुणां तथा। देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥६०॥
Page 92
९२ श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ८ य्रदा न वेधा न च विष्णुरीश्वरो न वासवो नैव जलाधिपस्तथा। न वितषो नैव यमश्र पावकस्तदाऽसि देवि त्वमहं नमामि ताम् ॥६१। जलं न वायुरन धरा न चांबरं गुणा न तेषां च न चेंद्रियाण्यहम्। मनो न बुद्धिन च तिग्मगुः शशी तदाइसि देवि त्वमहं नमामि ताम् ।६२।। इमं जीवलोकं समाधाय चित्ते गुर्णैलिंङ्गकोशं च नीत्वा समाधौ। स्थिता कल्पकालं न यस्यात्मतंत्रा न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥६३॥ प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः। नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥६४।। सूत उवाच एवं स्तुता तदा देवी माया श्रीभुवनेश्ररी। स्वर्गादाहय सर्वान् वै दर्शयामास पार्यिवान् ।६५।। दंष्टा कुन्ती च गांधारी सुभद्रा च विराटजा। पांडवा मुमदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥६६।। पुनर्विसर्जितास्तेन व्यासेनामिततेजसा । स्मृत्वा देवीं महामायामिंद्रजालमिवोद्यतम् ॥६७॥। तदा पृष्ठा ययुः सर्वे पांडवा मुनयस्तथा। राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥६८।। इति श्रीदेवीभागवते महापुराणे द्वितीयस्कन्धे सप्तमोऽध्यायः॥।७॥ अथ अष्टमोऽन्यायः सूत उवाय ततो दिने तृतीये च श्रृतराष्ट्रः स भूपतः । दावाग्निना बने दग्वः सभार्यः कुंतिसंयुतः ॥१॥ संजयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम्। श्रुत्वा युधिष्टिरो राजा नारदाद्दुःखमाप्तवान् ॥।२।। बट्त्रिशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः । प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥३॥ से पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् ! क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥४॥ देहं तत्याज रामस्तु कृष्णः कमललोचनः । व्याघवाणहृतः शापं पालयन्भगवान्हरिः ॥।५॥। बसुदेवस्तु तच्त्रुत्वा देहत्यामं हरेरथ । जहो प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥६॥ अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः । संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह।।७।। समीक्ष्याथ हरे्देंहं कृत्वा काष्ठस्य संचयम् । अष्टाभि: सह पत्नीभिर्दाहयामास पार्यिबः ।।८।। येह रामस्य रेवत्या सह दग्व्वा विभावसो। अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ।।९॥ पुरी सा वासुदेवस्य प्लाबितोदधिना ततः । अर्जुनः सर्वलोकान् वै गृहीत्वा निर्गतस्तदा ॥१०। कृष्णपतन्यस्तदा मार्गे चोराभीरैश्र लुंठिताः। धनं सबं गृहीतं च निस्तेजश्रार्जुनोऽभवत् ॥११॥ इन्द्रप्रस्थे समागत्य वज्तो राजा कृतस्तदा : अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥१२॥
Page 93
श्रीमद्ेबीमानवते महापुराणे द्वितीयरय्वे अध्याय: ८ ९३: व्यासाय रथितं दुःखं तेनोक्तोऽसौ महारथः । पुनर्यदा हरिस्त्वं च भविताऽसि महामते ॥१३॥ तदा तेजस्तवात्युग्रं भविष्यति पुनर्युने । तच्घुत्वा वचनं पार्थो भत्वा नागपुरेऽर्जुनः ॥१४॥ दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत्। देहत्यागं हरे: श्रुत्वा यादवानां क्षयं तथा ॥१५॥ गमनाय मति चक्रे राजा हैमाचलं प्रति। षट्त्रिशद्वार्षिक राज्ये स्थापयित्वोत्तरासुतम्॥१६॥ निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह । षट्त्रिशच्चव वर्षाणि कृत्वा राज्यं गजाह्वये १७।। गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः । परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः १८।। अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतंद्रितः । बभूव मृगयाशीलो जगाम च वनं महत् ॥१९॥ बिद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् । तृषितश्व परिश्रांतः क्षुधितश्वोत्तरासुतः ॥२०॥ राजा धर्मेण संतप्तो ददर्श मुनिमंतिके। ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥२१। नोबाच किंचिन्मोनस्थश्चुकोप नृपतिस्तदा। मृतं सर्प तदाऽडदाय धनुष्कोटया तुपातुरः ॥२२॥ कलिनाSSविष्टचचत्तस्तु कंठे तस्य न्यवेशयत् । आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥२३॥ न चचाल समाधिस्थो राजाऽपि स्वगृहं गतः । तस्य पुत्रोऽतितेजस्वी गवि जातो महातपाः २४॥ महाशाक्त्तोऽथ शुश्राव क्रीडमानो वनांतिके। मित्राण्याहुश्र तत्पुत्रं पितुः कंठे तवाधुना ॥२५॥ लंभितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर। तेपां तद्चनं श्रुत्वा चुकोपातिशयं तदा ॥२६॥ शशाप नृपति क्रुद्धो गृहीत्वाऽडशु करे जलम् । पितु: कंठेडद्य मे येन विनिक्षिप्तो मृतोरगः ॥२७॥ तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम्। मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ शापं निवेदयामास मुनिपुत्रेण चार्पितम् । अभिमन्युसुतः श्रुत्वा शापं दत्तं ट्विजेन वै ॥२९॥ अनिवार्य थ विज्ञाय मंत्रिवृद्धानुवाच ह। शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥३०॥ कि विधेयं मयाऽमात्या उपायश्चित्यतामिह। मृतयुः किलानिवार्योऽसी वदंति वेदवादिनः ॥३१। यत्नस्तथापि शास्त्रोक्त: कर्तव्यः सर्वथा नुघैः । उपायवादिनः केचित्प्रवदंति मनीषिणः ॥३२॥ विज्ञोपायेन सिध्यंति कार्याणि नेतरस्य थ । मणिमंत्रौषधीनां वै प्रभावाः खलु दुविदः ॥३३॥ न भवेदिति किं तैस्तु मणिर्मान्द्धः सुसाधितैः । सर्पदष्टा पुरा भार्या मुनेः संजीविता मृता ॥३४॥ दसबाऽर्घमायुषस्तेन मुनिना सा वराप्सराः । भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः ॥३५॥ प्रत्यक्षं तत्र दृष्टांतं पश्यंतु सचिवाः किल। दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित् ॥ देवे मति समापाय यसळ्ठेतु निरुद्यमः । बिरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा ॥३७॥ गृहस्थानां गृहे काममाहतो वाऽथक्यय। यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे ॥३८।। उद्यमेन िना चाम्यादुदरे संविषेत्वथम्। प्रयत्नश्रोदमे कार्यो यदा सिद्धिं न याति चेत् ।।
Page 94
श्रीमदेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ९ नदा देवं स्थितं चेति चित्तमालंबयेद्बुधः । मंत्रिण ऊचु: को मुनिर्येन दत्त्वाऽर्धमायुषो जीविता प्रिया॥४०॥ कथं मृता महाराज तन्नो ब्रूहि सविस्तरम्। राजोवाच भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी।।४१।। तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः । च्यवनस्य च शर्यातेः सुकन्यानाम सुन्दरी ॥४२॥ तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः । प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ४३॥ रुरुर्नाम सुतो जातस्तथा परमतापसः । तस्मिंश्र समये कश्चित्स्थूलकेशश्च विश्रुतः ॥४४॥ बभूव तपसा युक्तो धर्मात्मा सत्यसंमतः । एतस्मिन्नंतरे मान्या मेनका च वराप्सराः॥४५॥ क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी। गर्भं विश्वावसोः प्राप्य निर्गता वरवणिनी ॥४६॥। स्थूलकेशाश्रमे गत्वा विससर्ज वराप्सराः । कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ४७॥ दूष्टाऽनाथां तदा कन्यां जग्राह मुनिसत्तमः । पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम् ।४८।। सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता। रुरुर्दृष्वाथ ता बालां कामबाणार्दितो हयाभूत् ।४९।। इति श्रीदेवीभागवते महापुराणे द्वितीयस्कन्धेऽष्टमोऽध्यायः ।।८।। अथ नवमोऽध्यायः परीक्षिदुवाच कामार्तः स मुनिर्गत्वा रुरु: सुप्तो निजाश्रमे। पिता पप्रच्छ दीनं तं कि रुरो विमना असि ।।१।। स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे । कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥।२।। स गत्वा प्रमतिस्तूणं स्थूलकेशं महामुनिम् । प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥३॥ ददो वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि । विवाहार्थं च संभारं रचयामासतुर्वने ॥४। प्रमतिः स्थूलकेशश्र विवाहार्थं समुद्यतौ। बभूवतुर्महात्मानौ समीपस्थौ तपोवने ।।५॥ तस्मिन्नवसरे कन्या रममाणा गृहांगणे। प्रसुप्ं पन्नगं पादेनास्पृशच्चारुलोचना ॥६॥ दष्टा तु पन्नगेनाथ सा ममार वरांगना। कोलाहलस्तदा जातो मृतां दृष्टा प्रमद्वराम् ।।७।। मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः । भूमौ तां पतितां दृष्टा पिता तस्यातिदुःखितः ॥८॥ रुरोद विगतप्राणां दीप्यमानां सुतेजसा। रुरुः श्रुत्वा तदाऋ्रंदन्दर्शनार्थं समागतः ।९॥ इदर्श पतितां तत्र सजीवामिव कामिनीम्। रुदंतं स्थूलकेशं च दृष्टाऽन्यानृषिसत्तमान् ।१०।
Page 95
श्रीमदेवीभागवते महापुराण द्वितीयस्कन्धे अध्याय: ९ ९५ ररः स्थानाद्वहिर्गत्वा रुरोद विरहाकुलः । अहो दैवेन सर्पोऽयं प्रेषितः परमाद्ुतः ॥११॥ भम शर्मविघाताय दुःखहेतुरयं किल । कि करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥। न वै जीवितुमिच्छामि वियुक्तः प्रिययाऽनया। नार्लिंगिता वरारोहा न मया चुम्बिता मुखे ।।१३।। न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा। लाजाहोमस्तथा चाग्नो न कृतस्त्वनया सह ।।१४।। मानुष्यं विगिदं काम गच्छंत्वद्य ममासवः । दुःखितस्य न वा मृत्युर्वांछितः समुपैति हि ॥१५॥ सुखं तहिं कथं दिव्यमाप्यते भुवि वांछितम् । प्रपतामि हरदे घोरे पावके प्रपताम्यहम् ॥१६।। विषमग्नि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् । विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥१७॥ उपायं चितयामास स्थितस्तस्मिन्नदीतटे। मरणात्कि फलं मे स्यादात्महत्या दुरत्यया ॥१८।। दुःखितश्र पिता मे स्याज्जननी चातिदुःखिता। दैवस्तृष्टो भवेत्कामं दृष्टा मां त्यक्तजीवितम् ।१९। सर्वः प्रमुदितश्च स्यान्मत्क्षयेनात्र संशयः । उपकारः प्रियायाः कः परलोके भवेदपि ॥२०॥ मृते मय्यात्मघातेन विरहात्पीडितेऽपि च । परलोके प्रिया साऽपि न मे स्यादात्मघातिनः ॥ एतदर्थ मृते दोषा मयि नैवामृते पुनः। विमृश्यैवं रुरुस्तत्र स्नात्वाऽडचम्य शुचिः स्थितः ॥ २२॥ अब्रवीदवचनं कृत्वा जलं पाणावसी मुनिः । यन्मया सुकृतं किंचित्कृतं देवारचनादिकम् ॥२३॥ गुरबः पूजिता भक्त्या हुतं जप्तं तपः कृतम् । अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥२४॥ रविराराघितस्तेन संजीवतु मम प्रिया। यदि जीवेन्न मे कांता त्यजे प्राणानहं ततः ॥२५॥ इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः। राजोवाच एवं विलपतस्तस्य भार्यया दुःखितस्य च॥ २६ ।। देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं ततः। देवदूत उवाच माकार्षीः साहसं ब्रह्मन् कथं जीवेन्मृता प्रिया॥ २७॥ गतायुरेषा सुश्रोणी गंधर्वाप्सरसोः सुता। अन्यां कामय चार्वंगों मृतेयं चाविवाहिता ॥।२८।। कि रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह। रुरुवाच देवदूत न चान्यां वै वरिष्याम्यहमंगनाम् ॥ २९॥ यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया।
Page 96
५६ श्रीमहेवीभागवते महापुराणे द्वितीयस्कन्धे, अध्यायः ९ राजोवाच विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥३०॥ उवाच वचनं तथ्यं सत्यं चातिमनोहरम्। उपायं शृणु विप्रेंद्र विहितं यत्सुरैः पुरा ॥३१ आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम्। रुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः ॥३२॥ अद्य प्रत्यावृतप्राणा प्रोत्तिष्टतु मम प्रिया। विश्वावसुस्तदा तत्र विमानेन समागतः ॥३३ ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम्। ततो गंधर्वराजश्च देवदूतश्च सत्तमः ॥३४ धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्। धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा॥३५ सुता प्रमद्वरा कन्या दष्टा सर्पण चाधुना। सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ॥३६ समुत्तिष्टतु तन्वंगी व्रतचर्याप्रभावतः । धम उवाच विश्वावसुसुतां कन्यां देवदूत यदीच्छसि ॥३७॥ उत्तिष्त्वायुषोऽर्घेन रुरं गत्वा त्वमर्पय । राजोवाच एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ॥३८॥ रुरो: समर्पयामास देवदूतस्त्वरान्वितः । ततः शुभेजह्न विधिना रुरुणाऽपि विवाहिता ३९॥ इत्थं वोपाययोगेन मृताप्युज्जीविता तदा। उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसंमत. ॥४०॥ मणिमंत्रौषधीभिश्व विधिवत्प्राणरक्षणे। इत्युक्त्वा सचिवात्राजा कल्पयित्वा सुरक्षकान् ॥४१।। कारयित्वाऽथ प्रासादं सप्भूमिकमुत्तमम् । आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ।४२।। मणिमंत्रधराः शूरा: स्थापितास्तत्र रक्षणे। प्रेपयामास भूपालो मु्नि गौरमुखं ततः ।४३॥ प्रसादार्थं सेवकस्य क्षमस्वति पुनः पुनः । ब्राह्मणान्सिद्धमंत्रज्ञात्रक्षणार्थमितस्ततः ॥४४॥ मंत्रिपुत्रः स्थितस्तत्र स्थापयामास दंतिनः । न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षित ॥४५॥ वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते। भक्ष्यभोज्यादिकं राजा तत्रस्थश्र चकारसः॥४६॥ स्नानसंध्यादिकं कर्म तत्रैव विनिवर्त्य च । राजकार्यागि सर्वाणि तत्रस्थश्चाकरोन्नृपः ॥४७॥ मंत्रिभि: सह संमंत्र्य गणयन्दिवसार्नाप। कश्चिच्च कश्यपो नाम ब्राह्मणो मत्रिसत्तमः ॥४८।
Page 97
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १०. ९७ शुश्राव च तथा शापं प्रातं राजा महात्मना। स धनार्थो द्विजश्रेष्ठः कश्यपः समचिंतयत् ॥४९॥ व्रजामि तत्र यत्रास्ते शतो राजा द्विजेन है। इति कृत्वा मति विप्रः स्वगृहान्निःसृतःपथि ॥५०॥ कश्यपो मंत्रविद्विद्वान्धनार्थी मुनिसत्तमः ॥५१॥ इति श्रीदेवीभागवते महापुराणे द्वितीयस्कंधे नवमोऽध्यायः ॥ ९॥ अथ दशमोऽध्यायः सूत उवाच तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम्। शतं ज्ञात्वा, गृहात्तूर्ण निःसृतः पुरुषोत्तम ।।१।। वृदब्राह्मणवेषेण तक्षकः पथि निर्गतः । अपश्यत्कश्यपं मार्गे व्रजंतं नृपतति प्रति ॥२॥ तमपुच्छन्पन्नगोऽसौ ब्राह्मणं मंत्रवादिनम्। क्व भवांस्त्वरितो याति कि च कार्य चिकीर्षति ३।। कश्यप उवाच परीक्षितं नृपश्रेष्ठ तक्षकश्च प्रधक्ष्यति । तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम्॥४॥ मंत्रोऽस्ति मम विप्रेद्र विषनाशकर: किल। जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ।।५।। तक्षक उवाच अहं स पत्रगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् । निवर्तस्व न शक्तस्त्वं मया दष्ट चिकित्सितुम् ॥६॥ कश्यप उताच अहं दष्ट त्वया सर्प नृपं शप्तं द्विजेन वै। जीवयष्याम्यसंदेहं कामं मंत्रबलेन वै ॥७॥ तक्षक उवाच यदि त्वं जीवितुं यासि मया दष्ट नृपोत्तमम्। मंत्रशकि बलं विप्र दर्शय त्वंममानघ ।।८।। धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्रभिरद्य वै।
कश्यप उवाच जीवययिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ।।९।।
सूत उवाच अदशस्पन्नगो वृक्षं भस्मसाच्च चकार तम्। उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥१०॥ दृष् भस्मीकृतं वृक्षं पन्नगेन विषाग्निना। सर्वं भस्म समाहृत्य कश्यपो वाक्यमत्रवीत् ।११।' पश्य मंत्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम । जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥१२॥॥
Page 98
१८ श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १० इत्युक्त्वा जलमादाय कश्यपो मंत्रवित्तमः । सिषेच भस्मराशि तं मंत्रितेनैव वारिणा ॥१३। तद्वारिसेचनाज्जातो न्यग्रोध: पूर्ववच्छुभः । विस्मयं तक्षकः प्राप्तो दृष्टा तं जीवितं नगम् १४॥ तमाह कश्यपं नागः किमर्थ ते परिश्रमः । सम्पादयामि तं कामं ब्रूहि वाडव वांछितम् ॥१५॥ कश्यप उवाच वित्तार्थी नृपति मत्वा शप्ं पन्नग निःसृतः । गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥१६॥ तक्षक उवाच वित्तं गृहाण विप्रेंद्र यावदिच्छसि पार्थिवात्। ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥१७ सूत उवाच तच्छ्रत्वा वचनं तस्य कश्यपः परमार्थवित् । चितयामास मनसा किं करोमि पुनः पुनः ॥१८। धनं गृहीत्वा स्वगृहं प्रयामि यद्यहं पुनः। भविष्यति न मे कीतिलोंके लोभसमाश्रयात्॥१९ जीवितेऽथ नृपश्रेष्ठे कीतिः स्यादचला मम। धनप्राप्तिश्र बहुधा भवेत्पुण्यं च जीवनात् ॥२०॥ रक्षणीयं यशः कामं धिग्धनं यशसा बिना। सर्वस्वं रघुणा पूर्व दत्तं विप्राय कीर्त्तये ।२१॥ हरिश्चंद्रेण कर्णेन कीर्त्यर्थ बहुविस्तरम्। उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ।।२२। जोवितेऽय्य मया राज्ञि सुखं सर्वजनस्य च। अराजके प्रजानाशो भविता नात्र संशयः ॥२३॥ प्रजानाशस्य पापं मे भविष्यति मृते नृपे। अपकीर्तिश्र लोकेषु धनलोभाद्गविष्यति ॥२४॥ इति संचित्य मनसाध्यानं कृत्वा स कश्यपः । गतायुषं च नृपति ज्ञातवान्बुद्धिमत्तरः ॥२५॥ आसन्नमृत्यु राजानं ज्ञात्वा ध्यानेन कश्यपः । गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥२६॥ निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम्। हंतुकामो जगामाशु नगरं नागसाह्वयम् ॥२७॥ शुश्राव नगरस्यांते प्रासादस्थं परीक्षितम्। मणिमंत्रौषधैः कामं रक्ष्यमाणमतंद्रितम् ॥२८॥ चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः । चिंतयामास योगेन प्रविशेयं गृहं कथम् ॥२९॥ वंचयामि कथं चैनं राजानं पांपकारिणम्। विप्रशापाद्वतं मूढं विप्रपीडाकरं शठम् ॥३०॥ पांडवानां कुले जातः कोऽपि नैतादृशो भवेत् । तापसस्य गले येन मृतः सर्पो निवेशितः ॥३१॥ कृत्वा विगहितं कर्म जानन्कालगर्ति नृपः । रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ।३२॥ मृत्युं वंचयते राजा वर्ततेऽ्य्य निराकुलः। तं कथं ध्क्षायष्यामि विप्रवाक्येन चोदितः ॥३३। न जानाति च मंदात्मा मरणं ह्यमिवर्तनम्। तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥३४! यादे वै विहितो मृत्युर्देवेनामिततेजसा। स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः ॥३५। पांडवस्य च दायादो जानन्मृत्यं गतं नृपः । जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ३६
1
Page 99
श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: १० ९९ दानपुण्यादिकं राजा कर्तुमहति सर्वथा। धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥३७।। नोचेन्मृत्युविधिं कृत्वा स्नानदानादिका: क्रियाः। मरणं स्वर्गलोकाय नरकायान्यथा भवेत् ॥३८॥ द्विजपीडाकृतं पापं पृथग्वाऽस्य च भूपतेः । विप्रशापस्तथा घोर आसन्ने मरणे किल ॥३९॥ न कोऽपि ब्राह्मण: पाश्वे य एनं प्रतिबोधयेत् । वेधसा विहितो मृत्युरनिवार्यस्तु सवंथा ।।४०।। इति संचित्य सर्पोडसी स्वान्नागान्निकटे स्थितान्। कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजंगमान् ।।४१।। फलमूलादिकं गृह्य राज्ञे नामोऽथ तक्षकः । स्वयं च कीटरूपेण फलमध्ये ससार ह॥४२॥ निर्गतास्ते तदा नागा: फलान्यादाय सत्बराः । ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ॥४३॥ रक्षकास्तापसान्दृष्टा पप्रच्छुस्तन्चिकीषितम् । ऊचुस्ते भूपति द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ४४ अभिमन्युसुतं वीरं कुलार्क चारुदर्शनम्। परिवर्धयितुं प्राप्ता मंत्रैराथर्वर्णस्तथा।४५।। निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन्। कृत्वाऽभिषेकान् यास्यामो दत्त्वा मिष्टफलानि च ।। भारतानां कुले क्वापि न दृष्टा द्वाररक्षकाः । न श्रुतं तापसानां तु राजोऽसंदर्शनं किल॥४७॥ आरोहामो वयं तत्र यत्र राजा परीक्षितः । आशीभिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥४८॥ सूत उवाच इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः । प्रत्यूचुस्तान्द्विजान्मत्वा निदेशं भूपतेर्यथा ॥४९॥ नाद् वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः। श्वः सर्वतापसैरत्र त्वागंतव्यं नृपालये ॥५०।। मनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः । बिप्रशापभयाद्राजा विहितोऽस्ति न संशयः ॥५१॥ तदोचुस्तानथो विप्रा: फलमूलजलानि च। विप्राशिषश्र राज्ञेजथ ग्राहयंतु सुरक्षकाः ॥५२॥ ते गत्वा नृपति प्रोचुस्तापसानागताञ्जनाः । राजोवाच नयध्वं वै फलमूलादिकं च यत् ।५३॥ पृच्छज्वं तापसान्कार्य प्रातरागमनं पुनः। प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥५४॥ ते गत्वाथ समादाय फलमूलादिकं च यत्। राजे समर्पयामासुर्बहुमानपुरःसरम् ॥५५॥ गतेषु तेषु नागेषु विप्रवेषावृतेषु च। फलान्यादाय राजाऽसौ सचिवानिदमब्रवीत् ॥५६॥ सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः। अदयंहं चैकमेतद्वै फलं विप्रापितं महत् ।५७।। इत्युक्त्वा तत्फलं दत्त्वा सुहृद्धयश्रोत्तरामुतः । करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥५८॥ विदारितं फलं राज्ञा तत्र क्रिमिरभूदणुः। स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥५९॥ तं दृष्टा नृपतिः प्राह सचिवान्विस्मितानथ । अस्तमभ्येति सविता विषादद्य न मे भयम् ॥६०॥ अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम्। एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत्॥६१॥ अस्तं याते दिवानाथे धृतः कंठेऽथ कीटकः । तृक्षकस्तु तदा जातः कालरूपी भयानकः ॥६२॥ राजा संवेष्टितस्तेन दष्टश्रापि महीपतिः । मंत्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥६३॥
Page 100
१०० श्रीमददेवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: ११
वेष्टितो धोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः। चुक्रश रक्षकाः सर्वे हाहाकारो महानभूत् ॥६४ भोगिभोगेन विनष्टबहुपोरुपः। नोवाच नृपतिः किचिन्न चचालोत्तरासुतः ॥६५ उत्थिताऽग्निशिखा घोरा विषजा तक्षकाननात्। प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह॥६६ हत्वाऽऽशु जीवितं राज्ञस्तक्षको गगने गतः । जगद्ग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥६७॥ स पपात गतप्राणो राजा दग्ध इव द्रुमः। चुक्रशुश्च जनाः सवे मृतं दृष्टा नराघिपम् ॥६८। इति श्रीदेवीभागवते द्विनीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः॥१०॥ अथ एकादशोऽध्यायः सूत उवाच गतप्राणं तु राजानं बालं पुतरं समीक्ष्य च। चक्रश्च मंत्रिण: सर्वे परलोकस्य सत्क्रियाः ॥१ गंगातीरे दग्धदेहं भस्मप्रायं महीपनिम्। अगुरुभिश्राभियुक्तायां चितायामध्यरोपयन् ।।२। दुर्मरणे मृतस्यास्य चक्रुश्चंवौर्ध्वदैहिकीम् । क्रियां पुरोहितास्तस्य वेदमन्त्रैविधानतः ।३॥ ददुर्दानानि विप्रेभ्यो गाः सुवर्ण यथोचितम् । अन्नं बहुविधं तत्र वस्त्रणि विविधानि च ॥४। सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम्। सिंहासने शुभे तत्र मंत्रिणः संन्यवेशयन् ।५॥ पोरा जानपदा लोकाश्रक्रुस्तं नृपति शिशुम्। जनमेजयनामानं राजलक्षणसंयुतम् ॥६॥ धात्रेयी शिक्षयामास राजचिह्वानि सर्वशः । दिने दिने वर्धमानः स बभूव महामतिः ॥७ प्राप्ते चैकादशे वर्षेतस्मै कुलपुरोहितः । यथोचितां ददी विद्यां जग्राह स यथोचिताम् ।।८। धनुर्वेदं कृपः पूर्ण ददावस्म सुसंस्कृतम्। अर्जुनाय यथा द्रोण:कर्णाय भार्गवो यथा ॥९॥ संप्राप्तविद्यो बलवान्बभूव दुरतिक्रमः । धनुर्वेदे तथा वेदे पारगः परमार्थंवित् ॥१०॥ धर्मशास्त्रार्थकुशल: सत्यवादी जितेन्द्रियः । चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ।११॥ ततः सुवर्णवर्माह्वो राजा काशिपतिः किल। वपुष्टमां शुभां कन्यां ददो पारीक्षिताय च ।।१२। स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः। काशिराजसुतां कांतां प्राप्य राजा यथा पुरा १३।। विचित्रवीर्यो मुमुदे सुभद्रां च यथाऽर्जुनः । विजहार महीपालो वनेषूपवनेषु च ॥१४॥ तया कमलपत्राक्ष्या शच्या शतक्रतुयथा। प्रजास्तस्य सुसंतुष्टा वभूवुः सुखलालिताः ॥१५॥ मंत्रिण: कर्मकुशलाश्चक्र: कार्याणि सर्वशः । एतस्मिन्नेव काले तु मुनिरुतंकनामकः ॥१६॥ तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात्। वैरस्यापचिति कोऽस्य बकुर्यादिति चिंतयन् ।१७। परीक्षितसुतं मत्वा तं नृपं समुपागतः । कार्याकार्यं न जानासि समये नृपसत्तम ।१८।। अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै। कि त्वां संप्रार्थयाम्यद्य गतामर्ष निरुद्यमम् ॥१९॥
Page 101
श्रीमद्देवीमागवते महापुराणे द्वितीयस्कन्धे अध्यायः ११ ९०९
अवैरज्ञमतंत्रज्ञं बालचेष्टासमन्वितम् । जनमेजय उवाच किं वैरं न मया ज्ञातं न कि प्रतिकृतं मया ॥२०॥ तद्वद त्वं महाभाग करोमि यदनंतरम्। उत्तंक उवाच पिता ते निहतो भूप तक्षकेण दुरात्मना ।।२१। मंत्रिणस्त्वं समाहूय पृच्छस्व पितृनाशनम् । सूत उवाच तच्छ्रुत्वा वचनं राजा पप्रच्छ मंत्रिसत्तमान् ।।२२।। ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः । उनमेजय उवाच शापांऽत्र कारणं राजः शप्तस्य मुनिना किल ।२३।। तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम। उत्तंक उवाच तक्षकेण धनं दत्वा कश्यपः सन्निवारितः ॥२४।। नस किं तक्षको वैरी पितृहा तव भूपते। भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ।२५॥ अविवाहिता तु मुनिना जीविता च पुनः प्रिया। रनणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥२६। यं यं सर्प प्रपश्यामि तं तं हन्म्यायुधेन वै। एवं कृत्वा प्रतिजां स शस्त्रपाणी रुरुस्तदा ।२७।। व्यचरत्पृथिवीं राजन्निध्नन्सपानितस्ततः । एकदा स वने घोरं डुण्डुभ जरसान्वितम् ॥२८।। अपश्यद्दंडमुद्यम्य हंतुं तं समृपाययौ। अभ्यहत्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥२१॥ नापराघ्नोमि ने विप्र कस्मान्मामभिहंसि वै। रुरुरुवाच प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥३०॥ प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता। डुण्डुभ उवाच नाहं दशामि तेऽन्ये वै ये दशंति भुजंगमाः ॥३१॥
Page 102
१०२ श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: ११ शरोरसमयोगेन न मां हिंसितुमर्हसि। उत्तंक उवाच श्रुत्वा ता मानुषी वाणीं सर्पेणोक्तां मनोहराम्॥३२।। रुरु: पत्रच्छ कोडसि त्वं कस्माड्डुण्डुभतां गतः। सर्प उवाच ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः ॥२३। विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेंद्रियः । स मया वंचितो मौर्स्यात्स्पं कृत्वा च तार्णकम् ॥३४॥ भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः। तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना ॥३५॥ भव सर्पो मंदबुद्धे येनाहं धर्षितस्त्वया। मया प्रसादितोऽत्यर्थ सर्पेणासौ द्विजोत्तमः ॥३६ मामुवाचाथ तत्क्रोधातिकचिच्छान्तिमवाप्य च। रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति ॥३७॥ प्रमतेस्तु सुतो नूनममिति मां सोत्रवीदवचः। सोऽहं स्पो रुरुस्त्वं च शृणु मे परमं वचः ॥३८ अहिंसा परमो धर्मो विप्राणां नात्र संशयः । दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता ॥३९॥ यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिकी मता। उत्तक उवाच • सर्पयोनेविनिर्मुक्त्तो ब्राह्मणोऽसौ रुरुस्ततः ॥४०॥ कृत्वा तस्य च शापांतं परित्यक्त च हिंसनम् । विवाहिता तेन बाला मृता संजीविता पुनः ।४१॥ कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन्। त्वंतु वैरं समुत्सृज्य वर्तसे पन्नगैष्वथ।४२।। विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै। अंतरिक्षे मृतस्तातः स्नानदानविवर्जितः ॥४३॥ तस्योद्धारं च राजेंद्र दुरु हत्वाऽथ पन्रगान् । पितुवेरं न जानाति जीवन्नेव मृतो हि सः ॥४४। दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि। अंबामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम ।।४५। सर्पसत्रं महाराजं पितुर्वेरमनुस्मरन् । सूत उवाच इति तस्य वच: श्रुत्वा राजा जन्मेजयस्तदा॥४६॥ नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः । धिङ्मामस्तु सुदुर्बुद्वेर्वृथा मानकरस्य वै॥४७॥ पिता यस्य गति घोरां प्राप्तः पन्नगपीडितः । अद्याहं मखमारभ्य करोम्यपचिति पितुः ॥४८॥ हत्वा सर्पानसदिग्धो दीप्यमाने विभावसौ। आह्य मंत्रिणः सर्वान् राजा वचनमब्रवीत् ।४९।।
Page 103
श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १२ कुवन्तु यज्ञसंभारं यथाहं मंत्रिसत्तमाः । गंगातीरे शुभां भूमि मापयित्वा द्विजोत्तमैः ॥५०॥ कुर्षन्तु मंडपं स्वस्थाः शतस्तंभं मनोहरम् । वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खल् ॥५१।। सदगत्वे विधेयो वै सर्पमत्रः सविस्तरः । तक्षकस्तु पशुस्तत्र होतोत्तंको महामुनिः ॥५२॥ शोघ्रमाहूयतां विप्रा: सर्वज्ञा वेदपारगाः । सूत उवाच मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैवि वक्षणाः ।५३।। यज्ञस्य सर्वसंभारं वेदीं यज्ञस्य विस्तृताम्। हवने वर्तमाने तु सर्पाणां तक्षको गतः ॥५४॥ इन्द्रं प्रति भयारतोऽहं त्राहि मामिति चात्रवीत्। भयभीतं समाश्वास्य स्व्रापने संनिवेश्य च ॥१५॥ ददावभयमत्यर्थ निर्भयो भव पन्नग। तमिंद्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा ॥५६॥ उत्तंकोऽह्वयदुद्विग्नः सेंद्रं कृत्वा निमन्त्रणम् । स्मृतस्तदा तक्षकेण यायावरकुलोद्वः ॥५७॥ आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः। तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ॥५८॥ राजा तमर्चयामास दृष्टा बालं सुपंडितम् । अर्चयित्वा नृपस्तं तु छंदयामास वांछितैः ॥५९॥ सतु वब्रे महाभाग यज्ञोऽयं विरमत्विति । सत्यबद्धो नृपस्तेन प्राथितश्र पुनस्तथा ॥६०॥ होमं निवर्तयामास सर्पाणां मुनिवाक्यतः । भारतं श्रावयामास वैशंपायन विस्तरात् ॥६१॥ श्रुत्वापि नृपतिः कामं न शांतिमभिजग्मिवान् । व्यासं पप्रच्छ भूपालो मम शांतिः कथं भवेत् ॥६२॥ मनोऽतिदह्यते कामं कि करोमि वदस्व भे। पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः ॥६३॥ क्षत्रियाणां महाभाग संग्रामे मरणं वरम्। रणे वा मरणं व्यास गृहे वा विधिपूर्वकम् ॥६४।। मरणं च पितुर्मेडभूदंतरिक्षे मृतोऽवशः। शांत्युपायं वदस्वात्र त्वं च सत्यवतीसुत ।६५॥ यथा स्वर्ग ब्रजेदाशु पिता मे दुर्गति गतः ।६६।। इति श्रीदेवीभागवते महापुराणे द्वितीयस्कन्धे एकादशोऽध्यायः॥।११॥ अथ द्वादशोऽध्यायः सूत उाच तच्तरुत्वा वचनं तस्य; व्यासः सत्यवतीसुतः । उवाच वचनं तत्र सभायां नृर्पात च तम् ॥१॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि पुराणं गुह्यमन्द्रतम् । पु्यं भागवतं नाम नानाख्यानयुनं शिवम् ॥२॥ अध्यापितं मया पूर्वं शुक्रायात्मसुताय वै। श्रावयामि नृप त्वां हि रहृस्यं परमं मम ॥३॥ धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल। शुभदं सुखदं नित्यं सर्वागमसमुद्धतम् ।।४।।
Page 104
श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १२ जनमेजय उवाच आस्तीकोडयं सुतः कस्य विघ्नार्थ कथमागतः । प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥५॥ कथयैतन्महाभाग विस्तरण कथानकम्। पुराणं च तथा सर्व विस्तराद्वद सुव्रत ॥६॥ व्यास उवाच जरत्कारुर्मुनिः शांतो न चकार गृहाश्रमम् । तेन दृष्टा वने गर्ते लंबमाना: स्वपूर्वजाः ॥७ ततस्तमाहु: कुरु पुत्र दारान् यथा च नः स्यात्परमा हि तृप्तिः । स्वर्गे व्रजामः खलु दुःखमुक्ता वयं सदाचारयुते सुते वै ।८॥ स तानुवाचाथ लभे समानामयाचितां चातिवशानुगां च। तदा गृहारंभमहं करोमि ब्रवीमि तथ्यं मम पूर्वजा वै ॥९॥ इत्युक्त्वा ताञ्जरत्कारुगतस्तीर्थान्प्रति द्विजः । तदैव पन्नगाः शप्ता मात्राऽग्नी निपतंत्विति ॥१०॥ -कश्यपस्य मुनेः पत्नी कद्रूश्च विनता तथा। दृष्टाऽऽदित्यरथे चाश्वमूचतुश्च परस्परम् ॥११॥ तं दृष्टा च तदा कदूविनतामिदमब्रवीत्। किवणोडयं हयो भद्रे सत्यं प्रब्रहि माचिरम् ।१२॥ विनतोवाच श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे। ब्रूहि वर्ण त्वमप्यस्य ततस्तु विपणावहे॥१३॥ कद्ररुवाच कष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते। एहि सार्ध मया दिव्यं दासीभावाय भामिनि ॥१४॥ सूत उवाच कद्रूशच स्वसुतानाह सर्वान्सर्पान्वशे स्थितान्। बालान् श्यामान्प्रकुर्वतु यावतोऽश्वशरीरके॥१५॥ नेति केचन तत्राहुस्तानथासौं शशाप ह। जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥१६॥ अन्ये चत्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः। वष्टयित्वाऽस्य पुच्छंतु मानुः प्रिरयचकीर्षया ॥१७॥ भगिन्यौ च सुसंयुक्ते गत्वा दद्शतुरहयम्। कर्बुरं तं हयं दृष्टा विनता चातिदुःखिता ।॥१८॥ तदाऽडजगाम गरुडः सुतस्तस्या महाबलः । स दृष्धा मातरं दीनामपृच्छत्पन्नमाशनः ॥१९॥ मातः कथं सुदीनाऽसि रदितेव विभासि मे। जीवमाने मयि सुते तथाऽन्ये रविसारथौ ॥२०॥ दुःखिताइसि ततो वां धिग्जीवितं चारुलोचने। किं जातेन सुतेनाथ यदि माता सुदुःखिता।२१॥ शंस मे कारणं मातः करोमि विगतज्वराम्। विनतोवाच सपत्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ।।२२।। वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत।
Page 105
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १२ १०५
गरड उवाच वहिष्येऽहं तत्र किल यत्र सा गंतुमुत्सुका ।२३॥ मा शोकं कुरु कल्याणि निश्चितां त्वां करोम्यहम् । व्यास उाच इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥२४॥ दासीभावमपाकर्तु गरुडोऽपि महाबलः। उवाह तां सपुत्रां वै सिंधोः पारं जगाम है ॥२५॥ गत्वा तां गरुडः प्राह ब्रहि मातर्नमोऽस्तु ते। कथं मुच्येत मे माता दासीभावादसंशयम् ॥२६॥ कद्ररुवाच अमृतं देवलोकात्त्वं बलादानीय मे सुतान् । समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥२७ ॥ व्यास उवाच इत्युक्त्तः प्रययो शीघ्रमिंद्रलोकं महाबलः । कृत्वा युद्धं जहाराशु सुधाकुंभं खगोत्तमः ॥२८॥ समानीयामृतं मात्रे वैनतेयः समर्पयत्। मोचिता विनता तेन दासीभावादसंशयम् ॥२९॥ अमृतं संजहारेन्द्रः स्नातुं सर्पा यदा गताः । दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥३०॥ तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः । द्विजिह्वास्ते सुसंपन्नाः कुशाग्रस्पर्शमात्रतः ॥३१॥ मात्रा: शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा । ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥३२॥ तानाह भगवान्ब्रह्मा जरत्कामर्महामुनिः। वासुकेरभगिनीं तस्मै अपयध्वं सनामिकाम् ॥३३॥ तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति। आस्तीक इति नामासौ भविता नात्र संशयः ॥३४॥ वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः गिवम्। वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥३५॥ समानां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम्। अप्रियं मे यदा कुर्यानदा तां संत्यजाम्यहम् ॥३६॥ वाग्बंधं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् । दत्त्वा च वासुकि: कामं भवनं स्वंजगाम ह् ॥३७॥ कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने। तया सह सुखं प्राप रममाणः परंतपः ॥३८॥ एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः । भगिनी वासुकेस्तन संस्थिता वरवगिनी ॥३९॥ न संबोधयितव्योऽहं त्वया कांते कथंचन । इत्युक्त्वा तुगतो निद्रां मुनिस्तां सुदती तदा॥४०॥ रविरस्तगिरिं प्राप्तः संध्याकाल उपस्थिते । किं करोमि न मे यांन्तिस्त्यजेन्मां बोधतःपुनः।४१।। धर्मलोपभया्द्गीता जरत्कारुरचिंतयत् । नोचेत्प्रबोधयाम्येनं संध्याकालो वृथा व्रजेत् ॥४२॥ धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् । धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥४३॥ इति संचित्य सा बाला तं मुनि प्रत्यबोधयत् । संध्याकालोऽपि संजात उत्तिष्ठोत्तिष्ठ सुव्रत ॥४४॥ उत्थितोऽसौ भुनिःकोपात्तामुवाच व्रजाम्यहम् । त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥४५।
Page 106
१०६ श्रीमद्ेवीभागवते महापुराणे द्वितीयस्कन्धे अध्याय: १२ वेपमानाऽब्रवीद्वाक्यमित्युक्ता मुनिना तदा। भ्रात्रा दत्ता तदर्थ तत्कथं स्यादमितप्रभा ॥४६। मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः । गतासा मुनिना त्यक्ता वासुके: सदनं तदा ॥४७॥ पृष्टा भ्रात्राऽब्रवीद्वाक्यं यथोक्तं पतिना तदा। अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥४८॥ वासुकिस्तु तदाकर्ण्य सत्यवाङ्मुनिरित्युत । विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ।४९।। ततः कालेन कियता जातोऽसौ मुनिबालकः ।
तेनायं आस्तीक इति नामाऽसौ विख्यातः कुरुसत्तम ॥५०॥ रक्षितो यज्ञस्तव पार्थिवसत्तम। भ्रातृपक्षस्य रक्षार्थ मुनिना भावितात्मना ।।५१।। भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः । यायावरकुलोत्पन्नो वासुकेर्भगिनीसुतः ॥५२॥ स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् । दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥५३॥ कृतेन सुकृतेनापि न पिता स्वर्गति गतः। पावितं नः कुलं कृत्स्नं त्वया भूपतिसत्तम ।५४॥। देव्याश्चायतनं भूप विस्तीर्ण कुरु भक्तितः । येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥५५॥ पृजिता परया भक्त्या शिवा सकलदा सदा। कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥५६।। देवीमखं विधानेन कृत्वा पार्थिवसत्तम। श्रीमद्भागवतं नाम पुराणं परमं शृणु ।।५७।। त्वामहं श्रावयिष्यामि कथां परमपावनीम्। संसारतारिणी दिव्यां नानारससमाहृताम् ॥५८॥ न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि। नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥५९॥ ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम। येषां चित्ते सदा देवी वसति प्रेमसंकुले ॥६०॥ सुदुःखितास्ते दृश्यंते भुवि भारत भारते। नाराधिता महामाया यैर्जनैश्च सदाऽम्बिका ॥६१॥ ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः । वर्तते सर्वदा राजंस्तां न सेवेत को जनः ॥६२॥ य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात्। भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥६३॥ तेन श्रुतेन ते राजंश्रित्ते शांतिर्भविष्यति। पितृणां चाक्षयः स्वर्गः पुराणश्रवणाद्गवेत् ॥६४।। इति श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसंगो नाम द्वादशोऽध्यायः॥१२॥ द्वाविशत्यधिकसंख्यैः पद्यैः सप्तशतैः शुभैः । श्रीमद्वयासमुखोद्गीतैद्वितीयः स्कन्ध ईरितः ॥ १ ॥ समाप्नोऽयं द्वितीय: स्कन्धः
Page 107
श्रीगणेशाय नमः श्रीमद्देवीभागवतम्
तृतीयः स्कन्धः -8 :- प्रथमोऽध्यायः जनमेजय उवाच भगवन्भवता प्रोक्तं यज्ञमंबाभिधं महत्। सा का कथं समुत्पन्ना कुत्र कस्माच्च किंगुणा ।१। कीदृशश्च मखस्तस्याः स्वरूपं कीदृशं तथा । विधानं विधिवद्ब्रूहि सर्वज्ञोऽसि दयानिधे ॥२॥ ब्रह्माण्डस्य तथोत्पत्ति वद विस्तरतस्तथा। यथोक्तं यादृशं ब्रह्मन्नखिलं वेत्सि भूसुर ॥३॥ ब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवा मया श्रुताः । सृष्टिपालनसंहारकारकाः सगुणास्त्वमी ।४॥ स्वतंत्रास्ते महात्मानः पाराशर्य वदस्व मे। आहोस्वित्परतंत्रास्ते श्रोतुमिच्छामि सांप्रतम् ॥५॥ मृत्युधर्माश्च ते नो वा सच्चिदानन्दरूपिणः । अधिभूतादिभिर्युक्ता न वा दुःखैस्त्रिधात्मकैः ॥६॥ कालस्य वशगा नो वा ते सुरेंद्रा महाबलाः। कथं ते वै समुत्पन्ना कस्मादिति च संशयः ॥७॥ हर्षशोकयुता ते वै निद्रालस्यसमन्विताः । सप्तधातुमयास्तेषां देहाः कि वाजन्यथा मुने ॥८॥ कैर्द्रव्यैनिर्मितास्ते वै कैर्गुणैरिंद्रियैस्तथा। भोगश्च कीदृशस्तेषां प्रमाणमायुषस्तथा ।९॥ निवासस्थानमप्येषां विभूरति च वदस्व मे । श्रोतुमिच्छाम्यहं ब्रह्मन्विस्तरेण कथामिमाम् ॥१०॥ व्यास उवाच. दुर्गमः प्रश्नभारोऽयं कृतो राजंस्त्वयाऽधुना। ब्रह्मादीनां समुत्पत्तिः कस्मादिति महामते ॥११॥ एतदेव मया पुत्र पृष्टोऽसौ नारदो मुनिः ।विस्मितः प्रत्युवाचेदमुत्थितः शृणु भूपते ॥१२॥ कस्मिश्र समये चाहं गंगातीरे स्थितं मुनिम्। अपश्यं नारदं शान्तं सर्वज्ञं वेदवित्तमम् ॥१३॥
Page 108
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः १ दृष्ठाऽहं मुदितो भूत्वा पादयोरपतं मुनेः । तेनाज्ञप्तः समीपेऽस्य संविष्टश्च वरासने ॥१४॥ श्रुत्वा कुशलवार्तां वै तमपृच्छं विधे: सुतम्। निर्विष्टं जाह्नवीतीरे निर्जने सूक्ष्मबालुके ।१५॥ मुनेऽतिविततस्यास्य ब्रह्मांडस्य महामते । कः कर्ता परमः प्रोक्तस्तन्मे ब्रूहि विधानतः ॥१६॥ कस्मादेतत्समुत्पन्नं ब्रह्माण्डं मुनिसत्तम। अनित्यं वा तथा नित्यं तदाचक्ष्व द्विजोत्तम ॥१७॥ एककर्तृकमेतद्वा बहुकर्तृकमन्यथा। अकर्तृकं न कार्यं स्याद्विरोधोऽयं विभाति मे ॥१८॥ इति संदेहसंदोहे मरनं मां तारयाधुना। विकल्पकोटीः कूर्वाणं संसारेऽस्मिन् प्रविस्तरे १९॥ न्रुवंति शंकरं केचिन्मत्वा कारणकारणम्। सदाशिवं महादेवं प्रलयोत्पत्तिवर्जितम् ॥२०॥ आत्मारामं सुरेशं च त्रिगुणं निर्मलं हरम्। संसारतारकं नित्यं सृष्टिस्थित्यंतकारणम् ॥२१॥ अन्ये विष्णुं स्तुवंत्येनं सर्वेषां प्रभुमीश्वरम् । परमात्मानमव्यक्तं सर्वशक्तिसमन्वितम् ॥२२॥ भुक्तिदं मुक्तिदं शांतं सर्वार्दिं सर्वतोमुखम्। व्यापकं विश्वशरणमनादिनिधनं हरिम् ॥२३॥ धातारं च तथा चान्ये ब्रुवति सृष्टिकारणम्। तमेव सर्ववेत्तारं सर्वभूतप्रवर्तकम् ॥२४॥ चतुर्मुखं सुरेशानं नाभिपद्मभवं विभुम। स्रष्टारं सर्वलोकानां सत्यलोकनिवासिनम् ॥२५॥ दिनेशं प्रवदंत्यन्ये सर्वेशं वेदवादिनः। स्तुवंति चैव गायंति सायंप्रातरतंद्रिताः ॥२६॥ यज़ंति च तथा यज्ञे वासवं च शतक्रतुम्। सहस्राक्षं देवदेवं सर्वेपां प्रभुमुल्बणम् ॥२७॥ यज्ञाधीशं सुराधीशं त्रिलोकेशं शचीपतिम्। यज्ञानां चैव भोक्तारं सोमपं सोमपप्रियम् ।२८। वरुणं च तथा सोमं पावकं पवनं तथा। यमं कुबेरं धनदं गणाधीशं तथापरे ॥२९॥ हेरंबं गजवक्त्रं च • सर्वकार्यप्रसाधकम् । स्मरणात्सिद्धिदं कार्यकामदं कामगं परम् ॥३०॥ भवानीं केचनाचार्याः प्रवदंत्यखिलार्थदाम् । आदिमायां महाशक्ति प्रकृतिं पुरुषानुगाम् ॥३१॥ ब्रह्मकताममापन्नां सृष्टिस्थित्यन्तकारिणीम्। मातरं सर्वभूतानां देवतानां तर्थव च ।।३२।। अनादिनिधनां पूर्णां व्यापिकां सर्वजंतुपु। इश्वरीं सर्वलोकानां निर्गुणां सगुणां शिवाम् ॥३३॥ वैष्णवीं शांकरी ब्राह्मीं वासवीं वारणी तथा। वाराहों नारसिंही च महालक्ष्मी तथाऽद्गुताम् ३४।। वेदमातरमेकां च विद्यां भवतरोः स्थिराम् । सर्वद्ुःखनिहंत्रीं च स्मरणात्सर्वकामदाम् ।३५॥ मोक्षदां च मुमुक्षणां कामदां च फलार्थिनाम्। त्रिगुणातीतरूपां च गुणविस्तारकारकाम् ॥३६॥ निर्गुणां सगुणां तस्मात्तां ध्यायंति फलार्थिनः । निरंजनं निराकार निर्लेपं निर्गुणं किल ॥३७॥ अरूपं व्यापकं ब्रह्म प्रवदंति मुनीश्चराः। वेदोपनिषदि प्रोक्तस्तेजोमय इति क्वचित् ॥३८॥ सहस्रशीर्षा पुरुषः सहस्रनयनस्तथा। सहस्रकरकर्णश्र सहस्रास्यः सहस्रपात् ॥३९॥ विष्णोः पादमथाकागं परमं समुदाहृतम् । विराजं विरजं शांतं प्रवदंति मनीषिणः ॥४०॥ पुरुषोत्तमं तथा चान्ये प्रवदंति पुराविदः । नैकोपीति वदंत्यन्ये प्रभुरीशः कदाचन ॥४१॥
Page 109
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २ १०९ अनीश्वरमिदं सर्वं ब्रह्माण्डमिति केचन। न कदापीशजन्यं यज्जगदेतर्दचिंतितम् ॥४२॥ सदेवेदमनीशं च स्वभावोत्थं सदेदृशम् । अकर्तासौ पुमान्प्रोक्त: प्रकृतिस्तु तथा च सा ४३। एवं वदंति सांख्याश्च मुनयः कपिलादयः । एते सन्देहसन्दोहाः प्रभवन्ति तथाऽपरे ॥४४॥ बिकल्पोपहतं चेतः किं करोमि मुनीश्वर। धर्मधर्मविवक्षायां न मनो मे स्थिरं भवेत् ॥४५॥ को धर्मः कीदृशोऽधर्मश्चिह्नं नैवोपलभ्यते। देवाःसत्त्वगुणोत्पन्नाः सत्यधर्मव्यवस्थिताः ॥४६॥ पीडयन्ते दानवैः पापैः कुत्र धर्मव्यवस्थितिः । धर्मस्थिताः सदाचाराः पांडवा मम वंशजाः ॥४७॥ दुःखं बहुविधं प्राप्तास्तत्र धर्मस्य का स्थितिः । अतो मे हृदयं तात वेपतेऽतीव संशये॥४८॥ कुरु मेऽसंशयं चेतः समर्थोऽसि महामुने। त्राहि संसारवार्धेस्त्वं ज्ञानपोतेन मां मुने ॥४९। मज्जंतं चोत्पतन्तं च मग्नं मोहजलाविले ॥।५०॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे जनमेजयप्रइने प्रथमोऽध्यायः ॥१॥ अथ द्वितीयाऽध्यायः व्यास उवाच यत्त्वया च महाबाहो पृष्टोऽहं कुरुसत्तम। तान्प्रश्नान्नारदः प्राह मया पृष्टो मुनीश्वरः ॥१॥ नारद उवाच व्यास किं ते ब्रवीम्यद्य पुराजयं संशयो मम। उत्पन्नो हृदयेऽत्यर्थ संदेहासारपीडितः ॥२॥ गत्वाऽहं पितरं स्थाने ब्रह्माणममितौजसम् । अपृच्छं यत्त्वया पृष्टं व्यासाद्य प्रश्नमृत्तमम् ॥३॥ पितः कुतः समुत्पन्नं ब्रह्माण्डमखिलं विभो। भवत्कृतेन वा सम्यकिकि वा विष्णुकृतं त्विदम् ॥४॥ रुद्रकृतं वा विश्वात्मन्ब्रहि सत्यं जगत्पते। आराधनीयः कः कामं सर्वोत्कृष्टश्च कः प्रभुः ॥५॥ तत्स्वं वद मे ब्रह्मन्सन्देहांरिंछिधि चानघ । निमग्नो ह्यस्मि संसारे दुःखरूपेऽनृतोपमे ।६।। सन्देहांदोलितं चेतो न प्रशाम्यति कुत्रचित् । न तीर्थेषु न देवेषु साधनेष्वितरेषु च ।।७।। अविज्ञाय परं तत्त्वं कुतः शांतिः परन्तप। विकीण बहुधा चित्तं नैकत्र स्थिगतां व्रजेत् ।८॥ कं स्मरामि युगे कं वा कं व्रजाम्यर्चयामि कम्। स्तौमि कं नाभिजानामि देव सर्वेश्ररेश्वरम् ।९॥ ततो मां प्रत्युवाचेदं ब्रह्मा लोकपितामहः । मया सत्यवतीसूनो कृते प्रश्ने सुदुस्तरे ॥१०॥ ब्रह्मोवाच कि ब्रवीमि सुताद्ाहं दुर्बोधं प्रश्नमुत्तमम् । त्वया शक्यं महाभाग विष्णोरपि सुनिश्चयात्॥११॥ रोगी कोऽपि न जानाति संसारेऽस्मिन्महामते । विरक्तश्च विजानाति निरीहो यो विमत्सरः ॥१२॥ एकार्णवे पुरा जाते नष्टे स्थावरजङ्गमे। भूतमात्रे समुत्पन्ने संजज्ञे कमलादहम् ॥१३॥ नापश्यं तर्रण सोमं न वृक्षान्न च पर्वतान् । कर्णिकायां समाविष्टश्श्रितामकरवं तदा ॥१४।
Page 110
११० श्रीमद्वेवीमागव ते महापुराणे तृतीयस्कन्धे अध्यायः २ कस्मादहं समुद्ूतः सलिलेऽस्मिन्महार्णवे। को मे त्राता प्रभुः कर्ता संहर्ता वा युगात्यये १५।। न च भूर्विद्यते स्पष्टा यदाधारं जलं त्विदम् । पंकजं कथमुत्पन्नं प्रसिद्धं रूढियोगयोः ॥१६॥ पश्याम्यद्यास्य पंकं तं मूलं वै पंकजस्य च। भविष्यति धरा तत्र मूलं नास्त्यत्र संशयः ॥१७॥ उत्तरन्सलिले तत्र यावद्वर्षसहस्त्रकम् । अन्वेषमाणो धरणीं नावाप तां यदा तदा ॥१८। तपस्तपेति चाकाशे वागभूदशरीरिणी। ततो मया तपस्तप्तं पद्मे वर्षसहस्त्रकम् ।१९॥ सृजेति पुनरुद्गता वाणी तत्र श्रुता मया। विमूढ़ाहं तदाकर्ण्थ कं सृजामि करोमि किम् २०॥ तदा दैत्यावपि प्राप्तौ दारुणो मधुकैटभौ। ताभ्यां विभीषितश्राहं युद्धाय मकरालये ।२१॥ ततोऽहं नालमालंब्य वारिमध्यमवातरम्। तदा तत्र मया दृष्टः पुरुषः परमान्द्गुतः ॥२२॥ मेघश्यामशरीरस्तु पीतवासाश्रतुर्भुजः । शेषशायी जगन्नाथो वनमालाविभूषितः ॥२३।। सुविराजितः। शयानं तं समालोक्य भोगिभोगोपरिस्थितम् ॥२५॥ चिंता ममान्गता जाता कि करोमीति नारद। मया स्मृता तदा देवी स्तुता निद्रास्वरूपिणी ॥२६।। देहान्निर्गत्य सा देवी गगने संस्थिता शिवा। अवितर्क्यशरीरा सा दिव्याभरणमंडिता ॥२७॥ विष्णोर्देंहं विहायाशु विरराज नभःस्थिता। उदतिष्ठदमेयात्मा तया मुक्त्तो जनार्दन ॥२८॥ पंचवर्षसहस्राणि कृतवान् युद्धमुत्तमम् । तदा विलोकितौ दैत्यौ हरिणा विनिपातितौ ॥२९॥ उत्संगं विमलं कृत्वा तत्रव निहतौ च तौ। रुद्रस्तत्रैव संप्राप्तो यत्रावां संस्थितावुभौ ॥३०॥ त्रिभि: संवीक्षितास्मामिः स्वस्था देवी मनोहरा । संस्तुता परमा शक्तिरुवाचास्मानवस्थितान् ।३१॥ कृपावलोकनैः कृत्वा पावनैमुदितानथ। देव्युवाच काजेशाः स्वानि कार्याणि कुरुध्वं समतन्द्रिताः ॥३२॥ सृष्टिस्थितिविशिष्टानि हतावेतौ महासुरौ। कृत्वा स्वानि निकेतानि वसध्वं विगतज्वराः ३३ प्रजाश्चतुविधाः सर्वाः सृजध्वं स्वविभूतिभिः । ब्रह्मोवाच नच्छरुत्वा वचनं तस्या: पेशलं सुखदं मृदु ॥३४॥ अब्रम तामशक्ता: रमः कथं कुर्मस्त्विमाः प्रजाः । न मही वितता मातः सर्वत्र विततं जलम् ॥३५॥ भूतानि गुणाश्वापि तन्मात्राणीन्द्रियाणि तदाकर्ण्य वचोऽस्मार्क शिवा जाता स्मितानना ॥३६॥ झटित्येवागतं तत्र विमानं गगनाच्छुभम् । सोवाचास्मिन्सुराः कामं विशध्वं गतसाध्वसाः ॥
Page 111
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः ३ १११ बिमाने ब्रह्मविष्ण्वीशा दर्शयाम्यद्य चान्भतम्। तन्निशम्य वचस्तस्या ओमित्युक्त्वा पुनर्वयम् ३८।। समारुह्योपविष्टाः स्मो विमाने रत्नमंडिते। मुक्तादामसुसंवीते किंकिणीजालशब्दिते ॥३९॥ सुरसद्निभे रम्ये त्रयस्तत्राविशंकिताः । सोपविष्टांस्ततो दृष्टा देव्यस्मान्विजितेंद्रियान् ४०॥ स्वशक्तया तद्विमानं वै नोदयामास चांबरे॥४१॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे द्वितीयोऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः ब्रह्मोवाच विमानं तन्मनोवेगं यत्र स्थानांतरे गतम्। न जलं तत्र पश्यामो विस्मिताः स्मो वयं तदा ॥१॥ वृक्षा: सर्वफला रम्याः कोकिलारावमंडिताः । मही महीधराः कामं वनान्युपवनानि च ॥२॥ नार्यश्र पुरुषाश्चव पशवश्च सरिद्वराः । वाप्यः कूपास्तडागाश्च पल्वलानि च निर्झराः ॥३॥ पुरतो नगरं रम्यं दिव्य प्राकारमंडितम्। यज्ञशालासमायुक्तं नानाहर्म्यविराजितम् ॥४॥ प्रत्यभिज्ञा तदा जाताऽप्यस्माकं प्रेक्ष्य तत्पुरम् । स्वर्गोयमिति केनासौ निर्मितोस्ति महा्ुतम् ॥॥ राजानं देवसंकाशं व्रजंतं मृगयां वने । अस्माभिः संस्थिता दृष्टा विमानोपरि चांबिका ६।। क्षणाच्चचाल गगने विमानं पवनेरितम् । मुहूर्ताद्वा ततः प्राप्तं देशे चान्ये मनोहरे॥७॥ नंदनं च वनं तत्र दृष्टमस्माभिरुत्तमम् । पारिजाततरुच्छायासंश्रिता सुरभिः स्थिता ॥८॥ चतुर्दन्तो गजस्तस्याः समोपे समवस्थितः । अप्सरसां तत्र वृंदानि मेनकाप्रभृतीनि च ॥१॥ क्रीडंति विविधैर्भाववैर्गाननृत्यसमन्वितैः । गंधर्वाः शतशस्तत्र यज्ञा विद्याधरास्तथा ॥१०। मंदारवाटिकामध्ये गायंति च रमंति च । दृष्टः शतक्रतुस्तत्र पौलोम्या सहितः प्रभुः ॥११॥ वयं तु विस्मिताश्चास्म दृष्टा त्रैविष्टपं तदा। यादःपति कुबेरं च यमं सूर्य विभावसुम् ॥१२॥ विलोक्य विस्मिताश्रास्म वयं तत्र सुरानस्थितान्। तदा विनिर्गतोराजा पुरात्तस्मात्सुमंडितात् ॥१३॥ देवराज इवाक्षोभ्यो नरवाह्यावनौ स्थितः । विमानस्था वयं तूच्चचाल तरसागतम् ॥१४॥ ब्रह्मलोकं तदा दिव्यं सर्वदेवनमस्कृतम् । तत्र ब्रह्माणमालोक्य विस्मितौ हरकेशवौ ॥१५॥ सभायां तत्र वेदाश्र सर्वे सांगाः स्वरूपिणः । सागराः सरितश्रैव पर्वताः पन्नगोरगाः ॥१६॥ मामूचतुश्चतुर्वकत्रः कोडयं ब्रह्मा सनातनः । ताववोचमहं नैव जाने सृष्टिपति पतिम् ॥१७॥ कोऽहं कोऽयं किमर्थ वा भ्रमोऽयं मम चेश्वरौ। क्षणादथ विमानं तच्चचालाशु मनोजवम् ॥१८॥ कैलासशिखरे प्राप्तं रम्ये यक्षगणान्विते। मंदारवाटिकारम्ये कीरकोकिलकूजिते ॥१९॥ वीणामुरजवाद्यंश्च नादिते सुखदे शिवे। यदा प्राप्तं विमानं तत्तदैव सदनाच्छुभात् ॥२०॥
Page 112
११२ श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः ३ निर्गतो भगवाञ्छंभुर्वृषारूढस्त्रिलोचनः । पंचाननो दशभुजः कृतसोमार्धशेखरः ॥२१॥ व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः । पाष्णिरक्षौ महावीरौ गजाननषडाननौ ।।२२॥ शिवेन सह पुत्रौ द्वौ व्रजमानौ विरेजतुः। नंदिप्रभृतयः सर्वे गणपाश्च वराश्र ते ॥२३।. जयशब्दं प्रयुंजाना व्रजन्ति शिवपृष्ठगाः। तं वीक्ष्य शंकरं चान्यं विस्मितास्तत्र नारद ॥२४॥ मातृभिः संशयाविष्टस्तत्राहं न्यवसं मुने । क्षणात्तस्माद्विरेः शृंगाद्विमानं वातरंहसा ॥२५। वैकुंठसदनं प्राप्तं रमारमणमंदिरम्। असंभाव्या विभूतिश्र तत्र दृष्टा मया सुत ॥२६॥ विसिष्मिये तदा विष्णुर्दृष्टा तत्पुरमुत्तमम्। सदनाग्रे ययौ तावद्धरिः कमललोचनः ॥२७॥ अतसीकुसुमाभास: पीतवासाश्चतुर्भुजः । द्विजराजाधिरूढश्र दिव्याभरणभूषितः ॥२८।। वीज्यमानस्तदा लक्ष्म्या कामिन्या चामरैः शुभैः । तं वीक्ष्य विस्मिताः सर्वे वयं विष्णुं सनातनम् २९।। परस्परं निरीक्षंतः स्थितास्तस्मिन् वरासने। ततश्चचाल तरसा विमानं वातरंहसा ॥३०॥ सुधासमुद्रः संप्राप्तो मिष्टवारिमहोमिमान् । यादोगणसमाकीर्णश्रलद्वीचिविराजितः ।।३१। मंदारपारिजाताद्यः पादपैर्रतशोभिवः। नानास्तरणसंयुक्तो नानाचित्रविचित्रितः ॥३२।। मुक्त्तादामपरिक्लिष्टो नानादामविराजितः । अशोकबकुलाख्यैश्र वृक्षैः कुरबकादिभि: ॥३३ ॥ संवृतः सर्वतः सौम्यैः केतकीचंपकैर्वृतः । कोकिलारावसंघुष्टो दिव्यगंधसमन्वितः ॥३४॥ द्विरेफातिरणत्कारैरंजितः परमाद्ुतः । तस्मिन्द्वीपे शिवाकार: पर्यङ्क: सुमनोहरः ॥३५॥ रन्नालिखचितोऽत्यर्थं नानारत्नविराजितः । दृष्टोऽस्माभिर्विमानस्थर्दूरतः परिमंडितः ॥३६॥ नानास्तरणसंछन्न इूंद्रचापसमन्वितः । पर्यङ्कप्रवरे तस्मिन्नुपविष्टा वरांगना ॥३७॥ रक्तमाल्यांबरधरा रक्तगंधानुलेपना। सुरक्तनयना कांता विद्युत्कोटिसमप्रभा ॥३८॥ सुचारुवदना रक्तदंतच्छदविराजिता। रमाकोटयधिका कांत्या सूर्यबिंबनिभाखिला॥३९॥ वरपाशांकुशाभीष्टधरा श्रीभुवनेश्वरी। अदृष्टपूर्वा दृष्टा सा सुंदरी स्मितभूषणा।।४०। ह्रीकारजपनिष्टैस्तु पक्षिवृंदैर्निषेविता। अरुणा करुणामूर्तिः कुमारी नवयौवना ॥४१। सर्वशृङ्गारवेषाढया मंदस्मितमुखांबुजा। उद्यत्पीनकुचद्वंद्वनिजितांभोजकुड्मला ।।४२ ।। नानामणिगणाकीर्णभूषणैरुपशोभिता । कनकांगदकेयुरकि रीटपरिशोभिता ।।४३ ॥
कनकच्छ्रीचक्रताटंकविटंकवदनांबुजा । हृल्लेखा भुवनेशीति नामजापपरायणैः ॥४४॥ सखीवृंदैः स्तुता नित्यं भुवनेशी महेश्वरी। हृल्लेखाद्याभिरमरकन्याभिः परिवेष्टिता ॥४५॥ अनंगकुसुमाद्याभिर्देवीभिः परिवेष्टिता । देवी षट्कोणमध्यस्था यंत्रराजोपरि स्थिता ॥।४६।। दृष्टा तां विस्मिताः सर्वे वयं तत्र स्थिताऽभवन् । केयं कांता च कि नाम न जानीमोऽत्र संस्थिता४७॥ सहस्रनयना रामा सहम्रकरसंयुता । सहस्रवदना रम्या भाति दूरादसंशयम् ।।४८।।
Page 113
८ श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ४ ११३ सप्सस नापि गंधर्वी नेयं देवांगना किल। इति संशयमापन्नास्तत्र नारद संस्थिताः ॥४९॥ सक्षाइसी भगवान्विष्णुर्दृधा ता चारुहासिनीम् । उवाचांबां स्वविज्ञानात्कृत्वा मनसि निश्चयम् ॥५०॥ एवा भगवती देवी सर्वेषां कारणं हि नः । महाविद्या महामाया पूर्णा प्रकृतिरव्यया ॥५१॥ पुशेयाऽल्पघियां देवी योगगम्या दुराशया। इच्छा परात्मनः कामं नित्यानित्यस्वरूपिणी ॥५२॥ तुराराष्याऽल्पभाग्यैश्र देवी विश्वेश्वरी शिवा। वेदगर्भा विशालाक्षी सर्वषामादिरीश्वरी ॥३॥ एवा संहृत्य सकलं बिश्वं क्रीडति संक्षये। लिंगानि सर्वजीवानां स्वशरीरे निवेश्य च ॥५४॥ सवंबीजमयी ह्येषा राजते साम्प्रत सुरौ। विभूतयः स्थिताः पाश्वें पश्यतां कोटिशः क्रमात् ॥ दिव्याभरणभूषाढया दिव्यगंधानुलेपनाः । परिचर्यापराः सर्वाः पश्यतां ब्रह्मशंकरौ ॥५६॥ धन्या वयं महाभागा: कृतकृत्याः स्म सांप्रतम् । यदत्र दर्शन प्राप्त भगवत्याः स्वयं त्विदम् ।५७।। तपस्तप्तं पुरा यत्नात्तस्येदं फलमुत्तमम् । अन्यथा दर्शनं कुत्र भवेदस्माकमादरात् ।।५८।। पश्यंति पुण्यपुंजा ये ये वदान्यास्तपस्विनः । रागिणो नैव पश्यंति देवीं भगवती शिवाम् ॥५९॥ मूलप्रकृतिरेवैषा द्रशऽसौ दृश्यमखिलं ब्रह्मांडं देवताः सुरौ। तस्यैषा कारणं सर्वा माया सर्वेश्वरी शिवा ॥६९॥ मूल सदा पुरुषसंगता। ब्रह्मांडं दर्शयत्येषा कृत्वा वै परमात्मने ॥६० ॥ क्वाहं वा क्व सुराः सर्वे रम्भाद्याः सुरयोषितः । लक्षांशेन तुलामस्या न भवामः कथंचन ॥६२॥ सेषा वरांगना नाम या वै दृष्ा महार्णवे। बालभावे महादेवी दोलयंतीव मां मुदा ॥६३॥ शयनं वटपत्रे च पर्यके सुस्थिर दृढे। पादांगुष्ठं करे कृत्वा निवेश्य मुखपंकजे ॥६४।। लेलिहंतं च क्रीडंतमनेकबलिचेष्टितैः। रममाणं कोमलांगं वटपत्रपुटे स्थितम् ॥६५॥ गायंती दोलयंती च बालभावान्मयि स्थिते। सेयं सुनिश्चितं ज्ञातं जातं मे दर्शनादिव ॥६६।। कामं नो जननी सैषा शृणु तं प्रवदाम्यहम् । अनुभूतं मया पूर्व प्रत्यभिन्ना समुत्थिता ॥६७॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कंधे तृतीयोऽध्यायः॥३॥ अथ चतुर्थोध्यायः ब्रह्मोवाच इत्युक्त्वा भगवान्विष्णुः पुनराह जनार्दनः । वयं गच्छेम पारश्वेस्याः प्रणमंतः पुनः पुनः ॥१॥ सेयं वरा महामाया दास्यत्येपा वरान्हि नः । स्तुवायः संनिधि प्राप्य निर्भयाश्चरणांतिके ॥२॥ यदि नो वारयिष्यंति द्वारस्थाः परिचारकाः । पठिष्यामश्च तत्रस्थाः स्तुति देव्याः समाहिताः ॥३॥ महयोवाच इत्युक्ते हरिणा वाक्ये सुप्रहृष्टौ सुसंस्थितो। जातौ प्रमुदितौ कामं निकटे गमनाय च ॥४॥
Page 114
११४ श्रीमदेवीमागवते महा:ुराणे तृतीयस्कन्धे अध्याय: ४ ओमित्युक्त्वा हरिं सर्वे विमानात्त्वरितास्त्रयः । उत्तीर्य निर्गता द्वारि शंकमाना मनस्यलम् ॥५I द्वारस्थान्वीक्ष्य तान्सर्वान्देवी भगवती तदा। स्मितं कृत्वा चकाराशु तांस्त्रीन्स्तीरूपधारिण:॥६ वयँ युवतयो जाताः सुरूपाश्चारुभूषणाः । विस्मयँ परमं प्राप्ता गतास्तत्संनिधि पुनः॥७ सा दृष्टा नः स्थितांस्तत्र स्त्रीरूपांश्चरणांतिके। व्यलोकयत चावंगी प्रेमसंपूर्णया दृशा ।।८। प्रणम्य तां महादेवीं पुरतः संस्थिता वयम्। परस्परं लोकयंतः स्त्रीरूपाश्रारुभूषणाः । पादपीठं प्रेक्षमाणा नानामणिविभूषितम् । सूर्यकोटिप्रतीकाशं स्थितास्तत्र वयं त्रयः॥१० काश्रिद्रक्तांबरास्तत्र सहचर्यः सहस्रशः । काश्चिन्नीलांबरा नार्यस्तथा पीतांबराः शुभाः॥११ देव्य: सर्वाः शुभाकारा विचित्राम्बरभूषणाः। विरेजुः पार्श्वतस्तस्याः परिचर्यापराः किल ॥१२॥ जगुश्र ननृतुश्चान्याः पर्युपासंत ताः स्त्रियः । वीणामारुतवाद्यानि वादयंतो मुदान्विताः ॥१४॥ ब्रह्मांडमखिलं सर्वं तत्र स्थावरजंगमम्। अहं विष्णुश्च रुद्रश्च वायुरग्निर्यमो रविः ॥१५॥ वरुणः शीतगुस्त्वष्टा कुबेरः पाकशासनः । पर्वताः सागरा नद्यो गंधर्वाप्सरसस्तथा ॥१६॥ विश्वावसुश्चित्र केतुः श्वंतश्चित्रांगदस्तथा। नारदस्तुंबुरुश्चैव हाहाहूहूस्तथव च ।१७। अश्विनी वसवः साध्याः सिद्धाश्च पितरस्तथा । नागाः शेषादयः सर्वे किन्नरोरगराक्षसाः ॥१८॥ वेकुंठो ब्रह्मलोकश्च कलासः पर्वतोत्तमः । सर्वं तदखिलं दृष्टं नखमध्यस्थितं च तत् ॥१९। मज्जन्मपंकजं तत्र स्थितो्हं चनुराननः । शेषशायी जगन्नाथस्तथा च मधुकैटभौ ॥२०॥ श्रीभगवानुवाच एवं दृष्ट नचा तत्र पादपद्मनखे स्थितम्। विस्मतो्हं ततो वीक्ष्य किमेतदिनि शंकितः ।२१। विष्णृश्र विस्मयाविष्टः शंकरश् तथा स्थितः। ता तदा मेनिरे देवीं वयं विश्वस्य मातरम् ॥२२॥ ततो वर्षशनं पृर्णं व्यतिक्रांतं प्रपश्यतः । सुधामये शिवे द्वीपे विहारं विविधं तदा ॥२३॥ सख्य इय तदा तत्र मेनिरेम्मानवस्थितान् । देव्यः प्रमुदिताकारा नानाभरणमंडिताः ॥२४॥ वयमप्यतिरम्यत्वाद्बभविम विमोहिताः । प्रनष्टमनसः सर्वे पथ्यन्भावान्मनोरमान् ।२५॥ एकटा तां महादेवीं देवीं श्रीभुवनेश्वरीम्। तुष्टाव भगवान्विष्णयवतीभावसंस्थितः ॥२६।। श्रीभगवानुवाच नमो देव्य प्रकृत्यै च विधात्र्य सततं नमः। कल्याण्यै कामदायै च वृद्धिसिद्धर्थं नमोनमः ॥२७॥ सच्चिदानंदरूपिण्य संसारारणय नमः । पंचकृत्यविधाव्य ते नुवनेश्यै नमोनमः ॥२८॥ सर्वाधिष्टानरूपाये कूटस्थायै नमोनमः । अर्धमात्रार्थभतायै हल्लेखायै नमोनमः ॥२९॥ ज्ञातं मया खिलमिदं त्वयि सन्निविष्टं त्वत्तोऽस्य संभवलयावषि मानरद्य।
Page 115
श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: ४ ११५ शक्तिश्च तेऽस्य करणे विततप्रभावा ज्ञाताऽधुना सकललोकमयीति नूनम् ॥३०॥ विस्तार्य सर्वमखिलं सदसद्विकार संदर्शयस्यविकलं पुरुषाय काले। तत्त्वैश्च षोडशभिरेव च सप्तभिश्च भासींद्रजालमिव नः किल रंजनाय ॥३१॥ न त्वामृते किमपि वस्तुगतं विभाति व्याप्यैव सर्वमखिलं त्वमवस्थिताऽसि। शक्ति विना व्यवहृतौ पुरुषोऽप्यशक्तो बंभण्यते जननि बुद्धिमता जनेन ॥३२॥ प्रीणासि विश्वमखिलं सतत प्रभावैः स्वस्तेजसा च सकलं प्रकटीकरोषि। अत्स्येव देवि तरसा किल कल्पकाले को वेद देवि चरितं तव वै भवस्य ॥३३॥ त्राता वयं जननि ते मधुकटभाभ्यां लोकाश्च ते सुवितताः खलु दशिता वै। नीताः सुखस्य भवने परमां च कोटिं यद्दर्शनं तव भवानि महाप्रभावम् ॥३४॥ नाहं भवोन च विरिंचि विवेद मातः कोऽन्यो हि वेत्ति चरितं तव दुर्विभाव्यम्। कानीह संति भुवनानि महाप्रभावे ह्यस्मिन्भवानि रचिते रचनाकलापे ॥३५॥ अस्माभिरत्र भुवने हरिरन्य एव दृष्टः शिवः कमलजः प्रथितप्रभावः । अन्येषु देवि भुदनेषु न संति किं ते कि विद्य देवि विततं तव सुप्रभावम् ॥३६॥ य्याचेऽम्ब तेंऽघ्निकमलं प्रणिपत्य कामं चित्ते सदा वसतु रूपमिदं तवतत्। नामापि वक्त्रकुहरे सततं तवैव संदर्शनं तव पदांबुजयोः सदैव ॥३७॥ भृत्योऽयमस्ति सततं मयि भावनीयं त्वां स्वामिनीति मनसा ननु चिंतयामि। एषाऽडवयोरविरता किल देवि भूयाद्वयाप्तिः सदैव जननी सुतयोरिवार्थे ॥३८॥ त्वं वेत्सि सर्वमखिलं भुवनप्रपंचं सर्वज्ञता परिसमाप्तिनितान्तभूमिः । कि पामरेण जगदंब निवेदनीयं यद्युक्कमाचर भवानि तवेंगितं स्यात् ॥३९॥ ब्रह्मा सृजत्यवति विष्णुरुमापतिश्च संहारकारक इयं तु जने प्रसिद्धिः । किं सत्यमेतदपि देति तवेच्छया वै कर्नु क्षमा वयमजे तव शक्तियुक्ताः ॥४०॥ धात्री घराधरसुते न जगद्विभर्ति आधारशक्तिरखिलं तव वै बिर्भ्ति। सूर्योऽपि भाति वरदे प्रभयो युतस्ते त्वं सर्वमेतदखिलं बिरजा विभासि ॥४१॥ ब्रह्माऽहमीश्वरवरः किल ते प्रभावात्सवे वयं जनियुता न यदा तु नित्याः। केजन्ये सुराः शतमखप्रमुखाशच नित्या नित्या त्वमेव जननी प्रकृतिः पुराणा ॥४२॥ त्वं चेद्गवानि दयसे पुरुषं पुराणं जानेऽहमद्य तव संनिधिगः सदैव। नोचेदहं विभुरनादिरनीह ईशो विश्वात्मधीरिति तमःप्रकृतिः सदैव ॥४३॥ विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव।
Page 116
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ५ त्वं कीतिकांतिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके ॥४४॥ गायत्र्यसि प्रथमवेदकला त्वमेव स्वाहा स्वधा भगवती सगुणार्धमात्रा । आम्नाय एव विहितो निगमो भवत्यै संजीवनाय सततं सुरपूर्वजानाम् ॥४५॥ मोक्षार्थमेव रचयस्यखिलं प्रपञ्चं तेषां गताः खलु यतो ननु जीवभावम्। अंशा अनादिनिधनस्य किलानघस्य पूर्णार्णवस्य वितता हि यथा तरंगाः ॥४६॥ जीवो यदा तु परिवेत्ति तवैव कृत्यं त्वं संहरस्यखिलमेतदिति प्रसिद्धम्। नाटयं नटेन रचितं वितथेऽन्तरंगे कार्ये कृते विरमसे प्रथितप्रभावा॥४७॥ त्राता त्वमेव मम मोहमयान्द्गवाब्धेस्त्वामंबिके सततमेमि महार्तिदे च। रागादिभिविरचिते वितथे किलान्ते मामेव पाहि बहुदुःखकरे च काले ॥४८॥ नमो देवि महाविद्ये नमामि चरणौ तव। सदा ज्ञानप्रकाशं मे देहि सर्वारथदे शिवे ॥४९। इति श्रीदंवीभागवते महापुराणे तृतीयस्कन्धे चतुर्थोऽध्यायः ॥४॥ अथ पश्चमोऽध्यायः ब्रह्मोवाच इत्युक्त्वा विरते विष्णी देवदेवे जनादंने। उवाच शंकरः शर्वः प्रणतः पुरतः स्थितः ॥१॥ शिव उवाच यदि हरिस्तव देवि विभावजस्तदनु पद्मज एव तवो्द्वः । किमहमत्र तवापि न सद्गुणः सकललोकविधौ चतुरा शिवे ॥ २ ॥ त्वमसि भू: सलिलं पवनस्तथा खमपि वह्निगुणश्च तथा पुनः । जननि तानि पुनः करणानि च त्वमसि बुद्धिमनोऽप्यथ हंकृतिः ॥३॥ न च विदंति वदंति च येऽन्यथा हरिहराजकृतं निखिलं जगत्। तव कृतास्रय एव सदैव ते विरचयंति जगत्सचराचरम्॥४॥ अवनिवायुखवह्निजलादिभिः सविषयः सगुणैश्च जगद्द्वेत्। यदि तदा कथमद्य च तत्स्फुटं प्रभवतीति तवांब कलामृते ।। ५ ॥ भवसि सर्वमिदं सचराचरं त्वमजविष्णुशिवाकृतिकल्पितम्। विविधवेषविलासकुतूहलंविरमसे रमसेऽम्ब्र यथारुचि । ६। सकललोकसिसृक्षुरहं हरि: कमलभूश्च भवाम यदाऽम्बिके। तव पदाम्बुजपांसुपरिग्रहं समधिगम्य तदा ननु चक्रिम ॥ ७॥।
Page 117
श्रीमह्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ५ यदि दयार्द्रमना न सदांबिके कथमहं विहितश्च तमोगुणः। कमलजश्च रजोगुणसंभवः सुविहितः किमु सत्त्वगुणो हरिः ॥८॥ यदि न ते विषमा मतिरंबिके कथमिदं बहुधा विहितं जगत्। सचिवभूपतिभृत्यजनावृतं बहुधनैरधनैश्च समाकुलम् ॥९॥ तव गुणास्त्रय एव सदा क्षमाः प्रकटनावनसंहरणेषु वै। हरिहरद्रुहिणाश्च क्रमात्त्वया विरचितास्त्रिजगत् किल कारणम् ॥१० ॥ परिचितानि मया हरिणा तथा कमलजेन विमानगतेन वै। पर्थिगतर्भुवनानि कृतानि वा कथय केन भवानि नवानि च ॥११॥ सृजसि पासि जगज्जगदंबिके स्वकलया कियदिच्छमि नाशितुम्। रमयसे स्वपति पुरुषं सदा तव गरति न हि विद्य वयं शिवे ।१२॥ जननि देहि पदाम्बुजसेवनं भवति भागवतानपि नः सदा। पुरुषतामधिगम्य पदांबुजाद्विरहिताः क्व लभे न सुखं स्फुटम् ॥१३॥ न रुचिरस्ति ममांब पदांबुजं तव विहाय शिवे भुवनेष्वलम्। निवसितुं नरदेहमवाप्य च त्रिभुवनस्य पतित्वमवाप्य वै॥१४॥ सुदति नास्ति मनागपि मे रतिर्युवतिभावमवाप्य तवान्तिके। पुरुषता क्व सुखाय भवत्यलं तव पदं न यदीक्षणगोचरम् ॥१५॥ त्रिभुवनेषु भवत्वियमंबिके मम सदैव हि कीतिरनाबिला। युवतिभावमवाप्य पदांबुजं परिचितं तव संसृतिनाशनम् ॥१६॥ भुवि विहाय तवान्तिकसेवनं क इह वांछति राज्यमकंटकम्। त्रुटिरसौ किल याति युगात्मतां न निकटं यदि तेंऽघ्रिसरोरुहम् ॥१७॥ तपमि ये निरता मुनयोऽमलास्तव विहाय पदाम्बुजपूजनम्। जननि ते विधिना किल वंचिताः परिभवो विभवे परिकल्पितः ॥१८॥ न तपसा न दमेन समाधिना न च तथा विहितैः क्रतुभिर्यथा। तव पदाब्जपरागनिषेवणाद्दवति मुक्तिरजे भवसागरात् ।१९।। कुरु दयां दयसे यदि देवि मां कथय मंत्र मनाविलमद्भुतम्। समभवं प्रजपन्सुखितो ह्यहं सुविशदं च नवार्णमनुत्तमम् ॥२०॥ पथमजन्मनि चाधिगतो मया तदघुना न विभाति नवाक्षरः । कथय मां मनुमद्य भवार्णवाज्जननि तारय तारय तारके ॥२१॥
Page 118
११८ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः ५ इत्युक्ता सा तदा देवी शिवेनाद्भुततेजसा। उच्चचारांबिका मंत्रं प्रस्फुटं च नवाक्षरम् ।२२॥ तं गृहीत्वा महादेवः परां सुदमवाप ह। प्रणम्य चरणौ देव्यास्तत्रंवावस्थितः शिवः ॥२३॥ जपन्नवाक्षरं मंत्रं कामदं मोक्षदं तथा। बीजयुक्त शुभोच्चारं शंकरस्तस्थिवांस्तदा ।२४॥ तं तथाऽवस्थितं दृष्टा शंकरं लोकशंकरम् । अवोचं तां महामायां संस्थितोऽहं पदांतिके ॥२५॥ न वेदास्त्वामेवं कलयितुमिहासन्नपटवो यतस्ते नोचुस्त्वां सकलधनधात्रीमविकलाम् । स्वधाभूता देवी सर्वज्ञा सकलमखहोमेषु विहिता तदा जननि खलु जाता त्रिभुवने ॥२६॥ कर्ताऽहं प्रकरोमि सर्वमखिलं ब्रह्मांडमत्यद्द्गुतं कोऽन्योस्तीह चराचरे त्रिभुवने मत्तः समर्थः पुमान्। धन्योऽस्म्यत्र न संशयः किल यदा ब्रह्माऽस्मि लोकातिगो मग्नोऽहं भवसागरे प्रवितते गर्वाभिवेशादिति ॥२७।। अद्याहं तव पादपङ्कजपरागादानगर्वेण वै धन्योऽस्मीति यथार्थवादनिपुणो जातः प्रसादाच्च ते। याचे त्वां भवभीतिनाशचतुरां मुक्तिप्रदां चेश्वरी हित्वा मोहकृतं महार्तिनिगडं त्वद्दक्तियुक्तं कुरु ॥२८॥ अतोऽ्हं च जातो विमुक्त: क्थं स्यां सरोजादमेयात्वदाविष्कृताद्वै। तवाज्ञाकर: किंकरोऽस्मीति नूनं शिवे पाहि मां मोहमग्नं भवाब्धी ॥२९॥ न जानंति ये मानवास्ते वदन्ति प्रभुं मां तवाद्यं चरित्रं पवित्रम् । यजंतीह ये याजकाः स्वर्गकामा न ते ते प्रभावं विदंत्येव कामम् ॥३०॥ त्वया निर्मितोऽहं विधित्वे तिहारं विकर्तु चतुर्धा विधायादिसर्गम्। अहं वेद्यि कोऽन्यो विवेदातिमाये क्षमस्वापराधं त्वहङ्कारजं मे ॥३१॥ श्रमं येऽष्टधा योगमार्गे प्रवृत्ताः प्रकुर्वति मूढाः समाधौ स्थिता वै। न जानंति ते नाम मोक्षप्रदं वा समुच्चारितं जातु मातर्ममिषेण ।।३२।। विचारे परे तत्त्वसंख्याविधाने पदे मोहिता नाम ते संविहाय। न किं ते विमूढा भवाब्धौ भवानि त्वमेवासि संसारमुक्तिप्रदा वै ॥३३॥ परं तत्त्वविज्ञानमाद्यैर्जनैरयेरजे, चानुभूतं त्यजंत्येव ते किम् । निमेषार्धमात्रं पवित्रं चरित्रं शिवा चांबिका शक्तिरीशेति नाम ॥३४॥
Page 119
श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ६ ११९ न किं त्वं समर्थाऽसि विश्वं विधातुं दृर्शवाशु सर्व चतुर्धा विभक्तम्। विनोदार्थमेवंविधं मां विधायादिसर्गे किलेदं करोषीति कामम् ॥३५॥ हरि: पालकः किं त्वयाऽसौ मधोर्वा तथा कैटभाद्रक्षितः सिंधुमध्ये। हरः संहृतः किं त्वयाऽसी न काले कथं मे भ्रुवोर्मध्यदेशात्स जातः ॥३६॥ न ते जन्म कुत्रापि दृष्ट श्रुतं वा कुतः संभवस्ते न कोऽपीह वेद। किलाद्यासि शक्तिस्त्वमेका भवानि स्वतंत्रः समस्तैरतो बोविताऽसि ॥३७॥ त्वया संयुतोऽहं विकतुं समर्थो हरिस्त्रातुमंब त्वया संयुतश्च। हरः सप्रहतुं त्वयैवेह युक्त: क्षमा नाद्य सर्वें त्वया विप्रयुक्त्ाः ॥३८॥ यथाऽहं हरिः शंकरः किं तथाऽन्ये न जाता न संतोह नो वाऽभविष्यन् । न मुह्यन्ति केऽस्मिस्तवात्यंतचित्रे विनोदे विवादास्पदेऽल्पाशयानाम् ॥३९॥ अकर्ता गुणस्पष्ट एवाद्य देवो निरीहोऽनुपाधिः सदैवाकलश्च। तथापीश्वरस्ते वितीणं विनोदं सुसंपश्यती त्याहुरेवं विधिज्ञाः ॥४०॥ दृष्टादृष्टविभेदेऽस्मिन्प्राक्त्वत्तो वै पुमान्परः । नान्यः कोऽपि तृतीयोऽस्ति प्रमेये सुविचारिते॥४१॥ न मिथ्या वेदवाक्यं वै कल्पनीयं कदाचन। विरोधोऽयं मयाउत्यंतं हृदये तु विशंकितः ॥४२॥ एकमेवाद्वितीयं यद्ब्रह्म वेदा वदंति वै। सा किं त्वं वाप्यसौ वाकि संदेहं विनिवर्तय ॥४३।। निःसंशयं न मे चेतः प्रभवत्यविशङ्ङगितम् । द्वित्वैकत्वविचारेऽस्मिन्निमग्नं क्षुल्लकं मनः ॥४४॥ स्वमुखेनापि संदेहं छेत्तुमर्हसि मामकम् । पुण्यभोगाच्च मे प्राप्ता संगतिस्तव पादयोः ॥४५॥ पुमानसि त्वं स्त्री वाडसि बद विस्तरतो मम। ज्ञात्वाऽहं परमां शक्ति मुक्तः स्यां भवसागरात्४६॥। इति श्रीमहेवीभागतते महापुराणे तृतीयस्कन्धे पञ्चमोऽ्यायः ॥५॥ अथ षष्ठोऽध्यायः ब्रह्मोवाच इति पृष्टा मया ददेवी विनयावनतेन च। उवाच वचनं श्लक्ष्णमाद्या भगवती हि सा ।।१॥ देव्युवाच सदैकत्वं न भेदोऽस्ति सर्वदैव ममास्य च। योऽसौ साहमहं योसौ भेदोऽस्ति मतिविभ्रमात् ॥२॥। बावयोरंतरं सूक्ष्मं यो वेद मतिमान्हि सः । विमुक्त: स तु संसारान्मुच्यते नात्र संशयः ॥३॥ एकमेवाद्वितीयं वै ब्रह्म नित्यं सनातनम्। द्वैतभावं पुनर्याति काल उत्पित्सुसंज्ञके ॥४।
Page 120
१२० श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अ याय: ६ यथा दीपस्तथोपाधर्यागात्संजायते द्विधा। छायेवादर्शमध्ये वा प्रतिबिंबं तथाऽडवयोः ॥५॥ भेद उत्पत्तिकाले वै सर्गाथ प्रभवत्यज। दश्यादृश्यविभेदोऽयं द्वैविध्ये सति सर्वथा ॥६॥ नाहं स्री न पुमांश्चाहं न क्लीबं सर्गसंक्षये। सगे सति विभेदः स्यात्कल्पितोऽयं धिया पुनः॥७। अहं बुद्धिरहं श्रीश्च धृतिः कीर्तिः स्मृतिस्तथा। श्रद्धा मेधा दया लज्जा क्षुधा तृष्णा तथा क्षमा ।।। कांतिः शांतिः पिपासा च निद्रा तंद्रा जराडजरा। विद्याविद्या स्पृहा वांछा शक्तिश्चाशक्तिरेव थ।।९ वसा मज्जा च त्वक्वाहं दृष्टिवगिनृतानृता! परा मध्या च पश्यंती नाटघोऽहं विविधाश्च याः॥ किं नाहं पश्य संसारे मद्वियुक्तं किमस्ति हि। सर्वमेवाहमित्येवं निश्चयं विद्धि पद्मज ।११॥ एतैर्मे निश्चितै रूपैविहीनं कि वदस्व मे। तस्मादहं विधे चास्मिन्सर्गे वै वितताऽभवम् ॥१२॥ नूनं सर्वेषु देवेषु नानानामधरा ह्यहम्। भवामि शक्तिरूपेण करोमि च पराक्रमम् ॥१३। गोरी ब्राह्मी तथा रोद्री वाराही वैष्णवी शिवा। वारुणी चाथ कौबेरी नारसिंही च वासवी ॥१४। उत्पन्नेषु समस्तेषु कार्येषु प्रविशामि तान् । करोमि सर्वकार्याणि निमित्तं तं विधाय वै ।।१५।। जले शीतं तथा वह्लावौष््यं ज्योतिर्दिवाकरे। निशानाथे हिमा कामं प्रभवामि यथा तथा॥१६॥ मया त्यक्तं विधे नूनं स्पन्दितुं न क्षम भवेत् । जीवजातं च संसारे निश्चयोऽयं ब्रुवे त्वयिं ॥१७॥ अशक्त: शङ्गरो हंतुं दैत्यान्किल मयोज्झितः। शक्तिहीनं नरं ब्रते लोकश्रैवातिदुर्बलम् ।१८॥ रुद्रहीनं विष्णुहीनं न वदंति जना: किल। शक्तिहीनं यथा सर्वे प्रवदति नराधमम् ॥१९॥ पतितः स्खलितो भीतः शांतः शत्रुवशं गतः । अशक्तः प्रोच्यते लोके नारुद्रः कोपि कथ्यते ॥२०॥ तद्विद्धि कारणं शक्तिर्यथा त्वं च सिसृक्षसि। भविता च यदा युक्त: शक्त्या कर्ता तदाइखिलम् ॥ तथा हरिस्तथा शंभुस्तथेंद्रोऽथ विभावसुः । शशी सूर्यो यमस्त्वष्टा वरुणः पवनस्तथा ॥२२॥ घरा स्थिरा तदा धर्तु शक्तियुक्ता यदा भवेत् । अन्यथा चेदशक्ता स्यात्परमाणोश्च धारणे ।२३। तथा शेषस्तथा कुर्मो येजन्ये सर्वे च दिग्गजाः । मद्युक्ता वै समर्थाश्च स्वानि कार्याणि साधितृम्॥ जलं पिबामि सकलं संहरामि विभावसुम् । पवनं स्तंभयाम्यद्य यदिच्छामि तथाचरम् ॥२५॥ तत्त्वानां चंव सर्वेषां कदापि कमलीद्व । असतां भावसंदेहः कर्तव्यो न कदाचन ॥२६॥ कदाचित्प्रागभावः स्यात्प्रध्वंसाभाव एव वा। मृत्पिंडेषु कपालेषु घटाभावे यथा तथा ॥२७॥ अद्यात्र पृथिवी नास्ति क्व गतेति विचारणे। संजाता इति विज्ञेया अस्यास्तु परमाणवः॥२८ शाश्वतं क्षणिक शून्यं नित्यानित्यं सकर्तृकम्। अहंकाराग्रिमं चैव सप्तभेदैरविवक्षितम् ।२९। गृहाणाज महतत्त्वमहङ्कारस्तदुद्भवः । ततः सर्वाणि भूतानि रचयस्व यथा पुरा ॥३०।। व्रजन्तु स्वानि विष्ण्यानि विरच्य निवसंतु वः । स्वानि स्वानि च कार्याणि कुर्वतु दैवभाविताः ३१॥ गृहाणेमां विधे शक्ति सुरूपां चारुहासिनीम् । महासरस्वतीं नाम्ना रजोगुणयुतां वराम् ॥३२॥
Page 121
श्रीमदेवीमागवते महापुराणे तृतीयस्कन्धे अध्यायः ६ १२१ श्वेतांबरधरां दिव्यां दिव्यभूषणभूषिताम्। वरासनसमारूढां क्रीडार्थं सहचारिणीम् ॥३३॥ एषा सहचरी नित्यं भविष्यति वरांगना। माऽवमंस्था विभूर्ति मे मत्वा पूज्यतमां प्रियाम् ॥ गच्छ त्वमनया सार्ध सत्यलोकं बताशु वै। बीजाच्चतुर्विधं सवं समुत्पादय सांप्रतम् ।३५॥ लिंगकोशाश्च जीवैस्तैः सहिताः कर्मभिस्तथा। वर्तन्ते संस्थिताः काले तान्कुरु त्वं यथा पुरा ॥ कालकर्मस्वभावाख्यैः कारणैः सकलं जगत्। स्वभावस्वगुणैर्युक्तं पूर्ववत्सचराचरम् ॥३७॥ माननीयस्त्वया विष्णुः पूजनीयश्र सर्वदा । सत्त्वगुणप्रधानत्वादधिकः सर्वतः सदा॥३८॥ यदा यदा हि कार्यं वो भविष्यति दुरत्ययम् । करिष्यति पृथिव्यां वै अवतारं तदा हरिः ॥३९॥ तिर्यग्योनावथान्यत्र मानुषीं तनुमाश्रितः । दानवानां विनाशं वै करिष्यति जनार्दनः ॥४०॥ भवोडयं ते सहायश्र भविष्यति महाबलः । समुत्पाद्य सुरान्सर्दान्विहरस्व यथासुखम् ।४१॥ ब्राह्मणा: क्षत्रिया वैश्या नानायज्ञैः सदक्षिणैः । यजिष्यन्ति विधानेन सर्वान्वः सुसमाहिताः ४२॥ मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च। सदा तृप्ताश्च संतुष्टा भविष्यध्वं सुराः किल ॥४३॥ शिवश्च माननीयो वै सर्वथा यत्तमोगुणः । यज्ञकार्येषु सर्वेषु पूजनीयः प्रयत्नतः ॥४४॥ यदा पुनः सुराणां वै भयं दैत्याद्द्विष्यति। शक्तयो मे तदोत्पन्ना हरिष्यंति सुविग्रहाः ४५॥ वाराही वैष्णवी गौरी नारसिंही सदाशिवा। एताश्चान्याश्च कार्याणि कुरु त्वं कमलोद्गव ।। नवाक्षरमिमं मंत्रं बीजध्यानयुतं सदा। जपन्सर्वाणि कार्याणि कुरु त्वं कमलोन्द्व ४७।। मंत्राणामुत्तमोऽयं वै त्वं जानीहि महामते। हृदये ते सदा धार्यः सर्वकामार्थसिद्धये ॥४८॥ इत्युक्त्वा मां जगन्माता हरिं प्राह शुचिस्मिता। विष्णो व्रज गृहाणेमां महालक्ष्मीं मनोहराम् ४९॥। सदा वक्षःस्थले स्थाने भविता नात्र संशयः। क्रीडार्थं ते मया दत्ता शक्ति: सर्वार्थदा शिवा ॥ त्वयेयं नावमन्तव्या माननीया च सर्वदा। लक्ष्मीनारायणाख्योऽयं योगो वै विहितो मया ॥५१॥ जीवनार्थं कृता यज्ञा देवानां सर्वथा मया। अविरोधेन संगेन वर्तितव्यं त्रिभिः सदा ॥५२॥ त्वं च वेधा: शिवस्त्वेते देवा मद्गुणसंभवाः। मान्याः पूज्याश्च सर्वेषां भविष्यन्ति न संशयः॥५३॥ ये विभेदं करिष्यंति मानवा मूढचेतसः । निरयं ते गमिष्यंति विभेदान्नात्र संशयः ॥५४॥ बोहरिःस शिवः साक्षाद्यः शिवःस स्वयं हरिः। एतयोर्भेदमातिष्ठन्नरकाय भवेन्नरः ।५५॥ तथव द्रुहिणो ज्ञेयो नात्र कार्या विचारणा। अपरो गुणभेदोऽस्ति शृणु विष्णो ब्रवीमि ते ॥५६॥ मुख्यः सत्त्वगुणस्तेऽस्तु वरमात्मविचिंतने । गौणत्वेऽपि परौ ख्यातौ रजोगुणतमोगुणौ ॥५७॥ लक्ष्म्या सह विकारेषु नानाभेदेषु सर्वदा। रोगुणयुतो भूत्वा विहरस्वानया सह॥५८।। वाग्बीजं कामराजं च मायाबीजं तृतीयकम् । मंत्रोऽयं त्वं रमाकांत मद्दत्तः परमार्थदः ॥५९॥ गृहीत्वा जप तं नित्यं विहरस्व यथासुखम्। न ते मृत्युभयं विष्णो न कालप्रभवं भयम् ॥६०॥
Page 122
१२२ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ७ यावदेष विहारो मे भविष्यति सुनिश्चयः । संहरिष्याम्यहं सवं यदा विश्वं चराचरम् ॥६१॥ भवंतोऽपि तदा नूनं मयि लीना भविष्यथ। स्मर्तव्योऽयं सदा मंत्रः कामदो मोक्षदस्तथा ॥६२॥ उद्गीथेन च संयुक्त: कर्तव्यः शुभमिच्छता। कारयित्वाऽथ वैकुंठं वस्तव्यं पुरुषोत्तम ।६३।। विहरस्व यथाकामं चिंतयन्मां सनातनीम्ः। ब्रह्मोवाच इत्युक्त्वा वासुदेवं सा त्रिगुणा प्रकृतिः परा ॥६४॥ निर्गुणा शंकरं देवमवोचदमृतं वचः । देव्युवाच गृहाण हरगौरीं त्वं महाकालीं मनोहराम् ॥६५॥ कैलासं कारयित्वा च विहरस्व यथासुखम् । मुख्यस्तमोगुणस्तेऽस्तु गौणौ सत्त्वरजोगुणौ ६६।। विहरासुरनाशार्थं रजोगुणतमोगुणौ। तपस्तप्ं तथा कर्तुँ स्मरणं परमात्मनः ॥६७॥ सर्वसत्त्वगुणः शान्तो गृहीतव्यः सदाऽनघ। सर्वथा त्रिगुणा यूयं सृष्टिस्थित्यंतकारकाः ॥६८॥ एभिरविहीनं संसारे वस्तु नैवात्र कुत्रचित्। वस्तुमात्रं तुयद्दृश्यं संसारे त्रिगुणं हि तत् ।६९। दृश्यं च निर्गुणं लोके न भूतं नो भविष्यति । निर्गुणः परमात्माऽसौन तु दृश्यः कदाचन ॥७०॥। सगुणा निर्गुणा चाहं समये शंकरोत्तमा। सदाऽहं कारणं शंभो न च कार्यं कदाचन ।७१।। सगुणा कारणत्वाद्वै निर्गुणा पुरुषांतिके। महत्तत्त्वमहंकारो गुणाः शब्दादयस्तथा ॥७२।। कार्यकारणरूपेण संसरंते त्वहर्निशम्। सदुन्द्तस्त्वहंकारस्तेनाहं कारणं शिवा॥७३॥ अहंकारश्र मे कार्य त्रिगुणोऽ्सौ प्रतिष्ठितः । अहंकारान्महत्तत्त्वं बुद्धिः सा परिकीर्तिता ॥७४॥ महत्तत्त्वं हि कार्य स्यादहंकारो हि कारणम् । तन्मात्राणि त्वहंकारादुत्पद्यंते सदैव हि॥७५॥ कारणं पञ्चभूतानां तानि सर्वसमद्दवे। कर्मेन्द्रियाणि पंचव पञ्च ज्ञानेंद्रियाणि च ॥७६॥ महाभूतानि पंचैव मनः पोडशमेव च । कार्य च कारणं चैव गुणोऽयं षोडशात्मकः ॥७७॥ परमात्मा पुमानाद्ो न कार्य न च कारणम्। एवं समुद्वः शंभो सर्वेषामादिसंभवे ॥७८॥ संक्षेपेण मया प्रोक्तस्तव तत्र समुद्वः । व्रजंत्वद्य विमानेन कार्यार्थं मम सत्तमाः ॥७९॥ स्मरणाद्दर्शनं तुभ्यं दास्येऽहं विषमे स्थिते । स्मर्तव्याऽहं सदा देवाः परमात्मा सनातनः ॥८०॥ उभयो: स्मरणादेव कार्यसिद्धिरसंशयम् । ब्रह्मोवाच इत्युकत्वा विससर्जास्मान्दत्वा शक्ती: सुसंस्कृताः ॥८१॥ विष्णवेथ महालक्ष्मी महाकालीं शिवाय च । महासरस्वतीं मह्यं स्थानात्तास्माद्विसर्जिताः ॥८२॥
1
Page 123
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ७ १२३ स्पलांतरं समासाद्य ते जाताः पुरुषा वयम्। चिंतयंतः स्वरूपं तत्प्रभावं परमाद्भुतम् ।८३॥ विमानं तत्समासाद्य संरूढास्तत्र वै त्रयः । न द्वीपोऽसौ न सा देवी सुधासिंधुस्तथैव च।। पुनर्दृष्टं विमानं वै तत्रास्माभिर्न चान्यथा ।।८४।। आसाद्य तस्मिन्वितते विमाने प्राप्ता वयं पंकजसन्निधौ च। महार्णवे यत्र हतौ दुरत्ययौ मुरारिणा तौ मधुकैटभाख्यौ ॥८५॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे षष्टोध्यायः ॥६॥ अथ सप्तमोऽध्यायः ब्रह्मोवाच एवंप्रभावा सा देवी मया दृष्टाऽथ विष्णुना। शिवेनापि महाभाग तास्ता देव्यः पृथक्पृथक् ॥१॥ व्यास उवाच इत्याकर्ण्य पितुर्वाक्यं नारदो मुनिसत्तमः । पप्रच्छ परमप्रीतः प्रजापतिमिदं वचः ॥२॥ नारद उवाच पुमानाद्योऽविनाशी यो निर्गुणोऽच्युतिरव्ययः । दृष्टश्चवानुभूतश्र तद्वदस्व पितामह ।।३।। त्रिगुणा वीक्षिता शक्तिनिर्गुणा कीदृशी पितः । तस्याः स्वरूपं मे ब्रूहि पुरुषस्य च पद्मज ॥४॥ यदर्थं च मया तप्तं श्वेतद्वीपे महत्तपः । दृष्टाः सिद्धा महात्मानस्तापसा गतमन्यवः ॥५॥ परमात्मा न संप्राप्तो मयाऽसौ दष्टिगोचरः । पुनः पुनस्तपस्तीव्रं कृतं तत्र प्रजापते ॥६॥ भवता सगुणा शक्तिर्दृष्टा तात मनोरमा। निर्गुणा निर्गुणाश्चैव कीदृशौ तौ वदस्व मे ॥७॥ व्यास उवाच इति पृष्ठः पिता हतेन नारदेन प्रजापतिः । उवाच वचनं तथ्यं स्मितपूर्व पितामहः ॥८॥ ब्रह्मोवाच निर्गुणस्य मुने रूप न भवेद्दृष्टिगोचरम्। दृश्यं च नश्वरं यस्मादरूपं दृध्यने कथम् ।९॥ निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च तथा पुमान्। ज्ञानगम्यौ मुनीनां तु भावनीयौ तथा पुनः ॥१०॥ अनादिनिधनौ विद्धि सदा प्रकृतिपूरुषौ। विश्वासेनाभिगम्यौ तौ नाविश्वासन क्हिचित् ।।११।। चैतन्यं सर्वभूतेषु यत्तद्विद्धि परात्मकम्। तेजः सर्वत्रगं नित्यं नानाभावेषु नारद ॥१२॥ तं च तां च महाभाग व्यापकौ विद्धि सर्वगौ। ताभ्यां विहीन संसारे न किंचिद्वस्तु विद्यते ॥१३॥ तौ विचिंत्यौ सदा देहे मिश्रीभूतौ सदाऽव्ययौ। एकरूपौ चिदात्मानौ निगुणौ निर्मलावुभौ ॥१४॥ या शक्ति: परमात्माऽसौसा योऽसौपरमा मता। अंतरं नैतयोः कोऽपि सूक्ष्मं वेद च नारद ।१५॥
Page 124
१२४ श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ७ अधीत्य सर्वशास्त्राणि वेदान्सांगांश्र नारद। न जानाति तयोः सूक्ष्ममंतरं विरति बिना।१ अहंकारकृतं सर्व विश्वं स्थावरजङ्गमम्। कथं तद्रहितं पुत्र भवेत्कल्पशतैरपि॥१ निर्गुणं सगुणः पुत्र कथं पश्यति चक्षुषा। सगणं च महाबुद्धे चेतसा संविचारय॥१ पित्तेनाच्छादिता जिह्वा चक्षुश्र मुनिसत्तम। कटु पित्तं विजानाति रसं रूपं न तत्तथा॥१ गुणैः समावृतं चेतः कथं जानाति निर्गुणम् । अहंकारोद्द्वं तच्च तद्विहीनं कथं भवेत्।।२ यावन्न गुणविच्छेदस्तावत्तदर्शनं कुतः । तं पश्यति तदा चित्ते यदाऽहंकारवरजितः ॥२ नारद उवाच स्वरूपं देवदेवेश त्रयाणामेव विस्तरात्। गुणानां यत्स्वरूपोऽस्ति ह्यहंकारस्त्रिरूपकः ॥२ सात्त्विको राजसश्चंव तामसश्च तथापरः । विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम ॥२ यज्ज्ञात्वा विप्रमुच्येऽहं ज्ञानं तद्वद मे प्रभो। गुणानां लक्षणान्येव विततानि विभागशः ॥२ ब्रह्मोवाच त्रयाणां शक्तयस्तिस्त्रस्तद्ब्रवीमि तवानघ। ज्ञानशक्ति: क्रियाशक्तिरर्थशक्तिस्तथापरा ॥२५ सात्त्विकस्य ज्ञानशक्ती राजसस्य क्रियात्मिका। द्रव्यशक्तिस्तामसस्य तिस्त्रश्च कथितास्तव ।२६। तेषां कार्याणि वक्ष्यामि शृणु नारद तत्त्वतः । तामस्या द्रव्यशक्तेश्र शब्दस्पर्शसमुद्द्वः ।२७ रूपं रसश्र गंधश्च तन्मात्राणि प्रचक्षते। शब्दैकगुणमाकाशं वायुः स्पर्शगुणस्तथा ॥२८ सुरूपैकगुणोऽग्निश्च जलं रसगुणात्मकम्। पृथ्वी गंधगुणा ज्ञेया सूक्ष्माण्येतानि नारद ॥२९ दशैतानि मिलित्वा तु द्रव्यशक्तियुतानि वै । तामसाहङ्कारजः स स्यात्सर्गस्तदनुवृत्तिकः ॥३०॥ राजस्याश्च क्रियाशक्त्तरुत्पन्नानि शृणुष्व मे। श्रोत्रं त्वग्रसना चक्षुर्घाणं चैव च पञ्चमम् ॥३१॥ ज्ञानेंद्रियाणि चैतानि तथा कर्मेन्द्रियाणि च । वाक्पाणिपादपायुश्च गुह्यांतानि च पञ्च वै।३२। प्राणोऽपानश्च ध्यानश्च समानोदानवायवः। पञ्चदश मिलित्वैव राजसः सर्ग उच्यते ॥३३॥ साधनानि किलैतानि क्रियाशक्तिमयानि च । उपादानं किलैतेषां चिंदनुवृत्तिरुच्यते ॥३४॥ ज्ञानशक्तिसमायुक्ताः सात्त्विकाच्च समुद्धवाः । दिशो वायुश्व सूर्यश्र वरुणश्राश्रिनावषि ॥३५॥ ज्ञानेंद्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवताः । चंद्रो ब्रह्मा तथा रुद्रः क्षेत्रजश्र चतुर्थकः ॥३६॥ इत्यंत:करणाख्यस्य बुद्धयादेश्राधिदैवतम् । चत्वार्येव तथा प्रोक्ताः किलाधिष्ठातृदेवताः ॥३७॥ मनसा सह चतानि नूनं पञ्चदशव तु। सात्त्विकस्य तु सर्गोडयं सात्त्विकाख्यः प्रकीर्तितः। स्थूलसूक्ष्मादिभेदेन द्वे रूपे परमात्मनः। ज्ञानरूपं निराकारं निदानं तत्प्रचक्षते ।३९॥ साधकस्य तु ध्यानादौ स्थूलरूपं प्रचक्षते। शरीरं सूक्ष्ममेवेदं पुरुषस्य प्रकीर्तितम् ॥४०॥ मम चैव शरीरं वै सूत्रमित्यभिधीयते। स्थूलं शरीरं वक्ष्यामि ब्रह्मणः परमात्मनः ॥४१॥
Page 125
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ८ १२५: शृणु नारद यत्नेन यच्छ्रुत्वा विप्रमुच्यते। तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै ।।४२।। पंचीकृत्य तु तान्येव पंचभूतसमृद्धवः । पंचीकरणभेदोऽयं शृणु संवदतः किल॥४३॥ प्रथमं रसतन्मात्रामुपादाय मनस्यपि। कल्पयेच्च तथा तद्व यथा भवति चोदकम् ॥४४॥। शिष्टानां चंव भूतानामंशान्कृत्वा पृथक्पृथक्। उदके मिश्रयेच्चांशान्कृते रस्षमये ततः ॥४५॥ तदा भूतविभागे च चैतन्ये च प्रकाशिते। चैतन्यस्य प्रवेशात्तु तदाऽहमिति संशयः ॥४६॥ प्रतीयमाने तनैव विशेषेणाभिमानतः । आंदिनारायणो देवो भगवानिति चोच्यते ॥४७॥ घनीभूतेऽथ भूतानां विभागे स्पष्टतां गते। वृद्धिं प्राप्य गुणश्चेत्थमेकँकगुणवृद्धितः ॥४८॥ आकाशस्य गुणश्चक: शब्द एव न चापरः । शब्दस्पर्शौ च वायोश्च द्वौ गुणौ परिकीरतितौ४९॥। अग्नेः शब्दशच स्पर्शश्च रूपमेते त्रयो गुणाः । शब्दस्पर्शरूपरसाश्चत्वारो वै जलस्य च ॥५०॥ स्पर्शशब्दरसा रूपं गंधश्च पृथिवीगुणाः। एवं मिलितयोगैश्च ब्रह्मांडोत्पत्तिरुच्यते ॥।५१॥ सर्वे जीवा मिलित्वैव ब्रह्मांडांशसमु्द्धवाः । चतुरशीतिलक्षाश्च प्रोक्ता वै जीवजातयः ॥५२॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे सप्तमोऽध्यायः ॥। ७॥ अथ अष्टमोऽध्यायः ब्रह्मोवाच सर्गोडयं कथितस्तात यत्पृष्टोऽहं त्वयाऽधुना। गुणानां रूपसंस्थां वै शृणुप्वकाग्रमानसः ॥१॥ सत्त्वं प्रीत्यात्मकं ज्ञेयं सुखात्प्ीतिसमुद्धवः । आर्जवं च तथा सत्यं शौचं श्रद्धा क्षमा धृति: |।२।। अनुकंपा तथा लज्जा शांतिः संतोष एव च । एतैः सत्त्वप्रतीतिश्र जायते निश्चला सदा ।।३। श्वेतवर्ण तथा सत्त्वं धर्मे प्रीतिकरः सदा। सच्छ्रद्धोत्पादकं नित्यमसच्छ्रद्धानिवारकम् ॥४॥ सात्त्विकी राजसी चैव तामसी च तथापरा। श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदशिभिः ।।५।। रक्तवण रजः प्रोक्तमप्रीतिकरमद्भुतम् । अप्रीतिर्दुःखयोगत्वाद्द्वत्येव सुनिश्चिता ॥६।। प्रद्वेषोऽथ तथा द्रोहो मत्सरः स्तंभ एव च । उत्कंठा च तथा निद्रा श्रद्धा तव च राजसी।।3। मानो मदस्तथा गर्वो रजसा किल जायते। प्रत्येतव्यं रजस्त्वंतैर्लक्षणैश्र विचक्षणैः ।८॥ कृष्णवर्ण तमः प्रोक्तं मोहनं च विषादकृत् । आलस्यं च तथाऽज्ञान निद्रा दैन्यं भयं तथा ॥९॥ विवादश्रंव कार्पण्यं कौटिल्यं रोष एव च । वैषम्यं वातिनास्तिक्यं परदोपानुदर्शनम् ॥१०॥ प्रत्येतव्यं तमस्त्वेतैर्लक्षणैः सर्वथा बुधैः । तामस्या श्रद्धया युक्त परतापोपपादकम् ॥११॥ सत्वं प्रकाशयितव्यं नियंतव्यं रजः सदा। संहर्तव्यं तमः कामं जनेन शुभमिच्छता ॥१२॥ अन्योन्याभिभवाच्चते विरुध्यंति परस्परम्। तथाऽन्योन्याश्रयाःसर्वे न तिष्ठंति निराश्रया ॥१३॥ सत्त्वं न केवलं क्वापि न रजो न तमस्तथा। मिलिताश्र सदा सर्वे तेनान्योन्याश्रयाः स्मृताः १४॥
Page 126
१२६ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ८ अन्योन्यमिथुनाच्चव विस्तारं कथयाम्यहम्। शृणु नारद यज्ज्ञात्वा मुच्यते भवबंधनात् ॥१५ संदेहोऽत्र न कर्तव्यो ज्ञात्वेत्युक्तं मया वचः। ज्ञातं तदनुभूतं यत्परिज्ञातं फले सति।१६ श्रवणाद्दर्शनाच्चव सपद्येव महामते। संस्कारानुभवाच्चव परिज्ञातं न जायते ।१७ श्रुतं तीर्थं पवित्रं च श्रद्धोत्पन्ना च राजसी। निर्गतस्तत्र तीर्थे वै दृष्टं चैव यथाश्रुतम् ।१d स्नातस्तत्र कृतं कृत्यं दत्तं दानं च राजसम् । स्थितस्तत्र कियत्कालं रजोगुणसमावृतः॥१ रागद्वेषान्न निर्मुक्तः कामकोधसमावृतः । पुनरेव गृहं प्राप्तो यथापूर्व तथा स्थितः ॥२ श्रुतं च नानुभूतं वै तेन तीर्थ मुनीश्वर। न प्राप्तं च फलं यस्मादश्रुतं विद्धि नारद ।।२१ निष्पापत्वं बलं विद्धि तीर्थस्य मुनिसत्तम। कृषे: फलं यथा लोके निष्पन्नान्नस्य भक्षणम् २२ पापदेहविकारा ये कामक्रोधादयः परे। लोभो मोहस्तथा तृष्णा द्वेषो रागस्तथा मदः॥२३ असूयेर्ष्याऽक्षमाऽशांतिः पापान्येतानि नारद । न निर्गतानि देहात्तु तावत्पापयुतो नरः ॥२४ कृते तीर्थें यदैतानि देहान्न निर्गतानि चेत्। निष्फलः श्रम एवैकः कर्षकस्य यथा तथा ॥२५ श्रमेणापीडितं क्षेत्रं कृष्टा भूमिः सुदुर्घटा। उप्तं बीजं महर्घं च हिता वृत्तिरुदाहृता ॥२६ अहोरातं परिकलिष्टो रक्षणार्थं फलोत्सुकः । काले सुप्तस्तु हेमंते वने व्याघ्रादिभिर्भृशम् ।।२७ भक्षितं शलभैः सर्व निराशश्च कृतः पुनः । तद्वत्तीर्थश्रमः पुत्र कष्टदो न फलप्दः ॥२८ सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात्। वैराग्यं तत्फलं जातं तामसार्थेषु नारदः ॥२९ प्रसह्याभिभवत्येव तद्रजस्तमसी उभे। रजः समुत्कटं जातं प्रवृत्तं लोभयोगतः ॥३० तत्तथाभिभवत्येव तमः सत्त्वे तथा उभे। तमस्तथोत्कटं भूत्वा प्रवृद्धं मोहयोगतः ॥३१ तत्सत्वरजसी चोभे संगम्याभिभवत्यपि। विस्तरं कथयाम्यद्य यथाभिभवतीति वै ॥३२॥ यदा सत्त्वं प्रवृद्धं वै मतिर्धरमें स्थिता तदा। न चिंतयति बाह्यार्थ रजस्तमःसमुदद्वम् ॥३३॥ अर्थसत्त्वसमुद्द्ूतं गृह्णाति च न चान्यथा। अनायासकृतं चार्थ धर्म यज्ञं च वांछति ॥३४॥ सात्त्विकेष्वेव भोगेषु कामं वै कुरुते तदा। राजसेपु न मोक्षार्थं तामसेषु पुनः कुतः॥३५॥ एवं जित्वा रजः पूर्व ततश्र तमसो जयः। सत्त्वं च केवलं पुत्र तदा भवति निर्मलम् ॥३६॥ यदा रजः प्रवुद्धं वै त्यकत्वा धर्मान्सनातनान्। अन्यथाकुरुते धर्माच्छरम्ां प्राप्य तु राजसीम् ॥३७॥ राजसादर्थसंवृद्धिस्तथा भोगस्तु राजसः। सत्त्वं विनिर्गत तेन तमसश्चापि निग्रहः ॥३८॥ यदा तमो विवृद्धं स्यादुत्कटं संबभूव ह। तदा वेदे न विश्वासो धर्मशास्त्रे तथैव च ।।३९।। श्रद्धां च तामसीं प्राप्य करोति च धनात्ययम् । द्रोहं सर्वत्र कुरुते न शांतिमधिगच्छति ॥४0 जित्वा सत्त्वरजश्चैव क्रोधनो दुर्मतिः शठः। वर्तते कामचारेण भावेषु विततेषु च ।।४१।। एकं सत्त्वं न भवति रजश्चैकं तमस्तथा। सहैवाश्रित्य वर्तते गुणा मिथुनधर्मिण: ॥४२॥
Page 127
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ९ १२७ रजो विना न सत्त्वं स्याद्रजः सत्त्वं विना क्वचित्। तमो विना न चैवैते वर्तन्ते पुरुषर्षभ ॥४३॥ तमस्ताभ्यां विहीनं तु केवलं न कदाचन। सर्वे मिथुनधर्माणो गुणाः कार्यान्तरेषु वै ॥४४॥। अन्योन्यसंश्रिताः सर्वे तिष्ठंति न वियोजिताः । अन्योन्यजनकाश्चव यतः प्रसवधर्मिणः ॥४५॥ सत्त्वं कदाचिच्च रजस्तमसी जनयत्युत । कदाचित्तु रजः सत्त्वतमसी जनयत्यपि॥४६॥ कदाचित्तु तमः सत्त्वरजसी जनयत्युभे। जनयंत्येवमन्योन्यं मृत्पिंडश्च घटं यथा॥४७॥ बुद्धिस्थास्ते गुणाः कामान्बोधयंति परस्परम् । देवदत्तविष्णुमित्रयज्ञदत्तादयो यथा।४८।। यथा स्त्रीषु पुरुषश्रैव मिथुनौ च परस्परम् । तथा गुणाः समायांति युग्मभावं परस्परम् ॥४९॥ रजसो मिथुने सत्त्वं सत्त्वस्य मिथुने रजः । उभे ते सत्त्वरजसी तमसो मिथुने विद्ुः ॥५०॥
इत्येतत्कथितं नारद उवाच पित्रा गुणरूपमनुत्तमम् । श्रुत्वाप्येतत्स एवाहं ततोऽपृच्छं पितामहम् ॥५१॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे अष्टमोऽध्यायः ॥८॥ अथ नवमोऽध्यायः नारद उवाच गुणानां लक्षणं तात भवता कथितं किल। न तृप्तोऽस्मि पिबन्मिष्टं त्वन्मुखात्प्रच्युतं रसम्॥१॥ गुणानां तु परिज्ञानं यथावदनुवर्णय। येनाहं परमां शांतिमधिगच्छामि चेतसि ॥२॥ व्यास उवाच इति पृष्टस्तु पुत्रेण नारदेन महात्मना। उवाच च जगत्कर्ता रजोगुणसमुदद्वः ॥३॥ ब्रह्मोवाच शृणु नारद वक्ष्यामि गुणानां परिवर्णनम् । सम्यङ् नाहं विजानामि यथामति वदामि ते ॥४॥ सत्त्वं तु केवलं नैव कुत्रापि परिलक्ष्यते। मिश्रीभावात्तु तेषां वै मिश्रत्वं प्रतिभाति वै ॥५॥ यथा काचिद्वरा नारी सर्वभूषणभूषिता। हावभावयुता कामं भर्तुः प्रीतिकरी भवेत् ॥६। मातापित्रोस्तथा सैव बंधुवर्गस्य प्रीतिदा। दुःखं मोहं सपत्नीषु जनयत्यपि सैव हि ।७॥ एवं सत्वेन तेनैव स्त्रीत्वमापादितेन च । रजसस्तमसश्रैद जनिता वृत्तिरन्यथा ।८। रजसा स्त्रीकृतेनैव तमसा च तथा पुनः। अन्योन्यस्य समायोगादन्यथा प्रीतिभाति वै ॥९ अवस्थानात्स्वभावेषु न वै जात्यंतराणि च। लक्ष्यतेविपरीतानि योगान्नारद कुत्रचित् ॥१०॥ यथा रूपवती नारी यौवनेन विभूषिता। लज्जामाधुर्ययुक्ता च तथा विनयसंयुना ॥११॥ कामशास्त्रविधिज्ञा च धर्मशास्त्रेपि संमता। भर्तुःप्रीतिकरी भूत्वा सपत्नीनां च दुःखदा ॥१२।
Page 128
१२८ श्रामहवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ९ मोहदुःखस्वभावस्था सत्त्वस्थेत्युच्यते जनैः । तथा सत्त्वं विकुर्वाणमन्यभावं विभाति वै ॥१३॥ चौरैरुपद्रुतानां हि साधूनां सुखदा भवेत्। दुःखा मूढा च दस्यूनां सैव सेना तथागुणा ॥१४।। विपरीतप्रतीति वै वर्जयन्ति स्वभावतः । यथा च दुर्दिनं जातं महामेघघनावृतम् ॥१५॥ विद्युत्स्तनितसंयुक्तं तिमिरेणावगुंठितम् । सिंचन्द्मिं प्रवर्षदै तमोरूपमुदाहृतम् ॥१६॥ यदेतत्कर्षकाणां वै तदेवातीवदुर्दिनम् । बीजोपस्करयुक्तानां सुखदं प्रभवत्युत ॥१७॥ अप्रच्छन्नगृहाणां च दुर्भगानां विशेषतः । तृणकाष्टगृहीतानां दृःखदं गृहमेधिनाम् ॥१८॥ प्रोषितभर्तृकाणां वै मोहदं प्रवदत्यपि । स्वभावस्था गुणाः सर्वे विपरीता विभाति वै ॥१९॥ लक्षणानि पुनस्तेषां शृणु पुत्र ब्रवीम्यहम्। लघुप्रकाशकं सत्त्वं निर्मलं विशद सदा ॥२०॥ यदाऽङ्गानि लघून्येव नेत्रादीनींद्रियाणि च । निर्मलं च तथा चेतो गृह्लाति विपयान्न तान् २१।। तदा सत्त्वं शरीरे व मंतव्य च समुत्कटम्। जभा स्तंभं च तंद्रां च चलं चैव रजः पुनः ॥२२॥ यदा तदुत्कटं जातं देहे यस्य च कस्यचित्। कलिं मृगयते कर्तु गंतुं ग्रामांतरं तथा ॥२३॥ चलचित्तस्य सोऽत्यर्थ विवादे चोद्यतस्तथा। गुरुमावरणं कामं तमो भवति तद्यदा ॥२४॥ तदाऽङ्गानि गुरूण्याशु प्रभवंत्यावृतानि च । इंद्रियाणि मनःशून्यं निद्रां नैवाभिवांछति ॥२५॥ गुणानां लक्षणान्येवं विज्ञेयानीह नारद। नारद उवाच विभिन्नलक्षणाः प्रोक्ताः पितामह गुणास्त्रयः ॥२६॥ कथमेकत्र संस्थाने कार्य कुर्वन्ति शाश्वतम् । परस्परं मिलित्वा हि विभिन्नाः शत्रवः किल ॥२७॥ एकत्रस्था: कथं कार्य कुर्वतीति वदस्व मे। ब्रह्मोवाच शृणु पुत्र प्रवक्ष्यामि गुणास्ते दीपवृत्तयः ।२८।। प्रदीपश्च यथा कार्यं प्रकरोत्यर्थदर्शनम् । वर्तिस्तैलं यथाचिंश्च विरुद्धाश्र परस्परम् ॥२९॥ विरुद्धं हि तथा तैलमग्निना सह संगतम्। तैलं वर्तिविरोध्येव पावकोऽपि परस्परम् ॥३०॥ एकत्रस्थाः पदार्थानां प्रकुवंति प्रदर्शनम् । नारद उवाच एवं प्रकृतिजाः प्रोक्ता गुणाः सत्यवतीसुत ॥३१॥ विश्वस्य कारणं ते वै मया पूर्व यथा श्रुतम् । व्यास उवाच इत्युक्तं नारदेनाथ मम सर्वं सविस्तरम्॥३२॥
Page 129
९ श्रीमहेवीभागव ते महापुराणे तृतीयस्कन्धे अध्याय: १० १२९ गुणानां लक्षणं सर्व कार्य चैव विभागशः । आराव्या परमा शक्तिर्यया सर्वमिदं ततन् ॥३३। सगुणा निर्गुणा चव कार्यभेदे सदैव हि। अकर्ता पुरुषः पूर्णो निरीहः परमोऽव्ययः ॥३४॥ करोत्येषा महामाया विश्वं सदसदात्मकम् ! ब्रह्मा विष्णुस्तथा रुद्रः सूर्यश्चन्द्रः शचीपतिः ॥३५॥ अश्विनो वसवस्त्वष्टा कुबेरो यादसां पतिः । वह्निर्वायुस्तथा पूषा सेनानीश्व विनायकः ॥३६॥ सर्वे शक्तियुताः शक्ताः कर्तुं कार्याणि स्वानि च । अन्यथा तेऽप्यशक्ता वै प्रस्पंदितुमनीश्वराः ॥३७॥ सा चैव कारणं राजञ्जगतः परमेश्वरी। समाराधय ता भूप कुरु यज्ञं जनाधिप ॥३८।। पूजनं परया भक्त्या तस्या एव विधानतः । महालक्ष्मी महाकाली तथा महासरस्वती ॥३९॥ ईश्वरी सर्वभूलानां सर्वकारणकारणम्। सर्वकामार्थदा शांता सुखसेव्या दयान्विता ॥४०॥ नामोच्चारणनात्रेण वांछितार्थकलप्रदा। देवैराराधिता पूर्वं ब्रह्मविष्णुमहेश्वरैः ॥४१॥ मोक्षकामैश्र विविधेस्तापसैविजितात्मभिः । अस्पष्टमपि यन्नाम प्रसंगेनापि भाषितम् ॥४२॥ ददाति वांछितानर्थान्दुर्लभानपि सर्वथा। ऐऐ इति भयार्तेन दृष्टा व्याघ्रादिकं वने ॥४३॥! बिंदुहीनमपीत्युक्तं वांछितं प्रददाति वै। तत्र सत्यव्रतस्यंव दृष्टान्तो नृपसत्तम ॥४४॥! प्रत्यक्ष एव चास्माकं मुनोनां भावितात्मनाम् । ब्राह्मणानां समाजेषु तस्योदाहरणं बुध: ॥४५॥ कथ्यमानं मया राजञ्छुतं सर्वं सविस्तरम् । अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजः ॥४६: श्रुत्वाऽक्षरं कोलमखात्समुच्चार्य स्वयं ततः । बिन्दुहोनं प्रसंगेन जातोऽसौ विबुधोत्तमः ॥४७॥ ऐकारोच्चारणाद्ेवी तुष्टा भगवती तदा। चकार कविराजं तं दयार्द्रा परमेश्वरी॥४८॥ इति श्रीदेवीभोंगवते महापुराणे तृतीयस्कन्धे नवमोऽध्यायः ॥९॥ अथ दशमोऽध्यायः जनमेजय उवाच कोऽशौ सत्यव्रतो नाम ब्राह्मणो द्विजसत्तमः । कस्मिन्देशे समुत्पन्नः कीदृशश्च वदस्व मे ॥१॥ कथं तेन श्रुतः शब्दः कथमुच्चारितः पुनः । सिद्धिश्च कीदृशी जाता तस्य विप्रस्य तत्क्षणात् ॥ कथं तुष्टा भवानी सा सर्वज्ञा सर्वसंस्थिता। विस्तरेण वदस्वाद्य कथामेतां मनोरमाम् ॥३॥ सूत उवाच इति पृष्टस्तदा राज्ञा व्यासः सत्यवतीसुतः । उवाच परमोदारं वचन रसवच्छुचि ॥४॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि कथां पौराणिकी शुभाम् । श्रुता मुनिसमाजेपु मया पूर्व कुरूदृवह ।।५।। एकदाऽहं कुरुश्रेष्ठ कुर्वस्तीर्थाटनं शुचि। संप्राप्तो नैमिनारण्यं पावनं मुनिसेवितम् ॥६॥
Page 130
१३० श्रीमद्ेवीभागवते महापुराणे तृतीय स्कन्धे अध्याय: १० प्रणम्यायं मुनीन्सवान् स्थितस्तत्र वराश्रमे । विधिपुत्रास्तु यत्रासञ्जीवन्मुक्ता महाव्रताः॥७ कथाप्रसंग एवासीत्तत्र विप्रसमागमे। जमदग्निस्तु पप्रच्छ मुनीनेवं समास्थितः ॥८।। जमदग्निरुवाच संदेहोऽस्ति महाभाग मम चेतसि तापसाः । समाजेषु मुनीनां वै निःसंदेहो भवाम्यहम् ॥९॥ ब्रह्मा!विष्णुस्तथा रुद्रो मघवा वरुणोऽनलः । कुबेरः पवनस्त्वष्टा सेनानीश्च गणाघिपः ॥१०॥ सूर्योडश्विनौ भग: पूषा निशानाथो ग्रहास्तथा। आराधनीयतमः कोऽत्र वांछितार्थफलप्रदः ॥११॥ सुखसेव्यश्च सततं चाशुतोषश्र मानदः । ब्रुवन्तु मुनयः शीघ्रं सर्वज्ञाः संशितव्रताः ॥१२॥ एवं प्रश्ने कृते तत्र लोमशो वाक्यमब्रवीत्। जमदग्ने शृणुष्वतद्यत्पृष्टं वै त्वयाऽधुना ।१३॥ सेवनीयतमा शक्ति: सर्वेषां शुभमिच्छताम् । परा प्रकृतिराद्या च सर्वगा सर्वदा शिवा ॥१४॥ देवानां जननी सैव ब्रह्मादीनां महात्मनाम् । आदिप्रकृतिमूलं सा संसारपादपस्य वै ।१५॥ स्मृता चोच्चारिता देवी ददाति किल वांछितम् । सर्वदैवार्द्रचित्ता सा वरदानाय सेबिता ॥१६॥ इतिहासं प्रवक्ष्यामि शृण्वंतु मुनयः शुभम् । अक्षरोच्चारणादेव यथा प्राप्तं द्विजेन वै ॥१७॥ कोसलेषु द्विजः कश्चिद्देवदत्तेति विश्रुतः । अनपत्यश्चकारेष्टिं पुत्राय विभिपूर्वकम् ॥१८॥ तमसातीरमास्थाय कृत्वा मंडपमुत्तमम्। द्विजानाहूय वेदज्ञान्सत्रकर्मविशारदान् ॥१९॥ कृत्वा वेदीं विधानेन स्थापयित्वा विभावसून् । पुत्रेष्टि विधिवत्तत्र चकार द्विजससतमः ॥२०॥ ब्रह्माणं कल्पयामास सुहोत्रं मुनिसत्तमम् । अध्वर्युं याज्ञवल्क्यं च होतारं च बृहस्पतिम् ।२१। प्रस्तोतारं तथा पैलमुद्गातारं च गोभिलम्। सभ्यानन्यान्मुनीन्कृत्वा विधिवत्प्रददो वसु ॥।२२॥ उद्गाता सामग: श्रेष्ठः सप्तस्वरसमन्वितम् । रथन्तरमगायत्तु स्वरितेन समन्वितम् ॥२३॥ तदाऽस्य स्वरभङ्गोऽभूत्कृते श्वासे मुहुमुहुः । देवदत्तश्चुकोपाशु गोभिलं प्रश्युवाच है।२४॥ मूर्खोऽसि मुनिमुख्याद्य स्वरभंगस्त्वया कृतः । काम्यकर्मणि संजाते पुत्रार्थ यजतश्ब मे ॥२५॥ गोभिलस्तु तदोवाच देवदत्तं सुकोपितः । मूर्खस्ते भविता पुत्रः शठः शब्दविवर्जितः ॥२६॥ सर्वप्राणिशरीरे तु श्वासोच्छवासः सुदुर्ग्रहः । न मेऽत्र दूषणं किंचित्स्वरभंगे महामते ॥२७ तच्छ्रत्वा वचनं तस्य गोभिलस्य महात्मनः । शापाद्ीतो देवदत्तस्तमुवाचातिदुःखितः ॥२८॥ कथं क्रुद्धोऽसि त्रिप्रेंद्र वृथा मयि निरागसि । अक्रीघना हि मुनयो भवंति सुखदाः सदा ॥२९॥ स्वल्पेऽपराधे विप्रेंद्र कथं शप्तस्त्वया ह्यहम्। अपुत्रोऽहं सुतप्तः प्राक्तापयुक्तः पुनः कृतः ॥३०॥ मूर्खपुत्रादपुत्रत्वं वरं वेदविदो विदुः। तथापि ब्राह्मणो मूर्खः सर्वेषां निंद्य एव हि ॥३१। पशुवच्छूद्रवच्चव न योग्यः सर्वकर्मसु। कि करीमीह मूर्खेण पुत्रेण दविजसत्तम ।।३२। यथा शूद्रस्तथा मूर्खो ब्राह्मणो नात्र संशयः । न पूजाहों न दानाहों निंदश्च सर्वकर्मसु ॥३३।
Page 131
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १० १३१ देशे वै वसमानश्व ब्राह्मणो वेदवर्जितः । करठः शूद्रवच्चैत मंतव्यः स च भूभुजा ॥३४॥ नासने पितृकार्येषु देवकार्येषु स द्विजः । मुर्खः समुपवेश्यश्च कार्यश्च फलमिच्छता ॥३५॥ राज्ञा शुद्रसमो ज्ञेयो न योज्यः सर्वकर्मसु। आर्वकस्तु द्विजः कार्यो ब्राह्मणो वेदवर्जितः ॥३६॥ विना विप्रेण कर्तव्यं श्राद्वं कुशचटेन वै। न तु विप्रेण मूर्खेण श्राद्धं कार्य कदाचन ॥३७॥ आहारादधिकं चान्नं न दातत्यमपंडिते। दाता नरकमाप्नोति ग्रहीता तु विशेषतः ॥३८। घिग्राज्यं तस्य राज्ञो वै यम्य देशेजबरुवा जनाः । पूज्यन्ते ब्राह्मणा मूर्खा दानमानादिकैरपि ॥३२॥ आसने पूजने दाने यत्र भेदो न चाण्वपि। मुर्खंडितयोर्भेदो ज्ञातव्यो विबुधेन वै ॥४०॥ मूर्खा यत्र मुगर्विष्टा दानमानपरिग्रहैः । तस्मिन्देशे न वस्तव्यं पंडितेन कथंचन ॥४१॥ असतामुपकाराय दुर्जनानां विभूतयः । पिचुमंदः फलाढयोऽपि काकैरेवोपभुज्यते ॥४२॥ भुक्त्वान्नं वेदविद्विप्रो वदाभ्यानं करोति वै। क्रीडंति पूर्वजास्तस्य स्वर्गे प्रमुदिता: किल ॥४३॥ गोभिलातः विमुक्तं वै त्वया वेदविदुत्तम। संसारे मूर्खपुत्रत्वं मरणादतिगहितम् ॥४४।। कृपां कुर महाभाग शापस्यानुग्रहं प्रति। दीनोद्धारणशक्तोऽसि पतामि तव पादयोः ॥४५॥ लोमश उवाच इत्युक्त्वा देवदत्तस्तु पतितस्तस्य पादयोः । स्तुवन्दीनहृदत्यर्थ कृपणः साश्रुलोचनः ॥४६॥ गोभिन्स्तु तदा तत्र दृष्टा नं दीनचेतसम् । क्षणकोपा महांतो वै पापिष्ठाः कल्पकोपनाः ॥४७। जलं स्वभावतः शीतं पावकातपयोगतः । उष्णं भवति तच्छीघ्रं तद्विना शिशिरं भवेत्।४८।। दयावान्गोभिलस्त्वाह देवदंत्तं सुद्ुःखितम् । मूर्खो भूत्वा सुतस्ते वै विद्वानपि भविष्यति ॥४९।। इति दत्तवरः सोऽथ मुदितोऽभूद्द्विजर्षभः । इृष्टिं समाप्य विप्रान्वै विससर्ज यथाविधि ॥५॥ कालेन कियता तस्य भार्या रूपमती सती। गर्भ दधार काले सा रोहिणी रोहिणीसमा ॥५१॥ गर्भाधानादिकं कर्म चकार विधिवद्द्विजः । पुंसवनविधानं च शृङ्गारकरणं तथा ।५२॥ सीमंतोन्नयनं चैव कृतं वेदविधानतः। ददौ दानानि मुदितो मत्वेष्टि सफलां तथा ।५३॥ शुभेरऽर्नि सुषुवे पुत्रं रोहिणी रोहिणीयुते। दिने लग्ने शुभेऽत्यर्थ जातकर्म चकार सः॥५४॥ पुत्रदर्शनकं कृत्वा नामकर्म चकार च। उतथ्य इति पुत्रस्य कृतं नाम पुराविदा ॥५५॥ स चाष्टमे तथा वर्षे शुभे वै शुभवासरे। तस्योपनयनं कर्म चकार विधिवत्पिता ॥५६॥ वेदमध्यापयामास गुरुस्तं वै व्रते स्थितम्। नोच्चचार तथोतथ्यः संस्थितो मुग्धवत्तदा ॥५७॥ बहुधा पाठितः पित्रा न दधार मति शठः । मूढवत्तिष्ठतेऽत्यर्थ तं शुशोच पिता तदा ॥५८।। एवं कुर्वन्सदाऽभ्यासं जातो द्वादशवार्षिकः । न वेद विधिवत्कर्तुं संध्यावंदनकं विधिम् ॥५९।। भूर्खोऽभूदतिलोकेषु गता वार्ताऽतिविस्तरा। ब्राह्मणेषु च सर्वेषु ताननेष्वितरेतु ॥६०॥
Page 132
१३२ श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: ११ ८ बहास लोकस्तं विप्रं यत्र तत्र गतं मुने । पिता माता निनिंदाथ मूर्खं तमतिभर्त्सयन् ।६१। निदितोऽथ जनैः कामं पितृभ्यामथ बांधवैः । वैराग्यनगमद्विप्रो जगाम वनमप्यसौ ॥६२॥ अंधो वरस्तथा पंगुर्न मुर्खस्तु वरः सुतः। इत्युक्तोऽसी पितृभ्यां वै विवेश काननं प्रति ॥६३॥ गंगातीरे इुभे स्थाने कृत्वोटजमनुत्तमम् । वन्यां वृत्तिं च संकल्प्य स्थितस्तत्र समाहित: ६४।। नियमं घ परं कृत्वा नासत्यं प्रब्रवीम्यद्नम् । स्थितस्तत्राश्रमे रम्ये ब्रह्मचर्यव्रतो दि सः॥६५॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे दशमोऽध्यायः ॥१० ॥ अथ एकादशोऽध्यायः लोमश उवाच न वेदाध्ययनं किचिज्जानावि न जपं तथा। ध्यानं न देवतानां च न चैवाराधनं तथा।१॥ नासनं वैंद विप्रोऽसौ प्राणायामं तथा पुनः। प्रत्याहारं तु नो वेद भूतशुद्धि च कारणम् ॥२।। न मंत्रकीलकं जाप्यं गायत्रीं च न वेद सः । शौचं स्नानविधि चैव तथाचमनकं पुनः ॥३॥ प्राणाग्निहोत्रं नो वेद वलिदानं य चातिथिम्। न संध्यां समिधो होमं विवेद च तथा मुनिः ॥४।। सोडकरोत्प्रातरुत्थाय यत्किचिदृंतधावनम्। स्नानं च शूद्रवत्तत्र गंगायां मंत्रवजितम् ॥५॥ फलान्यादाय वन्यानि मध्याह्नेऽपि यदृच्छया। भक्ष्याभक्ष्यपरिज्ञानं न जानाति शठस्तथा ।६।। सत्यं ब्रूते स्थितस्तत्र नानृतं वदते पुनः । जनैः सत्यतपानाम कृतमस्य द्विजस्य वै ॥७॥ नाहितं कस्यचित्वु र्यात्र तथाऽविहितं वर्वाचत्। सुग्वं स्वपिति तत्रंव निर्भयश्चिन्तयन्निति ।।८।। कदा मे मरणं भावि दुःखं जीवामि कानने। जीवितं धिक्च मूर्खस्य तरसा मरणं ध्रुवम् ।।९।। देवेनाहं कृतो मूर्खो 'नान्योऽत्र कारणं मम। प्राप्य चैवोत्तमं जन्म वृथा जातं ममाधुना ॥१०।। यथा वंध्या सुरूपा च यथा वा निष्फलो दुमः। अदुग्धदोहा धेनुय्च तथाऽहं निष्फलः कृतः ॥११॥ कि नु निदाम्यहं दैवं नूनं कर्म ममेदृशम्। न दन्तं पुस्तकं कृत्वा ब्राह्मणाय महात्मने ॥१२॥ न वी विद्या मया दत्ता पूर्वजन्मनि निर्मला। तेनाहं कर्मयोगेन शठोडस्मि च द्विजाधमः ॥१३॥ न च तीरथे तपस्तपं सेविता न च साधवः। न द्विजा: पृजिता द्रव्यैस्तेन जातोऽस्मि दुष्टधीः ॥१४॥ वतन्ते मुनिपुत्राश्च वेदशास्त्रार्थपारगाः । अहं सुमूढः सञ्जातो दैवयोगेन केनचित् ।।१५।। न जानामि तपस्तप्तुं कि करोमि सुसाधनम् । मिथ्यायं मेऽत्र संकल्पो न मे भाग्यं शुभं किल १६।। देवमेव परं मन्ये धिक्पौरुषमनर्थकम्। वृथा श्रमकृतं कार्य दैवान्द्रवति सर्वथा ॥१७॥ प्रह्मा विष्णुश्र रुद्रश्च शक्राद्याः किल देवताः । कालस्य वणगाः सर्वे कालो हि दुरतिक्रमः ॥१८॥
Page 133
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः ११ १३३ एवंविधान्वितर्कांस्तु कुर्वाणोऽहर्निशं द्विजः । स्थितस्तत्राश्रमे तीरे जाह्नव्याः पावने स्थले ॥१९॥ विरक्ः स तु संजातः स्थितस्तत्राश्रमे द्विजः । कालातिवाहनं शांतश्चकार विजने वने ॥२०॥ एवं स्थितस्य तु वने विमलोदके वै वर्षाणि तत्र नवपंच गतानि कामम्। नाराधनं न च जपं न विवेद मंत्रं कालातिवाहनमसौ कृतवान् वने वै ।२१। जानाति तस्य विततं व्रतमेव लोकः सत्यं वदत्यपि मुनिः किल नामजातम् । जातं यशश्च सकलेषु जनेपु कामं सत्यव्रतोऽयमनिशं न मृषाभिभाषी ॥२२॥ तत्रकदा तु मृगयां रममाण एव प्राप्तो निषादनिशठो धृतचापबाणः । क्रीडन् वनेऽतिविपुले यमतुल्यदेहः क्रूराकृत्तिर्हननकर्मणि चातिदक्ष: ॥२३॥। तेनातिकृष्टेन शरेण विद्धः कोल: किरातेन धनुरघरेण। पलायमानो भयविह्वलशच मुनेः समीपं विद्रुतो जगाम ॥२४॥ विकंपमानो रुधिरार्द्रदेहो यदा जगामाश्रममंडलं वै। कालस्तदातीव दयार्द्रभावं प्रातो मुनिस्तत्र समीक्ष्य दीनम् ॥२५॥ अग्रे व्रजंतं रुधिरार्द्रदेहं दृष्टा मुनिः सूकरमाशु विद्धम्। दयाभिवेशादतिकंपमानः सारस्वतं बीजमथोच्चचार ॥२६॥। अज्ञातपूर्व च तथा श्रुतं च दैवान्मुखे वै समुपागतं च। न ज्ञातवान्बीजमसौ विमूढो ममज्ज शोके स मुनिर्महात्मा॥२७॥ कोल: प्रविश्याश्रममंडलं तद्गतो निकुंजे प्रविलीय गूढम् । अप्राप्तमार्गो दृढनिविण्णचेता प्रवेपमानः शरपीडितत्वात् ॥२८।। ततः क्षणादाकरणांतकृष्टं चापं दधानोऽतिकरालदेहः। प्राप्तस्तदंते स च मृग्यमाणो निषादराजः किल काल एव ।२९॥ दृष्टा मुनि तत्र कुशासने स्थितं नाम्ना तु सत्यव्रतमद्वितीयम्। व्याध: प्रणम्य प्रमुखे स्थितोऽसी पप्रच्छ कोल: क्व गतो द्विजेश ॥३०॥ जानामि तेऽहं सुव्रतं प्रसिद्धं तेनाद्य पृच्छे मम बाणविद्धः । क्षुधार्दिनं मे सकलं कुटुबं विभर्तुकामः किल आगतोऽस्मि ॥३१॥ वृत्तिर्ममषा विहिता विधात्रा नान्याऽस्ति विप्रेन्द्र ऋतं ब्रवीमि। भर्तव्यमेवेह कुटुम्बमंजसा केनाप्युपायेन शुभाशुभेन ॥३२।। सत्यं ब्रवीत्वद्य सत्यव्रतोऽसि क्षुधातुरो वर्तते पोष्यवर्गः । क्वामौ गतः सूकरो बाणविद्धः पृच्छाम्यहं वाडव ब्रूहि तूर्णम् ॥३३॥
Page 134
१३४ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ११ तनेति पृष्टः स मुनिर्महात्मा वितर्कमग्नः प्रबभूव कामम्। सत्यव्रतं मेऽद्य भवेन्न भग्नं न दृष्ट इत्युच्चरितेन कि वै ॥३४॥ गतोऽत्र कोल: शरविद्धदेहः कथं ब्रवीम्यद्य मृषाऽमृपा वा। क्षुधार्दितोऽयं परिपृच्छतीव दृष्टा हनिष्यत्यपि सूकरं वै॥३५॥ सत्यं न सत्यं खलु यत्र हिंसा दयान्वितं बानृतमेव सत्यम्। हितं नराणां भवतीह येन तदेव सत्यं न तथान्यर्थंब ।३६।। हितं कथं स्यादुभयोविरुद्धयोस्तदुत्तरं किं न यथा मृषा वचः । विचारयन्वाडव धर्मसंकटे न प्राप वक्तुं वचनं यथोचितम् ।।३७॥ बाणाहतं वीक्ष्य दयान्वितं च कोलं तदंते समुदाहृतं वचः । तेन प्रसन्ना निजबीजतः शिवा विद्यां दुरापां प्रददौ च तस्म ॥३८॥ बीजोच्चारणतो देव्या विद्या प्रस्फुरिताखिला। वाल्मीकेश्च यथापूर्व तथा स ह्यभवत्कविः ॥३९॥ तमुवाच द्विजा व्याधं संमुखस्थं धनुर्धरम् । सत्यकामस्तु धर्मात्मा श्रोकमेकं दयापरः ॥४०॥ या पश्यति न सा बरते या दरूते सा न पश्यति । अहो व्या स्वकार्यार्थिन्कि पृष्छसि पुनः पुनः॥ इत्युक्तस्तु तदा तेन गतोऽसी पशुहा पुनः। निराशः सूकर तस्मिन्परावृत्तो निजालये ॥४२॥ ब्राह्मणस्तु कविर्जातः प्राचेतस इवापरः । प्रसिद्धः सर्बलोकेषु नाम्ना सत्यव्रतो द्विजः ।४३।। सारस्वतं ततो बीजं जजाप विधिपूर्वकम् । पंडितश्चातिबिख्यातो द्विजोऽसौ धरणीतले॥४४॥ प्रतिपर्बसु गायंति ब्राह्मणा यद्यशः सदा। आस्यानं चातिबिस्तीर्ण स्तुबंति मुनयः किल॥ तच्तृत्वा सदनं तस्य समागम्य तदाश्रमे। येन त्यक्तः पुरा तेन गृहं नीतोऽतिमानितः ४६॥ तस्माद्राजन्सदा सेव्या पूजनीया च भक्तितः । आदिशक्ति: परा देवी जगता कारणं हि सा ।। तस्या यज्ञं महाराज कुरु वेदविधानतः। सर्वकामप्रदं नित्यं निश्चयं कथितं पुरा ॥४८।। स्मृता संपूजिता भक्त्या ध्याता चोष्चारिता स्तुता। ददाति वांछितानर्थान्कार्यदा तेन कीत्यते ॥४९।। अनुभावमिदं राजन्कर्तव्यं सवंथा बुधैः। दृष्टा रोगयुतान्दीनान्क्षुधितान्निर्धनाञछठान्॥५ जनानार्तास्तथा मूर्खान्पीडितान् वैरिभिः सदा। दासानाज्ञाकरान्कुद्रान्विकलान्विह्नलानथ ।।५१।। अतृता्भोजने भोगे सदार्तानजितेद्रियान् । तृष्णाधिकानशकांश्च सदाधिपरिपीडितान् ॥५२॥ तथा विभवसंपन्नान्पुत्रपौत्रविवर्धनान्। पुष्टदेहांश्च संभोगैः संयुतान्वेदवादिनः ॥५३॥ राजलक्ष्म्या युताञ्छूरान्वशीकृतजनानथ। स्वजनरवियुक्तांश्च सर्वलक्षणलक्षितान् ॥५४॥ व्यतिरेकान्वयाभ्यां च विचेतव्यं विचक्षणः । एभिर्न पूजता देवी सर्वाभफलदा शिवा ॥५५॥
Page 135
श्रीमरेवीभागत्र ते महापुराणे तृतीयस्कन्धे अध्याय: १२ १३५ समाराधिता च तथा नृभिरेभिः सदाऽम्बिका । यतोऽमी सुखिनः सर्वें संसारेऽस्मिन्न संशयः ॥५६॥ व्यास उवाच इति राजञबरतं तत्र मया मुनिसमागमे। लोमशस्य मुखात्कामं देवीमाह्यात्म्यमुत्तमम् ॥५७॥ इति संचित्य राजेन्द्र कर्तव्यं च सदाऽर्चनम्। भक्त्या परमया देव्याः प्रीत्या च पुरुषर्षभ ॥५८॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे एकादशोऽध्यायः॥११॥ अथ द्वादशोऽध्यायः राजोवाच बद यज्ञत्रिधिं सम्यग्देव्यास्तस्याः समंततः । श्रुत्वा करोम्यहं स्वामिन्यथाशक्ति ह्यतंद्रितः ।।१।। पूजाबिधि च मंत्रांश्च होमद्रव्यमसंशयम् । ब्राह्मणाः कतिसंरयाश्च दक्षिणाश्रतथा पुनः ॥२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्या यज्ञं विधानतः । त्रिविधं तुसदा ज्ञेयं विधिदृष्टेन कर्मणा ॥३॥ सास्विकं राजसं चैव तामसं च तथापरम्। मुनीनां सात्विवं प्रोक्तं नृपाणां राजसं स्मृनम् ॥ तामसं राक्षसानां वै ज्ञानिनां तु गुणोज्झिनम् । त्रिमुक्तानां ज्ञानमयं विस्तरात्प्व्रवीमि ते ।।५।। देश: कालस्तथा द्रव्यं मंत्राश्च ब्राह्मणास्तथा। श्रद्धा च सात्वकी यत्र तं यजं सात्विकं विदुः ६।। द्रव्यशुद्धिः क्रियाशुद्धिमंत्रशुद्धिश्च भूमिप। भवैद्यदि तदा पूर्ण फलं भवति नान्यथा ॥७॥ अन्यायोपार्जितेनव कर्तव्यं सुकृतं कृतम्। न कीर्तिरिह लोके च परलोके न तत्फलम् ।।८।। तस्मान्न्यायाजितेनव कर्तव्यं सुकृनं सदा। यशसे परलोकाय भवत्येव सुखाय च।।९॥ प्रत्यक्षं तब राजेंद्र पांड्वस्तु मखः कृतः । राजसूयः क्रतुवरः समाप्तवरदक्षिणः ॥१०॥ बत्र साक्षाद्वरिः कृष्णो यादवेंद्रो महामनाः । ब्राह्मणाः पूर्णविद्याशच भारद्राजादयस्तथा ॥११॥ कत्वा यज्ञं सुसंपुर्ण मासमात्रेण पांडवैः। प्राप्तं महत्तरं कष्टं वनवासशच दारुणः ॥१२॥ पीडनं चंब पांचाल्यास्तया द्यूते पराजयः । वनवासो महत्कष्टं क्व गतं मख्वजं फलम् ।१३। दासत्वं चविराटस्य कृतं सरवर्महात्मभिः । कोचकेन परिक्लिष्टा द्रौपदी च प्रमद्रा ॥१४।। आशीर्बादा द्विजातीनां कब गताः शुद्चेतसाम् । भनिर्वा वासुदेवस्य कव गता तत्र संकटे ॥१५॥ म रक्षिता तदा बाला केनापि दुपदात्मजा। प्रात्तकेशग्रहा काले साध्वी च वर्वणनी ॥१६: किमत्र चिंतनीयं वै धर्मवैगुण्यकारणम्। केशवे सति देवेशे धर्मपुत्रे युधिष्ठिरे ॥१७॥ भवितव्यमिति प्रोके निष्फलः स्यात्तदागमः । वेदमंत्रास्तथाऽन्ये च वितथाः स्युरसंशयम् ॥१८॥ साधनं निष्फलं सर्वमुपायश्र निरर्थकः । भवितव्यं भवत्येव वचने प्रतिपादके ॥१९॥
Page 136
१३६ श्रीमह्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १२ आगमोऽप्यर्थवादःस्थाक्क्रियाःसर्वा निरर्थकाः । स्वर्गार्थ च तपो व्यर्थ वर्णधर्मश्च वै तथा ॥२०॥ सवं प्रभाशं व्यर्थ स्याद्गवितव्ये कृते हृदि। उभयं चापि मंतव्यं दैवं चोपाय एव च ॥२१॥ कृते कर्मीण चेत्सिद्धिविपरीता यदा भवेत्। वैभुण्यं कल्पनीयं स्यात्प्राजैः पंडितमौलिभिः २२ तत्कर्म बहुधा प्रोक्तं विद्वाद्धि: कर्मकारिभिः। कर्तृभेदान्मंत्रभेदाद्द्रव्यभेदात्तथा पुनः ॥२३॥ यथा मधवता पूर्व विश्वरूपो वृतो गुरुः । विपरीतं कृतं तेन कर्म मातृहिताय वै ॥२४॥ देवेभ्यो दानवेभ्यस्तु स्वरतीत्युक्त्वा पुनः पुनः । असुरा मातृपक्षीयाः कृतं तेपां च रक्षणम् ॥२५॥ दैत्यान् दृष्ठातिसंपुष्टांश्चुकोप मघवा तदा। शिरांसि तस्य वज्रेण चिश्छेद तरसा हरिः ॥२६॥ क्रियावैगुण्यमवरव कर्तृभेदादसंशयम् । नोचेत्पंचालराजेन रोषेणापि कृता क्रिया ॥२७॥। भारद्वाजविनाशाय पुत्रस्योत्पादनाय च। घृष्टद्युम्नः समुत्पन्नो वेदिमध्याच्च द्रौपदी ॥२८॥ पुरा दशरथेनापि पुत्रेष्टिस्तु कृता यदा। अपुत्रस्य सुतास्तस्य चत्वारः संप्रजज्ञिरे ॥२९॥ अतः क्रिया कृता युक्त्या सिद्धिदा सर्वथा भवेत् । अयुक्त्या विपरीता स्यात्सर्वथा नृपसत्तम ॥३०॥ पांडवानां यथा यज्ञे किचिद्वैगुण्ययोगतः । विपरीतं फलं प्राप्तं निर्जितास्ते दुरोदरे ॥३१॥ सत्यवादी तथा राजन्धर्मपुत्रो युधिष्टिरः । द्रौपदी च तथा साध्वी तथान्येप्यनुजाः शुभाः ३२।। कुद्रव्ययोगाट्गुण्यं समुत्पन्नं मखेऽथवा। साभिमानैः कृताद्वापि दूषणं समुपस्थितम् ॥।३३॥ सात्त्विकस्तु महाराज दुर्लभो वै मखः स्मृतः । वैखानसमुनीनां हि विहितोऽसौ महामखः ॥३४॥ सात्त्विक भोजनं ये वै नित्यं कुर्वति तापसाः। न्यायार्जितं च वन्यं च तथा ऋष्यं सुसंस्कृतम् ३५॥ पुरोडाशपरा नित्यं वियूपा मत्त्रपूर्वकाः । श्रद्धाधिका मखा राजन्सात्त्विकाःपरमाःस्मृताः ३६। राजसा द्रव्यबहुलाः रुयूपाश्च सुसंस्कृताः। क्षत्रियाणां विशां चैव साभिमानाश्च वै मखाः ३७॥ तामसा दानवानां वै सक्रोवा मदवर्धकाः ।सामर्पासंस्कृताः क्ररा मखाः प्रोक्ता महात्मभिः३८।। मुनीनां मोक्षकामानां विरकानां महात्मनाम्। मानसस्तु स्मृतो यागः सर्वसाधनसंयुतः ॥३९॥ अन्येषु सर्वयज्ञेषु किंचिन्न्यूनं भवेदपि। द्रव्येण श्रद्धया वाऽपि क्रियया ब्राह्मणैस्तथा ॥४०॥ देशकालपृथग्द्रव्यसाधनैः सकलैस्तथा। नान्यो भवति पूर्णें वै तथा भवति मानसः ॥४१॥ प्रथमं तु मनः शोध्यं कर्तव्यं गुणवजितम्। शुद्धे मनसि देहो वै शुद्ध एव न संशयः ॥४२॥ इंद्रियार्थपरित्यक्तं यदा जातं मनः शुचि। तदा तस्य मखस्यासौ प्रभवेदधिकारवान् ।४३॥ ताऽसौ मंडपं कृत्वा बहुयोजनविस्तृतम्। स्तवैश्च विपुलैः शलक्ष्णैर्यज्ञियद्रुमसंभवैः ॥४४॥ वेदीं च विशदां तत्र मनसा परिकल्पयेत् । अग्नयोऽपि तथा स्थाप्य विधिवन्मनसा किल॥४५॥ ब्राह्मणानां च वरणं तर्थव प्रतिपाद्य च। ब्रह्माऽव्वर्युस्तथा होता प्रस्तोता विधिपूर्वकम् ॥४६॥ उद्गाता प्रतिहर्ता च सभ्याश्चान्ये यथाविधि । पूजनीयाः प्रयत्नेन मनसैव द्विजोत्तमाः ॥४७॥
Page 137
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १२ १३७ प्राणोऽपानस्तथा व्यानः समानोदान एव च । पावकाः पंच एवैते स्थाप्या वेद्यां विधानतः ॥४८।। गार्हपत्यस्तदा प्राणोऽपानरचाहवनीयकः । दक्षिणाग्निस्तथा व्यानः समानश्चावसथ्यकः ॥४९॥ सम्योदान: स्मृता ह्येते पावकाः परमोत्कटाः । द्रव्यं च मनसा भाव्यं निर्गुणं परमं शुचि ॥५०॥ मन एव तदा होता यजमानस्तर्थव तत्। यज्ञाधिदेवता ब्रह्म निर्गुणं च सनातनम् ॥५१॥ फलदा निर्गुणा शक्ति: सदा निर्वेददा शिवा। ब्रह्मविद्याऽखिलाधारा व्याप्य सर्वत्र संस्थिता ॥५२॥ तदुद्देशेन तद्द्रव्यं हुनेत्प्राणाग्निषु द्विजः । पश्चाच्चित्तं निरालंबं कृत्वा प्राणानपि प्रभो ॥५३॥ कुण्डलीमुखमार्गेण हुनेद् ब्रह्मणि शाश्वते। स्वानुभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥५४॥ समाधिनैद योगेन ध्यायेच्चेतस्यनाकुलः । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ॥५५॥ यदा पर्श्यात भूतात्मा तदा पश्यति तां शिवाम्। दृष्टा तां ब्रह्मविद्भू यात्सच्चिदानंदरूपिणीम् ॥५६॥ तदा मायादिकं सर्व दग्धं भवति भूमिप । प्रारब्धं कर्ममात्रं तु यावद्देहं च तिष्ठति ।५७।। जीवन्मुक्तस्तदा जातो मृतो मोक्षमवाप्नुयात्। कृतकृत्यो भवेत्तात यो भजेजगदम्बिकाम् ॥५८॥ तस्मात्सर्वयत्नेन ध्येया श्रीभुवनेश्वरी। श्रोतव्या चंव मंतव्या गुरुवाक्यानुसारतः ।५९।। राजन्नेवं कृतो यज्ञो मोक्षदो नात्र संशयः । अन्ये यज्ञाः सकामास्तु प्रभवंति क्षयोन्मुखाः ॥६०॥ अग्निष्टोमेन विधिवत्स्वर्गकामो यजेदिति। वेदानुशासनं चैनत्प्रवदंति मनीषिण: ।६१।। ....... क्षीणे पुण्ये मृत्युलोकं विशंति च यथामति। तस्मात्तु मानसः श्रेष्ठो यज्ञोऽ्यक्षय एव सः ॥६२॥ न राज्ञा साधितुं योग्यो मखोसौ जयमिच्छता। तामसस्तु कृतः पूर्वं सर्पयज्ञस्त्वयाऽधुना ।।६३।। वैरं निर्वाहितं राजंस्तक्षकस्य दुरात्मन । यत्कृते निहताःसर्पास्त्वयाऽग्नौ कोटिशः परे ॥६४॥ देवीयज्ञं कुरुष्वाद्य विततं तिधिपूर्वकम् । विष्णुना यः कृतः पूर्व सृष्टयादो नृपसत्तम ॥६५॥ तथा त्वं कुरु राजेन्द्र विधि ते प्रब्रवीम्यहम्। ब्राह्मणाः संति राजेंद्र विधिज्ञा वेदवित्तमाः ॥६६॥ देवीबीजविधानज्ञा मन्त्र मार्गविचक्षणाः । याजकास्ते भविष्यन्ति यजमानस्त्वमेव हि॥६७॥ कृत्वा यज्ञं विधानेन दत्त्वा पुण्यं मखाजितम् । समुद्धर महाराज पितरं दुर्गत गतम् ॥६८।। विप्रावमानजं पापं दुर्घटं नरकप्रदम्। तर्थव शापजो दोषः प्राप्तः पित्रा तवानघ ॥६९॥ तथा दुर्मरणं प्राप्तं सर्पदंशेन भूभुजा । अन्तराले तथा मृत्युर्न भूमौ कुशसंस्तरे ॥७०॥ न संग्रामे न गंगायां स्नानदानादिवर्जितम् । मरणं ते पितुस्तत्र सौधे जातं कुरूदवह।।७१।। कृपणानि च सर्वाणि नरकस्य नृपोत्तम। तत्रैकं कारणं तस्य न जातं चातिदुर्लभम् ।।७२।। यत्र यत्र स्थितः प्राणो ज्ञात्वा कालं समागतम् । साधनानामभावेऽपि ह्यवशश्चातिसंकटे।।७३।। यदा निर्वेदमायाति मनसा निर्मलेन वै। पंचंभूतात्मको देहो मम कि चात्र दुःखदम् ॥७४॥ पतत्वद्य यथाकामं मुक्तोऽहं निर्गुणोऽव्ययः । नाशात्मकानि तत्त्वानि तत्र का परिदेवना ॥७५१॥
Page 138
१३८ श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १३ ब्रह्मवाहं न संसारी सदा मुक्तः सनातनः । देहेन मम संबंधः कर्मणा प्रतिपादितः ॥७६॥ तानि सर्वाणि मुक्तानि शुभानि चेतराणि च। मनुष्यदेहयोगेन सुखदु:खानुसाधनात् ॥७७॥। विमुक्तोऽतिभयाद्घोरादस्मात्संसारसंकटात् । इत्येवं चिंत्यमानस्तु स्नादानबिवर्जितः।।७८।। मरणं चेदवाप्नोति स मुच्च्येज्जन्मदुःखतः । एषा काष्ठा परा प्रोक्ता योगिनामपि दुर्लभा॥७९॥ पिता ते नृपशार्दूल श्रुत्वा शापं द्विजोदितम् । देहे ममत्वं कृतवान्न निर्वेदमबाप्तबान् ॥८०॥ नीरोगो मम दैहोडयं राज्यं निहतकंटकम्। कथं जीवाम्यहं कामं मंत्रज्ञानानयंतु थै ।।८१।। औषधं मणिमन्त्रं च यंत्रं परमकं तथा। आरोहणं तथा सौधे कृतबान्नृपतिस्तदा ।८२।। न स्नानं न कृतं दानं न देव्या: स्मरणं कृतम्। न भूमौ शयनं चंब दैवं मत्बा परं तथा ॥८३। मग्नो मोहार्णवे धोरे मृतः सौधेऽहिना हतः। कृत्वा पापं कलेर्योंगात्तापसस्यायमानजम् ।८४॥ अवश्यमेव नरकं एतैराचरणैर्भवेत्। तस्मात्तं पितरं पापात्समुद्र नृपोत्तम ।।८५।। सूत उवाच इति श्रुत्वा वचस्तस्य व्यासस्यामिततेजसः । साश्रुकण्ठोऽतिदुःखार्तो बभूव जनमेजयः ॥८६॥। धिगिदं जीवितं मेजद्य पिता मे नरके स्थितः । तत्करोमि यर्थवाद्य स्वर्ग यात्युत्तरासुतः ।८७॥। इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे द्वादशोऽध्यायः ॥१२॥ अथ त्रयोदशोऽध्यायः राजोवाच हरिणा तु कथं यज्ञः कृतः पूर्व पितामह। जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥१॥ के सहायास्तु तत्रासन्व्राह्मणाः के महामते। ऋत्विजो वेदतत्वज्ञास्तन्मे बूहि परंतप ॥२॥ पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा। श्रुत्वा विष्णुकृतं यागमंबिकायाः समाहितः ॥३॥ व्यास उवाच राजञ्छृणु महाभाग विस्तरं परमान्गतम् । यथा भगवता यज्ञः कृतश्र विधिपूर्वकः ॥४॥ विसजिता यदा देव्या दत्त्वा शक्तीश्च तास्रयः । काजेशाः पुरुषा जाता विमानबरमास्थिताः ॥५॥ प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः । चक्रः स्नानानि बासार्थं समुत्पाद्य घरां स्थिताः ॥६॥ आधारशक्तिरचला मुक्ता देव्या स्वयं ततः । तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥७।। मधुकैटभयोमेंदःसंयोगान्मे दिनी स्मृता। धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ।।८।। मही चापि महीयस्त्वाद्धता सा शेषमस्तके। गिरयश्च कृताः सर्वे धारणार्थं प्रबिस्तराः ॥९॥ लोहकीलं यथा काष्टे तथा ते गिरय: कृताः । महीधरो महाराज प्रोच्यते विबुधर्जनैः ॥१०॥
Page 139
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १३ १३९ जातरूपमयो मेरुर्बहुयोजनविस्तरः । कृतो मणिमयैः शृंगैः शोभितः परमाद्गुतः ॥११॥ मरीचिर्नारदोडत्रिश्च पुलस्त्यः पुलहः क्रतुः । दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥१२॥ मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश। ताभ्यो देवाश्च दैत्याश्च समुत्पन्ना ह्यनेकशः ॥१३॥ ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा। मनुष्यपशुसर्पादिजातिभेदैरनेकधा ।।१४॥ ब्रह्मणश्वार्धदेहात्तु मनुः स्वायंभुवोऽभवत् । शतरूपा तथा नारी संजाता वामभागतः ।१५॥ प्रियव्रतोत्तानपादो सुतौ तस्या बभूवतुः । तिस्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥१६॥ एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्वः । चकार ब्रह्मलोकं च मेरुशृंगे मनोहरम् ॥१७॥ बैकुंठं भगवान्विष्णू रमारमणमुत्तमम् । क्रीडास्थानं सुरम्यं च सर्वलोकोपरि स्थितम् ॥१८॥ शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह। समासाद्य भूतगणं विजहार यथारुचि ।१९॥ स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः । तच्च स्थानं सुरेन्द्रस्य नानारत्नविराजितम् ॥२०॥ समुद्रमथनात्प्राप्तः पारिजातस्तरूत्तमः । चतुर्दतस्तथा नागः कामधेनुश्च कामदा ॥२१॥ उन्चःश्रवास्तथाऽश्वो वै रंभाद्यप्सरसस्तथा। इंद्रणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥२२॥ धन्वंतरिश्चंद्रमाश्च सागराच्च समुद्वभौ। स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृनौ ॥२३॥ एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम। देवतिर्यङ्मनुष्यादिभेदैविविधकल्पिता ॥।२ ४ ।। अंडजा: स्वदजाश्चैव चोद्िज्जाश्च जरायुजाः । चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥२५॥ एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्वराः। विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥२६॥ एवं प्रवर्तिते सगे भगवान्प्रभुरच्युतः । महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥२७॥ एकस्मिन्समये विष्णुवैकुण्ठे संस्थितः पुरा। सुधासिंधुस्थितं द्वीपं सस्मार मणिमंडितम् ॥२८॥ यत्र दृष्टा महामायां मंत्रश्चासादितः शुभः । स्मृत्वा तां परमां शक्ति स्त्रीभावं गमितो यथा ॥ यज्ञं कर्तु मनश्चक्रे अम्बिकाया रमापतिः । उत्तीर्य भुवनात्तस्मात्समाहय महेश्वरम् ॥३०॥ ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम्। वसिष्ठं कश्यपं देवं वामदेवं बृहस्पतिम् ॥३१॥ संभारं कल्पयामास यज्ञार्थ नातिविस्तरम्। महाविभवसंयुक्तं सात्त्विकं च मनोहरम् ॥३२॥ मंडपं विततं तत्र कारयामास शिल्पिभिः। ऋत्विजो वरयामास सप्तविशति सुव्रतान् ।३३॥ चिति च कारयामास वेदीश्चैंव सुविस्तराः । प्रजेपुर्व्राह्मणा मंत्रान्देव्या बीजसमन्वितान् ॥३४! जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते। कृते तु वितते होमे वागुवाचाशरीरिणी ॥३५॥ विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा। विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥३६॥ मान्यश्च पूजनीयशच समर्थश्च सुरेष्वपि। सर्वे त्वामर्चयिष्यंति ब्रह्माद्याशच सवासवाः ॥३७॥ प्रभविष्यंति भो भक्तया मानवा भुवि सर्वतः । वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥३८।
Page 140
१४० श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः १४ कामदः सर्वदेवानां परमः परमेश्वरः । सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वेश्च याज्ञिक:॥३ त्वां जना: पूजयिष्यंति वरदस्त्वं भविष्यसि । श्रयिष्यंति च देवास्त्वां दानवैरतिपीडिताः ॥४ शरणस्त्वं च सर्वेषां भविता पुरुषोत्तम। पुराणेषु च सर्वेषु वेदेषु विततेषु च ।।४१। त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति । यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥४२॥' तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् । अवताराः सुविख्याताः पृथिव्यां तव भागशः ४३ भविष्यंति धरायां वै माननीया महात्मनाम् । अवतारेषु सर्वेषु नानायोनिषु माधव ॥४४।। विख्यातः सर्वलोकेषु भविता मधुसूदन। अवतारेषु सर्वेषु शक्तिस्ते सहचारिगी।४५।। भविष्यति ममांशेन सर्वकार्यप्रसाधिनी। वाराही नारसिंही च नानाभेदैरनेकधा ॥४६॥ नानायुधाः शुभाकाराः सर्वाभरणमंडिताः । ताभिर्युक्त: सदा विष्णो सुरकार्याणि माधव ॥४७॥ साधयिष्यसि तत्सव मद्दत्तवरदानतः । तास्त्वया नावमंतव्याः सर्वदा गर्वलेशतः।४८।। पूजनीयाः प्रयत्नेन माननोयाश्च सर्वथा। नूनं ता भारते खंडे शक्तयः सर्वकामदाः ॥४९॥ भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च। तासां तव च देवेश कीर्तिः स्यादखिलेष्वपि ॥५०। द्वीपेषु सप्तस्वपि च विख्याता भुवि मंडले। ताश्च त्वां वै महाभाग मानवा भुवि मंडले ।।५१। अर्चययष्यंति वांछार्थ सकामाः सततं हरे। अर्चासु चोपहारैश्च नानाभावसमन्विताः ॥५२॥ पूजयिष्यंति वेदोक्तर्म श्रै र्नामजपैस्तथा। महिमा तब भूलोंके स्वर्गे च मधुसूदन ।५३॥ पूजनाद्ेवदेवेश वृद्धिमेष्यति मानवैः। व्यास उवाच इति दत्त्वा वरान्वाणी विरराम खसंभवा ॥५४॥ भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव। समाप्य विधिवद्यज्ञं भगवान्हरिरीश्वरः ।५५॥ विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ। जगामानुचरैः सार्ध वैकुंठं गरुडध्वजः ॥५६॥ स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः । मुनयो विस्मिता वार्ता कुर्वतस्ते परस्परम् ॥५७॥ ययुः प्रमुदिता: कामं स्वाश्रमान्पावनानथ ।५८।। श्रुत्वा वाणों परमविशदां व्योमजां श्रोत्ररम्यां सर्वेषां वै प्रकृतिविषये भक्तिभावश्च जातः । चक्रु: सर्वे द्विजमुनिगणा: पूजनं भक्तियुक्तास्तस्याः कामं निखिलफलदं चागमोक्तं मुनींद्राः ।५९॥ इंति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥१३॥ अथ चतुदेशोऽध्यायः जनमेजय उवाच श्रुतो वै हरिणा क्लृप्तो यज्ञो विस्तरतो द्विज। महिमानं तथाऽम्बाया वद विस्तरतो मम ॥१॥
Page 141
श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १४ १४१ शुत्वा देव्याश्चरित्रं वै कुवे मखमनुत्तमम् । प्रसादात्तव विप्रेंद्र भविष्यामि च पावनः ॥२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्याश्चरितमुत्तमम् । इतिहास पुराणं च कथयामि सुविस्तरम् ॥३॥ कोसलेषु नृपश्रेष्टः सूर्यवंशसमुद्दवः। पुष्पपृत्रो महातेजा ध्रुवसंधिरिति स्मृतः ॥४॥ धर्मात्मा सत्यसंधश्च वर्णाश्रमहिते रतः । अयोध्यायां समृद्धायां राज्यं चक्रे शुचिव्रतः ॥५॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये तथा द्विजाः । स्वां स्वां वृत्तिं समास्थाय तद्राज्ये धर्मतोऽभवन् ॥६॥ न चोरा: पिशुना धूर्तास्तस्य राज्ये च कुत्रचित्। दंभा: कृतघ्ना मूर्खाश्च वसंति किल मानवाः॥७॥ एवं वै वर्तमानस्य नृपस्य कुरुसत्तम। द्वे पत्न्यो रूपसंपन्ने ह्यासतुः कामभोगदे ॥।८।। मनोरमा धर्मपत्नी सुरूणऽतिविचक्षणा। लीलावती द्वितीया च साऽपि रूपगुणान्विता ।९।। विजहार सपत्नीभ्यां गृहेषुपवनेषु च । क्रीडागिरौ दीर्घिकासु सौधेषु विविधेषु च ।१०।। मनोरमा शुभे काले सुषुवे पुत्रमुत्तमम्। सुदर्शनाभिधं पुत्रं राजलक्षणसंयुतम् ॥११॥ लीलावत्यपि तत्पत्नी मासेनैकेन भामिनी। सुषुवे सुन्दरं पुत्रं शुभे पक्षे दिने तथा ॥१२। चकार नृपतिस्तत्र जातकर्मादिकं द्वयोः । ददौ दानानि विप्रेभ्यः पुत्रजन्मप्रमोदितः ॥१३॥ प्रीति तयोः समां राजा चकार सुतयोरनृप। नृपश्चकार सौहार्देष्वंतरं न कदाचन ॥१४॥। चूडाकर्म तयोश्चक्रे विधिना नृपसत्तमः । यथाविभवमेवासौ प्रीतियुक्तः परंतपः ॥१५॥ कृतचूडौ सुती कामं जहतुर्नृपतेर्मनः। क्रीडमानावुभी कांतौ लोकानामनुरंजकौ ॥१६॥ तयोः सुदर्शनो ज्येष्ठो लीलावत्याः सुतः शुभः । शत्रुजित्संज्ञकः कामं चाटुवाक्यो बभूव ह॥१७॥ नपतेः प्रीतिजनको मंजुवावचारुदर्शनः। प्रजानां वल्लभः सोऽभूत्तथा मंत्रिजनस्य वै ॥१८॥ तथा तस्मिन्नृपः प्रीति चकार गुणयोगतः । मंदभाग्यान्मंदभावो न तथा वै सुदर्शने ॥१९॥ एवं गच्छति काले तु ध्रुवसंधिनृपोत्तमः । जगाम वनमध्येऽसौ मृगयाभिरतः सदा ॥२०॥ निघ्नन्मृगान् रुरून्कंबून्सूकरान्गवयाञ्छशान् । महिषाञ्छरभान्खड्गांश्चिक्रीड नृपतिर्वने ॥२१॥ क्रीडमाने नृपे तत्र वने घोरेऽतिदारुणे। उदतिष्ठन्निकुंजात्तु सिंहः परमकोपनः ॥२२॥ राज्ञा शिलीमुखेनादौ विद्धः क्रोधवशं गतः । दृष्टाग्रे नृपति सिंहो ननाद मेघनि स्वनः ॥२३॥ कृत्वा चोर्ध्व स लांगूलं प्रसारितबृहत्सटः । हंतुं नृपतिमाकाशादुत्पपातातिकोपनः ॥२४॥ नृपतिस्तरसा वीक्ष्य दधारासिं करे तदा। वामे चर्म समादाय स्थितः सिंह इवापरः २५॥ सेवकास्तस्य ये सर्वे तेऽपि बाणान्पृथक्पृथक्। अमुंचन्कुपिताः कामं सिंहोपरि रुषान्विताः ॥२६॥
Page 142
१४२ श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्यायः १४ हाहाकारो महानासीत्संप्रहारश्च दारुणः । उत्पपात ततः सिंहो नृपस्योपरि दारुणः ॥२७॥ तं पतंतं समालोक्य खड्गेनाभ्यहनन्नृपः । सोऽपि क्रूरैर्नखाग्रश्च तत्रागत्य विदारितः ।२८।। स नखैराहतो राजा पपात च ममार वै। चुक्रशुः सैनिकास्ते तु निर्जध्नुर्विशिखैस्तदा ।।२९। मृतः सिंहोऽपि तत्रव भूपतिश्च तथा मृतः । सैनिकमंत्रिमुख्याश्च तत्रागत्य निवेदिताः ॥३०॥ परलोकगतं भूपं श्रुत्वा ते मंत्रिसत्तमाः । संस्कारं कारयामासुर्गत्वा तत्र वनांतिके ॥३१॥ परलोकक्रियां सर्वां वसिष्ठो विधिपूर्वकम्। कारयामास तत्रव परलोकसुखावहम् ॥३२॥ प्रजा: प्रकृतयश्चंव वसिष्ठश्च महामुनिः। सुदर्शनं नृपं कर्तु मंत्रं चक्रु: परस्परम् ॥३३॥ धर्मपत्नीसुतः शांतः पुरुषश्च सुलक्षणः । अयं नृपासनार्हश्च ह्यब्रुवन्मंत्रिसत्तमाः ॥३४॥ वसिष्ठोऽपि तथैवाह योग्योऽयं नृपतेः सुतः । बालोऽपि धर्मवान् राजा नृपासनमिहार्हति ॥३५॥ कृते मंत्रे मंत्रिवृद्धर्युधाजिन्नाम पार्थिवः । तत्राजगाम तरसा श्रुत्वा तूज्जयिनीपतिः ॥३६॥ मृतं जामातरं श्रुत्वा लीलावत्याः पिता तदा। तत्राजगाम त्वरितो दौहित्रप्रियकाम्यया ।३७॥ वीरसेनस्तथाऽडयातः सुदर्शनहितेच्छया । कलिंगाधिपतिश्चव मनोरमापिता नृपः ॥३८॥ उभौ तो सैन्यसंयुक्तो नृपौ साध्वससंस्थितौ। चक्रतुमंत्रिमुख्यस्तैमंत्रं राज्यस्य कारणात् ॥३९॥ युधाजित्तु तदाऽपृच्छज्ज्येष्ठः कः सुतयोर्द्वयोः । राज्यं प्राप्नोति ज्येष्ठो वै न कनीयान्कदाचन ४०॥ वीरसेनोऽपि तत्राह धर्मपत्नीसुतः किल। राज्यार्हः स यथा राजञ्छास्त्रज्ञेम्यो मया श्रुतम् ॥ युधाजित्पुनराहेदं ज्येष्ठोऽयं च तथा गुणः । राजलक्षणसंयुक्तो न तथाऽयं सुदर्शनः ॥४२॥ विवादोऽत्र सुसंपन्नो नृपयोस्तत्र लुब्धयोः। कः संदेहमपाकर्तु क्षमः स्यादतिसंकटे ॥४३॥ युधाजिन्मंत्रिण: प्राह यूयं स्वार्थपराः किल। सुदर्शनं नृपं कृत्वा धनं भोक्तुं किलेच्छथ ॥४४॥ युष्माकं तु विचारोडयं मया ज्ञातस्तथेंगितः । शत्रुजित्सबलस्तस्मात्संमतो वो नृपासने ॥८५॥ मयि जीवति क: कुर्यात्कनीयांसं नृपं किल। त्यक्त्वा ज्येष्टं गुणाह च सेनया च समन्वितम्॥ नूनं युद्धं करिष्यामि तस्मिन्खड्गस्य मेदिनी। धारया च द्विघा भूयाद्युष्माकं तत्र का कथा ॥४७॥ वीरसेनस्तु तच्छ्रत्वा युधाजित्तमभाषत। बालौ द्वो सदृशप्रज्ञौ को भेदोऽन विचक्षण ॥४८।। एवं विवदमानौ तो संस्थितौ नृपती तदा। प्रजाश्च ऋषयश्चव बभूवुर्व्यग्रमानसाः ॥४९॥ समाजग्मुश्च सामंताः ससैन्याः क्लेशतत्पराः । विग्रहं चाभिकांक्षंतः परस्परमतंद्रिताः ॥५०॥ निषादा ह्याययुस्तत्र शृंगवेरपुराश्रयाः । राजद्रव्यमपाहर्तुं मृतं श्रुत्वा महीपतिम् ॥५१॥ पुत्रौ च बालकौ श्रुत्वा विग्रहं च परस्परम्। चौरास्तत्र समाजग्मुर्देशदेशान्तरादपि ॥५२॥ संमर्दस्तत्र संजातः कलहे समुपस्थिते। युधाजिद्वीरसेनश्च युद्धकामौ बभूवतुः ॥५३॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे चनुर्दशोऽध्यायः ॥१४॥
Page 143
श्रीमद्ेवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: १५ १४३ अथ पञ्चदशोऽध्यायः व्यास उवाच संयुगे च सति तत्र भूपयोराहवाय समुपात्तशस्त्रयोः । क्रोधलोभवशयोः समं ततः संबभूव तुमुलस्तु विमर्दः ॥१॥ संस्थितः स समरे धृतचापः पार्थिवः पृथुलबाहुयुधाजित्। संयुतः स्वबलवाहनादिकराहवाय कृतनिश्चयो नृपः ॥२ ॥ बीरसेन इह सन्यसंयुतः क्षात्रधर्ममनुसृत्य संगरे। पुत्रिकात्मजहिताय पार्थिवः संस्थितः सुरपतेः समतेजाः ॥ ३ ॥ स बाणवृष्टिं विससर्ज पार्थिवो युधाजितं वीक्ष्य रणे स्थितं च। गिरिं तडित्वानिव तोयवृष्टिभिः क्रोधान्वितः सत्यपराक्रमोऽसौ॥४॥ तं वीरसेनो विशिखैः शिलाशितैः समावृणोदाशुगमैरजिह्मगैः । चिच्छेद बाणैश्च शिलीमुखानसौ तेनैव मुक्तानतिवेगपातिनः ॥५॥ गजरथतुरगाणां संबभूवातियुद्धं सुरनरमुनिसंघैर्वीक्षितं चातिघोरम्। विततविहगवृंदैरावृतं व्योम सद्यः पिशितमशितुकामैः कामगृधरादिभिश्च ॥६॥ तत्राद्धुता क्षतजसिन्धुरुवाह घोरा वृंदेभ्य एव गजवीरतुरंगमाणाम्। त्रासावहा नयनमार्गगता नराणां पापात्मनां रविजमार्गभवेव कामम् ॥ ७॥ कीर्णानि भिन्नपुलिने नरमस्तकानि केशावृतानि च विभाति यर्थव सिन्धौ। तुम्बोफलानि विहितानि विहर्तुकामर्बालिर्यथा रविसुताप्रभवैश्च नूनम्॥८॥ बीरं मृतं भुवि गतं पतितं रथाद्वँ गृधः पलार्थमुपरि भ्रमतीति मन्ये। जीवोऽप्यसौ निजशरीरमवेक्ष्य कांतं कांक्षत्यहोऽतिविवशोऽपि पुनः प्रवेष्टम् ॥ ९॥ आजौ हतोऽपि नृवरः सुविमानरूढः स्वाङ्के स्थितां सुरबधू प्रवदत्यभीष्टम् । पश्याधुना मम शरीरमिदं पृथिव्यां बाणाहतं निपतितं करभोरु कांतम् ॥१०॥ एको हतस्तु रिपुणव गतोऽन्तरिक्षं देवांगनां समविगम्य युतो विमाने। तावत्प्रिया हुतवहे सुसमर्प्य देहं जग्राह कांतमबला सबला स्व्कीया ॥११॥ युद्धे मृतौ च सुभटौ दिवि संगतौ तावन्योन्यशस्त्रनिहतौ सह संप्रयातौ। तत्रैव जघ्नतुरलं परमाहितास्त्रावेकाप्सरोर्थविहतौ कल्हाकुलौ च ॥१२॥ कश्चिद्युवा समधिगम्य सुरांगनां वै रूपाधिकां गुणवतीं किल भक्तयुक्ताम् ।
Page 144
१४४ श्रीमहेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः १५ स्वीयान् गुणान्प्रविततान्प्रवदंस्तदाऽसौ तां प्रेमदामनुचकार च योगयुक्तः ॥१३॥ भोमं रजोऽतविततं दिवि संस्थितं च रात्रि चकार तर्राण च समावृणोद्यत्। मग्नं तदेव रुधिरांबुनिधावकस्मात्प्रादुर्बभूव रविरप्यतिकांतियुक्त: ॥१४।। कश्चिद्गतस्तु गगनं किल देवकन्यां संप्राप्य चारुवदनां किल भक्तयुक्त्काम् । नांगीचकार चतुरो व्रतनाशभीतो यास्यत्ययं मम वृथा ह्यनुकू लशब्दः ॥१५॥ संग्रामे संवृते तत्र युधाजित्पृथिवीपतिः । जघान वीरसेनं तं बाणैस्तीव्रैः स दारुणः ॥१६॥ निहतः स पपातोर्व्यां छिन्नमूर्धा महीपतिः। प्रभग्नं तद्बलं सर्व निर्गतं च चतुर्दिशम् ॥१७॥ मनोरमा हतं श्रुत्वा पितरं रणमूर्धनि। भयत्रस्ताथ संजाता पितुर्वेरमनुस्मरन् ॥१८॥ हनिष्यति युधाजिद्वै पुत्रं मम दुराशयः। राज्यलोभेन पापात्मा सेति चिन्तापराऽभवत्॥१९॥ किं करोंमि क्व गच्छामि पिता मे निहतो रणे। भर्ता चापि मृतोऽद्यैव पुत्रोजयं मम बालकः ॥२०॥ लोभोऽतीव च पापिष्ठस्तेन को न वशीकृतः । कि न कुर्यात्तदाविष्टः पापं पार्थिवसत्तमः ॥२१॥ पितरं मातरं भ्रातृन्गुरून्स्वजनबांधवान्। हंति लोभसमाविष्टो जनो नात्र विचारण ॥२२। अभक्ष्यभक्षणं लोभादगम्यागमनं तथा। करोति किल तृष्णार्तो धर्मत्यागं तथा पुनः ॥२३॥ न सहायोऽस्ति मे कश्चिन्नगरेऽत्र महाबलः । यदाधारे स्थिता चाहं पालयामि सुतं शुभम् ॥२४॥ हते पुत्रे नृपेणाद्य कि करिष्याम्यहं पुनः। न मे त्राताऽस्ति भुबने येन वै सुस्थिता ह्यहम् ॥२५॥ सापि वैरयुता कामं सपत्नी सर्वदा भवेत्। लीलावती न मे पुत्रे भविप्यति दयावती ॥२६॥ युधाजिति समायाते न मे निःसरणं भवेत् । ज्ञात्वा बालं सुतं सोडय्य कारागारं नयिष्यति ॥।२७।। श्रूयते हि पुरेंद्रेण मातुर्गर्भगतः शिशुः । कृंतितःसप्तधा पश्चात्कृतास्ते सत सपधा ॥२८॥ प्रविश्य चोदरं मातु: करे कृत्वाऽल्पकं पविम् । एकोनपंचाशदपि तेज्भवन्मरतो दिवि ॥२९॥ सपत््यै गरलं दत्तं सपत््या नृपभार्यया। गर्भनाशर्थमुद्दिश्य पुरतद्रै मया श्रुतम्॥३०॥ जातस्तु वालक: पर्चादेहे विषयुतः किल। तेनासौ सगरो नाम विख्यातो भुविमंडले ॥३१॥ जीवमांनोऽथ भर्त्ता वै कैकेय्या नृपभार्यया। रामः प्रव्राजितो ज्येष्टो मृतो दशरथो नृपः ॥३२॥ मंत्रिणस्त्ववशाः कामं ये मे पुत्रं सुदर्शनम्। राजानं कर्तुकामा वै युधाजिद्वश्यगाश्च ते ।३३।। न मे भ्राता तथा शूरो यो मां बंधात्प्रमोचयेत्। महत्कष्टं च संप्रातं मया वै दैवयोगतः ॥३४॥ उद्यम: सर्वथा कार्यः सिद्धिदेवाद्धि जायते। उपायं पुत्ररक्षार्थ करोम्यद्य त्वरान्विता ॥३५॥ इति संचिंत्य सा बाला विदल्लं चातिमानिम्। निपुणं सर्वकार्येषु चिन्त्यं मंत्रिवरोत्तमम् ॥३६॥ समाहूय तमेकांते प्रोवाच बहुदुःखिता। गृहीत्वा बालकं हस्ते रुदती दीनमानसा ॥३७॥ पिता मे निहतः संख्ये पुत्रोऽयं बालकस्तथा ! युधाजिद्वलवात्राजा किं विधेयं वदस्व मे ॥३८॥
Page 145
१० श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः १५ १४५ तामुवाच विदल्लोऽसौ नात्र स्थातव्यमेव च। गमिष्यामो वने काम वाराणत्याः पुनः किल ॥३९॥ तत्र मे मातुलः श्रीमान्वर्तते बलवत्तरः । सुबाहुरिति विख्यातो रक्षिता सभविष्यति।४०।। युधाजिद्दर्शनोत्कण्ठमनसा नगराद्वहिः । निर्गत्य रथमारुह्य गंतव्यं नात्र संशयः ॥४१॥ इत्युक्ता तेन सा राज्ञी गत्वा लीलावतों प्रति। उवाच पितरं द्रष्टुं गच्छाम्यद्य सुलोचने ।४२॥ इत्युक्त्वा रथमारुह्य सैरंत्रीसंयुता तदा। विदल्लेन च संयुक्ता निःसृता नगराद्वहिः ॥४३॥ त्रस्ता ह्यार्ताडतिकृपणा पितुः शोकसमाकुला। दृष्टा युधाजितं भूपं पितरं गतजीवितम् ॥४४॥ संस्कार्य च त्वरायुक्ता वेपमाना भयाकुला । दिनट्वयेन संप्राप्ता राजी भागीरथीतटम् ।।४५॥ निषादैलुंठिता तत्र गृहीतं सकलं वसु। रथं चापि गृहीत्वा ते निर्गता दस्यवः शठाः ॥४६॥ रुदती सुतमादाय चारुवस्त्रा मनोरमा। निर्ययौ जाह्नवोतीरे सैरंध्रीकरलंबिता॥४७॥ आरुह्य च भयाच्छीघ्रगुड्डुगं सा भयाकुला। तीर्त्वा भागीरथी पुण्यां ययौ त्रिकूटपर्वतम् ।४८।। भारद्वाजाश्रमं प्राप्ता त्वरया च भयाकुला। संवीक्ष्य तापसांस्तत्र संजाता निर्भया तदा ॥४९। मुनिना सा ततः पृष्टा काऽसि कस्य परिग्रहः । कष्टेनात्र कथं प्राप्ता सत्यं ब्रूहि शुचिस्मिते ॥५०॥ देवी वा मानुषी वाडसि वालपुत्रा वने कथम्। राज्यभ्रष्टेव वामोरु भासि त्वं कमलेक्षणे ।५१।। एवं सा मुनिना पृष्टा नोवाच वरर्वणिनी। रुदती दुःखसंतता विदल्लं च समादिशत् ॥५२॥ विदल्लस्तमुवाचेदं ध्रुवसंधिर्नृपोत्तमः । तस्य भार्या धर्मपत्नी नाम्ना चेयं मनोरमा ।५३॥ सिंहेन निहतो राजा सूर्यवंशी महाबलः । पुत्रोऽयं नृपतेस्तस्य नाम्ना चैव सुदर्शनः ॥५४॥ अस्याः पिताऽतिधर्मात्मा दोहित्रांथें मृतो रणे। युधाजिद्यसंत्रस्ता संप्राता विजने वने ॥५५॥ त्वामेव शरणं प्राप्ता वालपुत्रा नृपात्मजा । त्राता भव महाभाग त्वमस्या मुनिसत्तम ॥५६।। आर्तस्य रक्षणे पुण्यं यज्ञाधिकमुदाहृतम् । भयतस्तस्य दोनस्य विशेषफलदं स्मृतम् ॥५७॥ ऋषिरुवाच़ निर्भया वस कल्याणि पुत्रं पालय सुव्रते। न ते भयं विशालाक्षि कर्तव्यं शत्रुसंभवम्॥५८॥ पालयस्व सुतं कांतं राजा तेञ्यं भविष्यति। नात्र दुःखं तथा शोक: कदाचित्संभविष्यति ।५९॥ व्यास उवाच इत्युक्ता मुनिना राज्ञी स्वस्था सा संबभूव ह। उटजे मुनिना दत्ते वीतशोका तदाऽवसत् ॥६०॥ सैरंध्रीसहिता तत्र विदल्लेन च संयुता । सुदर्शनं पालयाना न्यवसत्सा मनोरमा ॥६१॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे पञ्चदशोऽध्यायः ॥१५॥
Page 146
१४६ श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: १६ अथ षोडशोऽध्यायः
व्यास उवाच युधाजित्त्वथ संग्रामाद्गत्वाऽयोध्यां महाबलः । मनोरमां च पप्रच्छ सुदर्शनजिघांसया ।१॥ सेवकान् प्रेषयामास क्व गतेति मुहुर्वदन्। शुभे दिनेऽथ दौहित्रं स्थापयामास चासने ।२॥ मंत्रिभिश्च वसिष्टेन मंत्रैराथर्वणः शुर्भः । अभिषिक्तश्च संपूर्णे: कलशैर्जलपूरितैः ॥३॥ भेरीशङ्गनिनादैश्च तूर्याणां चाथ निःस्वनैः । उत्सवस्तु नगर्या वै संबभूव कूरूद्वह ।।४।। विप्राणां वेदपाठैश्च वंदिनां स्तुतिभिस्तथा। अयोध्या मुदितेवासीज्जयशब्दैः सुमङ्गलं:॥५॥ हृष्टपुष्टजनाकीर्णा स्तुतिवादित्रनिःस्वना। नवे तस्मिन्महीपाले पूर्बभौ नूतनेव सा ॥६।। केचित्साधुजना ये वै चक्रः शाकं गृहे स्थिताः । सुदर्शनं विचिंत्याद्य क्व गतोऽसौ नृपात्मजः ॥७॥ मनोरमाऽनिसाध्वी सा क्व गता सुनसंयुता। पिताऽस्या निहतः संख्ये राज्यलोभेन बैरिणा ।८।। इत्येवं चित्यमानास्ते साधवः समबुद्धयः । अतिष्टन्दुःखितास्तत्र शत्रुजिद्वशवर्तिनः ।।९।। युधाजिदपि दोहित्रं स्थापयित्वा विधानतः । राज्यं च मंत्रिसात्कृत्वा चलितः स्वांपुरीं प्रति॥१०॥ श्रुत्वा सुदर्शनं तत्र मुनीनामाथमे स्थितम् । हंनुकामो जगामाशु चित्रकूटं स पर्वतम् ॥११। निषादाधिपति शूरं पुरस्कृत्य बलाभिधम्। दुर्दर्शाख्यमगादाशु शृङ्गवेरपुराधिपम् ।१२।। श्रुत्वा मनोरमा तत्र बभूवातिमुद्दःखिता। आगच्छंतं वालपुत्रा. भयार्ता सैन्यसंथुतम् ।१३। तमुवाचातिशोकार्ता मुनिं साश्रुविलोचना। किं करोगि क्व गच्छामि युधा।जत्समुपस्थितः ॥ पिता मे निहतोऽनेन दोहित्रो भूपतिः कृतः । सुतं मे हंतुकामोऽत्र समायाति बलान्वितः ॥१५॥ पुरा श्रुतं मया स्वामिन्पांडवा वै वने स्थिताः । मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा १६।। गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते । दौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥१७॥ धौम्योऽत्रिर्गालव: पैलो जावालिरगोतमो भृगुः । च्यवनश्चात्रिगोत्रश्च कण्वश्चव जतुः क्रतुः ।१८॥ वीतिहोत्रः सुमंतुश्च यज्ञदत्तोज्थ वत्सलः । राशामनः कहोडश्च यवक्रीर्यजकृत्क्रतुः ॥१९॥ एते चान्ये च मुनयो भारद्वाजादयः शुभाः । वेदपाठयुताः सर्वें संस्थिताश्चाथमे स्थिताः ॥२०॥ दासोभिः सहिता तत्र याज्ञसेनी स्थिना मुने। आश्रमे चाम्सर्वाङ्गी निर्भया मुनिसंवृते ।२१॥ पार्था मृगानुगास्तावत्प्रयाताश्च वनाद्रनम् । धनुर्वाणधरा वीरा: पञ्च वै शत्रुतापनाः ।२२। तावत्सिन्धुपतिः श्रीमान्मार्गस्थो वलमंयुतः । आगतश्चाथ्रमाभ्याये श्रुत्वा तु निगमंध्वनिम् ॥ श्रुत्वा वेदध्वनिं राजा मुनीनां भावितात्मनाभ्। उत्ततार स्थात्तूर्ण दर्णनाकांक्षया नृपः ॥२४॥ यदा निरगमत्तत्र भृत्यद्वयस्मन्वितः । वेदपाठयुतान्वीक्ष्य मुनीनुद्यमसंस्थित: ॥२५॥
Page 147
श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्यायः १६ १४७ कृतांजलिपुटः स्वस्मिन्संस्थितोऽथ जयद्रथः । आश्रमे मुनिभिर्जुष्टे भूपतिः संविवेश ह ॥२६॥ सत्रोपविष्टं राजानं द्रष्टुकामाः स्त्रियस्तदा। आययुर्मुनिभार्याश्च कोऽयमित्यब्रुवन्नृपम् ॥२७॥ वासां मध्ये वरारोहा याज्ञसेनी समागता। जयद्रथेन दृष्टा सा रूपेण श्रीरिवापरा॥२८॥ तां विलोक्यासितापांगीं देवकन्यामिवापराम् । प्रपच्छ नृपतिर्धौम्यं केयं श्यामा वरानना ।२९। भार्या कस्य सुता कस्य नाम्ना का वरर्वणनी। रूपलावण्यसंयुक्ता शचीव वसुधां गता॥३०॥ क्मूलवनमध्यस्था लवंगलतिका यथा। राक्षसीवृंदगा नूनं रंभेवाभाति भामिनी ॥३१॥ सत्यं वद महाभाग कस्येयं वल्लभाऽबला। राजपत्नीव चाभाति नैषा मुनिबधुदिज ॥३२॥ धौम्य उवाच पांडवानां प्रिया भार्या द्रौपदी शुभलक्षणा। पांचाली सिन्धुराजेंद्र वसत्यत्र वराश्रमे ।।३३॥ जयद्रथ उवाच व गता: पांडवा: पंच शूरा: संप्रति विश्रुताः । वसंत्यत्र वने वीरा वीतशोका महाबलाः ॥३४॥ धौम्य उवाय मृगयार्थ गताः पंच पांडवा रथसंस्थिताः । आमिष्यंति मध्याह्ने मृगानादाय पार्थिवाः ॥३५॥ तच्छ्रत्वा वचनं तस्य उदतिष्ठदसौ नृपः । द्रौपदीसन्निधौ गत्वा प्रगम्येदमुवाच है॥३६॥ कुशलं ते वरारोहे कव गताः पतयश्च ते। एकादश गतान्यद्य वर्षाणि च बने किल ॥३७॥ द्रौपदी तु तदोवाच स्वस्ति तेऽस्तु नृपात्मज । विश्रमस्वाश्रमाभ्याशे क्षणादायांति पांडवाः ॥३८॥ एवं ब्रुवंत्यां तस्यां तु लोभाविष्टः स भूपतिः । जहार द्रौपदीं वीरोऽनादृत्य मुनिसत्तमान् ॥३९॥ कस्यचिन्नैव विश्वासः कर्तव्यः सर्वथा बुघैः । कुर्वन्दुःखमवाप्नोति दृष्टांतस्त्वत्र वै बलिः ॥४०॥ वैरोचनसुतः श्रीमान्धर्मिष्ठः सत्यसंगरः । यज्ञकर्ता च दाता च शरण्यः साधुसंमतः ॥४१॥ नाधमें निरतः क्वापि प्रह्लादस्य च पौत्रकः । एकोनशतयज्ञान्वै स चकार सदक्षिणान् ॥४२॥ सत्त्वमूत्तिः सदा विष्णुः सेव्यः स योगिनामपि। निर्विकारोऽपि भगवान्देवकार्यार्थसिद्धये ।।४३।। कश्यपाच्च समुद्द्धतो विष्णुः कपटवामनः । राज्यं छलेन हृतवान्महीं चव ससागराम् ॥४४॥ सऽभवत्सत्यवाग्राजा बलिवैरोचनिस्तदा। कपटं कृतवान्विष्णुरिंद्रार्थें तु मया ध्रुतम् ।४५॥ अन्यः किं न करोत्येवं कृतं वै सत्त्वनूर्तिना। वामनं रूपमास्थाय यज्ञपातं चिकीर्षता ॥४६॥ न च विश्वसितव्यं वै कदाचित्केनचित्तथा। लोभइचेनसि चेत्स्वस्मिन्कीदृक्पापकृत भयम् ॥४७॥ लोभाहताः प्रकुवति पापानि प्राणिनः किल। परलोकान्ङ्गयं नास्ति कस्यचित्कहिचिन्मुने ॥४८। मनसा कर्मणा वाचा परस्वादानहेतुतः । प्रपतन्ति नराः सम्यग्लोभोपहतचेतसः ॥४९॥. देवानाराध्य सततं वांछंति च धनं नराः । न देवास्तत्करे कृत्वा समर्था दातुमंजसा ॥५०
Page 148
१४८ श्रीमद्देवीमागवते महापुराणं तृतीयस्कन्धे अध्याय: १७ अन्यस्यानीयते वित्तं प्रयच्छंति मनीषितम्। वाणिज्येनाथ दानेन चौर्येणापि बलेन वा ॥५१॥ विक्रयार्थं गृहीत्वा च धान्यवस्त्रादिकं बहु। देवानर्चयते वैश्यो मह्द्धिमें भवेदिति ॥५२॥ नात्र किं परवित्तेच्छा वाणिज्येन परंतप। ग्रहणकाले तु संप्राप्ते महर्घ चापि कांक्षति ।।५३। एवं हि प्राणिनः सर्वे परस्वादानतत्पराः । वर्तन्ते सततं ब्रह्मन् विश्वासः कीदृशः पुनः ॥५४॥ वृथा तीर्थं वृथा दानं वृथाऽध्ययनमेव च। लोभमोहावृतानां वै कृतं तदकृतं भवेत् ।५५॥ तस्मादेनं महाभाग विसर्जय गृहं प्रति। सपुत्राऽहं वसिष्यामि जानकीवद्द्विजोत्तम ॥५६।। इत्युक्तोऽसौ मुनिस्तावद्गत्वा युधाजितं नृपम् । उवाच वचनं राज्ञे भारद्वाजः प्रतापवान् ॥५७॥ गच्छ राजन्यथाकामं स्वपुरं नृदसत्तक: नेयं मनोरमाऽभ्येति वालपुत्रा सुहुःखिरता ॥५८॥ युधााजदुवाच मुने मुंच हठं सौम्यां विसर्जय मनोरमाम्। न च यास्याम्यहं सुक्त्वा नेष्याम्यद्य बलात्पुनः।५९॥ ऋपिरुवाच नयस्व यदि शक्तिस्त वलेनाद ममाक्रमात्। विश्वामित्री यथा धेनुं वसिष्ठस्य मुनेः पुरा ॥६०॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कंधे षोडशोऽव्यायः ॥१६॥ अथ सप्तदशोऽध्यायः व्यास उवाच इत्याकर्ण्य वचस्तस्य मुनेस्तत्रावनीपतिः । मंत्रिवृद्धं समाहूय पप्रच्छ तमतंद्रितः ॥१॥ कि कर्तव्यं सुबुद्े्त्र मयाडद्य वद सुव्रत। बलान्नयामि तां कामं सपुत्रां च सुभाषिणीम् ।२॥ रिपुरल्पोऽपि नोपेक्ष्यः सर्वथा शुभमिच्छता। राजयक्ष्मेव संवृद्धो मृत्यवे परिकल्पयेत् ।।३।। नात्र सैन्यं न योद्धास्ति यो मामत्र निवारयेत्। गृहीत्वा हन्मि तं तत्र दौहित्रस्य रिपुं किल ।४। निष्कंटकं भवेद्राज्यं यताम्यद्य वलादहम्। हते सुदर्शने नूनं निर्भयोऽसौ भवेदिति ॥५॥ प्रधान उवाच नाहसं न हि कर्तव्यं श्ुतं राजन्मनेर्वचः । विश्वामित्रस्य दृष्टांतः कथितस्तेन मारिष ॥६॥ परा गाधिसृतः श्रीमान्विध्वामित्रोतिविश्रुतः । विचरन्स नृपश्रेष्टो वसिष्ठाश्रममभ्यगात्।७॥ समस्कृत्य च तं राजा विश्वामित्र प्रतापवान् । उपविष्टो नृपश्रेष्टो मुनिना दत्तविष्टरः ॥८॥ निमंत्रितो वमिष्टेन भोजनाय महात्मना। ससैन्यश्च स्थितो राजा गाधिपुत्रो महायशाः ॥९॥ नंदिन्याऽडस।दिनं सर्व भध्यभोज्यादिकं च यत्। भुक्त्वा राजा ससैन्यश्च वांछितं तत्र भोजनम्१०॥ प्रतापं तं च नंदिन्याः परिज्ाय स पार्थिवः । ययाचे नंदिनीं राजा वसिष्ठं मुनिसत्तमम् ॥११॥
Page 149
श्रीमद्देवीभागवते महापुराणे तृतीयस्क्न्धे अध्याय: १७ १४९ विश्वामित्र उवाच मुने धेनुसहस्त्रं ते घटोघ्नीनां ददाम्यहम्। नन्दिनीं देहि मे धेनुं प्रार्थयामि परंतप ।१२।। वसिष्ठ उवाच होमघेनुरियं राजन्न ददामि कयंचन। सहस्रं चापि धेनूनां तवेदं तव तिष्ठतु ।१३।। विश्वामित्र उवाच अयुतं वाऽथ लक्षं वा ददामि मननेप्सितम्। देहि मे नंदिनों साधो ग्रहीष्यामि बलादय ।१४।। वसिष्ठ उवाच कामं गृहाण नृपते बलादद्य यथारुचि। नाहं ददामि ते राजन्स्वेच्छया नंदिनों गृहात् ॥१५॥ तच्त्रुत्वा नृपतिर्भृत्यानादिदेश महाबलान्। नयध्वं नंदिनीं धेनुं बलदर्पसुसंस्थिताः ॥१६॥ ते भृत्या जगृहुस्तां तु हठादाक्रम्य यंत्रिताम् । वेपमाना मुनि प्राह सुराभः साश्रुलोचना॥१७H मुने त्यजसि मां कस्मात्कर्षयंति सुयंत्रिताम् । मुनिस्तां प्रत्युवाचेदं त्यजे नाहं सुदुग्वदे।१८।। बलान्नयति राजाऽसौ पूजितोऽद्य मया शुभे। किं करोमि न चेच्छामि त्यक्तुं त्वां मनसा किल ॥ इत्युक्ता मुनिना धेनुः क्रोधयुक्ता बभूव ह। हंभारवं चकाराशु क्ररशब्दं सुदारुणम् ॥२०॥ उद्गतास्तस्या देहात्तु दैत्या घोरतरास्तदा। सायुधास्तिष्ठ तिष्ठेति ब्रुवंतः कबचावृताः ॥२१॥ सैन्यं सवं हतं तैस्तु नंदिनी प्रतिमोचिता। एकाकी निर्गतो राजा विश्वामित्रोऽतिदुःखितः ॥ हंत पापोऽतिदीनात्मा निंदन्क्षात्रबलं महत्। ब्राह्मं बलं दुराराध्यं मत्वा स तपसि स्थितः॥२३॥ तप्त्वा बहूनि वर्षाणि तपो घोरं महावने। ऋषित्वं प्राप गाधेयस्त्यक्त्वा क्षात्रं विधिं पुनः ॥ तस्मात्त्वमपि राजेंद्र मा कृथा वैरमद्ुतम्। कुलनाशकरं नूनं तापसैः सह संयुगम् ॥२५॥ मुनिवर्य व्रजाद्य त्वं समाश्वास्य तपोनिधिम् । सुदर्शनोऽपि राजेंद्र तिष्ठत्वत्र यथामुखम् ॥२६॥ बालोऽयं निर्धनेः किं ते करिष्यति नृपाहितम्। वृथा ते वैरभावोज्यमनाये दुर्बले शिशौ ॥२७॥ दया सर्वत्र कर्तव्या दैवाधीनमिदं जगन्। ईर्ष्यया कि नृपश्रेष्ट यद्दाव्यं तद्गविष्यति ॥२८॥ वज्ं तृणायते राजन्दैवयोगान्न संशयः । तृणं वज्रायते क्वापि समये दैवयोगतः ॥२९॥ शशको हंति शार्दूलं मशको वै तथा गजम्। साहसं मुञ्च मेवाविन् कुरु मे वचनं हितम् ॥३०॥ व्यास उवाच तच्छ्रत्वा वचनं तस्य युधाजिन्नृपसत्तमः । प्रणम्य तं मुर्नि मूर्ध्ना जगाम स्वपुरं नृपः ॥३१॥ मनोरमाऽपि स्वस्थाजभूदाश्रमे तत्र संस्थिता। पालयामास पुत्रं तं सुदर्शनमृतत्रतम् ॥३२॥ दिने दिने कुमारोऽसौ जगामोपच्य ततः। मुनिब्रालगतः क्रोडन्निर्भयः सर्वतः शुभः ॥३३॥ एकस्मिन्समये तत्र बिदल्लं समुपागतम् । क्लींबेति मुनिपुत्रस्तमामंत्रयत्तदंतिके ॥३४॥
Page 150
१५० श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १७ सुदर्शनस्तु तच्छ्रत्वा दधारैकाक्षरं स्फुटम् । अनुस्वारयुतं तच्च प्रोवाचापि पुनः पुनः॥३५ बीजं वै कामराजाख्यं गृहीतं मनसा तदा। जजाप बालकोऽत्यर्थ धृत्वा चेतसि सादरम्॥३६ भावियोगान्महाराज कामराजाख्यमद्द्गुतम्। स्वभावेनैव तेनेत्थं गृहीतं बालकेन वै॥३७ तदाऽसौ पञ्चमे वर्षे प्राप्य मंत्रमनुत्तमम्। ऋषिच्छंदोविहीनं च ध्यानन्यासविवर्जितम् ॥३८ प्रजपन्मनसा नित्यं क्रीडत्यपि स्वपित्यपि । विसस्मार न तं मंत्रं ज्ञात्वा सारमिति स्वयम्॥३९॥ वर्षे चैकादशे प्राप्ते कुमारोऽसौ नृपात्मजः । मुनिना चोपनीतोऽथ वेदमध्यापितस्तथा॥४०। धनुर्वेदं तथा सांगं नीतिशास्त्रं विधानतः । अभ्यस्ताः सकला विद्यास्तेन मंत्रबलादिना ॥४१। कदाचित्सोऽपि प्रत्यक्षं देवीरूपं ददर्श ह। रक्ताम्बरं रक्तवर्ण रक्तसर्वांगभूषणम् ॥।४२ गरुडे वाहने संस्थां वैष्णवीं शक्तिमद्दुताम्। दृष्टा प्रसन्नवदनः स बभूव नृपात्मजः ॥४३॥ वने तस्मिन्स्थितः सोऽथ सर्वविद्यार्थतत्त्ववित् । मातरं सेवमानस्तु विजहार नदीतटे ।४४। शरासनं च संप्राप्तं विशिखाश्च शिलाशिताः । तूणीरकवचं तस्मै दत्तं चांबिकया वने ।।४५॥ एतस्मिन्समये पुत्री काशिराजस्य सुप्रिया। नाम्ना शशिकला दिव्या सर्वलक्षणसंयुता ॥४६॥ शुश्राव नृपपुत्रं तं वनस्थं च सुदर्शनम्। सर्वलक्षणसंपन्नं शूरं काममिवापरम्।।४७ वंदीजनमुखाच्छ्रत्वा राजपुत्रं सुभंमतम्। चवमे मनसा तं वै वरं वरयितुं धिया ।४८। स्वप्ने तस्याः समागम्य जगदंबा निशान्तरे। उवाच वचनं चेदं समाश्वास्य सुसंस्थिता ।४९ वरं वरय सुश्रोणि मम भक्तः सुदर्शनः। सर्वकामप्रदस्तेऽस्तु वचनान्मम भामिनि ॥५०॥ एवं शशिकला दृष्टा स्वप्ने रूपं मनोहरम्। अंबाया वचनं स्मृत्वा जहर्ष भृशभामिनी ।।५१॥ उपस्थितासामुदा युक्ता पृष्टा मात्रा पुनः पुनः । प्रमोदे कारण बाला नोवाचातित्रपान्विता ॥५२॥ जहास मुदमापन्ना स्मृत्वा स्वप्नं मुहुर्मुहुः। सखीं प्राह तदाऽन्यां व स्वप्नवृत्त सविस्तरम् ।५३। कदाचित्सा विहारार्थमवापोपवनं शुभम्। सखीयुक्ता विशालाक्षी चंपकरुपशोभितम् ।५४ पुष्पाणि चिन्वती बाला चंपकाध:स्थिताऽबला। अपश्यद्ब्राह्मणं मार्गे आगच्छंत त्वरान्वितम्।५५ तं प्रणम्य द्विजं श्यामा बभाषे मधुर वचः। कुतो देशान्महाभाग कृतमागमन त्वया।५६। द्विज उवाच भारद्वाजाश्रमाद्वाले नूनमागमनं मम। जातं वे कार्ययोगेन किं पृष्सि बदस्व मे ॥५७॥ शशिकलोबाच तत्राश्रमे महाभाग वर्णनीय किमस्ति वै। लोकातिगं विशेषेण प्रेक्षणीयतमं किल॥५८॥ न्ाह्यण उपाच ध्रुवसंधिसुतः श्रीमानास्ते सुदर्शनो नृपः । बथार्थनाना सुश्रोणि वर्तते पुरुबोत्तमः ।५९॥
Page 151
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १८ १५१ तस् लोचनमत्यंतं निष्फलं प्रतिभाति मे। येन दृष्टो न वामोरु कुमारस्तु सुदर्शनः ॥६०॥ एकत्र निहिता धात्रा गुणाः सर्वे सिसृक्षुणा। गुणानामाकरं द्रष्टुं मन्ये तेनैव कौतुकात् ॥६१॥ तब योग्य: कुमारोऽसौ भर्ता भवितुमहति। योगोऽयं विहितोप्यासीन्मणिकांचनयोरिव ॥६२॥ इति श्रीदेवीभागवंते महापुराणे तृतीयस्कंधे सप्तदशोऽध्यायः ॥ १७॥ अथ अष्टादशोऽध्यायः व्यास उवाच श्रुत्वा तद्वचनं श्यामा प्रमयुक्ता बभूव ह। प्रतस्थे ब्राह्मणस्तस्मात्स्थानादुक्त्वा समाहितः॥।१॥। सा तु पूर्वानुरागाद्वै मग्ना प्रेम्णाजतिचंचला । कामबाणहतेवास गते तस्मिन्द्विजोत्तमे ॥२॥ अथ कामार्दिता प्राह सखीं छंदोनुवर्तनीम्। विकारश्च समुत्पन्नो देहे यच्छ्रवणादनु ॥३॥। अज्ञातरसविज्ञानं कुमारं कुलसंभवम्। दुनोति मदनः पापः किं करोमिक्व यामिच ॥४॥ स्वप्नेषु वा मया दृष्टः पंचबाण इवापरः । तपते मे मनोऽत्यर्थं विरहाकुलितं मृद्द ।।५।। बंदनं देहलग्नं मे विषवद्भाति भामिनि। स्त्रगियं सर्पवच्चैव चंद्रपादाश्च वन्निवत् ॥६॥ न हम्ये न वने शं मे दीघिकायां न वर्तते। न दिवा न निशायां वा न सुखं सुग्साधनैः ॥७।। न शय्या न च तांबूलं न गीतं न च वादनम्। प्रीणयंति मनो मेध्द न तृप्ते मम लोचने ।।८।। प्रयाम्यद्य वने तत्र यत्रासौ वर्तते शठः । भीतास्मि कुललज्जायाः परतंत्रा पितुस्तथा ।९॥ स्वयंवरं पिता मेऽद्य न करोति करोमि किम् । दास्यामि राजपुत्राय कामं मुदर्शनाय वै ॥१०॥ संत्यन्ये पृथिवीपालाः शतशः संभृतर्द्धयः । रमणीया न मे तेऽद्य राज्यहीनोऽप्यसौ मतः ॥११॥ व्यास उवाच एकाकी निर्धनश्चैव वलहीनः सुदर्शनः । वनवासी फलाहारस्तस्याश्चित्ते सुसंस्थिता ॥१२॥ बाम्बीजस्य जपात्सिद्धिस्तस्या एपाप्युपस्थिता। सोपि ध्यानपरोत्यंतं जजाप मंत्रमुत्तमम् ॥१३।। स्वप्ने पश्यत्यसौ देवीं विष्णुमायामखंडिताम् । विश्वमातरमव्यक्तां सर्वसंपत्करांविकाम् ॥१४॥ शृंगवेरपुराध्यक्षो निषादः समुपेत्य तम्। ददौ रथवरं तस्मै सर्वोपस्करसंयुतम् ॥१५॥ चतुर्भिस्तुरगैर्युक्त पताकावरमंडितम्। जैत्रं राजसुतं ज्ञात्वा ददौ चोपायनं तदा ।१६।। सोऽपि जग्राह तं प्रीत्या मित्रत्वेन सुसंस्थितम् । वन्यैर्मूलफलैः सम्यगर्चयामास शंबरम् ॥१७॥ कृतातिथ्ये गते तस्मिन्निपादाधिपतौ तदा। मुनयः प्रीतियुक्तास्ते तमूचुस्तापसा मिथः ॥१८॥ राजपुत्र ध्रुवं राज्यं प्राप्स्यसि त्वं च सर्वथा। स्वल्पैरहोभिरव्यग्रः प्रतापान्नात्र संशयः ॥१९॥ प्रसन्ना तेऽम्बिका देवी वरदा विश्वमोहिनी। सहायस्तु सुसंपन्नो न चिंतां कुरु सुव्रत ॥२०॥
Page 152
१५२ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः १८ मनोरमां तथोचुस्ते मुनयः संशितव्रताः । पुत्रस्तेऽद्य धराधीशो भविष्यति शुचिस्मिते ॥२१॥ सा तानुवाच तन्वंगी वचनं वोऽस्तु सत्फलम्। दासोडयं भवतां विप्राः कि चित्रं सदुपासनात्॥२२॥ न सैन्यं सचिवाः कोशो न सहायश्च कशचन। केन योगेन पुत्रो मे राज्यं प्राप्तुमिहार्हति ।२३। आशीर्वादैश्च वो ननं पत्रोऽयं मे महीपतिः । भविष्यति न संदेहो भवंतो मंत्रवित्तमाः ॥२४॥ व्यास उवाच रथारूढः स मेधावी यत्र याति सुदर्शनः । अक्षौहिणीसमावृत्त इवाभाति स तेजसा ॥२५॥ प्रतापो मंत्रबीजस्य नान्यः कश्चन भूपते। एवं वै जपतस्तस्य प्रीतियुक्तस्य सर्वथा ॥२६॥ संप्राप्य सद्गुरोर्बीजं कामराजाख्यमन्द्ुतम्। जपेद्यस्तु शुचिः शांतः सर्वान्कामानवाप्नुयात्।२७॥ न तदस्ति पृथिव्यांवा दिवि वाडपि सुदुर्लभम्। प्रसन्नायाः शिवायाश्च यदप्राप्यं नृपोत्तम ।।२८।। ते मंदास्तेऽतिदुर्भाग्या रोगैस्ते समभिद्रुताः । येषां चित्ते न विश्वासो भवदंवार्चनादिषु ॥२९॥ या माता सर्वदेवानां यगादौ परिकीर्तिता। आदिमातेति विख्याता नाम्ना तेन कुरूद्वह॥३०॥ ुद्धि: कीतिर्धृतिर्लक्ष्मी: शक्ति: श्रद्धा मतिःस्मृतिः। सर्वेषां प्राणिनां सा वै प्रत्यक्षं वै विभासते ।३१॥ न जानंति नरा ये वै मोहिता मायया किल। न भजंति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवाम् ॥३२॥ ब्रह्मा विष्णुस्तथा शंभुर्वासवो वरुणो यमः । वायुरग्निः कुवेरश्र त्वष्टा पूपाश्चिनौ भगः ॥३३॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। सर्वे ध्यायंति ता देवीं सृष्टि स्थित्यंतकारिणीम् ॥३४॥ को न सेवेत विद्ान्वै तां शक्ति परमात्मिकाम्। सुदर्शनेन सा ज्ञाता देवी सर्वार्थदा शिवा ।३५। ब्रह्मव साऽतिदुष्प्रापा विद्याडविद्यास्वरूपिणी। योगगम्या परा शन्तिर्मुमुक्षूणां च वल्लभा ।३६॥ परमात्मस्वरूपं को वेत्तुमर्हत्ति तां विना। या सृष्टिं त्रिविधां कृत्वा दर्शयत्यग्विलात्मने ॥३७॥ सुदर्शनस्तु ता देवीं मनसा परिचिंतयन्। राज्यलाभात्परं प्राप्य सुखं वै कानने स्थितः ।।३८।। सापि चंद्रकलाऽत्यर्थं कामबाणप्रपीडिता। नानोपचारैरनिशं दधार दुःखितं वपुः ॥३९। सावत्तस्याः पिता ज्ञात्वा कन्यां पुत्रवरार्थिनीम् । सुबाहुः कारयामास स्वयंत्ररमतंद्रितः ॥४०॥ स्वधंवरस्तु त्रिविधो विद्वन्धि: परिकीर्तितः । राज्ञां विवाहयोग्यो वै नान्येपां कथितः किल ॥४१॥ इच्छास्वयंवरश्चको द्वितीयश्च पणाभिधः । यथा रामेण भग्नं वै त्र्यंबकस्य शरासनम् ॥४२॥ तृतीयः शौर्यशुल्कश्च शृराणां परिकीर्तितः । इच्छास्वयंवरं तत्र चकार नुपसत्तमः ॥४३॥ शिल्पिभि: कारिता मंचाः गुभैरास्तरणैर्युताः । ततश्र विविधाकाराः मुक्लुताः सभ्यमंडपाः ॥४४॥ एवं कृतेऽतिसंभारे विवाहार्थ सुविस्तरे। सखीं शशिकला प्राह दुःखिता चारलोचना।।४५।। इदं मे मातरं व्रहि त्वमेकांते वचो मम। मया वृतः पतिश्चित्ते ध्रुवसंधिसुनः शुभः ॥४६॥ नान्यं वरं वरिष्यामि तमते वै सुदर्शनम् । स मे भर्ता नृपसुतो भगवत्या प्रतिष्ठितः ॥४७॥
Page 153
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १९ १५३
व्यास उवाच इत्युक्ता सा सखी गत्वा मातरं प्राह सत्वरा। वैदर्भी विजने वाक्यं मधुरं मंजुभाषिणी॥४८।। पुत्री ते दुःखिता प्राह साध्वी त्वां मन्मुखेन यत्। श्रृणु त्वं कुरु कल्याि तद्धितं त्वरिताऽधुना ॥४९।। भारद्वाजाश्रमे पुण्ये ध्रुवसंधिसुतोऽस्ति यः । स मे भर्ता वतश्चित्ते नान्यं भूपं वृणोम्यहम् ॥५०॥ व्यास उवाच राज्ञा तद्वचनं श्रुत्वा स्वपतौ गृहमागते। निवेदयामास तदा पुत्रीवाक्यं यथातथम् ॥५१॥ तच्छरत्वा वचनं राजा विस्मितः प्रहसन्मुहः । भार्यामुवाच वैदर्भी सुबाहुस्तु ऋतं वचः ॥५२॥ सुभ्रु जानासि बालोऽसौ राज्यान्निष्कासितो वने। एकाकी सह मात्रा वै वसते निर्जने वने ।५३॥ तत्कृते निहतो राजा वीरसेनो युधाजिता। स कथं निर्धनो भर्ता योग्यः स्याच्चारुलोचने ॥ ब्रूहि पुत्रीं नतो वाक्यं कदाचिदपि विप्रियम्। आगमिष्यंति राजानः स्थितिमंतः स्वयंवरे ॥५५॥ इति श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धेऽष्टादशोऽध्यायः ॥ १८ ॥ अथ एकोनविंशोऽध्यायः व्यास उवाच भर्त्रा साऽभिहिता बालां पुत्रीं कृत्वांकसंस्थिताम् । उवाच वचनं श्लक्ष्णं समाश्वास्य शुचिस्मिताम् ॥१॥ कि वृथा सुदति त्वं हि विप्रियं मम भाषसे। पिता ते दुःखमाप्नीति वाक्येनानेन सुब्रते ।२॥ सुदर्शनोऽतिदुर्भाग्यो राज्यभ्रष्टो निराश्रयः । वलकोशविहीनश्च परित्यक्तस्तु बांधवैः ॥३॥ मात्रा सह वनं प्राप्तः फलमूलाशनः कृशः । न ते योग्यो वरोऽयं वै वनवासी च दुर्भगः ॥४॥ राजपुत्राः कृतप्रज्ञा रूपवंतः सुसंमताः । तवार्हाः पुत्रि सन्त्यन्ये राजचिह्नरलंकृताः ।५॥ भ्राताऽस्य वर्तते कांतः स राज्यं कोसलेषु वै। करोति रूपसंपन्नः सर्वलक्षणसंयुत: ॥६॥ अन्यच्च कारणं सुभ्रु श्रृणु यच्च यथा श्रुतम् । युधाजित्सततं तस्य वधकामोऽस्ति भूमिषः ॥७॥ दौहित्र: स्थापितस्तेन राज्ये कृत्वाऽतिसंगरम् । वीरसेनं नृपं हत्वा संमंत्र्य सचिवैः सह।।८॥ भारद्वाजाश्रमं प्रात्तं हंतुकामः सुदर्शनम् । मुनिना वारितः पश्चाज्जगाम निजमंदिरम् ॥९॥ शशिकलोवाच मातर्ममेप्सितः कामं वनस्थोऽपि नृपात्मजः । शर्यातिवचनेनैव सुकन्या च पतिव्रता ॥१०॥ च्यवनं च यथा प्राप्य पतिशुश्रूषणे रता। भर्तृशुश्रूषणं स्त्रीणां स्वर्गदं मोक्षदं तथा ॥११॥ अकतवकृतं नूनं सुखदं भवति स्त्रियाः । भगवत्या समादिष्टं स्वप्ने वरमनुत्तमम् ॥१२॥
Page 154
१५४ श्रीमद्देवीभागवते महापुराणे तृतीयस्कं्धे अध्याय: १९ तमृतेऽहं कथं चान्यं संश्रयामि नृपात्मजम् । मच्चित्तभित्तौ लिखितो भगवत्या सुदर्शनः ॥१३। तं विहाय प्रियं कांतं करिष्येऽहं न चापरम्। व्यास उवाच प्रत्यादिष्टाऽथ वैदर्भी तया बहुनिदर्शनैः ॥१४॥ भर्तारं सर्वमाचष्ट पुत्र्योक्तं वचनं भृशम् । विवाहस्य दिनादर्वागाप्तं श्रुतसमन्वितम् ॥१५॥ द्विजं शशिकला तत्र प्रेषयामास सत्वरम्। यथा न वेद मे तातस्तथा गच्छ सुदर्शनम् ॥१६। भारद्वाजाश्रमे ब्रूहि मद्वाक्यात्तरसा विभो। पित्रा मे संभृतः कामं मदर्थेन स्वयंवरः ॥१७॥ आगमिष्यन्ति राजानो बलयुक्ता ह्यनेकशः। मया त्वं वै वृतश्चित्ते सर्वथा प्रीतिपूर्वकम् ॥१८॥ भगवत्या समादिष्टः स्वप्ने मम सुरोपम। विषमद्नि हुताशे वा प्रपतामि प्रदीपिते ॥१९॥ वरये त्वदृते नान्यं पितृभ्यां प्रेरिताऽपि वा। मनसा कर्मणा वाचा संवृतस्त्वं मया वरः ॥२०॥ भगवत्याः प्रसादेन शर्मावाभ्यां भविष्यति। आगंतव्यं त्वयाऽत्रैंव दैवं कृत्वा परं बलम् ॥२१॥ यदधीनं जगत्सर्वं वर्तते सचराचरम्। भगवत्या यदादिष्टं न तन्मिथ्या भविष्यति ॥२२॥ यद्वशे देवताः सर्वा वर्तन्ते शङ्करादयः। वक्तव्योऽसौ त्वया ब्रह्मन्नेकांते वै नृपात्मजः ॥२३॥ यथा भवति मे कार्य तत्कर्तव्यं त्वयाऽनघ। इत्युक्त्वा दक्षिणां दत्त्वा मुनिर्व्यापारितस्तया॥ गत्वा सर्व निवेद्याशु तत्र प्रत्यागतो द्विजः । सुदर्शनस्तु तज्ज्ञात्वा निश्चयं गमने तदा ।२५॥ चकार मुनिना तेन प्रेरितः परमादरात्। व्यास उवाच गमनायोद्यतं पुत्रं तमुवाच मनोरमा ॥२६॥ वेपमानाऽतिदुःखार्ता जातत्रासाऽश्रुलोचना । कुत्र गच्छसि पुत्राद्य समाजे भूभृतां किल ॥२७॥ एकाकी कृतवैरश्च कि विचिन्त्य स्वयंवरे। युधाजिद्धंतुकामस्त्वां समेष्यति महीपतिः ॥२८॥ न तेऽन्योस्ति सहायश्च तस्मान्मा व्रज पुत्रक। एकपुत्रातिदीनाऽस्मि तवाधारा निराश्रया ॥२९॥ नार्हसि त्वं महाभाग निराशां कर्तुमद्य माम् । पिता ते निहतो येन सोऽपि तत्रागतो नृपः ॥३०॥ एकाकिनं गतं तत्र युधाजित्वां हनिष्यति। सुदशन उवाच भवितव्यं भवत्येव नात्र कार्या विचारणा ।३१।। आदेशाच्च जगन्मातुर्गच्छाम्यद्य स्वयंवरे। मा शोकं कुरु कल्याणि क्षत्रियाऽसि वरानने॥ न बिभेमि प्रसादेन भगवत्या निरन्तरम्।
Page 155
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: १९ १५५.
व्यास उवाच इत्युक्त्वा रथमारुह्य गन्तुकामं सुदर्शनम् ॥३३ । दृष्टा मनोरमा पुत्रमाशीभिश्चान्वमोदयत् । अग्रतस्तेऽम्बिका पातु पार्वती पातु पृष्ठतः ॥३४॥ पार्वती पाश्वयो: पातु शिवा सवंत्र सांप्रतम् । वाराही विषमे मार्गे दुर्गा दुर्गेषु कहिचित्। कालिका कलहे घोरे पातु त्वां परमेश्वरी ।३५॥ मण्डपे तत्र मातङ्गी तथा सौम्या स्वयंवरे। भवानी भूपमध्ये तु पातु त्वां भवमोचनी ॥३६॥ गिरिजा गिरिदुर्गेषु चामुण्डा चत्वरेषु च। कामगा काननेष्वेवं रक्षतु त्वां सनातनी ॥।३७॥ विवादे वैष्णवी शक्तिरवतात्त्वां रघूद्वह। भैरवी चरणे सौम्य शत्रूणां वै समागमे ।३८॥ सर्वदा सर्वदेशेष पातु त्वां भुवनेश्वरी। महामाया जगद्धात्री सच्चिदानंदरूपिणी ॥३९॥ व्यास उवाच इत्युक्त्वा तं तदा माता वेपमाना भयाकुला। उवाचाहं त्वया सार्धमागमिष्यामि सर्वथा ॥४०॥ निमिषार्धं बिना त्वां वै नाहं स्थातुमिहोत्सहे। सहैव नय मां वत्स यत्र ते गमने मतिः ॥४१॥ इत्युक्त्वा निःसृता माता धात्रेयीसंयुता तदा। विप्रैदत्ताशिषः सर्वे निर्ययुर्हर्षसंयुताः ॥४२॥ वाराणस्यां ततः प्राप्ता रथेनकेन राघवः । ज्ञातः सुबाहुना तत्र पूजितश्चार्हणादिभिः ॥४३॥ निवेशार्थं गृहं दत्तमन्नपानादिकं तथा। सेवकं समनुज्ञाप्य परिचर्यार्थमेव च ॥४४॥ मिलितास्त्वथ राजानो नानादेशाधिपाः किल । युधाजिदपि संप्राप्तो दौहित्रेण समन्वितः ।४५।। करूषाधिपतिश्चैव तथा मद्रेश्वरो नृपः । सिन्धुराजस्तथा वीरो योद्धा माहिष्मतीपतिः॥४६॥ पांचाल: पर्वतीयश्च कामरूपोऽतिवीर्यवान्। कार्णाटश्चोलदेशीयो वैदर्भश्च महाबलः ॥४७॥ अक्षोहिणी त्रिषष्टिश्च मिलिता संख्यया तदा। वेष्टिता नगरी सा तु सैन्यैः सर्वत्र संस्थितैः ॥४८॥ एते चान्ये च बहवः स्वयंवरदिदृक्षया । मिलितास्तत्र राजानो वरवारणसंयुताः ॥४९॥ अन्योन्यं नृपपुत्रास्त इत्यूचुर्मिलितास्तदा । सुदर्शनो नृपसुतो ह्यागतोऽस्ति निराकुलः ॥५०॥ एकाकी रथमारुह्य मात्रा सह महामतिः। विवाहार्थमिहायातः काकुत्स्थ कि नु सांप्रतम् ॥५१॥ एतात्राजसुतांस्त्यक्त्वा ससैन्यान्सायुधानथ। किमेनं राजपुत्री सा वरिष्यति महाभुजम् ॥५२॥ युषाजिदथ राजेशस्तानुवाच महीपतीन् । अहमेनं हनिष्यामि कन्यार्थे नात्र संशयः ॥५३॥ केरलाघिपतिः प्राह तं तदा नीतिसत्तमः। नात्र युद्धं प्रकर्तव्यं राजन्निच्छास्वयंवरे ॥५४॥ बलेन हरणं नास्ति नात्र शुल्कस्वयंवरः। कन्येच्छयाऽत्र वरणं विवादः कीदृशस्त्विह ।५५॥ अम्बामेन त्बया पूर्वमसौ राज्यात्प्रवासितः । दौहित्रायार्पितं राज्यं बलवन्नृपसत्तम ॥५६।। काकुत्स्थोऽयं महाभाग कोसलाधिपतेः सुतः। कथमेनं राजपुत्रं हनिष्यसि निरागसम् ॥५७॥
Page 156
१५६ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २० लप्स्यसे तत्फलं नूनमनयस्य नृपोत्तम। शास्तास्ति कश्चिदायुष्मञ्जगतोऽस्य जगत्पतिः। धर्मो जयति नाधर्मः सत्यं जयति नानृतम्। माऽनयं कुरु राजेंद्र त्यज पापमर्ति किल ।।५९॥ दौहित्रस्तव संप्राप्तः सोऽपि रूपसमन्वितः । राज्ययुक्तस्तथा श्रीमान्कथं तं न वरिष्यति ॥६०॥ अन्ये राजसुताः कामं वर्तन्ते बलवत्तराः। कन्यास्वयंवरे कन्या स्वीकरिष्यति सांप्रतम् ॥६१॥ "वृते तथा विवादः कः प्रवदन्तु महीभुजः । परस्परं विरोधोऽत्र न कर्तव्यो विजानता ॥६२॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥ अथ विंशोऽध्यायः व्यास उवाच इतिवादिनि भूपाले केरलाधिपतौ तदा। प्रत्युवाच महाभाग युधाजिदपि पार्थिवः ॥१॥ नीतिरियं महीपाल यद्ब्रवीति भवानिह। समाजे पार्थिवानां वे सत्यवाग्विजितेंद्रियः ॥२॥ योग्यंषु वर्तमानेषु कन्यारत्नं कुलोद्वह। अयोग्योऽर्हति भूपाल न्यायोऽयं तव रोचते ।३॥ भागं सिंहस्य गोमायुर्भोक्तुमहंति वा कथम् । तथा सुदर्शनोऽयं वै कन्यारत्नं किमहंति ॥४॥ बलं वेदो हि विप्राणां भूभुजां चापजं बलम्। किमन्याय्यं महाराज ब्रवीम्यहमिहाधुना ।।५॥ बलं शुल्कं यथा राज्ञां विवाहे परिकीर्तितम् । बलवानेव गृह्हातु नावलस्तु कदाचन ॥६॥ तस्मात्कर्न्यापणं कृत्वा नीतिरत्र विधीयताम् । अन्यथा कलहः कामं भविष्यति महीभुजाम् ॥७॥ एवं विवादे संवृत्ते राज्ञां तत्र परस्परम्। आहूतस्तु सभामध्ये सुवाहुर्नृपसत्तमः ॥८॥ समाह्य नृपाः सर्वे तमूचुस्तत्त्वदर्शिनः । राजन्नीतिस्त्वया कार्या विवाहेऽत्र समाहिता ।।९।। ककें ते चिकीर्षितं राजंस्तद्रदस्व समाहितः । पुत्र्याः प्रदानं कस्मै ते रोचते नृप चेतसि ॥१०॥ सुबाहुरुवाच पुत्र्या मे मनसा कामं वृनः किल सुदर्शनः । मया निवारितोऽत्यर्थ न सा प्रत्येति मे वचः ॥११॥ किं करोमि सुताया मे न वशे वर्तते मनः । सुदर्शनस्तथकाकी संप्राप्तोऽस्ति निराकुलः ॥१२॥ व्यास उवांच संपन्ना भूभुजः सर्वे समाहूय सुदर्शनम् । ऊचुः समागतं शांतमेकाकिनमतंद्रिताः ॥१३॥ राजपुत्र महाभाग केनाहूतोऽसि सुव्रत। एकाकी यः समायातः समाजे भूभृतामिह ॥१४॥ न वै सैन्यं न सचिवा न कोशो न बृहद्लम् । किमर्थ च समायातस्तत्त्वं ब्रूहि महामते ॥१५॥ युद्धकामा नृपतयो वर्ततेऽत्र समागमे। कन्यार्थ सैन्यसंपन्नाः कि त्वं कर्तृमिहेच्छसि ॥१६॥ भ्राता ते सुबल: शूरः संप्राप्तोऽस्ति जिघृक्षया। युधाजिच्च महाबाहुः साहाय्यं कर्तुमागतः ॥१७॥
Page 157
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २० ९५७ गच्छ वा तिष्ठ राजेंद्र याथातथ्यमुदाहृतम् । त्वयि सैन्यविहीने च यथेष्टं कुरु सुव्रत ॥१८॥ सुदर्शन उवाच न बलं न सहायो मे न कोशो दुर्गसंश्रयः । न मित्राणि न सौहार्दी न नृपा रक्षका मम ॥१९॥ अत्र स्वयंवरं श्रुत्वा द्रष्टुकाम इहागतः । स्वप्ने देव्या प्रेरितोऽस्मि भगवत्या न संशयः ॥२०॥ नान्यच्चिकीषितं मेऽद्य मामाह जगदीश्वरी। तया यद्विहितं तच्च भविताऽद्य न संशयः ॥२१॥ न शत्रुरस्ति संसारे कोऽप्यत्र जगतीश्वराः । सर्वत्र पश्यतो मेऽद्य भवानीं जगदम्बिकाम् ॥२२॥ यः करिष्यति शत्रुत्वं मया सह नृपात्मजाः । शास्ता तस्य महाविद्या नाहं जानामि शत्रुताम् ॥ यद्भावि तद्व भविता नान्यथा नृपसत्तमाः । का चिंता ह्यत्र कर्तव्या दैवाधीनोऽस्मि सर्वथा २४॥ देवभूतमनुष्येषु सर्वभूतेषु सर्वदा। सर्वेषां तत्कृता भक्तिर्नान्यथा नृपसत्तमाः ॥२५॥ सा यं चिकीर्षते भूपं तं करोति नृपाधिपाः । निर्धनं वा नरं कामं का चिंता वै तदा मम ॥२६॥ तामृते परमां शक्ति ब्रह्मविष्णुहरादयः । न शक्ताः स्पंदितुं देवाः काचिंता मे तदा नृपाः ॥ अशक्तो वा सशक्तो वा यादृशस्तादृशस्त्वहम् । तदाज्ञया नृपाद्व संप्राप्तोऽस्मि स्वयंवरे ।२८।। सा यदिच्छति तत्कुर्यान्मम कि चिंतनेन वै। नात्र शंका प्रकर्तव्या सत्यमेतद्ब्रवीम्यहम् ॥२९॥ जये पराजये लज्जा न मेऽत्राण्वपि पार्थिवाः । भगवत्यास्तु लज्जास्ति तदधीनोऽस्मिसर्वथा॥३०।। व्यास उवाच इति तस्य तदाकर्ण्यं वन्चनं राजसत्तमाः । ऊचुः परस्परं प्रेक्ष्य निश्चयज्ञा नराधिपाः ॥३१॥ सत्यमुक्तं त्वया साधो न मिथ्या कहिचिद्दवेत् । तथाप्युज्जयनीनाथुस्त्वां हंतुं परिकांक्षति ॥३२।। त्वत्कृते न दया दृष्टा त्वां ब्रवीमो महामते। यद्युक्तं तत्त्वया कार्यं विचार्य मनसाउनघ ॥३३॥ सुदशन उवाच सत्यमुक्तं भर्वन्द्िश्च कृपावद्भि: सुहृज्जनैः । किं ब्रवीमि पुनर्वाक्यमुक्त्वा नृपतिसत्तमाः ॥३४॥' न मृत्यु: केनचिद्दाव्यः कस्यचिद्वा कदाचन। दैवाधीनमिदं सर्वं जगत्स्थावरजंगमम् ॥३५॥ स्ववशोयं न जीवोऽस्ति स्वकर्मवशगः सदा। तत्कर्म त्रिविधं प्रोक्तं विद्व्धिस्तत्त्वदशिभिः ३६। संचितं वर्तमानं च प्रारब्धं च तृतीयकम्। कालकर्मस्वभावैश्च ततं सर्वमिदं जगत् ॥३७॥ न दैवी मानुषं हंतुं शक्त: कालागमं विना। हतं निमित्तमात्रेण हंति काल: सनातनः ॥३८।। यथा पिता मे निहतः सिंहेनामित्रकर्षणः । तथा मातामहोऽप्येवं युद्धे युधाजिता हतः॥३९॥ यत्नकोटि प्रकुर्वाणो हन्यते दैवयोगतः । जीवेद्वर्षसहस्त्राणि रक्षणेन बिना नरः ॥४०॥ नाहं बिभेमि धर्मिष्ठाः कदाचिच्च युधाजितः । दैवमेव परं मत्वा सुस्थितोऽस्मि सदा नृपाः ॥४१॥ स्मरणं सततं नित्यं भगवत्याः करोम्यहम्। विश्वस्य जननी देवी कल्याणं सा करिष्यति॥४२।
Page 158
१५८ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २० पूर्वाजितं हि भोक्तव्यं शुभं वाप्यशुभं तथा । स्वकृतस्य च भोगेन कीदृक्शोको विजानताम् ४३।। स्वकर्मफलयोगेन प्राप्य दुःखमचेतनः । निमित्तकारणे वैरं करोत्यल्पमतिः किल ॥४४॥ न तथाऽहं विजानामि वैरं शोकं भयं तथा। निःशंकमिह संप्राप्तः समाजे भूभृतामिह ॥४५॥ एकाकी द्रष्टकामोऽहं स्वयंवरमनुत्तमम् । भविष्यति च यद्दाव्यं प्राप्तोजस्मि चंडिकाज्ञया । भगवत्याः प्रमाणं मे नान्यं जानामि संयतः । तत्कृतं च सुखं दुःखं भविष्यति च नान्यथा ॥४७।। युधाजित्सुखमाप्नोतु न मे वैरं नृपोत्तमाः । यः करिष्यति मे वैरं स प्राप्स्यति फलं तथा ।।४८।। व्यास उवाच इत्युक्तास्ते तथा तेन संतुष्टा भूभुजः स्थिताः । सोऽपि स्वमाश्रमं प्राप्य सुस्थितः संबभूवह ॥४९॥ अपरेऽह्नि शुभे काले नृपाः संमंत्रिता: किल। सुबाहुना नृपेणाथ रुचिरे वै स्वमंडपे ॥५०॥ दिव्यास्तरणयुक्तेषु मंचेषु रचितेषु च । उपविष्टाश्च राजानः शुभालंकरणैर्युताः ॥५१॥ दिव्यवेषधराः कामं विमानेष्वमरा इव । दीप्यमानाः स्थितास्तत्र स्वयंवरदिदृक्षया ।५२।। इति चिंतापराः सर्वे कदा साऽप्यागमिष्यति। भाग्यवंतं नृपश्रेष्टं श्रुतपुण्यं वरिष्यति ॥५३। यदा सुदर्शनं दैवात्स्रजा संभूषयेदिह। विवादो वै नृपाणां च भविता नात्र संशयः ॥५४॥ इत्यवं चिंत्यमानस्ते भूपा मंचेषु संस्थिताः । वादित्रघोषः सुमहानुत्थितो नृपमंडपे ।५५। अथ काशीपतिः प्राह सुतां स्नातां स्वलंकृताम्। मधूकमालासंयुक्तां क्षौमवासोविभूषिताम् ॥५६॥ विवाहोपस्करैर्युक्तां दिव्यां सिंधुसुतोपमाम्। चिंतापरां सुवसनां स्मितपूर्वमिदं वच: ॥५७॥ उत्तिष्ठ पुत्रि सुनसे करे धृत्वा शुभां स्रजम्। व्रज मंडपमध्येजद्य समाजं पश्य भूभुजाम् ॥५८॥ गुणवान्रूपसंपन्नः कुलीनश्च नृपोत्तमः । तव चित्ते वसेद्यस्तु तं वृणुष्व सुमध्यमे ।५९॥ देशदेशाधिपाः सर्वे मंचेषु रचितेपु च । संविष्टाः पश्य तन्वंगि वरयस्व यथारुचि ॥६॥ व्यास उवाच तं तथा भाषमाणं वै पितरं मितभाषिणी। उवाच वचनं बाला ललित धर्मसंयुतम् ॥६१॥ शशिकलोवाच नाहं दृष्टिपथे राज्ञां गमिष्यामि पितः किल। कामुकानां नरेशानां गच्छंत्यन्याश्च योषितः ॥६२॥ धर्मशास्त्रे श्रुतं तात मयेदं वचनं किल। एक एव वरो नार्या निरीक्ष्यः स्यान्न चापरः ॥६३॥ सतीत्वं निर्गतं तस्या या प्रयाति बहनथ। संकल्पयंति ते सर्वे दृष्टा मे भवतात्त्विति ॥६४।। स्वयंवरे स्रजं धृत्वा यदागच्छति मंडपे। सामान्या सा तदा जाता कुलटेवापरा वधूः ॥६५॥ वारस्त्री विषणे गत्वा यथा वीक्ष्य नरान्स्थितान् । गुणागुणपरिज्ञानं करोति निजमानसे ॥६६॥ नैकभावा यथा वेश्या वृथा पश्यति कामुकम्। तथाऽहं मंडपे गत्वा कुर्वे वारस्त्रिया कृतम् ॥६७॥
Page 159
श्रीमदेबीमागवते महापुराण तृतीयस्कन्ध अध्याय: २१ १५९ पृदरेतेः कृतं धर्म न करिष्यामि सांप्रतम्। पत्नीव्रतं तथा कामं चरिष्येऽहं धृतव्रता ॥६८॥ सामान्या प्रथमं गत्वा कृत्वा संकल्पितं बहु। वृणोति चैंकं तद्वद्व वृणोमि कथमद्य वै ॥६९॥ सुदर्शनो मया पूर्वं वृतः सर्वात्मना पितः । तमृते नान्यथा कर्तुमिच्छामि नृपसत्तम ॥७०॥ विवाहविधिना देहि कन्यादानं शुभे दिने । सुदर्शनाय नृपते यदीच्छसि शुभं मम ॥७१॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे विंशोध्यायः ॥ २० ॥ अथ एकविंशोऽध्याय: व्यास उवाच सुबाहुरपि तच्छ्रुत्वा युक्तमुक्तं तया तदा। चिंताविष्टो बभूवाशु कि कर्तव्यमतः परम् ॥१॥ संगताः पृथिवीपालाः ससैन्याः सपरिग्रहाः । उपविष्टाश्च मंचेषु योद्ुकामा महाबलाः ॥२॥ यदि ब्रबीमि तान्सर्वान्सुता नायाति सांप्रतम् । तथापि कोपसंयुक्ता हन्युर्मां दुष्टनुद्धयः ।३॥ न मे सैन्यबलं तादृङ्न दुर्गबलमद्द्ुतम्। येनाहं नृपतीन्सर्वान् प्रत्यादेष्टुमिहोत्सहे॥४॥ सुदर्शनस्तर्थकाकी ह्यसहायोऽधनः शिशुः । किं कर्तव्यं निमग्नोऽहं सर्वथा दुःखसागरे ॥५॥ इति चिंतापरो राजा जगाम नृपसन्निधौ। प्रणम्य तानुवाचाथ प्रश्रयावनतो नृपः ॥६॥ किं कर्तव्यं नुपाः कामं नैति मे मंडपे सुता। बहुशः प्रेर्यमाणाऽपि सा मात्राऽपि मयाडपि च ॥७॥ मूर्ध्ना पतामि पादेषु राज्ञां दासोडस्मि सांप्रतम् । पूजादिकं गृहीत्वाजद्य व्रजंतु सदनानि वः ॥८। ददामि बहुरत्नानि वस्त्राणि च गजात्थान्। गृहीत्वाद्य कृपां कृत्वा व्रजंतु भवनान्युत ।।९।। न वशे मे सुता बाला म्रियते यदि खेदिता। तदा मे स्यान्महद्दुःखं तेन चिंतातुरोऽस्म्यहम् १०॥ भवंतः करुणावंतो महाभाग्या महौजसः । कि मे तया दुहित्रा तु मंदया दुर्विनीतया ॥११॥ अनुग्राह्योऽस्मि वः कामं दासोऽहमिति सर्वथा। सुता सुतेव मंतव्या भर्वद्ध्ि: सर्वथा मम ॥१२॥ व्यास उवाच श्रुत्वा सुबाहुवचनं नोचुः केचन भूमिपाः । युधाजित्क्रोधताम्राक्षस्तमुवाच रुषान्वितः ॥१३॥ राजन्मूर्खोजसि किं द्रूपे कृत्वा कार्य सुनिंदितम् । स्वयंवरः क्थं मोहाद्रचितः संशये सति ॥१४॥ मिलिता भूभुजः सर्वें त्वयाजडहूताः स्वयंवरे। कथमद्य नृपा गंतु योग्यास्ते स्वगृहान्प्रति ॥१५॥ अवमान्य नृपान्सर्वांस्त्वं किं सुदर्शनाय वै। दातुमिच्छसि पुत्रीं च किमनार्यमतः परम् ॥१६॥ विचार्य पुरुपेणादौ कार्यं वै शुभमिच्छता । आरब्धव्यं त्वया तत्तु कृतं राजन्न जानता ॥१७॥ एतान्विहाय नृपतीन्बलवाहनसंयुतान् । वरं सुदर्शनं कर्तुं कथमिच्छसि सांप्रतम् ॥१८॥ अहं त्वां हन्मि पापिष्ठ तथा पश्चात्सुदर्शनम् । दौहित्रायाद्य ते कन्यां दास्यामीति विनिश्चयः १९॥
Page 160
१६० श्रीमहेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २१ मयि तिष्ठति कोन्योऽस्ति यः कन्यां हर्तुमिच्छति । सुदर्शनः कियानद्य निर्धनो निर्बल: शिशुः ॥२०॥ भारद्वाजाश्रमे पूर्वं मुक्तो मुनिकृते मया। नाद्याहं मोचयिष्यामि सर्वथा जीवितं शिशोः ॥२१॥ तस्माद्विचार्य सम्यक्त्वं पुत्र्या च भार्यया सह। दौहित्राय प्रियां कन्या देहि मे सुभ्रुवं किल ।।२२।। सम्बन्धी भव दत्त्वा त्वं पुत्रीमेतां मनोरमाम् । उच्चाश्रयः प्रकर्तव्यः सर्वदा शुभमिच्छता ॥२३॥ सुदर्शनाय दत्त्वा त्वं पुत्रीं प्राणप्रियां शुभाम् । एकाकिनेऽप्यराज्याय कि सुखं प्राप्तुमिच्छसि ॥२४॥ "कुलं वित्त बलं रूपं राज्यं दुर्ग सुहृज्जनम्। दृष्टा कन्या प्रदातव्या नान्यथा सुखमृच्छति"॥ परिचिंतय धर्म त्वं राजनीति च शाश्वतीम्। कुरु कार्य यथायोग्यं मा कृथा मतिमन्यथा ।२५॥ सुहृदसि ममात्यर्थं हितं ते प्रब्रवीम्यहम्। समानय सुतां राजन्मंडपे तां सखीवृताम् ॥२६॥ सुदर्शनमृते चेयं वरिष्यति यदाऽप्यसौ । विग्रहो मे तदा न स्यादिवाहोऽस्तु तवेप्सितः ॥२७॥ अन्ये नृपतयः सव कुलीनाः सबलाः समाः। विरोधः कीदृशस्त्वेनं वृणोद्यदि नृपोत्तम ।।२८।। अन्यथाऽहं हरिप्येऽद्य बलात्कन्यामिमां शुभाम्। मा विरोधं सुद्ुःसाध्यं गच्छ पार्थिवसत्तम ।२९।। व्यास उवाच युधाजिता समादिष्टः सुबाहुः शोकसंयुतः । निःश्वमन्भवनं गत्वा भार्या प्राह् शुचावृतः ॥३०॥ पुत्रीं ब्रूहि सुधमज्ञ कलहं समुपस्थित। कि कर्त्तव्यं मया शक्यं त्वद्वशोऽस्मि सुलोचने ॥३१॥ व्यास उवाच सा श्रुत्वा पतिवाक्यं तु गंत्वा प्राह सुतांतिकम् । वत्से राजातिदुःखार्तः पिता तेऽद्यापि वर्तते ॥३२॥ त्वदर्थे विग्रहः कामं समुत्पन्नोऽद्य भूभृताम् । अन्यं वरय सुश्रोणि सुदर्शनमृते नृपम् ॥३३॥ यदि सुदर्शनं वत्से हठात्त्वं वै वरिष्यसि। युधाजित्तं च मां चंव हनिप्यति बलान्वितः ॥३४॥ सुदर्शनं च राजाऽसी बलमत्तः प्रतापवान् । द्वितीयस्ते पतिः पश्चान्द्गविता कलहे सति ॥३५।। तस्मात्सुदर्शनं त्यक्त्वा वरयान्यं नृपोत्तमम् । सुखमिच्छसि चेन्मह्यं तुभ्यं वा मृगलोचने ।। इति मात्रा बोधितां तां पश्चाद्राजाप्यबोधयत् । ३६ ।। उभयोवचनं श्रुत्वा निर्भयोवाच कन्यका। कन्योवाच सत्यमुक्तं नृपश्रेष्ट जानासि च व्रतं मम ॥ ३७॥ नान्यं वृणोमि भूपाल सुदर्शनमते क्वचित्। बिभेषि यदि राजेन्द्र नृपेभ्यः किल कातरः ॥३८॥ सुदर्शनाय दत्त्वा मां विसजय पुराद्वहिः। स मां रथे समारोप्य निर्गमिष्यति ते पुरांत् ॥३९॥। भवितव्यं तु पश्चार्द्वै भविष्यति न चान्यथा । नात्र चिन्ता त्वया कार्या भवितव्ये नृपोत्तम ।।४०।।
Page 161
श्रीमदेवीभागवते महापुराणे तृतायस्कन्धे अध्याय: २५ १६९
यद्द्ावि तद्द्धवत्येव सर्वथाऽत्र न संशयः । राजोवाच न पुत्रि साहसं कार्यं मतिमद्द्रिः कदाचन।४१।। बहुभिर्न विरोद्धव्यमिति वेदविदो विदुः । विस्रक्ष्यामि कथं कन्यां दत्त्वा राजसुताय च।४२॥ राजानो वरसंयुक्ताः किं न कुर्युरसांप्रतम् । यदि ते रोचते वत्से पणं संविदधाम्यहम् ॥४३॥ जनकेन यथा पूर्वं कृतः सीतास्वयंवरे । शैवं धनुर्यथा तेन धृतं कृत्वा पणं तथा ॥४४॥ तथाहमपि तन्वंगि करोम्यद्य दुरासदम् । विवादो येन राज्ञां वै कृते सति समं व्रजेत् ॥४५॥ पालयिष्यति यः कामं स ते भर्ता भविष्यति। सुदर्शनस्तथाऽन्यो वा यः कश्चिद्वलवत्तरः ॥४६॥ पालयित्वा पणं त्वां वै वरयिष्यति सर्वथा। एवं कृते नृषाणां तु विवादः शमितो भवेत् ॥४७। सुखेनाहं विवाहं ते करिष्यामि ततः परम्। कन्योवाच संदेहे नैव मज्जामि मुर्खकृत्यमिदं यतः ॥४८॥ मया सुदर्शनः पूर्व धृतश्चेतमि नान्यथा। कारणं पुण्यपापानां मन एव महीपते ।४९। मनसा विधृतं त्यकत्वा कथमन्यं वृणे पितः । कृते पणे महाराज सर्वेपां वशगा ह्यहम् ॥५०॥ एक: पालयिता दौ वा बहवो वा भवंति चेत् । कि कर्तव्यं तदा तात विवादे समुपस्थिते ॥५१॥ संशयाधिष्टिते कार्ये मति नाहं करोम्यतः। मा चिंतां कुरु राजेंद्र देहि सुदर्शनाय माम् ॥५२॥ विवाहं विधिना कृत्वा शं विधास्यति चंडिका। यन्नामकीर्तनादेव दुःखौघो विलयं व्रजेत् ।।५३।। तां स्मृत्वा परमां शक्ति कुरु कार्यमतंद्रितः । गत्वा वद नृपेभ्यस्त्वं कृतांजलिपुटोऽद्य वै ॥५४॥ आगंतव्यं च श्रः सर्वेरिह भूपैः स्वयंत्ररे। इत्युक्त्वा त्वं विसृज्याशु सर्वं नृपतिमंडलम् ॥५५॥ विवाहं कुरु रात्रौ मे वेदोक्तविधिना नृप। पारिवर्हं यथायोग्यं दत्त्वा तस्मै विसर्जय ॥५६॥ गमिष्यति गृहीत्वा मां ध्रुवसंधिसुतः किल। कदाचित्ते नृपाः क्रुद्धाः संग्रामं कर्त्तुमुद्यताः ॥५७॥ भविष्यति तदा देवी साहाय्यं नः करिष्यति। सोऽपि राजसुतैस्तैस्तु संग्रामं संविधास्यति ॥५८॥ दैवान्मृधे मृते तस्मिन्मरिष्याम्यहमप्युत। स्वस्ति तैस्तु गृहे तिष्ठ दत्त्वा मां सहसैन्यक: ॥५९॥ एकैवाहं गमिष्यामि तेन सार्धं रिरंसया। व्यास उवाच इति तस्या वचः श्रुत्वा राजाऽसौ कृतनिश्चयः ॥६०॥ मति चक्रे तथा कर्तुं विश्वासं प्रतिपद्य च।। इति श्रीदेवीभागवते मह पुराणे तृतीयस्कंधे एकनिंशोऽध्यायः ॥२१॥
Page 162
१६२ श्रीमद्देवीभागवत महापुराणे तृतीयस्कन्धे अध्याय: २२ अथ द्वाविशोऽध्यायः
व्यास उवाच श्रुत्वा सुतावाक्यमनिंदितात्मा नृपांश्र गत्वा नृपतिर्जगाद। व्रजंतु कामं शिविराणि भूपाः श्वो वा विवाहं किल संविधास्ये ॥ १॥ भक्ष्याणि पेयानि मयाऽपितानि गृह्ंतु सर्वे मयि सुप्रसन्नाः । श्वो भावि कारयं किल मंडपेऽत्र समेत्य सर्वेरिह संविधेयम् ॥ २ ॥ नायाति पुत्री किल मंडपेडद्य करोमि कि भूपतयोऽत्र कामम् । प्रातः समाश्वास्य सुतां नयिष्ये गच्छंतु तस्माच्छिविराणि भूपाः ॥ ३ ॥ न विग्रहो बुद्धिमतां निजाश्रिते कृपा विधेया सततं ह्यपत्ये। विधाय तां प्रातारहानयिप्ये सुतां तु गच्छंतु नृपा यथेष्टम्॥४॥ इच्छापणं वा परिचित्य चित्ते प्रातः करिष्याम्यथ संविवाहम् । सर्वेः समेत्यात्र नृपैः समेतैः स्वयंवरः सर्वमतेन कार्यः ॥५॥ श्रुत्वा नृपास्तेऽवितथं विदित्वा वचो ययुः स्वानि निकेतनानि। विधाय पाश्चे नगरस्य रक्षां चक्रः क्रिया मध्यदिनोदिताश्च ॥ ६॥ सुबाहुरप्यार्यजनैः समेतश्चकार कार्याणि विवाहकाले। पुत्री सभाहूय गृहे सुगुप्ते पुरोहितैर्वेदविदां वरिष्टैः ॥ ७॥ स्नानादिकं कर्म वरस्य कृत्वा विवाहभूषाकरणं तर्थव। आनाय्य वेदीरचिते गृहे वै तस्यार्हणां भूमिपतिश्चकार॥ ८॥ सविष्टरं चाचमनीयमध्यं वस्त्दयं गामथ कुंडले द्वे। समर्प्य तस्मै विधिवन्नरेंद्र ऐच्छत्सुतादानमहोनसत्त्वः ॥ ९॥ सोऽप्यग्रहीत्सर्वमदानचेताः शशाम चिंताऽथ मनोरमायाः । कन्यां सुकेशी निधिकन्यकासमां मेने तदाऽऽत्मानमनुत्तमं च ॥१०॥ सुपूजितं भूषणवस्त्रदानवरोत्तमं तं सचिवास्तदानीम् । निन्युश्र ते कोतुकमंडपांतर्मुदान्विता वीतभयाश्र सर्वे ॥११॥ समाप्तभूषा विधिवद्विषिज्ञाः स्नियश्र तां राजसुतां सुयाने। आरोप्य निन्युर्वरसंनिधानं वतुष्कयुक्ते किल मंडपे वै ।।१२।। अग्नि समाधाय पुरोहितः स हुत्वा यथावच्च तदंतराले।
Page 163
श्रीमद्देवीभागवते महापुराणे तृतीयस्करम्धे अध्याय: २२ १६३ आह्वाव यत्तो कृतकौतुको तु वधूवरौ प्रेमयुतौ निकामम् ॥१३॥ लाजाविसर्ग विधिवद्विधाय कृत्वा हुताशस्य प्रदक्षिणां च। तौ चक्रतुस्तत्र यथोचितं सत्सर्वं विधानं कुलगोत्रजातम् ॥१४॥ स तद्द्वयं चाश्वयुजां रथानां सुभूषितं चापि शरौघसंयुतम् । ददौ नृपेन्द्रस्तु सुदर्शनाय सुपूजितं पारिबहं विवाहे।।१५।। मदोत्कटान्हेमविभूषितांश्र गजान्गिरे: शृंगसमानदेहान्। शत सपादं नृपसूनवेडसौ ददावथ प्रेमयुतो नृपेन्द्रः ॥१६।। दासीशतं काञ्ञनभूषितं च करणुकानां च शत सुचारु। समपंयामास वराय राजा विवाहकाले मुदितोऽनुवेलम् ॥१७॥ अदात्पुनर्दाससहस्त्रमेकं सर्वायुधैः सम्भृतभूपितं च। रत्नानि वासांसि यथोचितानि दिव्यानि चित्राणि तथाऽडविकानि ॥१८। ददौ पुनर्वासगृहाणि तस्मै रम्याणि दीर्घाणि विचित्रितानि। सिन्धूद्दवानां तुरगोत्तमानामदात्सहस्त्र द्वितयं सुरम्यम् ॥१९॥। क्रमेलकानां च शतत्रयं वै प्रत्यादिशद्द्ारभृतां सुचारु। शतद्यं वै शकटोत्तमानां तस्मै ददौ धान्यरसैः प्रपूरितम् ॥२०॥ मनोरमां राजसुतां प्रणम्य जगाद वाक्यं विहिताञलि: पुरः। दासोऽस्मि ते राजसुत वरिष्ठे तद्ब्रूहि यत्स्यात्तु मनोगतं ते ॥२१। तं चारुवाक्यं निजगाद सापि स्वस्त्यस्तु ते भूप कुलस्य वृद्धिः । सम्मानिताऽहं मम सूनवे त्वया दत्ता यतो रत्नवरा स्वकन्या ॥२२॥ न बन्दिपुत्री नृप मागधी वा स्तौमीह कि त्वां स्वजनं महत्तरम्। सुमेरुतुल्यस्तु कृतः सुतोऽद्य मे सम्बन्धिना भूपतिनोत्तमेन ॥२३॥ अहोऽतिचित्रं नृपतेश्ररित्रं परं पवित्रं तव किं वदामि। यद्भ्रष्टराज्याय सुताय मेजद्य दत्ता त्वया पूज्यसुता वरिष्ठा ॥२४॥ वनाधिवासाय किलाधनाय पित्रा विहीनाय विसैन्यकाय। सर्वानिमान्भूमिपतीन्विहाय फलाशनायार्थविवर्जिताय ॥२५॥ समानवित्तेथ कुछे बले च ददाति पुत्रीं नृपतिश्र भूयः । न कोऽपि मे भृपसुतेऽर्थहीने गुणान्वितां रूपवतीं च दद्यात् ।२६।। वैरं तु सर्वे: सह संविधाय नृपैवरिष्नेर्बलसंयुतैश्र ।
Page 164
१६४ श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २२ सुदर्शनायाथ सुताऽर्पिता मे कि वर्णये धैर्यमिदं त्वदीयम् ॥२७॥ निशम्य वाक्यानि नृपः प्रहृष्टः कृताअलिर्वाक्यमुवाच भूयः । गृहाण राज्यं मम सुप्रसिद्धं भवामि सेनापतिरद्य चाहम् ॥२८॥ नोचेत्तदर्ध प्रतिगृह्य चात्र सुतान्वितो राज्यफलानि भुंक्ष्व । विहाय वाराणसिकानिवास वने पुरे वासमतो न मेऽस्ति ॥२९॥ नृपास्तु संत्येव रुपान्विता वै गत्वा करिष्ये प्रथमं तु सान्त्वनम् । ततः परं द्वावपरावुपायौ नोचेत्ततो युद्धमहं करिष्ये ॥३०॥ जयाजयो दैववशौ तथापि धर्मे जयो नैव कृतेऽप्यधर्मे। तेषां किलाधर्मवतां नृपाणां कथं भविष्यत्यनुचिन्तितं वै ॥३१॥ आकर्ण्य तद्भाषितमर्थवच्च जगाद वाक्ट हितकारकं तम्। मनोरमा मानभवाप्य तस्मात्सर्वात्मना मोदयुता प्रसन्ना ॥३२॥ राजञ्छिवं तेऽस्तु कुरुष्व राज्यं त्यक्त्वा भयं त्वं स्वसुतैः समेतः । सुतोउपि मे नूनमवाप्य राज्यं साकेतपुर्यां प्रचरिष्यतीह।३३।। विसर्जयास्मान्निजसद गन्तुं शिवं भवानी तव संविधास्यति। न काउपि चिंता मम भूप वर्तते संचिन्तयन्त्या परमाम्बिकां वै॥३४॥ दोषा गता विविधवाक्यपदै रसालैरन्योन्यभापणपदैरमृतोपमेश्च। प्रातर्नृपाः समधिगम्य कृतं विवाहं रोषान्विता नगरबाह्यगतास्तथोचुः॥३५॥ अद्यव तं नृपकलंकधरं च हत्वा बालं तर्थव किल तं न विवाहयोग्यम् । गृह्लीम तां शशिकलां नृपतेश्च लक्ष्मीं लज्जामवाप्य निजसद कथं ब्रजेम ॥३६॥ शृण्वंतु तूर्यनिनदान्किल वाद्यमानाञ्छंखस्वनानभिभवन्ति मृदङ्गशब्दाः । गीतध्वनि च विविधं निगमस्वनं च मन्यामहे नृपतिनाऽत्र कृतो विवाहः ॥३७॥ अस्मान्प्रतार्य वचनविधिवच्चकार वैवाहिकेन विधिना करपीडनं वै। कर्तव्यमद्य किमहो प्रविचिन्तयन्तु भूपाः परस्परमति च समर्थयन्तु॥३८॥ एवं वदत्सु नुपतिष्वथ कन्याकायाः कृत्वा विवाहविधिमप्रतिमप्रभावः । भूपान्निमन्त्रयितुमाशु जगाम राजा काशीपतिः स्वसुहृदैः प्रथितप्रभावैः ॥३९॥ आगच्छंतं च तं दृष्टा नृपाः काशीपति तदा। नोचुः किञ्चिदपि क्रोधान्मौनमाधाय संस्थिताः ४०॥ स गत्वा प्रणिपत्याह कृताअ्जलिरभापत। आगन्तव्यं नृपैः सर्वेर्भोजनार्थ गुहे मम ॥४१॥ कन्ययाऽसी वृतो भूपः कि करोमि हिताहितम् । भर्व्धिस्तु शभ: कार्यो महान्तो हि दयालवः ।। ४२।
Page 165
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २३ १६५ सन्निशम्य वचस्तस्य, नृपाः क्रोधपरिप्लुताः । प्रत्यूचुर्भुक्तमस्माभिः स्वगृहं नृपते व्रज ॥४३॥ ुरु कार्याण्यशेषाणि यथेष्टं सुकृतं कृतम् । नृपाः सर्वे प्रयांत्वद्य स्वानि स्वानि गृहाणि वै ४४॥ सुबाहुरपि तच्छुत्वा जगाम शंकितो गृहम् । कि करिष्यंति संविग्नाः क्रोधयुक्ता नृपोत्तमाः॥४५॥ गते - तस्मिन्महीपालाश्चक्ुश्च समयं पुनः । रुद्ध्वा मार्ग ग्रहीष्यामः कन्यां हत्वा सुदर्शनम् ४६।। केचनोचुः किमस्माकं हंत तेन नृपेण वै। दृष्टा तु कौतुकं सर्वं गमिष्यामि यथागतम् ॥४७॥ इत्युक्त्वा ते नृपाः सर्वे मार्गमाक्रम्य संस्थिताः । चकारोत्तरकार्याणि सुबाहुः स्वगृहं गतः ॥४८॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे द्वाविशोऽध्यायः ॥२२॥ अथ त्रयोविशोऽध्यायः व्यास उवाच सस्म गौरवभोज्यानि विधाय विधिवत्तदा । वासराणि च षड़ाजा भोजयामास भक्तितः ॥१॥ एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवः । पारिबहं प्रदत्वाऽथ मन्त्रयन्सचिवैः सह ।।२॥ दूरैस्तु कथितं श्रुत्वा मार्गसंरोधनं कृतम् । बभूव विमना राजा सुबाहुरमितद्युतिः ॥३। सुदर्शनस्तदोवाच श्वशुरं संशितव्रतः । अस्मान्विसर्जयाशु त्वं गमिष्यामो ह्यशंकिताः ४॥ भारद्वाजाश्रमं पुण्यं गत्वा तत्र समाहिताः। निवासाय विचारो वै कर्तव्यः सर्वथा नृप ।।५॥ नुपेम्यश्र न कर्तव्यं भयं किंचित्त्वयाऽनघ । जगन्माता भवानी मे साहाय्यं वै करिष्यति ॥६।। व्यास उवाच सस्येति मतमाज्ञाय जामातुर्नृपसत्तमः । विससर्ज धनं दत्वा प्रतस्थे सोऽपि सत्वरः ॥७॥ क्लेन महताविष्टो ययावनु नृपोत्तमः । सुदर्शनो वृतस्तत्र चचाल पथि निर्भयः ॥८॥ रं: परिवृतः शूरः सदारो रथसंस्थितः । गच्छन्ददर्श सैन्यानि नृपाणां रघुनन्दनः ।९॥ सुबाहुरपि तान्वीक्ष्य चिंताविष्टो बभूव ह । विधिवत्स शिवां चित्ते जगाम शरणं मुदा ॥१०॥ बजापैकाक्षरं मन्त्रं कामराजमनुत्तमम् । निर्भयो वीतशोकश्र पत्न्या सह नवोढया ॥११॥ सतः सर्वे महीपालाः कृत्वा कोलाहलं तदा। उत्थिताः सैन्यसंयुक्ता हन्तुकामास्तु कन्यकाम् १२।। काशिराजस्तु तान्दृष्टा हंतुकामो बभूव ह। निवारितस्तदाऽत्यर्थ राघवेण जिगीषता ॥१३॥ व्रभापि नेदुः शंखाश्च भेर्यश्रानकदुंदुभिः । सुबाहोश्र नृपाणां च परस्परजिघांसताम् ॥१४। सनुजितु सुसंवृत्तः स्थितस्तत्र जिघांसया। युधाजित्तत्सहायार्थ सन्नद्धः प्रबभूव ह॥१५॥ केचिच्च प्रेक्षकास्तस्य सहानीकैः स्थितास्तदा। युधाजिदग्रतो गत्वा सुदर्शनमुपस्थितः ॥१६॥ सनुजित्तेन सहितो हंतुं भ्रातरमानुजः । परस्परं ते बाणोघस्ततक्षुः क्रोधमूर्छिता: ।१७॥
Page 166
१६६ श्रीमदेवीमागवते महापुराणे तृतीबस्कम्पे अध्बायः २१ संमर्द: सुमहांस्तत्र संप्रवृत्तः सुमार्गणः । काशोपतिस्तदा तूरणं सैन्येन बहुना वृतः ॥१८ साहाय्याथं जगामाशु जामातरमनिदितम्। एवं प्रवृत्ते संग्रामे दारुणे लोमहर्षणे ।।१९। प्रादुर्बभूव सहसा देवी सिंहोपरि स्थिता। नानायुधधरा रम्या वराभूषणभूषिता॥२०। दिव्याम्बरपरीधाना मंदारस्रक्सुसंयुता। तां दृष्टा तेऽथ भूपाला विस्मयं परमं गताः ॥२१। केयं सिंहसमारूढा कुतो वेति समुत्थिता। सुदर्शनस्तु तां वीक्ष्य सुबाहुमिति चाब्रवीत् ।।२२। पश्य राजन्महादेवीमागतां दिव्यदर्शनाम्। अनुग्रहाय मे नूनं प्रादुर्भूता दयान्विता ।२३। निर्भयोऽहं महाराज जातोऽस्मि निर्भयादपि। सुदर्शनः सुबाहुश्र तामालोक्य वराननाम् ॥२४। प्रणामं चत्रतुस्तस्या मुदितौ दर्शनेन च। ननाद च तदा सिंहो गजास्त्रस्ताश्चकंपिरे॥२५। बबुर्वाता महाधोरा दिशश्चासन्सुदारुणाः । सुदर्शनस्तदा प्राह निजं सेनापति प्रति ॥२६॥ मागें व्रज त्वं तरसा भूपाला यत्र संस्थिताः । किं करिष्यन्ति राजानः कुपिता दुष्टचेतसः ॥२७॥ शरणाथं च संप्राप्ता देवी भगवती हि नः। निरातंकैश्च गंतव्यं मार्गेऽस्मिन्भूपसंकुले ॥२८॥ स्मृता मया महादेवी रक्षणार्थमुपागता। तच्छ्रत्वा वचनं सेनापतिस्तेन पथाऽव्रजत् ॥२९॥ युधाजितु सुसंकरुद्धस्तानुवाच महीपतीन् । किं स्थिता भयसंत्रस्ता निध्नंतु कन्यकान्वितम् ३०॥। अवमन्य च नः सर्वान्बलहीनो बलाधिकान्। कन्यां गृहीत्वा संयाति निर्भयस्तरसा शिशुः ३१॥ किं भीता: कामिनीं वीक्ष्य सिंहोपरि सृमंस्थिताम्। नोपेक्ष्यो हि महाभागा हंतव्योऽत्र समाहितैः ।३२॥ हत्बैनं संग्रहीष्यामः कन्यां चारुविभूषणाम्। नायं केसरिणाऽडदत्तां छेत्तुमर्हति जंबुकः ॥३३॥ इत्युकस्था सन्यसंयुक्त: शत्रुजित्सहितस्तदा। योद्धुकामः सुसंप्राप्तो युधाजित्क्रोधसंवृतः ॥३४॥ मुमाच विशिखांस्तूर्णं समपुंखाञ्छिलाशितान्। धनुराकृष्य कर्णान्तं कर्मारपरिमाजितान् ॥३५॥ हंतुकाम: सुदुर्मेधाः सुदर्शनमथोपरि। सुदर्शनस्तु तान्बाणैश्चिच्छेदापततः क्षणात् ॥३६॥ एवं युद्धे प्रवृत्तेऽथ चुकोप चंडिका भृशम्। दुर्गादेवी मुमोचाथ बाणान् युधाजितं प्रति॥३७॥ नानारूपा तदा जाता नानाशस्त्रधरा शिवा। संप्राप्ता तुमुलं तत्र चकार जगदंबिका ।३८।। शत्रुजिन्निहतस्तत्र युधाजिदपि पार्थिवः। पतितौ तौ रथाभ्यां तु जयशन्दस्तद्राऽभवत् ३९॥ विस्मयं परमं प्राप्ता भूपा: सर्वे विलोक्य ताम् । निधनं मातुलस्यापि भागिनेयस्य संयुगे ॥४०॥ सुबाहुरपि तद्दृष्टा निधनं संयुगे तयोः। तुष्टाव परमप्रीतो दुर्गां दुर्गार्तिनाशिनीम् ।४१।। सुबाहुरुवाच नमौ देव्यै जगद्धात्र्यै शिवायै सततं नमः । दुर्गायै भगवत्यै ते कामदायै नमो नमः ॥४२॥ नमः शिवायै शांत्यै ते विद्यायै मोक्षदे नमः । विश्वव्याप्त्यै जगन्मातर्जगद्धात्र्यै नमः शिवे॥४३॥ नाहूं गति तव घिया परिचिन्तयन् वै जानामि देवि सगुणः किल निर्गुणायाः ।
Page 167
श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्यायः २४ कि स्तौमि विश्वजननीं प्रकटप्रभावां भक्तार्तिनाशनपरां परमां च शक्तिम् ॥४४॥ बाग्देवता त्वमसि सर्वगतैव बुद्धिरविद्यामतिश्च गतिरप्यसि सर्वजंतोः । लवां स्तौमि किं त्वमसि सर्वमनोनियंत्री कि स्तूयते हि सततं खंलु चात्मरूपम् ।।४५।। प्रह्मा हरश्र हरिरप्यनिशं स्तुवन्तो नांतं गताः सुरवराः किल ते गुंणानाम्। क्वाहं विभेदमतिरंब गुणर्वृतो वै वक्तुं क्षमस्तव चरित्रमहोऽप्रसिद्धः ॥४६॥ सत्सङ्गतिः कथमहो न करीति कामं प्रासङ्गिकापि विहिता खल चित्तशुद्धिः । जामातुरस्य विहितेन समागमेन प्राप्तं मयाऽद्भुतमिदं तव दर्शनं वै ॥४७॥ ब्रह्मडपि वांछति सदैव हरो हरिश्र सेंद्राः सुराश्र मुनयो विदितार्थतत्त्वाः । यद्दर्शनं जननि तेजद्य मया दुरापं प्राप्तं विना दमशमादिसमाधिभिश्व ॥४८।। क्वाहं सुमंदमतिराशु तवावलोकं क्वेदं भवानि भवभेषजमद्वितीयम् । ज्ञाताऽसि देवि सततं किल भावयुक्ता भक्तानुकंपनपराऽमरधर्गपूज्या ।।४९।। कि वर्णयामि तव देवि चरित्रमेतद्यद्रक्षितोऽस्ति विषमेऽत्र सुदर्शनोऽयम्। शत्रू हतौ सुबलिनो तरसा त्वयाऽद्य भक्तानुकंपि चरितं परमं पवित्रम् ॥५०॥ नाश्रर्यमेतदिति देवि विचारितेऽर्थे त्वं पासि सर्वमखिलं स्थिरजंगमं वै। त्रातस्त्वया च विनिहत्य रिपुर्दयातः संरक्षितोऽयमधुना ध्रुवसंधिसूनुः ॥५१॥ भक्तस्य सेवनपरं स्वयशोऽतिदीतं कर्तु भवानि रचिरत चरितं त्वयैतत् । नोचेत्कथं सुपरिगृह्य सुतां यदीयां युद्धे भवेत्कुशलवाननवद्यशीलः ॥५२।। शक्ताऽसि जन्ममरणादिभयान्विहंतुं कि चित्रमत्र किल भक्तजनस्य कामम्। त्वं गीयसे जननि भक्तजनैरपारा त्वं पापपुण्यरहिता सगुणाऽगुणा च ॥५३॥ त्वद्दर्शनादहमहो सुकृती कृतार्थो जातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा । बीजं न ते न भजनं किल वेद्यि मातर्ज्ञातस्तवाद्य महिमा प्रकटप्रभावः ॥५४॥ व्यास उवाच एवं स्तुता तदा देवो प्रसन्नवदना शिवा। उवाच च नृपं देवी वरं वरय सुव्रत॥५५॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कंधे त्रयोविशोऽध्यायः ॥२२॥ अथ चतुर्विशोऽध्यायः व्यास उवाच तस्यास्तदचनं श्रुत्वा भबान्याः स नृपोत्तमः । प्रोवाच वचनं तत्र सुबाहुर्भक्तिसंयुतः ।१।
Page 168
१६८ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २४ सुबाहुरुवाच एकतो देवलोकस्य राज्यं भूमण्डलस्य च। एकतो दर्शनं ते वैन च तुल्यं कदाचन ॥२॥ दर्शनात्सदृशं किचित्त्रिषु लोकेषु नास्ति मे। कं वरं देवि याचेऽहं कृतार्थोऽस्मि धरातले ।३। एतदिच्छाम्यहं मातर्याचितुं वांछितं वरम्। तव भक्ति: सदा मेऽस्तु चिश्चिला ह्यनपायिनी ॥४।। नगरेऽत्र त्वया मातः स्थातव्यं मम सर्वदा। दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ।५॥। रक्षा त्वया च कर्तव्या सर्वदा नगरस्य ह। यथा सुदर्शनस्त्नातो रिपुसंघादनामयः ॥६॥ तथाSत्र रक्षा कर्तव्या वाराणस्यास्त्वयांबिके। यावत्पुरी भबेन्द्मौ सुप्रतिष्ठा सुसंस्थिता।७॥ तावत्त्वयाऽत्र स्थातव्यं दुर्गे देवि कृपानिधे। वरोऽयं मम ते देयः किमन्यत्प्रार्थयाम्यहम् ।८।l विविधान्सकला्कामान्देहि मे विद्विषो जहि। अभद्राणां विनाशं च कुरु लोकस्य सर्वदा ।।९॥ व्यास उवाच इति संप्रार्थिता देवी दुर्गा दुर्गार्तिनाशिनी। तमुवाच नृपं तत्र स्तुत्वा वै संस्थितं पुरः ॥१०॥ दुर्गोवाच राजन्सदा निवासो मे मुक्तिपुर्यां भविष्यति। रक्षार्थ सर्वलोकानां यावत्तिष्ठति मेदिनी ॥११॥ अथो सुदर्शनस्तत्र समागत्य मुदान्वितः । प्रणम्य परया भक्त्या तुष्टाव जगदंबिकाम् ॥१२॥ अहो कृपा ते कथयाम्यहं किं त्रातस्त्वया यत्किल भक्तिहीनः । भक्तानुकंपी सकलो जनोऽस्ति विमुक्तभक्त्ेरवनं व्रतं ते ।१३॥ त्वं देवि सवं सृजसि प्रपंचं श्रुतं मया पालयसि स्वसृष्टम् । त्वमत्सि संहारपरे च काले न तेऽत्र चित्रं मम रक्षणं वै ॥१४॥ करोमि किं ते वद देवि कार्यं क्व वा व्रजामीत्यनुमोदयाशु। कार्ये विमूढोऽस्मि तवाज्ञयाऽहं गच्छामि तिष्ठे विहरामि मातः ॥१५॥ व्यास उवाच तं तथा भाषमाणं तु देवी प्राह दयान्विता। गच्छायोध्यां महाभाग कुरु राज्यं कुलोचितम् १६। स्मरणीया सदाऽहं ते पूजनीया प्रयत्नतः । शं विधास्याम्यहं नित्यं राज्यं ते नृपसत्तम ॥१७॥ अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः । मम पूजा प्रकर्तव्या बलिदानविधानतः ।१८।। अर्चा मदीया नगरे स्थापनीया त्वयाऽनघ । पूजनीया प्रयत्नेन त्रिकालं भक्तिपूर्वकम् ॥१९॥ शरत्काले महापूजा कर्तव्या मम सर्वदा। नवरात्रविधानेन भक्तिभावयुतेन च ॥२०॥ चैत्रेऽश्विने तथाषाढे माघे कार्यो महोत्सवः । नवरात्रे महाराज पूजा कार्या विशेषतः ॥२१॥ कृष्णपक्षे चतुर्दश्यां मम भक्तिसमन्वितैः। कर्तव्या नृपशार्दूल तथाऽष्टम्यां सदा बुैः ॥२२॥
Page 169
श्रीमद्वीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २४ १६९
व्यास उवा इ्युक्त्वांतहिता देवी दुर्गा दुर्गार्तिनाशिनी। नता सुदर्शनेनाथ स्तुता च बहुविस्तरम् ॥२३॥ बंसहितां तु तां दृष्टा राजानः सर्व एव ते। प्रणेभुस्तं समागम्य यथा शक्रं सुरास्तथा ॥२४॥ सुगाहुरपि तं नत्वा स्थितश्राग्रे मुदान्बितः । ऊचुः सर्वे महीपाला अयोध्याधिपति तदा ॥२५॥ खवनस्माकं प्रभुः शास्ता सेवकास्ते वयं सदा। कुरु राज्यमयोध्यायां पालयास्मान्नपोत्तम ॥२६॥ तलसादान्महाराज दृष्टा बिश्रेश्वरी शिवा। आदिशक्तिर्भवानी सा चतुर्वर्गफलप्रदा ॥२७॥ बन्वस्त्वं कृतकृत्योऽसि बहुपुण्यो धरातले। यस्माच्च त्वत्कृते देवी प्रादुर्भूता सनातनी ॥२८।। म जानीमो वयं सर्वे प्रभावं नृपसत्तम । चंडिकायास्तमोयुक्ता मायया मोहिता: सदा २९॥ बनदारसुतानां च चिंतनेऽभिरताः सदा। मग्ना महार्णवे घोरे कामक्रोधझषाकुले।३०।। पुन्छामस्त्वां महाभाग सर्वज्ञोऽसि महामते। केयं शक्ति: कुतो जाता किंप्रभावा वदस्व तत्३१। भव त्वं नौश्र संसारे साधवोऽतिदयापराः । तस्मान्नोवद काकुत्स्थ देवीमाहात्म्यमुत्तमम् ॥३२॥ वत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा। सत्सर्वं श्रोतुमिच्छामस्त्वं ब्रूहि नृवरोत्तम ।३ ३॥ व्यास उवाघ इति पृष्टस्तदा तैस्तु ध्रुवसंधिसुतो नृपः । विचित्य मनसा देवीं तानुवाच मुदान्वितः ॥३४।। सुदर्शन उवाच कि क्रवीमि महीपालास्तस्याश्चरितमुत्तमम् । ब्रह्मादयो न जानति सेशाः सुरगणास्तथा ॥३५॥ सर्वस्याय्ा महालक्ष्मीर्वरेण्या शक्तिरुत्तमा । सात्त्विकीयं महीपाल जगत्पालनतत्परा ॥३६।। सृबते या रजोरूपा सत्त्वरूपा च पालने । संहारे ध तमोरूपा त्रिगुणा सा सदा मता ॥३७॥ निर्गुणा परमा शक्ति: सर्वकामफलप्रदा। सर्वेषां कारणं सा हि ब्रह्मादीनां नृपोत्तमाः ॥३८॥ निर्गुणा सर्वथा ज्ञातुमशक्या योगिभिर्नृपाः । सगुणा सुखसेव्या सा चिंतनीया सदा बुधैः ३९॥ राजान ऊचु: बाल एव बनं प्राप्तस्त्वं तु नूनं भयातुरः । कथं ज्ञाता त्वया देवी परमा शक्तिरुत्तमा ॥४०॥ उपासिता कथं चव पूजिता च कथं नृप । या प्रसन्ना तु साहाय्यं चकार त्वरयान्विता ४१॥ सुदर्शन उवाच वारभावान्मया प्राप्तं बीजं तस्याः सुसंमतम् । स्मरामि प्रजपन्नित्यं कामबीजाभिधं नृपाः ॥४२॥ सृषिभि: कथ्यमाना सा मया ज्ञातांबिका शिवा। स्मरामि तां दिवारात्रं भक्त्या परमया पराम् ॥ तन्निशम्य वचस्तस्य राजानो भक्तितत्पराः । तां मत्वा परमां शक्ति निर्ययुः स्वगृहान्प्रति ४४॥ व्यास उवाच
Page 170
१७० श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २५ सुबाहुरगमत्काश्यां तमापृच्छय सुदर्शनम् । सुदर्शनोऽपि धर्मात्मा निर्ज्जगाम सुकोसलान्॥ मंत्रिणस्तु नृपं श्रुत्वा हतं शत्रुजितं मृधे। जितं सुदर्शनं चव बभूवुः प्रेमसंयुताः ॥४६॥ आगच्छंतं नृपं श्रुत्वा तं साकेतनिवासिनः । उपायनान्युपादाय प्रययुः संमुखे जनाः॥४७॥ तथा प्रकृतयः सर्वे नानोपायनपाणयः । ध्रुवसंधिसुतं दत्वा मुदिताः प्रययुः प्रजाः ॥४८॥ स्त्रियोपसंयुतः सोऽथ प्राप्यायोध्यां सुदर्शनः । संमान्य सर्वलोकांश्र ययौ राजा निवेशनम् ४९॥ बंदिभिः स्तूयमानस्तु वंद्यमानश्च मंत्रिभिः । कन्याभिः कीर्यमाणश्च लाजः सुमनसैस्तथा ॥५०॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कंधे चतुर्विशोऽध्यायः ॥२४॥
अथ पश्चविंशोऽध्यायः
व्यास उवाच गत्वाडयोध्यां नृपश्रेष्ठो गृहं राज्ञः सुहृद्वृतः । शत्रुजिन्मातरं प्राह प्रणम्य शोकसंकुलाम् ॥१॥ मातर्न ते मया पुत्रः संग्रामे निहतः किल। न पिता ते युधाजिच्च शपे ते चरणौ तथा ।२॥ दुर्गया तौ हतौ संख्ये नापराधो ममात्र वै। अवश्यंभाविभावेषु प्रतीकारो न विद्यते ।।३। न शोकोऽत्र त्वया कार्यो मृतपुत्रस्य मानिनि। स्वकर्मवशगो जीवो भुंक्त्ते भोगान्सुखासुखान् ।४।। दासोऽस्मि तव भो मातर्यथा मम मनोरमा। तथा त्वमपि धर्मज्ञे न भेदोऽस्ति मनागपि ॥५॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । तस्मान्न शोचितव्यं ते सुखे दुःखे कदाचन ।६॥ दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम्। आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नापयेत्।।७।। दैवाधीनमिदं सर्वं नात्माधीनं कदाचन। न शोकेन तदात्मानं शोषयेन्मतिमात्नरः ॥८॥ यथा दारुमयी योषा नटादीनां प्रचेष्टते । तथा स्वकर्मवशगो देही सर्वत्र वर्तते ॥९॥ अहं वनगतो मातर्नाभवं दुःखमानसः । चिंतयन्स्वकृतं कर्म भोक्तव्यमिति वेधि च ॥१०॥ मृतो मातामहोऽत्रंव विधुरा जननी मम। भयातुरा गृहीत्वा मां निर्ययौ गहनं वनम् ॥११॥ लुंठिता तस्करैर्मार्गे वस्त्रहीना तथा कृता। पाथेयं च हृतं सरवं बालपुत्रा निराश्रया ।१२। माता गृहीत्वा मां प्राप्ता भारद्वाजाश्रमं प्रति। विदल्लोऽयं समायातस्तथा धात्रेयिकाऽबला ।।१३।। मुनिभिर्मुनिपत्नीभिर्दयायुक्त: समंततः । पोषिताः फलनीवारैवंयं तत्र स्थितास्त्रय: ॥१४॥ न दुःखं मे तदा ह्यासीत्सुखं नाद्य धनागमे। न बैरं न च मात्सर्यं मम चित्ते तु कर्हिचित्।।१५॥ नीवारभक्षणं श्रेष्ठं राजभोगात्परंतपे। तदाशी नरकं याति न नीवाराशनः क्वचित् १६।। धर्मस्याचरणं कार्यं पुरुषेण विजानता। संजित्येद्रियवर्गं वै यथा न नरकं व्रजेत् ।।१७।। मानुष्यं दुर्लभं मातः खंडेऽस्मिन्भारते शुभे। आहारादि सुखं नूनं भवेत्सर्वासु योनिषु ।१८॥
Page 171
श्रीमद्ेवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: २५ १७१ प्राप्य तं मानुषं देहं कर्तव्यं धर्मसाधनम्। स्वर्गमोक्षप्रदं नृणां दुर्लभं चान्ययोनिषु ॥१९॥ व्यास उवाच इत्युक्ता सा तदा तेन लोलावत्यतिलज्जिता। पुत्रशोकं परित्यज्य तमाहाश्रुविलोचना ॥२०॥ सापराधाडस्मि पुत्राहं कृता पित्रा युधाजिता। हत्या मातामहं तेऽत्र हृतं राज्यं तु येन वै ।।२१।। म तं वारयितुं शक्ता तदाऽहं न सुतं मम । यत्कृतं कर्म तेनैव नापराधोऽस्टि मे सुत ॥।२२॥ तो मृतौ स्वकृतेनैव कारणं त्वं तयोरन च। नाहं शोचामि तं पुत्र सदा शोचामि तत्कृतम् ।।२३।। पुत्र त्वमसि कल्याण भगिनी मे मनोरमा। न क्रोधो न च शोको मे त्वयि पुत्र मनागपि॥२४।। कुरु राज्यं महाभाग प्रजाः पालय सुव्रत। भगवत्याः प्रसादेन प्राप्तमेतदकंटकम् ॥२५॥ वदाकर्ण्य वचो मातुर्नत्वा तां नृपनंदनः । जगाम भवनं रम्यं यत्र पूर्व मनोरमा ॥२६॥ व्यवसत्तत्र गत्वा तु सर्वानाहय मंत्रिणः । दैवज्ञानथ पप्रच्छ मुहर्त दिवसं शुभम् ॥२७॥ सिंहासनं तथा हैमं कारयित्वा मनोहरम्। सिंहासने स्थितां देवीं पूजयिष्ये सदाऽप्यहम् ।२८।। स्थापयित्वाऽSसने देवीं धर्मार्थकाममोक्षदाम्। राज्यं पश्चात्करिष्यामि यथा रामादिभिः कृतम् ॥ पूजनीया सदा देवी सर्वेर्नागरिकैर्जनैः । माननीया शिवा शक्तिः सर्वकामार्थसिद्धिदा ॥३०॥ इत्युक्ता मंत्रिणस्ते तु चक्र्वे राजशासनम् । प्रासादं कारयामासुः शिल्पिभिः सुमनोरमम्॥३१॥ प्रतिमां कारयित्वाऽथ मुहूर्तेऽथ शुभे दिने। द्विजानाहय वेदज्ञान्स्थापयामास भृपतिः ॥३२॥ हवनं विधिवत्कृत्वा पुजयित्वाऽथ देवताम्। प्रासादे मतिमान् देव्याः स्थापयामास भूमिपः ॥ उत्सबस्तत्र संवृत्तो वादित्राणां च निःस्वनैः। ब्राह्मणानां वेदघोषैरगनिस्तु विविधैर्नृप ॥३४॥ व्यास उवाच प्रतिष्ाप्य शिवां देवीं विधिवद्वेदवादिभिः । पूजा नानाविधां राजा चकारातिविधानतः॥३५॥ कत्वा पूजाविधि राजा राज्यं प्राप्य स्वपैतृकम् । विख्याता चाम्बिका देवी कोसलेषु बभूव ह॥३६॥ राज्यं प्राप्य नृपः सवं सामंतकनृपानथ। वशे चक्रेऽतिधर्मिष्ठान्सद्धर्मविजयी नृपः ॥३७॥ यथा राम: स्वराज्येऽभूदिलीपस्य रघुर्यथा। प्रजाना वै सुखं तद्वन्मर्यादाऽपि तथाऽभवत् ॥३८॥ धर्मो वर्णाश्रमाणां च चतुष्पादभवत्तथा। नाधरमे रमते चित्तं केषामपि महीतले ॥३९॥ ग्रामे ग्रामे च प्रासादाश्चक्रुः सर्वे जनाधिपाः । देव्याः पूजा तदा प्रीत्या कोसलेषु प्रवर्तिता ॥४०। सुबाहुरपि काश्यां तु दुर्गायाः प्रतिमां शुभाम्। कारयित्वा च प्रासादं स्थापयामास भक्तितः ।४१।। तत्र तस्या जनाः सर्वे प्रेमभक्तिपरायणाः । पूजा चक्रुविधानेन यथा विश्वेश्वरस्य ह ॥४२॥ विख्याता सा बभूवाथ दुर्गादेवी धरातले। देशे देशे महाराज तस्या भक्तिर्व्यवर्धत ॥४३।। सर्वत्र भारते लोके सर्ववर्णेषु सर्वथा। भजनीया भवानी तु सर्वेषामभवत्तदा ॥४४।।
Page 172
१७२ श्रीमहदेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २६ शक्तिभक्तिरता: सर्वे मानिनश्राभवन्नृप । आगमोक्तैरथ स्तोत्रैर्जपध्यानपरायणाः॥४५॥ नवराश्रेषु सर्वेषु चक्रः सर्वे विधानतः । अर्चनं हवनं यागं देव्या भक्तिपरा जनाः ॥४६॥ इति श्रीदेवीभागवते महापुराणे तृतीय स्कन्धे पञ्ञविंशोऽध्यायः ॥२५॥ अथ षड्विंशोऽध्यायः जनमेजय उवाच नवरात्रे तु संप्राप्ते कि कर्तव्यं द्विजोत्तम। विधानं विधिवद ब्रूहि शरत्काले विशेषतः ॥१॥ कि फलं खलु कस्तत्र विधि: कार्यो महामते। एतद्विस्तरतो ब्रूहि कृपया द्विजसत्तम ॥२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि नवरात्रव्रतं शुभम् । शरत्काले विशेषेण कर्तव्यं विधिपूर्वकम् ॥३॥ वसंते च प्रकर्तव्यं तर्थव प्रेमपूर्वकम्। द्वावृतू यमदंष्ट्राख्यो नूनं सर्वजनेषु वै ॥४॥ शरद्वसंतनामानौ दुर्गमौ प्राणिनामिह । तस्माद्यत्नादिदं कार्यं सर्वत्र शुभमिच्छता ।।५॥। द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम्। वसंतशरदावेव सर्वनाशकरावृभौ ।।६।। तस्मात्तत्र प्रकर्तव्यं चंडिकापूजनं बुधैः । चंत्राश्चिने शुभे मासे भक्तिपूर्व नराधिप।।।। अमावास्यां च संप्राप्य संभारं कल्पयेच्छुभम्। हविष्यं चाशनं कार्यमेकभुक्तं तु तहिने ॥८। मंडपस्तु प्रकर्तव्यः समे देशे शुभे स्थले। हस्तषोडशमानेन स्तंभध्वजसमन्वितः ।।९।। गौरमृद्गोमयाभ्यां च लेंपनं कारयेत्ततः । तन्मघ्ये वेदिका शुभ्रा कर्तव्याच समा स्थिरा १०। चतुर्हस्ता च हस्तोच्छ्रा पीठार्थ स्थानमुत्तमम् । तोरणानि विचित्राणि वितानं च प्रकल्पयेत् ।।१ १।। रात्रौ द्विजानथामंत्र्य देवीतत्त्वंविशारदान्। आचारनिरतान्दांतान्वेदवेदांगपारगान् ।।१२। प्रतिपहिवसे कार्यं प्रातःस्नानं विधानतः । नदयां नदे तडागे वा वाप्यां कूपे गृहेऽथवा ॥१३॥ प्रातर्नित्यं पुरः कृत्वा द्विजानां वरणं ततः । अध्यपाद्यादिकं सर्वं कर्तव्यं मधुपूर्वकम् ॥१४॥ वस्त्नालंकरणादीनि देयानि च स्वशक्तितः । वित्तशाठ्यं न कर्तव्यं विभवे सति कहिंचित् ॥१५॥ विप्रः संतोषितैः कार्यं संपूर्ण सर्वथा भवेत् । नवपंचत्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥१६॥ वरयेद् ब्राह्मणं शांतं पारायणकृते तदा। स्वस्तिवाचनकं कायं वेदमंत्रविधानतः ॥१७॥ वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम्। तत्र स्थाप्याऽम्बिका देवी चतुर्स्तायुधान्विता॥ रत्नभूषणसंयुक्ता मुक्ताहारविराजिता। दिव्यांबरधरा सौम्या सर्वलक्षणसंयुता ।।१९।। शंखचक्रगदापद्मधरा सिंहे स्थिता शिवा। अष्टादशभुजा वारञपि प्रतिष्ठाप्या सनातनी ॥२०॥ अर्चाभावे तथा यंत्रं नवार्णमंत्रसंयुतम् । स्थापयेत्पीठपूजार्थं कलशं तत्र पार्श्वतः ।२१।।
Page 173
श्रीमदेवीभागवते महापुराणे तृतीयस्कन्धे अध्यायः २६ १७३ पंचपल्लवसंयुक्तं वेदमंत्रैः सुसंस्कृतम् । सुतीर्थजलसंपूर्णं हेमरत्नैः समन्वितम् ॥२२॥ पार्श पूजार्थसंभारान्परिकल्प्य समंततः । गीतवादित्रनिर्घोषान्कारयेन्मंगलाय वै ॥२३॥ तिथौ हस्तान्वितायां च नंदायां पूजनं वरम्। प्रथमे दिवसे राजन्विधिवत्कामदं नृणाम् ॥२४॥ नियमं प्रथमं कृत्वा पश्चात्पूजां समाचरेत् । उपवासेन नक्त्तेन चैकभक्तेन वा पुनः ॥२५॥ करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम्। साहाय्यं कुरु मे देवि जगदंब ममाखिलम् ॥२६॥ यथाशक्ति प्रकर्तव्यो नियमो व्रतहेतवे। पश्चात्पूजा प्रकर्तव्या विधिवन्मंत्रपूर्वकम् ॥२७॥ चंदनागुरुकपूरैः कुसुमैश्र सुगंधिभिः । मंदारकरजाशोकचंपकैः करवीरकैः ॥२८॥ मालतीब्रह्मकापुष्पैस्तथा बिल्वदलैः शुभैः । पूजयेज्जगतां धात्रीं धूपैर्दीपैविधानतः ।२९॥ फलर्नानाविरधरध्यं प्रदातव्यं च तत्र वै। नारिकेलर्मातुलुंगैर्दाडिमीकदलीफलैः ॥३०॥ नारंगः पनसैश्चैव तथा पूर्णफलै: शुभैः । अन्नदानं प्रकर्तव्यं भक्तिपूर्व नराधिप ॥३१॥ मांसाशनं ये कुर्वन्ति तैः कार्य पशुहिंसनम्। महिपाजवराहाणां बलिदानं विशिष्यते ॥३२॥ देव्यग्रे निहता यांति पशवः स्वर्गमव्ययम्। न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ॥३३॥ अहिंसा याज्ञिकी प्रोक्ता सर्वशास्त्रविनिर्णये। देवतार्थे विसृष्टानां पशूनां स्वर्गतिध्रुवा ।३४।। होमार्थ चंव कर्तव्यं कुंड चैव त्रिकोणकम्। स्थंडिलं वा प्रकर्तव्यं त्रिकोणं मानतः शुभम् ॥३५॥ त्रिकालं पूजनं नित्यं नानाद्रव्यैर्मनोहरैः । गीतवादित्रनृत्यैश्च कर्तत्यश्र महोत्सवः ॥३६॥ नित्यं भूमौ च शयनं कुमारीणां च पूजनम्। वस्त्रालंकरणैर्दिव्यैर्भोजनैश्र सुधामयैः ॥३७॥ एकैकां पूजयेन्नित्यमेकवृद्धया तथा पुनः। द्विगुणं त्रिगुणं वाडपि प्रत्येकं नवक च वा ॥३८॥ विभवस्यानुसारेण कर्तव्यं पूजनं किल। वित्तशाठयं न कर्तव्यं राजञ्छक्तिमखेसदा ॥३९॥ एकवर्षा न कर्तव्या कन्या पूजाविधौ नृप । परमज्ञा तु भोगानां गंधादीनां च वालिका ॥४०॥ कुमारिका तु सा प्रोक्ता द्विवर्षा या भवेदिह। त्रिमूर्तिश्र त्रिवर्षा च कल्याणी चतुरब्दिका ॥४१।। रोहिणी पंचवर्षा च षड्वर्षा कालिका स्मृता। चडिका सप्तवर्षा स्यादष्टवर्षा च शांभवी ॥४२॥ नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी। अत ऊर्ध्व न कर्तव्या सर्वकार्यविगहिता ।।४३।। एभिश्र नामभिः पूजा कर्तव्या विधिसंयुता । तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥४४।। कुमारी पूजिता कुर्याद्दुःखदारिद्रयनाशनम् । शत्रुक्षयं धनायुष्यं बलवृद्धिं करोति वै ॥४५॥ त्रिमूर्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत्। धनधान्यागमश्चैव पुत्रपौत्रादिवृद्धयः॥४६॥ विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः । सुखार्थो पूजयेन्नित्यं कल्याणीं सर्वकामदाम् ॥४७॥ कालिकां शत्रुनाशार्थं पूजयेद्द्क्तिपूर्वकम्। ऐश्वर्यधनकामश्र चंडिकां परिपूजयेत् ।४८।। पूजयेच्छांभवीं नित्यं नृपसंमोहनाय च। दूःखदारिद्रयनाशाय संग्रामे विजयाय च ॥४९॥
Page 174
१७४ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २७ करशत्रुविनाशार्थं तथोग्रकर्मसाधने। दुर्गां च पूजयेद्द्रक्तया परलोकसुखाय च ॥५०॥ बांछितार्थस्य सिद्धयर्थ सुभद्रां पूजयेत्सदा। रोहिणीं रोगनाशाय पूजयेद्विधिवन्नरः ॥५१॥ श्रीरस्त्बिति च मंत्रेण पूजयेद्द्रक्तितत्परः। श्रीयुक्तमंत्ररथवा बीजमंत्रैरथापि वा ॥५२॥ कुमारस्य च तत्त्वानि या सृजत्यपि लीलया। कादीनपि च देवांस्तान्कुमारीं पूजयाम्यहम् ॥५३॥ सत्त्वादिभिस्त्रिमूर्तिर्या तैहिं नानास्वरूपिणी। त्रिकालव्यापिनी शक्तिस्त्रिमूर्ति पूजयाम्यहम् ॥५४॥। कल्याणकारिणी नित्यं भक्तानां पूजिताऽनिशम् । पूजयामि च तां भक्त्या कल्याणीं सर्वकामदाम् ॥५५॥ रोहयंती च बीजानि प्राग्जन्मसंचितानि वै। या देवी सर्वभूतानां रोहिणीं पूजयाम्यहम् ॥५६। कालो कालयते सर्वं ब्रह्मांडं सचराचरम्। कल्पांतसमये या ता कालिकां पूजयाम्यहम् ॥५७॥ तां चंडपापहरणीं चंडिकां पूजयाम्यहम् ॥५८॥ अकारणात्समुत्पत्तिर्यन्मयैः परिकोतिता। यस्यास्तां सुखदां देवीं शांभवीं पूजयाम्यहम् ।५९।। दुर्गात्त्रायति भक्तं या सदा दुर्गातिनाशिनी। दुर्ज्ञेया सर्वदेवानां तां दुर्गां पूजयाम्यहम् ॥६॥ सुभद्राणि च भक्तानां कुरुते पूजिता सदा। अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ।६ १। एभिमंत्र: पूजनीया: कन्यकाः सर्वदा बुधैः। वस्त्रालंकरणर्माल्यैगंधैरुच्चावचरपि ।।६२।। इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे षड्विंशोऽध्यायः ॥२६॥ अथ सप्तविंशोऽध्यायः व्यास उवाच हीनांगीं वर्ज़येत्कन्यां कुष्ठयुक्तां व्रणांकिताम् । गंधस्फुरितहीनांगी विशालकुलसंभवाम् ॥१॥ जात्यंधां केकरां काणां कुरूपां बहुरोमशाम्। संत्यजेद्रोगिणों कन्यां रक्तपुष्पादिनांकिताम् ॥२॥ क्षामां गर्भसमुद्गतां गोलकां कन्यकोद्द्वाम्। वर्जनोयाः सदा चैताः सर्वपूजादिकर्मसु ॥३॥ अरोगिणीं सुरूपांगीं सुन्दरीं व्रणवर्जिताम्। एकवंशसमुद्ूतां कन्यां सम्यकप्रपृजयेत् ॥४।। ब्राह्मणी सर्वकार्येषु जयारथे नृपवंशजा। लाभार्थे वैश्यवंशोत्था मता वा शूद्रवंशजा ॥५॥ ब्राह्मणैर्ब्रह्मजाः पूज्या राजन्यैर्ब्रह्मवंशजाः । वैश्यस्त्रिवर्गजाः पूज्यावतस्त्रः पादसंभवैः ॥६॥ कारुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत्। नवरात्रविधानेन भक्तिपूर्व सदैव हि।।७।। अशक्तो नियतं पूजां क्तुं चेन्नवरात्रके। अष्टम्यां च विशेषेण कर्तव्यं पूजनं सदा ॥८॥ पुराऽष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी। प्रादुर्भूता महाघोरा योगिनी कोटिभिः सह ।।९॥ अतोऽष्टम्यां विशेषेण कर्तव्यं पूजनं सदा। नानाविधोपहारैश्र गंधमाल्यानुलेपनैः ॥१० ।
Page 175
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २७ १७५ पायसैरामिषैरहोमैर्ब्राह्मणानां च भोजनैः। फलपुष्पोपहारैश्र तोषयेज्जगदंबिकाम् ॥११॥ उपवासे ह्यशक्तानां नवसत्रव्रते पुनः। उपोषणत्रयं प्रोक्तं यथोक्तफलदं नृप ।।१२।। सप्म्यां च तथाऽष्टम्यां नवम्यां भक्तिभावतः । त्रिरात्रकरणात्सर्वं फलं भवति पूजनात् ॥१३।। पूजाभिश्रैव होमेश्र कुमाकिवूजमैस्तथा। संपूर्ण तद्व्रतं प्रोक्तं विप्राणां चैव भोजनैः ॥१४॥ व्रतानि यानि चान्यानि दानानि विविधानि च । नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ।१५॥ धनधान्यप्रदं नित्यं सुखसंतापवृद्डिदम्। आयुरारोग्यदं चैव स्वर्गदं मोक्षदं तथा ॥१६।। विद्यार्थी वा धनार्थी वा पुत्रार्थी वा भवेशरः तदैनं विधिवत्कार्यं व्रतं सौभाग्यदं शियम् ॥१७॥ विद्यार्थी सर्वविद्यां वै प्राप्नोति व्रतसाधनात्। राजभ्रष्टो नृपो राज्यं समवाप्नोति सर्वदा ।१८।। पूर्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम्। ते व्याधिनो दरिद्राश्र भवंति पुत्रवर्जिताः ॥१९॥ वंध्या च या भवेन्नारी विधवा धनवजिता। अनुमा तत्र कर्तव्या नेयं कृतवती व्रतम् ॥२०॥ नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले। स कथं बिभवं प्राप्य मोदते च तथा दिवि ॥।२१।। रक्तचंदनसंमिश्रैः कोमलैबिल्वपत्रकैः । भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥२२॥ नाराधिता येन शिवा सनातनी दुःखारतिहा सिद्धिकरी जगद्वरा। दुःखावृतः शत्रुयुतश्र भूतले नूनं दरिद्रो भवतीह मानवः ॥२३॥ यां विष्णुरिंद्रो हरपद्मजो तथा वह्निः कुबेरो वरुणो दिवाकरः। ध्यायंति सर्वार्थसमाप्तिनंदितास्तां किं मनुष्या न भजंति चंडिकाम् ॥२४॥ स्वाहा स्वधा नाम मनुप्रभावस्तृप्यंति देवाः पितरस्तथैव। यज्ञेषु सर्वेषु मुदा हराति युग्मश्रुतिभिमुनोंद्रा:॥२५॥ यस्येच्छया सृजति विश्वमिदं प्रजेशो नानावतारकलनं कुरुते हरिश्र । नूनं करोति जगतः किल भस्म शंभुस्तां शर्मदां न भजते नु कथं मनुष्यः ॥२६॥ नैकोऽस्ति सर्वभुवनेषु तया विहीनो देवोनरोऽथ विहगः किलपन्नगो वा। गंधर्वराक्षसपिशाचनगेषु मूनं यः स्पंदितु भवति शक्तियुतो यथेच्छम् ।२७॥ तां न सेवेत कश्चण्डीं सर्वकामार्थदां शिवाम्। व्रतं तस्या न कः कुर्याद्वांछत्रर्थचतुष्टयम् ।२८। महापातकसंयुक्तो नवरात्रव्रतं चरेत् । मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ॥२९। पुरा कश्रिद्वणिग्दीनो धनहीनः सुदुःखितः । कुटुंबी चाभवत्कश्ित्कोसले नृपसत्तम ॥३०॥ अपत्यानि बहून्यस्याभवन्क्षुत्पीडितानि च । भक्ष्यं किंचित्तु सायाह्ने प्रापुस्तस्य च बालका: ३१॥ भुंकेस्म कार्यकर्ताऽसौ परस्याथ बुभुक्षितः । कुटंबभरणं तत्र चकारातिनिराकुलः ॥३२॥ सदा धर्मरतः शांतः सदाचारश्र सत्यवाक्। अक्रोधनश्च धृतिमान्निमंदश्चानसूयकः ॥३३॥
Page 176
१७६ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २७ संपृज्य देवता नित्यं पितृनप्यतिथींस्तथा। भुंजाने पोष्यवर्गेऽथ कृतवान्भोजनं वणिक् ॥३४॥ एवं गच्छति काले वै सुशीलो नामतो गुणैः । दारिद्रयार्तो द्विजं शान्तं पप्रच्छातिबुभुक्षितः॥३५॥ सुशोल उाच भो भूदव कृपां कृत्वा वदस्वाद्य महामते। कथं दारिद्रयनाशः स्यादिति मे निश्चयेन वै ॥३६॥ धनषणा मे नैवास्ति धनी स्यामिति मानद। कुटुंबभरणार्थ वै पृच्छामि त्वां द्विजोत्तम ।३७। पुत्री सुतस्तु मे बालो भक्षार्थी रोदते भृशम्। तावन्मात्रं गृहे नान्नं मुष्टिमेकां ददाम्यहम् ।।३८।। विसर्जितो यतो गेहाद्गतो बालो रुदन्मया। अतो मे दह्यतेऽत्यर्थ कि करोमि धनं बिना ॥३९॥ विवाहोऽस्ति सुताया मे नास्ति वित्तंकरोमिकिम्। दशवर्षाधिकायास्तु दानकालोऽपि यात्यलम् ।४०।। तेन शोचामि विप्रेद्र सर्वज्ञोऽसि दयानिधे। तपो दान व्रतं किंचिद्ब्रूहि मंत्रजपं तथा॥४१॥ येनाहं पोष्यवर्गस्य करोमि द्विज पोषणम्। तावन्मे स्यादनप्राप्तिर्नाधिकं प्रार्थये किल ।।४२।। त्वत्प्रसादात्कुटुम्बं मे सुखितं प्रभवेदिह। तत्कुरुष्व महाभाग ज्ञानेन परिचिंत्य च।।४३। व्यास उवाच इति पृष्टस्तथा तेन ब्राह्मणः संशितव्रतः । उवाच परमप्रीतस्तं वैश्यं नृपसत्तम ॥४४॥ पूजनं भगवत्याश्च हवनं भोजनें तथा॥४५॥ वेदपारायणं शक्तिजपहोमादिकं तथा। कुरुष्वाद्य यथाशक्ति तव कार्यं भविष्यति॥४६।। एतस्मादपरं किंचिद् व्रतं नास्ति धरातले। नवरात्राभिधं वैश्य पावनं सुखदं तथा॥४७। ज्ञानदं मोक्षदं चैव सुखसंतानवर्धनम्। शत्रुनाशकरं कामं नवरात्रव्रतं सदा॥४८।। राज्यभ्रष्टेन रामेण सीताविरहितेन च । किष्किधायां व्रतं चैतत्कृतं दुःखातुरेण वै ।४९। प्रतप्तेनापि रामेण सीताविरह्वह्निना। विधिवत्पूजिता देवी नवरात्रव्रतेन वै ॥५०॥ तेन प्राप्ताऽथ वैदेही कृत्वा सेतुं महार्णवे। हत्वा मंदोदरीनाथं कुंभकर्ण महाबलम् ।५१॥ मेघनादं सुतं हत्वा कृत्वा भूपं विभीषणम्। पश्चादयोध्यामागत्य प्राप्तं राज्यमकंटकम् ॥५२॥ नवरात्रव्रतस्यास्य प्रभावेण विशांवर। सुखं भूमितले प्राप्तं रामेणामिततेजसा ॥५३॥ व्यास उवाच इति विप्रवचः श्रुत्वा स वैश्यस्तं टिजं गुरुम्। कृत्वा जग्राह सन्मंत्रं मायाबीजाभिधं नृप ।।५४॥ जजाप परया भक्त्या नवरात्रमतंद्रिता। नानाविधोपहारैश्र पूजयामास सादरम् ।५५॥ नवसंत्सरं चव मायाबीज़परायणः। नवमे वत्सरांते तु महाष्टम्यां महेश्वरी ॥५६॥ अर्धरात्रे तु संजाते प्रत्यक्ष दर्शनं ददौ। नानावरप्रदानैश्र कृतकृत्यं चकार तम् ॥५७॥ इति श्रीदेवीभागवते महापुराणे तृनीयस्कन्धे सप्तविंशोऽध्यायः ॥२७॥
Page 177
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २८ १७७
अथ अष्टाविंशोऽध्यायः जनमेजय उवाच कथ रामेण तच्चीर्णं व्रतं देव्याः सुखप्रदम् । राज्य भ्रष्टः कथं सोऽथ कथं सीता हृता पुनः ॥१॥ व्यास उवाच राजा दशरथः श्रीमानयोध्याधिपतिः पुरा। सूर्यवंशधरश्चासीद्देवब्राह्मणपूजकः चत्वारो जज्ञिरे तस्य पुत्रा लोकेषु विश्रुताः । रामलक्ष्मणशत्रुघ्ना भरतश्रेति नामतः ॥३॥ राज्ञः प्रियकराः सर्वे सदृशा गुणरूपतः । कोसल्यायाः सुतो रामः कैकेय्या भरतः स्मृतः ॥४॥ सुमित्रातनयौ जातौ यमलौ द्वौ मनोहरौ। ते जाता वे किशोराश्र धनुर्बाणधराः किल ॥५॥ सूनव: कृतसंस्कारा भूपतेः सुखवर्धकाः । कोशिकेन तदाऽडगत्य प्रार्थितो रघुनन्दनः ॥६॥ राघवं मखरक्षार्थ सूनुं षोडशवार्षिकम्। तस्म सोडयं ददौ रामं कोशिकाय सलक्ष्मणम् ।।७।। तो समेत्य मुनिं मार्गे जग्मतुश्रारुदर्शनो। ताटका निहता मार्गे राक्षसी घोरदर्शना ॥८। रामेणैकेन बाणेन मुनीनां दुःखदा सदा। यज्ञरक्षा कृता तत्र सुबाहुनिहतः शठः ॥९॥ मारीचोऽथ मृतप्रायो निक्षिप्तो बाणवेगतः । एवं कृत्वा सहत्कर्म यज्ञस्य परिरक्षणम् ॥१०॥ गतास्ते मिथिलां सर्वे रामलक्ष्मणकौशिकाः । अहल्या ािता शापान्निष्पापा सा कृताऽबला ॥ विदेहनगरे तौ तु जग्मतुर्मुनिना सह। बभंज शिवचापं च जनकेन पणीकृतम् ॥१२॥ उपयेमे ततः सीतां जानकीं च रमांशंजाम्। लक्ष्मणाय ददौ राजा पुत्रीमेकां तथोमिलाम् १३॥ कुशध्वजसुते कन्ये प्रापतुर्भ्रातरावुभौ । तथा भरनशत्रुघ्नी सुशीलौ शुभलक्षणौ ॥१४॥ एवं दारक्रियास्तेपां भ्रातृणां चाभवन्नृप। चतुर्णां मिथिलायां तु यथाविधि विधानतः ॥१५॥। राज्ययोग्यं सुतं दृष्टा राजा दशरथस्तदा। राघवाय धुरं दानुं मनश्चक्रे निजाय वै ॥१६॥ संभारं विहितं दृष्टा कैकेयी पूर्वकल्पितौ। वरौ संप्रार्थयामास भर्तारं वशवर्तिनम् ॥१७॥ राज्यं सुताय चैकेन भरताय महात्मने। रामाय वनवासं च चतुर्दश समास्तथा ॥१८॥ रामस्तु वचनात्तस्याः सीतालक्ष्मणसंयुतः । जगाम दंडकारण्यं राक्षमैरुपसेवितम् ॥१९॥ राजा दशरथः पुत्रविरहेण प्रपीडितः । जहौ प्राणानमेयात्मा पूर्वशापमनुस्मरन् ॥२०॥ भरतः पितरं दृष्ठा मृतं मातृकृतेन वै । राज्यमृद्धं न जग्राह भ्रातुः त्रियचिकीर्षया ॥२१॥ पंचवटयां वसन रामो रावणावरजां वने। शूर्पणखां विरूपां वै चकारातिस्मरातुराम् ॥२२॥ खरादयस्तु तां दृष्टा छिम्पनासां निशाचराः । चक्रु: संग्राममतुलं रामेणामिततेजसा ॥।२३॥ स जघान खरादीश्च वैत्यानतिबलान्वितान् । मुनीनां हितमन्विच्छन् रामः सत्यपराक्रमः ॥२४॥
Page 178
१७८ श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २८ गत्वा शूर्पणखा लंकां खरदूषणघातनम् । दूषिता कथयामास रावणाय च राघवात् ॥२५॥ सोपि श्रुत्वा विनाशं तं जातः क्रोधवशः खलः । जगाम रथमारुह्य मारीचस्याश्रमं तदा ॥२६॥ कृत्वा हेममृगं नेतुं प्रेषयामास रावणः । सीताप्रलोभनार्थाय मायाविनमसंभवम् ॥२७॥ सोऽथ हेममृगो भूत्वा सीतादृष्टिपथं गतः। मायावी चातिचित्रांगश्चरन्प्रबलमंतिके ।।२८।। तं दूष्टा जानकी प्राह राघवं दैवनोदिता। चर्मानयस्व कान्तेति स्वाधीनपतिका यथा ।२९। अविचार्याथ रामोऽपि तत्र संस्थाप्य लक्ष्मणम्। सशरं धनुरादाय ययौ मृगपदानुगः ॥३०॥ सारङ्गोऽपि हरिं दृष्टा मायाकोटिविशारदः । दृश्यादृश्यो बभूवाथ जगाम च वनांतरम् ॥३१॥ मत्वा हस्तगतं रामः क्रोधाकृष्टधनुः पुनः। जघान चातितीक्ष्णेन शरेण कृत्रिमं मृगम् ।३२॥ स हतोऽतिबलात्तेन चुक्रोश भृशदुःखितः । हा लक्ष्मण हतोऽस्मीति मायावी नश्वरः खलः॥३३॥ स शब्दस्तुमुलस्तावज्जानक्या संश्रुतस्तदा। राघवस्येति सा मत्वा दीना देवरमब्रवीत् ॥३४॥ गच्छ लक्ष्मण तूर्ण त्वं हतोऽसौ रघुनन्दनः । त्वामाह्नयति सौमित्रे साहाय्यं कुरु सत्वरम् ॥३५॥ तत्राह लक्ष्मणः सीतामंब रामवधादपि। नाहं गच्छेऽद्य मुक्त्वा त्वामसहायामिहाश्रमे ॥३६॥ आज्ञा मे राघवस्यात्र तिष्ठेति जनकात्मजे। तदतिक्रमभीतोऽहं न त्यजामि तवांतिकम् ॥३७॥ दूरं वै राघवं दृष्टा वने मायाविना किल। त्यक्त्वा त्वां नाधिगच्छामि पदमेकं शुचिस्मिते ॥ करु धैर्य न मन्येऽद्य रामं हंतुं क्षमं क्षिप्तौ। नाहं त्यक्त्वा गमिष्यामि विलंध्य रामभाषितम् ॥ व्यास उवाच रुदती सुदती ब्राह तैं तदा विधिनोदिता। अक्ररा वचनं क्ररं लक्ष्मणं शुभलक्षणम् ॥४०॥ अहं जानामि सौमित्रे सानुरागं च मां प्रति। प्रेरितं भरतेनैव मदर्थमिह संगतम् ॥४१॥ नाहं तथाविधा नारी स्वैरिणी कुहकाधम। मृते रामे पति त्वां न कर्तुमिच्छामि कामतः ।४२॥ नागमिष्यति चेद्रामो जीवितं संत्यजाम्यहम्। विना तेन न जीवामि विधुरा दुःखिता भृशम् ४३॥ गच्छ वा तिष्ठ सौमित्रे न जानेजहं तवेप्सितम् । क्व गतं तेजद्य सौहार्द ज्येष्टे धर्मरते किल ॥४४॥ तच्छत्वा वचनं तस्या लक्ष्मणो दीनमानसः। प्रोवाच रुद्धकण्ठस्तु तां तदा जनकात्मजाम् ॥४५॥ किमात्थ क्षितिजे वाक्यं मयि क्ररतरं किछ। कि वदस्यत्यनिष्टं ते भावि जाने धिया ह्यहम्॥ इत्युक्त्वा निर्ययौ वीरस्तां त्यकत्वा प्ररदन्भशम् । अग्रजस्य ययौ पश्यञ्छोकार्न: गथिवीपने ॥४७॥ गतेजथ लक्ष्मणे तत्र रावणः कपटाकृतिः। भिक्षुवेषं ततः कृत्वा प्रविवेध तदाश्रमे ॥४८॥ जानकी तं यति मत्वा दत्त्वार्घं वन्यमादरात्। भैक्ष्यं समर्पयामास रावणाय दुरात्मने ।४९।। तां पप्रच्छ स दुष्टात्मा नम्रएवं मृद्स्वरम्। काि पद्मपल्परशाक्षि वने नैवािनी िये॥५०॥ पिता कस्तेऽथ वामोरु भ्राता कः कः पनिस्तव। सढे वैकाकिनी चात स्थिताऽसि वरवर्णिनी ॥५१॥
Page 179
श्रीमद्देवीमागवते महापुराणे तृतीयस्कन्धे अध्याय: २९ १७९
निर्जने विपिने किं त्वं सौधार्हा त्वमसि प्रिये। उटजे मुनिपत्नीव द्देवकन्यासमप्रभा ।।५२।। व्यास उवाच इति तद्वचनं श्रुत्वा प्रत्युवाच विदेहजा। दिव्यं दिष्टया यति ज्ञात्वा मंदोदर्याः पति तदा ॥ राजा दशरथः श्रीमांश्चत्वारस्तस्य वै सुताः । तेषां ज्येष्ठः पतिर्मेऽस्ति रामनामेति विश्रुतः ॥५४॥ विवासितोऽथ कैकेय्या कृते भूपतिना वरे। चतुर्दश समा रामो वसतेऽत्र सलक्ष्मणः ॥५५॥ जनकस्य सुता चाहं सीतानाम्नींति विश्रुता । भंक्त्वा शैवं धनुः कामं रामेणाहं विवाहिता ॥५६।। रामबाहुबलेनात्र वसामो निर्भया वने। कांचनं मृगमालोक्य हंतुं मे निर्गतः पतिः ॥५७॥ लक्ष्मणोऽपि पुनः श्रुत्वा रवं भ्रातुर्गतोऽधुना। तयोर्बाहुबलादत्र निर्भयाऽहं वसामि वै ॥५८॥ मयेदं कथितं सर्वं वृत्तान्तं वनवासके। तेऽत्रागत्यार्हणां ते वै करिष्यंति यथाविधि ॥५९॥ यतिर्विष्णुस्वरूपोऽसि तस्मात्त्वं पृजितो मया। आश्रमो विपिने घोरे कतोऽस्ति रक्षसां कुले ॥६०॥ तस्मात्त्वां परिपृच्छामि सत्यं ब्रूहि ममाग्रतः । कोऽसि त्रिदंडिरूपेण विपिने त्वं समागतः ॥६१॥ रवण उताप लंकेशोऽहं मरालाक्षि श्रीमान्मन्दोदरीपतिः । त्वत्कृते तु कृतं रूपं मयेत्थं शोभनाकृते ॥६२॥ आगतोऽहं वरारोहे भगिन्या मेरितोन वै। जनस्थाने हती श्रुत्वा भ्रातरी खरदूषणौ ॥६३॥ अङ्गीकुरु नृपं मांत्वं त्यक्त्वा तं मानुषं पतिम् । हृतराज्ं गतश्रीकं निर्वलं वनवासिनम् ॥६४॥ पट्टराज्ञी भव त्वं मे मन्दोद्र्युपरि स्फुटम्। दाभोऽस्मि तव तत्वद्गि स्वामिनी भव भामिनि ॥ जेताऽहं लोकपालानां पतामि तव पादयोः। करं गृहाण मेज्दय त्वं सनाथं कुरु जानकि ॥६६॥ पिता ते याचितः पूर्व मया वै त्वत्कृतेऽवले। जनको मामुवाचेत्थं पणवंधो मया कृतः ॥६७॥ रुद्रचापभयान्नाहं संप्राप्तस्तु स्वयंवरे। मनो मे संस्थितं तावंत्निमग्नं विरहातुरम् ॥६८।। वनेऽत संस्थितां श्रुत्वा पूर्वानुरागमोहितः । आगतोऽस्म्यसितापांगि सफलं कुरु मे श्रमम् ॥६९॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥२८॥ अथ एकोनत्रिंशोऽध्यायः व्यास उवाच तदाकर्ण्यं वचो दुषटं जानकी भयविह्वला। वेपमाना स्थिरं कृत्वा मनो वाचमुवाच है॥१॥ पौलस्त्य किमसद्वाक्यं त्वमात्थ स्मरमोहितः । नाहं वै स्वैरिणी किंतु जनकस्य कुलोद्गवा ॥२॥ गच्छ लंकां दशास्य त्वं राम त्वां वै हनिष्यति । मत्कृते मरणं तत्र भविष्यति न संशयः ॥३॥ इत्युक्त्वा पर्णशालायां गता सा वह्निसन्निधौ। गच्छ गच्छेति वदती रावणं लोकरावणम् ॥४॥
Page 180
१८० श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: २९ सोऽथ कृत्बा निजं रूपं जगामोटजमंतिकम्। बलाज्जग्राह तां बालां रुदता भयविह्वलाम् ।।५।। रामरामेति क्रंदंती लक्ष्मणेति मुहुर्मुहुः । गृहीत्वा निर्गतः पापो रथमारोप्य सत्वरः ॥६॥ गच्छन्नरुणपुत्रेण मार्गे रुद्धो जटायुषा। संग्रामोऽभून्महारौद्रस्तयोस्तत्र बनान्तरे ।७॥। हत्वा तं तां गृहीत्वा च गतोऽसौ राक्षसाधिपः । लंकायां क्रंदती तात कुररीव दुरात्मनः ॥८।। अशोकवनिकायां सा स्थापिता राक्षसीयुता । स्ववृत्तान्नंव चलिता सामदानादिभिः किल ॥९॥ रामोऽपि तं मृगं हत्वा जगामादाय निर्वृतः । आयांतं लक्ष्मणं वीक्ष्य कि कृतं तेऽनुजासमम् १०॥ एकाकिनीं प्रियां हित्वा किमर्थ त्वमिहागतः । श्रुत्वा स्वनं तु रामस्य राधवस्त्वव्रवीदिदम् ॥११॥ सौमित्रिस्त्वब्रवीद्वाक्यं सीतावाग्बाणपीडितः । प्रभोऽत्राहं समायातः कालयोगान्न संशयः ॥१२॥ तदा तो पर्णशालायां गत्वा वीक्ष्यातिदुःखितो। जानक्यन्वेषणे यत्नमुभौ कर्तुं समुद्यतौ ।१३॥ मार्गमाणो तु संप्राप्ती यत्रासौ पतितः खगः । जटायुः प्राणशेषस्तु पतितः पृथिवीतले ॥१४॥ तेनोक्तं रावणेनाद्य हृताऽसौ जनकात्मजा। मया निरुद्ध. पापात्मा पातितोऽहं मृधे पुनः ॥१५॥ इत्युक्त्वाऽसी गतप्राणः संस्कृतो राघवेण वै। कृत्वौर्घ्वदैहिकं रामलक्ष्मणौ निगसौ ततः ॥१६॥ कबंधं धातयित्वाऽसौ शापाच्चामोचयत्प्रभुः । वचनात्तस्य हरिणा सख्यं चक्रेऽथ राघवः ॥१७॥ हत्वा च बालिनं वोरं किष्किंधाराज्यमुत्तमम् । सुग्रीवाय ददौ रामः वृतसखूयाय कार्यतः ॥१८। तत्रव वार्षिकान्मासांस्तस्थौ लक्ष्मणसंयुतः । चिंतयञ्ञानकीं चित्ते दशाननहृतां प्रियाम् ॥१९॥ लक्ष्मणं प्राह रामस्तु सीताविरहपीडितः । सौमित्रे कैकयसुता जाता पूर्णमनोरथा ॥२०॥ न प्राप्ता जानकी नूनं नाहं जीवामि तां विना। नागमिष्याम्ययोध्यायामृते जनकनन्दिनीम् ॥२१॥ गतं राज्यं वने वासो मृतस्तातो हता प्रिया। पीडयन्मां स दुष्टात्मा दैवोडग्रे कि करिष्यति ॥२२॥ दुर्जेयं भवितव्यं हि प्राणिनां भरतानुज । आवयोः का गतिस्तात भविष्यति सुदुःखटा ॥२३॥ प्राप्य जन्म मनोर्वशे राजपुत्रावुभौ किल। वनेऽतिदुःखभोक्तारौ जातौ पूर्वकृतेन च ।२४।। त्यक्त्वा त्वमपि भोगांस्तु मया सह विनिर्गतः । दैवयोगाच्च सौमित्रे भुक्ष्व दुःखं दुरत्ययम् ।२५॥ न कोप्यस्मत्कुले पूर्वं मत्समो दुःखभाङ्नरः । अरकिंचनोऽक्षमः क्लिष्टोन भूतो न भविष्यति॥।२३॥ कि करोम्यद्य सौमित्रे मग्नोऽस्मि दुःखसागरे। न चास्ति तरणोपायो ह्यसहायस्य मे किल ॥२७॥ न वित्तं न बलं वीर त्वमेकः सहचारकः । कोपं कस्मिन्करोम्यद्य भोगेस्मिन्स्वकृतेऽनुज ।२८॥ गतं हस्तगतं राज्यं क्षणादिंद्रासनोपमम् । वने वासस्तु संप्राप्तः को वेद विधिनिर्मिंतम् ॥२९॥ बालभावाच्च वैदेही चलिता चावयोः सह। नीता दैवेन दुष्टेन श्यामा दुःखतरां दशाम् ॥३०। लंकेशस्य गृहे श्यामा कथं दुःखं भविष्यति। पतिव्रता सुशोला च मयि प्रीतियुता भृशम् ॥३१। न च लक्ष्मण वैदेही सा तस्य वशगा भवेत् । स्वैरिणीव वरारोहा कथं स्याज्जनकात्मजा ।।३२॥
Page 181
श्रीमदेवीमागवत महापुराणे तृतीयस्कन्धे अध्याय: ३० ९८१ त्यजेतप्राणान्नियंतृत्वे मैथिली भरतानुज। न रावणस्य वशगा भवेदिति सुनिश्चितम् ॥३३॥। मृता चेज्जानकी वीर प्राणांस्त्यक्ष्याम्यसंशयम्। मृता चेदसितापांगी कि मे देहेन लक्ष्मण ।।३४।। एवं विलपमानं तं रामः कमललोचनम्। लक्ष्मणः प्राह धर्मात्मा सांत्वयनृतया गिरा ॥३५॥ धैर्यं कुरु महाबाहो त्यक्त्वा कातरतामिह। आनयष्यामि वैदेहीं हत्वा तं राक्षसाधमम् ॥३६॥ आपदि संपदि तुल्या धैर्यान्द्वंति ते धीराः । अल्पधियस्तु निमग्नाः कष्टे भवंति विभवेऽपि ३७॥ संयोगो विप्रयोगश्च दैवाधीनावुभावषि। शोकस्तु कीदृशस्तत्र देहेनात्मनि च क्वचित् ॥३८॥ राज्याद्यथा वने वासो वैदेह्या हरणं यथा। तथा काले समीचीने संयोगोउपि भविष्यति ॥३९॥ प्राप्तव्यं सुखदुःखानां भोगान्निवर्तनं क्वचित् । नान्यथा जानकीजाने तस्माच्छोकं त्यजाधुना ४०। वानराः सन्ति भूयांसो गमिष्येति चतुर्दिशम् । शुद्धि जनकनन्दिन्या आनयिष्यंति ते किल ॥४१॥ ज्ञात्वा मार्गस्थिति तत्र गत्वा कृत्वा पराक्रमम्। हत्वा तं पापकर्माणमानयिष्यामि मैथिलीम् ।।४२।। ससैन्यं भरतं वापि समाहूय सहानुजम्। हनिष्यामो वयं शत्रुं कि शोचसि वृथाग्रज ॥४३॥ रघुर्णकरथेनव जिताः सर्वा दिशः पुरा। तद्वंशजः कथं शोकं कर्तुमर्हसि राघव ॥४४।। एकोऽहं सकलाअेतुं समर्थोऽस्मि सुरासुरान् । कि पुनः ससहायो वै रावणं कुलपांसनम् ।४५॥ जनकं वा समानीय साहाय्ये रघुनन्दन। हनिष्यामि दुराचारं रावणं सुरकंटकम् ॥४६॥ सुखस्यानंतरं यस्य सुखदु:खसमुद्दवे। स शोकसागरे मग्नो न सुखी स्यात्कदाचन ॥४७। इन्द्रेण व्यसनं प्राप्तं पुरा वै रघुनन्दन । नहुषः स्थापितो देवैः सर्वेर्मघवतः पदे ॥४८॥ स्थितः पंकजमध्ये च' बहुवर्षगणानपि। अजातवासं मघवा भीतस्त्यकत्वा निजं पदंम् ४९।। पुनः प्राप्तं निजस्थानं काले विपरिवर्तिते । नहुपः पतितो भूमौ शापादजगराकृतिः ॥५०॥ इन्द्राणीं कामयानस्तु ब्राह्मणानवमन्य च। अगस्तिकोपात्संजातः स्पदेहो महीपतिः ॥५१॥ तस्माच्छोको न कर्तव्यो व्यसने सति राघव। उदमे चित्तमास्थाय स्थातव्यं वै विपश्चिता ॥५२॥ सर्वज्ञोऽसि महाभाग समर्थोऽसि जगन्पते। किं प्राकृत इवात्यर्थ कुरुपे शोकमात्मनि ॥५३॥ व्यास उन च इति लक्ष्मणवाक्येन बोधितो रघुनन्दनः । त्यकत्वा शोकं तथाऽत्यर्थ बभूव विगतज्वरः ॥५४॥ इति श्रीदेवीभागवते महापुराणे तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥२९॥ अथ त्रिंशोऽध्यायः व्यास उवाच एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः । आजगाम तदाकाशान्नारदो भगवानृषिः ॥१।
Page 182
१८२ श्रीमद्देवीभागवत महापुराणे तृतीयस्कन्धे अध्याय: ३० रणयन्महर्ती वीणां स्वरग्रामविभूषिताम्। गांय ृहृद्रथं साम तदा तमुपतस्थिवान् ॥२॥ दृष्टा तं राम उत्थाय ददावथ वृषं शुभम् । आसनं चार्ध्य पादं च कृतवानमितद्युतिः ।३।। पूजां परमिकां कृत्वा कृतांजलिरुपस्थितः । उपविष्टः समीपे तु कृताज्ञो मुनिना हरिः ॥४॥ उपविष्टं तदा रामं सानुजं दुःखमानसम् । पप्रच्छ नारदः प्रीत्या कुशल मुनिसत्तमः ॥५॥ कथं राघव शोकार्तो यथा वै प्राकृतो नरः । हृतां सीतां च जानामि रावणेन दुरात्मना i६। सुरसद्मगतश्राहं श्रुतवाञ्जनकात्मजाम् । पौलस्त्येन हृतां मोहान्मरणं स्वमजानता ॥७॥ तव जन्म च काकुत्स्थ पौलस्त्यनिधनाय वै। मैथिलीहरणं जातमेतदर्थ नराधिप ।।८।। पूर्वजन्मनि वैदेही मुनिपुत्री तपस्विनी। रावणेन वने दृष्टा तपस्यंती शुचिस्मिता ॥९॥ प्रार्थिता रावणेनासौ भव भार्येति राघव। तिरस्कृतस्तयाऽसौ वै जग्राह कबरं बलात् ॥१०॥ शशाप तत्क्षणं राम रावणं तापसी भृशम्। कुपिता त्यक्तुमिच्छंती देहं संस्पर्शदूषितम् ॥११॥ दुरात्मंस्तव नाशार्थं भविष्यामि धरातले। अयोनिजा वरा नारी त्यक्त्वा देहं जहावपि॥१२॥ सेयं रमांशसंभूता गृहीता तेन रक्षसा। विनाशार्थ कुलस्यैव ब्याली स्रगिव संभ्रमात् ॥१३॥ तव जन्म च काकुत्स्थ तस्य नाशाय चामरैः। प्राथितस्य हरेरंशादजवंशेजप्यजन्मनः ॥१४॥ कुरु धैरयं महाबाहो तत्र सा वर्ततऽवशा। सती धर्मरता सीता त्वां ध्यायंती दिवानिशम्॥१५॥ कामधेनुपयः पात्र कृत्वा मघवता स्वयम्। पानार्थ प्रेषितं तस्याः पीत चैवामृतं यथा ॥१६॥ सुरभीदुग्धपानात्सा क्षुत्तुड्द्:खविवर्जिता। जाता कमलपत्राक्षी वर्तते वीक्षिता मया ॥१७॥ उपायं कथयाम्यद्य तस्य नाशाय राघव। व्रतं कुरुष्व श्रद्धावानाश्विने मासि सांप्रतम् ॥१८।। नवरात्रोपवासं च भगवत्या प्रपुजनम्। सर्वसिद्धिकरं राम जपहोभविधानतः ॥१९॥ मेध्यश्च पशुभिर्देव्या बलिं दत्त्वा विशंसितः । दशांशं हवनं कृत्वा सशक्तस्त्वं भविष्यसि ॥२०॥ विष्णुनाऽSचरितं पूर्व महादेवेन ब्रह्मणा। तथा मघवता चीर्णं स्वर्गमध्यस्थितेन तै ॥२ ॥ सुखिना राम कर्तव्यं नवरात्रवतं शुभम् ! विशेषेण च कर्तव्यं पुंसा कष्टगतेन वै ॥२२॥ विश्वामित्रेण काकुत्स्थ कृतमेतन्न संशयः। भृगुणाऽथ वसिष्ठेन कश्यपेन तर्थव च ।।२३।। गुरुणा हृतदारेण कृतमेतन्महाव्रतम् । तस्मात्त्वं कुरु राजेन्द्र रावणस्य वधाय च ॥२४॥ इन्द्रेण वृत्रनाशाय कृतं व्रतमनुत्तमम्। त्रिपुरस्य विनाशाय शिवेनापि पुरा कृतम् ॥२५॥ हरिणा मधुणाशाय कृतं मेरौ महामते। विधिवत्कुरु काकुत्स्थ व्रतमेतदतंद्रितः ॥२६॥ का देवी किंप्रभावा सा कुतो जाता किमाकृतिः। व्रतं कि विधिवंद्ब्रूहि सर्वज्ञोसि दयानिधे ॥२७॥ श्रीराम उवाच
शृणु राम सदा नित्या शक्तिराद्या सनातनी। सर्वकामप्रदा देवी पूजिता दुःखनाशिनी ॥२८॥ नारद उवाच
Page 183
श्रीमद्देवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ३० १८३ कारणं सर्वजंतूनां ब्रह्मादीनां रघूदृह। तस्याः शक्ति विना कोऽपि स्पंदितुं न क्षमो भवेत् ।। विष्णो: पालनशक्ति: सा कर्तृशक्ति: पितुर्मम । रुद्रस्य नाशशक्ति: सा त्वन्यशक्ति: परा शिवा ३०॥ यच्च किंचित्क्वचिद्रस्तु सदस्द्ुवनत्रये । तस्य सर्वस्य या शक्तिस्तदुत्पत्तिः कुतो भवेत् १।। न ब्रह्मा न यदा विष्णुर्न रुद्रो न दिवाकरः । न चेन्द्राद्याः सुराः सर्वे नधरा न धराधराः ॥३२॥ तदा सा प्रकृतिः पूर्णा पुरुषेण परेण वै। संयुता विहरत्येव युगादौ निर्गुणा शिवा ॥३३॥ सा भूत्वा सगुणा पश्चात्करोति भुवनत्रयम् । पूर्व संसृज्य व्रह्मादीन्दत्त्वा शक्तीश्र सर्वशः ॥३४॥ तां ज्ञात्वा मुच्यते जंतुर्जन्मसंसारबंघनात्। सा विद्या परमा ज्ञेया वेदाद्या वेदकारिणी ॥३५॥ असंख्यातानि नामानि तस्या ब्रह्मादिभिः किल। गुणकर्मविधानैस्तु कल्पितानि च किं ब्रुवे ॥३६॥ अकारादिक्षकारांतैः स्वरै्वर्णेस्तु योजितैः । असंख्येयानि नामानि भवंति रघुनन्दन ॥३७॥ विधिं मे ब्रूहि विप्रर्षे व्रतस्यास्य समासतः। करोम्यद्यव श्रद्धावाञ्छ्रीदेव्याः पूजनं तथा ॥३८॥ राम उवाच
नारद उवाच पीठं कृत्वा समे स्थाने संस्थाप्य जगदम्बिकाम् । उपवासान्नवैव त्वं कुरु राम विधानतः ।३९।। आचार्योऽहं भविष्यामि कर्मण्यस्मिन्महीपते। देवकार्यविधानार्थमुत्साहं. प्रकरोम्यहम् ॥४०॥ व्यास उवाच तच्छ्रत्वा वचनं सत्यं मत्वा रामः प्रतापवान् । कारयित्वा शुभ पोठं स्थापयित्वांविकां शिवाम् ॥ विघिवत्पू जनं तस्याश्रकार व्रतवान् हरिः । संपराप्ते चाश्चिने मासि तस्मिन्गिरिवरे तदा ।४२।। उपवासपरो रामः कृतवान्व्रतमुत्तमम् । होमं च विधिवत्तत्र बलिदानं च पूजनम् ॥४३॥ भ्रातरौ चक्रतुः प्रेम्णा व्रतं नारदसंमतम् । अष्टम्यां मध्यरात्रे तु देवी भगवती हि सा ॥४४।। सिंहारूढा ददौ तत्र दर्शनं प्रतिपूजिता। गिरिशृङ्गे स्थितोवाच राधवं सानुजंगिरा ॥४५॥ मेघगम्भीरया चेदं भक्तिभावेन तोषिता। देव्युवाच राम राम महाबाहो तुष्टाऽस्म्यद् व्रतेन ते ॥४६।। प्रार्थयस्व वरं कामं यत्ते मनसि वर्तते। नारायणांशसंभूतस्त्वं विशे मानवेऽनघे ॥४७॥ रावणस्य वधायैव प्रार्थितस्त्वमरैरसि। पुरा मत्स्यतनुं कृत्वा हत्वा घोरं च राक्षसम् ॥४८।। त्वया वै रक्षिता वेदाः सुराणां हितमिच्छता। भूत्वा कच्छपरूपस्तु धृतवान्मन्दरं गिरिम्॥४९॥ अकूपारं प्रमन्थानं कृत्वा देवानपोषयः । कोलरूपं पर कृत्वा दशनाग्रेण मेदिनीम् ॥५०॥ धृतवानसि यद्राम हिरण्याक्षं जघान न । नारसिंहीं तन्ं कृत्वा हिरण्यकशिपुं पुरा ।५१।।
Page 184
968 श्रीमद्ेवीभागवते महापुराणे तृतीयस्कन्धे अध्याय: ३० प्रह्लादं राम रक्षित्वा हतवानसि राघव। वामनं वपुरास्थाय पुरा छलितवान्बलिम् ॥५२॥ भूत्वेंद्रस्यानुजः कामं देवकार्यप्रसाधकः। जमदग्निसुतस्त्वं मे विष्णोरंशेन संगतः ।५३॥ कत्वांतं क्षत्रियाणां तु दानं भूमेरदाद्द्विजे। तथेदानीं तु काकुत्स्थ जाती ददरथात्मज ।५४।। त्रारथितस्तु सुरैः सर्वै रावणेनातिपीडितैः । कपयस्ते सहाया वै देवांशा बलवत्तराः ॥५१॥ भविष्यन्ति नरव्याघ्र मच्छक्तिसंयुता ह्यमी। शेषांशोऽप्यनुजस्तेऽयं रावणात्मजनाशकः ।५६॥ भविष्यति न संदेहः कर्तव्योऽत्र त्वयाऽनघ। वसंते सेवनं कार्य त्वया तत्रातिश्रद्धया ॥५७॥ हत्वाऽथ रावणं पापं कुरु राज्यं यथासुखम्। एकादश सहस्राणि वर्षाणि पृथिवीतले ।।५८।। कृत्वा राज्यं रघुश्रेष्ठ गंताऽसि त्रिदिवं पुनः । व्यास उवाच इत्युक्त्वांतर्दधे देवी रामस्तु प्रीतमानसः ॥५९॥ समाप्य तद्व्रतं चक्रे प्रयाणं दशमीदिने । विजयापूजनं कृत्वा दत्त्वा दानान्यनेकशः ॥६०॥ कपिपतिबलयुक्त: सानुजः श्रीपतिश्च प्रकटपरमशक्त्या प्रेरितः पूर्णकामः । उदधितटगतोऽसौ सेतुबन्धं विधायाप्यहनदमरशत्रुं रावणं गीतकीतिः ।६१।। यः शृणोति नरो भक्त्या देव्याश्चरितमुत्तमम्। स भुक्त्वा विपुलान्भोगान्प्राप्नोति परमं पदम् ६२।। संत्यन्यानि पुराणानि विस्तराणि बहूनि च । श्रीमद्भागवतस्यास्य न तुल्यानीति मे मतिः ॥६३॥ इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्त्रयां संहितायां तृतीयस्कन्धे त्रिंशोऽध्यायः ॥३०॥
समाप्तोऽयं तृतीयः स्कन्धः ।
Page 185
श्रागणेशाय नमः श्रीमद्देवीभागवतम्
चतुर्थ: स्कन्धः -: 0 :- प्रथमोऽध्यायः जनमेजय उवाच वासवेय शूरसेनसुतः श्रीमान्वसुदेवः मुनिश्रेष्ठ सर्वज्ञाननिधेऽनघ। प्रष्टुमिच्छाम्यहं स्वामिन्नस्माकं कुलवर्धन ।।१॥ प्रतापवान्। श्रुतं मया हरिर्यस्य पुत्रभावमवासवान् ।।२।। देवानामपि पूज्योऽभून्नाम्नां चानकदुंदुभिः । कारागारे कथं बद्धः कंसस्य धर्मतत्परः ॥३॥ देवक्या भार्यया सार्धं किमागः कृतवानसौ। देवक्या बालषट्कस्य विनाशश्र कृतः पुनः ॥४॥ तेन कंसेन कस्माद्वै ययातिकुलजेन च। कारागारे कथं जन्म वासुदेवस्य वै हरेः ॥५॥ गोकुले च कथं नीतो भगवान्सात्वतां पतिः। गतो जन्मांतरं कस्मात्पितरौ निगडे स्थितौ ॥६॥ देवकीवसुदेवौ च कृष्णस्यामिततेजसः । कथं न मोचितौ वृद्धौ पितरौ हरिणाडमुना ।७॥ जगत्क्तुं समर्थेन स्थितेन जनकोदरे। प्राक्त्तनं कि तयोः कर्म दुर्विज्ञेयं महात्मभिः ॥८॥ जन्म वै वासुदेवस्य यत्रासीत्परमात्मनः । के ते पुत्राश्च का बाला या कंसेन विपोथिता ।।९॥ शिलाया निर्गता व्योम्नि जाता त्वष्टभुजा पुनः । गार्हस्थ्यं च हरेर्ब्रूहि बहुभार्यस्य चानघ ॥१०॥ कार्याणि तत्र तान्येव देहत्यागं च तस्य वै। किवदन्त्या श्रुतं यत्तन्मनो मोहयतीब मे ॥११॥ चरितं वासुदेवस्य त्वमाख्याहि यथातथम्। नरनारायणो देवौ पुराणावृषिसत्तमौ ॥१२॥ धर्मपुत्रो महात्मानौ तपश्रेरतुरुत्तमम्। यो मुनी बहुवर्षाणि पुण्ये बदरिकाश्रमे ।१३॥ निराहारो जितात्मानो निःस्पृहो जितषड्गुणो। विष्णोरंशो जगत्स्थेम्ने तपशचेरतुरुत्तमम् ॥१४॥
Page 186
१८६ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः १ तयोरंशावतारो हि जिष्णुकृष्णौ महाबलौ । प्रसिद्धौ मुनिभिः प्रोक्तो सर्वज्ञैर्नारदादिभिः ॥१५॥ विद्यमानशरीरौ तो कथं देहांतरं गतौ। नरनारायणौ देवौ पुनः कृष्णार्जुनौ कथम् ॥१६॥ यौ चक्रतुस्तपश्चोग्रं मुक्त्यर्थं मुनिसत्तमौ। तौ कथं प्रापतुर्देहौ प्राप्तयोगौ महातपौ ॥१७॥ शूद्र: स्वधर्मनिष्ठस्तु देहान्ते क्षत्रियस्तु सः। शुभाचारो मृतो यो वै स शूद्रो ब्राह्मणो भवेत् १८।। ब्राह्मणो निःस्पृहः शांतो भवरोगाद्विमुच्यते। विपरीतमिदं भाति नरनारायणौ च तौ ॥१९॥ तपसा शोषितात्मानौ क्षत्रियौ तौ बभूवतुः । केन तौ कर्मणा शांतौ जातौ शापेन वा पुनः ॥२०॥ ब्राह्मणौ क्षत्रियौ जाती कारणं तन्मुने वद। यादवानां विनाशश्र ब्रह्मशापादिति श्रुतः ॥२१॥ कृष्णस्यापि हि गांधार्याः शापेनैव कुलक्षयः । प्रद्युम्नहरणं चैव शंबरेण कथं कृतम् ।२२॥ वर्तमाने वासुदेवे देवदेवे जनार्दने। पुत्रस्य सूतिकागेहाद्धरणं चातिदुर्घटम् ॥२३॥ हरिवेश्माद्दुरत्ययात्। न ज्ञातं वासुदेवेन तत्कथं दिव्यचक्षुषा ॥२४॥ संदेहोऽयं महान्ब्रह्मन्निःसंदेहं कुरु प्रभो। यत्पत्न्यो वासुदेवस्य दस्युभिलुंठिता हुताः ॥२५॥ स्वर्गत देवदेवे तु तत्कथं मुनिसत्तम। संशयो जायते व्रह्मंश्चित्तांदोलनकारकः ॥२६॥ विष्णोरंशः समुद्दतः शौरिर्भूभारहारकृत्। स कथं मथुराराज्यं भयात्त्यकत्वा जनार्दनः ॥२७॥ द्वारवत्यां गतः साधो ससैन्यः ससुहृद्गणः । अवतारो हरेः प्रोक्तो भूभारहरणाय वै ॥२८॥ पापात्मनां विनाशाय धर्मसंस्थापनाय च। तत्कथं वासुदेवेन चौरस्ते न निपातिताः ॥२९। यैहृता वासुदेवस्य पत्न्यः संलुंठिताश् ताः । स्तेनास्ते कि न विज्ञाताः सर्वज्ञेन सता पुनः ३०॥ भीष्मद्रोणवधः कामं भूभारहरणे मतः । अचिताश्र महात्मानः पांडवा धर्मतत्पराः ॥३१॥ कृष्णभक्ताः सदाचारा युधिष्ठिरपुरोगमाः । ते कृत्वा राजसूयं च यज्ञराजं विधांनतः ॥३२॥ दक्षिणा विविधा दत्त्वा ब्राह्मणेभ्योऽतिभावतः । पांडुपुत्रास्तु देवांशा वासुदेवाश्रिता मुने ॥३३॥ घोरं दुःखं कथं प्राप्ताः क्व गतं सुकृतं च तत् । कि तत्पापं महारौद्रं येन ते पीडिताः सदा ॥३४॥ द्रौपदी च महाभागा बेदीमध्यात्समुत्थिता। रमांशजा च साध्वी च कृष्णभक्तियुता तथा ३५।। सा कथं दुःखमतुलं प्राप घोरं पुनः पुनः । दुःशासनेन सा केशे गृहीता पोडिता भृशम् ३६॥ रजस्वला सभायां तु नीता भीतैकवाससा। विराटनगर दासी जाता मत्स्यस्य सा पुनः ॥३७॥ धर्षिता कीचकेनाथ रुदती कुररी यथा। हृता जयद्रथेनाथ क्रंदमानाऽतिदुःखिता॥३८॥ मोचिता पांडवैः पश्चाद्वलवन्द्रिर्महात्मभिः । पूर्वजन्मकृतं पापं किं तद्येन च पीडिताः ॥३९॥ दुःखान्यनेकान्याप्तास्ते कथयाद्य महामते। राजसूय क्रतुवरं कृत्वा ते मम पूर्वजाः ॥४०॥ दुःखं महत्तरं प्राप्ताः पूर्वजन्मकृतेन वै । देवांशानां कथं तेषां संशयोऽयं महान्हि मे ॥४१॥ सदाचारैस्त कौंतेयर्भीष्मद्रोणादयो हताः। छलने धनलोभार्थं जानानैर्नश्वरं जगत् ॥४२॥
Page 187
श्रीमद्वेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २ १८७
प्रेरिता वासुदेवेन पापे घोरे महात्मना। कुलं क्षयितवंतस्ते हर्ि. परमात्मना ॥४३॥ वरं भिक्षाटनं साधो नीवारैर्जोवनं वरम्। योधान्न हत्वा लोभे। शिल्पेन जीवनं वरम् ॥४४॥ विच्छिन्नस्तु त्वया वंशो रक्षितो मुनिसत्तम। समृत्पाद्य सुतानाशु गोलकाञ्छत्रुनाशनान्।४५। सोडल्पेनैव तु कालेन विराटतवयासुतः । तापसस्य गले सर्प न्यस्तवान्कथमद्द्ुतम् ॥४६॥ न कोऽपि ब्राह्मणं द्वेष्टि क्षत्रियस्य कुलोद्द्वः। तापसं मौनसंयुक्तं पित्रा किं तत्कृतं मुने ॥४७॥ एतरन्यैश्र संदेशर्विकलं मे मनोऽधुना। स्थिरं कुरु पितः साधो सर्वज्ञोऽसि दयानिधे॥४८॥ इति श्रीदेवीभागवते चतुर्थस्कन्धे जनमेजयप्रश्नो नाम प्रथमोऽध्यायः॥१॥ अथ द्वितीयोऽध्यायः
वं पृष्टः पुराणज्ञो सूत उवाच सत्यवतीसुतः । परीक्षितसुतं शांतं ततो वै जनमेजयम् ॥१॥ उवाच संशयच्छेत्तृ वाक्यं वाक्यविशारदः । व्यास उवाच न्किमेतद्वक्तव्यं कर्मणो गहना गतिः ॥२॥ दुर्ज्ञेया किल देवानां मानवानां च का कथा। यदा समुत्थित चंतद्ब्रह्माण्डं त्रिगुणात्मकम् ॥३॥ कर्मणैव समृत्पत्तिः सर्वेषां नात्र संशयः । अनादिनिधना जीवाः कर्मबीजसमुद्वाः ॥४॥ नानायोनिपु जायंते म्रियंते च पुनः पुनः । कर्मणा रहितो देहसंयोगो न कदाचन ॥५॥ शुभाशुर्भैस्तथा मिश्रैः कर्मभिर्वेष्टितं त्विदम् । त्रिविधानि हि तान्याहुर्बुधास्तत्त्वविदश्च ये ॥६।। संचितानि भविष्यन्ति प्रारब्धानि तथा पुनः । वर्तमानानि देहेऽस्मिस्त्रविध्यं कर्मणां किल ॥७॥ ब्रह्मादीनां न सर्वेषां तद्वशत्वं नराधिप। सुखं दुःखं जरामृत्युहर्षशोकादयस्तथा ।८॥ कामक्रोधौ च लोभश्च सर्वे देहगता गुणाः। दैवाघोनाश्च सर्वेषां प्रभवंति नराधिप ।।९। रागद्वेषादयो भावाः स्वर्गेऽपि प्रभवंति हि। देवानां मानवानां च तिरश्चां च तथा पुनः ॥१०॥ विकाराः सर्व एवैते देहेन सह संगताः । पूर्ववैरानुयोगेन स्नेहयोगेन वै पुनः ॥११॥ उत्पत्तिः सर्वजंतूनां विना कर्म न विद्यते। कर्मणा भ्रमते सूर्यः शशांकः क्षयरोगवान् ॥१२॥ कपाली च तथा रुद्रः कर्मणव न संशयः । अनादिनिधनं चैतत्कारणं कर्म विद्यते ॥१३॥ तेनेह शाश्वतं सर्वं जगत्स्थावरजंगमम् । नित्यानित्यविचारेऽत्र निमग्ना मुनयः सदा ॥१४॥ न जानंति किमेतद्वै नित्यं वाऽनित्यमेव च। मायायां विद्यमानायां जगन्नित्यं प्रतीयते ॥१५॥ कार्याभाव: कथं वाच्यः कारणे सति सर्वथा। माया नित्या कारणं च सर्वेषां सर्वदा किल ॥१६॥।
Page 188
१८८ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: २ कर्मबोजं ततो नित्यं चिंतनीयं सदा बुधैः। भ्रमत्येव जगत्सर्वं राजन्कर्मनियंत्रितम् ॥१७॥ नानायोनिषु राजेंद्र नानाधर्ममयेषु च । इच्छया व भवेज्जन्म विष्णोरमिततेजसः ॥१८॥ युगेयुगेष्वनेकासु नोचयोनिषु तत्कथम् । त्यक्त्वा वैकुंठसंवासं सुखभोगाननेकशः ॥१९॥ विण्मूत्रमंदिरे वासं संत्रस्तः कोऽभिवांछति । पुष्पावचयलीला च जलकेलिः सुखासनम् ॥२०॥ त्यक्त्वा गर्भगृहे वासं कोऽभिवांछति बुद्धिमान् । तूलिकां मृदुसंयुक्तां दिव्यां शय्यां विनिर्मिताम् ॥२१॥ त्यक्त्वाऽधोमुखवासं च कोऽभिवांछति पंडितः । गीतं नृत्यं च वाद्यं च नानाभावसमन्वितम् ॥२२॥ मुक्त्वा को नरके वासं मनसापि विचिंतयेत्। सिंधुजोद्द्तभावानां रसं त्यक्त्वा सुदुस्त्यजम्॥।२३॥ विण्मूत्ररसपानं च क इच्छेन्मतिमान्नरः । गर्भवासात्परो नास्ति नरको भुवनत्रये ॥२४॥ तद्दीताश्च प्रकुर्वन्ति मुनयो दुस्तरं तपः । हित्वा भोगं च राज्यं च वने यांति मनस्विनः २५॥ तद्ीतस्तु विमूढात्मा कस्तं सेवितुमिच्छति। गर्भे तुदंति कृमयो जठराग्निस्तपत्यधः ॥२६॥ वपासंवेष्टनं क्ररं किं सुखं तत्र भूपते। वरं कारागृहे वासो बन्धनं निगडैर्वरम् ।२७॥ अल्पमात्रं क्षणं नैव गर्भवासः क्वनिच्छुभः । गर्भवासे भहद्दुःखं दशमासनिवासनम् ॥२८॥ तथा निःसरणे दुःखं योनियंत्रेऽतिदारुणे। बालभावे सदा दुःखं मूकाज्ञभावसंयुतम् ।।२९।। क्षुत्तृडा वेदनाऽशक्तः परतंत्रोऽतिकातरः । क्षुधिते रुदिते बाले माता चिंतातुरा तदा ॥३०॥ नानाविधानि दुःखानि बालभावे भवंति वै ॥३१॥ कि सुखं विबुधा दृष्टा जन्म वांछंति चेच्छया। संग्रामममरः सार्धं सुखं त्यक्त्वा निरंतरम् ॥३२॥ कर्तुमिच्छेच्च को मूढः श्रमदं सुखनाशनम् । सर्वथैव नृपश्रेष्ठ सर्वे ब्रह्मादयः सुराः ॥३३॥ कृतकर्मविपाकेन प्राप्नुवंति सुखासुखे । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ नृपोत्तम ।।३४।। तपसा दानयज्ञैश्च मानवश्चेन्द्रतां व्रजेत्। क्षीणे पुण्येऽथ शक्रोऽपि पतत्येव न संशयः ॥३५॥ रामावतारयोगेन देवा वानरतां गताः । तथा कृष्णसहायार्थ देवा यादवतां गताः ॥३६॥ एवं युगे युगे विष्णुरवताराननेकशः। करोति धर्मरक्षार्थ ब्रह्मणा प्रेरितो भृशम् ॥३७॥ पुनः पुनर्हरेरेवं नानायोनिषु पार्थिव। अवतारा भवंत्यन्ये रथनक्रवदद्द्ुताः ॥३८। दैत्यानां हननं कर्म कर्तव्यं हरिणा स्वयम्। अंशांशेन पृर्थिव्यां वै कृत्वा जन्म महात्मना ॥३९॥ तदहं संप्रवक्ष्यामि कृष्णजन्मकथां शुभाम्। स एव भगवान्विष्णुरवतोर्णो यदोः कुले॥४०॥ कश्यपस्य मुनेरंशो वसुदेवः प्रतांपवान्। गोवृत्तिरभवद्राजन्पूर्वशापानुभावतः ।।४१। कश्यपस्य च द्वे पत्न्यौ शापादत्र महीपते। अदितिः सुरमा चवमासतुः पृथिवीपते ॥४२॥
Page 189
श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः ३ १८९. देवकी रोहिणी चोभे भगिन्यो भरतर्षभ। वरुणेन महाञ्छापो दत्तः कोपादिति श्रुतम् ॥४३॥ राजोवाच किं कृतं कश्यपेनागो येन शप्तो महानृषिः । सभार्यः स कथं जातस्तद्वदस्व महामते ॥४४॥' कथं च भगवान्विष्णुस्तत्र जातोऽस्ति गोकुले। वासी वैकुण्ठनिलये रमापतिरखंडितः ॥४५॥ निदेशात्कस्य भगवान्वर्तते प्रभुरव्ययः । नारायणः सुरश्रेष्ठो युगादिः सर्वधारकः ॥४६॥ स कथं सदनं त्यक्त्वा कर्मवानिव मानुषे। करोति जननं कस्मादत्र मे संशयो महान् ।४७॥। प्राप्य मानुषदेहं तु करोति च विडंबनम्। भावान्नानाविधांस्तत्र मानुषे दुष्टजन्मनि ॥४८।। काम: क्रोधोऽमर्षशोकौ वरं प्रीतिश्च कहिंचित्। सुखं दुःखं भयं नृणां दैन्यमार्जवमेव च।।४९।। दुष्कृतं सुकृतं चव वचनं हननं तथा। पोषणं चलनं तापो विमर्शश्र विकत्थनम् ॥५०॥ लोभो दंभस्तथा मोहः कपटः शोचनं तथा। एते चान्ये तथा भावा मानुष्ये संभवंति हि ॥५१॥ स कथं भगवान्विष्णुस्त्यक्त्वा सुखमनश्वरम्। करोति मानुषं जन्म भार्वस्तस्तैरभिद्रुतम् ॥५२॥ कि सुखं मानुषं प्राप्य भुवि जन्म मुनीश्वर। किं निमित्तं हरिः साक्षाद्वर्भवासं करोति वै॥।५३॥ गर्भदुःखं जन्मदुःखं बालभावे तथा पुनः । यौवने कामजं दुःखं गार्हस्थ्येऽतिमहत्तरम् ॥५४॥ दुःखान्येतान्यवाप्नोति मानुषे द्विजसत्तम। कथं स भगवान्विष्णुरवतारान्पुनः पुनः ॥५५॥ प्राप्य रामावतारं हि हरिणा ब्रह्मयोनिना। दुःखं महत्तरं प्राप्तं वनवासेऽतिदारुणे ॥५६॥ सीताविरहजं दुःखं संग्रामश्च पुनः पुनः । कांतात्यागोऽप्यनेनैवमनुभूतो महात्मना ॥५७॥ तथा कृष्णावतारेऽपि जन्म रक्षागृहे पुनः। गोकुले गमनं चंव गवां चरणमित्युत ॥५८। कंसस्य हननं कष्टाद्द्वारकागमनं पुनः। नानासंसारदुःखानि भुक्तवान्भगवान्कथम् ।५९॥ स्वेच्छया कः प्रतीक्षेत युक्तो दुःखानि ज्ञानवान् । संशयं छिधि सर्वज्ञ मम चित्तप्रशांतये ॥६०॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे द्वितीयोऽध्यायः ॥ २॥ अथ तृतीयोऽध्यायः व्यास उवाच कारणानि बहून्यत्राप्यवतारे हरः किल। सर्वेषां चैव देवानामंशावतरणेष्वपि॥१॥ वमुदेवावतारस्य कारणं शृणु तत्त्वतः। देवक्यार्श्रव रोहिण्या अवतारस्य कारणम् ॥२॥ एकदा कश्यपः श्रीमान्यज्ञार्थ धेनुमाहरत्। याचितोऽयं बहुविधं न ददौ धेनुमुत्तमाम् ॥३॥ वरुणस्तु ततो गत्वा ब्रह्माणं जगतः प्रभुम् । प्रणम्योबाच दीनात्मा स्वदुःखं विनयान्ति -: ॥४॥ कि करोमि महाभाग मत्तोऽसी न ददाति गाम्। शापो मया विसृष्टोऽस्मै गोपालो भव मा के॥५॥
Page 190
१९० श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ३ भार्ये द्वे अपि तत्रव भवेतां चातिदुःखिते। ततो वत्सा रुदंत्यत्र मातृहीनाः सुदुःखिताः ॥६॥ मृतवत्साऽदितिस्तस्माद्द्विष्यति धरातले। कारागारनिवासा व तेनापि बहुदुःखिता।।७॥ व्यास उवाच तच्छ्रत्वा वचनं तस्य यादोनाथस्य पद्मभूः । समाहूय मुनि तत्र तमुवाच प्रजापतिः ॥८।। कस्मात्त्वया महाभाग लोकपालस्य धेनवः । हृताः पुनर्न दत्ताश्च किमन्यायं करोषि च ॥९॥ जानन्न्यायं महाभाग परवित्तापहारणम्। कृतवान्कथमन्यायं सर्वज्ञोऽसि महामते ॥१०॥ अहो लोभस्य महिमा महतोऽपि न मुंचति । लोभं नरकदं नून पापाकरम्संमतम् ॥११॥ कश्यपोऽपि न तं त्यक्तुं समथ: किं करोम्यहम् । सर्वदैवाधिकस्तस्माल्लोभो वै कलिंतो मया ॥१२।। धन्यास्ते मुनयः शांता जितो यैर्लोभ एव च। वैखानसैः शमपरैः प्रतिग्रहपराङ्मुखैः ॥१३॥ संसारे बलवाञ्छत्रुर्लोभोऽमेध्योऽवरः सदा। कश्यपोऽपि दुराचारः कृतस्नेहो दु रात्मना ॥१४॥ ब्रह्मापि तं शशापाथ कश्यपं मुनिसत्तमम् । मर्यादारक्षणार्थं हि पौत्रं परमवल्लभम् ॥१५॥ अंशेन त्वं पृथिव्यां वै प्राप्य जन्म यदोः कुले। भायया संयुतस्तत्र गोपालत्वं करिष्यसि ॥१६॥ व्यास उवाच एवं शप्त: कश्यपोऽसौ वरुणेन च ब्रह्मणा। अंशावतरणार्थाय भूभारहरणाय च॥१७॥ तथा दित्याऽदितिः शप्ता शोकसंतप्तया भृशम् । जाता जाता विनश्येरंस्तव पुत्रास्तु सप वै ॥१८॥ जनमेजय उवाच कस्माददित्या च भगिनी शप्तेंद्रजननी मुने। कारणं वद शापे च शोकस्तु मुनिसत्तम ।१९।। सूत उवाच पारीक्षितेन पृष्टस्तु व्यासः सत्यवतीसुतः । राजानं प्रत्युवाचेदं कारणं सुसमाहितः ॥२०॥ व्यास उवाच राजन्दक्षसुते द्वे तु दितिश्चादितिरुत्तमे। कश्यपस्य प्रिये भाये बभूवतुरुरुत्रमे ॥२१॥ अदित्यां मघवा पुत्रो यदाज्भूदतिवीर्यवान्। तदा तु तादृशं पुत्रं चकमे दितिरोजसा ॥२२॥ पितामहासितापांगी पुत्रं मे देहि मानद । इंद्रतुल्यं बलं वीरं धर्मिषठं वीर्यवत्तमम् ॥२३॥ तामुवाच मुनिःकान्ते स्वस्था भव मयोदिते। व्रतांते भविता तुभ्यं शतक्रतुसमः सुतः ॥२४॥ सा तथेति प्रतिश्रुत्य चकार व्रतमुत्तमम्। निषिक्तं मुनिना गर्भ बिभ्राणा सुमनोहरम् ॥२५॥ भूमौ चकार शयनं पयोव्रतपरायणा। पवित्रा धारणायुक्ता वभूव वरर्व्णिनी॥२६॥ एवं जातः सुसंपूर्णो यदा गर्भोऽषि वीर्यवान्। शुभ्रांशुमतिदोप्तांगीं दिति दृष्टा तु दुःखिता ।।२७।। मघवत्सदृशः पुत्रो भविर्ष्यात महाबलः । दित्यास्तदा मम सुतस्तेजोहीनो भवेत्किल ॥२८॥
Page 191
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः ३ १९१ इति चिंतापरा पुत्रमिंद्रं चोवाच मानिनी। शत्रुस्तेऽद्य समुत्पन्नो दितिगर्भेंऽतिवीर्यवान् ॥२९॥ उपायं कुरु नाशाय शत्रोरद्य विचित्य च । उत्पत्तिरेव हंतव्या दित्या गर्भस्य शोभन ॥३०।। वीक्ष्य तामसितापांगीं सपत्नीभावमास्थिताम् । दुनोति हृदये चिंता सुखमर्मविनाशिनी ॥३१॥ राजयक्ष्मेव संवृद्धो नष्टो नैव भवेद्रिपुः। तस्मादंकुरितं हन्याद्बुद्धिमानहितं किल ॥३२। लोहशंकुरिव क्षिप्तो गर्भो वै हृदये मम। येन केनाप्युपायेन पातयाद्य शतक्रतो॥३३॥ सामदानबलेनापि हिंसनीयस्त्वया सुतः । दित्या गर्भो महाभाग मम चेदिच्छसि प्रियम् ३४॥ व्यास उवाच श्रुत्वा मातृवचः शक्रो विचित्य मनसा ततः । जगामापरमातुः स समीपममराधिपः ॥३५॥ ववंदे विनयात्पादौ दित्या पापमतिर्नृप। प्रोवाच विनयेनासौ मधुरं विषगभितम् ॥६॥ इन्द्र उवाच मातस्त्वं व्रतयुक्त्ताऽसि क्षीणदेहाऽतिदुर्बला। सेवार्थमिह संप्राप्तः किं कर्तव्यं वदस्व मे ॥३७॥ पादसंवाहनं तेऽहं करिष्यामि पतिव्रते। गुरुशुश्रूषणात्पुण्यं लभते गतिमक्षयाम् ॥३८॥ न मे किमपि भेदोऽस्ति तथादित्या शपे किल। इत्युक्त्वा चरणौ स्पृष्टा संवाहनपरोऽभवत् ॥३९॥ संवाहनसुखं प्राप्य निद्रामाप सुलोचना। श्रांता व्रतकृशा सुप्ता विश्वस्ता परमा सती ॥४०॥ तां निद्रावशमापन्नां विलोक्य प्राविशत्तनुम्। रूपं कृत्वाऽतिसूक्ष्मं च शस्त्रपाणिः समाहितः॥४१॥ उदरं प्रांवव्ेशाशु तस्या योगबलेन वै। गर्भ चकर्त वञ्रेण सप्तधा पविनायक: ॥४२॥ रुरोद च तदा वालो वञ्रेणाभिहतस्तथा। मा रुदेति शनैरवाक्यमुवाच मंघवानमुम् ॥४३॥ शकलानि पुनः सप्त सप्तधा कर्तितानि च। तदा चैकोनपंचाशन्मरुतश्राभवन्नृप॥४४।। तदा प्रवुद्धा सुदती ज्ञात्वा गर्भ तथा कृतम्। इन्द्रेण छलरूपेण चुकोप भृशदुःखिता ॥४५॥ भगिनीकृत तु सा बुद्ध्वा शशाप कुपिता तदा। अदिति मघवंतं च सत्यव्रतपरायणा ॥४६।। यथा मे कर्नितो गर्भस्तव पुत्रेण छद्मना। तथा तन्नाशमायातु राज्यं मिभुवनस्य तु ॥४७॥ यथा गुप्तेन पापेन मम गर्भो निपातितः । अदित्या पापचारिण्या यथा मे घातितः सुतः ॥४८॥ तस्याः पुत्रास्तु नश्यंतु जाता जाता: पुनःपुनः । कारागारे वसत्वेषा पुत्रशोकापुरा भृशम् ॥४९॥ अन्यजन्मनि चाप्येव मृतापत्या भविष्यति। व्याम उवाच इत्युत्सृष्टं तदा श्रुत्वा शापं मरीचिनंदनः ॥५०।। उवाच प्रणयोपेतो वचनं शमयन्निव। मा कोपं कुरु कल्याणि पुत्रास्ते बलवत्तरा ।५१॥ भविष्यंति सुराः सर्वे मरुतो मघवत्सखाः। शापोडयं तव वामोरु त्वष्टाविशेऽथ द्वा ।५२।।
Page 192
१९२ श्रीमद्ेवीमागवते महापुराणे चतुर्थस्कन्धे अध्यायः ४ अंशेन मानुषं जन्म प्राप्य भोक्ष्यति भामिनी। वरुणेनापि दत्तोऽस्ति शापः संतापितेन च ॥५३॥ उभयोः शापयोगेन मानुषीयं भविष्यति॥ व्यास उवाच पतिनाऽऽश्वासिता देवी संतुष्टा साऽभवत्तदा ।५४ ।। नोवाच बिप्रियं किंचित्ततः सा वरर्वणणिनी। इति ते केथितं राजन्पूर्वशापस्य कारणम् ॥ अदितिर्देवकी जाता स्वांशेन नर्पसत्तम ।५५।। इति श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोध्यायः राजोवाच विस्मितोऽस्मि महाभाग श्रुत्वाऽडख्यानं महामते। संसारोऽयं पापरूप: कथं मुच्येत बंधनात् ॥१। कश्यपस्यापि दायादस्त्रिलोक्कविभवे सति। कृतवानीदृशं कर्म को न कुर्याज्जुगुप्सितम् ॥२॥ गर्भे प्रविश्य बालस्य हननं दारुणं किल। सेवामिषेण मातुश्च कृत्वा शपथमन्द्ुतम् ॥३॥ शास्ता धर्मस्य गोप्ता च त्रिलोक्याः पतिरप्युत। कृतवानीदृशं कर्म को न कुर्यादसांप्रतम् ॥४॥ पितामहा मे संग्रामे कुरुक्षेत्रेऽतिदारुणम्। कृतवंतस्तथाऽडश्रर्यं दुष्टं कर्म जगद्गुरो ॥५॥ भीष्मो द्रोण: कृपः कर्णो धर्मांशोऽपियुधिष्ठिरः। सवें विरुद्धधर्मेण वासुदेवेन नोदिताः ॥६॥ असारतां विजानंतः संसारस्य सुमेधसः। देवांशाश्र कथं चक्रुनिन्दितं धर्मतत्पराः ।७॥ राSSस्था धर्मस्य विप्रेंद्र प्रमाणं किं विनिश्चितम्। चलचित्तोऽस्मि संजातः श्रुत्वा चंतत्कथानकम् ॥८॥ आप्तवाक्यं प्रमाणं चेदाप्तः कः परदेहवान् । पुरुषो विषयासक्तो रागी भवति सर्वथा ॥९॥ रागो द्वेषो भवेन्नूनमर्थनाशादसंशयम्। द्वेषादसत्यवचनं वक्तव्यं स्वार्थसिद्धये ॥१०॥ जरासंधविघातार्थं हरिणा सत्त्वमूर्तिना। छलेन रचितं रूपं ब्राह्मणस्य विजानता ॥११॥ तदाप्तः कः प्रमाणं कि सत्त्वमूर्तिरपीदृशः । अर्जुनोऽपि तर्थवात्र कार्ये यज्ञविनिर्मिते ॥१२॥ कीदृशोऽयं कृतो यज्ञः किमर्थ शमवर्जितः । परलोकपदार्थ वा यशसे वाऽन्यथा किल ॥१३॥ धर्मस्य प्रथमः पादः सत्यमेतच्छ्रतेर्वचः । द्वितीयस्तु तथा शौंचं दया पादस्तृतीयकः॥१४॥ दानं पादश्चतुर्थश्र पुराणज्ञा वदन्ति वै। तैरविहीनः कथं धर्मस्तिष्ठेदिह सुसंमतः ॥१५॥ धर्महीनं कृतं कर्म कथं तत्फलदं भवेत् । धर्मे स्थिरा मतिः क्वापि न कस्यापि प्रतीयते ॥१६॥
Page 193
१३ श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ४ १९३ छला्थं च तदा विष्णुर्वामनोऽभूज्जगत्प्रभुः । येन वामनरूपेण वंचितोऽसी बलिर्नृपः ॥१७॥ विहर्ता शतयज्ञस्य वेदानां परिपालकः । धर्मिष्ठो दानशीलश्च सत्यवादी जितेंद्रियः ॥१८॥ स्थानात्प्रभ्रंशितोऽकस्माद्विष्णुना प्रभविष्णुना । जितं केन तयो: कृष्ण बलिना वामनेन वा ॥१९॥ छलकर्मविदा चापं संदेहोऽत महान्मम। वंचयित्वा वंचितेन सत्यं वद द्विजोत्तम ॥२०॥ पुराणकर्ता त्वमसि धर्मज्ञश्र महामतिः । व्यास उबाच जितं वै बलिगा राजन्दत्ता येन च मेदिनी ॥२१॥ त्रिविक्रमोऽपि नाम्ना यः प्रथितो वामनोऽभवत्। छलनार्थमिदं राजन् वामनत्वं नराघिप ।।२२। संप्राप्तं हरिणा भूयो द्वारपालत्वमेव च। सत्यादन्यतरन्नास्ति मूलं धर्मस्य पार्यिव ।।२३।। दुःसाध्यं देहिनां राजन्सत्यं सर्वात्मना किल। माया बलवती भूप त्रिगुणा बहुरूपिणी ॥२४॥ ययेदं निर्मितं विश्वं गुणैः शबलितं त्रिभिः । तस्माच्छलवतां सत्यं कुतोऽविद्धं भवेन्नृप ।२५॥ मिश्रेण जनितश्रैव स्थितिरेषा सनातनी। वैखानसाश्च मुनयो निःसंगा निष्प्रतिग्रहाः ॥२६॥ सत्ययुक्ता भवन्त्यत्र वीतरागा गततृषः । दृष्टांतदर्शनार्थाय निर्मितास्ते च तादृशाः ॥२७॥ अन्यत्सवं शबलितं गुणैरेभिस्त्रिभिर्नृप। नैकं वाक्यं पुराणेषु वेदेषु नृपसत्तम ।।२८।। धर्मशास्त्रषु चांगेषु सगुणै रचितेष्विह। सगुणः सगुणं कुर्यान्निर्गुणं न करोति थै ।२९॥ गुणास्ते मिश्रिताः सर्वे न पृथग्भावसंगताः । निर्व्यलीके स्थिरे धर्मे मतिः कस्यापि न स्थिरा ॥ भवोद्दवे महाराज मायया मोहितस्य वै। इंद्रियाणि प्रमाथीनि तदासक्तं मनस्तथा ॥३१॥ करोति विविधान्भावान्गुणैस्तैः प्रेरितो भृशम् । ब्रह्मादिस्तंबपर्यंताः प्राणिनः स्थिरजंगमाः ॥३२॥ सर्वे मायावशा राजन्साऽनुक्रीडति तैरिह। सर्वान्व मोहयत्येषा विकुर्वत्यनिशं जगत् ॥३३॥ असत्यो जायते राजन्कार्यवान्प्रथमं नरः । इन्द्रियार्थाश्चितयानो न प्राप्नोति यदा नरः ॥३४॥ तदर्थं छलमादत्ते छलात्पापे प्रवर्तते । कामः क्रोधश्च लोभश्च वैरिणो बलवत्तराः ॥३५॥ कृताकृतं न जानंति प्राणिनस्तद्वशं गताः । विभवे सत्यहंकारः प्रबलः प्रभवत्यपि ॥३६॥ अहंकाराद्द्रवेन्मोहो मोहान्मरणमेव च । संकल्पा बहवस्तत्र विकल्पाः प्रभवंति च ॥३७॥ ईर्ष्यामूया तथा द्रेषः प्रादुर्भवति चेतसि । आशा तृष्णा तथा दैन्यं दंभोऽधर्ममतिस्तथा ॥३८।। प्राणिनां प्रभवंत्येते भावा मोहसमुद्धवाः । यज्ञदानानि तीर्थानि व्रतानि नियमास्तथा ॥३९॥ अहंकाराभिभूतस्तु करोति पुरुषोऽन्वहम्। अहंभावकृतं सर्व प्रभवेद्व न शोचवत् ॥४०॥ रागलोभात्कृतं कर्म सर्वांगं शुद्धिवर्जितम् । प्रथमं द्रव्यशुद्धिश्च द्रष्टव्या वितुषैः किल ॥४१॥ अद्रोहेणाजितं द्रव्यं प्रशस्तं धर्मकर्मणि ।ोहाजितेन द्रम्येण यत्करोति शुभं नरः ॥४२॥
Page 194
१९8 श्रीमद्ेवीभागवने महापुराणे चनुर्थस्कन्धे अध्यायः ५ विपरीतं भवेत्तत्तु फलकाले नृपोत्तम । मनोऽतिनिर्मलं यस्य स सम्यक्फलभाग्भवेत्।४३॥ तस्मिन्विकारयुनं, तु न यथार्थफलं लभेत् । कर्तारः कर्मणां सर्वे आचार्यऋत्विजादयः ॥४४॥ स्युस्ते विशुद्धमनसस्तदा पूर्ण भवेत्फलम। देशकालक्रियाद्रव्यकर्तुणां शुद्धता यदि॥४५॥ मंत्राणां च तदा पृर्ण कर्मणां फलमश्नुते। शत्रूणां नाशमुद्दिश्य स्ववृद्धिं परमां तथा ॥४६॥ करोति सुकृतं तद्वद्विपरीतं भवेत्किल। स्वार्थासक्तः पुमान्नित्यं न जानाति शुभाशुभम्॥४७॥ दैवाघीनः सदा कुर्य्यात्पापमेव न सत्कृतम्। प्राजापत्याः सुराः सर्वे ह्यसुराश्च तदुद्दवाः ॥४८।। सर्वे ते स्वार्थनिरताः परस्परविरोधिनः । सत्त्वोद्धवाः सुराः सर्वेऽप्युक्ता वेदेषु मानुषाः ४९॥ रजोद्द्रवास्तामसास्तु तिर्यचः परिकीर्तिताः । सत्त्वोद्द्वानां तैरवेरं परस्परमनारतम् ॥५०॥ तिरश्रामत्र कि चित्रं जातिवरसमुन्द्वे। सदा द्रोहपरा देवास्तपोविघ्नकरास्तथा ॥५१॥ असन्तुष्टा द्वेषपराः परस्परविरोघिनः । अहंकारसमद्धतः संसारोऽयं यतो नृप ।। रागद्वेषविहीनस्तु स कथं जायते नृप ।।५२।। इति श्रीदेवीभागवते महापुराणे चनुर्थस्कन्धे चनुर्थोऽध्यायः ॥४॥ अथ पश्चमोऽध्यायः
व्यास उवाच अथ कि यदुनोक्तेन संसारेऽस्मिन्नृपोत्तम । धर्मात्माज््रोहबुद्धिस्तु कश्रिद्भवति कहिचित् ।१।। रागद्वेषावृतं विश्वं सवं स्थावरजंगमम् । आद्ये युगेडाप राजेंद्र किमद्य कलिदृषिते ॥२॥ देवाः सेष्याश्र सद्रोहाश्छलवर्मग्ताः सदा। मानुपाणां तिरश्षां च का वार्ता नृप गण्यते ।।३।। द्रोहपरे द्रोहपरो भवेदिति समानता। अद्रोहिणि तथा शांते विद्रेषः खलता स्मृता ॥४।। यः कश्चित्तापसः शांतो जपध्यानपरायणः। भवेत्तस्य जपे विघ्नकर्ता वै मधवा परम्॥५॥ सतां सत्ययुगं साक्षात्सर्वदैवावतां कलिः। मध्यमो मध्यमानां तु क्रियायोगो युगे स्मृतौ ॥६॥ सत्यधर्मानुवर्तकः । अन्यथाऽन्ययुगानां वै सर्वे धर्मपरायणा: ॥७॥ वासना कारणं राजन्सर्वत्र धर्मसंस्थिती। तम्यां वै मलिनायां तु धर्मोऽपि मलिनो भवेत् ।।८।। मलिना वासना सत्यं विनाशायेति सर्वथा। ब्राह्मणो हृदयाज्जातः पुत्रो धर्म इति स्मृतः ॥९॥ ब्राह्मणः सत्यसंपन्नो वेदधर्मरतः सदा । दक्षस्य दुहितारो हि वृता दश महात्मना ॥१०।। विवाहविधिना सम्यङ् मुनिना गृहधर्मिणा। तास्वजीजनयत्पुत्नान्धर्मः सत्यवतां वरः ॥११॥ हरि कृष्णं नरं चंत्र तथा नारायणं नृप। योगाभ्यासरतो नित्यं हरिः कृष्णो बभूव ह॥१२॥ नरनारायणौ चंव चेरतुस्तप उत्तमम्। प्रालेयाद्रि समागत्य तीर्थे वदरिकाश्रमे ।१३॥
Page 195
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ५ १९५ तपस्विषु धुरीणौ तौ पुराणौ मुनिसत्तमौ। गृणंतौ तत्परं ब्रह्म गंगाया विपुले तटे ॥१४॥ हरेरंशौ स्थितौ तत्र नरनारायणावृषी। पूर्ण वर्षतहस्त्रं तु चक्राते तप 'उत्तमम् ॥१५॥ तापितं च जगत्सर्व तपसा सचराचरम्। नरनारायणाभ्यां च शक्रः क्षोभं तदा ययो ॥१६॥ चिन्ताविष्टः सहस्राक्षो मनसा समकल्पयत् । कि कर्तव्यं धर्मपुत्रौ तापसौ ध्यानसंयुतौ ॥१७॥। सिद्धार्थौ सुभृशं श्रेष्ठमासनं नो ग्रहीष्यतः । विघ्नः कथं प्रकर्तव्यस्तपो येन भवेन्न हि ॥१८॥ उत्पाद्य कामं क्रोधं च लोभं वाप्यतिदारु म्। इत्युद्दिश्य सहस्राक्षः समारुह्य गजोत्तमम् ॥१९॥ विघ्नकामस्तु तरसा जगाम गन्धमादनम् । गत्वा तत्राश्रमे पुण्ये तावपश्यच्छतक्रतुः ॥२०॥ तपसा दीप्देहां तु भास्कराविव चोदितौ। ब्रह्मविष्णू किमेतौ वै प्रकटो वा विभावसू ।२१॥ धर्मपुत्रावृषी एतौ तपसा कि करिष्यतः । इति संचिंत्य तौ दृष्टा तदोवाच शचीपतिः ॥२२॥ किं वां कार्यं महाभागौ ब्रूतं धर्मसुतौ किल। ददामि वां वरं श्रेष्ठं दातुं यातोऽस्म्यहमृषी ।।२३॥ अदेयमपि दास्यामि तुष्टोडस्मि तपसा किल। व्यास उवाच एवं पुनः पुनः शक्रस्तावुवाच पुरःस्थितः ॥२४॥ नोचतुस्तावृषी ध्यानसंस्थितौ दृढचेतसौ। ततो व मोहिनीं मायां चकार भयदां वृषः ॥२५॥ वृकान्सिहांश्र व्याव्रांश्र समुत्पाद्याबिभीषयत् । वर्ष वातं तथा वह्िं समुत्पाद्य पुनः पुनः ॥२६॥ भीषयामास तौ शक्रो मायां कृत्वा विमोहिनीम्। भयतोऽपि वशं नीतौ न तौ धर्मसुतौ मुनी ॥२७॥ नरनारायणौ दृष्टा शक्रः स्वभवनं गतः । वरदाने प्रलुब्धौ न न भीतौ वह्निवायुतः ॥२८॥ व्याघ्रसिंहादिभि: क्रांतौ चलिती नाश्रमांत्स्वकात्। न तयोर्ध्यानभंगं वै कर्तु कोऽपि क्षमोऽभवत् ॥२९॥ इन्द्रोऽपि सदनं गत्वा चिंतयामास दुःखितः । चलितौ भयलोभाम्यां नेमौ मुनिवरोत्तमौ ॥३०॥ चिंतयंतौ महाविद्यामादिशकि सनातनीम्। ईश्वरीं सर्वलोकानां परां प्रकृतिमद्ुताम् ॥३१॥ ध्यायतां कः क्षमो लोके बहुमायाविदप्युत। यन्मूलाः सकला माया देवासुरकृताः किल ॥३२॥ ते कथं बाधितुं शक्ता ध्यायंति गतकल्मपाः । वाग्वीजं कामबीजं च मायाबीज तपैव च ॥३३॥ चित्ते यस्य भवेत्तं तु बाधितु कोउपि न क्षमः । मायया मोहितः शक्रो भूयस्तस्य प्रतिक्रियाम् ॥३४॥ कर्तु कामवसंतौ तु नमाहूयाब्रदीद्वचः । मनोभववसंतेन रन्या वुक्ता व्रजाधुना ॥३५॥ अप्सरोभिः समायुक्तस्तरसा गंधमादनम्। नरनारायणो तत्र पुराणावृषिसत्तमो ॥३६॥ कुरुतस्तप एकांते स्थितौ बदरिकाश्रमे। गत्वा तत्र समीपे तु तयोर्मन्मथ मार्गणः ॥३७॥ चित्तं कामातुरं कार्य कुरु कार्य ममाधुना। मोहयित्वोच्चाटयित्वा विशिखैस्ताडयाशु च ३८।।
Page 196
१९६ श्रीमददेवीभागवत महापुराणे चतुर्थस्कन्धे अध्याय: ६ वशोपुरु महाभाग मुनी धर्मसुतावपि। को ह्यस्मिन्सर्वसंसारे देवो दैत्योऽथ मानवः॥३९॥ यस्ते बाणवशं प्राप्तो न याति भृशताडितः । ब्रह्माऽहं गिरिजानाथश्चंद्रो वह्निर्विमोहितः ॥४०॥ गणना काऽनयोः काम त्वद्वाणानां पराक्रमे। वारांगनागणोऽयं ते सहायार्थं मयेरितः ।४१।। आगमिष्यति तत्रव रंभादीनां मनोरमः । एका तिलोत्तमा रंभा कार्यं साधवितु क्षमा ।४२।। त्वमेवक: क्षमः कामं मिलितैः कस्तु संशयः । कुरु कार्य महाभाग वदामि तव वांछितम् ।४३॥ प्रलोभितो मयाऽत्य्थं वरदानैस्तपस्विनौ । स्थानान्न चलितौशांतौ वृथाडयं मे गतःश्रमः ४४॥ तथा वै मायया कृत्वा भीषिता तापसौ भृशम् । तथापि नोत्थितौ स्थानाद्देहरक्षापरौ न तौ ॥४५॥ व्यास उवाच इति तस्य वच: श्रुत्वा शक्रं प्राह् मनोभवः । वासवाद्य करिप्यामि कार्यं ते मनसप्सितम् ॥४६॥ यदि विष्णुं महेशं वा ब्रह्माणं वा दिवाकरम् । ध्यायंतौ तौ तदाऽस्माकं भवितारौ वशौ मुनी ४७॥ देवीभक्तं वशीकतुं नाहं शक्तः कथंचन । कामराजं महाबीजं चिंतयंतं मनस्यलम् ॥४८॥ तां देवीं चेन्महाशक्ति संश्रितौ भक्तिभावतः । न तदा मम बाणानां गोचरौ तापसौ किल॥४९।। इन्द्र उवाच गच्छ त्वं च महाभाग सर्वेस्तत्र समुद्यतैः । कार्य ममातिदुःसाध्यं कर्ता हितमनुत्तमम् ॥५०॥ व्यास उवाच इति तेन समादिष्टा ययुः सर्वे समुद्यताः । यत्र तो धर्मपुत्रौ द्वौ तेपाते दुष्करं तपः ॥५१॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे पञ्चमोऽध्यायः ॥५॥ अथ षष्ठोऽध्यायः व्यास उवाच प्रथमं तत्र संप्राप्तो वसंतः पर्वतोत्तमे । पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥१॥ आम्राश्र बकुला रम्यास्तिलकाः किंशुका: शुभाः। सालास्तालास्तमालाश्र मधूकाः पुष्पिता बभुः २॥ बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः। बल्ल्योऽपि पुष्पिताःसर्वा आलिलिंगुर्नगोत्तमान् ३।। प्राणिनः स्वासु भार्यासु प्रेमयुक्ता: स्मरातुराः । वभुवुश्चरातिमत्ताश्र क्रीडासक्ताः परस्परम्॥४॥ ववुर्मदाः सुभंधाश्च सुस्पर्शा दक्षिणानिलाः । इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ।५॥ रतियुक्तस्ततः कामः पूरयन्पञ्च मार्गणान्। चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥६॥ रंभा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे। गानं चक्रः सुगीतज्ञाः स्वरतानसमन्वितम् ॥७॥ तच्छ्रत्वा मधुरोद्गीतं कोकिलानां च कृजितम्। भ्रमरालिविरावं च प्रबुद्धौ तौ मुनीश्वरौ ।।८।।
Page 197
श्रीमद्देवीमागवते महापुराणे चतुर्थस्कन्धे अध्यायः ६ १९० ऋतुराजमकाले तु दृष्टा तौ पुष्पितं वनम्। जातौ चिंतापरौ तत्र नरनारायणावृषी ।९॥ किमद्य शिशिरापायः संवृतः समयं विना। प्राणिनो विह्वलाः सर्वे लक्ष्यंतेतिस्मरातुराः॥१॥ कालधर्मविपर्यासः कथमद्य दुरासदः। नरं नारायण: प्राह विस्मयोत्फुल्ललोचनः ॥११॥ नारायण उवाच पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभांति वै । कोकिलालापसंघुष्टा भ्रमरालिविराजिताः ॥१२॥ शिशिरं भीममातंगं दारयन्स्वखरैर्नखैः। वसंतकेसरी प्राप्तः पलाशकुसुममुने ॥१३॥ रक्ताशोककरा तन्वी देवर्षे किशुकांघ्रिका। नोलाशोककचा श्यामा विकासिकमलानना ॥१४।। नीलेंदीवरनेत्रा, सा बिल्ववृक्षफलस्तनी। प्रोत्फुल्लकुंदरदना मंजरी कर्णशोभिता।।१५।। बंधुजीवघरा शुभ्रा सिंधुवारनखोद्वा। पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥१ ६॥ बहिवृन्दकलापा च सारसस्वननूपुरा। वासंतो बद्धरशना मत्तहंसगतिस्तथा ।१७।। पुत्र जीवांशुकन्यस्त रोमराजिविराजिता । वसंतलक्ष्मीः संप्राप्ता ब्रह्मन्बदरिकाश्रमे ॥१८॥ अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना। तपोविघ्नकरा नूनं देवर्षे परिचिंतय ।१९।। श्रूयते सुरनारीणां गानं ध्यानविनाशनम् । आवयोस्तपिभंगाय कृतं मघवता किल ॥२०॥ वृतुराडन्यथा काले प्रोति संजनयेत्कथम् । विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ।२१। वाताः सुगंधाः शीताश्च समायांति मनाहराः । नान्यत्कारणमस्तोह शतक्रतुकृति विना ॥२२॥ इति ब्रुवति विप्राग्ये देवे नारायणे विभौ। सर्वे दृष्टिपथं प्राप्ता मन्मथप्मुखास्तदा ।२३॥ ददर्श भगवान्सर्वान्नरो नारायणस्तथा। विस्मयाविष्टमनसौ त्रभूवतुरुभावपि ॥२४।। मन्मथं मेनकां चैव रंभां चैव तिलोत्तमाम्। पुष्पगंधां सुकेशीं च महाश्वेतां मनोरमाम् ॥२५॥ प्रमद्वरां घृताचीं व गीतज्ञां चारुहासिनीम्। चंद्रप्रभां च सोमां च कोकिलालापमंडिताम् ॥२६॥ विद्युन्मालांबुजाक्षीं च तथा कांचनमालिनीम्। एताश्रान्या वरारोहा दष्टास्ताभ्यां तदाऽन्तिके २७। तासां द्वयष्टसहस्राणि पंचाशदाधकानि च । वीक्ष्य तौ विस्मितौ जानी कामसैन्यं सुविस्तरम् २८।। प्रणम्याग्रे स्थिताः सर्वा देववारांगनास्तदा। दिव्याभरणभूषाढया दिव्यमाल्योपशोभिताः॥२९॥ जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम्। तत्तथाऽवस्थितं दिव्यं मन्मथादिविवर्धनम् ॥३०॥ शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा। श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ३१॥ आस्यतां सुखमत्रंव करोम्यातिथ्यमद्भतम्। भवंत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥२॥ व्यास उवाच साभिमानस्तु संजातस्तदा नारायणो मुनिः । इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकोर्पया ॥३३॥ वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल। एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम्॥३४॥
Page 198
१९८ श्रीमद्देवीभागवते महाुराणे चनुर्थस्कन्धे अध्यायः ६ इति संचित्य मनसा करेणोरुं प्रताड्य वै। तरसोत्पादयामास नारीं सर्वाङ्गसुंदरीम् ॥३५॥ नारायणोरुसंभूता ह्यर्वशीति ततः शुभा। ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥३६॥ तासां च परिचर्यांथं तावतीश्चातिसुन्दरीः । प्रादुश्चकार तरसा तदा मुनिरसंभ्रमः ॥३७॥ गायंत्यश्च हसंत्यश्च नानोपायनपाणयः । प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वांऽजलिं पुरः३८॥ तां वीक्ष्य विभ्रमकरीं तपसो विभूर्ति देवांगना हि मुमुहुः प्रविमोहयंत्यः । ऊचुश्र तौ प्रमुदिताननपद्मशोभा रोमोद्गमोल्लसितचारुनिजांगवल्ल्यः ॥३९॥ कुर्यु: कथं स्तुतिमहो तपसो महत्त्वं धैर्यं त्थव भवतामभिवीक्ष्य बालाः । अस्मत्कटाक्षविषदिग्धशरेण दग्धः को वा न तत्रभवतां मनसो व्यथा नः॥४०॥ ज्ञातौ युवां नरहरे: परमांशभूतौ देवौ मुनी शमदमादिनिधी सदैव। सेवानिमित्तमिह नो गमनं न कामं कार्यं हरे: शतमखस्य विधातुमेव ।४१। भाग्येन केन युवयोः किल दर्शनं नः संपादितं न विदितं खलु संचितं तत्। चित्तं क्षमं निजजने विहितं युवाभ्यामस्मद्विधे किल कृतागसि तापमुक्तम् ॥४२॥ कुर्वति नैव विबुधास्तपसो व्ययं वै शापेन तुच्छफलदेन महानुभावाः । व्यास उवाच इत्थं निशम्य वचनं सुरकामिनीनां तावूचतुर्मुनिवरौ विनयानतानाम् ॥४३॥ प्रीतौ प्रसन्नवदनो जितकामलोभौ धर्मात्मजौ निजतपोरुचिशोभितांगौ। नरनारायणावूचतुः ब्रवन्तु वांछितान्कामान्ददावस्तुष्टमानसौ ॥४४॥ यांतु स्वर्ग गृहीत्वेमामुर्वशीं चारुलोचनाम् । उपायनमियं बाला गच्छत्वद्य मनोहरा ॥४५॥ दत्ताऽडवाभ्यां वघवतः प्रीणनायोरुसंभवा। स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजंतु च।।४६।। "न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परम्" । देव्य ऊचु: क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्गजम्। नारायण सुरश्रेष्ट भक्त्या परमया मुदा ॥४७/ वांछितं चेद्वरं नाथ ददासि मधुसूदन । तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥४८॥ पतिस्त्वं भव देवेश वरमेनं परंतप। भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ।४९।। त्वया चोत्पादिता नार्य: संत्यन्याश्चारुलोचनाः । उर्वश्याद्यास्तथा यांतु स्वरगं वै भवदाज्ञया ॥५०॥ स्त्रीणां षोडशसाहसत्रं तिष्टत्वत्र शतार्धकम्। सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥५१॥
Page 199
श्रीमद्ेवीभागवते महापुराणे चनुर्थस्कन्धे अध्याय: ७ १९९ वांछितं द्रेहि देवेश सत्यवाग्भव माधव। आशाभंगो हिनारीणां हिंसनं परिकीतितम् ॥५२॥ कामार्तानां च मुनिभिर्धर्मज्ञैस्तत्त्वदशिभिः । भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥५३॥ त्यक्तुं नार्हसि देवेश समर्थोसि जगत्पते। नारायण उवाच पूर्ण वर्षसहस्रं तु तपस्तपं मयानत्र वै ॥५४॥ जितेन्द्रियेण चार्वग्य: कथं भंगं करोम्यतः । नेच्छा कामे सुखे काचित्सुखधर्मविनाशके।५५॥ पशनामपि साधम्ये रमेत मतिमान्कथम् । अप्सरस ऊचु: शब्दादीनां च पंचानां मध्ये स्पर्शसुखं वरम् ॥५६॥ आनंदरसमूलं वै नान्यदस्ति सुखं किल। अतोऽस्माकं महाराज वचनं कुरु सर्वथा ।५७॥ निर्भरं सुखमासाद्य चरस्व गंधमादने । यदि वांछसि नाकं त्वं नाधिको गंधमादनात्।। रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुरांगनाः ।५८।। इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे षष्ठोऽध्यायः ॥६॥ अथ सप्तमोऽध्यायः व्यास उवाच इत्याकर्ण्य वचस्तासां धर्मपुंत्रः प्रतापवान्। विमर्शमकरोज्चित्ते कि कर्तव्यं मयाऽधुना ।१। हास्योऽहं मुनिवृन्देषु भविष्याम्यद्य संगमात्। अहंकारादिदं प्रातं दुःखं नात्र विचारणा ।।२।। मूलं संसारवृक्षस्य यतः प्रोक्तो महात्मनिः । दृष्टा मौनं समाधाय न स्थितोऽहं समागतम् ॥३॥ वारांगनागणं जुष्टं तेनासं दुःखभाजनम् । उत्पादितास्तथा मार्यो मया धर्मव्ययेन वै ॥४॥ तास्तु मां बाधितुं वृत्ता: कामार्ताः प्रमदोत्तमा। ऊर्णनाभिरिवाद्याहं जालेन स्वकृतेन वै ॥५॥ बद्धोऽस्मि सुदृढेनात्र किं कर्तव्यमतः परम् । यदि चिंतां समुत्सृज्य संत्यजाम्यबला इमाः ॥६॥ शप्त्वा भ्रष्टा व्रजिष्यंति सर्वा भग्नमनोरथाः । मुक्त्तोऽहं संचरिष्यामि विजने परमं तपः ॥७॥ तस्मात्क्रोधं समुत्पाद्य त्यक्ष्या म सुन्दरीगणम् । व्यास उवाच इति संचित्य मनसा मुनिर्नारायणस्तदा ।।८।। विमर्शमकरोन्चिने सुखोत्पादनसाधने। ड्रितीयोऽयं महाशत्रुः क्रोधः संतापकारकः ॥९॥ कामादप्यधिको लोके लोभादपि च दारुण: । क्रोधाभिभूतः कुरुते हिंसां प्राणविधातिनीम् ॥१०
Page 200
२०० श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ७ दुःखदां सर्वभूतानां नरकारामदीर्घिकाम्। यथाऽग्निर्घर्षणाज्जातः पादपं प्रदहेत्तथा ॥११।। देहोत्पन्नस्तथा क्रोधो देहं दहति दारुण: । व्यास उवाच इति संचित्यमानं भ्रातरं दीनमानसम् ॥१२॥
उवाच वचनं तथ्यं नरो धर्मसुतोऽनुजः । नर उवाच नारायण महाभाग कोपं यच्छ महामते ।।१३ ।। शांतं भावं समाश्रित्य नाशयाहंकृति पराम्। पुराऽहंकारदोषेण तपो नष्टं किलावयोः ॥१४॥ संग्रामश्चाभवत्ताम्यां भावाभ्यामसुरेण ह। दिव्यवर्षसहस्त्रं तु प्रह्लादेन महान्ुतम् ॥१५॥ दुःखं बहुतरं प्राप्तं तत्रावाभ्यां सुरोत्तम । तस्मात्क्रोधं परित्यज्य शांतो भव मुनीश्वर ॥१६॥ "शांतत्वं तपसो मूलं मुनिभिः परिकीर्तितम्।" व्यास उवाच इति तस्य वचः श्रुत्वा शांतोऽ्भूद्धर्मनन्दनः । जनमेजय उवाच संशयोऽयं मुनिश्रेष्ठ प्रह्लादेन महात्मना ।१७।। विष्णुभक्त्ेन शांतेन कथं युद्धं कृतं एरा। कृतवंतौ कथं युद्धं नरनारायणावृषी ॥१८॥ तापसौ धर्मपुत्रौ द्वौ सुशांतमानसावुभौ। समागमः कथं जातस्तयोदैत्यसुतस्य च ॥१९॥ संग्रामस्तु कथं ताभ्यां कृतस्तेन महात्मना । प्रह्लादोऽप्यतिधर्मात्मा ज्ञानवान्विष्णुतत्परः॥२०॥ नरनारायणौ तद्वत्तापसौ सत्त्वसंस्थितौ। तेन ताभ्यां समुद्धतं वैरं यदि परस्परम् ॥२१॥ तदा तपसि धर्मे च श्रम एव हि केवलम्। क्व जपः क्व तपंश्चर्या पुरा सत्ययुगेऽपि च ॥२२॥ तादृशैन जितं चित्तं क्रोधाहंकारसंबृतम्। न क्रोधो न च मात्सर्यमहङ्कारांकुरं विना ॥२३॥ अहङ्कारात्समुत्पन्नाः कामक्रोधादयः किल। वर्षकोटिसहस्त्रं तु तपः कृत्वाऽतिदारुणम् ॥२४॥ अहङ्कारांकुरे जात व्यर्थं भवत सर्वथा। यथा सूर्योदये जाते तमोरूपं न तिष्ठति ।।२५।। अहङ्कारांकुरस्याग्रे तथा पुण्यं न तिष्ठति । प्रह्लादोपि महाभाग हरिणा समयुध्यत ॥२६॥ तदा व्यर्थं कृतं सर्वं सुकृतं किल भूतले। नरनारायणौं शान्तौ विहाय परमं तपः ॥२७॥ कृतवन्तो यदा युद्धं क्व शमः सुकृतं पुनः । ईदृग्म्यां सत्त्वयुक्ताभ्यामजेया यद्यहंकृतिः ।२८।। मादृशानां च का वार्ता मुनेऽहङ्कारसंक्षये। अहंकारपरित्यक्तः कोऽप्यस्ति भुवनत्रये ।२९। न भूतो भविता नैव यस्त्यक्तस्तेन सर्वथा। मुच्यते लोहनिगडैर्बद्धः काष्ठमयस्तथा ॥३०॥
Page 201
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ७ २०१
अहंकारनिबद्धस्तु न कदाचिद्विमुच्यते। अ्हंकारावृतं सवं जगत्स्थावरजंगमम् ॥३१।। भ्रमत्येव हि संसारे विष्ठामूत्रप्रदूषिते। ब्रह्मज्ञानं कुतस्तावत्संसारे मोहसंवृते ॥३२।। मतं मीमांसकानां वै संमतं भाति सुव्रत। महांतोऽपि सदा युक्का: कामक्रोधादिभिर्मुने॥३३॥ मादृशानां कलावस्मिन्का कथा मुनिसत्तम। व्यास उवाच कार्य वै कारणाद्धिन्नं कथं भवति भारत ॥३४॥। कटकं कुंडलं चैव सुवर्णसदृशं भवेत्। अहंकारोद्रवं स्र्वं ब्रह्मांडं सचराचरम्॥३५॥ पटस्तंतुवशः प्रोक्तस्तद्वियुक्त: कथं भवरेत्। मायागुणैस्त्रिभिः सर्व रचित स्थिरजंगमम् ॥३६॥ सतृणं स्तंबपर्यतं का तत्र परिदेवना। ब्रह्मा विष्णुस्तथा रुद्रस्ते चाहंकारमोहिताः ॥३७॥ भ्रमंत्यस्मिन्महागाधे संसारे नृपसत्तम । वसिष्ठनारदाद्याश्र भुनयो ज्ञानिनः परम् ॥३८॥ तेडभिभूताः संसरंति संसारेऽस्मिन्पुनः पुनः। न कोऽप्यस्ति नृपश्रेष्ठ त्रिषु लोकेष देहभृत् ॥३९।। एभिर्मायागुणर्मुक्त: शांत आत्मसुखे स्थितः । कामक्रोधो तथा लोभी मोहोऽहंकारसंभवः ॥४०॥ न मुंचंति नरं सर्वं देहवंतं नृपोत्तम। अघोत्य वेदशास्त्राणि पुराणानि विचिंत्य च ४१। कृत्वा तीर्थाटनं दानं ध्यानं चैव सुरार्चनम्। करोति विषयासक्तः सर्वं कर्म च चौरवत् ।४२।। विचारयति नो पूर्वं काममोहमदान्वितः । कृते युगेपि त्रेतायां द्वापरे कुरुनन्दन॥४३॥ विद्धोऽत्रास्ति च धर्मोऽपि का कथाऽद्य कलौ पुनः। स्पर्धा सदैव सद्रोहा लोभामर्षौ च सर्वदा॥४४।। एवंविधोऽस्ति संसारो नात्र कार्या विचारणा। साधवो विरला लोके भवंति गतमत्सराः॥४५॥ जितकोधा जितामर्षा दृष्टांतार्थ व्यवस्थिताः । राजोवाच ते धन्याः कृतपुण्यास्ते मदमोहविवर्जिताः ॥४६॥ जितेंद्रियाः सदाचारा जितं तैर्भुवनत्रयम् । दुनोमि पातकं स्मृत्वा पितुर्मम महात्मनः ॥४७॥ कृतस्तपस्विनः कंठे मृतसर्पो ह्यघं विना । अतस्तस्य मुनिश्रेष्ठ भविता कि ममाग्रतः ॥४८।। न जाने बुद्धिसंमोहातिंक वा कार्य भविष्यति । मधु पश्यति मूढात्मा प्रपातं नैव पश्यति ॥४९।। करोति निंदितं कर्म नरकान्न बिभेति च। कथं युद्धं पुरा वृत्तं विस्तरात्तद्वदस्व मे ॥५०॥ प्रह्लादेन यथा चोग्रं नरनारायणस्य वै। प्रह्लादस्तु कथं यातः पातालात्तद्वदस्व मे ॥५१॥ सारस्वते महातीर्थे पुण्ये बदरिकाश्रमे। नरनारायणौ शांतौ तापसौ मुनिसत्तमौ ॥५२॥ कृतवंतौ तथा युद्धं हेतुना वेन मानद। वैरं भवति वित्तार्थ दारार्थ वा परस्परम् ॥५३॥
Page 202
२०२ श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ८ एषणारहितौ कस्माच्चक्रतुः प्रधनं महत् । प्रह्लादोऽपि च धर्मात्मा ज्ञात्वा देवौ सनातनौ ५४॥ कृतवान्स कथं युद्धं नरनारायणौ मुनी। एतद्विस्तरतो ब्रह्मञछोतुमिच्छामि कारणम् ५५॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे सप्तमोऽध्यायः॥७॥
अथ अष्टमोऽध्यायः
सूत उवाच इति पृष्टस्तदा विप्रो राज्ञा पारीक्षितेन वै। उवाच विस्तरात्सर्वं व्यासः सत्यवतीसुतः ॥१॥ जनमेजयोऽपि धर्मात्मा निर्वेदं परमं गतः। चित्तं दुश्चरितं मत्वा वैराटीतनयस्य वै ॥२॥ तस्यैवोद्धरणार्थाय चकार सततं मनः। विप्रावमानपापेन यमलोकं गतस्य वै ॥३॥ पुन्नामनरकाद्यस्मात्वायते पितरं स्वकम् । पुत्रेति नाम सार्थं स्यातेन तस्य मुनोश्वराः ॥४॥ सर्पदष्टं नृपं श्रुत्वा हर्म्योपरि मृतं तथा। विप्रशापादोत्तरेयं स्नानदानविवर्जितम् ॥५॥। पितुर्गीत निशम्यासौ निर्वेदं गतवान्नृपः । पारीक्षतो महाभागः संतप्तो भयविह्वलः ॥६॥ पप्रच्छाथ मुनिं व्यासं गृहागतमनिदितः । नरनारायणस्येमां कथां परमविस्तृताम्॥७॥
व्यास उवाच स यदा निहतो रौद्रो हिरण्यकशिपुर्नृप। अभिषिक्तस्तदा राज्ये प्रह्लादो नाम तत्सुतः ॥।८।। तस्मिञ्छासति दैत्येंद्रे देवब्राह्मणपूजके। मखैर्भूम्यां नृपतयो यजंतः श्रद्धयान्विताः ॥९॥ ब्राह्मणाश्र तपोधर्मतीर्थयात्राश्र कुर्वते । वैश्याश्र स्वस्ववृत्तिस्थाः शूद्राः शुश्रूषणे रताः १०॥ नृसिंहेन च पाताले स्थापितः सोऽथ दैत्यराट्। राज्यं चकार तत्रैव प्रजापालनतत्परः ॥११॥ कदाचिन्द्रगुपुत्रोऽथ च्यवनाल्यो महातपाः। जगाम नर्मदां स्नातुं तीर्थं वै व्याहृतीश्वरम् ॥१२। रेवां महानदीं दृष्टा ततस्तस्यामवातरत् । उत्तरंतं प्रजग्राह नागी विषभयंकरः ॥१३॥ गृहोतो भयभीतस्तु पाताले मुनिसत्तमः । सस्मार मनसा विष्णुं देवदेवं जनार्दनम् ॥१४॥ संस्मृते पुण्डरीकाक्षे निर्विषोऽभून्महोरगः। न प्राप च्यवनो दुःखं नीयमानो रसातलम् ॥१५॥ द्विजिह्वेन मुनिस्त्यक्तो निर्विण्णेनातिशंकिना। मां शपेत मुनिः क्रुद्धस्तापसोडयं महानिति ॥१६॥ चचार नागकन्याभि: पूजितो मुनिसत्तमः । विवेशाप्यथ नागानां दानवानां महत्पुरम् ॥१७॥ वदाचिद्द्रगुपुत्रं तं विचरंतं पुरोत्तमे। ददर्श दैत्यराजोऽसौ प्रह्लादो धर्मवत्सलः ॥१८॥ दृष्टा तं पूजयामास मुनिं दैत्यपतिस्तदा। पप्रच्छ कारणं कि ते पातालागमने वद ॥१९॥ प्रेषितोऽसि किमिंद्रेण सत्यं बूहि द्विजोत्तम । दैत्यविद्वेषयुक्त्तेन मम राज्यदिदृक्षया ॥२०॥
Page 203
श्रीमद्देवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: ८ २०३
च्यवन उवाच किं मे मघवता राजन् यदहं प्रेषितः पुनः । दूतकार्य प्रकुर्वणः प्राप्तवान्नगरे तव ॥२१॥ विद्धि मां भृगपुत्रं तं स्वनेत्रं धर्मतत्परम्। मा शंकां कुरु दैत्येंद्र वासवप्रेषितस्य वै ॥२२॥ स्नानार्थं नर्मदां प्राप्तः पुण्यतीर्थे नृपोत्तम। नद्यामेवावतीर्णोहं गृहीतश्र महाहिना ॥२३॥ जातोऽसी निर्विषः सर्पो विष्णोः संस्मरणादिव । मुक्तोऽहं तेन नागेन प्रभावात्स्मरणस्य वै ॥२४॥ अत्रागतेन राजेंद्र मयाऽडसं तव दर्शनम् । विष्णुभक्तोसि दैत्येंद्र तद्भ्गक्ततं भा विचिन्तय ।२५॥ व्यास उवाच तन्निशम्य वचः श्लक्ष्णं हिरण्यकशिपोः सुतः । पप्रच्छ परया प्रीत्या तोर्थानि विविधानि च॥२६॥ प्रह्लाद उवाच पृथिव्यां कानि तीर्थानि पुण्यानि मुनिसत्तम । पाताले च तथाऽडकाशे तानि नो वद विस्तरात् २७। च्यवन उवाच मानोवाक्कायशुद्धानां राजंस्तीर्थं पदे पदे। तथा मलिनचित्तानां गंगापि कीकटाधिका ।२८।। प्रथमं चेन्मनः शुद्धं जातं पापविवर्जितम् । तदा तीर्थानि सर्वाणि पावनानि भवंति वै ॥२९॥ गंगातीरे हि सर्वत्र वसंति नगराणि च । व्रजाश्रैवाकरा ग्रामाः सर्वे सेटास्तथापरे ॥३०॥ निषादानां निवासाश्च कैवर्तानां तथापरे। हूणवंगखसानां च म्लेच्छानां दैत्यसत्तम ॥३१॥ पिबंति सर्वदा गांगं जलं ब्रह्मोपमं सदा। स्नानं कुर्वति दैत्येंद्र त्रिकालं स्वेच्छया जनाः॥३२॥ तत्रकोऽपि विशुद्धात्मा न भवत्येव मारिष। किं फलं तहिं तीर्थस्य विषयोपहतात्मसु ।३३॥ कारणं मन एवात्र नान्यद्राजन्विचिन्तय। मनःशुद्धिः प्रकर्तव्या सततं शुद्धिमिच्छता ।।३४।। तीर्थवासी महापापो भवेत्तत्रात्मवंवनात्। तत्रवाचरितं पापमानत्याय प्रकल्पते ॥३५॥ यथेंद्रवारुणं पक्वं मिष्टं नैवोपजायते। भावदुरस्तथा तीर्थे कोटिस्नातो न शुष्यति॥३६॥ प्रथमं मनसः शुद्धिः कर्तव्या शुभमिच्छता। शुद्धे मनसि द्रव्यस्य शुद्धिर्भवति नान्यथा ॥३७।। तर्थवाचारशुद्धिः स्यात्ततस्तीर्थं प्रसिध्यति। अन्यथा तु कतं सर्वं व्यर्थ भवति तत्क्षणात् ३८।। "हीनवर्णस्य संसर्ग तीर्थे गत्वा सदा त्यजेत्।" भूतानुकंपनं चैव कर्तव्यं कर्मणा धिया। यदि पृच्छसि राजेंद्र तीर्थ वक्ष्याम्यनुत्तमम् ॥३९॥ प्रथमं नैमिषं पुण्यं चक्रतीर्थं च पुष्करम् । अन्येषां चैव तीर्थानां संख्या नास्ति महीतले॥४०॥ पावनानि च स्थानानि बहूनि नृप्सत्तम । व्यास उवाच तच्छरत्वा वचनं राजा नैमिषं गंतुमुद्यतः ॥४१।।
Page 204
२०४ श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ९ नोदयामास दैत्यान्वै हर्षनिर्भरमानसः । प्रह्लाद उवाच उत्तिष्ठंतु महाभागा गमिष्यामोऽद्य नैमिषम् ॥४२॥ द्रक्ष्यामः पुंडरीकाक्षं पीतवाससमच्युतम्। व्यास उवाच इत्युक्ता विष्णुभक्त्तेन सर्वे ते दानवास्तदा ।४३।। तेनैव सह पातालान्निर्ययुः परया मुदा। ते समेत्य च दैतेया दानवाश्च महाबलाः ॥४४॥ नैमिषारण्यमासाद्य स्नानं चक्रुमुदान्विताः । प्रह्लादस्तत्र तीर्थेषु चरन्दैत्यैः समन्वितः ॥४५॥ सरस्वतों महापुण्यां ददर्श विमलोदकाम्। तीर्थे तत्र नृपश्रेष्ठ प्रह्लादस्य महात्मनः ॥४६॥ मनः प्रसन्नं संजातं स्नात्वा सारस्वते जले। विधिवत्तत्र दैत्येंद्रः स्नानदानादिकं शुभे।। चकारापि प्रसन्नात्मा तीर्थे परमपावने ॥४७॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धेऽष्टमोऽध्यायः॥८॥ अथ नवमोऽध्यायः
व्यास उवाच कुवंस्तीर्थविधिं तत्र हिरण्यकशिपोः सुतः। न्यग्रोध सुमहच्छायमपश्यत्पुरतस्तदा ।।१।। ददर्श बाणानपरान्नानाजातीयकांस्तदा। गृध्रपक्षयुतांस्तीव्राञ्छिलाधौतान्महोज्ज्वलान्।२। चिंतयामास मनसा यस्येमे विशिखास्त्विह। ऋषीणामाश्रमे पुण्ये तीर्थे परमपावने ॥३॥ एवं चिंतयताऽनेन कृष्णाजिनधरौ मुनी। समुन्नतजटाभारौ दृष्टौ धर्मसुतौ तदा ॥४॥ तयोरग्रे धृते शुभ्रे धनुषी लक्षणान्विते। शार्ङ्गमाजगवं चैव तथाऽक्षय्यो महेषुघी ॥५॥ ध्यानस्थों तौ महाभागौ नरनारायणावृषी। दृष्टा धर्मसुतौ तत्र दैत्यानामधिपस्तदा ॥६॥ क्रोधरक्त्ेक्षणस्तौ तु प्रोवाचासुरपालकः । कि भवद्द्यां समारब्धो दंभो धर्मविनाशनः।।७।। न श्रुतं नैव दृष्टं हि संसारेऽस्मिन्कदापि हि। तपसश्चरणं तीब्रं तथा चापस्य धारणम् ॥८।। विरोधोडयं युगे चाद्य कथं युक्तं कलिप्रियम्। ब्राह्मणस्य तपो युक्तं तत्र कि चापधारणम् ।।९। क्व जटाधारणं देहे क्वेषुधी च विडंबनौ। धर्मस्याचरणं युक्तं युवयोर्दिव्यभावयोः ॥१०॥ व्यास उवाच इति तस्य वच: श्रुत्वा नरः प्रोवाच भारत । का ते चिंताऽत्र दैत्येंद्र वृथा तपसि चावयोः ११॥ सामथ्ये सति यत्कुर्यात्तत्संपद्येत तस्य हि। आवां कार्यद्वये मंद समर्थो लोकविश्रुतौ ॥१२॥
Page 205
श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ९ २०५
युद्धे तपसि साम्थ्यं त्वं पुनः किं करिष्यसि। गच्छ मार्गे यथाकामं कस्मादत्र विकत्थसे॥१३॥ ब्रह्मतेजो दुराराध्यं न त्वं वेद विमोहितः । विप्रचर्चा न कर्तव्या प्राणिभिः सुखमीप्सुभिः १४॥ प्रहाद उवाच तापसौ मन्दबुद्धी स्थौ मृषा वां गर्वमोहितौ। मयि तिष्ठति दैत्येन्द्रे धर्मसेतुप्रवर्तके।१५॥ न युक्तमेतत्तीर्थेडस्मिन्न धर्माचरणं पुनः । का शक्तिस्तव युद्धेऽस्ति दर्शयाद्य तपोधन ॥१६॥
तदाकर्ण्य वचस्तस्य नरस्तं प्रत्युवाच ह। युध्यस्वाद्य मया सार्ध यदि ते मतिरीदृशी ॥१७॥ व्यास उवाच
अद्य ते स्फोटयिष्यामि मूर्धानमसुराधम। "युद्ध श्रद्धा न ते पश्चाद्गविष्यति कदाचन"॥ व्यास उवाच तन्निशम्य वचस्तस्य दैत्येंद्रः कुपितस्तदा ॥१८। प्रह्लादो बलवानत्र प्रतिज्ञामारुरोह सः। येन केनाप्युपायेन जेष्यामि तावुभावपि॥१९॥ नरनारायणो दांतावृषी तपिसमन्वितौ। व्यास उवाच इत्युक्त्वा वचनं दैत्यः प्रतिगृह्य शरासनम् ॥२०॥ आकृष्य तरसा चापं ज्याशब्दं च चकार ह। नरोऽपि धनुरादाय शरांस्तीव्राञ्छिलाशितान् २१।। मुमोच बहुशः क्रोधात्प्रह्लादोपरि पार्थिव ।२२।। बाणस्तरसा समेत्य। समीक्ष्य छिन्नांश्च नरः स्वसृष्टानन्यान्मुमोचाशु रुषान्वितो वै ॥२३॥ दै त्याधिपस्तानपि तीव्रवेगैश्छित्वा जघानोरसि तं मुनोन्द्रम् । नरोऽपि तं पञ्चभिराशुगैश्च क्रुद्धोऽहनद्दैत्यपति बाहुदेशे ॥२४॥ सेंद्राः सुरास्तत्र तयोहिं युद्धं द्रष्टुं विमानैर्गगनस्थिताश्च। नरस्य वीयं युघि संस्थितस्य ते तुष्टुवुर्देत्यपतेश्र भूयः ॥२५॥ ववर्ष दैत्याधिप आत्तचापः शिलीमुखानंबुधरो यथापः । आदाय शार्ङ्ग धनुरप्रमेयं मुमोच बाणाञ्छितहेमपुंखान् ॥२६॥ बभूव युद्धं तुमुलं सयोस्तु जयैषिणोः पार्थिवदेवदैत्ययोः । ववर्षुराकाशपथे स्थितास्ते पुष्पाणि दिव्यानि प्रहृष्टचित्ताः ॥२७।। चुकोप दैत्याघिपतिर्हरौ स मुमोच बाणानतितीव्रवेगान्। चिच्छेद तान्धर्मसुतः सुतीक्ष्णैर्धनुविमुक्तविशिखस्तदाशु ॥।२८।।
Page 206
२०६ श्रीम देवीभागवते महापुराणे चतुर्थस्कन्धें अध्याय: ९ ततो नारायणं बाणेः प्रह्लादश्चातिकर्षितैः। ववर्ष सुस्थितं वीरं धर्मपुत्रं सनातनम् ॥ नारायणोऽपि तं वेगान्मुक्तैर्बाणैः शिलाशितैः ।२९॥ तुतोदातीव पुरतो दैत्यानामधिपं स्थितम्। सन्निपातोऽम्बरे तत्र दिदृक्षूणां बभूव ह॥३॥ देवानां दानवानां च कुर्वतां जयघोषणम् । उभयोः शरवर्षेण छादिते गगने यदा ॥३१॥ दिवाऽपि रात्रिसदृशं बभूव तिमिरं महत् । ऊचुः परस्परं देवा दैत्य।श्चातीव विस्मिताः ॥३२॥ अदृष्टपूर्वं युद्धं व वर्ततेऽद्य सुदरुणम्। देवर्षयोऽथ गंधर्वा यक्षकिन्नरपन्नगाः ॥३३॥ विद्याधराश्चारणाश्च विस्मयं परमं ययुः। नारदः पर्वतश्चैव प्रेक्षणार्थं स्थितौ मुनी ॥३४॥ नारद: पर्वत प्राह नेदृशं चाभवत्पुरा। तारकासुरयुद्धं च तथा वृत्रासुरस्य च ।३५॥ मधुकैटभयोर्युद्धं हरिणा चेदृशं कृतम्। प्रह्लादः प्रबलः शूरो यस्मान्नारायणेन च ॥३६॥ करोति सदृशं युद्धं सिद्धेनाद्भुतकर्मणा। व्यास उवाच दिने दिने तथा रात्रौ कृत्वा कृत्वा पुनः पुनः ॥३७॥ चक्रतुः परमं युद्धं तौ तदा दैत्यतापसौ। नारायणस्तु चिच्छेद प्रह्लादस्य शरासनम् ॥८॥ तरसैकैन बाणेन ग चान्यद्धनुराददे। नारायणस्तु तरसा मुक्त्वान्यं चशिलीमुखम् ।३९॥ तदैव मध्यतश्चापं चिच्छेद लघुहस्तकः । छिन्नं छिन्नं पुनर्देत्यो धनुरन्यत्समाददे ॥४०॥ नारायणस्तु चिच्छेद विशिखैराशु कोपितः । छिन्ने धनुषि दैत्येंद्रः परिधं तु समाददे ॥४१॥ जघान धर्मजं तूर्ण बाहोर्मध्येऽतिकोपनः । तमायांतं स बलवान्मार्गणैर्नवभिमुनिः ॥४२॥ चिच्छेद परिवं वोरं दशभिस्तमताडयत्। गदामादाय दैत्येद्रः सर्वायसमयीं दृढाम् ॥४३॥ जानुदेशे जघानाशु देवं नारायणं रुषा। गदया चापि गिरिवत्संस्थितः स्थिरमानसः ॥४४॥ धर्मपुत्रोऽतिबलवान्मुमोचाशु शिलीमुखान्। गदां चिच्छेद भगवांस्तदा दैत्यपतेर्दृढाम् ॥४५॥ विस्मयं परमं जग्मुः प्रेक्षका गगने स्थिताः। स तु शक्ति समादाय प्रह्लादः परवीरहा॥४६1 चिक्षेप तरसा क्रुद्धो बलान्नारायणोरसि । तामापतंती संवीक्ष्य बाणेनैकेन लीलया ॥४७॥ सप्तधा कृतवानाशु सप्तभिस्तं जघान ह। दिव्यदर्षसहस्त्रं तु तद्युद्धं परमं तयोः ॥४८॥ जातं विस्मयदं राजन्सर्वेपा तत्र चाश्रमे। तदाजगाम तरसा पीतवासाश्चतुर्भुजः॥४९॥ प्रत्लादस्याश्रम तत्र जगाद च गदाधरः । चतुर्भुजो रमाकांतो रथांगदरपद्मभृत् ॥५०॥ दृष्टा तमागनं तत्र हिरण्यर्काशपोः सुतः। प्रणम्य परयाभक्तया प्रांजलिः प्रत्युवाच ह॥ प्रहाद उवाच देवदेव जगलाथ भक्तवताल माधव ।५१।।
Page 207
श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १० २०७
कथं न जितवानाजावहमेतौ तपस्विनौ। संग्रामस्तु मया देव कृतः पूर्ण शतं समाः ॥५२॥ सुराणां न जितौ कस्मादिति मे विस्मयो महान्। विष्णुरुवाच सिद्धाविमौ मदंशौ च विस्मयः कोऽत्र मारिष ॥५३।। तापसौ न जितात्मानौ नरनारायणौ जितौ। गच्छ त्वं वितलं राजन्कुरु भक्ति ममाचलाम् ५४॥ नाभ्यां वरु विराधं त्वं तापसास्यां महामते। व्यास उवाच इत्याज्ञसो दैत्यराजो निर्ययावसुरैः सह। नरनारायणौ भूयस्तपोयुक्तो बभूवतुः ॥५५॥ इति श्रीम देवीभागवते महापुराणे चतुर्थस्कन्धे नवमोऽध्यायः॥९॥ अथ दशमोऽध्यायः जनमेजय उवाच संदेहोऽयं महानत्र पराशर्य कथानके। नरनारायणौ शांतौ वैष्णवांशौ तपोधनौ ॥१॥ तीर्थाश्रमौ सत्त्वयुक्तो वन्याशनपरौ सदा। धर्मपुत्रौ महात्मानौ तापसौ सत्यसंस्थितौ ॥२॥ कथं रागसमायुक्तौ जातौ युद्धे परस्परम्। संग्रामं चक्रतुः कस्मात्त्यक्त्वा तपिमनुत्तमाम् ॥३॥ प्रह्लादेन समं पूर्णं दिव्यवर्षशतं किल। हित्वा शांतिसुखं युद्धं कृतवन्तौ कथं मुनी ॥४॥ कथं तौ चक्रतुर्युद्धं प्रह्लादेन समं मुनी। कथयस्व महाभाग कारणं विग्रहस्य वै ॥५॥ कामिनी कनकं कार्यं कारणं विग्रहस्य वै। युद्धबुद्धिः कथं जाता तयोश्र तद्विरक्तयोः ॥६॥ तथाविधं तपस्तप्तं ताभ्यां च केन हेतुना। मोहाथं सुखभोगारधं स्वर्गार्थं वा परन्तप। कृतमत्युत्कटं ताभ्यां तपः सर्वफलप्रदम् ॥७॥ मुनिभ्यां शांतचित्ताभ्यां प्राप्तं कि फलमन्दतम् । तपसा पीडितो देहः संग्रामेण पुनः पुनः ॥८॥ दिव्यवर्षशतं पूर्णं श्रमेण परिपीडितौ। न राज्यार्थे धने वाऽपि न दारेषु गृहेषु च ।।९।। किमर्थं तु कृतं युद्धं ताभ्यां तेन महात्मना । निरीहः पुरुषः कस्मात्प्रकुर्याद्युद्धमीदृशम् ॥१०॥ दुःखदं सर्वथा देहे जानन्धर्मं सनातनम् । सुबुद्धिः सुखदानीह कर्माणि कुरुते सदा ॥११॥ न दुःखदानि धर्मज्ञ स्थितिरेषा सनातनी। धर्मपुत्री हरेरंशौ सर्वज्ञौ सर्वभूषितौ ॥१२॥ कृतवंतौ कथं युद्धं दुःखं धर्मविनाशकम्। त्यकत्वा ततः समानीतं सुखारामं महत्फलम् ॥१३॥ संयुगं दारुणं कृष्ण नैव मुर्खोऽपि वांछति। श्रुतो मया ययातिस्तु च्युतः स्वर्गान्महीपतिः॥१४॥
Page 208
२०८ श्रीमद्वेवीभागवते महापुराणे चतुर्थस्कन्घे अध्याय: १० पृथिवीतले । यज्ञकृददानकर्ता च धार्मिक: पृथिवीपतिः ॥१५॥ शब्दोच्चारणमात्रेण पातितो वज्तरपाणिना। अहंकारमृते युद्धं न भवत्येव निश्चयः ॥१६॥ किं फलञ्चास्य युद्धस्य मुनेः पुण्यविनाशनम् । व्यास उवाच राजन्संसारमूलं हि त्रिविधं परिकीर्तितम् ॥१७॥ अहंकारस्तु सर्वज्ञैमुनिभिर्धर्मनिश्चये। स कथं मुनिनात्युक्तं योग्यो देहभृतां किल ॥१८।। कारणेन विना कार्यं न भवत्येव निश्चयः । तपो दानं तथा यज्ञाः सात्त्विकात्प्रभवंति ते ॥१९॥ राजसादवा महाभाग तामसात्कलहस्तथा। क्रिया स्वल्पाऽपि राजेंद्र नाहंकारं विना क्वचित् ॥२०॥ शुभा वाऽप्यशुभा वाडपि प्रभवत्यपि निश्चयः । अहंकाराद्वंधकारी नान्योऽस्ति जगतीतले ॥२१॥ येनेदं रचितं विश्वं कथं तद्रहितं भवेत् । ब्रह्मा रुद्रस्तथा विष्णुरहकारयुतास्त्वमी ।२२।। अन्येषां चैव का वार्ता मुनीनां वसुधाधिप। अहंकारावृतं विश्वं भ्रमतीदं चराचरम् ॥२३॥ पुनर्जन्म पुनर्मृत्युः सर्वं कर्मवशानुगम् । देवतिर्यङ्मनुष्याणां संसारेऽस्मिन्महीपते ॥२४॥ रथांगवदसर्वायं भ्रमणं सर्वदा स्मृतम् । विष्णोरप्यवताराणां संख्यां जानाति कः पुमान् २५॥ बिततेऽरस्मिंस्तु संसार उत्तमाधमयोनिषु। नारायणो हरिः साक्षान्मात्स्यं वपुरुपाश्रितः ॥२६।। कामठं सौकरं चंव नारसिंहं च वामनम्। युगे युगे जगन्नाथो वासुदेवो जनार्दनः ॥२७॥ अवतारानसंख्यातान्करोति विधियंत्रितः । वैवस्वते महाराज सप्तमे भमवान् हरिः ॥२८॥ मन्यंतरेऽवतारान्व चक्रे ताञ्छृणु तत्त्वतः । भृगुशापान्महाराज विष्णुर्देववरः प्रभुः ॥२९॥ अवताराननेकांस्तु कृतवानखिलेश्वरः । राजोवाच संदेहोऽयं महाभाग हृदये मम जायते ॥३०॥ भृगुणा भगवान्विष्णुः कथं शप्तः पितामह । हरिणा च मुनेस्तस्य विप्रियं कि कृतं मुने ॥३१॥ यद्रोषा-्द्गुणा शप्तो विष्णुर्देवनमस्कृतः। व्यास उवाच श्रृणु राजन्प्रवक्ष्यामि भृगोः शापस्य कारणम् ॥३२॥ पुरा कश्यपदायादो हिरण्यकशिमुर्नृपः । यदा तदा सुरैः सार्धं कृतं संख्यं परस्परम् ॥३३॥ कृते संख्ये जगत्सर्वं व्याकुलं समजायत। हते तस्मिन्नृपे राजा प्रह्लादः समजायत ॥३४॥ देवान्स पीडयामास प्रह्लादः शत्रुकर्षणः । संग्रामो ह्यभवद्धोरः शक्रप्रह्वादयोस्तदा-॥३५॥
Page 209
१४ श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ११ २०९
पूरणं वर्षशतं राजॅल्लोकविस्मयकारकम्। देवैर्युद्धं कृतं चोग्रं प्रह्नादस्तु पराजितः ॥३६॥ निर्वेदं परमं प्राप्तो ज्ञात्वा धर्म सनातनम् । विराचनसुतं राज्ये प्रतिष्ठाप्य बलिं नृप ।३७।। जगाम स तपस्तप्त पर्वते गन्धमादने। प्राप्य राज्यं बलि: श्रीमान्सुरैवैरं चकारह ॥३८॥ ततः परस्परं युद्धं जातं परमदारुणम्। ततः सुरैजिता दैत्या इन्द्रेणामिततेजसा ॥३९॥ विष्णुना च सहायेन राज्यभ्रष्टाः कृता नृप । ततः पराजिता दैत्याः काव्यस्य शरणं गताः ॥४०॥ कि त्वं न कुरुषे ब्रह्मन् साहाय्यं नः प्रतापवान् । स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् ॥४१।। - यदि त्वं न सहायोऽसि ज्ञातुं मन्त्रविदुत्तमः । व्यास उवाच इत्युक्त: सोऽब्रवोद्दैत्यान्काव्यः कारुणिको मुनिः ॥४२॥ मा भैष्ट धारयिष्यामि तेजमा स्वेन भो: सुराः । मंत्रैस्तथौषधीभिश्च साहाय्यं वः सदैव हि ॥४३॥ करिष्यामि कृतोत्साहा भवन्तु विगतज्वराः । व्यास उत्राच ततस्ते निर्भया जाता दैत्याः काव्यस्य संश्रयात् ॥४४।। देवैः श्रुतस्तु वृत्तान्तः सर्वश्चारमुखात्किल। तत्र संमंत्रय ते देवाः शक्रेण च परस्परम् ॥४५॥ मन्त्रं चक्र: सुसंविग्नाः काव्यमन्त्रप्रभावतः । योद्धं गच्छामहे तूर्ण यावन्न च्यावयन्ति वै ॥४६॥ दसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे। दैत्याअ्ञग्मुस्ततो देवाः संरुष्टाः शस्त्रपाणयः ॥४७॥ जग्मुस्तान्विष्णुसहिता दानवा हरिणोदिताः । वध्यमानास्तु ते दैत्याःसंत्रस्ता भयपीडिताः ॥४८॥ हाव्यस्य शरणं जग्मू रक्ष रक्षेति चाब्रुवन् । ताञ्छुक्रः पीडितान्दृष्टा देवैर्देत्यान्महाबलान्।४९।। मा भष्टेति वचः प्राह मन्त्रौषधिबलाद्विभुः । दृष्टा काव्यं सुराःसवें त्यक्त्वा तान्प्रययुः किल ५०॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥ अथ एकादशोऽध्यायः व्यास उताच तग गतेषु देवेषु काव्यस्तान्प्रत्युवाच है। ब्रह्मणा पूर्वमुक्तं यच्छृणुध्वं दानवोत्तमाः ॥१॥ व्रिष्णुर्देत्यवधे युक्त्तो हनिष्यति जनार्दनः । वाराहरूपं संस्थाय हिरण्याक्षो यथा हतः ॥२॥ गथा नृसिंहरूपेण हिरण्यकशिपुर्हतः । तथा सर्वान्कृतोत्साहो हनिष्यति न चान्यथा ॥३॥ न मे मन्त्रबलं सम्यक्प्रतिभाति यथा हरिम् । जेत यूयं समर्थाः स्थ मया वराताः सुरानय ॥४॥ तम्मात्कालं प्रतीक्षध्वं कियन्तं दानवोत्तमाः । अहमद्य महादेवं मन्त्रार्थ प्रव्रजामि वै ॥५॥
Page 210
११० श्रीमदेवीमागवते महापुराणे चतुर्थस्कन्पे अध्याय: ११ प्राप्य मंत्रान्महादेवादागमिष्यामि सांप्रतम् । युष्मभ्यं तान्प्रदास्यामि यथार्थं दानवोत्तमाः ॥६।। देत्या ऊचु: पराजिता: कथं स्थातुं पृरथिव्यां मुनिसत्तम। शक्ता भवामोऽप्यबलास्तावत्कालं प्रतीक्षितुम् ॥७॥ निहता बलिन: सर्वे केचिच्छिष्टाश्र दानवाः । नाद्य युक्ताश्र संग्रामे स्थातुमेवं सुखावहाः ॥८।। शुक्र उवाच यावदहं मन्त्रविद्यामानयिष्यामि शंकरात् । तावद्भवद्धिः स्थातव्यं तपोयुक्तः शमन्वितैः ।।९।। सामदानादयः प्रोक्ता विद्वद्धिः समयोचिताः । देशं कालं बलं वीरैर्ज्ञात्वा शक्ति बलं बुघैः ॥१०॥ सेवाऽथ समये कार्या शत्रणां शुभकाम्यया। स्वशक्त्युपचये काले हंतव्यास्ते मनीषिभिः ॥११॥ तदद्य विनयं कृत्वा सामपूर्व छलेन वै। तिष्ठव्वं स्वनिकेतेषु मदागमनकांक्षया ॥१२।। प्राप्य मंत्रान्महादेवादागमिष्यामि दानवाः । युध्यामहे पुनर्देवान्मन्त्रमास्थाय वै बलम् ॥१३॥ इत्युवत्वाऽथ भृगुस्तेभ्यो जगाम कृतनिश्चयः । महादेवं महाराजं मन्त्रार्थं मुनिसत्तमः ॥१४॥ दानवाः प्रेषयामासुः प्रह्लादं सुरसन्निधौ। सत्यवादिनमव्यग्रं सुराणां प्रत्ययप्रदम् ॥१५॥ प्रह्लादस्तु सुरान्प्राह प्रश्रयावनतो नृपः । असुरैः सहितस्तत्र वचनं नम्रतायुतम् ॥१६॥ न्यस्तशस्त्रा वयं सर्वे निःसन्नाहास्तर्थव च । देवैस्तपश्चरिष्यामः संवृता बल्कलैर्युताः ॥१७॥ प्रह्लादस्य वच: श्रुत्वा सत्याभिव्याहृतं तु तत्। ततो देवा न्यवर्तन्त विज्वरा मुदिताश्र ते ।१८॥ न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः । विश्रब्धाः स्वगृहान्गत्वा क्रीडासक्ताः सुसंस्थिताः ॥ देत्या दम्भं सभालम्व्य तापसास्तपिसंयुताः । कश्यपस्याश्रमे वासं चक्रु: काव्यागमेच्छया ॥२०॥ काव्यो गत्वाऽथ कैलासं महादेवं प्रणम्य च । उवाच विभुना पृष्टः किं ते कार्यमिति प्रभुः ॥२१॥ मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ। पराजयाय देवानामसुराणा ज़याय च ॥२२॥ व्यास उवाच तच्छ्रत्वा वचनं तस्य सर्वज्ञः शंकर: शिवः । चिंतयामास मनसा कि कर्तव्यमतः परम् ॥२३॥ सुरेषु द्रोहबुद्धयाऽसौ मन्त्रार्थमिह साम्प्रतम् । प्राप्तः काव्यो गुरुस्तेषां दैत्यानां विजयाय च ।२४।। रक्षणीया मया देवा इति संचिन्त्य शंकरः। दुष्करं व्रतमत्युग्रं तमुवाच महेश्वरः ॥२५॥ पूर्ण वर्षसहस्त्रं तु कणधूममवाक्शिराः । यदि पास्यसि भद्रं ते ततो मंत्रानवाप्स्यसस ॥२६॥ इत्युक्तोऽसौ प्रणम्येशं वाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयाऽऽज्ञप्ः सुरेश्वर ॥२७॥ व्यास उवाच इत्युक्त्वा शंकरं काव्यश्चकार व्रतमुत्तमम् । धूमपानरतः शान्तो मन्त्रार्थकृतनिश्चयः ॥२८। ततो देवा: परिज्ञात्वा काव्यं व्रतरतं तदा। दैत्यान्दम्भरतांश्रैव बभूवुर्मन्त्रतत्पराः H२९।।
Page 211
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: ११ २११ विचार्य मनसा सवें संग्रामायोद्यता नृप। ययुर्धृतायुधास्तत्र यत्र ते दानवोत्तमाः ॥३०॥ तानागतान्समीक्ष्याथ सायुधान्दंशितांस्तथा। आसंस्ते भयसंविग्ना दैत्या देवान्समंततः।।३१।। उत्पेतुः सहसा ते वै सन्नद्धान्भयकशिताः । अब्रुवन्वचनं तथ्यं ते देवान्बलदर्पितान् ॥३२॥ न्यस्तशस्त्रे भगवति आचार्ये व्रतमास्थिते। दत्त्वाभयं पुरा देवाः संप्राप्ता नो जिघांसया ॥३३॥ सत्यं वः क्व गतं देवा धर्मश्र श्रतिनोदितः । न्यस्तशस्त्रा न हंतव्या भीताश्र शरणं गताः ॥३४॥ देवा ऊचु: भर्वद्द्ि: प्रेषितः काव्यो मंत्रार्थं कुहकेन च। तपो ज्ञानं हि युष्माकं तेन युध्याम एव हि ॥३५॥ सज्जा भवंतु युद्धाय संरब्धाः शस्त्रपाणयः । शत्रुच्छिद्रेण हंतव्य एष धर्मः सनातनः ॥३६॥ व्यास उवाच तच्छ्रत्वा वचनं दैत्या विचार्य च परस्परम्। पलायनपराः सर्वे निर्गता भयविह्वलाः ॥३७॥ शरणं दानवा जग्मुर्भीतास्ते काव्यमातरम्। दृष्टा तानतिसंतप्तानभयं च ददावथ ॥३८॥ काव्यमातोवाच न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्सन्निधौ वर्तमानान्न भीर्भवितुमर्हति ॥३९॥ तच्छ्रुत्वा वचनं दैत्याः स्थितास्तत्र गतव्यथाः । निरायुधा ह्यसंभ्रांतास्तत्राश्रमवरेऽसुराः ॥४०॥ देवास्तान्क्द्रुतान्वीक्ष्य दानवांस्ते पदानुगाः । अभिजग्मुः प्रसह्य तानविचार्य बलाबलम् ॥४१॥ तत्रागता: सुराः सर्वे हंतुं "दैत्यान्समुद्यताः । वारिताः काव्यमात्राऽपि जघ्नुस्तानाश्रमस्थितान् ॥ काव्यमाताऽतिवेपिता। उवाच सर्वान्सनिद्रांस्तपसा वै करांम्यहम् ॥४३॥ इत्युक्त्वा प्रेरिता निद्रा तानागत्य पपात च । सेंद्रा निद्रावशं याता देवा मूकवदास्थिताः ॥४४॥ इन्द्रं निद्राजितं दृष्टा दीनं विष्णुरभाषत। मां त्वं प्रविश भद्रं ते नये त्वां च सुरोत्तम ॥४५।। एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः । निर्भयो गतनिद्रश्च बभूव हरिरक्षितः ॥४६॥ रक्षितं हरिणा दृष्ठा शक्रं तत्र गतव्यथम् । काव्यमाता ततः कुद्धा वचनं चेदमत्रवीत् ॥४७॥ मघवंस्त्वां भक्षयामि सविष्णुं वै तपोबलात्। पश्यतां सर्वदेवानामीदृशं मे तपोबलम् ॥४८॥ व्यास उवाच इत्युक्तौ तु तया देवौ विष्ण्वंद्रौ यागविद्यया। अभिभूतौ महात्मानौ स्तब्धौ तौ संबभूवनुः ॥४९॥ विस्मितांस्तु तदा देवा दृष्टा तावतिबाधितौ। चत्तुः किलकिलाशब्दं ततस्ते दीनमाननाः ॥५०॥ क्रोशमानान्सुरान्दृष्टा विष्णुं प्राह शचीपतिः। विशेषेणाभिभूतोऽस्मि त्वत्तोऽहं मधुसूदन ।५१॥ जह्येनां तरसा विष्णो यावन्नौ न दहेत्प्रभो। तपसा दर्पितां दुष्टां मा विचारय माधव ॥५२। इत्युक्तो भगवान्विष्णुः शक्रेण प्रथितेन च। चक्र्कंसस्मार तरसा धृगां त्यक्त्वाथ माधवः ॥५३।।
Page 212
२१२ श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १२ स्मृतमात्रं तु संप्राप्तं चक्रं विष्णुवशानुगम् । दधार च करे त्रुद्धो वधार्थं शक्रनोदितः ।५४।। मृहोत्वा तत्करे चत्रं शिरश्चिच्छेद रंहसा। हतां दृष्टा तु तां शक्रो मुदितश्राभवत्तदा ।५५।। देवाश्चातीव संतुष्टा हरिं जय जयेति च। तृष्टुवुर्मदिताः सर्वे संजाता विगतज्वराः ॥५६॥ इंद्रविष्ण तु संजातो तत्क्षणाद्धृदयव्यथौ। स्त्रीवधाच्छंकमानौ तु भृगोः शापं दुरत्ययम् ॥५७॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे एकादशोऽध्यायः ॥।११॥ अथ द्वादसोऽध्यायः व्यास उवाच तं दृष्टा तु वधं घोरं चुक्रोध भगवान्भृगुः। वेपमानोऽतिदुःखार्तः प्रोवाच मधुसूदनम् ॥१॥ भृगुरुवाच अकृतं ते कृतं विष्णो जानन्पापं महामते । वधोऽयं विप्रजाताया मनसा कर्तुमक्षमः ॥२॥ आख्यातस्त्वं सत्त्वगुण: स्मृती ब्रह्मा च राजसः। तथानसी तामसः शंभुरविपरीतं क्थं स्मृतम् ॥३॥ तामसस्त्वं कथं जातः कृतं कर्मातिनिन्दितम् । अवध्या स्त्री त्वया विप्णो हता कस्मान्निरागसा॥४॥ शपामि त्वां दुराचारं किमन्यत्प्रकगोम ते। विधुरोऽहं कृतः पाप त्वयाऽहं शक्रकारणात् ॥५॥ न शपेऽहं तथा शक्रं शप त्वा मधुसूदन। सदा छलपरोसि त्वं कीटयोनिर्दुराशयः ॥६॥ ये च त्वां सात्त्विकं प्राहुस्ते मूर्खा मुनयः किल। तामसस्त्वं दुराचारः प्रत्यक्षं मे जनार्दन७॥। अवतारा मृत्युलोके संतु मच्छापसंभवाः । प्रायो गर्भभवं दुःखं भुक्ष्व पापाज्जनार्दन ।।८।। व्यास उवाच वसस्तेनाथ शापेन नष्टे धर्मे पुनः पुनः। लोकस्य च हितार्थाय जायते मानुषेप्विह ॥९॥ राजावाच भृगुभार्या हता तत्र चक्रेणामिततेजसा । गार्हस्थ्यं च पुनस्तस्य कथं जातं महात्मनः ॥१०॥ व्यास उवाच इति शप्त्वा हरि रोपात्तदादाय शिग्म्त्वरन्। कार्य संयोज्य तरसा भृगुः प्रोवाच कार्यवित् ॥११।। अच स्वां विष्णुना देवि हतां संजीवयाम्यहम् । यदि कृत्स्नी मया धर्मो जञायने चरितोर्प वा ॥१२॥ तेन सत्येन जीवेत यदि सत्यं व्रवीम्वह्म्। पथ्यंतु देवताः सर्वा मम तेजोबलं महत् ॥१३॥ अद्रिस्तां प्रोक्ष्य शीताभिर्जीवयामि तपोबलान्। सन्ये शौचं तथा वेदा यदि मे तपसी वलम् ॥१४॥ व्यास उवाच अद्धभि: संप्रोक्षिता देवी सद्यः संजीविता तदा । उत्थिता परमप्रीता भृगोर्भार्या शुचिस्मिता ॥१५॥
Page 213
श्रीमदेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १२ २१३ ततस्तां सर्वभूतानि दृष्टा सुप्तोस्थितामिव । साधु साध्विति तं तां तु तुष्टुवुः सर्वतो दिशम् १६।। एवं संजीविता तेन भृगुणा वर्वणिनी। विस्मयं परमं जग्मुर्देवाः सेंद्रा विलोक्य तत् १७॥ इंद्रः सुरानथोवाच मुनिना जीविता सती। काव्यस्तप्त्वा तपो घोरं कि करिष्यति मंत्रवित् ।। व्यास उवाच गता निद्रा सुरेन्द्रस्य देहेक्षेममभून्नृप। स्मृत्वा काव्यस्य वृत्तांतं मंत्रार्थमतिदारुणम् ॥१९॥ विमृश्य मनसा शक्रो जयंतीं स्वसुतां तदा। उवाच कन्यां चावंगी स्मितपूर्वमिदं वचः ॥२०॥ गच्छ पुत्रि मया दत्ता काव्याय त्वं तपस्विने । समाराधय तन्वंगि मत्कृते तं वशं कुरु ॥२१॥ उपचारैर्मुनिस्तैस्तैः समाराध्य मनःप्रियैः । भयं मे तरसा गत्वा हर तत्र वराश्रमे ॥२२॥ सा पितुर्वचनं श्रुत्वा तत्रागच्छन्मनोरमा। तमपश्यद्विशालाक्षी पिबंतं धूममाश्रमे ।२३॥ तस्य देहं समालोक्य स्मृत्वा वाक्यं पितुस्तदा। कदलीदलमादाय वीजयामास तं मुनिम् ॥२४॥ निर्मलं शोतलं वारि समानीय सुवासितम्। पानाय कल्पयामास भक्त्या परमया लघु ॥२५॥ छायां वस्त्रातपत्रेण भास्करे मध्यगे सति। रचयामास तन्वंगो स्वयं घर्मे स्थिता सती ॥२६॥ फलान्यानीय दिव्यानि पक्वानि मधुराणि च । मुमोचाग्रे मुनेस्तस्य भक्ष्यार्थ विहितानि च ॥२७॥। कुशाः प्रादेशमात्रा हि हरिताः शुकसन्निभाः । दधाराग्रेऽथ पुष्पाणि नित्यकर्मसमृद्ये ॥२८॥ निद्रार्थं कल्पयामास संस्तरं पल्लवान्वितम् । तस्मिन्मुनौ 'चादरस्था चकार व्यजनं शनैः ॥२९॥ हावभावादिकं किंचिद्विकारजननं त तत्। न चकार जयंती सा शापभीता मुनेस्तदा ॥३०।। स्तुर्ति चकार तन्वंगी गीभिस्तस्य महात्मनः । सुभाषिण्यनुकूलाभिः प्रोतिकर्त्रीभिरप्पुत ॥३१॥ प्रबुद्धे जलमादाय दधाराचमनाय च । मनोऽनुकूलं सततं कुर्वन्ती व्र्यचरत्तदा ॥३२॥ इंद्रोऽपि सेवकांस्तत्र प्रेषयामास चातुरः । प्रवृत्ति जातुकामो वै मुनस्तस्य जितात्मनः ॥३३॥ एवं बहनि वर्षाणि परिचर्यापराऽभवत्। निर्विकारा नितक्रोधा ब्रह्मचर्यपरा सतो ॥३४॥ पूर्णे वर्षसहस्त्रे तु परितुष्टो महेश्वरः । वरेण छंदयामास काव्यं प्रति मनोहरः ॥३५॥ ईश्वर उवाच यच्च किंचिदपि ब्रह्मन्विद्यते भृगुनंदन । प्रतिपश्यसि यत्सर्व तच्च वाच्यं न कस्यचित् ३६।। सर्वाभिभावकत्वेन भविष्यसि न संशयः । अवष्यः सर्वभूतानां प्रजेशश्च ्रिजोत्तम ॥३७॥ व्यास उवाच एवं दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत। काव्यस्तामथ संवीक्ष्य जयंतों वाक्यमब्रवोत् ।३८॥ काऽसि कस्यासि सुश्रोणि ब्रहि कि ते चिकोषितम् । किमर्थमिह संप्राप्ता कार्यं वद वरोरु मे ॥३९॥ कि वांछसि करोम्यद्य दुष्करं चेत्सुलोचने। प्रीतोऽस्मि त्वत्कृतेनाद् वरं वरय सुव्रते ॥४०॥
Page 214
२१४ श्रीमदेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: १३ ततः सा तुमुनि प्राह जयंती मुदितानना। चिकीरषितं मे भगवंस्तपसा ज्ञातुमर्हसि ॥४१॥ व्यास उवाच ज्ञातं मया तथापि त्वं ब्रहि यन्मनसेप्सितम्। करोमि सर्वथा भद्रं प्रीतोऽस्मि परिचर्यया ॥४२॥ जयंत्युवाच शत्रस्याहं सुता ब्रह्मन्पित्रा तुभ्यं समर्पिता। जयंती नामतश्राहं जयंतावरजा मुने ॥४३॥ सकामाडस्मि त्वयि विभो वांछिनं कुरु मेडधुना। रंस्ये त्वया महाभाग धर्मतः प्रीतिपूर्वकम् ॥४४॥ शुक्र उवाच मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि । सर्वर्भूतैरदृश्या च रमस्वेह यदृच्छया ।।४५।। व्यास उवाच एवमुक्ता गृहं गत्वा जयंत्याः पाणिमुद्रहन् । तया सहावसददेव्या दश वर्षाणि भार्गवः ॥४६॥ अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः । दैत्यास्तमागतं श्रुत्वा कृतार्थं मंत्रसंयुतम् ॥४७॥ अभिजग्मुगृहे तस्य मुदितास्ते दिदृक्षवः। नापश्यत्रममाणं ते जयंत्या सह संयुतम् ॥४८॥ तदा विमनसः सवें जाता भग्नोद्यमाश्च ते। चिंतापरातिदीनाश्च वीक्षमाणाः पुनः पुनः ॥४९॥ अदृष्टा तं तु संवृत्तं प्रतिजग्मुर्यथागतम् । स्वगृहान्दैत्यवर्यास्ते चिंताविष्टा भयातुराः ॥५०॥ रममाणं तथा ज्ञात्वा शत्रः प्रोवाच तं गुरुम् । बृहस्पति महाभागं कि कर्तव्यमतः परम् ॥५१॥ गच्छाद्य दानवान्ब्रह्मन्मायया त्वं प्रलोभय। अस्माकं कुरु कार्यं त्वं बुद्धया संचित्य मानद ५२।। तच्छ्रुत्वा वचनं काव्यं रममाणं सुसंवृतम्। ज्ञात्वा तद्रूपमास्थाय दैत्यान्प्रति ययौ गुरुः ॥५३॥ गत्वा तत्रातिभक्त्याऽसौ दानवान्समुपाह्वयत्। आगतास्तेऽसुराः सवे ददृशुः काव्यमग्रतः ॥५४॥ प्रणम्य संस्थिताः सर्वे काव्यं मत्वाऽतिमोहिताः। न विदुस्ते गुरोर्मायां काव्यरूपविभाविनीम् ५५॥ तानुवाच गुरु: काव्यरूपः प्रच्छन्नमायया। स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय वै ५६॥ अहं वो बोधयिष्यामि विद्यां प्राप्ताममायया। तपसा तोषितः शंभुर्युष्मत्कल्याणहेतवे ॥५७॥ तच्छ्रत्वा प्रीतमनसो जातास्ते दानवोत्तमाः । कृतकार्य गुरुं मत्वा जहृपुस्ते विमोहिताः ॥५८॥ प्रणेभुस्ते मुदा युक्ता निरातंका गतव्यथाः । देवेभ्यश्च भयं त्यकत्वा तस्थुः सर्वे निरामयाः ५९॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे द्वादशोऽध्यायः॥१२॥ अथ त्रयोदशोऽध्यायः राजोवाच कि कृतं गुरुणा पश्चा्द्रगुरूपेण वर्तता। छलेनैव हि दैत्यानां पौरोहित्येन धीमता ॥१॥
Page 215
श्रीमदेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: १३ ११५ गुरुः सुराणामनिशं सर्वविद्यानिषिस्तथा। सुतांगिरस एवासौ स कथं छलकृन्मुनिः ॥२॥ धर्मशास्त्रेषु सर्वेषु सत्यधर्मस्य कारणम्। कथितं मुनिभिर्येन परमात्माऽपि लभ्यते ॥३॥ वाचस्पतिस्तथा मिथ्या वक्ता चेद्दानवान्प्रति। कः सत्यवक्ता संसारे भर्विष्यति गृहाश्रमी ॥४॥ आहारादधिकं भोज्यं ब्रह्माण्डविभवेऽपि न । तदर्थ मुनयो मिथ्या प्रवर्तन्ते कथं मुने ।५॥ शन्दप्रमाणमुच्छेदं शिष्टाभावे गतं न किम्। छलकर्मप्रवृत्ते वाऽविगीतत्वं गुरौ कथम् ॥६॥ देवा: सत्त्वसमुद्गता राजसा मानवा: स्मृताः । तिर्यंचस्तामसाः प्रोक्ता उत्पत्तौ मुनिभिः किल ७॥। अमराणां गुरु: साक्षान्मिथ्यावादी स्वयं यदि । तदा कः सत्यवक्ता स्याद्राजसस्तामसः पुनः ॥८॥ क्व स्थितिस्तस्य धर्मस्य संदेहोऽयं ममात्मनः । का गतिः सर्वजन्तूनां -मिथ्याभूते जगत्त्रये ।।९॥ हरिर्ब्रह्मा शचीकान्तस्तथाऽन्ये सुरसत्तमाः । स्वे छलविधौ दक्षा मनुष्याणां च का कथा ॥१०॥ कामक्रोधाभिसन्तप्ता लोभोपहतचेतसः । छले दक्षाः सुराः सर्वे मुनयश्च तपोधनाः ॥११॥ वसिष्ठो वामदेवश्च विश्वामित्रो गुरुस्तथा। एते पापरताः काऽत्र गतिर्धर्मस्य मानद ॥१२॥ इन्द्रोऽग्निश्चन्द्रमा वेधाः परदाराभिलम्पटाः । आर्यत्वं भुवनेष्वेपु स्थितं कुत्र मुने वद ॥१२॥ वचनं कस्य मन्तव्यमुपदेशघियाऽनघ। सर्वे लोभाभिभूतास्ते देवाश्च मुनयस्तथा ॥१४॥ व्यास उवाच कि विष्णुः कि शिवो ब्रह्मा मघवा किं बृहस्पतिः । देहवान् प्रभवत्येव विकारैः संयुतः सदा ॥१५॥ रागी विष्णुः शिवो रागी ब्रह्माऽपि रागसंयुतः । "रागवान्किमकृत्यं वै न करोति नराघिप" ॥ रागवानपि चातुर्याद्विदेह इव लक्ष्यते ।१६। सम्प्राप्ते संकटे सोऽपि गुणैः सम्बाध्यते किल। कारणाद्रहितं कार्य कथं भवितुमर्हति ॥१७। ब्रह्मादीनां च सर्वेषां गुणा एव हि कारणम्। पञ्चविशत्समुद्धूता देहास्तेषां न चान्यथा ।।१८।। काले मरणधर्मास्ते सन्देहः कोऽत्र ते नृप । परोपदेशे विस्पष्टं शिष्टाः सर्वे भवन्ति च ॥१९॥ विप्लुतिर्ह्यविशेषेण स्वकार्ये समुपस्थिते । कामः क्रोधस्तथा लोभद्रोहाहंकारमत्सराः ॥२०॥ देहवान्कः परित्यक्तुमीशो भवति तान्पुनः । संसारोऽयं महाराज मदैवैवंविधः स्मृतः ॥२१॥ नान्यथा प्रभवत्येव गुभाशुभमयः किल। कदाचिन्द्गवान्विष्णुस्तपश्चरति दारुणम् ॥२२॥ कदाचिद्रिविधान्यज्ञान्वितनोति सुराघिपः । कदाचित्तु रमारङ्गरञ्चितः परमेश्वरः ॥२३॥ रमते किल वैकुण्ठे तद्रशस्तरुणो विभुः । कदाचिद्दानवैः सारधं युद्धं परमदारुणम् ।२४॥ करोति करुणासिन्धुस्त्वाणापीडितो भृशम् । कदाचिज्जयमाप्नोति दैवात्सोऽपि पराजयम् २५॥ सुखदुःखाभिभूतोऽसौ भवत्येव न संशयः । शेषे होते कदाचिद्वै योगनिद्रासमावृतः ॥२६॥ काले जार्गत विश्वात्मा स्वभावप्रतिबोघितः । शर्वो ब्रह्मा हरिश्रेति इन्द्राद्या ये सुरास्तया ।२७॥
1
Page 216
२१६ श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १३ मुनयश्च विनिर्माणैः स्वायषो विचरन्ति हि। निशावसाने संजाते जगत्स्थावरजंगमम् ॥२८॥ म्रियते नात्र सन्देहो नृप किञ्ञित्कदापि च। स्वायुषोऽन्ते पद्मजाद्याः क्षयमृच्छंति पार्थिव ।।२९। प्रभवन्ति पुनर्विष्णुहरशक्रादयः मुराः । तस्मात्कामादिकान्भावान्देहवान्प्रतिपद्यते ।।३०।। नात्र ते विस्मयः कार्यः कदाचिदपि पार्थिव। संसारोऽयं तु संदिग्धः कामकरोधादिभिर्नृप॥३१॥ दुर्लभस्तद्विनिर्मुक्त: पुरुषः परमार्थवित् । यो बिभेतीह संसारे स दारान्न करोत्यपि ॥३२॥ विमुक्त: सर्वसंगेभ्यो विचरत्यविशंकतः । तस्माद्बृहस्पतेर्भार्या शशिनालंभिता पुनः ॥३३॥ गुरुणालम्भिता भार्या तथा भ्रातुर्यवीयमः। एवं संसारचक्रेऽस्मित्रागलोभादिभिर्वृतः ॥३४॥ गार्हस्थ्यं च समास्थाय कथं मुक्तो भवेन्नरः । तस्मात्सर्वपयत्नेन हित्वा संसारसारताम् ॥३५॥ आराधयेन्महेशानी सच्चिदानन्दरूपिणोम् । तन्मायागुणतश्छन्नं जगदेतच्चराचरम् ॥३६॥ भ्रमत्युन्मत्तवत्सर्वं मदिरामत्तवन्ननृप । तस्या आराधनेनैव गुणान्सर्वान्विमृद्य च ॥।३७।। मुक्ति भजेत मतिमान्नान्यः पंथास्त्वितः परः। आराधिता महेशानी न यावत्कुरुते कृपाम्॥३८॥ तावद्दवेत्सुखं कस्मात्कोन्योऽस्ति दयया युतः । करुणासागरामेतां भजेत्तस्मादमायया ॥३९॥ यस्यास्तु भजनेनैव जीवन्मुक्तत्वमश्नुते। मानुष्यं दुर्लभं प्राप्य सेविता न महेश्वरी॥४०॥ निःश्रेणिकाग्रात्पतिता अथ इत्येव विद्यहे। अहंकारावृतं विश्वं गुणत्रय मन्वितम्॥४१॥ असत्येनापि सम्बद्धं मृच्यते कथमन्यथा। हित्वा सर्वं ततः सर्वेंः संसेव्या भुवनेश्वरी ॥४२॥ राजोवाच किं कृतं गुरुणा तत्र काव्यरूपधरेण च। कदा शुक्रः समायातस्तन्मे ब्रूहि पितामह॥४३॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि यत्कृतं गुरुणा तदा। कृत्वा काव्यस्वरूपं च प्रच्छन्नन महात्मना ॥४४।। गुरुणा बोधिता दैत्या मत्वा काव्यं स्वकं गुरुम् । विश्वास परमं कृत्वा वभूवुस्तन्मयास्तदा।४५।। विद्यार्थ शरणं प्राप्ता भृगुं मत्वाजतिमोहिताः । गुरुणा विप्रलब्धास्ते लोभात्को वान मह्यति ४६॥ दर्शवर्षात्मके काले सम्पूर्णसमये तदा। जयंत्या सह कीडित्वा काव्यो याज्यानचिंतयत् ४७॥ आशया मम मार्ग ते पश्यन्तः संस्थिताः किल। गत्वा तान्वै प्रपश्येऽहं याज्यानतिभयातुरान् ॥४८॥। मा देवेभ्यो भयं तेषां मद्दक्ानां भर्वोदाव। संचित्य बुद्धिमास्थाय जयंतीं प्रत्युवाच ह।४९। देवानेवोपसंयान्ति पुत्रा मे चारुलोचन। समयस्तेऽद्य संपूर्णो जातोऽय दशवार्षिक: ॥५०॥ तस्माद्गच्छाम्यहं देवि द्रष्टं याज्यान्सुमध्यमे। पुनरेवागमिष्यामि तवान्तिकमनुद्गुतः ॥५१॥ तथेति तमुवाचाथ जयन्ती धर्मवित्तमा। यथेष्टं गच्छ धर्मज्ञ न ते धर्मं विलोपये ॥५२॥ तच्छ्रत्वा वचनं काव्यो जगाम त्वरितस्ततः । अपश्यद्दानवानां च पार्श्वे वाचस्प्ति तदा ॥५३॥
Page 217
श्रीमह्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १४ २१७
छद्यरूपधरं सौम्यं बोधयंतं छलेन तान्। जैनं धर्म कृतं स्वेन यज्ञनिंदापरं तथा॥५४॥ भो देवरिपवः सत्यं ब्रवीमि भवतां हितम् । अहिंसा परमो धर्मो हंतव्या ह्याततायिनः ॥५५॥। द्विजैभोंगरतैर्वेदे द्शितं हिंसनं पशोः । जिह्वास्वादपरैः काममहिंसैव परा मना ॥५६॥ एवंविधानि वाक्यानि वेदशास्त्रपराणि च । ब्रुवाणं गुरुमाकर्ण्य विस्मितोऽसौ भृगोः सुतः ॥५७॥ चिंतयामास मनसा मम द्वेष्यो गुरुः किल। वंचिताः किल धूर्तेन याज्या मे नात्र संशयः ॥५८॥ धिग्लोभं पापबीजं वै नरकद्वारमूर्जितम्। गुरुरप्यनृतं ब्रूते प्रेरितो येन पाप्मना ॥५९।। प्रमाणं वचनं यस्य सोऽपि पाखंडधारकः । गुरुः सुराणां सर्वेषां धर्मशास्त्रप्रवर्तकः ॥६०॥ किं कि न लभते लोभान्मलिनीकृतमानसः । अन्योऽपि गुरुरप्येवं जातः पाखंडपंडितः ।६१।। शैलूषचेष्टितं सर्वं परिगृह्य द्विजोत्तमः । वंचयत्यतिसंमूढान्दैत्यान् याज्यान्ममाप्यसौ ॥६२॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे त्रयोदशोऽध्यायः॥१३॥ अथ चतुरदशोऽध्यायः व्यास उवाच इति संचिंत्य मनसा तानुवाच हसन्निव। वंचिता मत्स्वरूपेण दैत्याः कि गुरुणा किल ॥१॥ अहं काव्यो गुरुश्चायं देवकार्यप्रसाधकः । अनेन बंचिता यूयं मद्याज्या नात्र संशयः ॥२॥ मा श्रद्धध्वं वचोऽस्यार्या दांभिकोऽयं मदाकृतिः । अनुगच्छत मां याज्यास्त्यजतैनं बृहस्पतिम् ॥३॥ इत्याकर्ण्य वचस्तस्य दृष्ट्ा तौ सदृशौ पुनः । विस्मयं परमं जग्मः काव्योऽयमिति निश्चिताः ॥४॥ स तान्वीक्ष्य सुसंभ्रांतान्गुरुर्वाक्यमुवाच ह। गुरुर्वो वंचयत्येव मद्रूपोडयं बृहस्पतिः ॥५॥ प्राप्तो वंचयितुं युष्मान्देवकार्यार्थसिद्धये। मा विश्वासं वचस्यस्य कुरुध्वं दैत्यसत्तमाः ॥६॥ प्राप्ता विद्या मया शम्भोर्युष्मानध्यापयामि ताम् । देवेभ्यो विजयं नूनं करिष्यामि न संशयः ॥७॥ इति श्रुत्वा गुरोर्वाक्यं काव्यरूपधरस्य ते। विश्वासं परमं जग्मुः काव्योऽयमिति निश्चयात् ॥८।। काव्येन बहुधा तत्र बोधिताः किल दानवाः । बुबुधुर्न गुरोर्मायामोहिताः कालपयंयात् ॥९॥ एवं ते निश्चयं कृत्वा ततो भार्गवमब्रुवन् । अयं गुरुनो धर्मात्मा बुद्धिदश्च हिते रतः ॥१०॥ दश वर्षाणि सततमयं नः शास्ति भार्गवः । गच्छ त्वं कुहको भासि नास्माकं गुरुरप्युत ।।११।। इत्युक्त्वा भार्गवं मूढा निर्भत्स्य च पुनः पुनः । जगृहुस्तं गुरुं प्रीत्या प्रणिपत्याभिवाद्य च ।१२।। काव्यस्तु तन्मयान्दृष्टा चुकोपाथ शशाप च । दैत्यान्विबोधितान्मत्वा गुरुणा चातिवंचितान् १३।। यस्मान्मया बोधिता वै गृह्लीयुर्न च मे वचः । तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ ।१४।। मदवज्ञाफलं कामं स्वल्पे काले ह्यवाप्स्यथ। तदाऽस्य कपटं सवं परिज्ञातं भविष्यति ॥१५॥
Page 218
२१८ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः १४ इत्युक्त्वाऽसौ जगामाशु भार्गवः क्रोधसंयुतः । बृहस्तिर्मुदं प्राप्य तस्थौ तत्र समाहितः ॥१६॥ ततः शप्तान्गुरुर्ज्ञात्वा दैत्यांस्तान्भार्गवेण हि। जगाम तरसा त्यक्त्वा स्वरूपं स्वं विधाय च १७।। गत्वोवाच तदा शक्रं कृतं कार्यं मया ध्रुवम् । शप्ताः शुक्रेण ते दैत्या मया त्यक्ताः पुनः किल ॥ निराघाराः कृता नूनं यतध्वं सुरसत्तमाः । संग्रामाय महाभाग शापदग्धा मया कृताः ॥१९॥ इति श्रुत्वा गुरोर्वा्यं मघवा मुदमाप्तवान् । जहृषुश्र सुराः सर्वे प्रतिपूज्य बृहस्पतिम् ॥२०॥ संग्रामाय मति चक्रुः संविचार्य मिथः पुनः । निर्ययुर्मिलिताः सर्वे दानवाभिमुखाः सुराः ॥२१॥ सुरान्समुद्यताञ्ज्ञात्वा कृतोद्योगान्महाबलान्। अन्तहितं गुरुं चैव बभूवुश्चितयान्विताः ॥२२॥ परस्परमथोचुस्ते मोहितास्तस्य मायया। संप्रसाद्यो महात्मा च यातोऽसौ नष्टमानसः ॥२३॥ वंचयित्वा गतः पापो गुरुः कपटपंडितः । भ्रातृस्त्रीलंभनः प्रायो मलिनोऽन्तर्बहिः शुचिः २४॥ किं कुर्म: क्व च गच्छामः क्थं काव्यं प्रकोपितम्। कुर्वीमहि सहायार्थं प्रसन्नं हृष्टमानसम् ।२५॥ इति संचित्य ते सर्वे मिलिता भयकंपिताः । प्रह्लादं पुरतः कृत्वा जग्मुस्ते भार्गवं पुनः ॥२६॥ प्रणेमुश्चरणौ तस्य मुनिर्मौनभृतस्तदा । भार्गवस्तानुवाचाथ रोषसंरक्तलोचनः ॥२७॥ मया प्रबोधिता यूयं मोहिता गुरुमायया। न गृहीतं वचो योग्यं तदा याज्या हितं शुचि २८। तदाऽवगणितश्राहं भवद्भिस्तद्वशं गतैः। प्राप्तं नूनं मदोन्मत्तैर्ममावमानजं फलम् ॥२९॥ तत्र गच्छत सद्भ्रष्टा यत्रासौ कपटाकृतिः । वंचकः सुरकार्यार्थी नाहं तद्वद्धि वंचकः ॥३०॥ व्यास उवाच एवं ब्रुवंतं शुक्रं तु वाक्यसंदिग्धया गिरा। प्रह्लादस्तं तदोवाच गृहीत्वा चरणौ ततः ॥३१॥ प्रह्नाद उवाच भार्गवाद्य समायातान्याज्यानस्मांस्तथातुरान् । त्यक्तुं नार्हसि सर्वज्ञ त्वद्धितांस्तनयान्हि नः ३२॥। गते त्वयि तु मंत्रार्थ शैलूषेण दुरात्मना । त्वद्रेषमधुरालापैर्वयं तेन प्रवंचिताः ॥३३॥ अज्ञानकृतदोषेण नैवं कुप्यति शांतिमान् ! सर्वश्ञस्त्वं विजानासि चित्तं नः प्रवणं त्वति॥३४॥ ज्ञात्वा नस्तपसा भावं त्यज कोपं महामते। ब्रुवंति मुनयः सर्वे क्षणकोपा हि साधवः ॥३५॥ जलं स्वभावतः शोतं वह्नयातपसमागमात् । भवत्युष्णं वियोगाच्च शोतत्वमनुगच्छति ॥३६॥ क्रोधश्चांडालरूपो वै त्यक्तव्यः सर्वथा बुधः । तस्माद्रोषं परित्यज्य प्रसादं कुरु सुव्रत ॥३७॥ यदि न त्यजसि क्रोधं त्यजस्यस्मान्सुदुःखितान्। त्वया त्यक्ता महाभाग गमिष्यामो रसातलम् ३८।। व्यास उवाच प्रह्लादस्य वचः श्रुत्वा भार्गवो ज्ञानचक्षुषा। विलोक्य सुमना भूत्वा तानुवाच हसन्निव॥३९॥
Page 219
श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः १५ २१९ न भेतव्यं न गंतव्यं दानवा वा रसातलम् । रक्षयिष्यामि वो याज्यान्मंत्रैरवितथः किल॥४०॥ हितं सत्यं ब्रवीम्यद्य शृणुघ्वं तत्तु निश्चयम् । वचनं मम धर्मज्ञाः श्रुतं यद्ब्रह्मणः पुरा ॥४१॥ अवश्यंभाविनो भावाः प्रभवंति शुभाशुभाः । दैवं न चान्यथा कतुं क्षमः कोऽपि धरातले ॥४२॥ अद्य मंदबला यूयं कालयोगादसंशयम् । देवैजिताः सकृच्चापि पातालं प्रतिपत्स्यथ ॥४३।। प्राप्तः पर्यायकालो व इति ब्रह्माऽ्म्यभाषत। भुक्तं राज्यं भर्वद्िश्र पूर्ण सर्वं समृद्धिमत् ॥।४४।। युगानि दश पूर्णानि देवानाक्रम्य मूर्धनि। दैवयोगाच्च युष्माभिर्भुक्तं त्रलोक्यमूर्जितम् ॥४५॥ सार्वणणके मनौ राज्यं पुनस्तत्तु भविष्यति। पौत्रस्त्रलोक्यविजयी राज्यं प्राप्स्यति ते बलि:४६। यदा वामनरूपेण हृतं देवेन विष्णुना। तदैव च भवत्पौत्रः प्रोक्तो देवेन जिष्णुना ॥४७।। हतं येन बले राज्यं देववांछार्थसिद्धये। त्वमिन्द्रो भविता चाग्रे स्थिते सा्वणिके मनौ ४८॥ भागव उवाच इत्युक्तो हरिणा पौत्रस्तव प्रह्लाद सांप्रतम् । अदृश्यः सर्वभूतानां गुप्तश्चरति भीतवत् ॥४९॥ एकता वासवेनासौ बलिर्गर्दभरूपभाक्। शून्ये गृहे स्थितः कामं भयभीतःशतक्रतोः ॥५०॥ दृष्टश्च बहुधा तेन वासवेन बलिस्तदा। किमर्थ गार्दभं रूपं कृतवान्दैत्यपुंगव ।।५१।। भोक्ता त्वं सर्वलोकस्य दैत्यानां च प्रशासिता। "न लज्जा खररूपेण तव राक्षससत्तम ।।" तस्य तद्वचनं श्रुत्वा दैत्यराजो बलिस्तदा ॥५२॥ प्रोवाच वचनं शक्रं कोऽत्र शोक: शतक्रतो। यथा विष्णुर्महातेजा मत्स्यकच्छपतां गतः ॥५३॥ तथाऽहं खररूपेण संस्थितः कालयोगतः । यथा त्वं कमले लीनः संस्थितो ब्रह्महत्यया ॥५४॥ पीडितश्र तथा ह्यद्य स्थितोऽहं खररूपधृक्। दैवाधीनस्य कि दुःखं कि सुखं पाकशासन ॥५५॥ काल: करोति वै नूनं यदिच्छति यथा तथा। भागव उवाच इति तौ बलिदेवेशौ कृत्वा संविदमुत्तमाम् ॥५६॥ प्रबोधं प्रापतुः कामं यथास्थानं च जग्मतुः । इत्येतत्ते समाख्याता मया दैवबलिष्ठता ॥ दैवाधीनं जगत्सवं सदेवासुरमानुषम् ॥५७॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कंधे चतुर्दशोऽध्यायः ॥१४॥ अथ पञ्चविंशोऽध्यायः व्यास उवाच इति तस्य वच: श्रुत्वा भार्गवस्य महात्मनः । प्रह्लादस्तु सुसंहृष्टो बभूब नृपनन्दन ॥१॥
Page 220
२२० श्रीमदेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः १५ ज्ञात्वा दैवं बलिष्ठं च प्रह्लादस्तानुवाच ह। कृतेऽपि युद्धे न जयो भविष्यति कदाचन ।२॥ तदा ते जयिनः प्रोचुर्दानवा मदगर्विताः । संग्रामस्तु प्रकर्तव्यो दैवं किं न विदामहे ॥३॥ निरुद्यमानां दैवं हि प्रधानमसुराधिप। केन दृष्टं क्व वा दृष्टं कीदृशं केन निर्मितम् ।४॥ तस्माद्युद्धं करिष्यामो बलमास्थाय सांप्रतम्। भवाग्रे देत्ववर्य त्वं सर्वज्ञोऽसि महामते ॥५॥ इत्युक्तस्तैस्तदा राजन्प्रह्लादः प्रबलारित। मेनानीश्र तदा भूत्वा देवान् युद्धे समाह्हयत् ॥६। तेऽ्पि तत्रासुरान्दृष्टा संग्रामे समुपस्थितान् । सर्वे संभुतसंभारा देवास्तानपमयोधयन् ।७॥ संग्रामस्तु तदा धोरः शक्रप्रह्लादयोरभूत् । पूर्णं वर्षशतं तत्र मुनीनां विस्मयावहः ॥८॥ वर्तमाने महायुद्धे शकेण प्रतिपालिताः । जयमापुस्तदा दैत्याः प्रह्लादप्रमुखा नृप ।।९॥ तदेवेन्द्रो गुरोर्वक्यात्सर्वदुःखविनाशिनीम् । सस्मार मनसा देवीं मुक्तिदां परमां शिवाम् ॥१०॥ इन्द्र उवाच जय देवि महामाये शूलधारिणि चांबिके। शंखचक्र्गदापद्मखड्गहस्तेऽभयप्रदे ।११। नमस्ते भुवनेशानि शक्तिदर्शननायिके। दशतत्त्वात्मिके मातर्महाबिन्दुस्वरूपिणि ॥१२॥ महाकुण्डलिनी रूपे सच्चिदानन्दरूपिणि। प्राणाग्निहोत्रविद्ये ते नमो दीपशिखात्मिके ।।१३। पश्चकोशांतरगते तुच्छे ब्रह्मस्वरूपिणि। आनन्दकलिके मातः सर्वोपनिषदर्चिते ॥१४॥ मातः प्रसीद सुमुखी भव हीनसत्त्वांस्त्रायस्व नो जननि दैत्यपराजितान् वे। त्वं देवि नः शरणदा भुवने प्रमाणा शक्ताऽसि दुःखशमनेऽखिलवीर्ययुक्तत ।।१५।। ध्यायंति येऽपि सुखिनो नितरां भवंति दु.खान्विता विगतशोकभयास्तथाऽन्ये। मोक्षार्थिनोविगतमानविमुक्तसंगाः संसारवारिधिजलं प्रतरंति संतः ॥१६॥ त्वं देवि विश्वजननि प्रथितप्रभावा संरक्षणार्थमु दिताऽडतिहरप्रतापा। संहर्त्मेतदखिलं किल कालरूपा को वेत्ति तेऽम्ब चरितं ननु मंदबुद्धि:॥१७॥ ब्रह्मा हरश्र हरिदश्वरथो हरिश्र इन्द्रो यमोज्थ वरुणोऽग्निसमीरणौ च। ज्ञातुं क्षमा न मुनयोऽपि महानुभावा यस्याः प्रभावमतुलं निगमागमाश्र ।१८। धन्यास्त एव तव भक्तिपरा महांतः संसारदुःखरहिताः सुखसिंधुमग्नाः । ये भक्तिभावरहिता न कदापि दुःखांभोधि जनिक्षयतरंगमुमे तरंति ॥१९।। ये वीज्यमानाः सितचामरैश्र क्रीडंति धन्या: शिविकाधिरूढाः । तैः पूजिता त्वं किल पूर्वदेहे नानोपहारैरिति चिन्तयामि ॥२०॥ ये पूज्यमाना वरवारणस्था विलासिनोवृंदविलासयुक्ताः । सामान्तकैश्चोपनतैर्व्रजन्ति मन्ये हि तैस्त्वं किल पूजिताऽसि ॥२१॥
Page 221
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १५ २२१
व्यास उवाच एवं स्तुता मघवता देवी विश्वेश्वरी तदा। प्रादुर्बभूव तरसा सिंहारूढा चतुर्भुजा ॥२२॥ शंखचक्रगदापद्मान्बिभ्रती चारुलोचना। रक्तांबरधरा देवी दिव्यमाल्यविभूषणा ॥२३॥ तानुवाच सुरान्देवां प्रसन्नवदना गिरा। भयं त्यजंतु भो देवाः शं विधास्ये किलाधुना ॥२४॥ इत्युक्त्वा सा तदा देवी सिंहारूढातिसुन्दरी। जगाम तरसा तत्र यत्र दैत्या मदान्विताः ॥२५॥ प्रह्लादप्रमुखाः सर्वे दृष्टा देवीं पुरः स्थिताम् । ऊचुः परस्परं भीताः किं कर्तव्यमितस्तदा ॥२६॥ देवं नारायणं चात्र संप्राप्ता चंडिका किल। महिषांतकरी नूनं चंडमुंडविनाशिनी ।२७॥ निहनिष्यति नः सर्वानंबिका नात्र संशयः । वक्रदृष्टया यया पूर्व निहतौ मधुकैटभौ ॥२८॥ एवं चिन्तातुरान् वीक्ष्य प्रह्लादस्तानुवाच ह। योद्धव्यं नाथ गंतव्यं पलाय्य दानवोत्तमाः ॥२९॥ नमुचिस्तानुवाचाथ पलायनपरानिह । हनिष्यति जगन्माता रुषिता किल हेतिभिः ॥३०॥ तथा कुरु महाभाग यथा दुःखं न जायते। व्रजामोऽद्यैव पातालं तां स्तुत्वा तदनुज्ञया ॥३१॥ प्रह्लाद उवाच स्तौमि देवीं महामायां सृष्टिस्थित्यन्तकारिणीम् । सर्वेषा जननीं शक्ति भक्तानामभयंकरीम् ॥३२।। व्यास उवाच इत्युक्त्वा विष्णुभक्तस्तु प्रह्लादः परमार्थवित्। तुष्टव जगता धात्री कृताञ्जलिुटस्तदा ॥३३॥ माला सर्पवदाभाति यस्यां सर्वं चराचरम्। सर्वाधिष्ठानरूपायै तस्यै हीमूर्तय नमः ॥३४॥ त्वत्तः सर्वमिदं विश्वं स्थावरं जंगमं तथा । अन्ये निमित्तमात्रास्त कर्तारस्तव निर्मिताः ॥३५॥ नमो देवि महामाये सर्वेषां जननी स्मृता। को भेदस्तव देवेषु दैत्येषु स्वकृतेषु च ॥३६॥ मातु: पुत्रेषु को भेदोऽप्यशुभेषु शुभेषु च। तर्थव देवेष्वस्मासु न कर्तव्यस्त्वयाऽधुना ।।३७॥। यादृशास्तादृशा मातः सुतास्ते दानवाः किल। यतस्त्वं विश्वजननी पुराणेषु प्रकीर्तिता ॥३८। तेऽपि स्वार्थपरा नूनं तर्थव वयमप्युत। नांतरं दैत्यसुरयोर्भेदोऽयं मोहसंभवः ॥३९॥ धनदारादिभोगेपु वयं सक्ता दिवानिशम्। तथव देवा देवेशि को भेदोऽसुरदेवयोः ॥४०॥ तेऽपि कश्यपदायादा वयं तत्संभवाः किल। कुतो विरोधसंभूतिर्जाता मातस्तवाधुना ॥४१॥ न तथा विहितं मातस्त्वाय स्वसमुद्धवे। साम्यतैव त्वया स्थाप्या देवेष्वस्मासु चैव हि ॥४२॥ गुणव्यतिकरात्सवें समृत्पन्नाः सुरासुराः । गुणान्विता भवयुस्ते कथं देहभृतोऽमराः ॥४३॥ कामः क्रोधश्च लोभश्च सर्वदेहेपु संस्थिताः । वर्तन्ते सर्वदा तस्मात्कोऽविरोधी भवेज्जनः ॥४४॥ त्वया मिथो विरोधोऽयं कल्पितः किल कौतुकात्। मन्यामहे विभेदेन नूनं युद्धदिदृक्ष ।४५।। अन्यथा खल भ्रातृणां विरोध: कीदृशोऽनधे। त्वंचेन्नेरच्छास चामुंडे वीक्षितुं कलहं किल ॥४६।
Page 222
२२२ श्रीमद्ेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: १५ जानामि धर्म धर्मज्ञे वेदयि चाहं शतक्रतुम्। तथापि कलहोऽस्माकं भोगार्थं देवि सर्वदा ।।४७।। एक: कोऽपि न शास्ताऽस्ति संसारे त्वां विनाऽम्बिके। स्पृहावतस्तु कः कर्तृं क्षमते वचनं बुधः ॥४८॥ देवासुरैरयं ससंधुर्मथितः समये क्वचित् । विष्णुना विहितो भेदः सुधारत्नच्छलेन वै ॥४९। त्वयाऽसौ कल्पितः शौरिः पालकत्वे जगद्गुरुः । तेन लक्ष्मीः स्वयं लोभाद्गृहीताऽमरसुन्दरी ।।५०। ऐरावतस्तथेन्द्रेण पारिजातोऽथ कामधुक्। सुररुच्चःश्रवाः सर्वं गृहीतं वैष्णवेच्छया ।५१॥ अनयं तादृशं कृत्वा जाता देवास्तु साधवः । "अन्यायिनः सुरा नूनं पश्य त्वं धर्मलक्षणम् ॥" संस्थापिताः सुरा नूनं विष्णुना बहुमानिना ॥५२॥ नूनं दैत्याः पराभूवन्पश्य त्वं धर्मलक्षणम्। क्व धर्मः कीदृशो धर्मः क्व काय क्व च साधुता ॥ कथयामि च कस्याग्रे सिद्धं मैमांसिकं मतम् । तार्किका युक्तिवादज्ञा विधिज्ञा वेदवादकाः ॥५४॥ उक्त्ता: सकर्तृकं विश्वं विवदंते जडात्मकाः । कर्ता भवति चेदस्मिन्संसारे वितते किल ॥५५॥ विरोधः कीदृशस्तत्र चककर्मणि वै मिथः । वेदेनैकमतिः कस्माच्छास्त्रेष्वपि तथा पुनः ॥५६॥ नैकवाक्यं वचस्तेषामपि वेदविदां पुनः। यतः स्वार्थपरं सर्वं जगत्स्थावरजंगमम् ॥५७॥ निःस्पृहः कोऽपि संसारे न भवेन्न भविष्यति। शशिनाऽथ गुरोर्भार्या हृता ज्ञात्वा बलादपि ।।५८।। गौतमस्य तथेन्द्रेण जानता धर्मनिश्चयम्। गुरुणाऽनुजभार्या च भुक्ता गर्भवती बलात् ।।५९।। शप्तो गर्भगतो बाल: कृतश्रांधस्तथा पुनः । विष्णुना च शिरश्छिन्नं राहोश्चक्रेण वै बलात् ॥६०॥ अपराधं बिना कामं तदा सत्त्ववताम्बिके। पौत्रो धर्मवतां शूरः सत्यवतपरायणः ॥६१॥ यज्वा दानपतिः शांतः सर्वज्ञः सर्वपूजकः । कृत्वाऽथ वामनं रूपं हरिणा छलवेदिना ॥६२॥ वंचितोऽसौ बलि: सर्वं हृतं राज्यं पुरा किल। तथापि देवान्धर्मस्थान्प्रवदंति मनीषिणः ॥६३॥ वदंति चाटुवादांश्च धर्मवादाअयं गताः । एवं ज्ञात्वा जगन्मातर्यथेच्छसि तथा कुरु ॥६४॥ शरणा दानवाः सर्वे जहि वा रक्ष वा पुनः। श्रादेव्युवाच सर्वे गच्छत पातालं तत्र वासं यथेप्सितम् ॥६५॥ कुरुध्वं दानवाः सर्वे निर्भया गतमन्यवः। कालः प्रतीक्ष्यो युष्माभिः कारणं स शुभेऽशुभे । सुनिर्वेदपराणां हि सुखं सर्वत्र सर्वदा। त्रैलोक्यस्य च राज्येऽपि न सुखं लोभचेतसाम् ॥ कृतेऽपि न सुखं पूर्ण सस्पृहाणां फलरपि। तस्मात्त्यकत्वा महीमेतां प्रयांत्वद्य महीतलम् ॥६८।। ममाज्ञां पुरतः कृत्वा सवें विगतकल्मषाः ।
Page 223
श्रीमद्देवीमागवते महापुराणे चतर्थस्कन्धे अध्याय: १६ २२३
व्यास उवाच तच्छ्रुत्वा वचनं देव्यास्तथेत्युक्त्वा रसातलम् ॥६९॥ प्रणम्य दानवाः सर्वे गताः शक्त्याऽभिरक्षिताः । अन्तर्दधे ततो देवी देवाः स्वभुवनं गताः ॥७०॥ त्यक्त्वा वैरं स्थिताः सर्वे ते तदा देवदानवाः । एतदाख्यानमखिलं यः शृणोति वदत्यथ।। सर्वदुःखविनिर्मुक्तः प्रयाति पदमुत्तमम्॥७१॥ इति श्रीदेवीभागवते महापुराणे चतर्थस्कंधे पञ्चमोऽध्यायः॥१५॥ अथ षोडशोऽध्यायः जनमेजय उवाच भृगुशापान्मुनिश्रेष्ठ हरेरद्द्तकर्मणः । अवतारा: कथं जाता: कस्मिन्मन्वन्तरे विभो ॥१॥ विस्तराद्वद्व धमज्ञ अवतारकथां हरे:। पापनाशकरीं ब्रह्मञ्छ्तां सर्वसुखावहाम् ॥२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि अवतारान् हरेयथा। यस्मिन्मन्वन्तरे जाता युगे यस्मिन्नराधिप ॥३॥ येन रूपेण यत्कायं कृतं नारायणेन वै। तत्सर्वं नृप वक्ष्यामि संक्षेपेण तवाधुना ।।४।। धर्मस्यैवावतारोऽभूच्चाक्षुषे मनुसंभवे। नरनारायणौ धर्मपुत्रौ ख्यातौ महीतले ।।५॥ अथ वैवस्वताख्येऽस्मिन्द्विंतीये तु युगे पुनः । दत्तात्रेयोऽवतारोऽत्रे: पुत्रत्वमगमद्धरि: ॥६॥ ब्रह्मा विष्णुस्तथा रुद्रस्त्रयोऽमी देवसत्तमाः । पुत्रत्वमगमन्देवास्तस्यात्रेर्भार्यया वृताः ॥७॥ अनसूयाऽ्रिपत्नी च सतीनामुत्तमा सती। यया संप्रार्थिता देवाः पुत्रत्वमगमंस्त्रयः ॥८॥ ब्रह्माडभूत्सोमरूपस्तु दत्तात्रेयो हरि: स्वयम्। दुर्वासा रुद्ररूपोऽसौ पुत्रत्वं ते प्रपेदिरे ।।९॥ नृसिंहस्यावतारस्तु देवकार्यार्थसिद्धये। चतुर्थे तु युगे जातो द्विधारूपो मनोहरः ॥१०॥ हिरण्यकशिपोः सम्यग्वधाय भगवान् हरिः । चक्रे रूपं नारसिंहं देवानां विस्मयप्रदम् ॥११॥ बलेनियमनार्थाय श्रेष्ठे त्रेतायुगे तथा। चकार रूपं भगवान् वामनं कश्यपान्मुनेः ॥१२॥ छलयित्वा मखे भूपं राज्यं तस्य जहार ह। पाताले स्थापयामास बलिं वामनरूपधृक् ॥१३॥ युगे चैकोनर्विशेऽथ त्रेताख्ये भगवान् हरिः । जमदग्निसुतो जातो रामो नाम महाबलः ॥१४॥ क्षत्रियांतकरः श्रीमान्सत्यवादी जितेंद्रियः । दत्तवान्मेदिनीं कृत्स्नां कश्यपाय महात्मने ॥१५॥ यो वै परशुरामाख्यो हरेरद्द्रुतकर्मणः । अवतारस्तु राजेंद्र कथितः पापनाशनः ॥१६॥ त्रेतायुगे रघोवंशे रामो दशरथात्मजः । नरनारायणांशौ द्वौ जातौ भुवि महाबलौ ॥१७॥
Page 224
२२४ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १७ अष्टाविशे युगे शस्तौ द्वापरेऽर्जुनशौरिणौ। धराभारावतारार्थं जातौ कृष्णार्जुनौ भुवि ॥१८।। कृतवंतौ महायुद्धं कुरुक्षेत्रेऽतिदारुणम् । एवं युगे युगे राजन्नवतारा हरे: किल ॥१९॥ भवंति बहवः कामं प्रकृतरनुरूपतः । प्रकृतेरखिलं सर्वं वशमेतज्जगत्त्रयम् ॥२०॥ यथेच्छति तदैवेयं भ्रामयत्यनिशं जगत् । पुरुषस्य पियार्थ सा रचयत्यखिलं जगत् ॥२१॥ दृष्टा पुरा हि भगवाअ्जगदेतच्चराचरम् । सर्वादिः सर्वगश्चासौ दुर्जेयः परमोऽव्ययः ॥२२॥! निरालंबो निराकारो निःस्पृहश्च परात्परः । उपाधितस्त्रिधा भाति यस्याः सा प्रकृतिः परा॥।२३॥ उत्पत्तिकालयोगात्मा भिन्ना भाति शिवा तदा। सा विश्वं कुरुते कामं सा पालयति कामदा ॥२४॥ कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी। तया युक्तोऽसृजद्ब्रह्मा विष्णुः पाति तयान्वितः२५॥ रुद्र: संहरते कामं तया संमिलितः शिवः। सा चैवोत्पाध्य काकुत्स्थं पुरा वै नृपसत्तमम् ॥२६॥ कुत्रचित्स्थापयामास दानवानां जयाय च। एवमस्मिव् संसारे सुखदुःखानिताः किल॥ भवंति प्राणिनः सर्वे विधितंत्रनियंत्रिताः ॥२ ७॥। इति श्रीदेवीभागवने महापराणे चनर्थम्कंधे बोडशोऽध्यायः ॥१६॥ अथ सप्तदशोऽध्यायः जनमेजय उवाच चारांगनास्त्वया ख्याता नरनारायणाश्रमे। एकं नारायणं शांतं कामयाना: स्मरातुराः ॥१॥ शसुकामस्तदा जातो मुनिर्नारायणश्च ताः । निवारितो नरेणाथ भ्रात्रा धर्मविदा नृप ॥।२।। कि कृतं मुनिना तेन व्यसने समुपस्थिते। ताभिः संकल्पितेनाथ कामार्थाभिर्भृशं मुने ॥३॥ शत्रेणोत्पादिताभिश्च बहुप्रार्थनया पुनः । याचितेन विवाहार्थं कि कृतं तेन जिष्णुना ॥४॥। इत्येतच्छ्रोतुमिच्छामि चरितं तस्य मोक्षदम्। नारायणस्य मे ब्रूहि विस्तरेण पितामह ॥५॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि यथा तस्य महात्मनः । धर्मपुत्रस्य धर्मज्ञ विस्तरेण वदामि ते ॥६॥ शप्तुकामस्तु संदृष्टो नरेणाथ यदा हरिः । वारितोऽसौ समाश्वास्य मुनिर्नारायणस्तदा ॥७॥ शांतकोपस्तदोवाच तास्तपस्वी महामुनिः । स्मितपूर्वमिदं वाक्यं मधुरं धर्मनन्दनः ।।८।। अस्मिक्षन्मनि चार्वग्यः कृतसंकल्पवानहम् । आवाभ्यां च न कर्तव्यः सर्वथा दारसंग्रहः ॥९॥ तस्माद्गच्छंतु त्रिदिवं कृपां कृत्वा ममोपरि। धर्मज्ञा न प्रकुर्वन्ति व्रतभंगं परस्य वै ॥१०॥ शृंगारेऽस्मित्रसे नूनं स्थायीभावो रतिः स्मृतः । कथं करोमि संबंधं तदभावे सुलोचनाः ॥११॥ कारणेन विना कार्यं न भवेदिति निश्चयः । कविभिः कथितं शास्त्रेस्थायीभावो रसः किल १२॥
Page 225
१५ श्रीमददेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: 19 २२५ धन्यः सुचारुसर्वांगः सभाग्योऽहं धरातले। प्रीतिपात्रं यतो जातो भवतीनामकृत्रिमम् ॥१३॥ भवतीभिः कृपां कृत्वा रक्षणीयं व्रतं मम । भविष्यामि महाभागाः पतिरप्यन्यजन्मनि ॥१४॥ अष्टाविशे विशालाक्ष्यो द्वापरेऽस्मिन्धरातले। देवानां कार्यसिद्धयर्थ प्रभविष्यामि सर्वथा॥१५॥ तदा भवत्यो मद्दाराः प्राप्य जन्म पृथवपृथक्। भूपतीनां सुता भूत्वा पत्नीभावं गमिष्यथ ।१६।। इत्याश्वास्य हरिस्तास्तु प्रतिश्रुत्य परिग्रहम् । व्यसजयत्स भगवाञ्ञग्मुश्च विगतज्वराः ॥१७॥ एवं विसजितास्तेन गताः स्वर्ग तदांनाः । शक्राय कथयामासुः कारणं सकलं पुनः ॥१८॥ आश्रुत्य मघवा ताभ्यो वृत्तांतं तस्य विस्तरात् । तुष्टाव तं महात्मानं नारीर्दष्टा तथोर्वशोः ॥१९॥ इन्द्र उवाच अहो धैर्यं मुनेः कामं तर्थव च तपोबलम्। येनोर्वश्यः स्वतपसा ताद्ग्रपाः प्रकल्पिताः ॥२०॥ इति स्तुत्वा प्रसन्नात्मा बभूव सुरराट् ततः । नारायणोऽपि धर्मात्मा तपस्यभिरतोऽभवत् ॥२१॥ इत्येतत्सर्वमाख्यातं मुनेर्वृत्तांतमन्भुतम्। नारायणस्य सकलं नरस्य च महामुने ॥२२॥ तौ हि कृष्णार्जुनौ बीरौ भूभारहरणाय च। जातौ तौ भरतश्रेष्ठ भृगोः शापवशादिह ।।२३। राजोवाच कृष्णावतारचरितं विस्तरेण वदस्व मे। संदेहो मम चित्तेऽस्ति तं निवारय मानद ॥२४॥ ययोः पुत्रत्वमापन्नौ हर्यनंतौ महाबलौ। देवकीवसुदेवौ तौ दुःखभाजौ कथं मुने ॥२५॥ कंसेन निगडे बद्धौ पीडिती बहुबत्सरान् । ययोः पुत्रो हरिः साक्षात्तपसा तोषितोऽभवत् २६॥ जातोऽसौ मथुरायां तु गोकुले स कथं गतः। कंसं हत्वा द्वारवत्यां निवासं कृतवान्कथम् ॥२७॥ पित्रादिसेवितं देशं समृद्धं पावनं किल। त्यकत्वा देशांतरेऽनार्य गतवान्स कथं हरिः ॥२८॥ कुलं च द्विजशापेन कथमुत्सादितं हरेः । भारावतारणं कृत्वा वासुदेवः सनातनः ॥२९॥ देहं मुमोच तरसा जगाम च दिवं हरिः । पापिष्ठानां तर भारेण व्याकुलाऽभूच्च मेदिनी३०॥ ते हता वासुदेवेन पार्थेनामितकर्मणा। लुंठिता यैहरे: पत्न्यस्ते कथं न निपातिताः ॥३१॥। भीष्मों द्रोणस्तथा कर्णोबाह्वीकोप्यथ पार्थिवः । वैराटोऽथ विकर्णश्र धृष्टदुम्नश्च पार्थिव: ॥३२।। सोमदत्तादयः सर्वे निहताः समरे नृप। तेपामुत्तारितो भारश्रौरागां न हृतः कथम् ॥३३॥ कृष्णपत्न्यः कथं दुःखं प्राप्ताः प्रांते पतिव्रताः । संदेहोऽयं मुनिश्रष्ठ चित्ते मे परिवर्तते ॥३४॥ वसुदेवस्तु धर्मात्मा पुत्रदुःखेन तापितः । त्यक्तवान्स कथं प्राणानपमृत्युं जगाम ह॥३५॥ पांडवा धर्मसंयुक्ता: कृष्णे च निरताः सदा। ते कथं दुःखभोक्तारो ह्यभवन्मुनिसत्तम ॥३६॥ द्रोपदी च महाभागा कथं दुःखस्य भागिनी। वेदीमध्याच्च संजाता लक्ष्म्यंशसंभवा किल ॥३७॥ सभायां च समानीता रजोदोषसमन्विता। बाला दुःशासनेनाथ केशग्रहणकशिता।३८।।
Page 226
२२६ श्ीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १८ पीडिता सिंधुराज्ञाऽथ वनमध्यगता सती। तर्थव कोचकेनापि पीडिता रुदती भृशम् ॥३९॥ पुत्राः पंचैव तस्यास्तु निहता द्रौणिना गृहे। सुभद्रायाः सुतो युद्धे बाल एव निपातितः ॥४०॥ तथा च देवकीपुत्राः षट् कंसेन निष्दिताः । समर्थेनापि हरिणा दैवेन कृतमन्यथा॥४१॥ यादवानां तथा शापः प्रभासे निधनं पुनः । कुलक्षयस्तथा तीव्रस्तत्पत्नीनां च लुंठनम् ॥४२॥ विष्णुना चेश्वरेणापि साक्षान्नारायणेन च । उग्रसेनस्य सेवा वै दासवत्सततं कृता ॥४३॥ संदेहोऽयं महाभाग तत्र नारायणे मुनौ। सर्वजंतुसमानत्वं व्यवहारे निरंतरम् ॥४४॥ हर्षशोकादयो भावाः सर्वेषां सदृशाः कथम् । ईश्वरस्य हरेर्जाता कथमप्यन्यथा मतिः ॥४५॥ तस्माद्विस्तरतो ब्रहि कृष्णस्य चरितं महत् । अलौकिकेन हरिणा कृतं कर्म महीतले ॥४६।। हता आयुःक्षये दैत्याः क्लेशेन महता पुनः। क्वैश्वर्यशक्तिः प्रथिता हरिणा मुनिसत्तम ॥४७॥ रुक्मिणीहरणे नूनं गृहीत्वाऽथ पलायनम्। कृतं हि वासुदेवेन चौरवच्चरितं तदा ।४८।। मथुरामंडलं त्यक्त्वा समृद्धं कुलसंमतम्। जरासंधभयात्तेन द्वारकागमनं कृतम्॥४९॥ तदा केनापि न ज्ञातो भगवान्हरिरीश्वरः । किचित्प्रब्रहि मे ब्रह्मन्कारणं व्रजगोपनम् ॥५०॥ एते चान्ये च बहवः संदेहा वासवीसुत। नाशयाद्य महाभाग सर्वज्ञोऽसि द्विजोत्तम ॥५१॥ गोप्यस्तथकः संदेहो हृदयान्न निव्तते। पांचाल्या; पंचभर्तृत्वं लोके किं न जुगुप्सितम् ५२॥ सदाचारं प्रमाणं हि प्रवदंति मनीषिणः । पशुधर्मः कथं तैस्तु समर्थेरपि संश्रितः ॥५३॥ भीष्मेणापि कृतं किं वा देवरूपेण भूतले। गोलकौ तौ समुत्पाद्य यत्तु वंशस्य रक्षणम् ॥५४॥ धिग्धर्मनिर्णयः कामं मुनिभि: परिदर्शितः । येन केनाप्युपायेन पुत्रोत्पादनलक्षणः ।५५।। इति श्रीमददेवीभागवते महापुराणे चतुर्थस्कन्धे सप्तदशोऽध्यायः ॥१७॥
अथ अष्टादशोऽध्यायः
व्यास उवाच शृणु राजन्प्रवक्ष्यामि कृष्णस्य चरितं महत् । अवतारकारणं चैव देव्याश्चरितमन्दुतम् ॥१॥ धरकदा भराक्रांता रुदती चातिकशिता। गोरूपधारिणी दीना भीताऽगच्छत्त्रिविष्टपम् ॥२॥ पृष्टा शक्रेण किं तेजद्य वर्तते भयमित्यथ। केन वै पीडिताऽसि त्वं किं ते दुःखं वसुंधरे ॥३॥ तच्छ्रत्वेला तदोवांच शृणु देवेश मेऽखिलम् । दुःखं पृच्छसि यत्त्वं मे भाराक्रांताऽस्मि मानद॥॥४॥ जरासंधो महापापी मागधेषु पतिर्मम। शिशुपालस्तथा चैद्यः काशिराजः प्रतापवान् ॥५' रुक्मो च बलवान्कंसो नरकश्च महाबलः । शाल्वः सौभपतिः क्रूरः केशी धेनुकवत्सको ॥६॥ सर्वे धर्मविहीनाश्च परस्परविरोधिनः । पापाचारा मदोन्मत्ताः कालरूपाश्च पार्यिवाः ।।७।।
Page 227
श्रीमददेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १८ २२७ तैरहं पीडिता शक्र भाराक्रांताऽक्षमा विभो। किं करोमि क्व गच्छामि चिंता मे महती स्थिता॥।८ पीडिताऽहं वराहेण विष्णुना प्रभविष्णुना । शक्र जानीहि हरिणा दुःखाद्दुःख़तरं गता ॥९॥ याताऽहं दुष्टदैत्येन कश्यपस्यात्मजेन वै। हृताऽहं हिरण्याक्षेण मग्ना तस्मिन्महार्णवे ॥१०॥ तदा सूकररूपेण विष्णुना निहतोऽप्यसौ । उद्धृताऽहं वराहेण स्थापिता हि स्थिरा कृता ॥११॥ नोचेद्रसातले स्वस्था स्थिता स्यां सुखशायिनी। न शक्ताऽस्म्यद्य देवेश भारं वोढु दुरात्मनाम् ॥१२॥ अग्रे दुष्टः समायाति ह्यष्टाविंशस्तथा कलिः। तदाऽहं पीडिता शक्र गंताऽस्म्याशु रसातलम्॥१३॥ तस्मात्त्वं देवदेवेश दुःखरूपार्णवस्य च । पारदो भव भारं मे हर पादौ नमामि ते ॥१४॥ इन्द्र उवाच इले किं ते करोम्यद्य ब्रह्माणं शरणं व्रज । अहं तत्रागमिष्यामि स ते दुःखं हरिष्यति ॥१५॥ तच्छ्रत्वा त्वरिता पृथ्वी ब्रह्मलोकं गता तदा । शक्रोऽपि पृष्ठतः प्राप्तः सर्वदेवपुरःसरः ॥१६॥ सुरभीमागतां तत्र दृष्टोवाच प्रजापतिः । महीं ज्ञात्वा महाराज ध्यानेन समुपस्थिताम् ॥१७॥ कस्माद्रुदसि कल्याणि कि ते दुःखं वदाधुना। पीडिताइसि च केन त्वं पापाचारेण भूर्वद ।१८।। धरोवाच कलिरायाति दुष्टोऽयं बिभेमि तद्द्गयादहम्। पापाचाराः प्रजास्तत्र भविष्यन्ति जगत्पते ॥१९॥ राजानश्च दुराचाराः परस्परविरोधिनः । चौरकर्मरताः सर्व राक्षसाः पूर्णवैरिणः ॥२०॥ तान्हत्वा नृपतीन्भारं हर मेडद्य पितामह। पीडिताऽस्मि महाराज सैन्यभारेण भूभृताम् ॥२१॥ ब्रह्मोवाच नाहं शक्तस्तथा देवि भारावतरणे तव। गच्छावः सदनं विष्णोर्देवदेवस्य चक्रिणः ॥२२॥ स ते भारापनोदं वै करिष्यति जनार्दनः । पूर्व मयापि ते कार्यं चिन्तितं सुविचार्य च ॥।२३। तत्र गच्छं सुरश्रेष्ठ यत्र देवो जनार्दनः । व्यास उवाच इत्युक्त्वा वेदकर्ताडसौ पुरस्कृत्य सुरांश्र गाम् ॥२४॥ जगाम विष्णुसदनं हंसारूढश्चतुर्पुखः । तुष्टाव वेदवार्क्यश्र भक्तिप्रवणमानसः ॥२५॥ ब्रह्मोवाच सहस्रशीर्षास्त्वमसि सहस्राक्षः सहस्रपात् । त्वं वेदपुरुषः पूर्व देवदेवः सनातनः ॥२६॥ भूतपूर्वं भविष्यच्च वर्तमानं च यद्विभो। अमरत्वं त्वया दत्तमस्माकं च रमापते ॥२७॥ एतावान्महिमा तेडस्ति को न वेति जगत्त्रये। त्वं कर्ताऽप्यविता हर्ता त्वं सर्वगतिरीश्वरः ॥२८॥
Page 228
२२८ श्रीमहेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः १८ व्यास उवाच इतीडितः प्रभुर्विष्णुः प्रसन्नो गरुडघ्वजः । दर्शनंच ददो तेभ्यो ब्रह्मादिभ्योऽमलाशयः ॥२४॥ पप्रच्छ स्वागतं देवान्प्रसन्नवदनो हरिः। ततस्त्वागमने तेषां कारणं च सविस्तरम् ॥३०॥ तमुवाचाब्जजो नत्वा धरादुःखं च संस्मरन् । भारावतरण विष्णो कर्तव्यं ते जनार्दन ॥३१॥ भुवि धृत्वाऽवतारं त्वं द्वापरान्ते समागते। हत्वा दुष्टान्नृपानुर्व्या हर भारं दयानिधे ॥३२।। विष्णुरुवाच नाहं स्वतन्त्र एवात्र न ह न शिवस्तथा। नेन्द्रोडग्निर्न यमस्त्वष्टा न सूर्यो वरुणस्तथा ॥३३॥ योगमायावशे सर्वमिदं स्थावरजङ्गमम् । ब्रह्मादिस्तम्वपर्यन्तं ग्रथितं गुणसूत्रतः ॥३४॥ यथा सा स्वच्छया पूर्व कर्तुमिच्छतत सुव्रत। तथा करोति सहिता वयं सर्वेडपि तद्वशाः॥३५॥ यद्यहं स्यां स्वतन्त्रो वै चितयन्तु धिया किल। कुतीजभवं मत्स्यवपुः कच्छपो वा महार्णवे ॥३६॥ तिर्यग्योनिषु को भोगः का कीर्तिः कि सुखं पुनः । कि पुण्यं कि फलं तत्र क्षुद्रयोनिगतस्य मे ॥३७॥ कोलो वाडथ नृसिंहो वा वामनो वाज्भवं कुतः । जमदग्निसुतः कस्मात्सम्भवयं पितामह ॥३८॥ नृशंसं वा कर्थं कर्म वृत्तवानस्मि भूतले। क्षतजैस्तु तदान्सर्वा्पृरयेयं कथं पुनः ॥३९॥ तत्कथं जमदग्नेश्र पुत्रो भूत्वा द्विजोत्तमः । क्षत्रियान्हतवानाज निर्दयो गर्भगानपि ॥४०॥ रामो भूत्वानथ देवेन्द्र प्राविशहंडकं वनम्। पदातिश्रीरवासाक्ष जटावल्कलवान्पुन: ॥४१॥ असहायो ह्यपाथेयो भीपणे निर्जने वने। कुर्वन्नाखेटकं तत्र व्यचरं विगतत्रपः ॥४२॥ * ज्ञातवान्मृगं हैमं मायया पिहितस्तदा। उटजे जानकीं त्यक्त्वा निर्गतस्तत्पदानुगः ॥४३॥ कक्ष्मणोक्वपि च तां त्यवत्वो निर्गतो मत्पदानुगः । वारितोऽपि मयाऽत्यर्थ मोहितः प्राकृतर्गुणैः ॥४४॥ भिक्षुरूपं ततः कृत्वा रावणः कपटाकृतिः। जहार तरसा रक्षो जानकीं शोककशिताम् ॥४५॥ दुस्ार्तेन मया तत्र रुदितं च वने वने। सुग्रीवेण च मित्रत्वं कृतं कार्यवशान्मया ॥४६।। अन्यायेन हतो वाला शापाच्चव निवारितः । सहायान्वानरान्कृत्वा लंकायां चलितं पुनः ॥४७॥। बद्धोऽहं नागपाशश्च लक्ष्मणश्र ममानुजः । विसंज्ञौ पतिती दृष्टा वानरा विस्मयं गताः ॥४८॥ गरुडेन तदाऽडगत्य मोचिती भ्रातरो किल। चिंता मे महती जाता दैवं कि वा करिष्यति।४९।। हृतं राज्यं वने वासो मृतः तातः प्रिया हता। युद्धं कष्टं ददात्येवमग्रे किं वा करिष्यति ॥५०॥ प्रथमं तु महादुःखमराज्यस्य वनाश्रयम् । राजपुत्र्याऽन्वितस्यैव धनहीनश्च निर्गतः ॥५१॥ वराटिकाऽपि पित्रा मे न दत्ता वर्नानर्गमे। पदातिरसहायोऽहं धनहीनश्च निर्गतः ॥५२॥ चतुर्दशव वर्षाणि नीतानि च तदा मया। क्षात्रं धर्म परित्यज्य व्याधवृत्त्या महावने ।५३॥ दैवाद्युद्वे जयः प्राप्तो निहतोऽसो महासुरः । आनीता च पुनः सीता प्राप्ताऽयोध्या मया तथा ५४॥
Page 229
श्रीमदेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: १९ २२९ वर्षाणि कतिचित्तत्र सुखं संसारसंभवम्। प्राप्तं राज्यं च सम्पूर्ण कोसलानवितिष्टता ।५५॥ पुरैव वर्तमानेन प्राप्तराज्येन वै तदा। लोकापवादभीतेन त्यक्ता सीता वने मया ॥५६॥ कांताविरहजं दुःखं पुनः प्राप्तं दुरासदम्। पातालं सा गता पश्चाद्वरां भित्त्वा धरात्मजा ५७॥ एवं रामावतारेऽपि दुःखं प्रात्तं निरंतरम्। परतंत्रेण मे नूनं स्वतन्त्रः को भवेत्तदा ।५८।। पश्चात्कालवशात्प्राप्तः स्वर्गो मे भ्रातृभिः सह। परतंत्रस्य का वार्ना वक्तव्या विबुधेन वै ॥५९॥ परतन्त्रोऽस्म्यहं नूनं पद्मयोने निशामय। तथा त्वमपि रुद्रश्च सर्वे चान्ये सुरोत्तमाः ॥५०॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धेऽष्टादशोऽध्यायः ॥१८॥
व्यास उवाच इत्युक्त्वा भगवान्विष्णुः पुनराह प्रजापतिम् । यन्मायानोहितः सर्वस्तत्त्वं जानाति नो जनः ॥१॥ वयं मायावृताः कामं न स्मरामो जगद्गुरुम्। परमं पुरुषं शांतं सच्चिदानन्दमव्ययम् ॥२॥ अहं विष्णुरहं ब्रह्मा शिवोऽहमिति मोहिताः । न जानीमो वयं धातः परं वस्तु सनातनम् ॥३॥ यन्मायामोहितश्राहं सदा वर्ते परात्मनः । परवान् दारुपांचाली मायिकस्य यथा वशे॥४॥ भवताऽपि तथा दृष्टा विभूतिस्तस्य चाद्भुता। कल्पादो भवयुक्तेन नयाउपि च सुधार्णेवे ॥५॥ मणिद्वीपेऽथ मन्दारविटपे रासमण्डले। समाजे तत्र सा दृष्टा श्रुता न वचसापि च ॥६॥ तस्मात्तां परमां शक्ति स्मरंत्वद्य सुराः शिवाम् । सर्वकामप्रदां मायामाद्यां शक्ति परात्मनः।७।। व्यास उवाच इत्युक्ता हरिणा देवा ब्रह्माद्या भुवनेश्वरीम्। सस्महर्मनसा देवों योगमायां सनातनीम् ॥८।। स्मृतमात्रा तदा देवी प्रत्यक्षं दर्शनं ददौ। पाशाङ्कशवराभीतिधरा देवी नपारुणा ॥ दृष्टा प्रमुदिता देवास्तुष्टुवुस्तां सुदर्शना ।९॥ देवा ऊचु: ऊर्णनाभाद्यथा तन्तुर्विस्फुलिंगा विभावसोः । तथा जगद्यदेतस्या निर्गतं ता नता वयम् ॥१०॥ यन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम्। तां चितं भुवनाधीशां स्मरामः करुणार्णवाम् ॥११॥ । संविद्रूपां च तां देवीं स्मरामः सा प्रचोदयात् ॥१२।। महालक्ष्म्यै च विद्यहे सर्वशक्त्यै च धीमहि। तन्नो देवी मातर्नताः स्म भुवनातिहरे प्रसीद शं नो विधेहि कुरु कार्यमिदं दयाद्रे। प्रतोदयात् ।।१३।।
भारं हरस्व विनिहत्य सुरारिवर्ग मह्या महेश्वरि सतां कुरु शं भवानि ॥१४।।
Page 230
२३० श्रीमर्ेवीभागवत महापुराणे चतुर्थस्कन्धे अध्याय: १९ यद्यंबुजाक्षि दयसे न सुरान्कदाचित्कि ते क्षमा रणमुखेऽसिशरैः प्रहर्तुम् । एतत्त्वयैव गदितं ननु यक्षरूपं धृत्वा तृणं दह हुताशपदाभिलाषैः ॥१५॥ कंसः कुजोऽथ यवनेन्द्रसुतश्च केशी बाहंद्रथो बकबकीखरशाल्वमुख्याः । येऽन्ये तथा नृपतयो भुवि संति तांस्त्वं हत्वा हरस्व जगतो भरमाशु मातः ॥१६॥ ये विष्णुना न निहताः मल शंकरेण ये वा विगृह्य जलजाक्षि पुरन्दरेण। ते ते मुखं सुखकरं सुसमीक्षमाणाः संख्ये शरैविनिहता निजलीलया ते ॥१७॥ शक्ति विना हरिहरप्रमुखाः सुराश्च नैवेश्वरा विचलितुं तव देवदेवि। किं धारणाविरहितः प्रभुरप्यनन्तो ध्तु धरां च रजनीशकलावतंसे ॥१८।। इन्द्र पवाच वाचा विना विधिरलं भवतीह विश्रं कर्तु हरिः किमु रमारहितोऽथ पातुम् । संहर्तुमीश उमयोज्झित ईश्वरः किं ते ताभिरेव सहिताः प्रभवः प्रजेशाः ॥१९॥ विष्णुरुवाच कतुं प्रभुर्न द्रुहिणो न कदाचनाहं नापीश्वरस्तव कलारहितस्त्रिलोक्याः । कर्तुं प्रभुत्वमनघेऽत्र तथा विहतु त्वं वै समस्तविभवेश्वरि भासि नूनम् ॥२०॥ व्यास उवाच एवं स्तुदा तदा देवी. तानाह विबुधेश्वरान् । कि तत्कार्य वदंत्वद्य करोमि विगतज्वराः ॥२१॥ असाध्यमपि लोकेऽस्मिस्तत्क रोमि सुरेप्सितम्। शांसंतु भवतां दुःखं धरायाश्च सुरोत्तमाः ॥२२॥ देवा ऊचु: वसुधेयं भयाक्रांता सम्प्राप्ता विबुधान्प्रति। रुदती वेफमाना च पीडिता दुष्टभूभुजः ॥२३॥ भारापहरणं चास्याः कर्तव्यं भुवनेश्वरि। देवानामीप्सितं कार्यमेतदेवाधुना शिवे ॥२४॥ घातितस्तु पुरा मातस्त्वया महिषरूपभृत् । दानवोऽतिबलाक्रांतस्तत्सहायांश्च कोटिशः ॥२५॥ तथा शुम्भो निशुम्भश्र रक्तवीजस्तथापरः । चण्डमुण्डौ महावीर्यौ तथैव धूम्रलोचनः ॥२६॥ दुर्मुखो दुःसहश्चैव करालश्चातिवीर्यवान् । अन्ये च बहवः करास्त्वयैव च निपातिताः ॥२७॥ तर्थव च सुरारींश्र जहि सर्वान्महीश्षरान्। "भारं हर धरायाश्र दुर्धरं दुष्टभूभुजाम्" ॥ व्यास उवाच इत्युक्ता सा तदा देवी देवानाहाम्बिका शिवा॥२८। सम्प्रहस्यासितापाङ्गी मेघगम्भीरया गिरा।
Page 231
श्रीमदेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: २० २३१
श्रीदेव्युवाच मयेदं चिंतितं पूर्वमंशावतरणं सुराः ॥ २९ ॥ भारावतरणं चैव यथा स्याद्दृष्टभूभुजाम् । मया सर्वे निहंतव्या दैत्येशा ये महीभुजाः ॥३०॥ मागधाद्या महाभागा: स्वशक्त्या मंदतेजसः । भवन्भिरपि स्वैरंशैरवतीर्य धरातले । १॥ मच्छक्तियुक्त: कर्तव्यं भारावतरणं सुराः । कश्यपो भार्यया सारधं दिविजानां प्रजापतिः ॥३२॥ यादवानां कुले पूर्व भविताऽडनकदुंदुभिः । तथैव भृगुशापाद्रै भगवान्विष्णुरव्ययः ॥३३॥ अंशेन भविता तत्र वसुदेवसुतो हरिः । तदाऽहं प्रभविष्यामि यशोदायां च गोकुले॥३४॥ कार्यं सर्वं करिष्यामि सुराणां सुरसत्तमाः । कारागारे गतं विष्णुं प्रापयिप्यामि गोकुले ॥३५॥ शेषं च देवकीगर्भात्प्रापयिष्यामि रोहिणीम् । मच्छक्त्योपचितौ तौ च कर्तारौ दुष्टसंक्षयम् ॥३६।। दुष्टानां भूभुजां कामं द्वापरांते सुनिश्चितम्। इंद्रांशोऽप्यर्जुनः साक्षात्करिप्यनि वलक्षयम् ॥३७॥ धर्मांशोऽपि महाराजो भविष्यति युधिष्ठिरः । वायवंशो भीमतेनश्राश्विन्यंशौ च यमावपि ॥३८॥ वसोरंशोऽथ गांगेयः करिष्यात बलक्षयम्। व्रजंतु च भवंतो्ध धरा भवतु सुस्थिरा ॥३९॥ भारावतरणं नूनं करिष्यामि सुरोत्तमाः । कृत्वा निमित्तमानांस्तान्स्वशकत्याव्हं न संशयः ॥ कुरुक्षेत्रे करिष्यामि क्षत्रियाणां च संक्षयम् । अमूयेर्ष्या मतिस्तृष्णा ममताभमता स्पृहा ॥४१॥ जिगीपा मदनो मोहो दोषैनक्ष्यन्ति यादवाः । ब्राह्मणस्य,च शापेन वंशनाशो भविष्यति ॥।४२।। भगवानपि शापेन त्यक्ष्यत्येतत्कलेवरम्। भवन्तोऽपि निजांगैश्र सहाया: शाङ्गधन्वन. ४३।। प्रभवन्तु सनारीका मथुरायां च गोकुले। व्यास उवाच इत्युक्त्वांतर्दधे देवी योगमाया परात्मन:॥४४॥ सधरा वै सुराः सर्वे जग्मुः स्वान्यालयानि च। धराऽपि मुस्थिरा जाना तस्या वाक्येन तोषिता॥ ओषधीवोरुधोपेता बभूव जनमेजय। प्रजाश्च सुखिनो जाता द्विजाश्रापुर्महोदयम् ॥। सन्तुष्टा मुनयः सर्वे वभूवुर्वर्मतत्पराः ॥४६॥। इति श्रीदेवीभागवते महापुराणे चनुर्थस्कन्धे एकोनविंशोऽध्यायः ॥१९।
अथ विंशोऽध्यायः व्यास उवाच शृणु भारत वक्ष्यामि भारावतरणं तथा। कुरुक्षेत्रे प्रभासे च क्षपितं योगमायया ॥१॥ यदुवंशे समुत्पत्तिर्विष्णोरमिततेजसः । भृगुशापप्रतापेन महामायाबलेन च ॥२॥।
Page 232
२१२ श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: २० क्षतिभारतमुत्तारनिमित्तमिति मे मतिः । मायया विहितो योगो विष्णोर्जन्म धरातले ॥३॥ के चित्रं नृप देवी सा बह्माविष्णुसुरानपि। नर्तयत्यनिशं माया त्रिगुणा नं परान्किम ॥४।। गर्भवासोन्द्रवं दुःखं विष्मूत्रस्नायुसंयुतम् । विष्णोरापादितं सम्यग्यया विगतलीलया ।।५॥ पुरा रामावतारेऽपि निर्जरा वानराः कृताः । विदितं ते यथा विष्णुर्दःखपाशेन मोहितः ॥६॥। अहं ममेति पाशेन सुदृढेन नराधिप। योगिनो मुक्तसंगाश्च मुक्तिकामा मुमुक्षवः ।।७।। तामेव समुपासन्ते देवी विश्वेश्वरी शिवाम्। तः्द्गकिलेशलेशांशं लेशलेशलवांशकम् ।।८।। लब्धवा मुक्तो भवेज्जंतुस्तां न सेवेत को जनः । भुवनेशीत्यव वक्त्रे ददाति भुवनत्रयम् ॥९॥ मां पाहीत्यस्य वचसो देयाभावादृणान्विता। विद्याऽविद्येति तस्या द्े रूपे जानीहि पार्थिव ॥१०।। विद्यया मुच्यते जन्तुर्बध्यतेऽविद्यया पुनः । ब्रह्मा विष्णुश्च रुद्रश्च सर्वे तस्या वशानुगाः ॥११॥ अवताराः सर्व एव यन्त्रिता इव दामभिः । कदाचिच्च सुखं भुक्ते वैकुण्ठे क्षीरसागरे ॥१२॥ कदाचित्कुरुते युद्धं दानवैर्नलवत्तरैः । हरिः कदाचिद्यज्ञान्वै विततान्प्रकरोति च ।१३॥ कदाचिच्च तपस्तीव्रं तीर्थे चरति सुव्रत। कदाचिच्छयने शेते योगनिद्रामुपाश्रितः ।१४॥ न स्वतन्त्रः कदाचिच्च भगवान्मधुसूदनः । तथा ब्रह्मा तथा रुद्रस्तथेन्द्रो वरुणो यमः ॥१५॥ कुबेरोडग्नी रवीन्दू च तथाडन्ये सुरसत्तमाः । मुनयः सनकाद्याश् वसिष्टाद्यास्तथापरे ॥१६॥ सर्वेडम्बावशगा नित्यं पाञ्चालीव नरस्य च। नसि प्रोता यथा गाव्रो विचरंति वशानुगाः ॥१७॥ तथव देवताः सर्वाः कालपाशनियंत्रिताः । हर्षशोकादयो भावा निद्रातन्द्रालसादयः ॥१८॥ सर्वेषां सर्वदा राजन्देहिनां देहसंश्रिताः । अमरा निर्जराः प्रोक्ता देवाश्च ग्रंथकारकैः ॥१९॥ अभिधानत्श्चार्थतो न ते नूनं तादृशाः क्वचित् । उत्पत्तिस्थितिनाशाख्या भावा येणां निरंतरम्॥२०॥ अमरास्ते कथं वाच्या निर्जराश्र कथं पुनः । कथं दुःखाभिभूता वा जायन्ते विबुधोत्तमाः ॥२१॥ कथं देवाश्च वक्तव्या व्यसने क्रोडनं कथम् । क्षणादुत्पत्तिनाशश्र दृश्यतेऽस्मिन्न संशय ॥२२॥ जलजानां च कीटानां मशकानां तथा पुनः । उपमा न कथं चैषामायुषोऽन्ते मराः स्मृताः ॥२३॥ ततो वर्षायुषश्चापि बातवर्षायुषस्तथा। मनुष्या ह्यमरा देवास्तस्तस्माद् ब्रह्मा परः स्मृतः ॥ रुद्रस्तथा तथा विष्णुः क्रमशश्च भवंति हि। नश्यन्ति क्रमशश्रैव वर्द्धन्ते चोत्तरोत्तरम् ॥२५॥ मूनं देहवतां नायो मृतस्योत्पत्तिरेव च । चक्रवद्भ्रमणं राजन्सर्वेषां नात्र संशयः ॥२६॥ भोहजालावृतो जन्तुर्मुच्यते न कदाचन। मायायां विद्यमानायां मोहजालं न नश्यति ॥२७॥ उत्पित्सुकाल उत्पत्तिः सर्वेषां नृप जायते। तर्थव नाशः कल्पांते ब्रह्मादीनां यथाक्रमम् ॥२८॥ निमित्तं यस्तु पन्नाशे स घातयति तं नृप। नान्यथा तद्भवेन्नूनं विधिना निर्मितं तुयत् ।।२९॥ जन्ममृत्युजराव्याधिदुःखं वा सुखमेव वा। तत्तशैव भवेत्कामं नान्यथेह विनिर्णयः ॥३०॥
Page 233
श्रीमद्ेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: २० २३३ सर्वेषां सुखदौ देवौ प्रत्यक्षौ शशिभास्करो। न नश्यति तयोः पीडा क्वचित्तद्रैरिसंभवा ॥३१॥ भास्करस्य सुतो मंदः क्षयी चंद्रः कलंकवान् । पश्य राजन्विधेः सूत्रं दुर्वारं महतामपि ॥३२॥ वेदकर्ता जगद्धर्ता बुद्धिदस्तु चतुर्मखः। सोऽपि विक्लवतां प्राप्तो दृष्टा पुत्रीं सरस्वतीम् ३३।। शिवस्यापि मृता भार्या सती दग्ध्वा कलेवरम् । सोऽभवद्दुःखसंतप्तः कामार्तश्च जनातिहा ॥३४॥ कामाग्निदग्धदेहस्तु कालिंद्यां पतितः शिवः । साऽपि श्यामजला जाता तन्निदाघवशान्नृप ॥३५॥ कामार्तो रममाणस्तु नग्नः सोऽपि भृगोर्वनम् । गतः प्राप्ोऽथ भृगुणा शप्तः कामातुरो भृशम् ३६॥ पतत्वद्व ते लिंग निर्लज्जेति भृशं किल। पपौ चामृतवापीं च दानवैर्निमितां मुदे॥३७॥ इन्द्रोऽपि च वृषो भूत्वा वाहनत्वं गतः क्षितो । आद्यस्य सर्वलोकस्य विष्णोरेव विवेकिन: ॥३८॥ सर्वज्ञत्वं गतं कुत्र प्रभुशक्तिः कुतो गता। यद्धेममृगविज्ञानं न ज्ञातं हरिणा किल ॥३९॥ राजन्मायाबलं पश्य रामो हि काममोहितः । रामो विरहसंतप्तो रुरोद भृशमातुरः ॥४०॥ योऽपृच्छत्पादपान्मुठः कव गता जनकात्मजा। भक्षिता वा हृता केन रुदन्नुच्चतरं ततः॥४१।। लक्ष्मणाहं मरिष्यामि कांताविरहदुःखितः । त्वं चापि मम दुःखेन मरिष्यसि वनेऽनुज ॥४२॥ आवयोर्रणं ज्ञात्वा माता मम मरिष्यति । शत्रघ्नोऽप्यतिदुःखार्तः कथं जीवितुमहति ॥८:॥ सुमित्रा जीवितं जह्यात्पुत्रव्यसनकर्गिता। पूर्णकामाऽथ कैकेयी भवेत्पुत्रसमन्विता ॥४४।। हा सीते क्व गताऽसि त्वं मां विहाय स्मरातुरा। एह्येहि मृगवाशावाक्षि मां जीवय कृशोदरि॥४५॥ कि करोमि क्व गच्छामि त्वदधीनं च जीवितम्। समाश्वासय दीनं मां प्रियं जनकनन्दिनि ॥४६॥। एवं विलपता तेन रामेणामिततेजसा। वने वने च भ्रमता नेक्षिता जनेकात्मजा ॥४७॥ शरण्यः सर्वलोकानां रामः कमललोचनः । शरणं वानराणां स गतो मायाविमोहितः ॥४८।। सहायान् वानरान्कृत्वा बबन्ध वरुणालयम्। जघान रावणं वीरं कुंभकर्ण महोदरम् ॥४९॥ आनीय च ततः सीतां रामो दिव्यमकारयत् । सर्वज्ञोऽपि हृतां मत्वा रावणेन दुरात्मना ॥५०॥ कि ब्रवीमि महाराज योगमायाबलं महत् । यया विश्वमिदं सर्वं भ्रामितं भ्रमते किल ॥५१॥ एवं नानावतारेऽत्र विष्णुः शापवशं गतः। करोति विविधाश्रेष्टा दैवाधीनः सदैव हि ॥५२॥ तवाहं कथयिष्यामि कृष्णस्यापि विचेष्टितम्। प्रभवं मानुषे लोके देवकार्यार्थसिद्धये ।५३॥ कालिन्दीपुलिने रम्ये ह्यासीन्मधुवनं पुरा। लवणो मधुपुत्रस्तु तत्रासीद्दानवो बली ॥५४।। द्विजानां दुःखदः पापी वरदानेन गर्वितः । निहतोऽसौ महाभाग लक्ष्मणस्यानुजेन वै ॥५५॥ शत्रुघ्नेनाथ संग्रामे तं निहत्य मदोत्कटम्। वासिता मथुरा नाम्नी पुरी परमशोभना ॥५६॥ स तत्र पुष्कराक्षौ द्वो पुत्रौ शत्रुनिषदनः । निवेश्य राज्ये मतिमान्काले प्राप्ते दिवं गतः ॥५७॥ सूर्यवंशक्षये तां तु यादवाः प्रतिपेदिरे। मथुरां मुक्तिदां राजन् ययानितनयाः पुरा ॥५८॥
Page 234
२३४ श्रीमद्वेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: २० शूरसेनाभिध: शुरस्तनाभून्मेदिनीपतिः । माथुराञछूरसेनांश्र बुभुजे विषयान्नृप ।।५९ ।। तत्रोत्पन्नः कश्यपांशः शापाच्च वरुणस्य वै। वसुदेवोऽतिविख्यातः शूरसेनसुतस्तदा ॥६० ॥। वैश्यवृत्तिरतः सोऽभून्मृते पितरि माधवः । उग्रसेनो बभूवाथ कंसस्तस्यात्मजो महान् ॥६१॥ अदितिर्देवकी जाता देवकस्य सुता तदा। शापाह वरुणस्याथ कश्यपानुगता किल ॥६२॥ दत्ता सा वासुदेवाय देवकेन महात्मना! विवाहे रचिते तत्र वागभूद्गगने तदा ॥६ ३।। कंस कंस महाभाग देवकीगर्भसंभवः । अष्टमस्तु सुतः श्रीमांस्तव हंता भविष्यति ॥६४॥ तच्छ्रत्वा वचनं कंसो विस्मितोऽभून्महाबलः । देववाचं तुतां मत्वा सत्यां चिन्तामवाप सः ॥६५॥ कि करोमीति संचिन्त्य विमर्शमकरोत्तदा। निहत्यैनां न मे मृत्युर्भवेदद्यव सत्वरम् ॥६ ६॥ उपायो नान्यथा चास्मिन्कार्ये मृत्युभयावहे। इयं पितृष्वसा पूज्या कथं हन्मीत्यचिन्तयत् ॥६७॥ पुन्विचारयामास मरणं मेऽस्त्यहो स्वसा। पापेनापि प्रकर्तव्या देहरक्षा विपश्चिता ॥६८॥! प्रायश्चित्तेन पापस्य शुद्धिर्भवति सर्वथा। प्राणरक्षा प्रकर्तव्या बुधैरप्येनसा तथा ॥६५॥ विचिन्त्य मनसा कंसः खड्गमादाय सत्वरः । जग्राह तां वरारोहां केशेष्वाकृष्य पापकृत् ॥॥ कोशात्खड्गमुपाकृष्य हंतुकामो दुराशयः । पद्यतां सर्वलोकानां नवोहां तां चकर्प है॥७१। हन्यमाना न तां दृष्टा हाहाकारो महानभूत् । वसुदेवानुगा वीरा युद्धायोद्यतकार्मुकाः ॥७२॥ मुञ्च मुंचेति प्रोचुस्तं ते नदान्ड्गनसाहसाः। कृपया मोचयामासुर्देवकी देवमातरम् ॥७३॥ तद्युद्रमभवद्धोरं वीराणां च परस्परम्। वसुदेवसहायानां कंसेन न महात्मना ॥७य॥ वर्तमाने तथा युद्धे दारुणे लोमहर्पणे। कंसं निवारयामासुर्वृद्धा ये यदुसत्तमाः ।७५॥ पितृष्वसेयं ते वीर पूजनीया च बालिशा। न हंतव्या त्वया वीर विवाहोत्सवसंगमे ॥७६। स्त्रीहत्या दुःसहा वीर कीतिघ्नी पापकत्तमा। भूतभाषितमात्रेण न कर्तव्या विजानता ॥७७।। अन्तर्हितेन केनापि शत्रुणा तव चास्य वा। उदितेति कुतो न स्याद्वागनर्थकरी विभो ॥७८॥ यशसस्ते विघाताय वसुदेवगृहस्य च। अरिणा रचिता वाणी गुणमायाविदा नृप ।।७१।। व्रिभेषि वीरस्त्वं भूत्वा भृतभाषितभाषया । यशोमूलविघातार्थमुपायस्त्वरिणा कृतः ॥८०॥ पितृष्वसा न हंतव्या विवाहसमये पुनः। भवितव्यं महाराज भवेच्च कथमन्यथा ॥८१॥ एवं तैर्बोध्यमानोऽसौ निवृत्तो नाभवद्यदा। तदा तं वसुदेवोऽपि नीतिज्ञः प्रत्यभाषत ॥८२॥ कंस सत्यं ब्रवीम्यद्य सत्याधारं जगत्त्रयम् । दास्यामि देवकीपुत्रानुत्पन्नांस्तव सर्वशः ॥८३॥ जातं जातं सुतं तुभ्यं न दास्यामि यदि प्रभो। कुम्भीपाके तदा घोरे पतंतु मम पूर्वजाः ॥८४॥ श्रुत्वाऽथ वचनं सत्यं पौरवा ये पुरःस्थिताः । ऊचुस्ते त्वरिताः कंसं साधु साधु पुनः पुनः ॥८५॥ न मिथ्या भाषते क्वापि वसुदेवो महामनाः । केशं मुंच महाभाग स्त्रीहत्यापातकं तथा ॥८६॥
Page 235
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २१ २३५
एवं प्रबोधित: कंसो यदुवृद्धर्महात्मभिः। क्रोधं त्यक्त्वा स्थितस्तत्र सत्यवाक्यान ्मोदितः ॥ ततो दुंदुभयो नेदुर्वादित्राणि च सस्वनुः ॥८७॥ "जयशब्दस्तु सर्वेषामुत्पन्नस्तत्र संसदि।" प्रसाद्य कंसं प्रतिमोच्य देवकीं महायशाः शूरसुतस्तदानीम्। जगाम गेहं स्वजनानुवृत्तो नवोढया वीतभयस्तरस्वी ।।८८।। इति श्रीदेवीभागवते भहापुराणे चतुर्थस्कन्धे विंशोऽध्यायः ॥२०॥ अथ एकविंशोऽध्यायः
व्यास उवाच अथ काले तु संप्राप्ते देवकी देवरूपिणी। गर्भ दधार विधिवद्वसुदेवेन संगता॥१॥ पूर्णेडथ दशमे मासे सुषुवे सुतमुत्तमम्। रूपावयवसंपन्नं देवकी प्रथमं यदा ॥२॥ तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः। भावित्वाच्च महाभागो देवकीं देवमातरम् ॥३॥ वरोरु समयं मे त्वं जानासि स्वसुतार्पणे। मोचिता त्वं महाभागे शपथेन मया तदा ॥४।। इमं पुत्रं सुकेशांते दास्यामि भ्रातृसूनवे। "खले कंसे विनाशार्थ दैवे किं वा करिष्यसि ॥" विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥५॥। सर्वेषां किल जीवानां कालपाशानुवर्तिनाम्। भोक्तव्यं स्वकृतं कर्म शुभं वा यदि वाडशुभस् ॥ प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् ॥६॥ देवक्युवाच स्वामिन्पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभि: ॥७॥ तीर्थैस्तपोभिर्दानैवा कि न याति क्षयं हि तत्। लिखितो धर्मशास्त्रेपु प्रायश्चित्तिधिरनृप ।८।। पूर्वार्जितानां पापानां विनाशाय महात्मभिः । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।९॥ द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः । मन्वादिभिर्यथोददिष्टं प्रायश्चित्तं विधानतः ॥१०॥ तथा कृत्वा नरः पापान्मुच्यते वा न वाऽनघ । विगीतवचनास्ते कि मुनयस्तत्त्वदर्शिनः ॥११॥ याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः । भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥१२॥ आयुर्वेदः स मिथ्यैव मंत्रवादास्तथाऽखिलाः । उद्मस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥१३॥ भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्यका। अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥१४॥ यदा तदा प्रमाणं हि वृर्थव परिभाषितम् । वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥१५॥
Page 236
२३१ श्रीमद्देवीमागवते महापुराणे चतुर्थस्कन्धे अध्यायः २१ उदमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते। तस्मादत्र प्रकर्तव्यः प्रपंचश्चित्तकल्पितः ॥१६॥ यथायं बालकः क्षेमं प्राप्नोति मम पुनकः। मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥१७॥ ने तत्र दूषणं किचित्प्रवदंति मनोषिणः । वसुदेव उवाच निशामय महाभागे सत्यमेतद्ब्रवीमि ते ॥१८॥ उद्यम: खलु कर्तव्यः फलं दैववशानुगम् । त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥१९॥ प्रवदंतीह जीवानां पुराणेष्वागमेषु च । संचितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥२०॥ वर्तमानर्मन वामोरु त्रिविधानीह देहिनाम्। शुभाशुभानि कर्माणि बीजभूतानि यानि च ।२१॥ बहुजन्मसमुत्थानि काले तिष्ठति सर्वथा। पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥२२॥ स्वर्ग वा नरकं वाऽपि प्राप्नोति स्वकृतेन वै। दिव्यं देहं च संप्राप्य यातनादेहमर्थजम् ॥२३॥ भुनक्ति विविधान्भोगान्स्वर्गे वा नरकेऽथवा। भोगांते च यदोत्पत्तेः समयस्तस्य जायते ॥२४॥ लिंगदेहेन सहितं जायते जीवसंज्ञितम् । तदैव संचितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥२५॥ योजयत्येव तं कालं कर्माणि प्राकृतानि च । देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥२६॥। प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने। प्रायश्चित्तेन नश्यंति वर्तमानानि भामिनि ॥२७॥ संचितानि तर्थवाशु यथार्थं विहितेन च । प्रारब्धकर्मणां भोगात्संक्षयो नान्यथा भवेत् ॥२८।। तेनायं ते कुमारो वै देयः कंसाय सर्वथा। न मिथ्यावचनं मेऽस्ति लोकनिंदाभिदूषितम्॥२९॥ अनित्येऽस्मिस्तु संसारे धर्मसारे महात्मनाम् । दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥३०॥ तस्माच्छोको न कर्तव्यो देहिनां हि निरर्थकः । सत्यं यस्य गतं कांते वृथा तस्यैव जीवितम् ॥३१॥ इह लोको गतो यस्मात्परलोकः कुतस्ततः । अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥३२॥ सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति । कर्तव्यं सुकृतं पुंभिः सुखे दुःखे सति प्रिये ।३३।। "सत्यसंरक्षणाद्देवि शुभमेव भविष्यति।" व्यास उवाच इत्युक्तवति कांते सा देवकी शोकसंयुता। ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥३४॥ वसुदेवोंऽपि धर्मात्मा आदाय स्वसुतं शिशुम्। जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥३५॥ लोका ऊचुः पश्यंतु वसुदेवं भो लोका एवं मनस्विनम् । स्ववाक्यमनुरुष्यैव बालमादाय यात्यसौ ॥३६॥ मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः । सफलं जीवितं चास्य ध्म पश्यंतु चाद्ुतम्॥३७॥ यः पुत्रं याति कंसाय दातु कालात्मनेऽपि हि।
Page 237
श्रीमद्देवीभागवते महापुराणे चतुथस्कन्धे अध्याय: २२ २३०
व्यास उषाच इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ।३८।। ददावस्म कुमारं तं जातमात्रममानुषम्। कंसोऽपि विस्मयं प्राप्तो दृष्टा धैयं महात्मनः॥३९॥ गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः । धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥४०॥ मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः । न हंतव्यो मया कामं बालोऽयं यातु ते गृहम्॥ अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते । इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम्॥४२॥ गच्छत्वयं गृहे बाल: क्षेमं व्याहृतवान्नृपः । तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥४३॥ कंसोऽपि सचिवानाह वृथा किं घातये शिशुम्। अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥४४॥ अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् । साधु साध्विति तेऽप्युक्त्वा संस्थिता मंत्रिसत्तमाः ॥ विसजितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति। गतेषु तेषु संप्राप्तो नारदो मुनिसत्तमः ॥४६॥ अभ्युत्थानाध्यपाद्यादि चकारोग्रसुतस्तदा। पप्रच्छ कुशलं राजा तत्रागमनकारणम्।४७। नारदस्तं तदोवाच स्मितपूर्वमिदं वचः । कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥४८॥ तत्र ब्रह्मादयो देवा मंत्रं चक्रु: समाहिताः । देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥४९॥ वधार्थं तव विष्णुश्च जन्म चात करिष्यति । तत्कथं न हतः पुत्रस्त्वया नीति विजानता ॥५०॥ कंस उवाच अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम्। नारद उवाच न जानासि नृपश्रेष्ठ राजनीति शुभाशुभाम्॥५१॥ मायाबलं च देवानां न त्वं वेत्सि वदामि किम् । रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥५२॥ संमेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः । मूर्खस्त्वमरिसंत्यागः कृतोऽयं जानता त्वया ॥५३॥ इत्युक्त्वाउडशु गतः श्रीमान्नारदो देवदर्शनः । गतेऽथ नारदे कंसः समाहूयाथ बालकम् ॥ पाषाणे पोथयामास सुखं प्राप च मंदधीः ॥५४॥ इति श्रीदंवीभागवते महापुराणे चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥२१॥ अथ द्वाविंशोऽध्यायः जनमेजय उवाच किं कृतं पातकं तेन बालकेन पितामह। यज्जातमात्रो निहतस्तथा तेन दुरात्मना ।।१।। नारदोऽपि मुनिश्रेष्ठो ज्ञानवान्धर्मतत्परः । कथमेवंविधं पापं कृतवान्ब्रह्मवित्तम: ॥२॥
Page 238
२३८ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २२ कर्ता कारयिता पापे तुल्यपापी स्मृतौ बुधैः । स कथं प्रेरयामास मुनिः कंसं खलं तदा ॥३॥ संशयोऽयं महान्मेऽत्र ब्रहि सर्वं सविस्तरम् । येन कर्मविपाकेन बालको निधनं गतः ॥४॥ व्यास उवाच नारद: कौतुकप्रेक्षी सर्वदा कलहप्रियः। देवकार्यार्थमागत्य सर्वमेतच्चकार ह।५॥ न मिथ्याभाषणे बुद्धिर्मुनेस्तस्य कदाचन। सत्यवक्ता सुराणां स कर्तव्ये निरतः शुचिः ॥६॥ एवं षड् बालकास्तेन जाता जाता निपातिताः । षड् गर्भा शापयोगेन संभूय मरणं गताः ॥७॥ शृणु राजन्प्रवक्ष्यामि तेषां शापस्य कारणम् । स्वायंभुवेऽन्तरे पुत्रा मरीचेः पण्महाबलाः ॥८॥ ऊर्णायां चैव भार्यायामासन्धर्मविचक्षणाः । व्रद्माणं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् ।।९।। शशाप तांस्तदा ब्रह्मा दैत्ययोनिं विशंत्वधः । कालनेमिसुता जातास्ते षड्गर्भा विशांपते ॥१०॥ अवतारे परे ते तु हिरण्यकशिपोः सुताः। जातास्त ज्ञानसंयुक्ताः पूर्वशापभयान्नृप ॥११॥ तस्मिअन्मनि शांताश्र तपश्चक्रुः समाहिताः । तेषां प्रीतोऽभवद्ब्रह्मा षड्गर्भाणां वरान्ददौ ॥१२॥ ब्रह्मोवाच शप्ता यूयं मया पूर्वं क्रोधयुक्त्ेन पुत्रकाः । तुष्टोऽस्मि वो महाभागा ब्रुवंतु वांछितं वरम्॥१३॥ व्यास उवाच ते तु श्रुत्वा वचस्तस्य ब्रह्मणः प्रीतमानसाः । ब्रह्माणमब्रुवन्कामं सर्व कार्यार्थतत्पराः ॥१४॥ गर्भा ऊचुः पितामहाद्य तुष्टोऽसि देहि नो वांछितं वरम् । अवध्या दैवतैः सर्वेर्मानवैश्च महोरगैः ॥१५॥ गंधवसिद्धपतिभिर्वधो माभूत्पितामह। व्यास उवाच तानुवाच ततो ब्रह्मा सर्वमेतद्गविष्यति ॥१६॥ गच्छंतु वो महाभागाः सत्यमेव न संशयः । दत्त्वा वरं ततो ब्रह्मा मुदितास्ते तदाऽभवन् ॥१७॥ हिरण्यकशिपुः क्रुद्धस्तानुवाच कुरूद्वह । यस्माद्विहाय मां पुत्रास्तोषितो वै पितामहः ॥१८॥ वरेण प्रार्थितोऽत्यर्थं बलवन्तो यतोऽभवन् । युष्माभिर्हापितः स्नेहस्ततो युष्मांस्त्यजाम्यहम् ॥ यूयं व्रजंतु पाताले षड्गर्भा विश्रुता भुवि । पाताले निद्रयाविष्टास्तिष्ठंतु बहुवत्सरान् ॥२०॥ ततस्तु देवकीगभें वर्षे वर्षे पुनः पुनः। पिता वः कालेनमि तत्र विष्यति ॥।२१।। स एव जातमात्रान् वो वधिष्यति सुदारुणः । व्यास उवाच एवं शप्तस्तदा तेन गर्भे जातान्पुनः पुनः ॥२२॥
Page 239
श्रीमहेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: २२ २१९ जघान देवकीपुत्रान्षड्गर्भाञ्छापनोदितः । शेषांशः सप्तमस्तत्र देवकीगर्भसंस्थितः ॥२३॥ विस्त्रंसितश्र गर्भोडसौ योगेन योगमायया। नीतश्र रोहिणीगर्भे कृत्वा संकर्षणं बलात् ॥२४।। पतितः पंचमे मासि लोकख्याति गतस्तदा। कंसोऽपि ज्ञातवांस्तत्र देवकीगर्भपातनम् ॥२५॥ मुदं प्राप स दुष्टात्मा श्रुत्वा वार्तां सुखावहाम् । अष्टमे देवकीगर्भे भगवान्सात्वतां पतिः ॥२६॥ उवास देवकार्यार्थं भारावतरणाय च। राजोवाच वसुदेव: कश्यपांशः शेषांशश्च तदाऽभवत् ॥२७।। हरेरंशस्तथा प्रोक्तो भवता मुनिसत्तम । अन्ये च येंडशा देवानां यत्र जातास्तु तान् वद ॥२८॥ भारावतरणार्थ वै क्षिते: प्रार्थनयाऽनघ। व्यास उवाच सुराणामसुराणां च ये येंडशा भुवि विश्रुताः ॥२९॥ तानहं संप्रवक्ष्यामि संक्षेपेण शृणुष्व तान् । वसुदेवः कश्यपांशो देवकी च तथाऽदितिः ॥३०॥ बलदेवस्त्वनंताशो वर्तमानेषु तेषु च । योऽसौ धर्मसुतः श्रीमान्नारायण इति श्रुतः ॥३१॥ तस्यांशो वासुदेवस्तु विद्यमाने मुनौ तदा। नरस्तस्यानुजो यस्तु तस्यांशोऽर्जुन एव च ॥३२।। युधिष्ठिरस्तु धर्मांशो वाय्वंशो भीम इत्युत । अश्विन्यंशौ ततः प्रोक्तौ माद्रीपुत्रौ महाबलौ ॥३३॥ सूर्यांशः कर्ण आख्यातो धर्मांशो विदुरः स्मृतः । द्रोणो बृहस्पतेरंशस्तत्सुतस्तु शिवांशजः ॥३४॥ समुद्रः शंतनु: प्रोक्तो गंगा भार्या मता बुधैः। देवकस्तु समाख्यातो गंधर्वपतिरागमे ॥३५॥ वसुर्भीष्मो विराटस्तु मरुद्रण इति स्मृतः । अरिष्टस्य सुतो हंसो धृतराष्ट्रः प्रकीर्तितः ॥३६॥ मरुद्रणः कृपः प्रोक्तः कृतवर्मा तथापरः । दुर्योधनः कलेरंशः शकुनिं विद्धि द्वापरम् ॥३७॥ सोमपुत्रः सुवर्चाख्यः सोमप्ररुरुदाहृतः । पावकांशो धृष्टद्युम्नः शिखंडी राक्षसस्तथा ॥३८। सनत्कुमारस्यांशस्तु प्रद्युम्नः परिकीर्तितः । द्रुपदो वरुणास्यांशो द्रौपदी च रमांशजा ॥३९॥ द्रौपदीतनयाः पंच विश्वेदेवांशजा. स्मृताः । कुंतिः सिद्धिर्धृतिर्माद्री मतिर्गांधारराजजा ॥४०॥ कृष्णपत्न्यस्तथा सर्वा देववारांगनाः स्मृताः । राजानश्र तथा सवें असुराः शक्रनोदिताः ॥४१॥ हिरण्यकशिपोरंशः शिशुपाल उदाहृतः । विप्रचित्तिर्जरासंधः शल्यः प्रह्लाद इत्यपि ॥४२॥ कालनेमिस्तथा कंसः केशी हयशिरास्तथा। अरिष्टो बलिपुत्रस्तु ककुद्मी गीकुले हतः ।४३॥ अनुह्लादो धृष्टकेतुर्भगदत्तोऽथ बाष्कलः । लंबः प्रलंबः संजातः खरोऽसौ धेनुकोऽभवत् ॥४४॥ वाराहश्च किशोरश्र दैत्यौ परमदारुणौ। मल्लौ तावेव संजातौ ख्यातौ चाणूरमुष्टिको ॥४५॥ दितिपुत्रस्तथाऽरिष्टो गजः कुवलयाभिधः । बलिपुत्री बकी ख्याता बकस्तदनुजः स्मृतः ॥४६॥
Page 240
२४० श्रीमद्देवीभागवते महापुराण चतुर्थस्कन्धे अध्याय: २३ यमो रुद्रस्तथा कामः क्रोधश्चैव चतुर्थकः । तेषामंशस्तु संजातो द्रोणपुत्रो महाबलः॥४७॥ अंशावतरणे पूर्वदैतेया राक्षसास्तथा। जाताः सर्वे सुरांशास्ते क्षितिभारावतारणे ॥४८।। एतेषां कथितं राजन्नंशावतरणं नृप। सुराणां चासुराणां च पुराणेषु प्रकीर्तितम् ।४९।। यदा ब्रह्मादयो देवाः प्रार्थनार्थ हरिं गताः । हरिणा च तदा दत्तौ केशौ खलु सितासितौ ॥५०॥ श्यामवर्णस्ततः कृष्णः श्वेतः संकर्षणस्तथा। भारावतारणार्थ तौ जातौ देवांशसंभवौ ॥५१॥ अंशावतरणं चैतच्छृणोति भक्तिभावतः । सर्वपापविनिर्मुक्तो मोदते स्वजनैर्वृतः ॥५२॥ इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे द्वाविंशोऽध्यायः ॥ २२॥ अथ त्रयोविंशोऽध्यायः व्यास उवाच हतेषु षट्सु पुत्रेषु देवक्या औग्रसेनिना । सप्तमे पतिते गर्भे वचनान्नारदस्य च ॥१॥ अष्टमस्य च गर्भस्य रक्षणार्थमतंद्रितः । प्रयत्नमकरोद्राजा मरणं स्वं विचिंतयन् ॥।२॥ समये देवकीगर्भें प्रवेशमकरोद्धरिः । अंशेन वसुदेवे तु समागत्य यथाक्रमम् ॥३॥ तदेयं योगमाया च यशोदायां यथेच्छया। प्रवेशमकरोद्देवी देवकार्यार्थसिद्धये।।४।। रोहिण्यास्तनयो रामो गोकुले समजायत। यतः कंसभयोद्विग्ना संस्थितासा च कामिनी ॥५॥ कारागारे ततः कंसो देवकीं देवसंस्तुताम्। स्थापयामास रक्षार्थं सेवकान्समकल्पयत् ॥६॥। वसुदेवस्तु कामिन्याः प्रेमतन्तुनियन्त्रितः । पुत्रोत्पत्ति च संचिन्त्य प्रविष्टः सह भार्यया ॥७॥ देवकीगर्भगो विष्णुर्देवकार्यार्थसिद्धये। संस्तुतोऽमरसंघैश्र व्यवर्धत यथाक्रमम् ।।८।। संजाते दशमे तत्र मासेऽथ श्रावणे शुभे। प्राजापत्यर्क्षसंयुक्त कृष्णपक्षेऽष्टमीदिन ।।९।। कंसस्तु दानवान्सर्वाुवाच भयविह्वलः । रक्षणीया भवद्दिश्च देवकी गर्भमन्दिरे ॥१०॥ अष्टमो देवकीगर्भः शत्रुमे प्रभविष्यति। रक्षणीयः प्रयत्नेन मृत्युरूपः स बालकः ॥११॥ हत्वैन बालकं दैत्या: सुखं स्वप्स्यामि मन्दिरे। निर्वृत्तिवर्जिते दुःखे नाशिते चाष्टमे सुने ॥१२॥ खड्गप्रासधराः सर्वे तिष्ठंतु धृतकार्मुकाः। निद्रातन्द्राविहीनाश्च सर्वत्र निहितेक्षणाः ॥१३॥ व्यास उवाच इत्यादिश्यासुरगणान् कंसोडतिभर्यावह्वलः। मंदिरं स्वं जगामाशु न लेभे दानवः सुखम् ॥१४॥ निशीथे देवकी तत्र वसुदेवमुवाच ह। कि करोमि महाराज प्रसवावसरो मम ॥१५॥ बहवो रक्षपालाश्र तिष्ठंत्यत्र भयानकाः । नन्दपत््या मया सार्ध कृतोऽस्ति समयः पुरा ॥१६॥ प्रेषितव्यस्त्वया पुत्रो मन्दिरे मम मानिनि। पालयिष्याम्यहं तत्र तवातिमनसा किल ॥१७॥
Page 241
१६ श्रीमद्ेवीमागवते महापुराणे चतुर्थस्कन्धे अध्याय: २३ २४१ अपत्यं ते प्रदास्यामि कंसस्य प्रत्ययाय वै। कि कर्तव्यं प्रभो चाद्य विषमे समुपस्थिते ॥१८॥ व्यत्ययः संततेः शौरे कथं कर्तु क्षमो भवेः । दूरे तिष्ठस्व कांताद्य लज्जा मेऽतिदुरत्यया ॥१९॥ परावृत्य मुखं स्वामिन्नन्यथा किं करोम्यहम् । इत्युक्त्वा तं महाभागं देवकी देवसंमतम् ॥२०॥ बालकं सुषुवे तत्र निशीथे परमाद्भुतम्। तं दृष्टा विस्मयं प्राप देवकी बालकं शुभम् ॥२१॥ पर्ति प्राह महाभागा हर्षोत्फुल्लकलेवरा। पश्य पुत्रमुखं कांत दुर्लभं हि तव प्रभो ॥२२॥ अद्यैनं कालरूपोऽसौ घातयिष्यति भ्रातृजः । वसुदेवस्तथेत्युक्त्वा तमादग्य करे सुतम् ॥२३॥ अपश्यच्चाननं तस्य सुतस्याद्भुतकर्मणः । वीक्ष्य पुत्रमुखं शौरिश्रिताविष्टो बभूव है ।२४।। किं करोमि कथं न स्याद्दुःखमस्य कृते मम। एवं चिंतातुरे तस्मिन्वागुवाचाशरीरिणी ॥२५॥ वसुदेवं समाभाष्य गगने विशदाक्षरा। वसुदेव गृहीत्वनं गोकुलं नय सत्वरः ॥२६॥ रक्षपालास्तथा सर्वे मया निद्राविमोहिताः । विवृतानि कृतान्यष्टो कपाटानि च शृंखलाः ॥२७॥ मुक्त्वैनं नंदगेहे त्वं योगमायां समानय। श्रुत्वैवं वसुदेवस्तु तस्मिन्कारागृहे गतः ॥२८॥ विवृतं द्वारमालोक्य बभूव तरसा नृप। तमादाय ययावाशु द्वारपालैरलक्षितः ॥२९॥ कालिन्दीतटमासाद्य पूरं दृष्टा सुनिश्चितम् । तदैव कटिदघ्नी सा बभूवाशु सरिद्वरा ॥३०॥ योगमायाप्रभावेण ततारानकदुन्दुभिः । गत्वा तु गोकुलं शोरिरनिशीथे निर्जने पथि ॥३१॥ नन्दद्वारे स्थितः पश्यन्विभूति पशुसंज्ञिताम्। तदैव तत्र संजाता यशोदा गर्भसंभवा ॥३२॥ योगमायांशजा देवी त्रिगुणा दिव्यरूपिणो। जातां तां बालिकां दिव्यां गृहीत्वा करपंकजे ३३॥ तत्रागत्य ददौ देवी सैरंध्रीरूपधारिणी। वसुदेवः सुतं दत्त्वा सैरंध्रीकरपंकजे ॥३४॥ तामादाय ययौ शीघ्रं बालिकां मुदिताशयः। कारागारे ततो गत्वा देवक्याः शयने सुताम् ३५॥ निःक्षिप्य संस्थितः पार्श्वे चिन्ताविष्टोभयातुरः । रुरोद सुस्वरं कन्या तदैवागतसंज्ञकाः ॥३६॥ उत्तस्थुः सेवका राज्ञः श्रुत्वा तद्रुदितं निशि। तमूचुर्भूपति गत्वा त्वरितास्तेऽतिविह्वलाः ॥३७॥ देवक्याश्च सुतो जातः शीघ्रमेहि महामते। तदाकर्ण्य वचस्तेषां शीघ्रं भोजपतिर्ययौ ॥३८॥ प्रावृतं द्वारमालोक्य वसुदेवमथाह्वयत। कंस उवाच सुतमानय देवक्या वसुदेव महामते ॥३९॥ मृत्युमे चाष्टमो गर्भस्तं निहन्मि रिपुं हरिम् ॥ व्यास उवाच श्रुत्वा कंसवचः शोरिर्भयत्रस्तविलोचनः ॥४०॥ तामादाय सुतां पाणो ददौ चाशु रुदन्निव । दृष्टाऽय दारिकां राजा विस्मयं परमं गतः ॥४१॥ देववाणी वृथा जाता नारदस्य च भाषितम् । वसुदेवः कथं कुर्यादनृतं संकटे स्थितः ॥४२॥
Page 242
२४२ श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २४ रक्षपालाश्र मे सवें सावधाना न संशयः । कुतोऽत्र कन्यका कामं वव गतः स सुतः किरु॥ संदेहोऽत्र न कर्तव्यः कालस्य दिषमा गतिः । इति संचित्य तां बालां गृहीत्वा पादयोः खलः ॥ पोथयामास पाषाणे निर्घृणः कुलपांसनः । सा करान्निःसृता बाला ययावाकाशमंडलम्॥४५॥ दिव्यरूपा तदा भूत्वा तमुवाच मृदुस्वना । कि मया हतया पाप जातस्ते बलवात्रिपुः॥४६॥ हनिष्यति दुराराध्य: सर्वथा त्वां नराघमम् । इत्युक्त्वा सा गता कन्या गगनं कामगा शिवा ॥ कंसस्तु विस्मयाविष्टो गतो निजगृहं तदा। आनाय्य दानवान्सर्वानिदं वचनमब्रवीत् ॥४८॥ रकघेनुकवत्सादीन्क्रोधाविष्टो भयातुरः । गच्छन्तु दानवाः सर्वे मम कार्यार्थसिद्धये ॥४९॥ जातमात्राश्च हंतव्या बालका यत्र कुत्रचित् । पूतनैषा व्रजत्वद्य बालघ्नी नंदगोकुलम् ॥५०॥ जातमात्रान्विनिघ्नंती शिशूंस्तत्र ममाज्ञया। धेनुको वत्सकः केशी प्रलंबो बक एव च ।५१।। सवें तिष्ठंतु तत्रव मम कार्यचिकीर्षया। इत्याज्ञाप्यासुरान्कंसो ययौ निजगृहं खलः ॥ चिंताविष्टोऽतिदीनात्मा चिंतयित्वैव तं पुनः ।५२।। इति श्रीमद्देवीमागवते महापुराणे चतुर्थस्कन्धे त्रयोविंशोऽध्यायः ॥ २३॥ अथ चतुर्विशोऽध्यायः व्यास उवाच पातर्नन्दगृहे जातः पुत्रजन्ममहोत्सवः । किवदंत्यथ कंसेन श्रुता चारमुखादपि॥१॥ जानाति वसुदेवस्य दारास्तत्र वसंति हि। पशवो दासवर्गश्च सवें ते नंदगोकुले ॥२॥ तेन शंकासमाविष्टो गोकुलं प्रति भारत। नारदेनापि तत्सवं कथितं कारणं पुरा ।३॥ गोकुले ये च नंदाद्यास्तत्पत्यश्च सुरांशजाः । देवकीवसुदेवाद्याः सवें ते शत्रवः किल॥४॥ इति नारदवाक्येन बोघितोऽसी कुलाधमः । जातः कोपमना राजन्कंसः परमपापकृत् ॥५॥ पूतना निहता तत्र कृष्णेनामिनतेजसा। बको वत्सासुरंश्रापि धेनुकश्च महाबलः ॥६॥ प्रलंबो निहतस्तेन तथा गोवर्धनो धृतः । श्रुत्वैतत्कर्म कंसस्तु मेने मरणमात्मनः ॥७॥ तथा विनिहतः केशी ज्ञात्वा कंसोऽतिदुर्मनाः । धनुर्यागमिषेणाशु तावानेतुं प्रचक्रमे ॥८॥। अक्ररं प्रेषयामास क्ररः पापमतिस्तदा। आनेतुं रामकृष्णौ च वधायामितविक्रमौ ॥॥ रयमारोप्य गोपालौ गोकुलाद्रांदिनीसुतः । आगतो मथुरायां तु कंसादेशे स्थितः किल ॥१०॥ तावागत्य तदा तत्र धनुभंगं च चक्रतुः । हत्वाऽथ रजकं कामं गजं चाणूरमुष्टिकम् ॥११॥ शलं च तोशलं चैव निजधान हरिस्तदा। जघान कंसं देवेशः केशेष्वाकृष्य लीलया ॥१२॥ पितरौ मोचयित्वाऽय गतदुःखौ चकार ह। उग्रसेनाय राज्यं तद्ददावरिनिषूदनः ॥१३॥ वसुदेवस्तयोस्तत्र मोंजीबन्धनपूर्वकम्। कारयामास विघिवद् व्रतबंधं महामना: ॥१४ ।
Page 243
श्रीमद्देवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २४ २४३ उपनीतौ तदा तौ तु गतौ सांदोपनालयय्। विद्याः सर्वाः समभ्यस्य मथुरामागतौ पुनः ॥१५॥ जातौ द्वादशवर्षीयौ कृतविद्यौ महाबली। मथुरायां स्थितौ वीरौ सुतावानकदुंदुभेः ॥१६॥ मागधस्तु जरासंधो जामातृवधदुःखितः। कृत्वा सैन्यसमाजं स मथुरामागतः पुरीम् ॥१७॥ स सपदशवार तु कृष्णेन कृतबुद्धिना । जितः संग्राममासाद्य मधुपुर्या निवासिना ॥१८॥ पश्चाच्च प्रेरितस्तेन स कालयवनाभिधः । सर्वम्लेच्छाधिपः शूरो यादवानां भयंक्ररः ॥१९॥ श्रत्वा यवनमायांतं कृष्णः सर्वान् यदूत्तमान् । आनाय्य व तथा राममुवाच मधुसूदनः ॥०। भयं नोऽत्र समुत्पन्नं जरासंधान्महाबलात् । कि कर्तव्यं महाभाग यवनः समुपैति वै ॥२१॥ प्राणत्राणं प्रकर्तव्यं त्यकत्वा गेहं बलं धनम्। सुखेन स्थीयते यत्र स देशः खलु पैतृकः ॥२२॥ सदोद्वेगकरः कामं किं कर्तव्यं कुलोचितम्। शैलसागरसान्निध्ये स्थातव्यं सुखमिच्छता ॥२३॥ यत्र वैरिभयं न स्यात्स्थातव्यं तत्र पंडितैः । शेषशय्यां समाश्रित्य हरिः स्वपिति सागरे ॥२४॥ त्थव च भया्द्गीतः कैलासे त्रिपुरार्दनः । तस्मान्नात्रव स्थातव्यमस्माभिः शत्रुतापितैः २५॥ द्वारवत्यां गमिष्यामः सहिताः सर्व एव वै । कथिता गरुडेनाद्य रम्या द्वारवती पुरी ॥२६॥ रैवताचलसांनिध्ये सिंधुकूले मनोहरा। व्यास उवाच तच्छ्रत्वा वचनं तथ्यं सर्वे याकवपुङ्गवाः ॥२७॥ गमनाय मति चक्र: सकुटुम्बाः सवाहनाः। शकटानि तथोष्टरश्च वाम्थश्च महिषास्तया ॥२८॥ धनपूर्णानि कृत्वा ते निर्ययुर्नगराद्वहिः । रामकृष्णौ पुरस्कृत्य सर्वे ते सपरिच्छिदाः ॥२९॥ अग्रे कृत्वा प्रजाः सर्वाश्चेलुः सर्वे यदूत्तमाः । कतिचिद्िवसैः प्रापुः पुरी द्वारवती किरु ३०॥ शिल्पिभिः कारयामास जीर्णोद्धारं हि माधवः । संस्थाप्य यादवांस्तत्र तावेतौ बलकेशवी ॥३१॥ तरसा मथुरामेत्य संस्थितौ निर्जनां पुरीम्। तदा तत्रैव संप्राप्तो बलवान् यवनाघिपः ॥।३२।। ज्ञात्वैनमागतं कृष्णो निर्ययौ नगराद्वहिः । पदातिरग्रे तस्याभूद्यवनस्य जनार्दनः ॥३३॥ पाताम्बरधरः श्रीमान्प्रहसन्मधुसूदनः । तं दृष्टा पुरतो यांतं कृष्णं कमललोचनम् ॥३४॥ यवनोऽपि पवातिः सन्पृष्टतोऽनुगतः खलः । प्रसुत्ो यम राजर्षिमुचकुंदो महाबलः ॥३५॥। प्रययौ भगवांस्तत्र सकालयवनो हरिः। तननवांतर्दधे विष्णुर्मुचुकुंद समीक्ष्य च ॥३६॥ तत्रंव यवनः प्राप्तः सुप्तभूतमपश्यत्। मत्वा वासुदेवं स पादेनाताडयनृपम् ॥३७॥ प्रवुद्धः क्रोधरक्ताक्षस्तं ददाह महाबलः । तं दग्ध्वा मुचुकुंदोऽथ ददर्श कमलेक्षणम् ॥३८॥ वासुदेवं सुदेवेशं प्रणम्य प्रस्थितो वनम् । जगाम द्वारकां कृष्णो बलदेवसमन्वितः ॥३९॥ उग्रसेनं नृपं कृत्वा विजहार यथारुचि। अहरद्ुक्मिणीं कामं शिशुपालस्वयवैरात्॥४०॥
Page 244
२४४ श्रीमद्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्यायः २४ राक्षसेन विवाहेन चक्रे दारविधिं हरिः। ततो जांबवतीं सत्यां मित्रविंदां च भामिनीम् ॥ कालिन्दीं लक्ष्मणं भद्रां तथा नाग्नजितीं शुभाम्। पृथक्पृथक्समानीयाप्युपयेमे जनार्दन: ॥४२॥ अष्टावेव महीपाल पतन्यः परमशोभनाः । प्रासूत रुक्मिणी पुत्रं प्रद्युम्नं चारुदर्शनम् ॥४३॥ जातकर्मादिकं तस्य चकार मधुसूदनः । हृतोऽसी सूतिकागेहाच्छंबरेण बलीयसा ॥४४॥ नीतश्र स्वपुरी बालो मायावत्यै समर्पितः । वासुदेवो हृतं दृष्टा पुत्रं शोकसमन्वितः॥४५॥ जगाम शरणं देवी भक्तियुक्तेन चेतसा। वृत्रासुरादयो दैत्या लीलयैव यया हताः ॥४६॥ ततोऽसी योगमायायाश्चकार परमां स्मृतिम् । वचोभिः परमोदारैरक्षरैः स्तवनैः शुभैः ॥४७॥ श्रीकृष्ण उवाच मातर्मयातितपसा परितोषिता त्वं प्राग्जन्मनि प्रसुमनादिभिरचिताऽसि। धर्मात्मजेन बदरीवनखण्डमध्ये किं विस्मृतो जननि ते त्वयि भक्तिभावः ॥४८।। सूतीगृहादपहृतः किमु बालको मे केनापि दुष्टमनसाऽप्यथ कौतुकाद्वा। मानापहारकरणाय ममाद्य नूनं लज्जा तवाम्ब खलु भक्तजनस्य युक्ता ।४९।। दुर्गों महानतितरां नगरी सुगुप्ता तत्रापि मेऽस्ति सदनं किल मध्यभागे। अन्तःपुरे च पिहितं ननु सूतिगेहं बालो हृतः खलु तथापि ममव दोषात् ॥५०॥ नाहं गतः परपुरं न च यादवाश्र रक्षावती च नगरी किल वीरवयँः । माया तवव जननि प्रकटप्रभावा मे बलकः परिहृतः कुहकेन केन ॥५१॥ नो वेद्ययहं जननि ते चरितं सुगुप्तं को वेद मंदमतिरल्पविदेव देही। क्वासी गतो मम भटैनं च वीक्षितो वा हर्ताम्बिके जवनिका तव कल्पितेयम् ।५२॥ चित्रं न तेऽत्र पुरतो मम मातृगर्भो नीतस्त्वयार्धसमये किल माययाऽसो। यं रोहिणी हलघरं सुषुवे प्रसिद्धं दूरे स्थिता पतिपरा मिथुनं विनाऽपि ॥५३॥ सृष्टिं करोषि जगतामनुपालनं च नाशं तर्थव पुनरप्यनिशं गूर्णस्त्वम् । को वेद तेऽम्ब चरितं दुरितांतकारि प्रायेण सर्वमखिलं विहितं त्वयैतत् ॥५४॥ उत्पाद्य पुत्रजननप्रभवं प्रमोदं दत्त्वा पुनर्विरहजं किल दुःखभारम्। त्वं क्रीडसे सुललितैः खलु तैविहारैनों चेत्कथं मम सुताप्तिरतिर्वृथा स्यात् ।५५॥ माताऽस्य रोदिति भृशं कुररीव बाला दुःखं तनोति मम सन्निधिगा सदैव। कष्टं न वेत्सि ललितेऽप्रमितप्रभावा मातस्त्वमेव शरणं भवपीडितानाम् ॥५६॥। सीमा सुखस्य सुतजन्म तदीयनाशो दुःखस्य देवि भवने विबुधा वदन्ति। तरिक करोमि जननि प्रथमे प्रनष्टे पुत्रे ममाद्य हृदयं स्फुटतीव मातः ॥५७॥
Page 245
श्रीमद्ेवीमागवते महापुराणे चतुर्थस्कन्धे अध्यायः २५ २४५
यज्ञं करोमि तव तुष्टिकरं व्रतं वा दैवं च पूजनमध खिलदुःखहा त्वम्। आतः सुतोऽत्र यदि जीवति दर्शयाशु त्वं वै क्षमा सकलशोकविनाशनाय ।५८।। व्यास उवाच एवं स्तुता तदा दवी कृष्णेनाक्लिष्टकर्मणा। प्रत्यक्षदर्शना भूत्वा तमुवाच जगद्गुरुम् ।५९॥ श्रीदेव्युवाच शोकं मा कुरु देवेश शापोडयं ते पुरातनः । तस्य योगेन पुत्रस्ते शंबरेण हृतो बलात् ॥६०॥ अतस्ते षोडशे वर्षे हत्वा तं शंबरं बलात्। आमिष्यति पुत्रस्ते मत्प्रसादान्न संशयः ॥६१॥ व्यास उवाच इत्युक्त्वाऽन्तर्दधे देवी चंडिका चंडविक्रमा। भगवानपि पुत्रस्य शोकं त्यक्त्वाभवत्सुखी ।।६२।। इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे चतुर्विशोऽध्यायः ॥२४॥ यथ पञ्चविंशोऽध्यायः राजोवाच संदेहो मे मुनिश्रेष्ठ जायते वचनात्तव । वैष्णवांशे भगवति दुःखोत्पत्ति विलोक्य च ॥ १॥ नारायणांशसंभूतो वासुदेवः प्रतापवान्। कथं स सूतिकागाराद्तो बालो हरेरपि ॥ २ ॥ सुगुप्तनगरे रम्ये गुप्तेऽथ सूतिकागृहे। प्रविश्य तेन'दैत्येन गृहीतोऽसौ कथं शिगुः ॥३ ॥ न ज्ञातो वासुदेवेन चित्रमेतन्ममाद्भुतम्। जायते महदाश्चयं चित्ते सत्यवतीसुत॥४॥ बरूहि तत्कारणं ब्रह्मन्नज्ञातं केशवेन यत्। हरणं तत्र संस्थेन शिशोर्वा सूतिकागृहात् ॥५॥ व्यास उवाच माया बलवती राजन्नराणां बुद्धिमोहिनी। शांभवी विश्रुता लोके को वा मोहं न गच्छति ॥६॥ मानुषं जन्म संप्राप्य गुणाः सर्वेऽपि मानुषाः । भवंति देहजाः काम न देवा नासुरास्तथा ॥७॥ क्षुतृष्निद्रा भयं तंद्रा व्यामोहः शोकसंशयः । हर्षश्चंवाभिमानश्च जरामरणमेव च।८।। अज्ञानं ग्लानिरप्रीतिरीर्ष्यासूया मदः श्रमः । एते देहभवा भावाः प्रभवंति नराघिप ॥ ९॥ यथा हेममृगं रामो न बुबोध पुरोगतम्। जानक्या हरणं चंव जटायुमरणं तथा ॥१०॥ अभिषेकदिने रामो वनवासं न वेद च । तथा न ज्ञातवात्रामः स्वशोकान्मरणं पितुः ॥११॥ अज्ञवद्विचचारासौ पश्यमानो वने वने। जानकी न विवेदाथ रावणेन हृतां वलात् ॥१२॥ सहायान्वानरान्कृत्वा हत्वा शक्रसुतं बलात्। सागरे सतुबंधं च कृत्वोत्तीर्य सरित्वतिम् ॥१३॥ प्रेषयामास सर्वासु दिक्षु तान्कपिकुख्चरान्। संग्रामं कृतत्रान्घोरं दुःखं प्राप रणाजिरे ॥१४॥
Page 246
२४६ श्रीमहेवीमागवते महापुराणे चतुर्थस्कन्धे अध्यायः २५ बंधर्न नागपाशेन प्राप रामो महाबलः । गरुडान्मोक्षण पश्चादन्वभूद्रघुनन्दनः।१५।। अहनद्रावणं संख्ये कुम्भकर्ण महाबलम्। मेघनादं निकुंभं च कुपितो रघुनन्दनः ॥१६॥ अदृष्यत्वं च जानकया न विवेद जनार्दनः । दिव्यंच कारयानास ज्वलितेऽग्नौ प्रवेशनम् ॥१७॥ लोकापवादाच्च परं ततस्तत्याज ता प्रियान् । अदूष्यां दूषितां मत्वा सीतां दशरथात्मजः ॥१८॥ न ज्ञाती स्वसुतौ तेन रामेण च कुशीलवौ। मुनिना कथितौ तौतु तस्य पुत्रौ महाबलौ ॥१९॥ मातालगमनं नैव जानकया ज्ञातवान्न च । राघवः कोपसंयुक्तो भ्रातरं हन्तुमुद्तः ॥२०॥ कालस्यागमन नैव न विवेद खरान्तकः। मानुषं देहमाशित्य चक्रे मानुपनेष्टितम् ॥२१॥ तर्थव मानुपान्भावानात्र कार्या विचारणा। पूर्वं कंसभयात्प्रातो गोकुले यदुनन्दनः ।२२।। जरासंधभयात्पश्राद्द्वारवत्यां गती हरिः । अधर्म कृतवान्कृष्णो रुक्मिम्या हरणं च यत् ।।२३।। शिशुपालहृतायाश्च जानन्वरमं सनातनम् । शुशोच वालकं कृष्णः शंबरेण हृतं बलात् ॥२४॥ मुमोद जानन्पुव तं हर्पशोकयुतस्ततः । सत्यभामाशया वत्तु युयुधे स्वर्गतः किल ॥२५॥ इन्द्रेण पादपार्थ तु स्ीजितत्वं पकारादणु। जहार कल्पवृ्क्ष यः पराभूय शतक्रतुम् ॥२६॥ मानिनीमानरक्षार्थ हरिश्चियधः प्रभुः । बद्ध्वा वृक्षे हरिंसत्यानारदाय ददी पतिम् ॥२७॥ दत्त्वाऽथ कानकं कृष्ण मोचय पास नमिनी। आष्षा कृष्णं जांववती बीना यवाने सत शुभाम्। स ययौ पर्वतं कृष्णस्तपस्याकृतनिश्चयः ॥२९॥ उपमन्युर्मुनिर्यत्र शिवभक्तः परंतप. । उपमन्युं गुरुं उत्वा दीक्षां पाशुपती हरिः ॥३०॥ जग्राह पुत्रकामस्तु 'मुण्डी दण्डी वभव ह। उग्रं तत्र तपस्तेपे मासमेकं फलाशनः ॥३१॥ जजाप शिवमंत्रं तु शिवध्यानपरो हरिः । द्वितीये तु जलाहारस्तिष्ठन्नेकपदा हरिः ॥३२॥ तृतीये वायभक्षस्तु पादाङ्गणाग्रसंस्थितः । पष्टे तु भगवात्ुद्रः प्रसन्नो भक्तिभावतः ॥३३।। दर्शनं च ददा तत सोमः सोमकलाधरः । आजगाम वृषार्ढः सुरैरिंद्रादिभिर्वृतः ॥३४॥ ब्रह्म विष्णयुतः साक्षादक्षगन्धर्वसेदितः । सम्बोधयन् वासुदेवं शङ्गरस्तमुवाच ह।३५॥ तुष्टोऽस्मि कृष्ण तपता तवोग्रेण महामते। ददामि वांछितान्कामान्त्रृहि यादवनन्दन ।३६।। मधि दष्टे कामपूरे कामशेषो न सम्भवेत्। व्यास उवाच तं दृष्टा शङ्करं तुष्टं भगवान्देवकीसुतः ॥३७॥ भपात पादयोस्तस्य दण्डवत्प्रेमसंयुतः । स्तुति चकार देवेशो मेघगम्भीरया गिरा ॥ स्थितस्तु पुरतः शम्भोर्वासुदेवः सनातनः ॥३८।
Page 247
श्रीमद्देवीभागदते महापुराणे चतुर्थस्कन्भे अध्याय: २५ २४७
कृण रताच देवदन जगन्नाथ अर्वभूता मशन ॥३९॥ विश्वयोने सुरारिघ्न नमस्त्रैलोक्यकारक। नीलकंठ नमस्तुभ्यं शूलिने े नमोनमः ॥४०॥ शैलजावल्लभायाथ यज्ञ्नाय नमोऽस्तु ते। बद्धोऽह कृतकृत्योऽहं दर्शनात्तव सुव्रत ॥४१॥ जन्म मे सफलं जातं नतवा ते पादपंकजम। बद्धोज्हं स्त्रीमरी: पाशैः संसारेऽस्मिअगढ्गुरो॥४२॥ शरणं तेऽद्य संप्राप्तो रक्षणार्थ त्रिलोचन । संप्राप्य मानषं जन्म खिन्नोऽहं दुःखनाशन ॥४३॥ त्राहि मां शरणं प्राप्त नवभीतं भवाधुना। गर्भवासे महद्दुःखं प्राप्तं मदनदाहक ॥४6।। जन्मतः कंसभयजमनुभूतं च गोकुले। जातोऽ्हं नंदगोपाली बल्लवाजाकरस्तथा ॥४५। गोरजःकाणकेशस्तु भूमन्वुंदावने वने। म्लेच्छराजभयत्रस्तो गतो हारवरती पुनः ॥४६।। त्यवत्वा पित्र्यं शुभं देशं माथुरं दुर्लभं विभो। ययातिवापवजेन तस्में उतं भयाहिभो॥४७॥। राज्यं सुपुष्टमपि च धर्मरक्षापरेण च। उग्रसेनस्य दासत्वं कृतं वै सर्वदा मया ॥४८।। राजाऽसौ यादवानां वै कृतो नः पर्वजैः किल। गार्हस्थ्यं दुःखड वंक्षी स्रीवश्चं धर्मवंडनम्॥ पारतंत्र्यं सदा बंधो मोक्षवातन दुर्लभा। रुविमण्यास्तनवान्द्ष्टा भार्वाजांववती मम ॥५०॥ प्रेरयामास पुत्रार्थ तपने मदनांतक। सकामेन मया ततं तपः पव्रार्थमद्य वै ॥५१॥ लज्जा भवति देवेश प्रार्थनायां जगदगुरो। कस्त्वामाराव्य देवेशं भुक्तिदं भन्वत्सलम् ॥५२।। प्रसन्नं याचते मूढः फलं तुच्छं विनाशि यत्। सों मायाविमूढात्मा साचे पुत्रसुखं विभी ॥५३॥। कामिन्या प्रेरितः शंभो मुक्तिदं त्वां जगत्पते। जानामि द्ुःखद यंभो संसारं हुःनाघनम् ।५४॥ अनित्यं नाशधर्माणं तथापि विरतिर्न मे। शापान्नारायणांशीवहं जातोस्मिन्क्षितिमंडले॥५५॥ भोक्तुं बहुतरं दुःखं मायापाशेन यंत्रितः । व्यास उवाच इत्युक्तवंतं गोविंदं प्रत्युवाच महेश्वरः ॥५६॥ बहवस्ते भविष्यंति पुत्राः शत्रनिपूदन । स्त्रीणां षोडशसाहस्रं भविष्यति गतार्धकम् ॥५७।। तासु पुत्रा दश दश भविष्यंति महाबलाः । इत्युक्त्वोपररामाशु शंकरः प्रियदर्शनः ॥५८॥। उवाच गिरिजा देवी प्रणतं मधुसूदनम्। कृष्ण कृष्ण महाबाहो संसारेऽस्मिन्नराघिप ॥५९॥ गृहस्थप्रवरो लोके भविष्यति भवानिह । ततो वर्षशतांते तु द्विजशापाज्जनार्दन ॥६०॥ गांधार्याश्र तथा शापाद्दविता ते कुलक्षयः। परस्परं निहत्याजौ पुत्रास्ते शापमोहिताः ॥६६: गमिष्यंति क्षयं सर्वे यादवाश्च तथापरे। सानुजस्त्व तथा देहं त्यक्त्वा यास्यसि वै दिवम् । शोकस्तत्र न कर्तव्यो भवितव्यं प्रति प्रभो। अवश्यंभाविभावानां प्रतीकारो न विद्यते ॥६३॥
Page 248
२४८ श्रीमऐ्ेवीभागवते महापुराणे चतुर्थस्कन्धे अध्याय: २५ तत्र शोको न कर्तव्यो नूनं मम मतं सदा। अष्टावक्रस्य शापेन भार्यास्ते मधुसूदन ॥६४॥। चौरे ग्रहणं कृष्ण गमिष्यंति मृते त्वयि। इत्युक्त्वाऽन्तर्दधे शंभुः सोमः ससुरमंडलः ।६५॥ उपमन्ं प्रणम्याथ कृष्णोऽपि द्वारकां बयौ। यस्माद् ब्रह्मादयो राजन्संति यद्यप्यधीश्वराः॥६६॥ सर्पाा मायाकल्लोलयोगसंक्षुभितांतराः । तदधीनाः स्थिताः सर्वे काषपुत्तलिकोपमाः ॥६७॥ यक गथ्षा पूर्वमहं कर्म तेषां तथा तथा। प्रेरयत्यनिशं माया परब्रह्मस्वरूपिणी ॥६८।। न हैषम्यं न नैर्घण्यं भगवत्यां कदाचन। केवलं जीवमोक्षार्थं यतते भुवनेश्वरी ॥६९॥ गदि सा नैव सृज्येत जगदेतच्चराचरम्। तदा मायां विना भूतं जडं स्यादेव नित्यशः ७०॥ सहमातकारुण्यमाश्रित्य जगज्जीवादिकं च यत् । करोति सततं देवी प्रेरयत्यनिशं च तत् ।।७१। तस्माद्ब्रह्मादिमोहेऽस्मिन्कर्तव्यः संशयोन हि। मायांतःपातिनः सर्वे मायाधीनाः सुरासुराः ॥७२॥ स्वतंत्रा सँव देवेशी स्वेच्छाचारविहारिणी। तस्मात्सर्वात्मना राजन्सेवनीया महेश्वरी॥७३॥ नातः परतरं किचिदधिकं भुवनत्रये। एतद्धि जन्मसाफल्यं पराशक्तेः पदस्मृतिः ॥७४॥ भाभूत्तत्र कुले जन्म यत्र देवी न दैवतम् । अहं देवी न चान्योडस्मि ब्रह्मवाहं न शोकभाक् ॥ इत्यभेदेन तां नित्यां चिंतयेज्जगदंबिकाम्। श्ञात्या गुरुमुखादेनां वेदांतश्रवणादिभिः ॥७६॥। नित्यमेकाग्रमनसा भावयेदात्मरूपिणीम् । मुक्तो भवति तेनाशु नान्यथा कर्मकोटिभि:।।७७।। श्वेताश्वतरादयः सर्वे ऋषयो निर्मलाशयाः । आत्मरूपां हृदा ज्ञात्वा विमुक्ता भवबंधनात्॥७८।। ब्रह्मविष्ण्वादयस्तद्वद्गोरीलक्ष्म्यादयस्तथा । तामेव समुपासंते सच्चिदानंदरूपिणीम्॥७९॥ इति ते कथितं राजन् यद्यद्यत्पृष्टं त्वयाऽनघ। प्रपंचपापत्रस्तेन किं भूयः श्रोतुमिच्छसि ॥८०॥ एतत्ते कथितं राजन्मयाऽडख्यानमनुत्तमम्। सर्वपापहरं पुण्यं पुराणं परमान्द्ुतम् ।८१।। य इदं शृणुयान्नित्यं पुराणं वेदसंमितम्। सर्वपापविनिर्मुक्तो देवीलोके महीयते ॥८२॥ सूत उवाच. एतन्मया श्रुतं व्यासात्कथ्यमानं सविस्तरम्। पुराणं पंचमं नूनं श्रीमद्भागवताभिधम्।८३॥ इति श्रीदेवीभागवंते महापुराणे चतुर्थस्कंधे पंचर्विशोऽध्यायः।।२५।। अर्धाधिकर्वसुविधुयुगविश्बंभरा(१४१८।।)भिघैः। पद्श्चतुर्थस्कन्धोडयं कथितो व्यासनिरमितैः॥ समाप्ोऽयं चतुर्थः स्कन्धः ।
Page 249
भोगणेशाय नमः श्रीमद्देवीभागवतम्
पञ्चम: स्कन्धः -0 :- प्रथमोऽध्यायः ऋषय ऊचु: भवता कचितं सूत महदाख्यानमुत्तमम् । कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥१॥ संदेहोऽत्र महाभाग वासुदेवकथानके। जायते नः प्रोच्यमाने विस्तरेण महामते ॥२॥ वने गत्वा तपस्तसतं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम्॥३॥ वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः । जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥४॥ ईश्वरेणापि कृष्णेन कुतस्तौ संप्रपूजितो। न्यूनता वा किमस्त्यस्य तदेवं संशयो मम ॥५॥ सूत उवाच शृणुध्वं कारणं तत्र मया व्यास श्रुतं च यत् । प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥६॥। वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा। पुनः पप्रच्छ मेधावी संदेहं परमं गतः ॥७॥ जनमेजय उवाच सम्यक्सत्यवतीसूनो श्रुतं परमकारणम्। तथापि मनसो बृत्तिः संशयं न विमुंचति ॥८॥ कृष्णेनाराधितः शंभुस्तपस्तप्त्वाऽतिदारुणम् । विस्मयोऽयं महाभाग देवदेवेन विष्णुना ।।९॥ यः सर्वात्माऽपि सर्वेशः सर्वसिद्धिप्रदः प्रभुः । स कथं कृतवान्घोरं तपः प्राकृतबद्धरिः॥१०॥ जगत्कतुं क्षम: कृष्णस्तथा पालयितुं क्षमः । संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥११॥ व्यास उवाच सत्यमुक्तं त्वया राजन्वासुदेवो जनार्दनः। क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥१२॥
Page 250
२५० श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १ तथापि मानुषं देहमाश्रितः परमेश्वरः । कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥१३॥ वृद्वानां पूजनं चंव गुरुपादाभिवंदनम् । ब्राह्मणानां तथा सेवा देवताराधनं तथा॥१४॥ शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः । दैन्यं नानाऽपवादाश्र स्त्रीषु कामोपसेवनम् ॥१५॥ क्राम: क्रोधस्तथा लोभ: काले काले भवंति हि। तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥१६॥ सोबलीशापजाद्दोषात्तथा बाह्मणशापजात् । निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥१७॥ हरणं लुंठनं तद्वत्तत्पत्नीनां नराधिप। अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ।।१८।। अज्ञत्व हरणे गेहात्तत्प्रद्ुम्नानिरुद्धयोः। एवं मानुषदेहेऽस्मिन्मानुपं खलु चेष्टितम् ॥१९॥ विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा । अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ । २ स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् । सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥२१॥ तदंशभृत्ता: कृष्णाद्यास्तैः कथं न स पूज्यते। अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ महेश्वरी। उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधै: ॥२३॥ अतः सवैंषु शास्त्रेषु देवी सर्वोत्तमा स्मृता। अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः २४॥ विष्णोरप्यधिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः । तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥२५॥ इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्वभौ। मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥२६॥ सोऽपि पुज्योडस्ति सर्वेषां मूनरुद्रस्य का कथा। देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥२७॥ अवतारा हरेरेवं प्रभवंति युगे युगे। योगमायाप्रभावेण नात्र कार्या विचारणा ॥२८।। या नेत्रुपक्ष्मंपरिसंचलनेन सम्यग्विश्चं सृजत्यवति हन्ति निगूढभावा। सैषा करोति सततं द्रुहिणाच्युतेशान्नानावतारकलने परिभूयमानान् ॥२९॥ सूतीगृहाद्व्रजनमप्यनया नियुक्तं संगोपितश् भवने पशुपालराज्ञः । संप्रापितश्र मथुरां विनियोजितश्च श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥३०। निर्माय षोडशसहस्रशतार्धकास्ता नार्योऽष्ट संमततराः स्वकलासमुत्थाः । तासां विलासवशगं तु विधाय कामं दासीकृतो हि भगवाननयाप्यनंतः ॥३१॥ एकाऽपि बंधनविधौ युवती समर्था पुंसो यथा सुदृढलोहमयं तु दाम। किं नाम षोडशसहस्रशतार्धकाश्च तं स्वीकृतं शुकमिवातिनिबंधयंति ॥।३२।। सात्राजितीवशगतेन मुदान्वितेन प्राप्तं सुरेंद्रभवनं हरिणा तदानीम्। कृत्वा मृधं मधवता विहृतस्तरूणामीशः प्रियासदनभूषणतां य आप ॥३३॥ यो भीमजां हि हृतवाञ्छिशुपालकादीञ्जित्वा विधिं निखिलधर्मकृतो विधरित्सुः। जग्राह तां निजबलेन च धर्मपत्नों कोऽसौ विघि: परकलत्रहृतौ विजातः ॥३४॥
Page 251
श्रीमदेवीभागवते महापुराणे पग्ममस्कन्धे अध्याय: २ २५१ जहंकारवशः प्राणी करोति च शुभाशुभम् । विमूढो मोहजालेन तत्कृतेनातिपातिना ॥।३५।। अहंकाराद्वि संजातमिदं स्थावरजंगमम् । मूलाद्धरिहसदीनामुग्रात्प्रकृतिसंभवात् ।।३६।। महंकारपरित्यक्तो यदा भवति पद्मजः । तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥३७॥ तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः । न नारी न धनं गेहं न पुत्रा न सहोदराः।३८।। बंधनं प्राणिनां राजन्नहंकारस्तु बंधकः । अहं कर्ता मया चेदं कृतं कार्य बलीयसा ॥३९॥ करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् । कारणेन विना कार्यं न संभवति कहिंचित् ॥४०। मथा न दृश्यते जातो मृत्पिंडेन विना घटः । विष्णुः पालयिता विश्वस्याहंकारसमन्वितः ॥४१॥ अन्यथा सर्वदा चितांबुधौ मग्नः कथं भवेत् । अहंकारविमुक्तस्तु यदा भवति मानवः ॥४२॥ अवतारप्रवाहेषु कथं मज्जेच्छुमाशयः। मोहमूलमहंकारः संसारस्तत्समुङ्व: ॥४३॥ अहंकाराविहीनानां न मोहो न च संसृतिः ! त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा४४।। तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु। त्रिविधस्त्रिषु राजेद्र काजेश दिषु सर्वदा ।४५॥ अहंकारः सदा प्रोक्तो मुनिभिस्तत्त्वदशिभिः । अहंकारेण तेनैव बद्धा एते न संशयः ॥४६॥ मायात्रिमोहिता मंदाः प्रवदंति मनीषिणः । करोति स्वेच्छया विष्णुरवताराननेकशः ॥४७॥ मंदोऽवि दुःखगहने गर्भवासेऽतिसंकटे। न करोति मति विद्वान्कथं कुर्यात्स चक्रभृत् ॥४८॥ कौमल्यादेवकीगर्भे विष्ठामलसमाकुले। स्वेच्छया प्रवदंत्यद्धा गतो हि मधुसूदनः ॥४९॥ बैकुंठसदनं त्यकत्वा गर्भवासे सुखं नु किम्। चिंताकोटिसमुस्थाने दुःखदे विषसंमिते ॥५०॥ तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः । न वांछति यतो लोका गर्भवासं सुदुःखदम् ॥५१॥ स कथं भगवान्विष्णुः स्ववशशज्जनार्दनः! गर्भवासरुचिर्भूया्द्गवेत्स्ववशता यदि ॥५२॥ जानीहि त्वं महाराज योगमायावशे जगत्। ब्रह्मादिस्तंबपर्यन्तं देवमानुषतिर्यगम् ॥५३॥ मायातंत्रीनिबद्धा ये ब्रह्मविष्णुहरादयः । भ्रमंति बंधमायांति लीलया चोर्णनाभवत् ॥५४॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे प्रथमोऽध्यायः ॥४॥ अथ द्वितीयोऽध्यायः व्यास उवाच योगेश्वर्याः प्रभावोऽयं कथितश्रातिविस्तरात् । ब्रूहि तच्चरितं स्वामिञ्छ्ोतुं कौतूहलं मम ॥१॥ महादेवीप्रभावं वै श्रोतं को नाभिवांछति । यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥२॥ राजोवाच शृणु राजन्प्रवक्ष्यामि विस्तरेण महामते। श्रद्दधानाय शांताय न. ब्रयात्स तु मंदधीः ॥३॥
Page 252
२५२ श्रीमरेवीभागवते महापुराणे पञ्ममस्कन्धे अध्याय: २ पुरा युद्धमभूद्घोरं देवदानवसेनयोः । पृथिव्यां पृथिबीपाल महिषाख्ये महीपतौ ॥४ महिषो नाम राजेंद्र चकार तप उत्तमम्। गत्वा हेममिरौ बोग्रं देवविस्मयकारकम् ॥५॥ वर्षाणामयुतं पूर्णं चिंतयन्हृदि देवताम् । तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥६॥ तत्रागत्याब्रवीद्वाकयं हंसारूढश्रतुर्मुखः। वरं वरय धर्मात्मन्ददामि तव वांछितम्॥७। महिष उवाच अमरत्वं देवदेव वांछामि द्रुहिण प्रभो। यथा मृत्युभयं न स्यात्तथा कुरु पितामह।।८। म्रसोवाच उत्पन्नस्य ध्रुवं मृत्युध्रुवं जन्म मृतस्य न। सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥९॥ नाश: कालेन सर्वेषां प्राणिनां दैत्यपुंगव । महामहीधराणां च समुद्राणां च सर्वथा ॥१०॥ एकं स्थानं परित्यज्य मरणस्य महीपते। प्रब्रहि तं बरं साधो यस्ते मनसि वर्तते ॥११॥ महिष उवाच न देवान्मानुषादृत्यान्मरणं मे पितामह। पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥१२।। तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज । अबला हंत मां हंतुं कथं शक्ता भविष्यति ॥१३।।
यदा कदापि दैत्येन्द्र नार्यास्ते मरणं ध्रुवम्। न नरेम्यो महाभाग मृतिस्ते महिवासुर ।१४।। व्यास उवाप एवं दत्त्वा वरं तस्म ययो ब्रह्मा निजालयम्। सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्बितः।१५॥। राजोषाच महिषः कस्य पुत्रोऽसौ कथं जातो महाबली। कथं च माहिषं रूपं प्राप्तं तेन महात्मना ।१६।। व्यास उबाच दनो: पुत्रौ महाराज बिख्यातौ क्षितिमंडले ।।१७।। तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः । बहून्वर्षगणान्कामं पुण्ये पंचनदे जले ।१८।। करंभस्तु जले मग्नश्रकार परमं तपः । वृक्षं रसावटं प्राप्य रंभोऽग्निमसेवयत् ॥१९॥ पंचाग्निसाधनासक्त: स रंभस्तु यदाऽभवत् । ज्ञात्वा शबीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥२०॥ गत्वा पंचनदे तत्र ग्राहरूपं चकार ह। वासवस्तु करंभं तं तदा जग्राह पादयो: ॥२१॥ निजधान च तं दुषट करंभं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रंभः कोपं परं गतः ॥२२॥
Page 253
श्रीमद्ेवीभागवते महापुराणे पश्रमस्कन्धे अध्याय: २ २५३ स्वशीर्ष पावके होतुमच्छच्छित्वा करेण ह। केशपाशे गृहीत्वाऽऽलु वामेन क्रोधसंयुतः ॥२३। दक्षिणेन करेणाप्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्ष तत्तावद्वह्निना प्रतिबोधितः ॥२४॥ उक्तश्र दैत्य मूर्खोडसि स्वशीर्ष छेस्तुमिच्छसि। आत्महत्याऽतिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥२५॥ वरं वरथ भद्रं ते यस्ते मनसि वर्तते। माम्रियस्व मृतेनाद कि ते कार्यं भबिष्यति ॥२६॥ व्यास उवाच तच्द्रुत्वा वचनं रंभः पावकस्य सुभाषितम् । ततोऽब्रवीद्वचो रंभस्त्यकत्वा केशकलापकम् ॥२७॥ यदि तुष्टोऽसि देवेश देहि मे वांछितं वरम्। त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥२८॥ अजेयः सर्वथा स स्याह्वदानवमानवैः । कामरूपी महावीर्य; सर्वलोकाभिवंदितः ॥२९॥ पावकस्तं तथेत्याह भविष्यति तबेप्सितम् । पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥३०॥ यस्यां चिसं तु रंभ त्वं प्रमदात्तं करिष्यसि। तस्यां पुत्रो महाभाग भविष्यति वलाधिक: ॥३१॥ व्यास उवाच इत्युक्तो वह्निना रंभो वचनं चित्तरंजनम् । श्रुत्वा प्रणम्य प्रययौ वन्निं तं दानवोत्तमः ॥३२॥ यक्षः परिवृतं स्थानं रमणीयं श्रियान्वितम्। दृष्टा चक्रे तदा भावं महिष्यां दानबोत्तमः ॥३३॥ मतायां रूपपूर्णायां विहायान्यां च योषितम्। सा समागाच्च तरसा कामयंती मुदान्विता ॥३४॥। रंभोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तुगर्भवती जाता महिषी तस्य वीर्यतः ॥३५॥ तां गृहीत्वाऽथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्र तां रक्षन्प्रियामनुमतां किल ॥३६॥ कदाचिन्महिषश्रान्यः कामोतस्तामुपाद्रवत् । स्वयमागत्य तं हंतुं दानवः समुपाद्रवत् ॥३७।। स्वरक्षार्थं समागत्य महिषं समताडयत् । सोऽपि नं निजधानाशु शृंगाभ्यां काममोहितः ३८।। ताडितस्तेन तीक्ष्णाभ्यां शृंगाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूछित: ॥३९॥ मृते भर्तरि सा दीना भमार्ता विद्युता भूरम्। सा वेगात्तं वटं प्राम्य यक्षाणां शरणं गता ॥४०।। पृछ्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्यमदोद्धतः॥४१॥ रदती साभृशं दीना दृष्टा यक्षरभयातुरा। धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥४२॥ युद्धं समभवद्धोरं यक्षाणां च हयारिणा। शरेण ताडितस्तूर्ण पपात धरणीतले॥४३॥ मृतं रंभं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये॥४४।। महिषी सा पर्ति दृष्टा चितायां रोपितं तदा। प्रवेष्टुं सा मति चक्रे पतिना सह पाव कम्।४५॥ वार्यमाणाऽपि यक्षः सा प्रविबेश हुताशनम्। ज्वालमालाकुलं साघ्वी पतिमादास वल्लभम् ॥ महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः । रम्भोप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः॥४७॥ रक्तबीजोऽप्यसौ जातो महिषोऽपिं महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥४८॥
Page 254
२५४ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३ एवं स महिषो जातो रक्तबीजश्च वीर्यवान् । अवध्यस्तु सुरदत्यैर्मानवैश्च नृपोत्तम ॥४९। इत्येतत्कषितं राजअन्म तस्य महात्मनः । वरप्रदानं च तथा प्रोक्तं सवं सविस्तरम् ॥५०॥ इति श्रीदेवीभागवते महापुराणे पंचमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥२॥
- अब वृतीयोऽध्याय: व्यास उवाच एवं स महिषो नाम दानवो वरदर्पितः । प्राप्य राज्यं जगत्सवं वशे चक्रे महाबलः ॥१॥ पृथिवीं पालयामास सागरांतां भुजाजिताम्। एकच्छत्रां निरातंकां वैरिवर्गविवर्जिताम् ॥२॥ सेनानोश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः । धनाध्यक्षस्तथा ताम्रः सेनाऽयुतसमावृतः ॥॥ असिलोमा तथोदर्को बिडालार््श्र बाष्कलः । त्रिनेत्रोऽथ तथा कालबंधको बलदर्पित ॥४।। एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा। आवृत्य संस्थिताः काममृद्धां सागरमेर गम् ॥५॥ करदाश्च कृता: सवें भूमिपालाः पुरातनाः । निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥६॥ ब्राह्मणा बशगा जाता यज्ञभागसमर्पकाः । महिषस्य महाराज निखिले क्षितिमंडले ।।७॥ एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः । स्वर्ग जेतुं मनश्चक्रे वरदानेन गर्वितः ।।८।। प्रणिषिं प्रेषयामास हयारिस्तु शचीपतिम् । स संदेशहरं शीघ्रमाहयोवाच दैत्यराट्।।९।। गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ । ब्रूहि शक्रं दिवं गत्वा निःशंक: सुरसन्निधौ ॥१०॥ मुञ्ज स्वगं सहस्राक्ष यथेष्टं गच्छ माचिरम्। सेवां वा कुरु देवेश महिषस्य महात्मनः ॥११॥ स त्वां संरक्षयेन्नूनं राजा शरणमागतम्। तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥१२॥ नोचेद्वज्त्रं गृहाणाणु युद्धाय बलसूदन। पूर्वेजितोऽसि चास्माकं जानामि तव पौरुषम् १३॥ अहल्याजार विज्ञातं बलं ते सुरसंघप । युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥१४॥ व्यास उवाच तच्छ्रत्वा वचनं तस्य शक्रः क्रोधसमन्वितः । उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥१५॥ न जानेऽहं सुमंदात्मन् यतस्त्वं मददर्पितः । चिकित्सां संकरिष्यामि रोगस्यास्य प्रभोस्तव ।। अतः परं करिष्यामि मूलस्यास्य निकृन्तनम्। गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥१७॥ शिष्टर्दूता न हंतव्यास्तस्मात्त्वां विसृजाम्यहम् । युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ।।१८।। हयारे त्वद्वलं ज्ञातं तृणासस्त्वं जडाकृतिः । शृंगयोस्ते करिष्यामि सुदृढं च शरासनम् ॥१९॥ दर्प: शृंगबलात्तेऽस्ति विदितं कारणं मया। विषाणे ते परिच्छित्त्वा संहरिष्यामि तद्वलम् ॥२०॥ यद्वलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः । कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥२१॥
Page 255
श्रीमद्देवीभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः ३ २५५
व्यास उवाच इत्युक्त्तोसी सुरेन्द्रेण स दूतस्त्वरितो गतः । जगाम महिषं मत्तं प्रणम्य प्रत्युवाच है ॥२२॥ दूत उवाच राजन्देवाधिपः कामं न त्वां विगणयत्यसौ । मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥२३॥ यदुक्तं तेन मूर्खेण कथमन्यद्ब्रवीम्यहम्। प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभो: ॥२४॥ प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना । इति नीतिर्महाराज जागत शुभकारिणी ॥२५॥ केवलं चेत्प्रियं ब्रयान्न ते कार्यं भविष्यति। परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥२६।। यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः । तथा भृत्यमुखान्नाथ निःसरंति कथं गिरः ॥२७॥ यादृशानीह वाक्यानि तेनोक्त्तानि महीपते। तादृशानि न मे जिह्वा वक्तुमहति कहिंचित् ।२८।। व्यास उवाच तच्छरत्वा वचनं तस्य हेतुगर्भं तृणाशनः । भृशं कोपपरीतात्मा बभूव महिषासुरः ॥२९॥ । लांगूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥३०॥ भो भो दैत्या: सुरेंद्रोऽसौ युद्धकामोऽस्ति सर्वथा। बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥३१॥ मदग्रे को भवेच्छरः कोटिशश्चेत्तथाविधाः । न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥३२॥ शूरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः। बलकर्ता हि कुहको लंपटः परदारहृत् ।३३॥ अप्स रोबलसंमत्तस्तपोविघ्नकर: खल: । छिद्रप्रहरण: पापो नित्यं विश्वासघातकः ॥३४॥ नमुचिर्निहतो येन कृत्वा संधि दुरात्मना। शपथान्विविधानादो कृत्वा भीतेन छद्मना ।।३५।। विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः । नानारूपधरः कामं बलकृद्दंभपंडितः ॥३६॥ कृत्वा कोलाकृति येन हिरण्याक्षो निपातितः । हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥३७।। नाहं तद्वशगो नूनं भवेयं दनुनंदनाः । विश्वासं नैव गच्छामि देवानां कुत्र कहिचित् ॥३८।। किं करिष्यति मे विष्णुरिंद्रो वा बलवत्तरः । रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणांगणे ॥३९॥ त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् । धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ।।४०।। यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः । जित्वा देवसमूहं च विहरिष्यामि दानवैः ॥४१॥ न मे भयं सुरेम्यश्च वरदानेन दानवाः । मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥४२॥ पातालपर्वतेभ्यश्च समाहूय वरान्वरान् । दानवान्मम सैन्येशान्कुवंतु त्वरिताश्चराः॥४३॥ एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः । शोभार्थ वः समाहय नयामि सुरसङ्गमे ॥४४॥ शृंगाभ्यां च खुराम्यां च हनिष्येऽहं सुरान्किल। न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥४५।। अवध्योऽहं सुरगण रसुरैर्मानवस्तथा। तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय ै ॥४६॥।
Page 256
२५६ श्रीमदेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ४ जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने । मंदारकुसुमापीडा देवयोषित्समन्विताः॥४७।। कामधेनुपयोत्सिक्ता: सुधापानप्रमोदिताः । देवगंधर्वगीतादिनृत्यलास्यसमन्विताः उर्वशी मेनका रंभा घृताची च तिलोत्तमा। प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा।४९।। विप्रचित्तिप्रभृतयौ नृत्यगीतविशारदाः । रंजयिष्यंति वः सर्वान्नानासवनिषेवर्णः ॥५०।। सर्वे सज्जा भवंत्वद्य रोचतां गमनं दिवि। संग्रामार्थ सुरैः सारध कृत्वा मङ्गलमुत्तमम् ॥५१॥ रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम्। समाहूय च संपूज्य स्थाप्य यज्ञे गुरुं परम् ॥५२।। व्यास उवाच इति संदिश्य दैत्येन्द्रान्महिषः पापधीस्तदा। जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ।।५३।। इति श्रीदेवीभागवते महापुराणे चतुर्थस्कन्धे दैत्यसन्योद्योगो नाम तृतीयोऽध्यायः ॥२॥ अथ चतुर्थोऽध्यायः व्यास उवाच गते दूते सुरेन्द्रोऽपि समाहय सुरानथ। यमवायुधनाध्यक्षवरुणानिदमूचिवान् महिषो नाम दैत्येन्द्रो रंभपुत्रो महाबलः । वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥२॥ तस्य दूतोऽद्य संप्राप्तः प्रेषितस्तेन भोः सुराः । स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥३॥ त्यज देवालयं शक्र यथेच्छं व्रज वासव। सेवां वा कुरु दैत्यस्य महिषस्य महात्ममः ॥४॥ दयावान्दानवेंद्रोऽसौ स ते युक्ति विधास्यति। स तेपु भृत्यभूतेषु न कुप्यति कदाचन ।५॥ नोचेद्युद्वाय देवेश सेनोद्योगं कुरु स्वयम् । गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥६॥ इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः । किं कर्तव्यमतः कार्य चिंतयध्वं सुरोत्तमाः ॥७॥ दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः । विशेषेण सदोद्योगी बलवान्बलदर्पितः ।।८।। उद्यम: किल कर्तव्यो यथा बुद्धिर्यथा बलम् । दैवाधीनो भवेन्नूनं जयो वाऽथ पराजयः ॥९॥ संधियोगो न चात्रास्ति खले संधिर्निरर्थकः । सर्वथा साधुभिः कार्य विचार्य च पुनः पुनः ॥१०॥ यानमप्यधुना नैव कर्तव्यं सहसा पुनः। प्रेक्षकाः प्रेपणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥११॥ इङ्गितज्ञाश्र निःसङ्गा निःस्पृहाः सत्यवादिनः । सेनाभियोगं प्रस्थानं बलसंख्यां यथार्थतः ॥१२॥ वीराणां च परिज्ञानं कृत्वा यांतु त्वरान्विताः । ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् १३। करिष्यामि ततस्तूर्णं यानं वा दुर्गसंग्रहम्। "विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा ॥।" सहसा विहितं कार्यं दु:खदं सर्वथा भवेत् ॥१४॥ तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुघैः । नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा।१५॥
Page 257
१७ श्रीमद्ेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ४ २५८ एकचित्तेषु कार्येडस्मिस्तस्मान्बारा व्रजंतु वै। ज्ञात्बा बलाबलं तेषां पश्रान्नीति विचार्य थ ॥१६॥ विधेया विधिवत्तज्जस्तेषु कार्यपरेषु च। अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥१७॥ सर्वथा तद्द वेन्ननमज्ञातमोषधं यथा व्यास उवाच इति संचित्य तैः सर्वेः प्रणिधि कार्यवेदिनम् ॥१८।। प्रेषयामास देवेन्द्रः परिज्ञानाय पार्यिवः । दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ।१९।। निवेदयामास तका सवं सैन्यबलाबलम्। ज्ञात्वा तद्रलमुद्योगं तुराषाडतिविस्मितः ॥२०॥ देवानचोदयत्तूणं समाहय पुरोहितम्। मन्त्रं मंत्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥२१॥ उवाचांगिरसश्रेष्टं समासीनं बरासने। इन्द्र उवाच भो भो देवगुरो विद्वन्कि कर्तव्यं वदस्व नः ॥२२॥ सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः । दानवो महिषो नाम महावीर्यो मदान्वितः ॥२३। योद्रुकाम: समायाति बहुभिर्दानवैर्वृतः । तत्र प्रतित्रिया कार्या त्वया मंत्रविदाऽधुना ॥२४।। तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुरंयतः । व्यास उवाच तच्छ्रत्वा वचनं प्राह तुरासाहं बृहस्पतिः ।२५।। विचित्य मनसा कामं कार्यसाधनतत्परः । गुरुरुवाच स्वस्थो भव सुरेन्द्र त्वं धैर्यमालंव्य मारिष ॥२६॥ व्यसने च समुत्पन्ने न त्याज्यं. धैर्यमाशु वै। जयाजयौ सुराध्यक्ष दैवाधोनो सदैव हि ॥२७॥ स्थातव्यं धैर्यमालंब्य तस्माद्बुद्धिमता सदा। भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥२८॥ उद्यम: सर्वथा कार्यो यथापौरुषमात्मनः । मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥२९॥ दैवाधोनं च जानन्तो योगध्यानपरायणाः । तस्मात्सदैव कर्तव्यो क्ष्यहारोदितोद्यमः ॥३०॥ सुखं भवतु वा मा वा दैवे का परिदेवना। बिना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥३१॥ अंधवत्पंगुवत्कामं न तथा मुदमावहेत् । कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥३२॥ न तत्र दूषणं तस्य दैवाधीने शरीरिणि। कार्यसिद्धिर्न सैन्येऽस्ति न मंत्रे न च मंत्रणे ॥३३।। न रथे नायुधे नूनं दैवाधीनासुराधिप। बलवान्क्लेशमाप्नोति निर्बलः सुखमशनुते॥३४॥ ुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत्। कातरो जयमाप्नोति शूरो याति पराजयम् ॥३५॥
Page 258
२५८ श्रीमद्देवांभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः ५ दैवाधीने तु संसारे कामं का परिदेवना। उद्यमे योजयेन्नूनं भवितव्यं सुराषिप॥३६॥ दुःखदे सुखदे वाडपि तत्र तो न विचितयेत्। दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम्॥३७॥ आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् । धैर्यमेवावगन्तव्यं हर्षशोकोदद्गवे बुधैः ॥३८॥ अधैर्याद्यादृशं दुःखं न तु धैयेंऽस्ति तादृशम् । दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥३९॥ हर्षशोकोन्धवो यत्र न भवेद्बुद्धिनिश्चयात् । किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाऽव्ययः ॥ चतुर्विशातिरिक्तोऽस्मि कि मे दुःखं सुखं च किम्। प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूच्छने॥४१॥ जरामृत्युशरीरस्य पडूमिरहितः शिवः । शोकमोहौ शरीरस्य गुणो कि मेऽत्र चिंतने ॥४२। शरीरं नाहमथवा तत्संबंधी न चाप्यहम्। सप्तकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी।४३।। प्रकृतिर्विकृतिर्नाहं कि मे दुःखं सदा पुनः । इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥४४॥ उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो। ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥४५॥ संतोषादपरं नास्ति सुखस्थानं शचीपते । अथवा यदि न ज्ञानं ममत्वनाशने किल ॥४६।। ततो विवेक: कर्तव्यो भवितव्ये सुराघिप। प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल।४७।। यद्भावि तद्वत्येव का चिंता सुखदुःखयोः । सुरैःसर्वेः सहायर्वा बुद्धया वा तव सत्तम ॥४८।। सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष। तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुघैः ॥४९॥ अथवा मंत्रत्विाऽद्य कुरु यत्नं यथाविधि। कृते यत्ने महाराज भवितव्यं भविष्यति ॥५०॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे वतुर्थोऽध्यायः ।। ४ ॥ अथ पश्चमोऽध्यायः व्यास उवाच इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् । युद्धोद्योगं करिष्यामि हयारेर्नाशिनाय वै ॥१॥ नोधमेन विना राज्यं न सुखं न च वै यशः । निरुद्यमं न शंसंति कातरा न च सोदमाः ॥२॥ यतीवां भूषणं ज्ञानं संतोषो हि द्रिजन्मनाम् । उद्यमः शत्रुहननं भूपणं भूतिमिच्छताम् ॥३॥ उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च। तर्थनं निहनिष्यामि महिषं मुनिसत्तम ॥४॥ बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् । सहायस्तु हरिननं तथोमापतिरव्ययः ॥५॥ रक्षोष्नान्पठ मे साधो करोम्यद्य समुद्मम् । स्वसैन्याभिनिवेशं च महिपं प्रति मानद ॥६॥ व्यास उवाच इंस्युको वेवराजेन वाचस्पतिरुबाच ह। सुरेन्द्रं युद्धसंरक्तं स्मितपू्वं वचस्तदा॥।।
Page 259
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ५ २५९
बृहस्पतिरुवाच प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् । संदिग्धेऽत्र जये कामं युध्यतश्र पराजये ।।८।। न तेऽर दूषणं किचिद्धवितव्ये शचीपते। सु ादि ा ुःखं विहितं च भविष्यति ।।९। न मया यत्परिज्ञातं भावि दुःखं सुखं तथा। यद्ार्याहरणे प्राप्तं पुरा वासय वेत्सि हि ॥१०॥ शशिना मे हृता भार्या मिश्रेणामित्रकर्शन। स्वाश्रमस्थेन संप्राप्तं दुःखं सर्वसुखापहम् ॥११॥ बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप। क्व मे गता तदा बुद्धिर्यदा भार्या हृता बलात्।। सस्मादुपायः कर्तव्यो बुद्धिर्माद्द्रि: सदा नरैः । कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ।१३।। व्यास उवाच तच्छ्रुत्वा वचनं सत्यं गुरोः सारधं शचीपतिः । ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥१४॥ पितामहं सुराध्यक्ष दैत्यो महिषसंज्ञकः। ग्रहीतुकामः स्वर्ग मे बलोद्योगं करोत्यलम् ॥१५॥ अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिता। योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥१६॥ तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः । सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥१७॥ ब्रह्मावाच गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम्। शंकरं पुरतः कृत्वा विष्णुं च बलिनां वरम्॥१८॥ ततो युद्धं प्रकर्तव्यं सर्वेः सुरगणैः सह। मिलित्वा मंत्रमाधाय देशं कालं विचित्य च ।१९। बलाबलमविज्ञातं विवेकमपहाय च। साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥२०॥ व्यास उवाच तन्निशम्य सहस्राक्षः कैलासं निर्जगाम है। ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥२१॥ तुष्टाव शङ्करं गत्वा वेदमंत्रमहेश्वरम्। प्रसन्नं परतः कृत्वा ययौ विष्णुपुरं प्रति ॥२२॥ स्तुत्वा तं देवदेवेशं कार्य प्रोवाच चात्मनः । महिषात्तद्गयं चोग्रं वरदानमदोद्धतात् ।२३।। तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच है। करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥२४॥ व्यास उवाच इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः । स्वानि स्वानि समारुद्य वाहनानि ययुः सुराः ॥२५॥ ब्रह्मा हंससमारूढो विष्णुर्गरुडवाहनः। शंकरो वृषभारूढो वृत्रहा गजसंस्थितः ॥२६॥ मयूरवाहनः स्कन्दो यमो महिषवाहनः । कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥२७॥ तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम्। तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥२८॥ वाणैः खड्गैस्तथा प्रासैर्मुसलंश्च परश्वधैः । गदाभिः पट्टिशैः शूलश्क्रैश्च शन्ितोमरैः ॥२९ हलश्रवातिदारुणः । अन्येश्च विविघैरस्त्रैनिजघ्नुस्ते परस्परम्॥३०॥
Page 260
श्रीमदेवीमागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ५ सेनानीशशरिक्षुरस्तस्य गजारूढो महाबलः । मघवंतं पञ्चभिस्तैः सायकैः समताडयत् ॥३१॥ तुराषाडपि ताश्छित्वा बाणैर्बाणास्त्वरान्वितः । हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥३२॥ बाणाहतस्तु सेनानी: प्राप मूर्च्छा गजोपरि। वरुणं वज्रघातेन स जघान करे ततः ॥३३॥। तद्वष्न्राभिहतो नागो भग्नः सैन्यं जगाम ह। दृष्टा तं दैत्यराट् त्रुद्वो विड़ालाख्यमथाब्रवीत्॥३४॥ गच्छ वीर महाबाहो जहींद्रं मदगर्वितम्। वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममांतिकम् ॥३५॥
व्यास उवाच तच्छ्रत्वा वचनं तस्य विडालाख्यो महाबलः । आरुह्य वारुणं मत्तं जगाम त्रिदशाधिपम् ॥३६। वासवस्तं समायान्तं दृष्टा क्रोधसमन्वितः । जघान विशिखैस्तीक्ष्णराशीविषसमप्रभैः॥३७॥ स तु छित्वा शरांस्तूणं स्वशरैश्चापनिःसृतैः । पञ्चाशन्द्िर्जधानाशु वासवं च शिलीमुखैः ॥३८॥ तथेंद्रोऽ्पि च तान्बाणांश्छित्वा कोपसमन्वितः । जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥३९॥ स तु च्छित्वा शरांस्तूरणं स्वशरैश्रापनिःसृतैः । गदया ताडयामास गजं तस्य करोपरि॥४०॥ स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः। परिवृत्य जधानाशु दैत्यसैन्यं भयातुरम्॥४१॥ दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् । समाविध्य रथे रम्ये जगामाशु सुरान् रणे ।४२।। तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् । अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ।।४३। सोऽपि क्रुद्धश्रकारोग्रां न्वाणवृष्टिं महाबलः । बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥४४॥ इन्द्रस्तु बलिनं दृष्टा कोपेनाकुलितेंद्रियः । जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥४५॥ जयन्तस्तु शितर्बाणस्तं जघान स्तनांतरे। पञ्चभिः प्रबलाकृष्टरसुरं मदगरवितम् ॥४६। स वाणाभिहतस्तावन्निपपात रथोरपि। अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ।४७।। तस्मिन्विनिर्गते दैत्ये विडालास्येऽथ मूर्छिते । जयशब्दो महानासीद्दुन्दुभीनां च निःस्वनः ४८।। सुराः प्रमुदिताः सर्वे तुष्टवुस्तं शचीपतिम् । जगुर्गंघर्वपतयो चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम्। प्रेषयामास तत्रव ताम्रं परमदापहम् ॥५०॥ ताम्रस्तु बहुभिः साधं समागत्य रणाजिरे। शरवृष्टिं चकाराशु तडित्वांनिव सागरे ॥५१॥ वरुणः पाशमुद्म्य जगाम त्वरितस्तदा। यमश्च महिषारूढो दंडमादाय नि्यंयौ ॥५२॥ तत्र युद्धमभूदोगं देवदानवयोरमिथः । बाणः सङ्गंश्न मुसलः शक्तिभिश्च परश्वधैः ॥५३॥ दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च/न चचाल महाबाहुः संग्रामांगणतस्तदा ।५४।। चापमाकृष्य वेगेन मुक्त्वा तीब्राञ्छिलीमुखान्। इन्द्रादीनहनत्तूणं ताम्रस्तस्मित्रणाजिरे ॥५५॥
Page 261
श्रीमरेवीमागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ६ २६१ रैपि देवाः शरै्दिव्यैनिशितैश्च शिलाशितैः। निजध्मुर्दानवान्क्ुद्धांस्तिष्ठ तिष्ठेति चुक्रुशुः ॥५६॥ निहतस्तैः सुरैदैत्यो मूर्च्छामाप रणांगणे। हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे।५७॥ इति श्रीदेवीभागवते पंचमस्कंधे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः॥५॥ अथ षष्ठोऽध्यायः व्यास उवाच वाम्रेऽथ मू्छिते दैत्ये महिषः क्रोधसंयुतः । समुद्म्य गदां गुर्वी देवानुपजगाम है।१॥ तिछवंत्वद्य सुराः सर्वे हन्म्यहं गदया किल। सर्वे बलिभुजः कामं बलहोनाः सदैव हि ॥२॥ इत्युकत्वाउसौ गजारूढं संप्राप्य मदावितः। जवान गदया तूर्ग बाहुमूले महाभुजः॥३॥ सोऽपि वज्ेण घोरेण चिच्छेदाशु गदां च ताम्। प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥४॥ हयारिरपि कोपेन खड्गमादाय सुप्रभम्। ययाविंद्रं महावोर्यं प्रहरिष्यन्निवांतिकम् ॥५॥ बभूव च तयोर्युद्धं नर्वलोकभयावहम्। आयुघैविविघैस्तत्र 2मुनिविस्मयकारकम् ॥६॥ चकाराशु तदा दैत्यो मायां मोहकरों किल। शांबरीं सर्वलोकघ्नीं मुनोनामपि मोहिनोम् ॥७।। कोटिशो महिषास्तत्र तद्रपास्तत्पराक्रमाः। ददृशुः सायुधाः सर्वे निघ्नंतो देववाहिनोम्॥८॥ मधवा विस्मितस्तत्र दृष्टा ता दैत्यनिर्मिताम्। बरभूवातिभयोद्विग्नो मायां मोहकरीं किल ।।९॥ गरुणोऽपि सुसंत्रस्तस्तथव धननायकः । यमो हुताशनः सूर्यः शोतरश्मिर्भयातुरः ॥१०॥ पलायनपरा: सर्वे बभूवुर्मोहिताः सुराः। ब्रह्मविष्णुमहेशानां स्मरणं चक्रुरुद्यताः ॥११॥ तत्राजग्मुश्र काजेशा: स्मृतमात्राः सुरोत्तमाः । हंसता्क्ष्यवृषारूढास्न्नातुकामा वरायुवाः ॥१२॥ शौरिस्तां मोहिनीं दृष्टा सुदर्शनमथोज्ज्वलम्। मुमोच तत्तेजसैव माया सा विलयं गता ।।१३।। बीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यंतकारिणः। योदुकामः समादाय परिघं समुपाद्रवत् ॥१४॥ महिषाख्यो महावीर: सेनानोश्चिक्षुरस्तथा। उग्रास्यश्चोग्रवीर्यश्च दुद्गुवुर्युद्धकामुकाः॥१५॥ असिलोमा त्रिनेत्रश्च वाष्कलांधक एव च । एते चान्ये च बहवो योद्ुकामा विनिर्ययुः ॥१६॥ सन्नद्वा धृतचापास्ते रथारूढा मदोद्वताः । परिवत्रुः सुरान्सर्वान्वृका इव सुवत्सकान ॥१७॥ बाणवृषि ततश्चऋरर्दानवा मदगर्विताः । सुराश्चापि तथा चक्रुः परस्परजिघांसवः ।१८।। अंबको हरिमासाद्य पञ्चवाणाञ्छिलाशितान्। मुमोच विषसंदिग्धान्कर्णाकृष्टान्महाबलान् ।१९।। । चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ।।२०।। तबो: परस्परं युद्धं बभूव हरिदैत्ययोः। बाणासिचक्रमुसलर्गदाशकिपरश्वघैः ।।२१। महेशांबकयोर्युदं तुमुलं : लोमहर्षणम्।पञ्चाशद्िनिपर्यंतं बभूव च परस्वरम् ।।२२॥
Page 262
२६२ श्रीम देवीमागवते महापुराणे पञ्चमस्कन्धे अध्यायः ६ इन्द्रबाष्कलयो तद्वन्महिषासुररुद्रयोः । यमत्रिनेत्र योस्तद्वन्महाहनुधनेशयो: ।।२ ३ ।। असिलोमावरुणयोर्युद्धं परमदारुणम्। गरुडं गदया दैत्यो जघान हरिवाहनम् ॥२४॥ स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठति। शौरिस्तं दक्षिणेनाशु हस्तेन परिसांत्वयन् ।।२५।। स्थिरं चकार देवेशो वैनतेयं महाबलम्। समाकृष्य धनुःशाङ्गं मुमोच विशिखान्बहून्॥२६॥ अंधकोपरि कोपेन हंतुकामो जनार्दनः । दानवोऽपि च तान्बाणांश्चिच्छेद स्वशरैःशितैः २७।। पञ्चाशन्द्रिहरि कोपाज्जधान च शिलाशितैः। वासुदेवोऽपि तांस्तूणं वंचयित्वा शरोत्तमान् ।२८।। चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम्। त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥२९॥ ननाद च महाराज देवान्संमोहयन्निव । दृष्टा तु विफलं जातं चक्र्कं देवस्य शां्गिणः ॥३०॥ अग्मु: शोकं सुराः सर्वे जहर्षुर्दानवास्तथा। वासुदेवोऽपि तरसा दृष्टा देवाञ्छुचाऽऽवृतान्॥३१॥ गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत्। तं जघानातिवेगेन मूध्नि मायाविनं हरिः ॥३२॥ स गदाऽभिहतो भूमौ निपपातातिमूर्च्छितः । तं तथा पतितं वीक्ष्य हयारिरतिकोपनः ॥३३॥ आजगाम रमानाथं त्रासयन्नतिगर्जितैः। वासुदेवोऽपि तं दृष्टा समायांतं क्रुधान्वितम् ॥३४॥ चापज्यानिनदं चोग्रं चकार नंदयन्सुरान्। शरवृष्टि चकाराशु भगवान्महिषोपरि ॥३५॥ सोऽपि चिच्छेद बाणोघैस्ताउछरा-गनेरितान् । तयोर्युद्धमभूद्राजन्परस्परभयावहम ।३६ ।। गदया ताडयामास केशवो मस्तकोपरि। स गदाभिहतो मूध्नि पपातोर्व्यां सुमूर्छितः ॥३७॥ हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः। स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः ॥३८॥ गृहीत्वा परिघं शीर्षे जघान मधुसूदनम्। परिघेणाहतस्तेन मूर्छामाप जनार्दनः॥३९॥ मूच्छितं तमुवाहाशु जगाम गरुडो रणात् । परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः ॥४०॥ भयं प्रापुः सुदुःखार्ताश्चुनुशुश्च रणाजिरे। कंदमानान्सुरान् वीक्ष्य शंकरः शूलभृत्तदा ॥४१।। महिषं तरसाऽ्भ्येत्य प्राहरद्रोषसंयुतः ! सोऽपि शक्तिमुमोचाथ शंकरस्योरसि स्फुटम् ४२॥। जगर्ज स च दुष्टात्मा वंचयित्वा त्रिशूलकम्। शंकरोऽपि तदा पीडां न प्रापोरसि ताडित: ४३॥ तं जघान त्रिशलेन कोपादरुणलोचनः । संलग्नं शंकरं दृष्टा महिषेण दुरात्मना॥४४।। आजगाम हरिस्तावत्त्यक्त्वा मूर्छां प्रहारजाम्। महिषस्तु तदा वीक्ष्य संप्राप्तौ हरिशंकरौ ।।४५।। युद्धकामौ महावीर्यो चक्रशूलधरी वरो। कोपयुक्तो बभूवासौ दृष्टा तौ समुपागती ॥४६॥ जगांम संमुखस्तावत्संग्रामार्थं महाभुजः । माहिषं वपुरांस्थाय धुन्वन्पुच्छं समुत्कटम् ॥४७॥ चकार भैरवं नादं त्रासयन्नमरानपि। धुन्वञ्छंगं महाकायो दारुणो जलदो यथा ।४८।। शृंगाभ्यां पार्वताञछृङ्गांशिचिक्षेप भृशमुत्कटान्। दृष्टा तो तु महावीर्यौ दानवं देवसत्तमौ ॥४९॥ चक्रंतुर्बाणवृष्टिं च दानवोपरि दारुणम् । कुर्वाणौ बाणवृष्टिं तौ दृष्टा हरिहरौ हरिः ॥५०।।
Page 263
श्रीमरेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: । २१३ विक्षेप गिरिश्रृंगं तु पुच्छेनावृत्य दारुणम् । आपतंतं गिरि वीक्ष्य भगवान्सात्वतां पतिः ॥५१॥ विशिखः शतधा चक्रे चक्रेणाशु जघान तम्। हरिचक्राहतः संख्ये मूर्च्छामाप स दैत्यराट् ।५२॥ उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः । गदापाणिर्महाघोरो दानवः पर्वतोपमः ॥५३॥ मेघनादं ननादोच्च र्भीषयन्नमरानपि। तच्छुत्वा भगवान्विष्णुः पांचजन्यं समुज्जवलम्५४॥ पूरयामास तरसा शब्दं कतुं खरस्वरम्। तेन शब्देन शंखस्य भयत्रस्ताश्च दानवाः । बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः ॥५५॥ इति श्रीमद्देवीभागवते महापुराणे पञ्चमस्कंधे षष्ठोऽध्यायः ॥६॥ मे अथ सप्तमोऽध्यायः व्यास उवाच असुरान्महिषो दृष्टा विषण्णमनसस्तदा। त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥१॥ कृत्वा नादं महाघोरं विस्तार्य च महासटाम्। पपात सुरसेनायां त्रासयन्नखदशनैः ।।२।। गरुडं च नखाघातैः कृत्वा रुधिरविप्लुतम्। जधान च भुजे विष्णुं नखाघातेन केसरी ॥३॥ वासुदेवोऽपि तं दृष्टा चक्रमुद्यम्य वेगवान् । हंतुकामो हरिः काममवापाशु क्रुधान्वितः ॥४॥ यावड्यरिपुं वेगाच्चक्ेणाभिजघान तम्। तावत्सोऽतिबल:शृङ्गो शृंगाभ्यां न्यहनद्धरिम् ५॥ वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः । पलायनपरो वेगाज्जगाम भुवनं निजम् ॥६॥ गतं दृष्टा हरिं कामं शंकरोऽषि भयान्वितः । अवध्यं तं परं मत्त्वा ययौ कैलासपर्वतम् ॥७॥ ब्रह्माडपि च निजं धाम त्वरितः प्रययो भयात् । मघवा वज्मालंब्य तस्थावाजौ महाबलः ॥८॥ वरुण: शक्तिमालंब्य धैर्यमालंब्य संस्थितः । यमोऽपि दंडमादाय यत्तः समरतत्परः ॥९॥ ततो यक्षाधिपः कामं बभूव रणतत्परः । पावकः शक्तिमादाय तत्राभद्युद्मानसः ॥१०॥ नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ। वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥११॥ एतस्मिन्नंतरे क्रुद्धं दैत्यसैन्यं समभ्यगात् । विसृजन्बाणजालानि क्रूराहिसदृशौनि च ॥१२॥ कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा। देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥१३॥ ज्याघातश्च तलाघातो मेघनादसमोऽभवत् । संग्रामे सुमहाघोरे देवदानवसेनयोः ॥१४॥ शृंगाभ्यां पार्वताञ्छृगांश्चिक्षेप च महाबलः । जघान सुरसंघांश्र दानवो मदगवितः॥१५॥ खुराघातैस्तथा देवान्पुच्छस्य भ्रामणेन च । स जघान रुषाविष्टो महिपः परमाद्ुतः ॥१६॥ ततो देवाः सगंधर्वा. भयमाज़ग्मुरुद्यताः । मघवा महिषं दृष्टा पलायनपरोभवत् ॥१७॥ संगरं संपरित्यज्य गते शक्रे शचीपतौ। यमो घनाधिपः पाशी जग्मुःसर्वे भयातुराः।।१८।
Page 264
२६० श्रीमद्देवीमागवते महापुराणे पञ्ममस्कन्धे अध्याय: ७ महिषोऽपि जयं मत्वा जगाम स्त्रगृहं ततः। ऐरावतं गजं प्राप्य त्यक्तमिंद्रेण गच्छता ॥१९॥ तथोच्चःश्रवसं भानोः कामधेनुं पयस्विनीम् । स्वसैन्यसंवृतस्तूणँ स्वर्ग गंतु मनो दधे ।।२०। तरसा देवसदनं गत्वा स महिषासुरः । जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥२१॥ इन्द्रासने तदा रम्ये दानवः समुपाविशत्। दानवान्स्थापयामास देवानां स्थानकेषु सः ॥२२॥ एवं वर्षशतं पूर्ण कृत्वा युद्धं सुदारुणम्। अवापैद्रपदं कामं दानवो मदगवितः ॥२३॥ निर्जरा निर्गता नाकात्तेन सर्वेडतिपोडिताः। एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥२४॥ आांताः सर्वे तदा राजन्व्रह्माणं शरणं ययुः। प्रजापति जगन्नाथं रजोरूपं चतुर्मुखम् ॥२५॥ पच्ासनं वेदगभं सेवितं मुनिभिः स्वजैः । मरीचिप्रमुखः शांतैर्वेदवेदाङ्गपारगैः ॥२६॥ किन्नरै: सिद्धगंधर्वेश्चारणोरगपन्नगैः । तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ।२७।। देवा ऊचु: घातः किमेतदखिलातिहरांबुजन्म जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत्। संपीडितात्रणजितानसुराधिपेन स्थान च्युतान्गिरिगुहाकृतसन्निवासान् ।।२८।। पुत्रम्पिता किमपराधशतैः समेतान्संत्यज्य लोभरहितः कुरुतेऽतिदुःस्थान्। यस्त्वं सुरांस्तव पदांबुजभक्तियुक्तान्दैत्यार्दितांश्र कृपणान् यदुपेक्षसेऽद्य ॥२९॥ अमरभुवनराज्यं तेन भुक्तं नितांतं मखहविरपि योग्यं ब्राह्मणराददाति। सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥३०॥ कि वा गृणीमः सुरकार्यमद्भुतं जानासि देवेश सुरारिचेष्टितम्। ज्ञानेन सर्व त्वमशेषकार्यवित्तस्मात्प्रभो ते प्रणताःस्म पादयोः ॥३१॥ यत्रापि कुत्रापि गतान्सुरानसौ नानाचरित्रः खलु पापमानसः । पीडां करोत्येव स दुष्टचेष्टितैस्त्राताऽसि देवेश विधेहि शं विभो ॥३२॥ नो चेट्वयं दावमहाग्निपीडिता: कं शांतिकर्तारमनंततेजसम्। याम: प्रजेशं शरणं सुरेष्टं धातारमाद्यं परिमुच्य क शिवम् ॥३३॥ इति स्तुत्वा सुराः सवें प्रणेमुस्तं प्रजापतिम्। बद्धांजलिपुटाः सर्वे विषण्णवदना भृशम् ॥३४॥ तांस्तथा पीडितान्दृष्टा तदा लोकपितामहः । उवाच श्लक्ष्णया वाचा सुखं संजनयन्निव॥३५॥ ब्रह्मोवाच किं करोमि सुराः कामं दानवो वरदर्पितः । स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र कि पुनः ॥३६॥ ब्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम्। शंकरं पुरतः कृत्वा सर्वकार्यविशारदम् ॥३७॥
Page 265
श्रीमद्ेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ७ २६५ सतो व्रजाम वैकुंठं यत्र देवो जनार्दनः । मिलित्वा देवकार्य च विमृशामो विशेषतः ॥३८। इत्युकत्या हंसमारुह्य ब्रह्मा कार्यसमुच्चये। देवांश्र पृष्ठतः कृत्वा कैंलासाभिमुखो ययौ ॥३९॥ ता्वच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् । आगच्छंतं सुरैः सार्धं निर्गतः स्वगृहाद्वहिः ॥४०॥ दृष्ट परस्परं तौ तु कृताभिवादनौ भृशम्। प्रणतो च सुरैः सर्वेः संतुष्टौ संबभूवतुः ॥४१॥ आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः । उपविष्टेषु तेष्वेव निषसादासने स्वके ॥४२॥ कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः । पप्रच्छ कारणं देवान्कलासागमने विभु: ॥४३॥ शिव उवाच किमत्रागमनं ब्रह्मन्कृतं- देवैः सवासवैः । भवता च महाभाग ब्रहि तत्कारणं किल ॥४४॥। ब्रह्मोवाच महिषेण सुरेशान पीडिताः स्वर्निवासिनः । भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः॥४५॥ यज्ञभुङ्महिषो जातस्तथाऽन्ये सुरशत्रवः । पीडिता लोकपालाश्र त्वामद्य शरणं गताः ॥४६॥ मया ते भवनं शंभो प्रापिताः कार्यगौरवात्। यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर।४७॥ त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन। न्यास उवाच इति तद्वचनं श्रुत्वा शंकरः प्रहसन्निदम् ॥४८॥ वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति। शिव उवाच भवतैव कृतं कार्य वरदानात्पुरा विभो॥४९॥ अनर्थदं च देवानां कि कर्तव्यमतः परम्। ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥५०॥ का समर्था वरा नारी तं हंतुं मददर्पितम्। न मे भार्या न ते भार्या संग्रामं गंतुमर्हति ॥५१।। गत्वैव ते महाभागे युयुधाते कथं पुनः । इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥५२॥ कान्या हंतुं सामर्थास्ति तं पापं मददर्पितम्। ममेदं मतमद्ैव गत्वा देवं जनार्दनम् ॥५३॥ स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् । सोऽतिबुद्धिमतां श्रेष्टो विष्णुः सर्वार्थसाधने ॥५४॥ मिलित्वा वासुदेवं वै कर्तव्यं कार्यचतनम्। प्रपञ्चेन च बुद्धया स संविधास्यति साधनम् ॥५५॥ व्यास उवाच इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः । उपत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥५६॥ स्वकीयैर्वाहनैः सर्वे ययुर्विष्णुपुरं प्रति। मुद्रिताञ्छकुनान्दृष्टा कार्यसिद्धिकराञछुभान्।५७।
Page 266
२६६ श्रीमदेवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: ८ वयुर्वाता: शुभा: शांताः सुगंधाः शुभशंसिनः । पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥५८॥ निर्मलं चाभवद्वयोम दिशश्च विमलास्तथा। गमने तत्र देवानां सवं शुभमिवाभवत् ।।५९।। इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे सप्तमोऽध्यायः॥७॥ अथ अष्टमोऽध्यायः
व्यास उवाच तरसा तेऽथ संप्राप्य वैकुंठं विष्णुवल्लभम् । ददृशुः सर्वशोभाढयं दिव्यगृहविराजितम् ॥१॥ सरोवापीसरिद्िश्च संयुतं सुखदं शुभम । हंससारसचक्राह्वः कूरजा्दिश्च विराजितम् ॥२॥ चंपकाशोक कह्ारमंदारवकुलावृतैः । मल्लिकातिलकाम्रातयुतः कुरबकादिभिः ॥३॥ कोकिला रावसन्नादैः शिखंडैर्नृत्यरञ्जितैः । भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युंतम् ।।४।। सुनंदनंदनाद्यैश्र पार्षदैर्भक्तितत्परैः । संस्तुवा्द्गिर्युत भक्तैरनन्यभववृत्तिभिः ॥५॥ प्रासादे रत्नखचितैः कांचमैश्चित्रमण्डितैः । अभ्रंलिहैविराजन्द्रि: गार्यन्दिर्देव गंधर्वैर्नृत्यद्द्िरप्स रोगणैः संयुतं शुभसद्मकः ॥६॥ । रञ्जितं किन्नरै: शश्वद्रक्तकंठैर्मनोहरैः ॥७॥ मुनिभिश्च तथा शान्तर्वेदपाठकृतादरैः । स्तुवद्धि: श्रुतिसूक्तश्च मंडितं सदनं हरेः ॥८॥ ते च विष्णुगृहं प्राप्य द्वारपालो शुभाकृती। वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥९॥ गत्वैकोऽप्युभयोर्मध्ये निवदयतु संगतान्। द्वारस्थान्ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥१०। व्यास उवाच विजयस्तद्वचः श्रुत्वा गत्वाज्थ विष्णुसन्निधौ। सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥११॥ विजय उवाच देवदेव महाराज रमाकांत सुरारिहन्। समाग : सुराः सत्रे द्वारि तिष्ठति वै विभो ॥१२॥ ब्रह्मा रुद्रस्तथेंद्रश्च वरुणः पावको यमः । स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥१३॥ व्यास उवाच तच्छ्रुत्वा वचनं विष्णुरविजयस्य रमापतिः । निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥१४॥ गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्क्रमकशितान् । प्रीतिप्रवणया दृष्टया प्रीणयामास दुःखितान् ।।१५।। प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् । तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥१६॥ देवा ऊचु: देवदेव जगन्नाथ सृष्टिस्थित्यंतकारक । दयांसिंधो महाराजत्राहि नः शरणागतान् ।१७।।
Page 267
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ८ २६७
विष्णुरुवाच विशंतु निर्जराः सर्वे कुशलं कथयंतु वः । आसनेषु किमर्थ वै मिलिताः समुपागताः ॥१८। चिंतातुराः कथं जाता विषण्णा दीनमानसाः । ब्रह्मरुद्रेण सहिताः कार्य प्रब्रूत सत्वरम् ॥१९॥ दवा ऊचुः महिषेण महाराज पीडिताः पापकमणा। असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥२०॥ यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् । अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥२१। वरदानेन धातुः स दुर्जयो मधुसूदन। तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ समर्थोऽसि समुद्धतुं दैत्यमायाविशारद। कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥२३॥ धात्रा तस्मैवरो दत्तो ह्यवघ्योऽसि नरैः किल। का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे २४॥ उमा मावा शची विद्या का समर्थाऽस्य घातने। महिषस्यातिदुष्टस्य वरदानबलादपि ॥२५॥ विचिन्त्य बुद्धया यत्सवं मरणस्यास्य कारणम् । कुरु कार्य च देवानां भक्तवत्सल भूधर ॥२६॥ व्यास उवाच श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव । युद्धं कृतंपुराऽस्माभिस्तथापि न मृतो ह्यसौ ॥२७॥ अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा । उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ।।२८।। हयारिं वरदृप्तं च मायाशतविशारदम्। हंतुं योग्या भवेन्नारी सक्त्यंशैनिर्मिता हि नः ॥२९॥ प्रार्थयंतु च तेजोंशान्स्नियोऽस्माकं तथा पुनः । उत्पन्नस्तश्च तेजोंशैस्तेजोराशिर्भवेद्यथा ॥३० आयुर्धानि वयं दद्यः सर्वे रुद्रपुरोगमाः । तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च । सर्वायुधधरा नारी सर्वतेज:समन्विता। हनिष्यति दुरात्मानं तं पापं मदगरवितम् ॥३२।। व्यास उवाच इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः । स्वयमेवोद्वभौ तेजोराशिश्चातीव दुःसहः ॥३३॥ रक्तवणं शुभाकारं पद्मरागमणिप्रभम् । किचिच्छीतंतथाचोष्णं मरीचिजालमंडितम् ॥३४॥ निःसृतं हरिणा दृष्ट हरेण च महात्मना। विस्मितौ तौ महाराज बभूवनुरुरुक्रमो॥३५॥ शंकरस्य शरीरात्तु निःसृनं महदद्भतम्। रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥३६।। भयंकरं च दैत्यानां देवानां विस्मयप्रदम्। घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥३७॥ ततो विष्णुशरीरात्तु तेजोराशिभिवापरम्। नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥३८॥ ततश्चेंद्रशरीरात्तु चित्ररूपं दुरासदम्। आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥३९॥ कुबेरयमवह्नीनां शरीरेभ्यः समंततः । निश्चकाम महत्तेजो वरुणस्य तर्थव च ॥४०॥ अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम्। निर्गतं तन्महत्तेजो राशिरासीन्महोज्ज्वलः।४१।।
Page 268
२६८ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ८ तं दृष्टा विस्मिताः सर्वे देवा विष्णुपुरोगमाः । तेजोराशि महादिव्यं हिमाचलमिवापरम् ॥४२॥ पश्यतां तत्र देवानां तेजःपुअसमुद्दवा। बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥४३॥ त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा। अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥४४॥ श्वेतानना कृष्णनेत्रा संरकाधरपल्लवा। ताम्रपाणितला कांता दिव्यभूषणभूषिता।।४५। अष्टादशभुजा देवी सहस्रभुजमंडिता। संभूताऽसुरनाशाय तेजोराशिसमुद्वा ॥४६।। जनमेजय उवाच कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम। विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्द्रवम् ॥४७॥ एकीभूतं च सर्वेषां तेज: किं वा पृथविस्थितम् । अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥४८।। भिन्नभागविभागेन जातान्यंगानि यानि तु। मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ।४९।। ब्रूहि तद्विस्तरं व्यास शरीराङ्गंसमुद्गवम्। बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥५०॥ आयुधाभरणादीनि दत्तानि यैर्यथा यथा। सत्सवं श्रोतुकामोऽस्मि त्वन्मुखांबुजनिर्गतम् ॥५१॥ न हि तृप्याम्यहं ब्रह्मन्सुधामयरसं पिबन्। चरितं च महालक्ष्म्यास्त्वन्मुखांभोजनिःसृतम् ॥५२॥ सूत उवाच इति तस्य वच: श्रुत्वा राज्ञः सत्यवतीसुत। उवाच मधुरं वाक्यं प्रीणयन्निव भूषितम् ॥५३॥ व्यास उवाच शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते। यथामति कुरुश्रेष्ठ तस्या देहसमुङ्गवम् ॥५४॥ न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः। याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥५५॥ कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः । वाचारंभणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥५६।। सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये। नानारूपा त्वेकरूपा जायते कार्यगौरवात् ।५७॥ यथा नटो रंगगतो नानारूपो भवत्यसौ। एकरूपस्वभावोऽपि लोकरंजनहेतवे ।।५८।। तथषा देवकार्यार्थमरूपाऽपि स्वलीलया। करोति बहुरूपाणि निर्गुणा सगुणानि च ॥५९॥ कार्यकर्मानुसारेण नामानि प्रवदंति हि। धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥६०॥ तदे बुद्धयनुसारेण प्रब्रवीमि नराधिप। यथा तेजःसमुद्भूतं रुपं तस्या मनोहरम् ॥६१॥ शंकरस्य च यत्तेजस्तेन तन्मुखपंकजम्। श्वेतव्ण शुभाकारमजायत महत्तरम् ॥६२॥ केशास्तस्यास्तथास्निग्धायाम्येनतेजसाऽभवन् । वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥६३॥ नयनत्रितयं तस्या जज्ञे पावकतेजसा। कृष्णं रक्तं तथा शव्रेतं वर्णत्रयविभूषितम् ॥६४॥ चक्रे स्निग्धे कृष्णवर्णे संध्ययोस्तेजसा भ्रुवौ। जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ।६५॥ वायोश्र तेजसा शस्तो श्रवणो संबभूवतुः । नाति दीर्घो नातिह्रस्व्रौ दोलाविव मनोभुबः॥६६॥
Page 269
श्रीमद्देवीभागवते महापुराणे पंचमस्कन्धे अध्याय: ९ २६९ तिलपुष्पसमाकारा नासिका सुमनोहरा। संजाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥६७॥ दंताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः। संजाताः सुप्रभा राजन्प्राजापत्येन तेजसा ॥६८॥ अधरश्चातिरक्तोऽस्याः संजातोऽरुणतेजसा। उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥६९॥ अष्टादशभुजाकारा बाहवो विष्णुतेजसा । वसूनां तेजसांगुल्यो रक्तवर्णास्तथाऽभवन् ॥७०॥। सोम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् । ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिबलिसंयुतम् ॥७१॥। जंघोरू वरुणस्याथ तेजसा संबभूवतुः । नितंबः स तु संजातो विपुलस्तेजसा भुवः ॥७२॥ एवं नारी शुभाकारा सरूपा सुस्वरा भृशम् । समुत्पन्ना तथा राजंस्तेजोराशिसमुद्द्वा ।७३॥ तां दृष्टा सुष्ठु सर्वांगीं सुदतीं चारुलोचनाम्। मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥७४॥ विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च । प्रयच्छंतु शुभान्यस्यै देवाः सर्वाणि सांप्रतम् ॥७५॥ स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः । समर्पयंतु सर्वेडद्य देव्यै नानायुधानि वै ॥७६॥ इति श्रीदेवीभागवते महापुराणे पंचमस्कन्धे देव्याः स्वरूपोन्जवो नामाष्टमोऽध्यायः॥८॥ अथ नवमोऽध्यायः
व्यास उवाच देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा । ददुश्र भूषणान्याशु वस्त्राणि स्वायुधानि च ॥१॥ क्षीरोदश्चांबरे दिव्ये रक्ते सूक्ष्मे तथाऽजरे। निर्मलं च तथा हारं प्रीतस्तस्यै सुमंडितम् ॥२॥ ददौ चूड़ामणि दिव्यं सूर्यकोटिसमप्रभम्। कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥३॥ केयूरान्कंकणान्दिव्यान्नानारत्नविराजितान् । ददौ तस्यै विश्वकर्मा प्रसन्नेंद्रियमानसः ॥४॥ नूपू रौ सुस्वरौ कांतौ निर्मलो रत्नभूपितौ। ददौ सूर्यप्रतीकाशी त्वष्टा तस्य सुपादयोः ॥५॥ तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः । अंगुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥६॥ अम्लानपंकजां मालां गंधाढ्यां भ्रमरानुगाम् । तर्थव वैजयन्तीं च वरुणः संप्रयच्छत ॥७॥ हिमवानथ संतुष्टो रत्नानि विविधानि च। ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥८॥ भूषणैरभूपिता दिव्यैः सा रराज वरा शुभा। सिंहारूढा वरारोहा सर्वलक्षणसंयुता ।।९।। विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथांगकम् । सहस्रारं सुदीप्तं च देवारिशिरसां हरम् ॥१॥ स्वत्निशृलात्समुत्पाद्य शंकरः शूलमुत्तमम्। ददो देव्यै सुरारीणां कृंतनं भयनाशनम् ॥ १ १ ॥ वरुणश्च प्रसन्नात्मा ददौ शंखं समुज्ज्वलम्। घोषवंतं स्वशंखात्तु समुत्पाद्य सुमंगलम् ॥१२॥ हुताशनस्तथा शक्ति शतघ्नीं सुमनोजवाम्। प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ।१३।।
Page 270
२७० श्रीमद्देवीमागवते महापुराणे पंचमस्कन्धे अध्याय: ९ इषुर्षि बाणपूर्ण च चापं चाद्दुतदर्शनम्। मारुतो दत्तवांस्तस्य दुराकर्ष खरस्वरम् ॥१४॥ स्ववष्ताद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम्। घंटामैरावतात्तूणं सुशन्दां चातिसुन्दराम्।।१५।। ददौ दंडं यम: कामं कालदंडसमु्द्रवम्। येनांतं सर्वभूतानामकरोत्काल आगते ॥१६॥ ब्रह्मा कमंडलुं दिव्यं गंगावारिप्रपूरितम् । ददावस्य मुदायुक्तो वरुणः पाशमेव च ।१७॥ काल: खड्गं तथा चर्म प्रायच्छत्तु नराधिप। परशुं विश्वकर्मा च तीक्ष्णमस्य ददावथ ।१८।। धनदस्तु सुरापूणं पानपात्रं सुवर्णजम्। पंकजं वरुणश्चादाहेव्य दिव्यं मनोहरम् ।१९॥ गदां कौमोदकीं त्वष्टा घंटाशतनिनादिनीम् । अदात्तस्य प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥२०॥ अस्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम्। ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥२१॥ सायुधां भूषणर्युक्तां दृष्टा ते विस्मयं गताः । तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनों शिवाम् ॥२२॥ देवा ऊचुः नमः शिवाय कल्याण्य शांत्य पुष्टय नमोनमः । भगवत्य नमो देव्यै रुद्राण्य सततं नमः ॥२३॥ कालरात्र्यै तथांबायै इंद्राण्य ते नमोनमः । सिद्धथै बुद्धयै तथा वृद्धर्थ वैष्णव्य ते नमोनमः ॥२४॥ पृर्थिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवी च या। अन्तःस्थिता यमयति वंदे तामीश्वरीं पराम् ।२५॥ मायायां या स्थिता ज्ञाता मायया न च तामजाम्। अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥२६॥ कल्याणं कुरु भो मातस्राहि नः शत्रुतापितान् । जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥२७॥ खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् । दुःखदं सर्वदेवानां नानारूपधरं शठम् ॥२८॥ त्वमेका सर्वदेवानां शरणं भक्तवत्सले। पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ।२९॥ व्यास उवाच एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा । तानुवाच महादेवी स्मितपूर्व शुभं वचः ॥३०॥ देव्युवाच भयं त्यजंतु 'गीर्वाणा महिषान्मन्दचेतसः । हनिष्यामि रणेडद्यव वरदृप्तं विमोहितम्॥३१॥ व्यास उवाच इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् । चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥३२।। ब्रह्मविष्णुमहेशाद्याः सेंद्राश्रान्ये सुरास्तथा। कंपयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥३३॥ महो दैवबलं घोरं दृर्जयं सुरसत्तमाः । काल: कर्ताऽस्ति दुःखानां सुखानां प्रभुरीश्वरः ३४॥
Page 271
श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ९ २७१ सृष्टिपालनसंहारे समर्था अपि ते यदा। मुह्यंति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥३५॥ इति कृत्वा स्मितं देवी साऽट्ृहासं चकार ह। उच्चेः शब्दं महाघोरं दानवानां भयप्रदम् ॥३६॥ चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्दुतम्। चेलुश्र पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥३७॥। मेरुश्रचाल शब्देन दिशः सर्वाः प्रपूरिताः । भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ।३८।। जय पाहीति देवास्तामूचुः परमहर्षिताः । महिषोऽपि स्वनं श्रुत्वा चुकोप मदगवितः ॥३९॥ किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशंकितः । गच्छंतु त्वरिता दूता ज्ञातुं शब्दसमुद्धवम् ॥४०॥ कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः। देवो वा दानवो वाऽपि यो भवेत्स्वनकारकः ॥४१॥ गृहीत्वा तं दुरात्मानं मत्समीपं नयंत्विह। हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥४२॥ क्षीणायुष्यं मन्दमतति नयामि यमसादनम् । पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥४३॥ नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् । त्वरिता मामुपायांतु ज्ञात्वा शब्दस्य कारणम् ॥४४। अहं गत्वा हनिष्यामि तं पापं वितयश्रमम् । व्यास उवाच इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ।४५॥। अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् । स्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥४६॥ दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु। संवीक्ष्य भयभीतास्ते जग्मुस्तस्ताः सुशंकिताः॥४७॥ सक़ाशं महिषस्याशु तमूचुः स्वनकारणम्। दूता ऊचु: देवी दैत्येश्वर प्रौढा दृश्यते काचिदंगना ।।४८।। सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता। न मानुषी नासुरी सा दिव्यरूपा मनोहरा।४९।। सिंहारू ढाऽडयुधधरा चाष्टादशकरा वरा। सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥५०॥ सुरापानरता कामं जानीमो न सभर्तृका ।अन्तरिक्षस्थिता देवास्तां स्तुवंति मुदान्विताः ॥५१॥ जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो। न जाने का वरारोहा कस्य वा सा परिग्रहः ॥५२॥ किमर्थमागता चात्र कि चिकीर्पति सुन्दरी। द्रष्ट नैव समर्थाःस्म तत्तेज:परिधर्षिताः ॥५३॥ शृंगारवी रहासाढ्या रौद्राद्दुतरसान्विता। दृष्ववंविधां नारीमसम्भाष्य समागताः ॥५४॥ वयं त्वदाज्ञया राजन्कि कर्तव्यमतः परम्। महिष उवाच गच्छ वीर मयादिष्टो मंत्रिश्रेष्ठ बलान्वितः ।५५।।
Page 272
२७२ श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १० सामादिभिरुपायैस्त्वं समानय शुभाननाम्। नायाति यदि सा नारी त्रिभि: सामादिभिस्त्विह ।५६।। अहत्वा तां वरारोहां त्वमानय ममान्तिकम् । करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥५७॥ प्रीतियुक्ता समायाति यदा सा मृगलोचना । रसभंगो यथा न स्यात्तथा कुरु ममेप्सितम् ॥५८॥ श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा। व्यास उवाच महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥५९॥ जगाम तरसा कामं गजाश्वरथसंयुतः । गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥६०॥ विनयावनतः इलक्ष्णं मन्त्री मधुरया गिरा। प्रधान उवाच कांसि त्वं मधुरालापे किमत्रागमनं कृतम् ॥६१॥ पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः । स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥६२॥ ब्रह्मणो वरदानेन गर्वितश्चारुलोचने। दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥६३॥ श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् । प्रष्टुमिच्छति राजा मे महिषो नाम पार्यिवः ॥६४।। मानुषं रूपमादाय त्वत्समीपं समेष्यति। यथा रुच्येत चार्वङ्गि तथा मन्यामहे बयम्॥६५॥ तह्येहि मृगशावाक्षि समीपं तस्य धीमतः। नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥६६॥ तथा करोमि देवेशि यथा ते मनसेप्सितम्। वगगोऽसौ तवात्यर्थ रूपसंश्रवणात्तव ॥६७।। .. करभोरु वदाशु त्वं संविधेयं मया तथा ॥६८॥ इति श्रीदेवीभागवते महापुराणे देवीमाहात्म्ये नवमोऽध्यायः ॥ ९॥ अथ दशमोऽध्यायः व्यास उवाच इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा। तमुवाच महाराज मेघगम्भीरया गिरा॥१॥ देवयुवाच मन्त्रिवर्य सुराणां वै जननी विद्धि मां किल। महालक्ष्मीमिति ख्यातां सर्वदैत्यनिपूदिनीम् ॥२॥ प्रार्थिताऽहं सुरैः सर्वैर्महिषस्य वधाय च। पोडितैद्रनवेन्द्रेण यज्ञभागबहिष्कृतैः ॥३॥ तस्मादिहागताऽस्म्यद्य तद्वधार्थं कृतोदयमा। एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥४॥ यत्त्वयाऽहं सामपूर्व कृत्वा स्वागतमादरात्। उक्त्ता मधुरया वाचा तेन तुष्टाऽस्मि तेऽनघ ॥५॥
Page 273
१८ श्रीमद्ेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १० २०१ नोचेदन्मि दृगा त्वां वे कालाग्निसमया किल। कस्य प्रीतिकरं न स्यान्माधुर्यवंचनं खलु ।।६।। गच्छ तं महिषं पापं वद मद्चनादिदम् । गच्छ पातालमधुना जोवितेच्छा यदस्ति ते ॥७ नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे। मद्राणक्षुण्णदेहस्त्वं गंताऽसि यमसादनम् ।।८।। दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम्। हते त्वयि सुरा मूढ स्वर्ग प्राप्स्यंति सत्वरम् ।९॥ तस्माद्गच्छस्व त्यक्त्वैको मेदिनीं च ससागराम् । पातालं तरना मंद यावद्वाणा न मेऽपतन् ॥१०॥ युद्वेच्छा चेन्मनसि ते तह्येंहि त्वरितोऽसुर। वीरैर्महाबलैः सर्वेर्नयामि यमसादनम् ॥११॥ युगे युगे महामूढ हतास्त्वत्सदृशाः किल। असंख्यातास्तथा त्वां वै हनिष्यामि रणांगणे ।।१२।। साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा। तद्युद्धयस्व मया सार्ध समरे स्मरपोडितः ॥१३॥ मागवं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः । स्त्रोवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥१४॥ कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता। स्त्रीरूपमतुलं कृत्वा सत्यं हंतुं कृतागसम् ॥१५॥ यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् । हित्वा भूसुरसद्ाद्य जीवितेच्छा यदस्ति ते ॥१६॥ व्यास उत्ाच इत्युक्त: स ततो देव्या मंत्रिश्रेष्टो बलान्वितः । प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥१७॥ देवि स्त्रीसदृशं वाक्यं ब्रपेवं मदगर्विता। क्वासोक्त त्वंक्थयुद्धमसंभाव्यमिद किल ॥१८।। एकाकिनी पुनर्वाला प्रारब्धयौवना मृदुः। महिषोऽसौ महाकायो दुवविभाव्यं हि संगरम् ॥४९॥ सैन्यं वहुविधं तस्य हस्त्यश्वरथसकुलम्। पदातिगणसंविद्धं नानागधविराजितम् ॥२०॥ कः श्रमः वरराजस्य मालनीपुष्पमर्दने। मारणे तब वामोरु महिपस्य तथा रणे ॥२१॥ यदि त्वां परुष वाक्यं ब्रवीमि स्वल्पमप्यहम। शृंगारे तद्विरुद्वं हि रसभङ्गाद्विभेम्यहम् ॥२२॥ राजाऽस्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् । साममेव मया वाच्यं दानयुक्तं तथा वच: ॥२३॥ नोचेद्धन्म्यहमद्यैव वाणेन त्वां मृषावदाम् । मिथ्याऽभिमानचतुरां रूपयोवनगर्विताम् ॥२४॥ स्वामी मे मोहितः श्रुत्वा रूप ते भुवनातिगम्। तत्प्रियार्थ प्रियं कामं वक्तव्यं त्वयि यन्मया ॥२॥ राज्यं तब जनं सर्वं दासस्ते भहिषः किल। कुरु भावं विशालाक्षि त्यकत्वा रोषं मृतिप्रदम् ।। पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि । पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥२७॥ श्रैलोक्यविभवं सरवं प्राप्स्यसि त्वमनाविलम् । सुखं संसारजं सर्व महिपस्य परिग्रहात् ।२८।। देव्युवाच शृणु मन्त्रिन्प्रवक्ष्यामि वाक्यानां सारमुत्तमम् । शास्त्रदूप्टेन मार्गेण चातुर्यमनुचित्य च॥२०॥ महिषस्य प्रधानसत्वं मया ज्ञातं धिया किल । पशुबुंद्धिस्वभावोडसि वचनात्तव सांप्रतम् ॥३०॥
Page 274
२७४ श्रीमदेवीभागवते महापुराण पञ्चमस्कन्धे अध्याय: १० मंत्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् । उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥३१॥ यदुकं स्त्रीस्वभावाडसि तद्विचारय मूढ किम्। पुमान्नाहं तत्स्वभावाऽभवं स्त्रीवेषधारिणी ॥३२॥ यावितं मरणं पूर्वं स्ति्रिया त्वत्प्रभुणा यथा। तस्मान्मन्येऽतिमूर्खोऽसो न वीररसवित्तमः ॥३३॥ कामिन्या मरणं क्लीबरतिदं शूरदुःखदम्। प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥३४॥ तस्मात्स्ीरूपमाधाय कायं कर्तुमपागता। कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥३५॥ विपरीतं यदा दैवं तृणं वज्ररसमं भवेत् । विघिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥३६। कि सैन्यैरायुधैः कि वा प्रपञ्चैर्दुगसेवनैः । मरणं सांप्रतं यस्य तस्य सैन्यैस्तु कि फलम् ॥३७॥ यदाऽयं देहसंबंधो जीवस्य कालयोगतः । तदेव लिखितं सर्व सुखं दुःखं तथा मृनिः ॥३८। यस्य येन प्रकारेण मरणं दैवनिर्मितम् । तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥३९॥ ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिमिते। तर्थव भवतः कामं किमन्येषां विचार्यते ॥४०॥ ये मृत्यधर्मिणस्तेपां वग्दानेन दर्पिताः । मरिष्यामो न मन्यंते ते मुढा मंदचेतसः ॥४१॥ तस्माद्रच्छ नृपं ब्रूहि वचनं मम सत्वरम्। यदाज्ञापयते भुपस्तत्कर्तव्यं त्वया किल ॥४२॥ मघवा स्वर्गमाप्नोतु देवाः संतु हविर्भजः । यूयं प्रयात पातालं यदि जीवितुमिच्छय ।४३।। अन्यथा चेन्मतिमंद महिपस्य दुरात्मनः । तद्यध्यस्व मया सार्ध मरणाय कृनादरः ॥४४॥ मन्यसे संगरे भग्ना देवा विष्णपुरोगमाः । दैवं हि कारणं तत्र वरदानं प्रजापनेः।४५॥ व्यास उवाच इति देव्या वचः श्रुत्वा चिंतयामास दानवः । कि कर्तव्यं भया युद्धं गंतव्यं वा नृपं प्रति ॥४६॥ विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै। तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधो॥४७॥ इयं बुद्धिः समीचीना यद्व्रजामि काल विना। यथाऽडगतं तथा शोत्रं राजे संवेदयाम्यहम् ॥४८॥ स प्रमाणं पुनः कार्ये राजा मतिमतां बरः । करिष्यति विचार्येव सचिवैर्निषृर्णः सह ॥४९॥ सहमा न मया युद्धं कर्नव्यमनया सह। जये पराजये वाषि भूपतेरप्रिय भवेन् ॥५०॥ यदि मा सुंदरी हन्यादहं वा हन्मि तां पुनः । यंन केनाष्युपायेन स कुष्येत्पार्यितः किल ॥५१॥ तस्मासत्रंव गत्वाऽहं बोधयष्यामि तं नृपम् । यथाऽद्याभिहितं देव्या यथारुचि करोत सः ॥५२॥ व्यास उवाच इति संचित्य मेधावी जगाम नृपसन्निधो। प्रणम्य तमुवाचेदं कृताजलिरसात्यकः ॥५०॥ मन्त्र्युवाच राजन्देवी वरारोहा सिंहस्योपरि संस्थिता । अष्टादशभुजा रम्या वरायुघघरा परा ॥५४॥ सा मयोक्ता महाराज महिषं भज भामिनि। महिषी भव राज्ञस्त्वं त्रैलौक्याघिपतेः प्रिया ॥५५॥
Page 275
श्रीमद्देवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: ११ २७५ पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः । स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥५६॥ त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने। महिषं पतिमासाद्य योषितां सुभगा भव ॥५७।। इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता। मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥५८॥ महिषीगर्भसंभूतं पशूनामधमं किल। बलिं दास्याम्यहं दैव्यै सुराणां हितकाम्यया ॥५९॥ का मूढा कामिनी लोके महिषं वै पति भजेत्। मादृशी मंदबुद्धे कि पशुभावं भजेदिह ॥६०॥ महिषी महिषं नाथं सश्पृंगा शृंगसंयुतम्। कुरुते कंदमाना वै नाहं तत्सदृशी शठा ॥६१। करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् । गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥६२।। परुषं तु तथा वाक्यमित्युक्तं नृप मत्तया। तच्छ्रुत्वाऽहं समायातः प्रविचित्य पुनः पुनः ॥६३॥ रसभंगं विचित्यैव न युद्धं तु मया कृतम्। आज्ञां बिना तवात्यंतं कथं कुर्यां वृथोद्यमम् ॥६४॥ साऽतीव च बलोन्मत्ता वर्तते भूप भामिनी। भवितव्यं न जानामि कि वा भावि भविष्यति ॥ कार्येऽस्मिस्त्वं प्रमाणं नो मंत्रोऽतीव दुरासदः । युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥६६॥ इति श्रीदेवीभागवते महापुराणे पंचमस्कन्धे दशमोऽध्यायः ॥१०॥ अथ एकादशोऽध्यायः व्यास उवाच इति तस्य वच: श्रुत्वा महिषो मदविह्वलः । मंत्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥१॥ कार्यडस्मिन्निपुणा यूयमुपार्येषु विचक्षणाः । सामादिषु च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् ॥२॥ आगता देवविहिता मायेयं शांबरीव किम्। सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवंतु च ॥३। भन्त्रिण ऊचु: सत्यं सदैव वक्तव्यं प्रियं च नृपसत्तम। कार्य हितकर नूनं विचार्य विबुधैः किल॥४॥ सत्यं च हितकृद्राजन्प्रियं चाहितकृद्धवेत्। यर्थौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥५॥ सत्यस्य श्रोता मंता च दुर्लभः पृथिवोपते। वक्ताऽपि दुर्लभः कामं बहवश्चाट्भाषकाः ॥६॥ कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह। शुभं वाउप्यशुभ वाउि को वेत्ति भुवनत्रये ।७।। राजोवाच स्वस्वनत्यनुसारेण न्नवंत्वद्धा पृथक्पृथक्। येपां हि यादृशो भावस्तच्छ्रत्वा चिन्तयाम्यहम् ॥ बहूनां मतमाज्ञाय विचार्य च पुनः पुनः । यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥९॥ व्यास उवाच तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः । उवाच तरसा वाक्यं रंजयन्पृथिवीपतिम् ॥१०॥
Page 276
२७६ श्रीमदेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: ११ विरूपाक्ष उवाच राजभारी वराकीयं सा ब्रते मदगर्विता। विभीषकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥११॥ को बिभेति स्त्रियो वाक्यैर्दुरुक्, रणदुर्मदैः । अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥१२॥ जित्वा त्रिभुवनं राजन्नद्य कांताभयेन वै। दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ।१३।। तस्माद्याम्यहमेकाकी युद्धाय चंडिकां प्रति। हनिप्ये ता महाराज निर्भयो भव सांप्रतम् ॥१४।। सेनावृतोऽहं गत्वा ता शस्त्रास्त्रीविविधः किल। निपदयामि दुर्मर्षां चंडडिकां चंडविक्रमाम् ॥१५॥ बद्ध्वा सर्पमयैः पाशगनयिष्ये तवांतिकम्। वशगा तु सदा ते स्यात्पश्य राजन्वलं मम ॥१६॥ व्यास उवाच विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमव्रवीत् । सत्यमुक्तं वचो राजन्विरूपाक्षेण धामता ॥१७॥। ममापि वचनं इलक्षणं श्रोतव्यं घीमता ्वया। कामातुरपा सुदती लक्ष्यतेऽप्यनुमानतः ॥१८।। भवत्येवंविधा कामं नायिका रूपगर्विता। भीर्षायत्वा वराराहा त्वां वशेकर्तुमिर्च्छति ॥१९॥ हावोऽयं मानिनीना व तं वेत्ति रसवित्तमः । वक्रोकिरेपा कामिन्याः प्रियं प्र.तपरायणम् ॥२०॥ वेति कोऽपि नरः काम कामशास्त्रविचक्षणः । यद् नाम बार्णसत्वां वधिष्ये रणमूर्धनि ॥२१॥ हेतुगर्भमिद वाक्यं ज्ातव्यं हेतुवित्तमैः । बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥२२॥ पुष्पांजलिमयाश्रान्ये व्यंग्यानि वचनानि च। का शक्तरन्यवाणानां प्रेरणे त्वयि पार्थिव ।।२३।। वादृशीनां न सा शाक्तितंह्यविप्णुहरादिपु। यथोकं, नेत्रवार्णेस्त्वां हनिष्ये मन्द पार्यिवम् ॥२४॥ विपरीतं परिज्ञातं तेनारसविदा किल। पातयिप्यामि शय्यायां रणमय्यां प्तति तव ।२५॥ विपरीतरतिक्रीडाभाषणं ज्ञेयमेव नत्। करिप्ये विगनप्राणं यटुक्तं वचनं तया ॥२६॥ वीयं प्राणा इति प्रोक्त तद्विहीनं न चान्यथा। व्यंग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ।२७।। सुद्रे विचारती ज्ञेयं रसग्रन्थविचक्षणः । इनि ज्ञात्वा महागज कर्तव्यं रससंयुतम् ॥२८। सामदानद्वयं तस्या नान्योपायोडस्ति भृपते। रुष्टावा गर्विता वाउपि वशगा मानिनी भवेत् ॥२९॥ तादृशरमधुरैर्वाक्यैरानयिष्ये तवान्तिकम् । किं बहक्ेन मे राजन्कर्तव्या वशवर्तिनी ॥३०॥ गत्वा मयाऽधुनंवेयं किंकरीव सदैव ते। व्यास उवाच इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः ।३१।। उवाच वचनं राजन्निशामय मयोदितम्। हेतुमद्धर्मसहितं रमयुक्नं नवान्वितम् ॥३२॥ नेषा कामातुरा बाला नानुरक्ता विचक्षणा। व्यंग्यानि नैव वाक्यानि तयोकानि तु मानद ॥३३॥ चित्रमत्र महाबाहो यदेका वर्रानी। निरालंबा समायाति चित्ररूपा मनोहरा ॥३४॥
Page 277
श्रीमदेवीभागवते महापुराण पञ्चमस्कन्धे अध्वाय: ११ २७० अहादशभुजा नारी न श्रुता न च वीक्षिता। केनापि त्रिषु लोकेषु पराक्रमवती शुभा ।।३५॥। आायुधान्यपि तावंति धृतानि बलवंति च । विपरीतमिदं मन्ये सवं कालकृतं नृप।।३६।। स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि। तेन जानाम्यहं नूनं वैशसं समुपागतम्।३७॥ कृष्णांबरधरा नारी रुदती च गृहांगणे। दृष्टा स्वप्नेप्युषःकाले चिंतितव्यस्तदत्ययः ॥३८। विकृताः पक्षिणो रात्रौ रोरुवंति गृहे गृहे। उत्पाता विविधा राजन्प्रभवंति गृहे गृहे ॥३९॥ तेन जानाम्यहं नूनं कारणं किंचिदेव हि। यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया ॥४०॥ नैषाडस्ति मानुषी नो वा गांधर्वी न तथासुरी। देवंः कृतेयं ज्ञातव्या मायामोहकरो विभो ॥४१॥ कातरत्वं न कर्तव्यं ममतन्मतमित्यलम्। कर्तत्र्यं सर्वथा युद्धं यद्भाव्यं तद्विष्यति ॥४२।। को वेद दैवकर्तव्यं शुभं वाऽप्यशुभं तथा। अवलंब्य घिया धैर्यं स्थातव्यं वै विचक्षणैः ॥४३।। जीवितं मरणं पुंसा दैवाधीनं नराधिप। कोऽपि नैवान्यथा कतुँ समर्थों भुवनत्रये ।४४।। महिष उवाच गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः । तामानय वरारोहां जित्वा धर्मेण मानिनीम्॥४५॥ न भवेद्वशगा नारी संग्रामे यदि सा तव । हंतव्या नान्यथा कामं माननीया प्रयत्नतः॥४६।। बीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः । येन केनाप्युपायेन जेतव्या वरवणिनो ॥४७।। त्वरन् वीर महाबाहो सैन्येन महता वृतः। तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः ॥४८। किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम्। कामाद्वा वरभावाच्च माया कस्येयमित्युत ।।४९।। आदो तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीपितम् । पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम् ॥५०॥ कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च। यादृशं हि मनस्तस्याः कर्तव्यं तादशं त्वया ॥५१॥
इति त्भाषितं श्रुत्वा ताम्र: कालवशं गतः। निर्गतः सैन्यसंयुक्त: प्रणम्य महिषं नपम् ॥५२॥ व्यास उबाच
गच्छन्मार्गे दुरात्माडसौ शकुनान्वीक्ष्य दारुणान्। विस्मयं च भयं प्राप यममार्गप्रदर्शकान् ।५३॥ स गत्वा तां समालोक्य देवीं सिंहोपरि स्थिताम्। स्तूयमानां सुरैः सर्वेः सर्वायुधविभूषिताम् ॥५४॥ तामुवाच विनीतः सन् वाक्यं मधुरया गिरा। सामभावं समाश्रित्य विनयावनतः स्थितः ॥५५॥ देवि दैत्येश्वरः शृंगी त्वद्रपगुणमोहितः । स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च ॥५६॥ भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये। पर्ति तं प्राप्य मृदृंगि नंदने विहराद्ुते ।५७॥ सर्वांगसुन्दरं देहं प्राप्य सर्वसुखास्पदम् । सुखं सर्वात्मना ग्राह्यं दुःखं हयमिति स्थितिः ॥५८॥ करभोरु किमर्य ते गृहीतान्यायुधान्यलम् । पुष्पकंदुकयोग्यास्ते कराः कमलकोमलाः ॥५९॥ भ्रूचापे विद्यमानेऽणि धनुषा कि प्रयोजनम् । कटाक्षा विशिखाः संति कि बाणनिष्प्रयोजनैः॥६०॥
Page 278
२७८ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १२ संसारे दुःखदं युद्धं न कर्तव्यं विजानता। लोभासक्ताः प्रकुवति संग्रामं च परस्परम् ॥६१॥ पुष्पैरपि न योद्धव्यं कि पुननिशितैः शरैः। भेदनं निजगात्राणां कस्य तज्जायते मुदे ॥६२॥ तस्मात्त्वमपि तन्वंगि प्रसादं कर्तुमहंसि। भर्तारं भज मे नाथं देवदानवपूजितम् ॥६३॥ स तेऽत्र वांछितं सर्वं करिष्यति मनोरथम् । त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः ॥६४॥ वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम्। संग्रामे जयसंदेहः कष्टं प्राप्य न संशयः ॥६५॥ जानासि राजनीति त्वं यथावद्वरवणिनि। भुक्ष्व राज्यसुखं पूर्ण वर्षाणामयुतायुतम् ॥६६॥ पुत्रस्ते भविता कांतः सोऽपि राजा भविष्यति। यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि ॥६७॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे एकादशोऽध्यायः ॥११॥ अथ द्वादशोऽध्यायः व्यास उवाच तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका। मेघगम्भीरया वाचा हसंती तमुवाच है॥१॥ देव्युवाच गच्छ ताम्र पति ब्रूहि मुमूषुँ मन्दचेतसम्। महिपं चातिकामातं मूढं ज्ञानविवर्जितम् ॥२॥ यथा ते महिषी माता गौढा यवसभक्षिणी। नाहं तथा शृंगवती लंबपुच्छा महोदरी ॥३॥ न कामयेऽहं देवेशं नैव विष्णुं न शंकरम्। धनदं वरुणं नैव ब्रह्माणं न च पावकम्॥४।। एतान्देवगणान्हित्वा पशुं कन गुणेन वै। वृणोम्यहं वृथा ोके गर्हणा मे भवेदिति ॥५॥ नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः । सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ ६॥ निर्गुणो निर्ममोऽनंतो निरालंबो निराश्रयः । सर्वशः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ।।७॥ सर्वावासः क्षमः शांतः सर्वदृक्सवंभावनः । तं त्यक्त्वा महिषं मंदं कथं सेवितुमुत्सहे।८।। प्रबुध्य युध्यतां कामं करोमि यमवांहनम्। अथवा मनुजानां वै करिष्ये जलदाहकम् ॥९॥ जीवितेच्छाऽस्ति चेत्पाप गच्छ पातालमाशु वै। समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि संगरे ॥१॥ कामं सदृशयोर्योगः संसारे सुखदो भवेत् । अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥११। मूर्खस्त्वमसि यद्व्रूषे पति मे भज भामिनि । क्वाहं क्व महिषः श्रृंगी सम्बन्धः कीदृशो द्वयो:॥ गच्छ युध्यस्व वा कामं हनिष्येऽहं सबांधवम्। यज्ञभागं देवलोकं नोचेत्त्यकत्वा सुखी भव ॥१३॥ व्यास उवाच इत्युक्त्बा सा तदा देवो जगर्ज भृशमद्दुतम् । कल्पांतसदृशं नादं चक्र् दैत्यभयावहम् ॥१४॥ चकंपे वसुधा चेलुस्तेन शब्देन भूधराः। गर्भाश्च दैत्यपत्नीनां सस्त्रंसुर्गजितस्वनात्॥१५॥
Page 279
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १२ २७९ साम्र: श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा । पलायनं ततः कृत्वा जगाम महिषांतिकम् ॥१६॥ नगरे तस्य ये दैत्यास्तेऽपि चिंतामवाप्नुवन् । बधिरीकृतकर्णाश्च पलायनपरा नृप ॥१७॥ तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः । तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥१८॥ ताम्रं समागतं दृष्टा हयारिरपि मोहितः । चिंतयामास सचिवैः कि कर्तव्यमतः परम् ॥१९॥ दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः । पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥२०॥ बुद्धिमंतो दुराधर्षाः सवें शास्त्रविशारदाः । मंत्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥२१॥ मंत्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः । मंत्रिभिश्च सदाचारैविधेयः सर्वथा बुघैः ॥२२॥ मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा। तस्मान्ेदभयाद्गुप्तः कर्तव्यो भूतिमिच्छता २३।। तदत्र मंत्रिभिर्वाच्यं वचनं हेतुमद्धितम्। कालदेशानुसारेण विचित्य नीतिनिर्णयम् ॥२४॥ या योषाऽत्र समायाता प्रबला देवनिर्मिता। एकाकिनी निरालंबा कारणं तद्रिचिंत्यताम् २५। युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम्। श्रेयोजत्र विपरीतं वा को वेत्ति भुवनत्रये ॥२६॥ न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः । दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥२७॥ उपायवादिनः प्राहुर्देवं कि केन वीक्षितम् । अदृष्टमिति यन्नाम प्रवदन्ति मनोषिणः ॥२८॥ तत्सत्त्वेऽपि प्रमाणं कि कातराशावलंबनम्। न समर्थजनानां हि दैवं कुत्राषि लक्ष्यते ।।२९॥ उदमो दैवमेतौ हि शूरकातरयोर्मतम्। विचिंत्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥३०॥ इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायगाः । विडालाख्यो महाराजमित्युवाच कृतांजललिः॥३१॥ व्यास उवाच राजन्नेषा विशालाक्षी ज्ञातव्या यत्ननः पुनः । किमर्थमिह संप्राप्ता कुतः कस्य परिग्रहः ॥३२॥ मरणं ते परिज्ञाय स्त्रियाः सर्वात्मना सुरैः । प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥३३॥ तेऽपि छन्ना: स्थिताः खेऽत्र सव युद्धदिदृक्षवः । समयेऽस्याः सहायास्ते भविष्यंति युयुत्सवः ॥३४॥ पुरतः कामिनी कृत्वा ते वै विष्णुपुरोगमाः । वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ३५॥ एतच्चिकीषितं तेषां मया ज्ञातं नराधिप। भवितव्यस्य न ज्ञानं वर्तते मम सवथा ॥३६॥ योद्धव्यं न त्वयाऽद्येति नाहं वक्तु क्षमः प्रभो। प्रमाणं त्वं महाराज कार्येऽत्र दैवनिमिते ॥३७॥ त्वदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात्। विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥३८॥ विचारोऽत्र महानस्ति यदेका कामिनी नृप । युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥३९॥ राजन् युद्धे जयं नोऽद्य भविता वेद्ययहं किल। पलायनं न कर्तव्यं यशोहानिकर नृणाम् ॥४०॥ दुमुख उवाच इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम्। एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ४१॥
Page 280
२८० श्रीमद्ेवीमागवते महापुराणे पत्ञमस्कन्जे अध्यायः १२ तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः । यद्धावि तद्धवत्येव काऽत्र चिंता विपश्यतः॥४२॥ मरणेऽन्र यशःप्राप्तिर्जीवने च तथा सुखम् । उभयं मनसा कृत्वा क्तंव्यं युद्धमद्य वै ॥४३॥ पलायने यशोहानिर्मरणं चायुषः क्षये। तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥४४।
दुर्मखस्य वच: श्रुत्वा बाष्कलो वाक्यमब्रवीत् । प्रणतः प्रांजलिर्भूम्बा राजानं वाक्यकोबिद: ।।४५।। व्याम उनाच
राजंश्रिता न कर्तव्या कार्येऽस्मिन्कातरप्रिये। अहमेको हनिष्यामि चंडीं चंचललोचनाम् ॥४६।। बाउ्कल उवाच
उत्साहस्तु प्रकर्तव्यः स्थायीभावो रमस्य च। भयानको भवेद्ैरी वीरस्य नृपमत्तम ।४७।। तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्भदतम् । नयिष्यामि नरेन्द्राहं चंडिकां यमसादनम् ॥।४८।। न बिभेमि यमादिंद्रात्कुबेरातरुणादृपि । वायोरवह्वेस्तथा विष्णोः शङ्क्राच्छशिनो रवेः ४९॥। एकाकिनी तथा नारी कि पुनर्मदगविता। अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥।५०।। पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम्। भवताऽत्र न गंतव्यं संग्रामेऽप्यनया ममम् ॥५१॥
एवं ब्रुवति राजेन्द्रं वाष्कले मदगर्विते। प्रणम्य नृपति तत्र दुर्धरो वाक्यमब्रबीत् ॥५२॥ व्यास उग्यन
महिषाहं विजेष्यामि देवीं देवविनिर्मिताम्। अष्टादशभुजां रम्यां कारणाच्च ममागताम् ।।५३॥। दुधर उवाप
राजन्भीषयितुं त्वां वै प्रायैषा निर्मिता सुरैः । विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥५४॥ राजनीतिरियं राजन्मंनरिकृत्यं तथा शृणु। मात््विका राजसाः केचित्तामसाश्र तथापरे ॥५५॥ मन्त्रिणस्त्रिविधा लोके भवति दानवाधिप। सात्त्विकाः प्रभुकार्याणि साधयंति स्वर्शाक्तभिः ५६॥ आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः । एकचित्ता धर्मपरा मंत्रशास्त्रविशारदाः ॥५७॥ राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा। कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥५८। तामसा लोभनिरताः स्व्कार्यनिरताः सदा। प्रभुकार्य विनाश्यैव स्वकार्यं साधयन्ति ते ॥५९॥ समयं ते विभिद्यन्ते परैस्तु परिवंचिताः । स्वच्छिद्रं शत्रुपक्षीयान्निदिशति-गृहस्थिताः ॥६०॥ कार्यभेदकरा नित्यं कोशगप्तासिवत्सदा। संग्रामेऽथ समुत्पन्ने भीपयन्ति प्रभु सदा ॥६१॥ विश्वासस्तु न कर्तव्यस्तेषां राजन्कदाचन। विश्वासे कार्यहानिः स्यान्मंत्रहानिः सदैव हि॥६२॥ खला: किं कि न कुर्वन्ति विश्रस्ता लोभतत्पराः । तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥६३॥ तस्मात्कार्य करिष्यामि गत्वाऽहं रणमस्तके। चिंता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥६४।। गृहोत्वा तां दुराचारामागमिष्यामि सत्वरः । पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ।६५॥ इति श्रीदेवीभागवते महापुराणे पञ्ञमस्कन्धे द्वादशोऽध्यायः ॥१२॥
Page 281
श्रीमऐेवीमागवते महापुराणे पञ्ञमस्कन्धे अध्याय: १३ २८१
अथ त्रयोदशोऽध्यायः व्यास उवाच इत्युक्त्वा तो महाबाहू दैत्यौ बाष्कलदुर्मुखौ। जग्मतुर्मददिग्धांगो सर्वशस्रास्त्रकोविदौ ॥१॥ तो गत्वा समरे देवीमूचतुर्वचनं तदा। दानवो च मदोन्मत्तौ मेघगंभीरया गिरा ॥२॥ देवि देवा जिता येन महिषेण महात्मना। वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ।३।। स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम्। भूषितं भूषणैदिव्यैस्त्वामेष्यति रहः किल ॥४॥ श्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते। महिषे परमं भावं कुरु कांते मनोगतम् ।५।। संसारसुखमद्धुतम् । त्वं प्राप्स्यसि पिकालापे योषतां खलु वांछितम् ॥६॥
जाल्म त्यं किं विजानासि नारीयं काममोहिता। मंदबुद्धिबलात्यर्थ भजेयं महिषं शठम् ॥७ श्रीदेव्युवाच
कुलशीलगुणस्तुल्यं तं भजंति कुलस्त्रियः । अधिकं रूपचानुर्यबुद्धिशोलक्षभादिभिः ॥८॥ का नु कामातुरा नारी भजेच्च पशुरूपिणम् । पशूनामधमं नूनं महिषं देव पिणी॥९॥ गच्छ तं महिषं तूणं भूपं बाष्कलदुर्मदो। वदतं तद्वचो दैत्यं गदतुल्यं विषाणिनम् ॥१०॥ पातालं गच्छ वाऽम्येत्य संग्रामं कुरु वा मया। रणे जाते सहस्राक्षो निर्भयः स्यादिति ध्रुवम्।११॥ हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम। इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥१२॥ मामनिर्जित्य भूभागे न स्थानं ते कदाचन। भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥१३॥
इत्युक्त्तो तो तया दैत्यो कोपाकुलितलोचनो। धनुर्वाणघरो वीरो युद्धकामौ बभूवतुः ॥१४॥ व्यास उवाप
कृत्वा सुबिपुलं नादं देवी सा निर्भया स्थिता। उभौ च चक्रतुस्तीवरां बाणवृष्टिं कुरुद्रह ॥१५॥ भगवत्यपि बाणोघान्मुमोच दानवो प्रति। कृत्वाऽतिमधुरं नादं देवकार्यार्थसिद्धये ।१६।। तयोस्तु बाष्कलस्तूणं संमुखोऽभूद्रणांगणे। दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥१७॥ तयोर्युद्धमभूद्घोरं देवीबाष्कलयोस्तदा। बाणासिपरिघाधातैर्भयदं मंदचेतसाम् ॥१८। ततः क्रुद्धा जगन्माता दृष्टा तं युद्धदुर्मदम् । जघान पंचभिर्बाणः कर्णाकृष्टैः शिलाशितैः ॥१९॥ दानवोऽपि शरान्देव्याश्रिच्छेद निशितैः शरैः । सप्तभिस्ताडयामास देवीं सिंहोपरि स्थिताम् २०॥ साऽपि तं दशभिस्तीक्ष्णैःसुपीतैः सायकैः सलम् । जघान सच्छरांश्छित्वा जहास च मुहुर्मुहुः ॥२१॥ अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् । बाष्कलोऽपि गदां गृह्य देवीं हंतुमुपाययौ ।२२।। भागच्छंतं गदापाणि दानवं मदगवितम् । चंडिका स्वगदाघातैः पातयामास भूतले ।।२३।
Page 282
२८२ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १३ बाष्कल: पतितो भूमौ मुहुर्तादुत्थितः पुनः । चिक्षेप च गदां सोऽपि चंडिकां चंडविक्रमः ॥२४॥ तमागच्छंतमालोक्य देवी शलेन वक्षसि। जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥२५॥ पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः । जयेति च मुदा देवाश्चुऋुशुर्गगने स्थिताः ॥२६॥ तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिवलान्वितः । आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥२७॥ तिष्ट तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः । धर्नर्वाणधरः श्रीमात्रथस्थः कवचावृतः ॥२८॥ तमागच्छंतमालोक्य देवी शंखमवादयत्। कोपयंती दानवं तं ज्याघोपं च चकार ह ।२९॥ सोऽपि बाणान्मुमोाशु तीक्ष्णानाशीविषोपमान् । स्वबाणैस्तान्महामाया चिच्छेद च ननाद च।।:०।। तयोः परस्परं युद्धं बभूव तुमुलं नप। वाणशक्तिगदाघातैर्मसलैस्तोमरैस्तथा ।।३१ ।। रणभूमौ तदा जाता रुधिरौधवहा नदी। पतितानि तदा तीरे शिरांसि प्रवभुस्तदा ॥३२॥ यथा संतरणार्थाय यमकिंकरनायकैः। तवीफलानि नीतानि नवशिक्षापरैर्मुदा ॥३३॥ रणभूमिस्तदा धोरा बभवातीव दुर्गमा। शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः ॥३४॥ गोमायसारमेयाश्च काका: कंका अयोमुखाः । गृध्राः श्येनाश्च खादंति शरीराणि दुरत्मनाम् ३५॥ ववो वायुश्र दुर्गन्धो मृनानां देहसंगतः। अभूत्किलकिलाशब्दःखणानां पलभक्षिणाम्॥३६॥ तदा चुकोप दुष्टात्मा दुमुख. कालमोहितः । देवामुबाच गवण कृत्वा चोर्ध्वकर शुभम् ॥३७॥ गच्छ चंडि हनिष्यामि त्वामसैव सुबालिशे। दैत्य वा भज वामोरु महिष मदगर्वितम् ॥३८॥
आसन्नमरण: कामं प्रलपस्यद्य मोहितः । अद्यव त्वां हनिष्यामि यथाऽयं बाष्कली हतः॥३९॥ देव्युवाच
गच्छ वा तिष्ठ वा मंद मरणं यदि रोचते। हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम् ४०॥ तच्छत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः । मुमोच बाणवृष्टिं तु चंडिकां प्रति दारुणाम् ॥४१।। साऽपि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः। जघान दानवं क्रुद्धा वृत्रं, वज्रधरो यथा ॥४२॥ तयो: परस्परं युद्धं सञ्जातं चातिकर्कशम्। भयदं कातराणां च शूराणां बलवर्धनम् ॥४३॥ देवी चिच्छेद तरसा धनुरस्य करे स्थितम्। तर्थव पञ्चभिर्बाणैर्बभअ्ष रथमुत्तमम् ॥४४॥ रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा। गदां गृहीत्वा दुर्धर्षा जगाम चण्डिकां प्रति ॥४५॥ चकार स गदाघातं सिंहमौलौ महाबलात्। न चचाल हरिः स्थानात्ताडितोऽपि महाबलः॥४६॥ अंबिका तं समालोक्य गदापाणि पुरः स्थितम्। खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत् ।।४७।। छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः । जयशब्दं तदा चक्रुमुदिता निर्जरा भृशम् ॥४८॥ तुष्ट्वुस्तां तदा देवीं दुर्मखे निहतेऽमराः । पुष्पवृष्टि तथा चक्रुर्जयशब्दं नभःस्थिताः ॥४९॥
Page 283
श्रीम देवीभागवते महापुराणे पञ्चमस्कन्धे. अध्याय: १४ २८३ ऋृषयः सिद्धगंधर्वाः सविद्याधरकिन्नराः । जहृषुस्तं हतं दृष्ा दानवं रणमस्तके॥५॥ इति श्रीमद्ेवीभागवते महापुराणे पंचमस्कन्धे त्रयोदशोऽध्यायः ॥१३॥ अथ चतुदशोऽध्यायः व्यास उवाच दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्छिितः । उवाच दानवान्सर्वान्कि जातमिति चासकृत् ॥१॥ निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कली। तन्व्या तत्परमाश्चयं पश्यंतु देवचेष्टितम् ॥२॥ कालो हि बलवान्कर्ता सततं सुखद्गुःखयो। नराणां परतंत्राणां पुण्यपापानुयोगतः ।३॥ निहतौ दानवश्रेष्टी कि कर्तव्यमतः परम् । ब्रुवंतु मिलिताः सवें यद्युक्ं कार्यसंकटे॥४॥ एवं ब्रुवति राजेंद्र महिषेऽतिबलान्विते। चिक्षुराख्यस्तु सेनानोस्तमुवाच महारथः ॥१॥ राजन्नहं हनिष्यामि का चिंता स्त्रीविहिंसने। इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंवृतः ।६।। द्वितीयं पाष्णिरक्ष तु कृत्वा ताम्रं महावलम् । महता सैन्यघोपेण पूरयन्नगनं दिशः ।७।। तमागच्छंतमालोक्य देवी भगवती शिवा। चकार शंखज्याघोषं घटानादं महान्दुतम् ।।८।। तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः । किमेतदिति भाषंतो दुद्रुवुर्भयकंपिताः।९। विक्षुराख्यस्तु तान्दृष्वा पलायनपरायणान्। उवाचातीव संक्रुद्धः किभयं वः समागतम् ॥१०॥ अद्यवाहं हनिष्यामि बाणैर्बालां मदोन्नताम्। तिष्ठंत्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥११॥ इत्युक्त्वा दानदश्रेष्टश्चापपाणिर्बलान्वितः । आगत्य संगरे देवीमित्युवाच गतव्यथः ॥१२॥ कि गर्जि विशालाक्षि भीषयन्तीतरान्नरान्। नाहं बिभेमि तत्वंगि श्रुत्वा तेऽद्य विचेष्टितम् ॥१३॥ स्त्रीवधे दूषणं ज्ञात्वा तथवाकीतिसंभवम्। उपेक्षां कुरुते चित्तं मदीयं वामलोनने ॥१४॥ स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्र सुन्दरि। न शस्त्रैविहितं क्वापि त्वादृशीनां कदाचन ॥१५॥ पुष्पैरपि न योद्धव्यं कि पुनर्निशितैः शरैः। भवादृशीनां देहेषु दुनोति मालतीदलम् ॥१६॥ धिग्जन्म मानुपे लोके क्षात्रधर्मानुजीविनाम् । लालितोऽयं प्रियो देहः कृन्तनीयः शितैःशरैः ॥१७॥ तलाभ्यंगैः पुष्पवातस्तथा मिष्टान्नभोजनैः । पोषितोऽयं प्रियो देहो घातनोयः परेषुभिः ॥१८॥ देहं छित्वाऽसिधाराभिर्धनभृज्जायते नरः । घिग्धनं दुःखदं पूर्व पश्चात्कि सुखदं भवेत् ॥१९। त्वमप्यज्ञैव वामोरु युद्धमाकांक्षसे यतः। सुखं संभोगजं त्यक्त्वा कं गुणं वेत्सि संगरे ॥२०॥ खड्गपातं गदाघातं भेदनं च- शिलोमुखैः । मरणांते तु संस्कारो गोमायुमुखकर्षणम् ॥२१॥ तस्यैव कविभिर्धूतैः कृतं चातीव शंसनम् । रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥२२॥ तस्माद्गच्छ वरारोहे यत्र ते रमते मनः। भज वा भूपति नाथं हयारिं सुरमर्दनम् ॥२३॥
Page 284
२८४ श्रामद्देवीभागवत महापुराणे पञ्ञमस्कन्धे अध्याय: १४ एवं सुवाणं तं दैत्यं प्रोवाच जगदंबिका। कि मृषा भाषसे मृढ बुद्धिमानिव पंडितः ॥२४॥ नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा। न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥२५॥ मूर्खसेवापरो यस्मात्तस्मात्वं मूर्ख एव हि। राजधर्म न जानासि कि ब्रवीषि ममाग्रतः ॥२६॥ संग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम्। यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ देवानां दुःखदातारं दानवं मदगवितम्। हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ।२८। जीवितेच्छाऽस्ति चेन्मूढ़ महिषस्य तथा तव। तदा गच्छंतु पातालं दानवाः सर्व एव ते ।।२९। मुमूर्षा यदि वश्चित्ते युद्धं कुर्वतु सत्वराः । सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥३०॥
तच्छ्रत्वा वचनं तस्य दानवो बलदर्पितः । मुमोच बाणवृष्षटि ता घनवृष्टिमिवापराम्॥३१॥ व्यास उवाच.
चिच्छेद तस्य सा वाणान्स्वबाणैनिशितैस्तदा। जघान त तथा घोरैराशीविषसमैंः शरैः ॥३२॥ युद्धं परस्परं तत्र बभूव विस्मयप्रदम्। गदया घातयामास तं रथाज्जगदंबिका ॥३३॥ मूर्छां प्राप स दुष्टात्मा गदयाऽभिहतो भृशम् । महूर्तद्वयमात्रं तु रथोपस्थ इवाचलः ॥३४॥ तं तथा मूर्छितं दृष्टा ताम्रः परबलार्दनः। आजगाम रणे योद्ुं चंडिकां प्रति चापलात् ।३५॥ आगच्छंतं तु तं वीक्ष्य हसंती प्राह चंडिका। एह्येहि दानवश्रेष्ट यमलोकं नयाम्यहम् ।।३ ६।। कि भर्वन्द्िः समायातैरबलंश्च गतायुषः । महिषः कि गृहे मूढः करोति जोवनोद्यमम् ॥३७॥ किं भर्वन्धिर्हतैमंदैर्ममापि विफलः श्रमः । अहते महिषे पापे सुरशत्रौ दुरात्मनि ॥३८॥ तस्माद्यूयं गृहं गत्वा महिषं प्रेषयंत्विह। पश्येन्मां सोऽपि मंदात्मा यादृशी तादृशीं स्थिताम् ॥ ताम्रस्तटचनं श्रुत्वा वाणवृष्टिं चकार ह। चंडिकां प्रति कोपेन कर्णाकृष्टशरासनः॥४०॥ भगवत्यपि ताम्राक्षी समाकृष्य शरासनम्। बाणान्मुमोच तरसा हंतुकामा सुराहितम् ।४१।। चिक्षुराख्योऽपि बलवान्मूर्छां त्यक्त्वोत्थितः पुनः । गृहीत्वा सशरं चापं तस्थो तत्संमुखः क्षणात् ॥४२।। चिक्षुराख्यश्र ताम्रश्च द्वावप्यतिबलोत्कटौ। युयुधाते महावीरौ सह देव्या रणांगणे ।४३॥ कुपिता च महामाया ववर्ष शरसंततिम्। चकार दानवान्सर्वान्बाणक्षततनुच्छदान् ॥४४।। असुरा: क्रोधसंमूढा बभूवुः शरताडिताः । चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः ।४५॥ बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः । शिलीमुखक्षताः सर्वे वसंते च वने रणे ॥४६।। बभूव तुमुलं युद्धं ताम्रेण सह संयुगे । विस्मयं परमं जग्मुर्देवाये प्रेक्षकाः स्थिताः ॥४७॥ ताम्रो मुसलमादाय लोहजं दारुणं दृढम् । जधान मस्तके सिंहं जहास च नदर्द च ।।४८।। नर्दमानं तदा तं तु दृष्टा देवी रुषान्विता। खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा।।४९।।
Page 285
श्रीभरेवीभागवते महापुराणे पञ्ममस्कन्धे अध्यायः १५ २८५ छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली। बभ्राम क्षणमात्रं तु पपात रणमस्तके ॥५०॥ पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः । खड्गमादाय तरसा दुद्राव चंडिकां प्रति ॥५१॥ भगवत्यपि तं दृष्टा खड्गपाणिमुपागतम्। दानवं पंचभिर्बाणर्जघान तरसा रणे ॥५२॥ एकेन पतितं खड़्गं द्वितीयेन तु तत्करः । कंठाच्च मस्तकं तस्य कृंतितं चापरः शरैः ॥५३॥ एवं तौ निहतौ क्ररौ राक्षसौ रणदुर्मदौ। भग्नं सैन्यं तयोस्तूर्ण दिक्षु संत्रस्तमानसम् ॥५४॥ देवाश्र मुदिताः सवें दृष्टा तौ निहतो रणे । पुष्पवृष्टि मुदा चक्रुर्जयशब्दं नभःस्थिताः ॥५५॥ कृषयो देवगंधर्वा वेतालाः सिद्धचारणाः । ऊचुस्ते जय देवीति चांविकेति पुनः पुनः ॥५६॥ इति श्रीदेवीमागवते महापुराणे फामस्कन्धे चतुर्दसोऽध्यायः ।१४॥ अथ पञ्चवसोऽ्ध्यायः व्यास उवाच तौ तया निहतौ श्रुत्वा महिषो विस्मयान्विंतः । प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥१॥ असिलोमविडालाख्यप्रमुखान् युद्धदुर्मदान् । सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥२॥ ते तत्र दद्शुर्देवीं सिंहस्योपरि संस्थिताम् । अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥३॥ असिलोमाऽग्रतो गत्वा तामुवाच हसन्निव। विनयावनतः शांतो देवीं दैत्यवधोद्यताम्॥४॥ असिलोमोवाच देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि। आगताऽसि किमर्थ वा हंसि दैत्यान्निरागसः ॥५॥ कारणं कथयाद्य त्वं त्वया संधिं करोम्यहम् । कांचनं मणिरत्नानि भाजनानि वराण च ॥६॥ यानीच्छसि वरारोहे गृहीत्वा गच्छ माचिरम् । किमर्थं युद्धकामासि दुःखसंतापवर्धनम्॥७॥ कथयंति महात्मानो युद्धं सर्वसुखापहम्। कोमलेऽतीव ते देहे पुष्पाघातासहे भृशम्॥८॥ किमर्थं शस्त्रसंपातान्सहसीति विसिस्मिये। चातुर्यस्य फलं शांतिः सततं सुखसेवनम् ॥९॥ तत्किमर्थं दुःखहेतुं संग्रामं कर्तुमिच्छसि । संसारेऽत्र सुख ग्राह्यं दुःखं हेयमिति स्थितिः ॥१०॥ तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः । आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥११॥ नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचितकैः । सौगतानां मतं चेत्वं त्वीकरोषि वरानने ॥१२॥ तथापि यौवनं प्राप्य भक्ष्व भोगाननुत्तमान् । परलोकस्य संदेहो यदि तेऽस्ति कृशोदरि ।१३।। स्वर्गभोगपरा नित्यं भव भामिनि भूतले । अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥१४।। परोपतापनं कार्य वर्जनीयं सदा बुधैः । अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥१५॥ तस्मात्त्वमपि कल्याणि मति धर्मे सदा कुरु। अपराध विना दैत्यान्कस्मान्मारयसेऽबिके ॥१६॥
Page 286
२८६ श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः १५ दया धर्मोऽस्य देहोऽस्ति सत्ये प्राणाःप्रकीर्तिताः। तस्माद्या तथा सत्यं रक्षणीयं सदा बुघैः ॥१७॥ कारणं वद सुश्रोणि दानवानां वधे तव। देव्युवाच त्वया पृष्टं महाबाहो किमर्थमिह चागता ।१८।। तदहं संप्रवक्ष्यामि हनने च श्योजनम्। विचरामि सदा दैत्य सर्वलोकेषु सर्वदा !१९॥ न्यायान्यायौ च भूतानां पश्यती साक्षिरूपिणी। न मे कदापि भोगेच्छा न लोभोनच वैरिता ॥२०॥ धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम्। व्रतमेतत्तु नियतं पालयामि निजं सदा॥२१॥ साधूनां रक्षणं काय हन्तव्या येजप्यसाधवः । वेदसंरक्षणं कार्यमवतारैरनेकशः ॥२२॥ युगे युगे तानेवाहमवतारान्बिभ्मि च । महिषस्तु दुराचारो देवान्वै हंतुमुद्यतः ॥२३॥ ज्ञात्वाऽहं तद्वधार्थं भो: प्राप्ताऽस्मि राक्षसाधुना। तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥२४॥ गच्छ वा तिष्ठ कामं त्वं सत्यमेतदृदाहृतम् । ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ।२५॥ किमन्यान्प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह । संधिश्चेत्कतुंमिच्छाऽस्ति राज्ञस्तव मया सह ॥२६।। सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम्। देवद्रव्यं तुर्यत्किचिद्धृतं जित्वा रणे सुरान् ।।२७। तद्दत्त्वा यांतु पातालं प्रह्लादो यत्र तिष्ठतति । व्यास उवाच तच्छ्रुत्वा वचनं देव्या असिलोमा पुरःस्थितः ॥२८॥ बबिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् । असिलोमोवाच श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् ।।२९।। एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा। विडालाख्य उवाच न सन्धिकामोऽस्ति नृपोडभिमानी युद्वे च मृत्युं निद्तं हि जानन्। दृष्टा हतान्प्रेरयते तथाऽस्मान्दैवं हि कोऽतिक्रमितुं समर्थः ॥३०॥। दुःसाध्य एवास्त्विह सेवकानां धर्मः सदा मानववर्जितानाम्। आज्ञापराणां वशवर्तिकानां पांचालिकानामिव सूत्रनेदात् ।।१।।" गत्वा कथं तस्य पुरस्त्वया च मयाऽि वक्तव्यमिदं कठोरम् ॥३१॥ गच्छन्तु पातालमितश्च सर्वे दत्त्वाऽथ रत्नानि धनं सुराणाम् । "प्रियं हि वक्तव्यमसत्यमेव न च प्रियं स्याद्धितकृत्तु भाषितम् ।
Page 287
श्रीमद्देवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: १५ २८७ सत्यं प्रियं नो भवतीह कामं मौनं ततो बुद्धिमतां प्रतिष्ठितम् ।।२।।" न फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति नीतिशास्त्रम् ।।३२।। न नूनं तत्र गंतव्यं हितं वा वक्तुमादरात्। प्रष्टुं वाऽपि गते राजा कोपयुक्तो भविष्यति ३३। इति संचित्य कर्तव्यं युद्धं प्राणस्य संशये। स्वामिकार्य परं मत्वा मरणं तृणवत्तथा ॥३४॥ व्यास उवाच इति संचित्य तौ वीरौ संस्थितौ युद्धतत्परों। धनुर्बाणघरो तत्र सन्नद्धौ रथसङ्गतौ ॥३५॥ प्रथमं तु बिडालाख्यः सप्त वाणान्मुमोच ह। असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥३६॥ चिच्छेद तांस्तथा प्राप्तानंबिका स्वशरः शरान् । बिडालाख्यं त्रिभिर्बाणर्जघान च शिलाशितः ॥३७॥ प्राप्य वाणव्यथां दैत्यः पपात समरांगणे । मूर्छितोऽथ ममाराशु दानवो दैवयोगतः !३८। बिडालाख्यं हतं दृष्टा रणे शक्तिशरोत्करैंः । असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥३९॥ ऊध्वं सव्यं करं कृत्वा तामुवाच मितं वचः । देवि जानामि मरणं दानवानां दुरात्मनाम्॥४०॥ तथापि युद्धं कर्तव्यं पराधीनेन वै मया। महिषो मंदबुद्धिश्च न जानाति प्रियाप्रिये ॥l४१।। तदग्रे नैव वक्तव्यं हितं चंवाप्रियं मया। मर्तव्यं वीरधर्मेण शुभं वाऽप्यशुभं भवेत् ।४२॥ दैवमेव परं मन्ये धिक्पोरुषमनर्थकम्। पतन्ति दानवास्तूर्णं तब बाणहता भुवि ॥४३॥ इत्युक्त्वा शरवृष्टि स चकार दानवोत्तमः । देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजांतिके ॥४४।। अन्यविव्याध तं तूर्णमसिलोमानगाशुगैः । वोक्षिताऽमरसंघैश्च कोपपूर्णानना तदा ॥४५॥ शुशुभे दानवः कामं बाणैविद्धतनुः किल। स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा ॥४६॥ असिलोमा गदां गुर्वी लौहीमुदम्य वेगतः। दुद्राव चंडिकां कोपात्सिहं मू्ष्नि जघान ह।।४७।। सिंहोउपि नखराधातैस्तं ददार भुजांतरे। अगणय्य गदाघातं कृतं तेन बलीयसा ॥४८।। उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः । सिंहमूध्नि समारुह्य जघान गदयांबिकाम् ॥४९॥ कृत तेन प्रहारं तु वञ्चयित्वा विशांपते। खड्गेन शितधारेण शिरश्रिच्छेद कषउतः ॥१॥॥ छिन्ने गिरमि दैत्येन्द्रः पपात तरसा क्षितौ। हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ।५१॥ जय दवीति देवास्तां तुष्टुवुर्जगदम्बिकाम्। देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥५२॥ निहतो दानवौ वीक्ष्य पतितौ च रणांगणे। निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥५३॥ भक्षिताश्र तथा केचिन्निःशेपं तद्गण कृतम् । भग्नाः केचिद्गता मंदा महिषं प्रति दुःखिताः ॥५४॥ चुक्ुशू करुदुश्चव त्राहि त्राहीति भाषणैः । असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥५५॥ अन्ये ये सैनिका राजन्सिंहेन भक्षिताश्र ते। एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥५६॥
Page 288
२८८ श्रीमद्देवीभागवते महापुराणे पत्मस्कन्धे अध्याय: १९ तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा। बभूव चिन्ताकुलितो बिगना दुःखसंयुतः ।।५७॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे पञ्ञदशोऽध्यायः ॥१५॥ अथ षोडसोऽष्यायः व्यास उवाच तेषां तद्वचनं श्रत्वा क्रोधयुक्तो नराधिण:। दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥१॥ सहस्रखरसंयुक्त पताकाध्वजभूषितम् । आयुरध: संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥२॥ सूतोऽपि रथमानीय तमुवाच त्वरान्वितः । राजत्रथोऽयमानोतो द्वारि तिष्ठति भूषितः ॥३॥ सर्वायुधसमायुक्तो वरास्तरणसंयुतः । आनीतं तं रथं ज्ञात्वा दानवेंद्रो महाबलः ॥४। मानुषं देहमास्थाय संग्रामं गन्तुमुद्यतः । विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम्॥५॥ शृङ्गिणं महिषं नूनं विमना सा भविष्यति। नारीणा च प्रियं रूपं तथा चातुर्यमित्यपि॥६॥ तस्माद्रूपं न चातुर्य कृत्वा यास्यामितां प्रति। यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥७॥ ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः । इति संचिंत्य मनसा दानवेंद्रो महादलः ।।८।। त्यवत्वा तन्माहिपं रूपं बभूव पुरुषः शुभः । सर्वायुधधरः श्रीमांश्चारुभूषणभूषित: ॥१॥ दिव्यांवरधरः कांतः पृष्पबाण इवापरः । रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥१०॥ मेनापारवृतो देवों जगाम मदगर्वितः । मनोजं रूपमास्थाय मानिनोनां मनोहरम् ॥११॥ तमागतं समालोक्य *दैत्यानामधिपं तदा। बहुभिः संवृतं वीरैदेंवी शङ्कमवादयत् ॥१२॥ स शङ्गनिनदं श्रुत्वा जनविस्मयकारकम्। समोपमेत्य देव्यास्तु तामुवाच हसन्निव ॥१३॥ देवि संसारचक्रकऽस्मिन्वर्समानो जनः किल। नरो वाउ्थ तथा नारी सुखं वांछति सर्वथा ॥१४॥ सुखं संयोगजं नृणां नासंयोगे भवेदिह । संयोगो बहुधा भिन्नस्तान्त्रवीमि शृणुष्व ह॥१५॥ भेदान्सुप्रीति हेतूत्थान्स्वभावोत्थाननेकशः । तत्र प्रीतिभवानादौ कथयामि यथामति ॥१६। मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः । भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥१७॥ उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः । तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥१८॥ नाविकानां तु संयोग: स्मृतः स्वाभात्रिको बुधेः । विविधावृतचित्तानां प्रसङ्गपरिवरर्तिनाम् ॥१९॥ अत्यल्पसुखदातृत्वात्कनिष्ठोजयं स्मृतो बुधैः । अत्युत्तमस्तु संयोगः संसारे सुखदुःखदः ॥२०॥ नारीपुरुषयो: कान्ते समानवयसोः सदा। संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥२१॥ अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः। चातुर्यरूपवेषाद्यं: कुलशीलगुणस्तथा ।।२२।। परस्परसमुत्कर्ष: कथ्यते हि परस्परम्। तं चेत्करोषि संयोगं वीरेण च मया सह ।२३॥
Page 289
१९ श्रीमदेवीभागवत महापुराणे पञ्चमस्कन्धे अध्याय: १६ २८९ अत्युत्तमसुखस्यैव प्राप्ति: स्याते न संशयः। नानाविधानि रूपाणि करोमि स्वेच्छ्या प्रिये ॥२४। इंद्रादय: सुराः सर्वे संग्रामे विजिता मया। रत्नानि यानि दिव्यानि भवनेस्मिन्ममाधुना॥२५॥ भुंक्व त्वं तानि सर्वाणि यथेष्ट देहि वा यथा। पट्टराज्ञो भवाद्य त्वं दासोइस्मि तव सुन्दरि ॥२६॥ बैरं त्यजेऽहं देवस्तु तव वाक्यान्न संशयः । यथा त्वं सुखमाप्नोषि तथाऽहं करवाणि वै ॥२७॥। आज्ञापय विशालाक्षि तथाऽहं प्रकरो्यथ। चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥२८। आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल। प्रपन्नं पाहि रंभोरु कामबाणैः प्रपीडितम् ॥२९॥ धर्माणामुत्तमो धर्मः शरणागतरक्षणम् । त्वदीयोऽस्म्यसितापांगि सेवकोऽहं कृशोदरि ॥३०॥ मरणांतं वचः सत्यं नान्यथा प्रकरोम्यहम् । पादौ नतोऽस्मि तत्वंगि त्यक्त्वा नानायुधानि ते ॥। दर्या कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः । जन्मप्रभृति चार्वगि दैन्यं नाचरितं मया ॥३२॥ महयादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् । चरितं मम जानंति रणे ब्रह्मादयः सुराः ॥३३॥ सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि। व्यास उवाच इति ब्रुबाणं तं दैत्यं देवी भागवती हि सा ॥३४॥ प्रहस्य सस्मितं वाक्यमुवाच वरवणिनी। देव्युवाच नाहं. पुरुषमिच्छामि परमं पुरुषं विना॥३५॥ तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत्। समां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ तत्सान्निध्यवशादेव चंतन्यं मयि शाश्वतम् । जडाऽहं तस्य संयोगात्प्रभवामि सचेतना ॥३७॥ अयस्कांतस्य सान्निध्यादयसश्चेतना यथा। न ग्राम्यसुखवांछा मे कदाचिर्दाप जायते ॥३८। मूर्खस्त्वममि मंदात्मन् यत्स्त्रीसंगं चिकीर्षसि। नरस्य बंधनार्थाय शृंखला स्त्री प्रकीर्तिता ॥३९॥ लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते। किमिच्छसि च मंदात्मन्मूत्रागारस्य सेवनम्॥४०॥ शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि। नारीसंगे महद्द्ुःखं जानन्कि त्वं विमुह्यसि ॥४१॥ त्यज वैरं सुरैः साधं यथेष्टं विचरावनौ। पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ४२॥ अथवा कुरु संग्रामं बलवत्यस्मि सांप्रतम् । प्रेषिताऽहं सुरैः सर्वेस्तवः नाशाय दानव ।।४३।। सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम्। दशितं तेन तुष्टाऽस्मि जीवन्गछ यथासुखम् ॥४४॥ सतां सप्तपदी मैत्री तेन मुंचामि जीवितम्। मरणेच्छाऽस्ति चेद्युद्वं कुरु वीर यथासुखम् ४५॥ हनिष्यामि महाबाहो त्वामहं नात्र संशयः ।
Page 290
२९० श्रीमहेवीमागवते महापुराणे पंचमस्कन्धे अध्याय: १७ व्यास उवाच इति तस्या वचः श्रुत्वा दानवः काममोहितः॥४६।। उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः । बिभेम्यहं वरारोहे त्वां प्रहतुं वरानने ।।४७।। कोमलां चारुसवांगीं नारों नरविमोहिनीम्। जित्वा हरिहरादींश्च लोकपालांश्र सर्वशः।४८। किं त्वया सह युद्धं मे युक्तं कमललोचने। रोचते यदि चार्वगि विवाहं कुरु मां भज ॥४९॥ नोचेद्गच्छ यथेष्टं ते देशं यस्मात्समागता। नाहं त्वां प्रहरिष्यामि यतो मैत्रो कृता त्वया ॥५०॥ हितमुक्तं शुभं वाक्यं तस्माद्गच्छ यथासुखम्। का शाभा मे भवेदंते हत्वा त्वां चारुलोचनाम् ॥ स्त्रीहत्या वालहत्या च ब्रह्महत्या दुरत्यया। गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥५२॥ तथापि मे फलं न स्याद्वलान्दोगसुखं कुतः । प्रव्रवीमि सुकेशि त्वां विनयावनतो यतः ॥५३॥ पुम्पस्य सुखं न स्यादृते कांतामुखांबुजात्। तत्तथंव हि नारोणां तस्माच्च पुरुपं विना ।५४।। संयोगे सुखसंभूतिर्वियोगे दुःलसंभवः। कान्ताि रूपनंपन्ना सर्वाभरणभूपिता ॥५५॥ चातुर्यं त्वयि कि नास्ति यतो मां न भजस्यहो। तवोपदिषं केनेदं भोगानां परिवर्जनम् ॥५६॥ वंचिताऽसि त्रियालापे वैरिणा केनचित्त्विह । मुञ्जाग्रहमिमं कांते कुरु कार्य सुगोभनम् ॥५७॥ सुखं तव ममापि स्याद्रिवाहे विहिने किल। विग्णुर्लक्ष्म्या सहाभाति सावित्र्या च सहात्मभूः ॥ रुद्रो भाति च पार्वत्या शच्या गनमखस्तथा। का नारी पतहीना च सुखं प्राप्नोति शाश्वतम् । येन त्वमसितापांगि न करोषि पति शुभम् । कामः क्वाद्य गतः कांते यसत्वां वाणै: सुकोमलै: ॥ मादनै: पञ्चभि: कामं न ताडयति मंदधीः । मन्येऽहमिव कामोउपि दयावांस्त्वयि सुन्दरि ॥६१। अबलेति च मन्वानो न प्रेरयति मार्गणान्। मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥६२॥ तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान्। अथवा मेहिनर्देवैर्वारितोऽसौ झषध्वजः ॥६३॥ सुखविष्वंसिभिस्तेन त्वयि न प्रहरत्यपि। न्यक्त्वा मां. मृगशावाक्षि पश्चात्तापं करिष्यसि॥ मंदोदरीव तन्वंगि परित्यज्य शुभ नृपम्। अनुकूलं पति पश्चात्सा चकार शठं पतिम् ॥ कामार्ता च यदा जाना मोहेन व्याकुलान्तर।६५॥ इति श्रीदेवीभागवत महापुराणे पंचमस्कन्ध देवीचरित्र पोडशोऽध्यायः॥१६॥ अथ सप्तदशोऽध्यायः व्यास उवाच इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम्। का सामंदोदरी नारी कोऽसौ न्यक्तो नृपस्तया ॥१।। शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् । विस्तारेण यथा प्राप्तं दुःखं वनितया पुनः ॥२॥
Page 291
श्रीमद्देवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: १७ २९१
महिष उवाच सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले। वनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥३ ।। चंद्रसेनाऽभिधस्तत्र राजा धर्मपरायणः । न्यायदंडधरः शांतः प्रजापालनतत्परः ॥४।। सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः । शास्त्रवित्सर्वधमज्ञो धनुर्वेदेऽतिनिष्टितः ।।५।। तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा। सदाचाराऽतिसुमखी पतिभक्तिपरायणा ॥६॥। नाम्ना गुणवती कांता सर्वलक्षणसंयुता। सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम्।।७।। पिता चातीव संतुष्टः पुत्रीं प्राप्य मनोरमाम् । मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥८।। इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने। दशवर्षा यदा जाता कन्या चातिमनोहरा ।९॥ वराथं नृपतिश्चिन्तामवाप च दिने दिने । मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥१०॥ तस्य पुत्रोऽतिमेधावी कंबुग्रीवोऽतिविश्रुतः । ब्राह्मणः कथितो राज्ञे संयुक्तोऽस्या वरःशुभः॥११॥ सर्वलक्षणसंपन्नः सर्वविद्यार्थपारगः । राज्ञा दृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥१२॥ कंबुग्रीवाय कन्यां स्वां दास्यामि वरवणिनीम्। सातुपत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥१३॥ विवाहं ते पिता कर्तु कंबुग्रीवेण वांछति । तच्छ्रत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥१४।। नाहं पति करिष्यामि नेच्छा मेडस्ति परिग्रहे। कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥१५॥ स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि। पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥१६॥ स्वातन्त्र्यान्मोक्षमित्याहः पण्डिनाः शास्त्रकोविदाः । तस्मान्मुक्तों भविष्यामि पत्या मे न प्रयोजनम् ॥१७॥ विवाहे वर्तमाने तु पावकस्य च सन्निधौ। वक्तव्यं वचनं सम्यकत्वदवीनाऽस्मि सर्वदा ॥१८॥ श्वश्रदेवरवर्गाणां दासीत्वं श्वशुरा ये। पतिचित्ताऽनुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥१९॥ कदाचित्पतिरन्यां का कामिनीं च भजेद्यदि। तदा महत्तरं दुःखं सपत्नीसंभवं भवेत् ॥२०।। तदेर्ष्या आयते पत्यौ क्लेशश्रापि भवेदथ । संसारे कव सुखं मातर्नारीणां च विशेषतः ॥२१॥ स्वभावात्परतन्ताणां संसारे स्वप्नधर्मिणि। श्रुतं मया पुरा मातरत्तानचरणात्मनः ॥२२॥ उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नपः। पत्नी ध्मंपरां साध्वीं पति पक्तिपरायणाम् ॥२३॥ अपराधं विना कांतां त्यक्तवान्विपिने प्रियाम् । एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥२४॥ कालयोगान्मृते तस्मित्नारी स्याद्दुःखभाजनम्। वैधव्यं परमं दुःखं शोकसंतापकारकम् ॥२५॥ परोषितपतित्वेजप दुःखं स्यार्दिकं गृहे। मदनाग्निविदग्धाया कि सुखं पतिसंगजम् ॥२६॥ तस्मात्पतिर्न कर्तव्यः सर्वधेति मतिर्मम। एवं प्रोक्ता तदा माता पति प्राह नृपात्मजा ॥२७॥ न च वांछति भर्तारं कौमारव्रतधारिणी। व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥२८।।
Page 292
२९२ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १० न कांक्षति पति कतुं बहुदोषविचक्षण। भार्याया भाषितं श्रुत्वा तर्थव संस्थितो नृपः॥२९॥ विवाहो न कृतः पुत्र्या ज्ञात्वा भावविरजिताम् । वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥३०। यौवनस्यांकुरा जाता नारीणां कामदीपकाः । तथापिसा वयस्याभिः प्रेरिताऽपि पुनः पुनः ॥३१॥ चकमे न पति कतुं ज्ञानार्थपदभाषिणी। एकदोद्यानदेशं सा विहतुं बहुपादपे ॥३२।। जगाम सुमुखी प्रेम्णा सैरंध्रीगणसेविता। रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥३३। पुष्पाणि चिन्वती रम्या वयस्याभि: समावृता। कौशलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥३४॥ आजगाम महावीरो वीरसेनोऽतिविश्रुतः । एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥३५॥ सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः । दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥३६॥ मन्दोदर्ये तथा प्रोक्तं समायाति नरः पर्थि। रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥३७॥ मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह । एवं ब्रुवत्यां तत्रासौ कोशलेन्द्रः समागतः ॥३८॥ दृष्टा तामसितापांगीं विस्मयं प्राप भूपतिः । उत्तीर्य स रथात्तूण पप्रच्छ परिचारिकाम् ॥३९॥ केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे। एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता॥४०॥ प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन । कोइसि त्वं किमिहायातः कि कार्य बद सांप्रतम् ॥ इति पृष्टस्तु सैरंध्रया तामुवाच महीपतिः । कोशलो नाम देशोऽस्ति पृथिव्यां परमाद्दुतः॥४२॥ तस्य पालयिता चाहं वीरसेनाभिधः प्रिये। वाहिनी पृष्ठतः कामं समायाति चतुविधा ॥४३॥ मार्गभ्रमादिह प्राप्तं विद्धि मां कोशलाधिपम् । सैरंध्युवाच चंद्रसेनसुता राजन्नाम्ना मन्दोदरी किल॥ ४४ ॥ उद्याने रंतुकामेयं प्राप्ता कमललोचना। श्रुत्वा तद्द्ाषितं राजा प्रत्युवाच प्रसाधिकाम् ४५॥ सैरंध्रि चतुराऽसि त्वं राजपुत्री प्रबोधय। ककुत्स्थवंशजश्राहं राजाऽस्मि चारुलोचने ॥४६॥ गांधर्वेण विवाहेन परति मां कुरु कामिनि। न मे भार्याडस्ति सुश्रोणि वयसोद्द्ुतयौवना ।।४७।। वांछामि रूपसंपन्नां सुकुलां कामिनीं किल। अथवा ते पिता मह्यं विधिना दातुमर्हति ॥४८।। अनुकूलपतिश्राहं भविष्यामि न संशयः। महिष उवाच इत्याकर्ण्य वचस्तस्य सैरंध्री प्राह तां तदा ॥४९॥ गहस्य मधुरं वाक्यं कामशास्त्रविशारदा।मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्गवः ॥५॥ रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः। प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥५१॥ पिताऽपि ते विशालाक्षि परितप्यति सर्वथा। विवाहकाले ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ५२॥
Page 293
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १८ २९३ इत्याहास्मान्स नृपतिरविनिःश्वस्य पुनः पुनः । पुत्रीं प्रबोधयंत्वेतां सैरंधर्यः सेवने रताः ॥५३। एकुं शक्ता वयं न त्वां हठधर्मरतां पुनः । भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनु:॥५४॥ भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात्। तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम्॥५५॥ मन्दोदर्युवाच माहं पति करिष्यामि चरिष्ये तप अद्भुतम् । निवारय नृपं बाले कि मां पश्यति निस्त्रपः ॥५६॥ सैरंधयुवाच दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः । तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुंदरि ॥५७॥ अन्यथा व्यसनं नूनमापतेदिति निश्चयः । इति तस्या वचः श्रुत्वा कन्योवाचाथतां सखीम् ५८।। दैवयोगादसंशयम्। न विवाहं करिष्येऽहं सर्वथा परिचारिके।।५९।। महिष उवाच इति तस्यास्तु निबंधं ज्ञात्वा प्राह नृपं पुनः । गच्छ राजन्यथाकामं नेयमिच्छति सत्पतिम् ॥६०॥ नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया। कोशलान्विमना भूत्वा कामिनों प्रति निःस्पृहः ६१॥। इति श्रीदेवीभागवने महापुराणे पञ्चमस्कन्धे सप्तदशोऽध्यायः।१७॥ अथ अष्टादशोऽध्यायः महिष उवाच तस्यास्तु भगिनी कन्या नाम्ना चेंदुमती शुभा। विवाहयोग्या संजाता सुरूपावरजा तदा।१॥ तस्या विवाह: संवृत्तः संजातश्च स्त्रयंवरः । राजानो बहुदेशोयाः संगतास्तत्र मंडपे ॥२॥ तया वृत्तो नृपः कश्चिद्वलवात्रूपसंयुतः। कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥३।। तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा। चकमे दैवयोगातुं शठं चातुर्यभूषितम् ॥४॥ पितरं प्राह तन्वंगी विवाहं कुरु मे पितः। इच्छा मेऽद्य समुद्गता दृष्टा मद्राधिपं त्विह ।५॥। चंद्रसेनोऽपि तच्छ्रुत्वा पुत्र्यास्तद्भाषितं रहः । प्रसन्नेन च मनसा तत्कायें तत्परोऽभवत् ॥६॥ तमाहूय नृपं गेहे विवाहविधिना ददौ। कन्यां मंदोदरीं तस्म पारिवहं तथा बहु ।।।। चारुदेष्णोऽपि तां प्राप्य सुंदरीं मुदितोऽभवत् । जगाम स्वगृहं तुष्टो राजाऽपि सहितः स्िया ॥८॥ रेमे नृपतिशार्दूलः कामिन्या बहुवासरान्। कदाचिद्दासपत्न्या स रममाणो रहः किल ॥९॥ सैरंध्या कथितं तस्यै तया दृष्टः पतिस्तथा । उपालंभं ददी तस्म स्मितपूर्व रुषान्व्रिना ॥१०॥ कदाचिदपि सामान्यां रहो रूपवतीं नृपः । क्रीडयंल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥११। न ज्ञातोडयं शठः पूर्वं यदा दृष्टः स्वयंवरे। कि कृतं तु मया मोहंबिताऽहं नृपेण है।।१२।
Page 294
२९४ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १८ कि करोम्यद्य संतापं निर्लज्जे निर्घृणे शठे। का प्रीतिरीदशे पत्यौ धिगद्य मम जीवितम् ॥१३॥ अद्यप्रभृति संसारे सुखं त्यत्तं मया खलु। पतिसंभोगजं सर्वं संतोषोऽद्य मया कृतः ॥१४॥ अकर्तव्यं कृतं काय तज्जातं दुःखदं मम। देहत्यागः क्रियते चेद्धत्याऽतीव दुरत्यया॥१५॥ पितृगेहं ब्रजाम्याशु तत्रापि न सुखं भवेत् । हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥१६॥ तस्मादत्रव संवासो वैराग्ययुतया मया। कर्तव्यः कालयोगेन त्यवत्वा कामसुखं पुनः ॥१७॥ महिष उवाच इति संचित्य सा नारी दुःखशोकपरायणा । स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥१८।। तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् । अन्यं कापुरुषं मंदं कामार्ता संश्रयिष्यसि ॥१९॥ वचनं कुरु मे तथ्यं नारीणां परमं हितम् । अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥२०॥ देव्युवाच मंदात्मन्गच्छ पातालं युद्धं वा कुरु सांप्रतम् । हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम्।२१॥ यदा यदा हि साधूनां दुःसं भवति दानव। तदा तेषां च रक्षार्थ देहं संधारयाम्यहम् ।२२॥ अरूपायाश्च मे रूपमजन्मायाश्र जन्म च । सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥२३॥ सत्यं ब्रवीमि जानीहि प्रार्थिताऽहं सुरैः किल। त्वद्वधार्थ हयारे त्वां हत्वा स्थास्यामि निश्चला॥२४॥ तस्माद्युध्यस्व वा गध्छ पातालमसुरालयम् । सर्वथा त्वां हनिष्यामि सत्यमेतद्ब्रीम्यहम् ॥२५॥ व्यास उवाच इत्युक्त: स तथा देव्या धनुरादाय दानवः । युद्धकामः स्थितस्तत्र संग्रामांगणभूमिषु ॥२६॥ मुमोच तरसा बाणान्कर्णाकृष्टञ्छिलाशितान् । देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥२७॥ तयोः परस्परं युद्धं संबभूव भयप्रदम्। देवानां दानवानां च परस्परजयैषिणाम् ॥२८॥ मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान्। देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ।२९॥ ततो भगवती क्रुद्धा तं जघान शितैः शरैः । दुर्धरस्तु पपातोर्व्यां गतासुगिरिशृंगवत् ॥३०॥ तं तथा निहतं दृष्टा त्रिनेत्र: परमास्त्रवित्। आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥३१॥ अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् । त्रिशृलेन त्रिनेन्रं तुजघान जगदंबिका ॥३२। अंधकस्त्वाजगामाशु हतं दृष्टा त्रिलोचनम्। गदया लोहमय्याशु सिंहं विव्याध मस्तके ।३३॥ सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् । चखाद तरसा मांसमंधकस्य रुषान्वितः ॥३४॥ तात्रणे निहतान्वीक्ष्य दानवो विस्मयं गतः । चिक्षेप तरसा बाणानतिनीक्ष्णाञ्छिलाशितान्॥ द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखै; । गदया ताडयामास दैत्यं वक्षसि चांबिका॥३६।। स गदाडभिहतो मूर्छामवापामरदाधकः। विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥३७॥
Page 295
श्रीमद्ेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १८ २९५ जधान गदया सिंहं मूध्निं क्रोधसमन्वितः । सिंहोऽपि नखघातेन तं ददार महासुरम् ॥३८॥ बिहाय पोरुषं रूपं सोऽपि सिंहो बभूव ह। नखैविदारयामाम देवीसिंहं मदोत्कटम्।३९॥। तं च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुग्ैः। शरैरवाकिरत्तीक्ष्णैः क्र रैंराशोविषैरिव ॥४०॥ त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः । शैलशृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥४१॥ आगच्छंतं गिरे: शृङ्गं देवी बाणैः शिलाशितैः । चकार तिलशः सण्डाअहास जगदम्बिका ॥४२॥ उत्पत्य च तदा सिंहस्तस्य मू्ध्नि व्यवस्थितः । नखैरविदारयामास महिषं गजरूपिणम् ॥४३॥ बिहाय गजरूपं च बभूवाष्टापदी तथा। हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥४४॥ तं वीक्ष्य शरभं देवी खड्गेन सरुषान्विता। उत्तमांगे जधानाशु सोऽपि तां प्राहरत्तदा ।।४५।। तयो: परस्परं युद्धं बभूवातिभयप्रदम् । माहिषं रूपमास्थाय शृङ्गाभ्यां प्राहरत्तदा ॥४६॥ पुच्छप्रभ्र मणनाशु शृङ्गाघातैमहामुरः । ताडयामास तन्वङ्गीं घोररूपो भयानक: ॥४७॥ पुच्छेन पर्वताञ्छुङ्ग गृहीत्वा भ्रामयन्बलात्। प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥४८॥ तामुवाच बलोन्मत्तस्तिष्ठ देवि रणांगणे। अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ।४९।। मुर्खाइसि मदमत्ताऽद्य यन्मया सह सङ्गरम्। करोषि मोहिताऽतीव मृषा बलवती खरा ॥५०॥ हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् । ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः।५१॥ देव्युवाच मा गवं कुरु मन्दात्मंस्तिष्ठ तिष्ट रणांगणे। करिष्यामि निरातंकान्हत्वा त्वां सुरसत्तमान् ॥५२॥ पीत्माऽद्य माधवीं मिष्टां शातयामि रणेऽधम। देवानां दुःखदं पापं मुनीनां भयकारकम् ॥५३॥ व्यास उवाच इत्युवस्वा चषकं हैमं गृहीत्वा सुरया युतम् । पपो पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ।।५४॥ पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा। दुद्राव दानवं देवी हर्षयन्देवतागणान् ।५५॥ देवास्तां तष्टुवुः प्रेम्णा चक्रु: कुसुमवर्षणम्। जय जीवेति ते प्रोचुर्दुन्दुभोनां च निःस्वनैः ॥५६॥ कषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः । किन्नराः प्रेक्ष्य संग्रामं मुदिता गगने स्थिताः ॥५७॥ सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः । मायामयाअघानाजो देवीं कपटपंडितः ॥५८। बंडिकाऽपि च तं पापं त्रिशूलेन बलाद्धदि। ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ।५९॥ ताडितोऽसी पपातोव्यां मुच्छामाप मुहूर्तकम् । पुनरुत्थाय चामुंडां पद्द्रयां वेगादताडयत् ॥६०।। विनिहत्य पदाघातैर्जहास च मुहर्मुहुः। रुराव दारुणं शब्दं देवानां भयकारकम् ॥६१॥ ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम्। करे कृत्वा जगादाच्चः संस्थितं महिषासुरम् ॥६२॥ पश्य चक्रं मदांधाद्य तव कण्ठनिकृन्तनम्। क्षणमात्रं स्थिरो भूत्वा यमलोकं ब्रजाधुना ॥६३।
Page 296
२९३ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १९ इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका। शिरश्छिन्न रथांगेन दानवस्य तदा रणे ॥६४॥ सुस्राव रुधिरं चोष्णं कण्ठनालाद्विरेर्यथा। गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥६५॥ कबन्धस्तस्य दैत्यस्य भ्रमन् वै पतितः क्षितौ। जयशद्दश्च देवानां बभूव सुखवर्धनः ॥६६॥ सिंहस्त्वतिबलस्तत्र पलायनपरानथ। दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥६७॥ मृते च महिषे क्ररे दानवा भयपीडिताः। मृतशेपाश्र ये केचित्पातालं ते ययुर्नृप ॥६८॥ आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते। मुनयो मानवाश्रव ये चान्ये साधवः क्षितौ ॥६९॥ चण्डिकाऽपि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता। देवास्तत्राययुः शीघ्र स्तोतुकामाः सुखप्रदाम्॥७०॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे महिषासुरवधो नामाष्टादशोऽध्यायः॥१८॥ अथैकोनविंशोऽध्यायः व्यास उवाच अथ प्रमुदिता: सर्वे देवा इन्द्रपुरोगमाः। महिषं निहनं दृष्टा तुष्टुवुर्जगदम्बिकाम् ॥१॥ देवा ऊचु: ब्रह्मा सृजत्यवति विष्णुरिदं महेशः शवत्या तवैव हरते ननु चांतकाले। ईशा न तेऽपि च भवन्ति तया विहीनास्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥२॥ कीतिर्मीतः स्मृतिगती करुणा दया त्वं श्रद्धा धृतिश्र वसुधा कगला जया च। पुष्टिः कलाऽथ बिजया गिरिजा जया त्वं तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥३॥ विद्या क्षमा जगति कांतिरपीह मेधा सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् । आभिर्विना तव तु शक्तिभिराशु कर्तु को वा क्षमः सकललोकनिवासभूमे ॥४॥ त्वं धारणा ननु न चेदसि कूर्मनागौ धर्तुं क्षमौ कथमिलामपि तो भवेताम्। पृथ्वी न चेत्त्वमसि वा गगने कथं स्थास्यत्येनदम्ब निखिलं बहुभारयुक्तम् ॥५॥ ये वा स्तुवन्ति मनुजा अमरान्विमूढा मायागुणस्तव चतुर्मुखविष्णुरुद्रान्। शुभ्रांशुर्वाह्नयमवायुगणेशमुख्यान्कि त्वामृते जननि ते प्रभवन्ति कारये ॥६॥ ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञं वासौ सुरान्समधिकृत्य हविः समृद्धम् । स्वाहा न चेत्वमसि ते कथमापुरद्धा त्वामेव कि न हि यजंति ततो हि मूढाः ॥७॥ भोगप्रदाऽसि भवतीह चराचराणां स्वांशैर्ददासि खलु जीवनमेव नित्यम्। स्वीयान्सुराअननि पोषयसीह यद्वत्तद्वत्परानपि च पालयसीति हेतोः ॥८।।
Page 297
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १९ २९७ मातः स्वयं विरचितान्विपिने विनोदाद्वंध्यान्पलाशरहितांश्र कटंश्र वृक्षान्। नोच्छेदयंति पुरुषा निपुणाः कथंचित्तस्मात्त्वमप्यतितरां परिपासि दैत्यान्।।९।। यत्त्वं तु हंसि रणमूध्नि शरैररातीन्देवांगनासुरतकेलिमतीन्व्विदित्वा। देहान्तरेऽपि करुणारसमाददाना तत्ते चरित्रमिदमीप्सितपूरणाय ॥१०॥ चित्रं त्वमी यदसुभी रहिता न सन्ति त्वच्चितितेन दनुजाः प्रथितप्रभावाः । येषां कृते जननि देहनिबन्धनं ते क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ।११। प्राप्त कलावहह दुष्टतरे च काले न त्वां भजन्ति मनुजा ननु वञ्चितास्ते। धूतेः पुराणचतुरैहरिशङ्कराणां सेवापराश्च विहितास्तव निर्मितानाम् ॥१२॥ ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्र ये वे भजन्ति भुवि भावयुता निमग्नान्। धृत्वा करे सुविमलं खलु दीपकं ते कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥१३॥ विद्या त्वमेव सुखदाऽसुखदाऽप्यविद्या मातस्त्वमेव जननातिहरा नराणाम्। मोक्षारयिभिस्तु कलिता किल मंदधीभिर्नाराधिता जननि भोगपरैस्तथाऽज्ञैः ॥१४॥ ब्रह्मा हरश्च हरिरप्यनिश शरण्यं पादांबुजं तव भजंति सुरास्तथान्ये। तद्व न येऽल्पमतयो मनसा भजन्ति भ्रान्ताः पतन्ति सततं भवसागरे ते ।१५॥ चण्डि त्वदंघ्रजलजोत्थरजःप्रसादैर्ब्रह्मा करोति सकलं भुवनं भवादौ। शौरिश्र पाति खलु संहरते हरस्तु त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥१६॥ वाग्देवता त्वमसि देवि सुरासुराणां वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः । त्वं चेन्मुखे वससि नैव यदैव तेषां यस्माद्वन्ति मनुजा न हि तद्रिहीनाः ॥१॥ शप्तो हरिस्तु भृगुणा कुपितेन कामं मीनो बभूव कमठः खलू सूकरस्तु। पश्चान्नृसिंह इति यश्छलकृद्धरायां तान्सेवतां जननि मृत्युभयं न कि स्यात् ॥१८।। शम्भो: पपात भुवि लिंगमिदं प्रसिद्धं शापेन तेन च भृगोविपिने गतस्य। तं. ये नरा भुवि भजंति कपालिनं तु तेषां सुखं कथमिहापि परत्र मातः ॥१९॥ योऽभूद्वजाननगणाघिपतिर्महेशात्तं ये भजन्ति मनुजा वितथप्रपन्नाः । जानंति ते न सकलार्थफलप्रदात्रीं त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥२०॥ चित्रं त्वयाऽरिजनताऽपि दयार्द्रभावाद्धत्वा रणे शितशरैर्गमिता द्युलोकम् । नोचेत्स्वकर्मनिचिते निरये नितान्तं दुःखातिदुःखगतिमापदमापतेत्सा ।२१।। ब्रह्मा हरश्र हरिरप्युत गर्वभावाज्जानंति तेऽपि विबुधा न तव प्रभावम् । केऽन्ये भवंति मनुजा विदितुं समर्थाः संमोहितास्तव गुणैरमितप्रभावैः ॥२२॥
Page 298
२९८ श्रीमद्ेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: १९ क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं पादाम्बुजं न हि भजन्ति विमूढचित्ताः । सूर्याग्निसेवनपराः परमार्थतत्त्वं ज्ञातं न तैः श्रुतिशतैरषि वेदसारम् ॥२३॥ मन्ये गुणास्तव भुवि प्रथितप्रभावाः कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात्। लोकान्स्वबुद्धिरचितैर्विविधागमेश्र विष्ण्वोशभास्करगणेशपरान्विधाय ॥२४।।
तेषां न कुप्यसि दयां कुरुषेडम्बिके त्वं तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ।२५॥ तुर्ये युगे भवति चातिबलं गुणस्य तुर्यस्य तेन मथितान्यसदागमानि। त्वां गोपयन्ति निपुणाः कवयः कलौ वै त्वत्कल्पितासुरगणानपि संस्तुवन्ति ॥२६॥ ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां विद्यां परां च मुनयोऽतिविशुद्धसत्त्वाः । ते नाप्नुवन्ति जननीजठरे तु दुःखं धन्यास्त एव मनुजास्त्वयि ये वरिलीनाः ॥२७॥ चिच्छक्तिरस्ति परमात्मनि येन सोऽपि व्यक्तो जगत्सु विदितो भवकृत्यकर्ता । कोऽन्यस्त्वया त्रिरहितः प्रभवत्यमुष्मिन्कतुं विहर्तुमपि सञ्चलितं स्वशक्त्या ।२८।। तत्त्वानि चिद्विरहितानि जगद्विधातुं कि वा क्षमाणि जगदम्ब यतो जडानि। कि चेन्द्रियाणि गुणकर्मयुतानि सन्ति देवि त्वया विरहितानि फलं प्रदातुम् ।२९॥ देवा मखेष्वपि हुतं मुनिभिः स्वभागं गृह्लीयुरम्ब विधिवत्प्रतिपादितं किम् । स्वाहा न चेत्त्वमसि तत्र निमित्तभूता तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥३०॥ स्वं त्वयेदमखिलं विहितं भवादौ त्वं पासि वै हरिहरप्रमुखान्दिगीशान्। कालेऽत्मि विश्वमपि ते चरितं भवाद्यं जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥३१॥ हत्वाऽसुरं महिपरूपधरं महोग्रं मातस्त्वया सुरगणः किल रक्षितोऽयम् । कां ते स्नुर्ति जननि मन्दधियो विदामो वेदा गति तव यथार्थतया न जग्मुः ॥३२॥ काय कृतं जगति नो यदसौ दुरात्मा वैरी हता भुवनकंटकदुर्विभाव्यः । कीर्तिः कृता ननु जगत्सु कृपा विधेयाऽप्यस्मांश्र पाहि जननि प्रथितप्रभावे ॥३३॥ व्यास उवाच एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा। अन्यत्कार्य च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥३४॥ यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम्। स्मर्तव्याऽहं तदा शीघ्र नाशयिष्यामि चापदम् ३५॥ सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् । यदयं निहतः शत्ररस्माकं महिषासुरः॥३६॥ देवा ऊचुः स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम्। तथा कुरु जगन्मातर्भक्ति त्वय्यप्यचञ्चलाम् ॥३७॥।
Page 299
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २० २९९.
अपराधसहस्राणि मातैव सहते सदा। इति ज्ञात्वा जगद्योनि न भजंते कुतो जनाः॥३८।। द्वौ सुपर्णो तु देहेऽस्मिस्तयोः सख्यं निरंतरम्। नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि॥।३९॥ तस्माज्जीवःसखायं त्वां हित्वा कि नु करिष्यति। पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥४०॥ प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः । मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः॥४१॥ सुखे वाप्यथ वा दुःखे त्वं नः शरणमद्धतम् । पाहि नः सततं देवि सर्वेस्तव वरायुधैः ॥४२॥ अन्यथा शरणं नास्ति त्वत्पदांबुजरेणृतः। एवं स्तुता सुरैर्देवो तत्रवांतरधीयत ।।४३।। विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम्॥ इति श्रीदेवीमागवते महापुराणे पञ्चमस्कन्धे एकोनविंशोऽध्यायः ॥१९॥ अथ विंशोऽध्यायः जनमेजय उवाच अथाद्भुतं वीक्ष्य मुने प्रभाव देव्या जगच्छांतिकरं परं च। न तृप्तिरस्ति द्विजवर्य शरृण्वतः कथामृतं ते मुखपझ्मजातम् ॥ १॥ अन्तर्हितायां च तदा भवान्यां चक्ुश्च किं देवपुरोगमास्ते। देव्याश्ररित्रं परमं पवित्रं दुरापमेवाल्पपुण्यैरनराणाम्॥। २ ॥ कस्तृप्तिमाप्नोति कथामृतेन भिन्नोजल्पभाग्यात्पटुकर्णरं्रः । पीतेन येनामरता प्रयाति धिक्तान्नरान् ये न पिबंति सादरम् ॥ ३ ॥ लीलाचरित्रं जगदंबिकाया रक्षान्वितं देवमहामुनीनाम् । संसारवार्घेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः ॥४॥ मुक्ताश्र ये चैव मुमुक्षवश्र संसारिणो रोगयुताश्च केचित्। तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति ॥ ५ ॥ तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम्। ·मुक्त्ताश्च यस्मात्खलु तत्पिबंति कथं न पेयं रहितैश्च तेभ्यः ॥ ६ ॥ यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चंपकैश्च। बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेव ॥७॥ ये भक्तिहोना: समवाप्य देहं तं मानुषं भारतभूमिभागे। यैर्नार्चिता ते धनधान्यहीना रोगान्विताः संततिवर्जिताश्र ॥८॥
Page 300
३०० श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २० भ्रमंति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः । दिवानिशं स्वार्थपराः कदापि नैवाप्नुवंत्यौदरपूर्तिमात्रम् ॥ ९॥ अन्याश्र मूका बधिराश्च खंजाः कुष्ठान्विता ये भुवि दुःखभाजः । तत्रानुमानं कविभिरविधेयं नाराघिता तैः सततं भवानी ॥१०॥ ये राजभोगान्वितन्द्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः । दृश्यंति ये वा विभवैः समेतास्तैः पूजिताऽम्बेत्यनुमेयमेव ॥११॥ तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम्। कथयस्व कृपां कृत्वा दयावानसि सांप्रतम् ॥१२॥ हत्वा तं महिषं पापं स्तुता संपूजिता सुरैः । क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा॥१३॥ कथितं ते महाभाग गतांतर्धानमाशु सा। स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥१४॥ लयं गता वा तत्रव वैकुण्ठे वा समाश्रिता। अथवा हेमशैले सा तत्त्वतो मे वदाधुना॥१५॥ व्यास उवाच पूर्वं मया ते कथितं मणिद्वीपं मनोहरम्। क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥१६॥ यत्र ब्रह्मा हरि: स्थाणुः स्त्रीभावं ते प्रपेदिरे। पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥१७।। यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः । नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥१८॥ स्तुता संपूजिता देवः सा तत्रव गता शिवा। यत्र संक्रीडते नित्यं मायाशक्ति: सनातनी ॥१९॥ देवास्तां निर्गतां वीक्ष्य वेवीं सर्वेश्वरीं तथा। रविवंशोद्गवं चक्रुर्भूमिपालं महाबलम् ॥२०॥ अयोध्याधिपति वीरं शत्रुघ्नं नाम पार्थिवम् । सर्वलक्षणसंपन्नं महिषस्यासने शुभे ॥२१॥ दत्त्वा राज्यं तदा तस्म देवा इन्द्रपुरो माः । स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥२२॥ गनेषु तेषु देवेषु पृथिव्यां पृथिवीपते। धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥२३॥ पर्जन्यः कालवर्षी च धरा धान्यगुणावृता। पादपाः फलपुष्पाढया बभूवुः सुखदाः सदा ॥२४॥ गावश्च क्षीरसंपन्ना घटोध्न्यः कामदा नृणाम् । नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः २५॥ ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा। क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥२६॥ शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः । न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥२७॥ अविरोधस्तु भूतानां सर्वेषां संबभूव ह। आकरा धनदातणां व्रजा गोयूथसंयुताः ।२८।। ब्राह्मणा: क्षत्रिया वैश्याः शद्राश्च नृपसत्तम। देवीभक्तिपराः सर्वे संबभूवुर्घरातले ॥२९॥ सर्वत्र यज्ञयूपाश्च मंडपाश्च मनोहराः । मखैः पूर्णा धराश्रासन् ब्राह्मणः क्षत्रियँःकृतैः ३०॥ पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः । पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥३१॥ न पाखण्डं न वाडधर्मः कुत्रापि पृथिवीतले। वेदवादाः शास्त्रवादा नान्ये वादास्तथाऽभवन् ३२॥
Page 301
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २१ ३०१ कलहो नैव केषांचिन्न दैन्यं नाशुभा मतिः । सर्वत्र सु्खिनो लोकाः काले च मरणं तथा ॥३३॥ सुहृदां न वियोगश्च नापदश्च कदाचन। नानावृष्टिरन दुर्भिक्षं न मारी दुःखदा नृणाम् ॥३४।। न रोगो न च मात्सयं न विरोध: परस्परम् । सर्वत्र सुखसंपत्रा नरा नार्यः सुखान्विताः ॥३५॥ क्रोडंति मानवाः सर्वे स्वगें देवगणा इव। न चोरा न च पाखण्डा वंचका दंभकास्तथा ॥३६॥ पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप । न वेदद्वेषिणः पापा मानवाः पृथिवोपते ॥३७॥ सर्वे धर्मरता नित्यं द्विजसेवापरायणाः। त्रिधात्वात्सृष्टिधमस्य त्रिविधा ब्राह्मणास्ततः ३८।। सात्त्विका राजसाश्चव तामसाश्च तथापरे। सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ३९॥ प्रतिग्रहविहीनाश्च पुरोडाशविधानैश्र पशुभिर्न दयादमपरायणाः । यज्ञांस्ते सात्त्विकैरन्नंः कुर्वाणा धर्मतत्पराः ॥४०॥ कदाचन। दानमध्ययनं चँव यजनं तु तृतीयकम् ॥४१॥ त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप। राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥४२॥ षट्कर्मनिरताः सर्वे विधिवन्मांसभक्षकाः । यजनं याजनं दानं तथैव च प्रतिग्रहः ॥४३॥ अध्ययनं तु वेदातां तथवाघ्यापनं तु षट्। तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥४॥॥ राज्ञां कर्मकरा नित्यं किचिदध्ययने रताः । महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥४५॥ बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा। क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥४६॥ कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे। एवं प्रमुदितो लोको महिषे विनिपातिते ॥४७॥ अनुद्वेगः प्रजानां वै संबभूव धनागमः । बहुक्षीराः शुभा गावो नद्यश्चैव बहूदकाः ॥४८॥ वृक्षा बहुफलाश्रासन्मानवा रोगवर्जिताः । नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥४९॥ न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले सकलविभवयुक्ता रोगहीनाः सदैव। निगमविहितधर्मे तत्पराश्चंडिकायाश्चरणसरसिजानां सेवने दत्तचित्ताः ॥५०॥ इति श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे विंशोऽध्यायः ॥ २०॥ अथ एकविंशोऽध्यायः व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्याश्ररितमुत्तमम् । सुखदं सर्वजंतूनां सर्वपापप्रणाशनम् ॥१॥ यथा शुंभो निशुंभश्च भ्रातरौ बलवत्तरौ। वभूवतुमंहावीरौ अवध्यौ पुरुषैः किल ॥२॥ बहुमेनावृतौ शूरौ देवानां दुःखदौ सदा। दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥३॥ हतावम्बिकया तौ तु संग्रामेऽतीव दारुण। देवानां च हितार्थाय सर्वेंः परिचरैः सह ॥४॥ चंडमुंडौ महाबाहू रक्तबीजोऽतिदारुणः । धूम्रलोचननामा च निहतास्ते रणांगणे ।५॥
Page 302
३०२ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः २१ तान्निहत्य सुराणां सा जहार भयमुत्तमम् । स्तुता संपूजिता देवैगिरो हैमाचले शुभे ॥।६॥। राजोवाच कथितावसुरावादी कथं तौ बलिनां वरौ। केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ।।७॥ तपसा वरदानेन कस्य जातौ महाबलौ। कथं च निहतौ सवं कथयस्व सविस्तरम् ।८। व्यास उवाच शृणु राजन्कथां दिव्यां सर्वपापग्णाशिनीम् । देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥९॥ पुरा शुंभनिशुंभी द्वावसुरौ भूमिमंडले। पातालतश्र संप्राप्ती भ्रातरौ शुभदर्शनौ ॥१०॥ तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् । अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥११॥ वर्षागामयुतं यावद्योगविद्यापरायणौ। एकत्रवासनं कृत्वा तेपाते परमं तपः ॥१२॥ तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः। तत्रागतश्च भगवानारुह्य वरटापतिम् ॥१३॥ तावुभौ च जगत्स्रष्टा दृष्टा ध्यानपरौ स्थितौ। उत्तिष्ठतं महाभागौ तुष्टोऽहं तपसा किल ॥१४॥ व्यास उवाच वाञ्छितं वा वरं कामं ददामि ब्रुवतामिह। कामदोऽहं समायातो दृष्टा वां तपसो बलम् ॥१५॥ इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ। प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥१६॥ दंडवत्प्रणिपातं च कृत्वा तौ दुर्बलाकृती। ऊचतुर्मधुरां वाचं दीनौ गद्रदया गिरा ॥१७॥ देवदेव दयासिन्धो भक्तानामभयप्रद । अमरत्वं च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥।१८। मरणादपरं किञ्चिन्यं नास्ति धरातले। तस्माद्भयाच्च संत्रस्तौ युष्माक शरणं गतौ ॥१९॥ भराहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे। परिस्फोटय विश्वात्मन्सद्यो मरणजं भयम् ॥२०॥ ब्रह्मोवाच किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा। अदेयं सर्वथा सर्वेः सर्वेभ्यो भुवनत्रये ॥२१॥ जातस्य हि ध्रुवो मृत्युध्रुवं जन्म मृतस्य च। मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥२२॥ मर्तव्यं सर्वथा सर्वेः प्राणिभिर्नात्र संशयः। अन्यं प्रार्थयतं कामं ददामि यच्च वांछितम् ।२३॥ व्यास उवाच तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ। ऊचतुः परणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥२४॥ पुरुषैरमराद्यांश्र मानवैर्मगपक्षिभिः । अवध्यत्वं कृपासिधो देहि नौ वांछितं वरम्-॥२५॥ नारी बलवती काडस्ति या नौ नाशं करिष्यति। न विभोवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥२६॥ अवष्यौ भ्रातरो स्यातां नरेभ्यः पंकजोद्द्व । भयं न स्त्रीजनेभ्यश्च स्वभावादबला हिसा ॥२७॥
Page 303
श्रीमद्वेवीभागवते महापुराणे पश्रमस्कन्धे अध्याय: २१ ३०३
इति श्रुत्वा तयोर्वा्यं प्रददौ वांछितं वरम्। ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥२८। व्यास उवाच
गतेऽय भवने तस्मिन्दानवौ स्वगृहं गतौ। भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ।२९॥ शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् । कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥३०॥ शुभाय ज्येष्टभूताय ददौ राज्यासनं शुभम् । सेवनार्थं तदवाशु सम्प्राप्ता दानवोत्तमाः ॥३१॥ चण्डमुण्डौ महावीरो भ्रातरौ बलदर्पितो । सम्प्राप्तो सैन्यसंयुक्तो रथवाजिगजान्वितौ ॥३२॥ धूम्रलोचननामा च तद्रपश्चण्डविक्रमः । शुंभं च भूपति श्रुत्वा तदाऽगाद्वलसंयुतः ॥३३॥ रक्तबीजस्तथा शूरो वरदानबलाधिकः । अक्षौहिणीभ्यां संयुक्तस्तत्रंवागत्य संगत. ॥३४॥ तस्यैकं कारणं राजन्संग्रामे युध्यतः सदा। देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च ।३५॥ जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः । तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः ॥३६॥ सम्भर्वान्त तदाकारास्तद्रपास्तत्पराक्रमाः । युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः ॥३७॥ अतः सोऽपि महावीर्यः संग्रामेऽतीव दुर्जयः । अवध्यः सर्वभूतानां रक्तबीजो महासुरः ॥३८॥ अन्ये च बहवः शूराश्रतुरङ्गसमन्विताः । शुंभं च नृपतत मत्वा बभूवुस्तस्य सेवकाः ॥३९॥ असंख्याता तदा जाता सेना शुंभनिशुंभयोः । पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया ॥४०॥ सेनायोगं तदा कृत्वा निशुंभः परवोरहा। जगाम तरसा स्वर्ग शचीपतिजयाय च।४१॥। चकारासौ महायुद्धं लाकपालः समन्ततः । बृत्रहा वज्रपातेन ताडयामास वक्षसि ॥४२॥ स वज्रराभिहतो भूमौ पपात दानवानुजः । भग्नं बलं तदा तस्य निशुंभस्य महात्मनः ॥४३॥ भ्रातरं मूर्छितं श्रुत्वा शुंभः परबलादनः । तत्रागत्य सुरान्सर्वांस्ताडयामास सायकैः ॥४४॥ कृतं युद्धं महत्तेन शुंभेनाक्लिष्टकर्मणा। निर्जितास्तु सुराः सर्वे सेंद्राः पालाश्र सर्वशः॥४५॥ ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया। कल्पपादपसंयुक्तं कामधेनुसमन्वितम् ॥४६॥ त्रैलोक्यं यज्ञभागाश्र हृतास्तेन महात्मना। नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः॥४७॥ सुधायाश्चंव पानेन सुखमाप महासुरः । कुबेरं स च निर्जित्य तस्य राज्यं चकार है॥४८॥ अधिकारं तथा भानो: शशिनश्च चकार है। य्म चैव विनिर्जित्य जग्राह तत्पदं तथा ॥४९।। वरुणस्य नथा राज्यं चकार वह्निकर्म च। वायोः कार्य निशुंभश्च चकार स्वबलान्वितः ॥५०॥ ततो देवा विनिर्धूता हृतराज्या हृतश्रियः । संत्यज्य नन्दनं सर्वे निर्ययुगिरिगह्वरे ॥५१॥ हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने। निरालंबा निराधारा निस्तेजस्का निरायुधाः ॥५२॥ विचेरुरमराः सर्वे पर्वतानां गुहासु च। उद्यानेषु च शून्येषु नदीनां गह्वरेपु च ॥५३॥ न प्रापुस्ते सुखं क्वापि स्थानभ्रष्टा विचेतसः । लोकपाला महाराज दैवाघीनं सुखं किल ॥५४॥
Page 304
३०४ श्रीम देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २२ बलवन्तो महाभागा बहुज्ञा धनसंयुताः । काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप ॥५५॥। चित्रमेतन्महाराज कालस्यैव विचेष्टितम् । यः करोति नरं तावद्राजानं भिक्षुकं ततः ॥५६॥ दातारं याचकं चंव बलवन्तं तथाबलम्। पंडितं विकलं कामं शूरं चातीव कातरम् ॥५७॥ मखानां च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम्। पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी ।५८।। काल: करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम्। तमेवातीव पापिष्ठ ज्ञानलेशविवर्जितम् ॥५९॥ न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते। ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम् विष्णुर्जननमाप्नोति सूकरादिषु योनिषु। हरः कपाली सज्जातः कालेनैव बलीयसा ॥६१॥ इति श्रीदेवीभागवते महापुराणे पंचमस्कन्धे भगवतीमाहात्म्य एकविशोऽध्यायः ॥२१। अथ द्वाविंशोऽध्यायः व्यास उवाच पराजिता: सुराः सर्वे राज्यं शुंभः शशास ह। एवं वर्षसहस्त्रं तु जगाम नृपसत्तम ॥१॥ भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम्। गुरुं दुःखातुरास्ते तु पप्रच्छ्रुरिदमादृताः ॥२॥ किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः । उपायोऽस्ति महाभाग दुःखस्यापि निवृत्तये ॥३॥ उपचारपरा नूनं वेदमन्त्रा: सहस्रशः । वांछितार्थकरा नूनं सूत्रैः संलक्षिता: किल ॥४॥ इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः । ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥५॥ विधिः शत्रुविनाशाय यथोदिष्टः सदागमे। तं कुरुष्वाद्य विधिवद्यथा नो दुःखसंक्षयः ॥६॥ भवेदांगिरसाद्यैव तथा त्वं कर्तुमहंसि। दानवानां विनाशाय अभिचारं यथामति ॥७॥ बृहस्पतिरुवाच सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते। न स्वतन्त्राः सुराधीश तर्थकान्तफलप्रदाः ॥८।। मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम्। जाताःस्म कालयोगेन किं करोमि प्रसाधनम् ॥९॥ इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु। ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥१०॥ अवश्यंभाविभावानां प्रतीकारो न विद्यत। उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥११॥ दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः । उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥१२॥ दैवं चैवाप्युपायश्र द्वावेवाभिमतौ नृणाम्। केवलं दैवमाश्रित्य न स्थातव्य कदाचन ॥१३॥ उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः । तस्माद्ब्रवीमिः वः सर्वान्संविचार्य पुनः पुनः ॥१४॥ पुरा भगवती तुष्टा जघान महिपासुरम्। युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥१५॥ आपदं नाशयिष्यामि संस्मृता वा सदैव हि। यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥१६॥
Page 305
२० श्रीमद्देवीभागवत महापुराणे पंचमस्कन्धे अध्याय: २२ ३०५ प्रभवंति तदा कामं स्मर्तव्याऽहं सुरैः सदा। स्मृताऽहं नाशयिष्यामि युष्माकं परमापदः ॥१७॥ तस्माद्विमाचले गत्वा पर्वते सुमनोहरे। आराधनं चंडिकायाः कुरुष्वं प्रेमपूर्वकम् ॥१८ मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः । जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥१९॥ दुःखस्यांतोऽद्य युष्माकं दृश्यते नात्र संशयः । तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥२०॥ स्तुता सम्पूजिता सदो वांछितार्थान्प्रदास्यति। निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥२१॥ सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति। व्यास उवाच
हिमालयं महाराज इति तस्य वच: श्रुत्वा देवास्ते प्रययुगिरिम् ॥२२॥ देवीध्यानपरायणा। मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि॥२३॥ नमश्च कुर्महामायां भक्तानामभयप्रदाम् । तुष्टवुः स्तोत्रमन्त्रश्र भक्त्या परमया युताः ॥२४॥ नमो देवि विश्वेश्वरि प्राणनाथे सदानन्दरूपे सुरानन्ददे ते। नमो दानवान्तप्रदे मानवानामनेकार्थदे भक्तिगम्यस्वरूपे ।।२५।। न ते नामसंख्या न ते रूपमीदृक्तथा कोऽपि वेदादिदेवादिरूपे। त्वमेवासि सर्वेषु शक्तिस्वरूपा प्रजासृष्टिसंहारकाले सदैव ॥२६॥ स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धिर्जरा पुष्टितुष्टी धृतिः कांतिशांती। सुविद्या सुलक्ष्मीर्गतिः कीतिमेधे त्वमेवासि विश्वस्य बीजं पुराणम् ॥२७॥ यदा यैः स्वरूपैः करोषीह कार्य सुराणां च तेभ्यो नमामोऽद्य शांत्यै। क्षमा योगनिद्रा दया त्वं विवक्षा स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥२८॥ कृतं कार्यमादौ त्दया यत्सुराणां हतोऽसी महारिर्मदांधो हयारिः। दया ते सदा सर्वदेवेषु देवि प्रसिद्धा पुराणेषु वेदेषु गीता ।२९॥ किमत्रास्ति चित्रं यदम्बा सुतं स्वं मदा पालयेत्पोषयेत्सम्यगेव। यतस्त्वं जनित्री सुराणां सहाया कुरुष्वैकचित्तेन कार्य समग्रम् ॥३०॥ न वा ते गुणानामियत्तां स्वरूपं वयं देवि जानीमहे विश्रबन्दे। कृपापानमित्वेव मत्वा तथाऽस्मान्भयेभ्यः सदा पाहि पातुं समथे ॥३१॥ विना वाणपातैर्विना मुष्टिघातैविना शलखड्गैरविना शनिदण्डैः । रिपून्हन्तुमेवासि शक्का विनोदात्तथापीह लोकोपकाराय लीला ॥३२॥ इदं शाश्रतं नैव जानन्ति मूढा न कार्य विना कारणं सम्भवेद्रा। वयं तर्कयामोऽनुमानं प्रमाणं त्वमेवासि कर्ताइस्य विश्वस्य चेति ॥३३॥
Page 306
३०३ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २२ अजः सृष्टिकर्ता मुकुन्दोऽविताऽयं हरो नाशकृद्वा पुराणे प्रसिद्धः । न किं त्वत्प्रसूतास्त्रयस्ते युगादौ त्वमेवासि सर्वस्य तेनैव माता ॥३४॥ त्रिभिस्त्वं पुराराघिता देवि दत्ता त्वया शक्तिरुग्रा च तेभ्यः समग्रा । त्वया संयुतास्ते प्रकुवति कामं जगत्पालनोत्पत्तिसंहारमेव ॥३५॥ ते कि न मंदमतयो यतयो विमूढ़ास्त्वां ये न विश्वजननीं समुपाश्रयंति। विद्यां परां सकलकामफलप्रदां तां मुक्तिप्रदां विबुधवृंदसुवंदिताध्रिम् ॥३६। ये वैष्णवाः पाशुपताश्र सौरा दंभास्त एव प्रतिभांति नूनम् । ध्यायंति न त्वां कमलां च लज्जां कांर्ति स्थिति कीर्तिमथापि पुष्टिम् ॥३७॥ हरिहरादिभिरप्यथ सेविता त्वमिह देववरैरसुरैस्तथा। भुवि भजंति न येऽल्पधियो नरा जननि ते विधिना खलु वंचिताः ॥३८।। जलघिजापदपंकजरंजनं जतुरसेन करोति हरि: स्वयम् । त्रिनयनोऽपि किमपरस्य नरस्य कथानकैस्तव पदाब्जयुगं न भजंति के। विगतरागगृहाश्च दयां क्षमां कृतघियो मुनयोऽपि भजंति ते ॥४०॥ देवि त्वदंधिभजने न जना रता ये संसारकपपतिताः पतिताः किलामी। ते कुष्ठगुल्मशिरआधियुता भवंति दारिद्रयदैन्यसहिता र्राहता: सुखौघैः ॥४१॥ ये काष्टभारवहने यवसावहारे कार्ये भवन्ति निपुणा धनदारहीनाः । जानीमहेऽल्पमतिभिर्भवदंध्रिसेवा पूर्वे भवे जननि तैर्न कृता कदाऽपि ।४२।। व्यास उवाच एवं स्तुता सुरैः सर्वेरम्बिका करुणान्विता। प्रादुर्बभूव तरसा रूपयोवनसंयुता ॥४३।। दिव्यांबरघरा देवी दिव्यभूषणभूषिता । दिव्यमाल्यसमायुक्ता दिव्यचंदनचर्चिता ॥४४।। जगन्मोहनलावण्या सर्वलक्षणलक्षिता। अद्वितीयस्वरूपा सा देवानां दर्शनं गता।४५॥ जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् । दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥४६॥ देवान्स्तुतिपरानाह मेघगंभीरया गिरा। प्रेमपूर्व स्मितं कृत्वा कोकिलामंजुवादिनी ।।४७।। देव्युवाच भो गोः सुरवराः काऽत भर्वद्धि: स्तूयते भृशम् । किमथ ब्रूत वः काय चिंताविष्टाः कुतः पुनः ॥४८॥ व्यास उवाच तच्दत्वा भाषितं तस्या मोहिता रूपसंपदा। प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥४९॥
Page 307
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २३ ३०७ देवा ऊचु: शैरैवि स्तुमस्त्वां विश्वेशि प्रणताःस्म कृपार्णवे। पाहिनः सर्वदुःखेभ्यःसंविग्नान्दैत्य नापितान्॥५०॥ पुरा त्वया महादेवि निहत्यासुरकंटकम्। महिप नो वरो दत्तः स्मर्तव्याऽहं सदापदि ॥५१॥ स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम्। तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥५२॥ अद्य. शुंभनिशुम्भौ द्वावसुरौ घोरदर्शनौ। उत्पन्नो विघ्नकर्तारावहन्यौ पुरुषैः किल ॥५३॥ रक्तबीजश्च बलवांश्रंडमुंडौ तथाऽसुरौ। एतैरन्यैश्र देवानां हृतं राज्यं महाबलै: ॥५४॥ गतिरन्या न चास्माकं त्वमेवासि महाबले। कुरु कार्य सुराणां वै दुःखितानां सुमध्यमे ।५५॥। देवास्त्वदंत्रिभजने निरताः सदैव ते दानवैरतिबलैविपदं सुनीताः । तां देवि दुःखरहितां कुरु भक्तियुक्तां मातस्त्वमेव शरणं भव दुःखितानाम् ॥५६।। सकलभुवनरक्षा देवि कार्या त्वयाऽद्य स्वकृतमिति विदित्वा विश्वमेतद्युगादौ। जननि जगत पीडां दानवा दर्पयुक्ता: स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥५७॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे द्वाविशोऽध्यायः ॥ २२॥ अथ त्रयोविंशोऽध्यायः
व्यास उवाच एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः। स्वशरीरात्परं रूपं प्रादुर्भूतं चकार है॥१॥ पार्वत्यास्तु शरीराद्ै निःसृता चांबिका तदा। कौशिकीति समस्तेषु ततो लोकेषु पठयते ॥२॥ निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात्। कृष्णरूपाऽथ सञ्जाता कालिका सा प्रकीर्तिता ।३। मषीवर्णा महाघोरा दैत्यानां भयर्व्धिनी। कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥४॥ अम्बिकाया: परं रूपं विरराज मनाहरम्। सर्वभूषणसंयुक्त लावण्यगुणसंयुतम् ।।५॥। ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता। निष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥६॥ कार्य वः सर्वथा कार्यं विहरिष्याम्यहं रणे। निशुंभादीन्वधिष्यामि युष्माकं सुखहेतवे।७॥ इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा। कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥८॥ सागत्वोपवने तस्थावम्बिका कालिकान्विता। जगावथ कलं तत्र जगन्मोहनमोहनम् ॥९॥ श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः । मुदं च परमामापुरमरा गगने स्थिताः ॥१०॥ तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ। चंडमुण्डाभिधौ धोरौ रममाणौ यदृच्छया ।।११।। आगतौ ददृशाते तु तौ तदा दिव्यरूपिणीम्। अंबिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् १२॥ दृष्टा तां दिव्यरूपां च दानवौ विस्मयान्वितौ। जग्मतुस्तरसा पाश्वं शुम्भस्य नृपसत्तम ॥१३।
Page 308
३०८ श्रीमद्देवीमागवते महापुराणे पञ्जमस्कन्धे अध्यायः २३ तो गत्वा तं समासीनं दैत्यानामघिपं गृहे। ऊचतुर्मघुरां वाणीं प्रणम्य शिरसा नृपम् ॥१४॥ राजन्हिमालयात्कामं कामिनी काममोहिनी। संप्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥१५।। नेदृशी देवलोकेडस्ति न गंधर्वपुरे तथा। न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥१६॥ गानं च तादृशं राजन्करोति जनरञ्जनम्। मृगास्तिष्ठन्ति तत्पार्श्वे मधुरस्वरमोहिताः ॥१७॥ ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता। गृह्यतां राजशादूल तव योग्याऽस्ति कामिनी॥१८॥ जञात्वा नय गृहे भार्या कुरु कल्याणलोचनाम्। निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ।।१९।। द्रेवानां सर्वरत्नानि गृहीतानि त्वया नृप । कस्मान्नेमां वरारोहां प्रगृह्हासि नृपोत्तम ॥२०। इन्द्रस्येरावतः श्रामान्पारिजाततरुस्तथा । गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥२१॥ विमानं वैघसं दिव्यं मरान्ष्त्रजसंयुतम् । त्वयाऽडत्तं रत्नभूतं तद्वलेन नृप चाद्द्भुतम् ।२२॥ कुबेरस्य निधिः पद्मस्त्वया राजन्समाहृतः । छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ।२३॥ पाशश्चापिं निशुम्भेन भ्रात्रा तव नृपोत्तम । गृहीतोऽस्ति हठत्कामं वरुणस्य जितस्य च ।२४॥ अम्लानपंकजां तुभ्यं मालां जलनिधिर्ददो। भयात्तव महाराज रत्नानि विविधानि च ॥२५॥ मृत्योः शक्तिर्यमस्यापि दंडः परमदारुणः । त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥२६।। कामघेनुर्गृहीताउद्य वर्नते सागरोद्द्वा। मेनकाद्या वशे राजंस्तव तिष्ठंति चाप्सराः ॥२७॥ एवं सर्वाणि रत्नानि त्वयाऽत्तानि बलादपि। कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ।२८।। सर्वाणि ते गृहस्थावि रत्नानि विशदान्यथ। अनया संभविष्यन्ति रत्नभूतानि भूपते ॥२९॥ त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया। तस्मात्तामानयाशु त्वं कुरुभार्यां मनोहराम् ॥३०॥ व्यास उवाच इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम्। प्रसन्नवदनः प्राह सुग्रीवं सन्निधौ स्थितम् ॥३१॥ गच्छ सुग्रीव दूतत्वं कुरु कार्य विचक्षण। वक्तव्यं च तथा तत्र यथाऽभ्येति कृशोदरी ॥३२॥ उपायो दौ प्रयोक्तव्यो कांतासु सुविचक्षणः । सामदाने इति प्राहुः शृंगाररसकोविदाः ॥३३॥ भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते। निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूपितौ बुधैः ॥३४॥ सामदानमुखैर्वाक्यैः शक्ष्णनर्मयुतैस्तथा। का न याति वशे दूत कामिनी कामपीडिता ॥३५॥ व्यास उवाच सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु। जगाम तरसा तत यत्रास्ते जगदम्बिका ॥३६॥ सोऽपश्यत्सु मुखीं कांतां सिंहस्योपरि संस्थिताम् । प्रणम्य मधुरं वाक्यमुवाच जगदंबिकाम् ॥३७॥ वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः । त्रलोक्याघिपतिः शूरः सर्वजिद्राजते नृपः ॥३८॥ दूत उवाघ
Page 309
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः २३ ३०९ नेताऽहं प्रेषितः कामं त्वत्सकाशं महात्मना। त्वद्रपश्रवणासक्तचित्तेनातिविदूयता ।।३९। वचनं तस्य त्न्वा्गि श्ृणु प्रेमपुरःसरम् । प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥४०॥ देवा मया जिताः सर्वे त्रलोक्याधिपतिस्त्वहम् । यज्ञभागानहं कान्ते गृह्हामीह स्थितः सदा ॥४१॥ हतसारा कृता नूनं द्यौर्मया रत्नवर्जिता। यानि रत्नानि देवानां तानि चाहृतवानहम् ।४२।। भोक्ताऽहं सर्वरत्नानां त्रिषु लोकेषु भामिनि। वशानुगाः सुराः सर्वे मम दैत्याश्र मानवाः ॥४३॥ त्वद्गुण: कर्णमागत्य प्रविश्य हृदयांतरम् । त्वदधीनः कृतः कामं किकरोऽस्मि करोमि किम् ४४ त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः । दासोऽहं तव चावगि रक्ष मां कामबाणतः ॥४५।। भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् । त्रलोक्यस्वामिनो भूत्वा भुक्ष्व भोगाननुत्तमान् ४६॥। तव चाज्ञाकर: कान्ते भवामि मरणावधि। अवध्योऽस्मि वरारोहे सदैवासुरमानुषैः ॥४७॥ सदा सौभाग्यसंयुक्ता भविष्यसि वरानने। यत्र ते रमते चित्तं तत्र क्रीडस्व सुंदरि ॥४८।। इति तस्य वचश्चित्ते विमृश्य मदमंथरे। वक्तव्यं यद्रवेत्प्रेम्णा तद्ब्रहि मधुरं वचः ॥४९॥ शुम्भाय चंचलापांगि तदब्रवीम्यहमाशु वै । व्यास उवाच तद्दूतवचन श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥५०॥ तं प्राह मधुरां वाच देवी देवार्थसाघिका। श्रीदेव्युवाच जानाम्यहं निशुंभं च शुम्भं चातिबलं नृपम् ।५१।। जेतारं सर्वदेवानां हंतारं चैव विद्विपाम्। राशि सर्वगुणानां च भोक्तारं सर्वसंपदाम् ॥५२॥ दातारं चातिशूरं च सुंदरं मन्मथाकृतिम्। द्वात्रिशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥५३॥ ज्ञात्वा समागताऽस्म्यत्र द्रष्टुकाभा महासुरम्। रत्नं कनकमायाति स्वगोभाधिकवृद्धये ॥५४।। त्त्राहं स्वपति द्रष्टुं दूरादेवागताऽस्मि वै। दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥५५॥ गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः । सर्वे शुंभभयाद्द्ीता वेपमाना विचेतसः ॥५६॥ श्रुत्वा शुंभगुणानत्र प्राप्ताऽस्म्यद्य दिदृक्षया। गच्छ दूत महाभाग ब्रूहि शुंभं महावलम् ॥५७॥ निजने श्रलक्ष्णया वाचा वचनं वचनान्मम। त्वां जात्वा वलिनां श्रेष्टं सुन्दराणां च सुंदरम् ।५८।। दातारं गुणिनं शूरं सर्वविद्याविशारदम्। जेतार सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ।५९॥ भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् । पतिकामाऽस्म्यहं सत्यं तव योग्या नराघिप ॥६०॥ स्वेच्छया नगरे तेऽत्र समायाता महामते। ममास्ति कारणं किंचिद्विवाहे राक्षसोत्तम ।।६१। बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा। क्रोडंत्या च वयस्याभिः सहैकांते यदृच्छया ।६२।।
Page 310
३१० श्रीमद्ेवीमागवते महापुराणे पंचमस्कन्धे अध्याय: २४ स्वदेहबलदर्पेण सखीनां पुरतो रहः। मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥६३॥ तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम्। जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥६४॥ किमेतया कृतं ऋरं व्रतमद्भतमाशु वै। तस्मात्त्वमपि राजेंद्र ज्ञात्वा मे हीदृशं बलम् ॥६५॥ जित्वा मां स्वबलेनाद् वांछितं कुरु चात्मनः । त्वंवा तवानुजो भ्राता समेत्य समरांगणे।। जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥६६॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कंधे त्रयोविंशोऽध्यायः ॥२३॥ अथ चतुर्विशोऽध्यायः व्यास उवाच देव्यास्तद्वचनं श्रृत्वा स दूतः प्राह विस्मितः । कि ब्रूषे रुचिरापांगि स्त्रीस्वभावाद्धि साहसात् ।१॥ इंद्राद्या निजिता येन देवा दैत्यास्तथाऽपरे। तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥२॥ त्रैलोक्ये तादृशो नास्ति यः शुभं समरे जयेत्। का त्वं कमलपत्राक्षि तस्याग्रे युधि सांप्रतम् ॥३॥ अविचार्य न वक्तव्यं वचनं क्वापि सुंदरि। बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥४॥ त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः। त्वां च प्रार्थयते राजा कुरु तस्येप्सितं प्रिंये ।५॥ त्यक्त्वा मूर्खस्वभावं त्वं संमान्य वचनं मम। भज शुंभं निशुंभं वा हितमेतद् ब्रवीमि ते ।।६॥ शृङ्गारः सर्वथा सर्वेः प्राणिभिः परया मदा। सेवनीयो बुद्धिमन्भिर्नवानामुत्तमो रसः ॥।७ नागमिष्यसि चेद्वाले संक्रुद्धः पृथिवीपतिः । अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति सांप्रतम् ॥८॥ केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः। त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्निधौ॥९॥ स्वलज्जां रक्ष तन्वंगि साहसं सर्वथा त्यज । मानिता गच्छ तत्पार्श्रे मानपात्रं यतोऽसि वै ॥१०॥ क्व युद्धं निशितैर्बाणः क्व सुखं रतिसङ्गजम्। सारासारं परिच्छेद्य कुरु मे वचनं फटु ।।११।। भज शुम्भं निशुम्भं वा लब्धाइसि परमं शुभम् । देव्युवाच सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥१२॥ निशुम्भशुंभौ जानामि बलवंताविति ध्रुवम्। प्रतिज्ञा मे कृता बाल्यादयन्था सा कथं भवेत् ॥१३॥ तस्माद्ब्रूहि निशुंभं च शुंभं वा बलवत्तरम्। बिना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् १४॥। जित्वा मां तरसा कामं करं गृह्ातु सांप्रतम् । युद्धेच्छया समायातां विद्धि मामबलां नृप ।।१५।। युद्धं देहि समर्थोऽसि वीरधमं समाचर। विभेषिमम शलाच्चेत्पातालं गच्छ माचिरम्॥१६॥ निदित्रं च घरां त्यक्त्वा जीवितेच्छा यदस्ति ते। इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥१७।।
Page 311
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्ध अध्यायः २४ ३११
स विचार्य यथा युक्तं करिष्यति महाबलः । संसारे दूतधर्मोडयं यत्सत्यं भाषणं किल ॥१८।। शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् । व्यास उवाच अथ तद्वचनं श्रुत्वा नीतिमद्वलसंयुतम् ॥१९॥ हेतुयुक्तं प्रगल्भं च विस्मितः प्रययौ तदा। गत्वा दैत्यपति दूतो विचार्य च पुनः पुनः ॥२०॥ प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृयं च तम् । राजनीतिमयं वाक्यं मृदुपूर्वं प्रियं वचः ॥२१॥ दूत उवाच सत्यं प्रियं च वक्तव्यं तेन चिंतापरो ह्यहम्। सत्यं प्रियं च राजेंद्र वचन दुर्लभं किल ॥२२॥ अप्रियं वदतां कामं राजा कुप्यति सर्वथा। साक्षात्कुतः समायाता कस्य वा किंबलाऽबला २३। न ज्ञानगोचरं किंचित्कि ब्रवीमि विचेष्टितम्। युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥२४। तया यत्कथितं सम्यक्तच्छृणुष्व महामते। मया बाल्यात्प्रतिज्ञयं कृता पूर्वं विनोदतः ॥२५॥ सखीनां पुरतः कामं विवाहं प्रति मर्वथा। यो मां युद्धे जयेदद्धा दर्प च विधुनोति मे ॥२६॥ तं वरिष्याम्यहं कामं पति समवलं किल। न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥२७॥ तस्माद्युद्धयस्व धमंज्ञ जित्वा मां स्ववशं कुरु। तथेति व्याहृतं वाक्यं श्रुत्वाऽहं समुपागतः ॥२८॥ यथेच्छसि महाराज तथा कुरु तव प्रियम् । सा युद्धार्थ कृनमतिः सायुधा सिंहगामिनी ॥२९॥ निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम्। व्यास उवाच इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥३०॥ पप्रच्छ भ्रातरं शूरं समोपस्थं महाबलम्। शुम्भ उवाच भ्रातः किमत्र कर्तव्यं ब्रहि सत्यं महामते ॥३१॥ नार्येका योद्धुकामाडस्ति समाह्वयति सांप्रतम् । अहं गच्छामि संग्रामे त्वं वा गच्छ बलान्वितः ॥३२।। यद्रोचते निशुभाद्य तत्कर्तव्यं मया किल। निशुम्भ उवाच न मया न त्वया वीर गंतव्यं रणमूर्धनि ॥३३॥ प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् । सगत्वा ता रणे जित्वा गृहीत्वा चारुलोचनाम्३४।। आगमिष्यति शुंभोऽत्र विवाह: संविधीयताम् ।
Page 312
३१२ श्रीम देवीभागवत महापुराणे पञ्चमस्कन्धे अध्यायः २४ व्यास उवाच तन्निशम्य वचस्तस्य शुंभो भ्रातुः कनीयसः ॥३५॥ कोपात्संप्रेषयामास पार्श्वस्थं धूम्रलोचनम्। शुम्भ उवाच धूम्रलोचन गच्छासु सैन्यन महताऽऽवृतः ॥३६॥ गृहीत्वाऽडनय तां मुग्धां स्ववीर्यमदमोहिताम् । देवोवा दानवो वारडपि मनुष्यो वा महाबलः ॥३७॥ तत्पाष्णिग्राहतां प्राप्तो हंतव्यस्तरसा त्वया। तत्पाश्वव्तिनीं कालों हत्वा संगृह्य तां पुनः ॥३८॥ शोघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम्। रक्षणीया त्वया साध्वी मंचंती मृदुमार्गणान् ३९।। यत्नेन महता वीर मृदुदेहा कृशोदरी। तत्सहायाश्च हंतव्या ये रणे शस्त्रपाणयः ॥४०॥ सर्वथा सा न हंतव्या रक्षणीया प्रयत्नतः । व्यास उवाच इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः॥४१।। प्रणम्य शुंभं सैन्येन वृतः शीघ्रं ययौ रणे। असाधूनां सहस्राणां पष्टया तेपां वृस्तथा।४२।। स ददर्श ततो देवीं रम्योपवनसंस्थिंताम्। दृष्टा तां मृगशावाक्षीं विनयेन समन्वितः ॥४३॥ उबाच वचनं श्लक्ष्णं हेतुद्रसभूषितम्। शृणु देवि महाभागे शंभस्त्वद्विरहातुरः ॥४४॥ दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः । रसभंगभयोद्रिग्नः सामपूर्व त्वयि स्वयम् ॥४५॥ नेताSSगत्य वचः प्रेक्तं विपरीतं वरानने। वचसा तेन मे भर्ता चिंताविष्टमना नृपः ॥४६।। बभूव रसमार्गज्ञे शुंभः कामविमोहितः । दूतेन तेन न ज्ञातं हेतुगभं वचस्तव ।४७। यो मां जयति संग्रामे यदुक्त कटिनं वचः। न ज्ञातस्तेन संग्रामो द्विविधः खलु मानिनि ॥४८॥ रतिजोऽथोत्साहजश्र पात्रभेदे विवक्षितः । रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥४९॥ सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः । जानाम्यहं वरारोहे भवत्या मानसं किल ॥५०॥ रतिसंग्रामभावस्ते हृदये परिवर्तते । इति तज्जं विदित्वा मां त्वत्संकाशं नराधिप: ५१।। प्रेषयामास शुंभोऽद्य बलेन महताऽडवृतम्। चतुरार्डस महाभागे शृणु मे त्चनं मृदु ।५२।। भज शुंभं त्रिलोकेशं देवदर्पनिबर्हणम्। पट्टराज्ञी प्रिया भूत्वा भुक्ष्व भोगाननुत्तमान्॥५३॥ जेष्यति त्वां महाबाहुः शुम्भ: कामबलार्थवित् । विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति५४॥। भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी। एवं संगरयोगेन पतिर्में परमार्थवित् ॥५५॥ जित्वा त्वां सुखशय्यायां परिश्रांतां करिष्यति। रक्तदेहां नखाघातैर्दन्तैश्र खंडिताधराम् ॥५६॥ स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः । भविता मानसः कामो रतिसंग्रामलस्तव ।।५७।।
Page 313
श्रीमद्ेवीभागवते महापुराणे पंचमस्कन्धे अध्याय: २५ ३१३ दर्शनाद्वश एवास्ते शुंभः सर्वात्मना प्रिये। वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥५८॥ जय शुंभं गणाध्यक्षं माननोयातिमानिनी। मंदभाग्याश्र ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥५९॥ न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे। अशोकं कुरु राजानं पादघातविकासितम् ॥ बकुलं सीधुसेकेन तथा कुरबकं कुरु॥६०॥ इति श्रीदेवीभागवते महापुराणे देवीमाहात्म्ये चतुर्विशोऽध्यायः ॥ २४॥ अथ पंचविंशोऽध्यायः व्यास उवाच इत्युक्त्वा विररामासौ वचनं धम्रलोचनः । प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥१॥। विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे । वृथा मनोरथांश्चित्ते करोषि मधुरं बदन् ॥२॥ बलवान्बलसंयुक्त: प्रेषितोसि दुरात्मना। कुरु युद्धं वृथा वादं मुंच मूडमतेऽधुना ॥३॥ हत्वा शुंभं निशुंभं च त्वदन्यान्वा बलाधिकान् । देवी क्रुद्धा शराघातैर्व्रजिर्ष्यात निजालयम् ॥४।। क्वासौ मंदमतिः शुंभः क्व वा विश्वविमोहिनी। अयुक्तः खलु संसार विवाहवधिरेतयोः ॥५॥ सिंहो कि त्वतिकामार्ता जंबुकं कुरुते पतिम् । करिणी गर्दभं वापि गवयं सुरभिः किमु॥६॥ गच्छ शुंभं निशुंभं च वद सत्यं वचो मम। कुरु युद्धं न चेद्याहि पातालं तरताऽधुना ।७॥ व्यास उवाच कालिकाया वचः श्रृत्वा सदैत्यो धूम्रलोचनः । तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥।८।। दुर्दरशे त्वां निहत्याजौ सिंहं च मदगर्बितम्। गृहोत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥१॥। रसभंगभयात्कालि बिभेमि त्विह सांप्रतम्। नोचेत्त्वां निशितैरवाणर्हन्म्यद्य कलहप्रिये ॥१० कालिकोवाच कि विकत्यसि मंदात्मन्नायं वर्मो धनुष्मताम । स्वशक्त्या मुंच विशिखान्गंनासि यमसंसदि ॥११। व्यास उवाच तच्छ्रत्वा वचनं दैत्यः संगृह्य कार्मकं दृढम्। कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ।१२॥ देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः । तां स्तुवंतो जयेत्यूचुर्देत्रीं शक्रपुरोगमाः ॥१३॥ तयोः परस्परं युद्धं प्रवृतं चातिदारुणम् । बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ।।१४।। कालिका बाणपातस्तु हत्वा पूर्व गवरानथ। वभंज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥१५॥ स चान्यं रथमारूढः कोपेन प्रज्वलन्निव । वाणवृष्टि चकारोग्रां कालिकोपरि भारत ॥१६।। साऽपि चिच्छेद तरसा तस्य बाणानसंगतान्। मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥१७॥
Page 314
३१४ श्रीमद्ेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्याय: २५ तर्बाणनिहतास्तस्य पाष्णिग्राहाः सहस्रशः । बभंज च रथं वेगात्सूतं हत्वा खरानपि॥१८॥ चिच्छेद तद्धनुः सद्यो बाणरुरगसन्निभः । मुदं चक्रेसुराणां सा शंखनादं तथाऽकरोत् ।१९॥ विरथ: परिघं गृह्य सर्वलोहमयं दृढम् । आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥२०॥ वाचा निर्भ्त्सयन्काली कराल: कालसन्निभः । अद्ैव त्वां हनिष्यामि कुरूपे पिंगलोचने ।२१॥ इत्युक्त्वा सहसाऽडगत्य परिघं क्षिपते यदा। हुङ्कारेणैव तं भस्म चकार तरसांबिका ।२२।। दृष्टा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः । चक्रः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥२३॥ देवास्तं निहतं दृष्टा दानवं धूम्रलोचनम् । मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥२४॥ रणभूमिस्तदा राजन्दारुणा समपद्यत । निहतैर्दानवैरश्वैः खरैश्र वारणैस्तथा ॥२५॥ गृधा: काका वटा: श्येना वरफा जंबुकास्तथा। ननृतुश्चुक्रशुः प्रेतान्पतितान् रणभूमिषु ॥२६॥ अंबिका तद्रणस्थानं त्यक्त्वा दूरस्थलांतरे। गत्वा चकार चाप्युग्रं शंखनादं भयप्रदम् ॥२७॥ तं श्रुत्वा दरशब्दं तु शुंभः सदनि संस्थितः । दृष्टाऽथ दानवान्भग्नानागतान्रुधिरोक्षितान् ॥२८।। छिन्नपादकराक्षांश्र मंचकारोपितानपि। भग्नपृष्ठकटिग्रीवान्क्रंदमानाननेकशः ।२९॥ वीक्ष्य झुंभो निशुंभश्च क्व गतो धूम्रलोचनः । कथं भग्नाः समायाता नानीता कि वरानना॥३०॥ सैन्यं कुत्र गतं मंदाः कथयंनु यथोचितम् । कस्यायं शंखनादोऽद्य श्रूयते भंयवर्धनः ॥३१॥ गणा ऊचु: बलं च पानितं सर्व निहतो धूम्रलोचनः । कृतं कालिकया कर्म रणभूमावमानुषम् ॥३२॥ शंखनाद विकायास्तु गगनं व्याप्य राजते। हर्षदः सुरसंघानां दानवानां च शोककृत् ॥३३॥ यदा निपातिताः सर्वे तेन केसरिणा विभो। रथा भग्ना हयाश्रैव बाणपातैर्विनाशिताः ॥३४॥। गगनस्था: सुराश्चक्रः पुष्पवृष्टिं मुदान्विताः । दृष्टा भग्नं बलं सवं पातितं धूम्रलोचनम् ॥३५॥ निश्चयस्तु कृतोऽस्माभिजयो नैव भवेदिति । विचारं कुरु राजेन्द्र मंत्रिभिमंत्रवित्तमैः ॥३६॥ विस्मयोऽयं महाराज यदेका जगदम्बिका । भर्वा्द्गिः सह युद्धाय संस्थिता सैन्यवजिता ॥३७॥ निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा। चित्रमेतन्महाराज भासतेऽद्भुतमंजसा ॥३८॥ संधिर्वा विग्रहो वाऽय्य स्थानं निर्याणमेव च । मंत्रयित्वा महाराज कुरु कार्यं यथारुचि ॥३९॥ तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन । पाष्णिग्राहाः सुराः सर्वे भविष्यंति किलापदि ॥४०॥ समये तत्समीपस्थौ ज्ञातौ च हरिशंकरो। लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः ॥४१॥ रक्षोगणाश् गंधर्वाः किन्नरा मानुषास्तथा। तत्सहायाश्च मंतव्याः समये सुरतापन ॥४२॥ अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् । अंबिकायाः सहायाशा तत्कार्याशा न काचन ॥४३॥ एका नाशयितुं शक्ता जगत्स्वं चराचरम् । का कथा दानवानां तु सर्वेषामिति निश्चयः॥४४।।
Page 315
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः २६ ३१५ इति ज्ञात्वा महाभाग यथा रुचि तथा कुरु। हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः ॥४५॥ व्यास उवाच तच्छरुत्वा वचनं तेषां शुम्भः परबलार्दनः । कनीयांसं समानीय पप्रच्छ रहसि स्थितः ॥४६॥ भ्रातः कालिकयाऽद्यैव निहतो धूम्रलोचनः । बलं चशातितं सर्वं गणा भग्नाः समागताः ॥४७॥ अंबिका शंखनादं वै करोति मदगविता। ज्ञानिनां चैव दुर्ज्ेया गतिः कालस्य सर्वथा॥४८॥ तृणं वज्रायते नूनं वज्नं चैव तृणायते। बलवान् बलहीनः स्याहैवस्य गतिरीदृशी ॥४९॥ पृच्छामि त्वां महाभाग किं कर्तव्यमतः परम् । अभोग्या चांबिका नूनं कारणादत्र चागता ॥५०॥ युक्तं पलायनं वीर युद्धं वा वद सत्वरम्। लघुं ज्येष्ठं विजानामि त्वामहं कार्यसंकटे ।।५१।। निशुम्भ उवाच न वा पलायनं युक्तं न दुर्गग्रहणं तथा। युद्धमेव परं श्रेयः सर्वथैवानयाऽनघ ॥५२॥ ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः । हत्वा तामागमिष्यामि तरसा त्ववलामिमाम् ॥५३॥ अथवा बलवद्दैवादन्यथा चेद्दविष्यति। मृते मयि त्वया कार्य विमृश्य च पुनः पुनः॥५४॥ इति तस्य वच: श्रुत्वा शुम्भः प्रोवाच चानुजम् । तिष्ठ त्वं चंडमुडौ द्वौ गच्छेतां बलसंयुतौ ।५५॥। शशकग्रहणायात्र न युककं गजमोचनम्। चंडमुण्डौ महावोरौ तां हंतुं सर्वथा क्षमौ ॥५६॥ इत्युक्त्वा भ्रातरं शुंभः संभाष्य च महाबलौ। उवाच वचनं राजा चंडमुंडौ पुरःस्थितौ ॥५॥ गच्छतं चंडमुंडो द्वौ स्वसैन्यपरिवारितौ। हंतुं तामबलां शोघ्रं निर्लज्जां मदगर्विताम् ।।५८।। गृहीत्वाऽथ निहत्याजौ कालिकां पिंगलोचनाम्। आगम्यतां महाभागौ कृत्वा कार्य महत्तरम् ।५९॥ सा नायाति गृहीतापि गर्विता चांबिका यदि। तदा बाणैर्महातीक्ष्णैर्हन्तव्याऽऽहवमंडिता ।६०॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे पञ्चविंशोऽध्यायः ॥ २५॥ अथ षड्विंशोऽध्यायः व्यास उवाच इत्याज्ञप्तौ तदा वीरो चंडमुण्डौ महावलौ। जग्मतुस्तरसैवाजौ सैन्येन महताऽन्वितौ ॥१॥ दृष्टा तत्र स्थितां देवीं देवानां हितकारिणीम् । ऊचतुस्तौ महावीर्यौ तदा सामान्त्रितं वच: ॥२॥ बाले त्वं कि न जानासि शुम्भं सुरबलार्दनम् । निशुम्भं च महावीर्यं तुराषाड्विजयोद्धतम् ॥३॥ त्वमेकासि वरारोहे का लिका सिंहसंयुता। जेतुमिच्छसि दुर्बद्वे शुम्भं सर्वबलान्वितम्॥४॥ मतिदः कोऽपि ते नास्ति नारी वाऽपि नरोऽपिवा। देवास्त्वां प्रेरयंत्येव विनाशाय तवैव ते ।।५।। विमृश्य कुरु तन्वंगि कार्यं स्वपरयोर्बलम्। अष्टादशभुजत्वात्त्वं गवं च कुरुषे मृषा ।।६।।
Page 316
३१६ श्रीमहेवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः २६ किं भुजैरबहुभिव्यर्थेरायुधैः किं श्रमप्रदैः । शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥७॥ ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः । जयिनः सुरसंघानां कार्यं कुरु मनोगतम् ।।८।। वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम्। हितं तव विशालाक्षि सुखदं दुःखनाशनम् ।९॥ दुःखदानि च कार्याणि त्याज्यानि दूरतो बुघैः । सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥१०॥ चतुरासि पिकालापे पश्य शुम्भबलं महत्। प्रत्यक्षं सुरसंधानां मर्दनेन महोदयम् ॥११॥ प्रत्यक्षं च परित्यज्य वृर्थवानुमितिः किल। संदेहसहिते कार्ये न विपश्चित्प्रवर्तते ॥१२॥ शत्रु: सुराणां परभः शुम्भः समरदुर्जयः । तस्मात्त्वां प्रेरयंत्यत्र देवा दैत्येशपीडिताः ॥१३॥ तस्मात्तद्वचनैः स्निग्धैवचिताइसि शुचिस्मिते। दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥१४॥ कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत्। देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रवम् ॥१५॥ भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम्। चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥१६॥ ऐश्वयं सर्वलोकानां प्राप्स्यमे शुम्भशासनात्। निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥१७॥
इति तस्य वचः श्रुत्वा चंडस्य जगदम्बिका। मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ।१८।। व्यास उवाच
गच्छ जाल्म मृषा किं त्वं भाषसे वंचकं वचः । त्यक्त्वा हरिहरादींश्र शुम्भं कस्माद्भजे पतिम्॥।१९॥ न मे कश्चित्पतिः कार्यो न कायं पतिना सह । स्वामिनी सर्वभूतानामहमेव निशामय ॥२०॥ शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः । घातिताश्र मया पूर्वं शतशो दैत्यदानवाः ॥२१॥ ममाग्रे देववृंदानि विनष्टानि युगे युगे। नाशं यास्यंति दैत्यानां यूथानि पुनरद्य वै ॥२२॥ काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः । वृथा त्वं कुरुषे यत्नं रक्षणायात्मसंततेः ॥२३॥ कुरु युद्धं वीरधर्मरक्षाय त्वं महामते। मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥२४॥ कि ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना। वीरधमं परं प्राप्य गच्छ स्वर्ग सुरालयम् ॥२५॥ शुम्भो निशुम्भश्चंवान्ये ये चात्र तव वांधवाः । सर्वे तवानुगाः पश्चादागमिष्यंति सांप्रतम् ॥२६॥ क्रमशः सर्वदैत्यानां करिष्याम्यद्य संक्षयम् । विषादं त्यज मंदात्मन्कुरु युद्धं विशांपते ॥२७॥ त्वामहं निहृष्यामि भ्रातरं तव सांप्रतम् । ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥२८।। अन्यांश्र दानवान्सर्वा्हित्वाऽहं समरांगणे। गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ।।२९।। गृहाणास्त्रं द्रुतं दुष्ट कुरु युद्धं मयाऽधुना। किंजल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥३०॥ व्यास उवाच तयेत्थं प्रेरितौ दैत्यौ चंडमुंडौ क्रुधान्वितौ। ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥३१॥ सापि शंखस्वनं चक्रे पूरयन्ती दिशो दश। सिंहोऽपि कुपितस्तावन्नादं समकरोद्वली ॥३२॥
Page 317
श्रीमद्ेवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः २६ ३१७ तेन नादेन शक्राद्या जहर्षुरमरास्तदा। मुनयो यक्षगंधर्वाः सिद्धाः साध्याश्र किन्नराः ३३॥ युद्धं परस्परं तत्र जातं कातरभोतिदम् । चंडिकाचण्डयोस्तीव्रं बाणखड्गगदादिभि:॥३४॥ चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः। मुमोच पुनरुग्रान्नाराचांश्रंडिका पन्नगानिव ॥३५॥ गगनं छादितं तत्र संग्रामे विशिखैस्तदा। शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥३६॥ मुण्डोपि सैनिकैः साधं पपात तरसा रणे। मुमोच बाणवृष्टिं वे क्रुद्धः परमदारुणः ॥३७॥ बाणजालं महद्दृष्टा कुद्धा तत्रांबिका भृशम् । कोपेन वदनं तस्या बभूव घनसन्निभम् ॥३८॥ कदलोपुष्पनेत्रं च भ्रुकुटीकुटिलं तदा। निष्क्रान्ता च तदा काली ललाटफलकाद द्रुतम् ॥ ब्याघ्रचर्मांबरा क्ररा गजचर्मोत्तरीयका। मुंडमालाधरा धोरा शुष्कवापीसमोदरा॥४०।। खड्गपाशधराऽतीव भीषणा भयदायिनी। खट्वांगधारिणी रौद्रा कालरात्रिरिवापरा॥४१।। विस्तीर्णवदना जिह्वां चालयंती मुहुर्मुहुः। विस्तारजघना वेगाज्जघानासुरसैनिकान्॥४२॥ करे कृत्वा महावीरांस्तरसा सा रुषान्विता। मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥४३॥ गजान्घंटान्वितान्हस्ते गृहीत्वा निदधे मुखे । सारोहान्भक्षयित्वाजौ साटटृहासं चकार ह॥४४॥ तथव तुरगानुष्ट्रांस्तथा सारथिभिः सह। निक्षिप्य वक्त्रे दशनैश्चर्वत्यंतिभैरवम् ॥४५॥ हन्यमानं बलं प्रेक्ष्य चंडमुण्डौ महासुरौ। छादयामासतुद्देवीं वाणासारैरनंतरैः ४६॥ चंडश्चण्डकरच्छायं चक्रं चक्रधरायुधम्। चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः॥४७॥ नदंतं वीक्ष्य तं काली रथांगं च रविप्रभम्। ब्राणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम्।४८।। तं जघान शरैस्तीक्ष्णश्चण्डं चंडी शिलाशितैः । मूर्छितोऽसी पपातोर्व्यां देवीवाणार्दितो भृशम् ४९॥ पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा। चकार शरवृष्टिं च कालिकोपरि कोपतः ॥५०॥ चंडिका मुण्डनिर्मुक्तां शरवृष्टि सुदारुणाम् । ईषिकास्त्रैर्बलान्मुक्तंश्रकार तिलशः क्षणात् ॥५१॥ अर्धचन्द्रेण बाणेन ताडयामास तं पुनः। पतितोऽसौ महावीर्यो मेदिन्यां मदवरजितः ॥५२॥ हाहाकारो महानासीद्दानवानां बले तदा। जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥५३॥ विहाय मूर्छां चंडस्तु संगृह्य महतीं गदाम् । तरसा ताडयामास कालिकां दक्षिणे भुजे ॥५४॥ वंचयित्वा गदाघातं तं बबंध महासुरम्। तरमा बाणपाशेन मंत्रमुक्तेन कालिका ।५५॥ उत्थितस्तु तदा मुंडो बद्धं दृश्टनुजं बलात्। आजगाम सुसन्नद्धः शक्ति कृत्वा करे दृढम् ॥५६।। आगच्छंतं तदा काली दानवं वाश्य सत्वरम् । बबंध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥५७॥ गृहीत्वा तौ महावीर्यौ चंडमुडी शशाववि। कुर्वती विपृलं हासमाजगामांविकां प्रति ॥५८। आगत्य तामथोवाच गृहाणेमौ पशू प्रिये। रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥५९॥ तावानीतो तदा वीक्ष्य चंडिका तौ वृकाविव । अंबिका कालिकां प्राहं माधुरीसंयुतं वचः ॥६०॥
Page 318
३१८ श्रीमद्देवीभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः २७ वधं मा कुरु मा मुंच चतुरासि रणप्रिये। देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया।।६१। व्यास उवाच इति तस्या वच: श्रुत्वा कालिका प्राह तां पुनः। युद्धयज्ञऽतिविख्याते खड़्गे यूपे प्रतिष्ठिते ॥६२॥ आलंम्भं च करिष्यामि यथा हिंसा न जायते। इत्युवत्वा सा तदा देवी खड्गेन शिरसी तयोः॥ चकर्त तरसा काली पपौ च रुधिरं मुदा। एवं दैत्यौ हतौ दृष्टा मुदितोवाच चांबिका ।६४।। कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् । चंडमुंडौ हतौ यस्मात्तस्मात्ते नाम कालिके।। चामुंडेति सुविखयातं भविष्यत धरातले।।६५।। इति श्रीदेवीभागवते महापुराण पंचमस्कन्धे चंडमुंडवधे षड्विंशोऽध्यायः ॥२६॥ अथ सप्तविंशोऽध्यायः व्यास उवाच हतौ तो दानवौ दृष्टा हतशेषाश्च सैनिकाः। पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ १ ॥ भिन्नांगा विशिखैःकेचित्केचिच्छिन्नकरास्तथा। रुधिरस्रावदेहाश्र रुदंतोऽभिययुः परे ॥ २॥ गत्वा दैत्यपति सर्वे चकुर्बुबारवं मुदु। रक्ष रक्ष महाराज भक्षयत्यद्य कालिका ॥ ३ ॥ तया हतौ महावीरौ चंडमुडौ सुरार्दनौ। भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः॥४॥ भीतिदं च रणस्थानं कृतं कालिकया प्रभो। पातितैर्गजवीराश्वैदिसेरकपदातिभिः ॥५ ॥ शोणितोघवहा कुल्या कृता मांसातिकर्दमा। केशशैवलिनी भग्नरथचक्रविराजिता ॥ ६॥ छिन्नबाह्वादिमत्स्याढया शीर्षतुबीजलान्विता। भयदा कातराणां वै सुराणां मोदव्धिनी ॥ ७॥ कुलं रक्ष महाराज पातालं गच्छ सत्वरम् । क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः ॥ ८॥ सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर। तथव कालिका देवी हंति बाणैरनेकधा ॥ ९ ॥ तस्मात्त्वमपि राजेंद्र मरणाय मृषा मतिम्। करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः ॥१०॥ किं करिष्यति नार्येषा क्ररा कुलविनाशिनी। यस्या हेतार्महाराज हंतुमिच्छसि बांधवान् ।११। दैवाधीनौ महाराज लोके जयपराजयौ। अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत् ।।१२।। चित्रं पश्य विधे: कर्म यदधीनं जगत् प्रभो। निहता राक्षसाः सर्वे स्त्रिया पश्यैकयाऽनया ॥१३॥ जेता त्वं लोकपालानां सैन्ययुक्तो हि सांप्रतम् । एका प्रार्थयते बाला युद्धायोत सुसंभ्रमः ॥१४॥ पुरा त्वया तपस्तंप्तं पुष्करे देवतायने। वरदानाय संप्राप्तो ब्रह्मा लोकपितामहः ॥१५॥ धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत। तदा त्वयाऽमरत्वं च प्रार्थितं ब्रह्मणः किल ॥१६॥ देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम। सर्पकिन्नरयक्षेभ्यः पुंलिङ्गवाचकादपि ।।१७।।
Page 319
श्रीमद्देवीभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः २७ ३१९ तस्मात्त्वां हंतुकामैषा प्राप्ता योषिद्वरा प्रभो। युद्धं मा कुरु राजेन्द्र विचार्येवं धियाऽधुना ।१८।। देवी ह्येषा महामाया प्रकृतिः परमा मता। कल्पांतकाले राजेन्द्र सर्वसंहारकारिणी ॥१९॥ उत्पादययत्री लोकानां देवानामीश्वरी शुभा। त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता ॥२०॥ अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता। वेदमाता च गायत्री संध्या सर्वसुरालया ।।२१।। निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाऽव्यया। आनन्दाऽऽनन्ददा गौरी देवानामभयप्रदा ॥२२।। एवं ज्ञात्वा महाराज वैरभावं त्यजानया। शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति ॥२३॥ आज्ञाकरो भवैतस्याः संजीवय निजं कुलम् । हतशेषाश्र ये दैत्यास्ते भवंतु चिरायुषः ॥२४॥ व्यास उवाच इति तेषां वच: श्रुत्वा शुम्भः सुरबलादनः । उवाच वचनं तथ्यं वीरवर्य गुणान्वितम् ॥२५॥ मानं कुर्वतु भो मंदा यूयं भग्ना रणाजिरात्। शीघ्रं गच्छत पातालं जीविताशा बलीयसी ॥२६। शुम्भ उवाच
दैवाधीनं जगत्सर्वं का चिन्ताऽत्र जये मम। देवास्तर्थव ब्रह्माद्या दैवाधीना वयं यथा॥२७॥ ब्रह्मा विष्णुश्र रुद्रोऽयं यमोऽग्निर्वरुणस्तथा। सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल ॥२८॥ का चिंता तहिं मे मंदा यद्धावि त्द्गविष्यति। उद्यमस्तादृशो भूयादृशी भवितव्यता ॥२९। सर्वथँवं विचार्येव न शोचंति बुधाः वदचित् । स्वधर्म न त्यजंतीह ज्ञानिनो मरणा्भ्यात् ॥३०॥ सुखं दुःखं तर्थवायुर्जीवितं मरणं नृणाम्। काले भर्वतत संप्राप्ते सर्वथा दैवनिर्मितम्॥=१॥ ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः । नाशङ्गच्छंत्यायुषोंऽते सर्वें देवाः सवारावाः ॥३२॥ तथाऽहमपि कालस्य वशगः सर्वथाऽधुना। नाशं जयं वा गंतास्मि स्वधर्मपरिपालनात्॥३३॥ आहूतोऽप्यनया कामं युद्धायाबलया किल। कथं पलायनपरो जीवेयं शरदां शतम् ॥३४॥ कारष्याम्यद्य संग्रामं यद्गावि तन्द्गर्वत्विह। जयो वा मरणं वार्जप स्वीकरोमि यथा तथा॥३५॥ दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः । युक्तियुक्तं वचस्तेपां ये जानंत्यभिभाषितुम् ॥३६॥ उद्मेन विना कामं न सिध्यन्ति मनोरथाः । कातरा एव जल्पंति यन्द्ाव्यं तद्गविष्यत ॥३७॥ अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः । प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम् ॥३८।। अदृष्टं क्वापि दृष्ट स्यादेषा मूर्खदिभीषिका। अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा ॥३९॥ चक्रींसमीपे संविष्टा संस्थितापोष्टकारिणी। उद्यमेन विना पिष्टं न भवत्येव सर्वथा ॥४०॥ उद मे च कृते कार्यं सिद्धि यात्यव सर्वथा। कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि॥४१।। देशं कालं च विज्ञाय स्वबलं शत्रुजं बलम्। कृतं कार्य भवत्येव बृहस्पतिवचो यथा ॥४२॥ व्यास उवाच इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् । प्रेषयामास संग्रामे सन्येग महतावृतय् ।४३।।
Page 320
३२० श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २७ शुम्भ उवाच रक्तबीज महाबाहो गच्छ त्वं समरांगणे। कुरु युद्धं महाभाग यथा ते बलमाहितम् ॥४४॥ रक्तबीज उवाच महाराज न ते कार्या चिंता स्वल्पतरापि वा। अहमेनां हनिष्यामि करिष्यामि वशे तव ।।४५॥ पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया। दासीं तेऽहं करिष्यामि जित्वेमां समरेबलात्॥४६॥ व्यास उवाच इत्याभाष्य कुरुश्रेष्ट रक्तबीजो महासुरः । जगाम रथमारुह्य स्वसैन्यपरिवारितः ॥४७॥ हस्त्यश्वरथपादातवृन्देश्च परिवेष्टितः । निर्जगाम रथारूढो देवीं शैलोपरि स्थिताम् ॥४८।। तमागतं समालोक्य देवीशङ्वमवादयत् । भयदं सर्वदैत्यानां देवानां मोदवर्धनम् ॥४९॥ श्रुत्वा शङ्धस्वनं चोग्रं रक्तबीजोऽतिवेगवान्। गत्वा समीपे चामुण्डां बभाषे वचनं मृदु ॥५०।। रक्तबीज उवाच बाले कि मां भीषयसि मत्वा त्वं कातरं प्रिये। शङ्नादेन त्न्वङ्गि वेत्सि किं धूम्रलोचनम् ॥५१॥ रक्तबीजोऽस्मि नाम्नाहं त्वत्मकाशमिहागतः । युद्धेच्छा चेत्िकालापे सज्जा भव भयं न मे ॥५२॥ पश्याद्य मे बलं कांते दृष्टा ये कातरास्त्वया। नाहं पंक्तिगतस्तेषां कुरु युद्धं यथेच्छमि ॥५३॥ वृद्धाश्च सेविताः पूर्व नतिशास्त्रं श्रुतं त्वया। पठितं चार्थविज्ञानं विद्रद्गोष्टी कृताऽथवा ।।५४।। साहित्यतन्त्रविज्ञानं चेदस्ति तब सुन्दरि। शृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम् ॥५५॥ रसानां च नवानां वै छ्वावेव मुख्यतां गते। शृङ्गारकः शांतिरसो विद्वज्जनसभासु च ॥५६॥ तयो: शृङ्गार एवादो नृपभावे प्रतिष्ठितः । विष्णुर्लक्ष्म्या सहास्ते वे सावित्र्या चतुराननः ॥ शच्येंद्र: शैलसुतया शङ्करः सह शेरते। वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः ॥ एवं सवे प्राणभृतः संयोगरसिका भृशम् । अप्राप्तभोगविभवा ये चान्ये कातरा नराः ॥५९॥ भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः । असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः ॥६०॥ मधुरालापनिपुण रताः शांतिरसे हि ते। क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे ॥६१॥ लोभे क्रोधे च दुर्धर्षे मोहे सति विनाशके। तम्मात्त्वमपि कल्याणि कुरु कांतं मनोहरम्॥६२॥ शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् । व्यास उवाच इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः ॥६३॥ श्रुत्वा जहास चामुण्डा कालिका चांबिका तथा। इति श्रीदेवीभागवते महापुराणे पंचमस्कन्धे सप्तविशोऽध्यायः ॥२७॥
Page 321
२१ श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २८ ३२१
अथाष्टाविंशोऽध्यायः व्यास उवाच कृत्वा हास्यं ततो देवी तमुवाच विशांपते। मेघगम्भीरया वाचा युक्तियुक्त्तमिदं वच: ॥१॥ पूर्दमेव मया प्रोक्तं मन्दात्मन्कि विकत्थसे। दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम् ॥२॥ सदृशो मम पेण वलेन विभवेन च। त्रिलोक्यां यदि कोउपि स्यात्तंपति प्रवृणोम्यहम्॥३॥ ब्रूहि शुम्भं निशुंभं च प्रतिज्ञा मे पुरा कृता । तस्माद्युद्धयस्व जित्वा मां विवाहं विधिवत्कुरु ॥४॥ त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये। संग्रामं कुरु पासालं गच्छ वा पतिना सह ।।५।। व्यास उवाच तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः । मुमोच तरसा वाणान्मिहस्योपरि दारुणान् ॥६॥ अम्विका ताञ्छरान्वीक्ष्य गगने पन्नगोपमान् । चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात् ।।७।। अन्यैर्जधान विशिखै रक्तबीजं महासुरम् । अंबिका चापनिर्मुक्त: कर्णाकृष्टैः शिलाशितैः ॥८॥ देवीबाणहतः पापो मूर्च्छामाप रथोपरि। पतिते रक्तबीजे तु हाहाकारो महानभूत् ।९॥ सैनिकाश्रुक्रुशुः सर्वे हताः स्म इति चाबुघन् । ततो बुंबारवं श्रुत्वा शुम्भः परमदारुणम् ॥१०॥ उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह। शुम्भ उवाच निर्य्ान्तु दानवाः सर्वे कांवोजाः स्ववलैर्वृता. ॥११॥ अन्येऽप्यतिबलाः शूरा: कालकेया विशेषतः ।
व्यास उवाच इत्याज्ञप्तं बलं सवं शुम्भेन च चतुर्विधम् ।१२।। निर्जगाम मदाविष्टं देवी समरमण्डले । तमागतं समालोक्य चंडिका दानवं बलम् ॥१३॥ घण्टानादं चकाराशु भीषणं भयदं मुहुः । ज्यास्वनं शङ्गनादं च चकार जगदंबिका ॥१४॥। तेन नादेन सा जाता काली विस्तारितानना। श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्र वाहनम् ॥१५॥ जगर्ज सोऽपि बलवाअनयन्भयमद्दुतम् । तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्छिताः ॥१६॥ सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः। तस्मिन्नेवायते युद्वे दारुणे लोमहर्षणे ॥१७॥ ब्रह्मादीनां च वेदानां शक्तयश्चण्डिकां ययुः। यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥१८॥ तादृग्रूपस्तदा देत्यः प्रययुः समराङ्ग्णे। ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः ॥१९॥ आगता ब्रह्मण: शक्तिर्ब्रह्माणीति प्रतिश्रुता। वैष्णवी गरुडारूढा शङ्चक्रगदाधरा ॥२०॥
Page 322
३२२ श्रीमदेवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: २८ पद्हस्ता समायाता पीतांबरविभूषिता। शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी ॥२१॥ अर्धचन्द्रघरा देवी तथाऽहिवलया शिवा। कौमारी शिखिसंरूढा शक्तिहस्ता वरानना ॥२२। युद्धकामा समायाता कार्तिकेयस्वरूपिणी। इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना ।२३।। वच्चहस्ताऽतिरोषाठया संग्रामामिमुखी ययौ। वाराही सूकराकारा प्रौढप्रेतासना मता ॥२४॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । याम्या च महिषारूडा दण्डहस्ता भयप्रदा ॥२५॥ समायाताऽय संग्रामे यमरूपा शुचिस्मिता । तथव वारुणी शक्तिः कौबेरी च मदोत्कटा ॥२६॥ एवंविधास्तथाकारा ययुः स्वस्वबलवृताः । आगतास्ताः समालोक्य देवी मुदमवाप च ॥२७॥ स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः । ताभिः परिवृतस्तत्र शङ्गरो लोकशङ्करः ॥२८।। समागत्य च संग्रामे चण्डिकामित्युवाच ह। हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये ।२९॥ निशुंभं चव शुंभं च ये चान्ये दानवाःस्थिताः । हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत् ॥३०॥ स्वानि स्वानि च विष्ण्यानि समागच्छंतु शक्तयः। देवा यज्ञभुजः संतु ब्राह्मणा यजने रताः ॥३१॥ प्राणिन: संतु संतुष्टाः सर्वे स्थावरजंगमाः । शमं यांतु तथोत्पाता ईतयश्र तथा पुनः ॥३२॥ घना: काले प्रवर्षन्त कृषिर्बहुफला तथा। व्यास उताच एवं त्रुवति देवेशे शङ्करे लोकशङ्करे।३३।। चण्डिकाया: शरीरात्तु निर्गता शक्तिरद्दुता। भोपणाऽतिप्रचंडा च शिवाशतनिनादिनी ॥३४॥ धोररूपाऽथ पञ्चास्यमित्युवाच स्मितानना । देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति ॥३५॥ दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् । निशुम्भं च मदोत्सिक्तं वचनान्मम शङ्कर ।३६/। मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै। देवाःस्वर्गे सुसंयांतु तुराषाट् स्वासनं शुभम् ॥३७॥ लभन्तां त्रिदिवं स्थानं यज्ञभागांश्च देवताः। जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा ३८।। सहिं गच्छत पाताल तरसा यत्र दानवाः । अथवा बलमास्थाय युद्धेच्छा मरणाय चेत् ॥३९॥ तदाऽडगच्छंतु नृप्यंतु मच्छिवाः पिशितेन वः। व्यास उवाच तच्छ्रत्वा वचनं तस्याः गूलपाणिस्त्वरान्वितः ॥४०॥ गत्वाहं देत्यराजानं शुम्भं सदसि संस्थितम्। शिव उवाच राजन्दूतोऽहमंबायास्त्रिपुरांतकरो हरः॥४१॥ स्वत्सकाशमिहायातो हितं कर्तुँ तवाखिलम् । त्यकत्वा स्वगं तथा भूमि यृयं गच्छत सत्वरम् ॥
Page 323
श्रीमहेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २९ ३२३ पातालं यत्र प्रह्लादो बलिश् बलिनां वरः । अथवा मरणेच्छा चेत्तर्हयागच्छत सत्वरम् ॥४३॥ संग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै। इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे ॥४४॥ व्यास उवाच इति दैत्यवरान्देवी वाक्यममृतसन्निभम् । हितकृच्छ्रावयित्वा स प्रत्यायातश्र शृलभृत् ॥४५॥ ययाऽसौ प्रेरितः शंभुर्दूतत्वे दानवान्प्रति। शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले।४६॥। तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तु दुष्करम्। युद्धाय निर्ययुः शोघरं दंशिताः शस्त्रपाणयः ॥४७॥ तरसा रणमागत्य चण्डिकां प्रति दानवाः । निर्जघ्नुश्रशरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः ॥४८॥ कालिकामूलपातैस्तान् गदाशक्तिविदारितान्। कुर्वंती व्यचरत्तत्र भक्षयंती च दानवान्।४९।। कमण्डलुजलाक्षेपगतप्राणान् महाबलान् । ब्रह्माणों चाकरोत्तत्र दानवान्समरांगणे ॥५०॥ माहेश्वरी वृषारूढा त्रिशलेनातिरंहसा। जधान दानवान्संख्ये पातयामास भूतले ॥५१॥ वैष्णवी चक्रपातेन गदाघातेन दानवान्। गतप्राणांश्रकाराशु चोत्तमांगविवर्जितान् ।५२।। ऐन्द्रीवज्रप्रहारेण पातयामास भूतले। ऐरावतकराघातपीडितान्दैत्यपुंगवान् ।५३॥ वाराहीतुंडघातेन दंष्ट्राग्रपातनेन च । जघान क्रोधसंयुक्ता शतशो दैत्यदानवान् ।५४। नारसिंही नखैस्तीवैर्दारितान्दैत्यपुंगवान् । भक्षयंती चचाराजौ ननाद च मुहुर्मुहुः ॥५५॥ शिवदूती सादृहासं पातयामास भूतले। तांश्रखादाथ चामुंडा कालिका च त्वरान्विता ५६॥ शिखिसंस्थाच कोमारी कर्णाकृष्टः शिलाशितैः । निजघान रणे शत्रून्देवानां च हिताय वै ॥५७॥ वारुणोपाशसंबद्धान्दैत्यान्समरमस्तके एवं । पातयामास तत्पृष्ठे मूर्छितान्गतचेतनान् ।५८॥ मातृगणेनाजावतिवीर्यपराक्रमम्। मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत् ॥५९।। बुंबारवस्तु सुमहानभू त्तत्र बलाणवे। पुष्पर्वष्टि तदा देवाश्रक्रुर्देव्या गणोपरि ॥६०॥ तच्छ्रत्वा निनदं घोरं जयशब्दं च दानवाः । रक्तबीजश्चुकोपाशु दृष्टा दैत्यान्पलायितान् ॥६१॥ गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः । रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा ॥६२॥ सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्द्ुतम्। आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः ॥६३॥ इति श्रदेवीभागवते महापुराणे पंचमस्कन्धेऽष्टाविंशोऽध्यायः ॥२८॥ अथकोनत्रिशोऽध्यायः व्यास उवाच वरदानमिदं तस्य दानवस्य शिवापितम्। अत्यन्द्गततर राजञ्छृणु तत्प्रब्रवीम्यहम् ॥१॥ तस्य देहाद्रक्तबिंदुर्यदा पतति भूतले। समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥२॥
Page 324
३२४ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: २५ असंख्याता महावीर्या दानवा रक्तसंभवाः । प्रभवंत्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥३॥ स तेन वरदानेन दर्पितः क्रोधसंयुतः। अध्यगात्तरसा संख्ये हंतुं देवीं सकालिकाम् ॥४॥ स दृष्टा वैष्णवीं शक्ति गरुडोपरि संस्घिताम्। शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥५॥ गदया वारयामास शक्ति: सा शक्तिसंयुता। अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥६॥ रथांगहतदेहात्तु बहु सुस्राव शोणितम् । वज्राहतगिरेः शृंगान्निझ्रा इव गैरिकाः ।७॥ यत्र यत्र यदा भूमौ पतन्ति रक्तबिंदवः । समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥८॥ ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च। रक्तवोजं क्रुधाविष्टा निःससार च शोणितम् ।९।। ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः । तद्वीर्याश्च तदाकाराः सायुधा युद्धदुर्मदाः ॥१०॥ ब्रह्माणी ब्रह्मदंडेन कुपिता ह्यहनद्भृशम् । माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥११॥ नारसिंही नखाघातैस्तं विव्याध महासुरम् । अहनत्तुंडघातेन क्रुद्धा तं राक्षसाधमम् ॥१२॥ कोमारी च तथा शक्त्या वक्षस्येनमताडयत्। सोऽपि त्रुद्धः शरासारैर्विभेद निशितैश्र ताः ॥१३॥ गदाशक्तिप्रहारैस्तु मातृः सर्वाः पृथवपृथक्। शक्तयस्तं शराघालर्विव्यधुस्तत्प्रकोपिताः ॥१४॥ तस्य शस्त्राणि चिच्छेद चंडिका स्वशरैःशितैः। जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥१५॥ तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत्। तस्माश्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥१६॥ रुधिरौघसमुद्भवः। सन्नादैः सायुधैः कामं कुर्वन्द्रिर्युद्धमन्दुतम् ॥१७॥ प्रहरतश्र तान्दष्टा रक्तबीजाननेकशः । भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥१८।। कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः । महाकाया महावीर्या दानवा रक्तसम्भवाः ॥१९॥ एकैव चंडिकाSत्रास्ति तथा काली च मातरः । एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥२०॥ निशुंभो वाऽथ शुम्भो वा सहसा बलसंवृतः । आगमिष्यति संग्रामे ततोऽनर्थो महान्भवेत् ॥२१॥ व्यास उवाच एवं देवा भयोद्विग्नाश्चितामापुर्महत्तराम्। यदा तदांबिकां प्राह कालीं कमललोचनाम् ।२२। चामुंडे कुरु विस्तीण वदनं त्वरिता भृशम्। मच्छस्त्रपातसंभूतं रुधिरं पिब सत्वरा ।।२३॥ भक्षयंती चर रणे दानवानद्य कामतः । हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥२४॥ तथा कुरु विशालाक्षि पान तद्रुधिरस्य च। बिंदुमात्रं यथा भूम्यां न पतेदपि सांप्रतम् ॥२५॥ भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यंति चापरे । एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥२६।। घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा। पिबन्ती क्षतजं सर्वं यतमानाऽरिसंक्षये ।२७।। इत्थं देत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम्। इंद्राय सुस्थिरं सरवं गमिष्यामो यथासुखम् ॥२८।
Page 325
श्रीमद्देवीभागव ते महापुराणे पञ्चमस्कन्धे अध्याय: २९ ३२५
व्यास उवाच इत्युक्ाबिंकया देवी चामुण्डा चंडविक्रमा। पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥२९॥ अंबिका तं जघानाशु खड्गेन मुसलेन च। चखाद देहशकलांश्रामुण्डा तान्कृशोदरी ॥३०॥ सोऽपि क्रुद्धो यदाघातश्रामुंडां समघातयत् । तथापि सा पपावाशु क्षतजं तमभक्षयत् ॥३१॥ येऽन्ये रुधिरजाः क्ररा रक्तबीजा महाबलाः । तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः ३२॥ कृत्रिमा भक्षिता: सर्वे यस्तु स्वाभाविकोऽसुरः । सोऽपि प्रपातितो हत्वा खड्गेनातिविखंडितः ॥३३ ।। रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे। पलायनं ततः कृत्वा गतास्ते भयकंपिताः ॥३४॥ हाहेति विभ्रुवंतस्ते शुम्भं प्रोचुः सुविह्वलाः । रुधिरारक्तदेहाश्र विगतास्त्रा विचेतसः ॥३५॥ राजन्नंबिकया रक्तबीजोऽसो विनिपातितः । चामुण्डा तस्य देहात्तु पपौ सवं च शोणितम् ॥३६। ये चान्ये दानवाः शूरा वाहनेनातिरंहसा। सिंहेन निहताः सर्वे काल्या च भक्षिता: परे ॥३७॥ वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम्। चरितं च तथा देव्याः संग्रामे परमाङ्गुतम् ॥३८॥ अजेयेयं महाराज सर्वथा दैत्यदानवैः। गन्धर्वासुरयक्षेश्र पन्नगोरगराक्षसैः ॥३९॥ अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् । युध्यमाना महाराज वाहेनैरायुधर्युताः ॥४०॥ ताभि: सर्वं हतं सैन्यं दानवानां वरायुधैः । रक्तबीजोऽपि राजेंद्र तरसा विनिपातितः ॥४१। एकाडपि दुःसहा देवी कि पुनस्ताभिरन्विता। सिंहोऽपि हन्ति संग्रामे राक्षसानमितप्रभः ॥४२॥ अतो विचार्य सचिवैर्यद्युक्त्तं तद्विधीयताम्। न वैरमनया युक्तं संधिरैव सुखप्रदः ॥४३॥ आश्चर्यमेतदखिलं यन्नारी होति राक्षसान्। रक्तबीजोऽपि निहतः पोतं तस्यापि शोणितम् ४४॥ अन्ये निपातिता दैत्या: संग्रामेऽम्बिकया नृप । चामुंडया च मांसं वै भक्षितं सकलं रणे।४५।। वरं पातालगभनं तस्याः सेवाऽथवा वरा। न तु युद्धं महाराज कार्यमंबिकया सह॥४६॥ न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी। मायेयं प्रबला देवी क्षपयंतीयमुत्थिता ॥४७॥ व्यास उवाच इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः । मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः ॥४८॥
यूयं गच्छत पातालं शरणं वा भयातुराः । हनिष्याम्यहमद्यैव ता च ताश्च समुद्तः ॥४९॥ शुम्भ उवाच
जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम्। कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम्॥५०॥ निहत्य पार्षदान्सर्वान्' रक्तबीजमुखान् रणे। प्राणत्राणाय गच्छामि हित्वा कि विपुलं यशः॥५१॥ मरणं त्वनिवार्यं वे प्राणिनां कालकल्पितम् । तद्यं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः ॥५२॥ निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे। हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा ५३।।
Page 326
३२६ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३० त्वं तु सेनायतो वीर पाष्णिग्राहो भवस्व मे। तरसा तां शरैस्तीक्ष्णैर्नारी नय यमालये ॥५४॥ निशुम्भ उवाच अहमद्य हनिष्यामि गत्वा दुष्टां च कालिकाम्। आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथांबिकाम् ५५॥ मा चिन्तां कुरु राजेंद्र वराकायास्तु कारणे। क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशंकरम् ॥५६॥ त्यक्त्वारति विपुलां भ्रातभंक्ष्व भोगानमुत्तमान् । आनयिष्याभ्यहं कामं मानिनीं मानसंयुताम् ।५७।। मयि तिष्ठति ते राजन्न युक्तं गमनं रणे। गत्वाऽहमानयिष्यामि तवार्थे वै जयश्रियम् ॥५८। व्यास उवाच इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वित । रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः ॥५९॥ जगाम तरसा तूणं संगरे कृतमंगलः । संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः ॥६०॥ इति श्रीमद्देवीभागवते महापुराणे पंचमस्कन्धे एकोनत्रिशोऽध्यायः॥२९॥ अथ त्रिंशोऽध्यायः व्यास उवाच निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा। सोद्मः सबलः शूरो रणे देवीमुपाययौ ॥१॥ तमाजगाम शुम्भोऽपि स्वबलेन समावृतः । प्रेक्षकोऽभूद्रणे राजा संग्रामरसपण्डितः ॥२॥ गगने संस्थिता देवास्तदाऽभ्रपटलावृताः । दिदृक्षवस्तु संग्रामे सेन्द्रा यक्षगणास्तथा ॥३॥ निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम्। चकार शरवृष्टिं स भीषयञ्ञगदम्बिकाम् ॥४॥ मुंचंतं शरजालानि निशुम्भं चण्डिका रणे। वीक्ष्यादाय धनुःश्रेष्ठं जहास सुस्वरं मुहुः ॥५॥ उवाच कालिका देवी पश्य मूर्खत्वमेतयोः । मरणायागती कालि मत्समोपमिहाधुना ॥६॥ दृष्टा दैत्यवधं घोरं रक्तबीजात्ययं तथा। जयाशां कुरुतस्त्वेतो मोहितौ मम मायया ॥७॥ आशा वलवती ह्येषा न जहाति नरं क्बचित्। भग्नं हृतं बलं नष्टं गतपक्षं विचेतनम् ॥८॥ आशापाशनिबद्धौ द्वो युद्धाय समुपागतौ। निहन्तव्यो मया कालि रणे शुम्भनिशुम्भकौ ॥९॥ आसन्नमरणावेतौ संप्राप्तौ देवमोहिती। पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥१०॥ व्यास उवाच इत्युक्त्वा कालिकां चंडी कर्णाकृष्टशरोत्करैः । छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥११॥ दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः । तयोः परस्परं युद्धं बभूवातिभयानकम् ॥१२॥ केसरी केशजालानि धुन्वानः सैन्यसागरम्। गाहयामास बलवान्सरसीं वारणो यथा॥१३॥ नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान्। चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान्॥
Page 327
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३० ३२० एवं विमथ्यमाने तु सैन्ये केसरिणा तदा। अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः॥१५॥ अन्येऽ्रपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः । सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥१६॥ तत्राजगाम तरसा शुम्भः सैन्यसमावृतः । निपत्य कालिकां कोपाद्गृहीतुं जगदम्बिकाम् १७॥ तत्रागत्य ददर्शाजावंबिकां च पुरःस्थिताम्। रौद्ररसयुतां कांतां शृंगाररससंयुताम्॥१८।। तां वीक्ष्य विपुलापांगों त्रैलोक्यवरसुन्दरीम्। सुरक्तनयनां रम्यां क्रोधरक्त्ेक्षणां तथा॥१९॥। विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा। मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥२०॥ तं तथा दानवं देवी स्मितपूर्वमिदं वचः । बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके ॥२१॥ गच्छष्वं पामरा यूयं पातालं वा जलार्णवम् । जीविताशां स्थिरां कृत्वा त्यक्त्वाऽत्रंवायुधानि च ॥ अथवा मच्छराघातहतप्राणा रणाजिरे। प्राप्य स्वर्गसुखं सर्वे क्रीडंतु विगतज्वराः ॥२३॥ कातरत्वं च शूरत्वं न भवत्येव सर्वथा। ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥२४॥ व्यास उवाच इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः। निशितं खड्गमादाय चर्म चैवाष्टचंद्रकम् ॥२५॥ धावमानस्तु तरसाऽसिना सिंहं *दोत्कटम् । जघानातिबलान्मूध्नि भ्रामयअ्गदम्बिकाम् २६॥ ततो देवी स्वगदया वंचयित्वाऽसिपातनम् । ताडयामास तं बाहोमूले परशुना तदा ॥२७॥ खड्गेन निहतः सोऽपि बाहुमूले महामदः । संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥२८॥ साऽपि घण्टास्वनं घोरं चकार भयदं नृणाम् । पपो पुनः पुनः पानं निशुम्भं हन्तुमिच्छनी ।२९॥ एवं परस्परं युद्धं बभूवातिभयप्रदम्। देवानां दानवानां च परस्परजयैषिणाम् ॥३०॥ पलादा: पक्षिण: क्रराः सारमेयाश्र जम्बुकाः । ननृतुश्चातिसन्तुष्टा गृधाः कंकाश्च वायसाः ॥३१॥ रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः। रुधि रस्रावसंयुक्तर्ग जाश्वदेहसंकुला ।।३२।। पतितान्दानवान्दृष्टा निशुम्भोऽतिरुपान्वितः । प्रययौ चंडिकां 'तूर्ण ङ्गदामादाय दारुणाम् ॥३३॥ सिंहं जघान गदया मस्तके मदगर्वितः । प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥३४॥ साऽपि तं कुपिताऽतीव निशुम्भं पुरतः स्थितम् । प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥३५॥
तिष्ठ मंदमते तावद्यावत्खड़्गमिदं देव्युवाच तव । ग्रीवायां प्रेरयाम्यस्माङ्गन्ताऽसि यमसादनम् ॥३६।। व्यास उवाच इत्युक्त्वा तरसा देवी कृपाणेन समाहिता। चिच्छेद मस्तकं तस्य निशुम्भस्याथ चंडिका ३७।। स छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः । बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥३८।। देवी तस्य शितैर्बाणश्चिच्छेद चरणौ करो। पपातोव्यां ततः पापी गतासुः पर्वतोपमः ॥३९॥
Page 328
३२८ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः ३० तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे । हाहाकारो महानासीत्तत्सैन्ये भयकंपिते ॥४०॥ त्यक्त्वाऽडयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः । जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥४१॥। तानागतान्सुसंप्रेक्ष्य शुम्भः शत्रुनिषूदनः । पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ४२।। तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रषता भृशम् । राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥४३॥ तया निपातिता: शूरा ये च तेऽप्यनुजानुगाः । वयं त्वां कथितुं सर्वं वृत्तांतं समुपागताः ॥४४॥ निशुम्भो निहतस्तत्र तया चण्डिकयाऽधुना। न हि युद्धस्य कालोऽद्य तव राजत्रणांगणे ।४५॥ देवकायं समुद्दिश्य काऽपीयं परमांगना। हन्तु दैत्यकुलं नूनं प्राप्तेति परिचिंतय ।४६।। नैषा प्राकृतयोषैव देवीशक्तिरनुत्तमा। अचिंत्यचररिता क्वापि दुर्जेया दैवतैरपि॥४७॥ नानारूपधरातीव मायामूलविशारदा। विचित्रभूषणा देवी सर्वायुघधरा शुभा॥४८।। गहना गूढचरिता कालरात्रिरिवापरा। अपारपारगा पूर्णा सर्वलक्षणसंयुता।।४९।। अन्तरिक्षस्थिता देवास्तां स्तुवंत्यकुतोभयाः । देवकार्यं च कुर्वाणां श्रीदेवीं परमान्ुताम् ॥५०॥ पलायनं परो धर्मः सर्वथा देहरक्षणम्। रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥५१॥ संग्रामे विजयो राजन्भविता ते न संशयः । काल: करोति बलिनं समये निर्बलं क्वचित् ॥५२॥ तं पुनः सबलं कृत्वा जयायोपदधाति हि। दातारं याचकं काल: करोति समये क्वचित् ॥५३॥ भिक्षुकं धनदातारं करोति समयांतरे। विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥५४॥ इन्द्राद्या निर्जराः सवे काल एव प्रभुः स्वयम्। तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥५५॥ संमुखो देवतानां च दैत्यानां नाशहेतुकः । एकैव च गतिर्नास्ति कालस्य किल भूपते ॥५६॥ नानारूपधराऽप्यस्ति ज्ञातव्यं तस्य चेष्टितम्। कदाचित्संभवो नृणां कदाचित्प्रलयस्तथा ॥५७॥ उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथाऽपरः । प्रत्यक्षं ते महाराज देव्याः सर्वे सवासवाः ॥५८॥ करदास्ते कृता: पूर्वं कालेन सम्मुखेन च । तेनैव विमुखेनाद्य बलिनोऽबलयाऽसुराः ॥५९॥ निहता नितरां काल: करोतिच शुभाशुभम्। न चात्र कारणं काली नैव देवाः सनातनाः ॥६०॥ यथा ते रोचते राजंस्तथा कुरु विमृश्य च। कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥६१॥ त्वदग्रतो गतः शक्रो भग्नः संख्ये निरायुधः । तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥६२॥ तथा त्वमपि राजेंद्र वीक्ष्य कालवशं जगत्। पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥६३॥ मृते त्वयि महाराज शत्रवस्ते मुदान्विताः । मंगलानि प्रगायंतो विचरिष्यंति सर्वतः ॥६४॥' इति श्रीदेवीभागवते महापुराणे पञ्मसस्कन्धे त्रिंशीऽध्यायः ॥३०।।
Page 329
श्रीमद्देवीभागवते महापुराणे पञ्जमस्कन्धे अध्यायः ३१ ३२९
व्यास उवाच इति तेषां वच: श्रुत्वांट.शुम्भो दैत्यपतिस्तदा। उवाच सैनिकानाशु कोपाकुलितलोचनः ॥१॥ शुम्भ उवाच जाल्माः किं ब्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे। निहत्य सचिवान्भ्रातृन्निर्लज्जो विचरामि किम् २॥ काल: कर्ता शुभानां वाऽशुभानां बलवत्तरः । का चिंता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥३॥ यद्भवति तद्वतु यत्करोति करोतु तत्। न मे चिंताडस्ति कुत्रापि मरणाज्जीवनात्तथा ॥४।। स कालोऽप्यन्यथा कर्तु भावितो नेशते क्वचित्। न वर्षत च पर्जन्यः श्रावणे मासि सर्वदा ॥५॥ कदाचिन्मार्गशीषे वा पौषे माघेऽथ फाल्गुने। अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्ययम् ॥६॥ कालो निमित्तमात्रं तु दैवं हि बलवत्तरम्। दैवेन निर्मितं सर्व नान्यथा भवतीत्यदः ॥७॥ दैवमेत्र पर मन्ये घिक्पौरुषमनथंकम्। जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः॥८।। रक्तबीजो महाशरः सोऽपि नाशं गतो यदा। तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ।९॥ प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसंमिते। निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥१०॥ चतुर्युगसहस्त्रं तु ब्रह्मणो दिवसे किल। पतंति भवनात्पंच नव चेंद्रास्तथा पुनः ॥११॥ तथव द्रिगुणे विष्णुर्मरणायोपकल्पते। तर्थव द्विगुणे काले शंकरः शांतिमेति च ॥१२॥ का चिंता मरणे मूढा निश्चले दैवनिरमिते। मही महीधराणां च नाशः सूर्यशशांकयोः ॥१३॥ जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च । अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् १४॥ रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे। जयो वा भरणं वापि भवत्वनैव दैवतः ॥१५॥ इत्युक्त्वा सैनिकाञछुंभो रथमास्थाय सत्वरः। प्रययावंबिका यत्र संस्थिता तु हिमाचले ॥१६॥ सैन्यं प्रचलितं तस्य संगे तत्र चतुर्विधम्। हस्त्यश्वरथपादातिसंयुतं सायुधं बहु॥१७। तत्र गत्वाऽचले शुम्भ: संस्थितां जगदम्बिकाम्। तलोक्यमोहिनी कांतामपश्यत्सिहवाहिनीम् ॥१८॥ सर्वाभरणभूषाढयां सर्वलक्षणसंयताम् । स्तूयमानां सुरैः खस्थर्गन्धर्वयक्षकिन्नरैः ॥१९॥ पुष्पैश्च पूज्यमानां च मंदारपादपोनदवः। कुर्वाणां शंखनिनदं घंटानादं मनोहरम् ॥२०॥ दृष्टा तां मोहमगमच्छुंभः कामविमोहितः । पंचबाणाहतः कामं मनसा समचितयत् ।२१॥ यहों रूपमिदं सम्यगहो चातुयमद्भुतम् । सौकुमार्यं च धैर्यं च परस्परविरोधि यत् ।२२॥ सुकुमाराऽतितन्वंगी सद्यः प्रकटयोवना। चित्रमेतदसौ बाला कामभावविर्वाजता ।।२३।। कामकांतासमा रूपे सर्वलक्षणलक्षिता। अम्बिकेयं किमेतत्तु हंति सर्वान्महाबलान् ।२४।।
Page 330
३३० श्रीमदेवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः ३१ उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत्। न मंत्रा वा मरालाक्षीसाधने सन्निधौ मम ॥२५॥ सर्वमंत्रमयी ह्येषा मोहिनी मदगर्विता। सुन्दरीयं कथं मे स्याद्वशगा वरवणिनी ॥२६॥ पातालगमनं मेऽत्र न युक्तं सगरांगणात्। सामदानविभेदैश्च नेयं साध्या महाबला ॥२७॥ कि कर्तव्यं क्व गंतव्यं विषमे समुपस्थिते। मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ।।२८।। मरणं ऋषिभिः प्रोक्तं संगरे मंगलास्पदम् । यत्तत्समानबलयोर्योधयोर्युध्यतोः किल॥२९॥ प्राप्तेयं दैवरचिता नारी नरशतोत्तमा। नाशायास्मत्कुलस्येह सर्वथाऽतिबलाऽबला ॥३०॥ वृथा कि सामवाक्यानि मया योज्यानि सांप्रतम् । हननायागता ह्येषा कि नु साम्ना प्रसीदति॥३१।। न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता। भेदस्तु विफल: कामं सर्वदेववशानुगा ॥३२॥ तस्मात्तु मरणं श्रेयो न संग्रामे पलायनम् । जयो वा मरणं वाडद्य भवत्वेव यथाविधि ॥३३॥। व्यास उवाच इति संचित्यमान: स शुम्भ:सत्त्वाश्रितोऽभवत्। युद्धाय सुस्थिरो भूत्वा तामुवाच पुरः स्थिताम् ३४॥ बेवि युध्यस्व कान्तेऽद्य वृथाडयं ते परिश्रमः । मूर्खाडसि किल नारीणां नायं धर्म: कदाचन ३५॥ नारीणां लोचने बाणा भ्रुवावेव शरासनम्। हावभावास्तु शस्त्राणि पुमांल्लक्ष्यं विचक्षणः॥३१॥ सन्नाहश्रांगरागोऽत्र रथश्रापि मनोरथः । मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥३७॥ अन्यास्त्रधारणं स्त्रीणां विडंबनमसंशयम्। लज्जैव भूषणं कांते न च धाष्टर्यं कदाचन ।।३८।। युध्यमाना वरा नारी कर्कशेवाभिदृश्यते। स्तनौ संगोपनीयौ वा धनुषः कर्षणे कथम् ॥३९॥ क्व मन्दगमन कुत्र 'गदामादाय धाषनम् । बुद्धिदा कालिका तेऽत्र चामुंडा परनायिका ॥४०।। चंडिकामन्त्रमध्यस्था लालनेऽसुस्वरा शिवा। वाहनं मृगराडास्ते सर्वसत्त्वभयंकरः ॥४१॥ वीणानादं परित्यज्य घंटानादं करोषि यत्। रूपयौवनयोः सर्वं विरोधि वरवणिनि ॥४२॥ यदि ते संगरेच्छाऽस्ति कुरूपा भव भामिनि। लम्बोष्ठी कुनखी करा ध्वांक्षवर्णा विलोचना॥४३॥ लम्बपादा कुदन्ती च मार्जारनयनाकृतिः । ईदृशं रूपमास्थाय तिष्ठ युद्ध स्थिरा भव ॥४४॥ कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् । ईदृशी सुदती दृष्टा न मे पाणिः प्रसीदति ॥४५॥ हन्तु त्वां मृगशावाक्षि कामकांतोपमे मृधे। व्यास उवाच इति ब्रुवाणं कामातं वीक्ष्य तं जगदम्बिका ॥४६॥ स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम । देव्युवाच किं विषीदसि मन्दात्मन्कामबाणविमोहितः।।४७।।
Page 331
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः ३१ ३३१ ब्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम्। चामुण्डया वा कुर्वेते तव योग्ये रणांगणे ।४८।। प्रहरस्व यथाकामं नाहं त्वां योद्धुमुत्सहे। इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥४९॥ जह्येनं कालिके क्ररे कुरूपप्रियमाहवे। व्यास उवाच इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥५०।। गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा। तयोः परस्परं युद्धं बभूवातिभयानकम् ॥५१॥ पश्यतां सर्वदेवानां मुनीनां च महात्मनाम्। गदामुद्यम्य शुंभोऽथ जघान कालिकां रणे ॥५२।। कालिका दैत्यराजानं गदया न्यहनद्भृशम्। बभंजास्य रथं चंडी गदया कन कोज्ज्वलम् ॥५३॥ खरान्हत्वा जधानाशु दारुकं दारुणस्वना। स पदातिर्गदां गुर्वी समादाय क्रुधान्वितः ।५४।। कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा। वंचयित्वा गदाघातं खड्गमादाय सत्वरा ॥५५॥ चिच्छेदास्य भुजं सव्यं सायुधं चंदनाचितम्। स छिन्नबाहुविरथो गदापाणिः परिप्लुतः ॥५६॥ अचिरेण समागत्य कालिकामहनत्तदा। काली च करवालेन भुजं तस्याथ दक्षिणम् ।५७।। चिच्छेद प्रहसंती सा सगदं किल सांगदम् । कर्तुं पादप्रहारं स कुपितः प्रययो जवात् ॥५८॥ काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता। सच्छिन्नकरपादोऽपि तिष्ठ तिष्टेति च ब्रुवन् ।।५९।। धावमानो ययावाशु कालिकां भीषयन्निव। तमागच्छंतमालोक्य कालिका कमलोपमम् ॥६०॥ चकर्त मस्तकं कठाद्रुधिरौघवहं भृशम् । छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥६१॥ प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम्। गतासुं पतितं दैत्यं दृष्टा देवाः सबासवाः ॥६२॥ तुष्टुवुस्तां तदा देवीं चामुंडां कालिकां तथा। ववुर्वाताः शिवास्तत्र दिशश्र विमला भृशम् ॥६३॥ बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः। हतशेषाश्र ये दैत्याः प्रणम्य जगदंबिकाम् ॥६४॥ त्यक्त्वाऽडयुधानि ते सर्वे पातालं प्रययुनृप। एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥६५॥ शुम्भादीनां वधं चैव सुराणां रक्षण तथा। एतदाख्यानकं सवं पठन्ति भुवि मानवाः ॥६६॥ श्रृण्वन्ति च सदा भक्त्या ते कृतार्था भवंति हि। अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ।६७।। रोगी च मृच्यते रोगात्सर्वान्कामानवाप्नुयात् । शत्रुतो न भयं तस्य य इदं चरितं शुभम् ॥ शृणोति पठते नित्यं मुक्तिमाआ्यते नरः ॥६८॥ इति श्रीदेवीभागवते महापुराणे पञ्ञमस्कन्धे शुम्मवधो नाम एकत्रिंशोऽध्यायः ॥३१॥ अथ द्वात्रिंशोऽध्याय: जनमेजय उवाच महिमा वर्ण्यते सम्यक्चंडिकायास्त्वया मुने। केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥१॥
Page 332
३३२ श्रीमदेवीभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः ३२ प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत्। आराध्य कामदां देवीं कथयस्व कृपानिधे ॥२॥ उपासनाविधि ब्रह्मस्तथा पूजाविधि वद । विस्तरेण महाभाग होमस्य च विधि पुनः ॥३॥ सूत उवाच इति भूपवच: श्रुत्वा प्रीतः सत्यवतीसुतः । प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥४॥ व्यास उवाच स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः । बभूव परमोदारः प्रजापालनतत्परः ॥५॥ सत्यवादी कर्मपरो ब्राह्मणानां च पूजकः । गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥६॥ दानशीलोऽविरोधी च धनुर्वेदैकपारगः । एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥७॥ बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम्। हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः॥८॥ कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः । सुरथः सैन्यमादाय संमुखः समपद्यत ॥९॥ युद्धं समभवद्घोरं तस्य तैरतिदारुणैः । म्लेच्छानां तुबलं स्वल्पं राज्ञस्तद्बलमद्द्ुतम् १०॥ तथापि तैजितो युद्धे दैवाद्राजा पराजितः । भग्नश्र स्वपुरं प्राप्तः सुरक्षं दुर्गमंडितम् ॥११॥ चिंतयामास मेधावी राजा नीतिविचक्षणः । प्रधानान्विमना दृष्टा शत्रुपक्षसमाश्रितान् ॥१२। स्थानं गृहीत्वा विपुलं परिखादुर्गमंडितम्। कालप्रतीक्षा कर्तव्या कि वा युद्धं वरं मतम् ॥१३॥ मंत्रिण: शत्रुवशगा मंत्रयोग्या न ते किल। कि करोमीति मनसा भूपतिः समचितयत् ॥१४॥ कदाचित्ते गृहीत्वा मां पापाचारा: पराश्रिताः । शत्रुभ्योऽथ प्रदास्यंति तदा कि वा भविष्यति ॥१५॥ पापबुद्धिषु विश्वासो न कर्तव्यः कंदाचन । किं ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥१६॥ भ्रातरं पितरं मित्रं सुहृदं बांधवं तथा। गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥१७॥ तस्मान्मया न कर्तव्यो विश्वासः सर्वथाऽधुना। मंत्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ।१८।। इति संचित्य मनसा राजा परमदुर्मनाः । एकाकी हयमारुह्य निर्जगाम पुरात्तत्तः ॥१९॥ असहायोऽथ निर्गत्य गहनं वनमाश्रितः । चिन्तयामास मेधावी क्व गंतव्यं मया पुनः ॥२०॥ योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् । ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥२१॥ बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम्। निर्वेरश्वापदाकीणं कोर्किलारावमंडितम् ॥२२॥ मृगयूथशतावृतम्। नोवारान्नसुपक्वाढयं सुपुष्पफलपादपम् ।२३।। होमधूमसुगंधेन प्रीतिदं प्राणिनां सदा/ वेदध्वनिसमाक्रांतं स्वर्गादपि मनोहरम् ॥२४॥ दृष्टा तमाश्रमं राजा बभूवासौ मुदान्वितः । भयं त्यकत्वा मति चक्रे विश्रामाय द्विजाश्रमे २५॥ आसज्य पादपेऽश्वं तु जगाम विनयान्वितः । दृष्टा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥२६॥ भृगाजिनासनं शांतं तपसाऽतिकृशं कजुम् । अध्यापयंतं शिष्यांश्र वेदशास्त्रार्थदशिनम् ।२७॥।
Page 333
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३२ ३३३: रहितं क्रोधलोभाद्यद्वंद्वातीतं विमत्सरम्। आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ।।२८।। तं वीक्ष्य भूपतिर्भूमी पपात दण्डवत्तदा। तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥२९। उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः । शिष्यो ददौ बृसीं तस्म गुरुणा नोदितस्तदा ॥३०॥ उत्याय नृपतिस्तस्यां समासीनस्तदाज्ञया। अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥३१॥ पत्रच्छात्र कुतः प्राप्तःकस्तबं चिंतापर: कथम्। कथयस्व यथाकामं संवृत्तं कारणं त्विह ॥३२।। किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम्। करिष्ये वांछितं काममसाध्यमपि यत्तव ।३३।। राजोवाच सुरथो नाम राजाऽहं शत्रुभिश्च पराजितः । त्यवत्वा राज्यं गृहं भार्यामहं ते शरण गतः ॥३४॥ यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः । करिष्यामि न मे त्राता त्वदन्यः पृ्थिवीतले ॥३५॥ शत्रुम्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवांतिकम् । त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥३६॥। ऋषिरुवाच निर्भयं वस राजेंद्र नात्र ते शत्रवः किल। आगमिष्यंति बलिनो निश्चयं तपसो बलात् ॥३७॥ नात्र हिंसा प्रकर्तव्या वनवृत्त्या नृपोत्तम। कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः॥३८॥ व्यास उवाच इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा। उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥३९॥ कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः । चिन्तयांमास चिंतारतो गृह एव गताशयः॥४०॥ राज्यं मे शत्रुभि: प्राप्तं म्लेच्छः पापरतैः सदा। संपीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः॥४१॥ गजाश्च तुरगा: सर्वे दुर्बला भक्ष्यवर्जिताः । जाताः स्युर्नात्र संदेहः शत्रुणा परिणीडिताः ॥४२॥ सेवका मम सर्वे ते शत्रुणां वशवर्तिनः । दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ धनं मे सुदुराचारैरसद्वययपरैः परः । द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥४४॥ कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः । न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ४५॥ इति चिन्तापरो राजा वृक्षमूलस्थितो यदा। तदाजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा॥४६॥ नृपेण पुरतो दृष्टः पाश्वे तत्रोपवेशितः । पप्रच्छतं नृपः कोडसि कुत एवागतो वनम् ॥४७॥ कोऽसि कस्माच्च दीनोऽसि हरितः शोकपोडितः। ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता॥४८॥ व्यास उवाच तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः । उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥४९॥ वैश्य उवाच मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः । धनवान्धर्मनिपुणः सत्यवागनसूयकः ।।५0।।
Page 334
१३४ श्रीमद्देवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३३ पुत्रदारनिरस्तोऽहं धनलुब्धैरसाधुभिः । "कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजाम्" स्वजनेन च संत्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥५१॥ कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना। राजोवाच सुरथो नाम राजाऽहं दस्युभिः पीडितोऽभवम् ॥५२॥ प्राप्तोऽस्मि गतराज्योऽत्र मंत्रिभि: परिवंचितः । दिष्टया त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ५३॥। सुखेन विहरिष्यावो वनेऽत्र शुभपादपे। शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ।।५४।। "अत्रव च यथाकामं सुखं तिष्ठ मया सह।" वैश्य उवाच कुटुम्बं मे निरालंबं मया हीनं सुदुःखितम् । भविष्यति च चिन्तारतं व्याधिशोकोपतापितम् ५५॥ भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् । इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥५६॥ कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च। स्वस्थं न मन्मनो राजन्गृहचिन्ताकुलं भृशम् ॥५७॥ राजोवाच यैनिरस्तोऽसि पुत्राद्यरसद्वृत्तः सुबालिशः । तान्दृष्टा किं सुखं तेडद्य भविष्यति महामते ॥५८॥ हितकारी वरः शत्रुदुःखदाः सुहृदः कुतः। तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ।।५९॥। वश्य उवाच मनो मे न स्थिरं राजन्भवत्यद्य सुदुःखितम्। चिन्तयाऽत्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः॥६०॥ राजोवाच ममापि राज्यजं दुःखं दुनोति किल मानसम् । पृच्छावोऽद्य मुनि शांतं शोकनाशनमौषधम् ॥६१॥ व्यास उवाच इति कृत्वा मति तौ तु राजा वैश्यश्च जग्मतुः। मुनि तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥६२॥ गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् । आसीनं सम्यगासीनः शांतं शांतिमुपागतः ॥६३।। इति श्रीदेवीभागवते महापुराण पञ्चमस्कन्धे द्वान्रिंशोऽध्यायः ॥३२॥ अथ त्रयस्त्रिंशोऽध्यायः राजोवाच मुने वैश्योऽयमधुना वने मे मित्रतां गतः। पुत्रदारैनिरस्तोऽयं प्राप्तोऽत्र मम संगमम् ॥१॥ "कुटुम्बविरहेणासौ दुःखितोऽतांव दुर्मनाः। न शान्तिमुपयात्येष तर्थव मम साम्प्रतम् ॥ गतराज्यस्य दुःखेन शोकार्तोडस्मि महामते" ॥१॥
Page 335
श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३३ ३३५ निष्कारणं च मे चिंता हृदयान्न निवर्तते। हया मे दुर्बलाः स्युःकिं गजाः शत्रुवशं गताः ॥२॥ भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना। कोशक्षयं करिष्यंति रिपवोऽतिबलात्क्षणात् ॥३॥ इत्येवं चिंतयानस्य च मे निद्रा तनौ सुखम् । जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि॥४॥ जानतोऽपि मनो भ्रांतं न स्थिरं भवकि प्रभो । कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ न पुत्रा न च मित्राणि येषां दुःखं दनोति माम् । भ्रमोऽयमिति जानामि तथापि मम मानसः ॥६॥ मोहो नैवापसरति कि तत्कारणमद्भुतम्। स्वार्मिस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत्॥७॥ कारणं ब्रूहि मोहस्य ममास्य च दयानिधे। व्यास उवाच इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥८। तमुवाच परं ज्ञानं शोकमोहविनाशनम्। ऋषिरुवाच श्ृणु राजन्प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥९॥ महामायेति विख्याता सर्वेषां प्राणिनामिह। ब्रह्मा विष्णुस्तथेशानस्तुराषाड्वरुणोऽनिलः ॥१०॥ सर्वें देवा मनुष्याश्च गन्धर्वोरगराक्षसाः । वृक्षाश्र विविधा वल्लयः पशवो मृगपक्षिणः॥११।। मायाधीनाश्च ते सर्वे भाजनं बंधमोक्षयोः । तया सृष्टमिदं सर्वं जगत्स्थावरजंगमम् ॥१२॥ तद्रशे वर्तते नूनं मोहजालेन यंत्रितम् । त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाऽडविलः॥१३॥ ज्ञानिनामपि चेतांसि मोहयत्यविशं हि सा। ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥१४॥ तेऽ्पि रागवशाल्लोके भ्रमंति परिमोहिताः । पुरा सत्ययुगे राजन्विष्णुर्नारायणः स्वयम् ॥१५॥ श्वेतद्वीपं समासाद्य चकार विपुलं तपः। वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥१६॥ अनश्वरसुखायासौ चिंतयानस्ततः परम्। एकस्मिन्निजने देशे ब्रह्माऽपि परमाङ्भुते ॥१७॥ स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये। कदाचिद्वासुदेवोऽसौ स्थलांतरमतिर्हरिः ॥१८॥ तस्माद्वेशात्समुत्थाय जगामान्यदि्दृक्षया। चतुर्मुखोऽपि राजेन्द्र तर्थव निःसृतः स्थलात् ॥१९॥ मिलितौ मार्गमध्ये तु चतुर्मुग्वचतुर्भुजौ । अन्योन्यं पृष्टवंतौ तौ कस्त्वं कस्त्वमिति स्मह ॥२०॥ ब्रह्मा प्रोवाच तं देवं कर्ताऽहं जगतः किल। विष्णुस्तमाह भो मूर्ख जगत्कर्ताऽहमच्युतः ॥२१॥ त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः । सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥२२॥ मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् । शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥२३॥ मया तौ निहतौ कामं दानवौ मधुकैटभौ। कथं गर्वायसे मंद मोहोडयं त्यज सांप्रतम् ॥२४॥ न मत्तोऽप्यघिकः कश्चित्संसारेऽस्मिन्प्रसारिते।
Page 336
३३६ श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धे अध्यायः ३३ ऋषिरुवाच एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥२५॥ स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः। प्रादुर्वभूव सहसा तयोविवदमानयोः ॥२६॥ मष्ये लिंगं सुधाश्वेतं विपुलं दीर्घमद्भुतम्। आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥२७॥ तौ संबोध्य महाभागौ विवदन्तौ परस्परम्। ब्रह्मन्विष्णो विवादं मा कुरुतां वां परस्परम् ॥२८॥ लिंगस्यास्य परं पारमधस्तादुपरि ध्रुवम् । यो याति युवयोर्मध्ये स श्रेष्ठोवांसदैव हि ॥२९॥ एक: प्रयातु पातालमाकाशमपरोऽधुना। प्रमाणं मे वचः कार्य त्यवत्वा वादंनिरर्थकम् ॥३०॥ मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह। ऋषिरुवाच तच्छ्रत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमो॥३१॥ जग्मतुर्मातुमग्र स्थं लिङ्ग मद्भुतदर्शनम् । पातालमगमद्विष्णुर्ब्रह्माऽप्याकाशमेव च॥३२।। परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये । विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥३३॥ न प्रापांतं स लिंगस्य परिवृत्य ययौ स्थलम् । ब्रह्माऽगच्छत्ततश्रोध्वं पतितं केतकीदलम् ॥३४॥ शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः । आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम ।३५॥ दर्शयित्वा च वितथमुवाच मदमोहितः । लिङ्गस्य मस्तकादेतद्गृहीतं केतकीदलम् ॥३६॥ अभिज्ञानाय चानीतं तव चित्तप्रशान्तये। श्रुत्वा तद्ब्रह्मणो वाक्यं दृष्टा च के तकीदलम् ॥३७॥। हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना । यथार्थवादी मेधावी सदाचारः शुचिःसमः ॥३८॥ साक्षी भवति सर्वत्र विवादे समुपस्थिते। ब्रह्मोवाच दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥३९॥ यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति। इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम्॥४०॥ वचनं प्राह तरसा शाङ्ङगिणं प्रत्यबोधयत् । शिवमूध्नि स्थितां ब्रह्मा गृहीत्वा मां समागतः।४१।। सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन । मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥४२॥ गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् । केतक्या वचनं श्रृत्वा हरिराह स्मयन्निय ।४३॥ महादेवः प्रमाणं मे यद्यसौ वचनं वदेत्। ऋ षिरुवाच तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥४४॥ कुपितः केतकों प्राह मिथ्यावादिनि मा वद । गच्छतो मध्यतः प्राप्तापतिता मस्तकान्मम ॥४५।।
Page 337
२२ श्रीमदंवीभागवते महापुराणे पञ्ञमस्कन्धे अध्यायः ३३ ३३० मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि। ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥४६॥। शिवेन केतकी त्यक्ता तदिनात्कुसुमेषु वै। एवं मायाबलं विद्धिं ज्ञानिनामपि मोहदम् ॥४७॥ अन्येषां प्राणिनां राजन्का वार्ता विभ्रमं प्रति। देवानां कार्यसिद्धचर्थ सर्वदैव रमापतिः ॥४८।। देत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः । अवतारकरो देवो नानायोनिषु माधवः ॥४९॥ त्यक्त्वाऽडनन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः । नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरो ॥५०॥ सर्वज्ञे देवकार्याशे का वार्ताऽन्यस्य भूपते। ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥५१॥ बलादाकृष्य मोहाय प्रयच्छति महीपते। यया व्याप्तमिदं सवं भगवत्या चराचरम् ॥५२॥ मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा।
राजोवाच भगवन्द्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥५३॥ उत्पत्तिकारणं चा स्थानं परमकं च यत्। ऋषिरुवाच न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥५४॥। नित्यैव सा परा देवी कारणानां च कारणम्। वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ।५५॥। शबवच्छक्तिहीनस्तु प्राणी भवति सर्वथा। चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥५६॥ आविर्भावतिरोभावौ देवानां कार्यसिद्धये। यदा स्तुवंति ता देवा मनुजाश्र विशांपते ॥५७॥ प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका। नानारूपधरा देवी नानाशक्तिसमन्विता ॥५८॥ आविर्भवति कार्यार्थ स्वेच्छ्या परमेश्वरी। दैवाधीना न सा देवी यथा सर्वे सुरा नृप ।।५९।। न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी। अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥६०॥ दृश्यस्य जननी सैव देवी सदसदात्मिका। पुरुषं रंजयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥६१॥ रंजिते पुरुषे सवं संहरत्यतिरंहसा। तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥६२॥ कल्पिता: स्वस्वकार्येषु प्रेरिता लीलया त्वमी। स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥६३॥ दत्ताश्र शक्तयस्तेभ्यो गीर्लक्ष्मीगिरिजा तथा। ते ता ध्यायंति देवेशाः पूजयंति परां मुदा ॥६४॥ ज्ञात्वा सर्वेश्वरीं शक्ति सृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् । मम बुद्धयनुसारेण नान्तं जानामि भूपते ।६५॥ इति श्रीदेवीभागवते महापुराणे पञ्चमस्कन्धे त्रयस्त्रिंशोऽध्यायः ॥३३॥
Page 338
१३८ श्रीमहेतरीमागवते महापुराणे पज्ञमस्कन्धे अध्बाय: ३४
राजोवाच भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम्। पूजाविधि च मन्त्रांश्र तथा होमविधि वद ।१॥ ऋषिरुवाच शणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम्। कामदं मोक्षदं नृणां ज्ञानदं दुःखनाशनम् ॥२॥ आदौ स्नानविधिं कृत्वा शुचि: शुक्लांबरोनरः। आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥३॥ ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् । तत्रोपविश्य विधिवत्त्रिराचम्य मुदान्वितः ॥४।। पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः। प्राणायामं ततः कृत्वा भूतशुद्धि विधाय च ॥५॥ कुर्यात्प्राणप्रतिष्ठां तु संभारं प्रोक्ष्य मंत्रतः । कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥६॥ शुभे ताम्रमये पात्रे चंदनेन सितेन च । षट्कोणं विलिखेद्यंत्रं चाष्टकोणं ततो बहिः॥७॥ नवाक्षरस्य मंत्रस्य बीजानि विलिखेत्ततः । कृत्वा यंत्रप्रतिष्ठां च वेदोक्तां संविधाय च ।।८।। अर्चा वा धातवीं कुर्यात्पूजामंत्रैः शिवोदितैः । पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥९॥ कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः । जपेन्नवाक्षर मंत्रं सततं ध्यानपूर्वकम् ॥१०॥ होमं दशांशतः कुर्याद्दशांशेन च तर्पणम्। भोजनं ब्राह्मणानां च तद्दशांग्ेन कारयेत् ।११॥ चरित्रत्रयपाठं च नित्यं कुर्याद्विसर्जयेत्। नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥१२॥ आश्विने च तथा चँत्रे शुक्ले पक्षे नराधिप। नवरात्रापवासो वै कर्तव्यः शुभमिच्छता ॥१३॥ होम: सुविपुल: कार्यो जप्यमंत्रः सुपायसैः । शर्कराघृतमिश्रंश्र मधुयुक्तः सुसंस्कृतैः ॥१४॥ छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभः । हयारिकुसुम रक्तस्तिलर्वा शर्करायुतैः ॥१५॥ अष्टम्यां च चतुर्दश्यां नवम्यां च विशेषतः । कर्तव्यं पूजनं देव्या ब्राह्मणानां च भोजनम् ॥१६॥ निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते। अपुत्रो लभते पुत्राञछुभांश्र वशवर्तिनः ॥१७॥। राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम्। शत्रुभि: पीडितो हंति रिपुं मायाप्रसादतः ।।१८।। विद्यार्थी पूजनं यस्तु करोति नियतेंद्रियः । अनवद्यां शुभां विद्यां बिंदते नात्र संशयः ॥१९॥ ब्राह्मण: क्षत्रियो वैश्यः गूद्रो वा भक्तिसंयुतः । पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥२०॥ नवरात्रव्रतं कुर्यान्नरनारीगणश्र यः। वांछितं फलमाप्नोति सर्वदा भक्तितत्परः ॥२१॥ आश्िचिने शुक्लपक्षे तु नवरात्रव्रतं शुभम् । करोति भावसंयुक्त: सर्वान्कामानवाप्नुयात् ॥२२॥ विषिबन्मंडलं कृत्वा पूजास्थानं प्रकल्पयेत्। कलशं स्थापयेत्तत्र वेदमंत्रविधानतः ।२३।। यंत्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि। वापयित्वा यवांश्चारन्पार्श्वतः परिवर्तितान् ।२४।।
Page 339
श्रीमद्देवीमागवते महापुराणे पज्जमस्कन्धे अध्याय: ३५ कत्वोपरि वितानं च पुष्पमालासमावृतम् । धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ।२५॥ त्रिकालं तत्र कर्तव्या पूजा शक्तयनुसारतः । वित्तशाठयं न कर्तव्यं चण्डिकायाश्र पूजने ॥२६॥ धूपैर्दीपैः सुनैवेद्यं फलपुष्पैरनेकशः । गीतवाद्यः स्तोत्रपार्वेार्णस्ता॥२॥ उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः । कन्यकानां पूजनं च विधेयं विषिपूर्वकम् ।।२८।। चन्दनैर्भूषणर्वस्त्ररभक्ष्यैश्र विविधैस्तथा। सुगन्धतैलमाल्यैश्र मनसो रुचिकारकैः ॥२९॥ एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः । अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥३०॥ ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने। कर्तव्यं शक्तितो दानं देयं भक्तिपरैरनृपैः ॥३१॥ एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः । नारी वा सधवा भक्त्या विधवा वापतिव्रता ॥३२॥ इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् । देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥३३॥ जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी । जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः॥३४॥। नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम्। आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥३५॥ अनेन विधिना राजन्समाराधय चण्डिकाम् । जित्वा रिपूनस्खलितं राज्यं प्राप्स्यत्यनुत्तमम्॥३६॥। सुखं च परमं भूप देहेऽस्मिन्स्वगृहे पुनः । पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥३७॥ वैश्योत्तम त्वमेवाद्य समाराधय कामदाम्। देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥३८॥ स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः। सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥३९॥ देवीलोके शुभे वासो भविता ते न संशयः । नाराघिता भगवती यैस्ते नरकभागिनः ॥४०॥ इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः । भवंति मानवा राजञ्छत्रुभिश्र पराजिताः ॥४१॥ निष्कलत्रा ह्यपुत्राश्र तृष्णार्ताः स्तब्धनुदयः । बिल्बीदलैः करवीरैः शतपत्रंश्र चम्पकेः ॥४२॥ अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः । भवंति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥४३॥ धनविभवसुखाठया मानवा मानवंतः सकलगुणगणानां भाजनं भारतीशाः । निगमपठितमन्त्रः पूजिता यैर्भवानी नृपतितिलकमुख्यास्ते भवंतीह लोके ।।४४।। इति श्रीदेवीभागवते महापुराणे पञ्ञमस्कन्धे चतुर्खितंशोऽध्यायः॥३४॥ अथ पश्चत्रिशोऽध्यायः महिष उवाच इति तस्य वच: श्रुत्वा दुःखितौ वैश्यपाथिवौ। प्रणिपत्य मुनि प्रीत्या प्रश्रयावनतौ भृशंम् ॥१॥ हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदो ।कृताअलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥२॥ भगवन्नावितावद्य शान्तो दीनौ गुचान्वितौ। तव सूक्तसरस्वत्या गङ्गयेव भगोरयः ॥३॥
Page 340
१४० श्रीमहेवीभागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३५ साघयः सम्भवन्तीह परोपकृतितत्पराः । अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम्॥४॥ पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रयः शुभः ! तवावाभ्यां महाभाग महादुःखविनाशकः ॥५॥ भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः । परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥६॥ दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः । उभो संसारसंतप्तो तवाश्रमपदे मुदा॥७॥। दर्शनादेव हे विद्वन्गतं दुःखमिहावयोः। देहजं मानसं वाक्यश्रवणादेव साम्प्रतम्।८।। धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात्। पावितौ भवता ब्रह्मन्कृपया करुणार्णव ।।९।। गृहाणास्मत्करौ साधो नय पारं भवार्णवात् । मग्नौ श्रांताविति ज्ञात्वा मंत्रदानेन सांप्रतम् ॥१०॥ तपः कृत्वाऽतिविपुलं समाराध्य सृखप्रदाम्। संप्राप्य दर्शनं भूयो यास्यावो निजमंदिरम् ॥११॥ वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् । स्मरणं च करिष्यावो निराहारौ धृतव्रतौ ॥१२॥ व्यास उवाच इति सव्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः । ददौ मंत्रं शुभं ताभ्यां ध्यानबीजपुरःसरम्॥१३॥ तो च प्राप्य मुनेमंत्रं सम्मन्त्र्य गुरुदैवतौ। जग्मतुर्वेश्यराजानौ नदीतीरमनुत्तमम् ॥१४॥ एकांते विजने स्थाने कृत्वासनपरिग्रहम् । उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥१५॥ मन्त्रजाप्यरतो शान्तो चरित्रत्रयपाठको। निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥१६॥ तयोर्मासव्रतेनैव जाताप्रीतिरनुत्तमा। पदाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम्॥।१७॥ कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः । कृतप्रणामावागत्य तस्थतुश्च कुशासने॥१८॥ नान्यकार्यपरौ क्वापि बभूवतुः कदाचन। देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥१९॥ एवं जाते तदा पूर्णे तत्र संवत्सरे नृप । बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥२०। वर्षमेकं तपस्तत्र चक्रतुर्वेश्यपार्थिवौ। शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥२१॥ पूर्णे वर्षद्वये जाते कदाचिद्दर्शनं च तौ। प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥२२॥ रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् । कदाचित्नृपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् २३॥ वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः । जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥२४॥ एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ। चक्रतुस्तौ तदा चिंतां चित्ते दर्शनलालसौ ॥२५॥ प्रत्यक्षदर्शनं देव्या न प्राप्तं शांतिदं नृणाम्। देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥२६॥ इति संचिन्त्य मनसा राजा कुण्डं चकार है। त्रिकोणं सुस्थिरं सौम्यं हस्तमात्र प्रमाणतः ॥२७॥ संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् । गुहावासो निजं मांसं छित्त्वा छित्त्वा पुनःपुनः ॥२८।।
Page 341
श्रीमदेवीमागवते महापुराणे पञ्चमस्कन्धे अध्याय: ३५ ३४१ स्वा वैश्योऽपि दोप्तेऽग्नो स्वमांस प्रापक्षिपत्तदा। रुधिरेण बलि चास्यै ददतुस्तौ कृतोद्यमौ ।२९॥ रदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः । प्राह प्रोतिभरोद्भ्रांतौ दृष्टा तो दुःखितौ भृशम् । श्री देव्युवाच बरं वरय भो राजन् यत्ते मनसि वांछितम् । तुष्टाऽहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ३१॥ पैयं प्राह तदा देवी प्रसन्नाऽहं महामते। कि तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥३२॥ व्यास उवाच सच्त्रुत्वा वचनं राजा तामुवाच मुदान्वितः । देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ।।३३। समुवाच तदा देवी गच्छ राजन्निजं गृहम्। शत्रवः क्षोणसत्त्वास्ते गमिष्यंति पराजिताः॥३४॥ मंत्रिणस्तु समागत्य ते पतिष्यंति पादयोः। कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥३५॥ कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप । देहान्ते जन्म संप्राप्य सूर्याच्च भविता मनुः ३६॥ व्यास उवाच कैयस्तामप्युवाचेदं कृतांजलिपुटः शुचिः ।न मे गृहेण कार्य वै न पुत्रेण धनेन वा ॥३७।। सवं बंधकरं मातः स्वप्नवन्नश्वरं स्फुटम्। ज्ञानं मे देहि विशदं मोक्षदं बंघनाशनम्॥३८॥ असारेडस्मिंश्र संसारे मूढा मज्जंति पामराः । पंडिताः संतरंतीह तस्मान्नेच्छन्ति संसृतिम् ३९॥ व्यास उवाच सदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम्। वैश्ववर्य तव ज्ञानं भविष्यति न संशयः ॥४०॥ इति दत्त्वा वरं ताभ्यां तत्रवांतरधीयत। अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥४१॥ प्रणम्य हयमारुह्य गमनाय मनो दधे। तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥४२॥ प्रणेमुर्विनयोपेतास्तमूचुः प्रांजलिस्थिताः । राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥४३॥ राज्यं निष्कंटकं भूप कुरुष्व पुरमास्थितः । तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ४४॥ आपृच्छय निर्ययौ तत्र मंत्रिभिः परिवारितः । संप्राप्य च निजं राज्यं दारान्स्वजनबांधवान् ४५॥ बुभुजे पृथिवों सर्वां ततः सागरमेखलाम्। वैश्योऽपि ज्ञानमासाद्य मुकतसंगः समंततः ॥४६॥ कालातिवाहनं तत्र मुक्तबंधश्चकार ह। तीर्थेषु विचरन्गायन्भगवत्या गुणानय।४७।। एतत्ते कथितं देव्याश्चरितं परमाद्गुतम्। आराधनफलप्राप्तिर्यथावद्ूपवैश्ययोः ।।४८।। दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः । एवंप्रभावा सा देवी भक्तानामभयप्रदा ॥४९॥ यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् । संप्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥५०॥ ज्ञानदं मोक्षदं चैव कोतिदं सुखदं तथा। पावनं श्रवणान्नूनमेतदास्यानमद्गतम् ।५१॥
Page 342
३४२ श्रीमरेबीमागयरे महापुराणे पश्ममस्कन्धे अध्बाय: ३५ बलिलार्यप्रदं नृणां सर्वधर्मसमावृतम् । धर्मार्थकाममोक्षाणां कारणं परमं मतम् ।५२।।
सूत उबाच बनमेजयेन राज्ञाजसी पृष्टः सत्यबतीसुतः । उबाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥५३॥ चरितं चंडिकायास्तु शुम्भदैत्यवधाश्रितम् । कथयामास भगवान्कृष्णः कारुणिको मुनिः ॥ इति वः कथितः सारः पुराणानां मुनीश्वराः ॥५४॥
इति श्रीदेवीभागवते महापुराणेऽपादशसाइजचां संहितायां पञ्ञमस्कन्धे पञ्ञत्रिशोऽध्यायः ॥३५॥
व्योमांकाभ्रद्विसंख्यातः २०९० श्लोकैम्यसिन धीमता। देवीभागबतस्यास्य पञ्ञमस्कन्ध ईरितः ।५।।
समाप्तोऽयं पश्चमः स्कन्धः
Page 343
भोगणेशाय नमः
श्रीमद्देवीभागवतम्
षष्ठः स्कन्धः
अथ प्रथमोऽध्यायः ऋृषय ऊचु: सूत सूत महाभाग मिष्टं ते वचनामृतम्। न तृप्ताः स्मो वयं पोत्वा द्वैपायनकृतं शुभम् ॥१॥ पुनस्तवां प्रष्टुमिच्छाम: कथां पोराणिकीं शुभाम्। वेवेऽपि कयितां रम्यां प्रसिद्धां पापनाशिनोंम् ।।२।। मृनासुर इति ख्यातो वीर्यवांस्त्वष्टुरात्मजः । स कथं निहतः संख्ये वासवेन महात्मना ।३॥ लवष्टा वे सुरपक्षीयस्तत्पुन्नो बलवत्तरः । शक्रेण घातितः कस्माद्वह्मयोनिर्महाबलः ॥४॥ देवा: सत्त्वगुणोत्पन्ना मानुषा राजसाः स्मृताः । तिर्यञ्ञस्तामसाः प्रोक्ताः पुराणागमवादिभिः ॥५॥ बिरोषोऽत्र महान्भाति नूनं शतमखेन ह। छलेन बलवान्वृत्रः शक्रेण विनिपातितः ॥६॥ विष्णुः प्रेरयिता तत्र स तु सत्त्वधरः परः। प्रविष्टः पविमध्ये स छथ्यना भगवान्प्रभुः ॥७॥ संधि बिधाय स ह्येवं मंत्रितोऽसो महाबलः । हरिम्यां सत्यमुत्सृंज्य जलफेनेन शातितः ॥।८।। कतमिद्रेण हरिणा किमेतत्सूत साहसम्। महांतोऽपि च मोहेन वंचिताः पापवुद्यः ।।९॥ अन्यायव्तिनोऽत्यर्थ भवति सुरसत्तमाः । सदाचारेण युक्त्ेन देवा: शिष्टत्वमागताः ॥१०॥ एवं बिशिष्टधर्मेण शिष्टत्वं कीदृशं पुनः । हत्वा वृत्रं तु विश्वस्तं शक्रेण छद्मना पुनः ॥११॥ प्राप्तं पापफलं नो वा ब्रह्महत्यासमुद्धतम । कि च त्वया पुरा प्रोक्तं वृत्रामुरवेध: कृतः ॥१२॥ श्रोदेव्या इति तच्चापि चित्तं मोहयतीह नः । सूत उनाच शृण्वंतु मुनयो वृसं वृत्रासुरबधाश्रयम्।१३।।
Page 344
२४४ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १ यथेन्द्रेण च संप्राप्तं दुःखं हत्यासमुद्द्वम् । एवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः ॥१४॥ पारीक्षितेन राज्ञाऽपि स यदाह च तद्ब्रुवे। जनमेजय उवाच कथं वृत्रासुरः पूर्व हतो मधवता मुने ॥१५॥ सहायं विष्णुमासाद्य छद्मना सात्विकेन है। कथं च देव्या निहतो दैत्योऽसौ केन हेतुना ॥१६॥ कथमेकवधो द्वाभ्यां कृतः स्यान्मुनिपुंगव । तदेतच्छ्रोतुमिच्छामि परं कौतूहलं हि मे ॥१७॥ महतां चरितं शृण्वन्को विरज्येत मानवः । कथयाम्बावैभवं त्वं वृत्रासुरवधाश्रितम् ॥१८॥ व्यास उवाच धन्योऽसि राजंस्तव बुद्धिरीदृशी जाता पुराणश्रवणेऽतिमादरा । पीत्वाऽमृतं देववरास्तु सर्वथा पाने वितृष्णाः प्रभवंति वै पुनः ॥१९। दिने दिने तेऽधिकभक्तिभावः कथासु राजन्महनीयकीतेः । श्रोता यदैकप्रवणः शृणोति वक्ता तदा प्रीतमना ब्रवीति ॥२०॥ युद्धं पुरा वासववृत्रयोयद्वेदे प्रसिद्धं च तथा पुराणे। दुःखं सुरेन्द्रेण तथव लब्धं हत्वा रिपुं त्वाष्ट्रमपापमेव ॥२१॥ चित्रं किमत्र नृपते हरिवज्रभृद्धयां यच्छद्यना विनिहतस्त्रिशिरोऽथ वृत्रः । मायाबलेन मुनयोऽपि विमोहितास्ते चक्रश्च निंद्यमनिशं किल पापभीताः ॥२२॥ विष्णुः सदैव कपटेन जघान दैत्यान्सत्त्वात्ममूर्तिरपि मोहमवाप्य कामम् । कोन्योऽस्ति तां भगदतों मनसाऽपि जेतुं शक्त: समस्तजनमोहकरों भवानीम् ।२३॥ मत्स्यादियोनिषु सहस्रयुगेषु सद्यः साक्षान्द्वत्यपि यथा विनियोजितोऽत्र। नारायणो नरसखो भगवाननंतः कार्य करोति विहितवं कदाचित् ॥२४॥ देहं धनं गृहमिदं स्वजना मदीयं पुत्राः कलत्रमिति मोहमुपेत्य सर्वः । पुण्यं करोत्यथ च पापचयं करोति मायागुणैरतिबलैविकलीकृतो यत् ।२५॥ न जातु मोहं क्षपितुं नरः क्षमः कश्रिद्धवेद्भूप परावरार्थबित् । विमोहितस्तैस्त्रिभिरेव मूलतो वशीकृतात्मा जगतीतले भृशम् ॥२६॥ अथ तौ मायया विष्णुवासवौ मोहितौ भृशम् । जघ्नतुश्छद्यना वृत्रं स्वार्थसाधनतत्परौ ॥२७॥ वदहं संप्रवक्ष्यामि वृत्तांतमवनीपते। कारणं पूर्ववैरस्य वृत्रवासवयोमिथः ॥२८॥ स्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः । देवानां कार्यकर्ता च निपुणो ब्राह्मणप्रियः ॥२९॥ स पुत्रं वे त्रिशिरसमिद्रद्वेषात्किलासृजत् । विश्वरूपेति विख्यातं नाम्ना रूपेण मोहनम् ॥३०॥
Page 345
श्रीमदेत्रीभागवते महापुराणे पहस्कन्धे अध्याय: १ ३४५ निभिः स बदनैः श्रेष्ठर्व्यरोचत मनोहरैः । त्रिभिभिन्नानि कार्याणि मुखैः समकरोन्मुनिः ३१।। ेदानेकेन सोऽधीते सुरां चैकेन सोऽपिवत्। तृतीयन दिशः सर्वा युगपच्च निरीक्षते ॥३२॥ त्रिशिरा भोगमुत्सृज्य तपश्रक्रे सुदुष्करम्। तपस्वी स मृदुर्दांतो धर्ममेव समाश्रितः ।३३॥ पभ्माग्निसाधनं काले पादपाग्र निवेशनम्। जलमध्ये निवासं च हेमंते शिशिरे तथा॥३४॥ निराहरो जितात्माऽसौ त्यक्तसर्बपरिग्रहः । तपश्रचार मेधाबी दुष्करं मन्दबुद्धिभिः ॥३५॥ सं च दृष्टा तपस्यन्तं खेदमाप शचीपतिः । विषादमगमत्तत्र शक्रोऽयं मास्मभूदिति ॥३६॥ दृद तस्य तपो बीय सत्यं चामिततेजसः । चिंता च महतीं प्राप ह्यनिशं पाकशासनः ॥३७॥ विवर्धमानखि्िशिरा मामयं शातयिष्यति। नोपेक्ष्यः सर्बथा शत्रुर्वर्धमानबलो बुधैः ॥३८॥ सस्मादुपायः कर्तव्यस्तपोनाशाय सांप्रतम्। कामस्तु तपतां शत्रुः कामान्नश्यति वै तपः ॥३९॥ सपबाद्य प्रकर्तव्यं भोगासक्तो भवेद्यथा। इति संचित्य मनसा बुद्धिमान्बलमर्दनः ॥४०।। मज्ञापयत्सोऽप्सरसस्त्वाष्टरपुत्रप्रलोभने । उर्वशी मेनकां रम्भां घृताचीं च तिलोत्तमाम् ४१।। रूंपगिताः । प्रियं कुरुष्वं मे सर्वाः कार्येऽद्य समुपस्थिते ॥४२॥ बतो मेऽद्य महाञ्छत्रुस्तपस्तपति दुर्जयः। कार्य कुरुत गच्छध्वं त्रलोभयत माचिरम् ।४३॥ शृंगारवेवविवि धैर्हार्देहसमुद्भबैः । प्रलोभयत भद्रं वः शमयध्वं ज्वरं मम ॥४४॥ अस्वस्थोऽहं महाभागास्तस्य ज्ञात्वा तपोबलम्। बलवानासनं मेऽद्य ग्रहीष्यत्यविलंबितः ॥४५॥ भयं मे समुपायातं क्षिप्रं नाशयताबलाः । उपकुर्वन्तु सहिताः कार्येऽद्य समुपस्थिते ॥४६॥ तम्तुत्या वचनं नार्म ऊचुस्तं प्रणताः पुरः। मा भयं कुरु देवेश यतिष्यामः प्रलोभने ॥४७॥ बषा न स्यान्द्रयं तस्मात्तया काय महाद्युते। नृत्यगीतविहारैश्र मुनेस्तस्य प्रलोभने ॥४८। कटाकरङ्गभेदैश्च मोहयित्वा मुनि विभो। लोलुपं वशमस्माकं करिष्यामो नियंत्रितम् ।।४९।। इत्याभाष्य हरि नार्यो ययुस्त्रिशिरसोंऽतिकम् । कुर्वन्त्यो विविधान्भावान्कामशास्त्रोचितानपि ५०॥ व्यास उवाच गायन्त्यस्तालभेदैस्ता नृत्यन्त्यः पुरतो. मुनेः। तं प्रलोभयितुं चक्रुर्नानाभावान् वरांगना: ॥५१॥ नापश्यत्स तपोराशिरंगनानां विडम्बनम् । इन्द्रियाणि वशे कृत्वा मूकान्धबधिरः स्थितः ॥५२॥ दिनानि कतिचित्तस्थुनार्यस्तस्याश्रमे वरे। कुर्वत्यो गाननृत्यादि प्रपञ्चानतिमोहदान् ॥५३॥ न चचाल यदा कामं ध्यानाच्च त्रिशिरा मुनिः । परावृत्य तदा देव्यः पुनः शक्रमुपस्थिताः ॥५४॥ कृताअलिपुटाः सर्वा देवराजमथाब्रुवन्। श्रांता दीना भयत्रस्ता विवर्णवदना भृशम् ॥५५॥ देवदेव महाराज यत्नश्च परमः कृतः। नसशक्यो दुराधर्षो धैर्याच्चालयितुं विभो ॥५६॥ उपायोऽन्यः प्रकर्तव्यः सर्बथा पाकशासन। नास्माकं बलमेतस्मिस्तापसे विजितेन्द्रिये ।।५७।।
Page 346
३४६ श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २ दिष्टया वय न शप्ताः स्म यदनेन महात्मना । मुनिना बह्नितुल्येन तपसा खोतितेन हि ॥५८॥ विसृज्याप्सरसः शक्रश्चिन्तयामास मन्दधीः । तस्यैव व वधोपायं पापबुद्धिरसाम्प्रतम् ॥५९॥ बिसृज्य लोकलज्जां स तथा पापभयं भृशम् । चकार पापबुद्धि तु तद्वधाय महीपते ॥६०।। इति श्रीमद्ेवीभागवते महापुराणे षष्टस्कन्धे प्रथमोऽध्यायः ।।१॥।
अथ द्वितीयोऽध्यायः
व्यास उवाच अथ स लोभमुपेत्य सुराधिपः समघिगम्य गजासनसंस्थितः । त्रिशिरसं प्रति दुष्टमतिस्तदा मुनिमपश्यदमेयपराक्रमम् ॥ १॥ तमभिवीक्ष्य दृढासनसंस्थितं जितगिरं सुसमाघिबशं गतम्। रविविभावसुसन्निभमोजसा सुरपतिः परमापदमभ्यगात् ॥ २॥ कथमसौ विनिहन्तुमहो मया मुनिरपापमतिः किल सम्मतः । रिपुरयं सुसमिद्धतपोबलः कथमुपेक्ष्य इहासनकामुकः ॥ ३॥ इति विचिन्त्य पर्वि परमायुधं प्रतिमुमोच मुनि तपसि स्थितम् । शशिदिवाकरसन्निभमाशुगं त्रिशिरसं सुरसंघपतिः स्वयम् ॥ ४ ॥ तदभिघातहतः स धरातले किल पपात ममार च तापसः । शिखरिण: शिखरं कुलिशार्दितं निपतितं भुवि चाद्भुतदर्शनम् ॥ ५ ॥ तं निहत्य मुदमाप सुरेशश्चुऋशुश्च मुनयस्तु संस्थिताः । हा हतेति भृशमार्तनिस्वनाः कि कृतं शतमखेन पापिना ॥ ६॥ विनापराधं तपसां निधिर्हतः शचीपतिः पापमतिर्दुरात्मा। फलं किलायं तरसा कृतस्य प्राप्नोतु पापी हननोद्दरवस्य ।। ७॥। तं निहत्य तरसा सुरराजो निर्जगाम निजमन्दिरभाशु। स हतोऽपि विरराज महात्मा जीवमान इव तेजसां निधिः ॥८॥ तं दृष्टा पतितं भूमौ जीवन्तमिव वृत्रहा। चिन्तामापातिखिन्नांगः कियाजीवेदयं पुनः ।९॥ विमृश्य मनसाऽतीव तक्षाणं पुरतः स्थितम् । मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥१०॥ तक्षश्छिघि शिरांस्यस्य कृरुष्व बचनं मम। माजीवतु महातेजा भाति जीवन्निव स्वयम् ॥११॥ इत्याकर्ष्य बचस्तस्य तक्षोबाच विगर्हयन्।
Page 347
श्रीमह्ेवीमागवते महापुराणे पहस्कन्धे अध्याय: २ ३४७.
तक्षोवाच महास्कंधो भृशं भाति परशुर्न तरिष्यति ॥१२॥ वतो नाहं करिष्यामि कार्यमेतद्विगहितम्। त्वया वै निंदितं कर्म कृतं सद्भ्िविगहितम् ॥१३। अहं बिभेमि पापाद्वं मृतस्यैव थ मारणे। मृतोऽयं सुनिरस्त्येव शिरसः कृंतनेन किम् ॥१४॥ भयं कि तेऽत्र संजातं पाकशासन कथ्यताम्। इन्द्र उवाप सजीब इब देहोऽयमाभाति विशदाकृतिः ॥१५॥ तस्माद्विभेमि मा जीवेन्मुनिः शत्रुरयं मम । तक्षोवाच नात्र कि तपसे विद्वन्क्ररेणानेन कर्मणा ॥१६॥ ऋषिपुत्रमिमं हत्या ब्रह्महत्याभयं न किम् । इन्द्र उवाच प्रायश्चितं करिष्यामि पश्रात्पापक्षयाय वै ॥१७। शत्रुस्तु सर्वथा वष्यश्छलेनापि महामते। तक्षोवाच त्वं लोभाभिहृतः पापं करोषि मघवन्निह ॥१८॥ तं बिनाऽेहं कथं पापं करोमि वद मे विभो। इन्द्र उवाच मलेषु खलु भागं ते करिष्यामि सदैव हि ॥१९॥ शिरः पशोस्तु ते भागं यज्ञे दास्यंति मानवाः । शुल्केनानेन छिषि त्वं शिरांस्यस्य कुरु प्रियम् २०॥ व्यास उवाच एतम्ब्रत्वा महेंद्रस्य वचस्तक्षा मुदान्वितः । कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥२१॥ छ्विन्नानि त्रीणि शोर्षाणि पतितानि यदा भुवि । तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥२२॥ कलविकास्तित्तिरयस्तर्थव च कर्पिजलाः । पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥२३॥ येन वेदानधीते स्म सोमं च पिबते तथा। तस्माद्वक्त्रात्किलोत्पेतुः सर्व एव कपिंजलाः ॥२४॥ मेन सर्वा दिशः कामं पिबन्रिव निरीक्षते। तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥२५॥ यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटका: किल। विनिष्पेतुस्िशिरस एवं ते विहगा नृप ॥२६।। एवं विनिःसृतान्दृष्टा तेभ्यः शक्रस्तदांडजान् । मुमोद मनसा राजअगाम त्रिदिवं पुनः ।२७॥।
Page 348
१४८ श्रीमदेवीमागवते महापुराणे षडस्कन्धे अध्याय: २ गते शक्रे तु तक्षाऽपि स्वगृहं तरसा ययौ। यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥२८॥ इन्द्रोथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम्। मेने कृतार्थमात्मानं ब्रह्महत्यामचितयन् ।।२९॥ तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम्। चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥३०॥ अनागसं मुनि यस्मात्पुत्रं निहतवान्मम। तस्मादुत्पादयिष्यामि तद्वधार्थ सुतं पुनः ॥३१॥ सुराः पश्यंतु मे वोयं तपसश्च बलं तथा। जानातु सवं पापात्मा स्वकृतस्य फलं महत् ॥३२।। इत्युक्त्वाऽग्नि जुहावाथ मंत्रराथर्वणोदितैः । पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥३३॥ कृते होमेऽष्टरात्रं तु संदोप्ताच्च विभावसोः । प्रादुर्बभूव तरसा पुरुषः बावकोपमः ॥३४॥ तं दृष्टाडग्रे सुतं त्वष्टा तेजोबलसमन्वितम्। वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥३५॥ उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् । इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥३६॥ इत्युक्त्े वचने त्वष्टा क्रोधप्रज्वलितेन च । सोऽवर्त दिवं स्तव्वा बैश्वानरसमद्युतिः ॥३७॥ जातः स पर्वताकारः कालमृत्युसमः स्वराट्। कि करोमीति तं प्राह पितरं परमातुरम् ॥३८॥ कुरु मे नामकं नाथ कायं कथय सुव्रत। चिंतातु रोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ३९॥ नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् । तेन जातेन कि भूयः पिता भवति दुःखितः॥४०॥ पिबामि सागरं सद्यश्चर्णयामि धराधरान्। उद्यंतं वारयाम्यद्य तरणि तिग्मतेजसम् ॥४१॥ हन्मीन्द्रं ससुरं सदो यमं वा देवतान्तरम्। क्षिपामि सागरे सर्वान्समुत्पाटय च मेदिनीम्॥४२॥ इत्याकर्ष्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम्। प्रत्युवाचातिमुदितस्तं सुतं पर्बतोपमम् ॥४३॥ बृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक। तस्माद्वृत्र इति ख्यातं तव नाम भविष्यति ४४॥ भ्राता तब महाभाग त्रिशिरा नाम तापसः । त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवंति न ४५॥ वेदवेदांगतत्वज्ञः सर्वविद्याविशारदः । संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥४६॥ शक्रेण तु हतः सोऽद्य वज्रघातेन सांप्रतम् । विनापराधं सहसा छिन्नानि मस्तकानि च ॥४७॥ तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृलागसम्। ब्रह्महत्यायुतं पापं निस्त्रपंदुर्मतिं शठम्॥४८॥ इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः। आयुधानि च दिव्यानि चकार विविधानि च॥।४९॥ ददावस्म सहस्राक्षवधाय प्रबलानि च। खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥५०॥ शाङ्गं धनुस्तथा बाणं परिघं पट्टिशं तथा। चक्र दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥५१॥ तूणीरो चाक्षयो दिव्यौ कवचं चातिसुंदरम्। रथं मेधप्रतीकाशं दृढं भारसहं जवम् ॥५२॥ युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव। दत्त्वाऽसौ प्रेरयामास त्वष्टा क्रोधसमन्वितः॥५३॥ इति श्रोदेवीभागवने महापुराणे षष्टस्कन्धे द्वितीयोऽधयायः ॥ २॥
Page 349
श्रीमद्देवीभागवते महापुराणे पहस्कन्धे अध्बाय: हे ३४९ अथ तृतीयोऽध्यायः व्यास उवाच कृतस्वस्त्ययनो वृत्रो ब्राह्मणवेंदपारगैः । निर्जगाम रथारूडो हंतुं शक्रं महाबलः ।१॥ तदेव राक्षसाः क्रराः पुरा देवपराजिताः । समाजग्मुश्च सेबारथं वृत्रं ज्ञात्बा महाबलम् ॥२॥ इन्द्रदूतास्तु तं दृष्टा युद्धाय तु समागतम् । वेगादागत्य वृत्तांतं शशंसुस्तस्य चेटितम् ॥३॥ व्यास उवाय स्वामिञ्छीघ्रमिहायाति वृत्रो नाम रिपुस्तव। बलावान्स्यंदने रूठस्त्वष्ट्रा चोत्पादितः किल ॥४॥ अभिचारेण नाशाबं तव क्रोधान्बितेन वै। पुत्रघाताभितप्तेन दुःसहो राक्षसैर्युतः ॥५॥ यत्नं कुरु महाभाग शीघ्रमायाति सांप्रतम्। मेरुमंदरसंकाशो घोरशब्दोऽतिदारुण: ॥६॥ एतस्मिन्नंतरे तत्र भीता देवगणा भृशम् । आगत्योचुः सुरपतति शृण्वंतं दूतभाषितम्।७।
मघवन्दुर्निमित्तानि भवंति त्रिदशालये। बहूनि भयशंसीनि पक्षिणां विरुतानि च ।८॥ गणा ऊचु:
काकगृधास्तथा श्येना: कंकाचा दारुणाः खगाः । रुदंति विवृतैः शब्दैरुत्कारैर्भवनोपरि ॥।९॥ चीचीकूचीति निनदान्कुवति विहगा भृशम् । वाहनानां च नेत्रेभ्यो जलधाराः पतंत्यघः ॥१०॥ श्रूयतेऽरतिमहाञ्छ्दो रुदतीनां निशासु च । राक्षसीनां महाभाग भवनोपरि दारुण: ॥११॥ प्रपतंति ध्वजास्तूणं बिना वातेन मानद । प्रभवंति महोत्पाता दिवि भूम्यंतरिक्षजाः ॥१२॥ कृष्णांबरधरा नारयों भ्रमंति च गृहे गृहे । यांतु यांतु गृहात्तूर्ण कुर्वत्यो विकृताननाः ॥१३॥ रात्रो स्वप्नेषु कांतानां सुप्तानां निजमंदिरे। केशांल्लुनंति राक्षस्यो भीषयन्त्यो भृशातुराः॥१४॥ एवंबिधानि देवेश भूकंपोल्कादयस्तथा। गोमायवो रुदंतिस्म निशायां भवनांगणे ॥१५॥ सरटानां च जालानि प्रभवंति गृहे गृहे । अंगप्रस्फुरणादीनि दुर्निमित्तानि सर्वशः ॥१६॥
इति तेषां वच्र: श्रुत्वा चिंतामाप सुरेश्वरः । बृहस्पति समाहय पप्रच्छ च मनोगतम् ॥१७॥ व्यास उबाच
इन्द्रू उषाच ब्रह्मन्किमुत वोराणि निमित्तानि भवंति वै। वाताश्र दारुणा वांति प्रपतंत्युलकाः खतः ॥१८॥ सर्वज्ञोऽसि महाभाग समर्थो विघ्ननाशने। बुद्धिमाञ्छास्त्रतत्त्वज्ञो देवतानां गुरुस्तथा ॥१९॥ कुरु शांति विधानज्ञ शत्रुक्षयविधायिनीम् । यथा मे न भवेद्दुःखं तथा कार्यं विधीयताम् ॥२०॥ बृहस्पतिरुवाच किं करोमि सहस्राक्ष त्वयाऽद्य दुष्कृतं कृतम् । अनागसं मु्नि हत्वा कि फलं समुपाजितम् ॥२१।
Page 350
३५० श्रीमद्देवीमागवते महापुराणे षछ्ठस्कन्धे अध्याय: ३ अत्युग्रं सुण्यपापानां फलं भवति सत्वरम् । विचार्य खलु कर्तव्यं कार्यं त्द्रूतिमिच्छता ॥२२॥ परोपतापनं कर्म न कर्तव्यं कदाचन। न सुखं विंदते प्राणी परपीडापरायण: ।२३। मोहाल्लोभाद्ब्रह्महत्या कृता शक्र त्वयाऽधुना। तस्य पापस्य सहसा फलमेतदुपागतम् ॥२४॥ अवध्यः सर्वदेवानां जातोऽसो वृत्रसंज्ञकः । हंतुं त्वां स समायाति दानबैर्बहुभिर्वृतः ॥२५॥ आयुवानि च सर्वाणि वज्ररतुल्यानि वासव । त्वष्ट्रा दत्तानि दिव्यानि गृहीत्वा समुपस्थितः २६॥ समागच्छति दुर्धर्षो रथारूढः प्रतापवान् । देवेन्द्र प्रलयं कुर्वन्नास्य मृत्युर्भविष्यति ॥२७॥ कोलाहलस्तदा जातस्तथा ब्रुवति वाक्पती। गंधर्वाः किन्नरा यक्षा मुनयश्र तपोधनाः ॥२८॥ सदनानि विहायैवामराः सर्वे पलायिताः । तद्दृष्टा महदाश्रयं शक्रश्रितापरायणः ॥२९॥ आज्ञापयामास तदा सेनोद्योगाय सेवकान्। आनयध्वं वसूत्ुद्रानश्चिनो व दिवाकरम् ॥३०॥ पूषणं च भगं वायुं कुबेरं बरुणं यमम्। विमानेषु समारुह्य सायुधाः सुरसत्तमाः ॥३१॥ समागच्छंतु तरसा शत्रुरायाति सांप्रतम् । इत्याज्ञाप्य सुरपतिः समारुह्य गजोत्तमम् ॥३२॥ बृहस्प्ति पुरोधाय निर्गतो निजमंदिरात्। तथव त्रिदशाः सर्वे स्वं स्वं वाहनमास्थिताः ३३॥ युद्धाय कृतसंकल्पा निर्ययुः शस्त्रपाणयः । वृत्रोऽथ दानवैर्युक्तः संप्राप्तो मानसोत्तरम् ॥३४॥ पर्वतं देवतावासं रम्यं पादपशोभितम्। इन्द्रोऽप्यागत्य संग्रामं चकार मानसोत्तरे ॥३५॥ पर्वते देवतायुक्तो वाचस्पतिपुरःसरः । तत्राभूद्दारुणं युद्धं मृत्रवासवयोस्तदा ।३६।। गदासिपरिघंः पाशर्बाणः शक्तिपरश्वधैः । मानुषेण प्रमाणेन संग्रामः शरदां शतम् ॥३७॥ बंभूव भयदो नृणामृषीणीं भावितात्मनाम् । वरुण: प्रथमं भग्नस्ततो वायुगण: किल ॥३८॥ ततो विभावसुः शक्रः सर्वे ते निर्गता रणात्। पलायनपरान्दृष्टा देवानिद्रपुरोगमान् ॥३९॥ वृत्रोऽपि पितरं प्रागादाश्रमस्थं मुदान्वितम् । प्रणम्य प्राह त्वष्टारं पितृः कार्यं मया कृतम् ॥४०॥ देवा विनिजिता: सर्वे सेंद्राः समरसंस्थिताः । विद्रुतास्ते गताः स्थानं यथा सिंहान्मृगा गजा: ४१॥ इन्द्रः पदातिरगमन्मयाऽडनीतो गजोत्तमः । ऐरावतोऽयं भगवन्गृहाण द्विरदोत्तमम् ॥४२॥ न हतास्ते मया तस्मादयुक्तं भीतमारणम् । आज्ञापय पुनस्तात किं करोमि तवेप्सितम् ॥४३॥ निर्जरा निर्गताः सर्वे भयभीताः श्रमातुराः । इंद्रोऽप्यैरावतं त्वक्त्वा भयभोतः पलायितः ॥४४॥ व्यास उवाच इति पुत्रवचः श्रुत्वा त्वष्टा प्राह मुदान्वितः । पुत्रवानद्य जातोऽस्मि सफलं मम जोवितम्॥४५॥ त्वयाऽहं पावितः पुत्र गतो मे मानसो ज्वरः। निश्चलं मे मनो जातं दृष्टा वीर्य तनाद्ुतम् ॥४६॥ शृणु वक्ष्याम्यहं पुत्र हितं तेऽद्य निशामय। तपः कुरु महाभाग सावधानः स्थिरासनः ॥४७॥ विश्वासो नैव कर्तव्यः केषांचित्पाकशासनः । शत्रुस्ते छलकर्ताऽस्ति नानाभेदविशारदः ॥४८।
Page 351
श्रीमर्ेवीभागवते महापुराणे पहस्कन्धे अध्याय: ४ ३५१ तपसा प्राप्यते लक्ष्मीस्तपसा राज्यमुत्तमम् । तपसा बलवृद्धिः स्यात्संग्रामे विजयस्तथा ।४९।। आाराष्य द्रुहिणं देवं लब्ध्वा वरमनुत्तमम्। जहि शक्रं दुराचारं ब्रह्महत्यासमावृतम् ॥५॥॥ साबधान: स्थिरो भूत्वा दातारं भज शंकरम्। वांछितं स वरं दद्यात्संतुष्टश्चतुराननः ॥५१॥ तोषयित्वा विश्वयोनि ब्रह्माणममितौजसम् । अविनाशित्वमासाद्य जहि शक्रं कृतागसम् ॥५२॥ बैरं मनसि मे पुत्र वर्तते सुतघातजम्। न शांतिमनुगच्छामि न स्वपामि सुखेन ह ।५३॥ तापसो मे हतः पुत्रो निरागा: पाप्मना यतः। न विंदामि सुखं वृत्र त्वं मामुद्धर दुःखितम् ।।५४।। व्यास उवाच तदाकर्ण्य पितुर्वाक्यं वत्रः क्रोधयुतस्तदा। आज्ञामादाय च पितुर्जगाम तपसे मुदा ॥५५॥ गंधमादनमासाद्य पुण्यां देवधुनीं शुभाम्। स्नात्वा कुशासनं कृत्वा संस्थितश्च स्थिरासनः ५६॥ त्यक्त्वान्नं वारिपानं च योगाभ्यासपरायणः। ध्यायन्विश्वसृजं चित्ते सोपविष्टः स्थिरासने ॥५७। मघवा तं तपस्यंतं ज्ञात्वा चिंतातुरो ह्यभूत् । गंधर्वान्प्रेषयामास विध्नार्थं पाकशासनः ।५८।। यक्षांश्र पन्नगान्सर्पान्किन्नरानमितौजसः। विद्याधरानप्सरसो देवदूताननेकशः ॥५९।। उपायास्तैः कृताः सम्यक्तपोविध्नाय मायिभिः । न चचाल ततो ध्यानात्त्वाष्ट्रः परमतापसः ॥६०॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे तृतीयोऽध्यायः॥३॥ अथ चतुर्थोऽध्यायः व्यास उवाच निर्गतास्ते परावृत्तास्तपोबिघ्नकराः सुराः । निराशाः कार्यसंसिद्ध्य तं दृष्टा दृढचेतसम् ॥१॥ जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः । तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥२॥ आगत्य तमुवाचेदं त्वष्टुः पुत्र सुखी भव। त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वांछितम्॥३॥ तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्टा चातिकशितम्। वरं वरय भद्रं ते मनोऽभिलषितं तब ॥४।। व्यास उवाच वृत्रस्तदाऽतिविशदां पुरतो निशम्य वाचं सुधासमरसां जगदेककर्तुः । संत्यज्य योगकलनां सहसोदतिष्ठत्संजातहर्षनयनाश्रुकलाकलाप:॥५॥। पादौ प्रणम्य शिरसा प्रणयाद्विधातुर्बद्धांजलि: पुरत एव समाससाद। प्रोवाच तं सुवरदं तपसा प्रपन्नं प्रेम्णाऽतिगद्गदगिरा विनयेन नम्रः ॥६।।
Page 352
L
३५२ श्रीमदेवीभागवते महापुराण षष्टस्कन्धे अध्याय: ४ प्राप्तं मया सकलदेवपदं प्रभोऽय यद्दर्शनं तव सुदुर्लभमाशु जातम्। वाञ्छाऽस्ति नाथ मनसि प्रवणे दुरापा तां प्रब्रबीमि कमलासन वेत्सि भावम् ॥७॥ मृत्युश्र मा भवतु मे किल लोहकाशुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रः ! वृद्धि प्रयातु मम वीर्यमतीव युद्धे यस्मान्द्गवामि सबलैरमरैरजेयः ॥८॥ व्यास उवाच इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव। उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ।।९॥ न शुष्केण न चार्द्रेण न पाषाणेन दारुणा। भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥१०॥ इति दत्त्बा वरं ब्रह्मा जगाम भुवनं परम्। वृत्रस्तु तं वरं लब्ध्वा मुदितः स्वगृहं ययौ ॥११॥ शशंस पितुरग्रे तद्वरदानं महामतिः। त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तबरं तदा ॥१२॥ स्वस्ति तेऽस्तु महाभाग जहि शत्रकं रिपुं मम। हत्वा गच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥१३॥ भब त्वं त्रिदशाधोशः सम्प्राप्य विजयं रणे । ममाधि छिधि बिपुलं पुत्रनाशसमुद्द्रबम् ।१४।। जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् । गयायां पिण्डदानाच्य त्रिभिः पुत्रस्य पुत्रता ॥१५॥ तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि । त्रिशिरा मम चित्तात्तु नापसर्पति कहिचित्.॥१६।। सुशोल: सत्यवादी च तापसो वेदवित्तमः । अपराधं बिना तेन निहतः पापबुदिना ॥१७॥ व्यास उवाच इतिं तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः । रथमारुद्य तरसा निर्जगाम पितुर्गृहात् ॥१८॥ रणदुन्दुभिनिर्धोषं शङ्गनादं महाबलम् । कारयित्वा प्रयाणं स चकार मदगवितः ॥१९॥ निर्ययो नयसंयुक्त: सेवकानिति संवदन् । हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकंटकम् ॥२०॥ इत्युकत्वा निर्जगामाशु स्वसैन्यपरिवारितः । महता सैन्यनादेन भीषयन्नमरावतीम् ॥२१॥ तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः । सेनोद्योगं भयत्रस्तः कारयामास भारत ॥२२॥ सर्वानाहूय तरसा लोकपालानरिन्दमः । युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥२३॥ गृधव्यूहं ततः कृत्वा संस्थितः पाकशासनः । तत्राजगाम वेगातु वृत्रः परबलार्दनः ॥२४॥ देवदानवयोस्तावत्संग्रामस्तुमुलोऽभवत् । वृत्रवासवयोः संख्ये मनसा विजयैषिणोः ॥२५॥ एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम्। आकूतं देवताः प्रापुर्देत्याश्र परमां मुदम् ॥२६॥ तोमरैभिन्दिपालेश्च खड्गैः परशुपट्टिशंः । जघ्नुः परस्परं देवदैत्याः स्वस्ववरायुधैः ॥२७ एं युद्धे वर्तमाने दारुणे लोमहर्षणे। शक्रं जग्राह सहसा वृत्रः क्रोधसमन्बितः ॥२८॥ अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम्। मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥२९॥ शक्रे ग्रस्तेऽथ वृत्रेण सम्भ्रान्ता निर्जरास्तदा। चुक्कुशुः परमार्तास्ते हा शक्रेति मुहर्मुहुः ॥३०॥
Page 353
२३ श्रीमदेवीभागवते महापुराणे पठस्कन्पे अध्याय: : ३५३ अपावृते मुखे शक्रं श्ञात्वा सवे दिवाकसः । बृहस्पति प्रणम्योचुर्षीना व्यथितचेतसः ॥३१॥ किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः । शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतांतरैः ॥३२॥ विना शक्रेण कि कुर्मः सर्वे हीनपराक्रमाः । अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥३३॥ बृहस्पतिरुवाच कि कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः । वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठांतरे रिपोः॥३४॥ व्यास उवाच देवाश्चिंतातुराः सर्वे तुरासाहं तथाकृतम्। दृष्टा विमृश्य तरसा चक्रुर्यत्नं विमुक्तये ॥३५॥ असृजंत महासत्त्वां जुम्भिकां रिपुनाशिनीम् । ततो विजुम्भमाणः स व्यावृतास्यो बभूव ह ३६।। विज्म्भमाणस्य ततो वृत्रस्यास्यादवापतत् । स्वान्नंगान्यपि संक्षिप्य निष्क्रांतो बलसूदनः ३७॥ ततः प्रभृति लोकेषु जुम्भिका प्राणिसंस्थिता। जहृषुश्र सुराः सवें शक्रं दृष्टा विनिर्गतम् ॥३८।। ततः प्रबवृते युद्धं तयोरलोकभयप्रदम्। वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥३९॥ एकतश्र सुराः सर्वे युद्धाय समुपस्थिताः । एकतो बलवांस्त्वाष्ट्रः संग्रामे समवर्तत ॥४०॥ यदा व्यवर्धत रणे वृत्रो वरमदावृतः । पराजितस्तदा शक्रस्तेजसा तस्य घर्षितः ॥४१॥ विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् । विषादमगमन्देवा दृष्टा शक्रं पराजितम् ॥४२॥१ जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः । गृहीतं देवसवनं वृत्रेणागत्य रंहसा ।४३॥ देवोद्यानानि सर्वाणि भुंक्त्ेऽसौ दानवो बलात् । ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥४४॥ विमानानि च सर्वाणि गृहीतानि विशांपते। उच्चःश्रवा हयवरो जातस्तस्य वशे तदा॥४५॥ कामधेनुः पारिजातो गणश्चाप्सरसां तथा। गृहीतं रत्नमात्रं तु तेन त्वष्ट्रसुतेन ह।४६॥ स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु स्थताः । दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ।४७।। वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः । त्वष्टाऽतीव सुखं प्राप्य मुमोद सुतसंयुतः ॥४८॥ अमंत्रयन्हितं देवा मुनिभिः सह भारत । किं कर्तव्ममिति प्राप्ते विचिन्त्य भयमोहिता: ४९॥ जग्मुः कैलासमचलं सुराः शक्रसमन्विताः । महादेवं प्रणम्योचुः प्रह्वाः प्रांजलयो भृशम् ॥५०॥ देवदेव महादेव कृपासिन्धो महेश्वर। रक्षाऽस्मान्भयभीतांस्तु वृत्रेणातिपराजितान्॥५१॥ गृहीतं देवसदनं तेन देव बलीयसा। किं कर्तव्यमतः शंभो ब्रूहि सत्यं शिवाद्य नः ॥५२॥ किं कुभ: क्व च गच्छामः स्थानभ्रष्टा महेश्वर । दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥५३॥ साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे। वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥५४॥ शिव उवाच ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरे: क्षयम् । गत्वा समेत्य तं विष्णुं चिंतयामो वधोद्यमम ५५॥
Page 354
३५४ श्रीमद्वेवीमागवते महापुराणे पडस्कन्धे अध्याय: ५ स शक्तश्र छलज्ञश्र बलवान्बुद्धिमत्तरः । शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दन: ॥५६॥। विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति। तस्मात्तव च गंतव्यं सर्वकार्यार्थसिद्धये ।।५७॥ व्यास उवाच इति संचित्य ते सर्वे ब्रह्मा शक्रः सशंकरः। जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ५८।। गत्वा विष्णुपदं देवास्तुष्टवुः परमेश्वरम्। हरि पुरुषसूक्तेन वेदोक्तेन जगद्गुरुम्।५९।। प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स क्रमलापतिः । संभान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥६॥ किमागताः स्म लोकेशा हरब्रह्मसमन्विता। कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥६१॥ व्यास उवाच इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम्। चिन्ताविष्टाः स्थिताः प्रायः सर्वे प्रांजलयस्तथा ६२॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कंधे चतुर्थोऽध्याय:॥।४। अथ पञ्चमोऽ्ध्यायः व्यास उवाच तथा चिन्तातुरान् वीक्ष्य सर्वान्सर्वार्थतत्त्ववित् । प्राह प्रेमभरोद्भ्रांतान्माधवो मेदिनीपते ॥१॥ विष्णुरुबाच कि मौनमाश्रिता यूयं ब्रुवंतु कारणं सुराः । सदसद्वाऽपि तच्छ्रुत्वा यतिष्ये तन्निवारणे ॥२॥ देवा ऊचु: किमज्ञातं तव विभो त्रिषु लोकेषु वर्तते। सवं वेद भंवान्कार्ये किं पृच्छसि पुनः पुनः ॥३॥ त्वया पूर्व बलिरबद्धः शक्रो देवाघिपः कृतः । वामनं वपुरास्थाय क्रांतं त्रिभुवनं पदे ॥४॥ अमृतं त्वाहृतं विष्णो दैत्याश्र विनिपातिताः । त्वं प्रभुः सर्वदेवानां सर्वापद्विनिवारणे ॥५॥ विष्णुरुवाच न भेतव्यं सुरवरा वेद्मयुपायं सुसंभतम्। तद्वधाय प्रवक्ष्यामि येन सौख्यं भविष्यति ॥६॥ अवश्यं करणीयं मे भवतां हितमात्मना । बुद्धया बलेन चार्थेन येन केन छलेन वा।।७।। उपायाः खलु चत्वारः क्थितास्तत्त्वदशिभिः । सामादयः सुहृत्स्वेव दृहृदेषु विशेषतः I।८।। ब्रह्मणाऽस्य वरो दत्तस्तपसाऽडराधितेन च । दुर्जयत्वं च संप्राप्तं वरदानप्रभावतः ॥९॥ अजेयः सर्वभूतानां त्वष्टरा समुपपादितः । ततो बलेन वृद्धि स प्राप्तः परपुरंजयः ॥१॥॥ दुःसाध्योऽसी सुराः शत्रुर्विना सामप्रतारणम् । प्रलोभ्य वशमानेयो हन्तव्यस्तु ततः परम् ॥११॥
Page 355
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः ५ ३५५ गच्छध्वं सर्वगंधर्वा यत्रास्ति बलवत्तरः । साम तस्य प्रयुंजध्वं तत एनं विजेष्यथ ।१२। संगम्य शपथान्कृत्वा विश्वास्य समयेन हि। मित्रत्वं च समाधाय हंतव्यः प्रबलो रिपुः ॥१३॥ अदृश्यः संप्रवेक्ष्यामि वज्तरमस्य वरायुधम् । साहाय्यं च करिष्यामि शक्रस्याहं सुरोत्तमाः १४॥ समयं च प्रतीक्षध्वं सवर्थवायुषः क्षये । मरणं विबुधास्तस्य नान्यथा संभविष्यति ।१५॥ गच्छ्वमृषिभिः सार्ध गन्धर्वाः कपटावृताः । इन्द्रेण सह मित्रत्वं कुरुध्वं वाक्यदानतः ॥१६।। यथा स याति विश्वासं तथा कार्य प्रतारणम्। गुप्तोऽहं संप्रवेक्ष्यामि पवि संछादितं दृढम् ॥१७॥ विश्वस्तं मधवा शत्रुं हनिष्यति न चान्यथा । विश्वासस्य कृते पापं कृत्वा शक्रस्तु पृष्ठतः ॥१८।। मत्सहायोऽथ वज्ेण शातयिष्यति पापिनम् । न दोषोऽत्र शठे शत्रौ शाठ्यमेव प्रकुर्वतः ॥१९॥ नान्यथा बलवान् वध्यः शूरधर्मेण जायते। वामनं रूपमाधाय मयाऽयं वंचितो बलिः॥२०॥ कृत्वा च मोहिनोवेषं दैत्याः सर्वेऽपि वंचिताः । भवंतः सहिताः सर्वे देवीं भगवती शिवाम् ॥२१॥ गच्छघ्वं शरणं भावैः स्तोत्रमंत्रैः सुरोत्तमाः । साहाय्यं सा योगमाया भवतां संविधास्यति २२।। बन्दामहे सदा देवीं सात्त्विकीं प्रकृति पराम् । सिद्धिदां कामदां कामां दुरापामकृतात्मभिः २३॥ इंद्रोऽपि तां समाराध्य हनिष्यति रिपुं रणे । मोहिनी सा महामाया मोहयिष्यति दानवम् २४॥ मोहितो मायया वृत्रः सुखसाध्यो भविष्यति। प्रसन्नायां परांबायां सर्वं साध्यं भविष्यति ॥२५॥ नोचेन्मनोरथावाप्तन कस्यापि भविष्यति । अन्तर्यामिस्वरूपा सा सर्वकारणकारणा ॥२६॥ तस्मात्तां विश्वजननी प्रकृति परमादृताः । भजध्वं सात्त्विकैर्भावैः शत्रुनाशाय सत्तमाः ॥२७॥ पुरा मयाऽपि संग्राम कृत्वा परभदारुणम्। पंचवर्षसहस्त्राणि निहती मधुकैटभौ ॥२८॥ स्तुता मया तदात्यर्थ प्रसन्ना प्रकृतिः परा। मोहितौ तौ तदा दैत्यौ छलेन च मया हतौ ।२९॥ विप्रलब्धौ महाबाह दानवौ मदगर्वितौ। तथा कुरुध्वं प्रकृतेर्भजनं भावसंयुताः ॥३०॥ सर्वथा कार्यसिद्धिं सा करिष्यति सुरोत्तमाः । एवं ते दत्तमतयो विष्णुना प्रभविष्णुना ॥३१॥ जग्मुस्ते मेरुशिखरं मन्दारद्रुममण्डितम् । एकांते संस्थिता देवाः कृत्वा ध्यानं जपं तपः ॥३२॥ तुष्टुवुर्जगतां धात्रीं सृष्टिसंहारकारिणीम्। भक्तकामदुघामंबां संसारक्लेशनाशिनीम् ॥३३॥ देवा ऊचु: देवि प्रसीद परिपाहि सुरान्प्रतप्तान्वृत्रासुरेण समरे परिपीडितांश्च। दीनातिनाशनपरे परमार्थतत्वे प्राप्तांस्त्वदंघ्रिकमलं शरणं सदैव ॥३४॥ त्वं सर्वविश्वजननी परिपालयास्मान्पुत्रानिवातिपतितात्रिपुसंकटेडस्मिन् । मातर्न तेऽस्त्यदिदितं भुवनत्रयेऽपि कस्मादुपेक्षसि सुरानसुरप्रतप्तान् ।३५॥ त्रैलोक्यमेतदखिलं विहितं त्वयैव ब्रह्मा हरिः पशुपतिस्तव वासनोत्थाः ।
Page 356
३५६ श्रीमदेवीभागवते महापुराणे षष्टस्कन्धे अध्याय: ५ कुर्वन्ति कार्यमखिलं स्ववशा न ते ते भ्रभंगचालनवशाद्विहरंति कामम् ॥३६॥ माता सुतान्परिभवात्परिपाति दीनान् रीतिस्त्वयैव रचिता प्रकटापराधान्। कस्मान्न पालयसि नूनं मदंघ्रिभजनाप्तपदाः किलैते भक्ति विहाय विभवे सुखभोगलुब्धाः । नेमे कटाक्षविषया इति चेन्न चैषा रीतिः सुते जननकर्तरि चापि दृष्टा ॥३८॥ दोषो न नोऽत्र जननि प्रतिभाति चित्ते यत्ते विहाय भजनं विभवे निमग्नाः । मोहस्त्वया विर्राचतः प्रभवत्यसौ नस्तस्मात्स्वभावकरुणे दयसे कथं न ।।३९।। पूर्वं त्वया जननि दैत्यपतिर्वलिष्ठो व्यापादितो महिषरूपधरः किलाजौ। अस्मत्कृते सकललोकभयाटकं उसौ वृत्रं कथं न भयदं विधुनोषि मातः ॥४०॥ शुम्भस्तथाऽतिबलवाननुजो निशुम्भस्तौ भ्रातरो तदनुगा निहता हतौ च। वृत्रं तथा जहि खलं प्रबलं दयार्द्रे मत्तं विमोहय तथा न भवेद्यथाऽसौ ॥४१॥ त्वं पालयाद्य विबुधानसुरेण मातः संतापितानतितरां अयविह्वलांश्र । नान्योऽस्ति कोऽपि भुवनेषु सुरातिहंता यः क्लेशजालमखिलं निदहेत्स्वशवत्या ॥४२॥ वृत्रे दया तव यदि प्रथिता तथापि जह्येनमाशु जनदुःखकर खरं च। पापात्समुद्धर भवानि शरैः पुनाना नोचेत्प्रयास्यति तमो ननु दुष्टबुद्धिः ।४३।। ते प्रापिताः सुरवनं विबुधारयो ये हत्वा रणेऽपि विशिखैँः किल पावितास्ते। त्राता न कि निरयपातभयाह्या्द्रे यच्छत्रवोऽपि न हि कि विनिहंसि वृत्रम् ॥४४।। जानीमहे रिपुरसी तव सेवको न प्रायेण पीडयति नः किल पापबुद्धिः । यस्तावकस्त्विह भवेदमरानसौ किन्त्वत्पादपंकजरतान्ननु पीडयेट्वा ॥४५॥ कुर्म: कथं जननि पूजनमद्य तेऽम्ब पुष्पादिकं तव विनिर्मितमेव यस्मात्। मन्त्रा वयं च सकलं परशक्तिरूपं तस्मान्द्वानि चरणे प्रणताः स्म नूनम् ॥४६॥ वन्यास्त एव मनुजा हि भजति भवत्या पादांबुजं तव भवान्धिजलेपु पोतम्। यं योगिनोऽपि मनसा सततं स्मरंति मोक्षार्थिनो विगतरागविकारमोहाः ।४७। ये याज्ञिका: सकलवेदविदोर्ऽप नूनं त्वां संस्मरंति सतनं किल होमकाले। स्वाहां तु तृप्तिजननीमसुरेश्वराणां भूयः स्वधां पितृगणस्य च तृप्तिहतुम् ॥४८।। मेघाऽसि कांतिरसि शांतिरसि प्रसिद्धा वुद्धिस्त्वमेव विशदार्थकरी नराणाम्। सवं त्वमेव विभवं भुवनत्रयेऽस्मिन्कृत्वा ददासि भजतां कृपया सदैव।४९॥
Page 357
श्रीमदेवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: ६ १५७
व्यास उवाच एवं स्तुता सुरैर्देवो प्रत्यक्षा साऽभवत्तदा। चारुरूपधरा तन्वी सर्वाभरणभूषिता ॥५०॥ पाशाङ्कशवराभोतिलसदवाहुचतुष्टया । रणत्किणिकाजालरशनाबद्धसत्कृटि: ॥५१॥
कलकण्ठीरवा कान्ता क्वणत्कङ्कणनूपुरा। चन्द्रखण्डसमाबद्धरत्नमोलिविराजिता ॥५२॥
मन्दस्मिताSरविन्दास्या नेत्रत्रयविभूषिता। पारिजातप्रसूनाच्छनोलवर्णसमप्रभा 11५३H
रक्ताम्बरपरोधाना रक्तचन्दनचर्चिता। प्रसादसुमुखो देवी करुणारससागरा ।५४।। सर्वंशृङ्गारवेषाढया सर्वद्वतारणिः परा। सर्वज्ञा सर्वकर्त्री च सर्वाधिष्ठानरूपिणी ॥५५॥ सववेदान्तसंसिद्धा सच्चिदानन्दरूपिणो। प्रणेमुस्तां समालोक्य सुरा देवीं पुरःस्थिताम् ॥५६: तानाह प्रणतानन्दा कि वः कार्य भ्रुवन्तु माम् । देवा ऊचु: मोहयैनं रिपुं वृत्रं देवानामतिदुःखदम् ॥५७॥ यथा विश्वसते देवांस्तथा कुरु विमोहितम् ! आयुधे च बलं देहि हतः स्याद्येन वारिपुः ॥५८॥ व्यास उवाच त्रथेत्युक्त्वा भगवती तत्रवान्तरधीयत । स्वानि स्वानि निकेतानि जग्मुर्देवा मुदान्विताः ५९। इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे देवीमाहात्म्ये पञ्चमोऽध्यायः ॥।५॥ . अथ षष्ठोऽध्यायः,
व्यास उवाच एवं प्राप्तवरा देवा ऋषयश्र तपोघनाः। "जग्मुः सर्वे च संमंत्र्य वृत्रस्याश्रममुत्तमम्"। ददृशुस्तत्र तं वृत्रं ज्वलन्तमिव तेजसा ॥१॥ घक्ष्यन्तमिव लोकांस्त्रीन्ग्रसन्तमिव चामरान्। ऋषयोऽथ ततोऽम्येत्य वृत्रमूचुः प्रियं वचः ॥२॥ देवकार्यार्थसिद्धचर्थ सामयुक्त रसात्मकम् । ऋषय ऊचुः वृत्र वृत्र महाभाग सर्वलोकभयङ्कर ॥ ३ ॥ व्याप्तं त्वयैतत्सकलं ब्रह्माण्डमखिलं किल। शक्रेण तव वैरं यत्तत्तु सौख्यविघातकम् ॥४।। युवयोर्दुःखदं कामं चिन्तावृद्धिकरं परम्। न त्वं स्वपिषि सन्तुष्टोन चापि मघवा तथा ॥५॥ सुखं स्वपिति चिन्तार्तो द्वयोयर्द्वैरिजं भयम्। युवयोर्युव्यतोः कालो व्यतोतस्तु महानिह ॥६॥ पोडयन्ते च प्रजाः सर्वाः सदेवासुरमानवाः । संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥७॥
Page 358
३५८ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः ६ न सुखं कृतवैरस्य भवतीति विनिर्णयः । संग्रामरसिकाः शूरान्प्रशंसन्ति न पण्डिताः ॥८। युद्धं शरृङ्गारचतुरा इन्द्रियार्थविघात्कम्। पुष्पैरपि न योद्धव्यं कि पुनर्निशितैः शरैः ॥९॥ युद्धे विजयसन्देहो निश्चयं बाणताडनम् । दैवाधीनमिदं विश्वं तथा जयपराजयौ ॥१०॥ दैवाघीनाविति ज्ञात्वा न योद्धव्यं,कदाचन । कालेऽथ भोजनं स्नानं शय्यायां शयनं तथा ।११।। परिचर्यापरा भार्या संसारे सुखसाधनम् । किं सुखं युध्यतः संख्ये बाणवृष्टिभयङ्करे ॥१२॥ खड्गपातातिरौद्रे च तथाऽडरातिसुखप्रदे। संग्रामे मरणात्स्वर्गसुखप्राप्तिरिति स्फुटम् ॥१३॥ प्रलोभनपरं वाक्यं नोदनार्थं निरर्थकम्। छित्त्वा देहं व्यथां प्राप्य शृगालकरटादिभिः॥१४॥ पश्चात्स्वर्गसुखावासिं को वा वांछति मन्दधीः । सख्यं भवतु ते वृत्र शक्रेण सह नित्यदा ॥१५।। अवाप्स्यसि सुखं त्वं च शक्रश्चापि निरन्तरम् । वयं च तापसाः सर्वे गन्धर्वाश्च निजाश्रमे ॥१६॥ सुखावासं गमिष्यामः शान्ते वैरेऽधुनैव वाम्। संग्रामे युवयोर्वीर वर्तमाने दिवानिशम् ॥१७॥ पीडयन्ते मुनयः सर्वे गन्धर्वाः किन्नरा नराः। सर्वेषां शांतिकामानां सख्यमिच्छामहे वयम् ॥१८॥ मुनयस्त्वं च शक्रश्र प्राप्नुवन्तु सुखं किल। मध्यस्थाश्च वयं वृत्र युवयोः सख्यकारणे ॥१९॥ शपथं कारयित्वाऽत्र योजयामो मिथः प्रियम् । शक्रस्तु शपथान्कृत्वा यथोक्त्तांश्र तवाग्रतः ॥२०॥ चित्तं ते प्रीतिसंयुक्तं करिष्यति तु साम्प्रतम् । सत्याधारा धरा नूनं सत्येन च दिवाकरः ॥२१॥ तपत्ययं यथाकालं वायः सत्येन वात्यथ। उदन्वानपि मर्यादां सत्येनैव न मुञ्चति ॥२२॥ तस्मात्सत्येन सख्यं वां भवत्वद्य यथासुखम् । एकत्र शयनकरीडा जलकेलि: सुखासनम् ॥२३॥ युवाभ्यां सर्वथा कार्य कर्तव्यं सख्यमेत्य च। व्यास उवाच महर्षिवचनं श्रुत्वा तानुवाच महामतिः ॥२४॥ अवश्यं भगवंतो मे माननीयास्तपस्विनः । भवंतो मुनयः क्वापि न मिथ्यावादिनो भृशम् ॥२५॥ सदाचाराः सुशांताश्च न विदुश्छलकारणम्। कृतवैरे शठे स्तब्धे कामुके च गतत्विषि ॥२६॥ निर्लज्जे नैव कर्तव्यं सख्यं मतिमता सदा। निर्लज्जोऽयं दुराचारो ब्रह्महा लंपटः शठः ।२७॥ न विश्वासस्तु कर्तव्यः सर्वर्थवेदृशे जने। भवंतो निपुणाः सर्वे न द्रोहमतयः सदा ॥२८॥ अनभिज्ञास्तु शान्तत्वाच्चित्तानामतिवादिनाम् । मुनय ऊचु: जन्तुः कृतस्य भोक्ता वै शुभस्य त्वशुभस्य च ॥२९॥ द्रोहं कुत्वा कुतः शान्तिमाप्नुयान्नष्टचेतनः । विश्वासघातकर्तारो नरकं यान्ति निश्चयम् ॥३०॥ दुःखं च समवाप्नोति नूनं विश्वासघातकः । निष्कृतिर्ब्रह्महंतुणां सुरापानां च निष्कृतिः ॥३१
Page 359
श्रीमरेवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: ६ ३५९
विश्वासघातिनां नैव मित्रद्रोहकृतामपि । समयं ब्रूहि सबंज्ञ यथा ते चेतसि ध्रुवम् ॥३२॥ तेनैव समयेनाद्य संविः स्यादुभयोः किल। वृत्र उवाच न शुष्केण न चार्द्रेण नाश्मना न च दारुणा ।३३।। न वज्र्रेण महाभाग न दिवा निशि नैव च । वध्यो भवेयं विप्रेंद्राः शक्रस्य सह दैवतैः ॥३४॥ एवं मे रोचते संधिः शक्रेण सह नान्यथा। व्यास उवाच ऋषयस्तं तदा प्राहुर्बाढमित्येव चादृताः ॥३५॥ समयं श्रावयामासुस्तत्रानीय सुरेश्वरम् । इंद्रोऽपि शपथांस्तत्र चकार विगतज्वरः ॥३६॥ साक्षिणं पावकं कृत्वा मुनीनां सन्निधौ किल। वृत्रस्तु वचनस्तस्य विश्वासमगमत्तदा ॥३७॥ बभूव मित्रवच्छक्रे सहचर्यापरायणः । कदाचिन्नंदने चोभौ कदाचिद्गन्धमादने ॥३८॥ कदाचिदुदधेस्तीरे मोदमानौ विचेरतुः। एवं कृते च संधाने वृत्रः प्रमुदितोऽभवत् ॥३९॥ शक्रोऽपि वधकामस्तु तदुपायानिंयत् । रंध्रान्वेषी समुद्विग्नस्तदासीन्मघवा भृशम् ॥४०॥ एवं चिंतयतस्तस्य काल: समभिवर्तत। विश्वास परमं प्राप वृत्रः शक्रेतिदारुणे ॥४१॥ एवं कतिचिदब्दानि गतानि समये कृते। वृत्रस्य मरणोपायान्मनसींद्रोऽप्यचितयत् ॥४२।। त्वष्टैकदा सुतं प्राह विश्वस्तं पाकशासने। पुत्र वृत्र महाभाग श्रृणु मे वचनं हितम् ।४३।। न विश्वासस्तु कर्तव्यः कृतवैरे कथंचन । मघवा कृत्वरस्ते सदाऽसूयापरः परः ॥४४॥ लोभान्मत्तो द्वेषरतः परदुःखोत्सवान्वितः । परदारलंपटः स पापबुद्धिः प्रतारकः ॥४५॥ रंध्रान्वेषी द्रोहपरो मायावी मदग्वितः । यः प्रविश्योदरे मातुर्गर्भच्छेदं चकार ह॥४६॥ सप्कृत्वः सप्तकृत्वः ऋंदमानमनातुरः । तस्मात्पुत्र न कतव्यो विश्वासस्तु कथंचन ।।४७।। कृतपापस्य का लज्जा पुनः पुत्र प्रकुवतः । व्यास उवाच एवं प्रबोधितः पित्रा वचनैर्हतुसंयुतः ॥४८। न बुबोध तदा वृत्र आसन्नमरणः किल। स कदाचित्समुद्रान्ते तमपश्यन्महासुरम्॥४९॥ संध्याकाल उपावृत्ते मुहूर्तेऽतीव दारुणे। ततः संचित्य मघवा वरदानं महात्मनाम् ॥५०॥ संध्येयं वर्तते रौद्रा न रात्रिदिवसो न च । हंतव्योऽयं मया चाद्य बलेनैव न संशयः ॥५१॥ एकाकी विजने चात्र संप्राप्तः समयोचितः । एवं विचार्य मनसा सस्मार हरिमव्ययम् ॥५२॥ तत्राजगाम भगवानदृश्यः पुरुषोत्तमः । वज्र्रमघ्ये प्रविश्यासौ संस्थितो भगबान्हरिः ॥५३॥
Page 360
११० श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ७ इन्द्रो बुद्धि चकाराशु तदा वृत्रवधं प्रति। इति संचिंत्य मनसा कथ हन्यां रिपुं रणे ॥।५४। अजेयं सर्वथा सर्वदेवश्च दानवस्तथा। यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ॥५५॥ न श्रेयो मम नूनं स्यात्सर्वथा रिपुरक्षणात् । अपां फेनं तदाऽपश्यत्ममुद्रे पर्वतोपमम् ॥५६॥ नायं शुष्को न चार्द्रोडयं न च शस्त्रमिदं तथा। अपां फेनं तदा शक्रो जग्राह किल लीलया ॥५७॥ परां शक्ति च सस्मार भक्त्या परमया युतः। स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ॥५८।। वज्रं तदावृतं क्षिप्रं चकार हरिसयुतम्। फेनावृतं पवि तत्र शक्रश्चिक्षेप तं प्रति ॥५९॥ सहसा निपपाताशु वज्राहत इवाचलः । वासवस्तु प्रहृष्टात्मा बभूव निहते तदा ॥६०॥ ऋषयश्च महेन्द्रं तमस्तुवन्विविधैः स्तवैः। हतशत्रुः प्रहृष्टात्मा वासवः सह दैवतैः ॥६१॥ देवीं संपूजयामास यत्प्रमादाद्धतो रिपुः । प्रसादयामास तदा स्तोत्रैर्नार्नाविधैरपि ॥६२॥ देवोद्याने पराशक्ते: प्रासादमकरोद्धरिः । पदमरागमयों मूर्ति स्थापयामास वासवः ॥६३॥ त्रिकालं महतीं पूजां चक्रः सर्वेऽपि निर्जराः । तदाप्रभृति देवानां श्रीदेवी कुलदैवतम् ॥६४॥ विष्णुं त्रिभुवनश्रेष्ठं पूजयामास वासवः। ततो हते महावीये वृत्र देवभयंकरे॥६५॥ प्रववो च शिवो वायुर्जहृषुर्देवतास्तथा। हते तस्मिन्सगंधर्वा यक्षराक्षसकिन्नराः ॥६६॥ वृत्रः पराशक्तिप्रवेशयुतफेनतः । तया कृतविमोहाच्च शक्रेण सहसा हतः ॥६७॥ ततो वृत्रनिहंत्रीति देवी लोकेषु गीयते। शक्रेण निहतत्वाच्च शक्रेण हत उच्यते ॥६८॥ इति श्रीदेवीभागवते महापुराणे षष्टस्कन्धे षष्ठोऽध्यायः ॥६॥ अथ सप्तमोऽध्यायः व्यास उवाच अथ तं पतितं दृष्टा विष्णुर्विष्णुपुरीं ययौ। मनसा शकमानस्तु तस्य हत्याकृतं भयम्॥१॥ इन्द्रोऽपि भयसंत्रस्तो ययाविंद्रपुरी ततः । मुनयो भयसंविन्ना ह्यभवन्निहते रिपौ ॥२॥ किमस्माभि: कृतं पापं यदसौ वंचितः किल । मुनिशब्दो वृथा जातः सुरेशस्य च संगमात् ॥३॥ अस्माकं वचनाद्वृत्रो विश्वासगमत्किल। विश्वासघातिनः संगाद्वयं विश्वासघातकाः ॥४॥ धिगियं ममता पापमलमेवमनर्थकृत। यदस्माभिश्छलं कृत्वा रपथर्वचितोऽसुरः ॥५॥ मंत्रकृद्बुद्धिदाता च प्रेरकः पापकारिणाम्। पापभाक्स भ्वन्नूनं पक्षकर्ता तर्थैव च।।६॥। विष्णुनाऽपि कृतं पापं यत्साहाय्यमवाप्तवान्। वज्रे प्रविश्य यनासौ पातितः सत्त्वमूर्तिना ॥७॥ नूनं स्वार्थपर: प्राणी न पापात्त्रासमश्नुते। हरिणा हरिसंगेन सर्वथा दुष्कृतं कृतम् ।।८।। द्वावेव स्तः पदार्थानां द्वावेव निधनं गतौ। प्रथमश्च तुरीयश्च यौ त्रिलोक्यां तु दुर्लभौ॥९॥
Page 361
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ७ ३६१ अर्थकामौ प्रशस्तौ द्वो सर्वेषां संमती प्रियौ। धर्माधर्मेति वाग्वादो दम्भोऽयं महतामपि ॥१॥॥ मुनयोऽपि मनस्तापमेवं कृत्वा पुनः पुनः । जग्मुः स्वानाश्रमानेव विमनस्का हतोद्यमाः ॥११॥ त्वष्ट तु निहतं श्रत्वा पुत्रमिंद्रेण भारत। रुरोद दुःखसंतप्तो निर्वेदमगमत्पुनः ॥१२॥ यत्रासौ पतितस्तत्र गत्वा वीक्ष्य तथा गतम् । संस्कार कारयामास विधिवत्पारलौकिकम् ॥१३॥ स्नात्वाऽस्य सलिलं दत्त्वा कृत्वा चंवौर्ध्वदैहिकम्। शशापेंद्र स शोकार्तः पापिष्ठं मित्रघातकम् ॥१४॥ यथा मे निहतः पुत्रः प्रलोभ्य शपर्थर्भृशम्। तथेंद्रोऽपि महद्दुःखं प्राप्नोति विधिनिर्मितम् ॥१५॥ इति शप्त्वा सुरेशानं त्बष्टा तापसमन्वितः । मेरोः शिखरमास्थाय तपस्तेपे सुदुष्करम् ॥१६॥ जनमेजय उवाच हत्वा त्वाष्ट्र सुरेशोऽथ कामवस्थामवाप्तवान्। सुखं वा दुःखमेवाग्रे तन्मे त्रहि पितामह ॥१७॥ व्यास उवाच किं पृच्छसि महाभाग संदेहः कीदृशस्तव। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥१८॥ बलिष्ठेदुर्बलर्वाडपि स्वल्पं वा बहु वा कृतम् । सर्वथैव हि भोक्तव्यं सदेवासुरमानुषैः ॥१९॥ शक्रायेत्थं मतिर्दत्ता हरिणा वृत्रघातिने। प्रविष्टोऽथ पर्वि विष्णुः सहायः प्रत्यपद्यत ॥२०॥ न चापदि सहायोऽभूद्वासुदेवः कथंचन। समये स्वजनः सर्वः संसारेऽस्मिन्नराधिप ॥२१॥ दैवे विमुखतां प्राप्ते न कोऽप्यस्ति सहायवान्। पिता माता तथा भार्या भ्राता वाऽय सहोदरः ॥२२॥ सेवको वाडपि मित्रं वा पुत्रश्चैव तथौरसः। प्रतिकूले गते दैवे न कोऽप्येति सहायताम् ॥२३॥ भोक्ता पापस्य पुण्यस्य कर्ता भवति सर्वथा। वृत्रं हत्वा गताः सर्वे निस्तेजस्कः शचीपतिः ॥२४॥ शेपुस्तं त्रिदशाः सर्वे ब्रह्महेत्यब्रुवञ्छनः । को नाम शपथान्कृत्वा सत्यं दत्त्वा वचः पुनः ॥२५॥ जिधांसति सुविश्वस्तं मुनि मित्रत्वमागतम् । देवगोष्ठयां सुरोद्याने गंधर्वाणां समागमे ॥२६॥ सर्वत्रैव कथा तस्य विस्तारमगमत्किल। कि कृतं दुष्क़तं कर्म शक्रेणाद्य जिधांसता ॥२७॥ वृत्रं छलेन विश्वस्तं मुनिभिश्च प्रतारितम् । वेदप्रमाणमृत्सृज्य स्वीकृतं सौगतं मतम्॥२८॥ यदयं निहतः शत्रुवंचयित्वाऽतिसाहसात् । को नाम वचनं दत्त्वा विपरीतमथाचरेत् ॥२९॥ बिना शक्रं हरि वाऽपि यथाडयं विनिपातितः । एवंविधाः कथाश्चान्याः समाजेष्वभवन्भृशम् ॥३०॥ शुश्र प्रऽपि विविधा: स्वकीर्तेर्हानिकारकाः। यस्य कोतिहंता लोके धित्तस्यैव कुजीवितम् ॥३१॥ यं दृष्टा पथि गच्छंतं शत्रु: स्मेरमुखो भवेत्। इन्द्रहुम्नीपि राजर्षिः पतितः कीतिसंक्षयात् ॥३२॥ स्वर्गादकृतपापोऽसौ पापकृत्कि न पात्यते। स्वल्पेऽपराधेऽपि नृपो ययातिः पतितः किल ॥३३॥ नृपः कर्कटतां प्राप्तो युगानष्टादशैव तु। भृगुपत्निशिरश्छेदाद्भ्गवान्हरिरच्युतः ।।३४।। ब्रह्मशापात्पशोर्योनौ संजातो मकरादिषु। विष्णुश् वामनो भूत्वा याचनार्थ बलेगृहे॥३५॥
Page 362
३१२ श्रीमदेवीभागवते महापुराणे षण्स्कन्चे अध्याय: : गतः किमपरं दुःखं प्राप्नोति दुष्कृती नरः । रामोऽपि वनवासेषु सीताविरहजं बह ॥३६।। दुःखं च प्राप्तवान्घोरं भृगुशापेन भारत । तथेंद्रोऽपि ब्रह्महत्याकृतं प्राप्य महन्द्गयम् ॥३७॥ न स्वास्थ्यं प्राप गेहेऽसौ सर्वसिद्धिसमन्विते। पौलोमी तं सभाहीनं दृष्टा प्रोवाच वासवम् ॥३८। निःश्वसंतं भयत्रस्तं नष्टसंज्ञं विचेतसम् । किं प्रभोऽद् भयार्तोऽसि मृतस्ते दारुणो रिपुः ॥३९॥ का चिंता वर्तते कांत तव शत्रुनिष्दन। कस्माच्छोचसि लोकेश निःश्वसन्प्राकृतो यथा ॥४०॥ नान्योऽस्ति बलवाञ्छत्रुर्येन चिंतापरो भवान्। इन्द्र उवाच नारातिर्बलवान्मेऽस्ति न शांतिर्न सुखं तथा।४१। ब्र ह्महत्याभयाद्राज्ञि बिभेमि सततं गृहे। न नंदनं सुखकरं नामृतं न गृहं वनम् ॥४२॥ गंधर्वाणां तथा गेयं नृत्यमप्सरयां पुनः । न त्वं सुखकरा नारी नाना च सुरयोषितः ॥४३॥ न तथा कामधेनुश्च देववृक्षः सुखप्रदः । कि करोमि क्व गच्छामि क्व शर्म मम जायते ॥४४॥ इति चिंतापर: कान्ते न लभे सुखमात्मनि। व्यास उाच इत्युक्त्वा वचनं शक्रः प्रियां परमकातराम् ॥४५॥ निर्जगाम गृहान्मन्दो मानसं सर उत्तमम् । पद्मनाले प्रविष्टोऽसौ भयार्तः शोककर्षितः ॥४६॥ न प्राज्ञायत देवेन्द्रस्त्वभिभूतश्र कल्मषैः । प्रतिच्छन्नो वसत्यप्सु चेष्टमान इवोरगः ॥४७॥ असहायस्तुराषाडैच्चिान्तार्तो विकलेन्द्रियः । ततः प्रनष्टे देवेन्द्रे ब्रह्महत्याभयार्दिते ॥४८॥ सुराश्रि तातुराश्चासन्नुत्पाताश्राभवन्नथ । ऋषयः सिद्धगंधर्वा भयार्ताश्चाभवन्भृशम् ॥४९॥ अराजकं जगत्सर्वमभिभूतमुपद्रवैः । अवर्षणं तदा जातं पृथिवी क्षीणवैभवा ॥५०॥ विच्छिन्नस्त्रोतसो नद्यः सरांस्यनुदकानि वै। एवं त्वराजके जाते देवता मुनयस्तथा ॥५१॥ विचार्य नहुषं चक्रः शक्रं सर्वे दिवौकसः। संप्राप्य नहुषो राजा धर्मिष्ठोऽपि रजोबलात् ॥५२॥ बभूव विषयासक्तः पंचबाणशराहतः । अप्सरोभिर्वृतः क्रीडन्देवोद्यानेषु भारत ॥५३॥ शक्रपत्नीगुणाञ्छत्वा चकमे तां स पाथिवः । ऋषीनाह किमिंद्राणी नोपगच्छति मां किल ।५४। भर्वद्दिश्चामरैः सर्वेः कृतोऽहं वासवस्त्विह। प्रेषयध्वं सुराः कामं सेवार्थ मम वै शचीम् ॥५५॥ प्रियं चेन्मम कर्तव्यं सर्वथा मुनयोऽमराः । अहमिंद्रोऽद्य देवानां लोकानां च तथेश्वरः ॥५६॥ आगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् । इति तस्य वचः श्रुत्वा देवा देवर्षयस्तथा ॥५७॥ गत्वा चिंतातुराः प्रोचुः पौलोमीं प्रणतास्ततः । इन्द्रपत्नि दुराचारी नहुषस्त्वामिहेच्छति ॥५८।। कुपितोऽस्मानुवाचेदं प्रेषयध्वं शचीमिह। कि कुर्मस्तदधीना: स्म येनेंद्रोडयं कृतः किल ॥५९॥
Page 363
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः ८ तच्छ्रत्वा दुर्मना देवी बृहस्पतिमुवाच ह। रक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥६०॥ न भेतव्यं त्वया देवि नहुषात्पापमोहितात्। न त्वां दास्याम्यहं वत्से त्यक्त्वा धर्मं सनातनम्६१॥ बृहस्पतिरुवाच
शरणागतमातं च यो ददाति नराधमः ।स एव नरकं याति यावदाभूतसंप्लवम् ॥ स्वस्था भव पृथुश्रोणि न त्यक्ष्ये त्वां कदाचन ।६२।। इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे सप्तमोऽध्यायः॥७॥ अथाष्टमोऽध्यायः
नहुषस्त्वथ तां श्रुत्वा गुरोस्तु शरणं गताम् । चुक्रोध स्मरबाणार्तस्तमांगिरसमाशु वै ॥१॥ व्यास उवाच
देवानाहांगिरासूनुर्हन्तव्योऽयं मया किल। स इन्द्राणीं गृहे गूढो रक्षतीति मया श्रुतम् ॥।२।। इति तं कुपितं दृष्टा देवाः सर्षिपुरोगमाः । अब्रुवन्नहुषं घोरं सामपूर्वं वचस्तदा ॥३॥ क्रोधं संहर राजेन्द्र त्यज पापमति प्रभो। निंदंति धर्मशास्त्रेषु परदाराभिमर्शनम्॥४॥ शक्रपत्नी सदा साध्वी जीवमाने पतौ पुनः। कथमन्यं पति कुर्यात्सुभगाऽतिपतिव्रता ॥५॥ त्रिलोकीशस्त्वमधुना शास्ता धर्मस्य वै विभो। त्वादृशोऽधर्ममातिष्ठेत्तदा नश्येत्प्रजा ध्रुवम् ॥६॥ सर्वथा प्रभुणा कार्यं शिष्टाचारस्य रक्षणम्। वारमुख्यश्च शतशो वर्ततेऽत्र शचीसमाः ॥७॥ रतिस्तु कारणं प्रोक्तं शृङ्गारस्य महात्मभिः । रसहानिर्बलात्कारे कृते सति तु जायते ।।८।। उभयो: सदृशं प्रेम यदि पार्थिवसत्तम। तदा वै सुखसंपत्तिरुभयोरुपजायते ।।९॥ तस्मान्द्गावमिमं मुंच परदाराभिमर्शने। सद्ावं कुरु देवेन्द्र पदं प्राप्तोऽस्यनुत्तमम् ॥१०॥ ऋद्धिक्षयस्तु पापेन पुष्येनातिविवर्धनम्। तस्मात्पापं परित्यज्य सन्मति कुरु पार्थिव ।।११।। नहुष उवाच गौतमस्य यदा भुक्ता दाराः शक्रेण देवताः । वाचस्पतेस्तु सोमेन क्व यूयं संस्थितास्तदा ॥१२॥' परोपदेशे कुशलाः प्रभवंति नराः किल। कर्ता चवोपदेष्टा च दुर्लभः पुरुषो भवेत् ॥१३॥ मामागच्छतु सा देवी हितं स्यादद्भुतं हि वः । एतस्याः परमं देवाः सुखमेवं भविष्यति ॥१४॥ अन्यथा न हि तुष्येऽहं सत्यमेतद्ब्रवीमि वः। विनयाद्वा बलाद्वाऽपि तामाशु प्रापयंत्विह॥१५॥ इति तस्य वच: श्रुत्वा देवाश्र मुनयस्तथा। तमूचुश्चातिसंत्रस्ता नहुषं मदनातुरम् ॥१६॥ इन्द्राणीमानयिष्यामः सामपूर्व तवांतिकम्। इत्युक्त्वा ते तदा जग्मुर्बुहस्पतिनिकेतनम् ॥१७॥ व्यास उवाच ते गत्वांगिरसः पुत्रं प्रोचुः प्रांजलयः सुराः । जानीमः शरणं प्राप्तामिंद्राणीं तव वेश्मनि ॥१८॥
Page 364
३६४ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ८ सा देया नहुषायाद्य वासबोऽसौ कृतो यतः। वृणोत्वियं वरारोहा पतित्वे वरवणिनी ॥१९॥ बृहस्पतिः सूरानाह तब्रुत्वा दारुणं वचः । नाहं त्यक्ष्ये तु पौलोमीं सतीं च शरणागताम् २०॥ देवा ऊचु: उपायोऽन्यः प्रकर्तव्यो येन सोऽद्य प्रसीदति । अन्यथा कोपसंयुक्तो दुराराध्यो भविष्यति ॥२१॥ गुरुरुवाच तत्र गत्वा शची भूपं प्रलोभ्य वचसा भृशम्। करोतु समयं बाला पति ज्ञात्वा मृतं भजे ॥२२॥ इन्द्रे जीवति मे कांते कथमन्यं करोम्यहम्। अन्वेषणार्थं गंतव्यं मया तस्य महात्मनः ॥२३॥ इति सा समयं कृत्वा वंचयित्वा च भूपतिम् । भर्तुरानयने यत्नं करोतु मम वाक्यतः ॥२४॥ इति संचित्य ते सवें बृहस्पतिपुरोगमाः । नहुषं सहिता जग्मुरिंद्रपत्या दिवौकसः ॥२५॥ तानागतान्समीक्ष्याह तदा कृत्रिमवासवः । जहर्ष च मुदायुक्तस्तां वीक्ष्य मुदितोऽब्रवीत् ॥२६॥ अद्यास्मि वासवः कांते भज मां चारुलोचने। पतित्वे सर्वलोकस्य पूज्योऽहं विहितः सुरैः ॥२७॥ इत्युक्ता सा नृपं प्राह वेपमाना त्रपायुता। वरमिच्छाम्यहं राजंस्त्वत्तः प्राप्तं सुरेश्वर ॥२८। किंचित्कालं प्रतीक्षस्व यावत्कुर्वे विनिर्णयम् । इंद्रोऽस्तीति न वाऽस्तीति संदेहो मे हृदि स्थितः ॥ ततस्त्वां समुपस्थास्ये कृत्वा निश्चयमात्मनि । तावत्क्षमस्व राजेन्द्र सत्यमेतद्ब्रवीमि ते ॥३०॥ न हि विज्ञायते शक्रो नष्टः किं वा क्व वा गतः । एवमुक्त: स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥३१॥ व्यसजयत्स तां देवीं तथेत्युक्त्वा मुदान्वितः । सा विसृष्टा नृपेणाशु गत्वा प्राह सुरान्सती ॥३२।। इन्द्रस्यागमने यत्नं कुरुताद्य कृतोद्यमाः । श्रुत्वा तद्वचनं देवा इन्द्राण्या रसवच्छुचि ॥३३॥ मन्त्रयामासुरेकाग्रा: शक्रार्थं नृपसत्तम । ते गत्वा वैष्णवं धाम तुष्टुवुः परमेश्वरम् ॥३४॥ आदिदेवं जगन्नाथं शरणागतवत्सलम् । ऊचुश्चैनं समुद्धिग्ना वाक्यं वाक्यविशारदाः ।३५॥ देव देव: सुरपतिर्बह्महत्याप्रपीडितः । अदृश्यः सर्वभूतानां क्वापि तिष्ठति वासवः ॥३६॥ त्वद्धिया निहते विप्रे ब्रह्महत्यावृतः प्रभो। त्वं गतिस्तस्य भगवन्नस्माकं च तर्थव हि ॥३७॥ त्राहि नः परमापन्नान्मोक्षं तस्य विनिर्दिश। देवानां वचनं श्रुत्वा कातरं विष्णुरब्रवीत् ॥३८॥ यज तामश्वमेधेन शक्रपापनिवृत्तये। पुण्येन हयमेधेन पावितः पाकशासनः ॥३९॥ पुनरेष्यति देवानामिंद्रत्वमकुतोभयः । हयमेधेन संतुष्टा देवी श्रीजगदम्बिका॥४०॥ ब्रह्महत्यादिपापानि नाशरयिष्यत्यसंशयम् । यस्याः स्मरणमात्रेण पापजालं विनश्यति ॥४१।। किं पुनर्वाजिमेधेन तत्प्रीत्यर्थं कृतेन च। इन्द्राणी कुरुतान्नित्यं भगवत्याः प्रपूजनम् ॥४२॥ आराधनं शिवायास्तु सुखकारि भविष्यति। नहुषोऽपि जगन्मातुर्मायया मोहितः किल ॥४३॥ विनाशं स्वकृतेनाशु गमिष्यत्येनसा सुराः । पावितश्चाश्वमेधेन तुराषाडपि वैभवम्॥४४॥
Page 365
श्रीमद्ेवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: ८ १६५
प्राप्स्यत्यचिरकालेन स्वमासनंमनुत्तमम् । ते तु श्रुत्वा शुभां वाणीं विष्णोरमिततेजसः॥४५॥ जग्मुस्तं देशमनिशं यत्रास्ते पाकशासनः । तमाश्चास्य सुराः शक्ररं बृहस्पतिपुरोगमाः ॥४६॥ कारयामासुरखिलं हयमेधं महाक्रतुम् । विभज्य ब्रह्महत्यां तु वृक्षेषु च. नदीषु च ।।४७।। पर्वतेषु पृथिव्यां च स्त्रीषु चवाक्षिपद्विभुः । तां विसृज्य च भूतेषु विपापः पाकशासनः ॥४८॥। विज्वर: समभूद्भूयः कालाकांक्षी स्थितो जले । अदृश्यः सर्वभूतानां पद्मनाले व्यतिष्टत ॥४९॥ देवास्तु निर्गताः स्थाने कृत्वा कार्य तदद्भुतम्। पौलोमो तु गुरुं प्राह दुःखिता विरहाकुला ॥५०॥ कृतयज्ञोऽपि मे भर्ता किमदृश्यः पुरन्दरः। कथं द्रक्ष्ये प्रियं स्वामिस्तमुपायं वदस्व मे ॥५१॥ बृहस्पतिरुवाच त्वमाराधय पौलोमि देवीं भगवतीं शिवाम्। दर्शयिष्यति ते नाथं देवी विगतकल्मषम् ॥५२॥ आराघिता जगद्धात्री नहुषं वारयिष्यति। मोहयित्वा नृपं स्थानात्पातयिष्यति चाम्बिका ५३॥ इत्युक्ता सा तदा तेन पुलोमतनया नृप। जग्राह मंत्रं विधिवद्गुरोर्देव्याः ससाधनम् ॥५४॥ विद्यां प्राप्य गुरोदेवी देवीं श्रीभुवनेश्वरीम्। सम्यगाराधयामास बलिपुष्पार्चनैः शुभः ॥५५॥ त्यक्तान्यभोगसंभारा तापसीवेषधारिणी। चकार पूजनं देव्याः प्रियदर्शनलालसा ॥५६। कालेन कियता तुष्टा प्रत्यक्षं दर्शनं ददौ। सौम्यरूपधरा देवी वरदा हंसवाहिनी ॥५७॥ कोटिसूर्यप्रती काशा चंद्रकोटिसुशीतला। विद्युत्कोटिसमानाभा चतुर्वेदसमन्विता ।५८।। पाशांकुशाभयवरान्दधती निजबाहुभिः। आपादलंबिनीं स्वच्छां मुक्तामालां च बिभ्रती ५९।। प्रसन्नस्मेरवदना लोचनत्रयभूषिता। आब्रह्मकीटजननी करुणामृतसागरा ॥६० ॥।
अनंतकोटिब्रह्मांडनायिका परमेश्वरी। सौम्यानंतरसैर्युक्तस्तनद्वयविराजिता ।।६१।
सर्वेश्वरी च सर्वज्ञा कूटस्थाक्षररूपिणी । तामुवाच प्रसन्ना सा शक्रपत्नीं कृतोद्यमाम् ॥६२। मेघगंभीरशब्देन मुदमाददती भृशम्। देव्युवाच वरं वरय सुश्रोणि वांछितं शक्रवल्लभे ।६३।। ददाम्यद्य प्रसन्नाऽस्मि पूजिता सुभृशं त्वया। वरदाऽहं समायाता दर्शनं सहजं न मे ॥६४॥ अनेककोटिजन्मोत्थपुण्यपुंजैहि लभ्यते। इत्युक्ता सा तदा देवी तामाह प्रणता पुरः ॥६५॥ शक्रपत्नी भगवतीं प्रसन्नां परमेश्वरीम्। वांछामि दर्शनं मातः पत्युः परमदुर्लभम् ॥६६॥ नहु पान्डयनाशं च स्वपदप्रापणं तथा। देव्युवाच गच्छ त्वमनया दूत्या सार्द्धं श्रीमानसं सरः॥६७॥
Page 366
३६६ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ९ यत्र मे मूर्तिरचला विश्वकामाभिघा मता। तत्र पश्यसि शक्रं त्वं दुःखितं भयविह्वलम् ।।६८।। मोहयिष्यामि राजानं कालेन कियता पुनः । स्वस्या भव विशालाक्षि करोमि तव चेप्सितम्॥६९।। भ्रंशयिष्यामि भूपालं मोहितं त्रिदशासनात् । व्यास उवाच देवीदूती तां गृहीत्वा शक्रपत्नीं त्वरान्विता॥७०॥। प्रापयामास सान्निध्यं स्वपत्युः परमेश्वरीम्। सा दृष्टा तं पति बाला सुरेशं गुप्तसंस्थितम्।। मुदिताऽभूद्वरं वीक्ष्य बहुकालाभिवांछितम्॥७१॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे शक्रदर्शनं नामाष्टमोऽध्यायः ॥।८।। अथ नवमोऽध्यायः
व्यास उवाच तां वीक्ष्य विपुलापांगों रहः शोकसमन्विताम् । आखण्डलः प्रियां भार्यां विस्मितश्राब्रवीत्तदा ।१।। कथमत्रागता कान्ते कथ ज्ञातस्वया ह्यहम् । दुर्जेयः सर्वभूतानां संस्थितोऽस्मि शुभानने ॥२॥ शच्युवाच देव देव्याः प्रसादेन ज्ञातोऽस्यद्य भवानिह। पुनस्तस्याः प्रसादेन प्राप्ताऽस्मि त्वां दिवस्पते ॥३॥ नहुषो नाम राजर्षिः स्थापितो भवदासने । त्रिदशर्मुनिभिश्चव स मां बाधति नित्यशः ॥४॥ पर्ति मां कुरु चार्वङ्गि तुरासाहं सुराधिपम्। एवं वदति मां पाप्मा कि करोमि बलार्दन ।।५॥ इंद्र उवाच कालाकांक्षी वरारोहे संस्थितोडस्मि यदृच्छया। तथा त्वमपि कल्याणि सुस्थिरं स्वमनः कुरु॥६॥ व्यास उवाच इत्युक्ता तेन सा देवी पतिनातिप्रशंसिना। निःश्वसंत्याह तं शक्रं वेपमानाऽतिदुःखितः ॥७॥ कथं तिष्ठे महाभाग पापात्मा मां वशानुगाम् । करिष्यति मदोन्मत्तो बरदानेन गर्वितः ।।८।। देवाश्च मुनयः सर्वे मामूचुस्तद्द्याकुलाः। तं भजस्व वरारोहे देवराजं स्मरातुरम् ॥९॥ बृहस्पतिस्तु शत्रुघ्न वाडवो बलवजितः । कथं मां रक्षितुं शक्तो भवेद्देवानुगः सदः ॥१०॥ तम्माच्चिताऽस्ति महती नार्यहं वशवर्तिनी। अनाथा किं करिष्यामि विपरीते विधौ विभो ॥११॥ नार्यस्म्यहं न कुलटा त्वच्चिन्ताऽतिपतिव्रता। नास्ति मे शरणं तत्र यो मां रक्षति दुःखिताम् ॥१२॥ इन्द्र उवाच उपायं प्रब्रवीम्यद्य तं कुरुष्व वरानने। शीलं ते दुःखिते काले परित्रातं भविष्यति ॥१३।
Page 367
श्रीमहेवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: ९ ३६७ परेण रक्षिता नारी न भवेच्च पतिव्रता। उपायेः कोटिभि: कामं भिन्नचित्ताऽतिचंचला ॥१४॥। शीलमेव हि नारीणां सदा रक्षति पापतः । तस्मात्त्वं शीलमास्थाय स्थिरा भव शुचिस्मिते ॥१५॥ यदा त्वां नहुषो राजा बलादाकर्षयेत्खलः । तदा त्वं समयं कृत्वा गुप्तं वंचय भृपतिम् ॥१६॥ एकान्ते तत्समीपे त्वं गत्वा वद मदालसे। व्यषियानेन दिव्येन मामुपैहि जगत्पते ॥१७॥ एवं तम वशे प्रीता भविष्यामीति मे व्रतम्। इति तं वद सुश्रोणि तदा तु परिमोहितः ।।१८।। कारा :: स मुनीत याने योजयिष्यति पार्थिवः । अवश्यं तापसो भूपं शापदग्धं करिष्यति ॥१९॥ साहाव्यं जगदंबा से करिष्यति न संशयः । जगदंबापदस्मर्तुः संकटं न कदाचन ॥२०॥ यदि जायेत तच्चापि ज्ञेयं तत्त्वस्तये किल। तस्मात्सर्वप्रयत्नेन मणिद्वीपाधिवासिनीम् ।२१॥ भज त्वं भुवनेशानी गुरुवाक्यानुसारतः । व्यास उवाच इत्याख्याता शची तेन जगाम नहुषं प्रति ।२२।। तथेत्युक्त्वाऽतिविश्वस्ता भाविकार्ये कृतोद्यमा। नहुषस्तां समालोक्य मुदितो वाक्यभब्रवीत् ।२३॥ स्वागतं सत्यवचनैस्त्वदघीनोऽस्मि कामिनि। दासोऽहं तव सत्येन पालितं वचनं त्वया ॥२४॥ यदागता समीपे मे तुष्टोस्मि मितभाषिणि। न च व्रीडा त्वया कार्या भक्तं मां भज सुस्मिते ॥२५॥ कायं वद विशालाक्षि करिष्यामि तव प्रियम् । शच्युवाच सवं कृतं त्वया कार्यं मम कृत्रिमवासव ॥२६॥ मनोरथोऽस्ति मे देव श्रृणु चित्तेऽधुना विभो। वांछितं कुरु कल्याण त्वद्वशाऽहमतः परम् ॥२७॥ ब्रवीमि मानसोत्साहं त्वं तं कर्तुमिहार्हसि। कार्यं त्वं ब्रूहि चंद्रास्ये करोमि तव वांछितम् २८।। अलभ्यमपि दास्यामि तुभ्यं सुभ्रु वदस्व माम्। शच्युवाच कथं ब्रवीमि राजेन्द्र प्रत्ययो नास्ति मे तव ।।२९।। शपथं कुरु राजेंद्र यत्करोमि प्रियं तव। राजानः सत्यवचसो दुर्लभा एव भूतले ॥३०॥ पश्चाद्ब्रवीम्यहं राजञज्ञात्वा सत्येन यंत्रितम् । कृते चेद्रांछिते भूप सदा ते वशवतिनी ॥३१॥ भविष्यामि तुराषाड् वै सत्यमेतद्वचो मम। नहुष उवाच अवश्यमेव कर्तव्यं वचनं तव सुंदरि ॥३२॥ शपामि सुकृतेनाहं यज्ञदानकृतेन वै।
Page 368
३६८ श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ९ शच्युवाच इन्द्रस्य हरयो वाहा गजश्चैव रथस्तथा ॥३३॥ गरुडो वासुदेवस्य यमस्य महिषस्तथा । वृषभः शंकरस्यापि ब्रह्मणो वरटापतिः ॥३४॥। मयूर: कार्तिकेयस्य गजास्यस्य तु मूषकः । इच्छाम्यहमपूर्व वै वाहनं ते सुराधिप ॥३५॥ यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् । वहंतु त्वां महाराज मुनयः संशितव्रताः ॥३६॥ सर्वे शिबिकया राजन्नेतद्धि मम वांछितम्। सर्वदेवाधिकं त्वां वै जानामि वसुधाधिप ॥३७।। तेन ते तेजसो वृद्धि वांछाम्यहमतंद्रिता। व्यास उवाच तस्यास्तद्वचनं श्रुत्वा प्रहस्य ज्ञानदुर्बलः ॥३८॥ मोहितस्तु महादेव्या कृतं मोहेन तत्क्षणम्। उवाच वचनं भूपः संस्तुवन् वासवप्रियाम्॥३९॥ नहुष उवाच सत्यमुक्तं त्वया तन्वि वाहनं रुचिरं मम। करिष्यामि सुकेशांते वचनं तव सर्वथा ॥४०॥ न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन्। अहमारुह्य यानन त्वामेष्यामि शुचिस्मिते ॥४१॥ सप्तर्षयो मां वक्ष्यंति सवें देवर्षयस्तथा। समर्थ त्रिषु लोकेषु ज्ञात्वा मां तपसाऽधिकम्॥४२॥ व्यास उवाच इत्युक्त्वा तां सुसंतुष्टो विससर्ज हरिप्रियाम् । मुनीनाहूय सर्वांस्तानित्युवाच स्मरान्वितः ॥४३॥ नहुष उवाच अहमिद्रोऽद्य भो विप्राः 'सर्वशक्तिसमन्वितः । कार्यमत्र प्रकुर्वन्तु भवंतो विगतस्मयाः ॥४४॥ इन्द्रासनं मया प्राप्तं नेन्द्राणी मामुपैति च । आकारिता च मां ब्रूते प्रेमपूर्वमिदं वचः ॥४५॥ मुनियानेन देवेन्द्र मामुपैहि सुराधिप। देवदेव महाराज मत्प्रियं कुरु मानद ॥४६॥ एतत्कार्य मुनिश्रेष्ठा ममात्यंतं दुरासदम् । भवन्धिस्तु प्रकर्तव्यं सर्वथैव दयालुभिः ।४७॥। मनो दहति मे कामः शक्रपत्यां प्रवर्तितम्। भवंतः शरणं मेडद्य कुरुध्वं कार्यमद्द्ुतम् ॥४८॥ अगस्तिप्रमुखास्तस्य श्रुत्वा वाक्यमसकरम्। अंगीचत्रुश्च भावित्वात्कृपया परमर्षयः ॥४९॥ अंगीकृतेऽथ तद्वाक्ये मुनिभिस्तत्त्वदशिभिः । मुदं प्राप नृपः कामं पौलोमीकृतमानसः ॥५०॥ आरुह्य शिविकां रम्यां संस्थितस्त्वरयान्वितः । वाहान्कृत्वा मुनीन्दिव्यान्सर्प सर्पेति चाब्रवीत् ५१। कामार्तः सोडस्पृशन्मूढः पादेन मुनिमस्तकम् । अगस्ति तापसश्रेष्ठं लोपामुद्रापति तदा ॥५२॥ वातापिभक्ष्यकर्तारं समुद्रस्यापि शोषकम् । कशया ताडयामास पंचबाणशराहतः ॥५३॥ इन्द्राणीहृतचित्तोऽसी सर्पेति प्रब्रुवन्मुनिम्। तं शशाप मुनिः क्रुद्धः कशाघातमनुस्मरन् ॥५४॥
Page 369
२४ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १० ३६९ सर्पो भव दुराचार वने घोरवपुर्महान्। बहुवर्षसहस्राणि यत्र क्लेशो महान्भवेत्।।५५॥ विचरिष्यसि वीर्येण पुनः स्वर्गमवाप्स्यसि । दृष्टा युधिष्ठिरं नाम तव मोक्षो भविष्यति ॥५६॥ प्रश्नानामुत्तरं श्रुत्वा धमपुत्रमुखात्ततः ।
व्यास उवाच एवं शप्तः स राजर्षिः स्तुत्वा तं मुनिसत्तमम् ॥५७॥ स्वर्गात्पपात सहसा स्परूपधरोऽभवत् । बृहस्पतिस्ततो गत्वा तरसा मानसं प्रति ॥५८॥ इंद्राय सर्ववृत्तांतं कथयामास विस्तरात् । तच्छ्रुत्वा मघवा राज्ञः स्वर्गात्प्रच्यवनादिकम् ५९॥ मुदितोऽभून्महाराज स्थितस्तत्रंव वासवः । देवाश्र मुनयो दृष्टा नहुषं पतितं भुवि ॥६०॥ जग्मुः सर्वेऽपि तत्रैव यत्रेंद्रः सरसि स्थितः । तमाश्वास्य सुराः सर्वे मुनिभिः सहितास्तदा ६१॥ स्वगें समानयामासुर्मानपूर्व शचीपतिम् । समागतं ततः शक्रं सर्वे ते मुनयः सुराः ॥६२॥ स्थापयित्वाऽऽसने पश्चादभिषेकं दधुः शिवम्। इन्द्रोडपि स्वासनं प्राप्य शच्या सह सुरालये ।६३।। चिक्रोड नंदने रम्ये कानने प्रेमयुक्तया। व्यास उवाच एबर्मिद्रेण संप्राप्तं परमदारुणम् ॥६४॥। हत्याऽसुरं कामरूपं विश्वरूपं महामुनिम्। पुनर्देव्याः प्रसादेन स्वस्थानं प्राप्तवान्नृप ।६५।। एतसे सर्बमाख्यातं वृत्नासुरवधाश्रयम् । यत्पृष्टोऽहं त्वया राजन्कथानकमनुत्तमम् ॥६६॥। यादृशं कुरुते कर्म तादृशं फलमाप्नुयात् । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥६७॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धे वृत्रवधो नाम नवमोऽध्बायः ।।९॥ अथ दशमोऽध्यायः जनमेजय उवाच कचितं चरितं ब्रह्मञ्छक्रस्यान्द्तकर्मणः । स्थानभ्रंशस्तथा दुःखद्राप्तिरुक्ता विशेषतः ॥१॥ मत्र देवधिदेव्याश्र महिगाऽतीव वणितः । संदेहोऽत्र ममाप्यस्ति यच्छक्रोऽपि महातपाः ॥२॥ देवाधिपत्यमासाद्य दुःसहं दुःखमन्वभूत्। मखानां तु शतं कृत्वा प्राप्तं स्थानमनुत्तगम् ॥३॥ देवेशत्वं भ संप्राप्य भ्रष्टः स्थानादसी कथम् । एतत्सर्व समाचक्ष्व कारणं करुणानिये॥४।। स्वश्ञोऽसि मुनिश्रेष्ट पुराणानां प्रवर्तकः। नावाष्यं महतां कि्चिच्छिष्ये न श्रद्याऽन्बिते ५॥ तस्मात्कुरु महाभाग मत्संदेहापनोदनम्।
Page 370
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १० सूत उवाच इति पृष्टः स राज्ञा वै तदा सत्यवतीसुतः ॥६॥ तमाहातिप्रसन्नात्मा यथानुक्रममुत्तरम् । व्यास उवाच निबोध नृपतिश्रेष्ठ कारणं परमान्ुतम् ॥ ७॥ कर्मणस्तु त्रिधा प्रोक्ता गतिस्तत्वविदां वरैः । संचितं वर्तमानं च प्रारब्धमिति भेदतः ॥८॥ अनेकजन्मसंजातं प्राक्तनं संचितं स्मृतम् । सात्त्विकं राजसं कर्म तामसं त्रिविधं पुनः ।९॥ शुभं,वाऽप्यशुभं भूप संचितं बहुकालिकम् । अवश्यमेव भोक्तव्यं सुकृतं दुष्कृतं तथा॥१०॥ जन्मजन्मनि जीवानां संचितानां च कर्मणाम्। निःशेषस्तु क्षयो नाभूत्कल्पकोटिशतैरपि ॥११॥ क्रियमाणं च यत्कर्म वर्तमानं तदुच्यते। देहं प्राप्य शुभं वाऽपि ह्य शुभं वा समाचरेत् ॥१२।। संचितानां पुनर्मध्यात्समाहृत्य कियान्किल। देहारंभे च समये काल: प्रेरयतीव तत् ।१३।। प्रारब्ध कर्म विज्ञेयं भोगात्तस्य क्षयः स्मृतः । प्राणिभिः खलु भोक्तव्यं प्रारब्धं नात्र संशयः ॥१४॥ पुरा कृतानि राजेंद्र ह्यशुभानि शुभानि च । अवश्यमेव कर्माणि भोक्तव्यानीति निश्चयः ॥१५॥ देवैर्मनुष्यैरसु रैर्यक्षगंधर्वकिन्न रै: । कर्मेव हि महाराज देहारंभस्य कारणम् ॥१६॥ कर्मक्षये जन्मनाशः प्राणिनां नात्र संशयः । ब्रह्मा विष्णुस्तथा रुद्र इन्द्राद्याश्र सुरास्तथा ॥१७॥ दानवा यक्षगंधर्वाः सर्वे कर्मवशाः किल। अन्यथा देहसम्बन्धः कथं भवति भूपते ॥१८॥ कारणं यस्तु भोगस्य देहिनः सुखदःखयोः । तस्मादनेकजन्मोत्थसंचितानां च कर्मणाम् ॥१९॥ मध्ये वेग: समायाति कस्यचित्कालपाकतः । तत्प्रारब्धवशात्पुण्यं करोति च यथा तथा ॥२०॥ पापं करोति मनुजस्तथा देवादयोऽपि च। तथा नारायणो राजन्नरश्च धर्मजावुभौ ॥२१॥ जातो कृष्णार्जुनौ काममंशो नारायणस्य तौ। पुराणपीठिकेयं वै मुनिभिः परिकीतिता ॥२२॥ देवांश: स तु विज्ञेयो यो भवेद्विभवाधिकः । नानृपिः कुरुते काव्यं नारुद्रो रुद्रमर्चते ॥२३॥ नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः । इन्द्रादग्नेर्यमाद्विष्णोर्धनदादिति भूपते ॥२४॥। प्रभुत्वं च प्रभावं च कोपं चव पराक्रमम् । आदाय क्रियते नूनं शरीरमिति निश्चयः ॥२५॥ यः कश्रिद्वलबाँल्लोके भाग्यवानथ भोगवान् । विद्यावान्दानवान वार्डपिस देवांशः प्रपठचते॥२६॥ तथवेत ममाख्याताः पांडवाः पृथिवीपते। देवांशो वासुदेवोऽप नारायणसमदयुतिः ॥२७॥ शरीरं प्राणिना नूनं भाजनं सुखदुःखयोः। शरीरी प्राप्नुयात्कामं सुखं दुःखमनंतरम् ॥२८। देही नास्ति वगः कोऽपि दैवाधीनःसदैव हि। जननं मरणं दुःखं सुखं प्रानोति चावशः ।२९। पांडवास्ते वने जाता: प्राप्तास्तु स्वगृहं पुनः । स्ववांहुवलतः पश्चाद्राजसूयं क्रतूत्तमम् ॥३०॥
Page 371
श्रीमद्देवीभागवतेमहापुराणे षष्ठस्कन्धे अध्याय: ११ ३७१ बनवासं पुनः प्राप्ता बहुदुःखकरं परम् । अजुनेन तपस्तप्तं दुष्करं हयजितेंद्रियैः ॥३१॥ संतुष्टैस्तु सुरैदत्तं वरदानं पुनः शुभम्। नरदेहकृतं पुण्यं क्व गतं वनवासजम् ॥३२॥ नरदेहे तपस्तप्तं चोग्रं बदरिकाश्रमे। नार्जुनस्य शरीरे तत्फलदं संबभूव ह॥३३॥ प्राणिनां देहसम्बन्धे गहना कर्मणो गतिः । दुज्ञेया सर्वथा देवैर्मानवानां तु का कथा ॥३४॥ बासुदेवोऽपि संजातः कारागारेऽतिसंकटे। नीतोऽसौ वसुदेवेन नंदगोपस्य गोकुलम्॥३५॥ एकादशंव वर्षाणि संस्थितस्तत्र भारत । पुनः स मथुरां गत्वा जघानोग्रसुतं बलात् ॥३६।। मोचयामास पितरौ बंधनाद्भृशदुःखितौ। उग्रसेनं च राजानं चकार मथुरापुरे ।।३७।। जगाम द्वारवत्यां स म्लेच्छराजभयात्पुनः। सर्वं भाविवशात्कृष्णः कृतवान्पौरुषं महत् ॥३८॥ कृत्वा कार्याण्यनेकानि द्वारवत्यां जनार्दनः । देहं त्यक्त्वा प्रभासे तु सकुटुम्बो दिवं गतः ॥३९॥ पुत्राः पौत्राश्र सुहृदो भ्रातरो जामयस्तथा। प्रभासे यादवाः सर्वे विप्रशापत्क्षयं गताः॥४०॥ एवं ते कथिता राजन्कर्मणो गहना गतिः । वासुदेवोऽपि व्याधस्य बाणेन निधनं गतः ॥४१॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे दशमोऽध्यायः॥१०॥ अथकादशोऽध्यायः जनमेजय उवाच भारावतरणार्थाय कथितं जन्म कृष्णयोः । संशयोऽयं द्विजश्रेष्ठ हृदये मम तिष्टति ॥१।। पृथिवी गोस्वरूपेण ब्रह्माणं शरणं गता। द्वापरांतेऽतिदीनाऽडर्ता गुरुभारप्रपीडिता ।।२।। वेधसा प्रार्थितो विष्णुः कमलापतिरीश्वरः । भूभारोत्तरणार्थाय साधूनां रक्षणाय च ।३॥ भगवान्भारते खण्डे देवैः सह जनार्दनः । अवतारं गृहाणाशु वसुदेवगृहे विभो॥४॥ एवं संप्रार्थितो धात्रा भगवान्देवकीसुतः । बभूव सह रामेण भूभारोत्तारणाय वै ॥५॥ कियानुत्तारितो भारो हत्वा दुष्टाननेकशः । ज्ञात्वा सर्वान्दुराचान्पापबुद्धिनृपानिह ॥६।। हतो भीष्मो हतो द्रोणो विराटो द्रुपदस्तथा। बाह्लीकः सोमदत्तश्र कर्णो वैकर्तनस्तथा॥७॥ यैर्लुण्ठितं धनं सवं हृताश्च हरियोषितः । कथं न नाशिता दुष्टा ये स्थिताः पृथिवीतले ॥८॥ आभीराश्चशकाम्लेच्छानिषादा कोटिशस्तथा । भारावतरणं किन्तत्कृतं कृष्णेन धीमता।९॥ संदेहोऽयं महाभाग न निवर्तति नित्ततः । कलावस्मिन्प्रजाः सर्वाः पश्यतः पापनिश्चयाः ॥१०॥ व्यास उवाच राजन् यस्मिन्युगे यादृक्प्रजा भर्वात कालतः । नान्यथा तद्भ्वेन्नूनं युगधर्मोऽत्र कारणम् ॥११॥ ये धर्मरसिका जीवास्ते वै सत्ययुगेऽभवन् । धर्मार्थरसिका ये तु ते वै त्रेतायुगेऽभवन् ॥१२॥
Page 372
३७२ श्रीमरेनीमागवते महापुराणे पष्स्क्धे भध्बानः ११ धर्मार्थकामरसिका दवापरे चाभवन् युगे। अर्थकामपराः सबें कलावस्मिन्भवन्ति हि ॥१३॥' युगधर्मस्तु राजेन्द्र न याति व्यत्थयं पुनः । काल: कर्तास्ति धर्मस्य ह्ाघर्मस्य च वै पुनः ॥१४॥ राजोवाच ते तु सत्ययुगे जोवा भवति धर्मतत्पराः । कुत्र तेऽद्य महाभाग तिष्ठंति पुण्यभागिनः॥१५॥ त्रेतायुगे द्वापरे वा ये दानव्रतकारकाः। वर्तन्ते मुनयः श्रेष्ठाः कुत्र बहि पितामह ॥१६॥ कलावद्य दुराचारा येऽत्र सन्ति गतत्रपाः । आद्य युगे क्व यास्यंति पापिष्ठा देबनिन्दकाः ॥१७। एतत्सवं समाचक्ष्व विस्तरेण महामते। सर्वथा श्रोतुकामोऽस्मि यदेतद्धर्मनिर्णयम् ।१८।। व्यास उवाच ते वै कृतयुगे राजन्संभवंतीह मानवाः । कृत्वा ते पुण्यकर्माणि देवलोकान् ब्रजंति वै ॥१९। ब्राह्मणाः क्षत्रिया वैश्याः शृद्राश्र नृपसत्तम । स्वधर्मनिरता यांति लोकान्कर्मजितान्किल ॥२०॥ सत्यं दया तथा दानं स्वदारगमनं तथा। अद्रोहः सर्वभूतेषु समता सर्वजन्तुषु ॥२१॥ एतत्साधारणं धर्म कृत्वा सत्ययुगे पुनः। स्वग यांतीतरे वर्णा धर्मतो रजकादयः ॥२२॥ तथा त्रेतायुगे राजन्द्वापरेऽय युगे तथा। कलावस्मिन्युगे पापा नरकं यांति मानवाः ॥२३। तावत्तिष्ठन्ति ते तत्र यावत्स्याद्युगपर्ययः । पुनश्र मानुषे लोके भवन्ति भुवि मानवाः ॥२४॥ यदा सत्ययुगस्यादि: कलेरंतश्र पार्थिव। तदा स्वर्गात्पुण्यकृतो जायन्ते किल मानवाः ॥२५॥ यदा कलियुगस्यादिर्द्वापरस्य क्षमस्तथा। नरकात्पापिनः सर्बे भवन्ति भुदि मानवाः ॥२६॥ एवं कालसमाचारो नान्यथाऽभूत्कदाचन। तस्मात्कलिरसत्कर्ता तस्मिस्तु तादृशी प्रजा ॥२७॥ कदाचिहैवयोगात्तु प्राणिनां व्यत्ययो भबेत्। कलौ ये साधबः केचिद्द्वापरे संभबन्ति ते ।।२८। तथा त्रेतायुगे केचित्केचित्सत्ययुगे तथा। दुष्टाः सत्ययुगे ये तु ते भबंति कलावपि ॥२९॥ कृतकर्मप्रभावेण प्राप्नुबंत्यसुखानि च। पुनश्र तादृशं कर्म कुर्बन्ति युगभावतः ।३०।। जनमेजय उवाप युगधर्मान्महाभाग ब्रहि सर्बानशेषतः । यस्मिन्वै यादृशो धर्मो ज्ञातुमिच्छामि तं तथा ॥३१॥ व्यास उवाप निबोध नृपशार्दूल दृष्टांतं ते ब्रवोम्यहम् । साधूनामपि नेतांसि युगभाबाद्रवंति हि ॥३२॥ पितुर्यथा ते राजेन्द्र बुद्धिर्विप्रावहेलने। कृता वै कलिना राजन्धर्मज्ञस्य महात्मनः ॥३३॥ अन्यथा क्षत्रियो राजा यथातिकुलसंभवः । तापसस्य गले सपं मृतं कस्मादयोजयत् ॥३४॥ सवं युगबलं राजन् वेदितव्यं विजानता। प्रयत्नेन हि कर्तव्यं धर्मकर्म विशेषतः ॥३५॥ नूनं सत्ययुगे राजन्ब्राह्मणा वेदपारगाः। पराशक्त्यर्चनरता देवीदर्शनलालसाः॥३६॥
Page 373
श्रीम देबीमागवते महापुराजे षष्ठस्कन्ये अध्याय: ११ ३०३
नावत्री प्रणवासक्ता गायत्रीष्यानकारिणः। गायत्रीजपसंसक्ता मायाबीजैकजापिनः ॥३७॥ आाजे ग्रामे पराम्बायाः प्रासादकरणोत्सुकाः । स्वकमनिरताः सर्वे सत्यशोचदयान्विताः ॥३८॥ । अभवन्क्षत्रियास्तत्र प्रजाभरणतत्पराः ॥३९॥ पैश्वास्तु कृषिवाणिज्यगोसेवानिरवास्तथा । शूद्राः सेवापरास्तत्र पुण्ये सत्ययुगे नृप ॥४०।। पराम्बापूजनासक्ताः सर्वे वर्णाः परे युगे । तथा त्रेतायुगे किञ्ञिन्न्यूना धर्मस्य संस्थितिः॥४१।। हापरे च विशेषेण न्यूना सत्ययुगस्थितिः । पूर्वं ये राक्षसा राजंस्ते कलौ ब्राह्मणाःस्मृताः ॥४२॥ पासण्डनिरता: प्रायो भवन्ति जनवञ्नकाः । असत्यबादिनः सर्वे वेदधर्मविवर्जिताः ॥४३॥ शाम्भिका लोकचतुरा मानिनो वेदबजिताः । शूद्रसेवापराः केचिन्नानावर्मप्रवर्तकाः ॥४४॥ वेदनिन्दाकराः क्ररा धर्मभ्रष्टातिवादुकाः । यथा यथा कलिर्वृद्धिं याति राजंस्तथा तथा॥४५॥ वर्मस्य सत्यमूलस्य क्षयः सर्वात्मना भबेत् । तथव क्षत्रिया वैश्याः शूद्राश्र धर्मवर्जिताः ॥४६॥ नतत्ववादिन: पापास्तया वर्णेतराः कलौ। शद्रधर्मरता विप्राः प्रतिग्रहपरायणाः ॥४७॥ भविष्यन्ति कली राजन् युगे वृद्धिं गता: किल । कामचारा: स्त्रियः कामलोभमोहसमन्विताः ॥४८॥ पापा मिथ्याभिवादिन्यः सदा क्लेशरता नृप । स्वभर्तृवञ्चका नित्यं धर्मभाषणपण्डिताः ॥४९॥ भवन्त्वेबंविधा नार्य: पापिष्ठाश्र कलौ युगे । आहारशुद्धया नृपते चित्तशुद्धिस्तु जायते ॥५०॥ शुद्धे चित्ते प्रकाश: स्वाद्धर्मस्य नृपसत्तम। वृत्तसंकरदोषेण जायते धमसंकरः ॥५१॥ भमंस्य संकरे जाते नूनं स्याद्वर्णसंकरः। एवं कलियुगे भूप सर्वधर्मविवर्जिते ॥५२॥ स्ववर्णधर्मवार्तेषा न कुत्राप्युपलभ्यते। महान्तोऽपि च धमज्ञा अधमं कुर्वते नृप ॥५३॥ कलिस्वभाव एवैष परिहार्यो न केनचित् ।५४।। निष्कृतिर्न हि राजेन्द्र सामान्योपायतो भवेत् । जनमेजय उवाच भगवन्सर्बधर्मज्ञ सर्वशास्त्रविशारद ॥५५।। कलावधर्मबहुले नराणां का गतिर्भवेत्। यद्यस्ति तद्ुपायश्रेद्दयया नं वदस्त मे ॥५६॥ व्यास उवाच एक एव महाराज तत्रोपायोऽस्ति नापरः। सर्वदोषनिरासाथं व्यायेद्देवीपदाम्बुजम् ॥५७॥ न संत्यघानि तावंति यावतो शक्तिरस्ति हि। नाम्नि देव्याः पापदाहे तस्मा्द्ोतिः कुतो नृप ५८। अवशेनापि यन्नाम लीलयोच्चारितं यदि। कि कि ददाति तज्ज्ञातुं समर्था न हरादयः ॥५९॥ प्रायश्चितं तु पापानां श्रीदेवोनामसंस्मृतिः । तस्मात्कलिभयाद्राजन्पुण्यक्षेत्रे वसन्नरः ॥६०॥ निरन्तरं पराम्बाया नामसंस्मरणं चरेत्। छित्वा भित्वा च भूतानि हत्वा सर्वमिदं जगत् ।।
Page 374
१७४ श्रीमदेवीभागत्रते महापुराणे षष्ठस्कन्धे अध्याय: १२ देवीं नमति भक्त्या यो न स पापैविलिप्यते। रहस्यं सर्वशास्त्राणां मया राजन्नुदीरितम् ।६२।। विमृश्यैतदशेषेण भज देवीपदांबुजम् । अजपां नाम गायत्री जपंति निखिला जनाः ॥६३। महिमानं न जानंति मायाया वैभवं महत्। गायत्रीं ब्राह्मणाः सर्वे जपति हृदयांतरे ॥६४॥ महिमानं न जानंति मायाया वैभवं महत्। एतत्स्वं समाख्यातं यत्पृष्टं तत्त्वया नृप ।। युगधर्मव्यवस्थायां किं भूयः श्रोतुमिच्छसि ॥६५॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे एकादशोऽध्यायः ॥११॥ अथ द्वादशोऽध्यायः राजोवाच तीर्थानि भुवि पुण्यानि ब्रूहि मे मुनिसत्तम। गम्यानि मानवैर्देवैः क्षेत्राणि सरितस्तथा ॥१॥ फलं च यादृशं यत्र तीर्थेषु स्नानदानतः । विधि तु तीर्थयात्रायां नियमाश्च विशेषतः ॥२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि तीर्थानि वित्रिधानि च। येषु तीर्थेषु देवीनां प्रशस्तान्ययनानि च ॥३॥ नदीनां जाह्नवी श्रेष्ठा यमुना च सरस्वती । नर्मदा गंडकी सिंधुर्गोमती तमसा तथा॥४॥ काबेरी चंद्रभागा च पुण्या वेत्रवती शुभा। चर्मण्वती च सरयूस्तापी साभ्रमती तथा।५॥। एताश्च कर्थिता राजन्नन्याश्च शतशः पुनः । तासां समुद्रगाः पुण्याः स्वल्पपुण्या ह्यनब्धिगाः ॥ समुद्रगानां ताः पुण्थाः सर्वदौघवहास्तु याः । मासद्वयं श्रावणादौ ताश्र सर्वा रजस्वलाः ॥७॥ भवंति वृष्टियोगेन ग्राम्यवारिवहास्तथा। पुष्करं च कुरुक्षेत्रं धर्मारण्यं सुपावनम् ।८।। प्रभासं च प्रयागं च नैमिषारण्यमेव च। विश्रुतं चार्बुदारण्यं शैलाश्र पावनास्तथा ।९॥ श्रीशैलश्च सुमेरुश्र पर्वतो गंधमादनः । सरांसि चैव पुण्यानि मानसं सर्वविश्रुतम् ॥१०॥ तथा विन्दुसरः श्रेष्ठमच्छोदं नाम पावनम्। आश्रमास्तु तथा पुण्या मुनीनां भावितात्मनाम् ॥ विश्रुतस्तु सदा पुण्यः ख्यातो बदरिकाश्रमः । नरनारायणौ यत्र तेपाते तौ मुनी तपः ॥१२॥ वामनाश्रम आख्यातः शतयूपाश्रमस्तथा। येन यत्र तपस्तप्तं तस्य नाम्नाऽतिविश्रुते ॥१३॥ एवं पुण्यानि स्थानानि ह्यसंख्यातानि भूतले। मुनिभिः परिगीतानि पावनानि महीपते ॥१४॥ एषु स्थानेषु सर्वत्र देवीस्थानानि भूपते। दर्शनात्पापहारीणि वसंति नियमेन च ॥१५॥ कथयिष्यामि तान्यग्रे प्रसंगेन च कानिचित् । तीर्थानि नृप दानानि व्रतानि च मखास्तथा ॥ तपांसि पुण्यकर्माणि सापेक्षाणि महीपते। द्रव्यशुद्धि क्रियाशुद्धिं मनःशुद्धिमपेक्ष्य च ॥१७॥ पावनानि हि तीर्थानि तपांसि च व्रतानि च। कदाचिद्द्रव्यशुद्धिः स्यात्क्रियाशुद्धिः कदाचन १८।।
Page 375
श्रीमदेवीमागवते महापुराण षष्ठस्कन्धे अध्याय: १२ ३०५ दुर्लभा मनसः शुद्धिः सर्वेषां सर्वदा नृप। मनस्तु चंचलं राजन्ननेकविषयाश्रितम् ॥१९॥ कर्थ शुद्धं भवेद्राजन्नानाभावसमाश्रितम् । कामक्रोधौ तथा लोभो ह्यहंकारो मदस्तथा ॥२०॥ सर्वविष्नकरा ह्येते तपस्तीर्थव्रतेषु च । अहिंसा सत्यमस्तेयं शौच्निंद्रियनिग्रहः ॥२१॥ स्वधर्मपालनं राजन्सर्वतीर्थफलप्रदम् । नित्यकर्मपरित्यागान्मार्गे संसर्गदोषतः ॥२२॥ व्यथं तीर्थाधिगमनं पापमेवावशिष्यते। क्षालयंति हि तार्थानि सर्वथा देहजं मलम् ॥२३॥ मानसं क्षालितुं तानि न समर्थानि वै नृप । शक्तानि यदि चेत्तानि गंगातीरनिवासिनः ॥२४॥ मुनयो द्रोहसंयुक्ता: कथं स्युर्भावितेश्वराः । वाष्ठसदृशाः प्रह्वा विश्वामित्रादयः किल ॥२५॥ रागद्वेषरताः सर्वे कामक्रोधाकुलाः सदा। चित्तशुद्धिमयं तीर्थ गंगादिभ्योऽतिपावनम् ॥२६॥ यदि स्याद्वयोगेन क्षालयत्यांतरं मलम् । विशेषेण तु सत्संगो ज्ञाननिष्ठस्य भूपते ॥२७॥ न वेदा न च शास्त्राणि न व्रतानि तपांसि न। न मखान च दानानि चित्तशुद्धेस्तु कारणम् ।२८।। वसिष्ठो ब्रह्मणः पुत्रो वेदविद्याविशारदः । रागद्वेषान्वितः कामं गंगातीरसमाश्रितः ॥२९॥ आडीबकं महायुद्धं विश्वामित्रवसिष्ठयोः। जातं निरर्थकं द्वेषादेवानां विस्मयप्रदम् ॥३०॥ विश्वामित्रो बकस्तत्र जातः परमतामसः । शप्तः स तु वसिष्ठेन हरिश्रंद्रस्य कारणात् ।३१॥ कोशिकेन वसिष्टोऽपि शप्त्वाSऽडीदेहभाक्कृतः । शापादाडीबकौ जातो तौ मुनी विशदप्रभौ ॥३२॥
वर्षाणामयुतं निवासं प्रापतुस्तोरे तापसौ धर्मतत्परौ। चक्रतुर्दारुणं युद्धं नखचंचुप्रताडनैः ॥३३॥ यावत्तावृषी रोषसंयुतौ। युयुधाते मदोन्मत्तो सिंहाविव परस्परम् ॥३४॥ राजोवाच कथं तौ मुनिशार्दूलौ तापसौ धर्मतत्परौ। परस्परं वैरपरो संजातौ केन हेतुना॥३५॥ शापं परस्परं केन कारणेन महामती। दत्तवंतौ मिथः क्लेशकारकौ दुःखदौ नृणाम् ॥३६॥ व्यास उवाच हरिश्चंद्रो नृपश्रेष्ठस्त्रिशंकुतनयः पुराः। बभूब रविवंशीयो रामचंद्रस्य पूर्वजः ॥३७॥ अनपत्य: स राजषिर्वरुणाय महाक्रतुम्। प्रतियज्ञे पुत्रकामो नरमेधं दुरासदम् ॥३८॥ वरुणस्तस्य संतुष्टो यज्ञस्य नियमे कृते। दधार गर्भ राज्ञस्तु भार्या परमसुंदरी ॥३९॥ राजा बभूव संतुष्टो दृष्टा भारयां सदोहदाम्। चकार विधिवत्कर्म गर्भसंस्कारकारकम् ॥४०॥ सुषुवे तनयं नारी सर्वलक्षणसंयुतम्। मुदं प्राप नृपस्तत्र पुत्रे जाने विशांपते ॥४१।। कृतवाआतकर्मादि संस्कारविधिमुत्तमम् । ददौ हिरण्यं गा दोग्ध्रोर्ब्रा्मणेभ्यो विशेषतः ॥४२॥ जन्मोत्सवेऽतिसंवृत्ते गेहे वै यादसां पतिः । आजगाम महाराज विप्रवेषधरस्तथा॥४३॥ पूजितः पार्थिवेनाथ दत्त्वा विधिवदासनम् । कारये पृष्टेऽब्रवीद्वाक्यं वरुणोऽस्मोति भूपतिम् ॥४४।
Page 376
श्रीमद्देवीभागवते महापुराणे षष्टस्कन्धे अध्याय: १२ कुरु यज्ञं सुतं कृत्वा पशुं परमपावनम् । सत्यवाग्भव राजेंद्र संकल्पस्तु त्वया कृतः ॥४५॥ तच्छ्रुत्वा वचनं राजा विह्वलोऽतिव्यथाकुलः । संस्तभ्याधि नृपः प्राह वरुणं सत्कृतांजलि:॥४६॥। स्वामिन्करोमि तं यज्ञं सर्वथा विधिपूर्वकम्। मया ते यत्प्रतिज्ञातं भवामि सत्यवागहम् ॥४७।। पूर्णे मासे विशुद्धयेत धर्मपत्नी सुरोत्तम। विशुद्धायां तु भार्यायां कर्तव्यः सपशुर्मखः ॥४८॥ व्यास उवाच इत्युक्ते वचने राज्ञा वरुणः स्वगृहं गतः । राजा बभूव संतुष्टः किचिच्चिंतातुरस्तथा ॥४९॥ पूर्णे मासि पुनः पाशो परीक्षार्थं नृपालये। आजगाम द्विजो भूत्वा सुवेषः सुष्ठुभाषकः ॥५०॥ कृतार्हणं सुखासीनं भूपतिस्तं सुरोत्तमम् । उवाच विनयोपेतो हेतुगर्भं वचस्तदा ॥५१॥। असंस्कृतं सुतं स्वामिन् यूपे बध्नामि तं कथम् । संस्कृत्य क्षत्रियं कृत्वा यजेऽहं यज्ञमुत्तमम् ॥५२॥ दयसे यदि देव त्वं ज्ञात्वा दीनं स्वसेवकम् । असंस्कृतस्य बालस्य नाधिकारोऽस्ति कुत्रचित् । वरुण उवाच प्रतारयसि राजेंद्र कृत्वा समयमग्रतः । दुस्त्यजस्तव जानामि सुतस्नेहो ह्यपुत्रिणः ।५४।। गृहं व्रजामि भूपाल वचनात्तव कोमलात्। कियत्कालं प्रतीक्ष्याहभागमिष्यामि ते गृहम्॥५५॥ भवितव्यं त्वया तात तदा सत्यवचोऽन्वितम् ॥५६॥ राजोवाच समावर्तनकर्मान्ते सर्बथा यादसांपते। कृत्वा पुत्रपशुं यज्ञे यजिष्ये विधिपूर्वकम् ॥५७।। व्यास उवाच तच्छरत्वा वचनं राज्ञो वरुणः प्रीतमानसः। तथेत्युक्त्वा ययौ तूर्णं नृपस्तु सुस्थितोऽभवत् ॥५८॥ रोहिताख्य इति ख्यातः सुतस्तस्य विवृद्धिमान् । संजातश्चतुरः सर्वविद्यानां च विशारदः ॥५९॥ यज्ञस्य कारणं तेन ज्ञातं स्वं सविस्तरम्। भयभीतस्ततः सोऽपि मत्त्दा मरणमात्मनः ॥६०॥ कृत्वा पलायनं वीरो गतोऽसो गिरिगह्वरे। अगम्ये नृपतिस्थाने स्थितस्तत्र भयातुरः ॥६१॥ प्राप्ते कालेऽथ वरुणो यज्ञार्थी नृपतेर्गृहम्। ग़त्वा तमाह भूपालं कुरु यज्ञं विशांपते ॥६२।। प्रम्लानवदनो राजा तमाह व्यथितेंद्रियः । कि करोमि गतः क्वापि सुतो मे सुरसत्तम ॥६३॥ श्रुत्बा तद्वचनं राज्ञः कुपितो याद्सांपतिः। शशाप तं नृपं कोपादसत्यवादिनं भृम् ॥६४॥ जलोदराभिधो व्याधिदेहे भवतु ते नृप। यतः प्रतारितश्चाहं कृत्वा कपटपंडित ॥६५॥ इति शप्त्वा ययो धाम स्वकं पाशधरस्तदा। राजा चिंतातुरस्तस्थौ भवने व्याधिपीडितः ॥६६॥ यदाऽतिव्याधितो राजा रोगेण शापजेन है। तदा शुश्राव पुत्रोऽपि पितरं व्याधिपीडितम्॥६७॥ पांथिक: प्राह पुत्रं हि पिता ते भृशदुःखितः। जलोदरविकारेण शापजेन नृपात्मज ।।६८।।
Page 377
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १३ ३७७ बिनष्ट जीवितं तेडद्य वृथाजातस्य दुर्मते। यत्त्यक्त्वा पितरं दुःस्थं प्राप्ोऽसि गिरिगह्वरम् ६९॥ किमनेन शरीरेण प्राप्तं ते जन्मनः फलम् । देहदं दुःखितं कृत्वा स्थितोऽस्यत्र सुताधम ॥७०॥ प्राणास्त्याज्याः पितुः कार्ये सत्पुत्रेणेति निश्चयः । त्वदर्थे दुःखितो राजा करंदति व्याधिपोडितः ॥७१।। व्यास उवाच पांथिकाद्धर्मसंयुतम् । यदा चक्रे मनो गंतुं द्रष्टं तातं व्यथातुरम् ॥७२।। तदा विप्रवपुर्भूत्वा वासवस्तमुपागमत् । रहः प्राह हितं वाक्यं दयावानिव भारत ॥७३॥ मूर्खोडसि राजपुत्र त्वं गमनाय मति वृथा। करोषि पितरं त्वद्य न जानासि व्यथायुतम् ॥७४॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे द्वादशोऽध्यायः ॥१२॥ अथ त्रयोदशोऽध्यायः इन्द्र उवाच साहसं कृतवान् राजा पूर्वं यत्कथितो मखः । वरुणाय प्रतिज्ञातः पुत्रं कृत्वा पशुं प्रियम् ॥१॥ गते त्वयि पिता पुत्रं बद्घ्वा यूपेऽघृणः पुनः। पशुं कृत्वा महाबुद्धे वधिष्यति व्यथातुरः ॥२॥ इत्थं निषिद्धस्तत्पुत्रः शक्रेणामिततेजसा। स्थितस्तत्रैव मायेशोमायया मोहितो भृशम् ॥३॥ यदा पुनः पुनः श्रुत्वा पितरं रोगपीडितम्। गमनाय मति चक्रे तदेंद्रः प्रत्यषेधयत् ॥४॥ हरिश्रन्द्रोऽतिदुःखार्तः पप्रच्छ गुरुमंतिके । स्थितं वसिष्ठमेकान्ते सर्वज्ञं हिततत्परम् ॥५॥ राजोवाच भगवन्कि करोम्यद्य कातरोऽस्मि व्यथाकुलः । त्राहि मां दुःखमनसं महाव्याधिभयातुरम् ॥६॥ वसिष्ठ उवाच शृणु राजन्नुपायोऽस्ति रोगनाशं प्रति स्तुतः । त्रयोदशविधाः पुत्राः कथिता धर्मसंग्रहे ॥७॥ तस्मात्क्रीतं सुतं कृत्वा यजस्व मखमुत्तमम् । द्रव्यं दत्त्वा यथोद्दिष्टमानयस्व द्विजोत्तमम् ।।८।। एवं कृते मखे भूप रोगनाशो भविष्यति। वरुणोऽपि प्रसन्नात्मा भविष्यति यथासुखम् ॥९॥ व्यास उवाच इति तस्य वच:श्रुत्वा राजा प्रोवाच मंत्रिणम् । अन्वेषय महाबुद्धे विषयेष्वतियत्नतः ॥१०॥ कदाचित्कोऽपि लोभार्थी ददाति स्वसुतं पिता। समानय धनं दत्त्वा यावत्प्रार्थयतेऽप्यसौ ॥११॥ सर्वथैव समानेयो यज्ञार्थे द्रिजबालकः । न कार्या कृपणा बुद्धिस्त्वया मत्कार्यहेतवे ॥१२॥ प्रार्थनीयस्त्वया पुत्रः कस्यचिदिद्रजवादिनः । द्रव्येण देहि यज्ञार्थं कर्तव्योऽसौ पशुः किल ॥१३॥ इति संचोदितस्तेन सचिवः कार्यहेतवे। अन्वेषयामास पुरे ग्रामे ग्रामे गृहे गृहे ॥१४॥
Page 378
३७८ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १३ एवमन्वेषतस्तस्य विषये कश्िदातुरः । निर्धनस्त्रिसुतश्चासीदजीगर्तेति नामतः ॥१५॥ तस्य पुत्रं शुनःशेपं मध्यमं मंत्रिसत्तमः । आनयामास दत्त्वार्थं प्रार्थितं तद्धनं तदा ॥१६॥ समानीय शुनःशेपं सचिवः कार्यतत्परः । राज्ञे निवेदयामास पशुयोग्यं द्विजात्मजम् ॥१७॥ राजाऽतिमुदितस्तेन विप्रानानीय सर्वतः । कारयामास संभारान् यज्ञार्थ वेदवित्तमान् ॥१८। प्रारब्धे तु मखे तत्र विश्वामित्रो महामुनिः । बद्धं दृष्टा शुनःशेपं निषिषेध नृपं तदा ॥१९।। राजन्मा साहसं कार्षीमुंचनं द्विजबालकम् । प्रार्थयाम्यहमायुष्मन्सुखं तेऽद्य भविष्यति ॥२०॥ क्रन्दत्ययं शुनःशेपः करुणा मां दुनोत्यपि। दयावान्भव राजेंद्र कुरु मे वचनं नुप ।२१॥ परदेहस्य रक्षायै स्वदेहं ये दयापराः । ददति क्षत्रियाः पूर्व स्वर्गकामाः शुचिव्रताः ॥२२॥ तं स्वदेहस्य रक्षार्थ हंसि द्रिजसुतं बलात्। पा मा कुरु राजेंद्र दयावान्भव बालके ।२३॥। सर्वेषां सदृशी प्रीतिर्देहे वेत्मि स्वयं नृप। मुंचैनं बालकं तस्मात्प्रमाणं यदि मे वचः ॥२४॥ व्यास उवाच अनादृत्य च तद्राक्यं राजा दुःखातुरो भृशम् । न मुमोच मुनिस्तस्म चुकोपातीव तापसः ॥२५॥ उपदेशं ददौ तस्म शुनःशेपाय कौशिकः। मंत्रं पाशधरस्याथ दयावान्वेदवित्तमः ॥२६॥ शुनःशेपोऽपि तं मंत्रमसकृद्रधकशितः । प्लुतस्वरेण चुक्रोश संस्मरन् वरुणं भुशम् ॥२७॥ स्तुवंतं मुनिपुत्रं तं ज्ञात्वा वै यादसां पतिः । तत्रागत्य शुनःशेपं मुमोच करुणार्णवः ।२८।। रोगहीनं नृपं कृत्वा वरुणः स्वगृहं ययौ। विश्वामित्रस्तु तं पुत्रं कृतवान्मोचितं मृतेः ॥२९॥ न कृतं वचनं राज्ञा कौशिकस्य महात्मनः । रोषं दधार मनःा राजोपरि स गाधिजः ॥३०॥ एकस्मिन्समये राजा हयारूढो वनं गतः । सूकरं हंतुकामस्तु मध्याह्ने कौशिकीतटे ॥३१॥ वृद्धब्राह्मणवेषेण विश्वामित्रेण वंचितः । सर्वस्वं प्राथितं तस्य गृहीतं राज्यमन्द्ुतम् ॥३२॥ पीडितोऽसौ हरिश्चन्द्रो यजमानो यतो भृशम् । वसिष्ठः कौशिकं प्राह वने प्राप्तं यदृच्छया ॥३३॥ क्षत्रियाधम दुर्बुद्वे वृथा ब्राह्मणवेषभृत्। बकधम वृथा कि त्वं गर्व वहसि दांभिक ॥३४।। कस्मात्त्वया नृपश्रेष्ठो यजमानो ममाप्यसौ। अपराधं बिना जाल्म गमितो दुःखमद्दुतम् ॥३५॥ बकध्यानपरो यस्मात्तस्मात्वं वै वको भव । इति शप्तो वसिष्ठेन कौशिकः प्राह तं पुनः ॥३६॥ त्वमप्याडिर्भवायुष्मन्बकोऽहं यावदेव एवं परस्परं दत्त्वा शापं तौ क्रोधपीडितौ ॥३७॥ व्यास उवाच अंडजौ तरसा जातौ सरस्याडोबकौ मुनी। एकस्मिन्पादपे नीडं कृत्वाऽसौ बकरूपभाक्॥३८॥ विश्वामित्रः स्थितस्तत्र दिव्ये सरसि मानसे। अन्यस्मिन्पादपे कृत्वा वसिष्ठो नीडमुत्तमम् ॥३९॥
Page 379
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १४ ३७९
आडीरूपघरस्तस्थावन्योन्यं द्वेषतत्परो। दिने दिने तौ संग्रामं चत्रतुः क्रोधसंयुतौ ।४०॥ दुःखदं सर्वलोकानां क्रंदमानावुभौ भृशम् । चंचुपक्षप्रहारैस्तु नखाघातैः परस्परम्॥४१॥ जघ्नतू रूधिरक्लिन्नौ पुष्पिताविव किंशुकौ। एवं बहूनि वर्षाणि पक्षिरूपधरौ मुनी ॥४२॥ स्थितौ तत्र महाराज शापपाशेन यंत्रितौ। राजोवाच कथं मुक्तो मुनिश्रेष्ठौ शापाद्वसिष्ठकौशिकौ ।४३॥ तन्ममाचक्ष्व विप्रर्षे परं कौतूहलं हि मे। व्यास उवाच युध्यमानावुभौ दृष्टा ब्रह्मा लोकपितामहः ॥४४॥ तत्राजगामानिमिषैर्वृतः सर्वेर्दयापरैः । तावाश्वास्य जगत्कर्ता युद्धतो विनिवार्य च ।४५।। शापं संमोचयामास तयोः क्षिप्तं परस्परम्। ततो जग्मुः सुराः सर्वे स्वानि घिष्ण्यानि पद्मभूः॥४६॥ सत्यलोकं जगामाशु हंसारूढः प्रतापवान् । विश्वामित्रोऽप्यगात्तूर्ण वसिष्ठः स्वाश्रमं गतः ॥४७॥ मिथः स्नेहं ततः कृत्वा प्रजापत्युपदेशतः । मैत्रावरुणिनाऽप्येवं कृतं युद्धमकारणम् ॥४८। कौशिकेन समं भूप दुःखदं च परस्परम्। को नाम मानवो लोके देवो वा दानवोऽपिवा ॥४९॥ अहंकारजयं कृत्वा सर्वदा सुखभाग्भवेत्। तस्माद्राजंश्वित्तशुद्धिर्महतामपि दुर्लभा ॥५०॥ यत्नेन साधनीया सा तद्विहीनं निरर्थकम्। तीर्थदानतपःसत्यं "श्रद्धात्र त्रिविधा प्रोक्तां सात्त्विको राजसी तथा। तामसी सर्वदेहेषु देहिनां धर्मकर्मसु ॥ १॥ सात्त्विकी दुर्लभा लोके यथोक्तफलदा सदा। तदर्धफलदा प्रोक्ता राजसी विधिसंयुता ॥ २॥ तामसी त्वफला राजन्न तु कीर्तिकरी पुनः । कामक्रोधाभिभूतानां जनानां नृपसत्तम" ॥ ३॥। वासनारहितं कृत्वा तच्चित्तं श्रवणादिना। तीर्थादिषुवसेन्नित्यं देवीपूजनतत्परः ॥५२॥ देवीनामानि वचसा गृहंस्तस्या गुणान्स्तुवन् । ध्यायंस्तस्याः पदांभोजं कलिदोषभयार्दितः ।।५३।। एवं तु कुर्वतस्तस्य न कदाचित्कलेर्भयम् । अनायासेन संसारान्मुच्यते पातकी जनः ॥५४॥ इति श्रीदेवी भागवते महापुराणे षप्ठस्कंधे त्रयोदशोऽध्यायः ॥१३॥ अथ चतुर्दशोऽध्यायः जनमेजय उवाच मैत्रावरुणिरित्युक्तं नाम तस्य मुनेः कथम् । वसिष्ठस्य महाभाग ब्रह्मणस्तनुजस्य ह॥१॥ किमसौ कर्मतो नाम प्राप्तवान्गुणतस्तथा। ब्रूहि मे वदतां श्रेष्ठ कारणं तस्य नामजम् ॥२॥
Page 380
३८० श्रीमदेबीमागवते महापुराणे पष्ठस्कन्धे अध्बाय: १४ व्यास उवाच निबोध नृपतिश्रेष्ठ वसिष्ठो ब्रह्मणः सुतः । निमिशापात्तनुं त्यक्त्बा पुनर्जातो महाद्युतिः ।३।। मित्रावरुणयोर्यस्मात्तस्मात्तन्नाम विश्रुतम् । मैत्रावरुणिरित्यस्मिल्लोके सर्वत्र पार्यिव ॥४। राजोवाच कस्माच्छप्तः स धर्मात्मा राज्ञा ब्रह्मात्मजो मुनिः। चित्रमेतन्मुनि लग्नो राज्ञः शापोऽतिदारुणः ॥५॥ अनागसं मुनि राजा किमसौ शप्तवान्मुने। कारणं वद धर्मज्ञ तस्य शापस्य मूलतः ॥६॥ व्यास उवाच कारणं तु मया प्रोक्तं तव पूर्वं विनिश्चितम्। संसारोऽयं त्रिभिर्व्बापो राजन्मायागुणः किल ७॥। धर्म करोतु भूपालश्ररंतु तापसास्तपः । सर्वेषां तु गुणैविद्धं नोज्ज्वलं तद्भबेदिह ।८॥ कागक्रोधाभिभूताश्र राजानो मुनयस्तथा। लो.भाहंकारसंयुक्ताश्ररंति दुश्वरं तपः ।९॥ भबंति क्षत्रिया राजतरजोगुणसमावृताः । ब्राह्मणास्तु तथा राजन्न कोऽपि सत्त्वसंयुतः ॥१॥ ऋषिणाऽसी निमिः शप्तस्तेन शप्तो मुनिः पुनः । दुःखाद्दुःखतरं प्राप्तावुभावपि बिधेर्बलात् ॥११॥ द्रव्यशुद्धिः क्रियाशुद्धिर्मनसः शुद्धिरुज्ज्वला। दुर्लभा प्राणिनां भूप संसारे त्रिगुणात्मके॥१२। पराशक्तिप्रभावोडयं नोल्लंध्य: केनचित्क्वचित्। यस्यानुग्रहमिच्छेत्सा मोचयत्येब तं क्षणात् ।१३।। महांतोऽपि न मुच्यंते हरिब्रह्महरादयः । पामरा अपि मुच्यंते यथा सत्यव्रतादयः ॥१४॥ तस्यास्तु हृदयं कोऽपि न वेत्ति भुवनत्रये। तथापि भक्तवश्येयं भवत्येव सुनिश्चितम् ॥१५॥ तस्मात्तद्द्क्तिरास्थेया दोषनिर्मूलनाय च। रागदंभादियुक्ता चेत्सा भक्तिर्नाशिनी भवेत् ॥१६।। इक्ष्वाकुकुलसंभूतो निमिर्नाम नराधिपः । रूपवान्गुणसंपन्नो धर्मज्ञो लोकरंजकः ॥१७॥ सत्यवादी दानपरो याजको ज्ञानवाञ्छुचिः । द्वादशस्तनयो धीमान्प्रजापालनतत्परः ॥१८॥ पुरं निवेशयामास गौतमाश्रमसन्निधो। जयं तु पुरसंज्ञं च ब्राह्मणानां हिताय सः ॥१९॥ बुद्धिस्तस्य समुत्पन्ना यजेयमिति राजसी । यज्ञेन बहुकालेन दक्षिणासंयुतेन च ॥२०। इक्ष्वाकुं पितरं दृष्टा यज्ञकार्याय पार्यिव । कारयामास संभारं यथोिष्टं महात्मभिः ॥२१॥ भृगुमंगिरसं चैव वामदेवं च गौतमम्। वसिष्ठं च पुलस्त्यं च ऋचीकं पुलहं ऋतुम् ।।२२।। मुनीनामंत्रयामास सर्वज्ञान्वेदपारगान् । यज्ञविद्याप्रवीणांश्च तापसान् वेदवित्तमान् ।२३।। राजा संभृतसंभारः संपूज्य गुरुमात्मनः । वसिष्ठं प्राह धर्मज्ञो विनयेन समन्वितः ॥२४॥ यजेयं मुनिशार्दूल याजयस्व कृपानिधे। गुरुस्त्वं सर्ववेत्तासि कार्यं मे कुरु सांप्रतम् ।२५॥ यज्ञोपकरणं सवं समानीतं सुसंस्कृतम् । पंचवर्षसहस्त्रं तु दोक्षां कर्तुं मतिश्र मे ॥२६॥ यस्मिन् यज्ञे समाराध्या देवी श्रीजगदम्बिका। तत्प्रीत्यर्थमहं यजञं करांमि विधिपूर्वकम् ॥२७॥
Page 381
श्रीमरेवीमाणवते महापुराणे पष्ठस्कन्धे अध्याय: १४ ३८१ तच्ब्रुत्वासौ निमेर्वाक्यं वसिष्ठः प्राह भूपतिम्। इन्द्रेणाहं वृतः पूर्वं यथार्थं नृपसत्तम ।।२८।। पराशक्तिमखं कर्तुमुद्युक्त: पाकशासनः । स दीक्षां गमितो देवः पञ्ञबर्षशतात्मिकाम् ॥२९॥ तस्मात्त्वमंतरं तावत्प्रतिपालय पार्यिव । इन्द्रयज्ञे समासेऽत्र कृत्वा कार्यं दिवस्पतेः ॥३०॥ आगमिष्याम्यहं राजंस्तावत्त्वं प्रतिपालय। राजोवाच मया निमंत्रिताश्रान्ये मुनयो यज्ञकारणात् ॥३१॥ संभारा: संभृताः सर्वे पालयामि कथं गुरो। इक्ष्वाकूणां कुले ब्रह्मन्गुरुस्त्वं वेदबित्तमः ॥३२॥ कथं त्यक्त्वाऽद्य मे कार्यमुद्यतो गंतुमाशु वै। न ते युक्तं द्विजश्रेष्ठ यदुत्सृज्य मखं मम ॥३३॥ गंतासि धनलोभेन लोभाकुलितचेतनः । निवारितोऽपि राज्ञा त जगामेंद्रमखं गुरुः ॥३४॥ राजाडपि विमना भूत्वा गौतमं प्रत्यपूजयत् । इयाज हिमवत्पार्श्चे सागरस्य समीपतः ॥३५॥ दक्षिणा बहुला दत्ता विप्रेभ्यो मखकर्मणि। निमिनापंचसाहस्त्री दीक्षा तत्र कृता नृप ।।३६।। ऋत्बिजः पूजिताः कामं घनैर्गोभिर्मुदायुताः । शक्रयज्ञे समाप्ते तु पंचवर्षशतात्मके॥३७॥। भाजगाम वसिष्ठस्तु राज्ञः सत्रदिदृक्षया । आगत्य संस्थितस्तत्र दर्शनार्थं नृपस्य च ।३८। तदा राजा प्रसुप्तस्तु निद्रयाऽपहृतो भृशम्। नासौ प्रबोधितो भृत्यैर्नागतस्तु मुनि नृपः ॥३९॥ बसिष्स्य ततो मन्युः प्रादुर्भूतोऽयमानतः । अदर्शनान्निमेस्तत्र चुकोप मुनिसत्तमः ॥४०॥ शापं च दत्तबांस्तस्मे राज्ञे मन्युबशं गतः । यस्मात्त्वं मां गुरुं त्यवत्वाऽन्यगुरुमात्मनः ॥४१।। दीक्षितोऽसि बलान्मंद मानवज्ञाय पार्यिब। बारितोऽपि मया तस्माद्विदेहस्तवं भबिष्यसि ४२॥ पतत्विदं शरीरं ते विदेहो भब भूपते। व्यास उनाप इति तद्वभाहृतं श्रुत्बा राज्ञस्तु परिचारकाः ॥४३॥ सद्ः प्रबोचयामासुर्मुनिमाहुः प्रकोपितम् । कुपितं तं समागत्य राजा बिगतकल्मषः ॥४४।। उवाच बचनं श्क्ष्णं हेतुगर्भ व युक्तिमत् । मम दोषो न भर्मन्ञ गतस्त्वं तृष्णमाकुलः॥४५॥। हित्वा मां यजमानं वै प्रार्थितोऽपि मया भृशम्। न लज्जसे द्विजश्रेष्ठ कृत्बा कर्म जुगुप्सितम् ॥४६।। संतोषे ब्राह्मणश्रेष्ठ जानन्धर्मस्य निश्रयम् । पुत्रोऽसि ब्रह्मणः साक्षाद्वेदबेदांगवित्मः ॥४७॥ न वेत्सि विप्रधर्मस्य गति सूक्ष्मां दुरत्ययाम् । आत्मदोषं मयि ज्ञात्वा मृषा मां शपुमुद्यतः॥४८।। त्याज्यस्तु सुजनैः क्रोधश्चांडालादधिको यतः । वृथा क्रोधपरीतेन मयि शापः प्रपातितः ॥४९।। तवापि च पतत्वद्य देहोऽयं क्रोधसंयुतः । एवं शप्तो मुनी राज्ञा राजा च मुनिना तथा॥५०॥ परस्परं प्राप्य शापं दुःखितो तो बभूवतुः। बसिष्टस्त्वतिचिंतार्तो ब्रह्माणं शरणं गतः ॥५१।।
Page 382
३८२ श्रीमद्वेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १५ निवेदयामास तथा शापं भूपकृतं महत्। वसिष्ठ उवाच राज्ञा शप्तोऽस्मि देहोऽयं पतत्वद्य तवेति वै ॥५२॥ कि करोमि पितः प्राप्तं कष्टं कायप्रपातजम् । अन्यदेहसमुत्पत्तो जनकं वद सांप्रतम् ।५३॥ तथा मे देहसंयोगः पूर्ववत्समपद्यताम्। यादृशं ज्ञानमेतस्मिन्देहे तत्रास्तु तत्पितः ॥५४॥ समर्थोऽसि महाराज प्रसादं कर्तुमहसि। वसिष्ठस्य वचःश्रुत्वा ब्रह्मा प्रोवाच तं सुतम् ॥५५॥ मित्रावरुणयोस्तेजस्त्वं प्रविश्य स्थिरो भव । तस्मादयोनिजः काले भविता त्वंन संशयः ॥५६॥ पुनर्देहं समासाद्य धर्मयुक्तो भविष्यसि। भूतात्मा वेदवित्कामं सर्वत्र सर्वपूजितः ।५७।। एवमुक्तस्तदा पित्रा प्रययौ वरुणालयम्। कृत्वा प्रदक्षिणं प्रीत्या प्रणम्य च पितामहम् ॥५८॥ विवेश स तयोदेहे मित्रावरुणयोः किल। जीवांशेन वसिष्ठोऽथ त्यक्त्वा देहमनुत्तमम् ॥५९॥ कदाचित्तूर्वशी राजन्नागता वरुणालयम । यदृच्छया वरारोहा सखीगणसमावृता ॥६०॥ दृष्टा तामप्सरां दिव्यां रूपयोवनसंयुताम्। जातौ कामातुरो देवौ तदा तामूचतुर्नृप ।६१।। विवशौ चारुसर्वाङ्गीं देवकन्यां मनोरमाम्। आवां त्वमनवद्यांगि वरयस्व समाकुलौ ॥६२॥ विहरस्व यथाकामं स्थानेऽस्मिन्वरवणिनि। तथोक्ता सा ततो देवी ताभ्यां तत्र स्थितावशा । कृत्वा भावं स्थिरं देवी मित्रावरुणयोगृहे। सा गृहीत्वा तयोर्भावं संस्थिता चारुदर्शना ॥६४॥। तयोस्तु पतितं वीर्यं कुंभे दैवादनावृते। तस्माज्जातौ मुनी राजन्द्वावेवातिमनोहरौ ॥६५॥ अगस्तिः प्रथमस्तत्र वसिष्ठश्चापरस्तथा। मित्रावरुणयोवीर्यात्तापसावृषिसत्तमौ ।६६। प्रथमस्तु वनं प्राप्तो बाल एव महातपाः । इक्ष्वाकुस्तु वसिष्ठं तं बालं बब्रे पुरोहितम् ॥६७॥ वंशस्यास्य सुखार्वं तं पालयामास पार्थिव। विशेषेण मुनि ज्ञात्वा प्रीत्या युक्तो बभूव ह॥६८। एतत्ते सर्वमाख्यातं वसिधस्य च कारणम्। शापाद्देहांतरप्राप्तिमित्रावरुणयोः कुले ॥६९॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धे चतुर्दशोऽध्यायः ॥१४॥ अथ पश्चदशोऽध्यायः जनमेजय उवाच देहप्राप्तिर्वसिष्ठस्य कथिता, भवता किल। निमिः क्थं पुनर्देहं प्राप्तवानिति मे वद ॥१॥ व्यास उवाच वसिष्ठेन च संप्राप्तः पुनर्देहो नराधिप। निमिना न तथा प्राप्तो देहः शापादनंतरम् ॥२॥ यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ। ऋत्विजो ये वृता राज्ञा ते सर्वे समचितयन् ॥३॥
Page 383
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः १५ ३८३ कि कर्तव्यमहोऽस्माभिः शापदग्धो महापतिः । अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्र धार्मिकः ॥४॥ कि कर्तव्यं कार्यमेनद्विपरीतमभूत्किल। अवश्यंभाविभावत्वादशक्ताः स्म निवारणे ॥५॥ मंत्रैर्बहुविधैर्देहं तदा तस्य महात्मनः । रक्षितं धारयामासुः किचिच्छ्वसनसंयुतम् ॥६॥ गंधैर्माल्येश्र विविधैः पूज्यमानं मुहुर्मुहुः । मंत्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥७॥ समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः। ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥८।। विज्ञप्ता मुनिभिः स्तोत्रैनिर्विण्णात्मानमब्रुवन्। प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥९॥ यज्ञेनानेन राजर्षे वरं जन्म विधीयते। देवदेहं नृदेहं वा यत्ते मनसि वांछितम् ॥१०॥ दृप्त: कामं पुरोधास्ते मृत्युलोके यथासुखम् । एवमुक्तो निमेरात्मा संतुष्टस्तानुवाच ह॥११।। न देहे मम वांछाऽस्ति सर्वदैव विनश्चरे। वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥१२॥ नेत्रेषु सर्वभूतानां वायुभूतश्रराम्यहम्। एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ।१३॥ प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् । मखेनानेन संतुष्टा सा तेऽभीष्टं विधास्यति ॥१४॥ स देवैरेवमुक्तस्तु प्रार्थयामास देवताम्। स्तोत्रैरनानाविधैर्दिव्यैर्भक्त्या गद्गदया गिरा ॥१५॥ प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ। कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितम् ॥१६॥ दृष्टा प्रमुदिताः सर्वे कृतकृत्याश्र चेतसि। प्रसन्नायां देवतायां राजा बब्रे वरं नृप ॥१७॥ ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि। नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥१८।। ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका। ज्ञानं ते विमलं भूयात्प्रारब्धास्यावशेषतः ॥१९॥ नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति। निमिषं यांति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥२०॥ तव वासात्सनिमिषा मानवाः पशवस्तथा । पतंगाश्च भविष्यंति पुनश्चानिमिषाः सुराः ॥२१॥ इति दत्त्वा वरं तस्म तदा श्रीवरदेवता। आमंत्र्य च मुनीन्सर्वांस्तत्रैवांतहिताऽभवत् ।।२२॥ अंतहितायां देव्यां तु मुनयस्तत्र संस्थिताः । विचित्य विधिवत्सर्वं निमेर्देहं समाहरन् ॥२३॥ अर्रण तत्र संस्थाप्य ममंथु्मत्रवत्तदा। मंत्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥२४। अरण्यां मथ्यमानायां पुत्रः प्रादूरभूत्तदा। सर्वलक्षणसंपन्नः साक्षान्निमिरिवापरः ॥२५॥ अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः । येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥२६॥ विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये। समुद्दतास्तु राजानो विदेहा इति कीरतिताः ॥२७॥ एवं निमिसुतो राजा प्रथतो जनकोऽभवत्। नगरी निर्मिता तेन गंगातीरे मनोहरा ॥२८। मिथिलेति सुविख्याता गोपुराट्टालसंगुता । धनधान्यसमायुक्ता हद्टशालाविराजिता ॥२९॥ वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा । विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥३०॥ एतत्ते कथितं राजन्निमेराख्यानमुत्तमम्। शापाद्यस्य विदेहत्वं तरिस्तरादुदितं मया ॥३१॥
Page 384
३८४ श्रीम द्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १५ राजोवाच भगवन्भवता प्रोक्तं निमिशापस्य कारणम् । श्रुत्वा संदेहमापन्नं मनो मेऽतीव चञ्चलम् ॥३२॥ वसिष्ठो ब्राह्मणश्रेष्ठो राज्ञश्रैव पुरोहितः । पुत्रः पङ्गजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥३३॥ गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा। यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ।३४॥ ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसंभवः । क्रोधस्य वशमापन्नः शप्तवान्ब्राह्मण गुरुम् ॥३५॥ व्यास उवाच क्षमाऽतिदुर्लभा राजन्प्राणिभिरजितात्मभिः। क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥३६॥ सर्वसंगपरित्यागी मुनिर्भवतु तापसः । निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥३७॥ कामः क्रोधस्तथा लोभो ह्यहंकारश्चतुर्थकः। दुर्ज्ेया देहमध्यस्था रिपवस्तेन सर्वथा ॥३८॥ न भूतपूर्व: संसारे न चैव वर्ततेऽधुना। भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ।३९। न स्वर्गे न च भूलोके ब्रह्मलोके हरे: पदे। कैलासे नेदृशः कश्रिद्यो जयेत रिपूनिमान् ॥४०॥ मुनयो ब्रह्मपुत्राश्र तथाऽन्ये तापसोत्तमाः । तेऽपि गुणत्रयाविद्धाः कि पुनर्मानवा भुवि ॥४१॥ कपिलः सांख्यवेत्ता च योगाभ्यासरतः शुचिः । तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥४२॥ तस्माद्राजन्नहंकारात्संजातं भुवनत्रयम् । कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत्।४३।। ब्रह्मा गुणत्रयाविष्टो विष्णुश्रवाथ शंकरः । प्रभवंति शरीरेषु तेषां भावाः पृथवपृथक्॥४४॥ मानवानां च का वार्ता सत्त्वकांतव्यवस्थितौ। गुणानां संकरो राजन्सर्वत्र समवस्थितः ॥४५॥ कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्रजसः किल । कदाचित्तमसो वृद्धिः समभावः कदाचन ॥४६।। निर्गुण: परमात्माऽसो निर्लेपः परमोऽव्ययः । अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥४७॥ तर्थब परना शक्तिनिर्गुणा ब्रह्मसंस्थिता। दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यबस्थितिः ॥४८।। परमात्मनस्तथा शक्तस्तयोरैक्यं सदैव हि। अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥४९॥ तजज्ञानादेव मोक्ष: स्यादिति वेदांतर्डडिडिमः । यो वेदस विमुक्तोऽस्मिन्संसारे त्रिगणात्मके।।५०।। ज्ञानं तु द्विबिधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम्। वेदशास्त्रार्थविज्ञानात्तद्धवेद्युद्ियोगतः ।।५१॥ विकल्पास्तत्र बहबो भवंति मतिकल्पिताः । "कुतर्ककल्पिताः केचित्तुतर्कंकल्पिताः परे॥ वितर्केविभ्रमोत्पत्तिर विभ्रमाद्तुद्धिभ्रंशता । बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः" ।१।। अनुभवास्यं द्वितीयं तु ज्ञानं तद्दुर्लभं नृप ।।५२।।
तस्मान्नानुभवज्ञानं तत्तदा प्राप्यते तस्य वेत्तुः संगो यदा भवेत्! शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥५३॥ संभवत्यतिमानुषम् । अंतर्गतं तमरछेत्तु शाब्दबोधो हि न क्षमः ।५४। यथा न नश्यति तमः कृतया दीपबार्तयां। तत्कर्म यन्न बंधाय सा बिद्या या विमुक्तये ।५५॥ आयासायापरं कर्म विद्याइन्या शिल्पनैपुणम् । शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥५६।।
Page 385
२५ श्रीमद्ेवीमागतते महापुराणे षष्ठस्कन्धे अध्याय: १६ ३८५ संतोषश्चेति विद्याया: परिपाकोज्ज्वलं फलम्। विद्यया तपसा वाडफि योगाभ्यासेन भपते ॥५७॥ विना कामादिशत्रगां नैव नाशः कदाचन। "मनस्तु चंचलं राजन्स्वभावादतिदुर्ग्रहम्। तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये ॥१॥" कामक्रोधादयो भावाश्ित्तजाः परिकीर्तिताः ।५८।। ते तदा न भवन्त्येव यदा वै निर्जितं मनः। वस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ।५९॥। यथा ययातिना पूर्व कृता शुक्रे कृतागसि। भृगुपुत्रेण शप्ोऽपि ययातिर्नृपसत्तमः ॥६०॥ न शशाप मु्नि क्रोधाज्जरां राजा गृहोल्वान् । कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥६१।। स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते। हैहया भार्गवान्पूर्व धनलोभात्पुरोहितान् ॥६२॥ श्राह्मणान्मूलतः सर्वाश्रिच्छिदुः क्रोधमूच्छिताः । पातकं पृष्ठतः कृत्या ब्रह्महत्यासमुद्धवम् ॥६३॥ इति श्रीदेवीभागवते महापुराणे पष्ठस्कन्धे पञमदशोऽध्यायः॥ १५॥ अथ पोडशोऽध्यायः जनमेजय उवाच कुले कस्य समुत्पन्नाः क्षत्रिया हैहयाश्र ते। ब्रह्महत्यामनादृत्य निजघ्नुर्भार्गवांश्र ये ॥१॥' बरस्य कारणं तेषां कि मे बूहि पितामह। निमित्तेन विना क्रोधं कथं कुर्वति सत्तमाः ॥२॥ बैरं पुरोहितैः साघं कस्मात्तेषामजायत। नाल्पहेतोहिं तर्द्वरं क्षत्रियाणां भविष्यति ॥३॥ अन्यथा ब्राह्मणान्यूज्यान्करम जघ्नुरनागसः । बाहुजा बलवन्तोऽपि पापभीताः कथं न ते ॥४॥ स्वल्पेऽपराधे को हन्याद्वाडवान्क्षत्रियर्षभः। संदेहो मे मुनिश्रेष्ट कारणं वक्तुमर्हसि ॥५॥ सूत उवाच इति पृष्टस्तदा तेन राजा सत्यवतीसुतः। उवाच परमप्रीतः कथा संस्मृत्य चेतसा ॥६॥ व्यास उवाच शृणु पारीक्षिते वार्ता क्षत्रियाणां पुरातनीम् । आश्रर्यकारिणीं सम्यग्विदितां का पुरा मया॥७॥ कार्तवीर्येति नाम्नाऽभूद्धहयः पृथिवीपतिः । सहस्रबाहुर्बलवानर्जुनो धर्मतत्परः ॥८।। दत्तात्रेयस्य शिष्योऽभूदवतारो हरेरिव। सिद्धः सर्वार्थदः शाक्तो भृगुणां याज्य एव सः॥।९।। यज्वा परमधर्मष्टः सदादानपरायणः । ददौवित्तं भृगुभ्योऽसौ कृत्वा यज्ञाननेकशः ॥१०॥ धनिनस्ते द्रिजा जाता भृगवो नृप दानतः । हयरत्नसमृद्धधाढयाः सञ्जाताः प्रथिता भुवि ११॥ स्वर्याते नृपशार्दूले कारतवीर्यार्जुने पुनः। हैहया निर्धना जाताः कालेन महता नृप ।१२।
Page 386
३८६ श्रीमदेवीभागत्रते महापुराणे षडस्कन्धे अध्याय: १६ धनकायं समुत्पन्नं हैहयानां कदाचन । याचिष्णवोऽभिजगमुस्तान्भुगूस्ते हैहया नृप ।१३।। विनयं क्षत्रियाः कृत्वाऽप्ययाचंत धनं बहु। न ददुस्तेऽतिलोभार्ता नास्ति नास्तीतिबादिनः १४॥ भूमो च निदधुः केचिद्भृगवो धनमुत्तमम् । ददुः केचिद्द्विजातिभ्यो श्ञात्वा क्षत्रियतो भयम् ॥ कृत्वा स्थानांतरे द्रव्यं ब्राह्मणा भयविह्वलाः । त्यक्त्वाऽऽश्रमान्ययुः सर्बे भृगवस्तृष्णयाऽन्विताः ॥ याज्यांश्र दुःखितान्दृष्टा न ददुर्लोभमोहिताः । पलायित्वा गताः सर्वे गिरिदुर्गानुपाश्रिताः॥१७॥ ततस्ते हैहयास्तात दुःखिताः कार्यगोरवात्। भृगूणामाश्रमाअ्ग्मुर्द्रव्यार्थं क्षत्रियर्षभाः ॥१८॥ भृगूंस्तु निर्गतान्वीक्ष्य शून्यांस्त्यकत्वा गृहानथ। चखनुर्भूतलं तत्र द्रव्यार्थं हैहया भृशम् ॥१९॥ खनताऽधिगतं वित्तं केनचिद्भृगुवेश्मनि। ददृशुः क्षत्रियाः सर्वे तद्वितं श्रमकर्शिताः ॥२०॥ यत्र तत्र समुत्पन्नं भूरि द्रव्यं महीतलात् । तदा ते पारश्वभागस्थब्राह्मणानां गृहाण्यपि ॥२१॥ निरभिद्य हैहया द्रव्यं ददृशुर्धनल्लिप्सया। ब्राह्मणाश्रुक्रुशुः सर्वे भीताश्च शरणं गताः ॥२२।। अतिचिन्वत्सु विप्राणां भवनान्निःसृतं बहु। निजघ्नुस्ताञ्छरैः कोपाद्वाडवाञछरणागतान् २३॥। ययुस्ते गिरिदुर्गांश्र यत्र वै भृगवः स्थिताः । आगर्भादनुकृंतंतश्चेरुश्रव महीमिमाम् ॥२४॥ प्राप्तान्प्राप्तान्भृगून्सर्वान्निघ्नुर्निशितैः शरैः। आबालवृद्धानपरानवमन्य च पातकम्॥२५॥ एवमुत्पाटयमानेषु भार्गवेषु यतस्ततः। हन्युर्गभांश्च नारीणां गृहोत्वा हैहया भृशम् २६॥ रुरुदुस्ताः स्त्रियः कामं कुरर्य इव दुःखिताः । गर्भाश्च कृंतिता यासां क्षत्रियैः पापनिश्चयैः ॥२७॥ अन्येऽप्याहुश्च तान्दृप्तान्मुनयस्तीर्थवासिनः । मुंचंतुंक्षत्रियाः क्रोधं ब्राह्मणेषु भयावहम् ॥२८॥ अयुक्तमेतदारब्धं भर्वा्द्ग: कर्म गहितम्। यद्गर्भान्भृगुपत्नीनां निहन्युः क्षत्रियर्षभाः ॥२९॥ अत्युग्रपुण्यपापानामिहैव फलमाप्नुयात् । तस्माज्जुगुप्सितं कर्म त्वक्त्यं भूतिमिच्छता॥३०॥ तानाहुहैहयाः क्रद्धा मुनीनथ दयापरान् । भवंतः साधवः सर्वे नार्मनाः पापकर्मणाम् ॥३१॥ एभिहृतं धनं सर्वं पूर्वजानां महात्मनाम्। वंचयित्वा छलाभिज्ञैर्मार्गे पाटच्चरैरिव ।३२॥ एते प्रतारका दंभास्तादृशा बकवृत्तयः । उत्पन्ने च महाकार्ये प्रार्थिता विनयेन ते ॥३३॥ न ददुः प्रार्थितं विप्राः पादवृद्धयाऽपि याचिताः । नास्तीतिवादिनः स्तब्धा दुःखितान् वीक्ष्य याजकान्॥३४।। धनं प्राप्तं कार्तवीर्याद्रक्षितं केन हेतुना। न कृताः करतवः कि तैर्दानं चार्यिषु भूरिशः॥३५॥ न संचितव्यं विप्रस्तु धनं क्वापि कदाचन । यष्टव्यं विधिवद्देयं भोक्तव्यं च यथासुखम् ॥३६॥। द्रव्ये सोरभयं प्रोक्तं तथा राजभयं द्विजाः । वह्लर्भयं महाघोरं तथा धूर्तभयं महत् ॥३७॥ येन केनाप्युपायेन धनं त्यजति रक्षकम्। अथवाऽसी मृतौ याति द्रव्यं त्यक्त्वा ह्यसद्गतिम् ॥ पादवृद्धया तथास्माभि: प्रार्थितं विनयान्वितैः । तथापि लोभसंदिग्धैर्न दत्तं नः पुरोहितैः ॥३९॥
Page 387
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १७ ३८७ दानं भोगस्तथा नाशो घनस्य गतिरीदृशी। दानभोगो कृतीनां च नाश: पापात्मनां किल ॥४०।। न दाता न च यो भोक्ता कृपणो गुप्तितत्परः । राज्ञाऽसौ सर्वथा दंडयो वंचको दुःखभाङ्नर:। तस्माद्वयं गुरूनेतान्वंचकान्ब्रह्मणाधमान् । हंतुं समुद्यताः सर्वे न क्रोद्व्यं महात्मभिः ॥४२॥ . व्यास उवाच इत्युक्त्वा हेतुमद्वाक्यं तानाश्वास्य मुनोनथ। विचेरुश्च विचिन्वाना भृगुदाराननेकरः॥४३।। भयार्ता भृगुपत्न्यस्तु. हिनवंतं धराधरम्। प्रपेदिरे रुदंत्यश्च वेपमाना: कृशा भृशम् ॥४४॥I एवं ते हैहयैविप्राः पीडिता धनकामुकैः। निहताश्च यथाकामं संरब्धः पापकर्मभिः ॥४५॥ लोभ एव मनुष्याणां देहसंस्थो महारिपुः। सर्वदुःखाकरः प्रोक्तो दुःखदः प्राणनाशकः।४६॥ सर्वपापस्य मूलं हि सर्वदा तृष्णयान्वितः । विरोधकृत्त्रिवर्णानां सर्वा्तेः कारणं तथा ॥४७॥ लोभात्त्यजंति धर्मं वै कुलध्मं तर्थव हि। भातरं भ्रातरं हंति पितरं बांधवं तथा॥४८। गुरुं मित्रं तथा भार्यां पुत्रं ब भगिनीं तथा। लोभाविष्टोन कि कुर्यादकृत्यं पापमोहितः ।४९।। क्रोधात्कामादहंकाराल्लोभ एव महारिपुः। प्राणांस्त्बेजति लोभेन कि पुनः स्यादनावृतम् ॥ पूर्वजास्ते महाराज धर्मज्ञाः सत्पथे स्थिताः । पांडवाः कोरवाश्रव लोभेन निधनं गताः ॥५१॥ यत्र भीष्मश्च द्रोणश्च कृपः कर्णश्र बाह्निकः । भीमसेनो तथापि युद्धमत्युग्रं कृतं तैश्र परस्परम्। कुटुम्बकदनं भूरि कृतं लोभातुरैरिह ॥५३॥ हतो द्रोणो हतो भोष्मस्त्थव पांडवात्मजाः । भ्रातरः पितरः पुत्राः सर्वे वै निहता रणे ॥५४॥ तस्माल्लोभाभिभूतस्तु कि न कुर्यान्नर: किल। हैहयैनिहताः सर्वे भृगवः पापबुद्धिभिः ॥५५॥ इति श्रीदेवीभागवते महापुराणे षप्ठस्कन्धे षोडशोऽध्यायः।। १६॥ अथ सप्तदशोऽध्यायः जनमेजय उवाच कथं ताश्र स्त्रियः सर्वा भृगूणां दुःखसागरात्। मुक्तो वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥१॥ हैहयैः कि कृतं कार्य हत्वा तान्ब्राह्मणानपि। क्षत्रियैलोभसंयुक्त: पापाचारैर्वदस्व तत् ।।२।। न तृप्तिरस्ति मे ब्रह्मन्पिबतत्ते कथामृतम्। पावनं शुभदं नृणां परलोके फलप्रदम् ॥३॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् । यया स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात्॥४॥ भृगुपत्न्यो यदा राजन्हिमवंतं गिरिं गताः । भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥५॥ गोरीं तत्र सुसंस्थाप्य मृन्मयों सरितस्तटे। उपोषणपराश्रकुनिश्रयं मरणं प्रति ॥६॥।
Page 388
३८८ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १७ र्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः । युष्मासु मध्ये कस्याश्चिद्दबिता चोरुजः पुमान् ॥ मदंशशक्तिसंभिन्नः स वः कार्यं विधास्यति । इत्यादिश्य परांबां सा पश्चादंतहिताऽभवत् ।।८।। जागृतास्तु ततः सर्वा मुदमापुर्वरांगनाः । काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम्॥९। दधार चोरुणैकेन गर्भ सा कुलवृद्धये। पलायनपरा दृश् क्षत्रियैर्ब्रह्मिणी यदा ॥१०॥ विह्वला तेजसा युक्त्ता तदा ते दुद्गुवुभृशम्। गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ।११॥ इति व्रुवंतः संप्राताः कामिनीं खड्गपाणयः । साभयार्ता तु तान्दृष्टा रुरोद समुपागतान् ॥१२॥ गर्भस्य रक्षणार्थ सा चुक्रोशातिभयानुरा। रुदतीं मातरं श्रुन्वा दीनां प्राणविवर्जिताम् ॥१३॥ निराधारां क्रंदमानां क्षत्रियैर्भृशतापिताम्। गृहीनामिव सिंहेन सगर्भा हरिणीं यथा ॥१४॥ साश्रुनेत्रां वेपमानां संक्रुध्य वालकस्तदा। भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥१५॥ मृष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः । दर्शनाद्वालकस्याशु सर्वे जाता विलोचनाः ॥१६॥ अभ्रमुगिरिदुर्गेपु जन्मांधा इव क्षत्रियाः । चितितं मनसा सर्वेः किमेतदिति सांप्रतम् ॥१७॥ सवें चक्षुविहीना यज्जाता: स्मबालदर्शनात्। ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ।।१८।। क्षणाट्टा मोघसंकल्पाः किं करिष्यंति दुःखिताः । इति संचित्य मनसा नेत्रहीना निराश्रयाः ॥१९॥ ब्राह्मणीं शरणं जग्मुहॅहया गतचेतसः । प्रणेमुस्तां भयत्रस्तां कृतांजलिपुटाश्र ते ॥२०॥ ऊचुश्रैनां भयोद्विग्ना दृष्टयर्थ क्षत्रियर्षभाः । प्रसोद सुभगे मातः सेवकास्ते बयं किल ॥२१॥ कृतापराघा रंभोरु क्षत्रियाः पापवृद्धयः । दर्शनात्तव तन्वंगि जाताः सर्वे विलोचनाः ॥२२॥ मुखं ते नैव पश्यामो जन्मांधा इव भमिनि। अद्भुतंते तपोत्रीर्य कि कुर्मः पापकारिणः ॥२३॥ शरणं ते प्रपन्नाः स्मो देहि चक्षूषि मानदे । अन्वत्वं मरणादुग्रं कृपां कतुं त्वमर्हसि ॥२४॥ पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु। उपरम्य च गच्छेम सहिता: पापकर्मणः ।२५॥ अतः परं न कर्तव्यमीदृशं कर्म कहिंचित् । भार्गवाणां तुसर्वेषां सेवकाः स्मोवयं किल ॥२६॥ मज्ञानाद्यत्कृतं पापं क्षंतव्यं तत्त्वयाऽधुना। वैरं नातःपरं क्वापि भृगुभि: क्षत्रियैः सह ॥२७॥ कर्तव्यं शपर्थः सम्यग्वतितत्र्यं तु हैहयैः । सपुत्रा भव सुश्रोणि प्रणताःस्मोवयं च ते ॥२८॥ प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन। व्यास उवाच इति तेपां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥२९। तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् । गृहोता न मया दृष्टिर्युष्माकंक्षत्रियाः किल ॥३०॥ नाहूं रुषान्विता सत्यं कारणं शृणुताद्य यत् । अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥३१॥ पक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता । स्ववंधृन्निह ताञ्ज्ञात्वा गर्भस्थानपि क्षत्रियैः ३२॥।
1
Page 389
श्रीमद्ेवीभागवते महापुराणे पष्ठस्कन्धे अध्यायः १ मनागसो धर्मपरांस्तापसान्धनकाम्यया। गर्भानपि यदा यूयं भृगून्निघ्नंस्तु पुत्रकाः ॥३३।। तदम्यमूरुणा गर्भो मया बर्षशतं धृतः । पडंगश्चाखिलो वेदो गृहीतोऽनेन चांजसा ॥३४॥ गर्भस्थेनापि बालेन भृगुवंशविवृद्धये। सोऽपि पितृवधान्नूनं क्रोधेद्धो, हंतुमिच्छति ॥३५॥ भगवत्याः प्रसादेन जातोऽयं मम बालकः । तेजसा यस्य दिव्येन चक्षूंषि मुषितानि च ॥३६॥ तस्मादोवं सुतं मेऽद्य याचध्वं विनयान्विताः । प्रणिपातेन तुष्टोऽसौ दृष्टि वः प्रतिमोक्ष्यति ॥३७॥ व्यास उवाच तच्त्रत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम्। प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥३८॥ स संतुष्टो बभूवाथ तानुवाच विचक्षुपः । गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥३९॥ भवश्यंभाविभावास्ते भवंति देवनिर्मिताः । नात्र शोकस्तु कर्तव्यः पुरुपेण विजानता ॥४०॥ पूर्वबद्दृषयः सर्वे प्राप्तुवंतु यथासुखम्। व्रजंतु विगतक्ोधा भवनानि ययासुखम् ॥४१॥ इति तेन समादिष्टा हहयाः प्राप्तलोचनाः । ओर्वमामंत्र्य जग्मुस्ते सदनानि यथारुचि ॥४२॥ ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता। पालयामास भूपाल तेजस्विनमतंद्रिता ।।४३।। एवं ते कथितं राजन्भृगृणां तु विनाशनम्। लोभाविषेः क्षत्रियैश्च यत्कृतं पातकं किल ॥४४।। जनमेजय उत्राच श्रतं मया महत्कर्म क्षत्रियाणां च दारुणम् । कारणं लोभ एवात्र दुःखदश्रोभयोस्तु सः ॥४५॥ किचित्प्रष्टुमिहेच्छामि संशयं. वासवीतुत। हैहयास्ते कथं नाम्ना ख्याता भुवि नृपातमजाः ॥४६॥ यदोस्तु यादवाः कामं भरतान्द्गारतास्तया। हैहयः कोऽपि राजाऽभूत्तेषां वंशे प्रनिष्टितः ।४७।। तदहं श्रोतुमिच्छामि कारणं कर्णानिधे। हैहयास्ते कथं जाताःक्षत्रियाः केन कर्मणा ॥४८।। व्यास उवाच हैहयानां समुत्पात्ति शृणु नूत सविस्तराम्। पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ।४९।। कस्मिश्चित्समये भूप सूर्यपुत्रः सुशोभनः । रेवंतेति च विख्मातो रूपवानमितप्रभः ॥५०॥ उच्च:श्रवसमारुह्य हयरत्नं मनोहरम्। जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ।५१॥ भगवद्दर्शनाकांक्षी हयारूढो यदागतः । हयस्थस्तु तदा दृष्टो लक्ष्म्याइसी रविनंदनः ।५२।। रमा वोक्ष्य हयं दिव्यं भ्रातरं सागरोन्द्रवम्। रूपेण विस्मिता तस्य तस्यौ स्तंभितलोचना॥५३॥ भगवानपि तं दृष्टा हयारूढं मनोहरम्। आगच्छंतं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥५४॥ कोऽयमायाति चार्वङ्गि हयारूढ इवापरः। स्मरतेजस्तनुः कान्ते मोहयन् भुवनत्रयम् ॥५५॥ प्रेक्षमाणा तदा लक्ष्मोस्तच्यिला दैवयोगतः! नोवाच वचनं किचित्पृष्टाऽपि य पुनः पुनः ॥५६॥
Page 390
३९० श्रीमद्देवीभागवते महापुराणे पष्ठस्कन्धे अध्याय: १८ व्यास उवाच अश्वासक्तमति वीक्ष्य कामिनीमतिमोहिताम्। पश्यंतीं परमप्रेम्णा चंचलाक्षी च चंचलाम् ॥५७॥ तामाह भगवान्क्रुद्धः किं पश्यसि सुलोचने । मोहिता च हरिं दृष्टा पृष्टा नैवाभिभाषसे ॥५८॥ स्वत्र रमसे यस्माद्रमा तस्मान्द्गविष्यसि। चंचलत्वाच्चलेत्येवं सर्वधैव न संशयः ॥५९॥ प्राकृता च यथा नारी नूनं भवति चंचला। तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥६॥ त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता। वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥६१॥ इति शप्ा रमा देवी हरिणा दैवयोगतः । रुरोद वेपमाना सा भयभीताऽतिदुःखिता ॥६२॥ तमुबाच रमानाथं शंकिता चारुहासिनी। प्रणम्य शिरसा देवं स्वपति विनयान्विता ॥६३॥ देवदेव जगन्नाथ करुणाकर केशव। स्वल्पेऽपराधे गोविंद कस्माच्छापं ददासि मे ६४॥ न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो। क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः॥६५॥ बञ्तपातस्तु शत्रो वे कर्तव्यो न सुहज्जने । रादाऽहं वरयोग्या ते शापयोग्या कथं कृता ॥६६।। प्राणांस्त्यक्ष्यामि गोविंद पश्यतोऽद्य तवाग्रतः । कथं जीवे त्वया हीना बिरहानलतापिता ॥६७॥ प्रसादं कुरु देवेश शापादस्मात्सुदारुणात्। कदा मुक्त्ता समीपं ते प्राप्नोमि सुखदं विभो॥६८॥ हरिरुवाच यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये। तदा मां प्राप्य तन्वंगि सुखिता त्वं भविष्यसि६९॥। इति श्रीमद्देवीभागवते महापुराणे षष्ठस्कं्धे सपदशोऽध्यायः॥१७॥
जनमेजय उवाप इति शपा भगवता सिंधुजा कोपयोगतः । कबं सा वडबा जाता रेवंतेन च किं कृतम् ॥१। कस्मिन्देशेऽव्धिजा देवी वडवारूपधारिणी। संस्थितकाकिनी बाला परोषित्पतिका यथा ॥२॥ कालं कियंतमायुष्मन्वियुक्ता पतिना रमा। संस्थिता विजनेऽरण्ये कि कृतं च तया पुनः ॥३। समागमं कदा प्राप्ता वासुदेवस्य सिंधुजा। पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥४॥ एतद्ृत्तांतमार्येश कथयस्व सविस्तरम्। श्रोतुकामोऽस्मि विप्रेद्र कथाख्यानमनुत्तमम् ॥५॥ सूत उवाच इति पृष्टस्तदा व्यासः परीक्षितनयेन वै। कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥६॥ व्यास उवाच शृणु राजन्प्रबक्ष्यामि कथां पौराणिकीं शुभाम्। पावनीं सुखदां कर्णे विशदाक्षरसंयुताम्।७॥
Page 391
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: रेवंतस्तु रमां दृष्ठा शप्तां देवेन कामिनीम् । भयतः प्रययां दूरात्प्रणम्य जगतां पतिम् ॥८। पित्रुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः । निवेदयामास कथां भास्कराय स शापजाम् ॥९॥ दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् । आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥१०॥ सूर्यपतन्या तपस्तप्ं यत्र पूर्व सुदारुणम् । तत्रव सा ययावाशु वडवारूपधारिणी ॥११॥ कालिंदीतमसासंगे सुपर्णाक्षस्य चोत्तरे। सर्वकामप्रदे स्थाने सुरम्यवनमंडिते ॥१२॥ तत्न स्थिता महादेवं शंकरं वांछितप्रदम् । दध्यो चैकेन मनसा शूलिनं चंद्रशेखरम् ॥१३॥ पञ्ञाननं दशभुजं गौरीदेहार्धधारिणम्। कर्पूरगौरदेहाभं नीलकंठं त्रिलोचनम् ॥१४॥ व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम्। कपालमालाकलितं नागयज्ञोपवीतिनम् ॥१५॥ सागरस्य सुता कृत्वा हयीरूपं मनोहरम्। तस्मिस्तीर्थे रमादेवो चकार दुश्चरं तपः ॥१६॥ ध्यायमाना परं देवं वैराग्यं समुपाश्रिता। दिव्यं वर्षसहस्त्रं तु गतं तत्र महीपते ।।१७।। ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः । प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥१८॥ तत्रत्य सगण: शम्भुस्त्रामाह हरिवल्लभाम्। तपस्यंतीं महाभागामश्चिनीरूपधारिणीम् ॥१९। कि तपस्यसि कल्याणि जगन्मातर्वदस्व मे। सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥२०॥ हरि त्यक्त्वाऽद्य मां कस्मात्स्तोषि देवि जगत्पतिम्। वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥२१॥ वेदोक्तं वचनं कार्यं नारीणां देवता पतिः। नान्यस्मिन्सर्वथा भावः कर्तव्यः कहिचित्क्वचित् ॥ पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः । यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥२३॥ नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि। तं त्यक्त्वा देवदेवेशं कि मां ध्यायसि सिंधुजे॥२४॥ लक्ष्मीरुवाच आशुतोष मेहशान शप्ताऽहं पतिना शिव। मां समुदर देवेश शापादस्माद्दयानिघे ॥२५॥ तदोक्तं हरिणा शंभो शापानुग्रहकारणम्। विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥२६।। यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् । भविष्यति च वैकुंठवासस्ते कमलालये ॥२७॥ इत्युक्ताऽहं तपस्तपुमागताऽस्मि तपोवने। आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥२८। पतिसंगं विना पुत्रं देवदेव लभे कथम् । स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् २९। वरं मे देहि देवेश यदि तुष्टोऽसि शंकर। तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥३०॥ मयैतद्विरिजाकांत ज्ञातं पत्युः पुरो हर। यस्त्वं सोऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् । अन्यथा मम दोषस्त्वामाश्रयंत्या भवेच्छिव ॥३२॥ शिव उत्राच कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि। ऐक्यभावो हरेनूनं सत्यं मे वद सिंघुजे ॥३३॥
Page 392
३९२ श्रीमदेवीमागवते महापुराणे पडस्कन्धे अध्याय: १८ एकत्वं च न जानंति देवाश्र मुनयस्तथा। ज्ञानिनो वेदतत्वज्ञाः कुतर्कोपहताः किल ॥३४॥ मद्भक्ता वासुदेवस्य निंदका बहवस्तथा। विष्णुभक्तास्तु बहवो मम निंदापरायणाः ॥३५॥ भवंति कालभेदेन कली देवि विशेषतः । कथ जातस्त्वया भद्रे दुर्ज्ञेयो ह्यक्कतात्मभिः ॥३६॥ सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः । व्यास उवाच
विज्ञातं इति सा शंभुना पृष्टा तुष्टेन हरिवल्लभा ।३७।। वृत्तांतं तस्य प्रवक्तुमुपचक्रमे। शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥३८। लक्ष्मीरुवाच एकदा देवदेवेश विष्णुरध्यानपरो रहः । दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥३९॥ तदाऽहं विस्मिता देवं तमपृच्छं पर्ति किल। प्रबुद्धं सुप्रसन्नं थ ज्ञात्वा. विनयपूर्वकम् ॥४०॥ देवदेव जगन्नाथ यदाऽहं निर्गताऽर्णवात् । मथ्यमानात्सुरैदत्यैः सर्वेब्रह्मादिभिः प्रभो॥४१॥ वीक्षिताश्च मया सर्वे पतिकामनया तदा। वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्रयात् ॥४२॥ त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम । प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥४३।। विष्णुरुवाच शृणु कांते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् । आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥४४। कदाचिद्ेवदेवो मां ध्यायत्यमितविक्रमः । ध्यायाम्यहं च देवेशं शंकरं त्रिपुरांतकम् ॥४५॥ शिवस्याहं प्रियः प्राणः शंकरस्तु तथा मम। उभयोरंतरं नास्ति मियः संसक्तचेतसोः ॥४६।। नरकं यान्ति ते नूनं ये द्विषंति महेश्वरम्। भक्ता मम विशालाक्षि सत्यमेतद्व्रमीम्यहम् ४७॥ इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना। एकांते किल पृष्टेन मया घेलसुताप्रिय ॥४८।। तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यह्म्। तथा कुरु महेशान यथा मे प्रियसंगमः ॥४९॥ व्यास उवाप इति श्रियो वच: श्रुत्वा प्रत्युवाच महेश्वरः । तामाश्वास्य प्रियैर्व्यिर्यथार्थ वाक्यकोविदः ॥५०।। स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव। समागमस्ते पतिना भविष्यति न संसयः ॥५१।। अत्रंव हयरूपेण भगवाअ्जगदीश्वरः। आगमिष्यति ते कामं पूर्णं कतुं मयेरितः ॥५२॥ तथाऽहं प्रेरयिष्यामि तं देवं मधुसूदनम्। यथाऽसी हयरूपेण त्वामेष्यति मदातुरः ॥५३॥ पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितो । भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥५४॥ सुतं प्राप्य महाभागे त्वं तेन पतिना सह। गंतासि देवि बैकुण्ठं प्रिया तस्य भविष्यसि ५५॥ एकवीरेति नाम्नाऽसौ ख्याति यास्यति ते सुतः । तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥५६॥
Page 393
श्रीमरेबीमागवते महापुराणे पष्ठस्कन्धे अध्याय: १९ ३९३ परन्तु विस्मृताऽसि त्वं हृदिस्यां परमेश्वरीम्। मदांधा मत्तचित्ता च तेन ते फलमीदृशम् ॥५७॥ अतस्तद्दोषशांत्यर्थं हृदिस्थां परदेवताम्। शरणं याहि सर्वात्मभावेन जलधेः सुते ॥५८॥ अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे। व्यास उवाच इति दत्त्वा बरं देव्यै भगवाञ्छलजापति: ॥५९।। अंतर्धानं गतः साक्षादुमया सहितः शिवः । सापि तत्रव चार्वङ्गी संस्थिता कमलासना ॥६०॥ ध्यायंती चरणाम्भोजं देव्या: परमशोभनम्। देबासुरशिरोरत्ननिधृष्टनखमंडलम् ।६१॥ प्रेमगद्रदया बाचा तुषटाव च मुहर्मुहुः। प्रतीक्षमाणा भतारं हयरूपधरं हरिम् ॥६२॥ इति श्रीमहेवीमागवते महापुराणे षष्ठस्कन्धेऽष्टादशोऽध्यायः ॥३८॥ अथेकोन विशोऽध्यायः व्यास उवाच वस्ये दरचा बरं शंभु: कैलासं त्वरितो ययो। रम्यं देवगणर्जुष्टमप्सरोभिश्च मंडितम् ॥१॥ तत्र गस्वा चितरूपं गणं कार्यविशारदम्। प्रेषयामास वैकुठे लक्ष्मोकार्यार्थसिद्धये ॥२॥ शिव उवाच चित्ररूष हरि गत्वा बरहि त्वं वचनान्मम । यथाऽसौ दुःखितां पत्नीं विशोकां च करिष्यति॥३॥ इत्युक्तश्रित्ररूपोऽय निर्जगाम त्वरान्वितः । बैकुण्ठं परमं स्थानं वैष्णवैश्च गणैर्वृतम् ॥४। नाना द्रुमगणाकीणं वापीशतबिराजितम्। संवृतं हंसकारंडमयूरशुककोकिलैः ॥५॥ उच्च प्रासादस युक्त पताकाभिरलंकृतम्। नृत्यगीतकलापूर्ण मन्दारद्रुमसंयुतम् ॥६।। बकुलाशोकतिलकचम्पकालिविमण्डितम् । कूजितैविहगानां तु कर्णाह्मादकरर्युतम् ॥७॥ संवीक्ष्य भवनं विष्णोर्द्वाःस्थो प्राह प्रणम्य च। जयविजयनामानौ वेत्रपाणी स्थितावुभी ॥८॥ चित्ररूप उवाच भो निवेदयतं शीघ्रं हरये परमात्मने। दूतं प्राप्तं हरस्यात्र प्रेरित शूलपाणिना ॥९॥ तच्छ्रत्वा वचनं तस्य जयः परमवुद्धिमान् । गत्व, हरिं प्रणभ्याह कृतांजलिपुटः पुरः ॥१॥ देवदेव रमाकांत करुणाकर केशव। द्वारि तिष्ठति दूत्तोऽत्र शङ्करस्य समागतः ॥११॥ आज्ञापय प्रवेष्टव्यो न वेति गरुडध्पज। चित्ररूपधरोऽप्यस्ति न जाने कार्यगौरवम् ॥१२॥ इत्यांकर्ष्य हरिः प्राह जयं प्रज्ञातकारणः । प्रवेशयात्र रुद्रस्य भृत्यं समयसंस्थितम् ॥१३॥ इत्याकर्ण्य जयस्तूर्णं गत्बा तं परमान्दुतम् । एहीत्याकारयामास जयः शंकरसेवकम् ॥१४॥
Page 394
३९४ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १९ प्रवेशितो जयेनाथ चित्ररूपस्तथाकृतिः । प्रणम्य दंडवद्विष्णुं कृतांजलिपुटः स्थितः ॥१५॥ दृष्टा तं विस्मयं प्राप भगवान्गरुडध्वजः । चित्ररूपधरं शंभोः सेवकं विनयान्वितम् ॥१६॥ प्रपच्छ तं स्मितं कृत्वा चित्ररूपं रमापतिः । कुशलं देवदेवस्य सकुटुम्बस्य चानघ ॥१७॥ दूत उवाच कस्मात्त्वं प्रेषितोऽस्यत ब्रूहि कार्य हरस्य किम् । अथवा देवतानां च किंचित्कार्यसमुत्थितम् ॥१८॥। किमज्ञातं तवास्तीह संसारे गरुडध्वज। वर्तमानं त्रिकालज यदहं प्रब्रवीमि बै॥१९॥ प्रेषितोऽस्मि भवेनात्र विज्ञप्ुं त्वां जनार्दन । हरस्य वचनाद्वाकयं प्रब्रवोमि त्वयि प्रभो ॥२०॥ तेनोक्तमेतदवेशो भार्या ते कमलालया। तपस्तपति कालिंदीतमसासङ्गमे विभो ॥२१॥ हयीरूपधरा देवी सर्वार्थसिद्धिदायिनी। ध्यातुं योग्याऽमरगणैर्मानिवैर्यक्षकिन्नरैः ॥२२॥ विना तया नरः कोऽपि सुखभागो भवेन्द्रुवि। तां त्यक्त्बा पुंडरीकाक्ष प्राप्नोषि कि सुखं हरे २३॥ दुर्बलोऽ्पि स्त्रियं पाति निर्धनोऽपि जगत्पते। विनाऽपराधं च विभो कित्यक्ता जगदीश्वरी २४।। दुःखं प्राप्नोति संसारे यस्य भार्या जगद्गुरो। षिक्तस्य जीवितं लोके निंदितं त्वरिमंडले ॥२५॥ सकामा रिपवस्तेऽय्य दृष्टा तां दुःखितां भृशम्। त्वां वियुक्तं च रमया हसिष्यंति दिवानिशम्॥२६॥ रमां रमय देवेश त्वदुत्सङ्गगतां कुरु। सर्वलक्षणसंपन्ना सुशीलां च सुरूपिणीम् ॥२७॥ सुखितो भव तां प्राप्य वल्लभां चारुहासिनीम् । कांताविरहजं दुःखं स्मराम्यहमनातुरः ॥२८॥ मम भार्या मृता विष्णो दक्षयज्ञे सती यदा। तदाऽहं दुःसहं दुःखं भुक्तवानंतुजेक्षण ।२९।। संसारेऽस्मिन्नरः कोऽपि माभून्मत्सदृशोऽपरः । मनसाऽकरवं शोकं तस्या विरहपीडितः ॥३०॥ कालेन महता प्राप्ता मया गिरिसुता पुनः । तपस्तप्त्वातिदुःसाध्यं या दग्धा तु रुषाऽध्वरे॥३१॥ हरे किं सुखमापन्नं त्वया संत्यज्य कामिनीम्। एकाकी तिष्ठता कालं सहस्रवत्सरात्मकम् ॥३२॥। गत्वाश्वास्य महाभागां समानय निजालयम्। माभूत्कोपीऽह संसारे विमुक्तो रमया तया॥३३॥ कृत्वा तुरगरूपं त्वं भजतात्कमलालयाम् । उत्पाद्य पुत्रमायुष्मंस्तामानय शुचिस्मिताम् ॥३४॥ व्यास उवाच हरिराकर्ण्यं तद्वाक्यं चित्ररूपस्य भारत। तथेत्युक्त्वा तु तं दूतं प्रेषयामास शङ्करम् ॥३५॥ गते दूतेऽथ भगवान्वकुण्ठात्कामसंयुतः । जगाम धृत्वा तत्राशु वाजिरूपं मनोहरम् ॥३६॥ यत्र सा वडवारूपं कृत्वा तपति सिंधुजा। विष्णुस्तं देशमासाद्य तामपश्यद्धयों स्थिताम्॥३७॥ साऽपि तं वीक्ष्य गोविन्दं हयरूपधरं पतिम्। ज्ञात्वा वीक्ष्य स्थिता साध्वी विस्मिता साश्रुलोचना।। तस्यास्तु सङ्गमस्तत्र प्रवृतो मन्मथार्तयोः । कालिंदीतमसासंगे पावने लोकविश्रुते ॥३९॥ सगर्भा सा तदा जाता वडवा हरिवल्लभा। सुषुवे सुन्दरं बालं तर्त्रव सा गुणोस्तरम् ॥४०।
Page 395
श्रीमरेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २० ३९५ तामाह भगवान्वाक्यं प्रहस्य समयाश्रितम् । त्यजाद्य वाडवं देहं पूर्वदेहा भवाधुना ।४१।। गमिष्यावः स्ववकुंठमावां कृत्बा निजं वपुः । तिष्ठत्वत्र कुमारोऽयं त्वया जातः सुलोचने ॥४२॥ लक्ष्मीरुवाच स्वदेहसम्भवं पुत्रं कथं हित्वा व्रजाम्यहम् । स्नेहः सुदुस्त्यजः कामं स्वात्मजस्य सुरर्षभ ॥४३॥ का गतिः स्यादमेयात्मन्बालस्यास्य नदीतटे। अनाथस्यासमर्थस्य विजनेऽल्पतनोरिह॥४४॥ अनाश्रयं सुतं त्यक्त्वा कथं गन्तुं मनो मम। समर्थं सदयं स्वामिन्भवेदम्बुजलोचन ॥४५॥ दिम्यदेही ततो जाती लक्ष्मीनारायणावुभो। विमानवरसंविष्टौ स्तूयमानौ सुरैदिवि ॥४६।। गन्तुकामं पति प्राह कमला कमलापतिम्। गृहाणेमं सुतं नाथ नाहं शक्ताऽस्मि हापितुम् ।/४७।। प्राणप्रियोऽस्ति मे पुत्रः कांत्यां त्वत्सदृशः प्रभो। गृहीत्वैनं गमिष्यावो वैकु्ठं मधुसूदन ।४८।। हरिरुवाच मा बिषादं प्रिये कत्तु त्यमर्हसि बरानने। तिष्ठत्वयं सुखेनात्र रक्षा मे विहिता त्विह।।४९। काय किमपि बामोरु बर्सते महदद्दतम् । निभोध कथयाम्यद्य सुतस्यात्र विमोचने ॥५०॥ तुर्वसुर्नाम विस्वाको वमितिनुजो भुवि। हरिवर्मेति पित्राऽस्य कृतं नाम सुबिश्रुतम् ।५१॥ र रमा पुनकमोशय सबस्तपति पाबने। तीर्थे वर्षशतं जातं तस्य वै कुर्वतस्तपः ॥५२॥ उर्वामें सित: पुनो मवाऽयं कमलालये। तत्र गत्वा नृपं सुभ्रु प्रेरयिष्यामि सांप्रतम् ॥५३॥ करमं दास्याभ्यहं पुत्रं पुत्र कामस्य कामिनी। गृहीत्वा स्वगृहं राजा प्रापयिप्यति बालकम् ५४॥ व्यास उवाच इत्याश्ास्य प्रियां पद्यां कृत्या रक्षां च बालके। विमानवरमारुह्य प्रययौ प्रियया सह॥५५॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे एकोनविंशोऽध्यायः।१९॥ अथ विशोऽध्यायः जनमेजय उवाच संशयोऽयं महानत्र जातमात्र: शिशुस्तथा। मुक्तः केन गृहीतोऽसावेकाकी विजने वने ॥१॥ का गतिस्तस्य बालस्य जाता सत्यवतीसुत । व्याघ्रसिंहादिभिहिंस्त्रागृहीतो नातिबालकः ॥२॥ व्यास उवाच लक्ष्मीनारायणो तस्मात्स्थानाच्च चलिती यदा। तदैव तत्र चम्पाख्यः प्राप्तो विद्याधर: किल ॥३॥ विमानवरमारूढः कामिन्या सहितो नृप । मदनालसया कामं क्रीडमानो यदृच्छया ॥४।। बिलोक्य तं शिशुं भूमावेकाकिनमनुत्तमम्। देवपुत्रप्रतीकाशं रममाणं यथासुखम् ।।५।।
Page 396
श्रीमहेतीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २० विमानात्तरसोत्तीर्य चम्पकस्तं शिशुं जवात् । जग्राह च मुदं प्राप निधि प्राप्य यथाऽधनः ॥६॥ गृहीत्वा चम्पकः प्रादादेव्यै तं मदनोपमम्। मदालसायं तं बालं जातमात्रं मनोहरम्।७॥ सा गृहीत्वा शिशुप्रेम्णा सरोमांचा सविस्मया। मुखं चुचुम्व वालस्य कृत्वा तु हृदये भृशम् ।।८।। आलिंगितश्चुंवितश्र तयाऽसी प्रीतिपूर्वकम् । उत्संगे च कृतस्तन्व्या पुत्रभावेन भारत ।।९।। कृत्वांके तो समारूढौ विमानं दम्पती मुदा। पति पप्रच्छ चार्वङ्गी प्रहस्य मदनालसा ॥१०॥ कस्यायं बालक: कांत त्यक्त: केन च कानने। पुत्रोडयं मम देवेन दत्तस्तरयंबकधारिणा ॥११॥ चम्पक उवाच प्रिये गत्वाऽद्य पृच्छेयं शक्रं सर्वज्ञमाशु वै। देवो वा दानवो वापि गन्धर्बो वा शिशुः किल ॥ तेनाज्ञप्तः करिव्यामि पुत्रं प्राप्तं बनादमुम्। अपष्ठा नैव कर्तव्यं कार्य किचिन्मया ध्रुवम् ॥१३॥ इत्युक्त्वा तां गृहीत्वा तं विमानेनाथ चंपकः । ययो शक्रपुरं पूर्णं हर्षेणोत्फुल्ललोचनः ॥१४।। प्रणम्य पादयोः प्रीत्या चंपकस्तु शचीपतिम् । निवेद् बालकं प्राह कृतांजलिपुटः स्थितः ॥१५॥ देवदेव मया लब्धस्तीर्थे परमपावने। कालिंदीतमसासंगे बालकोडयं स्मरप्रभः ॥१६॥ कस्यायं बालकः कांतः कथं त्यक्तः शचीपते। आज्ञा चेतव देवेश कुर्वेऽहं वालकं सुतम् ॥१७॥ अतीव सुन्दरो बाल: प्रियाया वल्लभः सुतः। कृत्रिमस्तु सुतः प्रोक्तो धर्मशास्त्रेषु सर्वथा ॥१८॥ इन्द्र उवाच पुत्रोडयं वासुदेवस्य वाजिरूपघरस्य ह। हैहयोऽयं महाभाग लक्ष्म्या जातः परन्तपः ॥१९॥ उत्पादितो भगवता कार्यार्थं किल बालकः । दातुं नृपतये नूनं ययातितनयाय च ॥२०॥ हरिणा प्रेरितः सोऽय् राजा परमधार्मिकः । आगमिप्यति पुत्रार्थ तीर्थे तस्मिन्मनोरमे ॥२१॥ तावत्वं गच्छ तत्रैव गृहीत्वा वालकं शुभम् । यावन्न याति नृपतिर्गृहीतुं हरिणेरितः ।२२॥ --- गत्वा तत्र विमंचैनं विलम्बं मा कृया वर। अदृष्ठा बालकं राजा दुःखितश्र भविष्यति ॥२३॥ तस्माच्चम्पक मुंचैनं राजा प्राप्नोतु पुत्रकम्। एकवीरेति नाम्नाडयं ख्यातः स्वात्पृथिवीतले २४। व्यास उवाच इति तस्य वच: श्रुत्वा चम्पकस्त्वरयान्वितः । जगाम पुत्रमादाय स्थले तस्मिन्महीपते ॥२५॥ मुमोच बालकं तत्र यत्र पूर्व स्थितो ह्यभूत् । आरुह्य स्व्रविमानं तु ययो स्वाभ्ममंडलम् ॥२६।। तदैव कमलाकांतो लक्ष्म्या सह जगद्गुरुः । विमानवरमारूढो जगाम नृपति प्रति ॥२७॥ दृष्टस्तदा तेन नृपेण विष्णुः समुत्तरस्तत्र विमानमुखयात्। जहर्ष राजा हरिदर्शनेन पपात भूमौ ललु दण्डवच्च ।।२८।। उत्तिष्ठ वत्सेति हरिः पतन्तमाचासयद्धूमिगतं स्वभक्त्तम्।
Page 397
श्रोमदेवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: २० १९७
सोऽप्युत्सुको वासुदेवं पुरःस्थं तुष्टाव भक्तया मुखरीकृतोऽथ ॥२९॥ देवाधिदेवाखिललोकनाथ कृपानिधे लोकगुरो रमेश। मंदस्य मे ते किल दर्शनं यत्सुदुर्लभं योगिजनैरलभ्यम् ॥३०॥ ये निःस्पृहास्ते विषयैरपेतास्तेषां त्वदीयं खलु दर्शनं स्यात् । आशापरोऽहं भगवन्ननंत योग्यो न ते दर्शने देवदेव ।३१॥ इति स्तुनस्तेन नृपेण विष्णुस्तमाह वाक्येन सुधामयेन। वृणीप्व राजन्मनसेप्सिजं ते ददामि तुषस्तपसा तवेति ॥३२॥ ततो तृपस्तं प्रणित्पत्य पादयो: प्रोवाच विष्णुं परतः स्थितं च। तपस्तु तप्तं हि मया सुतार्थं पुत्रं ददस्वात्मसमं मुरारे ।।३३॥ ध्रुत्वा नृपप्रार्थितमादिदेवस्तमाह राजानममोघवाक्यम् । ययातिसूनो व्रज तेऽन्र तीर्थे कलिंदकन्यातमसाप्रसंगे ॥३४॥ मयाऽद्य पुत्रस्तु यथेप्सितस्ते तत्रव मुक्तोऽस्त्यमितप्रभावः । लक्ष्म्याः प्रसूतो मम वीर्यजश्च कृतस्तवार्थेऽथ गृहाण राजन् ॥३५॥ श्रुत्वा हरेर्वाक्यमतीव मृष्टं संतुष्टचित्तः प्रबभूव राजा। हरिस्तु द्त्त्वेति वरं जगाम बैकुंठलोकं रमया युतश्च ॥३६॥ गते हरौ सोऽथ ययातिसूनुर्ययावनुद्धातरथेन राजा। प्रेमान्वितस्तत्र सुतोऽस्ति यत्र बचो निशम्येति जनार्दनस्य ॥३७।। स तत्र गत्वाऽतिमनोहर तं ददर्श बालं भुवि खेलमानम्। मुखे निवेश्यककरेण कृत्वा श्लक्ष्णं पदांगुष्ठमनन्यसत्व:॥३८।। तं वीक्ष्य पुत्रं मदनस्वरूपं नारायणांशं कमलाप्रसूतम्। हरिप्रभावं हरिवर्मनामा हर्षप्रफुल्लाननपंकजोऽभूत्॥३९॥ गृहन्सुबेगात्क रपंकजाभ्यां बभूव प्रेमार्णवमग्नदेहः। मूर्धन्युपाघ्राय मुदान्वितोऽसी ननंद राजा सुतमालिलिंग ॥४०॥ मुखं समीक्ष्यातिमनोहरं तमुवाच नेत्राम्बुनिरुद्धकंठः । दत्तोऽसि देवेन जनार्दनेन मात्रा हि पुत्रावमद्डःखभीतेः ॥४१॥ तप्तं मया पुत्र तपस्तवार्थे सुदुष्करं वर्पशतं च पूर्णम्। तेनैव तुष्टेन रमाप्रियेण दत्तोऽसि संसारसुखोदयाय ॥४२॥ माता रमा त्वां तनुजं मदर्थे त्यवत्बा गता सा हरिणा समेता।
Page 398
३९८ श्रीम ऐेवीमागवते महापुराणे षष्टस्कन्धे अध्याबः २१ धन्या तु सा या प्रहसंतमंके कृत्वा सुतं त्वां मुदितानना स्यात् ।।४३।। त्वमेव संसारसमुद्रनोकारूपः कृतः पुत्र लक्ष्मीधरेण। इत्येवमुक्त्वा नृपतिः सुतं तं मुदा समादाय ययो गृहाय॥४४॥ पुरीसमीपे नृपमागतं तमाकर्ण्य सर्वे सचिवास्तु राज्ञः। ययुः समीपं नृपतेश्र लोकाः सोपायनास्ते सपुरोहिताश्र ॥४५॥ बंदीजना गायनकाश्चैव सूताः समाययुः संमुखमाशु राज्ञः। नृपः पुरं प्राप्य पुरः समागतं जनं समाश्वास्य वाक्यैश्र दृष्ट्या ॥४६।। संपूजितः पौरजनेन राजा विवेश पुत्रेण युतो नगर्याम्। मार्गेषु लाज: कुसुमैंः समन्ताद्विकीर्यमाणो नृपतिर्जगाम ।।४७।। गृहं समृद्धं सचिवैः समेतः सुतं समादाय मुदा कराम्याम् । राज्यै ददौ चाथ सुतं मनोजं सद्यःप्रसूतं च मनोभवाभम् ॥४८।। राज्ञी गृहीत्वाऽभिनवं तनूजं पत्रच्छ राजानमनिन्दिता सा। राजन्कुतश्रेष सुतः सुजन्मा प्राप्तस्त्वया मन्मथतुल्यरूपः ॥४९॥ केनैष दत्तः कथयाशु कांत चेतो मदीयं प्रहृतं सुतेन। नृपस्तदोवाच मुदान्वितोऽसौ प्रिये रमेशेन सुतो हि मह्यम् ॥५०।। लोलाक्षि, दत्तः कमलासमुत्यो जनार्दनांशोऽयमहीनसस्बः। सा तं गृहीत्वा मुदमाप राज्ञी राजा चकारोत्सबमन्भुतं च ।५१।। ददौ च दानं किल याचकेभ्यो गीतानि वाद्यानि बहूनि नेदुः । कृत्वोत्सवं भूपतिरात्मजस्य नामैकवीरेति चकार बिश्रुतम् ॥५२॥ सुखं च संप्राप्य मुदान्वितोऽसी ननन्द देवाधिपतुल्यवीर्यः । पुत्रं हरे रूपगुणानुरूपं संप्राप्य वंशस्य ऋणाच्च मुक्तः ॥५३।। इति सकलसुराणामीश्वरेणारपितं तं सकलगुणगणाढयं पुत्रमासाद्य राजा। विविधसुखविनोदैर्भार्यया सेव्यमाने व्यहरत निजगेहे शक्रतुल्यप्रतापः ।५४॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धे विशोऽध्यायः॥२०॥ अथेकविशोऽध्यायः न्यास उवाच जातकर्मादि संस्कारांश्रकार नृपतिस्तदा। दिने दिने जगामाश वृद्धि बाल: सुलालित:।।१।।
Page 399
श्रीमऐ्ेवीभागवते महापुराणे षष्ठस्कन्जे अध्बाय: २१ ३९९ नृपः संसारजं प्राप्य सुखं पुत्रसमुद्गवम्। ऋणत्रयविमोक्षं च मेने तेन महात्मना ॥।२।। षषेऽन्नप्राशनं तस्य कृत्वा मासि यथाविधि। तृतीयेऽथ तथा वर्षे चूडाकरणमुत्तमम् ॥३॥ चकार ब्राह्मणान्द्रव्यैः संपूज्य विविधैर्धनैः । गोभिश्र विविषैदनिर्याचकानितरानपि ॥४।। वर्षे चैकादशे तस्य मौंजीबंधनकर्म वै। कारयित्वा धनुर्वेदमध्यापयत पार्यिव ।।५।। अधीतवेदं पुत्रं तं राजधर्मविशारदम्। दृष्टा तस्याभिषेकाय मर्ति चक्रे जनाघिपः ।६H पुष्यार्कयोगसंयुक्ते दिबसे नृपसत्तमः संभारानभिषेकार्थमादरात् ॥७॥। द्विजानाहूय वेदज्ञान्सर्वशास्त्रविचक्षणान् । अभिषेकं चकारासौ विधिवत्स्दात्मजस्य ह।।८।। जलमानीय तीर्थेभ्यः सागरेभ्यश्च पार्थिवः । स्वयं चकार विधिवदभिषेकं शुभे दिने ॥९॥ धनं दत्त्वाऽथ विप्रेभ्यो राज्यं पुत्रे निवेश्य सः । जगाम वनमेवाशु स्वर्गकामः स भूपतिः ॥१०॥ एकवीरं नृपं कृत्वा संमान्य सचिवानथ। भार्यया सह भूपालः प्रविवेश वनं वशी ॥११॥ मैनाकशिखरे राजा कृत्वा तार्तीयमाश्रमम्। नित्यं पत्रफलाहारश्चिन्तयामास पार्वतीम् ॥१२।। एवं स नृपतिः कृत्वा दिष्टांते सह भार्यया। मृतोऽसौ वासवं लोकं गतः पुण्येन कर्मणा ॥१३॥ इंद्रलोकं पिता प्राप्त इति श्रुत्वाऽथ हैहयः । चकार वेदनिर्दिष्टं कर्म चवौर्ध्वदैहिकम् ॥१४॥ कृत्वोत्तरा: क्रिया: सर्वाः पितुः पार्यिवनन्दनः । राज्यं चकार मेधावी पित्रा दत्तं सुसंमतम् ॥१५॥ एकवीरोऽथ धर्मज्ञः प्राप्य राज्यमनुत्तमम् । बुभुजे विविधान्भोगान्सचिवश्च सुमानितः ॥१६।। एकस्मिन्दिवसे राजा मन्त्रिपुत्रैः समन्वितः । जगाम जाह्नवोतोरे हयारूढः प्रतापवान् ॥१७॥। संपश्यन्पादपात्रम्यान्कोकिलालापसंयुतान् । पुष्पितान्फलसंयुक्तान्षट्पदालिविराजितान् ।।१८।। मुनोनामाश्रमान्दिव्यान्वेदध्वनिनिनादितान् । होमधू मावृताकाशान्मृगशावसमावृतान् ।।१९/ के दाराञ्छालिसम्पक्वान्गोपिकाभिःसुरक्षितान्। प्रफुल्लपङ्गजारामान्निकुआंश्र मनोरमांन् ॥२०॥ प्रक्षमाणः प्रियालांस्तु चम्पकान्पनसद्गुमान्। बकुलांस्तिलकान्नीपान्मन्दारांश्र प्रफुल्लितान् २१।। शालांस्तालतमालांश्र जम्बूचूतकदम्बकान्। सङ्गच्छआ्ह्नवीतोये प्रफुल्लं शतपत्रकम् ॥२२॥ पंकजं चातिगंधाठयमपश्यदवनीपतिः । दक्षिणे जलजस्याथ पार्श्वे कमललोचनाम् ॥२३॥ कनकाभां सुकेशीं च कंबुग्रीवां कृशोदरीम्। बिबोष्ठीं सुन्दरीं किचित्समुद्यत्सुपयोधराम् ।।२४।। सुनासां चारुसर्वाङ्गीमपश्यत्कन्यकां नृपः। रुदतीं तां सखीं त्यक्त्वा विह्वलां दुःखपीडिताम् ॥ साश्रुनेत्रां क्रन्दमानां विजने कुररीमिव। संवीक्ष्य राजा पप्रच्छ कन्यकां शोककारणम्॥२६॥ सुनसे ब्रूहि काऽसि त्वं कस्य पुत्री शुभानने । गंधर्वी देवकन्याऽन कथं रोदिषि सुन्दरि ॥२७/ कथमेकाकिनी बाले त्यक्ता केन पिकस्वरे। पतिस्ते क्व गतः कांते पिता वा ब्रूहि सांप्रतम् ॥ कि ते दुःखमरालभ्रु कथयाद्य ममांतिके। करोमि दुःखनाशं ते सर्वम कृशोदरि ।२९।।
Page 400
४०० श्रीमद्देवीमागवते महापुराणे पष्ठस्कन्धे अध्यायः २१ न राज्ये मम त्न्वद्धि पीडां कोऽपि करोत्यलम्। न भयं चौरजं कांते न राक्षसभयं तथा ॥३०॥ मयि शासति भूपाले नोत्पाता दारुणा भुवि। भयं न व्याघ्रसिंहेभ्यो न भयं कस्यचिन्द्रवेत् ।।३१।। वद वामोरु कस्मात्त्वं विलापं जाह्नवीतटे। करोपि त्राणहीनाऽत्र किं ते दुःखं वदस्व मे ३२।। हन्म्यहं दुःखमत्युग्रं प्राणिनां पृथिवीतले। दैवं च मानुषं कांते व्रतमेतन्ममाद्गुतम् ॥३३॥ विशाललोचने ब्रूहि करोमि तव चिंतितम्। इत्युक्त वचने राज्ञा श्रुत्वोवाच मृदुस्वना ॥३४॥ शृणु राजेंद्र वक्ष्यामि मम शोकस्य कारणम्। विपत्तिरहितः प्राणी कथं रुदति भूपते ॥३५॥ प्रब्रवीमि महाबाहो यदर्थ रुदती त्वहम्। तव राज्यादन्यदेशे राजा परमधार्मिक: ॥३६॥ रैम्यो नाम महाराजः संतानरहितो भृशम् । तस्य भार्या सुविख्याता रुक्मरेखेति नामतः॥३७॥ सुरूपा चतुरा साध्वी सर्वलक्षणसंयुता। अपुत्रा दुःखिता कांतमित्युबाच पुनः पुनः ॥३८॥ किं जीवितेन मे नाथ धिग्वृथा जीवितं मम । वंध्यायाः सुखहीनाया हापुत्राया धरातले ॥३९॥ इत्येवं भार्यया भूप प्रेरिता मखमुत्तमम् । चकार ब्राह्मणांस्तउज्ञानाहूय विषिवत्तदा ॥४०।। पुत्रकामो धनं भूरि ददावथ यथोदितम् । हूयमाने धृतेऽत्यथं पावकादतिसुप्रभात् ॥४१॥ आबिर्बभूव चाबंगी कन्यका शुभलक्षणा। बिबोष्ठी सुदती सुभ्रू: पूर्णचंद्रनिभानना ।।४२।। कनकाभा सुकेशांता रक्तपाणितला मृदुः। सुरक्तनयना तन्वी रक्तपादतला भृशम्॥४३॥ हुताशनात्समुद्भूता होत्रा सा स्वोकृता तदा। होता प्रोवाव राजानं गृहीत्वा तां सुमध्यमाम् ॥४४।। राजन्पुत्रीं गृहाणेमां सर्वलक्षणसंयुताम्। एकावलोव संभूतां हयमानाद्धुताशनात्॥४५॥ नाम्नाचैकावली लोके रुयाता पुत्री भविष्यति। सुखितो भव भूषाल पुश्र्या पुत्रसमानया ॥४६।। संतोषं कुरु राजेंद्र दत्ता देवेन विष्णुना। होतुर्वाक्यं नृपःश्रुत्वा दृष्टा तां कन्यकां शुभाम् ॥४७॥ जग्राह परमप्रोतो होत्रा दत्तां सुसंमताम् । गृहीत्वा नृर्पातिस्तां तु ददी पतन्पै.वराननाम् ॥४८।। माभाष्य रुक्मरेखायै गृहाण सुभगे सुताम्। सातां कमलपत्राक्षीं प्राप्य कन्यां मनोरमाम् ॥४९।। जहर्ष मुदिता राज्ञी पुत्रं प्राप्य यथा सुखम्। चकार मङ्गलं कर्म जातकर्मादिकं शुभम् ॥५०॥ पुत्रजन्मसमुत्थं यत्तत्सवं विधिवत्ततः । समाप्य च मखं राजा द्विजेभ्यो दक्षिणां शुभाम् ॥ दत्त्वा विसृज्य विप्रेन्द्रान्मुदं प्राप महीपतिः। दिने दिनेऽसितापांगी पुत्रबुद्धया भृशं बभौ ।५२।। मुदं च परमां प्राप नृपभार्या सुतान्विता। उत्सवस्तददिने तस्य प्रवृत्तः सुतजन्मजः ॥५३॥ पुत्री पुत्रसमाऽत्यर्थ व्भूत बल्लभा किल। राज्ञो मंत्रिसुता चाहं सुबुद्धे मन्मथाकृते ।।५४॥ यशोवती च मे नाम समानं वय आवयोः । वयस्याऽहं कृता राज्ञा क्रोडनाय तया सह ॥५५॥ सदा सहचरी जाता प्रेमयुक्ता दिवानिशम्। एकावली गंधवंति यत्र पद्मानि पश्यति ॥५६॥ तत्र सा रमते बाला नान्यत्र सुखमाप्नुयात्। सुदरे जाह्नवीतीरे भवंति कमलान्यपि ॥५७॥
Page 401
२६ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २२ ४०9 रममाणा तत्र याता मत्समेता सखीयुता। मया निवेदितं राजन्पुत्री ते कमलाकरान् ॥५८। प्रेक्षमाणाऽतिदूरे सा प्रयाति निर्जने वने। निषेधिताऽथ पित्राऽसी गृहे कृत्वा जलाशयान्॥ कमलान् वापयित्वाऽथ पुष्पितान्भ्रमरावृतान् । तथापि निर्ययौ बाला कमलासक्तचेतना ॥६०॥ तदा राज्ञा रक्षपालाः प्रेरिताः शस्त्रपाणयः । एवं रक्षायुता तन्वी मत्समेता सखीयुता ॥ क्रोडार्थ जाह्नवोतोये नित्यमायाति याति च ।।६१।। इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धे एकविंशोऽध्यायः ॥२१॥ अथ द्वाविशोऽध्यायः यशोवत्युवाप प्रातरुत्थाय तन्वंगी चलिता च सखीयुता । चामरर्वोज्यमाना सा रक्षिता बहुरक्षिभिः ॥१॥ सायुधैश्चातिसन्नद्धः सहिता वरवणिनी। क्रीडार्थमत्र राजेंद्र संप्राप्ता नलिनीं शुभाम् ॥२॥ अहमप्यनया साधं गंगातीरे समागता। अप्सरोभिः समेता च कमलैः क्रीडमानया ॥३॥ एकावली तथा चाहं जाते क्रीडापरे यदा। सहसैव तदाऽडयातो दानवो बलसंयुतः ॥४॥ कालकेतुरिति ख्यातो राक्षसैर्बहुभिर्युतः । परिघासिगदाचापबाणतोमरपाणिभिः 1141 दृष्टा चैकावली तेन रूपयोवनशालिनो। द्वितीया कामपत्नीव क्रीडमाना सुपंकजैः ॥६॥ मयोक्तँकावली राजन्कोऽयं दैत्य: समागतः । गच्छावो रक्षपालानां मध्ये पंकजलोचने ।७ विमृश्यैवं सखी चाऽहं त्वरपैव गते भयात् । मध्ये वै सैनिकानां तु सायुधानां नृपात्मज ।।८।। कालकेतुस्तु तां दृष्टा मोहिनीं मदनातुरः । गदां गुर्वी गृहीत्वा तु धावमानः समागतः ।९॥ रक्षकान्दूरतः कृत्वा जग्राहांबुजलोचनाम् । त्रस्तां वेपथुसंयुक्तां क्रंदमानां कृशोदरीम् ॥१०॥ त्यजैनां मां गृहाणेति मया चोक्तोऽपि दानवः । न मां जग्राह कामार्तस्तां गृहीत्वा विनिःसृतः ११।। तिष्ट तिष्ठेति भाषंतो रक्षकास्तं महाबलम् । प्रतिषिध्य तु संग्रामं चक्रुरविस्मयकारकम् ॥१२॥ तस्यापि राक्षसाः क्रूराः सर्वतः शस्त्रपाणयः । युयुधू रक्षकैः सारघं स्वामिकार्ये कृतोद्यमाः ॥१३॥ संग्रामस्तु तदा जातः कालकेतोस्तथा रणे। निहृत्य रक्षकान्सर्वान्गृहीत्वैनां महाबलः ॥१४॥ युक्तो राक्षससैन्येन निर्जगाम पुरं प्रति। वीक्ष्य तां रुदतीं बालां गृहीतां दानवेन तु ॥१५॥ पृष्ठतोऽहं गता तत्र यत्र नीता सखी मम । विक्रोशंती यथा सा मां पश्येदिति पदानुगा ॥१६।। साऽपि मामागतां वीक्ष्य किचित्स्वस्थाऽभवत्तदा। गताऽहं तत्समीपे तु तामाभाष्य पुनः पुनः ॥१७॥ सा मां प्राप्यातिदुःखार्ता स्तंभस्वेदसमाकुला। कंठे गृहींत्वा मां भूप रुरोद भृशदुःखिता।।१८।। स मामाह कालकेतुः प्रोतिपुर्वमिदं वचः। समाश्वासय भीतांत्वं सखीं चंचललोचनाम् ॥१९॥
Page 402
४०२ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २२ प्राप्तं ममाद्य नगरं देवलोकसमं प्रिये। दासोऽस्मि तव रत्या हि कस्मात्कंदसि कातरा॥ कथयनां सखीं तेजद्य स्वस्था भव सुलोचने। इत्युक्त्वा मां सखीं पा्श्वे समारोप्य रथोत्तमे २१। जगाम तरसा दुष्टः पुरे स्वस्य मनोहरे। सैन्येन महता युक्कः प्रफुत्लददनांबुजः ॥२२॥ एकावलीं तथा मां च संस्थाप्य धवले गृहे। राक्षसान्गृहरक्षार्थ कल्पयामास कोटिशः ॥२३॥ द्वितीये दिवसे सोऽथ मामुवाच रहो नृप। प्रवोधय सखीं वालां शोचंतीं विरहातुराम् ॥२४॥ पत्नी मे भव सुश्रोणि सुखं भुंक्ष् यर्थेप्सितम्। राज्यं त्वदीयं चंद्रास्ये सेवकोऽहं सदा तव ।।२५।। पुनरुक्तं मया वाक्यं श्रुत्वा तद्भाषितं खरम्। नाहं क्षमाप्रियं वक्त त्वमेनां कथय प्रभो ॥२६ इत्युक्ते वचने दुष्टो मदनक्षतमानसः । उवाच विनयादेना सखीं क्षामोदरी प्रियाम् ॥२७॥ कृशोदरि त्वया मंत्रो निक्षितोस्ति ममोपरि। तेन मे हृदयं कांते हृतं ते वशतां गतम् ॥२८॥ तेनाहं तव दासोऽद्य कृतोऽस्मीति विनिश्चयः । भज मां कामबाणेन पीडितं विवशं भृशम् ॥२९॥ यौवनं याति रंभोरु चंचलं दुर्लभं तथा। सफलं कुरु कल्याणि पति मां परिरभ्य च ॥३०॥ एकावल्युवाच पित्राऽहं कल्पिता पूर्व दातुं राजसुताय वै । हैहयस्तु महाभागः स मया मनसा वृतः ॥३१॥ कथमन्यं भजे कांतं त्यक्त्वा धर्मं सनातनम्। कन्यावर्म विहायाद्य वत्सि शास्त्रविनिश्चयम्॥३२। यस्म दद्यात्पिता कामं कन्या तं पतिमाप्नुयात् । परतंत्रा सदा कन्या न स्वातंत्रयं कदाचन ।३३।। इत्युक्त्तोऽपि तया पापी विरराम न मोहितः । न मुमोच विशालाक्षी मां च पार्श्वस्थितां तथा ३४॥ पातालविवरे तस्य पुरें परमसंकटे। राक्षसै रक्षितं दुर्ग मंडितं परिखावृतम् ॥:५॥ सत्र तिष्ठतत दुःखार्ता सखी मे प्राणवल्लभा। तेनाहं विरहेणात्र रारटीमि सुदुःखिता ॥३६॥ एकवीर उवाच कथं त्वमत्र संप्राप्ता पुरात्तस्य दुरात्मनः । विस्मयो मे महानत्र तत्त्वं ब्रूहि वरानने ॥३७॥ त्वया च कथितं वाक्यं सन्दिग्धं भाति भामिनि। हैहयार्थे कल्पिता सा पित्रति मम सांप्रनम् ॥३८॥ हैहयो नाम राजाऽहं नान्योडस्ति पृयिवीपतिः । मदर्थे कथिता सा कि सखो तव सुलोचना ।३९।। एतन्मे संशयं सुभ्रु छेत्तुम्हसि भामिनि। अहं तामानयिष्यामि तं हत्वा राक्षसाधमम् ॥४०।। स्थानं दर्शय मे तस्य यदि जानासि सुव्रते। राजे निवेदितं कि वा तन्पित्रे चातिदुःखिता ४१।। यस्यैषा वल्लभा पुत्री न कि जानाति तां हताम्। नोदमः कि कृतस्तेन ततो मोचनहेतवे ॥४२॥ वन्दीकृतां सुतां ज्ञात्वा कथं तिष्टति सुस्थिरः । असमर्थो नृपः कि वा कारणं ब्रूहि सत्वरम् ।४३। त्वया मेऽपहृतं चेतो गुणानुक्त्वा ह्यमानुषान् । सर्याः पङ्कजपत्राक्षि कृतः कामवशो भृशम् ॥४४॥ कंदा पश्यामि ता कांतां मोचयित्वाऽतिसङ्गटात्। इति मे हृदयं चाद्य करोत्यतिमनोरथम् ॥४५॥
Page 403
श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २३ ४०३ ब्रूहि मे गमनोपायं पुरे तस्यातिदुर्गमे। कथं त्वमागता तस्मात्सङ्गटादत्र तद्वद ॥४६। यशोवत्युवाच बालभावान्मया मन्त्रो भगवत्या विशां पते। प्राप्ोऽस्ति ब्राह्मणात्सिद्धात्सवीजध्यानपूर्वकः ४७।। तत्रावस्थितया राजन्मया चिते विचारितम् । आराधयामि सततं चंडिकां चंडविक्रमाम् ॥४८।। सा दवी सेविता कामं बन्धमोक्षं करिष्यति। भक्तानुकम्पिनी शक्तिः समर्था सर्वसाधने ॥४९॥ या विश्वं सृजते शक्त्या पालयत्येव सा पुनः । कल्पान्ते संहरत्येव निराकारा निराश्रया ॥५०॥ इति संचित्य मनसा देवीं विश्वेश्वरीं शिवाम्। ध्यात्वा रक्त्ताम्बरां सौम्यां सुरक्यनां हृदि॥५१॥ संस्मृत्य नसा रूपं मन्त्रजाप्यपराऽभवम्। उपासिता मया देवी मासमेकं समाधिना ॥५२॥ स्वप्ने मम समायाता भक्तिभावेन तोषिता। मामाहामृतया वाचा कि सुपाऽसीति चंडिका ॥५३॥ उत्तिष्ट याहि तरसा गंगातीरं मनोहरम्। आगमिष्यति तत्रासौ हैहयो नृपपुंगवः ।५४।। एकवीरो महावाहुः स्वशत्रुविमर्दनः । दत्तात्रेयेण मन्मन्त्रो महाविद्याभभधः परः ॥५५॥ दत्तोऽस्मैसोऽपि सततं मामुपास्तेजतभक्तितः । मय्यासक्तमतिनित्यं मम पूजापरायणः ॥५६॥ मामेव सर्वभूतेषु ध्यायन्नास्ते न मत्परः । स ते दुःरूविनाशं वे करिष्यति महामतिः ॥५७॥ मासुतो विहरंस्तत्र तव त्राता भविष्यति। हत्वा तं राक्षसं घोरं मोचयिष्यति मानिनीम् ॥५८॥ एकावलींमेकवीर: सर्वशास्त्रविशारदः । पश्चात्सैव पतिः कार्यस्त्वया राजसुतः शुभः ॥५९॥ इत्युवत्वांतर्दधे देवी प्रबुद्धाऽहं तदैव हि। कथितं स्वप्नवृत्तान्तं देव्याश्चराघनं तथा ॥६०॥ प्रसन्नवदना जाता श्रुत्वा सा' कमलेक्षणा। विशेषेण च सन्तुष्टा मामुवाच शुचिस्मिता ॥६१॥ गच्छ तत्र त्वरायुक्ता कुरु कार्य मम प्रिये। सत्यवाक्या भगवती साऽडवां मोक्षं विधास्यति ॥ इत्याज्ञता तया चाहं सख्या वै प्रेमयुक्तया। मत्वोपसरणं युक्तं तस्मात्स्थानात्तदा नृप ।।६३।। चालिताऽहं ततः शीघ्रं महादेवीप्रसादतः । मार्गज्ञानं शीत्रगतिर्मया प्राप्ता नृपात्मज ॥६४॥ इत्येतत्कथितं सर्वं कारणं मम दुःखजम्। कस्तवं कस्य सुतश्चति वद वीर यथा तथा ॥६५॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे द्वाविंशोऽध्यायः ॥२२। अथ त्रयोविंशोऽध्यायः व्यास उवाच तस्यास्तु वचनं श्रुत्वा रमापुत्रः प्रतापवान् । प्रफुल्लवदनांभोजस्तामुवाच विशाम्पते ॥ १ ॥ राजोवाच रम्भोरु यस्त्वया पृष्टो वृत्तान्तो विशदाक्षरः । हैहयोऽहं चकवीरनाम्ना सिंधुसुतासुतः ॥२॥
Page 404
808 श्रीमद्देवीभागवते महापुराणे षष्टस्कन्धे अध्यायः २३ मनो मे यत्त्वया नूनं परतन्त्रं कृतङ्किल। किं करोमि क्व गच्छामि विरहेणातिपीडितः ॥३॥ प्रथमं रूपमाख्यातं सर्वलोकातिगं त्वया। तेन मे विह्वलं जातं कामबाणहतं मनः ॥४॥ ततस्तस्या गुणाः प्रोक्तास्तैस्तु चित्तं हृतं पुनः। यत्त्वयोक्तं पुनर्वाक्यं तेन मे विस्मयोऽभवत् ॥५॥ एकावल्या वचः प्रोक्तं दानवाग्रे मया वृतः । हैहयस्तं विना नान्यं वृणोमीति विनिश्चयः ॥६॥ तेन वाक्येन तन्वंगि भृत्योऽहमधुना कृतः । त्वया तस्याः सुकेशांते ब्रूहि कि करवाणि वाम् ॥७॥ स्थानं तस्य न जानामि राक्षसस्य दुरात्मनः । गतिमें नास्ति गमने पुरे तस्मिन्सुलोचने ।।८॥ वद मां त्वं विशालाक्षि तत्र प्रापयितुं क्षमा। प्रापयाशु सखी ते सा यत्र तिष्ठति सुन्दरी ।।९।। हत्वा तं राक्षसं क्रूरं मोचदिप्यामि सांप्रतम् । विवशां शोकसन्तप्तां राजपुत्रीं तव प्रियाम् ॥१०॥ विमुक्तदुःखां कृत्वाऽऽशु प्राप्यिग्यामि ते पुरम् । पित्रे चास्याः प्रदास्यामि कन्यामेकावलीमहम् ॥ पश्चाद्विवाहं कर्ताइसी राजा दुत्र्याः परन्तपः । एवं ते मनसः कामो मम चापि प्रियंवदे ॥१२॥ भविष्यति स सम्पूर्णः साधनेन तवाधुना । दर्शयाशु पुरं तस्य पश्य मे त्वं पराक्रमम् ॥१३ ॥ यथा हन्मि दुराचारं परदारापहारकम्। तथा कुरु प्रियं कतुं शक्ताऽसि वरवणिनि ॥१४॥ मार्गं दर्शय तस्याद्य पुरस्य दुर्गमस्य च। व्यास उवाच तन्निशम्य प्रियं वाक्यं मुदिता च यशोवती।।१५।। तमुवाच रमापुत्रं गमनोपायमादरात्। मन्त्रं गृहाण राजेंद्र भगवत्यास्तु सिद्धिदम् ॥१६॥ दर्शयिष्यामि तस्याद्य पुरं राक्षमपालितम् । सज्जो भव महाभाग गमनाय मया सह ॥१७॥ सैन्येन महता युक्तस्तत्र युद्धं भविष्यति । कालकेतुर्महावीरो राक्षसैबलिभिर्वृतः ।।१८।। वस्मान्मन्त्रं गृहीत्वा त्वं व्रज तत्र मया सह । दर्शयिष्यामि ते मार्ग पुरस्यास्य दुरात्मनः १९॥ हत्वा तं पापकर्माणं मोचयाशु च मे सखीम् । श्रुत्वा तद्वचनं वीरो मन्त्रअ्जग्राह सत्वरः ॥२०॥ दत्तात्रेयाद्वयोगात्प्राप्ताज्ज्ञानिवराच्छुभात् । योगेश्वरीमहामन्त्रं त्रिलोकीतिलकाभिघम् ।२१॥ तेन सर्वज्ञता जाता सर्वान्तश्चारिता तथा। तया सह जगामाशु पुरं तस्य सुदुर्गमम् ॥२२॥ रक्षितं राक्षसैर्धोर: 'पातालमिव पन्नगैः । यशोवत्या च सैन्येन महता संयुतो नृपः ॥२३॥ तमायांतं समालोक्य दृतास्तस्य भयातुराः । क्रोशन्तोऽभिययुः पार्श्वं कालकेतोस्तरस्विनः॥२४॥ तमचुः सहसा गत्वा राक्षसं काममोहितम्। एकावलीसमीपस्थं कुवंतं विनयान्वहून् ॥२५॥
राजन् यशोवती नारो कामिन्याः सहचारिणी। आयाति सह सैन्येन राजपुत्रेण संयुता ॥२६॥ दूता ऊचु:
अयन्तो वा महाराज कार्तिकेयोऽथवा नु किम् । आग्छति बलोन्मत्तो वाहिनीसहित: किल ॥२७॥
Page 405
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २३ ४०५ संयत्तो भव राजेंद्र संग्रामः समुपस्थितः । देवपुत्रेण युध्यस्व त्यज वा कमलेक्षणाम् ॥२८! इतो दूरेऽस्ति सैन्यं तद्योजनत्रयमात्रतः । सज्जो भव महोपाल दुन्दुर्भि घोषयाशु वै ॥२९॥ व्यास उवाच सेषां तद्वचनं श्रुत्वा राक्षसः क्रोधमूच्छितः । राक्षसान्प्रेरयामास सायुधान्सबलान्बहून् ॥३॥ गच्छघ्वं राक्षसा: सर्वे सम्मुखाः शस्त्रपाणयः । तानाज्ञाप्य कालकेतुः प्रप्रच्छ प्रणयान्वितः ॥३१॥ एकावलीं समीपस्थां क्विशां भृशदुःखिताम् । कोऽयमायाति तन्व्गि पिता ते वापरः पुमान्॥३२॥ त्वदर्थे सैन्यसंयुक्तो ब्रूहि सत्यं कृशोदरि। पिता ते यदि संप्राप्तो नेतुं त्वां विरहातुरः ॥३३॥ शञात्वा ते पितरं सभ्यक्संग्रामं न करोम्यहम् । आनयित्वा गृहे पूजां रत्नैर्वस्त्रहयैः शुभैः ॥३४॥ करोमि तस्य चातिथ्यं गृहे प्राप्तस्य सर्वथा । अन्यश्चेद्यदि संप्राप्तस्तं हन्मि निशितैः शरः ॥३५॥ आनीतः किल कालेन मरणाय महात्मना। तस्माद्वद विशालाक्षि कोऽयमायाति मंदघोः॥३६॥ अज्ञात्वा मां दुराधर्षं कालरूपं महाबलम्। एकावल्युवाच न जानेऽहं महाभाव कोऽयमायाति सत्वरः ॥३७॥ न मेडस्ति विदितः कोऽपि स्थितायास्तव बंधने । नायं पिता मे न भ्राता कोऽप्यन्योऽस्ति महाबलः ॥ किमर्थमिह चायाति नाहं वेद विनिश्चयम्। दैत्य उवाच एव वद्रन्त्यमी दूता वयस्या ते यशोवती॥३९॥ समानीय च तं वीरमागतेति कृतोद्यमा। क्व गता सा सखी कान्ते विदग्धा कार्यनिश्चये ४०॥ नान्यः कोऽपि ममारातिर्यो मे प्रतिबलो भवेत् । ज्यास उवाच एतस्मिन्नंतरे दूतास्तत्रान्ये वै समागताः ॥४१॥ ते होचुस्त्वरिता भीता: कालकेतुं गृहे स्थितम् । कि स्वस्थोऽसि महाराज समीपे मैन्यमागतम्॥४२॥ निर्गच्छ नगरात्तणं सैन्येन महता वृतः । इति तेपां वचः श्रुत्वा कालकेतुर्महाबलः ॥४३॥ रथमारुह्य त्वरितो निर्ययौ स्वपुराद्वहिः । एकवीरोऽि सहसा हयारूढः प्रतानवान् ॥४४॥ आगतस्तत्र कामिन्या विरहेण समाकुलः । युद्धं तयोरभूत्तत्र वृत्रवासवयोरिव ।४५।। शस्त्रास्त्रबंहुधा मुक्तरादीपित दिगन्तरम् । वर्तमाने तदा युद्धे कातराणां भयावहे॥४६॥ गदया ताडयामास दैत्यं सिंधुसुतासुतः । स गतासुः पतातोर्व्यां वज्राहत इवाचलः ॥४७॥। पलायित्वा गताः सवे राक्षसा भयपीडिताः । यशोवतीं ततो गत्वा वेगादेकावलीं तदा ॥४८।।
Page 406
४०६ श्रीमद्ेवीभागवते महापुराणे षष्ठस्कम्धे अध्यायः २४ उवाच मधुरां वाणीं विस्मितां मुदिता भृशम्। एह्यालि नृपपुत्रेण दानवोऽसौ निपातितः ।।४९।। एकवीरेण धीरेण युद्धं कृत्वा सुदारुणम् । स्कन्धावारेऽप्यसी राजा तिष्ठत्यद्य श्रमातुरः ॥५०॥ दर्शनं कांक्षमाणस्ते श्रुतरूपगुणस्तव। पश्य तं कुटिलापांगि मनोभवसमं नृपम् ॥।५१।। कथिता त्वं मया पूर्वं तस्याग्रे जाह्नवीतटे। पूर्णानुरागः संजातस्तेनासौ विरहातुरः ॥५२॥ वांछति त्वां चारुरूपां द्रष्टुं नृपतिनन्दनः । सा तस्य वचनं श्रुत्वा गमनाय मनो दधे ॥५३॥ लज्जमाना भृशं भीत्या कौमारं प्राप्तया तया। कथ तस्य मुखं द्रक्ष्ये कुमारी ह्यवशा भृशम् ॥५४॥ स मां गृह्हाति कामार्त इति चिंताकुला सती। यशोवत्या युता तत्र नरयानस्थिता ययौ ॥५५॥ स्कंधावारेऽतिमलिना मलिनांबरधारिणी। तामागतां विशालाक्षीं दृष्टा राजसुतोऽब्रवीत् ॥५६॥ दर्शनं देहि तन्वंगि तृषिते नयने मम। कामातुरं चतं वीक्ष्य तां च लज्जाभरावृताम्॥५७॥ नीतिज्ञा शिष्टमार्गज्ञा तमुवाच यशोवती। राजपुत्र पिताऽप्यस्यास्त्वामेनां दातुमिच्छति॥५८॥ एषाऽपि त्वद्वशा नूनं भविता संगमस्तव। कालं प्रतीक्ष्य राजेन्द्र नयैनां पितुरन्तिकम् ॥५९॥ स विवाहविधिं कृत्वा दास्यतीति विनिश्चयः । स तस्या वचनं तथ्यं मत्वा सैन्यसमन्वितः ॥६०॥ समेतः कामिनीभ्यां तु ययौ तत्पितुराश्रमम्। राजपुत्रीं तथायातां श्रुत्वा प्रेमसमन्वितः ॥६१। प्रययौ सम्मुखस्तूणं सचिवैः परिवेष्टितः। बहुभिरदिवसैर्दृष्टा पुत्री सा मलिनाम्बरा ॥६२॥ यशोवत्या तु वृत्तान्तः कथितो विस्तरात्पुनः । एकवीरं मिलित्वाऽसौ गृहमानीय चादरात् ६३।। पुण्येडह्नि कारयामास विवाहं विधिपूर्वकम्। पारिबहँ ततो दत्त्वा संपूज्य विधिवत्तदा ॥६४॥ पुत्रीं विसर्जयामास यशोवत्या समन्विताम् । एवं विवाहे संवृत्ते रमापुत्रो मुदान्वितः ।६५।। गृहं प्राप्य बहून्भोगान्ुभुजे प्रियया समम् । बभूव तस्याः पुत्रस्तु कृतवीर्याभिघः किल ॥ तत्सुतः कार्तवीर्यस्तु वंशोऽयं कथितो मया ॥६६॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे त्रयोविंशोऽध्यायः ॥२३॥ अथ चतुर्विशोऽध्यायः राजोवाच भगवंस्त्वन्मुखांभोजाच्च्युतं दिव्यकथारसम्। न तृप्तिमधिगच्छामि पिवंस्तु सुधया समम् ॥१॥ विचित्रमिदमाख्यानं कथितं भवता मम। हैहयानां समुत्पत्तिविस्तराद्विस्मयप्रदा ॥२॥। परं कौतूहलं मेऽत्र यद्विष्णुः कमलापतिः । देवदेवो जगन्नाथः सृष्टिस्थित्यंतकारकः ॥३॥ भगवान्हरिरच्युतः । परतंत्रः कथं जातः स्वतंत्रः पुरुषोत्तमः ॥४॥ एतन्मे संशयँ ब्रह्मञ्छेत्तुमर्हसि सांप्रतम्। सर्वज्ञस्त्वं मुमिश्रेष्ठ ब्रूहि वृत्तान्तमःद्गुतम् ॥५।
Page 407
श्रीमहेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २४ ४०५
व्यास उवाच शृष्ु राजन्प्रवक्ष्यामि संदेहस्यास्य निर्णयम् । तथा श्रुतं मया पूर्वं नारदान्मुनिसत्तमात् ॥६॥ ब्रह्मणो मानसः पुत्रो नारदो नाम तापसः । सर्वज्ञः सर्वगः शान्तः सर्वलोकप्रियः कविः ॥७॥ स चैकदा मुनिश्रेष्ठो विचरन्पृथिवोमिमाम् । वादयन्महतीं वोणां स्वरतानसमन्विताम् ।।८।। बृहद्रथंतरादोनां साम्नां भेदाननेकशः। गायन्गायत्रममृतं संप्राप्तोऽथ भमाश्रमम् ॥९॥ शम्याप्रासं महातीर्थं सरस्वत्याः सुपावनम् । निवासं मुनिमुख्यानां शर्मदं ज्ञानदं तथा ॥१० ॥ तमागतमहं प्रेक्ष्य ब्रह्मपुत्रं महाद्युतिम् ! अभ्युत्थानादिकं सर्वं कृतवानर्चनादिकम् ॥११॥ अर्ध्यपाद्यविधि कृत्वा तस्यासनस्थितस्य च। उपविष्टः समोपेऽहं मुनेरमिततेजसः ॥१२॥ दृष्टा विश्रमिणं शान्तं नारदं ज्ञानपारदम्। तमपृच्छमहं राजन्यत्पृष्टोऽहं त्वयाऽधुना ॥१३॥ असारेऽस्मिस्तु संसारे प्राणिनां कि सुखं मुने। न पश्यामि विनिश्चित्य कदाचित्कुत्रचित्क्वचित् ॥ द्वीपे जातो जनन्याहं संत्यक्तस्तत्क्षणादपि। अनाश्रयो वने वृद्धिं प्राप्तः कर्मानुसारतः ॥१५॥ तपस्तसं मया चोग्रं पर्वते बहुवार्षिकम्। पुत्रकामेन देवर्षे शंकरः समुपासितः ॥१६॥ ततो मया शुकः प्राप्तः पुत्रो ज्ञानवतां वरः । पाठितस्तु मया सम्यग्वेदानां सार आदितः ॥१७॥ स त्यक्त्वा मां गतः क्वापि रुदन्तं विरहातुरम् । लोकाल्लोकांतरं साधो वचनात्तव बोघितः ।।१८।। ततोऽहं पुत्रसंतप्तस्त्यकत्वा मेरुं महागिरिम्। मातरं मनसा कृत्वा संप्राप्तः कुरुजांगलम् ॥१९॥ पुत्रस्नेहादतितरां कृशांगः शोकसंयुतः । जानन्मिथ्येति संसारं मायापाशनियंत्रितः ॥२०॥ ततो राज्ञा वृतां ज्ञात्वा मातरं वासवीं शुभाम् । स्थितोऽत्रंवाश्रमं कृत्वा सरस्वत्याथास्तटे शुभे २१। शंतनुः स्वर्गति प्राप्तो विधुरा जननी स्थिता। पुत्रद्वययुता साघ्वी भोष्मेण प्रतिपालिता ॥२२॥ चित्रांगदः कृतो राजा गंगापुत्रेण धोमता। कालेन सोऽपि मे भ्राता मृतः कामसमद्युतिः ।।२३।। ततः सत्यवती माता निमग्ना शोकसागरे। चित्रांगदं मृतं पुत्रं रुरोद भृशमातुरा ॥२४॥ संप्राप्तोऽहं महाभाग ज्ञात्वा तां दुःखितां सतीम् । आश्वासिता मयात्यर्थ भीष्मेण च महात्मना ।२५॥ विचित्रवीर्यस्त्वपरो वीर्यवान्पृथिवीपतिः । कृतों भीष्मेण भ्राता वै स्त्रीराज्यविमुखेन ह ॥२६॥ काशिराजसुते रम्ये विजित्य पृर्थिवोपतीन् । भीष्मेणानीय स्वबलात्कन्यके द्वे समर्पिते ॥२७॥ सत्यवत्यै शुभे काले विवाहः परिकल्पितः । भ्रातुर्विचित्रवीर्यस्य तदाऽहं सुखितोऽभवम् ॥२८॥ पुनः सोऽपि मृतो भ्राता यक्ष्मणा पीडितो भृशम् । अनपत्यो युवा धन्वी माता मे दुःखिताऽभवत्।२९॥ काशिराजसुते द्वे तु मृतं दृष्टा पति तदा। पतिव्रताधर्मपरे भगिन्यौ संबभूवतुः ॥३०॥ ते ऊचतुः सतीं श्वश्रं रुदतीं भृशदुःखिताम्। पतिना सहगामिन्यौ भविष्यावो हुताशने ॥३१॥ पत्रेण सह ते श्वश्रू स्वगें गत्वाऽथ नंदने। सुखेन विहरिष्यावः पतिना सह संयुते ॥३२॥
Page 408
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २४ निवारिते तदा मात्रा दध्वी तस्मान्महोद्यमात्। स्नेहभावं समाश्रित्य भीष्मस्य वचनात्तदा ।।३३।। गांगेयेन च मात्रा मे संमंत्र्य च परस्परम्। कृत्वौ्ध्वदैहिकं सर्व संस्मृतोऽहं गजाह्वये ॥३४॥ स्मृतमात्रस्तु मात्रा वै ज्ञात्वा भावं मनोगतम्। तरसैवागतश्राहं नगरं नागसाह्वयम् ॥३५।। प्रणम्य मातरं मूर्ध्ना संस्थितोऽथ कृतांजलिः। तामब्रुवं सुतप्तांगीं पुत्रशोकेन कशिताम् ॥३६॥ मातस्त्वया किमाहूतो मनसाऽहं तपस्विनि । आज्ञापय महत्कार्ये दासोऽस्मि करवाणि किम्॥।३७॥। त्वं मे तीर्थं परं मातर्देवश्च प्रथितः परः । आगतश्चितितश्चात्र ब्रूहि कृत्यं तव प्रियम् ॥३८॥ व्यास ग्ताच इत्युक्त्वाहं स्थितस्तत्र मातुरग्रे यदा मुने। तदा सा मामुवाचेदं पश्यन्ती भीष्ममन्तिके ॥३९॥ पुत्र तेडद्य मृतो भ्राता पीडितो राजक्ष्मणा। तेनाहं दुःखिता जाता वंशच्छेदभयादिह ।।४०।। तस्मात्त्वमद्य मेधादिन्मयाहूतः समाघिना। गांगेयस्य मतेनात्र पाराशर्यार्थसिद्धये॥४१॥ कुलं स्थापय नष्टं त्वं शंतनोर्नामकारणात्। रक्ष मां दुःखतः कृष्ण वंशच्छेदोद्द्गवाद्द्रुतम् ।४२।। काशिराजसुते भार्ये भ्रातुस्तव यवीयसः । साधो्विचित्रवीर्यस्य रूपयौवनभूषिते ।।४३।। ताभ्यां संगम्य मेधाविन्पुत्रोत्पादनकं कुरु। रक्ष त्वं भारतं वंशं नात्र दोषोडस्ति कहिचित् । व्यास उवाच इति मातुर्वचः श्रृत्वा जातश्चिन्तातुरो ह्यहम् । लज्जयाऽऽकुलचित्तस्तामब्रुवं विनयानतः ॥४५॥ मातः पापाधिकं कर्म परादाराभिमर्शनम्। ज्ञात्वा धर्मपथं सम्यक्करोमि कथमादरात् ॥४६॥ तथा यवीयसो भ्रातुर्वधूः कन्या प्रकीर्तिता। व्यभिचारं कथं कुर्यामधीत्य निगमानहम् ॥४७॥ अन्यायेन न कर्तव्यं सर्वथा कुलरक्षणम् । न तरंति हि संसारात्पितरः पापकारिणः ॥४८।। लोकानामुपदेष्टा यः पुराणानां प्रवर्तकः । स कथं कुत्सितं कर्म ज्ञात्वा कुर्यान्महान्द्गुतम् ४९। पुनरुक्तो ह्यहं मात्रा रुदत्या भृशमन्तिके। पुत्रशोकातितप्ताया. वंशरक्षणकाम्यया ॥५०॥ पाराशर्य न ते दोषो वचनान्मम पुत्रक। गुरूणां वचनं तथ्यं सदोषमपि मानवैः ॥५१॥ कर्तव्यमविचाररयँव शिष्टाचारप्रमाणतः । वचनं कुरु मे पुत्र न ते दोषोऽस्ति मानद ॥५२॥ पुत्रस्य जननं कृत्वा सुखिनीं कुरु मातरम्। विशेषेण तु संतप्तां मग्नां शोकार्णवे सुत ॥५३॥ इति तां ब्रुवतीं श्रुत्वा तदा सुरनदीसुतः। मामुवाच विशेधज्ञः सूक्ष्मधर्मस्य निर्णये ॥५४॥ द्वपायन विचारोऽत्र न कर्तव्यस्त्वयाऽनघ। मातुर्वचनमादाय विहरस्व यथासुखम् ।५५॥ व्यास उवाच इति तत्य वचः श्रुत्वा मातुश्र प्रार्थनं तथा। निःशंकोऽहं तदा जातः कार्ये तस्मिञ्जुगुप्सिते। अम्बिकायां प्रवृत्तोऽहमृतुमत्यां मुदा निशि। मयि विमनसायां तु तापसे कुत्सिते भृशम् ॥५७॥
Page 409
श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २५ ४०९ शस्ता मया सा सुश्रोणी प्रसंगे प्रथमे तदा। अंधस्ते भविता पुत्रो यतो नेत्रे निमीलते ॥५८॥ द्वितीये हि मुनिश्रेष्ठ पृष्टो मात्रा रहः पुनः । भविष्यति सुतः पुत्रः काशिराजसुतोदरे ॥५९॥ मयोक्ता जननी तत्र व्रोडानम्रमुखेन ह। विनेत्रो भविता पुत्रो मातः शापान्ममैव हि ॥६०॥ तया निर्भत्सितस्तत्र कठोरवचसा मुने । कथं पुत्र त्वया शप्तः पुत्रस्तेऽन्धो भविष्यति ॥६१॥ इति श्रीदेवीभागवते महापुराणे षष्टस्कन्धे चतुर्विशोऽध्यायः ॥ २४॥ अथ पश्चविंशोऽध्यायः व्यास उवाच वासवी चकिता जाता श्रुत्वा मे वाक्यमीदृशम्। दाशेयी मामुवाचेदं पुत्रार्थे भृशमातुरा ।।१।। अम्बालिका वधूर्धन्या काशिराजसुता सुत। भार्या विचित्रवीर्यस्य विधवा शोकसंयुता ॥२॥ सरवलक्षणसम्पन्ना रूपयोवनशालिनी। तस्यां जनय संगं त्वं कृत्वा पुत्रं सुसंमतम् ।३।। नांधो राजाधिकारीं स्यात्तस्मात्पुत्रं मनोहरम् । उत्पादय राजपुज्यां वचनान्मम मानद ।४।। इत्युक्तोऽहं तदा मात्रा स्थितस्तत्र गजाह्वये। यावदृतुमती जाता काशिराजसुता मुने ॥५॥ एकांते शयनागारे प्राप्ता सा मम सन्निधौ। लज्जमाना सुकेशांता स्वश्चश्रुवचनात्तदा ॥६॥ दृष्टा मां जटिलं दांतं तापसं रसवरजितम्। सा स्वेदवदना जाता पांडुरा विमना भृशम् ॥७॥ कुपितोऽहं तदा दृष्टा कामिनीं निशि सङ्गताम् । वेपमानां स्थितां पार्श्वे ह्यब्रुवं तामहं रुषा ।।८।। दृष्टा मां यदि गर्वेण पांडुवर्णा समावृता। अतस्ते तनयः पांडुर्भविष्यति सुमध्यमे॥९॥ इत्युक्त्वा निशि तत्रव स्थितो बालिकया युतः । भुक्त्वा तां निशि निर्यातःस्थानमापृच्छय मातरम् । ततस्ताभ्यां सुतौ काले प्रसूतावंधपांडुरी। धृतराष्ट्रश्च पांडुश्च प्रथितौ संबभूवतुः ॥११॥ माता मे विमना जाता तादृशौ वीक्ष्य तो सुतौ। ततः संवत्सरस्यांते मांमाहूय तदाऽन्रवीत् ॥१२॥ द्वैपायन सुती जातौ राज्ययोग्यौ न तादृशौ। अन्यं मनोहरं पुत्रं समुत्पादय मे प्रियम् ॥१३॥ तथेति सा मया प्रोक्ता मुदिता जननी तदा। अंबिकां प्रार्थयामास सुतार्थे काल आगते ॥१४॥ पुत्रि व्यासं समालिंग्य पुत्रमुत्पादयाद्भतम् । कुरुवंशस्य कर्तारं राज्ययोग्यं वरानने ॥१५॥ वधूर्लज्जान्विता किंचिन्नोवाच वचनं तदा। गतोऽहं शयनागारे मातुस्तद्वचनान्निशि ॥१६॥ दासी विचित्रवीर्यस्य रूपयौवनसंयुता। प्रेषितांबिकया त्वत्र विचित्राभरणांबरा ।१७।। चन्दनारक्तदेहा सा पुष्पमालाविभूषिता। आयाता हावसंयुक्ता सुकेशी हंसगामिनी ॥१८॥ पयंके मां समावेश्य संस्थिता प्रेमसंयुता। प्रसन्नोऽहं तदा तस्या विलासेनाभवं मुने ॥१९॥ रात्री संक्रीडितं प्रेम्णा तया सह मया भृशम् । वरो दत्तः पुनस्तस्यै प्रसन्नेन तु नारद ॥२०॥
Page 410
४१० श्रीमद्ेवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २५ सुभगे भविता पुत्रः सर्वलक्षणसंयुतः । सुरूपः सर्वधर्मज्ञः सत्यवादी शमे रतः ।२१। स तदा विदुरो जातस्रयः पुत्राः सहाभवन्। माया वृद्धिं गता साधो परक्षेत्रोद्द्गवे मम ॥२२॥ विस्मृतः शुकसम्बन्धी विरहः शोककारणम्। दृष्टा त्रोन्स्वसुतान्कामं वोरान् वै वीर्यसंमतान् २३। माया बलवती ब्रह्मन्दुस्त्यजा ह्यकृतात्मभिः । अरूपा च निरालंबा ज्ञानिनामपि मोहिनी ॥२४॥ मातरि स्नेहसम्बद्धं तथा पुत्रेषु संवृतम्। न मे चित्तं वने शांतिमगान्मुनिवरोत्तम ।।२५॥ दोलारूढं मनो जातं कदाचिद्धस्तिनापुरे। पुनः सरस्वतीतीरे न चकत्र व्यवस्थितिः ॥२६॥ कदाचिच्चिंतयञज्ञानं मानसे प्रतिभाति वै। केऽमी पुत्रा: क्व मोहोऽयं न श्राद्धार्हा मृतस्य मे ॥ व्यभिचारोंदवाः कि मे सुखदाः स्युः सुताः किल। माया बलवती मोहं वितनोति हि मानसे ।२८।। जानन्मोहांधकूपेऽस्मिन्पतितोऽहं मृषा मुने । इत्यकुर्व रहस्तापं कदाचित्सुसमाहितः ॥२९। राज्यं प्राप ततः पांडुर्बलवान्भीष्मसंमतः । तदा मम मनो जातं प्रसन्नं सुतकारणात् ॥३०॥ कुंती मांद्री सुरूपे द्वे भार्ये तस्य बभूवतुः। शूरसेनसुता कुन्ती मद्रराजसुताऽपरा ॥३१॥ स शापं द्विजतः प्राप्य कामिनीद्वयसंयुतः । पांडुनिर्वेदमापन्नस्त्यकत्वा राज्यं वनं गतः ॥३२॥ तदा मामाविशच्छोकः श्रुत्वा पुत्रं बने स्थितम्। गतोऽहं तत्र यत्रासौ भार्याभ्यां सह संस्थितः ॥३३॥ तमाश्वास्य वने पांडुं पुनः प्राप्तो गजाह्नये। धृतराष्ट्रं समाभाष्य ह्यगमं ब्रह्मजातटे ॥३४॥ क्षेत्रजान्पञ्चपुत्रान्स समुत्पाद्य युधिष्ठिरो भीमसेनस्ताथवार्जुन वनाश्रमे। धर्मतो वायुतः शक्रादश्विभ्यां पञ्च पांडवान् ३५॥। इत्यपि । कुन्तीपुत्राः समाख्याता धर्मानिलसुरेशजाः ॥३६॥ नकुल: सहदेवश्र मद्रराजसुतासुतौ । कदाचित्तु रहो माद्रीं समालिंग्य महीपतिः ॥३७॥ मृतः शापात्तु मुनिभि: संस्कृतो हुतभुङ्मुखे। माद्री तत्र सती भूत्वा प्रविष्टा पतिना सह ॥३८।। स्थिता पुत्रयुता कुन्ती ज्वलिते जातवेदसि । मुनयः सुतसंयुक्तां शूरसेनसुतां तदा ॥३९॥ दुःखितां पतिहीनां तामानिन्युर्गजसाह्वये। समर्पिताऽथ भीष्माय विदुराय महात्मने ।४०।। श्रुत्वाऽहं सुखदुःखाभ्यां पीडितस्तु परात्मभिः । भीष्मेण पालिताः पुत्राः पांडोरिति विचिंत्य ते ॥ विदुरेण तथा प्रीत्या धृतराष्ट्रण धीमता। दुर्योघनादयस्तस्य पुत्रा ये क्रूरमानसाः ॥४२॥ एकत्र स्थितिमापन्ना विरोधं चक्रुरद्द्ुतम्। द्रोणाचार्यस्तु संप्राप्तस्तत्र भीष्मेण मानितः ४३॥ अध्यापनाय पुत्राणां पुरे तस्मिन्निवासितः । कर्णः कुंत्या परित्यक्तो जातमात्र: शिशुर्यदा ॥४४॥ सूतेन पालितो नद्यां प्राप्तश्चाघिरथेन ह। दुर्योधनप्रियश्चाभूत्कर्णः शूरतमस्तथा॥४५॥ परस्परं विरोधोऽभून्द्ीमदुर्योधनादिषु। धृतराष्ट्रस्तु संचिंत्य क्लेशं पुत्रेषु तेषु च।।४६।। निवासं कल्पयामास पांडवानां महात्मनाम् । विरोधशमनायैव नगरे वारणावते ।।४७॥। दुर्योधनेन तत्रैव द्रोहाज्जतुगृहाणि वै । कारितानि च दिव्यानि प्रेष्य मित्रं पुरोचनम् ॥४८।
Page 411
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २६ ४११ श्रुत्वा जतुगृहे दग्धान्पांडवान्पृथया युतान्। पौत्रभावान्मुनिश्रेष्ठ मग्नोऽहं व्यसनार्णवे ॥४९॥ शोकातुरो भृशं शृन्ये वने पश्यन्नहर्निशम् । दृष्टा मर्यकचक्रायां पांडवा दुःखकशिताः ॥५०॥ ततस्तुष्टमनाश्चाहं जातः पार्थान्विलोक्य च। प्रेरितास्ते मया तूणं द्रुपदस्य पुरं प्रति ॥५१॥ ते गतास्तत्र दुःखार्ता विप्रवेषधराः कृशाः। मृगचर्मपरीधानाः सभायां संस्थितास्तदा ॥५२॥ कृत्वा पराक्रमं जिष्णुः स जित्वा द्रुपदात्मजाम्। चक्त्रविवाहं मानिन्या पञ्चैव मातृवाक्यतः ॥५३॥ दृष्टा विवाहं तेषां तु मुदितोऽहं भृशं तदा। ततो नागाहये प्रात्ताः पाञ्चालीसहिता मुने ॥५४॥ निवासं खांडवप्रस्थं धृतराष्ट्रेण कल्पितम्। पांडवानां द्विजश्रेष्ठ वासुदेवसुतेन वै ॥५५॥ तर्पितः पावकस्तत्र विष्णुना सह जिष्णुना। राजसूयः कृतो यज्ञस्तदाऽहं मुदितोऽभवम् ॥५६॥ दुष्टाथ विभवं तेषां तथा मयकृतां सभाम्। दुर्योधनोऽतिसंतप्तो दुरोदरमथाकरोत् ॥५७॥। शकुनिरनक्षज्ञश्च धर्मजः ! हृतं राज्यं धनं सर्द याज्ञसेनी च क्लेशिता ॥५८। वने द्वादश वर्षाणि पांडवास्ते विवासिताः । पाञ्चालीसहितास्तेन दुःखं मे जनितं भृशम् ॥५९॥ दुर्द्यूतवेदी एवं नारद संसारे सुखदुःखात्मके भृशम्। निमग्नोऽहं भ्रमेणैव जानन्धर्मं सनातनम् ॥६०॥ कोऽहं कस्य सुतास्तेऽमी का माता कि सुखं पुनः। येन मे हृदयं मोहाद्भ्रमतीति दिवानिशम् ॥६१॥ किं करोमि क्व गच्छामि संतोषो नाधिगच्छति। दोलारूढं मनो मेऽत्र चञ्चलं न स्थिरं भवेत् ॥६२।। सर्वज्ञोऽसि मुनिश्रेष्ठ सन्देहं मे निवर्तय। तथा कुरु यथाऽहं स्यां सुखितो विगतज्वरः ॥६३॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धे पञ्चविंशोऽध्यायः ॥२५॥ अथ षड्विंशोऽध्याय: व्यास उवाच इति मे वचनं श्रुत्वा नारदः परमार्थवित् । मामाह च स्मितं कृत्वा पृच्छन्तं मोहकारणम् ॥१॥ नारद उवाच पाराशर्य पुराणज्ञ किं पृच्छसि सुनिश्चयम । संसारेऽस्मिन्विना मोहं कोऽपि नास्ति शरीरवान् ॥ ब्रह्मा विष्णुस्तथा रुद्रः सनकः कपिलस्तथा। मायया वेष्टिताः सर्वे भ्रमन्ति भववर्त्मनि ॥३॥ ज्ञानिनं मां जनो वेत्ति भ्रांतोऽहं सर्वलोकवत्। शृणु मे पूर्ववृत्तांतं प्रब्रवीमि सुनिश्चितम्॥४॥ दुःखं मया यथा पूर्वमनुभूतं महत्तरम। स्वकृतेन च मोहेन भार्यार्थे वासवीसुत ॥५॥ एकदा पर्वतश्राहं देवलोकान्महीतलम्। प्राप्तो विलोकनार्थाय भारतं खण्डमुत्तमम् ॥६॥ भ्रमन्तो सहितावुर्व्यां पश्यन्तौ तीर्थमण्डलम्। पावनानि च स्थानानि मुनीनामाश्रमाञ्छुभान् ॥ *पथं देवलोकात्तु कृत्वा पूर्वं परस्परम्। चलिती समयं चेमं सम्मन्त्र्य निश्चयेन वै ।।८।।
Page 412
४१२ श्रीमद्देवीभागवते महापुराणे षष्टस्कन्धे अध्यायः २६ चित्तवृत्तिस्तु वक्तव्या यादृशी यस्य जायते। शुभा वाऽप्यशुभा वापि न गोप्तव्या कदाचन ।९॥ भोजनेच्छा धनेच्छाऽपि रतीच्छा वा भवेदपि। यादृशी यस्य चित्ते तु कथनीया परस्परम् ॥१०॥ इत्यावां समयं कृत्वा स्वर्गाद्भूलोकमागतौ। एकचित्तौ मुनीभूतौ विचरन्तौ यथेच्छया ॥११॥ एवं भ्रमन्तौ लोकेऽस्मिन्ग्रीष्मान्ते समुपागते। संजयस्य पुरं रम्यं संप्राप्तौ नृपतेः पुनः ॥१२॥ तेन संपूजितौ भक्त्या राज्ञा संमानितौ भृशम् । स्थितौ तत्र गृहे तस्य चातुर्मास्यं महात्मनः ॥१३॥ वार्षिकाश्चतुरो मासा दुर्गमाः पथि सर्वदा। तस्मादेकत्र विबुधः स्थातव्यमिति निश्चयः ॥१४॥ अष्टो मासास्तु प्रवसेत्सदा कार्यवशाद्द्विजः । वर्षाकाले न गन्तव्यं प्रवासे सुखमिच्छता ॥१५॥ इति संचिन्त्य मनसा संजयस्य गृहे तदा। संस्थितौ मानितो राज्ञा कृतातिथ्यो महात्मना ॥ दमयन्तीति विख्याता तस्य पुत्री महीपतेः । आज्ञप्ता परिचर्यार्थ सुदती सुन्दरी भृशम् ॥१७॥ विवेकज्ञा विशालाक्षी राजपुत्री कृतोदमा। सेवनं सर्वकाले च व्यदधादुभयोरपि॥१८॥ स्नानार्थमुदकं काले भोजनं मृष्टमायतम्। मुखवासंतथा चान्यं यदिष्टं तद्ददाति सा ॥१९॥ मनोऽभिलपितान्कामानुभयोरपि कन्यका। व्यजनासनशय्यादीन्वांछितानप्यकल्पयत् ॥।२०।। एवं संसेव्यमानौ तु स्थितो राज्ञो गृहे किल। वेदाध्ययनसंशीलावावां वेदव्रते रतौ ॥२१॥ अहं वीणां करे कृत्वा साधयित्वा स्वरोत्तमम् । गायनं साम सुस्वादमगां कर्णरसायनम् ॥२२॥ राजपुत्री तु तच्छ्रुत्वा सामगानं मनोहरम् । बभूव मयि रागाढया प्रीतियुक्ता विशारद ॥२३। दिने दिनेऽनुरागोडस्या मयि वृद्धिं गतः परः । ममापि प्रीतियुक्तायां मनो जातं स्पृहापरम्॥२४॥ मम तस्य च सा कन्या भोजवादिषु कहिंचित्। अकरोदंतरं किंचित्सेवाभेदं रसान्विता ।२५॥ स्नानायोष्णजलं मह्यं पर्वताय च शीतलम्। दधि मह्यं तथा तक्रं पर्वतायाप्यकल्पयत् ॥२६॥ शयनास्तरणं शुभ्रं मदर्थे पर्यकल्पयत् । प्रीत्या परमया यद्वत्पर्वताय न तादृशम् ॥२७॥ विलोकयति मां प्रेम्णा सुन्दरी न च पर्वतम् । ततोऽस्यास्तादृशं दृष्टा पर्वतः प्रेमकारणम् ॥२८॥ मनसा चिंतयामास किमेतदिति विस्मितः । पप्रच्छ मां रहः सम्यग्बूहि नारद सर्वथा ॥२९॥ राजपुत्री त्वयि प्रेम करोति मुदिता भृशम् । ददाति भक्ष्यभोज्यानि स्नेहयुक्ता समंततः ॥३०॥ न तथा मयि भेदोऽत्र सन्देहं जनयत्यसौ। मन्यते त्वां पति कर्तुं सर्वथा संजयात्मजा ॥३१॥ तवापि तादृशं भावं जानामि लक्षणैरहम्। नेत्रवक्त्रविकारैश्च ज्ञायते प्रोतिकारणम् ॥३२॥ सत्यं वद न ते मिथ्या वक्तव्यं वचनं मुने। स्वर्गतः समयं कृत्वा चलितौ संस्मराधुना॥३३॥ नारद उवाच पृष्टोऽह पर्वतेनेदं कारणं तु हठादयदा। तदाऽहं हीसमाक्रान्तः संजातश्राब्रुवं पुनः ॥३४॥ पर्वतैषा विशालाक्षी पति मां कर्तुमुद्यता। ममापि मानसो भावो वर्ततेऽस्यां विशेषतः ॥३५॥
Page 413
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २६ ४१६ तच्छ्रुत्वा ववनं सत्यं पर्वतः कोपसंयुतः । मामुवाच मुनिर्वाक्यं घिग्धिगिति पुनः पुनः ॥३६॥ प्रथमं शपथान्कृत्वा वञ्ञचितोऽहं त्वया यतः । भव वानरववत्रस्त्वं शापाच्च मम मित्रध्रुक् ॥३७॥ इति शप्तस्तु तेनाहं कुपितेन महात्मना। सहसा ह्यभवं क्रूरः शाखामृगमुखस्तदा ॥३८॥ मयाडपि न कृता तस्मिन्क्षमा तु भगिनीसुते। सोऽपि शप्तोऽतिकोपाद्व मा स्वर्गे ते गतिः किल ॥ स्वल्पेऽपराधे यस्मान्मां शप्वानसि पर्वत । तस्मात्तवापि मन्दात्मन्मृत्युलोके स्थितिः किल ४०॥ पर्वतस्तु गतस्तस्मान्नगराद्विमना भृशम् । अहं वानरवकत्रस्तु संजातस्तत्क्षणादपि ॥४१॥ दृष्टा मां वानरं क्रूरं राजपुत्री विलक्षणा। विमनाऽतीव संजाता वीणाश्रवणलालसा ॥४२॥। व्यास उवाच ततः किमभवद्ब्रह्मन्कथं शापो निवतितः । मानुषास्यः पुनर्जातो भवान्ब्रूहि यथाविधि ॥४३॥ पर्वतः क्व गतो भूयः सङ्गमो युवयोरभूत् । कदा पुत्र कथं सवं विस्तरेण वदस्व ह॥४४॥ नारद उवाच कि ब्रवीमि महाभाग मायायाश्चरितं महत् । दुःखितोऽहं भृशं तत्र पर्वते रुषिते गते ॥४५॥ पुनः सेवापराऽत्यर्थ राजपुत्री ममाभवत् । गतेऽथ पर्वते कामं स्थितस्तत्रव सद्यनि ॥४६॥ अहं दुःखान्वितो दीनस्तथा वानरवन्मुखः । विशेषेण तु चिंतार्तः कि मे स्यदिति चिंतयन् ॥ संजयोऽथ सुतां दृष्टा किंचित्प्रकटयोवनाम् । विवाहार्थे राजसुतामपृच्छत्सचिवं तदा ॥४८। विवाहकालः संप्राप्तः सुताया मम सांप्रतम् । योग्यं वरं मम ब्रूहि राजपुत्रं सुसंमतम् ॥४९॥ रूपोदार्यगुणर्युक्तं शूरं सुकुलसंभवम् । विवाहं विधिवत्पुत्र्याः करोमि किल सांप्रतम् ५०॥ प्रधानस्त्वव्रवीद्राजन् राजपुत्रा ह्यनेकशः । वर्तंते भुवि पुत्रयास्ते योग्याः सर्वगुणान्विता ॥५१॥ यस्मिन्रुचिस्ते राजेंद्र तमाहूय नृपात्मजम्। देहि कन्यां धनं भूरि हस्त्यश्वरथसंयुतम् ॥५२॥ नारद उनाच पितुश्चिकीर्षितं ज्ञात्वा दमयंती तदा नृपम्। धात्र्या मुखेन वाक्यज्ञा तमुवाच रहःस्थितम् ५३॥ धात्र्युवाच दमयंती महाराज पुत्री ते मामथाब्रवीत्। पितरं ब्रूहि धात्रेयि वचनान्मे सुखान्वितम् ।।५४॥ मया वृतोऽथ मेधावी नारदो महतीयुतः । नादमोहितया कामं नान्यः कोऽपि प्रियो मम ५५॥ कुरु मे वांछितं तात विवाहं मुनिना सह। नान्यं वरिष्ये धर्मज्ञ नारदं तु परति विना ॥५६॥ मग्नाऽहं नादसिंधो वै नकरहीने रसात्मके। अक्षारे सुखसंपूर्णे तिमिंगिलविवर्जिते ॥५७॥ इति श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे पड्विंशोऽध्यायः ॥ २६॥
Page 414
४९४ श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २७ अथ सप्तविंशोऽध्यायः नारद उवाच तत्पुत्र्या वचनं श्रुत्वा राजा धात्रीमुखात्ततः। भार्यां प्रोवाच कैकेयीं समीपस्थां सुलोचनाम् ॥१ राजोवाच यदुक्तं वचनं कांते धात्र्या तत्तु त्वया श्रुतम्। वृतोऽयं नारदः कामं मुनिर्वानरवकत्रभाक ॥२॥ किमिदं चिंतितं पुत्र्या बुद्धिहीनं विचेष्टितम। कथमस्मै मया देया कन्या हरिमुखाय सा ॥३॥ ववासी भिक्षुः कुरूपः कव दमयंती ममात्मजा। विपरीतमिदं कार्य न विधेयं कदाचन ॥४। तामेकांते सुकेशांते निवारय हठात्सुताम्। युक्त्या भुनिरतां मुग्धां शास्त्रवृद्धानुसारया ॥५॥ दति भर्तृवचः श्रुत्दा जननी तामथाव्रवोत् । वव ते रूपं मुनिः क्वासौ वानरास्योऽधनः एनः ॥ कथं मोहमवापाऽसि भिक्षुके चतुरा पुनः। लताकोमलदेहा त्वं भस्मरूक्षतनुस्त्वयम् ॥७॥। वार्ता वानरवक्त्रेण क्थं बुक्ता तवानधे। का प्रीतिः कुत्सिते पुंसि भविष्यति शुनिस्मिते ॥ वरस्ते राजपुत्रोऽस्तु मा कुरु त्वं वृथा हठम्। पिता ते दुःखमाप्नोति श्रुत्वा धात्रोमुखाह्च:।।९।। लग्नां बब्बूलवृक्षेण कोमलां मालतीलताम्। दृष्टा कस्य मनः खेदं चतुरस्य न गच्छति ॥१०॥ दासेरकाय तांबूलीदलानि कोमलानि कः । ददाति भक्षणार्थाय मूर्खोऽपि धरणीतले ॥११॥ वीक्ष्य त्वां करसंलग्नां नारदस्य समीपतः। विवाहे वर्तमाने तु कस्य चेतो न दह्यति ॥१२॥ कुमुखेन समं वार्ता न रुचि जनयत्यतः। आमरणात्तु कथं कालः क्षपितव्यस्त्वयाऽमुना ॥ नारद उवाच इति मातुर्वचः श्रुत्वा दमयन्ती भृशातुरा। मातरं प्राह तन्वङ्गी मयि सा कृतनिश्चया ॥१४॥ किं मुखेन च रूपेण मूर्खस्य च धनेन किम्। कि राज्येनाविदग्धस्य रसमार्गाविदोऽस्य च १५॥ हरिण्योऽपि वने धन्या या नादेन विमोहिताः । मातः प्राणान्प्रयच्छंति घिङ्मूर्खान्मानुषान्भुति ॥ नारदोवेति यां विद्यां मातः सप्तस्वरात्मिकाम् । तृतीयः कोऽपि नो वेद शिवादन्यः पुमान्किल १७॥ मुर्खेण सह संवासो मरणं तत्क्षणे क्षणे। रूपवान्धनवांस्त्याज्यो गुणहोनो नरः सदा ॥१८॥ त्रिड्मैत्री मूर्ख भूपाले वृथा गर्वसमन्विते। गुणज्ञे भिक्षुके श्रेष्ठा वचनात्सुखदायिनो ॥१९॥ स्वरज्ञो ग्रामवित्कामं मूर्छनाज्ञांनभेदभाक्। दुर्लभः पुरुषश्चाष्टरसज्ञो दुर्वलोउपि वै॥२०॥ यथा नयति कैलासं गंगा चैव सरस्वती। तथा नयति कैलासं स्वरज्ञानविशारदः ॥२१॥ स्वरमानं तु यो वेद स देवो मानुषोऽपि सन्। सप्तभेदं न यो वेद स पशुः सुरराडपि ।२२॥ मूर्छनातानमार्ग तु श्रुत्वा मोदं न याति यः। स पशुः सर्वथा ज्ञेयो हरिणा: पशवो न हि ॥२३॥ वरं विषधरः सर्पः श्रुत्वा नादं मनोहरम् । अश्रोत्रोऽपि मुदं याति धिक्सकर्णांश्र मानवान् ॥
Page 415
श्रीम द्ेवीभागवत महापुराणे षष्टस्कन्धे अध्याय: २७ ४१५ बालोऽपि सुस्वरं गेयं श्रुत्वा मुदितमानसः । जायते किंतु ते वृद्धा न जानंति धिगस्तु तान् ॥ पिता मे कि न जानाति नारदस्य गुणान्बहून् । द्वितीयः सामगो नास्ति त्रिषु लोकेषु तत्समः २६॥ तस्मादसौ मया नूनं वृतः पूर्व समागमात् । पश्चाच्छापवशाज्जातो वानरास्यो गुणाकरः ॥२७। किन्नरा न प्रियाः कस्य भवंति तुरगाननाः । गानतिद्यासमायुक्ताः कि मुखेन वरेण ह ॥२८।। पितरं ब्रूहि मे मातरवृतोऽयं कनिसत्तमः । तस्मात्वमारहं त्यक्त्वा देहि तस्मे च मां मुदा ॥ नारद उचाच इति पुत्र्या वच: श्रुत्वा राजी राज्ञे न्यवदयत्। आग्रहं सुन्दरी ज्ञात्वा सुताया नारदे मुने ॥३०॥ विवाहं कुरु राजेंद्र दमयन्त्याः शुभे दिने। मुनिनासच सर्वज्ञो वृत्तोऽसौ मनसाऽनया ॥३१॥ नारद उवाच इति संचोदितो राज्या संजयः पृथिवीपतिः । चकार विध्वत्सवं विधिं वैवाहिकं ततः ॥३२॥ एवं दारग्रहं कृत्वा वानरास्यः परंतप। स्थितस्तन्रैव ननसा दह्यमानेन चान्वहम्॥३३।। यदागच्छद्राजसुता सेवार्थ मम सलिधौ। अभवं दुःखसंतप्तस्तदाऽहं वानराननः ॥३४॥। दमयंती तु मां वीक्ष्य प्रफुल्लवदनांयुजा। शाक वानरवक्त्रत्वान्न चकार कदाचन ॥३५॥ एवं गच्छात काले तु सहसा पर्वतो मुनिः । कुर्वस्तीर्थान्यनेकानि द्रष्टुं मां समुपागतः ॥३६॥ मयाजतिमानितः प्रेम्णा पूजितश्र यथाविधि। आसीन आसने दिव्ये वीक्ष्य मां दुःखितो ह्यभूत् ॥ कृतदारं वानरास्यं दीनं चिंतातुरं भृशम्। दयावान्मामुवाचेदं पर्वतो मातुलं कृशम् ॥३८॥ मया नारद कोपात्त्वं शतोऽसि मुनिसत्तम । निष्कृति तस्य शापस्य करोम्यद्य निशामय ॥३९॥ भव त्वं चारुवदनो मम पुण्येन नारद। दृष्टा राजसुतां चित्ते कृपा जाता ममाधुना ॥४०। नारद उवाच मयाऽपि प्रवणं चित्तं कृत्वा श्रुत्वाऽस्य भाषितम् । अनुग्रहः कृतः सद्यस्तस्य शापस्य तत्क्षणात् ॥४१॥ भागिनेय तवाप्यस्तु गमनं सुरसद्मनि। शापस्यानुग्रहः कामं कृतोडयं पर्वताधुना ।४२।। नागद उवा जातोऽहं चारुवदनो वचनात्तस्य पश्यतः। राजपुत्री तु संतुष्टा मातर प्राह सत्वरम् ॥४३॥ मातस्ते सुमुखो जातो जामाता च महादयुतिः । वचनात्पर्वतस्याद्य मुक्तशापो मनेरभूत् ॥४४॥ तच्छ्रत्वा वचनं राज्या कथितं तत्तु राजनि । ययौ द्रष्ट मुनिं तत्र संजयः प्रीतिमांस्तदा ॥४५॥ धनं समर्पितं राज्ञा संतुष्टेन तदा महत् । मह्यं च भागिनेयाय पारिबर्ह महात्मना ॥४६॥ एतत्ते सर्वमाख्यातं वर्तनं यत्पुरातनम् । मायाया वलमाहात्म्यं ह्यनुभूतं यथा मया ॥७॥ मायागुणकृतेऽनृते । तनुभृत्तु सुखी नास्ति न भूतो न भविष्यति ॥।४८।।
Page 416
४१६ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २८ कामक्रोधौ तथा लोभो मत्सरो ममता तथा। अहंकारो मदः केन जिताः सर्वे महाबलाः॥४९॥ सत्त्वं रजस्तमश्चैव गुणास्त्रय इमे किल। कारणं प्राणिनां देहसंभवे सर्वथा मुने॥५०॥ कस्मिश्चित्समये व्यास वनेऽहं विष्णुना सह। गच्छन्हास्यविनोदेन स्त्रीभावं गमितः क्षणात् ५१॥ राजपत्नीत्वमापन्नो मायाबलविमोहितः । पुत्राः प्रसूता बहवो गेहे तस्य नृपस्य ह ।।५२।। व्यास उवाच संशयोऽयं महान्साधो श्रुत्वा ते वचनं किल। कथं नारीत्वमपन्नस्त्वं मुने ज्ञानवान्भृशम् ५३॥ कथं च पुरुषो जातो ब्रूहि सर्वमशेषतः । कथं पुत्रास्त्वया जाताः कस्य राज्ञो गृहेऽञ्जसा ॥ एतदाख्याहि चरितं मायावहमहदद्भुतम्। मोहितं च यथा सर्वमिदं स्थावरजंगमम् ।५५॥ न तृप्तिमधिगच्छामि श्रृण्वंस्तव कथामृतम्। सर्वग्रन्थार्थतत्त्वं च सर्वसंशयनाशनम् ॥५६॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे सप्तविंशोऽध्यायः ॥२७॥
नारद उवाच निशामय मुनिश्रेष्ठ गदतो मम सत्कथाम्। मायाबलं सुदुर्ज्ेयं मुनिभिर्योगवित्तमः ॥१॥ मायया मोहितं सर्वं जगत्स्थावरजंगमम्। ब्रह्मादिस्तंबपर्यंतमजया दुर्विभाव्यया ।।२।। कदाचित्सत्यलोकाद्वै श्वेतद्वीपे मनोहरे। गतोऽहं दर्शनाकांक्षी हरेरद्भुतकर्मणः ॥३॥ वादयन्महतीं वीणां स्वरतानविभूषिताम्। गायनं गायमानस्तु साम ससस्वरान्वितम्॥४॥। दृष्टो मया देवदेवश्चकपाणिर्गदाधरः । कौस्तुभोन्द्ासितोरस्को मेघश्यामश्चतुर्भुजः ॥५॥ पीतांबरपरीधानो मुकुटांगदराजितः। लक्ष्म्या सह विलासिन्या क्रीडमानो मुदा युतः ६। वीक्ष्य मां कमला देवी गतांतर्धानमंतिकात्। सर्वलक्षणसंपन्ना सर्वभूषणभूषिता॥७। नारीणां प्रवरा कांता रूपयोवनगर्विता। सुप्रिया वासुदेवस्य वरचामीकरप्रभा ।।८।। अंतर्गृहं गतां दृष्टा सिंधुजां व्यञ्षनान्विताम् । मया पृष्टो देवदेवो वनमाली जगतप्रभुः ॥९॥ भगन्देवदेवेश पद्मनाभ सुरारिहन्। कथं च मा गता दृष्टा मामागच्छंतमंतिकात् १०।। नाहं विटो न वा धूर्तः तापसोऽहं जगद्गुरो। जितेन्द्रियो जितक्रोधो जितमायो जनार्दन ११॥ नारद उवाच निशम्य वचनं किचिद्गर्वयुक्तं जनार्दनः । उवाच मां स्मित कृत्वा वीणावन्मधुरां गिरम् ॥ विष्णुरुवाच नारदैवंविधा नीतिनं स्थातव्यं कदाचन । पति विनाऽन्यसान्निध्यं कस्यचिद्योषया क्वचित्॥
Page 417
२७ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २८ माया सुदुर्जया विद्वन् योगिभिजितमारुतैः । सांख्यतरिद्िर्निराहारैस्तापसैश्र जितेन्द्रियैः ॥१४॥ देवैश्च मुनिशार्दूल यत्त्वयोक्तं वचोऽधुना। जितमायोऽस्मि गीतज्ञ नैवं वाच्यं कदाचन ॥१५॥ नाहं शिवो न वा ब्रह्मा जेतुं तां प्रभवोऽप्यजाम् । मुनयः सनकाद्याश् कस्तवं केऽन्ये क्षमा जये ॥१६॥ देवदेहं नृदेहं वा तिर्यग्देहमथापि वा। बिभृयाद्यः शरीरं च स कथं तां जयेदजाम् ॥१७॥ त्रियुतस्तां कथं मायां जेतुं शक्तः पुमान्भवेत् । वेदनिद्योगविट्वाऽपि सर्वज्ञो विजितेन्द्रियः ॥१८॥ कालोऽपि तस्या रूपं हि रूपहीनः स्वरूषकृत् । तद्वशे वर्तते देही विद्वान्मूर्खोऽथ मध्यमः ॥१९॥ काल: करोति धर्मज्ञं कदाचिद्विकलं पुनः । स्वभावात्कर्मतो वाऽपि दुर्ज्ञेयं तस्य चेष्टितम् ॥२०॥ नारद उताच इत्युक्त्वा विरतो विष्णुरहं विस्मयमानसः । तमब्रुवं जगन्नाथं वासुदेवं सनातनम् ॥२१॥ रमापते कथरूपा माया सा कीदृशी पुनः । कियद्वला ववसंस्थानां कस्याधारा वदस्व मे ॥२२॥ द्रष्टकामोडस्मि तां मायां दर्शयाशु महीधर। ज्ञातुमिच्छामि तां सम्यक्प्रसादं कुरु मापते ॥२३।। विष्णुरुवाच त्रिगुणा साडखिलाधारा सर्वज्ञा सर्वसंमता। अजेयाऽनेकरूपा च सर्वं व्याप्य स्थिता जगत् ॥२४॥ दिदृक्षा यदि ते चित्ते नारदारोहणं कुरु। गरुडे मत्समेतोऽद्य गच्छावोऽन्यत्र सांप्रतम् ॥२५॥ दर्शयिष्यामि ते मायां दुर्जयामजितात्मभिः । दृष्टा तां ब्रह्मपुत्र त्वं मा विषादे मनः कृथाः २६॥ इत्युक्त्वा देवदेवो मां सस्मार विनतासुतम्। स्मृतमात्रस्तु गरुडस्तदागाद्धरिसन्निधौ ॥२७॥ आगतं गरुडं वीक्ष्य आरुरोह जनार्दनः । समारोप्य च मां पृष्ठे गमनाय कृतादरः ॥२८॥ चलितो विनतापुत्रो वैकुण्ठाद्वायुवेगवान्। प्रेरितो यत्र कृष्णेन गन्तुकामेन काननम् ॥२९॥ महावनानि दिव्यानि सरांसि सरितस्तथा। पुरग्रामाकरादींश्च खेटखर्वटगोव्रजान् ॥३०॥ मुनीनामाश्रमात्रम्याम्यान्वापीश्र सुमनोहराः। पल्वलानि विशालानि हदान्पङ्कजभूषितान् ॥३१॥ मृश्धणां च वराहाणां वृंदान्यप्यवलोक्य च। गतावावां कान्यकुब्जसमीपं गरुडासनी ॥३२॥ तत्र रम्यं सरो दिव्यं दृष्ट पङ्कजमण्डितम्। हंसकारण्डवाकीणं चक्रवाकोपशाभितम्॥३३॥ नानावर्णे: प्रफुल्लैश्च पङ्कजैरुपरञ्जितम्। शुचि मिष्टजलं भृङ्गयूथनादविराजितम् ॥३४॥ अमाह भगवान् वीक्ष्य तडागं परमान्भुतम् । स्पर्धकं चोदधेः क्षीर मिषटंवारि विशेषतः ॥३५॥ श्रीभगवानुवाच पश्य नारद गभ्भीरं सरः सारसनादितम् । सर्वत्र पङ्कजैश्छन्नं स्वच्छनीरप्रपूरितम् ॥३६॥ अत्र स्नात्वा गमिष्यावः कान्यकुब्जं पुरोत्तमम् । इत्युक्त्वा गरुडादाशु मामुत्तायं व्यतारयत् ।३७।
Page 418
४१८ श्रीम देवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः २९ विहस्य भगवांस्तत्र जग्राह मम तर्जनीम। स्तुवन्सरोवरं भूयस्तीरे मामनयत्प्रभुः ॥३८॥ विश्रम्य तटभागे तु स्निग्धच्छाये मनोहरे। मामुवाच मुने स्नानं कुरु त्वं विमले जले ।३९॥ पश्चादहं करिष्यामि तडागेऽस्मिन्सुपावने । साधूनामिव चेतांसि जलानि निर्मलानि च ॥४०॥ सुरभीणि परागैस्तु पङ्मजानां विशेषतः । इत्युक्तोऽहं भगवता मुक्त्वा वीणां मृगाजिनम्॥४१॥ स्नानाय कृतधीस्तीरे गतः प्रेमसमन्वितः । पादौ प्रक्षाल्य हस्तौ च शिखां बद्ध्वा कुशग्रहम्। कृत्वाचम्य शुचिस्तोये स्नातवानस्मि तज्जले। यदा तस्मि्जले रम्ये स्नातोऽहं पश्यतो हरेः॥४३॥ विहाय पौरुषं रूपं प्राप्तः स्त्रीत्वमनुत्तमम्। हरिर्गृहीत्वा वीणां मे तथा कृष्णाजिनं शुभम्॥४४॥ आरुह्य गरुडं तूर्ण जगाम स्वगृहं क्षणात्। ततोजहं स्त्रीत्वमापन्नश्चारुभूषणभूषितः ।४५।। तत्क्षणान्मनसो जाता पूर्वदेहस्य विस्मृतिः । विस्मृतोऽसी जगन्नाथो महती विस्मृता पुनः ॥४६॥ संप्राप्य मोहिनीरूपं तडागान्निर्गतो बहिः। अपश्यं नलिनीजुष्टं सरस्तद्विमलोदकम् ॥४७॥ किमेतदिति मनसाऽकरवं विस्मयं मुहुः। एवं निंतयमानस्य नारीरपधरस्य मे ॥४८॥ सहसा दृक्पथं प्राप्तस्तत्र तालध्वजो नृपः । गजाश्वरथवृन्दैश्च संयुतों रथसंस्थितः ॥४९॥ युवा भूषणसंवीतो देहवानिव मन्मथः । वीक्ष्य मां भूपतिस्तत्र दिव्यभूषणभूषिताम् ॥५०॥ राकाचन्द्रमुखीं योषां विस्मयं परमं गतः। पपच्छ काडसि कल्याणि कस्य पुत्री सुरस्य वा ॥ मानुषस्य च वा कान्ते गन्धर्वस्योरगस्य च। एकाकिनी कथं बाला रूपयौवनभूषिता ॥५२॥ विवाहिताऽथ कन्या वा सत्यं वद सुलोचने। कि पश्यसि सुकेशांते तडागेऽस्मिन्सुमध्यमे ॥५३॥ चिकीषितं पिकालापे ब्रहि •मन्मथमोहिनि। भुंक्ष्व भोगान्मरालाक्षि मया सह कृशोदरि ॥ वांछितान्मनसा नूनं कृत्वा मां पतिमुत्तमम् ॥५४॥ इति श्रीदेवीमागवते महापुराणे षष्ठस्कन्धेऽष्टाविंशोऽध्यायः ॥ २८॥ अथ एकोनविंशोऽध्यायः नारद उवाच दृत्युक्तोऽहं तदा तेन राज्ञा तालध्वजेन च। विमृश्य मनसाऽत्यर्थ तमुवाच विशांपते ॥१॥ राजन्नाहं विजानामि पुत्री कस्येति निश्चयम् । पितरौ क्व च मे केन स्थापिता च सरोवरे ॥२॥ किं करोमि क्व गच्छामि कर्थं मे सुकृतं भवेत्। निराधाराऽस्मि राजेन्द्र चिंतयामि चिकीर्षितम् ३॥। दैवमेव वरं राजन्नास्त्यत्र पौरुषं मम। धर्मज्ञोऽसि महीपाल यथेच्छसि तथा कुरु॥४॥ तवाधीनाऽस्म्यहं भूप न मे कोप्यस्ति पालकः । न पिता न च माता च न स्थानं च बांधवः ॥५॥ इत्युक्तोऽसी मया राजा बभूव मदनातुरः । मां निरीक्ष्य विशालाक्षीं सेवकानित्युवाच ह ॥६॥
Page 419
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २९ ४१९
नरयानमानयध्व चतुर्बाह्यं मनोहरम्। आरोहणार्थमस्यास्तु कौशेयांबरवेष्टितम् ॥७॥। मृद्रास्तरणसंयुक्तं मुक्ताजालविभूषितम् । चतुरसत्ं विशालं च सुवर्णरचितं शुभम् ॥८। तस्य तद्वचनं श्रुत्वा भृत्याः सत्वरगामिनः । आनिन्युः शिब्िकां दिव्यां मदर्थे वस्त्रवेष्टिताम् ॥९॥ आरूढोऽहं तदा तस्यां तस्य प्रियचिकीर्षया। मुदितोऽसौ गृहे नीत्वा मां तदा पृथिवीपतिः ॥१०। विवाहविधिना राजा शुभे लग्ने शुभे दिने। उनयेमे च मां तत्र हुतभुकतत्रिधौ ततः ॥११॥ तस्याहं वल्लभा जाता प्राणेभ्योऽपि गरीयसी। सौभाग्यसुन्दरीत्येवं नाम तत्र कृतं मम ॥१२॥ रममाणो मया सार्ध सुखमाप महीपतिः। नानाभोगविलासैश्च कामशास्त्रोदितैस्तथा ॥१३॥ राजकार्याणि संत्यज्य क्रीडासक्तो दिवानिशम् । नासौ विवेद गच्छंतं कालं कामकलारतः ॥१४।। उद्यानेषु च रम्येपु वापीषु च गृहेपु च। हर्म्येपु वरशैलेपु दीर्घिकासु वरासु च ।१५॥ वारुणीमदमत्तोऽसी विहरन्कानने शुभे। विसृज्य सर्वकार्याणि मदधीनो बभूव है॥१६॥ व्यासाहं तेन संसक्ता क्रीडारसवशीकृता। स्मृतावान्पूर्वदेहं न पुंभावं मुनिजन्म च ॥१७॥ ममैवायं पतिर्योषाऽहं पत्नीषु प्रिया सती। पट्टराज्ञी विलासज्ञा सफलं जोवितं मम ॥१८॥ इति चिंतयती तस्मिन्प्रेमबद्धा दिवानिशम्। क्रीडासक्ता सुखे लुब्धा तं स्थिता वशवर्तिनी ॥१९॥ विस्मृतं व्रह्मविज्ञानं ब्रह्मज्ञानं च शाश्वतम् । धर्मशास्त्रपरिज्ञानं तदासक्तामनाः स्थिता ॥२०॥ एवं त्रिहरतस्तत्र वर्षाणि द्वादशव तु। गतानि क्षणवत्कामक्रीडासक्तस्य मे मुने ॥२१॥ जाता गर्भवती चाहं मुदं प्राप नृपस्तदा। कारयामास विधिवद्गर्भसंस्कारकर्म च ॥२२॥ अपृच्छद्दोहदं राजा प्रीणयन्मां पुनः पुनः। नाब्रुवं लज्जमानाऽहं नृपं प्रीतमना भृशम् ॥२३॥ संपूर्णे दशमे मासि पुत्रो जातस्ततो मम। शुभेऽह्नि ग्रहनक्षत्रलग्नताराबलान्विते ॥२४॥ बभूव नृपतेगेहे पुत्रजन्ममहोत्सवः । राजा परमसन्तुष्टो बभूव सुतजन्मतः ॥२५॥ सूतकांते सुतं वीक्ष्य राजा मुदमवाप ह। अहं भूमिपतेश्चासं प्रिया भार्या परंतप ॥२६॥ ततो वर्षद्वयांते वै पुनर्गर्भो मया धृतः । द्वितीयस्तु सुतो जातः सर्वलक्षणसंयुतः ॥२७॥ सुधन्वेति सुतस्याथ नाम चक्रे नृपस्तदा। वीरवर्मेति ज्येष्ठस्य ब्राह्मणैः प्रेरितस्त्वयम् ॥२८॥ एवं द्वादश पुत्राश्च प्रसूता भूपसंमताः । मोहितोऽहं तदा तेषां प्रीत्या पालनलालने ॥२९॥ पुनरष्ट सुताः काले काले जाता: सुरूपिणः । गार्हस्थ्यं मे ततः पूर्ण संपन्नं सुखसाधनम् ॥३०॥ तेपां दारक्रिया: काल कृता राज्ञा यथोचिताः। स्नुषाभिश्च तथा पुत्रः परिवारो महानभून् ॥३१॥ ततः पौत्रादिसंभूतास्तेऽपि क्रीडारसान्विताः । आसन्नानारसोपेता मोहवृद्धिकरा भृशम् ॥३२॥ कदाचित्सुख मैश्वयं कदाचिद्दुःखमद्भुतम्। पुत्रेषु रोगजनितं देहसंतापकारकम् ॥३३॥ परस्परं कदाचित्त विरोधोऽभूत्सुदारुणः । पुत्राणां वा वधूनां च तेन संतापसंभवः ॥३४॥
Page 420
४२० श्रीमद्वेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: २९ सुखदुःदुखात्मके घोरे मिथ्याचारकरे भृशम् । संकल्पजनिते क्षुद्रे मग्नोऽहं मुनिसत्तम ॥३५॥ विस्मृतं पूर्वविज्ञानं शास्त्रज्ञानं तथा गतम् । योषाभावे विलोनोऽहं गृहकार्येषु सर्वथा ॥३६॥ अहंकारस्तु संजातो भृशं मोहविवर्धकः । एते मे बलिनः पुत्राः स्नुषाः सुकुलसंभवाः ॥३७॥ एते पुत्राः सुसन्नद्धाः क्रीडंति मम वश्मसु। धन्याऽहं खलु नारीणां संसारेऽस्मिन्नहो भृशम् ॥ नारदोऽहं भगवता वंचितो मायया किल। न कदाचिन्मयाप्येवं चिंतितं मनसा किल ॥३९॥ राजपत्नी झुभाचारा बहुपुत्रा पतिव्रता। धन्याऽहं किल संसारे कृष्णैवं मोहितस्त्वहम् ॥४०॥ अथ कश्चिन्नृपः कामं दूरदेशाधिपो महान्। अरातिभावमापन्नः पतिना सह मानद ॥४१॥ कृत्वा सैन्यसमायोगं रर्थश्र वारणैर्युतम्। आजगाम कान्यकुब्जे पुरे युद्धमचितयत् ।।४२।। वेष्टितं नगरं तेन राज्ञा सैन्ययुतेन च। मम पुत्राश्च पौत्राश्च निर्गता नगरात्तदा ॥४३।। संग्रामस्तुमुलस्तत्र कृतस्तैरतेन पुत्रकैः । हता रणे सुताः सर्वे वैरिणा कालयोगतः ॥४४।। राजा भग्नस्तु संग्रामादागतः स्वगृहं पुनः। श्रुतं मया मृताः पुत्राः संग्रामे भृशदारुणे ॥४५॥ स हत्वा मे सुतान्पौत्रान्गतो राजा बलान्वितः । क्रंदमाना ह्यहं तत्र गता समरमण्डले ॥४६॥। दृष्टा तान्पतितान्पुत्रान्पोत्रांश्च दुःखपीडिता। विललापाहमायुष्मञ्छोकसागरसंप्लवे l४७ हा पुत्रा: क्व गता मेडद्य हा हतास्मि दुरात्मना। दैवेनातिबलिष्टेन दुर्वाेणातिपापिना।४८।। एतस्मिन्नंतरे तत्र भगवान्मधुसूदनः । कृत्वा रूपं द्विजस्यागाद्ृद्वः परमशोभनः ॥४९।। सुवासा वेदवित्कामं मत्समीपं समागतः । मामुवाचातिदीनां संक्रन्दमानां रणाजिरे ॥५०॥ ब्राह्मण उवाच किं विषीदसि तन्वंगि भ्रमोऽयं प्रकटीकृतः । मोहेन कोकिलालापे पतिपुत्रगृहात्मके॥५१॥ का त्वं कस्याः सुताः केऽमी चिंतयात्मगति पराम्। उत्तिष्ठ रोदनं त्यक्त्वा स्वस्था भव सुलोचने ॥५२। स्नानं च तिलदानं च पुत्राणां कुरुं कामिनि। परलोकगतानां च मर्यादारक्षणाय वै ॥५३॥ कर्तव्यं सर्वथा तीर्थे स्नानं तु न गृहे ववचित् । मृतानां किल वन्धूनां धर्मशास्त्रविनिर्णयः ॥५४॥ नारद उवाच इत्युक्त्वा तेन विप्रेण वृद्धेन प्रतिवोधिता । उत्थिताइहं नृपेणाथ युक्ता बंधुभिरावृता ।५५।। अग्रतो द्विजरूपेण भगवान्भूतभावनः । चलिताऽहं ततस्तूर्ण तीर्थ परमपावनम् ॥५६॥ हरिमां कृपया तत्र पुंतीर्थे सरसि प्रभुः। नीत्वाऽऽह भगवाविष्णर्द्विजरूपी जनार्दनः ॥५७॥
Page 421
श्रीमद्देवीमागवते महापुराणे षष्ठस्कन्धे अध्याय: ३० ४२१ स्नानं कुरु तडागेऽस्मिन्पावने गजगामिनि। त्यज शोकंक्रियाकाल: पुत्राणां च निरर्थकम् ॥५८॥ कोटिशस्ते मृताः पुत्रा जन्मजन्मसमुद्गवाः । पितरः पतयश्चैव भ्रातरो जामयस्तथा ॥५९॥ केषां दुःखं त्वया कायं भ्रमेऽस्मिन्मानसोद्गवे। वितथे स्वप्नसदृशे तापदे देहिन्मिह ॥६०॥ नारद उवाच इति तस्य वच: श्रुत्वा तीर्थे पुरुपसंज्ञके। प्रविष्टा स्नातुकामाऽहं प्रेरिता तत्र विष्णुना ॥६१॥ मज्जनादेव तीर्थेषु पुमाआतः क्षणादपि। हरिर्वीणां करे कृत्वा स्थितस्तीरे स्वदेहवान् ॥६२।। उन्मज्ज्य च मया तीरे दृष्टः कमललोचनः । प्रत्यभिज्ञा तदा जाता मम चित्ते द्विजोत्तम ॥६३॥ संचितितं मया तत्र नारदोऽहमिहागतः । हरिणा सह स्त्रीभावं प्राप्तो मायाविमोहितः ॥६४॥। इति चिंतापरश्चाहं यदा जातस्तदा हरिः । मामाह नारदागच्छकिं करोषि जले स्थितः ॥६५॥ विस्मितोहं तदा स्मृत्वा स्त्रीभावं दारुणं भृशम् । पुनः पुरुषभावश्र संपन्नः केन हेतुना ॥६६।। इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे एकोनविंशोऽध्यायः ॥ २९ ॥ अथ त्रिंशोऽध्यायः नारद उवाच मां दृष्टा नारदं विप्रं विस्मितोऽसी महीपतिः । कव गता मम भार्या सा कुतोऽयं मुनिसत्तमः ॥१॥ विललाप नृपस्तत्र हा प्रियेति मुहु्मुहुः । क्व गता मां परित्यज्य विलपन्तं वियोगिनम् ॥२॥ विना त्वां विपुलश्रोणि वृथा मे जीवितं गृहम् । राज्यं कमलपत्राक्षि कि करोमि शुचिस्मिते ॥३॥ न प्राणा मे बहिर्यान्ति विरहेण तवाधुना। गतो वै प्रीतिधर्मस्तु त्वामृते प्राणधारणात् ॥४॥ विलपामि विशालाक्षि देहि प्रत्युत्तरं प्रियम्। कव गता सा मयि प्रोतिर्याऽभूत्प्रथमसंगमे ।।५॥ निमग्ना कि जले सुभ्रूर्भक्षिता मत्स्यकच्छपैः । गृहीता वरुणेनाशु मम दौर्भाग्ययोगतः ॥६॥ धन्या सुचारुसर्वांगि या त्वं पुत्रः समागता । अकृत्रिमस्तु पुत्रेषु स्नेहस्तेऽमृतभाषिणि ॥७॥ न युक्तमधुना यन्मां विहाय त्रिदिवं गता। विलपन्तं पर्ति दीनं पुत्रस्नेहेन यन्त्रिता ।।८।। उभयं मे गतं कान्ते पुत्रस्त्वं प्राणवल्लभे। तथापि मरणं नास्ति दुःवितस्य भृशं प्रिये ।।९॥ किं करोमि क्त गच्छामि रामो नास्ति महीतले। रामाविरहजं दुःखञ्जानाति रघुनन्दनः ॥१०॥ विधिना निष्ठुरेणात्र विपरीतं कृतम्भुवि। दम्पत्योर्मरणं भिन्नं सर्वथा समचित्तयोः ॥११॥ उपकारस्तु नारीणां मुनिभिर्विहितः किल। यदुक्त धर्मशास्त्रेषु ज्वलनं पतिना सह ।।१२। एवं विलपमानं तं राजानं भगवान्हरिः । निवारयामास तदा वचनैर्युक्तियोजितैः ॥१३॥
Page 422
४२२ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ३० श्रीभगवानुवाच किं विषीदसि राजेन्द्र क्व गता ते प्रियाङ्गना। न श्रुतं कि त्वया शास्त्रं न कृतोऽसौ बुधाश्रयः १४॥ का सा कस्त्वं वव संयोगो वियोग: कीदृशस्तव। प्रवाहरूपे संसारे नृणां नौतरतामिव ।१५॥ गृहे गच्छ नृपश्रेष्ट वृथा ते रुदितेन किम्। संयोगश्च वियोगश्च दैवाधीनः सदा नृणाम् ॥१६॥ अनया सह ते राजन्संयोगस्त्विह संवृतः । भुक्ता त्वया विशालाक्षी सुंदरी तनुमध्यमा ॥१७॥ न दृष्टौ पितरावस्यास्त्वया प्राप्ता सरोवरे। काकतालीप्रसंगेन यद्भूतं तत्तथा गतम् ॥१८। मा शोकं कुरुं राजेंद्र कालोडतिदुरतिक्रमः । कालयोगं समासाद् भुंक्ष्व भोगान्गृहे यथा ॥१९॥ यथाऽडगता गता सा तु तर्थव वरर्वणिनी। यथा पूर्व तथा तत्र गच्छ कार्य कुरु प्रभो ॥२०॥ रुदितेन तवाद्यव नागमिष्यति कामिनी। वृथा शोचसि पृथ्वीश योगयुक्तो भवाधुना ।२१।। भोग: कालवशादेति तर्थव प्रतियाति च। नात्र शोकस्तु कर्तव्यो निष्फले भववर्त्मनि ॥२२॥ नैकत्र सुखसंयोगो दुःखयोगस्तु नैकतः । घटिकायन्त्रवत्कामं भ्रमणं सुखदुःखयोः ॥२३॥ मनः कृत्वा स्थिरं भूप कुरु राज्यं यथासुखम्। अथवा न्यस्य दायादे वनं सेवय सांप्रतम् ॥२४॥ दुर्लभो मानुषो देहः प्राणिनां क्षणभंगुरः । तस्मिन्प्रास्त तु कर्तव्यं सर्वथैवात्मसाधनम् ॥२५॥ जिह्नोपस्थरसो राजन्पशुयोनिषु वर्तते। ज्ञानं मानुषदेहे वै नान्यासु च कुयोनिषु ॥२६॥ तस्माद्गच्छ गृहं त्यक्त्वा शोकं कान्तासमुद्धवम्। मायेयं भगवत्यास्तु यया संमोहितं जगत् ॥२७॥। नारद उवाच इत्युक्तो हरिणा राजा प्रणम्य कमलापतिम् । कृत्वा स्नानविधि सम्यग्जगाम निजमंदिरम् ॥२८॥ दत्त्वा राज्यं स्वपौत्राय प्राप्य निर्वेदमद्भुतम्। वनं जगाम भूपालस्तत्त्वज्ञानमवाप च ॥२९॥ गते राजन्यहं वीक्ष्य भगवन्तमधोक्षजम् । तमब्रुवं जगन्नाथं हसन्तं मां पुनः पुनः ॥३०॥ वञ्चितोऽहं त्वया देव ज्ञातं मायाबलं महत् । स्मरामि चरितं सर्वं स्त्रीदेहे यत्कृतं मया ॥३१॥ ब्रूहि मे देवदेवेश प्रविष्टोऽहं सरोवरे। विगतं पूर्वविज्ञानं स्नानादेव कथं हरे॥३२॥ योषिद्देहं समासाद्य मोहितोऽहं जगद्गुरो। पति प्राप्य नृपश्रेष्ट पुलोमी वासवं यथा ॥३३॥ मनस्तदेव तच्चित्तं देहः सच पुरातनः । लिंग तदेव देवेश स्मृतेर्नाशः कथं हरे ॥३४॥ विस्मयोऽयं महान्मेऽत्र ज्ञाननाशं प्रति प्रभो। कथयाद्य रमाकान्त कारणं परमं च यत्।३५॥ नारीदेहं मया प्राप्य मुक्ता भोगा ह्यनेकशः । सुरापानं कृतं नित्यं विधिहीनं च भोजनम् ॥३६॥ मया तदेव न ज्ञातं नारदोऽहमिति स्फुटम् । जानाम्यद्य यथा सवं विविक्तं न तथा तदा ॥३७।।
Page 423
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ३१ ४२३
विष्णुरुवाच पंश्य नारद मायावी विलासोडयं महामते। देहेषु सर्वजंतूनां दशाभेदा ह्यनेकशः ॥३८॥ जाग्रत्स्वप्नसुषुप्तिश्च तुरीया देहिनां दशा। तथा देहान्तरे प्राप्ते सन्देहः कीदृशः पुनः ॥३९॥ सुप्तो नरो न जानाति न शृणोति वदत्यपि । पुनः प्रबुद्धो जानाति सर्व ज्ञातमशेषतः ॥४०॥ निद्रया चाल्यते चित्तं भवन्ति स्वप्नसंभवाः । नानाविधा मनोभेदा मनोभावा ह्यनेकशः ॥४१॥ गजो मां हन्तुमायाति न शक्तोऽस्मि पलायने । किं करोमि न मे स्थानं यत्र गच्छामि सत्वरः ॥ पितामहं स्वप्ने पश्यति स्वगृहागतम्। संयोगस्तेन वार्ता च भोजनं सह मन्यते ॥४३॥ प्रबुद्धः खलु जानाति स्वप्ने दृष्टं सुखासुखम्। स्मृत्वा सर्व जनेभ्यस्तु विस्तरात्प्रवदत्यपि ॥४४॥ स्वप्ने कोऽपि न जानाति भ्रमोऽयमिति निश्चयः । यथा तर्थव विभवो मायाया दुर्गमः किल ॥४५॥ नाहं नारद जानामि पारम्परमदुर्घटम्। मुणानां किल मायाया नैव शम्भुर्न पद्मजः ॥४६॥ कोऽन्यो ज्ञातुं सुमर्थोडभून्मानवो मन्दघी: पुनः । मायागुणपरिज्ञानं न कस्यापि भवेदिह ॥४७॥ गुणन्रयकृतं सर्वं जगत्स्थावरजङ्गमम् । विना गुणैर्न संसारो वर्तते किचिदप्यदः ॥४८॥ अहूं सत्त्वप्रधानोऽस्मि रजस्तमसमन्वितः । न कदाचित्त्रिभिर्हीनो भवामि भुवनेश्वरः॥४९॥ तथा ब्रह्मा पिता तेऽत्र रजोमुख्यः प्रकीर्तितः । तमःसत्त्वसमायुक्तो न ताभ्यामुज्झितः किल ॥५०॥ शिवस्तथा तमोमुख्यो रजःसत्त्वसमावृतः । गुणत्रयविहीनस्तु नैव कोऽपि मया श्रुतः ॥५१॥ तस्मान्मोहो न कर्तव्यः संसारेऽस्मिन्मुनीश्वर। मायाविनिर्मितेऽ्सारेऽपारे परमदुर्घटे॥५२॥ दृष्टा माया त्वयाऽद्यंव भुक्ता भोगा ह्यनेकशः । कि पृच्छसि महाभाग तस्याश्चरितमद्द्ुतम् ॥५३॥ इति श्रीदेवीभागवते महापुराणे षष्ठस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥ अथकत्रिशोऽध्यायः व्यास उवाच निशामय महाराज ब्रवोमि विशदाक्षरम् । माहात्म्यं खलु मायाया नारदात्तु मया श्रुतम् ॥१॥ मया पुनर्मुनिः पृष्टो नारदः सर्ववित्तमः । श्रुत्वा कथां मुनेस्तस्य नारोदेहसमुद्धवाम् ॥२॥ ब्रूहि नारद पश्चात्क कथितं हरिणा तदा। क्व गतश्च जगन्नाथो भवता सह माघवः ॥३॥ नारद उवाच इत्युक्त्वा भगवांस्तस्मिस्तडागेऽतिमनोहरे। आरुह्य गरुडं गन्तुं वैकुण्ठे च मनो दधे ।।४।। मामुवाच रमाकान्तो यथेष्टं गच्छ नारद। एहि वा मम लोकं त्वं यथा रुचि तथा कुरु ॥५॥
Page 424
४२४ श्रीमदेवीभागवते महापुराणे षष्ठस्कन्धे अध्यायः ११ ब्रह्मलोकङ्गतश्राहमापृच्छय मधुसूदनम् । भगवानपि देवेशस्तत्क्षणाद्गरुडासनः ॥६।। वैकुण्ठमगमत्तणं मामादिश्य यथासुखम् । ततोऽहं पितृसदनं गतो याते जनार्दने ॥७॥ चिंतयन्सकलं दुःखं सुखं च परमाद्ुतम्। गत्वा प्रणम्य पितरं स्थितो यावत्पुरः पितुः ॥८॥ तावत्पृष्टो मुने पित्रा वीक्ष्य चिंतातुरं तु माम् । ब्रह्मोवाच क्व गतोऽसि महाभाग कस्माच्चितातुरः सुत ॥९॥ स्वस्थं नैवाद्य पश्यामि मनस्ते मुनिसत्तम। केनापि वचितोऽसि त्वं दृष्टं वा किंचिदद्द्भुतम् ॥ विषण्णं गतविज्ञानं पश्यामि त्वां कथं सुत।
नारद उवाच इति पृष्टस्तदा पित्रा बृस्यां समुपवेश्य च ॥११॥ तमब्रुवं स्ववृत्तान्तं मायाबलसमुद्वम्। वंचितोऽहम्पितः कामं विष्णुना प्रभविष्णुना १२।। स्त्रीभावङ्गमितः कामं वर्षाणि सुबहून्यपि। अनुभूत महद्दुःखं प्रुत्रशोकसमुद्भवम् ॥१३॥ प्रबोधितोऽहं तेनैव मृदुवाक्यामृतेन च। पुनःपरोवरे स्नात्वा जातोऽहं नारदः पुमान् १४॥ किमेतत्कारणं ब्रह्मन् यन्मोहमगमं तदा। विस्मृतं पूर्वविज्ञानं तन्मयस्तरसा कृतः ॥१५॥ एतन्मायाबलं ब्रह्मन्न जानेऽहं दुरत्ययम्। ज्ञानहानिकरं जातं मूलं मोहस्य विस्फुटम् ॥१६॥ अनुभूतं मया सम्यग्ज्ञातं सवं शुभाशुभम् । कथं त्वं जितवांस्तात तमुपायं वदस्व मे ॥१७॥ नारद उवाच विज्ञप्तोऽसी मया धाता प्रीतिपूर्वमतः परम्। मामुवाच स्मितं कृत्वा पिता मे वासवीसुत १८।। ब्रह्मोवाच दुजयैषा सुरैः सर्वेर्मुनिभिश्च महात्मभिः । तापसैज्ञनयुक्तेश्र योगिभिः पवनाशनैः ॥१९॥ ना हंतां सर्वथा ज्ञातुं शक्तो मायां महाबलाम् । विष्णुर्ज्ञाि न शक्तश्र तथा शंभुरुमापतिः ॥२०॥ दुर्ज्या सा महामाया सृष्टिस्थित्यंतकारिणी। कालकर्मस्वभावाद्यनिमित्तकारर्णर्वृता ।।२१।। शोकं मा कुरु मेधार्विस्तत्र मायामहाबले। न चैव विस्मयः कार्यो वयं सर्वे विमोहिताः ॥२२॥ नारद उवाच पित्रेत्युक्तस्तदा व्यास तमापृच्छ्य गतस्मयः। आगतोऽस्म्यत्र पश्यन्व तीर्था नि च वराणि वै २३।।
Page 425
श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ३१ ४२५ तस्मात्त्वमपि सन्त्यज्य मोहं कौरवनाशजम्। कालक्षयं सुखासीनः स्थानेऽस्मिन्कुरु सत्तम ॥२४॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्। निश्चयं हृदये कृत्वा विचरस्व यथासुखम् ॥२५॥ व्यास उवाच इत्युक्त्वा नारदो राजन्गतो मां प्रतिबोध्य च। अहं तच्चितयन्वाक्यं यदुक्तं मुनिना तदा ॥२६॥ स्थितः सरस्वतीतीरे कल्पे सारस्वते वरे। कालातिबाहनायैतत्कृतं भागवतं मया ॥२७॥ पुराणमुत्तमं भूप सर्वसंशयनाशनम्। नानाख्यानसमायुक्तं वेदप्रामाण्यसंश्रितम् ॥२८॥ संदेहोऽत्र न कर्तव्यः सर्वथा नृपसत्तम। यथेन्द्रजालिकः कश्चित्पांचालीं दारवीं करे २१॥ कृत्वा नर्तयते कामं स्वेच्छया वशवर्तिनीम् । तथा नर्तयते मामा जगत्स्थावरजंगमम् ॥३०॥ ब्रह्मादिस्तंबपयंतं सदेवासुरमानुषम् । पंचेन्द्रियसमायक्तं मनश्चित्तानुवर्तनम् ॥३१॥ गुणास्तु कारणं राजन्सर्वेषां सर्वथा त्रयः । कार्यकारणसंयुक्तं भवतीति विनिश्चयः ॥३२॥ भिन्नभिन्नस्वभावास्ते गुणा मायासमुद्वाः । शांतो धोरस्तथा मूढस्त्रयस्तु विविधा यतः ॥३३॥ तत्समेतः पुमान्नित्यं तद्विहीनः कथं भवेत्। न भवत्येव संसारे रहितस्तंतुभिः पटः ॥३४॥ तथा गुणैस्त्रिभिर्हीनो न देहीति विनिश्चयः । देवदेहो मनुष्यो वा तिरश्ो वा नराधिप ॥३५॥ गुणैविरहितो न स्यान्मृद्विहीनो घटो यथा । ब्रह्मा विष्णुस्तथा रुद्रस्त्रयश्चामी गुणाश्रयाः ॥३६॥ कदाचित्प्रीतियुक्तास्ते तथाऽप्रीतियुताः पुनः । तथा विषादयुक्तास्ते भवंति गुणयोगतः ॥३७॥ ब्रह्मा कदाचित्सत्त्वस्थस्तदा शांतःसमाधिमान् । प्रीतियुक्ो भवेत्सर्वभूतेषु ज्ञानसंयुतः ॥३८।। पुनः सत्त्वविहीनस्तु रजोगुणसमावृतः । तदा भवेद्धोररूपः सर्वत्राप्रीतिसंयुतः ॥३९॥ *यदा तमोगुणाविष्टो बाहुल्येन भवेद्विधिः । तदा विषादसम्पन्नो मूढो भवति नान्यथा ॥४०।। माधवोऽपि सदा सत्त्वसंश्रितः सर्वथा भवेत्। यदा शांतः प्रीतियुक्तो भवेज्ज्ञानसमन्वितः ॥४१।। स एव रजआधिक्यादप्रीतिसंयुतो भवेत्। घोरश्च सर्वभूतेषु गुणाधीनो रमारति ॥४२।। रुद्रोऽपि सत्त्वसंयुक्त: प्रीतिमाञ्छान्तिमान्भवेत् । रजोनिमीलितः सोऽपि धोरः प्रीतिविवर्जितः ४३॥। तमोगुणयुतः सोऽपि मूढो विषादयुग्भवेत्। एते यदि गुणाघीना ब्रह्मविष्णुहरादयः ॥४४॥ अपि। मन्वादयश्च ये प्रोक्ताश्चतुर्दशयुगे युगे॥४५॥ अन्येषां चव का वार्ता संसारेऽस्मिन्नृपोत्तम। मायाधीनं जगत्सर्व सदेवासुरमानुषम् ॥४६॥ तस्माद्राजन् कर्तव्यः संदेहोऽत्र कदाचन। देही मायापराधीनश्चेष्टते तद्वनुशानुगः ॥४७॥ सा च माया परे तत्त्वे संविद्रपेऽपि सर्वदा। तदधीना प्रेरिता च तेन जीवेषु सवदा ।४:।। ततो मायाविशिष्टां तां संविदं परमेश्वरीम्। मायेश्वरीं भगवतीं सच्चिदानंदरूपिणीम् ॥४९॥। ध्यायेत्तथाराऽऽधयेच्च प्रणमेच्च जपेदपि। तेन सा सदया भूत्वा मोचयत्येव देहिनम् ॥५०॥
Page 426
४२६ श्रीमद्देवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: ३१ स्वमायां संहरत्येव स्वानुभूतिप्रदानतः । भुवनं खलु माया स्यादीश्वरी तस्य नायिका ५१॥ भुवनेशी ततः प्रोक्ता देवी त्रैलोक्यसुन्दरी। तद्रूपे यदि सकं स्या्चितं भूमिपते सदा ।५२।। मायया कि भवेत्ततत्र सदसद्भतया नृप। तस्मान्मायानिरासार्थ नान्यद्वँ देवतान्तरम् ।५३।। समर्थ तु विना देवीं सच्चिदानंदरूपिणीम्। तमोराशि नाशयितुं शक्तं नैव तमो भवेत् ॥५४॥ किंतु भानुप्रभाचंद्रविद्युद्रह्िप्रभादयः । तस्मान्मायेश्वरीमम्वां स्वप्रकाशां तु संविदम् ॥५५॥ आराधयेदतिप्रीत्या मायागुणनिवृत्तये । इति सम्यङ्मयाऽडख्यातं वृत्रासुरवधादिकम् ॥५६।। यत्पृष्टं राजशार्दूल किमन्यच्छ्रोतुमिच्छसि। पूर्वार्धोडयं पुराणस्य कथितस्तव सुव्रत ॥५७॥ यत्र देव्यास्तु महिमा विस्तरेणोपपादितः । एतद्रहस्यं श्रीमातुर्न देयं यस्य कस्यचित् ॥५८॥ देयं भक्ताय शांताय देवीभक्तिरताय च। शिष्याय ज्येष्ठपुत्राय गुरुभक्तियुताय च।५९॥ इदमखिलकथानां सारभूतं पुराणं निखिलनिगमतुल्यं सप्रमाणानुविद्धम् । पठति परमभावाद्यः शृणोतीह भक्त्या स भर्वत धनवान्वै ज्ञानवान्मानवोऽत्र ॥६०॥। इति श्रीदेवीभागवते महापुराणे षप्टस्कंधे भगवतीमाहात्म्ये एकत्रिशोऽध्यायः ॥३१॥ वेदाष्टवसुभूसंख्यैः (१८८४) पद्यैर्व्यासकृतैः शुभैः । देवीभागवतस्यास्य षष्टस्कंध: समाप्तवान् ॥
समाप्तोऽयं पष्ठः स्कन्धः
Page 427
श्रोगणेशाय नमः श्रीमद्देवीभागवतम्
सप्तमः स्कन्धः
अथ प्रथमोऽध्यायः सूत उाच श्रुत्वैतां तापसाहदिव्यां कथां राजा मुदान्वितः । व्यासं प्रपच्छ धर्मात्मा परीक्षितसुतः पुनः॥१॥ जनमेजय उवाच स्वामिन्सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम्। तथा सोमान्वयानां च श्रोतुकामोऽस्मि सवथा॥२॥ कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम्। चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥३॥ ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं शृण्वन्कोऽस्ति विरक्तिभाक्॥ इति राजर्षिणा पृष्ठो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्टः प्रसन्नवदनो मुनिः ॥५॥ व्यास उवाच निशामय महाराज विस्तराद्गदतो मम। सोमसूर्यान्वयानां च तथाऽन्येषां समुद्धवम् ॥६॥ विष्णोर्नाभिसरोजाद्वै ब्रह्माऽभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥७॥ तया दत्तवरो धाता जगत्कतुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कतुं लोकपितामहः ॥८॥ विचिंत्य बहुधा चित्ते सृष्टयर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना ॥९॥ "ससर्ज मानसान्पुत्रान्सससंख्यान्प्रजापतिः" । मरीचिरंगिराऽत्रिश्च वसिष्ठः पुलहः क्रतुः ॥ पुलस्त्यश्चेति विख्याताः ससैते मानसाः सुताः ॥१०॥ रुद्रो रोषात्समुन्नोऽप्युत्संगान्नारदोऽभवत् । दक्षोंगुष्ठात्तथाऽन्येपि मानसाः सनकादयः ॥११॥
Page 428
४२८ श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः १ वामांगुष्ठादृक्षपत्नी जाता सर्वांगसुंदरी। वीरिणी नाम विख्याता पुराणेषु महीपते ।।१२।। असिक्नोति च नाम्ना सा यस्यां जातोऽथ नारदः। देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः॥१३॥ जनमेजय उवाच अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः॥१४॥ कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः । जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥१५॥ विचित्रमिदमाख्यातं भवता नारदस्य च। दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥१६॥ पूर्वदेहः कथं मुक्तः शापात्कस्य महात्मना । नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥१७॥ व्यास उवाच ब्रह्मणाऽसौ समादिष्टो दक्षः सृष्टयर्थमादितः । प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयंभुवा ॥१८॥ ततः पञ्चसहस्त्रांश्र जनयामास वीर्यवान् । दक्ष: प्रजापतिः पुत्रान्वीरिण्यां बलवत्तरान् ॥१९॥ दृष्टा तान्नारदः पुत्रान्सर्वान्वर्धयिषन्प्रजाः । उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥२०॥ भुवः प्रमाणमज्ञात्वा स्रष्टकामाः प्रजाः कथम् । लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥२१॥ पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्य: समुद्यमः । कृतोऽसी सिद्धिमायाति नान्यथेति विनिश्चयः २२॥। वालिशा बत यूयं वै यद्यज्ञात्वा भुवस्तलम् । समुद्यताः प्रजाः कतुं कथं सिद्धिर्भविष्यति ॥२३॥ व्यास उवाच नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः । अन्योन्यमूचू: सहसा सम्यगाह मुनिः किल ॥२४॥ ज्ञात्वा प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः । इति संचित्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥२५॥ तलं सर्वं परिज्ञातुं वचनान्नारदस्य च। प्राच्यां केचिद्रताः कामं दक्षिणस्यां तथापरे ॥२६॥ प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समंततः । दक्षः पुत्रान्गतान्दृष्टा पीडितस्तु शुचा भृशम् ॥२७॥ अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः । तेऽपि तत्रोदताः कर्तु प्रजार्थमुद्यमं सुता ॥२८॥ नारदः प्राह तान्दृष्टा पूर्वं यद्वचनं मुनिः । बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥२९॥ प्रमाणं तु प्रजा: कर्तु प्रवृत्ताः केन हेतुना। श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ जग्मुः सर्वे यथापूर्व भ्रातरश्चलितास्तथा। तान्सुतान्प्रस्थितान्दृष्टा दक्षः कोपसमन्वितः ॥३१॥ शशाप नारदं रोषात्पुत्रशोकसमुद्धवात्। दृक्ष उवाच नाशिता मे सुता यस्मात्तस्मान्नाशमवाप्तुहि॥३२॥ पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च । पुत्रो मे भव कामं त्वं यतो मे भ्रंशिनाः सुताः ॥३३॥ इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः । षष्टिर्भूयोऽसृजत्कन्या वींरिण्यामितिन प्रुतम्॥३४॥
Page 429
आमइ्वीभागवते महापुराणे सप्तमस्क्न्धे अध्यायः २ ४२९ शोकं विहाय पुत्राणां दक्षः परमधर्मवित्। तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥३५॥ दश धर्माय सोमाय सप्तविशति भूपते। द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥३६॥ द्वे चैवांगिरसे कन्ये तथैवांगिरसे पुनः। तासां पुत्राश्र पौत्राश्च देवाश्च दानवास्तथा ॥३७॥ जाता बलसमायुक्ताः परस्परविरोधकाः। रागद्वेषान्विताः सर्वे परस्परविरोधिनः ।। सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥३८॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे प्रथमोऽध्यायः ॥१॥ अथ द्वितीयोऽध्यायः जनमेजय उवाच ममांख्याहि महाभाग राज्ञां वंशं सविस्तरम्। सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥१॥ व्यास उवाच शृणु भारत वक्ष्यामि रविवंशस्य विस्तरम्। यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥२॥ एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे। आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥३॥ प्रणम्य शिरसा पादो तस्याग्रे संस्थितस्तदा। ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ।।४॥ विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम्। पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥५॥ कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् । राजानो ये समाख्याताः सपमेऽस्मिन्मनो: कुले॥६॥ वेषामुत्पत्तिरतुला चरितं परमाद्द्ुतम् । श्रोतुकामोऽस्म्यहं ब्रह्मन्सूर्यवंशस्य विस्तरम् ॥७॥ समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् । इति पृष्टो मया राजन्नारदः परमार्थवित् ।८। उवाच प्रहसन्प्रीतः समाभाष्य मुदाऽन्वयम् । नारद उवाच शृधु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥९॥ पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम्। ब्रह्मा पूर्वं जगत्कर्ता नाभिपंकजसम्भवः ॥१०॥ विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः । सर्वज्ञः सर्वकर्तासौ स्वयंभूः सर्वशक्तिमान् ॥११॥ तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा। सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ पुत्रानुत्पादयामास मानसाञ्शुभलक्षणान् । मरीचि: प्रथितस्तेषामभवत्सृष्टिकर्मणि ॥१३॥ तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः । त्रयो्शैव तस्यासन्भार्या दक्षसुताः किल ॥१४॥ देवा: सर्वे समुत्पन्ना दैत्या यक्षाश्र पन्नगाः । पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी॥१५॥ देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु। तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥१६॥
Page 430
४३० श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः २ तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः । नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥१७॥ तेषां नामानि राजेन्द्र शरृणुष्वकमनाः पुनः । इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च।१८। नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्र सप्तमः । करूषश्र पृषध्रश्च नवैते मानवाः स्मृताः ॥१९॥ इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत । तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् २०॥ नवानां वंशविस्तारं संक्षेपेण निशामय। शूराणां मनुपुत्राणां मनोरंतरजन्मनाम् ॥२१॥ नाभागस्य तु पुत्रोऽभूदंबरीषः प्रतापवान् । धर्मज्ञः सत्यमंधश्च प्रजापालनतत्परः ॥२२॥ धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत। संग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥२३॥ शर्यातिस्तनयश्चाभूदानर्तो नाम विश्रुतः । सुकन्या च तथा पुत्री रूपलावण्यसंयुता ।२४॥ च्यवनाय सुता दत्ता राज्ञाऽप्यंधाय सुन्दरी। मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह २५॥ विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् । जनमेजय उवाच संदेहोडयं महान्ब्रह्मन्कथायां कथितस्त्वया ॥२६॥ यद्राज्ञा मुनयेऽन्धाय दत्रा पुत्री सुलोचना। कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥२७॥ पुत्री यदा भवेद्राजा तदांधाय प्रयच्छति। ज्ञात्वांधं सुमुखी कस्माददत्तवान्त्रृपसत्तमः ॥२८॥ कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा। सूत उवाच इति राज्ञो वच: श्रुत्वा परीक्षितसुतस्य वै ॥२९॥ द्वैपायनः प्रसन्नात्मा तमुवाच हसिन्नव। व्यास उवाच वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः॥३०॥ तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥३१॥ पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसंमताः । एका पुत्री तु तासां वै सुकन्या नाम सुंदरी ॥३२॥ पितुः प्रिया च मातृणां सर्वासां चारुहासिनी। नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥३३॥ बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् । हंसकारंडवाकीणं चक्रवाकोपशोभितम् ।३४। दात्यूहसारसाकीर्ण सर्पपक्षीगणावृतम् । पंचधा कमलोपेतं चंचरीकसुसेवितम् ॥३५॥ पाश्वतश्च द्रुमाकीणं वेष्टितं पादपैः शुभैः । सालस्तमालैः सरलैः पुन्नागाशोकमंडितम् ॥३६॥ बटाश्चत्थकदंबेश्र कदलीखंडराजितम् । जंबीरैर्बीजपूरैश्र खर्जूरैः पनसैस्तथा ॥३७॥ क्रमुकैर्नारिकेलैश्र केतकैः कांचनद्रुमैः। यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥३८॥
Page 431
श्रीमदेवीभागवते महापुराण सप्तमस्कन्धे अध्याय: २ ४३१ करंजकुटजावृतम्। पलाशनिबखदिरबिल्वामलकमंडितम् ।३९। बभूव कोकिलारावः केकास्वनविराजितम्। तत्समीपे शुभे देशे पादपानां गणावृते॥४०॥ भार्गवश्च्यवनः शांतस्तापसः संस्थितो मुनिः । ज्ञात्वाऽसी विजनं स्थानं तपस्तेपे समाहितः ४१।। कृत्बा दृढ़ासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयभ्य त्यक्ताहारस्तपोनिधिः ॥४२॥ जलपानादिरहितो ध्यायन्नास्ते परांबिकाम् । सवल्मीकोऽभवद्राजँल्लताभिः परिवेष्टितः ॥४३॥ कालेन महता राजन्समाकोणं पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥४४॥ कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन्विहर्तुमिदमुत्तमम् ॥४५॥ शर्यातिः सुन्दरीवृंदसंयुतः सलिलेऽमले। क्रीडासक्तो महीपालो बभूव कमलाकरे॥४६॥ सुकन्या वनमासाद्य विजहार सखीवृता। सुमनांसि विचिन्वंती चञ्चला चञ्चलोपमा ॥४७॥ सर्वाभरणसंयुक्ता रणच्चरणनूपुरा। चंक्रममाणा वल्मोकं च्यवनस्य समाददत् ॥४८।। क्रोडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रंध्रे वै खद्योते इव ज्योतिषी ॥४९॥ किमेतदिति संचित्य समुद्धतुं मनो दधे। गृहीत्वा कंटकं तीक्षणं त्वरमाणा कृशोदरी ॥५०।। गा दृष्टा मुनिना वाला समीपस्था कृतोदमा । विचरन्ती सुकेशांता मन्मथस्येव कामिनी ॥५१॥ नां वीक्ष्य सुदतीं तत्र क्षामकंठस्तपोनिधिः। तामभाषत कल्याणीं किमेतदिति भार्गवः ॥५२॥ दूरं गच्छ विशालाक्षि तापसोऽहं वरानने। मा भिंदस्वाद्य वल्मीकं कंटकेन कृशोदरि ।५३॥ तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै । किमु खल्विदमित्युक्त्वा निर्विभेदास्य लोचने ५४॥ दैवेन नोदिता भित्त्वा जगाम नृपकन्यका। क्रीडंती शंकमाना साकिं कृतं तु मयेति च ।।५५।। चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥५६॥ शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात्। विशेषेण तु भूपस्य सामात्यस्य समंततः ॥५७॥ गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा। ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥५८॥ मैनिकँ: कथितं तस्मै शकृन्मूत्रनिरोधनम्। चिंतयामास भूपालः कारणं दुःखसंभवे॥५९॥ विचिंत्याह ततो राजा सैनिकान्स्वजनांस्तथा। गृहमागत्य चिंतार्तः केनेदं दुष्कृतं कृतम् ॥६०॥ सरस: पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥६१॥ केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे। तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥६२॥ नपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥६३॥ ज्ञातं वा यदि वाऽज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह॥६४॥ इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः। मनोवाक्कायजनितं न विद्योऽपकृतं वयम् ।६५॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे द्वितीयोऽध्यायः ॥२॥
Page 432
४३२ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३ अथ तृतीयोऽध्यायः व्यास उवाच इति पप्रच्छ तान्सर्वात्राजा चिंताकुलस्तथा। पर्यपृच्छत्सुहृद्वर्ग साम्ना चोग्रतयाऽपि च ॥१॥ पोडयमानं जनं वीक्ष्य पितरं दुःखितं तथा। विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत् ॥२॥ वने मया पितस्तत्र वल्मीको वीरुधावृतः । क्रीडंत्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः ॥३॥ तत्र खद्योतवद्दीप्तज्योतिषी वीक्षिते मया। सूच्या विद्वे महाराज पुनः खद्योतशंकया ॥४॥ जलक्लिन्ना तदा सूची मया दृष्टा पितः किल। हाहेति च श्रुतः शब्दो मंदो वल्मीकमध्यतः ॥५॥ तदाहं विस्मिता राजन्किमेतदिति शंकया। न जाने कि मया विद्धं तस्मिन्वल्मीकमंडले ॥६॥ राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु। मुनेस्तद्वेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात् ॥७। तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम्। स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम् ॥८॥ प्रणम्य दंडवद्भूमो राजा तं भार्गवं प्रति । तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः।९॥ पुत्र्या मम महाभाग क्रीडंत्या दुष्कृतं कृतम् । अज्ञानाद्वालया ब्रह्मन्कृतं तत्क्षन्तुमर्हंसि ॥१०॥ अक्रोधना हि मुनयो भवंतीति मया श्रुतम्। तस्मात्त्वमपिबालायाः क्षंतुमहसि सांप्रतम् ॥११॥ व्यास उवाच इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत्। विनयोपनतं दृष्टा राजानं दुःखितं भृशम् ॥१२॥ च्यवन उवाच राजन्नाहं कदाचिद्वँ करोमि क्रोधमण्वपि। न मयाऽद्यव शप्तस्त्वं दुहित्रा पीडने कृते ।१३।। नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः । तेन पापेन जानामि दुःखितस्त्वं महीपते ॥१४॥ अपराधं परं कृत्वा देवीभक्तस्य को जनः। सुखं लभेत यदपि भवेत्त्राता शिवःस्वयम् ॥१५॥ किं करोमि महीपाल नेत्रहीनो जरावृतः । अन्धस्य परिचर्यां च कः करिष्यति पार्थिव ॥१६॥ राजोवाच सेवका बहवः सेवां करिष्यंति तवानिशम् । क्षमस्व मुनिशार्दूल स्वल्पन्ोधा हितापसाः ॥१७॥ च्यवन उवाच अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः । त्वदीयाः सेवकाः कि ते करिष्यंति म प्रियम्॥१८॥ क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप। देहि मे परिचर्यार्थं कन्यां कमललोचनीम् ॥१९॥ तुष्येऽनया महाराज पुत्र्या तव महामते । करिप्यामि तपश्चाहं सा मे सेवां करिप्यति ॥२०॥ एवं कृते सुखं मे स्यात्तव चंव भविष्यति। संतुष्टे मयि राजेन्द्र सैनिकानां न संशयः ॥२१॥ विचित्य मनसा भूप कन्यादानं समाचर। न चात्र दूषणं किचित्तापसोऽहं यतव्रतः ॥२२॥
Page 433
२८ श्रीमरेवीमागववे महापुराणे सप्तमस्कन्धे अध्याय: ३ ४३३
व्यास उवाच सर्यातिवंचनं श्रुत्वा मुनेश्रिंतांतुरोऽभवत् । न दास्येऽप्यथवा दास्ये किचिन्नोवाच भारत ॥२३॥ कथमंधाय वृद्धाय कुरूपाय सुतामिमाम् । देवकन्योपमां दत्त्वा सुखी स्यामात्मसंभवाम् ॥२४॥ को वात्मनः सुखार्थाय पुत्र्याःसंसारजं सुखम्। हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम् ॥२५॥ प्राप्य सा व्यवनं सुभ्रू: पञ्चवाणशरादिता। अंधं वृद्धं पति प्राप्य कथं कालं नयिष्यति ॥२६॥ यौवने दुर्जयः कामो विशेषेण सुरूनया। आत्मतुल्यं प्ति प्राप्य किमु वृद्धं विलोचनम् ॥२७॥ गौतमं तापसं प्राप्य रूपयोवनसंयुता। अहल्या वासवेनाशु बंचिता वरवणिनी ॥२८॥ शप्ता न पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् । तस्मादद्वतु मे दुःखं न ददामि सुकन्यकाम् ॥२९॥ इति संचित्य शर्यातिर्विमनाः स्वगृहं ययौ। सचिवांश्र समादांय मंत्रं चक्रेऽतिदुःखितः ॥३०॥ भो मंत्रिणो ब्रुवंत्वद्य कि कर्तव्यं मयाऽधुना। पुत्री देयाऽथ विप्राय भोक्तव्यं दुःखमेव वा ॥३१॥ विचारयष्वं मिलिता हितं स्यान्मम वै कथम्। मंत्रिण ऊचु: कि ब्रूमोऽस्मिन्महाराज संकटेऽतिदुरासदे ।३२।। दुर्भगाय सुकन्यैषा कथं देयाडिनसुन्दरी। व्यास उवाच तदा चिंताकुलं वोक्ष्य पितरं मंत्रिणस्तदा ॥३३॥ सुकन्या त्विंगितं ज्ञात्वा प्रहस्येदमुवाच ह। पितः कस्माद्गबानद्य चिंताव्याकुलितेन्द्रियः ॥३४॥ मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै। अहं गत्वा मु्नि तत्र समाश्वास्य र्दितम् ॥३५॥ करिष्यामि प्रसन्नं तमात्मदानेन वै पितः। इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया ॥३६।। तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् । कथं पुत्रि त्वमंधस्य परिचर्यां वनेऽबला ॥३७॥ करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम्॥३८॥ ददामि जरया ग्रस्तदेहाय सुखवांछया। पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च ॥३९॥ धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः॥४०॥ कथं देया मया पुत्री तस्म चातिवराय च। उटजे नियतं वासो यस्य नित्यं मनोहरे ॥४१॥ कथमंबुजपत्राक्षि कल्पनीयो मया तव। मरणं मे वरं प्राप्तं सैनिकानां तर्थव च ॥४२॥ न ते प्रदानमंधाय रोचते पिकभाषिणि। भवितव्यं भवत्येव धैर्य नैव त्यजाम्यहम् ॥४३॥ सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कहिंचित्। राज्यं तिष्ठतु वा यातु देहोऽयं च तथव मे ॥४४॥ न त्वां दास्याम्यहं तस्म नेत्रहानीय बालिके। सुकन्या तं तदा प्राह श्रुत्वा तद्वचनं पितुः।४५॥
Page 434
भीमदेवीमागववे महापुराणे सप्तमस्कन्धे अध्यायः ३ प्रसन्नवदनातीव स्नेहयुक्तमिदं वच: ।
सुकन्यावाच न मे चिंता पितः कार्या देहि मां मुनयेऽधुना ॥४६।। सुखं भवतु सरवेषां लोकानां मत्कृतेन हि। सेवयिष्यामि संतुष्टा पति परमपावनम् ॥४७॥ भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसंमतम् ॥४८।। न भोगेच्छाऽस्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच तच्छ्रत्वा भाषितं तस्या मंत्रिणो विस्मयं गताः ॥४९।। राजा च परमप्रीतो जगाम मुनिसन्निधो। गत्वा प्रणम्य शिरसा तमुवाच तपोधनम् ॥५०॥ स्वामिन्गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो। इत्युक्त्वाऽस्मं ददौ पुत्रीं विवाहविधिना नृपः ॥५१॥ प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत्। पारिबह न जग्राह दीयमानं नृपेण ह।।५२। केन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा ॥५३। राजश्र परमाह्लादः संजातस्तत्क्षणादपि। दत्त्वा पुत्री यदा राजा गमनाय गृहं प्रति ॥५४॥ मर्ति चकार तन्वंगी तदोवाच नृपं सुता। सुकन्योवाच गृहाण मम वासांसि भूषणानि च मे पितः ॥५५॥ बल्कलं परिधानाय प्रयंच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीमां कृत्वा तपसि सेवनम् ॥५६॥ करिष्यामि तथा तात यथा ते कीतिरच्युता। भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले ।५७।। परलोकसुखायाहं चरिष्यामि दिवानिशम्। दत्त्वांधाय च वृद्धाय सुंदरीं युवतीं तु माम् ।५८।। चिंता त्वया न कर्तव्या शीलनाशसमुद्वा। अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि।५९।। तथवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्याऽत्रेः प्रथिता भुवि ॥६०॥ यथवाहं भविष्यामि पुत्री कीर्तिकरी तव। सुकन्यावचनं श्रुत्वा राजा परमधर्मवित् ॥६१॥ दत्वाऽजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम् ।६२। ग्ववर्णवदनो भूत्वा स्थितस्तत्रंव पार्थिवः । राज्यःसर्वाःसुतां दृष्टा वल्कलाजिनधारिणीम् ॥६३।। रव्दुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छय महोपालो मंत्रिभिः परिवारितः ॥ ययौ स्वनगरं राजन्मुक्त्वा पुत्रीं शुचाऽर्पिताम् ।।६४।। इवि श्रीदेवीभागवते महापुराणे सप्मस्कंधे तृतीयोऽध्यायः ।३॥
Page 435
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ४ ४३५ अथ चतुर्थोऽध्याय: व्यास उवाच गते राजनि सा बाला पतिसेवापरायणा। बभूव च तथाऽग्नीनां सेवने धर्मतत्परा ॥१॥ फलान्यादाय स्वादूनि मूलानि विविधानि च। ददो सा मुनये बाला पतिसेवापरायणा ॥२॥ परति तप्तोदकेनाशु स्थापयित्वा मृगत्वचा। परिवेष्टय शुभायां तु वृस्यां स्थापितवत्यपि ॥ ३ ॥ तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम्। तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥४ ॥ तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि। वृस्यांवा संस्तरे बाला भर्तारं संन्यवेशयत् ॥।५॥ पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नोवारान्नं सुसंस्कृतम् ॥६॥ भुक्तवंतं पति तृप्तं दत्त्वाऽऽचमनमादरात् । पश्चाच्च पूरगं पत्राणि ददौ चादरसंयुता ॥७॥। गृहीतमुखवासं तं संवेश्य च शुभासने। गृहीत्वाज्ञां शरीरस्य चकार साधनं ततः ॥८॥ फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधो। प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥९॥ पादसंवाहनं तेऽय्य करोमि यदि मन्यसे। एवं सेवापरा नित्यं बभूव पतितत्परा ॥१॥ सायं होमावसाने सा फलान्याहृत्य सुन्दरी। अर्पयामास मुनये स्वादूनि च मृदूनि च ॥११॥ ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया। सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥१२॥ सुसे सुखं प्रिये कांता पादसंवाहनं तदा। चकार पृच्छती धर्म कुलस्त्रोणां कृशोदरी।।१३।। पादसंवाहनं कृत्वा निशि भक्तिपरायणा। निद्रितं च मु्नि ज्ञात्वा सुष्वाप चरणांतिके ॥१४॥ शुचौ प्रतिष्ठिनं वीक्ष्य तालवृंतेन भामिनी। कुर्वाणा शोतलं वायुं सिषेवे स्वपति सदा ॥१५॥ हेमंते काष्टसंभारं कृत्वाऽग्निज्वलनं पुरः । स्थापयित्वा तथाऽपृच्छत्सुखं तेऽस्तीति चासकृत् ॥ ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् । समर्पयित्वा शौचार्थ समुत्याप्य पर्ति प्रिया ॥१७॥ स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराऽभवत् । कृतशौचं पति ज्ञात्वा गत्वा जग्राह तं पुनः ।१८।। आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे। मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥१९॥ दत्त्वाचमनपात्रं तुं दन्तधावनमाहरत्। समर्प्य दन्तकाष्ठं च यथोक्तं नृपनंदिनी ॥२०॥ चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थ जलमाहृत्य पप्रच्छ प्रणयान्विता ।२१। किमाज्ञापयसे ब्रह्मन्कृतं वै दन्तधावनम्। उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥२२॥ वर्तते होमकालोडयं सन्ध्या पूर्वा प्रवर्तते। विघिवद्धवनं कृत्वा देवतापूजनं कुरु ॥२३॥ एवं कन्या पति लब्ध्वा तपस्विनमनिंदिता। नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥२४। अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा। आराधयानास मुदा च्यवनं सा शुभानना ।२५॥
Page 436
श्रीमदेवीभागवते महापुराणे सप्मस्कन्धे अध्याय: ४ कस्मिश्चिदथ काले तु रविजावश्चिनावुभौ। च्यवनस्याश्रमाम्याशे क्रोडमानो समागतौ ॥२६॥ जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति। गच्छंतीं चारुसवांगीं रविपुत्रावपश्यताम् ॥२७॥ तां दृष्टा देवकन्यां तां गत्वा चांतिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥२८॥ क्षणं तिष्ठ वरारोहे प्रषुं त्वां गजगामिनि। आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥२९॥ पुत्री कस्य पतिः कस्ते कथमुद्यानमागता। एकाकिनी तडागेऽस्मिन्स्नानार्थ चारुलोचने ॥३०॥ द्वितीया श्रीरिवाभासि कांत्या कमललोचने। इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥३१॥ कोमलो चरणो कान्ते स्थितौ भूमावनावृतौ। हृदये कुरुतः पीडा चलंती चललोचने ॥३२॥ विमानार्हासि तन्वंगि कथं पद्धयां व्रजस्यदः । अनावृताऽत्र विपिने किमर्थ गमनं तव ।।३३।। दासीशतसमायुक्ता कथं न त्वं विनिर्गता। राजपुत्रयप्सरा वाऽसि वद सत्यं वरानने ॥३४॥ धन्या माता यतो जाता धन्योऽरी जनकस्तव। वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघ ॥३५॥ देवलोकाघिका भूमिरियं चैव सुलोचने। प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥३६॥ सौभाग्याश्र मृगा: कामं ये त्वां पश्यंति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥३७॥ स्तुत्याऽलं तव चात्यथं सत्यं ब्रूहि सुलोचने। पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छांडस्ति सादरम् ॥ व्यास उवाच तयोरिति वच: श्रुत्वा राजाकन्याऽतिसुंदरी। तावुवाच त्रपाक्रांता देवपुत्री नृपात्मजा ॥३९॥ शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह। च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया।४०।। पतिरंघोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतमानसा ॥४१॥ को युवां किमिहागातौ पतिस्तिष्ठति चाश्रमे। तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥४२॥ तदाकर्ण्यं वचो दस्रावूचतुस्तां नराधिप । कथं त्वमसि कल्याणि पित्रा दत्ता तपस्विने ॥४३। भ्राजसेऽस्मिन्वनोद्देये विद्युत्सौदामनी यथा। न देवेष्वपि तुल्या हि तव दृष्टाऽस्ति भामिनी ॥४४॥ त्वं दिव्यांबरयोग्याऽमि शोभसे नाजिनैर्वृता। सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥४५॥ अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि। विशालनेत्रेऽन्धमिमं पति प्रिये मुनि समासाद्य जरातुरं भृशम् ॥४६॥ वृथा वृतस्तेन भृगं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते। मनोभवेनाशु शराः सुसंधिताः पतंति कस्मिन्पतिरीदृशस्तव ।४७।। त्वमंधभार्या नवयौवनान्विता कृताऽसि धात्रा ननु मंदबुद्धिना। न चैनमर्हस्यमितायतेक्षणे पति त्वमन्यं कुरु चारुलोचने ॥४८॥ वृर्थंव ते जीवितमम्बुजेक्षणे पति च सम्प्राप्य मुनि गतेक्षणम्।
Page 437
श्रोमदेवीमागवते महापुराणे सप्तमस्क्धे अध्यायः ५ चने निवासं च तथाऽजिनांवरप्रधारणं योग्यतरं न मन्महे।४९।। अतोऽनवद्यांग्युभयोस्त्वमेकं वरं कुरुष्वावहिता सुलोचने। कि यौवनं मानिनि संकरोषि वृथा मुनि सुन्दरि सेवमाना ॥५०॥ कि सेवसेऽभाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम्। त्यक्त्वा मुर्नि सर्वसुखापवर्जितं भजानवद्यांग्युभयोस्त्वमेकम्ं।।५१। त्वं नंदने चैत्ररथे वने च कुरुष्व कांते प्रथितं विहारम्। अंधेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम् ॥५२॥ भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम्। भा्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च ।५३।। तस्माद्दजस्व पिकभाषिणि चारुवक्त्रे एकं द्वयोस्तव सुखाय विशालनेत्रे। देवालयेषु च कृशोदरि भुंक्ष्व भोगांस्त्यकत्वा मुनि जरठमाशु नृपेंद्रपुत्रि ।/५४।। कि ते सुखं चात्र वने सुकेशि वृद्धेन साघं विजने मृगाक्षि। सेवा तथांघस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम्॥५५॥ नववयः सुखभोगसमोहितं चटुलपक्ष्मधरे वरर्वणिनि। शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम् ॥.५६॥ इति श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे चतुर्थोऽध्यायः ॥४॥ अथ पश्चमोऽध्यायः व्यास उवाच तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा । धैर्यमालंब्य तौ तत्र बभाषे मितभाषिणी ॥१॥ देवो वां रविपुत्री च सर्वज्ञौ सुरसंमती। सतीं मां धर्मशीलां च नैवं वदितुमहथः ॥२॥ पित्रा दत्ता सुरश्रेष्ठ मुनये योगधर्ममिणे। कथं गच्छामि तं मार्ग पुंश्रलीगणसेवितम् ॥३॥ द्रष्टाऽयं सर्वलोकस्य कर्मसाक्षी दिवाकरः । कश्यपाच्चव संभूतौ नैवं भाषितुमर्हथः ॥४॥ कुलकन्या पति त्यक्त्वा कथमन्यं भजेन्नरम्। असारेऽस्मिन्हि संसारे जानंतौ धर्मनिर्णयम् ॥५॥ यथेच्छं गच्छतं देवौ शापं दास्यामि वाऽनघौ। सुकन्याऽहं च शर्यातेः पतिभक्तिपरायणा ॥६॥
इत्याकर्ण्य वचस्तस्य नासत्यो विस्मितौ भृशम् । तावब्रूतां पुनस्त्वेनां शंकमानौ भयं मुनेः ॥७॥ व्यास उवाच
राजपुत्रि प्रसन्नौ ते धर्मेण वरवणिनि। वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ।।८।। जानीहि प्रमदे नूनमावां देवभिषग्वरौ। युवानं रूपसंपन्नं प्रकुर्याव पर्ति तब ।।९।। ततस्त्रयाणामस्माकं पतिमेकतमं वृणु। समानरूपदेहानां मध्ये चातुर्यपंडिते ॥१०॥
Page 438
श्रीमद्देवीभागवते महापुराणे सप्षमस्कन्धे अध्याय: ५ सा तयोवचनं श्रुत्वा विस्मिता स्वप्ति तदा। गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥११। सुकन्योवाच स्वामिन्सूर्यसुतौ देवौ संप्राप्तो च्यवनाश्रमे। दृष्टो मया दिव्यदेहौ नासत्यौ भृगुनंदन ।।१२। वीक्ष्य मां चारुसर्वाङ्गीं जाती कामातुरावुभी। कथितं वचनं स्वामिन्पर्ति ते नवयौबनम् ॥१३॥ दिव्यदेहं करिष्यावश्चक्षुष्मंतं मुनि किल। एतेन समयेनाद्य तं श्रृणु त्वं मयोदितम् ॥१४॥ समावयवरूपं च करिष्यावः प्ति तव। तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥१५॥ तच्छुत्वाऽहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । कि कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसंकटे ॥१६॥ देवमायाऽपि दुर्ज्ञेया न जाने कपटं तयोः। यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥१७॥ च्यवन उवाच गच्छ कांतेऽद्य नासत्यौ वचनान्मम सुव्रते। आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ॥१८॥ क्रियतामाशु तद्वाक्यं नात्र कार्या विचारण। व्यास उवाच एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥१९॥ क्रियतामाशु नासत्यो समयेन सुरोत्तमौ। तच्छ्रत्वा चाश्विनी वाक्यं तस्यास्तौ तत्र चागतौ ।! उचतू राजपुरों तां पतिस्तव विशत्वपः। रूपार्थ च्यवनस्तूणं ततोऽम्भः प्रविवेश है॥२१॥ अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः ॥२२॥ तुल्यरूपा दिव्यदेहा युवान: सदृशाः किल। दिव्यकुंडलभूषाढयाः समानावयवास्तदा ॥२३॥ तेडब्रुवन्सहिताः सर्वे वृणीष्व वर्वणिनि। अस्माकमीप्सितं भद्रे पति त्वममलानने ॥२४॥ यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने। व्यास उवाच सा दृष्टा तुल्यरूपांस्तान्समानवयसस्तथा ॥२५॥ एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् ' सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥२६॥ अज़ानती पति सम्यग्व्याकुला समचन्तयत् । कि करोमि त्रयस्तुल्याः कं वृणोमि न वेदयहम् ॥ पति देवसुता ह्येते संशये पतिताऽस्म्यहम्। इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥२८॥ कर्तव्यं किं मयां चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथंचन ॥२९॥ देवस्त्वाधुनिकः कश्चिदित्येषा मम- धारणा। इति संचित्य मनसा परां विश्वेश्वरीं शिवाम्॥३०॥ दध्यो भगवतीं देवीं तुष्टाव च कृशोदरी।
Page 439
श्रीमद्वेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ५ सुकन्योवाच शरणं त्वां जगन्मातः प्रापाऽस्मि भृरदुःखिता ॥३१॥ रक्ष मेष्द्य सतोधमं नमामि चरणौ तव। नमः पद्मोद्दवे देवि नमः शंकरवल्लभे॥३२॥ विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति। इदं जगत्वया सृष्टं सवं स्थावरजंगमम्॥३३॥ पासि त्वमिदमव्यग्रा तथास्ति लोकशांतये। ब्रह्मविष्णुमहेशानां जननी त्वं सुसंमता ॥३४॥ बुद्धिदापि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा। अज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना ॥।३५॥ भुक्तिमुक्तिप्रदाऽसि त्वं प्राणिनां विशदात्मनाम् । अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना॥३६।। सिद्धिदा योगिनामंब जयदा कीरतिदा पुनः । शरणं त्वां प्रपन्नाऽस्मि विस्मयं परमं गता ॥३७॥। पाति दर्शय मे मातर्मग्नास्मिञ्छोकसागरे। देवाभ्यां रचितं कूटं कं वृणोमि विमोहिता ।३८।। पति दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम्। व्यास उवाच एवं स्तुता तदा देवी तथा त्रिपुरसुंदरी।३९॥ हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् । निश्चित्य मनसा तुल्यवयोरूपधरान्सती ॥४०। प्रसमीक्ष्य तु तांन्सर्वान्वव्रे बाला स्वकं पतिम् । वृतेऽथ च्यवने देवौ संतुष्टी तौ बभूवतुः॥४१॥ सतीधमं समालोक्य संप्रीतो ददतुर्वरम् । भगवत्याः प्रसादेन प्रसन्नो तो सुरोत्तमा ॥४२॥ मुनिमामंत्र्य तरसा गमनायोद्यतावुभौ। लब््वा तुच्यवनो रूपं नेत्रे भार्यां च योवनम्।४३।। हृष्टोऽब्रवीन्महातेजास्तो नासत्याविदं वचः । उपकारः कृतोऽयं मे युवाम्यां सुरसत्तमौ ॥४४॥ कि ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे । प्राप्य भार्यां सुकेशांतां दुःख मेऽभवदन्वहम् ।।४५।। अंघस्य चातिवृद्धस्य भोगहीनस्य कानने। युवाम्यां नयने दत्ते यौवनं रूपमन्भतम् ॥४६॥ संपादितं ततः किंचिदुपकर्तुमहं ब्रुवे। उपकारिणि मित्रे यो नोपकुर्यात्कथंचन ॥४७।। तं धिगस्तु नरं देवो भवेच्च ऋणवान्भुवि । तस्माद्वां वांछितं किचिद्दातुमिच्छामि सांप्रतम्॥।४८।। आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य घ। प्राथितं वां प्रदास्यामि यदलम्यं सुरासुरैः॥४९॥ ब्रुवाथां वां मनोदिष्टं प्रीतोऽस्मि सुकृतेन वाम्। श्रुत्वा तो तु मुनेर्वाक्यमभिमंत्र्य परस्परम् ॥५०॥ तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम्। मुने पितुः प्रसादेन सर्व नो मनसेप्सितम् ॥५१॥ उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह। भिषजाविति देवेन निषिद्धौ चमसग्रहे ॥५२॥ शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले। तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस ॥५३॥ कार्यमेतद्धि कर्तव्यं वांछितं नौ सुसंमतम्। एतद्विज्ञाय वां ब्रह्मन्कुरु वां सोमपायिनौ ॥५४॥ पिपासास्ति सुहुष्प्रापा त्वत्तः समुपयास्यति। च्यवनस्तु तयोः प्राह तं्त्ुत्वा वचनं मृदु ।५५॥
Page 440
४४० श्रीमद्देवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: ६ यदहं रूपसंपन्नो वयसा च समन्वितः । कृतो भवद्दयां वृद्धःसन्भार्यां च प्राप्तवानिति ॥५६॥ तस्माद्यवां करिष्यामि प्रीत्याहं सोमपायिनो। मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम् ॥५७॥ राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः । इत्याकर्ण्य वचो हृष्टो तौ दिवं प्रति जग्मतुः ॥५८॥ च्यवनस्तां गृहीत्वा तु जगामाश्रममंडलम् ।।५९।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे पञ्ञमोऽध्यायः ।५॥ अथ षष्ठोऽध्यायः जनमेजय उवाच ध्यवनेन कथं वैद्यो तौ .कतौ सोमपायिनी। वचनं च कथं सत्यं जातं तस्य महात्मनः ॥१॥ मानषस्य बलं कोदृग्देवराजबलं प्रति। निषिद्वी भिषजौ तेन कृतौ तौ सोमपायिनी ॥२॥ धर्मीनष्ठी तदाश्चयं विस्तरण वद प्रभो। चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ।३॥ व्यास उवाच निशामय महाराज चरितं परमाद्भतम् । च्यवनस्य मखे तास्मिञ्छर्यातेर्भुवि भारत ॥४॥ सुकन्यां सुंदरीं प्राप्य च्यवनः सुरसन्निभः । विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥५॥ कदाचिदथ शर्यातिभार्या चिंतातुरा भृम् । पति प्राह वेपमाना वचनं रुदती प्रिया ॥६॥ राजन्पुत्री त्वया दत्ता मुनयेऽन्धाय कानने। मृता जीवंति या सा तु द्रष्टव्या सर्वथा त्वया॥७॥ गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् । कि करोति सुकन्या सा प्राप्य नाथं तथाविधम् ।।८।। पुत्रीदुःखेन राजर्षे दग्धाऽस्मि सर्वथा हुदि। तामानय विशालाक्षीं तपःक्षामां मदंतिके ॥९॥ पज्ञयामि सर्वथा पुत्रीं कृशांगीं •वल्कलावृताम् । अंधं पति समासाद्य दुःखभाजं कृशोदरीम् ॥१०॥ शर्यातिरुवाच गच्छामोद्य विशालाक्षि सुकन्यां दष्टुमादरात्। प्रियपुत्रीं वरारोहे मुनि तं संशितव्रतम् ॥११॥ व्यास उवाच एवमुक्त्वा तु शर्यातिः कामिनीं शोकसंकुलाम्। जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥१२॥ गत्वाऽडश्रमसमीपे तु तमपश्यन्महीपतिः। नवयोवनसंपन्नं देवपुत्रोपमं मुनिम् ॥१३॥ तं विलोक्यामराकारं विस्मयं नृपतिर्गतः । किं कृतं कुत्सितं कर्म पुत्र्या लोकविगहितम् ॥१४॥ निहतोऽसौ मुनिर्वृद्धस्त्वनयाऽन्यः पतिः कृतः । कामपीडितया कामं प्रशांतोऽप्यतिनिर्धनः॥१५॥ दुःसहोऽयं पुष्पधन्वा विशेषेण च यौवने। कुले कलंकः सुमहाननया मानवे कृतः ॥१६॥ विक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता। सर्वपापस्तु दुःखाय पुत्री भवति देहिनाम् ॥१७॥
Page 441
श्रीमद्ेवीभागतते महापुराणे सप्तमस्कन्धे अध्याय: ६ ४४१ मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये। वृद्धायांधाय या दत्ता पुत्री सर्वात्मना किल ॥१८।। कन्या योग्याय दातव्या पित्रा सर्वात्मना किल। तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥१९॥ हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् । स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥२०। मनुवंशस्तु विख्यातः सकलंकः कृतो मया। लोकापवादो बलवान्दुस्त्याज्या स्नेहश्ृंखला ॥२१॥ कि करोमोति चिंताब्धो यदा मग्नःस पार्यित्रः। सुकन्यया तदा दैवाद्दृष्टश्रिताकुलः पिता ॥२२॥ सा दूष्टा तं जगामाशु सुकन्या पितुरंतिके। गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ।।२३॥ कि विचारयमे राजंश्रिताव्याकुलिताननः । उपविष्टं मुर्नि वीक्ष्य युवानमंबुजेक्षणम् ॥२४॥ एहेहि पुरुषव्याघ्रं प्रणमस्व प्ति मम। मा विषादं नृपश्रेष्ठ सांप्रतं कुरु मानव ।।२५।। व्यास उवाच इति पुत्र्या वचः श्रुत्वा शर्यातिः क्रोधपीडितः । प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥२६॥ राजोवाच यव मुनिश्च्यवनः पुत्रि वृद्धोंधस्तापसोत्तमः । कोडयं युवा मदोन्मत्तः संदेहोऽत्र महान्मम ॥२७॥ भुनिः कि निहतः पापे त्वया दुष्कृतकारिणि। नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥२८॥ सोऽहं चिंतातुरस्तं न पश्याम्याश्रमसंस्थितम् । किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥२९॥ निमग्नोऽहं दुराचारे शोकाब्धो त्वत्कृतेऽधुना। दृष्टनं पुरुषं दिव्यमदृष्टा च्यवनं मुनिम् ॥३०॥ विहस्य तमुवाचाशु सा श्रुत्वा, वचनं पितुः। गृहीत्वानीय पितरं भर्तुरंतिकमादरात् ॥३१॥ च्यवनोऽसी मुनिस्तात जामाता ते न संशयः । अश्विभ्यामीदृशः कांतः कृतः कमललोचनः ॥३२॥ यदृच्छयाऽत्र संप्राप्तौ नासत्यावाश्रमे मम । ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥३३॥ नाहं तव सुता तात तथा स्यां पापकरिणी। यथा त्वं मन्यसे राजन्विमूढो रूपसंशये ॥३४॥ प्रणम त्वं मुनि राजन्भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथयिष्यति विस्तरम् ॥३५॥ इति श्रुत्वा वच: पुत्र्याः शर्यातिस्त्वरितस्तदा। प्रणनाम मुनि तत्र गत्वा पप्रच्छ सादरम् ॥३६॥
कथयस्व स्ववृत्तांतं भार्गवाशु यथोचितम्। नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥३७॥ राजोवाच
संशयोऽयं महान्मेडस्ति रूपं दृष्टाऽतिसुंदरम् । वद विस्तरतो ब्रह्मञछ्ुत्वाऽहं सुखमाप्नुयाम् ॥३८॥
नासत्यावत्र संप्राप्तो देवानां भिषजावुभी। उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥३९॥ च्यवन उवाच
मया ताभ्यां वरो दत्त उपकारस्य हेतवे। करिष्यामि मखे राज्ञो भवंती सोमपायिनौ ॥४०॥ एवं मया वयः प्राप्तं लोचने विमले तथा। स्वस्थो भव महाराज संविशस्वासने शुभे ।।४१।।
Page 442
४४२ श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ७ इत्युक्त: स तु विप्रेण सभार्य: पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥४२॥। अथनं भार्गवः प्राह राजानं परिसांत्वयन्। याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ।।४३।। मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् । तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥४४। इन्द्रं निवारयिष्यामि ऋुद्धं तेजोबलेन वै। पाययिष्यामि राजेंद्र सोमं सोममखे तव।।४५।। ततः परमसंतुष्टः शर्यातिः पृथिवीपतिः। च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥४६॥ संमान्य च्यवनं राजा जगाम नगरं प्रति। सभार्यश्रातिसंतुष्टः कुर्वन्वार्ता मुनेः किल ॥४७॥ प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमान् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥४८॥ समानीय मुनीन्यूज्यान्वसिष्टप्रमुख्ानसौ । भार्गवो याजयामास च्यवनः पृर्थिवीपतिम् ॥४९॥ वितते तु तथा यज्ञे देवाः सर्वे सवासवाः। आजग्मुश्राश्चिनौ तत्र सोमार्थमुपजग्मतुः ॥५०॥ इन्द्रस्तु शंकितस्तत्र वीक्ष्य तावश्चिनावुभौ। पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागत ॥५१॥ चिकित्सक न सोमार्हों केनानीताविहेति च । नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥५२॥ अगृहाच्च्यवन: सोममश्विनोर्देवयोस्तदा। शक्रस्तं वारयामास मा गृहाणतयोग्रहम् ॥५३॥ तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ। न ग्रहार्हो च नासत्यो ब्रूहि सत्यं शचीपते ॥५४॥ न संकरी समुत्पन्नौ धर्मपत्नीसुतो रवेः। केन दोषेण दैवेन्द्र नांरहों सोमं विषग्वरो।५५॥ निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः । ग्राहयिष्याम्यहं सोमं कृतौ तो सोमपौ मया ॥५६॥ प्रेरितोऽसो मया राजा मखाय मघवन्किल। एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥५७॥ आभ्यामुपकृतं शक्र यथा दत्तं नवं वयः । तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥५८॥ चिकित्सको कृतावेतौ नासत्यौ निंदितौ सुरैः। उभावेतौ न सोमार्हो मा गृहाणतयोरग्रहम् ॥५९॥ इन्द्र उवाच
अहल्याजार संयच्छ कोपं चाद्य निरर्थकम्। वृत्रघ्न कि हि तो सत्यौ न सोमार्हो सुरात्मजी ॥। च्यवन उवाच
एवं विवादे समुपस्थिते च न कोडप वाचं तमुवाच भूप। ग्रहं तयोर्भार्गवतिग्मतेजाः संग्राहयामास तपोबलेन ।६१॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे षष्ठोऽध्यायः ॥६॥ अथ सप्तमोऽध्यायः व्यास उवाच दस्ते ग्रहे तु राजेंद्र वासवः कुपितो भृशम् । प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥१॥ मा ब्रह्मबंधो मर्यादामिमां त्वं कर्तुमर्हसि । वधिष्यामि द्विषं तं त्वां विश्वरूपमिवापरम् ॥२॥
Page 443
श्रीमद्ेवीभागवते महापुराणे सप्षमस्कन्धे अध्याय: ७ ४४ ह
च्यवन उवाच मावमंस्था माहात्मानो रूपद्रविणवर्चसौ। यो चक्रतुर्मां मघवन्वृन्दारकमिवापरम् ॥३॥ कते त्वां विबुषाश्चान्ये कथं वाददते ग्रहम् । अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ॥४॥ इन्द्र उवाच भिषजो नार्हतः कामं ग्रहं यज्ञे कथंचन । यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि सांप्रतम् ।। व्यास उवाच अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः । ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥६॥ सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया। समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्।७॥ आभ्यामर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् । वज्ररं तु प्रहरिष्यामि विश्वरूपमिवापरम् ।।८।। वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः । जग्राह विधिवत्सोमममश्विभ्यामतिमन्युमान् ।।९॥ इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्म स्वमायुधम् । पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥१०॥ प्रेरितं चाशनन प्रेक्ष्य च्यवनस्तपसा ततः । स्तंभयामास वज्त्रं स शक्रस्यामिततेजसः ॥११॥ कृत्यया स महाबाहुरिंद्रं हंतुमिहोद्यतः । जुहावाग्नो शृतं हव्यं मंत्रेण मुनिसत्तमः ॥१२॥ तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात्। प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥१३॥ मदो नाम महाघोरो भयदः प्राणिनामिह। शरीरे पर्वताकारस्तीक्ष्णदंट्ट्रो भयानकः ॥१४॥ चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥१५॥ बाहू पर्वतसंकाशावायतौ क्रूरदर्शनौ । जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥१६॥ ग्रीवा तु गिरिशृङ्गाभा कठिना भीषणा भृशम् । नखा व्याघ्रनखप्रख्याः केशाश्रातीव भीषणःा १७॥ शरीरं कज्जलाभ च तस्य चास्यं भयानकम् । नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ।।१८॥। हनुरेका स्थिता तस्य भूमावेका दिवं गता। एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥१९॥ तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा। इन्द्रोपि भयसंत्रस्तो युद्धाय न मनो दधे ॥२०॥ दैत्योऽपि वदने कामं वज्त्रमादाय संस्थितः । व्याप्तं नभो घोरदृष्टिर्य्रसन्निव जगत्त्रयम् ॥२१॥ स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् । चुक्रशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः २२॥ इन्द्रः स्तंभितबाहुस्तु मुमुक्षुर्वज्तरमंतिकात्। न शशाक पर्वि तस्मिन्प्रहतुं पाकशासनः ॥२३॥ वज्ररहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम् ॥२४॥ स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्टा विपत्तिसदृशं महत् ॥२५॥ विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामंत्रंस्त्वयं वज्रेण वासव ॥२६॥ असुरो मदसंज्ञस्तु यजञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक्च्यवनस्य महाबल ॥२७।
Page 444
8४8 श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया। शरणं याहि देवेश च्यवनस्य महात्मनः ॥२८। स निवारयिता नूनं कृत्यामात्मकृतां किल। न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥२९।। व्यास उवाच इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनि प्रति। प्रणम्य शिरसा नम्रस्तमुवाच भयान्वितः ॥३०॥ क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥३१॥ सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥३२॥। मिथ्या ते नोद्मो ह्येष भवत्वेव तपोधन। जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥३३॥ सोमपावश्चिनावेतौ त्वत्कृतौ च सदैव हि। भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥३४॥ मया.यद्धि कृतं कर्म सर्वथा मुनिसत्तम। परीक्षारथं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥३५॥ प्रसादं कुरु मे ब्रह्मन्मदं संहर चोत्थितम्। कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥३६॥ एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित्। संजहार तपःकोपसमुत्पन्नं विरोधजम् ॥३७॥ देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः । व्यभजत्स्रीषु पानेषु द्यूतेषु मृगयासु च ।।३८।। मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया। संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥३९॥ ततस्तु संस्कृतं सोमं वासवाय महात्मने। अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥४०॥ एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रको। विहिती सोमपौ राजन्सर्वथा तपसो बलात् ।४१। सरस्तदपि विख्यातं जातं यूपविमंडितम् । आश्रमस्तु मुनेः सम्यकपृर्थिव्यां विश्रुतोऽभवत्॥४२॥ शर्यातिरपि संतुष्टो ह्यभवत्तेन कर्मणा। यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥४३॥ राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान्। आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत् ॥४४॥ सोऽन्तः समुद्रे नगरीं विनिर्माय कुशस्थलीम्। आस्थितो भुक्तविषयानानर्तादीनरिंदम ॥४५॥ तस्य पुत्रशतं जज्ञे ककुद्यिज्येष्ठमुत्तमम्। पुत्री च रेवती नाम्ना सुंदरी शुभलक्षणा ।४६।। वरयोग्या यदा जाता तदा राजा च रेवतः। चिंतयामास राजेंद्रो राजपुत्रान्कुलोद्द्वान्॥४७॥ रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः । चकार राज्यं बलवानानर्तेषु नराघिपः ॥४८।। विचिन्त्य मनसा राजा कस्म देया मया सुता। गत्वा पृच्छामि ब्रह्माणं. सर्वज्ञं सुरपूजितम् ।।४९।। इति संचित्य भूपाल: सुतामादाय रेवतीम्। ब्रह्मलोक जगामांशु प्रष्टुकामः पितामहम् ॥५०॥ यत्र देवाश्र यज्ञाश्च छन्दांसि पर्वतास्तथा। अब्धयः सरितश्रापि दिव्यरूपधराः स्थिताः ॥५१॥ कृषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा। तस्थुः प्रांजलयः सर्वे स्तुवंतश्र पुरातनाः ॥५२॥ इति श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे सप्तदशोऽध्यायः।।७।।
Page 445
श्रीमरेवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः ८ अथ अष्टमोऽध्यायः जनमेजय उवाच संशयोऽयं महान्य्रह्मन्वतते भम मानसे। ब्रह्मलोकगतो राजा रेवतीसंयुता स्वयम् ॥१॥ मया पूर्व श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे । ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥२॥ राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् । सत्यलोकेऽतिद्ुष्प्रापे भूर्लोकादिति संशयः ॥३॥ मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः । "मानुषेण तु देहेन ब्रह्मलोके गतिः कथम् ॥" स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥४।। एतन्मे संशयं विद्वंश्छेत्तुमर्हसि सांप्रतम् । यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥५॥
मेरोस्तु शिखरे राजन्सर्वे लोकाः प्रतिष्ठिताः । इंद्रलोको वह्निलोको या च संयमनी पुरी ॥६॥ व्यास उवाच
तर्थव सत्यलोकश्च कैलासश्च तथा पुनः । वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥७॥ यथार्जुनः शक्रलोके गतः पार्थो धनुर्घरः । पञ्च वर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥८॥ मानुषेणव देहेन वासवस्य च सन्निधो। तर्थवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥९॥ स्वर्लोकगतयः पश्चाद्दत्याश्चापि महाबलाः । जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥१०॥ महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट्। आगच्छंतीं नृपो गंगामपश्यच्चातिसुंदरीम् ॥११॥ वायुनांबरमस्यास्तु दैवादपहृतं नृप। किचिन्नग्ता नृपेणाथ दृष्टा सा सुंदरी तथा ॥१२॥ स्मितं चकार कामार्तः सा च किचिज्जहास वै। ब्रह्मणा तौ तदा दृष्टी शप्तौ जाती वसुंधराम् १३।। वैकुंठेऽपि सुराः सर्वे पोडिता दैत्यदानवैः । गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥१४॥ सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम। गम्याः सर्वेऽि लोकाः स्युर्मानवानां नराधिप १५॥ अवश्यं कृतपुण्यानां तापसानां नराघिप। पुण्यसद्भाव एवात्र गमने कारणं नृप ।१६।। तर्थव यजमानानां यज्ञेन भावितात्मनाम्। जनमेजय उवाच रेवतो रेवतों कन्यां गृहीत्वा चारुलोचनाम् ॥१७॥ ब्रह्मलोकं गतः पश्चात्कि कृतं तेन भूभुजा । ब्रह्मणा किं समादिष्टं कस्मे दत्ता सुता पुनः ॥१८॥ तत्सवं विस्तराद्ब्रह्मन्कथय त्वं ममाधुना। व्यास उवाच निशामय महोपाल राजा रेवतकः किल॥१९॥
Page 446
४४६ श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ८ पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा। आवर्तमाने गान्धर्वे स्थितो लब्घक्षणःक्षणम् ॥२०॥ शृण्वन्नतृप्यद्घृष्टात्मा सभायां तु सकन्यकः । समास्ते तत्र गान्वर्वे प्रणम्य परमेश्वरम् ॥२१॥ दर्शयित्वा सुतां तस्म स्वाभिप्रायं न्यवेदयत्। राजोवाच वरं कथय देवेश कन्येयं मम पुत्रिका ॥२२॥ देया कस्म मया ब्रह्मन्प्रष्टुं त्वां समुपागतः । बहवो राजपुत्रा मे वीक्षिताः कुलसंभवाः ॥२३॥ कस्मिश्चिन्मे मनः कामं नोर्पातष्ठति चंचलम्। तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥२४॥ तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम्। कुलीनं बलवंतं च सर्वलक्षणसंयुतम् ॥२५॥ दातारं धर्मशीलं च राजपुत्रं समादिश। व्यास उवाच तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥२६। तमुवाच हसन्वाक्यं दृष्टा कालस्य पर्ययम्। ब्रह्मोवाच राजपुत्रास्त्वया राजन्वरा ये हृदये कृताः ॥२७॥ ग्रस्ता: कालेन वे सर्वे सपितृपोत्रबांधवाः । सप्तविशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥२८।। वंशजास्ते मृताः सर्वे पुरी दैत्यैविलुंठिता। सोमवंशोद्गवस्तत्र राजा राज्यं प्रशास्ति हि ॥२९॥ उग्रसेन इति ख्यातो मथुराधिपतिः किल। ययातिवंशसंभूतो राजा माथुरमंडले ॥३०॥ उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः। दैत्येशः पितरं सोऽपि कारागारे न्यवेशयत् ॥३१॥ स्वयं राज्यं चकारासौ नृपाणां मदगवितः । मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥३२॥ दुष्टराजन्यसैन्यानां भारेणातिसमाकुला। अंशावतरणं तत्र गदितं सुरसत्तमैः ॥३३॥ वासुदेव: समुत्पन्नः कृष्णः कमललोचनः । देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः॥३४॥ तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः । गंगातीरं नरसखः पुण्ये बदरिकाश्रमे ॥३५॥ सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः । तेनासौ निहृतः पापः कंसः कृष्णेन सत्तम ॥३६॥ उग्रसेनाय राज्यं वे दत्तं हत्वा खलं सुतम् । कंसस्य श्वशुरः पापो जरासंधो महाबलः ॥३७॥ आगत्य मथुरां क्रोधाच्चकार संगरं मुदा। कृष्णेनासौ जितः संख्ये जरासंधो महाबलः ॥३८॥ प्रेषयामास युद्धाय सबलं यवनं ततः । श्रुत्वायांतं महाशूरं ससैन्यं यवनाधिपम् ॥३९॥ "कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारवतीमगात् । प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह संगतैः ॥
Page 447
श्रीमरेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ९ ४४७ कारयामास दुर्गाठयां हट्टशालाविमंडिताम् । जीर्णोद्वारं पुरः कृत्वा वासुदेवः प्रतापवान् ॥ उग्रसेनं च राजानं चकार वशवर्तिनम्।१॥" यादवान्स्थापयामास द्वारवत्यां यदूत्तमः । वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह॥४०॥ तस्याग्रजः'स विख्यातो बलदेवो हलायुधः । शेषांशो मुसली वीरो वरोऽस्तु तव संमतः॥४१॥ संकर्षणाय देह्याशु कन्यां कमललोचनाम्। रेवतीं बलभद्राय विवाहविधिना ततः ॥४२॥ दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् । तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ।।४३।। व्यास उवाच इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना । जगाम तरसा राजन्द्वारकां कन्ययान्वितः ॥४४॥ ददो तां बलदेवाय कन्यां वै शुभलक्षणाम् । ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये॥४५॥ जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे। जनमेजय उवाच भगवन्महदाश्चयं भवता समुदाहृतम् ॥४६॥ रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः । युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥४७॥ कन्या वृद्धा न संजाता राजा वाडतितरां नु किम् । एतावंतं तथा कालमायुः पूर्ण तयोः कथम् ॥४८॥ व्यास उवाच न जरा क्षुत्पिपासा वा न मृत्युर्न भयं पुनः। न तु ग्लानिः प्रभवति ब्रह्मलोके सदाऽनघ ॥४९।। मेरुं गतस्य शर्यातेः संतती राक्षसैहता। गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ५०॥ मनोश्च क्षुवतः पुत्र उत्पन्नो वीयंवत्तरः । इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥५१॥ वंशार्थ तप आतिष्ठद्देवीं ध्यात्वा निरंरतम्। नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥५२॥ तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥५३॥ अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्राः पंचाशद्वलवत्तराः ॥५४॥ उत्तरापथदेशस्य रक्षितारः कृताः किल। दक्षिणस्यांतथा राजन्नादिष्टास्तेन ते सुताः ॥५५॥ चत्वारिशत्तथाऽष्टी च रक्षणार्थ महात्मना । अन्यौ द्वौ संस्थिती पार्श्वे सेवार्थं तस्य भूपतेः ५६॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धेष्टमोऽध्यायः।।८।। अथ नवमोऽध्यायः
व्यास उवाच कदाचिदष्टकाश्राद्धे विकुक्षि पृथिवीपतिः। आज्ञापयदसंमूढो मांसमानय सत्वरम् ॥१।।
Page 448
४४6 श्रीमदेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: ९ मेध्यं श्राद्धार्थमधुना वने गत्वा सुतादरात्। इत्युक्तोऽसी तथेत्याशु जगाम वनमस्त्रभृत् ।२॥ गत्वा जघान बाणेः स वराहान्सूकरान्मृगान्। शशाँश्चापि परिश्रांतो बभवाथ बुभुक्षितः ॥३॥ विस्मृता चाष्टका तस्य शशं चाददसो वने। शेषं निवेदयामास पित्रे मांसमनुत्तमम् ॥४। प्रोक्षणाय समानीतं मांसं दृष्टा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः ॥५॥ भुक्त्शेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः । राज्ञे निवेदयामास वसिष्ठः पाकदूषणम् ॥६॥ पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् । चुकोप विधिलोपातं देशान्निःसारयत्ततः ।।७।। शशाद इति विख्यातो नाम्ना जातो नृपात्मजः । गतो वने शशादस्तु पितृकोपादसंभ्रमः ॥८॥ वन्येन वर्तयन्कालं नीतवान्धमतत्परः । पितर्युपरते राज्यं प्राप्तं तेन महात्मना ।९॥ शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् । यज्ञाननेकशः पूर्णांश्चकार सरयूतटे॥१०॥ शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः । तस्यैव नामभेदाद्व इंद्रवाहः पुरंजयः ॥११॥ जनमेजय उवाच नामभेद: कथं जातो राजपुत्रस्य चानघ। कारणं ब्रहि मे सरवं कर्मणा येन चाभवत् ॥१२॥ व्यास उवाच शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् । राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ॥ एतस्मिन्नंतरे देवा दैत्यैः सर्वे पराजिताः ॥१३॥ जग्मुस्त्िलोकाधिपति विष्णुं शरणमव्ययम् । तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः ॥१४॥ विष्णुरुवाच पाष्णिग्राहं महीपालं प्रार्थयंतु शशादजम्। स हनिष्यति वै दैत्यान्संग्रामे सुरसत्तम ॥१५॥। आगमिष्यति धर्मात्मा साहाय्यार्थ धनुर्धरः । पराशक: प्रसादेन सामर्थ्यं तस्य चातुलम् ॥१६॥ हरे: सुवचनादेवा ययुः सर्वे सवासवाः। अयोध्यायां महाराज शशादतनयं प्रति ॥१७॥ तानागतान्सुरात्राजा पूजयामास धर्मतः । पप्रच्छागमने राजा प्रयोजनमतंद्रितः ।१८।। राजोवाच धन्योऽहं पावितश्रास्मि जीवितं सफलं मम। यदागत्य गृहे देवा ददुश्र दर्शनं महत् ॥१९॥ ब्रुवंतु कृत्यं देवेशा दुःसाध्यमपि मानवैः । करिष्यामि महत्कार्य सर्वथा भवतां महत् ॥२०॥ देवा ऊचु: साहाय्यं कुरु राजेंद्र सखा भव शचीपतेः । संग्रामे जय दैत्येंद्रान्दुर्जयांस्त्रिदशैरपि ॥२१॥ पराशक्तिप्रसादेन दुर्लभं नास्ति ते ववचित् । विष्णुना प्रेरिताश्रवमागतास्तव सन्निधौ ॥२२॥
Page 449
२९ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ९ ४४९ राजोवाच पाष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः । इंद्रो मे वाहनं तत्र भवेद्यदि सुराघिपः ।२३।। संग्रामं तु करिष्यामि देत्यैर्देवकृतेऽधुना। आरुह्येंद्रं गमिष्यामि सत्यमेतद्ब्रवोम्यहम् ॥२४॥ तदोचुर्वासवं देबा: कर्तव्यं कार्यमद्दुतम्। पत्रं भव नरेंद्रस्य त्यक्त्वा लज्जां शचीपते ।२५॥। लज्जमानस्तदा शक्र: प्रेरितो हरिणा भृशम् । बभूव वृषभस्तूणं रुद्रस्येवापरो महान् ॥२६॥ तमारुरोह राजाऽसो संग्रामगमनाय वै। स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत्॥२७॥ इन्द्रो वाह: कृतो येन तेन नाम्नेंद्रवाहकः । पुरो जितास्तु दैत्यानां तेनाभूच्च पुरंजयः ॥२८॥ जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान। पप्रच्छ चैंवं राजर्षेरिति सख्यं बभूव ह ॥२९॥ ककुत्स्थंश्रातिविख्यातो नृपतिस्तस्य वंशजाः । काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः ॥३०।। ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः । अनेन विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान् ।३१॥ विष्णोरंश: स्मृतः साक्षात्पराशक्तिपदार्चकः । विश्वरंधिस्तु विज्ञेयः पृथोः पुत्रो नराघिपः ॥३२॥ चंद्रस्तस्य सुतः श्रीमान्राजा वंशकर: स्मृतः । तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः ॥३३॥ शावंतो युवनाश्वस्य जज्ञे परमधार्मिकः। शावंती निर्मिता तेन पुरी शक्रपुरीसमा ॥३४॥ वृहदश्वस्तु पुत्रोऽ्भूच्छावंतस्य महात्मनः । कुलवयाश्वः सुतस्तस्य वभूव पृथिवीपतिः ॥३५॥ धुंधुनामा हतो दैत्यस्तेनासौ पृथिवीतले। धुंधुमारेति विख्यातं नाम प्रापातिविश्रुतम् ॥३६॥ पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढ़ाश्वस्य सुतः श्रीमान्हर्यश्र इति कीतितः ॥३७॥ निकुंभस्तत्सुतः प्रोक्तो बभूध पृथित्रीपतिः । वर्हणाश्वो निकुंभस्य कृशाश्वस्तस्य वै सुतः ॥३८॥ प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः ! तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः ॥३९।। यौवनाश्वसुतः श्रीमान्मांधातेति महीपतिः । अष्टोत्तरसहस्त्रं तु प्रासादा येन निर्मिताः ॥४०॥ भगवत्यास्तु तुष्टयर्थं महातीर्थेषु मानद। मातृगर्भे न जातोऽसावृत्पन्नो जनकोदरे ।।४१।। निःसारितस्ततः पुत्रः कुक्षि भित्त्वा पितुः पुनः । राजोवाच न श्रतें न च दृष्टं वा भवता तदुदाहृतम् ॥४२॥ असंभाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मांधातुर्जन्मकारणम् ॥४३॥ राजोदरे यथोत्पन्नः पुत्रः सर्वांगसुन्दरः । व्यास उवाच यौवनाश्वोऽनपत्योऽभू द्राजा परमधार्मिक: ॥४४॥। भार्याणां च शतं तस्य बभूव नृपतेर्नृप। राजा चिंतापरः प्रायश्चिन्तयामास नित्यशः ॥४५॥
Page 450
४५० श्रीमद्देवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १० अपत्यार्थे योवनाश्वो दुःखितस्तु वनं गतः। ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः॥४६। मुमोच दुःखितः श्वासांस्तांपसानां च पश्यताम्। दृष्टा तु दुःखितं विप्रा बभूवुश्र कृपालवः।४७।। तमूचुर्ब्रा्हमणा राजन्कस्माच्छोचसि पार्यिव । कि ते दुःखं महाराज ब्रूहि सत्यं मनोगतम् ॥४८।। प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा। यौवनाश्च उवाच राज्यं धनं सदश्वाश्र वर्तन्ते मुनयो मम ॥४९॥ भार्याणां च शतं शुद्धं वर्तते विशदप्रभम्। नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम ॥५०॥ आज्ञाकरास्तु सामंता वर्तन्ते मंत्रिणस्तथा। एकं संतानजं दुःखं नान्यत्पश्यामि तापसाः ॥५१॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेंद्राः संतानार्थं भृशं ततः ॥५२॥ वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं संतानकामस्य युक्तां ज्ञात्वा दिशंतु मे ॥५३॥ कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच तच्छरत्वा वचनं राज्ञः कृपया पूर्णमानसाः ॥५४॥ कारया मासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र गलपूर्णस्तु वाडवैः ॥५५॥ मंत्रितो वेदमन्त्रंश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि ॥५६॥ विप्रान्दृष्टा शयानान्स पपौ मंत्रजलं स्वयम्। भार्यार्थं संस्वृतं विप्रमंत्रितं विधिनोद्धृतम् ॥५७॥ पीतं राज्ञा तृषार्तेन • तदज्ञानान्नृपोत्तम। व्युदकं कलशं दृष्टा तदा विप्रा विशंकिताः ॥५८।। पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः। राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत् ॥५९॥ इष्टिं समापयामासुर्गतास्ते मुनयो गृहान्। गर्भ दधार नृपतिस्ततो मंत्रबलादय ॥६०॥ ततः काले स उत्पन्नः कुक्षि भित्त्वास्य दक्षिणाम्। पुत्रं निष्कासयामासुर्मन्त्रिणस्तस्य भूपतेः ॥६१॥ देवानां कृपया तत्र न ममार महीपतिः। क धास्यति कुमारोऽयं मंत्रिणश्रुक्रुशुर्भृशम् ॥६२॥ तदेंद्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्वलवात्राजा मान्वाता पृथितीपतिः ॥ तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात् ॥६३।! इति श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः व्यास उवाच बभूव चक्रवर्ती स नृपतिः सत्यसंगरः । मांधाता पृ्थिवीं सर्वामजयन्नृपतीश्वरः ॥१॥
Page 451
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १० ४५१ दस्यवोऽस्य भयत्रस्ता ययुगिरिगुहासु च। इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥२॥ तस्य बिंदुमती भार्या शशविंदोः सुताऽभवत् । पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥३॥ तस्यामुत्पादयामास मांधाता द्वो सुतौ नृप। पुरुकुत्मं सुविरूयातं मुचुकुन्दं तथापरम् ॥४॥l पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः। पितृभक्तिरतश्वाभूद्बृहदश्वस्तदात्मजः हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित्। तस्यात्मजस्त्रिधन्वाऽभूदरुणस्तस्य चात्मजः ॥६॥ अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः । सोऽभूदिच्छाचरः कामो मंदात्मा ह्यतिलोलुपः ॥७॥ स पापात्मा विप्रभार्यां हृतवान्काममोहितः । विवाहे तस्य विष्नं स चकार नृपतेः सुतः ।८। मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप। ऊचुर्भृशं सुद्गःखार्ताहा हताः स्मेति चासकृत् ।।९।। पत्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः । कि कृतं मम पुत्रेण भवतामशुभं, िजाः ॥१०॥ तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम्। तदोचुस्त्वरुणं विप्राः कृताशोर्वचना भृरम् ॥११॥ ब्राह्मणा ऊचु: राजंस्तव सुतेनाद्य विवाहे प्रहृता किल। विवाहिता व्रिप्रकन्या बलेन बलिनांवर ॥१२॥ व्यास उवाच श्रुत्वा तेपां वचस्तथ्यं राजा परमधार्मिकः । पुत्रमाह वृया नाम कृतं ते दुष्टकर्मणा ॥१३॥ गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम। न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥१४॥ कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः। अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥१५॥ श्वपचस्य कृतं कर्म द्विजदारापहारणम्। तस्मात्तः सह संसर्ग कृत्वा तिष्ठ यथासुखम् ॥१६॥ नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन। यथेष्टं व्रज दुष्टात्मन्कीतिनाशः कृतस्त्वया ॥१७।। स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः । निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥१८॥ सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते। धनुर्वाणघरः श्रीमान्कवची करुणालयः ॥१९॥ यदा निष्कासितः पित्रा कुपितेन महात्मना। गुरुणाऽथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥२०॥ तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः । वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥२१॥ केनचित्कारणेनाथ पिता तस्य महीपतिः। पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यवत्वा वनं गतः ॥२२॥ नं ववर्ष तदा तस्मिन्विपये पाकशासनः । सभा द्वादरा राजेंद्र तेनाधर्मेण सर्वथा ॥२३॥ विश्वामित्रस्तदा दारांस्तस्मिस्तु विपये नृप। संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥२४॥ कातरा तब संजाता नार्या वै कौशिकस्य है। कुटुम्बभरणार्भाय दुःखिता बरवणिनी ॥२५॥ बालकान्क्षुधयाक्रांतान्रुदतः पश्यती भृशम्। याचमानांश्र नोवारान्कष्टमाप पतिव्रता ॥२६॥ चिंतयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान्। नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ।।
Page 452
४५२ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १० न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ। रुदंति बालकाः कामं घिङ्मे जीवनमद्य वै ॥२८॥ धनहीनां च मां त्यकत्वा तपस्तप्तुं गतः पतिः। न जानाति समर्थोपि दुःखितां धनवर्जिताम् ॥२९॥ बालानां भरणं केन करोमि पतिना विना। मरिष्यन्ति सुताः सर्वेक्षुधया पीडिता भृशम् ॥३०॥ एकं सुतं तु विक्रीय द्रव्येण कियता पुनः । पालयामि सुतानन्यानेष मे विहितो विधिः ॥३१॥ सर्वेषां मारणं नाद्वा युक्त मम विपयये। कालस्य कालनायाहं विक्रोणामि तथात्मजम् ॥३२॥ हृदयं कठिनं कृत्वा संचिन्त्य मनसा सती। सा दर्भरज्जवा बद्ध्वाथ गले पुत्रं विनिर्गता॥३३॥ मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम्। शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥३४॥ दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता। पप्रच्छ नृपतिस्तांतु कि चिकीर्षसि शोभने ॥३५॥ रुदंतं बालकं कंठे बद्ध्वा नर्यासि क्वाधुना। किमर्थं चारुसर्वांगि सत्यं ब्रूहि ममाग्रतः ॥३६॥ ऋषिपत्न्युवाच विश्वामित्रस्य भार्याऽहं पुत्रोऽयं मे नृपात्मज। विव्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥३७॥ अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित्। विक्रीणामि क्षुधार्तेनं शेषस्य भरणाय वै ॥३८॥ राजोवाच पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव। तावदेव पतिस्तेऽत्र वनाच्चवागमिष्यति ॥३९॥ वृक्षे तवाश्रमाभ्याशे भध्ष्यं किचिन्निरंतरम् । बंधयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥४०॥ इत्युक्ता सा तदा तेन राज्ञा कोशिककामिनी। विबंधं तनयं कृत्वा जगामाश्रममंडलम् ॥४१॥ सोऽभवद्गालवो नाम गलबंधान्महातपाः। सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ।४२।। सत्यव्रतस्तु भक्त्या च कृपया न परिप्लुतः । विश्वामित्रस्य च मुनेः कलत्रं तद्वभार ह॥४३॥ वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा। विश्वामित्रवनाभ्याशे मांस वृक्षे बबंध ह।४४।। वषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः । निर्वृति परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥४५॥ अयोध्यां चंव राज्यं च तर्थवांतःपुरं मुनिः । गते तपुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥४६॥ सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद्वहिः। पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने॥४७॥ सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः । वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥४८।। त्यज्यमानं वने पित्रा धर्मिष्टं च प्रियं सुतम्। न वारयामास मुनिर्वसिष्टः कारणेन है॥४९॥ पाणिग्रहणमंत्राणां निष्ठा स्यात्सप्तमे पदे। जानन्नषि स धर्मात्मा विप्रदारपरिग्रहे ॥५०॥ कस्मिश्रिदि्वसेऽरण्ये मृगाभावे महीपतिः । वसिष्ठस्य च गां दोग्ध्रीमपश्यट्वनमध्यगाम् ॥५१॥ तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत्। वृक्षे वबंध तन्मांसं नीत्वा स्वयमभक्षयत् ॥५२॥ कषिभत्नी सुतान्सर्वान्भोजयामास तत्तदा। शंकमाना मृगस्येति न गोरिति च सुव्रत ॥५३।।
Page 453
श्रीमद्देवीभागव ते महापुराणे सप्तमस्कन्धे अध्याय: ११ ४५३ बसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत्। दुरात्मन्कि कृतं पापं धेनुघातात्पिशाचत्रत् ।।५४।। एवं ते शंकवः क्रूराः पतंतु त्वरितास्त्रयः । गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृरम् ॥५५॥ त्रिशंकुरिति नाम्ना वै भुवि रयातो भविष्यसि। पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥५६॥ व्यास उवाच एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः । चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥५७॥ कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मंत्रमनुत्तमम्। ध्यायन्भगवतीं देवीं प्रकृति परमां शिवाम् ॥५८॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे दशमोऽध्यायः॥१०॥ अथ एकादशोऽध्यायः जनमेजय उवाच वसिष्ठेन च शप्तोऽसी त्रिशंकुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥१॥ व्यास उवाच सत्यव्रतस्तथा शप्तः पिशाचत्वमवासतवान्। तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥२।। कदाचिन्नृपतिस्तत्र जप्त्वा मंत्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥३।। भूमिदेवाः शृणुध्वं वै वचनं प्रणतस्य मे। ऋत्विजो मम सर्वेडत्र भवंतः प्रभवंतु ह॥४।। जपस्य च दशांशेन होमः कार्यो विधानतः । भवद्भि: कार्यसिद्धयर्थं वेदविद्धि: कृपापरैः ॥५॥ सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः । कायं मम विधातव्यं सर्वथा सुखहेतवे ॥६॥ तच्छ्रत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम्। शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाऽधुना ॥।। न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः। पिशाचत्वमनुप्राप्तं सर्वलोकेषु गहितम्॥८॥ व्यास उवाच तन्निशम्य वचस्तेषां राजा दुःखमवाप ह। घिग्जीवितमिदं मेऽद्य कि करोमि वने स्थितः॥९॥ पित्रा चाहं परित्यक्तः शप्तश्र गुरुणा भृशम् । राज्यान्द्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ तदा पृथुतरां कृत्वा चितां काष्ठैनृपात्मजः । सस्मार चंडिकां देवीं प्रवेशमनुचितयन् ॥११॥ स्मृत्वा देवीं महामायां चितां प्रज्वलितां पुरः। कृत्वा स्नात्वा प्रवेशार्थ स्थितः प्रांजलिरग्रतः ॥१२॥ ज्ञात्वा भगवती तं तु मर्तुकामं महोपतिम् । आजगाम तदाकाशं प्रत्यक्षं तस्य चाग्रतः ॥१३॥ दत्त्वाऽथ दर्शनं देवी तमुवाच नृपात्मजम् । सिंहारूढा महाराज मेघगंभीरया गिरा ॥१४॥ देव्युवाच कि ते व्यवसितं साधो हताशो मा तनुं त्यज । स्थिरो भव महाभाग पिता ते जरसान्वितः ।१५॥
Page 454
४५४ श्रीमहेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ११ राज्यं दत्त्वा वने तुभ्यं गंतास्ति तपसे किल। विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥१६॥ नेतुं त्वामागमिष्यंति सचिवाश्च पितुस्तव । मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥१७॥ जित्वा कामं ब्रह्मलोकं गमिष्यत्येष निश्चयः । व्यास उवाच इत्युक्त्वा त तदा देवी तत्रवांतरधीयत ।१८।। राजपुत्रो विरमितो मरणात्पावकात्ततः। अयोध्यायां तदागत्य नारदेन महात्मना ।१९।। वृत्तांतः कथितः सर्वो राज्ञे सत्वरमादितः । श्रुत्वा राजार्थ पुत्रस्य तं तथा गरणोद्यमम् ॥२०॥ खेदमाधाय मनसि शुशोच बहुधा नृपः । सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥२१॥ ज्ञातं भर्वद्दिरत्युग्रं पुत्रस्य मम चेष्टितम् । त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥२२॥ आज्ञयासौ गतः सदो राज्यार्हः परमार्थवित् । स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ।२३॥ वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः । सोद्य दुःखेन संतप्तः प्रवेष्टं च हुताशनम् ॥२४॥ उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः । तस्माद्गच्छन्तु तं शोघ्रं ज्येष्ठपुत्रं महाबलम् ॥२५॥ आश्वास्य वचनैरत्र तरसैवानयंत्विह । अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥२६॥ वनं यास्यामि शांतोऽहं तपसे कृतनिश्चयः । इत्युक्त्वा मंत्रिणः सर्वान्प्रेषयामास पार्यिवः॥२७॥ तस्यवानयनार्थं हि प्रीतिप्रवणमानसः । ते गत्वा तं समाश्रास्य मंत्रिणः पार्थिवात्मजम् ॥ अयोध्यायां महात्मानं मानपूर्व समानयन्। दृष्टा सत्यव्रतं राजा दुर्बलं मलिनांबरम् ॥२९॥ जटाजूटधरं क्ररं चिंतातुरमचितयत् । किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥३०॥ राज्याहश्चातिमेधावी जानता धर्मनिश्चयम् । इति संचित्य मनसा तमालिंग्य महोपतिः ॥३१॥। आसने स्वसमीपस्थे समाश्वास्योपवेशयत्। उपविष्टं सुतं राजा प्रेमपूर्वमुवाच है॥३२॥ प्रेमगद्गदया वाचा नीतिशास्त्रविाशरदः । राजोवाच पुत्र धर्में मतिः कार्या माननीया मुखोद्दवाः ॥३३॥ न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः। नासत्यं क्वापि वक्तव्यं नामागे गमनं क्वचित्॥३४। शिष्टप्रोकं प्रकर्तव्यं पूजनीयास्तपस्दिनः । हन्तव्या दस्यवः क्ररा इंद्रियाणां तथा जयः ॥३५॥ कर्तव्यं कार्यसिद्धर्थ राज्ञा पुत्र सदैव हि। मंत्रस्तु सर्वथा गोप्यः कर्तव्यःसचिवैः सह ॥३६॥ नोपेक्ष्योऽल्पोडपि कृतिना रिपुः सर्वात्मना सुत। न विश्वसेत्परासक्तं सचिवं च तथानतम् ॥३७॥ चारा: सवत्र योक्त्याः शत्रुमित्रेषु सर्वथा। धर्में मतिःसदा कार्या दानं दद्याच्च नित्यशः ॥३८। शुष्कवादो न कर्तव्यो दुष्टसंगं च वर्जयेत्। यष्टव्या विविधा यज्ञाः पूजनीया महर्पयः ॥३९॥
Page 455
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १२ ४५५ न विश्वसेत्स्नियं क्वापि स्त्रैणद्यूतरतं नरम् । अत्यादरो न कर्तव्यो मृगयायां कदाचन॥४०।। द्यूते मद्ये तथा गैये नूनं वारवधूषु च। स्वयं तद्विमुखो भूयात्प्रजास्तेम्यश्च रक्षयेत् ।४१। ब्राह्मे मुहर्ते कर्तव्यमुत्थानं सर्वथा सदा। स्नानादिकं सर्वविधि विधाय विघिवत्तथा ॥४२॥ पराशक्ते: परां पूजां भक्त्या कुर्यात्सुदीक्षितः । पुत्रतज्जन्मसाफल्यं पराशक्तेः पवार्चनम् ॥४३॥ सकृत्कृत्वा महापूजां देवीपादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥४४॥ सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि। इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा ॥४५॥ कृत्वा नित्यविधिं सम्यग्गंतव्यं सदसि द्विजान्। समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥४६॥ संपूज्य ब्राह्मणान्पूज्यान्वेदवेदांगपारगान्। गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा।४७।। अविद्वान्ब्राह्मणः कोऽपि नैव पूज्य: कदाचन। आहारादधिक नैव देयं मूर्खाय कहिचित् ॥४८।। न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलघनम् । अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम्॥४९।। ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः । कारणं क्षत्रियाणां च द्विजाएव न संशयः ॥५०॥ अद्धचोऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥५१॥ तस्माद्राज्ञा विशेषेण माननीया मुखोद्वाः । दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥५२॥। दंडनीतिः सदा कार्या धर्मशास्त्रानुसारतः। कोशस्य संग्रहः कार्यो नूनं न्यायागतस्य ह।५३॥ इति श्रीदेवीभागवते महापुराणे सप्मस्कन्धे एकादशोऽध्यायः।।११।। अथ द्वादशोऽध्यायः व्यास उवाच एवं प्रबोधितः पित्रा त्रिशंकु: प्रणतो नृपः । तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥१॥ विप्रानाहूय मंत्रज्ञान्वेदशास्त्रविशारदान् । अभिषेकाय संभारान्कारयामास सत्वरम् ।२।। सलिलं सर्वतीर्थानां समानाय्य विशांपतिः । प्रकृतीश्र समाहूय सामन्तान्भूपतींस्तथा ॥३॥। पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् । अभिषिच्य सुतं राज्ये त्रिशंकुं विधिवत्पिता ॥४॥ तृतोयमाश्रमं पुण्यं जग्राह भार्यया युतः । वने त्रिपथगाकूले चचार दुश्वरं तपः ॥५॥ काले प्राप्ते ययौ स्वर्ग पूजितस्त्रिदशैरपि। इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥६।। राजीवाच पूर्व भगवता प्रोक्तं कथायोगेन सांप्रतम् । सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल॥७॥। कुपितेन पिशाचत्वं प्रापितो गुरुणा ततः। कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥८॥ न सिंहासनयोग्यो हि भवेच्छापसमन्वितः । मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥९॥
Page 456
श्रीमदेवीभागगते महापुराणे सप्मस्कन्धे अध्याय: १२ एतन्मे ब्रहि विप्रर्षे शापमोक्षणकारणम्। आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥१०।। व्यास उवाच वसिष्ठेन च शप्तोऽसो सदः पैशाचतां गतः । दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयंकरः ।११। यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह। तया प्रसन्नया राजन्दिव्यदेहः कृतःक्षणात् ॥१२॥ पिशाचत्वं गतं तस्य पापं चव क्षयं गतम् । विपाप्मा चातितेजस्वी संभूतस्तत्कृपामृतात् ॥१३॥ वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः । पिताऽपि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥१४॥ राज्यं शशास धर्मात्मा मृते पितरि पार्थिव। ईजे च विविधर्यज्ञैर्देवदेवीं सनातनीम् ॥१५॥ तस्य पुत्रो बभूवाथ हरिश्रन्द्रः सुशोभनः । लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥१६॥ युवराजं सुतं कृत्वा त्रिशंकु: पृथिवीपतिः । मानुषेण शरीरेण स्वर्गे भोक्तुं मनो दधे ॥१७॥ वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः। उवाच वचनं प्रीतः कृतांजलिपुटस्तदा ॥१८। राजोवाच ब्रह्मपुत्र महाभाग सर्वमंत्रविशारद। विज्ञसत्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥१९॥ इच्छा मेडद्य समुत्पन्ना स्वर्गलोकसुखाय च। अनेनैव शरोरेण भोगान्भोत्तुममानुषान्॥२०॥ अप्सरोभिश्च संवासः क्रीडितुं नंदने वने। देवगंधर्वगानं च श्रोतव्यं मधुरं किल ॥२१॥ याजय त्वं मखेनाशु तादृशेन महामुने। यथाऽनेन शरीरेण वसे लोकं त्रिविष्टपम् ॥२२॥ समर्थोसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना। प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥२३॥ वसिष्ठ उवाच सजन्मानुषदहन स्वगें वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥२४॥ तस्माद्विभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥२५॥ कुरु यज्ञान्महाभाग मृतः स्वर्गमवांप्स्यंसि। व्यास उवाच इत्याकर्ण्य वचस्तस्य राजा परमर्दुमनाः ॥२६॥ उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम्। न त्वं याजयसे ब्रह्मन्गर्वावेशाच्च मां यदि ॥२७॥ अन्यं पुरोहितं कृत्बा यक्ष्येऽहं किल सांप्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥२८।। शशाप भूपत चेति चांडालो भव दुर्मते। अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥२९॥ स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥३०॥। न ते स्वर्गगतिः पाप मृतस्यापि कथंचन।
Page 457
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १२ ४५७
व्यास उवाच इत्युक्तो गुरुणा राजंस्त्रिशंकुस्तत्क्षणादपि॥३१॥ तत्र तेन शरीरेण बभूव श्ववचाकृतिः। कुंडलेऽशममये चापि जाते तस्य च तत्क्षणात् ॥३२॥ देहे चंदनगंधश्च विगंधो ह्यभवत्तदा। नीलवर्णेऽथ सआते दिव्ये पीतांबरे तनौ ॥३३॥ गजवर्णोऽभवद्देहः शागत्तस्य महात्मनः। शक्त्युपासकरोषेण फलमेतदभून्नृप ॥३४॥ तस्माछीशक्तिभक्तो हि नावमान्यः कदाचन। गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥३५॥ दृष्टा निंदं निजं देहं राजा दुःखमवाप्तवान्। न जगाम गृहे दीनो वनमेवाभितो ययौ ॥३६॥ चिंतयामास दुःखार्तस्त्रिशंकुः शोकविह्वलः । कि करोमि क्व गच्छामि देहो मेऽतीवनिदितः ३७॥ कर्तव्यं नैव पश्यामि यन मे दुःखसंक्षयः । गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति॥३८॥ भार्याऽपि श्वपचं दृष्टा नांगीकार करिष्यति। सचिवा नादरिष्यंति वीक्ष्य मामीदृशं पुनः ॥३९॥ ज्ञातयो बंधुवर्गश्च सङ्गतो न भजिष्यति। सर्वेस्त्यक्तस्य मे नूनं जीवितान्मरणं वरम् ॥४०॥ विषं वा भक्षयित्वाऽद्य पतित्वा वा जलाशये। कृत्वा वा कंठपाशं च देहत्यागं करोम्यहम्॥४१॥ अग्नी वा ज्वलिते देहं जुहोमि विधिवद्बलात्। कृत्वा वाऽनशनं प्राणांस्त्यजामि दूषितान्भृशम् ४२॥ आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि। श्वपचत्वं च शापश्र हत्यादोषाद्द्गवेदपि॥४३॥ पुनविचार्य भूपालश्चेतसा समचितयत् । आत्महत्या न कर्तव्या सर्वथैव मयाऽधुना ॥४४॥ भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने। भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥४५॥ प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् । तस्मान्मयाऽत्र भोक्तव्यं कृतं कर्म शुभाशुभम्॥४६॥ कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा। स्मरणं चांबिकायास्तु साधूनां सेवनं तथा ॥४७॥ एवं कर्मक्षयं नूनं करिष्यामि वने वसन्। भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ।४८।। इति संचित्य मनसा त्यक्त्वा स्वनगरं नृपः । गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥४९॥ हरिश्चंद्रस्तदा ज्ञात्वा पितुः शापस्य कारणम्। दुःखितः सचिवांस्तत्र प्रेषयामास पार्यिवः ।५०।। सचिवास्तत्र गत्वाशु तमूचुः प्रश्रयान्विताः । प्रणम्य श्ववचाकारं निःश्वसंतं मुहुर्मुहुः ॥५१॥ राजन्पुत्रेण ते नूनं प्रेषितान्समुपागतान् । अवेहि सचिवांस्त्वं नो हरिश्रंद्राज्ञया स्थितान् ५२॥ युवराजसुतः प्राह यत्तच्छृणुष्व नराधिप। आनयध्वं नृपं यूयं संमान्य पितरं मम ॥५३॥ तस्माद्राजन्समागच्छ राज्यं प्रति गतव्यथः । सेवां सर्वे करिष्यंति सचिवाश्च प्रजास्तथा ॥५४॥। गुरुं प्रसादयिष्यामः स यथा तु दयेत वै। प्रसन्नोऽसी महातेजा दुःखस्यांतं करिष्यति ॥५५॥ इति पुत्रेण ते राजन्कथितं बहुधा किल। तस्माद्गमनमेवाशु रोचतां निजसदनि ॥५६॥
Page 458
४५८ श्रीमद्देवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १३ व्यास उवाच इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः । स्वगृहं गमनायासौ न मति कृतवानदः ॥५७॥ तानुवाच तदा वाक्यं व्रजंतु सचिवाः पुरम्। गत्वा पुरं महाभागा ब्ुवंतु वचनाच्च मे ॥५८॥ नागमिष्याम्यहं पुत्र कुरु राज्थमतंद्रितः । मानयन्त्राह्मणान्देवान्यजन्यज्ञैरनेकशः नाहं श्वपचवेषेण गहिंतेन महात्मभिः । आगमिष्याम्ययोध्यायां सवं गच्छंतु माचिरम् ॥६०॥ पुत्रं सिंहासने स्थाप्य हरिश्रंद्रं महाबलम्। कुवंतु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥६१॥ इत्यादिष्टास्ततस्ते तु रुरदुश्चातुरा भृशम्। सचिवा निर्ययुस्तूर्ण नत्वा तं च वनाश्रमम् ॥६२।। अयो यायामुपागत्य पुण्येऽहि विधिपूर्वकम् । अभिषेकं तदा चक्रुर्हरिश्चंद्रस्य मूध्नि ते ।।६३॥। अभिपिकस्तु तेजस्वी सचिवाश्च नृपाज्ञया। राज्यं चकार धर्मिष्ठः पितरं चिंतयन्भृशम् ॥६४॥ इति श्रीदेवीभागवते महापुराणे सतमस्कन्धे द्वादशोऽध्यायः॥२१॥ अथ त्रयोदशोऽध्यायः राजोवाच हरिश्चंद्र: कृतो राजा सचिवैर्नृपशासनात्। त्रिशंकुस्तु कथं मुक्तस्तस्माच्चांडालदेहतः ॥१॥ मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः । गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः ॥२॥ एतद्वृत्तांतमखिलं कथयस्व ममाग्रतः । चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा ॥३॥ व्यास उवाच अभिषिक्तं सुतं कृत्वा राजा संतुष्टमानसः । कालातिक्रमणं तत्र चकार चिंतयञ्छिवाम् ॥४॥ एवं गच्छति काले तु तपस्तप्त्वा समाहितः । द्रष्टुं दारान्सुतादींश्च तदाऽगात्कौशिको मुनिः ॥५॥ आगत्य स्वजनं दृष्टा सुस्थितं मुदमाप्तवान् । भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥६॥ दुर्भिक्षे तु कथं कालस्त्वया नीतः सुलोचने । अन्नं बिना त्विमे बाला: पालिताः केन तद्वद ॥७॥ अहं तपसि संनद्धो नागतः शृणु सुन्दरि । किं कृतं तु त्वया कांते विना द्रव्येण शोभने ॥८। मया चिंता कृता तत्र श्रुत्वा दुर्भिक्षमद्द्ुतम् । नागतोऽहंविचार्येवं कि करिष्यामि निर्धनः ॥९॥ अहमप्यतिवामोरु पीडितः क्षुधया वने। प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥१०॥ श्वपचं निद्रितं दृष्टा क्षुधया पीडितो भृशम् । महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥११॥ यदा भाण्डं समुद्धाटय पववं श्वतनुजामिषम्। गृह्हामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥१२॥ पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् । ब्रूहि कार्य किमर्थं त्वमुद्धाटयसि भांडकम् ॥१३॥ इत्युक्त: श्वपचेनाहं क्षुधया पीडितो भृशम । तमवोचं सुकेशान्ते कामं गद्गदया गिरा ॥१४॥
Page 459
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १३ ४५९. ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः । चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भांडके ॥१५॥ चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते। क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्ि सुसंस्कृतम् ॥१६॥ विश्वामित्र उवाच श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम्। भक्षं मा कुरु वर्णाग्रय जानीहि श्वपचालयम् ॥१७॥ दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता। द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं नहि ॥१८॥ दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता। अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चांत्यजाः ॥१९॥ त्याज्योऽहं कर्मणा वित्र श्वपचो नात्र संशयः । निवारयामि भक्ष्यात्त्वांन लोभेनांजसा द्विज ॥२०॥ वर्णसंकरदोषोऽयं मा यातु त्वां द्विजोत्तम। विश्वामित्र उवाघ सत्यं वदसि धर्मज्ञ मतिस्ते विशदांत्यज ॥२१॥ तथाप्यापदि धर्मस्य सूक्ष्ममार्ग ब्रवीम्यहम्। देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥२२॥ पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये। दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥२३। मरणात्क्षुधितस्याथ नरको नात्र संशयः । तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥२४॥ तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथांत्यज। अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥२५॥ यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति। विश्वामित्र उवाच इत्युक्त्ते वचने कांते पर्जन्यः सहसाऽपतत् ॥२६॥ गगनाद्धस्तिहस्ताभिर्धाराभिरभिकांक्षितः । मुदितोऽहं घनं वीक्ष्य वषँतं विद्युता सह ॥ तदाऽहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा। कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥२८॥ कांतारे परमः करः क्षयकृत्प्राणिनामिह। : व्यास उवाच इति तस्य वच: श्रुत्वा पतिमाह प्रियंवदा ॥२९॥ यथा श्ृणु मया नीतः काल: परमदारुणः । गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥३०॥ अन्नार्थ पुत्रका: सर्वे बभूवुश्चातिदुःखिताः । क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥३१॥ भ्रांताऽहं चिंतयाविष्टा किंचित्प्रास्तं फलं तदा। एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥३२।। तदभावे मया कांत चिंतितं मनसा पुनः । न भिक्षा किल दुर्भिक्षेनीवारा नापि कानने ॥३३॥ न वृक्षेषु फलान्यासुर्न मूलानि धरातले। क्षुधया पीडिता बाला रुदंति भृशमातुराः ॥३४॥ किं करोमि क्व गच्छामि कि ब्रवीमि क्षुधार्दितान्। एवं विचित्य मनसा निश्चयस्तु मया कृतः ॥३५॥
Page 460
४६० श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १३ पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल। गृहोत्वा तस्य मौल्यं तुतेन द्रव्येण बालकान् ॥३६। पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने । इति संचित्य मनसा पुत्रोडयं प्रहितो मया ॥३७॥ विक्रयार्थं महाभाग क्रंदमानो भृशातुरः । क्रन्दमानं गृहीत्वैनं निर्गताऽहं गतत्रपा ॥३८॥ तदा सत्यव्रतो मागे मामुद्वीक्ष्य भृशातुराम् । पप्रच्छ संच राजर्षिः कस्माद्रोदिति बालकः ॥३९॥ तदाऽहं तमुवाचेदं वचनं मुनिसत्तम। विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप॥४०॥ श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः । मामुवाच गृहं याहि गृहोत्वैनं कुमारकम्॥४१॥ भोजनार्थे कुमाराणामामिषं विहितं तव । प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥४२॥ अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् । विन्यस्य यामि हत्वाऽसौ प्रत्यहं दययान्वितः ॥४३।। तेनैव बालकाः कांत पालिता वृजिनार्णवात्। वसिष्ठेनाथ शप्तोऽसौ भूपतिर्मम कारणात् ॥४४।। कस्मिश्चिहि्विसे मांसं न प्राप्तं तेन कानने। हता दोग्ध्री वसिष्ठस्य तेनासो कुपितो मुनिः ॥४५॥ त्रिशंकुरिति भूपस्य कृतं नाम महात्मना। कुपितेन वधाद्वेतोश्चाण्डालश्च कृतो नृपः ॥४६॥ तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक । श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ।४७।। येन केनाप्युपायेन भवता नृपतेः किल। तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह॥४८॥ व्यास उवाच इति भार्यावच: श्रुत्वा कोशिको मुनिसत्तमः । तामाह कामिनीं दीनां सांत्वपूर्वमरिन्दम ॥४९॥ विश्वामित्र उवाच मोचयिष्यामि तं शापान्नृपं कमललोचने। उपकारः कृतो येन कांताराद्रक्षिताऽसि वै ॥५०॥ विद्यातपोबलेनाहं करिष्ये दुःखसंक्षयम्। इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥५१॥ चिंतयामास नृपतेः कथं स्याद्दुःखनाशनम्। संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ।५२।। त्रिशंकु: पक्वणे दीनः संस्थितः श्वपचाकृतिः । आगच्छंतं मुनि दृष्टा विस्मितोऽसौ नराघिपः ॥५३॥ दण्डवन्निपपातोरव्यां पादयोस्तरसा मुनेः। गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥५४॥ उत्थाप्योवाच वचनं सांत्वपूर्वं द्विजोत्तमः । मत्कृते त्वं महीपाल शपोऽसिं मुनिना यतः ॥५५॥ वांछितं ते करिष्यामि ब्रहि कि करवाण्यहम्। राजोवाच मया संप्राथितः पूर्वं वसिष्ठो मखहेतवे ॥५६॥ मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम्। यथेष्टं कुरु विप्रेंद्र यथा स्वर्गं व्रजाम्यहम् ॥५७॥ अनेनैव शरीरेण शक्रलोकं सुखालयम्। कोपं कृत्वा वसिष्ठोऽसी मामाहेति सुदुर्मते ॥५८॥ मानुषेण हि देहेन स्वर्गवासः कुतस्तव। पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ।।५९।।
Page 461
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १४ ४६१ अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चांडालो भव पामर ॥६०॥ इत्येतत्कथितं सवं कारणं शापसंभवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥६१॥ इत्युक्त्वा विररामासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकतुँ शापं तस्य व्यचितयत् ६२।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे त्रयोदशोऽध्यायः॥१३॥ अथ चतुर्दशोऽध्यायः व्यास उवाच विचित्य मनसा कृत्यं गाधिसूनुर्महातपाः। प्रकल्प्य यज्ञसंमारान्मुनीनामंत्रयत्तदा ।।१।। मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमंत्रिताः । नागताः सर्व एवते वसिष्टेन निवारिताः ॥२॥ गाधिसू नुस्तदाज्ञाय विमनाश्चातिदु:खितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥३॥ तमाह कोशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागता ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥४॥ पश्य मे तपसः सिद्धिं यथा त्वां सुरसदनि। प्रापयामि महाराज वांछितं ते करोम्यहम् ।।५॥ इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥६॥ दत्त्वाऽथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजषें त्रिविष्टपमतंद्रितः ।७॥ पुण्येन मम राजेंद्र बहुकालारजितेन च। याहि शक्रपुरी प्रोतः स्वस्ति तेऽस्तु सुरालये ॥।८।। व्यास उवाच इत्युक्तवति विप्रेंद्रे त्रिशंकुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥९॥ उत्पत्य गगने राजा गतः शत्रपुरी यदा। दृष्टो देवगणस्तत्र क्रूरश्रांडालवेषभाक्॥१०॥ कथितोऽसी सुरेंद्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥११॥ सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशंकुमपि स निर्भत्स्य तरसाऽब्रवीत् १२॥ श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् १३।। इत्युक्त: स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन। निपपात तदा राजा क्षीणपुण्यो यथाऽमर: ॥१४॥ पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत्। पतामि रक्ष दु.खारत स्वर्गाच्चलितमाशुगम् ॥१५॥ तस्य तत्क्रंदितं राजन्पततः कौशिको मुनिः। श्रुत्वा तिष्ठेति होवाच पतंतं वीक्ष्य भूपतिम् ॥१६॥ वचनात्तस्य तत्रव स्थितोऽसी गगने नृप। मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥१७ विश्वामित्रोऽप्यपः स्पृष्टा चकारेष्टिं सुविस्तराम्। विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥१८॥ तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः । तत्राजगाम सहसा मुनि प्रति तु गाधिजम् ॥१९॥ किं ब्रह्मक्क्रियते साधो वस्मातकोपसमाकुलः । अलं सृष्टया मुनिश्रेष्ठ ब्रहि कि करवाणि ते ॥२०॥
Page 462
४६२ श्रीम द्ेवीभागवते महापुराणे सप्मस्कन्धे अध्याय: १४ विश्वामित्र उवाच स्वं निवासं महीपालं च्युतं त्व्गवनाद्विभो। नयस्व प्रीतियोगेन त्रिशंकुं चातिदुःखितम् ॥२१॥ व्यास उवाच तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशंकितः । ततो बलं विदित्वोग्रमोमित्युवाच वासवः ॥२२॥ दिग्यदेहं नृपं कृत्वा विमानवरसंस्थितम्। आपृच्छय कौशिकं शक्रोडगमन्निजपुरीं तदा ॥२३॥ गते शक्रे तु वै स्वर्गं त्रिशंकुसहिते ततः । विश्वामित्रः सुखं प्राप्यस्वाश्रमे सुस्थिरोऽभवत् २४॥ हरिश्चंद्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम्। पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥२५॥ अयोध्याधिपतिः क्रीडां चकार सह भार्यया। रूपयौवनचातुर्ययुक्तया प्रीतिसंयुत: ॥२६॥ अतीतकाले युवती न सा गर्भवती ह्यभूत् । तदा चिंतातुरो राजा बभूवातीव दुःखितः ॥२७॥ वसिष्ठस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम्। अनपत्यत्वजां चिंतां गुरवे समवेदयत् ॥२८। दैवज्ञोऽसि भवांन्कामं मंत्रविद्याविशारदः । उपायं कुरु धर्मज्ञ संततेर्मम मानद ॥२९॥ अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम । कस्मादुपेक्षसे जानन्दुःखं मम च शक्तिमान् ॥३०॥ कलविकास्त्विमे धन्या ये शिशु लालयंति हि। मंदभाग्योऽहमनिशं चिंतयामि दिवानिशम् ॥३१॥ व्यास उवाच इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः । संचित्य मनसा सम्यक्तमुवाच विधेः सुतः ॥३२॥ वसिष्ठ उवाच सत्यं व्रूषे महाराज संसारेऽस्मिन्न विद्यते। अनपत्यत्वजं दुःखं यत्तथा दुःखमद्दतम् ।३३॥ तस्मात्त्वमपि राजेंद्र वरुणं यादसां पतिम् । समाराधय यत्नेन स ते कार्य करिष्यति ॥३४॥ वरुणादधिको नास्ति देवः संतानदायकः । तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥३५॥ दैवं पुरुषकारश्र माननीयाविमौ नृभिः । उद्यमेन बिना कार्यसिद्धिः संजायते कथम् ॥३६॥ न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदशिभिः। कृते तस्मिन्भवेत्सिद्धिंर्नान्यथा नृपसर्तम ॥३७॥ इति तस्य वच: ध्रुत्वा गुरोरमिततेजसः । प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥३८॥ गंगातीरे शुभे स्थाने कृतपद्मासनो नृपः । ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥३९॥ एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः । कृपयाऽभून्महाराज प्रसन्नमुखपंकजः ॥४०॥ हरिश्रंद्रमुवाचेदं वचनं यादसां पतिः। वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ।४१।। राजोवाच नअनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम्। ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥४२॥
Page 463
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १५ ४६३ नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च। स्मितपूर्व ततः पाशी तमाह पुरतः स्थितम् ॥४३॥ वरुण उवाच पुत्रो यदि भवेद्राजन्गुणी मनसि वांछितः । सिद्धे कायें ततः पश्चातिंक करिष्यसि मे प्रियम्॥४४॥ यदि त्वं तेन पुत्रेण मां यजेथाविशंकितः । पशुबंधेन तेनैव ददामि नृपते वरम्॥४५॥ राजोवाच देव मे मास्तु वंध्यत्वं यजिष्येऽहं जलाधिपम्। पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते।४६॥ वंध्यत्वे परमं दुःखमसह्यं भुवि मानद। शोकाग्निशमनं नृणां तस्माद्देहि सुतं शुभम् ॥४७॥ वरुण उवाच भविष्यति सुतः कामं राजन्गच्छ गृहाय वै । सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः ॥४८॥ व्यास उत्राच इत्युक्तो वरुणेनासौ हरिश्चंद्रो गृहं ययो। भार्याय कथयामास वृत्तांतं वरदानजम्॥४९॥ तस्य भार्याशतं पूर्णं बभूवातिमनोहरम्। पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता ॥५०॥ काले गतेऽथ सा गर्भं दधार वरवणिनी। बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ।५१॥। कारयामास विधिवत्संस्कारान्नृपतिस्तदा। मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥५२॥ ताराग्रहवलोपेते पुत्रं देवसुतोपमम् । पुत्रे जाते नृपः स्नात्वा ब्राह्मणैःपरिवेष्टितः ।५३।। चकार जातकर्मादीन् ददौ दाजानि भूरिशः । राज्ञश्रातिप्रमोदोऽभूत्पुत्रजन्मसमुद्द्गदः ।।५४॥ बभूव परमोदारो धनधान्यसमन्वितः । विशेषदानसंयुक्तो गीतवादित्रसंकुल: ।।५५।। इति श्रीदेवीभागवते महागुराणे सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥१४॥ अथ पञ्चदशोऽध्यायः व्यास उवाच प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे । आजगाम तदा पाशी विप्रवेषवरः शुभः ॥१॥ स्वस्तीत्युवत्वा नृपं प्राह वरुणोऽहं निशामय। पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥२॥ सत्यं कुरु वचो राजन्यत्प्रोक्तं भवता पुरा। वंध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥३॥ इति तस्य वच: श्रृत्वा राजा चिंतां चकार ह। कथं हन्मि सुतं जातं जलजेन समाननम् ॥४॥ लोकपाल: समायातो विप्रवेषेण वीर्यवान्। न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥५॥ पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा। किं करोमि कथं मे स्यात्सुखं संततिसंभठम् ॥६॥ धैर्यमालंब्य भूपालस्तं नत्वा प्रतिपूज्य च। उवाच वचनं श्लक्षणं युक्तं विनयपूर्वकम्॥७॥
Page 464
४६४ श्रीमद्देवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १५ राजोवाच देवदेव तवानुज्ञां करोमि करुणानिधे। वेदोक्त्ेन विधानेन मखं च बहुदक्षिणम् ।।८।। पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता। मासेन शुद्धयेज्जननी दंपती तत्र कारणम् ।।९।। सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् । कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥१०॥ व्यास उवाच इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेडस्तु गमिष्यामि कुरु कार्याणि पार्थिव ११।। आगमिष्यामि मासांते यष्टव्यं सर्वथा त्वया। कृत्वोत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥१२। इत्यु क्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चंद्रो मुदं प्राप गते पाशिनि पार्थिवः ।१३।। कोटिशः प्रददौ गास्ता घटोघ्नींहेंमपूरिताः । विप्रेभ्यो वेदविद्धयश्र तर्थव तिलपर्वतान् ॥१४॥ राजा पुत्रमुखं दृष्टा सुखमाप महत्तरम्। नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥१५॥ पूर्णे मासे ततः पाशी विप्रवेपेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मृहुः ॥१६॥ वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे। प्रणिपत्य कृतातिथ्यं तमुवाच कृतांजलि:॥१७॥ दिष्टया देव त्वमायातो गृहं मे पावितं प्रभो। मखं करोमि वारीश विधिंवद्वांछितं तव ।।१८।। अदंतो न पशुः इलाध्य इत्याहुर्वेदवादिनः । तस्माद्दंतो्द्गवे तेऽहं करिष्यामि महामखम् ॥१९॥ व्यास उवाच इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्रंद्रो मुदं प्राप्य विजहार गृहाश्रमे ॥२०॥ पुनर्दन्तोद्द्वं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति व्रुवन् ॥२१॥ भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥२२॥ स्तुत्वा प्रोवाच वचनं विनयानतकंधरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥२३॥ बालोऽप्यकृतचौलोऽयं गर्भकेशो न संमतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥२४॥ तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुंडनांते शिशोः किल ॥२५॥ तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन्पुनःपुनरिदं ब्रुवन् ॥२६॥ अपि ते सर्वसामग्री वर्तते नृपतेऽधुना। पुत्रस्नेहनिवद्धस्त्वं वंचयस्येव सांप्रतम् ॥२७॥ क्षौरकर्मविधि कृत्वा न कर्तासि मखं यदि। तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥२८॥ अद्य गच्छामि राजेंद्र वचनात्तव मानद। न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्रव ।२९॥ इत्याभाष्य ययावाश प्रचेता नृपतेगृहात्। राजा परमसंतुष्टो ननंद भवने तदा ॥३०॥ चूडाकरणकाले तु प्रवृत्त परमोत्सवे। संप्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥३१॥ यदांके सुतमादाय राज्ञी नृपतिसन्निधौ। उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥३२॥
Page 465
३० श्रीमेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १५ कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान्प्रत्यक्ष इव पावकः ॥३३॥ नृपतिस्तं समालोक्य बभूवातीव विह्वलः । नमश्रकार तं भीत्या कृतांजतपुटः पर: ॥३४॥ विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन्कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ३५।। वक्तव्यमस्ति तत्रापि शृणुष्वकमना विभो। युक्तं चेन्मन्यसे स्वार्मिंस्तद्ब्रवीमि तवाग्रतः ॥३६। ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥३७॥ यस्मादयं सुतो मेजद्य शूद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हःस्यादिति वेदेषु निर्णयः ॥३८॥ राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम्। अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ३९।। दयसे यदि देवेश दीनं मां सेवकं तव। तदोपनीय कर्ताऽस्मि पशुना यज्ञमुत्तमम् ॥४०॥ लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद। मन्यसे यद्वचः सत्यं तद्गच्छ भवनं विभो ॥४१॥ व्यास उवाच इति तस्य वच: श्रुत्वा दयावान्यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥४२॥ गतेऽथ वरुणे राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप है॥४३॥ चकार राजकार्याणि हरिश्चंद्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः॥४४। तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणः शिष्टैरन्वितः सचिर्वैस्तथा ॥४५॥ एकादशे सुतस्याब्दे व्रतबंधविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिंतातुरः पुनः ॥४६॥ वर्तमाने तथा कार्ये उपनीते कुमारके। आजगामाथ वरुणो विप्रवेषधरस्तदा ॥४७॥ तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृतांजलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥४८॥ देवदत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः। प्रसादात्तव मे शोको गतो वंध्यापवादजः ॥४९॥ कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम्। समये शृणु धर्मज्ञ सत्यमद्य व्रवीम्यहम् ॥५०॥ समावर्तनकर्मान्ते करिष्यामि तवेप्सितम्। ममोपरि दयां कृत्वा तावत्त्वं क्षंतुमर्हसि ॥५१॥ वरुण उवाच प्रतारयसि मां राजन्पुत्रप्रेमाकुलो भृशम्। मुहुर्मुहुर्मत कृत्वा युक्तियुक्तां महामते ॥५२॥ गच्छाम्यद्य महाराज वचसा तव नोदितः। आगयिष्यामि समये समावर्तनकर्मणि ॥५३॥ इत्युक्त्वा प्रययौ पाशी तमापृच्छ्य विशांपते। राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥५४॥ आगतं वरुणं दृष्टा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिंतातुरोऽभवत् ॥५५॥ शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वाऽऽत्मवधमायुष्मन्गमनाय मति दधौ ॥५६॥ निश्चयं परमं कृत्वा संमंत्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसो ॥५७॥ गते पुत्रे नृपः कामं दुःखितोऽभूद्द्रुशं तदा। प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥५८।।
Page 466
श्रीमद्वेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १६ एवं गतेऽथ कालेऽसी वरुणस्तद्गृहं गतः। राजानं शोकसंतप्तं कुरु यज्ञमिति ब्रुवन्।।५९॥। राजा प्रणम्य तं प्राह देवदेव करोमि किम्। न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥६०॥ सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसांपते ॥६१। आज्ञापय महाराज कि करोमि गते सुते। न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥६२॥ व्यास उवाच इति भूपवच: श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वंचितस्तु पुनः पुनः ॥६३॥ नुपतेऽहं त्वया यस्माद्वचसा च प्रवंचितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुण: ६४।। व्यास उवाच इति शप्तो महीपाल: कुपितेन प्रचेतसा। पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ।६५॥ एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधि बभूवातीव दुःखितः ॥६६।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे पञ्चदशोऽध्यायः॥१५॥ अथ षोडशोऽध्यायः
व्यास रवाच गतेजय वरुणे राजा रोगेणातीव पीडितः । दुःखाहुःखं परं प्राप्य व्यथितोऽभूद्ृशं तदा ॥१॥ कुमारोसौ वने श्रुत्वा पितरं रोगपीडितम्। गमनाय मति राजंश्रकार स्नेहयंत्रितः ।२॥। संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात्। गंतुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम है ॥३॥ वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः। वारयामास युक्त्या वै कुमारं गंतुमुद्यतम् ॥४॥ इन्द्र उवाच राजपुत्र न जानासि राजनीति सुदुर्लभाम्। अतः करोघि मूढस्त्वं गमनाय मति वृथा ।।५।। पिता तव महाभाग व्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ ॥६॥ आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु। तदर्थे वल्लभाः संति पुत्रदारधनादयः ॥७॥ आत्मनो देहरक्षार्थ हत्वा त्वां वल्लभं सुतम्। हवनं कारयित्वाऽसौ रोगमुक्तो भविष्यति ।।८। तस्मात्त्वया न गंतव्यं राजपुत्र पितृरगृहे। मृते पितरि गंतव्यं राज्यार्थे सर्वथा पुनः ॥९॥। एवं निषेधितस्तत्र वासवेन नृणत्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप ॥१०॥ अत्यंतं दुःखितं श्रुत्वा हरिश्चंद्रं तदात्मजः । गमनाय मति चक्रे मरणे कृतनिश्चयः॥११॥ तुराषाड़् द्विजरूपेण तत्रागत्य च रोहितम्। निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः ॥१२॥ हरिश्चन्द्रोड़तिदुःखार्तो वसिष्ठं स्वपुरोहितम्। पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम् ॥१३॥
Page 467
श्रोमद्ेवीभागवते महापुराणे सप्मस्कन्धे अध्याय: १६ समाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति ॥१४॥ पुत्रा दशविधाः प्रोक्ता ब्राह्मणवेदपारगैः। द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम ।।१५।। बरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः १६॥। एवं प्रमोदितो राजा वसिष्ठेन महात्मना। प्रधानं प्रेरयामांस तदन्वेषणकाम्यया।॥१७॥ अजीगर्तो द्विजः कश्रिद्विषये तस्य भूपतेः । तस्यासंश्र त्रयः पुत्रा निर्धनस्य विशेषकः ॥१८॥ प्रधानेनाप्यसौ पृष्टः पुत्रार्थ दुर्बलो द्विजः। गवां शतं ददामीति देहि पुत्रं मखाय वै ॥१९॥ शुनःपुच्छः शुनःशेपः शुनोलांगूल इत्यमी। तेषामेकतमं देहि ददामि तु गवां शतम् ॥२०॥ अजीगर्तस्तु तच्छ्रत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे ॥२१॥ कार्यादिकारिणं ज्येष्टं मत्वा नासावदादमुम्। कनिष्ठं नाप्यदान्माता ममैष इतिवादिनी ।।२२॥ मध्यमं च शुनःशेपं ददौ गवां शतेन च। आनिनाय पशुं चक्रे नरमेधे नराघिपः ।।२३। रुदंतं दुःखितं दीनं वेपमानं भृशातुरम्। यूपे बद्धं निरीक्ष्यामुं चुक्रशुर्मुनयस्तदा ।२४।। शामित्राय पशुं चक्रे नरमेधे नराधिपः। शमिता नाददे शस्त्रं तमालंभयितुं शिशुम् ॥२५॥ नाहं द्विजसुतं दीनं रुदंतं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा ॥२६॥ इत्युक्त्वा दिररामासौ कर्मणो दुष्करादथ । राजा सभासदः प्राह किं कर्तव्यमिति दिजाः २७॥ जातः किलकिलाशब्दो जनानां क्रोशतां तदा। क्रंदमाने शुनःशेपे सभायां भृशमद्द्ुतम् ॥२८। अजोगर्तस्तदोत्थाय तमुवाच नृपोत्तमम्। राजन्कार्य करिष्यामि तवाहं सुस्थिरो भव ।२९॥ वरेतनं द्विगुणं देहि हनिष्यामि पशुं किल। कर्तव्यं मखकाय वै मया तेऽद्य धनार्थिना॥३०॥ दुःखितस्य धनार्थस्य सदाऽसूया प्रसूयते। व्यास उवाच तच्छ्रुत्वा वचनं तस्य हरिश्रंद्रो मुदान्वितः ।३१। तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हंतुं समुद्यतः ॥३२।। लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः। समुद्यतं च तं दृष्ठा जनाः सर्वे सभासदः ॥३३॥ चुक्रशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः ३४॥। यत्स्वयं स्वसुतं हंतुमुद्यतः कुलपांसनः । धितचांडाल किमेतत्ते पापकर्म चिकीषितम् ॥।३५॥ हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति । आत्मा वै जायते पुत्र अंगाव्वै वेदभाषितम् ॥३६॥ तत्कथं पापबुद्धे त्वमात्मानं हंतुमिच्छसि । एवं कोलाहले तत्र जाते कुशिकनंदनः ।३७।। समीपं नृपतेर्गत्वा तमुवाच दयापरः।
Page 468
३६८ श्रीमद्देवीभागवते महापुराणे सप्मस्कन्धे अध्याय: १६ विश्वामित्र उवाच राजन्नमुं शुनःशेपं रुदंतं भृशदुःखितम् ।३८।। क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा। दयासमं नास्ति पुण्यं पापं हिंसासमं नहि ॥३९॥ रागिणां रोचनार्थाय नोदनेयं विचारय।आत्मदेहस्य रक्षार्थं परदेहनिकृंतनम् ॥४०॥ न कर्तव्यं महाराज सर्दतः शुभमिच्छता । दयया सर्वभूतेपु संतुष्टो येन केन च।४१॥ सर्वेन्द्रियोपशांत्या च नुप्यत्याशु जगत्पतिः। आत्मवत्सर्वभूतेपु चिंतनीयं नृपोत्तम ॥४२॥ जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल। त्वमिच्छसि सुखं कर्तु देहं हत्वा त्वमुं द्विजम् ४३॥ कथं नेच्छेदसी देहं रक्षितुं स्वसुखास्पदम्। पूर्वजन्मकृतं वरं नानेन सह ते नृप ॥४४। येनामुं हंतुकामस्त्वं द्विजपुत्रं निरागसम्। यो यं हंति विना वैरं स्वकामः सततं पुनः ॥४५॥ हंतारं हंति तं प्राप्य जननं जननान्तरे। जनकोऽस्य सुद्ष्टात्मा येनासौ ते समर्पितः ॥४६॥ स्वात्मजो घनलोभेन पापाचारः सुदुर्मतिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥४७॥ यजेत चाश्वमेधेन नीलं वा वृषमत्सृजेत्। देशमध्ये च यः कश्चित्पापकर्म समाचरेत् ॥४८।। वछ्ठांशस्तस्य पापस्य राजा भुंक्ते न संशयः । निषेधनीयो राज्ञाऽसौ पापं कर्तु समुद्यतः ॥४९॥ न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेसुमुद्यतः । सूर्यवंशे समुत्पन्नस्त्रिशंकुतनयः शुभः ॥५०॥ आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव। मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे॥५१॥ तव देहे सुखं राजन्भविष्यत्यविचारणात्। पिता ते शापयोगेन चांडालत्वमुपागतः ।५२। मयाऽसी तेन देहेन स्वलोकं प्रापितः किल। तेनैव प्रोतियोगेन कुरु मे वचनं नृप ।५३।। मुंचैनं बालकं दीनं रुदंतं भृशमातुरम्। याचितोऽसि मया नूनं यज्ञेऽस्मित्राजसूयके ।५४॥ प्रार्थनाभंगजं दोषं कथं त्वं नावबुध्यसे। प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम ॥५५॥ अन्यथा पापमेव स्यात्तव राजन्न संशयः ।
व्यास उवाच इति तस्य वचः श्रुत्वा कौशिकस्य नृपोत्तमः ॥५६॥ प्रत्युवाच महाराजं कोशिकं मुनिसत्तमम्। जलोदरेण गाधेय दुःखितोऽहं भृशं मुने ।५७॥ तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक। न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा ५८। तच्त्रत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः । बभूव दुःखसंतप्तो वीक्ष्य दीनं द्विजात्मजम् ॥५९॥ इति श्रीदेवीभागवते महापुराणे सप्तमं्कन्धे षोडशोऽध्यायः ॥१६॥
Page 469
श्रीमददेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः १७ ४६९ अथ सप्तदशोऽध्यायः व्यास उवाच रुदंतं बालकं वीक्ष्य विश्वापित्रो दयातुरः । शुनःशेपमुवाचेदं गत्वा पाश्वेऽतिदुःखितम् ॥१॥ मंत्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन्। जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥२॥ विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाकुलः । मंत्रं जजाप मनसा कोशिकोक्तं स्फुटाक्षरम् ॥३॥ जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः । प्रादुर्बभूव सहसा प्रसन्नो नृपबालके ॥४॥ दृष्टा तमागतं सवें विस्मयं परमं गताः। तुष्टवुर्वरुणं देवं मुदिता दर्शनेन ते ॥५॥ राजाऽतिविस्मितः पादौ प्रणनाम रुजातुरः । बद्धांजलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥६॥ हरिश़्न्द्र उवाच देवदेव कृपासिंधो पापात्माऽहं सुमंदधीः । कृतापराधः कृपणः पावितः परमेष्ठिना ॥७। मया ते पुत्रकामेन दुःखसंस्थेन हेलनम्। कृतं क्षमाप्यं प्रभुणा कोऽपराघः सुदुर्मतेः ॥८॥ अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया। वंचितस्त्वं देवदेव भीतेन नरकाद्विभो।९॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च। भीतोऽहं तेन वाक्येन तस्माते हेलन कृतम् ॥१॥ नाज्ञस्य दूषणं चिंत्यं नूनं ज्ञानवता विभो। दुःखितोऽहं रुजाक्रांतो वंचितः स्वसुतेन है॥११॥ न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो। वंचयित्वा वने भीतो मरणान्मां कृषानिधे ॥१२॥ प्रययौ द्रविणं दत्त्वा गृहीतो द्विजबालकः। यज्ञोऽयं क्रीतयुत्रेण प्रारब्धस्तव तुष्टये॥१३॥ दर्शनं तव संप्राप्य गतं दुःखं ममाद्दुतम्। जलोदस्कृतं सर्वं प्रसन्ने त्वाय सांत्रतम् ॥१४॥ व्यास उवाच इति तस्य वच: श्रुत्वा राज्ञो रोगातुरस्य च। दयावान्देवदेवेशः प्रत्युवाव नृपोत्तमम् ॥१५॥ वरुण उवाच मुंच राजञ्छुनःशेपं स्तुवंतं म। भृशातुरम् । यज्ञोऽयं परिपूर्णस्त रोगमुक्तो भवात्मना ॥१६॥। इत्युक्त्वा वरुणस्तूर्ण राजानं विरुजं तथा। चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥१७॥ विमुक्तोऽसी द्विजः पाशाद्वरुणेन महात्मना। जयशन्दस्ततस्तत्र संजातो मखमंडपे ॥१८॥ राजा प्रभुदितः सद्यो रोगान्मुक्तः सुदारुणात्। यूपान्मुक्त: शुनःशेवो बभूवातीव संस्थितः ॥१९॥ राजा त्विमं मखं पूर्ण चकार विनयान्वितः । शुनःशेपस्तदा सभ्यानित्युवाच कृताअलिः ॥२०॥ भो भो सभ्याः सुधमज्ञा ब्रुवन्तु धर्मनिर्णयम् । वेदशास्रानुसारेण यथार्थवादिनः किल ॥२१॥ पुत्रोऽहं कस्य सर्वज्ञाः पिता मे कोडग्रतः परम्। भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥२२॥
Page 470
४७० श्रीमद्देवीभागवते महापुराणे सप्रमस्कन्धे अध्याय: १७ इत्युक्त्ते वचने तत्र सभ्या: प्रोचुः परस्परम्। सभ्या ऊचु: अजीगर्तस्य पुत्रोडयं कस्यान्यस्य भवेदसी ॥२३॥ अंगादंगात्समुद्भूतः पालितस्तेन भक्तितः । अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥२४॥ तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः । विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥२५॥ पुत्रोऽयं धनदातुश्र राज्ञस्तत्र न संशयः । अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥२६॥ अन्नदाता भयत्राता तथा विद्याप्रदश्च यः । तथा वित्तप्रदश्चव पंचते पितरः स्मृताः ॥२७॥ तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथाऽपरे। वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥२८। इत्थं संदेहमापन्ने वसिष्ठो वाक्यमब्रवीत्। सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥२९॥ शृणुध्वं भो महाभागा निर्णयं श्रुतिरुम्मतम् । निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः॥३०॥ सम्बन्धस्तु गतस्तस्य तदैव धनसंग्रहात्। हरिश्रन्द्रस्य संजानः पुत्रोऽसौ क्रीत एव च ॥३१॥ यूपे बद्धो यदा राजा तदा तस्य न वै सुतः । वरुणस्तु स्तुतोऽनेन तेन तृष्टेन मोचितः ॥३२॥ तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः । यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च।३३॥ धनं प्राणान्पशत्राज्यं तथा मोक्षं निजेप्सितम् । कौशिकस्य सुत्श्चायं गरिष्टे येन रक्षितः ॥३४॥ मन्त्रं दत्त्वा महावीयं वरुणस्यातिसङ्कटे। व्यास उवाच श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः॥३५॥ विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा। एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥३६॥ शुनःशेपो जगामाशु तेनैव सह सत्वरः। वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥३७॥ ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजाऽपि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥३८।। प्रजास्तु पालयामास सुप्रसन्नेन चेतसा। रोहिताख्यस्तुं तच्छ्रुत्वा वृत्तांतं वरुणस्य ह।।३९। आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात्। दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम्॥४०॥ मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्टा पितरमायांतं प्रेमोद्रिक्तः सुसंभ्रभः ॥४१॥ दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा। राजाऽपि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥४२॥ समाघ्राय सुतं मूध्नि पप्रच्छ कुशलं पुनः। उत्संगे तं समारोप्य मुदितो मेदिनीपतिः॥४३॥ उष्णनेत्रजलै: शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासी पुत्रेणातिप्रियेण च ॥४४॥ वृत्तांतं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः ॥४५॥ भसिष्ठं पूजयत्वाऽथ होतारमकरोद्विभुः । समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥४६॥
Page 471
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १८ ४७१ शक्रस्य सदनं रम्यं जगाम मुनिरादरात्। विश्वामित्रोऽपि तत्रैव वसिष्ठेन च संगतः ॥४७॥ मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम। विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥४८।। वीक्ष्य विस्मयचित्तस्तं सभायां तु शचोपतेः। विश्वामित्र उवाच क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥४९॥ कृता केन महाभाग सत्यं ब्रूहि ममांतिके वसिष्ठ उवाच यजमानोऽस्ति मे राजा हरिश्चन्द्रःप्रतापवान् ॥५०॥ राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः । नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥५१॥ दाता च धर्मशीलश्च प्रजारञ्जनतत्परः। तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥५२॥ कि पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज। हरिश्चन्द्रसमो राजा न भूतो न भविष्यति ।५३॥ सत्यवादी तथा दाता शूरः परमधार्मिक: ! व्यास उवाच इति तस्य वच: श्रुत्वा विश्वामित्रोऽतिकोपनः । बभूव क्रोधसंरक्तलोचनोऽप्यव्रवीच्च तम् ॥५४॥ विश्वमित्र उवाच एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम्। वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥५५॥ मम जन्मारजितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते ॥५६॥ अहं चेत्तं नृपं सदो न करोम्यतिसंस्तुतम् । असत्यवादिन काममदातारं महाखलम् ॥५७॥ आजन्म संचितं सर्वं पुण्यं मम विनश्यतु। अन्यथा त्वत्कृतं सव पुण्यं त्वति पणावहे ॥५८॥ ग्लहं कृत्वा ततस्तौ तु विवदंतौ मुनी तदा। स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥५९॥ इति श्रीदेवीभागवते महापुराणे सपमस्क्न्धे सतदशोऽध्यायः ॥१७॥ अथाष्टादशोऽध्यायः व्यास उबाच कदाचित्तु हरिश्रन्द्रो मृगयार्थं वनं ययौ। अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम्॥१॥ तामपृच्छन्महाराजः कामिनीं करुणापरः। पद्मपत्रविशालाक्षि कि रोदिषि वरानने ॥२॥ केनासि पीडिताऽत्यर्थ कि ते दुःखं वदाशु मे।
Page 472
४७२ श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १८ का च त्वं विजने घोरे कस्ते भर्ता पिताऽथवा ॥३। न बाधते च राज्ये मे राक्षसोऽपि परांगनाम्। तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥४॥ ब्रूहि दुःखं वरारोहे स्वस्था भव वृशोदरि। विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥५॥ इति तस्य वच: श्रुत्वा नारो तं चाब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्रंद्रं नृपोत्तमम् ॥६॥ नायुवाच राजन्मां बाधतेऽत्यर्थ विश्वामित्रो महामुनिः । तपः करोति यद्धोरं मदथ कौशिको वने ।७।। तेनाहं दुःखिता राजन्विषये तव सुव्रत। विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥
स्वस्था भव विशालाक्षि नते दुःखं भविष्यति। तमहं वारयिष्यामि मुर्नि तपपरायणम् ॥९॥ राजोवाच
इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ। गत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥१०॥ स्वामिन्कि क्रियतेऽत्यर्थ तपसा देहपीडनम् । किमर्श ते समारम्भो ब्रूहि सत्यं महामते ॥११॥ वांछितं तव गाधेय करोमि सफलं किल । उत्तिष्ठोत्तिष्ठ तरसा तपसाऽलमतः परम्॥१२॥ विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम्। लोकपीडाकरं घोरं तपः केनापि कहिचित् ॥१३।। इत्थ निषिध्य तं राजा विश्वामित्रं गृहं ययौ। मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥१४॥ स गत्वा चिंतयामास नृपकृत्यमसांप्रतम्। वसिष्ठस्य च सम्वादं तपसः प्रतिषेधनम् ॥१५॥ कोपाविष्टेन मनसा प्रतीकारमथाकरोत्। विचित्य बहुधा चित्ते दानवं घोरविग्रहम् ॥१६॥ प्रेषयामास तद्देशं विधाय सूकराकृतिम्। सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥१७॥ राज्ञश्रोपवने प्राप्तस्त्रासयत्रक्षकांस्तदा। मालतीनां च षंडानि कनकानां तर्थव च।१८।। यूथिकानां च वृंदानि कंपयंश्र मुहुर्मुहुः। दन्तेन विलिखन्भूर्मि समुन्मूलयते द्रुमान् ।१९॥ चम्पकान्केतकीषंडान्मल्लिकानां च पादपान् । करवीरानुशोरांश्र निचखान शुभान्मृदून् ॥२०॥ मुचुकुंदानशोकांश्च बकुलांस्तिलकांस्तथा। उन्मूल्य कदनं तत्र चकार सूकरो वने ॥२१॥ वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रशुस्तत्र मालाकारा भृशातुराः ॥२२॥ बाणैः संताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥२३।। ते तदाडतिभयाक्रांता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥२४॥ तानागतान्समालोक्य भयार्तान्भूपतिस्तदा। पप्रच्छ कि भयं कस्मान्मां ब्रुवंतु समाग्रताः ॥२५॥ नाहं बिभेमि देवेभ्यो राक्षपेभ्यश्च रक्षकाः । कस्मान्द्यं समुत्पन्नं तद्ब्रुवंतु ममाग्रतः ॥२६॥ हन्मि चैकेन बाणेन तं शत्रुं दुभगं किल। यो मेऽरातिःसमुत्पन्नो लोके पापमतिः खलः ॥२७॥ देवो वा दानवो वापि तं निहन्मि शरैः शितैः । क्व तिष्ठति कियद्रूपः कियद्वलसमन्वितः ॥२८॥
Page 473
श्रीमद्वेवीभागवते महापुराणे षष्ठस्कन्धे अध्याय: १८ ४७३
मालाकारा ऊचु: न देवो न च दैत्योऽस्ति न यक्षोनच किन्नरः । कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥२९॥ पुष्पवृक्षानतिमृदून् दंतेनोन्मूलयत्यसौ। विदीर्ण तद्वनं सवं सूकरेणातिरंहसा ॥३०॥ विशिखस्ताडितोऽस्माभिर्दृषद्भिलकुटैस्तथा। न बिभेति महाराज हंतुमस्मानुपाद्रवत् ॥३१॥
इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः । अश्वमारुह्य तरसा जगामोपवनं प्रति ॥३२॥ व्यास उवाच
सैन्येन महता युक्तो गजाश्वरथसंयुतः । पदातिवृंदसहितः प्रययौ वनमुत्तमम् ॥३३॥ तत्रापश्यन्महाकोलं घुर्घुरंतं भयानकम् । वनं भग्नं च संवीक्ष्य राजा क्रोधयु तोऽभवत् ॥३४॥ चापे बाणं समारोप्य विकृष्य च शरासनम्। तं हंतुं सूकरं पापं तरसा समुपाक्रमत् ॥३५॥ समालोक्य च राजानं चापहस्तं रुषाकुलम्। संमुखोऽभ्यद्रवत्तूणं कुर्वञ्छब्दं सुदारुणम् ॥३६॥ तमायांतं समालोक्य वराहं विकृताननम् । मुमोच विशिखं तस्मिन्हंतुकामो महोपतिः ॥३७॥ बंचयित्वाऽथ तद्वाणं सूकरस्तरसा बलात्। निर्जगाम महावेगात्तमुल्लंध्य नृपं तदा॥३८।। गच्छंतं तं समालोक्य राजा कोपसमन्वितः । मुमोच विशिखांस्तीक्ष्णांश्रापमाकृष्य यत्नतः ३९॥ क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः। कुर्वन्बहुविधारावं सूकरः समुपाद्रवत् ॥४॥ हरिश्चंद्रोऽतिकुपितो मृगस्यानुजगाम ह। अश्वेन वायुवेगेन विकृष्य च शरासनम्।४१।। इतस्ततस्ततः सैन्यमगच्च वनांतरम् । एकाकी नृपतिः कोलं व्रजंतं समुपाद्रवत् ॥४२॥ मध्याह्नसमये राजा संम्प्राप्तो विजने वने । तृषितः क्षुधितोऽत्यथ बभूव श्रांतवाहनः ॥४३॥ सूकरोऽदर्शनं प्राप्तो राजा चिंतातुरोऽभवत् । मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥४४।। किं करोमि क्व गच्छामि न सहायोडस्ति मे वने। अज्ञातस्वपथः कुत्र ब्रजामीति व्यचिंतियत् ॥४५॥। एवं चिंतयतस्तत्र विपिने जनवर्जिते। राजा पिंतातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥४६॥ वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् । अश्वादुतीर्य विमलं पपो पानीयमुत्तमम् ॥४७।। जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः । इयेष नगरं गंतुं दिग्भ्रमेणातिमोहितः ॥४८।। विश्वामित्रस्तु संप्राप्तो वृद्धब्राह्मणरूपधृक्। ननाम व्रीक्ष्य राजा तं प्रीतिपूर्व द्विजोत्तमम् ॥४९॥ तमुवाच गाधिराजः प्रणमंतं नृपोत्तमम् । स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥५०॥ एकाकी विजने राजन्किं चिकीर्षितमत्र ते। ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥५१।। राजोवाच सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् । समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥५२॥ तं निवारयितुं दुष्ट करे कृत्वा च कार्मुकम्। ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥५३॥
Page 474
४७४ श्रीमद्देवीभागवते महापुराणं सप्तमस्कन्धे अध्याय: १९ गतोऽसौ दृक्पथात्पापो मायावी क्वापि बेगवान् । पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥५४॥ क्षुधितस्तृषितश्राहं सैन्यभ्रष्टस्त्विहागतः । न जाने पुरमार्ग च तथा सैन्यगति मुने ॥५५॥ पंथानं दर्शय विभो व्रजामि नगरं प्रति। ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥५६॥ अयोध्याधिपतिश्चाहं हरिश्रंद्रोऽतिविश्रुतः । राजसूयस्य कर्ता च वांछितार्थप्रदः सदा ॥५७॥ धनेच्छा यदि ते ब्रह्मन्यज्ञार्थं द्विजसत्तम। आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥५८॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धेऽट्टादशोऽध्यायः ॥१८॥ अथ एकोनविंशोऽध्यायः
व्यास उवाच इति तस्य वच: श्रुत्वा भूपतेः कौशितो मुनिः । प्रहस्य प्रत्युवाचेदं हरिश्रन्द्रं तदा नृपः ॥१॥ राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम्। स्नानं कुरु महाभाग पितृणां तर्पणं तथा ॥२॥ काल: शुभतमोडस्तीह तीर्थे स्नात्वा विशांपते। दानं ददस्व शक्तयाऽत्र पुण्यतीर्थेऽतिपावने ॥३॥ प्राप्य तीर्थ महापुण्यमस्नात्वा यस्तु गच्छति। स भवेदात्महा भूय इति स्वायंभुवोऽब्रवीत् ॥४।। तस्मात्तीर्थवरे राजन्कुरु पुण्यं स्वशक्तितः । दर्शयिष्यामि मार्ग ते गन्ताऽसि नगरं ततः ॥५॥ आगमिष्याम्यहं मार्गदर्शनाथं तवानघ । त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥६॥ तच्छ्रत्वा वचनं राजा मुनेः कपटमंडितम्। वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ।।७॥। बंधयित्वा हयं वृक्षे मुनिवाक्येन मोहितः । अवश्यंभावियोगेन तद्वशस्तु तदाऽभवत् ।।८॥। राजा स्नानविधिं कृत्वा संतर्प्य पितृदेवताः। विश्वामित्रमुवाचेदं स्वामिन्दानं ददामि ते ॥।९॥ यदिच्छसि महाभाग तत्ते दाम्यामि सांप्रतम् । गावो भूमिहिरण्यं च गजाश्वरथवाहनम् ॥१०॥ नादेयं मे किमप्यस्ति कृतमेतद्व्रतं पुरा। राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि॥११॥ तस्मात्त्वमिह सम्प्राप्तस्तीर्थेऽस्मिन्प्रवरे मुने। यत्तेऽस्ति वांछितं ब्रूहि ददामि तव वांछितम् ॥१२॥ विश्वामित्र उवाच मया पूर्व स्मृता राजन्कीर्तिस्ते विपुला भुवि। वसिष्ठेन च सम्प्रोक्तो वाता नास्ति महीतले ।।१३।। हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥१४॥ पृथिव्यां परमोदारस्त्रिशंकुतनयो यथा। अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिव १५॥ पुत्रस्य च महाभाग तदर्थ देहि मे धनम्। राजोवाच विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥१६।।
Page 475
श्रीमह्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: १९ 8५
यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम्। व्यास उवाच इत्युक्त: कोशिकस्तेन वंचनातत्परो मुनिः ॥१७॥ उद्भाव्य मायां गांधर्वीं पार्यिवायाप्यदर्शयत् । कुमारः सुकुमारश्र कन्या च दशवार्षिकी ॥१८॥ एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम। राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥१९॥ भविष्यति तवाद्यैव विप्रपुत्रविवाहतः । तच्छरुत्वा वचनं राजा मायया तस्य मोहितः ॥२०॥ तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा। तेन दशितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥२१॥ विश्वामित्रोऽपि राजानं वंचयित्वाश्रमं ययौ। कृतोद्वाहविघिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ।।२२।। वेदोमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् । राजोवाच किं तेऽभीष्टं द्विज ब्रहि ददामि वांछितं किल ॥२३॥ अदेयमपि संसारे यशःकामोडस्मि सांप्रतम् । व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै २४।। नोपारजितं यशः शुद्धं परलोकसुखप्रदम् । विश्वामित्र उवाच राज्यं देहि महाराज वराय सपरिच्छदम् ॥२५॥ गजाश्वरथरत्नाढयं वेदीमध्येऽतिपावने। व्यास उवाच मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥२६॥ दत्तमित्युक्तवात्राज्यमविचार्य यदृच्छया। गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥२७॥ दक्षिणां देहि राजेन्द्र दानयोग्यां महामते। दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥२८॥ तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् । इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥२९॥ ब्रह्मन् कियद्धनं तुभ्यं देयं स्वामिन्मयाऽधुना । दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥३०॥ दानपूर्त्ये प्रदास्यांमि स्वस्थो भव तपोधन । विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् ॥३१॥ हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् । दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः ॥ तदैव सैनिकास्तस्य वीक्षमाणाः समागताः । दृष्टा महीपति व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥३३॥ व्यास उवाच श्रुत्वा तेषां वचो राजा नोक्त्वा किंचिच्छुभाशुभम् । चिंतयन्स्वकृतं कर्म ययावंतःपुरे ततः ॥३४॥ कि मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम्। वंचितोऽ्हं द्विजेनात्र वने पाटच्चरैरिव ।३५॥!
Page 476
२७६ श्रीमद्ेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: १९ राज्यं सोपस्करं तस्मं मया सवं प्रतिश्रुतम्। भारद्वयं सुवर्णस्य साधं च दक्षिणा पुनः॥३६॥ कि करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥३७॥ न जाने दैवकाय वै हा दैव कि भविष्यति । इति चिंतापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥३८॥ पर्ति चिंतापरं दृष्टा राज्ञी पप्रच्छ कारणम् । कि प्रभो विमना भासि का चिंता ब्रूहि सांप्रतम् ॥ वनात्पुत्र: समायातो राजसूयः कृतः पुरा। कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद ॥४०॥ नारातिर्विद्यत क्वापि बलवान्दुर्बलोऽपि वा । वरुणोऽपि सुसंतुष्टः कृतकृत्योऽसि भूतले ॥४१॥ चिंतया क्षीयते देहो नास्ति चिंतासमा मृतिः । त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण ।४२।। तन्निशभ्य प्रियावाक्यं प्रीतिपूर्व नराधिपः। प्रोवाच किबि्चितायाः कारणं च शुभाशुभम् ॥ भोजनं न चकारासौ चिंताविष्टस्तथा नृप । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ।४४।। प्रातरुत्थाय चिंतार्तो यावत्संध्यादिकाः क्रियाः । करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥४५॥ क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । आगत्योवाच राजानं प्रणमंतं पुनः पुनः ॥४६॥ विश्वामित्र उवाच राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवणं स्पृश राजेन्द्र सत्यवाग्भव सांप्रतम् ॥४७॥ हरिश्रन्द्र उवाच स्वामित्राज्यं तवेदं मे मया दत्तं किलाधुना। त्यक्त्वान्यत्र गमिष्यामि मा चिंतां कुरु कोशिक ।। सर्वस्वं मम ते ब्रह्मन्गृहीतं विधिवद्विभो। सुवर्णदक्षिणां दातुमशक्तोऽद्याधुना द्विज ॥४९॥ दानं ददामि ते तावद्यावन्मे स्याद्वनागमः। पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम् ॥५०॥ इत्युक्त्वा नृपतिः प्राह पुत्रं भारया च माधवीम् । राज्यमस्म प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥५१॥ हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्म समर्पपितम् ।। त्यक्त्वाडयोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे। गृह्हात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत् ।।५३।। इत्याभाष्य सुतं भार्यां हरिश्रन्द्रः स्वमंदिरात्। विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥५४॥ व्रजंतं भूपतत वीक्ष्य भार्यापुत्रावुभावपि। चिंतातुरा सुदीनास्यो जग्मतुः पृष्ठतस्तदा ।५५॥ हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा। चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥५६॥ हा राजन्कि कृतं कर्म कुतः क्लेशः समागतः । वंचितोऽसि महाराज विधिना पंडितेन है॥५७॥ सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम्। विलोक्य भार्यया सार्ध पुत्रेण च महात्मना ५८।। निनिंदुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषंतो दुःखार्ता ब्राह्मणादयः ॥५९॥ निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम्। गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥६०॥ दक्षिणायाः सुवण मे दत्त्वा गच्छ नराबिप। नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम् ॥६१॥
Page 477
श्रीमर्वेवीभागवते महापुराणे सप्मस्कन्धे अध्याय: २० .४७७ राज्यं गृहाण वा सर्व लोभश्रेद्धि विवर्तते। दत्तं चेन्मन्यसे राजन् देहि तद्य त्प्रतिश्रुतम् ॥६२॥ एवं ब्रुवंतं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥६३॥ इति श्रीदेवीभागवते महापुराणे सप्मस्कन्धे एकोनविंशोऽध्यायः॥१९॥ अथ विंशोऽध्यायः हरिश्न्द्र उवाच अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ट विषादं त्यज सुव्रत ॥१॥ सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वांछितदो नृपः ॥२॥ कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया। अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥३॥b स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् । कंचित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ।।४।। विश्वामित्र उवाच कुतस्ते भविता राअन्धनप्राप्तिरतः परम्। गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥५॥ वृथाऽशा ते महीपाल धनार्थे कि करोम्यहम्। निर्धनं त्वां च लोभेन पीडयामि कथ नृप।६IB तस्मात्कथय भूपाल न दास्यामींति सांप्रतम् । त्यक्त्वाऽऽशामसतीं कामं गच्छाम्यहमतः परम्॥७॥ यथेष्टं व्रज राजेन्द्र भार्यापुत्र समन्वितः । सुवर्ण नास्ति किं तुभ्यं ददामीति वदाधुना ।८।। व्यास उवाच गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुर्नि ब्रह्मन्धयं कुरु ददाम्यहम् ॥९॥ भम देहोडस्ति भार्यायाः पुत्रस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूममृणं दास्यामि ते द्विज ॥१०॥ ग्राहकं पश्य विप्रेंद्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥११॥ गृहाण कांचनं पूर्णं सारधं भारद्वयं मुने। मौल्येन दत्त्वा सर्वान्नः संतुष्टो भव भूधर ॥१२॥ इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः । उमया कांतया सार्धं यत्रास्ते शंकर: स्वयम् १३॥ तां दृष्टा च पुरों रम्यां मनसो ह्वादकारिणीम् । उवाच स कृतार्थोडस्मि पुरीं पश्यन्सुवर्चसम् ॥१४॥ ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम्। देवार्चनं च निर्वर्त्य कृतवान्दिग्विलोकनम् ॥१५॥ प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणे: परिग्रहः ॥१६॥ जगाम पद्धयां दुःखार्तःसह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो निःश्वासमकरोत्तदा ॥१७।। ददर्शाथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्यिनम्। तं दृष्टा समनुप्राप्तं विनयावतोऽभवत् ॥१८॥ प्राह चवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम्। इमे प्राणाः सुतश्चाथ प्रिया पत्नी मुने मम ॥१९॥ येन ते कृत्यमस्याशु गृहाणाद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममा ख्यातु मर्हरसि२
Page 478
४७८ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २० विश्वामित्र उवाच "पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा। पूर्व तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥२१॥ राजोवाच ब्रह्मन्नाद्यापि संपूर्णो मासो ज्ञानतपोबल। तिष्ठत्वेकदिनाधं यत्तत्प्रतीक्षस्व नापरम् ॥२२॥ विश्वामित्र उवाच एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥२३॥ इत्युक्त्वाथ ययौ विप्रो राजा चाचितयत्तदा। कथमस्म प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥२४॥ कुतः पुष्टानि मित्राणि कुत्रार्थं सांप्रतं मम। प्रतिग्रहः प्रदुष्टो मे तत्र याच्जा कथं भवेत् ॥२५॥ राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥२७॥ सूत उवाच राजानं व्याकुलं दीनं चिंतयानमधोमुखम्। प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥२८॥ त्यज चिंतां महाराज स्वधर्ममनुपालय। प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥२९॥ नातः परतरं धर्मं वदन्ति पुरुषस्य च। यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥३०॥ अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः। भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥३१॥ सत्यमत्यंतमुदितं धर्मशास्त्रेषु धीमताम्। तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥३२। शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः ॥३३॥ राजोवाच वंशवृद्धिकरश्वायं पुत्रस्तिष्टति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥३४॥
राजन्माभूदसत्यं ते पुंसां पुत्रफला: स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥३५॥ पत्न्युवाच
व्यास उवाच एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः ॥३६॥ महद्दुःखमिदं भद्रे यत्त्वमेव ब्रवीषि मे। कि तव स्मितसंलापा मम पापस्य विस्मृताः ॥३७॥ हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते। दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥३८॥ इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये। निपपात महीपृष्ठ मूर्च्छयाऽतिपरिप्लुतः ॥३९॥ शयानं भुवि तं दृष्टा मूच्छयाऽपि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता॥४०॥ हा महाराज कस्येदमपष्यानादुपागतम्। यस्त्वं निपततौ भूमौ रंकवच्छरणोचितः ॥४१।।
Page 479
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २१ ४७९ येनव कोटिशो वित्तं विप्राणामपवरजितम्। स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥४२॥ हा कष्ट कि तवानेन कृतं दैव महीक्षिता। यदिद्रोपेंद्रतुल्योऽयं नीतः पापामिमां दशाम् ॥४३॥ इत्युक्त्वा साऽपि सुश्रोणी मूर्च्छिता निपपात ह। भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता शिशुर्दृष्वा क्षुषाविष्टः प्राह वाक्यं सुदुखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् ॥४५॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने विंशोऽध्यायः ॥ २० ॥ अथ एकविंशोऽध्यायः सूत उवाच एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥१॥ तमालोक्य हरिश्चन्द्रः पपात भुवि मूच्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत् ॥२॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र रवां ददस्वेष्दक्षिणाम्। ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥३॥ आप्यायमान: स तदा हिमशीतेन वारिणा। अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ।।४।। पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः । समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥५॥ विश्वामित्र उवाच दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे। सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥६॥ सत्ये चोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्त्रं तु सत्यं च तुलया धृतम् ॥७॥ अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते। अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥८॥ मदीयां दक्षिणां राजन्न दास्यति भवान्यदि। अस्ताचलगते हयर्के शप्स्यामि त्वामतो ध्रुवम् ॥९॥ इत्युक्त्वा स ययौ विप्रो राजा चासीद्द्रयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसं मुनिनादितः ॥१०।। सूत उवाच एतस्मिन्नंतरे तत्र ब्राह्मणो वेदपारगः । ब्राह्मणर्बन्धुभिः सार्ध निर्ययो स्वगृहाद्बहिः ॥११॥ ततो राज्ञी तुतंदृष्टा आयांतं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥१२॥ त्रयाणामपि वर्णानां पिता ब्राह्मणं उच्यते। पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥१३॥ तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच नाहं प्रतिग्रहं कांक्षे क्षत्रियोऽहं सुमध्यमे॥१४॥ याचनं खलु विप्राणां क्षत्रियाणां न विद्यते। गुरुहिं विप्रो वर्णानां पूजनीयोऽस्ति सर्वथा ॥१५॥
Page 480
४० श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २२ तस्माद्गुरुर्न याच्य: स्यात्क्षत्रियाणां विशेषतः । यजनाध्ययनं दानं क्षत्रियस्य विधीयते ॥१६॥ शरणागतानामभयं प्रजानां प्रतिपालनम्। न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः ॥१७॥ ददामीत्येव मे देवि हृदये निहितं वचः । अजितं कुत्रचिद्द्रव्यं ब्राह्मणाय ददाम्यहम् ॥१८॥ पत्न्युवाच काल: समविषमकरः परिभवसम्मानमानदः कालः । काल: करोति पुरुषं दातारं याचितारं च॥१९॥ विप्रेण विदुषा राजा ऋ्रुद्धेनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम्२०॥ राजोवाच असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता। न तु मानं परित्यज्य देहि देहीति भाषितम् ॥२१॥ क्षत्रियोऽहं महाभागे न याचे किञ्चिप्यहम् । ददामि वाऽहं नित्यं हि भुजवीर्यार्जितं धनम् ॥२२॥ पत्न्युवाच यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥२३॥ अहूं शास्या च पत्या च रक्ष्या चंव महाद्युते। मन्मौल्यं संगृहीत्वाथ गुर्वर्थः संप्रदीयताम् ॥२४॥ एतद्वाक्यमुपश्रुत्य हरिश्रन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः ॥२५॥ भार्या च भूयः प्राहेदं क्रियतां वचनं मम। विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥२६॥ न द्यूतहेतोर्न च मदहेतोर्न राज्यहेतोर्न च भोगहेतोः। ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतं त्वं सफलं कुरुष्व ।२७/। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने एकविशोऽध्यायः ॥ २१॥ अथ द्वाविंशोऽध्यायः व्यास उवाच स तया नोद्यमानस्तु राजा पत्या पुनः पुनः। प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥१॥ नृशंसरपि यत्कतुं न शक्यं तत्करोम्यहम्। यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥२॥ एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रंगे तां भायां नृपसत्तमः ॥३॥ बाष्पगद्गदकण्ठस्तु ततो वचनमव्रवीत्। भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम ॥४॥ कस्यचिद्यदि कार्य स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥५॥ तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः ।
Page 481
३१ श्रीमद्ेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: २२ राजोवाच कि मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥६॥। राक्षसो वाऽस्मि कठिनस्ततः पापं करोम्यहम्। व्यास उवाच तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक्।।७।। वृद्ध रूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥८॥ अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया। गृहकर्म न शदनोति कर्तुमस्मात्न्यच्छ म ॥९॥ अहं गृह्हामि दासीं तु कति दास्यामि ते धनम्। एवमुक्ते तु विप्रेण हरिश्रन्द्रस्य भूपतेः ॥१॥ विदीणं तु मनो दुःखान्न चैनं किचिदब्रवीत्। विप्र उवाच कर्मणश्च वयोरूपशीलानां तव योषितः ॥११॥ अनुरूपमिदं वित्तं गृहाणार्पय मेऽवलाम्। धर्मशास्त्रेषु यद्दृष्टं स्त्रियो मौल्यं नरस्य च ।१२॥ द्वान्रिशल्लक्षणोपेता दक्षा शोलगुणान्बिता। कोटिमोल्यं सुवर्णस्य स्व्रियः पुंसस्तयार्बुदम् ॥१३॥ इत्याकर्ण्य वचस्तस्य हरिश्रन्द्रो महीपतिः । दुःखेन महताविष्टो न बैनं किचिदब्रवीत् ॥१४॥ ततः स विप्रो नृपतेः पुरतो बहकछलोपरि। धनं निधाय केशेषु घृत्बा राज्ञीमकर्षयत् ।।१५।। राज्युवाच मुंच मुंचार्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं बिप्र पुनरस्य भविष्यति ॥१६।। पश्येह पुत्र मामेवं मातरं दास्यतां गताम्। मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाऽधुना ।। ततः स बाल: सहसा दृष्टा कष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥१८॥ हस्ते वस्त्रं समाकर्षन्काकपक्षघरः स्खलन्। तमागतं द्विजः क्रोधादवालमम्याहनत्तदा।१९। वदंस्तथापि सोऽम्बेति नैव मुंचति मातरम् । राश्युवाच प्रसादं कुरु मे नाथ क्रीणोष्वेमं हि बालकम् ॥२०॥ क्रीतापि नाहं भविता विनैनं कार्यसाधिका। इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥२१॥ ब्राह्मण उवाच गृह्यतां वित्तमेत्तत्ते दीयतां मम बालकः । स्त्रीपुंसो धर्मशास्त्रज्ञः कृतमेव हि वेतनम् ॥२२॥ शतं सहसत्रं लक्षं च कोटिमौल्यं तथापरः। द्वात्रिशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥२३॥ कोटिमोल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम्।
Page 482
४८२ श्रीमद्देवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः २२ सूत उवाच तथव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥२४॥ प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥२५॥ प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता। बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥२६॥ यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि। तेन पुण्येन मे भर्ता हरिश्रन्द्रोऽस्तु वै पुनः ॥२७॥ पादयोः पतितां दृष्टा प्राणेभ्योऽपि गरीयसीम् । हाहेति च वदत्राजा बिललापाकुलेंद्रियः ॥२८॥ वियुक्तेयं कथं जाता सत्यशीलगुणान्विता। वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥२९॥ एवं भार्यां वदित्वाथ सुसंबद्धं परस्परम्। पुत्रंच तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥३०॥ कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् । राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥३१॥ यत्पुत्रेण वियोगो मे एवमाह स भूपतिः । सद्दर्तृभोग्याहि सदा लोके भार्या भवंति हि ॥३२॥ मया त्यक्तासि कल्याणि दुःखेन विनियोजिता। इक्ष्वाकुवंशसंभूतं सर्वराज्यसुखोचितम् ॥३३॥ मामीदृशं पति प्राप्य दासीभावं गता ह्यसि । ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥३४॥ को मामुद्धरते देवि पौराणाख्यानविस्तरैः । सूत उवाच पश्यतस्तस्य राजरषेंः कशाघातैः सुदारुणः ॥३५॥ घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे। नीयमानौतु तौ दृष्ठा भार्यापुत्री स पार्थिवः ॥३६॥ विललापातिदुःखार्तो निश्वस्योष्णं पुनः पुनः । यां न वायुर्न वादित्यो न चन्द्रो न पृथग्जनाः ॥३७॥। दृष्टवंतः पुरा पत्नीं सेयं दासीत्वमागता। सूर्यवंशप्रसूतोऽयं सुकुमारकरांगुलि:।।३८।। संप्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् । हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥३९॥ दैवाधीनदशां प्राप्तो न मृतोडस्मि तथापि धिक्। व्यास उवाच एवं विलपतो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥४०॥ वृक्षगेहादिभिस्तुंगैस्तावादाय त्वरान्वितः । अत्रांतरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥४१॥। सशिष्यः कौशिकेंद्रोऽसो निष्ठुरः क्ररदर्शनः । विश्वामित्र उवाच या त्वयोक्ता पुरा राजन्राजसूयस्य दक्षिणा ।४२।। तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम्। हरिश्रन्द्र उवांच नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥४३।।
Page 483
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २१ १८३
राजसूयस्य यागस्य या मयोक्ता पुराऽनघ। विश्वामित्र उवाच कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥४४॥ एतदाचक्ष्व राजेंद्र यथा द्रव्यं त्वयाऽजिंतम् । राजोवाच किममेन महाभाग कथितेन तवानघ॥४५॥ शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत। ऋ षिरुवाच अशस्तं नैव गृह्ामि शस्तमेव प्रयच्छ मे ॥४६॥ द्रव्यस्यागमनं राजन्कथयस्व यथातथम् । राजोवाच मया देवी तुसा भार्या विक्रोता कोटिसम्मितैः ॥४७। निष्कैः पुत्रो रोहितोख्यो विक्रोतोऽबुंदसंरूयया। विप्रकादश कोटयस्त्वं सुवर्णस्य गृहाण मे ॥४८॥ सूत उवाच तद्वित्तं स्वल्पमालक्ष्य दारविक्रयसंभवम्। शोकाभिभूतं राजानं कुपितः कोशिकोऽब्रवीत् ४९॥ ऋषिरुवाच राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा। अन्यदुत्पादय क्षिप्रं संपूर्णा येन सा भवेत्।।५०।। क्षत्रबंधो ममेमां त्वं सदृशी यदि दक्षिणाम् । मन्यसे तहि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥५१॥ तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य. शुद्धस्याध्ययनस्य च ॥५२॥ राजोवाच अन्यद्दास्यामि भगवन्काल: कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्र बालकः ॥५३॥ विश्वामित्र उवाच चतुर्भागः स्थितो योडयं दिवसस्य नराविप। एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥५४॥ इति श्रीदेवीभागवते महापुराणे सपमस्कन्धे द्वाविशोऽध्यायः ।।२२॥ अथ त्रयोविंशोऽध्यायः व्यास उवाच तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः। तदादाय धनं पूर्ण कुपित कौशिको ययौ।१॥
Page 484
श्रीमरेवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः २३ विश्वामित्रं गते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्या प्रोवाचोन्बरघोमुखः २॥ बित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति। स ब्रवींतु त्वरायुक्तो यो मे तिष्ठति भास्करः ॥३॥ अभाजगाम त्वरितो धर्मश्रांडालरूपधृक्। दुर्गन्धो विकृतोरस्कः मश्रुलो दंतुरोऽघृणी।४।। कृष्णो लंबोदर: स्निग्ध: करालः पुरुषाधमः । हस्तजर्जरयष्टिश्र शवमाल्यैरलंकृतः ।।५।। चाण्डाल उवाच अहं गृह्लामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते संप्रदीयते ॥६॥ व्यास उवाच तं वादृशमथालक्ष्य क्ररदृष्टिं सुनिर्घृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्यिव:।७ चाण्डाल उवाच पांडालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम। शासने सर्वदा तिष्ठ मृतचलापहारकः।८। एवमुफ्तस्तदा राजा वचनं चेदमब्रवीत्। ब्राह्मणः क्षत्रियो वाि गृहात्बिति मतिर्मम ॥९॥ उत्तमस्योत्तमो धर्मा मध्यमस्य च मध्यमः । अधमस्याधमश्चव इति प्राहुर्मनीषिणः ॥१०॥ चाण्डाल उत्राच एवमेव त्वया धर्मः कथितो नृपसत्तम। अविचार्यं त्वया राजन्नधुनोक्तं ममाग्रतः ॥११॥ विचारयित्वा यो ब्रते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयाऽनय ॥१२॥ यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरि्रिंद्र उवाच असत्यान्नरके गच्छेत्सद्यः क्ररे नराधमः॥१३॥ ततश्चांडालता साध्वी न वरा मे हयसत्यता। व्यास उवाच तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिघि: ॥१४॥ क्रोभामर्षविवृत्ताक्षः प्राह चेदं नराधिपम्। चांडालोऽयं मनःस्थंते दातुं वित्तमुपस्थितः ॥१५॥ कस्मान्न दीयते मह्यमशेपा यज्ञदक्षिणाः । राजोवाच भगवन्सूर्यवंशोत्थमात्मानं कौशिक ॥१६।।
कथ चांडलदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच यदि चांडालवित्तं त्वमात्मविक्रयजं मम ॥१७॥
Page 485
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २३ न प्रदास्मसि बेसतहि शप्स्यामि त्वामसंशयम्। चांडालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥१८।। बिना चांडालमधुना नान्यः कश्रिद्वनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः ॥१९। हदानोंमेब मे वितं न प्रदास्यसि चेन्नृन। दिने र्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥२०॥ व्यास उवाच हरिश्रन्द्रस्ततो राजा मृतत्रच्छ्रितजीवितः। प्रसोदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥२१॥ हरिश्रंद्र उवाच दासोऽस्म्यार्तोडस्मि दीनोऽस्मित्वद्धक्श्च विशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चांडालसंकरः ॥२२॥ भवेयं वित्तशेषेण तव कर्मकरोऽवशः। तवैत्र मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥२३॥ विश्वामित्र उवाच एवमस्तु महाराज ममैव भव किकरः । किंतु मद्चनं कार्य सर्वदैव नराघिप ॥२४॥। व्यास उवाच. एवमुक्तेऽथ वचने राजा हर्षसमन्बितः । अमन्यत पुनर्जातमात्मानं प्राह कोशिकम् ॥२५॥ तवादेशं करिष्यामि सदैवाहं न संशयः । आदेशय द्विजश्रेष्ठ कि करोमि तवानघ ॥२६॥ विश्वामित्र उवाच चांडालागच्छ महासमौल्यं कि मे प्रयच्छसि। गृहाण दासं मोल्येन मया दत्तं तवाधुना ।।२७॥ नास्ति दासेन से कार्यं वित्ताशा वर्तते मम। व्यास उवाच एवमुक्ते तदा तेन श्रपचो हृष्टमानसः ॥२८॥ आागत्य सन्निधौ तूर्ण विश्वामित्रमभाषत। चांडाल उवाच दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥२९॥ भूर्मि रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम। अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥३०॥ व्यास उवाच ततो रत्नसहस्त्राणि सुवर्णमणिमौक्तिकैः । चांडालेन प्रदत्तानि जग्राह द्विजसत्तमः ॥३१॥ हरिश्रंद्रस्तदा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः ॥३२॥ तत्तदेव मया कायं यदयं कारयिष्यति। अथांतरिक्षे सहसा वागुवाचाशरोरिणी॥३३॥ अनृणोऽ्सि महाभाग दत्ता सा दक्षिणा त्वया। ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥३४॥ साधु साष्विति तं देवा: प्रोचुः सेंद्रा महोजसः । हर्षेण महताविष्टो राजा कोशिकमन्रबीत् ।३५।
Page 486
श्रीमदेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: २४ राजोवाच त्वं हि माता पिता चैव त्वं हि बंधुर्महामते। यदर्थं मोचितोऽहं ते क्षणाच्चवानृणी कृतः ॥३६॥ कि करोमि महाबाहो श्रेयो मे वचनं तव। एवमुक्ते तु वचने नृपं मुनिरभाषत ॥३७॥ विश्वामित्र उवाच चांडालवचनं कार्यमद्यप्रभृति ते नृप। स्वस्ति तेऽस्त्विति तं प्रोच्य तथादाय धनं ययौ॥ इति श्ीदेवीभागवते सप्तमस्कन्धे हरश्रन्द्रोपाख्याने त्रयोविंशोऽध्यायः ॥३ ॥ अथ चतुर्विशोऽध्यायः शौनक उवाच ततः किमकरोद्राजा चांडालस्य गृहे गतः। तद्ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥१॥
विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ।२॥ सूत उवाच
असत्यो यास्यसीत्युक्त्वा दंडेनाताडयत्तदा। दण्डप्रहारसम्भ्रान्समतीवव्याकुलेन्द्रियम् ।।३।। इष्टबंध्ुवियोगार्तमानीय निजपववणे। निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥४॥ निगउस्थस्ततो राजा वसंश्रांडालपववणे। अन्नपाने परित्यज्य सदा वै तदशोचयत् ।।५॥ सन्वीं दीनमुखीं दृष्टा बालं दीनमुखं पुरः। मां स्मरत्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥६॥ उपास्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥७।। वातपाश्वं व्रजामीति रुदन्तं बालकं पुनः। तात तातेति भाषंतं तया संबोधयिष्यति ॥८।। न सा मां मृगशावाक्षी वेत्ति चांडालतां गतम्। राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥९॥ ततश्रांडालता चेयमहो दुःखपरम्परा। एवं स निवसन्नित्यं स्मरंश्र दयिता सुतम् ॥१०॥ निनाय दिवसात्राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥११॥ चांडालेनानुशिष्टश्र मृतचंलापहारणे। ऋुद्धेन परुषैर्वाक्यैनिर्भर्त्स्य च पुनः पुनः ॥१२॥ काश्याश्र दक्षिणे भागे रमशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ इमं च जर्जरं दंहं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दंड इति घोषस्व सर्वतः ॥१४॥ सूत उवाच कस्मिश्चिदथ काले तु मृतचलापहारकः । हरिश्चंद्रोऽभवद्राजा शमशाने तद्वशानुगः ॥१५॥ बांडलेना नुशिष्टरतु मृतर्चलापहारिणा। राजा तेन समादिष्टे जगाम शवमन्दिरम् ॥१६॥ पुर्वास्तु दक्षिणे दरेशे विद्यमानं मयानकम्। शवमाल्यसमाकीणं दुर्गन्धं बहुधूमकम्॥१७॥
Page 487
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २५ 86७
शमशानं घोरसन्नादं शिवाशतसमाकुलम्। गृधगोमायुसंकीणं श्ववृन्दपरिवारितम् ॥१८॥। अस्थिसंघातसंकीणं महादुगंधसंकुलम् । अर्धदग्धशवास्यानि विकसद्दंतपंक्तिभिः ॥१९।। हसंतीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः। नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥२०॥ हा पुत्र मित्र हा बंधो भ्रातर्वत्स प्रियाद् मे। हाप्यते भागिनेयाहं हा मातुल पितामह ॥२१॥ मातामह पितः पौत्र कव गतोऽस्येहि वांधव। इति शब्दैः समाकीर्ण भरवैः सर्वदेहिनाम् ।,२२।। ज्वलन्मांसवसामेदच्छूमिति ध्त्रनिसंकुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥२३॥। कल्पांतसदृशाकारं इमशानं तत्सुदारुणम् । स राजा तत्र संप्राप्तो दुःखादेवमशोचत ॥२४। हा भृत्या मंत्रिणो यूयं कव तद्राज्यं कुलोचितम्। हा प्रिये पुत्र मे बाल मां त्यवत्वा मंदभाग्यकम् ॥२५॥ ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥२६॥ यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि। इत्येवं चिंतयंस्तत्र चांडालोक्तं पुचः पुनः ॥२७॥ मलेन दिग्वसर्वाङ्ग: शवानां दर्शने व्रजन् । लकुटाकारकल्पश्र धावंश्रापि ततस्ततः ॥२८॥ अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः । इदं मम इदं राज्ञ इदं चांडालकस्य च ।२९। इत्येवं चिन्तयत्राजा व्यवस्थां दुस्तरां गतः। जीणेकपटसुग्रंथिकृतकंथापरिग्रहः ।।३०॥। चिताभस्मरजोलिप्मुखबाहूदरांत्रिक: । नानामेदोवसामज्जालिप्तपाण्यंगुलि: श्वसन् ।।३१।। नानाशवौदन कृतक्षुन्निवृत्तिपरायणः । तदीयमाल्यसंश्लेषकृतमस्तकमंडलः ।३२। न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥३३॥ इति श्रीदेवीमागवते महापुराणे सप्तमस्कन्धे चतुर्विशोऽध्यायः ॥ २४॥ अथ पश्चविंशोऽध्यायः सूत उवाच एकदा तु गतो रंतुं बालकैः सहितो बहिः। वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥१॥ क्रीडां कृत्वा ततो दर्भान्गृहीतुमुपचक्रमे। कोमलानल्पमूलांश्च साग्राञ्छक्तयनुसारतः ॥।२॥ आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बहिरिष्मं सलक्षणम् ॥३॥ पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात्। मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥४॥ उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥५॥ कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हतुं प्रंचक्रमे॥६॥ विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः। महाविषो महाघोरो वल्मीकान्निर्गतस्तदा॥७H तेनासौ बालको दष्टस्तदैव च ममार ह। रोहितास्यं मृत दृष्टा ययुर्बाला द्विजालयम् ॥८॥
Page 488
श्रीमद्ेवीमागबसे महापुराणे सप्तमस्कन्धे अध्याय: २५ त्वारता भयसावग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥९॥ अस्माभि: सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्चः श्रुत्वा वष्तपातोपमं तदा ॥१०॥ पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा। अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिचत ।११॥ मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथात्रवीत। त्राह्मण उवाच अलक्ष्मीकारकं निंद्यं जानती त्वं निशामुखे ॥१२।। रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम्। ब्राह्मणेनैव मुक्ता सा न किचिद्वाक्यमव्रवीत् ॥१३।। रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दोना धूसरा मुक्तमूर्द्धजा ॥१४॥ अथ तां कुपितो विप्रो राजपत्नीमभाषत। धिवत्वां दुष्टे क्रयं गृह्य मम कार्य विलुंपसि ॥१५॥ अपक्ता चेत्कथं तहि गृहीतं मम तदनम् । एवं निर्भत्सिता तेन क्ररवाक्यैः पुमः पुनः ॥१६॥ रुदिता कारणं प्राह विप्रं गद्गदया गिरा। स्वामिन्मम सुतो बाल: सर्पदष्टो मृतो बहिः ॥१७॥ अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम्। दुर्लभं दर्शनं तेन संजातं मम सुद्रत ॥१८॥ इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह। पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥१९॥ आझण उबाच शठे दुष्टसमाचारे कि न जानासि पातकम् । यत्स्बामिबेतनं गृह्य तस्य कार्यं बिलुम्पसि ॥२॥ नरके पच्यते सोऽथ महारोरवपूर्वके। उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् २१।। किमनेनाथवा कार्य धर्मसंकीर्तनेन मे। वस्तु पापरतो मूर्खः क्रूरो नी चोऽनृतः शठः ।२२॥ नद्वाक्यं निष्फलं तस्मिन्भवेद्वीजमिवोषरे। एहि ते विद्यते किचित्परलोकभयं यदि ॥२३॥ एवमुक्ताऽथ सा विप्रं वेपमानाऽ्ब्रवीद्वयः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भब ॥२४॥ प्रस्थापय मुहूतं मां यावद्द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सामूर्ध्ना निपत्य द्विजपादयोः ॥२५॥ रुरोद करुणं बाला पुत्रशोकेन पीडिता। अथाह कुपितो विप्रः क्रोवसंरकलोचनः ॥२६॥। विप्र उवाच कि ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे। कि न जानासि मे क्रोधं कशाधातफलप्रदम् ॥२७॥ एवमुक्ता स्थित, धैर्याद्गृहकर्म चकार ह। अर्धरात्रो गतस्तस्याः पानाभ्यंगादिकर्मणा ॥२८॥ ब्राह्मणेनाथ सा प्रोक्ता पुत्रपाश्वं व्रजाधुना । तस्य दाहाबिकं कृत्या पुनरागच्छ सत्बरम् ।२९।। न लुप्येत यथा प्रातर्गुहकर्म ममेति च । ततस्त्वेकाकिनी रातरी बिलपंती जगाम है॥३।। दृष्टा मृतं निजं पुत्रं भूशं शोकेन पीडिता। यूथभ्रष्टा कुरंगीय विवत्सा सौरभी यबा ।।३१।। वाराणस्या बहिर्गत्वा क्षणाद्दृषटा निज सुतम् । शवानं रंकबन्दरूजी काषदर्भतृणोपरि ।।३२।।
Page 489
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २५ 84९ विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम्। एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना ॥३३॥ आयास्यभिमुखो नित्यमंबेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मू्च्छिता ॥३४॥ पुनः सा चेतनां प्राप्य दोर्भ्यामालिंग्य बालकम्। तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥३५॥ कराभ्यां ताडनं चत्रे मस्तकस्योदरस्य च। हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥३६॥ हा राजन्कव गतोऽसि त्वं पश्येमं बालकं निजम्। प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥३७॥ तथापश्यन्मुखं तस्य भूयो जीवितशंकया। निर्जीववदनं ज्ञात्वा मूर्च्छिता निपपात ह॥३८॥ हस्तेन वदनं गृह्य पुनरेवनभाषत। शयनं त्यज हे बाल शोघ्रं जागृहि भीषणम् ३९॥। ननिशार्धं बर्धते चेदं शिवाशतनिनादितम्। भूतप्रेतपिशाचादिडाकिनीयूथनादितम् l४० || मित्राणि ते गतान्यासंस्त्वमेकस्तु कुतः स्थितः । सूत उवाच एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह।४१।। हा शिशो बाल हा बत्स रोहितास्य कुमारक। हे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥४२॥ तवाहं जननी वत्स किं न जानासि पश्य माम्। देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥४३।। यद्दासीत्वाच्च जीवामि त्वां दृष्टा पुत्र केवलम्। ते जन्मसमये त्रिप्ररादिष्टं यत्त्वनागतम् ॥४४।। दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिः सत्त्वी गुरुदेवद्विजार्चकः ॥४५॥ मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः । इत्यादि सकलं जातमसत्यमधुना सुतः ॥४६॥ चक्रमत्स्या वाऽडतपत्रश्रीवत्सस्वस्तिकध्वजाः । तव पाणितले पुत्र कलशश्रामरं तथा ॥४७॥। लक्षणानि तथान्यानि त्वद्धस्ते यानि संति च । तानि सर्वाणि मोघानि संजातान्यधुना सुत ॥।४८।। हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मंत्रिणः । क्व ते सिंहासनं छत्रं क्व ते खडगः क्व तद्धनम् ४९॥ क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः । सर्वमेतत्तथा पुत्र मां त्यकत्वा क्व गतोऽसि रे ५०।। हा कांत हा नृपागच्छ पशयेमं स्वसुतं प्रियम्। येन ते रिंगता वक्षः कुंकुमेनावलेपितम् ॥५१॥ स्वशरीररजःपंकैविशालं मलिनीकृतम्। येन ते वालभावेन मृगनाभिर्विलेपितः ॥५२॥ भ्रंशितो भालतिलकस्तवांकस्थेन भूपते। यस्य वक्त्रं मृदा लिसं स्नेहाद्व चुम्बितं मया ५३॥ तन्मुखं मक्षिकालिंग्यं पश्ये कीटेविदूषितम्। हा राजन्पश्य तं पुत्रं भुविस्थं रंकवन्मृतम् ॥५४॥ हा देव कि मया कृत्यं कृतं पूर्वभवान्तरे। तस्य कर्मफलस्येह न पारमुपलक्षये ।।५५।। हा. पुत्र हा शिशो वत्स हा कुमारक सुन्दर। एवं तस्या विलापं ते श्रुत्बा नगरपालकाः ॥५६॥ जागृतास्त्वरितास्तस्याः पारश्वमीयुः सुबिस्निताः ।
Page 490
४९० श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २५ जना ऊचु: का त्वं बालश्च कस्यायं पतिस्ते कुत्र तिष्ठति ।।५७।। एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि। एवमुक्ताथ सा तन्वी न किंचिद्वाक्यमब्रवीत् ॥५८॥। भूयोऽपि पृष्टा सा तूष्णों स्तब्धीभूता बभूव ह। विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥५९॥ अथ ते शंकितास्तस्यां रोमांचिततनूरुहाः । संत्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः ॥६०॥ नूनं स्त्री न भवत्येपा यंतः किंचिन्न भाषते। तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥६१॥ शुभा चेत्तहिं किं ह्यत्र निशार्धे तिष्ठते बहिः। भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥६२॥ इत्युक्त्वा तैरगृहोता सा गाढं केशेषु सत्वरम्। भुजयोरपरैश्रैव कैश्चापि गलके तथा ॥६३॥ खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्वणे नीता चांडालाय समर्पिता ॥६४।। हे चांडाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी। वध्यतां वध्यतामेवा शीघ्रं नीत्वा बहिःस्थले ६५।। चांडाल: प्राह तां दृष्टा ज्ञातेयं लोकविश्रुता। न दृष्टपूर्वा केनापि लोकर्डिभान्यनेकधा ॥६६॥ भक्षितान्यनया भूरि भर्वद्दि: पुण्यमजितम्। ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः ; अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ।६८।। महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥६९॥ अस्या वषश्च मे योग्य इत्युक्त्वा गाढबन्धनैः । बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत्॥७०।। हरिश्रन्द्रमथोवाच वाचा परुषया तदा। रे दास वध्यतामेषा दुष्टात्मा मा विचारय॥७१॥ तद्वाक्यं भूपतिः श्रुत्वा वञ्रपातोपमं तदा। वेपमानोऽथ चांडालं प्राह स्त्रीवधशंकितः ।७२॥ न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् । असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥७३।। श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत्। माभषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ बालानामेव भयदा नेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥७५॥ स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीतितं पापं मुनिभिर्धर्मतत्परः ॥७६॥ पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा। नरके पच्यते सोऽथ महारौरवपूर्वके ॥७७॥। चाण्डाल उवाच मा वदासि गृहाणैनं तीक्ष्णं विद्युत्समप्रभम्। यत्रकस्मिन्वधं नीते बहूनां तु सुखं भवेत्॥७८।। तस्य हिंसा कृता नूनं बहुपुण्यप्रदा भवेत्। भक्षितान्यनया भूरि लोके डिभानि दुष्टया॥७९॥ तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति। राजोवाच चांडालाघिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥८०॥
Page 491
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २६ ४९१ आजन्मतस्ततो यत्नं न कुर्या स्त्रीवधे तव। चाण्डाल उवाच स्वामिकार्य विना दुष्ट कि कार्यं विद्यतेऽपरम् ॥८१॥ गृहीत्वा वेतनं मेडद्य कस्मात्कार्यं विलुम्पसि। यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥८२॥ नरकान्रिष्कृतिस्तस्य नास्ति कल्पायुतैरपि। राजवाच चांडालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ।८३॥ स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥८४॥ देवदेवोरगैः सिद्धगंधर्वेरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥८५॥ एतच्छ्रत्वा ततो वाक्यं हरिश्रन्द्रस्य भूपतेः । चांडाल: कुपितः प्राह वेपमानं महीपतिम् ॥८६॥ चाण्डाल उवाच "नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्।" चांडालदासतां कृत्वा सुराणां भाषसे वचः ॥। दास कि बहुना नूनं शृणु मे गदतो वचः ॥८७॥ निर्लज्ज तव चेदस्ति किचित्पापभयं हृदि । किमर्थ दासतां यातश्रांडालस्य तु वेश्मनि ॥८८।। गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोम्बुजम्। एवमुक्त्वाथ चांडालो राज्ञे खड्गं न्यवेदयत् ।।८९।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे हरिश्चंद्रोपाख्याने पञ्चविंशोऽध्यायः॥२५॥ अथ षड्विंशोऽध्यायः सूत उवाच ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥१॥ शिरस्ते छेदयिष्यामि हंतुं शक्नोति चेत्करः । एवमुक्त्वा समुद्यम्य खड्गं'हंतुं गतो नृपः ॥।२।। न जानाति नृपः पत्नीं सान जानाति भूपतिम् । अब्रवीद्भृशदुःखार्ता स्वमृत्युमभिकांक्षती ।।३।। स्त्युवाच चांडाल शृणु मे वाक्यं किंचित्त्वं यदि मन्यसे। मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात्॥४॥ तं दहामि हतं यावदानयित्वा तवांतिकम्। तावत्प्रतीक्ष्यतां पश्चादसिना धातयस्व माम् ॥५।। तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति। सा जगामातिदुःखार्ता विलपंती सुदारुणम् ॥६॥ भार्या तस्य नरेन्द्रस्य सर्पदष्ट हि बालकम्। हा पुत्र हा वत्स शिशो इत्येवं वदती मुहः॥७॥ कृशा विवर्णा मलिना पांसुध्वस्तशिरोर्हा। रमशानभूमिमागत्य बालं स्वाप्याविशन्धुवि ।।८।।
Page 492
४९२ श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः २१ "राजन्नद्य स्वबालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ।" तस्वा विलापशब्दं तमाकर्ण्य स नराधिपः । शवसन्निघिमागत्य वस्त्रमस्याक्षिपत्तदा ।।९।। तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः। चिरप्रवाससंतप्तां सापि तं चारुकेशांतं पुरो दृष्टा जटालकम्। नाभ्यजानान्नृपवरं पुनर्जातामिवाबलाम् ॥१०॥ शुष्कवृक्षत्वचोपमम् ॥११॥
अस्य भूमो निपतितं बालं दृष्टाशीविषपीडितम्। नरेन्द्रलक्षणोपेतमचितयदसौ पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम्। दर्फ्नप्रतिमोत्तुङ्गकपोलयुगशोभितम् नृपः ॥।१२।। ।।१३।। नी लान्केशान्कुञ्विताग्रान्सान्द्रान्दीर्घांस्तरंगिणः । राजीवसदृशे नेत्रे ओष्ठौ बिंबफलोपमौ ॥१४॥ विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः। विशालपादो गंभीरः सूक्ष्मांगुल्यवनीधरः ॥१५॥ मृणालपादो गम्भीरनाभिरुत्नतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥१६॥ जातो नीतः कृतांतेन कालपाशाद्दुरात्मना। एवं दृष्टाऽथ तं बालं मातुरंके प्रसारितम् ॥१७॥। सूतउत्राच स्मृतिमभ्यागतो राजा हाहेत्यश्रण्यपातयत्। सोप्युवाच च वत्सो मे दशामेतामुपागतः ॥१८।। नीतो यदि च धोरेण कृतांतेनात्मनो वशम् । विचारयित्वा राजासौ हरिश्रन्द्रस्तथा स्थितः १९॥ ततो राज्ञी महादुःखावेशादिदमभाषत। राज्युवाच वा वत्स कस्य पापस्य त्वपष्यानादिदं महत् ॥२०।। दुःखमापतितं घोरं तद्रूपं नोपलभ्यते। हा नाथ राजन्भवता मामपास्य सुदुःखिताम् २१॥ कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥२२॥ हरिश्रन्द्रस्य राजषे: कि विधातः कृतं त्वया। इति तस्मा वचः श्रुत्वा राजा स्थानच्युतस्तदा २३।। प्रत्यभिज्ञाम देवीं तां पुत्रं च निधनं गतम् । कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः ॥२४॥ ज्ञाबा स पापसंतप्तो मूच्छामतिजगाम है। सा च तं प्रत्यभिशञाय तामवस्थामुपागतम् ॥२५॥ मूर्छिता निपपातार्ता निश्रेष्टा धरणीतले। चेतना प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥२६॥ विलेपतुः सुसंतप्तो शोकभारेण पीडितौ। राजोवाच हा वत्स सुकुमारं ते बदनं कुञ्रितालकम् ॥२७॥ पश्यतो मे मुखं दीनं हृदयं कि न दीर्यते। तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥२८। उपगुह्य कदा वक्ष्ये वत्स वत्सेति सोहदात्। कस्य जानुप्रणीतेन पिंगेन क्षितिरेणुना ।२९।
Page 493
श्रीमदेवीमागवते महापुराणे सप्मस्कन्धे अध्याय:ः ममोत्तरीयमुत्संगं तथांगं मलमेष्यति। न बाडलं मम संभूतं मनो हृदयनन्दन ।।३०।। "मयासि पितृमान्पित्रा विक्रोतो येन वस्तुवत्।" गतं राज्यमशेषं मे सबांधवानं महत् ॥ "हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः।" अहं महाहिदष्टस्य पुत्रस्यानापंकजम् ॥३१॥ निरीक्षन्नद्य घोरेण विषेणाघिकृतोऽधुना। एवमुकत्वा तमादाय बालकं बा गद्गदः ॥३२॥ परिष्वज्य च निश्रेष्टो मूच्छया निपपात ह। ततस्तं पतितं दृष्टा शैब्या वैमचितयत् ।३३।। अयं स पुरुषव्याघ्रः स्वरेणैबोपलक्ष्यते। विद्वज्जनमनश्रन्द्रो हरिश्रन्द्रो न संश्यः ॥३४॥ तथाऽस्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्र मुकुलत्रख्याः ख्यातकीर्तेर्महात्मनः ॥३५॥ इमशानमागतः कस्मादद्येवं स नरेश्बरः । बिहाय पुत्रशोकं सा पश्यन्ती पतितं पतिन् ॥३६।। प्रहृष्टा बिस्मिता दीना भर्तृपुत्ार्तिपोडिता। बीक्षन्ती सा तदाऽपतन्मू्छया धरणीतसे॥३७।। प्राप्य चेतश्च शनकैः सा गद्रदमभावत। षिकत्बां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥३८॥ येनायममरप्रख्यो नीतो राजा श्वपाकताम्। राज्यनाशं सुहृस्यागं भार्यातनयविक्रयम् ॥३९॥ प्रापयित्वापि येनाद्य चांडालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि बा ॥४॥ चामरव्यजने वाऽपि कोऽयं बिधिविपर्ययः । यस्यास्य व्रजतः पूर्व राजानो भृत्यतां गताः ॥४१। स्वोत्तरीयैः प्रकुवति विरजस्कं महीतलम्। सोडयं कपालसंलग्ने घटीपटनिरन्तरे ॥४२।। मृतनिर्माल्यसूत्रां तर्लग्नकेशसुदारुणे । वसानिष्पंदसंशुष्कमहापटलमण्डिते ।।४३॥ । गृधरगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ।।४४।। चिताधूमायतपटे नीलीफृतदिगन्तरे। कुणपास्वादनमुदा संप्रकृष्टनिशाचरे॥४५।। चरत्यमेध्ये राजेंद्रः श्मशाने दुःखपीडितः । एवमुक्त्वाऽथ संश्लिष्य कंठे राज्ञो नृपात्मजा॥४६।। कष्ट शोकसमाविष्टा विललापार्तया गिरा। राजन्स्वप्नोऽथ तथ्यं या मदेतन्मन्यते भवान् ॥४७।। तत्कथ्यतां महाभाग मनो वै मुह्यते मम। यद्येतदेवं धर्मञ्ञ नास्ति धर्मे सहायता ॥४८॥ तर्थव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्म कुतः सत्यं नार्जबं नानृशंसता ॥. .. यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उबाय इति तस्या वच: श्रुत्वा निःश्वस्योष्णं सगद्गदः ।५०॥। कथयामास तन्वंग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता॥५१॥ स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥५२॥ मृतं पुत्रं समानीय जिह्वया विलिहन्मुहुः। हरिश्रन्द्रमथो प्राह शैव्यां गद्गदया गिरा ॥५३॥ कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम। स्वामिद्रोहो न तेऽस्त्वद्य माऽसत्यो भव भूषते ॥५४॥.
Page 494
४९४ श्रंमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २६ माऽसत्यं तव राजे परद्रोहस्तु पातकम्। एतदाकर्ण्य राजा तु पपात भुवि मू्च्छितः ॥५५॥ क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥५६॥ यदशक्यं भवेद्क्तुं तत्कर्म क्रियते कथम्। पत्न्युवाच मया च पूजिता गौरी देवा विप्रास्तर्थव च।५७।। भविष्यसि पतिस्त्वं मे ह्यन्यस्मिअ्जन्मनि प्रभो। श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥५८॥ मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच प्रिये न रोचते दीर्घं कालं क्लेशं मयाऽशितुम् ॥५९॥ नात्मायत्तोऽहं तन्वंगि पश्य मे मन्दभाग्यताम् । चांडालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥६०॥ चांडालदासतां यास्ये पुनरप्यन्यजन्मनि। नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥६१।। तापं प्राप्स्यामि संप्राप्य महारौरवरौरवे। मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥६२॥ एकोऽपि बालको योऽयमासीद्वंशकर: सुतः। मम दैवानुयोगेन मृतः सोऽपि बलीयसा ॥६३॥ कथं प्राणान्विमुंचामि परायत्तोऽस्मि दुर्गतः । तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥६४॥ त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा। वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥६५॥ सोऽहं सुतशरीरेण दीप्यमाने हुताशने। निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना ॥६६।। न वत्तव्यं त्वया किंचिदतः कमललोचने। मम वाक्यं च तन्वद्गि निबोधाहतमानसा ॥६७।। अनुज्ञाताऽथ गच्छ त्वं विप्रवेश्म शुचिस्मिते। यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥६८॥ संगम: परलोके मे निजपुत्रेण चेत्त्वया। इह लोके कुतस्त्वेतद्द्विष्यति समीप्सितम् ॥६९॥ यन्मया हसता किंचिद्रहसि त्वां शुचिस्मिते। अशेषमुक्तं तत्स्वं क्षन्तव्यं मम यास्यतः ॥७०॥ राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः । सर्वयत्नेन तोष्यः स्यात्स्वामी दैवतवच्छुभे॥७१॥ राज्युवाच अहमप्यत्र राजर्षे निपतिष्ये हुताशने। दुःखभारासहा देव सह यास्यामि वै त्वया ॥७२॥ त्वया सह मम श्रेयो गमनं नान्यथा भवेत्। सह स्वर्ग च नरकं त्वया भोक्ष्यामि मानद ॥ श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥७३॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे हरिश्रन्द्रोपाख्याने षड्विशोऽध्यायः ॥ २६॥
Page 495
श्रीम द्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २७ ४९५
अथ सप्तविंशोऽध्यायः सूत उवाच ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम्। भार्यया सहितो राजा बद्धांजलिपुटस्तदा ॥१॥ चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम्। पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥२॥ रक्ताम्बरपरीधानां करुणारससागराम्। नानायुधधरामम्बां जगत्पालनतत्पराम् ॥३।। तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्म प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥४॥ आगत्य सर्वे प्रोचुस्ते राजञ्छृणु महाप्रभो । अहं पितामहः साक्षाद्वर्मंश्र भगवान्स्वयम् ॥५॥ साध्याः सविश्वेमरुतो लोकपालाः सचारणः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाऽश्िनौ ॥६॥ एवे चान्येऽथ बहवो विश्वामित्रस्तथैव च। विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति वर्मतः ॥७॥ विश्वामित्रः स तेऽभीष्टमाहतुं सम्यगिच्छति। धर्म उवाच मा राजन्साहसं कार्षीर्धर्मोऽहं त्वामुपागतः।।८।। तितिक्षादमसत्त्वाद्यस्त्वद्गुणैः परितोषितः । इन्द्र उवाच हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥९॥ त्वयाऽद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन्भार्यापुत्रसमन्वितः ॥१०॥ सुदुष्प्रापं नरैरन्यैजितमात्मोयकर्मभिः । सूत उवाच ततोऽमृतमयं वर्षमपमृत्यु विनाशनम् ।।११।। इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ। पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ।।१२।। समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥१३॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा। सभार्यःस्वश्रिया युक्तो दिव्यमाल्यांबरावृतः॥१४॥ स्वस्थः सम्पूर्णहृदयो मुदा परमया वृतः । बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥१५॥ सभार्यस्त्वं सपुत्रश्च स्वर्लोकसद्गति पराम्। समारोह महाभाग निजानां कर्मणां फलम् ॥१६॥ हरिश्रन्द्र उवाच देवराजाननुज्ञातः स्वामिना श्वपचेन हि। अकृत्वा निष्कृति तस्य नारोक्ष्ये वै सुरालयम् ॥१७॥ धर्म उवाच तवैवंभाविनं क्लेशमवगम्यात्ममायया। आत्मा श्वपचतां नीतो दशितं तच्च पक्वणम् ॥१८।।
Page 496
श्रीमदेबीमागवते महापुराणे सप्तमस्कन्धे अध्याय: २७ इन्द्र उवाच प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैरभुवि। तदारोह हरिश्रन्द्र स्थानं पुण्यकृतां नृणाम् ।१९॥ हरिश्रन्द्र उवाच देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे। मच्छोकमग्नमनसः कोसले नगरे नराः ॥२०॥ तिष्ठति तानपास्यैवं कथं यास्याम्यहं दिवम्। ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥२१॥ भक्तत्यागादुदाहृराम्। भजंतं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥२२॥ तैविना न प्रयास्यामि तस्माच्छक्र दिवं व्रज। यदि ते सहिता: स्वरगं मया यांति सुरेश्वर ॥२३॥ तुल्यमेभिर्महत्पापं
सतोऽहमपि यास्यामि नरकं वापि तैःसह। इन्द्र उवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ।२४।। कथं संघातभोज्यं त्वं भूप स्वर्गमभीप्ससि। ररिश्रन्द्र उवाच भुंक्ते शक्र नृपो राज्यं प्रभावातप्रकृतेध्रुंवम् ॥२५॥ यजते च महाय्ज्ञैः कर्म पूर्त करोति च। तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥२६॥ उपदादान्न संत्यक्ष्ये तानहं स्वर्गलिप्सया। तस्माद्यन्मम देवेश किचिदस्ति सुचेष्टितम् ॥२७॥ तप्तमिष्टमथो जप्ं सामान्यं तैस्तदस्तु नः । बहुकालोपभोग्यं च फलं यन्मम कर्मगम् ॥२८॥ तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः । सूत उवाच एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥२९॥ मसन्रचेता धर्मश्र विश्वामित्रश्च गाधिजः । गत्वा तुनगरं सर्वे चातुर्वर्ष्यसमाकुलम् ॥३॥ हरिश्रन्द्रस्य निकटे प्रोवाच विबुधाधिपः । आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥३१॥ धर्मप्रसादात्सम्प्रासतं सर्वेर्युष्माभिरेव तु । हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः ॥३२॥ प्राह राजा धर्मपरो दिवमारुह्यतामिति। सूत।उवाच तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥३३॥ ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै। कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥३४॥ विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा सम्भूतहर्षास्ते हरिश्रन्द्रश्च पार्थिवः ।३५॥ राज्येऽ्रभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याख्ये .पुरे रम्ये हृष्टपुष्टजनान्बिते ॥३६॥
Page 497
३२ श्रीमऐेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २८ ४९७ तनयं सुहृदश्चापि प्रतिपूज्याभिनंद्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥३७॥ संप्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसांचक्रे कामगमे क्षुद्रघंटाविराजिते ॥३८॥ ततस्तहि समालोक्य श्लोकमन्त्रं तदा जगौ। दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥३९।। शुक्र उवाच अहो तितिक्षामाहात्म्यमहो दानफलं महत्। यदागतो हरिश्रन्द्रो महेन्द्रस्य सलोकताम् ॥४०॥ सूत उवाच एतत्ते. सर्वमाख्यातं हरिश्चन्द्रस्य चेष्टितम्। यःशृणोति च दुःखार्तःस सुखं लभतेऽन्वहम्॥४१॥ स्वर्गार्थी प्राप्नुयात्स्वर्ग सुतार्थी सुतमाप्नुयात्। भार्यार्थी प्राप्तुयाद्द्ारयां राज्यार्थी राज्यमाप्नुयात्।। इति श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे हरिश्रन्द्रोपाख्याने सप्तविंशोऽध्यायः ।२७॥ अथ अष्टाविंशोऽध्यायः जनमेजय उवाच विचित्रमिदमाख्यानं हरिश्रन्द्रस्य कीर्तितम्। शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥१॥ शताक्षी सा कुतो जाता देवी भगवती शिवा। तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥२॥ को हि देव्या गुणाञ्छृण्वंस्तृपति यास्यति शुद्धधीः। पदे पदेऽश्मेधस्य फलमक्षय्यमध्नुते॥३॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि शताक्षीसंभवं शुभम् । तवावाच्यं न मे किचिद्देवीभक्तस्य विद्यते ॥४॥ दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥५॥ देबानां तु बलं वेदो नाशे तस्य सुरा अपि। नंक्ष्यंत्येव न संदेहो विधेयं तावदेव तत् ।।६॥ विमृश्यैतत्तपश्चर्यां गतः कर्तु हिमालये। ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ।।७। सहस्रवर्षपर्यन्तं चकार परमं तपः। तेजसा तस्य लोकास्तु संतप्ताः समुरासुराः ॥८॥ प्रसन्नो भगवान्हंसारूढश्चनुर्मखः। ययी तस्म वरं दातुं प्रसन्नमुखपंकजः ॥९॥ समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः। वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥१०॥ तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्यितः स समाधितः ११॥ पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर। त्रिएु लोकेषु ये मंत्रा ब्राह्मणेषु सुरेप्वपि॥१२॥ विद्यंते ते तु सान्निध्ये मम संतु महेश्वर। बलं च देहि येन स्यादेवानां च पराजयः ॥१३॥ इति तस्य वच:श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वदेश्वरः परः ॥१४॥ ततःप्रभृति विप्रस्तु विस्मृता वेदराशयः । स्नानसंध्यानित्यहोमश्राद्धयज्ञजपादयः ।।१५॥
Page 498
४९८ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: २८ विलुप्ता धरणीपृष्ठे हाहाकारो महानभृत्। किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् १६॥ वेदाभावात्तदस्माभि: कर्तव्यं किमतः परम्। इति भूमौ महानर्थे जाते परमदारुणे ॥१७॥ निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम् ॥१८॥ अशक्तास्तेन ते योह्ुं व्ररदेहासुरेण च। पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् १९।। निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिता: परमां शक्ति ध्यायंतस्ते परांबिकाम् २०॥ अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप। वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥२१॥ कृपवापीतडागाश्र सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥२२॥ मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा। गृहे गृहे मनुष्याणामभवच्छवसंग्रहः ॥२३॥ अनर्थे त्वेवमुद्भूते ब्राह्मणाः शांतचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवःशिवाम् ॥२४॥ समाधिध्यानपूजाभिदेवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः ॥२५॥ दयां कुरु महेशानि पामरेपु जनेषु हि। सर्वापराधयुक्तेषु नैतच्छ्लाध्यं तवांबिके ॥२६॥ कोपं संहर देवेशि सर्वान्तिर्यामिरूपिणि। त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥२७॥ नान्या गतिर्जनस्यास्य कि पश्यसि पुनः पुनः । चथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥२८। समुद्धर महेशानि संकटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यातिस्थितिरंबिके २९।। प्रसीद त्वं महेशानि प्रसीद जगदम्बिके। अनंतकोटिब्रह्मांडनायिके ते नमोनमः ॥३०॥ नमः कूटस्थरूपायै चिद्रपायै नमोनमः। नमो वेदांतवद्यायै भुवनेश्यै नमोनमः ॥३१॥ नेति नेतीति वाक्यैर्या वोध्यते सकलागमैः ! तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥३२॥ इति संप्रार्थिता देवी भुवनेशी महेश्वरी। अनंताक्षिमयं रूपं दर्शयामास पार्वती ॥३३॥ नीलांजनसम प्रख्यं नीलपद्मायतेक्षणम्। सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्त नम् ।।३४।। वाणं मुष्टि च कमलं पुष्पपल्लवमूलकान्। शाकादीन्फलसंयुक्ताननंतरससंयुतान् ।।३५॥ क्षुत्तड्जरापहान्हस्तविभ्रती च महद्धनुः । सर्वसौंदर्यसारं तद्रूपं लावण्यशोभितम् ॥३६॥ कोटिसूर्यप्रनीकाशं करुणारससागरम्। दर्शयत्वा जगद्वात्री साऽनतनयनोद्वा ॥३७।। मोचयामास लोकेपु वारिधारा: सहस्रशः। नवरात्रं महावृष्टिरभून्नेत्रोन्द्ध वैर्जलै: ।।३८ ।। दुःग्तान्वीक्ष्य सकलासेत्रार्थृण विमुञ्जति। तर्पितास्तेन ते लोका ओषध्यः सकला अपि ३१॥ नदीनदप्रवाहास्तैर्जलै: समभवन्रृष। निलीय संस्थिताः पूर्व सुरास्ते निर्गता बहिः ४०।। मिलित्वा ससुरा विप्रा देवीं सर्मभितुष्टवुः । नमो वेदांतवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥४१॥ स्वमायया सर्वजगद्विधात्र्यै ते नमोनमः । भक्तकल्पद्रमे देवि भक्तार्थ देहधारिणि ॥४२॥ नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥४३॥
Page 499
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः २८ ४९९ त्वया यतो धृत देवि शताक्षी त्वं ततो भव। क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः४४॥ कृपां कुरु महेशानि वेदानप्याहरांबिके। व्यास उवाच इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥४५॥ स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा। नानाविधानि चान्नानि पशुभोज्यानि यानि च ४६॥ काम्यानंतरसैर्युक्तान्यानवीनो्गवं ददौ। शाकंभरोति नामापि तददिनात्समभून्नृप।४७।। ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यःसायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ॥४८॥ सहस्राक्षौहिणीयुक्तः शरान्मुंचंस्त्वरान्वितः। रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा॥४९॥ तथा विप्रगणं चव रोधयामास सर्वतः। ततः किलकिलाशब्दः समभूददेवमंडले ॥५॥ त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥५१॥ चकार रक्षणार्थाय स्वयं तस्माद्वहिः स्थिता। ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥५२॥ शरवर्षस माच्छन्नं ।।५३॥। कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरोरात्तु निर्गतास्तीव्रशक्तयः ॥५४॥ कालिका तारिणी बाला त्रिपुरा भैरवी रमा। बगला चैव मातंगी तथा त्रिपुरसुन्दरी ॥५५॥ कामाक्षी तुलजा देवी जंभिनी मोहिनी तथा। छिन्नमस्ता गुह्यकाली दशसाहस्त्रबाहुका ॥५६॥ द्वात्रिशच्छक्तयश्चान्याश्चतुःषष्टिमिताः पराः । असंख्यातास्ततो देव्यः समुद्दतास्तु सायुधाः॥५७॥ मृदंगशं खवीणा दिनादितं संगरस्थलम्। शक्तिभिर्देत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥५८।। समभवद्दुर्गमो वाहिनीपतिः। शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥५९।। महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षोहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥६०॥। तत एकादशे प्राप्ते दिने परमदारुणे। रक्तमाल्यांबरधरो रक्तगंधानुलेपनः ॥।६१।। कृत्वोत्सवं महांतं तु युद्धाय रथसंस्थितः । संरंभेणैव महता शक्तोः सर्वा विजित्य च ॥६२॥ महांदेवीरथाग्रे तु स्वरथं स न्यवेशयत् । ततोज्भवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥६३॥ प्रहरद्वयपयतं हृदयवासकारकम्। ततः पंवदशात्युग्रवाणान्देवी मुमोच च॥६४॥ चतुर्भिश्चतुरो वाहान्वाणेनैकेन सारथिम्। द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥६५॥ पंचभिर्हृदयं तस्य विव्याध जगदंबिका। ततो वमन्स रुधिरं ममार पुर ईशितुः ॥६६॥ तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह। हते तस्मिन्महावीर्ये शांतमासीज्जगत्त्रयम् ॥६७॥ ततो ब्रह्मादयः सवे तुष्टुबुर्जगदंविकाम्। पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥६८॥
Page 500
५०० श्रीमद्ेवीमागवते महापुराणे सप्तमस्कन्ये अध्याय: २९ देवा ऊचु: जगद्भ्रमविवर्तेककारणे परमेश्वरि। नमः शाकंभरि शिवे नमस्ते शतलोचने ।६९।। सर्वोपनिषदुद्घुप्टे दुर्गमासुरनाशिनि। नमो मायेश्वरि शिवे पंचकोशांतरस्थिते॥७०॥। चेतसा निर्विकल्पेन यां ध्यायंति मुनीश्वराः । प्रणवार्थस्वरूपां ता भजामो भुवनेश्वरीम् ॥७१॥ अनंतकोटिब्रह्मांडजननीं दिव्यविग्रहाम् । ब्रह्मविर्ण्वादिजननीं सर्वभावैर्नता वयम् ॥७२॥ कः कुर्यात्पामरान्दृट्वा रोदनं सवलेश्वरः। सदयां परमेशानी शताक्षी मातरं विना॥७३।। व्यास उवाच इति स्तुता सुरैदेवी ब्रह्मविप्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रब्यैः संतुष्टाऽभूच्च तत्क्षणे ।।७४॥ प्रसन्ना सा तदा देवी वेदानाहृन्य सा ददौ। ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥७५॥ ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एवं जातो दृष्टोऽधुनैव हि ॥७६॥ पूज्याऽहं सर्वदा सेव्या युप्माभिः सर्वदैव हि। नातः परतरं किचित्कल्याणायोपदिश्यते ।७७॥। पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम्। तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ।७८।। दुर्गमासुरहंत्रीत्वाद्दुर्गेति मम नाम यः। गृह्नाति च शताक्षीति मा्या भित्त्वा व्रजत्यसौ ७९॥ किमुक्त्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवा सर्वेरपि सुरासुरैः ॥८०॥ व्यास उवाच इत्युक्त्वांतहिता देवी देवानां चंव पश्यताम। संतोषं जनयंत्येवं सच्चिदानंदरूपिणी ।।८१।। एतत्ते सर्वमाख्यातं रहस्यं परमं महत्। गोपनीयं प्रयत्नेन सर्बकल्याणकारकम् ॥८२॥ य इमं शृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते ॥८३॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धेऽट्टाविशोऽध्यायः॥२८। अथ एकोनात्रेशोऽध्यायः व्यास उवाच इत्यंव सूर्यवंश्यानां राज्ञां चरितमुत्तमम्। सोमवंशोद्धवानां च वर्णनीयं मया कियत् ॥१॥ पराशक्तप्रसादेन महत्त्वं प्रतिपेदिरे। राजन्सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥२॥ यद्यद्विभूतिमत्सतत्वं श्रीमदूजितमेव वा। तन्तदेवावगच्छ त्वं पराशकत्यंशसंभवम्॥३॥ एते चान्ये च राजानः पराशक्तेरुपासकाः । संसारतममूलस्य कुठारा अभवन्नृप॥४॥ तस्मात्सर्व प्रयत्नेन संसेव्था भुवनेश्वरी। पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥५॥ आमथ्य वेददुग्धाब्धि प्राप्तं रत्नं मया नृप। पराशक्तिपदांभोजं कृतकृत्योऽस्म्यहं ततः ॥६॥
Page 501
श्रीमद्ेबीभागवते महापुराणे सप्मस्कन्धे अध्याय: २९ ५०१ पंचब्रह्मासनारूढा नास्त्यन्या काषि देवता। तत एव महादेव्या पंचब्रह्मासनं कृतम्॥७॥ पंच्यस्त्वधिकं वस्तु वेदे व्यक्तमितीर्यते। यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥८॥ तामबिज्ञाय राजेन्द्र नैत्र मुक्त्तो भवेन्नरः । यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥९॥ तदा शिवामविज्ञाय दुःखस्यांतो भविष्यति। अतएव श्रुती प्राहुः श्वेताश्वतरंशाखिनः ॥१०॥ ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणानुगूढाम्। लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया। सर्वसंगं परित्यज्य मनो हृदि निरुध्य च ॥१२॥ तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे ॥११॥
तन्निष्ठस्तत्परो भूयादिति वेदान्तडिंडिमः । येन केन मिषेणापि स्वपंस्तिष्ठन्त्रजन्नपि ॥१३॥ कोर्तयेत्सततं देवों स वै मुच्येत बंधनात्। तस्मात्सर्वप्रयत्नेन भज राजन्महेश्वरीम् ॥१४॥ बिराड्रूपां सूत्ररूपां तथ्रांतर्यामिरूपिणीम्। सोपानक्रमतः पूर्व ततः शुद्धे तु चेतसि ॥१५॥ सच्चिदानंदलक्ष्यार्थरूपां तां ब्रह्मरूपिणोम्। आराधय परां शक्ति प्रपंचोल्लासवर्जिताम् ॥१६॥ तस्यां चित्तलयो यःस तस्या आरावनं स्मृतम् । राजत्राज्ञां पराशक्तिभक्तानां चरितं मया ॥१७॥ वार्मिकाणां नूर्यसोमवंशजानां मनस्त्रिनाम्। पाव्रनं कीतिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥१८॥ कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि। जनमेजय उवाच
हराय हरये गौरोलक्ष्मीसरस्वत्यो दत्ताः पूर्व परांबया ॥१९॥ तद्वन्नाभिप्योद्गबाय च। तुषाराद्रेश्च दक्षस्य गोरी कन्येति विश्रुतम् ॥२०॥ क्षीरोदघेश्र कन्येति महालक्ष्मीरिति स्मृतम्। मूलदेव्युद्धवानां च कथं कन्यात्वमन्ययोः ॥२१॥ असंभाव्यमिदं भाति संशयोऽत्र महामुने। छिधि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥२२॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि रहस्यं परमाद्दुतम्। देवीभक्तस्य ते किचिदवाच्यं न हि विद्यते ॥२३॥ देवीत्रयं यदा देवत्रयायादात्परांबिका। तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥२४॥ कस्मिश्चित्समये राजन्दैत्या हालाहलाभिघाः। महापराक्रमा जातास्त्रलोक्यं तैजितं क्षणात् ॥२५॥ ब्रह्मणो बरदानेन दर्पिता रजताचलम्। रुव्धुर्निजमेनाभिस्तथा वैकुण्ठमेव च॥२६॥ कामारि: केटभारिश्र युद्धोद्योगं च चक्रतुः। षष्टिवर्पसहस्राणामभूद्युद्धं महोत्कटम्.॥२७॥ हाहाकारो महानासीदेवदानवसेनयोः । महताऽथ प्रयत्नेन ताम्यां ते दानवा हताः ॥२८।। स्वस्व्स्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन्यद्वशादेव ते हताः ॥२९॥ भभिमानं तयोर्ज्ात्वा छलहास्यं च चक्रतुः। महालक्ष्मोश्र गौरी च हास्यं दृष्टा तयोस्तु तौ ॥३०॥ देवावतीब संक्रुद्धो मोहिताबादिमायया। दुरुत्तरं च ददतुरवमानपुरःसरम्॥३१॥
Page 502
५०२ श्रीमदेवीमागव ते महापुराणे सप्मस्कन्धे अध्याय: ३० ततस्ते देवते तस्मिन्क्षणे त्यवत्वा तु तौ पुनः। अंतहिते चाभवतां हाहाकारस्तदा ह्यभूत् ॥३२॥ निस्तेजस्कौ च निःशली विक्षिस्तौ च विचेतनौ। अवमानात्तयोः शक्योर्जातौ हरिहरौ तदा ॥३३।। ब्रह्मा चिंतातुरो जात किमेतत्समुपस्थितम्। प्रधानौ देवतामध्ये कथं कार्याक्षमावमू ॥३४॥ अकाण्डे किं निमित्तेन संकटं समुपस्थितम्। प्रलयो भविता कि वा जगतोऽस्य निरागसः ॥३५॥ निमित्तं नैव जानेऽहं कथं कार्या प्रतित्रिया। इति चिंतातुरोऽत्यर्थ दध्यौ मोलितलोचनः ॥३६॥ पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह। जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम ॥३७॥। ततस्तयोश्च यत्कार्य स्वयमेवाकरोत्तदा। स्वशनेश्र प्रभावेण कियत्कालं तपोनिधि: ॥३८।। ततस्तयोस्तु स्वस्त्यर्थ मन्वादीन्स्वसुतानथ। आह्वयामास धर्मात्मासनकादींश्र सत्वरम् ॥३९।। उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः । कार्यासक्तोऽहमत्रुना तपः कर्तु न च क्षमः ॥४०॥ पराशक्तेस्तु तोपार्थं जगद्भ्ारयुतोऽस्म्यहम् । शिवविष्णू च विक्षितौ पराशक्तिप्रकोपतः ॥४१।। तस्मात्तां परमां शक्ति यूयं संतोषयंत्वथ। अत्यन्द्भुतं तपः कृत्वा भक्त्या परमया युताः॥४२॥ यथा तो पूर्ववृत्तौ च स्यातां शक्तियुतावपि। तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः ॥४३॥ कुले यस्य भवेज्जन्म तयोः शवत्योस्तु तत्कुलम् । पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत्॥४४॥ व्यास उवाच पितामहवचः श्रुत्वा गताः सर्वे वनांतरे। रिराधयिषवः सर्वे दक्षाद्या विमलांतराः ॥४५॥ इति श्रीदेवीभागवते महापुराणे सपमस्कन्धे एकोनत्रिंशोऽध्यायः ॥२९॥ अथ त्रिंशोऽध्यायः
व्यास उवाच ततस्ते तु वनोहेशे हिमाचलतटाश्रयाः । मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥१॥ ध्यायतां परमां शक्ति लक्षवर्षाण्यभून्नृप। ततः प्रसन्मा देवी सा प्रत्यक्षं दर्शनं ददौ ॥२॥ पाशांकुशवराभीतिच तुर्बाहुस्त्रिलोचना । करुणारससम्पूर्णा सच्चिदानन्दरूपिणी॥३॥। दृष्टा तां सर्वजननीं तुष्टवुर्मुनयोऽमलाः । नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये।४॥ नमस्तेजसरूपायै सूत्रात्मवपुषे नमः । यस्मिन्सर्वे लिंगदेहा ओतप्रोता व्यवस्थिताः ॥५॥ नमः प्राज्ञस्वरूपायै नमो व्याकृतमूर्तये। नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥६॥ नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये। इति स्तुत्वा जगद्धात्रीं भक्तिगढदया गिरा ॥७॥ प्रणेमुश्चरणांभोजं दक्षाद्या मुनयोऽमलाः। ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥८। वर ब्रत महाभागा वरदाऽहं सदा मता। तस्यास्तु वचनंश्रुत्वा हरविष्ण्वोस्तनोः समम् ॥९॥
Page 503
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३० ५० ३ तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम । दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥१०॥ भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति। जपं ध्यानं तथा पूजां स्थानानि विविधानि च।। वद मे परमेशानि स्वमुखेनैव केवलम्। देव्युवाच मच्छकत्योरवमानाच्च जाताऽवस्था तयोद्वयोः ॥१२॥ नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन । अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥१३॥ भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे। जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥१४॥ मायाबीजं हि मन्त्रो मे मुख्यः प्रियकर: सदा। ध्यानं विराट्स्वमपं मे्थवा त्वत्पुरतः स्थिनम् १५॥ सच्चिदानंदरूपं वा स्थानं सर्वं जगन्मम। युष्माभिः सर्वदा चाहं पूज्या धयेया च सर्वदा ॥१६॥ व्यास उाच इत्युवत्वांतर्दधे देवी मणिद्ीपाधिवासिनी। दक्षाद्या मुनयः सर्वे त्रह्माणं पुनराययुः ॥१७॥ ब्रह्मणे सर्ववृत्तान्तं कथयामासुरादरात्। हरो हरिश्र स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥१८॥ जातौ परांबाकृपया गर्वेण रहितौ तदा। कदाचिदथ काले तु महः शाक्तमवातरत् ॥१९॥ दक्षगेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत्। देवाः प्रमुदिताः सर्वे पुष्पदृष्टि च चक्रिरे ॥२०॥ नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप। मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥२१॥ सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः। मंगलायां तु जातायां जातं सर्वत्र मंगलम् ॥२२॥ तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः । ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥२३॥ सा पुन्ज्वलने दग्धा दैवयोगान्मनोर्नृप। जनमेजय उवाच अनर्थकरमेतत्ते श्रावितं वचनं. मुने ॥२४॥ एतादृशं महद्वस्तु कथं दग्धं हुताशने। यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥२५॥ केन कर्मविपाकेन मनोर्दग्धं तदेव हि। व्यास उवाच श्ृणु राजन्पुरा वृत्तं सतीदाहस्य कारणम् ॥२६॥ कदाचिदथ दुर्वासा गतो जांबूनदेश्वरीम्। ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥२७॥ ततः प्रसन्ना देवेशी निजकंठगतां स्रजम्। भ्रमद्भ्रमरसंसक्तां मकरंदमदाकुलाम् ॥२८॥ ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः। ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥२९॥ आजगाम स यत्रास्ते दक्षः साक्षात्सतींपिता। संदर्शनार्थमंबाया ननाम च सतीपदे ॥३०॥
Page 504
५०४ श्रीमहेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३० पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी। कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥३१॥ तच्छ्रुत्वा वचनं तस्य चोवाचाश्रुयुतेक्षणः । देव्याः प्रसादमतुलं प्रेमगद्गदितांतरः ॥३२॥ प्रार्थयामास तां मालां तं मुनि स सतीपिता। अदेयं शक्तिभक्ताय नास्ति तरैलोक्यमंडले ।।३३॥ इति बुद्धया तु तां मालां मनवे स समर्पयत् । गृहीता शिरसा माला मनुना निजमंदिरे ॥३४॥ स्थापिता शयनं यत्र दंपत्योरतिसुन्दरम्। पशुकर्मरतो रात्री मालागंधेन मोदितः ॥३५॥ अभवत्स महीपालस्तेन पापेन शंकरे। शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥३६॥ राजंस्तेनापराधेन तज्जन्यो देह एव च। सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥३७॥ पुनश्र हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः । जनमेजय उवाच दह्यमाने सतीदेहे जाते किमकरोच्छिव: ।३८।। प्राणाधिका सती तस्य तद्वियोगेन कातरः । व्यास उवाच ततः परं तु यज्जातं मया वक्तुं न शकयते ॥३९॥ त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप। वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥४०॥ त्रैलोक्यनाशनोद्ुक्तो वीरभद्रो यदाऽभवत्। ब्रह्मादयस्तदा देवाः शंकरं शरणं ययुः ॥४१॥ जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः । अभयं दत्तवांस्तेभ्यो बस्तवकत्रेण तं मनुम् ॥४२।। अजीवयन्महात्माऽसौ ततः खिन्नो महेश्वरः । यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥४३॥ अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् । स्कंधेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥४४॥ बभ्राम भ्रांतचित्तः सन्नानादेशेषु शंकरः । तदा ब्रह्मादयो देवाश्चितामापुरनुत्तमाम् ॥४५॥ विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः। चिच्छेदावयवान्सत्यास्तत्तत्स्थानेपु तेऽपतन् ॥४६॥ तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः । उवाच च ततो देवान्स्थानेष्वेतेषु यो शिवाम् ॥४७॥ भजंति परया भक्त्या तेषां किश्चिन्न दुर्लभम्। नित्यं सन्निहिता तत्र निजाङ्गेषु पराम्त्रिका ॥४८।। स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः । तेषां मंत्राः प्रसिद्धयन्ति मायावीजं विशेषतः ॥४९॥ इत्युक्त्वा शंकरस्तेपु स्थानेपु विरहातुरः । कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥५०॥ जनमेजय उवाच कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति संख्यानि नामानि कानि तेषां च मे वद ।५१।। तत्र स्थितानां देवीनां नामानि च कृपाकर। कृतार्थोऽहं भवे येन तद्वदाशु महामुने ।।५२।।
Page 505
श्रीमद्देवीभागव ते महाचुराणे सप्तमस्कन्धे अध्याय: ३० ५०५ व्यास उवाच शृणु राजन्प्रवक्ष्यामि देवीपोठानि सांप्रतम् । येषां श्रवणमात्रेण पापहीनो भघेन्रः ॥५३॥ येषु येषु च पीठेषृपास्येयं सिद्धि कांक्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥५४॥ वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी। क्षेत्रे वै नैमिधारण्ये प्रोक्ता सा लिंगभारिणी ॥५५॥ प्रयागे ललिता प्रोक्ता कामुकी गंधमादने। मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥५६॥ विश्वकामा भगवती विश्वकामप्रपूरणी। गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥५७॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे। गौरी प्रोक्ता कान्यकुब्जे रम्भा तुमलयाचले ॥५८॥ एकाम्रपीठे सम्प्रोक्ता देवी सा कीतिमत्यपि। विश्वे विश्वेश्वरीं प्राहुः पुरुहूता च पुष्करे ।५९॥ केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी। मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥६०॥ स्थानेश्वरी भवानी तु बिल्वके बिल्वपत्रिका। श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥६१॥ वाराहर्शले तु जया कमला कमलालये। रुद्राणी रुद्रकोटयां तुकाली कालंजरे तथा ॥६२॥ शालग्रामे महादेवी शिवलिंगे जलप्रिया। महालिंगे तु कपिला माकोटे मूकुटेश्वरी ॥६३। मायापुर्यां कुमारी स्यात्संताने ललितांबिका। गयायां मंगला प्रोक्ता विमला पुबोत्तमे ॥।६४:। उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला। विपाशायाममोघाक्षी पाडला पुड्रवर्धने ॥६५॥ नारायणी सुपाश्वे तु त्रिकूटे रुद्रसुन्दरी। विपुले विपुला देवी कल्याणो मलयाचले ॥६६॥ सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका। रमणा रामतीर्थे तु यमुनायां मृगावती ॥६७॥। कोटवी कोटतीर्थें तु सुगन्धा माधवे वने। गोदावर्या त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥६८॥ शिवकुडे शुभानंदा नंदिनी देविकातटे। रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।।६९।। देवकी मथुरायां तु पाताले परमेश्वरी। चित्रकूटे तथा सीता विध्ये विध्याधिवासिनी ॥७०॥ करवीरे महालक्ष्मीरुमा देवी विनायके। आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥७१॥ अभयेत्युष्णतीर्थेष नितम्बा विध्यपर्वते। भांडव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ।।७२।। छगलण्ड प्रचण्डा तु चंडिकाऽमरकण्टके। सोमेश्वरे वरारोहा प्रभासे पुष्करावती॥७३।। देवमाता सरस्वत्यां पारावारातटे स्मृता। महालये महाभागा पयोष्ण्यां पिंगलेश्वरी॥।७४।। सिहिका कृतशौचे तु कार्तिके त्वतिशांकरी। उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥७५॥ माता सिद्धवने लक्ष्मीरनंगा भरताश्रमे। जालन्धरे विश्वमुखी तारा किष्किंधपर्वते ॥७६॥ देवदारुवने पुष्टिमेंधा काश्मीरमण्डले। भीमा देवी हिमाद्रौ तु तुष्टिविश्वेश्वरी तथा॥७७॥ कनालमोचने शुद्धिर्माता कायावरोहणे। शंखोद्धारे वरा नाम धृतिः पिंडारके तथा ॥७८॥ कला तु चन्द्रभागायामच्छोदे शिवधारिणी। वेणायाममृता नाम बदर्यामुर्वशी तथा॥७९॥
Page 506
५०६ श्रीमद्ेवीभागवते महापुराणे सप्तमस्क्न्धे अध्यायः ३१ औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका। मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥८०॥ अश्वत्थे वंदनीया तु निधिर्वैश्रवणालये। गायत्री वेदवदने पार्वती शिवसन्निधौ॥८१॥ देवलोके तर्थेद्रणी ब्रह्मास्येषु सरस्वती। सूर्यविंबे प्रभा नाम मातृणां वैष्णवी मता ॥८२॥ अरुन्धती सतीनां तु रामातु च तिलोत्तमा। चित्ते ब्रह्मकला नाम शक्ति: सर्वशरीरिणाम् ॥८३॥ इमान्यष्टशतानि स्युः पीठानि जनमेजय। तत्संख्याकास्तदीशान्यो देव्यश्च परिकीर्तिताः ॥८४।। सतीदेव्यंगभूतानि पीटानि कथितानि च। अन्यान्यपि प्रसंगेन यानि मुख्यानि भूतले ।।८५। यः स्मरेच्छृणुयाापि नामाष्टशतमुत्तमम्। सर्वपापविनिर्मक्तो देवीलोकं परं व्रजेत् ।८६॥ एतेपु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पर्यच्च पित्रादीञ्छ्ाद्धादीनि विधाय च ।।८७॥ कुयच्य महती पूर्जा अगवत्या विधानतः । क्मापयेज्जगद्धात्रीं जगदम्वो मुहुर्मुहुः ॥८८ll कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय। भक्ष्यभोज्यादिभिः सर्वान्ब्रह्मणान्भोजयेत्ततः ८९।। सुवासिनी: कुमारीश्र बटुकादीस्तथा नृप। तस्मिन्क्षेत्रे स्थिता ये तु चांडालाद्या अपि प्रभो । देवीरूपा: स्मृताः सवे पूजनीयास्ततो हि ते। प्रतिग्रहादिकं सर्व तेपु क्षेत्रेपु वर्जयेत् ॥ ९१।। यथाशक्ति पुरञ्वर्या कुर्यान्मंत्रस्य सत्तमः। मायादीजेन देवेशों तत्तत्पीठाधिवासिनीम् ॥९२॥। पू जयेदनिरं राजन्यु रक्षरणकृद्वेत्। वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥९३॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानयः । सहस्रकत्पपर्यंतं ब्रह्मलोके महत्तरे ॥९४॥ वसंति पितरस्तस्य सोउपि देवीपुरे तथा। अंते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवांबुधे: ॥९५॥ नामाष्टशतजापेन वहवः सिद्धतां गताः। यनतरैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥९६।। ग्रहमारीभयादीनि तत्र नैव भवंति हि। सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥९७।। न तस्य दुर्लभं किचिन्नामाए्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ।९८।। नमंति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यते देवैः कि पुनर्मनुजोत्तमैः ॥९९॥ श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयांति परमां गतिम् ॥१००॥ इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेंद्र संश्रयेन्मतिमान्नरः ॥१०१॥ पृषं यत्तत्वया राजन्रुक्तं सर्वं महेशितुः। रहस्यातिरहस्यं च कि भूयः श्रोतुमिच्छसि ॥१०२॥ इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥ अथ एकत्रिंशोऽध्यायः जनमेजय उवाच धराधराधीशमौलावाविरासीत्परं महः। यदुक्तं भवता पूर्व विस्तरात्तद्वदस्व मे ॥१॥
Page 507
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ₹१ ५०७ को विरज्येत मतिमान्पिबञ्च्छक्तिकथामृतम्। सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥२॥ व्यास उवाच धन्योसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः। भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥३॥ शृणु राजन्पुरावृत्तं सतीदेहेऽग्निभर्जिते। भ्रांतः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥४॥ प्रपञ्चमानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्येस आत्मवान् ।५।। सौभाग्यरहित जातं त्रैलोक्यं सचराचरम्। शकिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ।६।। आनन्दः शुष्कतां यातः सर्वेपां हृदयांतरे। उदासीनाः सर्वलोकाश्िताजर्जरचेतस: ॥।७।। सदा दुःखोदधौ मग्ता रोगप्रस्तास्तदाऽभवन्। ग्रहाणां देवतानां च वैपरीत्येन वर्तनम्८ अधिभूताधिदैवानां सत्यभावान्नृपाभवन्। अथास्मिन्नेव काले तु तारकाख्यो महासुरः ॥९॥ ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हंता भविष्यति ॥१०॥ इति कल्पितमृत्युः स देवदेवैर्महासुरः। शिवोरमसुताभावाज्जगर्ज च नवाद च ॥११॥ तेन चोपद्रुताः सर्व स्वस्थानात्प्रच्युताः सुराः। शिवौरससुताभावा्चितामापुर्तुसत्ययाम् ॥१२॥ नाङ्गना शंकरस्यास्ति कथं तत्सुतसम्भवः । अस्माकं भाग्यहीनानां कर्थं कार्य भविष्यति ॥१३॥ इति चिन्तातुराः सर्वे जग्मुर्वेकुण्ठमण्डले। शशंसुर्हरिमेकांते स चोपायं जगाद ह॥१४॥ कुतश्चितातुराः सरवे कामकल्पद्रुमा शिवा! जाग्ति भुवनेशानो मणिद्वीपाधिवासिनी ॥१५॥ अस्माकमनयादेव तदुपेक्षास्ति नान्यथा। शिक्षवेयं जगन्मात्रा कृताऽस्मच्छिक्षणाय च ॥१६॥ लालने ताडने मातुर्नाकारुण्यं यथार्भके। तद्वदेव जगन्मातुनियन्त्र्या गुणदोषयोः ॥१७॥ अपराधो भवत्येव तनयस्य पदे पदे। कोऽपरः सहते लोके केवलं मातरं विना ॥१८॥ तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्य विधास्यति ॥ इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया। संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥२०॥ आजगाम महाशैलं हिमवन्तं नगाधिपम्। अभवंश्र सुराः सर्वे पुरश्चरणकर्मिणः ॥२१॥ अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे। तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ।।२२।। केचित्समाधिनिष्णाताः केचिन्नामपरायणाः। केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥२३॥ मंत्रपारायणपरा: केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥२४॥ हल्लेखया पराशक्तः पूजा चक्ुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥२२॥ अकस्माकच्चैत्रमासीयनवम्यां च भृगोदिने। प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥२६॥ चतुर्दिक्षु चतुर्वेदैर्मूतिमन्द्िरभिष्टुतम् । कोटिसूर्यप्रतोकाशं चन्द्रकोटिसुशीतलम् ॥२७॥ विद्युत्कोटिसमानाभमरुणं तत्परं महः। नैव चोर्ध्व न तिर्यक्च न मध्ये परिजग्रभत् ॥२८॥
Page 508
५०८ श्रीमरेवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः ३१ आद्यंतरहितं तत्तु न हस्ताद्यंगसंयुतम्। न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥२९॥ दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते। पुनश्र धैर्यमालंब्य यावत्ते ददृशुः सुराः ॥३०॥ तावत्तदेव स्त्रीरूपेणाभादित्यं मनोहरम्। अतीव रमणीयांगीं कुमारीं नवयौवनाम् ॥३१॥ । रणत्किकिणिकाजालसिंजन्मंजी रमेखलाम् । ३२।। कनकांगदकेयू रग्रेवेय कविभूषिताम् । अनर्ध्यमणिसंभिन्नगलबंध विराजिताम् ।।३३ ।।
तुकेतकसंराजन्नीलभ्रमरकुंतलाम् / नितम्बबिंबसुभगां रोमराजिविराजिताम् ॥३४॥ कपू रशकलोन्मिश्रतांबूलपूरिताननाम् । कनत्कनकताटंकविटंकबदनाम्बुजाम् ।।३५॥ अष्टमीचन्द्रविम्बाभललाटामायतभ्रुवम् । रक्तार विन्दनयनामुन्नसां मधुराधराम् ॥३६॥ कुंदकुड्मलदंताग्रां मुक्ताहारविराजिताम्। रत्नसंभिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥३७॥ मल्लिकामालती मालाकेशपा शविराजिताम् । काइ्मीरबिन्दुनिटिलां नेत्रयविलासिनीम् ।।३८।। पाशांकुशवराभीतिचतुर्बाहुं त्रिलोचनाम्। रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥३९॥ सर्वशृङ्गारवेषाढयां सर्वदेवनमस्कृताम्। सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥४०॥ प्रसादसुमुखमंबां मन्दस्मितमुखांबुजाम्। अव्याजकरुणामूर्ति ददृशुः पुरतः सुराः ॥४१॥ दृष्ठा तां करुणामूर्ति प्रणेमुः सादरं सुराः। वक्तुं नाशवनुवन् किचिद्वाष्पपूरितलोचनाः ॥४२॥ कथंचित्स्थर्यमालंव्य भक्त्या चानतकन्धराः। प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ।४३।। देवा ऊचु: नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ४४॥ तामग्निवर्णां तपसा ज्वलंतीं वैरोचनों कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः॥४५॥ देवीं वाचमजनयंत देवास्तां विश्वरूपाः पशबो वदंति। सा नो मन्द्रेषमूर्ज दुहाना घेनुर्वागस्मानुपसुष्टततु॥४६।। कालरानरि ब्रह्मस्तुतां वैष्णवीं स्कम्दमातरम्। सरस्वतीमदिति दक्षतुहितरं नमामः पावनां शिवाम्॥४७॥ महालक्ष्म्यै च विद्महे सर्वशवत्यै च धीमहि। तन्नो देवी प्रचोदयात् ॥४८।। नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये। नमो व्याकृतरूपिण्यै नमः श्रीव्रह्ममूर्तये ॥४९॥ रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥५०।। नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम्। अखंडानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥५१॥ पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम्। नुमस्त्वंपदलक्ष्यार्थां प्रत्यगात्मस्वरूपिीम् ।।५२।।
Page 509
श्रीम देवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः ३१ ५०९ नमः प्रणवरूपायै नमो होंकारमूर्तये। नानामंत्रात्मिकायै ते करुणायै नमो नमः ॥५३॥ इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी। प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ।५४॥ श्रीदेव्युवाच वदन्तु विबुधाः कार्य यदर्थमिह संगताः । वरदाऽहं सदा भक्तकामकल्पद्रमाऽस्मि च ॥५५॥। तिष्टंत्यां मयि का चिंता युष्माकं भक्तिशालिनाम्। समुद्धरामि मद्दक्ान्दुःखसंसारसागरात् ॥५६।। इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा संतुष्टमानसाः ॥५७॥ निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम्। देवा उचु: नाज्ञातं किचिदप्यत्र भवत्याऽस्ति जगत्त्रये ।।५८।। सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि। तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥५९॥ शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे। शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥६०॥ सर्वज्ञपुरतः कि वा वक्तव्यं पामरैर्जनैः । एतदुद्ेशतः प्रोक्तमपरं तर्कयाम्बिके ॥६१॥ सर्वदा चरणांभोजे भक्ति: स्यात्तव निश्चला। प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ।।६२।। इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी। मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥६३॥ शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति। भक्तिर्यच्चरणांभोजे भूयाद्युष्माकमादरात् ॥६४।। हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥६५॥
हिमालयोऽपि तच्छ्रत्वात्यनुग्रहकरं वचः । वाष्पैःसंरुद्कंठाक्षो महाराज्ञी वचोऽब्रवीत् ॥६६॥। व्यास उवाच
महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि। नोचेत्मवाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ असंभाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादिपुण्यैर्या पुण्यैर्वा तत्समाधिजैः ॥६८॥ अद्य प्रपंचे कीतिः स्याज्जगन्माता सुताऽभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ६९॥ यस्यास्तु जठरे सन्ति ब्रह्मांडानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ न जानेऽस्मत्पितणां किं स्थानं स्यान्निर्मितं परम्। एतादृशानां वासाय येषां वंशेऽस्ति मादृशः॥७१॥ इदं यथा च दत्तं मे कृपया प्रेमपूर्णया। सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥७२॥ योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥७३॥ व्यास उवाच इति तस्य वचः श्रुत्वा प्रसन्नमुखपंकजा । वक्तुमारभतांवा सा रहस्यं श्रुतिगूहितम् ॥७४। इति श्रीदेवीभागवते महापुराणे सपमस्कन्धे देवीगीतायामेकत्रिशोऽध्यायः ॥३१॥
Page 510
५१० श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३२ अथ द्वात्रिंशोऽध्यायः श्रीदेव्युवाच शृ्वंतु निर्जरा: सर्वे व्याहरंत्या वचो मम। यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥१॥ अहमेवास पूर्वं तु तद्यतिकचिन्नगाधिप। तदात्मरूपं अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ३॥। न सती सा नासती च नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूताऽस्ति सर्वदा ॥४॥ पावकस्योष्ण्यतेवेयमुष्णांशोरिव दीधितिः। चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥५॥ तस्यां कर्माणि जीवानां जीवाः कालश्र संचरे। अभेदेन विलीनाः स्युः सुषुत्तौ व्यवहारवत् ।६।। स्वशक्तेश्र समायोगादहं बीजात्मतां गता। स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥७॥ चैतन्यस्य समायोग्ान्निमित्तत्वं च कथ्यते। प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ।।८।। केचित्तां तप इत्याहुस्तमः केचिज्जडं परे। ज्ञानं माया प्रधानं च प्रकृति शक्तिमप्यजाम् ॥९॥ विमर्श इति तां प्राहुः शैवशारत्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिंतकाः ॥१० ॥ एवं नानाविधानि स्युर्नामानि निगमादिषु। तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥११॥ चतन्यस्य न दृश्यत्वं दश्यत्वं जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥१२॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम्। कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्वीपवत्स्वयम् । १ ३ ॥ प्रकाशमानमन्येषां भांसकं विद्धि पर्वत। अतएव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥१४॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्र नानुभूतोऽस्ति कहिचित्॥१५॥ यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा। अनुभूतः स एवात्र शिष्टः संविद्रपुः पुरा॥१६॥ अतएव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥१७॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम्। सर्वस्यान्यस्य मिथ्यात्वादसंगत्वं स्फुटं मम ॥१८॥ अपरिच्छिन्नताप्येवमत एव मता मम। तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडतात्मनः ॥१९॥ ज्ञानस्य जडशेषत्वं न दृष्ट न च संभवि। चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि विद्यते ॥२०॥ तस्मादात्मज्ञानरूप: सुखरुपश्र .सर्वदा। सत्यः पूर्णोऽप्यसंगश्च दैतजालविवजितः ॥२१॥ स पुनः कामकर्मादि युक्त्तया स्वीयमायया। पुर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥२२।। अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते। अबुद्धिपूर्वः सर्गोडयं कथितस्ते नगाविन ।२३॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम्। अव्याकृतं तदव्यक्तं मायाशबलमित्यप ॥२४॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम्। तत्त्वनामादिभूतं च सच्चिदानन्दविग्रहम् ॥२५॥
Page 511
श्रीमह्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३२ ५११ सर्व कर्मघनींभूतमिच्छाज्ञानक्रियाश्रयम् । हींकारमन्त्रवाच्यं तदादितत्त्वं यदुच्यते ॥२६॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥२७॥ जलं रसात्मकं पश्चात्ततो गंधात्मिका धरा। शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥२८।। शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥२९॥ शब्दस्पर्शरूपरसगन्धः पञ्चगुणा धरा। तेभ्योऽभवन्महत्सूत्रं यल्लिंगं परिचक्षते ॥३०॥ सर्वात्मकं तत्संप्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तकारणो देहः स चोक्तः पूर्वमेव हि ॥३१॥ यस्मिअ्जगद्वीजरूपं स्थितं लिंगो्द्वो यतः। ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥३२।। पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते। पूर्वोक्तानि च भूतामि प्रत्येकं विभजेद्द्विधा ॥३३॥ एकैकं भागमेकस्य चतुर्धा विभजेद्विरे। स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥२४॥ तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशः श्रोत्रादीनां समुद्गवः ।३५॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः। अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥३६॥ यदा तु संकल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख््यम् । स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरपम् ।२७।। अनुसंधानरूपं तच्चित्तं च परिकीर्तितम्। अहंकृत्यात्मवृत्त्या तु तदाहंकारतां गतम् ॥३८।। तेषां रजोंशर्ज्ञातानि क्रमात्कर्मेंन्द्रियाणि च । प्रत्येकं मिलितस्तैस्तु प्राणो भवति पंचधा ॥३९। हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कंठदेवेप्युदानः स्याद्रयानः सर्वशरीरगः ॥४०॥। ज्ञानेन्द्रियाणि पंचव पंच कर्भेन्द्रियाणि च । प्राणादिपंचकं चैव धिया च सहितं मनः ॥४१॥ एतत्सूक्ष्मं शरीरं स्यान्मम लिंगं यदुच्यते। तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविवा स्मृता ॥ सत्त्वात्मिका तु माया स्यादविद्यागुणमिश्रिता। स्वाश्रयं या तु संरक्षेत्सा मारयेति निगद्यते ॥४३॥ तस्या यत्प्रतिबिम्बं स्याद्विम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥४४॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः। अविद्यायां तु यत्किचित्प्रतिविम्बं नगाधिप।।४५।। तदेव जीवसंज्ञं स्यात्सर्वंदुःखाश्रयं पुनः। द्वयोरपीह संप्रोक्तं देहत्रयमविद्यया ॥४६। देहत्रया भिमानाच्चाप्यभूल्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ४७॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि संप्रोक्त ईशसूत्रविराद्पद्षः ।४८।। प्रथमो व्यष्टिरुपस्तु समष्टयात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया॥४९॥ करोति विविधं विश्वं नामभोगाश्रयं पुनः। मच्छक्तिप्रेरितो नित्यं मयय राजन्प्रकल्पितः ॥५०। इति श्रीदेवीभागवते सप्तमस्कन्धे देवीगीतायां द्वान्रिशोऽध्यायः ॥३२॥
Page 512
५१२ श्रीमद्ेवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः २२
देव्युवाच मन्मायाशक्तिसंवलृप्तं जगत्सर्वं चराचरम्। सापि मत्तः पृथड्माया नास्त्येव परमार्थतः ॥१॥ व्यवहारदृशा सेयं विद्या मायेति विश्रुता। तत्त्वादृष्टया तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥२॥ साहं सर्व जगत्सृष्टा तदंतः प्रविशाम्यहम्। मायाकर्मादिसहिता गिरे प्राणपुरःसरा॥३॥ लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना। यथा यथा भवंत्येव मायाभेदास्तथा तथा॥४॥ उपाधिभेदाद्दिन्नाऽहं घटाकाशादयो यथा। उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥५॥ न दुष्यति तर्थवाहं दोर्षलिप्ता कदापि न । मयि बुद्धयादिकर्तृत्वं मध्यस्यैवापरे जनाः ॥६॥ वदंति चात्मा कर्मेति बिमूढ़ा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ।।७।। जीवेश्वरविभागश्च कल्पितो माययैव तु। घटाकाशमहाकाशविभागः कल्पितो यथा ॥८॥ तथव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहुत्वं च माययैव न च स्वतः ॥९॥ तथेश्वरबहुत्वं च मायया न स्वभावतः। देहेन्द्रियसंघातवासनाभेदभेदिता ।१०॥ अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धरवर ॥११॥ माया सा परभेदस्य हेतुर्नान्यः कदाचन। मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥१२॥ ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौच गौरी ब्राह्मी च वैष्णवी ।।१३।। सूर्योऽहं तारकाश्राहं तारकेशस्तथाऽस्म्यहम् । पशुपक्षिस्वरूपाहं चांडालोऽहं च तस्करः ॥१४॥ व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥१५॥ यच्च किंचित्क्वचि तु दृश्यते श्रूयतेऽपि वा। अंतर्बहिश्र तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥१६॥ न तदस्ति मया त्यक्तं वस्तु किचिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वंध्यापुत्रोपमं हितत् ॥१७॥ रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि। तर्थवेशादिरूपेण भाम्यहं नात्र संशयः ॥१८॥ अधिष्ठानातिरेकेण कल्पितं तन्न भासते। तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥१९॥ हिमालय उवाच यथा वदसि देवेशि समष्ट्यात्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपामयी ॥२०॥ व्यास उवाच इति तस्य वच: श्रुत्वा सर्वे देवाः सविष्णवः । ननंदुर्मुदितात्मानः पूजयंतश्र तद्वचः ॥२१॥ अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा। अदर्शयन्निजं रूपं भक्तकामप्रपूरणी ॥२२॥ अपश्यंस्ते महादेव्या विराड्रूपं परात्परम्। द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ।।२३।।
Page 513
३३ श्रीमद्ेवीमागवते महापुराणे सप्तमस्कन्धे अध्याय: ३३ ५१३ दिशः श्रोत्रे वचो वेदा: प्राणो वायुः प्रकीरतितः । विश्वं हृदयमित्याहुः पृर्थिवी जघनं स्मृतम् ॥२४॥ नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम्। महर्लोकस्तु ग्रीबा स्याज्जनलोको मुखं स्मृतम् ॥२५॥ तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इंद्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥२६॥ नासत्यदस्त्री नासे स्तो गन्धः प्राणं स्मृतो वुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ।२७।। ब्रह्मस्थानं भ्रूविजम्भोऽप्य/पस्तालुः प्रकीतिताः। रसो जिह्वा समाख्याता यमा दंष्ट्राः प्रकीर्तिताः ॥२८।। दंताः स्नेहकला यस्य हासो माया प्रकोरतिता। सर्गस्त्वपांगमोक्ष: स्याद्वीडोर्ध्वोष्टो महेशितु: २९॥ लोभ: स्यादधरोष्ठोऽस्या धर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्र मेढू स्याद्यः स्रष्टा जगतीतले ॥३०॥ कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाडयःसमाख्याता वृक्षाः केशाः प्रकीर्तिता: ३१ कोमारयोवनजरावयोऽस्या गतिरुत्तमा। बलाहकास्तु केशा: स्युः संध्ये ते वाससी विभो: ३२॥। राजञ्छ्ीजगदंबायाश्चंद्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥३३॥ अश्वादिजातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कटयघोभागतां गताः ॥३४॥। 'एतादृशं महारूपं ददृशुः सुरपुंगवाः । ज्यालमालासहस्राठयं लेलिहानं च जिह्वया ॥३५॥ दंष्ट्राकटकटारावं वमंतं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रीदनं च यत् ॥३६।। सहस्रशीर्षनयनं सहस्रचरणं तथा। कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥३७॥ भयंकरं महाधोरं हृदक्ष्णोस्त्ासकारकम्। दद्शुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ।३८।। बिकंपमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं व गतं तेषां जगदंबेयमित्यपि॥३९॥ अब ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधमामासुरत्युग्ं मूर्छातो मू्च्छितान्सुरान् ॥४०।। अत ते धैर्यमालंव्य लब्वा च श्रुतिमुत्तमाम् । प्रेमाध्रपूर्णनयना रुद्धकंठास्तु निर्जराः ॥४१॥ बाष्पगद्गदया बाचा स्तोतुं समुपचक्रिरे। देवा ऊचु: अपराधं क्षमस्वांब पाहि दीनांस्त्वदुद्भवान् ।।४२।। कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैनिर्जरैरिह ॥४३॥ स्वस्याप्यज्ञेय एवासी यावान्यश्च स्वविक्रमः । तदर्बाग्जायमानानां कथं स विषयो भवेत् ॥४४॥। नमस्ते भुवनेशानि नमसते प्रणवात्मिके। सर्ववेदान्ततंसिद्धे नमो हींकारमूर्तये ॥४५॥ यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्र चंद्रमाः । यस्मादोषधयः सर्वास्तस्मे सर्वात्मने नमः ॥४६॥ यस्माच्च देवाः संभूताः साध्याः पक्षिण एव च / पशवश्र मनुप्याश्र तस्मे सर्वात्मने नमः ॥४७॥ प्राणापानी व्रीहियवी तपः श्रद्धा ऋत तथा। बहाचर्मं विधिश्रंव यस्मात्तस्म नमो नमः ॥४८॥
1
Page 514
५१४ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३४ सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाःसप्त तथा लोकास्तस्म सर्वात्मने नमः ॥४९॥ यस्मात्समुद्रा गिरयः सिंधवः प्रचरंति च । यस्मादोषधयः सर्वा रसास्तस्मै नमोनमः ॥५०॥ यस्माद्यज्ञ: समुद्भूतो दीक्षा यूपश्च दक्षिणा। ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥५१॥ नमः पुरस्तात्पृष्ठे च नमस्ते पारश्वयोर्द्वयोः । अध ऊर्ध्व नतुर्दिक्षु मातर्भूयो नमोनमः ॥५२॥ उपसंहर देवेशि रूपमेतदलोकिकम्। तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥५३॥ व्यास उवाच इति भीतान्सुरान्दृष्टा जगदंबा कृपार्णतरा। संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥५४॥ पाशांकुशवराभीतिधरं सर्वांगकोमलम्। करुणापूर्णनयनं मंदस्मितमूखांबुजम् ॥५५॥ दृष्टा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शांतचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥५६॥ इति श्रीदेवीभागवते महापुराणे सतमस्कन्धे देवीगीतायां त्रयस्त्रिंशोऽध्यायः॥३३॥ अथ चतुस्त्रिंशोऽध्यायः देवयुवाच क्व यूयं मंदभाग्या वै क्वेदं रूपं महाद्ुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥१॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया। रूपं द्रष्टमिदं शक्यं केवलं मत्कृपां विना ॥२॥ प्रकृतं श्ृणु राजेंद्र परमात्माऽत्र जीवताम्। उपाधियोगात्संप्राप्तः कर्तृत्वादिकमप्युत ॥३॥ क्रियाः करोति विविधा धर्माधर्मेकहेतवः । नानायोनीस्ततः प्राप्य सुखदुःखैश्र युज्यते ॥४॥ सदा। नानादेहान्समाप्नोति सुखदुःखैश्र युज्यते ।५॥। घटीयंत्रवदेतस्य न विराम: कदापि हि। अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥६॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदाऽज्ञानस्य नाशनम् ॥७॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशाऽपि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥।८।। न कर्म तज्जं नोपास्तिविरोधाभावतो गिरे। प्रत्युताशाऽज्ञाननाशे कर्मणा नैव भाव्यताम् ॥९॥ अनर्थदानि कर्माणि पुनः पुनरुशंति हि। ततो रागस्ततो दोपस्ततोऽनर्थो महान्भवेत् ॥१०॥ तस्मात्सर्वप्रयत्नेन ज्ञानं संपादयेन्नरः। कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥११॥ ज्ञानादेव हि कैवत्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥१२॥ इति केचिद्वदंत्यत्र तद्विरोधान्न संभवेत्। ज्ञानाद्वृद्ग्रंथिभेदः स्याद्ृद्ग्रंथौ कर्मसंभवः ॥१३। योगपद्यं न संभाव्यं विरोधात्तु ततस्तयोः । तमःप्रकाशयोर्यद्वद्योगपद्यं न संभवि ॥१४॥
Page 515
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३४ ५१५ तस्मात्सर्वाणि कर्माणि वैदिकानि महामते। चित्तशुद्धयंतमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥१५॥ शमो दमस्तितिक्षा च वैराग्यं सत्वसंभवः । तावत्पर्यन्तमेव स्युः कर्मागि न ततः परम् ॥१६॥ तदंते चंव संन्यस्य संश्रयेद्गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्टंच भक्तया निर्व्याजया पुनः ॥१७॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतंद्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थ विचारयेत् ॥१८॥ तत्त्वमस्यादिवाक्यं तु जोवब्रह्मैक्यबोधकम्। ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥१९॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकोर्तितः ॥२०। त्वंपदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥२१॥ वाच्यार्थयोविरुद्धत्वादैक्यं नैव घटेत ह। लक्षणातः प्रकर्तव्या तत्त्वमोःश्रुतिसंस्थयोः ॥२२॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य संभवः। तयोरैक्यंतथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥२३।। देवदत्तः स एवायमितिवल्लक्षणा स्मृता। स्थूयादिदेहरहितो ब्रह्म संपद्यते नरः ॥२४॥ पञ्चीकृतमहाभूतसंभूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥२५॥ मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥२६॥ ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चंतत्सूक्ष्मं तत्कवयो विदुः ॥२७॥ सूक्ष्मदेहोज्यमात्मनः । द्वितीयोऽयमुपाविः स्यात्सुखादेरवबोधकः ॥२८।। अनाद्यनिर्वाच्यमिदमज्ञानं तु नृतीयकः। देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥२९॥ उपाधिविलये जाते केवलात्माऽवशिष्यते। देहतये पञ्चकोशा अन्त.स्थाः सन्ति सर्वदा ॥३०॥ तं च कोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते। नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥३१॥ न जायते म्रियते तत्कदाचिन्नायं भूत्वा न बभूव कश्चित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥३२॥ हतं चेन्मन्यते हंतुर्हंतश्रेन्मन्यते हतम्। उभौ तौन विजानोतौ नायं हंति न हन्यते ॥३३॥ अणोरणीयान्महतो महीयानात्माऽस्य जंतोनिहितो गुहायाम् । तमकतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥३४॥ आत्मानं रथिनं विद्धि शरीरं रयमेत्र तु। बुद्धि तु सारथिं विद्धि मनःप्रग्रहमेव च॥३५॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान्। आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनोषिणः ॥३६।। यस्त्वविद्वान्भवति चामनस्कश्च सदाऽशुचिः । न ततदमवाप्नोति संसारं चाविगच्छति ॥३७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। सतु तत्पद्षमाप्नोति यस्माद्यो न जायते ॥३८॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥३९॥
Page 516
५१६ श्रीमरेवीमागवते महापुराणे सममस्कन्धे अध्बायः १५ इत्थं धुत्या च मत्या च निश्चित्यात्मानगात्मना । भावयेन्मामात्मरूपां निदिध्यासगतोऽपि च ॥४०॥ योगवृत्ते: पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥४१॥ हकार: स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ हींकारोऽहं तुरीयकम्॥४२॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात्। समद्टिव्यष्ट्योरेकत्वं भावयेन्मतिमात्रः ॥४३॥ समाधिकालात्पूर्वं तु भावयित्ववमादृतः । ततो ध्यायेन्निलीनाक्षी देवीं मां जगदीश्वरीम् ४४।। प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ। निवृत्तविषयाकांक्षो वीतदोषो विमत्सरः ॥४५। भक्तयानिर्व्याजया युक्तोगृहायां निःसवने स्थले। हकारं विश्वमात्मानं रकारे प्रविलापयेत् ।।४६।। रकारं तैजसं देवमोकारे प्रविलापयेत्। ईकारं प्राज्ञमात्मानं हीकारे प्रविलापयेत् ॥४७।। वाच्यवाचक ताहीनं हँतभावविवर्जितम्। अखंडं सच्चिदानन्दं भावयेत्तच्षिखांतरे॥४८।। इति ध्यानेन मां राजन्साक्षातकृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥४९॥ योगयुक्तयाऽनया दृष्टा मामात्मानं परात्परम् । अज्ञानस्य स कार्यस्य तत्क्षणे नाशको भवेत् ॥५०।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां चतुख्विंशोऽध्यायः ॥३४॥ अथ पञ्चत्रिंशोऽध्यायः हिमालय उवाच योगं वद महेशानि सांगं संवित्प्रदायकम्। कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥१॥ श्रीदेव्युवाच न योगो नभसः पृष्ठे न भूमौ न रसातले। ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥२॥ तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञको ॥३॥ योगांगैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः। यमं नियममासनप्रणायामो ततः परम्॥४॥ प्रत्याहारं धारणारूयं ध्यानं साधं समाधिना। अष्टांगान्याहुरेतानि योगिनां योगसाधने ॥५॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽडर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥६॥ तप: संतोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धांतश्रवणं चंव होर्मतिश्र जपो हुतम्॥७॥ द्शते नियमा: प्रोक्ता मया पर्वतनायक। पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥८॥ वीरासनमिति प्रोक्तं क्रमादासनपंचकम्। ऊर्वोहपरि विन्यस्य सम्यक्पादतले शुभे ।।९। अंगुष्ठो च नितध्नीयादस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोकं योगिनां हृदमङ्गमम् ॥१०॥ जानूर्वोरंतरे सभ्यककृत्वा पादतले शुभे । ऋजुकायो विशेदोगी स्वस्तिकं तत्प्रचक्षते ॥११॥
Page 517
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कं्धे अध्यायः ३५ ५१७ सीवन्याः पार्श्वयोरन्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पाउ्पार्ष्णी पाष्णिम्यां परिबन्धयेत्॥१२। भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । ऊर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखांगुली ॥ करौ विदध्यादाल्यातं वज्रासनमनुत्तमम्। एकं पादमधः कृरवा विन्यस्योरुं तथोत्तरे ।१४।। सुजुकायो विशेदोगी वीरासनमितोरितम्। इडयाऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ।१५॥ भरयेत्पूरितं योगी चतुःषष्ठया तु मात्रया। सुषुम्नामध्यगं सम्य्व्वांत्रिशन्मात्रया शनैः ॥१६। नाडया पिङ्गलया चव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहुर्योगशास्रविशारदाः ॥१७।। भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिक्रमेणैव सन्यग्द्वादश षोडश ॥१८॥। अपध्यानादिभि: साध सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भ च प्राणायामं परे विद्ुः ॥१९॥ क्मावम्मस्यतः पुंसो देहे स्वेदोद्रमोऽधमः । मध्यमः कंपसंयुक्तो भूमित्यागः परो मतः ॥२०॥ उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते। इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥२१॥ बलादाहरणं तंभ्यः प्रत्याहारोऽभिधीयते। अङ्गष्ठगुल्फजानूरुमूलाधारलिंगनाभिषु ।।२२।। हृद्ग्रीवाकंठदेशेषु लंबिकायां ततो नसि। भ्रूमध्ये मस्तके मूध्नि द्वादशांते यथाविधि ॥२३॥ भारणं प्राणमरुतो धारणेति निद्यते । समाहितेन मनसा चैतन्यांतरवर्तिना ।२४। आात्मन्यभोष्टदेवानां ध्यानं ध्यानमिहोच्यते। सयत्वभावना नित्यं जीवात्मपरमात्मनोः ॥२५॥ समाषिमाहुर्मुनय: प्रोक्तमष्टांगलक्षणम्। इदानीं कथये तेऽहं मंत्रयोगमनुत्तमम् ॥२६॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग। चन्द्रसूर्याग्निते जोभिर्जीवब्रह्मैक्यरूपकम् ।२७I तिस्र: कोटयस्तदर्धन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी। इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररुपिणी ।२९।। चक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा। दक्षिणे या पिंगलाख्या पूंरूपा सूर्यविग्रहा ॥३०॥ सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी। तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ३१॥ मध्ये स्वयं भूलिंग तु कोटिसूर्यसमप्रभम्। तदूष्वं मायाबीजं तु हरात्मा बिंदुनादकम् ॥३२।। तदूर्ध्व तु शिखाकारा कुंडली रक्तविग्रहा। देव्यात्मिका तुसा प्रोक्ता मदभिन्ना नगाधिप ॥३३॥ तद्वाह्ये हेमरूपाभं वादिमांतचतुर्दलम्। द्रुतहेमलगप्रख्यं पद्मं तत्र विनिंतयेत् ॥३४॥ तदूर्ध्व त्वनलप्रख्यं पड्दलं होरकप्रभम्। वादिलांतपड्वणेन स्वाधिष्ठानमनुत्तमम् ॥३५॥। मूलमाधारषट्कोणं मूलाधारं ततो विदुः। स्व्रशब्देन परं लिंग स्वाधिष्ठानं ततो विद्ुः ॥३६।। तदूध्वं नाभिदेशे तु मणिपूरं महाप्रभम्। मेवाभं विद्युदाभं च बहुतेजोमयं ततः ॥३७॥ मणिवद्धिन्नं तत्पय्यं मणिपदमं तथोच्यते। दशभिश्च दलैर्युक्तं डादिफांताक्षरान्वितम् ॥३८॥ विष्णुनाविद्ि्ि्ं पद्म विषण्ालोकनकारणम्। तदूर्ध्वेनाहतं पद्ममुद्यदादित्यसन्निभम् ॥३९॥
Page 518
५१८ श्रीमददेवीमागवते महापुराणे सप्तमस्कन्धे अध्यायः ३५ कादिठांतदलैरेकं पत्रंश्च समधिष्टितम् । तन्मध्ये बाणलिंगं तु सूर्यायतसमप्रभम् ॥४०॥ शब्दद्रह्ममयं शन्दानाहतं तत्र दृश्यते। अनाहताख्यं तत्पद्यं मुनिभिः परिकीर्तितम् ॥४१।। आनन्दसदनं तत्तु पुर्षाधिष्ठितं परम्। तदू्ध्वं तु विशुद्धाख्यं दलं पोढशपंकजम् ॥४२॥ स्वरैः पोडशभिर्टुकं धूम्रवर्ण महाप्रभम्। विशुदं तनुते यस्माज्जीवाय हंसलोकनात्॥४३ विशुजं पद्यमाख्यातमाकाशाख्यं महान्दतम्। आज्ञाचत्र तदू् तु आत्मनाधिष्ठित परम् ॥४४॥ आज्ञासंक्रमणं तत्र तेनाज्ञेति प्रकीतितम्। दिह्वलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ।४५॥ कैलासाख्यं तदूध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥४६॥ सहस्रारयुतं बिंदुस्थानं तदूर्ध्वमीरितम्। इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥४७॥ आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेदांतरे शक्तिस्तामाकुंच् वोधयेत् ॥४८।। लिंगभेदक्रमेगैव बिंदुचकं च प्रापयेत्। शंभुना तां परां शक्तिमेकीभूतां विचिंतयेत् ।।४९।। तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्ति मायाख्यां योगसिद्धिदाम् ॥ षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया। आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥५१॥ निश्चितम् । पूर्वोक्तदूषिता मंत्राः सर्वे सिद्धयन्ति नान्यथा ॥५२॥ भवबंधनात्। ये गुणाः संति देव्या मे जगन्मातुर्यथा तथा ॥५३॥। ते गुणा साघकवरे नवंत्येव न चान्यथा। इत्येवं कथितं तात वायुधारणमुत्तमम् ॥५४॥ इदानीं धारणाख्यं तु शृणुष्वावहितो मम। दिक्पालाद्यनवच्छितदेव्यां चेतो विधाय च॥५५॥ तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न शुद्धयति ॥५६॥ तदावयवयोगेन योगी योगान्समभ्यसेत्। मदीयहस्तपादादावंगे तु मधुरे नग ॥५७। चित्तं संस्थापयेन्मंत्री स्थानं स्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥५८ यावन्मनो लयं याति देव्यां संविदि पर्वत। तावदिष्ठमनुं मंत्री जपहोमैः समभ्यसेत् ।५९॥ मंत्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते। न योगेन विंना मंत्रोन मंत्रेण विना हि सः ॥६०॥ द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम्। तमःपरिवृते गेहे घटो दीपेन दृश्यते ॥६१॥ एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधि: कृत्स्नः सांगः प्रोक्तो मयाऽधुना ॥ गृरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥६२।! इति श्रीदेवीभागवते महापुराणे सप्मरकन्धे पञ्चतिशोऽध्यायः॥३५॥
Page 519
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३६ ५१९
अथ षटुत्रिंशोऽध्यायः श्रीदेव्युवाच इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्या निर्व्याजया राजन्नासने समुपस्थतः ॥१॥ आवि: सन्निहितं गुह्यचरं नाम महत्पदम्। अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ।।२।। एतज्जानथ सदसद्वरेण्यं परं विज्ञानादयद्वरिष्ठं प्रजानाम्। यर्दार्चिमद्यदगुम्योऽणु च यस्मिल्लोका निहिता लोकिनश्र ।३। तदेतदक्षरं ब्रह्म स प्राणस्तडु वाङ्मनः। तदेतत्सत्यममृतं तद्वेद्वव्यं सौम्य विद्धि ॥४॥ धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्यपासानिशितं संधयीत। आयम्य तद्गावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥५॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन बेद्धव्यं शरवत्तन्मयो भवेत् ॥६॥ यस्मिन्दयौश्च पृथिवी चांतरिक्षमोतं मनः सह प्राणैश्च सर्वेः। तमेवैकं जानथात्मानमन्या वाचो विमुंचथामृतस्यैव सेतुः ॥७॥ अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोन्तश्चरते बहुधा, जायमानः ॥८।। ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मंपुरे व्योम्नि आत्मा संप्रतिष्ठितः॥९॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यंति धीरा आनन्दरूपममृतं यद्विभाति ॥१०॥ भिद्यते हृदयग्रंथिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥११॥ हिरण्मये परे कोरे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः १२।। न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१३।। ब्रह्मवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण। अधश्रोध्वं च प्रसृतं ब्रह्मवेदं विश्वं वरिष्ठम् ॥१४॥ एतादृगनुभवो यस्य स कृतार्थो नरोत्तम । ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति ॥१५॥ द्वितीयाव्वँ भयं राजंस्तदभावाद्विभेति न। नतद्वियोगो मेऽप्यस्ति मद्वियोगोपि तस्य न ॥१६॥
Page 520
५२० श्रीमदेवीमागव हापुराणे सप्तमस्कन्धे अध्याय: ३७ अहमेव स साऽहं वै निश्चितं विद्धि पर्वत। मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥१७॥ नाहं तीर्थे न कैलासे वैकुंठे वा न कहिंचित्। वसामि किंतु मज्जानिहृदयाम्भोजमध्यमे ॥१८। मत्पू जाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम्। कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥१९॥ विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्व पर्वतसत्तन ॥२०।। कषितं तन्मया सर्वं नातो वक्तव्यमस्ति हि। इदं ज्येष्ठय पुत्राय भक्तियुक्ताय शोलिने ॥२१॥ शिष्याय च यथोक्ताय वक्तध्यं नान्यथा व्वचित्। यस्य देवे परा भकिर्यथा देवे तथा गुरौ ॥२२॥ तस्यैते कथिता ह्यर्थाः प्रकाशंते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः॥२३॥ यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणो। पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥२४॥ पितृजातं जन्म नष्टं नेत्थं जातं कदाचन। तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥२५॥ तस्माच्छास्स्य सिद्धांतो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्राता गुरो रुष्टे न शंकरः ॥२६॥ तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग। कायेन मनसा वाचा सर्वदा तत्परो भवेत् ।।२७।। अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः। इंद्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥२८।। अश्विम्यां कघने तस्य शिरश्छिन्नं व व्त्रिणा। अश्वीयं तच्छिरो नष्टं दृष्टा बैद्यौ सुरोत्तमौ ॥२९॥ पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा। इति संकटसंपाद्या ब्रह्मविद्या नगाधिप।। लब्धा येन स धन्यः स्यात्कृतकृत्यश्र भूधर ३०॥ इति श्रीदेतीमागवते महापुराणे सप्मस्कन्े देवीगीतायां षटुन्रिशोऽध्याय:॥३६॥ अथ सप्तत्रिंशोऽध्यायः हिमालय उवाच स्वीयां भक्ति वदस्वाम्त येन ज्ञानं सुखेन हि। जायेत मनुजस्यास्य मध्यमस्याविरागिण: ॥१।। श्री देव्युबाच मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप। कर्मयोगो ज्ञानयोगो भक्तियोगश्र सत्तम ।२।। त्रयाणामप्ययं योग: कर्तु शक्योऽस्ति सर्वथा। सुलभत्वान्मानसत्वात्कायचित्ताद्पीडनात् ।।३।। गुणभेदान्मनुष्याणां सा भकिस्तिविधा मता। परपीडां समुद्दिश्य दंभं कृत्वा पुरःसरम्॥४॥ मत्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहित: स्वकल्याणार्थंमेव भ॥५॥ नित्यं सकामो हृदयं यशोर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मानुषास्तेऽतिभक्तितः ॥६।।
Page 521
श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३७ ५२१ भेदवुद्धया तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्ति: समाख्याता नगाधिप तु राजसी ।।७।। परमेशार्पण कर्म पापसंक्षालनाय च। वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयाऽनिशम् ।।८।। इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्ति: सानग सात्त्विकी ॥।९॥ पराभक्ते: प्रापिकेयं भेदबुद्धयवलंबनात्। पूर्वप्रोक्ते ह्युभे भक्तो न परप्रापिके मते ॥१०॥ अधुना पराभक्ति तु प्रोच्यमानां निबोध मे। मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥११॥ कल्याणगुणरत्नानामाकराया मयि स्थिरम्। चेतसो वर्तनं चैव तैलवारासमं सदा ॥१२। हेतुस्तु तत्र को वापि न कदाचिद्दवेदपि। सामीप्यसाष्टिसायुज्यसालोक्यानां न चैषणा ॥१३। मत्सेवातोऽघिकं किचिन्नैव जानाति कहिंचित्। सेव्यसेवकताभावात्तत्र मोक्षं न वांछति ॥१४। परानुरक्त्या मामेव चितयेद्यो ह्यतंद्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥१५॥ मदूपत्बेन जीवानां चिंतनं कुरुते तु यः । धथा स्वस्यात्मनि प्रीतिस्तर्थव च परात्मनि ॥१६॥ चंतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपा च सर्वदा ॥१७॥ नमते यजते चंवाप्याचांडालांतमीश्वर। न कुत्रापि द्रोहबुद्धि कुरुते भेदवर्जनात्।१८।। मत्स्थानदर्शनश्रद्धा मन्दररुद्शने तथा। मच्छाखश्रवणे श्रद्धा मंत्रतंत्रादिषु प्रभो ।।१९। मयि प्रेमाकुलमती रोमांचिततनु: सदा। प्रेमाभुजलपूर्णाक्षः अनन्येनंब भावेन पूजवेधो नगाधिप। मामीशवरों जगदयोनि सर्वकारणकारणाम् ॥२१॥ व्रतानि मम दिव्यानि नित्यनैमित्िकान्यपि। नित्यं यः कुकते भक्त्या वित्तशाठयबिवजितः ॥२२।। मदुत्सवदिद्क्षा व महुत्तयकुतिस्तया। जायते वस्य नियतं स्वभावादेव भूधर ॥२३॥ उन्यंर्गायंश्र नामानि ममब सलु नृत्यति। अहंकारादिरहितो देहतादात्म्यवजितः ॥२४॥ परब्बेन यदा यष्म क्रियते तस्तथा भवेत्। न मे चितास्ति तत्रापि देहसंरक्षणादिषु ॥२५॥ इृति भक्िस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता। यस्यां देव्यतिरिक्तं तु न किचिदपि भाव्यते ॥२६॥ इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ।२७।। भक्तेस्तु या पराकाष्ठा सैव ज्ञानं प्रकीतितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥२८।। भक्ती कृतायां यस्यापि प्रारन्तवशतो नग। न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥२९॥ तत् गत्वाऽखिलान्भोगाननिच्छन्नपि चर्ष्छति। तदन्ते मम विद्रपज्ञानं सभ्यग्भवेन्नग॥३०॥ तेन मुक्त: सदैव स्याज्ज्ञानान्मुक्िर्न चान्यथा। इहैब वस्य ज्ञानं स्यादृदृगतप्रत्यगात्मनः ॥३१।। मम संवित्परतनोस्तस्य प्राणा व्रजंति न। ब्रह्ींव संस्तदाप्नोति व्रह्मैव ब्रह्म वेद यः ॥३२॥ कण्ठं चामीकरसममज्ञानाल तिरोहितम्। ज्ञानादज्ञाननाशेन लब्घमेव हि लभ्यते ॥३३॥ क्युर्मम। यवादर्शें तथात्मनि यथा जले तथा पितृलोके ।३४।।
Page 522
५२२ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३८ छायातपो यथा स्वच्छे विविक्तो तद्वदेव हि। मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥३५॥ यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत्। ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥३६॥ शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥३७॥ अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना। ततः सर्वप्रयत्नेन ज्ञानार्थ यत्नमाश्रयेत् ।३८। नोचेन्महान्विनाशः स्याज्जन्मैतद्दुर्लभं पुनः। तत्राषि प्रथमे वर्णे वेदप्राप्तिश्र दुर्लभा ॥३९॥ शमा दिपट्कसंपत्तिर्योग सिद्धिस्तर्थैव च। तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥४०॥ तथेंद्रियाणां पटुता संस्कृतत्वं तनोस्तथा। अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥४१॥। साधने सफलेडप्येवं जायमानेऽपि यो नरः। ज्ञानार्थ नैव यतते तस्य जन्म निरर्थकम् ॥४२॥ सस्मादवाजन्यथाशकत्या ज्ञानार्थ यत्नमाश्रयेत्। पदे पदेऽश्वमेधस्य फलगाप्नोति निश्चितम् ।४३। घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम्। सततं मंथयितव्यं मनसा मंथानभूतेन ।।४४।। ज्ञानं लब्वा कृतार्थ: स्यादिति वेदांतर्डिंडिनः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥४५॥ द्ृति श्रीदेवीभागदते महापुराणे सप्तमस्कन्धे देवीगीतायां सप्ततरिशोऽध्यायः ॥३७॥ अथाष्टत्रिंशोऽध्यायः हिमालय उवाच कति स्थानानि देवशि ,द्रष्टव्यानि महीतले। मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥१॥ व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि। तत्सवं वद मे मातः कृतकृत्यो यतो नरः ॥२॥ श्रीदेव्युवाच सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥३॥ तथापि भक्तवात्सल्यात्किचित्किचिदथोच्यते। शृणुष्वावहितो भूत्वा नगराज वचो मम ॥४॥ कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता। मातुः पुरं द्वितोयं च रेणुकाधिष्ठितं परम् ॥५॥ तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथव न। हिंगुलाया महास्थानं ज्वालामुख्यास्तर्थव च ॥६॥ शाकंभर्या: परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च।।७। विध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥८।। भीमादेव्याः परं स्थानं विमलास्थानमेत्र च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव च ॥९। नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके। जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥१०॥ गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मोनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे॥११।।
Page 523
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्यायः ३८ ५२३ वेदारण्यं महास्थानं सुन्दर्या समधिष्ठितम् । एकांबरं महास्थानं पराशक्त्या प्रतिष्ठितम् ॥१२॥ मदालसा परं स्थानं योगेश्वर्यास्तिथैव च। तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥१३॥ वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम्। श्रीमच्छ्रीभुवनेश्चर्या मणिद्वीपं मम स्मृतम् ॥१४॥ श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम्। भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥१५॥ नातः परतरं स्थानं क्वचिदस्ति धरातले। प्रतिमासं भवेदेवी यत साक्षाद्रजस्वला ॥१६॥ तत्रत्या देवताः सर्वा पर्वतात्मकतां गताः । पर्वतेषु वसंत्येव महत्यो देवता अपि ॥१७॥ तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः। नातः परतरं स्थानं कामाख्यायोनिमणलत् ॥१८! गायत्र्याश्च पर स्थानं श्रीमत्ुष्करमीरितम्। अमरेशे चण्डिका स्यात्पभासे पुष्करेकषिणो ॥१९॥ नैमषे तु महास्थाने देवी सा लिंगधारिणो। पुरुहूता पुडकराक्षे आणढी च रतिस्तथा ॥२०॥। चण्डमुंडोमहास्थाने दण्डिनी परमेश्वरी। भारभूनौ भवेद्भूतिर्नाकुले नकुलेश्वरी॥२१॥! चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शांकरी स्मृता। जप्येश्वरे त्रियूला स्यात्मूक्ष्मा चात्रातकेदवरे ॥२२॥ शांकरी तु महाकाले शर्वाणी मध्यमाभिधे। केदाराख्ये महाक्षेत्रे देवी सा भार्गदायिनी ॥२३॥ भैरवाख्ये भैरवी सा गयायां मंगला स्मृता। स्थाणुप्रिया कुरुक्षेत्रे स्वायंभुव्यपि नाकुले ॥२४॥ कनखले भवेदुग्रा विश्वेशी विमलेश्वरे। अट्टहासे महानन्दा महेन्द्रे तु महांतका ॥२५॥ भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः। भवानी शांकरी प्रोक्ता रुद्राणी त्वर्धकोटिके॥२६॥ अबिमुक्ते विशालाक्षी महाभागा महालये। गोकर्णे भद्रकर्णी स्याद्गद्रा स्याद्द्रकर्णके ॥२७॥। उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञिके। कमलालये तु कमला प्रचण्डा छगलंडके ।।२८।। कुरण्डले त्रिसंध्या स्यान्माकोटे मुकुटेश्वरी। मंडलेशे शांडकी स्यात्काली कालंजरे पुनः ॥२९॥ शंकुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे। ज्ञानिनां हृदयांभोजे हल्लेखा परमेश्वरी ॥३०॥ प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च। तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ।३१।। तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां संति नगोत्तम ॥३२।। तत्र चँव वसेन्नित्यं देवीभक्तिपरायणः। तानि स्थानानि संपश्यअ्पन्देवीं निरन्तरम् ॥३३॥ ध्यायंस्तच्चरणांभोजं मुक्तो भवति बंधनात्। इमानि देवीनामानि प्रातरुत्थाय य पठेत् ॥३४॥ भस्मीभवंति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥३५॥ मुक्तास्तत्पितरः सर्वे प्रयांति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुब्रत ॥३६॥ नारीभिश्च नरश्रैव कर्तव्यानि प्रयत्नतः। व्रतमनन्ततृतीयाख्यं रसकल्याणिनोव्रतम् ॥३७॥ आर्द्रनिन्दकरं नाम्ना तृतीयाया व्रतं च यत्। शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥३८॥ भौमवारव्रतं चैव प्रदोषव्रतमेव च। यत्र देवो महादेवो।देवीं संस्थाप्य विष्टरे ॥३९।।
Page 524
५२४ श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३९ मृत्यं करोति पुरतः सार्धं देवैनिशामुखे। तत्रोपोष्य रजन्यादो प्रदोषे पूजयेच्छिदाम् ॥४०॥ प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम्। सोमवारव्रतं चंव ममातिप्रियकृन्नग ॥४१॥ तत्रापि देवीं संपूज्य रात्री भोजनमाचरेत्। नवरात्रद्वयं चंव व्रतं प्रीतिकरं मम ॥४२॥ एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थ विमत्सरः ॥४३॥ प्राप्नोति मम सायुज्यंस मे भक्तकःस मे त्रियः । उत्सवानपि कुर्वीत दोलोत्सवमुखान्विभो ॥४४॥ शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम्। रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥४५॥ पवित्रोत्सवमेवाषि श्रावणे प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥४६।। मद्दक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्वटुकांश्रापि मद्बुद्धया तद्गतांतरः॥४७॥ वित्शाठयेन रहितो. यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतंद्रितः ॥४८॥। स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमंजसा। सर्वमुक्तं समामेन मम प्रीतिप्रदायकम्॥ नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ।४९।: इति श्रीदेवीभागवते महापुराणे सप्मस्कन्धे देवीगीतायामष्टत्रिंशोऽध्यायः।।८। अथैकोन चत्वारिंशोऽध्यायः हिमालय उवाच देवदेवि महेशानि करुणासागरेऽम्बिके। ब्रूहि पूजाविधि सम्यग्यथावदधुना निजम् ।१॥ श्रीदेवयुवाच वक्ष्ये पूजाविधि राजन्नंबिकाया यथा प्रियम्। अत्यंतश्रद्धया सार्ध शृणु पर्वतपुंगव ।२।। द्विविधा मम पूजा स्याद्वाह्या चाभ्यंतरापि च। बाह्याऽपि द्विविधा प्रोक्ता वैदिको तांत्रिकी तथा ३। वैदिक्यर्चाऽपि द्विविधा मुर्तिभेदेन भूधर। वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥४॥ तन्त्रोक्तदीक्षावद्धिस्तु तांत्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा. विपरीतकम् ॥५॥ करोति यो नरो मुढः स पतत्येव सर्वथा। तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥६॥ यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर। अनन्तशीर्षनयनमनस्तचरणं महत् ॥७॥ सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम्। तदेव पूजयेन्नित्यं न में ध्यायेत्स्मरेदपि ॥८॥ इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग। शांतः समाहितमना दंभाहंकारवर्जितः ।९।। तत्परो भव तद्याजी तदेव शरणं व्रज। तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥१०॥ अनन्यया प्रेमयुक्तभवत्या मन्द्ावमाश्रितः । यज्ञर्यज तपोदानैर्मामेव परितोषय ॥११। इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात्। मत्परा ये मदासक्तचिता भक्तवरा मताः ॥१२॥
Page 525
श्रीमदेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ३९ ५२५
प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु। ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥१३॥ प्राप्याऽहं सर्वधा राजन्न तु केवलकर्मभिः । धर्मात्संजायते भक्तिर्भक्त्या संजायते परम् ॥१४॥ श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥१५॥ सर्वज्ञात्सर्वशक्तेश्र मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥१६।। स्मृतयश्च श्रुतेरथं गृहीत्वैव च निर्गताः । मन्वादीनांश्रुतीनां च ततः प्रामाण्यमिष्यते ॥१७॥ ववचित्कदाचित्तं त्रार्थकटाक्षेण परोदितम् । धर्मं वदंति सोंशस्तु नैव ग्राह्योऽस्ति वैदिकैः॥१८। अन्येषां शास्त्रकर्तृणामज्ञानं प्रभवत्वतः । अज्ञानदोषदुष्टत्व्रात्तदुक्त्केन प्रमाणता॥१९।। तस्मान्मुमुक्षुर्धर्मार्थं सवथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥२०। सर्वेशान्या ममाज्ञा साश्रुतिस्त्याज्या क्थं नृभिः । मदाज्ञारक्षणार्थ तु ब्रह्मक्षत्रियजातयः ॥२१॥ मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥२२॥ अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम्। देवदैत्यविभागश्चाप्यत एवाभवन्नृप ।२३।। ये न कुवति तद्धमं तच्छिक्षार्थं मया सदा। संपादितास्तु नरकास्त्रासो यच्छ्रवणाद्भ्वेत् ॥।२४।। यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत्। राजा प्रवासयेद्देशान्निजादेतानधर्मिण: ॥२५। ब्राह्मणैर्न च संभाष्या: पंक्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥२६॥ श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कपालकं चैव कलकं भैरवागमः ॥२७॥ शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद्भृगो: शापाद्धोचस्य च शापतः ॥२८।। दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥२९॥ शंवाश्च वैष्णवाश्चैव सौराः शाक्तास्तर्थव च । गाणपत्या आगमाश्र प्रणीता: शंकरेण तु॥३०।। तत्र वेदाविरुद्धोंशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे दोषो न भवत्येव कहिचित् ॥३१॥। सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत्। वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥३२॥। तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥३३॥ सर्वेपणा: परित्यज्य मामेव शरणं गताः । सर्वभूतदयावंतो मानाहंकारवर्जिता: ।।३४।। मच्चित्ता मद्गतप्राणा मतस्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥३५॥ उपासंते सदा भक्त्या योगमैश्वरसंज्ञितम्। तेषां नित्यवियुक्तानामहमज्ञानजं तमः ॥३६॥ ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः। इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥३७॥ स्वरूपमुक्तं संक्षेपाद्द्वितीयाया अथो ब्रुवे। मूर्तौ वा स्थंडिले वापि तथा सूर्येन्दुमंडले ।३८।।
Page 526
५२६ श्रीमद्ेवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ४० जलेऽ्य वा बाणलिंगे मंत्रे वाऽपि महापटे। तथा श्रीहृदयांभोजे ध्यात्वा देवीं परात्पराम्॥३९॥ सगुणां करुणापूर्णां तरुणीमरुणारुणाम्। सौंदर्यसारसीमां तां सर्वावयवसुंदरीम्॥४०।। शृङ्गाररससंपूर्णां सदा भक्तार्तिकातराम्। प्रसादसुमुखीमंबां चंद्रखंडशिखंडिनीम् ॥४१।। पाशांकुशवराभी तिधरामानंदरूपिणीम् यथावित्तानुसारतः।४२।। यावदांतरपूजायामधिकारो भवेत्न । पूजयेदुपचारैश्च हि। तावद्वाह्यामिमां पूजां श्रयेज्जाते तुतां त्यजेत् ४३।। अभ्यंतरा तु या पूजा सा तु संविल्लय: स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥४४॥ अतः संविवि मद्रूपे चेतः स्थाप्यं निराश्रयम्। संविद्रपातिरिक्तं तु मिथ्या मायामयं जगत् ॥४५॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम्। भावयेन्निर्मनस्केन योगयुक्त्ेन चेतसा।।४७।। अतः परं बाह्यपूजाविस्तारः कथ्यते मया। सावधानेन मनसा शृणु पर्वतसत्तम ॥४८।। इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकोनचत्वारिंशोऽध्यायः॥३९॥ अथ चत्वारिंशोऽध्यायः देव्युवाच प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम्। कर्पृराभं स्मरेत्त्र श्रीगुरुं निजरूपिणम् ॥१॥ सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम्। नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥२॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अंतः' पदव्याभनुसंचरंतोमानंदरूपामबलां प्रपद्ये ।३॥ व्यात्वैवं तच्छिखामध्ये सच्चिदानंदरूपिणीम् । मां ध्यायेदथ शोचामि क्रियाः सर्वाः समापयेत् ॥४। अग्निहोत्रं ततो हुत्वा मत्प्रीत्यर्थ द्विजोत्तमः । होमांते स्वासने स्थित्वा पूजासंकल्पमाचरेत् ॥५।। भूतशुद्धि पुरा कृत्वा मातृकान्यासमेव च। हल्लेखामातृकांन्यासं नित्यमेव समाचरेत् ॥६॥ मूलाधारे हकारं च हृदये च रकारकम्। भ्रमध्ये तद्वदीकारं होंकारं मस्तके न्यसेत् ॥७॥ तत्तन्मंत्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥८॥ ततो ध्यायेन्महादेवीं प्राणायामैविजुम्भिते। हृदभोजे मम स्थाने पञ्चप्रेतासने बुधः ॥९॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्र सदाशिवः । एते पंच महाप्रेताः पादमूले मम स्थिताः ॥१०॥ पंचभूतात्मका ह्येते पञ्चावस्थात्मका अपि। अहं त्वव्यक्तचिद्रपा तदतीताऽस्मि सर्वथा ॥११॥ ततो विष्टरतां यातां शक्तितंत्रेषु सर्वदा। ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥१२॥ जपं समर्प्य श्रीदेव्यै ततोऽर्ध्यस्थापनं चरेत्। पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ।१३।
Page 527
श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धे अध्याय: ४० ५२७
जलेन तेन मनुना चस्त्रमंत्रेण दहिकः । दिग्बंधं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥१४॥ तदनुज्ञां समादाय ब्राह्मपीठैः ततः परम्। हृदिस्थां भावितां मूर्ति मम दिव्यां मनोहराम् ॥१५॥ आवाहयेत्ततः पीठे प्राणस्थापनविद्यया। आसनावाहने चाध्यं पाद्याद्याचमनं तथा ॥१६॥ स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गंधं पुष्पं यथायोग्यं दत्त्वा दैव्यै स्वभक्तितः ॥१७॥ यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत्। प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥१८॥ मूलदेवी प्रभारूपा: स्मर्तव्या अंगदेवताः । तत्प्रभापटलव्यासं त्रैलोक्यं च विचिन्तयेत् ।१९।। पुनरावृत्तिसहितां मूलदेवीं च पूजयेत्। गंधादिभिः सुगर्घस्तु तथा पुष्पैः सुवाप्तितैः ॥२०॥ नैवेद्यस्तर्पणैश्रैव तांबूलैदक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ।।२१। कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो। देव्यथर्वशिरोमंत्रहल्लेखोपनिषद्धवैः ॥.२२ । महाविद्यामहामंत्रस्तोषयेन्मां मुहुर्मुहुः। क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥२३॥ पुलकांकितसर्वांगैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोपेण तोषयेन्मां मुहुर्मुहुः ॥२४॥ वेदपारायणैश्चैव पुराणः सकलैरपि। प्रतिपाद्या यतोऽहं वै तस्मा्त्तस्तोषयेत्तु माम् ॥२५॥ निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमंततः कुर्याद्ब्राह्मणांश्र सुवासिनीः ॥२६॥ वटुकान्पामरानन्यान्देवीबुद्धया तु भोजयेत्। नत्वा पुनः स्वहृदये व्युत्क्रमेण विसन्परत् ॥२७॥। सर्व हल्लेखया कुर्यात्पूजनं मम सुव्रत। हल्लेखा सर्वमंत्राणां नायिका परमा स्मृता ॥२८॥ हल्लेखादर्पणे नित्यमहं तत्प्रतिबिंबिता। तस्माडल्लेखया दत्तं सर्वमंत्रैः समर्पितम् ॥२९॥ गुरुं संपूज्य भूषाद्यः कृतकृत्यत्वमावहेत्। य एवं पूजयेद्देवीं श्रीम्दुवनसुंदरीम् ॥३०॥ न तस्य दुर्लभं किंचित्कदाचित्क्वचिदस्ति हि। देहांते तु मणिद्वीपं गम यात्येद सर्वथा ॥३१॥ ज्ञेयो देवीस्वरपोऽसौ देवा नित्यं नमंति तम् । इति ते कथितं राजन्महादेव्याः प्रपूजनय् ॥३२॥ त्रिमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि।३३।। वदं तु गीताशास्त्रं मे नाशिप्याय वदेत्क्वचित्। नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे॥३४॥। . तत्पकाशनं मातुरुद्धाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥३५॥ - देवं भक्ताय शिष्याय ज्येष्टपुनाय चैव हि। सुगीलाय सुयेपाय देवीभक्तियुताय च॥३६॥ श्राद्धकाले पठेदेतद्ब्राह्मणानां समोपतः। तृप्तास्तत्पितरः सवें प्रयांति परमं पदम् ॥३७॥ व्यास उवाच एत्युक्त्वा सा भगवती तत्रवांतरधीयत। देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभदन्॥३८॥ सतो हिमालये जज्ञे देवी हैमवती तु सा। या गौरीति प्रसिद्धासीददत्ता सा शंकराय च ॥३९। ततः स्कंदः समुद्भूतस्तारकस्तेन घातितः । समुद्रमंथने पूर्वं रत्नान्यासुर्नराधिप ॥४०।
Page 528
५२८ श्ीमदेबी भागवते महापुराणे सप्तमस्कन्धे अध्बाय: ४० तत्र देवीः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥४१॥ वकुण्ठाय सुरैदता तेन तस्य समोऽभवत्। इति ते कथितं राजन्देवीमाहात्म्यमुत्तमम् ॥४२॥। नोरीलक्ष्म्यो: समुद्भूतिविषयं सर्वकामदम्। न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥४३॥ गीता रहस्यभूतेयं गोपनीया 'प्रयत्नतः । सर्वमुक्त समासेन यत्पृष्टं तत्त्वयाऽनघ ॥ पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥४४॥ इति श्रीदेवीमागवते महापुराणेऽट्ादशसाहस्त्रयां संहितायां सूप्तमस्कन्धे देवीगीतायां चत्वारिंशोऽध्यायः ।।४•।। सशरद्यश्वि (२२५०) पद्यस्तु द्वैपायनमुखच्युतैः । ससमस्कन्ध ईरितः ।१।।
समाप्तोऽयं सप्तम: स्कन्धः
Page 529
३४
श्रोगणेशाय नमः
श्रीमद्देवीभागवतम्
अष्टमः स्कन्धः
अथ प्रथमोऽध्यायः जनमेजय उवाच सूर्यचन्द्रान्वयोत्थानां नृपाणां सत्कथाश्रितम् । चरितं भवता प्रोक्तं श्रुतं तदमृतास्पदम् ॥।१॥ अधुना श्रोतुमिच्छामि सा देवी जगदंबिका। मन्वंतरेषु सर्वेषु यद्यद्रूपेण पूज्यते ॥२॥/ यस्मिन्यस्मिंश्च वै स्थाने येन येन च कर्मणा। "शरोरेण च देवेशी पूजनीया फलप्रदा ॥ येनैव मंत्रबीजेन यत्र यत्र च पूज्यते"॥ देव्या विराट्स्वरूपस्य वर्णनं यथातथम् ॥३॥ येन ध्यानेन तत्सूक्ष्मे स्वरूपे स्यान्मतेर्गतिः। तत्सर्वं वद विप्रर्षे येन श्रेयोऽहमाप्नुयाम् ॥४॥ व्यास उवाच शृणु राजन्प्रवक्ष्यामि देव्याराधनमुत्तमम्। यत्कृतेन श्रुतेनापि नरः श्रेयोऽत्र विंदते ॥५॥ एवमेतन्नारदेन पृष्टो नारायणः पुरा। तस्मै यदुक्तवान्देवो योगचर्याप्रवर्तकः ॥६॥ एकदा नारदः श्रीमान्पर्यटन्पृथिवीमिमाम्। नारायणाश्रमं प्राप्तो गतखेदश्र तस्थिवान्॥७॥ तस्मै यागात्मने नत्वा ब्रह्मदेवतनूद्वः । पर्यपृच्छदिमं चार्थ यत्पृष्टो भवताऽनघ ।।८।।
Page 530
५३० श्रीमद्देवीमागववे महापुराणे अष्टमस्कन्धे अध्यायः १ नारद उवाच देवदेव महादेव पुराणपुरुषोत्तम। जगदाधार सर्वज्ञ श्लाघनीयोरुसद्गुण ।।९।। जगतस्तत्त्वमाद्यं यत्तन्मे वद यथेप्सितम्। जायते कुत एवेदं कुतश्रेदं प्रतिष्ठितम् ॥१०॥ कुतोइन्तं प्राप्नुयात्काले कुत्र सर्वफलोदयः । केन ज्ञातेन मायैषा मोहभूर्नाशमाप्नुयात् ॥११॥ कयाऽर्चया किं जपेन कि ध्यानेनात्महृत्कजे। प्रकाशो जायते देव तमस्यर्कोदयो यथा ॥१२॥ एतत्प्रश्नोत्तरं देव ब्रूहि सर्वमशेषतः । यथा लोकस्तरेदंधतमसं त्वंजसैव हि॥१३॥ व्यास उवाच एवं देवर्षिणा पृष्टः प्राचीनो मुनिसत्तमः । नारायणो महायोगी प्रतिनंद वचोऽब्रवीत् ॥१४॥ नारायण उवाच शृणु देवर्षिवर्यात्र जगतस्तत्त्वमुत्तमम् । येन ज्ञातेन मत्यो हि जायते न जगद्भ्रमे ॥१५॥ जगतस्तत्त्वमित्येव देवी प्रोक्ता मयापि हि। ऋषिभिर्देवगन्धर्वेरन्यैश्चापि मनीषिभिः ॥१६॥ सा जगत्सृजते देवी तया च प्रतिपाल्यते। तया च नाश्यते सर्वमिति प्रोक्तं गुणत्रयात् ॥१७॥ तस्याःस्वरूपं वक्ष्यामि देव्याः सिद्धर्षिपृजितम् । स्मरतां सर्वपापघ्नं कामदं मोक्षदं तथा ॥१८।। मनुः स्वायंभुवस्त्वाद्यः पद्मपुत्रः प्रतापवान्। शतरूपापतिः श्रीमान्सर्वमन्वंराधिप: ॥१९। स मनुः पितरं देवं प्रजापतिमकल्मषम् । भक्त्या पर्यचरत्पूर्वं तामुवाचात्मभूः सुतम् ॥२०॥ पुत्र पुत्र त्वया कार्यं देव्याराधनमुत्तमम् । तत्प्रसादेन ते तात प्रजासर्गः प्रसिद्धयति ॥२१॥ एवमुक्त: प्रजास्त्रष्टा मनुः स्वायंभुवो विराद ! जगद्योनि तदा देवीं तपसाऽतर्पयद्विभुः ॥२२॥ तुष्टाव देवों देवेशी समाहितमतिः किल। आद्यां मायां सर्वशक्ति सर्वकारणकारणम् ॥२३॥ मनुरुवाच नमो नमस्ते देवेशि जगत्कारणकारणे। यंखचक्रगदाहस्ते नारायणहृदाश्रिते ॥२४॥। वेदमूर्ते जगन्मातः कारणस्थानरूपिणि। वेदत्रयप्रमाणज्ञे सर्वदेवनुते शिवे ॥२५॥ महेश्वरि महाभागे महामाये महोदये। महादेवप्रियावासे महादेवप्रियंकरि ॥२६॥ गोपेन्दस्य प्रिये ज्येष्टे महानंदे महोत्सवे। महामारीभयहरे नमो देवादिपूजिते ॥२७॥ सर्वमंगलमांगल्ये शिवे सर्वारथसाधिके। शर्ये त्र्यंबके गौरि नारायणि नमोस्तु ते ॥२८।। यतश्रेदं यया विश्वमोतं प्रोतं च सर्वथा। चैतन्यमेकमाद्यंतरहितं तेजसां निधिम् ॥२९॥ व्रह्मा यदीक्षणात्सवं करोति च हरिः सदा। पालयत्यपि विश्वेशः संहर्ता यदनुग्रहात् ॥३०॥ मधुकैटभसंभूतभयार्तः पद्मसंभवः । यस्याः स्तवेन मुमुचे घोरदैत्यभवांबुधेः ॥३१॥ त्वं ह्रीः कीरतिः स्मृतिः कांतिः कमला गिरिजा सती। दाक्षायणी वेदगर्भा सिद्धिदात्री सदाऽभया ॥३२॥
Page 531
श्रीमद्ेवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः २ ५३१ स्तोष्ये त्वां च नमस्यामि पूजयामि जपामि च। ध्यायामि भावये वीक्षे श्रोष्ये देवि प्रसोद मे ॥३३॥ ब्रह्मा वेदनिधि: कृष्णो लक्ष्म्यावासः पुरन्दरः । त्रिलोकाधिपतिः पाशी यादसांपतिरुत्तमः ॥३४॥ कुबेरो निधिनाथोऽभूद्यमो जातः परेतराट्। नैऋर्तो रक्षसां नाथः सोमो जातो ह्यपोमयः ॥३५॥ त्रिलोकवंद्यो लोकेशि महामाङ्गल्यरूपिणि। नमस्तेऽस्तु पुनर्भूयो जगन्मातर्नमो नमः ॥३६॥ नारायण उवाच एवं स्तुता भगवती दुर्गा नारायणी परा। प्रसन्ना प्राह देवर्षे ब्रह्मपुत्रमिदं वच: ॥३७॥ श्रीदेव्युवाच वरं वरय राजेंद्र ब्रह्मपुत्र यदिच्छसि। प्रसन्नाहं स्तवेनात्र भक्त्या चाराधनेन च ।३८।। मनुरुवाच यदि देवि प्रसन्नासि भक्त्या कारूणिकोत्तमे। तदा निर्विघ्नतः सृष्टिः प्रजायाःस्यातवाज्ञया ॥३९॥
प्रजासर्ग: प्रभवतु श्रीदेवयुवाच ममानुग्रहृत: किल। निर्विध्नेन च राजेंद्र वृद्धिश्चाप्युत्तरोत्तरम् ॥४०॥। यः कश्चित्पठते स्तोत्रं मददकत्या त्वत्कृतं सदा। तेषां विद्या प्रजासिद्धिः कीर्तिः कांत्युदयः खलु ।४१॥ जायंते धनधान्यानि शक्तिरप्रहता नृणाम्। सर्वत्र विजयो राजन्सुखं शत्रुपरिक्षयः ॥४२॥ नारायण उवाच एवं दत्त्वा वरान्देवी मनवे ब्रह्मसूनवे । अन्तर्धानं गता चासीत्पश्यतस्तस्य धीमतः ॥४३॥ अथ लब्धवरो राजा ब्रह्मपुत्रः 'प्रतापवान् । ब्रह्माणमत्रवीत्तात स्थानं मे दीयतां रहः ॥४४।। यत्राहं समधिष्ठाय प्रजाः स्रक्ष्यामि पुष्कलाः । यक्ष्यामि यज्ञैदेवेशं तत्समादिश माचिरम् ॥४५॥ इति पुत्रवचः श्रुत्वा प्रजापतिपतिर्विभुः। चिंतयामास सुचिरं कथं कार्य भवेदिदम् ॥४६॥। मृजतो मे गतः कालो विपुलोऽनंतसंख्यकः । धरावार्भिःप्लुता मग्ना रसं याताऽखिलाश्रया ४७।। इदं मच्चितिर्तं कार्य भगवानादिपूरुपः । करिप्यति सहायो मे यदादेशेऽहमाश्रितः ॥४८॥ इति श्रीमहेवीभागवते महापुराणे अष्टमस्कन्धे भुवनकोशो नाम प्रथमोऽध्यायः ॥१॥ अथ द्वितीयोऽध्यायः
नारायण उवाच एवं मीमांसतस्तस्य पद्मयोनेः परंतप। मन्वादिभिर्मुनिवरैर्मरीच्यादयैः समन्ततः ॥१। ध्यायतस्तस्य नासाग्राद्विरिंचेः सहसाऽनध। वराहपोतो निरगादेकांगुलप्रमाणतः ।।२।। तस्यैव पश्यतः स्वस्थः क्षणेन किल नारद। करिमात्रं प्रववृधे तदद्भुततमं ह्यभूत् ॥३॥
Page 532
५३२ श्रीमद्ेवीभागवते महापुराणे अष्टमस्कन्धे अध्यायः २ मरीचिमुख्यैर्विप्रेन्द्रः सनकाद्यश्च नारद। तद्दृष्टा सौकरं रूपं तर्कयामास पद्मभूः॥४॥ किमेतत्सौकरव्याजं दिव्यं सत्त्वमवस्थितम्। अत्याश्चर्यमिदं जातं नासिकाया विनिःसृतम् ॥५॥ दृष्टोंगुष्ठशिरोमात्रः क्षणाच्छलेन्द्रसन्निभः । आहोस्विद्द्गवान्कि वा यज्ञो मे खेदयन्मन : ॥६ ॥ इति तर्कयतस्तस्य ब्रह्मणः परमात्मनः। वराहरूपो विरिचिं हर्पयामास संहतांश्च द्विजोत्तमान्। स्वगर्जशब्दमात्रेण दिक्प्रांतमनुनादयन् ।।८।। ते निशम्य स्वखेदस्य क्षयिष्णुं घुर्घुरस्वनम्। जनस्तपःसत्यलोकवासिनोऽमरवर्यकाः छन्दोमयैः स्तोत्रवरैकक्सामाथर्वसंभवैः । वचोभिः पुरुषं त्वाद्यं द्विजेंद्राः पर्यवाकिरन् ॥१०॥ तेषां स्तोत्रं निशम्याद्यो भगवान्हरिरीश्वरः । कृपावलोकमात्रेणानुगृहीत्वाऽप आविशत् ॥११।। तस्यांतविशतः ऋ्रूरसटाघातप्रपीडितः । समुद्रोऽथाब्रजीहेव रक्ष मां शरणातिहन् ॥१२॥ इत्याकर्ण्य समुद्रोक्ं वचनं हरिरीश्वरः। विदारयञ्ञलचराअगामांतर्जले विभु: ॥१३॥ इतस्ततोऽभिधावन्स विचिन्त्रन्पृथिवीं धराम्। आघ्रायाघ्राय सर्वेशो धरामासादयच्छनैः ॥१४॥ अंतर्जलगतां भूमि सर्वसत्त्वाश्रयां तदा। भूर्मि स देवदेवेशो दंष्ट्रयोदाजहार ताम् ॥१५॥ तां समुद्धृत्य दंष्ट्राग्रे यज्ञेशो यज्ञपूरुषः । शुशुभे दिग्गजो यद्वदुद्धृत्याथ सुपद्मिनीम् ॥१६॥ तं दृष्टा देवदेवेशो विरिचिः स मनुः स्वराट्। तुष्टाव वाग्भिर्देवेशं दंष्ररोद्धृतवसुंधरम् ॥१७॥ ब्रह्मोवाच जितं ते पुण्डरीकाक्ष भक्तानामार्तिनाशन। खर्वीकृतसुराधार सर्वकामफलप्रद ॥१८। इयं च धरणी देव शोभते वसुधा तव। पद्मिनीव सुपत्राढया मतंगजकरोद्ता ॥१९॥ इदं च ते शरीरं वै शोभते भूमिसंगमात्। उद्धतांबुजशुंडाग्रकरोंद्रतनुसन्निभम् ।।२० ।। नमो नमस्ते देवेश सृष्टिसंहारकारक। दानवानां विनाशाय कृतनानाकृते प्रभो ॥२१॥ अग्रतश्च नमस्नेऽस्तु पृष्ठतश्च नमो नमः । सर्वामराधारभूत वृहद्धाम नमोऽस्तु ते ॥२२॥ त्वयाऽहं च प्रजासरगे नियुक्त: शक्तिवृंहितः । त्वदाज्ञावशतः सर्ग करोमि विकरोमि च ॥२३॥ त्वत्सहायेन देवेशा अमराश्च पुरा हरे। सुधां विभेजिरे सवे यथाकालं यथाबलम् ॥२४॥ इंद्रस्त्रिलोकीसाम्राज्यं लब्धवांस्त्वन्निदेशतः । भुनक्ति लक्ष्मीं बहुलां सुरसंघप्रपूजितः ॥२५॥ रवह्निः पावकतां लब्ध्वा जाठरादिविभेदतः । देवासुरमनुष्याणां करोत्याप्यायनं तथा ॥२६॥ धर्मराजोऽथ पितृणामधिपः सर्वकर्मद्क् । कर्मणां फलदाताऽसौ त्वन्नियोगादधीश्वरः ॥२७॥ नैऋरंतो रक्षसामीशो यज्ञो विध्नविनाशनः । सर्वेपां प्राणिनां कर्मसाक्षी त्वत्तः प्रजायते ॥२८॥ वरुणो यादसामीशो लोकपालो जलाधिपः । त्वदाज्ञावलमाश्रित्य लोकपालत्वमागतः ।२९। वायुर्गन्धवहः सर्वभूतप्राणनकारणम् । जातस्तव निदेशेन लोकपालो जगद्गुरुः ॥३०॥
Page 533
श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्यायः ३ ५३३ कुबेरः किन्नरादीनां यक्षाणां जीवनाश्रयः । त्वदाज्ञांतर्गतः सर्वलोकपेषु च मान्यभूः ॥३१॥ ईशान: सर्वरुद्राणामोश्वरांतकरः प्रभुः। जातो लोकेशवंद्योऽसौ सर्वदेवािपालकः ॥३२॥ नमस्तुभ्यं भगवते जगदीशाय कुर्महे। यस्यांशभागा: सर्वे हि जाता देवाःसहस्नशः॥३३॥ नारद उवाच एवं स्तुतो विश्वसृजा भगवानादिपूरुपः। लोलावलोकमात्रेणाप्यनुग्रहमवासृजत् ।।३४।। तत्रैवाभ्यागतं दैत्यं हिरण्याक्षं महासुरम् । रुंधानमध्वनो भीमं गदयाऽनाडयद्वरिः।।३५॥ तद्रक्तपंकदिग्धांगो भगवानादिपूरुपः । उद्धत्य धरणीं देवो दंष्ट्रया लीलयाप्सु ताम् ॥३६॥ निवेश्य लोकनाथेशो जगाम स्थानमात्मनः । एतद्भगवतश्चित्रं धरण्युद्धरणं परम्॥३७॥ शृणुयाद्यः पुमान्यश्र पठेच्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो वैष्णवीं गनिमाप्नुयात् ।३८।। इति श्रीदेवोभागवते महापुराणे अष्टमस्कन्धे द्वितीयोऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः नारायण उवाच महों देवः प्रतिष्ठाप्य यथास्थाने च नारद। वैकुण्ठलोकमगमद्व्रह्मोवाच स्व्रमात्मजम् ॥१॥ स्वायंभुव महाबाहो पुत्र तेजस्विनां वर । स्थाने महीमये तिष्ठ प्रजाः सृज सथोचितम् ॥२॥ देशकालविभागेन यज्ञेशं पुरुषं यज। उच्चावचपदार्थेश्च यज्ञसाधनकैविभो ॥३॥ धर्ममाचर शास्त्रोक्तं वर्णाश्रमनिबंधनम्। एतेन क्रमयोगेन प्रजावृद्धिर्भविष्यति ।।४।। पुत्रानुत्पाद्य गुणतः कीर्त्या कांत्यात्मरूपिणः । विद्याविनयसंपन्नान्सदाचारवता वरान् ॥५।। कन्याश्र दत्त्वा गुणवद्यशोवद्दयः समाहितः । मनः सम्यवसमाधाय प्रधानपुरुषे परे ॥६॥ भक्तिसाधनयोगेन भगवत्परिचर्यया। गतिमिष्टां सदा वंद्यां योगिनां गमिता भवान्॥७।। इत्याश्वास्य मनुं पुत्रं पद्मयोनिः प्रजापतिः। प्रजासर्गे नियम्यामु स्वधाम प्रत्यपद्यत ।।८।। प्रजाः सृजत पुत्रेति पितुराज्ञां समादधत्।स्वायंभुवः प्रजासर्गमकरोत्पृथिदोपतिः ।।९।। प्रियव्रतोत्तानपादो मनुपुत्रौ महौजसौ। कन्यास्तिस्रः प्रसूताश्च तासा नामानि मे शृणु॥१०॥ आकूतिः प्रथमा कन्या द्वितीया देवहूतिका। तृतीया च प्रसूतिहिं विख्याता लोकपावनी ॥११॥ आकूर्ति रुचये प्रादात्कर्दमाय च मध्यमाम्। दक्षायादात्प्रसूति च याप्ां लोक इमा: प्रजाः ॥१२॥ रुचे: प्रजज्ञे भगवान्यज्ञो नामादिपूरुपः। आकूत्यां देवहत्यां च कपिलोसौ च कर्दमात् ॥१३॥ सांख्याचार्यः सर्वलोके विख्यातः कपिलो विभुः । दक्षात्प्रसूत्यां कन्याश्च बहुशो जज्ञिरे प्रजाः ॥१४॥ यासां संतानसंभूता देवतिर्यङ्नरादयः। प्रसूता लोकविरूपाताः सर्वे सर्गन्रवर्तकाः ॥१५॥
Page 534
५३४ श्रीम हेवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: ४ यज्ञश्र भगवान्स्वायंभुवमन्वंतरे विभुः। मनं ररक्ष रक्षोभ्यो याम्यैर्देवगणैर्वृतः ॥१६॥ कपिलोऽपि महायोगी भगवान्स्वाश्रमे स्थितः । देवहूत्यै परं ज्ञानं सर्वाविद्यानिवर्तकम् ॥१७॥ सविशेषं ध्यानयोगमध्यात्मज्ञाननिश्चयम् । कापिलं शास्त्रमाख्यातं सर्वाज्ञानविनाशनम् ॥१८। उपदिश्य महायोगी संययौ पुलहाश्रमम् । अद्यापि वर्तते देवः सांख्याचार्यो महायशाः ॥१९॥ यन्नामस्मरणेनापि सांख्ययोगश्च सिद्धयति। तं वंदे कपिलं योगाचार्यं सर्ववरप्रदम् ॥२०॥ एवमुक्तं मनोः कन्यावंशवर्णनमुत्तमम्। पठतां शृण्वतां चापि सर्वपापविनाशनम् ॥२१॥ अतः परं प्रवक्ष्यामि मनुपुत्रान्वयं शुभम्। यदाकर्णनमात्रेण परं पदमवाप्नुयात् ॥२२॥ द्वीपवर्पसमुद्रादिव्यवस्था यत्मुतैः कृता। व्यवहारप्रसिद्धचर्थ सर्वभूतसुखासये ॥२३।। इति श्रीदेवीभागवते महापुराणेऽष्टमस्कन्धे भुवनकोशे तृतीयोऽध्यायः ॥ २ ॥ अथ चतुर्थोऽध्यायः नारायण उवाच
प्रजापतेर्दुहितरं मनोः स्वायंभुवस्यासीज्ज्येष्ठः पुत्रः प्रियव्रतः । पितुः सेवापरो नित्यं सत्यधर्मपरायण: ।१॥ सुरूपां विश्वकर्मणः। बर्हिष्मतीं चोपयेमे समानां शोलकर्ममिः ॥२॥ तस्यां पुत्रान्दशगुणरन्वितान्भावितात्मनः । जनयामास कन्यां चोर्जस्वतीं च यवीयसीम् ॥३॥ आग्नीध्रश्चेध्मजिह्वश्च यज्ञबाहुस्तृतीयकः । महावीरश्चतुर्थस्तु पंचमो रुकमशुत्रकः॥४॥ धृतपृष्ठश्र सवनो मेधातिथिरथाष्टमः । वीतिहोत्रः कविश्चेति दर्शते वह्निनामकाः ॥५॥ एतेषां दशपुत्राणां त्रयोऽप्यासन्विरागिणः । कविश्र सवनश्चव महावीर इति त्रयः ॥६॥ आत्मविद्यापरिष्णाताः सर्वे ते ह्यर्ध्वरेतसः । आश्रमे परहंसाख्ये निःस्पृहा ह्यभवन्मुदा ।७॥ अपरस्यां च जायायां त्रयः पुत्राश्च जज्ञिरे। उत्तमस्तामसंश्चैव रैवतश्चेति विश्रुताः ॥८। मन्वंतराधिपतय एते पुत्रा महौजसः । प्रियव्रतः स राजेन्द्रो बुभुजे जगतीमिमाम् ॥९॥ एकादशाबुंदान्दानामव्याहतबलेन्द्रियः । यदा सूर्य: पृथिव्याश्च विभागे प्रथमेऽतपत् ॥१० ॥ भागे द्वितीये तत्रासीदंधकारोदयः किल। एवं व्यतिकरं राजा विलोक्य मनसा चिरम् ॥११॥ प्रशासति मयि भूम्यां च तमः प्रादुर्भवेत्कथम्। एवं निवारयिष्यामि भूमौ योगबलेन च ॥१२॥ एवं व्यवसितो राजा पुत्रः स्वायंभुवस्य सः। रथेनादित्यवर्णेन सप्तकृत्वः प्रकाशयन् ॥१३॥ तस्यापि गच्छतो राज्ञो भूमौ यद्रथनेमयः । पतितास्ते समुद्राख्यां भेजिरे लोकहेतवे ॥१४॥ जाताः प्रदेर्शास्त सप् द्वीपा भूमौ विभागशः । रथनेमिसमुत्थास्ते परिखाः सप्त सिंधवः ॥१५॥ यत आसंस्ततः सप्तभुवो द्वीपा हि ते स्मृताः । जंबुद्वीपः प्लक्षद्वीपः शाल्मलीद्वीपसंज्ञकः ॥१६॥
Page 535
श्रीम द्देवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः ५ ५३५ कुशद्वीपः क्रौंचद्वीपः शाकद्वीपक्च पुष्करः । तेपां च परिमाणं तु द्विगुषं चोत्तरोत्तरम् ॥१७॥ समंततश्रोपवलृतं बहिर्भागक्रमेणं च।क्षारोदेक्षुरसोदौ च सुरोदश्व घृतोदकः ।१८।। क्षीरोदोदधिमण्डोदः शुद्धोदश्रेति ते स्मृताः । सप्तैते प्रतिविखयाताः पृथिव्यां सिंधवस्तदा ॥१९॥ प्रथमो जम्बुद्वीपाख्यो यः क्षारोदेन वेष्टितः । तत्पति विदधे राजा पुत्रमाग्नीध्रसंज्ञकम् ॥२०॥ प्लक्षद्वीपे द्वितीयेऽस्मिन्द्वीपेक्षुरससंप्लुते। जातस्तदधिपः प्रयव्रत इध्मादिजिह्वकः ॥२१॥ शाल्मलीद्वोप एतस्मिन्सुरोदधिपरिप्लुते। यज्ञबाहुं तदधिपं करोतिस्म प्रियव्रतः ॥२२॥ कुशद्वीपेऽतिरम्ये च घृतोदेनोपवेष्टिते। हिरण्यरेता राजाऽभूत्प्रियव्रततनूजनिः ।।२३।। कौंचद्वीपे पंचमे तु क्षीरोदपरिसंप्लुते। प्रयत्रतो घृतपृष्ठः पतिरासीन्महाबलः ॥२४॥ शाकद्वीपे चारुतरे दधिमण्डोदसंकुले। मेधातिथिरभूद्राजा प्रियव्रतसुतो वरः॥२५॥ पुष्करद्वीपके शुद्धोदकसिंधुसमाकुले। वींतिहोत्रो बभूवासौ राजा जनकसंमतः ॥२६॥ कन्यामूर्जस्वतीनाम्नीं ददावुशनसे विभुः । आसीत्तस्यां देवयानी कन्या काव्यस्य विश्रुता ॥२७।। एवं विभज्य पुत्रेभ्यः सप्तद्वीपान्प्रियव्रतः । विवेकत्रशगो भूत्वा योगमार्गाश्रितोऽभवत् ॥२८।। डति श्रीदेवीभागवते महापुराणेऽष्टमस्कन्धे भुवनकोशे चतुर्थोऽध्यायः ॥४ ॥
अथ पञ्चमोऽध्यायः श्रीनारायण उवाच देवर्षे शृणु विस्तारं .द्वोपवर्षविभेदतः । भूमण्डलस्य सर्वस्य यथा देवप्रकल्पितम् ॥१॥ समासात्संप्रवक्ष्यामि नालं विस्तरतः क्वचित् । जंबुद्वीपः प्रथमतः प्रमाणे लक्षयोगनः ॥२॥ विशालो वर्तुलाकारो यथाऽब्जस्य च कणिका। नववर्षाणि यस्मिश्च नवसाहस्रयोजनः ॥३॥ आयामैः परिसंख्यानि गिरिभिः परितः क्षितौ। अष्टभिर्दीर्घरूपैश्च सुविभक्तानि सर्वतः ॥४॥ धनुर्वत्संस्थिते ज्ञेये द्वे वर्षें दक्षिणोत्तरे। दीर्घाणि तत्र चत्वारि चतुरस्त्रमिलावृतम् ॥५॥ इलावृतं मध्यवर्षं यन्नाभ्यां सुप्रतिष्ठितः । सौवर्णो गिरिराजोऽयं लक्षयोजनमुच्छ्ितः ॥६॥ कणिकारूप एवायं भूगोलकमलस्य च । मून्नि द्वात्रिशत्सहस्रयोजनैविततस्वयम् ।७॥ मूले षोडशासाहस्रस्तावताऽन्तर्गतः क्षितौ। इलावृतस्योत्तरतो नोलः श्वेतश्र शृङ्गवान् ॥८।। त्रयो वै गिरयः प्रोक्ता मर्यादावधयस्त्रिषु। रम्यकाख्ये तथा वर्षे द्वितीये च हिरण्मये ॥९॥ कुरुवरषे तृतीये तु मर्यादां व्यंजयंति ते। प्रागायता उभयतः क्षारोदावधयस्तथा ॥१०॥ द्विसहस्त्रपृथुतरास्तथा एकैकशः क्रमात् । पूर्वात्पूर्वाच्चोत्तरस्यां दशांशादधिकांशतः ॥११॥ दैर्घ्य एव हसन्तीमे नानानदनदीयुताः । इलावृताद्दक्षिणतो निषधो हेमकूटकः ॥१२॥
Page 536
५३६ श्रीमद्ेवीभागवते महापुराणे अष्मस्कन्धे अध्यायः ६ हिमालयश्चेति त्रयः प्राग्विस्तीर्णाः सुंशोभनाः । अयुतोत्सेधभाजस्ते योजनैः परिकीर्तिताः ॥१३॥ हरिवर्ष किंपुरुषं भारतं च यथातथम्। विभागात्कथयंत्येते इलावृतात्पश्चिमतो माल्यवान्नामर्वतः । पूर्वेण च ततः श्रीमान्गन्धमादनपर्वतः ।।१५।। आनीलनिषधं त्वेतौ चायतौ द्विसहस्त्रतः । योजनैः पृथुतां यातौ मर्यादाकारकौ गिरी ॥१६॥ केतुमालाख्यभद्राश्ववर्षयोः प्रथितौ च तो। मन्दरश्र तथा मेरुमन्दरश्च सुपाश्वकः ।१७॥ कुमुदश्रेति विख्याता गिरयो मेरुपादका । योजनायुतदिस्तारोन्नाहा मेरोश्चतुर्दिशम् ॥१८॥ अवष्टंभकरास्ते तु सर्वतोऽभिविराजिताः । एतेषु गिरिषु प्राप्ताः पादपाश्चतजंबुनी ॥१९॥ कदंबन्यग्रोध इति चत्वारः पर्वताः स्थिताः । केतवो गिरिराजेपु एकादशशतोच्छ्रयाः ॥२०॥ तावद्विटपविस्तारा: शताख्यपरिणाहिनः । चत्वारश्र ह्रदास्तेषु पयोमध्विक्षुसज्जलाः ॥२१॥ यदुपस्पशिनो देवा योगैश्वर्याणि विंदते। देवोद्यानानि चत्वारि भजन्ति ललनासुखाः ॥२२॥ नंदनं चैत्ररथकं वैभ्राजं सर्वभद्रकम्। येषु स्थित्वाजमरगणा ललनायूथसंयुताः ॥२३॥ उपदेवगणैर्गीतमहिमानो महाशयाः । विहरन्ति स्वतंत्रास्ते यथाकामं यथासुखम् ॥२४॥ मन्दरोत्संगसंस्थस्य देवचूतस्य मस्तकात्। एकादशशतोच्छ्रायात्फलान्यमृतभांजि च ॥२५॥ गिरिकूट प्रमाणानि सुस्वादूनि मृदूनि च। तेषां विशीर्यमाणानां फलानां सुरसेन च ॥२६।। अरुणोदसवर्णेन अरुणोदा प्रवर्तते। नदी रम्यजला देवदैत्यराजप्रपूजिता ॥२७॥ अरुणाख्या महाराज वर्तते पापहारिणी। पूजयन्ति च तां देवीं सर्वकामफलप्रदाम् ॥२८॥ नानोपहारबलिभि: वल्मषध््यभयप्रदाम् । तस्याः कृपावलोकेन क्षेमारोग्यं व्रजन्ति ते ॥२९॥ आद्या मायाऽतुलाऽनंता पुष्टिरीश्वरगालिनी। दुष्टनाशकरी कांतिदायिनीति स्मृता भुवि ॥३०॥ अस्या: पूजाप्रभावेण जांबूनदमुदावहृत् ॥३१॥ इति श्रीदेंवीभागवते महापुराणे अष्टमस्कन्धे.भुवनकोशवर्णनं नाम पञ्चमोऽध्यायः ॥५॥ अथ षष्ठोऽध्यायः श्रीनारायण उवाच अरुणोदा नदी या तु मया प्रोक्ता च नारद। मन्दरान्निपतंती सा पूर्वेणेलावृतं प्लवेत् ॥१॥ देहगंधवहोऽनिलः ॥२॥ वासयत्यभितो भूमिं दशयोजनसंख्यया। एवं जभ्बूफलानां च तुङ्गदेशनिपातनात् ॥३॥ विशीर्यतामनस्थीनां वु अरांगप्रमाणिनाम् । रसेन च नदी जंबूनाम्नी मेर्वा्यमन्दरात् ॥४॥ पतंती भूमिभागे च दक्षिणेलावृतं गता। देवी जंबूफलास्वादतुष्टा जंब्वादनी स्मृता ।५॥।
Page 537
श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: ५ ५३७ तत्रत्यानां च लोकानां देवनागर्षिरक्षसाम्। पूजनीयपदा मान्या सर्वभूतदयाकरी ॥६॥ पावनी पापिनां रोगनाशिनी स्मरतामपि। कीर्तिता विध्नसंहर्त्री माननीया दिवौकसाम् ।७। कोकिलाक्षी कामकला करुणा कामपृजिता। कठोरविग्रहा धन्या नाकिमान्या गभस्तिनी ॥८॥ एभिर्नामपदैः कामं जपनीया सदा नृणाम्। जम्बूनदीरोधसोर्या मृत्तिका तीरवर्तिनी॥९॥ जंबूरसेनानुविद्धयमाना वाय्वर्कयोगतः । विद्याधरामरस्त्रीणां भूषणं विविधं महत् ।।१०।। जंबूनदसुवणं च प्रोक्तं देवविनिर्मितम् । यत्सुवर्ण च विबुधा योषिद्ध्रि: कामुकाः सदा ११।। मुकुटं कटिसूत्रं च केयूरादीन्प्रकुर्वते । महाकदम्बः संप्रोक्त: सुपाश्वगिरिसंस्थितः ॥१२॥ तस्य कोटरदेशेम्यः पंच धाराश्च या: स्मृताः । सुपाश्वगिरिमूर्ध्नीह पतंत्येता भुवं गताः ॥१३॥ मधुधाराः पंच तास्तु पश्चिमेलावृतं प्लुताः । याश्चोपभुज्यमानानां देवानां मुखगन्धभृत् ॥१४।। वायुः समं ततोऽगच्छच्छतयोजनवासनः । धारेश्वरी महादेवी भक्तानां कार्यकारिणी ॥१५॥ देवपूज्या महोत्साहा कालरूपा महानना। वसते कर्मफलदा कांतारग्रहणेश्वरी ॥१६॥ करालदेहा कालांगी कामकोटिप्रवर्तिनी। इत्येतैरनमभिः पूज्या देवी सर्वसुरेश्वरी ॥१७॥ एवं कुमुदरूढो यो नाम्ना शतबलो वटः। तत्स्कन्धेभ्योऽधोमुखाश्च नदाः कुमुदमूर्धतः ॥१८॥ पयोदधिमधुघृतगुडान्नाद्यंबरादिभि: । शय्यासनाद्याभरणैः सर्वे कामदुघाश्र ते ॥१९॥ उत्तरेणेलावृतं ते प्लावयंति समंततः । मीनाक्षी तत्स्थले देवी देवासुरनिषेविता ॥२०॥ नीलांबरा रौद्रमुखी नीलालकयुता च सा। नाकिनां देवसंघानां फलदा वरदा च सा ।२१।। अतिमान्याऽतिपूज्या च मत्तमातंगगामिनी। मदनोन्मादिनी मानप्रिया मानप्रियांतरा ॥२२॥ मारवेगधरा मारपूजिता मारमादिनी। मयूरवरशोभाढया शिखिवाहनगर्भभू: ॥२३॥ एभिर्नामपदैर्वंद्या देवी सा मीनलाचना। जपतां स्मरतां मानदात्री चेश्वरसंगिनी ॥२४॥ तेपां नदानां पानीयपानानुगतचेतसाम्। प्रजानां न कदाचित्स्याद्वलीपलितलक्षणम् ॥२५॥ क्लमस्वेदादिदौर्गन्व्यं जरामयमृतिभ्रमाः । शीतोष्णवातवैवर्व्यमुखोपप्लवसंचयाः ।।२ ६ ।। नापदश्चैव जायंते यावज्जीवं सुखं भवेत्। नैरन्तर्येण तत्स्याद्वै सुखं निरतिशायकम् ।२७। तत ऊर्ध्वं प्रवक्ष्यामि संनिवेशं च तद्विरेः । सुवर्णमयनाम्नो वै सुमेरोः पर्वताः पृथक॥२८॥ गिरयो विशतिपराः क्णिकाया इवेह ते। केसरीभूय सर्वेऽषि मेरोर्मूलविभागके ॥२९॥ परितश्चोपक्लृप्तास्ते तेषां नामानि शृण्वतः । कुरङ्गः कुरगश्चव कुसुंभोऽथो विकंकतः !३०॥ त्रिकूट: शिशिरश्रैव पतंगो रुचकस्तथा। निषधश्च शिनीवासः कपिलः शंख एव च ॥३१॥ चैदूर्यचारुविश्चंव एंसो ऋषभ एव च । नागः कालंजरश्चैव नारदश्चेति विशतिः ॥३२।। इति श्रीमद्ेवीभागवते महापुराणेऽष्टमस्कन्घे षष्टोऽध्यायः ॥ ६ ॥
Page 538
५३८ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: ७ अथ सप्तमोऽध्यायः श्रीनारायण उवाच गिरिं मेरुं तु पूर्वेण द्वो चाष्टादशयोजनैः । सहस्त्रैरायतौ चोदग्द्रिसहस्त्रं पृथुच्चकौ॥१॥ जठरो देवकटश्र तावेती गिरिवर्यकौ। मेरोः पश्चिमतोऽ्द्री द्वौ पत्रमानस्तथापरः ॥२॥ पारियात्रश्र तौ तावद्विख्यातौ तुङ्गविस्तरौ। मेरोर्दक्षिणतः ख्यातौ कैलासकरवीरकौ ।३॥ प्रागायतौ पूर्वदृत्तौ महापर्वतराजकौ। एवं चोत्तरतो मेरोस्त्रिशृंगमकरौ गिरी॥४॥ एतैश्रात्रिवरैरष्टसंख्यैः परिवृतो गिरिः। सुमेरुः कांचनगिरिः परिभ्राजत्रविर्यथा ॥५॥ मेरोमूर्धनि धातुहिं पुरी पंकजजन्मनः । मध्यतश्रोपक्लप्तेयं दशसाहस्रयोजनैः ॥६॥। समानचतुरस्रां च शातकौंभमयों पुरीम्। वर्णयन्ति महात्मानः परावरविदो बुधाः॥७॥ तां पुरीमनुलोकानामष्टानामाशिषां पराः । पुर्यः प्रख्यातसौवर्णरूपास्ताश्च यथादिशम् ॥८॥ यथा रूपं सार्धनेत्रसहस्रप्रमिताः कृताः । मेरोर्नव पुराणि स्युर्मनोवत्यमरावती।९॥ तेजोवती संयमनी तथा कृष्णांगनाऽपरा। श्रद्धावती गंधवती तथा चान्या महोदया ॥१०॥ यशोवती च ब्रह्मेन्द्रवह्नयादीनां यथाक्रमम् । तत्रैव यज्ञलिंगस्य विष्णोर्भगवतो विभो: ॥११॥ वामपादांगुष्ठनखनिर्भिन्नस्य च नारद। अंडोर्ध्वभागरंध्रस्य मध्यात्संविशती दिवः ।१२।। मूर्धन्यवततारेयं गंगा संविशती विभोः। लोकानामखिलानां च पापहारिजलाकुला ॥१३॥ इयं च साक्षाद्द्गवत्पदी लोकेषु विश्रुता । कालेन महता सा तु युगसाहस्रकेण तु ॥१४॥ दिवो मूर्धानमागत्य देवी देवनदीश्वरी। यत्तद्विष्णुपदं नाम स्थानं त्रलोक्यविश्रुतम् ॥१५॥ औत्तानपादिर्य त्रास्ते ध्रवः परमपावनः। भगवत्पादयुगलं पद्मकोषरजो दधत् ॥१६॥ अद्याप्यास्ते स राजर्षिः पदवीमचलां श्रितः । तत्र सप्तर्पयस्तस्य प्रभावज्ञा महाशयाः ॥१७॥ प्रदक्षिणं प्रक्रमन्ति सर्वलोकहितेप्सवः। आत्यंतिकी सिद्धिरियं तपता सिद्धिदायिनी ॥१८॥ आद्रियंते च शिरसा जटाजूटोषितेन च। ततो विष्णुपदाद्देवी नैकसाहस्त्रकोटिभिः ॥१९॥ विमानैराकुले देवयानेऽवतरती च सा। चन्द्रमण्डलमाप्लाव्य पतंती ब्रह्मसदनि ॥२०॥ चतुर्धा भिद्यमाना सा ब्रह्मलोके च नारद। चतुर्भिर्नामभिदेवी चतुर्दिशमभिसृता ।।२१।। सरितां च नदीनां च पतिमेवान्वपद्यत। सीता चालकनंदा च चतुर्भद्रेति नामभिः ॥२२॥ सीता च ब्रह्मसदनाच्छिखरभ्यः क्षमाभृताम् । केसराभिधनाम्ना च प्रस्रवंती च स्वर्णदी ।।२३।। गंधमादनमूर्ध्नीह पतिता पापहारिणी। अन्तरण तु भद्राश्ववर्षं प्राच्यां समागता ॥२४।। क्षारोदधि गता सा तु द्युनदो देवपूजिता। ततो माल्यवतः शृंगाद्द्वितोया परिनिर्गता ॥२५॥
Page 539
श्रीमदेवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: ८ ५३९ ततो वेगवती भूत्वा केतुमालं समागता। चक्षुर्नाम्नी देवनदी प्रतीच्यां दिश्युपागता ॥२६॥ सरितां पतिमाविष्टा सा गङ्गा देववन्दिता। ततस्तृतीया धारा तु नाम्ना ख्याता च नारद ।२७।। पुण्या चालकनंदा वै दक्षिणेनाब्जभूपदात् । वनानि गिरिकूटानि समतिक्रम्य चागता ॥२८।। हेमकूटं गिरिवरं प्राप्तातोपीह निर्गता। अतिवेगवती भूत्वा भारतं चागता परा ॥२९॥ दक्षिणां जलधि प्राप्ता तृतीया सा सरिद्वरा। यस्याः स्नानाय सरतां मनुजानां पदे पदे ॥३०॥ राजसूयाश्वमेधादिफलं तु न हि दुर्लभम् । ततश्चतुर्थी धारा तु शृंगवत्पर्वतात्पुनः ॥३१॥ भद्राभिधा संस्रवंती कुरून्सन्तर्प्य चोत्तरान्। समुद्रं समनुप्रात्ता गङ्गा त्रैलोक्यपावनी ॥३२॥ अन्ये नदाश्च नदश्र वर्षे वर्षेऽि संति हि। बहुशो मेरुमंदारप्रसूताश्चैव नारद ।३३।। तत्रापि भारतं वर्षं कर्मक्षेत्रमुशंति हि। अन्यानि चाष्टवर्षाणि भौमस्वर्गप्रदानि च ॥३४॥ स्वर्गिणां पुण्यशेषस्य भोगस्थानानि नारद। पुरुषाणां चायुतायुर्वज्तांगा देवसन्निभाः ॥३५! पुरुषा नागसाहस्रैरदशभिः परिकल्पिताः । महासौरतसंतुष्टाः कलत्राढयाः सुखान्विताः ॥३६॥ एकवर्षोनके चायुष्यासगर्भा: स्त्रियोऽपि हि। त्रेतायुगसमः कालो वर्तते सर्वदैव हि॥३७॥ इति श्रीदेवीभागवते महापुराणे अष्टमस्कंधे सप्मोऽध्यायः॥७॥ अथ अष्टमोऽध्यायः श्रीनारायण उवाच तेषु वर्षेषु देवेशाः पूर्वोक्त: स्तवनैः सदा। पूजयंति महादेवीं जपध्यानसमाधिभिः॥१॥ सर्वर्तुकुसुमश्रेणीशोभिता वनराजयः । फलानां पल्लवानां च यत्र शोभा निरन्तरम् ॥२॥ तेषु काननवर्षषु वर्षपर्वतसानुषु। गिरिद्रोणीषु सर्वाषु निर्मलोदकराशिषु॥३॥ विकचोत्पलमालासु हंससारससंचयैः । विमिश्रितेषु तेष्वेव पक्षिभिः कूजितेषु च ॥४।। जलक्रीडादिभिश्चित्रविनोदैः क्रीडयन्ति च। सुन्दर्यो ललितभ्रूणां विलासायतनेषु च ॥५॥ तत्रत्या विहरंत्यत्र स्वैरं युवतिभिः सह। नवस्वपि च वर्षेपु भगवानादिपूरुषः ।६।। "नारायणाख्यो लोकानामनुग्रहरसैकदृक"। देवीमाराधयन्नास्ते स च सर्वेश्च पूज्यते ॥
इलावृते तु आत्मव्यूहेनेज्ययाऽसौ सन्निधत्ते समाहितः ।।७।। भगवान्यद्मजाक्षिसमुद्धवः । एक एव भवो देवो नित्यं वसति सांगनः ।।८।। तत्क्षेत्रे नापरः कश्चित्प्रवेशं वितनोति च। भवान्याः शापतस्तत्र पुमान्स्त्री भवति स्फुटम् ॥९॥ भवानीनाधकै: स्त्रीणामसंख्यैर्गणकोटिभिः । संरुध्यमानो देवेशो देवं संकर्षणं भजन्॥१०॥ आत्मना ध्यानयोगेन सर्वभूतहितेच्छया। तां तामसीं तुरीयां च मूर्ति प्रकृतिमात्मनः॥११॥ उपधावते चैकाग्रमनसा भगवानजः ।
Page 540
.५४० श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्याय: ८ श्रीभगवानुवाच ॐनमो भगव्रते महापुरुषाय सर्वगुणसंख्यानायानन्तायाव्यक्ताय नम इति ॥१२॥ भजे भजन्यारणपादपंकजं भगस्य कृत्स्नस्य परं परायणम्। भक्त्ेष्वलं भावितभूतभावनं भवापहं त्वां भवभावमीश्वरम् ॥१३। न यस्य मायागुणकर्मवृत्तिभिर्निरीक्षितो ह्यण्वपि दृष्टिरज्यते। ईशे यथा नो जितमन्युरंहसा कस्तं न मन्येत जिगीषुरात्मनः ॥१४॥ असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः । न नागवध्वोऽर्हण ईशिरे हिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥१५॥ यमाहुरस्य स्थितिजन्मसंयमं त्रिभिरविहीनं यमनंतमृषयः न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥१६॥ यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल। यत्संवृतोऽहं त्रिवृता स्व्रतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥१७॥ एते वयं यस्य वशे महात्मनः स्थिंताः शकुन्ता इव सूत्रयंत्रिताः । महानहंवकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम् ॥१८॥ यन्निर्मितां कर्हयपि कर्मपर्वणों मायां जनोऽयं गुरुसर्गमोहितः । न वेद निस्तारणयोगमअ्जसा तस्मे नमस्ते विलयोदयात्मने॥१९॥ नारायण उवाच एवं स भगवात्रुद्रो देवं संकर्षणं प्रभुम्। इलावृतमुपासीत देवीगणसमाहितः ॥२०।। तर्थव वर्मपुत्रोऽसी नाम्ना भद्रशवा इति। तत्कुलस्यापि पतयः पुरुषा भद्रसेवकाः ॥२१॥ भद्राश्ववर्ष तां मूर्ति वासुदेवस्य विश्रुताम्। हयमूर्तिभिदा ता तु हयग्रोवपदाङ्गिताम् ॥२२॥ परमेण समाध्यन्यवारकेण नियन्त्रिताम् । एवमेव च तां मूर्ति गृणंत उपयांति च ॥२३। भद्रश्रवस ऊचु: ॐनमो भगवते धर्मायात्मविशोधनाय नम इति। अहो विचित्रं भगवद्विचेष्टितं ध्नर्त जनोऽयं हि मिषन्न पश्यति। ध्यायन्न तद्यहि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषुः ॥२४॥ वदन्ति विश्वं कवयः स्म नश्वरं पश्यंति चाध्यात्मविदो विपश्चितः । तथापि मुह्यंति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥२५॥ ते ह्यकर्तुरंगोकृतमप्यपावृतः ।
Page 541
श्रीमद्देवीभागतते महापुराणे अष्टमस्कन्धे अध्याय: ९ ५४१
युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि ्यतिरिक्ते च वस्तुतः ॥२६॥ वेदान्युगान्ते तमसा तिरस्कृतातसातलाद्यो नृतुरंगविग्रहः । प्रत्याददे वै कवयेऽभियाचते तस्म नमस्ते वितर्थेहताय ते ॥२७॥ एवं स्तुवंति देवेशं हयशीष हरि च ते। भद्रश्रवसनामानो वर्णयंति च तद्गुणान् ॥२८।। एषां चरितमेतद्धि यः पठेच्छ्रावयेच्च यः। पापकंचुकमुत्सृज्य देवीलोकं व्रजेच्च सः ॥२९॥ इति श्रीदेवीभागवते महापुराणेऽट्टमस्कन्धेऽष्टमोऽध्यायः ॥८॥ अथ नवमोऽध्यायः श्रीनारायण उवाच हरिवर्षे च भगवान्नहरिः पापनाशनः । वतते योगयुक्तात्मा भक्तानुग्रहकारकः ॥१॥ तस्य तद्दयितं रूपं महाभागवतोऽसुरः । पश्यन्भक्तिसमायुक्तः स्तौति तद्गुणतत्त्ववित् ॥।२।। ग्रह्लाद उवाच ॐनमो भगवते नरसिंहाय नमस्तेजसे आविराविर्भव वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस ग्रस ॐ स्वाहा। अभयं ममात्मनि भूर्यिष्ठाः ॥ ॐ क्षोम् ॥ स्वस्त्यस्तु विश्वस्य खलः प्रसोदतां ध्यायंतु भूतानि शिवं मिथो धिया। मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिररप्यहैतुकी ॥३॥ मागारदारात्मजवित्तबन्धुषु संगो यदि स्याद्द्रगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान्सिद्धयत्यदूरान्न तथेन्द्रियप्रियः ॥४॥ यत्संगलब्धं निजवीर्यवैभवं तोर्थं मुहुः संस्पृशतां हि मानसम् । हरत्यजोऽन्तःश्रुतिनिर्गतोऽङ्गजं को वै न सेवेतं मुकुंदविक्रमम् ॥५॥ यस्यास्ति भक्तिर्भगवत्यर्किंचना सर्वेर्गुणैस्तत्र समासते सुराः । हरावभक्तस्य कुतो महद्गृणा मनोरथेनासति धावतो बहिः ॥६॥ हरिहिं साक्षाद्द्गगवाञ्छरीरिणामात्मा झषाणामिव तोयमीप्सितम्। हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्त्वं वयसा दंपतीनाम्॥७॥ तस्माद्रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम् 1 हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजतां कुतो भयम् ।८॥। एवं दैत्यपतिः सोऽपि भक्त्याऽनुदिनमीडते। नृहरिं पापमातंगहरिं हृत्पद्मवासिनम् ॥९॥ केतुमाले च वर्षे हि भगवान्स्मररूपधृक। आस्ते तद्वर्षनाथानां पूजनीयश्च सर्वदा ॥१०॥
Page 542
५०२ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: ९ एतेनोपासते स्तोत्रजालेन च रमाब्धिजा। तद्वर्षनाथा सततं महतां मानदागिका ॥११॥ रामोवाच ॐ हां ही हॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैविलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाघिपतये षोडशकलाय छंदोमयान्नमयायामृतमयाय सर्वमयाय महसे ओजसे बलाय कांताय नमस्ते उभयत्र भूयात् ॥। स्त्रियो व्रतैस्त्वां हृषिकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् । तासां न ते वै परिपांत्यपत्यं प्रियं धनायूंषि यतोऽस्वतंत्राः ॥१२॥ स वैपतिः स्यादकुतोभयः स्वतः समंततः पाति भयातुरं जनम्। स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् ॥१३॥ या तस्य ते पादसरोरुहार्हणं न कामयेत्साऽखिलकामलंपटा। तदेव रासीप्सितमीप्सितोऽचिता य्दग्नयाच्जा भगवन्प्रतप्यते ॥१४॥ मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यंत उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान्न मां विदंत्यहंत्वद्धृदया यतोऽजित ॥१५॥ स त्वं ममाप्यच्युत शीष्णि वंदितं करांबुजं यत्त्वदधायि सात्वताम् । बिभर्षषि मां लक्ष्मवरेण्य मायया क ईश्वरस्येहितमूहितुं विभुः ॥१६॥ एवं कामं स्तुवंत्येव लोकबंधुस्वरूपिणम्। प्रजापतिमुखा वर्षनाथाः कामस्य सिद्धये ॥१७॥ रम्यके नाम वर्षे च मूर्ति भगवतः पराम्। मात्स्यां देवासुरैवंद्यां मनुःस्तौति निरंतरम् ॥१८॥ मनुरुवाच ॐनमो मुख्यतमाय नमः सत्त्वाय प्राणायोजसे वलाय महामत्स्याय नमः ॥ विचरस्युरुस्वनः । स ईश्वरस्त्वं य इदं वशे नयन्नाम्ता यथा दारुमयीं नरः स्त्रियम् ॥१९॥ यं लोकपाला: किल मत्सरज्वरा हित्वा यतंतोऽपि पृथक् समेत्य च। पातुं न शेकुद्विपदश्चतुष्पदः सरीसृपं स्थाणुवदत्र दृश्यते ॥२०॥ भवान् युगांतार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरुक्रम तेऽज ओजसा तस्मै जगत्प्राणगणात्मने नमः ॥२१॥ एवं स्तौति च देवेशं मनुः पार्थिवसत्तमः। मत्स्यावतारं देवेशं संशयच्छेदकारणम् ॥२२॥ ध्यानयोगेन देवस्य निर्धूताशेषकल्मषः । आस्ते परिचरन्भकत्या महाभागवतोत्तमः ॥२३॥ इति श्रीदेवीभागवते अष्टमस्कन्धे भुवनकोशवर्णने नवमोऽध्यायः ॥९॥
Page 543
श्रीम देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १० ५४३
अथ दशमोऽध्यायः श्रीनारायण उवाच हिरण्मये नाम वर्षे भगवान्कूर्मरूपधृक् । आस्ते योगपतिः सोडयमर्यम्णा पूज्य ईडयते ॥१॥ अर्य मोवाच
ॐ नमो भगवते अकूपाराय सर्वसत्वगुणविशेषणाय नोपलक्षितस्थानाय नमो वर्ष्मणे नमो धूम्ने नमोऽवस्थानाय नमस्ते ॥ य द्रपमेतन्निजमाययार्पितमर्थस्वरूपं बहुरूपरूपितम् ॥ संख्या न यस्यास्त्ययथोपलंभनात्तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ २ ॥ जरायुजं स्वेदजमण्डजोद्द्रिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रं द्वीपग्रहर्क्षेत्यभिधेय एकः ॥३॥ यस्मिन्नसंख्येय विशेषनामरूपाकृती कविभि: कल्पितेयम् । संख्या यया तत्त्वदृशाऽपनीयते तस्मै नमः सांख्यनिदर्शनाय ते॥४॥ एवं स्तुवति देवेशमर्यमा सह वर्षपैः। गीयते चापि भजते सर्वभूतभवं प्रभुम् ॥५॥ तथोत्तरेषु कुरुषु भगवान्यज्ञपूरुषः । आदिवाराहरूपोऽसौ धरण्या पूज्यते सदा ॥६॥ संपूज्य विधिवद्देवं तद्दक्त्याऽद्रर्व्हृत्कजा। भूमिः स्तौति हरि यज्ञवाराहं दैत्यमर्दनम् ॥७॥ भूरुवाच ॐनमो भगवते मंत्रतत्त्वलिंगाय यज्ञक्रतवे महाध्वरावयवाय महावराहाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते ।८। यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम् । मथ्नंति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थेर्नम ईरितात्मने।९॥ द्रव्यक्रिया हेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुभिरीक्षितात्मने - अन्वोक्षयांगातिशयात्मबुद्धिभिनिरस्तमायाकृतये नमोडस्तु ते ॥१० ॥ करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितुमीक्षितुर्गुणैः । माया यथाऽयो भ्रमते तदाश्रयं ग्राञणो नमस्ते गुणकर्मसाक्षिणे ॥११॥ प्रमथ्य दैत्यं प्रतिवारुणं मृधे यो मां रसाया जगदादिसूकरः । कृत्वाऽग्रदंष्ट्र निरगादुदन्वतः क्रीडन्निवेभः प्रणताऽस्मि तं विभुम् ॥१२॥
Page 544
५४४ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्यायः ११ किंपुरुषे वर्षेऽस्मिन्भगवंतं दाशरथि च सर्वेशम्। सीतारामं देवं श्रीहनुमानादिपूरुषं स्तौति ॥।१३।। हनुमानुवाच ॐ नमो भगवते उत्तमशलोकाय नम इति। आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मने उपासितलोकाय नमः । साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाभागाय नम इति ॥ यत्तद्विशुद्धानुभवात्ममेकं स्वरतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक प्रशांतं सुधियोपलंभनं ह्यनामरूपं निरहं प्रपद्ये ॥१४॥ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽन्यथा स्याद्रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ।१५॥। न वै स आत्मात्मवतां सुहृत्तमः सक्तस्त्रिलोक्यां भगवान्वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमहति ॥१६॥ न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतुः । तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रजः ॥१७॥ सुरोऽसुरो वाप्यथवा नरोनरः सर्वात्मना यः सुकृतज्ञमुत्तमम् । भजेत रामं मनुजाकृति हरिं य उत्तराननयत्कोशलान्दिवम् ॥१८॥ नारायण उवाच एवं किपुरुषे वर्षे सत्यसंधं दृढव्रतम्। रामं राजीवपत्राक्षं हनुमान्वानरोत्तमः ॥१९॥ स्तोति गायति भक्त्या च संपूजयति सर्वशः । य एतच्छृणुयाच्चित्रं रामचन्द्रकथानकम् ॥ सर्वपापविशुद्धात्मा याति रामसलोकताम् ॥२०॥ इति श्रीदेवीभागवते महापुराणेऽष्टमस्कन्धे दशमोऽध्यायः ॥१०॥ अथ एकादशोऽध्यायः श्रीनारायण उवाच भारताख्ये च वर्पेऽस्मिन्नहमादिजपूरुषः। तिष्ठामि भवता चव स्तवनं क्रियतेऽनिशम् ॥१॥ नारद उवाच ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोडकिंचनवित्ताय ऋषिऋषभाय नरनारायणाय। परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति।
Page 545
श्रीमदेवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः ११ ५१५ कर्ताऽस्य सर्गादिषु यो न बद्धयते न हन्यते देहगतोऽपि दैहिकैः। द्रषु्नं दृश्यस्य गुणावदूष्यते तस्म नमोऽसक्तविविक्तसाक्षिणे ।।२।। इदं हि योगेश्वरयोगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत्। यदंतकाले त्वयि निर्गुणे मनो भवत्या दधीतोज्झितदुष्कलेवरः ॥३॥ यर्थहिकामुष्मिककामलंपटः सुतेषु दारेषु धनेषु चिंतयन्। शंकेत विद्ान्कुकलेवरात्ययाद्यस्तस्य यत्नः श्रम एव केवलम्॥४। तन्नः प्रभो त्वं कुकलेवरार्पितां त्वं माययाऽहंममतामधोक्षज। भिदयाम येनाशु वयं सुदुर्भिदां विषेहि योगं त्वयि नः स्वभावजम् ॥५॥ एवं स्तोति सदा देवं नारायणमनामयम्। नारदो मुनिशार्दूलः प्रजाताखिलसारदृक् ॥६। अस्मिन्ब भारते वर्षे सरिच्छैलास्तु संति हि। तान्प्रवक्ष्यामि देवषे शरृणुष्वैकाग्रमानसः॥७।। मलयो मंगलप्रस्थो मैनाकश्र त्रिकूटकः । ऋषभः कुटकः कोल्लः सह्यो देवगिरिस्तया ॥८।। नृष्यमूकश्च श्रोशलो वेंकटाद्रिर्महेंद्रकुः। वारिघारश्र विध्यश्र मुक्तिमानृक्षपर्वतः।।९।। पारियात्रस्तथा द्रोणभ्ित्रकूटगिरिस्तथा । गोवर्धनो रैवतकः ककुभो नीलपर्वतः ॥१०॥ गोरमुखश्रेंद्रकीलो गिरिः कामगिरिस्तथा। एते चान्येऽप्यसंख्याता गिरयो बहुपुण्यदाः ।११।। एन ह्ुत्पन्नसरितः शतशोऽय सहस्त्ररुः। पानावगाहकस्नानदर्शनोत्कीतनैरपि ।१२। नाशयंति च पापानि त्रिविधानि शरीरिणाम् । ताम्रपर्णी चन्द्रवशा कृतमाला बटोदका ।।१३।। बैहायसी व कावेरी वेणा चैव पयस्विनी। तुङ्गभद्रा कृष्णवेणा शर्करावर्तका तथा ॥१४॥ गोदावरी भीमरथी निर्विन्धया च प्योषि्णिका। तापी रेवा च सुरसा नर्मदा च सरस्वती॥१५।। चर्मण्वती च सिंधुश्र अंधशोणो महानदी। ऋषिकुल्या त्रिसामा च वेदस्मृतिमहानदी ॥१६॥ कौशिकी यमुना चंव मंदाकिनी दृषद्वती। गोमंती सरयू रोधवती सप्तवती तथा ॥१७॥ सुपोमा च शतद्रुश्च चंद्रभागा मरुदधा। वितस्ता च असिकनी च विश्चा चेति प्रकीतिताः १८।। अस्मिन्वर्षे लब्धजन्मपुरुषैः स्वस्वकर्मभिः । शुक्ललोहितकृष्णास्यैर्दिव्यमानुषनारकाः ॥१९। भवंति विविधा भोगा: सर्वेषां च निवासिनाम् । यथावर्णविधानेनापवर्गों भवति स्फुटम् ॥२०॥ एनदेव च वर्षस्य प्राधान्यं कार्यसिद्धितः । वदंति मुनयो वेदवादिनः स्वर्गवासिनः ॥२१॥ अहो अमोषां किमकारि शोभनं प्रसन्न एषांस्विद्ुत स्वयं हरिंः । यैजन्म लब्धं नृपु भारताजिरे मुकुंदसेवोपयिकं स्पृहा हि नः ॥२२॥ कि दुष्करैर्नः क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना। न यत्र नारायणपादपङ्कजस्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ।२३।।
Page 546
५४६ श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्याय: १२ कल्पायुषा स्थानजयात्पुनर्भवात्क्षणायुषां भारतभूजयो वरम्। क्षणेन मर्त्येन कृतं मनस्विनः संन्यस्य संयांत्यभयं पदं हरेः ॥२४॥ न यत्र वैकुंठकथासुधापगा न साधवो भागवतास्तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोकोऽपि न वै स सेव्यताम् ॥२५॥ प्राप्ता नृजाति त्विह ये च जंतवो ज्ञानक्रियाद्रव्यकलापसंभृताम् । न वै.यतेरन्न पुनर्भवाय ते भूयो वनौका इव यांति बंधनम् ॥२६॥ थैः श्रद्धया बहिषि भागशो हविर्निरुप्तमिष्टं विधिमंत्रवस्तुतः । एक: पृथड्नामभिराहतो मुदा गृह्हाति पूर्णः स्वयमाशिषां प्रभुः ॥२७॥ सत्यं दिशत्यर्ितमर्यितो नृणां नैवार्थदो यत्पुनरर्थिता यतः । स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम् ।२८। "यद्यत्र नः स्वर्गसुखावशेषितं स्विष्टस्य पूर्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज्जन्म नः स्याद्वर्षे हरिर्भजतां शं तनोति ॥१॥" नारायण उवाच एवं स्वर्गगता देवाः सिद्धाश्च परमर्षयः । प्रवदंति च माहात्म्यं भारतस्य सुशोभनम् ॥२९॥ जंबुद्वीपस्य चाष्टो हि उपद्वीपाः स्मृताः परे। हयमार्गान्विशोध्द्रिः सागरैः परिकल्पिताः ॥३०॥ स्वर्णप्रस्थश्चंद्रशुक्र आवर्तनरमाणकौ। मंदरोपाख्यहरिणाः पांचजन्यस्तर्थव च ॥३१।। सिंहलश्चैव लंकेति उपद्वीपाष्टकं स्मृतम्। जंबुद्रीपस्य मानं हि कीर्तितं विस्तरेण च ॥।३२।। अतः परं प्रवक्ष्यामि प्लक्षादिद्वी पट्ककम् ॥३३॥ इति श्रीदेवीभागवते महापुराणेऽष्ठमस्कन्धे एकादशोऽध्यायः ॥५१॥ अथ द्वादशोऽध्यायः श्रीनारायण उवाच जंबुद्वीपो यथा चायं यत्प्रमाणेन कीतितः । तावता सर्वतः क्षारोदधिना परिवेष्टितः ॥१॥ जंब्वाख्येन यथा मेरुस्तथा क्षारोदकेन च। क्षारोदधिस्तु द्विगुणः प्लक्षाख्येनोपवेष्टितः ॥२॥ यथव परिखाबाह्योपवनेन हि वेष्टयते। प्लक्षाख्यश्च स्वयं जंबुप्रमाणो द्वीपरूपधृक् ॥३॥ हिरण्मयोऽग्निस्तत्रव तिष्ठतीति विनिश्चयः । प्रियव्रतात्मजस्तत्र सप्तजिह्न इति स्मृतिः ॥४॥ आग्नस्तदधिपस्त्विद्धघ्मजिह्वः स्वं द्वीपमेव च। विभज्य सप्त वर्षाणि स्वपुत्रेभ्यो ददौ विभुः ॥५॥ स्वयमात्मविदां मान्यां योगचर्यां समाश्रितः । तेनैव चात्मयोगेन भगवंतमुपागतः ॥६॥
Page 547
श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः १२ ५४७ शिवं च यवगं भद्रं शान्तं क्षेमामृते तथा। अभयं चेति सप्तव तद्वर्षाणि सदेक्षताम् ॥७॥ तेषु प्रोक्ता नदीः सप्त गिग्यः सप्त चैत्र हि। अरुणा नृम्णांगिरसी सावित्री सुप्रभातिका ।।८।। ऋतंभरा सत्यंभरा इति नद्यः प्रकीर्तिताः । मणिकूटो वज्कूट इंद्रसेनस्तर्थव च।।९॥ ज्योतिष्मान्व सुपर्णश्र हिरण्यष्ठीव एव च । मेघमाल इति ख्याताः प्लक्षद्वीपस्य पर्वताः ॥१०॥ नदीनां जलमात्रेण दर्शनस्पर्शनादिभिः । निर्धूताशेषरजसो निस्तमस्काः प्रजास्तथा ॥११॥ हंसश्रंव पतंगश्च ऊर्ध्वायन इतीव च। सत्यांगसंज्ञाश्चत्वारो वर्णाः प्लक्षस्य द्वीपके ॥।१२।। सहस्रायुःप्रमाणाश्र विविधोपमदर्शनाः । स्वर्गद्वारं त्रयीविद्या विधिनार्के यजंति ते ।।१३।। प्रत्स्य विष्णो रूपं च सत्यर्तस्य च व्रह्मणः । अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहि ॥१४॥ प्लक्षादिषु च सर्वेषु पंचद्वीपेषु नारद । आयुरिंद्रियमोजश्च बलं बुद्धि: सहोऽपि च ॥१५॥ विक्रमः सर्वलोकानां सिद्धिरौत्पत्तिकी सदा। प्लक्ष्वीपापरं चेक्षुरसोदः सरितां पतिः ॥१६॥ प्लक्षद्वीपं समग्रं च परिवार्यावतिष्ठते । शाल्मलाख्यस्ततो द्वापश्रास्माद्द्विगुणविस्तरः॥१७॥ समानेन सुरोदेन सिंधुना परिवेष्टितः । यत्र वै शात्मलीवृक्षः प्लक्षायामः प्रकीर्तितः १८।। स्थानं तत्पक्षिराजस्य मरुडस्य महात्मनः । तस्य द्वीपस्य नाथो हि यज्ञबाहुः प्रियव्रतात् ॥१९॥ जातः स एव सप्तभ्यः स्वपुत्रेभ्यो ददौ धराम् । तद्वर्षाणां च नामानि कथितानि निबोधत ॥२०॥ सुरोचनं सौमनस्यं रमणं देववर्षकम्। पारिभद्रं तथा चाप्यायनं विज्ञातनामकम् ॥२१॥ तेषु वर्षाद्रयः सप्त सप्तव सरितः स्मृताः । सरसः शतशृंगश्च वामदेवश्च कंदकः ॥२२॥ कुमुदः पुष्पवर्षश्च सहस्रश्रुतिरेव च । एते च पर्वताः सप्त नदीनामानि चोच्यते ॥२३॥ अनुमतिः सिनीवाली सरस्वती कुहूस्तथा। रजनी चैव नंदा च राकेति परिकीर्तिता ॥२४॥ तद्वर्पपुरुषाः सर्वे चातुर्वर्ण्यसमाह्वयाः ।श्रुतधरो वीर्यधरो वसुन्धर इषुन्धरः ॥२५॥ भगवंतं वेदमयं यजंते सोममीश्वरम् । स्वगोभिः पितृदेवेभ्यो विभजन्कृष्णशुक्लयोः ॥२६॥ सर्वासां च प्रजानां च राजा सोमः प्रसीदतु। एवं सुरोदाद्द्रिगुणः स्वमानेन प्रकीरतितः ॥२७॥ घृतोदेनावृतः सोडयं कुशद्वीपः प्रकाशते। यस्मिन्नास्ते कुशस्तंवो द्वीपाख्याकारणोज्वलन् २८।। स्वशष्परोचिषा काष्ठा भासयेन्परितिष्ठते। हिरण्यरेतास्तद्द्वीपपतिः प्रैयव्रतः स्वराट्।२९॥ स्वपुत्रेभ्यश्च सप्तभ्यस्तद्द्वीपं सप्तवाऽभजत् । वसुश्च वसुदानश्र तथा दृढरुचचिः परः ॥३०॥ नाभिगुप्तस्तुत्यव्रतौ वित्रिक्तनामदेवकौ । तेषां वर्षेषु सप्तैव सीमागिरिवराः स्मृताः ॥३१॥ नद्. सप्तैव संतीह तन्नामानि निबोधत। चक्रस्तया चतुःशृंगः कपिलश्चित्रकूटकः ॥३२॥ देवानीकश्चोर्घ्वरोमा द्रविषः सप्त पर्वताः । रसकुल्या मधुकुल्या मित्रविंदा तर्थव च ।३३॥ श्रुतविंदा देवगर्भा धुतच्युन्मंदमालिके। यत्पयोभिः कुशद्वीपवासिनः सर्व एव ते ॥३४॥
Page 548
५४८ श्रीमद्ेवीभागवते महापुराणे अष्टमस्कन्घे अध्याय: १३ कुशलः कोविदश्ववाप्यभियुक्तस्तथव च। कुलकश्चेति संज्ञाभिश्चतुर्वर्णाः प्रकीतिताः ॥३५॥ जातवेदसरूपं तं देवं कर्मजकौशलैः । यजंते देववर्याभाः सर्व सर्वविदो जनाः ॥३६॥ परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट्। देवानां पुरुषांगानां यज्ञेन पुरुषं यज ॥ एवं यजंते ज्वलनं सर्वें द्वीपाधिवासिन: ॥३७॥। इति श्रीेवीभागटो महापुराणेऽष्टमस्कन्धे द्वाइसोऽध्यायः ।१२। अथ त्रयोदशोऽध्यायः
शिष्टद्वीपप्रमाणं नारद उवाच सर्वार्थदर्शन। येन विज्ञातमात्रेण परानंदमयो भवेत् ।१।। श्रीनारायण उवाच कुशट्वीपस्य परितो घृतोदावरणं महत् । ततो बहिः क्रौंचद्वीपो द्विगुणः स्यात्स्वमानतः ॥२॥ क्षीरोदेनावृतो भाति यस्मिन्क्रौंचाद्रिरस्ति च । नामनिर्वर्तकः सोऽयं द्वीपस्य परिवर्तते ॥३॥ योऽसौ गुहस्य शक्त्या च भिन्नकुक्षिः पुराऽभवत्। क्षीरोदेनासिच्यमानो वरुणेन च रक्षितः ।४।। घृतपृष्ठो नाम यस्य विभाति किल नायकः । प्रियव्रतात्मजः श्रीमान्सर्वलोकनमस्कृत: ।।५।। स्वद्वीपं तु विभज्यैत सप्तधा स्वात्मजान्ददौ। पुत्रनामसु वर्षेषु वर्षपान्सन्निवेशयन् ॥६।। स्वयं भगवतस्तस्य शरणं संजगाम ह। आमो मधुरुहश्रव मेवपृष्ठः सुधामकः॥७। भ्राजिष्ठो लोहितार्णश्र वनस्पतिरितीव च। नगा नदश्च सप्तव विख्याता भुवि सर्वतः ।।८। शुक्लो वै वर्धमानश्र भोजनश्चोपबर्हणः । नंदश्च नंदन: सर्वतो भद्र इति कीतिताः॥९॥ अभया अमृतोघाचार्यका तीर्यवतीति च । वृत्तिरूपवती शुक्ला पवित्रवतिका तथा ॥१०॥ एंतासामुदकं पुण्यं चातुर्वर्ण्येन पीयते। पुरुषन्षभौ सद्वद्द्रविणाख्यश्च देवकः ॥११॥ एते चतुर्वर्णजाताः पुरुषा निवसंति हि। तत्रत्याः पुरुषा आपोमयं देवमपां पतिम् ॥१२॥ पूर्णेनांजलिना भक्त्या यजंते विविधक्रियाः । आपः पुरुषवीर्याः स्थ पुनंतीर्भूभुवः स्वरः ॥१३॥ दा नः पुनीतामीवघ्नीः त्पृशतामात्मना भुवः । इति मंत्रजपाते च स्तुवंति विविधः स्तवैः ॥१४॥ एवं स्त्रमानेन च द्वीपोडयं दधिमंडोदकेन च। शावदीपो विशिष्टोऽयं यस्मिञ्छाको महीरुहः ॥१६॥ स्वक्षत्रव्यपदेशस्य कारणं स हि नारद । प्रयव्रतोऽधिपस्तस्य मेधातिथिरिति स्मृतः ॥१७॥ विभज्य सप्त वर्पाणि पुत्रनामानि तेषु ध। सप्त पुत्रान्निजान्स्थाप्य स्वयं योगगति गतः ॥१८।। पुरोजवो मनःपूर्वजवोऽथ पवमानकः । धूम्रानीकश्चित्ररेफो बहुरूपोऽथ विश्वधृक॥१९॥
Page 549
श्रीमद्ेवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १२ ५४९
मर्यादागिरयः सप्त नद्यः सप्तव कीर्तिताः । ईशान उरुशृंगोज्थ बलभद्रः शतकेसरः ॥२०॥ सहस्रस्रोतको देवपालोऽप्यंते महाशनः । एतेऽद्रयः सप्त चोक्ताः सरित्रामानि सप्त च ॥२१॥ मनघा प्रथमायुर्दामभयस्पृष्टिरेव च। अपराजिता पंचपदी सहस्रश्रुतिरेव च ।।२२।। ततो निजधृतिश्चोक्ताः सप्तनद्यो महोज्ज्वलाः । तद्वर्षपुरुषाः सर्वे सत्यव्रतक्रतुव्रतौ ।२३॥ दानव्रतानुव्रतौ च चतुर्वर्णा उदीरिताः। भगवंतं प्राणवायुं प्राणायामेन संयुताः ॥२४॥ यजंति निर्धूतरजस्तमसः परमं हरिम् । अन्तः प्रविश्य भूतानि यो विभर्त्यात्मकेतुभिः ॥२५॥ अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे इदम् । परस्ताद्दधिमण्डोदात्ततस्तु बहुविस्तरः ॥२६॥ पुष्कर द्वीपनामायं शाकद्रीपद्विसंगुणः । स्वसमानेन स्वादूदकेनायं परिवेष्टितः ।२७।। यत्रास्ते पुष्करं भ्राजदग्निचडानिभानि च । पत्राणि विशदानीह स्वर्णपत्रायुतायुतम् ।२८।। श्रीमद्भगवतश्रेदमासनं परमेष्टिनः । कल्पितं लोकगुरुणा सर्वलोकसिसृक्षया ।२९।। सद्द्वीप एक एवायं मानसोत्तरनामकः । अर्वाचीनपराचीनवर्षयोरवधिर्गिरि: ।।३०॥ उच्छायायामयोः संख्याऽयुतयोजनसंमिता। यत्र दिक्षु च चत्वारि चतसृषु पुराणि हि॥३१॥ इन्द्रादिलोकपालानां यदुपर्यर्कनिर्गमः । मेरुं प्रदक्षिणीकुर्वन्भानुः पर्येति यत्र हि ॥३२॥ संवत्सरात्मकं चक्रं देवहोत्राभिधो भ्रमन्। प्रयव्रतोऽधिपो वीतिहोत्रः स्वात्मजकद्वयम् ॥३३॥ बषद्वये परिस्थाप्य वर्षनामधरं क्रमात्। रमणो धातकिश्रंव तत्तद्वर्षपती उभौ ॥३४॥ इताः स्वयं पूर्वजवद्गगवद्धक्तितत्पराः । तद्वर्षपुरुषा ब्रह्मरूपिणं परमेश्वरम् ॥३५॥ सकमकेन योगेन यजन्ति परिशीलिताः । यत्तत्कर्ममयं लिंग ब्रह्मलिंगं जनोऽर्चयेत् ॥ एकांतमद्वयं शांतं तस्मै भगवते नमः ॥३६॥ इति श्रीदेवोमागवते महापुराणेऽष्टमस्कन्धे त्रयोदशोऽध्यायः ॥१३। अथ चतुर्दशोऽध्यायः श्रीनारायण उवाच ततः परस्तादचलो लोकालोकेति नामकः । अन्तराले च लोकालोकयोर्यः परिकल्पितः ।१॥ यावदस्ति च देवषें ह्यन्तरं मानसोत्तरात्। सुमेरोस्तावती शुद्धा कांचनी भूमिरस्ति हि॥२॥ दर्पणोदरतुल्या सा सर्वप्राणिविवर्जिता। यस्यां पदार्थः प्रहितो न किचित्प्रत्युदीयते ॥३॥ अतः सर्वप्राणिसंघरहिता सा च नारद। लोकालोक इति व्याख्या यदत्र परिकल्पिता ॥४।। लोकालोकांनरे चास्य वर्तते सर्वदा स्थितिः । ईश्वरेण स लोकानां त्याणामन्तगः कृतः ॥५॥ सूर्यादीनां ध्रुबांतानां रश्मयो यद्वशादिह । अर्वाचीनाश्च त्रींल्लोकानातन्वाना: कदापि हि॥६।।
Page 550
५५० श्रीमह्देवीमागवते महापुराणे अष्टमस्कन्धे अध्याय: १५ पराचीनत्वभाजो हि न भवन्ति च नारद। तावदुन्नहनायामः पर्वतेन्द्रो महोदयः ॥७॥। एतावांल्लोकविन्यासोऽयं संस्थामानलक्षगैः । कविभिः स तु पच्चाशत्कोटिभिर्गणितस्य च ।।८।। भूगोलस्य चतुर्थांशो लोकालोकाचलो मुने। तस्योपरि चतुर्दिक्षु ब्रह्मणा चात्मयोनिना ।९॥ निवेशिता दिग्गजा ये तन्नामानि निबोधत। कषभः पुप्पचूडोऽथ वामनोऽथापराजितः ॥१०॥ एते समस्तलोकस्य स्थितिहेतव ईरिताः । तेषां च स्वविभूतीनां बहुवीर्योपनृंहणम् ॥११॥ विशुद्धसत्वं चैश्वर्यं वर्धयन्भगवान्हरिः। आस्ते सिद्धष्टकोपेतो विष्वक्सेनादिसंवृतः ।१२। निजायुधै: परिवृतो ुजदण्डः समन्ततः । आस्ते सकललोकस्य स्वस्तये परमेश्वरः ॥१३॥ आकल्पमेवं वेषं स गतो विष्णुः सनातनः । स्वमायारचितस्यास्य गोपीथायात्मसाधनः ॥१४॥ योऽन्तविस्तार एतेन ह्यलोकपरिमाणकम्। व्याख्यातं यद्वहिर्लोकालोकाचल इतीरणात्॥१५॥ ततः परस्ताद्योगेशगति शुद्धां वदन्ति हि। अण्डमध्यगतः सूर्यो द्यावाभूम्योर्यदन्तरम् ॥१६॥ सूर्याण्डगोलयोर्मंध्ये कोटयः स्युः पञ्चविशतिः । मृतेंड एष एतस्मिआ्तो मार्तण्डशब्दधाक् ॥१।। हिरण्यगर्भ इति यद्िनण्यांडसमुद्दवः। सूर्येण हि विभज्यंते दिशः खं द्यौर्महीभिदा॥१८॥ स्वर्गापवर्गौं नरका रसौकांसि च सर्वशः। देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ॥१९॥ सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वरः । एतावान्भूमण्डलस्य सन्निवेश उदाहृतः ॥२०॥ एतेन हि दिवो मानं वर्णयन्ति च तद्धियः । द्विदलानां च निष्पावादीनां च दलयोर्यथा ॥२१॥ अन्तरेण तयोरन्तरिक्षं तदुभयसंधितम्। यन्मध्यगश्च भगवान्भानुर्वे तपतां वरः ॥२२॥ आतपेन त्रिलोकों च प्रतपत्येव भासयन् । उत्तरायणमासाद् गतिमांद्यं वितन्वते।२३॥ आरोहणस्थानमसौ गत्वाहोदैर्ष्यमाचरेत्। दक्षिणायनमासाद्य गतिशैघ्रयं वितन्वते ॥२४॥ अवरोहणस्थानमसौ गच्छन्ह्स्वं दिनं चरेत् । विषुवत्संज्ञमासाद्य गतिसाम्यं वितन्वते ॥२५॥ समस्थानमथासाद्य दिनसाम्यं करोति च । यंदा च मेषतुलयोः संचरेद्धि दिवाकरः ॥२६॥ समानानि त्वहोरात्राण्यातनोति त्रयीमयः । वृषादिपंचसु यदा राशिष्वर्को विरोचते ॥२७॥ तदाहानि च वर्धन्ते रात्रयोऽपि ह्रसंति च । वृश्चिकादिषु सूर्यो हि यदा सञ्चरते रविः ॥२८। तदाऽपीमान्यहोरात्राणि भवन्ति विपर्ययात् ।।२९। इति श्रीदेवीभागवरे महापुराणे सप्तमस्कन्धे चतुर्दशोऽध्यायः ॥१४॥ अथ पश्चदशाऽध्यायः नारायण उवाच अतः परं प्रवक्ष्यामि भानोर्गमनमुत्तमम् । शीघ्रमनदादिगतिभिस्त्रिविधं गमनं रवेः ॥१॥
Page 551
श्रीमद्ेवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १५ ५५१ सर्वग्रहाणां त्रीण्येव स्थानानि सुरसत्तम । स्थानं जारद्रवं मध्यं तर्थरावतमुत्तरम् ॥२॥ वैश्वानर दक्षिणतो निर्दिष्टमिति तत्त्वतः । अश्विनी कृत्तिका याम्या नागवीथीति शन्दिता ॥३। रोहिण्यार्द्रा मृगशिरो गजवीथ्यभिधीयते। पुष्याश्लेषा तथादित्या वीथी चरावती स्मृता ॥४॥ एतास्तु वोथयस्तिस्र उत्तरो मार्ग उच्यते । तथा द्वे चापि फल्गुन्यौ मघा चवार्षभी मता ॥५॥ हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥६॥ एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते। मूलापाढोत्तराषाढा अजवीथ्यभिशब्दिता ।।७।। श्रवणं च धनिष्ठा च मार्गी शतभिषा तथा। वैश्वानरी भाद्रपदे रेवती चैव कीर्तिता ।८।। एतास्तु वथयस्तिस्त्रो दक्षिणो मार्ग उच्यते। उत्तरायणमासाद्य युगाक्षांतर्निबद्धयोः ॥९॥ कर्षणं पाशयोर्वायुबद्धयो रोहणं स्मृतम्। तदाभ्यंतरगान्मण्डलाद्रथस्य गतेर्भवेत् ॥१० ।। मांद्यं दिवसवृद्धिश्र जायते सुरसत्तम । रात्रिह्रासश्र भवति सौम्यायनक्रमो ह्ययम् ॥११॥ दक्षिणायनके पाशे प्रेरणादवरोहणम् । बहिर्मण्डलवेशेन गतिशध्रयं तदा भवेत् ॥१२॥ तदा दिनाल्पता रात्रिवृद्धिश्च परिकीतिता। वैषुवे पाशसाम्यात्तु समावस्थानतो रवेः ॥१३॥ मध्यमण्डलवेशश्च साम्यं रात्रिदिनादिके। आकृष्येते यदा तौ तु ध्रुवेण समधिष्ठितौ ॥१४॥ तदाभ्यंतरतः सूर्यो भ्रमते मंडलानि च। ध्रुवेण मुच्यमानेन पुना रश्मियुगेन तु॥१५॥ त्थव बाह्यतः सूर्यो भ्रमते मण्डलानि च। तस्मिन्मेरौ पूर्वभागे पुर्येन्द्री देवधानिका ॥१६॥ दक्षिणे वै संयमनी नाम याम्या महापुरी। पश्चान्निम्लोचनी नाम दारुगी वै महापुरी ॥१७। तदुत्तरे पुरी सौम्या प्रोक्ता नाम विभावरी। ऐन्द्रपुर्यां रवेः प्रोक्त उदयो ब्रह्मवादिभिः ॥१८॥ संयमन्यां च मध्याह्न निम्लोचन्यां निमोलनम्। विभावर्या निशीथः स्यात्तिग्मांशोः सुरपूजितः॥१९॥ प्रवृत्तेश्र निमित्तानि भूतानां तानि सर्वशः । मेरोश्चतुर्दिशं भानोः कीर्तितानि मया मुने ॥२०॥ मेरुस्थानां सदा मध्यं गत एव विभाति हि। सव्यं गच्छन्दक्षिणेन करोति स्वर्णपर्वतम् ॥२१॥ उदयास्तमये चव सर्वकालं तु सम्मुखे। दिशास्वशेषासु तथा सुरर्षे विदिशासु च ॥२२॥ यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः । तिरोभावं च यत्रैति तत्रवास्तमन रवेः ॥२३॥ नैवास्तमनमर्कस्य नोदयः सर्वदा सतः । उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥२४॥ शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् । विकर्णो द्वौ विकर्णस्थस्त्रीन्कोणान्दे पुरे तथा ॥२५॥ सर्वेषां द्वीपवर्षाणां मेरुरुत्तरतः स्थितः । यैर्यत्र दृश्यते भानुः सैव प्राचीति चोच्यते ॥२६॥ तद्वामभागतो मेरुपर्वतेति विनिर्णयः । यदि चैंद्रयाः प्रचलते घटिका दशपञ्चभिः ॥२७॥ याम्यां तदा योजनानां सपादं कोटियुग्मकम्। सार्धद्वादशलक्षाणि पंचनेत्रसहस्त्नकम् ॥२८॥ प्रक्रामति सहस्रांशुः कालमार्गप्रदर्शकः । एवं ततो वारुणों च सौम्यामैंद्रो सहस्रदृक् ॥२९॥
Page 552
५५२ श्रीम रेवीमागवते महापुराणे अक्कते अभकाक: ११ पर्येति कालयक्रात्मा द्युमः कालवुडये। कमा चान्ये रहा: सोमादयो ये दिविचारिण: ३०।। नक्षत्रैः सह चोदति सह चास्ं बजंति ते। एवं मुहर्तेन रथो भानोरष्टशताधिकम् ॥१॥ योजनानां चतुसिंशल्लक्षाधि अर्मात प्रभुः। त्रयीमयश्रतुदिक्षु पुरीषु च समोरणात् ॥३२॥ प्रवहाख्यात्सदा कालचक्रं पर्येति भानुमान्। यस्य चक्रं रथस्यैकं द्वादगारं त्रिनाभिकम् ॥२३॥। षण्नेमि कवयस्तच्च न वत्सरात्मकमूचिरे। मेरुमूर्धनि तस्याक्षो मानसोत्तरपर्वते ॥३४॥ क्रमेतरविभागो यः प्रोतं तत्र रथांगकम्। तैलकारकयंत्रेण चक्रसाम्यं परिभ्रमत् ॥३५॥ मानसोत्तरनाम्नीह गिरौ पर्येति चांशुमान् । तम्मिन्नक्षे कृतं भूलं द्वितीयोऽक्षो ध्रुवे कृतः ॥३६॥ तुर्यमानेन तैलस्य यंत्राक्षवदितीरितः । कृतोपरितनो भागः सूर्यम्य जगतांपतेः ॥३७॥ रथनीडस्तु षट्त्रिशल्लक्षयोजनमायतः । तत्तुर्मभागतः सोडयं परिणाहेन कीतितः ।३८।। तावानकरथस्यात्र युगस्तस्मिन्हयाः शुभाः । सप्तच्छंदोभिवानाश्र सूरसूतेन योजिताः ॥३९॥ वहंति देवमादित्यं लोकानां सुखहेतवरे। पुरस्तात्सवितु: मूतोऽरुणः पश्चान्नियोजितः ॥४०॥ सौत्ये कर्मण संयुक्तो वर्तते गरुडाग्रजः । तर्थव वालखिल्याख्या ऋषयोंगुष्ठार्वकाः ॥४१॥ प्रमाणेन परिखयाताः षष्टिसाहस्त्रसंख्यकाः । स्तुवंति पुरतः सूर्य सूक्तवाक्यैः सुशोभनैः ॥४२॥ तथा बान्ये व ऋषयो गंधर्वा अप्सरोरगाः । ग्रामण्यो यातुधानाश्र देवाः सर्वे परेश्वरम् ॥४३॥ एकैकशः सप्त सप्त मासि मासि विरोचनम्। सार्धलक्षोत्तर कोटिनवकं भूमिमण्डलम् ।४४॥ द्विसहसत्रं योजनानां स गव्यूत्युत्तरं क्षणात्। पर्येति देवदेवेशो विश्वव्यापी निरन्तरम् ॥४५॥ इति श्रीदेवीभागवते महापुराणेऽष्टमस्कन्धे पंचदशोऽध्यायः ।१५॥ अथ पोडशोऽध्यायः श्रीनारायण उवाच अबातः श्रयतां चित्रं सोमादीनां गमादिकम्। तद्गत्यनुसृता नृणां ुभाशुभनिदर्शना ॥१॥ यथा कुलालचक्रेण भ्रमता भ्रमतां सह। तदाश्रयाणां च गतिरन्या कोटादिनां भवेत् ॥।२।। एवं हि राशिवृन्देन कालचक्रेण तेन च। मेरूंधुरं च सरतां प्रादक्षिण्येन सर्वदा॥३॥ ग्रहाणां भानुमुख्यानां गतिरन्यैव दृश्यते। नक्षत्रांतरगामित्वाद्द्ांतरे गमनं तथा ॥४॥ गतिद्वयं चाविरुद्धं सर्वत्रैष विनिर्णयः । स एव भगवानादिपुरुपो लोकभावनः ॥५॥। नारायणोऽखिलाधारो लोकानां स्वस्तये भ्रमन् । कर्मशुद्धिनिमिनं तु आत्मानं वै त्रयीमयम् ।६।। कविभिश्चव वेदेन विजिज्ञास्योऽर्कधाऽभवत् । षट्सु क्रमेण ऋतुषु वसंतादिषु च स्वयम् ॥३॥ यथोपजोषमृतुजान्गुणान्यं विदधाति थ। तमेनं पुरुषाः सर्वे त्रय्या च विद्यया सदा ॥।८।।
Page 553
श्रीमदेवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १६ ५५३ वर्णाश्रमाचारपथा तथाऽडम्नातैश्र कर्मभिः । उच्चावरचः श्रद्धया च योगानां च वितानकैः ॥९॥ अंजशा च यजंते ये श्रेयो विन्दंति ते महत् । अर्थव आत्मा लोकानां द्यावाभूम्यंतरेण च ॥१० ॥ कालचक्रगतो भंक्ते मासान्दवादशराशिभिः । संवत्सरस्यावयवान्मासः पक्षद्वयं दिवा ॥११॥ नक्तं चेति स पादर्क्षद्वयमित्युपदिश्यते। यावता षष्ठमंशं स भृंजीत ऋतुरुच्यते ॥१२॥ संवत्सरस्यावयवः कविभिश्चोपर्वणितः । यावतार्धेन चाकाशवीथ्यां प्रचरते रविः ॥१३।। तं प्राक्तना वर्णयंति अयनं मुनिपूजिताः । अथ यात्रन्नभोमंडलं सह प्रतिगच्छत ॥१४॥ कात्स्न्येन सह भुञ्जीत कालं तं वत्सरं विदुः। संवत्सरं परिवत्सरमिडावत्सरमेव च॥१५॥ अनुवत्सरमिद्वत्सरमिति पंचकमीरितम् । भानोमद्यिशघ्रयसमगतिभिः कालवित्तमैः ॥१६॥ एवं भानोगतिः प्रोक्ता चन्द्रादीनां निबोधत। एवं चन्द्रोऽर्करश्मिभ्यो लक्षयोजनमुर्ध्वतः ॥१७॥ उपलभ्यमानो मित्रस्य संवत्सरभुजि च सः। पक्षास्यां चौषधीनाथो भुंक्ते मानभुजि च सः १८।। सपादमाभ्यां दिवसभुकि पक्षभुजि चरेत्। एवं शीघ्रगतिः सोमो भंक्ते नूनं भचक्रकम् ॥१९॥ पूर्यमाणकलाभिश्चामराणां प्रीतिमावहन् । क्षीयमाणकलाभिश्च पितृणां चित्तरंजकः ॥२०॥ अहोरात्राणि तन्वानः पूर्वापरसुघस्त्रकैः । सर्वजीवनिकायर्य प्राणी जीवः स एव हि ॥२१॥ भुंक्ते चैकैकनक्षत्रं मुहूर्ततत्रिशता विभुः।स एव षोडशकलः दुरुपोऽनादिरुत्तमः ॥२२॥ मनोमयोऽप्यन्नमयोऽमृतधामा सुधाकरः। देवर्षितृमनुष्यादिसरीसृपसवीरुधाम् ।।२३।। प्राणाप्यायनशीलत्वात्स सर्वमय उच्यते । ततो भचक्रं भ्रमनि योजनानां त्रिलक्षतः ॥२४॥ मेरुप्रदक्षिणेनैव योजितं चेश्वरेण तु। अष्टाविशतिसंख्यानि गणितानि सहाभिजित् ॥२५॥ ततः शुक्रो द्विलक्षेण योजनानामथोपरि। पुरः पश्चात्सहैवासावर्कस्य परिवर्तते ॥२६॥ शीघ्रमंदसमानाभिर्गतिभिरविचरन्विभुः । लोकानामनुकूलोऽयं प्रायः प्रोक्त: शुभावहः ॥२७॥ वृष्टिविष्टंभशमनो भार्गवः सर्वदा मुने । शुक्रादबुघः समार्यातो योजनानां द्विलक्षतः ॥२८।। शोघ्रमंदसमानाभिगतिभिः शुक्रवत्सदा। यदार्का्वयतिरिच्येत सौम्यः प्रायेण तत्र तु ॥२९॥ अतिवाताभ्रपातानां वृष्टयादिभयसूचकः । उपरिष्ठात्ततो भौमी योजनानां द्विलक्षतः ॥३०॥ पक्षस्त्रिभिस्त्रिभिः सोडयं भक्ते राशीनथैकशः । दादशापि च देवर्षे यदि वक्रो न जायते ॥३१॥ प्रायेणाशुभकृत्सोऽयं ग्रहौघानां व सूचकः । ततो द्विलक्षमानेन योजनानां न गोष्पतिः ॥३२॥। एकैकस्मित्नथो राशी भुंक्ते संवत्सरं चरन्। यदि वक्रो भवेन्नैबानुकूलो ब्रह्मवादिनाम् ॥३३॥ ततः शनैश्चरो धोरो लक्षद्वयपरो मतः । योजनैः सूर्यपुत्रोऽयं त्रिशन्मासैः परिभ्रमन् ॥३४॥ एकैकराशौ पर्येति सर्वात्राशीन्महाग्रहः । सर्वेषामशुभो मन्दः प्रोक्त: कालविदां वरैः ॥३५॥ तत उत्तरत: प्रोक्तमेकादशसुलक्षकैः । योजनैः परिसंख्यातं सप्तर्षीणां थ मण्डलम् ॥३६।
Page 554
५५४ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १७ लोकानां शं भावयंतो मुनयः सप्त ते मुने। यत्तद्विष्णुपदं स्थानं दक्षिणं प्रक्रमन्ति ते ।३७॥। इति श्रीदेवीभागवते महापुराणे अष्टमस्कन्धे षोडशोऽध्यायः ॥१६॥ अथ सप्तदशोऽध्यायः श्रीनारायण उवाच अर्थाषमण्डलादूर्ध्व योजनानां प्रमाणतः। लक्षस्तयोदशमितैः परमं वैष्णवं पदम् ॥१॥ महाभागवतः श्रीमान्वर्तते लोकवंदितः । औत्तानपादिरिद्रेण वह्निना कश्यपेन च ॥।२॥ धर्मेण सह चैवास्ते समकालयुजा ध्रुवः। बहुमानं दक्षिणतः कुर्वा्द्गिः प्रेक्षकैः सदा ॥३॥ आजीव्यः कल्पजीविनामुपास्ते भगवत्पदम् । ज्योतिर्गणानां सर्वेषां ग्रहनक्षत्रभादिनाम् ।।४।। कालेनानिमषेणायं भ्राम्यता त्यक्तरंहसा। अवष्टंभस्थाणुरिव विहितश्चेश्वरेण सः॥५॥ भासते भासयन्मासा स्वीयया देवपूजितः । मेढिस्तंभे यथा युक्ताः पशवः कर्षणार्थकाः ॥६॥ मण्डलानि चरंतीमे सवननितयेन च। एवं ग्रहादयः सर्वे भगणाद्या यथाक्रमम् ॥७॥ अन्तर्बहिर्विभागेन कालचक्रे नियोजिताः । ध्रुवमेवावलंब्याशु वायुनोदोरिताश्र ते ॥८॥ आकल्पांतं च क्रमंति खे श्येनादा: खगा इव । कर्मसारथयो वायुवशगाः सर्व एव ते ॥९॥ एवं ज्योतिर्गणा: सर्वे प्रकृतेः पुरुषस्य च । संयोगानुगृहीतास्ते भूमो न निपतंति च ॥१०॥ ज्योतिश्चक्रं केचिदेतच्छिशुमारस्वरूपकम् । सोपयोगं भगवता योगधारणकर्मणि॥११॥ यस्यार्वाकशिरसः कुंडलीतवपुषो मुने । पुच्छाग्रे कल्पितो योऽयं ध्रुव उत्तानपादजः ॥१२॥ लांगूलेऽस्य च संप्रोक्त: प्रजापतिरकल्मषः । अग्निरिंद्रश्च धर्मश्र तिष्ठंते सुरपूजिताः ॥१३॥ धाता विधाता पुच्छांते कटयां सप्तर्षयस्ततः । दक्षिणावर्तभागेन कुण्डलाकारमोयुषः।१४॥ उत्तरायणभानीह दक्षपाश्वेऽपितानि च । दक्षिणायनभानीह सव्ये पाश्वेऽपितानि च ॥१५॥ कुण्डलाभोगवेशस्य पाश्वयोरुभयोरपि। समसंख्याश्चावयवा भवन्तिं कजनंदन ॥१६।। अजवीथोपृष्ठभागे आकाशसरिदौदरे। पुनर्वसुश्च पुष्यश्च श्रोण्यौ दक्षिणवामयोः ॥१७॥ आर्द्राश्लेषे पश्चिमयोः पादयोर्दक्षवामयोः । अभिजिच्चोत्तराषाढा नासयोर्दक्षवामयोः ॥१८॥ यथासंखयं च देवर्षे श्रुतिश्र जलभं तथा। कल्पिते कल्पनाविद्भिर्नेत्रयोर्दक्षवामयोः ॥१९॥ धनिष्ठा चैव मूलं च कर्णयोर्दक्षवामयोः । मघादोन्यष्टभानीह दक्षिणायनगानि च ॥२०॥ युञ्जीत वामपार्श्वीयवंक्रिषु क्रमतो मुने । तथव मृगशीर्षादीन्युदग्भानि च यानि हि ॥२१॥ दक्षपार्श्वे वंक्रिकेषु प्रातिलोम्येन योजयेत्। शततारा तथा ज्येष्ठास्कंधयोर्दक्षवामयोः ॥२२॥ अगस्तिश्रोत्तरहनावधरायां हनौ यमः । मुखेष्वंगारकः प्रोक्तो मंदः प्रोक्त उपस्थके ॥२३।।
Page 555
श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: १८ ५५५ बृहस्पतिश्र ककुदि वक्षस्यर्को ग्रहाधिपः । नारायणश्च हृदये चन्द्रो मनसि तिष्ठति ॥२४॥ स्तनयोरश्चिनौ नाभ्यामुशनाः परिकीर्तितः । बुधः प्राणापानयोश्च गले राहुश्र केतवः ॥२५॥ सर्वांगेषु तथा रोमकूपे तारागणा: स्मृताः एतद्भ्गवतो निष्णोः सर्वदेवमयं वपुः ॥२६॥ संध्यायां प्रत्यहं ध्यायेत्प्रयतो वाग्यतो मुनिः। निरीक्षमाणश्चोततिष्टेन्मत्रेणानेन धोधरः ॥२७॥ नमो ज्योतिर्लोकाय कालायानिमियां पतये महापुरृषायाभिधीमहीति ॥२८॥ ग्रहर्क्षतारामयमाधिदैविकं पापापहं मंत्रकृतां त्रिकालम्। नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम्॥२९॥ इति श्रीदेवीभागवते महापुराणेषष्टमस्कन्धे सप्तदशोऽध्यायः ॥१७॥। अथाष्टादशोऽध्यायः श्रीनारायण उवाच अधस्तात्सविनुः प्रोक्तमयुतं राहुमण्डलम्। नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥१॥ सूर्या चंद्रमसोरेव मर्दन: सिंहिकासुतः । अमरत्वं च खेटत्वं लेभे यो विष्णनुग्रहात् ॥२।। यददस्तरणेबिम्बं तपतो योजनायुतम्। तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥३॥ त्रयोदशसहस्त्रं तु सोमस्याच्छादको ग्रहः। यः पर्वसमये वैरानुबंधो छादकोऽभवत् ॥४॥ सूर्याचंद्रमसोर्दूराद्वेच्छादनकारकः । तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥५॥ चक्रं सुदर्शनं नाम ज्वालमालातिभीषणम् । तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥६॥ मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः । आरान्निवर्तते सोऽयमुपराग इतीव ह॥७॥ उच्यते लोकमध्ये तु देवषें अवबुध्यताम् । ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥८।। सिद्धानां चारणानां च विद्याध्राणां च सत्तम । योजनायुतविख्याता लोकाः पुण्या निषेविताः ॥९॥ ततोऽप्यधस्तादेवर्षे यक्षाणां च सरक्षसाम्। पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥१०॥ अंतरिक्षं चलत्प्रोक्तं यावद्वायुः प्रवाति हि। यावन्मेघास्तथोद्यंति यत्प्रोक्तं ज्ञानकोविदैः ॥११। ततोऽधस्ताद्योजनानां शतं यावद्द्विजोत्तम । पृर्थिवी परिसंख्याता सुपर्णश्येनसारसाः ॥१२॥ हंसादयः प्रोत्पतंति पार्थिवाः पृथिवीभवाः । भूसन्निवेशावस्थानं यथावदुपर्वणितम् ॥१३।। अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः । एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥१४॥ अयुतांतरविख्याताः सर्वर्तुसुखदायकाः। अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥१५॥ तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम्। महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥१६॥ सप्तमं विप्रं पातालं सप्त ते विवरा: स्मृताः । एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च॥१७॥
Page 556
५५६ श्रीमदंवीभागवत महापुराणे अष्टमस्कं्धे अध्याय: १९ कामभोगेश्वर्यमुखसमृद्धभुवनेषु च। नित्योद्यानविहारेपु सुखास्वादः प्रवर्तते ॥१८। दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः । नित्यप्रमुदिता रक्ताः कलत्रापत्यबंतुभिः ॥१९॥ सुहृन्द्िरनुजीवाह्यः संयुनाश्च गृहेश्वराः । ईश्वरादप्रतिहृतकामा मायाविनश्च ते ॥२०॥ निवसंति मदा दृषः सर्वतुसुखसंयुताः । मयेन मायात्रिभुना येषु येषु च निर्मिताः ॥२१॥ पुरः प्रकामशो भक्ता मणिप्रवरक्षालिनः । विवित्रभवनाद्वाला गोपुराद्याः सहमशः ॥२२॥ सभानत्वरचैत्यादिशो माढचाः सुरुर्लभाः। नागासुराणां मिथुनैः सपारावतसारिकैः ॥२३॥ कीर्गकृत्रिमभूमिश्र विवरेशगृहोत्तमेः । अलंकृताश्चकासंति उद्यानानि महांति च ॥२४॥ मनःप्रसन्नकारोणि फल गुष्पविशालिभिः । ललनानां विलासार्हस्थानैः शोभितभांजि च ॥२५॥ नानाविहंमव्रातसंयुक्तजलराशिभि : पाठीनसमलंकृतैः ॥।२६।। । कुमुदोत्पलक ह्वार नील रक्तोत्पलैस्त्था ।।२७| तेपु कृतनिकेतानां त्रिहारैः संकुलानि च । इंद्रियोत्सवकारैश्र तर्थत्र विविधः स्वरैः ॥२८॥ अमराणां च परमां शियं चातिशयंति च। यत्र नैव भयं क्वापि कालांगैर्दिनरात्रिमिः ॥२९॥ य्शहिप्रतराणां च शिरःस्थैर्मणिरश्मिभिः । नित्यं तमः प्रबाध्येत सदा प्रस्फुटकांतिभिः ॥३०। न वा एतेषु वसतां दिव्यौषधिरसायनैः । रसान्नपानस्नानादयर्नाधयी न च व्याधयः ।३१॥ वलीपलितजीर्णत्वववर्ण्यस्वेदगंधताः । अनुत्साह्वयोऽवस्था न बाधंते कदाचन ।।३२।। कल्याणानां तदा येषां न च मृत्युभयं कुतः । भगवत्तेजसोऽन्यत्र चक्राच्चव सुदर्शनात् ॥३३॥ यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः। प्रायो भयात्पतंत्येव स्रवंति ब्रह्मपुत्रक ॥३४।। इति श्रीदेवीभागवते महापुराणेऽट्टमस्कन्धेऽदादशोऽध्बायः ।।१८॥ अथैकोन विंशोऽष्यायः श्रीनारायण उवाच प्रथमे विवरे दित अतलाख्ये मनोरमे। मयपुत्रो बलो नाम वर्ततेऽखर्वगर्वकृत् ॥१॥ षष्णवत्यो येन सृषा माया: सर्वार्थसाधिकाः । मायाविनो याश्र सद्यो धारयंति च काश्रन ॥२।। जभ्भगाणस्य यस्पैव वलस्य बलशालिनः । स्त्रीगणा उपपद्यंते त्रयो लोकविमोहनाः ॥३॥ पुंश्रल्यश्चैव स्वैरिण्यः काममिन्यश्चेति विश्रुताः । या वै विलायनं प्रेष्ठं प्रविष्टं पुरुषं रहः ।।४।। रसेन हाटकारूयेन साधयित्वा प्रयत्नतः । स्व्रविलासावलोकानुरागस्मितविगूहनैः संलापविभ्रमाद्येश्च रमयंत्यपि ताः ख्िनियः । यस्मिन्नुपयुक्तो जनो मनुते वहुषा स्वयम् ॥६॥ ईश्वरोऽहमहं सिद्धो नागायुतवलो महान्। आत्मानं मन्यमानः सन्मदान्य इव कध्यते ।।७।।
Page 557
श्रीमरेवीमागवते महापुराणे अष्टमस्कन्धे अध्याय: १९ ५५७ एवं प्रोक्ता स्थितिश्रात्र अतलस्य च नारद। द्वितीयविवरस्यात्र वितलस्य निबोधत ।।८।। भूतलाधस्तले चैव वितले भगवान्भवः । हाटकेश्वरनामाऽयं स्वपार्षदगणैर्वृतः ।।९।। प्रजापतिकृतस्यापि सर्गस्य बृंहणाय च। भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ॥१॥ भवयोर्वीर्यसंभूता हाटकी सरिदुत्तमा। समिद्धो मरुता वह्निरोजसा पिवतीव हि ॥११॥ तन्निष्ठ्यूतं हाटकाख्यं सुवर्ण दैत्यवल्लभम्। दैत्यांगनाभूषणाहं सदा संधारयंति हि ॥१२॥ तद्विलाधस्तलात्प्रोक्तं सुतलाख्यं विलेश्वरम्। पुण्यश्हीको वलिर्नामा आस्ते वैरोचनिर्मुने ॥१३॥ महेंद्रस्य च देवस्य चिकीर्षुः प्रियमुत्तमम् । त्रिविक्रमोऽपि भगवान्सुतले बलिमानयत् ॥१४।। त्रैलोक्यलक्ष्मीमाक्षिप्य स्थापितः किल दैत्यराट्। इंद्रादिप्वप्यलब्धा या सा श्रीस्तमनुवर्तते ॥१५॥ तमेव देवदेवेशमाराघयति भक्तितः । व्यपेतसाध्वसोऽद्यापि वर्तते सुतलाधिपः ॥१६।। भूमिदानफलं ह्येतत्पात्रभूतेऽखिलेश्वरे। वर्णयंति महात्मानो नैतदयुक्तं च नारद ॥१७॥ वामुदेवे भगवति पुरुषार्थप्रदे हरो। एतहानफलं विप्र सर्वथा न हि युज्यते ॥१८। यस्यैव देवदेवस्य नामापि दिवशो गृणन् । स्वकीयकर्मबंधीयगुणान्विधुनुतेऽञजसा ।।१९। यत्क्लेशबंघहानाय सांख्ययोगादिसाधनम् । कुर्वते यतयो नित्यं भगवत्यखिलेश्वरे ॥२०॥ न चायं भगवानस्माननुजग्राह नारद। मायाभयं च भोगानामेश्वर्यं व्यतनोत्परम् ।।२१। तदात्मानुस्मृतिमोषणम् । यं साक्षाद्द्गगवान्विष्णुः सर्वोपायविदीश्वरः ॥२२॥ याञ्जाछलेनापहृतं सर्वस्वं देवशेषकम्। अप्राप्तान्योपाय ईशः पाशैर्वारुणसंभवैः॥२३॥ बंधयित्वाऽवमुच्यापि गिरिदर्यामिवाब्रवीत् । असाविंद्रो महामूढो यस्य मंत्री बृहस्पतिः ॥२४॥। प्रसन्नमिममत्यर्थमयाचल्लोकसंपदम् । त्रलोक्यमिदमैश्वयं कियदेवातितुच्छकम् ॥२५॥ आशिषां प्रभवं मुक्त्वा यो मूढो लोकसं्पाि । अस्मत्पितामहः श्रीमान्प्रह्नादो भगवत्प्रियः ॥२६॥ दास्यं वव्रे विभोस्तस्य सर्वलोकोपकारकः । पित्र्यमश्वर्यमतुलं दीयमानं च जिष्णुना ॥२७॥ पितुर्युपरते वीरे नैवैच्छद्भगवत्प्रियः। तस्यात्लानुभावस्य सर्वलोक्ोपधीमतः ॥२८।।
अस्मद्विधो नाल्पपक्वेतरदोषोऽवगच्छति । एवं दैत्यपतिः सोऽयं वलिः परमपूजितः ॥२९॥ सुनले वर्तते यस्य द्वारपालो हरिः स्वयम् । एकदा दिग्विजये राजा रावणो लोकरावणः ॥३०। प्रविशन्सुतले येन भक्तानुग्रहकारिणा। पादांगुष्टेन प्रक्षिप्तो योजनायुतमत्र हि॥३१॥ एवं भूतानुभावोऽयं बलिः सर्वसुखकभुक्। आस्ते सुतलराजस्थो देवदेवप्रसादतः ॥३२॥ इति श्रीदेवीभागवते महापुराणेऽष्टमस्कन्धे एकोनविंशोऽध्यायः ।।१९।।
Page 558
५५८ श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः २० अथ विंशोऽध्यायः श्रीनारायण उवाच ततोऽधस्ताद्विवरकं तलातलमुदीरितम्। दानवेंद्रो मयो नाम त्रिपुराधिपतिमंहान् ॥१। त्रिलोक्याः शंकरेणाडयं पालितो दग्धपूस्त्रयः । देवदेवप्रसादात्तु लब्धराज्यसुखास्पदः ॥२॥ आचार्यो मायिनां सोऽयं नानामायाविशारदः । पूज्यते राक्षसैर्घोरैः सर्वकार्यसमृद्धये ॥३॥ ततोऽधस्तात्सुविख्यातं महातलमिति स्फुटम् । सर्पाणां काद्रवेयाणां गणः क्रोधवशो महान् ॥४। अनेकशिरसां विप्र प्रधानान्कीर्तयामि ते। कुहकस्तक्षकश्चव सुषेणः कालियस्तथा ॥५॥। महाभोगा महासत्वा: क्रराः क्ररस्वजातयः । पतत्रिराजाधिपतेरुद्विग्नाः सर्व एव ते ॥६॥ स्वकलत्रापत्यसुहृत्कुटुंबेन च संगता:। प्रमत्ता विहरंत्येव नानाक्रीडाविशारदाः ॥७॥ ततोऽधस्ताच्च विवरे रसातलसमाह्वये। दैतेया निवसंत्येव पणयो दानवाश्च ये। ८॥ निवातकवचा नाम हिरण्यपुरवासिनः । कालेया इति च प्रोक्ताः प्रत्यनीका हविर्भुजाम् ॥१॥ महौजसश्चोत्पत्त्यैव महासाहसिनस्तथा। सकलेशस्य च हरेस्तेजसा हतविक्रमाः ॥१०॥ विलेशया इव सदा विवरे निवसन्ति हि। ये वै वाग्भिः सरमया शक्रदूत्या निरंतरम् ॥११॥ मंत्रवर्णाभिरसुरास्ताडिता बिभ्यति स्म ह। ततोऽप्यधस्तात्पाताले नागलोकाधिपालकाः ॥१२॥ वासुकिप्रमुखाः शंखः कुलिकः श्वेत एव च। धनंजयो महाशंखो धृतराष्ट्रस्तथैव च ।।१३।। शंखचडः कंबलाश्वतरो देवोपदत्तकः । महामर्षा महाभोगा निवसंति विषोल्बणाः ॥१४॥ पंचमस्तकवतश्ष फणासप्तकभूपिताः । केचिद्दशफणाः केचिच्छतशीर्पस्तिथापरे ॥१५॥ सहस्रशिरस: केऽपि रोचिष्णुमणिधारकाः । पातालरंध्रतिमिरनिकरं स्वमरीचिभिः ॥१६॥ विधमंति च देवर्षे सदासंजातमन्यतः । अस्य मूलप्रदेशे हि त्रिशत्साहस्रकेंतरे ॥१७॥। योजनैः परिसंख्याते तामसी भगवत्कला। अनंताख्या समास्ते हि सर्वदेवप्रयूजिता ॥१८।। अहमित्यभिमानस्य लक्षणं यं प्रचक्षते । संकर्षणं सात्वतीयाः कर्षणं द्रष्टृदृश्ययोः ॥१९॥ इदं भूमंडलं यस्य सहस्रशिरसः प्रभोः । अनंतमूतेंः शेषस्य ध्रियमाणं च शीर्षके !२०॥ पृथ्वीगोलमशेपं हि सिद्धार्थ इव लक्ष्यते। यस्य कालेन देवस्य संजिहीर्षोःसमं विभो: ॥२१॥ चराचरं भ्रुवोरंतविवरादुदपद्यत। सांकर्षणो नाम रुद्रो व्यूहैकादशशोभितः ॥२२।। त्रिलोचनश्च त्रिशिखं शूलमुत्तंभयन्स्वयम् । उदतिष्ठन्महासत्त्वो महाभूतक्षयंकरः ।२३।। यस्यांघ्रिकमलद्वंद्वशोणाच्छनखमंडले । विराजन्मणिबिंबेषु महाहिपतयोऽनिशम् ॥२४॥ एकांतभक्तियोगेन सह सात्त्वतपुंगवैः । प्रणमंतः स्वमूर्ध्ना ते स्वमुखानि समीक्षते ॥२५॥
Page 559
श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः २१ ५५९
स्फुरत्कुण्डलमाणिक्यप्रभामंडलभांज्यपि । सुकपोलानि चारूणि गंडस्थलद्युमंति च ॥२६॥ नागराजकुमार्योऽपि चार्वङ्गविलसत्त्विषः । विशदैर्विपुलैस्तद्वद्धवलैः सुभर्गैस्तथा ।।२७।। रुचिरैर्भुजदंडंश्र शोभमाना इतस्ततः । चंदनागुरुकाशमीरपंकलेपेन भूषिताः ॥२८।
तदभिमर्षसंजातकामावेशसमायुताः ललितस्मितसंयुक्ता: सव्रीडं लोकयंति च ॥२९॥ अनुरागमदोन्मत्तविघूर्णारुणलोचनम् । करुणावलोकनेत्रं च आशासानास्तथाशिषः ॥३०।। सोऽनंतो भगवान्देवोऽनंतसत्त्वो महाशयः । अनंतगुणवाधिश्च आदिदेवो महाद्युतिः ॥३१॥ संहृतामर्षरोषादिवेगो लोकशुभाय च । आस्ते महासत्त्वनिधिः सर्वदेवप्रपूजितः ॥३२॥ ध्यायमानः सुरैः सिद्धरसुरैश्चोरगैस्तथा। विद्याधरैश्च गंधर्वेर्मुनिसंघैश्च नित्यशः ॥३३॥ अनारतमदोन्मत्तालोकविह्वललोचनः । वाक्यामृतेन विबुधान्स्वपार्षदगणानपि ॥३४॥ आप्यायमानः स विभुर्वेजयंतीं स्रजं दधत् । अम्लानाभिनवैः स्वच्छैस्तुलसीदलसंचयैः ॥३५॥ माद्यन्मधुकरव्रातघोषश्रीसंयुतां सदा। नोलवासा देवदेव एककुण्डलभूषितः ॥३६॥ हलस्य ककुदि न्यस्तसुपीवरभुजोऽव्ययः । महेंद्रः कांचनीं यद्रद्वरत्रां च मतंगमः ॥ उदारलीलो देवेशो वणितः सात्वतर्षभैः॥३७॥ इति श्रीदंवीभागवते महापुराणेऽष्टमस्कन्धे तरिंशोऽध्यायः ॥२०। अथकविंशोऽध्यायः नारायण उवाच तस्यानुभावं भगवान्ब्रह्मपुत्र: सनातनः । सभायां ब्रह्मदेवस्य गायमान उपासते ॥१॥ उत्पत्तिस्थितिलयहेतवोऽस्य कल्पाः सत्त्वाद्याः प्रकृतिगुणा यदीक्षयाऽऽसन्। कद्रूपं ध्रुवमकृतं यदेकमात्मन्नानाधात्कथमुह वेद तस्य वर्त्म ॥२॥ मूर्ति नः पुरुकृपया बभार सत्वं संशुद्धं सदसदिदं विभाति यत्र । यल्लीलां मृगपतिराददेऽनवद्यामादातुं स्व्जनमनांस्युदारवीर्यः ॥३॥ यन्नाम श्रुतमनुकोर्तयेदकस्मादारत्तो वा यदि पतितः प्रलंभनाद्वा। हंत्यंहः सपदि नृणामशेषमन्यं कं शेषाद्गवत आश्रयेन्मुमुक्षुः॥४॥ मूर्धन्यर्पित मणुवत्सहस्र मूध्नो भूगोलं सगिरिसरित्ससुद्रसत्त्वम् । आनंत्यादनमितविक्रमस्य भूम्नः को वीर्याण्यधिगणयेत्सहस्त्रजिह्वः ॥५॥ एवंप्रभावो भगवाननंतो दुरंतवीर्योरुगुणानुभावः । मूले रसांयाः स्थित आत्मतंत्रो यो लोलया क्ष्मां स्थितये बिर्भत ॥६॥
Page 560
५६० श्रीमदेवीमागवते महापुराणे अहमस्कन्धे अध्यायः२२ एता ह्येवेह तु नृभिर्गतयो मुनिसत्तम। गन्तव्या बहुशो यद्वद्ययाकर्मबिनिर्मिंताः॥। यथोपदेशं च कामान्सदा कामयमानकैः। एतावतीहिं राजेंद्र मनुष्यमृगपक्षिषु।।८।। विपाकगतयः प्रोक्ता धर्मस्य वशगास्तथा। उच्चावच्च, विसदृशा यथाप्रश्नं निबोधत ।।९॥ नारद उवाच विचित्रमेतल्लोकस्य कथं भगवता कृतम् । समानत्वे कर्मणां च तन्नो ब्रहि स यथातथम् ॥१०॥ नारायण उवाच कर्तुः श्रद्धावशादेव गतयोऽपि पृथग्विधाः । त्रिगुणत्वात्सदा तासां फलं विसदृशं त्विह ॥११॥ सात्त्विक्या श्रद्धया कर्तुः सुखित्वं जायते सदा। दुःखित्वं च तथा कर्तू राजस्या श्रद्धया भवेत् ॥१२। दुःखित्वं चैव मूढत्वं तामस्या श्रद्धयोदितम्। तारतम्यात्तु श्रद्धानां फलवैचित्र्यमीरितम् ।१३॥ अनाद्यविद्याविहितकर्मणां परिणामजाः । सहस्त्रशः प्रवृत्तास्तु गतयो द्विजपुङ्गव ॥१४॥ तद्ेदान्वर्णयिष्यामि प्राचुर्येण द्विजोत्तम। त्रिजगत्या अन्तराले दक्षिणस्यां दिशीह वे ॥१५॥ भूमेरधस्तादुपरि त्वतलस्य च नारद। अग्निष्वात्ताः पितृगणाः वर्तते पितरश्र हि॥१६॥ बसंति यस्यां स्वीयानां गोत्राणां परमाशिपः । सत्याः समाधिना शीघ्रं त्वाशासाना: परेण वै १७।। पितृ राजोऽपि भगवान्संपरेतेषु जंतुषु। विषयं प्रापितेष्वेषु स्वकीयैः पुरुषैरिह ।१८।। सगणो भगवत्प्रोक्ताज्ञापरो दमधारकः । यथाकर्म यथादोषं विदधाति विर्चारदृक् ॥१९॥ स्वान्गणान्धर्मतत्त्वज्ञान्सर्वानाज्ञाप्रवर्तकान् । सदा प्रेर्यति प्राज्ञो यथादेशनियोजितान् ॥२०॥ नरकानेकविशत्या संख्यया वर्णयन्ति हि। अष्टाविशमितान्केचित्ताननुक्रमतो बरुवे ॥२१॥ तामिस्र अंधतामिस्रो रौरवोऽपि तृतीयकः । महारोरवनामा च कुंभीपाकोऽपरो मतः ॥२२॥ कालसूत्रं तथा चासिपत्रारण्यमुदाहृतम् । सूकरस्य मुखं चांधकूषोऽथ कृमिभोजनः ॥२३॥ संदंशस्तसमूर्तिश्र वज्चकंटक एवं च। शाल्मली चाथ देवर्षे नाम्ना वैतरणी तथा ॥२४॥ पूयोद: प्राणरोषश्च तथा विशसनं मतम्। लालाभक्षः सारमेयादनमुक्तमतः परम्॥२५॥ अवोचिरप्ययःपानं क्षारकर्दम एव च । रक्षोगणाख्यसंभोजः शूलप्रोतो प्यतः परम् ॥२६॥ दंदशूको वटारोध: पर्यावर्तनकः परम्। सूचीमुखमिति प्रोक्ता अष्टाविशतिनारकाः ॥२७॥ इत्येते नारका नाम यातनाभूमयः पराः । कमभिश्चापि भूतानां गम्याः पद्मजसंभव ॥२८॥ इति श्रीदेंवीभागवते महापुराणे अष्टमस्कन्धे एकविंशोऽध्यायः ॥२१॥ अथ द्वाविंशोऽव्यायः नारद उवाच कर्मभेदाः कतिविधाः सनातनमुने मम। श्रोतव्यं सर्वथवैते यातनाप्राप्तिभूमयः ॥१।
.. w
Page 561
३६ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: २२ ५६१
श्रीनारायण उवाच यो वै परस्य वित्तानि दारापत्यानि चैत्र हि। हरते स हि दुष्टात्मा यमानुचरगोचरः ॥२॥ कालपाशेन संबद्धो याम्यैरतिभयानकैः। तामिस्रनाम्नि नरके पात्यते यातनास्पदे ॥३॥ ताडनं दंडनं चैव संतर्जनमतः परम्। याम्याः कुर्वति पाशाढयाः कशमलं याति चंव हि।।४।। मूरच्छामायाति विवशो नारकी पद्मभूसुत। यः पति वंचयित्वा तु दारादीनुपभुज्यति ॥५॥ अन्धतामिस्रनरके यमकिकरैः। पात्यमानो यत्र जंतुर्वेदनापरवान्भवेत् ॥।६।। नष्टदृष्टिर्नष्टमतिर्भदत्येवाविलम्बतः । वनस्पतिर्भज्यमानमूलो तस्मादप्यंधतामिस्रनाम्ना प्रोक्त: पुरातनः । एतन्ममाहमिति यो भूतद्रोहेण केवलम् ॥८।। पुष्णाति प्रत्यहं स्वीयं कुटुम्बं कार्यलंपटः। एतद्विहाय चात्रव स्वाशुभेन पतेदिह ।।९।। रौरवे नाम्नि नरकें सर्वसत्त्वभयावहे। इह लोकेऽमुना ये तु हिंसिता जंतवः पुरा ॥१०॥ त एव रुरवो भूत्वा परत्र पोडयंति तम् । तस्माद्रौरवमित्याहुः पुराणज्ञा मनोषिण: ॥११॥ रुरुः सर्पादतिकरो जंतुरुक्तः पुरातनैः। एवं महारोरवाख्यो नरको यत्र पूरुषः ॥१२॥ यातनां प्राप्यमाणो हि यः परं देहसंभवः । क्रव्यादा नाम रुरवस्तं क्रव्ये घातयंति च ।१३।। य उग्र: पुरुषः क्ररः पशुपक्षिगणानपि। उपरंधयते मूढो याम्यास्तं रंधयंति च ॥१४। कुंभीपाके तप्ततैले उपयपि च नारद। यावन्ति पशुरोमाणि तावद्रर्षसहस्त्रकम् ॥१५॥ पितृविप्रब्राह्मणध्रुक्काकसूत्रे स नारके। अग्न्यर्का्यां तप्यमाने नारकी विनिवेशितः ॥<६॥ क्षुत्पिपासादह्यमानोऽन्तःशरीरस्तथा बहिः। आस्ते शेते चेष्टते चावतिष्ठति च धावति ॥१७॥ निजवेदपथाद्यो वै पाखंडं चोपयाति च। अनापद्यपि देवर्षे तं पापं पुरुषं भटाः ॥१८॥ असिपत्रवनं नाम नरकं वेशयन्ति च। कराया प्रहरंत्येव नारकी तद्गतस्तथा ॥१९॥ इतस्ततो धावमान उत्तालमतित्रेगितः । असिपत्रशछद्यमान उभयत्र च धारकैः ॥२०॥ संछिद्यमानसर्वाङ्गो हा हतोऽस्मोति मूच्छितः । वेदनां परमा प्राप्तः पतत्येव पदे पदे ॥२१॥ स्वधर्मानुगतं भुंक्ते पाखंडफलमल्पधीः। यो राजा राजपुरुषो दंडयेद्वै त्वधर्मतः ॥२२H द्िजे शरीरदंडं च पापीयान्नारकी च सः। नरके सूकरमूखे पात्यते यमकिङ्करैः॥२३॥ विनिष्पिष्टावयवको बलवद्धिस्तथेक्षुवरत् । आर्तस्वरेण स्वनयन्मुच्छितः कशमलं गतः ॥२४॥ स पोडयमानो बहुधा वेदनां यात्यतीव हि। बिविक्तपरपीडा योऽप्यविविक्तपरव्यथाम् ॥२५॥ ईश्वरांकितवृत्तीनां व्यथामाचरते स्वयम् । स चांधकूपे पतति तदभिद्रोहयंत्रिते ॥२६॥ तत्रासौ जंतुभि: क्ररैः पशुभिमृगपक्षिभिः। सरीसृपैश्च मशकैर्यूकामत्कुणजातिभि: ।२७।। मक्षिकाभिश्च तमसि दंदशूकैश्च पीडयते। परिक्रामति चैवात्र कुशरीरे च जंतुवत् ॥२८।
Page 562
५६२ श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: २२ यस्तु संविहितैः पंचयज्ञः काकेश्च संस्तुतः । अश्नाति चासंविभज्य यत्किचिदुपपद्यते ॥२९॥ स पापपुरुषः क्ररैर्याम्यैश्च कृमिभोजने। नरकाधमके दुष्टकर्मणा परिपात्यते ॥३०॥ लक्षयोजनविस्तीणे कृमिकुण्डे भयंकरे। कृमिरूपं समासाद्य भक्ष्यमाणश्च तैः स्वयम् ॥३१॥ अप्रत्ताप्रहुतादो यः पातमाप्नोति तत्र वै। यस्तु स्तेयेन च बलाद्धिरण्यं रत्नमेव च ।।३२।। ब्राह्ह्मणस्यापहरति अन्यस्यापि च कस्यचित् । अनापदि च देव्षे तममुत्र यमानुगाः ॥३३॥ अयस्मयैरग्निपिंड: सदृशनिष्कुषंति च । योऽगम्यां योषितं गच्छेदगम्यं पुरुषं च या ॥३४॥ तावमुत्रापि कशया ताडयंतो यमानुगाः । तिग्मया लोहमय्या च सूर्म्याप्यालिंगयंति तम् ३५॥ तां चापि योषितं सूर्म्यालिंगयंति यमानुगाः । यस्तु सर्वाभिगमनः पुरुषः पापसंचयी ॥३६॥ निरयेऽमुत्र तं याम्याः शाल्मलीं रोपयंति तम्। वज्तकंटकसंयुक्तां शाल्मलीं तामयस्मयीम् ॥३७॥ राजन्या राजपुरुषा ये वा पाखंडवर्तिनः । धर्मसेतुं विभिदंति ते परेत्य गता नराः ॥३८॥ वैतरण्यां पतंत्येव भिन्नमर्यादपातकाः । नद्यां निरयदुर्गस्य परिखायां च नारद ॥३९॥ यादोगणः समंतात्तु भक्ष्यमाणा इतस्ततः । नात्मना वियुजंत्येव नासुभिश्चापि नारद ॥४०॥ स्वीयेन कर्मपाकेनोपतपन्ति च सर्वतः । विण्मूत्रपूयरक्तश्र केशास्थिनखमांसकैः॥४१॥ मेदोवसासंयुतायां नद्यामुपपतंति ते। वृषलीपतयो ये च नष्टशौचा गतत्रपाः ॥४२॥ आाचारनियमस्त्यक्ताः पशुचर्यापरायणाः । तेऽत्रानुकृष्टगतयो इलेष्ममलसमापूर्णे निपतंति दुराग्रहाः। तदेव खादयंत्येतान्यमानुचरवर्गकाः ॥४४॥ ये श्वानगर्दभादीनां पतयो वै द्विजातयः । मृगयारसिका नित्यमतीर्थ मृगघातकाः ॥४५॥ परेतांस्तान्यमभटा लक्ष्यीभूतान्नराधमान् । इपुभिश्च विभिदंति तांस्तान्दुर्नयमागतान् ॥४६। ये दंभा दंभयज्ञेपु पशृन्ध्नंति नराधमाः । तानमुष्मिन्यमभटा नरके वैशसे तदा ॥४७॥ निपात्य पीडयंत्येवं कशाघातैर्दुरासदैः । यो भार्यां च सवर्णां वै द्विजो मदनमोहितः ॥४८।। रेतः पातयते मूढोऽमुत्र तं यमकिंकराः। रेतःकुण्डे पातयंति रेतः संपाययंति च ॥४९॥ ये दस्यवोऽग्निदाश्रव गरदाः सार्थघातकाः । ग्रामान्सार्थान्विलुंपंति राजानो राजपूरुषाः ॥५0॥ तान्परेतान्यमभटा नयंति श्वानकादनम्। विशत्यधिकसंख्याताः सारमेया महान्ुताः ।५१॥ सप्तशत्या समाख्याता रभसं खादयंति ते। सारमेयादनं नाम नरकं दारुणं मुने॥ प्रवक्ष्यामि अबीचिप्रमुखान्मुने ॥५२॥ इति श्रीदेवीभागवते महापुराणेऽट्टमस्कन्धे द्वाविंशोऽध्याय: ॥२२॥
Page 563
श्रीमई्दवीभागवते महापुराणे अष्टमस्कन्धे अध्यायः २३ ५६३ अथ त्रयोविंशोऽध्यायः श्रीनारायण उवाच ये नरा सर्वदा साक्ष्ये अनृतं भाषयंति च । दाने विनिमयेऽर्थस्य देवर्षे पापबुद्धयः ।१॥ ते प्रेत्यामुत्र नरके अवीच्यार्येऽतिदारुणे। योजनानां शतोच्छरायानिरिमूर्घ्नः पतन्ति हि ॥२॥ अनाकाशेऽधःशिरस्तदवी चीतिनामके । यत्र स्थलं दृश्यते च जलवद्वीचिसंयुतम् ।३॥ अवीचिमत्ततस्तत्र तिलशश्छिन्नविग्रहः । म्रियते नैव देवर्षे पुनरेवावरोप्यते ॥४॥ यो वा द्विजो वा राजन्यो वैश्यो वा ब्रह्मसंभव। सोमपीथस्तत्कलत्रं सुरा वा पिबतीह यः ॥५॥ प्रमादतस्तु तेषां वै निरये परिपातनम्। कुर्वति यमदूतास्ते पानं कार्ष्णायसो मुने ॥६॥ वह्निना द्रवमाणस्य नितरां ब्रह्मसंभव। संभावनेन स्वस्यैव योऽधमोपि नराधमः ॥७॥ विद्याजन्मतपोवर्णाश्रमाचारवतो नरान्। वरीयसोऽपि न बहु मन्यते पुरुषाधमः ॥८॥ स नीयते यमभटैः क्षारकर्दमनामके। निरयेऽर्वाकशिरा धोरा दुरंतयातनानुते॥९॥ ये व नरा यजंत्यन्यं नरमेधेन मोहिताः । स्त्रियोऽपि वा नरपशुं खादन्त्यत्र महामुने ॥१॥ पशवो निहतास्ते तु यमसद्मनि संगताः । सौनिका इव ते सर्वे विदार्य सितधारया ॥११॥ असृक्पिवंति नृत्यंति गायन्ति बहुधा मुने। यथेह मांसभोक्तारः पुरुषादा दुरासदाः ॥१२। अनागसोऽपि येऽरण्ये ग्रामे वा ब्रह्मपुत्रक। वैश्रंभकैरुपसृतान्विश्रंभय्य जिजीविषून् ॥१३॥ शूलसूत्रादिपु प्रोतान्क्रीडनोत्कारकानिव। पातयंति च ते प्रेत्य शूलपाते पतंति ह ॥१४॥ गूलादिपु प्रोतदेहाःक्षुत्तड्भ्यां चातिपीडिताः । तिग्मतुंडैः कंकवकैरितश्चेतश्च ताडिताः ।१५॥ पीडिता आत्मशमलं बहुधा संस्मरंति हि। ये भूतानुद्वेजयन्ति नरा उल्बणवृत्तयः ॥१६॥ यथा सर्पादिकास्तेऽप नरके निपतंति हि। दंदशूकाभिधाने च यत्रोत्तिष्ठंति सर्वतः ॥१७॥ पंचाननाः सप्तमुखा ग्रसंति नरकागतान् । यथा बिलेशया विप्र क्रूरबुद्धिसमन्विताः ॥१८। येऽवटेषु कुसूलादिगुहादिपु निरुन्धते। तानमुत्रोद्यतकराः कीनाशपरिसेवकाः ॥१९॥ तेप्वेवोपविशित्वा च सगरेण च दह्निना। धूमेन च निरुंधंति पापकर्मरतान्नरान् ॥२०॥ योऽतिथीन्समयप्राप्तान्दिघक्षुरिव चक्षुषा । पापेनेहालोकयेच्च स्वयं गृहपतिद्विजः ॥२१॥ तस्यापि पापदृष्टेहि निरये यमर्किंकराः । अक्षिणी वज्रतुंडा ये कंकाः काकवटादयः ॥२२॥ गृधा: क्ररतराश्चापि प्रसह्योत्पाटयंति हि। य आढयाभिमतिर्याति अहंकृत्यातिगरवितः ॥२३॥ तिर्यक्प्रेक्षण एवात्राभिविशंकी नराधमः । चिंतयाऽर्थस्य सर्वत्रायतिव्ययस्वरूपया ॥२४॥ शुष्यद्धदयववत्रश्च निर्वृति नैव गच्छति। ग्रहवद्रक्षते चार्थं स प्रेतो यमकिंकरैः ॥२५॥ सूचीमुखे च नरके पात्यते निजकर्मणा। वित्तग्रहं च पुरुषं वायका इव याम्यकाः ॥२६॥
Page 564
श्रीमद्देवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः २४ किंकरा: सर्वतोऽङ्गेषु सूत्रः परिवयंति हि। एते बहुविधा वित्त नरकाः पापकर्मणाम् ॥२७॥ नराणां शतशः संति यातनास्थानभूमयः । सहस्रशोऽपि देवषें उक्तानुक्तास्तथापि हि ॥२८॥ विशंति नरकानेता यातनावहुलान्मुने। तथा धर्मपराश्चापि लोकान्यांति सुखोद्गतान् ।२९॥ स्वधर्मो बहुधा गीतो यथा तव महामुने। देवोपूजनरूपो हि देव्याराधनलक्षणः ॥३०। येनानुष्ठितमात्रेण न नरो नरकं व्रजेत्। सा देवी भवपाथोधेरुद्वर्त्री पूजिता नृणाम् ॥३१॥ इति श्रीदेवीभागवते महागुराणे अष्टमस्कन्धे देवीगीतायां त्रयोविशोऽध्यायः ॥२३॥ अथ चतुर्विशोऽध्यायः नारद उवाच धर्मश्र कीदृशस्तात देव्याराधनलक्षणः । कथमाराधिता देवी सा ददाति परं पदम् ॥१॥ आराघनविधि: को वा कथमाराधिता कदा। केन सा दुर्गनरकाद्दुर्गा त्राणप्रदा भवेत् ।२।। श्रीनारायण उवाच देवर्षे शृणु चित्तकाग्रयेण मे विदुषां वर। यथा प्रसीदते देवी धर्माराधनतः स्वयम् ॥३॥ स्वधमां यादृशः प्रोक्तस्तं च मे शृणु नारद । अनादाविह संसारे देवी संपूजिता स्वंयम् ॥४॥ परिपालयते घोरसंकटादिषु सा मुने। सा देवी पूज्यते लोकैर्यथावत्तद्विधि शृणु ।।५॥ प्रतिपत्तिथिमासाद्य देवीमाज्येन पूजयेत्। घृतं दद्याद् ब्राह्मणाय रोगहीनो भवेत्सदा॥६॥ द्वितीयायां शर्करया पूजयेज्जगदंबिकाम्। शर्करां प्रददेद्विप्रे दीर्घायुर्जायते नरः ॥७॥ तृतीयादिवसे देव्यै दुंग्धं पूजनकर्मि। क्षीरं दत्त्वा द्विजाग्रयाय सर्वदुःखातिगो भवेत् ।।८।। चतुर्थ्यां पूजने पूपा देया देव्यै द्विजाय च । अपूपा एव दातत्र्या न विध्नैरभिभूयते ।।९॥ पंचभ्यां कदलीजातफलं देव्यै निवेदयेत् । तदेव ब्राह्मणे देयं मेधावान्षुरुषो भवेत् ॥१॥ षषीतिथौ मधु प्रोक्तं देवीपूजनकर्मणि। ब्राह्मणाय च दातव्यं मधुकांतिर्यतो भवेत् ॥११॥ सप्तम्यां गुडनैवेद्यं देव्यै दत्त्वा द्विजाय च। गुडं दत्त्वा शोकहीनो जायते द्विजसत्तम ॥१२॥ नारिकेलमथाष्टम्यां देव्यै नैवेद्यमर्पयेत्। ब्राह्मणाय प्रदातव्यं तापहीनो भवेन्नरः ॥१३॥ नवम्यां लाजमंबायै चार्पयित्वा द्विजाय च। दत्त्वा सुखाधिको भूयादिह लोके परत्र च ॥१४।। दशंम्यामर्पयित्वा तु देव्य कृष्णतिलान्मुने। ब्राह्मणाय प्रदत्त्वा तु यमलोकान्द्रयं न हि ॥१५॥ एकादश्यां दधि तथा देव्यै चार्पयते तु यः। ददाति ब्राह्मणायैतद्देवीप्रियतमो भवेत् ॥१६॥ द्वादश्यां पृथुकान्देव्य दत्त्वाचार्याय यो ददेत् । तानेव च मुनिश्रेष्ठ स देवीप्रियतां व्रजेत् ॥१७॥ त्रयोदश्यां च दुर्गायै चणकान्प्रददाति च। तानेव दत्त्वा विप्राय प्रजासंततिमान्भवेत् ।१८।। चतुर्दश्यां च देवर्षे देव्यै सक्तून्प्रयच्छति। तानेव दद्याद्विप्राय शिवस्य दयितो भवेत् ॥१९॥
Page 565
श्रीमद्देवीभागवते महापुराणे अष्टमस्कन्धे अध्याय: २४ ५६५ पायसं पूर्णिमातिथ्यामपर्णायै प्रयच्छति । ददाति च द्विजाग्रयाय पितृनुद्धरतेऽखिलान् ॥२०॥ तत्तिथो हवनं प्रोक्तं देवीप्रीत्यै महामुने। तत्तततिथ्युक्तवस्तूनामशेषारिष्टनाशनम् ।।२ १ । रविवारे पायसं च नैवेध्यं परिकीर्तितम्। सोमवारे पयः प्रोक्तं भोगे च कंदलीफलम् ॥२२॥ वुधवारे च संप्रोक्तं नवनीतं नवं द्विज। गुरुवारे शर्करां च सितां भार्गववासरे ॥२३॥ शनिवारे घृतं गव्यं नैवेद्यं परिकीर्तितम्। सप्तविशतिनक्षत्रनैवेद्यं श्रूयतां मुने ॥२४॥ घृतं तिलं शर्करां च दधि दुग्धं किलाटकम्। दधिकूचीं मोदकं च फेणिकां घृतमण्डकम् ॥२५॥ कंसारं वटपत्रं च घृतपूरमतः परम्। वटकं कोकरसकं पूरणं मधु सूरणम् ॥२६॥ गुडं पृथुकद्राक्षे च खर्जूरं चव चारकम्। अपू्पं नवनीतं च मुद्गं मोदकमेव च ।२७॥ मातुलुंगमिति प्रोक्तं भनैवेद्यं च नारद। विष्कंभादिषु योगेषु प्रवक्ष्यामि निवेदनम् ॥२८।। पदार्थानां कृतेष्वेषु प्रीणाति जगदम्बिका। गुडं मधु घृतं दुग्धं दधि तक्रं त्वपूपकम् ॥२९॥ नवनीतं कर्कटीं च कूष्मांडं चापि मोदकम्। पनसं कदलीं जंबुफलमाम्रफलं तिलम् ॥३०॥ नारंगं दाडिमं चंव बदरीफलमेव च। धात्रीफलं पायसं च पृथुकं चणकं तथा ॥३१॥ मारिकेलं जंभफलं कसेरुं सूरणं तथा। एतानि क्रमशो विप्र नैवेद्यानि शुभानि च ॥।३२।। विष्कंभादिषु योगेषु निर्णीतानि मनोषिभिः । अथ नैवेद्यमाख्यास्ये करणानां पृथङ्मुने ॥३३॥ कंसारं मण्डकं फेणीं मोदकं वटपत्रकम्। लड्डुकं घृतपूरं च तिलं दधि घृतं मधु॥३४॥ करणानामिदं प्रोक्तं देवीनैवैद्यमादरात्। अथान्यत्संप्रवक्ष्यामि देवीप्रीतिकरं परम्॥३५॥ विधानं नारद मुने श्ृणु तत्सर्वमादृतः । चैत्रशुद्धतृतीयायां नरो मधुकवृक्षकम् ॥३६॥ पूजयेतपंचखाद्यं च नैवेद्यमुपकल्वयेत्। एवं द्वादशमासेषु तृतोयातिथिषु कमात् ॥३७॥ शृद्धपक्षे विधानेन नैवेद्यमभिदध्महे। वैशाखमासे नैवेद्यं गुडयुक्तं च नारद ।३८।। ज्येष्ठमासे मधु प्रोक्तं देवीप्रीत्यर्थमेव तु। आषाढ़े नवनीतं च मधूकस्य निवेदनम् ॥३९॥ श्रावणे दधि नैवेद्यं भाद्रमापे च शर्करा। आश्चिने पायसं प्रोक्तं कार्तिके पय उत्तमम् ॥४०॥ मागें फेण्युत्तमा प्रोक्ता पौषे च दधिकूर्चिका। माघे मासि च नैवेद्यं घृतं गव्यं समाहरेत्।।४१।। नारिकेलं च नैवेद्यं फाल्गुने परिकीर्तितम्। एवं द्वादशनैवेद्यर्मासे च क्रमतोऽर्चयेत् ॥४२॥ मंगला वैष्णवी माया कालरात्रिर्दुरत्यया। महामाया च मातंगी काली कमलवासिनी ॥४३।। शिवा सहस्रचरणा सर्वमंगलरूपिणी। एभिर्नामपदैर्देवीं मधूके परिपूजयेत् ॥४४।। ततः स्तुवीत देवेशी मधूकस्थां महेश्वरीम्। सर्वकामसमृद्धचर्थ व्रतपूर्णत्वसिद्धये।।४५।। नमः पुष्करनेत्रायै जगद्धात्र्यै नमोऽस्तु ते। माहेश्वये महादेव्यै महामंगलमूर्तये ॥४६॥ परमा पापहंत्री च परमार्गप्रदायिनी। परमेश्वरी प्रजोत्त्तिः परत्रह्मस्वरूपिणो ॥४७॥
Page 566
५६६ श्रीम द्ेवीमागवते महापुराणे अष्टमस्कन्धे अध्यायः २४ मददात्री मदोन्मत्ता मानगम्या मदोन्नता। मनस्विनी मुनिध्येया मार्तण्डसहचारिणी॥४८।। जय लोकेश्वरि प्राज्ञे प्रलयांबुदसन्निभे। महामोहविनाशार्थ पूजिताऽसि सुरासुरैः ॥४९॥ यमलोकाभावकर्त्री यमपज्या यमाग्रजा। यमनिग्रहरूपा च यजनीये नमो नमः ॥५०॥ समस्वभावा सर्वेशी सर्वसंगविवर्जिता। संगनाशकरी काम्यरूपा कारुण्यविग्रहा ॥५१॥ कंकालक्ररा कामाक्षी मीनाक्षी मर्मभेदिनी। माधुर्यरूपशीला च मधुरस्वरपूजिता ॥५२॥ महामंत्रवतीं मंत्रगम्या मंत्रप्रियंकरी। मनुष्यमानसगमा मन्मथारिप्रियंकरी ।।५:।। अश्वत्थवटनिंबाम्रकपित्थबदरीगते । पनमार्क करी रादिक्षी रवृक्षस्व रुपिणि ।५४॥ दुग्धवल्लीनिवासारहे दयनीये दयाधिके। दाक्षिण्यकरणारूपे जय सर्वज्ञवल्लभे ।५५।। एवं स्तवेन देवेशों पूजनांते स्तुवीत ताम्। व्रतस्य सकलं पुण्यं लभते सर्वदा नरः ॥५६॥ नित्यं यः पठते स्तोत्रं देवीप्रीतिकरं नरः। आधिव्याधिभयं नास्ति रिपुभीतिर्न तस्य हि॥५७॥ अर्थार्थी चार्थमाप्नोति धर्मार्थी धर्ममाप्नुयात् ॥५८॥ व्राह्मणो वेदसम्पन्नो विजयी क्षत्रियो भवेत्। वैश्यश्चधनधान्याढ्यो भवेच्छ्रुद्रः सुखाधिक: ॥५९॥ स्तोत्रमेतच्छ्राद्धकाले यः पठेत्प्रयतो नरः । पितृणामक्षया तृत्तिर्जायते कल्पवर्तिनी ॥६॥ एवमाराधनं देव्याः समुक्तं सुरपूजितम्। यः करोति नरो भक्तया स देवीलोकभाग्भवेत् ६१।। देवीपूजनतो विप्र सर्वे कामा भवंति हि। सर्वपापहतिः शुद्धा मतिरंते प्रजायते ॥६२॥ यत्र तत्र भवेत्पूज्यो मान्यो मानधनेषु च ! जायते जगदंबायाः प्रसादेन विरिचिज ॥६३॥ नरकाणां न तस्यास्ति भयं स्वप्नेऽपि कुत्रचित्। महामायाप्रसादेन पुत्रपौत्रादिवर्धनः ॥६४।। द्ेवीभक्तो भवत्येव नात्र कार्या विचारणा। इत्येव ते समाख्यातं नरकोद्धारलक्षणम् ॥६५॥ पूजनं हि महादेव्याः सर्वमंगलकारकम्। मधूकपूजनं तद्वन्मासानां क्रमतो मुने ॥६६॥ सर्वं समाचरेद्यस्तु पूजनं मधुकाह्वयम् । न तस्य रोगबाधादिभयमुद्दवतेऽनध ॥६७ अथान्यदपि वक्ष्यामि प्रकृतेः पंचकं परम्। नाम्ना रूपेण चोत्पत्त्या जगदानंददायकम् ॥६८॥ साख्यानं च समाहात्स्यं प्रकृतेः पंचकं मुने । फुतूहलकरं चैव शृणु मुक्तिविधायकम् ॥६९॥ इति श्रीदेवीभागवते महापुराणेऽट्टादशसाहस्त्रयां संहितायां वैयासिक्यां समाराधनविधानेऽ- ष्टमस्कन्धे देवीपूजननिरूपणं नाम चतुर्विशोऽध्यायः ॥ २२ ॥ नंदाग्निवसुभि: (८९ ) पद्यद्वँपायनमुखच्युतैः। देवीभागवतस्यास्याष्टमस्कंध उदीरितः ॥१॥ समाप्तोऽयमष्टमः स्कन्धः
Page 567
श्रोगणेशाय नमः श्रीमद्देवीभागवतम्
नवमः स्कन्धः
अथ प्रथमोऽध्यायः श्रीनारायण उवाच गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती। सावित्री च सृष्टिविधौ प्रकृतिः पंचधा स्मृता ॥१॥ नारद उवाच आविर्बभूव सा केन का वा सा ज्ञानिनां वर। कि वा तल्लक्षणं साधो बभूव पंचधा कथम् ॥२॥ सर्वासां चरितं पूजाविधानं गुण ईप्सितः । अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥३॥ श्रीनारयण उवाच प्रकृतेर्लक्षणं बत्स को वा वक्तुं क्षमो भवेत् । किचित्तथापि वक्ष्यामि यच्छुतं धर्मवक्त्रतः ॥४॥ प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः। सृष्टो प्रकृष्टा या देवी प्रकृतिः सा प्रकीतिता ।।५॥ गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रृतः । मध्यमे रजसि कृश्च तिशन्दस्तमसि स्मृतः ॥६॥ त्रिगुणात्मकस्वरूपा या सा च शक्तिसमन्विता। प्रधाना सृष्टकरणे प्रकृतिस्तेन कथ्यते॥७॥ प्रथमे वर्तते प्रश्च कृतिश्च सृष्टिवाचकः । सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥८।। योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव स, । पुमांश्र दक्षिणार्धांगो वामार्धा प्रकृतिः स्मृता ॥९॥ सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी । यथात्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता॥१०॥ अतएव हि योगोंद्रैः स्त्रीपुंभेदो न मन्यते। सर्व ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥११॥
Page 568
५६८ श्रीसद्देवीभागवते महापुराणे नवमस्कन्धे अध्यायः १ व्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया। साऽडविर्बभूव सहसा मूलप्रकृतिरीश्वरो ॥१२॥ सदाज्ञया पंचविधा सृष्टिकर्मविभेदिका। अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥१३॥ गणेशमाता दुर्गा या शिवरूपा शिवप्रिया। नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥१४॥ ब्रह्मादिदेवैरमुनिभिर्मनुभिः पृजिता स्तुता। सर्वाधिष्ठात्री देवी सा शर्वरूपा सनातनी ॥१५॥ धर्मसत्यपुण्यकीरतियशोमंगलदायिनी । सुखमोक्षहर्षदात्री शोकातिदुःखनाशिनी ॥१६।। शरणागतदीनार्तपरित्राणपरायणा । तेजःस्वरूपा परमा तदघिष्ठातृदेवता ॥१७॥। सर्वशक्तिस्वरूपा च शक्तिरीशस्य संततम्। सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥१८॥ बुद्धिर्निद्रा क्षुत्पिपासा छाया तंद्रा दया स्मृतिः । जातिः क्षांतिश्र भ्रांतिश्रशांतिः कांतिश्च चेतना॥१९॥ तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तर्थव च । सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥२०॥ उक्त: श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् । गुणोऽस्त्यनंतोऽनंताया अपरां च निशामय ॥२१॥ शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः । सर्वसंपत्स्वरूपा सा तदधिष्टातृदेवता ॥२२॥ कांताऽतिदांता शांता च सुशीला सर्वमंगला। लोभमोहकामरोषमदाहंकारवर्जिता ।।२३ ।। भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता। प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥२४॥ सर्वसस्यात्मिका देवी जीवनोपायरूपिणी। महालक्ष्मीश्च वैकुंठे पतिसेवारता सती ॥२५॥ स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु। गृहेषु गृहलक्ष्मीश्र मर्त्यानां गृहिणां तथा ॥२६॥ सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा। कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥।२७।। वाणिज्यरूपा वणिजां पापिनां कलहांकुरा। दयारूपा च कथिता वेदोक्त्ता सर्वसंभता॥२८। सर्वपूज्या सर्ववंद्या चान्यां मत्तो निशामय । बाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ।२९॥ सवंविद्यास्वरूपा या सा च देवी सरस्वती। सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥३०॥ नानाप्रकारसिद्धांतभेदार्थकलना मता। ब्याख्याबोधस्वरूपा च सर्वसंदेहभंजिनी ॥३१॥ विचारकारिणी ग्रंथकारिणी शक्तिरूपिणी। व्याख्याबोधस्वरूपा च सर्वसदेहभंजिनी ॥३२॥ विषयज्ञानवाग्रपा प्रतिविश्वोपजीविनी। व्याख्यावादकरी शांता वीणापुस्तकधारिणी ॥३३। शुद्धसत्त्वस्वरूपा च सुशीला श्रोहरिप्रिया। हिमचंदनकुंदेंदुकुमुदांभोजसन्निभा यजंती परमात्मान श्रीकृष्णं रत्नमालया। तैपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥३५॥ सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा। यया विना तु विप्रौधी मूको मृतसमः सदा ॥३६ू॥ देवी तृतीया गदिता श्रुत्युक्ता जगदंबिका। यथागमं यथा किचिदपरां त्वं निबोध मे ॥३७॥ माता चतुर्णां वर्णानां वेदांगानां च छंदसाम्। संध्यावंदनमंत्राणां तंत्राणं च विचक्षणा ।३८।। द्वि जातिजातिरूपा च जपरूपा तपस्विनी। ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥३९॥
Page 569
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः १ ५६९ पवित्ररूपा सावित्री गायत्री ब्राह्मणप्रिया। तीर्थानि यस्याः संस्पर्शंवांछंति ह्यात्मशुद्धये ।४०।। शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी । परमानंदरूपा च परमा च सनातनी ।४१।। परब्रह्मस्वरूपा च निर्वाणपददायिनी। ब्रह्मतेजोमयी शक्तिस्तदधिष्टातृदेवता ॥४२।। यत्पादरजसा पूतं जगत्सर्व च नारद। देवी चतुर्थी कथिता पंचमीं वर्णयामि ते ॥४३॥ पंचप्राणाधिदेवी या पंचप्राणस्वरूपिणी। प्राणाधिकप्रियतमा सर्वाभ्यः सुंदरी परा ॥४४॥ सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता। वामांगार्धस्वरूपा च गुणेन तेजसा समा॥४५॥ परावरा सारभूता परमाद्या सनातनी। परमानंदरूपा च धन्या मान्या च पूजिता ॥४६।। रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमंडलसंभूता रासमंडलमंडिता ।।४७।। रासेश्वरी सुरसिका रासावासनिवासिनी। गोलोकवासिनी देवी गोपीवेषविधायिका॥४८।। परमाह्लादरूपा च संतोषहर्षरूपणी। निर्गुणा च निराकारा निर्लिप्तात्मस्वरूपिणी ॥४९।। निरीहा निरहंकारा भक्तानुग्रहविग्रहा। वेदानुसारिध्यानेन विज्ञाता सा विचक्षणः ॥५०।। दृष्टिदृष्टा न सा केशः सुरेन्द्रैर्मुनिपुंगवः । वह्निशुद्धांशुकधरा नानालंकारभूषिता ।।५१।। कोटि चंद्रभापुष्टसर्वश्रीयुक्तविग्रहा । श्रीकृष्णभक्तिदास्यककरा च सर्वसंपदाम् ।।५२।। अवतारे च वाराहे वृषभानुसुता च या। यत्पादपद्मसंस्पर्शपवित्रा च वसुंधरा ॥५३॥ ब्रह्मादिभिरदृष्टा या सर्वेर्दृष्टा च भारते । स्त्रीरत्नसारसंभूता कृष्णवक्षःस्थले स्थिता ॥५४॥ यथांबरे नवघने लोला सौदामिनी मुने। षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा।५५॥ यत्पादपद्मनखरदृष्टये चात्मशुद्धये। न च दृष्टं च स्वप्नऽपि प्रत्यक्षस्यापि का कथा ॥५६॥ तेनंव तपसा दृष्टा भुवि वृंदावने वने। कथिता पंचमी देवी सा राधा च प्रकीर्तिता ॥५७॥ अंशरूपा: कलारूया या: कलांशांशसंभवाः । प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥५८॥ परिपूर्णतमाः पंच विद्यादेव्यः प्रकीर्तिताः । या याः प्रधानांशरूपा वर्णयामि निशामय ॥५९॥ प्रधानांशस्वरूपा सा गंगा भुवनपावनी । विष्णुविग्रहसंभूता द्रवरूपा सनातनी ॥६० ।। पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी। सुखस्पर्शा स्नानपानैनिर्वाणपददायिनी ॥६१॥ गोलोकस्थानप्रस्थानसुखसोपानरूपिणी । पवित्ररूपा तोर्थानां सरितां च परावरा ॥६२॥ शंभुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी । तपःसंपादिनी सद्यो भारतेषु तपस्विनाम् ॥६३। चंद्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी । निर्मला निरहंकारा साध्वी नारायणप्रिया ॥६४॥। प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी। विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥६५॥ मुने। सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥६६।। दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी। कलो कलुषशुष्केध्मदहनायाग्निरूपिणी ॥६७॥
Page 570
५७० श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः १ यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा। यत्स्पर्शदर्शने चैवेच्छंति तीर्थानि शुद्धये॥६८। यया विना च विश्वेषु सर्वकर्म च निष्फलम्। मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥६९॥ कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी। भारतीनां प्रीणनाय जाता या परदेवता॥७०॥। प्रधानांशस्वरूपा या मनसा कश्यपात्मजा। शंकरप्रियशिष्या च महाज्ञानविशारदा ॥७१॥ नागेश्वरस्यानंतस्य भगिनी नागपूजिता। नागेश्वरी नागमाता सुंदरी नागवाहिनी ॥७२। नागेंद्रगणसंयुक्ता नागभूपणभूषिता। नागेंद्रवंदिता सिद्धा योगिनी नागशायिनी ॥७३।। विष्णुरूपा विष्णुभक्ता वरिष्णुपूजापरायणा। तपस्त्ररूपा तपसां फलदात्री तपस्विनी ॥७४।। दिव्यं त्रिलक्षवर्ष च. तपस्तप्त्वा च या हरेः । तपस्त्रिनीपु पूज्या च तपस्विषु च भारते ॥७५॥ सर्वमंत्राधिदेवी च ज्वलंती ब्रह्मतेजसा। ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥७६॥ जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता । आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥७७॥ प्रधानांशस्वरूपा या देवलेना च नारद । मातृकासु पूज्यतमासा षष्ठी च प्रकीतिता ॥७८।। पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती। षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता॥७९॥ स्थाने शिशूनां परम वृद्धरूपा च योगिनी। पूजा द्वादशमासेषु यस्या विश्वेषु संततम् ॥८०॥ पूजा च सूतिकागारे पुरा पछ्ठदिने शिशोः। एकविशतिमे चंव पूजा कल्याणहेतुकी ॥८१॥ मुनिभिर्नमिता चैपा नित्यकासाप्यतः पराः । मातृका च दयारूपा शश्वद्रक्षणकारिणी ॥८२॥ जले स्थले चांतरिक्षे शिशनां सद्मगोचरे। प्रधानांशस्वरूपा च देवी मंडलचंडिका ॥८३।। प्रकृतेर्मुखसंभूता सर्वमंगलदा सदा। सृष्टौ मंगलरूपा च संहारे कोपरूपिणी ॥८४॥। तेन मंगलचंडी सा पंडितैः परिकीर्निता। प्रतिमंगलवारेपु प्रतिविश्वेषु पूजिता ॥८५॥। पुत्रपौत्रधनैश्वर्ययशोमंगलदायिनी । परितुष्टा सर्वबांछाप्रदाश्री सर्वयोषिताम् ॥८६। रुष्टा क्षणेन संहतुं शक्ता विश्वं महेश्वरी। प्रधानांशस्वरूपा सा काली कमललोचना ।।८७।। दुर्गाललाटसंभूता रणे शुंभनिशुभयोः । दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥८८॥ कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा । प्रधाना सर्वशक्तीनां बला बलवती परा ॥८९॥ सर्वसिद्धिप्रदा देवी षरमा योगरूपिणी। कृष्णभक्ता कृष्णतुल्यां तेजसा विक्रमैर्गुणैः ॥९०॥ कृष्णभावनया शश्चत्कृष्णवर्णा सनातनी । संहर्तुं सर्वब्रह्माण्डं शक्ता निश्वासमात्रतः ॥९१॥ रणं दैत्यैः समं तस्या: क्रीडया लोकशिक्षया। धर्मार्थकाममोक्षांश्र दातुं शक्ता च पूजिता ॥९२।। ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः। प्रधानांशस्वरूपा सा प्रकृतेश्च वसुंधरा॥९३॥ आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता। रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया ॥९४॥ प्रजाभिश्च प्रजेशश्च पूजिता वंदिता सदा। सर्वोपजीव्यरूपा च सर्वसंपद्विधायिनी ॥९५॥
Page 571
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः १ ५७१ यया विना जगत्सर्व निराधारं चराचरम्। प्रकृतेश्र कला या यास्ता निबोध मुनोश्वर ॥९६।। यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते। स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता ।९७।। यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः । दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ।।९८।। यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् । स्वधा पितृणां पत्नी च मुनिभिर्मनुभिर्नरैः ॥९९॥ पूजिता पितृदानं हि निष्फलं च यया विना। स्व्रस्तिदेवो वायुपत्नी प्रतिविश्वेषु पूजिता ॥१००॥ आदानं च प्रदानं च मिष्फलं च यया बिना। पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ॥१०१॥ यया विना ८ रक्षीणाः पुमांसो योषितोऽपि च। अनंतपत्नी तुष्टिश्च पूजिता वंदिता भवेत् ॥१०२।। यथा विना न संतुष्टाः सर्वलोकाश्च सर्वतः । ईशानपत्नी संपत्तिः पूजिता च सुरैनरः ॥१०३॥ सर्वे लोका दरिद्राश्च विश्वेषु च यया बिना। धृतिः कपिलपत्नी च सर्वेः सर्वत्र पूजिता ॥१०४॥ सर्वे लोका अधैर्याश्च जगत्सु च यया विना। सत्यपत्नी सती मुक्त्तः पूजिता च जगत्प्रिया ॥१०५॥ यया विना भवेल्लोको बंधुतारहितः सदा। मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ॥१०६। सर्वे लोकाश्र सर्वत्र निष्फलाश्च यया विना। पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥१०७।। यया विना जगत्सवं जीवन्मृतसमं मुने। सुकर्मपत्नी संसिद्धा कीतिर्धन्यैश्च पूजिता ॥१०८। यया विना जगत्सर्व यशोहीनं मृतं यथा। क्रिया तूदयोगपत्नी च पूजिता सर्वसंमता ॥१०९॥ यया विना जगत्सवं विधिहीनं च नारद । अधर्मपत्नी मिथ्या सा सर्वधूर्तेश्र पूजिता ॥११०॥ यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम्। सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ।।१११।। अर्धावयवरूपा च द्वापरे चैव संवृता। कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥११२।। कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे। शांतिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥११३॥ याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद। ज्ञानस्य तिस्रो भार्याश्र बुद्धिर्मेधाधृतिस्तथा ॥११४॥ याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा। मूर्तिश्च धर्मपत्नी सां कांतिरूपा मनोहरा ॥११५॥ परमात्मा च विश्वौघो निराधारो यया विना। सर्वत्र शोभारूपा च लक्ष्मीमूर्तिमती सती ॥११६॥ श्रीरूपा मूर्तिरूपा च मान्या धन्याडतिपूजिता। कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी ११७३। सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु। कालस्य तिस्रो भार्याश्च संध्यारात्रिदिनानि च ११८।। याभिर्विना विधाता च संख्यां कर्तु न शक्यते। क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥११९॥ याभ्यां व्यातं जगत्सर्वं नित्यं चिंतातुरं भवेत्। प्रभा च दाहिका चैव द्वे भायें तेजसस्तथा ॥१२०॥ याभ्यां विना जगत्स्नष्टुं विधातुं च नहीश्वरः । कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥१२१॥ याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधो। निद्रा कन्या च तंद्रा सा प्रीतिरन्या सुखप्रिये १२२॥ याभ्यां व्यासं जगत्सवं विधिपुत्र विधेविधौ। वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्र पूजिते ॥१२३॥
Page 572
५७२ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः १ याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने । अदितिर्देवमाता च सुरभी च गवां प्रसूः॥१२४॥ दितिश्र दैत्यजननी कद्रश्च विनता दनुः । उपयुक्ता सृष्टिविधौ एतास्तु कीर्तिता: कलाः ॥१२५॥ कला अन्या: संति बह्वयस्तासु काश्चिन्निबोध मे। रोहिणी चंद्रपत्नो च संज्ञा सूर्यस्य कामिनी ॥१२६॥ शतरूपा मनोर्भार्या शचोंद्रस्य च गेहिनी। तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुंधती ॥१२७॥ अहल्या गौतमस्त्री साऽप्यनसूयाऽत्रिकामिनी। देवहूतो कर्दमस्य प्रसूतिर्दक्षकामिनी॥१२८॥ पितृणां मानसी कन्या मेनका सांबिकाप्रसूः । लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा॥१२९॥ वरुणानी प्रसिद्धा च बलेविन्ध्यावलिस्तथा। कांता च दमयंती च यशोदा देवकी तथा ॥१३०॥ गांधारी द्रौपदी शैव्या साच सत्यवती प्रिया। वृषभानुप्रिया साध्वी राधामाता कुलोदहा ॥१३१॥ मंदोदरी च कौसल्या सुभद्रा कौरवी तथा। रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा॥१३२॥। जांबवती नाग्नजितिमित्रविंदा तथाउपरा। लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकोर्तिता ॥ काली याजनगंधा च व्यासमाता महासती। बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥१३४॥ प्रभावती भानुमती तथा मायावती सती। रेणुका च भृगोर्माता राममाता च रोहिणी १३५॥ एकनंदा च दुर्गा सा श्रीकृष्णभगिनी सती। वह्वयः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥१३६॥ या याश्र ग्रामदेव्य: स्युस्ताःसर्वाःप्रकृतेःकलाः। कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥१३७॥ योषितामवमानेन प्रकृतेश्र पराभवः । ब्राह्मणी पूजिता येन पतिपुत्रवती सती॥१३८॥ प्रकृतिः पूजिता तेन वस्त्रालंकारचंदनैः । कुमारी चाष्टवर्षा या नस्त्रालंकारचंदनैः ॥१३९॥ पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता। सर्वाः प्रकृतिसंभूता उत्तमाधममध्यमाः ॥१४०॥ सत्त्वांशाश्रोत्तमा ज्ञेयाः सुशोलाश्च पतिव्रताः । मध्यमा रजसश्चांशास्ताश्र भोग्याः प्रकीतिताः ॥ सुखसंभोगवश्याश्च स्वकार्य तत्पराः सदा। अधमास्तमसश्चांशा अज्ञातकुलसंभवाः ॥१४२॥ दुर्मुखाः कुलहा धूर्ताः स्वतंत्राः कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः॥१४३॥ प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः । एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥१४४॥ ता: सर्वाः पूजिता: पृथ्व्यां पुण्यक्षेत्रे च भारते। पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥१४५॥ ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना। तत्पश्चाज्जगतां मा्ता त्रिषु लोकेपु पूजिता ॥१४६॥ जातादौ दक्षकन्या या निहत्य दैत्यदानवान्। ततो देहं परित्यज्य यज्ञे भतुंश्च निंदया ॥१४७॥ जज्ञे हिमवतः पत्न्यां लेभे पशुपति पतिम्। गणेशश्च स्वयं कृष्णः स्कंदो विष्णुकलोद्गवः१४८॥। बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद। लक्ष्मीमंगलभूपेन प्रथमं परिपूजिता ॥१४९॥ त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः । सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥१५०॥ तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुंगवैः । आदो सरस्वतो देवी ब्रह्मणा परिपूजिता ॥१५१॥
Page 573
श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्याय: २ ५७३ तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः। प्रथमं पूजिता राधा गोलोके रासमंडले ॥।१५२॥ पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना। गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकै: १५३। गवां गणः सुरभ्या च तत्पश्चादाज्ञया हरेः। तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया भुदा ॥१५४॥ पुष्पधूपादिभिर्भक्त्या पूजिता वंदिता सदा। पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥१५५। शंकरेणोपदिष्टेन पुण्यक्षेत्रे च भारते। त्रिपु लोकेपु तत्पश्चादाज्ञया परमात्मनः ॥१५६।। पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा। कलाया याः समुद्भूताः पूजितास्ताश्च भारते १५७॥ पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने। एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥१५८॥ इति श्रीदेवीभागवते महापुराणे नवमस्क्न्धे प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः नारद उवाच समासेन श्रुतं सर्वं देवीनां चरितं प्रभो। विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि॥१॥ सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह। कथं वा पंचधा भूता वद वेदविदांवर ॥२॥ भूता ययांशकलया तथा त्रिगुणया भवे। व्यासेन तासां चरितं श्रोतुमिच्छामि सांप्रतम् ॥३॥ तासां जन्मानुकथनं पूजाध्यानविधि बुध। स्तोत्रं कवचमैश्वर्थ शौर्यं वर्णय मंगलम् ॥४॥ श्रानारायण उवाच नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा। विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ।। तदेकदेशो वकुण्ठो नम्रभागानुसारकः । तर्थव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥६॥ यथाग्नौ दाहिका चंद्रे पद्मे शोभा प्रभा रवो। शश्वद्युक्ता न भिन्ना सा यथा प्रकृतिरात्मनि ॥७॥ विना स्वणं स्वर्णकारः कुंडलं कर्तुमक्षमः । विना मृदा घटं कं्तुं कुलालो हि न हीश्वरः ॥८॥ न हि क्षमस्तथात्मा च सृष्टिस्रष्टुं तया विना। सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ।९॥ ऐश्वर्यवचनः शश्र क्तिः पराक्रम एव च । तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥१०॥ ज्ञानं समृद्धिः संपत्तिर्यशश्रैव बलं भगः । तेन शक्तिर्भगवती भगरूपा च सा सदा ॥११॥ तया युक्त्त: सदात्मा च भगवांस्तेन कथ्यते। स च स्वेच्छामयो देवः साकारश्च निराकृतिः॥१२॥ तेजोरूपं निराकारं ध्यायंते योगिनः सदा। वदति च परं ब्रह्म परमानंदमीश्वरम् ॥१३॥ अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम्। सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥१४॥ वदन्ति चैव ते कस्य तेजस्तेजस्विना बिना। तेजोमंडलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥१५॥ स्वेच्छामयं सर्वरूपं सर्वकारणकारणम्। अतीव सुन्दरं रूपं विभ्रतं सुमनोहरम् ॥१६॥
Page 574
.५७४ श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याथः २ किशोरवयसं शांतं सर्वकांतं परात्परम्। नवीननीरदाभासधामैकं श्यामविग्रहम् ॥१७॥ ।।१८। मयूरपिच्छचूडं च मालतीमाल्यमंडितम्। सुनसं सस्मितं कांतं भक्तानुग्रहकारणम् ॥१९॥ ज्वलदग्निविशुद्धकपीतांशुकसुशोभितम् । द्विभुजं मुरलीहस्तं रत्नभूषगभूषितम् ॥२०। सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम्। सर्वेश्वर्यप्रदं सर्वस्वतंत्रं सर्वमंगलम् ॥२१॥ परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम्। ध्यायंते वैष्णवा शश्वद्देवदेवं सनातनम् ॥२२॥ जन्ममृत्युजराव्याविशोकभीतिहरं परम् । ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥२३॥ स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते। कृषिस्तद्द्क्तिवचनो नश्र तद्दास्यवाचकः ॥२४॥ भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः । कृषिश्च सर्ववचनो नकारो बीजमेव च ॥२५॥ स कृष्णः सर्वस्रष्टाऽडदी सिसृक्षन्रेक एव च। सृष्टयुन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥२६॥ स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह। स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ।२७।। तां ददर्श महाकामी कामाधारां सनातनः । अतीव कमनीयां च चारुपंकजसन्निभाम् ॥२८॥ चंद्रबिंब विनिदकनितंबयुगलां पराम्। सुचारुकदलीस्तंभनिंदितश्रोणिसुन्दरीम् ।।२१॥ युक्तश्रीफलाकारस्तनयुग्ममनोरमाम् । पुष्पजुष्टां सुवलितां मध्यक्षीणां मनाहराम् ॥३०॥ अतीव सुंदरीं शांतां सस्मितां वक्रलोचनाम्। वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥३१॥ शश्चच्चक्षुश्चकोराभ्यां पिवंतीं सेततं मुदा। कृष्णस्य मुखचंद्रं च चंद्रकोटिविनिंदतम् ॥३२॥ कस्तूरीं विन्दुना सार्ध्चमधश्चंदनबिंदुना। समं सिंदूरबिंदुं च भालमध्ये च बिभ्रतीम् ॥३३॥ वक्रिमं कबरीभारं मालतीमाल्यभूषितम्। रत्नेंद्रसारहारं च दधतीं कांतकामुकीम् ॥३४॥ कोटिचंद्रप्रभामृष्टपुष्टशोभासमन्विताम् । गमनेन राजहंसगजगर्वविनाशिनोम्।।३५।। दृष्टा तां तु तया साधं रासेशो रासमंडले। रासोल्लासे सुरसिको रासकीडां चकार ह॥३६॥ नानाप्रकारशृंगारं शृङ्गारो मूर्तिमानिव। चकार सुखसंभोगं यावद्वै ब्रह्मणो दिनम् ॥३७॥ ततः स च परिश्रांतस्तस्या योनौ जगत्पिता। चकार वीर्याधानं च नित्यानंदे शुभेक्षणे ॥३८। गात्रतो योषितिस्तस्याः सुरतांते च सुव्रत । निःससार श्रमजलं श्रांतायास्तेजसा हरेः ॥३९॥ महाक्रमणकलिष्टाया निःश्वासश्र बभूव ह। तदाबब्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥४०॥ स च निश्चासवायुश्च सर्वाधारो बभूव ह्। निश्चासवायुः सर्वेपां जीविनां च भवपु च ॥४१॥ वभूव मूर्तिमद्वायोर्वामांगात्प्रमाणवल्लभा। तत्पत्नी सा च तत्पुत्राः प्राणाः पंच च जीविनाम् ४२॥ प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । बभूवुरेव तत्पुत्रा अधः प्राणाश्च पंच-च॥४३॥ धर्मतोयाधिदेवश्च बभृव वरुणो महान्। तट्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ॥४४।।
Page 575
श्रीम द्ेवीमागवते महापुराणे नवमस्कन्धे अध्याय: २ ५७५ अथ सा कृष्णचिच्छक्तिः कृष्णगभ दधार ह। शतमन्वंतरं यावज्ज्वलंती ब्रह्मतेजसा ॥४५॥ कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया। कृष्णस्य संगिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥४६॥ शतमन्वंतरांते च कालेऽतीते तु सुंदरी। सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम्॥४७॥ दृष्टा डिभं च सा देवी हृदयेन व्यदूयत । उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले॥४८॥ दृष्टा कृष्णश्च तत्त्यागं हाहाकारं चकार ह। शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥४९॥ यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे। भव त्वमनपत्याऽपि चाद्यप्रभृति निश्चितम् ॥५०॥ या यास्त्वदंशरूपाश्च भविष्यंति सुरस्त्रियः । अनपत्याश्र ताः सर्वास्त्वत्समा नित्ययोवनाः ॥५१॥ एतस्मिन्नतरे देवी जिह्वाग्रात्सहसा ततः। आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥५२॥ श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी। रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥५३।। अथ कालतरे सा च द्विधारूपा बभूव ह। वामार्धांगाच्च कमला दक्षिणार्धाच्च राधिका ५४॥। एतस्मिन्नंतरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्धश्र द्विभुजो वामार्धश्च चतुर्भुजः ॥५५॥ उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव। अत्रैव मानिनी राधा तव भद्र भविष्यति ॥५६॥ एवं लक्ष्मी च प्रददौ तुष्टो नारायणाय च। स जगाम च वैकुंठे ताभ्यां सार्ध जगत्पतिः ।।५७।। अनपत्ये च ते दे च जाते राधांशसंभवे। भूता नारायणांगाच्च पार्षदाश्च चतुर्भुजाः ।५८॥ तेजसा वयसा रूपगुणाभ्यां च समा हरे: । बभूवुः कमलांगाच्च दासीकोटयश्च तत्समाः ॥५९॥ अथ गोलोकनाथस्य लोम्नां विवरतो मुने। भूताश्चासंख्यगोपाश्च वयसा तेजसा समाः ॥६०॥ रूपेण च गुणेनैव बलेन विक्रमेण च । प्राणतुल्यप्रियाः सव बभूवुः पार्षदा विभो: ॥६१॥ राधांगलोमकूपेभ्यो बभूवुर्गोपकन्यकाः । राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥६२॥ रत्नभूषण भूषाढयाः शश्वत्सुस्थिरयौवनाः । अनपत्याश्च ताः सर्वाः पुंसः शापेन संततम् ॥६३॥ एनस्मिन्नंतरे विप्र सहसा कृष्णदेवता। आविरबभूव दुर्गा सा विष्णुमाया सनातनी ॥६४।। देवी नारायणीशाना सर्वशक्तिस्वरूपिणी। बुद्धयधिष्टात्री देवी सा कृष्णस्य परमात्मनः ॥६५॥ देवीनां बोजरूपा च मूलप्रकृतिरीश्वरी। परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥६६॥ तप्तकांचनवर्णाभा कोटिसूर्यसमप्रभा। ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥६७।। नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना। बह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥६८॥ यस्थाश्चांशांशकलया बभूवुः सर्वयोषितः। सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया॥६९॥ सवश्वर्यप्रदातरी च कामिनां गृहवासिनाम् । कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥७०॥। मुमुक्षणां मोक्षदात्री सुखिनां सुखदायिनी। स्वर्गेषु स्वरगलक्ष्मीश्च गृहलक्ष्मीगृहेषु च ॥७१।। तपस्विपु तपस्या च श्रीरूपा तु नृपेषु च। या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥७२॥
Page 576
५७६ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३ शोभारूपा च चंद्रे च सा पद्मेषु च शोभना। सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥७३॥ यया चशक्तिमानात्मा यया च शक्तिमज्जगत् । यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥७४॥ या च संसारवृक्षस्य बीजरूपा सनातनी। स्थितिरूपा बुद्धिरूपा फलरूपा च नारद ॥७५॥ क्षुत्पिपासादयारूपानिद्रा तंद्रा क्षमा मतिः। शांतिलज्जातुष्टिपुष्टिभ्रांतिकांत्यादिरुपिणी ॥७६। सा च संस्तूय सर्वेशं तत्परः समुवास ह। रत्नसिहासनं तस्य प्रददौ राधिकेश्वरः ॥७७॥ एतस्मिन्नंतरे तत्र सस्त्रीकश्च चतुर्मुखः। पद्मनाभेनाभिपझ्मान्निःससार महामुने ॥७८॥। कमंडलुधर: श्रीमांस्तपस्वी ज्ञानिनां वरः । चतुर्मखैस्तं तुष्टाव प्रज्वलन्व्रह्मतेजसा ॥७९॥ सा तदा सुंदरी सृष्टा शतचंद्रसमप्रभा। वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा॥८०॥ रत्नसिंहासने रम्ये संस्तूय सर्वकारणम्। उत्रास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥८१॥ एतस्मिन्नंतरे कृष्णो द्विधारूपो बभूव मः। वामार्धांगो महादेवो दक्षिणे गोपिकापतिः ॥८२॥ शुद्धस्फटिकसंकाशः शतकोटिरविप्रभः । त्रिशू लपट्टिशधरो व्याघ्रचर्मांबरो हरः॥८३॥ तप्तकांचनवर्णाभो .जटाभारधरः परः। भस्मभूषितगातश्च सस्मितश्चंद्रशेखरः ॥८४॥।
दिगंबरो नीलकंठः सर्पभूषणभूषितः । बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ॥८५॥ प्रजपन्पंचवक्त्रेण ब्रह्मज्योतिः सनातनम्। सत्यस्वरूपं श्रीवृष्णं परमात्मानमीश्वरम् ॥८६॥ कारणं कारणानां च सर्वमंगलमंगलम्। जन्ममृत्युराजव्याधिशोकभीतिहरं परम् ॥८७॥ संस्तूय मृत्योर्मृ्त्युं तं यतो मृत्युंजयाभिधः । रत्नसिंहासने रम्ये समुवास हरेः पुरः ॥८८॥ इति श्रीदेघीभागवते महापुराणे नवमस्कन्धे द्वितीयोऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः श्रीनारायण उवाच अथ डिंभो जले तिष्टन्यावद्व ब्रह्मणो वयः । ततः स काले. सहसा द्विधाभूता बभूव है ॥१॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमाणश्च स्तनांधः पीडितः क्षुधा ॥२॥ पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः । ब्रह्मांडासंख्यनाथो यो ददर्शोर्ध्वमनाथवत् ।३॥ स्थूलात्स्थूलतमः सोपि नाम्ना देवो महाविराट्। परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाऽप्यसौ ॥४॥ तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः । आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः ॥५॥ प्रत्येकं लोमकूपेपु विश्वानि निखिलानि च । अस्थापि तेषां संख्यां च कृष्णो ववतुं न हि क्षमः !६॥ संख्या चेद्रजसामस्ति विश्वानां न कदाचन । ब्रह्मविप्णुशिवादीनां तथा संख्या न विद्यते ॥७।। प्रतिविश्वेषु संत्येवं ब्रह्मविप्णुशिवादयः । पातालाद्ब्रह्मलोकांतं ब्रह्मांडं परिकीर्तितम् ॥८॥
Page 577
१७ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १ ५७७ तत ऊध्वं च वैकुंठो ब्रह्मांडाद्वहिरेव सः। तत ऊध्वं च गोलोकः पंचाशत्कोटियोजनः।९।। नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् । सप्तद्वीपमिता पृथ्वी सप्तसारसंयुता ॥१०॥ । ऊध्वं सप्त स्वर्गलोका ब्रह्मलोकसमन्विताः ॥११॥ पातालानि च सप्ताधश्चवं ब्रह्मांडमेव च। ऊर्ध्व धराया भूलोको भुवर्लोकस्ततः परम् ॥१२॥ ततः परश्च स्वलोको जनलोकस्तथापरः । ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥१३॥ तःः परं ब्रह्मलोकस्तप्तकांचनसन्निभः । एवं सर्वं कृत्रिमं च बाह्याभ्यंतरमेव च ॥१४॥ तद्विनाशे विनाशश्च सर्वेषामेव नारद। जलबुद्बुदवत्सवं विश्वसंवमनित्यकम् ॥१५॥ नित्यौ गोलोकबैकुंठो प्रोक्तो शश्वदकृत्रिमौ। प्रत्येकं लोमकूपेषु ब्रह्मांडं परिनिश्चितम् ॥१६॥ एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा। प्रत्येकं प्रतिब्वह्मांडं ब्रह्मविष्णुशिवादयः ॥१७॥। तिस्रः कोटयः सुराणां च संख्या सर्वत्र पुत्रक । दिगीशाश्रव दिक्पाला नक्षत्राणि ग्रहादयः ॥१८।। भुवि वर्णाश्र चत्वारोऽप्यधो नागाश्चराचराः । अथ कालेन स विराडूध्वं दृष्टा पुनः पुनः ॥१९॥ डिभांतरे च शून्यं हि द्वितीयं च न किंचन । चिंतामवाप क्षुदुक्तो रुरोद च पुनः पुनः ॥२०॥ ज्ञानं प्राप्य तदा दध्यो कृष्णं परमपूरुषम् । ततो ददर्श तत्रंव ब्रह्मज्योतिः सनातनम् ॥२१॥ नवीनजलदश्यामं द्विभुजं पीतवाससम्। सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम् ॥२२॥ जहास बालकस्तुष्टो दृष्टा जनकमीश्वरम्। वरं तदा ददौ तस्मै वरेशः समयोचितम् ॥२३॥ मत्समो ज्ञानयुक्तश्र क्षुत्पिपासादिवर्जितः । ब्रह्मांडासंख्यनिलयो भव वत्स लयावधि ॥२४॥ निष्कामो निर्भयश्रैव सर्वेषां वरदो भव। जरामृत्युरोगशोकपीडादिवर्जितो भव ॥२५॥ इत्युक्त्वा तस्य कर्णे स महामंत्रं षडक्षरम्। त्रिःकृत्वश्च प्रजजाप वेदांगप्रवरं परम्॥२६॥ प्रणवादिचतुर्थ्यतं कृष्ण इत्यक्षरद्वयम् । वह्निजा यांतमिष्टं च. सर्वविध्नहरं परम् ॥२७॥ मंत्रं दत्त्वा तदाहार कल्पयामास वै विभुः । श्रूयतां तद्ब्रह्मपुत्र निबोध कथयामि ते ॥२८॥ प्रतिविश्वं यन्नवेद्यं ददाति वैष्पवो जनः । तत्षोडशांशो विषयो विष्णोः पंचदशास्य वै ॥२९॥ निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च । त्रैवेद्ये चव कृष्णस्य न हि किचित्प्रयोजनम् ॥३०॥ यद्यद्दाति नैवेद्यं तस्म देवाय यो जनः। सच खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा॥३१॥ तं च मंत्रवरं दत्त्वा तमुवाच पुनविभुः । वरमन्य किमिष्टं ते तन्मे ब्रूहि ददामि च ।३२।। कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः । कृष्णं तं बालकस्तावद्वचनं समयोचितम् ॥३३॥ बालक उवाच वरो मे त्वत्पदांभोजे भक्तिर्भवतु निश्चला। सततं यावदायुर्मे क्षणं वा सुचिरं च वा॥१४॥
Page 578
4७८ श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३ त्वद्दक्तियुक्तलोकेऽस्मिआीवन्मुक्तश्र संततम् । त्वद्धक्तिहीनो मूर्खश्र जीवन्नपि मृतो हि सः॥३५॥ किं तज्जपेन तपसा यज्ञेन पूजनेन च । व्रतेन चोपवासेन पुण्येन तीर्थसेदया।।३६।। कृष्णभक्तिविहोनस्य मूर्खस्य जीवनं वथा। येनात्मना जीवितश्र तमेव न हि मन्यते ।।३७।। यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः । पश्चाद्यांति गते तस्मिन्स्वतंत्राः सर्वशक्तयः ॥३८॥ सच त्वं च महाभाग सर्वात्मा प्रकृतेः परः । स्वेच्छामयश्चसर्वाद्यो ब्रह्मज्योतिः सनातनः ॥३९॥ इत्युक्त्वा बालकस्तत्र विरराम च नारद । उवाच कृष्णः प्रत्युक्ति मधुरां श्रुतिसुन्दरीम् ॥४०॥ श्रीकृष्ण उवाच सुचिरं सुस्थिरं तिष्ठ यथाऽहं त्वं तथा भव । ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति॥४१।। अंशेन प्रतिब्रह्मांडे त्वं च क्षुद्रविराड् भव। त्वन्नाभिपद्माद्ब्रह्मा च विश्वस्रष्टा भविष्यति ॥४२।। ललाटे ब्रह्मणश्चंव रुद्राश्चंकादशव ते। शिवांशेन भविष्यंति सृष्टिसंहरणाय वै॥४३॥ कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः । पाता विष्णुश्र विषयी रुद्रांशेन भविष्यति ॥४४।। मद्द्क्तियुक्तः सततं भविष्यति वरेण मे। ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ४५॥ मातरं कमनीयां च मम वक्षःस्थलस्थिताम्। यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोंतरघीयत ॥४६।। गत्वा स्वलोकं ब्रह्माणं शंकरं समुवाच ह। स्रष्टारं स्रप्टुमीशं च संहतुं चंव तत्क्षणम् ।४७।। श्रभगवानुवाच मृष्टिं स्रप्टुं गच्छ वत्स नाभिपद्मोद्भवो भव । महाविराड् लोमकूपे क्षुद्रस्य च विधे शृणु ।।४८।। गच्छ वत्स महादेव ब्रह्मभालोद्द्गवो भव। अंशेन च महाभाग स्वयं च सुचिरं तप ।।४९।। इत्युक्र्वा जगतां नाथो विरराम विधे: सुतः । जगाम ब्रह्मा तं नत्वा शिवश्र शिवदायकः ॥५०॥ महाविराड् लोमकपे ब्रह्मांडगोलके जले। बभूव च विराट्क्षुद्रो विराउंशेन सांप्रतम् ॥५१॥ श्यामो युवा पीतवासाः शयानो जलतल्पके। ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः ॥५२॥ तन्नाभिकमले ब्रह्मा बभूव कमलोद्वः। संभूय पद्मदंडे च बभ्राम युगलक्षकम् ॥५३॥ नांतं जगाम दंडस्य पद्मनालस्य पद्मजः। नाभिजस्य च पद्मस्य चिंतामाप पिता तव ।५४।। स्वस्थानं पुनरागत्य दव्यौ कृष्णपदांबुजम्। ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुपा ।५५॥ शयानं जलतन्पे च ब्रह्माण्डगोलकाप्लुते। यल्लोमकूपे ब्रह्मांडं तत्कृतं परमीश्वरम् ॥५६॥ श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् । तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः॥५७॥ वभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः । ततो रुद्रकलाश्चाषि शिवस्यैकादश स्मृताः ॥५८॥ बभूव पाता विष्णुश्र क्षुद्रस्य वामपार्ध्वतः । चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत् ।।५९।। क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह। स्वर्ग मर्त्यं च पातालं त्रिलोकीं सचराचराम् ॥६०॥
Page 579
श्रीमहेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४ ५७९ एवं सर्वलोमकपे विश्वं प्रत्येकमेव च । प्रतिविश्वे क्षुद्रविराड्ब्रह्मविष्णुशिवादयः ॥६१॥ हत्येवं कथितं ब्रह्मन्कृष्णसंकोर्तनं शुभम्। सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि ॥६२॥ इति श्रीदवीभागवते महापुराणे नवमस्कन्धे तृतीयोऽध्यायः ।।२॥ अथ चतुर्थोऽध्यायः नारद उवाच श्रुतं सवं मया पूर्व त्वत्प्रसादात्सुधोपमम् । अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥१॥ कस्या: पूजा कृता केन कथं मर्त्ये प्रचारिता। केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥२॥ तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् । काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमईस्रि ॥३॥ श्रीनारायण उवाच गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती। सावित्री च सृष्टिविधी प्रकृतिः पञ्नधा स्मृता ॥४। आसां पूजा प्रसिद्धा च प्रभाव: परमाद्भुतः । सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥५। प्रकृत्यंशाः कलाश्च तासां च चरितं शुभम्। स्वं वक्ष्यामि ते ब्रह्मन्सावधानो निशामय ॥६। काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका । तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा।।। संक्षिप्तमासां चरितं पुण्यदं श्रुतिसुंदरम्। जीवकर्मविपाकं च तच्च वक्ष्यामि सुंदरम् ।।८।। दुर्गायाश्चव राधाया विस्तीण चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि संक्षेपक्रमतः शृणु ॥९॥ आदो सरस्वतीपूजा श्रीकृष्णेन. विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पंडितः ॥१०॥ आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥११। स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम्। तामुवाच हितं सत्यं परिणामे सुखावह्म् ॥१२। श्रीकृष्ण उवाच भज नारायणं साध्वि मदंशं च चतुर्भुजम्। युवानं सुंदरं सर्वगुणयुक्त च मत्समम् ॥१३॥ कामज्ञं कामिनीनां च तासां च कामपूरकम। कोटिकंदर्पलावण्यं लीलालंकृतमीश्वरम् ॥१४। कांते कांतं च मां कृत्वा यदि स्थातुमिहेच्छसि। त्वत्तो बलवती राधा न भद्रं ते भववष्यति ॥१५ यौ यस्माद्बलवान्वाणि ततोऽन्यं रक्षितुंक्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः ॥१६। सर्वेश: सर्वशास्ताऽहं राधां बाधितुमक्षमः । तेजसा मत्ममा सा च रूपेण च गुणेन च ।१७। प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च क:क्षमः । प्राणतोपि प्रियः पुत्रः केषां वास्ति च कश्चन ।।१८। त्वं भद्रे गच्छ वैकुंठं तव भद्रं भविष्यति। पति तमीश्वरं कृत्वा मोदस्त् सुचिरं सुखम् ॥१९। लोभमोहकामक्रोधमानहिंसाविर्वजिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥२०। तया सार्ध तव प्रीत्या शश्वत्कालं प्रयास्यात। गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥२१।
Page 580
५८० श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४ प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारंभे च सुंदरि ॥२२। मानवा मनवो देवा मुनींद्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गंधर्वराक्षसाः ॥२३। मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि। भक्तियुक्ताक्ष दत्त्वा वै चोपचाराणि षोडश ॥२४॥ कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च। जितेन्द्रियाः संयताश्र धटे च पुस्तकेऽपि च ।२५॥ कृत्वा सुवर्णगुटिकां गंधचंदनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कंठे वा दक्षिणे भुजे ॥२६॥ पठिष्यंति च विद्वांस: पूजाकाले च पूजिते। इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥२७॥ ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुशिवादयः । अनंत्श्चापि धर्मश्र मुनींद्राः सनकादयः ॥२८। सर्वे देवाश्च मुनयो नपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥२९॥ नारद उवाच पूजाविधानं कवचं ध्यानं चापि निरंतरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चंदनादिकम् ॥३०॥ वद वेदविदां श्रेष्ट श्रोतं कौतूहलं मम। वर्तते हृदये शश्वत्किमिदं श्रुतिसुंदरम् ॥३१॥ श्रीनारायण उवाच शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम्। जगन्मातुः सरस्वत्याः पूजाविधिसमन्वितम् ॥३२॥ माघस्य शुक्लपञ्चम्यां विद्यारंभदिनेऽपि च। पूर्वे्नि समयं कृत्वा तत्रापि संयतः शुचिः ॥३३॥ स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तांत्रिकेणाथवा पुनः ॥३४।। गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत्। ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम्॥३५॥ ध्यात्वा पुनः षोडशोपचारेण पूजयेद्व्रती। पूजोपयुक्तनैवेद्यं यच्च वेदनिरूपितम् ॥३६॥ वक्ष्यामि सौम्य तर्तिकिचिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्र तिललड्डुकम् ॥३७॥ इक्षुमिक्षुरसं शुक्लवण पक्वगुडं मधु। स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥३८॥ अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम्। घृतसैधवसंयुक्तं हविष्यान्नं यथोदितम् ॥३९॥ यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् । पिष्टकं स्वस्तिकस्यापि पक्वरंभाफलस्य च॥४०॥ परमान्नं च सघृतं मिष्टान्नं च सुघोपमम्। नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥४१॥ पक्वरंभाफलं चारु श्रीफलं बदरीफलम्। कालदेशोद्द्गवं चारुफलं शुक्लं च संस्कृतम् ॥४२॥ सुगंध शुक्लपुष्पं च सुगंधं शुक्लचन्दनम् । नवीनं शुक्लवस्त्रं च शंखं च सुन्दरं मुने ।।४३।। माल्यं च शुक्लपुप्पाणां शुक्लहारं च भूषणम्। यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुंदरम् ॥।४४।। तन्निबोध महाभाग भ्रमभंजनकारणम् । सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥४५॥ कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् । वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम्॥४६!
Page 581
श्रीमद्ेवीभागवते महापुराणे अष्टमस्कन्धे अध्यायः ४ ५८१
रत्नसारेंद्रनिर्माणनवभूषणभूषिताम् । सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥४७॥ बंदे भकत्या वंदितां च मुनोंद्रमनुमानवैः। एवं ध्यात्वाच मूलेन सवं दत्त्वा विचक्षणः ॥४८।। संस्तूय कवचं धृत्वा प्रणमेद्दंडवद्द्गुवि। येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥४९॥ विद्यारंभे च वर्षान्ते सर्वेषां पञ्चमीदिने। सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥५०॥ येषां येनोपदेशो वा तेषां स मूल एव च। सरस्वती चतुर्थ्यंतं वह्निजायांतमेव च ॥५१॥ लक्ष्मीमायादिकं चैव मंत्रोऽयं कल्पपादपः । पुरा नारायणश्चेमं वाल्मीकये कृपानिधिः ॥५२॥ प्रददौ जाह्नवीतोरे पुण्यक्षेत्रे च भारते। भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वनि ॥५३॥ चंक्रपर्वणि मारीचो ददी वाक्पतये मुदा। भृगोश्चंव ददो तुष्टो ब्रह्मा वदरिकाश्रमे ॥५४॥ भास्तीकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ। विभांडाको ददौ मेरोऋष्यशृङ्गाय धीमते ॥५५॥ शिव: कणादमुनये गौतमाय ददौ मुदा। सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥५६॥ शेष: पाणिनये चैव भारद्वाजाय धीमते। ददौ शाकटायनाय सुतले बलिसंसदि ॥५॥॥ चतुर्लक्षजपेनैव मंत्रः सिद्धो भवेन्नृणाम्। यदि स्यान्मंत्रसिद्धो हि बृहस्पतिसमो भवेत् ॥५८।। कवचं शृणु विप्रेंद्र यद्दत्तं ब्रह्मणा पुरा। विश्वस्रष्टा विश्वजयं भृगवे गंधमादने ॥५९॥ भृगुरुवाच ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद। सर्वज्ञ सर्वजनक सर्वेश, सर्वपूजित ।६०1। सरस्वत्याश्च कवचं ब्रहि विश्वजयं प्रभो। अयातयामं मंत्राणां समूहसंयुतं परम् ॥६१॥ ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्। श्रुतिसारं श्रुतिमुखं श्रुत्युक्तं श्रुतिपूजितम् ॥६२॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने। रासेश्वरेण विभुना रासे वै रासमंडले ॥६३।। अतीव गोपनीयं च कल्पवृक्षसमं परम्। अश्रुताद्ुतमंत्राणां समूहैश्च समन्वितम् ॥६४॥ यद्धत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । यद्धृत्वा पठनाद्व्रह्मन्बुद्धिमांशच बृहस्पतिः ॥६५॥ पठनाद्धारणाद्वाग्मौ कवींद्रो वाल्मिको मुनिः । स्वायंभुवो मनुश्चव यद्धृत्वा सर्वपूजितः ॥६६॥ कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रंथं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥६७॥ धृत्वा वेदविभागं च पुराणान्यखिलानि च। चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥६८॥ शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धुत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ॥६९॥ ऋष्यशृंगो भरद्वाजश्चास्तिको देवलस्तथा। जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजितः ॥७०॥ कंवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः। स्वयं छंदश्च बृहतो देवता शारदांबिका।७१॥ सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोग: प्रकोतितः ॥७२।।
Page 582
५८२ श्रीमहेत्रीभागवते महापुराणे नयमस्कन्धे अध्याय: ५ श्रीं हीं सरस्वत्ये स्वाहा शिरो मे पातु सर्वतः । श्रीवाग्देक्ताम स्वाहा भाल मे सर्वदाऽवतु॥७३॥ ॐ हों सरस्वत्यै स्वाहेति श्रोत्रे पातु निरंतरम्। ॐश्री हीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदाऽवतु।७४॥ ऐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु। हीं विद्याधिष्टातृदेव्य स्वाहा चोष्टं सदावतु॥७५॥ ॐश्रीं हीं ब्राह्म यै स्वाहेति दंतपक्ति सदाऽवतु। ऐमित्येकाक्षरो मंत्रो मम कंठं सदाऽवतु ॥७६॥ ॐश्री ही पातु मे ग्रीवां स्कंधौ मे श्रीं सदावतु। ॐह्ली विद्याधिष्टातृदेव्य स्वाहा वक्षःसदावतु ७७।! ॐ ह्ीं विद्याधिस्वरूपा स्वाहा मे पातु नाभिकाम्। ॐ ह्वीं क्लों वाण्य स्वाहेति मम हस्ती सदाऽबतु ॥॥। ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु। ॐ वागधिष्ठातृदेव्य स्वाहा सबं सदाधतु ॥७१॥। सर्वकंठवासिन्य स्वाहा प्राच्यां सदाऽवतु । ॐसर्वजिह्वाग्रवासिन्य स्वाहाग्निदिशि रक्षतु ॥।८०।। ॐ ऐं हीं क्लीं सरस्वत्यै बुधजनन्य स्वाहा। सततं मंत्रराजोऽयं दक्षिणे मां सदाऽवतु ॥८१॥ ऐं हरीं श्रीं त्र्यक्षरो मंत्रो नैरऋत्यां सर्वदाऽवतु। ॐऐं जिह्वाग्रवासिन्य स्वाहा मां वारुणेऽवतु ॥८२॥ ॐ सर्वाम्बिकारय स्वाहा वायव्ये मां सदाऽवतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्य स्वाहा मामुत्तरेऽवतु ॥ ऐं सर्वशास्त्रवासिन्य स्वाहैसान्यां सदाजवतु। ॐ ह्ली गर्वपूजिताय स्वाहा चोष्वं सदाऽवतु ।।८४।। ह्वीं पुस्तकवासिन्य स्वाहाऽघो मां सदाऽवतु। ॐ ग्रंथबोजस्वरूपाय स्वाहा मां सर्वतोऽवतु ॥८५॥ इति ते कथितं विप्र ब्रह्ममंत्रौघविग्रहम्। इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥८६॥ पुरा श्रुतं धर्मवक्त्रात्पर्वते गंधमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ।८७।। गुरुमभ्यर्च्य विधिवद्वस्त्नालंकारचन्दनैः । प्रणम्य दंडवन्द्गमी कवचं धारयेत्सुधीः ॥८८॥ पञ्ालक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥८९।। महावाग्मी कवींद्रश्च त्रैलोक्यविजयी भवेत्। शक्नोति सवं जेतुं च कवचम्य प्रसादतः ॥९०॥ इदं च कण्वशाखोक्तं कवचं कथितं मुने। स्तोत्रपूजाविधानं च ध्यानं च वंदनं शृणु ।।९१।। इति देवीमागवते महापुराणे नवमस्कन्धे चनुर्थोऽध्यायः॥४॥ अथ पश्चमोऽध्यायः श्रीनारायण उवाच वाग्देवतायाः स्तवनं श्रयतां सर्वकामदम्। महामुनियाज्ञिवल्क्यो येन सुष्टाव ता पुरा ॥१॥ गुरुशापाच्च स मुनिर्हतविद्यो.बभूव ह। तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम् ॥२॥ संप्राप्य तपसा सूर्यं लोलाके दृष्टिगोचरे। तुष्टाव सूय शोकेन रुरोद च मुहुर्मुहुः ॥३॥ सूर्यस्तं पाठयामास वेदं वेदांगमीश्वरः। उवाच स्तौहि वाग्देवीं भक्त्याच स्मृतिहेतवे ।४।!
Page 583
श्रीमद्ेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ५ ५८ह तमित्युक्त्वा दीननाथोऽप्यंतर्धानं चकार सः। मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकंधरः ॥५॥ याज्ञवल्क्य उवाच कृपां कुरु जगन्मातर्मामेवं हततेजसम्। गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥६।। ज्ञानं देहि स्मृ्ति विद्यां शकि शिष्य प्रबोधिनीम्। त्रंथकर्तृत्वशक्ति च सुशिष्यं सुप्रतिष्ठितम्।।७।। प्रतिभां सत्सभायां च विचारक्षमतां शुभाम्। लुमं सर्व दैवयोगान्नवीभूतं पुनः कुरु॥८॥ यथांकुरं भस्मनि च करोति देवता पुनः। ब्रह्मस्वरपा परमा ज्योतीरूपा सनातनी ॥९॥ सर्वविद्याधिदेवी या तस्य वाण्य नमो नमः । विसर्गविंदुमात्रासु यदधिष्ठानमेव च॥१० ।। तदधिष्टात्री या देवी तस्य नीत्य नमो सः। व्याख्यास्वरूपासा देवी व्याख्याघिष्टातृरूषिणी।।११।। यया विना प्रसंख्यावान्संख्यां कर्तु न शक्यते। कालसंख्यास्वरूपा या तस्यै देव्य नमो नमः ॥१२॥ भ्रमसिद्वांनरूपा या तस्य देव्य नमोनमः । स्मृतिशक्तिज्ञानशक्तितुद्धिशक्तिस्दरूपिणी ॥१३॥ प्रतिभाकल्पनाशक्तिर्या च तस्य नमोनमः । सनत्कुमारो ब्रह्माणं ज्ञानं पत्रच्छ यत्र वै ॥१४।। बभूव मूकवत्सोऽपि सिद्धांतं कर्तुमक्षमः । तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥१५॥ उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते। स च तुष्टाव ता ब्रह्मा चाजया परमात्मनः ॥१६॥ बकर तत्प्रसादेन तदा सिद्धांतमुत्तमम्। यदाप्यनंतं पनच्छ ज्ञानमेकं वसुंधरा ॥१७॥ बभुव मुकवत्सोऽपि सिद्धांनं कर्तुमक्षमः । तदा तां सच तुष्टाव संत्रस्तः ककव्यपाज्ञया ॥१८॥ ततश्रकार सिद्धान्तं निर्मलं भ्रमभंजनम्। व्यासः पुराणसूतं च पत्रच्छ वाल्मिकि यदा ॥१९॥ मौनीभूतश्च सस्मार तामेव जगदंविकाम् । तदा चकार सिद्धांतं तद्वरेण मुनीश्वरः ॥२०॥ संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदोपकम्। पुराणसूत्रं श्रुत्वा च व्यामः कृष्णकलोद्द्रवः ।२१।। तां शिवां तेद दध्यो च शतवर्ष च पुष्करे। तदा त्वत्तो वरं प्राप्य सत्कवीद्रो बभूव ह ॥२२॥ तदा वेदविभागं च पुराणं च चकार सः। यदा महेंद्रः पत्रच्छ तत्त्वज्ञानं सदाशिवम् ॥२३॥ क्षणं तामेव संचित्य तस्मै ज्ञानं ददो विभुः । पत्रच्छ शब्दशास्त्रं च महेन्द्रश्र बृहस्पनिम् ॥२४। दिव्यं वर्षसहस्त्रं च स त्वां दध्यौ च पुष्करे। तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहत्त्रकम् ॥२५॥ उवाच शब्दशास्त्रं च तदथं च सुरेश्वरम् । अध्यापिताश्च ये शिष्या यैरधोतं मुनीश्वरैः ॥२६॥ ते च तां परिसंचित्य प्रवर्तन्ते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनोन्द्रेर्मनुमानवैः ॥२७॥ दैतयेंद्रेश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पंचवकत्रश्चतुर्मुखः ॥२८॥ यां स्तोतुं किमहं स्तोमि तामेकास्येन मानवः। इत्युवत्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंघरः ॥२९॥ प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरूपा महामाया तेन दृष्टाऽत्युवाच तम् ॥३०॥ सुकवींद्रो भवेत्यवन्वा बैकंठं च जगाम ह। याजवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥३१।
Page 584
श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: ६ सुकवोंद्रो महावाग्मी बृहस्पतिसमो भवेत्। महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ॥३२। स पंडितश्र मेधावी सुकवींद्रो भवेद्ध्रुवम्।३३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे पचमोऽध्यायः ॥। ५ ।। अथ षष्ठोऽध्यायः श्रीनारायण उताच सरस्वती तु वैकुण्ठे स्वयं नारायणांतिके। गंगाशापेन कलहात्कलया भारते सरित् ॥१।। पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी। पुण्यवन्द्िर्निषेव्या च स्थितिः पुण्यवतां मुने ॥२॥ तपस्विनां तपोरूपा तपसः फलरूपिणी। कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥३॥ ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि। तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥४॥ भारते कृतपापश्च स्नात्वा तत्र च लीलया । मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥५॥ चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये। व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च ॥६॥। अनुषंगेण यः स्नातो हेतुना श्रद्धयाऽपि वा। सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥७॥ सरस्वतीमनुं तत्र मासमेकं च यो जपेत्। महामूर्सः कवींद्रश्च स भवेन्नात्र संशयः ॥८॥ नित्यं सरस्वतीतोये यः स्नायान्मुंडयन्नरः । न गर्भवासं कुरुते पुनरेव स मानवः ॥९।। इत्येवं कथितं किंचिद्भारते गुणकीर्तनम् । सुखदं कामदं सारं भूयः कि श्रोतुमिच्छसि ॥१०॥ सूत उत्ाच नारायणवचः श्रुत्वा नारदो मुनिसत्तमः । पुनः पप्रच्छ संदेहमिमं शौनक सत्वरम् ॥११॥ नारद उवाच कथं सरस्वती देवी गंगाशापेन भारते। कलया कलहेनैव वभूव पुण्यदा सरित् ॥१२॥ श्रवणे श्रुतिसाराणां दर्धते कौतुकं मम। कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते ॥१३॥ कथं शशाप सा गंगा पूजितां तां सरस्वतीम्। सा तु सत्त्वस्वरूपा या पुण्यदा सुखदा सदा ॥१४।। ेजस्विन्योद्वयोर्वादकारणं श्रुतिसुन्दरम् । सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥१५॥ श्रीनारायण उवाच शृणु नारद वक्ष्यामि कथामेतां पुरातनीम्। यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥१६॥ लक्ष्मी सरस्वती गंगा विष्णोःसान्निध्यगाः सदा। प्रेम्णा समास्तास्तिष्ठंति सततं हरिसन्निधौ॥१७॥ चकार सैकदा गंगा विष्णोर्मुखनिरीक्षणम्। सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥१८। विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा। क्षमां चकार तद्दृष्टा लक्ष्मीर्नेव सरस्वती ॥१९॥
Page 585
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ६ ५८५ बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता । क्रोधाविष्टा च सावाणी न च शांता वभूव है ॥२०॥ उवाच वाणो भर्तारं रक्तास्या रक्तलोचना। कुपिता कामवेगेन शश्चत्प्रस्फुरिताधरा ॥२१॥ सरस्वत्युवाच सर्वत्र समताबुद्धिः सद्दर्तुः कामिनीं प्रति। धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ।२२॥ ज्ञातं सौभाग्यमधिक गंगायां ते गदाधर। कमलायां चतत्तुल्यं न च किंचिन्मयि प्रभो ॥२३॥ गंगायाः पद्मया सारध प्रीतिश्चास्ति सुसंमता। क्षमां चकार तेनेदं विपरीतं हरिप्निया ॥२४॥ कि जीवनेन मेऽत्रँव दुर्भगायाश्र सांप्रतम्। निष्फलं जीवनं तस्या या पत्युः प्रेमवंचिता ॥२५॥ त्वां सर्वे सत्त्वरूपं च ये वदंति मनीषिणः । ते च मूर्खा न वेदज्ञा न जानंति मरति तब ॥२६॥ सरस्वतीवचः श्रुत्वा दृष्टा तां कोपसंयुताम्। मनसा च समालोक्य स जगाम बहिःसभाम् ॥२७॥ गते नारायणे गंगामुवाच निर्भयं रुषा। वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥२८॥ हे निर्लज्जे हे सकामे स्वामिगर्व करोषि किम्। अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥२९॥ मानचूर्ण करिष्यामि तवाद्य हरिसन्निधौ। कि करिष्यति ते कान्तो ममैवं कांतवल्लभे ॥३०॥ इत्येवमुक्त्वा गंगायाः केशं ग्रहीतुमुद्यता। वारयामास तां पद्मा मध्यदेशं समाश्रिता ॥:१।। शशाप वाणी तां पद्मां महाबलवती सती। वृक्षरूपा सरिद्ूपा भविष्यसि न संशयः ॥३२॥ विपरीतं ततो दृष्टा किंचिन्नो वक्तुमर्हसि। संतिष्ठति सभामध्ये यथा वृक्षो यथा सरित् ॥३३॥ शापं श्रुत्वा तु सा देवी न् शशाप चुकोप ह। तत्रव दुःखिता तस्थौ वाणीं धृत्वा करेण च ।।३४।। असन्तुष्टां तु तां दृष्टा कोपप्रस्फुरिताधराम्। उवाच गंगा तां देवीं पद्मां चारक्तलोचनाम् ॥३५॥ श्रीगगोवाच त्वमुत्सृज महोग्रां च पद्मे कि मे करिष्यसि। दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी ॥३६॥ वागधिष्ठात्री देवीयं सततं कलहप्रिया। यावती योग्यता चास्या यावती शक्तिरेव च ।३७।। तथा करोतु वादं च मया सार्धं च दुर्मुखी। स्वबलं यन्मम बलं विज्ञापयितुमिच्छति ॥३८।। जानन्तु सर्वे ह्यभयोः प्रभावं विक्रमं सति। इत्येबमुक्त्वासा देवी वाण्यै शापं ददाविति ॥३९।। सरित्स्वरूपा भवतु सा या त्वां च शशाप ह। अधोम्त्यं सा प्रयातु संति यत्रैव पापिनः ।।४०।। कलौ तेषां च पापानि ग्रहोष्यति न संशयः । इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती॥४१॥ त्वमेव यास्यसि महों पापिपापं लभिष्यति। एतस्मिन्नंतरे तत्र भगवानाजगाम ह।।४२।। चतुर्भुजश्चतुर्भिश्र पार्षदेश्र चतुर्भुजैः । सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥४३॥ बोधयामास. सर्वज्ञः सवं ज्ञानं पुरातनम् । श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च।४४।।
Page 586
५८६ श्रीमद्ेवीमागवते महापुराणे नवमस्कन्धे अध्यायः ३ उवाच दुःखितास्ताश्च वाचं सामयिकीं बिभुः । श्रीभगवानुवाच लक्षिम त्वं कलया गच्छ धर्मध्वजगृहं शुभे।४५॥ अयोनिसंभवा भमौ तस्य कन्या भविष्यसि। तत्रव दैवदोपेण वृक्षत्वं च लभिष्यति ॥४६॥। मदंशस्यामुरन्यैव शंखचूडस्प कामिनी । भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥४७॥ वैलोक्यपावनी नाम्ना तुलसीति च महाभारते। कलया च सरिद्द्वावं शीघ्रं गच्छ वरानने ॥४८॥ भारतं भारतीशापान्नाग्ना पञ्मावती भव। गंगे यास्यसि पश्चात्त्वमंशेन विश्वपावनो ॥४९।। भारतं भारतीशापात्पापदाहाय पापिनाम्। भगोरथस्य तपसा तेन नोता सुकल्पिते ॥१०॥ नाम्ना भागीरथी दूता भविष्यमि महीतले। मदंशस्य समुद्रस्य जायाजाये ममाज्ञया ॥५१॥ मत्कलांशस्य भूपस्य शंतनोश् सुरेश्वरि। गंगाशापेन कलया भारतं गच्छ भारति ॥५२॥ कलहस्य फलं भुक्ष्व सपतीभ्यां सहाच्युते। स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव ॥५३॥ गंगा यातु शिवस्थानमत्र पद्मैव तिष्ठतु। शांता च क्रोधरहिता मद्दक्ता सत्त्वरूपिणी ॥५४।। महासाध्वी महाभागा सुशीला धर्मचारिणी। यदंशकलया सर्वा धर्मिष्ठाश्र पतिव्रताः ॥५५॥ शांतरूपा: सुशीलाश्र प्रतिविश्वेषु पूजिताः । तिस्रो भार्यास्त्रिशीलाश्चन्यो भृत्याश्र बांधवाः ५६।। ध्रुवं वेदविरुद्धाश्च न ह्येने मंगलप्रदाः । स्त्रीपुंवच्च गृहे येषां गुहिणां स्त्रीवयः पुमान् ॥५७॥ निष्फलं च जन्म तेषामशुभं च पदे पदे। मुखे दुष्टा योनिदृष्टा यस्य स्त्री कलहप्रिया ॥५८॥ अरण्यं तेन गंतव्यं महारण्यं गृहाद्वरम्। जलानां च स्थलानां च फलानां प्राप्तिरेव च ।।५९।। सततं सुलभा तत्र न तेषां गृह एव व। वरमग्नो स्थितिरहिंस्त्रजंतूनां सन्निधौ सुखम् ॥६०॥ ततोऽपि दुःखं पुंसां न्त दुष्टस्त्रोसन्निधी ध्रुवम् । व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥६१॥ दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते। पुंसां च स्रीजितां चव भस्मांतं शोचमध्रुवम् ॥६२॥ यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत्। निंदितोऽय परत्रंव सवथा नरकं व्रजेत् ॥६३॥ यश:कीतिविहीनो यो जीवन्नपि मृतो हि सः। बह्हीनां च सपत्नीनां बैकन श्रेयसे स्थितिः ॥६४॥ एकभार्य: सुखी नैव बहुभार्यः कदाचन। गच्छ गंगे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥६५॥ अत्र तिष्ठतु मद्गेहे सुशीला कमलालया। सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ॥६६।। इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च । पतिव्रता यस्य पत्नीस च मुक्त्तः शुचिः सुखी ॥ दुःशीलापतिरेव च।।६७। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
Page 587
श्रीमद्ेवीमागवते महापुराणे नवमस्कन्बे अध्याय: ७ ५८७
अथ सप्तमोऽध्यायः श्रीनारायण उवाच इत्युक्त्वा जगता नाथो विरराम च नारद। अतीव रुरुदुर्देव्यः समालिंग्य परस्परम् ॥१॥ ताश्च सर्वाः समालोक्य क्रमेणोनुस्तदेश्वरम् । कंपिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥२।। सरस्वत्युवाच विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् ।सत्स्वामिना परित्यक्ताः कुतो जीवंति ताः स्त्रियः॥३॥ देहत्यागं करिष्यामि योगेन भारते त्रवभ्। अत्यन्नतो हि नियतं पातुमर्हति निश्चितम् ॥४॥ अहं केनापराधेन त्वया त्यक्ता जगत्पते। देहत्यागं करि्यामि निर्दोषाया वर्ध लभ ।।५॥ गङ्गोवाच निर्दोपकामिनीत्यागं करोति यो नरो भुवि। स याति नरकं घोरं किंनु सर्वेष्वरोऽपि वा ॥६। पद्मोवाच नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव। प्रसादं कुरु भायें द्वे सदीशस्य क्षमा वरा ॥७॥ भारते भारतीशापाद्यास्यामि कलया ह्यहम् । कियत्कालंस्थितिस्तन कदा द्रक्ष्यामि ते पदम् ।।८।। दास्यंति पापिनः पापं सद्यः स्नानावगाहनात् । केन तेन विमुक्ताऽहमागमिष्यामि ते पदम् ।।९।। कलया तुलसीरूपं धर्मध्वजसुता सती। भुक्त्वा कदा लभिष्यामि त्वत्पदांबुजमच्युत ॥१०॥ वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता। समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥११॥ गंगा सरस्वतीशापाद्यदि यास्यति भारते। शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥१२॥ गंगाशापेन वा वाणी यदि यास्यति भारतम्। कदा शापाद्रिनिर्मुच्य लभिष्यति पदं तव ।।१३।। तां वाणीं ब्रह्मसदनं गंगां वा शिवमन्दिरम्। गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥१४॥ इन्युक्त्वा कमलाकांतपादं धृत्वा ननाम सा । स्वकेशर्वेष्ठनं कृत्वा.रुरोद च पुनः पुनः ॥१५॥ "उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववश्सि। ईषद्धास्यन्रसव्नास्यो भक्तानुग्रहकातरः ।१।।" श्रीभगवानुवाच स्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि। समतां च करिष्यामि शृणु त्वं कमलेक्षणे ।१६।। भारती यातु कलया सरिद्रपा च भारते। अर्धा सा ब्रह्मसदनं स्वयं तिष्टतु मद्गृहे ॥।१७। भगीरथेन सा नीता गंगा यास्यति भारते। पूतं कर्तु त्रिभुवनं स्वयं तिष्टति मद्गृहे ॥१८॥ तत्रैव चन्द्रमोलेश्च मौलि प्राप्स्यति दुर्लभम्। ततः स्वभावतः पृताऽप्यतिपूता, भविष्यति ॥१९॥ कलांशाशेन गच्छ त्वं भारते वामलोचने। पद्मावती सरिद्रपा तुलसीवृक्षरूपिणी॥२॥ कले: पञ्चसहस्त्रे च गते वर्षे च मोक्षणम् ! युष्माकं सरितां चैव मद्गेहं च गमिष्यथ ।।२१।।
Page 588
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्यायः ७ संपदां हेतुभूता च विपत्तिः सर्वदेहिनाम्। विना विपत्तेमंहिमा केषां पद्मभवे भवेत् ।२२॥ मन्मंत्रोपासकानां च सतां स्नानावगाहनात्। युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ।।२३।। पृथिव्यां यानि तोर्थानि संत्यसंख्यानि सुंदरि। भविष्यंति च पूतानि मद्दक्तस्पर्शदर्शनात् ॥२४॥ मन्मंत्रोपासका भक्ता विश्रमन्ति च भारते। पूत कर्तुं तारितुं च सुपवित्रां वसुंधराम् ।२५॥ मद्भक्ता यत्र तिष्टति पादं प्रक्षालयंति च। तत्स्थानं च महातीर्थ सुपवित्रं भवेद्ध्रुवम् ॥२६॥ स्त्रीघ्नो गोघ्न: कृतघ्नश्र ब्रह्मघ्नो गुरुतत्पगः । जीवन्मुक्तो भवेत्पूतो मद्दक्तस्पर्शदर्शनात् ॥२७॥ एकादशीविहीनश्च सन्व्याहोनोऽथ नास्तिकः । नरघाती भवेत्पूतो मद्दक्तस्पर्शदर्शनात् ॥२८। असिजीवी मसीजीवी धावको ग्रामयाचकः । वृषवाहो भवेत्पूतो मद्दरक्तस्पर्शदर्शनात् ।।२९।। विश्वासघाती मित्रध्नो मिथ्यासाक्ष्यस्य दायकः । स्थाप्याहारी भवेत्पूतो मद्द्रक्स्पर्शदर्शनात् ॥३०॥ अत्युग्रो वा पुंदूषकश्च जारकः पुंश्चलीपतिः। पूतश्र वृषलीपुत्रो मद्रक्तस्पर्शदर्शनात् ।।३१। शूद्राणां सूपकारश्च देवलो ग्रामयाजकः । अदोक्षितो भवेत्पूतो मद्क्स्पर्शदर्शनात् ॥३२॥ पितरं मातरं भारया भ्रातरं तनयं सुताम्। गुरोः कुलं च भगिनीं चक्षुर्हीनं च बांधवम् ॥३३॥ श्वश्रं च श्वगुरं चैव यो न पुष्णाति सुंदरि। स महापातकी पूतो मद्दक्तस्पर्शदर्शनात् ॥३४॥ अश्वत्थनाशकश्चैव म्क्तनिंदकस्तथा। शूद्रान्नभोजी विप्रश्च पूतो मद्दकदर्शनात् ॥३५॥ देवद्रव्यापहारी च विप्रद्रव्यापहारकः । लाक्षालौहरसानां च विक्रेता दुहितुस्तथा ॥३६॥ महापातकिनश्चैव शूद्राणां शवदाहकाः। भवेयुरेते पूताश्च मद्दक्तस्पर्शदर्शनात् ॥३७॥ श्रीमहालक्ष्मीरुवाच * भक्तानां लक्षणं ब्रहि भक्तानुग्रहकातर। येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥३८॥ हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः । स्वप्रशंसारता धूर्ता: शठाश्र साधुनिंदका: ॥३९॥ पुनंति सर्वतीर्थानि येषां स्नानावगाहनात्। येषां च पादरजसा पूता पादोदकान्मही ॥४०॥ येषां संदर्शनं स्पर्शं ये वा वांछंति भारते। सर्वेषां परमो लाभो वैष्णवानां समागमः ॥४१॥ न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनंत्युरुकालेन विष्णुभक्ताः क्षणादहो ॥४२॥ सूत उवाच महालक्ष्मीवच: श्रुत्वा लक्ष्मोकांतश्र सस्मितः । निगूढतत्त्वं काथतुमपि श्रेष्ठोपचक्रमे ॥४३॥ श्रीभगवानुवाच भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः। पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥४४।। सारभूतं गोपनीयं न वक्तव्यं खलेषु च। त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ।।४५।। गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे पतिष्यति। वदंति वेदास्तं चापि पवित्रं च नरोत्तमम् ।४६।।
Page 589
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ८ ५८९ पुरुषाणां शतं पूर्व तथा तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात्॥४७॥ यैः कश्चिद्यत्र वा जन्म लब्धं येषु च जंतुषु। जीवन्मुक्तास्तु ते पूता यांति काले हरे: पदम् ॥४८॥ मद्दक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः । मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च संततम् ॥४९॥ मद्गुणश्रुतिमात्रेण सानंदः पुलकान्वितः । सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च ॥५०॥ न वांछति सुखं मुक्ति सालोक्यादिचतुष्टयम्। व्रह्मत्वममरत्वं वा तद्वांछा मम सेवने ॥५१॥ इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् । स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वांछति॥।५२।। भ्रमंति भारते भक्तास्तादृग्जन्म सुदुलभम् । मद्गुणश्रवणाः श्राव्यमाणनित्यं मुवान्विताः ॥५३। ते बांति च महों पूत्वा नरं तीर्थं ममालयम्। इत्येवं कथितं सव पद्मे कुरु यथोचितम् ।। तदाज्ञया तास्तच्चक्रुहंरिस्तस्थौ सुखासने ।।५४।। इति श्रीदेवीभागवते महापुराणे नवमस्कंधे सप्तमोऽध्यायः ॥७॥ अथ अष्टमोऽध्यायः श्रीनारायण उवाच सरस्वती पुण्यक्षेत्रमाजगाम च भारते। गंगाशपेन कलया स्वयं तस्थौ हरे: पदे ॥१॥ भारती भारतं गत्वाब्राह्मी च ब्रह्मणः प्रिया। वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥२॥ सरोवाप्यां च स्रोतःसु सर्वत्रैव हि दृश्यते। हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥३। सरस्वती नदी सा च तीर्थरूपा च पावनी। पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥४॥ पश्चाद्ागीरथी नीता महीं भागीरथेन च । स वै जगाम कलया वाणीशापेन नारद ॥५॥ तत्रैब समये तां च दधार शिरसा शिवः । वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभु: ॥६॥ पद्मा जगाम कलया सा च पद्मावती नदी। भारतं भारतीशापात्स्वयं तस्थौ हरे: पदे ॥७॥ ततोऽन्या या सा कलया लेभे जन्म च भारते । धर्मध्वजसुता लक्ष्मीरविख्याता तुलसीति च ।।८।। पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः । बभूव वृक्षरूपा सा कलया विश्वपावनी॥९॥ कले: पञ्चसहस्त्रं च वर्ष स्थित्वा च भारते । जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरे: पदम् ॥१०॥ यानि सर्वाणि तीर्थानि काशीवृंदावनं विना। यास्यंति सार्व ताभिश्च वैकुण्ठमाज्ञया हरेः ॥११॥ शालग्राम: शक्तिशिवौ जगन्नाथश्र भारतम् । कलेर्दशसहस्त्रांते त्यवत्वा यांति निजं पदम् ॥१२।। साधवश्च पुराणानि शंखानि श्राद्धतर्पणे। वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥१३॥ देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम्। वेदांगानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥१४॥ संतश्च सत्यघर्मश्र वेदाश्च ग्रामदेवताः । व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ।१५॥ वामाचाररताः सर्वे मिथ्याकपटसंयुताः । तुलसीरहिता पूजा भविष्यति ततः परम् ॥१६॥
Page 590
५९० श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्यायः ८ शठाः द्ररा दांभिकाश्च महाहंकारसंयुताः । चोराश्र हिंसकाः सवें भविष्यंति ततः परम् ॥१७॥ पुंसो भेदः स्त्रीविभेदो विवाहो वाडपि निर्भयः । स्वस्मामिभेदो वस्तूनां भविष्यति ततःपरम्॥१८॥ सर्वे स्त्रीवशगाः पुंसः पुंश्रल्यश्च गृहे गृहे। तर्जनैमर्त्सनैः शञ्वत्स्वामिनं ताडयंति च ॥१९॥ गृहेश्वरी च गृहिणी गृहो भृत्याधिकोऽधमः । चेटीदाससमो वष्वाः श्वश्रूश्च श्वशुरस्तथा ॥२०॥ कर्तारो बलिनो गेहे योनिसंबंधिबांधवाः । विद्यासंबंधिभिः साध संभाषापि न विद्यते ॥२१॥ तथाऽपरिचिता लोकास्तथा पुंसश्च बांधवाः । सर्वकर्माक्षमाः पुंसो योषितामाज्ञया बिना ॥२२॥ ब्रह्मक्षत्रविशः शुद्रा जात्याचारविवर्जिताः । संध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥२३॥ म्लेच्छाचारा भविष्यंति वर्णाश्चत्वार एव च । म्लेच्छशास्त्रं पठिष्यंति स्वशास्त्राणि विहाय च २४।। ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ। सूपकारा धावकाश्र कृषवाहाश्र सर्वशः ॥२५॥ सत्यहीना जना: सर्वे सस्यहीना च मेदिनी। फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥२६॥ क्षोरहीनास्तथा गावः क्षीरं सपिर्विवजितम् । दंपती प्रीतिहीनो च गृहिणः सत्यवजिताः ॥२७॥ प्रतापहीना भूपाश्र प्रजाश्च करपीडिताः । जलहीना महानद्यो दीर्घिकाकंदरादयः ॥२८॥ धर्महीना: पुण्यहीना वर्णाश्रत्वार एव च। लक्षेषु पुण्यवान्कोऽपि न तिष्ठतति ततः परम् ॥२९॥ कुत्सिता विकृताकारा नरा नार्यश्र बालकाः । कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥३०॥ केचिद्ग्रामाश् नगरा नरशून्या भयानकाः । केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥३१॥ अरण्यानि भविष्बंति ग्रामेषु नगरेषु च । अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥३२॥ सस्यानि च भविष्यंति तडागेषु नदीषु च । प्रकृष्टवंशजा हीना भविष्यंति कलौ युगे ॥३३॥ अलीकवादिनो घूर्ताः शठाश्चासत्यवादिनः । प्रकृष्टानि प क्षेत्राणि सस्यहीनानि नारद ॥३४॥ हीना: प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः । हिंसकाश्च दयाहीनाः पौराश्र नरघातिनः ॥३५॥ वामना व्याघियुक्ताश्च नरा नार्यश्र सर्वतः । स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ॥३६॥ पलिताः षोडशे वर्षे महावृद्धाश्च विशती। अष्टवर्षा चे युवती रजोयुक्ता च गर्भिणी॥३७॥ वत्सरांतप्रसूता स्त्री षोडशे च जरान्विता। पतिपुत्रवती काचित्सर्वा वंध्याः कलौ युगे ॥३८॥ कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च। मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥३९॥ कन्यानां भगिनीनांवा जारोपात्तान्नजीविनः । हरेर्नाम्नां विक्रयिणो भविष्यंति कलौ युगे ॥४०॥ स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे। ततः पश्चात्स्वदानं च स्वयमुल्लंघयिष्यति ।।४१।। देववृत्ति ब्रह्मवृत्ति वृत्ति गुरुकुलस्य च। स्वदत्तां परदत्तां वा सर्वमुल्लंघयिष्यति ॥४२॥ कन्यकागामिन: केचित्केचिच्च ववश्रुगामिनः । केचिद्रधूगामिनश्च केचिद्वै सर्वगामिनः।४३।। भगिनीगामिनः केचित्सपत्नीमातृगामिनः । भ्रातृजायागामिनश्र भविष्यंति कलौ युगे ॥४४॥
Page 591
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ८ ५९१ अगम्यागमनं चैव करिष्यंति गृहे गृहे। मातृयोनि परित्यज्य बिहरिष्यंति सवंतः ॥४५॥ पत्नीनां निर्णयो नास्ति भर्त णां घ कलौ युगे । प्रजानां चैव ग्रामाणां वस्तूनां च विशेषतः ॥४६॥ अलीकवादिन: सर्वे सर्वे चोराश्र लंपटाः । परस्परं हिंसकाश्च सर्वें च नरघातिनः ॥४७।। ब्रह्मक्षत्रविशां वंशा भविष्यंति च पापिनः । लाक्षालोहरसानां च व्यापारं लवणस्य च ॥४८॥। वृषवाहा विप्रवंशाः शद्राणां शवदाहिनः । शुद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥४९॥ पञ्चयज्ञविहीनाश्च कुहूरात्री च भोजिनः । यज्ञसूत्रविहीनाश्र संध्याशोचविहीनकाः ॥५०॥ पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला। विप्राणां रंधनागारे भविष्यति च पाचिका ।५१॥ अन्नानां नियमो नास्ति योनीनां च विशेषतः । आश्रमाणां जनानां च सर्वे म्लेच्छा: कलौ युगे ५२।। एवं कलो संप्रवृत्ते सवं म्लेच्छमयं भवेत् । हस्तप्रमाणे ।वृक्षे च अंगुष्ठे चैव मानवे ।।५३।। विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति। नारायणकलांशश्र भगवान् बलिनां वरः ॥५४॥ दीघॅण करबालेन दीर्घघोटकवाहनः । म्लेच्छशून्यां च पृर्थिवीं त्रिरात्रेण करिष्यति ॥५५॥ निम्लेच्छां वसुधां कृत्वा चांतर्धानं करिष्यति । अराजका च वसुधा दस्युप्रस्ता भविष्यति ॥५६।। स्थूणाप्रमाणा षड्रात्रं वर्षधाराप्लुता मही। लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥५७॥ ततश्र द्वादशादित्याः करिष्यंत्युदयं मुने। प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥५८॥ कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे। तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥५९॥ तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि। पतिव्रताश्च धर्मिष्ठा योषितश्र गृहे गृहे ॥६०॥ राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः । प्रतापवंतो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥६१॥ वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः । शुद्राश्र पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥६२॥ विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः । देवीमंत्ररताः सर्वे देवीध्यानपरायणाः ॥६३॥ श्रुतिस्मृतिपुराणज्ञाः पुंमांसो ऋतुगामिनः । लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥६४॥ धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः । कलौवृत्ते चकपाच्च सर्वलुपतिस्ततः परम्॥६५॥ वारा: सप्त तथा विप्र तिथयः षोडश स्मृताः । तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥६६।। द्वो पक्षौ चायने द्े च चतुर्भि: प्रहरैर्दिनम्। चतुभिः प्रहर रात्रिर्मासस्त्रिशदद्दिनिस्तथा ॥६७॥। वर्षं पञ्चविधं ज्ञेयं कालसंख्याविधिक्रमे। यथा चायांति यांत्येब तथा युगचतुष्टयम् ॥६८॥ वर्षे पूर्णे नराणां च देवानां च दिवानिशम्। शतत्रये षष्ठयधिके नराणां च युगे गते ।।६९।। देवानां च युगं जेयं कालसंख्याविदां मतम्। मन्वंतरं तु दिव्यानां युगानामेकसप्ततिः॥७०॥। मन्वंतरसमं ज्ञेयमायुष्यं च शचीपतेः । अष्टाविशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥७१॥ अष्टोत्तरशते वर्षे गते पातश्र ब्रह्मणः । प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुंधरा ॥७२॥
Page 592
५९२ श्रीम द्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः । ऋषयो ज्ञानिनःसर्वे लीनाः सत्ये चिदात्मनि ७३॥ तत्रँव प्रकृतिर्लीना तत्र प्राकृतिको लयः। लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥७४॥ निमेषमात्रं कालश्र श्रीदेव्याः प्रोच्यते मुने। एवं नश्यंति सर्वाणि ब्रह्मांडान्यखिलानि च॥७५॥ निमेषांतरकाले च पुनः सृष्टिकमेण च। एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥७६॥ कति कल्पा गता याता:संख्यां जानातिकःपुमान्। सृष्टीनां च लयानां च ब्रह्मांडानां च नारद ।।७७।। ब्रह्मादीनां च द्रह्माण्डे संख्यां जानाति कःपुमान् । ब्रह्मांडानां च सर्वेषामीश्वरश्रैक एव सः।।७८।। सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक्। ब्रह्मादयश्च तस्यांशास्तस्यांशश्र महाविराट॥७९।। तस्यांशश्र विराट् क्षुद्रः सैवेयं प्रकृतिः परा । तस्याः सकाशात्संजातोऽप्यर्धनारीश्वरस्ततः ॥८०॥ सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्र वैकुंठे गोलोके द्विभुजः स्वयम् ॥८१॥ ब्रह्मादितृणपर्यंतं सर्वं प्राकृतिकं भवेत्। यद्यत्प्राकृतिकं सृष्टं सर्व नश्वरमेव च ।८२॥ एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् । स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥८३॥ निरुपाधि निराकारं भक्तानुग्रहकातरम् । करोति ब्रह्मा ब्रह्मांडं यज्ज्ञानात्कमलोद्रवः ।८४।। शिवो मृत्युञ्जयश्चव संहर्ता सर्वतत्त्ववित् । यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान् ।।८५॥। महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः । सर्वव्यापी सर्वपाता प्रदाता सर्वसंपदाम् ॥८६॥ विष्णुः सर्वेश्वरः श्रीमान्यद्द्क्त्या यस्य सेवया। महामाया च प्रकृतिः सर्वशक्तिमयोश्वरी ॥८७॥ सैव प्रोक्ता भगवती सच्चिदानंदरूपिणी। यज्ज्ञानाद्यस्य तपसा यद्धक्त्या यस्य सेवया ।।८८।। सावित्री देवमाता च वेदाधिष्ठातृदेवता। पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ।८९। सर्वविद्याधिदेवी सा पूज्या च विदुषां परा। यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥९०॥ सर्वग्रामाधिदेवो सा सर्वसम्पत्प्रदायिनो। सवेश्वरी सर्ववंद्या सर्वेषां पुत्रदायिनी ॥९१। सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी। कृष्णवामांशसंभूता कृष्णप्राणाधिदेवता ॥९२॥ कृष्ण प्राणाधिका प्रेम्णा राधिका शक्तिसेवया। सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥९३॥ कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया। तपश्चकार सा पूर्वं शतशृंगे च पर्वते ॥९४॥ दिव्यवर्षसहस्रं न पतिप्राप्त्यर्थमेव च। जाते शक्तिप्रसादे तु दृष्टा चंद्रकलोपमाम् ॥९५॥ कृष्णोवक्षःस्थले कृत्वा रुरोद कृपया विभुः। वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥९६॥ मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती। सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ।९७।। त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम । वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥९८।। सततं तव साध्योऽयं वश्यश्च प्राणवल्लभे। इत्युक्त्वा च जगन्नाथश्रकार ललनां ततः ।९९॥। सपत्नीरहितां तां च चकार प्राणवल्लभाम् । अन्या या याश्र ता देव्यःपूजिता: शक्तिसेवया १००॥
Page 593
श्रीमद्वोमागवते महापुराणे नवमस्कन्धे अध्याय, ९ तपस्तु यादृशं यासां तादृक्तावृक्फलं मुने । दिव्यं वर्षसहस्रं च तपहतप्त्वा हिमाचले ॥११॥ दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह। सरस्वती तपस्तप्त्वा पर्वते गंधमादने ॥१०२।। लक्षवर्षं च दिव्यं च सर्ववंद्या बभूव सा। लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ।१०३॥ सर्वसंपत्प्रदात्री च जाता देवीनिषेवणात्। सावित्री मलये तप्त्वा पूज्या वंद्या बभूव सा १०४॥। षष्टिवर्षसहस्त्रं च दिव्यं ध्यात्वा च तत्पदम् । शतमन्वंतरं तप्तं शंकरेण पुरा विभो ॥१०५॥ शतमन्वंतरं चेदं ब्रह्मा शक्ति जजाप ह। शतमन्वंतरं विष्णुस्तप्त्वा पाता बभूव ह॥१०६॥ दशमन्वंतरं तप्त्वा श्रीकृष्ण: परमं तपः। गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि १०७ दशमन्वंतरं धर्मस्तप्त्वा वै भक्तिसंयुतः । सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूद सः॥१०८। एवं देव्याश्च तपसा सर्वें देवाश्र पूजिताः । मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥१०९॥ एवं ते कथितं सवं पुराणं सयथागमम् । गुरुववत्राद्यथा ज्ञातं कि भूयः श्रोतुमिच्छसि ११०। इति श्रीदेवीमागवते नवमस्कन्धे शक्तिप्रादुर्भावे नारदनारायणसंवादेऽष्टमोऽध्यायः ॥ ८॥ अथ द्वादशोऽध्यायः नारद उवाच देव्या निमेषमात्रेण ब्रह्मणः पात एव च । तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥१॥ प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुंधरा। जललुप्तानि विश्वानि सर्वे लीनाः परात्मनि ॥२॥ वसुंधरा तिरोभूता कुत्रावासा च तिष्ठति। सृष्टेविधानसमये साउडविर्भूता कथं पुनः ॥३॥b कथं बभूव सा धन्या मान्या सर्वाश्रया जया। तस्याश्र जन्मकथनं वद मंगलकारकम् ॥४॥ श्रीनारायण उवाच सर्वादिसृष्टी सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥५॥॥ श्रयतां वसुधाजन्म सर्वमंगलकारणम्। विध्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥६॥ अहो केचिद्वदंतोति मधुकैटभमेदसा। वभूव वसुधा धन्या तद्विरुद्धमतः शृणु ॥७॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा। आवां वधो न यत्रोर्वीं पाथसा संवृतेति च ।।८। तयोर्जीवनकाले न प्रत्यक्षा साऽभवत्स्फुटम् । ततो बभूव मेदश्च मरणानंतरं तयोः ॥९॥ मेदिनीति च विख्यातेत्युक्तमेतन्मतं प्रृणु । जलधौता कृता पूर्व वधिता मेदसा यतः ॥१०॥ कथयामि ते तज्जन्म सार्थकं सर्वमंगलम्। पुरा श्रुतं यच्छरुत्युक्तं धर्मववत्राच्च पुष्करे ॥११॥ महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वांगव्यापकं ध्रुवम् ॥१२॥ तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेपु च। कालेन महता पश्चाद्वभूव वसुधा मुने ॥१३॥ प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा । आविर्भूता तिरोभूता सजला च पुनः पुनः ॥१४॥
Page 594
५९४ श्रीम देवीमागवते महापुराणे नवमस्कन्ध अध्याय: ९ आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता। प्रलये च तिरोभूता जलस्याभ्यंतरे स्थिता ।१५॥ प्रतिविश्वेषु वसुधा शैलकाननसंयुता। सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥१६।। हेमाद्रिमेरुसंयुक्ता ग्रहचंद्राकसंयुता। ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥१७।। पुण्यतीर्थसमायुक्ता पुण्या भारतसंयुता। कांचनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥१८।। पातालसपतं तदधस्तदूध्व ब्रह्मलोकतः । ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥१९॥ एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च । नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै २०॥ प्रलये प्राकृते चैव ब्रह्मणश्च निपातने। महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥२१॥ नित्यौ च स्थितिप्रलयौ काछ्ठकालेश्वरैः सह । नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥२२॥ मुनिभिर्मनुभिर्विप्रगंधर्वादिभिरेव च । विष्णोर्वराहरूपस्य पत्नो सा श्रुतिसंमता ॥२३॥ तत्पुत्रो मंगलो ज्ञेयो घटेशो मंगलात्मजः । नारद उवाच पूजिता केन रूपेण वाराहे च सुरैर्मही ॥२४॥ वाराहे चैव वाराही सर्वेः सर्वाश्रया सती। मूलप्रकृतिसंभूता पंचीकरणमार्गतः ।।२५।। तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मंगलं मंगलस्यापि जन्म व्यास वद प्रभो ॥२६॥ नारायण उवाच बाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा उद्दधार महीं हत्वा हिरण्याक्षं रसातलात् ॥२७॥ जले तां स्थापयामास पद्मपत्रं यथा हदे। तत्रैव निर्ममे व्रह्मा विश्वं सर्वं मनोहरम् ॥२८॥ दृष्वा तदधि देवीं च तकामां कामुको हरिः । वाराहरूपी भगवान् कोटिसूर्यसमप्रभ: ॥२९॥ कृत्वा रतिकलां सर्वां मूर्ति च सुमनोहराम् । क्रीडां चकार रहसि दिव्यवर्षमहर्निशम् ॥३०॥ सुखसंभोगसंस्पर्शान्मूर्छां सा प्राप सुंदरी। विदग्धाया विदग्धेन संगमोऽतिसुखप्रदः ॥३१॥ विप्णुस्तदंगसंश्लेपाद्बुबुधे न दिवानिशम् । वर्षांते चेतनां प्राप्य कामी तत्याज कामुकीम् ३२। पूर्वरूपं वराहं च दधार स च लोलया। पूजा चकार ता देवीं ध्यात्वा च धरणीं सतीम् ।। ध पैर्दीपेश्च नैवेद्ं सिंदूरैरनुन्ेपनैः । वस्त्रः पुष्पैश्च बलिभिः संपूज्योवाच तां हरिः ३४॥ श्रीभगवानुवाच सर्वाधारा भव शुभे सर्वेः संपूजिता मुग्म् । मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥३५॥ - अंबुवाचीत्यागदिने गृहारंभे प्रवेशने । वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥३६॥ तव पूजां करिष्यन्ति मद्वरेण सुरादयः । मूढा ये न करिष्यंति यास्यंति नरकं च ते ॥३७॥
Page 595
श्रीमद्ेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ९ ५९५
वसुधोवाच वहामि सर्वं वाराहरूपेणाहं तवाज्ञया। लोलामात्रेण भगवन्विश्वंच सचराचरम् ॥३८॥ मुक्तां शुक्ति हरेरचां शिवलिंगं शिवां तथा। शंखं प्रदीपं यंत्रं च माणिक्यं हीरकं तथा ॥३९॥ यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसोदलम् । जपमालां पुष्पमालां कर्पूरं च सुवर्णकम्॥४०॥ गोरोचनं चंदनं च शालग्रामजलं तथा। एतान्वोढुमशक्ताऽहं क्लिष्टा च भगवञ्छृणु॥४१। श्रीभगवानुवाच द्रव्याण्येतानि ये मूढा अर्पयिष्यंति सुंदरि । यास्यंति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥४२॥ इत्येवमुक्त्वा भगवान् विरराम च नारद। बभूव तेन गर्वेण तेजस्वी मंगलग्रहः ॥४३॥ पूजां चक्रः पृथिव्याश्र ते सर्वे चाज्ञया हरेः। कण्पशाखोक्तध्यानेन तुष्टुवुश्र स्तवेन ते ॥४४।। ददुर्मूलेन मंत्रेण नैवेद्यादिकमेव च। संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह॥४५॥ नारद उवाच किं ध्यानं स्तवनं तस्या मूलमंत्रं च किं वद। गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥४६॥ श्रीनारायण उवाच आदौ च पृथिवीं देवो वराहेण च पूजिता। ततो हिंब्रह्मणा पश्चात्पूजिता पृथिवो तदा॥४७।। तत सवर्मुनींद्रेश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मंत्रं शृणु वक्ष्यामि नारद ।।४८।। ॐ ह्ीं श्रीं क्लों वसुधायै स्वाहेत्यनेन मंत्रेण विष्णुना पूजिता पुरा। श्वेतपंकजवर्णाभां शरच्चंद्रनिभाननाम् ।।४९।। चन्दनोतिक्षिप्तसर्वांगी रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भा रत्नाकरसमन्विताम् ॥५०॥ र्वह्निशुद्धांशुकाधानां सस्मितां वंदितां भजे। ध्यानेनानेन सा देवी सर्वेश्च पूजिताऽभवत् ।५१॥ स्तवनं शृणु विप्रेंद्र कण्वशाखोक्त्तमेव च। श्रीनारायण उवाच ज़ये जये जलाधारे जलशीले जलप्रदे ॥५२॥ यज्ञसूकरजाये त्वं जयं देहि जयावहे। मंगले मंगलाधारे मांगल्ये मंगलप्रदे ॥५३॥ मंगलार्थ मंगलेशे मंगलं देहि मे भवे। सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥५४॥ सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे। पुण्यस्वरूपे पुण्यानां बोजरूपे सनातनि ॥५५॥ पुण्याश्रये पुण्यवतामालये पुण्यदे भवे। सर्वसस्यालये सर्वसस्याढये सर्वसस्यदे ॥५६॥ सर्वसस्यहरे काले सर्वसस्यात्मिके भवे। भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥५७॥ भूमिपानां सुखकरे भूमि देहि च भूमिदे। इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥५८॥
Page 596
५९६ श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: १० कोटिजन्मसु स भवेद्लवान्भूमिपेश्वरः । भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥५९॥ भूमिदानहरात्पापान्मुच्यते नात्र संशयः । अंबुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥६॥ अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम्। परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥६१॥ भूमौ वीर्यत्यागपापाद्भूमो दीपादिस्थापनात्। पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥६२॥ अश्वमेघशतं पुण्यं लभते नात्र संशयः । भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥६३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे नवमोऽध्यायः ।। ९ ॥। अथ दशमोऽध्यायः नारद उवाच भूमिदानकृतं पुण्यं पापं तद्धरणेन च । परभूहरणात्पापं परकूपे खनने तथा॥१॥ अंबुवाच्यां भूखनने वीर्यस्य त्याग एव च । दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ॥२॥ अन्यट्वा पृथिवीजन्दं पापं यत्पृच्छयते परम्। यदस्ति तत्प्रतीकारं वद वेदविदां वर ॥३॥ श्रीनारायण उवाच बितस्तिमात्रभूमि च यो ददाति च भारते। संध्यापूताय विप्राय स याति शिवमंदिरम् ।४।। भूमि च सर्वसस्याढयां ब्राह्मणाय ददाति च । भूमिरेणुप्रमाणाब्दमंते विष्णुपदे स्थितिः ॥५॥ ग्रामं भूरमि च धान्यं च ब्राह्मणाय ददाति यः । सर्वपापाद्विनिर्मुक्त्तो चोभी देवीपुरःस्थितौ ॥६॥ भूमिदानं च तत्काले यः साधुश्रानुमोदते । सच प्रयाति वैकुंठं मित्रगोत्रसमन्वितः ॥७॥। स्वदत्तां परदत्तां वा ब्रह्मवृत्ति हरेततु यः । स तिष्ठति कालसूत्रे यावच्चंद्रदिवाकरो॥८॥ तत्पुत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः। पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम् ॥९॥ गवां मागं विनिष्कृष्य यश्च सस्यं ददाति च । दिव्यं वर्षशतं चैव कुभ्भीपाके च तिष्ठति ॥१०॥ गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः । स तिष्ठत्यसिपत्रे च यावदिंद्राश्चतुर्दश ॥११॥ पंचपिडाननुद्धृत्य परकूपे च स्नाति यः। प्राप्नोति नरकं चैव स्नानं निष्फलमेव च ॥१२॥ कामी भूमो च रहासि वीर्यत्यागं करोति यः । भूमिरंणुप्रमाणं च वर्ष तिर्ष्टात रौरवे ॥१३॥ अंबुवाच्यां भूकरणं यः करोति च मानवः । स याति कृमिदंशं च स्थितस्तत्र चतुर्युगम् ॥१४॥ परकीये लुप्तवूपे कूपं मूढः करोति यः । पुप्करिप्यां च लुप्तायां पुष्करिणीं ददाति यः ॥१५॥ सवं फलं परस्यव तप्तकुंडं व्रजेच्च सः । तत्र तिष्टत संतप्तो यार्वदिद्राश्चतुर्दश ॥१६॥ परकीये तडागे च पंकमुदृत्य चोन्मृजेत्। रेणुप्रमाणवर्पं च ब्रह्मलोके वसेन्नरः ॥१७॥ पिडं पित्र भूमिभर्तुर्न प्रदाय च मानवः । श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥१८॥ भू मो दीपं योऽ्पर्यात स चांधः सप्तजन्मस्। भूमी इंखं च संस्थाप्यं कुष्ठ जन्मांतरे लभेत् ॥१९॥
Page 597
श्रीमदेवीमागव्रते महापुराणे नवमस्कन्धे अध्याय: ११ ५९७ मुक्तां माणिक्यहीरौ च सुवर्ण च मणि तथा। पंच संस्थापयेद्भूमौ स चांधः सतजन्मसु ॥२०॥ शिवलिगं शिवार्चा च यस्त्वर्पयति भूतले। शतमन्वंतरं यावत्कृमिभक्षः स तिष्ठति ॥२१॥ शंखं यंत्रं शिलातोयं पुष्पं च तुलसीदलम् । यश्चार्पयति भूमौ च स तिष्ठेत्नरके ध्रुवम् ॥२२॥ जामालां पुष्पमालां कपूरं रोचनं तथा। यो मूढश्चापपयेद्भूमौ स याति नरकं ध्रुन्म् ॥२३॥ भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम्। संस्थाप्य भूमो नरके वसेन्मन्वन्तरावघि ॥२४॥ पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः । न भवेद्विवयोनौ च तस्य जन्मांतरे जनिः ॥२५॥ ब्रह्महत्यासमं पापमिह वे लभते ध्रुवम्। ग्रन्थियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः ॥२६॥ यज्ञं कृत्वा तु यो भूर्मि क्षोरेण न हि सिञ्चति। स याति तम्भूर्मि च संतत्ः सप्तजन्मसु ॥२७॥ भूकम्पे ग्रहणे यो हि करोति खननं भुवः। जन्मान्तरे महापापी ह्यंगहोनो भवेद्ध्रुवम् ॥२८॥ भवनं यत्र स्वेषां भूमिस्तेन प्रकीतिता। काश्यपो कश्यपस्येयमचला स्थिररूपतः ॥२९॥ विश्वंभरा धारणाच्चानंताऽनंतस्व्ररूपिणो। पृथित्री पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥३०॥ इति श्रीदेवोमागवते महापुराणे नवमस्कन्धे दशमोऽध्यायः ॥१०॥ अथ एकादशोऽध्यायः नारद उवाच श्रुतं पृथिव्युपाख्यानमतोव सुमनोहरम्। गंगोपार्यानमधुना वद वेदविदां वर॥१॥ भारते भारतीशापात्सा जगाम सुरेश्वरी । विष्णुस्वरूपा परमा स्वयं विष्णुपदोति च ॥२।। कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा। तत्क्रमं श्रोतुमिच्छामि पापध्नंपुण्यदं शुभम् ॥३॥ श्रीनारायण उवाच राजराजेश्वरः श्रीमान्सगरः सूर्यवंशजः । तस्य भार्या च वंदर्भो शैव्या च द्वे मनोहरे ॥४। बभूव सुमनोहरः । असमंज इति रूयातः शैव्यायां कुलवर्धनः ॥५॥ अन्या चाराधयामास शंकरं पुत्रकामुकी। बभूव गर्भस्तस्याश्र हरस्य च वरेण ह॥६॥ गते शताब्दे पूर्णे च मांसपिंडं सुपाव सा। तद्दृष्टरासाशिवं ध्यात्वा रुरोदोन्चः पुनः पुनः॥७ शंभुर्श्राह्मणरूपेण तत्समोपं जगाम ह। चकार संविभज्यैतत्पिडं षष्टिसहस्त्रधा॥८॥। सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः। ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः कपिलस्य मुनेः शापाद्वभूवुर्भस्मसाच्च ते। राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥१०॥ तपश्चकारासमंजो गंगानयनकारणात्। लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ।११। अंशुमांस्तस्य तनयो गंगानयनकारणात्। तपः कृत्वा लक्ष,वर्षं ममार कालयोगतः ॥१२।। भगीरथस्तस्य पुत्रो महाभागवतः सुतीः । वैष्णतो विष्णुभक्तत् गुगवानजरामरः॥१३।।
Page 598
५९८ श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ११ तप: कृत्वा लक्षवर्षं गंगानयनकारणात्। ददर्श कृष्णं ग्रीष्मस्थं सूर्यकोटिसमप्रभम् ॥१४॥ द्विमुजं मुरलोहस्तं किशोरं गोपवेषिणम्। गोपालसुंदरीरूपं भक्तानुग्रहरूपिणम् ।१५।। स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम । ब्रह्मविष्णुशिवाद्यश्च स्तुतं मुनिगणर्नुतम् ॥१६। निर्लिसं साक्षिरूपं च निर्गुणं प्रकृतेः परम्। ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥१७॥ वह्निशुद्धांशुकाधानं रत्नभू षणभूषितम् । तुष्टाव दृष्टा नृपतिः प्रणम्य च पुनः पुनः ॥१८॥ लीलया च वरं प्राप वांछितं वंशतारणम्। कृत्वा च स्तवनं दिव्यं पुलकांकितविग्रहः ॥१९॥ श्रीभगवानुवाच भारतं भारतीशापाद्गच्छ शीघ्रं सुरेश्वरि। सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥२०॥ त्वत्स्पर्शबायुना पूता यास्यन्ति मम मन्दिरम् । बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥२१॥ मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः । समुच्छिद्य कर्मभोगान्कृताअ्जन्मनि जन्मनि ॥२२॥ कोटिजन्माजितं पापं भारते यत्कृतं नृभिः। गंगाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥२३॥ स्पर्शनाद्दर्शनाहेव्याः पुण्यं दशगुणं ततः। मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥२४॥ शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम्। यानि कानि च पापानि ब्रह्महत्यादिकानि च ।।२५॥ जन्मसंख्यारजितान्येव कामतोऽपि कृतानि च । तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् २६॥ पुष्याहस्नानतः पुण्यं वेदा नैव वदन्ति च । किञ्चिंददन्ति ते विप्र फलमेव यथागमम् ॥२७॥ बह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च। सामान्यदिवसस्नानसंकल्पं श्रृणु सुन्दरि ।।२८।। पुण्यं दशगुणं चंव मौसलस्नानतः परम्। ततस्त्रिंशद्गुणं पुण्यं रविसंक्रमणे दिने ॥२९॥ अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने। ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥३०॥ चातुर्मास्यां पोणमास्यामनंतं पुण्यमेव च। अक्षयायां च तत्तुल्यं चैतद्वेदे निरूपितम् ॥३१॥ असंख्यपुण्य फलदमेतेषु स्नानदानकम्। सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ।३२।। मन्वन्तराद्यायां तिथौ युगाद्यायां तथव च। माघस्य सितसप्तम्यां भीष्माष्टम्यां तरथव च ।३३।। अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरे: । ततोऽपि द्विगुणं पुण्यं नन्दायां नैव दुर्लभम् ॥३४॥ दशहरादशम्यां तु युगाद्यादिसमं फलम्। नन्दासमं च वारुण्यां महत्पूर्वे चतुर्गुणम् ॥३५॥ ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति। पुण्यं कोटिगुणं चंव सामान्यस्नानतोऽपि यत् ॥३६। चन्द्रोपरागसमये सूर्ये दशगुणं ततः । पुण्यमर्धोदये काले ततः शतगुणं फलम्॥३७॥ इत्येवमुवत्वा देवेशो विरराम तयोः पुरः। तमुवाच ततो गंगा भक्तिनम्रात्मकंधरा ॥३८।। गङ्गोवाच यामि चेद्भारतं नाथ भारतीशापतः पुरा। तवाज्ञया च राजेंद्र तपसा चैव सांप्रतम् ॥३९॥
Page 599
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ११ ५९९ दास्यंति पापिनो मह्यं पापानि यानि कानि च। तानि मे केन नश्यंति तमुपायं वद प्रभो ॥४०॥ कति कालपरिमितं स्थितिर्मे तत्र भारते। कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ॥४१॥ ममान्यद्वांछितं यद्यत्सर्वं जानासि सर्ववित्। सर्वान्तरात्मन्सर्वज्ञ तदुपायं वद प्रभो ॥४२॥। श्रीभगवानुवाच जानामि वांछितं गंगे तव सर्वं सुरेश्वरि। पतिस्ते द्रवरूपाया लवणोदो भविष्यति ।४३।। स ममांशस्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी। विदग्धाया विदग्धेन संगमो गुणवान्भुवि ॥४४।। यावत्यः संति नदश्च भारत्याद्याश्च भारते। सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ४५॥ अद्यप्रभृति देवेशि कले: पंचसहस्त्रकम् । वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ४६॥ नित्यं त्वमब्धिना सारध करिष्यसि रहो रतिम् । त्वमेव रसिका देवि रसिकेंद्रेण संयुता ॥४७॥ त्वां स्तोष्यंति च स्तोत्रेण भगीरथकृतेन च । भारतस्था जनाः सर्वे पूजयिष्यंति भक्तितः ४८।। कण्वशाखोक्तध्यानेन ध्यात्वा त्वां पूजयिष्यति। यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ४९॥ गंगा गंगेति यो ब्रयाद्योजनानां शतैरपि। मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ५०॥ सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति । प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनंक्ष्यति ॥५१॥ पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि। तन्मंत्रोपासकस्नानात्तदर्घं च विनंक्ष्यति ।।५२। तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् । सार्ध सरिद्धिःश्रेष्ठाभिः सरस्वृत्यादिभिः शुभे ५३॥ तत्तु तीर्थं भवेत्सद्यो यत्र त्वद्गुणकीर्तनम्। तवद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥५४॥ रेणुप्रमाणवर्षं च देवीलोके वसेद्ध्रुवम्। ज्ञानेन त्वयि मे भक्त्या मन्नामस्मृतिपूर्वकम् ५५॥ समुत्सृजंति प्राणांश्र ते गच्छंति हरे: पदम् । पार्षदप्रवरास्ते च भविष्यंति हरेश्रिरम् ॥५६॥ लयं प्राकृतिकं ते च द्रक्ष्यन्ति चाप्यसंख्यकम्। मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ।५७।। प्रयाति स च वैकुंठं यावदह्नः स्थितिस्त्वय। कायव्यूहं ततः कृत्वाभोजयित्वा स्वकर्मकम् ५८॥ तस्मै ददामि सारूप्यं करोमि तं च पार्षदम्। अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ५९॥ तस्मै ददामि सारूप्यं करोमि तं च पार्षदम । अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ६०॥ तस्मँ ददामि सालोक्यं यावद्व ब्रह्मणो वयः। अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ६१॥ तस्मै ददामि सारूप्यमसंख्यं प्राकृतं लयम्। रत्नेंद्रसारनिर्माणयानेन सह पार्षदैः ॥६२॥ सद्ः प्रयाति गोलोकं मम तुल्यो भवेद्ध्रुवम्। तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥६३। मन्मंत्रोपासकानां तु नित्यं नैवेद्यभोजिनाम्। पूतं कर्तु सशक्तो हि लोलया भुवनत्रयम् ॥६४॥ रत्नेंद्रसारयानेन गोलोकं संप्रयांति च। मद्क्ता बांधवा येषां तेपि पश्चादयोपि हि ॥६५॥ प्रयांति रत्नयानेन गोलोकं चातिदुर्लभम् । यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः स ॥३६॥
Page 600
शरमहतामारव्रत महापुराणे नवमस्कन्धे अध्याय: १२ जीवन्मुक्ताश्र ते पूता म्गके: संविधानतः । इत्युक्त्वा श्रीहरिस्तां च प्रत्युवाच भगीरथम् ६७॥। स्तुहि गंगामिमां भक्त्या पूजा च कुरु सांप्रतम्। भगीरथस्तां तुष्ाव पूजयामास भक्तितः ।६८।। कौथुमोक्ेन ध्यानेन स्तोत्रेणापि पुनः पुनः। प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम ॥६९॥ भगीरथश्च गंगा च सोऽन्तर्धानं चकार ह। नारद उवाच केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च॥७०॥। पूजां चकार नृपतिर्वद वेदविदां वर। श्रीनारयण उनाच स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी।७१।। संपूज्य देवषट्कं च सयतो भक्तिपूर्वकम्। गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ७२॥। संपूज्य देवषट्कं च सोऽधिकारी च पूजने। गणेशं विध्ननाशाय आरोग्याय दिवाकरम् ॥७३॥ र्वाह्नि शौचाय विष्णुं च लक्ष्म्य्थं पूजयेन्नरः । शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ॥७४।। संपूज्यैतांल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा। दध्यावनेन ध्यानेन तद्धयानं शृणु नारद ॥७५॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे एकादशोऽध्यायः॥११॥ अथ द्वादशोऽध्यायः श्रोनारायण उवाच ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम्। श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम् ।।१।। कृष्णविग्रहसंभूतां कृष्णतुल्यां परां सतीम। वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥२॥ शरत्पूर्णेन्दुशतकमृष्टशोभाकरां वराम् । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥३॥
सिंदूरबिंदुललितं नारायणप्रियां शांतां सत्सौभाग्यसमन्विताम् । बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ।।४।। सार्धं चंदनबिंदुभिः। कस्तूरीपत्रकं गंडे नानाचित्रसमन्वितम् ॥५॥ पक्वबिब विर्निद्याच्छ चार्वोष्ठपुटमुत्तमम् । मुक्त्तापंक्ति प्रभामुष्टदंत्पंक्तिमनो र म म् सुचारुवक्त्रनयनं सकटाक्ष मनोहरम्। कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ।।७।। बृहच्छ्रोणि सुकठिनां रंभास्तंभविनिदिताम्। स्थलपद्मप्रभामुष्टपादपद्मयुगं बरम् रत्नपाटुकसंयुक्तं कुंकुमाक्तं सयावकम्। देवेंद्रमौलिमंदारमकरंदकणारुणम् सुरसिद्धमुनीद्रैश्च दत्तार्घसंयुतं सदा। तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥१० ॥ मुक्तिप्रदं मुमुक्षणां कामिनां सर्वभोगदम्। वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥११॥ श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम्। इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥१२॥
Page 601
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १२ ६०१ दत्वा संपूजयेद्ब्रह्मन्नुपचाराणि षोडश। आसनं पाद्यमर्धं च स्नानीयं चानुलेपनम् ॥१३॥ धूपं दीपं च नैवेद्यं तांबूलं शीतलं जलम्। वसनं भूषणं माल्यं गंधमाचमनीयकम् ॥१४॥ मनोहरं सुतल्पं च देयान्येतानि षोडश। दत्त्वा भक्त्या च प्रणमेत्संस्तूय संपुटांजलि:॥१५॥ संपूज्यैवं प्रकारेण सोश्वमेधफलं भवेत्। नारद उवाच श्रोतुमिच्छामि देवेश लक्ष्मीकांत जगत्पते ॥१६॥ विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम्। श्रीनारायण उवाच शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारणम् ॥१७॥। शिवसंगीतसंमुग्धश्रीकृष्णांगसमुद्दवाम् । राधांगद्रवसंयुक्तां तां गंगां प्रणमाम्यहम् ॥१८॥ यज्जन्म सृष्टेरादौ च गोलोके रासमंडले। सन्निधाने शंकरस्य तां गंगां प्रणमाम्यहम् ॥१९॥ गोपैर्गोपीभिराकीणे शुभे राधामहोत्सवे। कार्तिकीपूर्णिमायां च तां गंगां प्रणमाम्यहम् ॥२०॥ कोटियोजनविस्तीर्णा दैध्ये लक्षगुणा ततः । समावृता या गोलोके तां गंगां प्रणमाम्यहम् ॥२१॥ षष्टिलक्षयोजना या ततो दैर्ध्ये चतुर्गुणा। समावृता या वैकुण्ठे तां गंगां प्रणमाम्यहम् ॥२२॥ त्रिशल्लक्षयोजना या दैर्ध्ये पंचगुणा ततः। आवृता ब्रह्मलोके या तां गंगां प्रणमाम्यहम् ॥२३॥ त्रिशल्लयोजना या दैध्ये चतुर्गुणा ततः । आवृता शिवलोके या तां गंगां प्रणमाम्यहम् ॥२४॥ लक्षयोजनविस्तीर्णा दैघ्ये सप्तगुणा ततः। आवृताध्रुवलोके या तां गंगां प्रणमाम्यहम् ॥२५॥ लक्षयोजनविस्तीर्णा देध्ये पञ्चगुणा ततः । आवृता चंद्रलोके या तां गंगा प्रणमाम्यहम् ॥२६॥ षष्टिसहस्रयोजना या दैर्ध्ये दशगुणा ततः । आवृता सूर्यलोके या तां गंगां प्रणमाम्यहम् ॥२७॥ लक्षयोजनविस्तीर्णा दैध्ये पंचगुणा ततः । आवृताया तपोलोके ता गंगा प्रणमाम्यहम् ॥२८।। सहस्रयोजनायामा दैध्ये दशगुणा ततः । आवृता जनलोकेया तां गंगां प्रणमाम्यहम् ॥२९॥ दशलक्षयोजना या दैर्ध्ये पंचगुणा ततः ! आवृताया महलोके तां गंगां प्रणमाम्यहम् ॥३०॥ सहस्रयोजनायामा दैध्ये दशगुणा ततः। आवृता या च कैलासे तां गंगां प्रणमाम्यहम् ।३१॥ शतयोजनविस्तीर्णा दैध्यें दशगुणा ततः। मंदाकिनी चेंद्रलोके तां गंगां प्रणमाम्यहम् ॥३२॥ पाताले भगवती च विस्तीर्णा दशयोजना। ततो दशगुणा दैध्ये तां गंगां प्रणमाम्यहम् ॥३३॥ क्रोशकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित्। क्षितौ चालकनंदा या तां गंगां प्रणमाम्यहम् ॥३४।। सत्ये या क्षीरवर्णा च त्रेतायामिंदुसन्निभा। द्वापरे चंदनाभा या ता गंगां प्रणमाम्यहम् ।३५॥ जलप्रभा कली या च नान्यत्र पृथिवोतले। स्वगें च नित्यं क्षीराभा तां गंगां प्रणमाम्यहम्॥३६॥
Page 602
६०२ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १२ यत्तोयकणिकास्पर्शे पापिनां ज्ञानसंभवः । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ।३७।। इत्येवं कथिता ब्रह्मन्गंगापदयकविशतिः । स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ॥३८॥ नित्यं यो हि पठेद्धक्त्या संपूज्य च सुरेश्वरीम्। सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥३९॥ अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्न्रयम्। रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद्ध्रुवम् ४०॥ अस्पष्टकीतिः सुयशा मूर्खो भवति पंडितः। यः पठेत्प्ातरुत्थाय गंगास्तोत्रमिदं शुभम् ।४१॥ शुभं भवेच्च दुःस्वप्नो गंगास्नानफलं लभेत्। श्रीनारायण उवाच स्तोत्रेणानेन गंगां च स्तुत्वा चैव भगीरथः ॥४२।। जगाम तां गृहोत्वा च यत्र नष्टाश्र सागराः । वैकुण्ठं ते ययुस्तूण गंगायाः स्पर्शवायुना ॥४३॥ भगीरथेन साऽडनीता तेन भागीरथी स्मृता । इत्येवं कथितं सवं गङ्गोपाख्यानमुत्तमम् ॥४४॥। पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि। नारद उवाच कथं गङ्गा त्रिपथगा जाता भुवनपावनी ।४५॥ कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो। तत्रस्थाश्च जना ये ये ते च कि चक्रुरुत्तमम् ॥४६॥ एतत्सर्वं तु विस्तीणं कृत्वा वक्तुमिहार्हसि। श्रीनारायण उवाच कात्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ।४७।। कृष्णः संपूज्य तां राधामुवास रासमंडले। कृष्णेन पूजितां तां तु संपूज्य हृष्टमानसाः ॥४८।। ऊचुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः । एतस्मिन्नंतरे कृष्णसंगीता च सरस्वती ॥४९। जगो सुन्दरतालेन वीणया च मनोहरम्। तुष्टो ब्रह्मा ददौ तस्यै रत्नेंद्रसारहारकम् ॥५०॥ शिवो मणोंद्रसारं तु सर्वब्रह्माण्डदुर्लभम्। कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ॥५१॥ अमूल्यरत्ननिर्माणं हारसारं च राधिका। नारायणश्च भगवान्ददौ मालां मनोहराम् ॥५२॥ अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुंडलम्। विष्णुमाया भगवती मूलप्रकृतिरीश्वरी॥५३॥ दुर्गा नारायणीशाना ब्रह्मभकि सुदुर्लभाम्। धर्मबुद्धि च धर्मञ्च यशश्च विपुलं भवे ॥५४॥ र्वह्निशुद्धांशुकं व्निर्वायुश्च मणिनपुरान्। एतस्मिन्नंतरे शंभुर्ब्रह्मणा प्रेरितो मुहुः ॥५५॥ जगौ श्रीकृष्णसंगीतं रासोल्लाससमन्वितम् । मूर्च्छानापुः सुराः सर्वे चित्रपुत्तलिका यथा ५६॥ कष्टेन चेतनां प्राप्य ददृशू रासमंडले। स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ५७॥ अत्युच्च रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः। ध्यानेन ब्रह्मा बुबुधे सरवें तीर्थमभीप्सितम् ॥५८॥
Page 603
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १३ ६० ३ गतञ्च राधया सार्धं श्रीकृष्णो द्रवतामिति। ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥५९॥ स्वमूर्ति दर्शय विभो वांछितं वरमेव नः । एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी ॥६०॥ तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम। सर्वात्माऽहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥६१॥ ममाप्यस्याश्च देहेन कर्त्तव्यं च किमावयोः । मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥६२॥ मन्मन्त्रपूता मां द्रष्टुमागमिष्यंति मत्पदम्। मूर्ति द्रष्टुं च सुव्यक्तां यदीच्छथ सुरेश्वराः ॥६३॥ करोतु शंभुस्तत्रंव मदीयं वाक्यपालनम्। स्वयं विधातस्त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरुम् ॥६४॥। कतुं शास्त्रविशेषं च वेदांगं सुमनोहरम्। अपूर्वमन्त्रनिकरै: सर्वाभीष्टफलप्रदैः ॥६५॥ स्तोत्रेश्च निकरैध्यनिर्युतं पूजाविधिक्रमैः । मन्मंत्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ॥६६। भवंति विमुखा येन जना मां तत्करिष्यति। सहस्रेषु शतेष्वेको मन्मंत्रोपासको भवेत् ॥६७।। जना मन्मंत्रपूताश्च गमिष्यंति च मत्पदम् । अन्यथा न भविष्यंति सर्वे गोलोकवासिनः ॥६८।। निष्फलं भविता सर्वं ब्रह्मांडं चव ब्रह्मणः । जनाः पञ्च प्रकाराश्च युक्ताः स्रष्टुं भवे भवे ॥६९॥ पूथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः । इदं कतुं महादेवः करोति देवसंसदि ॥७०॥ प्रतिज्ञां सुदृढां सद्यस्ततो मूर्ति च द्रक्ष्यति । इत्येवमुक्त्वा गगने विरराम सनातनः ॥७१।। तच्छरत्वा जगतां धाता तमुवाज शिवं मुदा। ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥७२॥ गङ्गातोयं करे कृत्वा स्वीकारं च चकार सः। संयुक्तं विष्णुमायाया मंत्रोघः शास्त्रमुत्तमम् ।७३।। वेदसारं करिष्यामि प्रतिज्ञापालनाय च । गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ॥७४॥ स याति कालसूत्रं च यावद्व ब्रह्मणो वयः। इत्युक्ते शंकरे ब्रह्मन्गोलोके सुरसंसदि॥७५॥ आविर्बभूव श्रीकृष्णो राधया सहितस्ततः । तं सुदृष्टा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ॥७६॥। परमानंदपूर्णाश्र चक्रुश्च पुनरुत्सवम् । कालेन शंभुर्भगवान्मुक्तिदीपं चकार सः॥७७॥ इत्येवं कथितं सवं सुगोप्यं च सुदुर्लभम्। स एव द्रवरूपा सा गङ्गा गोलोकसंभवा ॥७८॥ राधाकृष्णांगसंभूता भुक्तिमुक्तिफलप्रदा । स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना ।। कृष्णस्वरूपा परमा सर्वब्रह्मांडपूजिता ।७९।। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः ॥१२॥ अथ त्रयोदशोऽध्यायः नारद उवाच कले: पञ्चसहस्राब्दे समतीते सुरेश्वर। क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥१॥ श्रीनारायण उवाच भारतं भारतीशापात्समागत्येश्वरेच्छया। जगाम तत्र वैकुंठे शापान्ते पुनरेव सा ।२।।
Page 604
६०४ श्रीमदेवीभागवते महापुराणे नबमस्कन्धे अध्याय: १३ भारती भारतं त्यक्त्वा तज्जगाम हरे: पदम् । पद्मावती च शापांते गंगा सा चैव नारद ॥३॥ गंगा सरस्वती लक्ष्मीश्वैतास्तिस्रः प्रिया हरेः । तुलसीसहिता ब्रह्मंश्वतस्त्रः कीर्तिताः श्रुतौ॥४॥ नारद उवाच केनोपायेन सा देवी विष्णुपादाब्जसंभवा। ब्रह्मकमंडलुस्था च श्रुता शिवप्रिया च सा ।।५।। बभूव सा मुनिश्रेष्ठ गंगा नारायणप्रिया। अहो केन प्रकारेण तन्मे व्याख्यातुमर्हंसि ॥६॥ श्रीनारायण उवाच पुरा बभूव गोलोके सा गंगा द्रवरूपिणी। राधाकृष्णाङ्गसंभूता तदंशा तत्स्वरूपिणी ॥७॥ द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि। नवयौवनसंपन्ना सर्वाभरणभषिता॥।८।। शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा। तप्तकाञ्चनवर्णाभा शरच्चंद्रसमप्रभा ।।९।। स्निग्धप्रभाऽतिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी। सुपीनकठिनश्रोणिः सुनितंबयुगंधरा ॥१० ।। पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम्। सुचारुनेत्रयुगलं सुकटाक्षं सुवंक्रिमम् ॥११॥ वंक्रिमं कबरीभारं मालतीमाल्यसंयुतम् । सिंदूरबिंदुललितं सार्धं चन्दनबिंदुभिः ॥१२॥ कस्तूरीपत्रिकायुक्तं गंडयुग्मं मनोरमम्। बंधूककुसुमाकारमधरोष्ठं च सुंदरम् ॥१३॥ पक्वदाडिमबीजाभदंतर्पंक्तिस मुज्ज्वलम् । वाससी वह्निशुद्धे च नीवोयुक्ते च बिभ्रती ।१४।। सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता। वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् १५॥ निमेषरहिताभ्यां च पिबंती सततं मुदा। प्रफुल्लवदना हर्षान्नवसंगमलालसा ॥१६।। मूच्छिता प्रभुरूपेण पुलकांकितविग्रहा। एतस्मिन्नंतरे तत्र विद्यमाना च राधिका ॥१७॥। गोपीत्रिशत्कोटियुक्ता कोटिचन्द्रसमप्रभा। कोपेनारक्तपझ्मास्या रक्तपंकजलोचना ।१८।। पीता चंपकवर्णाभा गजेन्द्रमंदगामिनी। अमूल्यरत्ननिर्माणनानाभूषणभूषिता।।१९।। अमूल्यरत्नखचितममूल्यं वह्निशौचकम् । पीतवस्त्रस्य युगलं नीवीयुक्तं च विभ्रतो ॥२०॥ स्थलपद्मप्रभायुष्टं कोमलं च सुरंजितम्। कृष्णदत्तार्ध्यसंयुक्तं विन्यसंती पदांबुजम् ॥२१॥ रत्नेन्द्रसारनिर्माण विमानादवरुह्य सा। सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥२२॥ कस्तूरीबिंदुभिर्युक्तं चन्दनेन समन्वितम्। दीप्दीपप्रभाकारं सिंदूरं बिंदुशोभितम् ॥२३॥ दधती भालमध्मे च सीमंताधः स्थलोज्ज्वले। पारिजातप्रसूनानां मालायुक्तं सुवंक्रिमम् ॥२४॥ सुचारुकबरीभारं कंपयंती सुकंपिता। सुचारुरागसंयुक्तमोष्ठं कंपयती रुषा ॥।२५॥ गत्वोवास कृष्णपाश्वे रत्नसिंहासने शुभे। सखीनां च समूहैश्र परिपूर्णा विभो: प्रिया ॥२६॥ तां दृष्टा च समुत्तस्थौ कृष्णः सादरपूर्वकम् । संभाष्य मधुरालापैः सस्मितश्च ससंभ्रमः ॥२७॥ प्रणेमुरतिसंत्रस्ता गोपा नम्रात्मकंधराः । तुष्टुवुस्ते च भक्तया च तुष्टाव परमेश्वरः ॥२८॥
Page 605
श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: १३ ६०५ उत्थाय गंगा सहसा स्तुर्ति बहु चकार सा। कुशलं परिपप्रच्छ भीताऽतिविनयेन च ॥२९॥ नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका। ध्यानेन शरणायत्ता श्रीकृष्णचरणांबुजे॥३०॥ तां हृत्पद्यस्थितां कृष्णो भीतायै चाभयं ददी। बभूव स्थिरचचित्ता सा सर्वेश्वरवरेण च ।३१। ऊर्ध्वसिंहासनस्थां च राधां गंगा ददर्श सा। सुस्निग्धां सुखदृश्यां च ज्वलंतीं ब्रह्मतेजसा ॥३२॥ असंख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम। सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥३३॥ विश्ववन्द्यां निरुपमां रूपेण च गुणेन च। शांतां कांतामनंतांतामाद्यंतरहितां सतीम् ॥३४॥ शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम्। सौंदर्यसुंदरीं श्रेष्ठां सर्वासु सुंदरीषु च ॥३५॥ कृष्णार्धांगां कृष्णसमां तेजसा वयसा त्विषा। पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥३६॥ प्रच्छाद्यमानां प्रभया समामीशस्य सुप्रभाम्। सखीदत्त च तांबूलं भुक्तवंतों च दुर्लभम् ॥३७॥ अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम्। कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥३८॥ दृष्टा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी। निमेषरहिताभ्यां च लोचनाभ्यां पपो च ताम् ३९॥ एतस्मिन्नंतरे राधा जगदोशमुवाच सा। वाचा मधुरया शांता विनोता सस्मिता मुने ४०॥ राधोवाच केयं प्राणेश कल्याणी सस्मिता त्वन्मुखांबुजम् । पश्यंती सस्मितं पाश्वें सकामा वक्रलोचना॥४१॥ मूर्धां प्राप्नोति रूपेण पुलकांकितविग्रहा। वस्त्रेण मुखमाच्छाद्य निरोक्षन्ती पुनः पुनः ।४२॥ त्वं चापि तां संनिरीक्ष्य सकामः सस्मितः सदा। मयि जीवति गोलोके भूता दुर्वृतिरोदृशो ॥४३॥ त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च। क्षमां करोमि प्रेम्णा च स्त्री जातिः स्निग्धमानसा ॥ संगृह्येमां प्रियामिष्टां गोलोकाद्गच्छ लंपट। अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर॥४५॥ दृष्टस्त्वं विरजायुक्तो मया चंदनकानने। क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥४६॥ त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा। देहं तत्याज विरंजा नदीरूपा बभूव सा।४७। कोटियोजनविस्तीर्णा ततो दैध्ये चतुर्गुणा। अद्यापि विद्यमाना सा तव सत्कीरतिरूपिणी॥४८।। गृहं मयि गतायां च पुनर्गत्वा तदंतिके। उच्च रुरोद विरजे विरजे चेति संस्मरन्॥४९॥ तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी । सालंकारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥५०॥ ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया। ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥५१॥ दृष्टस्त्वं शोभया गोप्या युक्तश्चंपककानने। सदो मच्छन्दमात्रेण तिरोधानं कृतं त्वया ॥५२॥ शोभा देहं परित्यज्य जगाम चंद्रमंडले। ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥५३॥ संविभज्य त्वया दत्तं हृदयेन विदूयता। रत्नाय किंचित्स्वर्णाय किचिन्मणिवराय च ॥५४॥ किंचित्स्त्रीणां मुखान्जेम्यः किंचिद्राज्ञे च किंचन। किंचित्किसलयेभ्यश्व पुष्येभ्यश्चापि किंचन ॥५५।।
Page 606
६०६ श्रीमद्ेवीभागवते महापुराणे नवमस्क्रन्धे अध्याय: १३
किंचित्फलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किंचन । नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किंचन ॥५६॥ किंचिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किंचन। दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥५७।। सदो मच्छवदमात्रेण तिरोधानं कृतं त्वया। प्रमा देहं परित्यज्य जगाम सूर्यमंडपे ।५८।। ततस्तस्याः शरीरं च तीव्रं तेजो बभूव है। संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥५९॥ विसृष्टं चक्षुषोः कृष्ण लज्जया मन्द्येन च। हुताशनाय किचिच्च यक्षेभ्यश्चापि किंचन ॥६०॥ किचित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किंचन । किंचिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किंचन ॥६१॥ ब्राह्मणेम्यो मुनिभ्यश्च तपस्विभ्यश् किंचन । स्त्रीभ्यः सौभान्ययुक्ताभ्यो यशस्विभ्यश्च किंचन ॥ तत्तु दत्त्वा च सर्वेभ्यः पूर्व प्ररुदितं त्वया। शांतिगोप्या युतस्त्वं च दृष्टोऽसि रासमंडले ॥६३॥ वसंते पुष्पशय्यायां माल्यवांश्चंदनोक्षितः । रत्नप्रदीपैर्युक्तं च रत्ननिर्माणमंदिरे ॥६४॥ रत्नभूषणभूषाढयो रत्नभषितया सह। तया दत्तं च तांबूलं भुक्तवांश्च पुरा विभो ॥६५॥ सदो मच्छन्दमात्रेण तिरोधानं कृतं त्वया। शांतिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥६६॥ ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह। संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥६७॥ विश्वे तु विपिने किचिद्ब्रह्मणे च मयि प्रभो। शुद्धसत्त्वस्वरूपायै किंचिल्लक्षम्यै पुरा विभो ॥६८॥ त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किंचन । तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किंचन ॥६९॥ मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह। सुवेषयुक्तो मालावान्गंधचंदनचर्चितः ।।७०।। रत्नभूषितया गंधचंदनोक्षितया सह। सुखेन मूच्छितस्तल्पे पुष्पचंदनचर्चिते ॥७१॥ श्लिष्टो निद्रितया सद्यः सुखेन नवसंगमात्। मया प्रबोधिता सा च भवांश्र स्मरणं कुरु ॥७२॥ गृहीतं पीतवस्त्रं च मुरली च मनोहरा। वनमालाकोस्तुभश्राप्यमूल्यं रत्नकुंडलम् ॥७३॥ पश्चात्प्रदत्त प्रेम्णा च सखोनां वचनादहो। लज्जया कृष्णवर्णोऽभूद्गवान्पापेन यः प्रभो ॥७४॥ क्षमा देहं परित्यज्य लज्जया पृथिवीं गता। ततस्तस्याः शरीरं च गुणश्रेष्ठं बभुव ह॥७५॥ संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः । किंचिदृत्तं विष्णवे च वैष्णवेभ्यश्च किंचन ॥७६।। धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किंचन । तपस्विभ्योऽपि देवेभ्यः पंडितेभ्यश्च किंचन ॥७७॥ एतत्ते कथितं सर्व कि भूयः श्रोतुमिच्छसि। त्वद्गुणं चैव बहुशो न जानामि परं प्रभो ॥७८॥ इत्येवमुक्त्वा सा राधा रक्तपंकजलोचना। गंगां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ७९॥ गंगा रहस्यं विज्ञाय योगेन सिद्धयोगिनी। तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥८०॥। राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम्। पानं कर्तुं समारेभे गंडषात्सिद्धयोगिनी ॥८१॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी। श्रीकृष्णचरणांभोजे विवेश शरणं ययौ ॥८२॥ गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा। ददर्श राधा सर्बत्र नैव गङ्गां ददर्श सा ।।८३।।
Page 607
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १३ ६०७
सर्वत्र जलशून्यं च शुष्कपंकं च गोलकम्। जलजंतुसमूहैश्च मृतदेहैः समन्वितम् ॥८४॥ ब्रह्मविष्णुशिवानंतधर्मेन्द्रेंद्रदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः॥८५॥ गोलोकं च समाजग्मुः शुष्ककण्टोष्ठनालुकाः । सर्वे प्रणेमुर्गोविंदं सर्वेशं प्रकृतेः परम्॥८६॥ वरं वरेण्यम्वरदम्वरिष्ठम्वरकारणम्। गोपिकागोपवृन्दानां सर्वेषां प्रवरम्प्रभुम् ॥८७॥ निरीहञ्च निराकारं निर्लिप्ं च निराश्रयम् । निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥८८। स्वेच्छामयं च साकारं भक्तानुग्रहकारकम्। सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ।८९। परं परेशं परमं परमात्मानमीश्वरम्। प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥९०॥ सगद्गदाः साश्रुनेत्राः पुलकांकितविग्रहाः । सर्वे संस्तूय सर्वेशं भगवंतं परात्परम् ।९१॥ ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् । अमूल्यरत्ननिर्माणचचित्रसिंहासनस्थितम् ॥।९२।। सेव्यमानं च गोपाल: श्वेतचामरवायुना। गोपालिकानृत्यगीतं पश्यतं सस्मितं मुदा ।,९३।।
परिपूर्णतमं प्राणाधिकप्रियतमं राधावक्षस्थलस्थितम्। तया प्रदत्तं तांबूलं भुक्तवंतं सुवासितम् ॥९४।। रासे ददृशुश्च सुरेश्वरम् । मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥९५॥ प्रहृष्टमनसः सर्व जग्मुः परमविस्मयम्। परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥९६॥ निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम्। ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥९७।। वामतो वामदेवं च जगाम कृष्णसन्निधिम्। परमानन्दयुक्तं न परमानन्दरूपिणम् ।।९८।। सर्वं कृष्णमयं धाता ददर्श रासमंडले। सर्वं समानवेषं च समानासनसंस्थितम् ॥९९॥ द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥१००।। अतीव कमनीयं च सुन्दरं शांतविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा॥१०१॥ परिपूर्णतमं सवं सर्वेश्वर्यसमन्वितम् । कि सेव्यं सेवक कि वा दृष्टा निर्वक्तुमक्षमः ॥१०२॥ क्षणं तेज:स्वरूपं च रूपं तत्र स्थितं क्षणम्। निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥१०३। एकमेव क्षणं कृष्णं राधया रहितं परम्। प्रत्येकासनसंस्थं च तया सारधं च तत्क्षणम् ॥१०४॥ राधारूपधरं वृष्णं कृष्णरूपं कलत्रकम्। स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥१०५॥ हृत्पद्मस्थं च श्रीकृष्णंध्यात्वाध्यानेन चक्षुषा। चकार स्तवनं भकत्या परिहारमनेकधा ॥१० ६॥। ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया। ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥१०७॥ स्व्रपार्षदैः परिवृतं गोपीमंडलमंडितम्। पुनः प्रणेमुस्तं दृष्टा तुष्टुवुः परमेश्वरम्॥१०८॥ तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः । सर्वात्मा स च सर्वज्ञःसर्वेशः सर्वभावनः ॥१०९॥ श्रीभगवानुवाच आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते। इहागच्छ महादेव शश्चत्कुशलमस्तु वः॥११०॥
Page 608
६०८ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १३ आगता हि महाभाग गङ्गानयनकारणात्। गङ्गा च चरणाम्भोजे भयेन शरजं गता ॥१११॥ राधे मां पातुमिच्छन्तीं दृष्टा मत्सन्निधानतः । दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥११२॥ श्रीकृष्णस्य वच: श्रुत्वा सस्मितः कमलोद्धवः । तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥११३॥ वक्त्रैश्चतुरभिः संस्तूय भन्तिनम्रात्मकंधरः। धाता चतुर्णा वेदानामुवाच चतुराननः ।११४।। चतुरानन उवाच गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले। युवयोर्द्रवरूपा सा मुग्धयोः शङ्गरस्वनात् ॥११५॥ कृष्णांशाच त्वदंशा च त्वतकन्यासदृशी प्रिया। त्वन्मंत्रग्रहणं कृत्वा करोतु तव पूजनम् ॥११६॥ भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः॥११७॥ गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके। तदंबिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥११८॥ ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता। बहिर्बभव सा कृष्णपादाङ्गष्टनखाग्रतः ॥११९। तत्रव सत्कृता शान्ता तस्थी तेषां च मध्यतः । उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥१२०॥ तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डली। किञ्ञिदधार शिरसि चन्द्रार्धकृतशेखरः ॥१२१॥ गङ्गायै राघिकामन्त्रं प्रददौ कमलोद्गवः। तत्स्तोत्रकवचं पूर्जा विधानं ध्यानमेव च ॥१२२॥ सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा। गङ्गा तामेव संपूज्य वैकुंठं प्रययौ सह ।१२३।। लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी। एता नारायणस्यैव चतस्रो योषितो मुने ॥१२४॥ अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः । सर्वकालस्य वृत्तांतं दुर्बोधमविपश्चिताम् ॥१२५॥ श्रीकृष्ण उवाच गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर। शृणु कालस्य वृत्तांतं मत्तो ब्रह्मन्निशामय ॥१२६॥ यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा । सिद्धा यशस्विनश्रैव ये येऽत्रंव समागता: ॥१२७॥ एते जीवन्ति गोलोके कालचक्रविवर्जिते। जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥१२८॥ ब्रह्माद्या येन्यविश्वस्थास्ते विलीनाधुना मयि। वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥१२९॥ गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् । स्वंब्रह्मांडं विरचय पश्चाद्गङ्गा प्रयास्यति ॥१३०॥ एवमन्येषु विश्वेषु सृष्टो ब्रह्मादिकं पुनः। करोम्यहं पुनःसृष्टिं गच्छ शोघ्रं सुरैः सह ॥१३१॥ गतो बहुतरः कालो युष्माकं च चतुर्मुखाः । गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥१३२॥ इत्युक्त्वा राधिकानाथो जगामांतःपुरे मुने। देवा गत्वा पुनः सृष्टि चक्रुरेव प्रयत्नतः ॥१३३॥ गोलोके सा स्थिता गङ्गा वैकुण्ठे शिवलोकके। ब्रह्मलोके स्थिताऽन्यत्र यत्र यत्र पुरः स्थिता ॥१३४॥ तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः । निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥१३५॥
Page 609
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १४ ६०९ इत्येबं कबितं ब्रह्मन्गंगोप।खयानमुत्तमम्। सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि॥१३६॥ इति श्रीदेवीमागवते महापुराणे नवमस्कन्धे गंगोपारयाने त्रयोदशोऽध्बायः ।। १२॥ अथ चतुदसोऽध्यायः नारद उवाच लक्ष्मीः सरस्व्वती गंगा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रश्र प्रिया इति ॥१॥ गंगा जगाम वैकुण्ठमिदमेव श्रुतं मया। कथं सा तस्य पत्नी च बभूवेति च न श्रुतम्॥२॥ श्रीनारायण उवाच गंगा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः । गत्वोवाच तया साधं प्रणम्य जगदीश्वरम्॥३॥
राधा कृष्णांगसंभूता या देवी द्रवरूपिणी। नवयौवनसंपन्ना सुशोला सुंदरी वरा ॥४॥। शुद्धसत्वस्वरूपा च क्रोधाहंकारवजिता। तदंगसंभवा नान्यं वृणोतीयं च तं विना ।।५।। तत्रातिमानिनी राधा साच तेजस्विनी वरा। समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम्॥६॥ विवेश चरणांभोजे कृष्णस्य परमात्मनः । स्त्रत्र गोलकं शुष्कं दृष्टाऽहमगमं तदा ।।७।। गोलोके यत्र कृष्णक्र सर्ववृत्तांतप्राप्तये। सर्वांतरात्मा सर्वेषां ज्ञात्वाऽभिप्रायमेव च।।८।। बहिश्चकार गंगां व पादांगुष्टनलाग्रतः। दत्त्वाऽस्य राधिकामंत्रं पूरयित्वा च गोलकरः॥ प्रणम्य तां च राधेशं गृहीत्वाऽत्रागम प्रभो । गांधर्वेण विबाहेन गृहाणेमां सुरेश्वरीम् ॥१०॥ सुरेश्वरेषु रसिको रसिकेयं समागता। त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती।।११॥ विदग्धाया विदग्धेन संगमो गुणबान्भवेत्। उपस्थितां स्वयं कन्यां नगृह्हातीह यः पुमान् । तं विहाय महालक्ष्मी रुष्टा याति न संशयः । यो भवेत्पंडितः सोऽपि प्रकृति नावमन्यते॥१३॥ सर्वे प्राकृतिका: पुंसः कामिन्यः प्रकृतेः कलाः । त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥१४॥ भर्धाङ्गं द्विभुजः कृष्णो योऽधोंगेन चतुर्भुजः । कृष्णवामांगसंभूता बभूव राधिका पुरा॥१५॥ दक्षिणांशः स्वयं सा च वामाशा कमला तथा। तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसंभवा ॥१६॥ एकांगं चंव्र स्त्रीपुंसोर्यथा प्रकृतिपूरुषी। इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम स:॥१७॥ गांधर्वेण विवाहेन तां जग्राह हारः स्वयम्। नारायण: करं धुत्वा पुष्पचंदनचचितम् ॥१८।। रेमे रमापतिस्तत्र गंगया सहितो मुदा। गंगा पृथ्वीं गता या सा स्वस्थानं ुनरागता। निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च। मूच्छी संप्रापसा देवी नवसंगमलीलया॥२०॥ रसिका सुखसंभोगाद्रसिकेश्वरसंयुता । तां दृष्टा दुःखिता वाणी पद्मया वर्जिताऽनि च।।
Page 610
११० श्रीमहवीमागवते महापुराणे नवमस्कन्धे अध्याय: १५ नित्यमीष्यति ता वाणी न च गंगा सरस्त्रतीम्। गंगा शशाप कोपेन भारते च हरिप्रिया ।२२।। गङ्गया सह तस्यव तिस्रो भार्या रमापतेः । साघं तुलस्या पश्चाच्च चस्त्रश्चाभवन्मुने ॥२३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कंधे चतुर्दशोऽध्यायः॥१८॥ अथ पञ्चदशोऽध्यायः नारद उवाच नारायणप्रिया साध्वी कथं साच बभव ह। तुलसी कुत्र संभूता का वा सा पूर्वजन्मनि ॥१॥ कस्य वा सा कुले जाता कस्य कन्या कुले सती। केन वा तपसा सा च संप्राता प्रकृतेः परम् ॥२॥ निर्विकारं निरोहं च सर्वविश्वस्व्ररूपकम्। नारायणं परं व्रह्म परमेश्वरमीश्वरम् ॥३॥ सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम्। सर्वाधारं सर्वरूपं सर्वेषां परिपालकम्॥४॥ कथमेतादृशी देत्री वृक्षत्व्रं समवाप ह। कथं साडप्यसुरग्रस्ता संवभूव तपस्विनी ॥५॥ सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्महुः । छेत्तुमर्हसि संदेहं सर्व संदेहभंजन ॥६॥ नारायण उवाच मनुश्र दक्षसार्वर्गि: पुण्यवान्वैष्णवः शुचिः । यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्वः ॥७॥। तत्पुत्रौ ब्रह्मसावणिर्धर्मिष्टो वैष्णवः शुचिः । तत्पुत्रो धर्मसावर्णिवेष्णवश्च जितेन्द्रियः ॥८।। तत्पुत्रो रुद्रसार्वणिर्भकिमान्विजितेन्द्रियः । तत्पुत्रो देवसावर्णिविष्णुत्रतपरायणः ।।९।। तत्पुत्र इन्द्रसावणिर्महाविष्णुपरायणः । वृपध्वजश्व तत्पुत्रो वृषध्वजपरायणः ॥१०॥ यस्याश्रमे स्वयं शंभुरासीद्देवयुगत्रयम् । पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥११॥ न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् । पृजांच सर्वदेवानां दूरीभूतां चकार सः ॥१२॥ भाद्रे मासि महालक्ष्मीपजां मत्तो बभंज ह। तथा माघीयपंचम्यां विस्तृतां सर्वदैवतैः ॥१३॥ पापः सरस्वतीपूजां दूरीभृतां चकार सः । यजं च विष्णुपूजां च नर्दतं तं दिवाकरः ॥१४॥ चुकोप देवी भूपेंद्रं शशाप शिवकारणात्। भ्रष्टश्रीस्त्वं चभवेति तं शगाप दिवाकरः॥१५॥ शूलं गृहीत्वा तं सूर्यमधावच्छंकरः स्वयम्। पित्रा सार्द्धं दिनेशश्र व्रह्माणं शरणं ययौ ॥१६॥ शिवस्त्रिगलहस्तश्र ब्रह्मलोकं ययौ क्रुधा। ब्रह्मा सूर्य पुरस्कृत्य वैकुण्टं च ययौ भिया ॥१७॥ ब्रह्मकश्यपमार्तडाः संत्रस्ताः गुष्कतालुकाः । नारायणं च सर्वेशं ते यएः शरणं भिया ॥१८॥ मर्ध्ना प्रणेमुस्ते गत्वा नुष्टुवृश्च पुनः पुनः। सर्वं निवेदनं चतुर्भयस्य कारणं हरौ॥१९॥ नारायणश्च कृपया तेभ्यश्र ह्यभयं ददौ। स्थिरा भवत हे भीता भयं कि च मयि स्थिते। स्मरंति ये यत्र यत्र मां विपत्तौ भयान्विताः । तांस्तव गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः २१।। पाताऽहं जगतां देवा: कर्ता च सततं सदा। स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥२२॥
Page 611
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १५ ६११ शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः। विधाय नानारूपं च करोमि सृष्टिपालनम् ॥२३॥ यूयं गच्छत भद्रं वो भविष्यति भयं कुतः । अद्यप्रभृति मद्वरेण भयं वो नास्ति शंकरात् ॥२४।। सर्वेशो वै स भगवाञ्छंकरश्र सतां गतिः । भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः ।२५।। सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः । ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥२६॥ शक्त: स्रष्टुं महादेवः सूर्यकोटिं च लीलया। कोटिं च ब्रह्म गामेवं नासाध्यं शूलिनः प्रभो: ॥२७॥ बाह्यज्ञानं नैव किचिद्धयायते मां दिवानिशम्। मन्मंत्रान्मद्गुणान्भक्तया पंचवक्त्रेण गायति ॥२८।। अहमेवं चिंतयामि तत्कल्याणं दिवानिशम्। ये यथा मां प्रपद्यंते तांस्तथव भजाम्यहम् ॥२९॥ शिवस्वरूो भवाञ्छियाविष्ठातृदेवता। शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः ॥३०॥ उतस्मिन्नंतरे तत्र जगाम शंकरः शिवः । शूलहस्तो वृषारूढो रक्तपंकजलोचनः ॥३१॥ अवर््य वृपात्तूर्ण भक्तिनम्रात्मकन्धरः। ननाम भक्तयातंशांतं लक्ष्मीकांतं परात्परम् ॥३२॥ रत्नसिंहासनस्थं च रत्नालंकारभूषितम्। किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥३३॥ नवोननोरदश्यामं सुंदरं च चतुर्भुजम्। चतुर्भुजैः सेवितं च श्वेतचामरवायुना॥३४॥ चंदनोक्षितसर्वाङ्गं भूनितं पातवाससम्। लक्ष्मोप्रदत्ततावूलं भुक्तवंतं च नारद ।३५॥ विद्याधरीनृत्यगीतं पश्यंतं सस्मितं सदा। ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥३६॥ तं ननाम महादेवी ब्रह्मणा नमितश्र सः। ननाम सूर्यो भक्तया च संत्रस्तश्चंद्रशेखरम् ॥३७॥ कच्यपश्च महाभक्तया तुष्टाव च ननाम च । शिवः संस्तूय सर्वेशं समुवास सुखासने॥३८॥ सुखासने सुखासोनं विश्रांतं वंद्रशेखरम्। श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥३९॥ पीयूषतुल्यमधुरं वचनं सुमनोहरम् । विष्णुरुवाच आगतोऽसि कथं चात्र वद कोपस्य कारणम्॥४०॥ महादेव उवाच वृषध्वजं च मद्ङकं मम प्राणाधिकं प्रियम् । सूर्यः शशाप इति मे प्रकोपस्य तु कारणम् ।४१।। पुत्रवत्सलशोकेन सूर्यं हंतुं नमुद्यतः । सब्रह्माणं प्रपत्नश्च सूर्यश्र सविधिस्त्वयि ॥४२॥ त्यषि मे शरणापत्रा व्यानेन वचसाउवि वा। निरापदो विगकास्ते जरा मृत्युश्च तैजितः ॥४३। प्रत्यक्षं शरणापत्रात्तत्कलं कि वदामि भोः । हरिस्मृतिश्चाभयदा सर्वमंगलदा सदा॥४४॥ कि मे भक्तस्य भविता तन्मे वृहि जगत्पभो। श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना॥४५॥ विष्णुरवाच कालोतियातो देवेन युगानामेकरविशतिः। वकुण्ठं घटिकार्धेन शोघ्रं गच्छ त्वमालयम् ॥४६॥
Page 612
११२ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १६ वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात्। रथध्वजश्र तत्पुत्रो मृतः सोऽपि श्रिया हसः ॥४७॥ तत्पुत्री च महाभागो धर्मध्वजकुशध्वजी। हृतश्रियौ सूर्यशापात्स्मृतौ परमर्वष्णबो॥४८।। राज्यभ्रष्टो श्रिया भ्रष्टी कमलातपसा रतो। तयोश्च भार्ययोर्लक्ष्मीः कलया न भविष्यति ॥४९॥ संपद्युक्त्तो तदा तो च नृपश्रेष्ठी भविष्यतः । मृतस्ते सेवकः शंभो गच्छ यूयं च गच्छत ॥५०।। इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यंतरं गतः । देवा जग्मुः संप्रहृष्टः स्वाश्रमं परमा मुदा ॥ शिवश्च तपसे शोघ्रं परिपृर्णतमो ययौ ॥५१॥ इति श्रीदेवीभागदते महापुराणे नवमस्कन्धे नारायणनारदसंबादे श क्तिप्रादुर्भावे पंचदशोऽध्यायः ॥ १५॥ अथ षोडशोऽध्यायः श्रीनारायण उवाच लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने। वरमिष्टं च प्रत्येकं संप्रापतुरभीप्सितम् ॥ १॥ महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः । पुण्यवंतौ पुत्रवंतौ धर्मध्वजकुश्वजौ ॥२॥ कुशध्वजस्य पत्नी च देवी मालावती सती। सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३॥। सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह। कृत्वा वेदध्वनिस्पष्टमुत्तस्थौ सूतिकागृहात् ॥४॥ वेदध्वनि सा चकार जातमात्रेण कन्यका। तस्मात्तां च वेदवतीं प्रवदंति मनीषिणः ॥५॥ जातमात्रेण सुस्नाता जगाम तपसे वनम् । सर्वेनिषिद्धा यत्नेन नारायणपरायणा ॥६॥ एकमन्वंतरं चंव पुष्करे च तपस्विनी । अत्युग्रां च तपस्यां च लीलया हि चकारसा ॥।७॥। तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता । शुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥८॥ जन्मांतरे च ते भर्ता भविष्यति हरिः स्वयम् । ब्रह्मादिभिर्दुराराव्यं पति लप्स्यसि सुंदरि ॥९॥ इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः । अतीव निर्जनस्थाने पर्वते गंधमादने ॥१॥ तत्रव सुचिरं तप्त्वा विश्वस्य समुवास सा। ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥११॥ दूष्टा साडतिथिभक्त्या च पाद्यं तम्म ददौ किल। सुस्त्रादुभूतं च फलं जलं चापि सुशीतलम् ॥१२॥ तच्च भुक्त्वा स पापिष्टश्चोवास तत्समीपतः । चकार प्रश्नमिति ता का त्वं कल्याणिवर्तसे ॥१३॥ तां दृष्टा स वरारोहां पीनश्रोणिपयोघराम। शरत्पद्योत्सवास्यां चसस्मितां सुदतीं सतीम् ॥१४॥ मूर्च्छामवाप कृपणः कामवाणप्रपीडितः । स करेण समाकृष्य शृंगारं कर्तुमुद्यतः ॥१५॥ सती चुकोप दृष्टा तं स्तम्भितं च चकार हु। स जडो हस्तपादैश्ष किंचिद्वक्तुं न च क्षमः ॥१६॥ तृष्टव मनसा देवीं प्रययौ पद्मलोचनाम्। सा तुष्टा तस्य स्तवनं सुकृतं च चकार है॥१७॥ सा शशाप मदर्थे त्वं विनंक्ष्यसि सवांधवः । स्पृष्टाहं च त्वया कामाद्वलं चाप्यवलोकय ।।१८।।
Page 613
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १६ ६१३ शयुवत्या सा च योगेन देहत्यागं चकार ह। गंगायां तां च संन्यस्य स्वगृहं रावणो ययौ ।१९॥ महो किम्द्भुतं दृषं कि कृतं बानयाऽधुना। इति संचित्य संचित्य विललाप पुनः पुनः ॥२०॥ श व कालांतरे साध्बी बभूब जनकात्मजा। सीतादेवीति विख्याता यदर्थे रावणो हतः ॥२१॥ महातबस्थिनी सा च तपसा पूर्वजन्मतः । लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥२२॥ वंप्राप तपसाराष्यं दुराराध्यं जगत्पतिम्। सा रामा सुचिरं रेमे रामेण सह सुन्दरी ।।२३।। बातिस्मरा न स्मरति तपसश्च क्लमं पुरा। सुखेन तज्जहौ सवं दुःखं चापि सुखं फले ॥२४।। मानाप्रकारबिभवं चकार सुचिरं सती। संप्राप्य सुकुमारं तमतीव नवयौवना ॥२५॥ नुणिनं रसिकं शांतं कांतं देवमनुत्तमम् । स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥२६॥। पितुः सत्यपालनाथं सत्यसंधो रघूदहः । जगाम काननं पश्चात्कालेन च बलीयसा २७॥ तस्थो समुद्रनिकटे सीतया लक्ष्मणेन च। ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥२८॥ रामं च दुःखितं दृध् स च दुःखी बभूव ह । उवाच किंचित्सत्येष्टं सत्यं सत्यपरायणः ॥२९। द्विज उवाच भगबञ्धयतां राम कालोडयं यदुपस्थितः । सीताहरणकालोऽयं तवैव समुपस्थितः ॥३०॥ दैवं च दुर्निबायं च न च दैवात्परो बली। जगत्प्रसूं मयि न्यस्य छायां रक्षांतिकेऽधुना।।३१॥ दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः। देवः प्रस्थापितोऽहंच न च विप्रो हताशनः ॥३२॥ रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम्। स्वीकारं वचसश्चक्रे हृदयेन विदूयता॥३३॥ र्वह्निर्योगेन सीताया मायासीतां चकार ह। तत्तुल्यगुणसर्वांगां ददौ रामाय नारद ॥३४॥। सीतां गृहीत्वा स ययौ गोप्यं वक्तु निषिध्य च। लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा॥३५॥ एतस्मिन्नंतरे रामो ददर्श कानकं मृगम्। सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम् ॥३६॥ संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने। स्वयं जगाम तूर्णं तं विव्याध सायकेन च ॥३७॥ लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः। प्राणांस्तत्याज सहमा पुरोदृष्टा हरि स्मरन् ॥३८॥ मृगदेहं परित्यज्य दिव्यरूपं विधाय च। रत्ननिर्मितयानेन वैकुंठं स जगाम ह॥३९॥ वैकुण्ठलोकद्वार्यासीतिकिकरो द्वारपालयोः । पुनर्जगाम तद्द्वारमादेशाद्द्वारपालयोः ॥४०॥ अथ शब्दं चसा श्रुत्वा लक्ष्मणेति च विक्लवम्। तं हि सा प्रेरयामास लक्ष्मणं रामनन्निधौ।४१॥ गते च लक्ष्मणे रामे रावणो दुर्निवारणः । सीतां गृहोत्वा प्रययौ लंकामेव त्वलोलया ॥४२॥ बिषसाद च रामश्च बने दृष्टा च लक्ष्मणम् । तूर्ण चस्वाश्रमं गत्वा सीतां नैव ददर्श मः॥४३! मूच्छां संप्राप सुचिरं बिललाप भृशं पुनः । पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकः .८: कालेन प्राप्य तद्वातां गोदावरीनदीतटे। सहायान्वानरान्कृत्वा बबंध सागरं हरिः॥४५॥
Page 614
श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १७ लंकां गत्वा रघुश्रेष्ठो जघान सायकन च। कालेन प्राप्य तं हत्वा रावणं बांधवैः सह ॥४६। तां च वह्निपरीक्षां च कारयामास सत्वरम्। हुताशस्तत्र काले तु वास्तवीं जानकीं ददो ॥४७॥ उवाच छाया वह्निं च रामं च विनयान्विता। करिप्यामीति किमहं तदुपायं वदस्व मे ॥४८॥ श्रीरामाग्नी ऊचतु: त्वं गच्छ तपसे देवि पुप्करं च सुपुण्यदम्। कृत्वा तपस्यां तत्रव स्वर्गलक्ष्मीर्भविप्यसि ॥४९॥ सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्ष च स्वर्गलक्ष्मीर्बभूय ह॥५०॥ सा च कालेन तपसा यज्ञकुण्डसमुद्दवा। कामिनी पांडवानां च द्रौपद्री द्रुपदात्मजा ।५१॥ कृते युगे वेदवती कुशध्वजसुता शुभा। हृतायां रामपत्नी च सीतेति जनकात्मजा ॥५२॥ तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा। त्रिहायणी च सा प्रोक्ता विद्यमाना युगतये ॥५३॥ नारद उवाच प्रिया: पञ्च कथं तस्या बभूवुमुनिपुङ्गव। इति मच्चित्तसंदेहं भंज संदेहभंजन ॥५४॥ श्रीनारायण उवाच लंकायां वास्तवी सीता रामं संप्राप नारद। रूपयोवनसंपन्ना छाया च बहुचितया ।५५॥ रामाग्न्योराज्ञया ततुमुपास्ते शंकरं परम्। कामातुरा पतिव्यग्रा प्रार्थयंती पुनः पुनः ॥५६॥ पति देहि प्ति देहि प्ति देहि त्रिलोचन । पति देहि पति देहि पञ्चवारं चकार सा ।५७।। शिवस्तत्प्रार्थनां श्रृत्वा प्रहस्य रसिकेश्वरः। प्रिये तव प्रियाः पञ्च भविष्यंति वरं ददौ ॥५८॥ तेन सा पांडवानां न् बभूव कामिनी प्रिया। इति ते कथितं सर्वं प्रस्तावं वास्तवं शरृणु ।।५९।। अथ संप्राप्य लंकायां सीतां रामो मनोहराम् । विभीषणाय ता लंकां दत्त्वाऽयोध्यां ययौ पुनः ॥ एकादशसहस्रान्दं कृत्वा राज्यं च भारते। जगाम सर्वेर्लोकैश्च साधं वैकुण्ठमेव च ।६१॥ कमलांशा वेदवती कमलायां विवेश सा। कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥६२॥ सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च। संति यस्याश्र जिह्वाग्रे सा च वेदवती श्रुता।।६३।। धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥६४॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे षोडशोऽध्यायः ॥ १६ ॥ अथ सप्तदशोऽध्यायः श्रीनारायण उवाच धर्मध्वजस्य पत्नी च माधवीति च विश्रुता। नृपेण सार्ध साउडरामे रेमे च गन्धमादने ॥१॥ शय्यां रतिकरी कृत्वा पुष्पचन्दनचर्चिताम्। चन्दनालिप्सर्वाङ्गी पुष्पचन्दनवायुना ॥२॥। स्त्रीरत्नमतिचार्वड्गी रत्नभूषणभूपिता। कामुकी रसिका सृष्टा रसिकेन च संयुता ॥३।।
Page 615
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १७ ६१५: सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥४॥ ततो राजा मति प्राप्य सुरताद्विरराम च। कामुकी सुंदरी किंचिंन्न च तृर्मि जगाम सा ।। ५॥। दघार गर्भ सा सदो दैवादन्दशतं सनी। श्रीगर्भा श्रीयुता सा च संबभूव दिने दिने ॥६ ॥ शुभे क्षणे शुभदिने शुभयोगे च संयुते। शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते॥७॥ कार्तिकीपूर्णिमायां तु सितवारे च पद्मजा। सुपाव सा च पद्मांशा पद्मिनों तां मनोहराम् ॥ ८॥ शरत्पार्वणचंद्रास्यां शरत्पंकजलोचनाम् । पक्वर्बिबाघरोष्ठी चपश्यंतीं सस्मितां गृहम् ।। ९।। हस्तपादतलारक्तां निम्ननाभि मनोरमाम्। तदधस्त्िबलीयुक्तां नितंबयुगवर्तुलाम् ॥१० ॥ शोते सुखोष्णसर्वांगी ग्रीष्मे च सुखशीतलाम्। श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमंडलाम् ॥११॥ पीतचंपकवर्णाभां सुन्दरीष्वेव सुन्दरीम्। नरा नार्यश्र तां दृष्टा तुलनां दातुमक्षमाः ॥१२॥ तेन नाम्ना च तुलसी तां वदति मनीपिणः । सा च भूयिष्ठमानेन योग्यस्त्री प्रकृतिर्यथा ॥१३॥ सर्वेनिषिद्धा तपसे जगाम वदरीवनम्। तत्र देवाब्दलक्षं च चकार परमं तपः ॥१४॥ मनसा नारायण: स्वामी भवितेति च निश्चिता। ग्रीप्मे पंचतपा शीते तोयवस्त्रा च प्रावृषि ॥१५॥। आसनस्था वृष्टिधाराः सहंतीति दिवानिशम् । विशत्सहस्रवर्षं च फलतोयाशना च सा ॥१६।। त्रिशत्सहस्रवर्षं च पत्राहारा तपस्विनी। चत्वारिंशत्सहस्राब्दं वायत्ाहारा कृशोदरी ।।१७॥ ततो दशसहस्त्रब्दं निराहारा बभूव सा। निर्लक्षा चकपादस्था दृष्टा तां कमलोद्वः ॥१८। समाययौ वरं दातुं परं बदरिकाश्रमम् । चतुमुखं च सा दृष्टा ननाम' हंसवाहनम् ॥१९॥ तामुवाच जगत्कर्ता विधाता जगतामपि। ब्रह्मोवाच वरं वृणीष्व तुलसि यत्ते मनसि वांछिनम् ॥२० हरिभक्ति हरेदास्यिमजरामरतामपि। तुलस्युवाच शृणु तात प्रवक्ष्यामि यन्मे मनसि वांछितम् ॥२१॥ सर्वज्ञस्यापि पुरतः का लज्जा मम सांप्रतम् । अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥२२॥ कृष्णप्रिया किकरी च तदंशा तत्सखी त्रिया। गोविन्दरतिसंभुक्तामतृमां मां च मूर्छिनाम् ॥२३॥ रासेश्वरी समागत्व ददर्श रासमण्डले। गोविंदं भर्त्सयामास मां शशाप रुषान्विता ॥२४॥ याहि त्वं मानवीं योनिमित्येवं च शशाप ह। मामुबाच स गोविदो मदंशं च चतुर्भुजम् ॥२५॥ लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् । इत्येत्रमुकवा देवेशोऽप्यंनधनिं चक्ार सः ॥२६॥ देव्या भिया तनुं त्यकत्वा प्राप्तं जन्म गुरोभुवि। अहं नारायणं कांतं शातं सुन्दरतिग्रहम् ॥२७॥
Page 616
६११ श्रीमद्ेवीभागवते महापुराणे नत्रमस्कन्धे अध्याय: १७ सांप्रतं तं पति लब्धुं बरये त्वं च देहि मे। ब्रहादेव उवाच सुदामा नाम गोपश्च श्रीकृष्णांगसमुद्वः ।।२८।। तदंशश्चातितेजस्वी लेभे जन्म च भारते। सांप्रतं राधिकाशापाद्दनुवंशसमुद्द्रवः ॥२१॥ शंखचडेति विख्यातस्त्रैलोक्ये न च तत्समः । गोलोके त्वां पुरा दृष्टा कामोन्मथितमानसः ॥३०॥ विलंभितुं न शशाक राधिकायाः प्रभावतः । स च जातिस्मरस्तस्मात्सुदामाभूच्च सागरे ॥३१॥ जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि। अधुना तस्य पत्नी त्वं संभविष्यसि शोभने ॥३२॥ पश्चान्नारायणं शांतं कांतमेक वरिष्यसि। शापान्नारायणस्यैब कलया दैवयोगतः।३३॥ भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी। प्रधाना सर्वपुष्पेषु विष्णु प्राणाघिका भवे ॥३४॥ त्वया बिना चसर्वेषां पूजा च बिफला भवेत्। वृन्दावने वृक्षरूपा नाम्ना वृंदावतीति च ।।३५।। त्वत्पत्रैर्गोपिगोपाश्च पूजययष्यंति माधवम्। वृक्षाधिदेवीरूपेण सार्ध कृष्णेन संततम् ॥३६। बिहरिष्यसि गोपेन स्वच्छंदं मद्वरेण च। इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा॥३७॥ प्रणनाम च ब्रह्माणं तं च किचिदुवाच सा। तुलस्युषाच यथा मे द्विभुजे कृष्णे बांछा च श्यामसुन्दरे।।३८।। सत्यं व्रवीमि हे तात न तथा च चतुर्भुजे। अतृप्ताऽहं च गोविंदे दैवाच्छृङ्गारभंगतः ॥३९॥ म्ोबिन्दस्यव वचनात्प्रार्थयामि चतुर्भुअम् । त्वत्प्रसादेन गोविन्दं पुनरेब सुदुर्लभम् ॥४०॥ ध्रुवमेव लभिष्यामि राधाभीति प्रमोचय । प्रसदेव उपाय गृहाण राधिकामंत्रं ददामि षोडशाक्षरम् ।४१।। तस्याश्च प्राणतुल्या त्वं मद्वरेण मविष्यसि। शृंगारं युबयोरगोप्यं न ज्ञास्यति च राधिका।४२।। राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि। इत्येयमुक्त्वादत्त्वा च देव्या वै षोडशाक्षरम्।।४३।। मंत्रं चैंद जगद्धाता स्तोत्रं च कबचं परम्। सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥४४।। परां शुभाशिषं चैव पूजा नैव चकार सा। बभूव सिद्ा सा देवो तत्प्रसादाद्रमा यथा॥४५॥ सिद्धं मंत्रेण तुलसी वरं प्राप यथोदितम्। वुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम्॥४६॥ प्रसन्नमनसा देवी तत्याज तपसः क्लमम् । सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥४७॥ भुक्त्वा पीत्वा च संतुष्टा शयनं च चकारखा। तल्पे मनोरमे तत्र पुष्वचंदनचर्चचिते ॥४८॥ इति श्रीदेवीमागवते नवमस्कन्धे नारावणनारदसंवादे तुलस्युपाख्याने सप्तदशोऽध्बाय: ५१७॥
Page 617
श्रीमदेवीभागव ते महापुराणे नवमस्कन्धे अध्यायः १८ ६१७
अथाह्टादशोऽध्यायः नारायण उवाच तुलसी परितुष्टा च सुष्वाप हृष्टमानसा। नवयौवनसंपन्ना वृषध्वजवरांगना ॥१।। चिक्षेप पंचबाणश्र पञ्च बाणांश्र तां प्रति । पुष्पायुधेन सा दग्धा पुष्पचंदनचर्चिता ॥२॥ पुलकांचितसर्वाङ्गी कंपितारक्तलोचना। क्षणं सा शुष्कतां प्राप क्षणं मूर्छामवाप ह॥३॥ क्षणमुद्विग्नतां प्राप क्षणं तंद्रां सुखावहाम्। क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥४॥ क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम्। उत्तिष्ठंती क्षणं तल्पाद्वच्छंती निकटे क्षणम् ॥५॥ भ्रमंती क्षणमुद्वेमान्निवसंती क्षणं पुनः। क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥६।। पुष्पचंदनतल्पं च तद्बभूवातिकंटकम्। विषहारि सुखं दिव्यं सुंदर च फलं जलम् ।७॥ निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः । सिंदूरपत्रकं चैव व्रणतुल्यं च दुःखदम्॥।८॥ क्षणं ददर्श तंद्रायां सुवेषं पुरुषं सती। सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ।।९॥ चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्। आगच्छंतं माल्यवंतं पिबंतं तन्मुखांबुजम् ॥१० ॥ कथयंतं रतिकथां ब्रुवंतं मधुरं मुहुः । संभुक्तवंतं तल्पे च समाश्लिष्यंतमोप्सितम् ॥११॥ पुनरेब तु गच्छंतमागच्छंतं च सन्निधौ। यांतं क्व यासि प्राणेश तिष्ठेत्येवमुवाच सा ॥१२। पुनश्च चेतनां प्राप्य विललाप पुनः पुनः । एवं सा यौवनं प्राप्य तस्थौ तत्रव नारद ॥१३॥ शंखचूडो महायोगी जैगीषव्यान्मनोहरम्। कृष्णमंत्रं च संप्राप्य कृत्वा सिद्धं तुपुष्करे ॥१४॥ कबचं च गले बद्ध्वा सर्वमंगलमंगलम्। ब्रह्मणश्च वरं प्राप्य दध्रे मनसि वांछितम् ॥१५॥ आज्ञया ब्रह्मणः सोऽपि वदरीं च समाययौ। आगच्छंतं शंखचूडं ददर्श तुलसी मुने ॥१६॥ नवयौवनसंपन्नं कामदेवसमप्रभम् । श्वेतचंपकवर्णाभं रत्नभूषणभूषितम् ॥१७॥ शरत्पार्वण चन्द्रास्यं शरत्पंकजलोचनम् । रत्नसारविनिर्माणविमानस्थं मनोहरम् ।१८।। रत्नकुण्डलयुग्मेन गंडस्थलविराजितम् । पारिजातप्रसूनानां मालावंतं च सुस्मितम् ॥१९। कस्तूरी कुंकुमायुकं सुगंधिचन्दनान्वितम्। सा दृष्टा सन्निधावेनं मुखमाच्छाद्य वाससा ॥२ सस्मिता तं निरीक्षंती सकटाक्षं पुनः पुनः । बभवातिनम्रमुखी नवसंगमलज्जिता ॥२१। शरदिंदुविनिंद्यकस्वमुखेंदुविराजिता । अमूल्य रत्न निर्माणयावकाव लिसंयुता ।२ २ ॥ मणींद्रसारनिर्माणक्वणन्मंजीररंजिता । दधती कबरीभारं मालतीमाल्यसंयुतम् ॥२३॥ अमूल्यरत्न निर्माण मकराकृतिकुंडला । चित्रकुंडलयुग्मेन गंडस्थलविराजिता ।२ ४ ।।
रत्नेंद्र सारहारेण स्तनमध्यस्थलोज्ज्वला। रत्नकंकणकेयूरशंखभूषणभूषिता ।।२५॥ रत्नांगुलीयकैर्दिव्य रंगुल्याव लिराजिता । दृष्टा तां ललितां रम्यां सुशीलां सुंदरी सतीम् २६।।
Page 618
६१८ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: १८ उवास तत्समीपे तु मधुरं तामुवाच सः । शंखचूड़ उवाच का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥२७॥ का त्वं मानिनि कल्याणिसर्वकल्याणदायिनि। मौनीभूते किकरे मां संभाषां कुरु सुन्दरि ॥२८।। इत्येवं वचनं श्रत्वा सकामा वामलोचना। सस्मिता नम्रतदना सकामं तमुवाच सा ।२९॥ तुलस्युवाच धर्मध्नजसुताऽहं च तपस्यायां तपोवने । तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥३०॥ कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् । न पृच्छति कुले जात इत्येवं मे श्रुंतौ श्रुतम् ॥३१॥ लंपटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः । येनाश्रुतः श्रुतेरर्थःस कामीच्छति कामिनीम् ॥३२॥ आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् । विषकुंभाकाररूपाममृतास्यां च सन्ततम् ॥३३॥ हृदये क्षुरधाराभां शश्चन्मधुरभाषिणीम् । स्वकार्यपरिनिष्पत्त्य तत्परां सततं च ताम् ॥३४॥। कार्यार्थे स्वामिवशगामन्यथवावशां सदा। स्वांतर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥३५॥ श्रुतो पुराणे यासां च चरित्रमतिदूषितम्। तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्र दुराशयः ॥३६॥ तासां को वा रिपुर्मित्रं प्रार्थयंति नवं नवम् । दृष्टा सुवेषं पुरुषमिच्छन्ति हृदये सदा॥३७॥ बाह्ये स्वार्थे सतीत्वं च ज्ञापयन्ती प्रयत्नतः । शश्चत्कामा च रामा च कामाधारा मनोहरा ॥३८॥ बाह्ये छलात्खेदयन्ती स्वांलमेथुनमानसा। कांतं हसंती रहसि बाह्येऽतीव सुलज्जिता ॥३९॥ मानिनी मैथुनाभावे कोपना कलहांकुरा।. सुप्रीता भूरिसंभोगात्स्वल्पमैथुनदुःखिता॥४०॥ सुमिष्टान्नाच्छीततोयादाकांक्षन्ती च मानसे। सुन्दरं रसिकं कांतं युवानं गुणिनं सदा॥४१॥ सुतात्परमभिस्नेहं कुर्वन्ती रसिकोपरि। प्राणाधिकं प्रियतमं. संभोगकुशलं प्रियम् ॥४२॥ पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम्। कलहं कुर्वती शश्वत्तेन सार्ध सुकोपना ॥४३॥ वचसा भक्षयंती तं सर्प आखुमिवोल्वणम् । दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा॥४४॥ ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणो। तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥४५॥ हरेर्भक्तिव्यवहिता सर्वमायाकरंडिका। संसारकारागारे च शश्वन्निगडरूपिणी ॥४६।। इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी। बिभ्रती बाह्यसौंदर्यमधोऽङ्गमतिकुत्सितम् ॥४७ नानाविष्मूत्रपूयानामाधारं मलसंयुतम्। दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥४८॥। मायारूपा मायिनां चविधिना निर्मिता पुरा। विषरूपा मुमुक्षणामदृश्याऽप्यभिवांछताम् ।४९।। इत्युक्त्वा तुलसी तं तु विरराम च नारद। सस्मितः शंखचडश्र प्रवक्तमुपचक्रमे ॥५०॥।
Page 619
श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १८ ६१९
शंखचूड उवाच. त्वया यत्कथितं देवि न च सर्वमलीककम्। किंचित्सत्यमलीकं च किंचिन्मत्तो निशामय॥५१॥ निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम्। कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ५२॥ लक्ष्मी सरस्व्वती दुर्गा सावित्री राधिकादिका। सृष्टिसूत्रस्वरूपा च आद्या सृष्टिविनिर्मिता ॥५३॥ एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम्। तत्प्रशस्यं यशोरूपं सर्वमंगलकारकम् ॥५४॥ शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा। छायावती रोहिणी च वरुणानी शची तथा ॥५५॥ कुबेरस्य च पत्नी याऽप्यदितिश्च दितिस्तथा। लोपामुद्राऽनसूया च कोटभी तुलसी तथा॥५६॥ अहल्याऽरुंधती मेना तारा मंदोदरी तथा। दमयंती वेदवती गङ्गा च मनसा तथा ॥५७॥ पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा षष्ठी मंगलचंडी च मूर्तिश्च धर्मकामिनी ॥५८॥ स्वस्तिःश्रद्धाच शांतिश्र कांतिः क्षांतिस्तथापरा। निद्रा तंद्रा क्षुत्पिपासा संध्या रात्रिरदिनानि च ॥। संपत्तिधृतिकीर्ती च क्रिया शोभा प्रभा शिवा। यत्स्रीरूपं च संभूतमुत्तमं तु युगे युगे ॥६०।। कलाकलांशरूपं च स्वर्वेश्यादिकमेव च। तदप्रशस्यं विश्वेषु पुंश्रलीरूपमेव च ।६१॥ सत्त्वप्रधानं यद्रपं यद्यक्तं च प्रभावतः । तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥६२॥ तद्वास्तवं च विज्ञेयं प्रवदंति मनीषिणः । रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥६३।। मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः । सुखसंभोगवश्याश्र स्वकार्ये निरताः सदा ॥६४॥ कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा। रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥६५॥ इदं मध्यमरूपं च प्रवदति मनोषिणः । तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥६६॥ न पृच्छति कुले जातः पंडितश्च परस्त्रियम्। निर्जने निर्जले वाऽपि रहस्यपि परस्त्रियम् ॥६७! आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना। गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥६८।। अहमेव शंखचूडो देवविद्रावकारकः । दनुवंश्यो विशेषेण सुदामाऽहं हरे: पुरा ॥६९॥ अहमष्टसु गोपेपु गोपोऽपि पाषदेषु च । अधुना दानवेंद्रोऽहं राधिकायाश्च शापतः ॥७०।। जातिस्मरोऽहं जानामि कृष्णमंत्रप्रभावतः । जातिस्मरा त्वं तुलसी संभुक्ता हरिणा पुरा ॥७१॥ त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि। त्वां संभोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः७२।। इत्येवमुक्त्वा स पुमान्विरराम महामुने। सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे।७३॥ तुलस्युवाच एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः । कान्तमेवंविधं कांता शश्वदिच्छति कामतः॥७४॥ त्वयाऽहमधुना सत्यं विचारेण पराजिता। स निंदितश्राप्यशुचिर्यः पुमांश्र स्त्रिया जितः॥७५॥ निंदंति पितरो देवा बांधवाः स्त्रीजितं नरम्। स्त्रीजितं मनसा माता पिता भ्राता च निंदति ॥
Page 620
६२० श्रीमरेवीमागवते महापुराणे नवमस्कन्धे अध्बाय: १८ शुद्धो विप्रो दशाहेन जातके मृतके यथा। भूमिषो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥७७॥। शूद्रो मासेन वेदेषु मातृवद्धीनसंकरः । अशुचिः स्त्रोजितः शुद्धयेन्चितादहनकालतः॥।८।। न गृहन्तीच्छया तस्ब पितरः पिण्डतर्पणम्। न गृहन्त्येव देवाश्र तस्य पुष्पजलादिकम् ॥७९॥। कि वा ज्ञानेन तपसा जपहोमप्रपूजनैः । कि विद्यया च यशसा स्रीभिर्यस्य मनो हृतम्८०॥ विद्याप्रभावज्ञानार्थ मया त्वं च परीक्षितः । कृत्वा परीक्षां कान्तस्य वृणोति कामिनी बरम्॥ वराय गुणहीनाय वृद्धायाज्ञानिने तथा । दरिद्वाय च मूर्खाय रोगिणे कुत्सिताय च ॥८२॥ अत्यंतकोपयुक्ताय वाऽत्यंतदुर्मुखाय च। पंगवे चांगहीनाय चांधाव वधिराय च ।।८३।। जडाय चैव मूकाय क्लीबतुल्याय पापिने। ब्रह्महत्यां लभेत्सोपि स्वकन्यां प्रददाति यः॥८४॥। शांताय गुणिने चंव यूने च विद्ुषेऽपि च। साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत्।।८५।। यः कन्यापालनं कृत्वा करोति यदि विक्रयम्। विशेता धनलोभेन कुम्भीपाकं स गच्छति ॥८६॥ कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी। कृमिभिर्दशितः काकैर्याबदिद्राश्चतुर्दश ।८७॥ तदंते व्याधिसंयुक्त: स लभेज्जन्म निश्चितम् । विक्रीणाति मांसभारं बहत्येव दिवानिशम्॥८८॥ इत्येवमुक्त्वा तुलसी विरराम तपोनिधे।
किं करोषि शङ्गचूड संवादमनया सह ।।८९।। गांधर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु। पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं तिवियं सती ।९०॥ विदग्धाया विदग्धेन संगमो गुणवान्भवेत्। निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम् ॥९१॥ योऽविरोधसुखत्यागी स पशुर्नात्र संशयः । कि परीक्षसि त्वं कांतमीदृशं गुणिनं सति ॥९२।। देवानामसुराणां च दानवानां विमर्दकम्। यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राघिका९३।। यथा मयि च सावित्री भवानी च भवे यथा। यथा धरा वराहेच दक्षिणा च यथाऽध्बरे॥९४॥ यथाऽत्रेरनसूया च दमयंती यथा नले। रोहिणी चयथा चंद्रे यथा कामे रतिः सती॥९५॥ यथाऽदितिः कश्यपे च वसिष्ठेऽरुंधती सती। यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ॥९६॥ यथा बृहस्पतो तारा शतरूपा मनौ यथा। यथा चदक्षिणा यज्ञे यथा स्वाहा हुताशने ॥९७॥ यथा शची महेंद्रे च यथा पुष्टिर्गणेश्वरे। देवसेना यथा स्कन्धे धर्मे मूर्तिर्यथा सती ।।९८।। सौभाग्या सुत्रिया त्वं च शंखचडे तथा भव। अनेन सार्धं सुचिरं सुंदरेण च सुंदरि ।।९९।। स्थाने स्थाने विहारं च यथेच्छं कुरु संततम्। पश्चात्प्राप्स्यसि गोलोके श्रीकृष्णं पुनरेव च।। चतुर्भुजं च वैकुंठे शंखचूडे मृते सति ॥१००॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धेऽष्टादशोऽध्बायः ॥१८॥
Page 621
श्रीमदेबी भागवते महापुराणे नवमस्कन्धे अध्याम: १९ ६२१ अथ एकोनविंशोऽध्यायः
विचित्र मिदमारूयानं नारद उवाघ भवता समुदाहृतम्। श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ।१॥ ततः परं तु यज्जातं तत्त्वं बद महामते। श्रीनारायण उवाच इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ।।२।। गान्घर्वेण विवाहेन जगहे तां च दानवः । स्वगें दुंदुभिवाद्यं च पुष्पवृष्टिर्बभूव ह॥३॥ स रेमे रामया साधं वासोगेहे मनोरमे। मूच्छां सा प्राप तुलसी नवसंगमसंगता ॥४। निमग्ना निर्जले साध्बी संभोगसुखसागरे। चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ।।५।। कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम्। अंगप्रत्यंगसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥६।। तत्सवं रसश्ृङ्गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्बजंतुविवर्जिते ।।७।। पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥८। गृहीत्वा रसिको रासे पुष्पचन्दनचचिताम्। भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥९॥ सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती ॥१०॥ चेतनां रसिकायाश्च जहार रसभाववित्। वक्षसश्चंदनं राज्ञस्तिलकं विजहार सा।११॥ जहार सव तस्याश्र सिंदूरं बिंदुपत्रकम् । स तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥१२॥ सा ददो तद्ामपार्के करभूषणलक्षणम्। राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥१३॥ तद्गंडयुगले सा च प्रददौ तच्चतुर्गुणम्। आलिंगनं चुम्बनं च जंधादिमर्दनं तथा ॥१४॥ एवं परस्परं क्रीडां चक्रतुस्तो विजानतौ। सुरते विरते तो च समुत्थाय परस्परम् ॥१५॥ सुबेषं चक्रतुस्तत्र यद्यन्मनसि वांछितम् । चंदनैः कुंकुमारक्तः सा तस्य तिलकं ददो ॥१६॥ सर्वांगे सुन्दरे रम्ये चकार चानुलेपनम्। सुवासं चंव तांबूलं वह्निशुद्धे च वाससी ॥१७॥ पारिजातस्य कुसुमं जरारोगहरं परम्। अमूल्यरत्ननिर्माणमंगुलीयकमुत्तमम् सुंदरं च मणिवरं त्रिषु लोकेषु दुर्लभम्। दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥१९॥ ननाम परया भक्त्या स्वामिनं गुणशालिनम् । सस्मिता तन्मुखांभोजं लोचनाम्यां पुन.पुनः ॥२०।। निमेषरहिताभ्यां चाप्यपश्यत्कामसुंदरम् । स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ सस्मितं वाससाच्छन्नं ददर्श मुखपंकजम्। चुचुम्ब कठिने गंडे विंबोष्टौ पुनरेव च ।२२।। ददौ तस्य वस्त्रयुग्मं बरुणादाहृतं च यत्। तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥३॥ ददो मंजीरयुग्मं ब स्वाहाया आहृतं च यत्। केयूरयुग्मं छायाया रोहिण्याश्रैव कुण्डलम् ॥२४॥
Page 622
६२२ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १९
अंगुलीयकरत्नानि रत्याश्र करभूषणम्। शङ्धं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥२५॥ विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् । भूषणानि च दत्त्वा चभूपो हास चकार है॥२६॥ निर्ममे कबरीभारे तस्या मांगल्यभूषणम्। सुचित्रं पत्रकं गंडमंडलेऽस्याः समं तथा ॥२७॥ चंद्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना। परीतं परितश्चित्रैः साधं कुंकुमबिंदुभिः ॥२८। ज्वलत्प्रदीपाकारं च सिंदूरतिलकं ददौ। तत्पादपद्मयुगले स्थलपद्मविनिंदिते ॥२९।। चित्रालक्तकरागं च नखरेषु ददी मुदा। स्ववक्षसि मुहुर्न्यस्य सरागं चरगांबुजम्॥३०॥ हे देवि तव दासोजहमित्युच्चार्य पुनः पुनः । रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥३१॥। तपोवनं परित्यज्य राजा स्थानांतरं ययौ। मलये देवनिलये शैले शैले तपोवने ।३२।। स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने। कन्दरे कन्दरे सिंधुतीरे चैवातिसुन्दरे॥३३॥ पुष्पभद्रानदीतोरे नीरवातमनोहरे। पुलिने पुलिने निन्ये नद्यां नदां नदे नदे ॥३४॥ मधो मधुकराणां च मधुरव्वनिनादिते। विस्पंदने सुरसने नन्दने गन्धमादने ।।३५।। देवोद्याने नन्दने चित्रचंदनकानने । चंपकानां केतकीनां माधवीनां वने वने ॥३६।। कुंदानां मालतीनां च कुमुदांभोजकानने। कल्पवृक्षे कल्पवृक्षे पारिजातवने वने।३७॥। निर्जने कांचने स्थाने धन्ये कांचनपर्वते। कांचीवने किजलके कंचुके कांचनाकरे॥३८॥ पुष्पचन्दनतल्पेपु पुंस्कोकिलरुतश्रुते। पुष्पचन्दनसंयुक्त: पुष्पचन्दनवायुना ॥३ ९।। कामुक्या कामुकः कामात्स रेमे रामया सह। न हि तृप्तो दानवेंद्रस्तृपितिं नैव जगाम सा ॥४०॥ हविषा कृष्णवर्त्मेव वतृधे मदनस्तयोः । तया सह समागत्य स्वाश्रमं दानवस्ततः ॥४१॥ रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः । एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥४२॥ एकमत्वन्तरं पूर्ण राजराजेश्वरो महान्। देवानामसुराणां च दानवानां चसंततम्॥४३॥ गधर्वाणां किन्नराणां राक्षसानां च शांतिदः । हृताधिकारा देवाश्चरंति भिक्षुका यथा ॥४४॥ ते सर्वेऽतिविपण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम्। वृत्तांतं कथयामासू रुरुदुश्च भृगं मृहः ॥४५॥ तदा व्रह्मा सुरैः सार्ध जगाम शंकरालयम्। सवेशं कथयामास विधाता चंद्रघेखरम् ॥४६॥ ब्रह्मा शिवश्च तैः सार्ध वैकुंठं च जगाम ह। हुर्लभं परमं धाम नरामृत्युहरं परम् ४७॥ संप्राप च वरं द्वारमाश्रमाणां हरेरहो। ददर्श व्वारपालांश्र रत्तसिहासनस्यितान् ।४८।। शोभितान्पीतवस्त्रैश्र रत्नभूषगभूपितान् । सस्मितान्त्मेरवक्वास्या-पद्यने ॥नमनोहरान् ४१।। शंखच क्रगदापद्मधरांश्रैव ब्रह्मा तान्कथयामास वृत्तांतं गमनार्थकम्। तेऽनुज्ञां च ददुस्तस्म प्रतिवेश तदाज्ञया ॥५१॥ एवं षोडश द्वाराणि निरीक्ष्य कमलोद्वः। दैवैः सार्ध तानतीत्य प्रविवेश हरे: सभाम् ॥५२॥
Page 623
श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्याय: १९ ६२१ देव्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः। नारायणस्वरूपश्च सर्वेः कौस्तुभभूषितैः ॥५३॥ नवेंदुमंडलाकारां चतुरस्त्रां मनोहराम् । मणोंद्रहारनिर्माणां हीरासारसुशोभिताम् ॥५४॥ अमूल्यरत्नखचितां रचितां स्वेच्छया हरे:। माणिक्यमालजालाभां मुक्तापंक्तिविभूषिताम् ५५॥ मंडितां मंडलाकारै रत्नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥५६॥ पद्मरागेंद्ररचितां रुचिरां मणिपंकजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥५७॥ पट्टसूत्र ग्रन्थियु क्तेश्रारुचन्दनपल्लवः । इन्द्रनीलस्तंभवर्यर्वेष्टितां सुमनोहराम् ।।५८।। तद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैविराजिताम् ।।५९।। कस्तू रीकुंकु मारक्तैः सुगंधिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गंधवायुना ॥६०॥ विद्याधरीसमूहानां नृत्यजालविराजिताम् । सहस्रयोजनायामां परिपूर्णां च किकरैः ॥६१॥ ददर्श श्रीहरिं ब्रह्मा शंकरश्र सुरैः सह। वसंतं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥३२॥ अमूल्य रत्ननिर्माणचित्रसिंहासने स्थितम्। किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥६३।। चन्दनोक्षितसर्वांगं बिभ्रतं केलिपंकजम्। पुरतो नृत्यगीतं च पश्यंतं सस्मितं मुदा ॥६४॥ शांतं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम्। लक्ष्म्या प्रदत्तं तांबूलं भुक्तवंतं सुवासितम् ॥६५॥। गंगया परया भक्त्या सेवितं शवेतचामरैः । सर्वेश्च स्तूयमानं च भक्तिनम्रात्मकंधरैः ॥६६॥ एवंविशिष्टं तं दृष्टा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुबुस्तदा ॥६७॥ पुलकाञ्चितसवांगाः साश्रुनेत्राश्च गद्गदाः। भक्ताश्र परया भकत्या भीता नम्रात्मकंधराः।।६८।। कृतांजलिपुटो भूत्वा विधाता जगतामपि। वृत्तांतं कथयामास विनयेन हरे: पुरः ॥६९॥ हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभावत्रित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥७०॥ श्रीभगवानुवाच शंखचूडस्य वृत्तांतं सर्वं जानामि पद्मज । मङ्गक्तस्य च गोपस्य महातेजस्विनः पुरा ॥७१॥ शृणु तत्सववृत्तांतमितिहासं पुरातनम् । गोलोकस्यंव चरितं पापघ्नं पुण्यकारकम् ॥७२॥ सुदामा नाम गोपश्च पार्षदप्रवरो मम। सप्राप दानवीं योनिं राधाशापात्सुदारुणान् ।।'७३॥ तत्रकदाऽहमगमं स्वालयाद्रासमंडलम्। विरजामपि नीत्वा च मम प्राणाधिका परा ।७४।। सा मां विरजया साधं विज्ञाय किकरीमुखात्। पश्चात्क्रुद्ा सा जगाम न ददर्श चतत्र ताम् ॥७५॥ विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्टा स्वालयं सखिभिः सह॥७६॥ सां दृष्टा मन्दिरे देवी सुदाम्ना सहित पुरा। भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥७७/ तच्छ्रत्वाइसहमानश्र सुदामा तां चुकोप ह। स चतां भर्त्सयामास कोपेन मम सन्निधौ॥७८॥ तच्छ्रत्वा कोपयुक्ता सा रक्तपङ्कजलोचना। वहिष्क्तुं चकाराज्ञां संत्रस्तं मम संसदि ॥७९॥
Page 624
६२४ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः २० सलीलक्षं समुत्तस्थो दुर्बारं तेजसोल्बणम्। बहिश्चकार तं तूणं जल्पन्तं च पुनः पुनः॥८०॥ सा च तताडनं तासां श्रुत्वा रुष्टा शशाप ह। याहि रे दानवीं योनिमित्येवं दारुणं बचः ॥८१।। तं गच्छंतं शपंतं च रुदन्तं मां प्रणम्य च। वारयामास तुष्टा सा रुदती कृपया पुनः ।८२।। हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।समुच्चार्य च तत्पश्चाज्जगाम सा न बिक्लबम्।।८३। गोप्यश्र रुरुदुः सर्वा गोषाश्रापि सुदुःखिताः । ते सर्वे राधिका भापि तत्पश्चाद्वोघिता नया ॥८४।। आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्बा सा च निवारिता।।८५।। गोलोकस्य क्षणार्धेन चैकं मन्वंतरं भवेत् । पृथिव्यां जगता धातरित्येव वचनं ध्रुवम्॥८६॥ इत्येवं शंसचूडश्र पुनस्तत्रंव यास्यति। महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥८७॥ मम शूलं गृहीत्ा च शोघ्रं गच्छतु भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः ॥८८। ममव कबचं कंठे सर्वभंगलकारकम्। विभत्ति दानवः शश्चत्संसारे विजयी ततः ।।८९॥ तस्मिन्ब्रह्मन्स्थिते चंब न.कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥९०॥ सतोत्वहानिस्तत्पत्न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥९१॥ तत्पत्याश्रोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥९२॥ पश्चात्सा देहमुत्सृज्य भविष्यति मम प्रिया। इत्युक्त्वा जगता नाथो ददौ शूलं हराय च ।।९३।। शूलं दत्त्वा ययो शीघ्रं हरिरभ्यन्तर मुदा। भारतं च ययुर्देवा ब्रह्मरुद्रपरोगमाः ॥९४॥ इृति श्रीदेवीभागवते महापुराणे नवमस्कन्धे एकोनविंशोऽध्यायः ॥१९॥ अथ विंशोऽध्यायः श्रीनारायण उवाच ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च। जगाम स्वालयं तूर्ण यथास्थानं सुरोत्तमाः ॥१॥ चन्द्रभागानदीतीरे वटमूले मनोहरे। तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥२॥ दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम्। शीघ्रं प्रस्थापयामास शंखचूडान्तिकं मुदा ॥३॥ सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम्। महेंद्रनगरोत्कृष्टं पञ्चयोजनविस्तीर्णे दैध्यें तद्द्विगुणं भवेत्। स्फटिकाकारमणिभिनिर्मितं यानवेष्टितम् ॥५॥। सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम्। ज्वलदग्निनिभः शश्वत्कल्पितं रत्नकोटिभिः ॥६॥ युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः । परितो वणिजां सौधैर्नानावस्तुविराजितैः !७॥। सिंदूराकारमणिभिनिर्मितैश्र विचित्रितैः। भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः॥८।। गत्वा ददर्श तन्मध्ये शंखचूडालयं परम्। अतीव बलयाकारं था पूर्णेन्दुमण्डलम् ॥९॥ ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः । तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥१०॥
Page 625
४० श्रीमद्ेवीमागवते महापुराणे नवमरखतरे अध्याय: २० ३२५
अत्युच्चैर्गग नस्परशिमणिभृङ्गबिराजितम् । राजितं द्वादशद्वारं्द्वारपालसपन्वितम् ॥११॥ मणीन्द्रसारनिर्माणः शोभितं लक्षमन्दिरैः । शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥१२॥ तद्दृष्टा पुष्पदंतोऽपि वरं द्वारं ददर्श सः। द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥१३।। तिष्ठन्तं पिंगलाक्षं च ताम्रवण भयंकरम्। कजयामास वृत्तान्तं जगाम तदनुज्ञया ॥१४॥ अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुन। न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥१५॥ गत्वा सोजम्यंतरद्वारं द्वारपालमुवाच ह। रणस्य सर्ववृत्तांतं विज्ञापयत माचिरम् ॥१६॥ स च तं कथयित्वा च दूतो गंतुमुवाच ह। स गत्वा शंखचूडं तं ददर्श सुमनोहरम् ॥१७॥ राजमण्डलमध्यस्धं स्वर्णसिंहासने स्थितम्। मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥१८॥ रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा। भृर्येन मस्तकन्यस्तं स्वर्णच्छ्त्रं मनोहरम् ॥१९। सेवितं पार्षदगण रुचिरैः श्वेतचामरैः । सुबेषं तुन्दरं रम्यं रत्नभूषणभूषितम् ॥२०॥ माल्येन लेपनं सूश्मं सुबस्त्रं दधतं मुने। दानषेंद्र: परिवृतं सुषेषश्र त्रिकोटिभिः ॥२१॥ शतकोटिमिरन्बंश्र भ्रमद्धिरस्त्पाणिभिः । एबंभूतं च तं दृष्टा पुष्पदन्तः सविस्मयः ॥२२॥ उवाब स व वृत्तांतं बदुक्तं शंकरेण च। पुष्पद्न्त उबा राजेन्द्र शिवभृत्योऽहं पुष्वदन्ताभिष: प्रभो ॥२३॥ तदुक्तं शंकरेणब तद्ब्रवीमि निशामय। राज्यं देहि च देवानामधिकारं च सांप्रतम् ।२४॥ देवाश्र शरणापन्ना देवेशं श्रोहरिं परम्। हरिर्दत्त्वाऽस्य शूलं च तेन प्रस्थापितः शिवः॥२५॥ पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः । बिषयं देहि तेषां चयुद्धं वा कुरु निश्रितम् ॥२६। गत्बा वक्ष्यामि कि शंभुमथ तद्वद मामपि। दूतस्य वचनं श्रुत्वा शंखचूडः प्रहस्प थ ॥२७॥ प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवान्त ह। स गत्वोवाच तं तूर्णं वटमूलस्थमीशरम् ॥२८॥ शंखचूडस्य वचनं तदीयं तन्मुखोदितम्। एतस्मिन्नंतरे स्कंद आजगाम शिर्बातिकम् ॥२९॥ वीरभद्रश्च नंदी च महाकालः सुभद्रकः । विशालाक्ष्र ब्राह्मश्च पिंगलाक्षो विकंपनः ॥३०॥ विरूपो विकृतिश्चंव मणिभद्रश्च बाप्कलः । कपिलाखयो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ।३१॥ कालकंठो बलोभद्रः कालजिह्धः कुटीचरः। बलोन्मत्तो रणशलाघो दुर्जयो दुर्गमस्तथा॥३२॥ अष्टो च भैदवा रौद्रा रुद्राश्रैकादश स्मृताः। वसवोऽषौ वासवश्चआदित्या द्वादशा स्मृताः॥३३॥। हुताशनश्च चन्द्रश्च विश्वकर्माश्विनी च तो। कुबेरश्र यमश्चव जयन्तो नलकूबरः॥३४॥ वायुश्च वरुणश्चव नुधश्च मंगलस्तथा। धर्मश्र शनिरीशानः कामदेवश्च वीर्यवान् ।।३५॥ उग्रदंष्ट्रा चोग्रचंडा कोटरा कैटभी तथा। स्वयं चाष्टभुजा देवी भद्रकाली भयंकरी ।३६॥।
Page 626
६२१ श्रीमदेवीभागवते महापुराणे नवमस्कं्धे अध्याय: २० रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता। रक्तवस्त्रपरीधाना रक्तमात्यानुलेपना ॥३७।। नृत्यन्ती च हसंती च गायन्ती सुस्वरं मुदा। अभयं ददाति भक्तेभ्योऽभयां सा च भयं रिपुम्॥ ३८।। विभ्रती विकटां जिह्वां सुलोलां योजनायताम्। शंखचक्रगदापद्मखङ्ग चर्मधनुःशरान् ।।३९। खर्परं वर्तुलाकारं गंभीरं योजनायतम्। त्रिशूलं गगनस्पशि शक्तिच योजनायताम् ॥४०॥ मुद्ररं मुसलं वज्रं खेटं फलकमुज्ज्वलम्। वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ।।४१।। नारायणास्त्रं गान्धवं ब्रह्मास्त्रं गारुडं तथा। पर्जन्यास्त्रं पाशुपतं जुम्भणास्त्रं च पार्वतम् ।।४२।। माहेश्वरास्त्रं वायव्यं दंडं संमोहनं तथा। अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥४३॥ आगत्य तत्र तस्थी च योगिनीनां त्रिकोटिभिः । साधं च डाकिनीनां च विकटानां त्रिकोटिभिः।।४४।। भूतप्रेतपिशाचाश्र कूष्मांडा ब्रह्मराक्षसाः । वेताला राक्षसाश्चव यक्षाश्रव तु किन्नराः॥४५॥ ताभिश्रैव सह स्कंदः प्रणम्य चन्द्रशेखरम्। पितुः पार्श्रे सहायाथं समुवास तदाज्ञया ॥४६॥ अथ दूते गते तत्र शंखचूडः प्रतापवान् । उवाच तुलसी वार्ता गत्वाऽभ्यंतरमेव च ।।४७॥ रणवार्ता च सा श्रुत्वा शुष्ककंठोष्ठतालुका। उवाच मधुरं साध्वी हृदयेन विदूयता ।।४८।।
हे प्राणबंधा हे नाथ तिष्ठ मे वक्षसि क्षणम्। हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ।।४९।। तुलस्युवाच
भुक्ष्व जन्म समासाद्य यन्मे मनसि वांछितिम्। पश्यामि त्वांक्षणं किचिल्लोचनाभ्यां च सादरम् ।। आन्दोलयंते प्राणा मे मनो दग्धं च संततम् । दुःस्वप्नश्च मया दृष्टश्चाद्व चरमे निशि ॥५१॥ तृलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नुपेश्वरः। उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥५२॥
कालेन नोजितं सर्वं कर्म भोगनिबन्धनम्। शुभं हर्षः सुखं दुःखं भयं शोकश्र मगलम् ॥५३॥ शङ्गचूड उवाच
कांले भवंति वृक्षाश्च स्कंधवंतश्च कालतः । क्रमेण पुष्पवंतश्च फलवंतश्च कालतः ॥५४॥ तेषां फलानि पक्वानि प्रभवंत्येव कालतः । ते सर्वे फलिताः काले पातं यांति च कालतः ॥५५॥ काले भ्वति विश्वानि काले नश्यंति सुन्दरि। कालात्स्रष्टा च सृजति पाता पातिच कालतः॥५६॥ संहर्ता संहरेत्काले क्रमेण संचरंति ते। ब्रह्मविष्णुशिवादनामीश्वरः प्रकृतिः परा ॥५७॥ स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः । काले स एव प्रकृति स्वाभिन्नां स्वेच्छया प्रभुः॥५८॥ निर्माय कृतवान्सर्वान्विश्वस्थांश्र चराचरान्। सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः॥५९॥ जनं जनेन जनिता जनं पाति जनेन यः । जनं जनेन हरते तं देवं भज सांप्रतम् ॥६०॥ यस्याज्ञया वाति वातः शीघगापी च सांप्रतम् । यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥६१॥ यथाक्षणं वर्षतोंद्रो मृत्युश्चरति जतुषु। यथाक्षणं दहर्त्याग्नश्चन्द्रो भ्रमति शोतवान् ॥२२॥
K
Page 627
भ्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: २१ १२७ मृत्योमृ त्युं कालकाल यमम्य च यमं परम्। विभु स्रष्टुश्व स्रष्टारं मातुश्र मातृकं भवे ।।६३।। संहर्तारं च संहर्तुस्तं देवं शरण व्रज । को वा बंधुश्च केषां वा सर्वबंधुं भज प्रिये ॥६४॥ अहं को वाच त्वं का वा विघिना योजितः पुरा। त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥६५॥ अज्ञानी कातरः शोके विपत्तो न च पंडितः । सुखे दुःखे भ्रमंत्येव कालनेमिक्रमेण च ॥६६। नारायण तं सर्वेशं कांतं यास्यसि निश्चितम् । तपः कृतं यदथ च पुरा बदरिकाश्रमे ॥६७॥। मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च। हर्यये यत्तत्र तपो हरि प्राप्त्यसि कामिनि ॥६८।। वृंदावने च गोविन्दं गोलोके त्वं लभिष्यसि। अहं यास्यामि तल्लोकं तनुं त्यकत्वा च दानवीम् ॥ तत्र द्रक्ष्यसि मांन्वं च द्रक्ष्यामि त्वां च सांप्रतम् । अगमं राधिकाशापाद्गारतं च सुदुर्लभम् ॥७ ॥ पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये। त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥७१॥ तत्कालं प्राप्स्यसि हरि मां काते कातरा भव । इत्युक्त्वा च दिनांते च तया साधं मनोहरम् ७२॥ सुष्वाप शोभने तल्पे पुष्पचंदनचर्चिते। नानाप्रकारविभवं चकार रत्नमंदिरे।७३।। रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम्। निनाय रजनीं राजा क्रीडाकौतुकमंगल:॥७४॥ कृत्वा वक्षसि तां कांतां रुदतीमतिदुःखिताम। कृशोदरीं निराहारां निमग्नां शोकसागरे।७५॥। पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् । पुरा कृष्णेन यहत्तं भाडोरे तत्त्वमुत्तमम् ॥७६॥ स च तस्यै ददौ सवं सर्वशोकहरं परम्। ज्ञानं संप्रा्य सा देवी प्रसन्नवदनेक्षणा॥७७॥। क्रीडां चकार हर्षेण सवं मत्वेति नश्वरम् । तो दंपती च क्रोडंतौ निमग्नौ सुखसागरे॥७८॥ पुलकांचितसर्वांगौ मू्छितो निजने मुने । अंगप्रत्यंगसंयुक्तो सुप्रीतौ सुरतोत्सुकौ।७९॥ एकांगौ च तथा तौ द्रो चार्धनारीश्वरो यथा। प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥८०॥ प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् । तो स्थितौ मृवसुपौ च तंद्रितौ सुन्दरौ समौ ८१॥ सुवेषौ सुखसंभोगादचेष्टौ सुमनोहरौ। क्षणं सुचेतनो तो च कथयंतो रसाश्रयात् ॥८२॥ कथां मनोरमां दिव्यां हसंतौ च क्षणं पुनः। क्षणं च केलिसंयुक्तो रसभावसमन्वितौ ॥८३॥ सुरते विरतिर्नास्ति तौ तद्विषयपंडिती। सततं जययुक्ती द्वो क्षणं नैव पराजितौ ।।८४॥ इति श्रीदेवीभागवते नवमस्कन्धे नारदनारायणसंवादे शक्तिप्रादुर्भावे विशोऽध्यायः॥२०॥ अथ एकविंशोऽध्यायः श्रीनारायण उवाच श्रोकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः । ब्राह्मे मुहूर्त उत्थाय पुष्पतल्पान्मनोहरात् ।१। रात्रिवासः परित्यज्य स्नात्वा मंगलवारिणा। धौते च वाससी धृत्वा कृत्व्ा तिलकमुज्ज्वलम्॥२॥ चकाराह्निकमावश्यमभीष्टदेववंदनम् । दध्याज्यमधुलाजांश्र ददर्श वस्तु मंगरम् ॥३॥
Page 628
१२८ श्रीमदेवी भागवते महापुराणे नवमस्कन्ध अध्याय: २१ रत्नश्रेष्ठं मणिश्रेषठं वस्त्रश्रेष्टं च काञ्जनम्। ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद।४।। अमूल्यरत्नं यत्किचिन्मुक्तामाणिक्यहीरकम्। ददौ विप्राय गुरवे यात्रामङ्गलहेतवे।।५।। गजरत्नमश्वरत्नं धनरत्नं मनोहरम् । ददौ सर्वं दरिद्राय विप्राय मंगलाय च ॥६॥ भांडाराणां सहस्राणि नगराणां द्विलक्षकम् । ग्रामाणां शतकोर्टि च व्राह्मणाय ददौ मुदा ॥७॥ पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च। पुत्रे समर्प्य भार्यां ता राज्यं च सर्वसंपदम् ।।८।। प्रजानुचरसंघं च भांडार वाहनादिकम्। स्वयं सन्नाहयुक्तश् धनुष्पाणिर्बभूव ह।९॥ भृत्यद्वारा क्रमेणैव चका- सैन्यसञ्चयम्। अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥१०॥ रथानामयुतेनैव धानुष्काणं त्रिकोटिभिः । त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः । कृता सेना परिमिता दानवेन्द्रेण नारद। तस्यां सेनापतिश्चक युद्धशास्त्रविशारदः ॥१२।। महारथः स विज्ञेयो रथिनां प्रवरो रणे।त्रिलक्षाऽक्षौहिणी सेना पति कृत्वा नराधिपः॥१३॥ त्रिशदक्षौहिणीबाधं भांडौघं च चकार है। बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन् ॥१४॥ रत्नेन्द्रसारनिर्माणविमानमारुरोह सः। गुरुवर्गान्पुरस्वृत्य प्रययौ शंकरांतिकम् ॥१५॥ पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद॥१६॥ कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥१७॥ श्रीशंलोत्तरभागे च गन्धमादनदक्षिणे। पञ्चयोजनविस्तीर्णा दैध्ये शतगुणा तथा ॥१८॥ शुद्धस्फटिकसंकाशा भारते च सुपुण्यदा। शाश्चती जलपूर्णा च पुष्पभद्रा नदी शुभा ।१९।। लवणाब्घिप्रिया भार्या शश्वत्सौभाग्यसंयुता । शरावतीमिश्रिता च निर्गता सा हिमालयात् २०।। गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ। तत्र गत्वा शङ्गचूडो ददर्श चंद्रशेखरम् ॥२१॥ बटमूले समासीनं सूर्यकोटिसमप्रभम्। कृत्वा योगासनं दृष्टा मुद्रायुक्तंच सस्मितम् ॥२२॥ सुद्धस्फटिकसंकाशं ज्वलंतं ब्रह्मतेजसा। त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥२३॥ भक्तमृत्युहरं शान्तं गोरोकांतं मनोहरम्। तपसां फलदातारं दातारं सर्वसंपदाम् ॥२४॥ आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम्। विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥२५॥ विश्वम्भरं विश्ववरं विश्वसंहारकारकम्। कारणं कारणानां च नरकार्णवतारणम् ॥२६॥ ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् । अवरुह्य विमानाच्च तं दृष्टा दानवेश्वरः ॥२७॥ सर्वेः साधं भक्तियुक्त: शिरसा प्रणनाम सः।वामतो भद्रकालीं चस्कंदं चतत्पुरः स्थितम्।।२८।। आशिषं च ददो तस्म काली स्कंदश्च शंकरः । उत्तस्थुरागतं दृष्टा सर्वे नंदाश्वरादयः ।२९॥ परस्परं च भाषन्ते चक्रुस्तत्र च सांप्रतम् । राजा कृत्वा च संभाषामुवास शिवसंनिधी॥३०॥ प्रसन्नात्मा महादेवो भगवास्तमवाच है।
Page 629
श्रीमदेवीभाणवते महापुराणे नवमस्कन्धे अध्याय: २१ ६२९
महादेव उबाच विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥३१॥ मरीचिस्तस्य पुत्रश्च वैष्णवश्चापि धार्मिकः । कश्यपश्चापि तत्पुत्रो धर्मिष्टश्र प्रजापतिः ॥३२॥ दक्ष: प्रीत्या ददौ तस्म भक्त्तया कन्यास्त्रयोदश। तास्वेका च दनुः साध्वी तत्सौभाग्यविर्व्धिता।।३३।। पत्वारिंशहनो: पुत्रा दानवास्तेजसोल्बणाः । तेष्वेको विप्रचित्तिश्च महावलपराक्रमः ॥३४॥ तत्पुत्रो धार्मिको दंभो विष्णुभक्तो जितेन्द्रियः । जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥३५॥ शुक्राचार्य गुरुं कृत्वा कृष्णस्य परमात्मनः । तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥३६॥ पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्निकः । अधुना राधिकाशापाद्ारते दानबेश्वरः॥३७॥ आब्रह्मस्तंबपर्यन्तं तुच्छं मेने च वैष्णवः । सालोक्यसाष्टिसायुज्यसामोप्यं च हरेरपि॥३८॥ दीयमानं न गृहन्ति वैष्णवाः सेवनं बिना। ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥३९॥ इन्द्रत्वं वामनत्वं वा न मेने गणनासु च । कृष्णभक्तस्य ते कि वा देवानां विषये भ्रमः ॥४०॥ देहि राज्यं च देवानां मत्प्रीति रक्ष भूमिप। सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठंतु वै पदे ।४१।। अलं भूतविरोधेन सरवें कश्यपवशजाः । यानि कानि च पापानि व्रह्महत्यादिकानि च ॥४२॥। ज्ञातिद्रोहस्य पापानि कलां नार्हन्त षोडशीम्। स्वसंपदां च हानि च यदि राजेंद्र मन्यसे ।४३॥ सर्वावस्था च समतां केषां याति च सर्बदा। ब्रह्मणश्च तिरोभावो ये प्राकृतिके सदा ॥४४।। भविर्भावः पुनस्तस्य प्रभवादोश्वरेच्छया। ज्ञानवृद्धिश्र तपसा स्मृतिलोपश्च निश्चितम् ॥४५॥ करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च! परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥४६॥ त्रिभाग: सोऽपि त्रेतायां द्विभागो द्रापरे स्मृतः । एकभागः कलौ पूर्व तदंशश्र क्रमेण च ।४७।। कलामात्रं कले: शेषे कुह्वां चन्द्रकला यथा। यादृक्त्ेजो रवेर्श्रीष्मे न तादृक्शशिरे पुनः ॥४८।। दिनेषु याद्ङ्मध्याह्ने सायं प्रातर्न तत्समम् । उदयं याति कालेन ालतां च क्रमेण च ।।४९।। प्रकांडतां च तत्पदश्चात्कालेऽस्तं पुनरेति सः । दिने प्रच्छन्नता याति कालेन दुर्दिने घने ॥५०॥ राहुग्रस्ते कंपितश्र पुनरेव प्रसन्नताम्। परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥५१॥ तादृशो न भवेन्नित्यं क्षयं याति दिने दिने। पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ।५२॥ संपद्युक्त: शुकलपक्षे कृष्णे म्लानश्र यक्ष्मणा। राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥५३॥ काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः । भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीःसुतलेऽधुना ॥५४॥ कालेन पृथ्वी सस्याढया सर्वाधारा वसुन्धरा। काले जले निमग्ना सा तिरोभूतांबुविप्लुता।।५५॥ काले नश्यंति विश्वानि प्रभवंत्येव कालतः । चराचराश्र कालेन नश्यंति प्रभवंति च ॥५६। ईश्वरस्यंव समता ब्रह्मणः परमात्मनः। अहं मृत्युंजयो यस्मादसंख्यं प्राकृतं लयम् ॥५७॥
Page 630
६१० श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः २१ अदशं चापि द्रक्ष्यामि वारं वारं पुनः पुनः । स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥५८॥ स चात्मा स च जीवश्च नानारूपधरः परः। करोति सततं यो हि तन्नामगुणकीर्तनम् ॥५९॥ काले मृत्युं स जयत जन्मरोगभयं जराम् । स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत्॥६०॥ अहंकृतश्र संहर्ता वयं विषयिणः कृताः । कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥६१॥ अहं करोमि सततं तन्नामगुणकीर्तनम्। तेन मृत्युंजयोऽहं च ज्ञानेनानेन निर्भय: ॥६२॥ मृत्युमृ त्युभयाद्याति वैनतेयादिवोरगाः । इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥६३॥ विरराम च शंभुश्च सभामध्ये च नारद। राजा तद्ववचनं श्रुत्वा प्रशशंस पुनः पुनः ॥६४॥ उवाच मधुरं देवं परं विनयपूर्वकम्। शंखचूड उवाच त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥६५॥ तथापि किञ्ञिद्याथाथ्यं श्रयतां मन्निवेदनम्। ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥६६।। गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः। मया समुद्धृतं सर्वमूर्ध्वमैश्चर्यमीश्वर ॥६७॥ सुतलाच्च समुद्तुं नालं तत्र गदाधरः। सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥६८॥ शुम्भादयश्चासुराश्च कथं देवैनिपाविताः । पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥६९॥ क्लेशभाजो वयं तत्र ते रु फलभोगिनः । क्रीडाभांडमिदं विश्वं प्रकृतेः परमात्मनः ॥७०॥ यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा। देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा॥७१॥ पराजयो जयस्तेषां कलस्माकं क्रमेण च। तदाऽडवयोर्विरोधे वा गमनं निष्फलं परम् ॥७२॥ समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः । इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥७३। जये ततोऽधिका कीतिर्हानिश्रव पराजये। इत्येतद्ववचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥७४॥ यथोचितमुत्तरं तमुवाच दानवेश्वरम् । महादेव उवाच युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्द्वैः ॥७५॥ का लज्जा महती राजन्नकीतिर्वा पराजये। युद्धमादो हरेरेव मधुना कैटभेन च॥७६॥ हिरण्यकशिपोक्रैव सह तेनात्मना नृप। हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥७७॥ त्रिपुरैः सह युद्धं च मयाऽपि च पुरा कृतम्। सवेश्वर्याः सर्वमातु: प्रकृतेश्र बभूव ह॥७८॥ सह शुम्भादिभिः पूर्वं समरः परमाद्दुतः । पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥७९॥ थे ये हताश्र दैतेया नहि केऽपि त्वया समाः । का लज्जा महती राजन्मम युद्धे त्वया सह ॥८०।। सुराणां शरणस्यव प्रेषितश्र हररहो। देहि राज्यं च देवानामिति मे निश्चितं वचः ॥८१॥
Page 631
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः २२ ६३१ युद्धं वा कुरु मत्साधं वाग्व्यये कि प्रयोजनम् । इत्युक्त्वा शंकरस्तत्र विरराम च नारद ॥ उत्तस्थो शङ्खचूडश्र ह्यमारत्यः सह सत्वरम् ॥ ८२ ॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे एकविंशाऽध्यायः ॥२१॥ अथ द्वाविशोऽध्यायः श्रीनारायण उवाच शिवं प्रणम्य शिरसा दानवेंद्रः प्रतापवान् । समारुरोह यानं च सहामात्यः स सत्वरः ॥१॥ शिव: स्वसैन्यं देवांश्र प्रेरयामास सत्वरम्। दानवेंद्रः ससैन्यश्च युद्धारंभे बभूव ह ॥२॥ स्वयं महेन्द्रो युयुधे साधं च वृषपर्वणा। भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥३॥ दंभेन सह चंद्रश्च चकार परमं रणम्। कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥४।। कुबेर: कालकेयेन विश्वकर्मा मयेन च । भयङ्गरेण मृत्युश्च संहारेण यमस्तथा ॥५॥ विकंकणेन वरुणश्चंचलेन समोरणः । बुधश्र घृतपृष्ठन रक्ताक्षेण शनैश्चरः ॥६॥ जयंतो रत्नसारेण वसवो वर्चसां गणैः । अश्विनी च दीप्तिमता धूम्रेण नलकूबरः॥७॥ धुरंधरेण धर्मश्र उषाक्षेण च मंगलः। शोभाकरेण वै भानु: पिठरेण च मन्मथः ॥८॥ गोधामुखेन चूणन खङ्गेन च ध्वजेन च। कांचीमुखेन पिंडेन धूम्रेण सह नंदिना ।।९।। विश्वेन च पलाशेनादित्याद्या युयुधुः परे। एकादश च रुद्रा वै एकादश भयंकरैः ॥१०॥ महामारी च युयुधे चोग्रचंडादिभिः सह। नन्दीश्वरादयः सर्वे दानवानीं गणैः सह ॥११ ॥ युयुधुश्च महायुद्ध प्रलयेऽपि भयंकरे। वटमूले चशंभुश्च तस्थी काल्याः सुतेन च ॥१२॥ सर्व च युयुधुः सैन्यसमूहाः सततं मुने । रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥१३॥ उवास शह्चडश्र रत्नभूषणभूषितः । शङ्करस्य च ये योधा दानवैश्च पराजिता: ॥१४॥ देवाश्र दुद्गुवुः सर्वे भीताश्च क्षतविग्रहाः । चकार कोपं स्कंदश्च देवेभ्यश्चाभयं ददौ ॥१५॥ बलं च स्वगणानां च वर्धयामास तेजसा। सोऽयमेकश्च युयुधे दानवानां गणः सह ॥१६॥ अक्षौहिणीनां शतकं समरे च जघान सः । असुरान्पातयामास काली कमललोचना ॥१७॥ पपो रक्तं दानवानामतिक्रुद्धा ततः परम् । दशलक्षगजेंद्राणां शतलक्षं च कोटिशः ॥१८:। समादारयकहस्तेन मुखे चिक्षेप लोलया। कदंबानां सहस्त्रं च ननर्त समरे मुने ॥१९॥ स्कंदस्य शरजालेन दानवाः क्षतविग्रहाः । भोताश्र दुद्रुवुः सव महारणपराक्रमाः ॥२०॥ वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकंकणः । स्कंदेन साधं युयुधुस्ते सर्वे विक्रमेण च ।२१॥ महामारो च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते च संक्षुब्धाः स्कन्दस्य शकिपीडिता:२२.। न दुद्रुवुर्भयात्स्वगें पुष्पवृष्टिर्बभूव ह। स्कंदस्य समरं दृष्ट महारोद्रं समुल्बणप् ॥२३॥
Page 632
श्रीमदेवीभ गाे महापुराणे नवमस्कन्धे अध्बाय: २२ दानवानां क्षयकरं यथा प्राकृतिको लबः । राजा विदानमार्ह्य चकार बागवर्षणम् ॥२४॥ नृपस्य शरवृष्टिश्च धनस्य वर्षणं यथा। महघोरांधकारश्र वह्नयुत्थानं वभूव च ॥२५॥ देवा: प्रदुद्वुः सर्वेऽप्यन्ये नंदीश्वरादयः । एक एव कार्तिकेयस्तस्यो समरमुर्घनि ॥२६॥ पर्वतानां च सर्पाणां शिलानां शाखिनां तथा। नृपश्रकार वृष्टि च दुर्वारां च भयंकरीम् ।।२७।। नृपस्य शरवृष्ट्या च प्रहितः शिवमन्दनः । नीहारेण च सांद्रेण प्रहितो भास्करो यथा ॥२८॥ धनुश्रिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः । बभंज च रथं दिवयं चिच्छेद रथपीठकान् ॥२९॥ मयूरं जर्जरीभतं दिव्यास्त्रेण चकार सः। शक्ति चिक्षेप सूर्याभां तस्य यक्षस्य घातिनीम् ३०॥ क्षणं मूर्च्छां च संप्राप बभूय चेतनः पुनः। गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥३१॥ रत्नेन्द्रसारनिर्माणयानमारह्य सर्पांश्च पर्वतांश्चंव वृक्षांश्र कार्त्तिक: । शस्त्रास्त्रं च गृहीत्वा स चकार रणमुल्बणम् ३२।। प्रस्तरांस्तथा। सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवातज्र: ३३।। र्वा्निं निर्वापयामास पार्जन्येन प्रतापवान् । रथं धनुश्र चिच्छेद शंखचूडस्य लीलया ॥३४॥ सन्नाहं सारथि चैव किरीटं मुकुटोज्ज्वलम्। चिक्षेप शक्ति शुक्लाभां दानवेन्द्रस्य वक्षसि ॥३५॥ मच्छां संप्राप्य राजा च चेतनश्र बभूव ह। आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥३६॥ चकार शरजालं च बाबबा मार्यिनां वरः । गुहं चच्छाद समरे शरजालेन नारद ॥३७॥ जग्राह शक्तिमव्यम्रां शवसूर्षक्षमप्रभाम्। प्रलयाग्निशिखारूपां विष्णोश्च तेजसावृताम् ।३८॥ चिक्षेप तां व कोपेय महाबेगेन कार्तिके। पपात शक्तिस्तद्रात्रे वह्निराशिरिवोज्ज्वला ॥३९॥ मुर्छीं संप्राप शक्त्या म कार्तिफेयो महाबलः । काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ४०॥ शिवस्तं चापि ज्ञानेम जीवयामास लोलया। ददौ बलमनंतं च समुत्तस्थौ प्रतापवान् ॥४१।। कालो जगाम समरं रक्षितुं कार्तिकस्य या। वीरास्तामनुजग्मुश्र ते च नंदीश्वरादयः ॥४२॥ सर्वे देवाश्र गंधर्वा यक्षराक्षेसकिन्नराः । वाद्यभांडाश्च बहुशः शतशो मधुवाहकाः ॥४३॥ सा च गत्वाऽथ संग्रामं सिंहनादं चकार च। देव्याश्च सिंहनादेन प्रापुर्मूच्छां च दानवाः ॥४:॥ अट्टाट्टहासमशिवं चकार च पुनः पुनः। दृष्टा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥४५॥ उग्रदंष्ट्रा चोग्रदंडा कोटकी च पपौ मधु। योगिनीडाकिनीनां च गणा: सुरगणादयः॥४६॥ 'दूष्टा कालीं शङ्ङबूडः शीघ्रमाजौ समाययों। दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥४७॥ काली चिक्षेप वह्नि च प्रलयाग्निशिखोपमम्। राजा निर्वापयामास पार्जन्येन च लीलया ॥४८।। चिक्षेप वारुणं सा च तीव्रं च महदद्द्तम् । गांधर्वेण च चिच्छेद दानवेंद्रश्र लीलया ॥४९। माहेश्वरं प्रचिक्षेप काली वह्निशिखोषमम् । राजा जधान तं शोघ्रं वैष्णवेन च लीलया॥५०॥। नारायणास्त्रं सा देवी चिक्षेप मंत्रपूर्ववम्। राजा ननाम तद्दृष्टा चावरुहय रथादसी ॥५१॥
Page 633
श्रीमदेवीभागवते महापुराणे नवमस्कं्धे अध्याय: २१ ६३३ ऊध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम्। पपात शंखचूडश्र भक्त्या तं दंडवद्वि ॥५२॥ ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मंत्रूर्वकम्। ब्रह्मास्त्रेण महाराजो निर्वापं चकार सः।५३।। तदा चिक्षेप दिव्यास्त्रं सा देवी मंत्रपूर्वकम् । राजा दिव्यास्त्रजालेन तन्निर्वारण चकार च ॥५४॥ देवी चिक्षेप शक्ति च यत्नतो योजनायताम्। राजा दिव्यास्त्रजालेन शतखंडां च चकार है।५५॥ जग्राह मंत्रपूत च देवी पाशुपतं रुषा। निक्षेपणं निरोद्धु च वाग्बभूवाशरोरिणी ॥५६॥ मृत्यु: पाशुपते नास्ति नृपस्य च महात्मनः । यावदस्ति च मंत्रस्य कवचं च हरेरिति ॥५७॥ यावत्सतीत्वमस्त्येव सत्याश्च नवयोषितः । तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥५८॥ इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम्। शतलक्षं दानवानां जग्रास लीलया क्षुवा ॥५९।। ग्रस्तुं जगाम वेगेन शंखचूडं भयंकरी। दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥६०॥ खङ्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं तथा ! दिव्यास्त्रेण दानवेंद्रः शतखंडं चकार सः॥६१॥ पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् ! सर्वसिद्धेश्वरः श्रीमान्वव्धे दानवेश्वरः ॥६२॥ वेमेन मुष्टिना काली कोपयुक्ता भयंकरी। बभंज च रथं तस्य जधान सारयिं सती ॥६३॥ सा च शूलं च चिक्षेप प्रलयाग्निशिखोपमम्। वामहस्तेन जगराह शाङ्चूडः स्वलीलया ॥६४॥ भुष्टया जधान तं देवी महाकोपेन वेगतः। बभ्राम च तथा दैत्य:श्णं मूच्छामदाप च ॥६५॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान्। न चकार बाहुयुद्ध देव्या सह ननाम ताम् ॥६६॥ देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा। नास्त्रं चिक्षेप ता भक्तो मातृभक्त्या तुर्वैष्णव: ६७।। गृहीत्वा दानवं देवो भ्राम्मयित्वा पुनः पुनः । ऊ्ध्वं च प्रापयामास महावेगेन कोपिता ॥६८।। ऊर्ध्वात्पपात वेगेन शङ्गचूडः प्रतानवान् । निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥६९॥ रत्नेंद्रसारनिर्माणं विमानं सुमनोहरम्। आरुरोह हर्षयुक्तो न विश्रांतो महारणे ॥७०॥ दानवानां च क्षतजं सा देवी च यपौ क्षुधा। पोत्वा भुक्त्वा भद्रकाली जगाम शंकरांतिकम्७॥। उनाच रणवृत्तातं पौर्वापर्यं यथाक्रमम्। श्रुत्वा जहास शंभुश्च दानवानां विनाशनम् ॥७२॥ लक्ष च वानवेंद्राणामवशिष्टं रणेऽुना। भुज्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥७३।। संग्रामे दानवेंद्रं च हंतुं पाशुपतेन वै। अवध्यस्तव राजेति वाग्बभ्वाशरीरिणो ॥७४॥ राजेंद्रश्च महाज्ञानी महावलपराक्रमः । न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ।७५।। इतिश्रीदेवीभागवते महापुराणे नवमस्कन्धे नारदनारायणसंवादे दाविशोऽध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः श्रीनारायण उवाच शिवस्तत्वं समाकर्ण्य तत्त्वज्ञानविशारदः । ययौ स्वयं च समरे स्वगणः सह नारद ॥१॥
Page 634
६३४ श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: २१ शह्हचूड: शिवं दृष्टा विमानादवरुह्य च। ननाम परया भक्त्या शिरसा दंडवद्द्ुवि ॥२॥ तं प्रणम्य च वेगेन विमानमारुरोह सः। तूर्ण चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥३॥ शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा। न बभ्वतुरन्योन्यं ब्रह्मञ्जयपराजयो॥४॥ न्यस्तशस्त्रश्र भगवान्न्यस्तशस्त्रश्र दानवः । रथस्थः शंखचूडश्र वृषस्थो वृषभव्वजः ॥५॥ दानवानां च शतकमुद्धतं च बभूव ह । रणे ये ये मृता: शंभुर्जीवयामास तान्विभुः ॥६॥ एतस्मिन्नंतरे वृद्धब्राह्मण: परमातुरः । आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥७॥ वृद्धब्राह्मण उवाच देहि भिक्षां च राजेंद्र मह्यं विप्राय सांप्रतम् । त्वं सर्वसम्पदां दाता यन्मे मनसि वांछितम् ॥८। निरीहाय च वृद्धाय तृषिताय च सांप्रतम्। पश्चात्त्वां कर्थाययष्यामि पुरः सत्यं च कुविति ९।। ओमित्युवाच राजेंद्र: प्रमन्नवदनेक्षणः। कवचार्थी जनश्राहमित्युवाचातिमायया ॥१॥ तच्छ्रत्वा कवचं दिव्यं जग्राह हरिरेव च । शङ्गचूडस्य रूपेण जगाम तुलसीं प्रति ॥११॥ गत्वा तस्यां मायया च वीर्याधानं चकार च। अथ शंभुर्हरेः शूलं जग्राह दानवं प्रति ॥१२।। । दुर्निवार्य च दुर्धर्षमव्यर्थ वैरिघातकम् ॥१३ ॥। तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम। शिवकेशवयोरन्यदुर्वहं च भयंकरम् ॥१४॥ धनुःसहस्त्रं दैर्ध्येण प्रस्थेन शतहस्तकम्। सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥१५॥ संहतुं सर्वब्रह्मांडमलं यत्स्वीयलीलया। चिक्षेप तोलनं कृत्वा शखचूडे च नारद ॥१६॥ राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम्। ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ शूलं च भ्रमणं कृत्वा पपात दानवोपरि। चकार भस्मसात्तं च सरथं चाथ लोलया ।१८।। राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम्। द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥१९॥ रत्नेन्द्रसारानर्माणं वेष्टितं गोपकोटिभिः । गोलोकादागतं यानमारुरोह पुरं ययो ॥२०॥ गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने। भक्त्या च चरणांभोजं रासे वृंन्दावने वने ॥२१॥ सुदामानं च तो दृष्टा प्रसन्नवदनेक्षणो। क्रोडे चक्रतुरत्यंतं प्रेम्णाऽतिपरिसंयुतौ ॥२२॥ अथ शलं च वेगेन प्रययो तं च सादरम्। अस्थिभिः शखचूडस्य शंखजातिर्बभूव ह॥२३॥ नानाप्रकाररूपेण शश्चत्पूता सुरार्चने। प्रशस्तं शंखतोयं च देवानां प्रीतिदं परम् ॥२४॥ तीर्थतोयस्वरूपं च पवित्रं शंभुना बिना। शंखशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥२५॥
तत्रैव वसते स स्मातः सर्वतीर्थेषु यः स्नातः शंखवारिणा। शंखो हरेरधिष्ठानं यत्र शंखस्ततो हरिः ॥२६॥ लक्ष्मीर्दूरीभूतममङ्गलम् । स्त्रोणां च शखघ्वनिभिः शूद्राणां च विशेषतः२७॥। भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः । शिवऽपि दानवं हत्वा शिवोलोकं जगाम है॥२८॥
Page 635
श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्यायः २४ ६३५ प्रहृष्टो वृषभारूढः स्वर्गणश्च समावृतः । सुराः स्वविषयं प्रापुः परमानंदसंयुताः ॥२९॥ नेदुर्दुन्दुभयः स्वगें जगुर्गन्धर्वकिन्नराः । बभूव पुष्पवृष्टिश्र शिवस्योपरि संततम् ।। प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥३०॥ दति श्रीदेवीमागवते महापुराणे नवमस्कन्धे त्रयोविंशोऽध्यायः ॥२३॥ अथ चतुर्विशोऽध्यायः नारद उवाच नारायणश्च भगवान्वीर्याधानं चकार ह। तुलस्यां केन रूपेण तन्मे ब्याख्यातुमहंसि ॥ १ ॥ श्रीनारायण उवाच नारायणश्र भगवान्देवानां साधनेषु च । शंखचूडस्य कवचं गृहीत्वा विष्णुमायया ॥ २॥ पुनविधाय तद्रूपं जगाम तत्सतीगृहम्। पातिव्रत्यस्य नाशेन शङ्गचूडजिघांसया ॥ ३॥ दुन्दुभि वादयामास तुलसीद्वारसन्निधौ। जयशन्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥४॥ तच्छ्रत्वा च रथं साध्वी परमानन्दसंयुता। राजमार्गे गवाक्षेण ददर्श परमादरात् ॥५॥ ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मंगलम् । वंदिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्चधनं ददौ ॥ ६ ॥ अवरुह्य रथादेवो देव्याश्च भवनं ययौ। अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥७॥ दृष्ठा च पुरतः कान्तं सा तं कान्तं मुदान्विता। तत्पादं क्षालयामास ननाम च रुरोद च ।। ८ ।। रत्नसिंहासने रम्ये वासयामास कामुकी। तांबूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९ ॥ अद्य मे सफलं जन्म जीवनं च बभूव ह। रणे गतं च प्राणेशं पश्यंत्याश्र पुनर्गृहे ॥१०॥ सस्मिता सकटाक्षं च सकामा पुलकाङ्िता। पप्रच्छ रणवृत्तांतं कान्तं मधुरया गिरा॥११॥ तुलस्युवाच असंख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो। कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥१२॥ तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः । शंखचूडस्य रूपेण तामुवाचामृतं वचः ॥१३॥ श्रीभगवानुवाच आवयोः समरः कान्ते पूर्णमन्दं वभूव ह। नाशो वभूव सर्वेषां दानवानां च कामिनि ॥१४॥ प्रोति च कारयामास ब्रह्मा च स्वयमावयोः। देवानामधिकारश्र प्रदत्तो ब्राह्मणाज्ञया ॥१५॥ मयाऽडगतं स्वभवनं शिवलोकं शिवो गतः । इत्युक्त्वा जगता नाथः शयनं च चकार ह ॥१६॥ रेमे रमापतिस्तत्र रामया सह नारद। सा साध्वीं मुखसंभोगादाकर्षणव्यतिक्रमात् ॥१७॥। सवं वितर्कयामास कस्त्वमेवेत्युवाच सा।
Page 636
श्रीमह्ेवीमागवते महापुराणे नवमस्कन्धे अध्याय: २२ तुलस्युभाच को वा त्वं वद मायेश भुक्ताऽहं मायया त्वया ॥१८। दूरोकृतं मत्सतीत्वं यदतस्त्वां शपामि हे। तुलसीवचनं श्रुत्बा हरिः शापभयेन च ॥१९।। दघार लीलया ब्रह्मन्सुमूर्ति सुमनोहराम्। ददशं पुरतो देबी देवदेवं सनातनम् ॥२०॥ नवीननीरदश्यामं शरत्यङ्गजलोचनम्। को टकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥२१। ईषद्धास्यं प्रसन्नास्यं शोभितं पीत्वाससम्। तं दृष् कामिनी कामं मूच्छा संप्राप लोलया ॥२२। पुनश्च चेननां प्राप्य पुनः सा तमुबाच है। तुलस्युवाच हे नाथ ते दया नास्ति पाषाणसदृशस्य च ।२३। छलुन धर्मभंगेन मम स्वामी त्वया हतः । पापाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥२४॥ तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना । ये वदन्ति च साधुं त्वां ते भ्रांता हि न संशयः।२५॥ भक्तो विनापराधेन परार्थे च कथ हतः। भृरं रुगेद शोकार्ता बिललाप मुहुमुहुः ॥२६॥ ततश्च करुणां दृष्ा करुणारससागरः । नयेन तां बोधययतुमुवाच कमलापतिः ॥२७॥ श्रीभगवानुवाच तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम्। त्वदर्थे शंखचूडश्र चकार सुतिरं तपः ॥२८॥ कृत्वा त्वां कामिनीं सोऽपि विजहारं च तत्क्षणात्। अधुना दातुमुचितं तवैव तपसः फलम् ॥२९॥ इदं शरीरं त्वकत्वा च दिव्यदेहं विधाय च। रामे रम मया सार्धं त्वं रमासदृशी भव ॥३०॥ इयं तनुर्नदीरूपा गंडकीति च विश्रुता। पूता सुपुण्यदा नृणां पुण्ये भवतृ भारते ॥३१॥ तव केशसमूहश्च पुण्यदृक्षो भविष्यत। तुलसीकेशसंभूता तुलसीति च विश्रुता ॥३२॥ त्रिपु लोकेष पुष्पाणां पत्राणां देवपूजने। प्रधानरूपा तुलसी भविर्ष्यात वरानने ॥३३॥ स्वगें मत्यें च पाताले गोलोके मम सन्निधौ। भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ।३४।। गोलोके विरजातीरे रासे वृन्दावने वने। भांडीरे चम्पकवने रम्ये चन्दनकानने ॥३५॥ माधती केत की कुन्दम ल्लिकामा लती वने पुण्यदेशेषु । वासस्तेऽत्रंव भवतु पुण्यस्थानेषु पुण्यदः ॥३६।। तुलस्ीतरुमूलेपु दुण्यदम्। अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥३७।। तत्र च सवदेवानां मंमाधिष्ठानमेव च । तुलसीपत्रपतनप्राप्तये च वरानने ॥३८॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥३९॥। सुधाघटमहस्राणां या तुष्टिस्तु भवेद्धरेः । ता च तुष्टिर्भवेन्नूनं तुलसोपत्रदानतः ॥४०॥ गवामयुतदानेन यत्फलं तत्फलं भवेत्। तुलसीपत्रदानेन तत्फलं कार्त्तिके सती।४१।।
Page 637
शरीमरेवीमागवते महापुराणे नवमस्कन्धे अध्याय: २४ ६६७ तुलीपत्रतोयं च मृत्युकाले च यो लभेत्। मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥४२॥ नित्यं यस्तुलसीतोयं भुंक्ते भक्त्या च मानवः । लक्षाश्वमेधजं पुण्यं संप्राप्नोति स मानवः ॥४३॥ तुलसीं स्वकरे कृत्वा धृत्वा देहे च-मानवः। प्राणांस्त्यजति तीर्थेषु विष्णुलोकंस गच्छति ४४॥ तुलसीकाष्टनिर्माणमालां गृह्माति यो नरः। पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥४५॥ तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति। स याति कालसूत्रं च यावच्चंद्रदिवाकरो ॥४६॥ करोति मिथ्याशपथं तुलस्यां योऽत्र मानवः । स याति कुंभीपाकं च यावर्दिंद्राश्रतुर्दश ।४७॥ तुलसीतोयकणिकां मृत्युकाले च यो लभेत्। रत्नयानं समारुह्य वैकुंठं प्राप्यते ध्रुवम्॥४८॥ पूर्णिमायाममायां च द्वादरयां रविसंक्रमे। तैलाभ्यंगं च कृत्वा च माध्याह्नेनिशि सं्पयो: ॥ अशौचेऽशुचिकाले ये रात्रिवासोन्विता नराः । तुलसीं ये विचिन्वंति ते छिंदंति हरे: शिरः॥५०॥ त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति। श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥५१॥ भूगतं तोयपतितं यद्दत्तं विष्णवे सति। शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥५२॥ वृक्षाषिष्ठातृदेवी या गोलोके च निरामये। कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि५३।। नद्यघिष्ठातृदेवी या गोलोके सा सुपुण्यदा। लवणोदस्य सा पत्नी मदंशस्य च भविष्यति ५४॥ त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधी। रमासमा च रामा च भविष्यसि न संशयः ॥५५॥ अहं च शैलरूपेण गंडकीतीरसन्निधी। अधिष्ठानं करिष्यामि भारते तव शापतः ॥५६।। कोटिसंख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुघैः । यच्छिलाकुहरे चक्रं करिष्यंति मदीयकम् ॥५७॥ एकद्वारं चतुश्चक्रं नवीननीरदोपमम्। नवीननीरदाकारं लक्ष्मीनारायण:भिधम् ।।५८।। एकद्वारं चतुश्चकरं नवीननोरदोपमम् । लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥५९॥ द्वारद्वये चतुश्कं गोष्पदेन विराजितम्। रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥६०॥ अतिक्षुद्रं द्विचक्रं च गोष्पदेन विराजितम् । तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥६१॥ अतिक्षुद्रं ढिचक्रं च नवीनजलदप्रभम् । विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणां सदा ॥६२॥ स्थूलं च वतुलाकारं रहितं बनमालया। द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥६३॥ मध्यमं सप्तचक्रं च छत्रभूषणभषितम्। रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥६४॥। मध्यमं सप्तचक्रं च छत्रचामरभूषितम्। राजराजेश्वरं ज्ञेयं राजसपत्प्रदं नृणाम् ॥६५॥ द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम्। अनंताख्यं च विज्ञेयं चतुरवर्गफलप्रदम् ॥६६॥। चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम्। सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥६७॥ सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम्। द्विचक्र हयववत्राभं हयप्रीवं प्रकीतितम् ॥६८।। अतीब विस्तृतास्यं च दविचक्रं विकटं सति। नरसिंहं सुविज्ञेयं सदो वैराग्यदं नृणाम् ॥६९॥
Page 638
११८ श्रीमऐेवीमागवते महापुराणे नवमस्कनपे अध्याय: २४ द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम्। लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ।७०।। द्वारदेशे द्विचक्रं च सश्रीक च समं स्फुटम्। वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥७१॥ प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् । सुषिरच्छ्रिद्रबहुलं गृहिणां च सुखप्रदम् ॥७२॥ द्वे चक्रे चंकलग्ने च पृष्ठं यत्र तु पुष्कलम्। संकर्षणं सुविज्ञेयं सुखदं गृहिणां सदा॥७३॥ अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् । सुखप्रदं गृहस्थानां प्रवदंति मनीषिण: ॥७४॥ शालग्रामशिला यत्र तत्र सन्निहितो हरिः। तत्रव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥७५॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । तानि सर्वाणि नश्यंति शालग्रामशिलार्चनात्७६।। छत्राकारे भवेद्राज्यं वतुले च महाश्रियः । दुःखं च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥७७॥ विकृतास्ये च दारिद्रयं पिंगले हानिरेव च। भग्नचक्रे भवेद्याधिर्विदीर्णे मरणं ध्रुवम् ॥७८॥ व्रतं स्नानं प्रतिष्ठां च श्राद्धं च देवपूजनम् । शालग्रामस्य सान्निध्यात्प्रशस्तं तद्गवेदिति ॥७९।। स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसुच ॥८०॥ पाठे चतुर्णां वेदानां तपसां करणे सति। तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥८१॥ "शालग्रामशिलातोयर्योऽभिषेकं सदाऽडचरेत् । सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ।।१।" शालग्रामशिलातोयं नित्यं भुंक्ते च यो नरः । सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥८२॥ यस्य स्पर्श च वाञ्छंति तीर्थानि निखिलानि च। जीवन्मुक्तो महापूतोऽप्यन्ते याति हरे: पदम् ८३।। तत्रव हरिणा सार्धमसंख्यं प्राकृतं लयम्। यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि८४॥। यानि कानि च पापानि ब्रह्महत्यासमानि च'। तं दृष्टा च पलायंते वैनतेयादिवोरगाः ॥८५॥ तत्पादरजसा देवी सद्यःपूता वसुंधरा। पुंसां लक्षं तत्पितणां निस्तरेत्तस्थ जन्मतः ॥८६॥। शालग्रार्मशिलातोयं मृत्युकाले च यो लभेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।८७॥ निर्वाणमुक्ति लभते कर्मभोगात्प्रमुच्यते। विष्णोः पदे प्रलोनश्चभविष्यति न संशयः ॥८८॥ शालग्रामशिलां धृत्वा मिथ्वावाक्यं वदेत्तु यः । स याति कुम्भीपाके च याव्द्वं ब्रह्मणो वयः ८९॥ शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् । स प्रयात्यसिपत्रं च लक्षमन्वंतरावधि ॥९०॥ तुलसीपत्रविच्छेदं शालग्रामे करोति यः। तस्य जमांतरे कांते स्त्रीविच्छेदो भविष्यति ॥९१॥ शालग्रामं च तुलसी शंखं यो हि करोति च। भार्याहोनो भवेत्सोऽपि रोगी च सप्तजन्मसु ।९२॥ शालग्रामं च तुलसीं शंखं चैकत्र एव च । यो रक्षति महाज्ञानी स भवेच्छ्रीहरे: प्रिय:।९३॥ सकृदेव हि यो यस्यां वीर्याधानं करोति च। तद्विच्छेदे तस्य दुखं भवेदेव परस्परम् ॥९४॥ त्वं• प्रिया शङ्कचूडस्य चंकमन्वंतरावधि। शंखेन सार्ध त्वद्द्ेदः केवलं दुःखदस्तथा ॥९५॥ इत्युक्त्वा श्रीर्हारस्तां च विरराम च नारद। सा च देहं परित्यज्य दिव्यरूपं विधाय च॥९६॥
Page 639
श्रीमद्वीभागवते महापुराणे नवमस्कन्धे अध्याय: २५ ६३९ यथा श्रोश्च तथा सा चाप्युवास हरिवक्षसि। स जगाम तया सार्वं वैकुण्ठं कमलापतिः ॥।९७।। लक्ष्मोः सरस्वती गंगा तुलसी चापि नारद । हरे: प्रियाश्रतस्त्रश्र बभूवुरीश्वरस्य च ।।९८।। सद्यस्तद्हजाता च बभूव गंडकी नदी। ईश्वरःसोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥९९॥ कुवति तत्र कीटाश् शिलां बहुविधां मुने । जले पतंति या याश्र फलदास्ताश्च निश्चितम्॥१००॥ स्थलस्थाः पिंगला ज्ञेयाश्चोपतापाद्रवेरिति । इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥१०१॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे नारायण नारदसंवादे चतुर्विशोऽध्यायः॥१४॥ अथ पञ्चविंशोऽध्यायः नारद उवाच तुलसो च यदा पूज्या कृता नारायणप्रिया। अस्याःपूज्याविधानं च स्तोत्रं च वद सांप्रतम्।।१॥ केन पूजा कृता केन स्तुता प्रथमतो मुने । तत्र पूज्या सा बभूव केन वावद मामहो ॥ २॥ सूत उवाच नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः। कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ ३ ॥ श्रीनारायण उवाच हरि: संपूज्य तुलसीं रेमे च रमया सह। रमासमानसौभाग्यां चकार गौरवेण च ॥४ ॥ गेहे च लक्ष्मोगंगा च तस्याश्च नवसंगमम् । सौभाग्यगोरवं कोपात्तन्न सेहे सरस्वती ॥५॥ सातां जघान कलहे मानिनी हरिसन्निधौ। व्रोडया चापमानेन सांतर्धानं चकार है॥६॥ सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धयोगिनी। जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७॥ हरिर्न दृष्टा तुलसीं बोधयित्वा सरस्वतीम्। तदनुज्ञां गृहीत्वा च जगाम तुलसीवनम् ॥८॥ तत्र दत्वा च सुस्नातो हरिः स तुलसीं सतीम्। पूजयामासतां ध्यात्वा स्तोत्रं भक्त्या चकार ह॥ लक्ष्मो माया कामवाणी बीजपूर्वं दशाक्षरम्। वृन्दावनीति डेन्तं च वह्निजायांतमेव च॥१०॥ अनेन कल्पतरुणा मन्त्रराजेन नारद। पूजयेद्यो विधानेन सर्वसिद्धि लभेद्ध्रुवम् ॥११॥ घतदोपेन धूपेन सिंदूरचन्दनेन च । नैवेद्येन च पुष्पेण चोपचारेण नारद ॥१२॥ हरिस्तोत्रेण तुष्टा सा चाविर्भूता महोरुहात्। प्रसन्ना चरणांभोजे जगाम शरणं शुभा ।१३॥ वरं तस्य ददो विष्णुः सर्वपूज्या भवेरिति । अहंत्वां धारयिष्यामि सुरूपां मू्ध्नि वक्षसि॥१४॥ सर्वे त्वां धारयिष्यंति स्वमूध्नि च सुरादयः । इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभु: ॥ कि ध्यानं स्तवनं कि वा कि पूजाविधानकम् । तुलस्याश्र महाभाग तन्मे व्यारूयातुमर्हसि ॥१६॥ नारद उवाच
श्रीनारायण उवाच अन्तहितायां तस्यां च हरिर्वृन्दावने तदा। तस्याश्चक्रे स्तुर्ति गत्वा तुलसीं विरहातुरः ॥१७॥
Page 640
३४० श्रीम हेवीभागवते महापुराणे नवमस्कन्धे अध्याय: २५: श्रीभगवानुवाच वृन्दरूपाश्र वृक्षाश्च यदैकत्र भर्वन्ति च । विदुर्बुधास्तेन वृन्दां मन्ियां यां भजाम्यहम्॥१८॥ पुरा वभूव या देवी त्वादौ वृन्दावने वने। तेन वृन्दावनीं ख्यातां सौभाग्यां तां भजाम्यहम्१९॥ असंख्येषु च विश्वेषु पूजिता या निरन्तरम् । तेन विश्वपूजिताल्यां पूजितां च भजाम्यहम् २०॥ असंख्यानि च विश्वानि पवित्राणि त्वया सदा। तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥२१॥ देवा न तुष्टाः पुष्पाणां समूहेन यया बिना। तां पुष्पसारां शुद्धां च द्रषुमिच्छामि शोकतः॥२२॥ विश्वे यत्प्राप्तिमात्रेण भक्तानंदो भबेद्ध्रुवम् । नंदिनी तेन विख्याता सा प्रीता भवतादिह ।।२३। यस्या देव्यास्तुला नास्ति विश्वेषु निसिलेषु च । तुलसी तेन बिख्याता तां यामि शरणं प्रियाम्॥२४॥ कुष्णजीवनरूपा सा शश्वत्प्रियतमा सती। तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥२५॥ इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः । ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥२६॥ इदतीमवमानेन मानिनीं मानपूजिताम् । प्रियां दृष्टा प्रियः शीघ्रं वासयामास वक्षसि ॥२७॥ भारत्याज्ञां गृहीत्वा च स्वालयं च ययो हरिः। भारत्या सह तत्प्रीति कारयामास सत्वरम् ।।२८। बरं विष्णुर्ददो तस्य सर्वपूज्या भवेरिति। शिरोधार्बा च सर्वेषां बंद्या मान्या मनेति क ॥२९॥ बिष्णोबरेण सा देवी परितुष्टा बभूव च । सरस्वती तानाकृष्य बासयामास सन्नियो॥३०॥ लक्ष्मीगंगा सस्मिता च तां समाकृष्ब नारद। गृहं प्रबेशयामास विनयेन सतीं तदा॥३१॥ वृन्दा वृन्दावनी विश्वपूजिता विश्बपाबनी। पुष्पतारा नंदिनी च तुलसी कृष्णजीवनी ॥३२।। एतन्नामाष्टकं चैव स्तोत्रं नामार्थसंयुतम्। यः पठेत्तांच संपूज्य सोऽश्वमेघफलं लभेत् H३३। कार्त्तिक्या पूर्णिमायां च तुलस्या जन्ममंगलम्। तत्र तस्याश्र पूजा च बिहिता हरिणा पुरा ॥३४।। तस्यां यः पूजयेत्तां च भक्त्या व विश्वपावनीम् । सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥३५॥ कार्तिके तुलसीपत्रं यो ददाति च वैष्णवे। गवामयुतदानस्यं फलं प्राप्नोति निश्रितम् ॥३६॥ अपुत्रो रुभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । बन्धुहीनो लभेद्वंधून्स्तोत्रश्रवणमात्रतः ॥३७॥। रोगी प्रमुष्यते रोगादृद्धो मुच्येत बंधनात्। भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥३८।। इत्येवं कथितं स्तोत्रं ध्यान पूजाविधि शरृणु। त्वमेव वेदे जानासि कण्वशाखोक्तमेव च ॥३९।। तदृक्षे पूजयेत्तां च भक्तया चावाहनं बिना। ताध्यात्वा चोपचारेण ध्यानं पातकनाशनम्॥४०॥ तुलसीं पुष्पसारां च सतों पूतां मनोहराम्। कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम्॥४१॥ पुष्पेषु तुलना यस्या नाहित वेदेषु भाषितम्ं। पवित्ररूपा, सर्वासु तुलसी सा च कीर्तिता ।।४२।। शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी। जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम् ।४३।
Page 641
४१ श्रंमहवीभागवत महापुराण नवमस्कन्ध अध्याय: २६ ६४१ इति ध्यात्वा च संपूज्य स्तुत्वा च प्रणमेत्सुधोः। उक्त तुलस्युपाख्यान कि भूयः श्रीतुमिच्छसि॥४४॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे पञ्चविंशाऽध्यायः ॥२५॥ अथ पडविशोध्यायः नारद उवाच तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् । ततः सावित्रपुपाख्यानं तन्मे व्याख्यातु मर्हसि ॥१॥ पुरा केन समुद्ूना सा श्रुता च श्रुतेः प्रसूः । केन वा पूजिता लोके प्रथमे कैश्र वा परे ॥२॥ श्रीनारायण उवाच ब्रह्मणा वेदजननी प्रथमे पूजिता मुने। द्वितीये च वेदगणस्तत्वश्राद्विदुषां गणैः ॥३॥ तदा चाश्चपतिर्भूप: पूजयामास भारते। तत्पश्चात्यूजयामासुर्वरणशश्चत्वार एव च॥४॥। नारद उत्राच को वा सोऽश्वपतिर्ब्रह्मन्केन वा तेन पुजिता। सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥५॥ श्रीनारायण उवाच मद्रदेशे महाराजो वभूवाश्वपतिर्मुने। वैरिणां वलहर्ना च मित्राणां दुःखनाशनः ॥६॥। आसीत्तस्य महाराज्ञी महिपी धर्मचारिणी। मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ।।७।। साच राज्ी च वनध्या च वसिष्ठस्योपदेशतः । चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ।।८।। प्रत्यादेश न सा प्राप्ता महिषी न ददर्श ताम् । गृहं जगाम दुःखार्ता हृदयेन विद्यता ।।९॥ राजा तां दुःखितां दृष्टा बोधयित्वा नयेन वै । सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥१०॥ तपश्चकार तत्रव संयतः शतवत्सरम्। न ददर्श च सावित्र्याः प्रत्यादेशो बभू च ॥११॥ शुश्रावाकाशवाणीं च नृपेंद्रश्चाशरीरिणीम्। गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥१२॥ एतस्मिन्नंतरे तत्र आजगाम पराशरः। प्रणनाम ततस्तं च मुनिर्नृपमुवाच च॥१३॥
सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत्। दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥१४। मुनिरुवाच
शतवारं जपश्रैव पापं मासाजितं हरेत्। सहस्रधा जपश्वैव कल्मषं वत्सराजितम् ॥१५॥ लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम्। सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति।१६॥ करोति मुक्तिं विप्राणां जपो दशगुणस्ततः। करं सर्पफगाकारं कृत्वा तद्रंध्रमुद्रितम्१७॥ आनम्रमूर्धमचलं प्रजपेत्प्राड्मुखो द्विजः । अनामिकामध्यदेशादघो वामक्रमेण च ॥१८।। तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे। श्वेतपंकजबीजानां स्फटिकानां च संस्कृताम् ॥१९॥ कृत्वा व मालिकां राजअ्पेत्तीर्थे सुरालये। संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥२०॥
Page 642
६४२ श्रीमद्ेवीमागवते महापुराणे नवमस्कन्धे अध्यायः २६ कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुसीः । गायत्रीशतकं तस्यां जपेच्च विधिपूर्वक्रम् ॥२१॥ अथवा पंचगव्येन स्नात्वा मालां सुसंस्कृताम्। अथ गंगोदकेनैव स्नात्वा वाऽतिसुसंस्कृताम् २२।। एवं क्रमेण राजषें दशलक्ष जपं कुरु। साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् २३॥ नित्यं संध्यां च हे राजन्करिष्यमि दिने दिने । मध्याह्ने चापि साय ह्ा प्रातरेव शुचिः सदा २४।। संध्याहोनोऽशुचिरनित्यमनर्हः सर्वकर्मसु। यक्ह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ।।२५॥ नोपतिष्ठति य पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्वहिष्कार्यः सर्वस्मादिद्वजकर्मणः ॥२६॥ यावज्जीवनपर्यतं त्रिःसंध्यां यः करोति च। स च सूयंसमो विप्रस्तेजसा तपसा सदा ॥२७॥ तत्पादपझ्यरजसा सद्य.पूता वसुंधरा। जीवन्मुक्त: स तेजस्वी संध्यापृता हि यो हविजः २८।। तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः । ततः पापानि यांत्येव वैनतेयादिवीरगाः ॥२९॥ न गृहहंति सुराः पूजां पितरः पिंडतर्पणम् । स्वेच्छया च द्विजातेश्च त्रिसंध्यारहितम्य च॥३०॥ मूलप्रकृत्यभक्तो यस्तन्मंत्रस्याप्यनर्चकः । तदुत्सवविहानश्च विषहीनो यथोरगः ॥३१॥ विष्णुमंत्रविहीनश्च त्रिसंध्यारहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः ॥३२॥ हरेरनैवैद्यभोजी च धावको वृषवाहकः। शृद्रान्नभोजी यो विप्रो विषहीनो यथोरगः ॥३३॥ शृद्राणां शवदाही यः रु विप्रो वृषलीपतिः । गूद्राणां सूपकारश्र विपहीनो यथोरगः ॥३४।। शृद्ाणां च प्रतिग्राही शूद्रयाजी च यो द्विजः । मसिजीवी असीजीवी विषहीनो यथोरगः ॥३५॥ यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी। यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः३६।। भगजीवो वार्धुषिको, विषहीनो यथारगः । यो विद्याविक्रयी विप्रो विपहीनो यथोरगः ॥३॥ सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः । शिवापृजादिरहितो विषहोनो यथोरगः ॥३८।। इत्युक्त्वा च मुनिश्रेष्टः सर्वपूजाविधिक्रमम् । तमुवाच च सावित्र्या ध्यानादिक्रमभीप्सितम्३९॥ दत्त्वा सर्व नृपेंद्राय ययो च स्वाश्रमे मुने । राजा संपूज्य सावित्रीं ददर्श वरमाप च ॥४०॥ नारद उवाच कि वा ध्यानं च सावित्र्याः किं वा पूजाविधिक्रमम्। स्तोत्रं मंत्रं च किं दत्त्वा प्रययौ स पराशरः ४'॥ नृपः केन विधानेन संपृज्य श्रुतिमातरम्। वरं च कं वा संप्राप संपृज्य नु विधानतः ॥४२।। तत्सवं श्रोतुमिच्छामि सावित्र्याः परमं महत् । रहस्यातिरहस्यं च श्रुनिसिद्धं समासतः ॥४३॥ श्रीनारायण उवाच ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्नतः । व्रतमेवं चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥४४॥ व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम्। दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत् ।४५। वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम्। संस्थाप्य मंगलघटं फलशाखासमन्वितम् ॥४६॥
Page 643
श्रीम हेवीमागवते महापुराणे नवमस्कन्धे अध्यायः २६ ६४: गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । संपूज्य पूजयेदिष्टं घटे आवाहिते द्विजः ॥४७ शृणु ध्यानं च सावित्र्याश्चोक्तं माथ्यंदिने च यत्। स्तोत्रं पूजाविधानं च मंत्रं च सर्वकामदम् ।।४८ तप्तकांचनवर्णाभां ज्वलंतीं ब्रह्मतेजसा। गेष्ममध्याह्नमार्तण्डसहस्रसंमितप्रभाम् ॥।४९ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्। वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम् ।।५0
वेदाधिष्ठातृदेवीं सुखदां मुक्तिदां शान्तां कांतां च जगता विधेः। सर्वसंपत्स्वरूपां च प्रदात्रीं सर्वसंपदाम् ॥५१॥ वेदशास्त्रस्वरूपिणोम् । वेदबीजस्वरूपां च भजे तां वेदमातरम् ॥५२॥ ध्यात्वा ध्यानेन नैवेद्य दत्त्वा पाणि स्वमूर्धनि। पुन्ध्यात्वा घटे भक्त्या देवोमावाहयेद्व्ती।५३॥ दत्त्वा पोडशोपचारं वेदोक्तं मन्त्रपूर्वकम्। संपूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः ।५४॥ आसनं पाद्यमध्यं च स्नानीयं चानुलेपनम्। धूप दोपं च नैवेद्यं तांबूलं शोतलं जलम् ॥५५॥ वसनं भूषणं माल्यं गंधमाचयनीयकम् । मनोहरं सुतल्पं च देयान्येतानि षोड़श ॥५६॥ दारुसारत्रिकारं च हेमादिनिर्मितं च वा। देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ।५७॥ तीर्थोदकं च पाद्य च पुण्यदं प्रीतिदं महत् । पूजांगभूतं शुद्धं च मया तुम्यं निवेदितम् ॥५८। पवित्ररूपमर्घं च दूर्वापुष्पदलान्वितम्। पुण्यदं शंखतोयाक्तं मया तुम्यं निवेदितम् ॥५९॥ सुगंध गंधतोयं च स्नेहं सौगन्धकारकम्। मया निवेदितं भस्त्या स्नानीयं प्रतिगृह्यताम्॥।६।। गंधदव्योद्रवं पुण्यं प्रीतिदं दिव्यगंधदम् । मया निवेदितं भकया गंधतोयं तवान्बिके।।६१।। सर्वमंगलरूपं च सर्व च मंगलप्रदम्। पुष्यदं च सुधृपं तं गृहाण परमेश्वरि ॥६२॥ सुगंधयुक्तं सुखदं मया तुभ्यं निवेदितम्। जगता दर्शनार्थाय प्रदीप दीसिकारकम् ॥६३॥ अन्धकारधव्रंसवीजं मया तुभ्यं निवेदितम्। तुष्टिदं पुष्टिदं चैव प्रोतिदं क्षुद्विनाशनम् ॥६४।। पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम्। तांबृलप्रवरं रम्यं कर्पूरादिसुवासितम् ॥६५॥ तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम्। सुशीतलं वारि शीतं पिरासानाशकारकम् ॥६६॥ जगतां जीवरपं च जीवनं प्रतिगृह्यताम्। देहशोभास्वंरूपं च सभाशोभाविवर्धनम् ॥६७॥ कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम्। कांचनादिविनिर्माणं श्रीकरं श्रीयुतं सदा ॥६८॥ मुखदं पुण्यदं रत्नभूपणं प्रतिगृह्यताम् । नानावृक्षसमुद्धतं नानारूपसमन्वितम् ॥६९।। फलस्वरूपं फलदं फलं च प्रतिगृह्यताम्। सर्वमंगलरूपं च सर्वमंगलमंगलम् ।७०॥ नानापुष्पविनिर्माणं बहुशोभासमन्त्रितम् । प्रीतिद पुणपदं चैव माल्यं च प्रतिगृह्यनाम् ॥७१।। पुण्यदं च सुगंधाढयं गंधं च देवि गृह्यताम्। सिंदूर च वरं रम्यं भालशोभाविवर्धनम् ॥७२॥ भूपणानां च प्रवरं सिंदूरं प्रतिगृह्यताम्। विशुद्धग्रंथिसंयुक्त पुण्यसूत्रविनिर्मितम् ।७३।। पवित्रं वेदमंत्रेण यज्ञसूत्रं च गृह्यताम्। द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुघीः।७४।
Page 644
१४४ श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्यायः २७ ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् । सावित्रीति चतुर्थ्यंतं वह्निजायान्तमेव च ॥७५॥। लक्ष्मीमायाकामपवं मंत्रमष्टाक्षरं विद्ुः । माध्यंदिनोक्तं स्तोत्रं च सर्वकामफलप्रदम् ॥७६।। विप्रजीवनम्पं च निबोध क्थयामि ते। कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा ॥७७॥ नायाति सा तेन सार्ध ब्रह्मलोके च नारद। ब्रह्मा कृष्णाज्ञया भक्तया तुष्टाव वेदमातरम् ॥७८।। तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् । ब्रह्मोवाच सनचिदानंदरूपे त्वं मृलप्रकृतिमपिणि ॥७९॥ हिरयगर्भम्पे श प्रसन्न। भव सुंदरि। तेज स्वर्पे परमे परमानंदरूपिणि ॥८० ।। द्विजातीनां जातिरूपे प्रसन्ना भव सुंदरि। नित्ये निर्त्याप्रन देवि नित्यानंदस्वरूपिणि ॥८१॥ सर्वमंगलरूप च प्रसन्ना भव सुंदरि। सर्वस्वरूपे विप्राणां मंत्रसारे परात्परे ।८२॥ सुखदे मोक्षदे देवि प्रसन्ना भव सुंदरि। विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ।।८३।। ब्रह्मतेजःप्रदे देवि प्रसन्ना भव सुंदरर। कारयेन मनसा वाचा यत्पापं कुरु्ते नरः ॥८४॥ तत्वत्स्मरणमात्रेण भस्मीभूतं भविर्ष्यत। दृत्युवत्वा जगता धाता तस्थौ तत्र च संसदि ॥८५॥ सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा। अनेन स्तवराजेन संस्तूयाश्रपतिर्नृपः ॥८६। ददर्श तां च सावित्रीं वरं प्राप मनोगतम्। स्तवराजमिमं पुण्यं संध्यां कृत्वा च यः पठेत् ॥ पाठे चतुर्णा वेदानां तत्फलं लभते च तत् ।।८७।। इति श्रीदेवीमागवते महापुराणे नवमस्कन्धे षडविशोऽध्यायः ॥२६॥ अथ सप्तविंशोऽध्यायः श्रीनारायण उवाच स्नुत्वाऽनन सोऽश्चपतिः संपूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रावसमप्रभाम् ॥१॥ उवाच सा च राजानं प्रसन्ना सस्मिता सती। यथा माता स्वपुत्रं च द्योतयंती दिशस्त्वषा ॥२॥
जानाम्यहं महाराज यत्ते मर्नास वांछितम्। वांछितं तव पत्न्याश्च सर्व दास्यामि निश्चितम् ॥३॥ सावित्र्युवाच
साध्वी कन्याभिलापं च वरोति तव कामिनी। वं प्रार्थयसि पुत्रं च भविष्यत क्रमेण च।४॥ दन्युकत्वा सा तदा देवी ब्रह्मलोकं ऊगाम है। राजा जगामश्वगृहं तत्कन्याऽडदौ वभृव ह।५॥ आराधनाच्च सावित्र्या वःव कमला परा। सावित्रीति स तन्नाम चकाराश्वपतिर्नृपः ॥६॥ कालेन सा वर्धमाना वभूव च दिने दिने। रूपयोवनसंपन्ना शुवले चंद्रकला यथा ।७॥ सा वरं वरयामास द्युमत्सेनात्मज तदा। सत्यवंतं सत्यशीलं नानागुणसमन्वितम् ।८।
Page 645
श्रीमद्ेवीभागवते महावुराणे नवमस्कन्धे अध्यायः २८ ६४५ राजा तस्म ददौ तां च रत्नभूषणभूषिताम्। सोऽपि सार्ध कोतुकेन तां गृहात्वा गृहं ययौ ॥ ९ ॥ सच सम्वत्सरेऽतीते सत्यवान्सत्यविक्रमः । जगाम फलकाष्ठार्थ सहर्पं पिनुराज्ञया ॥१०॥ जगाम साध्वी तत्पश्रात्सावित्री दैवयोगतः । निपत्य वृक्षात्तत्रैव प्राणांस्तत्याज सत्यवान् ॥११। यमस्तं पुरुषं दृध्टा बद्धाङ्गष्ठसमं मुने। गृहोत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥१२॥ पश्चात्तां सुदतीं दृध यमः संयमनीपतिः। उवाच मधुरं साध्वीं साधूनां प्रबरो महान् ॥१३। धर्मराज उवाच अहो क्व यासि सावित्रि गृहोत्वा मानुषों तनुम्। यदि यास्यसि कांतेन साध देहं तदा त्यज ॥१४॥ गन्तुं मर्त्यो न शक्नोति गृहोत्वा पांचभौतिकम् । देहं च, मम लोकं च नश्वरं नश्वरः सदा ॥१५॥ भर्तुस्ते पूर्णकालो वै बभूव भारते सति। स्व्कर्मफलभोगार्थ सत्यवान्याति मद्गृहम् ॥१६॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयने। सुखं दुःखं भयं शोक: कर्मगैव प्रणोयते ॥१७॥ कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मगा। स्वकर्मणा हरेदासो जन्मादिरहिनो भवेत् ।१८।। स्वकर्मणा सर्वसिद्धिममरत्वं लभेद्ध्रुवम्। लभेत्स्वकर्मणा वरिष्णोः सालोक्यदिचतुष्टयम् १९॥। सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः । स्वकमगा शिवत्वं च गणेशत्व तथैव च ॥२०॥ कर्मणा च मुनींद्रत्वं तपस्वित्वं स्वकर्मणा। स्व्कर्मणाक्षत्रियत्त्रं वैश्यत्वं न स्वकर्मणा ॥२१॥ कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः । स्वकर्मगाजङ्गमत्व शैलत्वं च्र स्वकर्मणा ॥२२॥ कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा। कर्मगैवाधिपत्यं च वृक्षत्वं च स्वकमंणा ॥।२३।। कर्मणैव पशुत्वं च वनजीवी स्वकर्मगा। कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्त्रकर्मणा ॥२४॥ दैतेयत्वं दानवत्वमसुरत्व स्वकर्मणा। इत्येतदुकत्वा सावित्री विरराम सवै यमः ॥२५॥ इति श्रीदेवीभागवते महापुराणे नवमस्कं्धे सपविशोऽध्यायः ॥२७॥ अथ अष्टाविंशोऽध्यायः श्रीनारायण उवाच यमस्य वरचनं श्रुत्वा सावित्री च पतिव्रता। तुष्टाव परया भक्या तमुवात मनस्त्रिनो॥१॥ सावित्र्युवाच कि कर्म तन्द्गवेत्केन को वा तद्ेतुरेव च। को वा देही च देहः कः को वाऽत कर्मकारकः ॥२॥ कि वा ज्ञानं च बुद्धि: का को वा प्राणः शरोरिणाम्। कानींद्रियाणि कि तेपां लक्षणं देवताश्च काः ॥३॥ भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः। को जीवः परमात्मा कस्तन्मे व्याख्यानुमर्हंसि ॥४॥ वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम्। अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥५॥ धम उवाच़
Page 646
६४६ श्रीमद्देवीमागवसे महापुराणे नवमस्कन्धे अध्यायः २८ अहैतुकी देवसेवा संकल्परहिता सती । कर्मनिर्मूलरूपा च सा एव परभक्तिदा ॥ ६॥ को वा कर्मफलं भंक्ते को वा निर्लिप्त एव च । ब्रह्मभक्तो यो नरश्र सच मुक्त्त श्रुतः श्रुतौ ॥७॥ जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ! भक्तिश्व द्रिविधा साध्वि श्रुत्युक्ता सर्वसंमता ॥ ८।। निर्वाणपददात्री च हरिरूपप्रदा नृणाम्। हरिरूपस्त्ररूपां न भकिकि वांछंति वैष्णवाः ॥१॥। अन्ये निर्वाणमिच्छंति योगिनो ब्रह्मवित्तमाः । कर्मणो बीजरूपश्र सततं तत्फलनदः ॥१० कमरूपश्च भगवान्परात्मा प्रकृतिः परा। सोऽपि तद्वेतुरूपश्रदेही नश्चर एव च ॥१॥ पृथिवी वायुराकाशो जलं तेजस्तर्थव च। एतानि सूत्ररूपाणि सृष्टिरूपविध्यौ सतः ॥१२॥। कर्म कर्ता च देही च आत्मा भोजयिता सदा। भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥१३॥। सदसन्द्दबीजं च ज्ञानं नानाविधं भवेत्। विषयाणां विभागानां भेदि बीज च कोतितम् ॥१४॥ बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम्। वायुभेदाश्च प्राणाश्च बलरूपाश्र देहिनाम् ॥१५॥ इन्द्रियाणां च प्रवरमीश्वरांशसमूहकम्। प्रेरकं कर्मणां चव दुर्निवार्य च देहिनाम् ॥१६।। अग्निरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम्। लोचनं श्रवणं ध्राणं त्वक्च रमनर्मिंद्रियम् ॥१७॥ अंगिनामंगरूपं च घ्रेरकं सर्वकर्मणाम्। रिपुरूपं मित्ररूपं सुखरूप च दुःखदम् ॥१८॥ सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः । प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥१९॥ परमं व्यापकं ब्रह्म निर्गुणः प्रकृते परः । कारण कारणानां च परमात्मा स उच्यते ॥२०॥ इत्येवं कथितं सर्व त्वया पृष्टं यथागमम्। ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥२१॥ सावित्र्युवाच त्यकत्वा क्व यामि कांतं वा त्वां वा ज्ञानाणवं ध्रुवम्। यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति ॥२२॥ कां कां योनि याति जीवः कर्मणा केन वा पुनः । केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥२३॥ केन वा कर्मणा मुक्ति: केन भक्तिर्भवेद्गुरो। केन वा कर्मणा योगी रोगी वा केन कर्मणा ॥२४॥ केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा। केन वा कर्मणा दुःखी सुखी वा केन दर्मणा।।२' अंगहीनश्च काणश्च बधिरः केन कर्मणा ! अंधो वा पंगुरपि च प्रमत्तः केन कर्मणा ॥२६॥ क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् । केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥२७॥ केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा। स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥२८॥ गोलोवं केन वा ब्रह्मन्सर्वोरकृष्ं निरामयम्। नरकोवाकतिविधः किसरूयो नाम कि च वा२९।। को वाकं नरकं याति कियंत तेषु तिष्ठति । पापिनां कर्मणा केन को वाव्याधिः प्रजायते ॥ यद्यत्प्रियं ममा पृषटं तन्मे व्याख्यातुमर्हसि॥३०॥ इति श्रीदेवीभागवते नवमस्क्रन्धे नारदनारायणसंवादे सावित्रयुपाख्यानेऽष्टाविशोऽध्यायः॥८।
Page 647
श्रीमद्ेवीमागवते महापुराणे नवमस्कन्धे अध्याय: २९ ६४७ अथकोनत्रिंशोऽध्यायः श्रीनारायण उवाच सावित्रोवचनं श्रुत्वा जगाम विस्मयं यमः । प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥१॥ धम उवाच कन्या द्वादशवर्षीया वत्से त्वं वयसाऽधुना। ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥२॥ सावित्रीवरदानेन त्वं सावित्री कला सती। प्राप्ता पुरा भूभृता च तपसा तत्समा सुते ॥३॥ यथा श्रीः श्रीपतेः क्रोडे भवानो च भवोरसि। यथाऽदितिः कश्यपे च यथाऽहल्या च गौतमे॥४॥ यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी। यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥५॥ यथा स्वधा च पितृषु यथा संध्या दिवाकरे। वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥६॥ यथा वराहे पुथिवी देवसेना च कार्तिके। सौभाग्यासु प्रिया त्वं च तथा सत्यवतः प्रिये ॥७॥ अयं तुभ्यं वरो दत्तोजप्यपरं च यथेप्सितम् । वृणु देवि महाभागे ददामि सकलेप्सितम् ॥८॥ सावित्र्युवाच सत्यव्रत औरसानां पुत्राणां शतकं मम। भविष्यति महाभाग वरमेनन्मदीप्सितम् ।९॥ मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी। राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम् ॥१०॥ अंते सत्यवता सार्धं यास्यामि हरिमंदिरम्। समतीते लक्षवर्षे देहोदं मे जगत्प्रभो ॥११॥ जीवकर्मविपाकं च श्रातु कोतूहलं मम। विश्वनिस्तारबीजं च तन्मेव्याख्यातुमर्हसि ॥१२॥ धमराज उवाच भविष्यति महासाध्ति सवं मानसिकं तव। जीवकमविपाकं च कथयामि निशामय ।१३॥ शुभानामशुभानां च कर्मणां जन्म भारते। पुण्यक्षेत्रे च नान्यत्र सर्वं च भुंजते जना: ॥१४॥ सुरा. दैत्या दानवाश्र गन्वर्वा राक्षसादयः । नराश्च सर्वजनका नं सर्वे जीविनः सति ॥१५॥ विशिष्टजीबिनः कर्म भुजते सर्वयोनिषु। शुभाशुभं च सर्वत्र स्त्रगेंषु नरकेषु च ॥१६॥ विशेषतो जीविनश्च भ्रमंते सर्वयोनिषु। शुभाशुभं भुंजते च कर्म पूर्वार्जितं परम् ॥१७॥ शुभेन कर्मणा याति स्वलोकादिकमेव च। कर्मणा चाशुभेनैव भ्रमंति नरकेषु च ॥१८। कर्मनिर्मूलने भक्ति: सा चोक्ता द्विविधा सति। निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह ॥१९ रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा। दोर्घजीवी च क्षीणायुःसुखी दुःखी च कर्मणारः॥। अन्धादयश्चांगहीना: कर्मणा कुत्सितेन च। सिद्धयादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥१॥ सामान्यं कथितं देवि विशेषं शृणु सुंदरि। सुदुर्लभं सुगोप्यं च पुराणेपु स्मृतिष्वपि ।२२।। दुर्लभा मानुषी जाति: सर्वजातिषु भारते। सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥२३॥
Page 648
६४८ 2 मह्वाभागवत महापुराणे नवमस्कन्धे अध्याग: ९ ब्रह्मनिष्टो द्विजश्रैव गरीयान् भारते सति। निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति॥२४॥ सकामाच्च प्रधानश्च निष्कामो भक्त एव च । कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ।२५।! स याति देहं त्यवत्वा च पदं यत्तन्निरामयम् । पुनरागमनं नास्ति तेषां निष्कामिनां सति ॥२६॥। सेवंते द्विभुजं कृष्णं परनात्मानमीश्वरम्। गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥२७॥ सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च। भारतं पुनरायांति तेषां जन्म द्रिजातिषु।२८॥ काले गते च निष्कामा भवंत्येव क्रमेण च। भक्ति च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः ॥ ब्राह्मणा वैष्णवाश्रैव सकामाः सर्वजन्मसु। न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिता ॥३०॥ तीर्थाश्रिता द्रिजा ये च तपस्यानिरताः सति। ते यांति ब्रह्मलोकं च पुनरायांति भारते ॥३१॥ स्वधर्मनिरता ये च ये च तीर्थनिवासिनः । व्रजति ते सत्यलोक पुनरायांति भारते ॥३ स्वधर्मनिरता विप्रा: सूर्यभक्ताश्च भारते। व्रजंति ते सूर्यलोकं पुनरायांति भारते ॥३३॥ मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः । मणिद्वीपं प्रयांत्येव पुनरावृत्तिवर्जितम् ॥३४' स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्र गाणपाः। ते यांति शिवलोकं च पुनरायांति भारते ॥३५॥ ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति। ते यांति सर्पलोकं च पुनरायांति भारते ॥३६॥ हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः । ते यांति च हरेलोंकं क्रमानद्क्तिबलादहो॥३७॥ स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा। भ्रष्टाचाराश्र कामाश्र ते यांति नरकंध्रुवम् ॥३८॥ स्वधर्मनिरता एव वर्णाश्चत्वार एव च । भवंत्येव शुभस्यैब कर्मणः फलभोगिनः ।३९॥ स्वकर्मरहिता ये च नरकं यांति ते ध्रुवम्। भारते न भवंत्येव कर्मणः फलभोगिनः ।४९॥ स्वधर्मनिरता एव वर्णाश्रत्वार एव च ।स्वधर्मनिरता विप्राः स्वधर्मनिरताय च।४१॥ कन्यां ददति विप्राय चंद्रलोकं प्रयांति ते। वसंति तत्र ते साध्बि यावर्दिद्राश्चतुर्दश ।।४२। सालंकृताया दानेन द्विगुणं फलमुच्यते। सकामा यांति तल्लोकं ने निष्कामाश्च साधवः ॥ ते प्रयांति विष्णुलोकं फलसंघातवर्जिताः । गव्यं च रजतं सवर्ण वस्त्रं सर्पिः फलं जलम् ४४॥। ये ददत्येव विप्रेभ्यश्चंद्रलोकं प्रयांति ते। वसंति ते च तल्लोकें यावन्मन्वंतरं सति ।४५॥ सुचिरात्सुचिर जासं कुर्वन्ति तेन ते जनाः। ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति ॥४६॥। ते यांति सूर्यलोकं च शुचये ब्राह्मणाय च। वसंति ते तत्र लोके वर्षाणामयुतं सति ॥४७॥ विपुले सुचिरं वासं कुर्वन्ति च निरामयाः । ददाति भूरमि विप्रेभ्यो धनानि विपुलानि च ॥४८॥ स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् । तत्रव निवसत्येव यावच्चंद्रदिवाकरौ ॥४९॥ विपुले विपुलं वासं करात. पुण्यवान्मुने। गृहं ददति विप्राय ये जना भक्तिपूर्वकम् ॥५०॥ ते यांति विष्णुलोकं च सुचिरं सुखदायकम्। गृहरेणुप्रमाणं च विष्णुलोके महत्तमे ॥५१॥
Page 649
श्रीमदेवीमागव्रते महापुराणे नवमसकन्धे अध्याय: ३० ६४९ विपुले विपुलं वासं कुर्वन्ति मानत्राः सति। यस्म यस्मै च देवाय यो ददाति गृहं नरः ॥५२॥ सयाति तस्य लोकं च रेणुमानान्दमेव च। सौधे चतुर्गुणं पुण्य. देशे शतगुग फलम् ॥५३॥ प्रकुष्टे द्विगुणं तस्मादित्याह कमलोद्धवः। यो ददाति तडागं च सर्वपापापनुतये॥५४॥ स याति जनलोकं च रेणुमानाब्दमेव च। वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा॥।५५॥ स तु वापीप्रदानेन तडागस्य फलं लभेत्। धनुश्चतुःमहस्त्रेण दैर्ध्यमानेन निश्चितम् ॥५६॥ न्यूना वा तावती प्रस्थे सा वापी परिकोर्तिता। दशवापीसमा कन्या यदि पात्रे प्रदीयते ॥५७।। फलं ददाति द्विगुणं यदि साडलंकृता भवेत्। यत्फलं च तडागे च तदुद्धारे च तत्फलम् ॥५८॥ वाप्याश्र पंकोद्धरणे वापीतुल्यफलं लभेत् । अश्वत्यवृक्षमारोप्य प्रतिष्ठां यः करोति च ॥५९।। स प्रयाति तपोलोकं वर्षाणामयुतं सति। पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ॥६०॥ स वसेद्ध्रुवलोके च वर्षाणामयुतं ध्रुवम्। यो ददाति विमानं च विष्णवे भारते सति॥६१॥ विष्णुलोके वसेत्सोऽपि यावन्मन्वंतरं परम्। चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम् ॥६२॥ तस्याधं शिबिकादाने फलमेव लभेद्धुवम्। यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ॥६३॥ विष्णुलोके वसेत्सोऽि यावन्मन्वन्तरं शतम्। राजमार्ग मौधयुक्तं यः करोति पतिव्रते ॥६४॥ वर्षाणामयुतं सोऽपि शक्रलोके महीयते। ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफल लभेत् ॥६५॥ यद्धि दत्तं च तद्ंके न दत्तं नोपतिष्ठते । भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते ॥ लभेद्विप्रकुलेष्वेव क्रमेणवोत्तमादिषु। भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम् ॥ पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः। क्षत्रियो वाथ वैश्योवा कल्पकोटिशतेन च ॥६८॥ तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम्। नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥६९॥ एतत्ते कथितं किंचित्कि भूयः श्रोतुमिच्छसि ॥७०॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे नारदनारायणसंवादे सावित्रयुपाख्यान एकोनन्रिशोऽध्यायः ।२९।। अथ त्रिंशोऽध्यायः
प्रयांति स्वर्गमन्यं च येनैव कर्मणा यम। मानवाः पुण्यवंतश्च तन्मे व्याख्यातुमर्हसि ॥१॥ सावित्र्युवाच
घर्मराज उवाच अन्नदानं च विप्राय यः करोति च भारते। अन्नप्रमाणवर्ष च शिवलोके महोयते ।२॥ अन्नदानं महादानमन्येभ्योऽपि करोति यः। अन्नदानप्रमाणं च शिवलोके महीयते ॥३॥
Page 650
६५० श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३० अन्नदानात्परं दानं न भूतं न भविष्यति। नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित्॥४॥ देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि। महीयते निष्णुलोके वर्षाणामयुतं सति ॥५॥ यो ददाति च विप्राय दिव्यां धेनुं पर्यासस्विनीम्। तल्लोममानवर्षं च विष्णुलोके महोयते ॥६॥ चतुर्गुणं पुण्यदिने तीर्थे शतगुणं कलम्। दानं नारायणक्षेत्रे फलं कोटिगुणं भवेत् ।।७।। गां यो ददाति विप्राय भारते भक्तिपर्व्कम्। वर्गाणामयतं चैव चन्द्रलोके महीयते ॥८॥ यश्चोभयमुखीदानं करोति ब्राह्मणाय च । तल्लोममानवर्ष च विष्णुलोके महोयते ॥९॥ यो ददाति व्राह्मणाय श्वेतच्छत्रं मनोहर। वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥१०॥ विप्राय पोडितांगाय वस्त्रतग्मं ददाति च। महायते वायुलोके वर्पाणामयुतं सति ॥११॥ यो ददाति द्राह्मणाय शालग्रामं सवस्त्रकम् । महोयतें स वैकुंठे यावच्चंद्रदिवाकरौ ॥१२॥ यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम्। महोयते चन्द्रलोके यावच्चंद्रदिवाकरौ ॥१३॥ यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च। यावन्मन्वंतरं सोऽपि वह्निलोके महीयते ॥१४॥ करांति गजदानं च यदि विराय भारते। यावदिंद्रो नरस्तावदिद्रस्यार्धासिने वसेत् ॥१५॥ भारते योऽश्वदानं च करोति ब्राह्मणाय च। मोदते वारणे लोके यावन्मन्वन्तरं सति ॥१६॥ प्रकृष्टां शिविकां यो हि ददाति ब्राह्मणाय च। मोदते वारुणे लोके यावदिंद्राश्चतुर्दश ॥१७। प्रकृष्टां वाटिकां यो हि ददानि ब्राह्मणाय च। महीयते वायुलोके यावन्मन्वन्तरं सति ॥१८॥ यो ददाति च विप्राय व्यजन श्वेतचामरम्। महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥१९॥ धान्यं रत्नं यो ददाति चिरंजीवी भवेत्सुधीः । दाता ग्रहीता तौ दौ च ध्रुवं वैकुण्ठगामिनौ २०॥ सततं श्रीहरेर्नाम भारते यो जपेन्नरः । स एव चिरजीवी च ततो मृत्युः पलायते ॥२१॥ यो नरो भारते वर्षे दोलनं कारयेत्सुधीः । पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥२२॥ इह लोके सुखं भुक्त्वा यात्यंते विष्णुमन्दिरम्। निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥२३॥ फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत्। कल्पांतजीवी स भवेदित्याह कमलोद्द्वः ॥२४॥। तिलदानं ब्राह्मणाय यः करोति च भारते। तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥२५॥ ततः सुयोनिं संप्राप्य चिरंजीवी भवेत्सुखी। ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ।२६।। सालंकृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम्। यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥२७॥ महीयते चंद्रलोके यावदिद्राश्चतुर्दश ।तत्र स्वर्वेश्यया सारधं मोदते च दिवानिशम् ॥२८॥ ततो गंधर्वलोके च वर्षाणामयुतं ध्रुवम्। दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥२२॥ ततो जन्मसहस्त्रं च प्राप्नोति सुन्दरी तियाम्। सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनोम ।। प्रददाति फलं चारु ब्राह्मणाय च यो नरः। फलत्रमाणवर्ष च शक्रलोके महोयते ॥३१॥
Page 651
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३ १५१ पुनः सुयोनिं संप्राप्य लभते सुतमुत्तमम् । सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ३२॥ केवलं फलदानं वा ब्राह्मणाय ददाति च। सुचिरं स्वर्गवासं च कृत्वा याति स भारते ॥३३॥ नानाद्रव्यसमायुक्त नानासस्यरामन्वितम : ददाति यश्च विप्राय भारते बिपलं गृहम् ॥३४! सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम्। ततः सुयोनिं संप्राप्य स महाधनवान्भवेत् ॥३५॥ यो नरः सस्यसंयुक्तां भूरमि च रुचिरां सति। ददाति भवत्या विप्राय पुण्यक्षेत्रे च भारते ॥३६॥ महीचते च वैकुण्ठे मन्वन्तरशतं ध्रुवम्। पुनः सुयोनि संप्राप्य महांश्र भूमिपो भवेत् ॥३'७॥ तं न त्यजति भूमिश्च जन्मनां शनकं परम्। श्रीमांश्च धनत्रांश्चैव पुत्रवांश्च प्रजेश्वरः ॥३८॥ यो व्रजं न प्रकृष्टं च ग्रामं दद्यान्निजाय च। लक्षमन्वन्तरं चैव वैकुण्ठेस महीयते ॥३९॥ पुनः सुयोनिं संप्राप्य ग्रामलक्षसमन्वितम ! न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥४०॥ सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम्। नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ।४१॥ नगरं यश्च विप्राय ददाति भारते भुवि। महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥४२॥ पुनः सुयोनिं संप्राप्य राजेन्द्र भारते भवेत्। नगराणां च नियुतं स लभेन्नात्र संशयः ॥४३॥ धरा तं न जहात्येव जन्मनामयुतं ध्रुवम्। परमैश्वर्यसंयुक्त्तो भवेदेव महीतले ॥४४॥ नगराणां च शतकं देशं यो हि द्विजातये। सुप्रकृष्टं मध्यक्रृष्टं प्रजायुक्तं ददाति च ॥४५॥। वापीतडागसंयुक्तं नानावृक्षसमन्वितम् । महीयते स वैकुण्ठे कोटिमन्वन्तराबधि ॥४६॥ पुनः सुयोनिं संप्राप्य जंबुद्वीपपतिर्भवेत्। परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥४७॥ मही तंन जहात्येव जन्मनां कोटिमेव च। कल्पांतजीवी स भवेद्राजराजेश्वरो महान् ॥४८।। स्वाधिकारं समग्रं च यो ददाति द्विजातये। चनुर्गुणं फलं चांते भवेत्तस्य न संशयः ॥४९॥ जंबुद्वीपं यो ददाति ब्राह्मणाय तपस्विने। फलं शतगुणं चांते भवेत्तस्य न संशयः ॥५०॥ जंबद्रीपमहीदातुः सर्वतीर्थानि सेवितुः। सर्वेपां तपसां कतृँः सर्वेषां वासकारिणः ॥।५१॥ सर्वदानप्रदातुक्ष सर्वसिद्वेश्वरस्य च । अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥५२॥ असंख्यब्रह्मणां पातं पश्यंन्ति भुवनेशितुः। निवसंति मणिद्वीपे श्रीदेव्याः परमे पदे॥५३॥ देवोमन्त्रोपासकाश्च विहाय मानवीं तनुम्। विभूर्ति दिव्यरूपां च जन्ममृत्युजराहराम् ॥५४॥ लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते। पश्यन्ति ते मणिद्वीपे सखंडं लोकसंक्षयम् ॥५५॥ नश्यति देवा: सिद्धाश्च विहाय मानवीं तनुम्। विभूरति दिव्यरूपां च जन्ममृत्युजराहराम् ॥५६॥ कारतिके तुलसीदानं करोति हरये च यः । युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥५७॥ पुनः सुयोनि संप्राप्य हरिभक्ति लभेद्ध्रुवम्। जितेन्द्रियाणां प्रवरःस भवेद्भारते भुवि ॥५८॥ मध्ये यः स्नाति गंगायामरुणोदयकालतः । युगषष्टिसहस्राणि मोदते हरिमन्दिरे॥५९॥
Page 652
६५२ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३० पुनः सुयोनिं संप्राप्य विष्णुमंत्रं लभेद्ध्रुवम् । त्यकत्वा च मानुषं देहं पुनर्याति हरे: पदम् ॥६०॥ नास्ति तत्पुनरानृत्तिवॅकुंठाच्च महोतले। करोति हरिदास्यं च तथा सारूप्यमेव च ।।६१।। नित्यस्नायी च गंगायां म पूतः सूर्यवद्दुवि। पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥६२॥ तस्यव पादरजसा पद्यःपूता वसुन्धरा। मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥६३॥ पुनः सुयोनिं संप्राप्य हरिभकि लभेद्ध्रुवम्। जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥६४॥ स्वधर्मीनरतः शुद्धो विद्वांश्च स जितेन्द्रियः । मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥६५॥ भारते यो ददात्येव जलमेव सुवासितम्। स मोदते च कैलासे यावदिंद्राश्चतुर्दश ॥६६॥ पुनः सुयोनिं संप्राप्य रूपवांश्र सुखी भवेत् । शिवभक्तश्च तेजस्वो वेदवेदांगपारगः ॥६७।। वैशाखे सक्तुदानं च यः करोति द्विजातये। सक्तुरेणुप्रमाणब्दं मोदते शिवमन्दिरे॥६८॥ करोति भारते यो हि कृष्णजन्माष्टमीव्रतम्। शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥६९॥ वैकुंठे मोदते सोऽपि यावदिंद्राश्चतुर्दश ।पुनःसुयोनि संप्राप्य कृष्णे भक्ति लभेद् ध्रुवम् ७०।। इहैव भारते वर्षे शिवरात्रि करोति यः। मोदते शिवलोके स सप्तमन्वन्तरावधि ॥७१॥ शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः । पत्रमानयुगं तत्र गोदते शिवमन्दिरे ॥७२।। पुनः सुयोनि संप्राप्य शिवभक्ति लभेद्ध्रुवम् । विद्यावान्पुत्रवाञ्छ्ीमान्प्रजावान्भूमिमान्भवेत् ७३।। चत्रमासेऽथवा माघे शंकरं योऽचयेद्व्रती। करोति नर्तनं भक्तया वेत्रपाणिर्दिवानिशम् ७४॥ मासं वाऽप्यर्धमास वा दश सप्त दिनानि च । दिनमानयुगं सोऽपि शिवलोके महीयते ॥७५॥ श्रीरामनवमीं यो हि करोति भारते पुमान्। सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे।७६॥। पुनः सुयोनि संप्राप्य रामभक्ति लभेद्ध्रुवम् । जितेन्द्रियाणां प्रवरो महांश्र धनवान्भवेत् ॥७७॥ शारदीयां महापूजां प्रकृतेर्यः करोति च । महिषेश्छागलर्मेषैः खङ्गभेकादिभिः सति॥७८॥
शिवलोके वसेत्सोऽप सप्तमन्वन्तरावधि ।पुनः सुयोनिं संप्राप्य नरो बुद्धिं च निर्मलाम् ८०।। अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम। महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥८१॥ राजराजेश्वरः सोपि भवेदेव न संशयः। ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् । नित्यं भक्तया पक्षमेकं पुण्यक्षेत्रे च भारते। दत्त्वा तस्ये प्रकृष्टानि चोपचाराणि षोडश ।।८३।। गोलोके च वसेतसोपि यावदिन्द्राश्चतुर्दश। पुनः सुयोनिं संप्राप्य राजराजेश्वरो भवेत् ।।८४।। कारत्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम्। गोपानां शतकं कृत्वा गोपीनां शतकं तथा ।।८५॥ शिलायां प्रतिमायां च श्रीकृष्णं राधया सह । भारते पूजयेद्क्त्या चोपचाराणि षोडश ॥।८६। गोलोके वसते सोऽपि यावद्र ब्रह्मणो वयः। भारतं पुनरागत्य कृष्णे भक्ति लभेद्ध्रुवम् ।८७॥
Page 653
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: १० ६५३ क्रमेण सुदृढ़ां भक्ति लब्ध्वा मंत्रं हरेरहो। देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥८८। ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत्। पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ।।८९॥ शुक्लां वाऽप्यथवा कृप्णां करोत्येकादशी च यः । वकुंठे मोदते सोऽपि यावद्वं ब्रह्मणो वयः ॥९०॥ भारतं पुनरागत्य कृष्णभक्ति लभेद् ध्रुवम्। क्रमेण भक्ति सुदृढां करोत्येका हरेरहो :९१। देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः। ततः कृष्णस्य सारूप्यं संप्राप्य पार्षदो भवेत् ९२॥ पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् । भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥९३॥ षष्टिवर्षसहस्त्राणि शक्रलोके महोयते। रविवारे च संक्रांत्यां सतम्यां शुक्लपक्षके।९४।। संपूज्यार्क हविष्यान्नं यः करोति च भारते। महीयते सोडर्कलोके यावर्दिद्राश्चतुर्दश ।९५॥ भारतं पुनरागत्य चारोगी श्रीयुतो भवेत्। ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ९६।। महीयते ब्रह्मलोके सप्तमन्व्रंतरावधि। पुनर्महीं समागत्य श्रीमानतुलविक्रमः ।९७॥ चिरंजीवी भवेत्सोऽपि ज्ञानवान्संपदायुतः । माघस्य शुक्लपंचम्यां पूजयेद्यः सरस्व्रतीम् ॥।९८।। संयतो भकितो दत्वा चोपचाराणि षोडश। महीयते मणिद्रीपे यावद्ब्रह्म दिवानिशम् ॥९९॥ संप्राप्य च पुनर्जन्म स भवेत्कविपंडितः । गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति चा। १००॥ निन्यं जीवनपयंतं भक्तियुक्तश्र भारते। गवां लोमप्रमाणाब्दं त्रिगुणं विष्णुमंदिरे ॥१०१॥ मोदते हरिणा सार्धं क्रीडाकौतुकमंगलैः । तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ।१०२॥ श्ीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी। भोजयेद्योडपिमिष्टान्न ब्राह्मणेभ्यश्र भारते ॥१०३॥ विप्रलोमप्रमाणाव्दं मोदते• विष्णुमंदिरे। ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥१०४।। विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः । यो वक्ति वा ददात्येव हरेर्नामानि भारते १०५॥ युगं नामप्रमाणं च विष्णुलोके महीयते। ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥१०६॥ यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत्। नाम्नां कीटिं हरेर्यों हि क्षेत्रे नारायणे जपेत् १०७।। सर्वपापविनिर्मुक्त्ो जीवन्मुक्तो भवेद्ध्रुवम् ! न लभेत्स पुनर्जन्म वैकुंठे स महीयते ॥१०८॥ लभेद्विष्णोश्र सारूप्यं न तस्य पतनं भवेत्। विष्णुभकि लभेत्सोपि विष्णुसारूप्यमानुयात् । िवं यः पूजयेन्नित्यं कृत्वा लिंगं च पार्थिवम्। यावज्जीवनपर्यंतं स याति शिवमंदिरम् ॥११०॥ मृदो रेणुप्रमाणब्दं शिवलोके महीयते। ततः पुनरिहागत्य राजेंद्रो भारते भवेन् ॥१११॥ शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति। महीयते च वैकुष्ठे यावद्र ब्रह्मणः शतम् ॥११२॥ ततो लब्ध्वा पुनर्जन्म हरिभक्ति च दुर्लभाम्। महीयते विष्णुलोके न तस्य पतनं भवेन् ॥११३॥ तपांसि चैव सर्वाणि व्रतानि निखिलानि च। कृत्वा तिष्टति वैकुण्ठे यावदिद्राश्चतुर्दश ॥११४॥ ततो लब्ध्वा पुनर्जन्म राजेंद्रो भारते भवेत्। ततो मुक्त्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥११५॥
Page 654
६५४ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३० यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् । स तु निर्वाणतां याति न तज्जन्म भवेदुवि ॥११६॥ पुण्यक्षेत्रे भारते च योऽश्वमेधं कराति च । अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ११७॥ चतुर्गुणं राजसूयफलमाप्नोति मानवः । सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ विष्णुना च कृतः पूर्व ब्रह्मणा च वरानने। शंकरेण महेशेन त्रिपुरासुरनाशने ॥११९॥ शक्तियज्ञः प्रधानश्र सर्वयज्ञेषु सुन्दरि। नानेन सदृशो यज्ञस्त्रिषु लोकेपु विद्यते १२०॥ दक्षेण च कृतः पूर्व महान्संभारसंयुतः । बभूव कलहो यत्र दक्षशंकरयाः सति १२१॥ शेपुश्च नंदिनं विप्रा नंदी विप्रांश्च कोपतः। यदेतोर्दक्षयज्ञं च वभंज चन्द्रशेखरः ॥१२२॥ चकार देवीयजं स पुगा दक्षः प्रभापतिः। धर्मश्च कय्यपश्रंव शेपश्चापि च कर्दमः ॥१२३॥ स्वायंभुवो मनुश्रैव तत्पुत्रश्न प्रियव्रतः । शिवः सनत्कुमारश्र कपिलश्च ध्रुवस्तथः ॥१२४॥ राजसूयसहस्त्राणां फलमाप्नोति निश्चितम् । देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥१२५॥ वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम्। ज्ञानेन तेजसा नैव विष्णुतुल्यो भवेदिह ॥१२६॥ देवानां च यथा विष्णुवेष्णवानां च नारदः। शास्त्राणां च यथा वेदा वर्णानांब्राह्मणो यथ्ा१२७।। तीर्थानां च यथा गंगा पवित्राणां शिवो यथा। एकादशी व्रतानां च पुष्पाणां तुलसी यथा १२८। नक्षत्राणां यथा चंद्रः पक्षिणां गरुडो यथा। यथा स्त्रोषां च प्रकुती राधा वाणी वसुधरा१२९।। शोघ्राणां चेंद्रियाणां चचंचलानां मनो यथा। प्रजापतीनां ब्र्ह्रा च प्रजाना च प्रजापतिः॥१३०।। वृन्दावनं बनानां च वर्पाणां भारतं यथा। श्रीमतां चयथा श्रीश्च विदुषा च सगस्वती॥१३१॥ पनिव्रतानां दुर्गा च सौभाग्यानां च राधिका। देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥१३२॥ अश्वमेवशतेनैव शक्रत्वं च लभेद्ध्रुदम्। सहस्रेण विष्णुपदं संप्राप्तः पृयुरेव च ॥१३३॥ स्नानं च सर्वतोर्थाना सवयज्ञेपु दोक्षणम्। सर्वेपां च व्रतानां च तपसा फलमेव च ॥३३४।। पाठे चनुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा। रुलभूतमिदं सर्वं मुक्तिदं शक्तोवनम् ।१३५।। पुराणेपु च वेदेपु चेततिहासेषु सर्वतः। निरूनितं सारभूनं देवापादांबुजार्सनम् ॥१३६॥ तद्रणन च तद्वयनं तन्नामगुणकीर्तनम्। तत्स्तोत्रस्मरणं चैव वंदनं जपमेव च ॥१३७॥ तत्पादोदकनैवेद्य भक्षणं नित्यमेव च। सर्वसम्मतमित्येवं सर्वेप्मितमिदं सति ॥१३८।। भज नित्यं परं ब्रह्म निर्गुणं प्रकृर्ति पराम्। गृहाण स्वामिनं वत्से सुखं वस च मंदिरे।।१३९।। अयं ते कथितः कर्मविपाको मंगलो नृणाम्। सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥१४०॥ इति श्रीदेवीमागवते महापुराणे नवमस्कन्धे त्रिशोऽध्यायः ॥ ३० ॥
Page 655
श्रीमद्दवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३२ ६१५ अथैकत्रिंशोऽध्यायः श्रीनारायण उवाच शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साध्रुनेत्रा सपुलका यमं पुनरुवाच सा ।१।। सावित्र्युवाच शक्तेरुत्कीर्तनं धर्म:सकलोद्धारकारणम्। श्रोतृणां चव वक्तृणां जन्ममृत्युजराहरम् ॥२॥ दानवानां चः सिद्धानां तपसां च परं पदम् । योगानां चैव वेदानां कीर्तनं सेवनं विभो: ॥३॥ मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च । श्रीशक्तिसेवकस्यैव कलां नाहंति षोडशीम् ॥।४। भजामि केन विधिना वद वेदविदां वर। शुभकर्मविपाकं च श्रुतं नृणां मनोहरन् ॥५॥ कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि। इत्युक्त्वा च सती ब्रह्मन्भक्तिनम्रात्मकंधरा ॥६॥ तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च । सावित्र्युवाच तपसा धर्ममाराध्य पुष्करे भास्करः पुरा॥७॥ धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम्। समता सर्वभूतेषु यस्य सर्वस्य साक्षिण: ।।८।। अतो यन्नामशमनमिति तं प्रणमाम्यहम्। येनांतश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥९॥ कामानुरूपं कालेन तं कृतांतं नमाम्यहम् । बिभति दंडं दंडाय पापिनां शुद्धिहेतवे ॥१०॥ नमामि तं दंडधरं यः शास्ता सर्वजीविनाम्। विश्वं च कलयत्येव यः सर्वेपु च संततम् ॥११। अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वो ब्रह्मनिष्ठो यः संयमी संजितेद्रियः ॥१२॥ जीवानां कर्मफलदस्तं यम प्रणमाम्यहम्। स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥१३॥ पापिनां क्लेशदो यस्तं पुण्यं मित्रं नमाम्यह्म् । यज्जन्म ब्रह्मणोंडशेन ज्वलंतं ब्रह्मतेजसा ॥१४॥ यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम्। इत्युकत्वासा च सावित्री प्रणनाम यमं मुने ॥१५॥ यमस्तां शक्तिभजनं कर्मपाकमुवाच ह। इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥१६॥ यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते। महापापी यदि पठेन्नित्यं भक्तिसमन्वितः ॥ यम: करोति संशुद्धं कायव्यूहेन निश्चितम् ॥१७॥ इति श्रीदेवीभागवते महापुरणे नवमस्कन्धे एकत्रिंशोऽध्वायः ॥३१॥ अथ द्वात्रिंशोऽध्यायः श्रीनारायण उवाच मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥१॥
Page 656
६५६ श्रीमद्देवीमागवते महापुराणे नवमस्कन्ध अध्याय: ३२ धमराज उवाच शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय ॥२॥ नानापुराण भेदेन नामभेदेन भामिनि। नानाप्रकारं स्वर्गच याति जीवः स्वकर्मभिः ॥३॥ शुभक्मविपाकान्न नरकं याति कर्मभः । कुवर्मणा च नरकं याति नानाविधं नरः ॥४॥ नरकाणां च कुण्डानि संति नानाविधानि च। नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ।५॥ विस्तृतानिच मतानि क्लेशदानि च दुःखिनाम् । भयंकराणि धोराणि हे वत्से कुत्सितानि च ॥६॥ षडशीति च कुण्डानि एवमन्यानि संति च। निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥७।। वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् ; विट्कुण्डं मूत्रकुण्डंच ्लेष्मकुण्डंच दुःमहम् ॥८॥ गरकुण्डं दूषिकुण्डं वसाकुण्डं तर्थव च। शुक्रकुण्डमसृक्कुंडमश्रुकुण्डं च कुत्सितम् ॥९॥ वु.ण्डं गात्रमलानां च कर्णदिट्कुण्डमेव च । मज्जाकुण्डं मांसकुंडं नक्रकुंड च दुस्तरम् ॥१०॥ लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् । ताम्रकुंड लोहकुण्ड प्रतप् क्लेशदं महत् ॥११॥ चर्मकुण्डं तप्तसुराकुण्डं च परिकीतितम्। तीक्ष्णकंटककुण्डं च विषोदं विषकुण्डकम् ॥१२॥ प्रतप्तकुंड तलस्य कुन्तकुण्डं च दुर्वह्म् । कृमिकुण्डं प्यकुंडं सर्पकुण्डं दुरन्तकम् ॥१३॥ मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम्। कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुबते ॥१४॥ शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम्। गोलकुण्डं नक्रकुण्डं काककुंडं शुचास्पदम् ॥१५॥ मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् । तप्तपाषाणकुण्डं च तीक्ष्णपाषाण कुण्डकम् ॥१६॥ लालाकुण्डं मसीकुण्डं चूर्णकुण्डें तर्थव च । चक्रकुण्डं वक्रकुण्डं कूर्मकुंडं महोल्बणम् ॥१७॥ ज्वालाकुंडं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते। तप्तसूचीमसिपत्रं क्षुरध्रं सूचिकामुखम् ॥१८॥ गोकामुखं नक्रमुखं गजदंशं च गोमुखम्। कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥१९॥ पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् । उल्कामुखमंधकूपं वेधनं ताडनं तथा ॥२०॥ जालरंध्रं देहचूर्णं दलनं शोषणं कषम्। शूर्प ज्वालामुखं चैव धूमांधं नागवेष्टनम् ॥२१॥ कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च। नियुतैः किंकरगण रक्षितानि च संततम् ।२२॥ दण्डहस्तैः पाशहस्तैर्मदमत्तर्भयंकरैः । शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥२३॥ तमोयुक्तदयाहीनैरनिवार्येश्च न सर्वतः । तेजस्विभिश्च निःशंकैराताम्रपिंगलोचनैः ॥२४॥ योगयक्त: सिद्धियुक्तर्नाना रूपध रैर्भेटैः । आसन्नमृत्युभिर्द्ष्टैः पापिभिः सर्वजीविभिः ॥२५॥ स्वकर्मनिरतैः सर्वेः शाकः सौरेश्र गाणपैः । अदृश्यैः पुण्यकृद्धिश्च सिद्धर्योगिभिरेव च ॥२६॥ स्त्रधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः। वल्वद्ध्िश्च निःशंकैः स्वप्नदृष्टैश्र वैष्णवैः ॥२७॥ एतत्ते कथितं साध्वि कुण्डसंख्यानिरूपणम्। येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥२८॥ इति श्रीदेवीभागवते महापुराणे नवमस्कं्धे नारदनारायणसंवादे द्वान्रिंशोऽध्याय: ॥३२॥
Page 657
४२ श्रीमद्देत्ीमागवते महापुराणे नवमस्कन्धे अध्याय: ३३ ६५७ अथ त्रयस्त्रंशोऽध्यायः धर्मराज उवाच हरिसेवारतः शुद्धो योगसिद्धो व्रती सति। तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥१॥ कटुवाचा बांधवांश्च बललेपेन यो नरः । दग्धान्करोति बलवान्वह्निकुंडं प्रयाति सः ॥२॥ स्वगात्रलोममानाव्दं तत स्थित्वा हुताशने। पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३ ॥ ब्राह्मणं तृषितं तप्ं क्षुधितं गृहमागतम्। न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥४॥ तत्र तल्लोममानं च वर्ष स्थित्वा च दुःखदे। तप्तस्थले वह्निकल्पे पक्षी च सप्जन्मसु ॥५॥ रविवारे घ संक्रांत्याममायां श्राद्ववासरे । वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६ ॥ स याति क्षारकुंडं च सूत्रमानाव्दमेव च। स व्रजेद्रजकों योनिं सप्तजन्मसु भारते ॥७॥ मूलप्रकृतिनिंदां यः कुरुते मानवाधमः । वेदनिन्दां शास्त्रनिंदां पुराणानां तर्थव चं ।। ८।। ब्रह्मविप्णुशिवादीनां तथा निंदापरो जनः। गौरीवाण्यादिदेवीनां सदा निंदापरो जनः ॥९॥ सर्वे ते निरये यांति तस्मिन्कुंडे भयानके। नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥१०॥ तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः । देवीनिंदाराघस्य प्रायश्चितं न विद्यते ॥११॥ स्वदत्तां परदत्तां वा वृत्ति च सुरविप्रयोः । षष्टिवर्षसहस्त्राणि विट्कुण्डं च प्रयाति सः ॥१२॥ तावंत्येव च वर्षाणि विड्भोजी तत्र तिष्ठति । षष्टिवर्षसहस्त्राणि विट्कृमिश्र पुनर्भुवि ॥१३॥ परकीयतडागे च तडागं यः करोति च। उत्सृजेद्दवदोषेण मूत्रकुण्डं प्रयाति सः ॥१४॥ तद्रेणुमानवर्ष च तद्भोजी तत्र तिष्ठति। पृनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥१५॥ एकाकी मिष्टमश्नाति श्लेष्मकुण्ड प्रयाति च । पूर्णमब्दशतं चैव तद्गोजी तत्र तिष्ठति ॥१६।। ततः पूर्णशताब्दं चस प्रेतो भारते भवेत् । श्लेष्ममूत्रपरं चैव नूयं भुंक्त्े ततः शुचिः ॥१७॥ पितरं मातरं चव गुरुं भारयां सुतं सुताम्। यो न पुष्णात्यनार्थ च गरकुंडं प्रयाति सः॥१८। पूर्णमब्दशतं चैद तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनि शतवर्ष ततः शुचिः ॥१९॥ दृष्टाऽतिथिं वक्रचक्षुः करोति यो हि मानवः । पितृदेवास्तस्य जलं न गृह्हन्ति च पापिनः ॥२०॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । इहैव लभते चांते दूषिकाकुंडमाव्रजेत् ॥२१॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति। ततो व्रजेद्भूतयोनि शतवर्षं ततः शुचिः ॥२२॥ दत्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि। स तिष्ठति वसाकुंडे तद्गोजी शतवत्सरम् ॥२३॥ कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु। ततो भवेन्महारौद्रो दरिद्रोऽल्यायुरेव च ।।२४॥ पुमांसं कामिनी वापि कामिनीं दा पुमानथ। यः शुक्ं पाययत्येव शुक्रकुंडं प्रयाति सः ॥२५॥ पूर्णमव्दशतं चव तद्भोजी तत्र तिष्ठति । कृमियोनि शताब्दं चव्रजेद्भूत्वा ततः शुचिः॥२६॥
Page 658
६५८ श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३३ संताड्य च गुरुं विप्रं रक्तपातं च कारयेत्। स च तिष्ठत्यसृक्कुण्डे तद्द्ोजी शतवत्सरम् ॥२७॥ ततो लभेद्वधाघ्रजन्म सप्तजन्मसु भारते। ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह॥२८॥ योऽश्रु त्यजन्तं गायंतं भक्तं दृष्टा सगद्गदम । श्रीकृष्णगुणसंगीते हसत्येव हि यो नरः ॥२९॥ स वसेदश्रुकुण्डे च तद्गोजी शतवर्षकम्। ततो भवेच्च चांडालस्त्रिजन्मनि ततः शुचिः॥३०॥ करोति शठतां तद्वन्नित्यं सुहृदि यो नरः । कुण्डंगात्रमलानां चस प्रयाति शताब्दकम् ॥३१॥ ततः सा गार्दभीं योनिमवाप्नोति त्रिजन्मनि। त्रिजन्मनि चशार्गाली ततःशुद्धो भवेद्ध्रुवम्॥। ३२॥ बधिरं यो हसत्येव निंदत्येवाभिमानतः । सवसेत्कर्णविट्कुण्डे तद्दोजी शतवत्सरम् ॥३३॥ सतो भवेत्स वधिरो दरिद्रः सप्तजन्मसु। सप्तजन्मन्यंगहीनस्ततः शुद्धि लभेद्ध्रुवम् ॥३४॥ लोभात्स्वभरणार्थाय जीवितं हंति यो नरः । मज्जाकुंडे वसेत्सोऽपि तन्द्रोजी लक्षवत्सरम् ॥३५॥ ततो भवच्च शशको मीनश्च सप्तजन्मसु। त्रिजन्मनि वराहश्च कुककुटः सप्तजन्मसु ॥३६॥ एणादयश्र कर्मभ्यस्ततः शुद्धि लभेद्ध्रुवम् । स्वकन्यापालनं कृत्वा विक्रीणाति च योनरः॥३७॥ अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः। कन्यालोमप्रमाणान्दं तद्भोजी तत्र तिष्ठतत ॥।३८।। तस्य दण्डप्रहारं च वुर्वान्ति यमर्किकराः। मांसभारं मृ्नि कृत्वा रत्तभारं लिहेत्क्षुधा ॥३९॥ ततो हि भारते पापी कन्याविट्कृमिगो भवेत् । षष्टिवर्षसहस्त्राणि व्याधश्र सप्तजन्मसु ॥४०। त्रिजन्मनि वराहश्च कुक्क्टः सप्तजन्मसु। मंडूको हि जलोकाश्च सप्जन्मसु भारते ॥४१॥ सपजन्मसु काकश्च ततः शुद्धि लभेद्ध्रुवम्। व्रतानामुपवासानां श्राद्मादीनां च संगमे ॥४२॥ करोति यः क्षोरकर्म सोऽशुचिः सर्वकर्मसु। सच तिष्ठति कुण्डं च नखादीनां चतुंदरि ॥४३॥ तह्वदिनमानाब्दं तद्भोजी दंडताडितः । सकेशं पार्थिवं लिंग यो वाउर्चर्यति भारते ॥४४॥ स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम्। तदन्ते यावनीं योनि प्रयाति हरकोपतः ॥४५॥ शताव्दाच्छुद्धिमाप्नोति राक्षसः स भवेद्ध्रुवम्। पितृणां वो विष्णुपदे पिंडं नैव ददाति च ॥४६॥ स च तिष्ठत्यस्थिकण्डे स्वलोमाब्दं महोल्वणे। ततः सुयोनि संप्राप्य कुखरंजः सप्तजन्मसु ॥४७॥ भवन्महादरिद्रश्च ततः शुद्धो हि देहतः । यः सेवते महामूढो गुर्विणी च स्वकामिनीम् ।४८।। प्रतप्ते ताम्रकण्डे च शतवर्ष स तिष्टति । अत्रीरान्नं च यो भुंक्ते ऋतुस्नातान्नमेव च ॥४९। लोहकुण्डे शताब्दं चसच तिष्ठति तप्तके। स व्रजेद्रजकीं योनि काकानां सप्तजन्मसु ॥५०॥ महव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः। यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ॥५१॥ शतवर्षप्रमाणं च वर्मकुण्डे स तिष्ठति। यः शृद्रेणाभ्यनुज्ञातो भुंक्ते झूद्रान्नमेव च ॥५२॥ स च सप्त सुराकुडे शताब्दं तिष्ठत द्विजः । ततो भवेच्छरुद्रयाजी 'ब्राह्मणः सप्तजन्मसु ॥५३॥ शूद्रश्राद्धान्नभोजी घ ततः शुद्धो भवेद्ध्ुवम् । वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥५४॥
Page 659
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३२ ६५९ तीक्ष्णकंटककुण्डे स त्गोजो तत्र तिष्ठति। ताडितो यमदूतेन दंण्डेन च चतुगुंणम् ।५५।। तत उच्चःश्रवा सप्तजन्मस्वेव ततः शुचिः । विषेण जीवनं हंति निर्दयो यो हि मानवः ॥५६॥ विषकुण्डे 'च त्द्रोजी सहस्राव्दं च निष्ठति। ततो भवेन्नृवातो च व्रणो व शतजन्मसु ।५७।। सप्तजन्मसु कुष्ठी च ततः शुद्टो भवेद्धुवम् । दण्डेन ताडयेद्गां हि वृषं च वृषवाहकः ॥५८॥ भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते। प्रतप्ते तैलकुडेऽग्नौ स तिष्ठति चतुर्युगम् ॥५९॥ गवां लोमप्रमाणाब्दं वृषो भवति तत्परम्। कुन्तेन हंति यो जीवं वह्निलोहेन हेलया ॥६०॥ कन्तकुंडे वसेत्सोऽपि वर्षाणामयुतं सति। ततः सुयोनि संप्राप्य चोदरे व्याघिसंयुतः ॥६१॥ जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः। यो भुक्तेच वृया मांसं मांसलोभी द्विजाषंमः॥६२॥ हरेनैवेद्यभोजी क्ृमिकुण्डं प्रयाति सः । स्वलोममानवर्ष च तद्भोजी तत्र तिष्ठति ॥६३।। ततो भवेन््लेच्जातिस्त्रिजन्मनि ततो डिजः। ब्राह्मणः शूदयाजी च शूदश्राद्धान्नभोजकः ॥६४।। गृद्राणां शवदाही च प्यकुण्डे वसेद्ध्रुवम्। यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥६५॥। ताडितो यमदूतेन त्गोजी तत्र तिष्ठति। ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥६६। महारोगी दरिद्रश्व बधिरो मृक एव च । कृष्णं पद्मं च के यस्य तं सर्पहंति यो नरः ॥६७॥ स्दलोममानवर्ष च सर्पकुण्डं प्रयाति सः । सर्पण भक्षितः सोऽथ यमदूतेन ताडितः ।।६८।। वसेच्च सर्पविद्भोजी ततः सर्पो भवेद्त्रुवम्। ततो भवेन्मानवश्च स्वल्पयुर्दद्रुसंयुतः ॥६९॥ महाक्लेशेन तन्मृन्यः सर्पेण भक्षिताद्ध्रुवम्। विधिप्रदत्तजीव्यांश्र क्षुद्रजंनूंश्व हंति यः॥७०॥ स दशमशयोः कुण्डे जन्तुमानाव्दमेत्र च। दिवानिशं भक्षितस्तैरनाहारश्र शब्दवान्॥७१॥ हस्तपादादिबद्धश्च यमदूतेन ताडितः । ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ।७२।। तनो भवेन्मामवश्च सोऽङ्गहीनस्तनः शुचिः। यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः॥७३॥ स एव गारले पुण्डे जीवमानाव्दकं वसेत् । भक्षितो गरलर्दग्वो मम दूतेन ताडितः।।७४।। ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः । दंडं करोत्यदंडघे च विप्रे दंडं करोति च ।।७५॥ स कुंडं वच्दंष्ट्रणां कीटानां याति सत्वरम्। स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम ॥७६।। शब्दकृद्दक्षितस्तैस्तु मम दूतेन ताडितः । करोति रोदनं भत्रे हाहाकारं क्षणे क्षणे ।७७।। पुनः सूकरयोनौ च जायते सपजन्मसु। त्रिजन्मनि काकयोनौततःशुद्ो भवेन्नरः॥७८।। अर्थलोभेन यो मूढः प्रजादडं करोति सः ृश्चकानां चकुडं चतल्लामाब्दं वसेद्ध्रुबम् ।७९।। ततो वृश्चिकजातिश्च सप्तजन्मसु भारते। ततो नरश्वांगहीनो व्याधिशुद्धो भवेद्ध्रुवम्॥।८०। ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् । संध्याहोनष यो वित्रो हरिभक्तिविहोनकः ॥८१॥ स विष्ठति स्वलोमान्दं कुंडेषु च शरादिषु। विद्धःशरादिभिः शश्रततः शुद्धो भवेन्नरः।।८२।
Page 660
६६० श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३३ कारागारे सांधकारे प्रणिहंति प्रजाश्च यः । प्रमत्तः स्वस्य दोषेण गोलकुंडं प्रयाति सः ॥८३॥ स पंकतप्ततोयान सांधकारं भयंकरम्। तीक्ष्णदंष्ट्रश्च कीटैश्च संयुक्तं गोलकुंडकम् ॥८४॥ कीटैविट्ो दसेस्व प्रजालोमाव्दमेव च। ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ।८५॥ सरोवरादृत्थितांश्च नक्रादोन्हंदि यो नरः । नक्रवंटकमानाव्दं नक्रवुंडं प्रयाति सः ॥८६। ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रवम्। ततः सद्ो विशुद्धी हि दंडेनैव दुनः पुनः ॥८७॥ वक्ष:श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः । कामेन कामुको यो हि पुण्यक्षेतरे च भारते ।।८८। स वसेत्काकतुंडे च काकैः संचूर्णलोचनः । ततः स्वलोममानाव्दं भवेद्दग्धस्त्रिजन्मनि ॥८९॥ स्वर्णस्तेयी च यो मूढो भारते सुरतिद्यीः। स च मंथानकडे वैस्वलोमाव्दं वसेद्ध्रुवम् ॥९०॥ ताडितो यमदूतेन मंथानैर्छललोचनः । तद्विड्भोजी च तत्रव ततश्रांधस्त्रिजन्मनि ॥९१॥ सप्तजन्म दरिद्वश्व महाद्ररश्च पातकी। भारते स्वर्णकारत्र स च स्वर्णवणिक्ततः ॥९२।। यो भारते ताम्रचीरो लोहचौरश्च सुंदरि। स चस्वलोममानाव्दं वीजकुडं प्रयाति सः ॥९३॥ तत्रैव बीजविस्भोजी वीरश्र छन्नलोचनः । ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥९४॥ भारते देवचोरश् रवद्रव्यापहारकः। स दुम्तरे वज्वडे स्वलोमाव्दंवसेद्ध्रुवम् ।।९५। देहदग्धोर्ऽपपि तद्वज्जरनाहारश्र शव्दकृत्। ताडिती यमदृतश्व ततः शुद्धो भवेन्नरः ॥९६॥ रोप्यगव्यांशुकानां च यक्चीरः सुरविप्रयोः। तप्तपाषाणकुछे रु स्वलोमान्दं वसेद्ध्रुवम् ॥९७॥ त्रिजन्मनि च कृष्णोपि श्वेतरूप्त्रिजन्मनि। जन्मैकें श्वेतचिह्नंश्र ततोऽन्ये श्वेतर्पाक्षिणः ।।९८।। ततो रक्तविकारी च शूली तै मानवो भवेत्। सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥९९॥ रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः । तीक्ष्णपाषाणकुडे सस्वलोमाब्दं वसेन्नरः ॥१००॥ पुंश्रत्यन्नं च यो भंक्ते दुंश्चलीजीव्यजीवनः । स्वलोममानवर्ग स लालाकुंडे वसेद्ध्रुवम् ॥१०१॥ स भवेदश्वजातिध्च भारते सप्तजन्मसु। ततोऽधिकांगजातिक्चपादरोगी ततः शुचिः॥१०२॥ ताडितो यमदृतेन तन्धोजी तत्र दुःखितः । ततश्रक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥१०३॥। म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि। वसेत्स्स्वलोममानाव्दं मसीकुंडे सदुःखभाक१०४।। ताडितो यमदृतेन तन्ड्ोजी तत्र तिष्टति । ततस्त्रिजन्मनि भवेत्कृष्णवर्णःपशुः सति ॥१०५॥ त्रिजन्मनि भवेच्छागः वृष्णवर्णार्रिजन्मनि। ततः स तालवृक्षश्र ततः शुद्धो भवेन्नरः ॥१०६॥ धान्यादि शस्यं तांबृलं यो हरेत्सुरविद्रयोः। आसनंच तथा तल्पं चूर्णकुंडे प्रयातिरः ॥१०७॥ शताब्दं तत्र निवसेद्यमदूतेन ताडितः । ततो भवेन्मेपजातिः दुक्वुटश्र त्रिजन्मनि ॥१०८॥ ततो भवेद्वानरश्च कासव्याधियुतो भुवि। वंशहीनो दरिद्रश्वअल्पायुश्चततः शुचिः ॥१०९॥ करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः । स वसेच्चक्रकुंडे च शताब्दं दंडताडितः ॥११०॥
Page 661
श्रीम देवी मागवते महापुराणे नवमस्कन्ध अध्याय: ३४ ६६१
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि। व्याधियुक्तो भवेद्रोगी वंशहीनस्नतः शुचिः १११॥ गोधनेषु च विप्रेपु करोति चक्रतां पुमान्। प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥११२॥ ततो भवेत्स वक्रांगो हीनांगः सपजन्मनि । दरिद्रो वंशहोनश्च भार्याहीनस्ततः शुचिः ॥११३॥ ततो भवेद्गृध्रजन्मा त्रिजन्मनि च सूकरः। त्रिजन्मनि विडालश्र मयूरश्र त्रिजन्मनि ॥११४॥ निषिद्धं कूर्ममासं च ब्राह्मणो यो हि भक्षति । कूर्मकुंडे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥११५॥ ततो भवेत्कूर्मजन्म निजन्मनि च सूकरः । त्रिजन्मनि विडालश्र मयूरश्र ततः शुचिः ११६॥ घृतं तैलादिकं चँव यो हरेत्सुरविप्रयोः। स याति ज्वालाकुंडं च भस्मकुंडं च पातको ॥ तत्र स्थित्वा शताव्दं चस भवेतैलपाचितः । सप्तजन्मनि मत्स्यश्च मूपकश्च ततः शुचिः ११८।। सुगंधितैलं धावों वा संधद्रव्यान्वदेव वा। भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥११९॥ स वसेद्दग्धकृंडे च भवेद्दग्धो दिवानियम् । स्वलोममानवर्ष च ततो दुर्गविको भवेत् ॥१२०॥ दुर्गधिक: सप्तजन्म मृगनाभिस्त्रिजन्मनि। सतजन्मसु मंथानस्ततो हि मानवो भवेत् १२१।। वलेनैव छलेनैव हिसारूपेण वा सतत। बलिष्ठश्च हरेन्द्रर्मिं भारते परपैतृकीम् ॥१२२॥ स वसेत्तप्तसूर्चि च भवेत्तापी दिवानिशम्। तपतैले यधा जीवो दग्वो भवति संततम् ॥१२३॥। भस्मसान्न भवत्येव भोगे देही न नश्यति। सप्तमन्त्रंतरं पापी संतप्तस्तत्र तिष्ठति ॥१२४। शब्दं करोत्यनाहारो यमदूनेन ताडितः । पष्टिवर्षसहस्राणि विट्कृमिश्र प्वेत्ततः ॥१२५॥ ततो भवेद्दमिहोनी दरिद्रश्व ततः शुचिः। ततः स्त्रयोनि संनाप्य शुभ कर्माचरेत्पुनः ॥१२६।। इनि श्रीदेवी नागयले महापुगाणे नवमस्कन्धे त्रयखिरस/ध्यायः॥३३॥
यम उवाच छिनत्ति जीवं खङ्गेन दयाहोनः सुदारुणः । नरधाती हंति नरमर्थलोभेन भारते ॥१॥ असिपत्रे वसेत्सोऽषि यावदिद्राश्चतुर्दश। तेषु यो ब्राह्मगान्हंति वतमन्वंतरं वसेत् ।।२।। छिन्नांगः संवसेत्सोऽपि खङ्गधारेग संततम् । अनाहारः शब्दभुच्चैर्यमदूतेन ताडितः ॥३॥ मंथानः शतजन्मानि शतजन्मानि सूकरः । कुक्कुटः सत जन्मानि शृगालः सत्जन्मसु ॥४।। व्याध्रर्च सप जन्मानि वृकश्चैंव त्रिजन्मसु। सतजन्मसु मंडूको यमहुतेन ताडितः ॥५॥ स भवेद्धारते वर्षे महिषश्च ततः शुचिः। त्रामाणां नगराणां वा दहनं यः करोति च ।६॥। क्षुरधारे वसेत्सोऽपि छिन्नांगस्त्रियुगं सति। ततः प्रेतो भवनेत्सद्यो वह्निवकत्रो भ्रमन्महीम् ।७ सतजन्मामेध्यभोजी कपोतः सप्तजन्मसु। ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥८॥ सतजन्मगलत्कृष्ठी ततः शुद्धो भवेन्नरः । परकणे मुखं दत्त्वा परनिंदां करोति यः ॥९॥
Page 662
२६२ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३४ परदोषे महाश्राघी देवब्राह्मणनिंदकः । सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगन्रयम् ॥१०॥ सतो भवेद्दश्चिकश्च सर्पश्च सप्तजन्मसु। वज्त्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥११॥ ततो भवन्मानवश्च महाव्याधिस्ततः शुचिः । गृहिणां हि गृहं भित्वा वस्तुस्तेयं करोति यः ॥१२॥ गाश्र छागांश्र मेषांश्र याति गोकामुखे च सः । ताडितो यमदूतेन वसेत्तत्र युगन्नयम् ॥१३।। ततो भवेत्सप्तजन्म गोजातिर्व्यािसंयुतः । त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥१४॥ ततो भदेन्मानवश्च नित्यरोगी दरिद्रकः । भार्याहीनो बंधुहीनः संतापी च ततः शुचिः ॥१५॥ सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः । ताडितो यमदूतेन वसेत्ताब्दकत्रयम् ॥१६।। ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः । ततो भवेन्माननश्च महारोगी ततः शुचि: ॥१७॥ हंति गाश्च गजांश्रेव तुरगांश्च नगांस्तथा। स याति गजदंशं च महापापी युगवयम् ॥१८।। ताडितो यमदूतेन नागदंतेन संततम् । स भवेद्रजजातिश्च तुरगश्च त्रिजन्मनि ॥१९॥ गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः । जलंपिबंतीं तृषितांगां वारयति यः पुमान् ॥२०॥ नरकं गोमुखाकारं कृमितप्तोदकान्वितम् । तत्र तिष्ठत संतप्तो यावन्मन्वंतरावघि ॥२१॥ ततो नरोऽपि गोहीनो महारोगी दरिद्रिकः । सप्तजन्मांत्यजातिश्च ततः शुद्धो भवेन्नरः ॥२२॥ गोहत्यां ब्रह्महत्यां च करोति हा तदेशिकोम् । यो हि गच्छत्यगम्यां च यः स्त्रोहत्यां करोति च॥ भिक्षुहत्यां महापापी भ्रणहत्यां च भारते। कुंभीपाके वसेत्सोऽपि यावर्दिताश्रतुर्दश ॥२४॥ ताडितो यमदूतेन चूर्ण्यमानश्च संततम्। क्षणं पतति वह्नौ च क्षणं पतति कंटके ॥२५॥ क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् । क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥२६॥ गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः। काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥२७॥ ्वष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः । नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥२८॥ सावित्र्युवाच विप्रहत्या च गोहत्या किविधा चातिदैशिकी। का वा नृणामगभ्या च को वासंध्याविहीनकः ॥ अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही। द्विजः को वा ग्रामयाज़ी को वा विप्रोऽय देवलः ॥ शृद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः । एतेषां लक्षणं सर्वं वद वेदविदां वर ॥३१॥ धमराज उवाच भीकृष्णे च तदर्चायामन्येषां प्रकृती सति। शिवे च शिवलिंगे च सूर्ये सूर्यमणौ तथा ॥३२॥ गणेशे वाथ दुर्गायामेवं सर्वत्र सुंदरि। यः करोति भेदबुद्धि ब्रह्महत्यां लभेत्तु सः ॥३३॥ स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि। करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्त सः ॥३४॥ वैष्णवेषु च भत्तेपु व्रह्णेप्वितरेपु च। करोति भेदबुद्धियो ब्राह्महत्यां लभेत्तु सः ॥३५॥ विप्रपादोदके चंव शालग्रामोदके तथा। करोति भेदबुद्धि यो ब्रह्महत्यां लभेत्तु सः ॥३६॥
Page 663
श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्यायः ३४ शिवनैवेद्यके चंव हरिनैवेद्यके तथा। करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥३७॥ सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे। सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥३८॥ माययाऽनेकरूपे वाप्येक एव हि निर्गुणे। करोतीशेन भेदं यो ब्रह्महत्यांलभेतु सः ॥३९॥ शक्तिभक्े द्वेषबुद्धि शक्तिशास्त्रे तथव च। द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥४०॥ पितृदेवार्ननं यो वा त्यजेद्वेदनिरूपितम् । यः करोति निषिद्धं चब्रह्महत्यां लभेतुसः ॥४१॥ यो निंदत हृषीकेशं तन्मन्त्रोगसकं तथा। पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ।४२।। प्रधानं केगवानां च देवानां सेव्यमीश्वरम्। ये नार्चयन्ति निंदन्ति ब्रह्महत्यां लभति ते।४३॥ ये निन्दन्त महादेवीं कारणब्रह्मरूपिणीम्। सर्वशक्तिस्वरूपां च प्रकृति सर्वमातरम् ॥४४।। स्वदेवस्वमू्पां च सर्वेषां वन्दितां सदा। सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ।४५॥। कृष्णजन्माट्मों रामनवमीं च सुपुण्यदाम्। शिवरात्रि तथा चैकादशीं वारं रवेस्तथा ॥४६॥। पञ्च पर्वापि पुण्यानि ये न कुर्वीत मानवाः । लभन्ति ब्रह्महत्यां ते चांडालाधिकपानिनः ।४७।। अंबुवाच्यां भूखननं जलशौचादिकं च ये। कुवति भारते वर्षे ब्रह्महत्या लभन्ति ते ॥४८।। गुरुं च मातर तातं साध्वीं भारयां सुतं सुताम् । अनिंद्यां यो न पुष्णाति ब्रह्म हत्यां लभेत्तु सः॥४९॥ विवाहो यस न भवेन्न पश्यति सुतं तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥५०॥ हरेरनैवैद्यभंजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिंगं च ब्रह्महाइसौ पकीतितः ।५१। गोप्रहारं फ्रुवंतं दृष्टा यो न निवारयेत्। याति गोविप्रयोर्मध्ये गोहत्यां च लभेत्तुसः ॥५२॥ दंडेर्गास्ताडरन्मूदो यो विप्रो वृषवाहनः । दिने दिने गोवध च लभते नात्र संशयः ॥५३॥ ददाति गोन्य उच्छिष्टं भोजयेद्वृषवाहकम् । भुनक्ति वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम् ।५४॥ वृषलीपति राजयेद्यो भुंक्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोडपि लभते नात्र संशयः ॥५५॥ पादं ददाति वह्नो यो गाश्र पादेन ताडयेत्। गेहं विशेदधौतांघ्रिः स्नात्वा गोवधमाप्नुयात्॥५६॥ यो भुंक्ते सिग्धपादेन शेते स्निग्धांघ्रिरेव च । सूर्योदये च यो भुंक्ेस गोहत्यां लभेद्ध्रुवम् ॥५७॥ अवीरान्नं च यो भुक्ते योनिजीव्यस्य च द्विजः । यस्त्रिसन्ध्याविहीनश्चगोहत्यां लभते तु सः ॥५८॥ स्वभर्तरि च देवे वा भेदबुद्धिं करोति या। कटूकत्या ताडयेत्कांतं सा गोहत्यां लभेद्घ्रुवम्५९॥ गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा। तडागे वातु दुर्गे वा स गोहत्यां लभेद्ध्रुवम् ॥६०॥ प्रायश्चिते गोवधस्य यः करोति व्यतिक्रमम्। पुत्रलोभादथाज्ञानात्स गोहत्यां लभेद्ध्रुवम् ॥६१॥ राजके दैवके यत्नाद्गोस्वामी नां न रक्षति । दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम् ॥६२॥ प्राणिने लंघयेदो हि देवार्चामनलं जलम्। नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ॥६३॥ शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेपी स गोहत्यां लभेद्ध्रुवम् ॥६४।।
Page 664
448 श्रीमद्ेवीमागवत महायु णे नयमस्कन्धे अध्याय: ३४ देवताप्रतिमां दृष्टा गुरुं वा ब्राह्मणं सति। संभ्रमान्न नमेद्यो हिस गोहत्यां लभेद्ध्रुवम् ॥६५॥ न ददात्याशिषं कोपात्प्रणताय च यो द्विजः । विद्यार्यिने च विद्यां च स गोहत्यां लभेदध्रुवम्६६॥ गोहत्या विप्रहत्या च कथिता चातिदैशिकी। गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥६७।। स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम्। अगम्या च तदन्या या चेति वेदविदो विदुः ।।६८।। सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि । अत्यगम्या हि या याश्र निबोध कथयामि ताः॥६९॥ शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥७०॥ शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् । तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद्ध्रुवम् ७१।। शूद्राणां विप्रपत्नी च विप्राणां शृद्रकामिनी। यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः॥७२॥ स भ्रष्टो विप्रजातेश्च चांडालात्सोऽधमः स्मृतः । विष्ठासमश्च तत्पिडो मूत्रं तस्यच तर्पणम् ॥७३॥ न पितृणां सुराणां च तद्दत्तमुपतिष्ठति । कोटिजन्माजितं पुण्यं तस्यार्चा तपसाऽजिता ७४॥ द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः । व्राह्मणश्च सुरापीतिरविड्भोजी वृषलीपतिः ॥७५॥! तप्तमुद्रादग्धदेहस्त प्तशू लांककितस्तथा । हरिवासरभोजी च कुम्भीपाकं व्रजेद्द्विज: ॥७६।। गुरुपत्नीं राजपत्नीं सपत्नीमातरं ध्रुवम्। सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥७७॥। सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् । मातु: प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥७८। शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् । भ्रातुः पुत्रपप्रियां चवात्यगम्या आह पद्मनः ॥७९॥। एताः कामेन कांता यो ब्रजेदव मानवाधमः। स मातृगामी वेदेपु ब्रह्महत्याशतं व्रेत् ॥८०।। अकर्मार्होऽप्यसंस्पृश्यो लोके वदे च निदितः। स याति कुम्भीपाके चमहापापी सुदुष्वरे ॥८१॥ करोत्यशुद्धां संध्यांवा न संध्या वा करोति च। त्रिसंध्यं वजयेद्यो वा संध्याहीनश्वस दविवः ॥८२॥ वैष्णवं च तथा शैवंशाक्तं सौरं च गाणपम् । योजहंकारान्न गृह्ाति मंत्रं सोडदीक्षितः स्मवः॥।८३।। प्रवाहमवघि कृत्वा यावद्वस्तचतुष्टयम्। तत्र नारायणः स्वामी गङ्गागर्भांतरे वसेत् ॥८४॥ तत्र नारायणक्षेत्रे मृतो याति हरे: पदम्। वाराणस्यां बदया च गङ्गासागरसङ्गमे ॥८५॥ पुप्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले। हरिद्वारे च केदारे तथा मातृपुरेऽनि च॥८६॥ सरस्वतीनदीतीरे पुण्ये वृन्दावने वने। गोदावर्या चकौशिक्यां त्रिवेण्यां च हिमाचले॥८७॥ एषु तीर्थेषु यो दानं प्रतिगृक्षाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः।८८।। शूद्रसेवी शृद्रयाजी ग्रामयाजीति कीतितः । तथा देदोपजीवी च देवलः परिकीतितः ॥८९॥ शूद्रपाकोपजीवी यः सूपकार हति स्मृतः । संध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥०॥ उक्तं सरवं मया भद्रे लक्षणं वृषलीपतेः । एते महापातकिनः कुम्भीपाकं प्रयान्ति वै ॥११॥
Page 665
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३५ ६६५ कुण्डान्यन्यानि ये यांति निबोध कथयामि ते ॥।९२।। इति श्रीदेवीभागव्रते नत्रमस्कंधे नारदनारायणसंवादे सावित्युपाख्याने चनुसितरिंनोडध्यायः॥३४॥ अथ पञ्चत्रिंशाऽध्यायः धर्मराज उवाच देवसेवां दिना साध्वि न भवेत्कर्मकृंतनम्। शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥१॥ पुंश्चल्यन्नं च यो भुक्ते योऽस्यां गच्छेत्पतिव्रते। रु द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥२॥ शतवर्ष कालसूत्रे स्थिरीभूतो भवेद्ध्रुवम् । अन्यजन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ॥३॥ पतिव्रता चकपतौ द्वितीये कुलटा स्मृता। तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलोत्यपि ॥४॥। वेश्या च पञ्चमे पष्ठे पुङ्गो च सप्तमेऽष्टमे। तत ऊधवं महावेश्या साऽस्पृश्या सर्वजातिषु ॥५॥ यो द्विजः कुलटां गच्छेद्धर्पिणी पुंश्रलोमपि। पुङ्गों वेश्यां महावेश्यां मत्स्योदे याति निश्चितम्॥ शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम्। षड्गुणं पुंश्रलीगामी वेश्यागामी गुणाष्टकम्॥9॥ पुङ्गोगामी दशगुणं वसेत्तत्र न संशयः । महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥८।। तत्रैव यातनां भुक्ते यमदूतन ताडितः । तित्तिरः कुलटागामी धृष्टागामी च वायसः ॥९॥ कोकिल: पुंश्रलीगामी वेश्यागामी वृकः स्मृतः । पुङ्गीगामो सूकरश्च सप्जन्मनि भारते ॥१०॥ महावेश्याप्रगामो च जायते शाल्मलीतरुः । यो भुंक्त्ते ज्ञानहोनश्र ग्रहणे चन्द्रसूर्ययोः ॥११॥ अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च।ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥१२॥ गुल्मयुक्तश्र काणश्च दंनहोनस्ततः शुचिः ।वाकादत्तां स्वकन्यां च योऽन्यस्मं प्रददाति च१३।। स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम्। तद्द्रव्यहारी यः साध्ति पांसुवेष्टे शताव्दकम् १४॥ निवसेच्छरशय्यायां मम दूतेन ताडितः । भवत्या न पूजयेद्विप्रः शिवलिंगं च पार्थिवम् १५॥ स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम्। स्थित्वा शताब्दं तत्रव श्वापदः सतजन्मसु ॥१६॥ ततो भवेद्देवलश्च सप्तजन्म ततः शुदिः। करोति कुठितं विप्र यद्ध्रिया कंपते द्रिजः ॥१७॥ प्रकंपने वसेत्सोऽपि विसलोमाब्दमेव च। प्रकोशवदना कोपात्स्वामिनं या च पश्यति ॥।१८।। कटूकि तं प्रवदति सोल्मुकं संप्रयाति हि। उल्कां ददाति तद्वक्त्रे सततं मम किकरः ॥१९॥ दंडेन ताडयेन्मघ्नि तल्लोमान्दप्रमाणकम्। ततो भदेन्मानवी च विधवा सप्तजन्मसु ॥२०॥ सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः। या ब्राह्मणी शूद्रभोग्या चांधकूपे प्रयाति सा२१।। तप्तशौचोदके घ्बांते तदाहारी दिवानिशम्। निवसेदतिसंतप्ता मम दूतेन ताडिता ॥२२॥ शौचोदके निमग्ना सा यावदिद्राश्चतुर्दश। काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥२३॥। शृगाली शतजन्मानि शतजन्मानि कुक्कुटी। पारावती सप्तजन्म वानरी सप्तजन्मसु ॥२४॥
Page 666
६६६ श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३५ ततो भवेत्सा चांडाली सर्वभोग्या च भारते। ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्रली ॥२५॥ ततः कुषयुता तैलकारी शुद्धा भवेत्ततः । निवसेद्वेधने वेश्या पुंगी च दंडताडने ॥२६॥ जलरंध्रे व्रसेद्वेश्या कुलटा देहचूर्णके। स्वैरिणो दलने चैव धृष्टा च शोपणे तथा ॥२७॥ निवनेद्यातनायुक्ता मम दूतेन ताडिता। विष्मूत्रभक्षा सततं यावन्मन्वंतरं सति ॥२८॥ ततो भवेद्विट्कृमिश्र लक्षवर्ष ततः शुचिः। ब्राह्मणो व्राह्मणों गच्छेक्षत्रियां वाडपि क्षत्रियः ॥ वैश्यो वैश्यां च शूद्रां वा शूद्रश्चापि व्रजेद्यदि। सवर्णपरदारैश्र कषायं यांति ते जनाः ॥३०॥ भुक्त्वा कषायं तप्तोदं निवसेदा शताब्दरम्। ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः ॥३१॥ योषितक्चापि शुद्धयंतीत्येवमाह पितामहः। क्षत्रियो ब्राह्मणी गच्ध्रेदवैश्यो वाऽपि पतिव्रते॥३२॥ मातृगामी भवेत्सीऽपि शूर्पे च नरके वसेत् । शूर्पाकारैश्र कृमिभिर्ब्राह्मण्या सह भक्षितः ॥३३।। प्रतप्तमूत्रभोजी च मम दूतेन ताडितः । तत्रव यातनां भुक्ते यावर्दिंद्राश्चतुर्दश ॥३४॥ सप्तजन्म वराहश्च छागलश्च ततः शुचिः। करे धृत्वा तुतुलसीं प्रतिज्ञां यो न पालयेत्॥३५॥ मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत्। दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत् ३६॥। शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत्। गंगातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत् ३७।। स्थित्वा देवगृहे वाडपिस च ज्वालामुखं व्रजेत्।आस्पृश्य व्राह्मणं गां च ज्वालावह्नि निवेद च ३८।। न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् । मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ॥३९॥ मिथ्यासाक्ष्यप्रदश्षैव स च ज्वालामुख व्रजेत् । एते तत्र वसंत्येव यावर्दिंद्राश्चतुर्दश॥४०॥ स्रथांगारप्रदग्धाश् यमदूतेन नाडिताः । चांडालस्तुलसीं स्पृष्टा सप्तजन्म ततः शुनिः॥४१॥ म्लेच्छी गंगाजलस्पर्शी पचजन्म ततः शुचिः । शिलास्पर्शी विट्कृमिश्र सप्तजन्मसु सुंदरि ॥४२।। अर्धास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचिः। दक्षहस्तप्रदाता च सपश्र सप्जन्मसु ॥४३॥ ततो भवेद्ब्रह्महीनो मानवश्च ततः शुचिः । मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥४४॥ विप्रादिस्पर्शकारी च व्याघ्रजातिभंवेद्ध्रुवम् । ततो भवेच्च मूकः स बधिरश्व त्रिजन्मनि ॥४५॥ भार्याहीनो बंधुहीनो वंशहीनस्ततः शुचिः । मित्रद्रोही च नकुलः कृतघ्नश्चापि खंडकः ॥४६॥ विश्वासधाती व्याघ्रश्च सप्तजन्मसु भारते । मिथ्यासाक्षी च वक्तव्ये मंडूकः सप्तजन्मसु ॥४७॥ पूर्वान्सप्तापरान्सप् पुरुषान्हंति चात्मनः । नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥४८। यस्यानास्था वेदवाक्ये मन्दं हसति संततम्। व्रतोपवासहीनश्च सद्वाक्यपरनिदकः ।।४९।। धूम्राधे च वसेत्सोउपि शताब्दं धुम्रभक्षकः । जलजंतुर्भवेत्सोपि शतजन्मक्रमेण च॥५०॥ ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः। यः करोत्युपहासं च देवब्राह्मणयोधंने ॥५१॥ पार्तायतवा स पुरुषान्दश पर्वन्दिशापरान्। सोडयं याति तु धूम्रान्धं धूमध्वांतसमन्वितम् ५२॥।
Page 667
श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्यायः ३६ ६६७ धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम्। ततो मूषकजातिश्र सप्तजन्मसु भारते ॥५३॥ ततो नानाविधाः पक्षिजातयः कृमिजातिभिः । ततो नानाविधा वृक्षाः पशवश्च ततो नरः ॥५४॥ विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः । लाक्षालोदिव्यहापारी रसादिविक्रयी च यः॥५५॥ स याति नागवेष्टं च नागर्वेष्टितमेव च । वसेत्स लोममानाब्दं तत्रव नागपाशितः ।५६।। ततो नानाविधाः पक्षिजातयश्च ततो नरः । ततो भवेत्स गणको वैद्यश्र सप्तजन्मसु ॥१७॥ गोपश्च कर्मकारश्र रंगकारस्ततः शुचिः। प्रसिद्धानि च कुंडानि कथितानि पतिव्रते ॥८॥ अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै। संति पातकिनस्तेषु स्वकर्मफलभोगिनः ॥ भ्रमंति नानायोनि च कि भूयः श्रोतुमिच्छसि ॥५९॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे पंचात्रशोऽव्यायः ॥ ३५॥ अथ षटुत्रिशोऽध्यायः सावित्र्युवाच धर्मराज सर्वेषु सारभूतं महाभाग वेदवेदाङ्गपारग। नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ।।१।। यत्सर्वेषटं सर्वसंमतम्। कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥२॥ सर्वप्रदं च सर्वेषां सर्वमंगलकारकम्। भयं दुःखं न पश्यंति येन वै सर्वमानवाः ॥३॥ कुंडानि ते न पश्यंति तेषु नैव पतन्ति च। न भवेद्येन जन्मादि तत्कर्म वद सांप्रतम्॥४॥ किमाकाराणि कुंडानि तानि वा निर्मितानि च। के च केनैव रूपेज तत्र तिष्ठति पापिनः ।५॥ स्वदेहे भस्मसाद्भूते याति लोकांतरं नरः । केन देहेन वा भोगं करोति च शुभाशुभम् ॥६॥ सुचिरं क्लेशभोगेन कथं देहो न नश्यति। देहो वा किविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि॥७॥ श्रीनारायण उवाच सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन्। कथां कथितुमारेभे कर्मबन्धनिकृंतनीम् ।।८।। धमराज उवाच वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च । पुराणेष्वितिहासेषु पांचरात्रादिकेषु च ।।९।। अन्येषु धर्मशास्त्रेषु वेदांगेषु च सुव्रते। सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥१० । जन्ममृत्युजराव्याधिशोकसंतापनाशनम् । सर्वमङ्गलरूपं च परमानंदकारणम् ॥११। कारणं सर्वसिद्धीनां नरकार्णवतारणम्। भक्तिवृक्षांकुरक्रं कर्मवृक्षनिकृंतनम् ॥१२॥ विमोक्षसोपानमिदमविनाशपदं स्मृतम् । सालोक्यसाष्टसारूप्यसामीप्यादिप्रदं शुभम् ॥१३॥ कुंडानि यमदूतैश्र रक्षितानि सदा शुभे। न हि पश्यंति स्वप्ने चपञ्चदेवार्चका नराः ॥१४॥ देवीभक्तिविहोना ये ते पश्यंति ममालयम्। यांति ये हरितीरथं वा श्रयंति हरिवासरम्॥१५॥
Page 668
६६८ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३७ प्रणमंति हरि नित्यं हर्यरचां कल्पयंति च। न यांति तऽपि धोरां च मम संयमनीं पुरीम् १६। त्रिसंधिपूता विप्राश्च शुद्धाचारसमन्विताः । निवृत्ति नैव लप्स्यंति देवीसेवां विना नराः ॥१७॥ स्वधर्मनिरताचारा: स्वधर्मनिरतास्तथा। गच्छंतो मृत्युलोकं च दुर्दृशा मम किंकराः ॥१८॥ भीता: शिवोपासकेभ्यो वैनतेयादिवोरगा। स्वदूतं पाशहस्तं च गच्छंतं वारयाम्यहम् ॥१९॥ यास्यंति ते च सर्वत्र हरिदासाश्रयं विना। कृष्णमन्त्रोपासकाच्च वैनतेयादिव रगाः ॥२०॥ देवीमन्त्रोपासकानां नाम्नां चंव निकृंतनम्। करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ।२१।। मधुपर्कादिकं तेपां कुस्ते च पुनः पुनः। विलंध्य ब्रह्मलोकं च लोकं गच्छंति ते सति ॥२२॥ दुरितानि च नव्यंति येषां संस्वर्थमात्रत। ते महाभाग्यवंतो हि सहस्रकुलपावनाः ।२३॥ यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च। प्राप्नोति मोहः संमोहं तांश्र दृष्टा च भीतवत्२४। कामश्च कामिनं याति लोभक्रोघौ ततः सति। मृत्युः प्रलीयते रोगो जरा शोको भयं तथा २५।। काल: जुभाशुभं कर्ल हर्षो भोगस्तर्थव च। ये ये न यांति तां पीडां कथितास्ते मया सति २६।। शृणु देहविवरणं कथयाि यथागमम्। पृथिवीवायुराकाशस्तेजस्तोयमि त स्फुटम् ॥२७ दहिनां देहबीजं च स्रष्टसृष्टिविधौ 'रम्। पृथथिव्यादिपंचभूतैर्यो देहो निर्मितो भवेत् ।।२८।। स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह। दद्धोङ्गष्ठप्रमाणश्र यो जीवः पुरुषः कृतः ॥२९॥ विर्भति सूक्ष्मं देहं तं तद्रपं भोगहेतवे। स देहो न भवेद्दस्म ज्वलदग्नो ममालये ॥३०॥ जलेन नशे देही वा प्रहारे सुचिरं कृते। न शः्त्रेण न वाऽस्त्रेण सुतीक्ष्णकंटके तथा ॥३१॥ तसद्रवे तप्तलोहे तप्तपाषाण एव च। प्रतप्तप्रतिमाश्लेषे यत्पूर्वपननेऽि च ॥३२॥ न दन्धोन च भग्नः स भुक्ते संतापमेव च। कथितो देहवृत्तांतः कारणं च यथागमम् ॥ कुण्डानां लक्षणं सर्व बोधाय कथयामि ते ।।३३।। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे षटत्रिशोऽध्यायः ॥३६॥
धमराज उवाच पूणन्दुमंडलाकारं सर्वं कुण्ड - वर्तुलम्। निम्नं पाषाणभेदैश्च.पाचितं दहुभिः सति ॥१॥ न नश्वरं चप्रलयं निर्मितं चेश्वरेच्छया। क्लेशदं पातकानां च नानारूपं तदालयम् ॥२॥ जवलदंगाररूपं च शतहस्तशिखन्वितम्। परितः क्रोशमानं च वह्िकुण्डं प्रकतितम् ॥३॥ मह शब्दं प्रकुर्वद्दिः पापिभिः परिपूरितम्। रक्षितं मम दूतैश्च ताडितैश्चापि संततम् ॥४॥ प्रतप्तोदकपूर्ण च हिंस्रजंतुसमन्वितम्। महाघोरं काकुशब्दं प्रहारेण दृढेन च।।५।। कोशार्धमानं तद्दूतस्ताडितर्मम पार्षदैः । तप्तक्षारोदकैः पूर्ण पुनः काकैश्च संकुलम् ॥६॥
Page 669
श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: ३७ ६६९.
संकुलं पापिभिश्चैव क्रोशमानं भयानम् । त्राहोति शब्दं कुर्वन्दिर्मम दूतैश्र ताडितैः ।।७।। प्रचलद्धिरनाहार: शुष्ककंठोष्ठतालुकैः । बिड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ।८।। अतिदुर्गन्धिसंसक्तव्यासं पापिभिरन्वहम्। ताडितैर्मम दूतैश्च तदाहारैः सुदारुणः।।९॥ रक्षेति शब्दं कर्वन्भ्िस्तत्कीटैरेव भक्षितैः। तप्तमूत्रद्रवैः पूर्ण मूतकोटैश्च संकुलम् ॥१०॥ युक्तं महापातकिभिस्तत्कीटैरभक्षितैः सदा। गव्यूतिमान ध्वांताक्तं शब्दकृन्द्रिश्च संततम्॥११॥ शुष्ककंठोष्ठतालुकैः । श्लेष्मपूर्ण प्रशमितं तत्कोटै: परितं तदा ॥१२।। त्ोजिभि: पापिभिश्च वेष्टितं वेष्टितैः सदा। क्रोशाधं गरकुंडं न गरभोजिभिरन्वितम् ॥१३॥ गरकीटैर्भक्षितैश्र पापिभिः पूर्णमेव च । ताडितैर्मम दूतैश् शब्दकृद्धिश्र कंपितैः ॥१४॥ सर्पाकारैर्वज्दंष्ट्रः शुष्ककंठैः सुदारुणः। नेत्रयोलपूण च क्रोशार्धे कीटसंयुतम् ॥१५॥ पापिभि: संकुलं शश्चद्धर्मान्भ्िः कीटभक्षितैः। वसारसेन संपूर्ण क्रोशतुर्य सुद्सहम् ॥१६॥ तन्द्ोजिभि: पातकिभिर्मम दूतैश्र ताडित.। शुक्रकुंडं क्रोशमितं शुककीटैश्च संयुतम् ॥१७॥ पापिभि: संकुलं शश्चद्द्रवद्भिः कीटभक्षितैः । दुर्गधिरक्तपूर्ण च वाविमानं गभोरकम् ॥१८॥ तद्ोजिभि: पापिभिश्च संकुलं कीटभक्षितम्। पूर्ण नेत्राश्रुभिस्तप्तं बहुपाषिभिरन्वितम् ॥१९॥ वापीतुर्यप्राणां च रुर्दद्द्धि: कोटभक्षितः । नृणां गात्रमलर्युक्तं त्गक्षेः पापिभिर्युतम् ॥२०॥ ताडितैर्मम दूतश्च व्यग्रेश्च कीटभक्षितैः । कर्णविट्परिपूर्ण च तद्धक्षेः पापिभिर्युतन् ॥२१। वापीतुर्यप्रमाणं च ब्ुर्वद्धि: कीटभक्षितः। मज्जापूर्ण नराणां च महादुगंधिसयुतम् ॥२२: महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् । परिपूर्ण स्निग्धमांसैर्मम दूतैश्च ताडितैः ॥२३॥ पापिभिः संकुलं चैव वापीमानं भयानकैः। कन्याविक्रयिभिश्चव तन्द्रद्यैः कीटभक्षितैः ॥२४॥ पाहोति शब्दं कुर्वन्द्रिस्त्रासितैश्च भयानकः । वापीतुर्यप्रमाणं च नखादिक वतुष्टयम् ॥२५ पापिभि: सयुतं शश्वन्मम दूतैश्च ताडितैः। प्रतप्तताम्रकुंडं च ताम्रोपर्युल्मुक्ान्वितम् ॥२६॥ तान्राणं प्रतिमालक्षेः प्रतप्तर्व्यापृतं सदा। प्रत्येकं प्रतिमाश्लिषैः रदन्द्रिः पापिभिर्युतम्२७॥ गव्यूतिमानं विस्तीणं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्वलदंगारसंयुतम् ॥२८। लोहानां प्रतिमाश्लिष्ट रुदद्भि: पापिभिर्युतम् । प्रत्षेकं प्रतिमाश्लिष्टै ः शश्व् पर्लितैरिया ॥ २९॥ रक्ष रक्षेति शब्दं च कुर्वद्धिर्दूतताडितैः। महापातकिभिर्युक्तं द्विगव्यूतिनमाणकम् ॥३०॥ भयानकं ध्वांतयुक्तं लोहकुंडं प्रकीरतितम्। चर्मकुंडं तप्तसुराकुंडं वाप्यर्धमेव च॥३१॥ तन्द्ोजिपापिभिर्व्यापं मम दूतैश्च ताडितैः । अतः शाल्मलिकुंडं च वृक्षकंटकशोभितम् ॥३२॥ लक्षपोरुषमानं च क्रोशमानं च दुःखदम्। धमुर्मानैः कंटकश्च सुतीक्ष्णैः परिवेष्टितम् ॥३३॥ प्रत्येकं विद्धगात्रश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतन्ध्िश्च मम दूतैश्च पातितैः ॥३४॥
Page 670
१७० श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: २७ जलं देहीति शन्दं च कुर्वद्दि: शुष्कतालुकैः । महाभियाऽतिव्यग्रैश्च दण्डैः संभग्नमस्तकैः ॥३५॥ प्रचलन्धिरयथा तप्ततैलजोविभिरेव घ । विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ३६।। तद्द्रक्षः पापिभिर्युक्तं मम दूतैश्च ताडितैः। प्रतप्ततैलपूरणं च कीटादिपरिवर्जितम् ॥३७॥ महापातकिभिर्युक्तं दग्घांगारैश्च वेष्टितम्। काकुशन्दं प्रकुर्वन्द्रिश्चलन्धिर्दूतपीडितैः ॥३८॥ ध्वांतयुक्तं क्रोशमानं क्लेशदं च भयानकम्। शूलाकारैःसुतीक्ष्णाग्रैर्लोह शस्त्रैश्च वेष्टितम्॥३९॥ शस्त्रतल्पस्वरूपं च क्रोशतुर्यप्रमाणकम्। वेष्टितं यत्पातकिभिः कुंतविद्धश्च वेष्टितैः ॥४०॥ ताडितैर्मम दूतैश्च शुष्ककंठोष्ठतालुक:। कीटैश्च शंकुप्रमितैः सर्पमानैर्भयंकरैः॥४१॥ तीक्ष्णदंतश्च विकृतर्व्याप्तं ध्वांतयुतं सति। महापातकिभिर्युक्तं मम दूतैश्च ताडितैः ॥४२॥ द्विगव्यूतिप्रमाणं च पूयकुंडं प्रचक्षते। तद्द्रक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्र ताडितैः !४३॥ तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् । सर्पवेष्टितगात्रश्च पापिभिः सर्पभक्षितैः ॥४४॥ सकुलं शब्दकृद्धिश्च मम दूतैश्च ताडितः । कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥४५॥ सर्व क्रोशार्धमानं च महापातकिभिर्युतम्। हस्तपादादिबद्धश्च क्षतजौधेन लोहितः ॥४६॥ हाहेति शब्दं कुर्वन्दिस्ताडितैर्मम पार्षदैः। वज्तवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ४७॥ वाप्यधं पापिभिर्युक्तं वष्त्रवृश्चिकदंशितैः । कुण्डन्रयं मशादीनां तैरेव परिपृरितम् ॥४८॥ तैविद्: पापिभिर्युक्तं वाप्यर्ध रक्तलोहितैः । तप्ततोयोदकैः पूर्णं सध्वांतं गोलकुण्डकम् ॥४९॥ कीटैः शंकुसमानैश्च भक्षितैः पापिभिर्युतम् । वाप्यर्धमानं भीतैश्च पापिभिः कीटभकितैः ॥५०॥ रुर्दाद्द्गि: क्रोशमानश्च मम दूतश्च ताडितः। अतिदुर्गधिसंयुक्तं दुःखदं पापिनां सदा ।५१॥ दारुणैविकृता का रैभक्षितं पापिभिर्युतम्। वाप्यधं परिपूर्ण च जलस्थर्नक्रकोटिभिः ॥५२॥ विष्मूत्रश्लेष्मभक्षश्र सयुतं शतकोटिभिः। काकैश्च विकृताकारैभक्षितैः पापिभिर्युतम् ॥५३॥ मथानकुण्डं बीजकुण्डं ताभ्यां पूर्ण धनुःशतम् । भ'क्षतैः पापिभिर्युक्तं शब्दकृद्धिश्र सततम् ॥५४॥। धनुःशतं जीवयुक्तं पापिभिः संकुलं सदा। शब्दकृन्धिर्वज्रदंष्ट्रः सांद्रध्वांतमयं परम् ॥५५॥ वापोद्विगुणमानं च तप्तप्रस्तरनिर्मितम् । ज्वलदंगारसदृशं चलद्धि: पापिभिर्युतम् ॥२६॥ क्षुरधारोप्मस्तीक्ष्णः पाषाणनि्मितं परम्। महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥७॥ त्रोशमात्रं च गंभीरं मम दूतैश्च ताडितः । तप्तांजनाचलाकारः परिपूर्ण धनुःशतम् ॥५८॥ वलद्धि: पापिभिर्युक्तं मम दूतैश्च ताडितः। पूर्ण चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥५९॥ त्ोजिभि: प्रदग्धैश्च मम दूतैश्च ताडितैः । कुण्डं कुलालचक्रं च घूर्णमानं च संततम् ॥६०॥ सुतीक्ष्णं षोडशार च चूणितः पापिभिर्युतम्। अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ६१॥ कंदराकारनिर्माणं तप्तोदैश्च समन्वितम् । महापातकिभिर्युक्तं भक्षितजंलजंतुभिः ॥६२॥
Page 671
श्रींसद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३७ ६७१ ज्वलन्द्रि: शब्दकृद्िश्च ध्वांतयुक्तं भयानकम्। कोटिभिर्विकृताकारैः वच्छपैश्र सुदारुणः ॥६३॥ जलस्थः संयुत तैश्र भक्षितैः पापिभिर्युतम्। ज्वालाकलापैस्नेजोभिनिर्मितैः क्रोशमानकम् ६४॥ शब्दकृद्द्रि: पातकिभिः संयुत क्लेशदं सदा। क्रोशमानं च गम्भीरं तप्तभस्मभिरन्वितम् ॥६५॥ शश्चज्ज्वलद्धि: संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितः ॥६६॥ पापिभिर्दग्धगात्रश्च युक्तं च शुष्कतालुकः। त्रोशमानं ध्वांतयुक्तं गम्भीरमतिदारुणम् ॥६७॥। ताडितैश्र प्रदग्घश्च दग्धकुंडं प्रकोर्तितम्। अतीवोमियुतं तोयं प्रतप्तक्षारसंयुतम् ।६८॥ नानाप्रकारैविरु तैर्जलजंतुभिरन्वितम् । द्विगव्यृतिप्रमाणं च गम्भीरं ध्वांतसंयुतम् ॥६९।। तंद्रक्ष्यः पापिभिर्युक्तं दंशितैर्जलजंतुभिः ।ज्वर्लन्द्रिः शब्दकृद्धिश्च न पर्श्या्द्रिः परस्परम्७॥। प्रतप्तसूचीकुण्डं च कीर्तितं च भयानकम् । असीव धारापत्रस्याप्युच्चस्तालतरोरधः ॥७१।। क्रोशार्धमानं कुंडं च पतत्पत्रसमन्वितम्। पापिनां रक्तपूर्ण च वृक्षाग्रात्पततां ध्रुवम् ॥७२॥ परित्राहीति शब्दं च कुर्वतामसतामपि। गम्भीरं ध्वांतयुक्तं च रक्तकीटसमन्वितम्॥७३॥ तदसोपत्रकंडं च कीर्तितं च भयानकम्। धनुःशतप्रमाणं च क्षुरधारास्त्रतंयुतम् ॥७४॥ पापिनां रक्तपूर्ण च क्षुरधारं भयानकम्। सूचीमुखास्त्रसंयुक्तं पापिरक्तौवपूरितम् ॥७५॥ पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जंतुभेदस्य गोकाख्यस्य मुखाकृति।।७६।। कूपरूपं च गम्भीरं धनुर्विशत्प्रमाणकम् । महापातकिनां चत्र महत्कलेशप्रदं परम्॥७७।। तत्कीटभक्षितानां च नम्रास्यानां च संततम्। कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥७८।। गम्भीरं पापरूपं च पापिभिः संकुलं सदा। धनुःशतप्रमाणं च कीतितं गजदंशनम् ॥७९॥ धनुस्त्रिंशत्प्रमाणं च कुंडं च गोमुखाकृति। पापिनां वलेशदं शश्वद्गोमुखं परिकीर्तितम् ८०।। कालचत्रेण संयुक्तं भ्रममाणं भयानकम्। कुम्भाकारं ध्वांतयुक्तं द्विगव्यूतिप्रमाणकम् ॥८१॥ लक्षपौरुषमानं च गम्भीरं विस्तृतं सति। कुत्रचचत्तपतैलं्ं् ्ताम्रादिकुंडमेव ् च ।८ २ पापिनां च प्रधानैश्र मूर्छितैः कमिभिर्युतम्। परस्परं च नश्यद्भिः शब्दकृद्भिश्च संततम्८३॥। ताडितर्यमदूतैश्च मुसलैर्मुद्ररैस्तथा। घूर्णमानैः पतद्भिश्च मूर्छितैश्र क्षणं क्षणम् ॥८४।। पातितैर्यमदूतैश्र रुदन्त्यस्मात्क्षणं पुनः। यावन्तः पापिनः संति सर्वकुंडेषु सुंदर ॥८५॥ ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे। सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥८६॥ सर्वकुंडप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालननिमितसूत्रेण निवद्धा यत्र पापिनः ॥८७।। उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥८८॥ अतीव क्लेशसंयुक्ता देहभोगेन सुंदरि। प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम्।८९॥ अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च बतुर्विशत्प्रमाणकम्॥९०॥
Page 672
६७२ श्रीमद्देवीमागवते महापुराणे नवमस्कन्धे अध्याय: ३७ व्याप्तं महापापिभिर्व्यादग्धांगैश्र संततम्। मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥९१॥ यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम्। भवेदकस्मात्पततां यम्मिन्कुंडे धनुःशते ॥९२। अरुंतुदैभक्षितैस्तु प्राणिभिर्यच्च संकुलम्। हाहेति शब्दं कुर्वन्द्िस्तदेवारुंतुदं विद्ुः ।।९३।। तप्तपांसुभिराकीर्ण ज्वलन्ध्रिस्तुषदग्धकः । तन्द्क्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥९४॥ पातमात्रेण पापी च पाशेन वेष्टितो भवेत्। क्रोशमात्रेण कुंडं च तत्पाशवेष्टनं विदुः ।।९५।। पापमात्रेण पापी च शूलेन वेष्टितो भवेत्। धनुर्विशत्प्रमाणं च कलप्रोतं प्रकीर्तितम् ॥९६॥ पततां पापिनां यत् भवेदेव प्रकंपनम्। अतीव हिमतोयाक्तं क्रोशार्वं च प्रकंपनम् ॥९७।। ददत्येव हि मे दूता यत्रोल्काः पादिनां मुखे। धनुर्विशत्प्रमाणं तदुल्काभिश्र सुसंकुलम् ।९८।। लक्षपोरुषमानं च गंभीरं न धनुःशतम्। नानापकारैः कृमिभिः संयुक्तं च भयानकम् ९९॥। अत्यंधकारव्याप्तं च कूपाकारं च वर्तुलम् ।तन्द्रव्यंः पापिभिर्युक्तं प्रणश्यन्द्ि: परस्परम्१०॥॥ तप्ततोयप्रदग्धश्र ज्वलद्ध्ि: कीटभक्षितैः । ध्वांतेन चक्षुषा चांधरंधकूपः प्रकीर्तितः ॥१०१।। विद्वाश् पापिनः। धनुर्विशत्प्रमाणं च बेधनं तत्प्रकीर्तितम् ॥१०२। दंडेन ताडिता यतर मम दूतैश्च पापिनः। धनुःषोडशमानं च तत्कुंडं दंडताडनम् ॥१०३॥ निरुद्धाश्च महाजालरयथा मोनाश्च पापिनः । धनुरविशत्प्रमाणं च जालरंध्रं प्रकारतितम् ॥१०४॥ पततां पापिनां कुडे देहश्रणो भवेदिह। लोहवंदीनिबद्धानां कोटिपौरुषमानकम् ॥१०५॥ गंभीरं ध्वांतसंयुक्तं धनुर्विशत्प्रमाणकम् । मूर्छितानां जडानां च देहचूण प्रकीर्तितम्॥१०६॥ दलिताः पापिनो यत्र मम दूतैश्च ताडिताः । धनुःषोडशमानं च तत्कुंडं दलनं स्मृतम् ॥१०७॥ पतनेनैव पापी च शुष्क कंठोष्टतालुकः ! बालुकासु च तप्तासु धनुस्त्रिशत्प्रमाणकम्॥।१०८॥ शतपौरुषमानं च गंभीरं ध्वांतसंयुतम्। शोषणं कंडमेतद्धि पापिनां परदुःखदम् ॥१०९।। नानाच मंकषायोदपरिपृर्ण धनुःशतस्। दुर्गधियुक्तं तद्दक्ष्यैः प्राणिभिः संकुलं कषम्११०॥ शूर्पाकारमुखं कुंडं धनुद्वदिशमानकम् । तप्तलोहबालुकाभिः पूर्ण पातकिसंयुतम् ॥१११॥ दुर्गधियुक्तं तद्द्रक्ष्यः पापिभिः संकलं सति। शूर्पाकारमुखं कुंडं धनुर्द्रादशमानकम् ॥११२॥ प्रतप्तवालुकापूणं महापातकिभिर्युतम् । अंतरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ११३।। धनुविशतिमानं न प्रमाणं यस्य सुंदरि। ज्वालाभिर्दग्वगात्रैश्च पापिभिर्व्याप्तमेव च ॥११४॥ तन्महाकलेशद शश्वत्कुंडं ज्वालामुखं स्मृतम्। पातमात्राद्यन् पापी मू्छितो वै नरी भवेत् ॥११५॥ तप्तेष्टकाभ्यंतरितं वाप्यर्ध जिह्मकुण्डकम्। धूम्रांधकारसंयुक्त धूम्रांध पापिभिर्युतम् ।।११६। ध्नुःशतं श्वासरंध्रर्धम्रांधं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भदेत् ॥११७॥ धनुःशतं नागपूर्णं तन्नागैवेष्टितं भवेत्।
Page 673
४३ श्रीमरेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ३८ ६७३ षडशीति च कुंडानि मयोक्तानि निशामय। लक्षणं चापि तेषां च कि भूयः श्रोतुमिच्छसि ॥११८। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे सावित्र्युपाख्याने सप्तत्रिंशोऽध्यायः ॥ २८॥ अथाष्टत्रिंशोऽध्यायः सावित्र्युवाच देवीभत्ति देहि मह्यं साराणां चव सारकम्। पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥१॥ कारणं मुक्तिसाराणां सर्वाशुभविनाशनम्। दारकं कर्मवृक्षाणां कृतपापोघदारणम् ॥२॥। मुक्तिश्च कतिधाप्यस्ति किंवा तासां च लक्षणम्। देवीभक्ति भक्तिभेदं निषेकस्यापि खंडनम् ॥३॥ तत्त्वज्ञानविहीना च स्त्रीजातिविधिनिमिता। किचिज्ज्ञानं सारभूतं वद वेदविदां वर ॥४।। सर्वं दानं च यज्ञश्र तीर्थं स्नानं व्रतं तपः । अज्ञानिज्ञानदानस्य कलां नाहंति षोडशीम् ॥५॥ पितुः शतगुणा माता गौरवे चेति निश्चितम्। मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥६॥। धर्मराज उवाच पूर्व सर्वो वरो दत्तो यस्ते मनसि वांछितः । अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥७॥ श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम्। वक्तृणां पृच्छकानां च श्रोतृणां कुलतारणम् ।।८।। शेषो वक्त्रसहस्त्रेण न हि यद्वक्तुमीश्वरः। मृत्युंजयो न क्षमश्च वक्तुं पञ्चमुखेन च ।।९॥' धाता चतुर्णा वेदानां विधाता जगतामपि। शरह्मा चतुर्मुखेनैव नालं विष्णुश्र सर्ववित् ॥१०।। कार्तिकेय: षण्मुखेन नापि वक्तुमलं घ्रुवम्। न गणेशः समर्थश्र योगींद्राणां गुरोर्गुरुः ॥११॥ सारभूताश्र शास्राणां वेदाश्चत्वार एव चे। कलामात्रं यद्गुणानां न विदंति बुधाश्र ये ॥१२॥ सरस्वती जडीभूता नालं तद्गुणवर्णने। सनत्कुमारो धर्मश्र सनंदनः सनातनः॥१३॥ सनक: कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः । विचक्षणा न यद्वक्तुं कि चान्ये जडबुद्धयः ॥१४॥ न यद्वक्तुं क्षमा: सिद्धा मुनींद्रा योगिनस्तथा। के वा चान्ये वयं के वा श्रीदेव्या गुणवर्णने॥१५॥ ध्यायंते यत्पदांभोजं ब्रह्मविष्णुशिवादयः । अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम्॥१६॥ कश्चित्किचिद्विजानाति तद् णोत्कीर्तनं शुभम् । अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥१७॥ ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः । सर्वातिरिक्तं जानाति सर्वज्ञः शंभुरेव सः॥१८॥ तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना। अतीव निर्जनेऽरण्ये गोलोके रासमंडले ॥१९॥ तत्रैव कथितं किचित्तद्गुणोत्कीर्तनं शुभम् । धर्म व कथयामास शिवलोके शिवः स्वयम् ॥२०॥ धर्मस्तु कथयामास भास्वते पृच्छते तथा। यामाराध्य मत्पिताऽपि संप्राप तपसा सति ॥२१॥
Page 674
६७४ श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्यायः ३८ पूर्व त्वं विषयं चाहं न गुह्हामि प्रयत्नतः । वैराग्ययुक्तस्तपसे गंतुमिच्छति सुव्रते ॥२२॥ तदा मां कथयामास पिता तद्गुणकीर्तनम्। यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥२३॥ तद्गुणं सा न जानाति तदन्यस्य च का कथा। यथाकाशो न जानाति स्वांतमेव वरानने ॥२४॥ सर्वात्मा सर्वभगवान्सवंकारणकारणः । सर्वेश्वरश्र सर्वाद्यः सर्ववित्परिपालकः ॥२५॥ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः । निरंकुशो निराशंको निर्गुणश्च निरामयः ॥२६॥ निर्लिस: सर्वसाक्षी च सर्वाधारः परात्परः । मायाविशिष्टः प्रकृतिस्तद्विकाराश्र प्राकृताः।२७।। स्वयं पुमांश्च प्रकृतिस्तावभिन्नी परस्परम् । यथा वह्नेस्तस्व शक्तिर्न भिन्नाऽस्त्येव कुत्रचित् ॥ सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी। रूपं विभर्त्यरूपा च भक्तानुग्रहहेतवे ।२९॥ गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह। अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥३०॥ नवीननीरदश्यामं किशोरं गोपवेषकम्। कंदर्पकोटिलावण्यं लीलाधाम मनोहरम् ॥३१॥ शरन्मध्याह्वपद्मानां शोभामोचनलोचनम्। शरत्पार्वणकोटींदुशोभाप्रच्छादनाननम् ।।३२।। अमूल्य रत्न निर्माण नानाभूषणभूषितम् । सस्मितं शोभितं शश्वदमूल्यपीतवाससा ।३३।। परब्रह्मस्वरूपं च ज्वलंतं ब्रह्मतेजसा। सुखदृश्यं च शांतं च राधाकांतमनंतकम् ॥३४॥ गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च संततम्। रासमंडलमध्यस्थं रत्नसिंहासनस्थितम् ॥३५॥ वंशीं क्वणंतं द्विभुजं वनमालाविभूषितम् । कोस्तुभेंद्रमणींद्रेण शश्वद्वक्षःस्थलोज्ज्वलम् ॥३६॥ कुकुमागुरुकस्तूरी चन्दनचचितविग्रहम् । चारुचंपकमालाकतं मालतीमाल्यमंडितम् ॥३७।। चारुचंद्रकशोभाढयं चूडावंक्रिमराजितम् । एवंभूतं चध्यायंति भक्ता भक्तिपरिप्लुताः ॥३८॥ य्द्रयाज्जगतां धाता विधत्ते सृष्टिमेव च। कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम् ॥३९॥ तपसां फलदाता च कर्मणां च यदाज्ञया विष्णुः पाता च सर्वेपां यन्दयात्पाति संततम्॥४०॥ कालाग्निरुद्रः संहर्ता सर्दविश्वेषु यद्धयात्। शिवो मृत्युंजयश्रैव ज्ञानिनां च गुरोर्गुरुः ॥४१॥ यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः । परमानन्दयुक्तश्र भक्तिवैराग्यसंयुतः ।४२।। य्धयाद्वाति पवनः प्रवरः शीघ्रगामिनाम्। तपनश्च प्रतपति यद्द्रयात्संततं सति॥४३॥ यदाज्ञया वर्षतींद्रो मुत्युश्चरति जन्तुपु। यदाज्ञया दहेद्रह्निर्जलमेवं सृशीतलम् ॥४४।। दिशो रक्षति दिक्पाला महाभीता यदाज्ञया। भ्रमंति राशिचक्राणि ग्रहाश्र यद्येन च ॥४५॥ भयात्फलंति वृक्षाश्र पुप्यंत्यपि च यद्ध्यात् । यदाज्ञां तुपृरस्कृत्य काल: काले हरेद्रयात् ॥४६॥ तया जलस्थलस्थाश्च न जीवंति यदाज्ञया। अकालेनाहरेद्विद्धं रणेषु विपमेपु च।४७।। धत्ते वायुस्तोयराशि तोयं कूम तदाज्ञया। कूर्मोऽनंतं च क्षोणीं च समुद्रान्सा च पर्वतान् । सर्वा चैव क्षमारूपा नानारत्नं बिभतति या। यतः सर्वाणि भूतानि स्थीयंते हंति तत्र हि ४९।।
Page 675
श्रीमद्वेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ३८ ६७५ इन्द्रायुश्रैव दिव्यानां युगानामेकसप्ततिः। अष्टाविशे शक्राते ब्रह्मगश्च दिवानिशम् ॥५०॥ एवं त्रिशहद्निर्मासो दवाम्यामाभ्यामृतुः स्मृतः । ऋतुभिः षड्भिरेवाब्दं ब्रह्मणों है वयः स्मृतम् ॥ ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरे:। चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः ।५२॥ प्रलये प्राकृते सर्वें देवाद्याश्च चराचराः। लीना धाताविधाता च श्रोकृष्णनाभियंकजे ५३॥ विष्णुः क्षीरोदशायी च वैकुंठे यश्चतुर्भुजः । विलीना वामपार्श्वे च कृष्गस्य परमात्मनः ॥५४॥ यस्य ज्ञाने शिवो लोनो ज्ञानाधीशः सनातनः । दुर्गायां विष्णुमायायां विलीना: सर्वशक्तयः५५॥ सा च कृष्णस्य बुद्धो च बुद्धयधिष्ठातृदेवता। नारायणांशः स्कंन्दश्च लोनो वक्षसि तस्य च५६॥ श्रीकृष्णांशश्च तद्वाहो देवाधीशो गणेश्वरः । पद्मांशाश्चंत पद्मायां सा राधायां च सुत्रते॥१७॥ गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः । कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता५८॥ सावित्री च सरस्वत्यां वेदा: शास्त्राणि यानि च। स्थिता वाणो च जिह्वायां यस्य च परमात्मनः॥। गोलोकस्य च गोपाश्च विलोनास्तस्य लोमसु। तत्प्राणेषु च सर्वेषरां प्राणा वाता हुताशना: ६०।। जठराग्नो विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणांभोजे परमानन्दसंयुताः ॥६१। । विराडंशाश्र महति लीना: कृष्णे महाविराट६२।। यस्यव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥६३॥ चक्षुरुन्मीलने सृष्टियस्यव पुनरेव सः। यावत्कालो निमिषेण तावदुन्मीलनेन च ॥६४॥ ब्रह्मणश्र शताब्दे च सृष्टः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुन्रते ॥६५॥ यथा भूरजसां चंत्र संख्यानं नैवरे विद्यते। चक्षुरनिमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥६६॥ उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया। स कृष्णः प्रलये तस्यां प्रकृतौ लोन एव हि ६७॥। एकव च परा शक्तिनिर्गुण: परमः पुमान्। स एवेदमग्र आसीदिति वेदविदो विद्ुः ।।६८।। मूल प्रतिरव्यक्ताऽप्यव्याक्रतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥६९।। तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः जमः । मुक्तयश्च नुवंदैरनिरुक्ताश्च चतुर्विधाः ॥।७०॥। तत्प्रधानादेव भक्तिर्मुक्तेरपि गरीयसी । सालोक्यदा भवेदेषा तथा सारूप्यदा परा ॥७१॥ सामोप्यदाज्थ निर्वाणप्रदा मुक्तिश्चतुविधा। भकतास्तां न हि वांछंति विना तत्सेवनं विभो: ॥ शिवत्वममरत्वं च ब्रह्मत्वं चात्रहेलया। जन्ममृत्यु जराव्याचिभयशोकादिकं धनम्॥७३॥ दिव्यरूपवारणं च निर्वाणं मोक्षणं विद्ुः। मुक्तिश्चसेवारहिता भक्तिः सेव्राविवर्धिनी॥७४॥ भक्तिमुक्त्योरयं भेदो निषेकखंडनं शृणु। विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम्॥७५॥ तत्खण्डनं च शुभदं श्रोविभोः सेवनं परम्। तत्त्वज्ञानमिदं साध्त्रि स्थिरं च लोकवेदयोः॥७६॥ निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् । इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम् ७७॥
Page 676
१७६ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३९ सस्ये शुभाशिपं दत्त्वा गमनं कर्तुमुद्यतः । दृष्टा यमं च गच्छंतं सा सावित्री प्रणम्य च७८।। करोद चरर्णा धृत्वा साधुच्छेदेन दुःखिता। सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः॥७९। तामित्युवाच संतुष्टः स्वयं चैव रुरोद ह। ध्मराज उवाच लक्षवषं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥८०।। अन्ते यास्यसि तत्लोकं यत्र देवी विराजते। गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु॥८१॥ द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम्। ज्येह्शुवलचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ८२।। शुकलाप्टम्यां भाद्रपदे महालक्ष्म्या यथा व्रतम्। द्वयष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते ।।८३।। करोति भक्त्या या नारी सा याति च विभो: पदम्।प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम्८४॥ प्रतिमासं शुवलपा्ठयां षष्टी मङ्गलदायिनीम् ।तथा चाषाढसंक्रांत्यां मनसा सर्वसिद्धिदाम् ।।८५॥ राधारासे च कात्तिवयां कृष्ण प्राणाधिकप्रियाम्। उपोप्य शुक्लाप्टम्यां च प्रतिमासं वरप्रदाम् ॥८६॥ विष्णुमाया भगवतीं दुर्गी दुर्गतिनाशिनीम्। प्रवृति जगदंबां च प्रतिमासं वरप्रदाम् ॥८७॥ पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च। या नारी पूजयेद्द्वत्या धनसंतानहेतवे ॥८८।। इह लोके सुखं भुकत्वा यात्यंते श्रीविभो: पदम्। एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ।।८९। सर्वकालं सर्वरूपा संसेव्या परमेश्वरी। नातः परतरं किचित्कृतकृत्यत्वदायकम् ॥९०॥ इत्युक्त्वा तां धर्मराजो जगाम निजमंदिरम् । गृहीत्वा स्वामिनंसा च सावित्री च निजालयम् ॥ सावित्री सत्यवांक्रव प्रययो च दथागतम्। अन्यांश्र कथयामास स्ववृत्तांतं हि नारद ।९२। साविश्रीजनकः पुत्रान्संप्राप्तः प्रव्रमेण च। श्वशुरश्रक्षुपी राज्यं सा च पुत्रान्वरेण च ।।९३। एक्षवर्ष सुखं भुक्त्वा पुण्यक्षेत्रे च भारते। जगाम स्वामिना साधं देवीलोकं पतिव्रता ॥९४॥ सवितुश्चाधिदेवी या मंत्राघिष्ठातृदेवता। सावित्री ह्यविवेदानां सावित्री तेन कीर्तिता ९५। इत्येवं कथितं वत्स सावित्यास्यानमुर्ुतमम्। जीवकर्मविपाक च कि पुनः श्रोतुमिच्छसि९६॥ दृति श्रीदेवीमागवते नवमस्कंधे नारदनारायणसंवादे सावित्र्युपाख्यानेऽष्टत्रिशोऽध्यायः॥३८॥ अथैकोनचत्वारिंशोऽध्यायः नारद उवाच बोकलप्रवृतर्देव्या गायत्यास्तु निराकृतेः । सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥१॥ तद्गुणोत्कीर्तन सत्यं मंगलानां च मंगलम्। अधुना श्रोतुमिच्छामि लक्ष्म्यु पाख्यानमीश्षर ॥२।। केनादो पूजिता सापि किंभूता वेन वा पुरा। तद्गुणोत्कीर्तनं मह्यं वद वेदविदां वर ॥३।
Page 677
श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ३९ ६७⑈
श्रीनारायण उवाच सृष्टेरादो पुरा ब्रह्मन्कृष्णस्य परमात्मनः । देवी वामांससंभूता बभूव रासमंडले ॥४॥ अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता। यथा द्वादशवर्षीया शश्वत्सुस्थिरयोवना ।।५।। श्वेतचंपकवर्णाभा सुखदृश्या मनोहरा। शरत्पार्वणकोटोंदुप्रभा प्रच्छादनानना का रन्मध्या ह्वपद्मानां शोभामोचनलोचना। सा देवी द्रिविधा भूता सह सर्वेश्वरेच्छया॥७।। स्वोयरूपेण वर्णेन तेजसा वयसा त्विषा। यशसा वाससा कृत्वा भूपणेन गुणेन च ।l८।। स्मितेन वोक्षणेनैव प्रेम्णा वाऽनुनयेन च। त्ामांसान्महालक्ष्मीर्दक्षिणांसाच्व राधिका ॥९॥ रााऽऽदो वरयामास द्विभुजं च परात्परम्। महालक्ष्मीश्च तत्वश्चाच्तकमे कमनीयकम् ॥१०॥ कृष्णस्तद्गौरवेणैव द्विधारूपो वभूव ह । दक्षिगांसश्च द्विभुजी वामांसश्च चतुर्भुजः ॥११॥ चतुर्भुजाय द्विभुजो महालक्ष्मी ददौ पुरा। लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या यथाऽनिशम् ॥ देवीभूता च महती महालक्ष्मीश्र सा स्मृता। राधाकांतश्र द्विभुजो लक्ष्मीकांतश्चतुर्भुजः ॥१३॥ शुद्धसत्त्वस्वरूपा च गोपैगोपीभिरावृता। चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह॥१४॥ सर्वांशेन समौ तौ द्वौकृष्णनारायणौ वरौ। महालक्ष्मोश्च योगेन नानारूपा बभूव सा ॥१५॥ वैकुण्ठे च महाचक्ष्मोः परिपूर्णतमा रमा। शुद्धसत्त्वस्व्ररूपा च सर्वसौभाग्यसंयुता ॥१६।। प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च । स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसंपत्स्वरूपिणी ॥१७।। पाताले नागलक्ष्मोश्च राजलक्ष्मोश्च राजसु। गृहलक्ष्मीगृहेष्वेव गृहिणां च'कलांशतः ॥१८। संपत्स्वरूपा गृहिणां सर्वमंगलमंगला। गवां प्रसूतिः सुरभिर्दक्षिगा यज्ञकामिनी ॥१९॥ क्षीरोदासधुकन्या सा श्रीरूपा पद्मिनीषु च । शोभास्वरूपा चन्द्रे च सूर्यमंडलमंडिता ॥२०॥ विभूषणपु रत्नेषु फलेषु च जलेपु च। नृपेषु नृपपत्नीषु दिव्यस्त्रीपु गृहेषु च ॥२१॥। सर्वसस्यषु वस्त्रेपु स्थानेषुं संस्कृतेषु च। प्रतिमासु च देवानां मंगलेषु धटेषु च ।२२।। माणिक्येषु च मुक्तासु माल्येपु च मनोहरा। मणीन्द्रेषु च हरिपु क्षीरेपु चन्दनेषु च ।।२३।। वृक्षशाखासु रम्यासु नवमेधेपु वस्तुपु। वैकुण्ठं पूजिता साउडदौ देवी नारायणेन च ॥२४॥ द्वितीये ब्रह्मणा भक्तया तृतीये शंकरेण च। विष्गुना पूजिता सा चक्षीरोदेभारते मुने ॥२५॥ स्वायंभुवेन मनुना मानवेन्द्रश्च सर्वतः। ऋषोन्द्रश्व मुनीन्द्रेश्च सद्धिश्च गृहिभिर्भवे ॥२६॥ गन्धर्वेश्चैव नागादयैः पातालेयु च पूजिता। शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मगा ॥२७॥ भक्त्या च पक्षपर्यन्तं त्रिपु लाकपु नारद। चैत्रे पौषे च भाद्रे च पुण्ये मंगलवासरे ॥२८॥ विष्णुना पूजिता सा च त्रिषु लाकषु मक्तितः । वर्षान्तेपौषसंक्रांत्यां माध्यामावाह्य मंगले ॥।२९। मनुस्ता पूजयामास सा भूता भुवनत्रये। पूजिता सा महेन्द्रेग मंगलेनैत्र मंगला ॥३०॥
Page 678
१७८ श्रीमद्देवीभागवत महापुराणे नवमस्कन्धे अध्याय: ४० कैदारेणैव नीलेन सुबलेन नलेन च । ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ॥३१॥ कश्यपेन च दक्षेण कर्दमेन विवस्वता। प्रियव्रतेन चन्द्रेण कुवेरेणैव वायुना ॥३२॥ यमेन वह्निना चैव वरुणैनैव पूजिता। एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा ॥ सर्वेश्वर्याधिदेवी सा सर्वसंपत्स्वरूपिणी ॥३३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे एकोनचत्वारिंशोऽध्यायः॥३९॥ अथ चत्वारिंशोऽध्यायः नारद उवाच मारायणप्रिया सा च वरा वैकुण्ठवासिनी। वैकुण्टाधिष्टातृदेवी महालक्ष्मी सनातनी ।।१।। कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका। पुरा केन स्तुताऽउदौसा तन्मे व्याख्यातुमर्हसि ॥२॥ श्रीनारायण उवाच पुरा दूर्वाससः शापाद्भ्रष्टशीश्र पुरंदरः । बभूव देवसंघश्च मर्त्यलोके च नारद ॥३॥ लक्ष्मी: स्वर्गादिकं त्यकत्वा रुष्टा परमदुःखिता। गत्वां लीना च वैकुण्ठे महालक्ष्मीश्च नारद ॥४।। तदा शोकाद्ययुः सवें दृःखिता ब्रह्मणः सभाम्। ब्रह्माणं च पुरस्कृत्य ययुर्वेकुण्ठमेव च ॥५॥ वैकुण्ठे शरणापन्ना देवा नारायणे परे। अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः ॥६॥ तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया। बभूव सिन्धुकन्या सा सर्वसंपत्स्वरूपिणी ॥७॥ तथा मथित्वा क्षीरोदं देवा देत्यगणः सह। संप्रामाश्र महालक्ष्मी विष्णुस्ता च ददर्श है।।८।। सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे। ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥९॥ देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद। तां संपूज्य न संभूय सर्वत्र च निरापदः ॥१०॥ नारद उताच कथं शशाप दृर्वासा मुनिश्रेष्ठः कदाचन। केन दोपेण वा ब्रह्मन् व्रह्मिप्ठस्तत्त्ववित्पुरा ।॥११॥ ममंथुः केन रूपेण जलधिं ते सुरादयः। केन स्तोत्रेणवा देवी शर्कसाक्षाद्वभूब सा ॥१२॥ को वा तयोश्र संप्राप्तो बभूव तद्रद प्रभो। श्रीनारायण उवाच मधुपानप्रमत्तश्च तेलोक्याधिर्पातः पुरा ॥१३॥ क्रीडां चकार रहसि रंभया सह कागुकः । कृत्वा क्रीडांतया सार्धं कामुक्या हृतमानसः ॥१४॥ तस्थो तत्र महारण्ये कामोन्मथितमानसः। कैलासशिखरे यांतं वैकुण्ठादृपिसत्तमम् ॥१५॥ दूर्वाससं ददर्शेन्द्रो ज्वलंतं ब्रह्मतेजसा। ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ।।१६।।
Page 679
श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४० ६७९
प्रतेप्तकांचनाकारं जटाभारमहोज्ज्वलम्। शुक्लय ज्ञोपवीतं च चोरदण्डौ कमण्डलुम् ।। १ ७ ।। महोज्जवलं च तिलकं बिभ्रतं चेन्दुसन्निभम्। समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः ॥१८॥ दृष्टा ननाम शिरसा संप्रमत्तः पुरंदरः । शिष्यवर्ग तदा भक्त्या तुष्टाव च मुदान्वितम् ।१९॥ मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः । विष्णुदत्तं पारिजातपुष्पं स सुमनोहरम् ॥२०॥ तज्जरारोगमृत्युघ्नं शोकघ्नं मोक्षकारकम्। शक्र: पुष्पं गृहोत्वा च प्रमत्तो राज्यसंपदा ।।२१।। पुष्पं स .न्यस्तयामास तदैव करिमस्तके। हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ।।२२।। तेजसा वयसाऽकस्माद्विष्णुतुल्यो बभूव ह। त्यक्त्वा शक्रंगजेन्द्रश्च जगाम घोरकाननम् ॥२३॥ न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने। तत्पुष्पं त्यक्तवंतं च दृष्टा शक्रं मुनीश्वरः ॥२४॥ तमुवाच महारुष्टः शशाप च रुषान्वितः । मुनिरुवाच अरे श्रिया प्रमत्तस्त्वं कर्थं मामवमन्यसे ।।२५।। मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके। विष्णोर्निवेदितं चैव नैवेदयं वा फलं जलम् ॥२६॥। प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् । भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टा भवेत्तु सः ॥२७॥ यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् । प्राप्तिमात्रेण यो भुक्ते भक्तो विष्णुनिवेदितम् ॥। २ ८ पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत्। नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम् ॥२९॥ पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत्। तत्स्पर्शवायुना सद्यस्तीर्थधश्र विशुध्यति ॥३०॥ तत्पादरजसा मूढ सदः पूता वसुन्धरा। पुंश्रल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च॥३१॥ यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम्। शिवर्लिंगप्रदानं च यहतं शुद्रयाजिना ॥३२॥ चिकित्सकद्विजान्नं च देवलान्नं तर्थव च। कन्यादिक्रयिणामन्नं यदन्नं योनिजोविनाम्॥३३॥ उच्छिष्ठान्नं पर्युषितं सर्वभक्षावशेपितम् । अगम्यागामिनां चैव द्विजानामन्नमेव च ॥३४॥ अदीक्षितद्विजानां च यदन्नं शवदाहिनाम्। अगम्यागामिनां चैव द्विजानामन्नमेव न ॥३५॥ मित्रद्रुहां कृतध्नानामन्नं विश्वासधातिनाम् । मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तर्थव च॥३६॥ एते सर्वे विशुध्यन्ति विष्णोनेवेद्यभक्षणात्। श्वपचश्चेद्विष्णुसेवी वंशांनां कोटिमुद्धरेत् ।३७॥ हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः । अज्ञानाद्यदि गृत्नति विष्णोर्नेवेद्यमेव च ॥३८॥ सप्तजन्मार्जिंतात्पापान्मुच्यते नात्र संशयः ।ज्ञात्वा भक्त्या च गृह्ाति विष्णोनैवैद्यमेव च॥३९॥ कोटिजन्मार्जितात्पापान्मुच्यते निश्रित हरे। यस्मात्संस्थापित पुष्पं गर्वेण करिमस्तके ॥४०।। तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम्। नारायणस्य भक्तोऽह न विभेमि सुरादविधेः ॥४१॥ कालान्मृत्योर्जरातश्च कानन्यान्गणयामि च । कि करिष्यति ते तातः कश्यपश्व प्रजापनिः ॥४२॥
Page 680
६८० श्रीमदेवीमागवते महापुराणे नवमस्कम्ब अध्याय: ४० नृहस्पतिर्गुरुश्रव निःशंकस्य च मे हरे। इदं पुष्पं यस्य मू्ष्नि तस्यव पूजनं परम् ॥४३॥ इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुने. । उच्च रुरोद शोकार्तस्तमुवाच भयाकुलः ॥४४॥ महेन्द्र उवाच दत्तः समुचितः शापो मह्यं मायापह प्रभी। हुता न याचे संपत्तिकिचिज्ज्ञानं च देहि मे॥४५॥ ऐश्वयं विपदां बीजं ज्ञानप्रच्छन्नकारणम्। मुक्तिमार्गकुठारञ्च भवतेश्र व्यवधायकम् ॥४६॥ मुनिरुवाच जन्ममृत्यु जराशोक रोगबीजांकुरं परम्। संपसतितिमिरांधश्र मुक्तिमार्ग न पश्यति॥४।।। संपन्मत्तो विभूदश्च सुरामत्तः स एव च। वांधवैर्वेष्टितः सोऽपि बंधुत्वनैव हे हरे॥४८॥ संपत्तिमदमत्तश्च विपयांधश्र विह्वलः । महाकामी राजसिकः सत्त्वमार्ग न पश्यति॥४९।। द्विविधो विषयांधश्च राजसस्तामसः स्मृतः । अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥५०॥ शास्त्रं च द्विविधं मार्ग दर्शयेत्सुरपुंगव । प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥५१॥ चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखबत्मनि। स्वछन्दं च प्रसन्नं च निर्विरोधं च संततम् ।५२॥ आयाति मधुनो लोभात्क्लेशेन सुखमानितः । परिणामेनांशबीजे जन्ममृत्युजराकरे ॥५३॥ अनेकजन्मपर्थन्तं कृत्वा च भ्रमणं मुदा। स्वकर्मविहितायां च नानायोन्यां क्रमेण च ।५४। ततश्रेशानुग्रहाच्च सत्संगं लभते च सः। सहस्रेषु शतेष्वेको भवान्येःपारकारणम् ॥५५॥ साधुस्तत्त्वप्रदीपेन मुक्तिमार्ग प्रदर्शयेत्। तदा करोति यत्नं च जीवो बंधनखंडने ।५६। अनेकजन्मयोगेन तपसाऽनशनेन च। तदा लभेन्मुक्तिमार्ग निर्विघ्नं सुखदं परम् ॥५७॥ इदं श्रुतं गुरोर्वक्त्राद्यत्पृच्छसि पुरन्दर। मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः॥५८।। वैराग्यं वर्धयामास तस्य ब्रह्मन्दिने दिने। मुनेः स्थानाद्गृहं गत्वा स ददर्शामगवतीम् ५९॥ दैत्यंरसुरसंघंश्र समाकीणां भयाकुलाम्। विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित् ।६०।। पितृमातृकलत्रादिविही ना मतिचंच लाम् । शत्रुग्रस्तां च तां दृष्ठा जगाम वाक्प्ति प्रति ॥६१॥ शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम्। ध्यायमानं परं ब्रह्म गंगातोये स्थितं परम् ॥६२॥ सूर्याभिसंमुखं पूर्वमुखं च विश्वतोमुखम्। साश्रुनेत्रं पुलकितं परमानन्दसंयुतम् ॥६३॥ वरिष्ठ च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम्। प्रेष्ठंच वन्धुवर्गाणामतिश्रेष्टं च ज्ञानिनाम् ॥६४। ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम्। दूष्टा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ॥६५॥ प्रहरांते गुरुं दृष्टा चोत्थित प्रणनाम सः। प्रणम्य चरणांभोजे रुरोदोच्चर्मुहुर्मुहुः ॥६६॥ वृत्तांतं कथयामास ब्रह्मशापादिकं तथा। पुनर्वरोपलन्धि च ज्ञानप्राततिं सुदुर्लभाम् ॥६७॥ वरिग्रस्तां च स्वपुरी क्रमेणैव सुरेश्वरः। शिष्यस्य वचनं श्रुत्वा सुदुद्धिर्वदतां वरः ॥६८।
Page 681
श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४० ६८१
बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः । गुरुरुवाच श्रुतं सर्वं सुरश्रेष्ठ मारोदीर्वचनं शृणु ।६९॥ न कातरो हि नीतिज्ञो विपत्ती च कदाचन। संपत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी ॥७०॥ चक्रनेमिक्रमेणैव पूर्वस्य कर्मायत्ता च स्वयं कर्त्ता तयोरपि। सर्वेषां चभवत्येव शश्वज्जन्मनि जन्मनि ॥७१॥ का परिदेवना । उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते ॥७२॥ शुभाशुभं च यत्किचित्स्वकर्मफलभुक्पुमान्। नाभुक्तं क्षीयते कर्भ कल्पकोटिशतैरपि ॥७३॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्। इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ॥७४॥ सामवेदोक्तशाखायां संबोध्य कमलोद्वम् । जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम्॥७५॥। अनुरूपं हि तेपां च भारतेऽन्यत्र चैव हि। कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ॥७६॥ कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा। कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ॥७७।। न हि त्यजेद्विना भोगं तच्छायेव पुरंदर। कालभेदे देशभेदे पात्रभेदे च कर्मणाम्॥७८॥ न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा। वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने ।।७९।। दिनभेदे कोटिगुणमसंख्यं वा ततोऽघिकम्। समे देशे च वस्तूनां दाने पुण्यं समं सुर ॥८०॥ देशभेदे कोटिगुणकसंख्यं वा ततोऽधिकम्। समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ।।८१।। पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम्। यथा फलंति सस्यानि न्यूनान्यप्यधिकानि च ।८२।। कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा। सामान्यदिवसे विप्र दानं समफलं भवेत् ।।८३।। अमायां रविसंक्रांत्यां फलं शतगुणं भवेत्। चातुमा्यां पौर्णमास्यामनंतं फलमेव च ।।८४।। ग्रहणे शशिनः कोटिगुणं च फलमुच्यते। सूर्यस्य ग्रहणे वाऽपि ततो दशगुणं भवेत् ।।८५॥ अक्षयायामक्षयं यदसंख्यं फनमुच्यते। एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति ॥८६॥ यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु। एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥८७।। यथा दण्डेन चक्रेण शरावेण भ्रमेण च । कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि॥ तर्थव कर्मसूत्रेण फलं धाता ददाति च। यस्याज्ञया सृष्टमिदं तं च नारायणं भज ॥८९॥ स विधाता विधातुश्च पातुः पाता जगत्त्रये। स्रष्टुः स्रष्टा च संहर्तु: संहर्ता कालकालकः ।९०॥ महाविपत्तो संसारे यः स्मरेन्मधुसूदनम् । विपत्ती तस्य संपत्तिर्भवेदित्याह शंकरः ॥९१॥ इत्येवमुक्त्वा तत्त्वज्ञः समालिग्य सुरेश्वरम्। दत्त्वा शुभाशिषं चेषटं बोधयामास नारद ॥१२॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे चतवारिंशोऽध्यायः।। ४० ॥
Page 682
६८२ श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४१
श्रीनारायण उवाच हरि ध्यात्वा हरिव्रह्मञ्जगाम ब्रह्मणः सभाम्। बृहस्पति पुरस्कृत्य सर्वेः सुरगणैः सह ॥१॥ शीघ्रं गत्वा ब्रह्मलोकं दृष्टा च कमलोद्गवम्। प्रणेमुर्देवताः सवें सहेंद्रा गुरुणा सह ॥२॥ वृत्तांतं कथयामास सुराचार्यो विधि प्रति। प्रहस्योवाच तच्छ्रत्वा महेन्द्रं कमलासनः ॥३॥ ब्रह्मोवाच वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्र शिष्यस्त्वं सुराणामधिपः स्वयम् ॥४॥ मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान्। कुलत्रयं यस्य शुद्धं कथं सोऽहंकृतो भवेत् ।५॥ माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहंकृतो भवेत् ॥५॥ जनः पैतृकदोपेण दोषान्मातामहस्य च। गुरुदोषात्त्रिभिर्दोषेहरिदोषी भवेद्ध्रुवम्।७॥ सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तक्षणो भवेत् ।।८।। मनोऽहरमिद्रियेशं च ज्ञानरूपो हि शंकरः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ।९॥ निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मंनः प्रतिबिम्बश्च जीबो भोगशरीरभृत् १०॥ आत्मनीशे गते देहात्सवें यांति ससंभ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥११॥ अहं शिवश्र शेपश्र विष्णुर्धमों महाविराट्। यूयं यदंशा भक्ताश्र तत्पुष्पं न्यक्कृतं त्वया १२।। शिवेन पूजितं पादपझं पुप्पेग येन च। तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥१३॥ तत्पुष्पं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् ।सर्वेषां च सुराणां च तत्तूजा पुरतो भवेत् ॥१४।। दैवेन वंचितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥१५॥ सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥१६। निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यसि मद्रात् । एवमुक्त्वा च स ब्रह्मा सर्वेः सुरगणैः सह ॥१७॥ तत्र गत्वा परब्रह्म भगवंतं सनातनम्। दृष्टा तेजःस्वरूपं तं प्रज्वलंतं स्वतेजसा ॥१८॥ ग्रीष्ममध्याह्नमातंडशतकोटियमप्रभम् । शांतं चानादिमध्यांतं लक्ष्मीकांतमनन्तकम् ॥१९॥ चतुर्भुजैः पार्षदेश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिवेदैश्च गंगया परिवेष्टितम् ॥२०॥ तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टवुः परमेश्वरम् ॥२१॥ वृत्तांतं कथयामास स्वयं व्रह्मा कृतांजलिः। रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चयुताश्च ता:२२। स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् । रत्नभूषणशून्यं च वाहनादिविवर्जितम् ॥२३॥ शोभागून्यं हतश्रीकं निप्प्रभं सभयं परम्। उवाच कातरं दृष्टा भवभीतिविभंजनः ॥२४॥
Page 683
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्यायः ४१ १८३
श्रीभगवानुवाच माभर्ब्रह्मन् हे सुराक्च भयं कि वो मयि स्थिते। दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥२५॥ किं च मद्वचनं किचिच्छ्रयतां समयोचितम्। हितं सत्यं सारभूतं परिणामसुखावहम् ॥२६॥ जनाश्रासंख्यविश्वस्था मदधीनाश्च संततम् । यथा तथाऽहं मद्द्क्तपराधीनोऽस्वतंत्रकः ॥२७॥ यं यं रुष्टो हि मद्दक्तो मत्परो हि निरंकुशः । तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् २८॥ दुर्वासाः शंकरांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ यत्र शंखध्वनिर्नास्ति तुलसी न शिवार्चनम्। न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ३०॥। मद्दूक्तानां च मे निंदा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम्॥३१॥ मद्भक्तिहीनो यो मूढो भुंक्ते यो हरिवासरे। मम जन्मदिने वापि याति श्रीस्तद्गृहादपि॥३२॥ मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम्। यत्रातिथिर्न भुंक्ते च मत्प्रिया याति तद्गृहात् ॥ यो विप्र: पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः॥३४॥ महारुष्टा ततो याति मंदिरात्कमलालया। शूद्राणां शवदाही च भाग्यहोनो द्विजाधमः॥३५॥ याति रुषा तद्गृहाच्च देवाः कमलवासिनी। शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः ॥३६॥ तत्तोयपानभीता च कमला याति तद्गृहात्। अशुद्धहृदयः क्ररो हिंसको निंदको द्विजः ॥३७॥ ब्राह्मणः शूद्रयाजी च याति देवी चतद्गृहात् । अवीरान्नं च यो भुक्ते तस्माद्याति जगत्प्रसूः३८।। तृणं छिनत्ति नखरेस्तैर्वा यो विलिखेन्महोम्। निराशोब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया ३९॥ सूर्योदये द्विजो भुंक्ते दिवास्वापो च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया ४०॥ आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही। अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया ॥ स्निग्घपादश्र नग्नो हि यः शेते ज्ञानदुर्वलः। शश्वद्वदति वाचालो याति सा तद्गृहात्सती ४२॥ शिर:स्नातस्तु तैलेन योऽन्यांगं समुपस्पृशेत्। स्वांगे च वादयेद्वादं रुष्टा सा याति तद्गृहान् ४३॥ व्रतोपवासहीनो यः संध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया ४४।! व्राह्मणं निंदयेद्यो हि तं च यो द्वेष्टि संततम् । जोवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः ।४५॥ यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा। तत्र तिष्ठति सा देवी सर्वमंगलमंगला ॥४६॥ यत्र प्रदांसा कृष्णस्य तद्द्क्तस्य पितामह। सा च कृष्णप्रिया देवी तत्र तिष्ठति संततम् ॥४७ यत्र शङ्कध्वनिः शंखः शिला च तुलसोदलम् । तत्सेवावंदनं ध्यानं तत्र सा परितिष्ठति ॥४८।। शिव्लिगारचनं यत्र तस्य चोत्कीर्तनं शुभम्। दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥४९॥ विप्राणं सेवनं यत्र तेषां च भोजनं शुभम्। अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥५०॥ इत्युवत्वा च सुरान्सर्वान्मामाह स रमापतिः। क्षीरोदसागरे जन्म कलया कलयेति च ॥५१॥
Page 684
६८४ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४२ इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च। मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥५२॥ इत्युक्त्वा कमलकांतो जगामांतःपुरं मुने। देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥५३॥ मंथानं मंदरं कृत्वा कूर्मं कृत्वा च भाजनम्। कृत्वा शेषं मंथपाशं ममंथुरसुराः सुराः ॥५४॥ धन्वंतरि च पोयूषमच्चःश्रवसमीप्सितम्। नानारत्नं हस्तिरत्नं प्रापुलंक्ष्मों सुदर्शनम् ।५५। वनमालां ददो साच क्षीरोदशायिने मुने। सर्वेश्वराय रम्याय विष्णवे वैष्णवो सती ॥५६॥ देवः स्तुता पूजिता च ब्रह्मणा शंकरेण च। ददी दृष्टि सुरगृहे ब्रह्मशापविमोचनात् ।५७॥ प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयंकरम्। महालक्ष्मीप्रसादेन वरदानेन नारद ॥५८॥ इत्येवं कथितं सर्व लक्ष्म्युपाख्यानमुत्तमम्। सुखदं सारभूतं च कि भूयः श्रोतुमिच्छसि ॥५९॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे एकचत्वारिंशोऽध्यायः ।४१" अथ द्विचत्वारिंशोऽध्यायः नारद उवाच हरेरुत्कीर्तनं भद्र श्रुतं तज्ज्ञानमुत्तमम्। ईप्सित लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं बद प्रभो १।। नारद उवाच स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी। घटं संस्थाप्य क्षीरोदे षड्देवान्पर्यपूजयत् ॥।२॥ गणेशं च दिनेशं चर वह्नि विष्णुं शिवं शिवाम्। एतान् भक्त्या समभ्यर्च्य पुष्यगंधादिभिस्तदा।३।। आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम्। पूजा चकार देवेशो ब्रह्मणा च पुरोधसा ॥४॥ पुर.स्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ। देवादिषु सुदेशे च ज्ञानानंदे शिवे मुने ॥५॥ पारिजातस्य पुष्पं च गृहोत्वा चंदनोक्षितम् । ध्यात्वा देवीं महालक्ष्मों पूजयामास नारद ॥६॥ ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा। हरिणा तेन ध्यानेन तन्निबोध वदामि ते ।।७।। पराम्। शरत्पार्वणकोटींदुप्रभामुष्टिकरां पराम् ॥८॥। स्वतेजसा प्रज्वलंतीं सुखदृश्यां मनोहराम्। प्रतप्तकांचननिभशोभां मूर्तिमतीं सतीम् ।९॥ रत्नभूषणभूषाढयां शोभितां पीतवाससा। ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥१०॥ सर्वसंपत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम्। ध्यानेनानेन तां ध्यात्वा नानागुणसमन्वििताम् ११।। संपूज्य ब्रह्मवाक्येन चोपचाराणि बोडश। ददौ भक्त्या विधानेन प्रत्येकं मंत्रपूर्वकम् ॥१२॥ प्रशस्तानि प्रकृष्टानि वराणि विविवानि च। अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥१३॥ आसनं च विचित्रं च महालक्ष्म प्रगृह्यताम् । शुद्धं गंगोदकमिदं सर्ववंदितमीप्सितम् ।१४।। पापेष्मर्वह्निरूपं च गृह्यतां कमलालये। पुष्पचंदनदूर्वादिसंयुतं जाह्नवी जलम् ॥१५॥
Page 685
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४२ ६८५: शङ्कगर्भस्थितं स्वध्यं गृह्यतां पद्मवासिनि। सुगंधिपुष्पतैलं च सुगंधामलकीफलम् ॥१६॥ देहसौंदर्यबीजं च गृह्यतां श्रीहरे: प्रिये। कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥१७॥ रत्नस्वर्णविकारं च देहभूषाविवर्धनम्। शोभायँ श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥१८॥ सर्वसौंदर्थबीजं च सद्ः शोभाकरं परम्। वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥१९॥ श्रीकृष्णकांते धूपं च पवित्रं प्रतिगृह्यताम्। सुगधियुक्तं सुखदं चंदनं देवि गृह्यताम् ॥२०॥ जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम्। प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥२१॥ नानोपहाररूपं च नानारससमन्वितम् । अतिस्वादुकरं चंव नैवेद्यं प्रतिगृह्यताम् ॥२२॥ अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् । तुष्टिदं पुष्टिदं चैत्र देव्यन्नं प्रतिगृह्यताम् ॥२३॥ शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् । स्वादुयुक्तं महालक्ष्म परमान्नं प्रगृह्यताम् ॥२४॥ शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ॥२५॥ नानाविधानि रम्याणि पक्वान्नानि फलानि च । सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम् ॥२६।। मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये। सुस्वादुरससंयुक्तमिक्षुवृक्षसमुद्द्वम् ।२७॥! अग्निपववमतिस्वादु गुडं च प्रतिगृह्यताम्। यवगोधूमसस्यानां चूर्णरेणुसमुद्धवम् ॥२८॥ सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम्। सस्यचूर्णोद्धवं पक्वं स्वस्तिकादिसमन्वितम् ॥। २९॥ मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम्। शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥३०॥ कमले गृह्यतां चेदं व्यजनं श्वेतचामरम्। तांबूलं च वरं रम्यं क्पूरादिसुदासितम् ॥३१॥ जिह्वाजाडयच्छेदकरं तांबूलं प्रतिगृह्यताम्। सुवासितं सुशीतं च पिपासानाशकारकम् ॥३२॥ जगज्जीवनरूपं च जीवनं देवि गृह्यताम्। देवसौंदर्यबीजं च सदाशोभाविवर्धनम् ॥३३॥ कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्गविकारं च देहभूषाविवर्धनम् ॥३४॥ शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम्। नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥३५॥ सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमंगलमंगलम् ॥३६॥ गंधवस्तूद्धवं रभ्यं गंधं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥३७॥ गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥३८।। वस्त्रभूषणभूषाढयं सुतल्पं देवि गृह्यताम्। यद्यद्द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥३९॥ देवभूषार्हभोग्यं च तद्द्रव्यं देवि गृह्यताम्। द्रव्याण्येतानि दत्त्वा च भूतेन देवपुंगवः ॥४०॥ मूलं जजाप भक्त्या च दशलक्षं विधानतः । जपेन दशलक्षेण मंत्रसिद्धिर्बभूव ह॥४१॥ मंत्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्र सर्वतः। लक्ष्मीर्माया कामवाणी ङेन्ता कमलवासिनी ४२॥ वैदिको मंत्रराजोऽयं प्रसिद्धः स्वाहयाऽन्वितः। कुबेरोऽनेन मंत्रेण परमश्वर्यमाप्तवान् ॥४३।
Page 686
६८६ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४२ राजराजेश्वरो दक्षः सार्वणिर्मनुरेव च । मंगलोऽनेन मंत्रेण सप्तद्वीपेऽवनीपतिः ॥४४॥ प्रियव्रतोत्तानपादो केदारो नृप एव च। एते सिद्धाश्च राजेंद्रा मंत्रेणानेन नारद ।४५॥ सिद्धे मंत्रे महालक्ष्मीः शक्राय दर्शनं ददौ। रत्नेंद्रसारनिर्माणविमानस्था वरप्रदा ॥४६॥ सप्तद्वीपवतीं पृथ्वीं छादयंती त्विषा च सा। श्वेतचंपकवर्णाभा रत्नभूषणभूषिता ।।४७।। ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा। बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम्॥४८।। दृष्टा जगत्प्रसूं शांतां तुष्टावतां पुरंदरः । पुलकांचितसर्वांगः साश्रुनेत्रः कृतांजलिः॥४९॥ ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ।५०।!
नमः कमलवासिन्य नारायण्य नमो नमः। कृष्णप्रियाय सततं महालक्ष्म्य नमो नमः ॥५१॥ पुरंदर उवाच
पद्मपत्रेक्षणायै च पद्माख्यार्य नमो नमः। पद्मासनाय पद्मिन्य वैष्णव्यै च नमोनमः ॥५२॥ सर्वसंपत्स्वरूपिण्यै सर्वाराध्य नमो नमः। हरिभक्तिप्रदान्यच हर्षदात्र्यै नमो नमः ॥५३॥ कृष्णवक्षःस्थिताय च कृष्णेशायै नमो नमः । चंद्रशोभास्वरूपार्य रत्नपझे च शोभने ॥५४॥ महादेव्य नमो नमः। नमो वृद्धिस्वरूपाय बुद्धिदारय नमो नमः ॥५५॥ वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसामरे। स्वर्गलक्ष्मीरिंद्रगेहे राजलक्ष्मीरनृपालये ।।५६।। गृहलक्ष्मीश्र गृहिणां गेहे च गृहदेवता। सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ५७॥ अदितिर्देवमाता त्वं कमला कमलालया। स्वाहा त्वं च हविर्दान कव्यदाने स्वधा स्मृता ॥ त्वंहि विष्णुस्वरूपा च सर्वाधारा वसुंधरा। शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥५९॥ क्रोधहिंसावर्जिता च वरदा शारदा शुभा। परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥६॥ यया विना जगत्सर्व भस्मीभूतमसारकम्। जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना६१।। सरवपां च परा माता सर्ववांधवरूपिणी। धर्म्ा्थकाममोक्षाणां त्वं च कारणरूपिणी ॥६२।। यथा माता स्तनांधानां शिशूनां शैशवे सदा। तथा त्वं सर्वदा माता सर्वेपां सर्वरूपतः ॥६३।। मातृहीन: स्तनांधस्तु स च जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ सुप्रसन्नस्वरूपा त्वंमां प्रसन्ना भवांबिके। वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥६५॥। अहं यावत्वया हीनो वंधुहीनश्च भिक्षुकः । सर्वसंपत्रिहीनश्च तावदेव हरिप्रिये ॥६६॥ ज्ञानं देहि च धर्म च सर्वसौभाग्यमीप्सितम्। प्रभावं न प्रतापं च सर्वाधिकारमेव च॥६७॥। जयं पराक्रमं युद्धे परमश्वर्यमेव च। इत्युवत्वा च महेन्द्रश्च सर्वेः सुरगणैः सह ॥६८॥ प्रणनाम साश्रुनेत्रो मू्ध्ना चैव पुनः पुनः। ब्रह्मा च शंकरश्चैव शेपो धर्मश्र केशवः ।६१।। सर्वे चक्र: परीहारं सुरार्थे च पुनः पुनः। देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥७०॥
Page 687
श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४३ १८७ केशवाय ददी लक्ष्मीः सन्तुष्टा सुरसंसदि। ययुर्देवाश्च सन्तुष्टाःस्वंस्वस्थानं च नारद ॥७१॥ देवी ययौ हरे: स्थानं दृष्टा क्षीरोदशायिनः । ययुश्रैव स्वगृहं ब्रह्मेशानौ च नारद ॥७२॥ दत्त्वा शुभाशिषं तो च देवेभ्यः प्रीतिपूर्वकम्। इदं स्तोत्रं महापुण्यं त्रिसंध्यं च पठेन्नरः ॥७३॥ कुवेरतुल्यः स भवेद्राजराजेश्वरो महान्। पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥७४॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं तु संततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥७५॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्विचत्वारिंशोऽध्यायः ॥ ४२॥ अथ त्रिचत्वारिंशोऽध्यायः नारद उवाच नारायण महाभाग देवदेव मम प्रभो। रूपेणैव गुणेनैव महसा तेजसा त्विषा॥१॥ त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने। तपस्विनां मुनीनां च परो वेदविदां वरः ॥२॥ महालक्ष्म्या उपाख्यानं बिज्ञातं महद्द्गुतम् । अन्यतिकिचिदुपाख्यानं निगूढं वद सांप्रतम् ॥३॥ अतीव गोपनीयं यदुपयुक्तं च सर्वतः। अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्॥४। श्रीनारायण उवाच नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः । श्रुतं कतिविधं गूढमास्ते ब्रह्मन्सुदुर्लभम् ॥५॥ तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि । तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥६॥ नारद उवाच स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु। पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥७॥ एतासां चरितं जन्मफलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदां वर ।८।। सूत उवाच नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तम। कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ।९॥ श्रोनारायण उवाच सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा। ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥१०॥ गत्वा निवेदनं चक्रुराहारहैतुकं मुने । ब्रह्माश्रुत्वा प्रतिज्ञाय निऐेवे श्रीहरिपरम् ॥११॥ नारद उवाच यज्ञरूपो हि भगवान्कलया च बभूव ह। यज्ञे यद्यद्वविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥१२॥ श्रीनारायण उवाच हविर्ददति विप्राश्च अन्ये ये क्षत्रियादयः। सुरा नैव प्राप्नुवंति तद्दानं मुनिपुङ्गव ।१३।
Page 688
६८८ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४३ देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः । गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥१४॥ ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययो। पूजां चकार प्रकृतेर्ध्यानेनैव तदाज्ञया॥१५॥ प्रकृते: कलया चव सर्वशक्तिस्वरूपिणी। अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥१६।। ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा। उवाचेति विधेरग्रे पद्मयोने वरं शृणु॥१७॥। विधिस्तद्वचनं श्रुत्वा संभ्रमात्समुवाच ताम् । प्रजापतिरुवाच त्वमग्नेर्दाहिका शक्तिर्भव याऽतीव सुन्दरी ।१८।। दग्धुं न शक्त: प्रकृतीर्हुताशश्च त्वया विना। त्वन्नामोच्चार्य मंत्रांते यो दास्यति हविर्नरः ॥१९॥ सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् । अग्नेः संपत्स्वरूपा च श्रींरूपा सा गृहेश्वरी ॥२०॥ देवानां पूजिता शश्वन्नरादीनां भवांबिके। ब्रह्मणश्चवचःश्रुत्वा सा विषण्णा बभूव है॥२१॥ तमुवाच ततो देवी स्वाभिप्रायं स्वयंभुवम् । स्वाहोवाच अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥२२।। ब्रह्मंस्तदन्यं यत्किचित्स्वप्नवद्भ्रममेव च । विधाता जगतस्त्वं च शंभुमृ त्युञ्जयो विभुः ॥२३॥ विभत्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् । सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥२४॥ प्रकृतिः सर्वसंपूज्या यत्प्रसादात्पुराऽभवत्। ऋषयो मुनयश्चव पूजिता यन्निषेवया ॥२५॥ तंत्पादपद्मं नियतं भावैन चिंतयाम्यहम् । पद्मास्या पादममित्युकत्वा पद्मनाभानुसारतः॥२६॥ जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम्। तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥२७॥। तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम्। अतीव कमनीयं च रूपं दृष्टा च रूपिणी ॥२८। मूर्च्छां संप्राप कालेन कामेशस्य च कामुकी। विज्ञाय तदभिप्रायं सवज्ञस्तामुवाच है॥२९॥ समुत्थाप्य च तां क्रोडे क्षीणांगी तपसा चिरम्। श्रीभगवानुवाच वाराहे वै त्वमंशेन मम पत्नी भविष्यसि ॥३०॥ नाम्ना नाग्नजिती कन्या कांते नग्नजितस्य च । अधुनाऽग्नेर्दाहिका त्वं भवपत्नी चभामिनी॥३१॥ मन्त्रांगरूपा पूज्या च मत्प्रसादाद्द्गविष्यसि। वह्निस्त्वां भक्तिभावेन संपूज्य च गृहेश्वरीम् ॥३२।। रमिष्यति त्वया सार्धं रामया रमणीयया। इत्युवत्वांऽतर्दधे देवो देवो संभाष्य नारद ॥३३॥ तत्राजगाम संत्रस्तो वह्निर्ब्रह्मनिदेशतः । सामवेदोक्तध्यानेन ध्यात्वा तां जगदंबिकाम्॥३४॥ सम्पूज्य परितुष्ट वा पाणि जग्राह मंत्रतः । तदा दिव्यं वर्षशतं स रेमे रमया सह॥३५॥
Page 689
श्रीम देवीमागवते नहापुराणे नवमस्कन्धे अध्याय: ४३ १८९ अतीव निर्जने देशे संभोगसुखदे सदा। बभूव गर्भस्तस्यां तु हुताशस्य च तेजसा ॥३६॥ तं दधार च सा देवी दिव्यं द्वादशवत्सरम्। ततः सुषाव पुत्रांश्च रमणीयान्मन हरान्॥३७॥ दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च। ऋषयो मुनयश्चव ब्राह्मणाः क्षत्रियादयः ॥३८॥ स्वाहांतं मंत्रमुच्चार्य हविर्दानं च चक्रिरे। स्वाहायुक्तं च मंत्रं च या गृह्हाति प्रशस्तकम् ॥३९॥ सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः । विषहीनो वृथा सर्पो वेदहीनो यथा द्विजः ॥४०॥ पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् । फलशाखाविहीनश्च यथा वृक्षो हि निंदितः ॥४१॥। स्वागहीनस्तथा मन्त्रो न हुतः फलदायकः । परितुष्टा द्विजाः सर्वे देवाः संप्रापुराहुतीः ॥४२॥ स्वाहांतेनैव मन्त्रेण सफलं सर्वमेव च। इत्येवं कथितं सर्व स्वाहोपाख्यानमुत्तमम् ॥४३॥ सुखदं मोक्षदं सारं कि भूयः श्रोतुमिच्छसि। नारद उवाच स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर।४४।। संपूज्य वह्निस्तुशव येन तद्वद मे प्रभो। श्रीनारायण उवाच ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम् ॥४५।। वदामि श्रयतां ब्रह्मन्सावघानो मुनीश्वर। सर्वयज्ञारंभकाले शालग्रामे घटेऽथवा ॥४६।। स्वाहां संपूज्य यत्नेन यज्ञं कुर्यात्फलाप्तये। स्वाहा मन्त्रांगयुक्तां च मन्त्रसिद्धिस्वरूपिणीम् ॥ सिद्धां च सिद्धिदां नृणां कर्मणां फलदां शुभाम् । इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥४८॥ सर्वसिद्धि लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु । ॐ ही वह्निजायायै देव्यै स्वाहेत्यनेन च ॥४९॥ यः पूजयेच्च तां भक्तया सर्वेष्टं संभवेद्ध्रुवम्। वह्निरुवाच स्वाहा वह्निप्रिया वह्निजाया संतोषकारिणी ॥५०॥ शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा। गतिः सदा नराणां च दाहिका दहनक्षमा ॥५१॥। संसारसाररूपा च घोरा संसारतारिणी। देवजीवनरूपा च देहपोषणकारिणी॥५२॥ पौडशैतानि नामानि यः पठेद्दक्तिसंयुतः । सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च ॥५३॥ नांगहीनं भवेत्तस्य सर्वं कर्म सुशोभनम्। अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥ रम्भोपमां स्वकांतां च संप्राप्य सुखमाप्नुयात् ।।५४।। इति श्रीदेवीभागवते नवमस्कन्धे नारदनारायणसंवादे स्बाहोपाख्याने त्रिचत्वारिंशोऽध्यायः ।४३॥
Page 690
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४५ अथ चतुश्चत्वारिंशोऽध्यायः श्रोनारायण उवाच श्रृणु नारद वक्ष्यायि स्वधोपाख्यानमुत्तमम्। पितृणां च तृप्तिकरं श्राद्धान्नफलवर्धनम् ॥१॥ सृष्टेरादी पितृगणान्ससर्ज जगतां विधिः । चतुरश्र मूर्तिमतस्त्रींश्च तेजःस्वरूपिण: ॥२। दृष्टा सप्तपितृगणान् सुखरूपान्मनोहरान्। आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम् ॥३॥ स्नानं तर्पणपयंतं श्राद्धं तु देवपूजनम्। आह्निकं च त्रिसंध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ नित्यं न क्र्याद्यो विप्रस्त्रिसंध्यं श्राद्धतर्पणम्। बरलि वेदध्वनिं सोऽपि विषहीनो यथोरगः ।५॥ देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक्। भस्मांतं सूतकं तस्य न कर्मार्हश्च नारद ॥६॥ ब्रह्मा श्राद्धादिकं सृष्टा जगाम पितृहेतवे। न प्राप्नुवंति पितरो ददति ब्राह्मणादयः ॥७॥ सर्वे च जग्मु: क्षुधिता: खिन्नास्तु बह्मणः सभाम्। स्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥।८।। ब्रह्मा च मानसीं कन्यां ससृजे तु मनोहराम। रूपयौवनसंपन्ना शतचंद्रनिभाननाम् ।।९।। विद्यावतीं गुणवतीमतिरूपवतों सतीम्। श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् ॥१०॥ विशुद्धां प्रकृतेरंशां मस्मितां वरदां शुभाम्। स्त्रधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम् ॥११॥ शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम्। पत्नीं पितृणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥१२॥ पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम्। ब्राह्मणाना चोपदेशं चकार गोपनीयकम् ॥१३॥ स्व्रधांतं मंत्रमुच्चार्य पितृभ्यो देयमित्यपि। क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥१४॥ स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता। सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम् ॥१५॥ पितरो देवता विप्रा मुनयो मनवस्तथा। पूजां चक्रुः स्वधां शांतां तुष्ुवुः परमादरात् ॥१६॥ देवादयश्च संतुष्टाः परिपूर्णमनोरथाः। विप्रादयश्च नितरः स्वधादेवीवरेण च ॥१७॥ इत्येवं कथितं सवं स्वधोपाख्यानमेव च। सर्वेषां च तुष्टिकरं कि भूयः श्रोतुमिच्छसि ॥१८॥ श्रीनारद उवाच स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने। श्रोननिच्छामि यत्नेन वद वेदविदां वर ॥१९॥ नारायण उवाच ध्यानं च स्तवनं ब्रह्मन्वेदोनं सर्वमंगलम्। सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ।।२०। शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे। स्वधां संपूज्य गत्नेन ततः श्राद्धं समाचरेत् ।२१। स्वधां नाभ्यर्च्य यो तिप्रः श्राद्धं कुर्यादहंमतः। न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च ॥२२॥ ब्रह्मणो मानसीं कन्यां शश्चत्सुस्थिरयौवनाम्। पूज्या वै पितृदेवानां श्राद्धानां फलदां भजे ॥२३॥ इति ध्यात्वा शिलायां वा ह्यथवा मंगले घटे। दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥२४॥
Page 691
श्रीम देवीभागवते महापुराणे नवमस्कं्धे अध्याय: ४५ ६९३ ऊहों श्रीं क्लों स्वधादेव्यै स्वाहेति च महामुने। समुच्चार्य च संूज्य स्तुत्वा तां प्रणमेद्द्विजः ॥२५॥। स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद। सर्ववांछाप्रदं नृणां ब्रह्मणा यत्कृतं पुरा ॥२६॥ श्रीनारायण उवाच स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः। मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥२७॥ स्वधा स्वघा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति बलेश्व तर्पणस्य च ॥२८॥ श्राद्धकाले स्व्रधास्तोत्रं यः श्रृगोति समाहितः । स लभेच्छ्राद्धसंभूतं फलमेव न संशयः ॥२९॥ स्वधा स्वधा स्वधेत्येवं त्रिसंध्यं यः पठेन्नरः। प्रियां वरिनोतां स लभेत्साध्वीं पुत्र गुणान्वित्ाम्३०।। पितृणां प्राणतुल्या त्वं द्िजजीवनरूपिगी। श्राद्धाविष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥३१॥ नित्या त्वं सत्यरूपाडसि पुण्यरूपाऽसि सुव्रते। आविर्भावतिरोभावौ सृष्टी च प्रलये तव,।।३२।। ॐस्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा। निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः॥३३॥ कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिमिताः। इत्येवमुकत्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥३४॥ तस्थौ च सहसा सद्यः स्वधा साडविर्बभूव ह। तदा पितृभ्यः प्रददौ तामेव कमलाननाम्॥३५॥ तां संप्राप्य ययुस्ते च पितरश्र प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्वतीर्थेषु वांछितं फलमाप्नुयात् ॥३६।। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे नारदनारायणसंवादे स्वधोपाख्याने
अथ पंचचत्वारिंशोऽध्यायः श्रीनारायग उवाच उक्त स्व्राहास्वधाखयानं प्रशस्तं मधुरं परम्। वक्ष्यामि दाक्षगारुयानं सावधानो निशामय ॥१॥ गोपी सुशीला गोलोके पुराऽडसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥२॥ अनीव सुंदरी रामा सुभगा सुद्तो पतो। विद्यावती गुणवती चातिरूनवती सती ॥३॥ कलावती कोमलांगी कांता कमललोचना। सुश्रोणी सुस्तनी दयामा न्यग्रोधपरिमंडिता ॥।४।। ईपद्रास्यप्रसन्नास्या रत्नालंकारभूषिता। श्वेतचंपकवर्णाभा बितोष्ठी मृगलोचना ॥५॥ कामशास्त्रेषु निपुणा कामिनी हंसगामिनो। भावानुरकका भावजा कृष्णस्य विषभामिनी ॥६॥। रसजा रसिका रामे रामेशम्य रसोत्सुका। उतामादक्षिणे क्रोडे राधायाः पुरतः पुरा॥७॥ संबभूवानम्रमुखी भयेन मधुसूदनः । दृष्वा रातरां च पुरतो गोगीनां प्रवरोत्तमाम् ॥८॥l कामिनीं रक्तवदनां रक्त ांकज़लोचनान्। कोपेन कंपितागों च कोपेन स्फुरिताघराम्।।९।।
Page 692
१९२ श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४५ वेगेन तां तु गच्छंतीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानंतर्धानं चकार सः॥१०॥ पलायंतं च कांतं च शांतं सत्त्वं सुविग्रहम् । विलोक्य कंपिता गोप्यः सुशीलाद्यास्ततो भिया ११॥ विलोक्य लंपटं तत्र गोपीनां लक्षकोटयः । पुटांजलियुता भीता भक्तिनम्रात्मकंधराः ॥१२॥ रक्ष रक्षेत्युक्तवंत्यो देवीमिति पुनः पुनः। ययुर्भयेन शरणं तस्याश्चरणपंकजे ॥१३॥ त्रिलक्षकोटयो गोपा: सुदामादय एव च । ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥१४॥ पलायंतं च कांत च विज्ञाय परमेश्वरी। पलायंतों सहचरीं सुशीलां च शशाप सा ॥१५।। अद्यप्रभृति गोलोकं सा चेदायाति गोपिका। सदो गमनमात्रेण भस्मसाच्च भविष्यति ॥१६॥ इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा। रासेश्वरी रासमध्ये रासेशमाजुहाव ह॥१७॥ नालोक्य परतः कृष्णं राधा विरहकातरा। युगकोटिसमं मेने क्षणभेदेन सुब्रता ॥१८॥ हे कृष्ण प्राणनाथेशागच्छ प्राणाघिकप्रिय। प्राणाधिष्ठातृदेवेश प्राणा यांति त्वया विना ॥१९। स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने। सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥२०॥ पतिबंधुः कुलस्त्रीणामधिदेवः सदा गतिः । परसंपत्स्वरूपश्च मूर्तिमान्भोगदः सदा ॥२१॥ धर्मदः सुखदः शश्वत्प्रीतिदः शांतिदः सदा। सम्मानैर्दीप्यमानश्च मानदो मानखंडन: ।।२२।। सारात्सारतर: स्वामी बंधूनां बंधुवर्धनः। न च भर्तुः समो बंधुबंधोबंधुषु दृश्यते ॥२३॥ भरणादेव भर्ता च पालनात्पतिरुच्यते । शरीरेशाच्चसस्वामी कामदः कांत उच्यते ॥२४॥ बंधुश्च सुखवृद्धया च प्रीतिदानात्प्रियः स्मृतः । ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ।।२५। रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः । पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥२६॥ शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा। असत्कुलप्रसूता या कांतं विज्ञातुमक्षमा ॥२७॥ स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा। प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥२८।। सर्वाण्येव व्रतादीनि महादानानि यानि च । उपोषणानि पुण्यानि यानि यानि कुतानि च ।।२९॥ गुरुसेवा विप्रसेवा वेदसेवादिकं च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः । विद्यादाता यथा पुंसां कुलजानां तथा प्रिय: ॥३१॥ गोपीनां लक्षकोटोनां गोपानां च तर्थव च । ब्रह्मांडानामसंख्यानां तत्रस्थानां तर्थव च ॥३२।। विश्वादिगोलकांतानामीश्वरो यत्प्रसादतः । अहं न जाने तं कांतं स्त्रीस्वभावो दुरत्ययः ॥३३॥ इत्युदतजा राधिका कृष्णं तत्र दध्यी स्वभक्तितः । रुरोद प्रेम्णा सा राधा नाथनाथेति चाव्रवीत् ॥३४॥ दर्शनं देहि रमण दीना विरहद्ःखिता। अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ॥३५॥ सुचिरं च तपस्तप्त्वा विवेश कमलातनो। अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥३६॥ नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् । विधिनिवेदनं श्रुत्वा देवादीनां जगत्पतिम् ॥३७॥
Page 693
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४५ ६९३ दध्यौ च सुचिरं भक्या प्रत्यादेशमवाप सः । नारायणश्च भगवान्महालक्ष्म्याश्र देहतः ॥३८॥ विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ। ब्रह्मा ददौ तां यज्ञाय पूरणार्थ चकर्मणाम् ॥३९॥ यज्ञः संपूज्य विघिवत्तां तुष्टाव तदा मुदा। तप्तकांचनवर्णाभां वन्द्रकोटिसमप्रभाम् ॥४०॥ अतीव कमनीयां च सुन्दरीं सुमनोहराम्। कमलास्यां कोमलांगों कमलायतलोचनाम् ॥४१॥ कमलासनपूज्यां च कमलांगसमुद्धवाम्। वह्निशुद्धांशुकाधानां बिंबोष्ठी सुदतीं सतीम् ।।४२।। बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम्। ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्॥।४३॥। सुवेषाढयां च सुस्नातां मुनिमानसमोहिनीम्। कस्तूरीविदुभिः सार्धं सुगन्धिचन्दनेन्दुभिः ॥४४॥। सिंदूरबिंदुनाल्पेनाप्यलकाधः स्थलोज्ज्वलाम्। सुप्रशस्तनितंबाढयां बृहच्छ्रोणिपयोधराम् ।४५॥ कामदेवाधार रूपां कामबाणप्रषीडिताम्। ता दृष्टा रमणीयां च यज्ञो मूर्च्छामवाप ह॥४६॥ पत्नीं तांमेव जग्राह विधिबोधितपूर्वकम् । दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने ॥४७॥ यज्ञो रेमे मुदा युक्तो रामेशो रमया सह। गर्भ दधार सा देवी दिंव्यं द्वादशवर्षकम् ॥४८॥ ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम्। परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥४९॥ यज्ञो दक्षिणया सारध पुत्रेण च फलेन च। कर्मिणां फलदाता चेत्येवं वेदविदो विदुः।५०H यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम्। फलं ददो च सर्वेभ्यः कर्मिणां चैव नारद ॥५१॥ तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः। स्वस्थाने ते ययुः सवें धर्मवकत्रादिदंश्रुतम् ।५२॥ कृत्वा कर्म च कर्ता च तूर्ण दद्याच्चदक्षिणाम्। तत्क्षणं फलमाप्तोति वेदैरुक्तमिदं मुने ॥५३॥ कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम्। न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥५४॥ मूहूर्ते समतीते तु द्विगुणा सा भवेद्ध्रुवम्। एकरात्रे व्यतीते तुसा त्रिकोटिगुणा चसा ॥५५॥ त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः। मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ॥५६॥ संवासरे व्यतीते तुसा त्रिकोटिगुणा भवेत्। कर्म तद्यजमानानां सर्व वै निष्फलं भवेत् ॥५७।। सच ब्रह्मस्वहारी च न कर्मार्होशुचिर्नरः। दरिद्रो व्याधियुक्तश्र तेन पापेन पातकी ॥५८॥ तद्गृहाद्याति लक्ष्मीश्र शापं दत्त्वा सुदारुणम्। पितरो नैत्र गृह्न्ति तद्दतं श्राद्धतर्पणम् ।५९॥ एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् । दत्तंन दीयते दानं गृहीता नैत्र याचते ॥६०॥ उभौ तौ नरके यातश्छिन्नरज्जौ यथा धटः। नार्पयेद्यजमानश्वेद्याचितश्चापि दक्षिणाम् ॥६१॥ भवेद्ब्रह्मस्वापहारी कुम्भीशकं व्रजेद्ध्रुवम्। वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥६२॥ ततो भवेत्स चांडालो व्याधियुक्तो दरिद्रकः । पातयेत्तुरुषान्सप पूर्वांश्च सप्त जन्मतः ॥६३॥ इत्येवं कथितं विप्र कि भूयः श्रोतुमिच्छसि। नारद उवाच यत्कर्म दक्षिणाहीनं को भुक्ते तत्फलं मुने ।६५॥
Page 694
१९४ श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४५ पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद। श्रीनारायण उवाच कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ।।६५।। सदक्षिणे कर्मणणि च फलमेव प्रवर्तते। अदक्षिणं च यत्कर्म तद्भुंक्ते च बलिर्मुने ॥६६।। बलये तत्प्रदत्त च वामनेन पुरा मुने। अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च॥६७॥ वृषलीपतिविप्राणां पूजा द्रव्यादिकं च यत् । असद्द्विजैः कृतं यज्ञमशुचे: पूजनं च यत् ॥६८। गुरावभक्तस्य कर्म बलिर्भुक्ते न संशयः। दक्षिणायाश्च यद्धयानं स्तोत्रं पूजाविधिक्रमम्॥६९॥ तत्सवं कण्वशाखोक्तं प्रवक्ष्यामि निशामय। पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणम्॥७०॥ मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः । यज्ञ उवाच पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा ॥७१॥। राधासमा तत्सखी व श्रीकृष्णप्रेयसी प्रिया। कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥७२।। आविर्भूता दक्षिणांसाल्लक्ष्म्याश्र तेन दक्षिणा ।पुरात्वं चसुशीलाख्या ख्याता शीलेन शोभने ७३।। लक्ष्मीदक्षांसभागात्वं राधाशापाच्च दक्षिणा। गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता ॥७४। कृपां कूरु महाभागे मामेव स्वामिनं कुरु। कर्मिणां कर्मणां देवि त्वमेव फलदा सदा ।७५॥ स्वंया विना च सर्वेपां सर्व कर्म च निष्फलम् । त्वया विना तथा कर्म कर्मिणां च न शोभते ॥७६।। ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फल दातुं न शक्ताश्र त्वया विना ॥७७/। कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपो विष्णुरहं त्वमेषां साररूपिणो॥७८।। फलदातृ परं ब्रह्म निर्गुणा प्रकृतिः परा। स्वयं कृष्णश्चभगवान्स च शक्तरत्वया सह॥७९॥ स्वमेव शक्तिः कांते मे शश्चज्जन्मनि जन्मनि। सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥८०॥ इत्युवत्वा च पुरहतस्थी यज्ञाधिष्ठातृदेवता। तुष्टा बभूव सा देवी, भेजे तं कमलाकला ॥८१॥ इदंच दक्षिणास्तोत्रं यज्ञकाले च यः 'पठेत्। फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः ॥८२॥ राजसूये वाजपेये गोमेधनरमेधके। अश्वमेधे लांगले च विष्णुयज्ञे यशस्करे॥८३।। धनदे भूमिदे पूर्ते. फलदे गजमेधके। लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके ॥८४॥ शिवयज्ञे रुद्रयज्ञे शक्रयज्ञ च बंधुके। वृ्ो वरुणयागे च कंडके वैरिमर्दने ॥८५॥ शुचियज्ञे धर्मयज्ञेऽघ्वरे चं पापमोचने। ब्रह्माणी कर्मयोगे च योनियागे च भद्रके ॥८६॥ एतेषां च समारंभे इदं स्तोत्रं च यः पठेत्। निर्विध्नेन च तत्कर्म सर्वं भवति निश्चितम् ८७।। इदं स्तोत्रं च कथितं ध्यानं. पूजाविधि शृणु। शालग्रामे घंटे वापि दक्षिणां पूजयेत्सुघौंः॥८८।
Page 695
श्रीमहेवीभागवते महापुराणे नवमस्कन्धे क्रध्यायः ४१ १९५ लक्ष्मीदक्षांससंभूतां दक्षिणां कमलाकलान्। सर्वकर्मसु दक्षा न फलदां सर्वकर्मणाम् ।।८९।। विष्णोः शक्तिस्वरूपां च पूजितां वंदिता शुभान्। शुद्धिदा िका। व्र सुशीलां शुभदां भजे ॥९०॥ घ्यात्वानेनैव वरदां मृलेन पूजयेत्सुधीः । दश्ष्वा पाधादिकं देव्यै वेदोक्तेनैव नारद ॥९१॥ श्रीं क्लं हीं दक्षिणायँ स्वाहेति च विचक्रणः । पृजयेद्रिधिवःद्वत्या दक्षिणां सर्वपूजिताम् ॥९२।। इत्येवं कथितं ब्रह्मन्दक्षिणाख्यानमेव च। सुखदं प्रोतिदं चैव फलदं सर्वकर्मणाम्॥९३॥ इदं च दक्षिणाख्यानं यः शृणोति समाहितः । अंगहीनं च तत्कर्म न भवेद्धारते भुवि ॥९४॥। अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम्। भार्याहोनो लभेद्गारयां सुशोलां सुंदरी पराम् ॥९५॥ वरारोहां पुत्रवतीं विनीतां प्रियवादिनोम् । पतिव्रतां च शुद्धां च कुलजां च वधूं वराम् ॥९६॥ विद्याहोनो लभेद्विद्यां धनहीनो लभेद्धनम्। भूमिहीनो लभेद्मिं प्रजाहोनो लभेत्प्रजाम् ॥९७॥ संकट बंधुविच्छेदे विपत्तौ बंधने तथा। मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ।९८। इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे नारदनारायणसंवादे पंचचत्वारिंशोऽध्यायः।४५॥। नारद उवाच अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् । अन्यासां चरितं ब्रह्मन्वद वेदविदां वर ॥१॥ श्रीनारायण उवाच सर्वासां चरितं विप्र देवेषु च पृथवपृथक् । पूर्वोक्तानां च देवीनां तासां श्रोतुमिहेच्छसि ॥२॥ नारद उवाच षष्ठी मंगलचंडी च मनसा प्रकृतेः कला। उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥३॥ श्रीनारायण उवाच षछांशा प्रकृतेर्या च सा च षष्ठी प्रकीरतिता। बालकानामधिष्ठात्री . विष्णुमाया च बालदा ॥४।। मातृकासु च विरुयाता देवसेनाभिधा च या। प्राणाधिकप्रिया साध्वी स्कंदभार्या च सुव्रता ॥५॥ आयुःप्रदा च बालानां धात्री रक्षण कारिणो। सततं शिशुपार्श्वस्था योगेन सिद्धयोगिनी ॥६॥ तस्याः पूजाविधि ब्रह्मन्नितिहासमिदं शृणु। यच्छ्रुतं धर्मवक्त्रेण सुखदं पुत्रदं परम् ।७॥ राजा प्रियव्रतश्चासीत्स्व्रायंभुवमनोः सुतः । योगीन्द्रो नोद्वहद्गार्यां तपस्यासु रतः सदा ॥८॥ ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह। सुचिरं कृतदारश्च न लेभे तनयं मुने ॥९॥ पुत्रेधटयज्ञं तं चापि कारयामास कश्यपः । मालिन्य तस्य कांताय मुनिर्यज्ञचरुं ददौ ॥१०॥ भुक्त्वा चतं चरुं तस्याः सद्ो गर्भो बभूव ह। दधार तं च सा देवी देवं द्वादरवत्मरम् ॥११॥ ततः सुषाव सा ब्रह्मं्कुमारं कनकप्रभम्। सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥१२॥।
Page 696
१९६ श्रीमद्देवीमागवते महापुराण नतमस्कन्धे अध्याय: ४६ तं दृष्टा रुरुदू: सर्वा नायंश्र बांधवस्त्रियः । मूर्च्छामवाप तन्माता पुत्रशोवेन भूयसा ॥१३॥ रमशानं च ययो राजा गृहीत्वा बालकं मुने। रुरोद तत्र कांतारे पुत्रं कृत्वा स्ववक्षसि ॥१४॥ नोत्सृजद्वालकं राजा प्राणांस्त्यकतुं समुद्यतः। ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ।।१५।। एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः। शुद्धस्फटिकसंकाशं मणिराजविनिर्मितम् ॥१६॥ तेजसा ज्वलितं शश्चच्छोभितं क्षोमवाससा। नानाचित्रविचित्राढयं पुष्पमालाविराजितम्॥१७॥ ददर्श तत्र देवीं च कमनीयां मनोहराम्। श्वेतचकभवर्णाभां शश्चत्सुस्थिरयौवनाम् ॥१८॥ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । कृपामयीं योगसिद्धां भक्तानुग्रहकातराम् ॥१९॥ दृष्टा तां पुरतो राजा तुषाव परमादरात्। चकार पूजनं तस्या विहाय बालकं भुवि ॥२०॥ पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम्। तेजसा ज्वलितां शांतां कांतां स्कंदस्य नारद.।२१॥ राजोवाच का त्वं सुशोभने कान्ते कस्य कान्तामि सुव्रते। कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ नृपेन्द्रस्य वच: श्रुत्वा जगन्मंगलचण्डिका। उवाच देवसेना सा देवानां रणकारिणी ।२३। देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा। जयं ददौ सा तेभ्यश्चदेवसेना च तेन सा ।२४।। श्रीदेव सेनो वरा च ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी। सृष्टा मां मनसा धाता ददौ स्कंदाय भूमिप ।२५॥ मातृकासु च विख्याता स्कंदभार्या च सुव्रता। विश्वेषष्ठीति विख्याता षष्टांशा प्रकृतेः परा ॥२६॥ अपुत्राय पुत्रदाऽहं प्रियदात्री प्रियाय च। धनदाऽह दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा ।२७॥ सुखं दुःखं भयं शोको हर्षो मंगलमेव च। सम्पत्िश्च विपत्तिश्च सर्व भवति कर्मणा ॥२८। कर्मणा बहुपुत्रश्च वंशहीनः स्व्रकर्मणा। कर्मणा मृतपुत्रश्च कर्मण। चिरजीवनः ।२९। कर्मणा गुणवांश्रैव कर्मणा चांगहीनकः। कर्मणा बहुभार्यश्च भार्याहोनश्र कर्मणा ॥३०॥ कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा। कर्मणा चभवेद्वयाधिः कर्मणाऽडरोग्यमेव च।।३१।। तस्मात्कर्मपरं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम्। इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ॥३२॥ महाज्ञांनेन सा देवी जीवयामास लालया! राजा ददर्श तं बालं सस्मितं कनकप्रभम् ॥३३॥ देवसेना च पश्यंतं नृपमापृच्छ्य सा तदा। गृहीत्वा वालकं देवी गगनं गन्तुमुद्यता। ३४॥। पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः। नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह॥३५॥ उवाच तं नृप ब्रह्मन् वेदोक्तं कर्म निर्मितम्। देव्युवाच त्रिषु लोकेषु त्वं राजा स्वायंभुवमनोः सुतः ॥३६॥
Page 697
श्रीदेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४६ ६९७ मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु। तदा दास्यामि पुत्रं ते कुलपदं मनोहरम् ॥३७॥ सुव्रतं नाम विख्यातं गुणवंतं सुपंडितम्। जातिस्मरं च योगींद्रं नारायणकलात्मकम् ॥३८॥ शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम्। मत्तमातंगलक्षाणां धृतवंतं बलं शुभम्। ३९॥ धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च । योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम्४०॥ यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् । इत्येवमुक्त्वा सा देवी तस्मै तं बालकं ददौ ४१॥ राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः। जगाम देवी स्वर्ग च दत्त्वा तस्मै शुभं वरम् ४२॥ आजगाम सहामात्यः स्वगृहं हृष्टमानसः। आगत्य कथयामास वृत्तांतं पुत्रहेतुकम् ॥४३॥ ध्रुत्वा बभूवुः संतुष्टा वरा नार्यश्च नारद। मंगलं कारयामास सर्वत्र पुत्रहेतुकम्॥४४॥ देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ। राजा च प्रतिमासेषु शुक्लाषष्ठयां महोत्सवम् ४५॥ षष्ठ्या देव्याश्च यत्नेन कारयामास सर्वतः । बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ॥४६॥ तत्पूजां कारयामास चैकविशतिवासरे। बालानां शुभकार्ये च शुभान्नप्राशने तथा॥४७॥ सर्वत्र वर्धयामास स्वयमेव चकार ह। ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय४८॥। यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रतः। शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने॥४९॥ भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः । षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम् ५०॥ सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम्। श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् ॥५१॥ पवित्ररूपां परमां देवसेनां परां भजे। इति ध्यात्वा स्वशिरसि पुष्प दत्त्वा विचक्षणः ॥ पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम्। पाद्यार्ध्याचमनीयंश्र गंधपुष्पं प्रदीपकः ॥५३॥ नैवेद्यविविरधश्चापि फलेन शोभनेन च। ॐ ह्ीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम् ॥५४॥ अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः। ततः स्तुत्वा च प्रणमेद्क्तियुक्तः समाहितः॥५५॥ स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम्। अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः ॥५६॥ सुपुत्रं स लभेन्नूनमित्याह कमलोद्वः । स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ॥५७॥ वांछाप्रदं च सर्वेषां गूढं वेदेषु नारद। नमो देव्यै महादेव्यै सिद्धर्यं शांत्यै नमो नमः५८॥ शुभायै देवसेनायै षष्ठय देव्य नमो नमः। वरदायै पुत्रदायै धनदायै नमो नमः॥५९॥ सुखदाय मोक्षदायै षष्ठयं देव्यं नमो नमः । सृष्टयँ षष्ठाशरूपायै सिद्धायै च नमो नमः ॥६०॥ मायायँ सिद्धयागिन्य षष्ठीदेव्यै नमो नमः । सारायँ सारदायै च परादेव्यै नमो नमः ॥६१॥ बालाधिंष्ठानृदेव्य च षष्ठीदेव्यै नमो नमः। कल्याणदारय कल्या्य फकदारय च कर्मणाम् ६२॥। प्रत्यक्षाय स्वभक्तानां षध्् देव्य नमोनमः। पूज्यायै स्कदकांतारय सर्वेषां सर्वकर्मसु ॥६३॥ देवरक्षणकारिण्य षष्ठीदेव्यै नमो नमः। शुद्धसत्त्रस्वरूपाय वन्दितायं नृणां सदा ॥६४॥
Page 698
६९८ श्रोमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४७ हिंसाकोधवरजितायँ षष्ठीदेव्य नमो नमः। धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।६५॥ मानं देहि जयं देहि द्विषो जहि महेश्वरि। धर्म देहि यशो देहि षष्ठीदेव्य नमो नमः ॥६६॥ देहि भूमि प्रजां देहि विद्यां देहि सुपूजिते। कल्याणं च जयं देहि षष्ठीदेव्य नमो नमः ॥६७॥ इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः । यशस्विनं च राजेन्द्रः षष्ठीदेव्याः प्रसादतः ॥६८॥ षष्ठीस्तोत्रमिदं ब्रह्मन् यः शृगोति तु वत्सरम्। अपुत्रो लभते पुत्रं परं सुचिरजीविनम् ॥६९॥ वर्षमेकं च यो भक्त्या संपूज्येदं श्रृणोति च । सर्वपापाद्विनिर्मुक्तो महावन्ध्या प्रसूयते ॥७०।। वीरं पुत्रं च गुणिनं विद्यावंतं यशस्विनम् । सुचिरायुष्यवंतं च सूते देवीप्रसादतः ॥७१॥। काकवंध्या च या नारी मृतवत्सा च या भवेत्। वर्ष श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ।७२॥। रोगयुक्ते च बाले च पिता माता शृगोति चेत् । मासेन मुच्यते बालः षष्टोदेवीप्रसादतः ॥७३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे षष्ठ्युपाख्याने षट्चत्वारिशोऽध्यायः ॥। ४९॥
श्रीनारायण उवाच कथितं षष्ठयुपाख्यानं ब्रह्मपुत्र यथागमम्। देवी मंगलचंडी च तदाख्यानं निशामय ।१।। तस्या: पूजादिकं सर्वं धर्मववत्रेण यच्छुतम्। श्रुतिसंमतमेवेष्टं सर्वेषां विदुषामपि ॥२॥ दक्षा या वर्तते चंडी कल्याणेषु च मंगला। मंगलेषु च या दक्षा सा च मंगलचंडिका ।३॥ पूज्या या वर्तते चंडी मंगलोऽषि महीसुतः । मंगलाभोष्टदेवी या सा वै मंगलचंडिका ॥४॥ मंगलो मनुवंश्यश्च सप्तद्वोपधरापतिः । तस्य पूज्याऽभीष्टदेवी तेन मंगलचंडिका ।।५।। मूर्तिभेदेन सा दुर्गा मूलत्रकृतिरीश्वरी। कृपारूपाऽतिप्रत्यक्षा योषितामिष्टदेवता ॥६।। प्रथमे पूजिता सा च शंकरेण परात्परा। त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च।७॥। ब्रह्मन्ब्रह्मोपदेशेन दुर्गतेन च संकटे। आकाशात्पनिते याने दैत्येन, पातिते रुषा ॥।८।। ब्रह्म विष्णूपदिष्टश्च दुर्गां तुष्टाव शंकरः । सा च मंगलचंडी या बभूव रूपभेदतः ॥९॥ उवाच पुरतः शंभोर्भयं नास्तोति ते प्रभो। भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥१०॥ शुद्धशक्तिस्वरूपाऽहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज ॥११॥ जहि दैत्यं स्वशत्रुं च सुराणां पद्घातकम्। इत्युक्त्वांतहिता देवी शंभोः शक्तिर्बभूव सा १२॥। विष्णुदत्तेन शस्त्रेण जधान तमुमापतिः । मुनींद्र पतिते दैत्ये सर्वें देवा महर्षयः ॥१३॥ तुष्टुवुः शंकरं देवं भत्तिनम्रामकंधराः । सदः शिरसि शंभोश्च पुष्पवृष्बिभूव ह॥१४॥ ब्रह्म विष्णुश्र संतुष्टो ददो तस्म शुभाशिपम्। ब्रह्मरमा ग्पदिष्टश्च सुस्नातः शंकरस्तथा॥१५॥
Page 699
श्रीमदेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४७ १९९ पजयाधव तो भकाला देवीं मंगलचंडिकाम्। पाद्यार्ष्याचमनीयेश्च वस्त्रश्च विविधरपि ॥१६॥ मानाविधैर्मुने। छागोर्नेषश्र महिषर्गवयैः पक्षिभिस्तथा ॥१७।। वर करनात्यश पायसैः पिष्टकैरपि। मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि॥१८॥ । ध्यात्वा माध्यंदिनोक्त्तेन ध्यानेन भक्तिपूर्वकम्॥।१९॥ इत दत्याणि मूलेन मंत्रेणव च नारद। ॐ ह्ीं क्लीं सर्वपूज्ये देवि मंगलचण्डिके ॥२०॥ फट् स्वाहाप्येकविशाक्षरो मनुः । पूज्यः कल्पतरुश्रैव भक्तानां सर्बकामदः ॥२१॥ दशलयपेनैव मंत्रसिद्धिर्भवेद्ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसंमतम् ॥२२।। क्षतीं कडशावर्षोयां शश्वत्सुस्थिरयौवनाम् । बितोष्ठों सुदतीं शुद्धां शरत्पद्मनिभाननाम्॥२३॥ श्वेत स्पकवर्णाभां सुनीलोत्पललोचनाम्। जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् ॥२४।। संसारसागरे घोरे ज्योतीरूपां सदा भजे। देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने॥२५॥ महादेव उवाच रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके। हारिके विपदां राशेर्दर्षमंगलकारिके ॥२६॥ हर्षमंगलदक्षे च मंगलारहें हर्षमंगलदायिके। शुभे मंगलदक्षे च शुभे मंगलचण्डिके ।२७।। सर्वमङ्गलमङ्गले। सतां मङ्गलदे देवि सर्वेषां मंगलालये ॥२८॥ पूज्ये मंगलवारे च मंगलाभीष्टदेवते। पूज्ये मंगलभूपस्य मनुवंशस्य संततम् ॥२९॥ मंगलाधिष्ठातृदेति मंगलानां च मंगले। संसारमंगलाधारे मोक्षमंगलदायिनि ॥३०॥ सारे च मङ्कलाधारे पारे च सर्वकर्मणाम्। प्रतिमङ्गलवारे च पूज्ये शुभसखप्रदे ॥३१॥ स्तोत्रेणानेन शंभुश्च स्तुत्वा मङ्गलचंडिकाम्। प्रतिमङ्गलवारे च पृजां दत्त्वागतः शिवः ॥३२॥ प्रथमे पृजिता देवी शिवेन सर्वमङ्गला। द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च ।३३।। तृतीये पूजिता भद्रा मङ्गलेन नृपेण च। चतुर्थे मङ्गले वारे सुन्दराभिः प्रपूजिता ॥३४॥ पंचमे मङ्ग लाकांक्षिनरैमंगलचंडिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥३५॥ ततः सर्वत्र संपूज्या बभूव परमेश्वरी। देवश्र मुर्तिभिश्चैव मानवैर्मनुभिर्मुने ॥३६॥ देव्याश्च मङ्गलस्तोत्रं यः शृणोति समाहितः। तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम्॥ वर्धते पुत्रपौश्रेश्च मङ्गलं च दिने दिने ॥३७। श्रीनारायण उवाच उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् । श्रयतां मनसाखूयानं यच्छ्रुतं धर्मवक्त्रतः ॥३८।। साच क़न्या भगवती कश्यपस्य च मानसी। तेनैव मनसा देवी मनसा या च दीब्यति ॥३९॥ मनसा ध्यायते या च परमात्मानमीश्वरम्। तेन सा मनसादेवी तेन योगेन दीव्यति॥४०॥
Page 700
७०० श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४८ आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी। त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥४१।। जरत्कारुशरीरं च दृष्टा यत्क्षीणमीश्वरः। गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥४२॥ वांछितं च ददो तस्य कृपया च कृपानिधि. । पूजा च कारयामास चकार च स्वयं प्रभुः ॥४३॥ स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः । भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा॥४४॥ जगद्गौरीति विख्याता तेन सा पूजिता सती। शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ।। विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता। नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥४६॥ नागेश्वरीति त्रिख्याता सा नागभगिनीति च । विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥४७॥ सिद्धियोगं हरात्प्राप तेन सा सिद्धयोगिनी। महाज्ञानं च योगं च मृतसंजीवनीं पराम् ।।४८।। महाज्ञानयुतां तां च प्रवदंति मनीषिणः । आस्तीकस्य मुनींद्रस्य माता साऽपि तपस्विरिनी ॥ आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता। प्रिया मुनेर्जरत्कारोर्मुनींद्रस्य महात्मनः ॥५०। योगिनी विश्वपूज्यस्य जरत्कारुत्रिया ततः । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥५१॥ वैष्णवी नागभगिनी शैवी नागेश्वरी तथा। जरत्कारुप्रियास्तीकमाता विषहरेति च ॥५२॥ महाज्ञानयुता चैव सा देवी विश्वपूजिता। द्वादशैतानि नामानि पूजाकाले तु यः पठेत्॥५३॥ तस्य नागभयं नास्ति तस्य वंशोद्वस्य च। नागभीते च शयने नागग्रस्ते च मंदिरे ।५४।। नागशोभे महादु्गे नागवेष्टितविगहे। इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥५५॥ नित्यं पठेद्यस्तं दृष्टा नागवर्गः पलायते। दशलक्षजपेनंव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥५५॥ स्तोत्रसिद्धिर्भवैद्यस्य स विषं भोक्तुमीश्वरः । नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ।५७॥ नागासनो नागतल्पो महासिद्धो भवेन्नरः । अते च विष्णुना साध क्रीडत्येव दिवानिशम् ५८॥ इति श्रीदेवीभागवते महापुराणे नवमस्कंधे नारदनारायणसवादे सप्तचत्वारिंशोऽधयय:।४७।। अथ अष्टचत्वारिंशोऽध्यांयः श्रीनारायण उवाच मत्तः पूजाविधानं च श्रूयतां मुनिपुंगव। ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥१।। श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् । । २ ।। महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम्। सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥३॥ इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत्। नैवेद्यविविधर्धूपैः पुष्पगंधानुलेपनैः ॥४I। मूलमंत्रंश्च वेदोक्त्तर्भक्तानां वांछितन्रदः । मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥५॥ ऊहीं श्रीं क्लीं ऐ मनसा देव्य स्वाहेति कीतितः। पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥६।।
Page 701
श्रीमद्वेवीमागवते महापुराणे नवमस्कन्धे अध्याय: ४८ ७०३ मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले। सुधासमं विषं तस्य धन्वंतरिसमो भवेत्।।। ब्रह्मन्स्नात्वा तु संक्रांत्यां गूढशालासु यत्नतः । आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ।।८।। पञ्चम्यां मनसां ध्यायन् देव्यै दद्याच्च यो बलिम् । धनवान्पुत्रवांश्रैव कीर्तिमान्स भवेद्ध्रुवम् ॥९॥ पूजाविधानं कथितं तदाख्यानं निशामय। कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥१०॥ पुरा नागभयाक्रांता बभूवुर्मानवा भुवि। गतास्ते शरणं सर्वे कश्यपं मुनिपुंगवम् ।११। मंत्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥१२॥ मन्त्राधिष्ठातृदेवीं तां मनसां ससृजे तदा। तपसा मनसा तेन बभूव मनसा च सा ।१३। कुमारी सा च संभूता जगाम शंकरालयम्। भक्त्या संपूज्य कैलासे तुष्टाव चंद्रशेखरम् ॥१४॥ दिव्यवर्षसहस्त्रं तं सिषेवे च मुनेः सुता। आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥१५॥ महाज्ञानं ददो तस्य पाठयामास साम च। कृष्णमंत्रं कल्पतरुं ददावष्टाक्षरं मुने ॥१६॥ लक्ष्मीमायाकामबीजं डेन्तं कृष्णपदं ततः। त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥१७॥ पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसंमतम्। प्राप्य मृत्युंजयान्मंत्रं सा सती च मुनेः सुता१८।। जगाम तपसे साध्वी पुष्करं शंकराज्ञया। त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥१९॥ सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् । दृष्टा कृशांगीं बालां कृपया च कृपानिधिः ॥२०॥ पूजां च कारयामास चकार च स्वयं हरिः। वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥२१॥ वरं दत्त्वा च कल्याण्य ततश्चांतर्दधे हरिः । प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥२२। द्वितीये शङ्गरेणंव कश्यपेन सुरेण च । मुनिना मनुना चैव नागेन मानवादिभिः ॥२३॥ बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता। जरत्कारुमुनोंद्राय कश्यपस्तां ददौ पुरा ॥२४॥ अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया। कवोद्वाहोमहायोगी विश्रांतस्तपसा चिरम् ॥२५॥ सुष्वाप देव्या जघने वटमूले च पुष्करे। निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम्२६॥ जगामास्तं दिनकर: सायंकाल उपस्थिते । संचित्य मनसा साध्वी मनसा सा पतिव्रता २७॥ धर्मलोपभयेनैव चकारालोचनं सती। अकृत्वा पश्चिमां संध्यां नित्यां चैव द्विजन्मनाम् ॥। ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम। नोपतिष्ठति यः पूर्वा नोपास्ते यस्तु पश्चिमाम्२९॥। स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् । वेदोक्तमिति संचित्य बोधयामास सुंदरी ॥३०॥ स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भूशं मुने। मुनिरुवाच कथं मे सुखिनः साध्वि निद्राभंगः कृतस्त्वया ॥३१॥ व्यथ व्रतादिकं तस्या या भर्तुश्चापकारिणी। तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥३२।।
1
Page 702
७०२ श्रीमदेवी नागवते महापुराणे नव: रन्वे अप्यास: ४6 भर्तुरप्रियकारिण्याः सर्व भवति निष्फलम् । यम मिय: पजितश् श्रीकृत्ण पुतितस्तया॥३३। पतिव्रताव्रतार्थं च पतिरूपो हरिः स्वयम्। सर्वदानं सर्वयश्ञः सर्वतीर्थनिषेवणम्॥३४॥ सर्वव्रतं तपः सर्वमुपवासादिकं च यत्। सर्वधर्मश्र सत्यं च सर्वदेवप्रपूजनम् ॥३५॥ तत्सवं स्वामिसेवायाः कलां नार्हति षोडशीम्। पुण्ये च भारते वर्षे पत्िसेवां करोति या ॥३६॥ चैकुंठे स्वामिना साधं सा याति ब्रह्मण: पदम्। विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥३७॥ असत्कुले प्रसूता हि तत्फलं श्रूयतां सति। कुम्भीपाकं व्रजेत्सा च यावच्चंद्रदिवाकरौ॥३८॥ ततो भवति चांडाली पतिपुत्रविवर्जिता। इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताघरः॥३९॥ चकंपे तेन सा साध्वी भयेनोवाच तं पतिम्। साध्व्युवाच संध्यालोपभयेनैव निद्राभंगः कृतस्तव॥४०।। कुरु शांर्ति महाभाग दुष्टाया मम सुव्रत। शृंगाराहारनिद्राणां यश्च भंगं करोति हि।४१॥ स व्रजेत्कालसूत्रं वै यावच्चंद्रदिवाकरो। इत्युक्त्वा मनसा देवी स्वामिनश्चरणांबुजे ॥४२॥ पपात भक्त्या भीता सा रुरोद च पुनः पुनः। कुपितं च मुनि दृष्टा श्रीसूर्यं शमुमुद्यतम्॥४३।। तत्राजगाम भगवान्संध्यया सह नारद। तत्रागत्य मु्नि सम्यगुवाच भास्करः स्वयम् ४४॥। विनयेन च भीतश्च तया सह यथोचितम् । भास्कर उवाच * सूर्यास्तसमयं दृष्टा साध्वी धर्मभयेन च ।४५॥ तोधयामास त्वां विप्र शरणं त्वामहं गतः । क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने ॥४६॥ ब्राह्मणानां च हृदयं नवनीतसमं सदा। तेषां क्षणाघं क्रोधश्र ततो भस्म भवेज्जगत् ४७॥ पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः । ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥४८।। श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्यातिः सनातनम् । सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह॥४९॥ सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम्। तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥५०॥ हदतीं शोकसंयुक्तां हृदयेन विदूयता। सा सस्मार गुरुं शंभुमिष्टदेवं विधि हरिम् ।५१॥ कश्यपं जन्मदातारं तरिपत्तो भयकशिता। तत्राजगाम गोपीशो भगवाञ्छंभुरेव च॥५२॥ विधिश्च कश्यपश्चव मनसा परिचिंतितः। दृष्टा विप्रोऽभीष्टदेवं निर्गुणं प्रकृते: परम् ॥५३॥ तुष्टाव परया भकत्या प्रणनाम मुहुमुहुः। नमश्चकार शंभुं च ब्रह्माणं कथ्यपं तथा ॥५४॥ कथमागमनं देवा इति प्रश्नं चकार सः। ब्रह्मा तद्रचन श्रुत्वा सहसा समयोचितम् ॥५५॥ प्रत्युवाच नमस्कृत्य हृषोकेशपदांबुजम्। यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनमा सती॥५६॥
1
Page 703
श्रीमद्दवीभागवते महापुराण नवमस्कन्धे अध्याय: ४८ १०३ कुरुष्वास्यां सृतोत्पत्ति स्त्रोधर्मपालनाय वै। जायायां च सुतोत्पत्ति कृत्वा पश्चात्त्यजेन्मुने ।५७।। अकृत्वा तु सुतोत्पत्ति विरागी यस्त्यजेत्प्रियाम् । स्रवते तस्य पुण्यं च चालन्या च यथा जलम् ॥५८।। ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः। चकार नाभिसंस्पशं योगेन मंत्रपूर्वकम्॥५९॥ मनसाया मुनिश्रेष्ठो मुत्रिश्रेष्ठ उवाच ताम्। जरुत्कारुरुवाच गर्भेणानेन मनसे तव पुत्रो भविर्ष्यात॥६०॥ जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः । तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥६१।। वरो वेदविदां चैव ज्ञानिनां योगिनां तथा। स च पुत्रो विष्णुसक्तो धार्मिक: कुलमुद्ध रेत्॥६२।। नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा। पतिव्रतासुशीला या सा प्रिया प्रियवादिनो ॥६३॥ धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका। हरिभक्तिप्रदो बंधुर्न चाभीष्टसुखनदः ॥६४॥ यो बंधुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः। सा गर्भधारिणी या च गर्भावासविमोचनी॥६५॥ दयारूपा च भगिनो यमभीतिविमोचनी। विष्णुमंत्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥६६।। गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् । आब्रह्मस्तंबपर्यन्तं यतो विश्वं चराचरम् ॥६७॥। आविर्भूतं तिरोभूतं कि वा ज्ञानं तदन्यतः। वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥६८॥ तत्त्वानां सारभूतं च हरेरन्यद्विडंबनम्। दत्तंज्ञानं मया तुभ्यं सस्वामी ज्ञानदो हि यः॥६९॥ ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः । विष्णुभक्तियुतं ज्ञानं नो ददाति हि यो गुरुः॥७०॥ स रिपुः शिष्यघाती च यतो बंधान्न मोचयेत्। जननीं गर्भजक्लेशाद्यमयातनया तथा॥७१॥ न मोचयेद्यः स कथं गुरुस्तातो हि बांधवः । परमानन्दरूपं च कृष्णमार्गमनशवरम् ॥७२॥ न दर्शयेद्यः सततं कीदृशो बांधवो नृणाम्। भज साध्त्रि परं ब्रह्माच्युतं कृष्णं च निर्गुणम्।।७३॥ निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया। मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥७४। क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते। पुष्करं तपसे यामि गच्छ देवि यथासुखम् ॥७५॥ श्रीकृष्णचरणांभोजे निःस्पृहाणां मनोरथाः । जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥७६॥ साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् । मनसोवाच दोषो नास्त्येव मे त्यक्तुं निद्राभंगेन ते प्रभो ॥७श॥। यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि। बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम्॥७८॥ प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः। पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः॥७९॥ सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुघैः । पुत्रे यर्थकपुत्राणां वैष्णवानां यथा हरो॥८0।
Page 704
७०४ श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४८ नेत्रे यर्थकनेत्राणां तृषितानां यथा जले। क्षुधितानां यथाऽन्ने च कामुकानां च मैथुने ८१।। यथा परस्वे चोराणां यथा जारे कुयोषिताम्। विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा८२।। तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभौ ।इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥८३॥ क्षणं चकार क्रोडे तां कृपया च कृपानिधिः। नेत्रोदकेन मनसां स्नापयामास ता मुनिः ॥८४॥ साश्रुनेत्रा मुनेः क्रोडं सिषेच भेदकातरा। तदा ज्ञानेन तौ द्वो च विशोकौ संबभूवतुः॥८५॥ स्मारं स्मारं पदांभोजं कृष्णस्य परमात्मनः । जगाम तपसे विप्रः स्वकांतां संप्रबोध्य च॥८६॥ जगाम मनसा शंभोः कैलासं मंदिरं गुरोः ।पार्वती बोधयामास मनसां शोककशिताम् ॥८७॥ शिवश्चातीव ज्ञानेन शिवेन च शिवालयः। सुप्रशस्ते दिने साध्वी सुषुवे मङ्गलक्षणे ।८८॥ नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम्। गर्भस्थितो महाज्ञानं श्रुत्वा शंकरवकत्रनः ।८९॥ संबभूव च योगींद्रो योगिनां ज्ञानिनां गुरुः। जातकं कारयामास वाचयामास मङ्गलम् ॥९०॥ वेदांश्र पाठयामास शिंवाय च शिवः शिशोः । मणिरत्नकिरीटांश्र ब्राह्मणेभ्यो ददौ शिवः ।९१।। पार्वती च गवां लक्षं रत्नानि विविधानि च। शंभुश्च चतुरो वेदान्वेदांगानितरांस्तथा ।।९२।। बालकं पाठयामास ज्ञानं मृत्युअयं परम् /भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥९३॥ यस्यास्तेन च ततपुत्रो बभूवास्तीक एव च । जगाम तपसे विष्णोः पुष्करं शंकराज्ञया ॥९४॥ संप्राप्य च महामन्त्रं ततश्र परमात्मनः । दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥९५॥ आजगाम महायोगी नमस्कतु शिवं प्रभुम् । शंकरं च नमस्कृत्य स्थित्वा तत्रंव बालकः ॥ ९६॥ सा चाजगाम मनसा कश्यपस्याश्रमं पितुः। तां सपुत्रां सुतां दृष्ठा मुदं प्राप प्रजापतिः ॥९७॥ शतलक्षं च रत्नानां ब्राह्मणेभ्यो ददौ मुने। ब्राह्मणान्भोजयामास सोऽसख्यान् श्रेयसे शिशोः ॥ अदितिश्च दितिश्चान्या मुंदं प्राप परन्तप। सा सपुत्रा च सुचिरं तस्थौ तातालये तदा ॥९९॥ तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय। अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥१००॥ बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा। सप्ताहे समतीते तुतक्षकस्त्वां चधक्ष्यति ॥१०१॥ शशाप शृङ्गी त्त्रव कौशिक्याश्च जलेन वै। राजाश्रुत्वा तत्प्रवृत्ति निर्वातस्थानमागतः॥१०२॥ तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः । सप्ताहे समताते तु गच्छत तक्षकं पथि ॥१०३॥ धन्वंतरिर्नृपं भोक्तुं ददर्श गामुक: पथि। तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥१०४॥ धन्वंतरिर्मणि प्राप तक्षकः स्वेच्छया ददौ। स ययौ तं गृहीत्वातु संतुष्टो हृष्टमानसः॥१०५॥ तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् । राजा जगाम तरसा देहं त्यक्त्वा परत्र च।।१०६।। संस्कारं कारयामास पितुर्वे जनमेजयः । राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥१०७॥ प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा। स तक्षको वै भीतस्तु महेंद्रं शरणं ययौ ॥१०८॥
Page 705
४५ श्रीमद्देवीमागत्रते महापुराणे नत्रमस्कन्धे अध्याय: ४८ सेंद्रं च तक्षकं हंतुं विप्रवर्गः समुद्यतः । अथ देवाश्च सेंद्राश्च संजग्मुर्मनसांतिकम् ॥१०९॥ तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः । तत आस्तीक आगत्य यजं चमाुराज्ञया ॥११०॥ महेद्रतक्षकप्राणान्ययाचे भूमिपं परम्। ददौ वरं नृपश्रेष्टः कृपया ब्राह्मणाज्ञया ॥१११॥ यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा। विप्राश्र मुनयो देवा गत्वा च मनसांतिकम् ११२॥। मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक्। शक्रः संभृतसंभारो भक्तियुक्तः सदा शुचिः ॥११३॥ मनसां पूजयामास तुष्टाव परमादरात्। नत्वा षोडशोपचारं बलि च तत्प्रियं तदा ॥११४।॥ प्रददौ परितुष्टश्र ब्रह्मविष्णुशिवाज्ञया। संपूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥११५॥ इत्येवं कथितं सर्व किं भूय: श्रोतुमिच्छसि। नारद उवाच केन स्तोत्रेण तुष्टाव महेंद्रो मनसां सतीम् ॥११६॥ पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः । श्रीनारायण उवाच सुस्नातः शुचिराचांतो धृत्वा धौते च वाससी ।११७।। रत्नसिंहासने देवीं वासयामास भक्तितः । स्वर्गंगाया जलेनैव रत्नकुंभस्थितेन च ॥११८। स्नापयामास मनसां महेन्द्रो वेदमंत्रतः। वासवी वासयामास वह्निशुद्धे मनोहरे ॥११९॥ सर्वाङ्ग चंदनं कृत्वा पादाध्यं भक्तिसंयुतः । गणेशं च दिनेशं चर्वह्निं विष्णुं शिवं शिवाम् ॥१२०।। संपूज्यादौ देवषट्कं पूजयामास तां सतीम्।, ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मंत्रतः ॥१२१। दशाक्षरेण मूलेन ददो सर्वं यथोचितम्। दत्त्वा षोडशोपचारान्दुर्लभान्देवनायक: ॥१२२॥ पूजयामास भक्तया च विष्णुना प्रेरितो मुदा। वाद्यं नानाप्रकारं च वादयामास तत्र व ॥१२२॥ वभव पुष्पवृष्टिश्च नभसो मनसोपरि। देवप्रियाज्ञया तत्र ब्रह्मविष्णुशिबाज्ञया॥१२४॥ तुष्टाव साश्रुनेत्रेश्र, पुलकांकितविग्रहः । पुरंदर उवाच देवि त्वां स्तोनुमिच्छामि साध्यीनां प्रवरां बराम्॥१२५॥ परात्परां च परमां न हि स्तोतुं क्षमोडधुना।
Page 706
DoF श्रीमद्दंवोभागवते महापुराणे नवमस्कन्धे अध्याय: ४८ स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥१२६॥ न क्षमः प्रकृते वक्तुं गुणानां गणनां तव। शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥१२७॥ न च शक्तो मुनिस्तेन त्यक्तुं याच्चा कृता यतः। त्वं मया पूजिता साध्वी जननी मे यथाऽदितिः ॥१२८।। दयारूपा च भगिनी क्षमारूपा यथा प्रसूः । त्वया मे रक्षिता: प्राणाः पुत्रदाराः सुरेश्वरि ॥१२९॥ अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा। नित्या यद्यपि पूज्या त्वं सर्वत्र जगदंबिके १३०। तथापि तव पूजां च वर्धयामि सुरेश्वरि। ये त्वामाषाढसंक्रांत्यां पूजयिष्यंति भक्तितः १३१।। पंचम्यां मनसाख्यायां मासान्ते वा दिने दिने। पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥१३२।। यशस्विनः कीरतिमंतो विद्यावन्तो गुणान्विताः । ये त्वां न पूजष्यंति निंदंत्यज्ञानतो जना:१३३।। लक्ष्मीहीना भविर्ष्यान्त तेपां नागभयं सदा। त्वं स्वयं सर्वलक्ष्मोश्च वैकुंठे कमलालया ॥१३४॥ नारयणांशो भगवाञ्जरत्कारुमुनीश्वरः । तपसा तेजसा त्वां च मनसा ससृजे पिता॥१३५॥ अस्माकं रक्षणायैव तेन त्वं मनसाभिधा। मनसादेवि शक्तथा त्वं स्वात्मना सिद्धयोगिनी ॥१३६॥ तेन त्वं मनसादेवी पूजिता वंदिता भव। ये भक्तया मनसां देवाः पूजयन्त्यनिशं भृशम् ॥१३७॥ तन त्वां मनसां देवीं प्रवदंति मनीपिणः । सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥१३८।। यो हि त्वां भावयेन्नित्यंसत्वां प्राप्नोति तत्परः । इन्द्रश्च मनसां स्तुत्वा गृहोत्वा भगिनीवरम् ॥१३१॥
प्रजगाम स्वभवनं भूषया सपरिच्छदम् । पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे॥१४०॥ भ्रातृभि: पूजिता शश्वन्मान्या वंद्या च सर्वतः । गोलोकात्सुरभिर्न्नह्मन् तत्रागत्य सृपूजिताम् ॥१४१॥ तां स्नापयित्वा क्षीरेण पूजयामास सादरम्। ज्ञानं च कथयामास गोप्यं सवं सुदुर्लभम् ॥१४२॥ तथा देवः पूजिता सा स्वलोकं च पुनर्ययौ। इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥१४३॥
Page 707
श्रीमद्वेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ४९ ७०७ तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च। विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत्॥१४४॥ पंचलक्षजपेनैव सिद्धस्तोत्री भवेन्नरः । सर्पशायीं भवेत्सोऽपि निश्चितं सर्पवाहनः ॥१४५॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धेऽट्टवत्वारिंशोऽध्यायः ।। ४८॥ अथ एकोनपंचाशत्तमोऽध्यायः नारद उवाच का वा सा सुरभिर्देवी गोलोकादागता च या। तजन्मचरितं ब्रह्मञछ्ोतुमिच्छामि यत्नतः ॥१॥ श्रीनारायण उवाच गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः। गवां प्रधाना सुरभिर्गोलोके सा समुद्वा ॥ २॥ सर्वादिसृष्टेश्चरितं कवयामि निशामय। रभूव येन तज्जन्म पुरा वृन्दावने वने ॥ ३ ॥ एकदा राधिकानाथो राघया सह कौतुकी। गोपांगनापरिवृतो पुण्यं वृन्दावनं ययो॥४ ॥ सहमा तत्र रहसि विजहार स कौतुकात्। वभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च ॥५॥ ससृजे सुरभि देवीं लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः ॥६॥ कृष्ट सवत्सां श्रीदामा नवभाण्डे दुदोह च। क्षोरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ।।७। तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयसां भाण्डविस्त्रंसनेन च ।। ८ ।। दीर्घ च विस्तृतं चंव परितः शतयोजनम् । गोलोकेऽयं प्रसिद्धश्र सोऽपि क्षीरसरोवरः ॥९॥ गोपिकानां च राधायाः क्रीडाबापी बभूव सा। रत्नेंद्ररचिता पृर्णं भूता चापीश्वरेश्छया ॥१०।। वभूव कामधेनूनां सहसा लक्षकोटयः । यावंतस्तत्र गोपाश्र सुरम्या लोमकूपतः ॥११॥ तासां पुत्राश्च बहवः संबभूवु रसंख्यकाः । कथिता च गवां सृष्टिस्तया च पूरितं जगत् ॥१२॥ पूजां चकार भगवान् सुरभ्याश्र पुरा मुने। ततो बभूव तत्पूजा, त्रिपु लोकेषु दुर्लभा ॥१३॥ दोपान्विताऽपरदिने श्रीकृष्णस्याज्ञया हरेः । बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम् ॥१४॥ ध्यान स्तोत्रं मृलमंत्रं यद्यत्पूजाविधिक्रमम्। वेदोक्तं च महाभाग निबोध कथयामि ते ।१५।। ॐ सुर्भ्य नभ इति मंत्रस्तस्याः पडक्षरः। सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥१६॥ व्यान यजुर्वेदगीतं तस्याः पूजा च सर्वतः । ऋद्धिदा वृद्धिदा चव मुक्तिदा सर्वकामदा ॥१७॥ लक्ष्मीस्वरूपां परमां राधासहचरीं पराम्। गवामविष्टातृदेवीं गवामाद्यां गवा प्रसूम् ॥१८।। पवित्ररूपां पूतां च भक्तानां सर्वकामदाम्। यया पूत सर्वविश्वं तां देवीं सुरभि भजे॥१९॥ घटे वा धेनुशिरसि बंधस्तंभे गवामपि। शालग्रामे जलाग्नौवा सुरभि पूजयेद्द्विजः ॥२०॥ दीपान्वितापरदिने पूर्वाहे भक्तिसंयुतः । यः पूजयेच्च सुरभि सच पूज्यो भवेद्ुवि ॥२१॥
Page 708
७०८ श्रीमद्देवीभागव ते महापुराण नवमस्कन्धे अध्याय: ५० एकदा त्रिषु लोकेषु वराहे विष्णुमायया। क्षीरं जहार सुरभिश्चितिताश्र सुरादयः ॥२२॥ ने गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा। तदाज्ञया च सुरभभि तुष्टाव पाकशासनः ॥२३॥ पुरन्दर उवाच नमो देव्य महादेव्य सुरभ्य च नमो नमः। गवां बीजस्वरूपाय नमस्ते जगदंबिके ॥२४॥ नमो राधाप्रियाथै च पद्माशायै नमो नमः । नमः कृष्णप्रियाय च गवां मात्रे नमो नमः ॥२५॥ कल्पवृक्षस्वरूपाय सर्वेषां सततं परे। क्षीरदाय धनदायँ बुद्धिदाय नमो नमः ॥२६॥ शुभाये च सुभद्रायै गोप्रदायै नमो नमः । यशोदाय कीर्तिदाय धर्मदाय नमो नमः ॥२७॥ स्तोत्रश्रवणमात्रेण तुष् हृष्टा जगत्प्रसूः । आविर्बभूव तत्रव ब्रह्मलोके सनातनी ॥२८॥ महेंद्राय वरं दत्त्वा वांछठितं चापि दुर्लभम्। जगाम सा च गोलोक ययुर्देवादयो गृहम् ॥२९॥ बभृव विश्वं सहसा दुग्धपूर्ण च नारद। दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥३०॥ इदं स्तोत्रं महापुण्यं भनियुत्तश्च यः पठेत्। स गोमान् धनवांश्रव कीर्तिमान्पुत्रवांस्तथा ॥३१। स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यंते कृष्णमन्दिरे ॥३२। सुचिरं निवसेत्तत्र करोति कृष्णसेवनम्। न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः ।३३॥ इति श्रीदेवीभागवते महापुराणे नवमस्कम्पे एकोनपंचाश समोऽध्याय:॥४९। अथ पंचाशत्तमोऽध्यायः नारद उवाच श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम्। यच्छृत्वा मुच्यते जंतुर्जन्मसंसारबंधनात् ।।१।। अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम्। राधायाश्चव दुर्गाया विधानं श्रुतिचोदितम् ॥२॥ महिमा वणितोऽतीव भवता परयो्द्वयोः। श्रुतवातंतद्गतं चेतोन कर्य स्यान्मुनीश्वर ॥३॥ यधोरंशो जगत्सर्व यन्नियम्यं चराचरम्। ययोर्भवत्या भवेन्मुक्तिस्तद्विधानं वदाधुना ।।४।। श्रीनारायण उवाच शणु नारद वध्यामि रहस्यं श्रतिचोदितम् । यन्न वस्यापि चास्यातं सारात्सारं परात्परम् ॥५ श्रुत्वा परस्म नो वाच्यं यतोऽतींव रहस्यकम् । मृलत्रकृतिरूपिप्याः संविदो जगदृद्भवे ॥६।। प्रादुर्भूतं शक्तियुग्मं प्राणबुद्धय्यधिदैवतम्। जीवानां चैव सर्वेषां नियन्न प्रेरकं सदा ।७। सदधीनं जगतसर्व विराडादिचराचरम्। यावत्तयोः प्रसादोन तावन्मोक्षो हि दुर्लभः ॥८॥
Page 709
श्रीमद्ेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ५० ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्यम् । तत्रादी राधिकामंत्रं शृणु नारद भक्तितः । ९॥ ब्रह्मविष्ण्वादिभिनित्यं सेवितो यः परात्परम्। श्रीराधेति चतुर्थ्यतं वह्नेर्जाया ततः परम् ॥१॥॥ षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वांछाचिंतामणिःस्मृतः॥११॥ वक्त्रकोटिस हस्त्रस्तु जिह्वाकोटिशतरपि। एतन्मन्त्रस्य माहात्म्यं वगितुं नैवर शक्यते ॥१२॥ जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले ।१३॥ विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट तथा। तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥१४॥ अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायंति तां मुदा ॥१५॥ कृष्णार्चायां नाधिकारो यतो राधार्चनं विना। वैष्णवैःसकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥१६॥ कृष्णनाणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया होनो न तिष्ठति ।१७।। राध्नाति सकलान्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ।१८।। छंदश्र देवी गायत्रो देवताऽत्र च राधिका। तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥१९। मूल वृत्त्या षडंगानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥२०॥ पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया। श्वेतचंपकवर्णाभां शरदिंदुसमाननाम् ।२१॥ कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम्। बिबाधरां पृथुश्रोणों काञ्चीयुतनितंबिनीम् ।२२। कुंदपंक्तिसमानाभदंतपंक्तिविराजिताम् । क्षौमांबरपरीधानां वह्निशुद्धांशुकान्व्विताम् ।।२३॥ ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम्। सदा द्वादशवर्षीयां रत्नभूषणभूषिताम् ॥२४॥ शृङ्गारसिंधुलहरीं भक्तानुग्रहकातराम्। मल्लिकामालतीमाला केशपाशविराजिताम् ।।२५॥ सुकुमारांगलतिकां रासमण्डलमध्यगाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयोवनाम् ॥२६॥। रत्नसिंहासनासीनां गोपीमंडलनायिकाम्। कृष्णप्राणाधिकां वेदंबोधितां परमेश्वरीम् ॥२७॥ एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा। यन्त्रे वाऽष्टदले देवीं पूजयेत्तु विधानतः ॥२८।। आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम्। मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ।।२९।। पाद्य तु पादयोर्दद्यान्मस्तकेडर्ध्य समीरितम्। मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥३०॥ मधुपक ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेतस्नानशालां ता च तत्रैव भावयेत् ॥३१॥ अभ्यङ्गादिस्नानविधि कल्पयित्वाऽथ वाससी। ततश्च चन्दनं दद्यान्नानालंकारपूर्वकम् ॥३२॥ पुष्पमाला बहुविधास्तुलसीमञ्जरीयुता: । पारिजातप्रसूनानि शतपत्रादिकानि च ॥३३। ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्यदिक्ष्वंगपूजनम् ।।३४।। कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वन्निकोणे च माधवीम् ॥३५॥
Page 710
श्रीमदेवीभागवते महापुराणे नवमस्कन्धे अध्याय: ५० रत्नमालां दक्षिणे च नैर्क्र्त्ये तु सुशीलकाम्। पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥३६॥ भारुते पारिजातां चाप्युत्तरे च परावतीम्। ईशानकोणे संपूज्या सुंदरी प्रियकारिणी ॥३७॥ ब्राह्मयादयस्तु तद्वाह्येऽप्याशापालांस्तु भूपुरे। वज्तरादिकान्यायुधानि देवीमित्थं प्रपूजयेत् !: ३८।। ततो देवीं सावरणां गन्वादरुपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥३९॥ ततः स्तुवीत देवेशीं स्तोत्रैरनामिसहसत्त्रकैः । सहस्रसंख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥४०॥ य एवं पूजयेदेवीं राधां रासेश्वरीं पराम्। स भवेद्विष्णुतुल्यस्तु गोलोकं याति संततम् ।।४१।। यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सवं बुधः। कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥४२॥ केनचित्कारणेनैव राधा वृन्दावने वने। वृषभानुसुता जाता गोलोकस्थायिनी सदा ४३। अत्रोक्तानां तु मंत्राणां वर्णसंख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥४४॥। तिलैस्त्रिस्वादुसंयु क्त्तर्जुहुयाददक्तिभावतः।
नारद उवाच स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति॥४५।।
श्रीनारायण उवाच नमस्ते परमेशानि रासगण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥४६।। नमस्व्रलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैवंद्यमानपदांबुजे।।४७। नमः सरस्वतीरूपे नमः सावित्रि शंकरि। गंगापझ्मावतीरूपे षष्टि मंगलचंडिके ॥४८।। नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि। नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ।४९।। मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम्। संसारसागरादस्मानुद्धरांब दयां कुरु॥५०॥ इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः। न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति॥५१॥ देहान्ते च वसेन्नित्यं गोलोके रासमण्डले। इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥५२॥ अधुना शृणु विप्रेद्र दुर्गादेव्या विध्ानकम्। यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥५३॥ एनां न भजते यो हि तादृङनास्त्येव कुत्रचित्। सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता ।५४। सर्वबुद्धयधिदेवीयमन्तर्यामिस्व रूपिणी । दुर्गसंकटहैत्रीति दुर्गेति प्रथिता भुवि ॥५५॥। वैष्णवानां च शैवानामुपास्येयं च नित्यशः । मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥५६॥ तस्या नवाक्षरं मंत्रं वक्ष्ये मंत्रोत्तमोत्तमम्। वाग्भवं शंभुवनिता कामबीजं ततः परम् ॥५७॥ चामुण्डाये पदं पश्चाद्विच्चे इत्यक्षरद्रयम्। नवाक्षरो मनुः प्रोक्त्तो भजतां कल्पपादपः ॥५८। ब्रह्मविष्णुमहेशाना कषयोऽस्य प्रकीर्तिताः। छन्दास्युक्तानि सततं गायत्रयुष्णिगनुष्टुभः ।५९।।
Page 711
श्रीम देवीभागवते महापुराणे नवमस्कन्धे अध्याय: ५० ७११ महाकाली महालक्ष्मीः सरस्वत्यपि देवताः । स्याद्रक्कदंतिकाबीजं दुर्गा च भ्रामरी तथा ॥६०॥ नंदाशाकंभरीदेव्यो भीमा च शक्तयः स्मृताः । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥६१॥ ऋषिच्छंदो दैवतानि मौलौ वक्त्रे हृदि न्यस्ेत्। स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये ॥६२।। वीजत्रयँश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि। षडंगानि मनोः कुर्याज्जातियुक्तानि देशिकाः ॥६३॥ शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च। गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत् ।।६४।। खड्गचक्रगदाबाणचापानि परिघं तथा। शूलं भुशुंडीं च शिरः शङ्गं संदवतीं करैः ॥६५॥ महाकालीं त्रिनयनां नानाभूषणभूषिताम्। नीलांजनसमप्रख्यां दशपादाननां भजे॥६६॥ मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः । एवं ध्यायेन्महाकालों कामबीजस्वरूपिणीम्॥६७॥ अक्षमालां च परशुं गदेषुकुलिशानि च । पद्मं धनुष्कुण्डिकां च दंडशक्तिमसि तथा ॥६८॥ चर्मांबुजं तथा धण्टां सुरापात्रं च शूलकम्। पाशं सुदर्शनं चैव दधतीमरुणप्रभाम् ॥६९॥ रक्ताम्बुजासनगतां मायाबीजस्वरूपिगीम् । महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम् ॥७० ॥ घण्टाशूले हलं शंखं मुसलं च सुदर्शनम् । धनुर्बाणान्हस्तपद्मदधानां कुन्दसन्निभाम्॥७१॥ शुम्भादिदैत्यसंहर्त्री वाणवीजस्वरूपिणीम् । महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम्।।७२।। यंत्रमस्या: शरृणु प्राज्ञ त्र्यस्त्रं षट्कोणसंयुतम्। ततोऽष्टदलपद्मं च चतुर्विशतिपत्रकम् ॥७३।। भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत्। शालग्रामे धटे वाडपि यन्त्रे वा प्रतिमासु वा ।७४।। बार्णालंगेऽथवा सूर्यें यजेदेवीमनन्यधीः। जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत्॥७५॥ पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् । श्रिया सह हरि तत्र नैऋरते कोणके यजेत् ॥७६।। पार्वत्या सहितं शम्भं वायुकोणे समर्चयेत् । देव्या उत्तरतः पूज्यःसिंहो वामे महासुरम् ॥७७॥। महिषं पूजयेदन्ते पट्कोणेषु यजेत्क्रमात्। नंदजां रक्तदंतां च तथा शाकंभरीं शिवाम् ॥७८॥ दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च। ब्राह्मीं माहेश्वरों चैव कौमारीं वैष्णवीं तथा॥७९॥ वाराहीं नारसिंहीं च ऐन्द्रीं चामुंडकां तथा। पूजयेच्च ततः पश्चात्तत्वपश्रेषु पूर्वतः ॥८०॥ विष्णुमायां चेतनां च बुद्धि निद्रां क्षुधां तथा। छायाशकिंपरां तृष्णों शांति जार्ति च ल्जयाट१।। शांति भद्रां कींतिलक्ष्म्यौ धृ्ति वृत्तिश्रुति स्मृतिम् । दयां नुष्टि ततः पुर्ष्टिमातृभ्रांती इति क्रपात् ॥८२॥ ततो भूपुरकोणेपु गणेशं क्षेत्रपालकम् । वटुकं योगिनीश्चाषि पूजयेन्मतिमान्नरः ॥८३॥ इन्द्राद्यानपि तद्वाह्ये वज्राद्यायुधसंयुतान् । पृजयेदनया रीत्या देवीं सावरणां ततः ॥८४॥। राजोपचारान्विविधान्दद्यादम्वाप्रतुष्टये । ततो जपेन्नवार्ण च मन्त्रं मन्त्रार्थपूर्वकम् ॥८५॥। ततः सप्तशतीस्तोत्रं देव्या अग्रे तु संकठेत्। नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये ॥८६॥
Page 712
७१२ श्रीमद्ेवीमागन वे महापुराणे नवरु स्कन्धे अध्याय: ५० ततश्चानेन देवेशों तोषयेत्प्रत्यहं नरः । धर्मार्थकाममोक्षाणामालयं जायते नरः ॥८७॥ इति ते कथितं विप्र श्रीदुर्गाया विघानकम्। कृतार्थता येन भवेत्तदेतत्कर्थितं तव ।।८८।। सवें देवा हरिब्रह्मप्रसुखा मनवस्तथा। मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥८१। लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् । तदव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ।९०।। चतुर्दशापि मनवो ध्यात्वा चरणपङ्गजम्। मनुत्वं प्राप्तवन्तश्र देवा:स्वंस्वं पदं तथा ॥९१॥ तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् । प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम् ॥९२॥ श्रुत्वंतन्मनुजो पुरुषार्थचतुष्टयम्। लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ।।९३।। अपु्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम्। यं यं कामं स्मरेद्रापि तं तं श्रुत्वा समाप्नुयात्।९४॥ नवरात्रे पठेदेतद्देव्यग्र तु समाहितः । परितुष्टा जगद्धात्री भवत्येव हि निश्चितम् ॥।९५॥। नित्यमेकैकमध्यायं पठेदः प्रत्यहं नरः । तस्य वश्या भवेदेवी देवीप्रियकरो हि सः ॥९६॥ शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि। कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात् ।९७ मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः । देवीं च जगदीशानां प्रणमेच्च पुनः पुनः ॥९८॥ सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि। शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम् ॥९९॥ शुभं वाडप्यशुभं तत्र यदायाति च तद्वेत्।उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम्॥१००॥ इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे पंचाशत्तमोऽध्यायः ॥ ५०॥। बाणाक्षिरसरामैस्तु सार्धे: (३६२५॥) शलोकेः सुविस्तरैः । देवीभागवतस्यास्य नवमः स्कन्ध ईरितः ॥
समाप्तोडयं नवमः स्कन्धः ।
Page 713
शरोगणेशाय नमः
श्रीमद्देवीभागवतम्
दशमः स्कन्धः
अथ प्रथमोऽध्यायः
नारद उवाच
नारायण धराधार सर्वपालनकारण। भवतोदीरितं देवीचरितं पापनाशनम् ॥ १ ॥ मन्वंतरेषु सर्वेषु सा देवी यत्स्वरूपिणी। यदाकारेण कुरुत पादुर्भवं महेश्वरी ॥२॥ तान्नः सर्वान्ममाख्याहि देवी माहात्म्यमिश्रितान्। यथा च येन यैनेह पूजिता संस्तुतापि हि ॥ ३ ॥ मनोरथान्पूरयति भक्ताना भकवत्सला। तन्नः शुश्रपमाणानां देवीचरितमुनमम्॥४॥ वर्णयस्व कृषासिन्धो येनाप्नोति सुखं महत्। श्रीनारायण उवाच आकर्णय महर्षे त्वं चरितं पापनाशनम् ॥५॥ भक्तानां भक्तिजननं महासंपत्तिकारकम् । जगद्योनिर्महातेजा व्रह्मा लोकपितामहः ॥६॥ चक्रिणः । स चतुर्मुख आसाद्य प्रादुर्भावं महामते ॥ ७ ॥ मनुं स्वायंभुवं नाम जनयामास मानसात्। स मानसो मनुः पुत्रो ब्रह्मणः परमेष्ठिनः ॥८॥ शतरूपां च तत्पत्नीं जज्ञे धर्मस्वरूपिणीम्। स मनुः क्षीरसिंधोश्च तीरे परमपावने ॥ ९॥ देवीमाराधयामास महाभाग्यफलप्रदाम् । मूर्ति च मृन्मयीं तस्या विधाय पृथिवीपतिः ॥१०॥ उपासतेस्म तां देवीं वाग्भवं स जपन् रहः । निराहारो जितश्वासो नियमव्रतकशितः ।११। एकपादेन संतिष्ठन् धरायामनिशं स्थिरः । शतवर्षं जितः कामः क्रोधस्तेन महात्मना ॥१२॥
Page 714
७१४ श्रीमदेवीभागवते महापुराणे दशमस्कन्धे अध्याय: २ भजे स्थावरतां देव्याश्चरणौ चिंतयन् हृदि। तस्य तत्तपमा देवी प्रादुर्भूता जगन्मयी ॥१३॥ उवाच वचनं दिव्यं वरं वरय भूमिप। तत आनंदजनकं श्रुत्वा वाक्यं महीपतिः ॥१४।। वरथामास तान् हृत्स्थान् वरानमरदुर्लभान्। मनुरुवाच जय देवि विशालाक्षि जय सर्वान्तरस्थिते ॥१५॥ मान्ये पूज्ये जगद्धात्रि सर्वमंगलमंगले। त्वत्कटाक्षावलोकेन पद्मभृः सृजते जगत् ॥१६॥ बैकुंठ: पालयत्येव हरः संहरते क्षणात् । शचीपतिस्त्रिलोक्याश्र शासको भवदाज्ञया ॥१७॥। प्राणिनः शिक्षयत्येव दंडेन च परेतराट्। यादसामधिपः पाशी पालनं मादृशामपि॥१८॥ कुरुते स कुबेरोऽपि निधीनां पतिरव्ययः । हुतभुङ् नैऋतो वायुरीशानः शेष एव च ॥१९॥ त्वदंशसंभवा एव त्वच्छक्तपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति सांप्रतम् ॥२०॥ तदा प्रह्माः सर्गकायें विध्ना नश्यंतु मे शिवे। वाग्भवस्यापि मंत्रस्य ये केचिदुपसेविनः ॥२१॥ तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि। ये संवादमिमं देवि पठंति श्रवयन्ति च ॥२२॥ तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे। जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा ॥२३॥ ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि। पुत्रपोत्रसमृद्धिश्च जायेदित्येव मे वचः ॥२४॥ इति श्रीदेवोभागवते महापुराणे दशमस्कन्धे प्रथमोऽध्यायः ॥।१॥ अथ द्वितीयोऽध्यायः
महाबाहो सर्वमेतद्धविष्यति। यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप ।।१।। श्रीदेव्युवाच भूमिपाल अहं प्रसन्ना देत्येन्द्रनाशनाSमोघविक्रमा। वाग्भवस्य जंपेनैव तपसा ते सुनिश्चितम् ॥।२॥ राज्यं निष्कंटकं तेऽस्तु पुत्रा वंशकरा अपि। मयि भक्तिर्द्ढा वत्स मोक्षांते मत्पदे भवेत् ।३। एवं वरान्महादेवी तस्मे दत्त्वा महात्मने। पश्यतस्तु मनोरेव जगाम विध्यपर्वतम् ॥४॥ योऽसो विष्याचलो रुद्धः कुंभोद्वमहर्षिणा। भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन् ।।५।। सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी। बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम ॥६॥। ऋषय ऊचु: कोऽसो विध्याचल: सूत किमर्थं गगनं स्पृशन् । भानुमार्गावरोधं च किमर्थं कृतवानसौ ॥७॥ क्थं च मैत्रावरुणिः पर्वतं तं महोन्नतम्। प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद ॥८। न हि तृप्यामहे साधो त्वदास्यगलितामृतम् । देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते ।९॥
Page 715
श्रीमदेवीभागवते महापुराणे दशमस्कन्धे अध्याय: २ ७१५
सूत उवाच आसीद्विन्ध्याचलो नाम मान्य: सर्वधराभृताम् । महावनसमूहाढ्यो महापादपसंवृतः ।१०।। सुपुष्पितरनेकैश्च लतागुल्मैस्तु संवृतः । मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि। ११॥ वानरा: शशका ऋक्षाः शृगालाश्च समंततः । विचरंति सदा हृष्टा पुष्टा एव महोद्यमाः ॥१२॥ नदीनदजलाक्रांतो देवगंधर्वकिस्नरैः। अप्सरोभिः किंपुरुषैः सर्वकामफलद्गुमैः ॥१३॥ एतादृशे विध्यनगे कदाचित्पर्यटन्महीम् । देव्षिः परमप्रीतो जगाम स्वेच्छया मुनिः ॥१४॥ तं दृष्टा स नगो मंक्षु तूर्णमुत्थाय संभ्रमात्। पाद्मर्ध्य तथा दत्त्वा वरासनमथार्पयत् ॥१५। सुखोपविष्टं देवर्षिसन्नं नग ऊचिवान्। विन्ध्य उवाच देवर्षे कथ्यतां जात आगमः कुत उत्तमः ॥१६॥ तवागमनतो जातमनध्यं मम मंदिरम्। तव चंक्रमणं देवाभयार्थं हि यथा रवेः ॥१७॥ अपूर्वं यन्मनोवृत्तं तदब्रूहि मम नारद ।
नारद उवाच
ममागमनरमिंद्रारे जातं स्वर्णगिरेरथ ॥१८।। तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् । सर्वेषां लोकपालानां भवनानि समंततः ॥१९। मया दृष्टानि विध्याग नानाभोगप्रदानि च। इति चोवत्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत् ॥ उच्छ्वसंतं मुनि दृष्ा पुनः पप्रच्छ शैलराट्। उच्छवासकारणं किं तद्ब्रूहि देवऋषे मम ॥२१॥ इत्याकर्ण्य नगस्योककं देवपिरमितद्युतिः । अभ्रवीच्छयतां वत्स ममोच्छ्वासस्य कारणम् २२॥ गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल। संवंधित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम् ॥२३॥ एवमेव च कैलास: शिवस्यावसथः प्रभुः । पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः ॥२४।। निषधः पर्वतो नीलो गंधमादन एव च । पूज्या: स्वस्थानमासाद्य सर्व एव क्षमाभृतः ।२५।। यं पर्येति च विश्वात्मा सहस्त्रकिरण: स्वराट्। सग्रहर्क्षगगोपेतः सोऽयं कनकपर्वतः ॥२६॥ आत्मानं मनुते श्रेष्ठं वरिष्टं च धराभृताम् । सर्वेषामहमेवाग्रधो नास्ति लोकेषु मत्समः ॥२७॥ एवं मानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः । अग्तु नैतावता कृत्यं तपोबलवतां नग ॥। प्रसंगतो मयोक्तं ते गमिष्यामि निजं गृहम् ।२८।। इति श्रीदेवीभ्गवते महापुराणे दशमस्कंधे द्वितीयोऽध्यायः ।२।
Page 716
७१६ श्रामदेवीभागवते महापुराणे दशमस्करन्धे अध्याय: ३ अथ तृतीयोऽध्यायः सूत उवाच एवं समुपदिश्यायं देवषिः परमः स्वराट्। जगाम ब्रह्मणो लोकं स्वरचारी महामुनिः ॥१॥ गते मुनिवरे विध्यश्चितां लेभेऽनपायिनीम् । नैव शांति स लेभे च सदान्तःकृतशोचनः ॥२॥ कथं कि त्वत्र मे कार्य कथं मेरुं जयाम्यहम्। नैव शांति लभे नापि स्वास्थ्यं मे मानसे भवेत् ३।। "िगुत्साहं च मानं च धिङ्मे कीति च धिक्कुलम्।" घिग्बलं मे पौरुषं धिक् स्मृतं पूर्वेर्महात्मभिः ॥ एवं चिंतयमानस्य विध्यस्थ मनसि स्फुटम् ॥४॥ प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी। मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः ॥५॥ सग्रहर्षगणोपेतः सदा दृप्यत्ययं नगः । तस्या मार्गस्य संरोधं करिष्याभि निजैःकरैः ॥६॥ तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् । एवं मार्गे निरुद्धे तु मया दिनकरस्य च ।७॥ भग्नदर्पो दिव्यनगो भविष्यति विनिश्चितम् । एवं निश्चित्य विंध्याद्रिः खं स्पृशन्ववृधे भुजैः ॥८॥ महोन्नतैः शृङ्गवरैः सर्वं व्याप्य व्यवस्थितः । कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा ॥९॥ एवं संचिंतमानस्य सा व्यतीयाय शर्वरी। प्रभातं विमलं जज्ञे दिशो वितिमिरा: करैः ॥१०॥ कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ। प्रकाशतेस्म विमलं नभो भानुकरः शुभैः ॥११॥ विकासं नलिनी भेजे मीलनं च कुमुद्वती। स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे॥१२॥ हत्यं कव्यं भूतबरलि देवानां च प्रवर्धयन्। प्राह्मपराह्मध्याह्नविभागेन त्विषां पतिः ।१३। एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् । ज्वलंती चिरकालीनविरहादिव कामिनीम् ॥१४॥ भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च। याम्यां गंतुं ततस्तूर्ण प्रतस्थे कमलाकरः ॥१५॥ न शशाकाग्रतो गंतुं ततोऽनूरुव्यजिज्ञपत् । अनूरुरुवाच भानो मानोन्नतो विध्यो निरुध्य गगनं स्थितः ॥१६। स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम्। सूत उाच अनुरुवाक्यमाकर्ण्यं सविता ह्यास चिंतयन् ॥१७।। अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः। प्रायः शूरोन कि कुर्यादुत्पथे वर्त्मनि स्थितः १८।। निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम्। राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते ॥१९॥ स चिरं रुद्धमार्गोऽपि कि करोति विधिर्बली। एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः ॥२०॥
Page 717
श्रीम देवी मागवते महापुराणे दशमस्कन्धे अध्याय: ४ ७१७
नान्वविंदन्त शरणं कर्तव्यं नान्वपद्यत। चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः ॥२१॥ स रुद्धो विध्यगिरिणा अहो दैवतिपर्ययः । यदा निरुद्धः सविता गिरिणा स्पर्धया तदा॥२२॥ नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् । एवं च पश्चिमा लोका दाक्षिणात्यास्तर्थव च।।२३। निद्रामीलितचक्षुका निशामेव प्रपेदिरे। प्रांचस्तथोत्तराहाश्र तोक्ष्णतापप्रतापिताः ॥२४॥ मृता नष्टाश्च भग्नाश्च विनाशमभजन्प्रजाः । हाहाभूतं जगतसर्व स्वधाकव्यविवर्जितम् ॥ देवा: सेंद्राः समुद्विग्नाः कि कुर्म इतिवादिनः ॥२५॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे दवीमाहात्ये तृतीयोऽध्यायः ॥३॥ अथ चतुर्थोऽध्यायः सूत उवाच ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा। पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥१॥ उपतस्थुः प्रणतिभिः स्तोत्रश्चारुविभूतिभिः । देवदेवं गिरिशयं शशिलालितशेखरम् ॥२॥
उमाललितपत्कज । अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥३॥ देवा ऊचु: जय देव गणाध्यक्ष महामायाविलसितस्थानाय पवनात्मने। वृषांकायामरेशाय कैलासस्थितिशालिने ।४। अहिर्बुध्न्याय मान्याय मनवे मानदायिने। अजाय बहुरूपाय स्वात्मारामाय शंभवे॥५॥ गणनाथाय देवाय गिरिशाय नमोऽस्तु ते। महाविभूतिदात्रे ते महाविष्णुस्तुताय च ।६॥ विष्णुहृत्कंजवासाय महायोगरताय च । योगगम्याय योगाय योगिनां पतये नमः ॥७॥ योगीशाय नमस्तुभ्यं योगानां फलदायिने। दीनदानपरायापि दयासागरमूर्तये ॥।८।। आर्तिप्रशमनायोग्रवोर्याय गुणमूर्तये । वृषध्वजाय कालाय कालकालाय ते नमः ॥९॥ सूत उवाच एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः । प्राह गंभीरया वाचा प्रहसन्विबुधर्षभान् ॥१०॥ श्रीभगवानुवाच प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः । मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥११॥ देवा ऊचु: सर्वदेवेश गिरिश शशिमोलिविराजित। आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ।१२।। पर्वतो विध्यनामाडस्ति मेरुद्वेष्टा महोन्नतः । भानुमार्ग निरोद्धा हि सर्वेषां दुखदोऽनघ ॥१३॥ तद्वृद्धि स्तंभयेशान सर्वक्ल्याणकृद्धव। भानुसंचाररोधेन कालज्ञानं कथं भवेत् ॥१४॥
Page 718
श्रीमद्ेवीभागवते महापुराणे दशमस्कन्धे अध्याय: ५ नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत्। अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥१५॥ दुःखनाशकरो देव प्रसीद गिरिजापते। शिव उवाच नास्माकं शक्तिरस्तीह तद्बुद्धिस्तंभने सुराः ॥१६। इममेवं वदिष्यामो भगवंतं रमाधवम् । सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपघृक् १७॥। गोविंदो भगवान्विष्णुः सर्वकारणकारणः। तं गत्वा कर्थयष्यामःस दुःखांतो भविष्यति१८।। इत्येवमाकर्ण्य गिरीशभाषितं देवाश्र सेन्द्राः सपयोजसंभवाः । रुद्रं पुरस्कृत्य च वेपमाना वैकुण्टलोकं प्रतिजग्मुरंजसा ॥११। इति श्रीदेवीभागवते महापुरणे दशमस्करन्धे चतुर्थोऽध्यायः॥।४॥ अथ पञ्चमोऽध्यायः सूत उवाच ते गत्वा देवदेवेशं रमानारथं जगद्गुरुम्। विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ।१।। स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः । देवा ऊचुः जय विष्णो रमेशाद्य महापुरुप पूर्वज ॥२॥ दैत्यारे कामजनक सर्वकामफलप्रद। महावराह गोविंद महायनस्वरूपघृक् ॥:३।। महाविष्णो ध्रुवेशाद्य • जगदुत्पत्तिकारण। मत्स्यावतारे भेदानामुद्धाराधाररूपक ।।४।। सत्यव्रतधराधीश मत्स्यरूपाय ते नमः। जयाकृपार दैत्यारे सुरकार्यसमर्पक ॥५॥ अमृताप्तिकरेशान कूर्मरूपाय ते नमः। जयादिदैत्यनाशार्थमादिसूकरपधृक मह्यद्वारकृतोदयोग कोलरूपाय ने नमः। नारसिंहं वपुः कृत्वा महाैत्यं ददार यः ॥७॥ करजैर्वरदृतांगं तस्मँ नृहरये नमः। वामनं रूपमास्थाय त्रैलोकयैश्वर्यमोहितम् ॥८॥ वर्लि संछलयामास तस्मै वामनरूनिणे। दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥९॥ रेणुकागर्भजाताय जामदग्न्याय ते नमः। दुष्ठराक्षसवौलस्त्यशिरश्छेदपटीयसे ।१०॥ श्रीमद्दाशरथे तुभ्यं नमोऽननक्रमाय च। कंसदुर्योधनादैश्व दैत्यः दृथ्वीशलांछनैः ॥११॥ भाराक्रांतां महीं योऽसावुज्जहार महावभुः । धम संस्थापायामास पापं कृत्वा सुदूरतः ॥१२। तस्म कृष्णाय देवाय नमोडस्तु बहुधा विभो। दुष्टयज्ञविधाताय पशुहिंसानिवृत्तये ।।१३।। बौद्धरूपं दधौ योऽसौ तस्म देवाय ते नमः। म्लेच्छनायेऽखिले लोके दुष्टराजन्यपीडिते ॥१४॥ काल्करूपं समादध्यो देवदेवाय ते नमः। दशावतारास्ते देव भनानां रक्षणाय वै ॥१५॥
Page 719
श्रींमदेवीमागवते महापुगणे दशमस्कन्धे अध्याय: ६ ७१९ दुष्टदैत्यविधाताय तस्मात्त्वं सर्वदुखहृत्। जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥१६॥ रूपं येन त्वया देव कोऽन्यस्त्वतो दशनिधिः। इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥१७॥ प्रणेमुर्भक्तिसहिता: साष्टांगं विबुधर्षभाः। तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥१८॥ उवाच विबुधान्सर्वान् हषयञ्छ्ीगदाघरः। श्रीभगवानुवाच प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥१९॥ भवतां नाशययष्यामि दुःखं परमदुःसहम्। वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥२०॥ ददामि परमप्रीतः स्तवस्यास्य प्रसादतः ; य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥२१।। मयि भक्ति परां कृत्वा न तं शोक: स्पुशेत्कदा । अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः २२।। नोपसर्गा न वेताला न ग्रहा ब्रह्ममानवाः। न रोगा वातिकाः पैताः श्लेष्मसंभविनस्तथा३।। नाकालमरणं तस्य कदापि च भविष्यति। संततिश्चिरकालस्था भोगा: सर्वे सुखादयः ॥२४॥। संभविष्यंति तन्मर्त्यगृहे यः स्तोत्रपाठकः। कि पुनर्वहुनोक्त्ेन स्तोत्रं सर्वार्थसाधकम्॥२५॥। एतस्य पठनान्नणां भुक्तिमुक्ती न दूरतः । देवा भवत्सु यद्दुःखं कथ्यतां तदसंशयम् ॥२६॥ नाशयामि न संदेहश्रात्र कार्योडणुरेव च। एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिनौकसः ॥ प्रसन्नमनसः सर्वे पुनरुचुर्वृषाकपिम् ॥२७॥ इति श्रीदेवीभागवते महापुराणे दशमसकंधे पञ्चसोऽध्यायः।५। अथ षष्ठोऽध्यायः सूत उवाच श्रीशस्य वचनाहेवाः संतुष्टाः सर्व एव हि। प्रसन्नमनसो भूत्वा पुनरेनं समूचिरे॥१॥ देवा ऊचु: देवदेव महाविष्णो सृष्टिस्थित्यंतकारण। विष्णो विन्ध्यनगोऽर्कस्य मार्गरोधं करोति हि २।। तेन भानविरोधेन सर्व एव महविभो। अलब्यभोगभागा हि कि कुर्मः कुत्र याम हि ३।। श्री भगवानुवाच या कर्त्रो सर्वजगतामाद्या च कुलवर्धनी। देवी भगवती तस्याः पूजकः परमद्युतिः ॥४॥ अगस्त्यो मुनिवर्योऽसौ वाराणस्यां समासते। तत्तेजोवंचकोऽगस्त्यो भविष्यति सुरोत्तमाः ॥५॥ तं प्रसाद्य द्विजवरमगस्त्यं परमौजसम्। याचध्वं विबुधाः काशों गत्वा निःश्रेयसः पदीम् ॥ सत उवाच एवं समुपदिष्टास्ते विष्णुना विबुधोत्तमाः। प्रतीताः प्रणताः सर्वे जग्मुर्वाराणसी पुरीम् ॥७॥
Page 720
७२० श्रीमदेवीभागवते महापुराणे दशमस्कन्धे अध्याय: ७ क्षणेन बिबुधश्रेष्ठा गत्वा काशीपुरी शुभाम्। मणिकर्णीं समाप्लुत्य सचैं भक्तिसंयुताः ॥८॥ संतर्प्य देवांश्र पितृन्दत्त्वा दानं विधानतः । आगत्य मुनिवर्यस्य चाश्रमं परमं महत् ।९॥ प्रशांतश्वापदाकीर्णं नानापादपसंकुलम् । मयूरैः सारसैहसैश्चक्रवाकैरुपाश्रितम् ॥१०॥ महावराहैः कोलश्च व्याघ्रंः शार्दूलकैरपि। मृगै रुरुभिरत्यर्थं खङ्ग: शरभकैरपि ॥११॥ समाश्रितं परमया लक्ष्म्या मुनिवरं तदा। दण्डवत्पतिताः सर्वे प्रणेमुश्च पुनः पुनः ॥१२॥ देवा ऊचुः जय द्विजगणाधीश मान्य पूज्य धरासुर। वातापीबलनाशाय नमस्ते कुम्भयोनये ॥१३॥ लोपामुद्रापते श्रीमन्मित्रावरुणसम्भव। सर्वविद्यानिधेऽगस्त्य शास्त्रयोने नमोऽस्तु ते ॥१४॥ यस्योदये प्रसन्नानि भवन्त्गुज्ज्वलभांज्यपि। तोयानि तोयराशीनां तस्मै तुभ्यं नमोऽस्तु ते॥ काशपुष्पविकासाय लंकावासन्रियाय च। जटामण्डलयुक्त्ताय सशिष्याय नमोडस्तु ते ॥१६॥ जय सर्वामरस्तव्य गुणराशे महामुने। वरिष्ठाय च पूज्याय सस्त्रीकाय नमोऽस्तु ते ॥१७॥ प्रसाद: क्रियतां स्वामिन्वयं त्वां शरणं गताः । दुस्तराच्छैलजाद्दुखात्पीडिताः परमद्युते ॥१८॥ इत्येवं संस्तृतोऽगस्त्यो मुनिः परमधार्मिकः । प्राह प्रसन्नया वाचा विहसन् द्विजसत्तमः ॥१९॥ मुनिरुवाच भवन्तः परमश्रेष्टा देवास्त्रिभुवनंश्वराः । लोकपाला महात्मानो निग्रहानुग्रहक्षमाः ॥२०॥ योऽमरावत्यधीशानः कुलिशं यस्य चायुधम् । सिद्धयष्टकं च यद्द्वारि सशक्रो मर्तां पतिः ॥२१॥ वैश्वानरः कृशानुहिं हव्यकव्यवहोऽनिशम् । मुख सर्वामराणां हि सोडग्निः कि तस्य दुष्करम् ॥ रक्षोगणाधिपो भीमः सर्वेषां कर्मसाक्षिकः । दण्डव्यग्रकरो देवः कि तस्यासुकरं सुराः ॥२३॥ तथापि यदि देवेशाः कायं मच्छक्तिसिद्धिभृत् । अस्ति चेदुच्यतां देवाः करिप्यामि न संशयः २४॥ एवं मुनिवरेणोक्तं निशम्य विबुधर्षभाः । प्रतीताः प्रणंयोद्विग्नाः कार्य निजगदुर्निजम् ॥२५॥ महर्षे विध्यगिरिणा निरुद्धोऽर्कविनिर्गमः । त्रैलोक्यं तेन संविष्टं हाहाभूतमचेतनम् ॥२६॥ तद्वुद्धिं स्तम्भय मुने निजया तपसः श्रिया। भवतस्तेजसाऽगस्त्य नूनं नम्रो भविष्यति ॥ एतदेवास्मदीयं च कार्य कर्तव्यमस्ति हि ॥२७॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे षष्टोऽध्यायः ॥६॥ अथ सप्तमोऽध्यायः सूत उवाच इति वाक्यं समाकर्ण्य विबुधानां द्विजोत्तमः । करिष्ये कार्यमेतद्वँ प्रत्युवाच ततो मुनिः ॥१॥ अंगीकृते तदा कार्ये मुनिना कुम्भजन्मना । देवाः प्रमुद्रिताः सर्वे बभूवुर्द्विजसत्तमाः ॥२॥
Page 721
४६ श्रीमद्वेवीभागवते महापुराणे दशमस्कन्धे अध्याय: ७ ७२१ ते देवाः स्वानि धिष्ण्यानि भेजिरे मुनिवाक्यतः । पत्नीं मुनिवरः श्रीमानुवाच नृपकन्यकाम् ॥३॥ अये नृपसुते प्राप्तो विध्नोऽनर्थस्य कारकः । भानुमार्गनिरोधेन कृतो बिंध्यमहीभृता ॥४॥ आ ज्ञातं कारणं तच्च स्मृतं वाक्यं पुरातनम् । काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदशिभि: ॥५॥ अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः । किन्तु विध्ना भविष्यात काश्यां निवसतां सताम्॥ सोऽन्तरायो मया प्राप्तः काश्यां निवसता प्रिये। इत्येवमुक्त्वा भारयां तां मुनिः परमतापनः ॥७॥। मणिकण्यां समाप्लुत्य दृष्टा विश्वेश्वरं विभुम । दंडपाणि समभ्यर्च्य कालराजं समागतः ॥८।। कालराज महाबाहो भक्तानां भयहारक। कथं दूरयसे पुर्याः काशीपुर्यास्त्वमीश्वरः ॥९॥ त्वं काशीवासचिघ्नानां नाशको भक्तरक्षकः । मां कि दूरयसे स्वामिन् भक्तार्तिविनिबारक॥१॥ परापवादो नोक्तो मे न पैशुन्यं न चानृतम् । केन कर्मविपाकेन काश्या दूरं करोषि माम् ॥११॥ एवं प्रार्थ्य च तं कालनाथं कुम्भोद्द्वो मुनिः। जगाम साक्षिविघ्नेशं सर्वविघ्ननिवारणम् ॥१२॥ तं दृष्टाऽभ्यर्च्य संप्रार्थ्य ततः पुर्यो विनिर्गतः । लोपामुद्रापतिः श्रीमानगस्त्यो दक्षिणां दिशम् १३। काशीविरहसंतप्तो महाभाग्यनिधिर्मुनिः । संस्मृत्यानुक्षणं काशीं जगाम सह भार्यया ॥१४॥। तपोयानमिवारुह्य निमिषार्धेन वै मुनिः । अग्रे ददर्श तं विंध्यं रुद्धांबरमथोन्नतम् ॥१५॥ चकंपे चाचलस्तूर्ण दृष्टवाग्रे स्थितं मुनिम् । गिरिः खर्वतरो भूत्वा विवक्षुरवनीमिव ॥१६॥ दंडवत्पतितो भूमौ साष्टांगं भक्तिभावतः । तं दृष्टा नम्रशिखरं विध्यं नाम महागिरिम् ॥१७॥ प्रसन्नवदनोऽगस्त्यो मुनिर्बिन्ध्यमथाश्रवीत् । वत्सैवं तिष्ठ तावत्वं याबदागम्यते नया ।१८।।: अशक्तोऽहं गंडशैलारोहणे तब पुत्रक। एवमुक्त्वा मुनिर्याम्यदिशं प्रति गमोत्सुकः ।१९॥ आरुह्य तस्य शिखराण्यवारुहदनुक्रमात्। गतो याम्यदिशं चापि श्रीशैलं प्रेक्ष्य वर्त्मनि ॥२०॥ मलयाचलमासाद्य तत्राश्रमपरोऽभवत् । साऽपि देवी तत्र विध्यमागता मनुपूजिता ।२१॥ लोकेषु प्रथिता विन्यवासिनीति च शौनक। सूत उवाच एतच्चरित्रं परमं शत्रुनाशनमुत्तमम् ।२२।। अगस्त्यविध्यनगयोराख्यानं पापनाशनम् । राज्ञां विजयदं तच्च द्विजानां ज्ञानवर्धनम् ॥२३॥ वैश्यानां धान्यधनदं शद्राणां सुखदं तथा। धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात्॥२४॥ कामानवाप्नुयात्कामी भक्त्या चास्य सकृच्छ्रवात्। एवं स्वायंभुवमनुर्देवीमाराध्य भक्तितः ।२५।। लेभे राज्यं धरायाश्च निजमन्वंतराश्रयम्। इत्येतद्वणितं सौम्य मया मन्वंतराश्रितम् ॥ आद्यं चरित्रं श्रीदेव्याः कि पुनः कथयामि ते ॥२६॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे सप्तमोऽध्यायः ॥। ७॥
Page 722
४२२ श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: ८
अथ अष्टमोऽध्यायः
शोनक उवाच आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः । अन्येषामुन्दवं ब्रूहि मनूनां दिव्यतेजसाम्॥१॥ सूत उवाच एवमाद्यस्य चोत्पत्ति श्रुत्वा स्वायंभुवस्य हि। अन्येषां क्रमशस्तेषां संभूर्ति परिपृच्छति ॥२।। नारदः परभो ज्ञानी देवीतत्त्वार्थकोविदः ।
नारद उवाच मननां मे समाख्याहि सूत्पत्ति च सनातन ॥३।। श्रीनारायण उवाच प्रथमोऽयं मनुः स्वायंभुव उक्तो महामुने। देव्याराघनतो येन प्राप्तं राज्यमकंटकम् ॥४॥ प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ। राज्यपालनकर्त्तारौ विख्यातौ वसुधातले।५॥ द्वितीयश्च मनुः स्वारोचिप उक्तो मनोषिभिः । प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः ॥६॥ स स्वारोचिषनामापि कालिंदीकूलतो मनुः । निवासं कल्पयामास सर्वसत्त्दप्रियंकरः ॥७॥ जीर्णपत्राशनो भत्वा तपः कर्तुमनुव्रतः। देव्या मूर्ति मृन्मयों च पूजयामास भक्तितः ॥८।। एवं द्वादश वर्पाणि वनस्थस्य तपस्यतः । देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः ।।९।। ततः प्रसन्ना देवेशी म्तवराजेन सुत्रता। ददौ स्वारोचिषायैव सर्वमन्वंतराश्रयम् ॥१०॥ आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् । एवं स्वारोचिपमनुस्तारिण्याराधनात्तत: ॥११॥। आधिपत्यं च लेभे स सर्वारातिविवर्जितम् । धर्म संस्थाप्य विधिवद्राज्यं पुत्रैः समं विभुः ॥१२॥ भुक्त्वा जगाम त्वर्लोकं निजमन्वन्तराश्रयात्। तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ॥१३॥ गगाकूले तपस्तप्त्वा वाग्भवं संजपबरहः । वर्पाणि त्रीण्युपवसन्देव्यनुग्रहमाविशत् ॥१४॥ स्तुत्वा देवीं स्तोनवरैर्भक्तिभावितमानसः । राज्य निप्कंटकं लेभे संतर्ति चिरकालिकीम् ॥१५॥ राज्योत्थान्यानि सौस्यानि मुक्त्वा धर्मन्युगस्य च । सोउप्याजगाम पदवीं राजरपिवरभाविताम् १६।। चतुर्थस्तामनो नाम प्रियव्रतमुतो मनुः । नर्मदादक्षिणे कूले समाराध्य जगन्मयीम् ॥१॥॥ महेश्री कामराजकटजापपरायण: । वासंते शारदे काले नवरातमपर्यथा ।१८॥। तोकयामास देवेशी जलजाक्षीमनपमाम्। तस्याः प्रसादमासाद् नत्वा स्तोत्रैरनुत्तमैः॥१९॥ अकंटकं महद्राज्यं बुभुजे गतसाध्वसः । पुत्रान्जलोद्वताञ्छूरान्दश वीर्यनिकेतनान् ॥२०॥ उत्पाद्य निजभार्याया जगामाम्बरमुत्तमम् । पंचमो मनुराख्यातो रैवतस्तामसानुजः ॥२१॥
Page 723
श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: ९ ७२३ कालिंदीकूलमाश्रित्य जजाप कामसंज्ञकम्। बीजं परमवाग्दर्पदायकं साधकाश्रयम् ॥२२॥ एतदाराधनादाप स्वाराज्यद्धिमनुत्तमाम् । बलमप्रहतं लोके सर्वसिद्धि+धायकम् ॥२३॥। संतति चिरकालीनां पुत्रपौत्रमयीं शुभाम्। धर्मान्व्यस्य व्यवस्थाय विषयानुपभुज्य च।। जगामाप्रतिमः शूरो महेंद्रालयमुत्तमम् ॥२४॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धेऽष्टमोऽध्यायः ।।८।। अथ नवमोऽध्यायः श्रीनारायण उवाच अथातः श्रूयतां चित्रं देवीमाहात्म्यमुत्तमम् । अंगपुत्रेण मनुना यथाऽऽसं राज्यमुत्तमम् ॥१॥ अंगस्य राज्ञः पुत्रोऽभूच्चाक्षुषो मनुरुत्तमः । षष्ठः सुपुलहं नाम ब्रह्मषि शरणं गतः ॥२॥ ब्रह्मषें त्वामहं प्राप्तः शरणं प्रणतातिहन्। शाधि मां किकरं स्व्ामिन् यनाहं प्राप्तुयां श्रियम् ॥ मेदिन्याश्राधिपत्यं मे स्याद्ययावदखंडितम् । अव्याहतं भुजबलं शस्त्रास्त्रनिपुणं क्षमम् ॥४।। संततिश्चिरकालीनाऽप्यखंडं वय उत्तमम्। अंतेऽपवर्गलाभश्च स्यात्तयोपदिशाद् मे ॥५॥ इत्येवं वचनं तस्य मनो: कर्णपथेऽभवत्। प्रत्युवाच मुनिः श्रोमान्देव्याः.संराधनं परम् ॥६॥ राजन्नाकर्णय वचो मम श्रोत्रसुखं महत्। शिवामाराधयाद्य त्वं तत्प्रसादादिदं भवेत्॥७।। चाक्षुष उवाच कीदृगाराधनं देव्यास्तृस्याः परमपावनम्। केनाकारेण कर्तव्यं कारुण्याद्वक्तुमर्हसि ।८॥ मुनिरुवाच राजन्नाकर्ण्यतां देव्याः पूजनं परमव्ययम्। वाग्भवं बीजमव्यक्तं सञ्जप्यमनिशं तथा॥९॥ त्रिकालं सञ्जपन्मर्त्यो भुक्तिमुक्ती लभेत्तु हि। न बीजं वाग्नवादन्यदस्ति राजन्यनन्दन ॥१०॥ जपात्सिद्धिकरं वीर्यबलवृद्धिकरं परम्। एतस्य जापात्पाझोऽपि सृष्टिकर्ता महाबलः॥११॥ विष्णुर्यज्जपतः सृष्टिपालकः परिकोर्तितः । महेश्वरोऽपि संहर्ता यञ्जपादभवन्नृप ॥१२॥ लोकपालास्तथान्येऽपि नियहानुग्रहक्षमाः । यदाश्रयादभूवंस्ते बलवीर्यमदोद्धताः ॥१३।। एवं त्वमपि राजन्य महेशी जगदम्बिकाम् । समाराध्य महर्षि च लप्स्यसेऽचिरकालत: ॥१४॥ एवं स मुनिवर्येण पुलहेन प्रबोघितः । अंगपुत्रस्तपस्तप्तुं जगाम विरजां नदीम् ॥१५॥ स च तेपे तपस्तीव्रं वाग्भवस्य जपे रतः । बोजस्य पृथिवीपालः शोर्णपर्णाशनो विभुः ॥१६॥ प्रथमेऽब्दे पल्लवाशो द्वितीये तोयभक्षणः । तृतीयेऽब्दे पवनभुक्तस्थौ स्थाणुरिवाचलः॥१७॥ एवं द्वादश वर्षाणि त्यक्ताहारस्य भूभुजः । वाग्भवं जपतो नित्यं मतिरासीच्छुभान्विता ॥१८।।
Page 724
७२४ श्रीमदेवीभागवते महापुराणे दशमस्कन्धे अध्याय: १० तथा च देव्या: परमं मन्त्रं संजपतो रहः। प्रादुरासीज्जगन्माता साक्षाच्छ्रीपरमेश्वरी ॥१९। तेजोमयी दुराधर्षा सर्वदेवमयीश्वरी। उवाचांगतनूजं तं प्रसन्ना ललिताक्षरम् ॥२॥ देव्युवाच पृथिवीपाल ते यत्स्याच्चितितं परमं वरम्। तद्ब्रृहि संप्रदास्यामि तपसा ते सुतोषिता ॥२१॥ चाक्षुष उवाच जानासि देवदेवेशि यत्प्राथ्यं मनसेप्सितम् । अन्तर्यामिस्वरूपेण तत्सवं देवपूजिते ।।२२।। तथापि मम भाग्येन जातं यत्तव दर्शनम् । ब्रवीमि देव मे देहि राज्यं राजन्यसत्तमम् ॥२३॥ श्रीदेव्युवाच दत्तं मन्वन्तरस्यास्य राज्यं राजन्यसत्तम । पुत्रा महाबलास्ते च भविष्यन्ति गुणाधिकाः ॥२४॥ राज्यं निष्कण्टकं भावि मोक्षोऽन्ते चापि निश्चितः। एवं दत्त्वा वरं देवी मनवे वरमुस्तमम् ॥२५॥ जगामादर्शनं सद्यस्तेत भक्त्या च संस्तुता । सोऽपि राजा मनुः षकः प्रसादात्तु तदाश्रयात्॥ बभूव मनुमान्योऽसी सार्वभोमसुखैर्वृतः । पुत्रास्तस्य बलोद्युक्ताः कार्यभारसहादृताः ॥२७॥ देवीभक्ताश्च शूराश्च महाबलपराक्रमाः । अन्यत्र माननीयाश्र महाराज्यसुखास्पदाः ॥२८॥ एवं च चाक्षुषमनुर्देव्याराधनतः प्रभुः । बभूव मनुवर्योऽसी जगामांते शिवापदम् ॥२९॥ इति श्रीदेवीमायवते महापुराणे दशमस्कन्धे देवीचरित्रे नवमोऽध्यायः ॥ ९॥ अथ दशमोऽध्यायः श्रीनारायण उवाच ससमो मनुराख्यातो मनुर्वेवस्वतः प्रभुः । श्राद्धदेवः परानन्दभोक्ता मान्यस्तु भूभुजाम् ॥१॥ स च वैवस्वतमनुः परदेव्याः प्रसादतः । तथा तत्तपसा चैव जातो मन्वन्तराषिपः ॥२॥ भह्टमो मनुराख्यातः सार्वणिः प्रथितः क्षिती । स जन्मांतर आराध्य देवीं तद्वरलाभतः ॥३॥ जातो मन्बन्तरपतिः सर्वराजन्यपूजितः । महापराक्रमो धीरो देवीभनिपरायणः ॥४।। नारद उवाच कथं जन्मातरे तेन मनुनाऽडराधनं कृतम् । देव्याः पृथिव्युद्द्वायास्तन्ममाख्यातुमर्हसि ॥५॥ श्रीनारायण उवाच मंत्रबंशसमुद्धतो राजा स्वारोचिषेऽन्तरे। सुरथो नाम विख्यातो महाबलपराक्रमः ॥६॥ गुणप्राही बनुर्धारी मान्य: श्रेष्ठः कविः कृती । धनसंग्रहकर्ता च दाता याचकमण्डले॥७॥
Page 725
श्रीमद्ेवीभागवते महापुराणे दशमस्कन्धे अध्याय: ११ ७२५ अरीणां मर्दनो मानी सर्वास्त्रकुशलो बली। तस्यैकदा बभूवुस्ते कोलाविध्वंसिनो नृपाः ।८।। शत्रवः सैन्यसहिताः परिवार्येनमूर्जिताः । रुरुधुर्नगरीं तस्य राज्ञो मानधनस्य हि॥९॥ तदा स सुरथो नाम राजा सैन्यसमावृतः । निर्ययो नगरात्स्वीयात्सर्वशत्रुनिबर्हणः ॥१०॥ वदा स समरे राजा सुरथः शत्रुभिजितः । अमात्यैमंत्रिभिश्चैव तस्य कोशगतं धनम् ॥११॥ हतं सर्वमशेषेण तदाऽतप्यत भूमिपः । निष्काशितश्र नगरात्स राजा परमद्युतिः ॥१२।। जगामाश्वमथारुह्य मृगयामिषतो वनम् । एकाकी विजनेऽरण्ये बभ्रामोद्भ्रांतमानसः ॥१३॥ मुने: कस्यचिदागत्य स्वाश्रमं शांतमानसः । प्रशांतजंतुसंयुक्तं मुनिशिष्यगणैर्युतम् ॥१४॥ उवास कंचित्कालं स राजा परमशोभने। आश्रमे मुनिवर्यस्य दीर्घदृष्टेः सुमेघसः ॥१५॥ एकदा स महीपालो मुनि पूजावसानके। काले गत्वा प्रणम्याशु पप्रच्छ विनयान्वितः ॥१६।। मुने मम मनोदुःखं बाधते चाघिसंभवम्। ज्ञाततत्त्वस्य भूदेव निष्प्रज्ञस्य च संततम् ॥१७॥। शत्रुभिनिर्जितस्यापि हृतराज्यस्य सर्वशः। तथापि तेषां मनसि ममत्वं जायते स्फुटम् ॥१८॥ किं करोमि क्व गच्छामि कथं शर्म लभे मुने। त्वदनुग्रहमाशासे वद वेदविदां वर॥१९॥ मुनिरुवाच आकर्णय महीपाल महाश्चर्यकरं परम्। देवीमाहात्म्यमतुलं सर्वकामप्रदं परम्॥२०॥ जगन्मयी महामाया विष्णुब्रह्महरोद्दवा। सा बलादपहृत्यैव जंतूनां मानसानि हि ॥२१॥ मोहाय प्रतिसंयच्छेदिति जानीहि भूमिप। सा सृजत्यखिलं विश्वं सा पालयति सर्वदा ॥२२।। संहारे हररूपेण संहरत्येव' भूमिप। कामदात्री महामाया कालरात्रिर्दुरत्यया ॥२३॥ विश्वसंहारिणी काली कमला कमलालया। तस्यां सवं जगज्जातं तस्यां विश्वं प्रतिष्ठितम् ।२४॥ लयमेष्यति तस्यां च तस्मात्सैव परात्परा। तस्या देव्या: प्रसादश्च यस्योपरि भवेन्नृम ॥ स एव मोहमत्येति नान्यथा धरणोपते ॥२५॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे दशमोऽध्यायः ॥१०॥ अथ एकादशोऽध्याय:
राजोवाच का सादेवी त्वया प्रोक्ता ब्रूहि कालविदां वर। का मोहयति सत्वानि कारणं कि भवेद्द्विज ॥१॥ कस्मा दुत्पद्यते देवो किरूपा सा किमात्मिका। सर्वमाख्याहि भूदेव कृतया मम सर्वतः ॥२॥
Page 726
०२१ श्रीमद्देवीभागवते महापुराण दशमस्कन्ध अध्याय: ११ मुनिरुवाच राजन्देव्याः स्वरूपं ते वर्णयामि निशामय। यथा चोत्पतिता देवी येन वा सा जगन्मयी॥३॥ यदा नारायणो देवो विश्वं संहृत्य योगराट्। आस्तीर्य शेषं भगवान्समुद्रे निद्रितोऽभवत् ॥४॥ तदा प्रस्वापवशगो देवदेवो जनार्दनः। तत्कर्णमलसंजातौ दानवौ मधुकैटभौ॥५॥ ब्रह्माणं हंतुमुद्युक्तौ दानवौ घोररूपिणौ। तदा कमलजो देवो दृष्टा तो मधुकैटभौ ॥६॥ निद्रितं देवदेवेशं चिन्तामाप दुरत्ययाम्। निद्रितो भगवानीशो दानवी च दुरासदौ।७॥। किं करोमि क्व गच्छामि कथं शर्म लभे ह्यहम्। एवं चिंतयजस्तस्य पद्मयोनेर्महात्मनः ।।८।। बुद्धिः प्रादूरभूत्तात तदा कार्यप्रसाधिनी। यस्या वशंगतो देवो निद्रितो भगवान्हरिः ॥९॥ तां देवीं शरणं यामि निद्रां सर्वप्रसूतिकाम् । ब्रह्मोवाच देवि देवि जगद्धात्रि भक्ताभीष्टफलप्रदे ॥१०॥। जगन्माये महामाये समुद्रशयने शिवे। त्वदाज्ञावशगाः सवें स्वस्वकार्यविधायिनः ॥११।। कालरात्रिर्महारात्रिर्मोह रात्रिरम दोत्कटा । व्यापिनी वशगा मान्या महानंदैकशेवधिः ॥१२॥ महनीया महाराध्या माया मधुमती मही। परापराणां सर्वेषां परमा त्वं प्रकीर्तिता ॥१३॥ लज्जा पुष्टिः क्षमा कीर्तिः कान्तिः कारण्यविग्रहा। कमनीया जगद्वंध्ा जाग्रदादिस्वरूपिणी॥१४॥ परमा परमेशानी परानंदपरायणा । एकाऽप्येकस्वरूपा च सद्वितीया द्वयात्मिका ॥१५॥ त्रयी त्रिवर्गनिलया तुर्या तुर्यपदात्मिका। पंचमी पंचभूतेशी षष्ठी षछ्ठेश्वरीति च॥१६॥ सप्तमी सप्तवारेशी सप्तसप्तवरप्रदा। अष्टमी वसुनाथा च नवग्रहमयीश्वरी॥१७॥ नवरागकला रम्या नवसंख्या नवेश्वरी। दशमी दशदिक्पूज्या दशाशाव्यापिनी रमा ॥१८॥ एकादशात्मिका चैकादशरुद्रनिषेविता। एकादशीतिथिप्रीता एकादशगणाधिपा ॥१९॥ द्वादशी द्वादशभुजा द्वादशादित्यजन्मभूः । त्रयोदशात्मिका देवी त्रयोदशगणप्रिया ॥२०॥ त्रयोदशाभिधा भिन्ना विश्वेदेवाधिदेवता। चतुर्दशेंद्रवरदा चतुर्दशमनुप्रसूः॥२१॥ पंचाधिकदशीवेद्या पंचाधिकदशीतिथिः। षोडशी षोडशभुजा षोडशेन्दुकलामयी ॥२२।। षोडशात्मकचंद्रांशुव्याप्तदिव्यकलेवरा । एवंरूपाऽसि देवेशि निर्गुणे तामसोदये ।२३॥ त्वया गृहीतो भगवान्देवदेवो रमापतिः । एतौ दुरासदौ दैत्यौ. विक्रांतौ मधुकैटभौ ॥२४॥ एतयोश्र वधार्थाय देवेशं प्रतिबोधय। मुनिरुवाच एवं स्तुता भगवती तामसी भगवत्प्रिया ॥२५॥
Page 727
श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: १२ ७२७ देवदेवं तदा त्यक्त्वा मोहयामास दानवौ। तदैव भगवान्विष्णुः परमात्मा जगत्पतिः ॥२६॥ प्रबोधमाप देवेशो दद्शे दानवोत्तमौ। तदा तौ दानवौ घोरौ दृष्टा तं मधुसूदनम् ॥२७॥ युद्धाय कृतसकल्पो जग्मतुः सन्निधिं हरे: । युयुधे च ततस्ताभ्यां भगवान्मधुसूदनः ॥२८॥ पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तौ तदाऽतिबलोन्मत्तौ जगन्मायाविमोहितौ ॥२९॥ व्रियतां वर इत्येवमूचतुः परमेश्वरम्। एवं तयोर्वचः श्रुत्वा भगवानादिपूरुषः ॥३०॥ बब्रे वध्यावुभौ मेऽद्य भवेतामिति निश्चितम्। तौ तदाऽतिबलौ देवं पुनरेवोचतुर्हरिम् ॥३१॥ आवा जहि न यत्रोर्वी पयसा च परिप्लुता। तथेत्युक्त्वा भगवता गदाशंखभृता नृप ॥३२।। कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः । एवं देवी समुत्पन्ना ब्रह्मणा संस्तुता नृप ।३३।। महाकाली महाराज सर्वयोगेश्वरेश्वरी। महालक्ष्म्यास्तथोत्पत्ति निशामय महीपते ॥३४॥ इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे देवोमाहात्म्ये एकादशोऽध्यायः ॥११॥ अथ द्वादशोऽध्यायः मुनिरुवाच महिषीगर्भसंभूतो महाबलपराक्रमः । देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥१॥ सर्वेषां लोकपालानामधिकारान्महासुरः। बलान्निजित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥२॥ ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः । ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥३॥ यत्रोत्तमौ देवदेवौ संस्थितो शंकराच्युतौ। वृत्तांतं कथयामासुर्महिषस्य दुरात्मनः ॥४॥ देवानां चैव सर्वेषां स्थानानि तरसाऽसुरः । विनिजित्य स्वयं भुंक्ते बलवीर्यमदोद्धतः ।५।। महिषासुरनामाऽसौ दुष्टदैत्योऽमरेश्वरौ। वधोपायश्र तस्याशु चिंत्यतामसुरार्दनौ ॥६॥ एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः । चकार कोपं सुबहु तथा शंकरपझ्मजौ।७! एवं कोपयुतस्यास्य हरेरास्यान्महीपते। तेजः प्रादुरभूदिव्यं सहस्रार्कसमद्युति ॥l८।l अथानुक्रमतस्तेजः सर्वेषां त्रिदिवोकसाम्। शरीरादुन्भवं प्राप हर्षयद्विबुधाधिपान् ।९। यदभूच्छंभुजं तेजो मुखमस्योदपद्यत। केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥१०॥ सौम्येन च स्तनो जातौ माहेंद्रेण च मध्यमः । वारुणेन ततो भूप जंधोरू संवभूवतुः ॥११॥ नितंबौ तेजसा भूमे: पादो ब्राह्मेण तेजसा। पादांगुल्यो भानवेन वासवेन करांगुली ।१२।। कोबेरेण तथा नासा दंताः संजज्ञिरे तदा। प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥१३॥ पावकेन च सआ्ञतं लोचनत्रितयं शुभम्। सांघ्येन तेजसा जाते भ्रुक्ुटची तेजसां निधी॥१४॥ कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप। सर्वेषां तेजसा देवी जाता महिषनर्दिनी ॥१५॥
Page 728
७२८ श्रीम देवीभागवते महापुराणे दशमस्कन्धे अध्याय: १२ शूलं ददो शिवो विष्णुश्चक्रं शंखं च पाशभृत् । हुताशनो ददौ शक्ति मारुतश्रापसायको ॥१६॥ वज्ररं महेंद्रः प्रददौ घंटां चैरावतान्गजात्। कालदंडं यमो ब्रह्मा चाक्षमालाकमंडलू ॥१७॥ दिवाकरो रश्मिमालां रोमकूपेषु संददौ। काल: खड्गं तथा चर्म निर्मलं वसुधाधिप॥१८। समुद्रो निर्मलं हारमजरे नांबरे नृप। चूडामणि कुंडले च कटकानि तथांगदे॥१९॥ अर्धचंद्रं निर्मलं च नूपुराणि तथा ददौ। ग्रैवेयकं भूषणं च तस्यै देव्यँ मुदान्वितः ॥२०॥ विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते। हिमवान्वाहनं सिंहं रत्नानि विविधानि च ।२१।। पानपात्रं सुरापूर्ण ददौ तस्यै धनाधिपः । शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥२२॥ अन्यैरशेषविबुधैर्मानिता सा जगन्मयी। तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥२३॥ नानास्तोत्रमहेशानी जगदुद्गवकारिणीम् । तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥२४।। महिषस्य वधार्थाय महानादं चकार ह। तेन नादेन महिषश्रकितोऽभूद्धरापते ॥२५॥ आससाद जगद्धात्रीं सर्वसैन्यसमावृतः । ततः स युयुधे देव्या महिषाख्यो महासुरः ॥२६॥ शस्रास्त्ररबहुधा क्षिप्तः पूरयन्नम्बरांतरम्। चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥२७॥ बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः । एतैश्रान्यैरसंख्यातैः संग्रामांतकसन्निभैः ॥२८॥ योधै: परिवृतो वीरो महिषो दानवोत्तमः । ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥२९॥ जघान योधान्समरे देवी महिपमाश्रितान्। ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्छितः ॥३०॥ आससाद तदा देवीं तूर्ण मायाविशारदः। रूपांतराणि संभेजे मायया दानवेश्वरः ॥३१॥ तानि तान्यस्य रूपाणि नाशयामास सा तदा। ततोऽन्ते महिषं रूपं विभ्राणममरार्दनम् ॥३२॥ पाशेन बद्ध्वा सुदृढं छित्वा खड्गेन तच्छिरः। पातयामास महिषं देवी देवगणांतकम् ॥३३॥ हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश। तुष्टवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥३४॥ एवं लक्ष्मीः समुत्पत्रा महिषासुरमर्दिनी। राजञछृणु सरस्वत्याःप्रादुर्भावो यथाश्भवत् ३५॥ एकदा शुंभनामाऽऽसीद्दैत्यो मदबलोत्कटः । निशुभश्चापि तद्भ्राता महाबलपराक्रमः ॥३६॥ तेन संपीडिता देवाः सर्वे भ्रष्टश्रियो नृप। हिमवंतमथासाद्य देवीं तुष्टुवुरादरात् ॥३७॥
देवेशि देवा ऊचु: जय भक्तानामार्तिनाशनकोविदे। दानवांतकरूपे त्वमजरामरणेऽनघे ॥३८॥ देवेशि भक्तिसुलभे महाबलपराक्रमे। विष्णुशंकरव्रह्मादिस्वरूपेऽनंतविक्रमे ।।३९।। सृष्टिस्थितिकरे नाशकारिके कांतिदायिनि । महातांडवसुप्रीते मोददायिनि माघवि ॥४०॥ प्रसीद देवदेवेशि प्रसीदकरुणानिधे। निशुंभशुंभसंभूतभयापारांबुवारिधे: ।।४१। उद्धरास्मान्प्रपन्नार्तिनाशिके शरणागतान्। एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥४२॥
Page 729
श्रीमद्देवीमागवते महापुराणे दशमस्कन्धे अध्याय: १२ ७२९ प्रसन्ना गिरिजा प्राह ब्रत स्तवनकारणम्। एतस्मिन्नंतरे तस्याः कोशरूपात्समुत्थिता ॥४३॥ कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत् । प्रसन्नाऽहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥४४॥ त्रियतां वर इत्युक्त्ते देवाः संवव्रिरे वरम् । शुंभनामाऽवरो भ्राता निशुंभस्तस्य विश्रुतः ॥४५॥ त्रैलोक्यमोजसाSSक्रांतं दैत्येन बलशालिना। तद्वधश्चित्यतां देवि दुरात्मा दानवेश्वरः ॥४६॥ बाधते सततं देवि तिरस्कृत्य निजौजसा। श्रीदेव्युवाच देवशत्रुं पातयिष्ये निशुंभं शुंभमेव च।४७॥ स्वस्थास्तिष्ठंतु भद्रं वः कंटकं नाशयामि वः । इत्युक्त्वा देवदेवेशी देवान्सेंद्रान्दयामयी ॥४८। जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम्। देवाः समागता हृष्टा सुवर्णाद्रिगुहां शुभाम् ॥४९।। चंडमुंडी पश्यतःस्म भृत्यौ शुंभनिशुंभयोः । दृष्टातां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम् ॥५०॥ कथयामासतू राज्ञे भृत्यौ तौ चंडमुंडको। देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद॥५१॥ अपूर्वा कामिनी दृष्टा चावाम्यां रिपुमर्दन। तस्याः संभोगयोग्यत्वमस्त्येव तब सांप्रतम् ॥५२॥ तां समानय चार्वगीं भुक्ष्व सौख्यसमन्वितः। तादृशी नासुरी नारी न गंधर्वी न दानवी ॥५३। न मानवी नापि देवी यादृशी सा मनोहरा। एवं भृत्यवचः श्रुत्वा शुम्भ: परबलार्दनः ॥५४॥ दूतं संप्रेषयामास सुग्रीवं नाम दानवम्। स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥५५॥ वृत्तांतं कथयामास देव्यै शुम्भस्य यद्वचः । देवि शुंभासुरो नाम त्रैलोक्यविजयी प्रभुः ॥५६॥ सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम्। तदुक्त शृणुं मे देवि रत्नभोक्ताऽहमव्ययः ॥५७॥। स्वं चापि रत्नभूता भज मां चारुलोचने। सर्वेषु यानि रत्नानि देवासुरनरेषु च ।५८।। तानि मय्येव सुभगे भज मां कामजै रसैः। देवयुवाच सत्यं वदसि हे दूत दैत्यराजप्रियंकर।।५९।। प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् । भवेत्तां शृणु मे दूत या प्रतिज्ञा यथा कृता॥६०॥ यो मे दर्प विधुनुते यो मे बलमपोहति। यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥६१॥ तत एनां प्रतिज्ञां मे सत्यां कृत्वाऽसुरेश्वरः। गृह्मातु पाणि तरसा तस्याशक्यं किमत्र हि ॥६२॥ तस्माद्गच्छ महादूत स्वामिनं ब्रूहि चादृतः । प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥६३॥ एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः । कथयामास शुम्भाय देव्या वृत्तांतमादितः ॥६४॥ तदप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः । कोपमाहारयामास महांतं दनुजाधिपः ॥६५॥ ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः । आदिदेश श्रृणु वचो धूम्राक्ष मम चादृतः ॥६६॥
Page 730
७३० श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: १२ तां दुष्टां केशपाशेषु धृत्वाप्यानीतां मम। समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥६७॥ इत्यादेशं समासाद् दैत्येशो धूम्रलोचनः । षष्टयाऽसुराणां सहितः सहस्राणां महाबलः ॥६८॥ तुहिनाचलमासाद्य देव्याः सविधमेव सः। उच्चर्देवीं जगादाशु भज दैत्यपति शुभे ॥६९॥ शुंभं नाम महावीरयं सर्वभोगानवाप्नुहि। नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपति प्रति॥७०॥ इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा। उवाच दैत्य यद्ब्रूषे तत्सत्यं ते महाबल ॥७१॥ राजा शुंभासुरस्त्वं च कि करिष्यसि तद्वद । इत्युक्तो दैत्यपोऽधावत्तूर्ण शस्त्रसमन्वितः ॥७२।। भस्मसातं चकाराशु हुङ्कारेण महेश्वरी। ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥७३॥ दिशो दशाभजच्छ्रीघ्नं हाहाभूतमचेतनम् । तद्वृत्तांतं समाश्रुत्य स शुंभो दैत्यराड्विभु: ॥७४॥ चुकोप च महाकोपाद्भ्रुकुटीकुटिलाननः । ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥७५॥ चंडं मुंडं रक्तवीजं क्रमतः प्रषयद्विभुः । ते चगत्वा त्रयो दैत्या विक्रांता बहुविक्रमाः ॥७६॥ देवी ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात्। तानापतत एवासी जगद्धात्री मदोत्कटा।७७।। शूलं गृहीत्वा वेगेन पातयामास भूतले। ससैन्यान्निहताञछ्त्वा दैत्यांस्त्रीन्दानवेश्वरौ॥७८॥। शुंभश्चैव निशुंभश्च समाजन्मतुरोजसा। निशुभश्चव शुंभश्च कृत्वा युद्धं महोत्कटम् ॥७९।। देव्याश्च वशगौ जातो निहतौ च तयाऽसुरी। इति दैत्यवरं शुंभं घातयित्वा जगन्मयी ।।८०॥। विबुधैः संस्तुता यद्वत्साक्षाद्वागीश्वरी परा। एवं ते र वणितो राजन्प्रादुर्भावोऽतिरम्यकः ॥८१॥ काल्याश्चव महालक्ष्म्याः सरस्वत्याः क्रमेणच। परा परेश्वरी देवी जगत्सर्ग करोति च ।।८२।। पालनं चैव संहारं सैव देवी दधाति हि। तां समाश्रय देवेशी जगन्मोहनिवारिणीम् ॥८३॥ महामायां पूज्यतमां सा कार्य ते विधास्यति। नारायण उवाच इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥८४॥ देवीं जगाम शरणं सर्वकामफलप्रदाम् । निराहारो यतात्मा च तन्मनाश्च समाहितः॥८५।। देवीमूर्ति मृन्मयीं च पूजयामास भक्तितः । पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥८६॥ तदा प्रसन्ना देवेशी जगद्योनिः कृपावती। प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥८७॥ स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् । राज्यं निष्कंटकं चैव याचतिस्म महेश्वरीम् ॥८८॥ श्रीदेव्युवाच राजन्निष्कंटकं राज्यं ज्ञानं वै मोहनाशनम्। भविष्यति मया दत्तमस्मिन्नेव भवे तव ।।८९।। अन्यच्च शृणु भूपाल जन्मांतरविचेष्टितम् । भानोर्जन्म समासाद्य सार्वणिर्भविता भवान्।।९०।। तत्र मन्वंतरस्यापि पतित्वं बहुविक्रमम्। सन्तर्ति बहुलां चापि प्राप्यस्यते मद्राद्गवान्॥९१॥
Page 731
श्रीमदेवीमागवते महापुराणे दशमस्कन्धे अध्याय: १२ ७३१ एवं दत्त्वा वरं देवी जगामादर्शनं तदा। सोऽपि देव्याः प्रसादेन जातो मन्वंतराधिप: ॥९२॥ एवं ते वणितं साधो सावर्णेर्जन्म कर्म च। एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात् ।।९३।। इति श्रीदेवीभागवते महापुराणे दशमस्कन्धे देवीमाहात्म्ये द्वादशोऽध्यायः ॥१२॥ अथ त्रयोदशोऽध्यायः नारायण उवाच अथातः श्रूयतां शेषमनूनां चित्रमुद्गवम् । यस्य स्मरणमात्रेण देवीभक्ति: प्रजायते ॥१॥ आसन्ववस्वतमनोः पुत्राः षड् विमलोदयाः । करूषश्र पृषध्रश्च नाभागो दिष्ट एव च ॥२॥ शर्यातिश्च त्रिशंकुश्च सर्व एव महाबलाः । ततः षडेव ते गत्वा कालिंद्यास्तीरमुत्तमम् ॥३॥ निराहारा जितश्वासाः पूजां चक्रुस्ततः स्थिताः । देव्या महीमयीं मूर्ति विनिर्माय पृथक्पृथक् ॥४।। विविधरुपचारैस्तां पूजयामासुरादृताः । ततश्च सर्व एवते तपःसारा महाबलाः ॥५॥ जीणंपर्णाशना वायुभक्षणास्तोयजीवनाः । धूम्रपाना रश्मिपानाः क्रमशश्च बहुश्रमाः ॥६॥ ततस्तेषामादरेणाराधनं कुर्वतां सदा । विमला मतिरुत्पन्ना सर्वमोहविनाशिनी ॥७॥ बभूवुर्मनुपुत्रास्ते देवीपादैकचिन्तनाः । मत्या विमलया तेषामात्मन्येवाखिलं जगत् ॥।८।। दर्शनं संजगामाशु गादुर्बभूव तद्गुतमिवाभवत्। एवं द्वादशवर्षांते तपसा जगदीश्वरी॥९॥ देवेशी सहस्रार्कसमद्युतिः । तां दृष्टा विमलात्मानो राजपुत्राः षडेव ते ॥१०॥ तुष्टुवुर्भक्तिनम्रांतःकरणा भावसंयुताः । राजपुत्रा ऊचु: महेश्वरि जयेशानि परमे करुणालये ॥११॥ वाग्भवाराधन प्रीते वाग्भव प्रतिपादिते। क्लींकारविग्रहे देवि क्लोंकारप्रीतिदायिनि ॥१२॥ कामराजमनोमोददायिनीश्वरतोषिणि । महामाये मोदपरे महासाम्राज्यदायिनि ॥१३॥ विष्ण्वर्कहरशक्रादिस्वरूपे भोगवधिनि। एवं स्तुता भगवती राजपुत्रैर्महात्मभिः ॥१४॥ प्रसादसुमुखी देवी प्रोवाच वचनं शुभम् । श्रीदेव्युवाच राजपुत्रा महात्मानो भवंतस्तपसा युताः ॥१५। निष्कल्मषाः शुद्धधियो जाता वै मदुपासनात्। वरं मनोगतं सर्वं याचध्वमविलम्बितम् ॥१६। प्रसन्नाऽहं प्रदास्यामि युष्माकं मनसि स्थितम् ।
1
Page 732
७३२ श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: १३ राजपुत्रा ऊचुः देवि निष्कंटकं राज्यं संततिश्चिरजीविनी॥१७॥ भोगा अव्याहताः कामं यशस्तेजो मतिश्च ह। अकुंठितत्वं सर्वेषामेष एव वरो हितः ॥१८।। श्रीदेव्युवाच एवमस्तु च सर्वेषां भवतां यन्मनोगतम्। अथान्यदपि मे वाक्यं श्रूयतामादरादिदम् ॥१९॥ भवन्तं सर्व एवंते मन्वन्तरपतीश्वराः । संतत्या दीर्घया भोगैरनेकैरपि सङ्गमः ॥२०॥ अखण्डितबलैश्वर्य यशस्तेजोविभूतयः। भवितारो मत्प्रसादाद्राजपुत्राः क्रमेण तु॥२१॥ श्रीनारायण उवाच एवं तेभ्यो वरान्दत्वा भ्रामरी जगदंबिका। अंतर्धानं जगामाशु भक्त्या तैः संस्तुता सती २२।। ते राजपुत्राः सर्वेऽपि तस्मिअ्ञन्मन्यनुत्तमम् । राज्यं महीगतान्भोगान्बुभुजुश्र महौजसः ॥२३॥ संतर्ति चाखंडितां ते समुत्पाद्य महीतले। वंशं संस्थाप्य सर्वेऽपि मनूनां पतयोऽभवन् ॥२४॥ भवान्तरे क्रमेणैव सार्वणिपदभागिनः । प्रथमो दक्षसार्वणिर्नवमो मनुरीरितः ॥२५॥ अव्याहतबलो देव्याः प्रसादादभवद्विभुः । द्वितीयो मेरुसार्वणिर्दशमो भानुरेव च ॥२६॥ बभूव मन्वन्तरपो महादेवीप्रसादतः । तृतीयो मनुराख्यातः सूर्यसार्वणिनामकः ॥२७॥ एकादशो महोत्साहस्तपसा स्वेन भावितः । चतुर्थश्चंद्रसा्वणिर्द्वादशो मनुराड् विभुः ॥२८॥ देवीसमाराधनेन जातो मन्वन्तरेश्वरः । पञ्चमो रुद्रसावणिस्त्रयोदश मनुः स्मृतः ॥२९॥ महाबलो महासत्त्वो बंभूव जगदीश्वरः । षष्ठश्र विष्णुसार्वणिश्चतुर्दशमनुः कृती ॥३०॥ बभूव देवीवरतो जगतां प्रथितः प्रभुः । चतुर्दशैते मनवो महातेजोबलैर्युताः ॥३१॥ देव्याराधनतः पूज्या वंद्या लोकेषु नित्यशः । महाप्रतापिनः सर्वे भ्रामर्यास्तु प्रसादतः ॥३२॥ नारद उवाच केयं सा भ्रामरी देवी कथं जाता किमात्मिका। तदाख्यानं वद प्राज्ञ विचित्रं शोकनाशकम् ॥३३॥ न तृप्तिमधिगच्छामि पिबन्देवीकथामृतम् । अमृतं पिबतां मृत्युर्नास्य श्रवणतो यतः ॥३४॥ श्रीनारायण उवाच शृणु नारद वक्ष्यामि जगन्मातुर्विचेष्टितम्। अचिंत्याव्यक्तरूपाया विचित्रं मोक्षदायकम् ॥३५॥ यद्यच्चरित्रं श्रीदेव्यास्तत्सवं लोकहेतवे। निर्व्याजया करुणया पुत्रे मातुर्यथा तथा ॥३६॥ पूर्व दैत्यो महानासीदरुणाख्यो महाबलः । पाताले दैत्यसंस्थाने देवद्वेषी महाखलः ॥३७॥ स देवाञ्जेतुकामश्च चकार परमं तपः । पद्मसंभवमुद्दिश्य स नस्त्राता भविष्यति ॥३८॥ गत्वा हिमवतः पार्श्वे गङ्गाजलसुशीतले। पक्वपर्णाशनो योगी संनिरुध्य मरुद्गणम् ।३९/
Page 733
श्रीमद्वेवीभागवते महापुराणे दशमस्कन्धे अध्याय: १३ गायत्रीजपसंसक्त: सकामस्तमसा युतः । दशवर्षसहस्राणि ततो वारिकणाशनः॥४०।। दशवर्षसहस्राणि ततः पवनभोजनः । दशवर्षसहस्त्राणि निराहारोऽभवत्ततः॥४१।। एवं तपस्यतस्तस्य शरीरादुत्थितोऽनलः । ददाह जगतीं सर्वां तदद्द्गुतमिवाभवत् ॥४२।। किमिदं किमिदं चेति देवाः सर्वे चकम्पिरे। संत्रस्ताः सकला लोका ब्रह्माणंशरणं ययुः ॥४३॥ विज्ञापितं देववरैः श्रुत्वा तत्र चतुर्मुखः । गायत्रीसहितो हंससमारूढो ययौ मुदा ॥४४॥ प्राणमात्रावशिष्टं तं धमनीशतसंकुलम्। शुष्कोदरं क्षामगात्रं ध्यानमीलितलोचनम् ॥४५॥ ददर्श तेजया वीसं द्रितीयमिव पावकम्। वरं वरय भद्रं ते वत्स यन्मनसि स्थितम् ॥४६॥ श्रुतिमात्रेण संतोषकारकं वाकयमूचिवान्। श्रुत्वा ब्रह्ममुखाद्वाणीं सुधाधारामिवारुणः।४७।। उन्मीलिताक्षः पुरतो ददर्श जलजोन्द्वम्। गायत्रीसहितं देवं चतुर्वेदसमन्वितम्॥४८॥ अक्षस्रक्कुंडिकाहस्तं जपन्तं ब्रह्म शाश्वतम् । दृष्टोत्थाय ननामाथ स्तुत्वा च विविधैः स्तबैः॥४९॥ वरं वव्रे स्वबुद्धिस्थो मा भवेन्मृत्युरित्यपि। श्रुत्वाऽरुणवचो ब्रह्मा बोधयामास सादरम् ॥५०॥ ब्रह्मविष्णुमहेशाद्या मृत्युना कवलीकृताः। तदाऽन्येषां तु का वार्ता मरणे दानवोत्तम ॥५१॥ वरं योग्यं ततो ब्रूहि दातुं यः शक्यते मया। नात्राग्रहं प्रकुर्वन्ति बुद्धिमन्तो जना: क्वचित् ॥५२॥ इति ब्रह्मवचः श्रुत्वा पुनः प्रोवाच सादरम्। न युद्धे न च शस्त्रास्रान्न पुंभ्यो नापि योषितः ॥५३।। द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतस्तथा। भवेन्मे मृत्युरित्येव देव देहि वरं प्रभो॥५४॥ बलं च विपुलं देहि येन देवजयो भवेत्। इति तस्य वचः श्रुत्वा तथास्त्विति वचोऽब्रवीत् ॥ दत्त्वा वरं जगामाशु पद्मजः स्वं निकेतनम् । ततोऽरुणाख्यो दैत्यस्तु पातालात्स्वाश्रयस्थितान् ॥ देत्यानाकारयामास ब्रह्मणो वरदर्पितः । आगत्य तेऽसुराः सर्वे दैत्येशं तं प्रचक्रिरे ॥५७॥ दूतं च प्रेषयामासुर्युद्धार्थममरावतीम्। दूतवाक्यं तदा श्रुत्वा देवराड् भयकम्पितः ॥५८।। देवः सार्धं जगामाशु ब्रह्मणः सदनं प्रति। ब्रह्मविष्णू पुरस्कृत्य जग्मुस्ते शंकरालयम् ॥५९॥ विचारं चक्रिरे तत्र वधार्थं ते सुरद्रुहाम्। एतस्मिन्समये तत्र दैत्यसेनासमावृतः ॥६०॥ अरुणाख्यो दैत्यराजो जगामाशु त्रिविष्टपम्। सूर्येन्दुयमवह्नीनामधिकारान्पृथक् पृथक् ॥६१॥ स्वयं चकार तपसा नानारूपधरो मुने। स्वस्वस्थानच्युताः सर्वे जग्मुः कैलासमण्डलम् ६२॥ शशंसुः शंकरं देवा: स्वस्वदुःखं पृथक् पृथक्। महान्विचारस्तत्रासीतिककर्तव्यमतः परम्॥६३॥ न युद्धेन च शस्त्रास्त्रैर्न पुंभ्यो नापि योषितः । द्विपाद्भ्यो वा चतुष्पाद्भ्यो नोभयाकारतोऽपि वा ॥ मृत्युर्भवेदिति ब्रह्मा प्रोवाच वचनं यतः । इति चिंतातुराः सर्वे कर्तु किंचिन्न च क्षमाः ६५॥ एतस्मिन्समये तत्र वागभूदशरीरिणी। भजध्वं भुवनेशानीं सा वः कार्य विधारु ६६॥ गायत्रीजपसंसक्तो दैत्यराडयदि तां त्यजेत् । मृत्युयोग्यस्तदा भूयादित्युच्चस्तोषकारिणी ॥६७॥।
Page 734
'७३४ श्रीमद्देवीभागवते महापुराणे दशमस्कन्धे अध्याय: १३ श्रुत्वा दैवीं तथा वाणीं मन्त्रयामासुरादताः। बृहस्पति समाहूय वचनं प्राह देवराद्।।६८।।. गुरो गच्छ सुराणां तु कार्यार्थमसुरं प्रति। यथा भवेच्च गायत्रीत्यागस्तस्य तथा कुरु ॥६९॥ अस्माभि: परमेशानी सेव्यते ध्यानयोगतः । प्रसन्ना सा भगवती साहाय्यं ते करिष्यति॥७०।। इत्यादिश्य गुरुं सर्वे जग्मुर्जांबूनदेश्वरीम्। सास्मान्दैत्यभयत्रस्तान्यालयिष्यति शोभना ।७१।। तत्र गत्वा तपश्र्यां चक्रु: सर्वे सुनिष्ठिताः । मायाबीजजपासक्ता देवीमखपरायणाः ॥७२॥ बृहस्पतिस्तदा शीघ्रं जगामासुरसन्निधौ। आगतं मुनिवय तं पप्रच्छाथ स दैत्यराट्।७३।। मुने कुत्रागम: कस्मात्किमर्थमिति मे वद। नाहं युष्मत्पक्षपाती प्रत्युतारातिरेव च।७४।। इति तस्य वचः श्रुत्वा प्रोवाच मुनिनायकः । अस्मत्सेव्या च या देवी सा त्वया पूज्यतेऽनिशम् ॥ तस्मादस्मत्पक्षपाती न भवेस्त्वं कथं वद । इति तस्य वचः श्रुत्वा मोहितो देवमायया ॥७६॥ तत्याज परमं मन्त्रमभिमनिन सत्तम। गायत्रीत्यागतो दैत्यो निस्तेजस्को बभूव ह॥७७॥ कृतकार्यो गुरुस्तस्मात्स्थानान्निर्गतवान्पुनः । ततो वृत्तांतमखिलं कथयामास वज्त्रिणे॥७८। संतुष्टास्ते सुराः सरवें भेजिरे परमेश्वरीम्। एवं बहुगते काले कस्मिश्चित्समये मुने ॥७९॥ प्रादुरासीज्जगन्माता जगन्मंगलकारिणी। कोटिसूर्यप्रतीकाशा कोटिकन्दर्पसुन्दरा ।८०॥। चित्रानुलेपना देवी चित्रवासोयुगान्विता। विचित्रमाल्याभरणा चित्रभ्रमरमुष्टिका।।८१।। वराभयकरा शांता करुणामृतसागरा। नानाभ्रमरसंयुक्तपुष्पमालाविराजिता ।।८२।। भ्रामरीभिविचित्राभिरसंख्याभिः समावृता। भ्रमरैर्गायमानैश्च हरींकारमनुमन्वहम् ।८३। समन्ततः परिवृता कोटिकोटिभिरम्बिका। सर्वशृंगारवेषाढया सर्वेवेदप्रशंसिता ॥।८४।। सर्वात्मिका सर्वमयी सर्वमंगलरूपिणी। सर्वज्ञा सर्वजननी सर्वा सर्वेश्वरी शिवा।८५॥ दृष्टा तां तरलात्मनो देवा ब्रह्मपुरोगमाः । तुष्टवुहृंष्टमनसो विष्टरश्रवसं शिवाम्॥८६॥ देवा ऊचुः नमो देवि महाविद्ये सृष्टिस्थित्यंतकारिणि। नमः कमलपत्राक्षि सर्वाधारे नमोऽस्तु ते ॥८७॥ सविश्वतैजसप्राज्ञविराट्सूत्रात्मिके नमः । नमो व्याकृतरूपायै कूटस्थायै नमोनमः ॥८८॥ दुरगें सर्गादिरहिते दुष्टसंरोधनार्गले। निरर्गलप्रेमगम्ये भर्गे देवि नमोऽस्तु ते ॥८९।। नमः श्रीकालिके मातर्नमो नीलसरस्वति। उग्रतारे महोग्रे ते नित्यमेव नमो नमः ॥९०॥ नमः पीतांबरे देवि नमस्त्रिपुरसुन्दरि। नमो भैरवि मातंगि धूमावति नमो नमः ॥९१॥ छिन्नमस्ते नमस्तेऽस्तु क्षीरसागरकन्यके। नमः शाकम्भरि शिवे नमस्ते रक्तदन्तिके ॥९२। निशुम्भशुभ्भदलनि रक्तबीजविनाशिनि। धूम्रलोचननिर्णाशे वृत्रासुरनिर्बाहणि ॥९३॥ चण्डमुण्डप्रमथिनि दानवांतकरे शिवे। नमस्ते विजये गंगे शारदे विकचानने ॥९४॥
Page 735
श्रीमद्वेवीमागवते महापुराणे दशमस्कन्धे अध्याय: १३ ७३५ पृथ्वीरूपे दयारूपे तेजोरूपे नमो नमः । प्राणरूपे महारूपे भूतरूपे नमोऽस्तु ते ॥९५॥ विश्वमूतें दयामूतें धर्ममूतें नमो नमः । देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥९६॥ गायत्रि वरदे देवि सावित्रि च सरस्वति । नमः स्वाहे स्वधे मातर्दक्षिणे ते नमो नमः ॥९७॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः। सर्वे प्रत्यक्स्वरूपां तां भजामः परदेवताम् ॥९८॥ भ्रमरैर्वेष्टिता यस्माद्भ्रामरी सा ततः स्मृता । तस्य देव्यै नमो नित्यं नित्यमेव नमो नमः ॥९९॥ नमस्ते पारश्वयोः पृष्ठे नमस्ते पुरतोम्बिके। नम ऊर्ध्वं नमश्राधः सर्वत्रव नमो नमः ॥१००॥ कृपां कुरु महादेवि मणिद्विपाधिवासिनि । अनन्तकोटिब्रह्मांडनायिके जगदम्बिके ॥१०१॥ जय देवि जगन्मातर्जय देवि परात्परे। जय श्रीभुवनेशानि जय सर्वोत्तमोततमे ॥१०२॥ कल्याणगुणरत्नानामाकरे भुवनेश्वरि। प्रसीद परमेशानि प्रसीद जगतोरणे ॥१०३॥। -नारायण उवाच इति देववचः श्रुत्वा प्रगल्भं मधुरं वचः । उवाच जगदम्वासा मत्तकोकिलभापिणी ॥१०४॥ देव्युवाच प्रसन्नाऽहं सदा देवा वरदेशशिखामणिः । ब्रुवंतु विबुधाः सर्वे शदेव स्याच्चिकीर्षितम् १०५॥ देवीवाक्यं सुराः श्रुत्वा प्रोचुर्दुःखस्य कारणम् । दुष्टदैत्यस्य चरितं जगद्वाधाकरं परन्॥१०६॥ देवव्राह्मणवेदानां हेलनं नाशनं तथा। स्थानत्रंशं सुराणां न कथयामासुरादृताः ॥१०७॥। ब्रह्मणो वरदानं च यथावत्ते समूचिरे। श्रुत्वा देवमुखाद्वाणीं सहाभगवती तका ॥१०८ प्रेरयामास हस्तस्थान्भ्रमरान्भ्रामरी तदा। पार्श्वस्थानग्रभागस्थान्नानारूपधरांस्तदा ॥१०९।। जनयामास बहुशो यैर्व्यासं भुवनवयम । मटचीयूथवत्तेषां समुदायस्तु निर्गतः॥११०॥ तदांतरिक्षं तैर्व्यात्तमंधकारः क्षितादभूत। दिवि पर्वतश्टृंगेषु द्ुमेषु निपिनेष्वपि॥१११॥ भ्रमरा एव संजातास्तदद्द्रतमिवाभवत्। ते सर्भे दैत्यवक्षासि दारयामासुरुद्गताः ॥११२॥ नरं मधुहर यद्वन्मक्षिकाः कोपसंगुताः। उपायो न च शस्ताणां था स्त्राणां तदाइभवत्॥ न युद्धं न व संभाषा केवलं मरणं खलु। पस्मित्यस्मिस्थले ये ये तिथता दैत्या वया सथा॥। तत्रैव च तथा सर्वे मरणं प्रापुरत्याः। परस्रं समाचारो ने कम्याप्यभनलदा ॥११५॥ कणमात्रेण ते सर्वरे विनष्टा दैत्यवुंगनाः । कृततेत्यं भ्रगराः कार्यं देवीनिकटनाययुः ॥११६।। आश्चर्यमेतदाश्चर्यमिति लोकाः समूचिरे। किं चित्रं जगदम्बाया यस्या मायेयमीहृसी ११७॥ ततो देवगणा: सर्वे ब्रह्मविष्णुपुरोगमाः। निमग्ना हर्षजलधौ पूजयामासुरंबिकाम् ॥११८॥ नानोपचारैविविधैर्नानोपायनपाणयः । जयशब्दं प्रकुर्वाणा मुमुचुः सुमनांसि च ॥११९।
Page 736
७३६ श्रीमद्ेवीभागवते महापुराणे दशमस्कन्धे अध्याय: १३ दिबि दुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः । पेठुर्वेदान्मुनिश्रेष्ठा गंधर्वाद्या जगुस्तथा ॥१२०॥ मृदंगमुरजाबीणाढक्काडम रुनिःस्वनैः । घंटाशंखनिनादैश्च व्याप्तमासीज्जगत्न्नयम् ॥१२१। नानास्तोत्रैस्तदा स्तुत्वा मूर्ध्न्याधायांजलींस्तदा। जय मातर्जयेशानीत्येवं सर्वे समूचिरे ॥१२२।। ततस्तुष्टा महादेवी वरान्दत्त्वा पृथवपृथक्। स्वस्मिश्च विपुलां भक्ति प्रार्थिता तैर्ददौ च ताम् ॥ पश्यतामेव देवानामंतर्घानं गता ततः । इति ते सर्वमाख्यातं भ्रामर्याश्चरितं महत् ॥१२४॥ पठतां शृण्वतां • चंव सर्वणपप्रणाशनम्। श्रुतमाश्चर्यजनकं संसारार्णवतारकम् ॥१२५॥ एवं मनूनां सर्वेषां चरितं पापनाशनम् । देवीमाहात्म्यसंयुक्तं पठञ्शृण्वञ्शुभप्रदम् ॥१२६॥ यश्रैतत्पठते नित्यं शृणुयाद्योऽनिशं नरः । सर्वपापविनिर्मुक्तो देवीसायुज्यमाप्नुयात् ॥१२७॥ इति श्रीदेवीभागवते महापुराणे दशमस्कंधे त्रयोदशोऽध्यायः ॥१३॥ सार्धरुद्रैः पंचशत [५११।] इ्लोकैर्व्यासकृतैः शुभैः । देवीभागवतस्यास्य दशमस्कन्ध ईरित: ।।१।।
समातोऽयं दशम: स्कन्धः
Page 737
भोगणेशाय नमः
श्रीमद्देवीभागवतम्
एकादशः स्कन्ध:
अथ प्रथमोऽध्यायः नारद उवाच भगवन् भूतभव्येश नारायण सनातन। आख्यातं परमाश्रर्य देवीचारित्रमुत्तमम्॥१॥। प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम्। अधिकारातिरुक्ताऽत्र देवोपूर्णकृपावशात् ।।२।। अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा। स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥३॥ श्रीनारायण उवाच शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम्। यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥४॥ प्रानरुत्थाय कर्तव्यं यद्द्विजेन दिने दिने। तदहं संप्रवक्ष्यामि द्विजानामुपकारकम्॥५॥ उदयास्तमयं यावद्द्विजः सत्कर्मकृद्द्गवेत्। नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगहितैः ॥६॥ आत्मनश्च सहायार्थं पिता माता ने तिष्ठति। न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ।७। तम्माद्धर्म सहायार्थं नित्यं संचिनु साधनः । धर्मेणव सहायात्तु तमस्तरति दुस्तरम् ॥८॥ आचार: प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥।९॥ आचाराल्लभते चायुराचाराल्लभते प्रजाः । आचारादन्नमक्षय्यमाचारो हंति पातकम् ॥१०॥ आचार: परमो धर्मो नृणां कल्याणकारकः । इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥११॥ अज्ञानांधजनानां तु मोहितैर्भ्रामितात्मनाम्। धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥१२॥ आचारात्प्राप्यते श्रैष्ठयमाचारात्कर्म लभ्यते। कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥
Page 738
७३८ श्रीमदेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १ सर्वधर्मवरिष्ठोऽयमाचार: परमं तपः । तदेव ज्ञानमुद्िष्टं तेन सर्वं प्रसाध्यते ॥१४॥ यस्त्वाचारविहोनोऽत्र वर्तते द्विजसत्तम। स शृद्रवद्धहिष्कार्यो यथा शूद्रस्तर्थत्र सः ।१५॥ आचारो द्विविध: प्रोक्त: शास्त्रीयो लौकिकस्तथा। उभावपि प्रकर्तव्यौन त्याज्यौ शुभमिच्छता ॥१६॥ ग्रामधर्मा जातिधर्मा देशघर्माः कुलोद्भवाः । परिग्राह्या नृभि: सर्वेर्नेव तांल्लंघयेन्मुने ॥१७॥ दुराचारो हि पुरुषो लोके भवति निंदितः । दुःखभागी च सततं व्याधिना व्याप्त एव च १८।। परित्यजेदर्थकामी यौ स्यातां धर्मवर्जिती। धर्ममप्यसुखोदकं लोकविद्विष्टमेव च ॥१९॥ नारद उवाच वहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने । कियत्प्रमाणं तद्ब्रूहि धर्ममार्गविनिणंयम् ॥२०॥ श्रीनारायण उवाच श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम्। एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ २१॥ विरोधो यत्र तु भवेत्त्रयाणां च परस्परम्। श्रुतिस्तत्र प्रमाणं स्याद्द्वयोर्द्वैधे स्मृतिर्वरा ॥२२॥ तिद्वधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ। स्मृतिद्वधं तु यत्र स्याद्विषयः कल्प्यता पृथक् ॥२३॥ पुराणेषु क्वचिच्चैव तंत्रदृष्टं यथातथम् । धर्म वदंति तं धर्म गृह्हीयान्न कथंचन ॥२४॥ वेदाविरोधि चेत्तंत्रं तत्प्रमाणं न संशयः । प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥२५॥ सर्वथा वेद एबासौ धर्ममार्गप्रमाणकः । तेनाविरुद्धं यत्किचित्तत्प्रमाणं न चान्यथा ॥२६। यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः । कुण्डानि तस्य शिक्षार्थं यमलोके वसंति हि ॥२७॥ तस्मात्सर्वप्रयत्नेन वेदोक्तं धर्ममाश्रयेत्। स्मृतिः पुराणमन्यद्वा तंत्रं वा शास्त्रमेव च ॥२८।। तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन । ये कुशास्त्राभियोगेन वर्तयंतीहं मानवान् ।।२९।। अधोमुखोर्घ्वपादास्ते यास्यंति नरकार्णवम् । कामचाराः पाशुपतास्तथा वै लिंगधारिणः ॥३०॥ ततमुद्रांकिता ये च वैखानसमतानुगाः। ते सर्वे निरयं यांति वेदमार्गबहिष्कृताः ॥३१॥ वदोक्तमेव सद्धमं तस्मात्कुर्यान्नरः सदा। उत्थायोत्थाय वोद्धव्यं कि मयाऽद्य कृतं कृतम् ॥ कतं वा दापितं वापि वाक्येनापि च भाषितम् । उपपापेपु सर्वेषु पातकेपु महत्स्वपि ॥३३॥ अभाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् । ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥३४॥ जानं किचिदुत्तानं मुखमवष्टम्य चोरसा। निमीलिताक्षःसत्त्वस्थो दन्तैर्दतान्न संस्पृशेत् ।३५॥ त उुस्थाचलजिद्वश्च संवृतास्यः सुनिश्चरः । सन्निरुद्धेंद्रियग्रामो नातिनिम्नस्थितासनः ॥३६॥ द्वगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत्। ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥३७॥ धारयेत्तत्र चात्मानं धारणां धारयेदुधः । सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥३८॥ सलक्ष्यश्चाप्यलक्ष्यशच प्राणायामस्तु षड्विधः। प्राणायामसमो योग: प्राणायाम इतीरितः ॥३९॥
Page 739
श्रीमदेवीमागवते महापुराणे एकादशस्कन्धे अध्याय: २ ७३९ प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः। वर्गत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥४०॥ स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः । इडया वायुमारोप्य पूरयित्तोदरे स्थितम् ॥४१।। शनैः षोडशमात्राभिरन्यया तं विरेचयेत्। एवं सधूमः प्राणानामायामः कथितो मुने ॥४२॥ आधारे लिंगनाभिप्रकटितहृदये तालुमूले ललाटे ............................ द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के। वासान्ते बालमव्ये डफकठसहिते कण्ठदेशे स्वराणां हंक्षंतत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ।।४३।। अरुणकमलसंस्था तद्रजःपुंजवर्णा हरनियमितचिह्ना पद्मतंतुस्वरूपा । रविहुतवहराकानायकास्यस्तनाढया सकृदपि यदि चित्ते संवसेत्स्यात्स मुक्तः ॥४४।। स्थितिः सैवागतिर्यात्रा मतिश्चिता स्तुतिर्वचः । अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक्। सच्विदाननदरूपोऽहं स्व्रात्मानमिति चिंतयेत् ।। प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेजप्यमृतायमानाम् । अंतःपदव्यामनुसंचरंतीमानंदरूपामबलां प्रपद्ये।४७।। ततो निजब्रह्मरंध्रे ध्यायेतं गुरुमीश्वरम्। उपचारैर्मानसैश् पूजयेत्तं यथाविघि ॥४८।। स्तुवीतानेन मंत्रेण साधको नियतात्मवान् । गुरु्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ॥ गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥४९॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे प्रातश्चिंतनं नाम प्रथमोऽध्यायः॥१॥ अथ द्वितीयोऽध्यायः श्रीनारायण उवाच आचारहीनं न पुनन्ति वेदा यदप्यधीताः सह षड्भिरंगै।
ब्राह्मे मुहूर्ते छंदांस्येनं मृत्युकाले त्यजंति नीड़ं शकुन्ता इव जातपक्षाः ॥१॥ चोत्याय तत्सवं सम्यगाचरेत्। रात्रेरंतिमयामे तु वेदाम्यासं चरेद्बुधः ॥२। किंचित्कालं ततः कुर्यादिष्टदेवानुर्चिंतनम्। योगी तु पूर्वमार्गेण ब्रह्मध्यानं समाचारेत् ॥३।। जीवत्रह्मक्यता येन जायते तु निरंतरम्। जोवन्मुक्तश्च भवति तत्क्षणादेव नारद ॥४।। पंचपंच उपःकालः सप्तपंचारुणोदयः । अष्टपंच भवेत्प्रातः शेषः सूर्योदयः स्मृतः ॥५॥ प्रातरुत्थाय यः कुर्याद्विष्मूत्रं द्विजसत्तमः। नैऋ्रर्त्यामिषुविक्षेपमतोत्याभ्यधिकं भुवः ॥६।। विष्मूत्रेऽपि च कर्णस्थ आश्रमे प्रथमे द्विजः । निवीतं पृष्ठतः कुर्याद्वानप्रस्थगृहस्थयोः ॥७॥
Page 740
७४० श्रीमदेवीभागवते महापुराणे एकादशस्कन्धे अध्यायः २ कृत्वा यश्ञोपवीतं तु पृष्ठतः कठलंबितम्। विष्मूत्र तु गृही कुर्यात्कर्णस्थं प्रथमाश्रमी ।।८। अन्तर्थाय तृणभूमि शिरः प्रावृत्य वाससा। वाचं नियम्य यत्नेन ीवनश्वासवर्जितः ॥९॥ न फालकृष्टे न जले न चितायां न पर्वंते। जीर्णदेवालये कुर्यान्न वल्मीके न शादले ॥१०॥ न ससत्वेषु गर्तेषु न गच्छन्न पथि स्थितः । संव्ययोरुभयोर्जप्ये भोजने दंतधावने ॥११॥ पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः । उत्साहे मैथुने वापि तथा वै गुरुसन्निधौ॥१२॥ यागे दाने ब्रह्मयजे द्विजो मौनं समाचरेत्। देवता ऋषयः सर्वे पिशाचोरगराक्षसाः ॥१३॥ इतो गच्छंतु भृतानि बहिर्भृमि करोम्यहम् । इति संप्रार्थ्य पश्चात्तु कुर्याच्छौचं यथाविधि १४॥ वाय्वग्नी विप्रमादित्यमापः पश्यंस्तथव गाः। न कदाचन वुर्वीत विष्मूत्रस्य विसर्जनम् ॥१५॥ उदङ्मुखो दिवा कुर्याद्रात्री चेद्दक्षिणामुखः। तत आच्छाद्य विण्मूत्रं लोष्ठपर्णतृणादिभिः ॥१६॥ गृहीतर्लिंग उत्थाय स गच्छेद्वारिसन्निधौ। पात्रे जलं गृहीत्वा तु गच्छेदन्यत्र चंव हि १७।! गृहीत्वा मृत्तिकां कूलाच्छ्वेतां ब्राह्मणसत्तमः । रक्तां पीतां तथा कृष्णां गृह्नीयुश्चान्यवर्णकाः १८।। अथवा या यत्र देशे सैव ग्राह्या द्विजोत्तमैः । अंतर्जलादेवगृहाद्वल्मीकान्मूषकोत्करात् ।१९॥ कृतशोचावशिष्टाच्च न ग्राह्याः सप्त मृत्तिकाः । मूत्रात्तु द्विगुणं शौचे मैथुने त्रिगुणं स्मृतम् ॥२०। एका लिंगे करे तिस्र उभयोमृ द्द्वयं स्मृतम्। मूत्रशौचं समाख्यातं शौचे तद्द्रिगुणं स्मृतम् २१।। विट्शौचे लिंगदेशे तु प्रदद्यान्मृत्तिकाद्वयम् । पंचापाने द्शकस्मिन्नुभयोः सप्त मृत्तिकाः ॥२२॥ वामपादं पुरस्कृत्य पश्चाद्दक्षिणमेव च । नत्येकं च चतुर्वारं मृत्तिकां लेपयेत्सुघीः॥२३॥ एवं शौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः । त्रिगुणं वानप्रस्थस्य यतीनां च चतुर्गुणम् ॥२४॥ आर्द्रामलकमाना तु मृत्तिका शौचकर्मणि। प्रत्येकं तु सदा ग्राह्यो नातो न्यूना कदाचन २५॥ एतहिवा स्याद्विट्शौचं तदर्धं निशि कीर्तितम् । आतुरस्य तदधं तु मार्गस्थस्य तदर्धकम् ॥२६॥
गंधलेपक्षयो स्त्रीशद्राणामशक्तानां बालानां शोचकर्मणि। यथा गंधक्षयः स्यातु तथा कुर्यादसंख्यकम् ॥२७॥ यावत्तावच्छौचं विधीयते। सर्वेषामेव वर्णानामित्याह भगवान्मनुः ॥२८॥ वामहस्तेन शौचं तु कुर्याटवं दक्षिणेन न। नाभेरधो वामहस्तो नाभेरूध्वं तु दक्षिणः ॥२९॥ वोचकर्मणि विज्ञेयो नान्यथा द्विजपुंगवैः । जलपात्रं न गृह्ीयाद्विष्मूत्रोत्सर्जने बुधः ॥३०॥ गृह्नीयार्द्यादि मोहेन प्रायश्चित्तं चरेत्ततः । मोहाद्वाप्यथवाऽडलस्यान्न कुर्याच्छौचमात्मनः ३१॥ जलाहारस्त्रिरात्रः स्यात्ततो जापाच्च शुध्यति। देशकालद्रव्यशक्तिस्वोपपत्तीश्च सर्वश: ॥३२॥। नात्या शोचं प्रकर्तव्यमालस्यं नात्र धारयेत्। पुरीषोत्सर्जने कुर्याद्गंडूषान्द्वादशैव तु॥३३॥ चतुरो मूत्रविक्षेपे नातो न्यूनान्कदाचन। अधोमुखं नरः कृत्वा त्यजेत्तं वामतः शनैः ॥३४॥ आचम्य च ततः कुर्तादंतधावनमादरात्। कंटकिक्षीरवृक्षोतथं द्वादशांगुलमव्रणम् ॥३५॥
Page 741
श्रीम द्ेवीमागवते महापुराणे एकादशस्कन्धे अध्याय: ३ कनिष्ठिकाग्रवत्स्थूलं पूर्वारधे कृतकूर्चकम् । करंजोदुम्वरौ चूतः कदम्बो लोध्रचम्पको ॥३६॥ बदरीति द्रुमाश्चेति प्रोक्ता दंतप्रधावने। अन्नाद्या व्यूहध्वंसे सोमो राजायमागमत्। स मे मुखं प्रक्षाल्येत तेजसा च भगेन च॥३७।। आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च। ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते ॥३८॥ अभावे दंतकाष्ठस्य प्रतिषिद्धदिनेषु च। अपां रवेर्दिने यः कुरुते प्राणो दन्तस्य धावनम् । सविता भक्षितस्तेन स्वकुलं तेन घातितम् ॥४०॥। प्रतिपद्दर्शषष्ठीपु नवम्येकादशीरवौ। दन्तानां काष्ठसंयोगादृदहत्यासतमं कुलम्।४१॥ कृत्वाऽलं पादशोचं ह्यमलमथ जलं विःपिबेद्द्विर्विमृज्य तर्जन्यांगुष्ठवत्या सजलमभिमृशेन्नासिकारंध्रयुग्मम् । अंगुष्ठानामिकाभ्यां नयनयुगयुतं कर्णयुग्मं कनिष्ठां- गुष्ठाभ्यां नाभिदेशे हृदयमथ तलेनांगुलीभि: शिरांसि ॥४२। इति श्रीदेवीमागवते महापुराणे एकादशस्कन्धे द्वितीयोऽध्यायः ॥२॥ अथ तृतीयोऽध्यायः श्रीनारायण उवाच "शुद्वं स्नातं चाचमनं पौराणं वैदिकं तथा। तांत्रिक श्रौतमित्याहुः षड्विधं श्रुतिचोदितम् ॥१॥ विष्मूत्रादिकशौचं च शुद्धं च परिकीतितम्। स्मार्त पौराणिक कर्म आचांते विधिपूर्वकम् ।।२। वैदिकं श्रोतमित्यादि ब्रह्मयज्ञादिपूर्वकम् । अस्त्रविद्यादिकं कर्म तांत्रिको विघिरुच्यते" ॥३॥ स्मृत्वा चोंकारगायत्रों निबध्नीयाच्छिखां तथा। पुनराचम्य हृदयं बाहू स्कंधौ च संस्पृशेत्'॥१॥ क्षुत निष्ठोवने चैव दंतोच्छिष्टे तथाऽनृते। पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥॥ अग्निरापश्च वेदाश्च सोमः सूर्योऽनलस्तथा। सर्वे नारद विप्रस्य कर्णे तिष्ठन्ति दक्षिणे ॥३॥ ततस्तु गत्वा नद्यादी प्रातःस्नानं विशोधनम् । समाचरेन्मुनिश्रेष्ठ देहसंशुद्धिहेतवे ॥।४।। अत्यंतमलिनो देहो नवद्वारैमलं वहन्। सदाऽडस्ते तच्छोधनाय प्रातःस्नानं विधीयते ।।५।। अगम्यागमनात्पापं यच्च पापं प्रतिग्रहात्। रहस्याचरितं पापं मुच्यते स्नानकर्मणा ॥६॥। अस्नातस्य क्रिया: सर्वा भवंति विफला यतः । तस्मात्प्रातश्चरेत्स्नानं नित्यमेत्र दिने दिने ॥।७॥ दर्भयुक्तश्ररेत्स्नानं तथा संध्याभिवंदनम्। सप्ताहं प्रातरस्नायी संध्याहीनस्त्रिभिर्दिनैः ॥।८।। द्वादशाहमनग्निः सन्द्विजः शूद्रत्वमाप्नुयात्। अल्पत्वाद्धोमकालस्य बहुत्वात्स्नानकर्मणः ।९॥ प्रातर्न तु तथा स्नायाद्धोमकाले विगहितः । गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥१०॥
Page 742
७४२ श्रीमद्दवीभागवते महापुराणे एकादशस्कन्धे अध्यायः ३ गायंतं त्रायते यस्माद्गायत्रीत्यभिधीयते। प्रणवेन तु संयुक्तां व्याहृतित्रयसंयुताम् ॥११॥ वायुं वायौ जयेद्विप्रः प्रणसंयमनत्रयाल्। ब्राह्मणः श्रुतिसंपन्नः स्वधर्मनिरतः सदा ॥१२॥ स वैदिकं जपेन्मंत्रं लौकिकं न कदाचन। गोशृंगे सर्षपो यावत् तावद्येषां न सस्थिरः ॥१२॥ न तारयंत्युभी पक्षौ पितृनेकोत्तरं शतम्। सगर्भो जपसंयुक्तस्त्वगर्भो ध्यानमात्रकः ॥१४॥ स्नानांगतर्पणं कृत्वा देवर्षिपितृतोषकम्। शुद्धे वस्त्रे परीधाय जलाद्वहिरुपागतः ॥१५॥ विभूतिधारणं कायं रुद्राक्षाणां च धारणम्। क्रमयोगेन कर्तव्यं सर्वदा जपसाधकैः ॥१६॥ रुद्राक्षान्कंठदेशे दशनपरिमितान्मस्तके विशती द्वे षट् षट् कर्णप्रदेशे करयुगलकृते द्वादश द्वादशव। बाह्होरिंदोः कलाभिर्नयनयुगकृते त्वेकमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं स स्वयं नीलकंठः ॥१७॥ बद्ध्वा स्वर्णेन रुद्राक्षं रजतेनाथवा मुने। शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः ॥१८।। यज्ञोपवीते हस्ते वा कंठे तुंदेऽयवा नरः । श्रीमत्पंचाक्षरेणैव ग्रणवेन तथापि वा ॥१९॥ निर्व्याजभक्त्या मेधावी रुद्राक्षं धारयेन्मुदा। रुद्राक्षधारणं साक्षाच्छिवज्ञानस्य साधनम् ॥२०॥ रुद्राक्षं यच्छिखायां तत्तारतत्त्वमित स्मरेत्। कर्णयोरुभयोरब्रंह्मान् देवं- देवीं च भावयेत् ।२१॥ यज्ञोपवीते वेदांश्च तथा हस्ते ददिश. स्मरेत् । कंठे सरस्वतीं देवीं पावकं चापि भावयेत् ॥२२॥ सर्वाश्रमाणां वर्णानां रुद्राक्षाणां च धारणम्। कर्तव्यं मंत्रतः प्रोक्तं द्विजानां नान्यर्व्णिनाम् २३। रुद्राक्षधारणाद्गु्रो भवत्येव न संशयः । पश्यन्नपि निषिद्धांश्र तथा शृण्वन्नपि स्मरन् ॥२४॥ जिघ्रन्नपि तथा चाश्नन्प्रलपन्नपि संततम्। कुर्वन्नपि सदा गच्छन्विसृजन्नपि मानवः ॥२५॥ रुद्राक्षधारणादेव सर्वपापैन लिप्यते। अनेन भुक्तं देवेन भुक्तं यत्तु तथा भवेत् ॥२६।। पीतं रुद्रेण तत्पींतं घ्रातं घ्रातं शिवेन तत्। रुद्राक्षधारणे लज्जा येषामस्ति महामुने ॥२७॥ तेपां नास्ति विनिर्मोक्ष: संसाराज्जन्मकोटिभिः। रुद्राक्षधारिणं दृष्टा परिवादं करोति यः ॥८॥ उत्पत्तो तस्य सांकर्यमस्त्येवेति विनिश्चयः। रुद्राक्षधारणादेव रुद्रो रुद्रत्वमाप्नुयात् ।२९।। मुनय. सत्यसंकल्पा ब्रह्मा ब्रह्मत्वमागतः । रुद्राक्षधारणाच्छ्रेष्ठं न किचिदपि विद्यते॥३०॥ रुद्राक्षधारिणे भक्त्वा वस्त्रं धान्यं ददाति यः । सर्दपापविनिर्मुक्त: शिवलोकं स गच्छति ॥३१॥ रुद्राक्षधारिणं श्राद्धे भोजयेत विमोदतः । पितृलोकमवाप्नोति नात्र कार्या विचारणा ॥३२॥ रुद्राक्षधारिणः पादी प्रक्षात्यान्रिः पिबेन्नरः । सर्वपापविनिर्मुक्त: शिवलोके महीयते ॥३३॥ हारं वा कटकं वापि सुवर्णं वा द्विजोत्तमः । रुद्राक्षसहितं भकत्या धारयत्रुद्रतामियात् ॥३४॥ रुद्राक्षं केवलं वापि यत्र कुत्र महामते। समंत्रकं वा मंत्रेण रहितं भाववर्जितम्॥३५॥
Page 743
श्रीम देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ४ यो वा को वा नरो भक्त्या धारयेल्लज्जयानि वा। सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥३६॥ अही रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते। तस्मात्सवंप्रयत्नेन कुर्याद्रुद्राक्षधारणम् ॥३७॥ इति श्रीदेवीभागवत एकादशस्कन्धे सदाचारवर्णन तृतायोऽध्यायः ॥।३। अथ चतुर्थोऽध्यायः
नारद उवाच एवंभूतानुभावोडयं रुद्राक्षो भवताऽनघ। वणितो महतां पूज्यः कारणं तत्र कि वद ॥१॥ नारायण उवाच एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः । षण्मुखेन च रुद्रस्तुं यदुवाच शृणुष्व तत् ।२।। ईश्वर उवाच श्रृणु षण्मुख तत्त्वेन कथयामि समासतः । त्रिपुरो नाम दैत्यस्तु पुराऽडसीत्सर्वदुर्जयः ॥३॥ हतास्तेन सुराः सर्वे ब्रह्मविष्ण्वादिदेवताः । सर्वेस्तु कथिते तस्मिस्तदाऽहं त्रिपुर प्रति ॥४॥ अचिंतयं महाशस्त्रमघोराख्यं मनोहरम्। सर्वदेवमय दिव्यं ज्वलंतं घोररूपि यत् ।।५।। त्रिपुरस्य वधार्थाय देवानां तारणाय च। सर्वविध्नोपशमनमघोरास्त्रमचितयम् दिव्यवर्षसहस्त्रं तु चक्षुरुन्मोलितं मया। पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिंदवः ॥७॥। तत्राश्रुबिंदुतो जाता महारुद्राक्षवक्षकाः। ममाज्ञया महासेन सरवेषां हितकाम्यया ॥८I बभूवुस्ते च रुद्राक्षा अष्टत्रिशत्प्रभेदतः । सूर्यनेत्रसमुद्भूताः कपिला द्वादश स्मृताः ॥९॥ सोमनेत्रोत्थिता: श्वेतास्ते षोडशविधाः क्रमात् । वह्निनेत्रोद्द्रवाः कृष्णा दशभेदा भवंति हि ॥१० ॥ श्वेतवर्णश्र रुद्राक्षो जातितो ब्राह्म उच्यते। क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ एकवव्त्र: शिवः साक्षादव्नह्महत्यां व्यपोहति। द्विवक्त्रो देवदेव्यौ स्याद्विविधं नाशयेदघम् ॥१२॥ त्रिवक्त्रस्त्वनलः साक्षात्स्रीहत्यां दहति क्षणात्। चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।१३।। पंचवकत्रः स्वयं रुद्रः कालाग्निर्नामनामतः । अभक्ष्यभक्षणीद्द्तैरगम्यागमनोद्द्गवः ।१४।। मुच्यते सर्वपार्वस्तु पंचवक्त्रस्य धारणात्। षड्वक्त्रः कात्तिकेयस्तु सधार्यो दक्षिणे करे॥१५॥ ब्रह्महत्यादिभिः पापर्मुच्यते नात्र संशयः। सप्तववत्रो महाभागो ह्यनंगो नाम नामतः ॥१६। तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकः । अष्टवव्त्रो महासेन साक्षाद्देवो विनायकः ॥१७॥ अनकूटं तूलकूटं स्वर्णकूटं तर्थव च। दुष्टान्वयस्त्रियं वाऽथ संस्पृशंश्र गुरुस्त्रियम् ॥१८।। एवमादीनि पापानि हंति सर्वाणि धारणात् । विध्नास्तस्य प्रणश्यंति याति चांते परं पदम् १९।। भवंत्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात्। नववक्त्रो भैरवस्तु धारयेद्वामबाहके ॥२०॥
Page 744
७४४ श्रीसदेवीभागवते महापुराणे एकादशस्कन्धे अध्यायः ५ भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् । भ्रूणहत्यासहस्त्राणि ब्रह्महत्याशतानि च ।२१॥ सद्यः प्रलयमायांति नवववत्रस्य धारणात्। दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥२२॥ ग्रहाश्चव पिशाचाश्च वेताला ब्रह्मराक्षसाः । पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥२:॥। वक्त्रकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् । शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु ॥२४॥ अश्वमेधसहस्त्रस्य वाजपेयशतस्य च। गवां शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् ॥२५॥ तत्फलं लभते शीघ्रं वक्त्रकादशधारणात् । द्रादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥२६॥ आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः । गोमेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥२७॥ शृंगिणां शस्त्रिणां चैव व्याघ्रादीनां भयं नहि। न च व्याधिभयं तस्य नैव चाधि: प्रकीर्तितः २८।। न च किचि्यं तस्य न च व्याधि: प्रवर्तते। न कुतश्चिन्द्यं तस्य सुखी चैवेश्वरो भवेत् ।।२९।। । खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि ॥३०॥ मुच्यते नात्र संदेहो वक्त्रद्वादशधारणात् । वनत्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥३१॥ कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः । रसो रसायनं चैव तस्य सर्वं प्रसिध्यति ॥३२॥ तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा। मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥३३॥ मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख। चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥३४॥ घारयेत्सततं मूध्नि तस्य पिंडः शिवस्य तु। कि मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥३५॥ पूज्यते संततं देवः प्राप्यते च परा गतिः । रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ षड्विर्शन्द्रि: शिरोमाला पंचाशद्धृदयेन तु। कलाक्षर्बाुवलये अर्काक्षमणिबंधनम् ॥३७॥ अष्टोत्तरशतेनापि पंचाशद्भिः षडानन। अथवा सप्तविशत्या कृत्वा रुद्राक्षमालिकाम् ३८।। धारणाद्वा जपाद्वापि ह्यनंतं फलमश्नुते। अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥३९॥ क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख ! त्रिःसप्तकुलमुद्घृत्य शिवलोके महीयते॥४०॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे चतुर्थोऽध्यायः॥४।। अथ पश्चमोऽध्यायः ईश्वर उवाच लक्षणं जपमालाया: शृणु वक्ष्यामि पण्मुख। रुद्राक्षस्य मुखं ब्रह्मा बिंदू रुद्र इतीरितः ॥१॥ विष्णुः पुच्छं भवेच्चव भोगमोक्षफलप्रदम् । पंचविशतिभिश्चाक्षः पंचवक्त्रः सकंटकैः ॥२॥ रक्तवणैंः सितैरमिश्रैः कृतरेध्रविदर्भितैः। अक्षसूत्रं प्रकर्तव्यं गोपुच्छवलयाकृति ॥३॥ वक्त्रं वक्त्रेण संयोज्य पुच्छं पुच्छेन योजयेत् । मेरुमूर्ध्वमुखं कुर्यात्तदूर्ध्वं नागपाशकम्॥४॥
Page 745
श्रीमद्ेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ५ ७४५ एवं संग्रथितां मालां मन्त्रसिद्धिप्रदायिनीम्। प्रक्षाल्य गन्धतोयेन पंचगव्येन चोपरि ॥५॥ ततः शिवांभसा क्षाल्य ततो मन्त्रगणान््यसेत्। स्पृष्टा शिवास्त्रमन्त्रेण कवचेनावगुण्ठयेत् ।६।। मूलमन्त्रं न्यसेत्पश्चात्पूर्ववत्कारयेत्तथा । सद्योजातादिभिः प्रोक्ष्य यावदष्टोत्तरं शतम् ॥७॥ मूलमन्त्रं समुच्चार्य शुद्धभूमौ निधाय च। तस्योपरि न्यसेत्साम्वं शिवं परमकारणम् ।।८।। प्रतिष्ठिता भवेन्माला सर्वकामफलप्रदा। यस्य देवस्य यो मन्त्रस्तां तेनैवाभिपूजयेत्।९॥ मूध्नि कण्ठेऽथवा कर्णे न्यसेट्ा जपमालिकाम्। रुद्राक्षमालया चैवं जप्तव्यं नियतात्मना ॥१०॥ कण्ठे मूघ्नि हृदि प्रांते कर्णे बाहुयुगेऽथवा। रुद्राक्षधारणं नित्यं भक्त्या परमया युतः ॥११॥ किमत्र बहुनोक्तेन वर्णनेन पुनः पुनः। रुद्राक्षधारणं नित्यं तस्मादेतत्प्रशस्यते ॥१२॥ स्नाने दाने जपे होमे वैश्वदेवे सुरार्चने। प्रायश्चित्ते तथा श्राद्धे दीक्षाकाले विशेषतः ॥१३॥ अरुद्राक्षधरो भूत्वा यत्किचित्कर्म वैदिकम्। कुर्वन्त्रिप्रस्तु मोहेन नरके पतति ध्रुवम् ॥१४॥ रुद्राक्षं धारयेन्मूध्नि कण्ठे सूत्रे करेऽथवा। सुवर्णमणिसंभिन्नं शुद्धं नान्यैर्धृतं शिवम्॥१५॥ नाशुचिर्धारयेदक्षं सदा भक्त्यैव धारयेत्। रुद्राक्षतरुसंभूतवातोद्भूततृणान्यपि ।१६॥ पुण्यलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्। रुद्राक्षं धारयन्पापं कुर्वन्नपि च मानवः ॥१७॥ सर्वं तरति पाप्मानं जाबालश्रुतिराह हि। पशवो हि च रुद्राक्षधारणाद्यांति रुद्रताम् ॥१८॥ किमु ये धारयन्ति स्म नरा रुद्राक्षमालिकाम्। रुद्राक्षः शिरसा हेको धार्यो रुद्रपरैः सदा ॥१९॥ ध्वंसनं सर्वदुःखानां सर्वपांपविमोचनम् । व्याहरन्ति च नामानि ये शंभोः परमात्मनः २०।। रुद्राक्षालंकृता ये न ते वै भागवतोत्तमाः । रुद्राक्षधारणं कार्य सर्वश्रयोर्थिभिनृभिः ॥२१॥ कर्णपाशे शिखायां च कण्ठे हस्ते तथोदरे। महादेवश्र विष्णुश्च ब्रह्मा तेषां विभूतयः ॥२२॥ देवाश्चान्ये तथा भक्त्या खलु रुद्राक्षधारिणः । गोत्रर्षयश्च सर्वेषां कूटस्था मूलरूपिण: ।२३॥ तेषां वंशप्रसूताश्च मुनयः सकला अपि। श्रौत्रधर्मपराः शुद्धाः खलु रुद्राक्षधारिणः ॥२४॥ श्रद्धा न जायते साक्षाद्वेदसिद्धे विमुक्तिदे। बहूनां जन्मनामन्ते महादेवप्रसादतः ॥२५॥ रुद्राक्षधारणे वांछा स्वभावादेव जायते। रुद्राक्षस्य तु माहात्म्यं जाबालैरादरेण तु ॥२६॥ पठयते मुनिभिः सर्वेर्मया पुत्र तर्थव च। रुद्राक्षस्य फलं चैव त्रिषु लोकेषु विश्रुतम् ॥२७॥ फलस्य दर्शने पुव्यं स्पर्शात्कोटिगुणं भवेत्। शतकोटिगुणं पुण्यं धारणाल्लभते नरः ॥२८॥ लक्षकोटिसहस्राणि लक्षकोटिशतानि च। जपाच्च लभते नित्यं नात्र कार्या विचारणा २९॥ हस्ते चोरसि कण्ठे च कर्णयोर्मस्तके तथा। रुद्राक्षं धारयेद्यस्तु स रुद्रो नात्र संशयः ॥३०॥ अवध्यः सर्वभूतानां रुद्रवद्धि चरेद्द्रुवि। सुराणामसुराणां च वंदनीयो यथा शिवः ॥३१।। रुद्राक्षधारी सततं वन्दनीयस्तथा नरैः । उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः ३२॥
Page 746
७४६ श्रीमदेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ६ मुच्यते सर्वपापेभ्यो रुद्राक्षस्य तु धारणात्। कण्ठे रुद्राक्षमात्रध्य श्वापि वा म्रियते यदि ॥३३॥ सोऽपि मुक्तिमवाप्नोति कि पुनर्मानुषोऽपि सः। जपध्यानविहीनोपि रुद्राक्षं यदि धारयेत् ॥३४॥
एकविशतिमुद्दधृत्य सर्वपापविनिर्मुक्त: स याति परमा गतिम्। एकं वापि हि रुद्राक्षं कृत्वा यत्नेन धारयेत् ३५॥। रुद्रलोके महीयते । अतः परं प्रवक्ष्यामि रुद्राक्षस्य पुनर्विधिम् ॥३६॥ इति श्रीदेवोभागवते महापुराणे एकादशस्कन्धे पञ्चमोऽध्यायः ॥५॥ अथ षष्ठोऽध्यायः ईश्वर उवाच महासेन कुशग्रन्थिपुत्राजीवादयः परे। रुद्राक्षस्य तु नैकोऽपि कलामहति षोडशीम् ॥१॥ पुरुषाणां यथा विष्णुर्ग्रहाणां च यथा रविः । नदीनां तु यथा गंगा मुनीनां कश्यपो यथा ॥२।। उच्च: श्रवा यथाऽश्ानां देवानामोश्वरो यथा। देवीनां तु यथा गौरी तद्वच्छ्रेष्ठमिदं भवेत् ॥। ॥ नातः परतरं स्तोत्रं नातः परतरं व्रतम् । अक्षय्येषु च दानेषु रुद्राक्षस्तु विशिष्यते।४।। शिवभक्ताय शांताय दद्याद्रुद्वाक्षमुत्तमम् । तस्य पुण्यफलस्यांत न चाहं वक्तुमुत्सहे॥५॥ धृतरुद्राक्षकण्ठाय यस्त्वन्नं संप्रयच्छति। त्रिःसप्तकुलमुद्धृत्य रुद्रलोकं स गच्छति ।६।। यस्य भाले विभूतिर्न नागे रुद्राक्षधारणम्। न शंभोर्भवने पूजा स विप्रः श्वपचाधमः ।७ खादन्मांसं पिबन्मद्यं. संगच्छन्नंत्यजानपि। पातकेभ्यो विमुच्येत रुद्राक्षे शिरसि स्थिते ।।८।। सर्वयज्ञतपोदानवेदाभ्यासैदन यत्फलम्। तत्फलं लभते सद्यो रुद्राक्षस्य तु धारणात् ॥९॥ पुराणपठनेन च । यत्तीथसेवनेनैव सवंविद्यादिभिस्तथा ॥१०।। तत्पुण्यं लभते सद्यो रुद्राक्षस्य तु धारणात्। प्रयाणकाले रुद्राक्षं वंधयित्वा म्रियेद्यदि ॥११॥ स रुद्रत्वमवाप्नोति पुनर्जन्म न विद्यते। रुद्राक्षं धारयेत्कंठे बाह्वोर्वा म्रियते यदि ॥१२॥ कुलैकविशमुत्तार्य रुद्रलोके वसेन्नरः। ब्राह्मणो वापि चांडालो निर्गुणः सगुणोपि च १३। भस्मरुद्राक्षवारी यः स देवत्वं शिवं व्रजेत् । शुनिर्वा्यशुचिर्वापि तथाऽभक्ष्यस्य भक्षकः १४॥ म्लेच्छो वाप्यथ चांडालो मुतो वा सर्वपातकैः । रुद्राक्षघारणादेव स रुद्रो नात्र संशयः ॥१५॥ शिरसा धारिते कोटि: कर्णयोर्दश कोटयः । शतकोटिर्गले बद्धो मूग्नि कोटितहस्रकम् ॥१६॥ अधुतं चोपवीते तु लक्षकोटिर्भुजे स्थिते। मणिबन्धे तु रुद्राक्षो मोक्षसाधनकः परः ॥१७॥ रुद्राक्षधारको भूत्वा यत्कचित्कर्म वैदिकम्। कुर्वन्त्रिप्रः सदा भक्त्या महदाप्नोति तत्फलम् १८।। रुद्राक्षमालिकां कण्ठे धारयेद्गक्तिवजितः। पापकर्मा तु यो नित्यं स मुक्तः सर्वबन्धनात् १९।। रुद्राक्षापितचेता यो रुद्राक्षस्तेन वै धृतः । असौ माहेश्वरो लोके नमस्यः स तु लिंगवत् २०॥
Page 747
श्रीमद्वेवीभागवते महापुराणे एकादशस्कन्धे अध्यायः ६ ७४७ अविद्यो वा सविद्यो वा रुद्राक्षस्य तु धारणात्। शिवलोकं प्रपद्येत कीकटे गर्दभो यथा ॥२१॥ स्कन्द उवाच रुद्राक्षान्सन्दधे देव गर्दभः केन हेतुना। कीकटे केन वा दत्तस्तद्ब्रूहि परमेश्वर ।२२।। श्रीभगवानुवाच शृणु पुत्र पुरावृत्तं गर्दभो विध्यपवते । धन्ते रुद्राक्षभारं तु वाहितः पर्थिकेन तु ॥२३॥ श्रांतोऽसमर्थस्तद्धारं वोढुं पक्तिवान्भुवि। प्राणस्व्यकस्त्रिनेत्रस्तु शृलपाणिमहेश्वरः ॥२४॥ मत्प्रसादान्महासेन मदन्तिकमुपागतः। यावदवकत्रास्यसंख्यानं रुद्राणाक्षां सुदुर्लभम् ॥२५॥ तावद्युगसहस्त्राणि शिवलोके महोयते । स्वशिष्येभ्यस्तु वक्तव्यं नाशनिष्येभ्यःक्रक्षमम २६॥ अभक्तभ्योऽपि मूर्खेभ्यः कदाचिन्न प्रकाशयेत् । अभक्तो वाऽस्तु भक्तो वा नीची नी बवरोपि या। रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः । रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् ॥२८॥ महाब्रतमिदं प्राहुर्मुनयस्तत्त्वदशिनः । सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः ॥२९॥ तं नमन्ति सुराः सर्वे यथा रुद्रस्तर्थव सः । अभावे तु सहस्रस्य बाह्वोः षोडश षोडश ॥३०॥ एकं शिखायां करयोर्द्वादश द्वादशव तु। द्वात्रिशत्कंठदेशे तु चत्वारिंशच्च मस्तके ॥३१॥ एकैकं कर्णयोः +ट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान्रुद्रवत्स तु पूज्यते ॥३२॥ मुक्ताप्रवालस्फटिकरौप्यवैडूर्यकाञ्चनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत् ।३३।। केवलानपि रुद्राक्षान्यद्यालस्याद्विभ्ति यः। तं न स्पृशंति पापानि तमांसीव विभावसुम् ३४॥। रुद्राक्षमालया मन्त्रो जस्तोऽनन्तफलप्रदः । यस्यांगे नास्ति रुद्राक्ष एकोऽपि बहुपुण्यदः ३५॥ तस्य जन्म निरर्थं स्यात्त्रिपुण्ड्रहितं यथा। रुद्राक्षं मस्तके धृत्वा शिरःस्नानं करोति यः ३६॥ गङ्गास्नानफलं तस्य जायते नाम संशयः । एकवक्त्रः पञ्चववत्र एकादशमुखाः वरे॥३७॥ चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः। भक्त्या संपूज्यते नित्यं रुद्राक्षः शंकरात्मकः ३८।। दरिद्रं वापि पुरुषं राजानं कुरुते भुवि । अत्र ते कथयिष्यामि पुराणं मतमुत्तमम् ॥३९॥ कोसलेषु द्विजः कश्चिद्गिरिनाथ इति श्रुतः । महाधनी च धर्मात्मा वेदवेदांगपारगः ॥४०॥। यज्ञकृद्दीक्षितस्तस्य तनयः सुन्दराकृतिः । नानागुणनिघिः खयातस्तरुणः कामसुन्दरः॥४१॥ गुरोः सुधिषणस्याथ पत्नीं मुक्त्ावलीमथ। मोहयामास रूमेण योवनेन मदेन च ।।४२।। संगतस्तु तया साधं किञ्ञित्कालं ततो भिया। विषं ददौ च गुरवे येभे पश्चात्तु निर्भयः ॥४३॥ यदा माता पिता कर्म किञ्चिज्जानाति यत्क्षणे। मातरं पितरं चापि मारयामास तद्विषात् ॥४४।। नानाविलासभोगैश्च जाते द्रव्यव्यये ततः। ब्राह्मणानां गृहे चौर्यं चकार स तदा खलः॥४५॥ सुरापानमदोन्मत्तस्तदा ज्ञातिबहिष्कृतः । ग्रामान्निष्कासितः सर्वेस्तदा सोऽभूद्वनेचरः ॥४६॥
Page 748
७४८ श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ७ मुक्तावल्या तया सार्धं जगाम गहनं वनम्। मार्गे स्थितो द्रव्यलोभाज्जघान ब्राह्मणान्बहून् ४७।। एवं बहुगते काले ममार स तदाऽधमः। नेतुं तं यमदूताश्च समाजग्मुः सहतरः ॥४८॥ शिवलोकाच्छिवगणास्तर्थव च समागताः । तयोः परस्परं वादो बभूव गिरिजासुत ।४९॥ यमद्तास्तदा प्रोचुः पुण्यमस्य किमस्ति हि। ब्रुवंतु सेवकाः शंभोर्यद्येनं नेतुमिच्छथ ॥५०॥। शिवदूतास्तदा प्रोचुरयं यस्मिन्स्थले मृतः । दशहस्तादधो भूमे रुद्राक्षस्तत्र चास्ति हि ॥५१॥ तत्प्रभावेन हे दूता नेष्यामः शिवसन्निधिम्। ततो विमानमारुह्य दिव्यरूपधरो द्विजः ॥५२॥ गतो गुणनिधिर्दूतैः सहितः शंकरालयम् । इति रुद्राक्षमाहात्म्यं कथितं तव सुव्रत ॥५३॥ एवं रुद्राक्षमहिमा समासात्कथितो मया। सर्वपापक्षयकरो महापुण्यफलप्रदः।५४।। इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे षष्ठोऽध्यायः ॥६॥ अथ सप्तमोऽध्यायः श्रीनारायण उवाच एवं नारद षड्वक्त्रो गिरिशेन विवोधितः । रुद्राक्षमहिमानं च ज्ञात्वाऽडसीत्स कृतार्थकः॥१॥ इत्थंभूतानुभावोडयं रुद्राक्षो वणितो मया। सदाचारप्रसंगेन शृणु चान्यत्समाहितः ॥२। यथा रुद्राक्षमहिमा वणितोऽनन्तपुण्यदः। लक्षणं मन्त्रविन्यासं तथाऽहं वर्णयामि ते ॥३॥ लक्षं तु दर्शनात्पुण्यं कोटिस्तत्स्पर्शनान्द्रवेत् । तस्य कोटिगुणं पुण्यं लभते धारणान्नरः ॥४॥ लक्षकोटिसहस्त्राणि लक्षकोटिशतानि च । तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।५॥ रुद्राक्षाणां तु भद्राक्षधारणात्स्यान्महाफलम्। धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥६॥ बदरीफलमात्रं तु प्रोच्यते मध्यमं बुधैः । अधमं चणमात्रं स्यात्प्रतिज्ञैषा मयोदिता ।।७।। ब्राह्मणा: क्षत्रिया वैश्या: शूद्राश्रेति शिवाजया। वृक्षाज्जाताः पृथिव्यां तुतज्जातीयाः शुभाक्षका.॥ श्वेतास्तु ब्राह्मणा जेया: क्षत्रिया रक्तवर्णकाः । पीता वैश्यास्तु विज्ञेयाः कृष्णाः शूद्ाः प्रकीततिताः ॥ ब्राह्मणो बिभृयाच्छ्वेतात्रक्ताताजा तुधारयेत्। पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेय्। समा: स्निग्धा दृढास्तद्वत्कंटकैःसंयुताः शुभाः । कृमिदष्टाञ्छिन्नभिन्नान्कंटकै रहितांस्तथा ॥११॥ व्रणयुक्तानावृतांश्र पड्रुद्राक्षांस्तु वर्जयेत् । स्वयमेव कृतद्वारो रुद्राक्षः स्यादिहोत्तमः ॥१२। यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत्। समान्स्निग्धान्दृढान्वृत्तान्क्षौमसूत्रेण वारयेत् ॥१३।। सर्वगात्रेषु साम्येन समानाऽतिविलक्षणा। निघर्षे हेमलेखाभा यत्र लेखा प्रदृश्यते ॥१४॥ तदक्षमुत्तमं विद्यात्स धार्यः शिवरूजकैः। शिखायामेकरुद्राक्षं त्रिश्द्वै शिरमा वहेत् ॥१५।। षट्तिशच्च गले धार्या वाह्नो: पोडश पोडश। मणिवंधे द्वादशाक्षान्मकंधे पञ्चाशतं भवेत् ॥१६॥
Page 749
श्रीम हेवीमाग वने महापुराणे एकादशस्कन्धे अध्याय: ७ ७१९ अष्टोत्तरशतैर्मालोपवीतं च प्रकल्पयेत्। द्विसरं त्रिसरं वापि बिभृयात्कण्ठदेशतः।१७/ कुण्डले मुकुटे चैव कणिकाहारकेषु च। केयूरे कटके चव कुक्षिवंशे तर्थव च ।।१८। मुप्ते पीते सर्वकालं रुद्राक्षं धारयन्नरः। त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ॥१९॥ सहस्रमुत्तमं प्रोक्तं चंवं भेदेन धारयेत्। शिरसीशानमन्त्रेण कणें तत्पुरुषेण च ॥२०।।. अधोरेण ललाटे तु तेनैव हृदयेऽपि च। अघोरबीजमन्त्रेण करयोर्धारियेत्पुनः ॥।२१।।
पञ्चाशादक्षग्रथितां वामदेवेन चोदरे। पञ्चब्रह्मभिरंगैश्चाप्येवं रुद्राक्षधारणम् ॥२२।।
ग्रथितान्मूलभन्त्रेण सर्वानक्षांस्तु धारयेत् । एकववत्रस्तु रुद्राक्षः परतत्त्वप्रकाशकः ॥२३।।
परतत्त्वधारणाच्च जायते तत्प्रकाशनम् । द्विववत्रस्तु मुनिश्रेष्ठ अर्धनारीश्वरो भवेत् ॥२४।। धारणादर्धनारीशः प्रीयते तस्य नित्यशः। त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् २५॥ त्रिमुखश्रंव रुद्राक्षोऽप्यग्नित्रयस्वरूपकः । तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यशः ॥२६॥ चतुर्मुखस्तु रुद्राक्षः पितामह एव रूपकः । तद्वारणान्महाश्रीमान्महदारोग्यमुत्तमम् ।.२७// महती ज्ञानसंपत्तिः शुद्धये धारयेन्नरः । पञ्चमुखस्तु रुद्राक्षः पञ्चब्रह्मस्वरूपकः ॥२८॥ तस्य धारणमात्रेण संतुष्यति महेश्वरः । षड्ववत्रश्रव रुद्राक्षः कार्तिकेयाधिदैवतः ॥२९॥ विनायकं चापि देवं प्रवदन्ति मनीषिणः । सप्तवक्त्रस्तु रुद्राक्षः सप्तगात्राधिदैवतः ॥३०॥ सताश्वदेवतश्रैव मुनिसप्तकदैवतः । तद्धारणान्महाश्रोः स्यान्महदारोग्यमुत्तमम् ॥३१॥ महती ज्ञानसंपत्तिः शुचिर्वे धारयेन्नरः । अष्टववत्रस्तु रुद्राक्षोऽप्यष्टमात्राधिदैवतः ॥३२॥ वस्वष्टकप्रीतिकरो गङ्गाप्रीतिकरः शुभः । तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥३३॥ नतवकत्रस्तु रुद्राक्षो यमदेव उदाहृतः । तद्धारणाद्यमभयं न भवत्येव सर्वथा ॥३४॥ दशवक्त्रस्तु रुद्राक्षो दशाशार्देवतः स्मृतः । काशाप्रीतिजनको धारणे नात्र संशयः ॥३५॥ एकादशमुखस्त्वक्षो रुद्रैकादशदैवतः । तमिंद्रदैवतं चाहुः सदा. सौख्यविवर्धनम् ॥३६॥ रुद्राक्षो द्वादशमुखो महाविष्णुस्वरूपकः । द्वादशादित्यदैवश्च बिभ्त्येद हि तत्परः ॥३७॥ त्रयोदशमुखश्ाक्षः कामदः सिद्धिदः शुभः । तस्य धारणमात्रेण कामदेवः प्रसीदति ॥३८॥ चतुर्दशमुखश्चाक्षो रुद्रनेत्रसमुद्वः । सर्वव्याधिहरश्रैव रुर्वारोग्यप्रदायक: ॥३१॥ मद्यं मांसं च लशुनं पलांडुं शिग्रुमेव च। श्लेष्मातकं विड्वराहं भक्षणे वर्जयेत्ततः ॥४०॥ ग्रहणे विषुवे चव संक्रमे अयने तथा। दर्शे च पौर्णमासे च पुण्येषु दिवसेष्वषि॥ रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥४१॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे सप्तमोऽध्याय:॥७
Page 750
श्रीम हेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ८ अथ अष्टमोऽध्यायः श्रीनारायण उवाच भूतशुद्धिप्रकारं च कथयामि महामुने। मूलाधारात्समुत्थाय कुण्डलीं परदेवताम् ॥१॥ सुषुम्नामार्गमाश्रित्य ब्रह्मरंध्रगतां स्मरेत्। जीवं ब्रह्मणि संयोज्य हंसमंत्रेण साधकः ॥२॥ पादारदिं जानुपर्यंतं चतुष्कोणं सवज्तरकम्। लंबीजाढयं स्वर्णवर्ण स्मरेदवनिमण्डलम् ॥३॥ जान्वाद्यं नाभिचंद्रार्धनिभं पद्मद्वयांकितम्। वंबीजयुतं श्वेताभमंभसो मंडलं स्मरेत् ॥४। नाभेहृदयपर्यंतं त्रिकोणं स्वस्तिकान्वितम्। रंबीजेन युतं रक्तं स्मरेत्पावकमण्डलम् ।५॥ हृदो भ्रूमध्यपर्यन्तं वृतं पड्बिंदुलांछितम्। यंबीजयुक्तं धम्राभं नभस्वन्मंडलं स्मरेत् ॥ ६।। आब्रह्मरंध्रभूमध्याद्वृतं स्वच्छं मनोहरम्। हंबीजयुक्तमाकाशमंडलं च विचितयेत्।७॥। एवंभूतानि संचित्य प्रत्येकं सविलापयेत्। भुबं जले जलं वह्नौ वह्निं वायौ नभस्यमुम् ॥८॥ विलाप्य खमहंकारे महत्तत्वेऽप्यहंकृतिम्। महांतं प्रकृतौ मायामात्मनि प्रविलापयेत् ।।९।। शुद्धसंविन्मयो भूत्वा चिंतयेत्पापपूरुषम्। वामकुक्षिस्थितं कृष्णमंगुष्ठपरिमाण कम् ॥१०॥ कनकस्तेयबाहुकम्। मदिरापानहृदयं गुरुतल्पकटीयुतम् ॥११। तत्संसर्गिपदद्वंद्वमुपपातकमस्तकम् । खङ्गचर्मधरं कृष्णमधोववत्रं सुद्ुःसहम् ।१२॥। वायुबीजं स्मरन्वायुं संपूर्यनं विशोषयेत्। स्वशरीरयुतं मंत्रो वह्निबीजेन निर्दहेत् ।१३।। कुंभके परिजप्ेन तृतः पापनरोदद्गवम्। बहिर्भस्म समुत्सार्य वायुं बीजेन रेचयेत् ॥१४।। सुधाबीजेन देहोत्थं भस्म संप्लावयेत्सुधीः । भूबीजेन घनीकृत्य भस्म तत्कनकांडवत् ॥१५॥ विशुद्धमुकुराकारं जपन्बीजं विहायसः। मूर्धादिपादपर्यंतान्यंगानि रचयेत्सुघीः ॥१६॥ आकाशादीनि भूतानि पुनरुत्पादयेच्चितः । सोऽहंमंत्रेण कुण्डलीजीवमादाय परसंगात्सुधामयम् । संस्थाप्य हृदयांभोजे मूलाधारगता स्मरेत्।१८। रक्तांभोधिस्थपोतोल्लदरुणसरोजाधि रूढा करब्जैः शूलं कोदण्डमिअ्द्वमणिगुणमप्यंकुशं पंचबाणान्। बिभ्राणासृक्कपालं निनयनलसिता पीनवक्षोरुहाढया देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्ति: परा नः॥१९।। एवं ध्यात्वा प्राणशक्ति परमात्मस्वरूपिणीम् । विभूतिधारणं कार्यं सर्वाधिकृतिसिद्धये ॥२०॥। वविभूतेविस्तरं वक्ष्ये धारणे च महाफलम् । श्रुतिस्मृतिप्रमाणोक्तं भस्मधारणमुत्तमम् ॥२१॥ इति श्रीदेवीभागवते महापुगणे एकादशस्कन्धेऽट्टमोऽध्यायः ।। ८ ।।
Page 751
श्रीम देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ९ ७५१
अथ नवमोऽध्यायः श्रीनारायण उवाच इदं शिरोव्रतं चीणं विधिवद्यद्विजातिभिः । तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥१॥ विधिवच्छुद्धया साधं न चीणं यैः शिरोव्रतम्। श्रौतस्मार्तसमाचारस्तेषामनुपकारक: ।।२।। शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः । देवता अभवन्विद्वन् खलु नान्येन हेतुना ।३।। शिरोव्रतस्य माहात्म्यं पूर्वेः पूर्वतरं कृतम् । ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥४॥ सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः। शिरोव्रतमिदं येन चरितं विधिवद्बुध ॥१॥ शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः । यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते॥२॥ शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः । पठयते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ।।७।। सर्वशाख्रासु वस्त्वेकं शिवास्यं सत्यचिद्धनम्। तथा तद्विषयं ज्ञानं तर्थव च शिरोव्रतम्॥८॥ शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः । अपि सर्वासु विद्यासु सोऽधिकारी न संशयः।।९॥ शिरोव्रतमिदं कार्य पापकांतारदाहकम् । साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥१०।। श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी। यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥११। अग्निरित्यादिभिर्मंत्रैः पड्भिः शुद्धेन भस्मना। सर्वाङ्गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥१२॥ एतच्छिरोव्रतं कुर्यात्संध्याकालेषु सादरम्। यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥१३। द्वादशान्दमथाब्दं वा तदर्ध च तदर्धकम्। प्रकुर्याद्द्वादशाहं वा संकल्पेन शिरोव्रतम् ॥१४॥ शिराव्रतेन यः स्नातस्तं तु मोपदिशेत्तु यः । तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु। यथा सवश्वरःश्रीमान्मृदुः कारुणिकः खलु ॥१६॥ जन्मांतरसहस्त्रेषु नरा ये धर्मचारिणः । तेषामेव खलु श्रद्धा जायते न कदाचन ॥१७॥ प्रत्युताज्ञानबाहुल्याद्द्वेष एव विजायते। अतः प्रद्वेषयुक्तस्य. न भवेदात्मवेदनम् ॥१८॥ व्र ह्म विद्योपदेशस्य साक्षादेवाधिकारिणः । त एव नेतरे विट्वन् ये तु स्नाताः शिरोव्रतैः १९॥ व्रतं पाशुपतं चीर्णं यैद्विजैरादरेण तु। तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥२०॥ यः पशुस्तत्पशुत्वं च व्रतेनानेन संत्यजेत् । स तान्हत्वा न पापीयान्भवेद्वेदांतनिश्चयः ॥२१॥ त्रिपुंड्रधारणं प्रोक्तं जाबालैरादरेण तु। त्रियंबकेन मंत्रेण सतारेण शिवेन च ॥२२॥ त्रिपुंड धारयेन्नित्यं गृहस्थाश्रममाश्रितः । ओंकारेण त्रिरुक्त्तेन सहंसेन त्रिपुंड्रकम् ॥२३॥ धारयेद्द्िक्षुको नित्यमिति जाबालिकी श्रुतिः । त्रियंबकेन मंत्रेण प्रणवेन शिवेन च ॥२४॥ गृहस्थश्च वनस्थश्च धारयेच्च त्रिपुंड्रकम्। मेधावीत्यादिना वाडपि ब्रह्मचारी दिने दिने २५॥ भस्मना सजलेनापि धारयेच्व त्रिपुंड्रकम्। ब्राह्मणो विधिनोत्पन्नस्त्रिपंड्रभस्मनैव तु॥२६॥
Page 752
७५२ श्रीमद्ेवीभागतते महापुराणे एकादशस्कन्धे अध्याय: १० ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुंठनम्। "महादेवस्य संबंधात्तद्वर्मेऽप्यस्ति संगतिः।" सम्यक् त्रिपुंड्धमं च ब्राह्मणो नित्यमाचरेत् ॥२७॥ आदिब्राह्मणभूतेन त्रिपुंडं भस्मना धृतम्। यतोऽत एव विप्रस्तु त्रिपुंडं धारयेत्सदा ॥२८॥ भस्मना वेदसिद्धेन त्रिपुंड्रदेहगुंठनम्। रुद्रलिंगार्चनं वारडपि मोहतोऽपि च न त्यजेत् २९। त्रियंबकेन मंत्रेण सतारेण तथव च । पंचाक्षरेण मंत्रेण प्रणवेन तथैव च ।३०।। ललाटे हृदये चैव दोद्वंद्वे च महामुने। त्रिपुंडं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥३१॥ त्रियायुषेण मंत्रेण मेधावीत्यादिनाऽथवा। गौणेन भस्मना धार्यं त्रिपुण्डं ब्रह्मचारिणा ॥३२॥ नमोऽन्तेन शिवेनैव शूद्र: शुश्रूषणे रतः। उद्धलनं त्रिपुण्ड़े च नित्यं भक्त्या समाचरेत् ३३।। अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत। उद्धलनं त्रिपुण्ड्ं च कर्तव्यं भक्तितो मुने ॥३४॥ भूत्यैवोद्धूलनं तिर्यक् त्रिपुंडस्य च धारणम्। वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥३ भस्म्राग्निहोत्रजं वाऽथ विरजाग्निसमुद्भवम् । आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥३६।। प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः । गृहीत्वा भस्म तत्पंचब्रह्ममन्त्रः शनैः शनः ॥३७॥ प्राणायामत्रयं कृत्वा अग्निरित्यादिमंत्रितम्। तैरेव सप्तभिमंत्रस्त्रिवारर्मभिमंत्रयेत् ।।३८।। ओमापोज्योतिरित्युक्त्वा ध्यात्वा मंत्रानुदीरयेत् । सितेन भस्मनापूर्व समुद्धूल्य शरीरकम् ॥३१॥ विपापो विरजो मर्त्यो जायते नात्र संशयः । ततो ध्यात्वा महाविष्णुं जगन्नारथं जलाधिपम् ॥ संयोज्य भस्मना तोयमग्िरित्यादिभिः पुनः । विमृज्य साम्बं ध्यात्वा च समुद्ध ल्योरध्वमस्तकम् ॥ ते च भावनया ब्राह्मभूतेन सितभस्मना। ललाटवक्षःस्कंधेषु स्वाश्रमोचितमन्त्रतः ॥४२।। मध्यमानामिकांगुष्ठैरनुलोमविलोमतः । त्रिपुंडं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥४३॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कंघे नवमोऽध्यायः ।९।। अथ दशमोऽध्यायः श्रीनारायण उवाच आग्नेयं गौणमज्ञानध्वंसकं ज्ञानसाधकम्। गौणं नानाविधं विद्धि ब्रह्मन्ब्रह्मविदां वर ॥१॥ अग्निहोत्राग्निजं तद्वद्विरजानलजं मुने। औपासनसमुत्पन्नं समिदग्निसमुद्द्वम् ॥२।। पचनाग्निसमृत्पन्नं दावानलसमुद्धवम्। त्रर्वर्णिकानां सर्वेषामग्निहोत्रसमुद्द्वम् ॥३।। विरजानलजं चैव धार्यं भस्म महामुने। औपासनसमुत्पन्नं गृहस्थानां विशेषतः ॥४॥ समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणा। शूद्राणां श्रोत्रियागारपचनाग्निसमुद्धवम् ।।५।।
Page 753
४८ श्रीमद्वेवीमागवते महापुराणे एकादशस्कन्धे अध्याय: १० ७५६ अन्येषामपि सर्वेषां धायं दावानलोद्द्वम्। कालश्चित्रा पौर्णमासी देशः स्वीयः परिग्रहः ॥६॥ क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः । तत्र पूर्वत्रयोदश्यां सुस्नातः सुकृताग्निक: ॥७ अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च। पूजा वशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥८॥ शुद्धयज्ञोपवीती च शुक्लमाल्यानुलेपनः । दर्भासने समासीनो दर्भमुष्टि प्रगृह्य च ।९॥ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः । ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥१०। व्रतमेतत्करोमीति भवेत्संकल्पदीक्षितः । यावच्छरीरपातं वा द्वादशाब्दमथाऽपि वा ॥११॥ तदर्ध वा तदर्ध वा मासद्वादशकं तु वा। तदर्ध वा तदर्ध वा मासमेकमथापि वा ॥१२॥ दिनद्वादशकं वाडपि दिनषट्कमथापि वा। तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥१३॥ अग्निमाधाय विविधद्विरजाहोमकारणात् । हुत्वाउऽज्येन समिद्धिश्च चरुणा च यथाविधि॥१४॥ पूताहात्पुरतो भूयस्तत्त्वानां शुद्धिमुद्दिशन् । जुहुयान्मूलमंत्रेण तैरेव समिदादिभिः ॥१५॥ तत्त्वान्येतानि मे देहे शुध्यन्तामित्यनुस्मरन् । परचाद्भूतादितन्मात्रः पंचकर्मेन्द्रियाणि च ॥१६॥ ज्ञानकर्मविभेदेन पंच पंच विभागगः । त्वगादि धातवः सप्त पंच प्राणादिवायवः ॥१७t। मनोबुद्धिरहंकारो गुणाः प्रकृतिपूरुषौ। रागोविद्या कला चंव नियतिः काल एव च ॥१८। माया च शुद्धविद्या च महेश्वरसदाशिवी। शक्तिश्व शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥१९॥ मंत्रेस्तु विरजैर्हृत्वा होताऽसौ विरजो नवेत् । अथ गोमयमादाय पिंडीकृत्याभिमंत्र्य च ॥२०॥ न्यस्याग्नौ तं च संरक्ष्य दिने तस्मिन्हविष्यभुक्। प्रभाते च चतुर्दश्यां कृन्वा सर्व पुरोदितम् ॥२१॥ तस्मिन्दिने निराहारः कालशेषं समापयेत्। प्रातः पर्त्रणि चाप्येवं कृत्वा होमावसानतः ॥२२॥ उपसंहृत्य रुद्राग्निं गृहोत्वा भस्म य नतः । ततश्र जटिलो मुण्डः शिखैकजट एव च ॥२३॥ भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत्म्याद्दिगम्वरः । अन्यः काषायवसनश्चर्मचीरांबरोऽय वा ॥२४॥ एकांबरो वल्कलवान्भवेद्दंडी च मेखली! प्रक्षाल्य चरणो पश्चाद्द्विराचम्या-मनस्तनुम् ॥२५॥ संकलीकृत्य तद्स्म विरज नलसम्भवम् । अग्निरित्यादिभिमंन्ब्रैःपड्भराथवंगैःक्रमात् २६॥ विमृज्यांगानि मर्धादिवरणांतं च तैः स्पृशेत् । ततस्तेन क्रमेणैव समुद्धल्य च भस्मना ॥२७॥ सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा । ततश्र पुंडं रचयेत्त्रियायुषसमाह्वयम् ॥२८॥ शिवभावं समागम्य शिवभावमयाचरेत्। कुर्यातित्रसंध्यमप्येवमेतपाशुपतं व्रतम् ॥२९॥ भुक्तिमुक्तिप्रदं चंव पशुत्वं विनिवर्तयेत् । तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥३॥ पूजनीयो महादेवो लिंगमूर्त्तिः सदाशिवः। भस्मस्नानं महापुण्यं सर्वसौख्यकरं परम् ।३१॥ आयुष्यं बलमारोग्यं श्रीपुष्टिवर्धनं यतः । रक्षार्थं मंगलार्थं च सर्वं संपत्समृद्धये ॥३२॥ भस्मस्निग्धमनुष्याणां महामारीभयं न च। शांतिकं पौष्टिकं भस्म कामदं च त्रिधा भवेत् ॥३३॥। इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे दशमोऽध्यायः ॥। १० ॥
Page 754
७५8 श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: ११ अथ एकाऽदशोध्यायः नारद उवाच त्रिविधत्वं कथं चास्य भस्मनः परिकीरतितम्। एतत्कथय मे देव महत्कौतूहलं मम ॥१॥ श्रीनारायण उवाच त्रिविधत्वं प्रवक्ष्यामि देवर्षे भस्मनः शृणु। महापापक्षयकरं महाकीर्तिकरं परम्॥२॥ गोमयं योनिसंबद्धं तद्धस्तेनैव गृह्यते। ब्राह्ममंत्रस्तु संदग्धं तच्छांतिकृदिहोच्यते ॥३॥ सावधानस्तु गृह्हीयान्नरो वै गोमयं तु यत्। अंतरिक्षे गृहीत्वा तत्षडंगेन दहेदतः ॥४॥ पौष्टिकं तत्समाख्यातं कामदं च ततः शृणु। प्रसादेन दहेदेतत्कामदं भस्म कीर्तितम् ॥५॥ प्रातरुत्थाय देवर्ष भस्मव्रतपरः शुचिः। गवां गोष्ठेषु गत्वा तुनमस्कृत्वा तु गोकुलम् ॥६॥ गवां वर्णानुरूपाणां गृह्हीयाद्गोमयं शुभम् । ब्राह्मणस्यच गौः श्वेता रक्ता गोः क्षत्रियस्य च ७। पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कथ्यते । पौर्णमास्याममावास्यामष्टम्यां वा विशुद्धधोः ॥८। प्रसादेन तु मंत्रेण गृहीत्वा गोमयं शुभम् । हृदयेन तु मंत्रेण पिंडीकृत्य तु गोमयम् ॥९॥ रविरश्मिसुसंतप्तं शुची देशे मनोहरे। तुषेण वा बुसैर्वापि प्रासादे न तु निक्षिपेत् ॥१०॥ अरण्युद्गवमग्नि वा श्रोत्रियागारजं तुवा। तदग्नौ विन्यसेत्तं च शिवबीजेन मंत्रतः ॥११। गृह्लीयादथ तत्राग्निकुण्डां्द्स्म विचक्षणः । नवं पात्रं समादाय प्रसादेन तु निक्षिपेत् ॥१२।। केतकी पाटली टढदुशरीरं चंदनं तथा। नानासुगंधिद्रव्याणि काश्मीरप्रभृतीनि च ॥१३॥ निक्षिपेत्तत्र पात्रे तु सद्योमंत्रेण शुद्धधीः। जलस्नानं पुरा कृत्वा भस्मस्नानमतः परम् ॥१४॥ जलस्नाने त्वशकश्च भस्मस्नानं समाचरेत्। प्रक्षाल्य पादौ हस्तौ च शिरश्रेशानमंत्रतः ॥१५॥ समुद्धूल्य ततः पश्चान्मुखं तत्पुरुपेण तु। अघोरेण तु हृदयं नाभि वामेन तत्परम् ॥१६॥ सद्योमंत्रेण सर्वाङ्गं समुद्धल्य विचक्षणः। पूर्ववस्त्रं परित्यज्य शुद्धवस्त्रं परिग्रहेत् ।।१७।। प्रक्षाल्य पादी हस्तो च पश्चादाचमनं चरेत्। भस्मनोद्धलनाभावे त्रिपुण्ड्रं तु विधीयते ॥१८॥ मध्याह्नात्प्राग्जलर्युक्त परतो जलवर्जितम्। तर्जन्यनामिकामध्यैस्त्रिपुण्ड्रं च समाचरेत् ॥१९॥ मूध्नि चंव ललाटे च कणे कठे तर्थव च। हृदये चैव बाह्नोश्च न्यासस्थानं हि चोच्ये ॥२०॥ पंचांगुलर्न्यसेन्मूध्नि प्रसादेन तु मंत्रतः। त्र्यंगुलविन्यसेनद्धाले शिरोमंत्रेण देशिकः॥२१॥ सव्येन दक्षिणे कर्णे वामदेवेन वामतः। अघोरेणतु कण्ठेच मध्याङगल्या स्पृशेद्गुदम् ॥२२॥ हृदयं हृदयेनैव त्रिभिरंगुलिभिः स्पृशेत् । विन्यसेद्दक्षिणे बाही शिखामंत्रेण देशिकः ॥२३॥ बामबाहो न्यसेद्धीमान्कवचेन त्रियंगुलः । मध्येन संशपृशेन्नाभ्यामीशान इति मन्त्रतः ॥२४॥ ब्रह्मविष्णुमहेशानास्तिस्रो रेखा इति स्मृताः । आद्यो ब्रह्मा ततो विष्णुस्तदूष्वं तु महेश्वरः ॥२५॥
Page 755
७५५ श्रीम देवीभागवते महापुराणे पकादसस्कन्धे अध्याय: १२ एकांगुलेन न्यस्तं यदीश्वरस्तत्र देवता। शिरोमध्ये स्वयं ब्रह्मा ईशरस्तु ललाटके ॥२६॥ कर्णयोरश्चिनौ देवी गणेशस्तु गले तथा। क्षत्रियश्च तथा वैश्यः शूद्रश्बोद्ूलनं त्यजेत् ।।२७।। सर्वेषामंत्यजातीनां मंत्रेण रहितं भवेत्। "अदोक्षितं मनुष्याणामपि मंत्रं बिना भवेत्"२८॥ इति जीदेवीमागवते महापुराणे एकादशस्कन्धे एकाटजोऽध्बाय: ।। ११ ।। अथ द्वादजोऽध्याय: श्रीनारायण उवाच देवर्षे प्रृणु तत्सवं भस्मोद्लनजं फलम्। सरहस्यविधानं सर्वकामफलप्रदम् ॥१॥ कपिलामा: शककत्स्वच्छं गृहोत्वा गगने पतत्। न क्लिन्नं नापि कठिनं न दुगधं न चोषितम् ।।२।। उपरयघः परित्यज्य गृह्नीयात्पतितं यदि। पिंडीकृत्य शिवाम्न्यादौ तत्क्षिपेन्मूलमन्त्रितम् ॥३। आदाय वानसाच्छाद्य भस्माधाने विनिक्षिपेत् । सुकते सुदृढ़े शुद्धे क्षालिते प्रोक्षिते शुभे॥४॥ विन्यस्य मंत्री मन्त्रेण पात्रे भस्म विनिक्षिपेत्। तैजसं दारवं चाथ मृन्मयं चैलमेव च।५॥ अन्यद्ा शोभनं शुद्धं भस्माधारं प्रकल्पयेत्। क्षौमे चंवातिशुद्धे बा घनवन्रस्म निक्षिपेत् ।६॥ प्रस्थितो भस्म गृत्नीयात्स्वयं चानुचरोपि वा। न चायुक्तकरे दद्यान्न चाशुचितले क्षिपेत्।।७।। न संस्पृशेत्तु नोचांगैर्न क्षिपेन्न च लंघयेत् । तस्माद्गसितमादाय विनियुञजीत मत्रितम् ॥८॥ विभूतिधारणविधि: स्मृतिप्रोक्तो मयेरितः । यदीयाचरणेनैव शिबतुल्यो न संशयः ॥९॥ शैवैः संपादितं भस्म वंदिकैः शिवसन्निधी। भक्त्या परमया ग्राह्यं प्रार्थयित्वा तुपूजयेत् ।१०। तंत्रोकवर्त्मना सिद्धं भस्म तांत्रिकपूजकैः। यत्र कुत्रापि दत्तं चेत्तद्ग्राह्यं नैव वैदिकः ॥११॥ शू द्रैः कापालिकैर्वाथ पाखण्डैरपरैस्तु तत्। त्रिपुण्ड्ं धारयेद्दक्त्या मनसाऽपिन लंघयेत् ॥१२॥ श्रुत्या विधीयते यस्मात्तत्त्यागी पतितो भवेत् । त्रिपुण्ड्रधारणं भक्त्या तथा देहावगुंठनम् ॥१३॥ द्रिज: कुर्याद्धि मंत्रेण तत्त्यागी पतितो भवेत् । उद्धूलनं त्रिपुण्डं च भक्त्या नैवाचरन्ति ये ॥१४॥ तेषां नास्ति विनिर्मोक्ष: संसाराज्जन्मकोटिभिः। येन भस्मोक्तमागेण धृतं न मुनिपुङ्गव ॥१५॥ तस्य विद्धि मुने जन्म निष्फलं सौकरं यथा। येपां वपुर्मनुष्याणां त्रिपुण्ड्रेण बिनास्थिनम् ॥१६॥ इमशानसदृशं तत्स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः । विग्भस्मरहित भालं धिग्त्राममशिवालयम् ॥१७॥ धिगनीशार्चनं जन्म धिग्विद्यामशिवाश्रयाम् । त्रिपुण्डं ये तिनिन्दन्ति निंदत शिवमेत्र ते ॥१८॥ धारयन्ति च ये भक्त्या धारयन्ति तमेव ते। यथा कृशानुरहितो भूधरो न विराजते ॥१९॥ अशेषसाधनेऽप्येवं भस्महीनं शिवार्चनम्। उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये ॥२०॥ तैः पूर्वाचरितं सबं विपरीतं भवेदपि। भस्मना वेदमंत्रेण त्रिपुण्ड्रस्य ज बारणम् ॥२१॥
Page 756
७५६ श्रीमद्ेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १३ विना वेदोचिताचारं स्मार्तस्यानर्थकारणम्। कृतं स्यादकृतं तेन श्रुतमप्यश्रुतं भवेत् ॥२२॥ अधीतमनधीतं च त्रिपुण्ड़ं यो न धारयेत्। वृथा वेदा वृथा यज्ञा वृथा दानं वृथा तपः ॥२३॥ वृथा व्रतोपवासेन त्रिपुण्डं यो न धारयेत्। भस्मधारणकं त्यवत्वा मुक्तिमिच्छति यः पुमान् २४॥ विषपानेन नित्यत्वं कुरुते ह्मात्मनो हि सः । स्रष्टा सृष्टिच्छलेनाह त्रिपुण्डस्य च धारणम् ॥२५॥ ससर्ज स ललाटं हि तिर्यगूध्वं न वर्तुलम्। तिर्यग्रेखाः प्रदृश्यन्ते ललाटे सर्वदेहिनाम् ॥२६॥ तथापि मानवा मर्खा न कुर्वति त्रिपुण्डकम्। न तद्धचानं न तन्मोक्षं न तज्ज्ञानं न तत्तप: ।२७॥ विना तिर्यकत्रिपुण्डं च विप्रेण यदनुष्टितम् । वेदस्याध्ययने शूद्रो नाधिकारी यथा भवेत् ॥२८। त्रिपुण्ड्ेण विना विप्रो नाघिकारी शिवार्चने। प्राङ्मुखचरणौ हस्ती प्रक्षाल्याचम्य पूर्ववत् ॥२९।। प्राणानायम्य संकल्प्य भस्मस्नानं समाचरेत् । आदाय भसितं शुद्धमग्निहोत्रसमुद्वम् ॥३०॥ ईशानेन तु मंत्रेण स्वमर्धनि विनिक्षिपेत्। तत आदाय तद्गस्म मुखे च पुरुषेण तु॥३१॥ अघोराख्येन हृदये गुह्ये वामाह्वयेन च। सद्योजाताभिधानेन भस्म पाददये क्षिपेत् ॥३*॥ सर्वाङ्गं प्रणवनैव मंत्रेणोद्धलनं ततः । एतदाग्नेयकं स्नानमुदितं परमर्षिभिः ॥३३॥ सर्वक्रसमृद्धयर्थं कुर्यादादाविदं बुधः। ततः प्रक्षाल्य हस्तादीनुपस्पृश्य यथावित्रि ॥३४॥ तिर्यकिपुण्डं विधिना ललाटे हृदये गले। पंचभिर्व्रह्मभिर्वापि कृतेन भसितेन च ॥३५॥ घृतमेतत्त्रिपुण्डं स्यात्सर्वकर्मसु पावनम्। शूद्रैरंत्यजहस्तस्थं न धार्य भस्म च ववचित् ३६॥ भस्मना साग्निहोत्रेण लिप्तः कर्म समाचरेत् । अन्यथा सर्बकर्माणि न फलंति कदाचन ॥३७।। सत्यं शौचं जपो होमस्तीर्थं देवादिपूजनम्। तस्य व्यर्थमिदं सवं यस्त्रिपुण्ड्ं न धारयेत्।३८।। त्रिपुण्डधृग्विप्रवरो यो रद्राक्षधरः शुचिः ।स हंनि रोगदुरितव्याधिदुर्भिक्षतस्क्रान् ।३९॥ समाप्नेति परं ब्रह्म यतो नावर्तते पुनः । स पंक्िपावनः श्राद्धे पूज्यो विप्रैः सुरैरपि ॥४०॥ श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने। धृतत्रिपुण्डः पूतात्मा मृत्युञ्जयति मानवः ॥ भस्मधारणमाहात्म्यं भूयोऽपि कथयामि ते ॥। ४१॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे द्वादशोऽध्यायः॥१२॥ अथ त्रयोदशोऽध्यायः श्रीनारायण उवाच महाप तकसंघाश्च पातकान्यपराण्यपि। नश्यन्ति मुनिशार्दूल सत्यं सत्यं न चान्यथा ।१।। एकं भस्म धृतं येन तस्य पुण्यफलं शृणु। यतीनां ज्ञानदं प्रोक्तं वनस्थानां विरक्तिदम् ॥२॥ गृहस्थानां मुने तद्वद्धर्मवृद्धिकरं तथा। ब्रह्मचर्याश्रमस्थानां स्वाध्यायप्रदमेव च॥३!
Page 757
श्रीमद्ेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १३ ७५० शूद्राणां पुण्यदं नित्यमन्येषां पापनाशनम्। भस्मनोद्धू लनं चंव तथा तिर्यक् त्रिपुंड्कम् ॥४॥ रक्षार्थं सर्वभतानां विधत्ते वैदिकी श्रुतिः। भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुण्ड्रक् ।।५॥। यज्ञत्वेनैव सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैक तथा तिर्यक् त्रिपुंड्रकम् ॥६॥ सर्वधर्मतया तेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चंव तथा तिर्यक् त्रिपुंड्रकम् ॥७॥ माहेश्वराणां लिंगार्थ विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्युक् त्रिपुंड्रकम् ॥८॥ विज्ञानार्थं च सर्वेषां विधत्ते वैदिकी श्रुतिः । भस्मनोद्धूलनं चैव तथा तिर्यक् त्रिपुंड्रकम् ॥९॥ हिरण्यगरभेण तदवतारैवरुणादिभिः । देवताभिर्धृतं भस्म त्रिपुंड्रोद्धूलनात्मक्म् ॥१०॥ उमादेव्या च लक्ष्म्या च वाचा चान्याभिरास्तिकैः। सर्वस्त्रीभिधृतं भस्म त्रिपुंड्रोद्धूलनात्मना ।११॥ यक्षराक्षमगंधर्वसिद्धविद्याधरादिभिः । मुनिभिश्च धृतं भस्म त्रिपुंड्रोद्धूलनात्मना ।।१२।। ब्राह्मण: क्षत्रियैवैश्यैः शूदैरवि च संकरैः। अपभ्रंशंर्धृतं भस्म त्रिपुड्रोद्धूलनातमना ॥१३॥ उद्धूलनं त्रिपुण्डं च यैः समार्चारितं मुदा। त एव शिष्टा विद्वांसो नेतरे मुनिपुंगव ॥१४।। शिवर्लिंगं मणिः संख्यं मंत्रः पंचाक्षरस्तथा। विभूतिरौषधं पुसां मुक्तिस्त्रीवश्यकर्मणि ॥१५॥ भुनक्तियत्र भस्मांगो मूर्खों वा पंडितोऽपि वा। तत्र भुक्ते महादेवः सपत्नीको वृष्वजः ॥१६॥ भस्मसंछन्नसर्वांगमनुगच्छति यः पुमान् । सर्वपातकयुक्तोऽपि पूजितो मानवोऽचिरात् ॥१७॥ भस्मसछन्नसर्वांगं यः स्तौति श्रद्धया सह। सर्वपातकयुक्तोऽि पूज्यते मानवेचिरात् ॥१८।। त्रिपुंड्रधारिणे भिक्षाप्रदानेन हि केवलम्। तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥१९॥ येन विप्रेण शिरसि त्रिुण्ड्र भस्मना कृतम्। कीकटेष्वपि देशेषु यत्र भूतिविभूषणः ॥२०॥ मानवस्तु वसेन्नित्यं काशीक्षेत्रसमं [हि तत् । दुःशोल.शोलयुक्तो वा योगयुक्तोऽप्यलक्षणः ॥२१॥ भूतिशासनयुक्तो वा स पूज्यो मम पुत्रवत्। छद्मनापि चरेद्यो हि भूतिशासनमैश्वरम् ॥२२॥ सोऽपि यां गतिमाप्नोति न तां यज्ञशतैरपि। संपर्काल्लीकया वापि भयाद्वा धारयेत्तु यः ॥२३॥ विधियुक्ता विभूरति तु स च पूज्यो यथा ह्यहम् । शिवस्य विष्णादवानां ब्रह्मणस्तृप्तिकारणम् ॥२४॥ पार्वत्याश्च महालक्ष्म्या भारत्यास्तृप्तिकारणम्। न दानेन न यज्ञेन न तपोभिः सुदुर्लभैः ॥२५॥ न तीर्थयात्रया पुण्यं त्रिपुण्ड्रेण च लभ्यते। दानं यज्ञाश्च धर्माश्र तोर्थयात्राश्च नारद ॥२६॥ ध्यानं तर्पा्त्रिपुंड्रस्य कलां नाहंति षोडशीम्। यथा राजास्वचिह्नांकं स्वजनं मन्यते सदा ॥२७॥ तथा शिवस्त्रिपुंड्राकं रुद्रस्तेन वशोकृनः। द्विजातिर्वान्यजातिर्वा शुद्धितेन भस्मना ॥२८।। स्त्रकीयमिव मन्यते। त्यक्तसर्वाश्रमाचारो लुससवक्रियोऽपि सः ॥२९॥ सकृत्तिर्यकत्रिपुंड्रांकं धारयेत्सोऽवि मुच्यने। नास्य ज्ञानं परीक्षेत न कुलं न व्रतं तथा ॥३०॥ त्रिपुंड्रांकितभालेन पूज्य एव हि नारद। शिवमन्त्रात्परो मंत्रो नास्ति तुल्यं शिवात्परम्॥३१॥
Page 758
७५८ श्रीमरेबीमागव ते महापुराजे एकादसस्कन्पे अध्बाय: १४ शिवार्चनात्परं पुण्यं न हि तीर्थं च भस्मना। रुद्राग्नेर्यत्परं तीर्थं तद्गस्म परिकीर्तितम् ॥३२॥ ध्वंसनं सर्वदुःखानां सर्वपापविशोधनम्। अंत्यजो वाऽबमो वापि मूर्खो वा पंडितोऽपि था॥ यस्मिन्देशे वसेन्नित्यं भूतिशासनसंयुतः । तस्मिन्सदाशिवः सोमः सर्वभूतगणर्वृतः ॥ सर्वतीर्थेश्र संयुक्त: सान्निध्यं कुरुते सदा॥३४।। एतानि पंचशिवमंत्रपवित्रितानि भस्मानि कामदहनांगविभूषितानि। त्रैपुंड्काणि रचितानि ललाटपट्टे लुंपति दैबलिखितानि दुरक्षराणि॥३५॥ इति श्रीदेवीमागवते महापुराणे एकादशस्कंधे त्रमोदश।ऽध्जायः ।।९।। अथ चतुर्दशोऽध्यायः श्रीनारायण उवाच भस्मदिग्धशरीराय यो ददाति धनं मुदा। तस्य सर्वाणि पापानि विनश्यंति न संशयः ॥१॥ श्रुतयः ल्मृतयः सर्वाः पुराणान्यखिलान्यपि। बदंति भू तिमाहात्म्यं तत्तस्मातद्वारयेद् द्विजः ॥२॥ सितेन भस्मना कुर्यात्त्रिसंध्यं यछ्िपुंडकम्। सर्वपापबिनिर्मुक्त: शिबलोके महीयते ॥३॥ योगी सर्वाङ्गकं स्नानमापादतकमस्तकम्। त्रिसंध्यमाचरेन्नित्यमातु योगमवाप्नुयात्॥४।। भस्मस्नानेन पुरुषः कुलस्योद्धारको भबेत् । भस्मस्नानं जलस्नानादसंख्येयगुणान्बितम् ।।५।। सर्वंतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्। तत्फलं लभते सवं भस्मस्मानान्न संशयः ॥६॥ महापातकयुक्तो वा युक्तो वाप्युपपातकः। भस्मस्नानेन तत्सवं दहत्यग्निरिबेंधनम्॥७॥ भस्मस्नानात्परं स्नानं पवित्रं नैब विद्यते। एवमुक्त शिवेनादो तदा स्नातः स्वयं शिवः ।८।। तदा प्रभृति ब्रह्माद्या मुनयश्च शिवाबिनः । सर्वकर्मसु यत्नेन भस्मस्नानं प्रचक्रिरे ॥९॥ तस्मादेतच्छिरः स्नानमाग्नेयं यः समाचरेत् । अनेनैव शरोरेण स हि रुद्रो न संशयः ॥१॥ ये भस्मधारिणं दृष्टा परितृप्ता भवन्ति ते। देवासुरमुनीद्रेश्च पूज्या नित्यं न संशयः॥११॥ भस्मसंछन्नसर्वांगं दृष्टोत्तिष्ठति यः पुमान्। तं दृष्टा देवराजोऽपि दंडवत्प्रणमिष्यति ॥१२॥ अभक्ष्यभक्षणं येषा भस्मधारणपूर्वकम्। तेषां तद्दक्ष्यमेव स्यान्मुने नात्र विचारण ॥१३॥ यः स्नाति भस्मना नित्यं जले स्नात्वा ततः परम्। ब्रह्मचारी गृहस्थो वा वानप्रस्थोयबादरात् ॥१४॥ सर्वपापविनिर्मुक्त: स याति परमां गतिम्। आग्नेयं भस्मना स्नानं यतीनां च बिशिष्यते १५।। आर्द्रस्नानाद्वरं भस्मस्नानमार्द्रवधो ध्रुवः। आद्रं तु प्रकृति विद्यात्प्रकृति बंधनं विदुः ॥१६॥ प्रकृतेस्तु प्रहाणाय भस्मना स्नानमिष्यते । भस्मना सदृशं ब्रह्मन्नास्ति लोकत्रयेष्वपि ॥१७॥ रक्षार्थं मंगलार्थं च पवित्रार्थ पुरा सुरैः । भस्म दृष्टा मुने पूर्व दत्तं दैव्यै प्रियेण तु ॥१८॥
Page 759
श्रीमद्ेवीमागवते महापुराणे एकादशस्कन्धे अध्याय: १४ ७५१ तस्मादेतच्छिरःस्नानमाग्नेयं यः समाचरेत् । भवपाशविनिर्मुक्तः शिवलोके महीयते ॥१९॥ ज्वररक्ष:पिशाचाश्च पूतनाकुष्ठगुल्मकाः । भगंदराणि सर्वाणि चाशीतिर्वातरोगकाः ॥२०॥ चतुःषष्टिः पित्तरोगा: श्लेष्मा: सप्तत्रिपंचकाः । व्याघ्रचौरभयं चैवाप्यन्ये दुष्टग्रहा अपि ॥२१॥ भस्मस्नानेन नश्यंति सिंहेनेव यथा गजाः । शुद्धशोतजलेनैव भस्मना च त्रिपुंड्रकम् ॥२२॥ यो धारयेत्परं ब्रह्म स प्राप्नोति न संशयः । "भस्मना च त्रिपुण्डं च यः कोऽपि धारयेत्परम् । स ब्रह्मलोकमाप्नोति मुक्तपापो न संशयः ॥१॥" यथाविधि ललाटे वै वह्निवीर्यप्रधारणात् ॥२३। नाशयेल्लिलितां यामों ललाटस्थां लिपि ध्रुवम्। कंठोपरि कृतं पापं नाशयेत्तत्प्रधारणात् ॥२४।। कंठे न धारणात्कंठभोगादिकृतपातकम्। बाह्वोर्बाहुकृतं पापं वक्षसा मनसा कृतम् ॥२५॥ नाम्बां शिश्नकृतं पापं गुदे गुदकृतं हरेत् । पार्श्वयोर्धारणाद्ब्रह्मन्परस्त्रयालिंगनादिकम् ॥२६।। तद्रस्मधारणं शस्तं सर्वत्रव त्रिलिंगकम्। ब्रह्मविष्णुमहेशानां त्रय्यग्नीनां च धारणम् ॥२७॥ गुणलोकत्रयाणां च धारणं तेन वे कृतम् । भस्मच्छत्रो द्विजो विद्वान्महापातकसंभवैः ॥२८। दोयवियुज्यते सद्यो मुच्यते च न संशयः । भस्मनिष्ठस्य दह्यंते दोषा भस्माग्निसंगमात् ॥२९॥ भस्मस्नानविशुद्धात्मा आत्मनिष्ठ इति स्मृतः । भस्मना दिग्धसर्वांगो भस्मद्रीप्तत्रिपुण्ड्रकः ॥३०॥ भस्मशायी च पुरुवो भस्मनिष्ठ इति स्मृतः । भूतप्रेतपिशाचाद्या रोगाश्रातीव दुःसहाः ॥।३१॥। भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः । भासनाद्गसितं प्रोक्तं भस्म कल्मषभक्षणात् ॥३२।। भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी पुरा। त्रिपुण्ड्रारिणं दृष्टा भूतप्रेतपुरःसराः ॥३३॥ भोता: प्रकपिताः शोघ्रं नश्यत्येव न संशयः । स्मरणादेव रुद्रस्य यथा पापं प्रणश्यति ॥३४॥ अप्यकार्यसहस्राणि कृत्वा यःस्नाति भस्मना । तत्सवं दहने भस्म यथाग्निस्तेजसा वनम्।३५॥ कत्बापि चातुलं पापं मृत्युकालेऽपि यो द्विजः । भस्मस्नायी भवेत्कश्चित्क्षिप्रं पापैः प्रमुच्यते ॥३६॥ भस्मस्नानाद्विशुद्धात्मा जितक्रोषो जितेंद्रियः । मत्समीपं समागत्य न स भूयोऽभिवर्तते ॥३७॥ बृहस्पतिगते सोमे भस्मोद्धूलितविग्रहः। अर्चितं शंकरं दृष्टा सर्वपापैः प्रमुच्यते॥३८॥ आयुष्कामोऽयवा विद्वान्भूतिकामोऽथवा नरः । नित्यं वे धारयेद्स्म मोक्षकामी स मैद्विजः ॥३९॥ त्रिपुंडं परमं पुण्यं ब्रह्बिष्णुशिवात्मकम् । ये घोरा राक्षसाः प्रेता ये चान्ये क्षुद्रजंतवः ॥४०॥ तिपुंड्रधारिणं दृषा पलायंते न संशयः । कृत्वाशोचादिकं कर्म स्नात्वा तु विमले जले ।।४१।। भस्मनोद्धूलनं कार्यमापादतलमस्तकम्। केवलं वारुणं स्नानं देहे बाह्यमलापहम् ।।४२।। बाह्यांतरमलापहम्। त्यक्त्व पिवारुणं स्नानं तत्परः स्यान्न संशब: ४३।।
Page 760
श्रीमहैवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १५ कृतमप्यकृतं सत्यं भस्मस्नानं विना मुने। भस्मस्नानं श्रुतिप्रोक्तमाग्नेयं स्नानमुच्यते ॥४४॥ अंतर्बहिश्र संशुद्धं शिवपूजाफलं लभेत्। यद्वाह्यमलमात्रस्य नाशक स्नानमस्ति तत् ॥४५॥ तद्विवश्यति तीव्रेण प्राणिबाह्यांतरं मलम्। कृत्वाऽपि कोटियो ित्यं वारुण स्नानमादरात् ।। न भवत्येव पूतात्मा भस्मस्नानं विना मुने । यद्द्स्मस्नानमाहात्म्यं तढे वेद तत्त्वतः ॥४७॥ यद्वा वेद महादेवः सर्ववेदशिखामणिः । भस्मस्नानमकृत्वैव यः कुरकर्म वैदिकम् ॥४८॥ स तत्कर्मकलार्धार्धमपि नाप्नोति वस्तुतः । यः करिष्यति यत्नेन भस्मस्नानं यथाबिधि ॥४१।। स एवंकः सर्वकर्मस्वधिकारी श्रुतिश्रतः । पावनं पावनानां च भस्मस्नानं श्रुतिभ्रुतम् ।५०॥ न करिष्यति यो मोहात्म महापातकी भवेत्। अनतैर्वारुणैः स्नानैर्यत्वुण्यं प्राप्यते द्विजैः ॥५१॥ ततोऽनंसगुणं पुण्यं भस्मस्तानादवाप्यते। कालत्रयेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः ॥५२॥ भस्मस्नानं स्मृतं श्रीत तत्त्यागो पतितो भवेत्। मूत्राद्युत्सर्जनांते तु भस्मस्नानं प्रयत्नतः ॥५३।। कर्तव्यमन्यथा पूता न भविष्यन्ति मानवाः । विधिवत्कृतशौचोऽपि भस्मस्नानं विना द्विजः ५४॥ न भविष्यति पूतात्मा नाधिकार्यपि कर्मणि। अपानवायुनिर्याते जुम्भणे स्कन्दने क्षुते ॥५५।। श्लेष्मोद्वारेऽपि कर्तव्यं भस्मस्नानं प्रयत्नतः । श्रीभस्मस्नानमाहात्म्यस्यैकदेशोऽत्र व्णितः ॥५६॥ पुनश्च संप्रवक्ष्यामि भस्मस्नानोत्थितं फलम्। सावधानेन मनसा श्रोतव्यं मुनिपुङ्गव ॥५७॥ इति श्रीदेवीभागवते महापुगणे एकादशस्कन्धे चतुर्दशोऽध्यायः ॥१४ ॥ अथ पश्चदशोऽध्यायः श्रीनारागण उवाच अग्निरित्यादिभिर्मत्रैर्भस्म संशोध्य सादरम्। धारणीयं ललाटादी त्रिपुण्ड केवल द्विजैः ॥१॥ ब्रह्मक्षत्रियवैश्याश्च एते सर्वे द्विजाः स्ताः। तस्माद्द्विजैः प्रयत्नेन त्रिपुंडूं धार्यमन्वहम् ॥२॥ यस्योपनयनं ब्रह्मन् स एव द्विज उच्पते। तस्माच्छ्रौतं द्विजैः कार्य त्रिपुण्डस्य च धारणम् ३॥! विभूतिधारणं त्यक्त्वा यः सत्कर्म समाचरेत्। तत्कृतं चाकतप्रायं भवत्येव न संशयः ॥४॥ न गायत्र्युपदेशोऽपि भस्मनो धारणं विना। ततो धृत्वैव भस्मांगे गायत्रीजपमाचरेत् ।।५।। गायत्रों मूलमेवाहुर्व्राह्मण्ये मुनिपुङ्गव।सा भस्मधारणाभावे न केनाप्युपदिश्यते ॥६॥ न तावदधिकारोजस्ति गायत्रीग्रहणे मुने। यावन्न भस्म भालादौ धृतमग्निसमुद्द्वम् ।७।। भस्महीनललाटत्वं न ब्राह्मण्यानुमापकम् । एवमेव मया ब्रह्मन्हेतुरुक्तः सुपुण्यदः ॥८।। मंत्रपूतं सितं भस्म ललाटे परिवर्तते। स एव ब्राह्मणो विद्वान्सत्यं सत्यं मयोच्यते ॥९॥ मस्वास्ति सहजा प्रीतिर्मणिवद्धस्मसंग्रहे। स एव ब्राह्मणो ब्रह्मन्सत्यं सत्य मयोच्यते ॥१०॥
Page 761
श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १५ ७६१
न यस्य सहजा प्रीतिर्मणिवद्स्मसंग्रहे। स चंडाल इति ज्ञेयो जन्मजन्मांतरे ध्रुवम् ॥११॥ न यस्य सहजा प्रीतिस्त्रिपुण्डोद्धूलनादिषु। स चांडाल इतिज्ञेयः सत्यं सत्यं मयोच्यते ॥१२॥ ये भस्मधारणं त्यवत्त्रा भुञ्जन्तेच फलादिकम् । ते सवें नरकं घोरं प्राप्नुवन्ति न संशयः ॥१३॥ "विभूतिधारणं त्यववा यः शिवं पूजयिष्यति। स दुर्भगः शिवद्वेष्टा सद्वेषो नरकप्रदः ॥ सर्वकर्मबहिर्भूतो भस्मधारणवजितः ।।१।।" विभूतिधारणं त्यकत्वा कुर्वन् हेमतुलामपि। न तत्फलमवाप्नोति पतितो वै भवेद्धि सः ॥१४॥ यथोपवीतरहितैः संध्या न क्रियते द्विजैः । तथा संध्या न कर्त्तव्या विभूतिरहितैरपि ॥१५॥ गतोपवीतैः संध्यायां कार्यः प्रतिनिधिः क्वचित्। जपादिकं तु सावित्र्यास्तर्थवोपोषणादिकम् ॥१॥॥ विभूतिधारणे त्वन्यो नास्ति प्रतिनिधि: क्वचित्। विभूतिधारणं त्यकत्वा यदि संध्यां करोति य:१७॥। प्रत्यवैत्येव येनासी नाधिकारी तदा द्विजः। यथा श्रुत्वांत्यजो वेदान्प्रत्यवैति तथा द्विजः ॥१८॥ प्रत्यवैति न सन्देहः संध्याकृन्द्वस्मवर्जितः । संपादनीयं यत्नेन श्रीतं भस्म सदा द्विजैः ॥१९॥ स्मार्त वा तदभावे तु लौकिकं वा समाहितैः । यादशं तादृशं वाऽस्तु पवित्रं भस्म संततम् ॥२०॥ धारणीयं प्रयत्नेन द्विजैः संध्यादिकर्मसु। न संविशंति पापानि भस्मनिष्ठे ततः सदा ॥२१॥ कर्तव्यमपि यत्नेन ब्राह्मणर्भस्मधारणम्। मध्यांगुलित्रयेणैव स्वदक्षिणकरस्य तु॥२२॥ षडंगुलायतं मानमपि चाधिकमानकम्। नेत्रयुग्मप्रमाणेन भाले दीस्तं त्रिपुंडकम् ॥२३॥ कदाचिद्द्स्मना कुर्यात्स रुद्रो नात्र संशयः । अकारोऽनामिका प्रोक्त उकारो मध्यमांगुलि: २४।। मकारस्तर्जनी तस्मात्त्रिपुण्ड्रं त्रिगुणात्मकम्। त्रिपुण्डं मध्यमातर्जन्यनामाभिरनुलोमतः।२५।। अत्र ते कथयाम्यनमितिहासं पुरातनम्। कदाचिदथ दुर्वासाः पितृलोकं गतोऽभवत् ॥२६॥ भस्मसंदिग्धसर्वाङ्गो रुद्राक्षाभरणान्वितः । शिव शंकर सर्वात्मञ्छ्रीमातर्जगदम्बिके ॥२७॥ नामानीति गृणन्नुच्चस्तापसानां शिखामणिः । कव्यवाडादयस्ते तु प्रत्युत्थानाभिवादनैः ।।२८।। आसनाद्युपचारैश्च सम्मानं बहु चक्रिरे। नानाकथाभिरन्योन्यसंभाषां चक्रिरे ददा ॥२९॥ तस्मिस्तु समये कुंभीपाकस्थानां तु पापिनाम् । घोरः समभवच्छब्दो हा हताः स्मेतिवादिनाम्ः०॥ मृता: स्मेति वदन्त्येके दग्धाः स्मेतिपरे जगुः । छिन्नाः स्मेति विभिन्नाः स्मेत्येवं रोदनकारिणः३१ श्रुत्वा तं करुणं शब्दं,दुःखितो मुनिराड़ हृदि। पप्रच्छ पितृनाथांस्तां्केषां शब्दोऽयमित्यति ॥३२।। ते समूचुर्मुनेऽत्रंव पुरी संयमनी परा। वर्तते यमराडत्र पापिनां भोगदायकः ॥३३॥ नानादूत: कालरूपैः कृष्णवणेर्भयंकरैः। सहितोऽत्रैव तत्पुर्या नायको विद्यतेऽनघ ॥३४॥ तत्र कुण्डान्यनेकानि पापिनां भोगदानि च । षडशीतिर्घोररूपैर्दूतैः परिवृतानि च ॥३५॥ तत्र मुख्यतमं कुण्डं कुंभीपाकाभिधं महत्। वर्तते तद्गतानां च यातनानां तु वर्णनम्॥३६॥
Page 762
"१२ श्रीमद्ेवीमागवते महापुराणे एकादशस्कन्पे अध्याय: १५ कर्तु न शक्यते कैश्चिदपि वर्षशतैरपि। ये शिवद्रोहिणः संति तथा देवीविनिंदकाः ॥३७॥ ये विष्णुद्रोहिणः सन्ति पतंत्यत्रव ते मुने । ये वेदनिंदकाः संति सूर्यस्य च गणेशितुः ॥३८॥ ब्राह्मणानां द्रोहिणो ये पतन्त्यत्रव ते मुने। कामाचाराश्च ये सन्ति तप्तमुद्रांकिताश्च ये ॥३९॥ त्रिशलधारिणो ये च पतन्त्यत्रैव ते मुने। मातृपितृगुरुज्येष्ठपुराणस्मृतिनिंदकाः ये धर्मदूषकाः सन्ति पतन्त्यत्रैव ते मुने। तेषामयं महाघोरः शब्दः श्रवणदारुणः ॥४१॥ श्रयतेऽस्माभिरनिशं वैराग्यं यच्छ्रुतेर्भवेत्। इति तेपां वचःश्रुत्वा मुनिराट् तदद्िदृक्षया ।।४२।। उत्थाय चलितस्तूर्ण ययौ कुण्डसमीपतः। अवाङ्मुखो ददर्शाधस्तस्मिन्नेव क्षणे मुने ॥४३॥ तत्रस्थानां पापितां तु स्वर्गाधिकमभूत्सुखम् । हसंति केचिद्गायन्ति नृत्यन्ति च तथापरे ॥४४॥ परस्परं रमन्ते तेऽप्युन्मत्ताः सुखवर्द्धनात्। मृदंगमुरजावीणाढक्कादुंदुभिनिस्वनाः ॥४५॥ समुद्भूतास्तु मधुराः पञ्चमस्वरभूषिताः । वसन्तवल्लीपुष्पाणां सुगन्धमरुतो बवुः ॥४६॥ मुनिस्तु चकितो दृष्ठा यमदूताश्च विस्मिताः । शीघ्र ते कथयामासुर्धर्मराजाय बेदिने ॥४७॥ महाराज महाश्चर्यमधुनैवाभवद्विभो। स्वर्गािप्यघिकं सौखूयं कुम्भीपाकस्थपापिनाम् ४८।। निमित्तं नैव जानीमः कस्मादिदमभूद्विभो। चकिताः स्मवयं सर्वे प्राप्ता देव त्वदन्तिकम् ॥४९। निशम्य दूतवाणीं तां धर्मराट् शीघ्रमुत्थितः । महामहिषमारूढो ययो ते यत्र पापिनः ॥५०॥ तां वार्ता प्रेषयामास दूतद्वारामरावतीम्। श्रुत्वां तां देवराजोऽपि प्राप्तो देवगर्णः सह ॥५१॥ ब्रह्मलोकात्पद्मजोपि वैकुंठाद्विष्टरश्रवाः । तत्तल्लोकाच्च दिक्पालाः समाजग्मुर्गणः सह॥।५२॥ परिवार्य स्थिताः सर्वे कुंम्भीपाकमितस्ततः। अपश्यंस्तद्रताञ्जीवान्स्वर्गाधिकतुखान्यितान् ५३॥ चकिता एव ते सवें न विदुस्तस्य कारणम् । अहो पापस्य भोगार्थं कुंडमेतद्विनिर्मितम् ॥५४॥ तत्र सौरूयं पदा जातं तदा पापात्तु कि भयम्। उच्छिन्ना बेदमर्यादा परमेशकृता कथम् ॥५५॥ भगवान्स्वस्य संकल्पं वितथं कृतवान्करथम्। आश्रर्यमेतदाश्रर्यमेतदित्येव भाषिणः ॥५६।। तटस्या अभवन् सर्वे न विदुस्तत्र कारणम् । एतस्मिन्नन्तरे शौरिः संमंत्र्य विनुधादिभिः ।।५७।। ययौ कैशित्सुरगणै: सहितः शंकरालयम्। पार्वत्या सहितं देवं कोटिकंदर्पसुन्दरम् ॥५८।। रमणीयतमांगं तं लावप्यखनिमद्दुतम्। सदा षोडशवर्षीय नानालड्कारभूषितम् ।५९।। नानागुण: परिवृतं लालयन्तं परां शिवाम् । ददर्श चन्द्रमोलि स चतुर्वेदं ननाम है।।६०।। वृत्तांतं कथयामास चमत्कृतमतिस्फुटम् । एतस्य कारणं देव न जानोमः कथंचन ॥६१। वद तत्कारणं देव सर्वज्ञोऽसि यतः प्रभो। विष्णुवाक्यं तदा श्रुत्बा प्रसन्नमुखपंकअः ॥६२। उवाच मधुर वाक्यं मेघगम्भीरया गिरा। शृणु विष्णो तन्निमित्तं नाश्रयं त्वत्र बिद्यते ॥६ ३।। भस्मनो महिमैबायं भस्मना कि भबेन्न हि। कुम्भीपाकं गतो द्रष्टुं दुर्बासाः शैवमंमतः ॥६४॥
Page 763
श्रीम देवीमागवते महापुराणे एकाद्शस्कन्ये अध्याय: १५ ७६३
अबाड्मुखो ददर्शाधस्तदा वायुवशाद्धरे। भालभस्मकणास्तत्र पतिता दैवयोगतः ॥६५। तेन जातमिदं सवं भस्मनो महिमा त्वयम् : इतः परं तु तत्तोथं पितृलोकनिवासिनाम् ॥६६॥ भविष्यति न संदेहो यत्र स्नात्वा सुखी भवेत्। पितृतीर्थे तु तन्नाम्नाऽप्यत ऊर्ध्व भविष्यति ॥६७॥ मल्लिगस्थापनं तत्र कारय देव्याश्च सत्तम। पृजयष्यन्ति ते तत्र पितृलोकनिवासिनः ॥६८।। त्रैलोक्ये यानि तीर्थानि तत्र श्रेष्ठमिदं भवेत्। पित्रीश्वरपूजया तु त्रैलोक्यं पूजितं भवेत् ।६९।। नारायण उवाघ इति देववचः श्रुत्वा देवं मूर्ध्ना प्रणम्य च। तदनुज्ञां समादाय ययौ देवान्तिकं हरिः॥७०॥ तत्सरवं कथयामास कारणं शंकरोदितम्। साधु साध्विति ते प्रोचुरमरा मौलिवालनै: ।७१॥। शशंसुर्भस्ममाहात्म्यं हरिब्रह्मादयः सुराः। पितरश्चव सन्तुष्टास्तीर्थलाभात्परन्तप ॥७२॥ तत्तीर्षतीरे लिंग व देव्या मूर्ति यबाविधि। स्थापयामासुरमर पूजयामासुरन्वहम् ॥७३॥। तत्र वे प्राणिनोऽभूवन्पापभोगार्थमास्थिताः । ते बिमानं समारुह्य गताः कैलासमउ्डलम् ॥७४॥ नाम्ना भद्रगणास्ते तु बसंत्यद्यापि तत्र हि। पुनश्र दूरदेशे तु कुंभीवाको विनिर्मितः ।७५।। निरुद्धं शंबगमनं देवैस्तत्र तु तददिनात् । इति ते सर्बमार्यातं भस्ममाहात्म्यमुत्तमम् ॥७६॥ नातः परतरं किजिदधिकं विद्वते मुने । ऊर्ष्बपुण्डबिधि चैवाप्यधिकारिविभेदतः।।७७। प्रव्रक्ष्ये मुनिशार्दूल वैष्णवागमलोकनात्। ऊर्ष्वपुण्ड्रप्रमाणन दिव्यान्यंगुलिभेदतः ।।७८।। वर्णाभिमंत्रदेव्याश्र प्रबक्ष्यामि फलानि च । पर्वताग्रे नदीतीरे शिवक्षेत्रे विशेषतः ॥७९॥ सिंधुतीरे च वल्मीके तुलसीमूलमाश्रिते। मृद एतास्तु संग्राह्या वर्जयेदन्यमृत्तिकाः ॥८०।। श्यामं शांतिकरं प्रोक्तं रक्तं वश्यकरं भबेत्। श्रीकरं पीतमित्याहुर्धर्मंदं श्वेतमुच्यते॥८१॥ अंगृष: पष्टिदः प्रोक्तो मध्यमायुष्वरी भवेत्। अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी ।८२। एतरंगुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वर्तिदीपावलिकृति वेणुपत्राकृति तथा ॥८३॥ पभ्मश्य भुकुलाकारं तथा कुर्यात्प्रयत्नतः । मत्स्यकूर्माकृति वापि शंखाकारं ततः परम्।८४॥ दशांगुलिप्रमाणं तु उत्तमोत्तममुच्यते। नवांगुलं मध्यमं स्यादश्टंगुलमतः परम्।८५॥ सपषट्पंचभिः पुण्डं मध्यमं त्रिविधं स्मृतम् । चतुम्िद्यङ्गल: पुण्डं कनिष्ठ त्रिविधं भवेत् ।।८६।। ललाटे केशवं बिद्यान्नारायणमथोदरे। माधवं हृदि विन्यस्य गोविन्दं कण्ठकूपके ।।८७।। उदरे दक्षिणे पा्श्चे विष्णुरित्यभिधीयते। तत्पार्श्रबाहुमध्ये च मधुसूदनमेव च॥८८॥ न्रिविक्रमं कर्णदेशे वामकुक्षौ तु वामनम्। श्रीधरं बाहुके वामे हृषीकेशं तु कर्णके। ८९॥ पृष्ठे च पद्मनाभं तु ककुद्दामोदरं स्मरेत्। द्वादशैतानि नामानि वासुदेवेनि मूर्धनि ॥९०॥ पूजाकाले व होमे च सायं प्रातः समाहितः । नामान्युच्चार्य विधिना धारयेदूर्ध्वपुण्ड्कम् ॥९१॥
Page 764
७६४ श्रीमद्ेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १५ अशुचिर्वाप्यनाचारो मनसा पापमाचरेत्। शुचिरेव भवेन्नित्यं मूध्नि पुण्ड्रांकितो नरः ९२॥ ऊर्ध्वपुण्ड्धरो मर्त्यो म्रियते यत्र कुत्रचित्। श्वपाकोऽपि विमानस्थो मम लोके महीयते ॥९३॥
परमकांतिनोऽप्येवं एकांतिनो महामागा मत्स्वरूपविदोऽमलाः । सांतरालान्प्रकुर्वति पुण्ड्रान्विष्णुपदाकृतीन् ।९४॥ मत्पादैकपरायणाः । हरिद्राचूर्णसंयुक्ताञ्छूलाकारांस्तु वाऽमलान् ॥।९५।। अन्ये तु वैष्णवाः पुण्ड्रानच्छिद्रानपि भक्तिनः। प्रकुर्वीरन्दीपपद्मवेणुपत्रोपमाकृतीन् अच्छिद्रानपि सच्छिद्रान्कुर्युः केवलवैष्णवाः । अच्छिद्रक्ररणे तेषां प्रत्यवायो न विद्यते ॥९७॥ एकांतिनां प्रपन्नानां परमैकांतिनामपि। अच्छिद्रपुंड्ाकरणे प्रत्यवायो महान्भवेत् ।९८। ऊर्ध्वपुण्ड्रं तुयः कुर्यादंडाकारं तु शोभनम्। मध्ये छिद्रं वेष्णवाश्च नमोन्तैः केशवादिभिः ९९।। विमलान्यूर्ध्वपुंड्राणि सांतरालानि योः नरः । करोति विपुलं तत्र मन्दिरं मे करोति सः १००॥ ऊर्ध्वपुण्ड्स्य मध्ये तु विशाले सुमनोहरे। लक्ष्म्या साकं समासीनो रमते विष्णुरव्ययः १०१॥ निरंतरालं यः कुर्यादूर्ध्वपुंडं द्विजाधमः । स हितत्र स्थितं विष्णुं श्रियं चैव व्यपोहति १०२।। अच्छिद्रमूर्ध्वपुण्डं तु यः करोति विमूढधीः। स पर्यायेण तानेति नरकानेकविशतिम् ॥१०३॥ कजूनि स्फुटपार्श्चानि सांतरालानि ।वन्यसेत् । ऊर्ध्वपुण्ड्राणि दंडाब्जदीपमत्स्यनिभानि च १०४॥ शिखोपवीतवद्धार्यमूर्ध्वपुण्डं द्विजेन च । विना कृताश्चेद्विफला: क्रियाः सर्वा महामुने ॥१०५॥ तस्मात्सर्वेषु कार्येषु कार्यं विप्रस्य धीमतः । ऊर्ध्वपुण्ड त्रिशलं च बर्तुलं चतुरस्रकम् ॥१०६॥ अर्धचन्द्रादिकं लिंगं वेदनिष्ठो न धारयेत्। जन्मना लब्धजातिस्तु वे इपंथानमाश्रितः ॥१०७।। पुण्ड्रान्तरं भ्रमाद्वापि ललाटे नैव धारयेत्। खयातिकांत्यादिसिद्धिचर्थ चापि विष्णागमादिषु ॥ स्थितं पुण्ड्रांतरं नैव धारयेद्वैदिको जनः । तिर्यवित्रिपुण्ड् संत्यज्य श्रौतं कथमपि भ्रमात् १०९ ललाटे भस्मना तिर्यवित्रिपुण्ड्रस्य च धारणम्। विना पुण्ड्रान्तरं मोहाद्वारयन्नारकी भवेत् ११०॥ वेदमार्गेकनिष्ठस्तु मोहेनाप्यंकितो यदि। पतत्येव न संदेहस्तथा पुण्ड्रांतरादपि ।१११॥ नांकनं विग्रहे कुर्याद्वेदमार्गं समाश्रितः । श्रौतधर्मैकनिष्ठानां लिंग तु श्रौतमेव हि ॥११२॥ अश्रौतधर्मनिष्टानामश्रौतं लिंगमीरितम्। देवता वेदसिद्धा यास्तासां लिंग तुवंदिकम् ॥११३॥ अश्रौततंत्रनिष्ठा यास्तासामश्रोतमेव हि। वेदसिद्धो महादेवः साक्षात्संसारमोचकः ११४॥ भक्तानामुपकाराय श्रौतं लिंग दधाति च । वेदसिद्धस्य विष्णोश्च श्रौतं लिंग न चेतरत् ११५।। प्रादुर्भावविशेषागामपि तस्य तदेव हि। श्रौतलिंगं तु विज्ञेयं त्रिपुंड्रोद्धूलनादिकम् ११६॥ अश्रौतमूर्ध्वपुण्ड्रादि नैव तिर्यव्त्रिपुण्ड्कम्। वेदमार्गेकनिष्ठानां वेदोक्तेनैव वर्त्मना ॥११७ ललाटे भस्मना तिर्यक्त्रिपुण्ड धार्यमेव हि। यस्तु नारायणं देवं प्रपन्नः परमं पदम् ॥ धारयेत्सर्वदा शूलं ललाटे गन्धवारिणा ॥११८॥ इति श्रीदेवीमागवने महापुराणे एकादशस्कन्धे पंचदशोऽध्यायः।१५॥
Page 765
श्रोमद्देवीभागत्रते महापुराणे एकादशस्कन्धे अध्याय: १६ ७६५
अथ षोडशोऽध्यायः श्रानारायण उवाच अथातः श्रयतां पुण्यं संध्योपासनमुत्तमम्। भस्मधारणमाहात्म्यं कथितं चैव विस्तरात् ।१।। प्रातःसंध्याविधानं च कथयिष्यामि तेऽनघ। प्रातःसंध्यां मनक्षत्रां मध्याह्ने मध्यभास्कराम्॥२॥ ससूर्यां पश्चिमां संध्यां तिस्रः संध्या उपासते। तद्ेदानप वक्ष्यामि, शृणु देवर्षिप्तम ॥३॥ उत्तमा तारकोपेता मध्यमा लुप्ततारका। अधमा सूर्यमहिता प्रातःसंध्या त्रिधा मत्रा ॥४॥ उत्तमा सूर्यसहिता मध्यमाऽस्तमिते रवौ। अधमा तारकोपेता सारयसंध्या त्रिधा मता ॥५॥ विपे वृक्षो मूलकान्यत्र संध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव वृक्षो न शाखा ॥६।। संध्या येन न विज्ञाता संध्या येनानुपासिता। जीवमाना भवेच्छूण मृतः श्वा चैव जायते ॥७॥। तस्मान्नित्यं प्रकर्तव्यं संध्योपासनमुत्तमम्। तदभावेज्यकर्मादावधिकारी भवेत्न हि॥।८। उदयास्तमयादूर्ध्वं यावत्स्याद्धटिकात्रयम्। तावत्संध्यामुगमीत प्रायश्चित्तं तनः परम् ॥९॥। कालातिक्रमणे जाते चतुर्थार्ध्यं प्रदापयेत् । अथवाष्टगतं देवीं जप्त्वाऽडदौतां समाचरेत्॥१०॥ यस्मिन्काले तु यत्कर्म तत्कालाधीश्वरीं च ताम्। संध्यामुपास्य पश्चात्तु तन्कालीनं समाचरेत् ।।११।। गृहे साधारणा प्रोक्ता गोष्ठे वै मध्यमा भवेत्। नदीतीरे चोत्तमा स्वाद्देवीगेहे तदुत्तमा ॥१२। यतो देव्या उपासेयं ततो देव्यास्तु सन्निधौ। संध्यात्रयं प्रकर्तव्यं तदानंत्याय कल्पते ॥१३॥ एतस्या अपरं दैवं ब्राह्मणानां न विद्यते। न विप्णूरसना नित्या न शित्रोषासना तथा ॥१४॥ यथा भवेन्महादेव्या गायत्र्याः श्रुतिचोदिता। सर्ववेदसारभूता गायत्र्यास्तु समचंना ॥१५॥ ब्रह्मादयोऽपि सध्यायां तां ध्याथंति जपंति च । वेदा जपंति ता नित्यं वेदोपास्या ततः स्मृना ।१६॥ तस्मात्सवे द्विजाः शाक्तन शैवानच वैष्णवाः। आदिशक्तिमुपासते गायत्रीं वेदमातरम् ॥१७॥। आचांतः प्राणमायभ्य केशवादिकनामभिः । केशवश्च तथा नारायणो माधव एव च ।१८।। गोविंदो विष्णुरेवाथ मधुसूदन एव च। त्रिविक्रमो वामनश्च श्रोधरोऽपि ततः परम् १९॥ हृषीकेशः पद्मनाभो दामोदर अतः परम्। संकर्षणो वासुदेवः प्रद्युम्नोऽप्यनिरुद्धकः ॥२०॥ पुरुषोत्तमाधोक्षजी च नाररसिंहोऽच्युतस्तथा। जनारईन उपेन्द्रश्च हरिः कृष्णोऽनमस्तथा ॥२१॥ ऊकारपूरकं नाम चतुर्विशतिसंख्यया। स्त्राहान्तैः प्राशयेद्वारि नमोन्तैःस्पशंयेत्तथा ॥२२॥ केशवादि त्रिभि: पीत्वा द्वाभ्यां प्रक्षालयेत्करौ। मुखं प्रक्षालयेद्दाभ्यां ह्वाभ्यामुन्मार्जन तथा।२३।। एकेन पाणी संप्रोक्ष्य पादावषि शिरोऽषि च। संकर्षणादिदेवानां द्वाद्वशागानि संस्पृशेत्। ४। दक्षिणेनोदकं पोत्वा वामेन संस्पृशेद्वुधः। तावन्न शुध्यते तोयं यावद्वामेन न स्पृशेत्।५॥
Page 766
७६६ श्रीमद्देवीभागवते महापुराजे एकादशस्कग्धे अध्बाय: १६ गोकर्णाकृतिहस्तेन माषमात्रं जलं पिबेत्। ततो न्यूनाधिकं पीत्वा तुरापायी भवेद्द्विजः॥२६॥ संहताङ्गलिना तोयं पाणिना दक्षिणेन तु। मुक्तांगुष्ठकनिष्ठाभ्यां शेषेणाचमनं विदुः ॥२७॥ प्राणायामं ततः कृत्वा प्रणवस्मृतिपूर्वकम्। गायत्रीं शिरसा सार्धतुरीयपदसंयुतम् ॥२८॥ दक्षिणे रेचयेशामुं वामेन पूरितोदरम्। कुंभेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥२९॥ पोडयेद्दक्षिणां नाडीमंगुष्ठेन तथोत्तराम् । कनिष्ठानामिकाम्यां तु मध्यमां तर्जनीं त्यजेत् ३०॥ रेचकः पूरकश्रैव प्राणयामोऽथ कुम्भकः। प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥३१॥ रेचकः सृजते वायुं पूरकः पूरयेत्तु तम्। साम्येन संस्थितिर्यत्तत्कुंभकः परिकीर्तितः ॥३२। नोलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरके चिंतयेद्रिम् ॥३३॥ कुम्भके तु हृदिस्थाने ध्यायेत्तु कमलासनम्। प्रजापति जगन्नाथं चतुर्वकतरं पितामहम् ॥३४॥ चके गंकरं ध्यायेल्ललाटस्यं महेश्वरम्। शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम्॥३५॥ पूरके बिष्णुसायुन्यं कुम्भके ब्रह्मणो गतिम। रेचकेन तृतीयं तु प्राप्नुवादीक्वरं परन ॥३६॥ पोराणाचमनाद्यं च प्रोकं देवर्पिसतम। श्रौतमाचमनाद्यं व शृणु पापापहं मुने॥३७।। प्रणवं पूर्वमुच्चार्य गायत्रीं तु तदित्युचम्। पादादो व्याहृतीस्तिस्त्रः श्रीताचमनमुच्यते॥३८॥ गायत्रीं सिरसा सार्घ जपेदव्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्त्तां त्रिरयं प्राणसंबभः ।३९।। "सलक्षणं तु प्राणानामायामं कीर्त्यतेऽधुना। नानापापैकसमनं महापुण्यफलप्रदम् ।।१।।" पंचांगुलीभिर्नासाग्रं पीडयेत्प्रणवेन तु। सर्वपापहरा मुद्रा वानप्रस्यगृहस्थयोः ॥४०॥ ब्रह्मचारिणः । आपोहिष्ठेति तिसृभिः प्रोक्षणं स्यारकुशोदकैः ४१॥ ऋृगंते मार्जनं कुर्यात्पादान्ते वा समाहितः । नवप्रणवयुक्त्ेन आपोहिष्ठेत्यनेन तु ॥४२॥ नश्येदघं मार्जनेन संवत्सरसमुद्धवम् । तत आचमनं कृत्वा सूर्यश्रेति पिवेदपः ॥४३॥ अंतःकरणसंभिन्नं पापं तस्य विनश्यति। प्रणवेन व्याहृंतिभिर्गायत्र्या प्रणवाद्यया ॥४४।। आपोहिष्ठेति सूक्तेन मार्जनं चैव कारयेत्। उद्धृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ॥४५॥ गीत्वा तं नासिकाग्रं तु वामकुक्षी स्मरेदघम् । पुरुषं कृष्णवर्ण च ऋतं चेति पठेत्ततः ॥४६॥। दुपदां वा ऋचं पश्चाद्दक्षनासापुटेन च। श्वासमार्गेण तं पापमानयेत्करवारिणि ॥४७॥ नावलोक्यैव तद्वारि वामभागेऽशमनि क्षिपेत्। निष्पापं तु शरीरं मे संजातमिति भावयेत् ॥४८।। उत्थाय तु ततः पादो द्वौ समौ सन्नियोजयेत्। जळांजलि गृहीत्वा तु तर्जन्यंगुष्ठवजितम् ॥४९॥ वीक्ष्य भानुं क्षिपेद्वारि गायत्र्या चाभिमंत्रितम् । त्रिवारं मुनिशार्दूल विधिरेपोऽध्यमोबने ॥५०॥ ततः प्रदक्षिणां कुर्यादसावादित्यमंत्रतः । मध्याह्ने रकृदेव स्यात्संध्ययोस्तु त्रिवारतः ॥५१॥ ईषन्नम्रः प्रभाते तु मध्याह्ने दण्डवत्स्थितः । आसने चोपविष्टसतु द्विजः सायं क्षिपेदपः ॥५२॥
Page 767
श्रीमद्वेवीमागवते महापुराणे एकादशस्कन्धे अध्याय: १६ ७६७ उदकं प्रक्षिपेद्यस्मात्तत्कारणमतः शृणु। त्रिशत्कोटयो महावीरा मंदेहा नाम राक्षसाः ॥ कृतघ्ना दारुणा घोरा: सूर्यमिच्छंति खादितुम् । ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥५४॥ उपासते महासंध्यां प्रक्षिपंत्युदकांजलिम्। दह्यन्ते तेन दैत्यास्ते वज्ररी भूतेन वारिणा ॥५५॥ एतस्मात्कारणाद्विप्राः संध्यां नित्यमुपासते। महापुण्यस्य जननं संध्योपासनमीरितम् ॥५६॥ अर्ध्याङ्गभूतमंत्रोऽयं प्रोच्यते शृणु नारद। यदुच्चारणमात्रेण सांगं संध्याफलं भवेत् ।५७।। सोऽहमर्कोऽस्म्यहं ज्योतिरात्मा ज्योतिरहं शिवः। आत्मज्योतिरहं शुक्ल: सर्वज्योति रसोऽस्म्यहम् ॥ आगच्छ वरदे देवि गायत्रि ब्रह्मरूपिणि। जपानृष्ठानसिद्धयर्थ प्रविश्य हृदयं मम ॥५९॥ उत्तिष्ठ देवि गंतव्यं पुनरागमनाय च। अर्ध्येषु देवि गन्तव्यं प्रविश्य हृदयं मम ॥६०॥ ततः शुद्धस्थले नैजमासनं स्थापयेद्बुधः। तत्रारुह्य जपेत्पश्राद्गायत्रीं वेदमातरम् ॥६१॥ अत्रंव खेचरी मुद्रा प्राणायामोत्तरं मुने। प्रातःसंध्याविधाने च कीर्तिता मुनिपुङ्गव ।।६२।। तन्नामार्थं प्रवक्ष्यामि सादरं शृणु नारद। चित्तं चरति खे यस्माज्जिह्वा चरति खे गता॥६३॥ भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी। न चासनं सिद्धसमं न कुम्भसदृशोऽनिलः ॥६४॥ न खेचरीसमा मुद्रा सत्यं सत्यं च नारद। घंटावत्प्रणवोच्चाराद्वायुं निर्जित्य यत्नतः ।६५। स्थिरासने स्थिरो भूत्वा निरहंकारनिर्ममः। लक्षणं नारदमुने शृणु सिद्धासनस्य च ॥६६।। योनिस्थानकमंत्रिमूलधटितं कृत्वा दृढं विन्यसे- न्मेढर पादमर्थकमेव हृदये कृत्वा समं विग्रहम् । स्थाणु: संयमितेंद्रियोऽचलदृशा पश्यन्भ्रुवोरंतर तिष्ठत्येतदतीव योगिसुखदं सिद्धासनं प्रोच्यते ॥६७॥। आयातु वरदा देवी अक्षरं ब्रह्मसंमितम्। गायत्री छंदसां मातरिदं ब्रह्म जुषस्व मे ॥६८॥ यदह्ना कुरुते पापं तदह्ा प्रतिमुच्यते। यद्रात्र्या कुरुते पापं तद्रात्या प्रतिमुच्यते ॥६९॥ सर्ववर्णे महादेवि संध्याविद्ये सरस्वति। अजरे अमरे देति सर्वदेवि नमोऽस्तु ते ॥७०॥ तेजोऽसीत्यादिमंत्रेण देवीमावाहयेत्ततः । यत्कृतं त्वदनुष्ठानं तत्सवं पूर्णमस्तु मे ॥७१॥ ततः शापविमोक्षाय विधानं राम्यगाचरेत्। ब्रह्मशापस्ततो विश्वामित्रस्य च तथैद च ॥७२।। वसिष्ठशाप इत्येतद्द्विविधं शापलक्षणम्। ब्रह्मणः स्मरणेनैव ब्रह्मशापो निवर्तते॥७३॥ विश्वामित्रस्मरणतो विश्वामित्रस्य शापतः । वसिष्ठस्मरणादेव तस्य शापो विनश्यति ॥७४॥ हृत्पद्ममध्ये पुरुषं पुराणं सत्यात्मकं सर्वजगत्स्वरूपम् । ध्यायामि नित्यं परमात्मसंज्ञं चिद्रपमेकं वचसामगम्यम् ॥ ७५॥ अथ न्यासविधि वक्ष्ये संध्याया अंगसंभवम्। ऊकारं पूर्ववद्योज्य ततो मंत्रानुदीरयेत्॥७६॥
Page 768
७६८ श्रीम देवीभागवते महापुराण एकादशस्कन्धे अध्याय: १६ भूरित्युक्त्वा च पादाभ्यां नम इत्येव चोच्चरेत्। भुवः पूर्व तु जानुभ्यां स्वः कटिभ्यां नमो वदेत् । महर्नाभ्यै जनश्रैव हृदयाय ततस्तपः । कंठाय च ततः सत्यं ललाटे परिकीर्तयेत् ।।७८। अंगुष्ठाभ्यां तत्सवितुस्तर्जनीभ्यां वरेण्यकम् । भर्गोदेवस्य मध्याभ्यां धोमहोत्येव कोर्तयेत् ॥७९॥ अनामाभ्यां कनिष्ठाभ्यां धियो यो नः पदं वदेत् । प्रचोदयात्करपृष्ठतलयोरविन्यसेतसुधीः ब्रह्मात्मने तत्सवितुर्हृदयाय नमस्तथा। विष्ण्वात्मने वरेण्यंच शिरसे नम इत्यपि ॥८१॥ भर्गो देवस्य रुद्रात्मने शिखायै परिकीर्तितम्। शक्त्यात्मने धीमहीति कवचाय ततः परम् ॥८२॥ कालात्मने धियो यो नो नेत्रत्रय उदीरितम्। प्रचोदयाच्च सर्वात्मनेऽस्त्राय परिकीरतितम् ॥८२॥ अक्षरन्यासमेवाग्रे कथयामि महामुने। गायत्रीवर्णसंभूतो न्यासः पापहरः परः ॥८४॥ प्रणवं पूर्वमुच्चार्य वर्णन्यासः प्रकोर्तितः । तत्कारमादावुच्चार्य पादांगुष्ठद्वये न्यसेत् ॥८५॥ सकारं गुल्फयोस्तद्वद्विकारं जंघयोन्यसेत्। जान्वोस्तुकारं विन्यस्य ऊर्वोश्चैव वकारकम्॥८६॥ रेकारं च गुदे न्यस्य णिकारं लिंग एव च। कटयां यकारमेवात्र भकारं नाभिमंडले।।८७।। गोकारं हृदये न्यस्येदेकारं स्तनयोद्वंयोः । वकारं हृदि विन्यस्य स्यकार कंठकूपके ॥८८। धोकारं मुखदेशे तु मकारं तालुदेशके। हिकारं नासिकाग्रे तु धिकारं नेत्रमंडले ।।८९। भ्रूमध्ये चँव योकार योकारं च ललाटके। नकारं वै पूर्वमुखे प्रकारं दक्षिणे मुखे ॥९०॥ चोकारं पश्चिममुखे दकारं चोत्तरे मुखे। याकारं मूध्नि विन्यस्य तकारं व्यापक न्यसेत्॥ एतन्न्यासविधि केचिन्नेच्छंति जपतत्पराः । ततो ध्यायेन्महादेवीं जगन्मातरमबिकाम् ॥९२॥ भास्वज्जपाप्रसूनाभां कुमारीं परमेश्वरीम्। रक्तांबुजासनारूढां रक्तगंधानुलेपनाम्।।९३।। रक्तमाल्यांबरधरां चतुरास्यां सर्वाभरणसंदीप्तामृग्वेदाध्यायिनीं चतुर्भु जाम्। द्विनेत्रां स्तुक्स्रुवौ मालां कुंडिकां चैब बिभ्रतीम् ।। पराम्। हंसपत्रामाहवनीयमध्यस्था ब्रह्मदेवताम्॥९५॥ चतुष्पदामष्टकुक्षि सप्तशीर्षां महेश्वरीम्। अग्निवकत्रां रुद्रशिखां विष्णुचित्तां तु भावयेत् ॥ ब्रह्मा तु कवचं यस्या गोत्रं सांख्यायनं स्मृतम्। आदित्यमंडलांतःस्थां ध्यायेद्देवीं महेश्वरीम् ॥९७॥ एवं ध्यात्वा विधानेन गायत्रीं वेदमातरम् । ततो मुद्राः प्रकुर्वीत देव्याः प्रीतिकराः शुभाः ॥ सुमुखं संपुटं चंव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुष्कं पंचकं तथा॥९९॥ पग्मुखाधोमुखं चव व्यापकांजलिकं तथा। शकटं यमपाशं च ग्रथितं संमुखोन्मुखम् ॥१००॥ तिलंबं मुष्टिकं चैव मत्स्यं कूर्म वराहकम्। सिंहाक्रांतं महाक्रांत मुद्ररं पल्लवं तथा ॥१०१॥ चतुर्विशतिमुद्राश्च गायत्र्याः संप्रदर्शयेत्। शताक्षरां च गायत्रीं सकृदावर्तयेत्सुधीः १०२॥ चतुर्विशत्यक्षराणि गायत्र्याः कोर्तितानि हि। जातवेदसनाम्नीं च ऋवमुच्चारयेत्ततः ॥१०३।। त्र्यंबकस्यर्चमावृत्य गायत्री शतवर्णका। भवतीयं महापुण्याऽसकृज्जप्या बुधैरियम्॥१०४॥
Page 769
४९ श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १७ ७६९ ऊकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तर्थव च । चतुर्विशत्यक्षरां च गायत्रीं प्रोच्चरेत्ततः ॥१०५॥ एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुंगवः । स समग्रं फलं प्राप्य संध्यायाः सुखमेधते ॥१०६॥ इति श्रीदेवाभागवते महापुराणे एकादशस्कंधे षोडशोऽध्यायः॥१६।। अथ सप्दशोऽध्याय: श्रीनारायण उवाच भिन्नपादा तु गायत्री ब्रह्महत्याप्रणाशिनी। अभिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति ॥१।' अच्छिलपादागायत्रीजपं कुर्वन्ति ये द्विजाः । अधोमुखाश्च तिष्ठति कल्पकोटिशतानि च ॥२॥ संपुटैका षडोंकारा गायत्रो त्रिविधा मता। धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ।३॥ पंचप्रणवसंयुक्तां जपेदित्यनुशासनम् । जपसंख्याष्टभागान्ते पादो जप्यस्तुरीयकः ॥४॥ स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात्। अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत ॥५॥ संपुटैका षडोंकारा भवेत्सा ऊर्ध्वरेतसाम्। गृहस्थो ब्रह्मचारी वा मोक्षार्थी तुरियां जपेत् ।६।। तुरीयपादो गायत्र्याः परोरजसे सावदाम्। ध्यानमस्य प्रवक्ष्यामि जपं सांगफलप्रदम् ॥७॥ हृदि विकासतपद्म सार्कसोमाग्निबिम्बं प्रणवमयमचित्यं यस्य पीठं प्रकल्प्यम्। अचलपरमसूक्ष्मं ज्योतिराकाशसारं भवतु मम मुदेऽसौ सच्चिदानंदरूपः ॥८॥ त्रिशूलयोनिं सुरभिमक्षमालां च लिंगकम्। अंबुजं च महामुद्रामिति सप्त प्रदर्शयेत् ।९॥ या संख्या सैव गायत्री सच्चिदानंदरूपिणी। भक्त्यातां ब्राह्मणो नित्यं पूजयेच्च नमेत्ततः १०॥ ध्यातस्य पूजां कुर्वीत पचभिश्चोपचारकैः। लं पृथिव्यात्मने गंधमर्पयामि नमो नमः ॥११॥ हमाकाशात्मने पुष्पं चार्पयामि नमो नमः । यं च वाय्वात्मने धूपं चार्पयामि ततो वदेत् १२॥। रं च वह्नयात्मने दीपमर्पयामि ततो वदेत्। वममृतात्मने तस्मै नैवेद्यमपि चारपयेत् ॥१३॥ यं रं लं वं हमिति च पुष्पांजलिमथार्पयेत् । एवं पू्जा विधायांथ चान्ते मुद्राः प्रदर्शयेत् ॥१४॥ ध्यायेत्तु मनसा देवीं मंत्रमुच्चाग्येच्छनैः। न कंपयेच्छिरोग्रीवां दंतान्नैव प्रकाशयेत् ॥१५॥ विधिनाष्टोत्तरशतमष्टाविशतिमेव वा। दशवारमशक्तो वा नातो न्यूनं कदाचन ॥१६।। तत उद्वासयेद्देवीमुत्तमेत्यनुवाकतः । न गायत्री जपेद्विद्वाञ्जलमध्ये कथंचन ॥१७॥ यतः साग्निमुखी प्रोक्तेत्याहुः केचिन्महर्षयः । सुरभिर्ज्ञानशपं च कूर्मो योनिश्च पंकजम् ॥१८॥ लिंग निर्वाणक चैव जपांतेऽष्टौ प्रदर्शयेत्। यदक्षरपदभ्रष्टं स्वरव्यंजनवर्जितम् ॥१९।। तत्सर्व क्षभ्यतां देवि कश्यपप्रियवादिनि। गायत्रीतर्पणं चातः करणीयं महामुने ॥२०॥ गायत्रीछंद आख्यातं विश्वामित्रऋषिः स्मृतः । सविता देवता प्रोक्ता विनियोगश्च तर्पणे ॥२१॥ भूरित्युक्त्वा च ऋग्वेदपुरुषं तर्पयामि च। भुव इत्येतदुक्त्वा च यजुर्वेदमथो वदेत् ॥२२।।
Page 770
७७० श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १७ स्वर्व्याहृति समुक्त्वा च सामवेदं समुच्च रेत्। मम इत्येतदुक्त्वांतेऽथर्ववेदं च तर्पयेत् ।।२३।। जनः पदांत इतिहासपुराणमितीरयेत्। ततः सर्वागमं चैव पुरुषं तर्पयामि च ॥२४॥ सत्यं च सत्यलोकाख्यं पुरुषं तर्पयामि च। ॐभूर्भुरलोकपुरुषं तर्पयामि ततो वदेत् ॥२५॥ भुवश्चेति भुवर्लोकपुरुषं तर्पयामि च / स्वः स्वर्गलोकपुरुषं तर्पयामि ततः परम् ॥२६॥ ॐभूरेकपदां नाम गायत्रीं तर्पयामि च। भुवो द्विपदां गायत्रीं तर्पयामीति कीर्तयेत् ।।२७।। स्वश्च त्रिपदां गायत्रीं तर्पयामि ततो वदेत्। ॐभूर्भूवश्च स्वश्चेति गायत्री च चतुष्पदाम् २८।। उषसीं चंव गायत्रीं सावित्रीं च सरस्वतीम्। वेदानां मातर पृथ्वीमजां चँव तु कौशिकीम् २९।। सांकृति वै सार्वजिति गायत्रीं तर्पणे वदेत् । तर्पणांते च शन्त्यर्थ जातवेदसमीरयेत् ॥३०॥ मानस्तोकेति मंत्रं च शान्त्यर्थ प्रजपेत्सुधीः । ततोऽपि त्र्यंबको मंत्रः शांत्यर्थः परिकीर्तितः ३१।। तच्छंयोरिति मंत्रं च जपेच्छांत्यर्थमेव तु। अतो देवा इति द्वाभ्यां सर्वांगस्पर्शनं चरेत् ॥३२।। स्योनापृथिविमंत्रेण भूम्यै कुर्यात्प्रणामकम्। यथाविधि च गोत्रादीनुच्चरेद्द्विजसत्तमः ॥३३॥ एवं विघानं संध्यायाः प्रातःकाले प्रकीर्तितम् । संध्याकर्म समाप्पान्तेऽप्यग्निहोत्रं स्वयं हुनेत् ॥३४॥ पंचायतनपुजां च ततः कुर्यात्समाहितः । शिवां शिवं गणपर्ति सूर्य विष्णुं तथाऽर्चयेत् ३५॥। पौरुषेण तु सूक्तेन व्याहत्या वा समाहितः । मूलमंत्रण वा कुर्याद्ध्रीश्र ते इति मंत्रतः ॥३६॥ भवानीं तु यजेन्मध्ये तथेशान्यां तु माधवम् । आग्नेय्यां गिरिजानाथं गणेशं रक्षसां दिशि ३७॥ वायव्यामर्चयेत्सूर्यमिति देवस्थितिक्रमः। षोडशानुपचारांश्र पोडशग्भिर्हरेन्नरः ॥३८॥ देवीमभ्यरच्य पुरतो यजदन्याननुक्रमात्। न देवीपूजनात्पुण्यमधिकं क्वचिदीक्ष्यते ॥३९॥ अतएव तु संध्यासु संध्योपास्तिः श्रुतीरिता। नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणेश्वरम्॥४०॥ दूर्वाभिर्नार्चयेद्दुर्गां केतकैर्न महेश्वरम् । मल्लिकाजातिकुसुमं कुटजं पनसं तथा॥४१॥ किंशुकं बकुलं कुंदं लोधं तु करवीरकम्। शिशपाऽपराजितापुष्पं वंधू कागस्त्यपुष्पके ।४२।। मदनं सिंदुवारं च पालाशकुसुमं तथा। दुर्वांकुरं बिल्वदलं कुशमंजरिका तथा॥४३॥ शल्लकीमाधवीपुष्पमर्कमंदारपुष्पकम् । केतकीं कर्णिकारं च कदंबकुसुमं तथा ॥४४॥ पुन्नागश्चंपकस्तद्वद्ययिकातगरौ तथा। एवमादीनिपुष्पाणि देवीत्रियकराणि च॥४५॥ गुग्गुलस्य भवेद्धपो दीपः स्यात्तिलतैलतः । कृत्वेत्थं देवतापूजां ततो मूलमनुं जपेत् ॥४६।। एवं पूजां समाप्यैव वेदाभ्यासं चरेद्बुधः । ततः स्ववृत्त्या कुर्वीत पोष्यवर्गार्थसाधनम् ॥ तृतीयदिनभागे तु नियमेन विचक्षणः ॥४७॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कंधे सप्तदशोऽध्यायः॥१७॥
Page 771
श्रीमदेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १८ अथ अष्टादशोऽध्यायः श्रीनारद उवाच पूजाविशेषं श्रीदेव्याः श्रोतुमिच्छामि मानद। येनाश्रितेन मनुज: कृतकृत्यत्वमावहेत् ।।१।। श्रीनारायण उवाच देवर्षे शृणु वक्ष्यामि श्रीमातुः पूजनक्रमम्। भुक्तिमुक्तिप्रदं साक्षात्समस्तापन्निवारणम् ॥२।। आचम्य मौनो संकल्प्य भूतशुद्धयादिकं चरेत्। मातृकान्यासपूर्व तु षडंगन्यासमाचरेत् ॥।३। शंखस्य स्थापनं कृत्वा सामान्याध्यं विधाय च। पूजाद्रव्याणि चास्त्रेण प्रोक्षयेन्मतिमान्नरः ॥४॥ गुरोरनुज्ञामादाय ततः पूजा समारभेत्। पीठपूजां पुरा कृत्वा देवों ध्यायेत्ततः परम्॥५॥ आसनाद्ुपचारैश्र भक्तिप्रेमयुतां सदा।स्नापयेत्परदेवीं तां पंचामृतरसादिभभिः ॥६।। पौंड्रेक्षु रसपूर्णेस्तु कलशंः शतसंखयकैः। स्नापयेो महेशानों न स भूयोऽभिजायते॥७। यश्र चूनरसैरेवं स्नानयेज्जगवंवरिकाम्। वेदनारायणं कृत्वा रसेनेक्षू द्रवेन वा ।।८।। तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती। यस्तु द्राक्षारसेनैत्र वेदपारायणं चरन्॥९॥ अभिपिचेन्महेशानीं सकुटुंबो नरोत्तमः । रसरेणुप्रमाणं च देवोलोके महोयते ॥१०॥ कर्पू रागुरुकाश्मोरकस्तूरीपंकपंकिलै: । सलिलै: स्नापयेहेवीं वेदपारायणं चरन् ।११। भस्मोभवंति पापानि शतजन्माजितानि च। यो दुग्धकलशैर्देवीं स्नापयेद्वेदपाठतः ॥१२॥ आकल्पं स वसेन्नित्यं तस्मिन्वै क्षीरसागरे। यस्तु दध्नाभिर्षिचेत्तां दधिकुल्यापतिर्भवेत् ॥१३॥ मधुना च घृतेनैव तथा शर्करयाऽपि च। स्नापयेन्मधुकुल्यादिनदोनां स पतिर्भवेत् ॥१४॥ सहस्र रुलशर्देवीं स्नापयन्भक्तितत्परः । इह लोके सुखो भूत्वाप्यन्यलोके सुखी भवेत् ॥१५॥ क्षौमं वस्त्रदयं दत्त्वा वायुलोकं स गच्छति। रत्ननिर्मितभूषाणां दाता निधिपतिर्भवेत् ॥१६॥ काश्मीरचंदनं दत्त्वा कस्तूरीबिंदुभूषितम् । तथा सीमंतसिंदूरं. चरणेऽलक्तकपत्रकम् ॥१७॥ इंद्रासने समारूढो भवेदेवपतिः परः। पुष्पाणि विविधान्याहुःपूजाकर्मणि साधवः ॥१८॥ तानि दत्त्वा यथालाभं कैलास लभते स्व्यम् । विल्वपत्राण्यमोघानि यो दद्यात्परशक्तये ।१९॥ तस्य दुःखंकदानिच्च कत्रतिव्च न भविष्यति। विल्वपत्रत्रये रक्तचन्दनेन तु संलिखेत् ॥२।। मायाबीजनयं यत्नात्मुस्फुटं चातिसुंदरम्। मायाबोजादिकं नाम चतुर्थ्यतं समुच्चरेत् ।।२१।। नमोऽनतं परया भकत्या देवीचरणपंकजे। समर्पयेन्महादेव्यै कोमलं तच्च पत्रकम् ॥२२॥ य एवं कुरुते भकत्या मनु्त्वं लभते हि सः। यस्तु कोटिदलरेवं कोमलैरतिनिर्मलै: ॥२३॥ पूजये द्गुबने शानी ब्रह्मांडाधिपतिर्भवेत्। कुन्दपुष्पैर्नवोनैस्तु लुलितैरष्टगंघतः ।।२४।। कोटिसंख्यै: पूजयेत्तु प्राजापत्यं लभेद्धुवम्। मल्लिकामालजोपुष्पैरष्टगंधेन लोलितैः ।।२५।।
Page 772
श्रीमरेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: १८ कोटिसंख्य: पूजया तु जायते स चतुर्मुखः । दशकोटिभिरप्येवं तैरेव कुसुमैमुनें ॥२६॥ विष्णुत्वं लभते मत्यों यत्सुरेष्वपि दुर्लभम् । विष्णुनैतद्व्रतं पूर्व कृतं स्वपदलब्धये ।२७।। शतकोटिभिरप्येव सूत्रात्मत्वं व्रजेद्ध्रुवम् । व्रतमेततपुरा सम्यक्कृतं भक्त्या प्रयत्नतः ॥२८।। तेन व्रतप्रभावेण हिरण्योदरतां व्रजेत्। जपाकुसुमपुष्पस्य बंधूककुसुमस्य च ॥२९॥ दाडिमीकुसुमस्यापि विधिरेष उदीरितः । एवमन्यनि पुष्पाणि श्रीदेव्यै विधिनार्पयेत् ॥३०॥ वस्य पुण्यफलस्यांतं न जानातीश्वरोऽपि सः । तत्तदृतूद्भवः पुष्पैर्नामसाहस्रसंख्यया ।।३१।। संमर्पयेन्महादेव्यै प्रततवर्षमतंद्रितः । य एवं कुरुते भक्त्या महापातकसंयुतः ॥३२॥ उपपातकयु क्तोऽपप मुच्यते सर्वपातकैः। देहांते श्रीपदांभोजं दुर्लभं देवसत्तमैः ॥३३॥ प्राप्नोति साधकवरो मुने नासत्यत्र संशयः । कृष्णागुरु सकपूरं चंदनेन समन्वितम् ॥३४॥ सिल्हकं चाज्यसंयुक्तं गुग्गुलेन समन्वितम् । धूपं दद्यान्महादेव्यै येन स्याद्धूपितं गृहम् ॥३५॥ तेन प्रसन्ना देवेशी ददाति भुवनत्रयम् । दीपकर्पृरखंडश्च दद्याद्देव्यै निरंतरम् ॥३६॥ सूर्यलोकमवाप्नोति नात्र कार्या विचारणा। शतदीपांस्तथा दद्यात्सहस्रान्वा समाहित: ।३७।। नैवेद्यं पुरतो देव्याः स्थापयेत्पर्वताकृतिम् । लेह्यश्षीप्यैस्तथा पेयैः षड्रसैस्तु समाहितैः ॥३८॥ नानोफलानि दिव्यानि स्वादूनि रसवंति च। स्वर्णपात्रस्थितान्नानि दद्याद्देव्यै निरंतरम् ॥३९॥ तृप्तायां श्रीमहादेव्यां भवेत्तृप्तं जगत्त्रयम् । यतस्तदात्मकं स्वं रज्जौ सर्पो यथा तथा॥४०।। ततः पानीयकं दद्याच्छुभं गंगाजलं महत्। कर्पू रवालासंयुक्तं शीतलं कलशस्थितम्॥४१॥ ताम्बूलं च ततो देव्यै कपूरशकलान्वितम्। एलालवंगसंयुक्तं मुखसौगंध्यदायकम् ॥४२॥ दद्याह्ेव्यै महाभवत्या येन देवी प्रसीदति। मृदंगवीणामुरजढक्कादुंदुभिनिःस्वनैः ।४३ ॥ तोषयेज्जगतां धात्रीं गायनरतिमोहनैः । वेदपारायणैः स्तोत्रैः पुराणादिभिरप्युत ॥४४। छत्रं च चामरे द्वे च दद्यादेव्यै समाहितः । राजोपचारान् श्रीदेव्यै नित्यमेव समर्पयेत् ॥४५॥ प्रदक्षिणां नमस्कारं कुर्यािव्या अनेकधा। क्षमापयेज्जगद्ात्री जगदंबां मुहुर्मुहुः॥४६॥ सरकृत्स्मरणमात्रेण यत्र देवी प्रसीदति। एतादृशोपचारैश्र प्रसीदेदत्र कः स्मयः ॥४७॥ स्वभावतो भवेन्माता पुत्रेऽतिकरुणावती। तेन भक्त्तौ कृतायां तु वक्तव्यं कि ततःपरम् ॥४८॥ अत्र ते वर्थायप्यामि पुरावृत्तं सनानम् । बृहद्रथस्य राजर्षेः प्रियं भक्तिप्रदायकम् ॥४९॥ चक्रवाकोऽ्भवत्पक्षी वर्वाचदेशे हिमालये। भ्रमन्नानाविधान्देशान्ययौ काशीपुरं प्रति ॥५०॥ अन्नपूर्णामहास्थाने प्रारब्धवशतो द्विजः। जगाम लीलया तत्र कणलोभादनाथवत् ।५१॥ कृत्वा प्रद्षिणामेकां जगाम स विहायसा। देशांतरं विहायैव पुरीं मुक्तिप्रदायिनीम् ॥५२॥ कालांतरे ममारसी गतः स्वर्णपुरी प्रति। बुभुजे विषयान्सर्वान् दिव्यरूपधरो युवा॥५३॥
Page 773
श्रीम्ेतीभागकते महापुराणे एकादशस्कन्धे अंध्याय: १९ कल्पदयं तथा भुक्त्वा पुनः प्राप भुवं प्रति। क्षत्रियाणां कुले जन्म प्रमत सर्वोत्तमोत्तमम् ॥। बृहद्रथेति नाम्नाऽभूत्प्रसिद्धः क्षितिमंडले। महायज्वा धार्मिकश्च सत्यवादी जितेन्द्रियः ।५५॥ त्रिकालज्ञः सार्वभोभो यमो परपुरंजयः । पूर्वजन्मस्मृतिस्तस्य वर्तते दुर्लभा भुवि ॥५६॥ इति.श्रुत्वा किवदंतों मुनयः समुपागताः । कृतातिथ्या नृपेंद्रेण विष्टरेषषुरव ते ॥५७।। पप्रच्छुर्मुनयः सर्वे संशयोऽस्ति महान्नृप। केन पुण्यप्रभावेण पूर्वजंन्मस्मृतिस्तव ॥५८। त्रिकालज्ञानमेवापि कस्मात् पुण्यप्रभावतः। ज्ञानं तवेति तज्ज्ञातुमागता:स्म त्वातिकम् ॥५९U वद निर्ध्याजया वृत्त्या तदस्माकं यथातथम्। श्रीनागयण उवाच इति तेषां वच: श्रुत्वा राजा परमधार्मिकः ॥६।। उवाच सकलं ब्रह्मंस्त्रिकालज्ञानकारणम्। श्रूयतां मुनयः सते मम ज्ञानस्य कारणम् ॥६१॥ चक्रवाक: स्थितः पूर्वं नोचयोनिगतोऽपि वा। अज्ञानतोऽपि कृतवानन्नपूर्णाप्रदक्षिगाम् ॥६२॥ तेन पुण्यप्रभावेण स्वगे कल्पद्वयस्थितिः । त्रिकालज्ञानतारईप्यस्मिन्नभूज्जन्मनि सुव्रताः॥६३॥ को वेद जगदम्बायाः पदस्मृतिफलं कियत् । स्मृत्वा तन्महिमानं तु पतंत्यश्रूणि मेऽनिशम्॥६४॥ धिगस्तु जन्म तेषां वे कृतध्नाना तु पापिनाम्। ये सर्वमातर देवीं स्व्रोपास्यां न भजंति हि॥६५॥ न शिवोपासना नित्या न विष्णूपामना तथा। नित्योपास्तिः परादेव्या नित्या श्रुत्यैव चोदिता।। किं मया बहु वक्तव्यं स्थाने संशयवजिते। सेवनीय पदांभोजं भगवत्या निरंतरम् ॥६७।। नातः परतरं किचिदधिकं जगतोतले। सेवनोया परा देवी निर्गुणा सगुणाऽथवा ॥६८। श्रीनारायण उवाच इति तस्य वच: श्रुत्वा राजर्षधार्मिकस्य च। प्रसन्नहृदयाः सर्वे गताः स्वस्त्वनिकेतनम् ॥६९॥ एवंप्रभावा सा देवी तत्पूजाया: फलं कियत्। अस्तीति च न प्रष्टव्यं वक्तव्यं वा न केनचित्॥७०। येषां तु जन्मसाफल्यं तेषां श्रद्धा प्रजायते। येषां तु जन्मसांकर्य तेषां श्रद्वा न जायते ।७१॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धेऽष्टादशोऽध्यायः॥। १८॥ अथेकोनविंशोऽध्यायः श्रीनारायण उवाच अथातः श्रयतां ब्रह्मन् संध्यां माध्याह्नकीं शुभाम्। यदनुष्ठानतोऽपूर्वं जायतेऽत्युत्तमं फलम् ॥१॥ सावित्रीं युवतीं श्वेतवर्णां चैव त्रिलोचनाम्। वरदां चाक्षमालाढ्यां त्रिशूलाभयहस्तकाम् ॥२॥ वृषारूढां यजुर्वेदसंहितां रुद्रदेवताम्। ततो गुणयुतां चैव भुवर्लोकव्यवस्थिताम्॥३। आदित्यमार्गसंचारकर्त्री मायां नमाम्यहम् । आदिदेवीमथ व्यात्वाचमनादि च. पूर्ववत् ।।४।।
Page 774
श्रीम देवीभागयतर महापुराणे एकादशस्कन्धे अध्याय: २० अथ चार्ष्यप्रकरणं पुष्पाणि चिनुयात्ततः । तदलाभे बिल्वपत्रतोयेन मिश्रयेत्ततः ॥५॥ कष्वं च सूर्याभिमुखं क्षिप्त्वाऽर्ध्य प्रतिपादयेत्। प्रातःसंध्यादिवत्सर्वमुपसंहारपूर्वकम् मध्याह्ने केचिदिच्छंति साविश्रीं तु तदित्यूचम् । असंप्रदायं तत्वर कार्यहानिस्तु जायते॥७॥। कारणं संध्ययोञ्चात्र मंदेहानाम राक्षसाः । भक्षितुं सूर्यमिच्छं कारणं श्रुतिचोदितम् ।।८।। अतस्तु कारणाद्विप्रः संध्यां कुर्यात्प्रयत्नतः । संध्ययोरुभयोनत्यं गायत्र्या प्रणवेन च॥९॥ अंभस्तु प्रक्षिपेत्तेन नान्यथा श्रुतिघातकः । आकृष्णेनेति मंत्रेण पुष्पैर्वांबुविमिश्रितम् ॥१०॥ अलाभे बिल्वदूर्वादिपत्रेणोक्तोन पूर्वकम्। अर्ध्यं दद्यात्प्रयत्नेन सांगं संध्याफलं लभेत् ।११।। अत्रव तर्पणं वक्ष्ये शृणु देवर्षिसत्तम। भुवः पुनः पूरुपं तु तर्पयामि नमो नमः ॥१२॥ यजुर्वेदं तर्पयामि मंडलं तर्पयामि च। हिरण्यगर्भं च तथांतरात्मानं तथैव च ।१३। सावित्रीं च ततो वेदमातरं सांकृति तथा। संध्यां तथव युवती रुद्राणीं नीमृजां तथा॥१४॥ सर्वार्थानां सिद्धिकरीं सर्वमंत्रार्थसिदिद्वाम्। भूर्भुवःस्वःपूरुएं तु इति मध्याह्नतर्पणम् ॥१५॥ उदुत्यमिति सूक्त्ेन सूर्योपस्थानमेव च। चित्रं देवानामिति च सूर्योपस्थानमाचरेत् ॥१६॥। ततो जपं प्रकुर्बीत मंत्रसाधनतत्परः। जपस्यापि प्रकारं तु वक्ष्यामि श्ृणु नारद ॥१७॥ कृत्वोत्तानोकरो प्रातः सायं चाघकरो तथा। मध्याह्ने हृदयस्थौ तु कृत्वा जपमुदीरयेत् ।१८। पर्बद्वयमनामिक्याः कनिष्ठादिक्रमेण तु। तजनीमूलपर्यन्तं करमाला प्रकीर्तिता ॥१९। गोष्न: पितृष्नो मातृघ्नो भ्रणहा पुरुतल्पगः । ब्रह्मस्वक्षेत्रहारी च यश्च विप्रः सुरां पिवेत् ॥२०।। स गायत्र्याः सहस्रेण पूतो भवति मानवः। मानसं वाचिकं पापं विषयेन्द्रियसंगजम् ॥२१॥ वत्किल्बिषं नाशयति त्रीणि जन्मानि मानवः । गायत्रीं यो न जानाति वृथा तस्य परिश्रमः ॥२२॥ पठे्च चतुरो वेदान् गायत्रीं चैकतो जपेत्। वेदानां चावृतेस्तद्वद्गायत्रीजप उत्तमः ॥२३॥ इति मध्याह्नसंध्यायाः प्रकार: कीतितो मया। अतः परं प्रवक्ष्यामि ब्रह्मयज्ञविधिक्रमम् ॥२४॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे एकोनविंशोऽध्याय: ॥१९॥ अथ विंशोऽध्यायः श्रीनारायण उवाच त्रिराचम्य द्विजः पूर्व द्विर्मार्जनमथाचरेत् । उपस्पृशेत्सव्यपाणि पादौ च प्रोक्षयेत्ततः ॥१॥ शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके। हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥२॥ देशकालो समुच्चार्य ब्रह्मयज्ञमथाचरेत्। द्वो दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ।३॥ उपवीते शिखायां च पादमूले सकृत्सवृत् । विमुत्तये सर्वपापक्षयार्थं चैवमेव हि॥४॥ सूत्रोक्तदेवताप्रीत्यै ब्रह्मयजं करोम्यहम्। गायत्री त्रिर्जपेत्पूर्वं चाग्निमीडे ततः परम् ॥५॥
Page 775
श्रीम देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २० ७७५ यर्दगेति ततः प्रोच्य अग्निर्वे इति कीर्तयेत् । अथ महाव्रतं चैव पंथा एतच्च कीर्तयेत् ॥६।। अथातः संहितायाश्च विदा मघवदित्यपि। महाव्रतस्येति तथा इषेत्वोर्ज इतीव हि॥७॥ अग्न आयाहि चेत्येवं शन्नोदेवीरितीति च । अथ तस्य समाम्नायो वृद्धिरादैजितीव हि॥८॥ अथ शिक्षां प्रवक्ष्यामि पंचसंवत्सरेति च। मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्त्तयेत्।।९।। अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि। तच्छं योरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥१०॥ तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम्। प्रजापतिश्र ब्रह्मा च वेदा देवास्तथर्षयः ॥११॥ सर्वाणि चंव छंदांसि तथोंकारस्तथैव च। वषट्कारोव्याहृतयः सावित्री च ततः परम् ॥१२॥ गायत्री चैव यज्ञाश्र द्यावापृथिवी इत्यपि। अंतरिक्षं त्वहोरात्राणिच सांरुया अतः परम्॥१३॥ सिद्धाः समुद्रा नदश्च गिरयश्च ततः परम्। क्षेत्रौषधिवनस्पत्यो गंधर्वाप्सरसस्तथा ॥१४॥ नागा वयांसि गावश्र साध्या विप्रास्तथव च। यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ।१५।। अथो निवीती भूत्वा च ऋषीन्संतर्पयेदपि। शतर्चिनो माध्यमाश्च गृत्समदस्तर्थव च ॥१६।। विश्वामित्रो वामदेवोऽ्रिर्भरद्वाज एव च।वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम्॥१७॥ क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः । सनातनस्तर्थवात्र सनत्कुमार एव च॥१८॥ कपिलासुरिनामानी वोहलिः पंचशोर्षकः । प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥१९॥ सुमंतुर्जेमिनिर्वेशम्पायनः पैलसूत्रयुक्। भाष्यभारतपूर्व च महाभारत इत्यपि॥२०॥ धर्माचार्या इमे सर्वे तृप्यंत्विति च कीर्तयेत्। जानन्ति बाहविगार्ग्यगौतमाश्रैव शाकलः ॥२१॥ वाभ्रव्यमांडव्ययुतो मांडूकेयस्ततः परम्। गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥२२॥ सुलभा युक्तमंत्रेयी कहोलश्च ततः परम्। कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥२३॥ भारद्वाजं च पैग्यं च महापैग्यं सुयज्ञकम्। सांख्यायनमंतरेयं महैतरेयमेव च॥२४॥ बाष्कलं शाकलं चंव सुजातवक्रमेव च। औदवाहिंच सौजारमि शौनकं चाश्वलायनम् ॥२५॥ ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः । ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ ते गृह्न्तु मया दत्तं वस्त्रनिष्पीडनोदकम्। एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥२७॥ यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् । सर्ववेदांतपाठस्य फलमाप्नोति साधकः ॥२८॥ वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तर्थव च। अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥२९॥ गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह। अह्हस्तु पचमे भागे प्रकुर्यादेतदुत्तमम् ॥३०। इतिहासपुराणाद्यं: षष्ठसत्तमकौ नयेत् । अष्टमा लोकयात्रा तुवहिः संध्यां ततः पुनः ॥३१॥ अथ सायंतनीं संध्यां प्रवक्ष्यामि महामुने। यदनुष्ठानमात्रेण महामाया प्रसीदति॥३२।। आचम्य प्राणनायम्य साधकः स्थिरमानसः । बद्धपद्मासनो योगी सायकाले स्थिगे भवेत् ॥३३।
Page 776
७७६ श्रीमह्ेवीभागवते महापुराणे एकादशस्कन्धे अध्यायः २१ श्रुतिस्मृत्यादिकर्मादौ सगर्भ: प्राणसंयमः । अगर्भो ध्यानमात्रं तुस चामंत्रः प्रकीतितः ३४।। भूतशुद्धयादिकं कृत्वा नान्यथा कर्म कीतितम्। सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥३५॥ ध्यानं प्रकुर्यात्संध्यायां सायंकाले विचक्षणः । वृद्धांसरस्वतीं देवीं कृष्णांगों कृष्णवाससम् ॥३६॥ शंखच क्रगदापद्महस्तां गरुडवाहनाम्। नानारत्नलसद्दूषां क्वणन्मंजीरमेखलाम् ।३७॥ अनर्ध्यरत्नमुकुटां तारहारावलीयुताम्। ताटंकबद्धमाणिक्यकांतिशोभिकपोलकाम् ।३८।। पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम्। सामवेदेन सहितां संयतां सत्त्ववर्त्मना ॥३९॥ व्यवस्थितां च स्वलोके आदित्यपथगामिनीम् । आवाहयाम्यहं देवीमायांतीं सूर्यमंडलात् ॥४०॥ एवं ध्यात्वा च तां देवीं संध्यासंकल्पमाचरेत्। आपोहिष्ठेति मंत्रेण अग्निश्चेति तर्थव च।४१।। विदध्यादाचमनकं शेषं पूर्ववदीरितम्। गायत्रीमंत्रमुच्चार्य श्रोनारायणप्रीतये ॥४२॥ अध्यं दद्याच्च सूर्याय साधकः शुद्धमानसः । उभी पादी समौ कृत्वा हस्ते धृत्वा जलांजलिम्॥ देवं ध्यात्वा मंडलस्थं क्षिपेदध्यं ततः क्रमात्। अध्य दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जित: ॥४४।। उल्लंध्य स्मृतिमंत्रांश्च प्रायश्चित्ती भवेद्द्विजः । ततः सूर्यमुपस्थायाप्यसावादित्यमंत्रतः ।४५॥। गायत्र्याश्र जपं कुर्यादुपविश्य ततो बृसीम्। सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥४६॥ यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत्। सायं संध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥४७॥ वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीतितः । देवता विष्णुरूपा सा छन्दश्रैव सरस्वतो ॥४८॥ सायंकालीनसंध्यायास्तर्पणे विनियोगकः। स्वरित्युक्त्वा च पुरुषं सामवेदं तर्थव च ॥४९।। मंडलं चेति संप्रोच्य हिरण्यगर्भकं तथा। तर्थव परमात्मानं ततोऽपि च सरस्वतीम् ॥५०॥ वेदमातरमेवात्र सांस्कृति तद्वदेव च । संध्यां वृद्धां तथा विष्णुरूपिणीमुपसीं तथा ॥५१॥ निमृजीं च तथा सर्वसिद्धीनां कारिणीं तथा। सर्वमंत्राधिपतिकां भूर्भुवःस्वश्च पूरुषम् ॥५२॥ इत्येवं तर्पणं कार्यं संध्यायाः श्रुतिसंमतम्। सायं संध्याविधानं च कथितं पापनाशनम् ॥५३॥ सर्वदुःखहनं व्याधिनाशकं मोक्षदं तथा। सदाचारेषु संध्यायाः प्राधान्यं मुनिपुंगव ॥ संध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ।५४।। इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे विंशोऽध्यायः ॥२०॥ अथेकविशोऽध्यायः श्रीनारायण उवाच अथातः श्रयतां ब्रह्मन् गायत्र्याः पापनाशनम्। पुरश्चरणकं पुण्यं यथेष्टफलदायकम् ॥१॥ पर्वताग्रे नदीतीरे बिल्वमूले जलाशये। गोष्ठे देवालयेऽश्वत्थे उंद्याने तुलसीवने ॥२॥ पुण्यक्षेत्रे गुरोः पाश्वें चित्तकाग्रयस्थलेऽपि च / पुरश्चरणकृन्मंत्री सिध्यत्येव न संशयः ॥३॥
K
Page 777
श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २१ ७७७ यस्य कस्यापि मंत्रस्य पुरश्चरणमारभेत्। व्याहृतित्रयसंयुक्त्तां गायत्री चायुतं जपेत्॥४॥ नृसिंहार्कवराहाणां तांत्रिकं वैदिकं तथा। विना जप्त्वा तु गायत्रीं तत्सर्वे निष्फलं भवेत् ५॥ सवे शाक्ता द्रिजा: प्रोक्ता न शैवा नच वैष्णवाः । आदिशक्तिमुपासंते गायत्रीं वेदमातरम् ॥६॥ मंत्रं संशोध्य यत्नेन पुरश्चरणतत्परः । मंत्रशोघनपूर्वाङ्गमात्मशोधनमुत्तमम् आत्मतत्त्वशोधनाय त्रिलक्षं प्रजपेद्बुधः । अथवा चैकलक्षं तु श्रुतिप्रोक्त्ेन वर्त्मना ॥८। आत्मशुद्धि बिना कर्तुर्जपहोमादिकाः क्रियाः । निष्फलास्तास्तु विज्ञेयाः कारणं श्रुतिचोदितम् ९॥ तपसा तापयेद्देहं पितन्देवांश्च तर्पयेत्। तपसा स्वर्गमाप्नोति तपसा विंदते महत् ॥१०॥ क्षत्रियो वाहुवीर्येण तरेदापद आत्मनः । धनेन वैश्यः शूद्स्तु जपहोमैद्विजोत्तमः ॥११॥ अतएव तु विप्रेंद्र तपः कुर्यात्प्रयत्नतः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥१२॥ शोधयेद्विधिमार्गेण कृच्छ्रचांद्रायणादिभिः। अथान्नशुद्धिकरणं वक्ष्यामि शृणु नारद ॥१३॥ अयाचितोञ्छशुक्लाख्यभिक्षावृत्तिचतुष्टयम् । तांत्रिकैर्वेदिकैश्चव प्रोक्तान्नस्य विशुद्धता ॥१४।। भिक्षान्नं शुद्धमानीय कृत्वा भागचतुष्टयम्। एकं भागं द्विजेभ्यस्तु गोग्रास्तस्तु द्वितीयक: १५॥ अतिथिभ्यस्तृतीयस्तु तदूर्ध्वं तु स्वभार्ययोः । आश्रमस्य यया यस्य कृत्वा ग्रासविधि क्रमात् १६॥ आदौ क्षिप्त्वा तु गोमूत्रं यथाशक्ति यथाक्रमम् । तदूर्ध्व ग्राससंख्या स्याद्वानप्रस्थगृहस्थयोः ॥१७॥ कुक्कुटांडप्रमाणं तु ग्रासमानं विधीयते। अष्टो ग्रासा गृहस्थस्य वनस्थस्य तदर्धकम् ॥१८॥ ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम्। प्रोक्षणं नववारं च षड्वारं च त्रिवारकम् ॥१९॥ निश्छिद्रं च करं कृत्वा सावित्रों च तदित्यचम् । मंत्रमुच्चार्य मनसा प्रोक्षणे विधिरुच्यते ॥२०॥ चौरो वा यदि चांडालो वैश्यः क्षत्रस्तर्थव च। अन्नं दद्यात्तु यः कश्चिदवमो विधिरुच्यते ॥२१॥ शू द्रान्नं शूद्रसंपक शूद्रेण च सहाशनम्। ते यांति नरकं घोरं यावच्चंद्रदिवाकरौ ॥२२॥ गायत्रीच्छंदो मंत्रस्य यथासंख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥२३॥ द्वात्रिशल्लक्षमानं तु विश्वामित्रमतं तथा। जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥२४॥ पुरश्चरणहीनस्तु तथा मंत्रः प्रकीरतितः । ज्येष्ठाषाढी भाद्रपदं पौषं तु मलमासकम् ॥२५॥ अंगारं शनिवारं च व्यतिपातं च वधृतिम्। अष्टमीं नवमीं षष्ठी चतुर्थी च त्रयोदशीम् ॥२६॥ चतुर्दशीममावास्यां प्रदोषं च तथा निशाम्। यमाग्निरुद्रसर्पेन्द्रवसुश्रवणजन्मभम् ।।२७/। मेषकर्कतुलाकुंभान्मकरं चंव वर्जयेत्। सर्वाण्येतानि वर्ज्यानि पुरश्ररणकर्मणि॥२८॥ चंद्रतारानुकूले च शुक्लपक्षे विशेषतः। पुरश्चरणकं कुर्यान्मंत्रसिद्धिः प्रजायते ॥२९॥ स्वस्तिवाचनकं कर्यान्नांदीश्राद्धं यथाविधि। विप्रान्संतर्प्य यत्नेन भोजनाच्छादनादिभिः ३०॥ आरभेत्तु ततः पश्चादनुज्ञानपुरःसरम् । प्रत्यङ्मुखः शिवस्थाने द्विजश्चान्यतमे जपेत् ३१।।
Page 778
७७८ श्रीमद्ेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २१ काशीपुरी च केदारो महाकालोऽथ नासिकम्। त्र्यंबकं च महाक्षेत्रं पंच दीपा इमे भुवि ॥३२।। सर्वत्रंव हि दीपस्तु कूर्मासनमिति स्मृतम्। प्रारंभदिनमारभ्य समाप्तिदिवसावधि ॥३३॥ न न्यूनं नातिरिक्ं च जपं कुर्याहिने दिने। नैरंतर्येण कुर्वन्ति पुरश्चरयां मुनीश्वराः ॥३४॥ प्रातरारभ्य विधिवज्जपेन्मध्यंदिनावधि। मनःसंहरणं शौचं ध्यानं मंत्रार्थचिंतनम् ।३५।। गायत्रीच्छंदो मंत्रस्य यथासंख्याक्षराणि च । तावल्लक्षाणि कर्तव्यं पुरश्चरणकं तथा ॥३६॥ जुहुयात्तद्दशांगेन सघृतेन पयोऽन्धसा। तिलै: पत्रः प्रसूनैश्च यवैश्च मधुरान्वितैः ॥३७॥ कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः । गायत्री चैव संसेव्या धर्मकामार्थमोक्षदा ॥३८॥ नित्ये नैमित्तिके काम्ये त्रितये तु परायणः। गायत्र्यास्तु परं नास्ति इह लोके परत्र च ।३९॥ मध्याह्न मितभुङ् मौनी त्रिःस्नानार्चनतत्परः ! जले लक्षत्रयं घीमाननन्यमानसक्रियः ॥४०॥ कर्मणा यो जपेत्पश्चात्कर्मभिः स्वेच्छयाऽपि वा। याव्रत्कार्य न सिद्धधेत्तु तावत्कुर्याज्जपादिकम् ४१॥ सामान्यकाम्यकर्मादौ यथावद्विधिरुच्यते। आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ।।४२।। आयुरारोग्यमैश्वर्य धनं च लभते घ्रुवम्। षण्मास वा त्रिमासं वा वर्षांते सिद्धिमाप्तुयात्।। पद्मानां लक्षहोमेन धृताक्त्तानां हताशने। प्राप्नोति निखिलं मोक्षं सिध्यत्येव न संशयः ॥४४॥ मंत्रसिद्धिं विना कर्तुर्जपहोमादिका: क्रियाः। काम्यं वायदि वा मोक्षः सर्व तन्निष्फलं भवेत् ४५॥ पंचर्विशतिलक्षेण दघ्ना क्षीरेण वा हुतात् । स्वदेहे सिध्यते जंतुर्महर्षीणां मतं यथा ॥४६॥ अष्टांगयोगसिद्धयाच नरः प्राप्नीति वत्फलभ्। तत्फलं सिद्धिमाप्नोति नात्र कार्या विचारणा ४७॥ शक्तो वापि त्वशक्तो वा आहारं नियतं चरेत्। षण्मासात्तस्य सिद्धिः स्याद्गुरुभक्तिरतः सदा ४८।। एकाहं पंचगव्याशी चंकाहं मारुताशनः । एकाहं ब्राह्मणान्नाशी गायत्रीजपकृद्गवेत्।४९।। स्नात्वा गंगादितीर्थेषु शतमंतर्जले जपेत्। शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥५०॥ चांद्रायणादि कृच्छ्रस्य फलं प्राप्नोति निश्चितम् । राजा वा यदि वा विप्रस्तपः कुर्यात्स्वके गृहे। गृहस्थो ब्रह्मचारी वा वानपस्थोऽथवापि च । अधिकारपरत्वेन फलं यज्ञादिपूर्वकम् ॥५२॥ श्रौतस्मार्तादिकं कर्म क्रियते मोक्षकांक्षिभिः । साग्निकश्च सदाचारो विद्वद्धिश्च सुशिक्षितः ॥५३॥ ततः कुर्यात्प्रयत्नेन फलमूलोदकादिभिः। भिक्षान्नं शुद्धमश्नीयादष्टो ग्रासान्स्वयं भुजेत् ॥५४॥ एवं पुरश्चरणकं कृत्वा मंत्रसिद्धिमवाप्नुयात्। देवर्षे यदनुष्ठानाद्दारिद्रयं विलयं व्रजेत् ॥ तच्छ्रुत्वापि च पुण्यानां महतीं सिद्धिमाप्नुयात् ॥५५॥ इति श्रीदेवीभागवते महायुराणे एकादशस्कन्धे एकर्विशोऽध्यायः ॥२१।।
-: 0 :-
Page 779
श्रीमरेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २२ ७७९ अथ द्वाविशोऽध्यायः श्रानारायण उवाच अथातः श्रूयतां ब्रह्मन्वैश्वदेवविधानकम्। पुरश्वर्याप्रसंगेन ममापि स्मृतिमागतम् ॥१॥ देवयज्ञो ब्रह्मयज्ञो च । पितृयज्ञो मनुष्यस्य यज्ञश्चैव तु पंचमः ॥२॥ पंचसूना गृहस्थस्य चुल्ली पेषण्युपस्करः। कण्डणी चोदकुंभश्र तेषां पापस्य शांतये ॥३॥ भूतयज्ञस्तर्थव न चुल्लघां नायसे पात्रे न भूमो न च खर्परे। वैश्वदेवं प्रकुर्ीत कुण्डे वा स्थंडिलेऽपि वा ॥४॥ न पाणिना न शूर्पेण न च मेध्याजिनादिभिः । मुखेनोपधमेदग्नि मुखादेव व्यजायत ।।५।। पुटकेन भवेद्वयाधिः शूर्पेण धननाशनम्। पाणिना मृत्युमाप्नोति कर्मसिद्धिमुखेन तु ॥६॥ फलर्दधिघृतैः कुर्यान्मूलशाकोदकादिभिः । अलाभे येन केनापि काष्ठमूलतृणादिभिः ॥७॥ जुहुयात्सपिषाऽभ्यक्त तैलक्षारविदरजितम् । दध्याक्तं वा पायसाक्तं तदभावेऽम्ससापि वा ॥।८।। शुष्कं: पर्युषितैः कुष्ठी उच्छिष्टेन द्विषां वशी। रुक्षैर्द्ररिद्रतां याति क्षारं हुत्वा व्रजत्यधः ।९॥ अंगारान्भस्ममिश्रांस्तु निहृत्योत्तरतोऽनलात् । जुहुयार्द्वश्वदेवं तु न क्षारातिविमिश्रितम् ॥१०॥ अकृत्वा वश्वदेवं तु यो भुंक्त्ते मूढधीर्द्विजः । स मूढो नरकं याति कालसूत्रमवाकशिराः ॥११॥। शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम्। संकल्पयेद्यदाहारं तेनाग्नौ जुहुयादपि॥१२॥ अकृते वैश्वदेवे तु भिक्षी भिक्षार्थमागते। उद्धृत्य वैश्वदेवार्थ भिक्षा दत्त्वा विसर्जयेत् ॥१३॥ वैश्वदेवकृतं दोपं शक्तो भिक्षुर्व्यपोहितुम्। न तु भिक्षुकृतं दोषं वैश्वदेवो व्यपोहति ॥१४॥ यतिश्र ब्रह्मचारी च पक्वान्नस्वामिनावुभौ। तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥१५।। वैश्वादेवानंतरं च गोग्रासं प्रतिपादयेत्। तद्विधानं प्रवक्ष्यामि शृणु देवर्षिपूजित ॥१६॥ सुरभिर्वेष्णवो माता नित्यं विष्णुपदे स्थिता। गोग्रासं च मया दत्तं सुरभे प्रतिगृह्यताम् ॥१७॥ गोभ्यश्च नम इत्येव पूजां कृत्वा गवेऽर्पयेत्। गोग्रासेन तु गोमाता सुरभिः संप्रसीदति ॥१८॥ ततो गोदोहनं कालं तिष्ठेच्चंव गृहांगणे। अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥१९॥ स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति । माता पिता गुरुर्भ्राता प्रजा दासः समाश्रितः॥२०॥ अभ्यागतोऽतिथिश्चाग्निरेते पोष्या उदाहृताः । एवं ज्ञात्वा तु यो मोहान्न करोति गृहाश्रमम् ॥२१॥ तस्य नायं न तु परो लोको भवति धर्मतः । यत्फलं सोमयागेन प्राप्नोति धनवान्द्विजः ॥२२॥ सम्यक् पंचमहायज्ञैरदरिद्रस्तेन चाप्नुयात्। अथ प्राणाग्निहोत्रं तु वक्ष्यामि मुनिपुंगव ।।२३।। यज्ज्ञात्वा मुच्यते जंतुर्जन्ममृत्युजरादिभिः । परिज्ञानेन मुच्यंते नराः पातककिल्बिषैः ॥२४॥ विधिना मुच्यते येन मुच्येत स ऋणत्रयात्। कुलान्युद्धरते विप्रो नरकानेकविशतिम् ॥२५॥ सवंयज्ञफलप्राप्तिः सर्वलोकेषु गच्छति। हृत्पुंडरीकमरणिर्मनो मंथानसंज्ञकम् ॥२६।।
Page 780
.७60 श्रीमद्ेवीभागवते महापुराणे एकाइशस्कन्धे अध्याय: २३ चायुरज्ज्वा मथेदग्नि चक्षुरध्वर्युरेव च। तर्जनीमध्यमांगुष्ठरुदानस्याहुति क्षिपेत् ।२७।। मध्यमानामिकांगुष्ठैरपानस्याहुति क्षिपेत्। कनिष्ठानामिकांगुष्ठर्व्यानस्य तदनंतरम् ॥२८॥। कनिष्ठातर्जन्यंगुष्टरुदानस्याहुति क्षिपेत्। सर्वांगुलैगृहीत्वान्नं समानस्याहुर्तिक्षिपेत् ।।२९।। स्वाहांतान्प्रणवाद्यांञ्च नाममंत्रांश्च वे पठेत्। मुखे चाहवनीयस्तु हृदयो गार्हपत्यकः ॥३०॥ नाभी च दक्षिणाग्निः स्यादधः सभ्यावसथ्यको। वाग्घोता प्राण उद्गाता चक्षुरध्वयुंरेव च ॥३१॥ मनो ब्रह्मा भवेच्छ्रोत्रमाग्नीघ्रस्थान एव च । अहंकारः पशुश्चात्र प्रणवः पय ईरितम् ॥३२॥ बुद्धिश्च पत्नी संप्रोक्ता यदधीनो गृहाश्रमी। उरो वेदिस्तु रोमाणि दर्भाःस्युश्च स्त्रुवौ करौ ३३।। प्राणमंत्रस्य च ऋषी रुक्मवर्णः क्षुधाग्निकः । देवतादित्य एवात्र गायत्रीच्छंद उच्यते ॥३४॥ प्राणाय च तथा स्वाहा मंत्रांते कीर्तयेदपि। इदमादित्यदेवाय न ममेति वदेदपि॥३५॥ अपानमन्त्रस्य तथा गोक्षीरधवलाकृतिः। श्रद्धाग्निऋषिरेवात्र सोमो वै देवता स्मृता ॥३६॥ उष्णिक्छंदस्तथाऽपानाय स्वाहेत्यपि कीर्तयेत्। सोमायेदं च न ममेत्यत्रोहः परिकीर्तितः॥३७॥ व्यानमन्त्रस्य चाख्यातोंबुजवर्णो हुताशनः। ऋषिरुक्तो देवताग्निरनुष्टुप छंद ईरितम्॥३८॥ व्यानाय च तथा स्त्राहाऽग्नयेदं न ममेत्यपि। उदानमन्त्रस्य तथा शक्रगोपसवर्णकः ॥३९॥ ऋषिरग्निः समाख्यातो वायुर्वे देवता स्मृतः । बृहतीच्छंद आख्यातमुदानाय च पूर्ववत् ॥४०॥ वायवे चेदं न मम एवं चंवोच्चरेदुद्विजः । समानवायुमन्त्रस्य विद्युद्वर्णो विरूपकः ॥४१॥ ऋषिरग्निः समाख्यातः पर्जन्यो देवता मतः । पंचिशछदः समाख्यातं समानाय च पूर्ववत् ॥४२।। पर्जन्यायायेदमित्युक्त्वा षष्ठीं चैवाहुति क्षिपेत्। वैश्वानरो महानग्निऋषिर्वे परिकींरतितः ॥४३।। गायत्रीच्छंद आख्यातं देवस्त्वात्मा भवेदपि। स्वाहांतो मन्त्र आख्यातः परमात्मन उच्चरेत्॥ इदं न मम चेत्येवं जातं प्राणाग्निहोत्रकम् । एतज्ज्ञात्वा विधि कृत्वा ब्रह्मभूयाय कल्पते।। प्राणाग्निहोत्रविद्येयं संक्षेपात्कथिता हि ते॥४५॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे द्वाविशोऽध्यायः ॥ २१॥ अथ त्रयोविंशोऽध्यायः श्रीनारायण उवाच अमृतापिधानमित्येवमुच्चार्य साधकोत्तमः । उच्छिष्टभाग्भ्यः पात्रान्नं दद्यादंते विचक्षणः ।।१।। ये के चास्मत्कुले जाता दासदास्योऽन्नकांक्षिणः। ते सर्वे तृप्तिमायांतु मया दत्तेन भूतले ॥२॥ रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम्। अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ।।३।। पवित्रग्रन्थिमुत्सृज्य मंडले भुवि निक्षिपेत् । पात्रे तु निक्षिपेद्यस्तु स विप्रः पंक्तिदूषकः ॥४॥ उच्छिष्टस्तेन संस्पृष्टः शुना शूद्ेण च द्विजः । उपोष्य रजनीमेकां पंचगव्येन शुध्यति ॥५॥
Page 781
श्रीमद्वेवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २३ अनुच्छिष्टेन संस्पृष्टः स्नानमेव विधीयते। एकाहुतिप्रदानेन कोटियज्ञफलं लभेत् ॥ ६॥ पंचभिः पंचकोटीनां तदनंतफलं स्मृतम् । प्राणाग्निहोत्रे वेत्रे यो ह्यन्नदानं करोति च।।७।। दातुश्चैव तु यतपुण्यं भोक्तश्चव तु यत्फलम्। प्राप्नुतस्तो तदेव द्वावुभौ तो स्वर्गगामिनी ॥८॥ सपवित्रकरो भुंक्त्ते यस्तु विप्रो विधानतः । ग्रासे ग्रासे फलं तस्य पंचगव्यसमं भवेत् ॥ ९ ॥ पूजाकालत्रये नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते॥१०॥ अधःशयानो धर्मात्मा जितक्रोधो जितेन्द्रियः । लघुमिष्टहिताशी च विनीतः शांतचेतसा ॥११॥ नित्यं त्रिषवणस्नायी नित्यं स शुभभाषणः । स्त्रीशूद्रपतितव्रात्यनास्तिकोच्दिष्टभाषणम् ॥१२।। चाण्डालभाषणं चव न कुर्यान्मुनिसत्तम। नत्वा नैव च भाषेत जपहोमार्चनादिषु ॥१३॥ मथुनस्य तथालापं तद्गोष्ठीमपि वर्जयेत्। कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥१४॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते। राज्ञश्चंव गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥१५॥ ऋतुस्नातेषु दारेषु संगतिर्या विधानतः । संस्कृतायां सवर्णायामृतुं दृष्टा प्रयत्नतः ॥१६॥ रात्रीतु गमनं कार्यं ब्रह्मचर्यं हरेन्न तत्। ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि॥१७॥ तथा यज्ञाननिष्ठा च मोक्षमिच्छन्ब्रजत्यधः । अजागलस्य यज्जन्म तज्जन्म श्रुतिचोदितम् ॥१८। अतः कार्यं तु विप्रेन्द्र ऋणत्रयविशोधनम्। ते देवानामृषीणां च पितृणामृिनस्तया ॥१९॥ ऋषिभ्यो ब्रह्मचर्येण पितृभ्यस्तु तिलोदकैः । मुच्येद्यज्ञेन देवेभ्यः स्वाश्रमं वर्ममाचरेत् ॥२०॥ क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक्। भिक्षाशी वा जपेद्विद्वान्कृच्छ्रचांद्रायणादिकृत् २१।। लवणं क्षारमम्लं च गृंजन कांस्थभोजनम्। तांबूलं च द्विभुक्तं च दुष्टवासः प्रमत्तनम् ॥२२॥ श्रुतिस्मृतिविरोधं च जपं रात्रौ, विवर्जयेत्। वृथा न कालं गमयेद्द्यूतस्त्रीस्वापवादतः ॥२३॥ गमयेद्देवतापूजास्तोत्रागमविलोकनैः । भूशैय्याब्रह्मचारित्वं मौनचर्यां तर्थव च ।२४।। नित्यं त्रिषवणस्नानं शूद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानमानंदस्तुतिकीर्तनम् ॥२५॥ नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठस्य धर्मा ये द्वादशैते सुसिद्धिदाः ॥२६॥ नित्यं सूर्यमुपस्थाय तस्य चाभिमुखो जपेत्। देवताप्रतिमादोवा वह्नौ वाडभ्यर्च्य तन्मुखः ॥२७॥ स्नानपूजाजपध्यानहोमतर्पणतत्परः । निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥२८। एवमादीश्र नियमान्पुरश्चरणकृच्चरेत् । तस्माद्द्विजः प्रसन्नात्मा जपहोमपरायणः ।२९॥ तपस्यध्ययने युक्तो भवेद्दतानुकंपकः । तपसा स्वर्गमाप्नोति तपसा विंदते महत् ॥३०॥ तपोयुक्तस्य सिद्धयन्ति कर्माणि नियतात्मनः । विद्वेषणं संहरणं मारणं रोगनाशनम् ॥३१॥ येन येनाथ ऋषिणा यदर्थं देवताः स्तुताः । स सकामः समृद्धयेत तेषां तेषां तथा तथा ॥३२॥ तानि कर्माणि वक्ष्यामि विधानानि च कर्मणाम् । पुरश्चरणमादी च कर्मणां सिद्धिकारकम् ॥३३॥
Page 782
"७८२ श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २३ -स्वाध्यायाभ्यसनस्यादो प्राजापत्यं चरेद्द्विजः । केशशमश्रुलोमनखान् वापयित्वा ततः शुचिः ॥३४॥ तिष्ठेदहनि रात्री तु शुचिरासीत वाग्यतः। सत्यवादी पवित्राणि जपेद्वयाहृतयस्तथा ॥३५॥ ऊकाराद्यास्तु ता जप्त्वा सावित्रीं च तदित्यृचम्। आपोहिष्ठेति सूक्तं च पवित्रं पापनाशनम् ॥३६॥ पुनंत्यः स्वस्तिमत्यश्च पावमान्यस्तर्थव च। सर्वत्रैतत्प्रयोक्तव्यमादावंते च कर्मणाम्॥३७॥ आसहस्त्रा दा शताद्वाप्यादशा दथवा जपेत्। ऊकारं व्याहृतीस्तिस्त्रः सावित्रीमथवाऽयुतम् ३८।। देवताः । अनार्येण न भाषेत शूद्रेणापि न गहिंतैः ॥३९।। नाि चोदक्यया वध्वा पतितैर्नान्त्यजैर्नृभिः । न देवव्राह्मणद्विष्टेर्नाचार्यगुरुनिन्दकः ॥४०।। न मातृपितृविद्विष्टैर्नावमन्येत कञ्चन। कृच्छ्राणामेष सर्वेषां विधिरुक्तोऽनुपूर्वशः।४१।। प्राजापत्यस्य कृच्छ्रस्य तथा सांतपनस्य च। पराकस्य च कृच्छ्रस्य विधिश्चांद्रायणस्यच ॥४२॥ पंचभिः पातकः सर्वेर्दुष्कृतैश्च प्रमुच्यते। तप्तकृच्छ्रेण सर्वाणि पापानि दहति क्षणात् ।।४३।। त्रिभिश्चांद्रायणैः पूतो ब्रह्मलोकं समशनुते। अष्टभिर्देवताः साक्षात्पश्येत वरदास्तदा ॥४४॥ छंदांसि दशभिर्ज्ञात्वा सर्वान्कामान्समशनुते। त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ॥।४५।। त्रयहं परं च नाश्नीयात्प्राजापत्यं चरेद्द्विजः । गोमत्रं गोमयं क्षीरदधिसर्पिः कुशोदकम् ॥४६॥ एकरात्रोपवासश्च कृ्छ्रं सांतपन स्मृतम्। एकैकं ग्रासमश्नीयादहानि त्रीणि पूर्ववत् ।४७।। त्र्यहं चोपवसेदित्थमतिकच्छ्व चरेद्द्विजः । एवमेव त्रिभिर्युक्तं महासांतपनं स्मृतम् ॥४८॥ तप्तकृच्छ्र नरन्विप्रो जलक्षीरघृतानिलान्। प्रतित्र्यहं पिवेदुष्णान्तकृत्स्नायी समाहितः ।।४९।। नियतस्तु पिबेदापः प्राजापत्यविधिः स्मृतः। यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ॥५०॥ पराको नाम कृच्छ्रोडयं सर्वपापप्रणोदनः । एकैकं तु ग्रसेत्पिडं कृष्णे शुक्ले च वर्धवेत् ॥५१॥ अमावास्यां न भुञ्जीत एवं चांद्रायणे विधिः। उपस्पृश्य त्रिषवणमेतच्चांद्रायणं स्मृतम् ॥५२॥ चतुरः प्रातरश्नयाद्विप्रः पिंडान्कृताह्निकः । चतुरोऽस्तमिते सूर्ये शिशुचांद्रायणं स्मृतम् ॥५३॥ अष्टावष्टौ समश्नीयात्पिडान्मध्यं दिने स्थिते। नियतात्मा हविष्यस्य यतिचांद्रायणं व्रतम् ॥५४॥ एतद्रुद्रास्तथादित्या वसवश्च चरंति हि। सर्वे कुशलिनो देवा मरुतश्र भुवा सह॥५५॥ ऐकैकं सप्रात्रेण पुनाति विविवत्कृतम्। त्वगसृक्पिशितास्थीनि मेदोमज्जावसास्तथा ॥५६।। ऐकैकं सप्तरात्रेण शुद्धयत्येव न संशयः । एभिर्व्रतैविपूतात्मा कर्म कुर्वीन नित्यशः ॥५७॥ एवं शुद्धस्य कर्माणि सिद्धयन्त्येव न संशयः । शुद्धात्मा कर्म कुर्वीत सत्यवादी जितेन्द्रियः ।५८।। इष्टान्कामांस्ततः सर्वान्संप्राप्नोति न संशयः । त्रिरात्रमेवोपवसेद्रहितः सर्वकर्मणा ॥५९॥ त्रीणि नक्तानि वा कुर्यात्ततः कर्म समारभेत्। एवं विधानं कथितं पुरश्चर्याफलप्रदम् ॥६०॥ -गायत्र्याश्च पुरश्चर्या सर्वकामप्रदायिनी। कथिता तव देवर्षे महापापविनाशिनी ॥६१॥
Page 783
श्रीमद्देवीमागवते महापुराणे एकादशस्कन्धे अध्याय: २४ ७८३ आदौ कुर्याद्व्रतं मन्त्री देहशोधनकारकम्। पुरश्रयां ततः कुर्यात्समस्तफलभाग्भवेत् ॥६२॥ इति ते कथितं गुह्यं पुरश्चर्याविधानकम्। एतत्परस्म नो वाच्यं श्रुतिसारं यतः स्मृतम्॥६३॥ इति श्रीदेवीभागवते महापुराणे एकादशस्कन्धे त्रयोविशोऽध्यायः ।२५॥ अथ चतुर्विशोऽध्यायः श्रीनारद उवाच नारायण महाभाग गायत्र्यास्तु समासतः । शांत्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ।।१।। श्रीनारायण उवाच अतिगुह्यमिदं पृष्टं त्वया ब्रह्मतनूद्गव। न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥२॥ अथशांतिः पयोक्ताभिः समिद्धिर्जुहुयाद्द्विजः । शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥३॥ आर्द्राभि: क्षीरवृक्षस्य समिद्दिर्जुहुयाद्द्विजः । जुहुयाच्छकलैर्वापि भूतरोगादिशांतये ।।४।। जलेन तर्पयेत्सूयं पाणिभ्यां शांतिमाप्नुयात्। जानुदव्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ।।५॥ कंठदघ्ने जले जप्त्वा मुच्येत्प्राणांतिकाद्द्यात् । सर्बेभ्यः शांतिकमभ्यो निमज्ज्याप्सु जपः स्मृतः ॥ सौवणें राजते वाऽपि पात्रे ताम्रमयेऽपि वा। क्षीरवृक्षमये वाषि निर्व्रणे मृन्मयेऽपि वा॥७॥ सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले। क्षीरवृक्षमयैः काष्ठैः शेषं संपादयेच्छनैः ॥८॥ प्रत्याहुति स्पृशञ्जप्त्वा सहस्त्रं पात्रसंस्थितम्। तेन तं प्रोक्षयेद्रेशं कुशैमंत्रमनुस्मरन् ॥९॥ बलि किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् । अभिचारसमुत्पन्नां कृत्वा पापं च नश्यति ॥१०॥ देवभूतपिशाचाद्या यद्येवं कुरुते वशे। गृह्य ग्रामं पुरं राष्ट्र सर्वं तेभ्यो विमुच्यते ॥११॥ निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च। मंडले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥१२॥ अभिमंत्र्य सहस्त्रं तन्निखनेत्सर्वशांतये। सौवर्ण राजतं वापि कुंभं ताम्रमयं च वा ॥१३॥ मुन्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् । स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलै: ॥१४॥ दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः। एलाचंदनकर्पूरजातीपाटलमल्लिका: ।।१५॥ बिल्वपत्रं ताक्रांतां देवीं व्रीहियवांस्तिलान्। सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिषेत् ।१ ६।। सर्वाण्यभिविधायैवं कुशकूर्चसमन्वितम्। स्नातः समाहितो विप्रः सहस्त्रं मंत्रयेद्बुधः ॥१७। दिक्षु सौरानधीयीरन्मंत्रान्विप्रास्त्रयीविदः। प्रोक्षयेत्पाययेदेनं नीरं तेनाभिर्षिचयेत् ।।१८।। भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् । अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥१९॥ अवश्यं कारयेद्विद्वात्राजा दीघं जिजीविषुः । गावो देयाश्र ऋत्विग्म्य अभिषेके शतं मुने ॥२०॥ दक्षिणा येन वा पुष्टिर्यथाशक्त्याऽथवा भवेत् । जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥२१॥ भूतरोगांभिचारेभ्यो मुच्यते महतो भयात्। गुडूच्याः पर्वविच्छिन्नाः पयोक्ता जुहुयाद्द्विजः २२॥
Page 784
७८४ श्रीमदेदीभागवते महापुराणे एकादशस्कन्धे अध्याय: २४ एवं मृत्युंजयो होमः सर्वव्याधिविनाशनः । आम्रस्य जुहुयात्पत्रः पयोक्तैर्ज्वरशांतये ॥२३॥ वचाभि: पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् । मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥२४॥ निवेद्य भास्करायान्नं पायसं होमपूर्वकम्। राजयक्ष्माभिभूतं च प्राशयेच्छांतिमाप्तुयात् ॥२५॥ लता: पर्वसु विच्छिद्य सोमस्य जुहुयाद्द्विजः । सोमे सूर्येण संयुक्ते पयोक्ताः क्षयशांतये ॥२६॥ कुसुमैः शंखवृक्षस्य हुत्वा कुष्ठं विनाशयेत् । अपस्मारवनाशः स्यादपामार्गस्य तंडुलै: ॥२७॥ क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति। औदुंबरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥२८॥ प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा। मधुत्रितयहोमेन नयेच्छांति मसूरिकाम् ॥२९॥ कपिलासर्पिषा हुत्वा नयेच्छांति मसूरिकाम्। उदुंबरवटाश्वत्थर्गोगजाश्वामयं हरंत्॥३०।। पिपीलिमधुवल्मीके गृहे जाते शतं शतम् । शमीसमिद्धिरन्नेन सर्पिषा जुहुयाद्द्विजः ॥३१।। तदुत्थं शांतिमायाति शेषैस्तत्र बलिं हरेत्। अभ्रस्तनितभूकम्पलक्ष्यादौ वनवेतसः ॥।३२।। समाहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत्। यां दिशं शतजप्ेन लोष्टेनाभिप्रताडयेत् ।।३३।। ततोऽग्निमारुतादिभ्यो भयं तस्य विनश्यति। मनसैव जपेदेनां बद्धो मुच्येत बन्वनात् ॥३४॥ भूतरोग विषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत्। भूमादिभ्यो विमुच्येत जलं पीत्वाभिमंत्रितम् ॥३५॥ अभिमंत्र्य शतं भस्म न्यसेद्भूतादिशांतये। शिरसा धारयेन्द्स्म मंत्रयित्वा तदित्यचा ॥३६॥ सर्वव्याधिविनिर्मुक्त: सुखी जीवेच्छतं समाः । अशक्तः कारयेच्छांति विप्रं दत्त्वा तु दक्षिणाम् ३७।। अथ पुष्टि श्रियं लक्ष्मी पुष्पैहुत्वाप्नुयाद्द्विजः । श्रीकामो जुहुयात्पय रक्त्त: श्रियमवाप्नुयात् ।३८। हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः । शालितंडुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥३९॥ समिद्दिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् । बिल्वस्य शकलैरहुत्वा पत्रः पुष्पैः फलैरपि ॥४०॥ श्रियमाप्नोति परमां मूलस्य शकलैरपि। समिद्धिर्वित्ववृक्षस्य पायसेन च सर्पिषा ॥४१॥ शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात्। लाजैस्त्रिमधुरोपेतैर्होंमे कन्यामवाप्नुयात् ॥४२॥। अनेन विधिना कन्या वरमाप्नोति वांछितम्। रक्तोत्पलशतं हुत्वा सप्ाहं हेम चाप्नुयात् ।४३।। सूर्यबिबे जलं हुत्वा जलस्थं हेम चाप्नुयात्। अन्नं हुत्वाप्नुयादन्नं व्रीहोन्व्रीहिपतिर्भवेत् ॥४४॥ करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात्। प्रियंगुपायसाज्यैश्र भवेद्धोमादिभिः प्रजा ॥४५॥ निवेद भास्करायान्नं पायसं होमपूर्वकम् । भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥४६॥ सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः । ब्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुथात्॥४७॥ सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात्। दूर्वाभिः पयसा वापि मधुना सर्पिपापि वा ॥४८॥ शतं शतं च सप्ताहमपमृत्युं व्यपोहति। शमी समिद्धिरन्नेन पयसा वा च सपिषा॥४९। शतं शतं च सप्ताहमपमृत्युं व्यपोहति। न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥५०॥।
Page 785
५० श्रीमद्देवीभागवते महापुराणे एकादशस्कन्धे अध्याय: २४ ७८५ शतं शतं च सप्ताहमपमुत्युं व्यपोहति। क्षीराहारोजपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥५१॥ अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् । निमज्ज्याप्सु अपेदेव सद्यो मृत्योविमुच्यते ॥५२॥ जपेद्विल्वं समाश्रित्य मासं राज्यमवाप्नुयात्। दिल्वं हुत्वाऽप्नुयाद्राज्यं समूलफलपल्लवम्॥५३॥ हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकंटकम् ।यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम्॥४॥ अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात्। अकस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ।५५।। संयुक्तैः पयसा पत्रंः पुष्पैर्वा वेतसस्य च। पायसेन शतं हुत्वा सपाहं वृष्टिनाप्नुपात् ॥५६।। नाभिदध्ने जले ज्वा सप्ताहं दृष्टिमाप्तुयात्। जले भस्म शतं हुत्वा महावृष्टि निवारयेत् ॥७॥ पालाशीभिरवाप्नोति समिद्भिर्व्रह्मवर्चसम्। पलाशकुसुमैंर्हुत्वा सर्वमिष्टमवाप्नुयात् ।।५८।। पयो हुन्वाऽडप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात्। अभिमंत्र्य पिवेद्ब्राह्मं रसं मेधामवाप्नुयात् ।५९।। पुष्पहोमे भवेद्वासस्तंतुभिस्तद्विधं पटम्। लवणं मधुसंमिश्रं हुत्वेष्टं वशमानयेत् ॥६०॥ नयेदिष्टं वशं हुत्बा लक्ष्मीं पुष्पैर्मधुप्लुतैः । नित्यमंजलिनात्मानमभिर्षिचेज्जले स्थितः ॥६१॥ मतिमारोग्यमायुष्यमग्रयं स्वास्थ्यमवाप्नुयात् । कुर्याद्वि प्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ६२।। अथ चारुविधिर्मासं सहस्त्रं प्रत्यहं जपेत्। आयुष्कामः शुचो देशे प्राप्नुयादायुरुत्तमम् ॥६३॥ आयुरारोग्यकामस्तु जयेन्मासद्वयं द्विजः । भवेदायुष्यमारोग्यं श्रियँ सामत्रयं जपेत् ।।६४।। आयुःश्रीपुत्रदाराद्याश्चतुभिश्र यशो जपात् । पुत्रदारायुरारोग्यं श्रियं विद्यां चपञ्चरभि:॥६५।। एवमेवोत्तरान्कामान् मासैरेवोत्तरैव्रजेत्। एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥६६॥ मासं शतत्रयं तिस्रः सर्वा्कामानवाप्नुयात् । एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥।६७।। रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम्। यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥६८।। एकपादो जपेदूर्ध्वबाहू रुद्ध्वाऽनिलं वशी। मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥६९।। एवं शतत्रय जप्त्वा सहस्त्रं सर्वमाप्नुयात् । निमज्ज्याप्सु जपेन्मासं शतमिष्टमत्राप्तुयात् ॥७०।। एव शतत्रयं जप्वा सहस्रं सर्वमाप्नुयात्। एकपादो जपेदूर्ध्ववाहू रुद्ध्वा निराश्रयः ।७१॥ वत्सरादृषितामियात्। गोरमोघा भवेदेवं जपत्वा संवत्सरहयम् ॥७२॥ नरिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् । आयाति भगवानदवश्वतुःसंवत्सरं जपेत्।।७:।। भवेत्। एवं पड्वत्सरं जप्वा कामरूपित्व्रमाप्ुधात् ।७5।। । मनुत्वं नवभिः निद्ध्मिदत्वं दगभिर्भवेत् ।७॥ एकादशभिराप्नोति प्राजापत्यं सुव सरैः। ब्रह्मत्वमाप्नुयादेव जप्वा दायरवत्सरान् ।७६।। एतेनैव जिता लोकास्तपसा नारदादिभिः । शाकमन्ये परे मूलं फलमन्ते पयः परे ॥७७॥ घृतमन्ये परे सोममपरे चरुवृत्तयः। ऋषयः पक्षमश्नंति केचिद्भैक्ष्याशिनोऽहनि॥७८॥
Page 786
७८६ श्रीमद्देवीमागवते महापुराणे एकादशस्कन्धे अध्याय: २४ हविष्यमपरेऽश्नन्तः कुर्व्येव परं तपः । अथ शुद्धर्य रहस्यानां त्रिसहसत्रं जपेद्द्विजः ॥७९॥ मासं शुद्धो भवेत्स्तेयान्सुवर्णेस्य द्विजोत्तमः । जपेन्मासं त्रिसाहस्त्रं सुराप: शुद्धिमाप्नुयात् ।८०। मासं जपेत्त्रिसाहस्रं शुचिः स्याद्गुरु्तल्पगः । त्रिसहस्त्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥८१।। ब्रह्महा मुच्यते पापादिति कौशिकभाषितम्। द्वादशाहं निमज्ज्याप्सु सहस्त्रं प्रत्यहं जपेत् ।।८२।। मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः । त्रिसाहस्त्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥८३॥ महापातकयुक्त्तो वा मुच्यते महतो भयात्। प्राणायामसहस्त्रेण ब्रह्महाऽपि विशुध्यति ॥८४॥। षट्कं त्वभ्यसेदूर्ध्वं प्राणापानी समाहितः । प्राणायामो भवेदेष सर्वपापप्रणाशनः॥८५॥ सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् । द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥८६॥ अगम्यागमनस्तेयहननाभक्ष्यभक्षणे । दशसाहस्त्रमभ्यस्ता गायत्री शोधयेद्द्विजम् ।।८७।। प्राणायामशतं कृत्वा मुच्यते सर्वकिल्बिषात् । सर्वेषामेव पापानां संकरे सति शुद्धये ॥८८। सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् । उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ।८९।। चतुर्विशतिसाहस्रमभ्यस्ता कृच्छ्रसंज्ञिता । चतु:षष्टिसहस्त्राणि चांद्रायणसमानि तु॥९०॥ शतकृत्वोऽ्भ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः । तदित्यचमवाप्नोति सर्वपापक्षयं परम् ॥९१॥ निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यचम्। ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥९२॥ इति ते सम्यगाख्याताः शांतिशुद्धयादिकल्पनाः । रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥९३॥ इति संक्षेपतः प्रोक्तः सदाचारस्य संग्रहः । विधिनाचरणादस्य माया दुर्गा प्रसीदति ॥९४॥ नैमित्तिकं च नित्यं च काम्यकर्म यथाविधि। आचरेन्मनुजः सोडयं भुक्तिमुक्तिफलातिभाक्९५॥ आचार: प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी। इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥९६॥ आचारवान्सदा पूतः सदैवाचारवान्सुखी। आचारवान्सदा धन्यः सत्यं सत्यं चनारद।।९७।। देवीप्रसादजनकं सदाचारविधानकम् । यदपि श्रृणुयान्मत्यों महासंपत्तिसौख्यभाक् ।।९८।। सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम्। तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि।।९९॥ इति श्रीदेवीमागवते महापुराणे एकादशस्कन्धे सदाचारनिरूपणं नाम चनुर्विशोऽधयायः ॥२४॥ सार्धे रामाब्धिनेत्रेंदु [ १२४३॥। ] पद्यव्यसिकृतैः शुभैः । देवीभागवतस्यास्यकादशः स्कन्ध ईरितः ॥ १ ॥ समाप्तोऽयमेकादशः स्कन्धः
Page 787
श्रोगणेशाय नमः
श्रीमद्देवीभागवतम्
द्वादशः स्कन्धः
अ्रथ प्रथमोऽध्यायः नारद उवाच सदाचारविधिर्देव भवता वर्णितः प्रभो। तस्याप्यतुलमाहात्म्यं सर्वपापविनाशनम्॥१॥ श्रुतं भवन्मुख्ांभाजच्युतं देवाकथामृतम् । व्रतानि यानि चोक्तानि चांद्रायणमुखानि ते ।।२॥ दु.खसाध्यानि जानोमः कर्त्रसाध्यानि तानि च। तदस्मात्सांप्रतं यत्तु सुवसाध्यं शरीरिणाम् ॥३॥ देवीप्रसादजनकं शुभानुष्ठानसिद्धिदम् । तत्कर्म वद मे स्वामिन्कृपापूर्व सुरेश्वर ॥।४।। सदाचारविधौ यश्च गायत्रीविविरीरितः । तस्मिन्मुख्यतमं किस्यात्किवा पुण्याधिकप्रदम्॥५॥ ये गायत्रीगता वर्णास्तत्त्वसख्यास्त्वयेरिताः । तेपां के ऋषयः प्रोक्ताः कानि छन्दांसि ते मुने ॥६॥। तेषां का देवताः प्रोक्ताः सर्वं कथय मे प्रभो। महत्कौतूहल मे च मानसे परिवर्तते॥७॥ श्रीनारायण उतारप कुर्यादन्यन्न वा कुर्यादनुष्ठानादिक तथा। गायत्रीमात्रनिष्ठस्तु कृतकृत्यो भवेद्द्विज: ॥८H संध्यासु चार्ध्यदानं च गायवीजपमेव च। सहस्रत्रितयं कर्बन्सुरैः पूज्यो भवेन्मूने ॥९॥ न्यासान्करोतु वा मा वा गायत्रीमेव चाभ्यसेत्। ध्यात्वा निर्व्याजया वृत्त्या सच्चिदानंदरूपिणीम् १० यदक्षरैकसंसिद्धेः स्पर्धते ब्राह्मणोत्तमः । हरिशक कंजोत्थसूर्यचंद्रहुनाशनैः ।११॥ अथातः श्रयतां ब्रह्मन्वर्णानृष्यादिकांस्तथा। छंदांसि देवतास्तद्वत्क्रमात्तत्वानि चंव हि ॥१२॥ वामदेवोऽत्रिर्वसिष्टः शुक्रः कण्वः पराशरः । विश्वामित्रो महातेजाः कपिलः शौनको महान् १३॥ याज्ञवल्क्यो भरदवाजो जमदग्निस्तपोनिधिः । गौतमो मुद्रलश्चैव वेदव्यासश्च लोमशः ॥१४॥
Page 788
७८० श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः २ अगस्त्य: कौशिको वत्सः पुलस्त्यो मांडुकस्तथा। दुर्वासास्तपसां श्रेष्ठो नारदः कश्यपस्तथा ॥१५॥ इत्येते ऋृषयः प्रोक्ता वर्णानां क्रमशो मुने। गायत्र्ुष्णिगनुष्टुप् च बृहती पंक्तिरेव च ॥१६।। त्रिष्टुभं जगती चंव तथाऽतिजगती मता। शक्वर्यतिशक्वरी च धृतिश्चातिधृतिस्तथा ॥१७॥ विराट प्रस्तारपंकिश्च कृतिः प्रकृतिराकृतिः । विकृतिः संकृतिश्रवाक्षरपंक्तिस्तर्थैव च ॥१८। भूर्भुवः स्वरिति छंदस्तथा ज्योतिष्मती स्तृतम् । इत्येतानि च छंदांसि कीर्नितानि महामुने ॥११॥ देवतान शृणु न्राज्ञ तेषामेवानुपूर्वशः। आग्नेयं प्रथमं प्रोक्तं प्राजापत्यं द्वितीयकम् ॥२०॥ तृतीयं च तथा सोम्यमीशानं च चतुर्थकम्। सावित्रं पञ्चमं प्रोक्तं पष्ठमादित्यदैवतम् ।२१॥ बार्हस्पत्यं सप्तमं तु मैत्रावरुणमष्टमम्। नदमं भगदैवत्यं दशमं चार्यमैश्वरम् ॥२२॥ गणेशमेकादशकं त्वाष्ट् न द्वादशं स्मृतम्। पौष्ण योदशं प्रोक्तमैंद्राग्नं च चतुर्दशम् ।२३॥ वायव्यं पंचदशकं वामदेव्यं च पोडशम्। मैत्रावरुणिदैवत्यं प्रोक्तं सप्तदशाक्षरम् ॥२४॥ अष्टादशं वैश्वदैवमूनविशंतिमातृकम् । वैष्णवं विशतितमं वासुदैवतमीरितम् ॥२५॥ एक विशतिसंख्याकं ट्राविशं रुद्रदैवतम् । त्रयोविदं च कावेरमाश्चिनं तत्त्वसंख्यकम् ॥२६॥ चतुर्विशतिवर्णानां देवतानां च संग्रहः । कथितः परमश्रेष्ठो महापापैपशोधनः ।। यदाकर्णनमात्रेण सांगं जाप्यफल लभेत् ।२७।। इति श्रीदेवीभागवत महापुराणे द्वादशस्कन्धे गायत्रविचारे नाम प्रथमोउध्यायः ॥९॥ अथ द्वितीय ध्यायः श्रीनारायण उवाच वर्णानां शक्तयः काश्च ताः शृणुष्व महामुने। वामदेवी प्रिया सत्या विश्वा भद्रविलासिनी ॥१॥ प्रभावती जया शांता कांता दुर्गा सरस्वती। विद्रुमा चविशालेशा व्यापिनी विमला तथा ॥२॥ तमोऽपहारिणी सूक्ष्मा विश्वयोनिर्जया वशा। पझ्मालया पराशोभा भद्रा च त्रिपदा स्मृता ॥३॥ चनुर्विशतिवर्णानां शक्तयः समुदाहृताः । अतः परं वर्णवर्णान्व्याह्रामि यथातथम् ॥४॥ चपकं अतसीपु्पसन्निभं विद्ुमं तथा। स्फटिकाकारकं चंव पद्मपुप्पसमप्रभम् ॥५॥ तमणादित्यसंकाशं शंखकुनदेन्दुसन्निभम्। प्रवालपद्मपत्राभं पझ्मरागसमप्रभम् ॥६।। इन्द्रनीलमणिप्रर्यं मौक्तिकें कुकुमप्रभम। अंजनाभं च रक्तं च वैदूर्य क्षोद्रसन्निमम् ।७। हरिद्वं कुन्ददुग्वाभं रत्रिकांतिसमप्रभम् । शुकपुच्छनिभ तद्वच्छतपत्रनिनं तथा ॥८॥ केतकीपुष्पसंकाशं मल्लिकाकुसुमप्रभम्। करवीरशच इत्येते क्रमेण परिकीतिताः ।९॥ वर्णाः प्रोक्ताश्च वर्णानां महापापविशोधनाः । पृथिव्यापस्तथा तेजो वादुराकाश एव च ॥१०॥
Page 789
श्रीमद्देवीमागवते महापुराणे द्वादशास्कन्धे अध्याय: ३ ७८९
गंधो रसश्च रूपं च शब्द: स्पर्शस्तर्थव च। उपस्यं पायुपादं चपाणी वागपि चक्रमात् ॥११॥ प्राणं जिह्ला च चक्षुश्च त्वकश्रोत्रं च ततः परम् । प्राणोऽपानस्तथा व्यानः समानश्र ततः परम्॥१२॥ तत्त्वान्येतानि वर्णानां क्रमशः कीतितानि तु। अतः परं प्रवक्ष्यामि वर्णमुद्राः क्रमेण तु॥१३॥ सुमुखं संपुटं चव विततं विस्तृतं तथा। द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा॥१४॥ षण्मुखाधोमुखं चव व्यापकांजलिकं तथा। शकटं यमपाशं च ग्रथितं संमुखोन्मुखम्॥१५॥ विलंबं मुष्टिक चैव मत्स्यं कूर्म वराहकम्। सिंहाक्रांतं महाक्रांतं मुद्ररं पल्लवं तथा ॥१६॥ त्रिशूलयोनि: सुरभिश्चाक्षमाला च लिंगकम्। अंबुजं च महामुद्रास्तुर्यरूपाः प्रकीतिताः ॥१७॥ इत्येताः कीतिता मुद्रा वर्णानां ते महामुने। महापापक्षयकराः कीर्तिदाः कांतिदा मुने ॥१८॥ इति श्रीदेवाभागवते महापुराणे द्वादशस्कन्धे द्वितीयोऽध्यायः॥२॥ अथ तृतीयोऽध्यायः नारद उवाच स्वामिन्सर्वजगन्नाथ संशयोऽस्ति मन प्रभो। चनुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ।।१।। मुच्येत केन पुण्येन ब्रह्मरूपः कथं भवेत् । देहश्च देवतारूपो मन्त्ररूपो विशेषतः ॥२॥ कर्म तच्छ्रोतुमिच्छामि न्यासं च विधिपूर्वकम्। ऋषिश्छंदोधिदैवं च ध्यानं चविधिवत्प्रभो ॥३॥ श्रीनारायण उवाच अस्त्येकं परमं गुह्यं गायत्रीकवचं तथा। पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥४॥ सर्वान्कामानवाप्नोति देवीरूपश्च जायते। गायत्रीकवचस्यास्य व्र ह्मविष्णुमहेश्वराः ॥५॥ ऋपयो ऋृग्यजुःसामाथर्वश्छंदासि नारद! त्रह्मरूपा देवतोक्ता गायत्री परमा कला ॥६॥ तद्वीजं भर्ग इत्येषा शक्तिरुक्ता मनोपिभिः । कीलकंचधियः प्रोक्तंमोक्षार्थे विनियोजनम् ॥७॥
चतुभिनेत्र मुददिषटं चतुभिर्हृदयं प्रोक्तं त्रिभिवर्णे: शिरः स्मृतम् । चतुर्भिःस्याच्छिखा पश्चात्त्रिभिस्तु कवचं स्मृतम् ।। चतुर्भिः स्यात्तदस्त्रकम्। अथ ध्यानं प्रवक्ष्यामि साधकाभोष्टदायकम् ।।९॥। मुक्ाविद्ुमहेम नीलधबलच्छायैर्मुखैस्त्रीक्षणै-
गायत्रीं वरदाभयांकुशकशाः शुभ्र कपाल गुणं शंखं चक्रमथारविंदयुगलं हस्तैर्वहंती भजे॥१०॥ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे। ब्रह्मसंध्या तु मे पश्चादुत्तरस्यां सरस्व्वती ॥११॥ पार्वती मे दिशं रक्षेत्पावकी जलशायिनी। यातुधानी दिशं रक्षेद्यातुधानभयंकरी ॥१२॥
Page 790
श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ४ पावमानी दिशं रक्षेत्पवमानविलासिनी। दिशं रोद्री च मे पातु रुद्राणी रुद्ररूपिणी ।१३।। ऊध्वं ब्रह्माणि मे रक्षेदधस्ताद्वैष्णवी तथा। एवं दश दिशो रक्षेत्सर्वांगं भुवनेश्वरी॥१४॥ तत्पदं पातु मे पादो जंघे मे सवितुः पदम् । वरेण्यं कटिदेशे तु नाभि भर्गस्तथैव च ॥१५॥ देवस्य मे तद्दयं घीमहीति च गल्लयोः । घियःपदं च मे नेत्रे यःपदं मे ललाटकम् ॥१६॥ नः पातु मे पदं मूध्नि शिखायां मे प्रचोदयात्। तत्पदं पातु मूर्धानं सकारः पातु भालकम् ॥१७॥ चक्षुषी तु बिकारार्णस्तुकारस्तु कपोलयोः । नासापुटं वकाराणो रेकारस्तु मुखे तथा ॥१८॥ णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् । आस्यमध्ये भकाराणो र्गोकारश्रुबुके तथा ॥१९॥ देकार: कण्ठदेशे तु वकारः स्कन्धदेशकम् । स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम्॥२०॥ मकारो हृदयं रक्षेद्धिकार उदरे तथा। धिकारो नाभिदेशे तुयोकारस्तु कटिं तथा ॥२१॥ गुह्यं रक्षतु योकार ऊरू द्वो नःपदाक्षरम्। प्रकारो जानुनी रक्षेच्चोकारो जंघदेशकम् ॥२२॥ दकारं गुल्फदेशे तृ यकारः पदयुग्मकम्। तकारो व्यंजनं चव सर्वांगे मे सदाऽवतु ।२३॥ इदं तु कवचं दिव्यं बाधाशतविनाशनम्। चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥२४॥ मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति। पठनाच्छ्रवणाद्वापि गोसहस्त्रफलं लभेत् ॥२५॥ इति श्रीदेवीभागवते महाषराणे द्वादशस्कन्धे गायत्रीमन्त्रकवचं नाम तृतीयोऽध्यायः॥३॥ अथ चतुर्थोऽध्यायः नारद उवाच भगवन्देवदेवेश भूतभव्यजगत्प्रभो। कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ।१।. अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम्। यद्धारणाङ्गवेत्पु्यं गायत्रीजपतोऽखिलम् ॥२॥ श्रीनारायण उवाच देव्याश्च हृदयं प्रोक्त नारदाथर्वणे स्फुटम्। तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥१ विराडरूपां महादेवीं गायत्रीं वेदमातरम्। ध्यात्वा तस्यास्त्वथांगेषु ध्यायेदेताश्च देवताः ।४।I पिंडब्र ह्मांडयो रैक्यान्द्गावयेत्स्वतनो तथा। देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥५ नादेवोऽ्भ्यर्चयेद्देवमिति वेदविदो विदुः। ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥६॥ अथ तत्संप्रवक्ष्यामि तन्मयत्वमयो भवेत् । गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥७॥ गायत्रीच्छन्द उदिष्टं देवता परमेश्वरी। पूर्वोक्त्ेन प्रकारेण कुर्यादंगानि पट् क्रमात् । आसने विजने देशे ध्यायेदेकाग्रमानसः ।।८।।
Page 791
श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ५ ७९१ अथार्थन्यासः ॥ द्योमृघ्नि दैवतम् ॥ दंतपंक्तावश्चिनो ॥ उभे संध्ये चौष्ठो ॥ मुखमग्निः ॥ जिह्वा सरस्वती ॥ ग्रीवायां तु बृहस्पतिः ॥ स्तनयोर्वसवोऽष्टी ॥ बाह्नोमरुतः ॥ हृदये पर्जन्यः ॥ आकाशमुदरम् ॥ नाभावंतरिक्षम् ॥ कट्योरिंद्राग्नी ॥ जघने विज्ञानधनः प्रजापतिः ॥ कैला- समलये ऊरू॥ विश्वेदेवा जान्वोः ॥ जंघायां कौशिकः ॥ गुह्यमयने ॥ ऊरू पितरः ॥ पादी पृथिवी ॥ वनस्पतयोंगुलीषु ।। ऋषयो रोमाणि॥ नखानि मुहूर्तानि ॥ अस्थिषु ग्रहाः ॥ असृङ्मां- समृतवः ॥ संवत्सरा वै निमिषम् ॥ अहोरात्रावादित्यश्चन्द्रमाः ॥ प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये।ॐतत्सवितुर्वरेण्याय नमः ॥ ॐतत्पूर्वाजयाय नमः ॥ तत्प्रातरादित्याय नमः ॥ तत्प्रातरादित्यप्रतिष्ठाय नमः ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ सायंप्रातरधोयानः अपापो भवति ॥ सर्वतीर्थेषु स्नातो भवति ॥ सर्वैदेवैर्ज्ञातो भवति ॥ अवाच्यवचनात्पूतो भवति ॥ अभक्ष्यभक्षणात्पूतो भवति ॥ अभोज्यभोज- नात्पूतो भवति ॥ अचोष्यचोषणात्पूतो भवति ॥ असाध्यसाधनात्पूतो भवति ॥ दुष्नतिग्रहश- तसहस्रात्पूतो भवति ॥ सर्वप्रतिग्रहात्पूतो भवति ॥ पंकिदूषणात्पूतो भवति ॥ अमृतवचनात्पूतो भ्वत ॥ अथाब्रह्मचारी ब्रह्मचारी भवति ॥ अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवलि॥ र्षाष्टिशतसहस्त्रगायत्र्या जप्यानि फलानि भवन्ति ॥। अष्टो ब्राह्मणान्सम्यग्ग्राहयेत् ।I तस्य सिद्धि- रभवति ॥ य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः प्रमुच्यत्र इति ॥ ब्रह्मलोके महीयते ॥ इत्याह भगवान् श्रीनारायण: । इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः।४।। अथ पंचमोऽध्यायः नारद उवाच भक्तानुकंपन्सवंज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद्रायत्र्याः स्तोत्रमोरय ॥१॥ श्रीनारायण उवाच आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि। सर्वत्र व्यापिकेऽनंते श्रीसंध्ये ते नमोऽस्तु मे ॥२॥ त्वमेव संध्या गायत्री सावित्री च सरस्वती। ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ।३।। प्रातर्बाला च मध्याह्ने योवनस्था भवेत्पुनः । ब्रह्मा सायं भगवती चित्यते मुनिभि: सदा ॥४। हंसस्था गरुडारूढा तथा वृषभवाहिनी। ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्बिभिः ।।५।। यजुर्वेदं पठंती च अन्तरिक्षे विराजते। सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥६।। रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी॥७।।
Page 792
७९२ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ सप्तर्षिप्रीतिजननी माया बहुवरप्रदा। शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥। ८॥। आनन्दजननी दुर्गा दशधा परिपठचते। वरेण्या वरदा चव वरिष्ठा वरवर्णिनी॥९॥ गरिष्ठा च वगार्हा च वरारोहा च सतमी। नीलगङ्गा तथा संध्या सर्वदा भोगमोक्षदा ॥१०॥ भागीरथी मर्त्यलोके पाताले भोगवत्यपि। त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥११॥ भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी। भुवोलोके वायुशक्ति: स्वलोंके तेजसां निधिः॥१२। महलोके महासिद्धिर्जनलोके जनेत्यपि। तपस्विनी तपोलोके सत्यलोके तुसत्यवाक् ॥१३॥ कमला विष्णुलोके च गायत्री ब्रह्मलोकदा। रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥१४॥ अहमो महतश्ैव प्रकृतिस्त्वं हि गीयसे।साम्यावस्थात्मिका त्वं हि शवलव्रह्मरूदिणी ॥१५॥ ततः परा परा शक्ति: परमा त्वं हि गीयसे ।इच्छाशक्तिः क्रियाशक्तिर्ञानशकिस्त्रिशक्तिता॥१६॥ गङ्गा च यमुना चैव विपाशा च सरस्वती। सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥१७॥ गोदावरी शतदुश्च कावेरी देवलोकगा। कौशिकी चन्द्रभागा चवितस्ता च सरस्वती।१८। गण्डकी तापिनी तोया गोमती वेत्रवत्यदि। इडाच पिंगला चैव सुपुम्ना च तृतीयका ।१९॥ गांधारी हस्तिजिह्वा च पूषाऽपूषा तर्थव च। अलम्बुसा कुहूश्रव शा्ङ्ङिनी प्राणवाहिनी ॥२०॥ नाडी च त्वं शरीरस्था गीयसे प्राक्त्तनर्बुधः । हृत्पद्चस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका२१।। तालुस्था त्वं सदाधारा विदुस्या बिन्दुमालिनी। मूले तु कुंडलीशक्तिर्व्यापिनी केशमूलगा ॥२२॥ शिखामध्यासना त्वं हि शिलाग्रे तु मनोन्मनी। किमन्यद्वहुनोक्तेन यत्कचिज्जगतीत्रये ।।२३।। तत्सवं त्वं महादेवि थिये संध्ये नमोस्तु ते। इतीदं कीतितं स्तोत्रं संध्यायां बहुपुण्यदम् ॥२४।। महापापप्रशमनं महासिद्धिविधायकम् । य इद कार्तयेत्स्तोतरं संध्याकाले समाहितः ॥२५।। अपुत्रः प्राप्नुयात्पुरं धनार्थी धनमाप्नुयात्। सर्वनीर्थतपोदानयज्ञयोगफलं लभेत् ॥२६।। भोगान्भुवत्वा चिरं कालम् ते मोक्षमवाप्नुयात्। नपस्विभि: कृतं स्तोत्रं स्नानकाले नुयः पठेत्२७।। यंत्र कुत्र जले मग्नः संध्यामज्जनजं फलम्। लभते नात्र संदेहः सत्यं सत्यं च नारद ।२८।। शृणुयाद्योऽपि ताद्रवत्या स तु पापात्प्रमुच्यते। पीयूषसदृशं वाक्यं संप्रोक्तं नारदेरितम् ॥२९॥ इति शरदेवीभागकते महापुगणे द्वादशस्कन्धे गायव्रीस्तोत्ं नाम पंचमो्ध्यायः ।५॥ अथ पष्टीऽध्यायः नारद उवाच भगवन्सर्वधर्मंज्ञ सर्वशास्त्रविशारद। श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥१।। सर्वपापहरं देव येन विद्या प्रवर्तते। केन वा ब्रह्मविज्ञानं कि तु वा मोक्षसाधनम् ॥२॥
Page 793
श्रीम देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ ७९३ ब्राह्मणानां गतिः केन केन वा मृत्युनाशनम्। ऐहिकामुष्मिकफलं केन वा पद्लोचन ॥३।। वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः । श्रीनारायण उवाच साधु साधु महाप्राज सम्यक् पृष्टं त्वयाऽनघ ॥४॥ शृणु वक्ष्यामि यत्नेन गायत्र्यष्टसहस्त्रकम्। नाम्नां शुभानां दिव्यानां सर्वपापविनाशनम्॥५॥ सृष्टयादो यद्धगवता पूर्व प्रोक्तं ब्रवीमि ते। अष्टोत्तरसहस्त्रस्य ऋषिर्व्रह्मा प्रकीरतितः ॥६॥ छन्दोऽनुष्टुप्तथा देवी गायत्री देवता स्मृता। हलो बीजानि तस्याश्चस्वराःशक्तय ईरिताः ।७॥ अङ्गन्यासकरन्यासावुच्येते मातृकाक्षरैः । अथ ध्यानं प्रवक्ष्यामि साधकानां हिताय वै ॥८।। रक्तश्वेतहिरण्यनीलधवलैर्यक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्त्रजं मणिगणैर्युक्तां कुमारीमिमाम् । गायत्रों कमलासनां करतलव्यानद्धकुंडांबुजां पद्माक्षीं च वरत्रजं च दधतीं हंसाविरूढां भजे ॥९॥ । अमृतार्णवमध्यस्थाऽप्यजिता चापराजिता ॥१०॥ अणिमादिगुणाधाराऽप्यर्कमण्डलसंस्थिता । अजराऽजाऽपराऽघर्मा अक्षसूत्रवराऽधरा ॥११।। अकारादिक्षकारांताप्यरिषड्वर्गभेदिनी अदितिश्चाजपा विद्याऽप्यरविंदनिभेक्षणा । अंतर्बहिःस्थिता विद्या ध्वंसिनी चांतरात्मिका १३।। अजा चाजमुखा वासाऽप्यरविंदनिभानना । अर्धमात्रार्थदानज्ञाऽप्यरिमंडलमर्दिनी ।१४॥ असुरघ्नो ह्यमावास्याऽप्यलक्ष्मीघ्नन्यंत्यजाचिता। आदिलक्ष्मीश्रादिशक्तिराकृतिश्चायतानना।।१५। आदित्यपदवीचाराऽप्यादित्यपरिसेविता । आचार्यावर्तनाचाराप्यादिमूर्तिनिवासिनी ॥१६।। आग्नेयी चामरी चाद्या चाराध्या चासनस्थिता। आधारनिलयाधारा चाकाशांतनिवासिनी ॥१७॥ आद्याक्षरसमायुक्ता चांतराकाशरूपिणी। आदित्यमंडलगता चांतरव्वांतनाशिनी ।१८।। इन्दिरा चेष्टदा चेष्टा चेन्दीवरनिभेक्षणा। इरावती चेंद्रपदा चेंद्राणी चेंदुरूपिणी॥१९॥ दक्षु कोदंडसंयुक्ता चेपुसंधानकारिणी। इन्द्रनीलसमाकारा चेडापिंगलरूपिणी ॥२०॥ इन्द्राक्षी चेश्वरी देवो चेहात्रयविवरजिता। उमा चोषा ह्युडुनिभा उर्वाुकफलानना ॥२१॥। उडुप्रभा चोडुमती हघुडुपा हयुडुमध्यगा। ऊर्ध्व चाप्यू्ध्वकेशी चाप्यूर्ध्वाधोगतिभेदिनी २२॥। ऊर्ध्वबाहुप्रिया चोर्भिमालावाग्ग्रन्धदायिनी। ऋतं चषित्रातुमती ऋषिदेवनमस्कृता ।२३।। ऋृग्वेदा ऋणहर्त्री च ऋपिमण्डलवारिणी। ऋद्विदा ऋजुमार्गस्था ऋजुधर्मा ऋजुपरदा २४ ऋृग्वेदनिलया ऋज्वी लुप्तधर्मप्रवर्तिनी। लूतारिवरमम्भूता लूतादिविषहारिणी ॥२५॥ एकाक्षरा चकमात्रा चैका चैकैकनिष्ठिता। ऐन्द्री ह्यैरावतारूढा चैहिकामुष्मिकप्रदा ॥२६॥ ओंकारा ह्योषधी चोता चोतप्रोतनिवासिनी। और्वा ह्यौषधसम्पन्ना ओपासनफलप्रदा ॥२७॥
Page 794
७९४ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ अण्डमध्यस्थिता देवी चाकारमनुरूपिणी। कात्यायनी कालरात्रिः कामाक्षी कामसुन्दरी२८।। कमला कामिनी कांता कामदा कालकण्ठिनी। करिकुम्भस्तनधरा करवीरसुवासिनी ॥२९॥ कल्याणी कुंडलवती कृरुक्षेत्रनिवासिनी । कुरुविंददलाकारा कुंडली कुमुदालया ॥३०॥ कालजिह्वा करालास्या कालिका कालरूपिणी। कमनीयगुणा कांतिः कलाधारा कुमुद्वती ॥३१॥ कौशिकी कमलाकारा कामाचारप्रभंजिनी। कौमारी करुणापांगी ककुबंता करिप्रिया ॥३२॥ केसरी केशवनुता कदंबकुसुमप्रिया। कालिंदी कालिका कांची कलशोद्द्गवसंस्तुता ३:। काममाता क्रतुमती कामरूपा कृपावतो। कुमारी कुंडनिलया किराती कीरवाहना॥३४॥ कैकेयी कोकिलालापा केतकीकुसुमप्रिया। कमंडलुधरा काली कर्मनिर्मूलकारिणी॥३५॥ कलहंसगतिः कक्षा कृतकौतुकमङ्गला। कस्तूरीतिलका कम्रा करींद्रगमना कुहूः ॥३६॥ कर्मू रलेपना कृष्णा कपिला कुहराश्रया। कूटस्था कुधरा कम्रा कुक्षिस्थाखिलविष्टपा ॥३७॥ खङ्गखेटकरा खर्वा खेचरो खगवाहना। खट्वांगधारिणो ख्याता खग राजोपरि स्थिता ३८।। खलघ्नी खंडितजरा खंडाख्यानप्रदायिनी । खंडेन्दुतिलका गङ्गा गणेशगुहपूजिता ॥३९॥ गायत्री गोमती गीता गांधारी गानलोलुपा। गौतमी गामिनी गाधा गंधर्वाप्तरसेविता।।४०।। गोविंदच रणाक्रांता गुणत्रयविभाविता। गंधर्वी गह्नरी गोत्रा गिरीशा गहना गमो ॥४१। गुहावासा गुणवती गिरिजा गुह्यमातङ्गी गुरुपापप्रणाशिनी । गुर्वी गुणवती गुह्या गोप्तव्या गुणदायिनो ॥४२॥ गरुडध्वजवल्लभा। गर्वापहारिणी गोदा गोकुलस्था गदाधरा ।४३।। गोकर्णनिलयासक्ता • गृह्यमण्डलवतिनी। धर्मदा धनदा घण्टा धोरदानवमर्दिनी ॥४४॥ घृणिमन्त्रमयी घोषा धनसम्पत्तिदायिनी। घण्टारवप्रिया घ्राणा घृणिसंतुष्टकारिणी॥४५॥। घनारिमंडला घूर्णा घृताची घनवेगिनी। ज्ञानधातुमयी चर्चा चर्चिता चारुहासिनी ॥४६।। चटुला चंडिका चित्रा चित्रमाल्यविभूषिता। चतुर्भुजा चारुदन्ता चातुरी चरितप्रदा ॥४७।। चुलिका चित्रवस्त्रांता चन्द्रम:कर्णकुंडला । चन्द्रहासा चारुदात्री चकोरी चन्द्रहासिनी ॥४८।। चंद्रिका चंद्रधात्री च चौरी चौरा च चंडिका । चंचद्वाग्वादिनी चंद्रचूडा चोरंविनाशिनी।४९।। चारुचंदनलिप्तांगी चञ्चच्चामरवीजिता। चारुमध्या चारुगतिश्चंन्द्रिका चंद्ररूपिणी ॥५०॥ चारुहोमप्रिया चार्वाचरिता चक्रबाहुका। चंद्रमंडलमध्यस्था चंद्रमण्डलदर्पणा ॥५१॥ चक्रवाकस्तनी चेष्टा चित्रा चारुविलासिनी। चित्स्वरूपा चन्द्रवती चन्द्रमाश्चन्दनप्रिया ॥५२॥ चोदयित्री चिरप्रज्ञा चातका चारुहेतुको। छत्रयाता छत्रधरा छायाछंदःपरिच्छदा ॥५३। छायादेवी छिद्रनद्धा छन्नेन्द्रियविसर्पिणी। छन्दोनुष्टुप्प्रतिष्ठांता छिद्रोपद्रवभेदिनी ॥५४॥ छेदा छत्रेश्वरी छिन्ना छुरिका छेदनप्रिया। जननी जन्मरहिता जातवेदा जगन्मयी ।५५।।
Page 795
श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ६ ७१५ जाह्नवी जटिला जेत्री जरामरणवजिता। जंबुद्धीपवती ज्वाला जयंती जलशालिनी ॥५६।। जितेंद्रिया जितक्रोधा जितामित्रा जगत्प्रिधा। जातरूपमयी जिह्वा जानकी जगती जरा ॥५७॥ जनित्री जह्नतनया जगत्त्रयहितैषिणी। ज्वालामुखी जपवती ज्वरघ्नी जितविष्टपा ॥५८।। जिताक्रांतमयी ज्वाला जाग्रती ज्वरदेवता।ज्वलंती जलदा ज्येष्टा ज्याघोषस्फोटदिङ्मुखी५९॥ जंभिनी जुम्भणा जुम्भा ज्वलन्माणिक्यकुंडला। झिंझिका झणनिर्घोषा झंझामारुतवेगिनी ॥६०॥ झल्लरीवाद्यकुशला जरूपा जभुजा स्मृता। टंकबाणसमायुक्ता टंकिनी टंकभेदिनी ॥६१॥ टंकीगणकृता घोषा टंकनीयमहोरसा। टंकारकारिणी देवी ठठशब्दनिनादिनी ॥६२। डामरी डाकिनी डिंभा डुंडमारैकनिजिता। डामरीतंत्रमार्गस्था डमड्डुमरुनादिनी ।।६३ ।। डिंडीरवसहा डिंभलसत्क्रीडापरायणा। ढुंढिविघ्नेशजननी ढक्काहस्ता ढिलिब्रजा ॥६४॥ नित्यज्ञाना निरुपमा निर्गुणा नर्मदा नदी। त्रिगुणा त्रिपदा तंत्री तुलसी तरुणा तरुः ॥६५॥ त्रिविक्रमपदाक्रांता तुरीयपदगामिनी। तरुणादित्यसंकाशा तामसी तुहिनातुरा ॥६६॥ त्रिकालज्ञानसंपन्ना त्रिबली च त्रिलोचना। त्रिशक्तिस्त्रिपुरा तुंगा तुरंगवदना तथा ॥६७॥ तिर्मिगिलगिला तीव्रा त्रिस्रोता तामसादिनी। तंत्रमंत्रविशेषज्ञा तनुमध्या त्रिविष्टपा॥६८।। त्रिसन्ध्या त्रिस्तनी तोषा संस्थातालप्रतापिनी। ताटंकिनी तुषाराभा तुहिनाचलवासिनी ॥६९। तंतुजालस मायुक्ता तारहारावलिप्रिया। तिलहोमप्रिया तोर्था तमालकुसुमाकृतिः।।७0।। तारका त्रियुता तन्वी त्रिशंकुपरिवारिता। तलोदरी तिलाभूषा ताटंकप्रियवाहिनी ॥७१॥ त्रिजटा तित्तिरी तृष्णा त्रिविधा तरुणाकृतिः। तप्तकांचनसंकाशा तप्तकांचनभूषणा॥७२।। त्ंयंबका त्रिवर्गा च त्रिकालज्ञानदायिनी। तर्पणा तृप्तिदा तृप्ता तामसी तुंबुरुस्तुता ।७३।। ता्क्ष्यस्था त्रिगुणाकारा त्रिभंगी 6गुवल्लरिः। थात्कारो थारवा थांता दोहिनी दीनवत्सला७४।। नवांतकरी दुर्गा दुर्गासुरनिबहिणी। देवरीतिर्दिवारात्रिद्रौपदी दुंदुभिस्वना।७५।। देवयानी दुरावासा दारिद्रधोद्गेदिनी दिवा। दामोदरप्रिया दीप्ता दिग्वासा दिग्विमोहिनी ७६॥ दंडकारण्यनिलया दंडिनी देवपूजिता। देववंद्या दिविषदा द्वेषिणी दानवाकृतिः ॥७७।। दीनानाथस्तुता दीक्षा दैवतादिस्वरूपिणी। धात्री धनुर्धरा धेनुर्धारिणी धर्मचारिणी ।७८।। धरंधरा धराधारा धनदा घान्यदोहिनी। धर्मशीला धनाध्यक्षा धनुर्वेदविशारदा॥७९॥ धृतिर्धन्या धृतपदा धर्मराजप्रिया ध्रुवा। धूमावती धूमकेशी धर्मशास्त्रप्रकाशिनी ॥८०॥ नदा नंदप्रिया निद्रा नृनुता नंदनात्मिका। नर्मदा नलिनी नीला नीलकंठसमाश्रया।८१।। नारायणप्रिया नित्या निर्मला निर्गुणा निधिः। निराधारा निरुपमा नित्यशुद्धा निरंजना ।।८२।। नादबिंदुकलातीता नादबिंदुकलात्मिका। नृसिंहिनी नगधरा नृपनागविभूषिता॥८३॥
Page 796
७९६ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ नरकक्लेशशमनी नारायणपदोद्गवा। निरवद्या निराकारा नारदप्रियकारिणी ॥८४॥ नानाज्योतिःसमाख्याता निधिदा निर्मलात्मिका। नवसूत्रधरा नीतिर्निरुपद्रवकारिणी ।।८५।। नंदजा नवरत्नाढ्या नैमिषारण्यवासिनी। नवनीतप्रिया नारी नीलजीमूतनिस्वना ॥८६॥ निमेषिणी नदीरूपा नोलग्रीवा निशीश्वरी। नामावलिनिशुंभघ्नी नागलोकनिवासिनी ॥८७।। नवजांबूनदप्रख्या नागलोकाधिदेवता। नूपूराकांतचरण नरचित्त त्रमोदिनी ।।८८।। निमग्ना - रकनयना निर्धातसमनिस्वना। नंदनोद्याननिलया निर्व्यू होपरिचारिणी ॥८९॥ पार्दती परमोदारा परव्रह्मात्मिका परा। पंचकोशविनिर्मुक्ता पंचपातकनाशिनी ।।९०।। परचित्तविधानज्ञा पञ्चिका पञ्चरूपिणी। पूर्णिमा परमा प्रीतिः परतेजःप्रकाशिनो ॥९१॥ पुराणी पौरषी पुण्या पुण्डरीकनिभेक्षणा। पातालतलनिर्मग्ना प्रीता प्रीतिविवधिनी ।९२।। पावनी पादसहिता पेशला पवनाशिनी। प्रजापतिः परिश्रांता पर्वतस्तनमंडला ॥९३।। पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसंभवा। पझ्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥९४।। पशुपाशविनिर्मुक्ता पुरंध्री पुरवासिनी। पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥९५॥ पतिव्रता पवित्रांगी पुष्वहासपरायणा। प्रजावती सुता पौत्री पुत्रपूज्या पयस्विनी ॥९६।। पट्टिपाशधरा पंक्ति: पितृलोकप्रदायिनी। पुराणा पुण्यशीला च' प्रणतातिविनाशिनी ॥९७। प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा। पुण्डरीकपुरावासा पुंडरी कसमानना ।।९८।। पृथुजंघा पृथुभुजा पृथुपादा पृथूदरी। प्रवालशोभा पिंगाक्षी पीतवासाः प्रचापला ॥९९॥ प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवा रातिः । पञ्चवर्णा पंचवाणी पंचिका पंजरस्थिता ॥१००॥ परमाया परज्योतिः परप्रीतिः परा गतिः । पराकाष्ठा परेशानी पावनी पावकद्यतिः ॥१०१। पुण्यभद्रा परिच्छद्या पुष्पहासा पृथूदरी।पीतांगी पीतवसना पीतशय्या पिशाचिनी॥१०२॥ पीतप्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया। पंचभक्षप्रियाचारा पूतनाणणतातिनी ॥१०३।। पुन्नागवनमध्यस्था पुव्यतीर्थनिपेनिता।पंचांगी च परा शक्तिः परमाह्लादकारिणी ॥१०४ पुष्पकांडस्थिता पूपा पोिताखिलविष्टपा। पानप्रिया पंचशिखा पन्नगोपरिशायिनी ॥१०५॥ पंचमात्रामिका पृथ्वी पथिका पृशुदोहिनी। पुराणन्यायमीनांसापाटली पुष्पगन्विती ॥१० ६।। पुण्यप्रजा पारदात्री परमार्गेकगोचरा। प्रवालशीभा पूर्णाशा प्रणवा पल्लवोदरी ॥१०७। फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः। फणीद्रभोगशयना फणिमंडलमंडिता ॥१०८॥ बालबाला बहुमता बालातपनिभांशुका। बलभदप्रिया वंद्या वडवा बुद्धिसंस्तुता। १०९। चंदीदेवी बिलवती वडिशध्नी बलिप्रिया। बांधवो बोधिता बुद्धिर्बंधूककुसुमपिया ॥११०॥ बालभानुप्रभाकारा ब्राह्मो ब्राह्मणदेवता। बृहस्पतिस्तुता वृंदा वृन्दावनविहारिणो ॥१११॥
Page 797
श्रीमद्दंवीमागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ ७९3
बलाकिनी बिलाहारा बिलावासा बहूदका। बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥११२॥
बहुबाहुयुता बीजरूपिणी बहुरूनिणी। बिंदुनादकलातीता बिटुनादस्वरूपिणी ॥११३॥ बद्धगोधांगुलित्राणा बदर्याश्रमवासिनी। वृंदारका बृहत्स्कंधा बृहती वाणपातिनी ॥११४॥ वृंदाध्यक्षा बहुनुता वनिता बहुविक्रमा। बद्धपझ्मासनासीना दित्वपत्रतलस्थिता ॥११५॥ बोधिद्रुमनिजावासा बडिस्था बिदुदर्पणा। वाला बाणासनवती वडवानलवेगिनी ॥११६॥ ब्रह्मांडबहिरंतःस्था ब्रह्मकंकणसूत्रिणी। भावनी भीषणवती भाविनी भयहारिणी ॥११७ भद्रकाली भुजंगाक्षी भारती भारताशया। भैरवी भीषणाकारा भूतिदा भूतिमालिनी॥११८।। भामिनी भोगनिरता भद्रदा भूरिविकमा। भूलावासा भृगुलता भार्गवी भूसुराचिता ॥११९। भागीरथी भोगवती भवनस्था भिषग्वरा।भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा१२०।। भर्गात्मिका भीमवती भवबंधविमोचिनी। भजनीया भूतधात्री रंजिता भुवनेश्वरी ॥१२१।। भुजंगवलया भीमा भेरुंडा भागधेयिनी। माता माया मधुमती मधुजि्वा मधुप्रिया ॥१२२: महादेवी महाभागा मालिनी मीनलोनना। मायातीता मधुमती मधुमासा मधुद्रवा ॥१२३॥ मानवी मधुसंभूता मिथिलापुरवासिनी। मधुकैटभसंहर्त्री भेदिनी मेघमालिनी ॥१२४॥ मंदोदरी महामाया मैथिली मसृणप्िया। महालक्ष्मीर्महाकाली महाकत्वा महेश्ररी ॥१२५॥ माहेद्री मेरुतनया मंदारकुसुमार्चिता। मजुमंजीरपरणा मोक्षदा मंजुभापिणो।:१२:।। मधुरद्राविणो मुद्रा मलया मलयान्विता। मेधा मरकतशयाना मागधी नेनकातमजा ॥१२७॥ महामारी महावीरा महाश्यामा मनुस्तुता। मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥१२८॥ मूलाधारस्थिता मुग्धा मणिपूरकवासिनी। मृगाक्षी महिषारूढा महिषासुरमर्दिनी ॥१२९॥ योगासना योगगम्या योगा यौवनकाश्या। यौवनी युद्धमध्यस्था यमुना युगधारिणी॥१३०॥ यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी। यात्रा यानविधानज्ञा यदुवंशसमुद्दवा ॥१३१॥ यकारादिहकारांता याजुषी यज्ञरूपिणी। यामिनी योगनिरता यातुधानभयंकरी १३२॥ रुक्मिणी रमणी रामा रेवती रेणुका रतिः। रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥१३२॥ रोहिणी राज्यदा रेवा रमा राजीवलोचना। राकेशी रूपसंपत्रा रत्नतिहासनस्थिता ॥१३४: रक्तमाल्यांवरधरा रक्तगधानुलेधना। राजहंससमासढा रंभा रक्तरालप्रिया ॥१३८॥ रमणीययुगाधारा राजिताखिलभूनला। रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥१३६।। रोगेशी रोगशमनी रावणी रामहषिणी। रामचव्रपदाक्राता रावगच्छेदकारिणी ॥१३७॥ रत्नवस्त्रपरिच्छत्रा रथस्था रुकमभूपणा । लज्जाधिदेवता लोला ललिता लिंगधारि३८ लक्ष्मीर्लोला लुप्तविषा लोकनी लोकविश्रुता। लज्जा लंबोदरी देवी ललना लोकधारिणी१३९।
Page 798
७१८ श्रीमद्दवींभागवते महापुराणे द्वादशस्कन्धे अध्यायः ६ वरदा वंदिता विद्या वैष्णवी विमलाकृतिः । वाराही विरजा वर्षा वरलक्ष्मोर्विलासिनी१४०॥ विनता व्योममध्यस्था वारिजासनसंस्थिता। वारुणी वेणुसंभूता वीतिहोत्रा विरुपिणी॥१४१॥ वायुमण्डलमध्यस्था विष्णुरूपा विधिप्रिया। विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा१४२।। वामदेवप्रिया वेला वज्तिणी वसुदोहिनी। वेदाक्षरपरीतांगी वाजपेयफलप्रदा ॥१४३।। वासवी वामजननी वैकुण्ठनिलया वरा। व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता॥१४४॥ शाकंभरी शिवा शांता शारदा शरणागतिः। शातोदरी शुभाचारा शुंभासुरविमर्दिनी ॥१४५। शोभावती शिवाकारा शंकरार्धशरीरिणी। शोणाशुभाशया शुभ्रा शिरःसंधानकारिणी१४६। शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना । शरभा शूलिनी शूद्धा शब्ररी शुकवाहना ॥१४७।। श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी। शर्वाणी शर्वरी वंद्या पड्भाषा षड्तुप्रिया ॥१४८।। षोढाधारस्थिता देवी षण्गुखप्रियकारिणो । षडंगरूपसुम तः सुरासुरनमसकृता ।१४९।। सरस्वती सदाधारा सर्वमगलकारिणी। सामगानप्रिया सूक्ष्मा सावित्री सामसंभवा॥१५०।। सर्वावासा सदानन्दा सुस्तनी सागरांबरा। सर्वेश्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥१५१॥ सप्तरषिमंडलगता सोममंडलवासिनी। सर्वज्ञा सांद्रकरुणा समानाधिकवजिता ॥१५२।। सर्वोत्तुङ्गा संज्ञहोना सद्गुणा सकलेष्टदा। सरघा मूर्यतनया सुकेशी सामसंहतिः ॥१५३॥ हिरण्यवर्णा हरिणी हींकारी हंसवाहिनी। क्षौमवस्त्रपरीतांगी क्षीराब्धितनया क्षमा ॥१५४॥। गायत्री चैव सावित्री पार्वती च सरस्वती। वेदगर्भा वरारोहा श्रीगायत्री परांविका ॥१२५॥ इति साहस्त्रकं नाम्नां गायत्र्याश्चव नारद । पृण्यदं सर्वपापध्नं महासंपत्तिदायकम् ॥१२६॥ एवं नामानि गायत्र्यास्तोषोत्पत्तिकराण हि। अष्टम्यां च विशेषेण र्पाितव्यं द्विजैः सह ॥१५७॥ जपं कृत्वा होमपूजाध्यानं कृत्वा विशेषतः । यस्मे कस्मै न दातव्मं गायत्रयास्तु विशेषतः १५८।। सुभक्ताय सुशिप्याय वत्तव्यं भूसुराय वै। भ्रष्टेभ्यः साधकेभ्यश्चबांधवेभ्यो न दर्शयेत्॥१५९॥ यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् । चद्धलापि स्थिरा भूत्वा कमला तत्र तिर्ष्ठात१६०।। इदं रहस्यं परमं गुह्याद्गुह्यतरं महत्। पुण्यप्रदं मनु्याणां दरिद्राणां निविप्रदम् ॥१६१॥ मोक्षप्रदं मुमुक्षणां कामिना सर्वकामदम् । रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात्१६२॥ ब्र ह्महत्यासुरापानसुवर्णस्तेयिनो नराः। गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥१६३॥ असत्प्रतिग्रहच्चवाभक्ष्यभक्षाद्विशेषतः । पाखंडानृतमुख्येभ्यः पठनादेव मुच्यते ॥१६४॥ इदं रहस्यममलं मयोक्तं पद्मजोद्भव । ब्रह्मसायुज्यद नृणां सत्यं सत्यं न संशयः ॥१६५॥ इति श्रीदेवीभागवते महापुराणे द्वादशकन्धे गायत्रीसहस्रनामस्तोत्रकथनं नाम षछ्ठोऽध्यायः ॥६।।
Page 799
श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ७ ७९९ अथ सप्तमोऽध्यायः नारद उवाच श्रुतं सहस्रनामाख्यं श्रीगायत्र्याः फलप्रदम्। स्तोत्रं महोन्नतिकरं महाभाग्यकरं परम् ॥१॥ अधुना श्रोतुमिच्छामि दीक्षालक्षणमुत्तमम् । विना येन न सिध्येत देवीमंत्रेऽधिकारिता ॥२॥ ब्राह्मणानां क्षत्रियाणां विशां स्त्रीणां तर्थव च। सामान्यविधिना सर्वं विस्तरेण वद प्रभो ।।३।। श्रीनारायण उवाच शृणु दीक्षां प्रवक्ष्यामि शिष्याणां भावितात्मनाम् । देवाग्निगुरुपूजादावधिकारो यया भवेत् ।।४।। दिव्यं ज्ञानं हि या दद्यात्कुर्यात्पापक्षयं तु या। सैव दीक्षेति संप्रोक्ता वेदतंत्रविशारदैः ॥५॥ अवश्यं सा तु कर्तव्या यतो बहुफला मता। गुरुशिष्याबुभावत्राप्यतिशुद्धावपेक्षितौ गुरुस्तु विधिवत्प्रातः कृत्यं सर्व विधाय च। स्नानसंध्यादिकं सवं यथाविधि विधाय च।।७।। कमण्डलुकरो मौनी गृहं यायात्सरित्तटात्। यागमण्डपमासाद्य विशेत्तत्रासने बरे ॥८।। आचम्य प्राणानायम्य गंधपुष्पविमिश्रितम्। सप्तवारास्त्रमंत्रेण जप्तं वारिषु साधयेत् ।।९।। वारिणा तेन मतिमानस्त्रमंत्रं समुच्चरन्। प्रौक्षयेद्द्वारमखिलं ततः पूजां समाचरेत् ॥१०॥ ऊर्ध्वोदुंबरके देवं गणनाथं तथा श्रियम् । सरस्वतीं नाममंत्रीः पूजयेद्गंधपुष्पकैः ॥११॥ द्रारदक्षिणशाखायां गंगां विध्नेशमर्चयेत्। द्वारस्य वामशाखायां क्षेत्रपालं च सूर्यजाम् ॥१२।। देहल्यां पूजयेदस्त्रदेवतामस्त्रमंत्रतः। सर्वं देवीमयं दृश्यमिति संचित्य सर्वतः ॥१३॥ दिव्या नुत्सा रये द्विघ्नानस्त्रमंत्र जपेन तु। अन्तरिक्षगतान्विध्नान्पदाघातैस्तु भूमिगान् ॥:१४।। वामशाखां स्पृशन्पश्चात्प्रनिंशेद्दक्षिणांघ्रिणा : प्रबिश्य कुम्भं संस्थाप्य सामान्यार्ध्यं विधाय च ॥ तेन चार्ध्यजलेनापि नैतर्तत्यां दिशि पूजयेत्। वास्तृनाथं षद्मयोनिं गंधपुष्पाक्षतादिभिः ॥१६॥ ततः कुर्यात्पञ्चगव्यं तेन चार्ध्योदकेन च। तोरणस्तंभपर्यन्तं. प्रोक्षयेन्मण्डपं गुरुः ॥१७॥ सर्वं देवीमयं चेदं भावयेन्मनसा किल। मूलमंत्रं जपन्भकत्या प्रोक्षणं स्याच्छराणुना ॥१८॥ शरमंत्रं समुच्चार्यं ताडयेन्मण्डपक्षमाम् । हुंमन्त्रं तु समुच्चार्य कुर्यादभ्पुक्षणं ततः ॥१९॥ धूपयेदंतरं धूपैर्विकिरान्विकिरेत्ततः । मार्जयेत्तांस्तु मार्जन्या कुशनिर्मितया पुनः ॥२०॥ ईशानदिशि तत्पुंजं कृत्वा संस्थापयेन्मुने। पुण्याहवाचनं कृत्वा दीनानाथांश्र तोषयेत् ।।२१।। विशेन्मृदवासने पश्चान्नमस्कृत्य गुरुं निजम्। प्राङ्मुखोविधिवद्धयात्वा देवमंत्रस्य देवताम्॥२२॥ भूतशुद्धयादिकं कृत्वा पूर्वोक्तेनैव वर्त्मना। ऋष्यादिन्यासकं च कुर्याद्देवमंत्रस्य वै मुने ।२३॥ न्यसेन्मुनि तु शिरसि मुखे छन्दः समीरितम्। देवतां हृदयांभोजे गुह्ये बीजं तु पादयोः ॥२४॥
Page 800
८०० श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ७ शक्ति विन्यस्य पश्चात्तु तालत्रयरवात्ततः । दिग्बंधं कारयेत्पश्चाच्छोटिकाभिस्त्रिभिर्नरः ॥२५॥ प्राणायामं ततः कृत्वा मूलमंत्रमनुस्मरन्। मातृकां विन्यसेद्देहे तत्प्रकारस्तथोच्यते ॥२६॥ ॐअं नम इति प्रोच्य न्यसेन्छिरसि मंगवित । एवमेव तु सर्वेषु न्यसेत्स्थानेषु वै मुने ॥२७॥ मूलमंत्रं षडंग च न्यरेदंगेपु सर्तुमः । अंगृष्ठादिध्वंगुलीषु हृदयादिपु च ्रमात् ॥२८।। नमः स्वाहावपड्युन्तहवीषट्फट्पदान्वितैः । प्रणवादियुतर्भन्त्रेः षड्भिरवं षडंगकम् ॥२६॥ वर्णन्यासादिक पक्षान्मूलमंत्रस्य योजयेत्। स्थानेपु तत्तत्कल्पोक्तेष्विति न्यासविधि: स्मृनः३०॥ ततो निजे शरीरेडस्मिश्चिनयेदासनं शुभम्। दक्षांसे च न्यसेद्वर्म वामांसे ज्ञानमेव च ॥३१॥ वानोरौ चापि वैराग्यं दक्षोरावथ विन्यसेत् । ऐश्वर्यं मुखदेशे तु मुने ध्यायेदधर्मकम् ॥३२॥ वामपाश्ये नाभिदेशे दक्षपाश्वें तथा पुनः। नञदोश्रापि ज्ञानादीन्पूर्वोक्तानेव विन्यसेन् ॥३३॥ पादा धर्मादयः प्रोक्ताः पीठस्य मुनिसत्तम। अधर्माद्यास्तु गात्राणिस्मृतानिमुनियुंगवैः ॥३४॥ मध्येनंतंहृदि स्थाने न्यसेन्मुदवासने स्थले। प्रपञ्चपद्मं विमल तस्मिन्सूर्येन्दूपापकान्।३५॥ न्यसेत्कलायुतान्मंत्री संक्षपात्ता वदान्यहम् । सूर्यस्य द्वादश कलाशता इन्दोः पोडश स्मृताः ॥ दश वह्नेः कला प्रोक्तास्ताभिर्युक्तांस्तु तान्त्मरेत्। सत्त्वं रजस्तमश्चैद न्थसेत्तेषामथोरपरि ॥३७॥ आत्मानमंतरात्मानं परमात्मानमेव च। ज्ञानात्मान न्यसेद्विद्वानित्थ पोठस्य कल्पना ॥३८।। अमुकासनाय नम इति मंत्रेण साधकः । आसनं पूजयित्वातु तस्मिन्ध्यायेत्पराम्बिकाम्॥३९॥ कल्पोक्तविधिना मन्त्री देयमंत्रस्य देवताम्। मानसैरुपवारैश्र पूजयेत्तां यथाविधि ॥४०॥ मुद्राः प्रदर्शयेद्विद्वान्कल्पोक्ता मोदकारिकाः ।याभिविरचिताभिस्तु मोदो देव्यास्तु जायते ॥४१॥ श्रीनारायण उवाच ततः स्ववामभागाग्रे षट्कोणोपरि वर्तुलम्। चतुरस्रयुतं सम्यङ्मध्ये मडलमालिखेत् ॥४२।। मध्ये त्रिकोण संलिख्य शंखमुद्रां प्रदर्शयेत् । पडंगानि च. षट्कोणेष्वर्चयेत्कुसुमादिभिः ॥४३॥ अग्न्यादिषु तु कोणेषु पडंगार्चनमाचरेत् । आधारपात्रमादाय शंखस्य मुनिसत्तम ॥४४॥ अस्त्रमंत्रेण संप्रोक्ष्य स्थापयेत्तत्र मण्डले। मं वह्निमंडलायीवत्वा ततो दशकलात्मने ॥४५॥ अमुकदेव्या अर्ध्यपात्रस्थानाय नम इत्यपि। मंत्रोऽयमुक्त: शंखस्याप्याधारस्थापने बुघेः ॥४६॥ आधारे पूर्वमारभ्य प्रदक्षिणक्रमण तु। दश वह्निकलाः पूज्या वह्निमण्डलसंस्थिताः ॥४७॥ ततो वै मूलमंतण प्रोक्षितं शखमुत्तमम्। स्थापयेत्म चाधारे मूलमन्त्रमनुस्मरन् ॥४८॥ अंसूर्यमंडलायोवत्वा द्वादशांते कलात्मने । अमुकदेव्यर्ध्यपात्राय नम इत्युच्चरेत्ततः ॥४९॥ श शंसाय पदं प्रोक्ष्य नम दत्येतदुच्चरेत्। प्रोक्षयेत्तेन तं शंखं तस्मिन्द्वादश पूजयेत् ॥५०॥ सूर्यस्य द्वादश कलास्पिन्याद्या यथाक्रमम्। विलोममातृकां प्रोक्ष्य मुलमंत्रं विलोमकम् ॥५१॥
Page 801
५१ श्रीमहंत्रीमागवते महापुराणे द्वादशस्कन्धे अध्याय: ७ ८०१
जलरापूरयेच्छंखं तत्र चेन्दोः कलां न्यसेत्। ॐ सोममंडलायोक्त्वांते षोडशकलात्मने ॥५२॥ अमुकार्ध्यामृतायेति हन्मंत्रांतो मनुः स्मृतः । पूजयेन्मनुना तेन जलं तु सृणिमुद्रया ॥५३॥ तीर्थान्यावाह्य तत्रवाप्यष्टकृत्वो जपेन्मनुम्। षडंगानि जले न्यस्य हृदांसे पूजयेदप: ॥५४॥ अष्टकृत्वो जपेन्मूलं छादयेन्मत्स्यमुद्रया। ततो दक्षिणदिग्भागे शंखस्य प्रोक्षणीं न्यसेत् ।।५५।। शंखांबु किंचिन्निक्षिप्य प्रोक्षयेत्तेन सर्वतः। पूजाद्रव्यं निजात्मानं विशद्धं भावयेत्ततः ॥५६॥
श्रीनारायण उवाच
ततः स्वपुरतो बद्यां सर्वतोभद्रमंडलम्। संलिख्य कणिकामध्ये पूरयेच्छालितंडुल: ॥५७॥ आस्तीर्य दर्भास्तत्रव न्यसेन्कूचं सलक्षणम्। आधारशक्तिमारम्य पीठमन्वंतमर्चयेत् ।।५८।। निर्व्रणं कुंभमादायाप्यस्त्राद्द्रि: क्षालितांतरम्। तंतुना वेष्टयेत्तं तु त्रिगुणेनारुणेन च ॥५९॥ नवरत्नोदरं कूर्चयुतं गंधादिपूजितम् । स्थापयेत्तत्र पीठे तु तारामंत्रेण देशिक: ॥६० ।। ऐक्यं कुम्भस्य पीठस्य भावयेत्पूरयेत्ततः । मातृकां प्रतिलोमेन जपंस्तीर्थोदर्कमुने ॥६१॥। मूलमंत्रं च संजप्य पूरयेद्देवताधिया। अश्वत्थपनसाम्राणां कोमलैर्नवपल्लवैः ॥६२ ।। छादयेत्कुंभवदनं चषकं सफलाक्षतम् । संस्थापयेत मतिमान्वस्त्रयुग्मेन वेष्टयेत ।६३।। प्राणस्थापनमंत्रेण प्राणस्थापनमाचरेत् । आवाहनादिमुद्राभिर्मोदयेद्ेवतां पराम् ॥६४॥ ध्यायेत्तां परमेशानीं कल्पोक्तेन प्रकारतः । स्वागतं कुशलप्रश्नं देव्या अग्रे समुच्चरेत् ॥।६५॥। पाद्यं दद्यात्ततोऽप्यध्यं ततश्राचमनीयकम्। मधुप्क च साभ्यंगं देव्य स्नानं निवेदयेत् ॥६६।। वाससी च ततो दद्याद्रक्त क्षोमे सुनिर्मले। नानामणिगणाकीर्णानाकल्पान्कल्पयेत्ततः ॥६७!। मनुना पुटितवर्णैर्मातृकाया विधानतः । देव्या अंगेपु विन्यस्य चंदनाद्य: समर्चयेत् ॥६८।। गंधः कालागुरुभवः कपूरेण समन्वितः । काश्मीरं चंदनं चापि कस्तूरीसहितं मुने ॥६९।। कुंदपुष्पादिपुष्पाणि परदेव्य समर्पयेत् । धृपोऽगुरुपुरुव्रातोशीरचंदनशर्कराः ।।७०॥ मधुमिश्राः स्मृता देव्याः प्रिया धुपात्मना सदा । दीपाननेकान्दत्वाथ नैवेद्यं चार्पयेतसुधीः॥७१॥ प्रतिद्रव्यं जलं दद्मात्प्रोक्षणीस्थं न चान्यथा। ततः कुर्यादिंगपूरजा कल्पोक्तावतणानि च ॥७२॥ सांगा देवीमथाभ्यर्च्य वश्रदेवं ततश्चरेत्। दक्षिणे स्थंडिलं कृत्वा तत्राधाय हुताशनम् ॥७३॥ मृर्तिस्थां देवतां तत्रावाह्य सम्पूज्य च क्रमात्। तारव्याहृिभिहतवा मृलगंत्रेण वै ततः ।७४॥ पञ्चविंशतिवारं तु पायसेन ससपिषा। हुनेत्पश्चाद्वयाहृतिभिः पुनश्र जुहुयान्मुने ।।७५।। गंधाधैरचयित्वा च देवी पोठे तु योजयेत्। बह्नि विसृज्य हविषा पवितो विकिरेटलिम्॥७६॥ देवतायाः पार्षदेभ्यो गन्धपुष्पादिसंयुतान् । पञ्चोपचारान्दत्त्वाथ तांबूलं छत्रचामरे॥७७॥
Page 802
श्रीमद्देवीभागवते महापुराणे द्वादशस्क्रन्धे अध्याय: ७ दद्याद्देव्य ततो मन्त्रं सहस्रावृत्तितो जषेत्। जपं समप्य चंशान्गँ विकिरे दिशि संस्थिते ।७८। कर्करीं स्थापयेत्तस्यां दुर्गामावाह्य पूजयेत्। रक्ष रक्षेति चोच्चार्य्य नालमुक्तेन वारिणा ॥७९।। अस्त्रमन्त्रं जपन्देशं सेचयेत्तु प्रदक्षिणम्। कर्करी स्थापयेत्स्थाने पूजयेच्चास्त्रदेवताम् ॥८०॥ पश्चाद्गुरुस्तु शिष्येण सह भुंजीत वाग्यतः । तस्यां रात्री तु तद्वेद्यां निद्रां कुर्यात्प्रयत्नतः ॥८१।। श्रीनारायण उवाच
ततः कुंडस्य संस्कारं स्थंडिलस्य च वा मुने। प्रवक्ष्यामि समासेन यथाविधि विधानतः ।८२।। मूलमन्त्रं समुच्चार्य वीक्षयेदस्नमन्त्रतः । प्रोक्षयेत्ताडनं कुर्यात्तनैव कवचेन तु ॥८३। अभ्युक्षणं समुद्दिष्टं तिस्रस्तिस्रस्ततः परम्। प्रागग्रा उदगग्राश्च लिखेल्लेसाः समंततः ॥८४॥ प्रणवेन समभ्युक्ष्य पीठं देव्याः समर्चयेत्। आघारशक्तिमारभ्य पीठमंत्रावसानकम् ॥८५॥ तस्मिन्पीठे समावाह्य शिवो परमकारणौ। गंधार्द्यरुपचारैश् पूजयेत्तौ समाहितः ॥८६।। देवीं ध्यायेदृतुस्नातां संसक्तां शंकरेण तु। कामातुरा तयोः क्रीडां किचित्काल विभावयेत् ॥ अथ वह्निं समादाय पात्रेण पुरतो न्यसेत्। क्रव्यादांशं परित्यज्य पूर्वोक्तर्बीक्षणादिभिः ॥८८।। संस्कृत्य वह्निं रंबीजमुच्चार्य तदनन्तरम्। चैतन्यं योजयत्तसस्मिन्प्रणवेनाभिमंत्रयेत् ।।८९।। सप्तवारं ततो धेनुमुद्रां संदर्शयेद्गुरुः । शरणे रक्षितं कृत्वा तनुत्रेणावगुठ्यत् ॥९०॥ अर्चिनं त्रिः परिभ्राम्य प्रादक्षिण्ठेन सत्तमः । कुण्डोपरि जपस्तारं जानुस्पृष्टमहोतलः॥९१॥ शिववीजघिया देव्या योनो वहनिं विनिक्षिपेत्। आचामयेत्तनो देव देवीं च जगदम्बिकाम् ॥९२॥ चित्पिंगल हन दह पच युग्मं ततः परम्। सर्वज्ञाज्ञापय स्वात्ा मन्त्रोडयं वह्निदीपने ॥९३॥ अग्नि प्रज्वलितं वन्दे जातवेदं हुताशनम्। सुवर्णवर्णममल समिद्धं विश्वतोमुग्म्॥९४॥ मन्त्रेणानेन तं वह्निं स्तुवीत परमादरात्। ततो न्यमन्रह्निमन्त्रं षडंगं देशिकोत्तमः ।९५॥ सहस्रानिः स्वस्तिपूर्ण उत्तिष्ठपुरुषः स्मूतः । धूमव्यापी सप्ाजह्वो धनुर्धर इति क्रमात् ॥९६॥ जातियुक्ता: षडंगा: स्युः पूर्वस्थानेषु विन्यसेत्। ध्याये वह्निं हेमवर्ण त्रिनेत्रं पद्मसस्थिनम् ॥९७/। इष्टशक्तिस्व्स्तिकाभिर्धारकं मंगलं परम् । परिर्षिंचेत्ततः कुण्डं मेखलोपरि मंत्रवत् ।।९८ दर्भे: परिस्तरेत्पश्चात्परिघीन्विन्यसेदथ। त्रिकोणवृत्तषट्कोणं साष्टपत्रं सभूपुरम् ॥९९॥ यन्त्रं विभावयेद्वह्नेः पू्वं वा संलिखेदथ । तन्मध्ये पूजयेद्वहहिं मंत्रेणानेन वै भुने ॥१००॥ वैश्वानर ततो जातवेदः पश्चादिहावह। लोहिताक्षपदं प्रोक्त्वा सर्वकर्माणि साधय॥१०१। वह्निजायांतको मन्त्रस्तेन वह्िं तु पूजयेत्। मध्ये षटस्वपि कोणेषु हिरण्या गगना तथा॥१०२॥। रक्ता-कृष्णा सुप्रभा च बहुरूपातिरिक्तिका । पूजयेत्सप्तजिह्वास्ताः केसरेष्वंगपूजनम् ॥१०३॥
K
Page 803
श्रीमदेवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ७ ८०२ दलेपु पूजयेन्मूर्तीः शक्तिस्वस्तिकधारिणोः । जातवेदाः सप्तजिह्नो हज्यवाहन एव च ॥१०४॥ अश्वोदरजसंज्ञोऽन्यः पुनर्वेश्रानराह्नयः । कोमारतेजा: स्याद्विश्वमुखो देवमुखः स्मृतः१०५॥ ताराग्नये पदाद्याः स्युर्नत्यन्ता वह्निमूर्तयः। लोकपालांश्चुर्दिक्षु वज्ताद्यायुधसंयुतान् ॥१०६॥ श्रीनारायण उवाच ततः स्ुक्स्रुवसस्कारावाज्यसंस्कार एव च । कृत्वा होमंततः कुर्यात्स्रुवेणादाय वै घृतम्॥१०७॥ दक्षिणाद्धृतभागात्तु वह्नदक्षिणलोचने। जुहुयादग्नये स्व्राहेत्येवं वै वामतोऽन्यतः ॥१०८।।
पुनर्दक्षिणभागात्तु सोमाय स्वाहेति मध्यादृतमादाय सत्तम। अग्नीपोमाभ्यां स्वाहेति मध्यनेत्रे हुनेततः॥।१०९॥ घृतमादाय वे मुखे। अग्नये स्त्रिष्टकृते स्वाहेत्यनेनैव हुनेत्ततः ॥११०॥ साधकः । जुहुयादग्निमंत्रेण त्रिवारं तु ततः परम् ॥१११॥ ततस्तु प्रणवेनवाप्यष्टावष्टौ धृताहुतीः। गर्भाधानादिसंस्कारकृते तु जुहुयान्मुने ॥११२॥ गर्भाधानं पुंसवनं सीमंतोलयनं ततः। जातकम नामकर्माप्युपनिष्कमणं तथा ॥११३॥ अन्नाशनं तथा चुडा व्रतबंधस्तथव च। महानाम्न्यं व्रतं पश्चात्तथोपनिषदं व्रतम् ॥११४॥ गोदानोद्वाहकाः प्रोत्ता: संस्कारा: श्रुतिचोदिताः। ततः शिवं पार्वतों च पूजयित्वा व्रिसर्जयेत्॥११५॥ जुहुयात्पञ्च समिधो वह्निमुद्दिश्य साधकः। पश्चादावरणानां चाप्येकैकामाहुति हुनेत् ॥११६॥ घृत स्त्ुचि समादाय चतुर्वारं स्त्रुवेण च। पिधाय तां तु तेनैव मुने तिष्ठन्निजासने ॥११७॥ वोषडंतेन मनुना वह्नेस्तु जुहुघात्ततः। महागणेशमन्त्रेण जुहुयादाहुतोर्दश ॥११८। वह्नौ पीठं समभ्यर्च्य दैंयमंत्रस्य देवताम्।वह्नौध्यात्वा तु तद्वक्त्रे पञ्चविशतिसंख्यया॥११९। मूलमन्त्रेण जुहुयाद्वक्त्रकीकरणाय च।वह्निदेवतयोरैक्यं भावयन्नात्मना सह ॥१२०॥ एकीभूतं भावयेत्तु ततस्तु साधकोत्तमः । पडंगं देवतानां च जुहुयादाहुतीः पृथक् ॥१२१॥ एकादशैव जुहुयादाहतीमुनिसत्तम। एतेन नाडीसंधानं वह्निदेवतयोर्मुने ॥१२२॥ एकैकक्रमयोगेनाप्यावृत्तीनां तथैव च । एकैकक्रमयोगेन घृतेन जुहुयान्मुने ॥१२३॥ ततः कल्पोक्तद्रव्यस्तु जुहुयादथवा तिलः। देवतामूलमंत्रेण गजांतकसहस्रकम् ॥१२४।। एवं हुत्वा दतो देवीं सन्तुष्टां भवयन्मुने। तर्थत्रावृतिदेवीश्र वह्नयाद्ा देवता अपि ॥१२५॥ ततः शिष्यं च सुस्नातं कृतसंध्यादिकक्रियम्। बस्त्रद्ययुतं स्वर्णाभरणेन समन्वितम् ॥१२६॥ कमंडलुं करशुद्धयै कुण्डस्यांतिकमानयेत्। ननस्कृत्य ततः शिष्यो गुरूनथ सभासदः ॥१२७॥ कुलदेवं नमस्कृत्य विशेत्तत्राथ विष्टरे। गुरुस्ततस्तु तं शिष्यं कृपादृष्टया विलोकयेत् १२८। तच्चैतन्यं निजे देहे भावयेत्संगतं त्विति। ततः शिष्यतनुस्थानामध्वनां परिशोधनम्॥१२९॥ कुर्यात्तु होमतो विद्वान्दिव्यदृष्ट्यवलोकनात् । येन जायेत शुद्धात्मा योग्यो देवाद्यनुग्रहे॥१३०॥
Page 804
608 श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ७ श्रीनारायण उवाच तनौ ध्यायेत्तु शिष्यस् षडध्वनः क्रमेण तु। पादयोस्तु कलाध्वानमंधौ तत्त्वाध्वकं पुनः १३१॥ नाभी तु भुवनाध्वानं वर्णाध्वानं तथा हृदि। पदाध्वानं तथा भाले मंत्राध्वानं तु मूर्घनि॥१३२॥ शिष्यं स्पृशंरतु कूर्चेन तिलैराज्यपरि्लुतैः । शोधयाम्यमुमध्वानं स्वाहेति मनुमु च्चरन्॥१३३॥ ताराढयं जुहुयादहवारं प्रत्यध्वमेव हि। षडध्वनस्ततस्तांस्तु लीनान्ब्रह्मणि भावयेत्॥१३४॥ पुनरुत्पादयेत्तस्मात ष्टिमात्रेण वै गुरुः। आत्मस्थितं तच्चतन्यं पुनः शिष्ये तु योजयेत् ॥ पूर्णाहुति ततो हुत्वा देवतां कलशे नयेत्। पुनर्व्याहृतिभिहुंत्वा बह्नेरंगाहुतीस्तथा ॥१३६॥ एकैकशो : गुरुदत्वा विसृ जेद्वह्निमात्मनि । ततः शिष्यर्य नेत्रे तु बघ्नीयाद्वाससा गुरुः॥१३७॥ नेत्रमंत्रेण तं शिष्यं कुंडतो मंडलं नयेत्। पुप्पांजलि मुख्यदेव्यां कारये्छिष्यहस्ततः॥१३८। नेत्रबंधं निरावृत्थ देशयेतवु शविष्टरे। भूतशुद्धि शिष्यदेहे वुर्यात्प्रोवतेन वर्त्मना॥१३९ मंत्रोदितांस्तथा न्यासान्वृत्वा शिप्यतनी ततः । मंडलेवेशये्छिष्यमन्यस्मिन्कुंभसंस्थितान्॥१४०॥ पल्लवाञ्छिष्यशिरसि विन्यसेन्मातृकां जपेत् । कलशस्थजलैः शिष्यं स्नापयेद्देवतात्मकैः ॥१४१॥ वर्घनीजलसेकं च कुर्याद्रक्षार्थमजसा।ततः शिष्यः समुत्थाय वाससी परिधाय च॥।१४२॥ कृतमस्मावलेपश्च संविशेद्गुरुसन्निधौ।ततो गुरु: स्वंकीयात्तु हृदयान्निर्गतां शिवाम् १४३॥ प्रविष्टां शिप्यहृदये भावये करणानिधिः । पूजयेद्गंधपुष्पाद्यरैक्यं वे भावयंस्तयोः ॥१४४॥ ततस्त्रिशो दक्षकर्णे • शिप्यस्योपदिशेद्गुरुः ।महामंत्रं महादेव्याः स्वहस्तं शिरसि न्यसन्॥१४५॥ अष्टोत्तरशतं मन्त्रं शिष्योऽि प्रजपेन्मुने। दंडवत्प्रणमेद्भूमौ तं गुरुं देवतात्मकम् ॥१४६॥ सर्वस्वमर्पयेत्तस्मै यावज्जीवमनन्यधीः ।ऋत्विग्भ्यो दक्षिणां दत्त्वा ब्राह्मणांश्रापि भोजयेत्।। सुवासिनी: कुमारीश्च बटुकांश्रव सर्वशः । दीनानाथान्दरिद्रांश्च वित्तशाठ्यविवर्जितः॥१४८॥। हतार्थतां स्वस्य बुद्ध्वा नित्यमाराधयेन्मनुम् । इति ते कथितः सम्यग्दीक्षाविघिरनुत्तमः १४९॥ विमृष्यँतदशेपेण भज देवीपदांबुजम् । नान्यस्तु परमो धर्मो ब्राह्मणस्यात्र विद्यते १५०॥ वैदिक: स्वस्वगृह्योक्तक्रमेणोपदिशेन्मनुम् । तांत्रिकस्तंत्ररीत्या तु स्थितिरेषा सनातनी१५१॥ तत्तदुक्तप्रयोगांस्ते ते ते कुर्युर्न चान्यथा। श्रीनारायण उवाच इति सवं मयाऽडख्यातं यत्पृष्टं नारद त्वया ॥१५२॥ बतः परं परांबाया भज नित्यं पदांबुजम्। नित्यमाराध्य तच्चाहं निर्वृति परमां गतः १५३॥
Page 805
श्रीदेवाभागवत महापुराणे द्वादशस्क्रन्धे अध्याय: ८ ८0५
व्यास उवाच इति राजशारदाय प्रोकत्वा सर्वमनुत्तमम्। समाधिमीलिताक्षस्तु द्यो देवीपदांबुजम्॥१५४॥ नारायणस्तु भगवान्मुनिवर्यशिखामणिः । नारदोऽपि ततो नत्वा गुरुं नारायणं परम् ।। जगाम सद्यस्तपसे देवीदर्शनलालसः ॥१५५॥ इति श्रीदेवीमागवते महापुराणे द्वादशस्कन्धे सपमोऽध्यायः॥७॥ अथ अष्टमोऽध्यायः जनमेजय उवाच भगवन्सर्वधर्मज्ञ सर्वशास्त्रवतांवर। द्विजातीनां तु सर्वेषां शकत्युपास्तिः श्रुतोरिता १।। संध्याकालत्रयेऽन्यस्मिन्काले नित्यतया विभो। तां विहाय द्विजा: कस्माद्गृ्ोयुश्चान्यदेवताः२।। दृश्यन्ते वैष्णवाः केचिद्वाणपत्यास्तथापरे। कापालिकाश्चीनमार्गरता वल्कलधारिणः ॥३।। दिगंबरास्तथा बौद्धाश्चार्ताका एवमादयः। दृश्यंते बहत्रो लोके वेदश्रद्ाविवर्जिताः ॥४।। किमत्र कारणं ब्रह्मंस्तद्गवान्वक्तुमहति। बुद्धिमंतः पंडिताश्च नानातर्कविचक्षणाः॥५।। अपि संत्येव वेदेषु श्रद्धया तु विवजिताः ।न हि कश्चितस्वकल्याणं बुद्धया हानुमिहेच्छति॥६।। किमत्र कारण तस्माद्वद वेदविदां वर। मणिद्वीपस्य महिमा वर्णितो भवता पुरा॥७।। कीदृक्तदस्ति यद्देव्या: परं स्थानं महत्तरम्। तच्चापि वद भक्ताय श्रद्दधानाय मेऽनव ।।८। प्रसन्नास्तु वदन्त्येव गुरवो गुह्यमप्युत। सूत उवाच इति राज्ञो वच: श्रुत्वा भगवान्वादरायणः ।।९।। निजगाद ततः सर्वं क्रमेणैव मुनीश्वराः । यच्छ्रुत्वा तु द्विजातोनां वेदश्रद्धा विवर्धते॥१०॥ व्यास उवाच सम्यवपृष्टं त्वया राजन्समये समयोचितम्। बुद्धिमानसि वेदेषु श्रद्धावांश्वैव लक्ष्यसे ।११। पूर्वं मदोद्धता दैत्या देवैर्युद्धं तु चक्रिरे। शतवर्ष महाराज महाविस्मयकारकम्॥१२॥ नानाशस्त्र प्रहरणं नानामायाविचित्रितम्। जगत्क्यकरं नूनं तेषां युद्धमभून्नृप ॥१३।। पराशक्तिकृपावेशादेवै्देत्या जिता युधि। भुवं स्वर्ग परित्यज्य गताः पातालवेर्मनि ॥१४॥ ततः प्रहर्षिता देवा: स्वपराक्रमवर्णनम्। चक्रुः परस्परं मोहात्साभिनानाः समंततः ॥१५॥ जयोऽस्माकं कुतो न स्यादस्माकं महिमा यतः । सर्वोत्तमः कुत्र दैत्याः पामरा निष्पराक्रमाः ॥१६॥
Page 806
८०६ श्रीदेवीमागवते महापुराणे द्वादशस्कन्धे अध्याय: ८ सृष्टिस्थितिक्षयकरा वयं सर्वे यशस्विनः । अस्मदग्रे पामराणां दैत्यानां चैँव का कथा ॥१७॥ पराशक्तिप्रभावं ते न ज्ञात्वा मोहमागताः । तेषामनुग्रहं कर्तुं तदैव जगदंबिका ॥१८॥ प्रादुरासीत्कृपापूर्णा यक्षरूपेण भूमिप। कोटिसूर्यप्रतीकाशं चंद्रकोटिमुशीतलम् ।१९॥ विद्युत्कोटिसमानाभं हस्तपादादिवरजितम्। अदृष्टपूर्वं तद्दृष्टा तेजः परमसुन्दरम् ॥२०॥ सविस्मयास्तदा प्रोचुः किमिदं किमिदं त्वति। दैत्यानां चेष्टितं कि वा माया कापि महीयसी ॥ केनचिन्निर्मिता वाऽथ देवानां स्मयकारिणी। संभूय ते तदा सवें विचारं चक्रुरुतमम् ॥२२॥ यक्षस्य निकटे गत्वा प्रष्टव्यं कस्त्वमित्यपि। बलाबलं ततो ज्ञात्वा कर्तव्या तु प्रतिक्रिया२३।। ततो वह्नि समाह्य प्रोवाचेंद्रः सुराधिपः । गच्छ वह्ने त्वमस्माकं यतोऽसि मुखमुत्तमम्॥२४॥ ततो गत्वा तु जानीहि किमिदं यक्षमित्यपि। सहस्राक्षवचः श्रुत्वा स्वपराक्रमगभितम् ॥२५॥ वेगात्स निर्गतो वह्निर्ययौ यक्षस्य संनिधौ। तदा प्रोवाच यक्षस्तं त्वं कोऽसीति हुताशनम् ॥ वीयं च त्वयि कि यत्तद्वद सवं ममाग्रतः । अग्निर्रास्म तथा जातवेदा अस्मीति सोऽब्रवीत् ॥ सर्वस्य दहने शत्तिमयि विश्वस्य तिर्ष्ठत। तदा यक्षः परं तेजस्तदग्रे निदधी तृणम् ॥२८॥ दहैनं यदि ते शत्तिविश्वस्य दहनेडस्ति हि। तदा सर्वबलेनैवाकरोद्यत्नं हुताशनः ॥२९॥ न शशाक तृणं दग्धं लज्जितोऽगात्सुरान्प्रति। पृष्टे देवैस्तु वृत्तांते सर्वं प्रोवाच हव्यभुक्॥३०॥ वृथाऽभिमानो ह्यस्माकं सर्वेशत्वादिके सुराः । ततस्तु वृत्रहा वायुं समाहूयेदमब्रवीत् ॥३१॥ त्वयि प्रोतं जगतसर्वं त्वच्चेष्टाभिस्तु चेष्टितम्। त्वं प्राणरूपः सर्वेषां सर्वशक्तिविधारकः ॥३२॥ त्वमेव गत्वा जानीहि किमिदं यक्षमित्यपि। नान्यः कोऽपि समर्थोडस्ति ज्ञातुं यक्षं परं महः॥ सहस्राक्षवचः श्रुत्वा गुणगौरवगुंफितम्। साभिमानो जगामाशु यत्र यक्षं विराजते ।३४।। यक्षं दृष्टा ततो वायुं प्रोवाच मृदुभाषया। कोऽसि त्वं त्वयि का शक्तिर्वद सर्वं ममाग्रतः ॥ ततो यक्षवचः श्रुत्वा गर्वेण मरुदव्रवीत्। मातरिश्वाऽहमस्मीति वायुरस्मीति चाब्रवीत्३६॥ वीयं तु मयि सर्वस्य चालने ग्रहणेऽस्ति हि। मच्चेष्टया जगत्सर्वं सर्वव्यापारवद्गवेत् ॥३७॥। इति श्रुत्वा वायुवाणीं निजगाद परं महः। तृणमेतत्तवाग्रे यत्तच्चालय यथेप्सितम् ॥३८॥ नोचेद्रवं विहायैनं लज्जितो गच्छ वासवम्। श्रुत्वा यक्षवचो वायुः सर्वशक्तिसमन्वितः ॥३९॥ उद्योगमकरोत्तच्च स्वस्थानान्न चचाल ह। लज्जितोडगादेवपाश्वें हित्वा गर्वं स चानिलः४०।। वृत्तांतमव दत्सवं गर्वनिर्वापकारणम्। नैतज्ज्ञातुं समर्थाः स्म मिथ्यागर्वाभिमानिनः४१।। अलौकिकं भाति यक्षं तेजः परमदारुणम्। ततः सर्वे सुरगणाः सहस्राक्षं समूचिरे ॥४२॥ देवराडसि यस्मात्त्वं यक्षं जानीहि तत्त्वतः । तत इन्द्रो महागर्वात्तदक्षं समुपाद्रवत्॥४३॥ प्राद्रवघ्च परं तेजो यक्षरूपं परात्परम्। अंतर्धानं ततः प्राप तद्यक्षं वासवाग्रतः ॥४४॥
Page 807
श्रीमदेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ८ अतोव लज्जितो जातो वासवो देवराडपि। यक्षसंभाषणाभावाल्लघुत्वं प्राप चेतसि॥४५॥ अतः परं न गंतव्यं मया तु सुरसंसदि। कि मया तत्र वक्तव्यं स्वलघुत्वं सुरान्प्रति ॥४६॥ देहत्यागो वरस्तस्मान्मानो हि महतां धनम्। माने नष्टे जोवितं तु मृततुल्यं न संशयः ॥४७॥ इति निश्चित्य तत्रैव गर्वं हित्वा सुरेश्वरः । चरित्रमीदृशं यस्य तमेव शरणं गतः ॥४८।। तस्मिन्नेव क्षणे जाता व्योमवाणी नभस्तले। मायाबीजं सहस्राक्ष जप तेन सुखी भव।।४९।। ततो जजाप परमं मायाबीजं परात्परम्। लक्षवर्षं निराहारो ध्यानमीलितलोचनः ॥५०॥ अकस्माच्चैत्रमासोयनवम्यां मध्यगे रवौ। तदेवविरभूत्तेजस्तस्मिन्नेव स्थले पुनः ॥५१॥ तेजोमंडलमध्ये तु कुमारीं नवयोवनाम्। भास्वज्जपाप्रसूनाभां बालकोटिरविप्रभाम् ॥५२॥ बालशीतांशुमुकुटां वस्त्रांतर्व्यन्जितस्तनीम् । चतुभिवरहस्तैस्तु वरपाशांकुशाभयान् ॥५३।। दधानां रमणोयांगीं कोमलांगलनां शिवाम्। भक्तकल्पद्रुमामंबां नानाभूषगभूषिताम् ।।५४।। त्रिनेत्रां मल्लिकामालाकबरोजूटशोभिताम्। चतुर्दिक्षु चतुर्वेदैर्मतिमन्द्िरभिष्टुताम् ।५५॥ दन्तच्छटाभिरभितः पद्मरागोकृतक्षमाम् । प्रसन्नस्मेरवदनां कोटिकंदर्पसुन्दराम् ॥५६।। रक्तांबरपरीधानां रक्तचन्दनचर्चिताम् । उमाभिधानां पुरतो देवीं हैमवतीं शिवाम् ॥५७॥। निर्व्याजकरुणामूर्ति सर्वकारणकारणाम्। ददर्श वासवस्तत्र प्रेमगद्गदितान्तरः ॥५८।। प्रेमाश्रुपूर्णनयनो रोमांचिततनुस्ततः । दंडवत्प्रणनामाथ पादयोजंगदीशितु: ।।५९।। तुष्टाव विविध: स्तोत्रैरभक्तिसन्नतकन्धरः । उवाच परमप्रीतः किमिदं यक्षमित्यपि ॥६०॥ प्रादुर्भूतं च कस्मात्तद्वद सर्वं सुशोभने । इति तस्य वचःश्रुत्वा प्रोवाच करुणार्णवा ॥६१॥ रूपं मदीयं ब्रह्मतत्सर्वकारणकारणम्। मयाधिष्ठानभूतं तु सर्वसाक्षि निरामयम् ॥६२।।
सर्वे वेदा यत्पदमामनन्ति तर्पासि सर्वाणि च यद्वदन्ति। यदिच्छंतो ब्रह्मचयं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥६३॥ ओमित्येकाक्षरं ब्रह्म तदेवाहुश्च हरोंमयम्। द्वे बोजे मम मंत्रौस्तो मुख्यत्वेन सुरोत्तम ॥६४।। भागद्वयवती यस्मात्सृजामि सकलं जगत्। तत्रकभागः संप्रोक्तः सच्चिदानन्दनामकः ॥६५॥ मायाप्रकृतिसंज्ञस्तु द्वितीयो भाग ईरितः । साच माया परा शक्तिशक्तिमत्यहमीश्वरी॥६६॥ चन्द्रस्य चन्द्रिकेवेयं मया भित्रत्वमागतः । साम्यावस्थात्मिका चैषा माया मम सुरोत्तम॥।६७।। प्रलये सर्वजगतो मदभिन्नैव तिष्ठति। प्राणिकर्मपरीपाकवशतः पुनरेव हि॥६८॥। रूपं तदेवमव्यक्तं व्यक्तिभावमुपैति च । अंतर्मुखा तु याऽवस्था सा मायेत्यभिधीयते ॥६९॥ बहिर्मुखा तु या माया तमःशब्देन सोच्यते। बहिर्मुखात्तमोरूपाज्जायते सत्त्वसंभवः ॥७०॥
Page 808
60% श्रीभद्देवीमागवते मटापुराणे द्वादशस्कन्धे अध्याय: ८ रजोगुणस्तदैव स्यात्सर्गादौ सुरससत्तम। गुणत्रयात्मकाः प्रोक्ता ब्रह्मदिप्णुमहेश्रराः ॥७१।। रजोगुणाधिको ब्रह्मा विष्णुः सत्त्वाधिको भवेत् । तमोगुणाधिको रुद्रः सर्वकारणरूपधृक् ॥७२॥। स्थूलदेहो भवेद्ब्रह्मा लिंगदेहो हरि: स्मृतः । रुद्रस्तु कारणो देहस्तुरीया त्वहमेव हि॥७३॥ साम्यावस्था तु या प्रोक्ता सर्वांतर्यामिरूपिणी। अत ऊर्ष्वं पर ब्रह्म मद्रूपं रूपनजितम्॥७४॥ निर्गुणं सगुणं चेति द्विधा मद्रूपमुच्यते। निर्गुणं मायया हीनं समुणं मायया युतम् ॥७५॥ साऽहं सर्वं जगत्सृष्टा तदन्तः संप्रविश्य च। प्रेरयाम्यनिशं जीवं यथाकर्म यथाश्रुतम् ॥७६॥ सृष्टिस्थितितिरोधाने प्रेरयाम्यहमेव हि। ब्रह्माणं च तथा विष्णुं रुद्रं वे कारणात्मकम् ।७७।। म्द्गयाद्वाति पवनो भीत्या सूर्यश्र गच्छति । इन्द्राग्निमृत्यवस्तद्वरसाउहं सर्वोत्तमा स्मृता ।।७८।। मत्प्रसादाद्भ्वन्धिस्तु जयो लब्धोऽस्ति सर्वदा। युष्मानहं नर्तयामि काष्ठुत्तालकोपमान् ॥७९।। कदाचिद्देवविजयं दैत्यानां विजयं क्वचित् । स्वतंत्रा स्वेच्छया सर्व ुवे कर्मानुरोधतः ।८०।। तां मां सर्वात्मिकां यूयं विस्मृत्य निजगर्वतः । अहंकारावृतात्मानो मोहमाता दुरंतकम् ॥८१॥ अनुग्रहं ततः कर्तुं युष्मद्देहादनुत्तमम्। निःसृतं सहसा तेजो मदीयं यक्षमित्यपि ॥८२॥ अतः परं सर्वभावैहित्वा गर्व तु देहजम्। मामेव शरणं यात सचिचिदानन्दरूपिणीम् ॥८३॥
व्यास उवाच
इत्युक्त्वा च महादेवी मूलप्रकृतिरीदवरी। अन्तर्धानं गता सदो भकत्या देवैरभिष्टुता ॥८४।। ततः सर्वे स्वगर्व तु' विहाय पदपंकजम्। सम्यगाराध्यामासुर्भगवत्याः परात्परम् ॥८५॥ त्रिसंध्यं सर्वदा सर्वे गायत्रीजपतत्पराः । यज्ञभागादिभिः सर्वे देवीं नित्यं सिषेविरे ।८६। एवं सत्ययुगे सर्वे गायत्रीजपतत्पराः । तारहृल्लेखयोश्चापि जपे निष्गातमानसाः ॥८७॥ न विष्णूपासना नित्या वेदे नोक्ता तु कुत्रचित्। न विष्णुदीक्षा नित्यास्ति शिवस्यापि तर्थव च। गायत्र्युपासना नित्या सर्ववेदैः समीरिता। यया विना त्वधःपातोब्राह्मणस्यास्ति सर्वशा॥।८९॥ तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि। गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात्॥९०॥ कूर्यादन्यन्न वा कुर्यादिति प्राह मनुः र्वयम्। विहाय तां तु गायत्रीं विष्णूपास्तिपरायणाः।।९१।। शिवोपास्तिरतो विप्रो नरकं याति सर्वथा। तस्मादाद्ययुगे राजन्गायत्रीजपतत्पराः ॥ देवीपदाम्बुजरता आसन्सर्वे द्विजोत्तमाः ॥।९२।
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धेऽष्टमोऽध्यायः ॥८॥
Page 809
श्रीमदेवीभागव ते महापुराणे द्वादशस्कन्धे अध्याय: ९ ८०९
अथ नवमोऽध्यायः व्यास उवाच कदाचिदथ काले तु दशपंच समा विभो। प्राणिनां कर्मवशतो न ववर्ष शतक्रतुः ॥१॥ अनावृष्टयाऽतिदुर्भिक्षमभवत्क्षयकारकम् । गहे गृहे शवानां तु संख्या कर्तुं न शक्यते ।।२।। केचिदश्वान्वराहान्वा भक्षयंति क्षुधार्दिताः । शवानि च मनुष्याणां भक्षयंत्यपरे जनाः ॥३॥ बालकं बालजननी स्त्रियं पुरुष एव च । भक्षितुं चलिताः सर्वे क्षुधया पीडिता नराः॥४॥ ब्राह्मणा बहवस्तत्र विचारं चक्रुरुत्तमम्। तपोधनो गौतमोउस्ति स नः खेदं हरिष्यति ॥।५॥। सर्वेमिलित्वा गंतव्यं गोतमस्याश्रमेऽधुना। गायत्रीजपसंसक्तगीतमस्याश्रमेडधुना ।।६। सुभिक्षं श्रूयते तत्र प्राणिनो बहवो गताः । एवं विमृश्य भूदेवाः साग्निहोत्रा: कुटुंबिनः ॥७॥ सगोधनाः सदासाश्च गौतमस्याश्रमं ययुः । पूर्वदेशाद्युः पाश्चात्या औत्तराहाश्चनानादिग्भ्यः समाययुः। दृषा समाजं विध्ाणा प्रणनाम स गौतमः ।।९।। आसनाद्युपचारैश्र पूजयामास वाडवान्। चकार कुशलपन नतश्रागमकारणम् ॥१०॥। ते सर्वे स्वस्ववृत्तांत कथयामासुरुत्स्मयाः । दृष्ठा तान्दुःखितान्वित्रानभय दत्तवान्मुनिः ।।११। युष्माकमेतत्सदनं भवद्दासोडस्मि सर्वथा। का चिंता भवता विशा मययि दासे विराजति१२।। धन्योऽहमस्मिन्समये यूय सर्वे तपाधनाः। येषां दर्शनमात्रेण दुष्कृतं सुकृतायते ॥१३॥ ते सर्वे पादरजपा पावयंति गृहं मम। को मदन्यो भवेद्धन्यो भवतां समनुग्रहात् ॥१४॥ स्थेयं सनेः सुखेनैव संध्याजपपरायणैः ।
व्यास उवाच इति सर्वान्समाश्वास्य गौतमो मुनिराट् ततः ॥१५॥ गायत्रों पार्थयामास भक्तिसन्नतकंधरः । नमो देवि महाविद्ये वेदमातः परात्परे ॥१६॥ व्याहृत्यादिमहामंत्ररूपे प्रणवरूपिणि। साम्यावस्थात्मिके मातर्नमो होंकाररूपिणि १७।। स्वाहास्त्रधास्वरूपे त्वां नमामि सकलार्थदाम्। भक्तकल्पल्ता देवीमवस्थात्रयताक्षिणीम् ।१८।। तुयांतीतस्वरूपां च सचिचिदानंदरूपिणीम्। सर्ववेदातसंवैद्यां सूर्यमंडलवासिनोम् ॥१९। प्रातर्बालां रक्तवर्णां मध्याह्ने युवतीं पराम्। सायाह्ते कृष्णवर्णांतां वृद्धां नित्यं नमाम्यहम्२।। सर्वभूतारणे देवि क्षमस्व परमेश्वरि। इति स्तुता जगन्माता प्रत्यक्षं दर्शनं ददौ ॥२१॥ पूर्णपात्रं ददौ तस्मै येन स्यात्सर्वपोषणम्। उवाच मुनिमंबा सायं यं कामं त्वमिच्छसि २२॥।
Page 810
८१० श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ९ तस्य पूर्तिकरं पात्रं मया दत्तं भविष्यति। इत्युक्त्वांतर्दधे देवी गायत्री परमा कला ॥२३॥ अन्नानां राशयस्तस्मान्निर्गताः पर्वतोपमाः । षड्रसा विविधा राजस्तृणानि विविधानि च ॥२४॥ भूषणानि च दिव्यानि क्षौमाणि वसनानि च । यज्ञानां च समारंभाः पात्राणि विविधानि च २५॥। यद्यदिष्टम भूद्राजन्मुनेस्तस्य महात्मनः । तत्सर्वं निर्गतं तस्माद्गायत्रीपूर्णपात्रतः ॥२६॥ अथाहूय मुनोन्सर्वान्मुनिराङ्ग्ौतमस्तदा। धनवान्यभूषणानि वसनानि ददौ मुदा ॥२७॥ गोमहिष्यादिपशवो निर्गता: पूर्णपात्रनः। निर्गतान्यज्ञसंभारान्स्नुवस्त्रुव प्रभृतीन्ददौ ।।२८1 ते सवें मिलिता यज्ञांश्चक्रिरे मुनिवाक्यतः । स्थानं तदेव भूयिष्ठमभवत्स्वर्गसन्निभम् ॥२९॥ यत्किचित्त्रिषु लोकेषु सुंदरं वस्तु दृश्यते । तत्सवं तत्र निष्पन्नं गायत्रीदत्तपात्रतः ॥३०॥ देवांगनासमा दारा: शोभंते भूषणादिभिः। मुनयो देवसदृशा वस्त्रचंदनभूषणः ॥३१।। नित्योत्सवः प्रववृते मुनेराश्रममंडले। न रोगादिभयं किचिन्न च दैन्यभयं क्वचित् ३२॥। स मुनेराश्रमो जातः समन्ताच्छतयोजनः । अन्ये च प्राणिनो येऽपि तेऽपि तत्र समागताः३३। तांश्च सर्वान्पुपोषायं दत्वाऽभयमथात्मवान् । नानाविधमहायज्ञविधिवत्कल्पितैः सुराः ॥३४॥ सन्तोषं परमं प्रापुर्मुनेश्चैव जगुर्यशः सभायां वृत्रहा भूयो जगौ श्लोकं महायशाः३५। अहो अयं नः किल कल्पपादपो मनोरथान्पूरयति प्रतिष्ठितः । नोचेदकाण्डे क्व हविर्पा वा सुदुर्लभा यत्र तु जीवनाशा॥३६॥ इत्थं द्वादशा वर्षाणि पुपोष मुनिपुंगवान्। पुत्रवन्मुनिराड्गर्वगंधेन परिवर्जितः।३७।। गायत्र्याः परमं स्थानं चकार मुनिसत्तमः । यत्र सर्वेर्मुनिवरैः पूज्यते जगदम्बिका ॥३८॥ त्रिकालं परया भक्त्या पुरश्चरणकर्मभिः । अद्यापि यत्र देवी सा प्रतर्बाला तु दृश्यते ॥३९॥ मध्याह्ने युवती वृद्धा सायंकाले तु दृश्यते । तत्रकदा समायातो नारदो मुनिसत्तमः ॥४०॥ रणयन्महतीं गायन्गायत्र्याः परमान्गुणान् । निषसाद सभामध्ये मुनीनां भावितात्मनाम् ४१॥। गौतमादिभिरत्युच्चैः पूजितः शांतमानसः। कथाश्चकार विविधा यशसो गौतमस्य च ।४२।। ब्रह्मर्षे देवसदसि देवराट् तव यद्यशः। जगौ बहुविधं स्वच्छं मुनिपोषणजं परम् ॥४३॥ श्रुत्वा शचीपतेर्वाणीं त्वां द्रष्टमहमागतः । धन्योऽसि त्वं मुनिश्रेष्ठ जगदम्बाप्रसादतः ॥४४॥ इत्युवत्वा मुनिवयं तं गायत्रीसदनं ययौ। ददर्श जगदम्बां तां प्रेमोत्फुल्लविलोचनः॥४५॥ तुष्टाव विधिवद्देवीं जगाभ त्रिदिवं पुनः । अथ तत्र स्थिता ये ते ब्राह्मणा मुनिपोषिताः॥४६॥ उत्कर्ष तु मुनेः श्रुत्वाऽसूयया खेदमागताः । यथाऽस्य न यशो भूयात्कर्तव्यं सर्वथैव हि ॥४७॥ काले समागते पश्चादिति सर्वेस्तु निश्चितम् । ततः कालेन कियताऽप्यभूद्वृष्टिर्धरातले ॥४८॥ सुभिक्षमभवत्सर्वदेशेषु नृपसत्तम । श्रुत्वा वार्तां सुभिक्षस्य मिलिता: सर्ववाडवा:४९॥।
Page 811
श्रीमद्वेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ९ ८९१ गौतमं शप्तुमुद्योगं हा हा राजन्प्रचक्रिरे। धन्यौ तेषां च पितरो ययोरुत्पत्तिरीदृशी ॥५०॥ कालस्य महिमा राजन्वक्तुं केन हि शक्यते। गौनिर्मिता मायर्यका मुमूर्षुर्जरती नृप ।।५१।। जगाम सा च शालायां होमकाले मुनेस्तदा। हुंहुंशब्दैर्वारिता सा प्राणांस्तत्याज तत्क्षणे ॥५२।। गोर्हताऽनेन दुष्टेनेत्येवं ते चक्रुशुद्विजाः । होमं समाप्य मुनिराड् विस्मयं परमं गतः ॥५३॥ समाधिमीलिताक्षः संश्चितयामास कारणम्। कृतं सवं द्विजैरेतदिति ज्ञात्वा तदैव सः ॥५४॥ दधार कोपं परमं प्रलये रुद्रकोपवत्। शशाप च ऋषीन्सर्वान्कोपसंरक्तलोचनः ।५५॥ वेदमातरि गायत्र्यां तद्धयाने तन्मनोर्जपे। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥५६॥ वेदे वेदोक्तयज्ञेषु तद्वार्तासु तथव च । भवतानुन्मुखा यूयं सवंदा ब्राह्मणाधमाः ॥५७॥ शिवे शिवस्य मंत्रे च शिवशास्त्रे सर्थव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाघमाः ॥५८॥ मूलप्रकृत्याः श्रीदेव्यास्तद्धयाने तत्कथासु च । भवतानुन्मुखा यूयं सवंदा ब्राह्मणाधमाः ॥५९॥ देवीमंत्रे तथा देव्याः स्थानेऽनुष्ठानकर्मणि। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६०॥ देव्युत्सवदिदृक्षायां देवीनामानुकीर्तने। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६१॥ देवीभक्तस्य सान्निध्ये देवीभक्तार्चने तथा। भवतानुन्मुखा यूय सवंदा ब्राह्मणाधमाः ॥६२। शिवोत्सवदिदृक्षायां शिवभक्तस्य पूजने। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणातमाः॥६३॥ रुद्राक्षे बिल्वपत्रे च तथा शुद्धे च भस्मनि। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६४॥ श्रौतस्मार्तसदाचारे ज्ञानमागे तर्थव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६५॥ अद्वैतज्ञाननिष्ठायां शांतिदान्त्यादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६६॥ नित्यकर्माद्यनुष्ठानेऽप्यग्निहोत्रादिसाधने । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६७॥ स्वाध्यायाध्ययने चैव तथा प्रवचनेऽपि च। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥६८॥ गोदानादिषु दानेषु पितृश्राद्वेषु चंव हि। भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ।।६९।। कृच्छ्रचांद्रायणे चैव प्रायश्चित्तं तर्थव च । भवतानुन्मुखा यूयं सर्वदा ब्राह्मणाधमाः ॥७०॥ श्रीदेवीभिन्नदेवेषु श्रद्धाभक्तिसमन्विताः । शंखचक्रादंकिताश्र भवत ब्राह्मणाघमाः॥७१॥ कापालिकमतासक्ता बौद्धशास्त्ररता: सदा। पाखंडाचारनिरता भवत ब्राह्मणाधमाः ॥७२॥ पितृ मातृसुतभ्रातृकन्याविक्रयिणस्तथा । भार्याविक्रयिणस्तद्वद्भ्वत ब्राह्मणाधमाः॥७३॥ वेदविक्रयिणस्तद्वत्तीर्थविक्रयिणस्तथा । धर्मविक्रयिणस्तद्व्द्गवत ब्राह्मणाधमाः ॥७४॥ पांचरात्रे कामशास्त्रे तथा कापालिके मते। बौद्धे श्रद्धायुता यूयं भवत ब्राह्मणाधमाः ॥७५॥ मातृकन्यागामिनश्र भगिनीगामिनस्तथा। परस्त्रीलंपटा सर्वे भवत ब्राह्मणाधमाः ॥७६॥। युष्माकं वंशजाताश्च स्त्रियश्च पुरुषास्तथा। मददत्तशापदग्धास्ते भविष्यंति भवत्समाः ॥७७॥
Page 812
८१२ श्रीमदेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ९ कि मया बहुनोक्त्तेन मूलप्रकृतिरीश्वरी। गायत्री परमा भूयाद्युष्मासु खलु कोपिता ॥७८।। अंधकूपादिकुण्डेषु युष्माकं स्यात्सदा स्थितिः । व्यास उवाच
जगाम दर्शनाथं वाग्दंडमीदृशं कृत्वाऽप्युपस्पृश्य जलं ततः ॥७९॥ गायत्र्याः परमोत्सुकः । प्रणनाम महादेवीं साऽपि देवी परात्परा ॥८०।। ब्राह्मणानां कृति दृष्टा स्मयं चित्ते चकार ह। अद्यापि तस्या वदनं स्मययुक्तं च दृश्यते ॥८१॥ उवाच मुनिवर्यं तं स्मयमानमुखांबुजा। भुजंगायार्पितं दुग्धं विषायवोपजायते ।८२॥ शां्ति कुरु महाभाग कर्मणो गतिरोदृशी। इति देवीं प्रणम्याथ ततोऽगात्स्वाश्रमं प्रति ८३।। ततो विप्रः शापदग्धैर्विस्मृता वेदराशयः। गायत्री विस्मृता सर्वेस्तदद्भुतमिवाभवत् ।।८४।। ते सर्वेज्थ मिलित्वा तु पश्चात्तापपुतास्तथा। प्रणेमुनिवर्यं तं दंडवत्पतिता भुवि॥८५॥ नोचु:किंचन वाक्यं तु लज्जयाऽधोमुखाः स्थिताः। प्रसीदेति प्रसीदेति प्रसीदेति पुनः पुनः ॥८६॥ प्रार्थयामासुरभितः परिवार्य मुनीश्वरम्। करुणापूर्णहृदयो मुनिस्तान्समुवाच ह॥८७॥ कृष्णावतारपयंतं कुंभीपाके भवेत्स्थितिः। न मे वाक्यं मृषा भूयादिधि जानीथ सर्वथा ८८।। ततः परं कलियुगे भुवि जन्म भवेद्धि वाम्। मदुक्तं सर्वमेतत्तु भवेदेव न चान्यथा॥८९॥ मच्छापस्य विमोक्षार्थं युष्माकं स्याद्यदोषणा। तहि सेव्यं सदा सर्वेर्गायत्रीपदपंकजम् ॥९०॥ व्यास उवाच इति सर्वान्विसृज्याथ गौतमो मुनिसत्तमः । प्रारब्धमिति मत्वा तु चित्ते शांति जगाम ह ९१।। एतस्मात्कारणाद्राजन्गते कृष्णे तु धीमति। कलौ युगे प्रवृत्ते तु कुंभीपाकात्तु निर्गताः ॥९२॥! भुवि जाता ब्राह्मणाश्च शापदग्धाः पुरा तु ये । संध्यात्रयविहीनाश्च गायत्रीभक्तिवचिताः ॥९३। वेदभक्तिविहीनाश्च पाखंडमतगामिनः । अग्निहोत्रादिसत्कर्मस्वधास्वाहाविवर्जिताः ॥९४॥ मूलप्रकृतिमव्यक्तां नैव जानति कहिचित् । तप्तमुद्रांकिताः केचित्कामाचाररताः परे ॥९५॥ कापालिका: कौलिकाश्र बौद्धा जैनास्तथापरे। पडिता अपि ते सर्वे दुराचारप्रवर्तका: ॥९६॥ लंपटा: परदारेषु दुराचारपरायणाः। कुंभीपाक पुनः सर्वे यास्यंति निजकर्मभिः ॥९७॥। तस्मात्सर्वात्मना सजन्संसेव्या परमेश्वरी। न विष्णूपासना नित्या न शित्रोपासना तथा ९८।। नित्या चोपासना शक्तेयां विना तु पतत्यधः। सर्वमुक्तं समासेन यत्पृष्टं तत्त्वयाऽनघ ।९९॥ अतः परं मणिद्वीपवर्णनं शृणु सुन्दरम्। यत्परं स्थानमाद्याया भुवनेश्या भवारणेः १००॥ इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहर्यां संहितायां द्वादशस्कन्धे नवमोऽध्यायः।।९।
Page 813
श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १० ८१३ अथ दशमोऽध्यायः व्यास उवाच ब्रह्मलोकादूर्घ्वभागे सर्बलोकोऽस्ति यः श्रुतः । मणिद्वीपः स एवास्ति यत्र देवी विराजते ॥१॥ सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः । पुरा पराम्बयैवायं कल्पितो मानसेच्छया ॥२॥ सर्वादौ निजवासाथं प्रकृत्या मूलभूतया। कैलासादधिको लोको वैकुण्ठादपि चोत्तमः ॥३॥ गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः । नैतत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित् ॥४। छत्रीभूतं त्रिजगतो भवसंतापनाशकम्। छायाभूतं तदेवास्ति ब्रह्मांडानां तु सत्तमः ॥५॥ बहुयोजनविस्तीर्णो गंभोरस्तावदेव हि। मणिद्वीपस्य परितो वर्तते तु सुधोदधिः ॥६॥ मरुत्संघट्टनोत्कीर्णतरंगशतसंकुल: । रत्नाच्छवालुकाक्तो झषशंखसमाकुलः॥७॥ वीचिसंघर्षसंजातलहरीकणशीतलः । नानाध्वजसमायुक्तनानापोतग तागतै ः विराजमान: परितस्तीररत्नद्रुमो महान्। तदुत्तरमयोधातुनिर्मितो गगने ततः ।९॥ सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान्। नानाशस्त्रप्रहरणा नानायुद्धविशारदाः ॥१०॥! रक्षका निवसंत्यत्र मोदमानाः समंततः । चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः ॥११।। नानागणै: परिवृतो देवीभक्तियुतर्नृप। दर्शनार्थं समायांति ये देवा जगदोशितुः ॥१२॥ तेषां गणा वसंत्यत्र वाहनानि च तत्र हि। विमानशतसंघर्षधंटास्वनसमाकुलः ।१३।। हयहेपाखुराघातबधिरीकृतदिङ्मुखः । गणै: किलकिलारावैर्वेत्र हस्तै्श्र्व ताडिताः ॥।१४।। सेवका देवसंघानां भ्रजन्ते तत्र भूमिप। तस्मिन्कोलाहले राजन शब्दः केनचित्क्वचित्॥ कस्यचिच्छ्रयतेऽत्यंतं नानाध्वनिसमाकुले। पदे पदे मिष्टवारिपरिपूर्णसरांसि च ।१६॥ वाटिका विविधा राजन् रत्नदुमविराजिताः । सदुत्तरं महासारधातुनिमिंतमंडलः ।१७।। शालोऽपरो महानस्ति गगनस्पशि यच्छिरः । तेजसा स्याच्छतगुणः पूर्वशालादयं परः ॥१८॥ गोपुरद्वारसहितो बहुवृक्षसमन्वितः । या वृक्षजातयः संति सर्वास्तास्तत्र संति च ॥१९॥ निरंतरं पुष्पयुताः सदाफलसमन्विताः । नवपल्लवसंयुक्ताः परसौरभसंकुलाः ॥२०॥ पनसा वकुला लोधा कर्णिकाराश्च सिशपाः। देवदारुकांचनारा आम्राश्चैव सुमेरवः ॥२१॥ लिकुचा हिंगुलाश्चला लवंगा: कट्फलास्तथा। पाटला मुचुकदाश्च फलिन्यो जघनेफलाः ॥२२॥ तालास्तमाला: सालाश्च कंकोला नागभद्रकाः । पुन्नागा: पीलवः साल्वका वै कर्पू रशाखिनः।।२३॥ अश्वकर्णा हस्तिकर्णास्तालपर्णाश्र दाडिमाः । गणिका बंधुजीवाश्च जंबीराश्च कुरंडकाः ॥२४॥ चांपेया बंधुजीवाश्च तथा वे कनकद्रुमाः । सालागुरुद्रुमाश्चंव तथा चंदनपादपाः ॥२५॥ खर्जूरा यूथिकास्तालपर्ण्यश्चव तथेक्षवः । क्षीरवृक्षाश्र खदिराश्चिचाभल्लातकास्तथा ॥२६॥
Page 814
८१8 श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १० रुचका: कुटजा वृक्षा बिल्ववृक्षास्तर्थव च । तुलसीनां वनान्येवं मल्लिकानां तर्थव च ।।२७।। इत्यादितरु जातीनां वनान्युपवनानि च/ नानावापीशतैर्युक्तान्येवं संति धराधिप ।।२८।। कोकिलारावसंयुक्ता गुंजद्भ्रमरभूषिताः । निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः ॥ नानावतुभवा वृक्षा नानापभिसमाकुलाः । नानारसस्राविणीभिर्नदीभिरतिशोभिताः ॥३०।। पारावतशुकव्रातसारिकापक्षमारुतैः ।।३ १ ।। सुगंधग्राहिपवनपूरितं तद्वनोत्तमम् । सहितं हरिणीयूर्थैर्धावमानैरितस्ततः ॥।३२।। नृत्यद्वहिकदबस्य केकाराव: सुखप्रदैः। नादितं तद्वनं दिव्यं मधुस्रावि समंततः ॥३३॥ कांस्यशालादुत्तरे तु ताम्रशालः प्रकीर्तितः । चतुरस्रसमाकार उन्नत्या सतयोजनः ॥३४॥ द्वयोस्तु शालयोर्मध्ये संप्रोक्ता कल्पवाटिका। येषां तरूणां पुष्पाणि कांचनाभानि भूमिप ॥३५॥। पत्राणि कांचनाभानि रक्तबीजफलानि च । दशयोजनगंधो हि प्रसर्पति समन्ततः ॥३६॥ तदवनं रक्षितं राजन्वसंतेनर्तुनाऽनिशम् । पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः ॥३७॥ पुष्पासवविघूणितः । मधुश्रीमधिवश्रीश्च द्वे भार्ये तस्य संमते ॥३८॥ कीडत: स्मेरबदने सुमस्तबककंदुकैः । अतीव रम्यं विपिनं मधुस्रावि सन्ततः ॥३९॥ दशयोजनपर्यंत कुसुमामोदवायुना। पूरितं दिव्यगंधर्वेः सांगनैर्गानलोलुपैः॥४०॥ शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम्। वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम् ॥४१॥ ताम्रशालादुत्तरत्र सीसशालः प्रकोर्तितः । समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसंख्यया ॥४२॥ संतानवाटिकामध्ये शाल्रयोस्तु द्वयोनृप। दशयोजनगंधस्तु प्रसूनानां समंततः ॥४३॥ हिरण्याभानि कुसुमान्युत्फुल्लानि निरंतरम्। अमृतद्रवसंयुक्तफलानि मधुराणि च ॥४४॥ ग्रोष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम । शुक्रश्रीश्र शुचिश्रीश्र द्वे भार्ये तस्य संमते ॥४५॥ संतापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः । नानासिद्वैः परिवृता नानादेवैः समन्विताः ॥४६॥ विलासिनीनां वृन्दैस्तु चंदनद्रवपंकिलै: । पुष्पमालाभूषितैस्तु तालवृन्तकरांबुजैः ॥४७॥। प्राकारः शोभितो राजञ्छीतलाबुनिपेविभिः । सीसशालादुत्तरत्राप्यारकूटमयः शुभ:॥४८॥ प्राकारो वर्तते राजन्मुनियोजनदैर्ध्यवान्। हारचंदनवृक्षाणां वाटीमध्ये तयोः स्मृत: ॥४९॥ शालयोरधिनाथस्तु वर्षर्तुर्मेधवाहनः । विद्युत्पिंगलनेत्रश्च जोमूतकवचः स्मृतः ॥५०॥ वज्रनिर्घोषमुखरश्चेंद्रधन्वा समंततः । सहस्रशो वारिधारा मुंचन्नास्ते गणावृतः ।५१।। नभ:श्रीश्च नभस्यश्री: स्वरस्वारम्यमालिनी। अँबा दुला निरत्निश्चाभ्रमंती मेघयंतिका ॥५२।। वषयंती चिबुणिका वारिधारा च संमताः । वर्षर्तोद्वदिश प्रोक्ताः शक्तयो मदविह्वलाः ॥५३॥ नवपल्लववृक्षाश्च नवीनलतिकान्विताः । हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला ॥५४॥
Page 815
श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १० ८१५ नदीनदप्रवाहाश्र प्रवहंति च वेगतः । सरांसि कलुषांबूनि रागिचित्तसमानि च ॥५५॥ वसति देवा सिद्धाश्र ये देवीकर्मकारिणः। वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः ॥५६॥ ते गणा निवसंत्यत्र सविलासाश्र सांगनाः। आरकूटमयादग्रे सप्तयोजनदैर्ध्यवान् ॥५७॥। पंचल हात्मकः शालो मध्ये मंदारवाटिका। नानापुष्पलताकीर्णा नानापल्लवशोभिता ।।५८।। अधिष्ठाताऽत्र संप्रोक्तः शरदृतुरनामयः । इषुलक्ष्मीरूजलक्ष्मीद्वे भार्ये तस्य संमते ॥५९॥ नानासिद्धा वसंत्यत्र सांगना: सपरिच्छदाः । पञ्चलोहमयादग्रे सप्योजनदैर्ध्यवान् ॥६०॥ दींप्यमानो महाशृंगैर्वर्तते रौप्यशालकः । पारिजाताटवो मध्ये प्रसूनस्तबकान्विता ॥६१॥ दशयोजनगंधीनि कुसुमानि तमंततः । मोदयति गणान्सर्वान् ये देवीकर्मकारिणः ॥६२॥ तत्राधिनाथः संप्रोक्तो हेमन्तर्तुर्महोज्जवलः । सगणः सायुधः सर्वान् रागिणो रंजयन्नृपः ॥६३॥ सहश्रीश्च सहस्यश्रीर्दे भार्ये तस्य संमते। वसंति तत्र सिद्धाश्च ये देवीव्रतकारिणः ॥६४॥। रौप्य शालमयादग्रे सप्तयोजनदैर्ध्यवान्। सौवर्णशालः संप्रोक्तस्तप्तहाटककल्पितः ॥६५॥। मध्ये कदम्बवाटी तु पष्पपल्लवशोभिता। कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशाः ॥६६॥ । तत्राधिनाथः संप्रोक्तः शैशिरर्तुर्महोदयः ॥६७॥। तपःश्रीश्र तपस्यश्रीर्द्वे भार्ये तस्य संमते। मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः।।६८।। नानाविलाससंयुक्तो नानागणसमावृतः । निवसति महासिद्धा ये देवीदानकारिणः ॥६९।। नानाभोगसमुत्पन्नमहानन्दसमन्विताः । सांगना: परिवारैस्तु संघशः परिवारिताः ॥७०॥ स्वर्णशालमयादग्रे• मुनियोजनदैर्ध्यवान्। पुष्परागमयः शालः कुंकुमारुणविग्रहः ॥७१॥ पुष्परागमयी भूमिर्वनान्युपवनानि च ।- रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः ॥७२॥ प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः वनभूः पक्षिणश्चैव रत्नवर्णजलानि च ॥७३॥ मंडपा मंडपस्तंभाः सरांसि कमलानि च। प्राकारे तत्र यद्यत्स्यात्तत्सवं तत्समं भवेत् ।।७४।। परिभाषेयमुददिष्टा रत्नशालादिषु प्रभो। तेजसा स्याल्लक्षगुणः पूर्वशालान्परो नृप॥७५।। दिक्पाला निवसंत्यत्र प्रतिब्रह्मांडवर्तिनाम्। दिक्पालानां समष्टयात्मरूपाः स्फूर्जद्वरायुधाः ७६॥ पूर्वाशायां समुत्तुंगशृंगा पूरमरावती। नानोपवनसंयुक्ता महेंद्रस्तत्र राजते ॥७७॥ स्वर्गशोभा च या स्वर्गे यावती स्वात्ततोऽघिका । सर्मष्टिशतनेत्रस्य सहम्रगुणतः स्मृता ॥७८॥ ऐरावतसमारूढो वज्रहस्तः प्रतापवान्। देवसेनापरिवृतो राजतेऽत्र शतक्रतुः ॥७९॥ देवांगनागणयुता शची तत्र विराजते। वह्निकोणे वह्निपुरी वह्निपूःसदृशी नृप ।।८०।। स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते। निजवाहनभूषाढयो निजदेवगणैर्वृतः ।।८१।। याम्याशायां यमपुरी तत्र दंडघरो महान्। स्वभटैर्वेष्टितो राजन् चित्र गुप्तपुरोगमै: ॥८२॥
Page 816
८१६ श्रीम देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ११ निजशक्तियुतो भास्वत्तनयोऽस्ति यभी महान् । नैत्रर्त्यां दिशि राक्षस्यां राक्षसैः परिवारितः ८३।। खड्गधारी स्फुरन्नास्ते निऋतिनिजशक्तियुक। वारु्यां वरुणो राजा पाशधारी प्रतापवान् ॥८४॥। महाझल्समारूढो वारुणीमधुविह्वलः । निजशक्तिसमायुक्तो निजयादोगणान्वितः ।।८५।। समास्ते वारुणे लोके वरुणानीस्ताकुलः । वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति ।।८६।। वायुसाधनसंसिद्धयोगिभिः परिवारितः । ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः ।८७॥। मरुद्गणः परिवृतो निजशक्तिसमन्वितः । उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप ८८।। यक्षाधिराजस्तत्रास्ते वृद्धित्द्धयादिशक्तिभिः। नवभिनिधिभिर्युक्तस्तुंदिलो धननायकः ॥८९॥ मणिभद्रः पूर्णभद्रो मणिमान्मणिवंधरः । मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः ॥९०।। इत्यादियक्षसेनानीसहितो निजशक्तियुक् । ईशानकोणे संप्रोक्तो रुद्रलोको महत्तरः ॥९१॥ अनर्ध्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् । मन्युमान्दीत्तनयनो बद्धपृष्ठमहेषुधिः ।।९२।। । स्वसमानैरसंख्यातरुद्रै: शूलवरायुधैः ॥९३॥ विकृतास्यैः करालस्यैर्वमद्वह्निभिरास्यतः । दशहस्तैः शतकरै: सहस्रभुजसंयुतैः ॥९४॥। । अंतरिक्षचरा ये च ये च भूमिचराः स्मृताः ॥९५॥ रुद्राध्याये स्मृता रुद्रास्तैः सर्वेश्च समावृतः । रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः ॥९६।। नानाशक्तिसमाविष्टडामर्यादिगणावृतः । वीरभद्रादिसहितो रुद्रो राजन्विराजते ।।९७।। मुण्डमालाधरो नागदलयो नागकंघरः। व्याघ्र मपरीधानो गजचर्मोत्तरीयक: ॥९८।। चिताभस्मांगलिप्तांगः ।।९९।! ऊ ट्टहासास्फोटशब्दैः संत्रासतिनभस्तलः । भूतसंघसमाविष्टो भूतावासो महेश्वरः ॥१००॥॥ ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च॥१०१॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्पे दशमोऽध्यायः॥ १०॥ अथ एकादशोऽध्यायः
व्यास उवाच पुष्परागमयादग्रे कुंकुमारणविग्रहः । गद्मरागमयः शालो मध्ये भूश्रैव तादृशी ॥१॥ दशयोजनवान्दैध्ये गोपुरद्वारसंयुतः । तन्मणिस्तंभसंयुक्ता मण्डपाः शतशोनृप ॥२॥ मध्य भुवि समासीनाश्चतुःषष्टिमताः वलाः । नानायुधवरा वीरा रत्नभूषणभूषिताः ॥३॥ प्रत्येव लोकस्तासां तु तत्तत्लोकस्य नायका । रमन्तात्पम्मरागस्य परिवार्य स्थिताः सदा ॥४॥ स्वरववाहनहेतिभिः । तासां नामानि वक्यामि प्ृणु त्वं जनमेजय ।५।।
Page 817
५२ श्रीमहवोमागकते महापुराणे द्व दशस्कन्धे अध्यायः ११ ८१७ पिंगलाक्षी विशालाक्षी समृदधिर्वृद्धिरेव न । श्रद्धा स्वाहा स्वधामिख्या माया संज्ञा वसुन्धरा। त्रिलोकधात्री सावित्री गावनी त्रिदसेरी। सुलणा बहुरूपा च स्कंदमाताऽच्युतप्रिया ॥७।। विमला चामला तद्वदरुणी तुनरारुणी। प्रकृतिविकृतिः सृष्टिः स्थितिः संहृतिरेव च ।।८।। संध्या मातासती हंसी मर्दिका वच्तिका परा। देवमाता भगवती देवकी कमलासना ॥।९॥ त्रिमुखी सप्तमुख्यन्या सुरासुरविमर्दिनी। लंबोष्ठी चोर्ध्वकेशी च वहुशोर्षा वृकोदरी ॥१०॥ रथरेखाह्वया पश्चाच्छशिरेखा तथा परा। गगनवेगा पवनवेगा वेगा चव ततः परम् ॥११॥ अग्रे भुवनपाला स्यात्तत्पश्चान्मदनातुरा। अनंगानंगमथना तर्थवानंगमेखला ॥१२। अनंगकुसुना पश्चाद्विश्वरूपा सुरादिका। क्षयंकरी भवेच्छक्तिरक्षोम्या च ततः परम् ॥१३॥ सत्यवादिन्यथ प्रोक्ता बहुरूपा शुचिव्रता । उदाराख्या च वागीशा चतुःषष्टिमिता:सता:।१४H ज्वलज्जिह्वानना: सर्वा वमंत्यो वह्निमुल्वणम्। जलं पिवामः सकलं संहरामो विभावसुम् ॥१५॥ पवनं स्तंभयामोऽद्य भक्षयामोऽखिल जगत् । इति वाचं संगिरंते क्रोधसंरक्तलोचना: ॥१६॥। चापबाणधरा. सर्वा युद्धायवोत्सुकाः सदा। दंष्ट्राकटकटार वैर्बिरीकृतदिङ्मुखाः ।१७॥ पिंगोध्वकेश्यः संप्रोक्ताश्चापबाणकराः सदा। शताक्षोहिणिका सेनाप्येकैकस्याः प्रकीर्तिता ॥१८॥ एकैकशक्ते: मामथ्यं लक्षत्रह्मांडनाशने। शताक्षोहिणीका सेना तादृशी नृपसत्तम ॥१९।। कि न कुर्याज्जमत्यस्मिन्नशक्यं वक्तुमेव तत् । सर्वापि युद्धसामग्री तस्मिन्शाले स्थिता मुने ॥२०॥ रथानां गणना नास्वि हयानां करिणां तथा । शस्त्राणां गणना तद्ृद्गणानां गणना तथा ॥२१। पद्मरागमयादग्रे गोमेदमणिनिरमितः । दशयोजनदैध्येण प्राकारो वर्तते महान् ।२२।। भास्वज्जपाप्रसूनाभो मध्यभूतस्य तादृशी। गोमेदकल्पितान्येव तद्वासिसदना च सा ।२३।। पक्षिण: स्तंभवर्याश्च वृक्षा वाप्यः सरांसि च । गोमैदकल्पिता एव कुंकुमारुणविग्रहाः ॥२४॥ तन्मध्यस्था महादेव्यो द्वात्रिशच्छक्तय: स्मृताः । नानाशस्त्रप्रहरणा गोमेदमणिभूषिताः ॥२५॥ प्रत्येकलोकवासिन्यः परिवार्य समंततः। गोमेदशाले सन्नद्वाः पिशाचवदना नृप ॥२६॥ स्वर्लोकवासिभिनित्यं पूजिताश्चक्रबाहवः । क्रोधरक्तेक्षणा भिधि पच छिंधि दहेति च ॥२७॥ वदन्ति सततं वाचं युद्धोत्सुकहृदन्तराः । एककस्या महाशक्तेर्दशाक्षौहिणिका मता ॥२८॥ सेना तत्राप्येकशक्तिर्लक्षब्रह्मांडनाशिनी। तादृशीनां महासेना वर्णनीया कथं नृप ।२९। रथानां नैव गणना वाहनानां तर्थव च । सर्वयुद्धसमारंभस्तत्र देव्या विराजते ॥३०॥ तासां नामानि वक्ष्यामि पापनाशकराणि च । विद्याहनीपुष्टयः प्रज्ञा सिनीवाली कुहूस्तथा ॥३१॥। रुद्रा वीर्या प्रभा नंदा पोषिणी ऋद्धिदा शुभा। कालरात्रिर्महारात्रिर्भद्रकाली कपर्दिनी ॥३२॥ विकृतिर्दडिमुंडिन्यौ सेन्दुखंडा शिखंडिनी। निशुम्भशुम्भमथिनी महिषासुरमर्दिनी॥३३॥
Page 818
८१८ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्यायः ११ इन्द्राणी चैव रुद्राणी शंकरार्धशरीरिणी। नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ॥३४॥ अंबिका ह्वादिनी पश्चादित्येवं शक्तयः स्मृताः । यद्येताः कुपिता देव्यस्तदा ब्रह्माण्डनाशनम् ॥३५॥ पराजयो न चैतासां कदाचित्ववचिदस्ति हि। गोमेदकमयादग्रे सद्वज्रमणिनिर्मितः ॥३६॥ दशयोजनतुंगोऽसो गोपुरद्वारसंयुतः । कपाटशृंखलाबद्धो नववृक्षसमुज्ज्वलः ॥३७॥ शालस्तन्मध्यभूम्यादि सवं हीरमयं स्मृतम् । गृहागि वीथयो रथ्या महामार्गांगणानि च ॥३८।। वृक्षालवालतरवः सारंगा अपि तादृशाः । दीघिकाश्रेणयो वाप्यस्तडागाः कूपसंयुताः ॥३९॥ तत्र श्रीभुवनेश्वर्या वसन्ति परिचारिकाः । एकका लक्षदासीभिः सेविता मदगर्विताः ॥४०॥ तालवृंतघरा: काश्चिच्चषकाढयकरांबुजाः । काश्चित्ताम्बूलपात्राणि धारयंत्योऽतिगर्विताः॥४१।। कश्चित्तच्छवधारिण्यश्चामराणां विधारिकाः । नानावस्त्रधराः काश्चित्काश्चित्पुष्पकरांबुजाः ॥४२॥ नानादर्शकरा: काश्चित्कश्चित्कुंकुमलेपनम् । धारयंत्यः कज्जलं च सिंदूरचषकं पराः ॥४३॥ काश्चिच्चित्रकनिर्मात्र्यः पादसंवाहने रताः । काश्चित्तु भूषाकारिण्यो नानाभूषाधराः पराः॥४४॥ पुष्पभूषणनिर्मात्र्यः पुष्पशृङ्गारकारिकाः। नानाविलासचतुरा वहय एवंविधा: परा॥४५॥ निबद्धपरिधानीया युवत्यः सकना अपि। देवी कृपालेशवशात्तुच्छीकृतजगत्त्रयाः ॥४६॥ एता दूत्यः स्मृता देव्यः शृंगारमदगर्विताः । तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम ।।४७।। अनंगरूपा प्रथमाप्यनंगमदना परा। तृतीया तु ततः प्रोक्ता सुंदरो मदनातुरा ॥४८।। ततो भुवनवेगा स्यात्तथा भुवनपालिका। स्यात्सवशिशिरानंगवेदनाSनंगमेखला विद्यु द्दामसमानांग्य: क्वणत्कांचीगुणान्विताः । रणन्मंजीरचरणा बहिरंतरितास्ततः ॥५०।। धावमानास्तु शोभंते सर्वा विद्युल्लतोपमाः । कुशलाः सर्वकार्येषु वेत्रहस्ताः समंततः ॥५१॥ अष्टदिक्षु तर्थतासां प्राकाराद्वहिरेव च। सदनानि विराजन्ते नानावाहनहेतिभिः ॥५२॥ वज्तरशालादग्रभागे सालो वैदूर्यनिरमितः। दशयोजनतुंगोडसौ गोपुरद्वारभूषितः ।।५३।। वैदूर्यभूमिः सर्वापि गृहाणि विविधानि च । वीथ्यो रथ्या महामार्गाः सवे वैदूयनिमिताः ॥५४॥ वापीकूपतडागाश्र स्रवंतीना तटानि च। बालुका चैव सर्वापि वैदूर्यमणिनिर्मिता ॥५५॥ तत्राष्टदिक्षु परितो ब्राह्मयादीनां च मंडलम् । नि्जेर्गणैः परिवृतं भ्राजते नृपसत्तम ॥५६॥ प्रतिब्रह्मांडमातृणां ताः समष्ट्य ईरिताः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णदी तथा ॥५७॥ वाराहो च तथेंद्राणी चामुंडाः सप्त मातरः। अष्टमी तु महालक्ष्मीर्नाम्ना प्रोक्तास्तु मातरः ॥५८॥ ब्रह्मरुद्रादिदेवानां समाकारास्तु ताः स्मृताः । जगत्कल्याणकारिण्यः स्वस्वसेनासमावृताः ॥५९॥ तच्छालस्य चतुर्द्वार्षु वाहनानि महेशितुः । सज्जानि नृपते संति सालंकाराणि नित्यशः ॥६०॥ दंतिन: कोटिशो वाहा: कोटिशः शिबिकास्तथा। हंसा सिंहाश्च गरुडा मयूरा वृषभास्तथा ॥६१॥
Page 819
८१९ श्रीमद्ेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: ११ तैर्युकताः स्यंदनास्तद्वत्कोटिशो नृपनंदन । पार्ष्णिग्राहसमायुक्ता ध्वजैराकाशचुंबिन: ।६२।। कोटिशस्तु विमानानि नानाचिह्नान्वितानि। नानावादित्रयुक्तानि महाध्वजयुतानि च।।६३।। वैदूर्यमणिशालस्याप्यग्रे शाल: परः स्मृतः । दशयोजनतुंगोऽसाविंद्रनीलाश्मनिर्मितः तन्मध्यभूस्तथा वीथ्यो महामार्गा गृहाणि च । वापीकूपतडागाश्च सर्वे तन्मणिनिरमिताः ।६५॥ तत्र पद्मं तु संप्रोक्तं बहुयोजनत्रिस्तृनम्। षोडशारं दीप्यमानं सुदर्शनमिवापरम् ॥६६॥ तत्र षोडशशक्तीनां स्थानानि विविधानि च । सर्वोपसकरयुक्तानि समृद्धानि वसंति हि॥६७॥ तासां नामानि वक्ष्यामि शृणु मे नृपसत्तम। कराली विकराली च तथोमा च सरस्वती ॥६८।। श्रीदुर्गोषा तथा लक्ष्मोः श्रुतिश्चैत स्मृतिर्धृतिः । श्रद्धा मेधा मतिः कांतिरारया षोडश शक्तयः ॥६९॥ नीलजीमूतसंकाशाः करवालकरांबुजाः ! समाः खेटकधारिण्यो युद्धोपक्रांतमानसाः ॥७०॥। सेनान्यः सकला एताः श्रीदेव्या जगदीशितुः। प्रतित्रह्मांडसंस्थानां शक्तोनां नायिका: स्मृताः॥७॥ ब्रह्मांडक्षोभकारिण्यो देवीशक्त्युपबृंहिताः । नानारथसमारूढा नानाशक्तिभिरन्त्रिताः ॥७२॥ एतत्पराक्रमं वक्तु सहस्रास्योपि न क्षमः । इद्रनीलमहाशालादग्रे तु बहुविस्तृतः ॥७३॥ मुक्ताप्राकार उदितो दशयोजनदैर्ध्यवान्। मध्यभू: पूर्ववत्प्रोक्ता तन्मध्येऽष्टदलांबुजम् ॥७४॥ मुक्तामणिगणाकीणं विस्तृतं तु सकेशरम्। तत्र देवीसमाकारा दिव्यायुधधराः सदा॥७५॥ संप्रोक्ता अष्ट मंत्रिण्यो जगद्वार्ताप्रबोधिकाः । देवीसमानभोगास्ता इंगितज्ञास्तु पंडिताः ॥७६॥ कुशलाः सर्वकार्येषु स्वामिकार्यपरायणाः । देव्यभिप्रायबाध्यस्ताश्चतुरा अतिसुंदरा: ॥७७॥ नानाशक्तिसमायुक्ताः • प्रतिश्रह्मांडवर्तिनाम् । प्रागिनां ताः समाचारं ज्ञानशक्त्या विदंति च ।।७८।। तासां नामानि वक्ष्यमि मत्त शृणु नृपोत्तम । अनंगकुसुमा अनंगमदना तद्वदनंगमदनातुरा। भुदनपाला गगनवेगा चैव ततः परम्॥८०॥ शशिरेखा च गगनरेखा चैव ततः परम्। पाशांकुशवराभीतिधरा अरुणविग्रहाः ॥।८१ ।। विश्वसंबन्धिनी वार्तां बोधयंति प्रतिक्षणम्। मुक्ताशालादग्रभागे महामारकतोऽपरः ॥८२॥ शालोत्तमः समुद्दिष्टो दशयोजनदैर्ध्यवान्। नानासौभाग्यसंयुक्तो नानाभोगसमन्वितः ।८३।। मध्यभूस्तादृशी प्रोक्ता सदनानि तर्थव च। षट्कोणमंचविस्तीर्णकोणस्था देवताः शृणु ॥८४॥ पूर्वकोणे चतुर्वक्त्रो गायत्रीसहितो विथिः । कुण्डिकाक्षगुगाभीतिदंडायुधधरः परः ॥८५॥ तदायुधधरा देवी गायत्री परदेवता। वेदाःसर्वे मूर्तिमंतः शास्त्राणि विविधानि च॥८६।। स्मृतयश्च पुराणानि मूर्तिमंति वसंति हि। ये ब्रह्मत्िग्रहाः संति गायत्रीविग्रहाश्च ये ॥८७॥ व्याहृतीनां विग्रहाश्र ते नित्यं तत्र संति हि। रक्षाकोणे शंख चक्रगदांबुजकरांबुजा ।८८।l सावित्री वर्तते तत्र महाविष्णुश्र तादगः । ये विष्णुविग्रहाः संति मत्स्यकूर्मादयोऽखिलाः ॥८९॥
Page 820
८२० श्रीमद्देवीभागवते महापुराणे द्राइशस्कन्धे अध्याव्र: १२ सावित्रीविग्रहा ये च ते सर्वे तत्र संति हि। वामुकोणे परश्वक्षमालाभयवरान्वितः ।९०। महारुद्रो वर्ततेऽत्र सरस्वत्यम तादृशी। ये ये तु रुद्रभेदाः स्युर्दक्षिणास्यादयो नृप ।।९१। गौरीभेदाश्च ये सर्वे ते तत्र निवसन्ति हि। चतुःषष्टयागमा ये चये चान्येप्याचमाः स्मुता:९२। ते सर्वे मूर्तिमंतर्च वत्र वै निवसन्ति हि। अग्निकोणे रत्ननुभ तथा मणिकरंडकम्॥९३॥ दधानो निजहस्ताभ्यां कुबेरो धनदायकः । नानावीथीसमायुक्तो महालक्ष्मीसमन्वितः ॥९४॥। देव्या निधिपतिस्त्वास्ते स्वगुण: परिवष्टितः । वारुणे तु महाकोणे मदनो रतिसंघुतः ॥९५॥ पाशांकुशधनुर्बाणधरो नित्यं विराजते। श्रृङ्गारा मूर्तिभंतस्तु तत्र सन्निहिताः सदा ॥९६॥ ईशानकोणे विध्नेशो नित्यं पुष्टिसमन्वितः । पाशांकुशधरो वीरो विध्नहर्ता विराजते ॥९७॥। विभूतयो गणेशस्य या याः सन्ति नृपोत्तम । ताः सर्वा निवसंत्यत्र महैश्वर्यसमन्विताः ॥९८। प्रतिब्रह्माण्डसंस्थानां ब्रह्मादीनां समष्टयः। एते ब्रह्मादयः प्रोक्ताः सेवंते जगदीश्वरीम् ॥९९ महामारकतस्याग्रे शतयोजनदैर्ध्यवान् । प्रवालशालोऽस्त्यपरः कुंकमारुणविग्रहः ॥१००॥ मध्यभूस्तादृशी प्रोक्ता सदनानि च पूर्ववत् । तन्मध्ये पंचभूतानां स्वामिन्यः पंच संतिच ॥१०१॥ हल्लेखा गगना रक्ता चतुर्थी तु करालिका। महोच्छुष्मा पंचमी च पंचभूतसमप्रभा॥१०२॥ पाशांकुशव राभीतिधारिण्योऽमितभूषणाः । देवीसमानवेषाढया नवयौवनगर्विताः॥१०३।। प्रबालशालादग्रे तु नवरत्नविनिर्मितः । बहुयोजनविस्तीर्णो महाशालोऽस्ति भूमिप ॥१०४॥ तत्र चाम्नायदेवीनां सदनानि बहून्यपि। नवरत्नमयान्येव तडागाश्च सरांसि न ॥१०५॥ श्रीदेव्या येऽवतारा: स्युस्ते तत्र निवसंति हि। महाविद्या महाभेदाः संति तत्रव भूमिप ॥१०६॥ निजावरणदेवीभिर्निजभूषणवाहनैः । सर्वदेव्यो विराजन्ते कोटिसूर्यसमप्रभाः ॥१०७॥ सप्तकोटिमहामंत्रदेवताः सन्ति तत्र हि। नवरत्नमयादग्रे चिंतामणिगृहं महत् ॥१०८।। तत्रत्यं वस्तुमात्रं तु चिंतामणिविनिर्मितम्। सूर्योद्गारोपलैस्तद्वच्चन्द्रोद्वारोपलैस्तथा ॥१०९।। विद्युत्प्रभोपल: स्तंभाः कल्पितास्तु सहस्रशः । येषां प्रभाभिरंतःस्थं वस्तु किंचिन्न, दृश्यते ॥११०॥ इति श्रीदेवीभागवते महापुराणे द्वादुशस्कन्धे एकादशोऽध्यायः । ११॥ अथ द्वादशोऽध्यायः व्यास उवाच तदेव देवीसदनं मध्यभागे विराजते। सहस्रस्तम्भसंयुक्ताश्चत्वारस्तेषु मण्डपाः ॥१॥ शृङ्गारमंडपश्चको मुक्तिमंडप एव च । ज्ञानमंडपसंज्ञस्तु तृतीयः परिकीतितः ॥ २॥ एकांतमण्डपश्चैव चतुर्थः परिकीर्तितः । नानावितानसयुक्ता नानाधूपैस्तु धूपिताः ॥३॥ कोटिसूर्यसमा: कांत्या भ्राजंते मंडपाः शुभाः । तन्मण्डपानां परितः काश्मीरवनिका स्मृता ॥४॥
Page 821
श्रीमद्देवीमागवते महापुराणे दादसस्कन्धे अध्याय: ११ मल्लिकाकुंदबनिका यत्र पुष्कलका: स्थिताः । असंख्याता मृगमदैः पूरितास्तत्स्नवा नृप ॥५।। महाप्माटवी तद्वद्रत्नसोपाननिमिता। सुधारसेन सम्पूर्णा गुञ्जन्मत्तमध्रुव्रता॥६॥। हंस कारण्डवाकीर्णा गन्धपूरितदिक्तटा । वनिकानां सुगरधस्तु मणिद्वीपं सुवासिंतम् ।।७ शृङ्गारमण्डपे देव्यो गायंति विविधः स्वरः। सभासदो देववरा मध्ये श्रोजगदम्बिका ॥८॥। मुक्तिमंडपमध्ये तु मोचयत्यनिशं शिवा। ज्ञानोपदेशं कुरुते तृतीये नृप मण्डपे ।। ९॥। चतुर्थमंडपे चंव जगद्रक्षाविचिन्तनम् । मन्त्रिणीसहिता नित्यं करोति जगदम्बिका ॥१०॥ चिन्तामणिगृहे राजञ्छक्तितत्त्वात्म्कः परैः । सोपानैर्दशभिर्युक्तो मंचकोऽप्यघिराजते ॥११॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्व सदाशिवः । एते पञ्च खुराः प्रोक्ता: फलकस्तु सदाशिवः ॥१२।। तस्योपरि महादेवी भुवनेशी विराजते। या देवी निजलीलार्थं द्विधाभूता बभूव ह॥१३॥ सृष्टयादौ तुस एवायं तदर्धाङ्गो महेश्वरः। कन्दर्पदर्पनाशोदन्कोटिकन्दर्पसुन्दर: ।।१४॥
पंचवक्त्रस्त्रिनेत्रश्च मणिभूषणभूषितः । हरिणाभीतिपरशन्व्ररं च निजबाहुभिः ॥१५॥ दधान: षोडशाब्दोऽसी देवः सर्वेश्वरो महान्। कोटिमूर्य रती काशश्चन्द्रकोटिसुशीतलः ॥१६॥
शुद्धस्फटिकसंकाशस्त्रिनेत्रः शीतलद्युतिः । वामांके सन्निपण्णाऽस्य देवी श्रीभुवनेश्वरी ॥१७॥ नवरत्नगणाकीर्णकांचीदामविराजिता । तप्तकांचनसन्नद्धवैदूर्या ङ्गदभूषणा ।१८।
कनच्छ्री चक्रताटंकविटंकवदनांबुजा । ललाटकांतिविभवतरिजितार्ध सुधाकरा ॥१९॥
बिबकांतिति रस्कारिरदच्छदविराजिता । लसत्कुंकुमकस्तूरीतिल कोद्गासितानना ।२० ।।
दिव्यचूडा मणिस्कारचं. चच्चंद्रकसूर्यका । उद्यत्कविसमस्वच्छनासाभरणभासुरा ।२ १॥
चिंता कलंबितस्वच्छमु क्तागुच्छविराजिता । पाटीरपंककर्पूर कुंकु मालंकृतस्तनी ।२२ ।।
विचित्र विविधाकल्पा कम्बुसंकाशकंधरा। दाडिमीफ लबोजाभदंतपंक्तिविराजिता ।।२ ३।।
अनर्ष्यरत्नघटितमुकुटांचितमस्तका । मत्तालिमालाविलसदलकाढय मुखांबुजा ।।२४।
कलंक कार्श्य निर्मुक्तशरच्चन्द्रनिभानना । जाह्नवीसलिंला वर्तशोभिनाभिविभूषिता ।२५॥
माणिक्यशकलाबद्धमुद्रिकांगुलिभूषिता । पुण्डरीकदलाकारनयनत्रयसुन्दरी कल्पिताच्छमहारागपद्मरागोज्जवलप्रभा । रत्नर्किकिणिकायुक्त रत्नकंकणशोभिता ।।२ ७ ।।
मणिमुक्तासरापारलसत्पदकसंततिः । रत्नांगुलिप्रविततप्रभाजाललसत्करा ।।२८।।
कंचुकीगुंफितापारनानारत्नततिद्युति: । मल्लिका मोदिधम्मिल्लमल्लिका लिसरावृता ॥२९ ।। सुवृत्तनिविडोत्तुङ्गकुचभारालसा शिवा। व रपाशांकुशाभीतिलसद्वाहुचतुष्टया ।।३० ॥
सवंशृङ्गारवेषाढया सुकुमारांगवल्लरी। सौंदर्यधारासर्वस्वा निर्व्याजकरुणामयी ॥३१।। निजसंलापमाधुर्यविनिर्भत्सितकच्छपी । कोटिकोटिरवींदूनां कांति या बिभ्रती परा ॥३२॥
Page 822
८२२ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १२ नानासखीभिर्दासीभिस्तथा देवांगनादिभिः । सर्वाभिर्देवताभिस्तु समंतात्परिवेष्टिता ॥३३॥ इच्छाशक्त्या ज्ञानशक्त्या क्रियाशक्त्या समन्विता। लज्जा तुष्टिस्तथा पुष्टिः कीतिः कांति क्षमा दया ॥ बुद्धिर्मेधा स्मृतिर्लक्ष्मीमूर्तिमत्योङ्गनाः स्मृताः । जया च विजया चेवाप्यजिता चापराजिता ३५॥ नित्या विलासिनी दोग्ध्री त्वघोरा मंगला नवा। पीठशक्तय एतास्तु सेवंते यां परांबिकाम् ॥३६॥ यस्यास्तु पार्श्वभागे स्तो निध तौ शंखपद्मकौ। नवरत्नवहा नद्यस्तथा वै कांचनस्रवाः ॥३७॥ सप्तधातुवहा नद्यो निधिभ्यां तु विनिर्गताः । सुधासिन्ध्वंतगामिन्यस्ताः सर्वा नृपसत्तम ॥३८॥ सा देवी भुवनेशानी तद्वामांके विराजते। सर्वशत्वं महेशस्य यत्संगादेव नान्यथा ॥३९॥ चिंतामणिगृहस्यास्य प्रमाणं श्रृणु भूमिप। सहस्रयोजनायामं महांतस्तत्प्रचक्षते ।।४०।। तदुत्तरे महाशालाः पूर्वस्माद्द्विगुणाः स्मृताः । अन्तरिक्षगतं त्वेतन्निराधारं विराजते ॥४१॥ संकोचश्च विकासश्च जायतेऽस्य निरन्तरम्। पटवत्कार्यवशतः प्रलये सर्जने तथा ॥४२॥ शालानां चैव सर्वेषां सर्वकान्तिपरावधि। चिन्तामणिगृहं प्रोक्तं यत्र देवी महोमयी ॥४३॥ ये ये उपासकाः सन्ति प्रतिब्रह्मांडवर्तिनः । देवेषु नागलोकेषु मनुष्येष्वितरेषु च॥४४।। श्रीदेव्यास्ते च सवेऽपि व्रजंत्यत्रंव भमिप। देवीक्षेत्रे ये त्यजन्ति प्राणान्देव्यर्चने रताः ।४५॥ ते सर्वे यांति तत्रैव यत्र देवी महोत्सवा। घृतकुल्या दुग्धकुल्या दधिकुल्या मधुस्रवाः॥४६॥ स्यन्दन्ति सरितः सर्वास्तथामृतवहाः पराः । द्राक्षारसवहाः काश्चिज्जम्बूरसवहाः पराः ॥४७॥ आम्रेक्षुरसवाहिन्यो नद्यस्तास्तु सहस्रशः । मनोरथफला वृक्षा वाप्यः कूपास्तर्थव च ॥४८।। यथेष्टपानफलदा न न्यूनं, किचिदस्ति हि। न रोगपलितं वापि जरा वापि कदाचन ॥४९॥। न चिन्ता न च मात्सयं कामक्रोधादिकं तथा। सर्वे युवानः सस्त्रीकाः सहस्रादित्यवर्चसः ॥५०॥ भजंति सततं देवीं तत्र श्रीभुवनेश्वरीम् । केचित्सलोकतापन्नाः केचित्सामीप्यतां गताः ५१॥ सरूपतां गताः केचित्साष्टि तां च परे गताः। या यास्तु देवतास्तत्र प्रतिब्रह्माण्डवर्तिनाम् ॥५२॥ समष्टयः स्थितास्तास्तु सेवंते जगदीश्वरीम् । सप्तकोटिमहामन्त्रा मूर्तिमन्त उपासते ॥५३॥ महाविद्याश्च सकलाः साम्यावस्थात्मिकां शिवाम्। कारणब्रह्मरूपां तां मायाशबलविग्रहाम् ॥५४॥ इत्थं राजन्मया प्रोक्तं मणिद्वीपं महत्तरम्। न सूर्यचंद्रो नो विद्युत्कोटयोऽग्निस्तर्थव च ॥५५॥ एतस्य भासा कोटयंशकोटयंशेनापि ते समाः । क्वचिद्विद्रुमसंकाशं क्वचिन्मरकतच्छवि ॥५६॥ विद्युन्द्ानुसमच्छायं मध्यसूर्यसमं क्वचित्। विद्युत्कोटिमहाधारा सारकांतिततं क्वचित् ॥५७॥ ववचित्सिदूरनी लेन्द्रमाणिक्यसदृशच्छवि । हीरसारमहागर्भ धगद्धगित दिक्त ट म् ।५८॥ कांत्या दावानलसमं तप्तकांचनसन्निभम्। क्वचचिच्चंद्रोपलोद्गारं सूर्योद्वारं च कुत्रचित् ।।५९।। रत्नशृंगिसमायुक्तं रत्नप्राकारगोपुरम् । रत्नपत्र रत्नफलैर्बृक्षेश्च परिमंडितम् ॥६०॥
Page 823
श्रीम देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १३ ८२३ मृत्यन्मयूरसंघैश्च कपोतरणितोज्ज्वलम्। कोकिलाकाकलीलापै: शुकलापैक्ष शोभितम् ॥६१। सुरम्यरमणीयांबुलक्षावधिसरोवृतम् ॥।६२।। सुगन्धिभि: समन्तात्तु वासितं शतयोजनम्। मन्दमारुतसम्भिन्नचलद्दुमसमाकुलम् ।६३। चिन्तामणिसमूहानां ज्योतिषा वितताम्बरम्। रत्नप्रभाभिरभितो धगद्धगितदिक्तटम् ॥।६४।। वृक्षव्रातमहागन्घवातव्रातसुपूरितम् । धूपधूपायितं राजन्मणिदीपायुतोज्ज्वलम् ॥६५॥ मक्षिजालकसच्छिद्रतरलोदरकान्तिभि: । दिङ मोहजनकं चंतहर्पणोदरसंयुतम् ॥६६।। ऐश्वर्यस्य समग्रस्य शृङ्गारस्याखिलस्य च। सर्वज्ञतायाः सर्वायास्तेजसश्चाखिलस्य च॥६७।। पराक्रमस्य सर्वस्य सर्वोत्तमगुणस्य च। सकलाया दयायाश्र समाप्तिरिह भूपते॥६८॥ राज्ञ आनन्दमारभ्य ब्रह्मलोकांतभूमिषु। आनंदा ये स्थिताः सर्वे तेऽत्रैवांतर्भवंति हि ॥६९॥ इति ते व्णितं राजन्मणिद्वीपं महत्तरम् । महादेव्याः परं स्थानं सर्वलोकात्तमोत्तमम् ॥७०। एउस्य स्मरणात्सद्यः सर्वपापं विनश्यति । प्राणोत्क्रमणसन्धौ तु स्मृत्वा तत्रव गच्छति ॥७१॥ अध्यायपञ्चकं त्वेतत्पठेन्नित्यं समाहितः । भूतप्रेतपिशाचादित्राधा तत्र भवेन्न हि॥७२॥ नवीनगृहनिर्माणे वास्तुयोगे तर्थव च। पठितव्यं प्रयत्नेन कल्याणं तेन जायते ॥७३॥ इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे द्वादशोऽध्याय:॥१२॥ अथ त्रयोदशोऽध्यायः
व्यास उवाच इति ते कथितं भूप यद्यत्पृष्टं त्वयाऽनघ। नारायणेन यत्प्रोक्तं नारदाय महात्मने ।१॥ श्रुत्वैतत्तु महादेव्याः पुराणं परमाद्द्ुतम्। कृतकृत्यो भवेन्मर्त्यो देव्याः प्रियतमो हि सः ॥२॥ कुरु चाम्बामखं राजन्स्वपित्रुद्धरणाय वै। खिन्नोऽसि येन राजेन्द्र पितुर्ज्ञात्वा तु दुर्गतिम् ॥३॥ गृहाण त्वं महादेव्या मन्त्रं सर्वोत्तमोत्तमम् । यथाविधि विधानेन जन्मसाफल्यदायकम् ॥४॥ सूत उवाच तच्छ्रुत्वा नृपशार्दूलः प्रार्थयित्वा मुनीश्वरम्। तस्मादेव महामन्त्रं देवीप्रणवसंज्ञकम् ॥५॥ दीक्षाविधि विधानेन ज़ग्राह नृपसत्तमः। तत आहूय धौम्यादीन्नवरात्रसमागमे ॥६॥ अम्बायज्ञं चकाराशु वित्तशाठ्यविवर्जितः । ब्राह्मणैः पाठयामास पुराणं त्वेतदुत्तमम् ।७॥ श्रीदेव्यग्रेऽम्विकाप्रीत्यै देवीभागवतं परम्। ब्राह्मणान्भोजयामासाप्यसंख्याताः सुवासिनीः ॥८॥ कुमारीर्बटुकादोंश्च दोनानाथांस्तथव च। द्रव्यप्रदानस्तान्सर्वान्संतोष्य वसुधाषिपः ।।९।।
Page 824
८२४ श्रीम रेवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १३ समाप्य यज्ञं संस्थाने संस्थितो यावदेव हि। ताबदेव हि चाकाशान्नारदः समवातरत् ॥१०॥
आसनाद्युपचारश्र रणयन्महतीं वीणां ज्वलदग्निशिसोपमः । ससम्भ्रमः समुत्याय दृष्टा तं नारदं मुनिम् ॥११॥ पूजयामास भूमिपः । कृत्वा तु कुशलप्रश्नं पप्रच्छागमकारणम् ॥१२॥ राजोवाच कुत आगमनं साधो ब्रूहि कि करवाणि ते। सनाथोऽहं कृतार्थोऽहं त्वदागमनकारणात् ॥१३। इति राज्ञो वच: श्रुत्वा प्रोवाच मुनिसत्तमः । अद्याश्चयं मया दृष्टं देवलोके नृपोत्तम ॥१४॥ तन्निवेदयितुं प्राप्तस्त्वत्सकाशे सुविरिमतः । पिता ते दुर्गति प्राप्तो निजकर्मविपर्ययात् ॥१५॥ स एवायं दिव्यरूपवपुर्भूत्वाऽधुनैव हि। देवदेवैः स्तुतः सम्यगप्सरोभिः समन्ततः ॥१६॥ विमानवरमारुह्य मणिद्वीपं गतोऽभवत्। देवीभागवतस्यास्य श्रवणोत्थफलेन च ॥१७॥। अम्बामखफलेनापि पिता ते सुगति गतः । धन्योऽसि कृतकृत्योऽसि जीवितं सफलं तव ॥१८। नरकादुद्धृतस्तातस्त्वया तु कुलभूषण। देवलोके स्फीतकीर्तिस्तवाद्य विपुलाऽभवत् ॥१९॥ सूत उवाच नारदोक्तं समाकर्ण्य प्रेमगद्गदितान्तरः । पपात पादाम्बुजयोर्व्यासस्यान्द्गुतकर्मणः ॥२०॥ तवानुग्रहतो देव कृतार्थोऽहं महामुने। कि मया प्रतिकर्तव्यं नमस्कारादृते तव ।।२१। अनुग्राह्यः सदैवाहमेवमेव त्वया मुने। इति राज्ञो वचः श्रुत्वाप्याशीभिरभिनंद्य च ।।२२। उवाच वचनं इलक्ष्णं भगवान्वादरायणः । राजन्सवं परित्यज्य भज देवीपदाग्बुजम् ॥२३॥ देवीभागवतं चंव पठ नित्यं समाहितः । अंबामखं सदा भक्त्या कुरु नित्यमतंद्रितः ॥२४॥ अनायासेन तेन त्वं मोक्ष्यसे भवबन्धनात् । सन्त्यन्यानि पुराणानि हरिरुद्रमुखानि व ॥२५॥ देवीभागवतस्यास्य कलां नाहृति षोडशीम् । सारमेतत्पुराणानां वेदानां चैव सर्वशः ॥२६॥ मूलप्रकृतिरेवैषा यत्र तु प्रतिपाद्यते। समं तेन पुराणं स्यात्कथमन्यन्नृपोत्तम ।२७॥ पाठे वेदसमं पुण्यं यस्य स्याज्जनमेजय। पठितव्यं प्रयत्नेन तदेव विबुधोत्तमैः ॥२८॥ इत्युवत्वा नृपवर्यं तं जगाम मुनिराट् ततः । जग्मुश्चैंव यथास्थानं धौम्यादिमुनयोऽमलाः ॥२९॥ देवीभागवतस्यैव प्रशंसां चत्रुरुत्तमाम्। राजा शशास धरणों ततः सन्तुष्टमानसः ॥ देवीभागवतं चंव पठञ्छृण्वन्निरन्तरम्॥३०॥ इवि श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे त्रयोदशोऽध्यायः ॥१३॥
Page 825
श्रीमद्देवीभागवते महापुराणे द्वादशस्क्न्धे अध्याय: १४ अथ चतुर्दशोऽध्यायः सूत उवाच अर्धश्कोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम्। श्रीमद्भागवतं नाम वेदसिद्धांतबोधकम्॥१॥ उपदिष्टं विष्णवे यद्वटपत्रनिवासिने। शतकोटिप्रविस्तीणं तत्कृतं ब्रह्मणा पुरा ॥२॥ तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे। अष्टादशसहस्त्रं तु द्वादशस्कंधसंयुतम् ॥३॥ देवीभागवतं नाम पुराणं ग्रथितं पुरा। अद्यापि देवलोके तद्वहुविस्तीर्णमस्ति हि ।।४।। नानेन सदृशं पुण्यं पवित्रं पापनाशनम्। पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ।।५।। पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः । व्यासबुद्धया तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥६।। लिखित्वा निजहस्तेन लेखकेनाथवा मुने। प्रोष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।७॥ दद्यात्पोराणिकायाथ दक्षिणां चपयस्विनीम्। सालंकृतां सवत्सां च कपिलां हेममालिनीम् ॥।८॥ भोजयेद्ब्राह्मणानंतेऽप्यध्यायपरिसंमितान् । सुवासिनीस्तावतीश्र कुमारीर्बटुकैः सह ॥९॥ देवीबुद्धया पूजयेत्तान्वसनाभरणादिभिः । पायसान्नवरेणापि गंधस्रककुसुमादिभिः ॥१०॥ पुराणदानेनतेन भूदानस्य फलं लभेद। इह लोके सुखी भूत्वाऽप्यंते देवीपुरं व्रजेद ॥११॥ नित्यं यः शृणुयाद्दक्त्या देवीभागवतं परम्। न तस्य दुर्लभं किचित्कदाचित्क्वचिदस्ति हि १२॥ अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात। विद्यार्थी प्राप्नुयाद्विद्यां कीतिमंडितभूतलः॥१३॥ वंध्या वा काकवंध्या वा मृतवंध्या च यांगना। श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥१४। यद्गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति। तद्गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥१५॥ नेक्षंते तत्र वेतालडाकिनीराक्षसादयः। ज्वरितं तु नरं स्पृष्टवा पठेदेतत्समाहितः ॥१६॥ मंडलान्नाशमाप्नोति ज्वरो दाहसमन्वितः । शतावृत्त्याऽस्य पठनात्क्षयरोगो विनश्यति ॥१७॥ प्रतिसंध्यं पठेद्यस्तु संध्यां कृत्वा समाहितः । एककमस्य चाध्यायं स नरो ज्ञानवान्भवेव् ॥१८॥ शकुनांश्चव वीक्षेत कार्याकार्येषु चैव हि। तत्प्रकारः पुरस्ताततुकथितोऽस्ति मया मुने ॥१९॥ नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः । तस्यांबिका तु संतुष्टा ददतीच्छाधिकं फलम् २०॥ वैष्णवैश्चैय शैवैश् रमोमा प्रीयते सदा। सौरैश्र गाणपत्यैश्र स्वेष्टशक्त्ेश्र तुष्टये।।२१।। पठितव्यं प्रयत्नेन नवरात्रचतुष्टये। वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥२२॥ पठितव्यं प्रत्यनेन विरोधो नात्र कस्यचित्। उपासना तु सर्वेषां शक्तियुक्ताऽस्ति सर्वदा ॥२३। तच्छक्तेरेव तोषाथं पठितव्यं सदा द्विजैः । स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥२४॥ शृणुयाद्द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः। कि पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥२५॥
Page 826
M. u. M.
=२६ श्रीमद्देवीभागवते महापुराणे द्वादशस्कन्धे अध्याय: १४
वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः । वेदपाठसमं पाठे श्रवणे च तर्थव हि ॥२६। सच्चिदानंदरूपां तां गायत्रीप्रतिपादिताम्। नमामि हरींमतीं देवीं धियो यो नः प्रचोदयाद । इति सूतवच: श्रुत्वा नैमिषीयास्तपोधनाः। पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥२८॥ प्रसन्नहृदयाः सर्वे देवीपादांबुजार्चकाः। निर्वृति परमां प्राप्ताः पुराणस्य प्रभावतः ॥२९॥ नमश्चक्रः पुनः सूतं क्षमाप्य च मुहुर्महुः। संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥३०॥ इति स मुनिवराणामग्रतः श्रावयित्वा सकलनिगमगुह्यं दौर्गमेतत्पुराणम्। नतमथ मुनिसंघं वर्द्धयित्वाऽडशिषाम्बाचरणकमलभृङ्गो निर्जगामाथ सूतः॥३१॥ इति श्री देवीभागवते महापुराणेऽष्टादशसाइस्रयां संहितायां द्वादशस्कन्धे चतुर्दशोध्यायः ॥ १४ ॥
रामषण्नंद(९६३ )संख्यातः पद्यैर्व्यासकृतैः शुभैः ।
देवीभागवतस्यास्य द्वादशस्कंध ईरितः ॥ १॥
गोण्डामण्डलान्तर्गतसिसईग्रामनिवासिना पाण्डेयोपाख्येन पं० रामदत्तसूनुना साहित्यशास्त्रिणा पं० रामतेजपाण्डेयेन सम्पादितम्।
श्रीजगदम्बार्पणमस्तु
सम्वत् २०२६
समाप्तोऽयं ग्रन्थः