1. Gopalatapini Upanishad
Page 1
श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ॥
व्यश्रेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाङ्ख्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥
हरिः ॐ सच्चिदानन्दरुपाय कृष्णायाक्लिष्टकार्मणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥
मुनयो ह वै ब्राह्मणसूचः ।
कः परमो देवः कुतो मृत्युविम्भिति ।
कस्य विज्ञाननाशिलं विज्ञातं भवति ।
केनदं विश्वं संसरीति ।
तदुहहोवाच ब्राह्मणः ।
कृष्णो वै परमं दैवतम् ।
गोविन्दानमृत्युविम्भिति ।
गोपीज्ञानवल्लभज्ञाननेतद्विजातं भवति ।
स्वाहेन्द विश्वं संसरीति ।
तदुहहोचुः ।
कः कृष्णः ।
गोविन्द इति ।
कोडसाविति ।
गोपीज्ञानवल्लभः कः ।
का स्वाहेति ।
तानुवाच ब्राह्मणः ।
पापकर्मणो गोभुमिवेदवदितो गोपीजविद्याकलाप्रेरकः ।
तन्माया चैति सकलं परं ब्रह्मैव तत् ।
यो ध्यायति रसति भजति सोडमृतो भवतीति ।
ते होचुः ।
किं तदूपं किं रसं किं माहो तद्जनं तत्स्वं विवविदषतामाख्याहीति ।
तदुहोवाच हैरण्यो गोपवेशमश्रामं कल्मषह्नोमाश्रितम् ।
तदिह श्लोका भवन्ति ॥
सत्यपुण्डरीकनयनं मेघाभं वैदुताम्बरम् ।
दृभुजं ज्ञानमुद्राढ्यं वनमालिन्मीश्वरम् ॥१॥
गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।
दिव्यालङ्करणोपेतं रत्नपादुकजमध्यगम् ॥ २॥
कालिन्दीजलकल्लोलसङ्घीमारुतसेवितम् ।
चिन्तयश्चेतसा कृष्णः मुक्तो भवति संसृतेः ॥ ३॥
तस्य पुना रसनमितिजलभूमिं तु संपाताः ।
कामादि कृष्णायेत्येकं पदम् ।
गोविन्दायैति द्वितीयम् ।
गोपीजनेति तृतीयम् ।
वल्लभेति तुरीयम् ।
स्वाहेति पञ्चममिति पञ्चपदं जपन्यस्राझं यावाभूमि सूर्याचन्द्रमसौ तदूपतया ब्रह्म संपद्यत इति ।
तदेश श्लोकः
Page 2
क्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजना वल्लभायेति वृहन्मानव्यासकृडुच्चरेऽसौ गतिस्तस्यास्ति मडक्षु नान्या गति: स्यादिति । भक्तितरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्येनामुष्मिन्मन: कल्पनम् । एतदेव च नैष्कम्यम् । कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधा आराधयन्ति । गोपीजनवल्लभो भुवनानि दह्रे स्वाहाश्रितो जगदेतत्सुरेता: ॥ १॥
वायुर्यथेको भुवनं प्रविष्टो जन्यजन्ये पञ्चरूपो बभूव । कृष्णास्तदेकोऽपि जगद्वितार्थं शब्देनासौ पञ्चपदो विभाति ॥ २ ॥ इति॥
ते होचुरुपासमेतस्य परमात्मनो गोविन्दस्याखिलाधारणेो वृंहीति । तानुवाच यतस्य पीठं हैरण्याष्टपलाशमम्वृजं तदन्तराधिकानलास्त्रयुग्गं तदन्तरालाद्रिवर्णांञ्शिलावीजं कृष्णाय नम इति बीजाद्यं सनाद्यं ब्राङणमादायान्तंङ्गायत्रीं यथावदालिश्य भूषणडलं शूलवेष्टितं कृतवाड्वासुदेवादि-रुक्मिण्यादिस्स्त्र्यक्तिं नन्दादिसुदेवादिपार्थादिनिध्यादीवोतं यजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारै: । तेनास्याखिलं भवत्यखिलं भवतीति ॥ २ ॥ तदिह श्लोका भवन्ति ।
एको वशी सर्वग: कृष्ण ईड्य एकोऽपि सन्बहुधा यो विभाति । तं पीठं येडनुजन्ति धीरा-स्थेषां सिद्धि: शाश्वती नेतरेषाम् ॥ ३ ॥
नित्यो नित्यानां चेतनश्र्चेतनाना-मेको वहूनां यो विदधाति कामान् । तं पीठगं येडनुजन्ति धीरा-स्थेषां सुङ्खं शाश्वतं नेतरेषाम् ॥ ४ ॥
एतद्विष्णो: परमं पदं ये नित्योदुक्तास्तं यजन्ति न कामात् । तेषामसौ गोपरूप: प्रयत्ना-त्क्काशयेदात्मपदं तदेव ॥ ५ ॥
यो ब्रह्माणं विदधाति पूर्वं यो विद्याां तस्मै गोपयति स्म कृष्ण: । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षु: शरणं ब्रजेत् ॥ ६ ॥
Page 3
ओङ्कारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्चपदं मनुम् । तेषामसौ दर्शयेदात्मरूपं तस्मान्मुकुर्धभ्यसेत्रित्यशान्ति: ॥ ७॥
एतस्मा एव पञ्चपदाद्भूत्वा गोविन्दस्य मनवो मानवानाम् । दशार्णाद्वास्तेऽपि सकन्दनाद्यै- रभ्यस्यन्ते भूतिकामैरयंथावत् ॥ ८॥
प्रपच्युसतदु होवाच ब्रह्मसदनं चरतो मे ध्यात: स्तुत: परमेश्वर: । पराधींस्ते सोऽबुध्यत । कोपदेशा मे पुरुष: पुरस्तादिर्विभूव । तत: प्रणतो मायानुकूलेन हृदा मह्यमष्टदशार्णस्वरूपं सृष्ट्वये दत्त्वान्तर्हित: । पुनस्ते सिसृक्षतो मे प्रादुर्भूवन् । तेष्वक्षरेषु विजय भविष्यज्जगदूपं प्रकारश्यम् ।
तदिह कालाकालात्पृथिवीतोऽग्निर्निर्विन्दोरिन्द्रत्संपातातदर्कं इति । क्लीनकारादजरं कृष्णादाकाशं खद्वायु: उत्तरात्सुरभिविद्या: प्रादु:कार्ष्मकरर्षिमिति । तदतुत्तरात्स्त्रीपुंसौसादिभेदं सकलमिदं सकलमिदमिति ॥ ३॥
एतस्येव यजन्ते चन्द्रद्वजो गतमोहमात्मानं वेदयति । ओङ्कारालिकं मनुमावतंयेत् । सङ्ङ्रहितोभ्यानयत् । तदृक्ष्णो: परमं पदं सद्य: पश्यन्ति सुरय: । दिवीव चक्षुराततम् ॥
तस्मादेनं नित्यमावर्तयेतश्चेतित्यमावर्तयेदिति ॥ ८॥
तदाहुरेक यस्मै प्रथमपदादूर्मिदृतीयपदादज्जलं तृतीयपदात्तेजस्तुर्थपदाद्वायुरपपदाद्वोमेति । वैष्णवं पञ्चव्यातिहितमथं मन्यं कृष्णावभासकं कैवल्यस्य मूल्ये सततमावर्तंयेत्सततमावर्तंयेदिति ॥ ५॥
तदत्र गाथा: यस्य वायुपदादिर्मिदृतीया्त्सलिलोङ्क्रव: । तृतीया्त्तेज ऊदितं चतुर्थाद्वातन्धवाहनं ॥ १॥
पञ्चमादम्बरोत्यत्तिस्तमेवैकं समभ्यसेत् । चन्द्रद्वजोगमदृक्ष्णो: परमं पदमवययम् ॥ २॥
ततो विशुद्धं विमलं विशोक-मशेषलोभादिनिरस्तसङ्घम् । यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदास्ति ॥ ३॥
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदं
Page 4
वृन्दावनसुरभूरुहतलासीनं सततं मरुद्रणोङहं परमया स्तुत्या स्तोष्यामि ॥
ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥
नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २ ॥
नमः कमलनेत्राय नमः कमलमालिने । नमः कमलनाभाय कमलापतये नमः ॥ ३ ॥
वह्नांपीडाभिरामाय रामायाकुण्ठमेधसे । रामानान्तसहाय गोविन्दाय नमोनमः ॥ ४ ॥
कंसवंशविनाशाय केशिचाणूरघातिने । वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५ ॥
वेणुनारदविनोदाय गोपालायाहिमर्दिने । कालिन्दीकूललोलाय लोकालोकलधारिणे ॥ ६ ॥
पल्ववीवदनाम्भोजमालिने नृत्यशालिने । नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७ ॥
नमः पापप्रणाशाय गोवर्धनधराय च । पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८ ॥
निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे । अद्वितीयाय महते श्रीकृष्णाय नमोनमः ॥ ९ ॥
प्रसीद परमानन्द प्रसोद परमेश्वर । आधिव्याधिभयङ्करन दष्टं मामुद्दर प्रभो ॥ १० ॥
श्रीकृष्ण रुक्मिणीकान्त गोपीनामनोहर । संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११ ॥
केशव कलेशहरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥ १२ ॥
अथैवं स्तुतिभिराधायामि । तथा यूयं पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाच हिरण्यगर्भः ॥
अमुं पञ्चपदं मनुमर्त्ययेयेदृशः स यात्यनायास्ततः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ॥
तस्मात्कृष्ण एव परमं देवस्तं ध्यायेत तं रसेत तं यजेत तं भजेत । ॐ तत्सदित्युपनिषत् ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा: । ॐ भद्रं पश्येमाक्षभिर्यजत्रा: ॥
स्थिरैरङ्गैस्तुष्टुवां सस्तनूभि: । व्यश्रेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्ववेदा: ॥
Page 5
स्वस्ति नस्ताक्ष्योऽरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्धातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति गोपालतापिन्युपनिषत्समाप्ता ॥
ॐ एकदा हि व्रजस्त्रियः सकामा: शबररीमुषितवा
सर्वेश्वरं गोपाळं कृष्णमूचिरे । उवाच ताः:
कृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमिति
दुर्वासस इति । कथम् यास्यामो जलं तीर्त्वा यमुनायाः ।
यतः श्रेयो भवति कृष्णेऽति ब्रह्मचारितीयुक्त्वा मार्गे
वो दास्यति । यं मां स्मृत्वाडगाधा गाधा भवति ।
यं मां स्मृत्वाडपुतः पुत्रो भवति । यं मां स्मृत्वाडव्रती
व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।
यं मां स्मृत्वाडश्रोत्रियः श्रोत्रियो भवति । यं मां
स्मृत्वाडगाधगधत: स्फुरं रहितापि सर्वा सरिद्धाधा भवति ।
श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्या तद्वाक्येन तीर्त्वा
तत्सौयं हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनीन्
श्रेष्ठतमं हि वै रौद्रं चेतित । दत्वास्मै ब्राह्मणाय
क्षीरमयं घृतमयिष्ठतमं हि वै मृष्टतमं
हि तुष्ट: स्नात्वा भुक्त्वा हित्वाशिषं प्रयुज्यात्रं ज्ञात्वादत्त् ।
कथं यास्यामो तीर्त्वा सौयं । स होवाच मुनिदुर्वांसन्
मां स्मृत्वा वो दास्यतीति मार्गं । तासां मध्ये हि श्रेष्ठा
गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो
ब्रह्मचारी । कथं दुर्वासानो मुनि: तां हि मुख्यां विधाय
पूर्वमनुकृत्या तूष्णींमसुः । शब्दवानाकाशः शब्दाकाशाभ्यां
भिन्नः । तस्मिन्नाकाशऽऽस्थितष्ठति । आकाशे तिष्ठति
स ह्याकाशस्त न वेद । स ह्यात्मा ।
अहं कथं भोक्ता भवामि । रूपवदिं तेजो रूपाग्निभ्यां
भिन्नः । तस्मिन्नग्निस्थस्थितष्ठति । अग्नौ तिष्ठति
न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्य
आपो रसाग्निभ्यां भिन्ना । तास्वाप्सुस्थितष्ठति । अप्सु
भूमिग्न्स्थभूमिभ्यो भिन्ना । तास्यां भूमिस्थष्ठति । भूमौ
तिष्ठति भूमिस्थं न वेद । स ह्यात्मा । अहं कथं
भोक्ता भवामि । इदं हि मनसैवेंद मनुते । तानिंदं हि गृह्णाति ।
यत्र सर्वमात्मैवभूतत्कृतं वा मनुते । कथं वा गच्छतीति ।
स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हि
प्रेष्ठ: शरीरद्यकारणं भवति । द्वा सुपर्णा भवतो
ब्रह्मणोऽहं संभुतस्थेथरो भोक्ता भवति । अन्यो हि साक्षी
Page 6
भवतीति । वृक्षधर्मे तौ तिष्ठतः । अतोऽओ भोक्तभोक्तारौ । पूर्वों हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्यां भिन्नो विद्यामयो हि यः: कथं विषयी भवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै त्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यां भिन्नः स्थाणुरमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ गोषु तिष्ठति । योऽसौ गोपालपालर्याति । योऽसौ सर्वेषु देवेषु तिष्ठति । योऽसौ सर्वदेवदेवर्गीयाति । योऽसौ सर्वेषु भूतेष्वादिशेषु तिष्ठति । योऽसौ सर्वेषु भूतेष्वविशेष कथं वास्मासु जातो गोपाल: कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।
कथं वास्य मन्त्रः किं स्थानम् । कथं वा देवक्या जातः । को वास्य जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृतिपरोड्यमात्मा गोपालः कथं त्ववतीर्णों भूम्यां हि वै स गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणो यस्मिंल्ल्लोका ओताश्च प्रोताश्च तस्य हत्वाजातोऽजयो निस्तपस्तपस्त्वा तस्मै ह वरं ददौ । स कामप्रश्नमनेव वत्रे । तं हास्मै ददौ ।
स होवाचऽजयोः: यो वावतारणां मध्ये श्रेष्ठोऽवतारः को भवति । येन लोकास्तुष्ठा भवन्ति । यं स्मृत्वा मुक्ता अस्मात्संसारादवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति । स होवाच तं हि वै नारायणो देवः । सकाम्या मेरीः: श्रृणु यथा सप्तपुरी भवन्ति तथा निष्काम्या: सकाम्या भृङ्गोपालचक्रे सप्तपुरी भवन्ति । तासां मध्ये साक्षाद्ब्रह्म गोपालपुरी भवति । सकाम्या निष्काम्या देवांनां सर्वेषां भूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसि पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षिता मथुरा ।
तस्माद्गोपालपुरी भवति वृन्दावनं मधोर्मधुवनं तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इतिं भाण्डीरवनं श्रीवनं लोहरवनं वृन्दावानमेतैरावृता पुरी भवति । तत् तेष्वेव गगनेष्वेव देवा मनुष्या गन्धर्वा नाम्ना: किनरा गायन्ति नृत्यन्तीतिं । तत् द्वादशादित्या एकादशा रुद्रा अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायक वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो गोपालेश्वरो मद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिभवन्ति ।
द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तद्वादश वाननि पुण्यानि पुण्यतमानी । तेष्वेव देवास्स्थथन्ति । सिद्धा: सिद्धिं प्राप्ता: ।
Page 7
तत्र हि रामस्य राममूर्तिः प्रवृणुमस्य प्रवृणुमूर्तिरनिरुद्धस्य अनिरुद्धमूर्तिं: कृष्णस्य कृष्णमूर्तिं: । वनेश्वंव मथुरास्वेवं
द्वादश मृत्यो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति । तृतीयां ब्रह्माजा यजन्ति । चतुर्थी मरुतो यजन्ति । पञ्चमी विनायक
यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति । नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तद्भां तिष्ठति । एकादशीत-
स्वप्नानुगा । द्वादशीतिं भूतानां तिष्ठाति । तां हि ये यजन्ति ते मृत्युम् तरन्ति । मुक्तिं लभन्ते । गर्भभञ्जमजरामरणातपत्रयात्मकदुःखे
तरन्ति । तदप्येते श्लोका भवन्ति । संप्राप्य मथुरां राम्यां सदा ब्रह्मादिवन्दिताम् । शड्कचक्रगदाशार्ङ्गरक्षतां मुसलादिभिः ॥ १॥
यत्रासौ संस्थतिः कृष्णः स्त्रीभिः शक्त्या समाहितः । रमानीरुद्धप्रधुम्नै रुक्मिण्या सहितो विभुः ॥ २॥
चतुःशब्दो भवेदको ह्योकाररक्ष उदाहृतः । तस्मादेव परो रजसेऽतिसोऽहंमित्यवधार्यात्मानं गोपालोऽहंमिति भावयेत् ।
स मोक्ष्मश्नुते । स ब्रह्मत्वमभिगच्छति । स ब्रह्मविद्वति । स गोपालजीवानात्मवल्लेन सृष्टिपर्यन्तमालाति । स गोपालो
ह्यो भवति । तत्सत्सोऽहं । परं ब्रह्म कृष्णात्मकं नित्यानन्दैक्यस्वरूपः सोऽहं । तत्सद्रूपोऽलोऽहमेव । परं
सत्यमवाधितं सोऽहंमित्यतमानमादाय मनसैक्यं कुयांत । आत्मानं गोपालोऽहंमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
मथुरायां स्थितिब्रह्मन्सर्वदा मे भविष्यति । शड्कचक्रगदापसवनमालाधारस्य वै ॥ १॥
विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् । मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥
योऽ चैत्रेत्प्रतिमां मां च स मे प्रियतरो भुवि । तस्यामभिष्ठितः कृष्णरूपी पूज्यस्वतया सदा ॥ ३॥
चतुर्धा चास्यावतेदवेन यजन्ति माम् । युगानुवर्तिनो लोकाः यजन्तीह सुमेधसः ॥ ४॥
गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् । गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥
रामोऽहंमनिरुद्धोऽहमात्मानं वाचयेद्बुधः । मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥
तैरहं पूजनीयो हि भक्तकृष्णानिवासिभिः । तद्दर्मगतिहीनाः ये तस्यां मयि परायणाः ॥ ७॥
कलिना प्रसिता ये वै तेषां तस्यामवस्थितिः ।
Page 8
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥५॥
यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।
स होवाचाऽ्ज्जियोनिष्ठतुभिंदेवः कथमेको देवः स्यात् ।
एकमक्षरं यद्विश्रुतमनैकाक्षरं कथम् संपूर्तम् ।
स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।
तस्मादव्यक्तमेकाक्षरम् । तस्मादक्षरान्महत् ।
महतोऽहंकारः । तस्मादहंकारात्पंच तन्मात्राणि ।
तेभ्यो भूतानि । तैरावृतमक्षरम् ।
अक्षरोऽहंकारोऽयमजरोरोडमरोरडभयोमृतो ब्रह्माभयं हि वै ।
स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।
सत्तामात्रं चिद्रूपंं प्रकाशं व्यापकं तथा ॥ ९॥
एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
रोहिणीतनयो विश्व आकाराक्षरसंभवः ॥ १०॥
तैजसात्मकः प्रजुम्न उकाराक्षरसंभवः ।
प्राज्ञात्मकोरुड्सौ मकाराक्षरसंभवः ॥ ११॥
अर्धमात्रात्मकः कृष्णो यस्मिन्नविश्वं प्रतिष्ठितम् ।
कृष्णात्मकां जगत्कर्त्रीं मूलप्रकृतिं रुक्मिणी ॥१२॥
व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।
प्रणवत्त्वेन प्रकृतितत्त्वं वदन्ति ब्रह्मवादिनः ॥ १३॥
तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।
क्लीमोंकारस्यैक्तत्त्वं वदन्ति ब्रह्मवादिनः ॥ १८॥
मथुरायां विशेषेण मां ध्यानमोक्ष्मश्नुते ।
अष्टपत्नं विकसति हृत्पद्मं ततः संस्थितम् ॥ १५॥
दिव्यध्वजातपत्रैस्तु चिहितं चरणद्वयम् ।
श्रीवत्साऽल्चिह्नं हस्ताभ्यां कौस्तुभं प्रभया युतम् ॥ १६॥
चतुर्भुजं शङ्खचक्राऽऽल्वपद्मगदाह्वितम् ।
सुकेयुरान्वितं बाहुं कण्ठमालासुशोभितम् ॥ १७॥
धुमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १५॥
ध्यायेन्नसि मां नित्यं वेणुशृङ्गधरं तु वा ।
मध्यते तु जगत्सर्वं ब्रह्माजानेन येन वा ॥ १९॥
मत्सारभूतं यद्वात्स्यनमध्युरा सा निगद्यते ।
अष्टदिक्पालकैर्भीमिपसं विकसति जगत् ॥ २०॥
संसारार्णवसंज्ञतं सेवन्तं मम मानसे ।
चन्द्रसूर्यात्मकं शो दिव्या ध्वजा मेरुर्हिरण्मय ॥ २१॥
आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।
Page 9
श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छने: सह ॥२२॥
श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।
येन सूर्यांनिवाकचन्द्रतेजसा स्वस्वरूपिणा ॥२३॥
वर्तते कौस्तुभाभ्यमपिं वदन्तीशमानिनः ।
सत्वं रजस्तमा इति अहंकारख्यातुर्मुजः ॥२४॥
पञ्चभूतात्मकं शाङ्ं करो रजसि संस्थितम् ।
वालस्वरूपमित्यन्तं मनष्करं निगद्यते ॥२५॥
आद्या माया भवेच्छाझं पदं विश्वं करो स्थितम् ।
आद्या विद्या गदा वेद्या सर्वदा मे करो स्थिता ॥२६॥
धर्मार्थकाममोक्षैश्चौरिदिव्यैदिव्यमयोरितैः ।
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्यया डजय ॥२७॥
माला निगद्यते ब्रह्मास्तव पुत्रैस्तु मानसे: ।
कूटस्थं सत्व्वरूपं च किरीट प्रवर्दनं माम् ॥२८॥
क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।
ध्यायेन्तम प्रियं नित्यं स मोक्ष्मधिगच्छति ॥२९॥
स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥३०॥
स्वरूपं द्विविधं चैव सर्गुणं निर्गुणात्मकम् ।
स होवाचाझयोनि: । व्यक्तीनां मूर्तीनां प्रोक्तानां कथम्
चाभरणानि भवन्ति । कथम वा देवाः यजन्ति । रुद्रा यजन्ति । ब्रह्मा यजति । ब्रह्मणाज यजन्ति । विनायका यजन्ति । द्वादशादित्या यजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सप्तदनुगा अन्तर्धाने तिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणो
देव आद्या व्यक्ता द्वादश मूतंय: सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीत । रुद्रे रौद्री
ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
गौर्वसुष्येवं काम्या अन्र्तधाने षप्रकाशिनी आविर्भावातिरोभावा
स्वपदे तिष्ठन्ति । तामसी राजसी सात्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरेस भक्तितयोगे तिष्ठति ।
ॐ प्राणात्मने ॐ तत्सद्भूवं: सुवस्तस्मै प्राणात्मने नमोनमः ॥१॥
ॐ श्रीकृष्णाय गोविन्दाय गोपीजानवल्लभाय ॐ तत्सद्भूवं: सुवस्तस्मै नमोनमः ॥२॥
ॐ अपानात्मने ॐ तत्सद्भूवं: सुवस्तस्मै अपानात्मने नमोनमः ॥३॥
ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥४॥
ॐ व्यानात्मने ॐ तत्सद्भूवं: सुवस्तस्मै व्यानात्मने नमोनमः ॥५॥
ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥६॥
Page 10
ॐ उदानात्मने ॐ तत्सद्भूवं: सुवस्तस्मै उदानात्मने नमोनमः ॥ ७ ॥
ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ ५ ॥
ॐ समनात्मने ॐ तत्सद्भूवं: सुवस्तस्मै समनात्मने नमोनमः ॥ ९ ॥
ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ १० ॥
ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ ११ ॥
ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ १२ ॥
ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ १३ ॥
ॐ योऽसादुत्पुरुषो गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ १४ ॥
ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूवं: सुवस्तस्मै वै नमोनमः ॥ १५ ॥
ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै नमोनमः ॥ १६ ॥
ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूवं: सुवस्तस्मै नमोनमः ॥ १९ ॥
एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ १५ ॥
रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।
विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।
निर्ऋतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।
ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।
दत्त्वा स्तुति पुण्यतमा ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामनन्तधा नो बभूव सः ॥ १९ ॥
ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदादि शृंतं मुने ।
तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २० ॥ इति ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा: । ॐ भद्रं पश्येमाक्षभिर्यजत्रा: ।
स्थिरैरङ्गैस्तुष्टुवाग्सस्तनुभि: । ॐ व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवा: । ॐ स्वस्ति न: पुषा विश्ववेदा: ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । ॐ स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्ति: शान्ति: शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति गोपालतापिन्युपनिषत्समाप्ता ॥