Books / Hayagriva Upanishad

1. Hayagriva Upanishad

Page 1

स्वजोऽपि यत्प्रसादेन ज्ञानं तत्त्वमाप्तुयात् । सोऽयं हयास्यो भगवान्देवि मे भातु सर्वदा ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवांसस्त्वां तनुभिः । व्यशेम देवहितं यदायु: ॥

स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति नः पुषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरि: ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन् ब्रह्मविद्यां वरिष्ठां या चिरात्सद्वंपापं व्यपोह्य ब्रह्मविद्यां लभ्यतेऽश्यवान्भवति । ब्रह्मोवाच हयग्रीवदेवत्यामनुज्ञायो वेद स श्रुतिस्मृतितीहासपुराणानि वेद ।

स सर्वेश्वर्यवान्भवति । ता एते मन्त्रा: । विश्वोतीर्णस्वरूपाय चिन्मयायानन्दरूपिणे । तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥१॥

ऋग्यजु:सामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥२॥

उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । सर्ववेदमयाचिन्त्य सर्व बोधय बोधय स्वाहा स्वाहा नमः ॥३॥

ब्रह्मादित्रिविधतृभर्गवा ऋषय: । गायत्रीत्रिष्टुपनुष्टुप् छन्दांसि । श्रीमान् हयग्रीव: परमात्मा देवतेति । त्ल्हौमिति बीजम् । सोऽहुमिति शक्तिः । त्ल्हूमिति कीलकम् । भोगमोक्षयोरविनियोग: ।

अकारोकारमकारैऋण्यास: । ध्यानम् । शङ्कचक्रमहामुद्रापुस्तकान् चतुर्भुजम् । सम्पूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥

ॐ श्रीमिति द्वे अक्षरे । त्ल्हूमित्येकाक्षरम् । ॐ नमो भगवत इतिसप्ताक्षराणि । हयग्रीवायति पञ्चाक्षराणि । विष्णाव इतित्र्यक्षराणि । मह्यां मेधां प्रजामिति षडक्षराणि , प्रयच्छ स्वाहेति पञ्चाक्षराणि ।

हयग्रीवस्य तुरीयो भवति ॥४॥ ॐ श्रीमिति द्वे अक्षरे । त्ल्हूमित्येकाक्षरम् । ऐंमैमिति भगवत इतिद्वे अक्षरे ।

Page 2

त्रीण्यक्षराणि । क्लीं क्लीमिति द्वे अक्षरे । सौः सौरिति द्वे अक्षरे । हींमित्येकाक्षरम् । ॐ नमो भगवत इति सप्ताक्षराणि । महां मेधां प्रज्ञामिति षडक्षराणि । प्रयच्छ स्वाहेति पञ्चाक्षराणि । पञ्चमो मनुर्भवति ॥५॥

हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा महेश्वराय महेश्वरः संकार्णाय संकार्णो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति हकारोस्कारोमकारों त्र्यमेकस्वरूपं भवति । ल्हौं बीजाक्षरं भवति । बीजाक्षरेण ल्हौं रूपेण तज्जपकानां सम्पत्सारस्वतो भवतः । तत्स्वरूपज्ञानां वैदेही मुक्तितस्थ भवति । दिक्पालानां राजां नागानां किन्नराणामधिपतिभर्वति । हयग्रीवैकाक्षरजपसीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते । सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं भवति । ल्हौं हयग्रीवस्वरूपो भवति । अमृतं कुरुकुरु स्वाहा । तज्जपकानां वाक्सिद्धिः श्रीसिद्धिरष्टादशयोगसिद्धिषु भवति । अगम्यागमनात्पूतो भवति । पतितसंस्पर्शनात्पूतो भवति । ब्रह्महत्यादिपातकैर्मुक्तो भवति । गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रविशति । प्रज्ञानमात्रं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति । स्वरव्यञ्जनभेदन दृशा एते । अथानुमन्त्राण्जपति ।

यद्वागवदन्यविचेतनानि राष्ट्री देवानां निषषाद मन्त्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ १॥

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २॥

सर्वस्यै वाच ईशानो चारो ममिह वद्येति च वाग्रसः । ससंपरीमरतिं बाधमान बृहन्मिमाय जमदग्निदत्त । आसूर्यस्य दुरिता तनान श्ववो देवेभ्यो मृतमजुर्यम् ॥ ४ ॥

य इमां ब्रह्मविद्यामेकादश्यां पठेद्यग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरं धारयिता भूयासं कर्ण्योः शृणुं माच्योदवं ममामुष्य ओमित्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवाᳫं सस्तनूभि: । व्यशेम देवहितं यदायुः ॥

Page 3

ॐ स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्ताक्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिदधातु ॥

ॐ शान्ति: शान्ति: शान्ति: ॥ हरि: ॐ तत्सत् ॥ अथ हयग्रीवोपनिषत्समाप्ता ॥