Books / Isa Kena Katha Prasna Mundaka Mandukya Aitereya Taittiriya Sanskrit Tika Bhaskarananda Saraswati

1. Isa Kena Katha Prasna Mundaka Mandukya Aitereya Taittiriya Sanskrit Tika Bhaskarananda Saraswati

Page 1

PREFACE.

The royal road to eternal salvation or Mukti which is nothing less than the exemption from under-going the prrcess of iransmigration of one's soul can only be attained by a strict and cunstant adherence to the philo- sophical principles expounded in the Vedant Shastras. The entire fabric of this castle of Vedant Shastra is firmly supported by the ten columns of Upnishads.

Although our venerable Sri Swami Shankara Charya Ji has written a comprehensive commentary on these ten Upnishads but it is so difficult and tedious, complicated and hard to explicate the corret sense of the original text that it brings in requisition a lore of Sanskrit Lite- rature to understand its true meaning, hence it is beyond the reach of the public at large and though we have the learned commentary of Sri Swami Anand Giri Ji which explains the Bhashya i. e. the commentary of Sri Swami Shankara Charya Ji but it affords very little help in clearing the labyrinth of the Vedant Shastra or the Upnishads. Under such circumstance we prayed our most re- veared Holy Father Swami Bhaskaranand Saraswati Ji

Page 2

( 2 )

to devote a part of his precious time, who, fitly consider- ing our devotion, acceded to our request and wrote out the present commentary which is so easy to cemprehend that even mere beginners, having a faint knowledge of the Sanskrit Literature, can understand it. As soon as the shrutees become clear to the im- maginative faculty of man they are easily impressed upon his mind and can be retained there with a little practice and a constant revision of the text.

Ambica Charan Bandopadhya of Agarpara. District 24 Pergannahs.

Page 3

भूमिका।

मुक्ति जबही प्राप्त होती है जब यह जीव आ्रावागवन के बन्धनों से छूट जाता है इसके प्राप्त करने का केवल एकही उपाय है कि मनुष्य वेदांत शास्त्रों के उद्देशों को सर्वदा दृढ़ रूप से मनन करता रहै। यह वेदांतशास्त्र रूपी सीसमहल उपनिषद् रूपी खम्भों पर स्थित है। यद्यपि हमारे पूजनिय श्रीखामीशङ्गराचार्यजी ने इन दसों उपनिषदों पर विस्तारपूर्वक टीका लिखी है पर उस्का यथार्थ अर्थ अत्यन्त कठिन और उलभाऊ होने के कारण समझ में नहीं आता। उसके बोध होने के लिये संस्कृत के साहित्य के पूर्ण भाग की आवश्यकता पड़ती है अतएव उसका समझना सर्वसाधारण के लिये ञरति दुष्कर है और यद्यपि धीखामी त्र्प्रानन्द- गिरिजी ने इसका भाष्य उत्तम रीति से किया

Page 4

( २ )

है पर उससे वेदांतशास्त्र के उलभनों के दूर करने में बहुतही कम सहायता मिलती है। इसी अवस्था में हमने श्री पूज्यमान श्री स्वामी भास्करानन्दजी महाराज से प्रार्थना की कि आप कृपा करके इस सर्व हितकर कार्य्य के लिये अपने बहुमूल्य समय का कुछ भाग लगा देवें, श्रीखामीजी ने हमारी प्रार्थना को सवीकार करके यह टीका लिखी है जो ऐसा सहज है कि साधारण शिच्षित भी भली प्रकार समझ सकते हैं जिनको संस्कृत साहित्य में केवल छाया की भाँति बोध है। जब श्रुतियाँ चित में स्पष्ट रूप से आ्र्प्रा जाती हैं तो वे सहजही उसके मस्तिष्क में त्रङ्कित हो जाती हैं जो वेदान्तशास्त्र में थोड़े अभ्यास और उनके लगातार अवलोकन से चित से भिन्न नहीं हो सकती हैं। अम्विकाचरण बन्दोपाध्याय झागड़पाड़ा ज़िला २४ परगना।

Page 5

SMAMI BHASKARA NAND SARASWATI THE FAMOUS ASCETIC OF BENARES. श्रीमान् सामो भास्करानन्दजी सरखती काशी।

Page 6

ईशोपनिषत्। श्रीगणेशाय नमः । यो देव: सकलो डकलो डथ विमलो दृश्यं विमृश्यं परं प- श्यन्नात्मनिभात्मीन प्रतिपलं नैकात्मता-निश्चयी।नानानि- श्चयिनं समस्तजयिनं विश्वे- श्वरं स्वेश्वरं तं स्वं स्वेन सदा प्रमोदिचकितश्चिन्तामि चि- त्तालयम् ॥ १ ॥ सर्वे श्वासभृतं भजन्ति भ- विकं प्रश्वासशून्यं शवं पश्वा-

Page 7

२ ईशोपनिषद्। सानुषवप्रसेवनवशात्सिध्यन्ति सत्सिद्धयः। स्वान्तं श्वासमयं सितासितसृतिः सिद्धेशनिश्वा- सतो विश्वासे Sखिलकार्यसि- द्धिरिह तद्वेदैकनिष्ठा शुभा॥ यथा Sल्पबुद्धिगोऽपिस्याद्वे- दान्तविमलाशयः।तथाशयो

अथ वाजसनेय संहितोपनिषदि- प्रथममात्मज्ञाने समर्थानधिकारिण उ- द्िश्योपदिशति श्रुतिः। ईशा वास्यमिदहसर्वै यति्कि च जगत्यां जगत् तेन त्यक्त्ेन

Page 8

ईशोपनिषद्। ३

भुञ्जीथा मा गृध: कस्य स्वि- दूधनम् ॥ १ ॥ जगत्याम् लोके यत्किंच जगत् गच्छति प्राप्नोति अस्ति इदं सर्वम् ईशा ईश्वरेण अंत- र्याम्यात्मना बास्यम् आच्छादयनीयम् ईश ऐवे दंसर्वमिति भावनया तिरोभावनीयम् तत्तद्बु- द्विस्त्याज्येति भावः। कथमेवंसति व्यवहारो डत आह आत्मनो डन्यात्मना त्यक्त्तेन तेन जगता भुंजीथा: व्यवहारं पालयेथाः स्वाप्न- कूटकार्षापणादिना डपि व्यवहारप्रसिद्ेः । एवमपि कस्य स्वित् कस्यापि धनम् मा गृधी: मा काङ्क्षीः । व्यवहारसिद्धिमात्रे तत्तद्बु- दिर्न तु रागाभिनिवेशौ जगति कार्याविति भावः॥। १ ॥

आत्मबोधा-समर्थान्प्रत्याह। कुर्वन्नेवेह कर्म्माणि जिजी-

Page 9

४ ईशोपनिषद्। विषेच्छतर्ठ०समाः। एवंत्वयि नान्यथेतो Sस्तिन कर्म्म लिप्यते नरे ॥ २ ॥ अज्ञः इह संसारे विहितानि कर्माणि निष्कामतया कुर्वन्नेव शतं समाः शतवर्षा- णि यावज्जीवमिति भावः । जिजीविषेत् जीवितुमिच्छेत एवम् उक्तप्रकारेण नरे त्वयि कृतमपि कर्म न लिप्यते सम्बन्धं न प्रा- ्स्यति। इतः अस्मात् प्रकारात् अन्यथा प्रकारान्तरम् नास्ति कर्मालेपे॥ २ ॥ सकामात्यन्ताज्ञान्प्रत्यह। असुर्य्या नाम ते लोकाअन्धेन तमसा SSवृताः। तांस्ते प्रेत्या- भिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥

Page 10

ईशोपनिषद्। असुर्याः तमो-गुणप्रधानानाम् असुरा- णाम् इमे योग्याः । नाम ते प्रसिद्धाः । अन्धेन गाढ़ेन तमसा अज्ञानेन आवताः । लोका: लोकस्थतत्तद्योनयः तान् लोकानू ते जनाः प्रेत्य मृत्वा अभिगच्छन्ति के ते ये के च ये के डपि आत्महनः अनन्तबारप्राण- बियोगाऽनुकूलशुभाशुभकर्म कर्तत्वेन मम मृतिरिति निश्र्वयस्यापरित्यागेन च आत्म- घातिनः ॥ ३ ॥ यमात्मानं अन्तीवाज्ञानात्तस्यसरूपमाह । अनेजदेकं मनसो जवीयो नै- नद्देवा आमुवन पूर्वमर्षत्। त- द्धावतो Sन्यानत्येति तिष्ठत्त- स्मिन्नपो मातरिश्वा दधाति॥ अनेजत् अचलम् अतः एकम् सदै- करसम् वस्तुत एवमप्यन्तः-करणोपाधिव-

Page 11

६ ईशोपनिषद्।

शात सर्वाधिकवेगित्वेन प्रसिद्धात् मनसः जवीयः अधिकवेगवत् यत्र कुत्रापि गच्छ- देव संकल्पात्मकं मनो भासकात्मना डग्रतो गृहते यतो ऽत इति भावः। यतो मनसः पूर्वम् प्रथमम अर्षत् अगच्छत् अतः देवाः इन्द्रियाणि एनत् आत्मस्वरूपम् नान्ुवन् न प्राप्नुवन् उक्तमेव वदति वैशद्याय तिष्ठत् न गच्छत् सत् तत् आत्मतत्वम् धावतः अ- न्यान् मन-आदीन् अत्येति उल्लङ्ध्याग्रे गच्छति मनआदि प्रवत्तिरपिचिदाभास- सत्तयैवेत्याह मातरिश्वा वायुः प्राणः त- स्मिन् आत्मतत्वे सत्येव अपः स्वचेष्टाहे- तुजलानि दधाति गृह्नाति अद्विर्विना ग्ला- यमानाः प्राणाः प्राणचेष्टा च मनआदि- चेष्टाहेतुरिति भावः ॥। ४ ।। वास्तवैकरस्ये डपि वैचियभानमौपाधिकं प्रकारान्तरेण वदति। तदेजति तन्नैजति तहूरे तद्व-

Page 12

ईशोपनिषद्। ७

दन्तिके। तदन्तरस्य सर्वस्य तदुसर्वस्यास्य बाह्यतः ॥५॥ तदात्मस्वरूपम् एजति चलति न च- लति जगच्चित्तानां दूरे तद्वत् तथा आत्म- चित्तानाम् अन्तिके समीपे स्वरूपभूतः । अस्य सर्वस्य जगतः अन्तः मध्ये उ वितर्के बाह्यतः बहिर्देशे व्यापित्वादिति भावः ।। आत्मस्वरूपनिरूपएफलमाह । यस्तु सर्वाणि भूतान्यात्म- न्येवानुपश्यति। सर्वभूतेषु चात्मानं ततो न विजुगुप्सते॥ यस्तु तत्वजिज्ञासुः सर्वभूतानि उक्तवि धात्मन्येव पश्यति नात्मनो ऽन्यत्वेनान्यत्र आत्मानं च सर्वभूतेषु पश्यति न तु प्रतिभृतं भिन्नं भिन्नमितिभावः । ततः तस्माजिज्ञा-

Page 13

ईशोपनिषद्। सो: आत्मानमात्मा न विजुगुप्सते न गुप्तं करोति तस्य दृश्यो भवतीतिभावः ॥ ६॥ तत्त्वज्ञं प्रति फलमाह। यस्मिन्सर्वाणि भूतान्या- त्मैवाभूद् विजानतः। तत्र को मोहः कः शोक एकत्वमनुप- श्यतः ॥७॥ विजानतः विशेषतो संशयमात्मतत्त्वज्ञ- स्य यस्मिन ज्ञानोत्तरकाले सर्वभूतान्या- त्मस्वरूपमेवाभृत् अतः एकत्वमनुपश्यतः आत्मातिरिक्तप्रभावयतः । तस्य तत्र त- स्मिन्काले मोहः कः शोक: कः न कोपि द्वैतवासना डभावे तन्मूलमोहाद्यनुसन्धान- मेव न तदेतिभावः ।७॥। कदाचित्कबोधान्तरमाह तत्त्वज्ञस्य- सपर्य्यगाच्छुक्रमकायमत्रण-

Page 14

ईशोपनिषद्। मस्नाविरशुद्धमपापविद्धम्। कविर्मनीषी परिभू: खयम्भू-

इवतीभ्यः समाभ्यः ॥८॥

स तत्वज्ञः पर्यगात् सर्वमगमत् कं पर्य- गादिति विशेषजिज्ञासायां प्रथमं निर्विशे- षतत्वमाह शुक्रम् सारभूतं प्रकाशरूपं वा अकायम् अशरीरम अव्रणम् अखण्डम् अ- स्नाविरम् स्नावा नाड्यस्तच्छून्यम् स्थूलदे- हशून्यम् शुद्धम् निर्मलम् अतः अपापविद्दम् पापाद्यनाश्रयम् ब्रह्मेतिभावः । अथवा षडपि क्रियाविशेषणम् पुनः स एव कविः त्रिका- लज्ञः मनीषी अन्तर्यामी परिभः सर्वस्य तिरस्कर्ता सर्वोत्तम इति यावत् स्वयम्भू: अकारण: ईश्वरस्सन्निति यावत् शाश्वतीभ्यः नित्याभ्यो वहीभ्यो वा समाभ्यः, बहुभिर्व-

Page 15

१० ईशोपनिषद्।

षैरित्यर्थः। याथातथ्यतः यथा स्वरूपम् अर्थान् पदार्थान् व्यदधात् अकरोत् अहमेव तत्तद्रूपेण सर्वमकरवमित्यप्यनुसन्दधाति क- दाचित्स इति भाव: ॥।८।। अरथ भिन्ने कर्मोपासने निन्दित्वा सहकृते ऋपि तेन फलतोज्ञानौत्कर्ष्य स्पृशत इति सूचयति त्रिभिः। अन्धंतमः प्रविशन्ति ये- Sविद्यामुपासते ततो भूय इव तेतमोयउविद्याया ठ०रताः॥ अन्धंतम: गाढ़ाविवेकम प्रविशन्ति प्रा- प्नुवन्ति के ये अविद्याम अंविद्याकार्य कर्मोपासते ततो भूय इव तमः उक्ताधिक- मिव तमः ते प्रविशन्ति के ये उ वितर्के विद्यायाम् उपासने रताः तत्पराः तत्तदेवै- श्वर्यप्राप्तिरधिकासक्तिहेतुरिति भावः॥ ९॥

Page 16

ईशोपनिषद्। ११

विद्याविद्यान्यतररतस्य नोभयफलमिति फलभेदेन सूचयति। अन्यदेवाहुर्विद्ययाऽन्यदा- हुरविद्यया। इति शुश्रुम धी- राणां ये नस्तद्विचचक्षिरे॥१०।

विद्याया अन्यदेव देवलोकादिफलम आ- चार्या आहुः तथा अविद्यया अन्यत् पितृ- लोकादिफलम् आहुः इति वचनं वयं शुश्रुम केषाम धीराणाम व्याख्यातृणाम के ते ये नः अस्मभ्यम् तत् विद्याविद्याद्वयम उक्त- फलद्वयं वा विचचक्षिरे कथितवन्तः॥ १०॥ उभयरतस्य फलमाह स्तुतये- विद्याञ्चाविद्यां च यस्तद्वे- दोभय ठ० सह। अविद्यया

Page 17

१२ ईशोपनिषद्।

मृत्युं तीर्त्वा विद्ययामृतम- श्रुते ॥ ११ ॥ यः तत उभयम् सह वेद मिलितं क- रोति किं तत विद्यां च अविद्यां च कर्मानु- ष्ठानं च केवलं स्वधर्मबुद्या विद्याप्रतिवन्ध- कदुरितशामकबुद्यावेति भावः सः अविद्य- या तुच्छेहिकपुत्रवित्ताद्यकामनानुष्ठितकर्मणा मृत्युं तीत्वा ऐहिकाल्पकालिकं पुनः पुन- र्भावि मृत्युमप्राप्य उपासनयाऽमरत्वं प्रा- न्ोति॥११ ॥ कार्यकारणोपासने डपि न ज्ञानसमकक्षे इति सूचनायैव पुनः पूर्ववन्मब्रत्रयमाह। अन्धन्तमः प्रविशन्ति ये- डसम्भूतिमुपासते। ततो भूय इव ते तमो य उ सम्भूत्या ठ० रताः ॥ १२॥

Page 18

ईशोपनिषद्। १३ असम्भूतिः अजा प्रकृतिः । सम्भूतिः उत्पत्तिः तदाश्रयकार्य हिरण्यगर्भ इति या- वत् शेषार्थो नवममन्त्रवत् प्रकृतिरविवेका- दैर्जननी हिरण्यगर्भश्र् तद्वान् फलं चोपास्य स्वभावसदृशमेवेति भावः ॥१२॥ एकमेव फलमेकोपासकस्येति फलभेदेन सूचयति। अन्यदेवाहुस्सम्भवादन्य- दाहुरसम्भवात। इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥ अन्यत् अणिमाद्यैश्वर्यम अन्यत् प्रकृति- रूपत्वम शेषं दशममन्त्रवत् ॥ १३॥ सहकरणामुपासनयोः फलप्रदर्शनेन स्तौति। सम्भूतिञ्च विनाशं च यस्त- द्वेदोभय ठ० सह विनाशेन

Page 19

१४ ईशोपनिषद्॥ मृत्युं तीर्त्वा सम्भूत्यामृतम- श्रुते ॥ १४॥ विनाशम् सर्वकार्यविनाशाश्रयः कारणं प्रकृतिरिति यावत् तदुपासनं च पितुः पुत्रे- णेव सर्वै: कार्यमिति स्वधर्मबुद्या अमृतम् अणिमादिना सुखम् देवत्वाप्त्या अमरत्वं वा शेषमेकादशममन्त्रवत् यद्यप्येवं क्रमतः कैवल्यमपि भवति तथापि तत्रैव रागाद्या- धिक्यसम्भवे ततश्च्युतिरपि पुनः सम्भव- तीति न ज्ञानोदयतुल्यतान्यत्रेति भावः॥ देवयानेन यथा गच्छन्नुपासक: सूर्यमएडलं प्राप्य प्रार्थयते तदाह। हिरण्मयेन पात्रेण सत्य- स्यापिहितं मुखम। तत्त्वं पू- षन्नपावृणु सत्यधमार्य दष्टये।

Page 20

ईशोपनिषद्। १५ हिरण्मयेन-हमवत्प्रकाशमयेन पात्रेण पात्राकारेण तव मण्डलेनेति यावत् सत्य- स्वरूपोपास्य देवस्य मुखम् तत्प्राप्तिमार्ग- द्वारम अपिहितम् आच्छादितम अतः हे पूषन् ! सूर्य ! तत् आच्छादनम् तेजस्समूहा- त्मकम् तमपाशु एथकुरु कस्मै सत्यध- र्माय सत्यधर्मा उपास्यदेवः तं प्राप्तुं या दृष्टिर्दर्शनं तस्य तस्मै गन्तुमितिभावः । क्कचिदुपासने तु मुखमितिप्राधान्यान्निर्देशः स्वरूपमित्यर्थः ॥ १५॥ क्वचिदुपासने रतस्य प्रार्थनामाह। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्या- मि योऽसावसौ पुरुषः सोहम- स्मि ॥ १६॥

Page 21

१६ ईशोपनिषद्। हे पूषन् पोषक हे एकर्षे प्रधानऋषे हे यम नियामक हे सूर्य प्रेरक हे प्राजाप- त्य प्रजापत्यापत्य रइमीन किरणान व्यूह पथकुरु समूह संकोचय तेजः ज्योतिस्व- रूपम कल्याणतमम् अतिसुन्दरमतिशुभदं वा यत्ते रूपं तत्ते रूपमहं पश्यामि द्रक्ष्यामि स्वोपासनां प्रकटयति यः असौ तव मण्ड- लस्थः पुरुषः स असौ अहमस्मि ॥१६॥ अथ सामान्तः प्रार्थनान्तरामाह। वायुरनिलममृतमथेदं भ- स्मान्त ठ०शरीरम)(क्रतो- स्मरकृत ठ० स्मरक्रतोस्मर- कृत ठ० स्मर ॥ १७॥ मम वायुः प्राणः । अमृतमनिलम् म- रणरहितपरिपूर्णवायुम गतः स्थूलदेहात्सू- क्ष्मदेहे निर्गत इति भावः अथ अनन्तर-

Page 22

ईशोपनिषद्। १७

म् शरीरम् स्थूलदेहः। इदं भस्माऽन्तम् ए- तद्गस्मस्वरूपम् यातम् इदं भूलोके मृतक- रूपस्थूलशरीरमिति वा ओमित्यडङ्गीकारे स्वीकरोम्येतत् विहितकर्मादौ प्रणवोच्चार- णसंस्कारवशाद्ा ओमिति निर्देशः। क्रतु- र्यज्ञः उपासने भावनात्मकमनंस्संकल्पो वा तथा च हे कतो तं स्मर किम् मया यत्कृ- तं तत्स्मर कृतप्नो माभू: मया सम्पादितोऽ- सि ततो निरालम्बे मयीदानीमाडडशु प्रसीद फलत इति भावः आटृत्तिराऽडदरार्था स्व- दैन्यसूचिका वा ॥१७॥ विहितकर्मनिष्पत्तये निषेवितमऽमनिं प्रार्थयते- अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोध्यऽस्मजुहुराणमेनो भू- यिष्ठांते नम उच्िं विधेम॥१८॥

Page 23

२० केनोपनिषद्।

दाऽडगच्छति केन इषिताम् प्रेषिताम् इमां वाचम् वदन्ति प्राणिन उ वितर्के को देवः चतुःश्रोत्रं च युनक्ति प्रेरयति एतानि चाऽ- न्तर्वाह्यकरणानि कर्त्रा चैभ्योऽन्येन भाव्यम् न त्वत्राऽसावऽनुभूयत इति भावः ॥१॥ उत्तरमाऽऽह।

श्रोत्स्य श्रोतं मनसो मनो यद्वाचो ह वाचसउ प्राणस्य प्राणश्चक्षषश्चक्षुः अतिमुच्य धीरा: प्रेत्याऽस्मालोकादडमृ- ता भवन्ति ॥ २ ॥ यत् श्रोत्रस्यापि श्रोत्रम् मनसोऽपि मनः वाचोऽपि वाचम् वाक् प्राणस्याऽपि प्राणः चक्षुषोऽपिचक्ष: ह स्फुटम् जड़श्रोत्राऽडदीनां

Page 24

केनोपनिषद्। २१

चेतनमिति उवितर्के तदेव स प्रसिद्ध आत्मा कर्ता तथा च धीरा विवेकिन: अतिमुच्य अतिशयेनाऽडत्मानं पथक् कृत्वा मन आदि- भिरऽसम्बद्ं ज्ञात्वेति भावः । अस्माल्लो- कात प्रेत्य प्रकर्षेण गत्वा मृत्वा अमृताः मरणरहिता: मुक्ता भवन्ति ॥२ ॥ एवमऽपि कुतो न मन आरदिभिर्गह्यतेऽयमिति कु- तश्च नोपदिश्यते ईदृश इतीत्याऽऽशङ्कायां सर्वाऽनु- भूतिरूपत्वान्न ज्ञेय:ग्राह्यः किन्तु सर्वनिषेधाऽव- धितया शिष्ट चित्वात्स्वयं प्रकाशत इत्याऽडह- न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनो न विद्यो न विजानीमोयथैतदऽनुशिष्या- दऽन्यदेव तद्विदितादऽथो अ- विदितादऽधि इति शुश्रुम पूर्वे- पां ये नस्तद्याऽऽचचक्षिरे॥३॥

Page 25

२२ केनोपनिषद्।

तत्र चिदाऽडत्मनि वाङ्मनश्र्वचृंषि न गच्छ न्ति अतो न वय विद्यः ईदश इति विशे- षतोऽपि न जानीमः यथा येन विशेषणेन एतत् चिदात्म वस्तु कोऽपि कस्मैचित अनु- शिष्यात् उपदिशेत् अनुशिष्यादऽनुशिष्या- समुपदिशेयमिति वा किन्तु तत् चिदात्म वस्तु विदितात् स्थूलसकलकार्यात् अन्य- देव अविदितादडथो सूक्ष्मत्वादऽज्ञातरूपका- रणादऽपि अधि अन्यत इति वचनम् पूर्वे- षाम् वयं शुश्रुम के ते ये आचार्या: नः अ- स्मभ्यम् तत् आत्मवस्तु काथेतवन्तः ॥३।।

ननु कार्यकारणाऽडत्मकजगदडतिरिक्तं यदुच्यते

ह्मत्वाय ब्रह्म निरूपयति- यद्वाचाऽनभ्युदितं येन वा- गडभ्युद्यते तदेव ब्रह्म त्वं विद्धि

Page 26

केनोपनिषद्। २३

नेदं यदिदमुपासते ॥ ४ ॥ यत् आत्मचैतन्यम् वाचा इन्द्रियरूपया वर्णाडडत्मिकया वा अनभ्युदितम अनुक्तम डप्रकाशितम् येन चैतन्येन वाक् अभ्युद्यते लब्धसत्ताकं प्रकाशितं वा भवति तदेवा- Sडत्मचैतन्यम् लें ब्रह्म विद्ि जानीहि य- दिदम प्रसिद्धम् हिरण्यगर्भाSडदिकम् उपां- Sडसते उपासका: इदं ब्रह्म न ।। ४ । यन्मनसा न मनुतेयेनाऽडहु- र्मनोमतम् तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपाऽडसते ॥ ५॥ यदाऽत्मचैतन्यम् मनसाऽन्तःकरणेन न मनुते विषयान्न जानाति जीवाउडत्मनो हि सर्वविषयाऽवगतावऽन्तःकरणं करणं न सा- क्षिचित इतिभावः। पुनः येनाऽडत्मचैतन्येन

Page 27

१४ ईशोपनिषद् ॥

मृत्युं तीर्त्वा सम्भूत्यामृतम- श्रुते ॥ १४ ॥ विनाशम् सर्वकार्यविनाशाश्रयः कारणं प्रकृतिरिति यावत् तदुपासनं च पितुः पुत्रे- णेव सर्वैः कार्यमिति स्वधर्मबुद्या अमृतम् अणिमादिना सुखम् देवत्वाप्त्या अमरत्वं वा शेषमेकादशभमन्त्रवत् यद्यप्येवं क्रमतः कैवल्यमपि भवति तथापि तत्रैव रागाद्या- धिक्यसम्भवे ततश्च्युतिरपि पुनः सम्भव- तीति न ज्ञानोदयतुल्यतान्यत्रेति भावः। देवयानेन यथा गच्छन्नुपासक: सूर्यमएडलं प्राप्य प्रार्थयते तदाह। हिरण्मयेन पात्रेण सत्य- स्यापिहितं मुखम। तत्त्वं पू- षन्नपावृणु सत्यधमार्य दृष्टये।

Page 28

ईशोपनिषद्। १५ हिरण्मयेन-हमवत्प्रकाशमयेन पात्रेण पात्राकारेण तव मण्डलेनेति यावत् सत्य- स्वरूपोपास्य देवस्य मुखम् तत्प्राप्तिमार्ग- द्वारम् अपिहितम् आच्छादितम् अतः हे पूषन् ! सूर्य ! तत आच्छादनम् तेजस्समूहा- त्मकम् तमपावण एथकुरु कस्मै सत्यध- र्माय सत्यधर्मा उपास्यदेवः तं प्राप्तुं या दृष्टिर्दर्शनं तस्य तस्मै गन्तुमितिभावः । क्वचिदुपासने तु मुखमितिप्राधान्यान्निर्देशः स्वरूपमित्यर्थः ॥ १५॥ क्वचिदुपासने रतस्य प्रार्थनामाह। पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्या- मि योऽसावसौ पुरुषः सोहम- स्मि॥ १६॥

Page 29

१६ ईशोपनिषद्। हे पूषन् पोषक हे एकर्षे प्रधानऋषे हे यम नियामक हे सूर्य प्रेरक हे प्राजाप- त्य प्रजापत्यापत्य रशमीन किरणान् व्यूह एथक्कुरु समूह संकोचय तेजः ज्योतिस्व- रूपम कल्याणतमम् अतिसुन्दरमतिशुभदं वा यत्ते रूपं तत्ते रूपमहं पश्यामि द्रक्ष्यामि स्वोपासनां प्रकटयति यः असौ तव मण्ड- लस्थः पुरुषः स असौ अहमस्मि ॥१६॥ अथ सामान्तः प्रार्थनान्तरामाह। वायुरनिलममृतमथेदं भ- स्मान्त ठ०शरीरम)(क्रतो- स्मरकृत ठ० स्मरक्रतोस्मर- कृत ठ० स्मर ॥ १७॥ मम वायुः प्राणः । अमृतमनिलम् म- रणरहितपरिपूर्णवायुम् गतः स्थूलदेहात्सू- क्ष्मदेहे निर्गत इति भावः अथ अनन्तर-

Page 30

ईशोपनिषद्। १७

म् शरीरम् स्थूलदेहः। इदं भस्माऽन्तम् ए- तद्गस्मस्वरूपम् यातम् इदं भूलोके मृतक- रूपस्थूलशरीरमिति वा ओमित्यडङ्गीकारे स्वीकरोम्येतत् विहितकर्मादौ प्रणवोच्चार- णसंस्कारवशाद्ा ओमिति निर्देशः। क्रतु- र्यज्ञः उपासने भावनात्मकमनंस्संकल्पो वा तथा च हे कतो तवं स्मर किम् मया यत्कृ- तं तत्स्मर कृतन्नो माभू: मया सम्पादितोऽ- सि ततो निरालम्बे मयीदानीमाडडशु प्रसीद फलत इति भाव: आवत्तिराऽडदरार्था स्व- दैन्यसूचिका वा॥ १७॥ विहितकर्मनिष्पत्तये निषेवितमऽमिं प्रार्थयते- अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् hco यिष्ठांते नम उच्िं विधेम॥१८॥

Page 31

१८ ईशोपनिषद्।

हे अग्ने सुपथा शोभनदेवयानाख्यमा र्गेण अस्मान् तमूनय कस्मै राये फलाऽडत्म- कधनाय फलोपभोगायेति यावत् यतो हे देव कर्मोपासनविषयाणि विश्वानि सर्वाणि वयु- नानि ज्ञानानि अस्माकम् त्वम विद्वान् वेत्सि किं च जुहुराणम् कौटिल्येच्छायुतम् फलप्राप्तौ प्रतिबन्धकम् अस्माकम् एनः पापम् अस्मत् अस्मत्तो युयोधि अमिश्रितं कुरु पथक्कुर्विति यावत् ते तुभ्यम् भूयिष्ठाम् बहुतराम् नम उक्तिम् नमस्कारवचनम् वि- धेम वयम् कुर्म इत्यर्थः ॥ १८ ॥ दययाऽनन्तरामस्य मृदुर्यन्थोऽयमुम्भितः । श्रीसवामिभास्करानन्दैः काश्यामीशाSडख्यवेदके। कृशामद्धी: क्व भाष्येण क् वेदान्ताऽब्धिमन्थनम्। तथाप्यघटितं किं वा गुरुदेवदयालवे॥ २ ॥ इप्युपनिषत्प्रसादे ईशोपनिषत्-

Page 32

केनोपनिषद्।

श्रीगणेशाय नमः । अथ सामवेदे तलवकारशाखा ब्राह्मणे भगवानी श्वरो मुमक्षु जनोद्दिंधी र्षयाऽडत्मज्ञानं निरूपयिष्यन तत्सौकर्याय गुरुशिष्यसंवादं कल्पयामास तत्र तावत् प्रश्नवाक्यं शिष्य- स्य केनेषितमित्यादि। केनेषितं पतति प्रेषितं मनः केन प्राण: प्रथम: प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति வு. केन प्रेषितम् प्रेरितम् मनः इषितम् इष्टम् विषयम् पतति गच्छति मन आदी- नां स्थितेः प्राणाऽधीनत्वात् प्रथमःमुख्यः प्रधान: प्राणः केन युक्तः प्रेरितः प्रैति स-

Page 33

२० केनोपनिषद्।

दाऽडगच्छति केन इषिताम् प्रेषिताम् इमां वाचम् वदन्ति प्राणिन उ वितर्के को देवः चत्तुःश्रोत्रं च युनक्ति प्रेरयति एतानि चाऽ- न्तर्वाह्यकरणानि कर्त्रा चैभ्योन्येन भाव्यम् न त्वत्राऽसावऽनुभूयत इति भावः ॥१॥ उत्तरमाऽऽह। श्रोत्स्य श्रोत्रं मनसो मनो यद्वाचो ह वाचसउप्राणस्य प्राणश्चक्षषश्रक्षुः अतिमुच्य धीरा: प्रेत्याऽस्मालोकादडमृ- ता भवन्ति ॥ २ ॥ यत् श्रोत्रस्यापि श्रोत्रम् मनसोऽपि मनः वाचोऽपि वाचम् वाक् प्राणस्याऽपि प्राणः चक्षुषोऽपिचक्षः ह स्फुटम जड़श्रोत्राऽडदीनां

Page 34

केनोपनिषद्। २१

चेतनमिति उ वितर्के तदेव स प्रसिद्ध आत्मा कर्ता तथा च धीरा विवेकिन: अतिमुच्य अतिशयेनाऽडत्मानं पथक् कृत्वा मन आदि- भिरऽसम्बद्ं ज्ञात्वेति भावः । अस्माल्लो- कात प्रेत्य प्रकर्षेण गत्वा मृत्वा अमृताः मरणरहिता: मुक्ता भवन्ति ॥२ ॥ एवमऽपि कुतो न मन आदिभिर्गह्यतेऽयमिति कु तश्च नोपदिश्यते ईदृश इतीत्याऽऽशङ्कायां सर्वाऽनु- भूतिरूपत्वान्न ज्ञेय:ग्राह्यः किन्तु सर्वनिषेधाऽव- घितया शिष्ट चित्वात्स्वयं प्रकाशत इत्याऽडह- न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनो न विद्यो न विजानीमोयथैतदऽनुशिष्या- दऽन्यदेव तद्विदितादऽथो अ- विदितादऽधि इति शुश्रुम पूर्वे- पां ये नस्तद्याSडचचक्षिरे॥३॥

Page 35

केनोपनिषद्।

तत्र चिदाऽडत्मनि वाङ्मनश्र्नृंषि न गच्छ न्ति अतो न वय विझ्यः ईदश इति विशे- षतोऽपि न जानीमः यथा येन विशेषणेन एतत् चिदात्म वस्तु कोऽपि कस्मैचित अनु- शिष्यात् उपदिशेत् अनुशिष्यादऽनुशिष्या- समुपदिशेयमिति वा किन्तु तत् चिदात्म वस्तु विदितात् स्थूलसकलकार्यात् अन्य- देव अविदितादडथो सूक्ष्मत्वादज्ञातरूपका- रणादऽपि अधि अन्यत इति वचनम् पूर्वे- षाम् वयं शुश्रुम के ते ये आचार्याः नः अ- स्मभ्यम् तत् आत्मवस्तु कथितवन्तः ॥३।

ननु कार्यकारणाऽडत्मकजगदSतिरिक्तं यदुच्यते

ह्मत्वाय ब्रह्म निरूपयति- यद्वाचाऽनभ्युदितं येन वा- गडभ्युद्यते तदेव ब्रह्म त्वं विद्धि

Page 36

केनोपनिषद् 1 २३

नेदं यदिदमुपासते ॥ ४॥ यत् आत्मचैतन्यम् वाचा इन्द्रियरूपया वर्णाऽडत्मिकया वा अनभ्युदितम् अनुक्तम डप्रकाशितम् येन चैतन्येन वाक् अभ्युद्यते लब्धसत्ताकं प्रकाशितं वा भवति तदेवा- Sडत्मचैतन्यम् लें ब्रह्म विद्वि जानीहि य- दिदम प्रसिद्धम् हिरण्यगर्भाडदिकम् उपां- Sसते उपासकाः इदं ब्रह्म न ।।४ । यन्मनसा न मनुतेयेनाऽडहु- रमनोमतम् तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपाऽडसते ॥ ५॥ यदाऽडत्मचैतन्यम् मनसाऽन्तःकरणेन न मनुते विषयान्न जानाति जीवाऽडत्मनो हि सर्वविषयाऽवगतावऽन्तःकरणं करणं न सा- क्षिचित इतिभावः। पुनः येनाउडत्मचैतन्येन

Page 37

केनोपनिषद्।

मनोमतम् ज्ञातं प्रकाशितम् आहुउ्डराचा- र्या: तदेवेत्यादि पूर्ववत् ॥५॥ यच्चक्षुषा न पश्यति येन च- क्षृंषि पश्यति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥६॥ यच्चेतनं चक्षरिन्द्रियद्वारा रूपं न पश्य- ति किन्तु सर्वोडपि जनो येन चेतनेन चन्त- रिन्द्रियाणि जानाति तदेवेत्याऽडदि पूर्ववत्॥ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥। यच्चेतनं श्रोत्रेन्द्रियेण शब्दं न गृहाति येन चेतनेनेदं श्रोत्रेन्द्रियं श्रुतं ज्ञातं भवति तदेवेत्याऽडदि पूर्ववत् ॥७॥

Page 38

केनोपनिषद्। २५

यत्पाणेन न प्राणिति येन प्राण: प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥८॥ यच्चेतनं प्राणेन न जीवति किं च येन प्राणः प्रणीयते स्वकार्यसामर्थ्यवान्स्वसत्ता- वान् वा भवति भास्यते वा तदेवेत्याऽडदि पूर्ववत् यदऽत्र शरीरे करणसम्बन्धशन्यं करणानां च प्रकाशकं चेतनं तद्रह्मेति पञ्च- भ्रतीनाऽमर्थः यद्वा यन्मनसेत्याऽडदिश्रति चतुष्टयेऽपि यदितिकर्मपदम् तथा चाऽत्र शरीरे सर्वो जनो मनआदिभि: तत्तद्विषय- वत् यच्चेतनं न गह्नति सूक्ष्मत्वात्तड्रह्म पूर्वव- दऽन्यदित्यर्थः ॥८॥ इति प्रथम:खण्डः ।

तदेव ब्रह्म त्वं विद्धीति प्रयोगात्पुनर्ब्रह्मणि प्रा-

Page 39

२६ केनोपनिषद्। यदि मन्यसे सुवेदेति दभ्र- मेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदऽस्यदेवे- ष्वडथ नु भीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥ आत्मानं ब्रह्म सुष्ठहं वेद वेदयि इति यदि त्वं मन्यसे शिष्य तर्हि यदस्य ब्र- ह्मणो रूपं त्वं वेत्थ वेत्सि अपि नूनम् निश्र्यतरः तद्दभ्रमेव अल्पमेव नाऽध्या- त्ममेव किन्तु यद्ऽस्य ब्रह्मणो रूपं देवेषु त्वं वेत्थ तद्ऽपि दभ्रमेव। अल्पमेव वेद्यं भवति नाखण्डं व्यापि निरुपाधि चेतनमि- ति भावः । तस्मात अथ नु इदानीमऽपि मीमांस्यमव विचारणीयमेव ब्रह्म निरुपाधि ते तव विचार्य शिष्य आह व्यापि ब्रह्म मयाविदितमित्यऽहं मन्ये ॥१ ॥

Page 40

केनोपनिषद्। २७

कथमित्याऽडकाङूक्षायां प्रकारमाऽडह शिष्य :- नाऽहं मन्ये सुवेदेति नो न वेदेति वेद च। यो नस्तद्वेद तद्वेद नो न वेदेति वेद च॥२।। सुष्ठहं ब्रह्म वेदेत्यऽहं न मन्ये नाऽहं ब्रह्म वेदेति च नो मन्ये किन्त्वहं वेद अयं भाव: न घटादिवदिन्द्रियैरऽहं वेद न च तैरेव सूक्ष्मत्वाऽडदिदोषेण न वेद किन्तु विचारजशुद्दचिदाकारनिर्वासनाऽन्तःकर- णळत्या जगत्युन्मूलिते शिष्ट स्वयं प्रकाश- विधया वेदेति अथ स्वनिश्र्वयद्दढतां सूच- यति तत्पूर्वोक्तं विरुद्धम् नोनवेदेति वेद- चेति नोऽस्माकं वाक्यमऽविरुद्ं यो वेद स एव तद्रह्म वेद ॥ २ ॥ शिष्यतुष्टये सिद्धान्तयति यस्येति यस्याऽमतं तस्य मतं मतं

Page 41

२८ केनोपनिषद्। यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमSविजान- ताम् ॥ ३॥ यस्य अमतम् येन ज्ञेयतया ब्रह्म न निश्रि्चितम् तस्य मतम् तेन स्वयं प्रकाश- तया ब्रह्म ज्ञातम् यस्य मतम् येन ज्ञेयत- या ब्रह्म निश्चितम् स न बेद ज्ञानं हि ब्रह्म न ज्ञेयमिति स्थितेः। अथ फलितभे- दमाऽह विजानताम् विज्ञानिनाम् अवि- ज्ञातम् विज्ञेयरूपं ब्रह्म न अविजानताम् अज्ञानाम् विज्ञातम् विज्ञेयस्वरूपमेव घ- टादिवत्किमऽपि ब्ह्म ॥ ३ ॥ कर्थं क्व ब्रह्म निश्चीयते किं च तेन भवतात्याSSह- प्रतिबोधविदितंमतमSमृत- त्वं हि विन्दते। आत्मना वि-

Page 42

केनोपनिषद्। २६

न्दते वीर्य विद्यया विन्दतेऽ- मृतम् ॥ ४ ॥

प्रति विदितम् तत्तद्ोधसाक्षितया प्रसिद्धम् यड्कत्याऽडत्मचैतन्यम् तदेव मतम् ब्रह्मत्वेन निश्वितं चेद्गवेत्तर्हि हि निश्चये अमृतत्वं मृतिशून्यत्वं विन्दते लभते एव उक्तनिश्र- यरूपं वीर्य मृत्युवारणेवलम् उक्तविधया आत्मना विन्दते स्वरूपचेतनेन लभते नान्यतः अयं भावः वस्त्वऽधीनं हि ज्ञानं यथावस्तु भवति मृतिहीनं चाऽत्मवस्त्वे- वेति तथा च वीर्यरूपविद्यया बह्माऽडत्मज्ञा- नेनाऽमृतं मोक्षं लभते इति सिद्धम् ॥४॥ ब्रह्माऽडत्मज्ञानं च मनुष्यदेह एव कार्येमेवेति सूचयति। इह चेदवेदीदऽथ सत्यम-

Page 43

३० केनोपनिषद्।

डस्ति न चेदिहाऽवेदीन्महती विनष्टिः। भूतेषु भूतेषु विचि- त्य धीरा: प्रेत्याऽस्मालोका- दृऽमृता भवन्ति ॥ ५ू ।

चेद्यदीह मनुष्यभावे बूह्माऽडत्मानमऽ-

सदा तस्य रूपम् चेदिह नाऽवेदीत्तार्है म- हती विनष्टिः प्रचरदुःखाऽनन्तजननमरण- रूपमहद्विनाशस्तस्य तस्माद्वीरा बुद्धिमन्तः सर्वजीवेषु व्यात्तैकब्ह्माऽडत्मानं विचित्या- Sन्विष्य निश्रिित्यास्माल्लोकात्प्रेत्य मरणाऽन-

विदेहमुक्ता भवन्तीति भावः ॥५॥ इति द्वितीयः खण्डः ।

Page 44

केनोपनिषद्। ३१

अथ ब्रह्मचेतन मेवसर्वशक्तीत्युत्कर्षसूचनेन ब्रह्मजिज्ञासोत्पादायाऽडख्यायिकांरच- यति ब्रह्महेत्याSSदि।

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्ताडस्मा- कमेवायं विजयोऽस्माकमेवा- डयं महिमेति ॥१॥

हेति स्फुटे देवेभ्यः देवाऽर्थम् ब्रह्मविजि- ग्ये अजयदऽसुरान्देवासुरसंग्रामे परन्तु तस्य ब्रह्मणो जये देवा अमहीयन्त स्वपूजामडल- भन्त कथम् तत्राऽऽह ते देवा ऐक्षन्त अ- मन्यन्त अयं विजयो महिमा चाऽस्माकमे- वेति॥ १॥

Page 45

केनोपनिषद्।

तद्वैषां विजज्ञौ तेभ्यो ह प्रादुर्वभूव तन्न व्यजानन्त कि- मिदं यक्षमिति ॥ २ ॥ एषां देवानान्तदऽभिमननम् ह विजज्ञौ स्फुटम् ज्ञातवत् ब्रह्मेति शेष:ज्ञात्वा च तेभ्यो हि देवार्ऽर्थमेव तेजोमयमाऽडविर्वभूव परन्तु यक्षं महत्पूज्यमिदं रूपं किम् इति न व्यजानन्त देवास्तद्रह्म ॥२ ॥ तेऽग्निमन्रुवन जातवेद एत- द्विजानीहि किमिदं यक्षमिति तथेति॥३॥

ते देवाः अग्निं प्रत्यडब्रुवन हे जातवेदः इदं यक्षं किम् एतरवं विजानीहीति अथा- डग्निः तथा उस्तु इत्युक्का ॥ ३ ॥

Page 46

केनोपनिषद्। ३३

तदभ्यद्रवत्तमभ्यवदत्कोऽसी

जातवेदा वा अहमऽस्मीति॥ तद्यक्षमभ्यद्रवत् यक्षाभिमुखं गतः अथ तमग्निं यक्षमवदत्त्वं कोऽसीति अथ अभनिर्वै जातवेदा वै अहमऽस्मीत्यऽग्निरडब्रवीत्॥४॥ तस्मिस्त्वयि किं वीर्यमि- त्यऽपीदं सर्वम् दहेयं यदिदं पृथिव्यामिति ॥ ५॥ ततो यक्षेण तस्मिस्त्वयि किं बलमिति एष्टोऽग्नि: यदिदं प्थिव्यां सर्वमऽपीदमहं दहेयमित्युवाच ॥५॥ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न श-

Page 47

३४ केनोपनिषद्। शाक दग्धुं सतत एव निव- वृते नैतदशकं विज्ञातुं यदे- तद्यक्षमिति ॥ ६॥ अथ यक्षम् एतत्वं दहेत्युक्ता तस्मै अ- ग्नये तृणं निदधौ स्थापितचत् अथाऽअग्निः तन्तृणम् उपसमीपम् प्रेयाय प्रकर्षेण गतःप- रन्तु सर्वजवेन वेगेन निजसर्वबलेन तत्तणं दग्धुं न शशाक समर्थो न बभूव अथ सोऽ- ग्निर्लज्या तस्मात्तृणस्थानादेव निवत्तः अथ चाऽऽगत्य देवान्प्रति यद्यादशमेतद्यक्षमे- तद्विज्ञातुमऽहं नाऽशकं न समर्थोडभवमि- त्युवाच ॥ ६ ॥ अथ वायुमऽब्रुवन वायवे तद्विजानीहि किमेतद्यक्षमिति तथेति॥७॥

Page 48

केनोपनिषद्। ३५

अथाऽनन्तरं देवा वायुमऽब्रुवन हे वायो शेषमुक्ताडर्थम्॥७॥ तदभ्यद्रवत्तमभ्यवदत्कोऽ- सीति वायुर्वा अहमऽस्मीत्य- ब्रवीन्मातरिश्वा वा अहमS स्मीति॥८ ॥ अभ्यद्रवद्वायुः तं वायुम् चतुर्थवद्ऽन्यत्। तस्मिस्त्वयि किं वीर्यमि- त्यपीदं सर्वमाSडददीय यदिदं पृथिव्यामिति ॥९॥ .-

आददीय अहं गृहीयाम॥ ९॥ तस्मै तृण निदधावेतदाद- त्खेति तदुपप्रेयाय सर्वजवेन

Page 49

३६ केनोपनिषद्। तन्न शशाकाऽडदातुं सतत एव निववृते नैतदऽशकं विज्ञातुं यदेतद्यक्षमिति॥१० ॥

आदत्स्व गृहाण कम्पयेति यावत् आदातुं कम्पयितुम पूर्ववद्ऽन्यत् ॥ १० ॥ अथेन्द्रमन्ुवन्मघवन्नेतद्विजा- नीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ११ अथाऽनन्तरम् सर्वदेवाऽधिकशक्तयऽभि- मानिनं सर्वदेवेश्वरमिन्द्रमब्नुवन्देवा हे मघ- वन्नित्यादि पूर्ववत् तस्मादिन्द्रात् तिरोदधे अदृशयं बभूव यक्षम् अनात्मन्यहं ममत्वा SSद्यडभिमानदार्व्य यावद्यस्य तावत्तस्य दू- रतो ब्रह्माऽडत्मतत्वमिति भावः॥११ ॥

Page 50

केनोपनिषद्। ३७

उक्काऽभिमानलयहेतुतया महत्कृततिरस्कार आरप्रा- श्वऽभ्युदयायैव भवतीति च सूचयन्नाऽह स तस्मिन्निति।

स तस्मिन्नेवाSडकाशे स्त्र- यमाऽडजगाम वहुशोभमाना- मुमां हैमवतीं तां होवाच कि- मेतद्यक्षमिति॥१२ ॥ यक्षनिभृतमानसः श्रद्धाभरनियन्त्रितोजि- ज्ञासया तिष्ठन स इन्द्रः यत्र यक्षं तिरोहितं तत्रैवाऽडकाशेहिमवतःकन्योमापार्वती तद्नू- पामऽतिसुन्दरीं स्त्रियमाऽडजगाम दृष्टा तस्याः

तेति भाव: एतद्यक्षं किमिति ह स्फुटं तां स्त्रियमुवाच पप्रच्छेन्द्रः ॥ १२॥। इति तृतीयः खण्डः ।

Page 51

३८ केनोपनिषद्। सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति॥ एष्ट त्वया यक्षं ह किल ब्रह्म इत्युत्तरमुवा- चं सा स्त्रीन्द्रं प्रति ब्रह्मणो वै एतद्विजये अ- गनिवाय्विन्द्रैः सम्वादे य एष विजयस्तस्मिन् यूयं महीयध्वम् देवासुरसंग्रामविजये इव स्वपूजां लभध्वमिति चोवाचाऽडक्षेपतः अयं भावः यथैतद्विजयो न युष्माकमऽचेतनानां तथा पूर्वविजयोऽपि न ततो ब्रह्मैव सर्वश- क्तिवृथा वोहङ्गरणमिति ततः स्त्रीवाक्यादेव ह स्फुटम् अथवा ततोऽनन्तरं स्फुटमेव यक्षं

ह्माउडत्मसाक्षात्कारएवेति भावः ॥१॥ स्वल्पमऽप्याऽडत्मज्ञानं धन्ययतीति सूचयति। तस्माद्वा एते देवा अतित-

Page 52

केनोपनिषद्। ३६

रामिवाऽन्यान्देवान् यदऽगि- वायुरिन्द्रः तेह्येनन्नेदिष्टं पस्पृ- शाः ते ह्येनत्प्रथमो विदाञ्नकार ब्रह्मेति॥२॥ यद्यस्मादडगनिर्वायुरिन्द्रः ब्रह्म द्ृष्टवान् तस्माद्वै एते देवा अन्यदेवानऽपेक्ष्याऽतित- रामिव अत्युत्कृष्टा एव ते हि देवा एनद्रह्म- नेदिष्टं पस्पशः समीपं प्राप्ताः सर्वतः प्रथमं ब्रह्मेतिविदाञ्चक्रुश्च इदमेवौषकृष्म ॥२॥

दर्शयति तस्माद्वा इति- तस्माद्वा इन्द्रोऽतितरामि- वाऽन्यान्देवान् सह्येनन्नेदिष्टं पस्पर्श स ह्येनत् प्रथमो विदा- ञ्रकार ब्रह्मेति ॥ ३॥

Page 53

४० केनोपनिषद्। हि यतः स इन्द्रो ब्रह्माऽन्तिकं गतो यक्षं ब्रह्मति स एव प्रथमं स्त्रीवाक्याज्ज्ञातवानू अन्ये तु पश्रादिन्द्रतस्तमाद्वै इत्यादि पू- र्ववत् ॥ ३ ॥ ब्रह्माSडविर्भावतिरोभावौ वर्सयत्युपमानतः- तस्यैष आदेशो यदेतद्विद्यु- तोव्यद्युतदा इतीन्न्यमीमिष- दा इत्यधिदैवतम्॥४॥ औइवाडर्थौइत् चाऽर्थः। तस्य यक्षप- दोक्तब्रह्मण एषः अयम् आदेशः उपदेशः उपमानम् तदेतद्रह्मविद्यतइवव्यद्यतदभात् न्यमीमिषदाऽडनिमेषं कृतवदिव इतीत् इति च अयं च विद्युत इति बहुत्वं ब्रह्मौत्कर्ष्या

तथाऽडशायक्षाऽविर्भावतिरोभावौ सम्पन्ना- विति यावत् इत्यऽधिदैवतम् देवताविषय- कमिदमुपमानम् ॥४ ॥

Page 54

केनोपनिषद्। ४१ अथाऽध्यात्मं यदेतद्वच्छतीव च मनोऽनेन चैतदुपस्मरत्य- Sभीक्ष्णं सङ्कल्पः ॥५॥ अथाऽध्यात्मम जीवाऽडत्मसम्बन्धिकि- श्विद्रह्मज्ञापकमऽ्थोच्यते यत् यस्मात् जिज्ञा- सुमनः स्ववृत्या एतद्रह्म गृहातीव च अनेन च मनसा ब्रह्म उपसमीपे हृद्येव स्मरति जि- ज्ञास: ब्रह्मविषयकसङ्गल्पोऽप्यऽभीक्ष्णं पुनः पुनर्भवति ततो मनो ब्रह्मइज्ञापकम् ॥५॥ मनसा स्वरूप एव ब्रह्मज्ञानो- पायमाऽऽह तद्देति- तद्ध तद्वनंनामतद्वनमित्युपा- सितव्यं स य एतदेव वेदा- भिहैनं सर्वाणि भूतानि संवा- ज्छन्ति ॥ ६ ॥ तद्रह्म ह किल तद्दनमिति नाम ख्यातम् तेषामपाधितोभिन्नानामिवाऽडत्मनां वनम-

Page 55

४२ केनोपनिषद्। उ्द्वैतभावमित्यन्वर्थाचेयं संज्ञा ब्रह्मणः अत- स्तद्ूनमिति नाम उपासितव्यम् नामार्थ- भावना कार्या स यः कश्वित् एवमुक्तप्रका- रेणैतद्रह्म वेदोपास्ते एनमुपासकं सर्वाणि भूतानि ह किल अभिसम्बाञ्छन्ति आत्मा- नमिव सत्कुर्वन्तीति भावः ॥६॥ ब्रह्मविद्या काचिदऽन्येतिभ्रमनिरासायाSऽह उपनिषदमिति। उपनिषदं भो बूहीत्युक्ता त उपनिषद्राह्मीं वाव त उपनि- षदमऽबूमेति॥७॥ श्रुत्वोक्ताऽखिलं शिष्य आह भो हे भगवन् उपनिषदम् अतीवाऽन्तरङ्गसाधनं त्वं ब्रूहि इति अथ गुरु: ते तुभ्यम् मयोपनिषदुक्ता किं विषया सेति शिष्यजिज्ञासाऽनुत्पत्तये वदति ब्राह्मीं वाव बह्मविषयामेव उपनिषदं ते तुभ्यं वयमऽब्रूम इति वाक्यसमात्ौ।७॥

Page 56

केनोपनिषद्। ४३

ब्रह्मविद्यासाधनान्याऽऽह तस्यै इति। तस्यै तपो दमः कर्मेति प्र- तिष्ठाः वेद: सर्वाङ्गानि सत्य- माऽडयतनम् ॥ ८ ॥ तपः स्वधर्माचरणम् दमोऽखिलेन्द्रियनि- ग्रह: कर्म निष्कामाग्निहोत्राऽदि इति इत्यादि तस्यै विद्यायै ब्रह्मविद्यार्थम् ब्रह्मविद्यासा- धनमित्याऽडदीति यावत् तथा वेदास्तदङ्ग- नि च शिक्षादीनि प्रतिष्ठा आश्रयस्तस्यै तस्या इति यावत् तथा सत्यम् सर्वव्यव- हारेषु याथार्थ्यम् तदऽपि आयतनमाऽडश्र- यस्तस्यै तस्याः। वेदादौ ब्रह्मविद्योपलभ्यत इति वेदाद्यऽपि साधनमेव तस्या इति भावः।। ञ्रव्यभिचारसूचनाय पुनरन्ते ब्रह्म विद्याफलसाऽडह यो वै इति। योवा एतामेवं वेदाऽपहत्य पा-

Page 57

४४ केनोपनिषद्। प्मानमऽनन्ते स्वर्गे लोके ज्ये- ये प्रति तिष्ठति प्रतितिष्ठति॥ यः वै निश्रयेन एवमुक्तप्रकाराम एता- मुक्तां ब्रह्मविद्याम् वेद सःपाप्मानम् सकल- कर्मात्मककल्मषम् अपहत्य विधूय विद्याव- हिना दग्ध्वा अनन्तेऽन्तरहिते ज्येयेऽतिश- येन वृद्चे महति ब्रह्माख्ये इति यावत् स्वर्गे निरतिशयसुखात्मके लोके पदे प्रतितिष्ठति अचलप्रतिष्ठां लभते न पुनराऽडवर्त्तते इति भावः पदावत्तिर्यन्थसमाप्तिं द्योतयति॥।९॥ इति चतुर्थः खण्डः । दययाऽनन्तरामस्य मृदुर्यन्थोऽयमुम्भितः । श्रीख्वामिभास्करानन्दैः काश्यांकेनाSख्यवेदके॥ कृशा म्दी: क भाष्येण क वेदान्ताऽब्धिमन्थनम्। तथाऽप्यघटितं किं वा गुरुदेवदयालवे ॥ २ ॥ इत्युपनिषत्प्रसादे केनोपनिषत्।

Page 58

कठोपनिषद्। ४५

श्रीः। श्रीगणेशाय नमः। अथेश्वरो यजुर्वेदकठशाखाब्राह्मणे ब्रह्मा- त्मत्त्वं जिज्ञासूनामुपकाराय प्रवत्तो जि- ज्ञासायाजननाय दार्ढ्यीय च ब्रह्मविद्या म- हिमपरामाख्यायिकामादत्ते उशन्निति। उशन् ह वै वाजश्रवसः सर्व वेद संददौ तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥ ह वै एतावतीतार्थस्मारकौ अरुणाऽपर- संज्ञकस्य वाजश्रवोभिधस्य पुत्रो वाजश्र- वसः उद्दालकः। उशन् फलमिच्छन् सर्व- स्वदक्षिणाकयागान्ते आचार्यादिभ्यः सर्व वेदसम् सर्वन्धनं ददौ तस्योद्दालकस्य ह

Page 59

४६ कठोपनिषद्। किल नचिकेताः नाम प्रसिद्धः पुत्रः आस बभूव ॥ १ ॥ तर्ठ० ह कुमार ठ० सन्तं दक्षिणासु नीयमानासु श्रद्धा- SSविवेश सोऽमन्यत ॥२॥ दक्षिणारूपासु गोषु आर्चायादि पुरो नीयमानासु पित्राप्रापितासु दत्तासु सतीषु श्रद्दोचितबुद्धि: कुमारं सन्तं कौमारवयसि वर्तमानम् तं नचिकेतसम् ह किल आवि- वेश हृदि जाता ततः सः अमन्यत नि- शव्वितवान् ॥१॥ पीतोदका जग्धतृणा दुग्ध- दोहा निरिन्द्रिया: अनंदा ना- म ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥

Page 60

कठोपनिषद्। ४७

पीतजलाः भुक्ततणाः भोगशक्तिहीना इतियावत् दुग्धहीना: इन्द्रियशक्तिशन्याः वद्दा इति भाव: एवंभूताया गावः ताः ददत यः सः अनन्दा: सुखहीना: नाम ते प्रसिद्धाः लोकाः तान् गच्छति ॥३॥ सहोवाच पितरं तत क- स्मै मां दास्यसीति द्वितीयं तृतीयन्त ठ० होवाच मृत्यवे त्वा ददामीति ॥४ ॥

तस्मान्नेष्टफलभाग्भवेत्पिता परमोत्तमधनं च पुत्रः प्रियतरत्वपरमोपकारकात्वाभ्याम् पुत्रशब्दसार्थकताकालश्ष्ोपस्थितः इतिनि- श्रिवत्य सपुत्रःपितरं ह किल उवाच हे तात पितः मां कस्मै त्वं दास्यसीति उत्तराऽला- भतः एवं द्वितीयं तृतीयं च वाक्यमुवाच

Page 61

४८ कठोपनिषद्। ततः तं पुत्रं ह किल कुपितः पितोवाच मृत्य- वे यमाय त्वां दृदामीति ॥४॥ ततश्चिन्तयति चित्ते पुत्रो बहूनामिति। बहूनामेमिप्रथमोबहूनामे- मिमध्यमः किर्ठ०ख्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्याति॥ बहूनां मध्ये प्रथम: एमि उत्तमोस्मि ब- हूनां मध्यमः न निकृष्टः तत्कथं मम मृति- मिच्छति पितेति भावः किं च स्विद्वितर्के यमस्य किं कर्तव्यं कार्यमस्ति यत्कृत्यमद्य दत्तेन मया करिष्यति पिता अहो क्रोधम- हिमा न कृत्यमिति भावः ॥५॥ एवमपि पाल्यमेव पितृबचो मयामत्पिता चेति द्वयोवैराग्याय चाह पितरमनुपश्येति- त्रनुपश्य यथापूर्वे प्रतिपश्य

Page 62

कठोपनिषद्। ४६

तथापरे सस्यमिव मर्त्यःपच्य- ते सस्यमिवाऽडजायते पुनः॥

पूर्वे महान्तो यथा येन प्रकारेण स्थिता- स्तं प्रकारम तथा तेनैव प्रकारेण परे इदा- नीन्तना ये महान्तस्तेषां प्रकारं पुनस्त्वं पश्य हे तात रे मन इति वा दष्ट्रा तथैव कुरु मामद्वेतुशोकमिति भावः मर्त्यो मरणधर्मा मनुष्यस्तु गोधूमादिवत्पक्को भवति आ सर्वतः उत्पद्यते पुनः सस्या न शोकविषया इति भाव: ॥६॥

एवं विशोकं तपसा तातेन प्रेषितो यमाय ब्रह्म- लोकगतयमगहे त्रिरात्रमुवास पुत्रः तत त्रप्रा- गतं यममनुगा ऊच: वैश्वानर इति- वैश्वानरः प्रविशत्यतिथिर्ब्रा- ह्मणो गृहान् तस्यै तार्ठ०शा-

Page 63

कठोपनिषद्। न्तिं कुर्वन्ति हर वैवस्वतोद- कम् ॥ ७ ॥ हे वैवस्वत सूर्यसुत यम ब्राह्मणो तिथि: वैशवानरोग्निरूपः गृहान्प्रविशत्यायति त- स्यान्ने: एतां पाद्याद्यसपर्यारूपां शान्ति कु- र्वन्ति गहस्थाः ततो निजकल्याणाय जलं हर देह्यतिथये॥ ७॥ आशाप्रतीक्षे सङ्गतर्ठ० सू- नृतां चेष्टापूर्ते पुत्र पशूर्ठ०श्र- सर्वान् एतद्वृङ्क्ते पुरुषस्या- ल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥ आशा अदष्टवस्त्विच्छा दृष्टविषयेच्छा प्रतीक्षा सङ्गतं ध्यानम् सूनता प्रियोक्ति: इषटं यागादि आपूर्त्तमारामादिनिर्माणम् यस्य

Page 64

कठोपनिषद्।

गृहे बाह्मणोऽनश्रन्नभुञ्जानो वसति तस्या- ल्पवुद्देराशादिकमाशादि षट् क्रियाजफलं सर्वपुत्र पशूँ श्र्वै तत्सकलं वङ् क्ते नाशयति स बाह्मणः ॥। ८ ।।

एतच्छृत्वातिथिं गत्वा मृत्युरुवाच तिस्र इति- तिस्रो रात्रीर्यदवात्सीर्गृहे मे- Sनश्नन्त्रह्मन्नतिथिर्नमस्यः न- मस्तेऽस्तु ब्रह्मन्खस्ति मेऽस्तु तस्मासति त्रीन्वरान्वृणीष्व॥

हे बह्मन् नचिकेतःयद्यस्मादतिथिर्नम- स्यो नमस्काराहर्स्तस्मात्तुम्यं नमोस्तु यद- नश्नन्मम गृहे त्वमवात्सी: तस्मात् हे ब- ह्मन्मह्यं स्वस्त्यस्तु क्षमया तद्दोषशान्त्याम- ङलमस्तु यत्तिस्त्रो रात्रीरवात्सीस्तस्मात् रात्री: प्रति त्रीन्वरान्टणीष्व गृहाण मत्तो-

Page 65

५२ कठोपनिषद्। भीष्टान् एवमत्यपराधशान्तिर्नान्यथेतिभा- वः।९॥ नचिकेता आाह शान्तेति- शान्तसङ्कल्पः सुमना यथा- स्याद्वीतमन्युर्गौतमोमाभिमृ. त्यो त्वलसृष्टं माभिवदेसतीत एतत्तयाणां प्रथमं वरं वृणे॥ हे मृत्यो यम गौतमगोत्रः पिता माभि मां प्रति निवृत्तक्रोधः प्रसन्नमनाः शान्त- मन्मरणसंकल्पः यथा स्यात् ततश्र प्रतीतः मत्पुत्रोयं नचिकेता इति विश्वस्तस्सन् त्या प्रेषितं मां प्रति वदेत् त्रयाणां मध्ये एत- द्वरं प्रथममहं वृणे स्वीकरोमि ॥ १०॥ यम आह यथेति-

यथा पुरस्तान्नविता प्रतीत

Page 66

कठोपनिषद्। ५३ शद्दाल किरारुणिर्मत्प्रसृष्टः- सुखं रात्री: शयिता वीतमन्यु- स्त्वां दद्दशिवान्मृत्युमुखात्म्र- मुक्तम् ॥ ११ ॥ यमलोकाद्रतं त्वां दृष्टवान् योऽरुणपुत्र- उद्दालकस्ते पिता सः मया प्रेरितः पुरस्ता- त्पूर्व यथा तथा विश्वस्तो भवविष्यति निवृ- त्तक्रोधः आगमिष्यमाणरात्रिषु सुखेन श- यिष्यते च ॥ ११॥ लब्घ्वाद्य वरमाह सर्गें इति- स्वर्गे लोकेन भयं किं च नास्ति न तत्र त्वं न जरया विभति उभे तीत्वाऽशनाया- पिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२॥

Page 67

५.४ कठोपनिषद्। त्वमसिर्ठ मृत्यो प्रब्नूहि त्वर्ठ० श्रद्दधा- नाय मह्यम् स्वर्गलोका अमृ- तत्वं भजन्ते एतद् द्वितीयेन वृणे वरेण ॥ १३ ॥ स्वर्गे किञ्चन भयं नास्ति तत्र स्वर्गे व्वं मृत्युर्न जरया वार्द्धक्येनापि न विभेति जनः पानभोजनेच्छे द्वे त्यक्ता शोकशन्यश्र तत्र हृष्यति किंच स्वर्गलोकवन्तोऽमृतत्वं देवत्वं लभन्तेऽतः स्वर्गश्रद्धायुक्ताय मह्यम् हे मृत्यो स्वर्ग् स्वर्गाय हित स्वर्गदमग्निं त्वं प्रब्रूहि माबूहि न जानामीति यतः सप्रसिद्ध- स्त्वमध्येषि जानासि नान्यथा स्वर्ग्यसीति भावः द्वितीयवरेणैतदहं ळृणे ॥ १२-१३॥ यमः प्रति जानीते प्रते इति- प्रते ब्रवीमि तदुमेनिबोध

Page 68

कठोपनिषद्।

स्वर्ग्यमनन नचिकेत: प्रजानन् अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् य्त्वया तं तत् उ वितर्के ते तुभ्यमहं प्रबवीमि मे मत्तः त्वं निबोध हे नचिकेतः स्वर्ग्यमननिं प्रजानन्नहमस्मि विधिज्ञानां गु- हायां बुद्धौ स्थितमेतमग्निमक्षयस्वर्गलोक- प्राप्तिकरम अथोभतात्मकत्वेन जगतः प्र- तिष्ठामाश्रयं च त्वं विद्धि जानीहि॥१४॥ ईश्वर उवाच लोकादिंमिति। लोकादिमन्निं तमुवाच तस्मै। या इष्टकायावतीर्वायथावा स चापि तत्प्रत्यवद्द्यथोक्त्तमथा- स्य मृत्यु: पुनरेवाह तुष्ट:॥१५॥ लोकादिं जगत्कारणं तं ृतमग्निम् अग्नौ

Page 69

५६ कठोपनिषद्।

चयनार्थ या: यादग्रूपा: यावती: यत्संख्याका इष्टकास्ता: यथा वा येन प्रकारेण ताश्रीय- न्ते सर्वमेतत्तस्मै नचिकेतसे यम उवाच न- चिकेता अपि यथोक्तं यादशं कथितं तादशं तत् यमोक्तं यमं प्रत्यवदत् अथ यथावद्धहणे नास्य नचिकेतसस्तुष्टो मृत्यु: पुनरुवाच॥१५ तमत्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः तवैव नान्ना भविता यमग्निः सङ्गां चेमामनेकरूपां गृहाण॥१६। महात्मोदारधीर्यमः प्रीतियुतो व्रवीन्नचि- केतसम् अद्येह भूय: पुनस्तव वरं ददामीति किं तदाह उपदिष्टोयमग्निस्त्वन्नाम्नैव लोके प्रसिद्धिं यास्यति अनेकमणिमयत्वेन वहु- रूपां सृङ्गांसृमितिशब्दं कायतीति सृङ्का- ख्यामिमां मालां च त्वं गृहाणेति॥१६॥

Page 70

कठोपनिषद्। ५ू७

कर्मादि स्तौति यम: त्रिणाचिकेत इति- त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत तरति जन्ममृत्यू ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाप्येमार्ठ०शान्तिमत्यन्त- मेति ॥ १७॥

त्रिभिर्मातपित्राचार्येः सन्धि सम्बन्धमेत्य प्राप्य जन्मतः क्रमेण तेषां शिक्षया शुद्ध: अध्ययनार्थज्ञानानुष्ठानैः त्रिवारं संपादितन- चिकेतस्संज्ञकाग्नि: इज्याध्ययनदानरूपत्रि- कर्मकर्ता नान्नोति जन्ममृत्यू किंच देवादि स्तुत्यं देवं द्योतनात्मादित्यादिरूपं हिरण्य- गर्भजत्वात् ज्ञं सर्वजं शास्त्रतोगनिं विदित्वा निचाप्य द्विसन्ध्यं संवत्सरं कृतविंशत्य-

Page 71

पूद कठोपनिषद्। भावयित्वा इमां हृदिस्थितां शान्तिमतिश- येनाप्नोति॥१७॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँ- श्चिनुते नाचिकेतम्। स मृत्युपाशान्पुरतः प्रणो- द्यशोकातिगो मोदते स्वर्गलो- के ॥ १८ ॥ त्रिश््वितैतदग्निक: इष्टकानां स्वरूपं सं-

यं ज्ञात्वा य: एवमुक्ता भेदेन विद्वान् ना- चिकेतमरि्नि चिनुते क्रतुं करोति सः अ- ज्ञानादिपाशान्प्रथमं विधूय शोकशून्यः स्वर्गे मोदते ॥१८॥ द्वितीयमुपसंहरन् तृतीयवरमवतारयति यम: एष इति। एष तेशनिर्नचिकेत: स्वर्ग्यो-

Page 72

कठोपनिषद्। पू.६

यमवृणीथा द्वितीयेन वरेण एतमग्निं तवैव प्रवक्ष्यन्ति जना सस्तृतीयं वरं नचिकेतो वृ- णीष्व॥ १९॥ हे नचिकेतः द्वितीयवरेण यम्ग्निं त्वम- वृणीथा: स्वर्ग्य एषोग्निस्ते तुभ्यमुक्तः जना सः जनाः एतमगि्निं तवनम्ना वक्ष्यन्ति नास्यमालायावा तृतीयत्वमिति वृणीष्व तृतीयम् ॥ १९॥ देहद्वयातिरिक्तात्मज्ञानायोवाच नचिकेताः ये यमिति- ये यं प्रेते विचिकित्सामनु- ष्येऽस्तीत्ये केनायमस्तीति चै- के एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः॥२०॥

Page 73

६० कठोपनिषद्।

प्रेते मृते लोकान्तरंगते मनुष्ये प्राणिनि इयं प्रसिद्धा या विचिकित्सा संशयः एके आचार्या: स्थूल इवात्र सूक्ष्मेप्यहमहमिति प्रसिद्ो यमात्मा स्थूलादिवास्मादप्यतिरि- क्तोस्तीति वदन्ति एके च नास्तीति इत्या- कारिकेति शेष: त्वया वोधितोहमेतत्संशया- स्यदमात्मवस्तु यथा जानीयां तथोपदिश एष मे तृतीय वरः स्थूलदेहातिरिक्तात्मनि संशयस्तु मतानामालये यमालये नष्ट एव ममेति भावः ॥ २०॥ अरयमधिकारी नवेति निश्चयायोपक्रमते यम: देवैरिति। देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयमुरेष धर्मः अन्यं वरं नचिकेतो वृणीष्व मामोपरोत्सीरतिमासृजैनम्॥

Page 74

कठोपनिषद्। अत्रात्मवस्तुनि देवैरपि विचिकित्सितं संशयः कृतः पूर्वम् अतो नहि नैव सुज्ञयमिदं वस्तु धर्मः सर्वस्य धर्ता एष आत्माणुर्यतः ततो हे नचिकेतः अन्यं वरं वृणीष्व मामां- मोपरोत्सी: हठं मा कुरु मा मां प्रत्येनं वरं त्वमतिसृज त्यज ॥ २१ ॥ नचिकेता उवाच देवैरिति-

देवैरत्रापि विचिकित्सितं किल त्वंच मृत्यो यन्न सुज्ञे- यमात्थ वक्ता चास्य त्वाह- गन्यो न लभ्यो नान्यो वर- स्तुल्य एतस्य कश्चित् ॥२२। हे मृत्यो यद्यस्माद्देवानामप्यत्र संशयः किल एतादशस्त्वमपि दुर्जेयं कथयसि अस्य वस्तुनो वक्तापि त्वत्तुल्योन्यो न लभ्यः

Page 75

६२ कठोपनिषद्। तस्मादेतस्यात्मवस्तुनस्तुल्यो नान्यः क- श्रिद्वरोस्ति ॥२२॥ यम उवाच शतायुष: पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छासि॥ शतवर्षजीविनः पुत्रपौत्रानू पशन् गवा- दीन् हस्तिन: सुवर्णम् अश्वान् महन्मण्डलं भुवः त्वं वृणीष्व स्वयं च यावद्दायनं जी- वितुमिच्छसि तावतीः शरदो वर्षाणि त्वं जीव ॥ २३ ॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च महाभूमौ नचिकेतस्त्वमेधि

Page 76

कठोपनिषद्। ६३

कामानां त्वा कामभाजं क- रोमि॥ २४ ॥ यद्येतदात्मवस्तुतुल्यमन्यं कंचिद्वरं त्वं मन्यसे तर्हि तं गहाण धनं वंशगामिजी- विकाम् सकलभूमौ त्वमेधि वर्द्धस्व राज्यं कुरु वा सर्वविषयाणां पात्रं त्वां करोमि वा॥ २४ ॥ ये ये कामा दुर्लभा मर्त्य- लोकेसर्वान्कामाश्छन्दतःप्रा- र्थयख इमा रामाः सरथा: सतूर्यानही दृशालम्भनीयाम- नुष्यैः आभिर्मलत्ताभि: परि- चारयस्वनचिकेतो मरणं मा- नुप्राक्षीः ॥२५।

Page 77

कठोपनिषद्।

सर्वानिष्टविषयान् दुर्लभान् स्वेच्छया- या च किंच हि यत ईदश्यो न मनुष्यलभ्या अतो रथवाद्यसहिता इमा रामा अप्सरसः सन्ति मद्दत्ताभिराभिः स्वसेवां कारय मर- णसंबन्धिप्रश्नं मा कुरु ॥ २५॥ नचिकेता उवाच- श्वो भावामर्त्यस्य यदन्तकैत त्सर्वेन्द्रियाणां जरयन्ति तेजः अपि सर्व जीवितमल्पमेव त- वैव वाहास्तव नृत्यगीते॥२३॥ हेऽन्तक मृत्यो यद्यतः सर्वे पदार्थाः श्वः परेद्युरभावो येषान्तादशाः किंच मनुष्यस्य सर्वेन्द्रियाणामेतत्तेजो नाशयन्ति सर्व ब्र- ह्मान्तं जीवनमप्यल्पमेव ततोनैभिर्मेकृत्यम् किन्तु वाहादयस्तवैव सन्तु ॥२६ ॥ न वित्तेन तर्पणीयो मनुष्यो

Page 78

कठोपनिषद्। ६५

लप्स्यामहे वित्तमद्राक्ष्म चे- त्वाम् जीविष्यामो यावदी- शिष्यसि त्वं वरस्तु मे वरणी- यः स एव ॥ २७॥ किंच न धनेन मनुष्यस्तृष्णान्तं याति धनेच्छा चेत् त्वद्दर्शनप्रभावादेव तद्गविष्यति यावत्वं स्वाधिकारे स्थास्यसि तावत्वत्तो भयाभावाज्ीवनं च स्यादेव ततोन्यथा सि- द्वेयत्नानौचित्यात्स एव वरो मया लभ्यः ॥ अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्कधःस्थः प्रजा- नन् अभिध्यायन्वर्णरतिप्रमो- दानतिदीर्घे जीविते को रमे- त॥ २८॥ 1

Page 79

६६ कठापनिषद्। जरामृत्युयुक्त: कुत्सितोधःस्थो भूवासी जरामरणरहितानामुपसमीपं गत्वा क्षयित्वा- दिदुष्टान्विषयान् जानन् को चिवेकी तेषां रूपरमणानन्दान्नमनसि भावयंश्विरजीवने- च्छां कुर्वीत न कोपीति भावः ॥२८। यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्यराये महति ब्रूहि नस्तत् योयं वरो गूढ़म- नुप्रविष्टो नान्यं तस्मान्नचि- केता वृणीते॥ २९॥ हे मृत्यो यस्मिन्वस्तुनि इदं मदुक्तसंश- यनं कुर्वन्ति यच्च महति परलोकेस्ति तन्नो- स्मभ्यं ब्रूहि योडयं मम वरो गूढमात्मान- मनुप्रविष्टस्तदन्यवरं न टणीते नचिकेताः मुधैव प्रलोभयसीतिभावः ॥२९॥ इति प्रथमवल्ली।

Page 80

कठोपनिषद्। ६७

प्रीतो यम शहान्यदिति- अन्यच्छ्ेयोन्यदुतैव प्रेयःते उभे नानार्थे पुरुषर्ठ सिनीतः तयो: श्रेय आददानस्य साधु भवति हीयतेर्थाद्य उ प्रेयो वृणीते ॥ १ ॥ श्रेयो मोक्षोन्यत् प्रेयः प्रियतरं भोग्य- जातम् उत अपि अन्यदेवते द्वे श्रेय: प्रेयसी स्वस्वप्रयोजने पुरुषं जीवं बधीतः परंतु त- योर्मध्ये श्रेयो गृहतः साधुकल्याणं भवति उ वितर्के यः प्रेयोङ्गीकुरुते स परमार्थात् च्युतो भवति॥१॥ ज्ञात्वापि किमिति भोग एव प्रवर्तन्ते न योगे वहवोत आह श्रेयश्चेति- श्रेयश्च प्रेयश्च मनुष्यमेत-

Page 81

६८ कठोपनिषद्। स्तौ संपरीत्य विविनक्ति धीरः श्रेयो हि धीरोभिप्नेयसो वृणी- ते प्रेयो मन्दो योगक्षेमाद्वृ- णीते ॥ २ ॥

श्रेयःप्रेयसी मनुष्यं तन्मनः आयातः परन्तु धीरो विवेकी तौ प्राप्तपदार्थो सम्य- ग्विचार्य फलसाधनस्वरूपतः पथक्ृत्वा जा- नाति ततः प्रेयसः प्रेयो विहाय श्रेयो हि श्रयः एव वृणीते मन्दस्त्वविवेकी अप्राप्त प्रापणप्राप्तपरिपालन रूपयोगक्षेमहेतोः प्रेय एव । २ ॥ स त्वं प्रियान्प्रियरूपांश्च का- मानभिध्यायन्नचिकेतोत्यस्ना- क्षीः नैतार्ठ सृङ्कांवित्तमयीम-

Page 82

कठोपनिषद्। ६६

वाप्तोयस्यां मज्जन्ति वहवो मनुष्याः ॥३॥ हे नचिकेतः स मत्परीक्षितस्त्वं तु प्रि- यान्प्रियरूपान्हस्त्यश्वाप्सरःप्रभृति विष- यान्नश्वरांश्रिन्तयन्नत्याक्षाः किंच यस्यामा- सक्ता भवन्ति मनुजाः एतां रत्नमालां ह- ष्यापि न प्राप्तः धीरोसीति भावः ॥ ३॥ श्रेयः प्रेयोविषयेबुद्धी विद्याविद्येविवेचयन्यो- ग्यतां मनुते दूरमिति- दूरमेते विपरीते विषूची तर- विद्याया च विद्येति ज्ञाता वि- द्याभीप्सिनं नचिकेतसं मन्ये नत्वा कामा वहवोऽलोलुपन्ता। या अविद्याशब्देन या च विद्याशब्देन ज्ञाता एते दूरं भिन्ने विपरीते विरुद्धस्वभावे

Page 83

कठोपनिषद्। विषूच्यौ भिन्नफले तत्र विद्यामिप्सं नचिके- तसं त्वामहं मन्ये यतो मद्दत्तकामानत्वाम- चालयन्त॥४ ॥ निन्दत्यविद्यामिप्सुमविद्यायामिति- अविद्यायामन्तरे वर्तमाना: स्वयं धीरा: पण्डितंमन्यमा- ना:। दंद्रम्यमाणाः परियन्ति सूढ़ा अन्धेनैव नीयमाना य- थान्धाः ॥५॥ ये मूढ़ा अविवेकिन: अविद्याया तत्रापि न प्रान्ते किन्त्वन्तरे मध्ये प्राप्ताः ते वस्तु- तो बुद्धिपाण्डित्यहीना अपि स्वेनैव बुद्धिम- न्तः पण्डिताइच सन्तोतिकुटिलगतयस्सर्व- तो भ्रमन्ति अन्धानुगा यथान्धास्तथा॥५॥। नसाम्परायःप्रतिभाति वालं

Page 84

कठोपनिषद्। ७१

प्रमाद्यन्तं वित्तमोहेन सूढ़म् अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे॥ ६॥

ईदशं वालमजं प्रमाद्यन्तं विषयासक्तं धनलोभेनाविवेकिनंप्रति साम्परायः पर- लोको न भाति तथाचायं लोकोस्ति परलो- को नास्तीति मानी सः पुनःपुनर्मे मृत्यो- र्वशं याति ॥६ ॥ आत्मरूपपरलोकस्य दुर्लभतामाह श्रवणायापीति- श्रवणायापि वहुभिर्यो न लभ्यःशृण्वन्तोपि वहवोयं न विद्युः आश्चर्यो वक्ता कुशलो-

Page 85

७२ कठोपनिषट्।

स्य लब्धाश्चर्यो ज्ञाता कुश- लानुशिष्षः ॥७ वहूनान्त्वात्मश्रवणमपि दुर्लभम् शृण्व- रस्वपि बहूनां तज्ज्ञानं दुर्लभमित्यर्धभावः अस्यात्मनो वक्ता कुशलः प्रवीणो लब्धा अस्तीतिनिश्चेता प्रवीणेनोपदिष्टस्सन् ज्ञा- ता साक्षात्कर्ता त्रयोप्याइचर्या विरला एव सन्ति ॥७॥ न नरेणावरेण प्रोक्तएषसु- विज्ञेयो बहुधा विचिन्त्यमान अनन्यप्रोक्े गतिरत्र नास्त्य-

तस्मादवरेणाडकुशलेन प्रोक्त एष आत्मा न ज्ञायते कीटशः अप्रवीणैरनेकविधः क- ल्पितोतश् अन्याऽनुपदिष्टेत्रात्मनि गति-

Page 86

कठोपनिषद्। ७३

र्ञानं नास्ति न जायते हि यतोणुप्रमाणाद- प्यत्यणुरात्माऽतर्क्यः स्वतस्तर्केणानिश्रेयः।। एतद्द्रढ़यन्प्रोत्साहयति नेति- नैषा तर्केण मतिरापनेयाप्रो क्तान्येनैव सुज्ञानाय प्रेष्ठ या- न्त्वमाप: सत्यधृतिर्वतासि त्वा दङनो भूयान्नचिकेतः प्रष्टा॥ हे प्रेष्ठातिप्रिय यान्त्वमापः प्राप्तवानेषा मतिर्विना गुरुं तर्केण केवलवुद्धिवलेननाऽडप नीया प्रापणीया किन्त्वन्येनात्मज्ञेनैव प्रोक्ता सती सुज्ञानाय भवति वतेति हर्षे हे नचि- केतस्त्वन्तु सत्यधृतिरात्मविषयकत्वात्सत्य- धारणावानसि ततस्त्वादृशः प्रश्नकर्तान्यो- पि नोस्मभ्यं भवतु ॥ ९ ॥ जानाम्यहं शेवधिरित्यनि- त्यं नह्यऽध्रुवैः प्राप्यते हि ध्रुवं

Page 87

कठोपनिषद्। तत ततो मया नाचिकेतश्चि- तोसिरनित्यैर्द्रव्यैः प्राप्तवान- स्मि नित्यम् ॥ १० ॥ शैवधिर्निधिरनित्योऽनित्यैश्र नित्यं तदा- त्मवस्तुनहि नैव प्राप्यते इत्यहं जानामि हि यतस्ततो Sनित्यैर्द्रव्यैर्नाचिकेतो डग्नि- श्वितो मया तेन नित्यं वहुकालस्थाप्यम- रपदं प्राप्तोस्मि ॥। १0 ।। व्वं मादृशो ने त्याह कामस्येति- कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम् स्तोममहददुरुगायं प्रतिष्ठां ट- षदाधत्या धीरो नचिकेतो त्य- स्राक्षी:।।११।

Page 88

कठोपनिषद्। ७५

सर्वकामनाप्राप्तिरूपाम् यत्प्रात्तौ न पुनः कामनेति भाव: जगदाश्रयरूपाम् क्रतोर्य- ज्ञस्योपासनायावायतो न पुनरन्त्यं फलं त- त्परमफलम् अभयस्यपारं परावधि: स्तोमं स्त्युत्यं च तन्महद्दस्तुच तद्रूपाम् उरुगायं महत्पदरूपाम् आत्मनः प्रतिष्ठां स्थितिं सत्यतात्मकध्रुवतां दृष्टा जातघृत्या धीरस्त्वं तु हे नचिकेतः सकलैहिकामुष्मिकभोगां- स्त्यक्तवान् ॥ ११ ॥ जिज्ञासं द्रवयन्नात्मज्ञानफलमाह तममिति- तं दुर्दशं गूढ़मनुप्रविष्टं गु- हाहितं गह्रेष्ठं पुराणम् अध्या- त्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति॥१२॥ चित्तात्माकारतारूपाध्यात्मयागस्य ला- भेन तं त्वदिष्टमात्मानं देवं मत्वा धीमा-

Page 89

७६ कठोपनिषद्। न्हर्षशोकौ त्यजति तत्राभावात्तयोरिति भावः कीद्शम् दुःखेन ज्ञेयम् अत्र हेतुचतुष्टय- म् गूढं छन्नम् सर्वानुस्यूतम् बुद्धिर्गहातत्र प्रतिबिम्बितम् गह्यरेष्ठम् दुर्गमदेशे स्थित- म् । १२॥ एतच्छुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य स- मोदते मोदनीयर्ठ०हि लब्ध्वा विवृतं सद् नचिकेतसं मन्ये॥ मर्त्यः धर्म्य सर्वधर्मात्मकमेतदात्मवस्तु श्रुत्वा निश्चित्य प्रटृह्य निदिध्यासनविषय- तांवद्दिंप्रापयित्वाणुं सूक्ष्ममात्मानं साक्षा- त्कृत्य हर्षदमात्मानमात्मत्वेन लब्ध्वा सम- रत्यो हि निश्चयेन मोदते एतदात्मवस्तु स- झ्म गृहं नचिकेतसंत्वां प्रति विवतं निष्क- पाटद्वारमहं मन्ये तद्याग्योसीति भावः ॥।

Page 90

कठोपनिषद्। ७७

एवं चेत्तदुपदिशेत्याह नचिकेता अ्न्यत्रेति- अन्यत्र धर्मादन्यत्राधर्मा- दन्यत्रास्मात्कृताकृतात् अ- न्यत्र भूताच्च भव्याच यत्तत्प- शयसि तद्वद ॥ १४ ॥ धर्माधर्मफलतः कृताकृतात्कार्यकारणतः भूतभविष्यतश्च अन्यत्रान्यत् यत् तत्पारि- पूर्ण त्वं पश्यसि तद्दद ॥। १४॥ मृत्युरुवाच सर्वे इति- सर्वे वेदा यत्पदमामनन्ति तपार्ठ०सि सर्वाणि च यद्वद- न्ति यदिच्छन्तो ब्रह्मचर्य च- रन्ति तत्ते पदं सग्रहेण ब्रवी- म्योमित्येतत् ॥ १५ ॥

Page 91

७८ कठोपनिषद्। वेदतपोब्रह्मचर्याणि साक्षात्परम्परया वा यत्पराणि तत्पदं प्राप्य सङ्क्षेपेण ते तु- भ्यमहं ब्रवीमि ओम् इति यत् एतदेव त- त्पदम् ॥ १५ ॥ एतदव स्फुटयत एतदिति- एतच्ेवाक्षरं ब्रह्म एतद्येवा- क्षरं परम् एतद्येवाक्षरं ज्ञात्वा योयदिच्छति तस्य तत् ॥१६॥ यः परब्रह्मज्ञानायोङ्गारं वाचकतया परं ब्रह्मेति जानाति तस्य तज्ज्ञानम् यश्रापर ब्रह्महिरण्यगर्भप्राप्तीच्छयोङ्कारं तद्रूपेण ध्या- यति तस्य तत्प्राप्तिर्भवति ॥ १६ ॥ एतदालम्बनर्ठ० श्रेष्ठमेत- दालम्बनं परम एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥

Page 92

कठोपनिषद्। ७६

एतदोमित्यक्षरं श्रेष्ठमालम्बनं ब्रह्मोपा- सनप्रतीकम् पुनः परमुत्कृष्टमालम्बनं परत्न- ह्मबोधकम् एवमेतज्ज्ञात्वाऽपरब्रह्मणो लोके परब्रह्मरूपलोके ब्रह्मद्वयरूपस्सन्यूज्यते उ- क्त पद्यत्रयं नातिभिन्नार्थम् ।१७॥ अथ पृष्टात्मस्वरूपं निरूपयति नेति- न जायते म्रियते वा विप- श्चिन्नायं कुतश्चिन्न बभूव क- श्चित् अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥

अयमात्मा जननमरणक्रियाशून्यः वि- पश्चित् विद्वानज्ञानहीनः कुतश्र्वित्कारणा- त्कश्विदन्यरूपः कदाचिन्न बभूव अतो जो नित्यश्र शाश्वतोपक्षयरहितः पुरापि नव

Page 93

कठोपनिषद्।

एवेति पुराणो वद्धिरहितः नातस्शस्त्रादि- भिर्देहे हते हन्यते ॥ १८॥ हन्ता चेन्मन्यते हन्तुर्ठ०ह- तश्चेन्मन्यते हतम् उभौ तौ न विजानीतो नाय ठ०हन्ति न हन्यते ॥ १६ ॥ एवं चान्यं हन्तुमात्मानं चेद्यदि हन्तारं मन्यते योहन्तायइच हतोन्येन चेदात्मानं हतं मन्यते तावुभौ नात्मज्ञौ यत आत्मा क्रियासम्बन्धशून्यः।१९।। कुत एवमात्मा तत्राहाणोरिति- अणोरणीयान्महतो मही- यानात्मास्य जन्तोर्निहितो गु- हायाम्।तमक्रतुः पश्यतिवीत-

Page 94

कठोपनिषद्।

शोको धातुप्रसादान्महिमान- मात्मनः ॥२०॥ सक्ष्मादप्यतिसूक्ष्मो महतोप्यतिमहाना- त्मा स च सर्वगत्वात्सर्वजन्तुहृदये स्थितः आकाश इव घटे कथन्तर्हि ज्ञेयस्तत्राह त- मिति पूर्व यो क्रतुराऽडत्माडतिरिक्तकामना- शून्यः ततो वीतजगद्दासनः ततो धातुप्र- सादाद्हृदय नैर्मल्यादात्मनस्तं महिमानमु- क्तविधं रूपं पश्यति सः ॥ २०॥ ने दृश: कोपि स्यादित्यसम्भवं वारयत्यासीन इति- आसीनो दूरं ब्रजति शया- नो याति सर्वतः कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति॥२२॥ उपविष्टः सुप्तोनिश्र्ल एव सन्मन आद्यु- पाधिप्रतिबिम्बेन दूरं ब्रजतीव व्यापित्वा-

११

Page 95

६२ कठोपनिषद्।

त्सर्वत्रयातीव योतो मदामदं हर्षाहर्षोभय- रूपं हर्षरूपं वातमात्मदेवं मदन्यःको ज्ञाता विरल इति भाव: ॥ २१॥ नाफलमात्मज्ञानमित्याहाशरीरमिति- अशरीरं शरीरेष्वनवस्थेष्व- वस्थितम् महान्तं विभुमात्मा- नं मत्वाधीरो न शोचति।।२२।। अनित्यसकलदेहेषु शरीरासङ्गि नित्यम् नाद्रिमिव महान्तं किन्तु विभुं व्यापकमेकमा- त्मान स्वस्वरूपं निश्वित्य धीम.नखिलशोक- शन्यो भवति ॥२२ ॥ पात्मज्ञानस्य हेत्वहेतू आह नायमति- नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमे- वैष वृशुते तेन लभ्यस्तस्यैपआ्रर त्मा वृखुते तनूं साम् ॥। २३॥

Page 96

कठोपनिषद्। ८३

अयमुक्तविध आत्मा वेदाभ्यासेन धारण- शक्तयाधिया बहुनाधीतेन च न लभ्यते किन्तु भजनेन प्रसन्न ईश्वरस्वरूपं एष आ- त्मा यं वृणुते नु गृहाति तेन लभ्ष्यते कथं तत्राह तस्य भक्तस्यैष शारीर आत्मास्वां शद्धचित्तनूं स्वीकरोत्ययमस्मीति ॥ २३ ॥ आात्मज्ञानविरोधिन आह नेति- नाविरतोदुश्चरितान्नाशान्तो नासमाहित: नाशान्तमानसो वापि प्रज्ञानेनैनमानुयात् ॥ कुकर्मादनिठत्तः अशान्तो बिषयैराकृष्टे- न्द्रियः असमाहितो नैकाग्रचित्तः अशान्त मानसः सकामैकाग्रचित्तो वा न धियात्मा- नमापोति ॥ २४ ।। प्रकारान्तरेगौतदेवाह यस्येति- यस्य ब्रह्म च क्षत्रं च उभे

Page 97

८४ कठोपनिषद्।

भवतओदनः मृत्युर्यस्योपसे- चनं क इत्थावेद यत्र सः।२५॥ जगत्कारणधर्माधर्मयोर्निरूपणपालने वि- प्रक्षत्रियकर्मणी यस्यचिदात्मन ओदनस्था- नीये भक्ष्ये सर्वभक्षको मृत्युश्चोपसेचनं शा- कस्थानीयः सर्वलयाधारइतियावत्सचिदा- त्मा यत्र निजशुद्धचिद्रूपे सदास्ति तच्छु- द्वरूपं कोदुइचरितादिमानित्थेत्थमिदमित्थ- मिति कृत्वा वेद न कोपाति भावः ॥२५॥ इति द्वितीयवल्ली। तद्वेदनसुगमोपायं निरूपयिष्यन्वेतृवेद्यभेदं प्रकल्पितं दर्शयति ऋतमिति- ऋतं पिबन्तौ सुक्ृतस्यलोके गुहां प्रविष्टौ परमे पराद्े। छा- यातपो ब्रह्मविदो वदन्ति प- ज्ञाग्रयो ये च त्रिणाचिकेताः॥

Page 98

कठोपनिषद्। =५

छाया प्रतिबिम्ब आतपो विम्बस्तौ स- गुणनिर्गुणावात्मानौ गुहां हृदये परमे उत्कृ- ष्ट परार्दे ऽसङ्गस्वस्वरूपार्द्े च क्रमेण प्र- विष्टौ निर्विशेषात्मनि सप्रपञ्चनिष्प्रपञ्चत्वा- द्वत्वे च कल्पितेबोध्ये कीदशौ लोके कृतस्य कर्मणः ऋतं सत्यं सारांशफलं पिबन्तौ निर्गुणस्य कर्मफलभोक्तृत्वोक्तिस्त्वविवेकि- दृष्याप्रातीतिकी ब्रह्मविद: ये च पञ्चाग्नि- विद्योपासकाः ये च त्रिवारं चितनाचिके- ताग्निकाः कार्मणः सर्वे ते इति वदन्ति ॥१॥

छायात्मनो लौकिकालौकिकोभयसाधनं यथा प्रज्ञं कार्यमित्याह य इति- यः सेतुरीजानानामक्षरं त्र- ह् यत्परम् अभयन्तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥ ईजानानां यागं कुर्वतां दुःखोल्लड्घनार्थ-

Page 99

कठ़ोपनिषद्।

त्वात्सेतुरिव यस्तंनाचिकेतागग्निम् अभयं सं- सारपारं तितीर्षतां प्राप्तुमिच्छतां परमक्षरं यद्रह्म तच्चज्ञातुं शकेमाह समर्थावयम् यथा- धिकारमुभयज्ञानं कर्तव्यमस्तीति भावः।। जगति मोक्षे च गमनाय रथादिकल्प- यत्यात्मानमिति- आत्मानं रथिनं विद्धि श- रीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥ छायात्मा रथी रथस्वामी शरीरं रथ: बुद्धि: सारथिरश्वानां निश्चितमार्गप्रेरकः मनः प्र- ग्रहो श्वाकर्षणरज्जुः ॥ ३॥ इन्द्रियाणि हयानाहुविष- यांस्तेषु गोचरान्। आत्मेन्द्रि यमनोयुक्तं भोक्तेत्याहुर्मनी- षिणः ॥। ४ ।।

Page 100

कठोपनिषद्।

इन्द्रियाण्यइचाः शब्दादिविषयागोचरामा- र्गाः देहेन्द्रियमनोयुक्त आत्मा भोक्तासंसारी न निरुषाधिक इति भावः ॥४ ॥ रथिनस्सुखेनेष्टदेशप्राप्त्यप्राप्तीसदसदश्व - सारथ्यधीने आह यस्त्विति- यस्त्वविज्ञानवान्भवत्ययु- क्ेन मनसा सदा तस्येन्द्रिया- ण्यवश्यानि दुष्टाश्रा इव सार- थेः ॥ ५ ॥ सदसन्मार्गाश्वनियमनविवेकहीनाऽगही- ताश्वरज्जुसारथर्यथा नदुष्टाइवा वशं यान्ति एवं यो बुद्धिसारथिरप्युक्तविवेकशन्यो ना- कृष्टमनसा युतस्सदास्ति तस्येन्द्रियाणि न वश्यानि ॥ ५॥ यस्तु विज्ञानवान्भवति यु-

Page 101

कठोपनिषद्। केन मनसा सदा तस्येन्द्रि- याणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ यस्तु स्वकर्मकुशलस्तस्य वशयानीत्यादि स्फुटम् ॥ ६ ॥ उक्तद्विविधबुध्ध्यो: फलमाह यस्त्वित्यादिना- यस्त्वविज्ञानवान्भवत्यमन- स्क: सदाऽशुचिः न स तत्पद- मानोति संसारं चाधिगच्छति। पूर्वसारथिस्त्वशुद्धोतस्तदुक्तं परमक्षरं पदं न प्रान्नोति किन्तु संसारमेव ॥ ७॥ यस्तु विज्ञानवान्भवति स मनस्कः सदाशुचिः सतु त- त्पदमाननोति यस्मान्वूयो न जायते ॥ ८ ॥

Page 102

कठोपनिषद्।

द्वितीयस्तु शुद्दोतो यस्मादाप्तपदान्न पु- नरिहोत्पद्यते तत्पदमुक्तं प्राप्नोति ॥ ९॥ तत्पदमेव संसारस्य पारं विष्णुपद चेत्याह विज्ञानेति। विज्ञानसारथिर्यस्तु मनःप्र- ग्रहवान्नरः सोध्वनः पारमा- म्ोति तद्विष्णोः परम पदम॥ यो नरो विवेकिसारथिमनोनिग्रहरतइच स संसारपारं याति तच्च पारं विष्णोर्ब्रह्मण उत्कृष्टं स्वरूपम् ॥ ९ ॥ परमेव पारमिति तत्पदस्य सर्वतः परत्वमाहेन्द्रियेभ्य इति- इन्द्रियेभ्यः पराह्यर्था अर्थे- भ्यश्र परं मनः मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥१॥॥

१२

Page 103

कठोपनिषद्। परत्व स्वावधिद्वारोपलभ्यत्वम् अर्था वि- षयास्ते चेन्द्रियद्वारोपलक््यन्ते विषयद्वारा- विषयि मनः मनसा मनसो निश्चायिका नियामिका घी: धिया च सर्वधीव्यापक- त्वेनात्मा महान्पूज्यस्सर्वधीनियामकोन्त- य्र्यामी॥ १०॥ महतः परमव्यक्मव्यक्ता- त्पुरुष: परः पुरुषान्न परं कि- ञ्चित्सा काष्ठा सा परा गतिः। तेन तदुपाधिभूतं संसारप्रसवोन्मुखं चि- च्छक्तिरूपमव्यक्तम तेन पूर्णत्वात्पुरुषः श- क्तेरधिष्ठानभूतश्चेतनः तेन च न किश्चिद- न्यल्लम्यमभावादेवान्यस्य अतश्चिदेव वस्तु नः परमसीमाप्राप्यस्य च॥११॥ पुरुषश्चेत्कुतो न लभ्यते कथ वा लभ्येतात तर्राहैष इति- एष सर्वेषु भृतेषु गूढ़ो Sडत्मा

Page 104

कठोपनिषद्। ६१

न प्रकाशते दृश्यते त्वग्य्र- या बुद्या सूक्ष्मया सक्ष्मद- र्शिभिः ॥ १२ ॥ एष आत्मा चराचरेषु तत्तदाकारव्यापारै- रज्ञकल्पितैगढ़ो नाभिव्यक्त इवातो न प्र- काशते सर्पादिद्ग्भीरज्जरिव विवेकिभिस्तु निर्मलतयोत्तमया सक्ष्मया च बुद्यैष आत्मा दश्यत एव ॥ १२॥। कथमत आह यच्छेदिति- यच्छेद्वाङ्मनसी प्राज्ञस्तद्य- च्छेज्ज्ञान आत्मनि ज्ञानमा- त्मनि महति नियच्छेत्तद्च्छे- च्छान्त आत्मनि ॥१३ ॥ विवेकी वाचमिन्द्रियाणि मनसि लीनानि कर्यात् मनसोतिरिक्तानि न भावयेत एव-

Page 105

हर कठोपनिषद्।

मग्रेपि तन्मनः ज्ञाने आत्मनि ज्ञानात्मि- कायां बुद्दौ धियं महत्यात्मनि मायोपाधिके तज्ज्ञानलयाधिकरणं सस्वपाधि शान्ते स- र्वलयािष्ठानतया निर्विशेषे चिदात्मनि ल- ययेत् ॥ १३ ॥ यद्यप्यवं सूच््मदर्शिभिर्दृश्य आात्मा तथापि न दुर्गोमार्गस्तदभिज्ञोपदेशमन्तरेण सुखद इति सचयति उत्तिष्ठतति- उत्तिष्ठत जाग्रत प्राप्य वरा- न्निवोधत क्षुरस्य धारा निशि- तादुरत्यया दुर्ग पथस्तत्कवयो वदन्ति ॥ १४ ॥ शक्य आत्मा दृष्टुं यतोतो हे मुमक्षव- उत्तिष्ठत विषयांस्त्यजत वरांस्तत्वज्ञान् गु- रून्प्राप्यात्मानं जानीत तेन ज्ञानेन जाय- ताज्ञाननिद्रानाशं कुरुत शक्य आलस्यम-

Page 106

कठापनिषद्।

नर्हमितिभावः निशिता तीक्ष्णा क्षुरधारा यथा दुरत्यया दुराक्रम्या तथा तत्तमुक्तमा- त्मज्ञानस्य पन्थानं विषयत्यागात्मकं दुर्ग- म्यं वदन्ति ॥ १४ ॥ किंवात्यन्तदुःखनिवृत्तये सह्यमप्यऽल्पदुःख- मतः फलमाहाशब्दमिति- अशब्दमस्पर्शमरूपमव्ययं तथाSरसंनित्यमगन्धवच्च यत् अनाद्यनन्तं महतः परं ध्रुवं निचाय्यतं मृत्युमुखासमु- च्यते ॥ १५॥ शब्दादि पञ्चविषयास्पष्टमतोऽव्ययम- क्षीणमतोनित्यमाद्यन्तरहितं महतस्सोपा- धिकात्परमसंस्पष्टं शुद्धं यद्रह्मतत्त्वं ध्रुवमे- करसं तत्तमात्मानं निचाय्य ज्ञात्वा न मृ- त्यमान्नोति कदापि ।। १५ ॥।

Page 107

६४ कठोपनिषद्।

एतद्वल्लीत्रयपाठादि फलमाह नाचिकेतमिति- नाचिकेतमुपाख्यानं मृत्यु- प्रोक्तं सनातनम् उक्ता श्रुत्वा च मेधावी ब्रह्मलो के महीयते॥ यमप्रोक्तं नचिकेतःसबन्धि वदत्वेन स- नातनमिदमुपाख्यानं श्रावयित्वा श्रुत्वा वा मेधावी दिव्यबुद्धिस्सन हिरण्यगर्भलोके पू- जितो भवति ॥ १६ ॥ य इमं परमं गुह्यं श्रावये- ड्रह्र संसदि, प्रयतः श्राद्धकाले वा तदा नन्त्याय कल्पते त- दानन्त्याय कल्पते इति॥१७॥ किंच अतिगोप्यमिमं ग्रन्थं ब्राह्मणस- माजे श्राद्धकाले भुञ्जानेषु ब्राह्मणेषु वा प्रयतः शुचिर्यतचित्तेन्द्रियो वा सन् यः

Page 108

कठोपनिषद्। हपू

श्रावयेत्सतच्छ्रारद्धं चानन्तफलाय समर्थ भवति वीप्साध्यायसमाप्तये ॥ १७॥ इति तृतीयवल्ली।

प्रथमोध्यायश्च। अथ प्राप्यवरान्निवोधतेति सूचितबो- ध्यात्मानं विशेषतो निर्णेष्यन्नशब्दमित्या- दुक्तिफलितचत्तराद्यग्राह्यत्वं तावदात्मन- स्स्फुटयति पराञ्चीति ॥१॥ पराञ्चिखानि व्यतृणत्स्वय- म्भूस्तस्मात्पराङ्पश्यति ना- न्तरात्मन् कश्चिद्वीर: प्रत्य- गात्मानमक्षदावृत्तचक्षुरमृत- त्वमिच्छन्॥ १ ॥ स्वयंभूरीश्वरः पराञ्चि परमनात्मवस्तु तत्र गमनस्वभावानि खानीन्द्रियाणि व्य-

Page 109

कठोपनिषद्।

तृणद्विंसितवान् उक्तस्वभावसत्ता प्रदानमे- व हिंसा ततः पराङ् वाह्यान्विषयानेव प- इयति जनोनान्तरात्मानम् मोक्षमिच्छन् धीरोविषयेभ्य इन्द्रियाकर्षणेनुद्विग्नस्वभावो विषयव्यावत्तेन्द्रियः कश्विद्विरलः आन्तरा- त्मानमैक्षत्पश्यति ॥१॥ तधीरदोषदर्शनेनधीरेण भवितव्यमिति सचय- न्नुक्तमव विषदयति परा च इति- पराच: कामाननुयन्ति वा- लास्ते मृत्योर्यन्ति विततस्य पाशम् अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥ ये वाला अज्ञा अविवेकिनो वाह्यवि- षयानिच्छन्ति ते विततस्यासङ्ख्यस्य मृ- त्यो: पाश जन्म प्राप्तुवन्ति अथ तस्माद्ीरा

Page 110

कठोपनिषद्। ६७

इह जगत्यनित्यपदार्थेषु सवेषु मध्ये मोक्ष- मेव नित्यं मत्वा न मुक्तयन्यदिच्छन्ति ॥२॥ अमृतपदेन विवत्ितचिदात्मानमघुवेषु ्राहयति येनेति। येन रूपं रसं गन्धं शब्दा- न्स्पर्शाश्च मैथुनान् एतेनैव विजानाति किमत्र परिशिष्य- ते एतद्वैतत् ॥ ३ ॥

रूपादीन् मैथुनं स्त्रीसंभोगस्तन्निमित्त- कसुखस्पर्शीइच येन वोधेन स्पष्ट सदा जा- नाति तच्च ज्ञानमेतेनात्मनैव वोध एवात्मा केवल इति भाव: एवं चात्र जगति किम- ज्ञेयं तस्माज्गद्धुवं ध्रुव आत्मेति भावः तन्नचिकेतसा एष्टमात्मस्वरूपमेतद्दोधात्म- कमेव ॥ ३ ॥

Page 111

कठोपनिषद्। प्रकारान्तरेणाह स्वन्नान्तमिति- स्वनान्तं जागरितान्तं चोभौ येनानुपश्यति महान्तं विभु- मात्मानं मत्वा धीरो न शो- चति॥४॥ जाग्रत्स्वप्नयोस्सन्धिद्वयं येनानुभवति जनः तंमहान्तमपरिच्छिन्नं विभुं चेतनमा- त्मानं स्वस्वरूपं साक्षात्कृत्य धीरः शुद्धधीर्न शोचति॥४॥ एवंविधश्च निर्भयो भवतीत्याह य इति- य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ईशानं भूत- भव्यस्य न ततो विजुगुप्सते। एतद्वैतत् ॥ ५॥

Page 112

कठोपनिषद्।

यः मध्वदं विषयसुखस्यभोक्तारं जीवं चिदाभासमिममात्मानम् भूतभव्यस्याती- तानागतसर्वजगतोन्तिकादीशानं सर्वत्र स- त्तया नियामकमन्तर्यामिणं नत्वैकदेशस्थ्येन दूरतः वेद सततो वेदनादनन्तरं वा ना- त्मानं भयेन केनचिद्रोपायितुमिच्छति अनी- शोहीशभयाद्विजुगुप्सते इति भावः एतह्वै- तदिति सर्वमुक्तार्थम् ॥५॥ अरनन्तरोक्तमन्यविधयाह यः पूर्वमिति- यः पूर्व तपसोजातमन्यः पू- र्वमजायत गुहां प्रविश्य ति- छ्ठन्तं यो भूतेभिर्व्यपश्यत। एतद्वैतत् ॥ ६ ॥ य ईशानः सृष्यादौ स्रष्टव्यविषयकज्ञा- नरूपतपसः पूर्व जातं जातस्सिद्दो वोध- मात्रोतएवाज्य्ोभूतेभ्यइच तमेव गुहामन्तः

Page 113

कठोपनिषद्।

करणं प्रविश्य भतेभिभृतभौतिकैस्सह छन्तं यो विपश्यति स एवात्मानं पश्यति॥ भङ्न्यतरेण पुभाश्चतमात्मानमाह या प्रागनति- या प्राणेन संभवत्यदितिर्दे- वतामयी गुहां प्रविश्य तिष्ठ- न्तीं या भूतेभिर्व्यजायत। ए- तद्गैतत् ॥७॥ देवतामयीद्योतनात्मिकायाऽदितिरखण्डा- चित् प्राणरूपेणोत्पद्यते यैव च भूतभौति- करूपैर्व्यजायतोत्पन्ना तामेव गुहां प्रविश्य- जीवरूपेण तिष्ठन्तीं थः पश्यत्ति स पश्यति निजात्मानम् ॥७॥ सत्सेव्यतयोपस्थिताग्निदेवतां वर्णायति चि- त्त्वायारएयोरिति। अरण्योर्निहितो जातवेदा

Page 114

कठोपनिषद्। १०१

गर्भ इव सुभृतो गर्भिणी भे: दिवेदिव ईड्यो जागवन्िर्हवि- ष्मन्विर्मनुष्येभिरगनिः। एतद्वै- तत् ॥ ८ ॥ यत्काष्ठयोर्मन्थनेन व्यज्यतेगनिस्तयोरर- ण्योः स्थितो जातवेदायज्ञियान्निर्गर्भिणीभि-

रदिने दिने सुभृतस्सुरक्षितः पोषितो वेड्य- स्तुत्यश्रयः यश्र्वेतरमनुष्यैरग्निस्साधारणो- ग्निस्तथा सुभृतस्तद्रूपोपि चिदात्मैव।। सर्वरूपतामाह चिदात्मनो यतश्चेति- यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति तं देवास्सर्वे अरपर्पि- तास्तदुनात्येति कश्चन। ए- तद्वैतत्॥ ६॥

Page 115

१०२ कठोपनिषद्। यतश्रिविदात्मनस्सूर्यो जायते लीयते च यत्रात्मनि तं चिदात्मानं प्रत्यर्पितास्सर्वदे- वा: किं बहुना कोपि पदार्थस्तदात्मस्वरूपं नाऽत्येत्युलङ्घयति तदन्यो न भवतीति भाव:॥ ९॥ तपरनन्यदृष्टिसिद्धयेऽन्यटृष्टौ भयमाह यदेवेहेति-

यदेवेह तद्मुत्र यदमुत्र त- दन्विह मृत्योः स मृत्युमामो- तिय इह नानेव पश्याि॥ १०॥

इह जगति यदेव वास्तवं वस्तु तदेवात्म- नि यच्चामुत्रात्मनि तदेवाध्यात्मविचारमनु- जगति यद्ैमकटकादौ तद्ेम्न यद्देस्न्ि त- द्वैमयथा प्रपञ्चात्मना ह्यपरोक्षमेव तद्स्त्व- ति यदमुत्रेत्युक्तिर्न द्वैतमिति भाव: स्फुट- मन्यत् ॥ १०॥

Page 116

कठोपनिषद्। १०३

कथमेवं च कटकादाविव न चन्नुरादिविषयता- त्मनीत्यत आह मनसैवेति- मनसैवेदमाप्तव्यं नेहनाना- स्ति किञ्चन मृत्यो: स मृत्युं गच्छति य इहनानेव पश्यति। गन्धो घ्राणेनैवव मनसैव निर्मलेनेदमा- त्मवस्तु ग्रह्यते Sतोविकृतदृशापीतोपि सि- तएव शङ्खस्तथेहननानाऽतोनानेव पश्य- न्नानामृत्युमच्छति ॥ ११॥ जगताऽभेदमुक्ता परमात्मनातमात्मनो द्रढयन्पुनराहाङ्गष्ठमात्र इति- अड्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति ईशानं भूत- भव्यस्य न ततो विजुगुप्सते। एतद्वैतत्॥ १२॥

Page 117

कठोपनिषद्।

आत्मनि शरीरे मध्ये हदाकाशेङ्गुष्ठमात्रे भासनादङ्गुष्ठमात्रो यः पुरुषो वस्तुतः पू- रणत्वादात्मा त भूतभव्यस्येशानं मत्वेत्यादि पञ्चमे उक्तार्थम् ॥ १२॥ उक्तात्मनो निर्विकारतामाहाङगुष्ठेति- अङ्गुष्ठमात्रः पुरुषो ज्यो- तिरिवाधूमकः ईशानो भूत- भव्यस्य स एवाद्यसउश्वः । एतदैतत ॥ १३ ॥ यो निर्दमागनिरिवोक्तः प्रकाशश्विदात्मा स एवास्मिन्दिने श्वः परदिनेपि स एव- नान्यस्तादशोवा नित्योऽ्द्वयोनिर्विकारश्र्वेति भावः ॥१३।। पुनरभेदधीदार्ढ्यायाह यथेति- यथोदकं दुर्गे वृष्टं पर्वतेषु

Page 118

कठोपनिषद्। १०५

विधावति एवं धर्मान्पृथक्प- इयंस्तानेवानुविधावति॥१४॥ दुर्गेषु पर्वतेषु वष्ट पतितं जलं विविध नाना सत् नानानिम्नदेशान् गच्छति यथा तथात्मधर्मानात्मस्वरूपान जगत्पदार्थान् पथगात्मान्यत्वेन पशयन्नानादर्शीनानाशरी- रस्सँस्तानेव जगत्पदार्थाननुगच्छति प्रति- जन्माज्ः ॥१४॥ यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति एवं मुनेर्विजा- नतआत्मा भवति गौतम॥१५॥ शुद्धचिदात्मैकत्वमननशीलस्य विज्ञा- निन आत्मा तु हे गौतमगोत्र नचिकेतः शुद्धचिदेकरस एव भवति यथा शुद्धजले आसिक्तं सर्वतः पतितं शुद्धजलं शुद्धैकर- समेव भवत्येवम् ॥ १५॥ इति चतुर्थवल्ली।

१४

Page 119

कठोपनिषद्।

अथातिसौद्षम्यादात्मनो विवेकाय प्रकारा- न्तरमारभते पुरमिति- पुरमेकादशद्वारमजस्याव- क्रचेतसः अनुष्ठाय न शोचति विमुक्तश्र विमुच्यते एतद्वैतत॥ यथा सर्वदेशस्याधिष्ठातुर्गन्तुश्र् महा- राजस्य प्रायो नियतोपलम्भाय पुरं विचित्रं क्रियते तथा जन्मादिविकारही नस्यावक्राव्या- हतपरिपूर्ण चेतनस्य नाभिशिरोरन्ध्राभ्यामे- कादशद्वारशरीरपुरमनुष्ठाय कृत्वा निश्रचीय पुरसङ्गशून्यचिदात्मानं निश्रीयति यावत् शोकबन्धौ नानुभवति ॥१॥ चिदाहमनो जगदधिष्ठानत्वाभिव्यक्तये सर्व- रूपतामाह हंस इति- हंस: शुचिषद्वसुरन्तरिक्ष-

Page 120

कठोपनिषद्। १०७

सद्धोतावेदिषदतिथिर्दुरोणसत नृषद्वरसदृतसद्योमसदब्जा गो जा ऋतजाअद्रिजा ऋतं वृहत्॥ हन्ति सदा गच्छतीति हंसस्सूर्य: शुचौ स्वर्गे सीदतीति शुचिषद्देवगण: वसति स- र्वहृदि मनोहररूपत्वादिति वसुर्गन्धर्वगणः अन्तरिक्षे सीदतीति वायुः एवमग्रेप्यूह्यम् होताग्निःप्थिवीवासी ब्राह्मणो यज्ञगहस्थः एवंविधैतत्स्वरूप आत्मैव पुनः मनुष्यस्थः देवस्थः सत्यस्थः आकाशस्थः पुनः क्रमेण जलधरायज्ञपर्वतजाताअप्यात्मैव तथाप्या- त्मस्वरूपमृतमेकरसं वृहद्ह्मनिर्विशेषमेव।। प्राणादिप्रेरकत्वेनात्मानं विविनक्ति ऊर्द्धमिति- ऊध्व प्राणमुन्नयत्यपानं प्र- त्यगस्यति मध्येवामनमासीनं विश्वेदेवा उपासते ॥ ३ ॥

Page 121

१०= कठोपनिषद्।

यो हृदयादूर्ड्ड प्राणाख्यवायुमपर्य्यपानं च प्रत्यगधो नयति तं चिदाभासरूपेण मध्ये हृद्यासीनमुपविष्टं वामनं परिच्छिन्नं स- र्वेदेवाश्र्वक्षरादयस्सेवन्ते तत्परतन्त्रा इति यावत् अवश्यमेव जड़प्रेर्य्यांतिरिक्तेन चि- दात्मना भवितव्यमिति भावः॥ ३॥ आात्मावगमे विधान्तरमाहास्येति- अस्य विस्रंसमानस्य शरीर- स्थस्य देहिन: देहाद्विसुच्य- मानस्य किमत्र परिशिष्यते एतद्वैतत् ॥४॥ पूर्व शरीरस्थस्य देहाभिमानिनो भोगक्ष- ये देहाद्विस्त्रंसमानस्य विमुच्यमानस्यान्य- त्रगतस्यास्यचिदाभासस्यात्रशरीरे किं शि- ष्यते न किमपि किन्तु सहैव सकलं प्राणे- न्द्रियादि तदीयं प्रयाति शिष्यते च यदेकं

Page 122

कठोपमिषद्। १०६

वस्तु विम्बचेतनमेतदेव तन्नचिकेतसाएष्ट मात्मतत्त्वम् ॥ ४॥ ननु मास्तु चिदाभासाख्यचेतनसम्बन्धाभ्यु- पगमः प्रासयोगायोगाभ्यामेव जीवन- मरणाप्रसिद्धेरत आराह नेति- न प्राणन नापानेन मर्त्यो जीवति कश्चन इतरेण तु जी- वन्ति यस्मिन्नेतावुपाश्रितौ।

निरुद्ध प्राणापानयोगिचिरजीवनदर्शना- न्न केवलप्राणापानाभ्यां जीवनम् किन्तु य- दधीनावेतौ तेनेतरेणान्येन केनापि जड़वा- ख्वादीनां नैयत्येनप्राणात्वादिव्यापारस्य यो- गायोगयोर्वाऽन्तरेण चेतनसम्बन्धमसम्भ- वाल्लोके दर्शनाच्चावश्यकस्तद्भ्युपगम इति भाव: ॥५॥

Page 123

११० कठोपनिषद्।

यथार्थभाषिताहेतुकप्रीतिमात्मनस्सूचयति यमो हन्तेति- हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्मसनातनम् यथा च मरणं प्राप्य आत्मा भवति गौतम।। हन्तेदानीमिदमुक्तमपि ब्रह्म पुनस्ते व- दिष्यामि मरणोत्तरं यथा पुनर्जायते जीव- स्तथातावच्छृणु वैराग्यायेति भावः ॥ ६॥ जनिप्रकारं समासेनाह योजनमिति- योनिमन्ये प्रपद्यन्ते शरी- रत्वाय देहिन: स्थाणुमन्ये नु संयन्ति यथाकर्म यथाश्रुतम्। अन्ये मूढ़ा देहिनो जीवाः शरीरभावाय शुक्रूपेण योनिं विशन्ति अन्येतिमूढास्तु वीजरूपेण स्थाणं स्थावरं वक्षादि यथा यस्य

Page 124

कठोपनिषद्। पूर्वकृतं कर्मश्रुतं वासना च तथा तन्दुसा णेति यावत्।७॥ वच्यामीति प्रतिज्ञातमाह य इति- य एष सुप्तेषु जागर्ति कामं कामं पुरुषोनिर्मिमाण: तदेव शुक्रं तद्वन तदेवामृतमुच्यते तस्मिँलोका: श्रिता: सर्वे तदु- नात्येति कश्चन एतद्वैतत्॥८॥ य एष आत्मा पुरुषो जीवरूप: सुप्तेषु निद्राभिभतेष्विन्द्रियादिषु सत्सुनानास्वा- प्रपदार्थ रचयन् जागर्त्यविलुप्तबोधो भवति तदेव शुद्धं ब्रह्माविनाशिचोच्यते विम्बान- तिरिक्तत्वात्प्रतिविम्बस्येति भावो न विम्ब- चिदन्यत्किश्चिद्रह्रेति यावत् तस्मिन्नित्यादि तुर्यवल्ली नवमवाक्ये उक्तार्थम्॥८॥

Page 125

कठोपनिषद्।

आत्मैकत्वं निदर्शनेन बुद्धावारोहयत्यग्निरिति- अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो वभूव ए- कस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥ ६ ॥ वायुर्यथैको भुवनं प्रविष्टो रू- पं रूपं प्रतिरूपो वभव एक- स्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥१०॥ वस्तुतो व्याप्येक एवाग्निर्वायुश्च्ावास्त- वनिजौपाधिकजन्माधारं भुवनं दारुदेहाद्य- पाधिं प्रविश्य तत्तदुपाधिरूपं प्रति प्रति- रूपस्सदश उपाध्याकारोनानेव भवति यथा तथा सर्वभूतान्तर्वहिश्र् स्थित एक एवात्मा देहान्तःकरणेषु प्रतिविम्बितः ॥ १० ॥

Page 126

कठोपनिषद् । नन्वेवमौपाधिकं परमदुःखित्वादिस्यादेकपरमा- त्मनोत आह सूर्य इति। सूर्यो यथा सर्वलोकस्य च- क्षुर्नलिप्यते चाक्षुषैर्वाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन वाह्यः॥ इन्द्रियाधिष्ठातृदेवेन रूपेणालोकेन वाखि- लचचुर्गतोपि सूर्यो न कैरपि चक्षस्सम्बन्धि- दोषैः पापरोगादिभिस्सम्बधं यात्यतिसू- क्ष्मा सम्बन्धिस्वभावरूपत्वात् तथा सर्वोपा- धिवाह्यो संबद्धस्वभाव आत्मा औपाधिकरू- पे प्रतीतमपि किञ्चिदवास्तवेन वस्तुस्वरूपं स्प्रष्टुमर्हति मरुं मरीचिकेवेति भाव: ॥११॥ पवास्तवे चिदाभास एवात्मनिश्चयी सदा दुःख्येवेति सूचयति एक इति- एको वशी सर्वभूतान्तरा- १५

Page 127

११४ कढोपनिषद्। त्मा एकं रूपं बहुधा यःकरो- ति तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां रखं शाश्वतं नेतरे- षाम् ॥१२॥ अद्वैतः स्वरूपाधीनीकृताखिलाऽखिला- न्तर्व्यापी यः एक शुद्धचिन्मात्रं स्वरूपं जगदाकारं करोति मनःस्वप्नपदार्थानिव त- मेवाभासात्मना हृदयस्थं जानन्ति ये तेषा- मेवानन्तसुखम् ॥ १२॥ नित्योऽ्नित्यानां चेतनश्चे- तनानामेको बहूनां यो विद- धाति कामान् तमात्मास्थं ये नु पश्यन्ति धीरास्तेषां शान्ति: शाश्वती नेतरेषाम् ॥ १३ ॥

Page 128

कठोपनिषद्। ११५

सर्वकार्याणां नित्यः कारणात्मा ब्रह्मादि चिदाभासानां चेतनस्साक्षीय एकोन्तर्यामी ब्रह्मादीनां कामानिष्टफलानि सम्पादयति तमित्याद्युक्तार्थम तेषामेव शान्तिरुपरामो निर्वासनताननतसुखरूपयोग्यता ॥१२॥ तच्चानन्तसुखमात्मभूतमपि न निर्देश्यमयं घट इति यथेत्याह तादति- तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम कथं नु तद्विजा- नीयां किमु भाति विभाति वा॥ १४ ॥ तदुक्तं नचिकेतसा एष्टं वापरमसुखस्व- रूपमेतदात्म तत्वमनिर्देश्यमिति मन्यन्ते त- ज्ज्ञा: अतस्तदुवितर्के किं भाति सामान्यतः प्रकाशरूपं किं वा विभाति सूर्यादिप्रकाश- विशेषस्वरूपं वेति कथं केन प्रकारेण नु

Page 129

११६ कठोपनिषद्। निश्र्वयेनाहं विजानीयां विज्ञापयेयमिति य- महृद्यानुसन्धानोक्ति: ॥ १४॥ लौकिकाखिल प्रकाशसाच्िनिर्विशेषालौकिकप्रका- शरूषं तदिति तृतीयप्रकारेणाह नेति- न तत्र सूर्यो भाति न च- न्द्रतारकं नेमा विद्यतो भान्ति कुतोयमगनिः। तमेवभान्तम- नुभाति सर्वै तस्य भासा सर्व- मिदं विभाति॥ १५ ॥ तत्र चिदात्मनि सूर्यादयो न भान्ति चिदात्मबोधनसमर्था न भवन्ति किन्तु चि- दात्मानमेव पूर्वतः स्फुरन्तमनुपश्चात् त- रस्वरूपबोध प्रकाशेनाखिलं जगत्सामान्यतो विशेषतश्र् प्रतीयते ॥१५॥ इति पश्चमवक्षी।

Page 130

कठोपनिषद्। ११७

अथानभिव्यक्तात्मबोधाय नानाप्रकारान् विव- चुरादौ कार्यं कारणबोधकमित्याहोर्द्ध्वमिति- उद्र्ध्वमूलोऽवाक्शाखए- षोऽश्वत्थः सनातनः तदेवशुद्ं तद्रह्र तदेवामृतमुच्यते तरिंम छोकाः श्रिता: सर्वे तदुनात्ये- ति कश्चन एतद्वेतत ॥ १ ॥ एष दृशयः प्रपञ्चोश्वत्थः पिप्पलतरुः नश्वस्तिष्ठतीति विनाशित्वसूचनाद्विष्णरू- पतोक्तेर्वाशवत्थोक्ति: कीदृशः सनातनोऽना- दि: अर्वागध: प्रत्यक्षालोकलौकिकरूपाःशा- खा यस्य सः एतावता कार्यमिति फलितम् तथा चावइयं कारणेनापि भाव्यमत आह ऊर्ध्व परं यत ऊर्ध्व न किश्चित् तन्मूलं कारणं यस्य सः तत्किंतदाह तदेवेत्यादि तदुक्तार्थ पञ्चमवल्ल्यष्टमवाक्ये नाखिलजड़कारणताक

Page 131

११८ कठोपनिषद्।

ल्प्यैकजड़े क्वचित्सम्भविष्यतीति भावः।। भयादिवेश्वराणां निरन्तरप्रवृत्तिरपि चित एवा- खिलजड़कारणतां सूचयति लोकप्रसिद्धे- रित्याह यदिदमिति- यदिदं किञ्चजगत्सर्वै प्राण एजति निःसृतम् महन्नयं व- ज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति॥२॥ भयादस्याग्नि- स्तपति भयात्तपति सूर्यः भ- यादिन्द्रश्च वायुश्च मृत्युर्धा- वति पञ्चमः ॥ ३ ॥ यदिदं किंच तत्सर्व जगत् प्राणेसर्वचे- ष्टाहेतौ ब्रह्मण्येवनिःसृतमुत्पन्नमेजति चेष्टते च कथमेवम् यत उद्यतमुत्थापितं हननाय बज्चमिव भयं भयकारणं किंचिन्महदस्ति

Page 132

कठोपनिषद्। ११६

महद्रयस्य महतां भयस्य कारणमिति वा एतदेव कुतः यतोग्न्यादयस्त्यक्तसर्वेष्टविश्रा मा: स्वस्वव्यापारे प्रवर्तन्ते न ह्येतषां च सम्भवति भयं जड़ादिति भावः अतएव च ये एतज्गत्कारणं जानन्ति तेऽमृता: जड़ध- र्मेण परमभयेन वा मरणेन हीना भवन्ति। एतस्फलमपि मर्त्यलोक एवोक्तभयहेतु ब्रह्म- बोधे सति भवति नान्यत्रेत्याहेहेति- इहचेदशकद्वोद्धुं प्राक्शरीर स्य विस्रसः ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥ इहात्र लोकेदेहस्य विस्रसः पातात्पूर्व चेद्यद्युक्तचिदात्म ब्रह्म बोद्मशकत्समर्थो- भवेज्जानीयादिति यावत् तदोक्तफलम् ततः शरीरपातोत्तरं तु तत्तल्लोकेषु तत्तत्सर्गेषु यो- निषु शरीर लभते नोक्तफलम् ॥ ४ ॥

Page 133

१२० कठोपनिषद्।

कुतस्तदाह यथेति- यथा दर्शे तथात्मनि यथा खनने तथापितृलोके यथाप्सु परीव दद्दशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके।।५।। यथा आदर्शे तथैवात्मनि देहे च मुखं ह- श्यते न तु किश्चिदप्यन्यथा तथेह लोके आत्मवोधो यथावत् अन्यत्र तु क्वचित्स्वन इवास्पष्टः कचिज्ले यथा परीव विपरीत- मिव दृश्यते किश्चित्तथा क्वचिच्छाया तेज- सोरिव स्पष्टोपि भिन्नविषय एव सर्वथैकत्व- बोधस्तु कस्यचिदेव तत्र अन्यत्राप्येव मूह्य- मितीहैवयत्न आत्मबोध उचित इति भावः॥। देह आत्मवोधप्रकारमाहेन्द्रियाणामिति- इन्द्रियाणां पृथग्भावमुद- यास्तमयौचयत् पृथगुत्पद्य-

Page 134

कठोपनिषद्। १२

मानानां मत्वा धीरो न शो- चति॥ ६॥ यद्यस्मात्सुषुप्तिप्रबोधयोरुदयास्तमयो आविर्भावतिरोभावौ तस्मात्स्थूलदेहात्ट्टथ- गुत्पद्यमानानां प्रतीयमानानामिन्द्रियादी- नामात्मनः एथग्भावमन्यत्वमनात्मत्वं म- त्वेत्यर्थः ॥६॥ आत्मात्वेकरसः सर्वतः पर इत्याहेन्द्रियेभ्य इति- इन्द्रियेभ्यःपरं मनो मनसः सत्वमुत्तमम् सत्वादधिमहा- नात्मामहतोऽव्यक्तमुत्तमम्॥ अव्यक्तात्तुपर: पुरुषो व्याप- कोऽलिङ्ग एव च। यं ज्ञात्वा

१६

Page 135

कठोपनिषद्। मुच्यते जन्तुरमृतत्वं च ग- च्छति ॥ ८ ॥ विषयविषयिणोश्र्वार्थेन्द्रिययोरभेदेन नि- र्देश: सत्त्वमत्र वुद्धिर्लिङ्गं लक्षणम् व्याख्या- तमन्यतृतीयवल्ल्याम् तदन्यत्स्फुटमेव।।८I अलिङ्गोप्यलिङ्गत्वेनैव वुध्यत इत्याह नेति- न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् हदा मनीषा मनसाभिक्लप्तो य एतद्विदुरमृतास्ते भवन्ति। अस्यात्मनो रूपं दृष्टिविषये न तिष्ठत्य- योग्यत्वादतो न कोपि पशयति चन्तुषा किन्तु बुद्धिमनोभ्यां सहितेन हदा हृदयेनाभिक्ल- पोडभिक्लप्ता: समर्था ये एतदात्मतत्वं बिदुः अ्य भावः न यावन्निर्विषयमनोबुद्धिभ्या-

Page 136

कठोपनिषद्। १२२

मेकीभूतं भवति हृदयं न तावत्कोप्यात्मद- शनशक्तो भवतीति ॥९॥ उक्त्ैकीभावमेव व्यक्तमाह यदेति- यदा पञ्चावतिष्ठन्ते ज्ञाना- नि मनसा सह बुद्धिश्चनवि- चेष्ठति तामाहुः परमां गतिम्।। यदा मुमुक्षोवैराग्यादिना पञ्चज्ञानेन्द्रि- याणि मनोबुद्धिश्र् स्वस्वव्यापारं विहाया- Sडत्माभिमुखतया हद्येव तिष्ठन्ति तामेवा- वस्थां मुक्तिमाहुः ॥ १० ॥ वर्णायतीमामेवावर्स्था तामिति- तां योगमितिमन्यन्ते स्थि- रामिन्द्रियधारणाम् अप्रमत्त- स्तदा भवति योगो हि प्रभ- वाप्ययौ ॥ ११॥

Page 137

१२४ कठोपनिषद्।

तामुक्तां स्थिरां दढ़ां चिरस्थायिनीमिन्द्रि- याणां धारणामुपरतिं योगं योगिनो वदन्ति तदा तस्यामवस्थायां प्रमादरहितो भवति विक्षेपाभावात् योगो हि योग एव चोत्पत्ति- प्रलयहेतुः सर्वेष्टसाधकः सर्वशक्तिर्योग इति भावः॥ ११॥ ननूक्तावस्थायां नात्मप्रसिद्धिर्बुद्ध्याद्यविषय- त्वेनानुपलभ्यमानत्वादत शराह नैवेति- नैव वाचा न मनसा प्रासुं शक्यो न चक्षुषा। अस्तीति ब्रुवतोऽन्यत्र कथं तटुपलभ्य- ते॥ १२ ॥ यद्यप्ययोग्यत्वेन वागाद्यगोचर आत्मा तथापि सकलजागतपदार्थान्वयित्वेनास्ती दमिदं नास्तीत्यस्तिशब्दं ब्रुवतः अन्यत्र प्रकारान्तरे नैव तदात्मतत्वमुपलभ्यते॥१२॥

Page 138

कठोपनिषद्। १२५

एवं चास्तीत्युक्तिप्रकारे एवोपलभ्यत इति फलितन्तदाहास्तीति- अस्तीत्येवोपलब्धव्यस्त- त्वभावेन चोभयोः। अस्ती- त्येवोपलब्धस्य तत्त्वभावः प्र- सीदति॥१३॥

घटादिकार्यान्वयित्वेन मृदादिकारणोप- लम्भात्सकलकार्यान्वयिस द्रूपआत्मेत्याद्य- पादभावः अस्तीति भात्याद्युपलणक्षम् किं- चोक्तावस्थायामात्मनः केवलीभावो भवति तेनापि शुद्धबोध उपलभ्यते परंतूभयोरम- ध्ये पूर्वे पूर्वप्रकारेण प्रतीतस्यात्मनः केव- लीभावो भवति नान्यथा॥ १३॥ आत्मोपलब्धिफलमाह यदेति- यदा सर्वे प्रमुच्यन्ते कामा

Page 139

कठोपनिषद्। येऽस्य हदि श्रिताः। अथ म- र्त्योऽमृतो भवत्यत्र ब्रह्म स- मश्ुते॥ १४ ॥ अस्य मुमुक्षोर्मर्त्यस्य हृदये वासनारूपेण ये कामा विषयाः स्थितास्ते यदा केवली- भावे हृदि न भवन्ति अथानन्तरमेव समर्त्यों मुक्तो भवति देहावसानसमये च घटाका- शो महाकाशमिवात्रैव न क्वचिद्त्वा ब्रह्मा- ख्यशुद्दचेतनं व्याप्नोति तदेव सत्तद्रवति न भिन्नो भात्यज्ञानामिति भावः॥। १४॥ ननु बन्धात्मकलिङ्गदेहस्य कथं विनाश इत्याश- ड्क्य तन्मूलाविवेकनाशादित्याह यदेति- यदा सर्वे प्रभिद्यन्ते हृदय- स्येह ग्रन्थयः अथ मर्त्योऽमृ- तो भवत्येतावद्यनुशासनम्॥

Page 140

कठोपनिषद्। १२७

दन्त्वसुखित्वकर्तत्वादियन्थयो वन्धा विवे- केन यदा नश्यन्ति तदोक्तफलं भवत्येवा- संशयम् शाखादीव कंचित्कालं स्थूलदे- हारब्धकर्मान्तमेव तिष्ठति लिङ्गादीति भावः एतावदेवानुशासनमुपदेशः सिद्दान्तोखिल- वेदान्तस्य ॥१५॥ अप्राप्तकेवली भावानां तु यथा वासनं नानावि- धागतय इति सूचयति शतंचेति- शतं चैकाच हृदयस्य ना- डयस्तासांमूर्द्धानमभिनिःसृतै- का तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भव- न्ति ॥ १६ । हद्गतमूलैकाधिकशतनाडीनां मध्ये एका मूर्द्ानमभिव्याप्य द्वादशाङ्गुलमुपरिगता

Page 141

१२८ कठोपनिषद्।

यास्ति तयोपरिगच्छन्नुपासको ब्रह्मलोक- प्राप्तिरूपामृतत्वं लभते अथ सूक्ष्मदेहस्य निष्क्रमणे द्वारभूता अन्यनाड्यस्तु विष्वङ् विषूच्य: तुद्रनानागतिहेतवो भवन्ति॥१६॥ तस्मादाश्ववश्यं विघेयः केवलीभाव इत्युप- संहरति अङ्गृष्ठमात्र इति- अङ्गुष्ठमात्र: पुरुषोऽन्तरा- त्मा सदा जनानां हृदये स- न्निविष्टः तं साच्छरीरात्प्रवृ- हेन्मुञ्जादिवेषीकां धैर्येण तं विद्याच्छुक्ममृतं तं विद्याच्छु क्रममृतमिति ॥१७॥ सदा सर्वजनहृदि प्रतिविम्बितोतोङ्गु- ष्ठमानेन प्रतीतो वस्तुतः पुरुषः पूर्णो यः सर्वान्तर आत्मा तं धैर्यण विचारयुक्तयाशनैः

Page 142

कठोपनिषद्। १२६

शनैः स्वशरीरोपाधे: एथक् कुर्यात्परिपूर्ण भावयेदुपाध्यसङ्गिनिश्र्वयेन यथा मुञ्जमध्य स्थवर्तुलशलाकां पथक्ृत्याऽसंसक्तवेयमा- सीदिति निश्रवीयते इत्यंशद्ये दष्टान्तः अथ तमात्मानं शाक्रामृतस्वरूपं जानीयात् प्र-

श्रवेयमिति भाव: वस्तुस्थितिरियं न प्रौढ़िवा- द इत्यर्थिकाऽऽळत्तिरितिश्र्व समाप्त्यर्थः ॥

आख्यायिकामुपसंहरति मृत्युप्रोक्तामिति-

मृत्युपोक्तां नाचिकेतोऽथ- लब्ध्वा विद्य मेतां योगविधिं च कृत्स्म्। ब्रह्मप्ाप्तोविरजो- डभूद्विमृत्युरन्योऽप्येवं योवि- दऽध्यात्ममेव ॥ १८॥

१७

Page 143

१३० कठोपनिषद्।

यमोक्ताऽध्यात्मज्ञानं तत्प्रकारं च सर्व ज्ञात्वा ब्रह्मस्वरूपो निर्मलो मृत्युरहितो भून्नचिकेता: योन्योप्येवं वित् वेत्यध्यात्म- स्वरूपं सोप्यऽध्यात्मरूपमेव भवति॥१८॥

अथ शिष्याचार्ययोर्विधिव दध्ययनाऽध्यापन फला- सये प्रार्थनारूपशान्तिमाह सहेति-

सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहै तेजखि- नावऽधीतमस्तु मा विद्विषा- वहै॥ १९॥ ॐशान्तिः ३

परमात्मा तथा नाऽडवावां पालयतु िरुक्तिरादर प्रार्थनादार्व्यसूचिका सह मि- लित्वाऽडवामध्यात्मज्ञानरूपं वीर्य वलं यथा करवावहै परस्परविद्वेषं च न करवावहै

Page 144

कठोपनिषद्। १३१

किंचाडवयोरधीतं तेजस्वि भवतु परमा- त्मन् ॥ १९ ॥ इत्युपनिषत्प्रसादे काठकोपनिषद्द्वितीया- डध्यायः षष्ठवल्ली च।। दययाऽनन्तरामस्य मृदुर्यन्थोऽयमुम्भितः। श्रीस्ामीभास्करानन्दैः काश्यां काठकवेदके।। कृशामद्धीः क् भाष्येण क वे दान्ताऽब्धिमन्थनम्। तथाऽप्यघटितं किं वा गुरुदेवदयालवे ॥ २ ॥

Page 145

प्रभोपनिषद्।

श्रीगणेशाय नमः ।

ओम् भद्रं कर्णेभिरिति शान्तिः३ क्वचि- तपुस्तके स्वस्ति न इन्द्र इति च शान्तिः ३ एवमन्तेऽपि।

Sथर्वएाब्राह्मये ज्ञानोपासने विवरिष्यन्विद्या- स्तुतिशिष्यावधानाय शिष्याचार्ययोग्यता- भिव्यञ्जनाय चाऽऽख्यािकारूपेगा प्रश्नो- पनिषदमारभते सुकेशा चेति- सुकेशा च भारद्वाजः शै- व्यश्र सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वला- यनो भार्गवो वैदर्भि: कवन्धि कात्यायन: तेहैते ब्रह्मपरा ्र-

Page 146

प्रश्नोपनिषद्।

हानिष्ठाः परं ब्रह्माऽन्वेश्माणा एष ह वै तत्स्वै वक्ष्यतीति तेह समित्पाणयो भगवन्तं पिप्प- लादमुपसन्नाः ॥ १॥ भरद्वाजसुतस्सुकेशा १ शिविपुत्रस्स- त्यकाम: २ गर्गगोत्र: सूर्यसतसौर्यस्य पुत्र- स्सौर्यायणिश्र ३ अश्वलसुतः कौसल्यः ४ विदर्भदेशोद्गवो भृगुसुतः ५ कत्यस्य युवा- पत्यं कबन्धी ६ ते कुलादिप्रसिद्ा एते षट् ह किल वेदनिष्ठाः सगुणब्रह्मतत्पराः पर- ब्रह्मजिज्ञासायां प्रवत्ता: ह स्फुटमेष आचा- र्यः सर्व साङ्गमेतदस्मज्ज्ञासितं वै निश्च- येन वक्ष्यतीत्याशया गुरूपयोगिकाष्ठादि गृहीत्वा पिप्पलादसकाशं गताः ।। १॥ तान्ह स ऋषिरुवाच भूय

Page 147

१३४ प्रश्नोपनिषद्। एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ। यथाकामं प्रश्नान्पृच्छतयदिविज्ञास्यामः सर्वै ह वो वक्ष्याम इति॥२॥ तप आदियुक्ता अपि यूयमत्र गुरुसेवा- ब्रह्म चर्य्यदृढ़विश्वासैरेकवर्षवासानन्तरं य- थेष्टं पच्छत ततो योग्यतां ज्ञात्वा सर्व वः एष्ट वक्ष्यामीत्युवाच पिप्पलादस्तान् षट् नाऽपरीक्ष्य गुरुः शिष्यो वा कार्य इति भाव: ॥ २ ॥ अथ कवन्धी कात्यायन उ- पेत्य पप्रच्छ। भगवन्कुतो ह वा इमा: प्रजा: प्रजायन्त इति ॥ ३॥

Page 148

प्रभ्ोपनिषद्। १३५ परं जिज्ञासोरप्यऽध्यारोपापवादन्याये- नायं जगत्कारणप्रश्न इति भावः ॥ ३॥ तस्मै सहोवाच प्रजाकामो वै प्रजापतिःसतपोऽतप्यतस त- पस्तप्त्वा समिथुनमुत्पादयते। रयिं च प्राणं चेत्येतौ मे बहुधा प्रजा: करिष्यत इति॥ ४ ॥ वाव एवार्थे किलस्फुटयोर्ह: वावैतु प्रसि- द्विस्मारणयोरिति सर्वत्र यथासम्भवं ज्ञे- यम्प्राप्यः स पिप्पलाद: कल्पादौ प्रजोत्पत्ति कामनावान्हिरण्यगर्भः पूर्वकल्पीयाखिलस्- ष्टव्यविषयज्ञानरूपं तपः कृत्वा ऽनुसन्धाय चेमौ मम विविधप्रजाः करिष्यत इति रयि- प्राणयुगलमुत्पादितवान् ॥४ ॥ आदित्यो ह वै प्राणो रयिरेव

Page 149

१३६ प्रश्नोपनिषद्।

चन्द्रमाः। रयिर्वा एतत्सर्वैय- न्मूर्तचामूतै च तस्मात् मूर्ति- रेवरयिः ॥ ५॥ ह स्फुटे वै निश्र्ये स्मरणे वा सूक्ष्म- प्राणार्थकप्राणस्य सूर्य: स्थूलधनार्थरयि- शब्दस्य च चन्द्रो लक्ष्यार्थः रविचन्द्रा- डभेद दध्याह यत्स्थूलं सूक्ष्मं चैतत्सर्व रयिरे- वेति भेददृध्या तु चन्द्रगता: स्थूलदेहं ल- भन्ते इति स्थूलश्र्न्द्रस्तस्मान्मूर्तमेव रयिः॥ सर्वात्मत्वं रवेराहाथेति- अथादित्य उदयन्यलाचीं दिशं प्रविशति तेन प्राच्यान्प्रा- णान् रश्मिषु संनिधत्ते। यद्द- क्षिणां यलतीचीं यदुदीचीं य- दधो यदूर्ध्व यदन्तरा दिशो-

Page 150

प्रश्नोपनिषद्। १३७

यत्सवै प्रकाशयति तेन सर्वा- न्पाणान् रश्मिषु संनिधत्ते॥६।। उदयं प्राप्नुवन्सूर्यो यद्दिशो विदिशोऽध ऊर्ध्व च प्रकाशयति तेन प्रकाशनेन तत्रत्य- सर्वान् प्राणान्प्राणिनः प्रकाश्यपदार्थानिति भावः स्वकिरणेषु कवलयत्यन्तर्भावयति स- र्वात्मात इति भावः ॥ ६।। एतदेव स्फोटयति स इति- स एष वैश्वानरोविश्वरूपः प्राणोशिरुदयते। तदेतटचा- भ्युक्तम् ।। ७॥ स उक्तमाहात्म्य एष आदित्य वैश्वानरः सर्वप्राणिरूपः नैतावत् विश्वरूपोऽखिलप्रा- ण्यऽप्राणिरूपः परम्परया जाठराग्निस्थिति- हेतुप्राणस्थितिहेत्वन्नादिहेतुव्यापारादिहेतु- तयाऽगनिप्राणरूपश्राहरहरुदयं याति एत- न्माहात्म्यं मंत्रेणोक्तम् ॥ ७॥

१८

Page 151

१३८ प्रश्नोपनिषद्।

मच्रमाह विश्वेति। विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम। सहस्ररश्मिः शतधा वर्तमान: प्राण:प्रजानामुदयत्येषशूर्य:। असङ्ख्यकिरणोऽनेकरूपः प्राणिनां प्रा- णो य एष सूर्य उद्येति तमेकं तपन्तं ज्यो- तीरूपं सर्वाधारं जातज्ञान पाण्डुरवर्ण स्न- र्वस्वरूपं वदन्ति ॥८॥ स्वनिरूपितसर्वजनककाल द्वारारयिप्राणमिथुनस्य सर्वप्रजोत्पादकत्वं रयिमूर्त्तत्वं च सूचयति संवत्सर इति- संवत्सरो वै प्रजापतिस्त- स्यायने दक्षिणं चोत्तरं चत- द्येह वैतदिष्टापूर्ते कृतमित्यु-

Page 152

प्रश्चोपनिषद्। १३६

पासते ते चान्द्रमसमेव लोक- मभिजयन्ते। त एव पुनराव- र्तन्ते तस्मादेत ऋषयः प्रजा- कामादक्षिणं प्रतिपद्यन्ते एष हवैः रयिर्यः पितृयाणः॥६॥

रविचन्द्रात्मकसंवत्सर एव प्रजाध्यक्ष: तस्य षण्मासरूपे रव्यादिगत्याश्रये दक्षि- णोत्तरसंज्ञे द्वेऽयने मार्गो तत्तयोर्मध्ये चान्द्र- मसमेव लोकं दक्षिणं ते यान्ति ये प्रसिद्धे- ष्टापूर्तेमयेदं कर्म कृतमिति भावयन्ति त एव पुनर्जायन्ते प्रजारूपेण तस्मात्सर्व ऐते प्रजार्थिनो दक्षिणायनं यान्ति यः पितृयाणो दक्षिणमार्ग एष रयिरेव चन्द्राधिष्ठितत्वा- चन्द्र एव ।। ९॥

Page 153

१४० प्रश्नोपनिषद्। अपुनरावृत्तिहे तुत्वेन प्राएस्यामूर्तत्वं सूचयति अथेति- अथोत्तरेण तपसा ब्रह्मचर्ये- ण श्रद्धया विद्ययात्मानमन्वि- ष्यादित्यमभिजयन्ते। एत- द्वै प्राणानामायतनमेतदमृत- मभयमेतत्परायणमेतस्मान्न- पुनरावर्तन्त इत्येष निरोधः तदेष श्लोकः ॥ १० ॥ तप आदिभिविद्ययोपासनेनात्मानमुपा- स्यमयं भावयित्वाऽडदित्यं यान्युत्तरमार्गेण एतदादित्यस्वरूपमेव प्राणाश्रयमविनाइय- डभयं परागतिः तस्मान्नातः पुनर्जायन्ते इत्युक्त: एष निरोध: सेतुर्मयादाकेवलकार्मे-

Page 154

श्ोपनिषद्। १४१

णामुपासकानां च एष प्राण इति वा तत्त- त्रोक्तार्थे एष मंत्र: ॥! १० ॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्द्धे पुरीषि- णम्। अथेमे अन्य उपरे वि- चक्षणं सप्तचक्रेषडरत्रहुरार्पि- तमिति॥ ११ ॥

हेमन्तशिशिराडभेदेन पञ्चर्तुपादं सर्वज- नकं मासावयवं संवत्सरं दिवोन्तरिक्षस्यो- त्तरार्द्े स्थितमादित्याद्वृष्टिप्रसिद्धे: पुरी- षिणं नीरवन्तमादित्यस्वरूपमाहु: अथ परे श्रेष्ठा इमेन्य उ अन्ये तु षड्ऋतवोरास्तिर्य- गवयवा यस्य तत्र सप्ताश्वयुतसंवत्सरच- क्रेस्थितं विचक्षणं सूर्यमाहुः सर्वप्रजाहेतुरु- भयथेति भावः इति मन्त्रसमातौ ॥ ११॥

Page 155

१४२ प्रश्नोपनिषद्। मासात्मनापि संवत्सरस्य जगद्देतुकर्महे- तुतेत्याह मास इति- मासो वै प्रजापतिस्तस्य कृ- ष्णपक्ष एव रयिः। शुक्लःप्रा- णस्तस्मादेत ऋषयः शुक्क इष्टं कुर्वन्तीतर इतरस्मिन् ॥१२॥ ऋषयः क्रान्तदर्शिनः शुक्कोपलक्षिता- चिरादिमार्गनिमित्तकमेवेष्टं यागादिकुर्वन्ती-

मित्तकम् ॥ १२॥ पूर्ववदाहाहोरात्र इति- अहोरात्रो वै प्रजापतिस्त- स्याहरेव प्राणो रात्रिरेव रयि: प्राणं वा एते प्रस्कन्दन्ति । ये दिवा रत्या सयुज्यन्ते व्र-

Page 156

प्रश्नोपनिषद्। १४३ ह्रचर्यमेव तद्यद्रात्रौ रत्या सं- युज्यन्ते ॥१३ ॥ पूर्वार्द्धार्थ: पूर्ववत् स्वस्योत्पत्स्यमानस्य च प्राणमायुः शोषयन्ति ते ये रत्यर्थ दिवा स्त्रिया संयुज्यन्ते दिवामैथुनमायुर्हरतीति भावः रात्रौ तु तद्रह्मचर्यमवेति प्रशंसा प्र- जोत्पादकमपि मैथुनं कर्म्म न दिवाकार्यमि- ति प्रासङ्रिकोक्तिः ॥ १३ ॥

कुतः प्रजाः प्रजायन्त इति प्रश्नस्योत्तरं पर्यवस्यन्प्र- जापतेर्हिर सयगर्भात्क्रमणोत्पन्नानामपि प्रजा- पतित्वेन कालनिर्वर्त्यान्नमेवप्रजापतिरन्नाच्च पुंस्त्रीरेतो रेतसा च प्रजा इत्याहान्नमिति। अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमा: प्रजाः प्र- जायन्त इति ॥ १५ ॥

Page 157

१४४ प्रश्नोपनिषद्। इति समाप्तौ प्रथमो हिरण्यगर्भो यदा भासस्तत्परं ब्रह्मेति परमाशयः ॥ १४॥ फलमाह तदिति- तद्येह वै तलजापतिव्रतं च- रन्ति ते मिथुनमुत्पादयन्ते। तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम्।। यस्मात्प्रजापतिसम्पादितं मैथुनव्रतं त- त्तस्माद्येतद्रतं कुर्वन्ति ते गहस्था मिथुनं पुत्रीं पुत्रं च लभन्ते किञ्च यदि तपः स्व- धर्माचरणं स्वधर्मपतन्यामतौ मैथुनात्मकब्र- ह्मचर्य सत्यं च तार्हैं तेषां ब्रह्म समीपवर्ति स्वर्गलोकोपि भवति॥१४॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति।

Page 158

प्रश्नोपनिषद्। १४५

येषां पुनर्लेशतोपि कौटिल्यमन्ृतता क- पटं च नास्ति तेषां प्रजापतिलोको गृहि णां तद्न्याश्रमिणां वा प्रासङ्गिकी च फ- लोक्तिः ॥ १६ ॥ इति प्रश्नोपनिषत्प्रसादे प्रथमः प्रश्नः।

प्रजानां कारणं श्त्वा क एषां सुख्यो धर्तेति पृच्छत्यथेति- अथ हैनं भार्गवो वैदर्भिः पप्रच्छ। भगवन्कत्येव देवा: प्रजां विधारयन्ते कतर एत- ल्काशयन्ते कः पुनरेषां व- रिष्ठ इति ॥ १॥ एनं पिप्पलादम् प्रजाम् एतत् शरीरमि- त्यर्थः वरिष्ठः श्रेष्ठः ॥१॥ तस्मै सहोवाचाकाशो ह

१६

Page 159

१४६ प्रश्नोपनिषद्। वा एष देवो वायुरगनिरापः पृ- थिवी वाङ्मनश्चक्षः श्रोत्रं च। ते प्रकाश्याभियदन्ति वयमे- तद्वाणमवष्टभ्य विधारयामः॥ स पिप्पलाद: पञ्चभूतदशेन्द्रियधमि- नश्वित्ताहङ्कारा: देवास्तेप्टथक् एथगऽवका- शदानेने त्येवं स्वस्वसामर्थ्य प्रकाश्य शिथि- लं यथा न स्याद्विनाशाय तथाऽवष्टम्य निरु- ध्यतच्छरीरं वयं धारयाम इत्युक्तवन्तः॥।२।। तान्वरिष्ठः प्राण उवाच मा माहमापद्यथाऽहमेवैतत्पञ्चधा- त्मानं प्रविभज्यैतद्वाणमवष्ट- भ्य विधारयामीतितेSश्रद्दधा- ना बभवुः ॥ ३ ॥

Page 160

प्रभोपनिषद्। १४७

मोहोऽविवेक: अश्रद्दधानाः अस्माभिः कृतमप्येनेनैव कृतमित्यत्र विश्वासहीनाः॥ सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्ुत्क्रामत्यथेतरे सर्व एवोत्क्ामन्ते तरिं्मिश्च प्रतिष्ठ- माने सर्व एव प्रातिष्ठन्ते। त- दयथा मक्षिका मधुकरराजान- मुत्क्रामन्तं सर्वा एवोत्क्राम- न्ते तस्मिश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त एवं वाङ्मन- श्रक्षः श्रोत्रं च ते प्रीताः प्राणं स्तुवन्ति ॥४॥ अथ विश्वासाय प्राण उद्गच्छन्निव देहा- द्भूव तथा सति वागादयोपि तथावभूवुः

Page 161

१४= प्रश्नोपनिषद्।

पुनः स्वस्थे प्राणे स्वस्थाः मधुमक्षिका इव अथ प्रीता जातविश्वासास्ते वागादयः॥४।। एषोगिनिस्तपत्येष सूर्य एषप- जन्यो मघवानेष वायुरेष पृ- थिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ५ ॥ एष प्राणोऽग्न्यादिकृत्यकर्तेति भावः।।५।। अरा इव रथनाभौ प्राणे सर्वै प्रितिष्ठितम्। ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म चा।६।। नाभिश्चक्रमध्यकाष्ठम् धर्मपालनानुष्ठानं क्षत्रियब्राह्मणकर्म च छत्रं ब्रह्म ॥ ६ ॥ प्रजापतिश्च रसिगर्भे त्वमेव प्रतिजायसे। तुभ्यं प्राणप्जा-

Page 162

प्रश्नोपनिषद्। १४६

स्त्विमावलि हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ७। प्रजापतिः पिता माता त्वमेव रेतोरूपो गर्भगश्रोत्पद्यसे च पुनरपत्यरूपः हे प्रा- णयस्त्वमिन्द्रियैस्सह देहे तिष्ठस्यतस्तुभ्य- मिन्द्रियैर्विषयार्पणं कुर्वन्ति ॥७॥ देवानामसि वह्नितमः पितृणां प्रथमास्वधा। ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥ देवानां मुख्योग्निः पितृणां मुख्या स्वधा त्वमसि प्राणतृप्त्यैव तेषां च तृप्तिरिति भाव: अथर्वाङ्गिर: प्रभृतिऋषीणां सत्याचा- रश्ष् त्वमेवासि ॥ ८॥ इन्द्रस्त्वं प्राणतेजसा रुद्रो- डसि परिरक्षिता। त्वमन्तरि-

Page 163

१५० प्रभोपनिषद्। क्षे चरसि सूर्यस्त्वं ज्योतिषां- पतिः।९। हे प्राण त्वं तेजसा रुद्रः संह्त्ता अन्त- रिक्षगो वायुः ॥ ९ ॥ यदा त्वमभिवर्षस्यथेमाः प्राणते परजाः । आनन्दरूपा- स्तिष्ठन्ति कामायान्नं भविष्य- तीति ॥ १०॥ हे प्राण त्वमिन्द्रस्सूर्यो वा सन् यदा कामायाभिलाषाय यथेष्टमन्नं भविष्यतीत्या- शयेन ॥ १० ॥ व्रात्यस्त्वं प्राणैक ऋषिरत्ता विश्वस्य सत्पतिः वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः॥

Page 164

प्रभोपनिषद्। १५१

हे प्राण व्रात्योऽसंस्कृतोऽनघत्वात् आ- थर्वणानामेक ऋषिसंज्ञोग्निस्यन्नाहविषः मातरिश्व हे मातरिश्वन् नोऽस्माकम् वयं त्वाद्यस्य वद्दस्य तवोपनेतारस्त्वत्कृपाल- ब्धान्नस्य ।११॥ या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि। या च मनसि सन्तता शिवां तां कुरुमोत्क्रमीः ॥ १२ तनूरपानादिरूपा शिवां मङ्गलरूपां स्थि- रामिति यावत् उत्क्रमणं मा कार्षीः अन्य- था वागादेरप्यत्क्रमणेनाडमङ्गलं स्यादिति भावः॥१२॥। प्राणस्येदं वशे सर्व त्रिदिवे यत्पतिष्ठितम्। मातेव पुत्रान्-

Page 165

१५२ प्रश्नोपनिषद्।

रक्षख श्रीश्च प्रज्ञां च विधेहि न इति॥ १३॥ त्रिदिवे त्रिलोक्यां यत्तदिंदं सर्व त्वद- डधीनं ततोऽस्मान्वागादीन्रक्ष श्रियः शरी- रकान्त्यादि शोभा: प्रज्ञां चेष्टां चास्माकं कुरु स्वस्थित्येति भावः इतिरुत्तरावसाने एतावता प्रपञ्चेन प्राण एव प्रजानां मुख्यो धारयितेति निर्गलितमुत्तरम् ॥ १३ ॥ इति प्रश्नोपनिषत्प्रसादे द्वितीयः प्रश्नः।

प्राखाधीनस्थितिको हि हिररायगर्भोपि प्रजा न- तत्प्रजा च प्राण इति जातसंशयस्य प्राणका-

अथ हैनं कौसल्यश्चाश्वला- यन: पप्च्छ भगवन्कुत एष प्राणो जायते कथमायात्य-

Page 166

प्रश्नोपनिषद्। १५३: स्मिञ्छरीरे आत्मानं वा प्र- विभज्य कथं प्रातिष्ठते केनो- त्क्रमते कथं वाह्यमभिघत्ते क- थमध्यात्ममिति॥१॥ कुतः कारणात् कथं केन प्रकारेणायाति विशति तिष्ठति उत्क्रमते निर्गच्छति वाह्य- मधिभूतमध्यात्ममिन्द्रियादि धत्ते धारयती- ति पप्रच ॥ २ ॥ तस्मै स होवाचातिप्रश्नान्पृ- च्छसि। ब्रह्मिष्ठोसीति तस्मा- त्तेऽहं ब्रवीमि॥ २॥ अतिप्रश्नानऽतिदुर्विज्ञेयान् अतिशयेन वेदविदसीतियतस्तस्मात् ॥ २॥ आत्मन एष प्राणो जायते

Page 167

१५४ प्रश्नोपनिषद्। यथैषा पुरुषेछायैतस्मिन्नेत- दाततं मनोकृतेनायात्यस्मि- ज्छरीरे ॥ ३ ॥ आत्मनश्र्िविदात्मनः पुरुषे देहे सति छाया यथा न किञ्चिदपि किञ्चिदिव तथा मिथ्यै- वैतस्मिंश्र्विदात्मन्येतत्प्राणनामप्राप्तम् मनः कृतशुभाशभकर्माधीनः स्थूलदेहे प्रवेशः पूर्वपूर्वशरीरोत्पन्नकर्महेतुकोत्तरोत्तरशरीरस- म्बन्धइत्ययं प्राकारःप्रवेशेइति भावः॥ ३॥ आत्मानं विभज्य कथं तिष्ठतीत्यस्योत्तरायाह यथेति- यथा सम्राड़वाधिकृतान्विनि- n

त्यवमेवैष प्राण इतरान्प्राणान् पृथक् पृथगेव सन्निधत्ते ॥।४।।

Page 168

प्रश्नोपनिषद्। १५५

यथा राजा तेषु तेषु ग्रामेषु ग्रामकृत्या- यपुरुषं स्थापयति तथा प्राणः प्राणानि- न्द्रियाणि तत्तद्ोलके। ४॥ विभागं प्रेरकत्वं चाह प्रासस्य पाय्वििति। पायूपस्थेऽपानं चक्षःश्रोत्रे मुखनासिकाभ्यां प्राण: स्वयं प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति॥ पायूपस्थस्थाने तदिन्द्रियाभ्यां मलमूत्र- मपनयन्नपानमपानस्तिष्ठति मुखनासिका- भ्यां सह चक्षःश्रोत्रे सप्तच्छिद्रेष्विति या- वत् मध्ये नाभौ हुतं जाठराग्नौ प्रक्षिप्तं भु- क्तमिति यावत् तस्मात्समीकृतान्नरसवला- दुक्तच्छिद्रेष्वऽचिषो रूपादेरभिव्यक्तयः प्र- काशाभवन्ति ॥५॥

Page 169

१५६ प्रश्नोपनिषद्। हृदि ह्येष आत्मा अत्रैतदेक- शतं नाड़ीनां तासा शतं शत- मेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाड़ीसहस्राणि भ- वन्त्यासुव्यानश्चरति ॥६॥ आत्मा चिदाभासो जीवः अत्र हृदि प्रधाननाड़ीनामेकोत्तरशतम् तासां मध्ये पु- नरेकैकनाड्यां शतं शतं शाखारूपानाड्यः प्रतिशाखाः एकैकशाखा रूपनाड़ी प्रति पुनर्द्ासप्ततिर्द्वासप्ततिः सहस्राणि नाड्यः आसूक्तसर्वनाड़ीषु॥ ६ ॥ अथैकयोर्ध्व उदान: पुण्येन पुण्यं लोकं नयति पापेन पाप- मुभाभ्यामेव मनुष्यलोकम्॥

Page 170

प्रश्नोपनिषद्। १५७

च्छन् केनोत्क्रमते इत्यस्योत्तरमिदम् पापं नरकम् देवतिर्यग्मनुष्ययोनिमिति यावत् ॥।

कथं वाह्यं धत्ते इत्यस्योत्तरमाहादित्य इति- आदित्यो ह वै वाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राण- मनुगह्ानः। प्रृथिव्यां या दे- वता सैषा पुरुषस्यापानमवष्ट- भ्यान्तरा यदाकाश: स समा- नो वायुर्व्यानः ॥८ ॥ रविः भुवो देवता अनयोर्मध्ये य आ- काशोन्तरिक्षम् वायुः एते वाह्यप्राणादय- श्चत्तुरादिस्थानध्यात्म प्राणादीन्क्रमेणप्रकाशं दत्वा आकर्षणेनावष्टम्य अवकाश दत्वा

Page 171

१५८ प्रश्नोपनिषद्।

वलं दत्वाऽनुगह्णन्ति साहाय्यं कुर्वन्ति एवं स सहायः सर्व धारयतीति भावः ॥ ८।। तेजो ह वा उदानस्तस्मा- दुपशान्ततेजाः। पुनर्भवमि- न्द्रियैर्मनसि संपद्यमानैः॥९॥ तेजो वाह्याग्निरुत्क्रमितारं उदानमनुग- हणान उदान उच्यते यतस्तस्मान्मरणसमये शान्तोष्णिमाऽत्रदेहे मनसि लीनैरिन्द्रियै- स्सह पुनर्भवं देहान्तरं याति जीव इत्येष उत्क्रान्तिप्रकारः ॥ ९॥ पुनः प्रकारं लोकं चाह यच्चित्त इति- यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसायुक्त:। सहात्मना यथा संकल्पितं लोकं नयति॥ मरणकाले यञ्चित्तो यत्स्मरन्भवति तेन

Page 172

प्रश्नोपनिषद्। १५६

स्मरणेन सहैष जीवः प्राणमात्रत्तिक: प्रा- णमयो भवति प्राणश्रोदानवत्तियुक्त: रेवन सहैन जीवमस्य वाञ्छितं लोकं नयति॥१०॥ प्राणकारणतया चिदात्मानं जगत्कारणमभिघाय प्रासङ्गिकोक्त्तप्रा एाम हिम्र : फ सन आाह य इति- य एवं विद्वान्प्राण वेद न हास्य प्रजा हीयतेऽमृतो भ- वति तदेषल्लोकः ॥ ११ ॥ यः एवमुक्तं प्राणोत्पत्त्यादिप्रकारं विद्वा- न्प्राणमुपास्तनास्य पुत्रादिर्नश्यतिदीर्घायु- श्र्वभवतिसः तदुक्तमेष मंत्रो वदति॥ ११॥ उत्पत्तिमायतिस्थानं विभु- त्वंचैवपञ्चधा। अध्यात्मं चैव- प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति॥१२॥

Page 173

१६० प्रश्नोपनिषद्।

आयतिमागमनं देहे स्थानं पाय्वादिषु स्थितिमू विभुत्वमपानादिभेदम् च पञ्चधा पदाभ्यामादित्यादिप्राणभेदा गृह्यन्ते अ- ध्यात्मं चच्तुरादिभेदम् विज्ञाय भावयित्वा आवृतिःप्रश्नपर्यवसाने ॥१२॥ इति प्रश्नोपनिषत्प्रसादे तृतीयः प्रश्नः ॥ प्रश्नोत्तरत्रयेाप्राणान्तमनात्मे त्या ज्ञा यात्मन - र्दिधारयिषया पृच्छत्यथेति- अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे- कानि स्वपन्ति कान्यस्मिञ्जा- ग्रति कतर एष देवः स्वनान्प- शयति कस्यतत्सुखं भवति क- स्मिन्नु सर्वे संप्रतिष्ठिता भ- वन्तीति ॥१॥

Page 174

प्रश्नोपनिषद्। १६१

पुरुषे सुप्ते कानि करणानि निर्व्यापारा- णि१कानि च सव्यापाराणि २ स्वन्द्रष्टा च क: ३ सुषप्तिसुखं कस्य ४ कस्मिंश्च तदा लीयन्ते ५॥१॥ तस्मै स होवाच यथा गा- गर्यमरीचयोऽर्कस्यास्तं गच्छ- तः सर्वा एतस्मिस्तेजोमण्ड- ल एकी भवन्तिता: पुनरुदय- तः प्रचरन्त्येवं ह वै तत्सर्वै प- रे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो न शृणोति न प- श्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेया-

२१

Page 175

१६२ प्रश्नोपनिषद्।

यते स्वपितीत्याचक्षते ॥ २॥ उदयतो मण्डलाद्यथा किरणाःप्रसरन्ति तथा जाग्रतो मनसो विभक्तानीन्द्रियाणि चेष्टन्ते ऽस्ताचलं गच्छत्यकीभवन्ति यथा मण्डले तथा स्वापे मनसीन्द्रियाणि। अत- स्तदा न शब्दादीञ्जानाति पञ्च न कर्माणि च करोति। इयायते गच्छति स्वपित्ययमिति जना वदन्ति ॥२॥ जाग्रति जाग्रति सर्वाणि सुत्तौ च दशेन्द्रियान्यानि प्राणास्सदा त आह प्राणागय एवेति- प्राणाग्नय एवैतस्मिन्पुरेजा- ग्रति गार्हपत्यो ह वा एषोड पानोव्यानोऽन्वाहार्य पचनो यद्वार्हपत्यात्प्रणीयते प्रणय- नादाहवनीय: प्राणः । ३ ॥।

Page 176

प्रश्नोपनिषद्। १६३

होमार्थ यतोग्ने: कुण्डान्तरे नीयते Sग्निस्तौ क्रमेण गार्हपत्याऽऽहवनीयौ। आद्यस्तु स- दाग्निहोत्रिभी रक्ष्यते। भक्ष्या हुत्यर्थ चा- जपानात्प्रणः प्रणीयते इव सदोर्ध्वगः । व्यानस्तु दक्षिणसुषिरान्निर्गच्छति हृदयाद- तोन्वाहार्य पचनो दक्षिणागिः। कल्पनेय- मुपासनार्था॥ ३ ॥

हुतीसमं नयतीति स समान:। मनोहवाव यजमान इष्टफल- मेवोदानः स एनं यजमान- महरहर्ब्रह्म गमयति॥४॥

धातूनामन्नादेश्च साम्यायप्राणोद्गतिप्र- वेशाख्योच्छासनिश्वासाहुत्योस्समनंनयना- त्समानो होता। देहादुत्क्रमणेन स्वर्गादीष्ट-

Page 177

१६४ प्रश्नोपनिषद्।

फलाप्तिरित्युदान इष्टफलम्।स उदानोहरह- स्सुषप्तौ मनो ब्रह्मणि प्रापयति। प्रतिदिन- मेवमग्निहोत्रं तत्फलं च भवतीति भावये- दिति भाव: ॥।४॥। तृत्तीयोत्तरमाहात्रेति- अत्रैष देव: रवने महिमान- मनुभवति। यद्ष्टं द्ृष्टमनुप- श्यति श्रुतं श्रुतमेवार्थमनुशृ- णोति देशदिगन्तरैश्च प्रत्य- नुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रतं चानुभूतं चाननुभूतं च सच्चा- सच्चसवै पश्यतिसर्वः पश्यति॥ देवो मनः। सवन्ने प्रतीताखिलपदार्थाकार- भवनं स्वस्य महिमानमनुभवति यतः स-

Page 178

प्रश्नोपनिषद्। १६५

कृदसकृद्वासामीप्येन देशान्तरैर्दिगन्तरैर्वाद- शनश्रवणादिना स्वस्मिन्यदवासितं तमेव पदार्थमनुभवति। यत्राधिकवासना तञ्च पुनः पुनः। अत्र जन्मन्यदष्टश्रुतमपि जन्मान्तर- दृष्टश्रुतं चेत्तदपि।अलं बहूक्तया सर्वः स- र्वपदार्थाकारो भूत्वा सत्पटाद्यसन्मरीचि- कादि सर्वमनुभवति ॥५॥ चतुर्थोत्तरमाह स इति- स यदा तेजसाभिभूतो भ- वति अत्रैष देव: खमान्न पश्य- त्यथ तदैतस्मिञ्छरीरे एतत् सुखं भवति ॥ ६॥ स मनोदेवस्तेजसापित्तेनाभिभूत अ- क्रान्तो रुदनाड़ीद्वारो यदा यदात्र सुषुतौ न पश्यति स्वन्नान। तत एतद्रह्माख्यं सुखं सुखरूपमात्मनो भवतीति भावः ॥ ६ ॥

Page 179

१६६ प्रश्नोपनिषद्। पञ्चमोत्तरमाह स यथेति- स यथा सोम्यवयांसि वासो वृक्ष सम्प्रतिष्ठन्ते। एवं ह वै तत्सवैपरआत्मनि संप्रतिष्ठते॥ निशि निजवासवक्षं पक्षिण इव सर्वे परमानन्दात्मनि प्रयाति सुषतौ ॥७॥ सर्वमेवाह पृथिवीति- पृथिवी च पृथिवीमात्रा चाप- श्चापो मात्रा च तेजश्च तेजो मात्रा च वायुश्र वायुमात्रा चाकाशश्राकाशमात्रा च च- क्षुश्च द्रष्टव्यं च श्रोत्रं च श्रो- तव्यं चघ्राण च घ्रातव्यं च रस- श्र रसयितव्यं च त्वकचस्पर्श-

Page 180

प्रश्नोपनिषद्। १६७ यितव्यं च वाक्चवक्तव्यं च- हस्तौचादातव्यं चोपस्थश्चा- न्दयितव्यं च पायुश्च विस- जयितव्यं च पादौ च गन्तव्यं च मनश्चमन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्गारश्चाहर्तव्यं च चित्तंच चेतयितव्यं च ते- जशूच विद्योतयितव्यं च प्रा- णशचविधारयितव्यं च ।।८।। भ्वादीनि पञ्च तथा तन्मात्राख्यगन्धा- दीनि च पञ्चभूतानि धीन्द्रियाणि तद्विष- याइच कर्मेन्द्रियाणि तत्कर्माणि च सविष- यंचान्तःकरणचतुष्टयम् तेजस्तेजोमयी का- चित्वक् तद्ाष्यो विषयश्च प्राणेन विधार- यितव्यं चाखिलसङ्घातस्वरूपम् ॥ ८॥

Page 181

१६८ प्रश्नोपनिषद्। पृथिवी धेत्यादावनुक्तं शिष्टचिदाभा- समाहैषहीति- एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः सपरे Sक्षरे आत्मनि सम्प्रतिष्ठते॥ विज्ञानात्मान्तःकरणोपाधिको यः पुरुषः पुरि देहे देहेस्ति एष ह्वयेष एव द्रष्ट्रादि: सोपिसुप्तै।परेविम्वात्मनिया तीवोपाध्यनभि- व्यक्ततयेति भावः ॥९। मुक्तिस्तुपरैकत्व ज्ञानेनाज्ञाननिवृत्यै वेत्याह परमिति- परमेवाक्षरंप्रतिपद्यतेसयो ह दै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तुसोम्य

Page 182

प्रश्नोपनिषद्। १६६

स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥ १०॥

यः सुषुप्तः स परं प्राम्नोतीवैवनतु मु- च्य इति ह स्फुटवैस्मर्यते च यस्तु हे सोम्य- शान्तमूर्त Sनविद्यमदेहमन्तः करणोपाधि- कृतरागलौहित्यहीनं शुद्धमविनाशितत्परं जानातिस्वात्मतया केवलं ससर्वज्ञः सर्वरूपो भवति तदुक्तमेष मन्त्रो वदति ॥१०॥

विज्ञानात्मा सह देवैश्च सर्वैः प्राणाभूतानिसंप्रतिष्ठन्ति यत्र तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति॥

विज्ञानात्मान्तः करणोपाधिक आत्मा प्राणा: पञ्चभूतानि च देवैरिन्द्रियैस्सह यत्र

२२

Page 183

१७० प्रश्नोपनिषद्।

लीयन्ते तत्परं ब्रह्म यो वेद स सर्वमावि- वेश भवति इति पूर्तो॥११ ॥ इति प्रश्नोपनिषत्प्रसादे चतुर्थःप्रश्न :-

अथ गार्ग्यप्रश्नोत्तरेण परमच्षरं विम्बचैतन्य- मात्मा तदेकत्वविज्ञानाच्च केवली भाव इति नि- श्चित्य प्रसवतदुपास्त्योर्माहात्म्यश्चुतेः प्रसवोपा- स्त्याभिव्यज्यते केवलीभावो नवेति संशये शै- व्यप्रश्नमवतारयत्यथेति॥ अथ हैनंशव्यःसत्यकाम: प- प्रच्छ स यो हवै तद्गवन्मनु- ष्येषु प्रायणान्तमोङ्कारमभि- ध्यायीत कतमम्वावसतेन लो- कंजयतीति तस्मै सहोवाच॥ हेतद्रगवन् प्रसिद्धे ब्रह्मणि बातच्छब्दः मनुष्येषु स यः कश्वित् प्रायणं मृतिः तेन ध्यानेन जयति प्रान्नोति सपिप्पलाद्ः।१॥

Page 184

प्रभोपनिषद्। १७१

यदुवाच तदा हैतदिति- एतद्वै सत्यकामपरं चापरं च ब्रह्मयदोङ्गारः तस्माद्विद्वानेते नैवायतनेनैकतरमन्वेति॥२॥ अवधारणे वै हे सत्यकाम परं निर्विशे- षमपरं हिरण्यगर्भादि यदेतद्रह्म तद्द्दय- मोङ्कार एव तस्मादेनं ध्यायन्नेतद्यानाश्रयेण यथेष्टं परमपरं वा ब्रह्म याति ॥ २ ॥ तत्र तावदपरविषयं प्रणवाडवयवभेदादुपास्ति दवयं सफलमाह स यदीत्यादिना- स यद्येकमात्रमभिध्यायीत सतेनैव संवेदितस्तूर्णमेव जग- त्यामभिसम्पद्यते तमृचोमनु- ष्यलोकसुपनयन्तेस तत्र तप- सा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमन्भवति॥ ३॥

Page 185

१७२ प्रभोपनिषद्।

स उपासकः प्रथममान्नाऽकाररूपमेव प्रणवमकारमेव वोपासीत तर्हि तेन ध्यानेन युतः शीघ्रं भुवियाति ऋचः ऋग्वेदमन्व्राश्र तंमनुष्यदेहं ग्राह्यन्ति प्टथिव्यृग्वेदश्र्वाडकार इत्यादि श्रवणात् मनुष्यत्वेपि यदि तप आ- दिमाँस्तर्हि सार्वभौमादिसुखमनुभवति ना- न्यथेतिभावः॥ ३॥ अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भि- रुन्नीयते सोमलोकम् स सो- मलोके विभूतिमनुभूय पु- नरावर्तते ॥ ४॥ द्वितीयमात्रोकार रूपमेव प्रणवमुकारमेव वा सम्पद्यते उपासीत यस्तं यजुर्वेदमन्त्रा अन्तरिक्षस्थचन्द्रलोके जन्म प्रापयन्ति

Page 186

प्रश्नोपनिषद्। १७३ आवर्तते यथा कर्म कांचिज्जनिं लभते भुवि पुनः॥४॥ अथ परविषयकं सफलध्यानमाह य इति- यः पुनरेतं त्रिमात्रेणोमि- त्येतेनैवाक्षरेण परं पुरुषमभि- ध्यायीतसतेजसिसूर्येसम्पन्नः यथा पादोदरस्त्वचा विनिर्मु- च्यत एवं ह वैसपाप्मनावि- निर्मुक्त: स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघ- नात्परात्परं पुरिशयं पुरुषमी- क्षते तदेतौ श्लोकौ भवतः॥५॥ त्रिमात्रमोमित्यक्षरमितिज्ञानपूर्वकमेतं प्रणवं परं ब्रह्मध्यायीत यस्सतेजोमयसूर्य-

Page 187

१७४ प्रश्नोपनिषद्।

मण्डलं गतस्त्वचा सर्प इवाखिलपापरहितो भूत्वा सामवेदमन्त्रैस्सत्यलोकं नीयतेऽथ तत्र सर्वप्राणिलिङ्गशरीराभिमानितयाजीव संघातरूपपराद्िरण्यगर्भात्परं सर्वचराचर- पुरिशयनात्पुरुषं पूर्ण ब्रह्म जानाति व्यज्यत एवैंवं ततः केवलीभाव इति भावः तदुक्तार्थे- मन्त्रौ स्तः ॥५। तिस्रो मात्रा मृत्युमत्यः प्र- युक्ता अन्योन्यसक्ता अनवि- प्रयुक्ता: क्रियासु वाह्याभ्यन्त- रमध्यमासु सम्यक् प्रयुक्त्ता- सुन कम्पते ज्ञः ॥ ६ ॥ जाग्रत्स्वन्नसुषुप्तिषु वाह्यादि क्रियासु वि- श्वतैजसप्राज्ञतया ध्याने प्रयुक्तासु सक्ता मिलिता: प्रणवमात्रा नाडविप्रयुक्ता विश्वा-

Page 188

प्रश्नोपनिषद्। १७५

द्यभेदेन विशेषेण प्रयुक्ताश्र्वेत्स ज्ञो जाग्रद्वि- इवाद्यभिन्नप्रणवोपासको न कम्पते न पुन- रावर्तते केवलवर्णध्याने प्रयुक्ताश्चेदकारो- कारमकारा मृत्युमत्योमत्युदा एवेत्यर्थः।६॥। ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमोङ्कारेणैवायतनेनान्वेतिवि- द्वान्यत्तच्छान्तमजरममृतम- भयं परं चेति॥७॥

एतं मनुष्यलोकम् कवयः क्रान्तदर्शिनो यद्वदन्ति तत्सत्यलोकमिति यावत् तं लोकं चोङ्कारेणैवान्नोति विद्वानुपासकः प्रणवस्य ब्रह्मतया तें कम् शान्त्याद्युपलक्षितं यत्त- त्परं ब्रह्म तदाख्यमित्यर्थः ॥७॥ इति प्रश्नोपनिषत्प्रसादे पश्चमः प्रश्न-

Page 189

१७६ प्रश्नोपनिषद्। एवं परब्रह्म जिज्ञासानिवृत्तावपि षोड़शकल: क- श्चन पुरुषोऽन्योऽनन्यो वा ब्रह्मचित्त इति स्थूण- निखननन्यायेन षष्ठप्रश्नमवतारयत्यथेति। अथ हैनं सुकेशा भारद्वाज पप्रच्छ भगवन् हिरण्यनाभ: कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत पोडशकलं भा- रद्वाज पुरुषं वेत्थ तमहं कुमा- रमब्रुवं नाहमिमंवेद यद्यहमि- ममवेदिषं कथं तेनावक्ष्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्ना- र्हाम्यनृतं वक्तुं सतूष्णीं रथमा-

Page 190

प्रश्नापनिषद्। १७७

रुह्यप्रवव्राज तं त्वा पृच्छामि क्कासौ पुरुष इति ॥ १॥ एनं पिप्पलादम्। षोड़शकला अव- यवा यत्र तं पुरुषं जानासीत्यतं प्रश्नं रा- जकुमार: कइचन कोसलायां भवो हिरण्य- नाभनामामामष्टच्छत् न जानामि जान इच कुतो न वक्ष्यामि योग्याय मिथ्यावादी तु ससुकृतादिमूलो विनश्यतीति नाऽनृतं व- च्मीत्यवोचमहन्तम्। स ततो जगाम मौ- नीत्यहं लवां तं पुरुषं एच्छामि कुत्रास्ति षोड़शकल इति ॥१॥ तस्मै सहोवाच इहै वान्तः शरीरे सोम्यसपुरुषो यस्मि- न्नेता: षोडशकलाः प्रभव- न्तीति ॥२॥

Page 191

१७= प्रश्नोपनिषद्।

हे सोम्यप्रियमूर्ते यस्मिन्नधिष्ठान भूते क ला जायन्ते सोन्तर्हदयाकाशे एवेति पिप्प- लादो भारद्वाजायोवाच पूर्णोपि चिदात्मा ह द्येव प्रतीयत इतियमुक्तिरिति भावः॥।२।। स यथा षोड़शकलस्तदाह स इति- स ईक्षां चक्रे कस्मि न्नह मुत्क्रान्त उत्क्रान्तो भविष्या- मि कस्मिन्वा प्रतिष्ठिते प्रति ष्ठास्यामीति॥ ३॥ कस्मिन्निर्गत देहान्निर्गत इव प्रतिष्ठिते वा देहेऽचलस्थित इव भविष्यामीति स पु- रुषोऽनादि निजाध्यस्तशक्त्याऽडलोचित- वानू॥ ३ ॥ ईक्षोत्तर कृत्यमाह स इति- स प्राणमसृजतपाणाच्छ्रद्धां खं वायुर्ज्योतिराप पृथिवी-

Page 192

प्रश्नोपनिषद्। १७६

न्द्रियं मनः अन्नमन्नाद्वीर्य तपोमन्त्राः कर्म लोका लोके षुच नाम च ॥ ४ ॥ स चिदात्मेश्वरात्मा पुरुषः प्राणं सूक्ष्म प्राणिजातन्तदनन्तरं प्राणिश्रद्दामसृजद- भावयत्। तदनन्तरं क्रमेण खादिपञ्चभूते- न्द्रियमनोऽन्नवलतपो वेदकर्मलोकनामानी- ति चतुर्दशासृजदुत्पादितवान वस्तुतस्त्व- भाव यदित्येव से श्वरजगदध्यासेतात्पर्यात्॥। अथोक्तनाम रूपात्म जगत्कलानामधिष्ठान चिदात्मपुरुषे लयमाह केवलीभावाय स यथेति-

स यथेमानद्यः स्पन्दमानाः समुद्रायणा: समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासांनाम

Page 193

१८० प्रश्नोपनिषद्। रूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाःषो- डशकलाः पुरुषायणा: पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते तासां नाम रूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेषश्लोक:॥ ५ ॥ समुद्रायणास्समुद्रगतिकाः नाम रूपे प्रा- तिस्विके। पुरुषायणाः पूर्ववत्पुरुषाश्रयाः पुरुषं प्राप्य प्रकृतिप्रलय इति शेष: वस्तु तस्तुचिदात्मपुरुषभावनया तत्तद्रावनात्मक कलानामभावेन चिदात्मपुरुषभावं प्राप्ये- त्यर्थः। प्रोच्यते तत्त्वज्ञः। स सकल एवै- वमेषोडकलो भवति पुरुषः । त्यजत्येव हि कथंचित्स्वभावं प्रतिवोधितो मृगराजः स्वै

Page 194

प्रश्नोपनिषद्। १८१

डकत्वभ्रममिति भाव: तदुक्तमाहमन्त्रः।।५॥ अरा इव रथनाभौ कलाय- स्मिन्प्रतिष्ठिताः त वेद्यं पुरुषं वेद यथामावोमृत्यु: परिव्य- था इति ॥ ६ ॥ चक्रमध्यवर्तुलार्वयवेतिर्यगवयवा इव यत्र कलास्तं यूय वेद वित्त यथा वो युष्मान्न मृत्यु: परिव्यथयेत्। इति र्मन्त्रपूर्तो।।६।।

ईश्वर उवाच तानिति-

तान् होवाचैतावदेवाहमेत- त्परं ब्रह्म वेद। नातः परम- स्तीति ॥ ७॥ एतावदेव सर्वाधिष्ठानचिन्मात्रमेव परं ब्र-

Page 195

१८२ प्रश्नोपनिषद्। ह्माहं जानाम्यऽस्त्यपिनान्यदतः किञ्चिदि- त्युवाच षडुक्तशिष्यान्पिप्पलादषः ॥७॥ ते तमर्चयन्तस्त्वं हि नः पिता योस्माकम्विद्यायाः प- रं पारं तारयसीति। नमः प- रमऋषिभ्यो नमः परमत्न- षिभ्यः ॥८ ॥

भद्रं कर्णेभिरिति शान्तिः । त्मेव नो डस्माकं पिता पाता रक्षकः यतो यस्त्म- स्मदविद्यामहोदधे: परं दूरगमसंस्प्टष्टमभ- यं पारं विद्यादेश मस्मान्प्रापयसीत्यर्चयन्त- स्सत्कुर्वन्तस्तं पिप्पलादं परमसूक्ष्मतत्त्वज्ञे भ्यो नमः परमऋषिभ्यो गुरुभ्यो भवज् इ- त्युक्तिपुरस्सरं नमश्च कुस्ते शिष्याः अथ- वा पुष्पादिभिस्तमर्चयन्तस्त्वं हीत्याद्यु-

Page 196

प्रश्नोपनिषद्। १८३

क्त्वेति हेतोर्नमो भवन्य इत्यूचुस्ते शरीरं प्रणिपात्य पुरः नास्ति ब्रह्मविद्यायास्तुल्यं मूल्यं ब्रह्माण्डमण्डलेन्यत्किञ्चिदितिभावः

दययाऽन्तरामस्य मृदुर्ग्रन्थोयमुम्भितः। श्रीस्वामिभास्करानन्दैःकाश्यांप्रश्नाख्यवेदके।।१। कृशामद्दी: क्व भाष्येण क वेदान्ताब्धिमन्थनम्। तथाप्यऽघटितं किं वा गुरुदेवदयालवे ॥ २ ॥

इत्युपनिषत्प्रसादेप्रश्नोपनिषत्प्रश्नश्चषष्ठः ।

Page 197

मुएडकोपनिषद्।

श्रीगणेशायनमः ॥

अथाऽलब्ध शरणाऽत्यन्त संतप्तजन संसृति ज्व- लन संताप मपा कर्तुमुपायान्तरा डलाभेन वस्तु वुवोध यिषया डथर्वाम्नाये मन्त्रान्विभावयिष्य- न्नुपायमहत्त्वायोपायप्रवृत्तिसंप्रदायमादो वदती- श्वरो ब्रह्मेत्यादि। अस्य च शिरोव्रतिभिरध्ये-

ॐ भद्रं कर्णेभिरिति। ॐ स्वस्ति न इन्द्रो बृद्दश्रवा इति चाद्यन्तयोः शान्तिः ३। ब्रह्मादेवानां प्रथमः संबभूव विश्वस्य कर्त्ता भुवनस्य गो- पा। स व्रह्मविद्यां सर्व विद्या प्रतिष्ठामथर्वाय ज्येष्ठ पुत्राय प्राह॥ १ ॥

Page 198

मुएडकोपनिषद्। ...- १८५

जगतो जनको लोकस्य पालकइच यो देवानां मुख्य आद्यो वा ब्रह्मा स्वयम्भ: स सर्वविद्यानामाश्रयं मूलं ब्रह्मविषयां विद्यां कदाचिदथर्वाख्यायाह॥१॥ अथर्वणेयां प्रवदेत ब्रह्माथ- र्वातां पुरो वाचाङ्गिरे ब्रह्मवि- द्याम्। स भारद्वाजाय सत्य वहाय प्राह भारद्वाजोङ्विरसे परावराम् २॥२॥। सकल परावर विद्या मूल तयायांपरा वरां ब्रह्माथर्वायाऽवदत्तामथर्वो डदगिर्नाम्ने सोडङ्गि र्भरद्वाजगोत्राय सत्यवहनाम्ने स चाडङ्रिरसे पुत्राय शिष्याय वाह ॥ २॥ शौनकोहवै महाशालो S- द्विरसं विधिवदुपसन्नः पपच्छ २४

Page 199

१८६ सुएडकोपनिषद्। कस्मिन्न भगवो विज्ञाते सर्व- मिदं विज्ञातं भवतीति॥३॥ महाशालो महा गृहस्थः । समित्पाणि त्वादिविधिवत्। नुवितर्के। हे भगवन् । ज्ञातुमशक्यमिदमनन्तं जगत्कस्मिन्ननुभ- ते स्वरूपतो बुद्यारूढ़ं भवेदर्थात्तदेकं वस्तु ब्रूहीति पप्रच्छ ह प्रसिद्धो वैस्मर्यमाणः शौनकः ॥ ३ ॥ तस्मै सहोवाच द्वे विद्ये वे- दितव्य इति हस्म यद्ब्रह्म वि- दो वदन्ति पराचैवा परा च। द्वे विद्ये ज्ञेयेस्त इति सोडङ्िरा आह। केते। ह प्रसिद्धं यद्विद्या इयं ब्रह्मज्ञा वदन्ति स्म- रयते च तत्पराचा Sपराचेति। प्रश्नाननु रूपाऽपरोक्तिस्तु तुच्छ विषयेयमिति वो- धनेन परत्र शिष्य बुद्धेर्निनीषया॥४॥

Page 200

मुरडकोपनिषद्। १८७

तत्रा Sपरा ऋग्वेदो यजुर्वे- दः सामवेदो Sथर्व वेद: शिक्षा कल्पो व्याकरणं निरुक्त्तछन्दो ज्योतिषमिति। अथ परायया तदक्षरमधिगम्यते ॥ ५ ॥ वेदास्तदङनि च परभिन्नविषयत्वादप- रा। यया च शुद्धचिन्मात्रवत्याक्षरमविना- इयं तद्ब्रह्म साक्षात्क्रियते सापरा। वि- चारिता वेदान्तवेदाद्या अप्युक्त परवत्ति जनका एवेति ना परेक्िरसङ्गता ॥ ५॥ ज्ञानं च यथा वस्तु भवतीत्युक्ताक्षर ब्रह्म विशषखान्याह यत्तदिति- यत्तदद्रेश्यमग्राह्यमगोत्रम- वर्णमचक्षुःश्रोत्रं तदपाणिपा- दम्। नित्यं विभुं सर्व गतं

Page 201

१८८ मुरडकोपनिषद्।

सुसक्ष्मं तदव्ययं यङ्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥ ज्ञानेन्द्रियाविषयम्। कर्मेन्द्रियाविषयम्। अकारणम्। शुक्कत्वादिशून्यम् । ज्ञानक- मेन्द्रियहीनम्। सनातनम्। विविधविश्व- रूपम्। व्यापकम्। सूक्ष्ममम्। अपक्षयर- हितम्। सर्वभूतकारणम। एतादृशं य्ी- राः पशयन्ति तदुक्तमक्षरं ब्रह्म यया गम्यते सापरेति पूर्वेण संबन्धः ॥ ६ ॥ उक्ताखिलकारणत्वं दृष्ठान्तैः स्फोरयति यथेति- यथोर्णनाभि: सृजते गृह्ते च यथा पृथिव्यामोषधयः संभव- न्ति। यथा सतः पुरुषात्केश लोमानि तथा क्षरात्संभवती हविश्वम् ॥७॥

Page 202

मुएडकोपनिषद्।

लूताऽडखव्यजन्तु: स्वरूपभूततन्तूनत्पा- दयत्यत्ति च। प्थिवीरूप ब्रीह्यादयो जा- यन्ते भवि लीयन्ते च। सतो जीवतः के- शादि च यथा तथा चिन्मात्रोपादानाज्ज- गत् । ७॥ जगदुत्पत्तिक्रममाह। तपसति- तपसा चीयते ब्रह्म ततो Sन्नमभि जायते। अन्नालाणो मनः सत्यं लोका: कर्मसुचा- मृतम् ॥ ८ ॥ लीनजगद्विषयकबहुस्यामित्याद्याकारज्ञा- नात्मतपसा शक्तिप्रथमकार्येण युज्यते ब्र- ह्म प्रथमम्। ततस्तादशाद्ब्रह्मणश्चिकी- र्षादार्ढर्येन स्थूलकार्योन्मुखतया किंचिदभि-

Page 203

१६० मुएड कोपनिषद्।

तेभ्यो भुवनानि जनाश्च जनेभ्यः कर्माणि तेभ्यः फलम् ॥ ८॥ उक्तमव सङ्त्िप्याह य इति- यः सर्वज्ञः सर्वविद्यस्य ज्ञान मयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते॥६। यस्सामान्येन सर्वज्ञो विशेषतश्च सर्व वे- त्ति यस्य चोक्तज्ञानरूपं तपस्तस्मात्परमा- त्मनो हिरण्यगर्भाख्यं ब्रह्म नाम च रूपं चान्नं च ब्रीह्यादि। यथा पथिकं प्रधानग्रा- मा एवोच्यन्ते गन्तुं गतिस्तु क्रमेणैव त- थोत्पत्तिस्तु पूर्वमन्त्रोक्तक्रमेणैव ॥ ९ ॥ इति प्रथममुण्डके प्रथमखण्डः ॥ १॥

साङ्गवेदजापरविद्याविषयमथाह विरागाय तदेतदिति- तदेतत्सत्यं मन्त्रेषु कर्माणि

Page 204

सुएडकोपनिषद्। १६१:

कवयो यान्यपश्यँस्तानि त्रे- तायां बहुधा सन्ततानि। ता- न्याचरथनियतं सत्यकामा ए- ष वः पन्थाः सुकृतस्य लोके।। तदेतद्विहितं कर्म सत्यमवइंयफलदम्। किंच कविभिर्वसिष्ठाद्यृषिभिवेदमन्त्रेषूहिता नि यानि तानि च कर्माणि क्रमेणग्यजुस्साम विहितकर्मकतृणां होत्रध्वर्यूद्गातृणां समा- हारे त्रेतायां बहुधाऽनुष्ठितानि प्रसिद्दानि प्रामाणिकानि चति यावत्। अतो यथार्थ कर्म फलकामना यूयं नियतं सदानियमेन वातान्येव कुरुध्वम्। एष कर्मरूपो वः प- न्था: सुष्ठु कृतस्य कर्मणो लोके फलनि- मित्तं फलाप्तय इति यावत्॥ १॥ अत्निहोत्रं विशेषं पन्थानमाह यदेति- यदा लेलायते ह्यर्चिः समि-

Page 205

१६२ मुएडकोपनिषद्।

द्वे हव्यवाहने। तदाज्यभागा- वन्तरेणाहुतीः प्रतिपादयेत॥ समिद्दे प्रज्वलिते आहवनीयान्नौ यदाड चिः शिखालोलं भवति तदा दक्षिणोत्तरपा- इर्वयोरग्नेराहुती आज्यभागाख्ये दत्त्वा तन्म- ध्ये सूर्याय स्वाहा प्रजापतये स्वाहेति प्रा- तः अग्नये प्रजापतये इति सायमाहुतीर्द- द्यात् ॥ २ ।। दुष्करत्वं दुखदत्वं चा स्य पथ आ्र्प्राह यस्येति। यस्याग्निहोत्रमदर्शमपौर्ण- मासमचातुर्मास्य मनाग्रयण मतिथिर्वाजतं च। अहुतम- वैश्वदेवम विधिनाहुतमासप्- माँस्तस्य लोकान्हिनस्ति॥३।

Page 206

मुएडकोपनिषद्। १६३

दर्शपौर्णमासचातुर्मास्यैशशारदवासन्तन- वान्नेष्या Sहरहोतिथिपूजनवैश्वदेवकर्मभ्यां रहितं स्वकाले न हुतमविधिना वा हुतं य- स्याग्निहोत्रं भवति तस्य भूरादिसत्यान्ता- नप्रपितामहादि प्रपौत्रान्तान्वालोकान्नाशय- ति तदग्निहोत्रम्। निष्फलं सन्ततिच्छेदकं वा भवतीति भावः ॥ ३ ॥ समिद्धतम एवाऔौ होमशशुभफल इति सूचनाय प्रसङ्गाद्वागनि जिह्वाः काल्यादि विश्वरुच्यन्ता आह कालीति- काली कराली च मनोजवा च सुलोहिता या च सुधम्रव- र्णा। स्फुलिद्गिनी विश्वरुची च देवी लेलायमाना इति स- पजिह्वाः ॥ ४॥ लेलायमाना: प्रदीप्ताहुतग्रसनाय चञ्न- ला वा । ४ ॥ २५

Page 207

१६४ मुएडकोपनिषद्। जिह्नोद्ग मोहिताग्निव्यात्तास्यहोमप्रशंसा माहैतेष्विति- एतेषु यश्चरते भ्राजमाने पु यथा कालं चाहुतयो ह्या- ददायन्। तं नयन्त्येताः सूर्य- स्य रश्मयो यत्र देवानां पति- रेकोऽधिवासः ॥ ५॥ एतासु दीप्यमानजिव्हास यो होमका- ले होमं कुरुते तं ह्याददानास्सर्यकिरणरू- पास्सत्य इमा आहुतयस्तत्र नयन्ति यत्रे- न्द्रोऽधिवसति ॥५॥ प्रापण प्रकारमाहैहीति- एह्येहीति तमाहुतयः सुव- र्चसः सूर्यस्य रश्मिभिर्यजमा- नं वहन्ति। प्रियां वाचमभि-

Page 208

मुरडकोपनिषद्। १६५ वदन्त्योर्चयन्त्य: एषबः पु- ण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥ एह्येह्यागच्छाऽडगच्छैष युष्माकं कृत- पुण्यपरिणामः स्वर्गलोकं इत्यादिप्रियवा- गादिभि: पूजयन्त्यः सुवर्चसो दिव्या आ- हुतयस्तं यजमानं सूर्यरश्मिद्वारा नयन्ति ६ निन्धते स्वयमीश्वरेण केवलं कर्म प्रवाइति- पवा ह्येते अदृढ़ा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येभिनन्दन्ति मूढ़ा जरामृत्युं ते पुनरेवापि य- न्ति ॥ ७॥ यज्ञरूपा दुःखोत्तरणायैते प्वा नावो हि निश्चयेनादढ़ा: कुतो यतो येषु यज्ञेषु षो-

Page 209

१६६ मुएडकोपनिषद्। ध्यं कर्मावरं न्यूनमुत्तमकल्पेऽधिकोक्ते: तथा च बहुसाधनसाध्यं नौकादिवदवश्यं वि- नाशीति भावः । तस्मादेतत्कर्म श्रेयस्सा- धनं ये मन्यन्ते ते घियन्ते पुनः पुनः॥७॥ उक्तमेव विषयरागिदुःखं वर्सायत्यरागा याविद्यायामिति- अविद्यायामन्तरे वर्तमाना: खयं धीरा: पण्डितं मन्यमा- नाः। जङ्घन्यमाना: परिय- न्ति मूढ़ा अन्धेनैव नीयमा- ना यथान्धाः॥८।। अन्तरे मध्ये। अन्धप्रदर्शितमार्गा अ- न्धा इवोक्तविधा मूढ़ा अविवेकिनो नैकदुः- खैर्हन्यमानाः पीड़िताः परिभ्रमन्त्येव नाना लोकयोनिर्गतेषु ॥८॥ अतृप्ता एव ते तावद्विषयैर्वियुज्यन्ते

Page 210

मुएडकोपनिषद्। १६७

इत्याहाविद्यायामिति- अविद्यायां बहुधा वर्तमा- ना वयं कृतार्थाः इत्यभिम- न्यन्ति वाला: यत्कर्मिणो न प्रवेदयन्तिरागात्तेनातुराःक्षी- णलोकाश्च्यवन्ते ॥ ९ ॥ मूलाडविद्यास्था: कर्मिणोऽज्ञा यद्यस्मात् स्वर्गादिभिरेव वयं कृतार्था इति मन्यन्ते विषयरागात् चित्तत्वत्तु न जानन्ति तेन क्षीणपुण्या अतुरास्सन्तप्ता विवशाः स्व- र्गादिः पतन्ति ॥९॥ उक्तमेवाह विरागदाढ्ययेष्टेति- इष्टा पूर्त मन्यमानावरिष्ठ नान्यच्छेयो वेदयन्ते प्रमूढ़ाः नाकस्य पृष्ठे ते सुकृते Sनुभू-

Page 211

१६८ मुएडकोपनिषद्।

त्वमं लोकं हीनतरं वा वि- शन्ति ॥ १० ॥ इष्ट श्रौतंकर्म।स्मार्त कूपारामादिपूर्तम्। वरिष्ठं मुख्यम्। अन्यच्चिदात्मज्ञानम्। एष्ठे उपरिस्थले। सुकृते पुण्यकृते। कर्म फलमनुभूय। इमं नृदेहं श्रकरादि वा ॥ १०॥ कर्मोपासनं च दयं कुर्वतः फलमाह तपइति- तपः श्रद्धे ये हुयपवसन्त्य- रण्ये शान्ता विद्वांसो भैक्ष्य चर्या चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषोद्यव्ययात्मा ॥ ११॥ अरण्येवानप्रस्थागहस्था वा शान्ताः जितेन्द्रिया विद्वांस: सन्यासिनो वा भिक्षु- काये नाना विधतपो हिरण्यगर्भाद्यपासने

Page 212

मुएडकोपनिषद्। १६६

हुयपवसन्ति कुर्वते ते विगत दुष्कृत रजसः सूर्यमण्डलेन तत्र यान्ति यत्राऽऽसंसारस्थि- तिं मृत्यपक्षयहीनो हिरण्यगर्भः ॥११॥ अथ विरक्तस्यपरविद्याधिकारायाह परीक्ष्येति- परीक्ष्य लोकान्कर्म चिता- न्ब्राह्मणो निर्वेदमायान्नास्त्य कृतः कृतेन। तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पणिः श्रोत्रियं ब्रह्म निष्ठम् ॥१२। लोकानखिलं जगत् कर्मोत्पादिताननि- त्यानिति यावत् प्रत्यक्षाद्यैर्निश्र्ित्यलोकेषु स्थितं रागं विनाशयेद्राह्मण इत्युपलक्षण निर्देश: प्रधानत्वात्। ततो कृतोऽकार्यश्र्ि- दात्मा तु कृतेन कर्मणा लभ्योनास्तीति त- स्य ज्ञानाय वेदजं परब्रह्मज्ञं गच्छेत् ज्ञा- नमेव तल्लाभोपाय इति भावः ॥ १२॥

Page 213

२०० सुएड कोपनिषद्। गुरुकृत्यमाह तस्मा इति- तस्मै स विद्धानुपसन्नाय स म्यक् प्रशान्तचित्ताय शमा- न्विताय। येनाक्षरं पुरुषं वे- द सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम ॥ १३ ॥ दृढ विगतान्तःकरणरागमानादिदोषाय जितेन्द्रियाय थेनोपायेन सत्य वस्तु वेद शिष्योविद्यात्तां ब्रह्मविद्यां ब्रह्मविज्ञानं त- चतो याथातथ्येन प्रोवाचोपदिशेत्॥ इति मुण्डकोपनिषतप्रसादे प्रथममुण्डकं तद्द्वितीय खण्डश्च ॥ २ ॥ अथ यस्मिन्विज्ञाते सर्वंविज्ञातंभवति तत्पर विद्याविषयब्रह्मवोधायारभते तदेतदिति- तदे तत्सत्यं यथा सुदीप्ता त्पावकाद्विस्फुलिङ्गाः सहस्र-

Page 214

मुएडकोपनिषद्। २०१

शः प्रभवन्ते सरूपाः । त- थाक्षराद्विविधाः सोम्यभावाः प्रजायन्ते तत्र चैवापि य- न्ति॥ १ ॥ तदुक्तमेतदक्षरमेव सत्यमन्यत्र तु सत्य त्वमापेक्षिकमिति भावः । हे सोम्यप्रियमू- ते शौनक। अग्निकणाइव कारणरूपा एव जीवादयो जायन्ते लीयन्ते तत्रैव। नीर तरङ्ग्योरिव भेदानुभवो भ्रम इति परमनि- ष्कर्षः ॥ १ ॥ कार्योपलच्षितकारसं सोपाधिकमेवेति निरुपाधिकं ब्रह्म स्वरूपमाह दिव्य इति- दिव्यो ह्यमूर्तः पुरुषः सवा- ह्याभ्यन्तरो ह्यजः । अग्राणो

२६

Page 215

२०२ सुएडकोपनिषद्।

ह्य मनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २ ॥ कार्य मात्रात्परतः परस्मादव्यक्तरूपा- दिना ज्ञानमक्षरान्मायोपाधे: परः पुरुषो- दिव्योऽलौकिको निखिल वाह्यान्तरपदा- र्थैस्सह वर्तते सकलाधिष्ठानमितियावत् म-

शुद्धः। तत्र प्रतीताकारणतात्वौपाधिक्य- धिष्ठानतयेतिभावः ॥२॥

ब्रह्मणत्राहै तस्मादिति- एतस्माज्जायते प्राणोमनः सर्वेन्द्रियाणि च । खं वायु ज्योतिरापः पृथिवी विश्वस्य धारिणी॥ ३ ॥ एतस्मान्मायोपाधिकात्प्राणोहिरण्यग-

Page 216

मुएडकोपनिषद्। २०३ र्भः । क्रमोत्राऽविवक्षितः सृष्टिस्तु खाद्यैवे- तियथान्यत्रमेवज्ञेयम्। अयं भावः अत- कर्यप्रत्यायिकैव हि माया सा च स्वतोऽना- द्यध्यस्ता तयाचाखिलमीशत्वादीति। शुद्ध मेवेत्थं मायादिजगदाद्याकारेण क्रमेणा क्र- मेण वा भातीति तु परम निष्कर्षः ॥ ३॥ विराडपि तज्जत्वात्सएवेत्याहाग्निरिति- अग्निर्मूर्द्धा चक्षुषी चन्द्र सूर्यो दिशः श्रोत्रे वाग्विवृता- श्र वेदाः। वायुः प्राणो हृदयं विश्वमस्यपन्ां परृथिवीह्येष स- र्वभूतान्तरात्मा ॥४॥ अग्निर्दयुलोकः। विताउच्चरिताः। विश्वं जगत् हृदयं मनोऽस्याक्षरपुरुषस्येति सर्वत्र योज्यम्। पद्यांजातेतिशेष पद्रूपेति भाव: अन्तरात्माप्येष एव सर्व भूतस्य ॥।४॥

Page 217

२०४ मुएडकोपनिषद्। गर्भजाअप्यक्षरजा एवेति क्रममाह तस्मादिति- तस्मादगनिः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषध- यः पृथिव्याम्। पुमानेतः सि- ञ्जति योषितायां वह्नीः प्रजाः पुरुषात्संप्रसूताः॥५॥ समिध्यतेहि सूर्य रूप समिद्गिर्धुलोक: सोडग्निस्तस्मादक्षरपुरुषाज्जायते इत्युक्त- म्। द्युलोकान्निजात्सोमान्मेघोन्निः तस्मा द्भुव्यम्नावन्नम् । अन्नजरेतः सिञ्नतिस्त्रि- यामग्नौपुमानननिः। एवमक्षरपुरुषात्प्रजाजा- ताः ॥ ५ ॥ कर्मतत्फलसाधनेचाक्षरा देवेत्याह तस्मादिति- तस्मादचः साम यजूँपि दी-

Page 218

मुएडकोपनिषद्। २०५

क्षा यज्ञाश्च सर्वे क्रतवो दक्षि- णाश्च। संवत्सरश्च यजमान- शूच लोका: सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ नियताक्षरच्छन्दस्काऋचः । हिङ्गारप्र- स्तावोद्गीथ प्रतिहारनिधनाख्य पञ्चावयवा- दि विशिष्टं साम। अनियताक्षरपादावसा- नं वाक्यरूपं यजुः । दीक्षा कर्तुर्नियमाः। अयूपो यज्ञस्सयूप: क्रतुः । येषु चन्द्रः पु- नाति भाति रविस्ते दक्षिणोत्तरमार्गद्वय- गम्या: फलभूता लोकाः ॥ ६ ॥ अन्यदप्यखिलं तस्मादेवेत्याहत्रिभि :- तस्माच्च देवा बहुधा संग्र- सूता साध्या मनुष्या पशवो वयांसि। प्राणापानौ ब्रीहियवौ

Page 219

२०६ मुएडकोपनिषद्। तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥ ७॥ वस्वादि गण भेदेन नाना विध देवाः। साध्यादेवविशेषा: वयः पक्षी। श्रद्धाऽड- स्तिक्यबुद्दिः । विधिः क्रियाप्रकारः ॥७॥ सप्प्राणा: प्रभवन्ति तस्मा- त्सप्तार्चिषः समिधः सप्त हो- माः। सप्तइमे लोकायेषु चर- न्ति प्राणा गुहाशया निहिताः सप्त सप॥ ८ ॥ गुहाशयाः स्वापे हृल्लयाः प्रतिप्राणिनं सप्त सप्त धात्रा निहिता: स्थापिताः शिरः स्थाः प्राणा इन्द्रियाणि। तेषां स्व विषय प्रकाशनानि च। समिधो विषयाः। होमावि- षयज्ञानानि। येषु चरन्ति ते लोकाः स्था- नानि ॥८॥

Page 220

मुएडकोपनिषद्। २०७

अतः समुद्रा गिरयश्च सर्वे डस्मात्स्पन्दन्ते सिन्धवः सर्व रूपा:। अतश्च सर्वा ओषध यो रसश्च ये नैषभूतैस्तिष्ठते ह्यन्तरात्मा॥ ९॥ सिन्धवो नद्यः । रसो मधुरादिः। येन रसेन पृथ्व्यादिभिर्वेष्टितो उन्तरात्मा लिङ्ग देहस्तिष्ठति ॥९॥ फलितमाह पुरुष इति- पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां सोडविद्या ग्र- न्थि विकिरतीह सोम्य॥१०॥ हे सोम्यप्रियमूर्त्ते पुरुषएवाखिलकार-

Page 221

२०८ मुएडकोपनिषद्।

णं चेत्तज्ज्ञानादेव ध्यान कर्म फल भूतमि- दं सर्व पुरुष एवेति पुरुष रूपतया ज्ञातं भवति हेमज्ञानाद्वेमतयाडखिल हैममिव। पुरुषश्च ब्रह्मेति सर्व ब्रह्म। तथाच यो ह- दिस्थितमेतद्रह्म वेदस्वन सहाखिलं ब्रह्म जानातीति यावत् सोऽविद्यावन्धमिह जी- वन्नेव विनाशयति। अधिष्ठानचिद्वोधा- त्सात्म प्रपञ्च प्रतीतिर्निवर्तत इति भाव:॥ इति मुण्डकोपनिषत्प्रसादे द्वितीय मुण्डक प्रथम खण्डः ॥ १ ॥ अथ कारणविज्ञानोपायायाहाविरिति- आवि: सन्निहितं गुहाचर- न्नाम महत्पदमत्रै तत्समर्पित- म्। एजलाणन्निमिषच्च य- दे तज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठ प्रजानाम् १

Page 222

मुएडकोपनिषद्। २०६

हे शिष्या यदेतदुक्तं सर्वकारणं ब्रह्म जानथ यञ्च वरिष्ठमतिश्रेष्ठं तन्महत्पदम- नन्तमास्पदम् यत एजत्पक्ष्यादि प्राणन्म- नुष्यादि निमिषत्क्रियावज्जङ्गमं चात्स्थाव- रं सदसत्कार्य कारणं चाखिलमेतदत्रैवार्पितं प्रोतम। तदेव च गुहाचरमाभासरूपेण हृद्गंत नाम प्रसिद्धम्। अतः सन्निहित- माविः प्रत्यक्षं च वोधात्मना न तु बोध्या- त्मना यतः प्रजानां विज्ञानात्परं नतद्विषयः एवञ्चात्मतयैवैतद्वरणीयं विज्ञेयमात्मत्वाद्वा सर्वैः प्रार्थनीयमित्यर्थः ॥१॥

उक्तमेवादरेण दार्ढ्यायवाह यदिति-

h வு यस्मिन्लोका निहिता लोकि नश्च। तदेतदक्षरं ब्रह्म स प्रा- णस्तदुवाङ्मनःतदेतत्सत्यंत-

२७

Page 223

२१० मुरडकोपनिषद्। दमृतं तद्वेद्वव्यं सोम्यविद्धि २

र्वास्पदं तदनपक्षयं ब्रह्म। प्राणो वाङ्मन- इच तदेव तदाश्रयकमिति भावः तदेव च सत्यममृतम्। अतो हे सौम्य तदेव वेद्व्यं चेतसा भावनीयं त्वं विद्धि जानीहि ॥२॥ वेधनप्रकारमाह धनुरिति- धनुर्गहीत्वौपनिषदं महास्त्रं शरं हयुपासानिशितं सन्धयी- त। आयम्य तन्भावगतेन चे- तसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥। ३ ।। उपनिषद्गवं महास्त्रं धनुरादाय तत्र ध्या- नतीक्षणं दीत्ं शरं दध्यात्। ततो विषया- नतरादाकृष्य लक्ष्यानुसन्धानमयेन चेतसा लक्ष्यमुक्तमक्षरं जानीहि॥ ३॥

Page 224

मुएड कोपनिषद्। २११ धनुरावाह प्रसाव इति- प्रणवो धनुः शरोह्यात्मा त्र- ह तल्क्ष्यमुच्यते। अप्रम- त्तेन वेद्व्यं शरवत्तन्मयो भ- वेत् । ४ ॥ मृगदेहादावा पुंखादि निमज्जनतया श- रस्य लक्ष्येणैकत्वापादनमेव वेधनेन प्रसि- द्दम् तथा प्रणवार्थविचारेणात्मानमभिन्नं ब्रह्मणा कुर्यात् ॥४॥ दुर्गमत्वात्पुनर्लच्यं वर्णायति यस्मिन्निति- यस्मिन्द्यौः पृथिवीचान्तरि- क्षमोतं मनः सह प्राणैश्च स- वैः। तमेवैकंजानथ आत्मान- मन्यावाचो विमुञ्चथामृतस्यै- ष सेतुः ॥५॥

Page 225

११२ मुरडकोपनिषद्। प्राणैरिन्द्रियस्सह मनइचौतं प्रोतम् । एकं ब्रह्माभिन्नं जानीत। एष एक्याव बोध एव मोक्षप्राप्तिसाधनम्। अतो हे शि- ष्या वाचो परविद्याः।। ५।। किश्चिन्मलिनधियं प्रत्युपासनमाहारा इति- अरा इव रथनाभौ संहता यत्र नाड्य: स एषोन्तश्चर- ते बहुधा जायमानः । ओ- मित्येवं ध्यायथ आत्मानं स्वस्ति वः पराय तमसः पर- स्तात् ॥ ६ ॥ यत्र हृदि संहता अर्पितमूलाः तत्रान्त- र्मध्ये स उक्त एष आत्मा धीवत्तिभेदेन हृष्टो द्रष्टेत्यादि बहुधा जात इव चरते प्रती-

Page 226

सुएडकोपनिषद्। २१३

यते न वस्तुतः तस्मात्तमसो Sविद्यायाः प- रस्ताद्यत्परं वस्तु तद्रावाय प्रणवमात्मत्वेन ध्यायथ। एवमपि युष्माकं स्वस्ति निर्विघ्न- फलाप्तिर्भवत्वित्याशीर्वचनं गुरोः ॥६॥ योऽविद्यायाः परस्तात्सकुत्रास्तीत्यत आह य इति- यः सर्वज्ञःसर्व विद्यस्यैष म- हिमा भुवि दिव्ये ब्रह्मपुरे ह्ये- ष व्योमन्यात्मा प्रतिष्ठितः । मनोमयः प्राणशरीरनेता प्र- तिष्ठितोन्ने हृदयं सन्निधाय तद्विज्ञानेन परि पश्यन्ति धी- रा आनन्दरूपममृतं यद्वि- भाति ॥७॥ भवि लोके एष प्रसिद्ध: सर्वजागत-म-

Page 227

२१४ मुएडकोपनिषद्।

र्यादारूपो महिमा यस्य स एष आत्मा ब्रह्म नगरे हृदि यद्व्योम तत्र प्रतिष्ठितो वर्तते प्रतीयते केनातो विशेषणं मनोमयः मनसे- ति यावत्। स्थूलदेहातिरिक्तं मन आद्येव नास्तीत्वत आह प्राणस्येन्द्रियादेः शरी- रान्तरप्रति नेता प्रापकः नान्यथा जन्मा- नतरं स्यादिति भावः परमात्मविभावनं तु देहद्वयसङ्घात एवेत्याह अन्नेऽन्नमये स्थू- ले हृदयं सन्निधाय प्रतिष्ठितः प्रतीयते। अ- प्रसिद्धिं वारयति यदानन्दरूपं हृदि भाति प्रकाशते तद्दीरा विवेकिन: पश्यन्ति ॥७।। दर्शनफलमाह भिद्यत इति भिद्यते हृदयग्रन्थिश्छिद्य न्ते सर्वसंशयाः।क्षीयन्ते चा- स्य कर्माणि तस्मिन्टष्टे परा- वरे ॥८॥

Page 228

मुएडकोपनिषद्। २१५

परं कारणमवरं कार्य सर्वमात्मैवेति त- द्रूपे तस्मिन्परात्मनि दृष्टे साक्षात्कृतेऽस्य ममक्षोः । ग्रन्थिश्चिज्जडोभयभावना भि- द्यते चिद्धावनैव भवति। संशयाश्चिदेकत्व- चिषयाः। कर्माणि तत्त्वविद् दृष्या त्रिविधा- न्यन्यदध्या रब्धान्यानि ॥८॥। उक्तमेव परं निश्चयाय पुनराह हिरसमय इति- हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्। तच्छुभ्रं ज्यो- तिषां ज्योतिस्तद्यदात्मविदो विदुः॥ ६ ।। चिदाभासस्थानत्वाद्िरण्मयं परमुत्कृष्टं खड्गकोश इव च यडृदयं तत्र यन्निर्मलं निरवयवमतः शुभ्रं केवलं प्रकाशानां प्र- काशकं ब्रह्म तदात्मविद एव जानन्ति नाड नात्मरता इति भाव: ॥ ९॥

Page 229

६ मुएडकोपनिषद्।

प्रकाशप्रकाशकत्वमाह नेति- न तत्र सूर्यो भाति न चन्द्र- तारकं नेमाविद्युतो भान्ति कु- तो यमगनिः। तमेव भान्तम- नुडभाति सर्वै तस्य भासा सर्व- मिदं विभाति॥ १० ॥ सूर्यादयस्तत्र ब्रह्मात्मनि घटादाविव भा- सका न भवन्ति किन्तु तमेव बोधात्मना स्फु- रन्तमनुपश्चात्सर्व सूर्यादिवस्तु भाति वु- ध्यते न चिदाभासमन्तरा किंचिद्रातीति भावः। तस्येति तादात्म्ये षष्ठी वस्तुतस्तु अधिष्ठानतद्रह्मचित्सत्तयैव जगद्भाति शुक्ति- रूप्यवदित्यर्थः ॥ १०॥ उक्ताखिलोक्तिफलितमद्वैतमाह ब्रह्मति- ब्रह्मैवेदममृतं पुरस्ताद्रह्म

Page 230

मुएडकोपनिषद्। २१७

पश्चाड्कह्म दक्षिणतश्चोत्तरेण। अधश्चोर्ध्व च प्रसृतं ब्रह्नैवे- दं विश्वमिदं वरिष्ठम्॥ ११॥ पुरः प्रसृतं प्रतीतं यदिंदं किंचित्तदमृ- तं सद्रूपं ब्रह्मैव एवमग्रेपि। किं बहुना ना- हिः किन्तु रज्जुरितिवत् विश्वमखिलमिदं जगन्न किं तर्हि वरिष्ठमपरिच्छिन्नमिदंमुक्तं ब्रह्मैव ॥ ११ ॥ इति मुण्डकोपनिषत्प्रसादे द्वितीयमुण्डकं सद्वितीयखण्डम् ॥ २॥ अथोक्तपरविद्यावोध्यब्रह्मणोदर्शने सहकारि सत्यादि वत्यन्नादौ शुद्धचिद्ब्रह्म विवेकोपा- यान्तरमाह द्वेति- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्व जाते। तयोरन्यः पिप्पलं स्वाद्वत्त्य १८

Page 231

२१८ मुएडकोपनिषद्। नश्नन्नन्यो अभिचाकशीति ? सखायौ प्रीतावातः सयुजौ संयुक्तौ सु- पर्णो पक्षिणौ फलभोगाय यथैकमश्वत्थट- क्षमाश्रयतस्तथा चिद्विम्बतत्प्रतिबिम्बौ श- रीरमिति प्रतीत्युक्तिः । अन्यः प्रतिविम्बो जीवः। पिप्पलं देहवक्षजकर्म फलं दुःख सुखमत्तिदुःयहमिति मन्यते। अनश्नन्दु- खाद्यसस्पष्टोऽभिचाकशीत्यतिशयेन प्रका- शते केवलं साक्षिवत्॥१॥ जीवपच्तिणो भोक्तृत्वावधिमाह समान इति- समाने वृक्षे पुरुषो निमओ्रो Sनीशया शोचति मुह्यमानः। जुछं यदा पश्यत्यन्यमीशम- स्य महिमानमिति वीतशो- कः ॥ २ ॥

Page 232

मुरडकोपनिषद्। २१६

अनीशया डविद्यया मुह्यमान: सदसद्वि बेकहीनोऽतएव वृक्षे देहे निमग्नोयमेवाहमि- ति निश्चयी पुरुषस्तत्तद्ुःखे हा दैव हा पि- तः किमिदं जातमिति शोचति। अथ य- दा महात्मभिर्जुष्टं सेवितं परिचितमन्यं स- च्चिद्विम्बरूपमीशं रज्जुसर्पस्रगादिवदस- ज्जगद्रूपमस्येशस्य महिमान च पश्यति निश्चिनोतीति हेतोस्तदाऽशोको भवति मु- च्यते ॥ २ ॥ उक्तमेव स्फुटमाह यदेति- यदा पश्यः पश्यते रुक्म- वर्णै कर्तारमीशं पुरुषं ब्रह्मयो- निम्। तदा विद्वान्पुण्यपापे विधूय निरज्जनः परमं सा- म्यमुपैति॥ ३॥ पश्यो विचारनिरतो मुमुत्तुर्यदाऽखि-

Page 233

२२० सुएडकोपनिषद्।

लस्य कर्तारं धातुरपि योनिमीशं पुरुषं हेम- वर्ण चिद्रूपं साक्षात्करोति कार्य न कारणा- न्यतत्वमित्येकत्वनावं गच्छति तदा जन्म प्रदाऽखिलपुण्यपापहीनः शुद्धः साम्यं ब्र- ह्मतामुपैति॥३॥ उक्तं विद्वांसं स्तौति प्राण इति- प्राणो ह्येषयः सर्वभूतैर्विभा- ति विजानन्विद्वन्भवते ना- तिवादी। आत्मक्रीड आत्म रतिःक्रियावानेष ब्रह्मविदां व- रिष्ठः ॥ ४ ॥ यश्चिदात्मा सर्वभूतात्मना भाति एष एव सर्वेषां प्राणः सत्ताप्रदो Sधिष्ठानमित्ये- कत्वं जानन्विद्वांस्त्त्ववेत्ता डतिवाद्यनृत- वक्ता न भवति किन्तु वाह्यसाधनैः क्रीड़ा प्रीतिमात्रं रतिश्चात्मन्येवास्येति ध्यानादि

Page 234

मुएडकोपनिषद्। २२१

सक्रिय एष तत्त्वविच्छ्ेष्ठः सत्यवक्तेति भा- वः। ४ । लौकिकसत्यवक्तृत्वादीनि तत्वज्ञान- सहकारीणीत्याह सत्यनेति- सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग ज्ञानेन ब्रह्मच- र्येण नित्यम्। अन्तः शरीरे ज्योतिर्मयो हि शुभ्रोयं पश्य- न्ति यतयः क्षीणदोषाः॥५॥ रागादि दोषशन्यं संन्यासिनो निदिध्या- सनेन यं साक्षात्कुर्वन्त्येष हृदिज्योतीरूपः शुद्धआत्मा मुमक्षुणा नित्यं नतु कदाचित्कृ- तं यत्सत्यं मनोजयादि तपो ब्रह्मचर्य च तै- रन्तःकरणशोधकैः श्रवणादिजज्ञानेन च लक्ष्यः॥५। सत्यं स्तौति सत्यमिति- सत्यमेव जयति नानृतं स-

Page 235

२२२ मुएडकोपनिषद्। त्येन पन्थाविततो देवयान: येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधा- नम् ॥ ६ ॥ लोकेपि प्रसिद्धि: सत्यमेव जयति जय- हेतुरिति। आप्तकामा निर्वासना येन य :- न्ति स मार्गोपि शास्त्रोक्तिसत्यतयैव प्र- सिद्धोस्ति प्राप्यते वा यथार्थवक्त्रैव। अ- तस्तेन पथा यत्र यान्ति तद्रह्म सत्यनि- धानं सत्याधीनं यस्य योनिधिस्सतद्धीन इति प्रसिद्धम् ॥ ६ ॥ ऋषिप्राप्यं ब्रह्म वर्ायति वृहदिति- वृहच्चतद्दिव्यमचिन्त्यरू- पं सूक्ष्माच्च तत्सूक्ष्मतरं वि- भाति। दूरात्सुदूरे तदिहान्ति

Page 236

मुएड कोपनिषद्। २२३ के च पश्यत्स्विहैव निहितं गु- हायाम ॥ ७॥ तद्वहदपरिछिन्नं दिव्यं स्वप्रभं मनो- ड्ग्राह्यमतिसूक्ष्ममज्ञस्य दूरेज्ञस्यान्तिके यत इहैवात्मनिपश्यत्सुविचारयत्सुविवेकिष्वन्तः करण एवात्मरूपतयैव निहितं स्थितं बि- भाति ।७॥ उक्मेव पुनर्निश्चयार्थमाह नेति- न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्ध सत्त्वस्त- तस्तुतं पश्यते निष्कलं ध्या- यमानः ॥८॥ नान्यैदवैरिन्द्रियैरयोग्यत्वात्। यदा तु महता सुकृता शुद्धान्त:करणो मुमुत्तुर्निर-

Page 237

२२४ मुएडकोपनिषद् ।

वयवं चिदात्मानं ध्यायति ततस्त्वखण्डचि- दाकारज्ञानस्य प्रसादेनोत्पत्यातं चिदा- त्मानं साक्षात्करोति ।८॥ ज्ञेयत्वभ्रमं वारयत्येष इति- एषोणुरात्मा चेतसा वेदि- तव्यो यस्मिन्पराणःपञ्चधा सं- विवेश। प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभ- वत्येष आत्मा। ६।। यस्मिन्देहे पञ्चप्राणास्तत्रस्थन चेतसाज्ञे- य आत्मेति प्रतीयते। वस्तुतस्तु प्राणैरि- न्द्रियः सहाखिलं प्राणिचित्तमात्मनौतं व्या- प्मेवातो विशुद्धे यस्मँइ्चेतसि निमित्तमा- त्रे विभवति स्वयं प्रकाशते विस्मृतकण्ठ- मणिरिवेति भावः ॥ ९॥ यस्य शुद्धे चित्ते सयमात्मप्रकाशस्तस्य

Page 238

मुएडकोपनिषद्। २२५ माहात्म्यमाह यमिति- यं यं लोकं मनसा संविभा- ति विशुद्धसत्त्व: कामयते याँ- श्र कामान्। तं तं लोकं ज- यते ताँश्च कामाँस्तस्मादात्म- ज्ञं ह्यर्चयेद्भतिकामः ॥ १०॥ संविभाति संकल्पयति कामान्भोगान् जयते लभते। यतस्सत्यसंकल्पो जायते सतस्मात्तमन्योप्यैश्वर्यकामः पूजयेत्॥१॥॥ इत्युपनिषत्प्रसादे ततीयमुण्डके प्रथमखण्डः।। मुमुत्तुभिरप स पूज्य इत्याह स इति- स वेदैतत्परमं ब्रह्मधाम य- त्र विश्वं निहितं भाति शुभ्रम्। उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः॥

Page 239

२२६ मुएडकोपनिषद्।

यत्र धाम्न्रि स्थितं विश्वं जगद् ब्रह्मवि- दः शुभ्रं चिद्रूपं भाति तत्परंब्रह्मधाम स जानाति यतोतस्तं पुरुषं ये निष्कामाः से- चन्ते तेपि शुक्रं पितुःशरीरे वीर्य नायान्ति ज- न्मार्थ किन्तु ज्ञानं प्राप्य मुच्यन्त इति भावः॥ १॥ सकाम निष्कामत्वे बन्धमोक्षहेतू इत्याह कामानिति- कामान्यः कामयते मन्य- मान: सकामभिर्जायते तत्र तत्र। पर्याप्तकामस्य कृतात्म- नस्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥ २ मन्यमानो विषयगुणान्ध्यायन्विषयानि- चछति यः स विषयवासनाभि: स्वर्गे नरके चोत्पद्यते । निष्कामस्य कृतब्रह्मत्वस्य

Page 240

मुएड कोपनिषद्। २२७

तु देह एव वासनालय इति हेत्वभावान्न जनिः ॥२ ॥ ऐक्यज्ञानमेव ब्रह्मात्मत्वलाभोपाय इत्याह नेति- नायमात्मा प्रवचनेन ल- भ्यो न मेधया न बहुना श्रु- तेन। यमेवैष वृणुते तेन ल- भ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥३॥ प्रवचनं वक्तृता मेधा ग्रन्थार्थधारणश- क्तिः श्रुतमध्ययनम्। अभेदेन भावित एष आत्मा यं मुमुत्तुमभेदेन वणते संभजते 'ये यथा मां प्रपद्यन्ते ताँस्तथैव भजाम्यह- मिति, स्मतेः। तेन पुंसो ज्ञानेनेति यावत्। कथं तत्राह तस्य पुंसा हृदि तनुं चिद्रूपां विळृणुते निरविद्याऽऽवरणां करोति ॥३॥

Page 241

१२८ मुरडकोपनिषद्।

चिदात्म विचारादि सहकारि साधनानि सूचयति नायमिति- नायमात्मा बलहीनेन ल- भ्यो न च प्रमादात्तपसो वा- प्यलिङ्गात्। एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा वि- शते ब्रह्मधाम ॥ ४ ॥ चिदेकपरत्वं बलम् । प्रमादोऽनात्म- परता। निष्कामतारूपमोक्षलिङ्गरहिता- दशास्त्रीयाद्वा तपसः। योबलनिष्कामतपो Sनात्मवासनात्यागैर्यतते स विद्वानात्मज्ञा- नं लभतेऽतस्तस्यात्मा ब्रह्म भवति॥४॥ कथं भवति तत्राह संप्राप्येति- संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशा-

Page 242

मुएड कोपनिषद्। २२६

न्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवावि- शन्ति ॥ ५॥ एनमात्मान संप्राप्य ज्ञात्वा तृप्तानिश्च्ित चिद्नू पारागादिहीना जितेन्द्रियास्ते धीरा वि- वेकिन: सर्वगमात्मानं सर्वत्र प्राप्य ज्ञात्वा तत्रैव युक्तात्मान एकीभूतास्तदतिरिक्त भा- वहीनाः सर्वमाविशन्ति पूर्णाभवन्ति। वि- देहकाले अपरिच्छिन्नतेत्याचार्योक्तिस्तु प्र- तीत्यभिप्रायेण॥५॥ प्रनन्तरोक्तमेवादरेण पुनराह वेदान्तेति- वेदान्तविज्ञानसुनिश्चिता- र्थाः संन्यासयोगाद्यतयः शु- द्वसत्वाः । ते ब्रह्मलोकेषु प- रान्तकाले परामृता: परिमु- च्यन्ति सर्वे ॥ ६ ॥

Page 243

२३० मुएडकोपनिषद्। यतयो बलाद्युपायैर्यतनशीलाः संन्यास-

विचारजज्ञानेन निश्चितैक्चिदर्थाः ये ते सर्वे परामृता ब्रह्मरूपा: सन्तः परान्तकाले लिङ्गभङ्गकाले ब्रह्मरूपा Sखिललोकेषु व्या- प्नुवन्तीव ॥ ६ ॥ गता: कलाः पञ्चदश प- तिष्ठा देवाइ्चसर्वे प्रतिदेवता- सु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकी- भवन्ति ॥। ७॥ प्रश्नोपनिषदन्त्यप्रश्नोक्ता: पञ्चदशक- लाः प्रतिष्ठाः स्वत्वकारणं गता लोना: इ- न्द्रियाधिष्ठात देवांशाइच मुख्यदेवता व्य- क्तिषुगता यदा भवन्ति तदाऽखिलकमाणि प्रतिविम्बात्मा च चित्यभेदं यान्ति मुकु-

Page 244

मुयडकोपमिषद्। राऽपनये तदाऽडभास इव ॥७॥ यथा नदः स्पन्दमाना: स- मुद्रेस्तंगच्छन्ति नामरूपे वि- हाय। तथा विद्वान्नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥८॥ नद्यो यथा समुद्रभावं तथा ब्रह्मविद्दि- व्यपुरुषभावं ब्रह्मत्वमुपेति॥८॥ ब्रह्मविदः फलान्तरमप्याह स य इति। स यो ह वैतत्परमं ब्रह्मवेद व्र- ह्वैव भवति नास्याडब्रह्मवित्कु- ले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमु- क्ोऽमृतो भवति॥९॥

Page 245

२३२ मुएडकोपनिषद् ।

ब्रह्मैवेति सर्वात्मभूतत्वेन विघ्नाऽभावा- न्नान्यदिति भावः । ब्रह्मज्ञकुले ब्रह्मविदेव भवति। न शोकं पश्यतीष्टवियोगादिजं ब्रह्मवित् जन्मप्रदकर्मणा च न लिप्यते भि- न्नहृद्यग्रन्थिर्मुक्तो भवति ॥ ९॥ एतद् ग्रन्थाध्ययनाधिकारिणमाह तदतदिति- तदेतदचाभ्युक्तम्। क्रिया- वन्तः श्रोत्रियात्रह्मनिष्ठाः स्व्र- यं जुव्हत एकर्षि श्रद्धयन्तः। तेषामैवैतांब्रह्मविद्यां वदेत्शि- रोव्रतं विधिवद्यैस्तु चीर्णम् १० तदेतद्विद्याऽधिकारकारिणंमन्त्रेणोक्तम्। श्रोत्रिया वेदपाठिनो वैदक्रियावन्तो ब्रह्म निष्ठा मुमक्षव एकर्षिसज्ञाननिं श्रद्दया ज- हुते ये यैश्च शिरस्यग्निधारणरूपं व्रतं चीर्ण कृतं तेषामेवैतां वदेदिति॥१०॥

Page 246

मुएडकोपनिषद्। २३३

अनुवादनमस्कार तदावृत्तिभि: पूर्ति सचयति तदिति- तदेतत्सत्यमृषिरङ्गिरा: पु- रोवाच नैतदचीर्णत्रतो Sधीते। नमः परम ऋषिभ्यो नमः प- रम ऋषिभ्यः ॥ ११ ॥ सत्यमक्षरं ब्रह्म।उवाच शौनकाय। अ- कृतशिरोव्रतो न पठेत्। ब्रह्मविद्याप्रवर्तका ब्रह्मादयः परमर्षयः ॥११॥ दययाऽनन्तरामस्य मृदुर्ग्न्थोयमुम्भितः। श्रीख्वामिभास्करानन्दैः काश्यां सुएडकवेदके॥१॥ कुशामद्धी: क् भाष्येण क वेदान्ताब्धिमन्थनम्। तथाप्यघटितं किंवा गुरुदेवदयालवे ॥ २ ॥ इत्युपनिषत्प्रसादे मुएडकोपनिषत्तृतीय- मुएडकं तद्द्वितीयखएडश्च।।

Page 247

२३४ माणडूक्योपनिषद्।

श्रीगणेशाय नमः। अथेश्वरो थर्ववेदे लाघवेन मुमुचूद्धाराय

र्थरूपत्वाद्वाचारम्भणश्टलाच शब्दस्यैव निरूप-

चिद्बोधकत्वेन वातमोङ्कारमेवद्वारसुरीचकारो- मितीति। भद्रकर्णेभिरिति० भद्रं न इति० शान्तिः।।३।। ओमित्येतदक्षरमिदं सर्वै त- स्योपव्याख्यानं भूतं भवद्ध- विष्यदिति सर्वैमोङ्कारएव च। यच्चान्यत्त्रिकालातीतं तद- प्योङ्कारएव॥ १॥ इदं सर्व जगदोङ्कारमात्रम्। तस्योमक्ष- रस्य। उपसमीपे Sनन्तरमग्रे व्याख्यानं बो-

Page 248

माडूक्योपनिषद्। २३५

ध्यम्। त्रिषु कालेषु यज्जायते यच्च काला- तीतं कालस्यापि कारणं सचित्प्रतिविम्बा- डविद्यादितदोद्कार एव नामार्थयोर्विववर्ता-

प्रसवतदर्थयोश्चाऽभेदायाह सर्वमिति। सर्वै ह्येतड्रह्मा Sयमात्मा त्र- ह्मसोयमात्मा चतुष्पात् ।।२।। येषामोङ्कारतोक्ता प्रणवशचैतत्सर्व ब्रह्म चित् चिद्बिवर्तत्वात्। न कश्चन परोक्षो ब्रह्म पदार्थ: किन्त्वयमात्मैव। अयित्यन्तः- . .. ". करणदेशेङ्गुलिनिर्देशः । चत्वारः पादाः कल्व्या भागा: कार्षापण इव यस्य सः॥ ३॥ प्रथमपादादि कल्पयति जागरितस्थान इत्यादिना- जागरितस्थानो वहिः प्रज्ञः सप्ताङ्ग: एकोनविंशतिमुखः

Page 249

२३६ माएडूक्योपनिषद्। स्थूलभुग्वैश्वानरः प्रथमः पा- दः॥३॥ जागरितं स्थानं यस्य। आत्मनो बहिर नात्मनि विषये प्रज्ञा यस्य। अग्निहोत्रक- ल्पनायां दुसूर्यवाय्वाकाशजलप्टथिव्याहव- नीयाख्यानि सप्ताङ्गानि मूर्द् चश्चष्प्राण दे- हमध्याकाशमूत्राशयपादमुखानि यस्य प्रा- णेन्द्रियान्तःकरणचतुष्टयरूपैकोनविंशतिर्मु- खानि द्वाराणि यस्य। उक्तद्वारैः स्थूल- विषयभोक्ता। विश्वइचासौ नरो विश्वा- नरः स एव वैश्वानरो विश्व इत्यर्थः ॥३॥ खननस्थानोऽन्तः प्रज्ञः स- पाङ्ग एकोनविंशतिमुखः प्र- विविक्तभुक्त्तैजसोद्वितीयः पा- दः॥४॥ जाग्रदासनाजोऽवस्थाविशेषः स्वन्नः ।

Page 250

माएडूक्योपनिषद्। २३७

अन्तरन्तःकरणस्थवासनामयसूक्ष्म विषयेप्र- विविक्तः सूक्ष्मविषयः तेजोन्तःकरणं यस्य स तैजसोन्तः करणलीलः ॥४ ॥ यत्र सुप्तो न कंचनकामं का- मयते न कंचन खन पश्यति तत्सुपुप्तम्। सुपुप्तस्थानएकी भूतः प्रज्ञानघनएवानन्दम- यो ह्यानन्दभुक्चेतोमुखः प्रा- ज्ञस्तृतीयः पादः ॥५॥ यत्र काले कामं पदार्थ नेच्छति सुप्तस्त- द्गाढ़निद्रा सुषतं स्थानं यस्य सः । द्वै- तभानस्याऽज्ञानतमोग्रस्तत्वेनैकीभूत इवा- तोऽखिलज्ञानानां जागरत्स्वन्नजानां संघीभा- व इव तदेति प्रज्ञानघनः । दुःखाभावादा- नन्दमय आनन्दरूपो हि यतस्तदात आन- नदभुगित्युच्यते निरायासो डदुःखीव लोके।

Page 251

२३८ माएडूक्योपनिषद्।

अज्ञानावरणेप्यन्याऽडवरणलयात् किञ्चित् स्वरूपानन्दस्फुरणं चेतो मुखमानन्दभोग- द्वारं यस्य सः एकत्रानन्दात्मनि तदाऽज्ञा- ना SSनन्दाकारवत्या भोक्तृत्वं मुखत्वं चो- पचर्यत इति भावः। प्रकृष्टं विषयाऽट्क्तं स्व- रूपं जानाति यस्तदा प्रज्ञस्सएव प्राज्ञः।५।। प्राज्ञस्तुतिमाहैष इति। एष सर्वेश्वर एष सर्वज्ञ ए- गोन्तर्याम्थेपयोनिः सर्वस्यप- भावाप्ययौ हि भूतानाम्॥६॥ एष प्राज्ञो बुद्दशद्धस्वरूप: सर्वस्येश्व- रः न जीवभिन्नः कइचनेश इति भावः। एवं च सर्वज्ञोऽन्तर्यामी सर्वान्तः प्रेरको योनिः कारणं च सर्वस्यैष हि यतो तो भूतानां प्र- भवाप्ययावुत्पत्तिप्रलयावस्मादेवेति शेष: । तत्रोक्तार्थे वहिः प्रज्ञो विसुरित्याद्यानवगौड़ पादीयकारिकाः ॥ चतुर्थपादमाह नान्त :- प्रज्ञमिति-

Page 252

माडूक्योपनिषद्। २३६

नान्त: प्रज्ञंनवहिः प्रज्ञंनो- भयतः प्रज्ञंन प्रज्ञानघनं न प्र- ज्ञं नाप्रज्ञम् अदृष्टमव्यवहा- र्यमग्राह्यमलक्षणमचिन्त्यम- व्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशम शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेय: ॥७॥ क्रमेण यो न स्वन्ावस्थो न जाग्रत् नैत- तसन्ध्यवस्थो न सुषुप्त्यवस्थो न सर्वज्ञो ना- उज्ञानरूपो डतो न ज्ञेयो Sतो व्यवहारायो- ग्यो डतो न कर्मेन्द्रियग्राह्यो न लक्षणवाँल्ि ङ्ग वा ननु मे यो तो Sचिन्त्यो तो न शब्द- वाच्य: किन्तु सदाय आत्मेत्याकार प्रत्यय- स्तत्प्रमाणको जगद्रहितो तश्शान्तशशि-

Page 253

२४० माएडूक्योपनिषद्।

वं मङ्गलमानन्दात्मा द्वैतशन्यस्तमकारणक- प्रतीतपादत्रयात्मकाखिल प्रपञ्चोपलक्षिता- धिष्ठानतया सिद्धं निर्विशेषचित्पदोपल- क्षितं चतुर्थ पादत्रयापेक्षया कल्पितचतुर्थ- त्वं मन्यन्ते स तुरीयपादः सर्वेषामात्मा ज्ञेयइचात्मतवेन मुमक्षुभिः ॥७॥ निवृत्तेरित्याद्या न वात्रकारिकाः ॥ चतुष्पा- दात्मानादान्त्यरूपार्द्धमात्रया प्रणवश्चेत्यन- योरभेदमाह सोयमिति- सोयमात्मा Sध्यक्षरमोङ्का- रोऽधिमात्रं पादामात्राः । मा- त्राश्च पादा अकार उकारो मकार इति ॥८॥ स उक्त विधोऽयमात्मा अक्षरं वर्णमधि- कृत्य वर्ण्यमान ओङ्कारः । आत्मपादाइच त्रयो मात्रा अधिकृत्य वर्ण्यमानामात्राः । मात्रात्मकास्तु पादा अउर्म इति ॥८॥

Page 254

मासडूक्योपनिषद्। २४१

विभजति जागरितेत्यादिना- जागरितस्थानो वैश्वानरो. डकारः प्रथमा मात्रा SSपेरा- दिमंत्वाद्वा। आप्नोति ह वै स- र्वान्कामानादिश्च भवति यं एवं वेद॥६। श्रुतावादिरादि: प्राथम्यम्। देवलि- प्यामुक्तौ च सर्वत्राऽकारो व्याप्तः प्रथम इच वर्णानामिति प्रसिद्धं यथा तथा जाग्रदव- स्था डडद्या सर्वव्यापी विश्व इति च त- स्माद्विश्वानरः प्रणवस्याडकाराख्यप्रथम- मात्रा। य एवं विश्वा डकारा डभेदं जा- नाति स ह स्फुटं वै निश्चयेनेष्टं लभते म- हत्स्वग्रगण्यश्र भवति ॥ ९॥ खनस्थानस्तैजस उकारो

६१

Page 255

माएडूक्योपनिषद्। द्वितीया मात्रोत्कर्षादुभयत्वा द्वा उत्कर्षति ह वैज्ञान सन्त- तिं समानश्च भवति नास्या- ब्रह्मवित्कुले भवति य एवं वेद॥ १० ॥ पूर्वापेक्षयोत्तरत्वरूपोत्कर्षस्य पूर्वात्तरो-

च द्वितीययोः स्वन्नोकारयोस्तुल्यत्वात्तैजसः प्रणवस्योकाराखयद्वितीयामात्रा। द्वितीय- पाद मात्रा डभेद विदुपदेशेन ज्ञान संन्तानं वर्द्धयति समानो मध्यस्थश् सर्वत्र भवत्य- स्य वंश्याश्च ब्रह्मज्ञा भवन्ति ॥ १०॥ सुषुप्तस्थान: प्राज्ञो मकार स्तृतीयामात्रामितेरपीतेर्वा । मिनोति ह वा इदं सर्वमपी-

Page 256

माएडूक्योपनिषद् २४३

तिश्च भवति य एवं वेद॥११॥ मितिर्विक्षेप उत्पत्तिरपितीर्लयश्र् जा- ग्रत्स्वप्नयोस्सुषुप्तितो यथा तथा Sकारोका- रयोरमकारोच्चारणसमये पुनः प्रणवोच्चा- रणसमये च लयोत्पत्ती प्रतीयेते ततः प्रा- ज्ञःप्रणवस्य मकाराख्यतृतीयामात्रा। तृ- तीया डभेदविदिदं जगत्स्वस्मिन्नेव विक्षि- पति पुनस्तल्लयाधिष्ठानं च भवति। नेदमु- पासनत्रयं किन्तु प्रणवब्रह्मध्यानैकोपास- नस्तुत्यर्थमिदं विभागेन फलकथनमिति बोध्यम्॥११॥ विश्वस्येद्याः पञ्चात्रकारिकाः ॥ नादान्तरू- पार्द्धमात्राकाले डवयविनः प्रणवस्य निष्पत्या डवयवभेदा Sप्रतीतेश्चार्द्धमात्रात्मको Sमात्र:

ति सफलमाह अमात्र इति- अमात्रश्चतुर्थो Sव्यवहार्यः

Page 257

माराडूक्योपनिषद्। प्रपञ्चोपशमः शिवो डद्वैत ए- वमोद्कार आत्मैव संविशत्या- त्मनात्मानं य एवं वेद॥ १२।। एवमुक्तप्रकारेण जगदात्मा प्रवण आ- त्मेत्युपास्यमात्माधिष्ठानकतया प्रणवोना- त्मातिरिक्त: कश्विदित्यात्मैव केवल इति विज्ञेयं वा। य एवं सकलमद्वैतचितं जा- नाति स रज्ज्वां सर्प इव संविशति कल्पि- तात्मनाचिदात्मभावं प्रयातीति भावः।१२॥ शङ्कारमित्याद्याः षडत्रकारिकाः ॥ दययाऽनन्तरामस्य मृदुर्यन्थोयमुम्भितः। श्रीस्वामिभास्करानन्दैःकाश्यां माएडूक्यवेदके।।१॥ कृशामद्धीः क भाष्येण क वेदान्ताब्धिमन्थनम्। तथाप्यघटितं किंवा गुरुदेवदयालवे ॥ २ ॥ इत्युपनिषठ्पसादे माराडूक्योपनिषत्॥।0।l

Page 258

माणडूक्यकारिका। २४५

॥ श्रीगणेशाय नमः॥। वच्मि किश्चिचचितं चित्वा माण्डूक्यवि- षयाः प्रति। भाष्यानुसरणप्राप्ता गौड़पा- दीयकारिकाः ॥ १ ॥ अथ गौड़पादाचार्यो माएडूक्योपनिषदमव- लम्ब्य मुमुचुजनोपकाराया SSगमप्रधानोपायन- रूपणोनाखिलद्वैतावस्तुत्वप्रतिपादनेन तत्सिद्धा ड्द्वैतसमर्थनेन तद्विरुद्धा डवैदिकविवादाभिमु- खाल्मुकालातप्रशमनिरूपणोन चाऽडगम वैतथ्या

तत्र तावन्माराडूक्यादावात्मनः स्थानवुद्यऽव- स्थादिभेदेन विश्वादिसंज्ञाभेदमुक्तं तथाप्य- नुभयन्ते Sवस्थादयो भिन्नामयेति प्रतीतेस्स- र्वातिरिक्तः साच््यक एव चिदात्मेत्याह वहिः प्रज्ञ इति- वहिः प्रज्ञो विभुर्विश्वो ह्य- न्तः प्रज्ञस्तु तैजसः। घनप्र-

Page 259

२४६ माराडूक्यकारिका। ज्ञस्तथाप्राज्ञ एक एव त्रिधा स्मृतः ॥ १॥ एक एवात्मा जागरिते वहिः स्थूलदेहा- दौ प्रज्ञानवान् हि यतो Sतो विभुर्व्यापको विश्वस्तथा स्वन्ने तेजस्यन्तःकरणे प्रज्ञान- वानिति तैजसः सुषुप्ो त्वज्ञानतमोऽभिभू- तत्वात्सर्वस्य सघनी भूताखिल ज्ञानवानि- वातः प्राज्ञ इति त्रिधा स्मृतः। संज्ञास्था- नान्यदीयावस्थादिना न कश्चिल्लोकेभि- द्यत इति निर्विशेष आत्मेति भावः ॥२ ॥ एकत्र वुध्यवस्थायांत्रिधात्वेपी यथात्मन एकतवंनि- र्विवादं तथोक्तत्रिधात्वेपीत्याशयेनाह दक्षिरोति- दक्षिणाक्षिमुखे विश्वोम- नस्यन्तस्तु तैजसः। आका शे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २॥

Page 260

माराडूक्यकारिका। २४७

वामाच्छ क्ते राधिक्याद्दक्षिणनिर्देशः। द्रष्टट त्वे विश्वत्वस्य विशेषतः प्रतीतेर्वाह्यकरणो- पलक्षणतयाक्षि निर्देशः । मुखं चेन्द्रिया- णां स्वस्वविशेषसामथ्यवद्भागः । दक्षिण- नेत्रताराग्रे द्रष्टा विश्वः स एव निरुद्धकर णो दष्टादर्थान्वासनामयान्मनस्यन्तरेवस्म- रँस्तैजसः मनोव्यापारं च विहाय हृदया- काशे प्राणमात्रव्यापारः स एव प्राज्ञ इति त्रिधा व्यवस्थां प्रपोति स्थूलदेहेभिमा- न्यात्मा ॥ २ ॥ भोग्यत्रैविध्यमाह विश्व इति- विश्वो हि स्थूलभुङ् नित्यं तैजसः प्रविविक्त्भुक्। आ- नन्दभुक् तथा प्राज्ञस्त्रिधा भो- गं निबोधत ॥ ३ ॥ पदार्थैः सुखं दुःखं वा भोगः। पदार्थाश्र्

Page 261

२४८ माएाडूक्यकारिका। भौतिकामनोमया वा। प्रविविक्तं मनोमयं सूक्ष्मम्। आनन्दिनावपि विश्वतैजसौ त- थापि बहुवाह्यऽऽन्तर व्यापारितया दुःखम- यावेवेति प्राज्ञ एवानन्दभुग् जागरितेपि।

स्थूलमिति- स्थूलं तर्पयते विश्वं प्रविवि- कं तु तैजसम्। आनन्द्श्रत- था प्राज्ञं त्रिधा तृप्तिं निबो- घत ॥ ४ ॥ स्थूलभोग्यपदार्थ: स्थूलाभिमानि विश्वं तृत्तंकरोतीत्याद्यर्थ: ॥। ४ ॥ भोकृणां भोग्यानां चैकत्वज्ञानस्या मुख्य फल माह-त्रिष्व्िति- त्रिषु धामसु यद्धोग्यं भो- क्ायश्च प्रकीर्तितः । वेदैत-

Page 262

माराडूक्यकारिका। २४६

दुभयं यस्तु सभुञ्जानो न लिप्यते ॥ ५॥ धामसु जाग्रदादिषु स एवाहमिति प्रती तेर्विश्वादिभोक्तृणामेकत्वं भोग्यत्वेन स्थू- लादिभोग्यानामेकत्वम्। उभयमेतदेकत्वं यो जानाति स भोगयुक्तोपि न रागद्वेषा- दिना स्वभावाच्च्युतो भवति ॥५॥ षष्ठमन्त्रे जगद्योनित्वेनस्तुतःप्राज्ञस्तत्र प्रागु- त्पत्तेः कार्यसत्तामौपाधिकं कारणभेदं चाह प्रभव इति- प्रभव: सर्वभावानां सता- मिति विनिश्चयः। सर्वै जन- यति प्राणश्चेतोंशून्पुरुषः पृ- थक्॥ ६ ॥ पूर्वतो रज्ज्वात्मना सन्नेवाहिरज्ञाने- नोत्पद्यते तथा सतामेव सर्वकार्याणामु-

Page 263

२५० माराडूक्यकारिका। त्पत्तिरिति निश्र्वयः अतएव वन्ध्यासुतो न जायत इति भावः । अथ यद्यपि स- कलाधिष्ठानोपादानं चिदेव तथाप्यऽनाद- ध्यस्तमायोपाधिप्रधानं चिद्रह्म प्राणस्सर्व- मचिद्वस्तु जनयति। चिद्रूपा अंशवः किर- णा इव ये चिदाभासा इति यावत् तान्पुरु- षो विम्बब्रह्मचिज्जनयतीति विवेकः ॥६॥ अयं च चिदचिद्विभागो Sज्ञदृष्ट्या न विवेकि- दृष्ट्येत्याह विभूतिमिति- विभूति प्रसवं त्वन्ये मन्य- न्ते स्टष्टिचिन्तकाः । स्वन- मायासरूपेति स्टष्टिरन्यैर्विक- स्पिता॥७॥। अन्ये केचित्सृष्टिगतचित्ताः प्रसवमुत्पन्न- मिमं जगत्पदार्थ त्वीशवरस्य विभूतिमैश्वर्य मन्यन्ते कैश्चित्तुसृष्टिरियंस्वन्नसदशीति वि- कल्पं नीता कैश्िवित्तु नटमायातुल्येति।७।।

Page 264

माराडूक्यकारिका। २५१

इच्छामात्रं प्रभो: सृष्टिरि- ति सृष्टौ विनिश्चिताः । का- लात्प्रसूति भूतानां मन्यन्ते कालचिन्तकाः ॥ ८ ॥ सत्यसंकल्पस्य प्रभोरिच्छैव सृष्टिरिति केचित्सृष्टिचिन्तकाः कालात्सृष्टिरिति ज्यो- तिर्विदः ॥८।। अथ पूर्वार्द्धेन सृष्टिफले मतमेदमुत्तरार्देनो- काखिलमतदूषएं च स्वसिद्धान्तेनाह भोगार्थमिति- भोगार्थ सृष्टिरित्यन्ये क्री- ड़ार्थमिति चापरे।देवस्यैष स्व- भावोऽयमाप्तकामस्य का स्पृ- हा। ६ ।। आप्तकामस्याखण्डचिदानन्दरूपस्य का

Page 265

२५२ माराडूक्यकारिका।

वाञ्छा न कापि सम्भवतीत्यर्थः अयं भा- वः क्ीडाभोगसृष्टिस्वविभूतिख्यापनविषय- केच्छा डभावेक्रीडादिचतुष्टयासिद्धिः भा- नेडभानेन जगति भानेन जागतत्वेन काल- स्य जगद्ेतुत्वासिद्दिः स्वाप्नमायिकपदार्थ- सृष्टेरप्रसिद्या जगत्सृष्टौ तत्सादृश्योक्तेर- सिद्धिरिति तस्मादयं भासमानः प्रपञचो देवस्य परमात्मन एष स्वभावो माया। त- थाचेच्छादि सर्व बोधात्मनि भातं मायिकं माया तु मायैव न किञ्चिदिति निष्कर्षः॥९॥ मायिकपादत्रयं माणडूक्यषड्मन्त्रोक्तमित्यु- क्त्वा सत्तममन्त्रोक्तचतुर्थपादममायमित्याह निवृत्तेरित्यादिना- निवृत्तेः सर्वदुःखानामी- शान: प्रभुरव्ययः । अद्वैतः सर्वभावानां देवस्तुर्यो विभु: स्मृतः॥ १०॥

Page 266

माण्डूक्यकारिका। २५३

तुयों विश्वाद्यपेक्षया तुरीयोदेवश्चिदात्मा ज्ञातस्सन्सर्वदुःखानामध्यात्मादीनां जगदा- त्मविश्वादीनां निवृत्तेरीशानः प्रभुरित्यर्थः । निवृत्तौ हेतुरधिष्ठानत्वादिति यावत्। अ- व्यय एकरसः। सर्वभावानां विश्वादिपादा- नामद्वैतः एकमधिष्ठानम्। विभुर्व्यापकः स्मृतस्त्जैः ॥ १॥ कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ। प्राज्ञः कारण- बद्धस्तु द्वौ तौ तुर्येन सिध्य- तः॥११॥ प्राज्ञो Sधिष्ठानाज्ञानमात्रोपाधिक: वि- श्वतैजसौ त्वज्ञानतत्कार्यस्थूलसन्तमप्र- पञ्चोभयोपाधिकौ। तुर्ये तूक्तविधे तावड ज्ञानतर्कार्योपाधीनसंभवतः मरीचिकोदके- न भूरिव न कंदापि सोपाधिविश्वादिभि: स्पृश्यते तुरीय इति भावः ॥ ११॥

Page 267

२५४ माराडूक्यकारिका।

कार्यकारणाभ्यां विश्वतैजसयोर्वद्धत्वमति- स्फुटमित्युपलक्षणातया प्राज्ञस्य बन्धस्तुरी- ये तदसम्बन्धश्चानुभवाननुभवसिद्ध इ- त्याह नेति- नात्मानं न पराँश्चैव न स- त्यं नापि चानृतम्। प्राज्ञः किं चन संवेत्ति तुर्य तत्सर्वद्टक् सदा ॥ १२ ॥ सुषुप्तोहं न किञ्चिदवेदिषमित्यनुस्मृति- सिद्धानुभवातप्राज्ञ: कारणीभूता ज्ञानवान्। तुर्यन्तु तेषां प्राज्ञादीनामज्ञानादीनां चस- र्वेषां द्रष्टृसाक्षिरूपं सदा सर्वावस्थासु नं च तत्राज्ञानमनुभूयते अथवा तुर्य तेषां सर्वेषां यादक् बोधस्तद्रूपं सदा न च तत्र सूर्ये इव तमोरूपमज्ञानं संभवतीत्य- र्थः ॥ १२॥ अतएव किश्चित्साम्येनापि न तुरीये बन्ध-

Page 268

माराडूक्यकारिका। २५५ शङ्गेत्याह द्वैतस्येति- द्वैतस्याग्रहणं तुल्यमुभयो: प्राज्ञतुर्ययोः। वीजनिद्रा यु- तः प्राज्ञः सा च तुर्येन विद्य- ते॥ १३ ॥ द्वैताप्रतीतितौल्येऽपि शुद्दस्वचिद्रूपा- ज्ञाननिद्रायुतः प्राज्ञस्तुर्य तु स्वयंप्रकाश- चिद्रूपमिति विशेषः । वीजल्वोक्ति: पुन- र्जाग्रदादिद्वैतप्रतीतिहेतुत्वान्निद्रायाः॥१३॥ उक्तमेव स्फुटमाह स्वनेति- स्वननिद्रायुतावाद्यौ प्राज्ञस् त्वस्वननिद्रया। न निद्रां नै- व च स्वमं तुर्ये पश्यन्ति नि- श्चिताः ॥ १४ ॥ अन्यस्मिन्नन्याववोधः स्वप्नः सद्वस्त्व-

Page 269

२५६ माराडूक्यकारिका।

नवबोधो निद्रा ता्यामात्मन्यनात्मदेहा- दिप्रपञ्चनिश्चयित्वेन सदात्मा निश्चयि- त्वेन चोभौ विश्वतैजसौ युतौ प्राज्ञस्तु नि- द्रयैव। तुर्ये चिदात्मनि न पश्यन्त्युभयं चि- दात्मज्ञा असम्भवादिति भावः ॥। १४ ॥ स्वन्ननिद्रयोर्लक्षणसमयौ तुर्यबोधसमयं चाहान्यथति- अन्यथा गृहतः स्वनो नि- द्रातत्वमजानतः । विपर्या- से तयोः क्षीणे तुरीयं पदम- श्नुते ॥ १५ ॥ शून्ये हृद्यऽन्यथा हस्त्यादि वुध्यते त- दा पुंसः स्वन्ो यदाचन किश्चिद्वस्तु बुध्य- ते तदा सुषुप्तिनिद्रेति पूर्वार्द्धार्थः प्रकृते तु तयोः विश्वतैजसाख्यकार्यस्यदेहाद्यन्यथा- ग्रहणचित्तत्वाऽग्रहणरूपेविपर्यासे वैपरीत्ये प्राज्ञास्यकारणस्य चित्तत्वाऽग्रहणात्मक के-

Page 270

माराडूक्यकारिका। २५७

वलनिद्ररूपे विपर्यासे नष्टे तुर्यपदं लभते १५ विपर्यासनाशतुर्यपदलाभयोहेतुबोध इत्या- हानादीति- अनादिमायया सुपो यदा जीवः प्रबुध्यते। अजमनिद्र- मस्वनमद्वैतं बुध्यते तदा १६ सुप्तो मिथ्यार्थवोधात्मा Sनवबोधयुतः प्रबुध्यते स्वयं वा केनचित्तत्वमसीत्यादिना मायाऽमायविवेकं लभते तदा मायिकेषु स- न्निश्चयं विपर्यासं त्यक्त्ाऽन्यथाग्रहणतत्वा ड्ग्रहण रूपस्वप्ननिद्रारहितम तोऽजमद्वैतम- जमात्मस्वरूपं तुरीयं निश्चिनोति ॥१६॥ मायिकेषु सत्यत्वाऽभावनमेव विपर्यासनाशः शिष्टसति सन्निश्चय एव तुर्यपदलाभ इति स्पष्टयति प्रपञ्चइति- प्रपञ्चो यदि विद्येत निवर्ते-

६१

Page 271

माराडूक्यकारिका।

त न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥१७॥ द्वैतं स्यात्तर्हि तन्नाशोपि स्याद्या माया सा तु मानास्त्येवेति बाधमात्रे लब्घुलक््य- भावोपि नेति भावः ॥१७॥ यथा सर्वं द्वैतं तथा गुरुशिष्यशास्त्रद्वैतमपि मिथ्यैव मायिककल्पितत्वादद्वैतमेव तुस- न्मायाविवदित्याह विकल्प इति- विकल्पो विनिवर्तेत कल्पि- तो यदि केनचित्। उपदे- शादयं वादो ज्ञाते द्वैतं न वि- दयते ॥ १८॥ कल्पितपुरुष कल्पितगहादिवद्गुर्वादि विकल्पोपि कल्पितइचेन्निवर्तिष्यत्येव। क- देत्यपेक्षायामाह। स्वप्रसूचितपदार्थोपल- ब्धिवदुपदेशादधिष्ठानचिदात्मनि ज्ञाते स-

Page 272

माराडूक्यकारिका। २५६

त्ययं गुरुशिष्यसम्बादोपि निवर्तिष्यतीति सिद्धं द्वैतं नास्तीति॥१८॥ अथाष्टमादि माण्डूक्यचतुर्मन्त्रोक्तमात्मप्र- सवाडभेदं तत्पादमात्राऽभेदं च सफलं प- श्चभिराह विश्वस्येत्यादिभि :- विश्वस्यात्व विवक्षायामा- दिसामान्यमुत्कटम्। मात्रा संप्रतिपत्तौस्यादाप्तिसामान्य- मेवच ॥ १६ ॥

अत्वविवक्षायां नामा Sकारमात्रा संप्र- तिपत्तौ विइवाऽकारयोरभेदारोपे इत्यर्थः आदित्वं व्याप्तिश्र्वेतिद्वयं इयोस्समानमित्ये- तत्सामान्यमेवोत्कटमभिव्यक्तं कारणम् स- मता च विश्वाऽकारादीनां मन्त्रार्थे स्फुट- मुक्तेति तत एवावसेया। एवमग्रिमकारिक- योरप्य्थः ॥१९॥

Page 273

२ माएाडूक्यकारिका। तैजसस्योत्वविज्ञान उत्क- र्षो दृश्यते स्फुटम्। मात्रा सं- प्रतिपत्तौस्यादुभयत्वं तथावि- घम ॥ २० ॥ तैजसो कारयोरभेदे उत्कर्ष उत्तरत्वमु- भयत्वं च साम्यं स्फुटं दृश्यते॥ २१ ॥ मकारभावे प्राज्ञस्य मान- साभान्यमुत्कटम्। मात्रा सं- प्रतिपत्तौ तु लयसामान्यमे- व च ॥ २१॥ प्राज्ञस्य मकारत्वे नाम मकारमात्रा- भावनायां मानमुत्पत्तिर्लयश्च साम्यं नि- मित्तं स्फुटम् ॥ २१ ॥ पादमात्राऽमेद निश्चयफलमाह त्रिष्वििति- त्रिषु धामसु यत्तल्यं सामा-

Page 274

माराडूक्यकारिका। २६१

न्यं वेत्ति निश्चितः । स पूज्यः सर्वभूतानां वन्दश्चैव महा- मुनिः ॥२२॥ जाग्रदाद्यवस्थासूक्तं पादमात्राणां सा- म्यं यो जानाति तत्र दृढ़विश्वासश्च स लोके पूजनीयो बन्दनीयो महामुनिर्ब्रह्मवि- चच भवति ॥ २२ ॥ सामान्येन पादमात्राऽभेदं ज्ञात्वा मात्रा- प्राधान्येन प्रसवस्य ध्यातुः फलं दर्शयत्य- कार इति- अकारो नयते विश्वमुकार- श्चापि तैजसम्। मकारश्र पु- नः प्राज्ञं नामात्रे विद्यते ग- तिः॥२३। प्रणवध्याने प्राधान्येन विषयीभूतो डका-

Page 275

२६२ माराडूक्यकारिका। रो विश्वं वैश्वानरं प्रापयति एवमुकारस्तै- जसं हिरण्यगर्भम् मकारः प्राज्ञमव्याकृत- मू। अथ मकारोत्तरं नादात्मकार्डमात्राभि- व्यक्तिसमये निष्पन्नप्रणवे मात्राणामप्र- तीत्या डमात्रे तुरीयात्मत्वेन निश्चिते Sख- ण्डपरिपूर्णचिन्मान्नभावतया न तस्य भा- वयितुः क्वचिद्गतिः संभवतीत्यर्थः॥२३॥ अथ मााडूक्यान्तिम मन्त्रार्थमुपपादयति वै

ओङ्कारं पादशो विद्यात्पा- दामात्रा न संशयः । ओङ्कारं पादशो ज्ञात्वा न किञ्ञिदपि चिन्तयेत्॥ २४॥ पादा मात्राश्र्वाभिन्ना इत्युक्तं न तत्र सं- शयः पादैक्यं च ब्रह्म मात्रैक्यमोङ्कारःए- वं चोङकारं पादशो ब्रह्मविद्यात् ओङ्कारे च

Page 276

माराडूक्यकारिका। २६३

पादमांत्रा बुद्धिहीन केवलब्रह्मबुद्धिविषयी- कृते कृतार्थत्वान्नान्यद्रावयेत् ॥२४॥ उक्तरीत्या कृतार्थत्वमेवाह युञ्जीतेति- युञ्जीत प्रणवे चेतः प्रण- वो ब्रह्मनिर्भयम्। प्रणवे नि- त्ययुक्तस्य न भयं विद्यते क चित्॥ २५॥ यतः प्रणवो जगद्रयहीनं ब्रह्मातः प्र- णचे मनो सुञ्जीत तथा च ब्रह्ममयस्य न भयं न जगत् # २५।। सार्द्धेन सर्वात्मत्वमर्द्धेन ज्ञानफलमोङ्गार- स्याह प्रयाव इति- प्रणवो ह्यपरं ब्रह्म प्रणवश्च परं स्मृतः । अपूर्वोऽनन्तरो Sवाह्यो Sनपरः प्रणवो व्ययः ॥२६।

Page 277

२६४ माराडूक्यकारिका। हिर्हेतौ निश्चये वा। अपरं ब्रह्म हिर- ण्यगर्भ: परं परब्रह्म अपूर्वो कारणो ऽनप- रो कार्यो तो डवाह्यो ऽन्यार्थहीनो तो Sन- न्तरो भेदशून्यो तो डव्ययः प्रणवः ॥२६॥ सर्वस्य प्रणवोह्यादिर्मध्य- मन्तस्तथैव च। एवं हि प्र- णवं ज्ञात्वा व्यक्षुते तदनन्त- रम् ॥ २७॥

प्रणवः प्रपञ्चो न किञ्चिद्वस्त्वति भावः हि निश्चि्ितमिदं यतो वाऽतः एवंह्येव- मेवोक्तप्रकारकं प्रणवं ज्ञात्वा डनन्तर ज्ञा- नोत्तरक्षणे तदुक्तं प्रणवस्वरूपं ब्रह्म भ- वति॥२७॥ प्रणवब्रह्मेति ध्यातुस्सदा सन्निहित एव फ- लदः प्रयव इति सूचयन्नुक्तमेव प्रकारान्त-

Page 278

माराडूक्यकारिका। २६५

रेणवैशद्यायाह प्रसवमिति- प्रणवं हीश्वरंविद्यात् सर्वस्य हृदि संस्थितम्। सर्वव्यापि नमोङ्कारं मत्वा धीरो न शो- चति॥ २८॥ प्रणवः सर्वहृत्स्थेश्वर एवं चिदात्मत्वे न व्यापि प्रणवभावनानिश्चयाज्गद्दन्ध- नशोको न ॥ २८ प्रयवब्रह्मज्ञं स्तौत्यमात्र इति- अमात्रोऽनन्तमात्रश्च द्वैत- स्योपशमः शिवः । ओङ्का- रो विदितो येन स मुनिर्नेत- रो जनः ॥ २९॥ मात्राविभागशन्यस्तुरीयो संख्यपदार्थ- स्वरूपस्तदुपशमस्वरूपइ्चातस्सदा शिवः

३४

Page 279

२६ माराडूक्यकारिका।

प्रणवइति यो वेत्ति स एव परमार्थतत्वम- बनकर्ता जगतीति ज्ञेयम् ॥ २९ ॥ इत्यागमप्रकरणम्॥० ॥

द्वैतोपशमंव्याख्याय युक्तितोपि द्वैतवैतथ्य मवधारयितुमुपक्रमते वैतथ्यमिति- वैतथ्यं सर्वभावानां खन् आहुर्मनीषिणः। अन्तः स्था- नाततु भावानां संवृतत्वेन हे- तुना ॥ १ ॥ स्वन्ने दृष्टार्थानां वैतथ्यं मिथ्यात्वम् कुतः तेषां देहमध्ये स्थितेः देहमध्यस्थानं च ह- दयं सळतं संकुचितम्। गिरिसमुद्रादी- नां तत्र स्थित्यसंभवादिति भावः ॥ १ ॥ ननु न हदि हर्स्त्यादि पश्यति किन्तु गिर्यादिदेशे तत्राहादीर्धत्वादिति- अदीर्घत्वाच्च कालस्य ग-

Page 280

माराडूक्यकारिका। २६७

त्वा देशान्न पश्यति। प्रति- बुद्धश्च वै सर्वस्तस्मिन्देशे न विद्यते ॥ २॥ तत्तद्देशे गत्वा न तत्तत्पश्यति कुतः का- लस्याल्पत्वात् बहुकालगम्यदेशस्थं शय- नानन्तरमेव पश्यति यत इत्यर्थ: किंच दूर- गं पश्यन्नाशु प्रतिबुद्दोजाग्रदष्टदेशेनोपल- भयते किन्तु स्वापदेश एवातश्च ॥ २ ॥ उक्तेर्थे श्रुतिमाहाभावश्चेति- अभावश्च रथादीनां श्रूय- ते न्यायपूर्वकम्। वैतथ्यं ते- न वै प्राप्तं खम आहु: प्रका- शितम् ॥ ३ ॥ स्वन्ने दृष्टानामभावो मिथ्यात्वं श्रूयन्ते च न तत्र रथानरथयोगा इत्यादिना। य-

Page 281

माराडूक्यकारिका।

द्यपि वैतथ्यं न्यायपूर्वकं युक्तिसिद्धं तथा- प्युक्तयुक्तिहेतुना प्राप्तं वै सिद्धमेव रवन्ने मि- थ्यातवं श्रृत्यापि प्रकाशितमुक्तमित्याद्ः यु- क्तिसिद्दोप्यर्थों डपौरुषेयश्रुत्यानूदितीति ह- ढ़ इति भाव: ॥ ३ ॥ प्रसाधितं स्वान्नवैतथ्यं दृष्टान्तयत्यन्तरिति- अन्तः स्थानात्तु भेदानां त- स्माज्जागरिते स्मृतम। यथा तत्र तथा रवने संवृतत्वेन भि- द्यते ॥ ४ ॥

र्यथा तत्र रवने तथा जागरितेपि भेदानां देहादिपदार्थानां मनोमयत्वेनाऽन्तः स्था- नादेव हेतुना वैतथ्यं स्मतम् न चैतावता जाग्रत्स्वन्ना डमेदः स्वन्हि संकुचितपदा- ्थदेशलेन मेदोस्ति जाग्रद्देशास्तु तत्ततूप- दार्थोचितवैतत्येन कल्पिता इति भाव: ४

Page 282

माराडूक्यकारिका। २६६

वस्तुतस्तु जाअत्सप्नयोरभेद एवेत्याह खन्नेति- स्वन्नजागरितस्थाने ह्येक- माहुर्मनीषिणः । भेदानां हि समत्वेन प्रसिद्वेनैव हेतुना ५ प्रसिद्धं मिथ्यात्वं जागरत्स्वप्नपदार्थाना- मिति समत्वाज्ाग्रत्स्वन्नावेकमाहुः ॥५॥ जाग्रत्पदार्थानां मिथ्यात्वे हेत्वन्तरं सूचयत्यादाविति- आदावन्ते च यन्नास्ति व- र्तमानेपि तत्तथा। वितथैःस- दृशा: सन्तो Sवितथा इव ल- क्षिताः ॥६॥ यद्रज्जुसर्पादि पूर्व पश्चाच्च न भवति तत्प्रतीतिकालेपि तथा नास्त्येव। ईदशा एव तु जाग्रत्पदार्था अपि। परन्तु सत्याइव

Page 283

२७० माणडरक्यकारिका।

प्रतीयन्ते एतदपि मिथ्यामात्रे समानमि- ति भावः ॥६ ॥

न मिथ्याभूता इत्यत आाह सेति- स प्रयोजनता तषां सवने वि- प्रतिपद्यत । तस्मादाद्यन्तव- त्वेन मिथ्यैव खलु ते स्मृता: ७ तेषां जायत्पदार्थानां या प्रयोजनवत्ता दष्टा सा स्वन्े न भवति भृशंभुक्ता सुप्तः तु- धार्त्तो भवति रवने स्वभेभक्ताडडशु प्रतिबु- द्ध इव यतः। प्रयोजनमपि मिथ्यैव स्वप्न इवेति भावः । तस्मादाद्यन्तवत्वस्य तुल्य त्वात्तेजाग्रदर्था अपि मिथ्यैव ॥७॥ यदि दृष्टमेवदृश्येत स्यात्तर्हि मनोमयः खन्नो मिथ्या नैवमस्ति स्वचतुर्भजत्वादेरपि दृष्टेरत आाहापूर्वमिति- अपूर्व स्थानिधर्मो हि यथा

Page 284

माराडूक्यकारिका। २७१

स्वर्गनिवासिनाम्। तानयं प्रे- क्षते गत्वा यथैवेह सुशिक्षि- तः ॥८ ॥ यदपूर्व चतुर्भजत्वादि न तद्दास्तवं स्व- रूपं किन्तु स्वप्नस्थानगतजीवधर्मः। य- था स्वर्गगतानां सहस्रनेत्रत्वद्यपूर्वम् त- था च यथा यागादाविन्द्रादि भावनया शि- क्षितो यजमान: स्वर्ग गत्वा सहस्राक्षत्वा- दि प्रेक्षते तथायं जीवो जाग्रदृष्टश्रुतवासन- या ऽदृष्टोदूबुड्नया स्वप्नस्थानं गत्वा तान्म- नोमयानेव चतुर्भजादि पदार्थान्पश्यति त- था च जाग्रन्मिथ्यात्व सुस्थः स्वप्नोदृष्टान्त इति भावः ॥। ८।। सन्तु मृगतृष्णाद्या मिथ्यामिथ्यातेन व्यवहताः कथं पुनर्घटादयः सत्यत्वेन व्यवहता: इत्या- शङ्क्य स्न्नवदेवेत्याह खवप्नेति- स्वनवृत्तावपित्वन्तश्चेत-

Page 285

२७३ माराडूक्यकारिका। सा कल्पितन्त्वसत्। वहिश्- चेतो गृहीतं स दृष्ट वैतथ्यमे- तयोः॥ह॥ अन्तर्मनस्येव कल्पितं मनोरथादि मि- थ्या वहिशचक्षरादि द्वारा चेतसा गहीतं घ- टादि सदिति स्वप्नवृत्तौ स्वप्नस्थानेपि तु- ल्यं तथाप्येतयोः सदसत्वाभ्यां व्यवहतयो- रुभयोरपि मिथ्यात्वं दष्टं जाग्रति बाधात् ९ दार्ष्टान्तिकमाह जाग्रदिति- जाग्रद्वृत्तावपि त्वन्तश्चे- तसा कल्पितन्त्वसन्। बहि- इचेतो गृहीतं सद्युक्क्ं वैतथ्य- मेतयोः॥१०॥ स्वप्नेइव जाग्रत्स्थानेपि सत्या सत्यत्वाभ्यां व्यवहृतयोर्म नोमयत्वा Sविशेषात्परमार्थ स-

Page 286

माराडूक्यकारिका। २७१

च्चिति मनोलयेवाधदर्शनाच्च वैतथ्यं यु- कमुचितमेवेत्यर्थः ॥ १०॥ शङ्गते उभयोरिति- उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि। क एतान्वुध्य- ते भेदान् को वै तेषां विक- ल्पक: ॥ ११ ॥ जाग्रत्स्वप्नोभयस्थसर्वाथानां मिथ्यात्वं यदि तर्हि कः पूर्वसिद्धः स्थानान्तरे मिथ्या- र्थान्बुध्यते स्मरति तत्कालं वा बुद्ध्वा बि- कल्पको रचयति न कोपीतीष्टापत्तौ तु शू- न्यात्मवादो वदतो व्याघाताद्युक्त: स्या- दिति भावः॥ ११॥ समाधत्ते कल्पयतीति- कल्पयत्यात्मनात्मानमा- त्मादेवः खमायया। स एव

Page 287

२७४ माराडूक्यकारिका।

बुध्यते भेदानिति वेदान्तनि- श्चयः ॥ १२॥ देव आत्माचिदात्मा यः स एव स्वपरक- ल्पनसमर्थया Sनादि चिद्धिष्ठानकया स्व- स्यमायया स्वभावेनात एवात्मनाऽडत्मस्व- रूपेणद्वारा Sडत्मानमेवोपादानं निखिलभे- दान्करोतिस्मरतिच स्वप्ने इवात्मैव कर्तका- र्यकरणतत्स्मरणंतद्भावादीति भावः।।१२। कल्पनाप्रकारमाह विकरोतीति- विकरोत्यपरान्भावानन्त- रिचित्ते व्यवस्थितान्। निय- ताँश्च वहिश्चित्त एवं कल्प- यते प्रभुः ॥१३ ॥ अन्तश्वित्ते माया ख्यचित्तमध्ये पूर्व व्यव- स्थितान्कुलालचित्त-इव नामरूपाध्यामभि- व्यक्तानपराञ्जगत्पदार्थान्पुनः करदण्डादि

Page 288

माराडूक्यकारिका। १७५

व्यापारेण वाह्यघटादीनिव ताहक् संकल्प रूपमायाव्यापारेण नियतान्नियतकालस्थि- तिकान्विकरोत्युपादयति वहिश्रित्तो Sनात्म चित्त ईश एवं करोति चादनियतान्स्वप्न- पदार्थादीनप्येवं संकल्पमात्रेणैव करोती- त्यर्थः ॥१३॥ तस्मात्संकल्पभेदेन भिन्ना इवापि स्वाप्ना इ. वैव न जाग्रत्स्वप्नपदार्थयोरविशेष इत्याह चित्तकाला इति- चित्तकालाहियेऽन्तस्तु द्वय कालाश्च ये वाहिः। कल्पिता एव ते सर्वे विशेषोनान्यहे- तुकः ॥ १४ ॥ अन्तर्हृदि संकल्पकालमात्रस्थितिकाये तथा वहिर्जगति यावदूद्वैतकालस्थायिनो ये ते सर्वे कल्पितत्वेनाविशेषाः नान्यहेतुना तेषु विशेषः कश्चनेत्यर्थः ॥ १४॥

Page 289

२७६ मारडूक्यकारिका।

इन्द्रियनिबन्धनो हि स्फुटत्वाऽस्फुटत्ववि- शेष इति नायं सत्यभिथ्यात्वहेतुरित्याहा- व्यक्ता इति- अव्यक्ता एव येन्तस्तु स्फु- टा एव च ये वािः। कल्पि- ता एव ते सर्वे विशेषस्त्वि- न्द्रियान्तरे॥ १५॥ अन्तरन्तःकरणे ये स्वाप्नादयः। वहि- इचचुरादि देशे घटादयइच ये तेषु कल्पि- तत्वं तुल्यम्। वस्तुतस्तु व्यक्ताऽव्यक्तत्व- विशेषो मिथ्याभूते स्वप्नपदार्थादावपीत्य- किञ्चित्करो विशेष इति भावः ॥ १५॥ पस्तु कल्पितत्वात् सर्वं मिथ्याकल्पनैव तु तावत् कथमित्यत आह जीवमिति- जीवं कल्पयते पूर्व ततो भा- वान्पृथग्विधान्। वाह्या ना-

Page 290

माराडूक्यकारिका। २७७

ध्यात्मिकाँश्चैव यथाविद्यस्त- था स्मृतिः ॥१६ ॥ स्वशक्त्याचिदात्मापूर्व प्रथमं जीवं क- ल्पयते Sहमित्याकारेण भाति ततो यादशी विद्या ज्ञानं यस्य तथा तादशी स्मृतिर्यस्ये-

त्मिकानिन्द्रियादींश्र भावान्कल्पयते। पूर्व पूर्वकल्पितपदार्थस्मृत्योत्तरोत्तरपदार्थसंक- ल्पना तत्तत्पदार्थसंकल्पनया संस्कारेण च तत्तत्स्मतिः जगच्चानवस्थितमेवेति नान- वस्थेति भावः ॥ १६ ॥ प्रथमजीवकल्पनानिमित्तं किमत आहानिश्चितेति अनिश्चिता यथा रजुरन्ध- कारे विकल्पिता। सर्पधारा- दिभिर्भावैस्तद्वदात्मा विक- स्पितः ॥ १७॥

Page 291

२७८ माराडूक्यकारिका। यथान्धकार हे तोर ज्ञातारज्जुस्सर्पस्ग्दण्ड जलधाराभावैः कल्प्यते तथा शुद्धाचिदा- नन्दात्माप्य Sविद्यया ज्ञातो द्रष्टृदृश्य- भावेन। अधिष्ठानविशेषानिश्र्वयो निमित्त- मिति भावः॥१७॥ तस्मान्निश्चय एव तद्वाधको उद्वैतसाधकश्चेत्याह निश्चितायामिति- निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते। रज्ुरे- वेति चाद्वैतं तद्वदात्मविनि- इचयः ॥ १८॥ अधिष्ठाननिश्चये Sनिश्र्वय तत्कार्यविक- ल्पापाये निर्विकल्परूपाद्वैतत्वमित्यर्थः ११ लोकेऽधिष्ठानातिरिक्तस्य कल्पकस्य प्रसिद्धरा- शङ्क्य समाधत्ते प्राऐति- प्राणादिभिरनन्तैश्च भावैरे-

Page 292

मायडूक्यकारिका। १७६ तैर्विकल्पितः । मायैषा तस्य देवस्य यया संमोहितः ख- यम्॥ १९॥ एकश्चिदात्मैव सन स्वयमेतद्वृश्यमान- प्राणाद्यनन्तपदार्थाकारेण द्रष्टृदृश्यत्वभ्रा- न्तभ्रमत्वादिविरुद्धद्वन्द्वरूपेण कथं कल्पि- त इति चेतु तस्य चिदात्मनो मायेयमघ टितस्यापि घटयित्री यया स्वयमपि भ्रान्तः मायाकार्यस्वनिद्रया स्वस्यैव भ्रान्तत्वेन विरुद्धद्रष्ट्टदश्यत्वादिना कल्पितत्वस्य स्वप्ने प्रसिद्धेर्मायायां किन्नु दुर्घटमितिन्यायाच्च- नेदमसंभवग्रस्तमिति भावः ॥१९॥ प्राणादीनेव काँश्चिदर्शयति प्राण इत्यादि नवपद्यै :- प्राण इति प्राणविदो भूता- नीति च तद्विदः । गुणा इति

Page 293

माराडूक्यकारिका।

गुणविदस्तत्वानीति च तद्वि- दः॥ २0॥ प्राणादयः सर्वे चानुक्ता अपि सर्वदा का- लत्रये तत्तत्प्राणिभि: कल्पिताभावा इहत्वा- त्मन्येव कल्पिता इति नवश्लोकनिष्कृष्टा- र्थः। प्राणो हिरण्यगर्भ ईश्वरो वा जग्े- तुरिति हिरण्यगर्भोपासकानैयायिकाश्र् क- ल्पयन्ति। पृथ्व्यप्तेजोवायवो जगद्वेतव इ- ति तदविदो भूतविदो लोकायतिकाः गुणा अविभक्ताः प्रधानमिति यावत् गुणविद- स्साङ्ख्याः। आत्मा डविद्या शिव इति त- त्वानीति शैवाः॥ २०॥ पादा इति पादविदो विषया इति च तद्विदः। लोका इति लोकविदो देवा इति च त- द्विदः॥ २१ ।।

Page 294

माराडूक्यकारिका।

पादा विश्वतैजसप्राज्ञाः सर्वहेतव इति सोपाधिकात्मचित्ताः । विषय एव जगति सार इति वात्स्यायनादयः। भूरादिलोका एव सारभृता इति पौराणिकाः। देवा एव फलदा इति देवोपासकाः ॥२१॥ बेदा इति च बेदबिदो यज्ञा इति च तद्विदः। भोक्ेति च भोकृविदो भोज्यमिति च त- द्विकष:।। २२ ।। बेदविदो बेदपाठरताः यज्ञविंदो बौधा- यनादयः भोक्तारमात्मानं विदन्ति साङ़्- ख्या: तद्विद: पाचकाः बेदाद्येव दस्तिल ते निरूपयन्ति ॥ २२॥ सूक्ष्म इति सूक्ष्मविद: स्थूल इति च तद्विदः। मूर्तइति मूर्त-

Page 295

मागड्क्यकारिका। विदो मूर्तइति च तद्विद: २३ सूक्ष्मश्र्वक्षरादिरूप: स्थूलोदेहरूपोवा- त्मेति केचित्। मूर्तश्शिवविष्णवादिरेव प- रमार्थ इत्यागमज्ञाः । अमूर्तःशून्यः परमा- र्थ इति केचित् ॥ २३ ॥ काल इति कालविदो दिश इति च तद्िदः। वादाइति वा- दविदो भुवनानीतितद्विद:२४ कालो दिशः परमार्था इति ज्योतिर्वित्स्व- रोदयविदः। धातुवादमन्त्रवादादयो वा- दाश्र्तुर्दशलोकाः सारभूता इति केचित्२४ मनइति मनोविदो बुद्धिरिति च तद्विदः। चित्तमिति चित्त- विदो धर्माधर्मो च तद्विद: २५ मनोबुद्धिश्र्वित्तं वात्मेति केचित् पुण्य-

Page 296

मारडूक्यकारिका। २८३

पापे एव सारभूते इति मीमांसकाः ॥२५॥ पञ्चविंशक इत्येके षड्विंश इति चापरे। एकत्रिंशक इ- त्याहुरनन्त इति चापरे॥२६॥ प्रधानम् १ महत् २ अहम् ३ तन्मा- त्राणि ८ इन्द्रियाणि १८ भूतानि २३ म- नः २४ आत्मा २५ चेतिसाङ्ख्या: ईश्वर- श्र्े २६ ति पातञ्जला: कालोऽविद्यानियतिः कालकलामायाचे३१ति पाशुपताः असङं ख्याः पदार्था इति केचित् ॥ २६ ॥ लोकाँलोकविद: प्राहुराश्र- मा इति तद्विद:। स्त्रीपुंनपुंस- कं लैङ्गा: परापरमथापरे २७ लोकाजनास्तदाराधनमिति यावत्। च- त्वार आश्रमा इति दक्षादयः। लैझ वैया- कारणा: परम परं चब्रह्मेति केचित्॥।२७।।

Page 297

माराडूक्यकारिका। सृष्टिरिति सृष्टिविदो लय इति च तद्विदः । स्थितिरिति स्थितिविदः सर्वे चेह तु सर्व- दा॥ २८ । सृष्टिस्थितिलया इति पौराणिकाः। एव- मिहात्मन्येव यथा संस्कारं सदा सर्वे-कल्प्य- नते। शद्धवोधात्मा तु योग्याधिष्ठानाभा- वादकल्पित इति भावः ॥ २८॥ कल्पनाऽSनन्त्यत्सामान्यत श्राह यमिति- यं भावं दर्शयेद्यस्य तं भा- वं स तु पश्यति। तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २ह॥ प्रमाणीभूतः कइचन यं पदार्थमिदमि- त्थमिति यस्योपदिशति स पुरुषस्तं पदार्थ

Page 298

माएड्क्यकारिका। २८५

जानाति ततस्तत्र पदार्थे यो ग्रहआग्रह इद- मेव तत्वमिति स त पुरुषं याति। तदाग्र- हेण च पुरुषोन्यपदार्थान्निवर्तत इति सोड सौ पदार्थ: कल्पितो भूत्वा त कल्पितारमव- ति स्वस्मिन्नासक्त्या ऽन्यार्थ Sप्रसक्तौ हेतु- र्भवति॥ २९॥

स्युरतआाहैतैरिति- एतैरेषो Sप्ृथग्भावैः पृथगेवे- तिलक्षितः। एवं यो वेद तत्त्वेन

कल्पित लेनात्मनः पथक्सत्ता शन्या एते तथाप्यतैः कल्पित प्राणादिभिरेष आत्मा ए- थगेव लक्ष्यते डज्ञै: एवं तत्वेन याथातथ्येन यो विवेकी वेदसो संशयमखिलबेदतात्प- र्यम् निर्विशेषात्मनि कल्पयेज ज्ञातुं समर्थो भवेत्। यद्ोक्ताखिलकल्पने भेदनिश्च-

Page 299

२८६ मारडूक्यकारिका।

यिनं निन्दत्येतैरिति। तथा चायमर्थः एतै- रात्मा पटथगेव लक्ष्यते बुध्यते जगदात्मानौ भिन्नाविति यावत य एवं निश्च्चयेन जाना- ति स सदा कल्पयेदेव जगन्नमुच्येतकुतो यतो Sष्टथग्भावा एते प्राणादयः कल्पिता नामधिष्ठानतः पृथगभावादिति॥३०॥ जगतःकल्पितत्वे वेदान्ता: प्रमाणमित्याह खननेति। सन्माया यथा दृष्टे गन्ध- र्वनगरं यथा। तथा विश्व- मिदं दृष्टं वेदान्तेषु विचक्ष- णैः॥ ३१ ॥ विद्वद्विरिदं विश्वंस्वाप्नादिवदसद्रूपं नि- रणीतं नेह नानाऽस्तीत्यादि वेदान्तेषु। य- द्वाऽनन्तरं निन्दायाः स्तुतिरियमभेदज्ञस्य स्वतः प्रामाण्यवन्निर्विशेषपरवेदान्तिन एव विचक्षणा इति॥३१॥

Page 300

माराडूक्यकारिका। २८७

निर्शीता ऽखिल वैतथ्यमपवादरीत्यान्त आ्रह नेति -- न निरोधो न चोत्पत्तिर्न बद्दो न च साधकः। न मुमु- क्षुर्न वैमुक्त इत्येषा परमा- र्थता॥ ३२॥ निरोधः प्रलयः साधको मुक्तेः। भेदमात्र- मात्मनि कल्पितमधिष्ठानपर्यवसायी च त- न्निषेध इति न किञ्चिदित्येव सत्यम्॥३२॥ नन्वसत्वे द्वैतस्य द्वैतापेक्षमद्वयत्वमपिन सिध्ये- दित्याशङ्कामिष्टापत्या परिहरति भावैरिति- भावैरसद्विरेवायमद्वयेन च कल्पितः। भावा अप्य द्वयेनै- व तस्मादद्वयता शिवा॥।३३।।

तः। अद्वयहेतुना च भावा: कल्पिताः तस्मा-

Page 301

२८८ माराडूक्यकारिका।

दद्वयत्वादेरपि द्वैतान्तः पातिलेन कल्पित- त्वादेववस्तुस्थितिः शिवाऽक्षता। न क ल्पनाविनाधिष्ठानमिति भावः ॥३३ ॥ कल्पितलवेन मृषात्त्रमेव भावानामनुभावयति चिकल्पेन नेति- नात्मभावेन नानेदं न स्वे- नापि कथच न। न पृथङ नापृथकिंचिदिति तत्त्वविदो विदुः ॥ ३४ ॥ इदं जगधिष्ठानात्मरूपेग न नाना। ए- कत्वादात्मन इति भावः । नापि स्वीये न कल्पितरूपेण कल्पितानामधिष्ठानातिरेके- णानुपलम्भात् अतएव कल्पितपदार्थानाम- न्योन्यं पृथक्तमष्टथक्तं वानेत्यात्मविद्वी: ३४ कुतो नेयमन्येषां धीरत आह वातेति- वीतरागभयक्रोघैमुनिभिर्वे-

Page 302

माराडूक्यकारिका। २८६

दपारगैः। निर्विकल्पोह्ययं ह- ष्टःप्रपञ्चोपशमो दयः॥३५॥ अधीतवेदार्थमननेन रागादिरहितैरेव द्वैतोपशमवत्वेनाइयो निर्विकल्पोनिर्विशेषो- डयमात्मा दृष्टो बुद्दो भवति ॥३५॥ न वेदान्ताध्ययनमात्रेखात्मा बुध्यत इति सूचय- न्नात्मबोधोत्तरमपि हेयमेव रागादीति सूचय- ति तस्मादिति- तस्मादेवं विदित्वैनमदैते यो- जयेत्स्मृतिम्। अद्वैतं समनु- प्राप्यजड़वल्ोकमाचरेत्॥३६।।

दिनैनमात्मानं शास्त्रतो ज्ञात्वाउद्वैतात्मनि स्मृति पुनः पुनः स्थापयेत् एतन्निदिध्यास- नेन रागादिनिवत्याऽद्वैतं वस्तु साक्षातकृत्य लोकं जनं प्रति जड़वदाचरेन्न सत्काराया-

Page 303

माराडूक्यकारिका।

त्ममह्त्वँ प्रख्यापयेद्रागादिरहित एव भवे- दिति भावः॥३६ ॥ कृतात्मसाच्तात्कारस्य वृत्तिमाह निःस्तुतिरिति- निःस्तुतिर्निर्नमस्कारो निः- स्वधाकारएवच।चलाचलनि- केतश्च यतिर्यादच्छिको भ- वेत ॥३७॥ निर्वासनत्वाद्देवादि स्तुत्याद्यखिल कर्मही- नोभवेद्यतिः पूर्व कृतात्मलाभयत्नः तथा शा- रीरकर्मार्थ चलं शरीरादि तन्निकेतस्तदाश्र- यो भवेद्देहाद्यनुसन्धानवान्भवेत् शरीरार्थम- पि न याचको भवेत्किन्तु यादच्छिक: दैव- लब्धेन निर्वर्तिताखिलजीवनादि व्यवहा- रः । अन्यदात्वचलंब्रह्मतन्निकेत एव भ- वेत ॥ ३७॥ प्रकरसोक्तार्थफलमन्ते ग्राहयति तत्वमिति-

Page 304

माराडूक्यकारिका। २हर

तत्त्वमाध्यात्मिकं दृष्ट्वा त- हवं दृष्ट्वा तु बाह्यतः । तत्त्वी भूतस्तदारामस्तत्त्वादप्रच्युतो भवेत ॥ ३८ ॥ देहाद्याध्यात्मिकं वाह्यं च पञ्चभूतादि सर्वै रज्ज्वही रज्जुरेवेति वच्चित्त्वत्त्वमेवेति जञात्वा चिदेवाहं तहीति भावनादार्ब्येन चि- द्रूप: तदारामश्चित्निष्ठ एव भवेन्न कदाचि- दचित्किंचिद्रावयेत ॥ ३८॥ इति वैतथ्यप्रकरणम्। अथ द्वैतवैतथ्यसिद्धाऽद्वैते युक्तीर्दिदर्शयिषु- रुपास्योपासकभेदं तावन्निरस्यत्युपासनेति- उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते। प्रागुत्पत्तेरजं सर्वे तेनासौ कृपण: स्मृतः १

Page 305

माएडूक्यकांरिका। उपासनामाश्रित उपास्यत्वोपासकत्वादि धर्मः हिरण्यगर्भोदिगर्भप्रपञ्चात्मना ब्रह्म- णि प्रादुर्भूते सति प्रवर्तते। यतः सृष्टेः पू- वै सर्वमिदमेकम जंब्रह्मैव तेन कदाचित्कत्वे- न कार्यत्वेनानित्यतेनासौ धर्म: कृपणो दुः- खहेतुः। प्रसिद्धाचानेकविधेहदीनता स्व- स्वामिभावे॥१॥ सनातनमजं वक्तमाहात इति- अतो वक्ष्याम्यकार्पण्यम- जाति समतां गतम्। यथा न जायते किञ्चिज्जायमानं स- मन्ततः ॥ २ ॥ यतोल्पंयत्तहुःखमतः समता सदैकरस- तातयाजन्म कार्पण्यरहितं ब्रह्मवस्त्वहं व- क्ष्यामि। समन्ततः सर्वतो जगद्रूपेण जाय- मानमपि ब्रह्मकिंचिदपि न जायते वस्तुतो

Page 306

माराडूक्यकारिका। २६३

यथा येन प्रकारेण तं प्रकारमपि वक्ष्यामी- त्यर्थः ॥२॥ प्रकारमेवाहात्मेति- आत्माह्याकाशवज्जीवैर्घ- टाकाशैरिवोदितः । घटादि- वच्चसंघातैर्जातावेतन्निदर्शन- म् ॥ ३ ॥ वस्तुतो न जायत एव यथाकाश तथा- पि घटाद्याकाशरूपेणोत्पन्न इव तथात्मा व्र- ह्रजीवरूपेणोदित उत्पन्न इव भाति यथा चातिसूक्ष्ममप्याकाशमेव वाय्वादिक्रमेण घटादि भवत्येवमात्मा भूतभौतिकसंघातरू- पेण एतदेव निदर्शनं दृष्टान्तो जातौ जग- त उत्पत्तौ बोध्यम्। विवर्ताभिप्रायेणयं का- र्यकारणभावोक्ति: शास्त्रे इति भावः।।३।। लयशास्त्रमपि प्रातीतिकलयविषयकमेवेत्या- शयेनाह घटादिष्विति-

Page 307

२६४ माराडूक्यकारिका।

घटादिषु प्रलीनेषु घटाका- शादयो यथा। आकाशे संप- लीयन्ते तद्वज्जीवा इहात्म- नि॥४॥ उत्पत्तिवल्लयोप्यौपाधिकत्वात्प्रातीतिक एव न वस्तुत इति भाव:।।४। न चैकस्य सर्वोपाधिगतत्वे एकदेहे सुखादौ जाते सर्वदेहेसुखादिमानहमिति बोधप्रसङ्ग: सुखादेरुपाधिगतत्वादुपाधीनां च परस्परं भे- दादिति दृष्टान्तेनाह यथेति- यथैकस्मिन्घटाकाशे रजो- धूमादिभिर्युते। न सर्वे संपयु- ज्यन्ते तद्वज्जीवा: सुखादि- भिः ॥५॥ एकस्मिन् घटैकत्वेनैकत्ववत्वेन प्रतीते।

Page 308

माराडूक्यकारिका। १६५.

युते युत इष प्रतीते। सर्वे यावदन्यघटभे- दैर्भिन्ना इव प्रतीताः। न संप्रयुज्यन्ते नसं- युक्ताः प्रतीयन्ते ॥५॥ नान्यभेदेनान्यो भिद्यते वस्तुत इति दृष्टान्ते- नाह रूपेति- रूपकार्यसमाख्याश्च भि- दयन्ते तत्र तत्र वै। आकाश- स्य न भेदोस्ति तद्वज्जीवेषु निर्णयः॥६॥ रूपमल्पत्ववर्तुलत्वादि कार्य शयनज. लानयनादि समाख्या मठाकाशघटाकाशा- दि। एते भेदा उपाधिभेदकृता एव तत्र तत्र व्यवहारे नत्वाकाशभेदकृता: आकाशैकत्व- स्यैव सर्वसंमतत्वात् ॥ ६ ॥ मृद्विकाराघटादयो देहावयवाहस्तादयो वा यधा तथाकाशस्य विकारा अवयवा वा घटाद्याकाशाः कुतो न वस्तुतो भिन्ना इत्यत आह नेति-

Page 309

२६६ माराडूक्यकारिका।

नाकाशस्य घटाकाशो वि- कारावयवौ यथा। नैवात्मनः सदा जीवो विकारावयवौ य- था।। ७।। सावयवत्वस्याऽसंभवान्निरवयवत्त्वस्य स- र्वसमतत्वाच्चति भावः ।। ७॥ नन्वेवं ब्रह्मैव जीवात्मा कथं तर्हि रागादिम- लिनेति ताह यथेति- यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्य- बुद्धानामात्मापि मलिनो म- लैः ॥ ८ ॥ नाज्धीमात्रेण वम्तुतस्तदयोग्यमपिवस्तु तद्योगिभवेदिति शुद्ध एव सदात्मेति भाव: ८

मरण इति।

Page 310

माराडूक्यकारिका। २६७

मरणे संभवे चैव गत्यागम- नयोरपि। स्थितौ सर्वै शरीरेषु आकाशेनाविलक्षणः ॥ ह।। मरणादिषु घटाकाशेन तुल्य आत्मेत्य- र्थः। परिछििन्नघटेषु स्थितिर्गमनाऽडगमन- जननविनाशाश्र् घटाकाशस्य प्रतीतिमा- त्रं न वस्तुतो यथा तथात्मनोपि मरणादी- ति भाव: ॥ ९॥ उपाधयोपि न सत्या येन भेद: सिध्येदित्याश- येनाह संघाता इति- संघाता: खन्नवत्सर्वे आत्म- मायाविसर्जिताः । आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि वि- दयते ॥ १० ॥ देवादि देहेष क्वचिन्मनुष्यादिदेहापेक्षया

३८

Page 311

माराडूक्यकारिका।

शक्त्याद्याधिक्ये भौतिकत्वेन सर्वदेहैःसाम्ये वा स्वीकृतेपि सत्यत्वे तु हि यतो युक्तिर्ना- स्त्यतः सर्वे संघातादेहाः स्वन्वदात्मा ज्ञा- नकल्पिता एवेत्यर्थ: ।। १०॥ जीवात्मनो द्वितीयब्रह्मत्वे श्ुति दर्शयति रसादय इति- रसादयो हि ये कोशा व्या- ख्यातास्तैत्तिरीयके। तेषामा- त्मापरो जीवः खं यथा सं- प्रकाशितः ॥ ११ ।। अन्नमयादयो येऽकोशतवेन वर्णितास्ते- षां कोशानामात्माऽडश्रयश्र परब्रह्मरूपो जीवः। स एवात्र प्रकरणेस्माभिरात्माह्या- काशवदित्यादिश्लोकैः खं यथेति खदृष्टान्ते- नेत्यर्थः संप्रकाशितः सम्यग्वर्णितः॥११।। जीबब्रह्मखोरभेदे वृहदाररायकमवतारयति द्योरिति-

Page 312

मासाडूक्यकारिका। द्वयोद्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम्। प्ृथिव्यामुदरे चैव- तथाकाशःप्रकाशितः॥१२।। प्थिव्यामुदरे चैक एवाकाशो तथा तथा तयोगतो यो विज्ञाता सपरमात्मैवैकः एवं ब- हुषु पर्यायेषु द्दयोद्वयोरभेदमुक्ता ब्रह्मसर्वमि- त्येकं ब्रह्मनिरूपिंत मधुब्रह्मविद्यातज्ज्ञानं यत्र तत्र मधुब्राह्मणे इत्यर्थः ॥ १२॥ ब्रह्मबेद ब्रह्मैवभवति मृत्योःसमृत्युमान्नोति य इह नानेवपश्यतीत्यादिनैकत्वानेकत्वयोः प्र- शंसानिन्दने एवं हि वेदान्तानामद्वैते तात्प- र्येगैव समअ्सेस्यातान्नन्यथेत्याह जीवेति- जीवात्मनोरनन्यत्वमभेदे न प्रशस्यते। नानात्वं नि- न्दयते यच्च तदेवं हि समञ्ज- सम् ॥१३ ॥

Page 313

३०० माराडूक्यकारिका। ननु बहुस्यां प्रजायेयेत्यादि श्रुतिभि: सृष्टेः पूर्वप्रजादिप्रसिद्धेर्द्वैतमेवसिध्यतीत्यत आह जीवेति ॥ १३॥ जीवात्मनो: पृथकृत्वं यसा- गुत्पत्ते: प्रकीर्तितम । भवि- ष्यद्वृत्त्या गौणं तन्मुख्यत्वं हि न युज्यते ॥ १४ ॥ पूर्वाध्यासवशाद्गविष्यदध्यासनिर्देशः क्रि- यते श्रुत्यातो न मुख्यो वास्तवो भेदस्तदे- त्यर्थः ॥ १४ ॥ नन्वस्तु प्रागद्वैतं सृष्टौसत्यां तु द्वैतमेवात आरह मृदिति- मृलोहविस्फुलिङ्गाद्यैःसृष्टि- र्याचोदितान्यथा।उपायः सो जवताराय नास्ति भेद: कथं- च न ॥ १५ ॥

Page 314

माराडूक्यकारिका। ३०१

यान्यथाऽनेकप्रकारा सृष्टिरुक्ता स उपायो भेदे मिथ्यात्वप्रतिपत्त्यात्मैकत्वे बुद्धेरवता- रणाय। आत्मैकत्वश्रुतीनां गत्यन्तराभा- वादिति भावः ॥१५॥ नन्वेकत्वमुपासनाबिधिवैयर्थ्यमत आरहा- श्रमा इति- आश्रमा स्त्रिविधा हीनमध्य- मोत्कृष्टदृष्टयः। उपासनोपदि- ष्टेयं तदर्थमनुकम्पया ॥१६॥ आश्रमा आश्रमिणोधिकारिणः।हिरण्यग- र्भाद्युपासका हीनदृष्टयः परब्रह्मोपासका म- ध्यमदृष्टयः अद्वैतचिद्दृष्टयउत्कृष्टाः वेदेन चोत्कृष्टदृष्टिलाभार्थ दययेयमुपासनाविहि- तेति न साधनं व्यर्थमिति भावः ॥ १६॥ श्रुतिभिरिव द्वैतवादिभिरप्यविरधिएवात्रेत्याह स्वेति-

Page 315

३०२ माएडूक्यकारिका।

स्वसिद्धान्तव्यवस्थासु द्व- तिनो निश्चिता दृढम्। परस्प- रं विरुध्यन्ते तैरयं न विरुध्य- ते ॥ १७॥ द्वैतिनस्तुस्वस्वसिद्दान्तव्यवस्थापने ह- ढंनिश्िताआग्रहवन्तोऽतस्तेपरस्परं विसे- धवन्तः अयं तत्ववित्तु सर्वात्मेत्यात्मन्येक- त्रासम्भवादेव विरोधस्य न द्वैतिभिर्विरु- ध्यत इत्यर्थ:॥ १७॥ द्वैताद्वैतयोरुक्तयादौ विरोधभावेपि कार्यकारण- योः कारमेव परमार्थ इति केन विरोधः स्यादित्याहाद्वैतमिति- अद्वैतं परमार्थो हि द्वैतं त- द्वेद उच्यते। तेषामुभयथा द्वैतं तेनायं न विरुध्यते ॥१८॥

Page 316

माराडूक्यकारिका। ३०३

हि यतो द्वैतं तस्या द्वैतस्य भेद: कार्य- मित्युच्यते एकमेवाद्वितीयं तत्तेजो Sसृज- तेत्यादि श्रुतिभिरतो वाचारम्भणश्रुत्या 5- द्वैतमेव सत्यम्। द्वैतवादिनां तु कार्यत्वं का- रणत्वं चोभयभ्रान्त्यावस्तुतो द्वैतेकार्यएव तेनायमद्वैतपक्षो न विरुध्यते ॥ १८॥ न च सत्कार्यत्वाद् द्वैतमपि सत् रज्जुसर्पादाविव प्रतीतिकत्वात्कार्यत्वस्य जगतीत्याह माययेति- मायया भिद्यते ह्येतन्नान्य था 5जं कथंचन । तत्त्वतो भिद्यमाने हिमर्त्यताममृतंत्र- जेत् ॥ १९ ॥ एतद्द्दयं वस्तुमाययैव भिद्यते प्रञ्चात्म- ना प्रतीयते नान्यथा वस्तुनः कथंचन प- रिणामादिप्रकारेण। यतोऽजं निरवयवम्। वस्तुतो डजस्य कार्यत्वे हि विनाशिता स्या- त् । १९ ॥

Page 317

३०४ माराडूक्यकारिका। वेदान्ताद्वैत तात्पर्यानभिज्ञतया वास्तव कार्यका- रसभाववादिन: प्रत्याहाजातस्येति- अजातस्यैव भावस्य जाति- मिच्छन्ति वादिनः । अजा- तो ह्यमृतोभावो मर्त्यतां कथ- मेष्यति॥२०॥ निर्विकारात्मनो ये जनिं वदन्ति तन्म- ते कथमात्मा विनाशी स्यात् मृत्युश्र जा- तस्य ध्रुवः ॥ २० ॥ कुतो न विनाशी स्यादत आह नेति- न भवत्यमृतं मर्त्य न म- त्यममृतं तथा । प्रकृतेरन्य- था भावो न कथचिद्भविष्य- ति॥२१॥ आत्मनो ह्यमृतत्वस्वभावात्स्वभावस्य

Page 318

माराडूक्यकारिका। ३०५

चापरित्याज्यत्वादिति भावः ॥ २१॥ सभावत्वोक्तिरेवान्यथा न स्यादित्याह सभावेनेति- स्वभावेनामृतो यस्य भा- वो गच्छति मर्त्यताम्। कृत- केनामृतस्तस्य कथं स्थास्य- ति निश्चलः ॥ २२॥ यस्य मते स्वभावतोऽ्मृत एव पदार्थः कृतकेन कार्यरूपेण पुनर्मत्यों भवति। तस्य मतेऽमृततवं न निश्चलमिति स्वभावहानि- रेवेति भावः ॥ २२॥ तस्मात्सृष्टिश्वतयोपवादार्थमध्यारोप एव ता- त्पर्यवत्यो न वस्तुतः कार्यरूपेणात्मनः परिणामा- दावित्याह भूतत इति। भूततोऽभततो वापि सृज्य- माने समाश्रुतिः। निश्चितं यु-

Page 319

३०६ माएडूक्यकारिका। क्ियुक्तं च यत्तद्ववति नेत- रत् ॥ २३ ॥ वस्तुतो जायते जगदथाऽजातमेव माय- या मिथ्यैव जात इवेत्युभयत्र सृष्टिश्रतिःस- मं प्रमाणं तथापि यद्यक्तिमत्तननिश्चितं न युक्तिहीनम्।युक्तयस्तूक्ता एव मिथ्यात्वे॥।२३।। मिथ्यात्वे श्रतीराह नेहेति। नेहनानेति चाम्नायादिन्द्ो मायाभिरित्यपि। अजायमा- नो बहुधा मायया जायते तु सः ॥ २४॥ नेहनानास्ति किंचनेत्ययमाम्नायो मि- थ्यात्व एव सार्थकः सतोऽपवादाऽसंभवा- त्। तथेन्द्रोमायाभि: पुरुरूप ईयते। अजा- यमानो बहुधा विजायते। इत्यादौ तु सा- क्षादेव मायाशब्द इति भावः ॥।२४॥

Page 320

मााडूक्यकारिका। ३०७

संभूतेरिति- संभूतेरपवादाच्चसंभवः प्र- तिषिध्यते। कोन्वेनं जनये- दिति कारणंप्रतिषिध्यते॥२५॥ अन्धन्तमः प्रविशन्ति ये संभतिमुपास- त इति कार्यव्रह्मोपासननिषधादनित्यत्वा- क्रान्तत्वेन सम्भवः कार्यमात्रं निषिध्यते त- थाधिष्ठानज्ञानेन विनष्टं भ्रमं क: पुनर्जनये- दिति कारणं च प्रतिषेधतिकोन्वेनं जनये- त्पुनरितिश्रुतिः भ्रम एव कार्यकारणभावो न वास्तव इति भावः ॥२५॥ द्वैताऽसत्वे श्ृत्यन्तरमाह स इति- स एष नेति नेतीति व्या- ख्यातं निह्नुते यतः । सर्वम- ग्राह्यभावेन हेतुनाऽजं प्रका- शते ॥ २६ ॥

Page 321

३०८ माराडूक्यकारिका। स एष इयुत्पक्रमेद्देवाव ब्रह्मणो रूपे मू- तै चामूतै चत्यादिना व्याख्यातं सर्व किंचि- द्वस्तु तया ग्राह्यं माभूदिति हेतुना नेतिनेती- त्यपवदति यतः श्रुतिरतः केवलमजं ब्रह्मै- व भातीत्यर्थः ॥ २६ ॥ द्वैतमिथ्यात्वे युक्तिमाह सत इति- सतो हि मायया जन्म यु- ज्यते न तु तत्त्वतः । तत्त्वतो जायते यस्य जातं तस्य हि जायते ॥ २७॥ सतः स्वरूपेण विद्यमानस्यैव जन्मरू- पान्तरं माययैव सम्भवति न वस्तुतो य- था नटस्य। यस्य तु मते स्वरूपेण सदेव वस्तुत एव जन्यते पुनस्तन्मते सत एव पुनः पुनर्जननानवस्थापत्तिः ॥२७॥ असतः पदार्थस्य तु वन्ध्यापुत्रादेरिव वास्त- वं मायिकं वा कथमपि जन्म न सम्भवती-

Page 322

माराडूक्यकारिका। ३०६

त्याहासत इति- असतो मायया जन्म त- स्वतो नैव युज्यते। बन्ध्या- पुत्रो न तत्त्वेन मायया वापि जायते ॥ २८ ॥ सदेवासदृश्यमिव माययेत्युपपादयति दृष्टान्तेन यथेति- यथा खने द्वयाभासं स्प- न्दते मायया मनः।तथा जा- ग्रद्द्वयाभासं स्पन्दते मायया मनः ॥ २ह॥। जाग्रति स्वप्नेच मन एव माययाऽनेकरू- पेण स्फुरति प्रबोधेनानानुपलम्भात् ॥२९॥ नन्वेवं ब्रह्मातिरिक्तमनसो जगत्कारणत्वे कथमद्वैतमत आहाद्वयमिति-

Page 323

३१० मारडूक्यकारिका।

अदुयं च द्रयाभास मनः खन्ने न संशयः। अदूयं च द्वयाभासं तथा जाग्रन्न संश- यः ॥ ३० ॥ ब्रह्मण्यध्यस्तत्वेनाद्वयं ब्रह्मात्मकमेव मनः स्वरूपतत्तत्संकल्पनेन द्वैतमिवभाति जा- ग्रति सवन्ने चेत्यर्थः ब्रह्मैवाधिष्ठानं न मनः इति भावः ॥३०॥ मनोमात्रं द्वैतमित्यत्र युक्तिमाह मन इति- मनोदृश्यमिदं द्वैतं यत्क- चित्सचराचरम। मनसो ह्यम- नीभावे द्वैतं नैवोपलभ्यते॥३१॥ हि यतो विवेकवैराग्यादिना मनसः सं- कल्पस्य शान्तौ द्वैतं न भात्यतः सर्वमि- दं दइयं द्वैतं मन एव ॥ ३१ ॥

Page 324

माराडूक्यकारिका। ३११ त्रमनीभाव माहात्मेति- आत्मसत्यानुबोधेन न सं- कल्पयते यदा। अमनस्तां त- दा याति ग्राह्याभावे तदग्रह- म् । ३२ ॥ आत्मैव सत्य इति बोधे Sनात्मविषय- कसंकल्पाभावो डमनीभावः। मिथ्यात्वदा- ढ्ये संकल्प्याऽभावात्तन्मनोऽग्रहं न किंचि- द्ग्गह्णाति ॥ ३२॥ द्वैतमिथ्यात्वेकेनात्मा वुध्येतातश्र्ाहा- कल्पकमिति- अकल्पकमजं ज्ञानं ज्ञेया- भिन्नं प्रचक्षते। ब्रह्मज्ञेयमजं नित्यमजेनाजं बिबुध्यते॥।३३॥ द्वैतंकल्पनाहनिं यदनादिज्ञानं तज्ज्ञेयं ब्रह्मैव तथाच स्वयंप्रकाशत्वात्स्वरूपभूतेन

Page 325

३१२ माराडूंक्यकारिका। तेन ज्ञानेन स्वयमात्मावबुध्यते न मनसे- ति भावः॥ ३३ ॥ तस्मात्प्रयल्नेनामनीभावः सम्पाद्य संवेध इत्याह निगृहीतस्येति- निगृहीतस्य मनसो निर्वि- कल्पस्य धीमतः। प्रचारः स तु विज्ञेय: सुषुप्तेन्यो न तत् सम: ॥३ ॥ विषयेभ्यो निग्हीतस्यातो निर्विकल्पस्य धीमतो विवेकिनो न सुषत् इवाविवेकिनो मनसो यः प्रचारः शिष्टचिदात्मरूपस्फुरणं स विज्ञेयो निश्चेयो नु सन्घेयः सुषत्ौ तुन तन्निग्हीत मनः प्रचारसमो मनसः प्रचारः किन्तु तदा मनसः संकलानर्थ वीजरागादि वासनावत्वेनतमोभिभूतत्वेन चान्योऽविवे- क रूप एव । ३४ ॥ प्रचारभेदे हेतुमाह स्वयं लीयत इति-

Page 326

माराडूक्यकारिका। ३१३

लीयते हि सुपुप्ते तन्निगृ- हीत न लीयते। तदेव निर्भ- यं ब्रह्म ज्ञानालोकं समन्त- तः॥३५॥ लीयतेऽज्ञाने तन्मनो न तूपायवशीकृत- मितिभेद: एवं च तत्समाहितंमन एवा- भयं ब्रह्म स्वरूप रूपज्ञानमेवालोक: प्रकाशो यस्य तत्समन्तो व्याप्तम् ॥३५॥ उक्त ब्रह्मेदृशमित्याहाजमिति- . अजमनिद्रमखनमनामक- मरूपकम्। सकृद्विभातं सर्वज्ञं नोपचार: कथंचन॥ ३६ ॥ निद्राऽविद्या तत्कृता नात्मभानं स्वनः। सकृद्विभातं सदाभासमानम्। सर्व च त- ज्ज्ञं ज्ञानं चेत्यखण्डबोधस्वरूपम्। एष चा-

Page 327

मारडूक्यकारिका।

जत्वाद्युपचारो सङ्गनिर्विशेषस्वरूपबोधनो- पायतया Sज्दथ्या प्रसिद्धोपि न कथमपि सम्भवति चिदन्याऽभावात्प्रबोधे॥ ३६॥ ब्रह्मतद्विदोरभेददृष्ट्यापुल्िङ्गतया प्रकारान्त- रेगब्रह्म निरूपयति सर्वेति- सर्वाभिलापविगतः सर्व- चिन्तासमुत्थितः । सुप्रशा- न्तः सकृज्ज्योतिः समाधिर- चलोऽभय:। ३७॥ अभिलापो वाकू उपलक्षणत्वाद्वाह्येन्द्रिय- हीनः। एवं चित्तान्त:करणं तंदर्जितः। स- कृत्सदा ज्योतिःस्वरूपः।समाधिगम्यः।अ- चल:स्वरूपादच्युतोऽ्भयो Sविनाशी।।३७ उक्तार्थे किंचिद्विशेषमाह ग्रह इति- ग्रहो न तत्र नोत्सर्गश्चि- न्ता यत्र न विद्यते। आत्म-

Page 328

मागडूक्यकारिका। ३१५

संस्थं तदाज्ञान जातिसमतां गतम् ॥ ३८ ॥ यत्र ब्रह्मणि काचिच्चिन्ता नास्ति न त- त्र ग्रहणमुत्सर्गस्त्यागो वा सम्भवति। अ- थाद्वैत प्रकरणांदौ यदुक्तमतो वक्ष्याम्यका- र्पण्यमजातिसमतांगतमिति तदुपसंनियत आत्मेति। यदा यद्द्वितीयात्मज्ञानमात्मली- नं भवति तदा तत्स्वरूपज्ञानं समतामेक- रसतां गतं जनिहीनमेव भवतीत्यर्थः॥३८। एवं चाद्वितीयज्ञानमेव कुतो न सर्वे कुर्व- न्तीत्यत ताहास्पर्शेति- ·अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः । योगिनो वि- भ्यति ह्यस्मादभये भयदर्शि- नः ॥ ३९॥ अयमद्वैतात्मबोधश् वेदान्तेष्वस्पर्शयो-

Page 329

३१६ माराडूक्यकारिका।

गशब्देनासङ्गत्वान्नामप्रसिद्धो तोपकैद्धुर्ेयः किंचाभये वस्तुतस्सकलद्वैताभावेन भय- हीनेपि ब्रह्मात्मन्यात्मनो Sस्त्वरूपभयानु- सन्धानशालिनो योगिनो ह्यस्मादद्वैतात्मनः सकाशाद्गीतिमन्तो भवन्ति। असङ्गद्वैत- नाममात्राद्गीता न तज्ज्ञाने यतन्त इति भा- वः॥३९॥ तत्वज्ञानेSप्रवृत्तौ हेत्वन्तरमाह मनस इति- मनसो निग्रहायत्तमभयं स- व्योगिनाम्। दुःखक्षयःप्रबोध श्चाप्यक्षया शान्तिरेव च।।४०। अभयमद्वैतं सर्वदुःखक्षयः आत्मबोधः शान्तिर्मुक्तिश्रैतत्सर्व मनोनिग्रहाधीनं त- न्निग्रहश्ष दुष्कर इति मतं साधारणयोगि- नाम्। प्राक्सुकृतलब्धात्मबोधानां त्वात्मा- तिरिक्ताभावेन साध्यसाधनकथैव नेति भा- व॥४०॥

Page 330

माराडूक्यकारिका। ३१७

मपि सुकरमित्याहेत्सिक इति- उत्सेक उदधेर्यद्वत्कुशाग्रे- णैकविन्दुना। मनसो निग्र- 1 வு कुशाग्रेण जलोत्क्षेप तत्परस्योदधिशोष इव मनोनिग्रहोपि भवेदेवाखेदतः॥४१॥ तस्मान्मनोनिग्रहः कार्य इस्याहोपायेनेति- उपायेन निगृह्नीयाद्विक्षि- सं कामभोगयोः। सुप्रसन्नं ल- ये चैव यथा कामो लयस्त- था॥ ४२॥ विषयस्य कामनायां तथा भोगे विक्षिप्तं लये निद्राऽज्ञानतमसि निर्विषयतया सुप्र- सन्नं च मन उपायेनात्मन्येव स्थापयेत्। प्र-

Page 331

मसिडूक्यकारिका। सन्नस्य किमर्थ निग्रहस्तत्राह यथेति मन- स आत्मविमुखताया उभयत्र तुल्यत्वादिति भाव: ।।४२।। मनोनिग्रहोपांय वैराग्यं ज्ञानं चाह दुःखमिति- दुखं सर्वमनुस्मृत्य काम- भोगान्निवर्तयेत। अजं सर्व- मनुस्मृत्य जातं नैव तु पश्य- ति॥४३। सर्व द्वैतं दुःखहेतुरिति विषयेच्छा भोग- तो मनो निवर्तयेत् तथा सर्वमजं ब्रह्मेति मत्वाजातं द्वैत न भावयति पुनस्तत्ववि- त्कदापि।। ४३॥ विषयेभ्योनिवर्त् न त्यजेक्किन्त्वात्मगं कुर्या दित्याशयेंनाह लये इति- लये सम्बोधयेच्चित्त वि- क्षिप्नं शमयेत्पुनः । सकषायं

Page 332

मारडूक्यकारिका। ३१६ विजानीयात्समप्नाप्तं न चा- लयेत ॥ ४४॥ लये निद्रात्तौ चित्तं मनो ज्ञानवैराग्या- भ्यामात्माभिमुखं कुर्यात् विषयेषु चञ्चलं च ताक्यां स्थापयेत् एवमपि स्तब्धमात्मन्यप्र- उत्तं सकषायं रागादियुतं संपन्नमिदं मन इति जानीयाज्जात्वा च ताभ्यामात्मनि न- येदिति भावः समं ब्रह्म तदाकारं तु विष- षयाभिमुखं न कुर्यात्॥४४ ॥ सर्वतो निवृत्यात्मोन्मुखतारयां मनसो यत्सुखं न तत्रासक्तो भवेत्किन्तु चिन्ययमेव मनः कुर्यादित्याह नेति- नास्वादयेत्सुखं तत्र निःस- ङ्ग प्रज्ञया भवेत्। निश्चलं निश्चरच्चित्तमेकीकुर्यात् प्र- यत्तः ॥ ४५॥

Page 333

३२० माराडूक्यकारिका।

तत्र समाध्यादौनिद्रादाविव यदाऽडवि द्यकं सुखं तत्राऽडविद्यकमिदमिति बुद्धावि- रक्तो भवेत। किञ्चात्मस्थमपि चेदनात्मो- नमुखं स्यात्तर्ह्युक्तोपायाभ्यामात्मन्येव लीनं मनः कुर्यात् ॥४५॥ ब्रह्मभूतं मनो लक्षयति यदेति- यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गन- मनाभासं निष्पन्नं ब्रह्म तत्त- दा ॥ ४६ ॥ निद्राविषयाभ्यां लयविक्षेपौ तद्रहितमनि- ङनमचलमनाभासं विषयाकारेणाडभासमा- नमेवं यदा मनस्तदातन्मनो ब्रह्मभूतमिति जेयम् ॥ ४६ ॥ ब्रह्म विशिनष्टि स्वस्थमिति- स्वस्थं शान्तं स निर्वाण-

Page 334

मासडूक्यकारिका। ३२१

मकथ्यं सुखमुत्तमम्। अज- मजेन ज्ञेयेन सर्वज्ञं परिचक्ष- ते ॥ ४७॥ स्वस्थमद्वैतम् शान्तं विक्षेपशन्यम् स निर्बाणं सदामुक्तस्वरूपम् वागगोचरम् नि- रतिशयानन्दस्वरूपम् अजे स्वस्मिन्कल्पि- तत्वात्स्वरूपभूतज्ञेयजगदपेक्षया सर्वज्ञम् वदन्ति ब्रह्म तज्ज्ञा इति शेष:॥ ४७॥ मनोनिग्रहादयुक्तयो भ्रान्तबोधाय भ्रान्तदृष्ट्यै- वेत्याशयेनाह नेति- न कश्चिज्ायते जीवः स- म्भवोस्य न विद्यते। एतत्त- दुत्तमं सत्यं यत्र किंचिन्न जा- यते ॥ ४८ ॥ आत्मात्वसङ्ग: सम्भवोन्यकारणं च ना- स्त्येवेति वस्तुतो न कोप्युत्पद्यते। यतो ४ १

Page 335

३२२ माराडूक्यकारिका।

यत्र ब्रह्म स्वरूपेन किश्चिज्जायते तस्तदेत- द्रह्मोत्तमं पारमार्थिक सत्यम् अन्यथा वि- कारित्वेन कदाचिद्विनाशसंभवात्सापेक्ष एव सत्यवाद: स्यात्सचायुक्तश्विदभावे जगदा- न्ध्यप्रसङ्गादिति भावः ॥। ४८ ॥। ॥ इत्यद्वैत प्रकरणम् ॥ अथाद्वैतविरुद्धवादप्रशमनेन परमशान्तिसम- भीप्सया विवचणा माङ्गलिकेन च तत्क्षणं चि- न्तविषयीभूतस्वशान्तगुरुन्नमश्चक्रे ज्ञानेनेत्यादि पद्यद्वयेन। ज्ञानेनाकाशकल्पेन धर्मा- न्योगगनोपमान्। ज्ञेयाभि- न्नेन संबुद्धस्तं वन्दे द्विपदां वरम् ॥ १ ॥ य आचार्यो ज्ञेय आत्मा तदभिन्नेन तत्र क- ल्पितत्वादत एवाकाशकल्पेन शून्य तुल्येना- किञ्चि द्भूतेनेदृशानेव धर्मान् जागतपदा-

Page 336

माराडूक्यकारिका। ३२३

र्थान् सम्बुद्दः सम्यननिश्वििकायाद्वैतभावं प्रापेति यावत् तं मनुष्यवरं वन्देहमित्य- र्थः ॥ १ ॥ अस्पर्शयोगो वै नाम सर्व सत्त्वसुखोहितः । अविवादो Sविरुद्धश्च देशितस्तं नमाम्य- हम् ॥ २ ॥ न स्पर्श: केनचित्सम्बन्धो यस्य योगस्य सनातनवस्तुनः स ब्रह्मभाव इति यावत् स चात्मत्वात् सर्वेषां सुखदो हितइच तथा सर्वसत्ताप्रदत्वादविरुद्दो तो विरुद्धवादश- न्यश्चेति वै नाम प्रसिद्ध: येन चाचार्येगेट- गेष भावः स्वयं बुध्वादेशित उपदिष्टशच शिष्येभ्यः तं नमामीति नत्पाधिक्यमाद- राधिक्यद्योति॥२॥ विरुद्धवादं दर्शयति भूतस्येति-

Page 337

३२४ मागडूक्यकारिका। भूतस्य जातिमिच्छन्ति वादिन: केचिदेव हि। अभू- तस्यापरे धीरा विवदन्तः प- रस्परम् ॥ ३ ॥ केचिदेव सांख्या एव विद्यमानस्योत्प- त्तिमिच्छन्ति तथान्योन्यं विरुद्धं वदन्तोपरे बुद्धिमन्तो नैयायिका अविद्यमानस्य॥ ३॥ एतद्वादाभ्यां फलितमाह भूतमिति- भूतं न जायते किंचिदभू- तं नैव जायते। विवदन्तो द्वयाह्येवमजाति ख्यापयन्ति ते। ४ ।। यदस्त्येव न तज्जायेत पूर्वतः सत्वादे- व यथात्मा, यच्च नास्त्येव तदप्यसत्वादेव खपुष्पवन्नोत्पद्येतेति वदन्तो द्वैतवादिन एव

Page 338

माराडूक्यकारिका। ३२५

ते सुन्दोपसुन्दन्यायेन पक्षयोर्व्याघाते सर्व- मजमिति फलितं कुर्वन्ति ॥४ ॥ वयन्तु न पचिणः किन्तु तदनुपस्पृष्टतदुप- लक्षितपरिपक्कफलग्राहिण इत्याह ख्याप्यति- खयाप्यमानामजाति तैरनु- मोदामहे वयम। विवदामो न तैः सार्द्धमविवादं निबोध- त। ५। तैः सांख्यादिभि: सह विवादं न कुर्मः किन्तु तैः फलीकृतमखिलाजत्वमङ्गीकुर्मो त- श्रतन्निर्विवादं जानीत ममानुयायिनः ॥५॥। जातस्य जन्म तु व्यर्थमित्यजातस्यैव जन्म वदन्ति न तदप्युपपद्यत इत्याशयेनाद्वैतप्रक- रणोक्तविंशादिपद्यत्रयमाहाजातस्येति- अजातस्यैव धर्मस्य जाति- मिच्छन्ति वादिनः । अजा-

Page 339

३२६ माएाडूक्यकारिका। तो ह्यमृतो धर्मों मर्त्यतां कथ- मेष्यति॥ ६॥ न भवत्यमृतं मर्त्य न म- र्त्यममृतं तथा। प्रकृतेरन्यथा भावो न करथंचिद्भविष्यति।७। सभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम्। कृतकेना- मृतस्तस्य कथं स्थास्यति नि- श्रलः ॥८॥ धर्मस्य भावस्य पदार्थस्य उक्तार्थमेव शिष्टम्। अजातजन्मानुपपत्तिवादिनोप्य- डस्मदनुमोदित वादा इति भावः ॥। ८ ।। प्रकृतिशब्दार्थमाह सांसिद्धिकीति- सांसिद्धिकी साभाविकी

Page 340

मारडूक्यकारिका। ३२७

सहजा अकता च या। प्रक- तिः सेति विज्ञेया स्वभावं न जहाति या ॥ ९ ॥ स्वभावं न त्यजति यान्यथा न भवति सा प्रकृतिः यथायोगस्य साम्यक् सिद्धौ भवाऽणिमादि प्राप्तिरूपा तथा पक्ष्यादी- नामाकाशगमनाद्या तथाग्न्यादेरुष्णत्वाद्या या च जलादेर्निम्नदेशगमनादयां। इती- त्याद्या॥ ९॥ अन्यथा चिन्तनमप्यनर्थायैवेत्याह जरेति- जरामरणनिर्मुक्ता: सर्वे ध- र्माः स्वभावतः । जरामरण- मिच्छन्तश्च्यवन्ते तन्मनी- षया॥ १०॥ धर्मा आत्मानो Sजरामरप्रकृतयोपि जरा-

Page 341

३२८ माराडूक्यकारिका।

मरणं कल्पयन्तो जरामरणभावनया च्य- वन्ते जरामृत्यू लभन्ते ॥ १० ॥ अथप्रकृतानुसरणनानुमोदनविधया सांख्यम- ते नैयायिकादयुक्तानुपपत्तिमाह कारणमिति- कारणं यस्य वै कार्य का- रणं तस्य जायते। जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥ यस्य मते परिणमत्कारणमेव कार्याका- रं तस्य मते कारणस्योत्पत्ति: फलिता तथा परिणामान्यथानुपपत्या सावयवत्वनानित्य- त्वं च कारणस्य फलितमित्यनुपपन्नमजं नि. त्यं च प्रधानमिति मतम् ॥११॥ किंचतन्मते कार्यकारणाभेदे कारणात् यद्यभिन्नं कार्यं तर्ह्यजत्वापत्तिःकार्ये कार्यात्कारसस्याभेदे Sनित्यत्वजनिमत्वयोरापत्ति: कारणे इत्याह कारसादिति-

Page 342

माराडूक्यकारिका। ३२६

कारणाद्यद्यनन्यत्वमतःका- र्यमजं यदि। जायमानाद्वि वै कार्यात्कारणं ते कथं ध्रु- वम् ॥ १२ ॥ मायावादे त्वारोपितं कार्यमेव कारणमात्र- मित्येतावदभ्युपगमान्नदोष इति भावः॥१२॥ अनुपत्यन्तरमाहाजादिति- अजाद्वै जायते यस्य दष्टा- न्तस्तस्य नास्ति वै। जाता- च्च जायमानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥ किचाजान्नित्यान्महदादि जायते जनि- मतो वा नादः उभयसंमतदृष्टान्ताभावात् अनवस्थयाकारणत्वाविश्रान्तेरन्त्योपि ने- त्यर्थः ॥१३॥

Page 343

३३० माराडूक्यकारिका।

श्रौताद्वैतत्ववासनया जगदनादित्वमनुप- पन्नमाह हेतोरिति- हेतोरादि: फलं येषामादि- र्हेतुः फलस्य च। हेतोः फल- स्य चानादि: कथं तैरुपवर्ण्य- ते॥ १४ ॥ हेतुः कर्म। आदि: कारणम्। फलं दे- हादिः। येषां मते देहादि: कर्मणः कारणं दे- हादेश्र्व कर्म कारणम्। तैरेवमुभयोरादि- त्वमुत्त्वा कथं पुनरनादित्वं तयोरुपवर्ण्यते विरुद्दम् ॥१४॥ हेतुफलयोरुक्तंपर स्पर कार्यकारणत्वं दृष्टविरुद्धं नहि पुत्राज्जन्मपितुर्दृश्यत इत्याह हेतोरिति- हेतोरादि: फलं येषामादि- र्हेतुः फलस्य च। तथा ज-

Page 344

माराडूक्यकारिका। ३३१ न्म भवेत्तेषां पुत्राज़्जन्म पि- तुर्यथा॥ १५॥ • तयोर्युगपज्जन्माङ्गीकारेनोक्तविरोध इति चेत्तत्राह सम्भव इति- सम्भवे हेतुफलयोरोषित- व्यः क्रमस्त्वया। युगपत्सं- भवे यस्मादसम्बन्धो विषाण- वत् ॥१६ ॥ युगपज्जायमानयोर्विषाणयोः परस्परका- र्यकारणभावो न यथा तथा युगपत्संभवे हेतुफलयोरपि स सम्बन्धो न स्यादिष्यते च तयोः स सम्बन्धस्त्वयातस्तयोः सम्भवे ज- न्मनि क्रमोन्वेष्टव्य: कस्य पूर्व जन्मेति। दु- ष्परिहरो विरोध इति भाव: ॥ १६ ॥ परस्परासम्बन्धमुपपाद्यति- फलादुत्पद्यमानः सन्नते हे-

Page 345

३३२ मासडूक्यकारिका। तुः प्रसिध्वति । अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्य- ति॥१७॥ फलादुत्पत्स्यते यो हेतुः सफलात्पूर्व न प्रसिध्यति नास्ति यो नास्ति स कथमुत्पा- दयेत्फलम् एवं च क्रमाभावे न कार्यकारण- स्पर्श: कदापि ॥ १७॥ तथाच क्रमोवाच्य इत्याह यदीति। यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः । कत- रत्पूर्वनिष्पन्नं यस्य सिद्धिर- पेक्षया ॥ १८ ॥ द्वयोर्मध्ये कतरत्पूर्वसिद्धं यस्यापेक्षया यतो परस्य पश्चात्सिद्धिस्तद्वदेत्यर्थः अन्यो- न्याधीनसिद्धिकयोरन्योन्यतः पूर्वमसिद्धि- रेवेति भावः ॥ १८ ॥

Page 346

माराडूक्यकारिका। . ३३३

दुर्निरूप्यत्वमभिप्रेत्य क्रमस्याहाशक्तिरिति- अशक्तिरपरिज्ञानं क्रमको- पोथवा पुनः। एवं हि सर्वथा बुद्दैरजाति:परिदीपिता॥१९॥ यद्युच्येत वक्तुं न शक्यते क्रमो ज्ञायते वा नाथवापूर्वोक्तक्रमस्य कोपोन्यथाभावो विपरीतः क्रम इति। एवमपि बुद्धैः पण्डि- तैस्तैरनुत्पत्तिरेव सर्वेषां सर्वथा सूचिता भ- वेत् ॥१९ ॥ ननु लोके बीजाङ्कुरयोः प्रसिद्धा परस्पर- कारखतात आह बीजेति- बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि सः। न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥

Page 347

३३४. मासडूक्यकारिका।

तत्रापि क्रमस्योक्तरीत्यादुर्निरूप्य त्वेन दार्ष्टान्तिकसम एव दृष्टान्तोंपि विप्रतिप- न्नः तथाच नैष दष्टान्तो हेतुः परस्परकारण- ता सिद्धावुपयुज्यते। अथ परस्परंप्रति पर- स्परस्यादित्वमपिप्रसिद्धमिति नैतद्दृदष्टान्ते नानादित्वमपि सिध्यतीत्युक्तं चतुर्दश इति भाव: ॥ २०॥ अजाति: परिदीपितेत्यत्र प्रकारमाह पूर्वेति- पूर्वापरा परिज्ञानमजाते: प- रिदीपकम्। जायमानाद्धि वै- धर्मात्कथं पूर्वै न गृह्यते ॥२१॥ कार्यकारणसम्बन्धस्य नियतत्वाज्ज्ञातं चेदिदं कार्यमिति तर्हि तस्मात् कार्यान्नियत- पूर्व कारणं कथ न ज्ञायेत यदि नैव ज्ञायेत पूर्वापरभावस्तारहै तयोः कार्यकारणभावोपि नैव ज्ञायेतेत्यज्ञानेनाजातिरनुत्पत्तिरेव वो- धिता तयोः। तत्तत्प्रति तस्य तस्य कार-

Page 348

माएाडूक्यकारिका। ३३५

णत्वे तु पूर्वापरपरिज्ञानेपिसर्गादावाद्यफले पूर्वहेतोरनिश्र्वय एवेति भावः ॥ २१॥

स्वतो वा परतो वापि न किंचिद्वस्तु जायते। सदस- त्सदसद्वापि न किंचिद्वस्तु जा- यते ॥ २२॥ नहि किंचित्स्वस्मात्स्वयं जायते पूर्वमस- त्वात्स्वस्य। न वा परतो घटादेः पटादि। ननु परतो मृदादेर्जायत एव घटादिरिति चेद्धान्तिरियम् तथाहिं सदेवघटादि जायते डथासत् किं वो भयम् नाद्यः सिद्धत्वात् वन्ध्यापुत्रादेरुत्पत्तिप्रसङ्गान्न द्वितीय: उभय त्वं तु विरुद्धमेवेति ॥ २२ ।। वादिमतेनुत्पत्तिरेव फलतीति सूचयति प्रकारान्तरेण हेतुरिति-

Page 349

३३६ माराडूक्यकारिका।

हेतुर्न जायते नादे: फलं चा- पि स्वभावतः । आरदिर्न वि- द्यते यस्य तस्य ह्यादिर्न वि- दते ॥ २३ ॥ अनादिनी हेतुफले जायेते च परस्परा- दिति मते अनादेः परस्पराद्ेतुः फलं च नैव जायत इत्येवं वाच्यम कुतः यस्यादि: कारणं न तस्यादिर्जन्मापि नेति स्वभा- वात् ॥ २३ ॥ एवमज ज्ञप्तिमात्रमखिलमितिसिद्धम् तत्र ज्ञस्ौ बलाज्ज्ञेयापत्तिरिति कङ्गयति प्रज्ञसेरिति- प्रज्ञप्तेः स निमित्तत्वमन्य- था दुयनाशनः । संक्लेशस्यो- पलब्धेश्च परतन्त्रास्तिता म- ता॥ २४ ।

Page 350

माराडूक्यकारिका। १३७

ज्ञप्तेः सनिमित्तत्वं सविषयत्वमावश्य- कमन्यथा निर्विषयत्वे द्वैतप्रतीत्युच्छेदाज्ज्ञ- त्रेरैक्यादिति भावः किंचाग्न्यादिवाह्यार्थद्वै- ताभावे दाहादिक्केशो न स्यादतः परेषां ह्वै- तवादिनां तन्त्राणां शास्त्राणामेवास्तिता यथार्थता॥ २४॥ समाधत्ते प्रेति। प्रज्ञप्तेः सनिमित्तत्वमिष्य- ते युक्तिदर्शनात् ॥ निमित्त- स्यानिमित्तत्वमिष्यते भूतद- र्शनात् ॥ २५ ॥ तथाप्यस्माभिस्तूक्ता्ज्ञप्तिवैचित्रय क्ेशो पलम्भयुक्तिद्वयाज्ज्ञप्तेः सविषयत्वं तथा भूतदर्शनाद्वस्तुभूतकारणदृध्या निमित्तस्य द्वैतस्यानिमित्तत्वं चावस्तुत्वेन ज्ञप्तिवैचि- त्रयादि प्रतीष्यते। मृद्दष्टौ मृन्मयद्वैताप्र-

Page 351

३३८ माराडूक्यकारिका।

तीतेरवस्तुभूतं घटादि न कस्यचिन्निमि- त्तं भवितुमर्हतीत्यद्वैत एव सकलैतज्जग-

भावः ॥ २५॥ तस्मान्मृदेव न मृन्मयमितिवन्मन एव न मनोविषयद्वैतमित्याह चित्तमिति- चित्तं न संस्पृशत्यर्थनार्था- भासं तथैव च। अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृ- थक्॥ २६ ॥ यतः सर्वोपि पदार्थो न भूतो जात एव न अवस्त्विति यावत् पदार्थाभासस्तु मनसः एथक् नास्ति यथा रज्ज्वही रज्जुतः त- स्मादर्थमर्थाभासं वा न विषयी करोति मनः ॥२६॥ तर्हिसविषयत्वभानं मनसः किंभ्रान्तिर्नेत्याह निमित्तमिति-

Page 352

माणडूक्यकारिका। ३३६ निमित्तं न सदा चित्तं सं- स्पृशत्यध्वसु त्रिषु । अनिमि- त्तो विपर्यासः कथ तस्य भ- विष्यति ॥ २७॥ त्रिष्वपि कालेषु कदापि यदि मनो न वि- षयं स्पशति तार्है विषयसंस्कारादि नि-

न्तिः कथं भवेत् किन्तु स विषयत्वेन भानं स्वभावो मनस इति भावः ॥२७॥ फलितमजातवादं वदन् ज्ञप्तिजातिवादिन- मुपहसति तस्मादिति- तस्मान्न जायते चित्तं चि- त्तदृश्यं न जायते। तस्य प- इयन्ति ये जाति खे वै पश्य- न्ति ते पदम ॥ २८ ॥

Page 353

३४० मासडरूक्यकारिका।

यस्मादविद्यमानमेवाखिलं भाति भानमे- वाखिलात्मनाभाति तस्मान्न भानमन्यद्वा किं चिज्जनिमत् ये तु चित्तस्य जनिं पश्यन्ति ते तु भुवीवाकाशोपि पक्ष्यादि पदमभिव्य- क्त्तं पश्यन्ति ॥ २८॥ फलितमाहाजातमिति- अजातं जायते यस्मादजा- तिः प्रकृतिस्ततः। प्रकृतेरन्य- था भावो न कथचिद्भविष्य- ति॥ २९॥ यतोऽजातमेव मनोब्रह्म जगज्जायत इव ततो ऽजातिर्व्रह्मणः प्रकृतिः स्वभावः स चात्मरूपत्वादचल इति स्थितमिति भावः॥ २९॥ अनादि: संसारो मोक्षश्च सादिरात्मज्ञानज इति मते दोषमाहानादेरिति- अनादेरन्तवत्वं च संसा-

Page 354

माराडूक्यकारिका। ३४१ रस्य न सेत्स्यति। अनन्ततां चादि मतो मोक्षस्य न भवि- ष्यति॥ ३०॥ अनादिश्र्वेद्विनाशी न स्यात् संसारो य- थात्मा मोक्षस्तु नइयेदेव यदि सादिर्घटादि- र्यथा तस्मादद्वैतमिति भावः ॥ ३०॥ जगन्मोक्षौ न वस्तुत इत्याशयेन द्वितीयप्रकर- पाश्लोकौ षष्ठसप्तमावाहादाविि- आदावन्ते च यन्नास्ति व- र्तमानेपि तत्तथा। वितथैः स- दशा: सन्तो Sवितथा इव ल- क्षिताः॥ ३१॥ सप्रयोजनता तेषां रवने विप्रतिपद्यते। तस्मादाद्यन्त

Page 355

३४२ माराडूक्यकारिका।

वत्वेन मिथ्यैव खलु ते स्मृ- ताः ॥ ३२॥ सहेतुद्ृष्टान्तेन मिथ्यात्वमाह सर्वे इति- सर्वे धर्मा मृषा रवने काय- स्यान्तर्निदर्शनात्। संवृते- स्मिन्प्रदेशे वै भूतानां दर्शनं कुतः ॥ ३३॥ कायस्यान्तरल्पावकाशे दष्टत्वाद्यदि स्व- प्ने 5र्थामृषा तर्हि संटते निरवकाशे डखण्डै- करसे चिदात्मनि पथिव्यादीनां दर्शनं कु- तो न मृषा॥३३॥ ननु देहाद्वहिः स्वस्वदेश एव दृश्यन्तेर्थाः स्वप्न इति चेत्तत्राह नेति- न युक्तं दर्शनं गत्वा काल- स्यानियमाद् गतौ। प्रतिबु-

Page 356

माराडूक्यकारिका। ३४३ द्वश्च वै सर्वस्तस्मिन् देशे न विद्यते॥ ३४ ॥ अतिदूरगमत्याशु पश्यति किंच देशान्त- रस्थं पश्यन्भग्ननिद्रो न तदार्थदेशे भवति किन्तु स्वापदेश एवातश्च न गत्वा पश्य- ति॥३४ ॥ दृष्टान्तेऽर्थासत्वं दर्शयति मित्रादयैरिति- मित्रादयैः सह संमन्व्र्य स- म्बुद्दो न प्रपद्यते।गृहीतं चा- पि यत्किचित्प्रतिबुद्धो न प- श्यति॥ ३५ ॥ इदं मया कर्तव्यमिति संमन्त्रय प्रबु- द्दो न तत्कर्तु प्रवर्तते प्राप्तं च धनादिहस्त- गं न पश्यत्याशुबुद्दः।३५॥ स्वने चावस्तुतः कायः पृ-

Page 357

३४४ माराडूक्यकारिका।

थगन्यस्य दर्शनात। यथा कायस्तथा सर्व चित्तदृश्यम- वस्तुकम् ॥ ३६ ॥ किंच शयनस्थाने निश्चलस्य देहान्त- रस्य दर्शनात्स्वप्ने विहारीदेहो मिथ्येति सि- द्वेखिलस्वाप्नमिथ्यात्वे चित्तदृश्यत्वस्य तु० ल्यत्वेन जाग्रत्पदार्था अपि मिथ्याभूता ए- वेति भावः ॥३६ ॥ जाग्रदपेक्षया मिथ्यास्वप्नः स्वप्नापेक्षया च सज्जागरितम् प्रतीतिश्च द्वयोस्तुल्यैवेति तुल्यमेव द्वयमित्याशयेनाह ग्रहणादिति- ग्रहणाज्जागरितवत्तद्वेतुः स्वन इष्यते। तद्धेतुत्वात्त तस्यै- व सज्जागरितमिष्यते॥३७॥ स्वप्नो जागरितहेतुको जागरितकार्यम् जागरितं यथा ग्ृह्यते तथैव ग्रह्यमाणत्वात्

Page 358

माराडूक्यकारिका। ३४५ तथाच मिथ्येति भावः जागरितं तु स्वन्स्य हेतुत्वात्तस्यैव स्वनद्रष्टुरेव मते कारणधि- या सन्नवस्तुत इति भावः ॥ ३७॥ वस्तुस्थितिमाहोत्पादस्येति- उत्पादस्याप्रसिद्धत्वाद- जं सर्वमुदाहतम। न च भू- तादभूतस्य सम्भवोस्ति कथं- चन ॥३८॥ अभूतस्याविद्यमानस्य नृशङ्गादेरुत्प- त्तेर्विद्यमानवस्तुनः सकाशादसंभवेना त्म ा तिरिक्तानामुत्पादस्योत्पत्तेरसिद्या सर्वमात्मै- व॥३८॥ सर्वाजत्वे कथमुक्तं स्वन्नोजाग्रद्धेतुक इतीत्यत त्र्राहासदिति- असज्जागरिते दृष्ट्वा खने पश्यति तन्मयः । असत्स्वमे

Page 359

३४६ माराडूक्यकारिका।

पि दृष्ट्वा च प्रतिबुद्धो न प- श्यति॥ ३६ ॥ रज्जुसर्पवदसदविद्यमानमेवाखिलदशय- मुभयत्र तथापि जागरिते यत्पश्यति तद्वा- सनयैव तथैव पश्यति स्वन्े न तु स्वनद्द- ष्टवासितो जाग्रत्तथा पश्यति प्रायः एताव- तैव जागरिते कारणतोक्ता न परमार्थत इति भाव:॥ ३९॥ वस्तुतो प्रसिद्धिमेव कार्यकारणभावस्य दर्शयति नेति- नास्त्यसद्धेतुकमसत्सदस- द्वेतुकं तथा। सच्चसद्धेतुकं नास्ति सद्धेतुकमसत्कुत: ४० लोके पदार्थो द्विविधः सद्घटाद्यसच्चश- शश्रुङ्गादि तत्रासतो सत्प्रतिसत्प्रति वा हे- तुत्वं कार्यत्वं वा न संभवत्यसत्वादेव स-

Page 360

माराडूक्यकारिका। ३४७

ञ्च घटादि न सदन्तरपटादि प्रति कारणं भवति सन्मृदादिभवत्येव सदन्तरघटादि प्रतिकारणमिति तु भ्रान्तिमात्रमुभयत्र मृ- स्वाद्य विशेषादिति न किंचित्कार्य कारणं वेति भावः ॥। ४० ॥। रवन्ने न जागरितं कारणं किन्त्वविवेक एवे- त्याशयेनाह विपर्यासादिति- विपर्यासाद्यथाजाग्रदचि- न्त्यान्भूतवत्स्पृशेत्।तथा ख- नने विपर्यासाद्वर्मास्तत्रैव प- श्यति॥४१॥ यथा जाग्रत्पुमानविवेकादचिन्त्यानस- तो रज्जुसर्पादन्सत्यवत्कल्पयति तथा स्व- पपदार्थानपि स्वन्न एव न जागरितहेतु- कान ॥४१॥ सर्वमजं चेच्छारीरकादौ सृष्टुयक्तिः कथमत चरप्राहोपेति-

Page 361

३४८ माराडूक्यकारिका। उपलम्भात्समाचारादस्ति वस्तुत्ववादिनाम्। जातिस्तु देशिता बुद्घैरजातेस्रसतां स- दा ॥ ४२॥ जगतः प्रत्यक्षत्वाद्वर्णाश्रमादि धर्माच- रणाच्चास्ति जगद्स्त्विति वादिनामजातवा- दात्त्रसतां कुण्ठितधियां मन्दविवेकिना- मर्थे बुद्धैः पण्डितैः सूत्रकारादिभिः सृष्टि- रुपदिष्टा अद्वैतकल्पनाय सृष्टिप्रक्रिया क- ल्पितेति भावः ॥४२॥ मृत्योः समृत्युमाप्नोतीत्यादि श्रुतेर्मन्दविवेकि- ना मुक्ति: किं संदिग्धा नेत्याहाजातेरिति- अजातेख्नसतां तेषामुपल- म्भाद्वियन्ति ये। जातिदोषा न सेत्स्यन्ति दोषोप्यल्पो भ- विष्यति॥४३ ॥

Page 362

मासडूक्यकारिका। ३४६

उपलम्भाद्वेतोर्ये वियन्त्यद्वैतात्मनश्च्य- वन्ते विविधं द्वैतं वावगच्छन्ति तेषां न सर्वे जनिदोषाः सर्वयोनिभ्रमणादयो भ- वन्ति किन्तु यतते च ततो भूयः संसिद्धौ कुरुनन्दनेत्यादयुक्तेरल्प एव ॥ ४३ ॥ असन्मयेप्युपलम्भव्यवहारयोर्दर्शनान्न जग- सत्ता ताभ्यां सेत्स्यतीत्याहोपलम्भादिति-

उपलम्भात्समाचारान्मा- याहस्ती यथोच्यते। उपल- म्भात्समाचारादस्ति वस्तु त- थोच्यते॥ ४४॥ दर्शनाद्वन्धारोहादिव्यवहाराच्च माया- गजे यथा गजोस्तीत्युच्यते डज्ञैस्तथा ज- गद्दस्तुन्यपीत्यर्थ: ।। ४४ । यद्द्वैतात्मना भाति तदधिष्ठानमाह जात्याभासमिति-

Page 363

३५० माएडूक्यकारिका।

जात्याभासं चलाभासं व- स्त्वाभासं तथैव च। अजा- चलमवस्तुत्वं विज्ञानं शान्त- मद्यम् ॥ ४५ ॥ यदजमपिजातिवज्जातमिदमिदं जाय- ते जनिष्यते चेतिवदवभासते तथाऽचल- मपि चलमिव चलतीव तथाऽवस्त्वघ- टाद्यपि वस्तुवद्घटादिवद्धासते तद्दयं शा- न्तं विज्ञानम ॥४५॥

एवं न जायते चित्तमेवं ध- र्मा अजाः स्मृताः । एवमेव विजानन्तो न पतन्ति विप- र्यये॥ ४६ ॥ एवमुक्तहेतुभिर्यतश्चित्तं जीवात्मानश्च

Page 364

माराडूक्यकारिका। ३५१

न जायन्ते तोऽद्वयचिदात्मतत्वज्ञा न पुन- रविवेके पतन्ति ॥४६ ॥ अच्युतस्वरूपस्य मिथ्यानेकधाभानं स- दृष्टान्तमाहर्ज्विि- ऋजुवक्रादिकाभासमला- तस्पन्दितं यथा। ग्रहणंग्रा- हकाभासं विज्ञानस्पन्दितं त- था॥ ४७॥ यथोल्मुकस्य स्पन्दितं दीप्तिश्चालनेना- नेकधा भाति तथा विज्ञानस्य चितः स्फू- र्तिर्ज्ञानज्ञावाद्यने काकारेणाविद्यया॥।४७। अनेकधाऽभानं दृष्टान्तेनाहास्पन्दमानमिति- अस्पन्दमानमलातमना- भासमजं यथा। अस्पन्द- मानं विज्ञानमनाभासमजं तथा ॥ ४८ ॥

Page 365

३५२ माराडूक्यकारिका।

अचालितमलातं यथानानेकधा भाति जा- यते वा तद्वदविद्याहीनविज्ञानमपि ॥४८॥ प्रतीत्यन्यरूपानिरूप्यत्वादाभासो न किंचि- दित्याहालात इति- अलाते स्पन्दमाने वै ना- भासा अन्यतो भुवः । न त- तोन्यत्र निस्पन्दान्नालातं प्र- विशन्ति ते ॥ ४६ ॥ ऋज्वाद्याभासा: पूर्वमसन्तः सति स्पन्दे- न्यतः कुतश्चिदागत्यालाते भवन्तीति न दृशयते। स्पन्दहीनात्ततो लातात्पुनरन्यत्र गता अपि न दृश्यन्ते न चालाते लीयमा- ना: किंचोपादाने लयो दष्टः आभासाइच ना लातोपादानकाः तस्मान्मिथ्येति भावः।।४९।। वल्मीका इव भुवोडलातान्निस्सरन्तीत्यपि नेत्याह नेति-

Page 366

भाएडूक्यकारिका। ३५३ न निर्गता अलातात्ते द्र- व्यत्वाभावयोगतः । विज्ञाने- पि तथैवस्युराभासस्याविशेष- तः ॥५०॥ द्रव्यत्वाभावादवस्तुत्वात् ना वस्तुनः प्र- वेशो निर्गमो बासं भवतीति भावः विज्ञाने चिन्मात्रे दशयाभासा अपि तथैव ऋुज्वा- द्याभासा इवैव मिथ्यैव स्युराभासत्वाविशे- षातृ ॥ ५0 ॥ तथैवेत्युक्तं व्यक्तं करोति द्वाभ्याम्- विज्ञाने स्पन्दमाने वै ना- भासा अन्यतो भुवः । न त- तोन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते ॥ ५१॥ न निर्गतास्ते विज्ञानाद्द्र- ४५

Page 367

३५४ माडूक्यकारिका।

व्यत्वाभावयोगतः । कार्य- कारणताभावाद्यतो चिन्त्यः सदैव ते॥ ५२॥ सार्द्धपद्यार्थो दष्टान्तोक्तेनालाते स्पन्द- मान इत्यादि सार्द्धरनसमानः। तस्मात्का- र्यकारणभावाभावात्ते चिदन्य आभासाः स दैंवाचिन्त्यानिरूपयितुमशक्या यतोतो मि- थ्येति शेषः ॥५२॥ कार्यकारणभावश्च द्रव्ययोरेव भिन्नयोरेव कल्पि- तोज्ञैर्नचात्मनि तत्संभवतीत्याह द्रव्यमिति- द्रव्यं द्रव्यस्य हेतुःस्याद- न्यदन्यस्य चैव हि। द्रव्यत्व- मन्यभावो वा धर्माणां नोप- पद्यते ॥ ५ू३ ॥ धर्मो निर्विकारश्चिदात्मा न द्रव्यमस-

Page 368

ब कारिका। ३५५

तः कुताइेचदन्यो वा नेति कार्य कारणं वा नेति भावः फलितं सूचयत्येवमिति- एवं न चित्तजा धर्माश्चि- ततं वापि न धर्मजम्। एवं हे- तुफलाजाति प्रविशन्ति म- नीषिणः ।। ५४।। एवमुक्तहेतुभिः। धर्माघटादयः। तथा हेतो: फलं फलाद्ेतुर्वा न जायत इत्यजात- वादमेव निश्चिन्वन्तिचिदात्मधियः ।५४॥ अनात्मधियो मुमुचून्प्रत्याह यावदिति- यावड्ेतुफलावेशस्तावद्धेतु- फलोद्वः। क्षीणे हेतुफलावे- शे नास्तिहेतुफलोन्भवः ॥५५॥ अनेन धर्माधर्माख्यहेतुनावइयं मया फ- लं भोक्तव्यमित्यास्था यावत्ताव द्वेतुफलोत्प-

Page 369

३५६ माराडूक्यकारिका।

त्तिर्न निवर्तत इति न सा वासनीया हृदि मुमक्षुभिः ॥५५॥ हेतुफलोत्पत्यनिवृत्तौ दोषमाह यावदिति- यावद्वेतुफलावेशः संसार- स्तावदायतः । क्षीणे हेतुफ- लावेशे संसारं न प्रपद्यते॥५६॥ यावद्ासनातावद्ेतुफलोत्पत्याजननमर- णसंसारो वर्द्त एव ॥ ५६॥ ननु जननमरणोक्तिरद्वैतमतेन घटतेऽत आराह संवृत्येति- संवृत्या जायते सर्वै शाश्व- तं नास्ति तेन वै। सद्भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै॥ ५७॥ संवृत्याऽविद्यया सर्वमुत्पद्यते इव तेन

Page 370

माराक्यकारिका। ३५७

किंचिन्नित्यं नास्ति वस्तुतस्तु चिद्रह्मरूपे. ण सर्वमजमेवेति बिनाशोप्यप्रसिद्दः।५७।। अ्रनन्तरोक्तं व्यक्तीकरोति धर्मा इति- धर्मा य इति जायन्ते जाय- न्ते ते न तत्त्वतः । जन्ममा- योपमं तेषां सा च माया न विद्यते ॥ ५८॥ इत्युक्तरीत्या डविद्यया ये धर्माइचराच- रा जायन्ते न ते वस्तुतो जायन्तेऽतस्तेषां जन्ममाया माया च नाम तस्यायानास्ति तस्मात्स्वन्न इवासदेव जन्ममरणवचनमि- ति भावः॥५८॥ मायोपमत्वं स्फुटयति यथेति- यथा मायामयाद्वीजाज्जा यते तन्मयोङ्कुरःनासौ नि-

Page 371

३५८ माण्डूक्यकारिका।

त्यो नचोच्छेदी तद्वद्धर्मेषु यो- जना ॥ ५६ ॥ मायाव्यारोपिताम्त्रादि वीजस्याङ्कुरो- पि मायैवेति न स नित्यो विनाशी वा व- स्तुतोनुत्पन्नत्वाद्यथा तथा धर्मा अपि॥५९॥। वस्तुतो नचितोन्यदित्यत्रासम्भवग्रस्तोखिल चोद्यप्ररोह इत्याह नेति- नाजेषु सर्वधर्मेषु शाश्वता शाश्वताभिधा। यत्र वर्णा न वर्तन्ते विवेकस्तन्न नोच्यते६० यत्र चिदात्मनि वर्णावाचो न प्रवर्तन्ते न तत्रेदशो वेदश इत्यादि: कोपि विवेको वक्तुं शक्य: धर्माश्चचिदात्मान इति न तत्र नित्यानित्यवचनं सम्भवति ॥६० ॥ यद्यपि चिन्मात्रमेवास्ति वस्तुतस्तथाप्यविद्यया स्वप्न इवाविद्यकं मन एव द्वैतात्मना स्फुरती- त्याह यथेति-

Page 372

मारोडूक्यकारिका। ३५६

यथा रवने द्वयाभासं चित्तं चलति मायया। तथा जाग्र- द् द्वयाभासं चित्तं चलति मा- यया ॥६१॥ नन्वेवं मनसाद्वैतापत्तिरत आहाद्वयमिति- अदयं च दयाभासं चित्तं स्वने न संशयः । अदयं च द्वयाभासं तथा जाग्रन्न सं- -... . शयः ॥६२॥ अद्वितीयं मन एव यथा रवन्ने नानाभा- समेवमद्वयं चिदेव मनः प्रभृतिद्वयाभासम् इमे च कारिके डद्वैत प्रकरणेप्यष्टाविंशश्लो- कानन्तरमुक्तार्थे ॥ ६३॥ विधान्तरेण द्वैताभावमाह स्वप्नदृगिति- स्वन्टक् प्रचरन्स्वने दिक्षुवै

Page 373

३६० माणडूक्यकारिका। दशसुस्थितान्। अण्डजान् स्वेदजान्वापि जीवान्पश्यति यान्सदा ॥ ६४ ॥ स्वमदक् चित्तदृश्यास्ते न विद्यन्ते ततः पृथक्। तथातद्दृश्यमेवेदं स्वनदृक्चित्तमिष्यते ॥६४॥ स्वने गच्छन्स्वप्रद्रष्टा दिन्नु यान्पश्यति ते द्रष्टुर्मनसो दृश्यत्वान्न मनसो भिन्ना यथा तथा मनोपि स्वप्नदृग्दृश्यमिति न स्वन्द्र- ष्टुर्भिन्नम् ॥ ६३॥६४॥ स्वम्नेदर्शितां विधा जागरितेव तारयति चरन्निति द्ाभ्याम्- चरञ्जागरिते जाग्रदिक्षु वै दश सुस्थितान् । अण्डजान् स्वेदजान्वापि जीवान्पश्यति

Page 374

माएडूक्यकारिका। ३६१ यान्सदा ॥ ६५ ॥ जाग्रच्िि- त्तेक्षणीयास्ते न विद्यन्ते ततः पृथक्। तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६॥ एवं जाग्रत्पुमान्यान्पश्यति तेपि तच्चित्त- विषयत्वान्न चित्तात्पथक् चित्तं चात्मभा- स्यमिति नात्मनः एथक् ॥ ६६॥ उक्त्तमेवान्यविधयाहोभेहीति। उभे ह्यन्योन्य दृश्येते किं तदस्तीति चोच्यते। लक्षणा- शून्यमुभयं तन्मतेनैव गृह्य- ते॥ ६७॥ हि यतस्ते चित्ततद्दृश्ये विषयविष- यितया परस्परनिरूप्ये तस्तदुभयं किम- स्ति किन्तु नास्त्येवेति चोच्यते कैश्चित्

Page 375

३६२ मारडूक्यकारिका। नान्योन्याश्रयकार्याणि सिध्यन्तीति भावः एवं च प्रमाणशून्यमप्युभयं तन्मतेन वा- सनया तत्तद्रावनेनैवासदेव ग्ृह्यते प्रती- यते ॥ ६७॥ कथं तर्हि जन्मादिव्यवहारोऽत आह यथेति- यथा खननमयो जीवो जा- यते म्रियतेपि च। तथा जी- वा अमी सर्वे भवन्ति न भ- वन्ति च ॥ ६८॥यथा मा- यामयो जीवो जायते म्रिय- तेपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च॥ ६६ ॥ यथा निर्मितको जीवो जायते म्रियतेपि वा। तथा

Page 376

माएडूक्यकारिका। ३६३

जीवा अमी सर्वे भवन्ति न भवन्ति च ॥| ७०॥ स्वन्नेन नटमायया वौषध्यादिना वाभि- व्यक्तो यथा दृश्यते जन्मादियुग्जीवस्त- था जाग्रज्जीवानामपि जन्मादिव्यवहारः प्रतीतिमात्रं न वस्तुत: ।६८।।६९।।७०।। वस्तुतो यत्तदाह नेति- न कश्चिज्ायते जीव: सं- भवोस्य न विद्यते। एतत्तदु- त्तमं सत्यं यत्र किंचिन्न वि- दयते ॥ ७१ ॥ सम्भवः कारणम्। तदेतद्रह्म वस्तुतः सत्यम्। उक्तार्थेयमद्दैतप्रकरणान्ते ॥७१॥ ब्रह्मस्वरूपमाह चित्तेति- चित्तस्पन्दितमेवेदं ग्राह्य

Page 377

३६४ माणडूक्यकारिका। ग्राहकवद्द्वयम् । चित्तं नि- र्विषयं नित्यमसङ्गं तेन की- र्तितम॥ ७२॥ यतो न किंचिजायते Sतो दृश्यद्रष्ट्वरू- पमिदं द्वैतं चित्तविलासमात्रम् तथाच तेन द्वैतरूपविषयाभावेन निर्विषयं चित्तं ज्ञान- मेव नित्यमसङ्गं ब्रह्मोक्तम् ॥ ७२ ॥ शास्त्रादर्विषयस्य जागरूकत्वात्कथमसङ्ग- ताऽत आाह य इति- योस्ति कल्पितसंवृत्या प- रमार्थेन नास्त्यसौ। परतन्त्रा- भिसंवृत्या स्यान्नास्ति परमा- र्थतः॥ ७३ ॥ चिद्बोधाय कल्पिताविद्यया यः शास्त्रा- दिपदार्थोड़स्ति तथा परेषां नैयायिकादीनां

Page 378

माराडूक्यकारिकां। ३६५

शास्त्ररूपाविद्यया वा यो द्रव्यादिपदार्थः सनास्त्येव वस्तुतः अयं भावः वेदान्तिन येन्यनये वा चिदात्मा नवबोधेन सर्वकल्पित- मेवेति॥७३॥ तर्हि ब्रह्मत्वाजत्वासङ्गत्वाद्यपि कल्पितमेव स्या- दित्याशङ्गां परिहरतीष्टापत्त्याज इति- अजः कल्पितसंवृत्त्या प- रमार्थेन नाप्यजः । परतन्त्रा विनिष्पत्त्या संवृत्या जायते तु सः ॥७४॥ संवृत्या Sविद्यया यापरशास्त्रसिद्धिस्त- या तदपेक्षया स आत्माजो जायते च व- स्तुतस्तु नाजोपि। जायते इत्याद्यन्योक्ति सापेक्षाजत्वाद्युक्तिरित्युभयमसंगतमितिभा- वः। ७४ ॥ अरजत्वजातत्वादिद्वैतमविद्याकृतमित्युक्तमत- स्तन्निवृत्तिरप्यविद्यासिद्धा वस्तुभूतविद्ययै-

Page 379

३६६ माण्डूक्यकारिका।

अभूताभिनिवेशोस्ति द्वयं तत्र न विद्यते। द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जा- यते॥ ७५॥ संवत्या जायतेतो वस्तुतो डभूत एव ह्ै- तेस्तीदं द्वैतमित्यभिनिवेशो हठप्रत्ययोस्ति तत्र प्रत्यये द्वयन्नास्ति वस्तुतोतो द्वैताभा- वबोधेनाभिनिवेशरूपनिमित्तस्य कारणस्य निवत्या न पुनर्जार्यते मुच्यत इति भा- वः॥७५॥ उक्त्त व्यक्तयति यदेति- यदा न लभते हेतूनुत्तमाध- ममध्यमान।तदानजायतेचि- तं हेत्वभावे फलं कुतः॥७६।।

Page 380

मारडूक्यकारिका। ३६७

यदि निर्द्वैतबोधेन पुण्यपापतदुभयरू- पानुत्तमाधममध्यमयोनिजन्महेतुन्न करोति हृदि तर्हि न किञ्चितपुनर्भवति॥७६ ॥ तदा न जायते इत्युक्त्यापूर्व जायत इति भ्रममपाकरोत्यनिमित्तस्येति- अनिमित्तस्य चित्तस्य या- नुत्पत्ति: समाडद्या। अजा- तस्यैव सर्वस्य चित्तदृश्यं हि तघ्यतः ॥ ७७॥ तद्द्वैतं यतश्रिवित्तदृश्यं मिथ्येति यावत् अतः पूर्वमपि बोधात्सर्वरूपेणाजातस्यैव चित्तस्योक्तबोधेनोक्तनिमित्तहीनस्य या पु- नरनुत्पत्तिरुक्ता सा समासदैकरसा द्वतशू- न्या च। ७७॥ अनुत्पत्तिर्नामचित्ताख्य बोधस्यान्याकारेणा- स्फुरएं निर्विषयासं विदिति यावत् एवं च सैवमुक्ति: प्राप्यं ब्रह्म चेत्याशयेनाह बुद्ध्वेति-

Page 381

३६८ माराडूक्यकारिका। बुद्ध्वा Sनिमित्ततां सत्यां हेतुं पृथगनामुवन्। वीतशो- कं तथाऽकाममभयं पदम- शनुते ॥७८॥ जन्मादेरहेतुं द्वैत संविद: पथगजानन्नत एवानिमित्तता संविदो द्वैतशन्यतैव सत्ये- ति ज्ञात्वा शोककामभयहनिं पदं निर्विषय संविद्रूपं ब्रह्म भवति॥७८ ॥ तत्पदं वस्तुतः प्राप्तमेवाबिद्यया Sप्राप्तमिवा- तो यत्न तत्प्राप्तिरुक्तेति सूचयत्यभूतति- अभूताभिनिवेशाद्वि सदृशे तसवर्तते। वस्त्वभावं सबुद्- ध्वैव निस्सङ्गं विनिवर्तते।७९॥ अभते द्वैतेऽभिनिवेशो भतत्वनिश्र्चयो जयथार्थज्ञानमविद्ययातः सदशेऽयथार्थे द्वै-

Page 382

माएडूक्यकारिका। ३६६ ते तच्चित्तं सदा प्रवर्तते द्वैताभाव बोधानन्त- रं तु सोभिनिवेशश्र्वित्तं चासङं सन्निवर्त- ते द्वैत न विषयीकरोति ॥ ७९॥ ततः कि सदाह निवृत्तस्यति- निवृत्तस्याप्रवृत्तस्य निश्च- ला हि तदा स्थितिः। विषयः स हि बुद्धानां तत्साम्यमज- मद्यम्॥ ८0 ॥ द्वैतान्निटत्तस्याभावबुद्या क्वापि पुनरत्र- वत्तस्य चित्तस्य या निश्चला स्थिति: सैव तत्साम्यं ब्रह्मभावस्तव्वज्ञानिनां विषयो ल- १्यश् तत्पदप्राप्तिरिति यावत् ॥ ८० ॥ कथचित्तस्थितिर्बुद्धानां विषय इति वर्ायत्यजमिति- अजमनिद्रमखन प्रभातं भवति खयम्। सकृद्विभा-

Page 383

३७० माएडूक्यकारिका।

तोह्येवैष धर्मो धातुखभाव- तः ॥ ८१ ॥ चित्ताचलत्वे कृतऽविद्याऽऽटतिनिद्रात- त्कृतद्वैतस्वप्नरहितं प्रभातं प्रकाशो भवति परंत्वजं न केनचित्कृतं किन्तु स्वयम् न चा- यमात्मोदयः कदाचिदस्तं यातीत्याह सकृ- दिति, एष ह्यात्माधर्मो वस्तुस्वभावात्स- कृदेव विभातो भवति ॥८१॥ प्रभातात्पूर्व तु स्थितोप्येषधर्मो डविद्ययान्यथा भाति सदेत्याह सुखमिति- सुखमात्रियते नित्यं दुःखं वित्रियते सदा। यस्य क- स्य च धर्मस्य ग्रहेणभगवान- सौ ॥ ८ २ ॥ अविद्ययाद्वैतस्य ग्रहेण वासनया सुखरू- पो Sसौ भगवानात्मा न भाति कदाचिद्धा-

Page 384

माराडूक्यकारिका। ३७१

ति च सदा दुःखरूप: पूर्वम् ॥८२॥ द्वैतग्रहो न सूर्खाणामेव किन्तु शास्त्रिणा- मपी त्याहास्तीति- अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः । चलस्थिरोभयाभावैरावृणो- त्येव वालिशः॥ ८३।। कश्ििद्वालिशो Sविवेकी शास्त्रज्ञो देहे स्त्यात्मेति चलं विकारिणमात्मानं निरूपय- न्नपि यथाभूतमात्मानमाटणोति नैव जा- नाति। कश्विन्नास्तीति स्थिररूपम् कश्िच- दस्ति नास्तीत्युभयरूपम् कश्वित्तु नास्ति नास्तीत्यभावं वीप्सया सर्वथा शन्यरू- पम्॥ ८३ ॥ कस्तर्हि परिडतोत आह कोव्य इति। कोट्यश्चतस्र एतास्तु ग्रहै-

Page 385

३७२ माएडूक्यकारिका।

र्यासां सदा वृतः । भगवाना- भिरस्पृष्टो येन दृष्टः स सर्वह- क्। ८४ ॥ यासामस्त्यादिकोटीनां ग्रहेणाळतस्ताभि रात्मा न कदाचित्स्टष्टोस्तीतीदृश आत्मा येन बुद्धः स सर्वज्ञः पण्डितः ॥ ८४॥ ततः किमित्याह प्राप्येति- प्राप्य सर्वज्ञतां कृत्स्ां ब्रा- ह्मण्यं पदमद्वयम। अनाप- न्नादि मध्यान्तं किमतः पर- मीहते ॥ ८५॥ अप्राप्तजनिस्थितिलयाद्वैतब्रह्मपदात्म- कसर्वज्ञत्वलाभानन्तरं किमीहते चष्टते न किञ्चित्कृतकृत्यो भवतीति भावः ॥।८५॥

विप्रासामिति-

Page 386

मारडूक्यकारिका। ३७३

विप्राणां विनयो ह्वेष शम- प्राकृत उच्यते । दमः प्रकृति दान्तत्वादेवं विद्वान्शमं ब्रजे- त् ॥ ८६ ॥ प्रकृत्यैव शान्तादान्ताविनीताश्र् भव- न्तीति हि यतो विप्राणां विनयो दमइशम- इच प्राकृतस्स्वाभाविक उच्यते शास्त्रेऽत ए- वमुक्तप्रकारेणात्मानं विद्वान्विप्रः शमं स्व- रूपावस्थानं व्रजेत्कुर्यात् ॥ ८६॥ अथ प्रकारान्तरेणात्मतत्वावधारणायाह सवस्त्वति- सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते। अवस्तुसो- पलम्भं च शुद्धं लौकिकमि- ष्यते ॥८७॥

Page 387

३७४ माएडूक्यकारिका।

सवस्तु विद्यमानपदार्थकं सोपलम्भं सबोधं बुध्यमानं द्वैतं जागरितम् । अवि- द्यमानपदार्थकं बुध्यमानं शुद्धं जागरिते- नामिश्रं द्वैतं स्वन्नः । लोकप्रसिद्धेश्र्वोभयं लौकिकम् ॥ ८७॥ अलौकिकं सुषुप्माहावस्त्वति- अवस्त्वनुपलम्भं च लोको- त्तरमिति स्मृतम् । ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकी- र्तितम् ॥ ८८॥ लोकोत्तरमलौकिकं सुषुप्तम्। अवस्था- त्रयं च ज्ञानज्ञेयरूपमिति विज्ञेयमित्युक्त- मात्मजैः ॥८८॥ अनन्तरपदे यदर्थमुक्ते तदाह ज्ञाने चेति- ज्ञाने च त्रिविधे ज्ञेये क्र- मेण विदिते स्वयम्। सर्वज्ञ-

Page 388

मासडूक्यकारिका। ३७५

ता हि सर्वत्र भवतीह महा- घियः ॥ ८६ । महाधियो ब्रह्मपदं जिज्ञासोर्महात्मनः लौकिकशुद्धलौकिक लोको त्तरभेदेन त्रिविधे ज्ञाने ज्ञेये च क्रमेण विदिते परिशेषात्स्व- यं स्वयं प्रकाशतवेन सर्वत्र सदा सर्वज्ञता- त्मज्ञता भवति॥८९॥ एवमात्मज्ञानोपाय तयोक्तमप्यात्मातिरिक्त न सत्यमित्याह हेयेति- हेयज्ञेयाप्यपाक्यानि वि- ज्ञेयान्यग्रयाणतः । तेषाम- न्यन्न विज्ञेयादुपलम्भस्त्रिषु- स्मृत: ॥६0॥ हेयं लौकिकादित्रयम्।ज्ञेयं चिदात्मत- त्म्। आप्यं साधनम्। पाक्यं पक्तव्यं रा- गद्देषादि। एतान्यग्रयाणतः प्रथमतो ज्ञात-

Page 389

३७६ माराडूक्यकारिका।

व्यानि परन्तु तेषां मध्ये ज्ञेयादन्येषु त्रिषूप- लम्भ: स्मृत उपलम्भमात्रत्वमुक्तम् न तेषा- मन्यपदार्थत्वमिति भावः॥९० ॥ त्रिषूपलम्भ इत्युक्त्या फलितमाह प्रकृत्येतिं- प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः । विद्यते न हि नानात्वं तेषां क्वचन किं- च न । ६ १ ॥ तस्माद्धर्माः प्रतीतचिदन्यपदार्थाः प्र- कृत्यास्वभावेनानादयो डजाआकाशवत्सर्व- गानिर्लेपाश्चिद्रूपा इति यावत् तेषां चि- दूरूपाणां तु नानात्वं घटाद्याक शानामिव कल्पितमिति भावः ॥ ९१॥ कि ततस्तदाहादिबुद्दा इति- आदिबुद्दा: प्रकृत्यैव सर्वे धर्मा: सुनिश्चिताः । यस्यैवं

Page 390

माएडूक्यकारिका। ३७७ भवति क्षान्तिः सोमृतत्वाय कल्पते ॥ ६२ ॥ आदिबुद्दाः सदाह्यात्मस्वरूपा एव स- र्वेर्था एवं यस्य क्षान्तिनिश्र्वयः समुच्य- ते॥ ९२॥ तदाऽमृतत्वोक्तिरज्ञदृष्ट्या वस्तुतस्तु मुक्त एव सदत्याहादिशान्ता इति- आदिशान्ता ह्यनुत्पन्नाः प्र- कृत्यैव सुनिर्वताः। सर्वे धर्माः समाभिन्नाः अजं साम्यं वि- शारदम् ॥ ९३ ॥ हि यतः सर्वे धर्माः आदिशान्ताः सदा मुक्ता अजा: स्वभावेन सुखरूपाः समाःस- दैकरसा अभिन्नाइचातोऽजं सदैकरसं शुद्ध- मेवात्मस्वरपम् ॥ ९३ ॥ यथावदात्मज्ञस्तुतयतदज्ञं निन्दात

४८

Page 391

३७= माराडूक्यकारिका।

वैशारद्यमिति- वैशारद्यं तु वै नास्ति भे दे विचरतां सदा। भेदनिम्नाः पृथग्वादास्तस्मात्त कृपणाः स्मृताः ॥ ९४॥ एथग्वादा भेदवादिनो भेदनिम्ना भेद- गर्तगा ये तेषां सदाभेदे विचरतां वैशारद्यं शुद्धचिदात्मत्वं नास्ति तस्मात्ते दीना: क्षु- द्रावा॥ ९४ ॥ स्तौति विद्वांसमज इति- अजे साम्ये तु ये केचिद्ध- विष्यन्ति सुनिश्चिताः । तेहि लोके महाज्ञानास्तच्चलोको न गाहते॥ ६५ू ॥ केचिदर्णाश्रमिण: किंयच्छब्दयोर्लिङ्गम-

Page 392

माण्डूक्यकारिका। ३७६

विवक्षितम। महाज्ञाना उत्कृष्टज्ञानिनः।त- ज्जानं लोकोजनस्साधारणो न लभते॥।९५॥ उत्कृष्टत्वं च सर्वथा निर्विषयत्वमेव ज्ञानस्येत्याहाजेष्विति- अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते। यतो न क्रम- ते ज्ञानमसङ्गं तेन कीर्तित- म्॥ ९६ ॥ वस्तुतस्त्वजेषु घटादिपदार्थेषु संबन्ध हीनं ज्ञानमप्यजमेव वस्तुतः असंबद्धत्वा- देवं चासङ्गं निर्विशेषं ब्रह्मरूपमुक्तम्। नि- र्विषत्वमेव ज्ञाने महत्त्वमिति भावः ॥९६।। नान्यमते तः कैवल्यमित्याहारिवति- अणुमात्रेपि वैधर्म्ये जाय- माने Sविपश्चितः । असङ्गता

Page 393

३८० माएाडूक्यकारिका।

सदा नास्ति किमुतावरणच्यु- ति:।।६७। किञ्चिदप्युत्पद्यमाने वैधर्म्ये Sनात्मव- स्तुनि स्वीकृते Sविपश्चितो Sविदुषो वादि- नः कदाचिदुक्तासङ्गता न स्यादित्यज्ञानहा- निरतिदुर्लभा ॥ ९७॥ ननु द्वैतिनो न मोक्ष इति वदतस्तवैव द्वैति- त्वेनामुक्तत्वं प्रसज्येतात तराहा लब्धेति- अलब्धावरणा: सर्वे धर्माः प्रकृतिनिर्मलाः । आदौ वु- द्वास्तथामुद्दा बुध्यन्त इति नायकाः ॥ ९८ ॥ चिज्ज्योतिर्मात्रत्वेन स्वभावादेव तमोरू- पावरणविक्षेपद्वैतमलयोरभावेनादौ पूर्वमे- व बुद्धा: स्वयं प्रकाशत्वेनात्मज्ञा मुक्ताश्च सन्तः पुनर्वुध्यन्त इव मुच्यन्त इव च भ-

Page 394

माएाडूक्यकारिका। ३८१ वन्ति सर्वेजीवा इति नायकावेदान्ताचार्या वदन्तीति शेष: तथाच न कोपि दोषप्र- सङ्ग इति भावः ॥ ९८॥ विज्ञानवादेन सौगतमताङ्गीकारशङ्कामाभ- दित्यखरडाद्वैतचित्तत्वमाह क्रमत इति- क्रमते नहि बुद्धस्य ज्ञानं धर्मेषु तापिनः । सर्वे धर्मा स्तथा ज्ञानं नैतद्बुद्देन भा- षितम्॥ हह ।। बुद्दस्यात्मविदो ज्ञानं नान्यवस्तुष गच्छ- ति यतः सतापी असदहिभयेन धावन्नति वेपमानो रज्जुवोधानन्तरं यथा तथानुता- पी तस्मात्सर्वेधर्माः पदार्थास्तथा आत्मवि- दात्मभूता: अखण्डाद्वयबोधमात्रं तत्त्वमि- ति भाव: बुद्देन सुगतेन तु नेदशं ज्ञानमु- क्तमङ्गीकृतम् ॥९९॥

Page 395

३८२ माराडूक्यकारिका।

ग्रन्थसमातिं नत्या सूचयति दुर्दर्श मिति- दुर्दर्शमतिगम्भीरमजं सा- म्यं विशारदम। बुद्ध्वापद- मनानात्वं नमस्कुर्मो यथाब- लम ॥ १००॥ गम्भीरं सर्वान्तरं दु्ज्ेयमज्ञेनाजंसदै- करसं शुद्धमद्वयं पदं लक्ष्यमात्मानं बुद्ध्वा यथाशक्ति यावज्जीवं नुमइशास्त्राचार्योप- देष्टृन्नकृतन्नो भवामीति भावः ॥ १०० ॥ दययाऽनन्तरामस्य मृदुर्यन्थोऽयमुम्भितः। श्रीस्वामिभास्करानन्दैः काश्यामानन्दकानने॥१॥ गम्भीरपातभीतानां गौरवग्रस्तचतसाम् । मुदे भवतु माएडूक्यकारिणां प्रकाशकः ॥ २ ॥ इति श्रीमत्कारिकाप्रकाशः॥॥

Page 396

ऐतरेयोपनिषद। ३८३

श्रीगणेशाय नमः ॥।

यैब्रह्मात्मविद्याप्रकाशिता। तत्राद्ये त्रयः खराडाः। तदग्रिमाध्यायौ तुर्यपञ्चमखरडौ। तथाच पञ्च खराडात्मकैतरेयोपनिषदावात्मनि ब्रह्मत्वावगतेः सौकय्यार्याध्यारोपभूमिकामारचयत्यात्मावाइद- मित्यादिना। अत्रादावन्ते च वाङ्मेमनसि प्रतिष्ठिते ति सप्तमाध्यायषष्ठखण्डात्मिका शान्तिः पठनीया।। आत्मावाइदमेकएवाग्रआ- सीन्नान्यतिंकचनमिषत्। स ईक्षत लोकान् सृजा इति॥१॥ इदं जगदग्रे सृष्टेः पुरा आत्मा वै आत्मै- वासीदिति विजातीयानात्मभेदनिषेध:। ए- कएवासीदिति स्वगतावयव भेद निषेधः ।

Page 397

३८४ ऐतरेयोपनिषद।

सजातीय भेदनिषेधः । ततः नु वितर्के अहं लोकान्सृजै स्रक्ष्यामीति सपरमात्मैक्ष- त विचारितवान। इदमत्रावधेयम्। सदाड

दृष्ट्यैवेति ॥१॥ ईक्षणोत्तरं यत्कृतं तदाह स इति- स इमाँ लोकानसृजता- म्भो मरीचीर्मरमापो Sदोऽ- म्भः परेणदिवन्द्यौः प्रतिष्ठा- न्तरिक्षं मरीचयः । पृथिवी- मरोया अधस्तात्ता आप:॥।२।। स आत्मा इमानम्भ: प्रभृति लोकान- सृजत। तत्र दिवं परेणादिवः परे ये म- हरादयो लोकास्तेषां प्रतिष्ठाश्रयो द्यौः स्व- र्लोकइ्चादोम्भोसावम्भ: संज्ञको लोकोट-

Page 398

ऐतरेयोपनिषद। ३६५

ष्टयर्थाम्भसामाश्रयत्वात्। सूर्यमरीच्याश्र- यत्वाच्चान्तरिक्षं मरीचिलोक: ियन्तेत्रेति मरो भूलोकः अथ पथिव्या अधस्ताद्या भू- मयो तलादयाः सप् ताः केवलभोगार्थिभि- राप्यन्त इत्याप इत्युच्यन्ते। विवर्ताभिप्रा- येण स्वन्नवत्क्रमं विना लोक सृष्टिरेवोक्ता । तथापि ग्रन्थान्तराविरोधाय पञ्चभूतोत्पत्या- दि पूर्विकैव सा ज्ञेया ॥ २ ॥ अग्न्यादि लोकपालसृष्ट्यर्थमाह मन्त्रदयं स इति- स ईक्षते मेनु लोका लोक- पालान्नु सृजा इति। सोन्ध एव पुरुषं समुद्धृत्या सूर्छ- यत्॥ ३॥ इमे चत्वारो लोका: सृष्टा अथ लोक- पालान्स्क्ष्यामीति स ईक्षत ततोन्द्य उप- लक्षणत्वात्पञ्चभूतेभ्यः समुद्ृत्य किंचिदुपा-

Page 399

३८६ ऐतरेयोपनिषद। दाय पुरुषममूर्छयत्पुरुषाकारं पिण्डमकरो- त्संघटनेन ॥ ३ ॥ तमभ्यतपत्तस्याभि तप्तस्य मुखं निरभिद्यत यथाण्डम् मु-

रभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येता- मक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्निरभि- द्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं नि- रभिद्यत हृदयान्मनो मनस- श्चन्द्मा नाभिर्निरभिद्यत ना-

Page 400

ऐतरेयोपनिषद। ३८७

भ्या अपानोपानान् मृत्यु: शिश्नं निरभिद्यत शिश्नाद्वेतो रेतस आपः ॥ ४ ॥ अथ तं विराडाख्यपुरुषपिण्डमीश्वरो- भ्यतपदिन्द्रियदेवता मुखाद्याकारविशिष्टम- भावयत् ततो Sभितप्तस्य तथा भावितस्य तस्य पिण्डस्य मुखछि्दिरं पक्ष्यण्डवद्विदीर्ण मभवत् ततो वागिन्द्रियमग्निर्देवता च त- तः। न मुखादेरिन्द्रियदेव तोत्पत्तिः किन्तु प्रसिद्धस्वस्वकारणादेवेति दिक् ॥ ४ ॥ ॥ इति प्रथम:खण्ड ॥ अथ त्ुत्पिपासासृष्टिमग्न्यादीनां पृथक् पृथक् स्थूलदेह सृष्टिभूमिकां चाह सा इति- ता एता देवता: सृष्टा अ- स्मिन्महत्यर्णवे प्रापतँस्तम- शना पिपासाभ्यमन्ववार्जत।

Page 401

ऐतरेयोपनिषद।

ताएनमब्रुवन्नायतनं नः प्रजा- नीहि यस्मिन्प्रतिष्ठिता अन्न मदामति ॥ १॥ यदा देवा अर्णवे विराडाखयशरीरे डपत- न्प्रतिष्ठितास्तदा तं विराजमीशः क्षत्पिपासा- युतमकरोत् ततस्ता देवता ईश्वरमन्रुवन् य- त्र गावयं स्वातन्त्रयेण भक्ष्यं भक्षयामः त- द्विन्नं भिन्नमायतनं देहमस्मभ्यं कुर्विति॥१। नानाजीवदेहसृष्टिमाह द्वाभ्याम्- ताभ्योगामानयत्ता अब्रुव- न्नवैनोयमलमिति। ताभ्यो- श्वमानयत्ता अन्रुवन्न वै नो- यमलमिति॥ २॥ ईशस्ताभ्यो गोदेहं विधायार्पयत्ता ऊच- र्नायं देहोस्माकमलं सर्वकार्यक्षममित्येवम- ग्रेपि ॥ २ ॥

Page 402

ऐतरेयोपनिषद।

ताभ्यः पुरुषमानयत्ता अ- ब्ुवन्सुकतं वतेति पुरुषो वाव- सु कृतम्। ता अब्रवीद्यथाय- तनं प्रविशतेति॥। ३॥ यतः पुरुष एव सुकृतं पुण्यं तद्देतुत्वाद- तो वतेति हर्षे सुष्ठकृतमिदं त्वया शरीर- मित्युक्त ईशोत्र देहे स्वस्वस्थानस्था भवत यूयमित्यत्रवीत् ता देवताः ॥ ३ ॥ प्रवेशं दर्शयत्यग्निरिति- अभनिर्वाग्भूत्वा मुखं प्रावि- शद्वायुः प्राणोभूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाक्षि- णी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषघिवनस्पत-

Page 403

३६० ऐतरेयोपनिषद। यो लोमानि भूत्वा त्वचं प्रा- विशश्चँन्द्रमा मनोभूत्वा हृ- दयं प्राविशन्मृत्युरपानो भू- त्वा नाभि प्राविशदापोरेतो भूत्वा शिक्षं प्राविशन्॥।४॥ गोलकेषु देवानामनुपलम्भाद्वाग्भूत्वावा- ग्रूपेणाग्निर्मुखमविशदित्येवमग्रेपि ज्ञेयो 5- त्रार्थः॥४॥ तन्तद्ेहेषु त्तुत्पिपासास्थितय आर्राहतमिति- तमशना पिपासे अब्ूतामा- वाभ्यामभि प्रजानीहीति ते अन्रवीदेतास्वेववां देवतास्वा- भजाम्यतासुभागिन्यौ करो- मीति। तस्माद्यस्यै कस्यै च

Page 404

ऐतरेयोपिषद। ३६१

देवतायै हविर्गृह्यते भागिन्या वेवास्यामशना पिपासे भ- वतः ॥ ५॥ ततस्तमीशम्। अभिप्रजानीह्यायतनं कुरु। ततो देवता स्वेववामाभजामि भा- गिन्यौ करोमीत्यब्रवीत्ते प्रतीशः नवां ए- थगायतनं भोगाय तस्मादस्यां देवतायामे- व भागिन्यौ भवत इति भावः ॥५॥ इति द्वितीयखण्डः । भोगायतनानन्तरं भोग्यसृष्टय त्राह स इति- स ईक्षते मेनुलोकाश्च लो- कवालाश्चान्नमभ्य: सृजा इति॥ १॥ लोकालोकपालाश्र्वक्षरादि युक्ता: कृताः इत्येभ्यो लोकपालार्थमन्नं सृजै ॥ १ ॥ त्न्नसृष्टिमाह स इति।

Page 405

३६२ ऐतरेयोपनिषद। सोपोऽ्यतपत्ताभ्योभित- पाभ्यो मूर्तिरजायत। या वै सा मूर्तिरजायतान्नं वै तत॥।२। स ईशोपः पञ्चभूतान्यन्नत्वेनाभावय- द्रावितान्या मूर्तिः कठिनरूपमभवद्याच मू- र्तिस्तदेवान्न मदनीयं व्रीह्यादि मार्जारादी- नां मूषकादि च ॥ २ ॥ अदनं च वाह्यान्नस्यगलाघोनयनं तृप्तये तत्रापान एव शक्तो न वागादिकमित्या- हाष्टभिस्तदेनदिति- तदेनत्सृष्टं पराङत्यजिघां- सत्तद्वा चाजिघृक्षत्तन्नाशक्रो- द्वाचा ग्रहीतुम्। स यद्वैनद्वा- चा Sगृहैष्यदभिव्याहृत्य है- वान्नमत्रपूस्यत् ॥ ३॥

Page 406

ऐतरेयोपनिषद। ३६३ सृष्टं तदेनदन्नं चरमचरं वा पराङ्वहिरेव स्थितम्। चरन्त्वत्यजिघांसद्रयेनातिशयेन हन्तुं गन्तुं पलायितुमैच्छत् यथा मार्जारा- देः पुरतो मूषकादि: सृष्टिरनाद्येत्यतीतत्वे- न निर्देश: अथ स भोक्तावाचा तदन्नं ग्र- हीतुमैच्छत्परंतु नाशक्रोद्दाचा SSक्रष्टुम् य-

न्नशब्दमुक्तैव तप्तोऽभविष्यत्एवमग्रेप्यू- ह्यम् ॥ ३ ॥

तलाणेना जिघृक्षत्तन्नाश- क्रोलाणेन ग्रहीतुम। सयद्वैन- ाणेनाग्रहैष्यदभिप्नाण्यहैवा- न्नमत्रप्स्यत्॥४॥ तच्चक्षुषा- जिघृक्षत्तन्नाशक्रोच्चक्षुषाग्रही- तुम्। स यद्वैनच्चक्षुषा ग्रहैष्य-

Page 407

३६४ ऐतरेयोपनिषद। द्दृष्ट्वा हैवान्नमत्रप्स्यत् ।५।। तच्छोत्रेणाजिघृक्षत्तन्नाशक्रो- च्छ्रोत्रेण ग्रहीतुम् । सयद्वैन- च्छोत्रेणाग्रहैष्यच्छरत्वा हैवा- न्नमन्रप्स्यत् ।। ६।। तत्त्वचा- जिघृक्षत्तन्नाशक्रोतत्वचाग्रही तुम।सयद्वैनत्त्वचाग्रहैष्यत्स्पृ- ष्ट्वा हैवान्नमत्रप्स्यत ।७॥ तन्मनसाजिघृक्षत्तन्नाशक्- नोन्मनसा ग्रहीतुम्। स यद्वै- नन्मनसा ग्रहैष्यद्ध्यात्वा है- वान्नमत्रप्स्यत्।।८।। तच्छि-

Page 408

ऐतरेयोपनिषद। ३६ ५्र श्रेनाजिघृक्षत्तन्नाशक्नोच्छि- श्रेन ग्रहीतुम। स यद्दैनच्छिश्रे नाग्रहैष्यद्विसृज्य हैवान्नम- त्रप्स्यत् ॥९ ॥ प्राणेन घ्राणेन। अभिप्राण्य घराता। अथ तदेनदन्नं ग्रहीतुमाक्रष्टुम्। स भोक्ता यद्यदीत्यर्थस्तु सर्वत्र समानः ॥४॥५।६्।।

अथान्नग्रहणो समर्थमाह तदिति -.

त। सैषोन्नस्य ग्रहो यद्वायुर- न्नायुर्वा एष यद्वायुः॥१०॥ तदन्नमावयदाकृष्टवान तथाच यद्ा- युर्योयमपानवायुः स एषोन्नस्य ग्राहकस्त- स्मादेष यद्वायुर्यो वायुः सोन्नायुरन्नद्दारा

Page 409

३६६ ऐतरेयोपनिषद। भोक्तुरायुरायुर्हेतुर्वै प्रसिद्द: ॥ १0 ॥ अथ भोक्तारं दर्शयितुमीशविचारमाइ स इंति। स ईक्षत कथं न्विदं मटते स्यादिति स ईक्षतकतरेणप्रप- द्याइति। स ईक्षत यदिवाचा- भिव्याहतं यदि प्राणेनाभि- प्राणितं यदि चक्षषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचास्पृष्टंय- दि मनसाध्यातंयद्यपानेनाभ्य- पानितं यदि शिश्नेन विसृष्ट- मथ कोहमिति ॥ ११ ॥ अथेदमायतनादि सृष्टं मटते डध्यक्षं मां बिना कथं व्यवस्थितं स्यात् किंच यदि

Page 410

ऐतरेयोपनिषद। २६७ वागादिभि: स्वातन्त्रयेणोक्तयादि क्रियेता- थाहं कः अहं तु न कोपि भवेयं मां तु न कोपि जानीयादिति यावत् अतो त्रायतने सर्वाध्यक्षत्वाय.पादायब्रह्मरन्ध्रयोमध्ये कत- रेण मार्गेणाहं प्रपद्यै प्रवेशं कुर्यामितीक्षत स ईशः॥ ११॥ प्रवेशाद्याह स इति- स एवमेव सीमानं विदार्यै- तया द्वारा प्रापद्यत सैषा वि- दृतिर्नामद्वास्तदेतन्नान्दनमं। तस्य त्रय आवसथास्त्रयः ख- पा अयमावसथो यमावसथो यमावसथ इति ॥ १२॥ सीमानं त्रिकपालसन्धिविदार्याविशदि- त्यस्य द्वारस्य विद्दतिर्नाम अनेन च प्राप्य

Page 411

३६८ ऐतरेयोपनिषद।

ब्रह्मनन्दतीति नन्दनमेवनानन्दमिति च नाम अथ तस्येशस्य प्रविष्टतवेन जीवाख्य- स्याद्य आवसथः स्थानं दक्षिणाक्षि द्विती यो मनस्तृतीयो हृदयम् तेषु चास्य क्रमेण जाग्रदाद्यास्रयः स्वप्ना अवस्थाः प्रतीयन्ते ।१२॥

अथैवमारोपितस्यापवादमाह स इति-

सजातो भूतान्यभि व्यै- ख्यत्किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्मततमम- पश्यदिदमदर्शमिती३॥१३॥ स जात उत्पन्नो मानवो विरलो भूतानि जगदभि सर्वतो विशेषेणैख्यद्विचारयति। इहात्मन्यन्यमन्यत्वेन प्रतीतपदार्थमहं किं .-..- वावदिषद्वदामि किन्तु न किंचिदनिर्वच-

Page 412

ऐतरेयोपनिषद।

नीयत्वात्सर्वस्येति। एवं चैतमेवात्मानंतल ममतिशयेन ततं पूर्ण ब्रह्मापश्यत्पश्यति इ- दमात्मस्वरूपमहमदर्शञ्ज्ञातवानिति इत्या- कारेण प्रत्यक्षतयेति यावत् अत्रान्त्येति शब्दान्त्य ईकारो विचारणार्थे प्लुतः ॥१३।। उक्ताकारापरोक्षवत्वादेवेशस्येदन्द्र इति ना- मेत्याह तस्मादिति- तस्मादिदन्द्रो नामेदन्द्रोह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण। परोक्ष प्रिया इव हि देवा: परोक्षप्िया इव हि देवाः ॥ १४ ॥ इदं दृष्टमिति निर्वचनेनेदन्द्रोनामेश्वरः इदन्द्रोनामेशोहवै प्रसिद्धो लोके तथापि पू- ज्यतमत्वान्नैतन्नाम साक्षाद्ग्हूणन्ति कि- न्तिन्द्र इति अन्येपि देवा: पूज्या हि यतः

Page 413

४00 ऐतरेयोपनिषद।

पुरोक्षप्रिया इव साक्षान्नाम ग्रहणेन न प्रा- यः प्रीणन्ति। तथ्यमतदित्याटत्तिः ।१४।। इत्यैतरेयोपनिषत्प्रसादे तृतीयखण्ड:॥०।। प्रविश्यदेहं प्रायो मुह्यतीश इति नात्मदर्शी भवत्यतो वैराग्यायोपक्रमते पुरुषेहवाइति- पुरुषेह वा अयमादितो ग- र्भो भवति यदेतद्रेतस्तदेतत्स-

न्येवात्मानं विभर्ति तद्यदास्त्रि- यां सिञ्चत्यथैनज्जनयति त- दस्य प्रथमं जन्म ॥ १ ॥ अयं जीव आदौ चन्द्रमण्डलाज्जलेना- न्नेन पुरुषे रेतोरुपगर्भो भवति तदेतद्रेत आत्मनि देहे विभर्ति धत्ते कीटशम्। सर्वा- ङतेजस्संभूतत्ेनात्मानमात्म नो रूपान्तरम्। स्त्रियां यदा तद्रेतः सिञ्चति अथानन्तरमेत-

Page 414

ऐतरेयोपनिषद। ४०१

द्रेतो गर्भ स्वजठरतो जनयति जनकः त- च्चादयं जन्म जीवस्य ॥ १॥ अथ मातुरुदरे स्थितिप्रकारमाह तदिति- तत्सि्या आत्मभूयं गच्छ- ति यथा खमङगं तथा। त- स्मादेनां न हिनस्ति सास्यैत- मात्मानमत्रगतंभावयाि॥२।। यथान्यदङ्गं तथा तद्रेतोपि मातुरात्मभू- यं देहभावं यात्यतो नैनां मातरं पीड़यति प्रविष्टवाणादिवत् अथ सा मातास्य स्वभ- र्तुरात्मानं स्वजठरगं ध्यायति पालयति वा यत्नेन ॥२ ॥ पुंस्त्रीकृत्योक्तिपुरस्सरंद्वितीयजन्म दर्शयति सति- साभावयित्री भावयितव्या भवति तं स्त्री गर्भे विभर्ति सोग्र

Page 415

४०२ ऐतरेयोपनिषद।

एव कुमारं जन्मनोग्रेधिभाव यति। स यत्कुमारं जन्मनोग्रे- धिभावयत्यात्मानमेव तद्वा- वत्येषां लोकानां संतत्या एवं संतताही मेलोकास्तदस्य द्वि- तीयं जन्म ॥ ३॥ सागर्भ भावयत्यतः सापि भर्त्राभावयि- तव्या पालनीयास्ति प्रयत्नेन यावत्तं गर्भ विभर्ति अथ सपिताग्र एव पूर्वमेव जन्म- तो गर्भ एव सिद्धं कुमारं जन्मनोग्रे जन्मा- नन्तरमधिभावयति संस्करोति यदेतद्धि- भावनं तदात्मन एव पितैव पुत्रात्मना जा- यतेयतः अथैतत्पुत्रोत्पादनादि कर्म नमुत्त्य- र्थ किन्तु लोकसंतत्यै हि यत एवं शिष्टव्य- वहाराश्रयणेनैवेमेलोकाः संतता वृद्धिं ग- ताः द्वितीयं तन्मातुरुदराजन्म॥३॥

Page 416

ऐेतरेयोपनिषद।

अवान्तरकृत्योक्तिपुरस्सरं तृतीयजन्म दर्श यति सोस्येति- सोस्यायमात्मापुण्येभ्यः क- र्मभ्यः प्रतिधीयते। अथास्या- यमितर आत्मा कृतकृत्योव- योगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं ज- न्म॥४ ॥ सोयं पुत्ररूप आत्माऽस्य पितुः स्थानेप्र- तिनिधि: क्रियते पित्राकर्तव्यस्य पुण्यक- र्मणः करणाय ततोस्य पितुरात्मा तु कृता- खिलकार्यो वयोगतो गतायुर्मियते परनत्व- तः प्रयन्नेव शरीरत्यागकाल एव वासनया गृहूणाति भावि शरींरम् ॥४॥ उक्वत्यमासार्थे श्षुतिमवतारयति तदुक्त- मिति-

Page 417

४०४ ऐतरेयोपनिषद।

तदुक्त्तमृषिणा। गर्भेनुसन्न- न्वेषामवेदमहं देवानां जनि मानिविश्वा। शतंमापुरआ- यसीररक्षन्नधः श्येनो जवसा- निरदीयमिति गर्भ एवै तच्छ- यानो वामदेव एवमुवाच॥५॥ जन्मत्रयोक्तवन्धो वक्ष्यमाण मोक्षस्तदु- भयमुक्तमृषिणा मन्त्रेण। तथाहि। नुवि- तर्के गर्भे डनुगर्भ एव सन्नहमेषामग्न्यादि दे- वानां विश्वासर्वाणि जन्मान्युक्तान्य वेदं त- व्ज्ञानमहिम्ना। अधः पूर्व तु तत्त्वज्ञाना- दायसीर्लोहमय्य इव हढ़ाः शतं पुरश्शरीरा- णि मा मामरक्षन्परमपदगमनाद्ववन्धुरित्य- र्थः तथापि इयेन इव शीघ्रं निरदीयमहं निगतो बन्धजालात् इति र्मन्त्रपूरणे। एव- मेतदुवाच गर्भग एव बामदेवः ॥ ५॥

Page 418

ऐतरेयोपनिषद। ४०५: मुक्तिमाह वामदेवस्य स इति। स एवं विद्वानस्माच्छरीर- भेदादूर्ध्व उत्क्रम्यामुष्मिन्ख- र्गे लोके। सर्वान्कामानाप्त्वा- डमृतः समभवत्समभवत्॥६। गर्भ एव स बामदेव एवं ज्ञानवान्देह- भेदापेक्षयोर्ध्वेमुष्मित्रिन्द्रियागोचरे स्वर्गे सु- खस्वरूप लोके पदे उत्क्रम्य गत्वा चुद्रान- नदानां पूर्णानन्देन्तर्भावात्तत्रैव सर्वानन्दान- वाप्यामृतो पुनरावत्तिरभवत् कृतपूर्णसाध- नस्यापि सूक्ष्मरागादिप्रतिबन्धे ज्ञानमाइवे- वोदेति देहान्तर इति वामदेवकथेति भाव: । ६ ।। ॥ इति चतुर्थखण्डः ॥ अथ विरक्तानां मुमुचूणामात्मज्ञानाय विचारमाह क इति। कोऽयमात्मेति वयमुपास्महे

Page 419

४०६ ऐतरेयोपनिषद।

कतरः स आत्मा येन वा प- इयति येन वा शणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा खादुचा- ख्ादु च विजानाति ॥ १ ॥ आत्मेत्यहमहमिति सदायमुपास्महे व्य- वहरामः स क इति सामान्यतो जिज्ञासा त- तः सोपाधिकनिरूपाधिकयोर्मध्ये कतरस्स इति विशेष: आद्येपि पश्यामीत्यादि प्रयो- गादयेन पश्यति तदादिषु क इति विशेषः।।१। अथ देहेन्द्रियादुयपाधित्वेन प्रसिद्धमिति न तत्र युक्त आत्मसंशय इत्यन्तःकरण वृत्तिषु संशयायाह यदेतदिति॥ यदेतद्धृदयं मनश्चैतत् सं- ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं

Page 420

ऐतरेयोपनिषद। ४०७

मेघादृाष्टिर्ध्टृतिर्मतिर्मनीषा जू- तिः स्मृतिः संकल्पः क्रतुरसुः कामोवश इति। सर्वाण्येवैता- नि प्रज्ञानस्य नामधेयानि भ- वन्ति ॥ २ ॥ हृदयं बुद्धिर्मनइचैकंवस्तु तद्टत्तयइ्च संज्ञानादयो सङ्ख्याः तत्र संज्ञानं चेतन- ताहमित्यादि स्वबोधः । आज्ञानमाज्ञापन- मीश्वरता विज्ञान सर्वकलाज्ञानम्। प्रज्ञा- नं शुद्धाचित् अयमेववृत्तिषु प्रतिफलतीति वत्तिषूल्लेखोस्य। मेधाश्रुतार्थधारणशक्तिः। दृष्टिरिन्द्रियैर्ज्ञानम्। धृतिर्धैर्यम्। मतिर्मन- नम्। मतौस्वातन्त्रयं मनीषा। जूतीरोगा- दयैर्दुःखिता। कतुार्निश्चयः। कामस्तृष्णा।व- शः स्त्र.स्पर्शाद्यभिलाषः इत्यादिषु चिदि- वाऽडभासमानेष्वात्मा क इत्यर्थे: अथैकदेहे-

Page 421

४०८ ऐतरेयोपनिषद। नेकात्मनाम प्रसिद्वेरयुक्तत्वाच्चैकात्मनि- श्र्वयायाह सर्वाणीति तत्तद्तृत्यभिव्यक्तत्वेन प्रज्ञानस्यैवैतानि नामानि तथाच नित्यम- जं प्रज्ञानमेवात्मेति भावः॥२।। योऽयमात्मा निरुपधिः स सर्वाघिष्ठानत्वा- त्सर्वात्मा परंब्रह्मेत्याहैष इति। एष ब्रह्मैष इन्द्रएष प्रजापतिरेते सर्वे देवा इमानिच पञ्चमहाभू- तानि पृथिवीवायुराकाशआ्रपो ज्योतींषीत्येतानीमानि च क्षु- द्रमिश्राणीव वीजानीतराणि चेतराणि चाण्डजानि च जा- रुजानिच स्वेदजानि चोद्भि- ज्जानि चाश्वा गावःपुरुषा ह- स्तिनो यिंकचेदं प्राणि जङ्गमं

Page 422

ऐतरेयोपानैषद।

च पतत्रि च यञ्च स्थावरम् सर्वे तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोक: प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥ ३ ॥ ब्रह्महिरण्यगर्भः। प्रजापतिर्विराट्। देवा अग्न्यादयः। क्षुद्रमिश्राणिमसकादिक्षद्र- जन्तुसहितानी तराणीतराणि परस्परं भिन्ना नि स्थावरजङ्गमभेदेन द्विविधानीमानि वीजा- नीव स्वस्वकार्य प्रतिकारणानीव मुख्यकार- णत्वाभावात्। द्विविधवीजान्येव दर्शयत्यण्ड- जादि हस्त्यन्तेन। जारूजानि जरायुजानि। पतत्रचाकाशे पतनशीलं पक्ष्यादिजङ्गमभेदः। अयमर्थः। ब्रह्मादि हस्त्यन्तमेष प्रज्ञानाख्य आत्मैवात्मैवैषां कारणमितिभावः पुनः यत् किंचेदं स्थावरजङ्गमं प्राणि तत्सर्व प्रज्ञानेत्रं नीयते स्थाप्यते नेनेति नेत्रम् प्रज्ञानमेव ने-

५९

Page 423

४१० ऐतरेयोपनिषद।

त्रमस्य तत् आत्मैवास्य स्थितिहेतुरिति भावः पुनःप्रज्ञान एव प्रतिष्ठितं लीनं च भवतीदं सर्व प्राणि आत्मैव लयहेतुरपीतिभावः तथा च सर्वो लोकः प्रज्ञानेत्र: प्रज्ञानेनैव नीयते सदातः प्रज्ञैव सर्वस्य प्रतिष्ठाश्रयोधिष्ठान- मिति प्रज्ञानमेव ब्रह्मेति॥ ३॥ निर्धारितब्रह्मात्मज्ञानफलमाह स इति- स एतेन प्रज्ञेनात्मनास्मा होकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाप्त्वा मृतः समभवत्समभवत्॥४॥ कोयमात्मति विचारेप्रटत्तः स मुमक्षुरेते- न विचारितेन स्वस्य प्रज्ञानस्वरूपेणास्मा- ल्लोकादुत्क्रम्य देहावसाने परमानन्दरूपे ब्र- ह्मण्यभेदं गत्वा निखिलभेदाऽडभासशून्यो मृतो डपुनरावत्तिर्भवतीत्यर्थश्र्तुर्थखण्डा- न्त्यमन्त्रार्थसमान: ।। ४ ।।

Page 424

ऐतरेयोपनिषद।

दययानन्तरामस्य मृदुर्यन्थोयमुम्भितः। श्रीस्वामिभास्करानन्दैरैतरेयाख्यवेदके ॥ १ ॥ कृशामद्धी: क् भाष्येण क वेदान्ताब्धिमंथनम्। तथाष्यघटितं कि वा गुरुदेवदयालवे ॥ २ ॥ इत्युपनिषत्प्रसादे ऐतरेयोपनिषत् तत्र पञ्चमखण्डइच ॥५॥

Page 425

तैतरीयशिक्षावल्ी।

॥ श्रीगणेशाय नमः ॥। अथ निजांशीभूतजीवान्परमार्थस्वरूपबोध- नेन शिवान्सम्पादयन् परमात्मा कृष्णायजुर्वेदीय- तैत्तिरीयशाखोपनिषदमारभमाण: 'श्रेयांसि बहु- विप्नानीति' प्रसिद्धेर्बह्मज्ञाने परमश्रेयस्त्वनातीव- विन्नसम्भवात् प्रथमया शिक्षाख्यवल्ल्या डखिल- विन्नप्रशमनोपायान्त:करणशुद्धये पुएयजनकाध्य- यनादि सम्बन्ध्यनेकशिक्षा: प्रदर्शयन्नादौ विघ्न- शमनसमर्थशान्तिमन्त्रं मुमुन्ुजनेनापि वेदपाठे पठनीयमाह शन्न इति। शन्नो मित्र: श वरुण: शं नो भवत्वर्यमा शंन इन्द्रो वृहस्प- तिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्र- त्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं

Page 426

तैत्तिरीयशिचावली। .४१३

ब्रह्म वदिष्यामि ऋतंवदिष्या- मि सत्यं वदिष्यामि तन्माम- वतु तद्द क्ारमवतु अवतु माम अवतु वक्तारम् ॐ शान्तिः शान्तिः शान्ति: ॥ १।. दिनरात्रिचतुर्वलवाणीचरणदेवताः क्र- मेण मित्रादयो महत्पराक्रमविष्ण्वन्ता नो डस्माकं शं सुखं सुखहेतवो भवन्तु न विना सुखं श्रवणादिज्ञानसाधनं स्यादित्येवमग्रे प्यूह्यम्। हे वायो ते नमः ब्रह्मणे परब्रह्मरूपाय च सर्वक्रियाहेतुत्वात्ते नमः परब्रह्मपरोक्षं त्वं तु प्रत्यक्षमिति त्वामेव ब्रह्म ऋतं सत्यं सत्यं परमार्थसद्रूपं च वदिष्यामीति स्तु- तिः तद्वाय्वात्मब्रह्म मां विद्यार्थिनं वक्तार- माचार्य चावत्विति द्विःप्रार्थनादरेण। त्रिः

Page 427

४१४ तैत्तिरीयशिक्षावल्ली।

इति तैत्तिरीयोपनिषत्प्रसादे प्रथम- वल्ल्यां प्रथमोनुवाकः ॥ अथ स्वरवर्णादिच्युतो वेदपाठोनर्थायेत्याह शीक्षामिति- ॐ शीक्षांव्याख्यास्यामः वर्णः स्वरः मात्रावलम साम सन्तान: इत्युक्त: शीक्षाध्या- य: ॥ १॥ शिक्ष्यते गुरुभिरुच्चारणे या संहतिर्वर्णा- दीनां सा ताम्। अकारादिर्वर्णः स्वरउदा- त्तादि: मात्राहूस्वाद्या वलंप्रयत्नः अद्रुतवि- लम्बितोच्चारणं साम सन्तान: परः संनि- कर्षः एते च सम्प्रदायतः शिक्षणीया इति भावः॥। १॥ इति द्वितीयोनुवाकः ॥

Page 428

तैसिरियशिक्षावली। ४१५

अथ प्रार्थनाप्रतिज्ञ ब्रह्मात्मज्ञानावताराय भूमिकां चाहोपासनां सहेति। सह नौ यशः सह नौ ब्रह्मव- र्चसम् अथातः संहिताया उप- निषदंव्याख्यास्याम:पञ्चस्व- धिकरणेषुअधिलोकमधिज्यो- तिषमधिविद्यमधिप्रजमध्या- त्मम ता महासहिता इत्या- क्षते अथाधिलोकम् प्ृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आ- काश: सन्धिः ॥ १॥ लोके यशो ब्राह्मणजातितेजइच नौ गुरु- शिष्ययोः सहास्तु इति प्राऽर्थयनीयं शिष्ये- ण। अथाध्ययनाशिक्षानन्तरं न ध्यानं विना-

Page 429

४१६ तैत्तिरीयशिक्षावल्ली।

त्मग्रहणेऽ्लंमनोतः संहिताया वेदस्योपनि- षदं लोकादिपञ्चविषयां बुद्धिमुपासनां ब्रूम: लोकाद्यधिकृत्य यानि पञ्चज्ञानानि ता म- हासंहितामहोपनिषदः इति वदन्ति अथ लोकमधिकृत्योपासनं यथा इषेत्वोर्जे इति मन्त्रेषकारानन्तरोयएकारः पूर्वरूपं पूर्ववर्णः सा पथिवी उत्तररूपमुत्तरो वर्णो य एका- रात्तकार: साद्यौः स्वर्गलोक: यत्र पूर्वोत्तर- रूपे सन्धीयेते स सन्धिर्मध्यदेशस्तयोर्वर्ण- योः स आकाशो भुवर्लोकोन्तरिक्षम् ॥१॥ येन च पूर्वोत्तरवर्णौ सन्धीयेते तत्सन्धानं त. योर्मध्ये-द्वित्वसिद्धोन्यस्तकार: स वायुरिति भावनालोकसम्बन्ध्युपासनम् एवमग्रेपीदमे- वोदाहरसं चतुर्षूपासनेषु॥ वायुः सन्धानम् इत्यधिलोकं अथाधिज्योतिषं अग्निःपूर्वरू- पम् आदित्य उत्तररूपम् आप:

Page 430

तैत्तिरीयशिक्षावली। ४१७ सन्धिः वैद्युतः सन्धानम् इत्य- धिज्योतिषम अथाधिविद्यम आचार्य: पूर्वरूपम् ॥ २ ॥ अन्ते वास्युत्तररूपम् विद्या सन्धिः प्रवचनरसंधानम् इ- त्यधिविद्यम् अथाधिप्रजम् मा ता पूर्वरूपम् पितोत्तररूपम् प्र- जासन्धिः मजनन सन्धान म् इत्यधिप्रजम् ॥ ३॥ आदित्य श्चन्द्रमण्डलमित्येके। वैद्युतो विद्युतः ॥ २॥ शिष्योन्तेवासी। विद्याग- न्थस्तदुद्यारणं प्रवचनम् ३ प्रजननमुत्पत्ति: पुत्रादिप्रजाया:४॥३॥ अथाध्यात्मम् त्रधरा हनु: ५२

Page 431

४१= तैत्तिरीयशिक्षावल्ली।

पूर्वरूपम उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिव्हासन्धानम् इत्यधात्मम इतीमामहास हि ताः य एवमेता:महासरहिता व्याख्याता वेद सन्धीयते प्रज- या पशुभि: ब्रह्मवर्चसेनान्ना- द्येन सुवर्ग्येण लोकेन ।। ४ । इमाः पञ्च। य एतावेदानुतिष्ठति स प्र- जादिस्वर्गान्तफलैयुज्यते ॥४ ॥ इति तृतीयोनुवाकः अथ विना मेधांनवुध्यत ब्रह्मेति मेधाकरं जप्यमन्त्रमाहय इति। यश्छन्दसामृषभोविश्वरू- पः छन्दोभ्योध्यमृतात्संवभू-

Page 432

तैत्तिरीयशिक्षावल्ली। व समेन्द्रो मेधया स्पृणोतु अ- मृतस्य देवधारणो भूयासम् शरीरं मे विचर्षणम् जिद्डा मे- मधुमत्तमाकर्णाभ्यां भूरिवि- श्रुवम ब्रह्मण: कोशोसि मेध- यापिहितः श्रुतं मे गोपाय। आवहन्तीवितन्वना ॥ १ ॥ य ओङ्कारो विश्वरूपः सर्वार्थाडभिन्ना- खिलशब्दाक्षरेष्वकारात्मना व्यापित्वात्सर्व- रूपोतो वेदानामृषभः श्रेष्ठः तथा छन्दोभ्यो- धिगतं यदमृतं कैवल्यं तद्रेतोस्तदर्थ संभू- तः स इन्द्रवाचकत्वादिन्द्र ईश्वरो मेधया- धारणशक्तिबुद्या मा मां योजयतु हे देव प्र- णवश्रुतार्थस्य धर्ताहं स्यां प्रसादात्तव तथा शरीरं नीरोगं जिव्हातिप्रियसत्यवाग्भयात्

Page 433

तैत्तिरीयशिक्षावल्ली।

भूरिवव्हात्मश्रवणं कुर्याम् अथ परब्रह्मणः कोशोसेरिवोपलब्धिस्थानमस्यने कलौकिक- बुद्या Sडच्छन्नस्तमतः श्रुतमात्मज्ञानं मे हृदि प्रकाशय। उत्तराश्रयेचान्त्यपदे॥१॥ यात्रामात्रश्ियमन्तरेश न मेधास्यादित्याशय- कमुमुन्नुगहस्थान्प्तिहोमेन श्रीकरमन्त्रा- नाह कुर्वाशीति कुर्वाणा Sचीरमात्मनः। वासा सि मम गावश् अन्नपा- ने च सर्वदा ततो मे श्रियमाव- हलोमशांपशाभि: सह खाहा१ आमायन्तु ब्रह्मचारिण:खा- हा २ विमायन्तु ब्रह्मचारि- णःखाहा ३ प्रमायन्तु ब्रह्म- चारिण: खाहा ४ दमायन्तु

Page 434

तैत्तिरीयशिक्ावली। ४२१

ब्रह्मचारिण: स्वाहा ५ शमा- यन्तु ब्रह्मचारिण:स्वाहा६॥२।। हे इन्द्र यतः श्री:अचिरं कुर्वाणोविलम्बं न कुर्वती आत्मनो मम वस्त्रादि सर्वदा आ- बहन्ती प्रापयिष्यति सर्वतो वितन्वानावर्द- यिष्यति च ततः नानाविधपशुभिर्विराज- मानत्वाल्लमशां वहुरोमयुतां श्रियं मे मह्य- मावह सम्पादय इदं हविस्ते स्वाहा ददे। अथ श्रीविशेषाचार्यत्वायाह।आयन्तुमा मां पठनाय ब्रह्मचारिणः । मा वियन्तुवियुक्ता- न्मा भवन्तु। प्रमाः प्राप्ुवन्तु।दम् दान्ति- म्। शम् शान्तिञ्वाऽडसर्वतो यन्तु यशस्क- री विद्यास्त्वति भाव: ॥ २ ।। त देवाहयश इति। यशोजने Sसानि स्वाहा १ श्रेयान्वस्यसो सानि स्वाहा २

Page 435

४२२ तं त्वाभगप्रविशानि स्वाहा ३ समाभगप्रविश स्वाहा ४ त- स्मिन्सहस्रशाखेनिभगाह त्व यि मृजे स्वाहा ५ यथा SSप: प्रवतायन्ति यथा मासा अह- र्जरम् एवम् मां ब्रह्मचारिण: धातरायन्तु सर्वतः स्वाहा ६ प्रतिवेशोसि प्रमाभाहि प्रमा- पद्यस्व ॥ ३ ॥ यशोयशस्व्यहं सर्वजने Sसानिस्याम तथा वस्यसोवसीयसोतिशयेन वसुमतोपि श्रे- यान्। हे भगवन तं ब्रह्मण:कोशं त्वामहं- स त्वं मामभेदोस्त्वावयोरितिभावः सह- स्रशाखनेकरूपे त्वय्यहं पापानि हेभगनि-

Page 436

तैत्तिरीयशिक्षावल्ली। ४२३ मृजे नितरां शोधयामि। प्रवताप्रवणवता- निम्नदेशेनाऽडपः जशयत्यहोभिःसर्वभित्य- हर्जरं संवत्सरं द्वादशमासा वा यथा य- न्त्येवं मामायन्तु हे धातः सर्वतोदिग्भ्यो ब्र- ह्माचारिणः अथोपस्थानमन्त्रार्थः गृहनिक- टेविश्रामाय गृहं प्रतिप्रवेशः सोसित्वमो- द्वारोब्रह्मार्थो तोमामां प्रपद्यस्वानुग्हाण प्रभाहि प्रकाशय च यशसा सर्वत्र ॥ ३ ॥ इति चतुर्थोनुवाकः ॥४ ॥ अथ ब्रह्मज्ञानोपयोग्युपासनं विवतुः प्रणवः सहस्रशाख इत्युक्तमिति प्रणवशाखासु- व्याहृतिषु ब्रह्मतदङ्गदेवतोपासनमाह घञ्चमेभूरिति। भूर्भुवः सुवरिति वा एता- स्तिस्त्रों व्याहतय: तासामुह- स्मै तां चतुर्थीमाहाचमस्यः प्र

Page 437

४२४ तैत्तिरीयशिक्षावल्ली।

वेदयते महइति तद्रह्म स आ- त्मा अङ्गान्यन्या देवता: भू- रिति वा अयं लोक: भुवइत्य- न्तरिक्षम सुव इत्यसौ लोकः१। वै स्मरणे। उ अप्यर्थे। ह किल। स्म- अतिते। व्याहतय एता इति स्मर्यते। ता- सां सम्वन्धिनीं मह इत्येतां चतुर्थीमपि किल व्याहति महाचमससुतः प्रवेदयतेस्म ज्ञातवान्। तन्महस्तु ब्रह्मापरिच्छिन्नमा- त्मा च मुख्योन्यास्तिसस्त्वङगानि। व्याह तीनां स्वस्वाधिष्ठातृदेवता डमेदायोक्तो भू रितीत्यादावितिरनुकरणार्थः । सुवः स्वः। असौ स्वर्गः॥१॥ मह इत्यादित्य: आदित्येन वा सर्वेलोकामहीयन्ते भूरिते

Page 438

तैतिरीयशिक्षावली। ४२५ वा अग्निः भुव इति वायुः सुव रित्यादित्यःमह इति चन्द्रमाः चन्द्रमसावावसर्वाणिज्योती षि महीयन्ते भूरिति वा ऋ चः भुव इति सामानि सुवरिति यजथि॥२॥मह इति ब्रह्म ब्रह्मणावावसर्वे वेदा महीयन्ते भूरिति व प्राण: भुव इत्यपानः सुवरितिव्यान: मह इत्यन्नम् अन्नेन वावसर्वे प्राणा मही- यन्ते ता वा एताश्रतस्त्रश्चतु- र्धा चतस्रश्चतस्रो व्याह्तयः ता यो वेद स वेद ब्रह्म सर्वेस्मै देवावलिमावहन्ति॥ ३॥ ५४

Page 439

४२६ तैत्तिरीयशिक्षावल्ली।

महीयन्ते सूर्येण प्रकाइयन्ते चन्द्रेण स्वरू- पामृतोपभोगदानेन नक्षत्रादि दैवतानि वर्ध- न्ते ब्रह्मणोङ्गारेण तुव्याप्यन्ते अन्नेनेन्द्रिय- दैहवायवः शक्ता: क्रियन्ते।अयमर्थःब्रह्मात्म-

रहम् तथा यं लोकोग्निऋग्वेदः प्राणवायुरेवं चतुर्भि: प्रकारैः प्रत्येकं चतस्त्रश्र्तूरूपाया भूराद्यास्तिस्रो व्याहतयस्तामदीयान्यङ्गा- नीति य उपासनेन वेद स ब्रह्म वेद ब्रह्मज्ञा- नाहो भवति अथ देवास्तस्मै सर्वभोग प्रा- पयन्ति प्रजा इवेति। स्वाराज्यमवान्तरफलं च लभत इतिभाव: ॥२।३।। इति पञ्चमोनुवाकः ॥५॥ थोक्तोपास्य महर्ब्रह्मोपलब्धिस्थान- मार्गाद्याह स इति। सय एषोन्तर्हदय आकाशः तस्मिन्नयं पुरुषो मनोमयः अ- मृतो हिरण्मयः अन्तरेण तालु

Page 440

४२७ के य एषस्तन इवावलम्बते से- न्द्रयोनि: यत्रासौ केशान्तो विवर्त्तते व्यपोह्य शीषकपाले भूरित्यऔ्नौ प्रतितिष्ठति भुवइति वायौ॥ १॥ सुवरित्यादित्ये मह इति ब्रह्मणि आमोति स्वा- राज्यम् आमोति मनसस्पतिम वाक्पतिश्चक्षुष्पतिःश्रोत्रपति- र्विज्ञानपतिः एतत्ततो भवति आकाशशरीरं ब्रह्म सत्यात्म- प्राणारामं मन आनन्दम् शा- न्तिसमृद्धममृतम् इतिप्राची- नयोग्योपास्व ॥२॥

Page 441

तैत्तिरीयशिक्षावलली।

सोयं पुरुषो महर्व्याहृतिरूप ब्रह्मात्माह- द्याकाशे ज्ञायते। अथ जिह्हामूलस्योपरि भागौ तालुके तयोरन्तरेण मध्य योवलम्बते मांसखण्डस्तत्सम्बन्धिनी यत्र च केशान्तस्त त्र मूर्ददेशे शिरःकपाले विदार्य या विशेषेण दशांगुलमुपरिवर्त्तते सा सुषुम्नाख्या नाडी- न्द्रस्य कार्यब्रह्मणोयोनिर्मार्गःप्राप्तेः तथा च तयोत्क्रम्योपासको भराद्यधिष्ठात्रग्न्यादि- रूपेण भूरादिलोकेषु स्थित्वा स्थित्वा मह- लोंके धातरूपस्सन्नखिलमनसस्पतिम् हिर- ण्यगर्भ प्राप्य स इवाखिलवाक्पतित्वादिस्वा- राज्यं प्राप्नोति ततोनन्तरमेतदीदशं ब्रह्म भ- वति। कीदशम्। सूक्ष्ममखण्डं वा। सद्रूपं। सर्वप्राणिगम्। मनस्साक्ष्यानन्दम्। सर्व- शान्त्यभिव्यक्तमविनाश। तस्माद्चे प्राचीन योग्य त्वमेतदुपासनं कुरु ॥१॥॥

इति षष्टोनुवाकः॥ ६॥

Page 442

तैत्तिरीयशिक्षावलली। ४२६ अथ वाह्यआन्तरश्च पञ्चकत्रयात्मकोखिल- लोक: परस्परमभिन्नोहमेव वेत्युपासनं स्वाराज्यफलकमाह प्ृथिवीति। पृथिव्यन्तरिक्षं दयौर्दिशोवा- न्तरदिश: १ अग्निर्वायुरादि- त्यश्रन्द्रमानक्षत्राणि २ आ- पओषधयोबनस्पतय आकाश आत्मा ३ इत्यधिभूतम् त्रप्र- थाध्यात्मम् प्राणोपानो व्या- न उदान: समान:१ चक्षुःश्रो- त्रं मनोवाक् त्वक् २ चर्ममार सचस्रावास्थिमज्जा ३ एत- दधिविधाय ऋषिरवोचत् पा- ङ्क्तं वा इदर सर्वम् पाड्क्ेनैव

Page 443

४३० तैत्तिरीयशिक्षावल्ली।

पाङ्कए स्पृणोतीति ॥ १ ॥ आत्मशब्दौ देहाथा। स्त्नावा नाडी। म- ज्जास्थ्यन्तर्गतघृताकारधातुः। एतदध्या- त्माधिभूतात्मकं जगदधिकृत्यावोचद्वेदः । पञ्चाक्षरच्छन्दःपङ्क्ति: पङ्क्तेरिदं संवन्धि पञ्चसंख्याबन्मयत्वेन पाङ्क्तं वै सर्वमिदंज- गत् तस्मात् पाङ्क्ते न पाङ्क्तसंवन्धयुपा- सनेन पाङ्क्े बिराडभिमानि हिरण्यगर्भे प्रान्नोति ॥ १ ॥ इति सप्तमोऽनुवाकः ॥७॥ अथ सर्वात्मत्वेन व्यापित्वेन च ब्रह्मतयो- ङ्ारोपासनमाहोमिति। ओमिति ब्रह्म ओमितीदं सर्वम् त्रमित्येतदनुकृतिहस्म . * वा अप्यो श्रावयेत्याश्रावय- न्ति ओमिति सामानि गाय-

Page 444

तानरांयाशनावली। ४३१ न्ति ओष्शोमिति शस्त्राणि श.सन्ति ओमित्यध्वर्युःप्रति- गरं प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनु- जानाति ओमितिब्राह्मणः प्र- वक्ष्यन्नाह ब्रह्मोपानवानीति त्र- ह्वौवोपानोति॥१॥

अर्थाभिन्नवागव्यापित्वादोमिदंजगद्यतः यतश्र्ैतत्कुर्वित्यन्वनन्तरमङ्गीकारे ओमिति- कृति हस्मव प्रसिद्धा अपि किंच प्रणवपूर्वका- ध्वर्युवाक्येनार्तिवजः श्रावयन्ति मन्त्रं देवान् तथोङ्कारपूर्वकमेव गायन्ति। गीतिरहिता ऋ- चः शंसन्ति।प्रतिगरंयजुर्विशेषंपठन्ति।प्र- सौति प्रेश्यति।अनुजानाति जुहुधीति।तथा ब्रह्मवेद्मुपान्नवानि बुद्धिस्थं करवाणीत्यव्यय-

Page 445

४३२

नार्थ मन्त्रं वक्ष्यन्नोमित्याह वदति तेन चो- पाप्तोत्येव वेदम्। तस्मादोङ्गारो ब्रह्मेत्युपा- सीतेति शेषः ॥ १॥ इत्यष्टमोऽनुवाकः ॥८॥ अथोपासनाशक्तः कर्मासक्तोमुमुच्तुरकाम: कर्मैव कुर्यादित्याहर्तञ्चेति॥ ऋतञ्न स्वाध्यायप्रवचने च सत्यञ्च स्वाध्यायपवचने च तपश्च स्वाध्यायपवचने च दमश्च स्वाध्यायप्रवचने च शमश्च स्वाध्यायपवचने च अग्नयश्च स्वाध्यायप्रवच- ने च अग्निहोत्रं च स्वाध्याय प्रवचने च अतिथयश्च स्व- ध्यायप्रवचने चमानुषञ्चस्वा-

Page 446

तैसिरीयशिक्षावल्ली। ४३३ ध्यायप्रवचने च प्रजा च खा- ध्यायपवचने च प्रजनश्च खाध्यायप्रवचने च प्रजाति- इच सवाध्यायप्रवचने च स- त्यमिति सत्यवचाराथीतरः तप इति तपो नित्य: पौरुशि- ष्टिः खाध्यायप्रवचेन एवेति नाकोमौद्नल्यः तद्धि तपस्त- द्वितपः ॥ १ ॥ मनसा यथार्थानुसन्धानमृतम् वाचा य- थार्थभाषणं सत्यम्। स्वाध्यायो वेदपाठः । प्रवचनम् धर्मार्थ स्मरणार्थ वा तदध्यापनं। तपश्रान्द्रायणादि। दमो दशेन्द्रियाणाम्। शमो मनसः। अग्न्याधानम्। होमकर्म। अतिथिपूजा। मानुषं लौकिकं बिवाहादौ बंधु-

Page 447

४३४ तैत्तिरीयशिक्षावल्ली।

पूजादि। प्रजापुत्राद्या तदर्थ यत्नः। प्रजनो- भार्यागमनमृतौ। प्रजातिःपुत्रादेर्विवाहादि पौत्राधयर्थम्। एतानि कुर्यात स्वाध्यायप्रवचने त्वहरहः कार्ये इत्यनयो: तत् तत्कर्मणा समु- च्चयार्थकस्य चस्य चाळत्तयः अथ सत्यमेव श्रेय इतिरथीतरसुतः सत्यवचा मन्यते। पुरुशिष्टिसतस्तपो नित्यस्तु तप इति। हिय- तस्तत्स्वाध्यायप्रवचनमेव परमं तपस्तस्मा- त्ते एव श्ेयसी इति मुग्दलापत्यनाकः ॥ १ ॥ इति नवमोऽनुवाकः ॥ ९॥ अरथानधीतवेदस्यापि स्वाध्यायरूपब्रह्मयज्ञ- फलायाहरहःपठनीयमाहाहमिति। अहं वृक्षस्य रेरिवा कीर्तति: पृष्ठं गिरेरिव ऊर्ध्वपवित्रो वा- जिनीव खमृतमस्मि द्रविणए सवर्चसम् सुमेधा अमृतोक्षि-

Page 448

तैत्तिरीयशिक्षावल्ली। ४३५

तः इति त्रिशङ्कोर्वेदानुवच- नम् ॥ १ ॥ अहमेव जगतः प्रेरको नाशको वेत्यद्रि- शृङ्गमिवोन्नतं मे यशः । वाजिनि सूर्ये यथा- सुष्ठमृतं मुक्तिर्मधु वामधुविद्योपासकानां तथोर्ध्व सर्वाधिकं यथास्यात्तथापवित्रः कै- वल्यं गतोस्मि। सवर्चसमखण्डचिदाकारं ज्ञानमेव मे धनम्। अमृतेन चिद्रूपेणोक्षितो व्याप्तो यतोतोहं सुमेधाः। वेदानुज्ञानप्रा- प्त्यनन्तरं त्रिशङ्कोरिदं सर्वै वचनं वामदे- वस्येव ॥ १ ॥ इति दशमोऽनुवाकः॥ १0॥ अथात्मज्ञानोपयोगिबुद्धयादिसंस्कारकं कर्म प्रागात्मज्ञानात्करीयमाह वेदमिति- वेदमनूच्याचार्योन्तेवासिन- मनुशास्ति। सत्यं वद धर्म चर

Page 449

४३६ तैत्तिरीयशिक्षावल्ली।

स्वाध्यायान्मा प्रमद: आचा- र्याय प्रियं धनमाहृत्य प्रजा- तन्तुं माव्यवच्छेत्सी: सत्यान्न प्रमदितव्यम धर्मान्न प्रमदित- व्यम् कुशलान्न प्रमदितव्यम् भूत्यै न प्रमदितव्यम् स्वा- ध्यायपवचनाभ्या न प्रमद- तव्यम् ॥ १॥ वेदमध्याप्य शिष्यानुशासनं कुर्यात्। मा प्रमदो सावधानो माभूर्मा त्यजकुर्विति याव- त्। गुरवेधनमिष्टं दत्वा समावृत्य वंशर्द्धिहा- नं मा कुरु पुत्रार्थ यतस्व। कुशलात्स्वरक्षा- र्थात्कर्मणः। भृत्यै ऐश्वर्यहेतुकर्मणः । कथ- मपि न त्याज्यमित्यावत्ति:॥१॥ देवपितृकार्याभ्यां न प्रम-

Page 450

तैत्तिरीयशिक्षावल्ी। ४३७ दितव्यम। मातृदेवो भव पितृ देवो भव आचार्यदेवो भव अ- तिथिदेवो भव यान्यनवद्यानि कर्माणितानि सेवितव्यानि नो इतराणियान्यस्माक सुचरि- तानितानि त्वयोपास्यानि॥२। मातादेवो यस्य देववन्निषेवणीया मात्रा- दयः । अनवद्यान्यनिषिद्धानि निषिद्वानी- तराणि ॥ २ ॥ नो इतराणि ये के चास्मच्छे- यांसो ब्राह्मणास्तेषां त्वयाSS सनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धयाऽदेयम् श्रिया

Page 451

४३८ तैत्तिरीयशिक्षावल्ली

देयम् हिया देयम् भिया देयम् संविदा देयम् अथ यदि तेकर्म विचिकित्सा वा वृत्तविचिकि- त्सा वा स्यात ॥ ३ ॥

इतराण्यशभान्यचार्यकृतान्यपि न का- र्याणि। अथास्मत्तः स्वतः श्रष्ठा ये ब्राह्मणा स्तेषामासनदानादिना संत्कार: कार्यः दानं च श्रद्धयास्तिक्यधियाना श्रद्दया। श्रियामु- खकान्त्या नतन्म्लान्या अथवा धनानुसारेण न वित्तशाव्येन। नास्य योग्यतापर्याप्तमि- दमिति हिया नम्तया वा। धर्महानिभिया अधार्थेेन वा। संविदाऽवधानतयानान्यग- तचित्ततया। अथ कदाचित्तव श्रौतस्मार्त कर्मस्वाचारे वा संशयो भवेत् ॥ ३ ॥ ये तत्र ब्राह्मणा: संमर्शिन:

Page 452

तैत्तिरीयशिक्षावल्ली। ४३६ युक्ता आयुक्ता: अलूक्षा धर्म- कामा: स्युः यथाते तत्र वर्तेरन् तथा तत्रवर्तेथा: अथाभ्यख्या- तेषु ये तत्र ब्राह्मणा: समर्शिन: युक्ता आयुक्ता अलूक्षा धर्म कामा: स्युः यथा ते तेषु वर्तेरेन् तथा तेषु वर्तेथा: एष आ्र्रदेश: एष उपदेश: एषा वेदोपनिषत एतदनुशासनम् एवमुपासित- व्यम् एवमुचैतदुपास्यम॥४॥ तदा ये तद्देशे विवेकिनो धर्मयुक्तास्तत्प- राश्ारूक्षा धर्ममात्रकामा भोगेर्थे चाना- सक्तास्ते तत्र कर्मस्वाचारे वा यथा तथा त्व- मपि अथायं पातकी त्येव मुक्तेष्वपि त इवैव

Page 453

४४० तैत्तिरीयशिक्षावल्ली। व्यवहार। एष श्रौतो विधि: स्मार्तश्र्वोपदे- शो वेदानामुपनिषद्रहस्यं सार इश्वराज्ञा चेत्येवमेव कर्तव्यमित्यावत्ति: ॥४ ।। ॥ इत्येकादशः । अथ पाठान्ते च पठनीय इति शिक्षार्थमन्ते शिक्षाध्यायस्योक्तमेव किश्चिद्वैलक्षरायेन शान्तिमत्रमाह शं न इति- शं नो मित्र: शवरुण: शं नो भवत्वर्यमा शंन इन्द्रो बृहस्प- तिः शं नोविष्शुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायोत्वमेव प्र- त्यक्षं ब्रह्मासि त्वामेव प्रत्य- क्षं ब्रह्मावादिषम ऋतमवा- दिषम् सत्यमवादिषम् तन्मा- मावीत तद्वककारमावीत् आ-

Page 454

तैत्तिरीयब्रह्मवल्ली। ४४१ वीन्माम आवीद्वक्तारम् ॐ शान्तिःशान्तिःशान्ति:।। १।। अवादिषमुक्तवानहम् आदीदपालयत् शान्तिपाठफलमवातं मयेति भावः ॥ १॥ इति तैसिरीयोपनिषत्प्रसादे द्वादशोनु- वाकः प्रथमवल्ली च।। अथ शित्तितस्य मुमुक्षोः श्रवीयवल्ल्यो- राधन्तयोः शान्तिपाठेनाहरहरादावन्ते च पाठस्य शान्तिमन्त्रस्यपठनीयतां सूचयन् ब्रह्मविद्यादरार्थमुक्तानुक्त शान्तिमन्त्रौ प्रथममाह शमित्यादिना- शं नो मित्र: शं वरुणः शं नो भवत्वर्यमाशंन इन्द्रो बृहस्प- तिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्र- त्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं

५६

Page 455

४४२ तैत्तिरीयब्रह्मवज्ञी। ब्रह्म वदिष्यामि ऋतंवदिष्या- मि सत्यं वदिष्यामि तन्माम- वतु तद्वक्कारमवतु अवतु माम अवतुव क्तारम् ॐ शान्तिःशा- न्तिः शान्तिः ॥१। सह ना- ववतु सह नौ भुनकु सह वीर्य करवावहै तेजस्विनावधीतम- स्तु मा विद्विषावहै ॐशान्ति: शान्तिः शान्तिः । २।। नौ आबाम् गुरुं शिष्यं च मामू सह परमात्मा रक्षतु भुनक्तु भोजयतु प्रापयतु भोगम्। वीर्य विद्यार्थयत्नं सह मिलित्वा- ध्ययनाध्यापनादिश्रमम्। तेजस्वि सफल- म् नौ आवयोः। केनचिद्विद्वेषं न करवाव- है। त्रितापानां शान्तिरस्तु ॥ २ ॥

Page 456

अथ परमार्थस्वरूपनिरूपकवल्लीमारभमाणा: कैवल्यमुक्ते: केवलज्ञानमेव साधनमिति सूच- यन् ब्राह्मणोन फलं मत्रेणा तु फलं केवलव- स्तुलक्षं चाह ब्रह्मेति- ब्रह्मविदाननोति परम्। तदेषा- भ्युक्त्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेदनिहितं गुहायां परमे व्योमन् सोश्नुते सर्वान्कामा- न्सह ब्रह्मणा विपश्चितेति॥१॥ परं परमार्थस्वरूपं वेद्यमाप्नोत्यस्ति तदेषा उक्तब्राह्मणार्थवाचिकेयमृगुक्तावेदे। मिथ्या च जडंच परिमितं च यन्न भवति तद्रह्माख- ण्डपरिपूर्ण परमे ज्ञानाङ्तयोत्कृष्टे व्योमन्ह- द्याकाशे गुहायां बुद्दौ साक्षितयास्थितं यो वेद स विपश्िविता सर्वज्ञेशात्मना ब्रह्मस्व- रूपेण सर्वकामान्सहैकदैवाप्नोतिसर्वात्मत्वा- त् सर्वात्माभवतीति भावः ॥ १॥

Page 457

४४४ तैत्तिरीयब्रह्मवल्ली।

सत्यज्ञानानन्तस्वरूपलक्षणोक्तयनन्तर ज- गत्कारसत्वरूपतटस्थलक्षएं सूचयति तस्मादिति- तस्माद्वा एतस्मादात्मनआ- काश: संभूत: आकाशाद्वायुः वायोरगनिः अग्नेरापः अद्भ्यः पृथिवी पथिव्या ओषधयःओ- षधीभ्योन्नम अन्नात्पुरुषः॥२॥ वै भिन्नक्रम : सस्माद्व्यवहित ब्राह्मणोक्ता- देतस्मादनन्तरमन्त्रोक्तादात्मना ब्रह्मणः स- काशादेवेत्यर्थः ओषधयस्ते वक्षा येष्वन्नं जायते। अन्नाद्रेतो द्वारा पुरुष इति प्रधान- त्वान्निर्देश: ॥२ ॥ अथात्मस्वरूपविवेकाय पुरुषेवयवान्दुर्विज्ञया उन्तःस्थतया कोशतवेनान्यत्र व्यवहतान् विवचुराह स वा इति-

Page 458

तैत्तिरीयब्रह्मवल्ली। ४४५ स वा एष पुरुषोन्नरसमयः तस्येदमेव शिरः अयं दक्षिणः पक्ष: अयमुत्तर: पक्ष: अयमा- त्मा इदं पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति॥ ३ ॥ स उक्तोन्नसारशुक्रमय एष पुरुषो वै प्रसिद्धो लोके तस्य चेदं प्रत्यक्षं शिर एव शिरः भुजौ पक्षौ। कण्ठात्कटिपर्यन्तोयं म- ध्यभाग आत्मावयवीव। कट्यधः पादयुगं पु- च्छं पुच्छाकारत्वात् प्रतिष्ठाऽडधारश्चाखि- लोर्ध्वगस्य। सर्वाधार आत्मेति विवक्षया चे- दगुक्तिः। तत्तत्रान्नमयत्वे मन्त्रोप्यस्ति ॥३॥ इति तैत्तिरीयोपनिषत्प्रसादे ब्रह्मवल्ल्यां प्रथम:खण्ड: ॥।० ॥ मन्त्रमाहान्नादिति- अन्नाद्वै प्रजा: प्रजायन्ते याः

Page 459

४४६ तैत्तिरीयब्रह्मवल्ली काश्च पृथिवीं श्रिता: अथो Sन्ने नैवजीवन्तिअथैनदपि यन्त्य- न्ततः अन्नं हि भूतानां ज्येष्ठ- म् तस्मात्सर्वौषधमुच्यते सर्वै वै तेSन्नमामुवन्ति येन्नं ब्रह्मो- पासते अन्नं हि भूतानां ज्येष्ठम् तस्मात्सर्वौषधमुच्यते अन्ना- द्भूतानि जायन्ते जातान्यन्ने- न वर्धन्ते अदते Sत्ति च भू- तानि तस्मादन्नं तदुच्यते इति। श्रितागताः। अन्ते एनदन्नं प्रविशन्ति तत्र लीयन्ते। कुतो हियतोन्नं ज्येष्ठं प्रथ- मजं सर्वेषां नुद्रोगस्यौषधं च। अथ हि य- तोन्नं ज्येष्ठ कारणमोषधं च तस्माद्येन्नं ब्र-

Page 460

तैत्तिरीयब्रह्मवल्ी। ४४७ ह्मभावयन्ति ते सर्वान्नं लभन्ते अथ यतो भूतान्युत्पाद्य संवर्ध्यान्तेऽत्ति भूतैश्र्वाद्यते स्वयं तस्मादन्नमुच्यते। अत्र मन्त्रे १४ पादाः ॥ १॥ कोशान्तरमाह तस्मादिति-

तस्माद्वा एतस्मादन्नरसम- यादन्योन्तरआत्माप्राणमयः तेनैष पूर्णः सवा एष पुरुषवि- ध एव तस्य पुरुष विधताम् अन्वयं पुरुषविधः तस्य प्राण एव शिर: व्यानोदक्षिण: पक्षः अपानउत्तर: पक्ष: आकाश आत्मा पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति ॥ २॥

Page 461

४४८ तैत्तिरीयब्रह्मवल्ी।

तस्मादुक्तादन्योभ्यन्तरः प्राणमयो वायु- भूतो गौण आत्मा तेन चान्तर्गते नैषोन्नम- यो घट इव जलेन पूर्णः । सः प्राणमयोपि पुरुषाकार एव परन्तु न स्वतः किन्त्वन्नम- यस्य तदाकारतामनुपश्चात्। तामादिद्रवो यथान्तर्गत्वा सूषाकारो भवति न पूर्वम्। आकाशोदेहमध्यभागगताकाशस्थः समान आत्मा मध्यभागएवात्मत्वस्यलोके प्रसिद्धेः। प्थिवी तत्स्थ ऊर्ध्वगाम्युदानः क्षत्र दण्ड- वद्देहोपष्ठम्भकत्वात्प्रतिष्ठा ॥२॥ इति द्वितीय: ॥०।। प्राणविषये श्लोकमाह प्राणमिति- प्राणं देवा अनुप्राणन्तिमनु- ष्या: पशवश्च ये प्राणो हि भूता नामायुः तस्मात्सर्वायुषमु- च्यते सर्वमेवत आयुर्यन्ति ये

Page 462

तैत्तिरीयब्रह्मवलली। प्राणं ब्रह्मोपासते प्राणो हि भू- तानामायुः तस्मात्सर्वायुषमु- च्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य ॥१ ॥ प्राणवायुमनुदेवा इन्द्रियाणि चेष्ठन्तेन्ये च। हियत आयुर्जीव न हेतुस्तस्मात्सर्वा- युः यत एवं तस्माद्रह्म तयोपासकाः सर्व श- तसंवत्सरात्मकं पूर्णम्। अथ शरीरे प्रतीत- श्चिदात्मा तु योन्नमयस्य स एव तस्य प्रा- णमयस्य ॥ १॥ तृतीयकोशमाह तस्मादिति- तस्माद्वा एतस्मालाणमयात् अन्योऽन्तर आत्मा मनोमयः तेनैषपूर्णः स वा एष पुरुष विध एव तस्य पुरुषविधताम् अन्वयं

Page 463

४५० तैतिरीयब्रह्मवल्ली।

पुरुषविधः तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वा- ङ्विरसः पुच्छं प्रतिष्ठा तदप्ये- ष श्लोको भवति ॥ २ ॥ एष प्राणमयः। स एष मनोमयः। तस्य प्राणमयस्य। अयं मनोमयः । आदेशो ब्राह्मणग्रन्थः । अथर्वणाङ्गिरसा च दष्टा मन्त्रा ब्राह्मणावाथर्वाङ्गिरसः। एवं च यजु- रादिविषयकमनेवत्तयो मनसश्शिर आद्य- वयवाः॥२॥ इति तृतीयोनुवाकः ॥३॥ मनोविषये मनोविषयवागात्मकयजुरादि- विषये च श्लोकमाह यत इति। यतो वाचो निवर्तैते अप्रा- प्य मनसासह। आनन्दम्ब्रह्म-

Page 464

तैत्तिरीयब्रह्मवल्ली।

णो विद्वान्नविभेति कदाचनेति तस्यैष एव शारीर आत्मा य: पूर्वस्य ।। १। वाचो वाग्ूपा वेदा: विचारितवेदजन्यं ब्रह्माकारं मनश्र यतोयं निर्गुणत्वादज्ञेय- त्ाच्च साक्षाद्घटादिमि वा गहीत्वा Sप्र- काश्य च निवर्तन्ते न निरुपयन्ति न प्रकाश- यन्तीत्यर्थः ईदशं ब्रह्मस्वरूपमानन्दं यो- वेत्युपास्ते भावयति स संसारी न भवति ब्रह्मैव भवतीति भावः। तस्य मनोमयस्या१॥ चतुर्थकोशमाह तस्मादिति। तस्माद्वा एतस्मान् मनो- मयात् अन्योन्तर आत्मा वि- ज्ञानमयः तेनैष पूर्णः स वा एषपुरुषविधएव तस्यपुरुषवि-

Page 465

४५२

धताम् अन्वयंपुरुषविधः तस्य श्रद्धैव शिरः ऋतं दक्षिण: प- क्षः सत्यमुत्तरःपक्षः योगआ- त्मा महः पुच्छंप्रतिष्ठा। तद- प्येष श्लोको भवति ॥ २ ॥ एष मनोमयः । स एष विज्ञानमयः । तस्य मनोमयस्य। अयं विज्ञानमयः। वि ज्ञानं धीर्निश्र्यात्मिका निश्च्चये सति धीट- त्तिः श्रद्दा प्रथमंजायत इति सा शिरस्त- स्य विज्ञानमयस्य।ऋतं मानसस्य निश्र्वयो- वाह्यार्थस्य च सत्यं संशयादि राहित्येन धियस्तत्परता योगः । महोधीगतश्विदा- भास:॥२ ॥ इति चतुर्थोनुवाकः ॥४॥ विज्ञानमये श्लोकमाह विज्ञानमिति- विज्ञानं यज्ञं तनुते कर्मा-

Page 466

तैत्तिरीय ब्रह्मवली। ४५३ णि तनुतेपि च। विज्ञानं दे- वास्सर्वे ब्रह्म ज्येष्ठमुपासते।। विज्ञानं ब्रह्मचेद्वेद तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हि- त्वा सर्वान्कामान्समश्नुत ॥ इति तस्यैष एव शारीर आ- त्मा यः पूर्वस्य ॥ १॥ विज्ञानं विना न यज्ञादि भवती त्यखिल- कारणत्वेन ज्येष्ठत्वाद्रह्मतया विज्ञानं जान- न्ति देवास्तस्मादन्योप्येवं यो भावयति भा- वनाच्च यदि न च्युतो भवति तर्ह्यपापोखि- लभोगान्सम्यग् भुङ्क्ते। तस्य विज्ञानम- यस्य ॥ १॥ कोशान्तरमाह तस्मादिति- तस्माद्वा ए तस्माद्विज्ञान-

Page 467

४५४ तैसिरीयब्रह्मवल्ली मयात् अन्योन्तर आत्माSडनं दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषवि- धताम् अन्वयं पुरुषविधः त- स्य प्रियमेव शिरः मोदो द- क्षिण: पक्षः प्रमोद उत्तर:पक्ष: आनंद आत्मा ब्रह्म पुच्छं प्र- तिष्ठा। तदप्येष श्लोको भ- वति॥२॥ एष विज्ञानमयः।स एष आनन्दमयः । तस्य विज्ञानमयस्य। अयमानन्दमयः। इ- ष्ठेन्तःकरणस्याद्योभावः प्रियस्तत्र दृष्ट दवि- तीयोमोदो लब्धेप्रमोद: अविवक्षितप्रिय- त्वादि विशेषस्स एव सामान्यत आनन्दः।

Page 468

तैत्तिरीय ब्रह्मवली। ४५५ ब्रह्मान्त:करणे तद्वृत्तिषु च स्फुरतः प्र- तिबिम्बप्रकाशस्याश्रयो बिम्बचैतन्यम् । अथात्रान्नमयो देहस्तदन्तःसंचारी वायुश्र् प्राण: प्रसिद्ध: तयोश्रवैवं सतो: पूर्व संकल्पः पदार्थेततोध्यवसायस्ततो यत्नेन लाभादा- नन्द इत्ययं सर्वान्तरः कोशइचापरिज्ञा- तत्वाद्ब्रह्मचित्वेनेति बोध्यम् ॥२ ॥ ॥ इति पञ्चमः ॥ पुरुषे चैवमखिलाधारत्वेनानन्दे ब्रह्मरयात्म- नि विवेचिते श्लोकमाहासन्निति- असन्नेव स भवति असद्र- ह्रोति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद सन्तमेनंततो विदुरिति। तस्यैष एव शारीर आरत्मा यः पूर्वस्य ॥ १॥ अध्यस्ताखिलानात्मनो विनाशे विनाशा-

Page 469

४५६ तैत्तिरीयब्रह्मवल्ली।

नरहाधिष्ठानब्रह्मणोप्य डभावं यो भावयत्य- नात्मन्यात्मज्ञो तज्ज्ञस्स एवासद्रवत्यन्यथा तु ब्रह्मात्मतया सदा वर्तमानमेवैनमाहु- र्वेदाः॥ ३ ॥ अथ स्वरूपतटस्थलक्षसाभ्यामुपक्षितं ब्रह्म पञ्चकोशविवेचनेनात्म तयोक्त्ा तत्रासन्ने- वेति मत्रेस्ति नास्तीति पक्षद्वयोक्ते: प्राप्तसंशयस्य प्रश्नमवतारयत्यथेति- अथातोऽनुप्रश्नाः उताऽवि- द्वानमुंलोकं प्रेत्यकश्चनगच्छ- ती३ आहो विद्वानमुं लोकं प्रे- त्य कश्चित्समश्नुता३ उ॥२। यतोस्ति नास्तीति मतद्वयमतस्तदनन्त- रं प्रइना जायन्ते। उत शब्दोप्यर्थे। वि- चारार्थौ च प्लुतौ। कइचन कोप्यडविद्दान- पि प्रेत्य देहंविहायामुमुक्तब्रह्मास्यं लोकं प्रकाशं गच्छति प्राप्नोति अहोअथवा क-

Page 470

तांत्तरीयब्रह्मवली। ४५७ शरिवद्विरलो विद्वान उएवेति प्रश्नौ बहु ब- चनन्तु ब्रह्मास्ति न वेति संशयरूपप्रश्ना- भिप्रायेण। अर्यं भावः । यद्यसद्रह्म तर्हि तज्ज्ञेनापि नाप्येत नाप्यत एव खपुष्पं के- नापि यतः यदि चास्ति तह्यज्ञेनाप्याप्यं सर्वात्मत्वात्सर्वत्वाच्चेति ॥२॥ सदपि सुवर्स वलयाद्यात्म कमनभिज्ञेन सुवर्णार्थि- नापि न गृह्यते, गरह्यत एव चाभिज्ञेनातस्सर्व- कारणत्वेन सर्वात्मकं ब्रह्मास्त्येवेति सूचयए श्चितः कारणतां वर्णयति स इति- सोडकामयत बहु स्यां प्रजा- येयेति स तपो तप्यत स त- पस्तप्त्वा इदंसर्वमसृजत यदि- दं किंच तत्सृष्ट्वा तदेवानुपा- विशत् तदनुप्रविश्य सच्च त्य- च्चाभवत् निरुक्तं चानिरुक्त्तं च

Page 471

४५८ तैत्तिरीयब्रह्मवल्ली।

निलयनं चानिलयनं चविज्ञा- नं चाविज्ञानं च सत्यंचानृतं च सत्यमभवत् यदिदं किंच त- त्सत्यमित्याचक्षते। तदप्येष श्लोको भवति ॥ ३॥

प्रजायेयोत्पद्येयाहमित्थं च बहुभविय- मित्यैच्छत्स तटस्थलक्षणे प्रकृतोयं आत्मा। तत इत्थमिदमिदं च स्यामिति तपोज्ञान- मालोचनं कृत्वा यदिदं भाति तत्सर्व सृष्टा भूत्वा तत्सृष्टं प्राविशत्तत्र प्रविष्ट इवाप्रती- यत।अथ सन्मूर्ते एथ्व्यप्ेजोरुपमसदमूर्त्त वाय्वाकाश च निर्देश्यमनिर्देशयं चाश्रया- नाश्रयरूपं च चेतनाचेतनं च सापेक्षस- त्यमनृतं च यत्किंचित्तद्यस्मात्सत्यं परमार्थ- सत्यमात्मस्वरूपमेवा भवत्तस्मात्तदुखिलं स-

Page 472

तैत्तिरीय ब्रह्मवल्ली।

त्यंत्रह्मात्मस्वरूपमेवेति वदन्ति तत्तस्मिन्नु- क्तेर्थे मन्त्रोप्यस्ति ॥ ३॥ इति षष्ठः ।।

मत्रमाहासदिति-

असद्वा इदमग्र आसीतू ततो वै सदजायत तदात्मानं स्व- यमकुरुत तस्मात्तत्सुकृतमु- च्यत इति ॥ १॥ इद जगदगे पूर्वमुत्पत्तेरसदव्यक्तं ब्रह्म स्वरूपमेवासीत् ततोऽव्यक्ताद्रह्मणस्सदि- द जगदुदपद्यत। तदानीमन्योपादानाभा- वादात्मानमेव जगदाकारमकरोत्तद्रह्म यत- स्तस्मात्तद्रह्म सुकृतनामसुकृतं च शोभनं कार्यम् शोभनत्वं च कार्याकारत्वेप्यविकृत- कारणात्मत्वम् ॥ १॥

Page 473

४६० तैत्तिरीयब्रह्मवल्ली।

अथाऽऽनन्दंब्रह्मणो विद्वानिति श्वुतर्बरह्मानन्द- योः प्राप्तं भेदं वारयति यद्ढै इति। यद्वैतत्सुकृतं रसो वै सः रसं ह्येवायं लब्ध्वानन्दीभवति को ह्येवान्यात्कः प्राण्यात य- देष आकाश आनन्दो न स्या- त् एष ह्येवानन्दयति यदा ह्यवैष एतस्मिन्नदृश्यSनात्म्ये Sनिरुक्े Sनिलयने Sभ- यं प्रतिष्ठां विन्दते अथ सोऽ भयं गतो भवति यदाह्यवै- ष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्त्वेव

Page 474

तैत्तिरीयब्रह्मवल्ली। ४६१

भयं विदुषोऽमन्वानस्य तद प्येषश्लोको भवति ॥२॥ यत्तदुक्तं सुकृताख्यं ब्रह्मसरसो निखिल सारस्सत्यपदार्थ आनन्द इति यावत् य- तो विनाशि पुत्राद्यनुभवकाले दुःखमेवलो- कस्य तथाच रसत्वमव लब्ध्वायमात्मा स- दानन्दो भवति रसत्वं चानन्दत्वमात्मन- आविद्यकैस्सदप्यसदिव यतो यद्यदेष आ- त्माकाशो Sखिल व्याप्यानन्दो न भवेत्तर्हि को जीवेत्प्राण्यात्तत्तद्व्यापारं वा कुर्यात् स्वार्थानन्दार्थमेव जीवनंव्यापारावेति भावः एवञ्चैष एव पूर्णत्वाद्विषयद्वारानन्दयतिस- र्वानानन्दस्वरूपेणाभिव्यज्यत इत्यर्थः।त- स्मादकार्ये निराकारे वागगोचरे सर्वाधिष्ठा- नत्वेन निराधार एतस्मिन्नसेयदैष आत्मा निर्भयमभेदो यथा स्यात्तथा स्थिति लभते तर्हयविनाशी भवति यावत्त्वरमुदल्पमप्य-

Page 475

४६२ न्तरं भेदं भावयति तावन्नश्यत्येव प्रति जन्म किं चाभेदममन्वानस्य भेदं विदुषो जन्मादिभयप्रदमीश्वरादि तद्रह्लैव भवति। तदस्मिन्नर्थे मन्त्रोप्यस्ति ॥२॥ ॥ इति सप्तमः ॥ मत्रमाह भीषेति- भीषास्माद्वातः पवते भीषो- देति सूर्यः। भीषास्मादग्निश्चे- न्द्रश्च मृत्युर्धावति पञ्चम इ- ति। १॥ भृत्या इव विना विश्रामं नियतकालमस्मा- त्परमात्मनो भयेन वातादयोगमनदहनपा- लनमारणादि कुर्वन्त्यगतब्रह्मभावाः॥१॥ ननु ब्रह्मैकरसमानन्दस्तुभिद्यत इति नत- योर भेद इत्याशङ्कय भेद औपाधिकोत एवाखिलानित्योपाधिवासनाशून्यो निष्का-

Page 476

तेत्तिरीयब्रह्मवल्ली। ४६३ मो वेदान्तविन्नित्यनिरतिशय सामान्या- नन्दो दृष्ट इत्याशयकमाह सैषत्यादि- सैषानन्दस्य मीमांसा भव- ति। युवास्यात्साधु युवाध्या- पक आशिष्ठो दढिष्ठो बलि- ष्ठः तस्येयं पृथिवी सर्वावित्त- स्य पूर्णा स्यात स एको मा- नुष आनन्दः । ते ये शतं मानुषा आनन्दा: स एको म- नुष्यगन्घर्वाणामानन्दः श्रो- त्रियस्य चाकामहतस्य। ते ये शंत मनुष्यगन्धर्वाणामा- नन्दाः स एको देवगन्धर्वाणा-

Page 477

४६४ मानंद:श्रोत्रियस्य चाकामह- तस्य। ते ये शतं देवगंधर्वाणा मानंदा: स एकः पितृणा चि- रलोकलोकानामानन्द: श्रो- त्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोका- नामानन्दा: स एक आजान- जानां देवानामानंद: श्रोत्रिय- स्या चाकामहतस्य। ते ये श- तमाजानजानां देवानामान- न्दाः स एक: कर्मदेवानां दे- वानामानन्दःये कर्मणा देवा- नपियन्ति श्रोत्रियस्य चाका-

Page 478

४६५ महतस्य। ते ये शतं कर्मदेवा- नां देवानामानन्दाः स एको देवानामानन्द:श्रोत्रियस्यचा- कामहतस्य। ते ये शतं देवाना- मानन्दा:स एक इन्द्रस्यानंद: श्रोत्रियस्य चाकामहतस्य। ते येशतमिन्द्रस्यानन्दाःसएको वृहस्पतेरानंद:श्रोत्रियस्यचा- कामहतस्य।ते ये शतं बृहस्प- तेरानन्दा:सएकः प्रजापतेरा- नन्द:श्रोत्रियस्य चाकामहत- स्य। ते ये शतं प्रजापतेरान- न्दाः स एको ब्रह्मण आनन्द: 12

Page 479

४६६ तैत्तिरीयब्रह्मवल्ली।

श्रोत्रियस्य चाकामहतस्य॥।२।। एष आनन्दस्य विचारोस्ति यदि युवासाधु- स्सुन्दरस्सुशीलो डध्यापकस्सर्वविद्यः तथाति शयेना S5श्वत्याशिष्ठो प्रतिहताज्ञतया- तिक्षिप्रकारी दृढ़स्सर्वेन्द्रियपाटवो देहवली- धनपूर्णाखिलभूपतिः कोपि स्यात्तर्हि तत्रा- भिव्यक्त आनन्दो मानुषउच्यते स चैकः अ- यमत्र लोके निरतिशयोयं आनन्दः स एव सर्वान्यापेक्षयाहीन इत्येकत्वमुक्तम्। नित्य- निरतिशयसामान्यानन्देन्तर्भावतौल्येप्यत्र- पर्याये श्रोत्रियस्य चाकामहतस्येति च नो- क्तम् अथ मानुष्यादये गन्धर्वत्वं गताः। ये वा देवभेदाजात्या गन्धर्वाः । ये च पितरो ये- षां चिरस्थायि लोको लोक: स्थानम्। ये वा डडजाने देवलोके जाता: स्मार्तकर्मणा देवाः। तथा ये केवलवैदिककर्मणा देवत्वं यन्ति देवाद्योतनात्मकाश्य। ये च स्वतो देवास्त्रय- स्त्रिंशतिर्वसुरुद्रादित्याः। यश्र्ेन्द्रो हात्रिंशः

Page 480

४६७ यश्र्वैषां गुरु:। यो वा त्रयसित्रिंशः प्रजापति- र्विराट्। यो वा व्यष्टिर्रह्मा। एषु समनुष्यै- कादशपर्यायोक्तेषूत्तरोत्तरस्य पूर्वपूर्वापेक्षया शतगुण आनन्दःहिरण्यगर्भानन्दानन्तगुण- श्रव विधातृत्वेपिविरक्तस्यात्मारामस्येति स- मुदायार्थः ॥२॥ प्रथैवं सर्वप्रत्यक्षानन्दाभिन्न विद्वत्प्रत्यक्षके वलानन्दाभिन्नं ब्रह्मास्तीति निरूपणास्यफल- माह स यश्चायमिति- स यश्चायं पुरुषे यश्चासा- वादित्ये स एकः सय एवं वि- त अस्मालोकालेत्य एतमन्न- मयमात्मानमुपसंक्रामति ए- तं प्राणमयमात्मानमुपसंक्रा- मति एतंमनोमयमात्मानमु- पसंक्रामति एतं विज्ञानमय-

Page 481

४६= तैत्तिरीयब्रह्मवल्ली। मात्मानमुपसंक्रामति एतमा- नन्दमयमात्मानमुपसंक्रामति। तदप्येष श्रोको भवति ॥ ३ ॥ य एवमुक्तप्रकारेणादित्यपुरुषयो र्विद्व- दविदुषोरानन्दमेंकं वेत्ति सोन्यदष्ट्यामरण- काले प्रेत्योत्क्रमणं कृत्वापि वस्तुतो नोत्काम- ति किन्त्वत्रैव परमानन्दब्रह्मचिद्रूपेण पञ्च- कोशोपलक्षित सर्वात्मा भवतीत्यर्थः ॥ ३॥ इत्यष्टमः ॥ श्लोकमाह यत इति। यतो वाचो निवर्त्तन्ते अ- प्राप्य मनसा सह आनन्दंत्र- ह्मणो विद्वान्न विभेति कुत- श्चनेति ॥ १॥ चतुर्थखण्डोयं कृतार्थः। ब्रह्मविद्रह्नैव भ-

Page 482

तात्तरीयब्रह्मवल्ली। ४६६ वतीत्यानन्दरूपब्रह्मातिरिक्ताभावाङ्गयाभा- वइति भावः ॥ १॥ अथ भयाभावान्द्यमूल कानुतापाभावमपि भयाभावहेतुहेतुकमाहैतमिति। एतः ह वावनतपति किम- ह साधुनाकरवम किमहं पा- पमकरवमिति सय एवं विद्वा- नेते आत्मान९ स्पृुते। उभे ह्येवैष एते आत्मान स्पृणुते य एवं वेद। इत्युपनिषत् ॥२। सह नाववत्विति शान्तिः।३।। य एवमुक्तरीत्याऽडत्मनः सर्वात्मकत्वं वेत्ति नैतं तपत्युद्वेजयत्यन्तकालेनुतापः कु- तो न मया सुकृतं कृतं कृतं च दुष्कृतमि- त्ययम् यतः स एते सुकृतदुष्कृते अप्या-

Page 483

४७० तैसिरीयब्रह्मवल्ली। त्मानमेवस्पणते जानाति। उक्तार्थोक्तिस्स-

हज्ञानम् ॥ २ ॥ इति तैत्तिरीयोपनिषत्प्रसादे ब्रह्मवल्लीतन्- नवमखण्डश्र ॥

अथ ब्रह्मवल्ल्युक्तब्रह्मज्ञानस्य साधनं तप उ- पासनञ्च विवततुराख्यायिकां शान्तिमत्रपूर्विकां श्रद्धाविश्वासयोरुत्पादिकामुपादत्ते भृगुरिति। सहनाववत्विति शान्तिः ॥ ३ ॥ भृगुर्वै वारुणि: वरुणं पितर- मुपससारअधीहि भगवो ब्रह्मे- ति। तस्मा एतलोवाच अन्नं- प्राणं चक्षः श्रोत्रं मनो वाच- मिति तष्होवाच यतो वा इ- मानि भूतानि जायन्ते येन

Page 484

तैत्तिरीयभृगुवल्ली। ४७१

जातानि जीवन्ति यत्प्रयन्त्य- भिसंविशन्ति तद्विजिज्ञासस्व तद्रह्मेति। स तपोऽतप्यत स तपस्तप्त्वा ॥ १॥ समीपं गत्वा पप्रच्छ भगवन्तुपदिश ब्र- ह्म। वाक्यसमाप्तावत्रेति शब्दाः। पिता च चन्द्रवोधनेच्छया समीपवाति शाखामिवा- न्नादिशब्देन देहादि प्रोवाचाथ लक्षणं च स्थिरचरजीवायत उत्पन्नार्सन्ति प्रयन्ति ्रियमाणाश्र् यत्सम्यग्विशन्ति तादात्म्यं यान्ति तद्रह्म तद्विचारयेति। विचारश्र्दे- हादावेवेतिभावः। भृगुस्तपश्च्ित्तसमाधानं कृत्वा ।। १ ॥ इति तैत्तिरीयोपनिषत्प्रसादे भृगुवल्ल्यां प्रथमखण्डः ॥ १॥ अन्नंब्रह्मेति व्यजानात अ-

Page 485

४७२ तैत्तिरीयभृगुवल्ली।

न्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवं- ति अन्नं प्रयंत्यभिसंविशंतीति तद्विज्ञाय पुनरेव वरुणं पितर- मुपससार अधीहि भगवोब्रह्े ति। तं हो वाच तपसा ब्रह्मवि- जिज्ञासस्व तपो ब्रह्मेति। स त- पोऽतप्यत स तपस्तप्त्वा ॥१॥

हि यतोद्यतेत्तिवान्नं देहस्तत एव जीव ज- न्मादि दृश्यते तोन्नं ब्रह्मेति ज्ञात्वाप्यनिश्च- यात्पुनः पप्रच्छ। चित्तैकाग्यमेव ब्रह्मब्रह्मा- तिसाधनमिति तथैव पुनर्विचारयेत्युक्तो जातकिंचित्सूक्ष्मधीर्विचार्य॥ १॥ इति द्वितीयः ॥

Page 486

तैत्तिरीयभृगुवल्ली। ४७३ प्राणो ब्रह्मेति व्यजानात् प्रा- णाद्येव खल्विमानि भूतानि जायंते प्राणेन जातानि जीवन्ति प्राणं प्रयंत्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितर- मुपससार अधीहि भगवो ब्रह्मे- तितं होवाच तपसा ब्रह्मविजि- ज्ञासख तपो ब्रह्मेति। स तपो Sतप्यत स तपस्तप्त्वा॥ १ ॥ हि यतः प्राणसत्तयैव प्राणिनां जन्मस्थि- तिश्चोच्यते मृतिस्त्वन्यथातः प्राणं ब्रह्मेति ज्ञात्वापीत्यादि पूर्ववत् ॥ १॥ इति तृतीयः ॥ मनो ब्रह्मेति व्यजानात् म-

६०

Page 487

४७४ तैत्तिरीयभृगुवल्ली। नसो ह्येव खल्विमानि भूतानि जायंते मनसा जातानि जीव- न्ति मनः प्रयंत्यभिसंविशन्ती तितद्विज्ञाय पुनरेव वरुणं पितर. मुपससारअधीहि भगवो ब्रह्मे- ति। तं होवाच तपसा ब्रह्म वि- जिज्ञासस्व तपो ब्रह्मेति। स तपो तप्यत स तपस्तप्त्वा॥१॥ हि यतो मनो राज्यतोपि जन्माद्यनुभूय- ते वासनया च सवन्ने तथेदमपि मनोमयमे- वातो मनो ब्रह्मेतीत्यादिपूर्ववत् ॥१॥ इति चतुर्थः ॥ विज्ञानं ब्रह्मेति व्यजानात विज्ञानाद्येव खल्विमानि भू-

Page 488

तैत्तिरीयभृगुवल्ली। ४७५ तानि जायन्ते विज्ञानेन जाता- नि जीवन्ति विज्ञानं प्रयंत्यमि संविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवोत्रह्मेति। तंहोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति। सतपोतपप्यतस तपस्तप्त्वा १ हि यतोखिलमानसादि जन्मस्थितिलया विज्ञानेनैव प्रकाशयन्ते Sतोविज्ञानं ब्रह्मेति ज्ञात्वापि पुनः पित्राज्ञप्श्चित्तसमाधानं कृ- ला। १ ॥ इति पञ्चम: ॥ आनंदोब्रह्मेति व्यजानात् आनंदाद्येव खल्विमानि भू- तानि जायन्ते आनंदेन जा-

Page 489

४७६ तैत्तिरीयभृगुवल्ली।

तानि जीवन्ति आनंदं प्रयन्त्य भिसंविशन्ति सैषा भार्गवी वा- रुणीविद्या परमे व्योमन्प्रति- छठिता। य एवं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्च- सेन महान्कीर्त्या।। १॥ एवं तपोविचारयोरभ्यासाज्जातातिसूक्ष्म- धीरभगुर्वैषयिकमेव विविधत्वं न वस्तुतः ज्ञानंज्ञानमित्यखण्डैकत्वप्रतीते: केवलं तु ज्ञानमानन्दस्वरूपमेव समाधितृष्णीभावा- भ्यामखिलसंमतमित्यानन्दोब्रह्माखिलाधि- ष्ठानमितिव्यजानात्स्वयम् । सा ख्यातैषो- क्ताविद्या संविदे वंचिदाकाशे पर्यबसन्ना ता- मेवमुक्तरीत्या यो जानाति सोपि तत्रैव पर्य-

Page 490

तैत्तिरीयभृगुवल्ली । ४७७ वस्यति। नैतावदेव। वहुन्नयुग्वद्न्नभुक् पुत्रादिहस्त्यादिब्रह्मतेजोभिर्यशसा ख्यात- श्र्वभवति ॥ १ ॥ इति षष्ठः ।। तरथैवं ब्रह्मज्ञब्रतोक्तिपूर्वकं विचारासमर्थमन्द- प्रज्ञजिज्ञासुभ्य उपासनप्रनप्रकरणंप्रारभते प्राणोवैइत्यादिना- अन्नं न विन्द्यात् तद्रतम्। प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरं प्रतिष्ठितम शरीरे- प्राणःप्रतिष्ठित:तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नम- न्ने प्रतिष्ठितमं वेद प्रतितिष्ठ- ति अन्नवानन्नादोभवति महा- न्भवति प्रजया पशुभिर्ज्रह्व- र्चसेन महान्कीर्त्या ॥ १॥

Page 491

४७८ तैत्िरीयभृगुवल्ली। अन्नमयदेहेवगतं ब्रह्मातोऽन्नं न नि- न्द्यात् यथाप्राप्तमद्यादितिभावः तदनि- न्दिनं ब्रतंनियम उक्तरीत्या ब्रह्म विदुष। अथ शरीरमध्ये प्रतिष्ठितत्वात्प्राणः प्राण- निमित्तकस्थितिमत्वाच्छरीरं चान्नम् तथा- न्योन्याधीनीकरणादन्नादत्वं च तयोरिति यो वेद भावयति सततं स ब्रह्मतयाडचल- प्रतिष्ठामन्नवानित्यादिपूर्वोक्तफलानि च ल- भते ॥१॥ इति सप्तमः॥

माहापो वै इति- अन्नं न परिचक्षीत तड्- तम्। आपो वा अन्नम ज्यो- तिरन्नादम अप्सु ज्योति: प्र- तिष्ठितम् ज्योतिष्यापः प्रति-

Page 492

तैत्तिरीयभृगुवल्ली। .४७६ छ्ठिताः तदेतदन्नमन्ने प्रति- ष्ितम्। स य एतदन्नमन्ने प्रतिष्ठितंवेदप्रतितिष्ठति अन्न वानन्नादो भवति महान्भ- वति प्रजया पशुभिर्ब्रह्मवर्चस न महान्कीर्त्या ॥ १ ॥ यतोन्नमुपास्ते Sतः कदन्नमपि नात्स्या- मीति न त्यजेत्। अथान्योन्येनान्योन्यवि- नाशस्यदर्शनादन्नत्वमन्नादत्वं चाग्निजलयोः अर्थस्तु सप्तमखण्डवत् ॥ १ ॥ इत्यष्टमः ॥ पूर्वोपासकब्रतोक्तिपूर्व कमुपासनान्तरमाह- पृथिवीति- अन्नं वहुकुर्वीत तद्रतम् । पृथिवी वा अ्न्नम् आकाशो

Page 493

न्नाद: पृथिव्यामाकाशः प्र- तिष्ठितः आकाशे पृथिवी प्र- तिष्ठिता तदेतदन्नमन्नेप्रति- ष्ठितम्। सय एतदन्नमन्ने प्रतिष्ठितं वेदप्रतितिष्ठति अ- न्नवानन्नादो भवति महा- न्भवति प्रजया पशुभिर्रह्मव- र्चसेन महान्कीर्त्या।। १॥ यथापः साक्षादग्निरद्विस्तद्वदन्नं वहु- कुर्यादुपासकः कर्थचित् । अन्तर्नीयते य- त्तदन्नं यस्यान्तर्नीयते तदन्नादमित्यन्नान्ना- दत्वे प्टथिव्याकाशयोः। अर्थस्तु नापूर्वः॥१। इति नवमः ॥ अथ मुमुत्तुगह्यवश्यानुष्ठेयान्नदानं तदैहिक- फलं च पूर्वोपासकब्रतोक्तिपूर्वकमाह नेति-

Page 494

तैत्तिरीयभृगुवल्ली। न कंचन वसतौ प्रत्याच- क्षीत तद्रतम्। तस्माद्यया क- या च विधयावह्वन्नं प्रामुया- त् अराध्यस्मा अन्नमित्या- चक्षते। एतद्वै मुखतोन्नरा- द्धम् मुखतोस्मा अन्नवराध्यते एतद्वै मध्यतोन्नं राद्म् मध्य- तोस्मा अन्नं राध्यते एतद्वा अ- न्ततोन्नंराद्वम् अन्ततोस्माअ- न्नराध्यते। य एवं वेद ॥ १॥ पथिव्याकाशौ सर्वेषां वासंदत्त इत्यु- पासकोपि निशिनिवासाया Sडगतं न कम- पि निराकुर्यात्। वासितेम्यो Sन्नमवश्यं देय यस्मात्तस्मात्केनापि प्रकारेण विहितेनान्नं

Page 495

४८२ तैत्तिरीयभृगुवल्ली।

संगहणीयात् वदन्ति चशिष्ठाः अराधिसं- सिद्धमस्त्यन्नमस्मै समागतायेति न तु ना- स्तीतीति भाव: अथैतदन्नदानं च यदि मु- खत उत्तमरीत्यादरेण प्रथमे च वयसि सि- द्वं तर्ह्युत्तममेवान्नं प्रथम एव च वयास त- स्मैदात्रेसिद्धत्यान्नोति दातान्नमिति भावः एवं मध्यमनिकृष्टपक्षयोर्मध्येन्ते वयसि च ज्ञेयम् य एवं दानमाहात्म्यं जानाति सोप्ये- तत्फलं लभते ॥१॥ अथानन्दब्रह्मोपासनान्याह न्षेम इति- क्षेम इति वाचि। योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ५ इति मा- नुषी: समाज्ञाः। अथ दैवीः। तृप्तिरितिवृष्टौ। वलमिति विद्यु-

Page 496

तैत्तिरीयभृगुवल्ली। .४८३ ति। यज्ञ इति पशुषु। ज्योति- रिति नक्षत्रेषु। प्रजातिरमृत- मानन्द इत्युपस्थे।सर्वमित्या- काशे। तलतिष्ठेत्युपासीत ७ प्रतिष्ठावान्भवति ॥२ ॥ क्षेमाद्या आनन्दहेतवो वाग्व्यापारादि सा- थ्या अपि न चैतन्यमन्तरेण सिध्यन्तीति ब्रह्मैव क्षेमाद्यात्मनावागादिषु प्रतिष्ठितं स- र्वात्मनाचाकाशे आकाशं च ब्रह्मणीति त- द्रह्मैव प्रतिष्ठाधिष्ठानं सर्वस्येति दादशोपा- सनानां फलं प्रतिष्ठा लौकिकी ब्रह्मरूपता- चान्त:करणशुद्धिद्वारेति समुदायाशयः। प्रा- प्रस्य रक्षाक्षेमोप्राप्तप्राप्तिर्योगः। विमुक्तिर्म- लस्य। पञ्चात्रोपासना मनुष्यसम्बन्धिन्यः प्रजातिः पुत्रोत्पत्तिस्सा चामतममरकर्तृके- ति मर्त्यव्यावत्तिरानन्दस्तु मैथुनजः । अ-

Page 497

४८४. तैत्तिरीथभृगुवल्ली। स्या दैवीषूल्लेखो महत्त्वात् ॥ २ ॥

तन्मह इत्युपासीत महान् भवति। तन्मनइत्युपासीत मानवान् भवति। तन्नम इत्यु- पासीत नम्यन्तेस्मै कामाः। तद्रह्मेत्युपासीत ब्रह्मवान् भव- ति। तद्रह्मणः परिमर इत्युपा- सीत पर्येणं त्रियन्ते द्विषन्तः सपत्नाः परियेऽ्प्रिया भ्रातृ- व्याः॥३॥ तद्रह्म। महो महत्। नम्यन्ते भिमुखाभ- वन्ति दिव्यभोगाः। ब्रह्मवान्वेदवान्। तच्चि द्रूंपं ब्रह्म वेदाख्यब्रह्मण: परिमरआकाशो-

Page 498

४८५ लयस्थानमिति यावत् परितःसर्वतो घिय- न्ते लीयन्ते शब्दा अत्रेति व्युत्पत्तेः । एन मुपासकं द्विषन्तो भ्रातृव्य।अद्विषन्तश्र्वयेप- रिसर्वतस्ते सर्वे सपत्नाः शत्रवो विनश्यंति ३ त्र्प्रथोपासनायामप्यानन्दैकत्वमेव भावनीय मिति ब्रह्मवल्ल्यष्टमखएडो क्ते नेषद्विकृ तेन स यश्चायमित्यादिना फलमाह- स यश्चायं पुरुषे यश्चा सा- वादित्ये स एक: सय एवं वित अस्मालोकासेत्य एतमन्नमय मात्मानमुपसंक्रम्य एतं प्राण- मयमात्मानमुपसंक्रम्य एतंम- नोमयमात्मानमुपसंक्रम्य एतं विज्ञानमयमात्मानमुपसंक्रम्य एतमानन्दमयमात्माननमुप

Page 499

४८६ . तैत्तिरीयभृगुवल्ली।

संक्रम्य इमान् लोकान कामान् नीकामरूप्यनुसञ्चरन्नेतत्साम गायन्नांस्ते ॥ ४॥ आनन्दात्मैकत्वज्ञानी अस्माल्लोकाजग- तः प्रेत्यासम्बद्दं स्वस्वरूपं साक्षात्कृत्य को- शापि स्वाभेदेन निश्र्ित्य यथेष्टान्नरूपवान- खिललोकान्विचरन् समं ब्रह्म तत्परसामवेदं गायति॥४ ॥ गेयमाह हा३व्विति --

हा३ वुहा ३ वुहा ३वुअहमन्न- महमन्नमहमन्नम्। अहमन्ना- दो३हमन्नादो३हमन्नादः अहं श्लोककृदहं श्लोककृदहं श्रोकक- त्अहमस्मि प्रथमज़ाऋता३स्य

Page 500

४८७

पूर्व देवेभ्यो अमृतस्यना३भा- यि यो मा ददाति स इ देव मा ३वा: अहमन्नमन्नमदन्तमा३ वि३ अहं विश्वं भुवनमभ्य- भवाम सुवर्नज्योतीः ॥५॥

डवा देशेप्लुतिराश्रर्यार्थिका। साऽवत्ति- श्र्वाश्र्वर्यातिशयाय। अन्नमन्नादःकीर्त्तिकर्ता चाह मेवेति महदाश्षर्यमिति जीवन्मुक्त- कादाचित्कोक्तिः । ऋतस्य परब्रह्मणः प्र- थमजो ज्येष्ठसुतो धाताह मतो देवेभ्यः पूर्व चास्मि यतोऽमृतस्य मुक्तेर्नाभिमिवाचरामि सर्वेषां मुक्तेराश्रयमिव भवामि परब्रह्मास्मी- ति यावत्। अथान्नं मां यो ददात्यन्नार्थिभ्यः स इदित्थं दानशील: एवं दानप्रकारेणाडवो ऽ्वति माम्। अद्त्वान्नमदन्तं त्वन्नात्मकोप्यह

Page 501

४८८ • तैत्तिरीयभृगुवल्ली।

मद्यिनाशयामि।यतोखिलं भुवनमहमभ्यभ- वमभिभवामि सुवस्सूर्यो न इवार्थे सूर्य इव ज्योतिःप्रकाशमान ईश्वरइति यावत् ॥।५॥। अथैतदुपासनाफलमात्मज्ञानिन्यतिदिशतियइति य एवं वेद ॥ ६ ॥ य एवं भृगुवदात्मज्ञ: सोप्येतत्फलंलभ- ते॥ ६ ॥ उपसंहरतीतीति- इत्युपनिषत ॥ ७॥ इति भृगुवल्ल्युक्तं यत्तदुपनिषद्रह्मज्ञान शब्दवाच्यम्॥७॥ सहनाववतु शांतिः ३॥ दययानन्तरामस्य मृदुर्यन्थोयमुम्भितः । श्रीस्वामिभास्करानन्दैस्तैत्तिरीयाख्यवेदके ।।१॥ कृशामद्धी: क्व भाष्येण क वेदान्ताब्धिमन्थनम्। तथाप्यघटितं किं वा गुरुदेवदयालवे॥ २ ॥ इति तैत्तिरीयोपनिषत्प्रसादे भृगुवल्ी तदशमखण्डश्र ।