1. Hamsa Upanishad
Page 1
१५
॥ हंसोपनिषत् ॥ १५
हंसाख्योपनिषत्प्रोक्तनादालियंत्रं विश्वमेत् ।
तदाधारं निराधारं ब्रह्ममात्रमहं महः ॥
ॐ पूर्णमदः पूर्णमिदं शान्तिः ॥
१
गौतम उवाच ।
१
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
१
ब्रह्मविद्याप्रबोधो हि केनोपायेन जायते ॥
२
सनत्कुमार उवाच ।
२
विचार्य सर्ववेदशु मतं ज्ञात्वा पिनाकिनः ।
२
पारं त्या कथितं तत्वं शृणु गौतम तन्मम ॥
३
आश्रेयमिदं गुह्यं योगिनां कोशसंनिभम् ।
३
हंसस्याकृतिवस्तारं भुक्तिमुक्तिफलप्रदम् ॥
अथ हंसपरमंहंसनिर्णयं व्याख्यास्यामः ।
ब्रह्मचारिणे शान्ताय दान्ताय गुरुबक्त्रकाय ।
हंसहंसेति सदा ध्यायन्स्वेदेशु देहेऽपु व्याप्त वर्तते ॥
१
यथा ह्यग्निः काष्ठेषु तिलेषु तैलमिव तं विदित्वा ।
१
मृत्युमत्येति ।
१
गुदमवष्टभ्याधाराद्वायुमुत्थाप्यस्वाधिष्ठान् त्रिः ।
१
प्रदक्षिणीकृत्य मणिपूरकं च गत्वा अनाहतमतिक्रम्य ।
१
विशुद्धौ ।
१
प्राणात्रुरुध्याधमनध्यानब्रह्मरन्ध्रं ध्यानं ।
१
त्रिमात्रोडहंमित्येवं सर्वदा ध्यानं ।
१
अथो नादमाधाराद्ब्रह्मरन्ध्रपर्यन्तं शुद्धस्फटिकसङ्काशं ।
१
स वै ब्रह्म परमात्मेत्युच्यते ॥
अथ हंस ऋषिः ।
अव्यक्ता गायत्री छन्दः ।
परमहंसो देवता ।
अहंमिति बीजम् ।
स इति शक्ति ।
सोऽहंमिति कीलकम् ।
षट् संख्ययया ।
अहोरात्रयोरेकत्वशतिसहस्राणि षट् शतानि ।
षट् शतान्यधिकानि भवन्ति ।
सूर्याय सोमाय निरञ्जनाय निराभासाय तनु सूक्ष्मं ।
प्रचोदयादिति अग्निषोमाभ्यां वौषट् ।
हृदयादङ्गन्यासकरन्यासौ भवतः ।
एवं कृत्वा हृदये ।
Page 2
अष्टदले हंसात्मानं ध्यायेत् । अग्नीषोमौ पक्षावोङ्कारः शिरो बिन्दुस्तु नेत्रं मुखं रुद्रो रुद्राणी चरणौ बाहू कालाग्निरनिघोभे पादौ भवतः । पश्चात्यत्नाग्निरष्ट शिटोऽभयपादौ भवतः । एषोडसो परमहंसो भानुकोटिप्रतीकाशः । येनेंदं व्यासम् । तस्याष्टधा वृत्तिभवति । पूर्वदले पुण्ये मति: आग्नेये निद्धालस्यादयो भवन्ति याम्ये क्रूरे मति: नैर्ऋृते पापे मनीषा वारुण्यां कीडा वायव्ये गमनादौ बुद्धि: सौम्ये रतिप्रीति: ईशाने द्रव्यादानं मध्ये वैराग्यं केसेरे जाग्रदवस्था कर्णिकायां स्वप्नं लिङ्गे सुप्ति: पद्मात्यागे तुरीयं यदा हंसो नादे लीनो भवति तदा तुर्यातीतमुनिमनमजपोपसंहारामित्यभिधीयते । एवं सर्वे हंसवशात्तस्मान्मनो हंसो विचार्यते । स एव जपकोऽ्या नादमनुभवति एवं सर्वे हंसवशान्नादो दशविधो जायते
। चिणीति प्रथम: । । चिद्धिणीति द्वितीय: । । घण्टानादस्तृतीय: । । शङ्खनादश्चतुर्थ: । । पञ्चमत्नीनाद: । षष्ठस्तालुनाद: । सप्तमो वेधुनाद: । । अष्टमो मृदङ्नाद: । नवमो भेरीनाद: । । दशमो मेघनाद: । नवमं परित्यज्य दशममेवाध्वसेत् । प्रथमे चिद्धिणीगर्जन् द्वितीये गात्रभञ्जनम् । तृतीये क्षेदनं याति चतुर्थे कम्पते शिर: ।। पञ्चमे स्ववते तालु षट्ऌमृतनिःस्रेवणम् । सप्तमे गूढविज्ञानं परा वाचा तथाष्टमे ।। अदृश्यं नवमे देहं दिव्यं चक्षुस्थलामलम् । दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसंनिधौ ।। तस्मिन्नम्नो विलीयते मनसि सङ्कल्पविकल्पे दग्धे पुण्यपापे सदाशिव: शाश्वतयात्मा सर्वत्रावस्थितः स्वयञ्ज्योति: शुद्धो- बुद्धो नित्यो निरञ्जनः शान्तः प्रकाश इति ।। इति वेदप्रवचनं वेदप्रवचनम् ।। २ ।। ॐ पूर्णमद इति शान्तिः ।। इति हंसोपनिषत्समाप्ता ।।