1. Dhyanabindu Upanishad
Page 1
ध्यात्वा यद्ब्रह्ममात्रं ते स्वावग्रेषधिया ययुः ।
योगतत्त्वज्ञानफलं तत्वमात्रं विचिन्तये ॥
ॐ सह नाववतु ।। सह नौ भुनक्तु ।।
सह वीर्यं करवावहै ।।
तेजस्विनावधीतमस्तु मा विद्धिषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ।।
१
यदि शैलसं पापं विस्तीर्ण बहुयोजनम् ।
१
भियते ध्यानयोगेन नान्यो वेदो कदाचन ॥
२
बीजाक्षरं परं बिन्दु नादो तस्योपरि स्थितम् ।
२
सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥
३
अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् ।
३
तत्परं विन्दते यस्मात् स योगी छिन्नसंशयः ॥
४
वालाग्रशतसाहसं तस्य भागस्य भागिनः ।
४
तस्य भागस्य भागांशं तत्त्क्षये तु निरञ्जनम् ॥
५
पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ।
५
तिलमध्ये यथा तैलं पाषाणाश्रिव काञ्चनम् ॥
६
एवं सर्वाणि भूतानि मणौ सूत्रं इवात्त्मनि ।
६
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितःः ॥
७
तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः ।
७
पुरुषस्य शरीरेऽतु सबाह्याभ्यन्तरे स्थितः ॥
५
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला ।
५
सकले निष्कले भावे सर्वात्मा व्यवस्थितः ॥
९
ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः ।
९
पृथिव्यग्निनस ऋग्वेदो भूरित्येव पितामहः ॥
१०
अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।
१०
अन्तरिक्षं यजुर्वायुभूवो विष्णुर्जनार्दनः ॥
११
उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके ।
११
द्यौः सूर्यः सामवेदष स्वरित्येव महेश्वरः ॥
१२
मकारे तु लयं प्राप्ते तृतीये प्रणवांशके ।
१२
अकारः पीतवर्णः स्यात्त्रद्रजोगुण उदीरितः ॥
१३
उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः ।
१३
अष्टादश चतुष्पादं त्रिस्थानं पद्मदैवतम् ॥
Page 2
१८
ओङ्कारं यो न जानाति ब्रह्मणो न भवेत् तु सः । प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥
१५
अप्रमत्तेन वेदव्यं शरवत्तन्मयो भवेत् । निवर्तन्ते क्रिया: सर्वास्तस्मिन्नृष्टे परावरे ॥
१६
ओङ्कारप्रभवा देवा ओङ्कारप्रभवा: स्वराः । ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥
१७
ह्रस्वो दहति पापानि दीर्घः सम्प्रदोद्वययः । अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥
१५
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥
१९
हुतपसकर्णिकामध्ये स्पर्धीपनिभाकृतिम् । अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥
२०
इडया वायुमा पूर्य पूरयित्वोदरस्थितम् । ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालावलीवृतम् ॥
२१
ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते । रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवता: ॥
२२
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासेव पश्येन्निगृहूढवत् ॥
२३
ओङ्कारध्याननादेन वायो: संहारणान्तकम् । यावद्वलं समादध्यात्सम्यग्ज्वालावधि ॥
गमागमस्थं गमनादिशून्य-
२४
-मोक्षारमेकं रविकोटिदीप्तिम् । पश्यन्ति ये सर्वजनान्तरस्थं हंसात्मकं ते विरजा भवन्ति ॥
२५
यन्त्रनस्विजगत्सृष्टिस्थितिव्यसनकर्मकृत । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥
२६
अष्टपत्रं तु हृत्पद्मं द्वात्रिंशाक्षरान्वितम् । तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥
२७
शशिमध्ये गतो वह्निर्वह्निमध्ये गता प्रभा । प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥
२८
तस्य मध्ये गतम् देवं वासुदेवं निरञ्जनम् । श्रीवत्सकौस्तुभोरस्कं मुकुटामणिविभूषितम् ॥
२९
शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् । एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥
३०
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् । चतुर्भुजं महाविष्णुं पूरके ण विचिन्तयेत् ॥
Page 3
३१
कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् । ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥
३२
रेचकेन तु विदात्मा ललाटस्थं त्रिलोचनम् । शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥
३३
अञ्जनपत्नमधःपुष्पमृद्व्यनालमधोमुखम् । कदलीपुष्पसंकाशां सर्ववेदमयं शिवम् ॥
३४
षटारं षट्पत्रादयं विकीर्णाम्बुजकार्णिकम् । तत्राक्चन्द्रनदवह्नीनामुपर्युपरि चिन्तयेत् ॥
३५
पञ्चस्योदघाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् । तस्य हृद्दीपमाहुत्य आत्मानं चरते ध्रुवम् ॥
३६
त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् । त्रिमात्रर्मधिमात्रं वा यस्तं वेद स वेदवित् ॥
३७
तैलधारमिवाच्छिन्नप्रदीर्घष्णानिनादवत् । विन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥
३८
यथेवत्पलनालेन तोयमकर्षयेत्प्राणः । तथैवोत्कर्षयेद्वायुः योगी योगपथे स्थितः ॥
३९
अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पड्क्जम् । कर्षयेत्प्रणलावेण भुवनमध्ये लयं नयेत् ॥
४०
भुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः । जानीयाद्मृतं स्थानं तद्ब्रह्मायतनं महत् ॥
४१
आसनं प्राणसंरोधः प्रत्याहाररक्ष धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥
४२
आसनानि च तावन्ति यावन्त्यो जीवजातयः । एतेषान्तुलानानेदन्विजानाति महेश्वरः ॥
४३
छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् । आधारं प्रथमं वक्रं स्वाधिष्ठानं द्वितीयकम् ॥
४४
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते । आधाराख्ये गुडस्थाने पड्क्जं यच्चतुर्दलम् ॥
४५
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । योनिमध्ये स्थितं लिङ्गं पशिमाभिमुखं तथा ॥
४६
मस्तके मणिवड्रिं यो जानाति स योगवित् । तप्तचामीकरणाकारं तडिल्लेखेव विस्फुरत् ॥
४७
चतुरस्रमुपर्यङ्गनेऽरथो मेढ्राततिष्ठितम् । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥
४८
स्वाधिष्ठानं ततःश्रृङ्गं मेढ्रेमेव निगद्यते । मणिवत्तन्नुना यत्र वायुना पूरितं वपुः ॥
Page 4
49
तन्नाभिमण्डलं चकं प्रोचयते मणिपूरकम् । द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥
50
तावज्जी वो भ्रमत्येव यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेर्दादथो नामः कन्दो योडस्ति खगाण्डवत् ॥
51
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहुता: ॥
52
प्रधाना: प्राणवाहिन्यो दश स्मृता: । इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥
53
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि । अलम्बुषा कुहूवरत्न शङ्किनी दशमी स्मृता ॥
54
एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा । सततं प्राणवाहिन्यः सोम सूर्याग्निदेवता: ॥
55
इडापिङ्गलासुषुम्नास्त्रे नाड्यः प्रकीर्तिताः । इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥
56
सुषुम्ना मध्यदेशे तु प्राणमार्गोऽस्त्वयः स्मृता: । प्राणोदानः समानोदनो व्यानस्तथैव च ॥
57
नागः कूर्मः कृकरको देवदत्तो धनञ्जयः । प्राणाद्या: पञ्च विषयाताः नागाद्या: पञ्च वायवः ॥
58
एते नाडीसहस्रेषु वर्तन्ते जीवरोपणः । प्राणापानवशो जीवो ह्याद्योर्ध्वं प्रभावति ॥
59
वामदक्षिणमार्गेण चञ्चलत्वात् दृश्यते । आकृष्णो भुजदण्डेन यथोच्चलति कन्दुकः ॥
60
प्राणापानसमाक्षिप्तस्तद्रज्जीवो न विश्रमेत् । अपानात्कर्षति प्राणोदानः प्राणाच्च कर्षति ॥
61
खगरज्जुवदित्येतद्यो जानाति स योगवित् । हकारेण बहिर्यांति सकारण विशेषतपुनः ॥
62
हंसहसेत्यमं मन्त्रं जीवो जपति सर्वदा । शतानि षटिदवरात्रं सहस्राणेकविशति ॥
63
एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥
64
अस्या: सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते । अनया सदृशी विद्या अनया सदृशो जपः ॥
65
अनया सदृशं पुण्यं न भूतं न भविष्यति । येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥
66
मुखेनाच्छाद्य तद्वदारं प्रसुप्ता परमेश्वरी । प्रभुद्धा वह्नियोगेन मनसा मरुता सह ॥
Page 5
67
सूचिवदुणमादाय ब्रजत्यूर्ध्वं सुषुम्नया । उद्घाटयेत्कपाटं तु यथा कुञ्जिकया हताः ॥
68
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् । कृत्वा संपुटितौ करौ दृढतरं बध्वाथ पदासनम् । गाढं वक्षसि सन्निधाय चिबुकं ध्यानं च तच्चेतसि ॥
69
वारंवारमपातमूर्ध्वंनिलयं प्रोच्वारयनपूरीतम् । मुञ्चनप्राणमुपैति बोधमतुलं शक्तिप्रभावान्तरः ॥
70
पयासनस्थितो योगी नाडीद्वारेषु पूरयन् । मारुतं कुंभयन्न्यस्तु स मुक्तो नात्र संशयः ॥
71
अज्ञानां मर्दनं कृत्वा श्रमजातेन वारिणा । कटद्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥
72
ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यो विचारणा ॥
73
कनдоर्ध्वकुंडली शक्तिः स योगी सिद्धिभाजनम् । अपानप्राणयोरेक्यं क्षयन्नूत्पुरुषोयोः ॥
74
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् । पाशर्णिभागेन संपीड्य योनिमाकुंचयेद्बुदम् ॥
75
अपानमूर्ध्वमूलकृष्य मूलबन्धोयमुच्यते । उदाणां कुरुते यस्मादविशान्तमहाश्वगः ॥
76
उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते । उदरे पश्चिमे ताणं नाभेरध्वं तु कारयेत् ॥
77
उड्डियाणोऽप्ययं बन्धो मृत्युमातड्केशरी । बन्धनाति हि शिरोजातमदोगामिनभोजलम् ॥
78
ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः । जालन्धरे कृते बन्धे कर्णिसकोचलक्षणे ॥
79
न पीयूषं पतत्यग्नौ न व वायु: प्रधावति । कपालकुहरे जिह्वा प्रविश्टा विपरीतगा ॥
80
भूवोरन्तगता दृष्टिर्मुत्रा भवति खेचरी । न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥
81
न च मूर्छा भवेतस्य यो मुद्रां वेत्ति खेचरिम् । पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥
82
बध्यते न च कालेन यस्मिन्मुद्रासि खेचरी । चित्तं चरति से यस्माज्जिह्वा भवति खेभ्रुता ॥
83
तेनैषा खेचरी नाम मुद्रा सिद्धानमस्कृता । खेचर्या मुद्रया यस्य विलयं लम्बिकोर्ध्वतः ॥
84
विन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च ।
Page 6
54
यावद्दिन्दुः स्थितो देहे तावन्मृत्युर्भयं कुतः ।
54
यावद्बद्धा नभोमुद्रा तावदिन्दुनं गच्छति ।
55
गलितोऽपि यदा बिन्दुः संप्राप्तो योनिमण्डले ।
55
व्रजत्यूर्ध्वं हताच्छक्त्या निवद्धो योनिमुद्रया ।
56
स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ।
56
पाण्डरं शुक्रमित्याहुः लोलोलहिताख्यं महाराजः ।
57
विद्धमद्रुमसंकाशं योनिस्थाने स्थितं रजः ।
57
शशिस्थाने वसेद्बिन्दुः स्त्रियोरैक्यं सुदुर्लभम् ।
58
बिन्दुः शिवो रजः शक्तिस्तयोः संयोगिनोः रजो रवि: ।
58
उभयोः सङ्गमादेव प्राप्यते परमं वपुः ।
59
वायुना शक्तिचालेन प्रेरितं खे यथा रजः ।
59
रविणैकत्वमायाति भवेद्धव्यं वपुस्तदा ।
90
शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ।
90
द्वयोः समरसभावं यो जानाति स योगवित् ।
91
शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ।
91
रसानां शोषणं सम्यङ्नामुद्राभिधीयते ।
92
वक्षोऽस्थह्नुनिंपीडा सुषिरं योनेश वामाङ्गद्रुणा ।
92
हस्ताभ्यांमुनुदारयन्न्र्रविततं पादं तथा दक्षिणम् ।
आपूर्य श्वसनेन कुक्कियुगलं बद्ध्वा शनैरेचय-
93
देशा पातकनाशिनी ननु महामुद्रा णृणां प्रोच्यते ।
93
अधात्मनिर्णयं व्याख्यास्ये ।
हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं ।
कृतवा जीवात्मरूपं ज्योतिरूपमात्रं वर्तते तस्मिन्सर्वं ।
प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं ।
कर्ताडहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृष्णः ।
स्थूलोऽनेन प्रकारेण स्वलनवोदन वर्तते ।
पूर्वदले विश्वमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं ।
धमें मतिभर्वति ।
यदाग्नेयदले विश्वमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य ।
मतिभर्वति ।
यदा दक्षिणदले विश्वमते तद्दक्षिणदलं कृष्णावर्णं तदा ।
दृश्यकोपमतिभर्वति ।
यदा नैऋतदले विश्वमते तन्नैऋतदलं नीलवर्णं तदा ।
पापकर्माहिंसामतिभर्वति ।
यदा पश्चिमदले विश्वमते तत्पश्चिमदलं स्फटिकवर्णं तदा ।
कीडाविनोदे मतिभर्वति ।
Page 7
यदा वायव्यदले विश्वमते वायव्यदलं माणिक्यवर्णं तदा गमनचलनवैराग्यमतिभंवति ॥
यदोत्तरदले विश्वमते तदुत्तरदलं पीतवर्णे तदा सुखशृङ्खल-मतिभंवति ॥
यदेशानदले विश्वमते तदेशानदलं वैडूर्यवर्णं तदा दानादिकृपामतिभंवति ॥
यदा सन्थिसन्थिषु मतिभर्वति तदा वातपित्तश्लेष्ममहाव्याधिप्रकोपो भवाँति ॥
यदा मध्ये तिष्ठति तदा सर्वे जानाति गायति नृत्यति पठत्ययानन्द करोति ॥
यदा नेत्रशमो भवति श्रमनिभरणार्थं प्रथमरेखावलयंकृत्या मध्ये निमज्जनं कुरुत प्रथमरेखाबन्धूकपुष्पवर्णं तदा निद्रावस्था भवाँति ॥
निद्रावस्थामध्ये स्वप्नावस्था भवति ॥
स्वप्नावस्थामध्ये दृष्टश्रुतमनुमानसंभववार्ता इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥
श्रमनिहरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुत द्वितीयरेखा इन्द्रकोपवर्णं तदा सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी बुद्धिर्भवति नित्यबोधस्वरूपा भवति पश्यात्परमेश्वरस्वरूपेण प्राप्तिर्भवति ॥
तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुत तृतीयरेखा पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्मसम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैःशनैरुपरमेदुदयाद्धृतिगृहीतयात्मसंस्थं मनः
कृत्वा न किञ्चिदपि चिन्तयेत् तदा प्राणापानयोः एकयं कृत्वा सर्वविश्वमात्मस्वरूपं लक्ष्यं धारयति । यदा तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति इन्द्वातितो भवति यावद्देहधारणं वर्त्तते तावत्तिष्ठति पश्चात्परमात्मस्वरूपं प्राप्तिर्भवति इत्थनेन प्रकारेण मोक्षो भवतीदं मे वातमदर्शनोपायं भवन्ति ॥
९८
चतुष्पथसमायुक्तमहाद्वादशारगवायुना । सह स्थितत्रिकोणार्धगमनं दृश्यते न च्युतः ॥
पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् । प्राणादिपञ्चवायुयुक्त बीजं वर्णं च स्थानकम् । यकारं प्राणबीजं च नीलजीमूतसन्निभम् ।
Page 8
95
रकारमग्नवीजं च अपानादित्यसंनिभम् ।
96
लकारं पृथिवीरूपं व्यानं वन्धूकसन्निभम् ।
96
वकारं जीवबीजं च उदानं शङ्खवर्णकम् ।
97
हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् ।
97
हृद्राभिनासाकण्ठं च पादाद्यष्टादिसंस्थितम् ।
98
द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते ।
98
अष्टाविंशतिसहस्रेषु रोमकूपेषु संस्थिता: ॥
99
समानप्राण एकस्तु जीव: स एक एव हि ।
99
रेचकादि त्रयं कुयाद्धृदिचित्त: समाहित: ॥
100
शानै: समस्तमाक्रुश्य हत्सरोहृकोटरे ।
100
प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥
101
कर्णसङ्घोचनं कृत्वा लिङ्गसङ्घोचनं तथा ।
101
मूलाधारात्सुषुम्ना च पचतन्तुनिभा शुभा ॥
102
अमृतों वतते नादो वीणाण्डसमुत्त्थित: ।
102
शब्दादिभिविशेषैव मध्यमेव ध्वनियंथा ॥
103
व्योमर्न्धगतो नादो मायूरं नामेव च ।
103
कपालकुहरे मध्ये चतुर्द्वारस्य मध्ये ॥
104
तदात्मा राजते तत्र यथा व्योम्नि दिवाकर: ।
104
कोदण्डद्वयमध्ये तु ब्रह्माण्डग्रेशु शक्तित: ॥
105
स्वात्मानं पुरुषं पश्येन्मसृजस्तत्र लय गतं ।
105
रत्नानि ज्योतिष्नान्तु तु विन्दुमाहेश्वरं पदम् ।
105
य एवं वेद पुरुष: स कैवल्यं समश्र्नुति इत्युपनिषत् ॥
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ।
ॐ शान्ति: शान्ति: शान्ति: ॥
इति ध्यानबिन्दूपनिषत्समाप्ता ॥