1. Ekakshara Upanishad
Page 1
एकाक्षरपदारूढं सर्वान्तमकमखण्डितम् ।
सर्ववर्जितचिन्मात्रं त्रिपात्तारायणं भजे ॥
ॐ सह नाववतु सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ
१
एकाक्षरं त्वक्षरेड्रास्ति सोमे सुषुम्नायां चेह दृढी स एकः ।
१
त्वं विश्वभूूतपतिः पुराणः परज्ञन्य एको भुवनस्य गोप्ता ॥
२
विश्वे निमग्नपदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः ।
२
अजातमग्रे स हिरण्यरेता यजैस्त्वमेवैकभूः पुराणः ॥
३
प्राणः प्रसूतिभुवनस्य योनि-व्याप्तं त्वया एकपदेन विश्वम् ।
३
त्वं विश्वभूयोनिपारः स्वर्गेः कुमार एको विशिष्यः सुदान्वा ॥
४
वितत्य बाणं तरुणाकवर्णं व्योमान्तरे भासि हिरण्यगर्भः ।
४
भासा त्वया व्योम्नि कृतः सुताक्ष्यर्य-स्तवं वै कुमारस्त्वमरिष्ठनेमिः ॥
५
त्वं वज्रभृदृतपतिस्त्वमेक- कामः प्रजानां निहितौषि सोमे ।
५
स्वाहा स्वधा यच्च वषट्करोति रुद्रः पशूनां गुह्य निमग्नः ॥
६
धाता विधाता पवनः सुपर्णो विष्णुर्व्यराहो रजनी रख्ष ।
६
भूतं भविष्यत्प्रभवः क्रियाश्च । कालः ऋतस्त्वं परमाक्षरं च ॥
ऋचो यजूंषि प्रसवन्ति वक्त्रा-
Page 2
७
त्सामानि श्राडवसवन्तरिक्षम् । त्वं यज्ञेन हुतभुगिभूषु रुद्रास्तथैत्यगणा वसुषु ॥
५
स एष देवोऽम्वरगष्ट चक्रेऽन्येऽभ्यधिष्ठे तमो निरुन्ध्यः । हिरण्मयं यस्मिन् विभाति सर्वं व्योम्नान्तरे रश्मिमिवांशुनाभिः ॥
९
स सर्ववेत्ता भुवनस्य गोप्ता ताभिः प्रजां निहिता जनानाम् । प्रोतास्त्वमोता विचितिः क्रमााणां प्रजापतिश्छन्दमयो विगर्हः ॥
९०
सामैषिदान्तो विरजश्व बाहुं हिरण्मयं वेदविदां वरिष्ठम् । यममध्ये ब्रह्मविदः स्तुवान्ति सामेयंजुभिः ऋतुभिस्त्वमेव ॥
११
त्वं स्त्री पुंमांस्वं च कुमार एक-स्त्वं वै कुमार्या ह्यथ भूत्स्वमेव । त्वमेव धाता वरुणष्ठ राजा त्वं वत्सरोड्नर्य्यम एव सर्वम् ॥
१२
मित्रः सुपर्णोऽश्वन्द्र इन्द्रो रुद्र-स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् । त्वं विष्णूभूतानि तु त्रासि दैत्यां-स्त्वयावृतं जगदुजगर्भः ॥
१३
त्वं भूरभूः स्वस्त्वं हि स्वयंभूरथ विश्वतोमुखः । य एवं नित्यं वेदयते गुराश्रयें प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥
हिरण्मयं बुद्धिमतां परं गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठतित्युपनिषत् ॥
ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
इत्येकाक्षरोपनिषत्समाप्ता ॥