1. Dhara Vidya Prakasika Parama Sivendra Sarasvati Chandrasekhara Sastri Bala Manorama Press
Page 1
Paramašivendra Sarasvati Dahara vidya prakasika UNIVERSITY OF TORONTO 3 1761 00665619 3
B 132 V3P37 191S
Page 3
ri Balamanorama Series. No. 5
।। श्रीः॥।
DAHARAVIDYAPRAKASIKA
of Paramaśivendra Sarasvati
।। दहरविद्याप्रकाशिका॥
परमशिवेन्द्रसरस्वतीप्रणीता।
PRINTED AND PUBLISHED BY
THE SRI BALAMANORAMA PRESS,
MYLAPORE, MADRAS.
ice ] 1937 [ As. 8
Page 5
SRI BALAMAXORAMA SERIES No. 5.
Dabara Vidya
Prakasika
OF
PARAMASIVENDRA
SARASWATI
दहरविद्यापकाशिका. SANSKR
परमशित्ेन्द्रमरस्वनीप्रणीता। A1RA FXMCHO V RAN-S
BDITED AXD PUBLISHED
S. CHANDRASEKHARA SASTRIGAL, Triplicome. Madras.
BRINTED AT THE SRI 'DALAMANORAMA PRESS.' Triplicanc, Madras.
Pricc annes Sonly.j 1915 Postage Evtre.
Page 6
B
V3P37 .
1915
Registered according to dct XXV of 1867. ALL RIGHTS RESERVED BY THE PUBLISHER.
922037
Page 7
उपोद्वात: ।
इह खलु धर्मारथकाममोक्षास्यच् तुषिधपुरुषाधेंषु मोक्षमेव परमपुरुषार्थमास्थिपत न्यायवेदान्तनिष्णाताः । तत्कारणं चा- मर्नन्त स्वश्वरूपसाक्षात्कारम । बहुकृत्वः कृतेऽपि श्रत्रणे सनने उपासने च दिस्मोहादी तत्त्वसाक्षात्कारमन्तरा ना- न्तिनिवृत्तेरदर्शनान। अन एव श्तयः तत्साधनीनि बहु- विधान्युपासनोनि उभ्नावचानि च कर्माण्युंद्वोषयन्ति / दूप- दिदेश च भगवान तन्वसाक्षात्कारं तत्साधनानि च भगव- द्रीतायाम, उद्धवसंवादे च श्रीमद्धागवते। अत एव प्रामा- णिका निश्श्रयेसहेतुं तत्वसाक्षात्कारं मन्यमाना अपि तदन्त- रङ्गसाधनानि उपासनानि कर्माणि च तत्तदधिकार्यानुगुण्येन आम्नायप्रतिरपोदितानिः सर्वजनीनतामानिन्युः । तदेतद्ालक्ष््य घोरतमभवमयाशीविषानलज्वालावळीभि: संतप्यमानेस्य प्रा- णिजातम्य अनुजिघक्षाविजम्भितकटाक्षक्षेपमात्रेण दरोत्सारि-
वल्ी-आत्मविद्याविलासाद्यनिम नोहरनांनाग्रन्थप्रणेतृणां वि- शंषतः प्रकटितानेकविधसिद्धिप्रभावानां 'शान्तो दान्त' इत्या- दिसर्वशाम्त्र प्रसिद्धब्रह्म निष्ठलक्षणसंपन्नानां यत्संदर्शनमात्रिण क- रच्छेदनेन अपकुर्वनोपि पापिष्ठम्य पुळिन्दस्य ब्रह्मस्वरूपमा- विरभून इत्युद्धोष आरोहत्यद्यापि श्रवणपढवीं, किं बहुना,
Page 8
[२] आसेवन्तेऽय्यापि यदुषिताः भूमी: तत्तदभीष्रसिद्धये विद्वजना:
आचार्याः आत्मतत्वज्ञानान्तरङ्गसाधनेषु उपनिषत्सु मूर्धा- भिषिक्तां ताण्डिश्रुतिषु बहुधा प्रपश्चितां मोक्षमार्गिक प्रवणानां अत्यम्तामोदकरीं प्रपथ्चयामासुर्दहरविद्याम्। यां च विद्यामा- चार्यभगवद्वादरायणोऽपि सूतसंहितायामिन्द्रबृहस्पत्तिसंवादे प- खषाध्यायैः, शारीरकमीमांसायां बहुभिः सूत्रैर्महता प्रब- न्धेन प्राचीकशत्, यत्र च भगवान् भाष्यकारोऽपि दहराधि- करणे महान्तं कोलाहलं चकार। ईदश्या दहरविद्याथा निगूढं सारभूत तत्वं लोकानुजिघक्षया प्रकाशयतुं श्रीमत्प- रमहंसपरिव्राजकसदाशिवब्रह्मेन्द्राणामाचार्याः परमहंसपरि- व्राजकाचार्यश्रीमत्परमशिवेन्द्रसरस्वतीनामानः इमां दहरवि- द्याप्रकाशिकाख्यां कृतिं सकलश्रुतिस्मृतीतिहासपुराणादिप्रमा- णोपन्यासपूर्वरकं अतिगहनविततभाष्यादिगभीरिम्णो विभ्य्ता मन्दधियामपि यथा सुखावबोधः स्यान् तथा सरळसरळया सरण्या हृदयंगमया तत्तादृश्या वाग्वैखर्या अतिदुरूहान विषयान सर्वजनसुलभांश्रक्रः । ग्रन्थान्ते च कतिपयैः श्रोकै; दहरविद्यासर्वस्वभूतैः सर्वाश्च विषयान् संचिक्षेपुः । ताहश- मिदं ग्रन्थरन्नं कुतूहलिभिरस्माभिः मुद्रणं विधाय प्राकाशयं प्रापितम्। तत्तत्रत्यगुणान्विमृशन्तु सन्न इत्याशास्ते। पण्डितविधेयः शं. चन्द्रशेखरशास्त्री.
Page 9
॥ श्रीः ॥!
दहरविद्याप्रकाशिका।।
नत्वा गणेश्वरं स्कन्द साम्बं सद्गुरुमेव च। दहगख्यपरेशानध्यानरीति: प्रकाउयते।। अत्र, श्रुतिस्मृतीतिहासपुराणागभेषु परमेधरविपयपूजा- नमस्कारस्तुय्याद्यपेक्षया तद्जाने आदगे दृशयते। तथा हि। अध- ्वशिखायां-'शिव एको व्येयश्शिवङ्करस्सर्वमन्यन् परित्यञ्य समाप्ताथर्वशिखा' इति। कठवह्लीप्वपि-
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवरैष वृणुते तेन लभ्य- ्तम्यैप आत्मा वृणुते तनं स्वाम ॥' इति ।
'अथ ध्यानं प्रवक्ष्यामि शृणु गागि वरानने।
Page 10
दहरविद्याप्रकाशिका।
ध्यानमेव हि सर्वेषां कारणं बन्धमोक्षणे।। ध्यानमात्मस्वरूपम्य वेदनं मनसा खलु। सगुणं निर्गुणं चैव सगुणं बहुधा स्मृतम् ॥' इति। 'योगी यु्जीत सततमात्मानं रहि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ शुचौ देशे प्रतिष्ठाष्य स्थिरमासनमात्मनः । नात्युच्छिितं नातिनीचं चेलाजिनकुशोत्तरम् ।।' इति प्रस्तुत्य, 'यु ञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ।' इति भगवद्गीतायाम। सूतसंहितायां यज्ञवैभवखण्डे- 'अथ मोक्षार्थिभिः प्राज्ञैः शिव एकश्शिवकरः । पयेयस्सर्व परित्यज्य शिवादन्यत्तु दैवतम। अम्मिन्नर्थे श्रुतिस्साध्वी समाप्रा वेदवित्तमाः ॥' इति । तत्रैव -- 'सोपानक्रमतो देवा नृगां संसारमोचकाः। रुद्रम्संसारमम्नानां साक्षात् संसारमोचक: ।। अतम्सर्व परित्यज्य शिवादन्यत्त देवतम। शिव एव सदा ध्येयम्साक्षान संसारमोचक: ।।
Page 11
दहरविद्याप्रकाशिका। ३
वृक्षस्य मूलसेकेन शाखाः पुष्पन्ति वै यथा। शिवध्यानेन देवाश्च तथा तृप्ता भवन्ति हि॥ इति। तत्रैव एकत्रिंशाध्याये- 'नृत्यमानस्य वेवस्य ध्यानं यत्तु द्विजोत्तमाः देवदेवम्य विश्रेन्द्रा महाप्रीतिकरं सदा।। साम्वमूर्निधरस्यास्य शिवस्य ध्यानमास्तिकाः । देवदेवम्य विप्रेन्द्रा महाप्रीतिकरं सदा ॥ इति । तत्रैव द्विचत्वारिंशाध्याये- 'श्रुत्याचार्यप्रसादेन सर्व ब्रह्मेति भावयन। मुच्यने पातकैस्सवैंघटिकामात्रतो नरः । दिनार्ध मकलं ब्रह्म भावयन गुरुपूर्वकम। बुद्धिपूर्वकतैस्सर्वैः पातकैमुच्यते नरः ॥ विग्रहं परतत्त्वम्य त्रिणेत्रं साम्बमद्भतम। मुहूर्त चिन्तयन् मत्यों मुच्यते सर्व्पातकैः ॥ स्वस्य रूपानुसन्धानान्नृत्यन्तं सर्वकारणम । मुहूत चिन्तयन् मत्यों मुच्यते मर्वरपातकैः ॥ नृत्यमानं महादेवं साम्यमूर्तिधरं तुवा। दिनार्ध चिन्तयन पापान् प्रसिद्धान्मुच्यतेऽखिलान्॥ त्रिमूर्तीनां तु रुद्रस्य विग्रहं चिन्तयन दिनम । महापानकसङ्घैश्च मुच्यते पातकान्तरैः ॥
Page 12
2 दहरविद्याप्रकािका ।
दिनत्रयममध्यायन रुद्रमूर्तिसतन्द्रितः । मुच्यने पानकैम्स्वैंः प्रसिद्धेनात्र संशयः ॥ विष्णोश्च विग्रहं ध्यायन मत्यशशुद्धो दिनत्रयम । महापातकमङ्वेश्र मुच्यते पातकान्तरैः ॥ मप्रगत्रं महाविष्णोविग्रहं चिन्तयन नरः । मुच्यत पातकैम्सवैः प्रसिद्वैनात्र संशयः ॥'इति। अन्यतापि- 'अताडयं स शिवो ध्येयः प्राधान्येन शिवङ्करः । सवमन्यन परित्यज्य देवतं परमेश्वरात ।। शिन्ना चाथर्वणी साध्वी सर्ववेदोत्तमोत्तमा । अम्मिन्नर्थे समाप्ता सा श्रतयश्र परा अपि ॥ ध्यानम्यावश्यकतत्र्यता पुगणान्तरडयुक्ता- एकम्मित्नप्यतिकान्ते मुहूर्ने ध्यानवर्जिते। दस्युत्तिमुपितनेव युक्तमाकन्दितुं भृगाम ।।' इत। कामें- 6ध्याननिष्ठम्य सततं नश्यते सर्वपातकम्। तम्मान्महेश्वरं ज्ञात्वा तद्धयानपरमो भवेत ॥' इति। अन्यत्रापि- 'आरुमुक्षुम्तु मगुणं पूजयेन परमं शिवम। पिनाकिनं त्रिणयनं जटालं कृत्तिवाससम् ॥
Page 13
दहरविद्याप्रकाशिका ।
पद्मासनस्थं रुक्मामं चिन्तयेद्वैदिकी श्रुतिः । एष योगम्ससुहिष्टम्स वीजो मुनिपुङ्गवाः ॥' इति । वायवीयसंहितायाम- 'तस्मान् सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम । मह भूतन्द्रियैम्स्वैंः प्रथमं संप्नसूयते ॥ कारणानां च यो धाता ध्याता परमकारणम। न संनसूयतेऽन्यस्मान कुतश्चन कदाचन ।। सवैंश्वर्येण संपन्नो नाम्नां सर्वेश्वरः स्वयम । मर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥'इति। नत्रव- 'प्रमादमाधनं धमेस्स तु वेदेन दर्शितः। नदश्यासवशात्माम्यः पूर्वयो: पुण्बपापयोः॥ साम्यात्प्रमादसंपर्कान धर्मस्यातिशयस्ततः । धमस्यातिअयात्सयः पशोः पापपरिक्षयः ॥ एवं प्रक्षीणपापस्य बहुजन्मपरिष्कृता। साम्वे. सर्वेश्वरे भक्ति: ज्ञानपूर्व प्रजायते॥। भावानुगुणमीशस्य प्रमादोऽप्यतिरिकयते। प्रसादात्कमेसंत्याग: फलतो न स्वरूपतः ॥ तम्मात्कर्मफलत्यागात् शिवधर्मान्त्रयः शुभः । स च गुर्वनपेक्षश्र तदपेक्ष इति द्विधा॥
Page 14
६ दहरविद्याप्रकाशिका।
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः । शिवधर्मान्घयस्यास्य शिवज्ञानसमन्वयः ॥ ज्ञानान्वयवशान् पुंसः संसारे दोषदर्शनम्। ततो विषयवैराग्यम् वैराग्यात् भावशोधनम् ॥ भावशुद्धि प्रपन्नस्य ध्याने निष्ठा न कर्मणि। ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते। योगेन तु परा भक्ति: प्रसादस्तदनन्तरम् । प्रसादान्मुच्यते जन्तुर्मुक्तश्शिवसमो भवेत् ॥' इति। तत्रैव- 'ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः । तस्मादस्य प्रसादार्थ वाङ्मनोदोषवर्जिताः । ध्यायन्तश्शिवमेवैक स्वदारतनयान्वयाः ॥' इति। तत्रैव उत्तरभागे- ब्रह्मक्षत्रविशां देवि यतीनां त्रह्मचारिणाम् । तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि॥ शूद्राणामथ नारीणां धर्म एष सनातनः । ध्येयस्त्वयाहं देवेशि सदा जप्यं षडक्षरम् ॥' इति। तत्रैव- 'जपयज्ञरतो मर्त्यस्तद्वैशिष्टयवशादिह। ध्यानयज्ञरतो भूत्वा जायते भुवि मानंवः ।।
Page 15
दहरविद्याप्रकाशिका। ७
ज्ञानं लब्धवाSचिरादेव शिवसायुज्यमाप्नुयात् ।।' इति। 'तस्मान् पश्चसु यज्ञेषु ध्यानयज्ञरतो भवेत्। ध्यानं ज्ञानं च यम्यास्ति तीर्णस्तेन भवार्णवः ।।' इति च। तत्रैव- 'तम्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः । धयै चिन्तायां स्मृनो धातुः शिवचिन्ता मुहुर्मुह्दः ॥ अव्याक्षिप्रेन मनसा ध्यानं नाम तदुच्यते। ध्येयावस्थितचित्तम्य सदशः प्रत्ययस्य यः ॥ प्रत्ययान्तरनिर्मुक्त: प्रवाहो ध्यानभुच्यते। सर्वमन्यन् परित्यज्य शिव एकश्शिवंकरः ॥ परो ध्येयश्शिवेशेति समाप्ताथर्वणी श्रुतिः । सर्वप्रभू शिवौ तस्मात् सर्वगौ सर्वदोदितौ। सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः । विमुक्ते: प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकः ॥ इत्येतद्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम्। ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् ॥ एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित्। ज्ञानवैराग्यसंपन्नश्श्रद्दधानः क्षमान्वितः । निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः । जपाच्छान्तः पुनर्ध्यायेत् ध्यानाच्छ्रान्तः पुनर्जपेत् ।
Page 16
८ दहरविद्याप्रकाशिका।
जपध्यानाभियुक्तस्य क्षिप्रं योग: त्रसिद्धयति। धारणा द्वादशायामा ध्यानं द्वादशधारणम ॥ ध्यानद्वादशकं यावत् समाधिरिति गीयते। समाधिर्नाम योगाङ्गमष्टमं परिकीर्त्यते॥ समाधिना च सर्वत्र प्रज्ञालोक: प्रवर्तते। यदर्थमात्रनिर्भासं म्तिमितोद्घिवन स्थितम । स्वरूपशून्यवद्धयानं तन समाधिविधीयते। ध्येये मनम्समावेश्य तिष्ठेदविचलशषिरम॥ निर्वातदीपवद्योगी समाधिस्थ: प्रगीयते। न शृणोति न चाव्राति न रंस्यति न पश्यति ॥ न च स्पर्श विजानाति न सङ्कल्पयते मनः । न चाभिमन्यते किश्चिन्न च वुध्येत काछ्ठवन। एवं शिवे विलीनात्मा समाविस्थ इहोच्यते। यथा दीपो निवातम्यः म्पन्दते न कथश्चन ।। तथा समाधिनिष्ठोऽपि तम्मान्न विचलेन सुपी:। एवमप्यस्द तम्याङ्गं योगिनो योगमुत्तमम् ॥ तदन्तराया नश्यन्ति विन्नाः सर्वे शनैश्शनैः । आलस्यं व्याधयस्तीत्रं प्रमादस्थानसंशयाः ॥ अनवस्थितचित्तत्वं अश्रद्धा ध्रान्तिदर्शनम। दुःखानि दौर्मनम्यं च विपयेपु च लोलता ॥
Page 17
दहरविद्याप्रकाशिका।
दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः। आलस्यमलसत्वं तु योगिनां देहचेतसाम् ॥ धातुवैषम्यजा दोपा व्याधयः कर्मयोगतः । प्रमादो नाम योगस्य साधनानामभावता।। इदन्नेत्युभयालम्वी ज्ञानं तन् स्थानसंशयः । अप्रतिष्ठा हि मनसम्त्वनवस्थितिरुच्यते।। अश्रद्धा भावरहिता निवृत्तिर्योगवर्त्मनि। विपर्यस्ता मतिर्या सा भ्रान्तिरित्यभिधीयते। दुःखमज्ञानजं पुंसां चेतस्याध्यात्मिकं विदु: ॥ आधिभौतिकमङ्गोत्थं स्वतो दुःखं पुरा कृतैः ।
इच्छाविघातजं दोपं दौर्मनस्यं प्रचक्षते। विपयेपु विचित्रेपु विभ्रमस्त्वत्र लोलता॥ एतेप्वेतेपु चिह्नेपु योगासक्तस्य योगिनः । उपसर्गाः प्रवर्तन्ते दिव्यास्ते सिद्धिसूचकाः ॥ प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः । उपसर्गाच्पडित्येते तदा योगस्य सिद्धयः ॥ सूक्ष्मे व्यवहितेऽर्ये च विप्रकृष्ठे त्वनागते। प्रतिभा कथ्यते यार्थे प्रतिभा सा यथातथम ॥ श्रवणं सर्वशद्दानां श्रवणं त्वप्रयत्नतः । 2
Page 18
१० दहरविद्याप्रकाशिका।
वार्ता वार्तासु विज्ञानं सर्वेषामेव देहिनाम्। दर्शनं नाम दिव्यानां दर्शनं त्वप्रयत्नतः । तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते॥ स्पर्शनाधिगमस्त्वद्वद्वेदना नाम विश्रुता। सुगन्धानां च दिव्यानामाब्रह्मभुवनावधि॥ उपतिष्ठन्ति रन्नानि यानानि च बहूनि च। स्वच्छन्दं मधुरा वाणी विविधास्य प्रवर्तते॥ रसायनानि सर्वाणि दिव्याश्र्ौषधयस्तथा। सिध्यन्ति प्रणिपत्यैनं नयन्ति सुरयोषितः ॥ योगसिद्धधेकदेशेऽपि दष्टे मोक्षे भवेन्मतिः । हृष्ट्रमेतन्मया यद्रत्तद्वन्मोक्षो भवेदिति ।।" तत्रैव- "ध्याता ध्यानं तथा ध्येयं यञ्च ध्यानप्रयोजनम । एतञ्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेन । ज्ञानवैराग्यसंपन्नो नित्यमुद्युक्तमानसः । श्रद्दधानः प्रसन्नात्मा ध्याता सद्धिरुदाहृतः.। यै चिन्तायां स्मृतो धातुः शिवचिन्ता मुहुर्मुह्ुः। अव्याक्षिप्तेन मनसा ध्यानमित्यभिधीयते ।। बुद्धिप्रवाहरूपस्य ध्यानम्यास्यावलम्बनम् । धयेयमित्युच्यते सद्धिस्तच्न साम्बम्स्वयं शिवः ।।
Page 19
दहरविद्याप्रकाशिका । ११
विमुत्तिप्रत्ययः पूर्व चैश्वर्यश्र्ाणिमादिकम । शिवध्यानस्य तस्यास्य साक्षान्मुक्ति: प्रयोजनम ॥ यम्मान सौख्यं च मोक्षं च ध्यानादुभयमाप्नुयान । तम्मान सर्व परित्यञ्य ध्याननिष्ठो भवेन्नरः ॥ नाम्ति ध्यानं विना ज्ञानं ना्ति ध्यानमयोगिनः । ज्ञानं ध्यानं च यम्यास्ति तीर्णस्तेन भवार्णवः ।। ज्ञानं प्रसन्नमेकाग्रमशेषोपाधिवर्जितम। योगाभ्यासेन युक्तम्य योगिनम्त्वेव सिध्यनि॥ प्रक्षीणाशेषपापानां ज्ञाने ध्याने भवेन्मतिः । पापोपहतबुद्धीनां तद्वार्तापि सुदुर्लभा॥ यथा वह्िर्महादीपशशुष्कमार्द्र च निर्दहेन। तथा शुभाशुभं कर्म ध्यानाग्निर्दहृति क्षणान्। अत्यल्पोऽपि यथा दीपस्सुमहन्नाशयेत्तमः । योगाभ्यासस्तथाल्पोऽपि महन् पापं विनाशयेन् ।। ध्यायतः क्षणमात्रं वा श्रद्धया परमेश्वरम्। भवेद्यन सुमहच्छेयस्तस्यानतो नैव विद्यते॥ नास्ति ध्यानसमं तथे नास्ति ध्यानसमं तपः । नास्ति ध्यानस,मी यज्ञस्तस्माद्यानं समाचरेन्।।" इति। पराशरोपपुरणे- "महादेवस्य साम्बम्य शेषत्वेनैव केवलम।
Page 20
१२ दहरविद्याप्रकाशिका।
देवतास्सकला ध्येयास्सुविज्ञेया मनीषिभिः ॥ सर्वमेतत् परित्यन्य शिव एव शिवङ्करः। ध्येय इत्याह परमा श्रुतिराथर्वणी खलु। अथ किं बहुनोक्तेन शिवस्साम्तस्सनातनः। साक्षान्निष्ठा हि शास्त्राणां नापरस्सत्यमीरितम ।। तदन्यत् सकलं विश्वं स हि विश्वाधिकः शिवः। स एव जगतान्नाथस्स तु संसारमोचकः ॥" इति तत्रैव- "ब्राह्मे मुहूर्त उत्थाय शिवं साम्वं त्रिलोचनम्। ध्यात्वा समाहितो भूत्वा धर्ममर्थ च चिन्तयेत्।।"इति। अत्रैव सप्तदशे- "साक्षात परतरस्यैव वस्तुनस्सर्वसाक्षिगः । अस्ति मूर्तिः परा शुद्धा स्वतन्त्रा पापनाशिनी ॥ तस्यासाधारणा मूर्तिस्साम्बा चन्द्रार्धशेखरा। नीलग्रीवा विरूपाक्षा ध्येया ब्रह्मादिभिः परैः॥" इति सौरसाहतायाम्- "सर्वैश्चर्येण संपन्नं सर्वेशं च स्वभावतः । तद्विज्ञानाभिवृद्धय्यर्थ तदेव ध्येयमास्तिकैः ॥" इति ईश्वरध्यानादिनिष्ठं प्रति ईश्वरः अनुगृह्नातीति योगशा- स्त्रकारैरप्युक्तम। 'ईश्वरप्रणिधानाद्वा' अस्य सूत्रस्येदं वैया-
Page 21
दहरविद्याप्रकािका। १३
मिकं भाष्यम- प्रणिधानान् अक्तिविशेषादावर्जित ईश्वरस्तमनुगृहाति। अभिध्यानमात्रेण तदभिध्यानादृपि योगिनः आसन्नतर- म्समाधिलाभः समाधिफलं चेति। एतस्य भाध्यस्य व्यारुयानं तत्वशदिप्रणिधानात भक्तिविशेपान् मानसाद्वाचिकात्का- यिकाद्वा, आवर्जिताऽभिमुखीकृतस्तमनुगृहवाति। अभिध्यानमा- त्रण अभिध्यानमनागतेऽर्थे इच्छा। इदमस्याभिसतमस्त्वति त- न्मात्रेण न व्यापागन्तरेणेति। हृदयपुण्डरीके परमेश्वरध्यानं कर्तव्यमिति आदौ पुराणवचनानि लिख्यन्ते। सूतसंहितायां शिवमाहात्म्यखण्डे द्वितीयाध्याये- 'पुनस्साक्षाच्छिवज्ञानसिद्धयर्थ मुनिपुङ्गवाः । अग्निहोत्रसमुत्पन्नं भम्मादायादरेण तु॥ निधाय पात्रे शुद्धे तन पादौ प्रक्षाल्य वारिणा। द्विराचम्य मुनिश्रेष्ठास्सपवित्राः समाहिताः ॥ ओमापस्सर्वसित्येतन्मन्त्रमुच्चार्य भक्तितः । ध्यात्वा विष्णुं जलाध्यक्षं गृहीत्वा भर्मवारिणा॥
समाहितधियशशुद्धाश्शिवं ध्यात्वा शिवामपि ॥ समुड्ूल्य मुनिश्रेष्ठा आपादतलमस्तकम । सितेन भस्मना तेन ब्रह्मभूतेन भावनान् ॥
Page 22
१४ दहरविद्याप्रकाशिका।
ललाटे हदये कुक्षौ दोर्द्वन्द्वे च सुरोत्तमाः । त्रिपुण्डधारणं कृत्वा ब्रह्मविष्णुशिवात्मकम्।। एवं कृत्वा व्रतं देवाः अथर्वशिरसि स्थितम । शान्ता दान्ता विरक्ताश्च त्यक्त्वा कर्माणि सुव्रताः॥ वालाग्रमात्रं विश्रेशं जातवेदस्स्वरूपिणम। हत्पद्मकर्णिकामध्ये ध्यात्वा वेदविदां वराः । सर्वज्ञं सर्वकतारं समस्ताधारमद्ुतम । प्रणवेनैव मन्त्रेण पूजयामासुरीश्वरम ॥ अथ तेषां प्रसादार्थ पशूनां पतिरीश्वरः । उमार्धविग्रहशश्रीमान सोमार्धकृतशेखरः॥ नीलकण्ठो निराधारो निर्मलो निरुपप्रवः । ब्रह्मविष्णुमहेशानैरुपास्यः परमेश्वरः ॥ सान्निध्यमकरोदुद्रः साक्षान संसारनाशकः ।" इति ॥ वायवीयसंहितायां पूर्वभागे अष्टाविंशाध्याये- "अवतार्य स्वमात्मानममृताक्ताकृति हृदि। द्वादशान्तस्थितस्येन्दोः परस्तात् सितपङ्कजे ॥ अर्धनारीश्वरं देवमतीव मधुराकृतिम्। शुद्धस्फटिकसङ्काशं प्रसन्नं शीतळद्ुतिम्।। ध्यात्वा नामाष्टकैरेव भावपुप्पैस्समर्चयेन्।" इति ॥ तत्रैव उपरिभागे अष्टमाध्याये-
Page 23
दहरविद्याप्रकाशिका। १५
"तस्मान् सह तया शक्त्या हृदि पश्यन्ति ये शिवम्। तेषां शाश्चतिकी शान्तिर्नेतरेषामिति श्रुतिः।" इति ॥ तत्रैव नवमे- "व्रतं पाशुपतं कृत्वा ह्यथर्वशिरसि स्थितम्। भस्मसंच्छन्नसर्वाङ्गा बभूवुरमरास्तथा ॥ अथ तेषां प्रसादार्थ पशूनां पतिरीश्वरः । सगणश्चाम्बया सार्ध सान्निध्यमकरोन् प्रभु: ॥ यं विनिद्रा विनिश्चासा योगिनो वीतकल्मपाः। हृदिपश्यन्ति देवं तं दृदशुस्सुरपुङ्गवाः ॥" इति ॥ कौर्मे उपरिभागे एकोनचत्वारिंशाध्याये- "ये हि मां योगनिरता ध्यायन्ति सततं हृदि ! मद्दक्तिपरमा नित्यं यतयः क्षीणकल्मपा: ॥ नाशयाम्यचिरान तेषां घोरं संसारसागरम्।" इति ॥ सौरसंहितायां तृतीयाध्याये -- "विविक्तसेवी लध्वाशी सुखासीना जिंतेन्द्रियः । समग्रीवशिरःकायः शुिर्भस्मावकुण्ठितः ॥ त्रिपुण्ड्धारणैर्युक्तो गुरुभक्तिसप्न्वितः । हृत्पुण्डरीकमध्ये तुशिवं सत्यादिलक्षणम ।। सर्वस्य जगतस्साक्षान सृष्टिस्थित्यन्तकारणम। उमासहायं कल्याणं नीलकण्ठं त्रिलोचनम ।
Page 24
१६ दहरविद्याप्रकाशिका।
प्रशान्तं प्रभुमीशानं ध्यायेन्नित्यमतन्द्रितः । ध्यानेनैव शिवज्ञानं ज्ञानान्मुक्तिर्न कर्मणा ॥ कर्म तु ज्ञानहेतु: स्यादिति तत्वविदां स्थितिः ॥"इति- इतोऽपि परमेश्वरोपासनं कर्तव्यम् यतः ब्रह्मविष्णादिभि- रपि तदुपासनं कृनमिति वचनानि प्रदर्श्यन्ते। सूतसंहितायां मुक्तिखण्डे द्वितीयाध्याये- उमासहायो भगवात्नीलकण्ठस्त्रिलोचनः । ब्रह्मणा विष्णुना चैव रुद्रेणापि सदा हृद़ि॥ उपाम्यमानम्सर्वात्मा सर्ववस्तुविवर्जितः । कृपया केवलं विष्णुं विश्वमूर्तिर्दृषध्वजः । अनुग्रृह्यात्रवीत् विप्रा देवो मधुरया गिरा। किमर्थ तप्रवान विष्णो महाघोरं तपश्चिरम ॥ अत्यन्तं प्रीतवानग्मि तव नद्वद मेऽनघ । इति ॥ यज्ञवैभवखण्डे नवमाध्याये- उमार्धविग्रहा शुक्ला चन्द्रार्धकृतशेखरा। नीलग्रीवा त्रिणेत्रा च प्रसन्नवदना शुभा ॥ वरदाभयहस्ता च विचित्रमकुटोज्ज्वला। सर्वलक्षणसंपन्ना सर्वासरणभूपिता । म्यम्त्रूपानुमन्धानप्रमोदादेव केवलान। महाताण्डवसंयुक्ता ब्रह्मविष्णुशिवादिभिः ।
Page 25
दहरविद्याप्रकाशिका। १७
ध्येयाSSद्यन्तविंनिर्मुक्ता या मूर्तिः श्रुतिदर्शिता। सेयं प्रसन्नमूर्तिः स्यान् परान् परतरस्य सु ॥ ये सदा परमां मूर्ति ध्यायन्ति ह्ृदयाम्बुजे। इह ते परमां भुक्तिं मुक्ति च प्राप्तुवन्ति ह।।" इति। तत्रैव सप्रविंशे- "अरूपस्य शिवस्यापि मूर्तिधर्येया ह्युपासकैः । उमार्धविग्रहा शुद्धा त्रिणेत्रा चन्द्रशेखरा ॥ नीलग्रीवा परानन्दा प्रमोदात्ताण्डवपप्रिया। त्रह्मविष्णुमहादेवैः उपास्या गुणमूर्तिभिः॥ सर्वमूर्तिविहीनस्य सर्वभूताधिपस्य तु। तथाप्येषा परा मूर्तिरित्येषा शाश्चती श्रुतिः ॥" इति। तत्रैव सूतगीतायां पश्चमाध्याये- "अतः प्रसादसिद्धयर्थ परया श्रद्धया सह। धयेयमेव परं तत्त्वं हृदयाम्भोजमध्यमे ।। त्रिमूर्तीनां तु रुद्रोऽपि शिवरं परमकारणम्। सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ त्रिमूर्तीनां च विष्णुश्च शिर्व परमकारणम्। सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ त्रिमूर्तीनां विरिश्चोऽपि शिवं परमकारणम्। सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ 3
Page 26
१८ दहरविद्याप्रकाशिका। त्रह्ाविष्णुमहेशानां त्रिमूतानीं विचक्षणाः। विभूतिरूपा देवाश्र व्यायन्ति प्रीतिसंगुत्ाः ॥ घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा। शिवाद्धदेन नैवास्ति शिव एव हि सर्वदा ॥" इति। पराशरापपुराणं प्रथमाध्याये- "वरदाभयहस्ताय त्रिणेवाय त्रिमूर्तिभिः। हदि ध्येयाय नित्याय नमः साम्बाय साक्षिणे ॥ वेदवेदान्तगम्याय वेदमार्गनिवर्तिनाम। अगम्याय सुगम्याय नमो वेदान्तवेदिनाम्।" हति। सौरसंहितायां तृतीयाध्याये- "गहेश्वरः शिवः शंभुः प्रणवम्यास्य गोचरः । अणोग्णीयान महतो महीयानम्बिकापतिः । उमापतिर्नमस्कार्य: सवैर्ध्येयो हृदम्बुजे। तथा ध्येयो हरित्रह्मप्रभुखैर्गुणमृर्तिभिः ॥" इति। वामिप्ठलैङ्गे तृतीयाध्याये- "मृर्तिरस्य मुनिश्रेष्ठ शिर्सा श्रूयते श्रुतः । उमया महिता नित्या नीलग्रीवा त्रिलोचना। म्वात्मतत्त्व्रसुग्वस्फृर्ति: मुदिता ताण्डवप्रिया । त्रह्मविष्णुमहेशानः उपास्या सर्वदा मुने॥ भोगमोक्षप्रदा पुण्या पुंसां वेदविदां वर।
Page 27
दहरविद्याप्रकाशिका। १९
सैवे मे परमा मूर्तिरुपाम्या सर्वदा तब ।।" इनि। सूतसंहितायामेव- "अथ तेषां प्रसादार्थ पशूनां पतिरीश्चरः । उमार्धविग्रहः श्रीमान सोमार्धकृतशेखरः॥ नीलकण्ठो निराधारो निर्मलो निरुपप्रवः । ब्रह्मविष्णुमहेशानैः उपास्यः परमेश्वरः ॥ सानिध्यमकरोदुद्रः साक्षान संसारनाशकः।" इति। पराशरोपपुराण एव- "उमाधविग्रहा शुक्ा चन्द्रार्धकृतशेखरा। नीलग्रीवा परानन्दा प्रमोदात्ताण्डवप्रिया॥ ब्रह्म विष्णुम हादेवैरुपास्या गुणमूर्तिभिः। सर्वमूर्तिविहीनस्य सर्वभूताधिपस्य तु॥ तथाप्येपा परा मूर्तिरित्येषा शाश्रती श्रुतिः ।" इति। "साक्षान परतरस्यैव वस्तुनः सर्वसाक्षिणः ।। अस्ति मूर्ति: परा शुद्धा स्वतन्त्रा पापनाशनी। तस्यासाधारणी मूर्तिस्साम्बा चन्द्रार्धशेखरा ।" इत्यारभ्य, "ब्रह्म विष्णुमहेशानास्तान ध्यायन्ति निरन्तरम।' इति। हृदयपुण्डरीके परमेश्वरम्याविर्भावातिशयात् भ्रमध्याद- पेक्षया तत्रैव परमश्वरोपासनं प्रशम्तमिति तदर्थ वचनानि
Page 28
दहरविद्याप्रकाशिका।
रप्रदृश्यन्ते। भगवद्गीतायाम्- "ईश्वरस्सर्वभूतानां हद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ तमेव शरणं गच्छ सर्वभावेन भारत।" इति । "गुहाहितम्" इति, "यो वेद निहितं गुहायाम्" इति, "गुहाशयं निष्कळमद्वितीयम्" इति, "आविस्सनन्नि- हितं गुहाचरम्" इत्येवमाद्याः श्रुतयः शैवे एकादशरुद्रसंहितायां जैमिनिप्रश्नानन्तरं व्यासवचनम्- "ब्रह्म यत् सच्चिदानन्दं परिपूर्ण च सर्वतः। सर्वत्र दृश्यते नैव करणागोचरत्वतः ।। दृश्यते तच्छरीरेऽस्मिन् तस्मात् ब्रह्मपुरं च तन्। तस्मिस्तु कमलाभं यद्दहरं हृदयं मुने।। तदिदं पुण्डरीकाख्यं वेश्म प्रोक्तं मया तव। तस्मिन्नवस्थितं ब्रह्म तेन वेश्मेति कीर्तितम्। तद्वेश्म वर्तते देहे तेन देहः पुराभिधः ॥ यदस्मिन वर्तते ब्रह्म पुण्डरीकाख्यवेश्मनि। वियत्समानरूपत्वादाकाशाख्यं च त्द्वेन् ।। तथैवोक्तगुणैर्युक्तं हृदये समुपासितम्। भविध्यत्यपरोक्षं ते नात्र संदेहकारणम् ।" इति । हृद्य एव परमेश्वर उपास्य इत्यत्र तत्रैव न्यायोपबृंहितमिदं
Page 29
दहरविद्याप्रकाशिका। २१
वचनम- "आत्मा तु देहे सर्वत्र वर्तमानोऽपि सुब्रत। अतीव हृदये त्वस्य प्रकाशो नेतरे तथा॥ अहंशब्दाभिधो ह्यात्मा न विवादोऽत्र कम्याचन। अहंशब्दं प्रयुञ्जंश्च लोकम्सर्वोऽपि जैमिंन।। हृदयं निर्दिशत्येव ह्यहं तत्र म्थितस्ततः । यतोऽस्य हृदये नित्यं प्रकाशोऽतीव विद्यते॥ न तथान्यत्र तस्मान्तु हृदयं हि विशिध्यते।" इनि॥ तथा च हृदयपुण्डरीके परमेश्वरोपासनं छान्दोग्यवृहदा- रण्यकतैत्तिरीयककैवल्येषु श्रुतिभिः प्रतिपादितम्। 'अथ यदिदं अस्मिन ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तम्मिन्यदन्तस्तदन्वेष्टव्यम' इति प्रस्तुत्य "अथ य इहात्मान- मनुविद्य व्रजन्त्येतांश्च सत्यान कामांस्तेषां सर्वेषु लोकेपु काम- चारो भवति" इति च उक्ता, अन्ते उपसंहृतम् 'तयोर्ध्वमाय- न्नमृतत्वमेति विध्वङ्ङन्या उत्क्रमणे भवन्ति इति षड्भिः खण्डि- काभिः, बृहदारण्यकेपि "सवा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषो अन्तर्हृदय आकाशस्तस्मिन शेते" इत्युपक्रम्य "एध सेतुर्विधरण एषां लोकानामसंभेदाय" इत्य- न्तेन ग्रन्थेन, तैत्तिरीयकेऽपि .अणोरणीयान् महतो महीयान" इत्यारभ्य, "दहरं विपाष्मं परवेश्मभूत यत्पुण्डरीकं पुरमध्य-
Page 30
२२ दहरविद्याप्रकाशिका।
संस्थम। तत्रापि दहरं गगनं विशोकस्तस्मिन यदन्तस्त- दुपासितव्यं।" इत्युपासनं विधाय, एतत्ततीयानुवाके "ऋतं सत्यं" इत्यस्मिन्नुपास्यम्वरूपं प्रतिपादितम । एवं कैवल्येडपि "विविक्तदेशे च सुखासनस्थम' इत्यारभ्य "हृत्पुण्डरीक विरजं विशुद्धं विचिन्त्य" इति हृदयपुण्डरीकमुपासना- स्थानं च प्रस्तुत्य "विशदम विशोकम्" इत्यादिना "नी- लकण्ठं प्रशान्तम् " इत्यन्तेन ग्रन्थेन उपास्यस्वरूपमप्युक्त्वा, "ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तान" इत्यन्तेन ग्रन्थेन फलमप्युक्तम। श्रुतेरर्थ इतिहासपुराणाभ्यां विवेचनीयः । सूतसंहितायाम- "यशचतुर्वेदविद्विप्रः पुराणं वेत्ति नार्थतः । तं हष्ट्रा भयमाप्नोति वेदो मां प्रतरिष्यति ॥ इतिहासपुराणाभ्यां वंदं समुपबृहयेन ।" इनि चोक्तम् । "यो विद्याच्चतुरो वेदान् साङ्गोपनिषदो द्विजः । न चेन पुराणं संविदयान नैव स स्याद्विचक्षणः ।। इतिहासपुराणाभ्यां वेदं समुपबृंहयेन। विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।" इति वाय- वीयसंहितायाम। अत्र उदाहृत उपनिषच्चतुष्टयेऽपि समु-
Page 31
दहरविद्याप्रकाशिका। २३
किचत्येव दहरोपासनं कर्नव्यमिति। एकादशरूदसंहितायां जमि- निं ग्रति व्यासवचनम्- "्द् यन सच्चिदानन्दं परिपूर्ण च सर्वतः। सवत्र टश्यने नैव कारणागोचरत्वतः । दश्यत तक्छरीरेडम्मिन तम्मात् ब्झ्मपुरं च तन। तन्गिम्तु कमलाभं यन दहरं हृदयं भुने।। तढिदं पुण्डरीकास्व्यं वेडम प्रोक्तं मया तब। तम्मिन्नवस्थितं ब्रह्म तेन वेउमेनि कीतितम। तद्वेश्म वर्नते देहे तेन देहः पुगभिधः। यदन्मिन वर्तते ब्रह्म पुण्डरीकाग्व्यवेडमनि।!
तथैवोक्तगुणैर्युक्तं हृदये समुपासितम ।। भविष्यत्यपरोक्षं ने नात्र सन्देहकारणम ।" इति "वदन्त्यत्यादरेणव मुने कैवल्यशाखित्रिनः । न्वराडाख्यस्य वेवम्य हृदयाम्भोजमध्यमे ॥। उमासहायो भगवान नीलकण्ठस्त्िलोचनः । यः प्रभुर्नृन्यते नित्यं परमानन्दचिद्रनः ।। तं हष्ट्रा मनुजस्सयो विमुक्तो भवतीति हि॥ यः सर्वासां देवतानां च हेतु- र्यों वै विष्णोशचाधिको वै महर्षिः ।
Page 32
२४ दहरविद्याप्रकाशिका।
ब्रह्माणं यः पश्यति जायमानं नित्यं सोडस्मान सम्मदौ संयुनक्ु।। दहरं विपाप्मं परमेश्वरस्य यद्वेशमभूत कमलं पुरस्थम्। तत्रापि दहरं गगनं तुशुभ्रं तदेव नित्यं सकलैरुपास्यम ।। वेदम्यान्ते वेदमध्ये तदादौ योऽसौ रुद्रो बोध्यते सर्वयन्रान। मोडयं देवस्तत्र चोपास्य उक्तो रुद्रस्साक्षान् सच्चिदानन्दरूपः ।। याजुर्षेदयं वाक्यमेतत्तथान्यन् यच्चेहक स्यादत्र शाख्ान्तरे वा। आलोच्यैतन सर्वमेतन त्वया वै व्याख्येयं स्यादस्मदुक्तानुसारात् ।।" इति। अम्मिन्नध्याये "ब्रह्म यन् सच्चिदानन्दम" इत्यार- भ्य "नात्र सन्देहकारणम्" इत्यन्तेन छन्दोगश्रुत्युक्तं प्रदर्शितम । "वदन्त्यत्यादरेणैव" इत्यारभ्य 'विमुक्तो भवतीनि हि" इत्यन्तेन केवल्योपनिषदुक्तोपासनमपि सूचि- तम ! "यम्सर्वासां" इत्यारभ्य "याजुर्वेदयं वाक्य- ेतन इत्यन्तेन तैत्तिरीयोक्तहरोपासनमपि स्फुटतया प्रदर्शितम् । "तथान्यन" इत्यारभ्य शाखान्तरे हृदय- पुण्डरीके परमेश्वरः गणविशिष्टतया उक्तश्चेन् सोऽप्यत्र गुणस-
Page 33
दहरविद्याप्रकाशिका। २५
मुदाय उपसंहर्तव्य इति सूचितम्। "ईदक्स्यान्" इत्यनेन परमेश्वराविरुद्धगुणससूचितः। 'आलोच्यैतन्' इत्यनेन गुणोपसं- हारन्यायोऽपि सूचितः। अनेन परिशेषाच्छाखव्रान्तरं बृद्दा- रण्यकमिति पर्यवसितम। तथा च सूत्रकारः "काम्गदीतरत्र तत्र चायतनािभ्य" इति। अम्य भाप्यं श्रतिद्वयमुदाहत्या- नन्तरं-"कामादीति॥ सत्यकामादत्यर्थः। यथा देवढत्तो दत्तः सत्यभामा भामेति। यदेतच्छान्दोग्ये हृदयाकाशस्य सत्यकामत्वा- दिगुणजातमुपलभ्यते तदितरत्र वाजमनेयके 'स वा एष महानज आत्मा' इतव संबध्येत। यच वाजमनेयके वशित्वाधुपलभ्यते नदपि इतरत्र छान्दोग्ये 'एष आ त्माऽपहतपाप्मा इत्यत्र संवध्येत । कुतः । आयतनादि- सामान्यान। समानं ह्यमयत्रापि हृदयमायतनं समानश्च वेद्य ईश्वरम्समानं च तम्य मेतुत्वं लोकासंभेदप्रयोजनमित्यादि वद्द सामान्यं दउ्यते। ननु विशेषोऽपि दड्यते छान्दोग्ये हृदया- काशम्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रह्मण इति। न। 'दहर उत्तरेभ्यः' इत्यत्र छान्दोग्येव्याकाशशब्द ब्रह्मैवेति प्रतिष्टापितत्वान्। अयं त्वत्र विद्यते विशेषः । सगुणा हि ब्रह्म- विद्या छान्दोग्ये उपदिश्यते। 'अथ य इहात्मानमनुविद त्रज- न्त्येनांश्र सत्यान कामान इत्यात्मवन कामानामपि वेशत्वश्रव- णान। वाजसनेयके तु निर्गुणमेव परं ब्रह्म उपदिश्यमानं 4
Page 34
दहरविद्याप्रकाशिका।
हउयते। 'अत ऊर्ध्व विमोक्षाय वृहि' 'असंगो ह्ययं पुरुप' इत्यादिप्रउन प्रतिवचनसमन्वयान। वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजमनेयके सङ्गीर्तंत। तथा चोपरिष्ठातं 'स एष नेति नेव्यात्मा.इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति। गुण- वत्म्तु ब्रह्मणः एकत्वात विभूतिप्रदर्शनायायं गुणोपसंहारस्सू- तितो नोपासनायेति द्रष््व्यम'इति। नन्वेवं भाष्योक्तरीत्या वशित्वादिगुणानां ब्रृहदारण्यके ध्येयत्वासंभवाच्छान्दोग्ये उप- संहृतानामपि न ध्येयत्वम्। एवं कैवल्यतैत्तिगीयकगतानां, उभासहायत्वविरूपाक्षत्व्ादीनां स्मरणमेव नास्ति। कर्थ उप- निषच्चतुष्टयोक्तगुणानां समुच्चित्योपासनं न्यायविरोधादिति चे- दुच्यते। 'सर्ववेदान्तप्रत्ययं चोदनाययविशेषान' इति सामान्य- न्यायेनेत्र उक्तोपनिषच्चतुष्टये गुणोपसंहारम्य मिद्धत्वान। तथा हि। चोदनाव्यविशञेषादित्यादिशव्देन संयोगरूपाख्या: शाखा- न्तराधिकरणसिद्धान्तगता ग्रह्यन्ते अभेदहेतवः। अत्र चोढना उपासनाविधि: 'अथ य इहात्मानमनुविद्य ब्रजन्ति एतांश्र सत्यान कामान' इति। संयोग: फलम 'तेपां सर्वेपु लोकेपु कामचारो भवति 'इति। रूपम 'दहरोम्मिन्नन्तगकाश़' इति प्रस्तुत्य य आत्माऽपहतपाप्मा विजरो विमृत्युविशोको विजि- वत्म' इत्यादि। आख्यापि दहरविद्येति यथा छान्दोग्ये एवं कैवल्येथि। 'विशद विशोकं इत्युपक्रम्य • त्रिलोचनं नीलकण्ठं
Page 35
दहरविद्याप्रकाशिका।
प्रशान्तं' इत्यन्तेन उपाम्यरूपमुक्तम।ध्यात्वा मुनिगे्छनि भूतयोनिं समस्तसाक्षिं तममः परस्तान' इनि चोढ़नाफले उक्त्ते। आख्यापिं दहरविद्येति कैवल्यशाखिनः प्रसिद्वैव । एवं तैत्तिर्रीयकेऽपि तत्रापि दहरं गगनं विशोकस्त्मिन्यढन्न- स्तदुपासितव्यं इति उपासनाविधिः । 'दहरं गगनं विशोक" इति 'ऋतं सत्य परं ब्रह्म पुरुपं कृष्णपिङ्गळम। ऊध्वेरेत विरूपाक्षं' इति च उपास्यम्वरूपमुक्तम। आदावेव 'अणो- रणीयान' इति प्रम्तुत्य 'तमक्रतुं पश््यति वीतशोको धातुः प्रसादान्महहिमानमीशं' इति 'स नो देवउशुभंया स्मृत्या संयुनक्तु' इति च फलं सिद्धम। दहरं विपाप्मंमिति दहराख्यापि प्रसिद्धेव। एवं बृहदारण्यकेऽपि। य एपोऽन्तर्हृदय आकाशस्तस्मिन शेते सर्वस्य वशी' इत्यादिना रूपमुक्तम। फलं च 'अत ऊर्ध्व विमोक्षायैव त्हि' इति सद्योमुक्तिरूपमुक्तम। चोदनाशव्दम्सगुणनिर्गुणविद्योभयसाधारणः। ब्रह्मचांदना त्वि- ति भाध्ये व्यवहारान्, सूत्रकारेणापि चोदनाव्यविशेषादिति सगुणनिर्गुणविद्यासाधारण्येनोक्तत्वान। आखयापि वाजमनेय- शाख्िनः प्रसिद्धा। किश्व 'य एपोऽन्तर्हृदय आकाशस्त- स्मिन शेते' इति दहराख्यत्वमुन्नेयम। नन्वेवमपि सगुणनि- गुणविद्यात्वन मेदान् गुणोप संहारम्सगुणनिर्गुणविद्ययोन संभव- ती्याशङ्कय तत्परिहारार्थतया • कामादीतरत्र तत्र चायतनादि-
Page 36
२८ दहरविद्याप्रकाशशिका।
भ्य' इतीदं सूत्रं प्रवृत्तम्। विद्याभेदेऽपि गुणोपसंहारम्संभवती- ति बृहदारण्यक आम्नातानां वशित्वादीनां उपासनाविधिप- रिगृहीतत्वाभावेऽपि तत्र तेषामेव धर्माणां छान्दोग्ये उपसं हारानन्तरं तत्रत्योपासनाप्रयोगविधिनामकप्रकरणे विद्यमानं मदङ्गममिति परिग्रहसंभवात्। अथवा वशित्वाद्विगुणानां सत्य- कामत्वादिना छान्दोग्यगतेन उन्नयनमस्तु । न हि वशित्वा- दयभावे सत्यकामत्वादिकमस्ति। येन केन प्रकारेण उपसंहारसू- त्रबलाद्दहरविद्यायां वशित्वागुपासनं कर्तव्यम। अत एव भामत्यां उभयत्राप्यात्मोपदेशादाकाशशव्देन एकत्रात्मा उक्तः अन्यत्राकाशाधारस्स एवोक्त इति सर्वसाम्यात् ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः सगुणनिर्गुणत्वेन विद्याभेदेऽपि गुणोपसंहार- वयवस्था दर्शिना इति। उक्तं चाधिकरणरत्नमालायाम्। 'असंहृतिस्संहृतिर्वा व्योम्नोर्दहरहादयोः । उपास्यज्ञेयभेदेन तद्रुणानामसंहृतिः ॥ उपास्त्यै क्वचिदन्यत्र स्तुतये चास्तु संहृतिः । दहराकाश आत्मैव हृदाकाशोऽपि नेतरः ॥' इति। छान्दोग्ये 'दहरोस्मिन्नन्तराकाश' इति हृदयान्तर्गतत्वेन श्रुतस्य दहराकाशस्य सत्यकामत्वादयो गुणा उपात्ताः। बृह- दारण्यके तु "य एषोऽन्तर्हृदय आकाश" इति उक्तस्य हार्दा- काशस्य वशित्वादयो गुणा उक्ताः। तत्र न परस्परमुपसंहर्त-
Page 37
दहरविद्याप्रकाशिका। २९
न्याः। दहराकाशस्य उपास्यत्वंन हार्दाकाशस्य ज्ञयत्वेन वि- वयाभेदादिति प्राम बमः। तत्र वशित्वादीनां दहराकाश उपसं- हार उपास्त्यै भविष्यति। सत्यकामत्वादीनां तु हार्दाकाशस्तु- त्यर्थमुपसंहारः। न च प्रयोजनवत्त्वेऽपि विद्याभेदो दुष्परिहर इति वाच्यम्। विद्याभेदेऽपि उभयत्राकाशशब्दवाच्यस्य आ- त्मन एकत्वान्। दहराकाशस्य तावदात्मत्वं दहराधिकरणे वर्णि- तम। दहराकाशस्यापि महानज आत्मेत्युपक्रमादात्मत्वमुपग- नतव्यम् ॥ तस्मादुभयत्र उपसंहारः । नन्वरेवमपि कैवल्यतैत्ति- रीयकयोराम्नातानां परमेश्वरगुणानां कथं छान्दोग्ये उपसहारः सामान्यन्यायस्य विद्यमानत्वेऽपि विशेषन्यायाभावान। न। आयतनादीनामपि उभयत्र तुल्यत्वात्। तैत्तिरीये तावत् 'यन पुण्डरीकं पुरमध्यसंस्थं' इति हृदयपुण्डरीकमायतनम्। ·तत्रापि दहरं गगनं विशोक' इति दहरत्वं गगनशब्द्वाच्यस्य आका- शत्वं 'विशोको विजिघत्स' इत्यादिवन् विशोकत्वोपलक्षितेत- रगुणादिकं च सूचितम। कैवल्येऽपि 'हरत्पुण्डरीकं विरजं' इति आयतनं 'विशदं विशोकं' इति छान्दोग्यगतविशोकादिगुण- सूचनं अनन्तमिति यावान्वायमकाशस्तावानषोऽन्तर्हृदय आकाश' इति अपरि्छिन्नत्वादिकमपि सूचितम। इतरत्र तत्र चेति सर्वनामशव्दप्रयोगः साधारण एव। तस्मान पुराणवच- नान सामान्यविशेषन्यायसाम्याज्च सिद्धं समुच्चित्येवोपासनम्।
Page 38
३० दहरविद्याप्रकाशिका।
ननु नारायणानुवाके 'सहम्त्रशीर्ष देवं इन्यादिना 'विश्व नारायणं हरि इत्यादिना च नारायणस्यापि उपास्यत्वं श्रयते, कर्थं पर- मेश्वरस्यैव उपास्यत्वम। उच्यते। नारायणम्य उपासकत्वेनैत्र पुराणेषु श्रवणात्। तथा हि। सौरसंहितायाम- "उमापतिर्नमस्कार्यस्सवैंध्येयो हृदम्बुजे। तथा धयेयो हरिव्रह्मप्रमुखर्गुणमूर्तिभिः ॥ तस्य ध्याता हरिम्साक्षान नारायणसमाह्वयः । देवस्सहस्रशीर्षश्र विश्वाक्षो विश्रशंकरः ॥ विश्वो विश्वस्य निर्माता पालकोडत्ता परात्यरः । अक्षरः परमो नित्यो हरिर्मायापतिः प्रभु:॥ पुरुषश्च पुराणश्च तं विश्वमुपजीवति। सोडयं सवनहैत्वने तथा विश्वात्मनापि च।। योऽयं परायणत्वेन परत्रह्मात्मनापि च। अयमेव परं तत्वं परं ज्योतिः परात्परः ॥ अयमात्मा समस्तम्य चेतनस्यापरस्प च । यञ्च किश्चिज्जगत्यस्मिन दश्यते श्रूयतऽपि वा॥ अन्तर्बहिश्च तन सर्व व्याप्य नारायण: स्थितः । साक्षाद्वेदान्तवाक्यानां निष्ठा रुद्र: पशोः पतिः ॥ अम्तिकापतिरानन्द: म्वयमेव न संशयः । अम्य नारायणम्यापि ब्रह्मणः परमेप्टिनः ।।
Page 39
दहरविद्याप्रकाशिका।
मद्स्यापि शिवो ध्येयः किं पुनस्सवदेहिनाम। तस्मात सर्वप्रयत्नेन शिव साम्वं त्रिलोचनम् ।। उधर्वरेतसमीशानं ध्यायेन्नित्यमतन्दिरितः । तं सवकारणं रुद्रे अणीयांसमणोरपि।। महान्तं महतस्साक्षान प्रणवेनैव पूजगेन ॥ इनि। अनेन वचनेन नागयणस्यैव परमेश्वरध्याने साक्षादवि- कारो वह्मरुद्रयोश्च। एवं च हृदयपुण्डरीके परमेश्वरविषय- ध्याने यः प्रवर्तते स आदो स्वात्मानं नारायणत्वेन सहस्त्र- शीर्षत्वादिगुणयुक्तत्वंन परिभाव्य अनन्तरं नारायणात्मना विद्यमानम्य स्वम्य हरदयपुण्डरीकमध्ये वह्निना दीने परमात्मानं परमेश्वरं ध्यात्वा अनन्तरं अहन्त्वनापि भावयेदिति। अम्मि- न्नर्थे 'सहस्रशीर्ष देवं इति नारायणानुवाक एव प्रमाणम । उक्तं च सूनसंहितायाम- "अथ वाडहं हरिम्माक्षान सर्वज्ञः पुरुषोत्तमः । महस्रशीर्पा पुरुपः सहस्राक्षः सहस्रपान् ।। विश्वो नारायणो देवः अक्षरः परमः प्रभुः । इति ध्यात्वा पुनः स्वस्य हृदयाम्भोजमध्यमे॥ प्राणायामैविकसित पारमेश्वरमन्दिरे। अष्टेश्वर्यद्ळोपेते विद्याकेसरसंयुने ॥ ज्ञाननाळे महत्कन्दे प्रणवेन प्रवोधिते।
Page 40
३२ दहरविद्याप्रकाशिका।
विश्वार्चिषं महावहिं ज्वलन्तं सर्वतोमुखम्॥ वैश्वानरं जगदोनिं शिखातन्विनमीश्वरम् । तापयन्तं स्वकं देहं आपादतलमस्तकम् ।। निवातदीपवत्तस्मिन दीपितं हव्यवाहनम्। नीलतोयदमध्यस्थं विदुल्लेग्वेव भाम्वरम ॥। नीवारशूकवद्रूपं पीताभासं विचिन्तयेन्। तम्य वह्नः शिखायां तु मध्ये परमकारणम । पगमानन्द्मात्मानं पगमाकाशमध्यगम । चतं सत्यं परं ब्रह्म साम्वं संसारभेपजम ॥ ऊर्धर्वरेतं विमपाक्षं विश्वरूर्प महेश्चरम । नीलग्रीयं स्वमात्मानं पश्यन्तं पापनाशनम ।। ब्रह्मविष्णुमहेशानधर्येयं धयेयविवर्जितम।
अयं मुक्तमहामा्ग आगमान्तैकसंस्थिनः ॥" इति ॥ अथवा म्वस्य हृदयाम्भोजे नारायणं स्यात्वा सोडहमिति विचिन्तय तम्य नारायणस्य हृदये परमेश्वरं ध्यायेदहंग्रहप- र्यन्तमिति नारयणानुवाकम्यार्थः। तदुक्त योगयाज्ञवत्क्ये-
प्राणायामैर्विकमिते वैराग्यान्वितकर्णिके।
Page 41
दहरविद्याप्रकाशिका। ३३
वासुदेवं जगन्नाथ नारायणमजं विभुम् ।। चतुर्भुजमुदाराङं: शङ्कचक्रगदाधरम् । किरीटहारकेयू रपद्मपत्रायंतेक्षणम् ।। श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम । कौस्तुभो-द्वाजितोरस्कं वनमालायुतं हरिम । पद्मोदरदळाभोष्टं सुप्रसन्नं शुचिस्मितम्। शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ।। पद्मच्छविपदद्वन्दूं परमात्मानमीश्रवरम्। प्रभाविभावसद्रूपं परितः पुरुषोत्तमम् ।। मनसाSडलांक्य भूतेशं सर्वलोकहृदि स्थितम। सोऽहमेवेति यन ज्ञानं सगुणध्यानमुच्यते ॥। हत्मरोरुहमध्येडम्मिन प्रकृत्याकारकर्णिके। ऐआर्याष्रदळोपेते विद्याकेसरसंयुते ॥ ज्ञाननाळे महत्कन्दे प्राणायामैः प्रबोधिते। विश्वार्चिपं महावह्निं उवलन्त सर्वतोमुखम् ।। वैश्वानरं जगद्योनि शिवातन्विनमीश्वरम । तापयन्तं स्वकं देहमापाढतलमस्तकम । निवातदीपवत्तस्मिन र दीपितं हव्यवाहनम । हष्त्। तम्य शिखामध्ये परमात्मानमीश्चरम ॥ नीलतोयदमध्यस्थं विदुड्ेखेव भास्वरम । 5
Page 42
दहर विद्याप्रकाशिका।
नीवारशकवद्रूपं पीताभं सर्वकारणम।। ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः। सगुणेषृत्तमं ह्येतत् ध्यानं योगविदो विदु:।। वैश्वानरत्वं संप्राप्य मुक्ति तेनैव गच्छति ॥' इति ॥ उक्त च कूर्मपुराणे- 'कृत्वा हत्पअ्मनिलयं विष्ण्वाख्यं विश्वसंभवम् । आत्मानं सर्वभूतानां परस्तात्तमसि स्थितम ।
प्रधानपुरुषातीतमाकाशमजरं शिवम॥। तदन्तस्सर्वभूतानामीश्वरं विश्वरूपिणम्।
अनन्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम्। पुराणं पुरुषं शंभुं ध्यायन मुच्येत बन्धनान् ।।' इत्ति॥ महाभारते शान्तिपर्वणि अर्जुनं प्रति श्रीकृष्णवच- नम- अहमात्मा हि लोकानां सर्वेषां पाण्डुनन्दन। तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम।। यदहं नार्चथेयं वै ईशानं भुवनेश्वरम। आत्मानं नार्चयेत् कश्चिदिति मे भावितं मनः ॥ मया प्रमाणं हि कृतं लोकस्तमनुवर्तते।
Page 43
दहरविद्याप्रकाशिका।
प्रमाणानि च पूज्यानि ततस्तं पूजयाम्यहम। इति सश्चिन्त्य मनसा पुराऽ्हं विश्रमीश्वरम। पुत्रार्थमाराधितवानात्मनात्मानमात्मनः ।।' इति। उदाहृतोपनिषच्चतुष्टयेऽपि उपास्यब्रह्मणः गुणनर्ध्ी- रणं क्रियते। तत्र तावच्छान्दोग्ये 'एष आत्मा' इत्युपक्रम्य तदनु 'अपहृतपाप्मा विजरो विमृत्युरविशोको विजिघत्सी वि- पिपासस्सत्यकामस्सत्यसङ्कल्प' इत्यष्टो गुणाः यद्यपि 'उसे अस्मिन द्यावाप्ृथिवी' इत्यादिना पूर्वत्र द्यावापृथिव्याद्याधार- त्वमुक्तं उत्तरत्रापि हृदयनामनिर्वचनं सत्यशव्दाक्षरत्रयनिर्वचनं सेत्वादिगुणाश्च सन्ति तथापि तेषां उपास्यगुणत्वेन विवक्षा नास्ति। पूर्वत्रासत्वाल्पत्वादिशङ्कापरिहारथतया द्यावापृि- व्यादिसमाधानमुक्तम। उत्तरत्र उपासनाप्रतृक्यर्थतया स्तुन्यर्थ- मुक्तम। एतन सर्व छान्दोग्यभाप्यादो द्रष्टव्यम्। बृहदारण्यके 'सर्वस्य वशी सर्वस्येशानस्सर्वस्याधिपतिः इति वशित्वादि- गुणत्रयमेव स न साधुना कर्मणा भूयान्नो एव साधुना कनीयान' इति विद्वत्फलकथनम। एष सर्वेश्रर एप भूताधि- पतिरेंष भूतपाल एष सेसुविधरण एषां लोकानामसभेदाय इति तु विद्याविषयभूतेश्वरस्तुतिः । तदुक्तं वार्तिककारै :- 'भूयान स साधुना नेति ज्ञानम्य फलमुच्यते। एघ सर्वेश्वरोक्त्या च यथोक्तम्यैव संस्तुतिः ॥ इति ॥
Page 44
३ ६ दहरविद्याप्रकाशिका ।
कैवल्ये :हत्पुण्डरीकं विरज विशुद्धं विचिन्त्य मध्ये' इति प्रस्तुत्य 'विशद विशोकं' इत्यारभ्य :नीलकण्ठं प्रशान्तं' इत्य- न्तेन, एकविंशतिगुणा आम्नाताः। तैत्तिरीयके तु. ' दहरं विपापमं' इत्यारभ्य 'तस्मिन्यदन्तस्तदुरासितव्यं' इत्यन्तेन उपासनां विधाय उपास्यस्वरूपं किमित्याकाड्कायां 'यद्वेदादौ स्वर' इत्गदिना 'स महेश्वर' इत्यन्तेन प्रणवप्रकृतिवाच्यत्वेन महेश्वरत्वेन च प्रस्तुत्य तस्य वा किं स्वरूपमित्याकाड्डायां 'सहस्रशोर्ष देवं' इत्यादिना 'समुद्रेऽन्तं विश्वशंभुवं' इत्यन्तेन परमात्मानं स्तुत्वा तत्संबन्धित्वेन 'पद्मकोशप्रतीकाशं' इत्या- दिना 'सन्ततं सिराभिस्तु लम्वत्याकोशसन्निभं' इत्यन्तेन हृदय- पुण्डरीकमपि परिचिन्त्य अथवा तादशमात्मानं उपासक: स्वात्मन्वेन परिचिन्त्य तत्तादात्म्यमापन्नस्य स्वस्य संबन्धित्वेन हृदयपुण्डरीकं स्वस्थाने विद्यमानमेव परिचिन्त्य तन्मध्ये वै- श्वनराग्निशिख्वामध्यवर्तित्वेन तस्याश्शिखाया मध्ये परमा- त्मा व्यवस्थित इति पूर्वोक्तगहेश्वरशद्दवाच्यस्य परशिवस्य उपास्यभूतम्य 'ऋतं सत्यम' इत्यादिना 'विश्ररूपाय वै नम' इत्यन्तेनाष्टी गुणा आम्नाताः । इद़ानी उपासना- प्रकारो लिख्यते। तत्रापि अधिकारी प्रदर्श्यने। 'अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्' इत्यादिना छान्दोग्ये ब्रह्म- चर्यादिसाधनसंपन्नः अधिकारी प्रतीयते। ब्रह्मचर्य, स्त्रीवि-
Page 45
दहरविद्याप्रकाशिका। ३७
षयतृष्णात्यागः। कैवल्योपनिषदि :श्रद्धाभक्ती ध्यानयोगादवै- हि' इति श्रद्धादिकमधिकारिविशषणमुक्तम्। तत्र श्रद्धा नाम गुरू गदिष्ठेऽर्ये विश्वासः । भक्ति: सर्वदा तस्मिश्नेवार्थे तात्पर्यम्। तस्मिन्नेवार्थे विजातीयप्रत्ययतिरस्कारपूर्वकस्सजातीयप्रत्यय- प्रवाहो ध्यानम् । योग :- विविक्तदेशे च सुखासनस्थ-
अत्याश्रमस्थस्सकलेन्द्रियाणि निरुध्य भक्तया स्त्रगुरुं प्रणम्य ।। इति वक्ष्यमाणः। विविक्तदेशे एकान्तदेशे। चकारादव्याकुल- काले। सुखासनस्थः सुखमनुद्वेगकरं दर्भाद्यासनं सुखासनं तस्म- स्तिष्ठतीति सुखासनस्थः। शुचि: बहिरन्तइशौचवान। समग्रीव- शिरइश़रीर: समानग्रीवा च शिरश्र शरीरं च यम्य स समग्रीवशिर३शरीरः। ऋजुकायः पद्मकाद्यासनम्थ इत्यर्थः । अत्याश्रमस्थः अति अधिकः ब्रह्मचारिगृहस्थवानप्रस्थकुटी- चकबहूद़कहंसा आश्रमाः तान प्रत्यधिकः अत्याश्रमः पारमहं- मलक्षणः तम्मिन तिष्ठतीति अत्याश्रमस्थः ॥ यद्वा अत्याश्रम- शब्देन विभूतिधारणरूपं त्रतमुच्यते। तन्निष्ठः अत्याश्रमम्थः । नदुक्त सूतसंहितायां- • अथ वाथर्वणैर्मन्त्रैर्गृहीत्वा भम्म पाण्डरम ।
Page 46
३८ दहरविद्याप्रकाशिका।
सर्वोङ्गोज्ळन यत्तदवतं प्रोक्त मनीिभिः ।। एतद्वेदशिरोनिष्ठाः प्राहुः पाशुपत मुने। केचिच्छिरोव्रंतं प्राहुः केचितत्याश्रमं बुधाः ॥' इति। सकलेन्द्रियाणि निखिलानि समनस्कानि ज्ञान- कर्मेन्व्रियाणि निरुध्य स्वस्वप्रचारेभ्यो निरुध्य भक्त्या देववद्देवाधिक्याद्वा स्वगुरु स्वस्य ब्रह्मविद्योपदेष्ठारं प्रण- म्य प्रकर्षेण नत्वा। अनेन गुरुनमस्कारोऽपि अधिकारिवि- शेषणमुक्तम्। यद्यप्यस्यां कैवल्योपनिषदि 'न कर्मणा' इत्या- रभ्य 'परामृतान् परिमुच्यन्ति सर्वे' इत्यन्तेन सन्न्यासाऽपि साधनमिति प्रतीयते। एवं तैत्तिरीयकेऽपि न कर्मणेत्यादि- मन्त्रद्वयमस्ति। तथापि 'वेदान्तविज्ञानसुनिश्चतार्था' इति यती- नां विशेषणात निर्गुणविद्याभिप्रायमुभयत्र मन्त्रद्वयम् । अत एव उभयत्र 'त्यागेनेके अमृतत्वमानशुः' इति प्रकृतदहरविद्याधि- कार्यपेक्षया अन्य एव ते ताहृशनिर्गुणत्रझविद्यार्थमेब इयं हरविद्या प्रवृत्ता अत एवास्यामुपनिषदि 'ध्यात्वा मुनिर्गच्छनि भूतयोनिं समस्तसाक्षिं तमसः परस्तान' इति उत्तरत्रैव फलं वक्ष्यति। उक्तं च सूतसंहितायां-केवल्योपबृंहकाध्याये- •'अस्ति तत्वं परं साक्षा्छिवरुद्रादिसंज्ञितम्। तदवश्यं महायासाद्वेदितव्यं मुमुक्षुभिः ॥' इत्युपक्रम्य · ब्रह्म हइये शरीरेड्मिन अन्तकाले परस्य तु।
Page 47
दहरविद्याप्रकाशिका। ३९
अज्ञानाख्यम्य ते सर्वे मुच्यन्ते हि परामृतान ॥ इत्यन्तेन अम्य ग्रन्थम्य तात्पर्यदीपिकायां निर्गुणत्रह्मविद्यापरत्वेन ठया- ख्यानं कृतम्। मुच्यन्ते हि परामृताहित्यनन्तरमिदमुपबृंहक- वचनं सगुणविद्याधिकारिविषयम- 'अतो विद्याभिसिद्धयर्थ मुमुक्षुर्मतिमत्तमः । विविक्तदेशमाश्रित्य सुग्वासीनो महाशुचिः ।
इन्द्रियाणि समस्तानि निरुध्य सुरपुंगवाः ।। प्रणम्य स्वगुरुं भक्त्या' इत्यन्तम्। तैत्तिगीयके तु- • अणोरणीयान्महता महीयान आत्मा गुहायां निहितोऽम्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम ।! इत्यनुवाकादो पठिते मन्त्रे धानुः परमेश्वरम्य प्रसादादनु- म्रहान तमेव अक्रतुं सङ्कस्परडिनिम अत एव परमानन्द- भरितिं महिमानं क्षयवृद्धिरहितम। एवंभूतमीशानं महेश्वरं वीनशोकस्सन पश्यति साक्षात्करोति। ताहशसाक्षात्कारार्थी मुमुक्षुरधिकारी। फलमपि अविद्यानिवर्तकसाक्षात्कार एवेति प्रतीयने। न केवलमम्य मन्वम्य ईशपट्घटितत्वान् परमेश्वर- परत्वम। किन्तु शिवराघवसंवादे त्रिपुण्ड्धारणाङ्गभम्मसं-
Page 48
४० दहरविद्याप्रकाशिका।
पादने शैवे कर्मणि विनियुक्तत्वाच्च "एवं यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः" इति मध्ये रुद्रशव्देन परा- मष्ठत्वांञ्च परमेश्वरज्ञानरूपफलार्थमेव प्रवृत्तः मुमुक्षुरेव अधि- * कारी। यद्वा 'यो देवानां' इत्यारभ्य 'संयुनक्त' इत्यन्तो मन्त्र: फलाधिकारिसमर्पणपरः । तथाहि। 'महपिर्महाद्रष्टा यम्सर्वज्ञम्मर्वविन अशेषविषया मोघशुद्धबुद्धिविजम्भण' इत्या-
त्मकप्रपश्चादधिकः । कृत्स्म्य पशुपाशवर्गस्य नियन्तृत्वाद्यो रुद्रो मुक्तानां संसारदुःम्य द्रावकः देवः देवानां मध्ये प्रथमं हिरण्यगर्भ पुरस्तान कल्पाद़ो स्वसङ्कल्पेन स्त्रम्माजाय- मानं करुणापरिपूर्णया सकलभुवनसृष्टिसाम्श्यवितरणविचक्ष- णया आज्ञाहष्टया अपठयत। स देवः अस्मान शुभया परमा- नन्दप्राप्तिकारिण्या स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष' इति श्रुतिप्रसिद्धया स्वविषयया म्मृत्या संयोजयत्विति। यस्मात्पर- मित्युत्तरमन्त्रोडपि शिवपर एव । अत एव आश्रलायनम्मरणम् । • यस्मात् परतरं नाम्ति नापरं च परात्मनः । न उयायोडस्ति न चाणीयान नमस्तम्मै म्वयंभुवे ।। यनेदमखिविलं पूर्ण यन्माया मूर्तयम्मृताः । तस्मे शिवाय महंत नमस्सूक्ष्माक्षरात्मने ।' इति। यदि तु 'वेदान्तश्ज्ञनसुनिश्चितार्थी' इत्ययमेव मन्त्र
Page 49
दहरविद्याप्रकाशिका।
'दहरं विपाप्मं' इति विधायकमन्त्रादव्यवहितः अधिकारिफ- लसमर्पक इत्याग्रहः तदा वेदान्तविज्ञानेत्यत्र विज्ञानशव्देन परो- क्षज्ञानं, संन्यासयोगादिति संन्यासशव्देन कर्मफलसंन्यास:, यतयो यतनशीला:, अपरोक्षज्ञानार्थ दहरविद्यायां यतनं फर्व- न्तः परामृतादुवास्यसाक्षात्कारान् पारेमुच्यन्तीति व्या- रपेयः। तथा च सत्यवादिधर्माद्यनुष्ठानपरः वाह्यविषय- तृष्णारहितः ब्रह्म चर्यवान् उपास्यविषये श्रद्धाभक्तियुतः एकान्त- प्रियः शुचि: योगरसिकः निगृहीतबाह्मान्तःकरणः संझाळि- तक:मक्रोधाडिमलः कर्नफलत्यागी उपास्यसाक्ष त्कारपर्थन्तं दहरविद्यामं यतनशील: मुमुश्ुर्द्विजः गुरुभक्तः अधिकारी त्युक्तो भवरति। एवं च एताहशः अधिकारी पुरस्थानापभस्य स्वशरीरस्य मध्ये विद्यमानं द्वारपालादियुक्तेन वेश्मस्थानीयं हृदयपुणडरीकं विरजं उपसकान्त:करणस्य विषयवैतृष्ण्येन तदुपभोगजनितकालुध्यराहित्यात् निर्मलं, तदाधारत्वात् पुण्ड- रीकमपि विरजम् अत एव विशुद्धम्। अत एव तैत्तिरीयके 'दहरं विपाप्मं परवेश्मभूनं यत् पुण्डरीकं पुरमध्यसंस्थं' इत्यु- क्तन्। दहरं स्वल्पपरिमाणं, विपाप्मं विगतपापं सर्वदुरितरहितं, परवेश्मभूत परवेश्म राजभत्रनादि तद्भावमापन्नं उपासकानु- प्रहाय निर्मित अनवदं वेश्म पुण्डरीकं पुण्डरीकसटश पुण्डरी काखयं वा हृदयं। कैवल्योपनिषदि विरज विशुद्ध विधिन्त्येति 6
Page 50
४२ दहरविद्याप्रकाशिका।
विद्यमानत्वात्। अत्राप्येवंभूतं विचिन्त्य।'तत्रापि दहरं गगनं विशोकः' तत्रापि तथा दहेपि तस्मिस्थाने ततोऽपि दहं तदन्त- ्गतत्वाद्यत् मगनं गगनसंज्ञ अव्याकृताकाश मायाशबळित ब्रह्म सर्वस्थूलसूक्ष्म कार्यसमष्टिभूतसूत्रात्मनोऽनि कारणभूतं वि- शोक: तत्र प्रविष्ठानां दुःखाभावस्तस्य शोकराहित्यं। 'तम्मि- न्यदन्तस्तवुपासितव्यं' तस्मिन्नव्याकृताकाशे यन्निरुपाधिकं तत्वं तस्याव्याकृतस्य विशिष्टवेषेणाध्यस्तत्वात् तस्यापि सत्ता- स्फूर्ति प्रदत्वेन तदन्तस्तत्सारभूततया विद्यमानं तदुपासितव्यम्। उक्त चान्यत्र-'अस्मिन् खल्वाकाश ओतश्च प्रोतश्च' इति गार्मिप्रश्नानन्तरं 'एतद्वै तदक्षरं गार्गि' इति याजयल्क्येन अक्षर- शब्दवाच्यं व्ह्मेति। यद्वा तत्रापि दहरं गगनं विशोक इति दहरशब्दवाच्यं छान्दोग्योक्तरीत्या मुख्यं बूह्मैव। त- स्मिन्यदन्तस्तदुपासितव्यमिति तरिमन् बूह्मण्युपासकानुप्राहार्थ अतिगुह्यतया विद्यमानं 'ऋतं सत्यं परं ब्रह्म' इत्यादिना वक्ष्यमाणं परमेश्वरस्य लीलाविग्रहरूपमुपासितव्यभिति। एवं च उपासक: अह्नारायण इति स्वात्मानं नारायणात्मतया विभाव्य तस्य हृदये परमेश्वरं ध्यायेदिति। यद्वा उपासक: स्वस्य हृदये सहस्रशीर्प देवमित्याद्युक्तप्रकारेण नारायणं ध्या- त्वा सोहभिति विचिन्त्य स्वाभिन्नत्वेन स्वोपास्यस्य नारायण- स्य हृदये परमेश्वरं ध्यायेत्। ननु नारायणामिन्नत्वेन परमे-
Page 51
दहरविद्याप्रकाशिका। ४३
श्वरं परिचिन्त्य स्वस्य हृदये तादशपरमेश्वर एवं उपास्योऽस्तु। न च परमेश्वरम्य नारायणात्मत्वं विरोधान्न संभवतीति वाच्यम्। विरोधस्यैवाभावात्। तथा हि कस्मिन्नंशे विरोधः। किं परतत्वांशे विरोधस्सर्वात्मत्वे वा विश्वाधिकत्वरांशे वा सर्वकारणत्वाद्यंशे वा लीलाविग्रहरूपमूर्त्ये वा। न तावदाद: अद्विती यपरिपूर्णपर मानन्दस्वप्रकाशप्रत्यगभिन्नः परमात्मा एक एवेति मते जीवस्यापि परमात्मत्वं कालत्रयेऽपि विद्यत इति तत्वमस्यादिश्रुत्युक्ते: 'नारायणपरं ब्रह्म तत्वं नारायणः परः: इत्यादिश्रुतेश्र्। नापि द्वितीयः 'सहस्रशीर्ष विश्वाक्षं विश्वं विश्वात्मानं सर्व व्याप्य नारायण: स्थित' इत्यादिना सर्वात्मत्व- प्रतीतेः। 'सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः । सर्वव्यापी च नगवान् तस्मात् सर्वगतश्शिवः ॥' इति 'सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपान्' इति 'सर्वतः पाणिपाद तत् सर्वतोऽक्षिशि- रोमुखम्। सर्वतः श्रुतिम होके सर्वमावृत्य तिष्ठति।। इत्यादिमन्त्रो- पनिषदादौ यथा शिवस्य सर्वात्मत्वं वर्णित एवं नारायणस्यापि तत्सिद्धम्। नापि तृतीयः, विश्वाधिको रुद्र इतिवद्विश्वतः परम- नित्यमिति विश्वापेक्षया प्रकृष्टत्वश्रवणात्। नापि चतुर्थः, यथा अथवशिखाथर्वशिरश्श्वेताश्वतरोपनिषदादौ शिवस्य सर्वकारण- त्वमर्वान्तर्यामित्वसर्वोपसंहर्तृत्वादिकं प्रतिपादितं एवं नारा- यणस्यापि नारायणसुबालात्मप्रबोधोपनिषदादौ तत्प्रतीते:
Page 52
४४ दहरविद्याप्रकाशिका।
नापि पश्चम:, व्रह्मवविष्णुरुद्राजां त्रयाणामपि मूर्तीनां अभेदस्य तापनीये 'अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये मकारं रुद्र भ्रमध्ये' इति च प्रस्तुत्य तथा 'ब्रह्माणमेव विष्णुमेव रुद्र- मेव विभक्त्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपानेव च संपूज्य इति मूर्तित्रयात्मकस्य नाभ्यादौ पूजाया विहितत्वात्। यथा पूर्तित्रयात्मकत्वमेवास्य एवं हृदये उपास्यं विष्णुशिवात्मकमस्तु। न विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेवेति वचनस्य विचमान- त्वात्तत्र ब्रह्मविष्णुरुद्रलीलामूर्तित्रयात्मकमेकमुपास्यं संभवति। ठयाख्यातं च भाष्यकारेण-नैवमत्र शिवनारायणमूर्त्यात्मकमु- पास्यं प्रतीयते। ननु अत्रापि शाश्वतं शिवमच्युतम्1 इति शिवा- च्युतयोरभेदः प्रतीयते। मैवम्। अत्र शिवशब्देन योग- खध्या निरवधिकपरमानन्दस्वरूपपरमशिव उच्यते। अच्यु- तशच्देनापि कालत्रयेऽपि च्युतिरहितः परमात्मा नारायण उच्यते। एवं च उभयोस्तत्त्वांशे अभेदोऽस्तु। न तु लीला- विग्रहांशे। ननु कृष्णपिङ्गळमिति पदस्य उपास्यस्व्ररूपसम र्पकमन्त्रे विद्यमानत्वात शङ्करनारायणात्मकं लीलाविग्रहरूप- मेवास्तु। न। कृष्णपिङ्गळशव्देन अर्धनारश्विरस्वरूपमेवोच्यते। न तु पूतोंक्तरूपम्। ननु अत्र पुरुषं कृष्णपिङ्गळमिति गौरी- वामभागात्मकार्धनारीश्वरमूर्ती यथा प्रमाणं इदमेव नारायण- पामभागात्मकशङ्करनारायणात्मक्मूता प्रमाणम्। तथा च
Page 53
दहरविद्याप्काशिका। ४५
कष्णा च कृष्णश्च कृष्णो। पिङ्गळशव्देन पिक्गळवर्ण- विशिष्टश्शिव उच्यते। एवं च परमेश्वरक्य देहपरिजि- वृक्षायां देवीविष्ण्वात्मकश्यामळवर्णवामभागयुक्ता शिवात्मक- पिङ्गळवर्णदक्षिणभागयुक्ता च एका मर्तिस्सैव हृदये ध्येया। 'एकव शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले। भोगे भवानीपुरुषे च विष्णुः कोपे च काळी समरे च दुर्गा।।' इत्यागमिकोपदेशात्- 'उमा या सा हरिस्साक्षादा हरिस्सा शिवा स्मृता' इत्या- दिवचनात्। 'प्रकृतिस्त्वं पुमान् रुद्रस्त्वयि तद्वीर्यमास्थितम्। त्वन्नाभिपङ्कजाजातः पञ्चवक्तः पितामहः ॥' इति त्रह्माण्डपुराणे। 'नावयोर्विद्यते भेदो मच्छत्तिहत्वं न संयः । त्वं चन्द्रमा अहं सूर्य: शर्वरी त्वमहं दिनम् ।। इत्यादित्यपुराणे च विष्णोरिशिवशक्तित्वव्यपदेशात्। कूर्म- वासिष्ठलैङ्गादित्यपुराणादिषु शिवनारायणयोर्भर्तृभार्याभावेन देव- दारुवनप्रवेशोपवर्णनात्। तत्प्रकरणे 'या तस्य पार्श्र्वगा वाला सा पार्वत्यंशजो हरि:' इत्यायुक्तेश्र। आदित्यपुराण एव-
Page 54
४६ दहरविद्याप्रकाशिका।
'या उमा सा स्वयं विस्णुर्यो विष्णुस्स हि चन्द्रमा। ये नमस्यन्ति गोविन्दं ते नमस्यन्ति शङ्करम् ॥ येडर्चयन्ति हरिं भक्तया तेऽर्चयन्ति वृषध्वजम्। ये द्विषन्ति विरूपाक्ष ते द्विषन्ति जनार्दनम् ॥ ये रुद्रं नाभिजानन्ति ते न जनमन केशयम् ॥' इति। देव्यात्मकविष्ण्वभेदविकाय सिद्ध इति चेत् अत्यल्पमिदमुच्यते! तत्रैवादित्यपुर- 'सर्वदेवात्मको रुद्रस्सर्वे देवारिशिवात्मकाः । :रप दत्षिणे पार्श्वे रविर्न्रझा त्रयोऽग्रयः ।। 117' श्रें महादेवी विष्णुस्सोमः पितृत्रयम् ।' इति सर्वदेवात्मकत्वाच्छिवस्य। किश्व 'इयं पृथिवी सर्वेषां भूतानां मधु अस्यै प्रथिव्यै सर्वाणि भूतानि मधु' इत्यादिना सर्वस्य सर्वात्मत्वोक्तिपुरम्सरं सर्वेषां परमात्मपर्यवमानमुक्तं मधुब्राझ्मणे। तस्मादत्र उपास्यस्वरूपं अर्धनारीश्वरात्मकमेव प्रकृते 'ऊर्ध्वरेतं विरूपाक्षम्' इति विशेषणद्वयात्, श्रुत्यन्तर- गतोमासहायत्वादिगुणोपसंहाराच्च। किश्वायं मन्तः भट्ट- भास्करेणापि एवमेव व्याख्यातः । ननु एते प्रकारा भाष्य- कारेण न प्रदर्शिताः। न तत्र तत्र प्रदर्शिता एव। किं परशिवस्य ध्येयत्वमेव न प्रदर्शितम्, उत दहरविद्याविषयत्वम, अथवा लीलाविग्रहरूपं उमासहायादिरूप वा, त्रह्मविष्ण्वाद्-
Page 55
दहरविद्याप्रकाशिका। ४७
पास्यत्वं वा, विष्णोर्देव्यात्मत्वं वा। न तावदादः । अन्त- रुपपत्तेरित्येत्रमादिसूतेपूपास्यत्वं परमेश्वरस्यप्रदर्शितम् । तत्र हि उपकोसलविद्याविषयसंशयप्रदर्शनवेळायां किमयं प्रति बिम्वात्माक््यधिकरणे निर्दिश्यते उत देवतात्मा, इन्द्रियस्य अधिष्ठाता अथ भोक्ता, अथवा ईश्वर इति। परमशिववाचक ईश्वरशब्द एव अ्युक्तः । अस्मिन्नेव सूत्रे अत उपपत्ते- रन्तर: परमेश्वर इति तद्वाचकशब्द एवोक्त: ।एव- मनेकासु सगुणविद्यासु निर्गुणवविद्यासु च परमेश्वर इति परमेश्वरशब्द एव तत्रतत्र प्रयुक्त्त । नापि द्वितीयः । दहर उत्तरेभ्य इत्यत्रैवाधिकरणे स भूताकाशः अथ विज्ञानात्मा अथ परमात्मा इति संशयदशायां परमात्मेति प्रदर्श्य, उत्तरत्न परमात्मपदं विहाय, अत उत्तरं ब्रमः। परमे- श्वर एव दुहराकाशो भवितुमर्हतीति परमेश्वरशब्दप्रयो- गस्तु देवतान्तरसाधारणस्स्यात् । किश्व उमासहायं परमे- श्वरमिति दहरविद्यागतपरमशिवविषयोमासहायशब्दसामाना- धिकरण्याच्च तच्छव्दस्य ताद्विषयत्वं निश्चीयते। न च उमासहायत्वादिगुणोपसंहारव्यवहारो भाव्यकारेण न कृत इति वाच्यम्। सत्यकामत्वादिगुणोपसंहारेऽपि भाष्यकार- स्यानादर एव। प्रकृतोपयोगितया सत्यकामस्सत्यसंकल्प इत्यादिमन्थव्याख्यानं कृतम्। अत एव छान्दोग्यभाष्ये
Page 56
४८ दहरविद्याप्रकाशिका ।
अथ यदि तस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोड- स्मिन्नन्तराकाशस्तास्मिन्यदन्तस्तदन्वेष्टव्यम्' इति भ्रन्थव्या- ख्यानावसरे तारपर्यार्थकथनपर भाष्यं शृणुत। तत्र यत् ब्रथ पु. णहरीकान्तस्स्थस्य खस्याल्पत्वात् तत्स्थमल्पतरं स्यादिति तद्स- त्! न हि सवं पुण्डरीकवेश्मगतं पुण्डरीकादल्पतरं मत्वेत्यवोचाम दूहरोऽस्मिन्नन्तराकाश इति।कि तह पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिशछन्नम्। तस्मिन् विशुद्धे संहृतकरणानां योगिनां स्वच्छ इव उदके प्रतिबिम्बरूपमादर्श इव शुद्धे स्वच्छं विज्ञानज्योतिस्स्वरूपावभास तात्रन्मात्रं ब्रह्म उप- लभ्यत इति दहरोडस्मिन्नन्तराकाश इति अवोचामान्त:करणो- पाविनिमित्तमिति। एवं च उपासनार्थ प्रवृत्तस्योत्तमाधिका- रिण: दहरं पुण्डरीकं वेश्म दहरोडस्मिन्रन्तराकाश इति वा- क्यार्थज्ञानवेळायाभेव उपास्यसाक्षात्कार इति प्रकृतसत्यकाम- त्त्रादिगुणोपसंहारेऽबनादर: : मध्यमाधिकारिणां तु सत्य- कामत्वादिगुणा वशित्वादिगुणा: शाखान्तरीया उमासहायत्वा- दिगुणाश्र उपसंहर्तव्या एव। यथोक्तगुणविशिष्टतया उपासनायां कतायामन्त्यकाल एव उपस्यसगुणब्रह्मसाक्षात्काररशास्त्रप्रामा ण्यात् भवतीति गुणोपसंहारन्वानो दर्शितः। नापि तृतीयः अन्त- न्तद्धमोंपदेशादित्यधिकरणे लोककामेशितृत्वमपि निरङ्कुशं श्रूय- माणं परमेश्वर गमयति। यत्तक्तं 'हिरण्यश्मश्रुत्वाढिरूप-
Page 57
दहरविद्याप्रकाशिका। ४९
श्रवणं परमेश्वरे नोपपद्त इति। अत्र बमः। स्यान परमेशवर- स्यापि इच्छावशान मायामयं रूपं साधकानुग्रहार्थ माया ह्येषा मया सृष्टा यन्मां पश्यासि नारद। सर्वभूतगुणैरयुक्तं मैवं मां ज्ञातुमर्हसि।।' इति। अभि च यत्र निरस्तसर्वविशेषं पारमेश्वरं मपमुद्दिश्यते भवति तत्र शास्त्रम 'अशव्द्मस्पर्शमरूपमव्ययम' इत्यादि। सर्वकारणत्वात्तु विकारवभैरपि कैश्रिद्विशिष्ट: पर- मेश्वर उपास्यत्वेन निरदिश्यते-'सर्वकर्मा सर्वकामस्सर्वगन्ध स्सर्वरसः' इत्यादिना। तथा हिरण्यशमश्रुत्वादिनिर्देशोऽपि, भव्ि- व्यनीति। एवं वैश्वानराधिकरणे 'अभिव्यक्तेरित्याशमरध्यः' इति सूत्रस्य भाष्यम्, 'अतिमात्रस्यापि परमेश्वरस्य प्रादेश- मात्रत्वमभिव्यक्तिनिमित्तं स्यान्। अभिव्यज्यते किल प्रादे- शपरिमाण: परभेश्वर उपासकानां कृते प्रदेशेषु वा हृदयादिषु स्थानेपु विशेषेणाभिव्यज्यते। अतः परमेश्ररेपि प्रादेशमात्र- श्रुतिरभित्यक्तरुपपद्यत इति आइमरथ्य आचार्यो-मन्यते इति। नापि चतुर्थः, 'परमशिवपर्यङ्कनिलयां इति 'महामाये विश्वं भ्रमयसि परत्रह्ममहिषि इति 'भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाव्यवन्नयै जनिन्रै। शिराङ्गे शिवाङ्गाय कुर्मरिशिवाये शिवायाम्बिकायै नमस्त्यम्चिकायै ॥।' इति
Page 58
५० दहरविद्याप्रकाशिका।
सौन्दर्यलहरीभुजङ्गादौ उमासहायमूर्ते: प्रदर्शितत्वान् । एवमर्धनारीश्वरमूर्तिरपि प्रदर्शिता- 'प्रवाळप्रवाह्प्रभाशोणमर्ध
गुणस्यूतमेकं वपुश्शैवमन्तः स्मरामस्मरापत्तिसंपत्तिहेतुम ।।' इति। नापि पश्चमः, 'शित्शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं न चेदेवं देवो न खल कुशलस्स्पन्दितुमपि। अतस्त्वामाराध्यां हरिहरविरिश्जादिभिरपि' इति विष्ण्वागु- पास्यत्वं शिवम्योक्तम। ननु शक्तिभूताया देव्या एव विष्ण्वा- गुपास्यत्वं प्रतीयते न तु शिवम्य इति चेन् अयं न्यायः न्यायविद्धिरपहसनीयः। त्वद्धम्तेनैव दत्तं न तु त्वया दत्त- मिति यद्वन्। 'तनीयांसं पांसुं तब चरणपङ्केरुह्भवं विरिञ्चम्सञ्चिन्वन विरचयति लोकानविकलम। बहत्येनं शौरिः कथमपि सहस्ेण शिरसां हरम्संक्षुदैनं भजति भमितोद्धळनविधिम।' इति। तत्रैव • विरिचचादिमि: पश्बभिर्लोकनाथै रसमूढे महानन्दपीठे निषण्णम्।
Page 59
दहरविद्याप्रकाशिका। ५१
धनुर्चाणपाशाङ्कशप्रोतहस्तं, महस्त्रपुरं शङ्कराद्वतमव्यात्।। त्वदुन्मेषलीलासु लब्धाधिकारान
भजन्तस्तिनीर्षन्ति संसारसिन्धुं शिवे ताचकीयास्तु किं त्ा भत्रेगुः ।' इति देवीभुजङ्गं। 'अनादयन्तमायं पर तत्वमर्थ चिदाकारमेकं तुरीयं त्वमेयम। हरित्ह्यमृग्यं परत्रह्ारूपं मनोवागतीतं महश्शैवमीडे॥' इति शिवभुजङ्गे। नापि षष्ठः, 'हरिस्त्वामाराध्य प्रणत- जनसौभाग्यजननीं पुरा नारीभूत्वा पुररपुमपि क्षोभमनयन्'
श मदमादिवत् साधनमिति भाध्यकारेण सवेत्र दशितम्। उप- देशपश्चकेंडषि, 'वेदो नित्यमधीयतां तदुदिनं कर्म रनुष्ठीयतां तेनेशस्य विधीयतामपचिति: काम्ये सतिस्त्यज्यताम्' इत्यादिना मुमुक्षोर्धर्मान विधाय संसारदोषदर्शनानन्तरं, 'शान्त्यादि: परिचीयतां दृढतरं कर्भाशु सन्त्यज्यताम' इति संन्यासोऽपि ज्रह्य- विद्यासाधनत्वन दर्शितः । सत्यं, निर्गुणत्रह्मविद्यासाधनत्वेनैव संन्यासः प्रदर्शितः उत्तमाधिकारिण प्रति। अन एवोपदेश-
Page 60
५२ दहरविद्याप्रकाशिका।
श्विध्यतां प्रारच्धं त्विह भुज्यतामथ परत्रह्मात्मना स्थीयताम।' इत्युन्तमाधिकार्येवोषसंहतः । मध्यमाधिकारिणं प्रति तु कर्म- समुच्चितमेव ज्ञानं दर्शित प्रश्नोत्तररत्नमालिकायां, किं मोक्ष- तरोबीज सम्यक ज्ञानं क्रियासहितम' इति। 'दान प्रियवाक- सहित ज्ञानमग्व क्षमायुतं शौर्य। वित्तं त्योगसमेतं दुर्लभमेत- कचतुर्भद्रम ॥' इति मध्यमाधिकारिविषयमेवोपसंहनम। किंच, 'अग्निहोत्रादि तु तत्कार्यायव तह्शनान्' इत्यधिकरणे 'ननु अनारभ्या मोक्षः, कथमस्य कर्मकार्यत्वसुच्यने, नेष दोषः आगादुपकारकत्वान कर्मण :. ज्ञानस्यैव हि प्रापक सन कर्म, अणाल्या मोक्षकारणमित्युपचर्यंते, अत एव चातिक्रान्त- विषयमंव तत्कायैकत्वाभिधानं, न हि ब्रह्माविद आगाम्यग्निहो-
त्वान, सगुणासु तु विद्यामु, कतृत्वानतिवृत्तस्संभवत्यागाम्य- ग्रिहातादि, तम्यापि निरमिसन्धिनः कार्यान्तगभावान बिद्या- संगत्युपपात्तः' इति तस्मान सर्व समश्जसम। दर्शितप्रकार- हयेडपि आदः प्रकारः प्रदर्श्यंत । आद्यप्रकारस्तु तथा च • सत्यवादिधर्माद्यनुष्ठानपर' इत्याध्ारभ्य, एवं च उपासकः अहं नारायण इति, स्त्रात्मानं नारायणात्मतया विभाव्य तस्य हृदये परमेश्वरं ध्यायेत' इत्यन्तेन पूर्वग्रन्थेन प्रदशितः। तत्रापि नारायणस्वरूंपं 'सहस्रशीर्ष देवं' इत्यारभ्य 'पद्मकोशप्रतीकाश-
Page 61
दहरविद्याप्रकाशिका। ५३
म' इत्यतः प्राक्तनेन ग्रन्थेन वर्णितम। अनन्तरं पद्मकोशप्रती- काशम' इत्यारभ्य परमात्मा व्यवस्थितः इत्यन्तेन ग्रन्थेन हृदयादिकं प्रदर्शिनम, अनन्तरं परमेश्वरम्वरू्यतं सत्यं' इत्युत्तरानुवाके प्रदशिनम । तथा हि सहस्रशीरष देवं' इत्यारभ्य 'समुद्रेन्तं विश्वशंभुवं' इत्यन्तेन ग्रन्थेन सर्व- इञम्मर्वेश्वगे गायानत्कार्यभूतम्सर्वप्रत्यगात्मा सर्वानन्दकरस्सर्वो- पसंहर्ता, विश्वानीनश्र नारायणः। एवंभूतो नाग- यणोड्हमिति परिचिन्त्य, अनन्तर नागयणात्मकम्य स्वम्य शरीरम्यान्तनर्मिरुपरि, द्वादशाङ्गलपरिमितदेशे कमलमुकुळा- कारं अधोमुख सन, ईप्िकमिन समन्नान्नाडीभिविधनं विवात्मन आयननभूनं, अत एव महनः लम्बति प्रलरबने नदेत हृदयमित्युनत्यते। नम्य पुण्डर्गीकम्य सहंदे, सृक्ष्म सुषि- रमाकाशमस्ति। नम्मिव्नाकाशे, सर्व चेननात्म के जी विा ां रण्यगर्मेश्वगदि, पर व्रह्ा च प्रनिष्ठितं निश्चल तिश्धन, नम्य हृद्यसुषिर्स्य मध्ये महानत्निवैश्वानरः ज्लति सर्वनः प्रसर- ज्ज्वाल: सर्वनामुखः भुक्तम्यान्नम्य जरयिता जाठराभ्रिस्षेण स एव सुरुषवधानररूपेग सर्वज्ञः वह्चिसामन्यररेण आपाद- लमम्तकं पादाग्रपभृति शिरा्पर्थन्तमोधयं करोति। एवंभू रम्य वह्नेश्शिखापि हृदये तिष्ठति। सा अणीयोध्वा अगीयसामूर्वा स- जलजलदपटलमध्यवर्तिनी विदुल्लखव दीप्यमाना अतितनु-
Page 62
५४ दहरविद्याप्रकाशशिका।
प्रभाणा तप्तकाञ्चनदीपिः। तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः वर्तते। 'पद्मकोशप्रतीकाशं इत्यारभ्य 'परमात्मा तयवस्थितः' इत्यन्तेन ग्रन्थेन यद्यद्वस्तु निरूपितं तन सर्व सर्वैषां शरीर विद्यमानमेवेनि शास्त्रप्रामाण्यान्निश्रीयते। अत्र उपासकेन उपासनकोले हृदयपुण्डरीकस्य ऊर्ध्वीकरणं अवि- दमानं भावनीयम। इतरस्य सर्वस्य विद्यमानस्येव चिन्तनम। तस्याश्शिखाया मध्ये परमात्मा व्यवस्थत इत्युक्त, स परमात्मा कीहग्भूत इत्यपेक्षायां प्रणवशच्दवाच्य: महेश्वरनामकः इत्य- प्याढावेवोपक्षपम तस्य परमात्मनः हृदयपुण्डरीकस्थसुषिरवर्ति-
शेषणानां निर्गुणसगुणलीलाविग्रहमूर्तिपराणां क्रमेण अथो वण्यते। ऋतं अवितथस्त्रभावं, सत्यं कालत्रयेऽपि बाघशून्यं परं ब्रह्म, अपरब्रह्मभ्यो हिरण्यगर्मादिभ्यः परं उत्कृष्ठ, ब्रह्म सत्य ज्षानानन्तरूपं, पुरुषः सर्वासु पूर्षु शेत इनि पुरुषः, अभिपास: पानेच्छारहिनः, अपहतपाप्मा अपहृतः नाितः पाष्मा धर्मा- वमाख्यो यम्य। विजर: विगनजरः, त्रिमृत्युः मृत्युरहितः, विशो- कः विगवशोक:, विजिघत्सः विगताशनेच्छः, विशदः निर्मलः, अचिन्त्य: प्रकाश्वत्वेन अन्तःकरणवृत्यविषय:, अध्यक्त: शब्दा- वरशेषविशेषशून्यः, अनन्तरूपः अनन्तं त्रिविधपरिच्छेदरहितं रूपं यस्य, शिवः मङ्गलरूपः, प्रशान्तः अविद्यातत्कार्यदोष-
Page 63
दहरविद्याप्रकाशिका।
रहितः, अमृनः अमरणधर्मकः आदिमध्यान्तविहीनः उत्पत्ति- परिचछेदविनाशवर्ितः, एक: द्वितीयवस्तुमात्ररहितः, विभु: व्यापी, चिदानन्दः स्वयम्प्रकाशमाननिरतिशयानन्दः, अरूपः म्परहिन, सत्यकामः सत्याः अवितथाः कामाः त्रह्मलोकं- प्राध्यनन्तरं यस्य यस्य उपासकस्य ये ये इच्छाविषयाः पित्रादिस्त्रीपर्यन्ता गृहारामादयः अणिमादयो वा अन्येषाम- उभ्याः यम्य सत्यकामः, अत एव 'अथ य इहात्मानमनुविद्य व्रजन्ति'इति प्रकृतात्मोपासनतर्यतिरेकेण 'एतांश्र सत्यान कामा- न'इति कामानामपि पृथगुपामनमुक्तम। सत्यमङ्कल्पः कामहे- तचस्सङ्कल्पा अपि सत्या: यम्य सः मत्यसङ्कल्पः. सर्वम्य वशी सर्वम्य त्रह्मादेवशी, सर्वम्येशानः ईशिता च ब्रह्मेन्द्रप्रभृतीनां, सर्वस्याधिपतिः अधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः । ब्रह्म- योनिः ब्रह्मण: हिरण्यगर्भस्य वेदस्य वा योनिः कारणम। परमेश्वरः उत्कृष्टब्रह्मादिनियन्ता, प्रभुः सर्वक्रियासमर्थः, विश्व- रपः विश्वत्वेन सर्वचेतनाचेतनत्वेन स्थितं रूपं स्वरूपं यस्य स तथा सर्वात्मेति यावन। कृष्णपिङ्गळ्ः देहपरिजिघृक्षायां म्त्री पुंमशवलाकार: पराधक्त्यविनाभूतो वा। उक्तं च भाष्यकारै: 'पगाशक्तिमित्रं नुमः पञ्चवक्तमइति। अथवा कण्ठे कृषणं ललाटे पिङ्गळं रूप गस्य, ऊधर्वरेता: मदा सन्दीप्रतपस्क:, अनेन धर्मज्ञानवैराग्यसंपन्नः भस्मोद्धलिताङ्गख्िपुण्ड्ावलिदीप्र:
Page 64
५६ दहरविद्याप्रकाशिका।
रुद्राक्षमालाभरण:, जटामकुटमण्डितः, सर्वदा स्वात्मध्यानपर इत्युक्तं भवति, विरूपाक्षः विपमलोचनः, विशोक: दुःखसं- स्काररहितः आनन्दपूर्णहृदयः, स्मेराननश्च, उमासहायः उमा ब्रह्मविद्या भवानी सहायो यस्य स तथा, यद्वा उमा सैव वामभा- गरूपेण सहायः यस्यार्धनारीश्वरस्य स तथा, त्रिलोचनः त्रीणि लोचनानि सोमसूर्याशनिरुपाणि यस्य, नीलकण्ठः कालकण्ठः, प्रशान्तः प्रसन्नेन्द्रियवदनः। ननु प्रशान्तत्वे अविद्यातत्कार्यही- नत्वे क्थं विशदेशत्वादिकं, अरुपत्वे वा क्थं विलोचनत्वा- दिकं, विगतेशित्वादौ वा कर्थ सत्यकामत्वादिकं, एकत्वे वा कर्थं विश्वरूत्वं वशित्वादिकं, उमासहायत्वे वा कथं ऊर्धव- रतस्त्वं, विग्रह्वत्त्वे वा कथं विजरत्वादिकं, इत्येवमादिविरो- धशङ्कापरिहारार्थ अद्भुतमिति विशेषणम्। अद्धतः आश्चर्य- करः 'मायां तु प्रकति विद्यान्मायिनं तु महेश्वरम' इति एकमेवाद्वितीयमिय्यादिश्रुतिव्रशान स्व्रभावतः एकत्वारूपत्वा- ढिकं, मायावशात् वशित्वादिकं च सर्व उपपद्यते। उक्तं.च सूतकरण :सर्वधर्मोपपत्तश्च इति। इदमग्य भाष्यं, 'चेतनं व्रह्म जगतः कारणं प्रकृतिश्चेत्यम्मिन्नवधारित वेदार्थे, परै- रपक्षिमान विलक्षणत्वादिदोषान पर्यहार्पीदाचार्य:। इदानी परपक्षप्रतिपेधप्रधानं प्रकरणमारिप्समानः, स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति, यस्गादस्मिन ब्रह्माण कारणे परिगृह्यमाणे
Page 65
दहरविद्याप्रकाशिका। ५७
प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपदयन्ते, सर्वज्ं सर्व- शक्ति महामायं च ब्रह्मेति, तम्मादनतिशङ्कनीयमिदमौपनि- षदं दर्शनम' इति। अनन्तरं फलनिरूपणं क्रियते। ननु उपनिष- च्तुष्टथेपि एकरूपतया फलं न प्रतीयते। तथा हि, छान्दोग्ये तावन् 'स यावन क्षिप्येन्मनस्तावदाहित्यं गच्छति ' इत्युपक्रम्य 'शतं चैका च हृदयम्य नाड्यस्तामां मूर्धानममिनिम्मृतैका। तयोर्ध्वमायन्नमृतत्वमेति इति आदित्योपलक्षितार्चिरादिमार्गद्वा- ग मूर्धन्यया नाड्या देहान्निर्गमनपुरम्सरं ब्ुह्मलोकप्राप्तिः फलं प्रनीयते। बृहदारण्यके तु 'अभयं वै जनक प्राप्तोऽसि इति जीव- न्मुक्तिरेव फलं प्रतीयने। तैत्तिरीयके 'सनो देवउशुभया स्मृत्या मंधुनक्त' इत्यादिना ज्ञानादिकभेव फलं। कैवल्ये तु ध्यात्या गुनिर्गच्छति भृतयोनि समस्नमाक्षि नममः परस्तान् इति
ध्यानफर्ल प्रतीयन इति चेत् अश्ोच्यते, कैवल्ये तावन् भम- स्तसालिं तममः परस्तादित्यनेन मायासंम्पर्शरहितं केवल- वैतन्यस्तरूपं निरुपाधिकं वस्तु नोच्यते भूतयोनिशब्दसाभा- नाधिकरण्यान, कि नहि मागया अवशीकृतं वशीकृतमाया- तत्कार्य सर्वक्ञं आकाशादिभूनभौतिककारणं सोपाधिकमेव परमशिवम्वस्पगर्चिरादिमार्गेण गत्वा, गच्छति प्राप्नोतीति। इतो- डपि परगंधर एवोपाट्यः, यनः ब्रद्दरुद्रेन्द्रादयस्तद्विभूतयः S
Page 66
दहरविद्याप्रकाशिका।
इत्याह श्रुनिः 'स त्रह्मा स शित्रस्सेन्द्रस्सोडक्षरः परमम्वराट् स एव विष्णुम्स प्राणस्स कालोडभनिक्स चन्द्रमाः स एव सर्व यन भूतं यज्ञ भव्यं सनातनमइति। अनन्तरमपि निर- पाधिकम्य तम्यैव पगमशिवस्य प्रत्यगात्मत्वेन ज्ञानान् कैवल्य- मुक्तिरित्याह श्रुतिः 'ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये' इति। गदुक्तं तैत्तिरीयके स नो देव इत्यादिना ज्ञान- मेव फलमुक्तमिति, यदि तत्र ज्ञानं निगुणसाक्षात्कारा- भिप्रायं तर्हि क्रममुक्तगिप्रायं तत् । यदि उपास्यञ्रह्- विषयकं तर्हि उपासकम्य शरीगवसानकाले 'तदोको- ग्रज्वलनम इति न्यायान उपास्यसाक्षात्काराभिप्रायमेव। बृह्दारण्यके तुतत्र उपासना न विवक्षितैव सत्यकामत्वादि- गुणानां तत्र ज्ञेयब्रह्मस्तुत्यर्थत्वमेवोपसंहतमिति पूर्वमेवाक्तं। छा- न्दोग्ये तु 'वाङ्मनसि दर्शनाच्छव्दाच्च इत्यारभ्य 'समाना चासत्युपक्रमादमृतत्वं चानुपोध्य' इत्यन्तेन सूत्रसन्दर्भेण. अस्य सौम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते, मनः माणे प्राणस्तेजसि तेजः परस्यां देवतायां संपद्यते' इति प्राय- णविपया श्रुतिर्व्याख्याता। प्राणस्तेजसीति तजउशब्दवाच्यं साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुसः परस्यां देवतायां संपद्यत इति। 'तदापीतेस्संसारव्यपदेशा- न्ंइति सूत्रे 'तन् तेजआदिभूतसूक्ष्मं श्रोतादिकरणाश्रयभूतं
Page 67
दहरविद्याप्रकाशिका । ५९
आपीतेरासंसारमोक्षान सम्यङ्ज्ञाननिमित्तादवतिप्ठते' इत्यप्यु क्तं।'प्रतिषेधाहिति चेन्न शारीरान्' इत्यारभ्य 'तानि परे तथा ह्याह' इत्यन्तेन सूत्रसन्दर्भेण निगुणत्रह्मविदुष इहैव लिङ्गशरीरना- शो दशितः सगुणत्रह्मविद्यावतः नदोकोऽग्रज्वलनं तत्प्रका- शितद्वारो विद्यासामध्यान त्छेपगत्यनुम्मृतियोगाचच हार्दानु- गृहीतः शताधिकया' इति मूर्धन्यया नाड्या उत्क्रान्ति- रुक्ता। इदमस्य भाव्यं-'तम्य उपसंहनवागादिकलापम्य उच्च- ऋमिषोर्विज्ञानात्मन ओक आयतनं हृदयं 'स एनाम्तेजोमा- त्राम्समभ्याददानो हृदयमेवान्ववक्रामति' इति श्रुतस्तदग्रजलन- पूर्विका चक्षुरादिस्थानापन्ना च उत्क्रान्तिउश्रयते 'तम्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा, मूध्नों वा. अन्येभ्यो वा शरीरदेशेभ्यः इति'। 'स किमनियमेनैव विद्वढ़तरिदुषोभवति अथास्ति कश्चिद्विदुषो विशेषनियम इति तिचिकित्सायां श्रुत्यविशेषादनियम
तत्प्रकाशितद्वारत्वे च मूर्ध्नस्स्थानादेव विद्वान निष्काम- ति, स्थानान्तरेभ्यस्त्वितर, कुतः, विद्यासामर्ध्यान् यदि विद्वानपीतरवन यतः कुतश्रिद्देहदेशादुत्कामेन् नैवोत्कृष्ठ लोकं लभेत तत्रानथिकैव विद्या स्यान्, तच्छेषगत्यनुम्मृतियोगाज विद्याशेषभूता च मूर्धन्यनाडीसंबन्धा गतिरनुशीलयितत्र्या
Page 68
६० दहरविद्याप्रकाशिका।
विद्याविशेषेषु विहिता, तामभ्यस्यन तरयव प्रतितिष्ठत इति युक्तं। तस्मादृदयालयेन ब्रह्मणा सूपासितेनानुग्रहीतस्तत्मावं समापन्रो विद्वान मूर्धन्ययैव शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिरितर, तथा हि हार्दविद्याम प्रकृत्य समामनन्ति 'शत चैका च हृदयस्य नाड्यस्तासां मूर्धानमभि- निस्सृतैका। तयोध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमण भवन्ति।।' इति एतन् सर्व दहर विद्यायां विहितमेव। किं च सगुण- ज्रह्मविद्यावतः मार्गचिन्तनमपि कर्तव्यमिति उत्क्रान्त्यनन्तर- मर्चिरादिमार्गप्रकारोऽपि चिन्तितः 'अचिरादिना तत्प्रथितेः' इत्यारभ्य 'वैद्युतेनैव ततस्तच्छते' इत्यन्तैस्सूतैः एतेषां निष्कृष्टो- डर्थः प्रदर्श्यते, उपासकः रश्मिसमन्वितया मूर्धन्यया नाड्या लिङ्गशरीरयुक्तस्सन स्वदेहान्नि्क्रम्य अग्निदैवतं प्राप्नोति, तेन नीतः अहरभिमानिदैवतं, तेन नीत; पूर्वपक्षाभिमानिनं, तन नीतः उत्तरायणाभिमानिनो दैवतान्, तैर्नीतस्संवत्सरा- भिमानिनं, तेन नीतः देवलोकाभिमानिनं, तेन नीतः वायुदैवतं, वायुकृतेन रथचक्रम्थरन्ध्रतुल्यंन रन्त्रण वा- युनव नीतः आदित्यं प्राप्नोति । तेन नीतः चन्द्रं । तेन विदुद्भिमानिदैवतं। तब स्थितस्सन ब्रह्मलोकादागतेना- मानवपुरुषेण विद्युह्लोकं प्राप्नेन राजोपचारयुतेन वरुणेन्द्र- प्रजापतिकृतसाहाय्यानुष्ठानेन तल्लोकद्वारा च ब्रह्मलोका-
Page 69
दहरविद्याप्रकाशिका। ६१
त्नीतो भवतीति। 'ब्रह्मलोकान गमयति' 'ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति' इनि च श्रुतिषु बहुवचनश्रवणान। उक्तं चान्यत्र श्रत्या 'अथ यदतः परो दिवो ज्यतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः प्रष्ठेध्वनुत्तमेषु उत्तमेषु लोकेषु इति लोक- बहुत्वं लोकेषु तरतमभावरूपं च। किं च दहरविद्यासाधनब्रह्म- चर्यस्तुत्यर्थत्वेन 'अथ यदज्ञ इत्याचक्षते ब्रह्मचर्यमेव तन इत्यारभ्य 'अथ यदरण्यायतमित्याचक्षते ब्रह्मचर्यमेव तन' इत्य- न्तेन ग्रन्थेन यज्ञादीनुक्त्वा अनन्तरं अरण्यायनशद्दत्याख्या- नतयाजेन ब्रह्मालोकवर्णनमपि कृतं 'अरश्र ह वै ण्यश्रा्णवी त्रह्मलोके तृतीयस्यामितो दिवि तंदैरं मदीयं सरस्तदश्वत्थस्सी- ममवनस्तदपराजिता पूर्वह्मण: प्रभुविमितं हिरण्मयं वेइम, तद्ा एत्रैतावरं च ण्यश्चार्णतो ब्रह्मलोके ब्रह्मचर्येणानुविनदन्ति तेषामे वैष ब्रह्मलोकस्नेपां सर्वेषु लोकेषु कामचारो भवनि' इति। इदमस्य भाष्यं-यजनावज्ञः एषणादिष्ं सतस्नाणान सत्ता- यणं मननान्मौनं अनशनादनाशकायनं अरण्ययोर्गमनाद- रण्यायनमित्यादिभिमहृद्धिः पुरुषार्थसाधनैः स्तुतत्वाद्गह्मचर्य परं ज्ञानसहकारिकारणमित्यतो ब्रह्मविदा यत्ननो रक्षणी- यमित्यर्थः'। तत्र हि ब्रह्मलोके अरश्र ह् वै प्रसिद्धौ व्यश्राणवो समुद्रो समुद्रोपमे सरसी वा, तृतीयस्यां भुवमन्त- रिक्षं चापेक्ष्य तृतीया दौः तम्यां तृतीयस्यामितोऽम्मालोका-
Page 70
६२ दहरविद्याप्रकाशिका।
दारभ्य गण्यमानायां दिवि तत्रैव ऐरे इरा अन्नं तन्मयः ऐर- भण्डः तेन पूर्णमैरं, मदीर्य तदुपयोगिनां मदकरं हर्षोत्पादकं सरः, तत्रैव चाश्वत्थो वृक्षः सोमसवनो नामतः, सोमममृतं तन्निम्वोडमृतप्रसव इनि वा, नत्रव च ब्रह्मलोके ब्रह्मचर्य- साधनरहितैः ब्रह्मचर्यवद्धयऽन्यैरब्रह्मविद्धिः न जीयत इत्य- पराजिता पूः पुरी ब्रह्मणो हिरण्यगर्भस्य ब्रह्मणा च प्रभुणा विसित विशेषेण मितं निर्मित तञ्च हिरण्मयं तज्च सौवर्ण नुवविभितमण्डमिति वाक्यशेषः। तत्तत्र ब्रह्मलोके एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेन विन्दन्ति तेषामेवैषः यो व्याख्यातः ब्रह्मलोकः, तेषां च ब्रह्मचर्यसाधानवतां ब्रह्म- विदां सर्वेधु लोकेषु कामचारो भवति नान्येषां ब्रह्मचर्यपराङ- मुख्वानां विषयासक्तबुद्धीनां कढाचिदपीत्यर्थः इति। ढहरविद्याङ्गमन्त्रः 'शयामाच्छबळं प्रपद्ये शबळाच्छयामं प्रपथ्ये अश्व इव रोमाणि विधूय पापं, चन्द्र इव राहोमुर्खात् प्रमुच्य, धुत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभव्राम्यभिसंभवामीति' इति अम्य भाष्यम-'श्यामान् शबळं प्रपद्ये इत्यादिमन्त्राम्रा- यः पावनो जपार्थ आध्यानार्थो वा श्यामो गम्भीरवर्णः श्याम इव श्यामो हार्द ब्रह्म अत्यन्तदुरवगाह्यत्वात् हाई ब्रह्म जित्वा ध्यानेन, तस्माच्छ््यामाच्छबळं, शबळ इव शबळोऽणि-
Page 71
दहरविद्याप्रकाशिका। ६३
मादनेककाममिश्रत्वान। बरह्मलोकं प्रपदे मनसा शरीग्पाना दूर्धव गच्लेयं यन यम्मादहं शबलात् बरह्मलोकात नामरूपड्या- करणाय उयामं प्रपथे हार्दभावं प्रपन्नोडम्मीत्यगिप्रायः अतस्त- मेव प्रकृतिम्वरूपमात्मानं शबलं प्रपथे इत्यभिप्ायार्थः । कर्थ शबलं द्रह्मलोकं प्रपद इत्युच्यते, अश्व इत स्वानि लोमानि विधूय कंपनेन श्रमं पांस्वादि च लोम्णामपनीय यथा निर्ग- लो भवति एवं हार्दबरम्मजयेन विधूय पापं धर्माधर्माख्यं, चन्द्र इच राहुमस्तम्तस्माद्वाहोर्मुखान प्रमुच्य भाम्वतरो भवति तथैनं धुत्वा प्रहाय शरीरं सर्वानर्थाश्रयमिहैव ध्यानेन कृतात्मा कृत- कृत्यम्सन अकृतं नित्यं ब्रह्मलोकमभिसंभवामि, द्विर्वचनं मन्च्- परिसमाप्त्र्थ' इति। ननु स एनान ब्रम्म गमयतीति कार्यब्रभ्म- प्रापकत्वममानवस्य प्रतीयते ब्रह्मलोकान गमयति, ते तषु ब्रद्मलोकेष्विति च उपासकम्य कार्यत्रह्मलोकप्राप्तिः प्रतीयते तेषां ब्रह्मलोकानां बहुत्वं च 'विश्वतः प्ृष्ठेपु सर्वतः पृष्ठेप्वनु- त्तमेपूत्तमेषु लोकेषु' इति लोकानां तरतमभावश्र।किंच देवों भूत्वा देवान अप्येति' इति च देवबहुत्वं चति चेदुंच्यते, मूर्ध- न्यनाडीयुक्तार्चिरादिगतिचिन्तनं शयामाच्छबळं प्रपथे इत्यादि- मन्त्रोक्तध्यानपुरस्सरं 'त्वंवा अह्मस्मि भगवो देवते अहं वै त्वमसि इत्युक्तप्रकारेण अहंग्रहोपासनं साक्षात्कारपर्यन्तं कृतवतः पूर्वोक्ताधिकारिणः कार्यत्रह्मप्राप्तिः मायुज्यमिति
Page 72
६४ दहरविद्याप्रकाशिका।
यावन्। अहंग्रहोपासकानामेव उपास्यसाक्षात्काररहितानां, अहं- ्रहत्यतिरिक्तोपासकानां :तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतस्स पुरुषोऽ््ययात्मा' इति मन्त्रोक्ताधिकारिणां ब्रहालोकतप्रापककर्मानुष्ठायिनां च ब्रह्मलोकप्राप्तिः । तत्रापि योग्यतया सासप्यसामीप्यसालोक्यम। उक्तें च श्रुत्या 'एतामामेव देवतानां सायुड्यं सार्ष्टितां समानलोकता- गाप्नोति' इति। उक्त्तं च भाष्यकारेण जगद्वयापाराधिकरणे, ' ये सगुणव्रद्मोपासनान महैव मनसा ईश्वस्सायुड्यं त्रजन्नि' इति कण्ठर्वेणोक्तीं सायुड्यं इद च मगुणमायुड्यमेव। तदप्युक्त ते- नैन, 'विकाशवर्ति च तथा हि स्थितिमाह इति सूतव्याख्याना- वसरे, विकाशदर्त्यपि च नित्यमुक्त पारमेधरं रूपमस्ति, न केवलं विकारमात्रगोचरं सवित्मण्डलायघिष्ठानं, तथा ह्म्य द्विव्पां स्थितिभाह आम्नायः 'तावानम्य महिमा तेतो ज्या- यांश्र पुरुष: पादोम्य विश्ा भूनानि त्रिपादस्यामृत दिवि इत्येवमादिः न च तन निर्विकाररूपगितसलम्बना: प्राप्नुवन्ती- ति शक्यं वक्तुं अतत्कतुत्वात तेपां, अवश्च यदैवं दविरूपे परमेधरे निर्गुणं रूपमनवाष्य सगुणा एव तिष्ठन्ति। इति। एवं 'भोगमात्रमाम्यलिङ्गाच' इति सूत्रव्याख्यानावसरे 'तेनो एतस्यै देवतायै सायुड्यं सलोकतां जयति'इति श्रुतिरुदाहता।
Page 73
दहरविद्याप्रकाशिका। ६५
अनेन उपासकस्य सालोक्यमप्यस्तीति सूचितं। एवं लोकबहु- त्वं लोकानां तारतम्यं च अनावृत्तिसूत्रत्याख्यानावसरे सू- चितं 'नन्वेवं सति सातिशयत्वादन्तवतत्वं ऐश्वर्यस्य स्यात्ततश्र तेपामावृत्ति: प्रसज्येत' इति अत उत्तरं भगवान् बादरायण आ- चार्य: पठति 'अनावृत्तिउशब्दादनावृत्तिशशब्दान्' इति। नाडी- रश्मिसमन्वितेनार्चिरादिपर्वणा देवयानेन पथा ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति 'यम्मिन्नरं च ण्यं चार्णवौ ब्रह्म- लोके तृतीयस्यामितो दिवि यम्मित्नैरं मदीयं सरो यम्मित्रश्व- त्थस्सोमसवनो यस्मिन्नपराजिता पूर्त्रह्मणो यम्मिश्र प्रभुवि- मितं हिरण्मयं वेश्म यश्चानंकधा मन्त्रर्थवादादिप्रदेशेषु प्रपश्चयते, तं ते प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते कुतः 'तयोर्ध्वमायन्नमृतत्वमेति, तेषां न पुनरावृत्तिरेतेन प्रति- पद्यमाना इमं मानवमावर्त नावर्तन्ते ब्रह्मलोकमभिसंपद्य न च पुनरावर्तते' इत्यादिशव्देभ्यः। अन्तवक्पेऽपि त्वैश्वर्यस्य यधाना- वृत्तिस्तथा वर्णित'कार्यात्यये तदध्यक्षेण सहातःपरं इत्यत्र इति।तब हि 'ब्रह्मणा सह ते सर्वे संप्राप्ने प्रतिस रे। परस्यान्त के- तात्मनः प्रविशन्ति पा पदम्।इत्युक्तं। अत्र मन्त्रार्थवादादीत्या- दिशव्देन इतिहासपुराणादयो गृह्यन्ते। नन्त्रादिशब्देन इतिहात- पुराणादयः उक्ता इति कथमवगन्तुं शक्यते, उच्यते देवताधि- करणादिषु भाव्यकारेण कण्ठरवेणोक्तत्वान। तत्रहीद भाष्यं 9
Page 74
६६ दहरविद्याप्रकाशिका।
सन्त्रार्थवादतिहासपुराणलोकेभ्यो देवतादीनां विग्रहवत्वावग- मान्' इति। तथा च इतिहासपुराणादिपु ब्रह्मलोकः अनेकत्वेन तरतमभावेन च वर्णितः। एवं च ब्रह्मलोकप्रतिपादकौ मन्त्रार्थ- वादौ 'इयामाच्छबळं प्रपद्ये' इति 'अरश्र ह वै ण्यश्रार्णवौं' इतिच पूर्वमेव प्रदर्शितौ। भारतनामके इतिहासे महाभिषग्ग- ङ्गादिचरित्रवर्णनं ब्रह्मलोके प्रसिद्धमेव। शिवरहस्यनामके इति- हासे तृतीयांशादौ, श्रुतौ ब्रह्मलोकत्वेन वर्णितब्रह्मविष्णुशिवलो- कादीनां अतिशयविशेष: तेषां तरतमभावश्च बहुधा प्रपश्चितः । पुराणेषु स्कान्द्शिवधर्मोत्तरादिपु त्रह्मलोकातिशयः तेषां तरतम- भावश्र वर्णितो दश्यते, तथा हि स्कान्दे सूतसंहितायां मुक्ति- खण्डे तृतीयाध्याये देवलोकादयपेक्षया ब्रह्मलोकस्य उपरिभाव: तत्रापि अवान्तरविभागः तत्र हि हिरण्यगर्भलोकापेक्षयाऽपि विष्णुलोकस्य उपरिभावः तह्ोकापेक्षया रुद्रलेकंम्य स प्रती- यते। तस्मित्रध्याये हि 'यः पुमान देवदेवेशं त्रितेत्रं चन्द्रशेखरं। उमार्धविग्रहं शुद्धं नीलग्रीवं महेश्वरम ॥ त्रह्मविष्णुमहेशानै- रपास्यं गुणमूर्तिभिः । उपास्ते तस्य विज्ञानं जायते पारमे- शवरम ॥' इति उमासहायादिविशिष्टमूर्तिमहंग्रहेणोपासीनस्य तस्य तत्साक्षात्कारद्वारा सगुणसायुज्यं प्राप्तस्य क्रमान्निर्गुण- शिवसायुज्यप्रापक निर्गुणशिवज्ञानं जायत इत्यप्युक्त्वा, अथ- वा चित्तकालुव्याच्छिवसारप्यमच्युतं लक्वा भुक्त्वा सहा-
Page 75
दहरविद्याप्रकाशिका । ६७
भोगानन्ते विज्ञानगैशरं इत्यादिना चित्तपाकानुगुण्येन शित्- लोकम्थिनमगलछावतरिशवसारूयं प्राप्य नत्र गोगान भुक्त5 न्ते शिवज्ञानमपि प्राप्नोनीनि चोक्त्वा यशितं गुणमूर्वीना- मित्ादिरुद्र मामप्यमत्यदा सायुवं विद्यया आपनुयािन्यव्तेन पन्थन अधिकाराधानुगुण्येन सारूप्यमालोक्यादिकमुनत्वा अनन्तरं, अधवा विषुलोकादीनवाय 'नत्र गत्वा मह: भागानवाप्य कमलेक्षण। परुथितरयां जायने शुद्धे श्राह्मणातां कुले नगः ।' इति शिवलोकप्राप्त्यनतर रागादियुक्त्तग पूरु- धस्थ विष्णुलोके आगत्य भोगान भुक्त्वा, आदिशब्देन प्रजा. पतान्द्रादिललोकानप्यागन्य तष्वपि भोगान भुक्त्वा, अनन्तर भूर्गो सत्कुले जायत इति। अनेन शिवलोकापेक्षया विष्णुदिरण्य- गर्भादिलोकानामधोभावः स्पष्टीकृतः । एवं शिवविष्णादिलो- कानामुपर्यधोभावः अत्मिन्नध्याये बहुधा प्रपश्चितः। एतमेव शिवधर्मोत्तर पाताळलोक्मारभ्य तर्पोलोकपर्यन्तं त्रयोदशलो- कानामुपरिभावं पूर्वपूर्वलोकापेक्षया उत्तरोत्तरलोकस्य योज- नसंगयापुरस्सरं वर्णयित्वा अनन्तरं 'सत्यलोकस्तपोलोकात कोटिषटकसमुच्छितः ।' इति त्रझ्मलोकस्य तपोलोकपक्षया उपरिभातमुक्त्वा अनन्तरं च। 'ब्रह्मलोकाद्विष्णुलोको द्विगुणेन समुच्छितः। विस्तरेण तदर्ध न दिव्यभोगसमन्वितः ।
Page 76
६८ दहरविद्याप्रकाशिका।
विष्णुलोकाज्च परतः श्रीमच्छिवपुरं महत्। द्वात्रिशन कोटिविस्तीण तदर्धेन समुच्छिृतम् ॥ सूर्यायुतप्रतीकाशं सर्वकामार्थसिद्धिदम् । अनेकाकारविन्यासरचनाप्रतिशोभितम्॥ सर्वरत्नमयैर्दिव्यैस्तप्तजाम्बूनदप्रभैः । सहस्रशतभौमैश्र् तदष्टगुणभूमिकैः ॥
गीतनृत्तर सोपतैर प्रमेयगुणान्वितैः ॥ विमानैस्सर्वतो व्यापं ताराभिरिव चाम्बरम्।' इत्यादिना शिवपुरवर्णनादिकं च कृत्वा अनन्तरं, 'सिंहन्याघ्रमुखैर्दिव्यैगजवाजिमृगाननैः' इत्यादिना प्रमथ- गणादिवर्णनं च कृत्वा तदनु विचित्रा भूमयस्तत्र वजूवैडूर्यसुप्र- भाः। इत्यादिना तत्रत्यरम्यस्थलवर्णनं तत्र विद्यमानसुन्दरी- जनवर्णनं च कृत्वा तदनूक्तम 'तन्मध्ये सवतो भद्रं दिव्यमायतनं महत्। शुद्धस्फटिकसंकाशं स्थानमाद्यमुमापतेः ॥ तत्रास्ति भगवान सोमः पूज्यमानो गणेश्वरैः । सिद्धैश्च स्थानसंप्राप्तैर्ब्रह्मविष्ण्वग्निवायुभिः । ईश्वरायतनस्याग्रे श्रीमान् धर्मो व्यवस्थितः ॥' इति किश्व -
Page 77
दहरविद्याप्रकांशिका। ६९
'दिनकृत्कोटिसंकाशं स्थानमाद्यमुमापतेः । सर्वकामसमायुक्तं विशुद्धं नित्यमक्षयम् ॥ संप्राप्य तत्पदं दिव्यमन्तःक्ेशविवर्जिताः । सर्वज्ञा: सर्वगाउशुद्धाः परिपूर्णा भवन्ति च। विशुद्धकार्यकरणाः परमैश्वर्यसंयुताः । सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः ॥ ये संप्राप्ताः परं स्थानं ज्ञानयोगरता नराः। न तेषां पुनरावृत्तिर्घोरसंसारमण्डले ।!' इति। 'सङ्कल्पादेव तु तच्छतेः' इत्यारभ्य अनावृन्तिशशब्दादित्ये- वमन्तैस्सूत्रैस्सायुज्यादिपद प्राप्तानां व्यापारो दर्शितः ! ननु 'आत्रह्मभुवानाह्ोकाः पुनारावृत्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥' इति। ब्रह्मलोकं प्राप्तानामप्यावृत्ति: स्मर्यते। न च 'इम मानव- मावत नावर्तन्त' इति 'तेषामिह न पुनरावृत्तिः' इति चैव- माद्िश्रुतिविरोध इति वाच्यम। इममिहेति विशेषणाम मान- वान्तरे कल्पान्तर चावृत्तेर निवारणादिति चेत सत्यं ब्रह्मलोकप्रा- प्िसाधनानि बहूनि सन्ति अधिकारितारतम्यानि च, तैस्माधन- विशेषैरधिकारितारतम्यैश्र सालोक्यसामीप्यसारूप्यसायुज्य- प्राप्तिः अहंग्रहोपासकानां उपास्यतादात्म्यरहितानामुपासनान्त- रानुष्ठानवतां कर्मविशेषानुष्ठानवतां ज्ञानरहितसन्न्यासिनां च
Page 78
७० दहरविद्याप्नकाशिका।
श्रह्मलोकगमनम। तत्रापि यथायोग्यं सारूप्यसामीप्यसालोक्य- मिति पूर्वमेव वर्णितं। 'तत्नापि ब्रह्मणा सह ते सर्वे संप्राप्ते प्रति- सक्चरे। परस्थान्ते कृतात्मानः प्रतिशन्ति परं पदम ।' इति वच- नान्। ये कृतात्मानः ज्ञानवन्तः तेपां परपदप्राप्तिः निरतिशय- मोक्षः । अकृतात्मनां तु आवृत्तिरेव, अकृतात्मत्वं तु। इह उपासनानुष्टानकाले विषयरागादिनेति कल्पनीयम। इदं सर्व पुराणेषूक्तमेय। इहैव देवनातादात्म्यसाक्षान्कारपर्य- न्तभुपासनवतां सगुणसायुज्यप्राशिरेव, तेषां मुक्तिरज्ञीनं च सिद्धमेव किं च उपासनाङ्गमन्त्रपि, 'धूत्वा शरीरं अकृतं कृतात्मा इति क्रममुक्तिस्सिर्द्धवाडभिहिता'। कि च • तयाध्वमायन्नमतत्वमेति' इति मूर्धन्यया नाड्या ब्रह्म- लोकं गतम्यामृतत्वप्राप्तिर्वर्णिता। अपि च "कुटुम्बे धुचौ देशे स्वाध्यायमधीयानो, धार्मिकान्विद्घढ़ात्मनि सर्वे- नवगाणि संप्रतिष्ठाप्याहिंसन सर्वभूतान्यन्यत्र तीर्थेभ्यस्स खल्वे- वतयन्यावदायुप ब्रह्मलोकमभिसंपद्यते न च पुनगवर्तते" इति ब्रह्मलोकं गतस्यानावृत्तिउश्रयते। ननु इयं श्रुति- र्भाध्यकारण ब्रह्मलोकप्राप्तिकथनपरत्वेन न व्यारूयाता। तथा हि कुटुम्ब इत्यारन्य धार्मिकान्विद्धदित्यन्तं व्याख्याय आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्य इत्यस्य ग्रन्थस्य संन्यास- परत्वेन व्याख्यान कृतं। तथाहि 'आत्मनि स्वहृदये हार्दे
Page 79
दहरविद्याप्रकाशिका। ७१
ब्रह्मणि सर्वेन्दियाणि संप्रतिष्ठाष्य उपसंहत्य, सर्वेन्द्रियग्रहणान कर्माणि च संन्यम्य, अहंसन हिमां परपीडामकुर्वन सर्वभूतानि, स्थावरजङ्गमानि भूतान्यपी डयन्नित्यर्थः । भिक्षादिनिमित्तपर्यट- नादिना पीडा स्यादित्यत्राह अन्यत्र तीर्थेभ्यःतीर्थ नाम शास्त्रानु- ज्ञाविषयः ततोऽन्यत्रेत्यर्थः सर्वाश्रमिणां चैतत समानं तीर्थेभ्यो- डन्यत्र हिंसैवति। अन्ये तु वर्णयन्ति कुटुम्ब एव एतन सवे कुर्वन स खल्वधिकृतो यावदायुषं यावजजीवं स यथोक्त- प्रकारेण वर्तयन् ब्रह्मलोकममिसंपद्यते देहान्ते। न च पुनरा- वर्तत इति पुनारावृत्ते: प्राप्तायाः प्रतिपेधान अचिरादिना
त्रैद तिष्ठति प्राक् ततो नावर्नत इत्यर्थ;' इति। यद्यपि क्रह्म दोक- प्राप्तिः भाव्ये प्रतीयते तथापि अन्ये तु वर्णयन्तीत्यादिना स्वाभिमतं न भवतीति प्रतीयते। ननु तम्य व्याख्यानम्य युक्तत्व्रे अनभिमतत्वं कथमिति चेन युक्तत्वमेव नाम्तीति प्रतीयते। तथाहि व्यवहितान्वयदोषः, कुटुम्य एव यावदायु्प स्थित्वेति, कुटुम्ब एव एतन् सर्व कुर्वन्निति कुदुम्ब इति पदं अध्याहर्तव्यं। ब्रह्मलोकमभिसंपद्यते देहान्त इति देहान्तप्द च अध्याहर्तव्यम। किश्च आचार्यकुलादिति ब्रह्मचर्यण उक्तस्वात कुटुम्ब इति गार्हस्थ्यवानप्रस्थयोरुक्तत्वान आत्मनि सर्वेन्दि- याणि संप्रतिष्ठाप्येत्यनेन संन्यासोक्त्यौनित्याच्च इति चेत
Page 80
७२ दहरविद्याप्रकाशिका।
सत्यं अत्यन्तविरक्तं मुख्याधिकारिणं प्रति श्रुतिस्व्रारस्यादेव- मेवार्थः प्रतीयते। अत एव श्रुत्यन्तरं 'ब्रह्मचर्य समाप्य गृही भवेत् गृहात् वनीभूत्ा प्रत्रजेन्' इति। किश्व भाष्यकारैरप्युक्त उपदेशपश्चके वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्टी- यताभित्यादिना ब्रह्मचर्य गाहस्थयं चोक्तं। अनन्तरं नि- जगृहत्तूर्ण विनिर्गम्यतामित्यनेन वानप्रस्थाश्रमम्सूचितः ।अन- न्तरं दढतरं कर्माशु सन्त्य्यतां इत्यनेन संन्यासस्सा- क्षादुक्त, सद्विद्वानुपसप्यतामित्यादिना श्रवणादिकमुक्तं। एका- न्ते सुखमास्यतामित्यनेन समाधिरप्युक्त:, प्रारब्धं त्विह भुज्य- तामित्यनेन जीवन्मुक्तिरुक्ता, अथ परब्रह्मात्मना स्थीयतां इत्यनेन विदेहमुक्तिरपि। अमुख्याधिकारिणं अविरक्तं प्रति तु कथं सर्वकर्मसंन्यासविधानं संन्यासिनो वा मन्दस्य कथं निर्गुणे ब्रह्मणि निष्ठा। अत एवोक्तं भाव्यकारेण निर्गुणब्रह्मनि- ष्टायागनविकारिणं संन्यासिनं प्रति, आत्मनि स्वहृदये हार्दे ब्रह्ाणि सर्वेन्द्रियाणि संप्रतिष्ठाव्य उपसंहृत्य, सर्वेन्द्रियग्रहणात कर्माणि च संन्यस्येति। किश्व सगुणनिर्गुणविद्याद्वयमपि प्रकृतं 'आकाशो है वै नामेति 'श्यामाच्छवळं प्रपद्य' इति च। अवि- रक्तस्य तु मन्द्ाविकारिणः अन्धे त्विति व्याजेन सवेमुक्तं सूत- संहितायाम-'अथातस्संप्रवक्ष्यामि गाहस्थं संग्रहेण तु। अधी- त्य वेदान् विविधान पूर्वोंक्तनैव मर्गतः॥ आचार्यानुज्ञया युक्-
Page 81
दहरविद्याप्रकाशिका।
रम्नात्वा गार्हस्थ्यमाविशेन्।' इत्यारभ्य 'पुत्र मुत्पादयेत् स्वस्यां पितृणामृणशान्तये। सत्यं ब्रयात् प्रियं त्रूयान् सर्वभूतेषु सर्व- दा ।।' इत्यन्तेन गृहस्थधर्मान् सर्वानुक्त्वा, 'एवं समाचरन् विप्रो विरक्तश्चेत् गृहाश्रमात्। संन्यसेत् सर्वकर्माणि वेदान्ताभ्यासयत्नवान्। वेदान्तश्रवणाभावे पतितोऽयं भवेन् ध्रुवम्। विरक्तोऽपि मुमुक्षुश्चेन् हंसे वा संन्यसेदही॥ बहूदके वा शक्तश्चेन्न्यसेद्विप्रः कुटीचके। अविरक्तो गृही चान्ते वानप्रस्थं समाचरेन्। अथवा यावदायुप्यं गार्हस्थ्यं सम्यगाचरेन्। गाहस्थ्यादाश्रमास्सर्वे समुत्पन्नारसुरक्षिताः।। तस्माद्वहस्थ एव स्याद्विरक्तो द्विजस्सदा।' तथाच 'आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्य' इति कर्मव्य- तिरिक्तकाले वाह्येन्द्रियविषयव्यापारमकृत्वा हार्दे ब्रह्मणणि मनस्सन्द्धीतेति व्याख्येयम् । एवश्च 'कृत्स्नभावान्त ग्रृहि- णोपसंहारः 'अनावृत्तिश्शब्दान्' 'कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्' 'स्मृनेश्र' इत्येवमादिसूत्रतद्भाध्यादिक मुख्यार्थवत्त्वेनोपपादितं भवति। नतु दहरविद्याप्तिपादकत्वेनो- दाहनश्रुतिषु 'एप आत्मा अपहृतपाप्मा' 'ऋत सत्यं परं ब्रह्म' तथा 'आदिमध्यान्तविहीनमेक' इत्यादिपदसन्दमैंनिर्गुण- 10
Page 82
७४ दहरविद्यांप्रकाशिका।
ब्रह्मस्वरूपमपि प्रतीयते कथं एतदुपासकस्य तदप्राप्तिः इति चेत् सत्यं। उपासकस्य सकलप्रपञचविनिर्मुक्तत्वेन ब्रह्मानु- पासकत्वात् त्वंपदार्थशोधनाभावाच्च। अत्र तु गुणवत्वेनैव उपासनं। गुणानां धर्मिणमन्तरा स्वातन्त्रयेणोपासनासंभवात् आत्मपरब्रह्मपदायुपादानं। उक्तं च भाध्यकारेण 'विकारावर्ति च तथा हि स्थितिमाह' इति सूत्रव्याख्यानावसरे 'न च पन्निर्विकाररूपमितरालम्बनाः प्राप्नुवन्तीति शक्यं तक्तुं अत- त्क्रतुत्वात् तेषाम' इति। तस्माच्छत्युक्तगुणविशिष्टं परमेश्वरं ज्ञानमुक्त्यर्थ पूर्वोक्तप्रकारेण चिन्तयेत्। उक्त्तं च शिवधर्मोत्तरे दशमाध्याये- 'गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि। शुचिर्वाप्यशुचिर्वापि शिवं सर्वत्र चिन्तयेन्। स्वदेहायतनस्यान्तर्मनः संस्थाप्य शङ्करम्। हृत्पद्मपीठमध्ये तु ध्यानयज्ञेन पूजयेत्। ध्यानयज्ञः परश्शुद्धस्सर्वदोषविवर्जितः । तेनेष्ट्ा मुक्तिमाप्नोति बाह्यैशयुद्धश्र नाध्वरैः॥ हिंसादिदोपमुंक्तत्वाद्विशुद्धश्चित्तसाधनः । ध्यानयज्ञः परम्तस्मादपवर्गफलप्रदः ।। तस्मादशुद्धं स्वर्गीयमनित्यं वाह्यसाधनम्। 'यज्ञां कर्म सन्त्यज्य योगं मुक्तर्थमभ्यसेत् ॥' इति।
Page 83
दहरविद्याप्रकाशिका। ७५
तत्रैव तृतीयाध्याये- 'सर्वेषामेव यज्ञानां ध्यानयज्ञः परस्समृतः । नित्यशशुद्धः प्रसन्नश्च सर्वदोषविवर्जितः ॥
ध्यानयज्ञ: परो यज्ञ: स्थूलः शुद्धश्च कर्मजः ॥ विशुद्धैस्साधनैस्सूक्ष्मैध्र्यानयज्ञस्तु साध्यते। सस्मात्तस्माद्विशुद्धोऽयमपवर्गफलप्रदः ॥ अन्तर्यागोपचारेण यः पूजयति शङ्करम्। ध्यानयज्ञेन सततं स याति परमां गतिम् ॥ पुष्पैर्य मनियमाद्यैरात्मैकादशभिवरेः। दशदिक्षु तथा मध्ये यजन्ति परमेश्वरम् ॥ कर्मयज्ञात्तपोयज्ञो विशिष्टो दशभिगुणैः। जपयज्ञस्तपोयज्ञात् ज्ञेयरशतगुणाधिक:। ज्ञानध्यानात्मकस्सूक्ष्मशिशिवयोगो महामखः। विशिष्टस्सर्वयज्ञानामसंख्यातैर्महामखैः ॥' इति। तत्रैव- 'अत्यल्पो5पि यथा दीपस्सुमहन्नाशयेत्तमः । योगाभ्यासस्तथाSल्पोऽपि महन् पापं विशोधयेत्॥ अर्धयामं मुहूर्त वा ध्यायतः परमं शिवम्। यद्रवेत् सुमहत्पुण्यमन्तस्तस्य न विद्यते ॥
Page 84
७६ दहरविद्याप्रकाशिका।
यद्यन्तरा विपद्येत ज्ञानयोगार्थमुद्ातः । श्रद्धया गुरुभक्त्या च रुद्रलोकं स गच्छति ॥ अनुभूय सुखं तत्र कुले जायेत योगिनाम । ज्ञानयोगं तदा प्राश्य संसारमतिवर्तते ॥' इति। शिवधर्मे प्रथमाध्याये- 'एककालं द्विकालं वा त्रिकालं वाऽि नित्यशः । ये समरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वराः ॥' इति। तत्रैव- 'सा हानिस्तन्महच्छिद्रं स मोहस्सान्धमूकता। यत् क्षणं वा मुहूर्त वा शिवमेकं न चिन्तयेत् ॥' इति। 'भवभक्तिपरा ये तु भवप्रणतचेतसः । भवसंस्मरणोशुक्ता न ते दुःखस्य भागिनः ॥' इति च। 'नारुद्रस्संस्मरेदुद्वं नारुद्रो रुद्रमर्चयेत्। नारुद्र: कीतयेद्ुद्वं नारुद्रो रुद्रमाप्नुयान्।। संपर्कात् कौतुकाल्लोभात् भयाद्वाऽपि च संस्मरेत्। कीतयेदर्चयेद्वाऽपि सोऽप्यवश्यं गणो भवेन् ।' इति। तत्रैव सप्रमे- 'ये स्मरन्ति सदा कालपीशानं पूजयन्ति वा । रुद्रलोकात् परिभ्रष्टा विज्ञेयास्ते गणेश्वराः ॥' इति। तत्रैव-
Page 85
दहरविद्याप्रकाशिका। ७७
'स्मरणादेव रुद्रम्य पापसङ्खातपश्जरम्। शतधा भेदमायाति गिरिरवञ्रहतो यथा ॥' इति। तत्रैव एकादशे- 'शिवार्चान्निपरो नित्यं तद्दक्तानां च भोजनम । पर्वमैथुनवर्जस्स्यात् श्रीमान् शिवगृहाश्रमी॥
आत्मार्थ यः पचेन्मोहान्नरकाय स जीवति ॥ यश्शिवत्रह्मचारी स्यान् स शिवार्चाग्नितत्परः । भवेज्जितेन्द्रियशशान्तो नैष्टिको भौतिकोऽपि वा ॥ यस्सर्वसङ्गनिर्मुक्त: कन्दमूलफलाशनः । शिववैखानसो ज्ञेयश्शिवार्चाग्निपरो भवेन् ॥ निवृत्तम्सर्वसङ्गभ्यः शिवध्यानपरस्सदा। ज्ञेयश्शिवयतीन्द्रोऽयं भस्मनिष्ठो जितेन्द्रियः ॥ इति आदित्यपुराणे त्रयस्त्रिंशाध्याये इन्द्रं प्रति बृहस्पति :- 'अस्त्यनन्तगुणावासः परानन्दैकविग्रहः । ध्यातः कैवल्यदः पुंसां महादेवो न चापरः ॥ कर्मपाशनिबद्धानां महामोहात्मनां हरे। स्मरणान्मोचकस्तेषामुमापतिरिति श्रुतिः ॥ क्षणं मुहूर्तमथवा ध्यातस्संपूजितः स्मृतः । प्रदयादाशु कैवल्यं यस्तं भज महेश्वरम् ॥' इति य।
Page 86
७८ दहरविद्याप्रकाशिका।
तत्रैव षट्चत्वारिंशे- 'शाञ्येनाऽपि नरा नित्यं ये स्मरन्ति महेश्वरम । तेऽपि यान्ति तनुं त्यक्त्वा शिवलोकमनामयम् ।' इति। कुलं पवित्रं पितरस्समुद्ताः वसुन्धरा तेन च पावनी कृता।
हृदि स्थितो यस्य सदैव शङ्करः ॥' इति। तत्रैव एकपश्चाशाध्याये- 'स्थूलानि यानि पापानि सूक्ष्माणि विविधानि च। तानि नाशयति क्षिप्रं मुहूर्त शिवचिन्तनम् ।' इति। तत्रैव चतुष्पष्टितमे- 'ब्रह्महा वा सुरापो वा स्तेयी वा गुरुतल्पगः । योऽन्तकाले शिव ध्यायेच्छिवसायुज्यमाप्नुयात् ।' इति। 'एवं सर्वपुराणेषु श्रुतिस्मृत्यागमादिषु । भोगमोक्षप्रदत्वेन शिवध्यानं विधीयते।। श्रुत्यादिसर्वमानज्वैराचार्येः प्रोक्तवर्त्मना। दहरोपासनारीतिरेवं सम्यक् प्रकाशिता॥ मनसि प्रणिधानार्थ पुनः श्लेकि: प्रकाश्यते। विविक्तदेशसंसेवी शुचिर्मौनी सुखासनः ॥ भूतिभूषित सर्वाङ्ग ऋजुकायस्समाहितः।
Page 87
दहरविद्याप्रकाशिका। ७९
जितेन्द्रियो निजं भक्त्या प्रणम्य मनसा गुरुम् ॥ अहमेव हरिस्साक्षान् सर्वज्ञः पुरुपोत्तमः । सहस्रशीर्पा पुरुपः सहस्राक्षस्सहस्त्रपान् ।। विश्वो नारायणो देवो ह्यक्षरः परमप्रभुः । इति ध्यात्वा पुनः स्वस्य हृदयाम्भोजमध्यमे ॥ प्राणायामैर्विकसिते पारमेश्वरमन्दिरे। अष्ठैश्वर्यदळोपेते विद्याकेसरसंयुते॥ ज्ञाननाळे महत्कन्दे प्रणवेन प्रवोधिते। विश्वार्चिषं महावहिं ज्वलन्तं विश्वतोमुखम् ॥ वैश्वानरं जगद्योनिं शिखातन्विनमीश्वरम्। तापयन्तं स्वकं देहमापादतलमस्तकम् ॥। निवातदीपवत् तस्मिन दीपितं हव्यवाहनम् । नीवतोयदमध्यस्थं विद्युल्लेखेव भास्वरम् । नीवारशूकवद्रूपं पीताभासं विचिन्तयेत्। तस्य वह्नेश्शिखायास्तु मध्ये परमकारणम् । परमात्मा परानन्दः प्रणवार्थो महेश्वरः। ऋतं वैतथ्यरहितः सत्यं कालत्रयेऽपि सन् ।। परं ब्रह्म परं तत्वं पुरुषः पूर्णविग्रहः। पुण्यापुण्यादिरहितः विजरो मृत्युवर्जितः ॥ विशोको विजिघत्सोऽन्नभक्षणे रागवर्जितः ।
Page 88
८० दहरविद्याप्रकाशिका।
अपिपासः पानरागविहीनो विशदोऽमलः ॥ अचिन्त्यो वृत्त्यविषयोऽव्यक्तो व्यक्तिविवर्जितः । अनन्तरूप: कालादिपरिच्छेदविवर्जितः ।। शिवः कल्याणनिलयः प्रशान्तो मोहवर्जितः । अमृतश्चादिमध्यान्तविहीनश्चैक एव हि।। विभुर्व्यापी चिदानन्दो ह्यरूपो रूपवर्जितः । सत्यकामस्तथा सत्यसंकल्पश्च परात्मनि ।। सत्या: कामाश्च सन्त्येव वशी सर्वस्य वस्तुनः । ईशानस्सर्वभूतस्य सर्वस्याधिपतिस्तथा ॥ ब्रह्मयोनिर्वेदवेदशिरोलोकेशकारणम्। परमेश्वर उत्कृष्टो त्रह्मादीनां नियामकः ॥ प्रभुम्सर्वक्रियाधृष्टो विश्वरूपोऽखिलात्मकः। कृष्णपिङ्गळ ईशाङ्गसंयुक्तार्धाङ्गसुन्दरः ॥ ऊर्ध्वरेता दीप्तपा जटाभूत्यक्षभूषणः । नियतो ज्ञानसंपन्नस्स्वात्मध्यानपरायणः ।। विरूपाक्षोऽयुग्मनेत्रो विशोकस्तापवर्जितः । उमासहायश्चिच्छक्तिसहितस्साम्वविग्रहः ॥ त्रिलोचनो वीतिहोत्रसोमभास्करलोचनः । नीलकण्ठः कालकण्ठस्सर्वतापनिवारक: ।। प्रशान्तस्सुप्रसन्नाक्ष: प्रसन्नमुखपङ्कजः ।
Page 89
दहरबिद्याप्रकाश़िका। ८१
एवं भूतस्तारवाच्यम्सर्वात्माऽहं महेश्वरः । प्रारब्धे फलशान्ते तु नाडीरश्मिसवन्वितः ॥ मूद्ठद्वारा विनिगत्य अरचिगदिपथा ह्यहम। आतिवाहिकंद्वैश्च नीतो विद्युत्स्थलावधि॥ ब्रह्मलोकादागतेन वहुमानपुरम्सरम । अमानवेन देवेन नीनो त्रह्मसभां पुनः ॥ ब्रह्मभावं प्राप्य ततो ब्रह्मणा सह मुक्तिमान।
उदीरितार्थध्यानाकच ब्रह्माहमिति निश्चयः । इतोऽपि संग्रहेणैव पूर्वोक्त पुनरीयेते।। सूरोक्तायां संहितायामादरेण प्रकाशितम । · विविक्तसेवी लघ्वाशी सुखासीनो जितेन्द्रियः ॥
त्रिपुण्ड्धारणैयुक्तो गुरुभक्तिसमन्वितः ॥ हत्पुण्डरीकमध्ये तु शिवं सत्यादिलक्षणम्। सर्यस्य जगतस्साक्षात सष्टिस्थित्यन्तकारणम् ॥ उमासहायं कल्याणं नीलकण्ठं त्रिलोचनम्। प्रशान्तं प्रभुमीशानं ध्यायंन्नित्यमतन्दितः ॥ 11
Page 90
८२ दहरविद्याप्रकाशिका।
व्यानेनैव शिवज्ञानं ज्ञानान्मुक्ति्न कर्मणा । कर्म तु ज्ञानहेतुस्स्यादिति तत्वबिदां म्शितिः ॥ इनि। शिवराधवसंवादे पादे चैवमुदीरितम। 'हत्पुण्डरीकनिलयं विशुद्ध विरजं तथा ॥ विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्ररम। अधिन्त्य रूपमव्यक्तमनन्तममृंतं शिवम। आदिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम। ईशं विभुं चिदानन्दमरूपमजमद्रुतम ।।
नयाव्रचर्माम्ब्ररघरं नीलकण्ठं त्रिलोचनम । जटाधरं चन्द्रमौळिं नागयज्ञोपवीतिनम। वयाघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम ।। कराम्यामू् ्वहस्ताभ्यां बिभ्राणं परशुं मृगम। कोटिमध्याह्वसूर्याभं चन्द्रकोटिसुशीतळम।। चन्द्र सूर्याग्निनयनं म्मेरवक्त्रसगोरुहम। भूतिभूषितस्वाङ्गं सर्वाभरणभूफ्तिम ।' आत्मार्पणे शिवध्यानमेवं दीक्षितवर्णितम । 'चाकम्मेरामनसरसिजं चन्दरेखावनंसं फुहन्मल्लीकुसुमकलिकादामसौभाग्य चोरम।
Page 91
अन्तः पश्याम्यचलसुनया रवपीठे निषष्मां लोकातीतं जिवद सततं रूपमप्राकृत ने।।' शिवरहस्व- श्रीविश्वेशमुमासहायमनवं िश्वात्मक चिद्धनं सन्यज्ञानमनन्तमक्षरम्ज निर्लेपमेकं प्रभुम ओक्कारात्मकमक्षरं परतरं त्रह्मादिभिर्भावितं सानन्दं हृदि भावये भवभसध्वान्तेन्दुमानन्ददम।। वेदान्तेषु यमाहुरेकयुकष व्याव्य म्थितं रोदसी सम्मिश्रीश्र इत्यनन्यविषयडदाव्द्रो स्रथार्थाक्षरः। अन्तर्यश्र मुमुक्षुभिनियमित्तप्राशादिभिमृग्यते म म्थाणुस्थिरभक्तियोगसुलमो निश्श्रेयसा वास्तु ।। त्रक्ेनि व्यपदिश्यते श्रुतिषु गः ख्यातः पुराणेध्वि त्रम्माणं जगदादिभूतमसृजन्यस्सेन्द्रनारायणम । यत्रैव उस्वतिष्ठते च मकलाधिष्ठतमावस्स त्ः साम्चउश्म्भुरनम्बरोSम्घरगतउश्रेयो विधत्तां जित्र: ।।'
दुप्प्रापमषि यत्स्मृत्या जनः कैत्ल्यमश्नुने। एपा यम्वकमखितइश्रीरामेन्ट्रस्य वरदराजम्ब।
Page 92
८% दहरविद्याप्काश़िका।
शिवो महेश्वरश्चैव रुद़ो विष्णु. पितामहः । संसारवैद्यः सर्वज्ञ: प .: त्मेत्युदाहतः ॥ इति।
दहरविद्याप्रकाशिका समाप्रा।।
श्रीसाम्बशिवाय नमः । श्रीगुंरुभ्यो नमः ।
शुभमस्तु ।
Page 94
श्रीवालमनोरमा सीरीस
१. सिद्धान्तकौमुदी श्रीवालमनोरमासहिता रू. १२
२. अष्टाध्यायीसूत्रपाठः वार्तिकादिपाठसहितः 3
३. प्रतापरुद्वीयं रत्नापणसहितम्
४. तर्कसंग्रहः नवभिर्व्याख्यानैः समन्वितः २
६. कारिकावली मुक्तावली-प्रभा-मञ्जूपा- दिनकरीय रामरुदीय-गङ्कारामजटीयसहिता। ९
७. नीलकण्ठविजयचम्पूः २
८. नलचरित्रनाटकं नीलकण्ठदीक्षितप्रणीतम् ।
९. आश्चर्यचू डामणिनाटकं स्याख्यम्
१९. रामकथा वासुदेवप्रणीता। गद्यग्रन्थः । O
१२. मालविकाशनिमित्रं सव्याख्यम्
संध्यावन्दनं कृष्णयजुर्वेदीयं सभाष्यम्
१७. उत्तररामचरितं भावार्थदीपिकासहितम् 9
९. सूतसंहिता ता पर्यदीपिकासहिता
मानेजर, श्रीवालमनोरमाप्रेस्, मैलापूर, मद्रा
Page 95
B Paramaśivendra Sarasvati 132 Dahara vidya prakasika V3P37 1915
PLEASE DO NOT REMOVE CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY