1. Garuda Upanishad
Page 1
विषं ब्रह्मातिरक्तं स्यादमृतं ब्रह्मात्मकम् । ब्रह्मातिरक्तं विषवद् ब्रह्मात्मकं स्यगेदहम् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥
गरुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां नारदाय प्रोवाच नारदो वृह्त्सेनाय बृहत्सेन इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्कामेभ्यः शिष्येभ्यः प्रायच्छत् । अस्याः श्रीमहारुडब्रह्मविद्याया ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीभगवान्महारुडो देवता । श्रीमहारुडप्रीत्यर्थे मम सकलविषविनाशनार्थे जपे विनियोगः ।
॥ नमो भगवते अङ्गुष्टाभ्यां नमः । श्री महागरुडाय तर्जनीभ्यां स्वाहा । पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीविष्णुवल्लभाय अनामिकाभ्यां हुम् । त्रैलोक्य परिपूजिताय कनिष्ठिकाभ्यां वौषट् । उग्रभयड्कातालानलरुपाय करतलकरपृष्ठाभ्यां फट् । एवं हृदयादिन्यासः ।
१
॥ भ्रूवृवः सुवरोमिति दिग्बन्धः । ध्यानम् । स्वस्तिको दक्षिणे पादं वामपादं तु कुश्चितम् । प्राञ्जलिकृतदोयुरगं गरुडं हरिवल्लभम् ॥
२
अनन्तो वामकटको यजसूत्रं तु वासुकिः । तक्षकः कटिसूत्रं तु हारः काकोट उच्चते ॥
३
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके । शङ्खः शिरःप्रदेशे तु गुलिकस्तु भुजान्तरे ॥
४
पौण्ड्रकानलिनागाभ्यां चामराभ्यां स्वीजितम् । एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥
५
कपिलाक्षं गरुत्मन्तं सुवर्णसदृशप्रभम् । दीर्घवाहं बृहत्कन्धं नादाभरणभूषितम् ॥
६
आजानुतः सुवर्णाभमाकृत्योस्तुहिनप्रभम् । कुक्कुटारुणमाकण्ठं शतचन्द्र निभाननम् ॥
७
नीलाग्रनासिकावक्त्रं सुमहच्चारुकुण्डलम् । दंष्ट्राकरालवदनं किरीटमुकुटोज्ज्वलम् ॥
Page 2
५
कुण्डमअरुणसर्वाङ्गं कुन्देन्दुदधवलाननम् । विष्णुवाह नमस्तुभ्यं क्ष्रंं कुरु सदा मम ॥ ५॥ एवं ध्यायेत्सन्यासु गरुडं नागभूषणम् । विषं नाशयते शीघ्रं तुलरशिमिवानलः ॥ ९॥ ओमीं नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय विष्णुवल्लभाय त्रैलोक्यपरिपूजिताय उग्रप्रभयङ्करकालनरुपाय वज्रनखाय वज्रतुण्डाय वज्रदन्ताय वज्रदंष्ट्राय वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमींह्रींहि श्रीमहागरुडप्रतिशासनास्मिन्नाविशाविष दुष्टानां विषं दूषयदूषय स्मृतानां नाशयनाशय दन्दशूकानां विषं दारयदारय प्रलीनं विषं प्रणाशयप्रणाशय सर्वविषं नाशयनाशय हनहन दहदह पचपच भस्मीकुरुभस्मीकुरु हुँ फट् स्वाहा ॥ चन्द्रमण्डलसंवाश सूर्यमण्डलमूष्तिक । पृथ्वीमण्डलमध्ये च श्रीमहागरुडाय विषं हरहर हुं फट् स्वाहा ॥ ॐ क्षिप् स्वाहा ॥ ओम्रीं सच्चरति सच्चरति तत्कारी मत्कारी विषाणां च विषरुपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रणष्टं विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ ॐ नमो भगवते महागरुडाय विष्णुवाहनाय त्रैलोक्यपरिपूजिताय वज्रनखवज्रतुण्डाय वज्रपक्षालकृत- शरीराय एङ्ह्रे हि महागरुड विषं छिन्धिच्छिन्धि भिन्धिभिन्धि आवेशयावेशय हुँ फट् स्वाहा ॥ सुपर्णोडसि गरुत्मान्तिवृत्ते शिरो गायं चक्षुः स्तोम आत्मा साम ते तनूर्मदेव्यं वृहद्रथन्तरे पक्षौ यजायजियं पुच्छं छन्दांस्यज्ञाति भिषण्या शफा यजूंषि नाम ॥ सुपर्णोडसि गरुत्मान्तद्वं गच्छ सुवः पत ओम्रीं ब्रह्मविद्या-ममावास्यायां पौर्णमास्यां पुरोवाच सच्चरति सच्चरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं प्रणष्टं विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ तस्मयम् । यद्यनृतकदूतोडसि यदि वा वाननृतकः स्वयं सच्चरति सच्चरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्य वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । यदि वाअसुकीकदूतोडसि यदि वा वासुकिः स्वयं सच्चरति सच्चरति
Page 3
तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषे हतविन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा । यदि वा तक्षकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतविन्द्रस्प वज्रेण विषं हतं ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि ककोंटकदूटोसि यदि वा ककोंटकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि पसकदू टोसि यदि वा पसकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतविन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि महापदकदू टोसि यदि वा महापदकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि शद्धकदू टोसि यदि वा शद्धकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि गुलिकदू टोसि यदि वा गुलिकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि पौण्ड्रकालिकदू टोसि यदि वा पौण्ड्रकालिकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि नागकदू टोसि यदि वा नागकः स्ययं सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं विषं हतमिन्द्रस्प वज्रेण विषं हतं ते ब्रह्मणा विषमिन्द्रस्प वज्रेण स्वाहा ॥
यदि लूतानां प्रलूतानां यदि वृश्चिकानां यदि घोटकानां यदि स्थावरजङ्गमानां सचरति सचरति तत्कारी मत्कारी विषनाशिनी विषदूषिणी विषहारिणी हतं विषं नष्टं
Page 4
विषं हतमिन्द्रस्य वज्रेण विषं हतं तै ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । अनन्तवासुकितक्षकककोटकपद्मकमहापचक-शङ्खकगुलिकफणीकफालिनागक इत्येषां दिव्यानां महानागानां महानागादिरूपाणां विषतुण्डानां विषदन्तानां विषदंश्र्राणां विषाढ्यानां विषपुच्छानां विश्वचाराणां वृश्चिकानां लूतानां प्रलूतानां मूषिकानां गृहगौलिकानां गृहगोधिकानां प्राणसां गृहगिरिगह्वरकाननलवलीकृटतानां तारणां पाणीनां काष्ठदारुक्ष्कोटरस्थानां मूलतृगदारुनियांसपचपुष्पफलोदूतानां दुष्टीकटकपिशाचान्मार्जारजम्बुकव्याध्रवराहाणां जरायुजाण्डजोविझजस्वेदजानां शस्त्रबाणक्षतस्फोटव्रणमहाप्रणकृतानां कृतिमाणमन्येषा भूतवेतालकूष्माण्डपिशाचप्रेतराक्षसयक्षभयप्रदानां विषतुण्डदंश्र्राणां विषाढ्यानां विषपुच्छानां विषाणां विषरूपिणी विषदूषिणी विषशोषिणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तःप्रलीनं विषं प्रणष्टं विषं हतं तै ब्रह्मणा विषमिन्द्रस्य वज्रेण स्वाहा । य इमां ब्रह्मविद्यामवास्यायां पठेच्छृणुयाद्वा यावज्जीवं न हिंसन्ति सर्पाः । अथौ ब्राह्मणान्ग्राहयित्वा तृणेन मोचयेत् । शतं ब्राह्मणान्ग्राहयित्वा चक्षुषा मोचयेत् ।
सहस्रं ब्राह्मणान्याहयित्वा मनसा मोचयेत् । सर्पौजले न मुञ्चन्ति । तृणे न मुञ्चन्ति । काष्ठे न मुञ्चन्ति । तीयाह भगवान्ब्रह्मौत्पनिषत् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा: ॥ भद्रं पश्येमाक्षभिर्यजत्रा: ॥ स्थिरैरैऽङ्गैस्तुष्टुवां सस्तनूभि: ॥ व्यश्रेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवा: ॥ स्वस्ति न: पूषा विश्ववेदा: ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति श्रीगारुडोपनिषत्समाप्ता ॥