Books / Ganapati Upanishad

1. Ganapati Upanishad

Page 1

यं नत्वा मुनयः सर्वे निविशं यान्ति तत्पदम् ।

गणेशोपनिषदेऽयं तद्ब्रह्म त्वमसि सर्वगम् ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिरव्ययेम देवहितं यदायुः ॥

ॐ शान्तिः शान्तिः शान्तिः ।

हरिः ॐ ॥ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि ।

त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ।

ऋतं वच्मि । सत्यं वच्मि ।

अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् ।

अवानूचानमव शिष्यम् ।

अव पश्चातात् । अव पुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् ।

अवाधारात्तात् । सर्वतो मां पाहि पाहि समन्तात् ।

त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक्पदानि । त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः ।

त्वं देहत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं

रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुः सूर्यश्चन्द्रमास्त्वं

ब्रह्मा भूर्भुवःस्वरोम् । गणाधिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।

अनुस्वारः परतरः । अधेनुलसितम् ॥१॥

तारेण रुद्रम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् ।

अकारो मध्यम रूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुदत्तररूपम् ।

नादः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या ।

गणक ऋषिः निचृद्गायत्री छन्दः । श्रीमहागणपतिदेवता ।

ॐ गं । गणपतये नमः । एकदन्ताय विघ्नहे वक्रतुण्डाय धीमहि ।

तन्नो दन्ती प्रचोदयात् ॥

एकदन्तं चतुहस्तं पाशमङ्कुशधारिणम् ।

अभयं वरदं हस्तैर्विभ्राणं मूषकध्वजम् ॥

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।

Page 2

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै: सुपूजितम् ।

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविभूंतं च सृष्यादौ प्रकृते: पुरुषात्परम् ॥

एवं ध्यायति यो नित्यं स योगी योगिनां वर: ।

नमो व्रातपतये नमो गणपतये नमः प्रथमपतये

नमस्तेऽस्तु लम्बोदरायैकदंताय विनाशिने शिवसुताय

श्रीवरदमूर्तये नमोनम:॥ ॥

एतदर्थं शिरो योधीते स ब्रह्माभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते । स सर्वंत: सुखमेधते ।

स पञ्चमहापातकोपपातकात्प्रमुच्यते ।

सायंमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रात: प्रयुञ्जानोडपो भवति ।

धर्मार्थकाममोक्षं च विन्दति ।

इदमर्थवसीर्षमशिष्याय न देयम् ।

यो यदि मोहाद्दास्यति स पापीयान्भवति ।

सहस्रावर्तनादयं काममधिते तं तमनेन साधयेत् ।

अनेन गणपतिमभिशिञ्चति स वाग्मी भवति ।

चतुर्थ्यामनश्नन्जपति सत् विद्वावान्भवति ।

इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं विद्यात् ।

न विभेति कदाचनेऽति । यो दु:खांकुरेयजति स वैश्वानरोपमो भवति ।

यो लाजैर्यजति स यशोवान्भवति । स मेधावान्भवति ।

यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।

य: साज्यसमिदिर्यजति स सर्वं लभते स सर्वं लभते ।

अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्येग्रहे महानद्यां प्रतिमासनिर्धौ वा जप्त्वा सिद्धमन्त्रो भवति ।

महाविघ्नात्प्रमुच्यते । महादोषात्प्रमुच्यते ।

स सर्वविद्भवति स सर्वविद्भवति । य एवं वेदेत्युपनिषत् ॥

ॐ भद्रं कर्णेभि: शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

इति गणपत्युपनिषत्समाप्ता ॥