1. Isa Kena Katha Prasna Mundaka Mandukya Ranga Ramanuja Hari Narayan Apte Anand Ashram 62 (Ramanuja)
Page 1
आनन्दाश्रमसंस्कृतग्रन्थावलिः। 11 ग्रन्थाङ्क: ६२
तासु गमानुजमतानुयाविनारायण कृतप्रकाशिकासमेतेशोपनिषत्। रङ्गगमानुजविरचितप्रकाशिकासमेता: केनाविमुण्डकान्ताः ।
माण्डूक्योपनिषत। रङ्गरामानुजविरचितप्रकाशिकोपेते आनन्दवलीभृगूपनिपदौ। एतत्पुस्तकमानन्दाश्रमस्थपण्डितैः संशोधितम्।
तत् हरि नारायण आपट़े इत्येतेः
आनन्दाश्रममुद्रणालये आयसाक्षरमुद्रयित्वा प्रकाशिनम्। शालिवाहनशकाब्दा: १८३२
ि्त्रिम्ताव्या: १६१०
(अम्य संवऽधिकारा राजशामनार्मारण स्वायत्तीकृताः) मूल्यं सार्ध रूपकद्वयम्।(८८)
Page 2
ॐ तत्सङ्वह्मणे नमः । रामानुजमतानुयायिनारायणकृतप्काशिकासमेता। ईशावास्योपनिषत्।
अथ वाजसनेयिनां संहितान्तिमाध्यायो व्याख्यायत- सर्वेशान: सर्वभूतान्तरात्मा दोषानर्हः सर्वविद्येकवेद्यः। कर्माराध्यः साध्यभक्त्यैकलभ्यः श्रीमान्व्यक्तो वाजिनां संहितान्ते॥
भगवदुक्तप्रक्रियया स्वतन्त्रोऽहं देवतान्तरपरतन्त्रोऽहममिति च भ्राम्यत- स्तत्त्वबुभुत्सयोपसन्नस्य शिष्यस्य स्वतन्त्रतात्मभ्रमादिनिवृत्त्यर्थ चिदचि- दात्मकस्य प्रपञ्चस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वमुपदिशति - ॐ ईशा वास्यमिद सर्वं यत्किंच जगत्यां जगत्। तेन त्यक्त्ेन भुआीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥ इदं ब्रह्मादिस्तम्बपर्यन्तं सर्वमीश्वरव्यतिरिक्तं भोक्तृभोग्यरूपमू । ईशा सर्वनियन्त्रा पुरुषेणेति यावत्। 'योऽसावसी पुरुषः'[बृ०५१५। १ ]। इत्यनुवदिष्यमाणत्वात्। स हि सर्वस्येष्टे। तथा च अत्यन्त- रम्-'पतिं विश्वस्याऽडतमेश्वरम्' [ म०ना० ११ ।३ ]। इति। तेन वास्यं वसनीयं व्याप्यमिति भावः । यच्च किंचिज्जगत्सवं हश्यते श्रूयतेऽपि या। अन्तर्बहिश्र तत्सवं व्याप्य नारायण: स्थितः ।[म० ना०११।६]
स्मर्यते हि- इति श्रुतेः । यद्वा सर्वाधारे स्वस्मिन्नेव सरवं वास्यं प्रतिष्ठापनीयम् ।
सर्वत्रासी समस्तं च वसत्यत्रेति वै यतः । ततः स वासुदेवेति विद्वन्द्िः परिपठ्यते ॥ इति। जगत्यां महयाम्। इंद लोकान्तरोपलक्षणम्। जगदन्यथात्वं गच्छत्। तन्नाचिदंशस्य मोग्यत्वाय स्वरूपविकाररूपमन्यथात्वम्। चिद्ंशम्य तु
Page 3
रामानुजमतानुयायिनारायणकृतप्रकाशशिकासमेता- भोक्तृत्वाय ज्ञानसंकोच विकासादिस्व भाव विकारेणान्यथात्वमिति भेदोऽ- नुसंधेयः । ईशेनावास्यं किंचिदृषि नास्तीति द्ृढयितुं यत्किंचेति जग- द्विशेष्यते। जैगत्यादिषु लोकेषु यत्किंचिद्भोक्तृभोग्यरूपं जगदस्ति तदिदं • सर्वमीशा वासुदेवेन वास्यं धार्यं चेति वाक्यार्थः । इन्द्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥ [ गी० ३।४० ] इत्याद्युपबृंहकानि बोध्यानि 'पृथगात्मानं प्रेरितारं च मत्वा [श्वे० १६]। ज्ञाज्ञी दावजावीशनीशी [श्वे० .१९]।नित्यो नित्यार्ना चेतनश्चेतनानामेको बहूनां यो विद्धाति कामान् [श्वे० ६।१३ ] . इत्यादिषु श्रुतिषु प्रसिद्धो जीवेश्वरयोरीशेशितव्यादिलक्षणोऽत्यन्तभेदोS- प्यत्र सिद्धः। ननु रूढिरयोगमपहरतीति न्यायादीशोऽत्र रुद्र: स्यात्। मैवम्। एकी ह वै नारायण आसीन्न ब्रह्मा नेशानो नेमे द्यावापृ- थिवी न नक्षत्राणि न यमो नाग्निर्न सोमो न सूर्यः स एकाकी नर एव [म०१]। इत्यादिषु श्रुतिषु भगवत्कार्यत्वेन कर्मवश्यत्वेन च संप्रतिपन्ने रुद्रे सर्वव्यापित्वसर्वाधारत्वादेरन्वयासंभवेन विरुद्धार्थविष- यतयैव रूढेर्भग्नत्वात्। एवं च जगत्कारणवादिवाक्यावगताकाशप्राणा- दिशब्दन्यायेनाज: सर्वेश्वरः सिद्ध इत्यनवच्छिन्नैश्वर्यतया प्रसिद्धेः सर्वेश्वरेऽयौगिक एवायमीशशब्द: प्रत्येतव्य इति सिद्धम। एवं मुमुक्षो रीश्वरपारतक्त्रयबोधमुत्पाद्य वैराग्यभूपितां वृत्तिमुपदिशति-तेन त्यक्तेन भुस्जीथाः। तेन जगता भोग्यताभ्रमविपयेणेति भावः। त्यक्तेनाल्पत्वा-
विकबह्मानन्दानुभवविरुद्धरूपविषय दोष निरूपणपूर्वक परित्यक्तेनोपल- क्षितः सन्मुख्जीथाः। मगवदुपासोपयुक्तदेहस्य धारणमात्रीपयिकमन्नपा- नादिकं यागदानहोमार्चनाय्युपयोगिपरिजनपरिच्छदादिकं च वर्ग भुख्ीथा इत्यर्थः। यद्वा दोषसप्तकनिरूपणात्यक्तेन भोग्यामासेनोप- लक्षितः सन्भुडजीथाः। सर्वावासत्वेन प्रकरणपराप्तं प्रकृतमुक्तदोषप- तिभटँ निरतिशयभोग्यं वक्ष्यमाणोपायमूढेन भुख्जीथा इति योज्पमू। तत्र 'भौक्ता भोग्यं प्रेरितारं च मत्वा [श्वे०१।१२]
Page 4
ईशावास्योपनिपत्। ३ -.
'द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिपस्वजाते। तयोरन्यः पिप्पलं स्वाद्ृ्त्त्यनश्रन्नन्यो अभिचाकशीति॥[मुण्ड०३१] 'समाने वृक्षे पुरुषो निमग्रोऽनीशया शोचति मुह्यमानः । जुषटं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतश्रोक:' [मृ०३। २] इत्यादिभि: प्रपश्चितस्तत्वत्रयविवेकोऽप्यत्रेति भावः। अनीशया भोग्यभूतया मायया प्रकृत्येत्यर्थः । जुष्टं प्रीयमाणम्। सवस्मादन्यमीशम- स्येशस्य महिमानमिति महिमानं चेत्यर्थः। तदेतिप्रतिनिर्देशोऽध्या- हार्यः। यदाऽन्यमीशमस्य महिमानं च पश्यति तदा वीतशोको भवती- त्यर्थ:।मा गृध: कम्यस्विद्धनम्। कस्यचिद्धनं कस्यापि बन्धोरबन्धोर्वई धनं मा गृध:, माडभिकाङक्षीः। गृधु अभिकाङक्षायामितिधातुः। आह च यम: किंकरं प्रति- परमसुहृदि बान्धवे कलत्रे सृतवनितापितृमातृभृत्यबर्गे। शठ्मतिरुप याति योऽर्थतृष्णां पुरुषपशुर्नहि यासुदेवभक्त:ः ॥ इति म्मृतेः । इदं च धनाशाप्रहाणं परमात्मव्यतिरिक्तकृत्स्विषयवै- राग्योपलक्षणम्। परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि। इति स्मृतेः ॥१॥ एवं विरक्तस्य विदुषः फलसङ्गकर्तृत्वादिरहितो ब्रह्मविद्याङ्गमूतः कर्मयोगो यावज्ीवमनुष्ठेय इत्याह- कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥ शतं समा:, शतं संवत्सरान्। कर्माणि नित्यनैमित्तिकानि। कुर्षेस्रे- वेह लोके जिजीविषेज्ीवितुमिच्द्ेत। बह्मविदोऽपि यावद्विद्यापूर्ति जीवितुमिच्छा मवतीति पाप्तत्वात। शतायुर्व पुरुष इति श्ुतेर्यावज्जीव नित्यनैमित्तिककर्माणि कुर्वतिति विधि: संक्रामयितव्यः। यावज्ज्ञानयो- गाधिकारं कर्मयोग: कर्तव्य इति भावः। न कदाचिदप्रि विद्याङ्ग कर्म परित्यजेदित्येवकारामिप्रायः । त्वयि। ईश्वरपरतन्त्ररुपज्ञानतया तदा-
मित्यर्थः। उक्तमर्थं व्यतिरेकेण हढी करोति-नान्यथेतोऽस्तीति। इतः 61
Page 5
४ रामानुजमतानुयायिनारायण कृतप्रकाशिकासमेता-
कर्मानुष्ानादन्यथा प्रकारान्तरं नास्तीत्यर्थः । नान्यः पन्थास्तत्तो- षकारणमिति स्मृतेः । मन्वीश्वरवेदिनोऽपि कर्मानुष्ठानादवश्यंभावी बन्धः स्यादित्याशङू- क्याऽडह-न कर्म लिप्यते नर इति। ब्रह्मविद्याविरुद्धेषु कर्मफलेपु न 'रमत इति नरः । प्रस्तुतब्रह्मविदि नरे विद्याङ्गतया क्रियमाणं कर्म न लिप्यते न स्वर्गादिहेतुर्भवति प्रत्युत शुद्धप्रत्यागात्मसाक्षात्कारमेवोस्पा- द्यतीति मावः। यत्तु कुर्वन्नेवेह कर्माणीत्ययं विधिरविद्वद्विषय एव नतु ब्रह्मविद्विषयस्तस्य विधिनिषेधशास्त्रवश्यत्वामावादिति व्याख्यानम् । तत्प्करणविरुद्धम्।'वि्द्या चाविर्दया च यस्तद्वेदोमय सह'[ई०वा०।११। इत्यादयुपरितनविध्यन्तरविरुद्धं चेति न वेद्विदो बहु मन्वते ॥ २॥ एवं मम्तद्येन तत्वत्रयं विद्याङ्गकर्मानुष्ठानं चोपदिष्टम्। ईशनीय आसुरप्रकृतयः शास्त्रविधिमुत्सृज्य यज्ञादि कर्म कुर्वन्ति निषिद्धकर्म चाSडचरन्ति आत्मघातिनो निरयपातिन इत्युपदिशत्याचार्य :- असुर्या नाम ते लोका अन्धेन तमसाऽSवृताः । ताथस्ते प्रेत्याभिगच्छन्ति ये के चाउऽत्महनो जनाः ॥३॥ असुराणां स्वभूता असुर्या अतिदारुणा इत्यर्थः । नामेति प्रसिद्धौ। असुरस्वभावानुभात्या निरयसंज्ञिता लोका: सन्तीति शास्त्रप्रसिद्धमिति भाव:। तान्विशिनष्टि-अन्धेन तमसाSडवृता इति। अन्धेनातिगाढेन तमसाऽन्धकारेणाSडवृता व्याप्ताः । आलोकप्रसङ्गरहिता इति माव:। ये केचन देवा मनुष्या बाह्मणक्षत्रियादयोवाऽडत्महनः। 'असन्नेष स भव- त्यसङ्रह्मेति वेद चेत्'। [तै० श६ा९। ] इत्याम्नाता ब्रह्मज्ञानविहीना:। काम्यनिषिद्कर्मादिनिष्ठा इत्यर्थः । जना जनिमन्तः संसरन्त इत्यर्थः । ते प्रेत्य देहादुत्क्रम्य तानभितो गच्छन्ति। तान्पृथिध्यन्तरिक्षस्वर्गरीरवा- दिसंज्ञितान्निरयान्निरन्तरं गच्छन्तीति भावः ॥ ३॥ एवं विद्यायां शीघ्रं प्रतिपत्तिसिद्ध्यर्थमविदुषामनर्थ उक्त: । अथ सर्वावासत्वेन प्रस्तुतस्येश्वरस्यानन्तविचित्रशक्तियोगं व्यअयन्पदशति- अनेजदेकं मनसो जवीयो नैनद्देवा आमुवन्पूर्वमर्षत्। तद्धावतोऽन्यानत्येति तिश्वन्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ अनेजन्न कम्पमानम्। एजू कम्पने। एकं पधानतमम्। प्रधानं शास-
Page 6
ईशावास्योपनिपत्। ५
विदुषामिति रुव्रस्पृतेः। स्वाधिकसमानद्वितीयरहितमिति वा। 'न तत्सम- आाभ्यधिकश्र दृश्यते' [श्वे० ६।८1] इतिश्रुतेः । परमसाम्यमापन्ना अपि मुक्ता ईशाधीना एवेति माव:। मनसो जवीयः, वेगवतो मनसो जवीयो वेगवत्तरम्। निष्कम्पं वेगवत्तरं चेति विरोध: प्रतीयते। परिहा- रस्तु विभुत्वाद्वस्तुतो नैजति तत एव मनसो गोचरदेशे वर्तत इति मनसो जवीय इत्युपचर्यत इति। किंच देवा ब्ह्मरुद्वाद्यः पूर्वमर्षत्। प्रागेव सर्वा- न्देवान्प्राप्ुवन्नित्यर्थः। एतत्प्रस्तुतं सर्वावासं ब्ह्म नाऽडपुवन्नेताषन्तं कालं न लेभिर इति भाव: पूर्वमेव प्राप्तं न प्रामुवन्निति च विरोधः। विमुतया प्राप्तमपि कर्मसंकुचितज्ञाना: क्षेत्रज्ञा आचार्योपदेशमन्तरेण स्वबुदधधा नामुऽऽवन्तीति परिहारः। तथोक्तं छान्दोग्ये 'तद्यथाऽपि हिरण्यनिषिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अह- रहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्युढा: [८३।२] इति। 'अपि तद्धावतोऽन्यानत्येति यः पृथिव्यां तिष्ठन्' [बृ०३। ७।३] 'य आत्मनि तिष्ठन'। 'यः सर्वभृतेषु तिष्ठन्' इत्यादिश्वतेः। सर्वत्र तिष्ठदेव तद्ब्ह्म धावतोऽन्यान्देवादीनत्येति। तिश्ठतः पुरुपस्य धाववृतिक्रमणं न घटत इति विरोधः। जविनो याषद्याव्धावन्ति तावतस्तावतः पर- स्तादृपि वर्तत इति तात्पर्यादविरोधः। तस्मिन्नपो मातरिश्वा दधाति। तस्मिन्सर्वावासेऽवस्थितों मातरिश्वा वायुः।अप इत्युपलक्षणं पयोधरग्रह- नक्षत्रतारकादिकं विमर्तीत्यर्थः। सर्वाधारमूतेन सर्वेश्वरेण विधृतो वायुस्तत्सत्तयैव विभर्तीत्यमिप्रायः।'एप सेतुर्विधरण एपां लोकानामसं- भेवाय [बृ० ४ ।४ । २२ ]। यीः सचन्द्रार्कनक्षत्रा सं दिशो मूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मन: ।। इत्यादिपु प्रसिद्धमेतत् ॥।४ ।। एवमुपदिष्टविचिन्नशक्तित्वमादरेण मुखान्तरेण पुनरनुशास्ति- तदेजति तन्नैजति तद्दूरे तद्वन्तिके। तदन्तरस्य सर्वस्य तद् सर्वस्यास्य बोह्यतः ॥ ५ ॥ भूयोमूयः प्रवचनं श्रवणं च कर्तव्यममिति पुनरनुशासनाभिप्रायः । तथा च भूयते-
Page 7
रामानुजमतानुयायिनारायणकृतप्काशिकासमेता-
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तर्वतो ब्रह्मविद्याम्[मु० १।२। १३) इति। तत्त्वतः। अज्ञानसंशयविपर्ययनिरासो यथा सवति तथा प्रोवाच प्रकर्षेण वूयात्पुनः पुनरुपदिशेदित्यर्थः। तदेजति तत्सर्वव्यातं ्रह्मैजति कम्पत इव जवीय इवेति यावत्। तदु तदेव नैजति वस्तुतो न कम्पते। - तद्दूरे च तदेवान्तिके च वर्तते। आसुरदैवप्रकृतिकपुरुषभेदापेक्षया विभो- रेव दूरान्तिकवर्तित्वव्यपदेशः। तथाऽडह भगवाञ्शौनक :- पराङ्मुखा ये गोविन्दे विषयासक्तचेतसः ॥ तेषां तत्परमं ब्ह्म दूराद्दूरतरे स्थितम्। तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः॥ विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके॥ इति। अपरमप्येकं वैचित्रयमित्याह तत्सर्वव्यापं परं ब्रह्मास्य सर्वस्य प्रमा- णावगतस्य वस्तुनोऽप्यन्तर्भवति तदेव पुनस्तदानीमेव सर्वस्य बहिरफि भवतीत्थर्थः। तदितिरेवां गृहान्तर्वर्तिनां तदानीं बहिठत्वं न संभवति बहिर्वसतां च नान्तर्वर्तित्वमिति ब्रह्मणि वैचित्र्यमिति भावः । यद्यप्य- ुषु नान्तर्वर्तिता संभवति तथा प्रतिवातादविभक्तदेशतया वर्तित्वमा-
द्रव्यापेक्षयाऽपीति दष्व्यम्। तदिदं वैचित्रयं तैत्तिरीयेऽप्युक्तम्-अन्तर्थ- हिश्र तत्सर्वं व्याव्य नारायण: स्थित इति ॥५॥ एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम्। अथ सर्वं जगद्भह्मात्मकमित्यनुसं- द्धानस्यैहिकं प्रयोजनमाह- यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति। सर्वभूतेषु चाउडत्मानं ततो न विजुगुप्सते ॥ ६॥ यः परमात्मज्ञानाधिकृतः सर्वाणि भूतानि ब्रह्मादिस्तम्वपर्यन्तान्या- त्मन्येव परमात्मन्येवानुस्यूतानि पश्यति ध्यायर्तीत्यर्थः । पृथिव्या- दिधियमाणमपि तन्मुखेन परमात्मन्यव स्थितमित्येवकाराभिप्रायः । तुशब्देनास्याधिकारणो माहात्म्यविशषो द्योत्यते। किंच सर्वभूनेषु चाउडत्मानं परमात्मानं यः पश्यतीति। इद व्याप्तिमात्रपरम्। परमपु- रुषस्यानन्याधारत्वादिति भावः। यच्छद्दस्य स इति प्रतिनिर्देशोऽध्या- हार्यः । स उक्तविधज्ञानी। ततस्तेषु सप्तम्यर्थे तसिः। ब्रह्मात्मकतया
Page 8
ईशावास्योपनिपत्।
दृष्टेपु सर्वेषु भूतेष्वित्यर्थः । न विजुगुप्सते कुतश्व्विदृपि न बीभत्सते। स्वात्मविभूतिन्यायेन क्वचिदृपि निन्दां न करोतीति भाव: ॥६॥ एवं वैयधिकरण्येनोक्तं सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येनापि द्रटयंस्तदनुध्यानस्य सद्य: शोकनिवर्तकत्वमाह- यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तन्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥ यस्मिन्प्रणिधानसमये विजानत ईशा वास्यमित्यारभ्य ततो न विजु- गुप्सत इत्यन्तेनोपदिष्टं स्वतन्त्रं परतन्त्रं वस्तुभेदं यथोपदेशं विविच्य जानत इत्यर्थः । नन्वेवमत्यन्तभेदाभ्युपगमे सर्वाणि भूतान्यात्त्मैवाभू - दिति सामानाधिकरण्यं भज्येतेत्याशङ्कावारणाय यस्य पृथिवी शरीरम्। [बृ० ३। २ । १३ ] यस्य शरीरम् [बृ० ३।७।३ ] इत्यादिघटक· श्रुतिसिद्ध संबन्धविशेषमाह-एकत्वमनुपश्यत इति । आकृतिव्यक्त्यो- रिव गुणगुणिनोरिव चात्यन्तभिन्नयोरेव जगद्ब्रह्मणोरेकत्वं विभागान- रहसंबन्धविशेषं पश्यतो विशद्मनुध्यायत इत्यर्थः । रामसुग्रीवयोरैक्यं देव्यर्थं समजायत। इत्यादाविवेहाप्येकशब्दस्य संबन्धविशेष एवार्थो विवक्षितुं युक्त इति भावः। एवं च सर्वाणि भूता- न्यात्मैवाभूदिति सर्वभूतशरीरकः प्रतीतोऽभूदित्यर्थः । तन्राऽडदी प्रणि- धानसमये को मोहः । स्वतन्त्रादिभ्रमादिलक्षणो मोहो न संभवति। कः शोक: परमात्मविभूतितयाऽवगते सर्वस्मिन्निर्ममत्वसिद्धौ पुत्रादि- मरणराज्यादिहरणादावपि न कश्चिच्छोक: स्यादित्यर्थः । यथाऽऽह । यस्य मे चास्ति सर्वत्र यस्य मे नास्ति किंचन। मिथिलायां प्रदीपायां न मे किंचन दह्यते ॥ इति। अत्र केचित्सर्वाणि भूतान्यात्मैवाभूदिति बाधायां सामानाधिकर- णयम्। तथा च सर्वाणि भूतान्यात्मव्यतिरिक्तानि न सन्तीत्यर्थः । यथा चोर: स्थाणुरिति। स्थाणुरेवायं न चोर इत्यर्थः । तथेहापीत्याहुः । अन्ये तु नरपतिरेव सर्वे लोका इतिवदौपचारिकमिदं सामानाधिकरण्यम्। नरपत्यधीना: सर्वे जना इति हि तन्निर्वाहस्तद्वदिहापि परमात्माधी- नानि सर्वाणि भूतानीति भाव इति वर्णयन्ति। अपरे तु घटशरावा- द्य: सर्वे मृत्पिण्डा एवेतिवज्जगङ्रह्मणोरेकद्रव्यत्वं परिकल्प्यैवेदं सामा-
Page 9
रामानुजमतानुयायेनारायण कृतप्रकाशिकासमेता- V
नाधिकरण्यं निर्वाह्यमित्याचक्षते। सिद्धान्तस्तु देवोऽहं मनुष्योऽह्ृमि- त्यादिवच्छरीरात्मभावसंबन्धेनैव जगङ्रह्मणोः सामानाधिकरण्यनिर्वाहे संभवति सति बाधोपचारस्वरूपैक्यपक्षा वैदिकैर्बहिष्कार्याः ॥ ७ ॥ पुनरप्येनमीशेशितव्यवेविनं वेदितव्येश्वरस्वहेयशोधनेन विशिष्टज्ञान- . योगाविकरमप्युपदिशति-
कविर्मनीषी परिभू: स्वयंभूर्याथातथ्यतोऽर्थान्व्यवधाच्छाश्व- तीभ्यः समा्यः॥८। यः सर्वभूतान्तरात्मब्रह्मदर्शी स पर्यगात्मापुयादित्यर्थः । 'ब्रह्मविदा- प्रोति परम्'। [तै० २।१। १] इति न्यायात्। यद्वा समाधिलब्धेनानु- भवेन प्रामुयादिति सिद्धानुवादः । 'अन्र ब्रह्म समश्नुते' । [बृ० ४।४।७] इतिवत्। शुक्रमवदातं स्वप्रकाशमित्यर्थः । अकायम्। सर्वशरीरकमपि कर्मकृतहेयशरीररहितमित्यर्थः । न तस्य प्राकृता मूर्तिमांसमेदोस्थिसंभवा। इतिहेयशरीरस्यैवान्यत्र प्रतिषेधदर्शनात्। न तु दिव्यमङ्गलविग्रह- रहितमित्यर्थः । 'यत्ते रूपं कल्याणतमं तस्ते पश्यामि।' [ ई० वा० १६] 'य एषोऽन्तराSSदित्ये हिरण्मयः पुरुषो हृश्यते॥' [मै० ६ ॥] आदित्यवर्णं तमसः परस्तात् [श्वे० ३ ।८] इत्याद्युपनिषत्प्रसिद्द. स्याप्राकृतविग्रहस्य निषेधायोगादिति भावः । अव्रणम् । कर्मजन्यश- रीराभावादेवाक्षतम् । अस्नाविरं च। स्नावाः शिरा यस्मिन्विद्यन्ते तत्स्नाविरम। स्नाविरं न भवतीत्यस्नाविरम्। शुद्धम्। अनाघाताज्ञानावि दोषगन्धम्। अशनपानादिषडूर्मिरहितं च । अपापविद्धम्। अज्ञा- नादे: कार्यकारणभूतैः पुण्यपापरूपकर्मभिरलीदमित्यर्थः । 'न शोको न सुकृतं न दुष्कृतम्'। [छा० ८।४ । १] इत्यारभ्य 'सर्वे पाप्मा- नोडतो निवर्तन्ते' इति पापशब्देनोपसंहारदर्शनात्। स्वर्गादिहेतुभूत- विशेषस्यापीह पापशव्देन संग्रहणमिति भावः । एवमहेयहेयप्रत्य- नीकं परमात्मानं स विद्वान्पर्यगादिति पूर्वेण संबन्ध:। एवंरूप: परमात्मा प्राप्य: प्रापक उपास्यश्च यस्य तं ब्रह्मविदं विशिनष्टि कविः। व्यासा-
Page 10
ईशावास्योपनिषत्। e
दिवद्ध ह्मस्व रूप रूप दिव्य गुणादिप्र का शक प्रबम्धविशेषाणां निर्मातेत्यर्थः । अथवा क्रान्तदर्शी। कर्मयोगस्तु कुर्बन्नेवेह कर्माणीति मन्त्रेण पुरस्ता- देवोक्तः । अथ ज्ञानयोगसाध्यप्रत्यगात्मसाक्षात्कारहेतुभूत जीवात्मयो- गमाह-मनीषी मनस ईशित्री बुद्धिर्मनीषा, तद्वान्मनीषी भगवत्स्वरुपगु. . णस्मृत्यभ्यासेन तदितरविषयवैराग्येण च प्रतिष्ठितप्रज्ञ इत्यर्थः । परिभू: कामक्रोधादीन्परिभवतीति परिभूः । अनेन विरोधिनिवृत्तिरुपयोगाङ्ग- सेवनमुक्तम्। योगाभ्यासफलमाह-स्वयंभूः। अन्यनिरपेक्षसत्ताक: सुखरूपतया स्वात्मदर्शीति यावत्। याथातथ्यतः । यथावद्विविच्य। अर्थान्प्रष्टव्यार्थान् । तस्य वाचकः प्रणवस्तज्जपस्तवर्थभावनमितिसूत्रो- क्ान्व्यद्धाहृद्येन धृतवानित्यर्थः । सर्वान्तरायप्रशमनार्थमिति भाव:। यद्ा शुक्रमित्यादि द्वितीयान्तपद्जातं परिशुद्धजीवपरम् । तमपि स परमात्मा पर्यगात्परितो व्याव्य स्थित इति प्रथमान्तपद्जातं परमा- त्मपरं योजनीयम्। तथाहि कविः सर्वदर्शी श्रीपञ्चरात्रादिप्रणेतेति वा। मनीषी मनःप्रभृतीनां जीवकरणानां नियन्ता। परितो भवतीति परिभू: सर्वव्यापी स्वयमेव संभवतीति स्वयंभूः। बहुधा विजायत इतिश्रुत्युक्तप्र- सिद्धावतारशाली। अत्र कविरित्यादिना कल्याणगुणविधानात्। छान्दोग्ये-'एष आत्माऽपहृतपाप्मा विरजो विमृत्युर्विशोको विजिघ- त्सोडपिपास:। [छा० ८।१।५] इति हेयगुणान्मतिषिध्य सत्यकामः सत्य- संकल्प इति कल्याणगुणविधानाञ्च निर्गुणं निरञ्षनमित्यादिसामान्य- निषेधस्य हेयगुणविषयत्वं सुगमम्। याथातथ्यत इति। अर्थान्कार्यपदा- र्थाञ्शाश्वतीभ्यः समाभ्यो यावद्विलयमवस्थातुं याथातथ्यतो यथा- वद्विविच्योत्पादितवान्न पुनरेन्द्रजालिकत्वेन बलं प्रकाशितवानिति भाव: ॥८।I एवं विचित्रशक्तिकपरमात्मविषयां क्मयोगाद्यङ्गिकां विद्यामुपदि- इयानन्तरं त्रिभिर्मन्त्रैः केवलकर्मवलम्बिनः केवलविद्यावलम्बिनश्ष पुरुषान्विनिन्दन्वर्णाश्रमधर्मानुगृहीतया विद्ययैव निःश्रेयसावाप्तिमाह- अन्धं तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥ बृहदारण्यके चायं मन्त्रः पठितः । ये भोगैश्वर्यप्रसक्ता अविद्यां विद्यान्यां क्रियां केवलं कर्मेत्यर्थः। विद्याविधुरं कर्मेति यावत्। अविद्या
Page 11
१० रामानुजमतानुयायिनारायणकृतप्रकाशिकासमेता- कर्मसंज्ञाऽन्येति स्मृतेः। उपासते। अनुतिष्ठन्ति। अन्धं तमोऽतिगाहं तमोऽज्ञानमित्यर्थः। त्रिवर्गाभिसङ्गान्नान्तरीयं नरकमन्धं तमो वा। "पुवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्वेयो येऽभि- नन्दन्ति मूढा जरासृत्युं ते पुनरेवापि यन्ति"इति श्रुतेः । य उ विद्यायां रताः। उकार उत्तरपदेनान्वेतव्यः। स्वाधिकारोचितकर्मपरि- त्यागेन विद्यायामेव रताः । ते ततः कर्ममात्रनिष्ठाः प्राप्यादन्धतमसाद्- सूय इव तमस्तद्धिकमज्ञानं प्रविशन्ति। इवशब्दस्तमस इयत्ताया दुर्ग्- हत्वं द्योतयति ॥ ९ ॥ किं तर्हि मोक्षसाधनमित्यत्राSSह-
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥ विद्ययेति पञ्चम्पर्थे तृतीया। यथाश्रुतेऽन्यशव्दानन्वयादन्यदेवाऽड: संभवादिति वक्ष्यमाणानुरोधाञ्च।तथा च विद्याया: कर्मरहितविद्यातोऽ- न्यन्मोक्षसाधनमित्याहुः। उपनिषद इति शेषः । अविद्यया। अवि- द्यायाः। ब्ह्मविद्याविधुरकर्मणोऽन्यदेव मोक्षसाधनमित्याहुः। पूर्वपूर्यसं- प्रदायसिन्धोऽयमर्थोडस्माकमित्याह-इति शुश्षुम इति। ये पूर्वाचा- र्यास्ति प्रणणिपातादिभि: सम्यगुपसन्नानामस्माकं तन्मोक्षसाधनं विचच- क्षिरे विविच्योपदिदिशुः। तेषां धीराणां धीमतां परमात्मध्यानपराणा वचनमित्यध्याहार्यम्। यद्वा धीराणामिति पञ्चम्यर्थे षष्ठी। तेभ्यो धीरेभ्य इति योज्यम्। नटस्य शृणोतीतिवत्। इति शुश्रुमः । एवंप्रकार- मश्रीषम्। ननु परोक्ष एवार्थे लिद्विधानाच्छुश्रुमेत्युत्तमपुरुषो न घटत इति चेत्सत्यम्। ब्रह्मविद्यायां दुरवगाहत्वेन निःशेषग्रहणमस्माभिर्न कृतमित्यभिप्नायकत्वादुत्तमपुरुषप्रयोगस्येत्याहुः ॥१०॥ अन्यदिति सामान्येनोक्तं मोक्षसाधनं विवृणोति विद्यां चावियां च यस्तद्वेदोभय सह। अवियया मृत्युं तीर्त्वा विद्ययाऽमृतमश्रुते ॥ ११॥ कुर्वन्नेवेह कर्माणीति मम्त्रे कर्मयोगस्य प्रत्यगात्मदर्शनद्वारा परभ- क्युत्पाद्कत्वमुक्तम्। इह भक्तियोगेन विदुषा पूर्वोक्तकरमयोगवेषं परि-
Page 12
ईशावास्योपनिषत्।
त्यज्याहरहरनुष्ठीयमानानां नित्यनैमित्तिककर्मणां कल्मषनिवहणद्वारा भक्त्युपचायकत्वमुच्यते। सहशब्दस्वारस्यात्। अतो न पुनरुक्तता। यो यथावस्थितविद्योपदेशवान्। विद्यां बह्मोपासनरूपं तद्ङ्गभूतक- र्मरूपामविद्यां चैतदुभयं सह वेद। अङ्गाद्गिभावेन सहानुष्ठेयं वेदेत्यर्थः । अविद्यया विद्याङ्गतया चोदितेन कर्मणा सृत्यु विद्योत्पत्तिप्रतिबन्ध कीभूतं पुण्यपापरूपं प्राक्तनकर्म तीर्त्वा निर्विशेषमुहङ्रध्य। विद्यया परमात्मोपासनरूपया। अमृतमश्नुते मोक्षं प्राप्नोतीत्यर्थः । तीर्त्वेत्यत्रो- पायविरोधितरणमुच्यते। अमृतमश्नुत इत्युपेयब्रह्मपाप्तिविरोधिभतेभ्यः सर्वपापेम्यो मोक्ष इति भेद: । एवं च सति- इयाज सोऽपि सुबहून्यज्ञाव्ज्ञानव्यपाश्रयः । बह्मविद्यामधिष्ठाय ततु सृत्युमविद्यया॥ इति। ज्ञानव्यपाश्रयः शास्त्रभ्रवणजन्यब्रह्मज्ञानवान्स जनकोऽपि ब्रह्मविर्या निदिध्यासनरूपामधिष्ठाय फलत्वेनाऽSभित्येत्यर्थः । मक्तियोगोत्पत्तिं कामयमान इति यावतु। मृत्युं मत्त्युत्पत्तिविरोधि प्राचीनं कर्मजातमु। अविद्यया विद्याङ्गकर्मणा तर्तु व्यपोहितुं सुबहून्यज्ञाञ्ज्योतिष्टोमादिका- नियाजाकरोत। पाकं पचतीतिवत् ॥११ ॥ एवं समाधिनिष्पत्तेरनित्यनैमित्तिक कर्मसा ध्यत्वमुक्त्वाSथ त्रिमिर्मन्त्ै निषिद्धनिवृत्ति रुपयोगाङ्गसाध्यत्वमाह - तत्र तावत्माग्वदेकैकमात्रं विनिन्दति अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते। ततो भूय इव ते तमो य उ संभूत्या रताः ॥१२॥ 'एतमितः प्रेत्याभिसंभविताऽस्मि' [छा० ३।१४।४।]।'बरह्मलोक- मभिसंभवामि [छा०८। १३ । १ ] इत्यादिषु ब्रह्मपाप्तिरूपाऽ्नभूतिः संभूतिशब्देनोक्ता। इह तु समाधिरूपा संभूतिशब्देनो्यते। असं- भूतिशब्दस्तु समाध्यङ्गभूतां निषिद्धनिवृत्तिमाह। संभूतिं च विनाशं श्ेत्युस्तरत्र विनाशशद्देनासंभूतेरनुविधानात्। तथा च ये विद्याधि- कारिणोऽसंभूतिमेव मानदम्महिंसास्तेयादीनां योगविरुद्धानां निवृ- क्षिमेवोपासते निवृत्तिमात्रनिष्ठा इत्यर्थः । तेऽन्धं तमः प्रविशन्तीति पूर्ववदर्थः । ये पुनः समाधिरूपसंभूत्यामेव रतास्ते ततो भूय इव तमः प्रविशन्तीत्पर्थः ॥१२॥
Page 13
१२ रामानुजमतानुयायिनारायणककृतप्रकाशिका समेता- किं तार्हि मोक्षसाधनमित्यत्राSSह- अन्यदेवाऽडहुः संभ्वादन्यदाहुरसंभवात्। इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ संभवात्संभूतेः । असंभवादसंभूतेरित्यर्थः । केवलात्संभवादसंभवा- च्ान्यदेव मोक्षसाधनमित्युपनिषद आहुः। लिदुत्तमः पूर्ववत् । शिष्टं स्पम् ॥ १३ ॥ अन्यदित्युक्तं विवृणोति संभूति च विनाशं च यस्तद्वेदोभय सह। विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्षुते॥ १४ ॥ संभूतिं समाधिरूपब्रह्मानुभूतिं विनाशं च योगविरोधिनां वर्जनं चेत्येतदुभयं यो विद्वानङ्गाङ्गिभावेन सह वेद स विद्वान्विनाशेन निष- व्यमाणेनेति शेष: । विरोधिनिवृत्तिरुपयोगाङ्गसेवनेनेत्यर्थः। मृत्युं समा- धिविरोधियापं तीर्त्वाऽपाकृत्य निष्पन्नया संभूत्याऽमृतमश्तुते ब्रह्मपा- पिरूपां संभूतिमश्नुत इति भावः। अत्र संभूतिविनाशशकदाभ्याँ सृष्टिप्रलयविवक्षया कार्यहिरण्यगर्भस्याव्याकृतप्रधानस्योपासनं विचीयत इति शांकरं व्याख्यानमनुपपन्नम्। सृत्युतरणासृतत्वप्राप्तिरूपफलवचना- नौचित्यात् ॥१४ ॥
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषत्रपावृणु सत्यधर्माय दृष्टये ॥ १५॥ हे पूषन्नादित्यान्तर्यामिन्। य आदित्ये तिष्ठन्नित्यारभ्य 'य आद्ित्य- ५ मन्तरो यमयति'[३।७९]इति शतपथभ्ुतेः। शास्त्रदट्या तूपदेशो वासदे- ववदित्यादिन्यायाज्च। यद्ा पूषन्नाश्रितपोषणस्वभावेत्यर्थः। 'साक्षादृप्य- विरोधं जैमिनि: [त्र० सू० १।२२८] इति सूत्रानुरोधात्। सत्यस्य। सत्यशब्देन स्वरूपविकाररहितजीवात्मोच्यते। 'सत्यं चानृतं च' छाo- १।२।३] सत्यमभवदित्यादिषु जीवेऽपि सत्यशब्दप्रयोगात्। तस्य मुखम्। मुखवत्। अनेकेन्द्रियावष्टम्भकतया मुखसदशं मन इत्यर्थः। हिरण्मयेन हिरण्यसदशेन भोग्यवर्गेणेति यावत्। पात्रेण परमात्मविषयकवत्तिभति-
Page 14
ईशावास्योपनिषत्। १३
रोधकेनापिहितमाच्छादितम्। हृदि निहिते परमात्मनि निरुद्वृत्तिकं जातमित्यर्थः । तज्जीवस्य मुखस्थानीयं मनो हृषीकाणामीशस्त्वमपा- वृध्य निरस्य तिरोधानं कुर्वित्यर्थः । तत्कस्य, हेतोस्तत्राऽडह-सत्यध- माय सत्यस्य जीवस्य धर्मभूताय। दृष्टिर्दर्शनम्। त्वद्र्शनायेति भाव: ॥१५॥ पुनरपि तया दृष्या द्ृष्टव्यं विशिंषन्दर्शनं तत्साधनं चाभ्यर्थयते- पूषन्नेकर्ष यम सूर्य भ्राजापत्य व्यूह रश्मी- न्समूह। तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ पूषन्नाश्रितपोषक। एकश्रासावृषिश्रवैकर्षिः । अद्वितीयातीन्द्रियार्थ- द्रष्टा।'नान्योऽतोडस्ति दृष्टा' [बृ३०।७२३] इति श्रुतेः। यमो यमयति सर्वानिति यमः। सर्वान्तर्यामिन्। 'यः पृथिवीमन्तरो यमयति' [बृ०३७। ३] 'य आत्मानमन्तरो यमयति' [बृ० ३।७९]इत्यादिश्ुतेः । सूर्य स्वोपासकधियां सुघ्वु प्रेरक। प्राजापत्य प्रजापतिश्वतुर्मुखस्तस्य सुताः प्राजापत्यास्तेपामन्तर्यामिन्। यद्वा प्रजापतिरेव प्राजापत्यः । प्रजानां पतिरिति व्युत्पस्या प्रजापतिर्विष्णुः 'प्रजापतिश्वरति गर्भे अन्तः' [म० ना०१।१] इति श्ुतेः। व्यूह रश्मीन्। भवदीयदिव्यरूपदर्शनानुप- युक्तान्स्वोग्ररश्मीन्व्यूह व्यपोह विगमयेत्यर्थः। यत्ते दर्शनौपयिक प्रभा- त्मकं तेजस्तत्समूह समूही कुरु। तत्किमर्थमित्याशङ्क्य द्रटुमिच्छामि ते रूपमित्याह यदिति यत्। 'आदित्यवर्णं तमसः परस्तात् ' [श्वे० ३।८] इत्यादिश्रुतिषु प्रसिद्धमित्यर्थः। ते। 'आनन्दो ब्रह्म'[तै० ३।६ ] इति निरतिशयभोग्यस्य तवापि। कंल्याणतमं सौन्दर्यादिगुणातिशयेन कल्या- णेभ्योऽतिशयितं कल्याणं छुभाश्रयमिति भावः । ते यदविव्यरूपं तत्प- श्यामि पश्येयमिति लकारव्यत्ययश्छान्दसः । द्रृष्टमिच्छामीति भाषः। ननु 'यत्ते रूपं कल्याणतमम्'। 'य एषोऽन्तरादित्ये हिरण्मयः पुरुषः' । [छा० १। ६। ६] 'ईशा वास्यमिद५ सर्वम्'[ई० १] 'पतिं विश्वस्याऽडतमेश्वरम्' [म० ना० ११।३]'सर्वकर्मा सर्व- गन्धः। स्वाभाविकी ज्ञानबलक्रिया च ' [श्वे० ६८ ]। 'तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति'[छा० ८।३।४] 'तस्योदिति नाम' [छा० १।६1७] इत्यादिभि: शास्त्रैर्गुणविग्रहाद्यो ब्रह्मणो विधीयन्ते। निर्गुणं निरञ्जनम्। 'सत्यं ज्ञानम्' [तै०२११ ] 'अकायमव्रणम्।'
Page 15
१४ रामानुजमतानुयायिनारायणकृतप्रकाशिकासमेता- [ई०]'नेह नानाडस्ति किंचन' [बृ०४।४।१९] 'निष्कलं निष्क्रि- यम्।'[ श्वे०६।१९ ] 'अगोतरमवर्णम्।' [ मृ० १।१।६] एवमादिभिः शास्त्रैर्गुणाद्यः प्रतिषिध्यन्ते। तथा विधिनिषेधयोः शास्त्रयोविरोधाद- न्यतरबाधोऽवश्यंमावी। तत्र निषेधस्य पसक्तिपूर्वकतया पश्चात्प्रवृत्तिं प्रतिषेधशास्त्रमपच्छेदाधिकरणन्यायेन प्रबलसू। अतः प्रतिषेधबलेन गुणादिविधयः सर्वे बाधिताः । ततश्च विद्यास्यदोषपरिकल्पितगुणविग्र- हादयो मिथ्याभूता इति। तदिद्मनादरणीयम्। पशुच्छागनयेनोत्स- र्गापवादनयेन च विधिनिषेधयोभिन्नविषयत्वोपपादनेन तयोविरोधग- न्धामावाद्विधीना प्रतिषेधबाध्यतानुपपत्तेः। तदुक्तं तत्त्वसारे- यङ्गह्मणो गृणविकारशरीरभेदकर्मादिगोचरविधिप्रतिषेधवाचः । अन्योन्यभिन्नविषया न विरोधगन्धमर्हन्ति तन्न विधय: प्रतिषेधबाध्या:।। इति। अथान्तर्यामिणमहंग्रहेणानुसंधत्ते-योऽसावसी पुरुषः सोऽहम- स्मीति। असावसाविति धीप्साऽडदरार्था। यद्वाऽद:शब्दी विभज्प पत्तच्छव्दाभ्यामन्वेतव्यी योऽसी पुरुष: प्रसिद्धः सोऽसावहमस्मीति। पद्यपि- पुरुषं प्रकृति चैव प्रधानपुरुषेश्वरः (गी०१३।१९) इत्यादिषु पुरुषशब्दो जीववाचितया प्रसिद्धस्तथाऽपि 'तेनेदं पूर्ण पुरुषेण सर्वम्।'[ श्वे०३।९] इत्यादिश्रुत्या सर्ववेदपठितपुरुषसूक्तादिषु प्रसिद्धो महापुरुष एवेह पुरुषशब्देन विवक्षितः । नन्वेवं योऽसौ पुरुष: सोऽहमिति कथं सामानाधिकरण्यम्। अहंपदार्थस्य जीवस्य महापुरुपा- द्विन्नस्वादिति चेन्न। अहंशब्देनाप्यस्मदर्थान्तर्यामिण एवाभिधाने- माहं स इति निर्देशस्य सुसंगतत्वात्। ननु चाहंशव्दृस्य प्रत्यगर्थान्त- र्यामित्वपरत्वे सोडस्मीत्युत्तमपुरुषो न घटते। नहि तदन्तर्यामिपुरुषोऽ- स्मीत्यन्वयो युज्यत इति चेदुच्यसे-मदन्तर्थामी त्यादिशब्दान्तरेणोपस्था-
पिते तस्मिघ्नुत्तमपुरुषान्वयो युज्यत एव। तथा च सूतम्-अस्मद्युसमः । (पा० सू० १।४।१०) इति। प्रत्यगर्थबोधकास्मच्छब्दोपपद उत्तमपुरुषो भवतीत्पर्थः। न पुनरस्मच्छव्दस्य प्रत्यगर्थद्वारा परमात्मपर्यन्ततायामु- समनिवृत्तिरिति। अधिकं तु प्रविष्टं न त्ानिरिति न्यायात्। एवं तत्त्वमसीत्यादिष्वप्यसीति मध्यमपुरुषो निर्धाह्यः। त्वंपदेनाभिमुखचेत- नद्वारैव तद्न्तर्यामिणोऽभिधानाभ्युपगमात्। तत्रापि 'युष्मद्युपपदे
Page 16
ईशावास्योपनिषत्। १५ ? समानाधिकरणे स्थानिन्यपि मध्यमः । ' ( पा० सू० १।४।१०५) इत्ये- तावदेव हि स्मर्यते। न तु युष्मच्छद्दस्य स्वाभिमुखचेतनद्वारा तदन्त- र्यामिपर्यन्तत्वे मध्यमनिवृत्तिरिति। ये तु तत्त्वमसि सोऽहमस्मीत्यादि- व्वहंत्वमादिशब्दैर्युष्मदस्मदर्थपरित्यागेन निर्विशेषचिन्मात्रस्वरूपैक्ष्यमेव वाक्यवेद्यमित्यामुः, तानेव तत्त्वमसीत्यादिवाक्येष्वसिरिव सोऽहमस्मी- तिवाक्यस्थास्मिरपि खण्डयति। भोतर्यनुसंधातरि च युष्मदस्मत्ते हि तैः परित्यक्ते न तेषामसिना कश्वित्प्रतिबोधनीयोऽस्ति न च कश्विद- स्मिना विशिष्यानुसंदेहः । ननु प्रकृते युष्मदस्मदोरविवक्षायामपि
मध्यमोत्तमयोः संपशिरिति चेत्। ततोऽप्यपरित्यक्तप्रवृतिनिमिस्तकश्या- स्माकं निर्वहणस्यैवानुसर्तुमुचितत्वात्। अपर आह योऽसावसौ पुरुष: सोऽहमस्मीत्यत्र पुरुषशब्देन परमपुरुषो न विषक्षणीयः। तथा सत्युत्तम- पुरुष इत्याख्यायाः सोऽहमिति सामानाधिकरण्यस्य च लेशेन निर्वाह्य- स्वात्। अतो वरमत्र पुरुषशब्दस्य परिशुद्धजीवात्मपरत्वमाश्रयितुम्। एवं च सति यः पुरुषो मुक्तिवृश्यभाव्याकार: परिशुद्धजीवात्मा सोऽहं- मस्मीत्यन्वयादुसमपुरुष इत्याख्यायाः सामानाधिकरण्यस्य चातिस्वरसेन निर्ाह इति। नायं पक्षः साधुः। तथा हि-मवत्वेवमिह निर्वहणं तथाऽपि तश्वमसीत्यत्र तत्पदस्य त्वं था अहमस्मि मगवी देवते, अहं वे त्वमसीत्यादिषु त्वंपदस्य च परदेवतावाचकत्वे त्वदुक्तनिर्वाहस्यात्रा- संभवात्। अकामेनापि तत्रास्मदुक्तनिर्वाहस्य समाश्रयण तत्समानन्या- याद्त्रापि तस्यैवानुसर्तुमुचितत्वादिति। स्यादेतदेवं त्वं वा अहमस्मि भगधो देवते, अहं वे त्वमसीत्यत्र कथं पुरुषव्यवस्था त्वमहंशब्दयोरुम- योरपि अ्रवणात्। उद्देश्यविषयकमेव युष्मदादिपदमुपपद्त्वेन पाणिनि- सूत्राभिप्रेतम्। यथा चोद्देश्यसमर्पकोपपद्वशादेवात्र मध्यमोत्तमयोर्व्य- वस्था सिध्यतीति चेत्। अस्त्वेवमिह समाधानं तथाऽपि तत्वमसीत्यत्र पुरुषव्यवस्था न घटते तत्र सत्वंपद्योगवत्तत्पद्योगस्यापि सत्त्वात्। तथा चासीतिवदस्तीति प्रथमपुरुषस्यापि प्रसङ्ग: । नह्यत्रापि त्वंपदमु- ददेश्यसमर्पकमू। येन त्वंपद्मेव पुरुषनिमितं न तु तत्पद्मपीति व्यवस्था स्यात्। तथा च तत्वमसीतिनिरूपणावसरे भाष्यम्-नात्र किंचि- दुद्दिश्य किमपि विधीयत इति। तस्मात्तत्वमस्तीति प्रसङ्गो दुर्वार इति। अत्रोच्यते-तत्त्वमसीत्यत्रापि त्वंपदार्थ उद्देश्य एव। ततश्रोद्देश्यविषय- कयुष्मत्पद्वशात्तत्र मध्यम एवेति न प्रथमपुरुषप्रसङ्गः । नच भाष्यवि-
Page 17
३१६ रामानुजमतानुयायिनारायणकृतप्रकाशिकासमेता-
तथा हि-नह्येवं भाष्याभिप्रायः। नात्र किंचिदुद्दिश्यते। न च किचिद्धि- धीयत इति'। अपि त्वेवमभिप्रायः। त्वंपदेन किंचिदुद्दिश्यत एव किंतूद्दिष्टे तत्र न किंचिदृपि विधीयत इति कथमवगम्यत इति चेत्पाप्तस्यैवोपसं- हारत्वोपपादकभाष्येणैव विधेयांश एव निषिध्यत इत्यभिप्रायस्य ध्यक्त- त्वात्। अन्य आह त्वं राजाऽस्यहं राजाडस्मीत्यादिवत्तादधीन्यादुपचार- विवक्षया तत्त्वमसि सोऽहमस्मीत्यादिषु मध्यमोत्तमसामानाधिकरण्या- नामसामस्जस्यमिति। तदप्युपेक्षणीयमेव। लोकवेदयोश्रेतनपर्यन्तं देवमनु- ष्यादिव्यवहारबलेन जातिगुणशब्दवन्मुख्यस्यैव संभव उपचारकल्पन- स्यान्याय्यत्वात् ॥ १६ ॥ एवं परावरतश्वविवेकं निःश्रेयससाधनभूतमक्तियोगं तन्निष्ठस्यानुसं- धेयमन्त्रविस्तार इत्यादिशास्तरैः प्रोक्षणादिभि: समिदादिकमिव परिशुद्ध- स्वरूपयाथात्म्यज्ञानेन संस्वृत्याऽडत्महविः समर्पणीयमित्युक्तत्वादिहापि शरीरेन्द्रियादिम्योऽतिरिक्तं स्वात्मानं प्रथमं विशोध्य तं ब्रह्मणि समर्प्य स्वाधिकारानुगुणमर्थयते- वायुरनिलममृतमथेदं भस्मान्तः शरीरम्। ॐ कतो स्मर कतः स्मर कतो स्मर कत स्मर ॥१७॥ 'भोक्ता भोग्यं प्रेरितारं च मत्वा' [श्वे०१।१२] इत्यादिश्रुत्यन्तरप्रसि- द्धचिद्चिदीश्वरतत्त्वत्रयमिहापि द्रष्व्यम । वायुः विद्याकर्मानुगुणभग- वत्संकल्पवशेन तत्र तत्र गन्तृत्वाद्ा वायुः। अनेन जीवस्याणुपरिमाणत्वं परमात्माधीनत्वं च सिध्यति। वा गतिगन्धनयोरिति धातुः। निलयरहित- त्वात्। क्वचिदृपि व्यवस्थितत्वाभावाच्चानिलः। अमृतम् । प्रीयमाणोऽपि देहसंताने स्वयममृतं स्वरूपतो धर्मतश्चाविनाशीत्यर्थः । 'अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा' [बृ० ४।५।१४ ] 'न विज्ञातेरविपरिलोपो विद्यते' [बृ०४।३।३० ] न विद्यत उच्छित्तिर्विनाशो यस्य सोऽनु- च्छित्तिर्नित्य इत्यर्थः। अनुच्छित्तिर्धर्मो यस्यासावनुच्छित्तिधर्मेति पुनर्व- हुवीहिः। नित्यज्ञानवानिति मावः। आहुश्र यामुनमुनय :- तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः । नानापदार्थसंसर्गात्तत्तच्चित्तत्वमश्नुते। [आ०सि०पृष्व४८] इति। तदमृतत्वम् 'अपहतपाप्मा विरजो विमृत्युः।' [छा०८१५] इति
Page 18
ईशावास्योपनिषत्। श्ुतेः। अनिलममृतमिति पुंलिङ्गत्वेन विवरणीयं वायुरिति पुंलिङ्गत्वेनो- पक्रमात्। अत्र विशिष्टवृत्त्या योगतो वा परमात्मविषयत्वं न शङ्कनीयमू। नश्वरदेहस्यानन्तरवचनेन तद्यावृत्त्या प्रत्यगात्मपरत्वस्यैव न्याय्यत्वात्। क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एक: [श्वे० १1१०]* इति श्रुतावमृतशब्दस्य जीवे प्रयोगात्। स्वभोग्यतया प्धानं हरतीति हरो जीव इत्यर्थः। एवं प्रत्यगात्मनोऽमृतत्वमभिधाय तच्छरीरस्य मृतत्वमवश्य- मित्याह-अथेदं भस्मान्तं शरीरमिति। प्रकृतादर्थादर्थान्तरविवक्षाया- मथशब्दः। इदं शरीरमिति विशेष्यमीश्वरशरीरव्यवच्छेदार्थम्। कर्मवश्य- शरीरं भस्मान्तमित्यर्थः। ब्ह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे। एकस्तिष्ठति सर्वात्मा स तु नारायणोऽवयय:।। इत्युक्तेः। भस्मशब्दो दाहा्यसंस्कारपरः सन्खननादेरप्युपलक्षकः। अत्राSडत्मशरीरयोरमृतत्वमृतत्वोक्त्वा भेद: समर्थ्यते। रसनादिसेवया शरीरस्य नित्यत्वसंदेहोऽपाक्रियते। स्वदेहवैराग्यं कार्यमिति च सूच्यते। शीघ्रं मोक्षोपाये प्रवर्तितव्यमित्यादिकं द्योत्यते। एवं चिदचिद्धिवेकमु- कत्वा प्रेरितारं महापुरुषं प्रणवेनोपादत्ते-ऊमिति। उक्ततं च योगानुशा- सने। केशकर्मविपाकाशयैः परासुष्टः पुरुषविशेष ईश्वरः। तस्य वाचकः प्रणवः। आह व सर्वज्ञो महादेव :- ओमित्येवं सदा विप्रा: पठध्वं ध्यात केशवम्। इति द्रष्टव्यम्। यद्वा शरीरमात्मानं व विविच्य विविक्तमात्मा- नमोंकारवाच्ये परमपुरुषे समर्पयत्योमिति। प्रणवस्थाऽSत्मसमर्पण- परत्वमोमित्यात्मानं युख्ीत। 'प्रणवो धनुः शरो ह्यात्मा ब्ह्म तलक्ष्यम- चयते। अप्रमत्तेन वेद्दव्यं शरवत्तन्मयो भवेत्। [मु० २२४ ] इत्या- दिषु प्रसिद्धम्। अथ करतुरूपिणं विष्णुं ज्ञानयज्ञगोचरमभिमुखीकुर्वं- स्तदनुग्रहं प्रार्थयते-क्रतो स्मर क्रतो ज्योतिष्टोमादिकत्वात्मक। अहं क्रतुरहं यज्ञ इति वचनात्।.यज्ञः पञ्चमहायज्ञात्मक हत्पर्थः । स्मर स्मरणानुग्रहया बुद्धया विषयी कुरु। अहं स्मरामि मद्भक्ततं नयामि परमांगतिम्। [इति]भगवद्वचनम्। अत्र स्मरामि नयामीति पदद्वयस्य करतो स्मरागने नयेति प्रार्थनाद्वयापेक्षया प्रतिवचनत्वावगमात्। कृतं स्मर यत्कृतं य त्कं-
Page 19
. १6 रामानुजमतानुयायिनारायणकृतप्रकाशिकासमेता- चिदानुकूल्यमनुसंधाय कृतज्ञस्त्वं मां रक्षेति वा। एतावदन्तं त्वत्कृत्यत- याऽडनुकूल्यं प्रतिसंधाय त्वमेव शेषपूरणं कुर्विति भावः। उक्तार्थ आव- रातिशयात्कतो स्मर कृतं स्मरेत्यावृत्तिः ॥१७।। अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्। युयोध्यस्मज्जहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८॥ बृहदारण्यके पञ्चमेऽध्याये यदा वै पुरुषोऽस्मालोकात्परैति स वायुमा- गच्छति [१०।१] इत्यादिनाऽचिरादिकं पन्थानमुपदिश्य पश्चादध्या- यावसाने हिरण्मयेन पात्रेणेत्याद्याश्चत्वारो मन्त्रा: क्रमेण पठिताः । अग्रेडग्निशरीरक यस्यागि: शरीरम्। इति श्रुतेः । यद्वा साक्षादृप्यविरोधं जैमिनिः [ब० सू० १ ।२। २८ ]अग्रं नयसीत्यग्निः। अग्रनयनादि- गुणयुक्त नय प्रवर्तयेत्यर्थः। सुपथा शोभनेन मार्गेणाचिरादिना। अर्चिरहःसितपक्षानुद्गयनाउदौ च मारुतार्केन्दरून्। अपि वैद्युतवरुणेन्द्रपरजापतीनातिवाहिकानाहुः [वरदमिश्रः]। इस्यभियुक्तसंगृहीतेन मार्गेणेति भावः। राये धनाय ब्रह्मणः प्राप्य- त्वाद्बह्मैव सुस्थिरमनन्तधनं तस्मे हिरण्मयपुरुषाय त्वत्पाप्तय इति भाव: । अस्माननन्यप्रयोजनात्। अनन्यगतींश्रेस्यर्थः । न केवलं मामपि त्वनुवन्धिजनानपीति बहुवचनस्याभिप्रायः । देव मम बुद्धी द्योतमान।'तं ह देवमात्मबुद्धिप्रकाशं सुनुक्षुर्व शरणमहं प्रपद्य । [श्वे०६।१८] इति श्रुत्तेः । विश्वानि वयुनानि। चतुर्विधपुरुषार्थी- पायान्यथावद्विद्वांस्त्वमस्मान्नेतुमर्हसीतिभावः। 'यो वे वेदांश्र प्रहिणोति तस्मै, [श्वे०६ । १८] इति श्रुतेरिति भावः। मुमुक्षुवै शरणमहं प्रपद्य इति मन्त्रगतं मुमुक्षुपदं विवृण्वन्नाह-युयोध्यस्मज्जहुराणमेन इति हुर्छा कौटिल्ये जुहुराणं कुटिलं बन्धात्मकमित्यर्थः । एनः। अकृत्यकर- पाकृत्याकरणादि्रुपं त्वदुपासनोत्पत्तिप्रतिबन्धमित्यर्थः। त्वत्प्राप्तिप्रति- बन्धकमिति वा। एन इति जात्यभिप्रायकम् । अस्मदस्मत्तः । युयोधि पृथकुरु। एतावदेव याचे त्वां जुहुराणमेनोऽस्मत्तः प्रथमं वियोजयेति तत्पश्राद्यथामनोरथं विनाशय पुरुषान्तरे संक्रामय वा न तत्रास्माकं निर्बन्ध इति भाव: । भूयिष्ठाम्। अनन्यगतित्वेनाऽडवृत्तितो भूयसीम्। नमउक्तिं। ते। आप्तकामतया निरुपाधिकस्वामितया च नमउक्तिम्। निरपेक्षाय ते विधेम विदृध्महे। हेडमे देव विश्वानि वयुनानि विद्वास्त्वं
Page 20
ईशावास्योपनिषत्। १९
जुहुराणमेनोडस्मत्तो युयाधि सुपथाऽल्मात्राये नय व्य ते भूयिष्ठां नम- उक्तिं विधेमेत्यन्वयः। नित्याञ्जलिपुटा हटा नम इत्येवंवाहिनो भवान इति भाव: ।। ६८ ।। एवमस्मिन्नध्याय आदितो मन्त्राष्टकस्य तु परतत्वं ततो मन्याष्टकस्य परमपुरुषविषयकं भक्तियोगरूपं साक्षात्साधनपवशिष्टमन्त्रहविकरय सर्वफलसाधनप्रपदनं प्रधानप्रतिपाद्यम्। एवं च भगवद्गीताध्यायपत्कं प्रथमं प्रथमाध्टकस्योपबृहणं द्वितीयपट्कमुपरितनाष्टकस्य चरमश्लोकस्य पूर्वार्ध वायुरनिलममृतमन्त्रोक्तानुष्ठानविधायकमुत्तराध तु युयोध्यस्न- ज्जुहुराणमेन इति प्रार्थयमानानां प्रार्थनापूरणसंकल्पपूर्वकं शोकप्रति- क्षेपकं चरमश्लोकोऽप्यस्य मन्त्रद्विकस्यापबृंहणमिति बोध्यम्।
समतेशावास्योपनिपत।
Page 21
، ا
Page 22
ॐ तत्सब्वह्मणेनमः । रङ्गरामानुजविरचितप्रकाशिकासमेता केनोपनिषत्। -: X :- अथ कश्रिद्धन्यो ब्रह्म जिज्ञासुर्जडाना मनःपभृतीमां करमाना भघृत्तिस्तत्प्रवर्तक चेत नमन्तरेणानुपपन्नेति सामान्यतोऽवगत्य तत्मवर्तकचे- तनविशेषदुभुत्सया पृच्छति- ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैतियुक्तः। केनेषिशां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उबेवो युनक्ति ॥१। मन इषितमिष्टं साध्वसाधु वा विषयं प्रतिकेन देवेन प्रेषितं सत्पतति गच्छति। करणत्वाद्वश्यं केनचित्प्रेरितमिति वाच्यमू। न तावजीव एव मेरकः । तेन निगृह्लतोऽपि मनसो विषयं प्रति पतनात्। अतो बलवता केनचिदेवेनैव प्रेरितमिति वक्तव्यं स इति भावः । एवमग्रेऽपि बोध्यम्। इ षितमितीडागमश्छान्दसः । अथ प्रथमः प्राणः पञ्चानां प्राणानां सुख्यः माण: केन प्रयुक्त: प्रेरितः सन्प्रैति याति स्वव्यापारं करोतीत्यर्थः । इ्मा लौकिकीं वैदिकीं च वाचं केनेषितां प्रेरिता वदन्ति जीवा इति शेष:। वक्षुःश्रत्रमिति प्राण्यङ्गत्वादेकवन्भावः। उ संबुद्धौ। भो देशिक को वेषो युनक्ति नियुक्के प्रेश्यतीत्वर्थः। इदमुपलक्षणं शेषकरणानामिति।।१।। इति शिष्येणानुयुक्त आचार्य उवाचेति ज्ञेयम्- श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणश्रक्षुषश्वक्षुः । अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥ यत्। यः । श्रोत्रस्य श्रीत्रं शब्दभासकत्वशक्तिप्रदः। मनसो मनः। मननशक्तिपदः । वाचो वागिन्द्रियस्य वाचं शब्दोच्चारणशक्तिप्रदः । माणस्य प्राण: प्राणनशक्तिप्रदः ।चक्षुषश्क्षुर्दर्शनशक्तिप्दः। श्रोत्रादे- 5 नियन्ता यस्त्वया पृष्टः स.देव इत्यन्वयः । तथा च श्रुतय :- 294-592 यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो जA-H मनोऽन्तरो यमयति [बृ०३।७।२०]। यो वाचि तिष्ठन्वाचमन्तरो यमयति' [बृ०३।७१७]। 'यः श्रोत्रे तिष्ठनछ्वोत्रमन्तरो यमयति [बृ०३।७१९]'
Page 23
4 २२ रङ्गरामानुजविरचितप्रकाशिकासमेता-
'यश्चक्षुषि तिष्ठंश्रक्षुरन्तरो यमयति '[बृ०३।७१८]।यः प्राणे तिष्ठन्प्रा- णमन्तरो यमयति' [बृ०३।७१६ ]। इत्याद्या नारायणस्यान्तर्यामित्व प्रतिपादिका इति। स इत्यनेन ताहशो नारायणो देव इति भावः। तथा च भगवद्वाक्यम्-मत्तः सर्वं प्रवर्तते। इन्द्रियाणि मनो बुद्धिरित्या- द्युक्त्वा वासुदेवात्मकान्याहुरित्यादिस्मृतयश्र। श्रोत्रादिनियामकत्व -- ज्ञानिनः फलमाह-अतिसुच्येति। धीरा धीमन्तः श्रोत्रादिप्रेरकत्वं नारा- यणस्य जानन्तः । अस्मालोकान्वीतिकदेहा ्त्प्रेत्य निर्गत्योत्क्रमणं विधा येति यावत्। अर्चिरादिमार्गेण गत्वाSतिमुच्य लिङ्गदेहं हित्वाSमृता मुक्ता भवन्तीत्यर्थः ॥२॥ मनआदीनां प्रवर्तकनारायणब्रह्म साकल्येनोपदिशेत्यत्राSडह यद्वाचे- त्यादिमन्त्रै :- यद्वाचाऽनायुदितं येन वागायुदते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ४ ॥ यन्मनसा न मनुते येनाऽऽहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥ यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यन्ति॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥ यच्छोत्रण न शृणोति येन श्रोत्रमिद श्रुतम् ।। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥ यत्पाणेन न प्राणिति येन प्राणः प्रणीयते॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥ इति प्रथम: खण्डः । यद्ब्रह्म वाचा वेदवाण्याऽनभ्युदितं साकल्येन नोक्तम्। येन च प्रेरिता सती वागभ्युद्यते पुरुषैरुच्चार्यते तदेव त्वं ब्रह्म विद्धि जानीहि। नेदं जडजीवादिकं जगद्यत्कामात्मान इद्मुपासत इत्यर्थः । एवमग्रेऽप्यर्थो ध्येयः । यन्मनृसा कश्िवित्साकल्येन न मनुते येन मनो मतम्। येन चक्षृषि पश्यन्ति दृश्यन्त इत्यर्थः । यत्प्राणेन न प्राणिति न चेष्टते येन प्राणः प्रणीयते पेर्यते ॥४६७८॥ इति प्रथम: खण्डः ॥ १ ॥
Page 24
[२ द्वितीय:खण्डः] केनोपनिषत्। २३ यदि मन्यसे सुवेदेति दहरमेवापि नूनम्॥ त्वं वेस्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥९॥१॥ नाहं मन्ये सुवेदेति नो न वेदेति वेद च।। हे शिष्याहं सुवेद ब्रह्मणो रूपं सम्यग्जानामीति यदि मन्यसे तर्हि त्वमपि नूनं दहरमेवाल्पमेव ब्रह्मणो रूपं वेत्थ। तस्यानन्तत्वादिति भावः। रूपमिति ब्रह्मगुणानामुपलक्षणम्। यद्यस्माद्दहरमेव वेत्थ। अथ तस्मात्त्वं त्वयि व्यत्ययात्। त्वय्यस्य ब्रह्मणो यद्रूपं देवेषु चास्य ब्रह्मणो यद्रूपं तदिति शेषः । मीमास्यमेव विचार्यमेव नु इदानीम्। ते त्वयेति अन्येषां कार्त्स्नर्येन ब्रह्माज्ञानित्वेऽपि तव स्वस्ति सम्यग्बह्मज्ञानित्वमिति पृष्टो देशिक आह-मन्य इति। अन्ये सम्यग्वेदायमिति मां वदन्ति अहं तु ब्रह्म विदितं न मन्य इति योजना। तर्हि त्वमपि ब्रह्म सर्वथा न वेत्थ किमित्यत आह-नो नेति। नो वेद न जानामीति न किंतु वेदेति च। ब्रह्मण: साकल्येनाज्ञेयत्वमुपपाद्योपसंहरति- यो नस्तद्वेद तद्वेद नो न वेदेति वेद च। १०॥२॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्॥ ३ ॥ नोडस्माकं मध्ये यस्तु ब्रह्माहं वेदेति बदति स तं नो वेद कुतः परिच्छिन्न- त्वज्ञानात्। अहं न वेदेति यो वदत्यसी वेद च ब्रह्मणोऽपरिच्छि- सतात ॥१०॥२ ॥ यो न इत्यादिना साकल्येन श्रवणागोचरत्वमुक्त्वा मननागोचरत्वं चाऽऽह-यस्येति। यस्य ब्रह्मामतमिति मतं तस्य पुंसो मतं विचारि- तमनन्तत्वज्ञानात्। यस्य ब्रह्म मया मतं विचारितमिति मतं बुद्धि: सन वेदानन्तत्वाज्ञानात्। साक्षात्कारोऽपि न साकल्येनेत्याह-अवि- ज्ञातमित्यादिना। वयं ब्रह्म सम्यक्साक्षात्कृतवन्त इति विजानता- मविज्ञातं ब्रह्म । आनन्त्याङ्वह्मणः साकल्येन ज्ञानाभावात्। अविजा-
Page 25
२४ रङ्गरामानुजविरचित्तप्रकाशिकासमेता- [२ष्वितीय:मण्डः) नतामुक्तरीत्याऽविजानरता नास्माभिर्वह्म सम्यक्साक्षात्कृतमिति यावत। विज्ञातं ब्रह्म साक्षात्कृतमित्यर्थः । आनन्त्यवेदनादिति मादः ॥११॥३॥ ब्रह्मण :- साकल्येनाज्ञेयत्वे कर्थं तेनेष्टसिद्धिरिति चेत्स्वस्य योग्यैकने-
प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आर्मना विन्दते वीर्य विद्यया विन्दतेऽमृतम्॥१२॥४॥ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेवीन्म- हती विनष्टिः॥भूतेषु भूतेषु विचिन्त्य धीराः पेत्यास्माल्लोकादमृता भवन्ति॥१३॥५॥ इति द्वितीय: खण्डः ॥२॥ प्रतिबोधेत्यत्र भ्ुतमिति शेषः। स्वस्य ब्रह्मविद्यया योग्यतानुसारेण पुंभि: श्रुमं मतं ब्रह्म प्रतिबोधेन स्वयोग्यापरोक्षज्ञानेन विहितं चेवसृतत्वं मुक्ति विन्दते लभते पुमानिति वा प्रतिबोधेनोपासनरूपया क्रयापिद्वह्य- विद्यया विदितं साक्षात्कृतं ब्रह्म विन्दते लमत इति वार्थः। आत्मना शृत्या वीर्य समाहितमनस्त्वलक्षणं विन्दते लमते। विद्यया। उपासन- रूपया मक्त्येति यावत्। अमृतं परमात्मानं विन्दते लमते साक्षात्करो- तीति यावत्। भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूप परिपश्प- तीहेति स्मृतेः ॥ १२॥ ४ ॥ अस्तु विद्यारूपं ज्ञानं भगवत्साक्षात्कारफलं तत्कदा संपाध्मित्यत
तर्हिं सत्यं पूर्वोक्तफलं सत्यमसृतन्रह्मास्त्येव तत्प्राप्ती न संदेह इति माष:। इह नावेदीच्ेत्तदा महती विनष्टिर्हानिर्मवति। अथ प्रतिबोधं वक्ति- धीरा ब्रह्मप्राप्तिविनष्टिविवेकिनो भूतेषु सर्वभूतेपु स्थितं ब्रह्म विचि- न्त्याऽडग्रयाणं स्मृत्वाऽस्माल्लोकात्प्रेत्यामृता भवन्तीति ॥१३॥५॥ इति द्वितीय: खण्डः ॥ २।।
यिकां वक्ति- अत्यद्धुतृत्वात्साकल्येन न ज्ञेयमिति प्रतिपादितेऽर्थे कांचनाSडर्या
ब्रह्म ह देवेभ्यो विजिग्ये। अथ तस्प ह ब्रह्मणो विजये देवा अमहीयन्त।।
Page 26
[शतृनीयः खण्डः] के नोपनिषत्। २५ त ऐक्षन्तास्माकमेवायं विजयोऽ- स्माकमेवायं महिमति ॥१४॥१॥ तद्दपां विजजौ तोयां है प्रादुर्बभूव तन्न व्यजानत किमिदं पक्षमिति ॥१५.॥२॥ तऽश्निमनुवआतवद एतद्विजानीहि किमेतयक्षमिति तथोति ।१६।।३।। देवानां दैत्यदानवैर्युद्ध प्रग्तुते सति ब्रह्म देवानाविश्य देवेभ्यो देषा- नामर्थ दत्यादीन्विजित्य व्यजयत। हेति निश्चितमेंतरित्वर्थः। अथ विजयानन्तरं तम्य देवप्वाविष्टस्य ब्रह्मणो बिजये सति देवा अमही- यन्तापृज्यन्त। महीर, पृजायाम। कण्ड्रादिभ्यो यगिति यक्प्रत्ययः । गर्विणोऽभवन्निति भावः। हेत्याश्चये। ब्रह्मणो बिजये कुती देवानां गर्व इत्येतदेव व्यनक्ति-त इति। दवा अस्माकमेवार्य विजयोडस्माकमे- चायं महिमत्यैक्षन्त व्यजानन् ॥ १४ ॥ १ ॥ एषां देवानां तदासुरावेशकृतेश्वराज्ञाननिमित्तमहंकारादिकं जज्ञी व्यजानाङ्वह्मत्यनुपङ्गः। तभ्यो दवभ्योर्य देयानां स्वात्मतत्त्वचीधाय यक्षरूपतया प्रादुर्भृव ब्रह्मत्यर्थः। तद्यक्षरूप म्रह्मेदे किमिति न व्यजानत न व्यजानन ॥ १५॥ २ ।। त देवा अग्निमनुयआ्जातवेढ एतदक्ष किमिति विजानीहीति तथे- न्युकत्वा ॥। १६ ।। ३ ।।
त्यववीज्जातवेदा वा अहम+मीति॥१७॥४॥ तर्मिँस्त्वयि किं वीर्यमित्यपीदश सर्व दहयं यदिदं पृथिव्यामिति ॥१८॥५।। तस्म तृणं निदधावतदद्दति तदुषप्रयाय सर्वज- वन तन्न गशाक दव्घु म तत एव निववृते नेत- दशकं विज्ञानुं यदेतयक्षमिनि ॥१९. ॥६।1
किमतयक्षमिति नथनि ॥२०॥।७।।
Page 27
२६ रङ्गरामानुजविरचितप्रकाशिकासमेता- :'/,
त्यनवीन्मातरिवा वा अहमस्मीति ॥२॥< ॥ तस्मिँस्त्वयि कि वीर्यमित्यपीदश सर्वमादवीय यदिदं षृथिव्यामिि॥२२ ॥९ ॥ तस्मे तुणं निदधावेववाकोनि तापपेयाय सर्व- जवेन तल शशाकाठदास न तन एव निदवन नेतदशर्कं विज्ञासुं य्देवपिि ॥ २३॥ ३ ॥
सीत्यवद्त्। अभिरहमस्ति जातवदा अठयस्तीत्गगिन्त्रबीत। वे प्रसिद्धौ। एतग्राम ममेत्वर्थः। तम्मिस्तयि ताहश त्वययि कि वषमिति यक्षमन्नवीत। यदिदं पृथिव्यामस्ति सर्वमपीद दतेयतित्यभ्िरपवीन। तस्मा अंग्रय एतहहेत्युक्वा किचितुणं तत्पुरती निहसी पनितय। तत्तृणं दग्धुं सर्वजवेव सर्ववगेणोपप्रेयाय समीपमगव। गव्या तन्न शशाक दग्धुं सोडाः तत एव तावन्माव्रत एव यव्सपतवधार्य निव- वृते निवृत्तवान्निवृत्य च देवानबनीत। यदेतय्यक्षमित्डिज्ञा्तु नाश कमिति। अथानन्तरं वायुं प्राग्वद्याख्या। आददीयाउडड्द्यामिन्यर्थः॥४
॥ २२ ॥। २३ ॥
तथेति तदश्यद्रवत्तस्मात्तिरोदषे॥ २४ । ११ ।। स तस्मिन्नेवाSडकाशे स्त्रियमाजगाम बहुशोभ्मानामुमा हैमवतीं ताथ होवाच किमेतयक्षमिति ॥ २५॥३२॥ इति तृतीयः खण्डः ॥ ३॥ ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्व- मिति तंतो हैव विदांचकार बलति॥ २६ ॥ १॥ तस्मात्तिरोद्धे तस्मात्प्रदेशादन्तहितमभूदिति वा। स इन्द्रस्तस्मि- न्नेव यक्षतिरोधानाकाशप्रदेशे यक्षेणोपदेशार्थ स्थापितां स्त्रियं ह्ट्ाउ
Page 28
3चतुष गण्ड:) केनोपनिपत्। २७
जगाम तत्समीर्य प्राप्तवान्। सा केत्यत उक्त् बहुशोभमानां हैमवतीं हिमवतः पुत्रीमितद्यक्ष किमितति तां ख्तियमुवाच पप्रच्छेत्यर्थः ॥ २४ ॥ ॥ २५॥११ ॥ १२॥ इति तृतीय: खण्डः ॥३॥ इन्द्रण पृष्ट देव्यतघक्ष मह्ोति होपाच हति निश्चयमाह। एतद्तस्य वेवेप्वनुप्विववस्य ब्रह्मणो विजये तद्विजयनिित्तं महीयध्वं महिमवन्तो भवत न त्वात्मनो विज्ञयनिमित्तं गर्विणो भवत वै निश्चितमेतदिति चोवा- चित्यन्वयः। एबसुमयोपदिष्ट इन्द्रः किं चकारेत्यत आह -- तत इति। ततो हैव वेव्युपदेशावेव तद्यक्षमिन्द्री व्रह्मेति कैत्यविजयोऽस्मदनुप्रविष्ट- बह्मकृत इति बिदोंचकार सातवान् श २६ ॥? ॥ तम्माहा पवें देवा अतितरामिवान्यान्देवान्यदशिर्वायुरिन्दस्ते हे- नञंदिऊं पस्पृशुन्ते हेनत्पथमोविदांचकार बहति ॥ २७। २ ॥। तस्माद्व यम्मात्वं ब्रह्मण: पूर्व हष्टत्वादवैते देवा अन्यान्देवानतितरा- निवेति। एते देवाः कु इत्यतस्तानाह-यढशविर्वायुरिन्त् इति। यंदशनिरयो- मिर्यो पापर्य इन्त कतें देवा:। कुत एतेऽधिका इत्वतस्तस्मादित्युक्तम्। हतुं वनाक-ने हीति। हि यम्मवेतय्यक्षरूपं वहा नदिएठ समीपस्थं पम्पृधु:। सपृश संम्पशन। परामर्श कृतनन्त इत्यर्थः । पगमर्शाल्मागि वाय्यायक्षदर्शनमत्रतिव्वस्य त रक्षन्य वह्त्वज्ञानमिति बोध्यम। तद्यनकि-त हीति। तत्िवाब्वि्ा: प्रथमः प्रथम विदांचकार विर्दा चक्रु: ॥ २॥2 ॥1 वह्मवदनं चन्द्रम्य देव्युपवशादन्यस्य त्न्दोपदेशाहिति काविनेन्द्रस्य ज्ञानादयपकार्माह तम्माद्वा इन्दोरनिवगमिवान्यानदेवान्स हेनलेदिएं पस्पर्श स ह्यनन्प्रथमो विदाचकार वह्यति ॥ २॥ ३ ।। तम्यप आदेशी वदतव्वितुता व्यतदा ३ इतीन्न्य- मीभिपरा3 इत्यविरवतम॥ २ ।। ४ ।। तम्मादित्युक्तं हेतु व्यनक्ति स धनहिति। एतदेव। तद्वाक्यार्थमेव व्यक्तमाह। म ह्यनत्प्रथम इि पथममित्यर्थः।२८॥।३।। अभिदेवतमध्यात्मं चोपास्यरूपमुपदिशति तम्येप इत्यादिना। तस्य व्रह्मण एय आदेश उपदशः। यवतत्कपिलास्यं रूपम। विद्युतो
Page 29
रङ्गरामानुजविरचितप्रकाशिकासमेता- बहुवचनमाद्यर्थ उपलक्षणं वा विद्युदादीस्तेजोरूपानर्थाना समन्ताद्यदत-
यत्। आ पूर्णमित्यर्थः। यद्वा यस्मदवभ्या विद्युदिव सहमंव प्राद्गर्भृतं बह्म द्ुतिमत्तस्माद्विद्युतो विद्योतनं यथा यढेद्टा व्यद्यतहू द्यतितवत। आ •इवेत्युपमार्थ आशब्दः। यथा वनान्धकारं विदार्य विद्युत्सवंतः प्रकाशत एवं तङ्गह्म देवानां पुरतः सर्वतः प्रकाशवद्यक्तीभृतमता विद्युतदिवत्युपा स्यम्। यथा सकृद्विय्ुत्तम् [२३६] इति बृहदारण्यके। यम्माबेनद्रोपसर्प- षाकाले न्यमीमिषत्। यथा कश्चिश्तक्षुनिरभषणं कृतवानिति। इनीहित्यन- र्थको निपातो निमिषितवदिव तिराभृतमित्यवमधिदेवत देवलया अधि यद्दर्शनमधिदेवतं तत । २९ ॥।४ । अथाध्यात्मं यदतह्वच्छतीव च मनोडनेन चन- दुपस्मरत्यभीक्ष्णं संकल्पः ॥ ३० ॥ ५ ॥ • त्ध तद्नं नाम तद्दनमित्युपासितव्य म य एतदेवं वेदाभि हैनः सर्वाणि भृतानि संवाञ्छन्ति ॥ ३३ ॥ ६ ॥ अथेत्यर्थान्तरे। अध्यात्मं देहे तस्योपदेश उच्यत इत्यर्थः। यसे- तन्मनोऽननैव प्रेरितं सद्गच्छतीव च सम्पङन गच्छतीयत्तया वन्तु न विषयी करोति। अनेनेव ब्रह्मणानिरुद्दाख्यन हरिणिानुगहीतस्द्दि- षयजातमुपस्मरति। कीहशं मन इत्यत उक्तमभीक्ष्णं मंकल्प इति। भृशमनेकार्थान्संकल्पयतीति। संकल्पमित्यर्थः । लिङ्ग्व्यत्ययश्छानदसः। शब्दस्वभावाद्वा। अभीक्ष्णं नित्यं सशं संकल्पश्र भवति। तम्य मह्- णोऽनिरुद्द्ाख्यस्य हरेरेप उपदेश इत्यर्थः ॥ ३०॥५॥ तस्योपास्यमन्वर्थ नामाऽह- तद्द्वेति। तङ्गह्म तद्दनं नाम ततत्वाद्याप्तत्वाद्वननीयत्ास्तजनीय त्वात्। तद्गनमिति कल्याणनिमित्तकनामवत्। तनंततिस्त्यजियजित- निभ्य इत्यढ्प्रत्ययः। वनतेरकारः। तच्न तद्दनं चति तद्वनमिति। हति प्रसिद्धम्। तद्वननित्युपासकम्य फलमाह-स य इति।स प्रसिद्धी योऽधिकार्यतद्वह्मवं तद्नं नामेत्येवं रूपेण वदनं तद्रनतवजानिनं सर्वाणि भूतान्यभि संवाञडन्ति। सर्वभिक्षिती भवतीत्वर्थः ॥३४ ॥ ६॥ उपनिषदं भो बूहीत्युक्ता त उपनिषद्राली वाब त उप- निषदमन्रमेति ॥३२॥७ तम्य तपो दमः कर्मोनि
Page 30
[१ तुचर्थ खर्डः! केनोपनिपत। २९
प्रतिष्ठा वेदाः सर्वाङ्गानि(णि) सत्यमायतनम्।।३३।। ॥दायो वा एतामेवं वेदापहत्व पाप्मानमनन्ते स्वर्गे लोके ज्येये सितिष्ठिति प्रतितिष्ठति॥। ३४।९॥ इति चतुर्थः खण्डः ॥ ४ ॥ इति तलवकारोपनिपत्। एवं शुत्वया पुनगचार्य पृच्छति शिष्य उपनिषदं भो वृहीति। भो आचार्योपनिषद सपतिष्ठां सायतनां वृहीत्यपृच्छदिति शेप: । किसुप- निषत्प्रतिपारदयं पृच्छस्यतोपनिषद्ठत्पप्ञविद्याया अवस्थानकारणं कि वा विद्याया: कारणमिति हदि विकल्व् क्रमणोत्तरमाहउक्ता त इति। ते तुम्यं वाह्मी बह्मविषयां वादित्यसंशय त उपनिपत्स्वरूपमब्रूनावोचा- मति। वन्नति हवचित्यादिना ब्रह्मस्वरूपोक्तस्तत्र वक्तव्वं किमपि नत्यर्थ: [३२/ ७।]। .
त्स्य तम्या विद्यायान्तवो दमः कर्म च प्रतिष्ठा। तपः कुच्छचान्द्रा- यणाहि शास्त्रपर्यालाचनं वा।दम इन्दिरियनिग्रहः। कर्म तु वर्णाश्रमोचित- क्रियानुनम। प्रतिष्ठा प्रतिश्वहंतः। तपआदिमत्मु विद्या प्रतितिष्ठती- त्यर्थः। वदा ऋगादयस्तदनुकलग्रन्थाश्र। शिक्षा.कल्पो व्याकरणं निरुकं छन्दा ज्यतिपमिति पटतुरूपसर्वाद्गानि(णि) सत्यं यथाभृतमपी- डाकर्र वचनमायतनसुत्पत्तिस्थानं वहमामीमांसा तस्या इत्यनुषङ्रः। विद्ाया इत्सर्थ: [३३।८।]।। एतपुपनिषज्ज्ञानितः फलमाह-य इति। योऽधिकार्थतालुपनिपद वेद स पाप्मानमपहत्यनन्ते विविधपरिच्छेदरहित स्वर्ग सुखरपे लोके प्रकाशरूप ज्यये श्रेष वह्मणीति योज्यमू। प्रतितिष्वतीतिद्विरुक्तिरुक्त- सर्वावधारणार्था [३४९]।
इति चतुर्थ: खण्डः ॥४ ॥।
इति रङ्गरामानुजविरचितप्रकाशिकासमेता तलवकारोपनिपत्।
Page 31
4
Page 32
ॐ तत्स द्वणे नमः । रङ्गरामानुजविरचितप्रकाशिकासमेता काठकोपनिपत्।
क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाव्यसुधामुदारः।
रामानुज: स मुनिराद्टियतां मदु्तिम् ॥ अथ कठवलीव्याखया।
अखनासलशृङ्गारमअ्लिर्मम गाहताम् ॥१॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि। व्याख्यास्ये विद्डुयां प्रीत्यै कठवलीर्यथामति ॥ २ ॥ उशन्ह वे वाजश्रवसः सर्ववेदसं ददौ। उशन्कामयमानः। वश कान्तावित्वस्माच्छतरि ग्रहिज्येत्यादिना संप- सारणम्। ह वा इति वृत्तार्थस्मरणार्थी निपाती। फलमिति शेप:। वाजश्रवसः। वाजेनान्नेन दानादिकर्मभूतेन श्रवः कीर्तिर्यस्य स वाजश्र- वास्तस्यापत्यं वाजश्रवसः । रूढिरवा वाजश्रवस इति। स किलपिनिश््व- जिता सर्वस्वदक्षिणेन यजमानस्तस्मिन्कती सर्ववेदसं सर्वस्वं वदी दृत्तवानित्यर्थः । उशन्नित्यनेन कर्मणः काम्यत्वाद्दक्षिणासानगुण्यमा- वश्यकमिति सूघ्यते। तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥ आस बभूब। छन्दस्युभयथेति लिढः सार्वधातुकत्वात्स्वस्तये ताक्ष्य- मित्यादिवदस्तेर्भूभावाभावः। तथह कुमार सन्त दक्षिणासु नीयमा- नासु श्रद्धाऽडविवेश सोडमन्यत ॥ २ ॥ तं कुमारं सन्त बालभेव सन्तमृत्विग्भ्यो दक्षिणासु गोपु नीयमानासु सतीषु श्रद्धाSडस्तिक्यबुद्धि: पितु्हितकाम प्रयुक्ता SS विवेशा S 5 विवती। यद्यपि यदानतिकरं द्रव्यं तदक्षिणत्युच्यत एका चासी करतावानतिरिति। तदुपाधिकों दक्षिणाशब्द एकवचनान्ततामेव लभते। अत एव भनाम- कैकाहक्कतौ तस्य धेनुर्दक्षिणेत्यत्र कृत्सस्य गवाश्वादेः प्रकृतस्य दाक्षि-
Page 33
३२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अन्या०१वल्ली१]
ण्यस्य निवृत्तिरिति 'तस्य धेनुरिति गवाम् ' [जै०१ । ३ । १४। ५।६] इति दाशमिकाधिकरणे स्थितं तथाऽपि दक्षिणाशब्दोऽयं भृतिवचन: स च कर्मापेक्षयाऽपि प्रवर्ततेऽस्मिन्कर्मणीयं भृतिरिति, कर्त्र- पेक्षयाऽपि प्रवर्ततेऽ्मन्कर्मण्यस्य पुरुषस्येयं भृतिरिति। ततश्र ऋत्वि- मबहुत्वापेक्षया दक्षिणाबहुतवसंभवादक्षिणास्विति बहुवचनमुपपद्यते। अत एव ऋतपेये-"औदुत्बरः सोमचमसी दक्षिणा" "स प्रियाय सगोताय ब्रह्मणे देयः" इत्यत्रैकवाक्यतापक्षे बरह्मभागमात्रेऽपि दक्षिणा- शब्दस्यावयवलक्षणामन्तरेण मुख्यत्वोपपत्तेस्तन्मात्रबाध इत्युक्तं दशमे यदि ब्रह्मणस्तदूनं तद्विकार: स्यादित्यधिकरणे। ततक्ष कत्वपेक्षया दृक्षिणैक्येऽपि ऋत्विगपेक्षया दक्षिणाभेदसंभवादक्षिणास्विति बहुवच- नस्य नानुपपत्तिरिति दृष्टव्यन् ॥ २ ।। श्रद्धाप्रकारमेव दर्शयति पीतोदका जग्धतृणा दुग्धदोहा निरिन्ड्रियाः। अनन्दा नाम ते लोकास्तान्स गच्छति ता दृदत्॥ ३ ।। पीतमुदकं याभिस्ताः पीतोदकाः। जग्धं भक्षितं तृणं यामिस्ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो याभिस्ता दुग्धदोहाः। निरिन्द्रिया अप्रजननसमर्था जीर्णा निष्फला इति ,यावत्। या एवंभूना गावस्ता कत्विग्भ्यो दक्षिणाबुद्धया दृदत्पयच्छन्। अनन्दा असुखासते शास्त्रप- सिद्धा लोका: सन्ति नाम खलु। तत्र स यजमानो गच्छत्येवममन्य- तेत्यर्थः ।। ३ ।। स होवाच पितरं तत कस्मे मां दास्यसीति द्वितीयं तृतीयम्। दीयमानदक्षिणावैगण्यं मन्यमानो नचिकेता: स्वात्मदानेनापि पितु:
ऋत्विजे दक्षिणार्थं मां दास्यसीति। स एवमुक्तेनापि पित्रोपेक्ष्यमा- णोडपि द्वितीयं तृतीयमपि पर्याय कस्मै मां दास्यसीत्युवाच। तः होषाच मृत्यवे त्वा.ददामीति ॥४ ॥।
वान् ॥ ४ ॥ एवं निर्विद्यमानः पिता कुपितस्तं पुत्रं सृत्यवे त्वा दढ़ामीत्यक्त-
एवमुक्तोऽपि पुत्रो विगतसाध्वसशोक: पितरमुवाच- बहूनामेमि प्रथमो बहनामेमि मध्यमः ।
Page 34
[अ० १ वल्ली१ ] काठकोपनिषत्। ३३ सर्वेषां मृत्युसदनगन्तणां पुरतो मध्ये वा गच्छामि न तु मन्थरः पश्चात्। मृत्युसदनगमने न कोडपि मम विचार इति भाव: । किं तर्हि तत्राSडह- कि स्विदमस्य कर्तव्यं यन्मयाऽय करिष्यति॥।५॥। मृत्युर्मयाऽद्य यत्करिष्यति तत्तादवृशं यमस्य कर्तव्यं किं वा पूर्णका- मस्य मृत्योमादशेन बालिशेन कि प्रयोजनं स्याद्येन कत्विग्भ्य इव तस्मे मदर्पणं सफलं स्यात। अत एतदेवानुशोचामीति भाव: ॥५॥ साध्वसरोषावेशहीनमीदशं पुत्रवाक्यं श्रुत्वा क्रोधावेशान्मया मृत्यवे त्वा ददामीत्युक्तं नेदशं पुत्रं सृत्यवे दातुमुत्सह इति पश्चात्ततहृदयं पितरमालोक्योवाच- अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे। पूर्वे पितामहादयो यथा मृषावादं विनैव स्थिता यथा चापरे साभ- वोऽद्यापि तिउन्ति तान्वीक्ष्य तथा वर्तितव्यमिति भावः। सस्यमिव मर्त्यः पच्यते सस्यमिवाऽडजायते पुनः ॥ ६॥ मर्त्यः सस्यमिवाल्पेनापि कालेन जीर्यति जीर्णश्र मृत्वा सस्यमिव पुनराजायते। एवमनित्ये जीवलोके कि सृषाकरणेन। पालय सत्यं प्रेषय मां सृत्यव इति भाव: ॥६ ॥ एवमुक्त्वा प्रेषितः प्रोषितस्य सृत्योरद्वारि तिस्रो रात्रीरनश्नन्नुवास। ततः प्रोष्याऽडगतं यमं द्वाःस्था वृद्धा ऊचु:। वैश्वानरः प्रविशत्यतिथिर्राह्मणो गृहान्। तस्यैता शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥७॥ साक्षादगनिरेवातिथिर्वाह्मणः सन्गृहान्पविशति तस्याग्नरेतां पाद्यास- नादिलक्षणां शान्तिं कुर्वन्ति सन्तस्तदृपचारेण दग्धा मा भूमेति। अतो हे वैवस्वत नचिकेतसे पाद्यार्थमुदकं हराऽडहरेत्यर्थः॥७॥ अकरणे प्रत्यवायं च दर्शयन्ति स्म- आशापतीक्षे संगत सूनृतां चेष्टापूर्ते पुत्रपशूश्र सर्वान् । एतदृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे॥।८॥
Page 35
३४४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १ पली!
तस्याSडशाप्रतीक्षे कामसंकल्पी। यद्वाऽनुत्पन्नवस्तुविषयेच्छाऽडशञा. उत्पन्नवस्तुप्राप्तीच्छा प्रतीक्षा। संगतं सत्संगमं सृनृतां सत्यभियवाचम्। इष्टापूर्ते इष यागादि पूर्त खातादि पुत्रान्पशूंश्षेतदनशनरूपं पापं वृक्के वर्जयति नाशयतीत्यर्थः। वृजी वर्जने रुधादित्वाच्छूनम् । वृजि वर्जन इत्यस्मादिदितो नुमदादित्वाच्छपो लुग्वा॥ ८ ॥ एवं वृद्धैरुक्तो मृत्युर्नचिकेतसमुवाच- तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्रन्ब्रह्मन्नतिथिर्नमस्यः । मे गृहे यस्माद्धेतोरहे ब्रह्मन्नमस्कारार्होडतिथिरत्वं तिस्रो रात्रीरमु- खान एवावात्सीरित्यर्थः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु । स्पट्टोऽर्थः । तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥।९. ॥ तस्मान्धेतोर्मह्यं स्वस्ति यथा स्यादित्येवमर्थ त्रीन्वरान्परति तानुद्विश्य वृर्णीध्व प्रार्थय। तब लिप्साभावेऽपि मदनुग्रहार्थमनशनरात्रिसमसं रव्याकांस्रीन्वरान्वृणीव्वेति भाव: ।९॥ एवं प्रार्थितो नचिकेतास्त्वाह- शान्तसंकल्पः सुमना यथा स्याद्वी- तमन्युर्गौतमो माडभि मृत्यो। हे सृत्यो मत्पुत्रो यमं प्राप्य किं करिष्यतीति मद्विषय चिन्तारहितः प्रस- न्नमना माऽभि मां प्रति मम पिता गौतमो वीतरोषक्ष यथा स्यादित्यर्थ: ५ किं च- त्वस्प्रसृष्ट माऽभिवदेत्पतीतः । त्वया गहाय पेषितं माऽभि मां प्रति प्रतीतो यथापूर्व. परीतः सन्वप्ेतु .. यद्वाभियदेदाशिष प्रयुञ्यात्। अभिवदति नाभिवादयत ह्वति स्वते व्वभिवद्नस्याउडशीर्वादे प्रयोगात्। एतब्रयाणां प्रथमं वरं वृणे ॥ १०॥ स्पन्टोऽर्थ: ॥ १० ॥
Page 36
[अ० १वह्ी? काठकोपनिषत्। ३५ एवमुंक्तो मृत्यु: प्रत्युवाच- यथा पुरस्तान्भविता प्रतीत: 15 यथापूर्व त्वयि हृष्टो भविता। औद्दालकिरा रुणिर्मत्पसृष्टः । उद्दालक एवौददालकिः। अरुणस्यापत्यमारुणिर्द्यामुष्यायणो या। उद्दालकस्यापत्यमरुणस्य गोतरापत्यमिति वार्डर्यः। मत्पसृष्टो मदनुज्ञातो मदनुगृहीतः सन्मदनुग्रहादित्यर्थः । सुख- गत्री: शयिता वीतमन्युः । त्वयि विगतमन्यु: सन्नुत्तरा अपि रात्री: सुखं शयिता। सुट्र, सुख- निद्ां प्राप्स्यतीति यावत्। त्वां दर्शिवान्मृत्युमुखात्प्रमुक्तम् ॥ ११ ॥। दर्शिवान्टष्टवान्सन्नित्यर्थः । क्वसन्तोऽयं शब्दो हशेक्रेति वक्तव्य- मिति क्वसोरिट्छान्दसो द्विवचनाभावः। मत्प्रसृष्टमिति द्वितीयान्तपाठे मत्पेषितं त्वामिति योजना ॥ ११ ॥ नचिकेता द्वितीयं वरं प्रार्थयते स्वर्गे लोक इत्यादिना मन्त्रदधयेन- स्वर्गे लोके न भयं किंचनास्ति।' अत्र स्वर्गशब्दो मोक्षस्थानपरे यथा चैतत्तथोत्तरत्र वक्ष्यते। न तत्र त्वं न जरया बिभेति। हे सृत्यो स्वं तत्र न प्रमवसि जरया युक्त: सन्न विभेति जरातो न विमेति। तत्र वर्तमान: पुरुष इति शेष:। उभे तीर्त्वाऽशनायापिपासे शोका- तिगो मोदते स्वर्गलोके ॥ १२ ॥ अशनाया बभुक्षा। अत्रापि स्वर्गशब्दो मोक्षस्थानपरो या चैत- त्तथोत्तरत्र यक्ष्यते ॥। १२ ।। स त्वमग्नि स्वर्ग्यमध्येषि मृत्यो। स त्वमिति। पुराणादिमसिद्धसर्वज्ञस्त्वं स्वर्गपयोजनकमममिं जानासि।
Page 37
३६ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१वली १ ] स्वर्गादिभ्यो यद्वक्व्य इति प्रयोजनमित्यर्थे यत्। स्थण्डिलरूपाये: स्वर्ग- प्रयोजनकत्वं चोपासनाद्वारेत्युत्तरत्र स्फुटम्। प्रबूहि त५ श्रद्दधानाय मह्यम् । धद्दधानाय मोक्षश्रद्धावते। स्वर्गलोकेन तब किं सिध्यतीत्यत्राऽडह- स्वर्गलोका अमृतत्वं भजन्त एत- द्वितीयेन वृणे वरेण ॥ १३ ।। स्वर्गो लोको येषां ते परं पदं प्राप्ता इत्यर्थः। "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" [छा०८।३।४] इति देशविशेषविशिष्टत्रह्मपाप्तिपूर्व-
एवमुक्तो मृत्यु: प्राह- प्र ते बवीमि तदु मे निबोध।। त्वत्पार्थितं ते प्रबवीमि। व्यवहिताक्षेति व्यवहितः प्रयोगः। मे ममों- पदेशाज्जानीहीत्यर्थः । ज्ञानस्य फलं दर्शयति- स्वरग्यमगनिं नचिकेत: पजानन्। अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्॥ १४ ॥ अनन्तस्य विष्णोलोंकस्तत्प्राप्तिम्। "तद्विष्णोः परमं पदम्" [क०१॥ ३/९] इत्युत्तरत्र वक्ष्यमाणत्वात्। अथो तत्प्राप्त्यनन्तरं प्रतिष्ठामपुनरा- वृत्ति च लभत इति शेष:। तज्ज्ञानस्येद्टशं सामर्थ्यं कथ संभवतीति मन्यमानं प्रत्याह-विद्धि त्वमेतं निहितं, गुहायामू। ब्रह्मोपासनाङ्गतये- तज्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहितमन्ये न जानन्ति त्वं जानीहीति भावः । यद्वा ज्ञानार्थस्य विदेलाभार्थकत्वसंभवादमिं प्रजानंस्त्वमनन्तलोकाप्तिं प्रतिश्ठं लभस्वेत्युक्ते हेतुहेतुमन्भ्ावः सिद्धर भवति। प्रजानन्, लक्षणहेत्वोरिति शतृप्रत्ययः ॥१४ ।। अनन्तरं श्रुतिवाक्यम्- लोकादिमन्निं तमुचाच तस्मै। लोकश्याऽडदिं हेतुं स्वग्यमिति यावत्। तमग्निमुवाच।
Page 38
[अ० १ वल्ली १] काठकोपनिषत्। ३७
या इष्टका यावतीर्वा यथा वा। यललक्षणा इष्टकाश्र्ेतव्या यत्संख्याका येन प्रकारेण चेतव्यास्तत्सर्व- मुक्तवानित्यर्थः । यावतीरिति पूर्वसवर्णश्छान्दसः । स चापि तत्प्रत्यवद्यथोक्तमू। स च नचिकेतास्तच्छृतं सर्वं तथैवानूदितवानित्यर्थः । अथास्य मृत्युः पुनराह तुष्टः ॥ १५॥ शिष्यस्य ग्रहणसामर्थ्यदर्शनेन संतुष्टः सन्मृत्युः पुनरप्युक्तवान्॥१५॥ तमब्रवीत्प्रीयमाणो महात्मा। संतुष्यन्महामना मृत्युर्नचिकेतसमब्रवीत्- वरं तवेहाय ददामि भूयः । पुनश्तुर्थ परं पवष्छामीति। किं तघ्ाSडह- तवैव नाम्ना भविताऽयमत्निः। मयोच्यमानोऽग्निस्तवैव नाम्ना नाचिकेत इति प्रसिद्धो भविता। किंच- • सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ विचित्रां सृङ्गां शब्दवती रत्नमालां स्वी कुर्वित्यर्थः ॥ १६॥ पुनरपि कर्म स्तौति- त्रिणाचिकेतसिरिभिरेत्य संधिं त्रिकर्मकत्तरति जन्ममृत्यू । त्रिणाचिकेतः "अयं वाब यः पवते" इत्याद्यनुवाकत्रयाध्यायी
भिस्तििभिरतुष्वितरगनिभिः संधिं परमात्मोपासनेन संबन्धमेत्य प्राप्य जन्म- सृत्यू तरतीत्यर्थः । "करोति तद्येन पुनर्न जायते" इत्यनेनैकार्थ्यात्। एवमेव ह्ययं मन्त्रः "त्रयाणामेव चैवम्" [ ब० सू० १।४। ६ ] इति सूत्रे व्यासार्यैविव्ृतः। तरिभिरेत्य संधिमिति निर्दिष्मङ्गभूतं परमात्मोपासनमाह-
Page 39
रङ्गरामानुजविरचितप्रकाशिकासमेता- अ० १वली१
ब्रह्मजज्ञं देवमीडचं विदित्वा। अयं मन्त्रखण्डः "विशेषणाच्च" [ब०सू०१। २!१२] इति सूत्र- माष्ये ब्रह्मजज्ञो जीवो ब्रह्मणो जातत्वाज्ज्ञत्वाच्च तें देवमीडयं विदित्वा जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थ इति विवृतः । देवश- व्दृस्य परमात्मवाचितया जीवपरयोश्चैक्यासंभवादव्रत्यदेवशब्दस्य पर- मात्मकत्वपर्यन्तार्थ इति भाष्याभिपायः। निचाय्येमा शान्तिमत्यन्तमेति ॥ १७॥ निचाय्य ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्येमां त्रिकर्मकृत्तरतीति पूर्व- मन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिमेतीत्यर्थः ॥१७॥ त्रिणाचिकेतस्त्रयमेतद्विदित्वा। त्रिणाचिकेत उक्तार्थः। त्रयमेतद्विदित्वा ब्रह्मजशं देवमीड्यमिति मन्त्रनिर्दिष्टं ब्रह्मस्वरूपं तदात्मकस्वात्मस्वरूपं त्रिभिरेत्य संधिमिति निर्दिष्टमग्निस्वरूपं च विदित्वा, गुरुपदेशन, शास्त्रतो वा जञात्वा। य एवं विद्वाशश्िनुते नाचिकेतम् । एतादृशार्थत्रयानुसंधानपूर्वकं नाचिकेतममनिं यश्चितुते। स मृत्युपाशान्पुरतः प्रणोय। स मृत्युपाशानरगद्वेषादिलक्षणान्पुरतः शरीरपातात्पूर्वमेव प्रणोद्य तिरस्कृत्य जीवदशायामेव रागादिरहितः सन्नित्यर्थः। शोकातिगो मोदते स्वर्गलोके ॥ १८॥ पूर्वभेव व्याख्यातम् ॥१८ । यो वाउप्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम्। स एव भूत्वा ब्रह्मजज्ञात्मभृत: करोति तयेन पुनर्न जायते ॥ १९ ॥ न्य एतां चिति ब्रह्मजज्ञात्मभूतां विदित्वा बह्मात्मकस्वस्वरूपतयाऽनु- संधाय नाचिकेतमत्रिं चिनुते स एव ब्रह्मात्मकस्वात्मानुसंधानशाली सन्नपुनर्भवहेतुभूतं यन््रमबदुपासनं तद्नुतिष्वति । ततथ्ाऔ भगवदात्म-
Page 40
[अ० १ वल्लीं t] काठकोपनिषत्। ३९
कस्वात्मत्वानुसंधानपूर्वकमेव चयनं "त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्मसृत्यू " इति पूर्वमम्त्रे भगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्ट नान्यदितिभावः । अयं च मन्त्र: केषुचित्कोषेषु न हट्टः कैश्रिदव्याकृ- तक्च। अथापि प्रत्ययितव्यतमैर्ध्यासादिभिरेव व्याख्यातत्वान्न प्रक्षेपशक्का कार्या । १९ ॥ एष तेऽग्रिर्नचिकेत: स्वर्ग्यः । उपदिष्ट इति शेष: । यमवृणीथा द्वितीयेन वरेण। स्पष्टोऽर्थः। किंच- एतमत्निं तवैव प्रवक्ष्यन्ति जनासः। जनास्तवैव नास्नैतमम्निं प्रवक्ष्यन्तीत्यर्थः। तृतीयं वरं नचिकेतो वृणीष्व ॥ २०॥ स्पट्टोऽर्थः। न चैतत्प्रकरणगतानां स्वर्गशब्दानां मोक्षपरत्वे कि प्रमाण- मिति चेदुच्यते। भगवतैव भाष्यकृता स्व्ग्यमग्निमिति मन्त्रं प्रस्तुत्य स्वर्ग- शव्देनात्र परमपुरुषार्थलक्षणो मोक्षोडभिधीयते। "स्वर्गलोका अमृतत्त्व भजन्ते" इति तत्रस्थस्य जननमरणाभावश्रवणात्। "त्रिणाचिकेतस्त्रि- भिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू" इति च वचनात्। तृतीयवरप्रश्ने नचिकेतसा क्षयिफलानां निर्दिश्यमानतया क्षयिफलमुखेन नचिकेतसा क्ष यिष्णुस्वर्गफलसाधनस्य प्रा्थ्यमानत्वानुपपत्तेः। स्वर्गशब्दस्य प्रकृष्टसु- खचचनतया निश्वधिकानन्दरूपमोक्षस्य स्वर्गशब्दवाच्यत्वसंभवादिति करणतस्तात्पर्यतश्र प्रतिपादितत्वान्न शङ्कावकाशः।नतु "स्वर्गे लोके न मयं किचनास्ति न तत्र त्वं जरया बिभेति। उभे तीत्वाडशनायापिफासे शोकातिगो मोदते स्वर्गलाके"। "स त्वमग्निए स्वर्गमध्येषि मृत्यो प्रन्नूहि त श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयैन वृणे वरेण" इति द्वितीयवरप्रश्नमन्त्रद्वये चतुरभ्यस्तस्य स्वर्गशब्दस्य मोक्षपरत्वं किं मुख्यया वृत्योतामुख्यया। नाऽडद्यः। स्वर्गापवर्गमागाभ्यां 'स्वर्गा- पवर्गयोरेकं न स्वर्गं नापुनर्भवं' 'स स्वर्गः स्यात्सवनन्प्रित्यविशिष्टत्वात्' इत्यादिप्रयोगेष्वपवर्मप्रतिद्वंद्विवाचितया लोकवेदप्रसिद्धस्य स्वर्गशब्दस्य मोक्षवाचित्वा मावात्।
Page 41
'४० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १ वल्ली ]
ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश। स्वर्लोक: सोऽत कथितो लोकसंस्थानचिन्तकैः ॥ इति पुराणवचनानुसारेण सूर्यध्ुवान्तर्वर्तिलोकविशेषस्वैव स्वर्गशब्द- 'वाच्यतया तत्रैव लौकिकवैदिकव्यवहारदर्शनेन मोक्षस्थानस्यातथात्वात्। नाप्यमुख्ययेति द्वितीयः पक्षः। मुख्यार्थे बाधकाभावात्। किमत्र प्रश्न- वाक्यगतं जरामरणराहित्यामृतत्वभाकत्वादिकं बाधकमुत प्रतिवचनगत- जरामृत्युतरणाद्युत क्षयिस्वर्गस्य सर्वकामविमुखनचिकेतःप्रार्थ्यमानत्वानु- पपत्तिवा। नाऽडद्यः। स्वर्गलोकवासिनां जरामरणक्षुत्पिपासाशोकादि- राहित्यस्यामृतपानादमृतत्त्वप्राप्ेश्र पुराणेघु स्वर्गस्वरूपकथनप्रकरणेषु दर्शनात्। 'आभूतसंपुवस्थानममृतत्वं हि भाष्यते' इति स्मरणात्। अत्रैव "अजीर्यताममृतानामुपेत्य " इति सृत्यावप्यमृतशब्दप्रयोगदर्श- नाञ्च। स्वर्गलोकवासिनामेव ब्रह्मोपासनद्वारा "ते ब्ह्मलोके तु परान्त- काले" [मु० ३।२६] इति श्रुत्युक्तरीत्याऽसृतत्वप्राप्तेः संभवेन "स्वर्ग- लोका अंमृतत्वं भजन्ते"इत्यस्योपपत्तेश्रापेक्षितामृतत्वपरतया लोकवेद-
चिस्वर्गशदस्यान्यथानयनासंभवात्। न हि देवदत्तोऽभिरूप इत्युक्ेड- भिरूपपदस्वारस्यानुसरेण देवदत्तपदस्यात्यन्ताभिरुपयज्ञदत्तपरत्वमा- श्रीयते। न द्वितीयः । त्रिणाचिकेतस्त्रिभिरिति मन्त्रस्य स्वर्गसाधन-
कतया स्वर्गशब्दस्य मुख्यार्थपरत्वाबाधकत्वात्। अत एव तत्तुल्यार्थस्य "करोति तद्येन पुनर्न जायते" इत्यस्यापि न स्वर्गशब्दमुख्यार्थबाधकत्वं नापि क्षयिष्णो: स्वर्गस्य फलान्तरविमुखनचिकेतःप्रा्थ्यमानत्वानुपप- त्तिरिति तृतीयः पक्षः । स्वर्गसाधनाग्निप्रश्नं प्रति बृवता हितेषिणा सृत्युनाऽपृष्टेऽपि मोक्षस्वरूपे "अनन्तलोकाप्तिमथो प्रतिष्ठां त्रिणाचिके- तस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्मसृत्यू " इत्यादिनोपक्षिप्त उत्पन्ना मुमुक्षा "अन्यं वरं नचिकेतो वृणीष्व" इति प्रतिषधेन दृढीकृता। रस्यां च दृशायां क्रियमाणक्षयिष्णुफलनिन्दा प्राचीनस्वर्गप्रार्थनायाः कथं बाधिका स्यात्। किंच "श्वभावा मर्त्यस्य" [क० १।१२६] इत्यादा मर्त्यभोगनिन्दाया एव दर्शनेन स्वर्गनिन्दाया अदर्शनात्स्व- गशब्दस्य मोक्षपरत्वे तस्य ज्ञानैकसाध्यतया तत्पयोजनकत्वस्याग्नाव- मावादुपक्रमोपसंहारमध्याभ्यस्तस्वर्गशब्दपीडाप्रसङ्गाच्च । सन्तु वा प्रति-
Page 42
! [अ० १ वल्ली १] काठकोपनिषत्। ४१ सचने बाधकान्यथाप्युपक्रमाधिकरणन्यायेन प्रथमस्य प्रश्नवाक्यस्थस्व गशब्दस्यैय प्रबलत्वात्। न वा 'भूयसां स्वात्सधर्मत्वम्' [जे०१२।२७२२] - इति न्यायाद्भूयोनुग्रहार्थेऽल्पस्योपक्रमस्य बाध्यत्वमस्त्विति वाच्यम्। "मुख्यं वा' [जै० १२।२८२३] इति सूत औपसंहारिकबह्वपेक्षयाऽपि मुख्यस्यैव प्राबल्योक्तेः। तस्मात्स्वर्गशब्दस्य मुख्यार्थपरित्यागे न किंचि- त्कारणमिति। अत्रोच्यते-स्वर्गशब्दस्य मुख्ययैव वृत्त्या मोक्षवाचित्वं स्वर्गकामाधिकरणे नागृहीतविशेषणन्यायेन स्वर्गशब्दस्य प्रीतिवचनत्व- मेव न प्रीतिविशिष्टद्वव्यवाचितेत्युक्तम्। ननु स्वर्गशब्दस्य नागृहीतवि- शेषणन्यायेन प्रीतिवचनत्वे सि्धेऽपि देहान्तरदेशान्तरभोग्यप्रीतिवा- चिता न सिध्येत्। न च यस्मिन्नोष्णमित्याद्विवाक्यशषाद्विव्युद्दे- शस्थस्वर्गशब्दस्य प्रीतिविशेपवाचितानिश्चय इति वाच्यम्। प्रीति- मात्रवाचित्वेन निर्णीतशकत्तिकतया संदेहाभावेन 'संदिग्धेपु वाक्य- शेषात्' [जै०१।४।१९।२९] इति न्यायस्यानवतारादिति परिचोद्य यद्यपि लोक एव स्वर्गशब्दस्य निर्णीतार्थता तथाऽपि लोकावग- तसातिशयसुखवाचकत्वे तत्साघनत्वं ज्योतिष्टोमादीनां स्यात्। तथा घाल्पधननरायाससाध्य लौकिके तदुपायान्तरे संभवति न बहुधननरार्ण सुसाध्ये बह्नन्तराये व्योतिषोमादौ प्रेक्षावान्प्रवर्तत इति प्रवर्तकत्वं ज्योतिष्टोमादिविधेर्न स्थात्। अतो वाक्यशेषावगत निरतिशयप्रीति- विशेषे स्वर्गशब्दस्य शक्ती निश्चितायां वाक्यशपाभावस्थलेऽपि यवव- राहादिप्विव स एवार्थः । लीकिके सातिशयप्रीतिभरिते गुणयोगादेव वृत्तेरुपपत्तेरन शक्त्यन्तरकल्पना। न च प्रीतिमात्वचनस्यैव स्वर्गशब्दस्य वेदे निरतिशयप्रीतिवाचित्वमस्त्विति वाच्यम्। निरतिशयत्वांशस्यान्य- तोऽनवगतत्वेन तत्रापि शक्त्यवश्यंभावेन स्वर्गशब्दस्य लोकवेदयोरनेका- र्थता स्यात्। यदा तु वैदिकप्रयोगावगतनिरतिशयप्रीतिवाचिता, तदा सातिशये लौकिके प्रीतित्वसामान्ययोगाह्गीणी वृत्तिरिति मीमांसकेर्निर- तिशयसुखवाचित्वस्यैव समर्थिततया माक्षस्य स्वर्गशब्दवाच्यत्वे विवा- दायोगात्। पार्थशब्दस्यार्जुन इव तदितरपृथापुत्रेपु प्रचुरप्रयोगाभा-
कगतसुखविशेष इवान्यत्र प्रचुरप्रयोगाभावोऽि वाच्यतानपायात्।
तद्वाचित्वं केषांचिद्प्रयोगमाघ्नस्य शक्त्यभावासाधकत्वात्। अतस्तृण- ६
Page 43
४२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १वला :] त्वादिजातिवचना एव बर्हिरादिशब्दा इति बर्हिराज्याधिकरणे स्थित- खवात्। तबुक्त वार्तिके- एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः । तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता।। इति। ततक् स्वर्गशब्दो मोक्षसाधारण एव। ननु बर्हिराज्यादिशष्देष्वसंस्कृततृ.
स्वर्गशब्दस्य सूर्यधुवान्तर्वर्तिलोकसुखविशेषातिररिक्तस्थले नियमेनाप्र- योगात्तद्यावृत्यैव शक्तिरम्युपगन्तव्या। अत एव प्रोद्गात्रधिकरण उद्गा- सृशवदस्य ऋत्विग्विशेष इतरव्यावृत्तप्रयोगविशेषेण रूढत्वात्तस्य चोद्गातु- रेकरवेन 'प्रैतु होतुश्चमसः प्रोद्गातृणाम्' इति बहुवचनार्थबहुत्वासंभवात्तव- न्वयार्थं रूढिपूर्वकलक्षणया 'अव सुब्नह्मण्यनामकस्तोत्रसंबधिनां त्रयारण वा सुब्ह्मण्यानां चतुर्णां वोद्गात्रादीनां छन्दोगानां ग्रहणमित्येतद्विरु- ध्येत। तथाऽहीनाधिकरणे तिस्न एव साह्नस्योपसदो द्वादशाहीनस्ये- त्यत्राहीनशब्दस्याह्नः खः क्रताविति व्याकरणस्मृत्या खप्त्ययान्तत- याऽहर्गणसामान्यवाचितया व्युत्पादित्तस्याप्यहीनशब्दस्य नियमेन सत्रेऽ- प्रयोगाद्हर्गणविशेष रूढिमङ्गीकृत्य ज्योत्तिष्ठोमस्याहर्गणविशेषत्वाभावा- दहीन इति योगस्य रूढिपराहृतत्वेन योगेन ज्योतिष्टोमे वृत्त्यसंभ- वाज्ज्योतिष्टोमप्रकरणाघीताया अपि द्वादशाहीनस्येति द्वादशोपसत्ताया अहर्गणविशेषोत्कर्ष इत्युक्तम्। तथा पाय्यसान्नाय्यनिकाय्यधाय्या मानह- विर्निवाससामिधेनीष्विति व्याकरणस्मृत्या सामधेनीमात्रवाचितया व्यु- स्ादितस्यावि धाय्याशब्दस्य न सामिधेनीवचनत्वं नापि धीयमानत्व- रूपयोगार्थवशेन वा धीयमानमात्रवचनत्वम्। स्तुतिशस्त्रार्थतया धीय- मानासु ऋक्षु सामिधेनीमातरे च धाय्याशब्दप्रयोगादपि तु'पृथुवाजवत्यी धाय्ये भवतः'इत्यादिवैदिकप्रयोगविषयेषु पृथुवाजवत्यादिप्वेव धाय्या- शब्दस्य शक्तिरिति 'समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्या: स्युः' [ जै०५।३।३४ ] इति पाश्चमिकाधिकरणे स्थितमेवमादिकं सवें विरुध्येत। स्वर्गशब्दे त्वदुक्तरीत्या प्रयोगाभावेऽपि शक्तिसंभव उद्गा- त्रादिशब्दानामृत्विग्विशेषादिषु रूढेरकल्पनीयत्वादिति चेतु। सत्यम् । यदि सर्वात्मना तदतिरिक्ते स्वर्गशब्दप्रयोगो न स्यात्तदा तद्यावृत्ता रूढिरभ्युपगन्तव्या स्यात्। अस्ति हि तत्रापि प्रयोगः। "तस्य हिरण्मय: कोश: स्वर्गो लोको ज्योतिषाऽडवृतः, यो वैतां ब्रह्मणो वेद"तेन धीरा
Page 44
[अ १ वष्ली १] काठकोपनिषत्। ४३
अपि यन्ति ब्रह्मविद: स्वरग लोकमित ऊध्व विमुक्ता:"[बृ० ४४८]। "अपहृत्य पाप्मानमनन्ते स्वर्गे लोके ज्येयें प्रतितिष्ठतिके० ३४ ]। इति तैत्तिरीयकबृहदारण्यकतलवकारादिप्वव्यात्मशास्त्रेपु प्रयीगदर्शनात, पोराणिकपरिकल्पितस्वर्गशब्दरूढेः, सांख्यपरकल्पिताव्यक्तशब्दरूढि वद्नादरणीयत्वात्, अस्मिन्नेव प्रकरणे "त्रिणाचिके तररय मेतद्विदित्वा य एवं विद्वाशश्रिनुते नाचिकेतम्।स मृत्युपाशान्पुरतः प्रणीद् शोकातिगो• मोदते स्वर्गलोके" [क०६।१।१८]। इति मन्त्रे कर्मज्ञानसमुच्चयसाध्य- वाचकतया अूयमाणस्य स्वर्गलोकशब्दस्य सूर्यधुवान्तवर्तिलोकव्यति- रिक्तवैराजपद्वाचकतया परैरपि व्याख्यातत्वाच्च। ननु सूर्यलोकोर्ध्व- वर्तिलोकत्वस्यैव प्रवृत्तिनिमित्ततया तत्य च वैराजपदेऽपि सत्वान्नामु- ख्यार्थत्वमिनि चेत्तर्हि भगवलोकेऽप्यूर्ध्ववर्तित्वाविशेषेण मुख्यार्थत्वान- पायात्। स्वर्गापवर्गमारगाभ्यामित्यादिव्यवहारस्य ब्राह्मणपरिवाजक- न्यायेनोपपत्तेश्र। अस्तु वाऽमुख्यार्थत्वं मुख्यार्थे बाधकसत्वात। किमत्र बाधकमितिचेच्छ्रयतामवधानेन। 'स्वर्गे लोके न भयं किंचनास्ति' इति प्रथमे प्रश्नमन्त्रे न भयं किचनास्तीत्यपहृतपाप्मत्वं प्रतिपाद्यते। रवर्गेडविम पातभीतस्येत्युक्तरीत्या केन पापेन कदा पतिष्यामीति भीत्यभावः प्रति- पाद्यते स ह्यपहृतपाप्मन एव संभवति। 'नतत्र त्वं जरया विभेति' इत्यनेन •विजरत्वविसृत्युत्व प्रतिषादेते। "उभे तीत्वडशनायापिपासे " इत्यनेन विजिवत्सत्वापिपासत्वे प्रतिपादते। 'शोकातिगः इति विशोकत्वम्। 'मादते स्वर्गलोके' इत्यनेन स यदि पितृलोककामो भवति संकल्पादेवासय: पितरः समुतिष्ठन्ति। "तेन पितृलोकेन संपन्नो महीयते" [छा०८।२ १] इति श्रुतिसंदर्भप्रतिपाद्ये सत्यकामत्वसत्यसंकल्पत्वे प्रतिपादयेते। ततश्राध्यात्मशास्त्रसिद्ध स्यापहृतपाप्मत्वादिवह्मगृणाष्ट काविर्भावरयेह प्रतीयमानतया तस्यवह ग्रहणसंभवे पौराणिकस्वर्गलोकगतापेक्षिकज मरणाद्यभावस्व्रीकारस्यानुचितत्वात। अत एव सप्तमे विध्यन्ताधिकरणड नुप दिष्टे तिकर्तव्यताकासु सौर्यादिविक्कृतभावनास्यितिकर्तव्यताकाद क्षार्य। वैतानिककर्माधिकारप्रवृत्तत्रथीविहितत्व सामान्याद्विविवयेव दर्शपीर्णमा- सिकीतिकर्तव्यतोषतिष्ठत। उक्त च शास्त्रदीपिकायाम- वैदिकी वैदिकत्वेन सामान्यनोपतिष्ठते।. लांकिकी त्वसमानत्वात्नोषस्थास्पत्यपेक्षिता"। इति। न च "यद्ेकं यूप स्पृशदेष ते वादाविति कयात्" इति विदितस्येप
Page 45
४४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१वली१]
ते वायाविति वचनस्य वैदिकत्वसामान्येन विहितव दिकयूपस्पर्शनि- मित्तकत्वमेव स्यात्। न चेषापत्तिः । 'लौकिके दोषसंयोगात्' [जै०९।३।३।९] इति नावमिकाधिकरणविरोधप्रसङ्गादिति वाच्यम्। "यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्माद्यृपो नोपस्पृश्यः इति प्रतिषिध्य यद्येकं यूप स्पृशेदेष ते वायाविति बृयादि त्य- नन्तरमेव विहिंतस्य प्रतिपिद्धप्रायश्चित्तसाकाङक्षली किकस्पर्शविषये त्वावश्यंभावेन दैदिकविषयत्वासंभवेऽप्यसति बाघके वैदिकविषयत्वस्य युक्तत्वात् । अत एव "यावतोऽश्वान्प्तिगृह्वीयात्तावतो वारुर्णा, श्रतुष्कपालान्निर्वपेत "इति विहितेष्िर्वैदिक एवाश्वदाने। न तु "न केसरिणो दृदति" इति निषिद्दे प्रायश्वित्तसापेक्षे महदादिभ्यः स्नेहा- दिना क्रियमाण इति निर्णीतं तृतीये। तथा 'योगिनः प्रतिस्मर्यते स्मार्ते चिते' [ब० सू०४।२।२१] इति सूते स्मार्तस्य वैदान्तेन प्रस्य- भिज्ञानमित्युक्तं परैः । ततश्र 'स्वर्ग लोके' इति मन्त्रेऽध्यात्म- शास्त्रससिद्धस्यापहृतपाप्मत्वादिव्वह्मगुणाष्टकस्यैव ग्रहणमुचितम। 'स्वर्ग- लोका अमृतत्वं भजन्ते' इति तृतीयप्रश्नमन्त्रेऽसृतत्वभाक्त्वश्रवणादमृत- त्वशद्दस्याध्यात्मशास्त्रे मोक्ष एव प्रयोगात्। अजीर्यताममृसानामित्य- त्रामृतशब्दस्यापि मुक्तपरत्वेनाऽडपेक्षिकामृतत्वपरत्वाभावात। उत्तरत्र "ततो मया नाचिकेतश्चितोऽिरनित्यंर्द्रव्यैः प्राप्तवानस्मि नित्यम्" [क०१।२१०]"अभयं तितीर्षतां पारं नाचिकेतः शकेमि [क०।३२] इति परस्यैव ब्रह्मणो नाचिके ताग्निपाप्यत्वकथनेन स्वर्गशब्दस्य प्रसिद्धस्व- ्गपरत्वासंभवात्। "नान्यं तरमान्नचिकेता वृर्णीते " [क०१।१।२९] इति ब्रह्मेतरविमुखतया प्रतिपादितस्य नचिकेतसः क्षयिष्णुस्वर्गप्रार्थनानु- पपत्तेश्र। "सुख्यं वा पूर्वचादनालोकवत् " [जै० १२२८ा२३] इत्यत्र समसंख्याकयो: परस्परविरोध एव मुख्यस्य प्राबल्यम्। न ह्यल्पवगुण्ये संभवति बहुवगृण्यं प्रयोगवचनं क्षमते। अतो वत्र जवन्यानां भूयस्त्वं तत्र 'भूयसां स्यात्सधर्मत्वम' [ जैं० १२।२।७] २२ ] इति न्याय एव प्रवर्तत इत्येव मीमांसकै: सिद्धान्तितत्वात्। प्रतर्दनविद्यायाम् "एप ह्येव साधु कर्म कारयति। 'एप लोकाधिप- तिरेष लोकपाल:।' आनन्दोऽजरोऽमृतः" [कौ०३1८] इत्यीपसंहा- रिकपरमात्मधर्मबाहुल्येन प्रक्रमध्ुतजीवलिङ्गववाधम्य 'प्राणस्तथाऽनुग- मात् [्र० सू० १।१।२८] इन्यत्र प्रतिपादितत्वादित्यलमतिचर्चया। प्रकृतमनुसरामः ॥ २०॥.
Page 46
[अ:० १ वल्ली १] काठकोपनिषत्। ४५
नचिकेता आह- येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्वियामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २१॥ 'अत्ता चराचरग्रहणात् ' [व० सू० १.।२।९]इत्यधिकरण इमं मन्त्रं प्रस्त्युत्येत्थं हि भगवता भाष्यकृता, अत्र परमपुरुषार्थरूपब ह्मपाप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपराव- रात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते। एवं च येयं प्रेत इति न शरीर- मात्रवियोगाभिप्रायम्। अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायमू।यथा 'न प्रेत्य संज्ञाऽस्तीति' [बृ० ४।४।१२ ]। अयमर्थः-मोक्षाधिकृते मनुष्ये
त्मिका नास्त्यात्मिका येयं विचिकित्सा तदपनोदाय तत्स्वरुपयाथातमयं त्वयाऽनुशिष्टोऽहं विद्या जानीयामिति। तथा हि विप्रतिपद्यन्ते केचि- द्वित्तिमात्रस्याSडत्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते 1 अन्ये वित्तिमात्रस्यैव सतोऽविद्यास्तमयम्। परे पाषाणकल्पस्याऽडत्मनो ज्ञाना- द्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम्। अपरेऽपहृतपाप्मानं परमा-
4तन्भ्ावलक्षणं मोक्षमातिष्ठन्ते। त्रय्यन्तनिष्णातास्तु निखिलजगदेककार- णस्याशेष हेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरुपस्य स्वाभाविकानवधिका- तिशयासङ्ख्येयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्प परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरू-
- पस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपविद्योच्छेदपूर्वकस्वा- भाविकपरमात्मानुभवमेव मोक्षमाचक्षते। तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युरिति भणितम्। तथा 'त्रया- णामेव चैवम्' [त्र० सू० १।४।६] इति सूत्रे तृतीयेन वरेण मोक्षस्व-
च पृष्टमिति भापितम्। श्रुतप्रकाशिकायां च येयमित्यादिप्रश्रवाक्ये' मोक्षस्वरूपप्रश्नः कण्ठाक्तः, प्रतिवचनप्रकारेणोपासनादिप्रश्नश्ार्थसिद्धः। निर्विशेषतापत्तिमोक्षश्रेद्वाक्यार्थज्ञानस्योपायता स्यात्। उभयलिङ्गकं प्राप्यं चेत्तथात्वेनोपासनमुपायः स्थात। अतो मोक्षस्वरूपज्ञानं तदनु- बन्धिज्ञानापेक्षमिति च वर्णितम्। अतो येयं प्रेत इत्यस्य मुक्तस्वरूपम-
Page 47
४६ रङ्गरामानुअिरचितप्रकाशिकासमेता- [अ०१वल्ली१]
श्वपरत्वमेव, न देहातिरिक्त्पारलौकिक कर्मानुष्ठानोपयोगिकर्तृभोक्त्रात्मक- जीवस्वरूपमात्रपरत्वम्। अन्यथा तस्यार्थस्य दुरधिगमत्वप्रदर्शनविविध भोगवितरणप्रलोभनपरीक्षाया असंभवादिति द्रष्व्यम। नचिकेतसो ह्यय- मभिप्राय :- हितैषिवचनादात्मा परित्यक्तचरमदेहाविर्भूतापहतपाप्मत्वा दिगुणाष्टको भवतीत्युपश्चुत्य, स्वर्गे लोके न भयं किंचनास्तीत्यादिना मन्त्रद्येन मोक्षसाधनभूताग्निमप्राक्षम्। अधुना तु वादिविप्रतिपत्वा तद्विषये संदेहो जायते। अयं स्वर्गे लोके न भ्यं किंचनास्तीत्यादिना मयोपन्यस्तापहृतपाप्मत्वादिविशिष्टरूप आत्माडस्तीत्येके नास्तीत्य परे। त्योपादिष्ट एतज्जानीयामिति । अत एव प्रतिवचने "एतच्छृत्वा संप- रिगृह्य मर्त्य: प्रवृह्य धर्म्यमणुमेतमाप्य।स मोदते मोदनीय हि लब्ध्वा" [क०१।२।१३ ] इत्येतत्पक्नानुगुण्यमेव हश्यत। अतो यथोक्त एवार्थः। केचित्तु 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययी '[ब० सू० ३।२/५] इति सत्रे तिरोहित मिति निष्ठान्तपद उपसर्जनतया निर्द्िष्टस्य तिरोधानस्यदेहयोगाद्वा सोपि [ब०सू०३।२६] इति तदुत्तरमूत्रे सोडपि तिरोधानभावोऽपीति पुंलिङ्गतच्छव्देन परामर्शदर्शनात्। 'गुहा प्रविटावात्मानी हि तद्दर्शनात् '[ब०सू०१।२।११] इत्यत्रावि प्रविष्टादि- त्युपसर्जनतया निर्दिष्टस्य प्रवशस्य तद्दर्शनादिति तच्छव्देन परामर्शदर्श- नातू। सर्वनाम्नाऽनुसंधिर्वृत्तिच्छन्नस्यति वामनसूतरे कृत्तद्ध्ितादिवृत्ति न्यग्भूतस्यापि सर्वनाम्ना परामर्शस्याङ्गीकृतत्वात्। येवं प्रेत इति निष्ठान्तपेतशब्द उपसर्जनतया निर्दिष्टस्यापि प्रायणशक्दितमोक्षस्य बेह- योगाद्वा सोऽपीतिवन्नायमस्तीति चैक इत्यत्रायंपदेन परामर्शोडस्तु। न चैवं भुक्तवत्यस्मिन्भोजनमस्ति वा न वेति वाक्यवन्मुक्तेऽस्मिन्मोक्षोड- स्ति नवेति संदेहकथनं व्याहतार्थकमिति वाच्यम्। मोक्षसामान्यमभ्यु- पेत्य मोक्षविशेष संदेहस्योपपादयितुं शक्यत्व्राद्यमित्यनेन विशेषपरा- मर्शसंभवात्। ननु न प्रायणशब्दस्य मोक्षवाचित्वं क्रचिद्ह्टटं शरीरवियो- गवाचित्वात् । श्रुतप्रकाशिकारयां शरीरवियोगवाचित्वमभ्युपेत्यैव चुरमू- शरीरवियोगपरतया व्याख्यातत्वादिति चेदस्तवेवम्। तथाऽप्ययमित्यनेन चरमशरीरवियोगपरामर्शसंभवात्तादविपयिण्येव विचिकित्साऽस्तु। ननु तस्य निश्चितत्वात्तद्विपयिणी विचिकित्सा नोपपद्यत इति चेत्सत्यम्। अयं चरमशरीरवियोगो ब्रह्मरूपाविर्भावपूर्वभाविवेन रुपेगास्ति न वेति विचिकित्सादाः सूपपाढत्वादिति वन्दति ॥२:।
Page 48
[अ० १ वली १ ] काठकोपनिषत्। ४७
एवं मुक्तस्वरूपं पृष्टो मृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्रासुम- प्रभवते मध्ये पतयालवे नोपदेष्ट्व्यमिति मत्वाSडह- देवैरत्रापि विचिकित्सितं पुरा। बहुदर्शिभिरपि देवेरस्मिन्मुक्तात्मस्वरूपे विचिकित्सितं संशयितम्। न हि सुज्ञेयमणुरेष धर्मः। आत्मतत्त्वं न सुज्ञानमिति सूक्ष्म एष धर्मः । सामान्यतो धर्म एव दुर्ज्ञानस्तत्राप्ययं दुर्ज्ञान इति भाव:। अन्यं वरं नचिकेतो वृणीष्व। स्प्टोऽर्थः । मा मोपरोत्सीरति मा सृजैनम् ॥२२॥ मा मेसि निषेधे। वीप्सार्यां द्विर्षचनम्। उपरोधं मा कार्पीः । एनं मां विसृज मुख्च ॥ २२ ॥ एवमुक्तो नचिकेता: प्राह- देवैरत्रापि विचिकित्सितं किल। स्पट्टोऽर्थः । त्वं च मृत्यो यन्न सुज्ञेयमात्थ। न सुज्ञेयमिति यदात्मस्वरूपमुक्तवान्। वक्ता चास्य त्वादगन्यो न लायो नान्यो वरस्तुल्य एतस्य कश्वित् ॥२३। त्वादृक्त्वाद्ृश इत्यर्थः । अन्यत्स्पष्टम् ॥२३ ॥ एवं नचिकेतसोक्तो सृत्युविषयस्य सुरधिगमतया मध्ये नङक्ष्यतीति निश्चित्य सत्यपि ग्रहणसामथ्ये विषयान्तरासक्तचतस एताद्वुशं मुक्ता- त्मतत्वं नोपदेशार्हमिति मत्वा मुमुक्षास्थैर्यानुवृत्त्यर्थ प्रलोभयन्नवाच- शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशन्हस्तिहिरण्यमश्वान्। स्पष्टोऽर्थः । भूमेर्महदायतनं वृणीष्व। .
पृथिष्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीप्व। अथ या भूमे: संबन्धि महदायतनं विचित्रशालाप्रसादादियुक्तं गृहं वृणाप्व।
Page 49
४८ र्रामानुजविरचितप्रकाशिकासमेता- [अ० १ वल्लली १]
स्वयं च जीव शरदो यावदिच्छसि ॥ २४॥ याद्वर्षाणि जीवितुमिच्छरसि तावज्जीवेत्यर्थः ॥ २४ ॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च। उत्ेन वरेण सदृशमन्यमपि वरं मन्यसे चेत्तदपि वृणीष्य प्रभूतं हिरण्यरत्नादिकं चिरं जीवनं चेत्यर्थः । महाभूमौ नचिकेतस्त्वमेधि । एधि मवं राजेति शेषः । अस्तेर्लोण्मध्यमपुरुषैकवचनम्। कामानां त्वा कामभाजं करोमि । २५।। कामानां कामनाविषयं करोमीत्यर्थः । २५। ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामाश्श्छन्दतः परार्थयस्व। छन्दतो यथेच्छमित्यर्थः । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः। रथवादित्रसहिता मया दीयमाना: स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः। आत्िर्मत्परत्ताभिः परिचारयस्व। आभिर्मया दत्ताभि: परिचारिकाभि: पादसंवाहनादिशुभूर्षा कारये- त्यर्थः । नचिकेतो मरणं माऽनुपाक्षी: ॥। २६ ।। मरणमनु मरणान्मुक्तेः पश्रान्मक्तात्मस्वरूपमिति यावत्। मरणश- उदस्य देहवियोगसामान्यवाचिनोऽि प्रकरणवशेन विशेषवाचित्वं न दोषायेति द्रष्टव्यम्॥ २६ ॥ एवं प्रलोभ्यमानोऽपि नचिकेता अक्षुभितहृदय आह- श्वोभावा मर्त्यस्य यदन्तकेतत्सर्वेन्द्रियाणां जग्यन्ति तेजः ॥ हेन्तक त्वदुपन्यस्ता ये मर्त्यस्य कामास्ते श्वोभावा: श्व अभावो येषां ते तथोक्ता दिनद्वयस्थायिनो न भवन्तीत्यर्थः। सर्वेन्द्रियाणां यदेतत्तेज- स्तत्क्षपयन्ति।अप्सरःप्रभृतिभोगा हिसर्वेन्द्रियदार्बल्यावहा इति भावः। अपि सर्व जीवितमल्पमेव।। बह्मणोऽपि जीवितं स्वल्पं किमुतास्मदादिजीवितम्। अतश्िरजीवि- काऽपि न वरणार्हेति भाव:।
Page 50
[अ० १ वल्ली १] काठकोपनिषत्। ४९ . तवैव वाहास्तव नृत्यगीते ॥२७।। वाहा रथाद्यस्तिष्ठन्त्विति शेषः ॥ २७॥ न वित्ेन तर्पणीयो मनुष्यः॥ न हि वित्तेन लब्धेन कस्यचित्तृप्तिर्द्वटचरी। न जातु काम: कामा- नासुपभोगेन शाम्यतीति न्यायादिति भावः । किंच- लप्स्यामहे वित्तमद्ाक्ष्म चेश्वा। त्वां वयं दृष्टवन्तश्रेद्वित्तं प्राप्स्यामहे। त्वद्दर्शनमस्तिचिद्विसलामे को भार इति भावः । तर्हि चिरजीविका प्रार्थनीयेत्यत आह- जीविष्यामो यावदीशिष्यसि त्वम् । यावत्कालं याम्ये पढ़े त्वमीश्वरतया वर्तसे। व्यत्ययेन परस्मे- पदम्। तावत्पर्यन्तमस्माकमपि जीवनं सिद्धमेव। न हि त्वदाज्ञातिलङ्- धनेनास्मज्जीवितान्तकरः कथिदरित। वरलाभालामयोरपि तावदेव जीवनमिति भाव: । वरस्तु मे वरणीयः स एव ॥ २८॥ अतो येयं प्रेत इति प्राक्पस्तुतो वर एव वरणीय इति भावः ॥२८॥ अजीर्यताममृतानामुपेत्य। जरामरणशून्यानां सुक्त्तानां स्वरूपं ज्ञात्वा। जीर्यन्मर्त्यः क तदास्थः भजानन् ॥ प्रजानन्विवेकी जरामरणोपप्लुतोऽयं जनस्तदास्थो जरामरणाध्युप- प्लुताप्सरःप्रभृतिविषयविषय कास्थावान्क कथं भवेदित्यर्थः । अभिध्यायन्वर्णरतिममोदान् ॥ तत्रत्यान्वर्णरतिप्रमोदान्।वर्णा आदित्यवर्णत्वादिरूपविशेषाः। रति- प्रमोदा बरह्मभोगादिज नितानन्दविशेषास्तान्सर्वानभिध्यायन्निपुणतया निरूपयन्। अनतिदीर्घजीविते को रमेत ॥ २९ ॥ अत्यल्प ऐहिके जीविते कः प्रीतिमान्स्यादित्यर्थः ॥२९॥ यसस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महतति बूहि नस्तत्।
Page 51
५० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१वल्लीर
महति पारलौकिके यस्मिन्मुक्तात्मस्वरूपे संशेरते तदेव मे बूहि। योडयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥३०॥ इति प्रथमा वल्ली॥ १ ॥
गूढ मात्मतत्त्वमनुप्रविष्टो योडयं वरस्तस्मादन्यं नचिकेता न वृणीते स्मेति श्रुतेर्वचनम् ॥ ३० ॥ इति प्रथमा वली ॥ १ ॥
अथ द्वितीया वली। एवं शिष्यं परीक्ष्य तस्य मुमुक्षोः स्थैर्य निश्चित्य तस्योपदेशवो- ग्यतां मन्वानो मुमुक्षां स्तीति- अन्यच्छेयोऽन्यदुतैव प्रेयः । अतिप्रशस्तं मोक्षवर्त्माप्यन्यत्। प्रियत्वास्पद भोगवत्माप्यन्यत्। ते उभे नानार्थे पुरुष सिनीतः । ते श्रेयःप्रेयसी परस्परविलक्षणप्रयोजने सती पुरुषं सिनीतो बग्रीतः। पुरुषं स्ववशतामापाद्यत इत्यर्थः । तयोः श्रेय आददानस्य साधु भवति। तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु मद् भवति। हीयतेऽर्थाय उ मेयो वृणीते॥१ ॥ यस्तु प्रेयो वृणीते स पुरुषार्थान्भ्ष्टो मवति। उ इत्यवधारणे॥ १ ॥। श्रेंयश् प्रयक्ष मनुष्यमेतः । श्रेयश्च प्रेयश्र मनुष्यं प्राप्तुतः । तौ संपरीत्य विविनक्ति धीरः। तौ श्रेयःप्रेयःपदार्थौ सम्यगालोच्य नीरक्षीरे हंस इव पृथक्वरोति। श्रेयो हि धीरोऽभि प्रेयसो वृणीते। प्राज्ञ: प्रेयोपेक्षयाडभि, अभ्यर्हितं श्रेय एव वृणीते। प्रेयो मन्दो योगक्षेमादवृणीते ॥ २॥
Page 52
[अ० १ वल्ली २ ] काठकोपनिषत्। ५१ .
मन्दमतिर्योगक्षेमाद्धेतोः प्रेयो वृणीते। शरीरस्योपचयो योगः। क्षेमः परिपालनम् ॥२॥ स त्वं प्रियान्प्रियरूपाश्श्र कामान् 2084 ताद्ृशस्त्वं स्वतो रूपतश्र प्रियान्काम्यमानान्रयादीनित्यर्थः । अभिध्यायन्नचिकेतोऽत्यस्राक्षीः दुःखोदर्कत्वदुःखमिश्रत्वादिदोषयुक्ततया निरुपयंस्त्यक्तवानसीत्यर्थः। नैतां सृङकां वित्तमयीमवाप्तः । वित्तमयीं धनप्रायां सृङ्कां कुत्सितगति विसूढजनसेवितामेतां न प्राप्तवानसि। यस्यां मज्जन्ति बहवो मनुष्याः ॥३ ॥ स्पट्टोऽर्थ: ॥.३॥ दूरमेते विपरीते विषूची अविया या च वियेति ज्ञाता। याडविद्येति ज्ञाता,कामकर्मात्मिका या च विद्येति ज्ञाता वैराग्यतत्त्व- ज्ञानमयी, एते दूरमत्यन्तविपूच्यी भिन्नगती परस्परविरुद्धे च विद्याभीप्सिनं नचिकेतसं मन्ये। विद्याभीप्सिनं विद्यार्थिनं विद्याभीप्सितमिति पाठ आहितामनित्वा- न्निष्ठान्तस्य परनिपातश्छान्दसत्वाद्वा। न त्वा कामा बहवोडलोलुपन्त ।। ४ ।। कामा बहवोऽपि त्वां नालोलुपन्त श्रेयोमार्गाद्विच्छेदं न कृतवन्त; ।। विषयवशगो न भवसीत्यर्थः। लुपसदेति यङन्तालङ्ग। छान्दसो यलोष:। यङ्लुगन्ताद्वा छान्दसमात्मनेपदमदभावश्र ॥४॥ अविद्या या च विद्येति ज्ञातेत्युपात्तमार्गद्वयेऽविद्यामार्ग निन्दति- अविद्यायामन्तरे वर्तमानाः । 294-5921 काम्यकर्मादिलक्षणड्यामविद्यायां मध्ये घनीभूत इव तमस वर्तमाना:। VPA - ANA स्वयं धीरा: पण्डितंमन्यमानाः । स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलाश्रेति मम्यमानाश्च।
Page 53
५२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १ वल्ली२
दन्द्रम्यमाणाः परियन्ति मूढाः ! जरारोगादिदुःखपीडिता अविवेकिन: परिभ्रमन्ति । अन्धेनैव नीयमाना यथाऽन्धाः ॥। ५ ॥
- स्पष्टोऽर्थः। केचित्तु दन्द्रम्यमाणा इति पाठमाश्रित्य विषयकामाग्निना त्रुतचित्ता इत्यर्थ वर्णयन्ति ॥५॥ न सांपरायः प्रतिभाति बालम्। परलोकोऽविवेकिनं प्रति न प्रकाशते। प्रमायन्तं वित्तमोहेन मूढम् । -. अनवहितमनस्कं विषयाशावशीककृतमनोरथम्। अयं लोको नास्ति पर इति मानी। अयमेव लोकोडस्ति परलोको नास्तीति मन्यमान: । पुनः पुनर्वशमापयते मे ॥६ ॥ मत्कियमाणयातनाविषयो भवतीत्यर्थः । व्यासार्यैः 'संयमने त्वनु. भूय' [घ० सू० ३।१।१३] इति सूतेऽयं लोको नास्ति पर उत मानीति पाठानुसारेणायं च लोक: परश्र लोको नास्तीत्यर्थो वर्णितस्तत्र पक्षे तस्येति शेष: पूरणीयः। च शब्दोऽध्याहार्यः। मानीत्यस्य दुर्मानी त्यर्थः। शिष्टपरिग्रहामावादयं लोको नास्तीत्यस्योपपत्तिर्दष्टव्या। दुर्मानी पुनः पुनर्वशमापद्यत इत्युत्तरत्र संबध्यते । ६ । श्रवणायापि बहुभिर्यो न ला्यः । श्रवणलाभोऽपि महासुककृतफलमिति भाव: । शृण्वन्तोऽपि बहवो यं न विदयुः। न हि श्रातृणां सर्वेषां परमात्मप्रतिपत्तिः सुलभेति भाव: । आश्वर्यो वक्ता कुशलोऽस्य लब्धा। अस्य कुशलो वक्ता कुशलः प्राप्ता च दुर्लभ इत्यर्थः। आश्रवर्यों ज्ञाता कुशलानुशिष्टः ॥७।।
Page 54
[अ० १ वल्ली २] काठकोपनिषत्। ५३
. मनुष्याणां सहस्रेषु कश्विद्यतति सिद्धये।। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । इत्युक्तेरिति भाव: ॥७॥ न नरेणावरेण पोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अवरेणाश्रेष्ठेन प्राक्कृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन नरेण देहात्माभिमानिनैष आत्मा सुविज्ञेयो न भवति। कुतो हेतोः। बहुधा चिन्त्यमानो वादिभिरिति शेषः । अनन्यप्रोक्ते गतिरत्र नास्ति। अनन्येनोच्यमानादात्मनोऽनन्येन तदेकान्तिना ब्रह्मसाक्षात्कारिणा प्रोक्तेSत्ाSSत्मनि याहश्यवगतिः साऽडत्मावगतिरवरेण प्रोक्ते नास्ती त्यर्थः । यद्वाऽत्र संसारे गतिश्रङ्क्रमणं नास्तीत्यर्थः। यद्वाऽनन्यप्रोक्ते स्वयमवगते गतिरात्मावगतिर्नास्तीत्यर्थः । अन्यप्रोक्त इति पाठेऽवरेण प्रोक्ते सत्यात्मन्यवगतिर्नास्तीत्यर्थः। ननु येन केनचिदुपदिटेऽप्यूहापोहशालिन: स्यादेवेत्यत आह-
नेषा तर्केण मतिरापनेया। आत्मविषयिणी मतिस्तर्कप्रापणीया नेत्यर्थः । अतस्तर्ककुशलेनापि स्वयं ज्ञातुं न शक्येत्यर्थः । प्रोक्ताऽन्येनैव सुज्ञानाय श्रेष्ठ। हे प्रेष्ठ पियतमान्येनैव गुरुणोपदिटैव मतिर्मोक्षसाधनज्ञानाय भवति। का पुनः सा मतिरित्यत्राSSह- यां त्वमापः सत्यधुतिर्वतासि। यां मतिं त्वमाप आप्तवानसि सिषाधयिषिततया निश्चितवानित्यर्थः। सत्यधृतिरसि। सत्याऽपकम्प्या धृतिर्यस्य स तथोक्तः । वतेत्यनुकम्पा- याम्।
Page 55
५४ रङ्गरामानुजविरचित प्रकाशिकासमेता- [अ०१वल्ली?]
त्वादृइनो भूयान्नचिकेत: प्रष्टा ॥९ ॥ त्वादृशः शिष्योऽस्माकं भूयादित्यर्थः ॥९॥ पुनरपि तुष्ट आह- जानाम्यह शेवधिरित्यनित्यम् । शेवधिनिधिः। कुबेराद्यै्वर्मेंजाीयकं कर्मफललक्षणमनित्यमिति जानामि। न ह्यध्ुवैः प्राप्यते हि ध्रुवं तत् । आत्मतत्त्वमध्ुवैरनित्यफलसाधनभूतेर नित्यद्रव्यसाध्यैवां कर्ममिरि त्यर्थः ।
र्दव्यैः प्राप्तवानस्मि नित्यम् ॥१०॥ एवं ज्ञातवता मया ब्रह्मप्राप्तिसाधनज्ञानोद्देशेनानित्येरिष्ट कादिदवकै नाचिकेतोऽग्निश्चित स्तस्मानद्धेतोर्नित्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यर्थः। अतो ब्रह्मप्राप्तेर्ज्ञानिकसाध्यत्वस्य न विरोध: ॥१० ॥ त्वाहङूनो भूयान्नचिकेतः प्रष्टेति पूर्वमन्त्रोक्तं नचिकेतसः भ्रवणाधि- कारं विवृणोति- कामस्याऽडपतिं जगतः प्रतिष्ठां कतोरानन्त्यमभयस्य पारम्। स्तोममहदुरुगायं प्रतिष्ठां दृष्टा धृत्या धीरो नचिकेतोऽत्यस्राक्षी:॥११॥ क्रतो: कर्मणः प्रतिष्ठां फलभूतां जगतः कामस्याSडसि चतुर्मुखस्थान- पर्यन्तसर्वलोकसंबन्धिरूयादिविषयात्मककामप्राप्तिं च हष्टा मोक्षस्वरूप- माह-आनन्त्यममयस्य पारमित्यादिना। अविनाशित्वमत्यन्तनिर्म- यत्वमपहृतपाप्मत्वसत्य संकल्पत्वादिमहागुणगणरूपस्तोममुरुकीर्ति च स्थयं च मोक्षगतं दष्टा लौकिकान्कामान्प्रज्ञाशाली त्वं त्यक्तवानसी त्यर्थः । यद्वा मोक्षरूपपरमात्मस्वरुप एव सर्वकामावाप्तिं तत्रैव सकल- जगदाधारत्वं कतोरनन्तफलरूपता चेत्येवं सवं परमात्मविषयतया योजनीयम् ॥११ ॥ तृतीयं प्रश्नं प्रति वक्ति ते दुर्दर्शमित्यादिना मन्त्रद्वयेन-12,13
Page 56
[अ० १ वल्ी२] काठकोपनिषत्। ५५
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्यरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥१२॥ श्रवणायापि बहुभिरयो न लभ्य इत्युक्तरित्या द्रदुमशक्यं गूढं तिरोधा- यककर्मरूपाविद्यातिरोहितम्। सर्वभूतानुप्रविष्टम्। गुहाहितं हृदयगुहा- वर्तिनम्। गह्यरेष्ठमन्तर्यामिणम्। पुराणमनादिम्। अध्यात्मयोगाधि- गमेन। विषयेभ्यः प्रतिसंगृहीतचेतस आत्मनि समवधानमध्यात्मयोगः "यच्छेद्वाङनसी प्राज्ञः" "यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह" इत्यादिना वक्ष्यमाणः। तेन योऽयमधिगमो जीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वेत्यर्थः । जीवात्मज्ञानस्य परमात्मज्ञानहेतत्वादिति भावः। हर्षशौकी। विषयलाभालाभप्रयुक्तहर्षशोकी जहातीत्यर्थः॥१२॥ एतच्छत्वा संपरिगृह्य मर्त्यः । एतदात्मतत्त्वं श्रुत्वा संपरिगृह्य मननादिकं कृत्वेत्यर्थः । प्रवृह्य धर्म्यम्। : कर्मसाध्यं शरीरादि प्रवृह्य पृथक्कृत्य परित्यज्येत्यर्थः । अणुमेतमाप्य । एवं स्वात्मभूतं सूक्ष्मतया चक्षुराद्यगोचरं "अणीयान्ह्यप्रतर्क्यम्"। इति निर्दिषटं परमीत्मानं देशविशषे प्राप्य। स मोदते मोदनीयश हि लब्ध्वा। स विद्वान्मोदनीयं प्रीतिविषयमपहतपाप्मत्वादिगुणाष्टकविशिष्टं स्व- स्वरूपं लब्ध्वा मोदत आनन्दी भवतीत्यर्थः । "एष संप्रसादोऽ- स्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिप्पद्यत" [छा०८।३।४]'स तन्र पर्येति जक्षत्कीडन्रममाणः [छा०८।१२३] इति
एवं प्रश्नस्योत्तरमुक्त्वा नचिकेतसं मोक्षाहत्वेन स्तौति- विवृत सद नचिकेतसं मन्ये ॥ १३ ॥ नचिकेतसं प्रति ब्रह्मरूपं सद् धाम विवृत्तद्वारं प्रवेशाहँ मन्य इत्यर्थः। 'तस्यैष आत्मा विशते ब्रह्मधाम' [मु०३।२४] इति श्रतेः। ननु बह्मजज्ञं
Page 57
५६ रङ्गरामानुजविरचितप्रकाशिकासमेता - [अ० १ वल्ली२] देवमीड्यं विदित्वेति श्वुत्यैकाथ्यायाध्यात्मयोगाधिगमेन मत्येत्यत्रापि परमात्मात्मकजीव एव प्रतिपादतामू। ततश्र ते दुर्दशमिति पूर्वख- ्डोऽषि जीवपर एवास्तु। ततश अ्वणायापि बहुभियों न लभ्य इति पूर्वसंदर्भोऽपि परिशुद्धजीवस्वरूपपर एवास्तु ततश्र- आश्चर्यवत्पश्यति कश्विदेनमाश्रर्यवद्वदति तथ्ैव चान्यः। आश्चर्यवञ्चैनमन्यः गृणोति श्रुत्वाऽप्येनं वेद न चैव कश्रित् ॥ [गी०२।२९]
जज्ञमिति मन्त्रे ब्रह्मजत्वरूपोपक्रमश्नुतजीवलिङ्ग्बलेन चरमश्रुतदेवश बदस्य देवात्मकत्वरूपार्थप्रापणेऽपि तं दुर्दशमिति मन्त्रे ताद्गशजीवलि. ङ्गाभावेन देवमित्वस्य देवात्यकमित्यर्थाश्रयूणायोगातु। एतदेवाभिप्रेत्य भगवता भाष्यकृता 'गुहां प्रविष्टी' [व० सू० १।२११ ] इति सूत्रे परमात्मनस्तावत्तं दुर्दरश गूढमनुप्रविष्टमिति गुहाप्रवेशो दृश्यत इत्युक्तम्। तथैवायं मन्त्रः परमात्मपरतया व्यासायेविवृतः। गह्यरेष्ठमिति पदेन
इयांस्तुविशेष :- ब्रह्मजज्ञमिति मन्त्रे परमात्मात्मकपरिशुद्धजीवस्व- रूप प्रतिपाद्यते, वं दुर्दशमिति मन्त्रे तु जीवशरीरकपरमात्मस्वरूपं प्रतिपाद्यत इति ज तयोरैकार्थ्यहानिः ॥१३॥ 'न ह्यधुवैः प्राप्यते हि धुवं तत्' एतच्छृत्वा संपरिगृह्य मर्त्यः प्रवृह धर्म्य- मणुमेतमाण्य स मोदते मोदनीय हिलब्ध्वा''अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति' इति प्रदेशेषु धर्मफलविलक्षणतया ध्यान- साध्यतया प्राप्यतया च निर्दिटस्य प्राप्यस्य स्वरूपं चोक्तप्रवेशेष्वेव धर्मविलक्षणतया मत्वेति प्रतिपन्नस्योपायस्य स्वरूपं च धीरो हर्पशोकौ जहातीत्यत्र धीर इति प्रतिपन्नस्य पामुक्र स्वरूपं शोधयितुं पृच्छत्य- न्यत्र धर्मादित्यादिना- अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताळतात्। अन्यत्र भूताच भव्याच् यत्तत्पश्यसि तद्वद ।१४।। ननु भाष्ये देवं मत्वेत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्याध्यात्म- 1703
Page 58
[अ० १ वल्ली२] काठकोपनिषद। .
योगाविंगमनेति वेकितव्वतया निर्दिष्ठस्य प्रातुः प्रत्यगात्मनश्र मत्वा धीरो हर्षशोकी जहातीति निर्दिटस्य वह्मोपासनस्य च स्वरूपशोनाय पुनः पप्रच्छ। अन्यत् धर्मादितीत्युक्ते। कथं तद्विरुद्ध्तया वीर इति निर्दिष्स्य प्राप्तिरित्युच्यत इति चेन्मैवं वोचः। अध्यात्मयोगाधिगमेनेति वेदित-
परिशुद्धस्वरूपमेव। अतस्तस्यापि प्राप्यनिर्देशकत्व्रमेव। वस्तुगत्यातस्य प्राप्तुरभिन्नत्वात्यासुः प्रत्यगात्मनक्र्व्व्ति भाष्यं न विरोत्स्यते।अत एव प्रथम तावत्प्रासुः प्रत्यगात्मनः स्वरूपमाह-न जायते त्रियते वा विपश्चिदिति। उत्तरभाष्यमप्युपपद्यते। न हि न जायते म्रियते वा विपश्चदितिमन्त्रप्र.
'विज्ञानसारयिर्यस्तु मनःप्रग्रहवान्नरः । सोडध्वनः पारमानोति तदविप्णो: परमं पढम्"इति मन्त्रपतिपाद्य- स्यैव प्रामरूपत्वात्। तथैव 'विशेषणाच्च'[त०सू०१।२१] इतिसूत्रभाप्ये प्रतिपाद्वितत्वात् अतः प्राप्यनाप्ज्रैकाविकरण्यनिर्देशपरे गुहामन्त्र छाया- तपावित्यत्राज्ञत्ववाचिना छायाशब्डेन निर्देशो दष्टो न तु विपश्रिच्छ वदेन। अतो यथोक्त एवार्थः। अर्य मन्त्रो व्यासार्यिस्त्रयाणामिति सूबे विवृतः । धर्म उपायः। धमिन्यत्र प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्सो धर्मेतर उपेयः। अधर्मादन्यत्र प्रसिद्धसाध्यनिलक्षणं फलमि- त्यर्थः। अस्मादिति बुद्धिस्थस्तत्साधकी विवक्षितः। स एवोपेता स हि प्रसिद्धोपेतृविलक्षणः सावकावस्थायामितरफलविरक्तत्वातफलदशाया- माविर्भूतगुणाष्टकविशिट्टस्वरपत्वाच्च। कृताकृतादिति धर्मादीनां विशे- षणं कृताकृतान्धमदिविलक्षणम्। अन्यत् भूताज्च भव्याच्च धर्मादेर्विल- क्षणं यदित्यर्थः। इत्येकां व्याख्यां कृत्वा तस्मिन्पक्षे तु कृताकृताद्भू- तान्ज्व्याच्च धर्मादन्यत्र तादृशादधर्माइन्यत्र तादशादस्माच्चान्यत्रेतयन्य-
कालत्रयपरिच्छिन्नतया तत्र कालत्यपरिच्छिन्नर्वंलक्षण्यानन्वयं चपर्या लोच्य यद्वेत्यादिनाऽपरा व्याख्या कृता तहुच्यते। यह्ा धर्मादधर्माच्चान्य- वेत्युपासनप्रश्नः। पुण्यपापरूपसाधनविलक्षणत्वादुपासतस्य कृताकृता- द्भूतान्द्व्याच्चान्यत्र कालादिति यदिति कालापरि्छिन्नमुपेयं प्रष्टम् । प्रश्नउपेतुरपि चेतनस्य नित्यत्वात्पराप्यान्तर्भावाच्च। तत एव तस्यापि तन्त्रण प्रश्नस्तदन्तर्गतं च प्रामतुः स्वरूपमिति वक्ष्यते। तत्र यत्तच्छव्द्री त्रितय-
Page 59
अ० १ वल्ली २ ] 7 पराविति भावयति। न च तम्मिन्रपि पक्षे पष्टव्यद्मयपरत्वाश्रयणमप
धिकरण्यवत्। अन्यत्रास्मात्कृताकृतादन्यत्र भूतादित्युपरितनान्यत्रश ब्दद्यस्यापि सामानाविकरण्यस्यैव प्रतीतेः। यदि तत्र धर्माधर्मविलक्षणं कालत्रयविलक्षणं यञ्चेति च शब्दद्दयमश्रोष्यत तदाऽन्यत्र शब्दयुगद्दयस्य स्वरसतः प्रतीतं सामानाधिकरण्यं पर्यत्यक्षत। अतः प्रक्रमरीत्यनुसा- रिप्रतीतसामाधिकरण्यभङ्गे कारणाभावादन्यत्र धर्मादन्यत्राधर्मादित्यय- मप्यंशः प्राप्यत्रह्मपर एवास्तु। ननु 'नायमात्मा प्रवचनेन लभ्यो न
धिकरण्वं भस्जनीयमिति चेन्न। प्रतिवचनेऽप 'नायमात्मा प्रवचनेन
दर्शनेनोपायपधानप्रतिवचनादर्शनात्।'नाशान्तमानसी वाऽपि प्रज्ञा- नेनैनमाप्नुयात् [क० १।२२४] इति। 'यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः। न स तत्पदमापाति' [क० १।३।७]इति प्रतिवचनदर्शना- दन्यधमादन्यत्रेति प्रसिद्धोपायधिरोधिप्रश्न इयषि किं न स्थान्।
विशेषः फलिष्यतीति चेत्फलतु नाम। नतावतोपायस्य प्रश्नप्रतिवचन प्रधानविषयत्वं वक्तव्यमित्यस्ति किं देवदत्तभवनमिति प्रश्नस्य वा बहु- चम्पकालंकृतनिष्कुटं द्वारोपान्तलिखितशङ्गचक्रपझ्मकं देवदत्तभवन- मिति तत्प्रश्नप्रतिवचनस्य वा निष्कुट द्वारोपान्तप्रधानकत्वं कथविदभ्युपेति।
लिप्सया धर्माधर्मसाध्यविलक्षणव्रह्मविषय एवायमिति चेतु। अत्रो- च्यते-असौ देवदत्तादुत्पन्नो न भवत्यपि तु यज्ञक्त्तादिति वाक्य श्रुत्वा देवद्त्तादन्यं ये पश्यसि तं मे बहीति प्रवृत्तस्य प्रतिवचनस्य देवदत्तान्य यज्ञदत्तपरत्ववल्लक्षणया देवदत्तपुत्रान्यप्रश्नपरत्वस्यापतीतेः । तद्वत्कर्म- साध्यं न ब्रह्मापि तु ज्ञानसाध्यमित्युप्देशानन्तरपवृत्तस्य धर्मादन्यत्रेति प्रश्नस्य धर्मविलक्षणज्ञानरूपोपायपरत्वमेव युक्तं न तु धर्मशब्दलक्षणया धर्मसाध्यविलक्षणत्रह्मपरत्वम्। तथाऽधमिन्यत्रेत्यव्रापि सामानाधि करण्येनोपायपरत्वमेव निश्चितम्। कालतरयपरिच्छिन्नविलक्षणवाचक
नाधिकरण्यभट्गेन प्राप्यपरत्वमेव युक्तम्। नीलो दीर्घा हस्वो रक्तः।
Page 60
[अ० १ वली२] काठकोपनिषत्। ५९ 4
इत्युक्ते नीलदीर्घपदयोरविरोधात्सानानाधिकरण्यं सिध्यति। रक्तह्वस्व- योश्च परस्पराविरोधात्सामानाधिकरण्यं सिध्यति। न तु चतुणां चश- व्दाभावेऽपि सामानाधिकरण्यं दृष्टमरपे तु पुरुषद्वयप्रश्नपरत्वमेव। एव- मिहापि यच्छव्दान्वितचशब्दृद्याभावेऽपि न तत्सामानाधिकरण्यमवग- म्यते। अस्तु वा भवदुक्तरीत्या सामानाधिकरण्यम्। अथाषि प्रश्षप्रति-
तृप्रश्नप्रतिवचनस्य सुघटिततयाक्षतेरभावात्। तत्ते पदं संग्रहेण ब्रवीमि' [क०१।२१५।]इति पदशव्दितप्राप्यस्यैव प्रतिवचनप्रतिपाद्यत्वस्य स्पषट प्रतीतेरित्यलं प्रसक्तानुप्रसकत्या। प्रकृतमनुसरामः ॥१४॥ एवं पृष्ो सृत्युः 'न जायते म्रियते' इत्यादिना विस्तरेण प्रतिपिपाद- यिपुरिदानी श्रोतुरादरातिशयसिद्धयर्थ प्राप्यवभवं मकाशयन्सग्रहाक्तिं प्रतिजानीते- सर्वे वेदा यत्पदमामनन्ति। पद्यते गम्यत इति व्युत्पत्या पदशब्ः प्राप्यस्वरुपवाची। यत्स्वरूपं सर्वे वेदा: साक्षात्वरम्परया वा प्रतिपाद्यन्तीत्यर्थः। अनेनास्या उपनि- षदः प्रजापतिविद्यावत्परिशुद्धात्मस्वरूपविषयतवास्तु 'नजायत म्रियते वा विपश्चित, [क० १।२१८] हन्ता चन्मन्यते हन्तुम [क०१रा १९ ] इति मन्त्रद्वयस्य परिशुद्धात्त्वरूपपरत्वस्य संप्रतिपन्नत्वात्। 'अणोरणीयान्' इति मन्त्द्वयस्यापि अविनाशि तु तद्विद्धि येन सर्वभिद ततम्।[गी० श१ञ] निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् । इति स्मृतिवचनाभ्यां सर्वान्तःप्रवेशयोग्यातिसूक्ष्मतया व्यापकतया च प्रतिपादिते प्रत्यगात्मन्युपपन्नत्वात्। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत [गी० १३१५। ]। इति गीतानुसारेण "आसीनो दूरं वजति शयानो याति सर्वतः" [ क० १।२२१ ] इति मन्त्रस्यापि तत्रैव युक्तत्वात। 'ग्रसिप्णु प्रम- विष्णु च [गी० १३।१६ ] इत्युपबृंहणानुसारात, 'यस्य ब्रह्म च क्षत्रं च' [क० १।२।२५] इति मन्त्रस्यापि तत्र संगतार्थत्वांत। द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम्। प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम्।
Page 61
६० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१वलीर]
इति स्मृत्यनुसरेण 'सोऽध्वनः पारमाप्नोति तद्विप्णोः परम पदम् [क०१।३।९] इति मन्त्रस्याषि शुद्धात्मस्वरूपे संगतार्थत्वात्। अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमा गतिम। इति स्मृत्यनुसारेण 'सा काठा सा परा गतिः' [क ०१।३।११ ] इति मन्त्रस्यापि परिशुद्ध्ात्मविपयत्वसंभवात्। समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। इतिस्मृत्यनुसारेण, 'एपु सर्वेषु भूतेषु' [क० १।३।१२ ]इति मन्त्र- स्यापि विशुद्धस्वरूपपरत्वोपपत्तः 'पराञ्च् खानि' [ क० शश]इति मन्त्रे परागर्थनिन्दाद्वारेण प्रत्यगर्थस्यव प्रकरणप्रतिपाद्यत्वाविष्करणात्। 'तिष्ठन्तं परमेश्वरम्' [गी०१३।२७] इति गीतानुसारेण "ईशानो भूत- भव्यस्य" [क० २।१५] इति मन्त्रस्यापि तत्रैव शुद्धात्मस्वरूपें संग- तार्थत्वात्। भेदप्रसक्तिमति प्रत्यगात्मस्वरूप एव 'नेह नाना'[ क०२ १११] इति निषेधस्याषि संगतार्थत्वात्। अभेदव्यापिनो वायोस्तथाऽसी परमेश्वरः । इति स्मृतिप्रत्यभिज्ञापकम्य 'वायुय्थैको भुबनं प्रविषः' [क०2र १० ] इति मन्त्रस्यापि परिशुद्धस्वरूपपरत्वसंभवात् । 'सर्वतःपाणि- पादं तत् [गी० १३।१३ ]इति गीताभाष्ये ब्रह्मणा परमसाव्यमापन्ने
'एक बीजं बहुधा यः करोति' [श्वे० ६।१२] इति मम्त्रस्यापि परिशु द्धपरत्वेऽनुपपतत्यभावात् 'न तत्र सूर्यो भाति' [क० शशश्५] इति मन्त्रस्यापि 'न तद्ासयते सूर्यः' [गी०१५६]। ज्योतिषामपि तज्ज्यो- तिस्तमसः परमुच्यते' [गी०१३।१७] इति गीतावचनेन परिशुद्धात्मस्व- रूपपरत्वस्य युक्तत्वात्। तस्माच्छरीरात्प्रवृहेदित्योपसंहारिकमन्त्रस्य शुद्धात्मपरत् एव स्वार- स्यात्। कृत्साया अप्युपनिषदः प्रजापतिवाक्यवत्प्रत्यगात्मस्वरूपमात्र- परत्वोपपत्ती प्रत्यगात्मपरमात्मस्वरूपपाप्यद्यवस्त्वक्केशाश्रयणं यथेति शङका प्रत्युक्ता। सर्ववेदप्रतिपाद्यस्येव तत्ते पद संग्रहेण बवीमीति वक्तव्ये
रूपे संभवाच्छुद्धस्वरुपस्याप्यन्तर्यामिण: परमात्मस्वरुपस्य शुद्धरूप शु्धूस्व-
॥प्रतिपादकभागेनापि प्रतिपाद्यत्वसंभवादिति दृषव्यम्।
Page 62
[अ० १ वल्ी २] काठकोपनिपत्। ६१
. तपाशस सर्वाणि च यद्दन्ति । तपःप्रधाना उपरितनभागा इति व्यासार्यैर्व्यांख्यातम्। यदिच्छन्तो बह्मचर्य चरन्ति। ब्रह्मचर्य गुरुकुलवासः स्त्रीसङ्गराहित्यादिलक्षणं यदिच्छन्तोऽनुति- धन्ति। तत्ते पदं संग्रहेण व्रवीमि। संगृद्यतेऽनेनेति संग्रहः शब्दः। प्राप्यवक्तव्यत्वप्रतिज्ञापदेऽस्मिन्म- न्त्रोरडर्थात्मणवप्रशंसाया लाभात्प्रणवं प्रशस्येति भाप्यस्य च सर्वे वेदा इत्यादिपादतरयोक्तव्ह्मप्रतिपादकतया प्रशस्येत्यर्थ इति श्रुतप्रकाशिका- वचनस्य नानुपपत्तिरिति दषव्यम् ॥ संक्षेपेण तत्प्रतिपादकं किमित्यत आह- ओमित्येतदिति ॥१५ ॥ ॐ तत्सदिति निर्देशो ब्रह्मण स्त्रिविध: स्मृतः। इति प्रणवस्य ब्रह्मवा- चकत्वात्मणवावयवयोरकारमकारयोः परजीववाचितयोपायपेत्रोरप्युप- दिषत्वमस्तीति दटव्यम् ॥१५॥ एवं वाचकं प्रणवं हाम्यां मन्त्राम्यां स्तीति- एत्दयेवाक्षरं ब्रह्म। ओमित्यनेनैवाक्षरेण परमपुरुपमभिध्यायीतेति ब्रह्मपाप्तिसाधनध्या-
एतद्धयेवाक्षरं परम्। जप्येषु ध्येयेषु च श्रेष्ठमित्यर्थः । एतद्धयेवाक्षरं ज्ञाला यो यदिच्छति तस्य तत् ॥। १६ ॥ एतद्क्षरमुपासमानोडनेनोपासनेनेदं फलं मे भूयादिति यत्कामयते तस्य तन्भ्वतीत्यर्थः ॥१६॥ एतदालम्बन: श्रेष्ठम्। एतदोंकाररूपमालम्बनं श्रेष्ठं ध्यानादेरिति शेप: । अत एव- एतदालम्बनं परम्। एतदालम्बनकं ध्यानादि सर्वोत्कृष्टमित्यर्थः ।
Page 63
६२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १वहीर]
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ३७॥ स्पष्टोऽर्थः ॥१७॥ प्रथमं तावत्प्रत्यगात्मस्वरूपमाहु न जायते म्रियते वेत्यादिना मन्त्र द्वयेन- • न जायते म्रियते वा विपश्वित, नायं कुतश्र्विन्न वभूव कश्वित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥१८॥ हन्ता चेन्मन्यते हन्तु हतश्रेन्मन्यते हतम्। उभौ तौ न विजानीतो नाय हन्ति न हन्यते ॥१९॥ इदंच प्रस्तुत्य व्यासायरित्थमुक्तम्। इदं मन्त्रद्वय तावदेकवि- षयम् । 'न हन्यते हन्यमाने शरीरे' इत्येतद्विवरणरूपत्वाद्दितीय- मन्त्रस्य। हन्ता चेदिति मन्त्रश्र जीवविषय एव लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रततिपत्त्यभावात्। परमात्मा हि प्रत्यक्षागोचरः कथ तस्मिन्वध्यतादिप्रतिपत्तिः। अहमेवं हन्मि, अयं मां हन्तुमागच्छतीति वध्यघातुकभावाभिमानो हि देहिनां जीवविषय एव। ननु नास्य जरपै- तज्जीर्यतीतिवत्पर्रमात्मनोऽपि हननप्रतिषेध उपपद्यते। सत्यम्। तत्र दहराकाशस्य देहान्तःस्थित्या शङ्गितविकारनिषेध उपपद्यत इह तु लोकसिद्धा भ्रान्तिरनूद्य निरस्यते। न हि परमात्मनि वध्यघातुकभाव भ्रान्तिः कस्याप्यस्ति। अतो न वादनिषेधावनुपपन्नी। न जायत इति मन्त्रश्र तेनैकार्थः । अतो मन्त्रदवयमपि जीवविषयकमेवेति। अक्षरा ्थस्तु न जायते प्रियते वा विपश्चित-विपश्चित्वार्होऽयमिदानीमपि जननमरणशून्य इत्यर्थः । नायं कुतश्चित्-उत्पाद्कशून्यः । न बभूद कश्चित्-पूर्वमपि मनुष्यादिरूपेण जननशून्यः। न जायत इत्यत्र हेतु- माह-अज इति। न म्रियत इत्यत्र हेतुमाह-नित्य इति। न कुतश्रिदि त्यत्र हेतुमाह-शाश्वत इति। पूर्वं न बभूवेत्यत्र हेतुमाह-पुराण इति। ननु कथमस्यनित्यत्वं शरीरान्तर्वर्तिनः शरीरिनाशानुविनाशशित्वा वश्यंभावादित्याह-न हन्यते हन्यमाने शरीरे। स्पष्टोऽर्थः।हन्ता चेन्मन्यते हन्तुम्। अहमेनं वधिष्यामीति देहात्मद्वष्ट्या मन्यते चेदित्पर्थः । इतश्रे
Page 64
[अ१ वल्ली २] काठकोपनिषत्। ६३
न्मन्यते हतम्। छिन्नदेहावयवो देहात्महष्ट्याSSत्मानं हतोऽहृमिति मन्य- ते चेदित्यर्थः। 'उभौ तौ न विजानीतः'। आत्मस्वरूपमिति ज्ञेपः। नायं हन्ति। आत्मानमिति शेषः । न हन्यते आत्मस्वरूपमिति शेपः । न च वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रसक्तितत्पूर्वकनिषेधाविति वाच्यम्। तस्यैव क्षेत्रीभूततया तत्प्रयुक्ततत्संभवादिति दषव्यम्। इमी मन्त्रौ प्रस्तुत्य वियत्पादे चिन्तितम्। तत्र हि 'वायुश्चान्तरिक्षं चैतदमृतम् [बृ० २।३।३] इति वाय्वन्तरिक्षयोर्नित्यत्वअ्रवणेऽपि "आत्मन आकाश: संभूतः" "आकाशाद्वायुः"[तै० २१]इति तयोरुत्पत्तिभ्रवण- देकविज्ञानेन सर्वविज्ञानसिद्ध्यर्थं सर्वस्य वस्तुनो ब्रह्मविकारत्वस्यावश्या- श्रयणीयत्वाच्च यथोत्पत्तिरङ्गी क्रियते, एवं जीवानां नित्यत्वश्रवणेऽवि "तोयेन जीवान्विससर्ज भूम्याम्"प्रजापतिः प्रजा असृजत"इतिजीवा- नामषि सृष्टिश्रव गादेकविज्ञानेन सर्वविज्ञानसिद्ध्र्थ च जीवस्यापि सृष्टि रभ्युपगन्तव्येति पूर्वपक्षे प्राप्ते "नाऽडत्माSश्रुतेनित्यत्वाच्च ताभ्यः[व०सू० २।३।१७]इति सूव्रेण सिद्धान्तितम्। आत्मा नोत्पद्यते न जायते म्रियते वा विपश्चिज्ज्ञाज्ञौ द्वावजावित्युत्पत्तिनिषेधश्रुतेः। ताभ्य एव श्रुतिभ्यो नि- त्यत्वावगमाच्च। नचोत्पत्तिश्रुतेः सर्वविज्ञानप्रतिज्ञाविरोध: शङ्रक्य: स्वरू- पस्य नित्यत्वेऽि ज्ञानसंकोचविकाशलक्षणान्यथाभवरूावस्थान्तराप- त्तिसत्वेनोत्पत्तिश्रुतेः सर्वविज्ञानप्रतिज्ञायाश्चपपत्तेः । उत्पत्तिनिषेध- श्रुतेश्र स्वरूपान्यथाभावलक्षणोत्पत्त्यभावपरतयाऽविराधात। इयांस्तु विशेष :- चिद्चिदीश्वराणां त्रयाणामप्यवस्थान्तरापत्तिलक्षणोत्पत्ति- रूपो विकारोऽस्त्येव। तथाउप्यचेतनाना स्वरूान्यथाभावलक्षणो- त्पत्तिः। जीवानां तु सा नास्ति। अपि तु ज्ञानसंकाचविकासलक्ष- णस्वभावान्यथाभावरूपोत्पात्तिः । ईश्वरस्य तृ तन्नियन्तृत्वाद्यवस्थास- र्वेडप्युक्तलक्षणानिष्टविकारद्वयाभान्नित्यो नित्यानामिति परमात्मन इंतरविलक्षणनित्यत्वोक्तिरिति द्ृष्टव्यम् । वर्णितश्र सूत्रार्थः । ननु जायते म्रियत इति प्रतिपिद्धा जीवोत्वत्तिः, वासुदेवात्संकर्षणी नाम जीवो जायत इति प्रतिपाद्यतः पञ्चरात्रस्य कथं प्रामाण्यमिति चत। अस्या: शङ्करायास्तर्कपादे निराकृतत्वात्। तथा हि वासुदेवात्सं- कर्षणो नाम जीवो जायत इति जीवस्योत्पत्ति: प्रतिपाद्यते सा च जीवे न संभवति। तथा संकर्षणात्प्रद्युन्नसंज्ञं मनो जायत इति कर्तुर्जी- वात्करणस्य मनस उत्पत्ति: भूयमाणाऽपपि न संभवति। कर्तुजीवात्कर
Page 65
६४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १वल्ली?]
णोत्पत्तेरेतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चेति मनसो ब्रह्मोत्प त्तिप्रतिपादकश्रुतिविरुद्धत्वादिति "उत्पत्त्यसंभवात् । न च कर्तुः कर णम् "। [त० सू० २।२४२४३] इति हाभ्यां सूत्राम्यां पूर्ववक्षं कृत्वा "विज्ञानादिभावे वा तद्प्रतिषेधः " "विप्रतिषेधाच्च" [त्र० सू० २ २1४४।४५] इति हाभ्यां सूत्राभ्यां सिद्धान्तितम्। वाशब्द: पूर्वपक्षव्या वृत्त्यर्थः। विज्ञानं च तदादि च विज्ञानादि। ननु च 'क्यन्तो छुः' इत्या- दिशद्दस्य नित्यपुंलिङ्गत्वात्कथमेतदिति चेत्। नायं घुरपि तु, अ भक्षण इत्यस्मादावश्यकार्थे ण्विप्रत्यय आदीति रूपं सिध्यति। तेन च निखिलजगत्संहर्तृमुखेन कारणत्व प्रतिपाद्यत इति दव्व्यम्। आदिषि ज्ञानं परमात्मेत्यर्थः । संकर्षणो नाम जीवी जायत इति भ्रुतस्प जीवशब्दार्थस्य तदभिमानिपरमात्मभावे सति शास्त्रमामाण्यप्रति षेधः सिध्यति। परमात्मनश्र जननं नाम स्वेच्छाधीनशरीरपरिग्रहः। तस्मिन्नेव पाञ्चरात्रे स हयनादिरनन्तक्षेति जीवोत्पत्तेविशषेग प्रतिषिद्ध तया तहिरुद्धाभिधानासंभवात्। संकर्षणो नाम जीवो जायत इत्प नेन जीवाभिमानिसंकर्षणस्येच्छाधीनशरीरपरिग्रहरूपोत्पत्ति: प्रतिपाद्यत इति न पाश्चरात्रापामाण्यमिति सुतार्थ:। ननु सांख्यपाश्ुपताद्धिकरण वदिदमप्यधिकरणं पाञ्चरात्रपामाण्यप्रतिषेधकं किं न स्यादितिचेत्। वेदोपबृंहणाय भारतसंहितां कुर्वता बादरायणेन- इदं शतसहस्राद्धि भारताख्यानविस्तरात्। आमथ्य मतिमन्थानं दभी वृतमिर्वाह्हृतम् ।। नवनीतं यथा दभो द्विपदा ब्राह्मणो यथा। आरण्यकें च वेदेभ्य ओषधीभ्यो यथाऽमृतम्॥ इदं महोपनिपदं चतुर्वेदसमन्व्वितम्। सांख्ययोगकृतान्तेन पाञ्चरात्रानुशव्दितम्॥ इदं श्रेय इद ब्रह्म इदं हितमनुत्तमम्।
भविष्यति प्रमाणं वै एतदेवानुशासनम। बाह्मणैः क्षत्रियैरवेश्यैः शूदेश्र कृतलक्षणैः॥ अर्चनीयश्र सेव्यक्ष नित्ययुक्तः स्वकर्मभिः। सात्वतं विधिमास्थाय गीतः संकर्षणेन य: ॥ अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम्।
Page 66
[अ० १ वल्ली२] काठकोपनिषत्। ६५
इत्यरदिभिर्वचनैर्बहुषु स्थलेषु पाश्चरात्रप्ामाण्यं प्रतिष्ठापितवता शारीरकशास्त्रे तत्प्रामाण्यं निराक्रियत इत्यस्यासङ्गतत्वात्। न चैवं- परं तत्त्वमिदं कृत्सं सांख्यानां विवितात्मनाम्। यदुक्तं यतिभिर्सुख्यैः कपिलादिमिरीश्वरैः॥ यस्मिन्न विभ्रमा: केचिद्दवृश्यन्ते मनुजर्षभ्। गुणाश्र यस्मिन्बहवो दोषहानिश्र केवला॥ इति कापिलमतस्य भारते भ्रमादिदोषाभावप्रतिपादनात्। सर्वेषु च नृपश्रेठ ज्ञानेप्वेतेषु द्वश्यते॥ यथागमं यथान्यायं निष्ठा नारायण: प्रमु: । इति सांख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनात्। तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः । इति तत्तच्छास्त्रकर्तृणामपि नारायणप्रतिपाद्कत्वस्य प्रतिपादनात। सांख्यं योग: पाञ्चरात्रं वेदा: पाशुपतं तथा। आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः॥ इति सर्वेषामप्यात्मप्रमाणत्वप्रतिपादनाच्च। सर्वे प्रमाणं हि तथा यथैतच्छास्त्रमुत्तमम्॥
तत्पादे सांख्यपाशुपताद्यागमानामपि प्रामाण्यं न निराक्रियत इति- चेत्। सत्यम्। भ्रमविप्रलिप्सादिराहित्यं शास्त्रकर्तुणा परमतात्पर्य च नारायण एवेति समानम्। तथाऽप्यबहुश्ुततया, तद्टक्तणां हृदयमजा- नन्त, आपातप्रतिपन्नमेवार्थं तातत्विकं मन्यमाना ये प्रत्यवतिष्ठन्ते तान्प्रति सांख्याद्यागमानामापातप्रतिपन्नार्थमात्रपरत्वमन्वारुह्य सूत्कृता तन्नि- रासः कृतः। पा्चरात्रशास्त्रं तु परमतत्त्वहितपुरुषार्थानामेवाऽडपात- तोऽपि प्रतीतेर्वेदविरुद्धनिमित्तोपादानभेदाद्यप्रतीतेश्ष कृत्स्नं प्रमाणमेवेति नैकदेशेऽप्य प्रामाण्यशङ्कावकाश इति द्रष्टव्यम्। एवमेव व्यासार्येरुक्तम्। प्रकृतमनुसरामः ॥१८॥१९॥ एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्ममूतपरमात्मस्वरूप- माहाणोरणीयानित्यादिना- अणोरणीयान्महतो महीयान्। अणोः सर्वाचेतनापेक्षया सूक्ष्माच्चे तनादणुतरस्ततोऽ सूक्ष्मस्तवन्त:
Page 67
६६ रङ्गरामानुजविरचितप्रकाशिकासभेता- [अ० १ कलली?]
प्रवेशयोग्य इत्वर्थः 1 महत आकाशादेरपि महत्तर: स्वाव्याप्तयस्तुरहित इत्यर्थः । आत्माऽस्य जन्तोर्निहितो गुहायाम्। अस्य जन्तोर्न जायते म्रियते वेति मन्त्रद्वयनिर्दिष्टस्य चेतन -! स्याऽडत्माऽन्तः - प्रविश्य नियन्तेत्यर्थः। अतश्र पूर्वमन्त्रद्वयनि
सिद्धम्। न चास्य जन्तोरित्यस्य हृद्यमुहावाचिना संचन्धसापेक्षेण गुहायामित्यनेनैवान्वितत्वेनाऽडत्मेत्यनेन नान्वय इति शङक्यम्। आत्मशब्दान्वितस्यैव काकाक्षिन्यायेनोमयत्रान्वये दोषाभावात्। मूलतः शाखां परिवास्योपवेष करोतीत्यत्र शाखां मूलतः परिवास्य मूलत उपवेषं करोतीति परिवासनान्वितस्यापि मूलत इत्यस्योपवेष करो- तीत्यनेनान्वयस्याप्यङ्गीकृतत्वात्, जीवहृद्यगुहावर्तित्वप्रतिपादनेऽपि जीवभेदसिद्धेश्।न हि जीवस्यैव जीवगुहावर्तित्वप्रतिपादने प्रयोजन- मस्ति। ननु न जायत इत्युपन्यस्तस्याऽडत्मनो जायमानवाचिजन्तुशब्देन परामर्शस्यानुपपन्नतयाऽस्य जन्तोरित्यस्य प्रत्यक्षादिसंनिधापितदेहप- रताया एव वक्तव्यत्वेन तद्रहाहित आत्मा प्रागुपन्यस्तो जीव एवास्तु। न च कर्तृभोक्तृत्वादिविशिष्टतया सदाऽहमिति भासमाने जीव "कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति। क इत्था वेद यत्र सः" इत्युत्तरसंदर्भ प्रतिपाद्य दुर्विज्ञनत्वं कथमन्वेतीतिवाच्यम्। जीवस्य कर्तृत्वादि विशिष्टतया सर्वलोकविदितत्वेऽपि मुक्तमाप्यब्रह्मरूपवििष्टतया दुषि ज्ञानत्वसंभवादितिचेन्न। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिण: । इति जन्तुशब्दस्य चेतनपर्यायतया प्रकृतजीववाचित्वसंभवात्। अस्पे- तिशब्दृस्य च पूर्वसंदर्भोपस्थापितरप्रत्यगात्मविषयत्वसंभवे प्रत्यक्षाययुप- स्थापितदेहविषयत्वाश्रयणस्यायुक्तत्वात्। अत्यन्ताणत्वमहत्वयोः "एप आत्माऽन्तर्हृद्येऽणीयान्वीहेर्वा यवाद्वा सर्थपाद्वा श्यामाकाद्ा श्यामाक तण्डुलाद्वैष म आत्माऽन्तर्हदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्या- यान्डियो ज्यायानेम्यो लोकेभ्यः " [छा० ३।१४।३] इत्यादिषु पर्रमा- तमधर्मतयाऽणोरणीयानितिमन्त्रप्रतिपाद्यस्य जीवत्वशक्काया असंम- वात्। ननु "नेतरोऽनुपपत्तेः" [व० सू० १।११६ ] इति सूत्रे सह ब्रह्मणा विपश्वितेति वाक्यश्रुतविपश्चिस्वस्य ब्रह्मासाधारणलिङ्गत्वस्प
Page 68
[अ० १ वल्ली +] काठकोपनिषत्। ६७
भाष्ये प्रतिपादितत्वात्। क जायते म्रियते वा विपश्चिदिति मन्त्रस्यापि धररीत्या परमात्मपरत्वमेवास्तु। एवं सत्यन्यत्र धर्मादितिप्रश्नस्य प्राप्य- द्यपरत्वम्। प्रतिवचनस्य प्राप्यद्वयपरत्वमाश्रित्य न जायत इत्यादि- मन्त्रद्वयस्य प्राप्यजीवस्वरूपपरत्वम्। अणोरणीयानिति संदर्भस्य य परमात्मपरत्वमित्यादिपरिकल्पनक्केशो नाऽडश्रयणीय इतिचेन्न। हनना-
तन्मन्त्रद्वयस्याणोरणीयानिति मन्त्रसंदर्भस्य चैकविषयत्वासंभवात्। शिष्टमुत्तरत्र सपष्टयिष्यते। तमकतुः पश्यति वीतशोकों। धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥. त ताहशं परमात्मानमक्रतु: काम्यकर्मादिरहितो धातुर्धारकस्य परमा- तमनः प्रसादादात्मनो महिमानं महत्वसंपादकं स्वसार्वज्ञादिगृणाविर्भाव- हेतुभूतं परमात्मानं सदा पश्यति तदा वीतशोको भवतीत्यर्थः। युम्बाद्य- धिकरणे [न० सू० १।३।१] तु 'जुष्ट यवा पश्यत्यन्यमीशम्'।श्०४।७] इति मन्त्रखण्डं प्रस्तुत्य, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणमस्ये- श्वरस्य महिमानं च निखिलजगन्नियमनरूपं च पश्यति तदा वीतशोको भवतीति भगवता भाष्यकृता व्याख्यातत्वात्तदनुसरेणापि परमात्मनी निखिलजगन्नियमनरूपं महिमानं च यः पश्यति स घतश्ञोको भवती- त्यर्थः। धातुः प्रसादाद्वीतशोको भवतीति वाडन्वयः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने केशसंक्षयः । इतिस्मृतेरिति द्रष्व्यम्। तमकतुं पश्यति वीतशोको धातु: प्रसादा- न्महिमानमीशमिति पाठे, अकतुं कर्मकृतोत्कर्षापकर्षरहितमित्यर्थ:।।२०। धातु:प्रसादशव्दितभगवद्नुग्रहशून्यस्य परमात्मतत्त्वमत्यन्तालीकिक- त्वाद्दुरधिगममिति दर्शयति- आसीनो दूरं व्रजति शयानो याति सर्वतः । परमात्मनः सर्वात्मगत्वेनेतरत्र विरुद्धतया प्रतीयमाना अप्यासीन- दूरगन्तृत्वादिधर्मा जीवद्वारा भवन्तीति माव: । कस्तूँ मदामदं देवं मदन्यो ज्ञातुमईति॥२१ ॥ हर्षामर्परूपविरुद्धधर्माध्यस्तं तं परमात्मप्रसादामुगृहीतमावृशजना दन्यः को वा ज्ञातेत्यर्थः ॥२१ ॥
Page 69
६८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१वल्ीर]
अशरीर शरीरेष्वनवस्थेष्ववस्थितम् । कर्मकृतशरीररहितमस्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थितम्। महान्तं विभ्रुमात्मानं मत्वा धीरो न शोचति । २२॥ महान्तं प्रसिद्धवैभवशालिनं विभुं सर्वव्यापिनम्। शिष्टं स्पष्टमू॥२२ा ईुदशात्म प्राप्त्युपायं दर्शयति- नायमात्मा प्रवचनेन लक्यो न मेधया न बहुना श्रुतेन । अत्र प्रवचनशव्देन प्रवचनसाधनं मननं लक्ष्यते। उत्तरत्र न मेधया न बहुना श्रुतेनेति वक्ष्यमाणध्यानश्रवणसमभिव्याहारबलेन प्रवचनश- द्देन मननस्यैव गृहीतुमुचितत्वात्। अध्यापनरूपस्य प्रवचनस्य हेतुत्वा- प्रसक्तेक्ष। तथैव व्यासार्येविवृतत्वाञ्च। यमेवैष वृणुते तेन लक्यः । एष आत्मा यं साधकं प्रार्थयते तेन लभ्यः प्रार्थनीयपुंसा लम्य इत्यर्थः । तत्प्रार्थनीयत्वं च तत्प्रियतमस्यैव पुंसः । प्रियतमत्वं च तत्पी तिमत एव। ततश्र भगवद्विषयिण्युपासकस्य प्रीतिर्भगवत उपासके प्रीतिमुत्पाद्य तत्माप्तिहेतुर्भवतीत्यर्थः । तस्यैष आत्मा विवृणुते तनू स्वाम् ॥२३॥ तस्योपासकस्यैप आत्मा परमात्मा स्वरूपं प्रकाशयति स्वात्मानं प्रयच्छतीत्यर्थः । वृणुत इति पाठेऽि स एवार्थः ॥ २३॥। परमात्मप्राप्तिहेतूपासनाङ्गतया कांश्रिद्धर्मानुपदिशति- नाविरतो दुश्षरितात्। इत्यादि। यस्तु परदारपरद्रव्यापहारादनिवृत्तः। नाशान्तो नासमाहितः। नाशान्तमानसो वाऽपि प्रज्ञानेनैनमामुयात्॥ २४॥ अनुपशान्तकामक्रोधवेगः, नानाविधव्यापारविक्षिप्ततयाSनवहित- चित्तः, अनिगृहीतमनाश्चैतं परमात्मान प्रज्ञानेन नाऽडपुयादित्यर्थः।पुरु- षार्थस्यैवानृतवद्ननिषेधस्य दर्शपूर्णमासप्रकरणे कत्वङ्गतया नानृतं वदेदिति निषेधवत्पुरुषार्थस्यापि दुश्वरितविरत्यावेरुपासनाङ्गतया विधा- नधुपपछयते। ततश्र यस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलङ्रष्य परमा-
Page 70
[अ० १ वल्ली २] काठकोपनिपत्। ६९
त्मोपासनमविगुण चिकीर्षति तस्य दुश्चरितनिषेधरूपाङ्गवैगुण्यादुपा- सनासाद्ठुण्यं न सिद्ध्यतीति भाव: ॥। २४ ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥ मिदं जगद्यस्यादनो भवति यस्य विनाश्यो भवतीत्यर्थः। यस्य मृत्यु: स्वयमद्यमानत्वे सत्यन्यस्यादनहेतुर्भवति। स निखिलचराचर- संहर्ता परमात्मा यत्र यस्मिन्प्रकारे स्थितो यत्प्रकारविशिष्टस्तं प्रकार- मित्थमिति को वेदेत्यर्थः। ननु ब्रह्मक्षत्रपदेन कृत्स्नचराचरग्रहणे किं बीजमिति चेदुच्यते। ब्रह्म च क्षत्रं चौदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयांः कंचित्प्रत्योदनशब्दमुख्यार्थासंभवादोदनशब्देन भोज्यत्वं वा भोग्यत्वं वा विनाश्यत्वं वा लक्षणीयम्। न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्र संहर्ता वा कश्चिज्जीवो वा परमात्मा वाडस्ति। न चान्तरादित्य- विद्यायां ये चामुष्मात्पराञ्चो लोकास्तेपां चेष्ट इति सर्वलोकेश्वरे परमात्म- न्युपासनार्थं लोकविशेषेशितृत्वश्रवणवत्सर्वसंहर्तर्यपि परमात्मनि ब्रह्म- क्षत्रसंहरणमुपासनार्थमुपदिश्यतामिति वाच्यम्। तद्वदस्योपासनाप्रकर- णत्वासंभवात्। अतो ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तम । उक्तं च सूत्रकृता। 'अत्ता चराचरप्रहणात्' [त०सू०१।२९] इति। नन्वेवमप्योदनशब्देन किमिति विनाश्यत्वं लक्ष्यत गौणत्वमपि शब्दस्य साधारणगुणमपहायासाधारणगुणेनैव निर्वाह्यम्।न ह्यग्निर्माणयक इत्य- त्राग्निश्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति। अत एव प्रतुहोतु- श्रमसः प्रब्रह्मणः प्रोद्गातृणां प्रयजमानस्येत्यध्वर्युपरेष उद्गातृशब्दस्य बहु- वचनातुरोधेन बहुपु वृत्ती वक्तव्यायां घोडशर्त्विक्साधारणाकारं विहाय विशेषाकारेणोद्गातृगणमात्रलक्षणा पूर्वतन्त्रे वर्णिता। तद्वदिह ब्रह्मक्षत्र-
लक्षणयाऽपि ग्रहणं युक्तम्। न त्वत्यन्तवहिरङ्गस्य विनाश्यत्वाकारस्य येन निखिलचराचरसंहर्ता परमात्माऽत वाक्ये प्रतियतेति चदुच्यते। यद्यपि विनाश्यत्वं साधारणाकारस्तथाऽपि मृत्युर्यस्योपसेचनमिति वाक्यशेषानुरोधात्साधारणोऽपि गौण्या वृत्त्या लक्षयितुमुचितः । ननु सेचनशब्दापेक्षयौदनशब्दस्य मुख्यत्वादोदनशब्दस्वारस्यानुरोधेन साधा- रणाक्राररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपद्मनाधकत्व्राभिप्रारयिण कर्थ
Page 71
७० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १ वल्ली२]
चिन्नीयताम्। अतश्र यो ब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽ स्मिन्मन्त्रे प्रतिपाद्यते। भोक्तृत्वं च जीवस्यैवेति स एवास्मिन्मन्त्े प्रति- पाद्यतामिति चेदुच्यते। उपसेचनत्वेन रपितस्य मृत्योरोदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेन दध्यन्नवत्प्रतीतसंबन्धस्य सर्वात्मना बाघप्रसङ्गात्।न! हि यस्य ब्रह्म क्षत्रं च भोग्यं यस्य च मृत्युरबाधक इत्युक्तेमृत्योत्रंह्मक्षत्रस्प च संबन्ध: प्रतीयते। अत उपसेचनशब्दस्योदनशब्दापिक्षया जघन्यत्वेड व्यबाधकस्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सत्यन्यादनहेतुत्व रूपासाधारणाकार एव ग्राह्यः। ततश्रैकवाक्यान्तर्गतचरमश्नतोषसेचनप दानुसारेणौदनशब्देनापि विनाश्यत्वमेव लक्षणीयम्। स्वबुद्छपस्थापनी
णस्यैव बुद्धिलाघवेनैकबाक्यतासामर्थ्यानुरोधेन चन्याय्यत्वादित्यस्यार्थ स्यात्राधिकरणे निर्णीतत्वादित्यलं पल्लवितेन ॥ २५॥ समाप्ता द्वितीया वही ॥२ ॥
क इत्था वेद यत्र स इत्यस्य दुर्ज्ञानत्वेऽवेत्थमास्त इत्यस्यार्थस्य दुर्वो- धत्वेन वय तदुपासने शक्ता इति मन्यमान प्रत्युपास्योपासकयोरेकगुहानुप् 2 वेशेन परमात्मनः सूपास्यत्वाद्वयमप्युपासितुं शक्ता इति दवाभ्यां मन्त्रार्ज्या दर्शयति ऋतं पिदन्तावित्यादिना। ऋतं पिबन्तौ सुकतस्य लोके गुहां प्रविष्टी परमे परा्ध्ये। सत्यपद्वाच्यव श्यंभाविकर्मफलमनुभवन्ती सुकृतसाध्ये लोके वर्तमानौं हृद्य कुहरं प्रविष्टी तवापि परमाकाशे पराध्ये परार्धं संख्याया उत्तराव- धिस्तदर्हतीति पराध्यमुत्कृष्ट इत्यर्थः । ताहशे हार्दाकाशे वर्तमानी। छायातपौ ब्रह्मविदो वदन्ति। छायातपशब्दाभ्यां ज्ञाज्ञा लभ्येते। अज्ञशब्देन जीवनिर्देशस्य चाय- मभिप्रायः। उपास्योपासकयोरेकगुहावर्तित्वे तयोरेय प्राप्यप्राप्तृताया वक्तव्यतया प्राप्यस्य च तत्पाप्तिसाधनरथत्वेन रूपिते शरीरेऽवस्थानं क युक्तम्। न हि रथेन प्राप्तव्यार्थो रथस्थो भवतीति शङ्का न कार्या। प्राप्यस्य परमात्मनस्तत्रावस्थितत्वेऽपि जीवस्य 'परामिध्यानान्तु तिरो- हितम्' [ब०सू०३।२। ९] इत्युक्तरीत्या परमात्मसंकल्पमूलकर्मरूपा
Page 72
[अ० १ वल्ी ३] काठकोपनिषत्। विद्यावेष्टिततया तदनुभवलक्षणतत्पाप्तेरभावेन प्रासृपाप्ययोर्जीवपरयो रथत्वरूपितशरीरान्तर्वर्त्येकगुहावर्तित्वकथने नानुपपत्तिरिति। पञ्चाग्रयो ये च त्रिणाचिकेताः ॥ १ ॥
ब्रह्मविदो वदन्तीत्यर्थः । केवलपश्चाग्नित्रिणाचिकेतानामीददशपरमात्म- अस्यमन्त्रस्य जीवपरमात्मपरत्वं सूत्रितम्। 'गुहां प्रविष्ठावात्मानी हि तद्दर्शनात्।'[त० सू०१।२।११ ] इति। ननु कर्मफलभोगशून्यपरमा- त्मनि ऋतं पिबन्ताविति निर्दिष्टकर्मफलभोक्तृत्वासंभवात्सुकृतसाध्यलो- कवर्तित्वगुहावच्छिन्नत्वयोः सर्वगते परस्मिन्बह्मण्यसंभवात्। छाया- तपनिर्दिष्टतमःप्रकाशत्वयोरपि जीवपरमात्मपरत्वेऽसंभवात्। बुद्धिजी- वपरत्वे तु तस्य सर्वस्याप्युपपत्तेः। कर्मफलभोगकरणे कर्तृत्वोपचारेण पिवन्ताविति निर्देशस्याप्युपपत्तेः । बुद्धिजीवपरत्वमेवास्य मन्त्रस्य युज्यत इति चेतु। एवमेव हि गुहां प्रविष्टाविति सूत्र आशङक्य संख्या- ्रवणे सत्येकस्मिन्संप्रतिपन्ने द्वितीयाकाङ्क्षारयां प्रतिपन्नजातिमुप- जीव्य व्यक्तिविशेषपरिग्रहे बुद्धिलाघवाद्विजातीयपरिग्रहे जातिव्यक्तिबु- द्विद्वयापेक्षया गौरवात्संप्रतिपन्नजातीयपरिग्रही युक्त: । लोकेऽ्यस्य गोर्द्वितीयोऽन्वेष्टव्य इत्यादिषु तथा दर्शनात्। तथा च ऋतपानलि- ङ्गवगतजीवस्य द्वितीयश्रेतनत्वेन तत्सजातीयः परनातमेव ग्राहः। परमात्मनः प्रयोजककर्तृतया पिबन्ताविति निर्देशस्यापि संभवात, अन्त :- करणे स्वतन्त्रकर्तृत्वप्रयोजककर्तृत्वयोरभावेन पिबन्ताविति निर्देशस्य सर्वथाऽप्यसंभवात्, सर्वगते ब्रह्मणि सुकृतसाध्यलोकवर्तित्वस्यापि संभवात्। अस्मिन्नेव प्रकरणे गुहाहितं गह्यरेष्ठमिति परमात्मनो गुहाप्रवेशश्रवणेन गुहां प्रविष्ावित्यस्याप्युपपत्तेः। छायातपशब्दाम्या किंचित्सर्वज्ञयोः प्रतिपादनसंभवाज्जीवपरमात्मपर्यवसायिमन्त्र इति सम- थितत्वान्न त्वदुक्तशङ्कावकाशः । "तयोरन्यः पिप्पलं स्वाद्ृत्ति" [ मु० ३।११ ] इति स त्वमिति पैद्गिरहस्यव्राह्मणानुसारेण द्वासुपर्णेति मन्त्रस्य बुद्धिजीवपरत्वात्। 'इयदामननात् ' [ब०सू०३।३।३४] इत्यधि- करणे ऋतं पिबन्ताविति मन्त्रस्य द्वासुपर्णेति मन्न्रैकार्थस्य प्रतिपादि- तत्वाद्यमपि मन्त्रो बुद्धिजीवपर इत्यस्या: शङ्गायाः सूत्रकृतैव निरा- कृतत्वान्नास्माभि:संनह्यते। किं च जीवे गुहाप्रवेशस्य बुद्ध्युपाधिकतया
Page 73
७२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०१ वलीर]
स्वतः प्रवेशवत्या बुद्धया सह जीवस्य गुहां प्रविष्टाविति गुहाप्रवेशव र्णनं न संगच्छते। उपष्म्भकाधीनगुरुत्वशालिनि सुवर्ण गुरुसुवर्णमिति व्यवहारसंभवेऽप्युपष्टम्भकसुवर्णे गुरुणी इति व्यवहारस्यादर्शनात्। अत एव परपक्षे सूत्रानुसारेणास्य मन्त्रस्य जीवपरमात्मपरतया कृतं योज नान्तरमध्यनुपपन्नम्। 'अनेन जीवेनात्मनाऽनुप्रविश्य'[छा० ६।३। २] इति श्रुत्यनुसरिण परमात्मनो जीवभावेनानुप्रवेशेऽि परमात्मरूपेणा नुप्रवेशाभावाज्जीवपरमात्मानौ गुहां प्रविष्ाविति निर्देशानुपपत्तेः। जीव भावेन ब्रह्मणः संसारमभिप्रेत्य ब्रह्म संसरतीति व्यवहारसत्त्वेऽपि जीव- ब्रह्मणी संसरत इति व्यवहारासंभवात्। 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति' [ नृ० सिं० ता० ९] कार्योपाधि रयं जीव: कारणोपाधिरीश्वरः । इति वचनानुसारेण परिगृहीतेऽविद्याया अन्तःकरणस्य वा जीवोपा धिकत्वमिति पक्षद्वयेऽपि नाविद्यान्तःकरणयोः प्रतिबिम्बोपाधित्वं युज्यते। स्वच्छ द्र्व्यप्रतिहृतपरावृत्तनायनरश्मिगृह्यमाणस्यैव प्रतिबिम्ब शब्दार्थतया चाक्षुषस्य चंतन्यस्य प्रतिबिम्बत्वासंभवेनाविद्याप्रतिबिम्बोड न्तःकरणप्रतिबिम्बो वा जीव इत्याश्रयणायोगादविद्यावच्छिन्नोन्तःक. रणावच्छिन्नो वा जीव इति पक्षद्वयमेव परिशिप्यत। तत्र च हृदय
तमनुसराम: ॥१॥ यः सेतुरीजानानाम्। यज्वनां य आधारभूतः कर्मफलप्रद इत्यर्थः । ईजानानामिति कान जन्तः शब्द: । अक्षरं ब्रह्म यत्परम्। यत्निर्विकारं परं ब्रह्म। अभ्षयं तितीर्षतां पारम्। संसारसागरं तितीर्षतां निर्भय दढ तीरम्। नाचिकेत शकेमहि ॥ २ ॥ नाचिकेताग्निप्ाप्यमुपासितुं शक्ता: स्मेत्यर्थः । शकेव्यत्ययेन शपू।
Page 74
[अ१ वल्ली ३] काठकोपनिषत्। ७३
नाचिकेंतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्यातत्वात। अतों दुरुपास्यत्वबुद्धया न भेतव्यमिति भाव: ॥ २ ॥ आत्मानं रथिनं विद्धीत्यादिना सोऽध्वनः पारमाप्नोतीत्यन्तेन संसाराध्वपारभूतवैष्णवपरमपदपरात्ती परिकरमुपािशन्प्रामॢस्वरूपमुप- दिशति- आत्मान रथिनं विद्धि। शरीराघिष्ठातारं रथिनं विद्धि। शरीर रथमेव तु। स्पष्टोऽर्थः । बुद्धिं तु सारथिं विद्धि। बुद्धिशव्दिताध्यवसायाधीनत्वाद्ेहप्रवृत्तेस्तस्याः सारथित्वमिति माव: मनः प्रग्रहमेव च॥ ३ ॥ मग्रहो रशना ॥ ३ ॥ इन्द्रियाणि हयानाहुः । स्पटोऽर्थः । विषयाश्स्तेषु गोचरान्। तेव्विन्द्रियेषु हयत्वेन निरूपितेषु गोचरान्मागकछद्दाविविषया- न्विद्धीत्यर्थः। रथसारथिह्यप्रग्रहत्वेन निरूपितानां शरीरेन्द्रियमनोबुद्धीनाममावे रथित्वेन रूपितस्योदासीनस्याऽडत्मनो गमनरूपलीकिकवविकक्रियाक- तृत्वमेव नास्तीत्वेतत्सुप्रसिद्धत्वेन दर्शयति-
आत्मशब्दो देहपरः। मनःशब्दस्तु तत्कार्यबुद्धेरप्युपलक्षकः। पूर्व- मन्त्रे बुद्धेरपि सारथित्वेन निर्दिष्टत्वात्। भोक्ता कर्तृत्वभोक्तृत्वादिमा- नित्यर्थः। न हि केवलस्याऽडत्मनः कर्तृत्वं भोकृत्वं वाऽस्तीति भाव:।।४। शरीरादे रथत्वादिरूपणस्य प्रयोजनमाह- यस्त्वविज्ञानवान्भवत्ययुक्त्ेन मनसा सदा। तस्पेन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥॥
Page 75
७४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० १ वल्ली३]
यस्तु विज्ञानवान्भवति युक्त्ेन मनसा सह। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६ ॥ लोके हि समीचीनसारथिप्रग्रहवतोऽश्वा वशीकृता भवन्ति। एवं सारथिप्रग्रहत्वेन रूपितयोविज्ञानमनसोः सामीचीन्येऽश्वत्वेन रूपिता नीन्द्रियाणि वश्यानि भवन्ति नाऽन्यथेत्यर्थः ॥५॥६॥ हयत्वेन रूपितानामिन्द्रियाणां वशीकरणतद्मावयोः प्रयोजनं दर्श यति मन्त्रदयेन- यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमामोति संसारं चाधिगच्छति।७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पंदमामोति यस्मान्भयो न जायते ॥ ८ ॥ अमतस्कोऽनिगृहीतमना अत एवाशुचि: सर्धदा विपरीतचिन्ताप्रव णत्ादित्यर्थः । न केवलं जिगमिषितप्राप्त्यभावमातं प्रत्युत गहनं संसा रकान्तारमेव प्रापयतीत्यर्थः ।७॥८।। किं तत्पदमित्याकाङ्गक्षायां तत्पदं दर्शयत्नुपसंहरति- विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । स तु तत्पदममोति तद्विष्णोः पग्मं पदम् ॥ ९ ॥ समीचीनविज्ञानमनःशाली संसाराध्वपारभतं परमात्मस्वरूपं प्राप्ो तीत्यर्थः ।।९। वशीकार्यत्वाय रथादिरूपितेषु शरीरादिपु यानि येभ्यो बशीकार्य- तायां प्रधानानि तान्युच्यन्ते- इन्द्रिये्यः परा हर्था अर्थेभ्यश्र परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ ३० ॥ महतः परमष्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥ अस्य मन्त्रद्यस्यार्थो भगवता माष्याकृतानुमानिकाधिकरणे [ब०सू० १४।१] उक्त: । इत्थं हि तत्र माध्यम्। तेषु रथादिरूपितशरीराविषु
Page 76
[अ० १ वल्ली ३] काठकोपनिषत्। यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्त इन्द्रियभ्य: परा इत्यादिना। तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषया वशीकार्यत्वे पराः। वश्येन्द्रियस्यापि विषयसंनिधाविन्द्रियाणां दुर्निग्र- हत्वात्। तेभ्योऽपि परं प्रग्रहरूपितं मनः । मनसि विषयप्रवणे विषया- संनिधानस्याप्यकिंचित्करत्वात्। तस्मादृपि सारथित्वरूपिता बुद्धि: परा। तस्या अपि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्या- त्परः सर्वस्याऽडत्मेच्छायत्तत्वात् । आत्मेव महानिति च विशेष्यते। तस्मादृपि स्थरूपित शरीरपरम्। तदायत्तत्वार्ज्जीवस्य सकलपुरुषा- र्थसाधनप्रवृत्तीनाम्। तस्मादृपि परः सर्वान्तरात्मभूतोऽन्तर्याम्य- ध्वनः पारभूतः परमपुरुषो यथोक्तस्याऽत्मपर्यन्तस्य तत्संकल्पायस्तप्रवृ- त्तित्वात्। स खल्वन्तर्यामितयोपासकस्यापि प्रयोजकः । 'परातु- तच्छते:'[व० सू० २।३।४१]इति हि जीवात्मनः कर्तृत्वं परमपुरुपायसत- मिति वक्ष्यते। बशीकार्योपासननिर्यृत्युपायकाष्ठाभूतः परमप्राप्यक्र स एव। तदिदमुच्यते 'पुरुषान्न परं किंचित्सा काठठा सा परा गतिः' इति। तथा चान्तर्यामिब्राह्मणे 'य आत्मनि तिष्ठन् ' [बृ०माध्य०३।७३] इत्यादिभि: सर्वं साक्षाकुर्वन्सर्वं नियमयतीत्युक्त्वा नान्योऽतोऽस्ति द्रष्टेति नियन्त्रन्तरं निषिध्यते। भगवद्गीतासु च। अधिष्ठानं तथा कर्ता करणं च पृथग्विषम्। विविधा च पृथक्चेष्टा दैवं चेवात्र पञ्चमम्। इति [अ० १८ श्लो० १४ ] इति। दैवमत्रपुरुषोत्तम एव । सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्सृतिर्ज्ञानमचोहन य। [अ० १५ श्लो० १५ ] इति वचनात। नस्य च वशीकरणं तच्छरणागतिरेव। यथाSडह- ईश्वरः सर्वभूतानां हद्देशेर्ऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया [अ०१८ा६१] तमेव शरणं गच्छ [अ०१८६२ ] इति। तदेवमांत्मान रथिनं विद्धीत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रिया- दय इन्द्रियेभ्य: परा ह्यर्था इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते न रथरू- पितं शरीरमिति परिशेषात्तदृव्यक्तशव्देनोच्यत इति भाषितम्॥१८॥११॥
Page 77
रङ्गरामानुअविरचितप्रकाशिकासमेता- [अ० १ वल्ली३]
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्प्यया बुध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ सर्वेषु भूतेध्वात्मतया वर्तमानोऽसी गुणत्रयमायातिरोहितत्वेनाजि प्बाह्यांन्त:करणानां न यथावत्प्रकाशते। अध्ययैकाव्ययुक्तया बाह्या भ्यन्तरव्यापाररहितया सूक्ष्मार्थविवेचनशक्तया सूक्ष्मदर्शनशीलैर्दश्यत इत्यर्थ: ॥ १२॥
एजीवस्वरूपज्ञानप्रकार दर्शयति। यच्छेद्धाखनसी प्राज्ञ इत्यादिना। इमे मन्त्रं प्रस्त्युत्येत्थं ह्वि भाष्यकृता। हयादिरूपितानामिन्दियाद्वीनां वशीकरणप्रकारोड़यसुच्यते- यच्छेद्वाङमनसी प्राज्ञः। वाचं मनसि नियच्छेत्। वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्ट्रियाणि च मनसि नियच्छेदित्यर्थः। वाक्शब्दे द्वितीयायाः सुपा सुलुगित्या दिना लुकू। मनसी इति सप्तम्यां छान्दसो दीर्घः। तयच्छेज्ज्ञान आत्मनि। तत्ममो बुद्धी नियच्छेत्। ज्ञानशब्दनात्र पूर्वोक्ता बुद्धिरभिधीयते। ज्ञान आत्मनीति व्यधिकरणे सपम्यो। आत्मननि वर्तमाने ज्ञाने निय- च्छेदित्यर्थः । ज्ञानमात्मनि महाते नियच्छेत्। बुद्धिं कर्तरि महत्यात्मनि नियच्छेत्। तयच्छेच्छान्त आत्मनि॥ १३ ॥ इति तें कतारं परस्मिन्वह्मणि सर्वान्तिर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलिङ्गता। एवंभूतेन रथिना वैष्णवं पढं गन्तव्यमित्यर्थ इति भाषितम्। विवृतं च श्रुतप्रकाशिकायाम्। वाचो मनसि नियमनें मनोननुगुणप्रवृत्तिवैमुख्यापादनम्। मनसो बुद्धौ नियमनं वयवसायानुगु णप्रवृत्तितापादनम्। बुद्धिश्र्वर्थेषु हेयताध्यवसायरूपा तस्या बुद्धेरात्मनि नियंमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनम्। शान्ते स्वत ऊर्भिषद्कप्रतिभदे शान्त आत्मनि महत आत्मनो जीवस्य
Page 78
4 अ० १ वली ३] काठकोपनिषत्। ७७
नियमनं नाम तच्छेषताप्रतिपत्तिरिति। आत्मशब्दस्य पुलिङ्गतच्छब्देन निर्देष्टव्ये छान्दसत्वाललिङ्गव्यत्ययः। ननु भाव्ये ज्ञान आत्मनीति व्यधि- करणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ इत्युक्तिरयुक्ता। अव्यावर्तकत्वादात्मनि वर्तमान इति विशेषणस्याऽडत्मन्यवर्तमानज्ञान- स्यैवाभावात्। न च तद्यच्छेज्ज्ञान इत्येतावत्युक्त आत्मरूपज्ञानभ्रान्ति: स्यात्। आतो ज्ञान आत्मनीत्युक्तमिति बक्तुं शक्यम। तथासति तस्पा एव भ्रान्ते: सामानाधिकरण्ययोजनया हढीकरणप्रसङ्गात्। न ह्यात्म- नीत्यनेनाSSत्मभ्रान्तित्युरदस्यते। न चाउडत्मनि वर्तमान इति भाष्य- स्याऽडत्मनि विषयविषयिभावलक्षणसंबन्धेन वर्तमान इत्यर्थः। आत्म- विषयकज्ञान इति यावत्। अतो व्यावर्तकतया न वैयथ्यदोष इति वाच्यम्। तथा सति ज्ञानमात्मनि महति नियच्छेदित्यस्य वयर्थ्या- पातात्। तदर्थस्यापि तेनैव सिद्धेरिति चेदुच्यते। अयमभिप्रायो भाप्य- कारस्य तद्यच्छेज्ज्ञान आत्मनीत्यत्राडत्मनीति विपयसप्तमी तञ्वाSड त्मविषयकं ज्ञानमात्मोपादेयस्तदतिरिक्ता अर्था हेया इत्येवंरुपम्,। तच्चार्थेषु हेयताध्यवसायरूपा बुद्धिरिति भ्ुतप्रकाशिकार्या व्यक्तम। अस्य चाऽडत्मानात्मविषयकाहेयहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादन- मिति तत्रैव श्रुतप्रकाशिकायामुक्तत्वात्। वाक्यदयस्यापि सप्रयोजन- तया तदुक्तवैयर्थ्यशङ्कानवकाश इति ॥१३ ॥
उत्तिष्ठत जाग्रत । आत्मज्ञानाभिमुखा भवताज्ञाननिद्ाया: क्षर्य कुरुल। प्राप्यवरान्निबोधत।
भवतो बह्मविभ्द्यो वा देवतापारमाथ्य च यथावद्वेत्स्यते भवानित्येवंरू पान्वरान्प्राप्य ज्ञेयमात्मतत्त्वं निबोधत नोदासितव्यमिति भाव: । क्षुरस्य धारा निशिता दुरत्यया दुरग पथस्तत्कवयो वदन्ति॥१४॥ ज्ञानिनस्तदात्मतत्वं दुर्गमं पन्थानं वर्णयन्ति तत्कस्य हेतोः।यत आत्मत्त्त्वं क्षुरस्याऽडयुधविशेषस्य धाराडयं निशिता तीक्ष्णा दुरत्ययाड नतिक्रमणीया। तीक्ष्णश्षुराग्रे संचरतः पुंसो यथा कियत्यप्यनवधान
Page 79
७८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० २ वल्ली १] आत्मनाशो भवति। एव मिहाऽत्मस्वरूपवगतिदशारयां स्वल्पेऽप्यनव धानापराध-आत्मनाशो भवतीति भाव: ॥ १४ । उपसंहरति- अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अत्र नित्यमित्येतदशव्दमित्यादौ प्रत्येकं संचध्यते। अशब्दत्वादिव- शादेव कालवद्व्ययम्। अथवापचयशून्यमित्यर्थः । अनादनन्तं महतः परं धुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते ।।१५।। महत इत्यनेनाऽडत्मनि महति नियच्छेदिति पूर्वमन्त्रनिर्दिष्टो जीवो गुह्यते। धुवं स्थिरं निचाय्य दृष्टा दर्शनसमानाकारोपासनेन विषयीकृत्ये- त्यर्थः । मृत्युमुखादिति भीषणात्ससारादित्यर्थः । १५।। नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ॥ नचिकेतसा प्राप्तं नाचिकेतम्। सृत्युप्रोक्तं सृत्योः प्रवक्तृत्वमेव न मित्यर्थः । स्वतन्त्रवक्तृत्वम्। अत एव सनातनं, अपोरुषेयत्वात्प्रवाहरूपण नित्य उक्त्वा श्रत्वा च मेधावी बह्मलोके महीयते ॥ ३६ ॥ स्पष्टोऽर्थः ॥१६॥ य. इमं परमं गुह्यं श्रावयेठ्ठ्ह्नसंसदि ।। ब्रह्मसंसदि ब्राह्मणसमाजे। प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७॥ प्रयतः शुंद्धः ॥१७॥ तृतीया वल्ली समाप्ता ।। इति काठकोपनिषदि प्रथमोऽध्यायः॥१॥ उत्तिष्ठत जाग्रतेति प्रोत्साहनेऽप्यात्मस्वरूपविमुखान्पश्य्रशोचति। पराश्चि खानि व्यतृणत्स्वयंभू: ॥ खानीन्द्रियाणि पराश्चि परानश्चन्तीति पराश्चि परमकाशकानि न त्वात्मप्रकाशकानि। तत्र हेतुं वदञ्शोचति। व्यतृणत्स्वयंमूः । स्वतम्त्र ईश्वर इमानि खानि हिंसितवान्। तृह[तुद्]हिंसायामिति-
Page 80
[अ०२ वह्ली १] काठकोपनिषत्। ७९
धातु: १ यद्वा धातूनामनेकार्थत्वात्। परार्थप्रकाशकानीन्द्रियाणि सृष्टवानित्यर्थः । तस्मात्पराङ्पश्यति नान्तरात्मन्।। पराक्पराच इति यावत्। परागूपाननात्मभूतान्पश्यन्त्युपलमन्ते। अन्तरात्मानं नेत्यर्थः । यद्वा पराङपराङमुखानि भूत्वा विषयानेव पश्यन्तीत्यर्थः। पराङरपश्यतीति पाठे लोकाभिप्रायमेकवचनम् । ईद्टशेऽपि लोकस्वभावे नद्याः प्रतिस्रोतः प्रवृत्त इव कश्िित्पुरुषो
कश्र्विद्धीरः प्रत्यगात्मानभैक्षत् ।। प्रत्यञ्चमात्मानं पश्यतीत्यर्थः । छान्दसं परस्मैपदम्। अत एव वर्त- मानार्थे लडुपपत्तिश्र। आवृत्तचक्षुरमृतत्वमिच्छन् ।। १ ॥। चक्षुःशब्द इन्द्रियमात्रपरः । स्वस्वविषयव्यावृत्तेन्द्रियो मुमुक्षु- रित्यर्थः ॥१॥ पराचः कामाननुयन्ति बालाः ॥ अल्पप्रज्ञा बाह्यान्काम्यमानान्विषयानेवावगच्छन्ति। ते मृत्योर्यन्ति विततस्य पाशम्॥ विस्तीर्णस्य संसारस्य बन्धनं यान्तीत्यर्थः। यद्वा विततस्य सरवंत्रा- प्रतिहताज्ञस्य मृत्योर्यमस्य पाशं यान्तीत्यर्थः । अथ धीरा अमृतत्वं विदित्वा धुवमधुवेष्विह न प्रार्थयन्ते ॥ २ ॥ अथशब्दः प्रकृतविषयार्थान्तरपरिग्रहे। धीमन्तः प्रत्यगात्मन्येव घुबम- सृतत्वं विदित्वेह संसारमण्डलेऽघुवेषु पदार्थषु कमपि न प्रार्थयन्ते प्रत्य- क्त्त्वज्ञस्य सर्वं जिहासितव्यमिति भावः। परात्मनः सर्वजीवगताहंतास्प- दृत्वेन मुख्याहमर्थत्वात्प्रत्यक्त्वमस्तीति द्रष्व्यम् ॥ २॥ येन रूप रसं गध शब्दान्स्पशांश्र मेथुनान्।। मैथुनान्मिथुननिमित्तकसुखविशेषानित्यर्थः । एतेनैव विजानाति किमत्र परिशिष्यते।। निःशेषं येनैष साधनेन जनातीत्यर्थः । 'तद्ेवा ज्योतिषां ज्योतिः'
Page 81
6० रङरामानुज विरचित प्रकाशिकासमेता- [अ०२ वल्ली १] [ बृ० ४।४।१६ ] इति रूपादिप्रकाशकानामिन्द्रियाणां तदनुगृहीताना मेव कार्यजनकत्वादिति भाव:। o1.3.9 एतद्वेततु 11 315 तत्पूर्व प्राप्यतया निर्दिटं विष्णो: परम पदम्। एतं्वै, एतदेषैतम
स्वप्नान्तं जागरितान्तं चोभी येनानुपश्यति। सकलं स्वामप्रपश्ं जाग्रत्मपश्चं च मनआदीन्द्रियभावमापन्नेन येन ह परमात्मना लोक: पश्यतीत्यर्थः । महान्तं विभुमात्मानं मत्वा धीरे न शोचति ।४।। तमिति शेष: । उक्तोऽर्यः ॥ ४ ॥ य इदं मध्वदं वेद आत्मानं जीवगन्तिकात्।। 71. 3. 1 ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतंद्वे तत्॥। ५॥ इदमिति लिङ्गव्यत्ययश्छान्दसः। इम मध्वदमृतं विबन्ताविति निर्दिष कर्मफलभोक्तारं जीवात्मानं गुहां प्रविटावित्युक्तरीत्या तस्यान्तिके काल त्रयवर्तिचिदचिदीश्वरं च यो वेद तं दुष्कृतकारिणमपि न निन्देदित्यर्थः। गुप्तिज्किद्भ्यः सन्नित्यत्र जुगप्साशब्दो निन्दार्थक उक्तः । जुगुप्सावि- रामप्रमादार्थानामिति तत इति पञ्चमी। एतंद्व तदिति पूर्ववत्॥५॥ यः पूर्व तपसो जातमन्नयः पूर्वमजायत।। गुहां प्रविश्य तिष्ठन्तं यो भृतेभिर्व्यपश्यत।। अत एव ससर्जाऽडदी तासु वीर्यमवासृजत्। तदण्डमभवन्द्वैमं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥ इतिस्मृत्युक्तरीत्याऽव्य्य उपादानेभ्यो व्यप्टिसृट्टेः पूर्व योऽजायत ते तपसः संकल्पमात्रादेव पूर्व जातम् । "यो देवानां प्रथमं पुरस्तात्" "विश्वाधिको रुद्रो महर्षिः" [श्वे० ३। ४] "हिरण्यगभं पश्यत जायमानम्" [श्वे० ४।१२] इति श्ुत्युक्तरीत्या प्रथमं जातं गुहां प्रविश्य तिष्ठन्तं हृद्यगुहां प्रविश्य वर्तमानं भूतेभिर्भूतैर्देहे न्द्रियान्त:करणादिमिर पेतं चतुर्मुखमयं सकलजगत्सष्टा स्यादिति कटाक्षेणक्षतेत्यर्थः ।
Page 82
[अ० २ वह्ली १] काठकोपनिषत् । ८१
एतद्वै तत् ॥ ६ ॥ उक्तोडर्थः ॥ ६ ॥ या प्राणेन संभवत्यदितिर्देवतामयी गुहां प्रविश्य तिष्ठन्ती या भूतेतिर्व्यजायत॥ अयं च मन्त्रो गुहां प्रैविष्टी [ब० सू० १। २। ११ ] इति सूत्रे भगवता भाष्यकृता व्याख्यातः । इत्थ हि भाष्यकृता कर्मफलान्यत्ती- त्यदितिर्जीव उच्यते। प्राणेन संभवति प्राणेन सह वर्तते। देवतामयी- न्द्रियाधीनभोगा। गुहां प्रविश्य तिष्ठन्ती हृदयपुण्डरीककुहरवर्तिनी। भूतेभिर्व्यजायत पृथिव्यादिमिर्भूतैः सहिता देवादिरूपण विविधा जायत इति भाषितम्। एतद्वै तत् ॥७ ॥ तत्तदात्मकमित्यर्थः । अत्रैव प्रकरणे "ब्रह्मजज्ञं देवमीड्यं विदित्या" [का।१७।] इत्यत्र देवमित्यस्य परमात्मात्मकमिति व्याख्यात- त्वात्, क्षेत्रज्ञं चापि मां विद्धीत्येतदुपबृंहणगीतावचनेऽपि मां मद्षा- त्मकमिति भाष्यकृतैव व्याख्यातत्वात्, अपृथक्सिद्धविशेषणवाचिश- व्दृस्य विशेष्य इवापृथक्सिद्धविशेष्यवाचिशउदस्यापि विशेषणे निरू- ढत्वात्तदात्मकमित्यर्थो युक्त इति द्ष्टव्यम् ॥७॥ अरण्योर्निहितो जातवेदाः । अरण्योरधरोत्तरारण्यो: स्थितोऽग्रि: । गर्भ इवोत्सुभृतो गर्भिणीभिः । गर्भिणीभि: पानभोजनादिना सुभृतो गर्भ इव निहित इति पूर्वेणा- न्वयः । उदित्यवधारणे। दिवे दिव ईडयो जागृवद्भिः । अहन्यहनि जागरणशीलैरप्रमतैः स्तुत्यः ।
आज्यादिहविःप्रदानप्रवृत्तैर्कत्विग्मिः स्तुत्योऽ्निः। अग्रनेताऽरण्पो-
Page 83
ट२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० २ वल्ली १]
एतद्वै त्ततु ॥ ८॥ एतद्ग्निस्वरूपं तत्पूर्वोक्तव्रह्मात्मकमित्यर्थः। यतश्वोदेति सूर्योऽस्तं यत्र च गच्छति।तंदेवाः सर्वे अर्पिताः॥ यस्माङ्वह्मणः सकाशात्सूर्य उदेति यत्र च लयमेति देवा: सर्वेतस्मि न्नात्मनि प्रतिष्ठिता इत्यर्थः । तदु नात्येति कशन। तत्सर्वात्मकं ब्रह्म कोऽपि नातिकरामति छायावदन्तर्यामिणो दुर्लङ्. वश्वादिति भाष: । एतद्वै तत्॥ ९ । उक्तोऽर्थः ॥ ९॥ ननु परमात्मनः सर्वात्मत्वं न संभवति। अहमित्यहन्ताश्रयत्वेना नुसंधीयमानो ह्यात्मा स चाहमिहैवास्मीति देशान्तरव्यावृत्ततयाऽ नुसंधीयते तस्य कर्थं सर्वदेशकालवर्तिसर्वपदार्थात्मभृतततत्वमित्याश ह््याऽडह- यदेवेह तदमुत्र यदमुत्र तदन्विह। यवेष परमात्मत्त्त्वमन्न लोकेऽहमित्यनुसंधीयमानतयाऽडत्मभृतं तदेष लोकान्तरस्थानामप्यात्मभूतमित्यथः। ततश्राऽऽत्ममेदो नास्तीत्यर्थ:। अयमभिप्रायः । किं परमात्मतत्त्वविदामहमिहैवति प्रतीतिः सर्वदेशका
तेषामहमिह्वैवेत्यादिप्रतीतेरेवाभावात्। प्रत्युताहं मनुरभवं सूर्यस्पेति सर्ववस्तुवर्तितयैवानुभवात्। न द्वितीयः। अतत्त्वविदामह्मतीतेर्जीव मात्रविषयत्वेन तत्र देशान्तरव्यावृत्तत्वप्रतीतेस्तदानीमप्रतीतपरमात्मनि सर्वदेशवर्तिपदार्थात्मत्वविरोधित्वाभावादिति। मृत्योः स मृत्युमामोति य इह नानेव पश्यति ॥ १०॥ इह परमात्मनि भेदमिव यः पश्यति स तु संसारात्संसारं प्रामोती त्यर्थः ॥ १० ॥
Page 84
[अ० २ वल्ली १] काठकोपनिषत्। ८३
नन्वस्माकं सर्वात्मभूतं परमात्मतत्वं कुतो नोपलभ्यत इत्यत्राSडह- मनसैवेदमाप्व्यम्। इदमात्मस्वरूपं विशुन्धमनोग्राह्यमित्यर्थ: । उत्तमेवार्थ दढीकरणायाभ्यस्यति- नेहु नानाडस्ति किंचन मृत्योः स मृत्युं J6-2 गच्छति य इह नानेव पश्यति॥ ११। सॅपष्टो.डर्थ :: ।। ११।। अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति। इशानो भूतभव्यस्य।
माण: सन्नास्ते। न ततो विजुगुप्सते। ततो भूतभव्येश्वरत्वादेव वात्सल्यातिशयाद्देहगतानपि दोषानभोग्य तया पश्यतीत्यथः। ननु 'प्राणाधिपः संचरति स्वकर्मभिः' [०५७] 'अङ्गुचछमात्रो रवितुल्यरूपः' [श्वे० ५।८]। अङ्गुउमाव्रं पुरुपं निक्चकर्ष यमो बलात।
प्रतिपादनं कि न स्यात्। न च न तस्य भूतभव्येशानत्वादीति वाच्यम। प्रथमश्रुतजीवलिङ्गानुरोधेन चरमभ्ुतभूतभव्येशानत्वस्यापेक्षिक तया योजयितुं शक्यत्वादिति चेन्न। 'शब्दादेव प्रमितः' [ब० सृ० १।३।२४] इत्यधिकरण एवमेव पूर्वपक्ष कृत्वा हृदयावच्छेदनिवन्धनाख्ु्परिमा- स्य परमात्मन्यऽपि संभवात्। अङ्गु्मान्न: पुरुपोऽङुछठं च समाश्रितः' [१६।३ ] इति तैत्तिरीयके। 'अन्गुष्ठमात्रः पुरुपाउन्तरात्मा सदा जनानां हृदये संनिविष्टः' इति श्वेताश्वतर [३।१३ ]चाङुष्ठमात्रत्वस्य परमात्मन्यपि श्रवणात्। असंकुचितभूतभव्येशितृत्वस्यानन्यथासिद्धन्न- हमलिङ्गत्वाद्यं मन्त्रः परमात्मपर एवेति सिद्धान्तितत्वात्। यत्त्वत्र कै्विदुच्यते। अङ्गुश्मातत्वं जीवलिङ्गमेव। सथाप्यङ्गुउ्मात्रः पुरुषो
Page 85
रङ्गरामानुजविरचित प्रकाशिकासमेता- अ० २वल्ी १] मध्य आत्मनि विवनीति पूर्वार्धन जीवमनूद्य, 'ईशानो भूतभव्यस्य' इत्यनेन परमात्मभावो विधीयत इति। तद्समअ्जसम्। तथाहि सति परमात्मन्यङगुठमात्रत्वर्सभावनाप्रदर्शकस्य 'हृद्यपेक्षया तु मनुष्याधि कारत्वात्' [० सू० १।३।२५] इति सूतस्यासंगतिपमङ्गात्। मनु नास्मिष्यन्त्रे जोवानुवादेन ब्रह्मभावी विधीयते। आराग्रमाव्तया प्रति- पन्नस्य जीवस्याङ्गष्ठमात्रत्वे प्रमाणभावादिति तदस्थशककापरिहाराथ जीवस्याङ्गष्वमात्रत्वसाधनाय प्रवृत्तमिद सूत्रमितिचेत्। तथाऽडश्रयणस्य क्किढ्त्वात्। नन्बीश्वरः शर्व ईशान इति निवण्दुपाठेनेशानशब्दृस्व देवताविशेषे रूढत्वाच्छन्दादेव प्रमित इति सूत्र ईशानो भूतभव्यस्येति शब्दादेव न तु भूतभव्यस्य सर्वस्येशितृ्त्वं कर्मवश्यजीवस्योपपद्यत इति भाष्यं वयाकुर्वस्भ्िर्व्यासार्थिरीशानशब्दस्यैव शव्दशब्देन विवक्षित त्वात, नातर लिङ्गान्निर्णयः किं त्वीश्वरवाचिशब्दादेवेत्येवकाराभिप्राय इति व्याख्यातत्वात्, ईशानशव्दस्य श्रतित्वाभ्युपगमात, तयेव चेशान- शब्दश्ुत्या जीवव्यावृत्त्तिवदेव नारायणस्यापि व्यावर्तितत्वेन,रुद्रपरत्वमेव स्याविति चेन्न। योगरूढिमतः पदस्य संनिधाववयवार्थविशेपकपदान्तर संनिधाने रूढ्यनुन्मेपस्य। पद्मानि यस्थाग्रसरोरुहाणि प्रबीधयत्यूर्ध्वमु्खैर्मयूखै: । इत्यादिषु दर्शनात्। तत्र हि सरोरुहपदावयवार्थसरोविशेषकाग्रप दोपादानेन सरोरुहपदरूढिभङ्गस्य दर्शनात्। इतरथा पद्मानीति पदानु- पादानत्वापत्तेः । अत ईशानशब्दस्य न श्रुतित्वम्। एतत्स्वरसादेव व्यासार्यरपि यथाश्रुतभाष्यानुगुण्येन यद्वेति पक्षान्तरस्याशितत्वादित्यल सतिचर्चया। प्रकृतमनुसरामः। एतद्वै तत् ॥ १२ ॥ उक्तोऽर्थ: ॥१२॥ अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधुमकः । शुष्केरधमानलवत्प्रकाशमान इत्यर्थः । ईशानो भूतभव्यस्य स एवाद् स उश्ः । अद्यतनपदार्थजातं श्वस्तनपदार्थजातें कालत्रयवर्तिपदार्थजातमपि तछात्सकमित्यर्थः।
Page 86
[अ० २ वल्ली २] काठकोपनिपत्। ८५
एतह्वै तत् ॥ १३॥ पूर्ववत् ॥ १३ ॥। यथोदकं दुर्गे वुष्टं पर्वतेषु विधावति। पर्वतमूर्झि वृष्टं प्रत्यन्तपर्वतेषु नानाभूततया पतित्वा पतित्वा धावति। एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ॥ १४ ॥
इणनिष्ठान्पश्यन्पर्वतनिर्झरपातमनुकृत्य संसारकुहरे पततीत्यर्थः ॥१४॥ सर्वत्रैकात्मकत्वज्ञानस्य फलमाह- यथोदकं शुद्धे शुद्धमास्तिकं तादगेव भवति। एवं मुनेर्विजानत आत्मा भ्रवति गौतम ॥ १५ ॥ यथा शुद्धजले शुद्धजलं योजितं तत्सद्वृशमेव भवति न करथचि- द्विसद्ृशमेवमित्थं विजानतो मननशीलस्याऽडत्माSपि परमात्मज्ञानेन विशुद्धः सन्विशुद्धेन परमात्मना समानो भवतीत्यर्थः । गौतमेति माप्यवैभवं सूचयन्सहष संबोधयति। समाप्ता प्रथमावली।
पुरमेकादशद्वारम जस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्र विमुच्यते॥ जननादिविक्रियारहितस्य ऋजुबुन्देर्विवेकिन आत्मन एकादशेन्द्रि- यलक्षणबहिनिर्गमद्वारोपेतं शरीराख्यं पुरं भवति। पुरस्वामिनो यथा पुरं विविक्त भवति तथा शरीरमपि स्वात्मनो विविच्य ज्ञातं भवति। अविवेकिनस्तु देह आत्मैव भवतीति भावः । अनुष्ठाय न शोचति। विविच्य जानन्देहानुबन्धिभिर्दुःखैः कामादिभिश्र विमुक्तो मवती- त्यर्थः। विमुक्तश्र विमुच्यते। जीवदशायामाध्यात्मिकादिदुःखरागद्वे- पादिविमुक्त एव सन्भोगेन त्वितरे क्षपयित्वा संपद्यते' [ब०सू०४।१।१९] इति न्यायेन प्रारब्धकमवसानेऽरचिरादिना विरजां प्राष्य प्रकृतिसंबन्ध- विमुक्तो भवतीत्यर्थः।
Page 87
८६ रङ्गरामानुजविरचितप्रकाशिकासमेता- अ = २ वल्ली२] एतंद तत् ॥ १ ॥ एतन्मन्त्रप्रतिपाद्यमुक्तस्वरूपमपि परमात्मकमेवेत्यर्थ: ।१H पुनरप्यस्य सर्वात्मतामेव प्रथयति- हश्सः शुचिषद्वसुरन्तरिक्षसत्। हंस: सूर्यः । शुचौ ग्रीपतौ सीदतीति शुचिपत्तेजस्वीति यावत्। वासयतीति वस्तुर्वायुः। अन्तरिक्षसत्, अन्तरिक्षगतो वायुः। होता वेदिषदतिथिर्दुरोणसत्। वेद्यन्तवर्तमान कत्विग्विशेषोडग्निर्वा। दुरोणं गृहं गृहागतोऽतिथि:।
नृष्वात्मतया वर्तमानं, वरेषु देवेपु च तथा वर्तमानं, कते सत्यलोके सीदतीति ऋतसत्, व्योम्नि परमपदे वर्तमानं च प्रत्यक्तत्त्वम्। अब्जा गोजा ऋतजा अदिजा ऋतं बृहत् ॥२॥ अब्जा जलजाः। गोजा भूजाः। कतजा यज्ञोत्पन्नाः कर्मफल- भूताश्र सुर्गाद्य इति यावत्। यद्वा चिरकालस्थायितया ऋतश- व्दिताकाशजा इत्यर्थः । अद्विजाः पर्वतजाः । एतत्सर्वं बृहवृत-
ऊ्ध्यं प्राणमुन्नयति । सर्वेप्रां हृद्यगतः परमात्ा प्राणवागुमूर्ध्वमुखमुन्नयति। अपानं पत्यगस्यति। अपानवायुमधोमुखं क्षिपति। मध्ये वामनमातीनम्। हृदयपुण्डरीकमध्य आसीनं वामनं वमनीयं भजनीयेम्। अथ वा हृ दयपुण्डरीकपरिमिततया हस्वपरिमाणमित्यर्थः । विश्वे देवा उपासते ॥ ३ ॥ तं सत्त्वप्रकृतयः सर्वेऽप्युपासत इत्फर्थ: ॥३॥
Page 88
[अ०२ वल्ली २] काठकोपनिषत्। C७
एवं परमात्मानमुपासीनस्य 'तस्य तावदेव चिरं यावन्न विमोक्षे' [छा० ६।१४। २ ] इति श्ृत्युक्तरीत्या शरीरपात एवान्तरायो न किंचित्कर्तव्यं परिशिष्यत इत्याह- अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिनः । देहाद्विमुच्यमानस्य किमत्र परिशिष्यते॥ अस्योपासकस्य देहिनः शरीरस्थस्य शरीरप्रतिष्ठितस्य दृढशरीर- स्येति यावत्। एवंभूतस्य वा विस्रंसमानस्य शिथिलीभवद्गातस्य वा देहाद्विमुच्यमानस्य प्रियमाणस्य वा किमत्र परिशिप्यते। कृतकृत्य- त्वात्कर्तव्यं किमपि नावशिष्यत इति भाव: । एतद्वे तत् ॥ ४ ॥ पूर्ववत् ॥४ ॥ तस्य सर्वप्राणिप्राणनहेतुत्वरूपं महिमानमाह- न प्राणेन नापानेन म्त्यो जीवति कश्रन इतरेण तु जीवन्ति। स्पष्टोऽर्थः । केनेतरेण जीवन्तीत्यत्राऽडह- यस्मिन्नेतावुपाश्रितौ ॥ ५॥ यद्धीनं प्राणापानयोरपि जीवनं तद्धीनमेव सर्वेषा जीवनमिति भाव: ॥५॥ हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । गुह्यमतिरहस्यं सनातनं ब्रह्म ते पुनरपि प्रवक्ष्यामि। हन्तेति स्वग- तमाश्रर्ये। यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥ हे गौतम, आत्मा मरणं मोक्षं प्राप्य यथा यत्पकारविशिष्टो, भवति तथा पुनरपि मुमुक्षवे रागाद्यनुपहृतायोपदेशयोग्याय तुभ्यं वक्ष्या- मीत्यर्थः ॥ ६ ॥ अधिकारिविशेषनिर्देशपरेण हन्त त इत्यनेन सूचितमर्थ विवृ- णोति-
Page 89
८८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०२ वल्ली २] योनिमन्ये प्रपयन्ते शरीरत्वाय देहिनः। अन्ये परमात्मतत्वश्रवणविमुखास्त्वद्विसदशाः शरीरपरिग्रहाय बाह्म णादियोनिं प्रतिपद्यन्ते। स्थाणुमन्येऽनु संयन्ति यथाकर्म यथाश्रुतम् ॥७॥ अन्ये स्थावरभावमनुगच्छन्ति। स्वानुष्ठितयज्ञादिकर्मोपासनानतिक्र मणेन 'रमणीयचरणा:' [छा० ५१०७]'तं विद्याकर्मणी सम- न्वारभेते' [ बृ० ४।४।२] इत्यादिश्ुत्यनुरोधादिति भावः ॥।७॥ एवं शिप्यं प्रोचनयाभिमुखीकृत्य प्रकृतमनुसरति। य एष सुप्तेषु जागर्ति कामं काम पुरुषो निर्भिमाण: । सर्वेषु सुप्तेपु जीवेषु। कामं काम णमुलन्तमिदं संकल्प्य संकलपपे- स्यर्थः। न तु सर्वान्कामांशछन्दतः प्रार्थयस्वेति प्रकृता: पुत्रादयः काम शव्देन निर्दिश्यन्ते। अयं चार्थ: संध्याधिकरणे [ब० सू० ३३१] भाष्यभ्रुतप्रकाशिकयोः स्पष्टः संकल्प्य संकल्व्य स्वच्छन्दानुरोधेन निर्मि- माण: पुरुषो योऽस्तीत्यर्थः । तदेव शुकं तहूह् तदेवामृतमुच्यते। तस्मिँलोकाः शिताः सर्वे तदु नात्येति कश्न। एतंद्वै तत्॥ ८॥। तदेव प्रकाशकं तदेवानन्याधीनमसृतमुच्यत इत्यर्थः । शिषं स्पष्टम्। नित्यमुक्तानाममृतत्वसत्त्वेऽपि निरुपाधिकामृतत्वाभावाजदेवासृतमित्यव- धारणस्य नानुपपत्तिरिति द्वष्टव्यम्। तेनामृतान्तरनिषेधान्मुक्तपरमात्म नोरभेदप्रत्याशा प्रत्युक्ता। अव्रत्यामृतशब्दस्य निरुपाधिकामृतया- चित्वात् ॥८॥ एक एवाऽडत्मा सर्वेषामहमर्थतयाऽडस्त इत्यस्यार्थस्य दुर्बोधत्वात्त द्द्टढीकरणाय पुनरप्युपदिशति- अभिर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभून ॥ य थै क स्तेजोवा तु स्त्िरिवृत्करणकृतव्याप्त्याऽण्डान्तर्गतलोके प्रविषः सन्रूप रूपं रूपे रूपे मौतिकव्यक्तिपु वीप्सायां द्विर्वचनम्। प्रतिरूपं प्रत्युप्तं रूपं यस्य स तथोक्तः। सर्वासु भौतिकव्यक्तिपु तेजोघातोर्मिलितत्वेन प्रतिसंक्रान्तरूपत्वात्प्रतिरूपमस्तीति द्ष्व्यम्।
Page 90
[अ०२ वल्ली २] काठकोपनिषत्। 7 एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्र ॥९॥ तथैक एव सन्परमात्मा प्रतिवस्तुसंक्रान्तान्तर्यामिविग्रहो बहिश्र व्याप्रोतीत्यर्थः ॥९॥ उदाहरणान्तरमाह- वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्र्व ॥१०॥ पूर्ववत् ॥ १० ॥ आत्मत्वाविशेषेऽपि जीवात्मवददोषाः परमात्मनि न भवन्तीत्येतत्सद्ट- ष्ान्तमाह- सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुपेर्वाह्यदोपैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः॥११॥
क्षिणी प्राविशत् [ऐ० अ० १ ख० २] इति श्रुत्यनुसारेण यथा सूर्य- श्रक्षुरधिष्ठातृतया तदन्तर्गतोऽपि बहिर्निगतश्रक्षुर्मलादिभिन स्पृश्यते तथा परमात्मा सर्वभूतेष्वात्मतया वर्तमानोऽपि तद्गतेर्दोपर्न स्पृश्यते। तस्य स्वाभाविकापहतपाप्मत्वादिगुणयुक्ततया स्वेतरसमस्तबाह्यत्वात्, विल- क्षणत्वादित्यर्थः ॥ ११ ।। एको वशी सर्वभृतान्तरात्मा एक बीजं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरा- स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ एक: समाभ्यधिकरहितः । चश इच्छा सोऽस्यास्तीति वशी जगदशे वर्तत इत्युक्तरीत्या वशवर्तिपरपञ्क इत्यर्थः । इमौ स्म मुनिशार्बूल किंकरी समुपस्थिती। इत्युक्तरीत्या भक्तवश्य इति वारऽर्थः। एकं बीजं तमः 'परे दवे मनस्येकी भवति' [प्र०४।२] इति भ्ुत्युक्तरीत्या रवेनेकीभूताविभागा- वस्थं तमोलक्षणं बीजं महदादिबहुविधप्रपश्चरूपेण यः करोति तं य आत्मनि तिष्ठनन्नित्युक्तरीत्या स्वान्तर्यामिणं ये पश्यन्ति तेपामेव मुक्ति- रित्यर्थः ॥ १२॥ १२
Page 91
९.0 रङ्गरामानुजविरचितप्रकाशिकासमेता- 'अ०२वलीर नित्योऽनित्यानां चेतनश्रवेतनानामेको बहूनां यो विदधाति कामान् ॥ नित्यश्रेतन एक एव सन्बहूना नित्यानां चेतनानामपेक्षितानर्थानना यासेन प्रयच्छति। तमात्मस्थं येडनुपश्यन्ति धीरस्तेषां शान्तिः शाश्वती नेतरेषाम् ।१३।। 7 स्पष्टोऽर्थः ॥ १३॥ एवमुक्ते शिष्य आह- तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुग्म्। कथं 1+ नु तद्विजानीयां किमु भाति विभाति वा ॥ १४ ॥ 3.13 + तदलौकिकं परमानन्दरूपं ब्रह्म करतलामलकवद्परोक्षं मवाहशा निष्पन्नयोगा मन्यन्ते। भवावृशाः साक्षात्कतुं शक्नुयन्तीत्यर्थः। कथं रू्पादिह्ी नब्रह्मग्रहणासमर्थमानसोऽहं विजानीयामू। तक्किं दीपिमसया भासते तत्रापि विस्पष्ट प्रकाशत, उत तेजोन्तरसंवलनान्न विस्पष प्रकाशत इति प्रश्ः ।। १४ ।। परमात्मनो योगयुगालम्बनाय 'आदित्यवर्ण तमसः परस्तात्' [श्वे० ३।८]। सदैकरूपरूपायेति प्रमाणप्रतिपत्नगुहाभ्रयदिव्यम- ङगलविग्रहोडस्ति तद्विशिष्टः परमात्मा विभाति सर्वातिशायिदीपि- मानित्याह न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विदयुतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्प भासा सर्वमिदं विभाति ॥१५॥ अयं च मन्त्रः 'ज्योतिर्दर्शनात ' [ब० सू० १।३।४० ] इति सूत्रे सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चानुठ्ठप्रमितस्थ ज्योतिर्दश्यत इति भाप्येण विवृतः । इदं च माष्यम्। न तत्र सूर्य इत्यादिमन्त्रे पूर्वार्धस्यार्थमाह-सर्वतेजसां छावकमिति उत्तरार्धस्प
Page 92
[अ० २ वही २] काठकोपनिपत्।
पूर्वपादार्थमाह-सर्वतेजसां कारणभूतमिति। अनुभानं पश्राद्भानं तेन कार्यकारणभावः सिद्धः । पौर्वापर्यनियमो हि कार्य्कारणभाव इति भाव:। चतुर्थपादार्थमाह-अनुग्राहकमिति। 'यस्याऽडदित्यो मामु- पयुज्य भाति' इत्यादिश्रुतिश्रानुग्राहकत्वे प्रमाणमिति व्यासारयैविवृ- तम्। तदीयक्षी पिसाक्षात्कारसंभवे तेजोन्तराणामभिभूतत्वं प्रथमार्धार्थः। तेजोन्तरोत्पत्ती तदुपदानद्रव्यानुग्राहकत्वरूपं निमित्तत्वं तृतीयपादार्थः। चाक्षुषरश्म्यनुग्राहकचन्द्रादेरिवोत्पन्नस्यापि तेजसः स्वसंबन्धेन स्वका- र्यकरणसामथ्याधायकत्वलक्षणानुग्राहकत्वं चतुर्थपादार्थ इत्यप्यर्थस्त-
स्रस्य तृतीयपादार्थ इति पररुच्यते तद्युक्तम्। तथा हि सति भान्तमिति कर्तर्थशतृपत्ययस्य शिष्यज्ञानं प्रकाशत इतिवद्भेदेsपि कथंचित्संभवेऽप्यनुभातीत्यनुशव्दस्यायोगात्। न हि देवदत्तगमन- क्रियाव्यतिरिक्तगमनक्रियाशून्ये तिष्वति यज्ञदत्ते गच्छन्तं देवदत्तं यज्ञ- दत्तोऽनुगच्छतीति प्रयोगो हष्टचरः । ननु वह्निमेव दहन्तमयोऽनु- दृहतीति प्रयोगो दष्टचर इतिचेन्न। अयसः पृथग्द्ग्धृत्वाभावं निश्वि- वतस्तत्प्रतिपिपाद्यिषया तादशप्रयोगस्य संप्रतिपन्नत्वाभावात्। ननु तदीयदीप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूतत्वमिति मवदभिम- तार्थोपि न युज्यते। तदीयदीप्तिसाक्षात्कारवतामपि मुक्ताना ते- जोन्तर्दीप्तिसाक्षात्कारदर्शनेन सजातीय संवलनाधीनाग्रहणलक्षणाभिमव- स्याभावादिति चेदुच्यते। बद्धविषयमेवैतत्। बद्धारनां तत्साक्षा- त्काराप्रसक्तेरिंदं कथमिति चेन्न।बद्धानामेवार्जुनादीनां तत्साक्षात्कारद- र्शनात्। यद्वा कालिदासकवी परिगण्यमान इतरः कुकविरकविरितिव- द्वाति। वह्मणि परिगण्यमाने सूर्यादितेजोन्तरं न माति।अतस्तदेव ब्रह्मा- तिभास्वररूपश्ञालीति पूर्वार्धार्थः। तदीयदीप्तिसाक्षात्कारसंभवे तेजोन्त- राणामभिभूतत्वमिति व्यासार्यवचनस्याप्ययमेवार्थः। अमुमेकार्थमितर- तेजसां स्वरूपोत्पत्ती फलजनने च परमात्मानुग्रहसापेक्षत्वप्रदुर्शकेन तमेव भान्तमित्युत्तरार्धेन प्रथयतीति न दोष इत्येतद्यगन्तव्यम्। यद्धा पूर्वा- धस्य यथाश्रुत एवार्थः। नन्वतिमास्वररुपवति सूर्यादी प्रत्यक्षणानुभूय- मानेन भातीति प्रत्यक्षविरुद्धं कथमभिधीयत इत्यत्राऽऽह "तमेव भान्तम- नुभाति"इति। इदं च परिदृश्यमानमादित्यादीनां भास्वररूपं न स्वामा- विकमपि तु परमात्मदृत्तं तदीयमेव तेजः। गीत च मगवता-
Page 93
९२ रङ्गरामानुजविरचित प्रकाशिकासमेता- [अ०२वल्ी३]
यदादित्यगतं तेजो जगन्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्रौ तत्तजो विद्धि मामकम [अ०१५१२]इति। विवृतं चैतद्भगवता भाव्यकृता-अखिलजगतो भासकमेतेपामादित्या दीनां यत्तेजस्तन्मदीयं तेजस्तैराराधितेन मया तेभ्यो दृत्तमिति विद्धीति अंतो याचितकमण्डितपुरुषतुल्यानामेतेरषां भास्वररुपशालिना न मातीति व्यपदेशो युज्यत इति भाव: ।।१५। द्वितीया वली समाप्ता।
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । अयं च मन्त्रखण्ड ऊर्ध्वमूलमधःशाखमिति गीताव्याख्यानावसरे भग- वता भामपकृता व्याख्यातः । इत्थं हि तत्र भाध्यम्-यं संसाराख्यमश्व- त्थमूर्ध्वमूलमधः शाखमव्ययमश्वत्थं प्राहुः श्रुतयः । 'ऊर्ध्वमूलोऽवा- कशाख एषोऽश्वत्थः सनातनः। ऊर्ध्वमूलमवाक्शाखं वृक्ष यो वेद संप्रति
पृथिवी निवा सिसकल नर पशुमृ गक्रेमिकीटपतङ्गस्थावरान्ततयाघ:शख त्वमिति। तल्लक्षणमेव ब्रह्मेति दर्शयति। तदेव शुकं तद्रूह्म तदेवामृतमुच्यते। तस्मिहोकाः श्रिताः सर्वे तदु नात्यति वश्न एनद्वै तत॥३॥ पूर्वमेव व्याकृतोऽयं मन्त्रः ॥१ ॥ यदिदं किंच जगत्सर्वं प्राण एजति निःमृतम। महन्दयं वज्मुदतम्। अयं मन्त्रः "कम्पनात् '[ व० सू० १।३।३९ ] इतिसूत्रे भगवता माष्यकृता व्याख्यातः । तत्रामुं मन्त्रं प्रस्तुत्य कृत्सस्य जगतोऽस्मिन्न. ङु.्ध्वमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेपां ततो निःसृतानां तस्मा- त्संजातमहाभयनिमित्तमेजनं कम्पनं श्रूयते तच्छासनातिवृत्तीं किं भवि- ष्यतीति महतो मयाद्वज्चादिवोद्यतात्कृत्सं जगत्कम्पत इत्यर्थः । भयाद- स्याग्निस्तपतीत्यादिनैकार्थ्यान्महन्धयं वज्रमुद्यतमिति पञ्चम्पर्थ प्रथमेति। विवृतं चैतच्छृतप्रकाशिकायाम्। प्राण इति सप्तम्यन्तपद्सामर्थ्यात्। स्थितानामित्यध्याहारः। कुतो निःसृतानामित्यपेक्षायां प्रकृतस्यैवोपादा- १ मुद्रित पुस्तके भतोऽन्धकारे स्द्योततु इत पाठः।
Page 94
[अ ० २ वस्ली ३] काठकोपनिषत्। ९३
नत्वमाह-तत इति। एजनं कम्पनमिति। एजृ कम्पन इति हिधातुः। .
प्रत्यवायभयात्स्वस्वकार्यप्रवृत्ति: कम्पनम्। उद्यतवज्चादिव परमपुरुपा- त्संजातेन भयेन कृत्सं जगत्कम्पत इत्यर्थ इति। अ्र महन्दयं वज्जमुद्यत- मिति चत्वारि पदानि पञ्चम्यर्थे प्रथमान्तानि। आद्यं पञ्चम्यर्थपदद्वयं भयवाचि। उत्तरं तु पदद्वयं तद्ध्ेतुभूतप्राणशव्दितपरब्रह्मपरमिति द्रष्ट- व्यम्। केचित्तु विभेत्यस्मादिति भयं भयानकमित्यर्थः । महाभयानको- द्यतवञ्रवत्स्वस्मान्निःसृतं सकलं जगत्माणश्दितः परमात्मा कम्पयति। एजतिरपर्यर्थगर्भ इत्यमुमर्थ वर्णयन्ति। य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ स्पष्टोऽर्थः । 'अत एव प्राणः [व० सू० । ११।२३] इत्यधिकरण- न्यायात्माणशब्दस्य परमात्मपरत्वे न विवाद इति दष्टव्यम् । अयादस्याग्निस्तपति अयान्तपति सूर्यः 1 अयादिन्द्श्र्व वायुश्र् मृत्युर्धावति पश्चमः ॥३ ॥ धावतिशब्द इन्द्रादीनां स्वस्वव्यापारपवृत्तिपरः। शिषं स्पष्टम् ॥ इह चेदशकद्वोदुं पाक्शरीरस्य विस्रसः । शरीरस्य विस्रसो विस्रसनात्पतनात्परागिह लोके ब्रह्म घोुम- शकच्चेच्छक्नुवांश्रेत्। विकरणव्यत्ययश्छान्दसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४ ॥ ततस्तस्माज्ज्ञानाभावान्द्वेतोः सृज्यमानसर्वलोकेषु जन्मजरादिमस्व लक्षणशीर्यमाणत्वाय भवतीत्यर्थः। तस्माच्छरीरपातात्मागेवाऽडत्मज्ञा- नाय यतेतेति भावः ।४ ॥ आत्मनो दुर्बोधत्वमाह- यथादर्शे तथाऽडत्मनि। यथाउदर्शे चन्द्रिकाया अभावान्न स्पृष्टः प्रतिभासस्तथेह लोक आत्मनीत्यर्थः। यद्वा यथाऽSदर्शे दर्पणे प्रतीयमानं वस्तु साक्षाद्दृष्टवस्तु- वत्प्रत्यङ्मुखत्वादिकल्पितार्थानवरुद्धतया नोपलभ्यते तथेहाऽडत्मवि- त्रयिणी प्रतीतिरित्यर्थः ।
Page 95
९४ रङ्गरामानुजविरचित प्रकाशिकासमेता- [अ०२ वल्ली ३]
लोकान्तरेऽपि तथेत्याह- यथा स्वमे तथा पितृलोके। यथा स्वमदर्शनस्य जाग्रद्र्शनवत्सम्यक्तया संशयादिविरोधितया पुनरनुसंधानयोग्यत्वाभावस्तथा पितृलोक इत्यर्थः । यथाऽप्सुपरीव दद्दशे तथा गन्धर्वलोके। यथाजलान्तरस्थवस्तुनो नेतरवत्स्पष्टप्रकाशस्तद्वत्परिद्द्दश इव न वस्तुतः परितो हृश्यत इत्यर्थः। गन्धर्वलोकेऽप्यापततः प्रतीतिमात्र- मित्यर्थः । छायातपयोरि ब्रह्मलोके । ५॥ यथा छायातपयोरमिश्रणे शुद्धातपवर्तिपदार्थवन्नोपलम्म एवं बह्म. लोकेपि न सम्यगुपलम्भः । अतो दुरधिगममात्मत्त्त्वमिति भावः। यद्वा मह्मलोंके यद्यपि छायातपयोर्विविच्योपलम्भवदात्मानात्मस्वरुपयो विविच्योपलम्भः संभवति तथाऽपि नात्रत्यानामात्मतत्त्वं सुलभमिति भाव:॥५॥ इन्द्रियाणां पृथग्भावमुदयास्तमयो च यत॥। पृथगुत्पयमानानां मत्वा धीरो न शोचति ॥ ६ ।। पृथग्भूतानामुत्द्यमानानामिन्द्रियाणाम्। इन्द्रियाणामित्येतह्वेहादी नामप्यपलक्षणम्। उद्यास्तमयी च यत्। यदिति त्वव्ययं यावित्पर्थे। यायुत्पादविनाशी यश्च परस्परवैलक्षण्यलक्षणपृथग्भावश्र तान्सर्वानिन्द्रि- यादिगतान्मत्वा धीरो न शोचतीत्यर्थः। परस्परवैलक्षण्योत्पादविनाशौ- ज्ञानैकाकारे नित्य आत्मनि न सन्तीति ज्ञात्वा न शोचतीत्यर्थः ॥ ६॥ देहाविविक्तप्रत्यगात्मज्ञानेऽपि भगवच्छरणागतिरेवोपाय इति पूर्वो के णवरणमेय प्रतिपादयति- इन्द्रियेश्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥७। अव्यक्तानतु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति॥८ ॥ इन्द्रियेभ्य इत्येतदर्थानामप्युपलक्षण "इन्द्रियेभ्यः परा हयर्था अथे-
Page 96
[अ० २ चल्ली ३] काठकोपनिपत। ९५
भ्यश्र परं मनः" [का० १।३१०] इत्यनेनेकाथ्यात्। सत्वशब्दो बुद्धि- परः 'मनसस्तु परा बुद्धिः" [का० १।३१०] इति पूर्वोक्ततः । अलिङ्गो लिङ्गागम्यः। परत्वं च वशीकार्यतायां विवक्षितम्। परस्य च वशी- करणं शरणागतिरैव। शिषं स्पष्मू ॥७॥८॥ न संदश तिष्ठति रूपमस्य। अस्य रूपं स्वरूपं विग्रहो वा व्यापकत्वादेव संवर्शनविषयेऽभिमुख- तया न तिष्ठतीत्यर्थः । अथवा हशयं नीलरूपादिकं नास्तीत्यर्थः । अत एव - न चक्षुषा पश्यति कश्षननम्। स्पष्टोऽर्थः । हृदा मनीषा मनसाऽभिक्लुप्: । अयमंशः 'सर्वत्र प्रसिद्धोपदेशात्। [ब०सू०१।२१] इत्यत्र व्यासाये: हृदेति मक्तिरुष्यते मनीपेति धृतिः। न संदशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्रनैनम्। इति पूर्वार्धमेकरूपं पठित्वा मत्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह। इति महाभारत उक्तम्। अभिक्लप्तो ग्राह्य इति विवृतः। धृत्या च समा- हितात्मा मक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्ोतीत्पर्थः। 'मक्स्पा त्वनन्यया शक्य: [गी० ११।५४]इत्यनेनैकार्थ्यादिति वेदार्थसंग्रहे प्रति- पावितम्। यएतद्विदुरमृतास्ते भवन्ति । ९ ॥। स्पष्टोडर्थ: ॥ ९॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। ज्ञायतेऽनेनेति व्युत्पत्या ज्ञानानीन्द्रियाणीत्यर्थः ।'सप्तगतेः'[ब० सू० २।४ ।५] इत्यधिकरणे व्यासार्येस्तथा व्याख्यातत्वात्। बुद्धिश्र न विचेष्टते। अध्यवसायोपेतं मन एव बुद्धिशम्वेनोच्यते। अत एव तत्र भाष्यम्।
Page 97
९६ रङ्गरामानुजविरचित प्रकाशिकासमेता- [अ०२ वल्ली३]
अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्धयहंकारचित्तशव्दैर्व्य पदिश्यत इति। तामाहुः परमां गतिम्। शरीरान्तःसंचरणं विहाय मोक्षार्थगमनं परमागतिरिति तत्रैक स्पष्टम् ॥ ४०॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्। ता पूर्वमन्त्रनिर्दिष्टा बाह्याभ्यन्तरकरणधारणां परमां गति योगमिति मन्यन्ते। उक्तं च व्यासारयै: परमा गतिर्योग इत्यर्थ इति। अपमन्तस्तदा भवति। इन्द्रियार्णां निर्व्यापारत्व एवावहितचित्तता भवति। चित्तावधानं किमर्थमित्यत्राSडह- योगो हि प्रभवाप्ययी ॥११॥ योगस्य प्रतिक्षणापायशालितयाSवधानमपेक्षितमिति मावः। यद्वा, तत्रापरमत्ततया भवितव्यमित्यर्थः ॥ ११ ॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा। स्पट्टोऽर्थः । प्राणवादे 'सप्तगतेरविशेषितत्वाच्च [ब०सू०२।४।५] इन्द्रियाणि सतैव 'सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिता: सप्त सप्त'[मु०२। १८] इति सप्तानामेव परलोकगतिश्रवणात्। 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्र न विचेष्टते' इति योगदशामिन्द्रियाणां परिगणितत्वाञ्च सप्तैवेति प्राप्त उच्यते। 'हस्ताद्यस्तु स्थितेऽतो नैवं [त० सू०२।४।६] शरीरे स्थित आदानादिलक्षणकार्योपयोगित्वाद्धस्ता दयोऽपीन्द्रियाण्येव । अतो नैवम्। 'दशेमे पुरुषे प्राणा आत्मैका- दश:' [बृ०३।९४]। आत्मशब्देन मनोडभिधीयते।'इन्द्रियाणि दशैकं च। एकादृशं मनश्रात्रेति श्रुतिस्मृतिभ्यां न्यूनसंख्यावादा उपकारवि शेषाभिप्रायाः । अधिकसंख्यावादाश्ष मनोवृत्तिभेदादिति स्थितम् । अमुमेवार्थमुपपाद्यति-
Page 98
[अ ० २ वल्ली ३] काठकोपनिषत्। ९७
अस्तीति बुवतोऽन्यत्र कथं तदुपलायते॥१२॥ अस्तीति बुवतः शब्दादन्यत्रेत्यर्थः। तस्योपनिषदेकगम्यत्वादि- त्यर्थः ॥ १२॥
1.1.21 अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥ तत्त्वं भावयतीति तत्त्व्रभावोऽन्तःकरणं तेन च परमात्माऽस्तीत्येवोप- लब्धव्यः। वेदान्तवाक्यरस्तीत्युपलब्धस्य मनसाऽप्यस्तीत्येवं मनननिदि ध्यासने कर्तव्ये इत्यर्थः। उभयोर्हेत्वीरुभाम्यां शब्दमनोरूपाभ्यामस्ती- त्येवोपलब्धस्य ज्ञातवतो भुक्ता ब्राह्मणा इतिवदयं निर्देशः। तत्त्वभावः प्रसीदति मनः प्रसन्नं भवति शान्तरागादिदोषं भदतीत्यर्थः ॥१३॥ यदा सर्वे प्रमुच्यन्ते कामा येडस्य हृदि शरिताः ॥ अथ मर्त्योऽमृतो भवति॥ कामादेविपधिविपयकमनोरथा हृद्गता यदा शान्ता भवन्ति तदाडन- न्तरमेवायमुपासकोडमृतो भवति। विश्लिष्टाश्लिष्टपूर्वोत्तर दुरिति भर् भवतीत्यर्थः । अत्र बह्म समश्ुते ।। १४ ॥ अत्रैव ब्ह्मोपासनवेलारया ब्ह्मानुभवतीत्यर्थः । 'समाना चाsडसृत्यु- पक्रमाद्मृतत्व चानुपोष्य' [न० सू० ४।२७ ] इत्यत्र साष्यम्-
विनाशरूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकया श्रुत्येत्यर्थः। अत्र ब्रह्म समश्टुत इति चोपासनवेलायां यो ब्रह्मानुभवस्तद्विषयमित्य मिप्राय इति ॥१४ ॥ उक्तमेवार्थ सादरेणाभ्यसन्नुपदेष्टव्यांश एतावानेवेत्युपसंहरति- यदा सर्वे प्रभियन्ते हृदयस्येह ग्रन्थयः । अथ म्त्योडमृतो भवत्येतावदनुशासनम् ॥ १५ ॥ ग्रन्थयो ग्रन्थिवद्दुर्मोचा रागद्वेपाद्यो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयमुपासकस्य कर्तव्यत्वेनोपद्ेष्टव्यमेतावदेव। १३
Page 99
९६ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० २ वल्ली ३]
अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्धयहंकारचित्तशब्दैर्व्य पदिश्यत इति। तामाहुः परमां गतिम्। शरीरान्तःसंचरणं विहाय मोक्षार्थगमनं परमागतिरिति तत्रैक स्पष्टम् ॥ ४०॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्। तां पूर्वमन्त्रनिर्दिष्टां बाह्याभ्यन्तरकरणधारणां परमा गति योगमिति मन्यन्ते। उक्तं च व्यासारयै: परमा गतिर्योग इत्यर्थ इति। अप्रमत्तस्तदा भवति। इन्द्रियार्णां निर्व्यापारत्व एवावहितचित्तता भवति। चित्तावधानं किमर्थमित्यत्राSडह- योगो हि प्रभवाप्ययौ॥११॥ योगस्य प्रतिक्षणापायशालितयाऽवधानमपेक्षितमिति माव:। यद्दा, इष्टप्रभवानिष्टाप्ययलक्षणसर्वपुरुषार्थसाधनत्वाद्योगस्य तत्राप्रमत्ततया भवितव्यमित्यर्थः ॥११॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा। स्पष्टोडर्थः । प्राणवादे 'सप्तगतेविशेषितत्वाच्च [ब०सू०२।४।५] इन्द्रियाणि सतैव सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिता: सप्त सप्त'[मु०२। १८] इति सप्तानामेव परलोकगतिश्रवणात्। 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्र न विचेष्टते' इति योगदशामिन्द्रियाणां परिगणितत्वाञ्च सप्तैवेति प्राप्त उच्यते। 'हस्तादयस्तु स्थितेतो नेव [न० सू०२।४।६] शरीरे स्थित आदानादिलक्षणकार्योपयोगित्वाद्धस्ता. दयोपीन्द्रियाण्येव। अतो नैवम्। 'दशेमे पुरुषे प्राणा आत्मैका- दश:' [बृ०३।९४]। आत्मशब्देन मनोडभिधीयते। 'इन्द्रियाणि दशैकं च। एकादृशं मनश्रात्रेति श्रुतिस्मृतिभ्यां न्यूनसंख्यावादा उपकारवि- शेषाभिप्रायाः । अधिकसंख्यावादाश्व मनोवृत्तिभेदादिति स्थितम् । अमुमेवार्थमुपपाद्यति-
Page 100
[अ० २ वल्ी ३] काठकोपनिपत्। ९७ अस्तीति ब्ुवतोऽन्यत्र कथं तदुपलायते ॥ १२॥ अस्तीति त्रुवतः शब्दादन्यत्रेत्यर्थः। तस्योपनिषदेकगम्यत्वादि- त्यर्थः ॥ १२॥
2f अस्तीत्यवोपलब्धस्य तत्त्वभावः प्रसीदति ॥१३॥ तत्वं भावयतीति तत्त्वभावोऽन्तःकरणं तेन च परमात्माऽस्तीत्येवोप- लब्धव्यः। वेदान्तवाक्यरस्तीत्युपलब्घस्य मनसाऽप्यस्तीत्येवं मनननिदि- ध्यासने कर्तव्ये इत्यर्थः। उभयहित्वारुभाभ्यां शब्दमनोरूपाभ्यामस्ती- त्येवोपलब्धस्य ज्ञातवता भुक्ता ब्राह्मणा इतिवदयं निर्देशः। तत्त्वभावः प्रसीदति मनः प्रसन्नं भवति शान्तरागादिदापं भवतीत्यर्थः ॥१३॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि शिताः ॥ अथ मर्त्योऽमृतो भवति ॥ कामादेविषविविषयक्रमनोरथा हृद्गता यदा शान्ता भवन्ति तदाऽन-
भवतीत्यर्थः। अत्र बह्म समश्ुते।। १४ ।। अत्रैव ब्रह्मोपासनवेलाया वह्मानुभवतीत्वर्थः। 'समाना चाऽडसृत्यु- पक्रमाद्मृतत्वं चानुपोष्य' [ब० सू० ४।२१७ ] इत्यत्र आष्यम्-
विनाशरूपं प्राप्यते तदुच्यते यदा सर्वे प्रमुच्यन्त इत्यादिकया श्ुत्येत्यर्थः । अत्र ब्रह्म समश्तुत इति चोपासनवेलायां यो ब्रह्मानुभवस्तदविषयमित्य- मिप्राय इति ॥१४ ॥ उक्तमेवार्थं सादरेणाभ्यसन्नपदेष्टव्यांश एतावानेवेत्युपसंहरति- यदा सर्वे प्रभियन्ते हृदयस्यह ग्रन्थयः । अथ मर्त्योडमृतो भवत्येतावदनुशासनम् ॥ १५॥। ग्रन्थयो ग्रन्थिवद्दुर्मोचा रागद्वेपादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयमुपासकस्य कर्तव्यत्वेनोपदेष्व्यमेतावदेव। १३
Page 101
१८ रङ्गरामानुजविरचितप्रकाशिका समेता - अ०२ वल्ली ३]
वक्ष्यमाणमूर्धन्यनाडीनिष्क्रमणार्चिरादिगमनाविकं न साधककृत्यं किंतू- पासनप्रीतभगवत्कृत्यमिति माव: ॥१५ ।। विमुक्तश्र विमुच्यत इति पूर्वमूक्तम्। द्वितीर्या परममुक्तिमाह- शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। हृद्यस्य प्रधाननाऊ्: शतं चैका व सन्ति। तार्सा मध्य एका सुपु- म्णाख्या ब्रह्मनाडी मूर्धानमभिनिःसृता।
तया नाडयोध्व म्ह्मलोंकं गच्छन्देशविशेष विशिषत्रह्मापाप्तिपूर्षकरुव स्वरूपा विर्भावलक्षणां मुक्ति प्रामोति। विष्वङ्डन्न्या उत्क्रमणे भवन्ति ॥ १६ ॥ • अत्यास्तु नाड्यो विष्वगुत्क्मणे नानाविधसंसारमार्गोत्क्मणायोप- युज्यन्ते। विष्वग्वितता नाड्योऽन्योत्क्रमण उपयुज्यन्त इति व्यासायै- धर्याख्यातम्। इदं च वाक्य भगवता बादरायणेनोत्क्रान्तिपाठे चिन्तितं तथा हि-मूर्धन्यया शताधिकया नाड्या विदुषो गमनमन्यामिरविदुष इति नियमो नोपपद्यते। नाडीनां भूयस्त्वादतिसूक्ष्मत्वाच्च दुर्विवेच्वतया पुरुषेणोपादातुमशक्यत्वात्। तयोर्ध्वमायन्नसृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्तीति याहच्छिकीमुत्क्ान्तिमनुवद्तीति युक्तमित्येवं पूर्व- पक्षे प्राप्ते। 'तदोकोग्रज्वलनं तत्पकाशितद्वारो विद्यासामर्थ्यात्तच्छेषग- त्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकतया' [ ब० सू० ४।२१७] इति सूत्रेण सिद्धान्तितं तस्य चायमर्थः । तदोको जीवस्य स्थानं हृदयमग्रे ज्वलनं प्रकाशनं यस्य तदिदमग्रज्वलनं तेनाग्रज्वलनेन प्रका- शितद्वारो भवति।'तस्य हैतस्य हृदयस्याय्ं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्धो वाऽन्येभ्यो वा शरीरदेशेभ्यः'[ बृ० ४।४।२ ] इति श्रुतेः । एतावद्विद्वदविद्वत्वसाधारणम्। विद्वांस्तु शता- धिकया मूर्धन्ययैव नाड्योत्कामति। न चास्या नाड्या विदुषो दुर्विवे- चत्वम्। विद्वान्हि परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामरथ्याद्विद्ा- शेष भूततयाSSत्मनोऽत्यर्थप्रियगत्यनुस्मरणयोगाज्च प्रसन्नेन हार्देन परम- पुरुषेणानुगृहीतो भवति। ततस्तां नाडीं विजानातीति तया विदुषो गतिरूपपद्यते। प्रकृतमनुसरामः ॥ १६॥
Page 102
[अ० २ वल्ली ३] काठकोपभिपत्।
अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः॥। स्पष्टोऽर्थः । तं स्वाच्छरीगत्प्रवृहेन्मुआ्दिवेषीकां धर्येण॥ यथा देवदत्त: स्वाच्छरीराद्विलक्षण इत्युक्ते यथा स्वशब्दः सममि- व्याहृतवेवदत्तसंबन्धिपरामर्शी, एवं पूर्वनिर्दिष्टान्तरात्मसंबन्धिपरामर्शी स्वशब्दः। ततश्षायमर्थः। तं जनानामन्तरात्मानं तच्छरीरभूताज्जनश- व्दिृताच्वेतनात्मवृहेद्विविच्य जानीयात्। 'जुषं यदा पश्यत्यन्यमी- शम् [श्वे० ४।७] इति श्रुत्युक्तरीत्या धारकत्वनियन्तृत्वशेषत्वादिना विलक्षणं जानीयादित्यर्थः। मुख्लात्तृणविशेषादिषीकां तन्मध्यवर्तिस्थूल- तृणविशेषमिद धैर्षेण ज्ञानकौशलेनेति पूर्वेणान्वयः । तं विदाच्छुक्ममृतं तं विय्याच्छुक्ममृतमिति।१७॥ उक्तोऽर्थः । द्विर्वचनमुपवेशसमाप्त्यर्थम् ॥१७॥ उपसंहरति- मृत्युप्रोक्तां नचिकेतोऽथलब्ध्वा विद्यामेतां योग- विधिं च कत्स्म।I बह्मप्राप्तो विग्जोऽृद्विमृत्यु: नचिकेतो सृत्युप्रोक्तामात्मविद्या यदा पश्चत्याझ्युक्तं योगविर्धि थ लब्ध्वा प्राप्य 'परें ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते [छा० ८) ३।४ ] इति श्रुत्युक्तरीत्या बह्म प्राप्याऽडविर्भूतगृणाष्टकोऽभूदित्यर्थः। अन्योऽप्येवं यो विदध्यात्ममेव॥। ३८॥ अध्यात्मविर्द्या योऽन्योऽपि वेत्ति सोऽप्येवमेव नचिकेता हष मव- तीर्थः ॥१८ ॥ शिष्याचार्ययो: शास्त्रीय नियमातिलकघनकृतदोपप्रशमनार्थ शान्ति- रुच्यते- स ह नाववतु। स विद्याप्रकाशित: परमात्मा हशब्दः प्रसिद्धी नो शिष्याचार्यावयतु स्वस्वरूपप्रकाशन रक्षतु।
Page 103
१०० रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ० २ वल्ली ३]
सह नौ भुनक्तु। विद्याप्रचयद्वाराऽडवां संहैव परिपालयतु। यदा विभ्लेषमन्तरेणsडवा सहितावेव यथा स्याव तथा पाउयत्वित्यर्थः ॥ सह वीर्य करवावहै। सनियमविद्याप्रदानेन विद्यायाः सामर्थ्यं निष्पाद्यावहै नियमामावे विद्या निर्वीर्या भवतीति भावः ।। तेजस्विनावधीतमस्तु । नावावयोर्यवधीतं तप्तेजस्व्यस्तु। वीर्यवत्तरं भवत्वित्यर्थः । मा विद्विषावहै॥ १९ ॥ यश्राधर्मेण विन्रूते यश्चाधर्मेण पृच्छति। तयोरेकतरः प्रेति विद्वेषं चाधिगर्छति॥ इतिस्मृत्यु क्तरीत्याऽ्धर्मध्ययनाध्यापननिमित्तो दवेप आवयोमां भूवि त्यर्थ: ॥ १९ ॥ ॐ शान्तिः शान्तिः शान्तिः । इति काठकोपनिषदि द्वितीयोऽध्यायः ॥२॥ त्रिर्वचमं दोपशान्त्यर्थम्। इयं चोपनिषन्भगवत्परैवेति मगवता बाद्रायणेन समन्याध्याये त्रिभिरधिकरणनिर्णीतम्। तत्र 'यस्य म्रह्म च क्षत्रें च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः [क०१।२।२५] इतिवाक्ये बह्मक्षभ्रिययोरोदनत्वनिरु पणेन भोज्यत्वस्य वा भोग्यत्वस्य वा प्रतीतस्तत्प्रतिसंबन्धी यस्पेति षष्चन्तयच्छद्दनिर्दिष्टो भोक्ता जीव एव स्यात्परमात्मनो ,मोक्तृत्वासं- भवादिति पूर्वपक्षं कृत्वा 'अत्ता चराचरग्रहणात्' 'प्रकरणाच्च' 'गुहां प्रविषावात्मानौ हि तद्दर्शनात्' 'विशेषणाच्च' [ ब० सू० १।२ ९। १०।११। १२ ] इति चतुर्भि: सूत्रैः सिद्धान्तः कृतस्तेषां चायमर्थः। उभे भवत औदन इत्योदनप्रतिसंबन्धितया प्रतीयमानोऽत्ता परमा- त्मैव, बह्मक्षअशब्दगृहीतनिखिलचराचरसंहर्तृत्वस्यात्र मन्त्रे प्रतिपाद- नात्। अत्र म्रह्मक्षत्रशब्दयोनिखिलचराचरलक्षकत्वप्रकार ओदनश- वदृस्य विनाश्यत्वलक्षकत्वप्रकारश्रैतन्मन्त्रव्याख्यानावसरे दर्शितस्तत्रै- वातुसंधेयः। 'महान्तं विभुमात्मानम्' [क० १। २। २२] इति प्रस्तुत- त्वैन तस्य ब्रह्मप्करणमध्यगतत्वाच्च। ननु ऋतं पिबन्तावित्युस्तरमन्त्रे कमं-
Page 104
[अ०२ वल्ली ३] काठकोपनिषत्। १०१
फलभोगान्वयिनोरेव प्रतिपादनात्परमात्मनश्ष जीववत्कर्तृत्वेन वाऽन्त :- करणवत्करणत्वेन वाऽन्वयासंभवात्परमात्मप्रकरणमध्यगतत्वं नास्तीत्या- शङरक्योक्तं गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति। गुहां प्रविष्टी जीवपरमात्मानावेव। तयोरेवास्मिन्प्रकरणे गुहापवेशदर्शनात्। 'तं दुर्दशं गूढमनुप्रविष्टं गुहाहितम्' [ क०१।२।१२] इति परमात्मनो गुहा- प्रवेश: श्रूयते 'या प्राणेन संभवत्यदितिर्देवतामयी गुहां प्रविश्य' [क०२। १। ७] इति जीवस्यापि गुहाप्रवेशो द्ृश्यते । अतो द्वयोरपि गुहा- प्रवेशदर्शनात्तयोरेव पिबदपिबतोश्छत्रिन्यायेन ऋतं पिचन्ताविति निर्दे- शस्य संभवात्। ऋतं पिबन्ताविति मन्त्रेण न परमात्मप्रकरणविच्छेद: शक्यशङ्क: । 'विशेषणाञ्च' अस्मिन्प्रकरणे 'बह्मजज्ञं देवमीडयं विदि- त्वा' [क०१।१।१७] इति जीवपरयोरुपास्येत्वोपासकत्वादिना विशेषित-
न्ताविति मन्त्रस्य जीवपरपतिपाद्कत्वमेव। अतो यस्य ब्रह्म च क्षत्रं चेति मन्त्र: परमात्मपर एवेति निर्णीतम्। तथाऽ्ङगुष्ठमात्र: पुरुषी मध्य आत्मनि तिष्ठति। 'ईशानो भूतभव्यस्य न ततो विजुगुप्सते' [क० शह। १२] इति मन्त्रेऽङगुष्ठमात्रतया निर्दिश्यमानो जीव एव। अङ्गुष्ठमात्र- त्वस्य जीवधर्मतया 'प्राणाधिपः संचरति स्वकर्मभिः' [श्वे० ५।७] 'अङ्गुष्ठमात्रो रवितुल्यरूपः' [श्वे० ५।८] अङ्गुप्ठमातं पुरुषं निश्वकर्ष यमो बलात्। इति श्रुतिस्मृतिप्रसिद्धत्वादिति पूर्वपक्ष कृत्वा 'शब्दादेव प्रमितः' 'हृद्यपेक्षया तु मनुष्याधिकारत्वात्' [ ।३।२४२५]'कम्पनात्' 'ज्योतिदर्शनात्' [ब० सू० १।३ ३९।४०] इति चतुर्भिः सूत्रैः सिद्धान्तः कृतस्तेषां चायमर्थः। अङ्ग्ठप्रमितः परमात्मा शब्दादेव, ईशानो भूत- मव्यस्येतीश्वरत्ववाचकेशानशद्दादेव। ननु कथं ता्हि परमात्मनोऽङुष्ठ- मात्रत्वमित्यत्राऽडह-हृद्यपेक्षया तु मनुष्याधिकारत्वात्। हृदि हदये परमात्मनो वर्तमानत्वात्तद्पेक्षयाऽङुष्ठमात्रत्वमुपपद्यते। न च खरतुरगा-
कथमङ्गष्वमात्रत्वमिति वाच्यम्। उपासनातिशायिशास्त्रस्य मनुष्याधि-
णस्य हृदयावच्छेद्निबन्धनाह्ु्ठप्रमितत्वे नानुपपत्तिः। 'कम्पनात्' 'यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम्। महन्दयं वज्चमुद्यतम्'[क०२३।२]
Page 105
१०२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [अ०२ वसती ३]
.तस्य च परमात्मधर्मत्वस्य 'भीपाऽस्माद्वातः पवते' इत्याविश्ुति प्तिपत्र त्वादङ्ुषप्रमितः परमात्मा। ज्योतिर्दर्शनात्।'न तत्र सूर्यो भाति न चन्द्र
तिपादनात्, ताद्ृशज्योतिःसंबन्धस्याथर्वणे ब्रह्मसंबन्धितया प्रतिपादित- त्वाञ्चाङ्गप्वप्रमितः परमात्मेत्यर्थः । तथा 'इन्द्रियभ्यः पराह्यर्था अर्थे- म्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः' [क०१।३। १०] 'महतः परमध्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काठा सा परा गतिः'[क०१।३।११ ] इति वाक्ये साख्यप्रक्रिया-
प्रधानमेवाव्यक्तशब्देनाभिधीयत इति 'आनुमानिकमप्यकेपामिति चेदिति सूत्रखण्डेन पूर्वपक्षं कृत्या शरीररूपकविन्यस्तगृहीतेरदशयति च '[ब० सू० १। ४।१ ] 'सूक्ष्मं तु तदर्हत्वात' [व० सृ० ४।४।२] 'तदर्धानत्वादर्थवत्' [न०सू०१।४।३] 'ज्ञेयत्वावचनाञ्च' [ब०सू० १।४।४] 'वद्तीति चेन्न प्राज्ञो हि प्रकरणात' [ब० सृ० १।४।५] 'त्रयाणामेव चैवमुपन्यास: प्रश्नश्' [न० सू० १।४।६] 'महद्वच्न'। त्र० सू० १।४।७] इति सप्तभि: सूतैः सिद्धान्तः कृतस्तेषां चायमर्थः । आनुमानिकं नाव्यक्तशब्दाभिलप्यम्। उपासनोपयोगिवशीकरणाय 'आत्मान=राथ- नं विद्धि शरीरं रथमेव च'[क.१।३।३।]इतिवाक्ये रथरथ्यादिभावेन रूपि- तेष्वात्मशरीरबुद्धिमनइन्द्रियविधयेषु रथरूपकात्मना शरीरं रथमेव चेति विन्यस्तस्य शरीरस्येवाव्यक्तशव्देन ग्रहणसंभवात। अस्मिंश्र प्रक- रण इन्द्रियादिवशीकरणप्रकारस्यैव 'यच्छेद्वाऊनसी प्राज्ञः'[क० १।३।१३ ] इत्यादो दर्शनासदनुसारेणाव्यक्तशब्देन शरीरमेव गृह्यते। ननु कथमव्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानं तत्राऽड्ह- सूक्ष्मं तु तदर्हत्वात्। भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति। ततश्र कारणवाचिनाऽव्यक्तशब्देन स्थूलं शरीरमेवोपचारादुच्यत इत्यर्थः । ननूक्तशब्दस्य मुख्य एवार्थोडस्तु। कुतः स्थूलशरीरे लक्षणाडभ्युपगन्तव्ये- त्यत्राऽडह-तदर्हत्वादिति। स्थूलशरीरस्येव कार्यार्हत्वात्तस्पैव वशी- कार्यत्वाय प्रतिपादनस्यापेक्षितत्वादव्यक्तशब्देन कारणवाचिना स्थूल- शरीरलक्षणोचितेति भावः। ननु यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते
Page 106
अ०२ वल्ली ३] काठकोपनिपत्। १०३
अस्मन्मतऽव्यक्तस्य परमात्माधीनतया तद्धिष्ठितत्वेन प्रयोजनवत्त्वमस्ति सांख्यमते तद्नभ्युपगमात्तस्य निप्प्रयोजनत्वमिति भावः । ज्ेषत्वा-
व्यकताव्यक्तज्ञविज्ञानान्मोक्षं वदद्भिस्तान्त्रिकैस्तेर्षा सर्वेषा ज्ञेयत्वाभ्युप- गमात्। न चास्य ज्ञेयत्वमुच्यते। अतो न तन्त्रसिद्धस्येह ग्रहणम्। वद्तीति चेन्न प्राज्ञो हि प्रकरणात।'अशब्दमंस्पर्शमरूपमध्ययं तथाऽरसं नित्यमगन्धवञ्च यत। अनाद्यनन्तं महतः परं धुवं निचाय्य तं सृत्युमुखात्प्रमुच्यते' [क० २३१५]। इत्युक्तस्य ज्ञेयत्वमनन्तरमेव श्रुतिर्वदतीति चेन्न। सोऽध्वनः पारमामाति तद्रिष्णोः परमं पदम्। [क० १।३।९] इति प्राज्ञस्य परमात्मनः प्रकरणात्स एवाश्मस्पर्श- मिति मन्त्रे ज्ञेयत्वेन निर्दिश्यते न तन्त्रसिन्दमव्यक्तम। त्रयाणामेव चैवमुपन्यासः प्रश्नश्र। अस्मिन्प्रकरण उपायपयपितृणां त्रयाणा- मेव ज्ञयत्वोपन्यासः। अन्यत्र धर्मादन्यत्राधर्मादिति प्रश्नश्र वृश्यते नाव्यक्तादेः। महद्च्च। यथा 'बुद्धेरत्मा महान्परः'[क० १।३। १० ] इत्यत्राSSत्मशब्दसामानाधिकरण्यान्न तन्त्रसिद्धं महत्तत्व गृह्यते। एवमव्यक्तमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम। अत •इयमुपनिषत्सर्वापि परमात्मपरेति त्रिभिरधिकरणै- र्निर्णीतम् ॥१९॥ इतिश्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्व भौमश्रीमदङ्गरामा- नुजमुनिवरविरचितकाठकोपनिषत्प्रकाशिकायां द्वितीयाध्याये तृतीया वल्ली समाप्ता ।।
क्षेमाय यः करणया क्षितिनिर्जराणां भूमावजम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवाता रामानुज: स मुनिराद्वियतां मदुक्तिम् ॥
इति कठवलीप्रकाशिका समाप्ता।
Page 108
ॐ तत्सङ्वह्मणे नमः । प्रश्नोपनिषत्।
रङ्गरामानुजविरचित प्रकाशिकासमेता ।
अतसीगुच्छसच्छायमश्चितोरःस्थलं थरिया। अअ्जनाचलशृङ्गाभमञ्जलिर्मम गाहताम् ॥१॥ सुकेशा च भारद्वाजः शैव्यश्र सत्यकामः सोर्यायणी च गार्ग्यः । कौशल्यश्राऽऽश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः ॥ मरद्वाजस्यापत्यं पुमान्भारद्वाजः। नामतः सुकेशा। शिबेरपत्यं शैव्यः। नामतः सत्यकामः । सूर्यायणस्यापत्यं सीर्यायणिः । ईकारश्छान्दसः । गोत्रतो गाग्यः । कौशल्यो नामतः । अश्वलायनस्यापत्यमाश्वलायनः । मार्गवो गोत्रतः । विदर्भस्यापत्यं वैदर्भिः । कबन्धी नामतः। कात्पापनो गोत्रतः । ते हैते बह्मपरा ब्रह्मनिष्ठाः परं ब्ह्मान्वेषमाणाः । ते ह प्रसिद्धाः । एत उक्ताः सुकेशसत्यकामसौर्योयणी कौशल्यमार्ग- वकबन्धिनः पउुषयो बह्मपरा वेदेकशरणाः। बक्मनिषठा वेदार्थतात्पर्य- वन्तः।यद्वा बह्मपरा ब्रह्मज्ञानतत्पराः। ब्रह्मनिष्ठास्तपेनिषाः। वेवस्तस्व तपो व्रह्मेत्युक्तेः। परं बह्म परमुत्कृष्ट निरुपचितं ब्रह्म स्वरूपतो गुणतश्र मृहन्दूतं वस्त्वन्वेषमाणा विजिज्ञासमाना इत्यर्थः । एष ह वैं तत्सर्वं वक्ष्यतीति ते समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १॥ हशब्द: प्रसिद्धौ। वेशब्दोऽवधारणे। एषोऽस्मद्बुद्धी वर्तमान: परब्रह्म- वित्वेन प्रसिद्ध: पिप्पलाद एव। पण्णामस्माकं जिज्ञासितानर्थान्यकुं प्रम- वतीति पर्यालोग्य समिन्दाराघ्युपायनपाणय: शास्त्रटष्टेन विधिना पूज्पं पिप्पलावमुपगता इत्पर्थ: ।। १ । तान्ह स ऋषिरुवाच। स्पषटोऽर्य: । भूय एव तपसा ब्ह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ पथाकामं
Page 109
१०६ प्रभ:]
प्रश्नान्पृच्छत यदि विज्ञास्याम: सर्व ह वो वक्ष्याम इति ॥२ ॥ यद्यपि पूर्वमेव भवन्तस्तपोब्रह्मचर्यादिसंपन्नास्तथाऽपि बह्मविद्याग्- हणार्थं पुनरपि शरीरशोषणादिलक्षणतपमा योषित्म्मरणकीर्तनकेलि- प्रेक्षण गुह्य भाषण संकल्पाध्यय साय क्रिया निर्वृत्तिलक्षणाष्टविधमेथुनवर्जन रूपत्रह्मचर्येणाSSस्तिक्यबुद्धिलक्षणया श्रद्धया युक्ता: सन्तः संवत्सर- मात्रं वासं कुर्वनत्विति यावत। ततः स्वच्छानुराधन प्रष्टव्यानर्थान्पृच्छत। यदि तानर्थान्वयं विज्ञास्यामस्तदा वञ्चनमन्तरण सर्व वक्ष्यामः ।यद्य. स्मासु ज्ञातृत्वनिश्रयाभावेन संवत्सरब्रह्मचर्यतपआदो बहुकेशसाध्ये प्रवृत्तिर्न युष्मभ्यं रोचते तदा सुखन गन्तव्यमिति भावः । ततश् गुरो- शातृत्वपर्राक्षामन्तरेणैव शुभ्रूषा कार्येत्ययमर्थः शिक्षिती भवति। तथा गुरोरपि शिष्यसंग्रहे नातीवाऽडदरः कर्तव्य इत्यर्थः सूचितः॥२॥ c अथ कबन्धी कात्यायन उपन्य पपच्छ। संवत्सरवासानन्तरमन्यैरनुज्ञातः कबन्धी पिप्पलादम्य समीपं यधावि- युपगम्य पप्रच्छ । किमिति- अगवन्कुतो ह वा इमाः पजाः प्रजायन्त इति॥ ३॥ : स्पष्टोऽर्थः ।. तस्म स हावाच। एवं पृष्टवते कबन्धिने पिप्पलाद उवाच प्रजाकामो ह वे प्रजापतिः स तपोऽतप्यत। अत्र प्रजापतिशब्दो ब्रह्मपरः । अम्य कारणवाक्याद्यासायैः सर्व्या ख्यानाधिकरणेऽत्रत्यप्रजापतिशब्दस्य ब्रह्मपरत्वस्य समर्थितत्वात्। स प्रसिद्द्: प्रजापतिः परमात्मा प्रजासृष्टिकामनया स्रष्टव्यालोचनरूप तपोऽतप्यत कृतवान्। स तपस्तप्त्वा मिथुनमुत्पादयते रयिं च प्राणं चेति। एवं सष्टव्यं पर्यालोच्य रतिप्राणशब्दितप्रकृतिपुरुषारयं मिथुनमुस्या- दितवानित्यर्थः । केनाभिप्रायेणेत्यत आह-
Page 110
[१ प्रश्र:] प्रश्नोपनिषत्
एतो मे बहुधा प्रजाः कग्ष्यित इति ॥४॥ प्रजाकामस्य ममेंती रयिप्राणावनेकप्रकारान्प्राणिन उत्पादयिष्यत इत्य भिपायेणेत्यर्थः ।४ । रयिप्राणशब्दार्थमाह- आदित्यो ह वे प्राप्पो गयरेव चन्द्रमाः । आदृत्त इत्यादित्यो भोक्ता स एव प्राण इत्यर्थ: । आदित्यशब्वितम - कृप्रतिद्वन्द्वतया भोग्यवर्गस्य चन्द्रत्वेन निर्देशः। तस्य प्राणशब्दितत्वे हेतु: समनन्तरमेव वक्ष्यति। रायिरेव चन्द्रमा इत्यस्याभिपेतमर्थमाह रयिर्वा एतत्सर्व यन्मूतं चामूर्तं च तस्मान्मृर्तिग्व रयिः ॥ ५ ॥ मूर्तिशब्देन पृथिव्यप्तेजासि उच्यन्ते। अमूर्तशब्देन वाय्वन्तरिक्षे उच्येते। सर्वमवि भूतजातं रयिरत्रं भोग्यमित्यर्थः। तस्मान्मूर्तशब्व्त पाश्चभौतिकं शरीरं सवं भो्वेग्यमेवेत्यर्थः।५॥ अथाऽSदित्यः । रविनिरूपणानन्तरमादित्यो वर्ण्यत इति शेषः । आदित्यशव्दितम्य भोक्तु: प्राणशक्दितत्वे हेतुरुच्यत इति यावत। उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणा- नश्मिषु संनिधनते। यद्दक्षिणां यत्मतीचीं यदुदीचीं यद्धो यदूर्ध्व यदन्तग दिशो यत्सर्व पकांशयति तेन सर्वान्प्राणान्श्मिषुं संनिधते ॥ ६ ॥ अय जीवः सुपुप्तिस्थानात्प्रबुध्यमान एव सन्प्राची दक्षिणां प्रतीपी
धर्ममतज्ञानाख्यश्मिद्वारा विभर्ति तस्मात्स एव सर्वमाणशञव्दिसेन्द्रिय- निर्धोदृत्वात्म्ाण इत्यर्थः । प्राचीं दिशं प्रविशति प्रकाशयति प्राच्यान्प- वार्थानुपलमत इति यावत्। तेन तस्मान्धेतोः प्राध्यान्प्राणाब्रश्मिषु संनिधत्ते पूर्वदिग्वर्तिपदार्थप्रकाशक चक्षुरादीन्पाणान्धर्मभूतज्ञानार्पर- शिमिमुखेनाधितिष्ठति प्रेस्यति। धर्मभूतज्ञानेन तद्धिष्ठातृत्वलक्षणसंनिधा- नाभावे चक्षुराविना करणेन रूपासपलम्भो न स्पात। चेतनानिषि
Page 111
१०८ रङ्गरामानुजविरचित प्रकाशिका समेता- [१ प्रश्न:]
तस्य करणस्य कार्यासमर्थत्वादिति मावः। यदक्षिरण यत्पतीचों यदु- दीचीमित्यादौ यदक्षिणां प्रविशति तेन दाक्षिणात्यान्माणावश्मिषु संनि धत्ते यत्प्रतीचीं प्रविशति तेन प्रतीच्यान्प्राणाव्रश्मिषु संनिधत्त इत्यादि शेष: पूरणीयः । लाघवार्थं प्रतिपर्यायं तदनुक्तिः । अत्र प्रजाः सिमृक्षुः परमात्मा प्रकृति पुरुषं च ससर्जेति वक्तव्ये परोक्षरूपेण रयिप्राणश- वदाभ्यां तदभिलापो रयिमाणयोश्रन्द्वादित्यशब्दाभ्यामभिलापश्र परो- क्षप्रिया इव हि देवा: [ऐत०१।३] इति रीत्या रहस्यार्थस्य स्फुटतरोपवे शानर्हत्वसूचनार्थः ॥ ६ ॥ आदित्यो ह वै प्राण इति प्राणादित्यशब्दनिर्दिष्टस्य मोकुवर्गस्पोद- यमानस्य पशमात्मात्मकतामाह- स एष वैश्वानरो विश्वरूपः प्राणोऽगिरुदयते। यः प्रामस्तुतः प्रजापतिशव्दितो विश्वेषां नर्णा नेतृत्वेन वेश्वा- नरशस्दवाच्य: तर्वशरीरतया विश्वरूपश्वितः । अग्रनेतृत्वादिगृणयोगे- नागरिशध्दिस: स एप म्राक्पजापतिशब्दनिर्दिष्टः परमात्माSSदित्यो ह वे प्राण इति प्राणशद्दितभोक्तृरूप: सन्नुदयत इत्पर्थः । अय च मम्त्रो वैश्वानराधिकरवो परमात्मपरतया सिद्धवत्कृत्य भगवता माष्यकृता व्यवहृतः । अत एवंव्याउयातमिति दष्टव्यम्। तदेतदृचाऽभयुक्तम् ॥ ७॥
विश्वरूपं हरिणं जातवेदसं परायणं ज्योति- रेकं तपन्तम्। सहस्त्ररश्मिः शतघा वर्त- मान: प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥ विश्वरूपं सर्वशरीरम्। आतानि वेदांसि यस्मात्स जातवेदा:। प्रज्ञा व तस्मात्प्रसृता पुराणी [श्वे० ३। १८ ] इति सर्वज्ञानोत्पादकं परा- यणं परमपाप्यं आपोति: सर्वप्रकाशकं दीप्तिमन्तमेकमद्वितीयं तपन्तं जठ- राग्न्यादिरूपेण तपन्तय्। संतापयति स्वं वेहमापादतलमस्तकम् । अहं वैश्वानरो मूत्वा प्राणिनां वेहमाभित: ।
Page 112
[१प्रश्न:] प्रभोपनिपत् । १०९
प्राणांपानसमायुक्तः पचाम्यन्नं चतुर्विधम् [गी० १५ । १४ ] इति भ्रुतिस्मृतिभ्याम्। हरिणं हरिमित्यर्थः । हरिशब्दस्य नान्तत्वं छान्दसम्। वर्तमानोऽनुवर्तमानस्तद्विधेयतया तच्छरीरभूत इति। सहस्ररश्मिर्नाना- विधविषयकज्ञानवान्। प्रजानां स्थावरजङ्गमात्मकानां प्राणो धारक: सूर्यवत्प्रकाशकः । एष जीवः शतधा देवमनुष्यादिनानाविधवेहात्माभि- मानशालितया सुषुप्तिस्थानादुद्यते सर्गकाल उद्यत इति वाऽर्थः ॥८। एवं सूक्ष्मप्रकृतिजीवशरीरकस्य प्रजापतेरयिप्राणश्दितप्रकृतिपुरुष- रूपभोग्यभोक्त्ात्मना विभागमुपवर्ण्य तस्यैव परमात्मनोऽखण्डकालरू- पेण स्थितस्य खण्डकालरूपेण विभागं दर्शयिष्यंश्रित्तावतरणाय वोपा- सनार्थं वा संवत्सराख्यप्रजापतेरदक्षिणोत्तरायणात्मक रायेप्राणरूपं विभागं तथा मासाख्यप्रजापते रयिप्राणशब्दितं कृष्णशुकपक्षात्मकं विभागमहो- रात्रात्मककालरूपप्रजापते रयिप्राणात्मकं रात्रयहरात्मकं विभागं तत्म्रस- प्ेन रयिशब्दार्थद् क्षिणायनकृष्णपक्षरात्रयपेक्षया पाणशब्दार्थभूतोत्तराय- पशुक्ृपक्षे दिवसानामुत्कर्यं च वक्तुमारभते- संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । वत्सराख्यकालरूपस्य प्रजापतेर्दक्षिणोत्तरश्दिते दवे अयने सूर्यगत्या- धारभूते द्वे रुपे स्तः । तये ह वे तदिष्टापूर्ते कतमित्युपासते। ते .चान्द्र- मसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते।। ह वा इति प्रसिद्धौ स्मरणे वा। अयमर्थः । ये पुरुषा इषापूर्ते स- मिति तत्कर्मोपासत इत्यर्थः । 'य इमे ग्राम इषापूर्ते वत्तमित्युपासते'
पू्त खातादि। इति शब्द: प्रकारवचनः । यागदानवापीकूयाविकं कर्म येऽनुतिष्ठन्ति ते चन्द्रमसः संबन्धिनं लोकममिजयन्ते प्राप्ुवन्ति त एव पुनरावर्तन्ते। न त्वात्मोपासका उत्तरमार्गेण गता इत्यर्थ:॥ तस्मादेक ऋषयः प्रजाकामा दक्षिणं प्रतिप- यन्ते एष वै रयिर्यः पितृयाणः ॥९॥ तस्माद्ेमोरेके कर्मठा: प्रजास्वर्गादिलक्षणक्षुवफलकामा शषयः
- आानन्दाथमस्थपुस्तके-देस क।
Page 113
११० रङ्गरामानुजविरचित प्रकाशिकासमेता- [१प्रभ्र:) श्ुद्रफलद्रधटारो दक्षिणपन्थानं पितृयाणशव्दितं प्रतिषद्यन्ते ।एष एव पितृयाणो रयिरन्नप्रधानो वैषयिकभोगात्मक इति यावत। यद्यपि धूमो रात्रिस्तथा कृष्ण इत्यादिप्रमाणप्रतिपन्नः पुगणेषु दक्षिणमा्मो निर्दिष्टो धूमादिश्रन्द्रान्तः । पितृयाणोड्यन्यः । संवत्सरावयवभूतः पण्मासात्मा दक्षिणायननिर्दिष्टोऽप्यन्यः। नथाऽवि दक्षिणायनशब्देन इयोरपि व्यवह्नियमाणत्वात्कालमार्गयोरेकीकरत्य व्यवहार उपपद्यत इति वषव्यम् ॥ ९॥ अथोत्तरेण तपसा ब्रह्मचर्यण श्रद्धपा
अथशब्दो वाक्यान्तरोपकमे। ये तावक्किं प्रजया करिष्याम इति विरक्ता ऋषयः कायकेशादिलक्षणेन, तपसा स्त्रीसङगराहित्यलक्षणेन ब्रह्मचर्येणाSSस्तिक्यबुद्धिलक्षणया श्रद्धया मत्यगात्मविद्यया परमा त्मानमुपास्या चिरा दिनोत्तरेणायनेनाSSवित्या च्चन्द्रमसं चन्द्रमसो विद्यतं तत्पुरुषोऽमानवः स एनान्व्रह्म गमयति" [छा० ५।१०।३] इत्यु क्तप्रकारेण ब्ह्माप्तिद्वारभूतमादित्यमभिजयन्ते प्राप्तुवन्तीत्यर्थः। 'आदि- स्थो ह वे प्राणः'[प्र०१।५]इत्युक्त: प्राणसंबन्ध्यपि भवति। अन्वेष्टव्यतया निर्दिष्टमात्मानं स्तुवंस्तेषामपुनरावृर्त्ति दर्शयति- एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परा- यणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । आयतनशब्दापेक्षयैतदिति नपुंसकलिङ्गनिर्देशः। प्राणाना प्राण भृतामायतनमाधारभूतम्। तद्यथा रथस्यारेषु नेमिरर्पितो नामावस अर्पिता एवमेवेता भूतमात्रा: प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्रा: प्राणेडर्पिता [को०१] इति परमात्मनः सकलचेतनाधारकत्वोक्तेः। एतत्परायणं परमं प्राध्यमित्यर्थः । एतस्मान्न पुनरावर्तन्त उपासका इति शेष:। उत्तरेष मार्गेण गता 'मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते' [गी० ८।१६] इत्युक्तरीत्या परमात्मानं प्राप्य न निवर्तन्त इत्यर्थः। एष निरोध: । एष प्रजाकामो वे प्रजापतिरिति प्राक्परजापतिशब्दनिर्दिष्टः परमात्मा स्वप्रा मस्य पुनरावृत्तिनिरोधकारी। अतस्तं परमात्मानं प्रजापतिशब्दितं प्राश्श्य तद्पासकस्यापुनरावृत्तिरुपपद्यत इति माव: । अत्रैष इत्येतच्छ-
Page 114
[१ प्रश्रः] प्रओोपनिषत।
न्देन प्रजापतिपरामशान। आत्मानमन्विष्येत्यात्मशदोऽपि प्रजापतिपर एव। अत एवेतत्सर्वमभिप्रेत्य सर्वव्याख्यानाधिकरणे व्यासार्येः'तपसा बह्मचर्येण श्रद्धया विद्ययाऽडत्मानमन्विव्याऽदित्यमभिजयन्ते। एत- स्मान्न पुनरावर्तन्ते' [प्र० ११० ]। इत्य्चिरादिगत्याऽपुनरावृत्तिप- तिपादनात्। प्रजाकामा वे प्रजापतिरिति प्रजापतिशब्दनिर्दिटः परम- ह्मेति प्रतिपादितमिति द्रष्व्यम। तदष श्लाक: ॥। १०।। तत्तस्मिन्संवत्सरात्मनि प्रजापता वक्ष्यमाणश्लोक इत्यर्थः ॥ १० । पञ्चपादं पितरे द्वादशाकृतिं दिव आहुः पर अर्धे पुगीषिणम्॥ वत्सरसंवत्सरपरिवत्सरेडावत्सरानुवत्सररूपा: पञ्च पादा यस्प स पञ्चपादः। अथ वा हेमन्तशिशिरयरकीकरणात्पञ्चतंवः संपधन्ते ते पादा यस्य स पञ्चपाद्स्तम। पितरं स्वम्य जनकम। द्वादशाकृति द्वादशमासाकृतिम। दिव: स्वर्गात्परे परम्मिन्नर्ष स्थाने। पुरीषिणम्। पुरीषशब्देन स्वर्गभूमिसंनिहितं ब्रह्माण्डगोलकावरणमुच्यते तदस्व स्थानत्वेनास्तीति पुरीपिणमाहुरित्यन्वयः अथेमे अन्य उ परे विचक्षणं सप्- चक्रे पडर आहुरगर्पितम्*॥ ११॥ अथशब्द: पक्षान्तरपरिग्रह। उशव्दोऽवधारण। परशव्य उत्कृष्टष- चनः । पूर्योक्तेभ्योऽन्य उत्कृष्टा इमे कालतत्त्वविद आदित्यादिग्रहसम- कलक्षणचक्रयुक्तऋतुलक्षणारघट्कयुक्तते संवत्सरार्ये रथे जगत्सर्व विचक्षणं कुशलं निश्लं यथा भवति तथाऽर्पितमित्यालु: ॥११॥ यथा संवत्सरो रयिप्राणात्मना विभक्त एवं मासोऽपि विभक्त हत्पु- पासनार्थ प्रदर्शयति- मासो वे प्रजापतिस्तस्य रष्ण- पक्ष एव रयिः शुक्रपक्ष: प्राणः । स्पषोऽर्थः ।
आानम्ाभमस्थपुस्तकें हान । इति मिससे।
Page 115
११२ रङ्गरामानुजविरचित प्रकाशिकासमेता- [१प्रभ्न:]
तस्मादेत ऋषयः शुक् इषटं कुर्वन्तीतर इतरस्मिन् ॥ १२॥ यस्माच्छुक: प्राणतयोत्कृष्टस्तस्मादृषयोऽतीन्द्रियार्थन्रध्टारः सर्वेऽपि शुक्कपक्ष एव शोभनानि कर्माणि कुर्वन्ति। इतरेऽनृपयोऽज्ञाः पुनर प्राणतयाऽसारभूते कृष्णपक्षे कुर्वन्तीत्यर्थः ॥१२॥ अमुमेव विभागमहोरात्रेऽप्युपासनाय प्रदर्शयति- अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । स्पष्टोऽर्थः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संप्रयुज्यन्ते॥ यस्मा्धेतोरह्नः प्राणरूपत्वमत एव रत्या रत्यर्थ प्रयोजनस्य हेतुत्ववि वक्षया तृतीया। प्राणभूऽतेहि सीभिये संयुज्यन्ते त एते प्राणमेव प्रस्क न्दृन्ति प्रकर्षेण शोचयन्ति प्राणापचारात्पाणमेव निम्नर्न्तीत्यर्थः । ननु तर्हि स्वयोषिद्वमनं गृहस्थेर्न कार्यमित्याशकय रात्री कार्य मित्याह- ब्रह्म चर्यमेव तयद्वात्री रत्या संयुज्यन्ते॥ १३ ॥ यद्ात्री रत्या संयुज्यन्ते रत्यर्थ रात्री स्त्रीसंप्रयोगो बह्म चर्यमेव मैथुन. मेव न भवतीत्यर्थः। तन्न दोषायेति यावत् ॥ १३॥ ननु प्रकृतिपुरुषकालात्मकं ब्रह्म कथं प्रजानामुपादानमित्युच्यते। अन्नपरिणामभूर्तस्य रेतस एव प्रजोपादानत्ववर्शनावित्याशकूषाSSह- अन्नं वै प्रजापतिस्ततो ह वे तवेतस्तस्मा- दिमा: प्रजाः प्रजायन्त इति॥ १४ ॥ अन्नावस्थं तदुत्पन्नरेतोऽवस्थं च यतः प्रजापतिशब्वितं बह्मेवातः प्रकृतिपुरुष संवत्सरमासादिकालान्नरतोऽवस्थारूपाब्रह्मण: सर्वा: प्रजा: प्रजायन्त इति प्रजापतिशब्दितस्य ब्रह्मण उपादानत्वमुपपद्यत इति माथ: ।१४॥ तत्प्रसङ्गगदमुमुक्षुनिन्दापूर्वकं मुमुख्ुं स्तौति- तये हवै प्रेजापतिव्रतं चरन्ति ते मिथ- नमुत्पादयन्ते। तेषामवेष लोकः । तस्माद्येडन्रं वे प्रजापतिरिति प्रजापतिशब्दितस्यान्नस्य वतं मक्षणं १ आनन्दाश्रमस्थपुस्तक एतौ पाठौ विद्वेते । १ तरप्रजा ।१ म्रद्यलांकः।
Page 116
[२प्रश्न:] पश्जोपनिषेत्। ... ११३
व्रतत्वेनानुतिष्ठन्ति येऽन्नभक्षणशीला ब्रह्मचर्यरहितास्त एव मजा उत्पाद्यन्ते। एप लोकः पुत्रपश्वन्नादिलक्षण; कार्यभूतवह्मरूपो लोकस्तेषामेव न त्वात्मकामानामिति माद:। येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिछ्विनम् ॥१५॥ तेषामसौ विरजो वहमलोको न येषु जिह्ममनृतं न माया चेति॥। १६.।। इत्यथर्ववदीयमश्रोपनिषदि प्रथमः प्रश्नः ॥१॥
येपां कायशोषणास्यं तपो न भक्षणशीलता मेथुनवर्जनं येघु ध सत्यवचनं प्रतिष्ठितं येपु च, मनस्वन्यद्चम्यन्यत्कर्मण्यन्यद्दुरात्मनामि- स्युक्तकौटिल्यलक्षणजिह्मत्वं ना्ति भूताहितव चनलक्षणमसत्यव चनं नास्ति तेषामसी विरजो निर्दोषो ब्ह्मीव लोको बह्मलाक:। तथैव उ्यासार्य: सर्वत्याख्यानाधिकरणे विवृतत्वाविति दटव्यम्। इति शब्द: प्रतिवचनसमाप्तीं । १ ५ ॥ १६॥ इति श्रीमद्रामानुजकृतौ प्रभोपनिषत्यकाशिकार्या मथमः प्रश्नः॥१॥
दे हे न्द्िय मनःप्राणादिविलक्षणप्रत्यगात्मशोघनाय प्र्नान्वतार्यति। उक्तं च व्यासारयरुत्तरेषु खण्डेु प्रत्यगात्मा विशोध्यत इति- अथ हनं भार्गवो वैदर्भि: पमच्छ। कबन्धिप्रश्जानन्तरं पिप्पलादं मार्गवो वैदरभि: पृष्ठवान्। किमिति- 2. भगवन्कत्येष देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते क: पुनरेषां बेलिष्ठ इति॥३॥ हे मगवन्किसख्याका देवाः स्थावरजङ्गमात्मिका मर्जा बिभ्रति। एष्वेवद्वेषु कतरे देवा एतच्छरीरं तरकार्य परकाशयन्ते कः पुनरतेषां श्रेष्ठ इति ॥ १॥
Page 117
११४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [२प्रश्न:]
तस्मै स होवाच। स्पष्टोऽर्थः। मुख्यप्राणस्यैव धारकत्वप्रकाशकत्वश्रेष्ठत्वानि वक्तुमाख्या- पिकामाह- आकाशो ह वा एष देवो वायुरग्निगप: पृथिवी वाङ्मनश्रवक्षुः श्रोत्रं च। ह वा इति प्रसिद्ध्यतिशये। एप प्रसिद्ध आकाशः। दीव्यति गच्छ तीति देवो गमनशीलस्ताहशो वायुश्राग्रिरापः पृथिवी। स्पष्टोऽर्यः। वाक्छन्देन कर्मेन्द्रियाणि सर्वाण्युपलक्ष्यन्ते। चक्षुः श्रोत्रशब्देन ज्ञानेन्द्रियाणि। ते प्रकाश्याभिवदन्ति वयमेतद्वाण- मवष्टभ्य विधारयाम इति ॥२ ॥ आकाशादय: सर्वे मिलिता: पुरोवर्तिशरीरं प्रदर्श्याडभितः स्थित्वा वदन्ति स्म किमिति वर्य बाणवत्संचारशीलमेतत्पुरोवर्तिशरीरमवलम्ब्य विधारयामः । आकाशादिविविधकार्यक्षमतया धारयाम इत्यर्थः ॥२॥ तान्वरिष्ठः प्राण उवाच। इत्यर्थ: । किमिति-
विभज्येतद्वाणमवष्टा्य धार्यामीति। ह आकाशादय ईद्टशीं विपरीतवुद्धिं मा गच्छत। अहमेव स्वात्मानं प्राणापानव्यानसमानोदानरूपेण पञ्चधा विभज्य घारयामीति। एवं वद्तो मुख्यप्राणस्यायं माव :- ह आकाशादयो मवन्त आकाशा- दिकप्रातिस्विककार्यक्षमा न तु सर्वकार्यक्षमाः। अहं तु मवतामपि कार्यनिमित्तत्वान्द्वत्कार्यक्षमः । क्रियमाणे जीवने तु मवत्सु न कोडपि समर्थः ।
आनन्दाथ्रमस्थपुस्तके-9 शंबय।= विषार।
Page 118
११५ तेऽश्रद्दधाना बभूवुः ॥ ३ ॥ ते तद्वाक्ये विश्वासं न कृतवन्तः ॥। ३ ॥।
नामुपररि स्वसाम्थ्यं प्रकटयतुं स्वस्थानाति्किंचिदुदचलत। इवशब्दोड- ल्पार्थे। साक्षादुत्क्रमणेSप्रतिसमाधेय :- शरीरविनाश: स्यादिति मत्वोत्क- मणमिव कृतवानिति भाव:। तस्मिन्नुत्कामत्यथेतरे सर्वे एवोत्कामन्ते। तस्मिन्मुख्यप्राण उत्क्रामतीतरे सर्वे प्राणा उदक्ामन। तस्मिस्तु प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते। शरीरपातभीत्या पुनः प्रतिष्ठा पाप्तुवति सतीतरेऽपि प्रतिष्ठिता हत्यर्थ:। तत्र हष्टान्तमाह- तथथा मक्षिका मधुकरगाजानमुत्कामन्तं मर्वा एवोत्कामन्ते तर्स्मिस्तृ प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त एवं वाड़मनश्र्क्षः श्रोत्रंच। यथा मधुकरमक्षिकास्तत्र श्रेष्ठां मक्षिकामुत्कामन्तीमनृत्कामन्ति। प्रतिष्ठितायां तस्यां स्वयं प्रतिष्ठिता भवन्ति। एवं वागाद्या मुखय- प्राणानुविधायिनोऽभवन्नित्यर्थः। ते प्रीताः प्राणं स्तुन्वन्ति ॥ ४ ॥ मुख्यपाणमाहात्म्यदर्शनपीता वागाद्या: प्राणा मुख्यमाणं तुमुदुरि- त्यर्थः । स्तौतेर्व्यत्ययाच्छनः ॥४ ॥
एषोऽगिस्तपत्येष सृर्य एष पर्जन्या मघवानष वायु- रेष पृथिवी रविर्दिवः सदसच्चामृतं च यत् ॥। ५ ।। एप मुख्यप्राणोऽग्रिरूपण तपति। एप प्राण एव सूर्यः । सर्वेपां प्राणा- यच्तस्थितिकत्वात्। यदधीना यस्य सत्ता तत्तदेवति मण्यत इति रीति- अनन्दाघमस्थपुस्त के-१ तास्मय।
Page 119
११६ रङ्गरामानुअविरचितप्रकाशिकासमेता- [२पभ:]
मनुसृत्य सामानाधिकरण्यव्यपदेशो हष्टः। रायर्देवश्रन्द्रमा इति यावत्। सदसच्छउदौ वर्तमानावर्तमानपरी प्रत्यक्षाप्रत्यक्षपरौ या चेतनाचेतनपरौ वा। स्थूलसक्ष्मपरी वा। अमृतशब्दो मोक्षपरः। तस्यापि तद्धीनत्वा- दिति भाव: ॥५॥ अरा इव रथनाभ प्राणे सर्वं प्रतिष्ठितम्। चक्रस्य नाभिनेमेरतरालवर्तीनि काष्ठानि अरशव्दरेनोच्यन्ते। चक्रस्य मध्यप्रदेशो नाभिशव्देनोच्यते। यथापर नाभावर्पिता एवमस्मिन्प्राणे सवं प्रतिष्ठितमित्यर्थः । सर्वशब्दार्थं स्पष्टयति- ऋचो यजृश्षि सामानि यज्ञः क्षचे वह्म च॥ ६॥ शत्र व्रह्मक्षत्रशब्द: स्थावरजङ्गमात्मकशणिमात्रोपलक्षकः ॥६॥ एवमेव इत्यङ्गुल्या निर्दिश्य परस्परं दर्शयित्वा तद्रुणान्संकीर्त्य पश्चा- तमेव मुख्यप्राणमभिमुखीकृत्य स्तुवन्ति- प्रजापतिश्र्वरसि गर्भे त्वमेव प्रतिजायसे। त्वं प्रजानां रक्षक: सन्पराणादिवायुरूपेण गर्भे संचरसि। तथा गर्मो- स्पादकतया ततपोषकतया च पितृरूप एव वर्तमान एव स्वमुत्पाद्कत्व- प्रातिलोम्पेन पुत्रादिरपेण जायसे। तुभ्यं प्राण प्रजास्त्विमा बलिं हर- न्ति यः प्राणः प्रतितिष्ठसि ॥७॥ हे प्राण स्थावरजङ्गमात्मिका इमाः प्रजास्तुम्यं त्वदर्थास्त्वच्छेषभूता यतो बलिमन्नादिकं त उपहरन्ति। यस्त्वं प्राणादिव्यापारिःसर्वत्र प्रापिषु प्रतिष्ठितोऽसीत्यर्थः ॥ ७।। देवानामसि वह्नितमः । हविषां वाहकतमः । पितृणां प्रथमा स्वधा। मुख्यः पितृभीतिहे तुभू तस्त्वमेव्रेत्यर्थः ।
Page 120
[२प्रभ्र:] प्श्षोपनिपत्। ११७
ऋषीणां चरितं सत्यमथर्वाङ्गिकसामसि ॥ ८।। अथवाङ्गिरसामृपीणा सत्यमुत्कृष्वं चरितं नित्यनैमित्तिकादिलक्षणं कर्म त्वमसीत्यर्थः ॥८॥ इन्दुस्त्वं प्राण तेजसा रुद्दोऽसि परिरक्षिता। हे प्राण त्विन्द्रः परमेश्वर इत्यर्थः । इदि परमैश्वर्य इति हि धातुः । तेज़सा सर्वसंहारलक्षणेन त्वं रुद्रो रोदनहेतुः । स्थितिकाले परिरक्षक- श्रेत्यर्थः त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥९ ॥ जयोतिषां प्रकाशकानां पतिः श्रेष्ठः सृर्यो भृत्वाउन्तरिक्षे चरमि॥ । यदा त्वमत्िवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायाननं भ्रविष्यतीति ॥१०।। हे प्राण यदा त्वं भेवरूप्यभिती वर्षसि तदा ते त्वीया इमाः प्रजा आनन्दिन्यो भवन्ति कस्य हेतोः कामायाभिलषितार्थाय पर्याप्त- मन्नं भविष्यतीति। 'तददा सुबृटटिर्भवत्यानन्दिनः प्राणा मवन्त्यस्षं बहु भविष्यति'इति छान्दाग्य[७१०१] शवणादिति दष््व्यम ॥ १० ॥। वात्यस्त्वं प्राणैकर्पिरत्ता विश्वस्य सत्पतिः । हे प्राण संस्कारहवीनो ब्राह्मणोऽपि त्वमेव मुख्यो मन्त्रदष्ट्िरपि त्वमेव विश्वस्यात्ता संहर्ता च त्वमेव सतां साधनां रक्षकोऽपि त्वमेव। वयमादस्य दातारः पिता त्वं मातरिश्वनः ॥११।। व्य त आद्यस्यादनीयस्य भोग्यम्य दातारः करपदा: किंकरा इति यावत्। हे मातरिश्वंसत्व नः पिताऽसि पोपकोऽसीत्यर्थः । मात- रिश्वन इत्यत्र नकारद्वित्वाश्रवण छान्दसत्वादृदष्टव्यम ॥१?॥ या च ते तनुर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि। या च मनसि संततां शिवा तां कुरु मोत्क्रमीः ॥१२॥ वागा्दीन्द्रियेषु तत्तदिन्द्रियनियमनानुकुला शक्ति: सततं प्रतिष्ठितां तां शिवां शोभनां कुरुत्क्मणेनाशिवां मा कुरूत्क्रमणं मा कार्षी- रित्यर्थ: ॥१२ ।।
Page 121
११८ [१ प्रश:] प्राणस्येदं वशे सर्वं त्रिदिवे यत्पतिष्ठितम्। मातेव पुत्रान्रक्षस्व श्रीश्र प्रज्ञां विधेहि नः ॥१३॥ इत्यथर्ववेदीयप्रश्नोपनिषदि द्वितीय: प्रश्नः ॥२ ॥ जगदिदं सरव प्राणस्य वशे वर्तते। वश इच्छा तद्धीनमिति यावत्। यञ्च त्रिदिवे स्वर्गादिलोके प्रतिष्ठितं तद्पि प्राणाधीनं तस्मात्पुत्रान्मा- तेवास्माव्रक्षस्वास्माकं स्वस्वकार्यनिष्पादसामर्थ्यलक्षणाः श्रियस्तदनु- कूलप्रज्ञां च विधत्स्व ॥ १३ ।। इति श्रीमद्रामानुजकृती प्रश्नोपनिषत्प्रकाशिकायां द्वितीय: प्रभः ॥२ ॥ अथ हैन कोशल्यश्वाऽSशवलायनः पपच्छ। स्पष्टोऽर्थः । 3. भगवन्कुत एष प्राणो जायते कथमाया त्यस्मिक्शरीर, आत्मानं वा प्रविभज्य कथ वा प्रतितिष्ठतेकेनोत्क्रमते, कथं बाह्य- मभिघत्ते 'कथमध्यात्ममिति ॥ १॥ प्रतितिष्ठते प्रतितिष्ठतीत्यर्थः । बाह्यमभिधत्ते बाह्मरूपेण संनिधत्त इत्पर्थः । बाह्यमित्यस्य संनिधानक्रियाविशेषणत्वात्॥? ।। तस्म स होवाच। स्पष्टोऽर्थः । अतिप्रश्नान्पृच्छसि ब्रह्मिंष्ठोऽसि तस्मान्तऽहं बवीमि ॥ २ ॥ प्रश्नानतिक्रम्य वर्तमानान्प्रश्नायोग्याव्रहस्यानर्थान्पृष्छसि तस्मा्त्वं ब्रह्मिष्ठोऽसि प्रायेण ब्रह्मविद्सि न प्राकृत इति यावत् । अतस्तेऽह योग्यत्वाद्ववीमीत्यर्थः ॥२॥ प्रश्नस्यात्तरमाह आत्मन एवैष पाणो जायते। परमात्मन एवैष प्राणो जायत इत्यर्थः । 'एतस्माजायते प्राणो मन: सर्वेन्द्रिपाणि च' [मु० २१३]इति श्ुतेरिति द्रष्व्यम्। १ आनन्दाश्रमस्थपृस्तके- १ gा सीति।
Page 122
[३प्रश्रः] पश्षापनिपत्। ११९:
कथमायात्यस्मिञ्शरीर इत्यस्योत्तरमाह- 2यथैषा पुरुषे छायैतस्मिन्नतदाततं
यथा पुरुपे गच्छति छायाऽपि संहेव गच्छति न हिच्छायागमने साम्यन्तरमस्ति। एवमेतस्मिन्पुरुषे जीव एतन्मनोऽकृतेनायतनेन कृत- शब्दो यत्नार्थको यत्नमन्तरेणाऽडततमविनामावेन संभितमेवमेव प्राणोड- व्यकृतेनायत्नेनास्मिञ्छरीर आयाति। मनःप्राणयोः पुरुषच्छायाव- त्पुरुषाविनाभूतत्वात्पुरुषेण संहैव प्राणस्य संबन्धोडतो न प्राणागमने पृथक्वारणमपेक्षितमिति भावः ॥३ ॥ आत्मानं प्रविभज्य कथ प्रतितिष्ठत इति तृतीयप्रश्नोत्तरमाह- 'यथा सम्राडवाधिकृतान्विनियुङ्क्ते। एतान्ग्रामाने तान्ग्रामानधितिष्ठस्वेत्येवमेवप प्राण इतरान्पाणा- न्पृथक्पृथगेव संनिधन्ते ॥ ४ ॥ पायृपस्थेऽपानं चक्षु श्रोत्रे मुखनासिकाभ्यां पाणः स्वयं प्रतितिष्ठते मेध्ये समानः । एष ह्येतद्भुत- मन्नं समं नयति तस्मादेताः सप्ार्चिषा भवन्ति॥।५। यथा राजा कार्येप्वधिकृतान्स्वसवकानिमान्यामानधितिष्ठमं ग्रामम- धितिष्ठेति पृथक्पथग्विनियुज्य तन्मुखेन तेपु यथा संनिधत्त एवमेवेष मुख्यप्ाण इतरेपु प्राणेपु ग्रामस्थानीयेपु स्वांशभृतापानव्यानादिमुखन संनिधत्तेऽधितिष्ठतीति यावत। तत्र पायुश्वोपस्थ च पायूपस्थं तस्मिन्। अपानं मू्रपुरीपापकर्षणं कुधस्तम्मिन्प्रतितिष्ठति प्रतिष्ठितो भवति तद्घिष्ठाता भवतीत्यर्थः । मुखनासिकाभ्यां निर्गत्य वायु: प्राणरूप: संश्रक्षुःभ्रोत्रे चक्षुश्र श्रोत्रं च चक्षुःश्रोतं तस्मिन्प्रतितिष्ठति प्रतिष्ठित भवति तद्धिष्ठाता भवतीत्यर्थः । मध्ये तु समानः सन्नवतिष्ठते। एष हि समानो हुतं भुक्तमन्नादिकं समं नयति सप्तधातुसाम्यं नयति विभागं करोतीति यावत्। तस्मात्समानवायोर्हेतोजाठराये: सप्ारचिष: काली- त्येवमाद्या: प्रादुर्भवन्ति ॥४॥५॥
Page 123
. १२० रङ्गरामानुजविरचित प्रंकाशिकासमेता- [३ प्रश्र:] 101 हृदि ह्वेष आत्मा। अत्रकशतं नाडीनां तासां शर्त शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडी- सहस्राणि भर्वन्ति तासु व्यानश्ररति ॥ ६॥ एप जीवात्मा हदि हदये वत्र समानरूपेण प्राण आस्ते तत्र स्वय- मपि वर्तते। अत्र हृदये नाडीनामेकाधिकशतं वर्तते तासां नाडीना मध्य एकैकस्या द्वासप्ततिः प्रभेदा भवन्ति। एककें द्वासप्ततिपभेदं प्रति शाखाभूतनाडीसहस्त्राणि शतंशतं भवन्ति तासु नाडीपु व्यानरूपश्र रतीत्यर्थः ॥ ६ ॥ । अथैकयो्ध्य उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुआभ्यामेव मनुष्यलोकमु॥७॥ अथेति वाक्योपक्रमे। एकया कयानिन्नाडयोधवमुख उदान: पुण्येन हेतुना पुण्यं स्वर्गादिलोंकं पापेन हेतुना पापं नरकाविलोकमुभाभ्यामेव मनुष्यलोकं नयति ॥ ७॥ अथाऽडत्मानं प्रविभज्य कर्थ प्रतितिउ्तीति प्रश्नम्य यथा सम्राडेवे त्यारभ्योभाभ्यामेव मनुष्यलोकमित्वेतदन्तें प्रतिवचनं तन्मध्येऽरथकयोर्धर्व उदान: पुण्येन पुण्यं लोकं नयतीत्यनेन केनत्क्रमत इति चतुर्थपश्नस्पो. त्तरमुक्तं भवति। कथं बाह्यमभिघत्त इत्यस्यात्तरमाह- (5) आदित्यो ह वे बाह्यः पाण उदयत्ये- ष ह्येनं चाक्षुषं प्राणमनुगृहानः चाक्षुपं प्राणं सक्षुर्गालकवर्तीन्द्रियमालोकारयसह कारिप्सादेनानुगृ द्वानो बहिरादित्यरूपेणोदेति। यद्यपि प्राणस्याSSदित्यात्मकत्वं न संभ- बति तयोभेदातू। तस्यापि प्राणकल्पत्वाद्वा सवत सत्वेनाभेदोपचारा द्वोपासनार्थतया वा बाह्यानामाहित्पाद्वीनां प्राणात्मकत्वोक्तिरिति व्वषटव्यम्। पृथिव्यां या दवता सेषा पुरुषस्यापानमैपष्टा्ष्य। " पृथिव्यां प्राणकलारूपा देवता सा पुरुषस्थापानवाय्वधिष्ठितपाय पस्थेन्द्रियेऽनुगृह्णाना वर्तत इत्यर्थः ।
आनन्दाश्नमस्थ स्तके-तदेक२"वन्त्यामु: नमयर"।
Page 124
[३ प्रश्न:] प्रश्नोपनिषत्। १२१
अन्तरा यदाकाशः स समानः ।
एवसुत्तरत्रापि। मध्ये तु समानः। एष एतद्धुतं नयतीत्यव्यात्मम्। प्राणा- पानस्थानमध्यवर्तितया हि समानो निर्दिष्टः। बाह्याकाशस्यापि बाह्य- प्राणरूपस्याSSित्यस्व बाह्यापानरुपस्य पृथिव्याश्र मध्यवर्तितया समानत्वं युज्यत इति भाव: । वायुर्व्यानः ॥८ ।। बाह्यो वायुस्त्वगिन्द्रियाद्यनुग्रहतो व्यानरूपः ॥८॥ तेजो ह वा उदानः । बाह्यं तेज उन्नयनहेतुत्वादुद्ानः । : तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनमि संपयमानैः ॥ ९॥ र्यच्चित्तस्तेन से प्राणमायाति प्राणस्तेजसा युक्तः ॥ -* 2" सहाऽडत्मना यथासंकल्पितं लोकं नयति ॥ ३० ॥ यस्माद्धेतोस्तेजस एवोदानशव्दितोलयर्नाववं तस्मादेवोपशान्त- तेजा अपगतद्होष्ण्यः संमुसूर्पुर्जीवो यातिती यस्मिंश्रित्तं यस्य स यश्चित्तः । यत्काम इति यावत्। यादशमनुष्यदेनादिजन्मकामो भवति तर्कामनावशेन पुनर्भवशब्दितां पुनरुत्पत्तिं प्रामुं वाङ्मनसि संपद्यते 'वाङ्मनसि दर्शनाच्छव्दाच्च' [ब०सू०४।२१ ] इतिश्रुतिमूत्रतद्भ्ाप्यो- क्तरीत्या मनसा संश्लेपविशेषमापन्नैवागादिभिदशभिरिन्द्रिये: सहितं प्राणं संमुमूर्षुर्जीव आयाति यद्यपि 'इममात्मानमन्तकाले सर्वे पाणा अभि- समायन्ति'[बृ०४।३।३८] इतिमुग्यामुख्यप्राणानां जीवोपगम एव भूयते न तु जीवस्य प्राणोपगमः। सूतरितं च 'सोऽध्यक्षे तदुपगमादिभ्यः' [ब०- सू०४।२।४] इति। तदर्थस्तु तदधिकरणभाव्य उक्त :- तत्र हि यथा वाङ् मनसि संपद्यते मनः प्राण इति वचनानुराधिन मनःप्राणयोरेव वाङ्रूनम नसयो: संपत्तिः। तथा प्राणस्तेजसीति वचनात्तेजस्येव प्राणः संपद्यत इति पूर्वपक्षे सोऽध्यक्ष तद्ुपगमादिभ्य इति सिद्धान्तितम। तम्यायमर्थ :- स प्राण: करणाध्यक्षे जीवे संपद्यते कुनस्तदुपगमादिम्यः। प्राणस्य तदु- पगमस्तावच्छरयते। एवमेवेममात्मानमन्तकाले सर्वे माणा अभिसमाय-
१६
Page 125
१२२ [१ प्रश्र:]
न्तीति [शृ० ४।३३८]तथा जीवेन सह प्राणस्योत्कान्तिः श्रूयते। तमु- त्कामन्तं प्राणोऽनूत्कामति प्राणमनून्त्क्रामन्तं सर्वे पाणा अनूत्करामन्तीति [बृ० ४।४।२] कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति [प्र० ६।३] जीवस्य प्राणेन सहोत्कान्तिप्रतिष्ठे भूयेते। ततश्र प्राणो जीवेन संयुज्यैव तेजसि संबध्यसे यथा यमुनाया गङ्गया संयुज्य सागरगमनेऽपि यमुना सामरं गच्छतीति व्यपदेशोपपात्तिः। तथा प्राणस्य जीवेन संयुज्य तेजः संपत्तावपि प्राणस्तेजसीत्युक्तिर्न विरुध्यत इति स्थितम। तथाऽप्यस्य पाणप्रशंसापरस्वाज्जीवस्य प्राणोपगमोक्तिरुपप्द्यत इति दष्व्यम्। अन- न्तरं 'प्राणस्तेजसि तेज: परस्या देवतायां [छा० ६।८६] इति श्रत्युक्त- रीत्या तेजसा परमात्मना च संयुक्त: प्राणस्तत्तज्जीवात्मसंकल्पानुसारेण तं तं लोकं ब्रियमाणं नयति ततश्र तेजसा सहितस्यव प्राणस्यान्नयन- हेतुत्वात्तेजसोऽप्युन्नयनहेतुत्वेनोदानत्वं युक्तमिति भावः ।यद्यपि प्राणस्ते- जसीत्यत्र तेजःशब्देन सर्वाणि अतान्युच्यन्ते न तेजोमात्रमिति 'भूतेषु तच्छूतेः' [ब० सू०४।२।५।] 'नैकस्मिन्दर्शयता हि' [ब० सू० ४।२ ६] इति सूत्रभाष्ययो: प्रतिपादितं तथाऽपि भृतान्तरसंसृष्टमेव तेजस्ते ज:शव्देनाभिधीयत इति माप्योक्तेस्तेजस: प्राधान्यात्तदुक्त्तिरुपप्द्यत इति वष्टव्यम् ॥९॥१०॥ य एवं विद्वान्प्ाणं वद न हास्य प्रजा हीयतेऽमृता भवति।। एवमुत्पत्त्यागमनप्रतिष्ादिप्कारेण प्राणं य उपास्ते तस्य पुत्रपौ- तादिलक्षणप्रजाहानिर्न भवति परिशुद्धप्रत्यगात्मस्वरूपभतिपस्तिमुसेन वह्मोपासनप्रीतिद्वारा मोक्षहेतुश्र मवतीति द्रष्टव्यम् ॥। तदेष श्लोक: ॥। ३१ ।। तत्म्राणवेदनमधिकृत्य प्रवृत्तोऽयं श्लोक हत्यर्थ: ॥११ ॥ उत्पत्तिमायातें स्थानं विभुत्वं चव पञ्चधा। अध्यात्मं चव प्राणस्य विज्ञायामृत- मश्षुते विज्ञायामृतमश्नुत इति। १२ ॥ इत्यथर्ववेदीयप्रश्नोपनिषद तृतीयः प्रश्नः॥३॥
Page 126
प्रश्नोपनिपत। १२३
उत्पत्तिं प्राणस्य परमात्मन उत्पत्ति मनसा सहाऽSगमनमस्मिकशरीरे [:R8]
पायूपस्थादिस्थानेषु स्थिति यथा सम्राडेवाधिकृतानित्युक्तं साम्यलक्षण विभुत्वमध्यात्मं प्राणादिरूपेण पञ्चधा स्थितिं च शब्दसमुज्चितमा- दित्याविरूपेण पश्चधा बाह्यमवस्थानं य विज्ञायामृतं मोक्षमश्नुते प्राप्नोति। द्विर्वचनं प्रतिवचनसमाप्तिद्योप्तनार्थम् ॥ १२।। इति श्रीमद्रामानुजकृती प्रओपनिषत्प्रकाशिकार्या सृतीयः प्रश्रः।
अथ हैनं मार्यायणी गार्ग्वः पपच्छ । रूपष्टोडर्थः । भ्रमनन्नतम्मि-पुरुष कानि स्वपन्ति। सुप्ते सतीति शंप: । शिष स्पष्टम। कान्यम्मिआग्रति। अतरापि सुप्ते सतीति शेप:।ल कतर एप देवः स्वमान्पश्यति। एष द्योतनादिगुणयोगाद्देवो जीवः कतरः कीदृशः सन्स्वामावथादी- न्पश्यतीत्यर्थः। कस्यंतन्सुखम् । कस्य हेतारेतद्वैपयिकं सुखमित्यर्थः। कस्मिन्नु सर्वे प्रतिष्ठितो भवन्ति ॥ १ ।। स्पष्टोऽर्थ: ॥ १ ॥ तस्मै म होवाच। स्पट्टोऽर्थः । यथा गार्ग्य मरीचयोऽऽर्कस्यास्तं गच्छतः मर्वा एत- स्मिस्तेजोमण्डल एकी भवन्ति ताः पुंनरुदयतः प्र्चलन्त्येवं ह वे तत्सवं परे देवे मनस्येकी भवति। यथा सायं कालेऽस्तं गच्छतः सूर्यस्य किरणा नाना दिक्षु प्रसरणं
मानम्ाश्रमस्थपुस्तक- समवाष।: नवन्नीति: ुनः पुन-बरनले।
Page 127
१२४ रङ्गरामानुजबिरचित प्रकाशिकासमेता- [४प्रभभ:]
विनाSडदित्यमण्डल एकी भवन्ति पुनश्रोदयतः सूर्यस्य किरणा नाना दिश्षु प्रसरन्तः प्रकाशका भवन्ति। एवमेवैतत्सर्वमिन्व्रियज्ञातं पर इत रेम्य उत्कृष्टे देवे द्योतनादिगुणयुक्ते मनस्येकी भवति। स्वस्वव्यापारा भिमुख्य विरोधिसंश्लेषविशेषयक्तं भवतीत्यर्थः । तेन ह्येष पुरुषो न शृणोति। तेन शोत्ादीन्दियाणामुपरतत्वेनेत्यर्थः। शिष्ट स्पष्टम। न पश्यति न जिव्रति न रसयंति न स्पृशति नाभिबदते नाऽड- दत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥। आनन्द उपस्थेन्द्रियकार्य विसर्गस्त्वपानकार्यम्। नेयायते न गच्छ- तीत्यर्थः । स्वपितीत्याचक्षत इत्यनेन कानि स्वपन्तीति प्रश्नस्य वाह्य ज्ञानेन्द्रियकर्मेन्द्रियाणि स्वपन्तीत्युत्तरमुक्तं भवति प्रत्येकमेकत्वाभिपा- येण स्वपितीत्येकवचनमू। शिर्ष्ट स्पष्म् ॥२॥
- प्राणाग्रय एवेतस्मिन्पुरे जाग्रति प्राणापानादिरुपा अग्रय सवैतस्मिन्पुरशद्दनिर्दिष्े शरीरे जागरं कुर्वन्तीत्यर्थः। स्वापदशायां जाग्रत्सु प्राणादिपश्रकोश्वासनिश्वास- मनोरुपेषूपासनार्थमग्निहोत्रसंपत्ति दिदर्शयिषुस्तत्र व्याप्रियमाणं मन एव यजमानोऽपानो मूलाधारस्थतया गार्हपत्यस्तत्संनिहितो व्यानोऽन्वा हार्यपचनशव्दितो दक्षिणाभ्विरपानवायुमूलकः प्राणो गार्हपत्यात्मणीय मानाहषनीयतुल्यतयाऽSहवनीयस्तदाधारका उच्छासनिश्वासी दवे आह- वनीये इति निर्दिष्टाहुतिद्वयमुच्छ्रासनिश्वासहेतुभूतः समानो वायुराहुती समं नयतीतिनिर्देशयोग्योऽध्वर्युरुदाववायुस्तु यजमानस्य लोकान्तरो- न्नयनहेतुत्वादुदान इत्यग्निहोत्राहुत्यवयवभूतान्यजमानामित्रयाहकतिद्वया-।
ष्वष्सु दर्शयति- गार्हपत्यो ह वा एषोडपानो व्यानोऽन्वाहार्यपचनो यद्ा- र्हपत्यात्मणीयते प्रणयनादाहवनीयः प्राणः ॥ ३ ॥।
आानन्दाश्रमस्थपुस्तके-१ तमे। २ यते। ३ शतेना"।
Page 128
[४ प्रश्नः] प्रश्नोपनिपत्। १२५
यदुछ्वासनिश्वासावेतावाहुती समं नयतीति समानः । मनो ह चाव यजमान इष्टफलमेवोदानो ये एनं यजमानमहग्हर्व्रह्न गमयति ॥ ४ ॥ अत्र यद्यपि जीवस्यैध,एवमेवेमा: सर्वाः प्रजा अहरहर्गचछन्त्य एतं ब्रह्मलोकं न विन्दन्ति' [छाणडा३२] इतिब्रह्मगमनं श्रूयते न मनस-
दृष्टव्यम् ॥ ३॥ ४ ॥ कतर एप देवः स्वम्ान्पश्यतीत्यस्योत्तरमाह- 3, अत्रैष देवः स्वम महिमानमनुभवति।यद्दृष्टं दृष्टम- नुपश्यति श्रुतं श्रुतमेवार्थमनुश्ृणाति देशदिगन्तरेंश्र प्रत्यनुभृतं पुनः पुनः प्रत्यनुभवति दसं चादृषं च श्रुतं चाश्रुतं चानुभूतं चाननुभृतं च सच्चासच सर्वं पश्यति सर्व: पश्यति ॥"॥ स यदा तेज- ८०4 साडभिभूतो भवति। अत्रैष देवः स्वमान्पश्यति । अत्रास्मिन्नवसर एष देवो जीव: स्वमे करितुरगादिलक्षणं महिमान- मनुभवति पश्यति जागरे प्राग्यदूद्दष्टं तमेवार्थमनुपश्यति अनु पश्रात्पश्यति अनुभवति हष्ट हष्ट भूयो दृष्टमित्यर्थः। श्रुतमेवार्थमनुगृणोति देशान्तरेषु दिगन्तरेषु प्रत्यहमनुभूतमर्थ पुनः पुनरनुभवति वृष्ट श्रुतमेवानुमवतीत्य- यमपि नियमो नास्ति। कदाचित्पूर्वाननुभूतमपि शरीरच्छेदनादिकमनु- भवति विद्यमानं चानुभवति अविद्यमानं चानुभवति (सर्वः पश्यति) सर्वः सन्पश्यति द्रष्ा श्रोता घाता गन्ता वक्ता चेत्यादिसर्वरूप: सन्प- श्यर्तीत्यर्थः। तदानी जागरीयबाह्यज्ञानकर्मेन्द्रियाणामुपरतव्यापारत्वेऽपि
एतस्मिन्नन्तरे 'सता सोम्य तदा संपन्नो मवति तेजसा हि तदा संपन्नो मवति' [छा० ६।८१] इतिश्ुत्युक्तरीत्या परमकाशकतया तेज: शब्दितेन परमात्मनाभिभूतो मवति संपन्नो भवतीति संपरि-
Page 129
१२६ रङ्गरामानुनविरचितपकाशिकासमेता- [४मभ्न.] व्वक्तो भवतीति यावत्। तदा स्वापान्पदार्थान्न पश्यतीत्यर्थः । ततश्व कतर एष देवः स्वप्ान्पश्यतीति प्रश्नस्य त्रह्मसंपत्तिविरहदशायां मनोमात्रपरिशेषसमये स्वापान्पदार्थान्पश्यतीत्युत्तरमुक्तं भवति। कस्यैतत्सुखं भवतीत्यस्योत्तरमाह 4 अथ यंदेतम्मि्छरीर एतत्सुखं अवति ॥ ६ ॥ यत्सुखं भवति तदेतस्मिञ्छरीरे सत्येव भवतीत्यर्थः । शरीरमेव वैषयिकसुखहेतुरित्युक्तं भवति। अशरीर बाब सन्तं न प्रियामिये स्पृशतः' [छा० ८१२१ ] इति श्रुतेरिति द्ृष्टव्यम ॥६॥ कस्मिन्सर्वे प्रतिष्ठिता भवन्तीत्यम्योत्तरमाह- 5 स यथा सोम्य वयासि वासो वृक्ष संप्रतिष्ठन्ते॥ एवं ह वै तत्सवं पर आत्मनि संप्रतिष्ठते॥ ७ ॥ वयांसि पक्षिणो वासावृक्ष निवासवृक्षं प्रति संप्रतिठ्ठन्त स दृष्टान्तो यथैयं परमात्मनि सर्वं प्रतिष्ठितं भवतीत्यर्थः ।। ७ ॥। सर्वशब्दार्थ प्रपञ्चयति- पृथिवी च पृथिवी मात्रा च।। अत्र पृथिवीमात्राशव्देन पुराणेषु गन्धतन्मात्राशव्दाभिलप्या पृथिवी पूर्वावस्थोच्यते।। एवमुत्तरेप्पपि मात्राशब्देपु दष्टव्यम। आपश्ाऽडपोमात्रा च तेजश्र तेजोमात्रा च वायुश्र वायुमात्रा चाऽडकाशश्वाSSकाशमात्रा च चक्षुश्र दृष्टव्यं च श्रोत्रं च श्रीतव्यं च व्राणं च घ्रातव्यं च रसश्रव रसयितव्यं च त्वक्च स्पर्श- यितव्यं च वाक्च वक्तव्यं च हस्तो चाउउदा- तव्यं चोपस्थश्राऽSनन्दयितव्यं च पायुश्व विस- जयितव्यं च पादौ च गन्तव्यं च मनश्र मन्तव्यं च बुद्धिश्र बोद्धव्यं चाहंकारश्रवाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्र विद्योतयितव्यं च शणश्र
Page 130
[४ प्रश्न:] प्रओ्नोपनिपत। १२७ विधारयितव्यं च॥।८।। एष हि दष्टा स्प्रष्टा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेडक्षर आत्मनि संप्रतिष्ठते ॥ ९॥ चेतनाचेतनरूप: कर्तृकरणकर्मरूप: सर्वोऽि प्रपश्रस्तदाश्रित इति मावः। अत्र बोद्धा कर्ता विज्ञानात्मेंति निर्देशादात्मनो ज्ञातृत्वमेव न ज्ञानरूपत्वमिति वदन्तस्तार्किकाश्र ज्ञानत्वमेव न ज्ञातृत्वमिति वदन्तो सृषावादिनक्च निरस्ता भवन्ति ॥८॥ ९ ॥ परमेवाक्षरं प्रतिपयते स यो ह व तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयत यस्तु साम्य। स सर्वज्ञः सर्वो भ्रवति॥ छायाशब्देन ज्ञानसंकोचकं कर्मोच्यत। अच्छायमपापमित्यर्थः । अत एवाशरीरमलोहितं रुपादिशून्यं शुभ्रं स्वप्रकाशमक्षरं क्षरणशून्यं परमात्मानं वेदयते जानाति स हे साम्य प्रियदर्शन, परमवाक्षरं बह्म वासुदेवं प्रतिपद्य सर्वज्ञो मवति। सर्वो भवति। सर्वकामयुक्तो मति। तदष श्लोक: ।। १० ।। तब्रह्माभिमुस्ीकृत्येष श्लाक इत्यर्थः ॥। १० ।। विज्ञानात्मा सह दवैश्र सर्वः प्राणा भृतानि संप्रतिष्ठन्ति यत्र। शुभ्रमक्षरं वदयत यस्तु सोम्य स सर्वज्ञः सर्वेमेवाऽडविवशति॥११।। इत्यर्थवेदीयप्रश्नोपनिषदि चतुर्थ: प्रश्नः।।४।।
सर्वैद्वर्वागादीन्द्रियः सह मुख्यप्राणा भूतानि च महाभूतानि च जीवात्मा च यत्र प्रतितिष्ठन्ति ताहशं सुभ्रमक्षरं निर्विकारं परमात्मानं यो जानाति स सर्वज्ञः सर्वमपि कामजातमाधिशति।'सर्वेधु लोकेपु कामचारो भवति' [छा० जर५२] इतिश्षत्युक्तकर्गत्या काम्यमानसर्व- लोकसंचारी भवतीत्यर्थ: ॥११॥। इति श्रीमद्वामानुजकृती प्रश्नोपनिषत्मकाशिकाया चतुर्थः प्रश्नः ।।४ ॥
Page 131
१२८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [१प्रश्र:
अथ हेनं शेव्यः सत्यकामः पनच्छ ॥ स्पष्टोऽर्थः । 5.स यो हवैतन्भगवन्मनुष्येषु प्रायणान्तमोंकार- मभिध्यायीत कतमं वाव स तेन लोकं जयतीति। हवा इति प्रसिद्धय्तिशये तद्व्ययम्। स इत्येतद्धिकारिसामान्य परम। अयमर्थ :- हे भगवन्पूजारह योऽधिकारी मनुष्याणां मध्ये मरणा- न्तमोंकारमभिध्यायति स कतमं लोके तेनों कारेण प्राम्ोतीत्यर्थ: । वाव- शब्दोऽवधारणे प्रसिद्धी वा। तस्मै स होवाच ॥ ३ ॥ स्पष्टोऽर्थ:॥१॥ एतद्वै सत्यकाम। परं चापर ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनैवाऽय तने नैकतरम्वेत "हे संत्यकामैतदेव परं चापरं च ब्रह्मोभयवाचकमित्यर्थः। वाच्यवा चकभावनिबन्धनं सामानाधिकरण्यं तथैव व्यासायैरीक्षतिकर्माधिक- रणे व्याख्यातत्वात्। कि तदित्यत्राऽडह-यदोंकारस्तस्मादुपासक एते- नेवों काररुपेण मार्गेणैकतरं परमपरं वा ब्रह्मान्वेत्युपास्त हत्पर्थः॥२॥ .स ययेकमात्रमभिध्यायीत स तनैव संवेदितस्तूर्णमेव जगत्यामभिसंपयते। स उपासको अपरब्रह्मवाचकेन ह्रस्वेन प्रणवेन योऽक्षरं बरह्मोपास्ते स तेनैवेक- मात्रोंकारकरणकापरब्रह्मध्यानेनेव संवेदितो उब्घसत्ताको जगर्त्या भुव्यभिसंपद्यते। अभ्यभ्यर्हितश्रेष्ठः संपद्यत। तमृचो मनुष्यलोकमुपनयन्त। तसृङन्त्रा मनुष्यलोकं प्रापयन्ति। स तत्र तपसा बहचर्येण श्रद्धया संपन्नो महिमानमनुभवति॥ ३ ॥ स मनुष्यलोकं नीतस्तपसाऽनशनादिना बह्मचर्येण मेथुनवर्जनेन आनदाधमस्थपुस्तके-१ ं च.।
Page 132
[५प्रश्न:] पश्नोपनिषत्।
श्रद्धयाSडस्तिक्यबुद्धचा यदि संपन्नो भवति तदा महिमानं श्रेयःसाधकं ब्रह्मोपासनमनुतिष्ठतीत्यर्थः। न चैचो हस्वाभावात्कथमोंकारस्य हस्व- त्वमिति शङ्कनीयं लोके ह्स्वस्योंकारस्य दर्शनात्। अथ यदि द्विमात्रेण मनसि संपयते। द्विमात्रेणापरव्रह्मवाचकेन प्रणवेन यस्य मनस्वपरब्रह्मध्यानं सपद्यते। सोऽन्तरिक्षं यजुर्शिरुन्नीयते देवलोकम्। अन्तरिक्षाशश्रितसोमलोकं द्विमात्ोपासकः पुमान्यजुर्मन्त्रीरन्नीयते। अत्रान्तरिक्षसोमलोकशब्द ऊर्ध्वमात्रोपलक्षक आमुष्मिकनामपतः। अत ईक्षतिकर्माधिकरणभाव्ये यदपरं कार्य बह्म निर्दिष्ट तदेहिक्तार न्मिकत्वेन द्विया विभज्यैकमात्रं प्रणवमुपासीनानामेहिकमनुष्यलोकयासतिरुलमभभि-
धायेत्युक्तम् । स सोमलाके विभृतिमनुभूय पुनगवर्तते॥ ४ ॥ अमुष्मिन्नेश्वर्यमनुभूय तत्पुण्यावसाने पुनरावर्तते ॥४ । यः पुनरेतं त्रिमात्रेणोमित्वेतने- चाक्षरण परमपुरुपमभिध्यायीत । यस्तु एकमात्रद्विमावत्वदशायामर्वाचीनफल साध ने नै त न वाक्षरेण पर- मात्मानमिध्यायति। आभिमुख्येन ध्यायति निरन्तरं ध्यायतीत्यर्थः। स तेजसि सूर्ये संपन्नः । यथा पादोदर नैता स्त्वचा विनिर्मुच्यत एवं हवे स पाप्मना विनिर्मुक्त: स सामभिरुत्नीयते बह्मलोकम्। स उपासकस्तजोमण्डले सूर्य संगतः सम्नदु्रमव पादो यश्य स पादोदर: सप इति यावत्। यथा सर्पो जीणया त्वचा विनिर्मुक्तों भवत्येवं पाप्मना विनिर्मुक्त: सन्भगवद्ोंकं वैकुण्ठ सामभिर्गीतिपधान मन्त्रैरुन्नीयते। अत्र व्यासार्यि :- स पाप्मना विनिर्मुक्त इति तच्छच्दानन्तर- श्रवणात्ससामभिरित्येकपदमात्रित्य सामगानसहि तरिति या सान्त्ववच्- नसहितैः पुरुषैरिति वाडर्थ इनि वर्णितम।
Page 133
१३० रङ्गरामानुजविरचितप्रकाशिकासमेता- [१प्रश्नः]
एतस्माज्जीवघनात्परात्परं पुश्शयं पुरुपमीक्षते। ईक्षतिकर्माधिकरणे यस्य हि कर्मनिमित्तं देहित्वं स जीवघन इत्यु- च्यते चतुर्मुखस्यापि तच्छ्रयते। यो ब्रह्माणं विद्धाति पूर्वमिति भाष्योक्तेः। जीवघनशब्देन संसारमण्डलमुच्यते। मूर्तो वनः [पा०३३। ७७] इति काठिन्यशव्दितमूर्तौ घनशब्दस्य निपातितत्वात्। देहद्वारत्वा- दात्मनि काठिन्यत्वस्य। घनशब्दो देहिपर एव तस्मात्पर: परिशुद्धात्मा तस्मादृपि परभूतं पुरिशयं पूः प्राणिनः सर्वगुहाशयस्येति सर्वेषु प्राणि- व्वन्तरात्मतया शयानम्- भगवानिति शब्दोडयं तथा पुरुष इत्यपि। निरुपाधी च वर्तेते वासुदेवे सनातने ॥ इति निरुपाधिकपुरुषशब्दवाच्यं भगवन्तं वासुदेवमीक्षत इत्यर्थः। अत एव स सामभिरुन्नीयते ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वशङ्क त्युदस्ता चतुर्मुखगतानां परवासुदेवेक्षणासंभवादिति दष्टव्यम्। तदेतो श्लोकौ भवतः ॥ ५॥ तदोंकारध्यानमधिकृत्य वक्ष्यमाणी श्लोकी प्रवृतावित्यर्थः ॥५॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविभयुक्ताः । अविप्रयुक्ता न मवन्तीत्यनविप्रयुक्ताः । विप्रयुक्ता अत्यन्तद्वुतोचार-
स्तिस्रो मात्रा मृत्युमत्यो मृत्युपदा अनर्थावहा इति यावत। मृत्युमत्य(?) इति पाठेऽपि स एवार्थः । क्रियासु बाह्यान्तरमध्यमामु सम्य- कपयुक्तासु न कम्पते ज्ञः ॥ ६ ॥ यज्ञादिका बाह्याः क्रिया आन्तरा मानसक्रिया मध्यमा वाचिक जपरूपा। आसु क्रियासु तिसृषु मात्रासु सम्यगत्यन्तसंयोगवियोगमन्त- रेण प्रयुक्तासु सतीपु सुज्ञस्तस्य योगाभिज्ञः पुमान्न कम्पते फलान्न व्यवत इत्यर्थ: ॥ ६ ॥
आनन्दाश्रमस्थपुस्तक-हाभ्यन्त।
Page 134
[4प्रश्र:] प्रश्नोपनिषत्। ₹:३.१
कग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्कवयो वर्दन्ति। तमोंकारेणैवाऽयतनेनान्वेति विद्वान्य त्तच्छान्तमजरममृतमभ्रयं परं चेति।।७॥ इत्यथर्ववेदीयप्रश्नोपनिपदि पञ्चमः प्रश्नः ॥५॥
कवयः क्रान्तदर्शिनः तं 'तद्विष्णो: परमं पदं सदा पश्यन्ति सूरयः' इत्युक्तरीत्या सूरयो यं लोक पश्यन्ति तमोंकारेणैव मार्गेणान्वेति गत्वा च शान्तिमूर्मिपठ्करहितं जरामरणशून्यमकुतोभयं सर्वकारणत्वेन सर्वो- त्कृष्टं ब्रह्म च प्राप्नोतीत्यर्थः । अस्य संदर्भस्य परमात्मपरत्वं 'ईक्षतिकर्म- व्यपदेशात्सः' [ब० सू० १।३।१३ ] इति सूत्रकारैः प्रत्यपादि। तदर्थंस्तु तन्दाष्य इत्थमुक्त :- आथर्वणिका: सत्यकामप्रश्रेऽधीयते यः पुनरेतं त्रिमा- त्रेणोमित्येवाक्षरेण परमपुरुपमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते। एवं हैवं स पाप्मना विनिर्मुक्त: स सामभभि: रुन्नीयते ब्रह्मलोकम्। 'स एतस्माज्जीववनात्परात्वरं पुरिशयं पुरुषमीक्षत' इति। अत्र ध्यायतीक्षतिशब्दावेकविषयी। ध्यानफलत्वादीक्षणस्य।यथा क्रतुरस्मिल्लांके पुरुप इति न्यायन ध्यानविषयस्येव प्राप्यत्वात्परमपुरूप- मित्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाज्च तत्र संश्यते किमिह पर- मपुरुषमिति निर्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्रतुर्मुख उत सर्वश्वरः पुरुषोत्तम इति किं युक्तम्। समट्टिक्षेत्रज्ञ इति कुतः । स यो ह वैतन्द्- गवन्मनुष्येषु प्रायणान्तमोकारमभिध्यायीत' 'कतमं वाव स तेन लाकं जयतीति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुप्यलोकप्रास्तिममिधाय
तयाडभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्पर जीवसमष्टिरुपस्य चतुर्मुखस्य लोक इति विज्ञायते। तद्गतेन वीक्ष्यमाणस्तललोकाधिपश्रतुर्मुख एव । एतस्माजीवघनात्परात्परमिति च दहेन्द्रियादिम्यः पराद्ेहेन्द्रियािभि: सह घनीभूतजीवव्य्टिपुरुषाद्वह्मलोकवासिन: समटटिपुरुपस्य चतु- र्मुखस्य परत्वेनोपपद्यते। अतोडत निरदिश्यमानः परः पुरुपः सम- द्टिपुरुषश्रतुर्मुख एव। एवं चतुर्मुखत्व निश्वितेऽ्जरत्वादयो यथा-
आनन्दाशमस्थपुस्तके-१ यसत्क० ।२ वेदयन्ते।
Page 135
१२२ रङ्गरामानुजविरचित प्रकाशिकासमेसा - [इ प्रभ्र:)
कथं चिन्नेया इस्ते प्राप्ते प्रचक्ष्महे। ईक्षतिकर्मव्यप्यपदेशात्स इति। ईक्ष- तिकर्म परमात्मा कुतो व्यपदेशात्। व्यपदिश्यते हीक्षतिकर्म परमात्म- त्वेन तथा हीक्षतिकर्म विषय तयोदाहते श्लोके तमोंकारेणेवाऽडयतनान्वेति विद्वान्यत्तच्छान्तमजरमसृतमभयं परं चेति। परं शान्तमजरमभयममृत- मिति परमात्मन एवैतटपम् ! एतदभयमेतदसृतमेतङ्गह्मेत्येवमादिश्रुति- म्यः । एतस्माज्जीवघनात्परात्यमिति य परमात्मन एव व्यपदेशों न चतुर्मुखस्य तस्यापि जीवघनशव्दगृहीतत्वात्। यस्य हि कर्मनिमित्त देहित्वं स जीवघन इत्युच्यते। चतुर्मुखस्यापि तच्छूयते। यो ब्रह्माणं विद्धाति पूर्वमित्यादौ यत्पुनरुक्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो बरह्मलोकचतुर्मुखलोक इति प्रतीयत इति। तत्रम्थश्वतुर्मुख इति तदयु- क्म। यत्तच्छान्तमजरमभयमित्यादिना ईक्षतिकर्मणः परमात्मत्वे निध्चिते सतीक्षितु: स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्पाश्रतुर्मुख- लोको भवितुर्हति। किंच यथा पाढोदरस्त्वचा विनिर्मुच्यत एवं वह्नैव स र्पीप्पनी विनिर्मुक्त: ससामभिरुन्नीयते ब्रह्मलोकमिति सर्वपापवि- निर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम्। अत एव चोदाहरण- श्लोक इममेव बह्मलोकमधिकृत्य श्रूयते-यत्तत्कययो वद्यन्त इति। कवयः सूरयः सूरभिर्वृश्यं च वैष्णवं पद्मेव तद्विप्णोः पूरमं पदं सदा पश्यन्ति सूरय इत्येवमादिम्यः। न चान्तरिक्षात्परश्रतुर्मुखलोक्ो मध्ये स्वर्गलोकादीनां सन्भ्ावात्। अत एतंद्वे सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वाने तेंनवायनेनै तम्वेतीति्रति ने परं कार्य ब्रह्म निर्दिष्टं तद्हिकामुज्मिकत्वेन द्विधा विभज्यकमात्रं प्रणवमु- पासीनानामैहिकं मनुष्यलो कावाप्तिरुपं फलमभिधाय द्विमात्यमुपासी- नानामामुष्मिकमन्तरिक्षशव्दोपलक्षितं फलं चाभिधाय त्रिमात्रेण पर- ब्रह्मवाचिना प्रणवेन परमपुरुष ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिश- तीति सर्वं समञ्जसम्। अत ईक्षतिकर्म परमात्मेति ॥७॥ इति श्रीमदामानुजमुनिकृती प्रश्नोपनिषत्परकाशिकायां पऊमः प्रश्रः ॥५॥
अथ हैनं सुकेगा भारद्वाज: प्रपच्छ॥ स्पष्टोऽर्थः ।
Page 136
[प्रभ्ः) प्रभ्भोपनिपत्। १३३
6 अगवन्हिरण्यनाभः कोशल्यो गज- पुत्रो मामुपेत्यैनं प्रश्रमपृच्छते।। हे भगवन्हिरण्यनाभनामा कोशलदेशाधिपती राजपुत्री मत्समीपमा- गत्येमं वक्ष्यमाणं प्रश्नं कृतवात्। किमिति- षोडशकलं भारद्वाज पुरुष वेत्थ इति। ईई हे भारद्वाजेति मां संबोध्य प्राणाद्या नामान्ता: पोडश कला यस्य स षोडशकलस्तं पुरुषं जानासि किमित्यर्थः । तमहं कुमाग्मन्ुवं नाहमिमं वेद यथ- हमिममवेदिष कर्थ ते नावक्ष्यमिति । तं राजकुमारमेवमुक्तवान। त्वदुक्तं पुरुपमहं न जानामि यद्यहैं जानीर्या केन हेतुना राजकुमाराय योग्याय शिष्याथ न कथयिप्या- मीति। समूलो ह वा एष परिभुष्यति चोऽनु- तमभिवदति तस्मान्नाहम्यनृतं बकतुम ॥ योनृतं ृते स मूलेन सह सर्वतः शुष्यति श्रयाहेतुभूतं पुण्य सवा- सनं नश्यतीत्यर्थः । अतो मदुक्त त्वयाऽनृतशङका न कार्यति मावः । स तृष्णीं स्थमारुह्य प्रवव्राज। प्रकर्षेण गतः, अनेन स्वल्पलज्जा सूचिता। रथेन प्रववाजेत्यनेन तस्य प्रभुखं सूचितं भवति। तं त्वा पृच्छामि कासी पुरुष इति॥ १ ॥ तमेव पोडशकलं पुरुषं पृष्छामि। क्वासाविति क प्रदेशे तिष्ठतीत्यर्थः अताउडधारभूतवेशप्रश्रद्वागा जीवो या परमात्मा वति निर्णयार्थोडय प्रश्न इति दृष्टव्यम । तम्मे म होवाच। स्पष्टोऽर्थः ।
मनमायमस्थपुााक-11
Page 137
१३४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [६प्रश्रः] इहेवान्तःशरीरे सोम्य स पुरुषो यस्मि- न्नेताः षोडश कलाः प्रभवन्ति ॥ २ ॥ यस्मिन्पुरुष एता वक्ष्यमाणा: इंहैवान्तःशरीरे वर्तत इति शेषः । अनेन शरीरपरिच्छिन्नप्रदेशमात्राधारत्वोक्तया जीव इत्युसरमुक्तं भवति। ननु जीवस्यैव कथं षोडशकलत्वं षोडशकलाधारत्वतत्स्हटत्वयोः परमा- तमन्येव पुष्कलत्वादित्याशङ्क्याऽऽह-यस्मिन्नेता: षोडश कलाः प्रभ- वन्ति। यस्मिन्पुरुष एता वक्ष्यमाणा: प्राणाय्या नामान्ता: पोडशकला: स्वसंसर्गप्रयुक्तसुखदुःखादिभोगाख्यमुपकारं कर्तु प्रभवन्ति समर्था भव- न्तीत्यर्थः । ततश्र षोडशकलाभोक्तृत्वमेव पोडशकलत्वं तञ्च जीवस्पै- वेति भावः ॥२॥ ननु षोडशकलासंसर्गहेतुत्वे जीवपरमात्मनोरविशिष्टे तन्भोक्तृत्वं जीव- स्पैव न परमात्मन इत्यत्र किं नियामकमित्यत्राSडह- स ईक्षांचके। कस्मिन्नहमुत्कान्त उत्क्रान्तो भविष्यामीति कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥ सोऽध्यक्षे तदुपगमादिभ्यः [त्र०सू० ४।२४ ] इति भाध्ये प्रतिष्ठा च जीवेन सह श्रूयते। कस्मिन्नहमुत्कान्त उत्क्रान्तो भविप्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीत्युक्तत्वात्। इद वाक्यं जीवाभिसंबन्धिप्रकारप्रद- र्शनपरम्। मदुत्क्रान्तिप्रतिष्ठासहभूतोत्क्रान्तिप्रतिष्ठः को वेति पर्यालोचि- तवानित्यर्थः । ततश्र स्वोपकाराभिसंधिपूर्वकं जीवस्य माणादिस्त्रपृत्वा- त्तद्ोक्तृत्वं संभवति। परमात्मनस्तु- । न च मां तानि कर्माणि निबअ्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ [भ० गी० ९१९] न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा [ भ० गी० ४। १४] इत्युक्तरीत्या स्वोपकाराभिसंधिपूर्वकस्त्रपटृत्वाभावान्न तस्य शोडशक- लाभोक्तृत्वमिति भाव: ॥३॥ स प्राणमसृजत प्राणाच्छद्वां खं वायुज्यो-
१ आनन्दाश्रमस्थपुस्तके-वरतीति।
Page 138
[६प्रश्:] प्रश्नोपनिपत्। १३५ तिराप: पृश्वीन्दिरियं मनः । अन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोका लोकेषु नाम च॥४॥ स जीव एवं पर्यालोच्य प्रथमतः स्वोत्क्रान्तिप्रतिष्ठासहभूतोत्कान्ति- प्रतिष्ठं मुख्यप्राणं सृष्वांस्तस्मादूर्ध्वमास्तिक्यबुद्धिं पञ्च महाभूतानि वागादीन्द्रियं मनो ब्रीह्मादिरूपमन्नं तदायत्तं शरीरेन्द्रियसामर्थ्य शरीरशोषणादिलक्षणं तप ऋग्यजु:सामादीन्मन्त्राअ्योतिष्टोमादीनि कर्माणि कर्मफलभूतान्स्वर्गादीललोकांस्तेषु लोकेषु स्वर्गादीनि नामानि सृध्वानित्यर्थः । वद्यपि पाडशकलास्प्ृत्वं परमात्मन एव तथाऽपि तद्धेतुभूतादृ्टारम्भककर्मकर्तृत्वेनायं सहृत्ववाद इति द्रष्टव्यम्। ततश्र स्वभोगोपकारिकाः पोडशापि कलास्तद्धेतुभूतादृष्टारम्भककर्माणि ? कृत्वा सृष्टवान्। अतस्त्भोक्ततया पोडशकलत्वं जीवस्येति यावत् ॥। ४ ।। अथ परमात्मन ईदक्त्वाज्जावाद्कलत्वं तद्वारा मुमुक्षुवेद्यत्वं चोपपा- दयति- स यथेमा नयः स्पन्दमानाः समुद्रायणाः समुद्द प्राप्यास्तं गच्छन्ति भियेते तासां नामरूपे समुद् इत्येवं प्ोच्यते। यथा प्रस्वन्त्यो गङ्गाद्या नद्य: समुद्रायणाअन्रायनशब्देनाSडघारत्वमु- खेनाSSत्मत्वमुच्यते। समुद्रात्मिका: समुद्रारपृथकस्थितिप्रतिपत्तिका भूत्वा समुद्रं प्राप्यास्तं गच्छन्त्यदर्शनं यान्ति न तु समुद्रे वृध्धादिलक्षणं विकारमुत्पाद्यितुं प्रभवन्ति तासां च गङ्गायमुनादिनामानि यानि शुककृकृष्णादीनि च रूपाणि प्राक्तनानि तानि भिद्यन्ते तत्प्रवेशानन्तरं च न भवन्तीत्यर्थः । तदेव दर्शयति समुद्र इत्येवं प्रोच्यत इति। तत्र प्रविष्ं नदीजातं सर्वं समुद्र इत्येव प्रोच्यते न तु गङ्गायमुनेति स यथा स हष्टान्तो यथेत्यर्थः । एवमेवास्य पग्द्रिपुरिमा: पोडश कलाः पुरुषायणा: पुरुषं प्राप्यास्तं गछन्ति भियेते चाऽऽसा नामरूपे पुरुष इत्येंवं प्रोच्यते स एषोऽकलोऽमृतो भवति। अस्य परिद्रष्ठुरनुभवितुर्भोक्तुर्जीवस्य भोगोपकरणभूता इमा: पोड- शापि कला निरुपाधिकपुरुषशम्दवाच्यं पुरुषं वासुदेवं प्राप्यास्तं
Page 139
१३६ रङ्गरामानुजविरचितप्रकाशिकासमेता- [६ प्रश्न:]
गच्छन्ति यथा शिलातलं प्राप्य क्षुरधारा: कुण्ठी भवन्ति तथा भोगा धायका न भवन्तीत्यर्थः। तत्र हेतुमाह-पुरुपायणा इति। पु. रुप. संकल्पाधीनस्वरूपस्थितिप्रवृत्तिका इत्यर्थः। तासां कलानां ीद
भोगस्थानत्वादिनामरुपे न स्तः। तदेव दर्शयति-पुरुष इल र प्रोच्यत इति। पुरुषाःपृथक्स्थितिप्रतिपत्तिकतया पुरुष इत्येवे प्रोच्यते न तु तद्भिन्नत्वे तन्भोग्यभोगस्थानत्वादिना तत्कलादित्वेन गोच्यते तस्मात्परमात्मनः कलाभोक्तृत्वाभावादकल इत्येवोच्यते। अत एवासृतश्र मरणस्य भोक्तृत्वरूपकलासंवन्धावीनत्वादिति भावः। तदेष श्लोक: ॥। ५।। तत्परमात्मस्वरूपमधिकृत्य वक्ष्यमाण: श्लोक: प्रवृत्त इत्यर्थः ॥५॥ अरा इव रथनाभी कला यत्र प्रतिष्ठिताः । यदात्मिका यदुपादानिका इत्यर्थः । शिट स्पट्टम् । तं वेदं पुरुषं वेत्थ। यथा तमव पुरुष मुसुक्षुवेद्यमवगच्छता ब्रह्मज्ञानफलमाह- मा वो मृत्युः पर्यथाः ॥ ६ ॥ ब्रह्मज्ञानां युष्माकं परितो व्यथा मृत्युर्मा कार्पीदित्यर्थः ॥ ६॥ तान्होवाचैता्वदेवाहं परें ब्रह्म वेद। नातः पग्मस्तीति॥७॥ तान्सुकेशाक्षीन्पडपि शिष्यान्प्रत्येतवुबाच। अहमेतावदेव परं बह्म जानामि परब्रह्मविषये ममैतावदेव ज्ञानमितोऽधिक नास्तीत्यर्थः।७॥ ते तमर्चयन्तस्त्वं हि नः पिता योऽ- स्माकमविय्यायाः परं पारं ताग्यसीति। ते षडपि शिष्यास्तं पिप्पलाद त्वमस्माकं संसाराकपारतीरं पापक तया पिताऽसि तस्मात्वत्तो जन्मेव श्रेष्ठ जन्म स हि विद्यातस्तं जनयति तच्छ्ेष्टं जन्मेतिश्रवणादित्यर्चयन्तः प्ूजयन्तो बभूकुः । नमः परमऋषितयो नमः परमकषित्यः ॥८॥ इत्यथर्ववेदीयप्रश्नोपनिषदि पष्ठः प्रश्नः ॥६॥
आननदाश्रमस्यपुस्तके-१ वेद। २ गरमेनह्री
Page 140
[६प्रश्र:] प्रभ्ोपनिषत्। १३७ उत्तरशान्तिस्थान इदं वाच्यम्। अभ्यास उपनिपत्समाप्त्यर्थः । नचै- तावदेवाहं परं ब्रह्म वेद नातः परमस्तीति पोडशकलजीवातिरिक्तपरत्- ह्वनिषेध: किंन स्यादिति वाच्यम् । 'अधिकं तु भेदनिर्देशात्' [ ब० सू० २।१।२२] इत्यादिभिविरोधप्रसङ्गात्। तत्र हि जीवाभेदाङ्वह्मणो जगतकारणत्वे हिता करणादिदोपमाशक्कच जीवभेदाद्दोषाभावः सिद्धा- न्तितः। तथाहि तद्धिकरणभाष्यम्-जगतो ब्रह्मानन्यत्वं प्रतिपाद्य- द्धिस्तत्त्वमसि 'अयमात्मा ब्रह्म' इत्यादिभिजीवस्यापि त्रह्मानन्यत्वं व्यप- दिश्यत इत्युक्तम्। तत्रेदं चौद्यते यदीतरस्य जीवस्य ब्रह्मभावोऽमीभि-
हितरूपजगदकरणमहित रूपज गत्करणमित्यादयो दोषाः प्रसज्येरन्। आध्यात्मिकाधिदेविकाधिभौतिकानन्तदुःखाकरं चदं जगत्। नचेहशे रशनर्थे स्वाधीनो बुद्धिमान्प्रवर्तते। जीवाङ्गह्मणा भदवादिन्यः भ्ुतयो जगद्वह्मणोरनन्यत्वं वद्ता त्वयेव परत्यक्ताः। भेदे सत्यनन्यन्वासिनद्धेः। औपाधिकभदविपया भेदश्ुतयः स्वाभाविकाषेदविषयाश्चाभेदभ्ुतय इति चेत्तत्रेदं वक्तव्यम्-स्वभावतः स्वसमादभिन्नं जीव किमनुपहितं ८ जगत्कारणं ब्रह्म जानाति वा न या। न जानाति चेत्सर्वज्ञत्वहानिः। जानाति चत्स्वस्मादभिन्नस्य जीवस्य दःखम्१ग्वदुःसमेव जानतो ब्रह्मणो हिताकरणाहितकरणादिदोपप्रसकक्तिरनिवार्या। जीवब्रह्मणोर- ज्ञानकृतो भेदस्तद्विपया भदशतिरिति चेत्तत्रापि जीवाज्ञानपक्षे पूर्वोक्तों विकल्पस्तत्फलं च तद्वस्थम्। ब्रह्माज्ञानपक्षे स्वपकाशस्वरूपस्य ब्रह्मणोऽज्ञानसाक्षित्वं तत्कृतजगत्सृष्टिश्र न संभवति। अज्ञानेन पका- शह्तिरोहित श्रेत्तिरोधानस्य प्रकाशनिवृत्तिकरत्वेन प्रकाशम्येव स्वरूप- त्वारस्वरूपनिवृत्तिरवेति स्वरूपनाशादिदोय सह सववरं प्रागेवीरितम्। अत इडमसंगतम्-र्रह्मणो जगत्कारणत्वमिति 'इतरव्यपदेशाद्दिताकरणा- दिदोषप्रसक्ति:' [न० सू०२१।२१] इति सूत्रण पूर्वपक्षं प्रापथ्य सिद्धा- न्तोडमिधीयते-'अधिकं तु भेदनिर्देशात्' [म० सू० २१।२२] इति। तुशब्द: पक्ष व्यावर्तयति। आध्यात्मिकादिदुःखग्रो्गार्हपरत्यगात्मनोS धिकमर्थान्तरभूतं ब्रह्म कुतो भदनिर्दशात्। प्रत्यगात्मनो हि मेदेन निर्दिश्यते परं ब्रह्म 'य आत्मनि तिष्वन्नात्मनीऽन्तरोऽयमात्मा न वेद यस्याऽडत्मा शरीरें य आत्मानमन्तरो यमयति सत आत्माड न्तर्याव्यमृतः पृथगात्मानं पेरितारं च मत्वा जष तनस्तेनामृतन्व-
Page 141
१३८ रङ्गरामानुजविरचितन्रकाशिकासमेता- [६ प्रश्नः] भेति' [शवे० ११६] 'स कारणं करणाधिपाधिय:' [0 ६।९] 'तयोरन्यः पिप्पलं स्वाद्वृत्त्यनश्जन्नन्यो अभिचाकशीति '[श्वे० ४।६] 'ज्ञाज्ञो द्वावजावीशानीशी'[श्वे०१1९] 'प्राज्ञेनाऽतमना संपरिष्वक्तः।' [बृ० ४।३।२१) 'प्राज्ञेनाऽडत्मनाऽन्वारूढः' [बृ० ४।३।३५] 'अस्मा- न्मायी सृजते विश्वमेतत्तस्मिंश्रान्यो मायया संनिरुद्ध: [श्व० ४।९] 'प्रधानक्षेत्रज्ञपतिर्गुणेशः' [श्वे० ६।१६ ] 'नित्यो नित्यानां चेतनश्रेत- नानामेको बहूनां यो विद्धाति कामान्' [श्वे= ६।१३]योऽव्यक्त- मन्तरे संचरन्यस्याव्यक्तं शरीरम'। यमव्यक्त न वढ़ योऽक्षरमन्तरे संचरन्यस्याक्षरं शरीरं यमक्षर न वेद, एप सवभृतान्तरात्माऽपहतपाप्म दिव्यो देव एको नारायण: ' इत्यादिभिः 'अश्मादिव्च तदनुपपत्तिः' [ब० सू० २१।२३] इति अश्मकाष्ठलोष्टतादीनामत्यन्तहेयाना सततविकारास्पदानामचिद्विशषाणां निरवद्यनिविकारनिखिलहेयप्रत्य-
नानाविधानन्तमहाविभूतिब्रह्मस्वरूपैक्य यथा नोपपद्यते, तथा चेतन- स्याप्यनन्तदुःखार्हस्य खद्योतकल्पस्य 'अपहृतपाप्मा' इत्यादिवाक्याव
भावानुपपत्तिः। सामानाधिकरण्यनिर्देशो यस्याऽडमा शरीरमित्यादिश्रु-। तेर्जीवरस्य ब्रह्मशरीरत्वाङ्वह्मणो जीवशरीस्तया तदात्मत्वनावस्थितर्जीव-
'अवस्थितेरिति काशकृत्स्न इत्यादिभिरसक्ृदुषपादितम। अतः सर्वावस्थं ब्रह्म चिद्चिद्वस्तुशरीरमिति, सूक्ष्मचिद्चिद्नस्तुशरीर ब्रह्म कारण तदेव ब्रह्म स्थूलचिदचिद्स्तुशरीरं जगदाख्य कार्यमिति जगब्गह्मणोः सामाना- धिकरण्योपपत्तिः। जगतो ब्रह्मकार्यत्वं, ब्रह्मणोऽनन्यत्वमचिद्वस्तुनो
सर्वश्रुत्यविरोधश्र भवति 'सदेव साम्यदमग्र आसीत' एकमवेत्यविभागाघ- स्थायामप्यचिदु क्जीवस्य ब्रह्मशरीरतया सूक्ष्मरूपणाचस्थानमवश्याभ्यु पगन्तव्यम्। 'वैषम्यनैघृण्ये न सापक्षत्वातान कर्माविभागाढिति चेन्नाना दित्वात्' [न० सू० २११।३५]'उपपदयन चाप्युपलम्यत च' [ब्० सू०२।' १।३६]इति सूनदयोदितत्वात्तदानी मवि सूक्ष्मरू्पेणावस्थानस्य। अविभा- गस्तु नामरूप विभागाभावादुपपद्यते। अतो ब्रह्मकारणत्वं संभवत्यवेति। एकम्: 'अधिकोपदेशातु बाद्रायणस्येवं तदर्शभान' [ब० सृ० ३४८]
Page 142
[६प्रश्न:] प्रश्नोपमिपत। १३९
'मेदव्यपदेशाञ्ान्यः' [ब० सू० १।१।२१] 'सुपप्त्युत्कान्त्योर्मंदेन' [न० सू० १।३।४२ ] 'उभयेऽपि हि भदनैनभधीयते' [ब०सू०१।२।२]इत्या- दिन्याया: प्रकुप्येयुरित्यलं प्रपश्चेन ॥८॥ इति श्रीमद्दामानुजमुनिकृती प्रश्नोपनिषत्प्रकाशिकाया पष्ठः पश्च: ॥ ६॥
समामेयं प्रश्नापनिषत।
Page 144
ॐ तत्स द्रह्मण नमः । मुण्डकापनिषत
रङ्गरामानुजविरचितप्रकाशिकासमेता।
अअनाचलगृङ्गाभमअ्जलिर्मम गाहताम् ॥१॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरुनपि। मुण्डकान्धिदुर्षा प्ीत्ये व्याकरोमि यथामति ॥ २ ॥ विद्याप्ररोचनार्थायाऽड्यायिका- व्रह्मा देवानां प्रथमः संबभूव ॥ चतुर्मुख इन्द्रादीनों देवानामय् उत्पन्न इत्यर्थः । स कीकषश हृत्य- त्राSडह- विश्वस्य कर्ता भुवनस्य गोप्ता ॥ विश्वस्य मुधनस्य सर्वस्य भुवनस्योत्पादयिता रक्षकश्रेत्यर्थः । स ब्रह्मविद्यां सर्वविय्यावरिष्ठामथर्वाय ज्येष्ठपुत्राय, प्राह ॥। १।। ताहशो ब्रह्मा सर्वविद्याभयमूर्ता ब्रह्मविद्यामथर्वनासने ज्येष्ठपुत्रायो- क्तवानित्यर्थः । ब्रह्मविद्यायाः सर्वविद्याश्रयत्वं च ज्ञातव्ये ब्रह्मणि कृत्स्नज्ञातव्यान्तमविन ब्रह्मज्ञाने कृत्सज्ञानस्यान्तर्मूतत्वािति व्यासा-
अथर्वण यां प्रवदेत बह्लाऽथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविदयाम। अथर्वणे त्रम्मा प्रोवाच तामथर्वनामकषिः म्वशिष्यायङ्गि्नाम्र भषये प्रोवाच। स भारद्वाजाय सत्यवोहाय प्राह। सोड़द्रिनाम ऋधिर्भरद्वाजगोत्राय सत्यवाहनाम्ने प्रोक्तवान्।
आनन्वाभमल्यपुश्तक- १ प्रमिश्रा। : बहाय।
Page 145
१४२ रङ्गरामानुजविरचितप्रकाशिकासमेता- मु ० १ स् ० १ ]
भरद्वाजोऽङ्रिरस पगवगम् ॥ २ ॥। परस्माद्वरेण प्राप्तेति परावरा पराबरसर्वविद्यापाप्तेवा परावरा तामद्गिरसे प्राहेत्यनुषङ्ग: ॥२ ॥ शौनको ह वै महाशालोडङ्गिरसं विधिवदुपसन्नः पप्रच्छ। महागृहस्थः शुनकसुतः समित्पाणित्वादिशास्त्रीयनियमानतिक्रमे- णोपगतः सन्पृष्टवान्।. कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञानं भवतीति ॥ ३ ॥। हे भगवः। उत्पत्तिं प्रलय चैव भतानामागति गतिम् । वेत्ति विद्यामवि्द्या च स वाच्यो मगवानिति। इतिलक्षण। भगवन्नित्यम्य विभाषा भवद्भगवदिति नकारस्य रुत्वेऽवस्यीत्वाभावरछान्दसः । यथा मृत्िण्डे विज्ञाते सर्वं सृन्मयं विज्ञातं भवति एवं कस्मिंश्िद्वस्तुविशेष ज्ञांत सर्वं कार्यजातं विज्ञातं भवतीति सामान्यतो भवादृशां वचनमश्रीपं ताद्टृग्वस्तु किमिति प्रश्नार्थः । सर्वनिमित्तोपादानभूतं वस्तु किमितीति यावत्। ननु सर्व- मिद्मिति शब्देन स्थूलचिद्चिच्छरीरविशिष्टं ब्रह्मोच्यत उत विशेषण मात्रम्। नाऽडद्यः प्रश्नदशायां शौनकस्यात्रह्मवित्वेनात्रह्मविद इदंबुद्धि- शब्दयोरब्रह्मपर्यन्तत्वाभावात्। तेनेद पूर्ण पुरुषेण सर्वमित्युत्तरवाक्य इदं सर्वमित्यस्य विशेषणमात्रे पर्यवसायित्वेन ब्रह्मपर्यन्तत्वाइ्किनेन प्रश्न- वाक्यगतस्यापीदं सर्वमिति शब्दस्य ब्रह्मपर्यन्तत्वाभावात्। न
ह्मोपादानकत्वाभावादिति चदुच्यते। इंद सर्वमित्यनेन विशेषणमेव निर्दिश्यते न विशेष्यम्। अथापि विशेषणस्यापि ब्रह्मोपादेयस्वमस्ति। नह्यभिन्नयोरेवोपादानोपादेयभाव इतते नियमः । भाविस्थूलावस्थावतः पूर्वभाविसूक्ष्मावस्थायोगि ह्युपादानम् । अवस्थावत्वं च चिद्चिद्ी- श्वराणां त्रयाणामप्यस्त्येव। इयांस्तु विशेष :- अद्वारकावस्थायोगित्व- मचेतनस्यजीवस्य तु धर्मभूतज्ञानद्वाराऽचेतनशरीरद्वारा च कर्मकृतसं- कोचविकासरूपवस्थाश्रयत्वम्। परमात्मनस्तु चतनाचेतनद्वारकमवस्था- श्रयत्वमद्वारकनियन्तृत्वावस्थाश्रयत्वं च; ततश्र महत्त्वाहंकारत्वादिल-
चेतनप्रपञ्चस्यापि माव्यवस्थाध्रयत्वेनाक्षरं प्रत्यपादेयत्वमसत्येव। तत-
Page 146
मु ० १ ख०? मुण्डकोपनिपत। १४३ अरेदं सर्धमिति विशपणमात्निर्देशेऽपि तम्य वक्ष्यमाणमक्षरमुपादानं भवत्येवेति-कस्मिन्रु भगवा विज्ञात सर्वमिदं विज्ञातं भवतीति विशे- पणमात्र उपादानप्रश्न उपपद्ते।अत एव महासिद्धान्ते कृत्सस्य जगता ब्रह्मकार्यतया, तदन्तर्यामिकतया, च तदात्मकृत्वनस्वात्ततप्रत्यनीकना- ६ नात्वं निषिध्यत इति भाष्यव्यास्यानावसरे व्यासार्येनिटिषयोरेवोपादा- नोपादेयभावः।न तु विशषणीभूतम्य चतनाचतनप्रपञ्चम्य त्रह्मोपादा- नकत्वम्। शरीरात्मभावस्तु निष्कृष्टविशेषणस्य च निष्कृष्टविशेष्यस्य? केवलब्रह्मान्तर्यामिकत्वादिति पक्षमाश्रत्य'तन्तयामिक तयेस्यमेनिष्क र्जगत इति शब्दान्तरमव्याहर्तव्यमित्युकत्वा सन्मला: सोम्येमाः सर्वा: प्रजा: सदायतना: सत्प्रतिष्ठाः। [छा० ६।८। ४] इति वाक्ये उपादानोपाठयभावप्रतिपाढक सन्मूला: सत्प्रतिष्ठा इत्यत्र प्रजाशब्दस्य ब्रह्मपर्यन्तत्वं सच्छव्दन्यावि सृक्ष्मचिदचिद्विशिट्टव्रह्मपरत्व, सदायतना इति शरीगत्मभावप्रतिपादकांश तु प्रजाशव्दस्य विशेषणमात्रपरतवं सच्छन्द्स्य विशेष्यमात्रपरत्व वह्मणी व्ह्मान्तर्यामित्वासंभवात्कयलपप- स्रस्य विशेष्यमात्रान्तर्यामिकत्वेअप विशिष्टान्तर्यामिकत्वाभावादित्यु क्त्वाडस्मिन्पक्ष सकृत्ययुक्तम्य प्रजाशब्दस्य नरुप्य सच्छव्दानां च वैरुप्यं जगत इति शब्दान्तराध्याहारादिलक्षणभाष्यकशं च पर्यालोच्य प्रजाशन्दस्य विशेषणमात्रपरत्वमेव सच्छव्दस्य विशेष्यमात्रपरत्वमेव।न च विशेषणीभृतचिद्चिद्वर्गस्य सदुपाडानकत्वं नास्तीति शङ्क्यम्। तस्यापि भाव्यवस्थावत्वेन विशिष्टस्येव विशेषणस्यावि जह्मो।पादानकत्व- संभवादिति स्वाभिमतं पक्षान्तर मुपन्यस्तं यदा जगत इति निष्कर्षक: शब्द इत्यादिना। आत्नेति तृषगच्छन्तीतिभाप्यादी सवस्य चिद्चिद्ध स्तुनस्तज्- तातल्वत्वात्तवनत्वात्तन्नियाम्यत्वात्तच्छरीरत्वाञ्च सर्वस्यायमात्मेति शरी- रत्वोपादेयत्वयोः सामानाधिकरण्य बहुकृत्व उदघुपितम। नचैतदन्यथा कर्तुँ प्रभवामः। 'वज्ञनोऽत्मना संपरिष्यक्तः'[त०सृ०४।३।२१ ]इति वाक्ये प्राज्ञशद्दित भिन्न परमात्मनि जीवस्य परिष्वङ्गरूपलयश्रवणाज्। न च परिष्वङ्गो न लय: कित्वन्य एव सेसगविशेष इति वाच्यम्। तयो: समानार्थकत्वस्यापलभ्यमानरवात्। न च जाग्रदाद्यव्थागतराग
Page 147
१४४ रङ्गरामानुजविरचित प्रकाशिकासमेता - [मु०१ ख० १] मात्मरूपेणावस्थानमेव 'सता सोम्य तदा संपन्नो भवति' इति वाक्यस्या- र्थोडभ्युपेतः स एव प्राज्ञेनाSडत्मनेति वाक्यस्याप्वर्थोऽसत्विति वाच्यम्। तथा सत्यस्य वाक्यस्य जीवपरभेदासाधकत्वेन 'सुपुप्त्युत्क्रान्त्योर्भैंदेन' [ब० सू०१।३।४२]इतिसूत्रासंगतिप्रसङ्गात। न च भाव्यवस्थावत्सर्वमुपा देयं पूर्वावस्थावत्सर्वमुपादानं चन्ाविमहत्व्राहंकारत्वाद्यवस्थावत्परमा
अतो भाव्यवस्थावतस्तद्भिन्नं पूर्वावस्थायोगो नोपाढ़ानमिति वक्तव्यम्। ततश्रेदशब्दवाच्यस्व विशेषणस्य न ब्रझ्मोपादानकत्वमिति वाच्यम्। भाव्यवस्थावतः पूर्वावस्थायोगि यत्कारणं तद्डुपादानमित्युक्तावतिप्रस- ङ्गभावात्। भाव्यवस्थावद्ब्रह्म प्रत्यचतनस्य हेतुत्वग्राहकप्रमाणाभावे नोपादानत्वाभावेडपि ब्रह्मणः सर्वकार्यकर्तुत्वश्रवणन भाष्यवस्थावद- चेतनांशं प्रत्युपादानत्वे नानुपपत्तिः। न च व्यक्तत्वमह्त्वाद्यवस्थाया अव्यक्तमहदादिनिष्ठत्वेपि ब्रह्मनिष्ठत्वाभावन पूर्वावस्थायगित्वाभावा तकथमुपादानत्वमिति चेदत्र व्यासार्याः-प्रकृत्यधिकरणे ब्ह्मणश्रिद- चिच्छरीरकतया प्रकृतेर्त्रह्मस्वरूपान्तगतत्वन प्रकृत्यवस्थानं ब्रह्मावस्था- त्वात्। न हि विशेष्यगात्रं विशिष्टस्य स्वरूपं विशिष्टस्य वस्तुनो विशि- ष्टमेव हि स्वरूप न हि घटस्य मृन्मात्रं स्वरूपममि तु घटलविशिषमू। ननु यदि विशेषणमपि स्वरूपान्तर्भूत तहि दण्डादयः संयोगादयश्र स्वरूपं स्यु:। तथा यावद्दव्यभाविनामपृथक्सिद्धविशेषणानामेव स्वरूपान्तभवविात्। किंच घटादिबस्तुन उद़काहरणढतत्तदसाद्षारण- करययोग्यत्वमेव स्वरपं न मृन्मातरं पिण्डेटकाद्ीनामषि घटस्वरूपत्व- प्रसङ्गात्। वटस्योदकाहरणं प्रति योग्यता नाम निक्छिद्दवटतवमव। यस्य वस्तुना यत्कार्यं यदाकारान्वयव्यतिरकानुविधायि स आकारस्तस्य चस्तुनस्तत्कर्य प्रति योग्यता यथा च वह्ररुप्णत्वं स्फोटजननेन यथा परशोनैशित्यं छेदनेन यथा च मृदो मृत्त्वं घटादिपरिणामश्लक्ष्णारद- भावश्र। एवं प्रकृतिपुरुषकालाश्र जगदूपेण बहुभवने परमात्मनो योग्यतास्थानीया अयुतसिद्धप्रकाराः। अत एव हि कचिच्छक्तिशब्देन जगदमिधीयते। कार्यापयाग्यपृथक्तिद्धविशेषणं हि शक्ति: । सा च योग्यता योग्यवस्तुनः स्वरूपान्तर्गता। अतो महदाद्यवस्थाश्रिदचिद्वि शिषब्रह्मस्वरूपगता इति नावस्थाश्रयत्वासिद्धिः । यतो विशिषं बह्म- स्वरूपमत एव हि तद्यथा रथस्यारेषु नेमिररितो नाभावरा अर्पिता
Page 148
[मु० १ ख ० १] मुण्डकोपनिपत्। १४५
एवमेवैता भूतमात्रा: प्रज्ञामान्नास्वर्पिता: प्रज्ञामात्रा: प्राणेऽर्पिता: [ौ० १८] इति अरनाभिस्वष्टान्त उपन्यस्यत। न हि नामिमात्रं रथचक्र किंतु नाभिवद्रनेमी अपि स्वरूपान्तर्गते। तथा अनुस्वमात्र: पुरुषोउन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरातवहन्मुआ्वादिवेषीकाम्' [का०२।१७] इति मुअषीकादष्टान्तक्ष श्रुतः।नहीपीकामात्रं मुख्ः किंतु बाह्मद्लविशिष्टेषीका हि मुख्जस्वरूप विशेष्यांशस्य दृष्टान्त इपीका। यथा हि कदली नान्या त्वक्पत्रान्नाथ जायते। एवं विश्वस्य नान्यत्वं त्वं मायीश्वर दृश्यसे।। इति त्वक्पत्रकदलीङ्ष्टान्तश्च चिद्चिद्विशिष्ं वरम्मम्वरूपमवगमयति । न हि बाह्यत्वक्पत्रेण बिना काण्डमातं कढली। अधि तु त्वक्पत्रवि- शिट्टकाण्डस्वरूपा। एवं विश्वविशिष्ट त्वत्स्वरूपं तत्र विशेष्यभूतस्त्वं विशेषणांशश्च विलक्षणश्र दृश्यस इति ह्यर्थः। इयान्भेद :- नाभीषी-
याम्यभावाभावात्र शरीरशशीरिभावः। अत एव नम्यादिशब्दाक्ष न विशेष्यवाचकाः। इह् तु नियन्तुनियाम्यभावादिना शरीरात्मभावसंभ- वाच्छरीरवाचिनः शब्दा बरह्मपर्यन्ता इति। अत एव महद्ाद्यवस्थाना विशिष्ब्रह्मम्वरूपावगतत्वादुवादानत्वं मुख्यम । किच मा भृत्प्रकृति- पुरुषयो: स्वरूपान्तर्भावस्तथा मुख्यत्वं यक्तं न. हि शरीरद्वारकं व्रह्मणो महदादयुपादानत्वममुख्यं कारणतानिर्वाहकाययवहितत्व्ा- ज्ज्वालाव्यवहहितस्य काषवस्य पाकं प्रति कारणत्ववत्। ननु मृद्यवहित- स्यापि कुलालस्य घटं प्रत्युपाद्ानत्वं स्यादिति चेत्न स्वस्ततसत्रनिष्ठमृत्पि- ण्डव्यवहितत्वात्। अतः स्वापृथक्सिद्धव्यवधानादुपादानत्वमविरुद्धम्। ननु तथाऽप्युपादानस्य कार्यावस्थाश्रयन्वं वाच्यम। कर्थं व्यवहितमवस्था- विशेषं प्रत्याश्रयत्वम। उच्यते-कम्भोदरसभृतमम्भः प्रति पुरुषस्वेव
म्मधारकत्वमेव नाम्भोध्ारकत्वमिति वाच्यम्। तथा सत्यम्भोघार- पजनितश्रमो न स्यात्। किंचाव्यवहितादपि व्यवा तस्याउश्रयत्वं मुखयं दृश्यते। यथाऽडस्तरणांशुकादृधि पर्यङ्कस्य यथा दर्भम्यो भूतल- स्याव्यवहितमप्यंशुकतं न पुरुषस्य धारकमसामर्थ्यात्। श्वभ्रमुखपिधाय- कविस्तीर्णमंशुकं न हि पदन्यासं धारयितुं प्रभवति कूपच्छादका हि दर्मास्तत्र निहितं पुरुषपढ न धारयन्ति। तस्मादंशुकाना दर्भाणां व
Page 149
१४६ रङ्गरामानुजदिरचित प्रकाशिकासमेता- [मु०२ ख० १] धारणासामथ्या्पर्यङ्गभूतलयोरेव सामर्थ्यादास्तरणदर्भाणां पुरुषसंयो- गमान्नव्यवधायकत्वमेव। अतः परमात्मनः सर्वावस्थाश्रयत्वं मुख्यमिति जगदुपादानत्वं मुख्यमेव। ननु जगदुपादानाव्यक्तशरीरकत्वेन जगदुपादा नत्वमुच्यते चेतु। वैशेषिकादिपक्षान्भ्वत्पक्षस्य को भेदः । नियाम्यवि शेषो हि शरीरमभिमतं चिदचितारीश्वरप्रेर्यत्वं तन्मतेऽप्यस्तीति चेतु। महत्तरोऽयं पर्यनुयोगः। वैशेषिकाकदप्रामाणिकमेव बयुस्तदुक्तं चेदना दरणीयमिति न नः प्रतिज्ञा। अस्मदुक्तार्थस्तदङ्गीकृतक्षेत्का नः क्षतिः। किंच साम्यमपि दुरुपपादम्। आकाशकालद्विगात्मवर्गस्येश्वरधार्यत्वा नभ्युपगमादित्याहुः। ततश्र वह्मणी जगद्ुपादानत्व नानुपपत्तिः। ननु तथाऽपि ब्रह्मज्ञानाच्छरीरभूतपपञ्चज्ञानं नोपपद्यते तम्य तन्भिन्नत्वात्। न च सूक्ष्मचिदचिद्विशिष्टस्वरूपे बरह्मणणि ज्ञायमाने सर्वस्यापि तद्न्तर्ग- त्वात्, वने ज्ञाते तदन्तर्गतः पनसो ज्ञातो भवतीतिवत्प्रपक्चो ज्ञातो भवतीतिनिर्देश उपपद्यतामिति वाच्यम्। भवन्मते ब्रह्मणोऽवस्थाश्र यत्वाभ्वनोपादानत्वस्यैवासंभवात्। तथाहि-सत्यं ज्ञानमनन्तं बह्मेति लक्षणाश्रयस्य चेतनाचेतनवर्गस्य ब्रह्मस्वरूपान्तभववि प्रमाणाभावात्। न च विशेष्यांशस्य लक्षणं 'सत्यं ज्ञानमनन्तम् ' [ तै० श११] इति विशिष्टस्य जिज्ञास्यस्य ब्रह्मणस्तु लक्षणं जन्माद्येवेति सूत्रकाराभिप्राय इति जन्मादिसूते व्यासार्येरुक्तमिति वाच्यम्। कारणशोधकवाक्ययो भिन्नविषयत्वस्यासंमतत्वात्। आत्मन आकाशः संभूत: [ते० २१] इत्यात्मन एवोपादानत्वाभिधानाच । किं च- न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः। सता मात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे।। प्रककृतिर्या मयाSडख्याता व्यक्ताव्यक्तम्वरूपिणी। पुरुपश्राप्युभावेती लीयेते परमात्मनि॥ अव्यक्तं पुरुषे ब्रह्म निप्कले संपलीयते। तमः परे देव एकी भवतीति प्रमाणप्रतिपन्नस्याव्यक्ततम:शब्देन लया- धिष्ठानभूतस्यैवाक्षरत्परतः पर इति चिद्चित्कारणभूतस्येव प्रति- पिपादयिपिततया तत्र चिद्चिदनुप्रवेशस्य वक्तुं शक्यत्वाज्चिदचिल्लेश- लक्षणासदंशानुप्रवेशे सता मात्रात्मकत्वभङ्गप्रसङ्गात्। अस्तु वा विशिष्ट ब्रह्म तथाऽपि 'वाचाऽSरम्भणं विकारे नामधेयं सृत्तिकेत्येव सत्यम्' [छा०
Page 150
[मु० १ख० १] मुण्डकोपनिपत्। १४७
पपादिततयेहैदं सर्वभिति, इदतास्पदृतया प्रतीयमाने विशेषणभूते जगति विशिष्टाभेदासंभवाच्छरीरगतावस्थायाः शरीरिनिष्ठत्वमिति यदुक्तं तत्तु सर्वलौकिकतान्त्रिक विरुद्धम्। 'न तु दृष्ठान्तभावात' [ब० सू०२१।९]
परिभाषामात्रत्वात्। किंचोत्वादयं हुपादेयं भवति उत्पाद्यं च भवन्मतेन द्रव्यं तस्य नित्यत्वाच्छन्दस्पर्शादिलक्षणाया द्व्यरूपावस्थाया एवोत्प- सेस्तस्याश्र ब्रह्मणाSमेदगन्धस्यंवाभावात्। ननु घटत्वावस्थैव घटदरव्य- स्योत्पत्तिर्सृत्पिण्डम्य विनाशश्र द्रव्यस्योत्तरोत्तरसंस्थानयोगस्तत्पूर्वसं- स्थानसंस्थितस्य विनाश: स्वावस्थस्य तृत्पत्तिः । अवस्थाया उत्पत्तिम- त्वचोदनमुत्पत्तेरुत्पत्तिमत्त्वचोदनमिव जात्युक्तिर्म्वति। परथक्प्रतिपत्ति- कार्यार्हाणामेव पृथगुत्पत्त्यादिकमपेक्ष्यते। पृथक्प्रतिपत्तिकार्यानर्हधर्मा: पृथगुत्पत्तिनिरपेक्षाः । अत एव ह्यत्पत्तेरुत्पत्त्यादिनरपेक्ष्यम्। तस्मादपृ- थक्सिद्धधर्मास्तु स्वयं धर्मिण उत्पत्त्याद्यवस्थाभूता अतोऽवस्थेव वस्तुन
शिकयोरुपपादितमिति चेन्न। घटत्वावस्थाया एव घटोत्पत्तिसृत्पिण्डवि- नाशरूपत्वे यावद्घटत्वावस्थासत्वं घट उत्पद्यते सृत्पिण्डो नश्यतीति प्रसङ्गो न तु घट उत्पन्नो सृत्पिण्डो विनष्ट इति। न च घट- त्वावस्थागताद्यक्षणसंबन्ध एव घटस्योत्पत्तिरिति वाच्यम्। यस्य ह्यागन्तुकत्वमाद्यक्षणसंचन्धोऽभूत्वा मवनं वास तस्योत्पत्तिः। यस्य तु तन्नास्ति तस्योत्पत्तिरित्यस्य परिभाषामात्रत्वात्। घटे रुपरसा- दिषु संयोग च जायमाने तदाशयोत्पत्तिव्यवहाराभावादन्यतरकर्मज उमयकर्मजः संयोग इत्यादि प्रतीतिव्यवहारादिकं सर्बं निमलं स्यात्। 'छन्दांसि यज्ञा: कतवो वतानि' [शे०४1१] छन्द्रांसि जज्ञिरे तस्मादित्यादीनां वेदोत्पत्तिपतिपादकानामप्रामाण्यं स्यात्। शब्द उत्पन्न इति प्रतीतिव्यवहारी न स्यातामाकाश उत्पन्न इत्येव प्रतीतिव्यवहारी स्यातामपृथक्सिद्धधर्माणामुत्पत्तिविनाशाभावे शरी- रस्योत्पादविनाशी न स्याताम्। आत्मन एव तो स्थातां किं बहु- नेश्वरव्यतिरिक्तस्य कस्याप्युत्पादविनाशी न स्यातामीश्वरस्येव स्याताम। नन्वपृथक्सिद्धस्याद्रव्यस्येवात्पत्तिविनाशी नाम्युपयेते द्रव्यस्य तो र्त एवेति चेन्न। विनिगमकामावाद्वैपरीत्यस्यापि सुबचत्वाच्च। किच प्रकृतिरुपादानं विकार उपादेयमिति निर्विवादम। वाचाऽडरकमणं
Page 151
१४८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० १ख०१] विकारो नामधेयमित्यत्र घटत्वावस्थाया एव विकारशव्देनाभिहिततया यथा सोम्यैकेन सृत्पिण्डेन सर्वमिदं मृन्मयं विज्ञातं स्यादिति पूर्ववा- क्येऽपि विकारार्थमयद्प्रत्ययेन तस्या एवाभिधातुमुचिततया तस्या एवोपादेयत्वं सिद्धवत्कृत्य विज्ञातत्वाभिधानात्। भवन्मते चावस्थाया ज्ञातत्वासंभवादतुपपत्तिस्तदवस्थेव। न च सर्वं मृन्मयं विज्ञातं स्यादि- त्यत्र यटूप्रत्ययार्थविकारस्त्ववस्थावान्। वाचाऽडरम्भणं विकार इत्य- त्रावस्था विकारशव्देनोच्यतें सृत्तिकेत्येव सत्यमित्यभेदप्तिपादनांशे नुषक्ेन मृन्मयमिति पदेन पुनरप्यवस्थावान्विकार: परामृश्यत इति वाच्यम्। अस्या उक्तेः परिहासमात्रफलत्वात। तस्मात्सवं मृन्मयं वाचाSडरम्भणं विकारो सृत्तिकेत्येव सत्यमितिस्थलत्नयेऽ्यैकरूप्यमेव वक्तव्यं तस्माद्विकाररूपावस्थाया युप्मन्मते ज्ञातत्वानभ्युपगमात्। एक- विज्ञानेन सर्वस्य तद्भिन्नस्य विकारस्य ज्ञानमनुपपन्नमिति चेदुच्यते- प्रकृतौ जातायां विकृतिर्ज्ञाता भवतीत्यस्यायमर्थः-प्रकृतिविकृत्योः कार कव्यापारवैयर्थ्यप्रसङ्गाद्भेदसत्त्वेपि पृथक्स्थितिप्रतिपत्त्यनर्हत्वेन पृथ कसत्ता नास्तीति सिद्धम्। ततश्राभिन्नसत्ताककारणमुपादानं प्रकृति- रात्मेति पर्यायास्तन य नैयायिकास्तदेव स्फुटतरविवेकप्रकाशरहित- मयुतसि्धं कारणं समवायिकारणमिति व्यवहरन्ति। कार्यभिन्नाभिन्नं कारणसुपादानमिति भेदाभेदवादिनो भिन्नतयाऽभिन्नतया वा दुर्वचं कारणमिति केचित्। भिन्नत्वे सति अभिन्नसत्ताकं कारणमित्युच्यते।
वादिरूपावस्थेव विकारो घटशरावादिनानासंस्थानावस्थारूपविकारा पन्नं नानानामधेयमपि मृत्तिकासंस्थानविशेषत्वान्यद्व्यमेवेत्थमवस्थित- मिति वेदार्थसंग्रहेऽवस्थाया विकारत्वकथनात्तस्य च मृदश् दण्ड- घटयोरिव पृथकस्थितिप्रतिपत्त्योरभावात्तदपृथक्सिद्धत्वेन घटापृथक्सि द्धकारणत्वरूपोपादानत्वस्य सृदि सत्त्वान्मृदो घटशरावादिप्रकृतित्वमा त्मत्वं च ततश्र तस्यां मृदि ज्ञातायां घटशरावादिलक्षणतदवस्थारूपवि कृतीनां पृथकिस्थितिप्रतिपत्त्यनर्हाणां मृत्सत्तया सत्तावत्त्ववन्सृ-ज्ञाततयैव ज्ञातताश्रयत्वात्सर्वमिदं ज्ञातमिति शक्यते वक्तुमेवं म्रह्मणोऽवि चेतना. चेतनसमस्तप्रपश्चं प्रत्यपृथक्सिद्धकारणत्वेन सर्वप्रकृतित्वेन सर्वात्मतया ततो भिन्नत्वेन प्रदर्शनायोग्यतया ज्ञातत्वं सिद्धम्। ननु माष्ये केषलमे-
Page 152
[मु० १ख०१] मुण्डकोपनिषत्। १४९ दवादिनं चात्यन्तभिन्नयोः केनापि प्रकरेणैक्यासंभवादेव ब्रह्मात्मभावो- पदेशो न संभवतीति सर्ववेदान्तपरित्यागः स्यादिति केवलभेदस्य प्रतिक्षिप्तत्वात्- एकत्व्रे सति नानात्वं नानात्वे सति चैकता। अचिन्त्यं ब्रह्मणो रूपं कस्तद्वेदितुमहति॥ इतिस्मृतिवशाज ङ्वह्वणोर्मिन्नाभिन्नत्वमेव भगवतो भाप्यकाराभि- मतम्। ततश्र कार्याभिन्नं कारणमुपदानमित्येवास्तु। एवं सति सर्व- स्यापि तद्भिन्नत्वात्सर्वविज्ञानमप्युपपद्यते। हरन किंचिद्यतिरित्तमस्ति एक: समस्तं यदिहास्ति किचित। तदुच्यते नास्ति परं ततोऽन्यदेकं सदैकं परमः परेशः ॥ स वासुदेवों न यतोऽन्यदस्तीत्यादिनिषेधाश्र केवलभेदाश्रयनिषेधक- तयोपपद्यन्ते केवलभेदपक्ष शरीरभृतय जगत आत्मभिन्नत्वाद्भिन्न- निषेधो नोपपद्यतऽतः कार्याभिन्नं कारणमुपादानमित्ववाकत्विति चन्र। भेदाभेदवादे तु ब्रह्मण्येवोपाधिसंसर्गात्तत्प्रयुक्तजीवगता दोषा ब्रह्मण्येव
रोधादेव परित्यक्ता: स्यरिति तत्रैव भेदाभेदपक्षस्य भाष्ये दूषितत्वात्। बह्माज्ञानपक्षादृपि पापीयानयं भेदाभेदपक्ष इति वेदार्थसंग्रहे निन्दि- तत्वाद्धेदाभेदवादो न भाव्यकाराभिमतः। ननु यदि भेदाभेदो न भाष्य- कृदभिमतः कथं तर्हि केवलभेदवादिनां चात्यन्तभिन्नवोरिति भाव्यमुप- पद्यतां शरीरात्मभावो ह्वत्यन्तभद एव प्रकारपकारिभावो हि भेनरूपों नियमेन प्रकारप्रकारिभावलक्षणः शरीरशरीरिभावो हि नियमेन भेद- रूप इति शरीरात्मभावे केवलभेद एव हढीकृतो भवति। अत एव हि उभयोरषि हि भेंदेनैनमधीयत इति शरीरात्ममाव एव भदत्वेन वर्णित इति ेदुच्यते-अत्यन्तमिन्नयोरित्यादिभाव्यस्यायं भावः-लोके ह्ैक्यव्यय- हारे स्वरूपैक्यं तन्त्रं तदभावे देशादिलक्षणप्रकारिक्यं यथा सायं गोष्ठे सर्वे गाव एकी मवन्ति। राजान एकीमृता एको बीहिरित्यादो देशवुद्धिजात्याद्यभेदत इह तु जगद्वह्मणोः स्वरूपतो भिन्नयो: केन- चिदाकारेणाभेदो वक्तव्य: सक इतिविचारेSपृथक्सिद्धविशेषण-
कृदमिमतमिति प्रतीयते। सिद्धिर्नाम स्थितिप्रतिपत्तिश्र पृथकस्थि- तिप्रतिपत्तियोग्य इति माध्यादिग्रन्धेपु बहुशो व्यवहारदर्शनात्स्थि-
Page 153
१५० रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० १ ख०१] प्रत्तिपत्त्योरभावादवसीयते। ननु घटो मूतले वर्तते नीलादिगुणस्तु घटे तथा गन्धरसशब्दानां द्रव्यप्रतिपत्तिमन्तरेणापि पृथक्प्रतिपत्तिर्दष्टातः कथं स्थितिप्रतिपत्त्यैक्यमुपपद्यताम्। न च तावेवायुतसिद्धी हौ विज्ञातव्यौ ययोद्वयोरवश्यमेकमपराश्रितमेवावतिष्ठत इति तार्किकोक्तम- युतसिद्धत्वमेवापृथक्सिद्धत्वमिति वाच्यम्। तथा हि सति विनियताश्रया- श्रयिभावलक्षणायुतसिद्धत्वस्य भेदैकसाधकत्वेन प्रकारैक्यासाधकत्वा- दिति चेन्न। पृथक्प्रतिपत्तिकार्यार्हाणामेव पृथगुत्पत्त्यादिकमपेक्षितमित्या- दिश्रुतप्रकाशिकाग्रन्थपर्यालोचनायां यस्योत्पत्तिविनाशापक्षयसत्तादि कमाश्रयोत्पश्यादिनैव व्यवह्नियते तत्तदपृथक्सिद्धमिति फलति। ततश्र यदुत्पस्योत्पद्यत इति उयवह्नियते यत्सत्तया सदिति व्यवह्नियते न तु सत्तान्तरमपेक्षते तत्तदपृथक्सिद्धमिति। ततश्र विकृतेः प्रकृतिसत्ताति- रिक्तसत्ताशून्यत्वाद्भिन्नसत्ताकं कारणत्वमुपादानत्वं तदेव चाउडत्मत्वं
वर्दतो मगवतो भाष्यकारस्याप्यभिमतम्। नह्यत्राऽडत्मत्वमन्तःप्रविश्य नियन्तृत्व रूपं ताद्ृशात्मत्वस्योपादानत्वाप्रयोज्यत्वात। नह्युपादानत्वनि- यन्तृत्वाभ्यां न निर्वाह्यमात्मत्वं नियन्तृत्वरूपं भवति, अम्मदुक्तमात्मत्वं तूभयनिर्वाह्यं भवति। कथमुच्यते-तज्जत्वादिनाऽचेतनांश उपादान त्वलक्षणमात्मत्वं लति तनन्नियाम्यत्वादित्यनेन जीवरूपेण नियन्तृत्वं विवक्षितं जीवापृथक्सिद्धमिति यावत्। ततश्र चेतनवर्गस्यापृथक्सिद्ध- कारणत्वलक्षणमुपादानत्वमुक्तं भवति। ततश्र ब्रह्मव्यतिरिक्तचेतनाचे- तनवर्ग प्रति ब्रह्मणोSपृथक्सिद्धकारणत्वलक्षणाभिन्नसत्ताकारणत्वरू- पोपादानत्वप्रकृतित्वापरपर्यायंत्वस्य सत्वादात्मभूते तस्मिञ्ज्ञात इतर- त्सवं ज्ञातमेव। इतरस्य पृथक्प्रतिपत्तियोग्यस्य ज्ञातव्यस्याभावात्तत्स- त्तया सदिति व्यवहारवत्तज्ज्ञाततया ज्ञातमिति व्यवहतुं शक्यत्वात्। न च प्रप्चस्य ब्रह्मसत्ताव्यतिरिक्तसत्ताभावे सृषावादिमतवन्मिथ्यात्वं स्यादिति वाच्यम्। यथा गुणगतजात्यनभ्युपगन्तृमते रूपादी सद्बुद्धेर्द्र- वयगतसत्ताविषयत्वेऽपि न रूपादिमिथ्यात्वम्। यथा वा द्रव्यगतगुणादिषु द्वित्वैकत्वादिसंख्या प्रतीतेर्द्रव्यगतसंख्यानिर्वाह्यत्वऽपि रूपादिगतसंख्या- प्रतीतेर्न भ्रान्तित्वम्। यथा वा सिद्धान्ते घटत्वाद्यवस्थाया सृङ्गव्यापेक्ष- य्रोत्पत्तिस्थितिसत्तानां पार्थक्यामावेऽि न तत्रोत्पत्तिस्थितिसत्ताप्रतीते-
Page 154
[मु० १ स= १] मुण्ड कोपनिषत्। १५१
त्वप्रतीतेभ्रान्तित्वं न वा प्रपञ्चस्य मिथ्यात्वम्। अत एव नैकस्मिन्नसंभ- वाद् [ब० सू० २।२३३] इति सूते कालस्य पदार्थविशेषणतयैव प्रतीतेस्तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः । कालोऽस्तीति व्यवहारो जात्याद्यस्तित्वव्यवहारतुल्य इति स्पष्ट माषितम्। अतो ब्रह्मसत्ताव्यतिरिक्तसत्ताशून्यत्वऽपि प्रपश्चस्य न मिथ्यात्वम्। नन्व-
कारमित्यसूरिप्रभृतिनित्यविभूति प्रत्यात्मत्वं न स्यात्कारणत्वाभावे- नोपादानत्वाभावात्। ननु च 'प्रतिज्ञाहानिरव्यतिरेकात्' [ब० सू० २।३ । ६ ] इतिमृत्रे वियदादेर्वह्मण उत्पत्त्यनभ्युपगम एकविज्ञा-
रप्युपादेयत्वमभ्युपगन्तव्यमतरथा सर्वविज्ञानपतिज्ञाहानिप्रसङ्गात्
मवति' [छा० ६।१।३] सर्वमिदं विज्ञातं भवतीत्यादावश्रु- तादिश्दाना नित्यविभूतिव्यतिरिक्तपरतया संकोचः क्रियतामिति वाच्यम्। आकाशवत्सर्वगतश्र नित्यो वायुश्रान्तरिक्षं चैतदमृतम् ।
दिति चेन्न। नित्यविभृतर्नित्यत्वानभ्युपगमे बह्गुप्रमाणसंक्षोभप्रसङ्गात्। अश्रुतादिशं्दानां नित्यविभूतिव्यतिरिक्तपरतया संकोचाभ्युपगमेऽपि
रूप चातीन्द्रियमन्तः करणप्रत्यक्षनिर्दशादिति यथा ज्ञानादय: परस्य ब्रह्मणो रूपतया निर्देशात्म्वरूपभूता गुण्ास्तथेदमपि रूपं श्रुत्या स्वरूप- तथा निर्देशात्म्वरूपभृतमित्युक्तत्वात, 'यदात्मको भगवांस्तदात्मिका भगवतो व्यक्ति:' इति श्रुतभगवद्विगहादिकं सर्वमात्मस्वरूपादव्य- तिरिक्तमित्येवास्युपगम्यताम्। एवं चैकविज्ञानेन सर्वविज्ञानप्रति- ज्ञाऽपि न कृशिता भवति। न व वापीकूपारामादीनां कर्थं ब्रह्म- रूपत्वमिति वाच्यम्। वापीकूपोद्यानादिपतिपादकवाक्याना तत्तत्की- डाजनितसुखानां ब्रह्मानुमवाम्बुनिधिलव कणिकायमानत्वमित्यत्र तात्प- र्या। यञ्चास्पेहास्ति यञ्च नास्ति सर्व तदस्मिन्समाहितं सर्वाणि च भूतानि सर्वे च कामा इति वाक्पस्य ब्रह्मण: सर्वविधभोग्यत्वमस्ती-
Page 155
१५२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० १ख०१] त्यत्र तात्पर्यमिति दहराधिकरणे भाष्यश्रुतप्रकाशिकयोः स्थितत्वादिति चेन्न। अर्चिरादिमार्गेण विरजानदीमतिक्रम्य गन्तव्येऽपराकृते लोके तदै- रंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्बह्मण इत्यादिवाक्य प्रतिपन्नानां सरोश्वत्थादीनां ब्रह्मस्वरूपमात्रत्वस्य वक्तुमशक्यत्वात्। द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च। क्षराक्षरस्वरूपे ते सर्वभूतेपु च स्थिते॥ इति अमूर्तशव्दितमुक्तात्मस्वरूपस्यापि शरीरवाचिना रूपशब्देन निर्देशेन मुक्तात्मस्वरूपस्य परब्रह्मस्वरूपताया वक्तुमशक्यत्वात्। *सोजनुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता'[तै० २।१] स
च भेदप्रतीत्या नित्वसूरीणां ब्रह्मस्वरुपमात्रत्वासंभवात्तान्पत्यवि प परमात्मन आत्मत्वस्य वक्तव्यत्वान्नित्यसर्यादीनां नित्यतया तान्प्रत्युपा- दानत्वलक्षणात्मत्वासंभवात्कथं तस्य सर्वात्मत्वं सिद्धमिति चेतु। यदि नित्यपदार्थान्प्रत्यप्यात्मत्वं परमात्मनो वक्तव्यमिति निर्बन्धस्तर्हि तान्प-
त्तिनिमित्तमस्तु इतरत्रोपदानत्वमेतद्रूषं चाSडत्मत्वं तज्जत्वादिभिरुपपा द्यमिति नानुपपत्तिः। ततश्रांपादाने ज्ञाते तदपृथक्सिद्धमपि ज्ञातं भव- तीति एकविज्ञानेन सर्वविज्ञानमुपपन्न भवति। यद्वा यथा को भवा- निति सौवीररार्जप्रश्नस्य प्रकृतिसंसृष्टात्मविषयत्वेऽि वस्तुगत्या भवच्छ- व्दमुख्यार्थत्वं परिशुद्धात्मस्वरूपस्यैवोचितमिति मत्वा तस्यैव भवच्छ- वदमुख्यार्थत्वं प्रदर्शयन्नादिभरतो यदा समस्तभूतेपुपुमानेको व्यवस्थितः। यद्यन्योडस्ति परः कोऽपीत्यादि प्रत्यवोचत्। यथा वाऽथर्वशिरसि रुवं प्रति देवैः प्रयुक्तस्य को भवानिति प्रश्नस्य पुरोवर्तिरुद्रमात्रपरत्वेऽि भवच्छव्दस्य परमात्मपर्यन्तत्वशिक्षणायाहमेकः प्रथममासमित्यादि प्रतिवचनप्रवृत्तिः। एवं सर्वमिदं विज्ञातमिति प्रश्नस्य विशेषणमात्र- परत्वेऽपि विशेष्यमात्रपरत्वं तत्र शिक्षणाय स्थूलचिदचिच्छरीरकं बह्म प्रति सूक्ष्म चिदचिच्छरीरकं ब्रह्मवोपादानमित्येतदर्थप्रतिपादकस्य प्रति- वचनसंदर्भस्य प्रवृत्तौ दोपाभावादिति प्रपश्चितं चेद्मस्माभिर्बृहदारण्य- कपकाशिकायामित्यलमतिचर्चया ॥ ३ । तस्मैं स होवाच। स्पटोडर्थ: ।
Page 156
[मु० १ ख० १] मुण्डकोपनिषत् । १५१
द्वे विदे वेदिव्ये इति ह स्म यद्ह्वचिदो वदन्ति। अत्र प्रापुमित्यध्याहारः। यहस्तु भातुं दे विद्ये ज्ञाने उपादेयभूते इति ह वेदाभिज्ञा: पराशरद्य:। तत्माप्तिहेतुविज्ञानं कर्म चोकं महामुने। आगमोत्वं विवेकाच् द्विषा ज्ञानं तथोथ्यते॥ शब्दतदागममयं परं वह्म विवेकजमिति यददन्ति तज्ज्ञाने सर्वमिवं विज्ञातं भवतीत्यर्थः। एतत्मर्वमभिप्रेत्य भगवता माप्यकृता हे विदे वेदितव्ये इतिह्स्म यद्गह्वविदो वतन्ति परा चैवापग चेति बह् प्रेप्सुना द्वे विद्ये वदितव्ये बहाबिपये परोक्षापरोक्षरपे दे ज्ञाने उपादेये हत्यर्थ इति भावितन। पतन परविद्याया वह्मपप्सृपादियत्वेऽपि अपर- विद्यायास्तथात्वापतीतेः। अश्र परा यया तदक्षरमधिगम्यत इति वाक्य- पर्यालोचनयाऽपरविद्याया वहप्रप्सृपादियत्वाभावस्यैव प्रतीतेः । बह्म प्रेप्सुना हे विद्ये उपादेये इति भा्यं कथमिति शकुादप निरस्ता। प्रासुमितिपढाध्याहारणास्थार्थम्य प्ततः। इतरथा यत्पद्वैयथ्यात। किंच कस्मिल भगव इति सर्वापादान पृष्टे विद्यादयमाख्ानपृष्टः कावि- दारानाचट्ट इति न्यायमनसरेत। जनो यथोक्त एवार्थ:। ओदनपाक पचतीतिवद्वे विद्ये वकतव्ये [इति]निदशः। के से विद्ये इत्यत्राउडह- परा पैवापग च।। ४ ॥ इति। परमपरमिति ज्ञानं हिविधमित्यर्थः । ४ ।।
तत्रापग-कग्वेदा यजुर्वेद: सामवेदोऽथर्ववेव: शिक्षा कल्पो व्याकरणं निरुकतं छन्दो ज्योतिप-
मित्यर्थः । षडङ्गोपेतसशिरम्कसकलापबृंहणवद्अवणजन्यं ज्ञानं परोक्षज्ञान-
अपरविद्यामुक्त्वा परविद्यामाह- अथ पग यया तदक्षन्मधिगम्यते। ५ ॥ अत्र सच्छन्द इति ह स्म यद्रह्मविद इति यच्छगपतिनिर्देशकः ।
Page 157
१५४ :यु१०स्व० १]
येन ज्ञानेनेति ह स्म ब्रह्मविद इति वाक्ये प्राप्यतया निर्दिष्ट तवक्षरम- धिगम्यत इति। आधिक्येन गम्यतेऽपरोक्षी क्रियत इत्यर्थः । विवेकावि साधनसप्तकजन्यें भ्रवणजन्यपरोक्षज्ञानानन्तरभा विदुर्शनसमानाकारज्ञानं परज्ञानमित्यर्थः। एतेनाधिगम्यत इत्यस्य ज्ञायत इति वा माप्यत इति वार्ऽर्थस्याऽडश्रयणीयतया परविद्याया एव ब्रह्मविषयत्वत्रह्मपाप्तिहेतु- त्वयो: सिद्धापरविद्याया ब्रह्मविषयत्वतत्प्राप्तिहेतुत्वयोरभावेनापरवि
परविद्याया अपरोक्षज्ञानरूपत्वे प्रमाणानुपलम्भादपरोक्षत्वप्रतिपादकभा- ष्यस्थाप्यसंगतिरिति वूषणं परास्तम्। अधिगम्यत हत्यस्यापरोक्षी क्रियत इत्यर्थकत्वात्। नन्वेतदुपबृंहणे भीविष्णपुराणे -.. दे विद्ये वेवितव्ये इति चाऽडथर्वणी श्रुतिः । परया त्वक्षरपाप्तिर्कग्वेाविमयाऽपरा।। इति। अधिगम्यत इत्यस्य प्राप्त्यर्थतयोपषृंहितत्वात्कथमिव्मुध्यत इति चेन्न। यदि उपबृंहणानुसारेण प्राप्त्यर्थकतया व्याख्यातव्यमिति निर्ष न्धस्तर्हि, इति हस्म यब्ा्मविदो वदन्तीति पूर्ववाक्ये परापरविद्ययोई्यो- रपि ब्रह्ममाप्तिहेतुत्वस्य कथितत्वेन यया तदक्षरमधिगम्पत इत्यस्यापर- विद्याव्यावर्तकत्वाभावप्रसङ्गेन तद्यावर्तकत्वार्थ साक्षादिति पद्मध्या हृत्य यया साक्षावृक्षरमधिगम्पते पराप्यते सा परविद्येत्यस्तु। अपरो- क्षत्वं त्वर्थाल्लम्यते भत्यन्तरे 'निचाय्य तन्सृत्युमुखात्म्रमुच्यत' [का०३।१५] 'तस्मिन्दृष्टे परावरे' [मृ०२२८] इत्याविवर्शनाढिति दष्टव्यंम्। ननु 'स्वाध्यायस्य तथात्वेन' [ब० सू० ३।३।३] इति सूत्रे तेषामेवैतां बह्म विद्यां वदेतेत्युपसंहारगतवह्मविद्याशस्य ब्ह्मविद्यां वेवुविद्यामित्युप निपत्परतया भाष्यकृता व्याख्यातत्वात्। 'येनाक्षरं पुरुप वेव सत्यं प्रोवाच तां तस्व्रतो श्रह्मविद्याम '[मृ०१।२४३] इति द्वितीय खण्डगतब्रह्मविद्याश वदस्यापि तत्परत्वस्यीचित्यादुपक्रमे च ब्रह्मविद्यां सर्वविद्यापतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहेत्युक्तिकर्मतया श्ूयमाणाया ब्रह्मविद्याया उपनिषद्ठन्थरु पत्वस्यवीचित्यात्। तत्रापरा-बाग्वेदो यजुर्वेद: सामवेद इत्यत्र ऋग्वेदादि श्दानां तज्जन्यज्ञानलक्षणाया अयुक्तत्वेन विद्याशव्दस्य अ्रन्थपरत्वाश्रय णस्य युक्तत्वात्। परविद्याशव्देनापि साक्षाब्वह्मपापकोपनिषद्रन्था एवा मिधातुमुचितत्वात्। ततश्र परोक्षापरोक्षरूपज्ञानपरत्वेन युक्तं पश्याम इति चेदत्रोच्यते-यदि परविद्याशव्देनोपनिषङ्ग्न्थसंदर्भविशेषं प्रतिपाद्य
Page 158
[मु० १ ख ०?] मुण्ड कोप निपत्। १५५
ऋग्वेदादिशब्वेन मुख्यया वृत्त्या, ऋग्वेदावय एव प्रतिपाद्यास्तर्हि महा- प्रतिपादकोपनिषदासृग्वेदादिवहिर्भावप्रसङ्गेनन या वेदबाह्याः स्सृतष इत्युक्तरीत्याऽसदर्थत्वमेव स्यात्। ऋग्वेदादिशव्दाना गृख्यार्थमाश्रितष- द्विरपि परेरुपनिषदा वेदबाह्यत्वपसङ्गत्पर विद्याशब्दो ज्ञानवाचीत्युक्तम्। इर्यास्तु विशेष :- परमते द्वे विद्ये वेदितव्ये इत्यत्र सकृत्प्रयुक्त एव विद्या- शब्दः सत्यपि साधारणे प्रवृत्तिनिमित्तऋग्वेदादिग्रन्थसंदर्मलक्षणापर- विद्या बह्मज्ञानलक्षण परविद्या च वक्तीति दोपोऽस्तीति। अस्मन्मते स नास्ति। किंच परव्याख्यान ऋग्वदादिवद्यविलक्षणत्वादम्रह्मणो वेवेश्व सर्वैरहमेव वेद्य: [गी० १५1४५] इति स्मृतिः पीउ्चेतात ऋग्वेवादिजन्यं ब्रह्मविषयकमेवेत्येव युक्तम। अतः परापरज्ञानशव्वितपरोक्षापरोक्षज्ञान- विषयत्वं ब्रह्मण एवेति माध्यकारीया रीतिरेव साधीयसी ॥५॥
पाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यज्धूतयोनिं परिपिश्यन्ति धीराः ॥६॥ अद्रेश्यमहटश्यं ज्ञानेन्द्रियाविषयः। अग्रारहय पाण्पाविकार्यहानोपाव- नाद्यविषयः । अगोत्रं कुलरहितम। अवर्णमपेतवह्मक्षभ्ादिकम् । अचक्षु:भरत्रं ज्ञानेन्तवयरहहितम्। तत्मसत्दम। अपणिा कर्मन्व्रिय- रहितम्। नित्यं कालापरिच्छिन्नम्। विभुं वेशापरिच्छिन्नम् । सर्वग तं सर्वत्रान्तः प्रविश्यावस्थितम्। तत् हेतुमाह-सूक्ष्ममति। उक्तविशेष- विशिष्टं यत्तदव्ययम। अथ परा यया तदक्षरमित्यत्राक्षरश्दनिर्दिह- मित्यर्थः। यद्मूतयोनिं परिपश्यन्ति धीराः । प्रज्ञाशालिनो यत्तत्सर्व- मूतोपादानतया पश्यन्तीत्यर्थः। योनिशब्स्योपादानवचनत्वं 'मथोर्ण- नामि: सृजत गृह्णते च' [ मृ० १।१६] इति वाक्यशेषादयगम्यत इति प्रकृत्यधिकरणे माषितम् ॥ ६॥ ननु भूतयो निशब्दनिर्दिष्टं सर्वोपादानत्वं ब्रह्मणो न संमवति। घटा-
मृदादिष्वपि ब्रह्मण आत्मतया व्याप्तत्वान्मृवादिरूपस्य ब्रह्माण उपादा-
यस्मात्परं नापग्मस्ति किंचित। मत्र परशब्ध उत्कृषवचनः । अपरशब्दोऽन्यवचनः। यस्मावन्यतु-
Page 159
१५६ रक्ष-रामानुजविरचितप्रकाशिकसमेता- [मु. १ ख० १]
त्फृष्टं नास्तीत्यर्थः। नात्र परापरयोरह्वयोरषि निषेधः। तथा सति नमः
यस्मान्नाणीयो न ज्यायोऽस्ति कश्वित। अणोरणीयाज्महतो महीयानिति भाव: । अणीयस्त्वं सूक्ष्मत्वं व्यापि- त्मिति फलति। उपायस्त्वं सर्वेश्वरत्वं सर्वव्यापित्वात्सर्वश्वरत्वादस्यैष, एतद्यतिरिक्तस्य कस्यापि ज्यायस्त्वमणीयस्त्वं च नास्तीत्यर्थ इति वेवार्थसंग्रहे व्याख्यातम्। कश्िदिति विङ््व्यत्ययश्छान्दसः । वृक्ष इव स्तब्धो दिवि विष्ठत्येक: । नन्तव्यवस्त्यभावाद्वक्षवपणतस्वभावः सअ्वमत्पधानभृतः परम- पद आस्त इत्यर्थः । तेनेदं पूर्ण पुरुषेण मर्धग।७।। निययनार्थमन्तरप्रविट्वेन सर्वमिद व्याप्तगित्यर्थः। अतश्र सृदाविकश- रीरकस्य ब्रह्मणो घटाढ़ावप्यपादानत्वसंभवादभृतयोनित्वं नानुपपन्नमिति मावः। अय सन्त्रः केपुचित्कशपु न हटः केश्रिदप्याकृती माप्येऽवि न गणितः। तथाऽपि व्यासार्यरक्षरपुरुषम्य यस्मात्पर नापरमस्तीति समाभ्यधिकनिषेधश्रोपक्रमावगत इत्यमिहितत्वाल्ञ प्रस्षपशक्काई इति दृष्टव्यम् ॥ ७ ॥ ननु लोक उपादानम्य स्वभिन्ननिमित्तकार्णसपक्षत्वदर्शनादेक- विज्ञानेन सर्वज्ञानगनुपपन्रम। किचकम्य वहाण: परम्परविलक्षणान-
TA ्पिण्डादिपु पूर्वावस्थापगदों दृश्यत।प्राकरपादानमुतास्विष्टकासु चतु- रस्नत्वादिलक्षणपूर्वाकातिराधानं हश्यत। अक्षरशद्दितव्य निर्विका- रस्य ब्रह्मण: पूर्वाकारोपगरदतिरोधानयो्संभवनोपादानत्वं न संमव-
यथोर्णनाभि: सृजन गृह्नने च। यथोर्णनाभिहंदयाद्वुर्णां संतत्य पक्यतः । तया विहृत्य भूयस्तां ग्रसत्येवं जनार्दनः ।। इत्युक्तरीत्या यथा लूताख्यकीटविशेषस्य स्वान्तःस्थिततन्तुनि :- सारणतत्य्रवेशनयोनिरपेक्षकर्तृत्वम्।
Page 160
[मु० १ ख० १ ] मुण्डकापनिषत्। १५७
यथा पृथिव्यामोषधयः संभवन्ति॥ यथेकस्या एव पृथिव्या: पूर्वावस्थोपमर्दतिरोधानाभावेऽपि विलक्ष- णानन्तौपध्युपादानत्वम । यथा सतः पुरुपात्कशलोमानि। यथा जीवतः एत्पस्य चेतनस्याचेतनकेशलोमादयुपावानत्वम्।। तथाऽक्षगत्संभपतीह विश्वम॥८ ॥
परस्परविलक्षण चतनाचेतनात्मकें निसिलं जगत्संभवतीत्यर्थः ॥।८।। ब्रह्मणो विश्वोत्पततिप्रकार उच्यते तपसा चीयते बह । तपसा ज्ञानेन यर्य ज्ञानमर्य तप हति वक्ष्यमाणत्वात। चीयत उप- चीयते बहु स्यामिति संकल्परूपेण ज्ञानन बह्म सृष्टशुन्मुखं मधपी- त्पर्थः ।
'अद्यतेऽत्ति च भृतानि' [ने० शगः]इति गोग्यभोक्तरुपचेतनाये तनसंघातलक्षणमव्याकृत परस्माह्हाणा जायत हत्पर्थ:। अन्नात्माणा मनः सत्यं लाका: कर्मसु चामृतम् ॥९ ॥
प्राणोऽनतःकरणं सत्यशव्वितो मोक्तृवर्गः स्वर्गावया लोकाः कर्मसु आयत्तममृतं चामृतत्व्रसाधकं कर्मेति यावत। अथवा कर्मस्विति निर्धारणे सप्त्ी कर्ममध्ये सोक्षार्थ कर्मत्यर्थः। एतत्सर्वममिजायत इति पूर्वणान्तयः । एतत्सर्व माध्यश्ृतप्रकाशिकयो: स्पषमू ॥९।
करणं सार्वज्यं दर्शपति- यः सर्वज्ञः सर्वविष्यम्य ज्ञानमर्यं तपः ।
स्वरूपतः प्रकारतश्र सर्वविषयकज्ञानवत्त्वमस्मिन्मन्त्रे मृतयोनेविषेय- मपाप्त्वात। यस्य ज्ञानम्यं तप इत्पनेनांशेन पुर्वमन्त्रोक्ततप:शभृवि-
Page 161
१५८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० १ स०२) वरणं यस्य ब्रह्मण: संकल्परुपज्ञानव्यतिरेकेण जगत्मृष्टसुपपुक्तं कर्मान्तरं नास्तीत्यर्थः । सतोऽस्रममिजायत इत्याविकमनुववृति- तस्मादेतद्ह्म नाम रूपमन्नं च जायते ॥ १० ॥
इत्यथर्ववेदीयमुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥ १ ॥ तस्मात्संकल्पेन सृष्टयुन्मुसाङ्वह्मणः। ततोऽन्नमभिजायत इत्यत्रान्न शब्द निर्दिष्टमेतत्। अव्याकृतारयं बह्म साक्षाजयते तद्दारा नामरूप- वत्। अद्यतेऽत्ति च भूतानीति अन्नशध्यनिर्दिष्टभोग्यभाक्तृरुपं च जायत इत्यर्थः । यद्यस्मिन्नपि मन्त्रे सर्वज्ञत्वाद्यनुवावेन ब्रह्मशब्िताव्यक्तकादि हेतुत्वं विधीयत इति प्रतिमाति तथाउपि तस्य पूर्वमन्त्रपाप्तत्वन विधेय- त्वासंभवादपासतस्य सर्वज्ञत्वस्येव विधेयत्वमिति दृष्टव्यम्। ननु सर्वज्ञ- सर्वविच्छन्दयोरपौनरुक्त्याय सर्वज्ञशब्दस्य रूढिरभ्युपगन्तव्या। कृशानु- रेता: सर्वज्ञ इति निघण्टुपाठेन सर्वज्ञशव्वस्योमापती रूढत्वात। तस्मा रसर्वविदो देवतान्तरान्निमित्तमूतात्तपसा चीयते बह्मेति पूर्वमन्त्रनिर्दिष्मु पादानं ब््मान्यदेव भवितुमर्हति तस्मादेतदबहम नाम रूपमन्नं च जायत इत्युपादानमूताद्ब्ह्मणो निमित्तमूतेश्वरस्य भेद एव प्रतीयत इति चेत्र। यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तप इति तपसोपचीयमानतया पूर्वमन्त्र निर्दिष्टस्याक्षरब्रह्मण एव सर्वज्ञत्वसर्ववित्वयोः प्रतीत्या तयोरमेदासं- मवात्। निमित्तोपदानमेद्विवक्षायामेकविज्ञानेन सर्वविज्ञानासभवेन कस्मिन्नु मगवो विज्ञाते सर्वमिदं विज्ञातं भवतीतिप्रश्नप्तिवचनत्वासं-
इत्यथर्ववेदीयमुण्डकोपनिपत्पकाशिकायां प्रथममुण्डक प्रथम: खण्डः ॥१॥
तदेतत्सत्यम् ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यन्। अतीन्व्रियार्थसाक्षात्कारसमर्था वेदेषु यान्यग्निहोत्रकर्माणि दृष्टवनाः
Page 162
[मु · १ ख० २] मुण्डकोपनिषत्। १५९
तानि त्रेतायां बह्ुधा संततानि। गार्हपत्यादिपु वैतानिकाभनिपु यावजजीवं कर्तव्यतयाऽधिकारिमन्नफ- लमेदेन, बहुधा विहितानि। तान्याचरथ नियतं सत्यकामाः । स्वतः सत्यं परं बह्मैय कामयमाना: फलाभिसंधिरहिता: सन्त हत्यर्थः। तानि कर्माण्याचरतानुतिष्ठत कर्मणा म्ह्मपराप्िहेतुत्वज्ञानश- रेतिःद्रष्टव्यम्। अमुमुक्षून्प्रत्याह- एप वः पन्थाः सुळतस्य लोके ॥ १ ॥ पुण्यफलभूते लोके तु वक्ष्यमाणो मार्ग हत्यर्थः ॥ १ ॥ एवं ब्रह्मविद्याककतया फलाभिसंधिरहितकर्मानुष्ठानं विधाय फलामि- संधिपूर्वकस्य मु कर्मणोऽयथावदनुष्वितस्य न प्रतिपदोक्तफलजनकर्त्व प्रत्युत प्रत्यवायजनकत्वमेय। यथाववनुष्ठितस्यापि तस्य सत्यलोकपर्य- न्तफलकत्वभेवत्याह- यदा लेलायते ह्वर्चिः समिद्धे हव्यवाहने। यवेन्धनादिभिर्ज्वलितेऽमी यस्मिन्काले ज्वाला चलति। तदाऽडज्यभागावन्तरेणाऽडहुतीः प्रतिपादयेत् ॥ २ ॥ तस्मिन्काल आज्यभागयोर्मध्य आहुतीः प्रक्षिपेदित्सर्थः ॥२॥
सपमांस्तस्य लोकान्हिनस्ति॥ ३ ॥
वयमेव कृतार्था इत्यमिसनु्ठितमप्यगग्रिहोत्रकर्म तस्य सृकृतफलं सर्व यत्कर्मिणोर्थः। यद्यप्यमनिहोत्रस्य न दर्शपीर्णमासावि- ति तथापि नित्यनमित्तिकं सकलं कर्मानु- कर्मफलस्वर्गादिरागात्क एव मगवता माष्यकृता श्रुतिस्सृतिचोितेपु तेनाsडतुगाः तत्त्वज्ञानाभावादेव हेतो:।
Page 163
!
१६० कर्मसु एकतरकर्मवैधुर्येऽपीतरेपामनुष्टितानामपि निष्फलत्वम्। अयथा- नुष्वितस्पाननुष्ठितसमत्वं चाभिधायेति नम्म्रार्थी विदृुतः ॥३ ।। काली कराली च मनोजवा च सुलोहिता या च सुधुब्रपर्णा। स्फुलिज्ञिननी विश्वरुची च देवी लेलायमाना इति सप जिह्वाः । ४ ।। देवी त्वेतद्वि्वरच्या विशेषणमिति लेलायमाना: सप्त जिद्वा इत्यन्वयः ॥४ ॥ एतेषु यश्चरते भ्वाजमानेषु यथाकारं चाउडहुनयो ह्याददायन्। एतेपु दी्यमानेव्य्निजिह्वाभेवेपु विहितकालानतिलङूपनेन होम- दथ्यं गृहीत्वा योऽग्रिहोत्रादि कर्माऽडचरति । तं नयन्त्येताः सूर्यस्य रश्मया यत्र देवानां पतिरकोऽधिवासः । ५ ।। अधि वसतीत्यधिवासः। यम्मिन्सत्यलोके देवानां पतिरसमानो हिरण्यगर्भ आस्ते तत्र ता आहृतयः सूर्यस्य रश्मयो भूत्वा तें यजमानं पापयन्तीत्यर्थः ॥५॥ एह्ेहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मत्तिर्यज- मानं वहन्ति। पियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुळतो बहमलोकः ॥ ६ ॥ सूर्यस्य रश्मिसंपृक्ता अत एव सुवर्चस आहुतयम्तं यजमानमर्च- यन्त्य: सुकृतसाध्य: पावन एप चतुर्मुखलोको भवदीयो- इतीदृश़ीं प्रियां वाचं वदन्त्य एह्येहीताहृयन प्रापयन्ति ॥६॥ एवं बह्मलोकपर्यन्तसाधकान्यवि कर्माणि पृवा हेते अदृढा यज्ञरूपा अष्टादशा मित्यर्थः।
संधिमत्तयाश्रेश्वं कर्म येधु यजमानेषु वतते तेमिहोत्रकर्माणि दृष्टवनाः
Page 164
[मु०१ख०२] भुण्डकोपनिपत्। १६१
नौका इव संसारार्णवसंतरणासमर्था इत्यर्थः । यद्ा, अष्टादशस्सृत्युक्तं स्मार्त कर्म येपु श्रीतकर्ममु तदधिकारसंपादकत्वेनावरमङ्गभूतं भवति तान्यपि श्रौतानि यज्ञात्मकानि कर्माणि शोकाम्बुतरणे साधनानि न भवन्तीत्यर्थः । एतच्छ्रेयो येडभिनन्दन्ति मूडा जग- मृत्युं ते पुनरेवापि यन्ति ॥ ७॥। एतत्कर्म श्रेय:साधनं मत्वा ये हृप्यन्ति ते जरासृत्युं च मूयो मूयो गच्छन्ति॥ ७॥ अविद्यायामन्तरे वर्तमाना: स्वयं धीग: पण्डितं मन्यमानाः । अविवेकप्रधाना: स्वयमेय धीमन्त ऊहापोहक्षमधीशालिन इति मन्यमाना: । जङघन्यमाना: परियन्ति मुढाः ॥ जरारोगाद्यनेकानर्थवातैर्मृशं हन्यमाना मूढा: परिभ्रमन्ति। अन्घेनेव नीयमाना यथाऽन्धाः ॥८॥। स्पष्टोऽर्थः ॥ ८॥ एतदेव विशदयति- अवियायां बहुषा वर्तमानाः। प्रकृतिमण्डले देवमनुष्यादिबहुविधामिमानितया वर्तमाना अज्ञानिन:। वयमेव रतार्था इत्यभ्िमन्यन्ति बालाः ॥ चयमेव कृतार्था इत्यमिमानं कुर्वन्ति। यत्कर्मिणो न प्रवेदयन्ति रागात् ।। कर्मफलस्वर्गादिरागात्कर्मठास्तत्त्वं यतो न जानन्ति। तेनाऽऽतुराः क्षीणलोकाश्च्यवन्ते॥ ९॥ तत्त्वज्ञानाभावादेव हेतोः क्षीणे पुण्ये मर्त्यलोकें विशन्तीत्यर्थः।९॥
Page 165
१६२ [ु० १ ख०२]
इंछापूर्त मन्यनाना वक्छिम॥ इट याजादि दूते खातादि। एतदमाखिलपुरुपार्थसारं मन्यनाना: । नान्यच्छेयो वदयन्त पमूडा: । शेयोन्तरं न जानन्तीत्यर्थः । नाकस्य पृष्ठे ते मृळतेऽनुभत्वमं लोकं हीनतरं वा दिशन्ति ॥ १० ॥ ते सुकृतसाध्ये स्वर्गलोकोर्ध्वलोके क फनानु धिम लोक मनुष्य- लोकं ततो हीनतरं वा नरकादिउक्षणं विशन्ति॥ १०॥ तप:श्रद्धे ये सुपवसन्त्यरण्ये शान्ता विद्वांसी भक्षचर्य चरन्तः । सृर्य- द्वारिण ते विरणाः प्रयान्ति यत्रा- मृतः स पुरुषा हव्ययात्मा ॥११॥ ये संन्यासिन: कृतअ्रवणमनना बने स्थित्वोपरतकरणग्रामास्तप:श व्दितं बह्म च तदाइरातिशयरूपश्रद्धां च ये सेवन्त त विघृतपापाः सूर्य- मण्डउं भित्त्वा 'सहस्रस्थृणे विमिते दृढ उग्र यत्र दवानामधिदेव आस्ते, इति पर्यङ्कविद्यायुक्तो हेयप्रत्यनीक: संदेकरूपरूपायतिप्रमाणप्रतिपन्र नित्यविग्रहयुक्तः । यत्राऽडस्ते तत्र यान्तीत्यर्थः । 'ये चमेऽरण्ये श्रद्धा तप इत्युपासते' [छा० ५१०१] इत्यत्र तपःशव्देन बह्मोच्यते। बृह- दारण्यके अ्रद्धां सत्यमुपासत इति तप:श-दस्थानें सत्यशब्दप्रयोगात्स त्यशब्दस्य ब्रह्मपरत्वादिति व्यासार्यरुक्तत्वातू। तपःश्रद्धे इत्पत्र तप: शब्दो ब्रह्मपरः ॥ ११ ॥ विरक्तस्य परब्ह्मप्ाप्तिसाधनज्ञानेच्छोगुरुपासनं विधीयते- परीक्ष्य लोकान्कर्मचितान्वाह्मणो निर्वेदमायान्नास्त्यकतः रुतन। तदविज्ञानार्थ स गुरुमेवातिगच्छेत्स- मित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥
Page 166
[मु० १ स० २] मुण्डकोपनिपत्। १६३
तस्मे स विदानुपसजाय सन्य- क्पशान्तचिताय शमान्विताय। येनाक्षर पुरुषं वेद सत्यं पोवाच तां तत्वतो ब्रह्मवियाम्॥ १३॥ इत्यथर्ववेदीयमुण्डकोपनिपदि प्रथममुण्डके द्वितीयः खण्डः सनाकः ॥ २॥ समासं चेद प्रथममुण्डकम।
अस्मिन्वाक्ये न्यायससिन्दानुवादेन गुरुपसत्तिरिधीयते। कर्मचि-
णोडधीतसाङ्गसशिरक्की वदो यु इत्यप्याहारयं स दृत्दुत्तरत्र श्रवणाद। अकृता नित्योष्त पुरषी वि[शे्यो लिङ्गवशात। अक्षरपुरुषमित्यनन्त- रोक्तेश्र। कृतेन कर्मणा नास्ति न सिध्यति तहभ्यते येनेति करणं द्रष्टव्य- मिति यो निर्वेदमायात्स तद्विज्ञानार्थ गुनु्मवामिगच्छेत। एचकरेण नियमविधित्वमवगम्यते। समिताण। रिकपाणि:। रिक्तपणितु नोपेयाद्राजानं दैवतं गुरुमिति हि यलमर्यत।श्रध्निय श्रुतवदान्तं ब्रह्ा निष् ब्रह्मसाक्षात्कारवन्त शतवेदान्तापि रुचिमदादबह्मनिष्ठो नोपग न्तव्य इति मावः। अभिगच्छहित्यन्वयः। शमा बाह्येन्टियनियमन
एतेन भवणोपयुक्तमवधानं विवक्षितम्। नतूपासनी, युक्तात्यन्तन्द्रिन यजयादिः। तस्मे स विद्वान्प्रोवाचत्यन्वयः । यनेति निर्देशी विज्ञाना- िपायः। तद्विज्ञानथमिति प्रकृतं सामान्यतः कारणाभिप्रायी वा लेङ्गव्यत्ययो वा। अक्षरं स्वरूपेणाविकारम। सत्य गुातीश्णनिकारम। ताभ्यामचिजीवव्यावृत्ति: ता बहविया पोघान पहपादिदर्थ। इति वेदान्तसार व्यास्यातम। एतच्दत्वर्थ हदि निधाय भगवता वान्ायणन शास्त्रारम्भे 'अथातो ब्रह्मजिज्ञासा' [ववसृः१।४।] इति सृत्रितम्। तस्य चायमर्थ :- अथ पीडशलक्षणकर्मविचारनन्तरम । अतः कमवि- चारात्कर्मणामल्पास्थिरत्वाधिगमसहि तानन्तसस्थिर फलापातप्ततर्हैतोः
Page 167
१६४ [मू०१ख०२]
सत्त्वात्। ब्रह्मजिज्ञासा। ब्रह्मविचारः कर्तव्य इति। कर्भविचारे हि सति अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीत्यादिभिरक्षय्यफ- लकत्वेम श्रुतानामपि चातुमस्यादीरना प्रत्यव्व चातुर्मास्यैर्यजेतेत्यादि भिरावृत्तिविधानात्। ततोऽपि बहुविश्वष्ययायाससाध्याश्वमेधविश्व जिदादी नामननुष्ठानलक्षणाप्रामाण्यप्रसङ्गाच्च। चातुर्मास्यादीनामक्षय्य मापेक्षिकमिति निश्चित्यानन्तस्थिरफलरूपं ब्रह्म च वेदान्तवाक्यैरापा- ततोऽवगत्य तन्निर्णयाय ब्रह्मविचारे पुरुषः प्रवर्तत इति पर्यवसि- तोऽर्थः। ननु कर्मविचारे सत्यावृत्तिविधानादिभि: कर्मणामल्पास्थिरत्वं प्रतीयरता नाम वेदान्तवाक्येरनन्तस्थिरफलं ब्रह्म कथं प्रतीयताम्। सिन्े ब्रह्मणि व्युत्पत्तिविरहात्। व्यवहाराघीनत्वादाद्यव्युत्पत्तिग्रहस्प च व्यवहारस्य घ कार्यान्वित एव संभवात्। तथा हि गामा- नयेति वाक्यभ्रवणानन्तरं गवानयने प्रवृसतं प्रयोज्यमुपलभ्य पालो व्युत्पित्सुरियं गवानयनप्रवृत्तिर्गवानयनकार्यताज्ञानसाध्या गवानयन-
तस्य व ज्ञानस्य श्दान्वयव्यतिरेकानुविधायितया शब्दजन्यता निश्चिनोति। यतश्र प्राथमिकव्युरपतिग्रहे शब्स्य कार्यताज्ञानजन- कत्वनिश्रयादुपजीविद्वितीयाविव्युत्पत्तिग्रहोऽवि कार्यविषयक एवेति कार्यानन्विते सिद्धार्थ व्युत्पत्तिग्रहासंमवादव्युत्पन्नस्य शब्दस्यार्थप्रत्या- यकत्वाभावात्। अनन्तस्थिरफलापातप्रतीत्यसंभवाङ्कह्मविचारो नाऽडर भ्य इति पूर्वः पक्षः। अम्बातातादिभिश्रन्द्वादीनकगुल्या निर्दिश्यायं चन्द्रोडयं गौरित्यादिशब्देषु बहुशः प्रयुक्त्ेषु मूयः सहचारदर्शी बाल: शब्दप्रयोगे तदर्थबुद्ध्युत्पत्तिं स्वात्मनो दृष्टा तयोः कंचिदौत्पत्तिकं संबन्धं निश्चिनोति। स एव शक्तिरिति गीयते। ततश्र सिद्धार्थेऽपि व्युत्पत्तिग्रहसंभवात्तान्त्रिकान्तरोपदर्शितमार्गश्र सिद्धार्थ व्युत्पत्तिग्रह- संभवात्। अनन्तस्थिरफलापातप्रतीतिसंमवाङ्वह्मविचार आरम्भणीय इति सिद्धान्त: कृतः ॥१२॥१३॥ इत्यथर्ववेदीयमुण्डकोपनिपत्मकाशिकायां प्रथममुण्डके द्वितीय: खण्डः समाप्त:। समार्स्त चेदं प्रथममुण्डकम्।
Page 168
[मु० २ ख०१] मुण्डकोपनिपत। १६५
तदेतत्सत्यम् ।
पूर्ववत्।
सहस्रशः प्रभवन्ते सरूपाः। अयोगोलका दिगतान्ध्वन्यमानाद्वा वेश्मादिषु सुदीमात्पायकावनेकशः सरूपा विस्फुलिङ्गा यथात्पद्यन्ते। तथाऽक्षगद्विविधाः सोम्य भावाः प्रजायन्त तत्र चवापियन्ति। एवमेव सूक्ष्मचिदचिच्छरीरादक्षराव्वह्मणस्तत्सरूपा नानाविघस्थूल- रूपचिदचितरृपा भवन्तीति भावाः कार्यवर्गा उत्पद्यन्ते तत्रैव लीयन्ते च। दिव्यो ह्यमूर्तः पुरुपः सवाह्ाभ्यन्तगे हाजः ॥१॥ अप्राणो हमनाः शुभ्रो ह्यक्षगत्परतः परः ॥२॥ वृक्ष इव स्तब्धो दिवि तिश्त्येकः । [श्र्व० ३।९] इति ययुसंबन्धित्व- लक्षणदिव्यत्वेन तद्पाणिपादम [श्वे० ३।९]। इति वा नित्यमिति वाऽमूर्तत्वेन 'तेनद पूर्ण पुरुषण सर्वम' [श्व० ३।९] इति वाह्याभ्यन्तरसर्यवस्त्वात्मतया, अचश्षु:भोत्नमित्यनिन्व्रियत्वेन प्राण- मनःशून्यतया' 'येनाक्षर पुरुष वेद सत्यम' मु० १२१३]।
कृतादक्षराद्यः परः समष्टिपुरुपस्तस्मादवि कारणत्वेन पर इत्यर्थः। प्रधानपुरुषयोस्तज्जन्यत्वािति मावः। अक्षरात्परत इत्यत्राक्षरश- व्दोऽ्भुत इति वा न क्षग्तीति वा व्युत्पत्त्या स्वविकारव्यापक- नामान्तरामिलापर्योग्यक्षरणाभाववति अव्याकृत वर्तते। न तु मूतयो- न्यक्षरे। मूतयान्यक्षरस्य सवाह्याभ्यन्तर इत्यत्र तच्छव्दनिर्दिष्स्य तस्मादेव परत्वासंभवात्। न हि तस्यैव ततः परतः परत्वं संमवति विरोधातू। न चाक्षरात्परत इति पञ्चम्यो: सामानाधिकरण्यमेवास्तु इति वाच्यम्। अमतीतेः । ततश्र स्वविकारापेक्षया परमूतादव्याकृता- दक्षरात्पर इत्येवास्तु न त्वव्याकृताक्षरात्पर मृतात्सम्टिपुरुषात्पर इतीति
Page 169
१६६ रङ्गरामानुजविरचितप्रकाशिकासमेता-
वाच्यम्। परशब्दस्य प्रतियोगिसापेक्षत्वेनाक्षरशब्दस्य परत्वावधिसमर्प कत्वस्यैव युक्तत्वात्। न हि दैवतादुत्पन्नाल््रयमित्यत्र पञ्चम्योः सामा- नाधिकरण्यप्रतीतिरस्ति। अतो यथोक्त एदार्थ: ॥२॥ विश्वसृष्टिमेव प्रपञ्चयति- एतस्माजायते पराणो मनः सर्वेन्द्रियाणि च। स्पष्टोऽर्थः । सं वायुज्योतिरापश्र पृथ्वी विश्वस्य धारिणी॥ ३॥ खमाकाशः। ज्योतिस्तेजः । विश्वस्य कृत्स्नस्य धारिणी, एतत्पृथ्वी विशेषणम्। इदं हि वाक्य प्राणपादे वियत्पादे विचिन्तितम । प्राण- पादे, 'असद्वा इदमग्र आस'[ते०२।७।?]'तदाहुः- ऋपयो वाब तेजय आसन। के त कपयस्तदाहुः । माणा वा ऋपयः' [बृ० २। २ । ३।] इति। जगदुत्पत्तेः प्राक्माणशधतानामिन्दि-
वद्न्यथा नेया इति पूर्वपक्षे प्ात तथा प्राणा वियदादियत्त्ाणश्द- वाच्यादिन्द्रियाण्युत्पद्यन्त एव। 'सदव साम्यदमग् आसीत' [छा० ६।२।१ ] आत्मा वा इदमेक एवाग्र आसीत' [ए० १ । १] इत्या- दिषु प्रावसृ रेकत्वावधारणा॥। एतम्माजायते प्राणो मनः सर्वेन्द्रियाणि
वादो जीवोत्पत्तिवादवदन्यथा नयो बाधकाभावात्। 'म्राणा वा ऋषयः' इत्यन्न प्राणशब्दम्य सार्वज्यवाचिकपश्दसमानाधिकरणपरतया परमात्मवाचित्वेनेन्द्रियवाचित्वाभावात्। करथं तर्हकम्मिन्परमात्मनि प्राणा वा ऋषय इति बहुवचनपपत्तिरिति चेत्तत्राऽह-गोण्यसंभवात्। तत्माक्भ्ुतेश्च बहुवचनश्षुतिर्गीणी। तत्र बहुत्वासंभवात्पर्मात्मन एव सुष्टेः पागवस्थानश्रवणात्। तस्यैव प्राणशब्दन प्रतिपादनीयत्वातू। 'तत्पूर्वकत्वाह्वाचः' । व=सू०२४] वागिन्द्रियस्य वागिन्द्ियकार्या-
कार्यशब्दाभिलापादिगयोजनाभावान्न पलये तेषामवस्थितिरिति स्थि- तमू। तथा तत्रैव पाड़े-आनीदवातं स्वधया तदेकमिति महापलयसमये प्राणकार्याननश्रवणात्। एतस्माजायते प्राण इति मुख्यप्राणोत्पत्तिवादो जविोत्पत्तिवादवन्नेतव्य इति शङ्कायां श्रेष्ठश्र श्रेष्ठपाण इन्द्रियवदुत्पद्यते।
Page 170
[मु० २ ख० १] मुण्डकोपनिपत्। १६७
आनीदवातमिति परव्रह्मणोऽननं विद्यमानत्वमुच्यते न मुख्यप्राणस्य। अवातमिति वायुमात्रसत्तायास्तत्रेव प्रतिपिन्ध्त्वादिति स्थितम। तथा वियत्पावे 'वायारगि:'। 'अग्नरापः' । 'अद्भ्य: पुरथिवी' [ते० २१] इत्यादौ वायुरुपाङ्वह्मणोडग्रिसृष्टिरुत केवलवायरिवेति विपये, 'तेजोऽ- तस्तथा ह्याह' [न०सृ०२।३।१०]। अतः केवलवायारेव तेज उत्पद्यते। वायोरग्निरिति हि श्रुतिराह। आपः। आपस्तेजस एवोत्द्यन्ते। अग्ने- राप इति हि ध्तिराह। पृथिवी। पृथिव्यद्भ्य एवोत्पद्यते। अद्भ्यः पृथिवी। ता अक्जमसृजन्तति हि श्रुतिराह्। ननु कथमन्नशब्देन पृथि- व्यमिधीयते तत्नाजह अधिकाररूपश्दान्तरभ्यो महाभूतसृष्टयधिका-
रूपं तेजसस्तदप यव्पक तद्पा यत्कृष्णो तदन्रस्य '[ छा० ६।४।१] अपि तु पृथिध्येय। तत्तिरीयके-'अभ्यः पृथिवी' इति पृथिर्वीवाचकवि- स्पटशब्दान्तग्भ्रवणाच्यासशव्देन पृथिव्योच्यते। ततश् केवलवाय्ा- देराग्रयासुत्पत्तिन तु तन्ठरीरकब्ह्मण इति पुर्वपक्ष मासे तदभिध्या- नादेव तु तलिज्गनन्सः। तृ शब्द: पक्षव्यापर्तक:। वाय्यग्न्यादिशब्देन स परमात्मैवाभिधीयते 'ततंज ऐक्षत ता आप पक्षन्त' इति तत्तत्कार्यसृ- िसंकल्पलक्षणा भिध्यानरूपात्परमात्मलिङ्गा दच्चेतने तेजलादी ईक्षणासं- भवात्। 'विपर्यर्यण तु कमोडत उपपद्मते' [त्र० सू० २।३।१४ ]। तुशब्दोऽवधारण। 'एतम्माजायते प्राणो मनः सर्वेन्द्रियाणि च' खं वायुज्यातिरापः परथिवी विश्वस्य धारिणीत्येवं सर्वेपां भृताना परब्रह्मा- नन्तर्यरूपो वायोरमिन्गराप इत्युक्तक्रमविपर्ययेण श्रयमाणो यः क्रमः स वाय्वादिशरीरकपरमात्मोपादानकत्व एवोपपद्यते न केवलवास्वाद्यु- पादानकत्व इत्यर्थः।'अन्तरा विज्ञानमनसी क्रर्मेण तलिङ्गाविति चेन्ना- विशेषात् ' [ब० सू० २।३।१५] विज्ञानसाधनत्वादिन्द्रियाणि विज्ञा- नमित्युच्चते। नन्वेतम्माजायत इति वाक्य प्राणादीनां सर्वेषामव्यव- हितबह्मोपादानकत्वं प्रतिपादयितुं न प्रवृत्त किंतु प्राणोत्पत्त्यनन्तर मनसश्व सर्वेन्द्रियाणां चोत्पत्तिः। तत आकाशादिभृतानामुत्पत्तिरिती- न्द्रियाणां मनसश्र प्राणभूतान्तरालसहृत्वप्रतिपादनार्थ प्रवृत्तम। शत्यन्त- रसिद्धमहाभूतसष्टिकमप्रत्यभिज्ञानरूपालिङ्गादिति चेन्न। अविशेषात्। अविशेषेण प्राणादीनां सर्वेपां ब्रह्मानन्तर्यरूपक्रमप्रतीतेस्तत्परित्यागे
Page 171
१६८ रक्ग-रामानुजविरचितप्रकाशिकासमेता- [मृ०२ख०।] कारणाभावात्। ननु वाय्बादिशरीरकब्रह्मणोऽग्न्याद्युत्पत्ती वाय्वादि- शब्दानां तच्छरीरकब्रह्मणि लक्षणा स्यात्तत्राऽडह-चराचरव्यपाश्रयस्तु स्यात्तद्यपदेशो माक्तस्तन्वावभावित्वात्। तुशब्दः शङ्कानिवृत्त्यर्थः । राचरव्यपाश्रयो देवमनुष्यदृक्षादिशव्दत्यपदेशो माक्तः। वाच्यैकदेशे भज्यत हत्यर्थः। भत्त्या प्रयुक्तो माक्तः। भक्तिर्भङ्ग:। विशिष्टवाची शब्दो विशेषणमात्रे भङ्क्त्वा प्रयुज्यते। वाच्येकदेशे प्रयोगान्वज्यत इत्यर्थः । वचर्सा वाच्यमुत्तममित्यादिप्रमाणानुसारात्सर्वेर्या चराचरश द्वानां विशिष्टं ब्रह्मैवार्थः । विशेषणमात्रपयोगस्तु अमुख्यः । ततश्र वाय्वादिशब्देर्त्रह्माभिधानं मुख्यमेव। यद्वा, अमाक्त इति च्छेदः। चराचरवाचिशब्द्व्ह्मव्यपदेशऽभाक्तो मुख्य इति यावत्। शरीरवाचि शब्दानां शरीरिपर्यन्तत्वादिति स्थितम् ॥ ३॥ प्रकृतमनुसराम :- अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो दिशः श्रोत्रे वाग्विवृताश् वेदाः । वायुः प्राणो हृदयं विश्वमस्य पदत्यां पृथिवी ह्वेष सर्वभूतान्तरात्मा ।। ४ ।। अमुं मन्त्रं प्रस्तुत्य स्मर्यमाणमतुमानं स्यादित्यत्राम्मिरिह सुलोकः। 'असौ वे लोर्कोडमि:' [ बृ० ६।२९] इति श्रुतेः । स्मरन्ति च सुनयः। द्यां मर्धानं यस्य विप्रा वदन्ति खं वे नामिश्वन्द्रसूर्यी च नेत्रे। दिशः भोत्रे विद्धि पाद़ो क्षिति च सोsचिन्त्यात्मा सर्वभूतप्रणेता।। इति भाषितम्। वाग्विवृता वागिन्द्रियव्यापारा एव वेदा: । वायुः प्राणः । महावायुरेव देहाधारक: प्राणः। जगत्सर्वमस्य देह्या्त्वर्त हृदयाख्यमांसविशेषः। पद्भ्यां पृथिवी पादावेव पृथिवीत्यर्थः । प्रकृत्या- दिभ्य उपसंख्यानमिति तृतीया। सर्वभूतानां तच्छरीरकत्वात्सर्वेधाम- न्तरात्मेत्यर्थ: ।।४ ।। तस्मादग्निः समिधो यस्य सूर्यः ॥ तस्मादृक्षरात्। अग्िमूर्धेत्यत्राग्निशब्दनिर्दिष्टो ुलोको यस्यामिेः
Page 172
[मु० २ख०१] मुण्डकोपनिपत्। १६९ सूर्य: समिध इन्धनानि। 'असी वे लोकोऽभिर्गीतम तस्याSSदिल्य एव समित्' [ वृ० ६।२९ ] इतिपञ्चान्निविद्यार्या श्रवणात्। सोमात्पर्जन्य ओषधयः पृथिव्याम्।
तस्मात्पर्जन्यादोषघयः पृथिध्यामग्री संभवन्ति। पुमान्रेतः सिश्चति योषितायाम् । ओषधीम्यः पुरुषानी हुताभ्य उपादानभूताभ्यः पुरुपरुपोऽगिर्योषि- द्रूपग्नी रेतःसेकं करोति। बह्वचः प्रजाः पुरुषात्संपसूताः ॥५॥ एवं पञ्चाग्निविद्योक्तक्रमेण बहचः प्रजा: परस्मात्पुरुपात्संप्रसूप्ताः।।५॥ तस्माद्चः साम यजृपि दीक्षा यज्ञाश्र् सर्वे कतवो दक्षिणाश्र। संवत्सग्श् यजमानश्र लोकाः । तस्मादक्षरपुरुषाहग्यजु:सामवेदा अग्निहोत्राद्या यज्ञा: सोमविकारा: कतवश्र दक्षिणाश्र संवत्सराद्याः काला यजमान: कर्मफलभूता: स्वर्गाद्या लोकाश्रोत्पन्ना इत्यर्थः । सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥ ये लोकाश्रन्द्रसूर्यकिरणपूता भवन्ति ॥ ६॥ तस्माच देवा बहुधा संपसूताः साध्या मनुष्याः पशवो वयांसि॥ बहुधा कर्मजानजादिभेदाज् बहुधेत्यर्थः। वर्यासि पक्षिण: शिर्ह स्पष्टमू। पाणापानौ ब्रीहियवौ तपश्र श्रद्धा सत्यं बह्मचयं विधिश्व॥ ७॥ यवो दीर्घशूकधान्यविशेष:। वीहियवशब्दौ धान्यमात्रोपलस्षकी। तप: कृच्छ्रादिलक्षणम्। श्रद्धाऽडस्तिक्यबुद्धिः। सत्यं सत्यवचनम्। ब्रह्मचर्य स्ीसक्गादिराहित्यम्। विधीयत इति विधिः । नित्यनैमित्ति- कादि:॥७॥
Page 173
१७० रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० २ ख०१]
सप्त प्राणाः प्रभवन्ति तस्मात। तस्मादक्षराच्छीर्षण्यानि चक्षुःश्रोत्रनासिकारन्ध्रयुग्मास्यसंचारीणि सप्तेन्द्रियाणि उत्पद्यन्ते। सप्ार्चिषः समिधः सप्त जिह्वाः । गार्हपत्याद्या अग्नयः। इन्धनानि। [ काली ] प्रसतयः सप्त जिह्वाश्र प्रभवन्तीति पूर्वेणान्वयः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ।।८।। इमे सप्तापि लोका उत्पन्नाः । येगु लोकेपु हृदयगुहारया सुपुप्तिवे- लायां शयाना: सप्त प्राणाश्रश्रुरादिगालकपदेशेषु धात्रा विहिता: संचरन्तीत्यर्थः। सप्त सप्तेतिवीप्सा पुरुषभेदाभिप्राया ॥८।। अतः समुद्दा गिरयश्ष सर्वे। स्पष्टोऽर्थः । अस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ॥ बहुरूपा गङ्गाझ्याः सरित इत्यर्थः । अतश्र सर्वा ओषधयो रसाश्व। स्पष्टोऽर्थः। ननु पृथिव्या एवीपधयो जायमाना हश्यन्त इक्ष्वा- दिभ्यो रसा जायमाना हश्यन्ते कथमक्षरात्सर्वं जायत इत्युच्यत इत्या- शङ्कयाऽडह- येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९ ॥ यस्मात्कारणादेपोऽक्षरपुरुषः सर्वैभूतैः परिवृतः सन्मदन्तरात्मतया वर्तते तस्मात्पृथिव्यादिभ्यो जायमाना अषि अक्षराद्वह्मणो जाता इति शक्यते वक्तुमिति भावः ॥९॥ पुरुष एवेदं विश्वम्। यस्मादसौ सर्वभूतान्तरात्मा तस्मात्सर्वमिदं पुरुषोपादानकत्वात्यु- रष एव तस्मात्तदविज्ञाने सर्वस्यापि ज्ञानमु्त्द्यत इति भाव:।
Page 174
[मु०२ ख०२) मुण्डकोपनिचत। १७१ कर्म तपो ब्रह्म पगमृतम्। तस्य जगत्सृष्टननुकूल: कर्मशव्दितो व्यापारः । सष्टव्यालोचना- तमकं तपः । एको व्यापी सदा शुद्धो निर्गुणः प्रकृतेः पर इति ब्रह्म- शब्दितप्रकृतिपर भृतमुक्तात्मनाममृतवत्परमानन्दतया भोग्यभूतं ब्रह्माप्य- क्षरपुरुष एवेत्यर्थ: । एतयो वेद निहितं गुहायां सोऽवि- याग्रन्थि विकिग्तीह सोम्य॥॥ इत्यथर्वदीयमुण्डकीपनिपदि द्वितीयमुण्डके नथम: खण्डः ॥ १ ॥
हे सोमार्ह हृदय गुहावर्त्येतदक्षरं ब्रह्मेह लोके यो वेद स ग्रत्थिवस्यु- मौचामविद्यां विकिरति निरस्यति क विक्षेप इति धातुः॥ इत्यथर्ववेदीयमुण्डकोपनिषद्धाप्ये द्वितीयमुण्डके प्रथम: खण्डः ॥ १॥
आवि: मंनिहितं गुहाचरं नाम महत्पदम् ॥ आविरित्यव्ययं योगिनामपरोक्षम्। संनिहितं गुहाचरं दुर्विज्ञेयस्व- रूपतया प्रसिद्धं सर्वतो महत्पदं प्राप्यभूतमित्यर्थः। अत्रैतत्सर्वेमर्पितम्। एजत्पाणन्निमिषच्च यत्।। एजत्कम्पमानं जाग्रदिति यावत। प्राणभृत्। निमिषत्सुप्तं जाग्रत्तु- सादिभदमिन्नपाणिजातमत्राक्षर पुरुषेऽर्पितमित्यर्थः । एतन्ानथ सदसद्वृग्ण्यम् । स्थूलसूक्ष्मवस्तुमिराधारत्वेन प्रार्थनीयमाधारभूनमिति यायत। ताह- शमेव ब्रह्मावगच्छतेत्यर्थ:। परं चिज्ञानायदरिष्ठं प्रजानाम् ॥ १ ॥ 'यो विज्ञाने तिशन' [३ृ०३।७।२२] इतिश्रुतेविज्ञानशब्दो जीवपरः।
Page 175
१७२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० २ ख०२] विज्ञानात्परं जवादधिकं प्रजानामुपायोपेयत्वं नात्यन्तवरणीयमत्यन्त- प्रार्थनीयमित्यर्थः ॥१॥ यदर्चिमयद्णुत्योडणु च। यदर्चिमत्। अचिरशष्दितदीततिमत्त्वं च विग्रहद्वारा द्रष््व्यम्। अणु- म्योऽपि श्यामाकादिभ्योऽणिष्ठम्। सूक्ष्मतया सर्वान्तःप्रवेशयोग्यमित्यर्थः। यस्मिल्ोका निहिता लोकिनश्व। लोकिनो लोकवासिन: । शिष्टं स्पष्टम् । तदेतदक्षरं ब्रह्म स पाणस्तदु वाङ्मनः । उशब्दोऽवधारणे प्राणादिकमपि तदात्मकमित्यर्थः । तदेतेत्सत्यममृतं तद्वेद्वव्यं सोम्य विद्धि ॥ २ ॥ तदेतदृक्षरमषिमाशि अमृतमससारिभोग्यमिति वार्डर्थः । तदेव मनसा बेद्धव्यं विद्धि। समाहित्मनोविषयं विद्धि तत्र मनःसमाधानं कुर्विति यावत् ॥२॥ धनुर्गृहीत्वौपनिपदं महास्त्रं शरं हुपासानिशितं संदधीत। उपनिषत्प्रिद्धं प्रणवाख्यं धनुगृह्दीत्वा भगवद्दुपासनया स्थूलसूक्ष्म-
ध्यात् । किं कृत्वेत्यत्राऽडह- आयम्य तद्भागवतेन चेतसा। भगवत्प्रवणेन चेतसा तद्धनुरायम्य प्रणवास्यस्य धनुष आयमनं नाम प्रत्यक्परमात्मनोः शेषशेषिभावलक्षणार्थप्रकाशकत्वेनानुसंहित- त्वम्। तज्भावगतेन चेतसेति पाठे भाव: प्राप्तिस्तन्वावगतेन चेतसा तत्मा- प्ीच्छया शरमायम्येत्यर्थः । तम्य चाऽडयमनं नाम मनसेन्द्रियान्तःकर-
वस्थापनम् ॥ लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३ ॥। हे सोम्य तदेवाक्षरं लक्ष्यं लभ्यं जानीहीत्यर्थः ।। ३॥ आन दाश्रमस्थपुस्त के- 1 तक्ष्मूत ।२ संघयीत।
Page 176
[मु० २ ख० २] मुण्डकोप निषत्। १७३
उक्तमर्थ षिवृणोति- प्रणवो धनुः शरो ह्यात्मा ब्रह्म तहक्ष्यमुच्यते । ओमित्यात्मानं युभ्जीतेत्यात्मरूपशरसमर्पणे हेतुत्वात्मणवस्य धनुद्ठेन रूपणम् । अप्रमत्तेन वेद्व्यं शरवत्तन्मयो भवेत् ॥४ ॥ विपयान्तरविमुसनेकाग्रचित्तेन वेद्दव्यम। वेधो हि तदेकशेषत्वेन तद्ध्यानम्। यथा लक्ष्ये निमग्नस्य शरस्य लक्ष्यापेक्षया भेदकाकारा- स्फुरणमेवं परमात्मनि प्रणवेन समर्पितस्य प्रत्यगात्मनस्तत्साम्यलक्षर्ण मुक्तिमापन्नस्य ज्ञानेकाकारस्य देवमनुष्यत्वादिलक्षणभेदकाकारास्फू- तिरेव तन्मयत्वमिति द्रष्टव्यम्। यस्मिन्याः पृथिवी चान्तरिक्षिमोतं मनः सह पणश् सर्वः। तमेबैंकं जानथाऽडत्मा- नमन्या वाचो विमृश्चथामृतस्यैष सेतुः।५॥। यस्मिन्नक्षरे द्युपृथित्यन्तरिक्षमनःप्राणादिकं समवेतं तमेकमेव स्वेत- रसमस्तवस्तुनियन्तृत्वेन व्यापकतया जानीतानात्मविपया वाचस्त्यजत कस्य हेतोः। अमृतस्यैप सेतुर्नद्यादिपु हि सेतुर्हि कूलस्य प्रतिल- म्मकः संसाराणवपारमृतस्यामृतस्येष प्रतिलम्भक इत्यर्थः ।।५।। अग इव रथनाभी सेहता यत्र नाडच: स एपोऽन्तश्ररते बहुधा जायमानः । ओमित्येवं ध्यायथाऽऽत्मान स्वस्ति वः पागाय तमसः परस्तात् ॥ ६ ।। संततं शिराभिस्तु लम्बत्याकोशसंनिममित्युक्तरीत्या यत्र हृदये रथ- नामौ समर्पिता अरा इव नाडय: संहताः संगतास्तत्र मध्ये स एप प्रकृत आत्मा, अजायमानो बहुधा विजायते तम्य धीरा: परिजानन्ति योनिमिति देवादीनां समाश्रयणीयत्वाय तत्तजातीयस्वरूपसंस्थानगुण- कर्मसमन्वितः स्वीयस्वमावमजहद्व स्वेच्छया बहुधा जायमान: संच-
आवन्दाश्रमस्थपुस्तके - 'य आरमा। २थ आरमा) ३ पराय।
Page 177
१७४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु०२ख०२]
रते वर्तत इत्यर्थः। तमसः परस्ताद्वर्तमानाय वः पाराय पारतीराय पारावारे परार्वाची तीर इति नघण्ुकाः प्राप्यभृतायति यावत्। तत्प- दपाप्तय ओमित्यात्मानं ध्यायथेत्यन्व्रयः । एवं ध्यानाय पवृत्तेम्यो युष्मभ्यं स्वस्ति भवतु ॥ यः सर्वज्ञः सर्ववित् । उक्तोऽर्थः । यस्यैप महिमा भवि। भूलोके संसारतन्त्रप्रवर्तनरूप एप महिमा यदीयः । दिव्ये ब्रह्मपुरे ह्वेष व्योम्न्यात्मा प्रतिष्ठितः । यस्यैष महिमा भुवीति लीलाविभृत्यन्वय उक्तः । दिव्ये व्योम्रीति त्रिपाद्विभूतिरुक्तेति व्यासायैरुक्तत्वात्। वैकुष्ठास्य बह्मपुरे परमे व्योम्नि अयमात्मा प्रतिष्ठित इत्यर्थः । मनोमयः पाणशरीरनेता प्रतिष्ठितोऽनने हृदयं संनिधाय। विशुद्धमनोग्राह्यः। प्राणशरीरनंता। प्राणं च शरीरं च तस्य नेता जीवस्य प्राणशरीरलम्भक इत्यर्थः।यद्धा 'मनोमयः प्राणशरीरो भारुपः [छा० ३।१४।२ ] इतिश्रुतेः प्राणः शरीरमस्य प्राणशरीरकः सचासौ नेता 'च प्रभुरित्यर्थः । अधिभूर्नायको नेता प्रभुरिति हि नेघण्टुकाः। अन्नेऽन्रपरिणामे शरीरे प्रतिष्ठिता यस्तस्मिंश्रितं हृदय संनिधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभ्ाति॥।७II अमृतं यत्। अस्पष्टसंसारगन्धमानन्दरूपं यद्विभाति तब्ह्म विज्ञान- शव्दितेन दर्शनसमानाकरेणोपासनेन धीरा: प्रज्ञाशालिनः परिपश्यन्ति साक्षात्कुर्वन्तीत्यर्थः ॥७॥ तस्य फलमाह- भिदते हृदयग्रन्थिश्छियन्ते सर्वसं- शयाः । क्षीयन्ते चास्य कर्माणि। हृद्यस्यान्तःकरणस्य ग्रन्थयो ग्रन्थिवद्दुर्मोचा रागद्वेषादयः।
Page 178
[मु० २ ख०२] मुण्डकोप निषत्। १७५
हृत्स्थानमयत इति व्युत्पत्या हृदयशब्देन जीवो वा। ब्ह्मज्ञानेन सार्वज्ये सिद्धे सर्वविषयकाः संशया नश्यन्ति। अस्य च प्रारब्धव्यतिरिक्तानि पूर्वाण्यनेकभवार्जितानि कर्माणि च नश्यन्ति। नाशो नाम कर्मणा फलजननशक्तिविनाशः। 'तद्धिगम उत्तरपूर्वाघयोः' [त० सू०४।१।१३] इति सूत्रेऽघम्य विनाशकरणमुत्पन्नायास्तच्छक्तेविनाशकरणं शक्तिर्हि परमपुरुपाप्रीतिरवेति भाषितम्। एतत्सवं कदेत्यत्राSSह- तस्मिन्टष्टे परावरे ॥ ८ ॥ परेऽवरे यम्मात्स परावरः। सर्वोत्कृष्टा अपि ब्रह्मादयो यस्मान्नि- कृष्टा इत्पर्थः । अथवा परावरे परावरशरीरके सर्वात्मभूत इत्यर्थ: । तादशे तस्मिन्दर्शनसमानाकारज्ञानविषयीकृत इत्यर्थः।न च 'अश्व इव रोमाणि विधय पापं चन्द्र इव राहोमखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलाकमभिसंभवामि' [छाo८।१३१] इति शरीरवियोग- काल एव पुण्यपापाख्यकर्मविनाशस्य श्वतत्वात्। 'सांपराये तर्तव्या- भावात्।' [व० सू० ३३।२७] इति सूत्रतन्व्वाप्ययोरपि तथैव प्रति- पादनात्। क्षीयन्त चास्य कर्माणि तम्मिन्दृष्ट इति दर्शनसमानाकार- ज्ञानारम्भसमय एव श्रयमाण: कर्मक्षयः कथमुपपद्यतामिति वाच्यम्। अस्मिन्वाक्ये श्रूयमाण: कर्मक्षयो दर्शनसमानाकारोपासनारम्भपीसस्य परमात्मनस्तत्संप्राप्तावुपासकस्याघं क्षयिप्य इति संकल्परूपः । देह- वियोगसमयभावी कर्मक्षयस्तु क्षान्तमिति संकल्परूप इत्यविरोधो द्रष्टव्य: ॥ ८ ।I हिग्ण्मये पुर कोशे विग्जं ब्रह्म निष्कलम्। तस्यां हिरण्मयः कोश इतिश्रुत्युक्तरीत्या स्वप्रकाशतया कमनीयतया
पर उत्कृष्टे परमपदे पुर इति पाठेऽपि स्पषटोऽर्थः। विरजं छान्दसमद्- न्तत्वम्। सत्त्वरजस्तमोतीत निष्कलं निरवयवमित्यर्थः । तच्छुभं ज्योतिपां ज्योतिः। शुभ्रमनवद्यं प्रकाशकानामपीन्द्रियाणां प्रकाशकम्। ज्योतिःशव्दित- दीप्तियोगो विग्रहद्वारको द्रषव्यः।
Page 179
१७६ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० २ ख० २]
तथदात्मविदो विद्दुः ॥ ९ ॥ आत्मविदो यद्विदुर्यदात्मतत्त्वमिति यावत्॥ ९॥ ज्योतिषां ज्योतिष्ठं प्रपश्चयति- न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभिः। तस्मिन्दीव्यमाने नैतेषां दीप्तिरस्तीत्यर्थः । नन्वतिमास्वररूपवति सूर्यादा प्रत्यक्षेणानुभूयमाने तद्ासा च जगति भासमाने न तत्र सूर्यो भातीति प्रत्यक्षविरुद्धं कथमभिधीयत इत्यत्राSडह- तभेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥१०॥ इद च जगद्वासकमादित्यादीरना परिवृश्यमानं रूपं न नैजं किंतु परमात्मदत्तं तदीयमेव तेजः। गीतं च भगवता- यदादित्यगतं तेजो जगन्भासयतेSखिलम्। यञ्चन्द्रमसि यच्चाग्री तत्तेजो विद्धि मामकम् ॥ [गी० १५।१२ ] इति। विवृतं चेतद्भगवता माध्यकृता-अखिलजगतो मासकमेतेपामा- दित्यादीनां यत्तेजस्तन्मदीयं तेजस्तैराराधिरतन मया वत्तमिति विद्धीति। अतो याचितर्कमण्डितपुरुषतुल्यानामेतेषां भास्वररुपशालिनामपि अन- न्याधीनतेजस्त्वामावान्न भातीतिव्यपदेशो युज्यत इति मावः।तस्य भासा सर्वमिदं विभाति। सर्वप्रपञ्चभासकस्यापि सौर्यादितेजसस्त- द्दत्तत्वेन तदीयत्वाभावादिति मावः। अत्र वक्तव्य सर्व कठवल्लीवि- वरण उक्तं मत्रैव दष्व्यम् ॥१०॥ उपसंहरति- ब्रह्मेवेदममृतं पुरस्तात्पश्राद्ूह्न दक्षिणतश्र्वोत्तरेण। सर्वासु दिश्षु यदिदं हश्यते तत्सवं बह्मैवेत्यर्थः। अधश्रोध्वं च प्रसृतं ब्रह्मवेदं विश्वमिदं वग्षिम्॥ ११ ॥ इत्यथर्ववेदीयमुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥२ ॥
Page 180
[मु० ३ ख ० १ ] मुण्डकोपनिषत्। १७७
वरणीयतमं ब्रह्मैवेत्यर्थः । शिषं स्पटटम् ॥ ११ ॥ इत्यथर्ववेदीयमुण्डकोपनिषद्ाप्ये द्वितीय मुण्डके द्वितीय: खण्डः ॥२॥
समाप्तं चेदं द्वितीयं सुण्डकम्।
नन्वेकस्यैव ब्रह्मणः सर्वदेहानुप्रवेशे तस्य सुखदुःखभोक्तृत्वप्रसङ्ग इत्यत्राऽडह- द्वा सुपर्णा सयुजा सखाया समानं दृरा परिपस्वजाते। युज्यत इति युक्शव्दो गुणपरः। समानगुणकः रूरगिति व्यासारये- विवृतत्वात्। सयुजौ समानगुणकी सखाया अपहृतपाप्मत्वादिगुण: पर- स्परसमानौ द्वो सुपर्णौ हो पक्षिसदशौ समानमेकं वृक्षं वृक्षवच्छेदनाहं शरीरं समाश्रितावित्यर्थः । तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति॥।१॥ तयोर्मध्येऽन्यतरो जीवः स्वादु परिपक्वं पिप्पलं कर्मफलं भुझ्गे । अन्यस्तु परमात्माऽभुख्जान एव प्रकाशते। अत्र शरीरे तदाश्रयजीवपरा- दिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिशब्दैर्वृक्षत्वाध्य-
समाने वृक्षे पुरुषो निमशोऽनीशया शोचति मुह्यमानः। अनीशया भोग्यभूतया प्रकृत्या मुह्यमानः। पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ देहयोगाद्वा सोऽपीत्युक्तन्यायेन तिरोहितपरमा- तमशेपत्वज्ञानानन्द्लक्षणस्वस्वरुप: सन्वृक्षवच्छेदनार्ह एकस्मिकछरीरे जीव: स्थलोड्ं कृशोऽहमित्यादितादात्यबुदधध्या पांसूदकवत्तदेकता- मापन्नः संस्तत्संसर्गकृतानि दुःखान्यनुभवतीत्यर्थः । जुष्टं पदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक:॥२॥ इतिशब्दो बुद्धिस्थप्रकारवचनः । चशब्दशाध्पाहर्तनयः । यदाऽसौ जीवो निमग्नात्स्वस्माद्धारकत्वनियन्तृत्वशपित्वादिना विलक्षण स्वक- मभ: प्रीतं परमात्मानमखिलजगदीशनलक्षणमस्य महिमानं च यदा २३
Page 181
१७८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मृ० २स्० १]
पश्यति तदा वीतशोको भवतीत्यर्थः। केचित्वनीशयानीशत्वेनास-३ मर्थत्वेनेत्यर्थः। लोके हि पङ्कादी निमग्नः पङ्कादिसंबन्धेन मुह्यमानः स्वयं निर्गमनासमर्थत्वेन शोचन्स्वोन्ध्रणसमर्थ स्वयं पक्कादावनिमग्रं छ स्वस्मिन्प्रीतिमर्वेन राहृन्दूतं तस्योद्टरणसामथ्य च दष्टा वीतशोको भवति तत्समाधिरत्रानुसंवेयः। नचास्मिन्पक्षेनीशया भोग्यभूतया प्रकृ- त्येति भाष्यविरोध: शङ्कनीयः। भोग्यभूतयेत्यम्यानीशयेत्यत्विवरण- रूपत्वाभावात्। तस्य सामर्थ्यलब्धार्थानुवादरूपत्वाहिति वदन्ति । ननु कथं द्वा सुपर्णेति मम्तरस्य जीवपरमात्मभद्गपरत्वम। अन्तःकरण- जीवपरो ह्यर्य मन्त्रः। पेद्गिरहस्यवाह्मणेऽस्व सन्त्रम्य तथा व्याख्या- तत्वात्। तथा हि तयारन्यः पिप्पले स्वाद्वनीति सत्वमनश्न्नन्योऽ मिचाकशीति 'ज्ञस्तावेती सत्त्वक्षेत्रज्ञी' हत्यत्र स्वादवत्तीत्येतदन्तस्य वाक्यस्य सत्वपरत्व्रमनश्रन्नित्यादेः क्षेत्रज्ञपरत्व च प्रतीयत। न च सत्त्वक्षेत्रज्ञशब्दी जीवपरमात्मपराविति वाच्यं तया: शब्दयोगन्तःकरण- जीवर्परतया प्रसिद्धत्वात्। तदेतत्मतत्वं येन स्वमं पश्यति। 'अथ योऽयं शारीर उपद्ृश स क्षेत्रज्ञस्तावती सत्वक्षत्रज्ञा' इति सत्वक्षेत्रज्ञशव्दयो- रन्तःकरणजीवशब्दाभ्यां श्षत्यैय व्याय्यातत्वाच्य। येन पश्यतीति करण- त्वप्रतीते: सत्त्वं ह्यन्तःकरणं स्वमदहत्वाच् क्षत्रज्ञो हि जीव: । अतोऽयं' मन्त्रोऽन्त:करणजीवपर इति चेत्। न तावजीवपरमात्मपरत्वमस्य मन्त्रस्यापि वदितुं शक्यते। अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञाय- माने 'समाने वृक्षे पुरुषो निमम्नः' इत्यनन्तर नन्त्रे जीवपरयाः प्रति- पन्नत्वात्। अस्य मन्त्रन्य 'तर्दकार्थ्याच्य' समानं वक्ष परिषस्वजाते समाने वृक्षे पुरुषो निमग्न इति त्यारकार्थ्य हि प्रतीयत। समाने वृक्ष इति मन्त्रे च पुरुषो जीवः। अन्तःकरणग्य पुरुपशदवाचित्वाभावात्। शोचति मुह्यमानः पश्यति बीतशीक इति पदानामस्वारम्यमसङ्गाब्व।
केवलमनन्तरमन्त्रैकार्थ्याद्द्वा गुप्णेति मन्त्रम्य परमात्मपरत्वं किंतु स्ववाक्य स्वाद्ृत्त्यनश्षन्नन्य इति भोक्तृत्वाभोक्तृत्वअ्रवणाच् तद्वसीयते।
भोकृतवं हि न संभवति जीवस्य वृक्षशब्दोक्तहपरिप्वङ्गदशायामेवा- नश्नत्वमपि नोपपद्यते। तरहि पैङ्गिश्तुतः कोऽर्थः। उच्यत-सत्त्वं बन्धजीवः। द्वव्यासुव्यवसायेपु सत्वमस्त्री तु जन्तुषु इति नामानुशासनाजन्तुपर-
Page 182
[मु० ३ ख ० १] कुण्डकोपनिपत् । १७९ त्वावगतेः। जन्तुक्व चेतनः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिण इति नामपाठात्। वन्यान्विनेप्यन्निव दुष्टसत्त्वानिति प्रयोगात्। न तदस्ति पृथिव्यां वा दिवि देवेपु वा पुनः । सत्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्रिभिर्गुणैः॥ इति दर्शनाञ्च। क्षेत्रज्ञशब्दआात्र परमात्मपरः। अर्थान्तरप्रसिद्धाकाशप्राणादिश- व्द्वदर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः । क्षेत्रज्ञोऽक्षर एव चेति परमा- त्मनि प्रयोगात्। क्षेत्रं जानातीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाख्च। मोक्षधर्मे- ततस्त्रैगुण्यह्वीनास्ते परमात्मानमख्जसा। प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् ॥ सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः । इति । तत्रैव - विश्वमूर्धा विश्वसुजो विश्वपादाक्षिनासिक:। एकश्ररति क्षेत्रेषु स्वैरचारी यथासुखम्॥ क्षत्राणि च शरीराणि ज्ञानानि च शुभाशुमे। तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते॥ इति प्रयोगात। तत्रैव कपिलासुरिसंवादे-ज्ञातानामासुरे भेष्ठो जो दष्टा शुचिरुपेक्षकः। ज्ञातृको बुद्ध्यमानाप्रतिबुद्धयोः । परममृतं विदित्वा निरवयवमनामयमस्माद्दुःखाहिमुच्यत एवेति बुद्ध्यमानाप्रतिबुद्धश- वदाभिहितयोश्विदचितोः परस्य क्षेत्रज्ञशब्देनाभिधानात्तत्रैव पञ्चविंश- तित्त्वानि वर्गशब्देनोक्त्वा, एतस्मादवर्गादपवृत्तोऽपवर्गः क्षेत्रज्ञः शुचि- रुपेक्षको बुद्ध्यमानाप्रतिबुद्धयोः परस्मादिति, तत्रैव-अन्यदुदकम- न्यत्पुष्करवर्णम्। तथाऽन्यत्क्षेत्रमन्यः पुरुषः पञ्चविशकोऽन्यश्रास्मा- त्क्षेत्रज्ञ इति। पुनश्र तत्रेव। एवमासुरेऽन्यद्रव्यमन्यः पुरुषः पञ्र्वि-
सनत्कुमारनारदसंवादे च- पश्य: पश्यति पश्यन्तमपश्यन्तं च पश्यति। पश्यन्तं पश्य पश्यत्वात्पश्यात्पश्येन पश्यते॥ इति श्लोकमुक्त्वा प्रकृति क्षेत्रं क्षेत्रज्ञं चापरः क्षेत्रज्ञः पड्डिशकोS- नुपश्यति न तु पञ्चविंशक: क्षेत्रज्ञः प्रकृतिर्वाऽपरं क्षेत्रज्ञं पश्यतीति प्रयोगाच्च। अत्र ह्यात्मशब्द्वत्क्षेत्रज्ञशव्दस्य जीवपरसाधारणस्य पञ्च-
Page 183
१८० रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० २ ख ० १]
विंशपरशद्द्विशेषितस्व्र जीवपरमात्मविपयत्वदर्शनाच्च। योडस्याऽडत्मन: कारयिता ते क्षेत्रज्ञं प्रचक्षते। यः करोति तु कर्माणि स भूतात्मेति चोच्यते। इति मानवतयोगाव। येन स्वप्नं पश्यतीयत्रेत्थंभावे तृतीया थेन विशिष्टः परचाला स्वसं पश्यतीत्युच्यत। ततश्च काठिन्यवान्यो बिभ- तीति पृथिवीद्वारा काठिन्यवत्स्वप्रद्पटत्वम्। जीवद्वारा परमात्मविशे- षण भवतीति न विरोधः। शारीरकश्दश्र तस्यैष एव शारीर आत्मे- तिवत्स्वव्यतिरिक्तसमस्तचिद्चिच्छरीरक परमात्मन्युपपद्यते। उपद्र- षेति निरुपाधिकं हष्टत्वं तस्येवोपपद्यते। एवं शारीर उपद्रश्ेति पदद्- येन परस्य क्षेत्रज्ञशब्दृवाच्यत्वमुपपादितं भवति। अतो द्वा सुपर्णेति मन्त्रो जीवपरमात्मपरः । कि च ' इयदामननात्' इत्यधिकरणे 'द्वासुपर्णी' इति मन्त्रे भोक्त्भोक्तोः प्रतिपाद्यता। 'कतं पिबन्ती' इत्यत्र तु भोक्तोरव प्रतिपाद्यता, विचन्ताविति भवणात्। न च पिवन्तावित्यतच्छत्रिन्यायन पिवद्िवतरु मुदायलक्षकमिति वाच्यम् । मुख्यार्थपरित्यागे कारणाभावादित पूर्वपक्ष कृत्वा 'कतं पिबन्तौ' 'द्वा सुपर्णा' इत्यत्र च द्वित्वसंख्याप्रतीतववर्यं पतीयते। तत्र च द्वा सुपर्णति मन्त्र 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यः' इति अश- नायाद्यतीतः परमात्म, प्रतीयते। अत एव 'जष्ट यदा पश्यत्य- न्यमीशम' इति वाक्यशपे परमात्मन एव प्रतिपादनं दृश्यते। ऋतं पिबन्ताविति मन्त्र च, अन्यत्र धर्मादित्युपक्रमेण परमात्मनः प्रकृत- त्वात्। यः सेतुरीजानानामक्षरं बह्म यत्परमिति परमात्मविषयवाक्य- शेपाच्च परमात्मैव प्रतिपाद्यः। अत कर्तं पिचन्तावित्येतच्छत्रिन्यायेन योज्यम्। अती वेद्याभेदाद्विद्याभेद इति तदीयभाष्य एव प्रतिपा- दिततया तयोर्मन्त्रयोर्भिन्नार्थत्वसमर्थनस्य तद्विरुद्धत्वात्। तस्माद्द्वा सुपर्णेति मन्त्रो जीवपरमात्मपर एव। सत्त्वक्षेत्रज्ञशब्दावपि तत्पराषि- त्येव युक्तम् ॥२॥ प्रकृतमनुसराम :- यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम्।
Page 184
[मु० ३ ख ० १] मुण्डकोपनिपत्। १८१ e तदा विद्वान्पुण्यपापे विधूय निरअ्न: परमं साध्यमुपैति॥३॥ पश्यतीति पश्यः । पाव्राष्माधेट्शः शः [पा०सू०३। १।१३७] इति शप्रत्ययः । शित्वात्पश्यादेशः। यस्मिन्काले पश्यो त्रह्मदर्शी, 'आदित्यवर्ण तमसः परस्तात्। हिरण्यश्मश्ुर्हिरण्यकेशः' [छा०१६६] इत्युक्तरीत्या देदीप्यमानमङ्गलविग्रहयुक्तं जगदीशितारं तत्कतारं ब्रह्म-
भगवानिति शब्दोडयं तथा पुरुष इत्यपि। निरुपाधी च वर्तेते वासुदेवे सनातने॥ इत्युक्तरीत्या पुरुपशब्दनिर्दिष्टं वासुवं यदा पश्यति तदा पुण्यपापे निरस्य निरस्तप्रकृतिलेप: रूम्तपहृतपाप्मत्वादिगुणाष्टकलक्ष- णेन ब्ाह्मेण रूपेण परमं साध्यमुपैतीत्पर्थः। ब्रह्मयोनिमित्यत्र व्यासायैः
तदतिसुन्दरम् ॥ ३॥ माणो ह्वेप यः सर्वभूतैर्विभाति। सर्वाणि ह वा इमानि भूतानि पाणमेवाभिसंविशन्तीत्यादाविष पाणशब्दः परमात्मपरः। एप परमात्मा सर्वभूतैराश्रितो भवतीत्यर्थः। विजानन्विद्वान्भव तेनातिवादी। भवेति लोण्मध्यमपुरुषैकवचनं विजानञछवणमननाभ्यां जानन्वि- द्वांस्तमुपासीनस्तेन परमात्मनाऽतिवादी भवेति शिष्यं प्रत्युपदेशः । अतीत्य सर्वान्वदितुं शीलमस्य सोऽतिवादी। यस्तु स्वोपास्यदेवतायाः सर्वातिशायित्वं वदति सोऽतिवादीत्युच्यते। आत्मकीड आत्मरतिः । यस्य क्रीडाउडत्मन्येव नोद्यानादिषु स आत्मक्रीडः। यस्य रतिरा- त्मन्येव न स्रक्चन्दनादिषु स आत्मरतिः । रतिः सक्चन्दनादिजन्या प्रीतिः क्रीढोद्यानादिजन्यति भूमाधिकरणे व्यासायैरुक्तत्वात् । क्रियावान्। अननुसंहितफल क्रियानुष्ठानशीलः। एवंभूतश्र मवेति योजना। क्रियावत्त्वं किमर्थमित्यत्राSSह-
Page 185
१८२ [मृ० ३ ख० १] एघ हि ब्रह्मविदां विषिः ॥४ ॥ इति। क्रियया ह्यन्तःकरणे परिशुद्धे ब्ह्मविद्यानिप्पश्ा ब्रह्नषिरदां परिष्ठो भवति॥४ ॥ सत्येन लभ्यस्तपसा ह्वेष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। अन्तःशरीरे ज्योतिर्मयो हि शुभ्रनो- यं पश्यन्ति यतयः क्षीणदोपाः॥५॥ रागादिदोषशून्या जितेन्द्रिया यं पश्यन्ति स शरीरान्तर्वर्ती ज्ञान- मयो निर्दोष आत्मा। मनसश्चेन्द्रियाणीं च ह्ैकाव्यं परमं तपः।
ङदिराहित्यलक्षणनित्यव्रह्मचर्येण च सत्येन भूतहितवचनेन च लभ्यः साक्षात्कर्तव्यः । अथवा लभ्यः प्राप्य इत्यर्थः । प्राप्तिश्रापासनाद्वरेति दष्टव्यम् ॥ ५ ॥ सत्येन लभ्य इत्युक्तं सत्यं स्तौति- सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः । लोके सत्यमेव जयति नानृतं सत्यवादिना ह्यनुतवादी परिभूयते । अिरादिरुपेण विततो विस्तीर्णो देवयानाख्य: पन्थाः सत्येन हि भवति सत्यवादिनो हि मवतीत्यर्थः । तं मार्ग विशिनष्टि- येनाऽडक्मन्त्यृपयो ह्यापकामाः। विगततृष्णा: सत्यदर्शिनो येन मार्गेण तत्पाप्ुवन्ति हि। किं तदित्य त्राडडह- यत्र तत्सत्यस्य परमं निधानम् ॥ ६॥ यत्र स्थाने सत्यवद्नस्य परमप्रयोजनमूत मूर्तं ब्रह्माऽडस्ते तत्स्था- नमित्यर्थः ॥ ६ ॥
Page 186
[मु० ३ ख० १] मुण्डकोपनिषत् । १८३
अिरादिपाप्यं विशिनष्टि- बृहच्च तदिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति। स्वरूपतो गुणतश्र बृहत्परमाकाशनिलयं वाङनसागोचरकमनीय-
सूक्ष्मतरं दीप्यते। दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहेव निहितं गुहायाम्॥७॥ दूराद्दूरे प्रकृते: परस्ताद्वर्तमाने परमपदेऽन्तिकेऽण्डान्तर्वर्तिनि रविम- ण्डले पश्यत्सु ब्रह्मदर्शिप्विहैष हृदयाकाशे निहितमित्यर्थः॥७॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा दा। देवा इन्द्रियाणि शिषं स्पष्टम्। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८।। ज्ञायतेऽनेनेति व्युत्पत्या 'प्रज्ञा च तस्मात्प्रसृता पुराणी' [शवे०४।१८] इति श्रुत्युक्तरीत्या ज्ञानप्रसरणहेतुः परमात्मा ज्ञानशद्देनोच्यते। अय- मन्वय :- निष्कलं परमात्मानं ध्यायन्परमात्मप्रसादेन विशुद्धान्तःकरणो भवति। तद्नन्तरं दर्शनसमानाकारज्ञानेन तं विषयी करोतीत्यर्थः॥८॥ एषोणुगत्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश। प्राणैश्रिवित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९॥ यस्मिन्नात्मनि प्राणापानादिपञ्चरूपेण विभक्त: प्राण आश्रित इतरेरिन्द्रिये: सह प्रजानां सर्वमपि मन आश्रितम्। यस्मिश्र परमा- त्मनि विशुद्धे प्रसन्ने सत्येष जीवात्माSपहृतपाप्मत्वादिगुणाट्टकविशि- प्टतयाSडविर्भवति। एप दुर्विज्ञेय आत्मा विशुद्द्ेन मनसा ग्राह्य इत्यर्थ: ॥ ९ ॥
Page 187
१८४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु०३ख० २]
यं पं लोकं मनसा रांविभाति विशुखसत्वः कारायते यांश्र कामान। तं तं लोकं जर्यति तांथ् कामान् ।। संविभाति संकल्पयतीत्यर्थः। कामान्रूपादीअ्षयति वशी करोती- त्यर्थः । शिटं स्पष्टम्। तस्मादात्मज्ञं ह्वर्चयेद्धतिकामः ॥ १० ॥ इत्यथर्ववेदीयमुण्डकोपनिपत्काशिकायां तृतीयमुण्डके प्रथमः खण्डः ॥ १ ॥
यस्मादसौ वशीकृतलोककामतया लोकान्कार्माक्ष प्रामतुं स्वभक्तान्प्रा- पयितुं च शक्कोति तस्मादैश्वर्यिकामः प्रीतोडसावात्मज्ञो मह्यमभिल पितं वरं प्रयच्छतीति बुद्ध्या पूजयदित्यर्थः ॥ १० ॥ इत्यथर्ववेद्ीयमुण्डकोपनिपत्मकाशिकायां तृतीयमुण्डके पप .: सण्ड: ॥ ॥
आत्मवित्यूजाया मोक्षफलकत्वमाह- स वेदेलत्पमं वहम धाम यच निश्वं निदि जाति शुभ्रम्। यत्र ब्रह्मणि विश्वं जीवजातं निहितं निर्मलं रवप्रकाशं भात्येत- दीद्वशं सर्वकामास्पदृतया धामशन्दितं परं बल्म स पूर्वप्रकृत आत्मज्ञो वेदेत्यर्थः । उपासते पुरुपं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीगाः ॥ १ ॥ ये प्रज्ञाशालिनस्ताहशमात्मज्ञं पुरुषं फलान्तरकामनारहिता मुमुक्षय: सन्तः परमात्मानमिवोपासते त एतच्छुकं चरमधातुमतिक्रम्य वर्तन्ते जन्मशून्या भवन्तीत्यर्थः । १॥
Page 188
[मु० ३ख० २] मुण्डकोपनिषत। १८५
कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र। पर्याप्तकामस्य ऊतात्मनस्तु इहेव सर्वे प्रविलीयन्ति कामाः ॥२ ॥ यस्तु देवत्वमनुष्यत्वादीन्कामान्भोग्यतया मन्यमानः कामयते स तत्र देवत्वमनुष्यत्वादौ कामभि: कामैस्तत्तत्कामवशादिति यावत्। देव- मनुष्यादिरूपेण जायते पर्याप्ते परिपूर्णे ब्रह्मणि कामनावतो विदिता- त्मतत्त्वस्यास्मिन्नेव जन्मन्याशा लुप्ता न जन्मान्तरप्रसक्तिरित्यर्थः । कृतात्मन इत्यत्र शब्ददर्डुरं करोतीत्यत्रेव कृधातोर्ञानमर्थः ॥२॥ नाथमात्मा प्रवचनेन लक्यो न मेधया न बहुना श्रुतेन।। प्रवचनशब्देज मननं लक्ष्यते। तत्साधनत्वान्मेधाशब्दश्र निदिध्यास- नवाची। श्रवणमनननिदिध्यासनैः केवलैन माप्य इत्यर्थः । कितु तत्राSSह- यमेवैंष वृणुते तेन लभ्यः । एष परमात्मा यमुपासकं वृणते तेन प्राप्यस्तेन वरणीयेन प्राप्य इति यावत्। प्रियतमश्र वरणीयो भवति प्रियतमत्वं च स्वस्मिन्प्रीतिमत एव। अतश्ायमर्था लभ्यते। यस्तु परमात्मनि निरतिशयप्रीतिमान्स परमात्मानं प्रामोतीत्यर्थ उक्तो भवति। प्रीतिरूपापन्नभगवद्दुपासनस्य भगवत्प्रीतिद्वारा भगवत्पाप्तिहेतुत्वमित्यर्थः । तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥ ताद्वृशस्योपासकस्येप आत्मा स्वात्मानं प्रकाशयति स्वानुभवमुत्पा- दृयतीत्यर्थः ॥३॥ नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाऽप्यलिङ्गात्। अयमात्माऽवसन्नमनसा न लभ्यः। अवसादो नाम देशकालवगुण्या- दिजन्यदैन्यं तद्भावो हि बलम्। प्रमादोऽनवहितचित्तता। तपःशब्द-
Page 189
१८६ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० २ ख ० २]
स्तप: पधानसंन्यासाथ्रमपरः। तप एव द्वितीय इतिवत। तम्य लिङ्ग
तपस इत्येतदाश्रमान्तरस्याप्युपलक्षणम्। सर्वाश्रमाणामपि ब्रह्मविद्या- धिकारसत्त्वादिति द्रष्टव्यम्। लिङ्गशून्यैराश्रमैर्नप्राप्य इत्यर्थः । आश्रम- लिङ्गान्यपेक्षितानीति यावत्। एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैप आत्मा विशते ब्रह्म धाम ॥ ४ ॥ उत्तेषछाप्रमादसलिङ्गाश्रमर्यो विद्वान्व्ह्मपासये यतते तस्य तावृशो- पायसंस्कृतमात्मस्वरूपं धाम पाप्यं परं ब्रह्म पम्तीत्यर्थः ॥४॥ संपाप्यैनमृषयो ज्ञानतृप्ताः कता- त्मानो वीतरागाः प्रशान्ताः ।
तत्त्वदर्शिन एनं परमात्मानं जीवदशायामेवानुभूय तेनानुभवेन संतुष्टा लब्धात्मसत्ताका अपगतविपयाशा अत एव निगृहीतेन्द्रियाश् ये सन्तीत्यरथः । ते सर्वगं सर्वतः प्राप्य धीरा युक्कात्मानः सर्वमेवाऽSविशन्ति ॥ ५॥ ते सर्वदेशावच्छेदेनाम्तर्बहिश्र सर्ववस्तुगतं परमात्मानं देशविशेष- विशिष्टं प्राप्याSSविर्भृ तब्राह्मरूपविशिष्टात्मानो धर्मभृतज्ञानेन सरवं वस्तु गत्या व्याप्ुवन्ति सर्वमनुभवन्तीत्यर्थः ॥५।। वेदान्तविज्ञानसुनिश्ितार्थाः संन्यासयोगायतयः शुद्धसत्त्वाः । ये निर्जितेन्द्रियग्रामा: काम्यकर्मसंन्यासेन शुद्धान्त:करणा वेदान्त- श्रवणजन्यज्ञानेन निर्ज्ञातपरमात्मतत्त्वा इत्यर्थः । ते बह्मलोके तु पगान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ ६ ॥ ब्रह्मैव लोको ब्रह्मलोकस्तत्र वर्तमाना ब्रह्मनिष्ठाः परान्तकाले,-
Page 190
[मु० २ ख ० २] मुण्डकोपनिषत्। १८७
अन्तकाले च मामेवेत्युक्तचरमद्हावसानसमये परामृतात्प्रसन्नाङ्वह्मणो हेतोः सर्वे परिमुच्यन्त इत्यर्थ इति 'विशेष च दर्शयति' [व्० सू० ४। ३१६ ] इति सूते व्यासायैरयं मन्त्रखण्डो विव्वृतः। ते ब्रह्मलोकेषु परा- न्तकाले परामृताः परिमुच्यन्ति सर्वे। इति पाठे ते चरमशरीरावसाने भगवल्लोकेषु परमसृतशब्दितं ब्रह्म प्राप्यमापकत्वेन येषां ते परासृता बह्म प्राप्ता इति यावत्। स्वरूपतिरोधायकाविद्यया सवासनं विमुक्ता भवन्ति। 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिप्पद्यते' [छा०८।३। ४] इति श्रुतेरित्वर्थः। न च भगवल्लोकस्यैकतया कथं चहुत्वमिति शङ्गनी- यम्। परिपूर्णस्य सर्वगतस्य सत्यसंकल्पस्य स्वेच्छापरिकल्पिता: स्वासा- धारणा अप्राकृताक्ष लोका नात्यन्ताय न सन्ति(?) इति] श्रुतिस्मृती तिहासप्रामाण्यादिति भगवता भाध्यकृतोकतत्वात् ॥ ६॥ गता: कलाः पञ्चदश प्रतिष्ठा देवाश्व सर्वे प्रति देवतासु।
यर्मनान्नवी र्यंतपोमन्त्रकर्मलोकनामानीति पोडश कलाः। 'स प्राणमसृ- जत प्राणाछछद्धाम्।' [पर०६।४। ] इत्यादिप्रश्नोपनिषद्ठक्तप्राणादिना- मान्तपोडशकलामध्ये कर्मव्यतिरिक्ता: पञ्चदश कला: स्वस्वप्रकृतिषु संश्लेपविशेषयुक्ता भवन्ति। देवा वागादीन्वियाणि तद्विषाव्ादिदेव- सासु प्रतिशां संसर्गविशेषं गच्छन्ति न तु लीयन्ते। इन्द्रियादीनामाकल्प- स्थायित्वात्। 'यत्रास्य पुरुषस्य सृतस्यात्निं वागप्येति वातं प्राणश्र- क्षुरादित्यम्' [बृ० ३।२१३] इत्यादिपु वागादीनामग्न्याद्यप्यय- श्रवणस्य भाक्तत्वमित्यग्न्यादिगतिभ्ुतिरिति चेन्न। 'भाक्तत्वात् ' इति सूत्रितत्वात्। कर्माणि विज्ञानमयश्र् आस्मा परेऽव्यये सर्व एकी सवन्ति॥७ ॥। यानि च कर्माणि अदत्तफलानि दर्शनसमानाकारज्ञानारम्भसमये क्षयिप्य इति संक्पविषयभूतानि तानि कर्माणि च विज्ञानमय आत्मा चाक्षरात्परत इति सर्वस्मात्परभूतेऽ्व्ययेऽक्षर एकी भवन्ति। परमात्मप्री- त्यप्रीतिरूपाणां कर्मणां तत्रकीभावस्तद्धर्सभूतज्ञाने लय एव। जीवस्यै- कीभावो नामरुपात्मकभेदकाकारपहाणम। कर्मणां नाशात्कलानां मुच्यमानं प्रति नोपकरणात्वमिति भाव:।।७ ।।
Page 191
१८८ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु० ३ख०२]
तदेवोत्तरमन्त्रेण विशद्यति- यथा नयः स्पन्दमाना: समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। यथा गङ्गायमुनासरस्वत्यादिनद्यः स्वोत्पत्तिस्थानेभ्यः प्रसृता गङ्गाय- मुनासरस्वत्यादीनि नामानि शुक कृष्णलोहितादीनि रूपाणि च विहायै- कतामिव भजन्ते। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुषैति दिव्यम् ॥८॥ तद्देषु भेदकैर्नामरूपादिभिविमुक्त: सन्। दिव्यो ह्यमूर्तः पुरुष इति मन्त्रप्रतिपाद्यं पुरुषं प्राप्नोति। यथा नदीसमुद्धजलयोर्वस्तुतो नैक्यमपि तु भेदकाकारप्रहाणमात्रमेवमिहापि मुक्तस्य परमात्मना पूर्वमुक्तात्म- भिरपि नैक्यमपि तु परमसाम्यमात्रमू। अत एव कठवल्या शुद्धे शुद्ध- सासिक्तं ताद्टगेव भवतीति सादृश्यमेवोक्तं न तु तन्ावः । नन्ववय- वातिरिक्तावयव्यन्तराभाववादिना परसपरसदशानां घटावयवाना भिन्ना- नामेव सतामेकत्वावस्थाश्यत्ववत्कुण्डलकटकादी नां मूपा निक्षिप्तानाम-
योरपि परस्परमिलितयो: संसर्गिदव्ययोरकतावस्थाश्रयत्वमस्ति। ततश्र - * निर्विशेषत्रह्मैकतापत्तिरेव परं मुक्तिरिति चन्न। निर्गणविद्याश्रेष्ठत्वेन पराभिगतायां प्रजापतिविद्यायामपि'रे तत्र पर्येतीति मुक्तबह्मणोराधा-
रव्यङ्गी कृतत्वात्। न च सत्यकामत्वं सत्यसंकल्पत्वं च जीवस्य स्वरू- पमात्रमिति शक्यते वक्तुम। कामशब्दोदितानां कामनाविषयसृज्यपदा- र्थानां संकल्पशब्दोहितस्य तत्सृष्टिहेतुमायावृत्तिविशेषस्य व स्वरूपाद्द- हिर्भावावश्यंभावात्। तेपां च मुक्तावाविर्भाये कथं निर्विशेषतापत्ति:। अनाविर्भावे च प्रजापतिविद्यायां य आत्माऽपहृतपाप्मेत्यादिना गुणा- ट्टकोपदेशवैयथर्यम्। न हि प्रजापतिविद्यायां गुणाष्टकोपदेशस्योपास- नार्थत्वं संभवति। परैस्तत्रोपासनाविध्यनब्गीकारात। नापि तद्वग- त्यर्थ उपदेशः। मुक्त्यर्थावगतेः शुद्धव्नह्मविषयत्वात्। तत्व्रमसीत्युप- देशस्थले ब्रह्मणो जगदुपादानत्वादिवर्णनस्याध्यारोपापवादन्यायेन निष्प-
Page 192
[मृ ०२ख०२] मुण्डकोपनिपत्। १८९
पञ्चत्वबोधनार्थतयैवात्र प्रकारान्तरेण सार्थकत्वोपपादनायोगात् । नापि रुच्युत्पादनार्थः । गुणकीर्तनस्य निर्गुणविद्यारुच्युत्पादकत्वासं-
तद्वोधनार्थतयेव साफल्यं वाच्यम्। अतश्र युक्ती निर्विशेषव्रह्मभावा- पत्तिकथनमसंगतम् ॥८॥ स यो ह वे तत्परं ब्रह्म वेद व्रह्ेव भवति। य एतत्परं ब्रह्म वेद। वेदनं ध्यानविश्रान्तध्यानं श्रान्त धुव- स्मृतौ सा च दृष्टिर्भक्तित्वमृच्छतीत्ुक्तरीत्या प्रीतिमापन्नदर्शनसमानाका- रोपासनयुक्तो भवति। आविर्भूतब्रह्मरूपो भवतीत्वर्थः। आनुपङ्गिकं प्रयोजनमाह- नास्याब्रह्मवित्कुले भवति। अस्य कुलेऽबह्मविन्न भवतीत्यर्थः । तरति शोकं तरति पाप्मानमू। स्पष्टोऽर्थः । गुहाग्रन्थि्यो विमुक्तोऽमृतो भवति ॥ ९ ॥ त्रिगुणात्मप्रकृतिकारित रागद्वेषादिभ्यो विमुक्त: सन्नािर्भूतगुणाट्टको मवति ॥ ९॥
एतद्विद्यासंप्रदानमभिमुखीकृत्य ऋङान्त्रेणोक्तम्। क्रियावन्तः श्रोत्रिया बहनिष्ठाः स्वयं जुह्वत एकरषि श्रद्धयन्तः । नित्यनैमित्तिकक्रियायुक्ता अधीतवेदा वह्मा बुसुत्सव एकपिशब्दित- मग्निहोत्रं स्वयमेव जुह्वतीत्यर्थः। एकत्विग्मात्रसाध्यस्याग्निहोत्रम्येक- पित्वमित्यर्थः । यद्वा, एकश्रासावृपिश्र मुख्यर्ि: परमात्मा तथा प्राण इत्यत्र ऋिशब्दश्र सर्वज्ञे तस्मित्नेव युज्यत इति भाषितत्वात्। तत्र श्रद्धायुक्ता इत्यर्थः ।
Page 193
१९० रङ्गरामानुजविरचितप्रकाशिकासमेता-
तेषाभेवैतां ब्रह्मविद्यां वदेत शिगे- व्रतं विधिवधैस्तु चीर्णम् ॥ १०॥ अत्र विद्याशब्दो ग्रन्थसंदर्भे वर्तते। तेषामेवैतां ब्रह्मप्रतिपादिका वेदरूपां विद्यां प्रबूयादयैः शिरस्यङ्गारपात्धारणलक्षणमा्थर्वणिकाना वेदंवतत्वेन प्रसिद्धं यथाशास्त्रमनुष्ठितमित्यर्थः । अयं चार्थ :- 'स्वाध्या यस्य तथात्वे हि' [तo सू० ३।३।३] इति सूते भाष्ये स्पट्टः। इत्थ हि तद्धिकरणम्-नानाशाखास्वाश्रितानि वश्वानराक्षरोपासनासंवादीनि अभ्यासप्रकरणान्तराय्यां भिद्यन्ते। इतरथा पुनःश्रवणलक्षणाभ्यासस्य प्रकरणान्तरस्य च वैयर्थ्यप्रसङ्गादिति शाखान्तराधिकरणपूर्वपक्षन्यायेन पूर्वपक्षे प्राप्ते। 'सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्' [त० सू० ३।३१]८: सर्ववेदान्तेषु प्रतीयमानं वैश्वानराुपासनमेकमेव चोदनाद्यविशेपात्। चोद्षना तावत्, 'वैश्वानरमुपासीत' इत्यादिककरुपैव। ब्रह्मप्राप्तिरूपफ- लसंयोगोऽप्यविशिष्टः । उपास्यरूपमप्यविशिष्टं वैश्वानरविद्येति समा- ख्याऽप्यविशिश। अत 'एक वा संयोगरूपचोदनाख्याविशषात्'।[ जै०
क्यमेय स्वीकर्तव्यम्। 'भेदान्नेति चेन्नैकस्यामपि' [ब० सृ० ३।३।२] शाखान्तरेऽभ्यासप्रकरणान्तरादिवशेन विद्याभेदावश्यंभावान्न विद्येक्यं विद्यक्ये पुनःभ्रवणवैयर्थ्यप्रसङ्गादिति चेन्न। एकस्यामपि विद्याया- मध्येतृभेदात्पुनःभ्रवणसार्थक्योपपत्तेरन विद्याभेद:। ननु विद्यक्ये मुण्ड- काम्नाताक्षरविद्याया: शाखान्तरा[घी]ताक्षरविद्यक्ये सति 'तेपामेवैतां ब्रह्मविद्यां वदेत शिराव्रतं विधिवद्यैस्तु चीर्णम' इत्याथर्वणिकमात्रानु- षेयं शिरोव्रतान्तर्गतत्वं शाखान्तराधीताक्षरविद्याया अपि स्यात्। नचे- ष्टापत्तिः। शिरोव्रतशून्यानामनाथर्वणिकानामक्षरविद्यानिष्ठा न स्यात्।
खान्तराधीताक्षरविद्या भिद्यत इत्यभ्युपगन्तव्यमिति चेत्तत्ाऽडह- 'स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराज्च सववच्च तन्नियमः'[त०सू० ३।३।३]तधात्व इति निमित्तरूप्तमी। स्वाध्यायस्य तथात्वसिद्ध्यर्थमध्य- यनजन्यसंस्कारभाक्त्वसिद्ध्यर्थ शिरोवतोपदेशः। शिरोवताङ्गकाध्यय- नेनोपनिषद्ूपस्वाध्यायस्य संस्कारो भवति। उपनिषदध्ययनाङ्ग शिरो- व्रतं न विद्याङ्गम्।'नैतद्चीर्णवतोऽघीते' [मुण्ड० ३२११] इति
Page 194
[मु ० ३ ख० २] मुण्डकोपनिषत्। १९१ शिरोव्रतस्याध्ययनसंयोगावगमात्। समाचाराख्याथर्वणिकग्रन्थ इदमपि वेदव्रतत्वेन व्याख्यातमिति शिरोवरते वेदवतशब्दप्रयोगाच्चाध्ययनाङ्गमेव शिरोव्रतं न विद्याङ्गम्। सववच्च तननियमः । यथा सप्त सौर्यादयः शतौदनपर्यन्ताः सप्त सोमा आथर्वणिकैकाग्निसंबन्धासत्रैव नियता भवन्ति। एवं शिरोव्रतमप्याथर्वणिकाध्ययनसंबन्धात्तत्रैव नियतं भवति। दर्शयति च श्रुतिरुपासनस्य सर्ववेदान्तप्रत्ययत्वम्। तथा हि च्छान्दोग्ये- 'तस्मिन्यदन्तस्तदन्वेष्टव्यम्।'[८१।१]इत्युक्त्वा कि तत्र विद्यते यदन्वेष्ट- व्यमिति प्रश्नपूर्वकमपहृतपाप्मत्वादिगुणाष्टकविशिष्टः परमात्मा तस्मित्न- पास्य इत्युक्तम्। तेत्तिरीयके तु च्छान्दोग्यस्थं प्रतिनिर्देशमुपजीध्य तत्रापि दृह्न्नं गगनं विशोकस्तस्मिन्यइन्तस्तदुपासितव्यम्। इति गुणाष्टकवि- शिष्टस्य परमात्मन उपासनमुच्यते। तदेतदुपजीवनं विद्यैक्यं दर्श- यति। एवं सिद्धस्य विद्यक्यस्य प्रयोजनमुच्यते-'उपसंहारोऽर्थाभेदा- द्विधिशेषवत्समाने च' [व० सू० ३।३। ५] एवं सर्ववेदान्तेषु समाने सत्युपासने वेदान्तराम्नातगुणा वेदान्तान्तर उपसंहर्तव्या विधि- शेषवदर्थाभेदात्। य्थैकस्मिन्वेदान्ते श्रुतौ वैश्वानरदहरादिविधिशेषो
गुणस्तत्संबन्धित्वाविशेपादुपसंहर्तव्यः। चशब्दोऽवधारणे। एवं गुणोप- संहारपादाव्ये स्थितम्। तदेतत्सत्यमृषिरङ्गिराः प्रोवाच। एतत्सत्यमक्षरमङ्गिरा कपिः शौनकाय प्रोवाच। नैतद चीर्णव्रतोऽधीते। अचीरण शिरोव तै रेतन्नाध्येतव्यमित्वर्थः। 'तेपामेवितां ब्रह्मविद्यां वदेत' इति पूर्वमन्त्रेSचीर्णशिरोवतायैंतदध्यापनं निषिद्धम्। अस्मिंस्तु वाक्येऽ- चीर्णशिरोव्रतस्याध्ययनं निषिध्यत इति भेदो द्रष्टव्यः । इयसुपनिष- त्सर्वाडपि भगवत्वरति भगवता बादरायणेन समन्वयाध्याये दाभ्यामधि- करणाभ्यां निर्णातम्। तथा हि-'अहृश्यत्वादिगुणको धर्मोक्तेः' [ न० सू०१।२। २१] इत्यधिकरणेडदेश्यमग्राह्यमित्यचेतनधर्माणां द्ृश्य- त्वादीनां निषेधस्तत्प्रसक्तिमत्वचेतन एवावस्थान्तरापन्ने युज्यते न तु तत्प्रसक्तिशून्ये परमात्मनि अबालोऽतरुण इत्यादिनिषधास्तत्प्रसक्तिम- त्यवस्थान्तरापन्नमनुष्याड़ावेव दृष्ः। न तु तत्प्रसक्तिशन्यपाषाणका-
Page 195
१९२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु३० ख० २]
शादौ। किंचाद्रेश्यत्वादिविशिष्टस्याक्षरस्य परमपुरुषत्वे, अक्षरात्परतः पर इति ततोऽपि परस्य पुरुषस्य श्रवणं नोपपद्यते। अतोऽक्षरात्परतः पर इति पुरुषगतपरत्वावधितयाऽक्षरादितिनिर्दिष्टस्य भूतयोन्यक्षरस्य परमपुरुषत्वासंभव्ादक्षरशब्दस्य प्रधाने प्रसिद्धेश्वाहश्यत्वादिगणकं भूतयोन्यक्षरं प्रधानमेव तत्परतया निर्दिश्यमानः पुरुषोऽपि पञ्चविशक एव न तु परमपुरूषः। परमपुरुपस्याक्षरपरभूतजीवादृपि परत्वेनाव्यव- हितपरत्वाभावात्। न चाक्षरात्परत इति पद्योवियधिकरण्याश्रयणेना- क्षरादृपि परभूताज्जीवात्परत्वमेव पुरुषस्व प्तिपाद्यत इति वाच्यम्। अक्षरात्परत इति पढयोः स्वकार्यवर्गपेक्षया परभूतेऽक्षरे सामानाधिक- रण्येन वृत्तिसंभवे तयोर्वैयधिकरण्ये प्रमाणाभावात्। अतोऽत प्रकृति- जीवावेव प्रतिपाद्येते न परमात्मेति पूर्वपक्षे प्रात्ते 'अदृश्यत्वादिगुणको धर्मोक्त:' [ब० सू० १।२।२१] 'विशेषणभेदव्यपदेशाभ्यां च नेतरौ' [ब० सू० १।२।२२] 'रूपोपन्यासाच्च' [न० सू० १।२२३ ] इति तिभि: सूत्रैः सिद्धान्तः। तेषां चायमर्थः-अदृश्यत्वादिगुणकः परमा- त्मैव तद्धर्माणां सर्वज्ञत्वादीनां 'यःसर्वज्ञः सर्ववित् '[मु० २।२७] इत्यादिवाक्येनान्न प्रकरण उ्तत्वादेकविज्ञानेन सवविज्ञानप्रतिज्ञा- दिना सिद्धेन चेतनाचेतनात्मनििरलप्रपञ्चापादानत्वंन भूतयोन्यक्षरस्य विशेषणात्।:अक्षरात्परतः पर इति प्रकृतिजीवाभ्यां भदव्यपदेशाच्च भूतयोन्यक्षरं परात्मैव। न चाक्षरात्परत इति पञ्चम्योः सामानाधि- करण्यात्स्वकार्यवर्गपेक्षया परभूतादक्षरशक्दिताद्व्याकृतात्परत्वेन तब्े- दसिद्धावपि न जीवभेद: सिध्यतीति वाच्यम। सामानाधिकरण्ये सति
करण्यपक्षेऽध्याहाराभावाज्जीवादपि वैलक्षण्यप्रतिपादकत्वेन सार्थक्य- संभवे परतःपदस्य सामानाधिकरण्याश्रयणन स्वकार्यवर्गपरत्वानुवादस्य निप्पयोगनस्याऽडअयणायोगात्। न चाक्षरात्परस्य पुरुषस्य परमात्मत्वे भूतयान्यक्षरस्य कर्थ परमात्मत्वं सिध्येदिति वाच्यम्। अक्षरात्परत इति निर्दिष्टस्याक्षरस्य, 'अथ परा यया तद्क्षरमधिगम्यते '[मु० १।१।५] 'तथाऽक्षरात्संभवतीह विश्वम्' [मु० १।१७]'तथाऽक्ष- राद्विविधा: सोम्य भावा: ' [मु० २।१११ ] येनाक्षरं पुरुषं वेद सत्यम् [मु० १।२१३ ] इतिवाक्यनिर्दिष्टभूतयोन्यक्षरापेक्षया भिन्नत्वात्। न च तत्र प्रमाणामाव:।
Page 196
[मृ.२ख० २] मुण्डकोपनिषत्। १९३
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । 'अप्राणो ह्यमनाः शुभ्रः' [मु० २। १२] इति पूर्वसंदर्भश्रतिपा- ". दितविशेषणविशिष्टं भूतयोन्यक्षरं स इतिपदेन परामृश्य तस्याक्षरात्- रतः परत्वाभिधानात्। न हि तस्यैव परतः परत्वं संभवति अतोऽक्षरा- त्परतः पर इति वाक्यस्थमक्षरपद्मव्याकृताभिधायि न तु भूतयोन्य- क्षराभिधायी। अगनिर्मूर्धा चक्षुषी चन्द्रसूर्यो [मु० २। १ । ४ ] इति भगवत्सवन्धितया प्रसिद्धस्य रूपस्य भूतयोन्यक्षरसंचन्धितयोपन्यासाज्च 'पुरुषं वेद सत्यम्' [मु० १। २। १३] 'दिव्यो ह्यमूर्तः पुरुषः' [ मु० २॥१।२] इति भगवद्साधारणपुरुषशब्दाभ्यासाच्च परमा- त्मैवातर प्रतिपाद्यत इति निर्णीतम्। तथा 'यस्मिन्धौः' [मु० २ २। ५ ] इति वाक्य ओतं मनः सह प्राणैश्व सवैरिति मनः प्राणसंबन्धित्वप्र- तिपादनात्। 'अरा इव रथ नाभौ संहता यत्र नाड्चः स एपोऽन्तश्ररते बहुधा जायमान:' [मृ० २२६] इति जीवलिङ्गाच्च भूतयोन्यक्षरप्रकु- रणं भङ्गकत्वा जीवपरत्वमेवास्य संदर्भस्याSडश्रयणीयमिति पूर्वपक्षे प्रात्ते 'दयुम्वाद्यायतनं स्वशब्दात्'।[ व०सू० १।३। १] मुक्तोपसृप्यव्यपदे- शाञ्च'॥ 'नानुमानमतच्छव्दात्'। 'प्राणाभृख्न'। 'भेदव्यपदेशात,। 'प्रकरणात्'। 'स्थित्यद्नाभ्यां च' इति पड्भिः सूत्रैः सिद्धान्तः कृतः । अयमर्थ :- द्युम्बाद्यायतनं परमात्मा। अमृतस्येष सेतुरिति मोक्षपरदत्व-
णात्। 'नामरूपाद्विमुक्तः'।'परात्परं पुरुषमुपैति दिव्यम' इति परमात्मा- साधारणमुक्तप्राध्यत्वव्यपदेशाच्च परमात्मैव। नानुमानमानुमानिकं प्रधा- नमस्मिन्प्रकरणे तत्प्रतिपादकशब्दाभावान्न प्रतिपाद्यम। एवं प्राणभृ- र्ज्ीवोऽपि तत्प्रतिपादकशव्दाभावान्न प्रतिपाद्यः । जष यदा पशयत्य- न्यमीशमिति प्रकरणप्रतिपाद्येशस्य जीवभेदव्यपदेशाञ्च भूतयोनिप्रकर- णाच्च। 'तयोरन्यः पिप्पलं स्वादृत्यनअ्न्नन्यो अभिचाकशीति'[इति]जीव- स्य कर्मफलात्तृत्वं परमात्मनस्तु तदन्तरण शरीरेऽवस्थानमिति परमात्मन एव प्रकरणतात्पर्यपर्यवसानभूमिताया आविष्कृतत्वाच्च परमात्मैव मुण्ड- कोपनिषत्पतिपाद्य इति सिद्धान्तितमू । अतश्र मुण्डकोपनिषद्भगव- त्परेति सिद्धम्। इयं ब्रह्मविद्या येभ्यो ब्रह्मादिभ्यः पारम्पर्येण प्राप्ता तान्नमस्यति ।/
Page 197
१९४ रङ्गरामानुजविरचितप्रकाशिकासमेता- [मु०३ख०२]
नमः परमकषिक्यो नमः परमकषियः ॥११॥ इति तृतीयमुण्डके द्वितीयः खण्डः ॥ २ ॥
द्विर्वचनमादरार्थं विद्यासमाप्त्यर्थं च ।। ११॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजभ्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराष्रियतां मदुक्तिम् ॥ इति मुण्डकोपनिषत्प्रकाशिका समाप्ता ।
इत्यथर्ववेदीया मुण्डकोपनिपत्समाप्ता।
Page 198
ॐ तत्सङ्रह्मणे नमः । रामानुजमतानुयायिकूरनारायणविरचित प्रकाशशिकोपेता। माण्डूक्योपनिषत्।
मुमुक्षोरधिकारिणो निखिलकेशनिवृत्तिपूर्वकं परमानन्दावाप्तये सम- स्तव्यस्तप्रणवप्रतिपाद्यभगवदुपासना वक्तं प्रवृत्तेयमुपनिषत्। आदौ समस्तप्रणवप्रतिपाद्यं तावदाह। हरिः ॐ ॥ ओमित्येतदक्षरमिद सर्वं तस्यो- पव्यारव्यानं भूतं भवद्धविष्यदिति सर्वमोंकार एव।यच्चान्यत्रिकालातीतं तदप्योंकार एव ॥३। एतदिति श्रवणाद्यवित्यम्वेति। ओमित्युक्तमिति शेषः । ओतं जग- दस्मिन्निति व्युत्पस्योमित्युक्तं यद्गह्वैतदक्षरं सत्यमिदंशब्दवाच्यस्य सर्वस्य चिद्चिदात्मप्रपश्चस्याक्षर ओतत्वात्। सवं केन निमित्तेनोंकारवाच्यं म्रह्माक्षरमित्युच्यत इत्यतो न क्षरति कालत्रयेऽपीति व्युत्पत्या काल- त्रय एकप्रकारतया नित्यत्वहेतुनेतिमावेन प्रज्ञापूर्व प्रवृत्तिनिमित्तमाह- तस्येति। विशिष्याSडस्यायतेऽमेनेति व्याख्यानं प्रयृत्तिनिमिसं तस्योमि- स्येतत्प्रतिपाद्याक्षरशध्दार्थत्व उपपसं व्याख्यानमुच्यत इत्यर्थः । तत्कि- मित्यत आह-सूतमिति। ओमित्युक्तं ब्रह्म मूतमतीतकाले विद्यमानं मवद्वर्तमानकाले सन्भविष्यवागामिकालेऽपि सच्छश्वदेकप्रकारमिति यावत्। अतोऽक्षरमुच्यत इत्यर्थः । इततिशद्दस्योपव्याख्यानमिति पूर्वे- णान्वयः । यदक्षरस्य सर्वत्वमुक्तं तदस्याप्यस्ति किमित्यतो नेत्याह- सर्वमिति ओमित्याक्रियते प्रतिपाद्यत इत्योंकारः । कृञ्रः कर्मण घञ्य- त्ययः । 'अचोष्णिति' [पा० सू०७।२।११५ इति वृद्धि:]। द्नबन्त इति पुलिङ्गता। ओमित्युच्यमानमक्षरमेव सर्वं न त्वन्यदित्यर्थः। भूताम त्यादिनोक्तं शश्वदेकप्रकारत्वरूपं कालत्रयातीतत्वमक्षरपदप्रवृत्तिनिमित्त- मपि नान्यस्यत्याह-यञ्चान्यदिति। कालत्रयककृतविकारहीनरूपं त्रिका- लातीतं च यदन्यद्वस्त्वर्ति तदप्योकार एव। ओमित्युच्यमानाक्षरास्यं ब्रह्मैव न ततोऽन्यत्तावृशमरतीत्यर्थः ॥१॥
Page 199
१९६ रामानुजमतानुयायिकूरनारायण विरच्ितप्रकाशिकोपेता-[मा. स० १]
सर्वमोकार एवेत्यत्रोपदवाच्यब्रह्मणः पूर्णत्वमुक्तं तत्कुत इत्याशक प्रमाणसूचनेन निराकुर्वन्नाह- सर्व ह्वेतद्वह्मायमात्मा ब्रह्म सोडयमात्मा चतुष्पात् ॥ २।। एकोनविंशतिमुखः स्थृलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥ सर्वं ह्येतद्वह्मति। एतदोंकारपदवाच्यमक्षराख्यं ब्रह्म सर्व पर्ण हि। परमं यो महद्वह्म' 'तदेव ब्रह्म परम कवीनाम्।' पूर्णमद: पूर्ण- मिद्मित्यादिषु पसििद्धमित्यर्थः । नतु जीवानामपि क्रियासु-स्वात- नयानुभवेन तव्रापि कश्विविवस्ति नियन्तत्यत आह.अयमिति। ब्ह्मा- दिष्वादानकर्तृतया स्थिताऽयमातमाऽयं ब्ह्म प्रागुक्तोंपदवाच्यं ब्रह्मैव न त्वन्यः कश्विदित्वर्थः। इति समरतप्रणवप्रतिपाद्योकि:। एवं सम- स्तप्रणवप्रतिपाद्यमुपासनार्थ निरूष्येदानीं तस्यैकेशकारोकामका नादेः प्रतिपाद्यानां विश्वादिमगवकृपाणामुपासमामकार उकारो मकार इन्यादिना तृतीयखण्डे बक्तुं तानि रुपाण्याह-सोडयमात्मा चतु- प्पाज्जागरितस्थानो बहिप्यज्ञः सप्ताङ्ग एकोनविशतिमुखः । स सम- स्तोपद्वाच्योऽक्षरनामाडयं ब्रह्माविपु नियामकतया स्थित आत्मा चतु- प्पाखत्वारः पाशा अंशा: स्वरूपभूता यस्य से चतुप्पात्। पादपदस्य 'संख्यासुपूर्वस्य' पा० सू० ५।४। १४०।] इत्यन्तलापः। सर्व- जीवनियासकतया तत्तह्ेहपु चतुरूपतया तिष्ठतीत्यर्थः ।२। कानि तपां स्थानानि कश्च व्यापारः कीहशानि तानि रूपाणि कि तेषां भोग्यं कानि नामानीत्यतस्तत्सरव कमेणाSडह जागग्तिम्थानी वहिष्प्रज्ञः सप्ताङ्गः । यत्र स्थित्वा जागर्ति तज्वश्षुर्जागरितम् । अधिकरण क्प्रत्ययः । तदेष स्थानं यस्य स जागरितस्थानः । चक्षुःस्थान इत्यर्थः । बहिप्प्रज्ञः। बहिः शब्दो बाह्यार्थपरः। बाह्यानर्थान्प्रज्ञापयतीति बहिप्प्रज्ञः। जाना- तेरन्तर्भावितण्यर्थात् 'इगुपधज्ञापीकिर: कः ' [पा० सू० ३ ॥ १। १३५ ] इति कपत्ययः । 'आतो लोप इटि च'[पा०सृ०६ा४। ६४] इत्याकारलोप:। रूताङ्ग:। चतवारो हस्ता द्ो पाठी गलमुखत्वाद्ज- हस्त एक इति सप्ताङ:। एकोनविशतिमुखः। मध्यममुख गजमुखा- कारं पार्शवहये तु नव नव मुखानि पुरुषमुखाकाराणीति विवेक:। स्थूल-
Page 200
[मा० ख०१] माण्डूक्योपनिषत्। १९७
भुग्वैश्वानरः प्रथमः पादः । स्थूलाच्छुमभोगान्भुङ्क इति स्थूलभुकू। वैश्वानरः । विश्यते गम्यते सवैज्ञथत इति विशतेः कर्मणि वप्रत्ययः । अनेकार्थत्वाद्धातूनां विशतिरत्र मत्यर्थः सञज्ञानपरः। विश्वं सर्वज्ञेय स्थूलं वस्तूच्यते। भोक्तृतया तत्संबन्धी वैश्वः। न रीयते क्षीयत इति नरः। रीङ् क्षये डा प्रत्ययः । वैश्वश्रास्री नरश्रेति। 'नरे संज्ञायाम्' [ पा. सू० ६।३।१२९ ] इति सूतेण भाष्योक्तनिरुक्तिवलाद्वा दीर्घे वैश्वानरः प्रथमः पादः। आत्मन इति विपरिणामेनात्रोत्तरत्र चानु- षङ्ग:। सर्वदेहेष्वादानकर्तृत्वेन स्थितस्याऽडमनः प्रथमं रुपमित्यर्थ:।३॥ स्वमस्थानोऽन्तः प्रज्ञः सपाङ्ग एकोनविशति- मुखः प्रविविक्तभुक्तेजसो द्वितीयः पादः ॥४॥ स्वप्नस्थानः । यत्र स्थित्वा जीवः स्वाप्नपदार्थान्पश्यति तत्स्वप्रस्थानं तदेव स्थानं यस्य स स्वप्नस्थानः कण्ठदेशस्थ इत्यर्थः । अन्तःप्रज्ञः । अन्तःशब्दोऽ बाह्यार्थज्ञानजन्यवासनापरिणामरूपार्थपरः । तानन्तव स्थितान्वासनामयानथन्प्रज्ञापयति जानाति चेत्यन्तःप्रज्ञः। प्रज्ञ इति जानाते: कः । अत् स्वाभिकपदार्थानां जाग्रद्वासनाजन्यत्वोक्ति: प्रायि- कत्वामिप्राया। 'हषटचाहष्ट च ्ुतं चाश्रुतं चानुभूतं चाननुभूतं च सर्व पश्यति' [प्र० ४।५।] इति श्रुतेः । सप्ताङ्ग एकोनविंशतिमुख इति प्राग्वत्। प्रविविक्तमुक्। वासनामयतया बाह्यार्थेभ्यो विविक्ता- न्स्वाप्रार्थान्भुङ्गे भोजपति चेति प्रविविक्तयुक्। तेजोभयचित्तस्थ- तया चित्तसंबन्धित्वेन तैजसनामाऽऽत्मनो द्वितीय: पादः। द्वितीयं रूप- मित्यर्थः ॥४ ॥ तृतीयपादस्य स्थानं वक्तुं स्थानस्वरूपं तावदाह- यत्र सुपो न कंचन काम कामयते न कंचन स्वमं पश्यति तत्सुषुप्तम्। सुषुप्स्थान एकीभूतः प्रज्ञानघन एवाऽडनन्दमयो ह्यानन्दभुक्चंतो- मुखः प्राज्ञस्तृतीयः पादः ॥५॥ यत्र देशे सुप्तोऽज्ञानवृतः सुखरूपं भगवन्तं प्राप्त इति वा। 'प्राज्ञे-
Page 201
नात्मना संपरिष्वक्त:' [बृ० ४।३।२१ ] 'इत्यादेः। न कचन कमपि कामं काम्यमानमर्थ कामयते न कंचन स्वप्नपदार्थ न च पश्यति। उप- लक्षणमेतत्। स्वात्मानं विना किमपि न पश्यतीत्यर्थः। तत्स्थानं सुषु- समित्युच्यते। सुषुतमेव स्थानं यस्य स सुपुसस्थानः । हृत्कर्णिका- ग्रस्थ इति यावत्। एकीभूतः । वैश्वानरतैजसाभ्यां सभ्लैपविशेषरूपै- कीभावं प्राप्तः प्रज्ञानघनः । अविद्याकर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते। यया क्षेत्रज्ञशक्ति: सा वेष्टितेत्युक्तकर्मवेष्टनावृता जीवो घन इत्यु- च्यते सुपुप्तिवेलायां घनं तज्जीवस्वरूप जानाति प्रज्ञापयति च जीव- स्येति प्रज्ञानघनः। प्रपूर्वाद्न्तर्णीतण्यर्थाज्ज्ञा अवबोधन इति धातोः 'कृत्यल्युटो बहुलम्' [ पा० सू० ३।३।११३] इति बहुलग्रहणात्कर्मणि ल्युट्यनादेशे प्रज्ञान: प्रज्ञापितो घनो जीवो येन स प्रज्ञानघन इति विग्रहः। यद्वा घनप्रज्ञ इति वक्ष्यमाणत्वादिहापि प्रज्ञानवन इत्यस्य घनप्रज्ञान इति विपरीतसमासो ध्येयः। तथात्वेऽन्तर्णीतण्यर्थात्कर्तरि ल्युद् आनन्दमयः । आनन्दप्रचुरः । पूर्णानन्द इति यावत्। 'यतो वाचो निवर्तन्त' [तै०२४।१] इत्यादो प्रस्िद्धमिति हेरर्थः। आनन्दु- मुक्। विपयभोगान्विनैवाSSनन्वं कुश्रे भोजयति चेत्यानन्दमुक्। अत्र स्थूलभुक्त्वं प्रविविक्तमुक्त्वं च नित्यपूर्णनन्दानुभवरुपस्य क्रीडारूपम्। चेतोमुखः। ज्ञानरूपमुखः। मुखत्युपलक्षणम्। ज्ञानरूपसर्वावयव इत्यर्थः। एतद्ानन्दमयत्चेतोमुखत्वरूपविशेषणद्वयं प्रागुक्तरुपद्ये नान्तःप्रज्ञमिति वक्ष्यमाणचतुर्थरूपे च ध्येयम्। प्राज्ञः । प्रकर्षेण न ज्ञापयतीति प्राज्ञः । जीवस्वरूपकालाज्ञानातिरिक्तं वाहयं स्वाप्रं वा किमषि न ज्ञापयतीति प्राज्ञनामक इत्यर्थः। प्रपूर्वान्नन्रुपपदादन्तर्णीतण्यर्थात् 'आतश्रोपसर्गे' [पा० सू० ३।१।१३६ ] इति कपत्ययः। आत्मनस्तृतीयः पाद:। तृतीयं रूपम् ॥ ५ ॥ एवं रुपत्रयं निरूप्य चतुर्थ पादं नान्त:प्रज्ञमित्यादिना निरूपयिष्य-
माणचतुर्थरूपेण सह चतुर्णा रूपाणा महिमानमाह- एप सर्वेश्वर एष सर्वज्ञ एपोऽन्तरयम्यष योनि: सर्वस्य पभवाप्ययो हि भृतानाम् ॥६।
Page 202
मा०ख०१] माण्डूक्योपनिषत्। १९९ उष उक्तवक्ष्यमाणचतरूपात्मा। एप इत्यस्याम्यासस्तात्पर्यार्थः । अन्त्यम्यिन्तनियन्ता। सर्वस्य योनिः कारणमिति। अस्य विवरणं प्रम- वाप्ययी हि भूतानामिति । हि यस्मात्प्रमवाध्ययहेतुरत इत्यर्थः ॥ ६ ॥ उपनिषत्स्वयं प्रमाणमपि दार्त्याय स्वोक्तार्थे मन्त्रानुदाहरति। अत्रे- ते श्लोका भवन्ति। संवादिन इति शेषः।
(अथ गौडपादीयकारिका:)
बहिष्प्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ॥ घनपज्ञस्तथा प्राज एक एव त्रिधा स्मृतः ॥ १ ॥ वैश्वानरो वहिष्प्रज्ञस्तैजसोऽन्तःप्रज्ञः प्राज्ञः प्रज्ञानघन इत्युक्तार्थे मन्त्रमाह-बहिरिति। विश्वो वैश्वानरः। पदानामर्थः पूर्वत्रेव ध्येयः। स्मृत इति मन्त्रद्वट्टा बह्मणा भगवद्रूपाणामेतेवामेकत्वं स्मृतमित्यर्थः॥।१॥ जागरितस्थान: स्वप्नस्थानः सुषुप्तस्थान इत्युक्तार्थे मन्त्रमोद्- दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च हृदिप्राज्ञस्त्रिधा देहे व्यवस्थितः ॥२ ॥ मुखेSग्रभागे। अन्तरित्यस्य विवरणं मनसीति। आकाशे च हृवया- काशे हत्कर्णिकाग्रस्थाकाश इत्यर्थः । स भगवानेक एवास्मिन्देहे त्रिधा स्थित इत्यर्थः ॥२॥ स्थूल मुगित्याय्युक्तेऽर्थे मन्त्रमाह विश्वो हि स्थूलभुङनित्वं तैजसः प्रविविक्तभुक्। आनन्दभुक्तथा प्राज्ञस्त्रिधा भोगं निबोधत॥। ३ ॥ निबोधतेति मन्त्रदष्टा ब्रह्मणा स्वोपदेश्यान्प्रत्युच्यते। एवं विजान- थेत्यपि ध्येयम् ॥ ३॥ उक्त एवार्थे मन्त्रान्तरं पठति- स्थुलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् । आनन्दें च तथा प्राजञं त्रिधा तृर्मि विजानथ॥४॥ स्थूलं मोग्य वस्तु कर्तृ विश्वं कर्म। एवमग्रे नित्यतृप्तस्य स्थूलादिना
Page 203
२०० रामानुजमतानुयायिकूरनारायणविरचितप्रकाशिको पेता-[मा. ख०१]
तृप्ति: क्रीडारूपा ध्येया। आनन्दमानन्दो लिङ्गव्यत्ययात्। विजानथ विजानीथ विकरणव्यत्ययात् ॥४॥ विश्वादिरूपत्रयस्वरूपं तत्तत्स्थानेषु तद्ोज्यस्वरूपंजानतःफलमाह- त्रिषु धामसु यन्भोज्यं भोक्ता यस्तु प्रकीर्तितः । वेदैतदुभयं यस्तु स भुआनो न लिप्यते ॥ ५ ॥ त्रिषु धामसु अक्षिमनोहृदयाकाशरुपेषु यद्धोज्यं स्थूलादि यश्ष भोक्ता विश्वादिरूपात्मैतदुभयं भोक्तृभीज्यलक्षणमुभयं यस्तु योऽधि. कारी वेद जानाति स ज्ञानी विषयान्भुख्जानोऽनुभवन्नपि तत्कृतलेपनं न प्राप्तोति तत्कृतोच्चादिविकारं न प्राम्ोतीत्यर्थः। तत्तत्स्थानेपु तत्तत्फल- भोजयिता स्वस्य स्वेतरस्य च जीवस्य कर्मफलप्रदः सर्वेश्वर एव न ममात्र भोग इतरजीवानां वा स्वातन्यमिति मत्वा न विकरोतीति भाव:॥ ५॥ एप्र योनिः सर्वस्येत्युक्तार्थे मन्त्रमाह- प्रभव: सर्वभावानां सतामिति विनिश्वयः । सर्वं जनयति प्राणश्रतोऽशूनपुरुषः पृथक् ॥ ६॥ प्रभवति उत्पद्यतेऽनेनेति प्रभवः । सर्वभावानां सर्ववस्तूना यथायो- गमुत्पत्तिहेतुअ्च्तूरूपात्मेति योज्यम्। इति सतां विनिश्रय इत्युक्त्याऽस तामन्यथा निश्चय इति लभ्यते तद्गरे विवरिष्यते। सर्वप्रमवत्वं व्यनक्ति- सर्वं जनयति पराण इति। सर्वस्य प्रणेसृत्वहेतुना प्राणनामा। सर्व जन- यतीत्युक्त्या न विवर्तरपमुपादानत्वं सर्वप्रभवत्वमित्युक्तं भवति। पुरुष: पूर्णषड्गुणत्वादिना पुरुपनामा प्रागुक्तनामा चतूरूपात्मा हरिः। चेतोंऽ गूञ्ज्ञानाख्यरश्मियुक्ताीवानिति यावत्। पृथग्देवदानवमानवादिमे- देन जनयति ॥ ६॥ सतामिति विनिश्रय इत्यत्रासतां वैपरीत्येन निध्वय इत्यर्थात्माप्तं तदुभयं व्यनक्ति विभूतिमित्यादिना- विभूति प्रभवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वममायासरूपोति सृष्टिरन्यैर्विकल्पिता ॥ ७॥ सृष्टिविषय विचारवन्तोऽन्ये ब्रह्मस्वरूपपरिणामवादिनोऽसन्तः प्रमवं १ आनन्दाश्रमस्थपुस्तके-यश्। २ प्रसवं।
Page 204
[मा० ख० १] माण्डूक्योपनिषत्। २०१ सृष्टिं विभूतिं जीवजडात्मना विविधतया भवनं ब्रह्मणो मन्यन्ते। सृष्टिचिन्तका इत्यनेन यथाव्गह्मस्वरूपानभिज्ञा इति सूचितम्। अन्यै- र्ब्रह्मविवर्तः प्रपश् इतिवादिभि: सृष्टिर्विकल्पिता विविधतया कल्पिता। कथं स्वप्नमायासरूपेति। स्वाप्नपदार्थः सुप्तात्मविवर्तो यथा मायास्व- रूपा तथा तत्स्वरूपब्रह्मविवर्तरूपा जाग्रत्सृप्टिरपि मायास्वरूपा। माया- पदेन मायाविनिर्मितगन्धर्वनगरादिग्रहः। तत्सरूपा मिथ्याभूतेत्येवं विकल्पितेत्येर्थः ॥ ७॥ परिणामविघर्तयोरभावे कथ हरेर्जगतः सृष्टिरित्यतः सतां निश्च- यप्रकारमाह- इच्छामात्रं प्रभो: सृष्टिरिति सृष्टौ विनिश्विताः । केवलमिच्छेच्छामात्रमनायासेनाविलम्बेनाविकारत्वेन च प्रमोरव- न्ध्यशक्ते: सृष्टिः प्रभुकर्तृका विश्वविषयिणी सृष्टिः । इतिसृष्टी विषये विनिश्चिता विनिश्चयवन्त औपनिषदा इत्यर्थः । भगवतः सत्यसंकल्प- खातत सर्वशक्तः स्वसं्कल्पमात्रादेव सशरीरभूतचेतनाचेतनप्रपञ्चमग्रे सूक्ष्म स्थूलरूपेण परिणाम्यस्वयमविकार एव सर्वात्मकः सर्वोपादानं मवतीति मन्यन्त इति भाव:। विनिश्चिता इति कर्तरि क्त्ः । पुमर्मतान्तराण्याह- कालात्मसूतिं भूतानां मन्यन्ते कालचिन्तकाः॥ ८। कालचिन्तकाः कालमेवेश्वरं मन्वाना भूतानां प्रसूतिमुत्पत्ति काला- न्मन्यन्ते। उपलक्षणमेतत्। यदृच्छानियतिस्वभावादीनां तेषां निरासः पुरुषप्रभुपदाम्यामेय ज्ञेयः । अत एवेच्छामात्रमित्यस्य पक्षस्य मध्ये निवेशः ॥८ ।1 तर्हि परिपूर्णस्य पुरुषस्य सृष्टिः किमर्थेत्यतो लोकानुग्रहार्थ स्वमाव इति वक्तुं मतान्तराण्याह- भोगार्थ सृष्टिरित्यन्ये क्रीडार्थमिति चापरे॥ देवस्यैष स्वभावोऽयमाप्तकामस्य का स्पृहा॥ ९ ॥ इत्यथर्ववेदीयमाण्डूक्योपनिषदि प्रथमः खण्डः ॥१ ॥
मोगार्थमिति। हरेरतृप्तस्यैव मोगार्थ सृष्टिरित्यन्ये मन्यन्ते। अपरे
Page 205
तु महाराजस्य कन्दुकादिविहार इत क्रीडार्थ विश्वसृष्टिरिति मन्यन्त इत्यर्थः। स्वमतमाह श्रुतिः-देवस्वेति। दवर्य की डाशीलस्यैप लीला- रूपोडयं सृष्यादिविषयः स्वभाव एव नान्यत्प्रयोजनमितिभावः 'लोक- वत्तु लीलाकैचल्यम्' [त्० सू० २।१।३३] इति सृत्रम। कुतः । आप्त- कामस्य का स्पृहा प्रयोजनस्पृहा न काउपीत्यर्थः । इति शब्दो रुपत्रय- निरूपणसमाप्ती ॥ ९॥ इत्यथर्ववेदीयमाण्टक्योपनिपत्पकाशिकायां प्रथम: खण्डः ॥ १॥
चतुर्थपादमात्मन आह- (उपनिपत्) नान्तःप्रज्ञं न वहिष्पज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्। अदृष्टमव्यवहार्यमग्राह्ममलक्षण-
शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेय:॥१। अन्तःप्रज्ञापयतीत्यन्तःप्रज्ञः । स्वप्ार्थप्रदर्शकः स नेत्यर्थः । न बहि- ष्प्रज्ञः। जाग्रदर्थप्रदर्शको न भवति। नोभयतःप्रज्ञम्। बाह्यशब्दादिकं जानन्स्वप्ार्थांश्च यदा पश्यति साऽपि काचिद्दशोभयत इत्यनन गुह्यते। उभयतो बाह्याभ्यन्तररूपार्थान्प्रज्ञापयतीत्युभयतःप्रज्ञम्। स नेति नोभयतःप्रज्ञम्। एतद्दशाव्यापारो विश्वतजसास्येश्वररूपदयकर्तको ज्ञेयः सोऽपि तुर्ये नास्तीत्वर्थः। न प्रज्ञानघनं प्राग्बद्विपरी तसमास: कर्तव्यो घनप्रज्ञानमिति। घनमज्ञानावृतं सुप्तजीवस्वरूपं प्रज्ञापयतीति घनप्रज्ञानें तन्न भवतीति न प्रज्ञानघनमित्युच्यते। न प्रज्ञम्। प्रकर्षेण ज्ञापयति मानसवासनामय ध्येयमिति प्रज्ञं तन्नति अयमपि स्वाभिकव्यापारतुल्य- तया तैजसाख्यभगवदरूपत्यापारी दषव्यः। सोऽपि तुर्ये नेत्यर्थः । इद- मुपलक्षणम्। जाग्रत्कालीननिर्विषयकेव लात्मस्फुरण रूपज डी भा वाख्या वस्थानस्यापि। इद्मपि सुपुप्तिव्यापारतुल्यतया प्राज्ञाख्यभगवद्व्या- पारो ज्ञय:। सोऽपि तुर्ये नास्तीति ध्येयम्। एवं विश्वतजसप्राज्ञाख्यरू-
दनरूपउय्ापारं जडीभावरुपव्यापारं चाकुर्वदित्यर्थः । नोभयतःप्रज्ञं
Page 206
[मा०ख०२] माण्डूक्योपनिषत्। २०३
न प्रज्ञमित्यत्र किं रूपकर्तुकं व्यापारद्वयमस्य नेत्युच्यते तद्विचार- णीयम्। तद्धि किं निर्व्यापारमेव चतुर्थं रूपं नेत्याह-नाप्र- ज्ञमिति। अप्रज्ञापकं नेति नाप्रज्ञं प्रश्ञापकमेव। मुक्तानां तद्योग्य- सर्वज्ञानप्रदानरूपव्यापारकर्तृ इत्यर्थः। अहष्टं विश्वादिरूपत्रयं बाह्याभ्य- न्तरपदार्थज्ञापनतद्यवहाररूपकार्यलिङ्गेननानुमेयं न तथा चतुर्थ रूप हश्य- मित्यहष्टमिति वा। अमुक्तदृष्ययगोचराद्वाउदृष्टमित्यर्थः। अव्यवहार्यम- ग्राह्यमिति। मुक्ति बिना तदूपविषयकग्रहणव्यवहारयोरभावादव्यवहा. यमग्राह्यमित्युच्यते। अलक्षणं लक्षणमनुमापकं जाग्रदादिप्रवृत्तिरूपा- नुमापकराहित्यादलक्षणम्। अतएवाचिन्त्यम् । अचिन्त्यत्वादेवाव्यप- देश्यं व्यपदेषुमशक्यम्। ऐकात्म्यप्रत्ययसारम्। एक: प्रधान आत्मा पूर्ण एकश्रासावात्मा चैकात्मा। एकात्मैवैकात्म्यं स्वार्थे व्यञ्रप्रत्ययो ज्ञान- रूपः सार आनन्दरूप इत्यस्यैकात्म्यप्रत्ययसारम्। प्रपश्चीपशमम्। पचि विस्तारे प्रपश्जो विस्तृतो व्याप्त इति यावत्। उपशब्दोऽत्रोत्कृष्टवाची शमं सुखमुत्कृष्टानन्दुरूपं प्रपञ्चश्चासावुपशमश्र प्रपञ्चोपशमस्तमैकात्म्य- देहबन्धानिषं प्रपञ्चं शमयतीति प्रपश्चोपशममिति। शान्तम्। उर्मि- षटूकरहितम्। निर्दुःखसुखरूपत्वाच्छिवम्। अद्वैत ह्वीतिभावप्रधानं द्वित्वेन वस्तुतत्वापेक्षयाऽन्यात्मकरूपद्वितीयेन प्रकारेणेतं ज्ञातं वस्तु हीतम्। इण गती। हवीतस्येदं द्वेतं मिश्याज्ञानं न विद्यते मिश्याज्ञानं UU तुर्थ पादं मन्यन्त औपनिपदा इत्यर्थः। सोधयमात्मा चतुष्पादिति प्रति- ज्ञात विश्वतजसप्राज्ञतुरीयाख्यरूपचनुष्टयं सपरिकरं निरूप्य रूपत्रय- विषये मन्त्रानुदाहृत्य चतुर्थविषये मन्त्रानुदाहरिष्यन्निदानीं चतूरूप आत्माSवश्यं ज्ञातव्य इति वदन्नुपसंहरति स आत्मेति-य इति शेप:॥ स चतूरुपो विविधतया चतुर्विधतया विशेषेण च ममुक्षुभर्ञेय इत्यर्थः। अत्रैते श्लोका भ्रवन्ति ॥७ ॥ चतुर्थरूपस्योक्तं माहात्म्यं संवादयितुमाह-अत्रैत इति तुरीयस्यो- क्तार्थ एते वक्ष्यमाणा: श्लोका: संवादिनी भवन्तीत्यर्थः ।
निवृन्तेः सर्वदुःखानामीशानः प्रभुश्व्ययः । अद्वतः सर्वभावानां देवस्तुर्यो विभ्ुः स्मृतः ॥१०॥ सर्वदुःखानां निवृत्तेः कारणमिति शेषः । ईशानः। ईशान्त्रह्मादीन-
Page 207
नति प्रेरयतीतीशानः । प्रयुः स्वामी। अव्ययः शश्वदेकप्रकारः । अद्वैतः । मिथ्याज्ञाननिवर्तकः। सर्वभावानाम्। मषन्तीति मावाः। मू सत्तायाम्। भगवज्ज्ञानेन लब्धसत्ताका इत्यर्थः । 'अस्ति बह्मेति चेद्वेद सन्तमेनं ततो विदुः '[तै २। ६।] इतिश्रुतेः। सर्वेषामधिकृता- मात्मनां देव उपास्यो विभु: समर्थः स्मृतो मम्त्रदुग्भिरिति शेषः ॥१०॥ नान्तःप्रज्ञं न बहिष्प्रज्ञमिति तुरीयस्य विश्वाविरूपत्रयवैधर्म्यमुक्तं तत्र मन्त्रमाह- कार्यकारणबद्धौ ताविष्वेते विश्वतैजसौ। प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः॥११॥ अज्ञानकार्यभूतोऽहंममतादिभ्रमस्तदूपकार्यबन्धः । तत्कारणाविद्या- बन्धः। कारणबन्धः। जीवनिष्ठतादृशजाग्रत्पदार्थभ्रमाविद्यारूपकार्य- कारणबन्धस्वामी विश्वः । तैजसस्तु अविद्याकार्यभूतोक्तरुपस्वाप्रपदा - र्थभ्रमणे तत्कारणाज्ञानेन च बद्धो जीवनिष्ठताहशबन्धस्वामीत्यर्थः । प्राज्ञस्तु तत्कारणाज्ञानरपसुपुप्तिबद्धः सुधुप्तिबन्धस्वामी। तुरीये चतुर्थे रुपे द्वी कार्यकारणबन्धनियमनव्यापारी वा कारणमात्रव्यापारी वा द्वावपि न सिध्यतो न स्त इत्यर्थः ॥ ११ ॥ न प्रज्ञानघनं नाप्रज्ञमित्युक्तप्राज्ञवैधर्म्ये मम्त्रमाह- नाऽडत्मानं न परांश्रवैव न सत्यं नापि चानृतम्। प्राज्ञः किंचन संवेत्ति तुरीयं सर्वहक्सदा ॥ १२॥ आत्मानं सुपुप्तजीवस्वरूपं न संवेद्येन्न परान्न सत्यं नापि चानृतं संवेद्येदित्यन्वयः । जवस्वरूपसुखकालाज्ञानानि विना नान्य- त्किमपि संवेदयेदित्यर्थः । तुरीयं तु सर्वदृकू। सरवं दर्शयतीति सर्व- सृक्। मुक्ती तत्तदोग्यं सर्व प्रदर्शयतीत्यर्थः ॥१२॥ शिवमद्वैतमिति तुरीयस्य मिथ्याज्ञाननिवर्तकत्वमुक्तं तत्पाज्ञस्यापि सममिति वदंस्ततस्तुरीयस्य वैलक्षण्यान्तरमाह- द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः। बीजनिद्ायुतः प्राजः सा च तुर्ये न विद्यते ॥ १३॥ द्वैतस्य देहगेहादौ, स्वातन्त्यस्याग्रहणं ग्रहणाहेतुत्वं देहादौ स्वात-
Page 208
[मा० ख०२] माण्डूक्योपनिषत्। २०५
तन्यभ्रमाजनकत्वं प्राज्ञतुरीययोस्तुल्यं समम् । बीजेति। देहगेहादौ स्वातन्त्रयबुद्धिबीजभूतामूलाविद्या बीजनिद्रा तया युक्तस्तद्युक्तत्वप्रद: प्राज्ञः । सा च । चस्त्वर्थे। तुर्ये तु सा बीजनिद्रा तद्युतत्वप्रदत्वमिति- यावत्। न विद्यत इत्यर्थः ॥१३॥ प्रकारान्तरेण विश्वादेः साधर्म्यवैधर्म्ये आह- स्वमनिद्वायुतावाद्यौ प्राज्ञस्त्वस्वमनिद्रया। न निद्ां नैव च स्वमं तुर्ये पश्यन्ति निश्चिताः ॥१४ ॥ उपलक्षणं जागत्स्वप्रभ्रमाभ्यां तद्धेतुनिद्राशव्दिताविद्या्यया युतौ ह्ो तदुभयसंबन्धनियामकी विश्वतैजसौ प्राज्ञस्त्वस्वप्ननिद्रया द्विविधभ्रमं विना कृतकेवलाविद्यया युतस्तन्मान्नबन्धस्वामीत्यर्थः । निश्चिताः सम्यङनिश्रयवन्तः सन्तो न निद्रां निद्राकृतबन्धस्वामित्वं स्वम्नं द्विविधभ्रमहेतुत्वं च नैव तुरीये पश्यन्ति जानन्तीत्यर्थः ॥१४ ॥. एवंविधतुरीयस्य दर्शनप्राप्ती कदा भवेतामित्यत्राSडह- अन्यथा गृह्तः स्वामो निद्धा तत्त्वमजानतः । विपयांसे तयोः क्षीणे तुरीयं पदमश्नुते ॥ १५॥ अन्यथा गृह्णतो देहगेहादौ भगवद्धीने स्वाधीनतां जानतः स्वम्ो मवति। स्वप्नपदेन मिथ्याज्ञानरूपभ्रमपरम्पराग्रहणतस्त्त्त्वं भगवतः स्वातन्क्रयादिरूपं तत्त्वमजानतो निद्धामूलाविद्याबन्धो भवति। तयोनि- द्राभ्रमयोविपर्यास आवर्तने क्षीणे सति तुरीयं पदं चतुर्थरूपमश्नुते साक्षात्कारद्वारा प्राप्नोतीत्यर्थः ॥ १५। मिद्ाभ्रमयोरावर्तनक्षयः केन स्याद्यस्य क्षयेण मगवद्परोक्षधीरित्यतो मगवत्प्रसादेनैवेत्याह- अनादिमायया सुप्ो यदा जीवः प्रबुध्यते। अजमनिद्मस्वममद्वैतं बुध्यते तदा ॥ १६ ॥ मायाशब्देन मगवदिच्छा तदधीनाऽविद्या च गृह्यते। अनादीति- तन्त्रम्। अनादेर्विप्णोरनादिमायया कर्मरूपाविद्यया-मुसः स्वापित: संसारे निवेशितो जीवो यवाऽनादिमायया मगवदिच्छया मगवत्मसा-
Page 209
२०६ रामानुजम तानुयायिकूरनारायण विरचितप्रकाशिकोपेता-[मा०स्०२] देन प्रबुध्यते भगवानेव स्वतन्त्रोऽन्यत्सर्वं तद्धीनमित्यादितत्त्वज्ञानवा- न्भवति तदाडजं जननादिदोपहीनमनिद्मरवर्र विश्वादिरुपत्रयव्यापा- रप्रवर्तकमद्वैतं मिथ्याज्ञाननिवर्तकमिदमुपलक्षणं सर्वानिष्टनिवर्तकं भग- वन्तं बुध्यते साक्षात्करोति ॥१६॥ ननु देहगेहादी स्वस्वामिसंबन्धादिरूपबन्धस्य जीवस्वरूपस्येव स्वाभाविकत्वेन निवृत्त्ययोगाद्विपर्यास तथोः क्षीण इत्युक्ति: कथमि त्यतो नायं स्वाभाविक इत्याह- प्रपश्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १७॥ देहगेहादी स्वस्वामिसंबन्धादिरूपो बन्धः प्रपश्चस्वातन्त्रयेण नास्त्येव यदि पराधीनोऽपि विद्यत इत्यङ्गी क्रियेत तह्यपि परमार्थतः परमश्रा- सावर्थश्च परमार्थ उत्तमोर्ऽर्थो भगवांस्तस्मात्परमार्थतः परमेश्वरप्रसा- दादिति यावत। निवर्तेत निवर्तत एव न संशयः । अनादितोऽन- वृत्तस्य देहादौ स्वीयत्वज्ञानरूपभ्रमस्य करथ निवृत्तिरित्यत आह- मार्येत्यादि। अद्वैतं महन्विर्यथावत्तया ज्ञातं ब्रह्मादिवस्तुजातमज्ञहैंतं द्वितीयेन प्रकारेण ज्ञातं तद्ैपरीत्येन ज्ञाते तञ्व मिथ्याज्ञानं तेषां मायामात्रं भगवदिच्छया मार्त्र निर्भितं जातमित्यर्थः । तथा च तादृशमिथ्याज्ञानस्यानादितोऽनुवत्तस्यापीश्वरेच्छया जातत्वे- नास्वाभाविकत्वात्तत्प्रसादेन तन्निवृत्तिर्युक्तति भावः। उक्तं हि. संसारबन्धस्थितिमोक्षहेतुः। देवी ह्येपा गुपममयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ [गी० ७१४ ] इत्यादि- कम् ॥ १७ ॥ उक्तमेव पूर्ववाक्यार्थं विशदयन्नुपसंहरति। विक्त्पो न निवर्तेत कल्पितो यदि केनचित्। उपदेशादयं वादो ज्ञाते दवैतं न विद्यते ॥ १८॥ इति। इत्यथर्ववेदीयमाण्डूक्योपनिषदि द्वितीयः खण्डः ॥ २॥ विकल्प इति देहगेहादौ स्वीयताभिमानािनानात्मकबन्धरूपो विकल्प उक्तरीत्या स्वाभाविको यदि केनचिद्ज्ञानादिना प्रकारेण
आ वन्दाथमस्थपुस्तक- 1 विनिवर्तेत।
Page 210
[मा० ख०३] माण्डूक्योपनिषत्। २०७
स्वाभांविकत्वेन कल्पितस्तर्ह्यपि उपदेशान्महतामुपदेशबलान्न तिवर्ते- तापि तु निवर्तेतैव। कः सतां वादः। यदुपदेशान्नानाविधस्वातन्त्रयादि- भ्रमनिवृत्तिरित्यत आह-ज्ञात इति। ब्रह्मणि यथावज्ज्ञाते सति ह्वैतं शिषमद्वैतमित्यत्रोक्तव्युत्पत्या मिथ्याज्ञानं न विद्यते निवर्तत इत्ययं सत्संवाद इत्यर्थः । इतिशब्दस्येत्येते श्लोका भवन्तीति पूर्वेणा- न्वय: ॥ १८ ॥ इत्यथर्ववेदीयमाण्डूक्योपनिषत्पकाशिकार्या द्वितीय: खण्डः॥२॥
एवं समग्रोकारप्रतिपाद्यस्याऽडत्मनो विश्वादिरूपचतुष्टयं निरुप्य तेर्षा
सोऽयमात्माऽध्यक्षरमोंकारोधिमात्रं पादा मात्रा मात्राश्र पादा अकार उकारो मकार इति ॥ १ ॥ जागरितस्थानो वैश्वानरोडकार: प्रथमा मात्राऽडसे- रादिमत्त्वाद्वाऽडमोति ह वै सर्वान्कामानादिश्रव भ्रवति य एवं वेद ॥ २ ॥ ओमित्याक्रियमाणतयोंकारशव्दितः सोडयं चतुरात्मकत्वेनोक्त आत्मा- ध्यक्षरं सर्वतोऽधिकं च तद्क्षरमविनाशि चेत्यध्यक्षरम्। शब्दस्वा- भाव्यान्नपुंसकता। कीहशमक्षरमित्यत आह-अधिमात्रमिति। अधिका मात्रा अंशा यस्य तदक्षरमधिमात्रम्। मात्राः का इत्यत आह-पादा मात्रा इति। पद्यन्त इति पादा विश्वादिरूपाणि। पादा: क इत्यतोडकारा- दिप्रतिपाद्या विश्वादय इत्याह-अकार इति। अ इत्याक्रियत आहूयते प्रतिपाद्यत इत्यकारो विश्वः। एवमुक्तदिशा। उकारस्तजसो मकार: प्राज्ञः। उपलक्षणमिदं नादबोध्यस्तुरीयोऽपि नाद इति शेषोकत्या ग्राह्यः। एते विश्वतेजसप्राज्ञतुरीयाः पादा मात्राशब्देनाधिमात्रमित्य त्रोक्ता इत्यर्थः ॥ १ ॥ अवर्णप्रतिपादयं रूपं स्थानोक्त्या निर्दिशति-जागरितेति। अकार:, अ, इत्याक्रियमाणः प्रथमा मात्रा प्रणवप्रतिपाद्यस्याक्षरस्य प्रथमांश इत्यर्थः। अत्र जागरितस्थानः प्रथमा मात्रा वैश्वानर इत्यवर्णप्रतिपाद्यत्वं विधी- यत इति न पौनरुत्त्यमिति ध्येयम्। एवमग्रेऽषि। वैश्वानरस्यावर्णवा-
Page 211
२०टरामानुजमतानुयायिकूरनारायण विरचितप्रकाशिकोपेता-[मा०ख० ३] च्यत्वे निमित्तद्वयमाह-आप्तेरादिमत्त्वाद्वेति। तत्तजीवयोग्यभोग्यविष- यान्भोगायाऽडपयति प्रापयति। विश्व इति। अ इत्युच्यते विश्व इति। आप्ल व्याप्तावन्तर्णीतण्यर्थाहुप्रत्यये अ इति रूपमिति भावः । प्राज्ञस्तै- जसश्राऽडद्ी अस्येति आविमांस्तस्माद्वा अ इत्युच्यत इत्यर्थः । सुपुप्तौ रवनने च प्राज्ञतैजसाभ्यामेकीभूतो विश्वः सुप्तेरुत्थाने प्राज्ञात्स्वप्रादुत्थाने च तैजसाद्विविक्त: सन्दक्षिणाक्षिस्थानमायातीति तयोरादितया विश्वस्य तदादिमत्त्वमिति भावः। एतन्निमित्तदययुक्तत्वेनावर्णवाच्यत्वं विश्वस्य जानतः फलमाह-आप्नोति ह वा इति। योऽधिकारि एवमकारवा- कयत्वं विश्वस्य वेद सोऽस्येति शेषः । स वैश्वानरोऽस्य वेदितुः सर्वा- न्स्वयोग्यसर्वान्कामानाप्रीति प्रापयति। अन्तर्णीतणिचू। आदिश्र विश्व एवं वेदितुरादिश्र भवति। आविर्भूतस्वरूपतया मुक्तरूपेण तत उत्प- दते तज्ज्ञानीति तस्यायमावि: कारणं भवतीत्यर्थः। यद्वा। आदिश्र्वेत्य- त्रैवास्येति शेषः । आपोतीत्यञ्र तुस ज्ञानीति शेषा ध्येय: ॥ २ ॥ अर्थ द्वितीयपादमाइ- स्वमस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षा- दुभयत्वाद्वोत्कर्षति ह वै ज्ञानसंतर्ति समानश्व भवति नास्यावह्मवित्कुले भवति य एवं वेद । ३ ।। स्वप्स्थानो द्वितीया मात्राडतमनो द्वितीयाशस्तैजस उकार इस्पा- क्रियमाणत्वादुकार इतयुक्तः। उवर्णवाच्यत्वे निमित्तदयमाह- उत्कर्षादुभयत्वाद्वेति। जाग्रद्दशार्या विद्यमानदेहाभिमानावृत्याज्यके हाभिमानं त्याजयित्वा स्वप्रमण्डले जीवं कर्षतीत्युत्कर्षणाद्धेतोरवा बाह्याज्ञप्तिरूपनिद्रां वासनामयविषयानुभवं च प्रयच्छतीत्युभयहेतुत्वाद्वा निमित्तादु इत्युच्यते तैजस इत्यर्थः। तथा वेदितुः फलमाह- उत्कर्षति हवा इति योऽधिकारि एवं निमित्तद्वययुक्ततयोकारवाच्यते जसं वेद स ज्ञानी ज्ञानसंत्ति ज्ञानधारां ज्ञाननित्यत्वमिति यावत्माप्रो- तीत्यनुषङ्ग:। उत्कर्षति देहबन्धादात्मानमुत्कर्षति उद्धरति उत्कृष्य च समानश्र मानमन्तर्गतिरिति स्मृत्युक्तेर्मानसहितः समान: सर्वमोक्षिणा- मन्तर्गतो मध्यगतो मवतीत्यर्थः।दोषामावात्मीत्या चेति मावः । अस्य ज्ञानिनः कुलेऽब्ह्मविन्न मवति ब्रह्मज्ञानिसंततिरेव मवतीत्यर्थः॥ ३॥
Page 212
[मा०ख्० ३] माण्डूक्योपनिषत्। २०९
कस्तृतीय: पादः कथमस्य मकारत्वं किंच तज्ज्ञानिनः फलमित्यत- स्तत्सवं क्रमादाह- सुपुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इद सर्वमपीतिश्व भवति य एवं वेद॥ ४ ॥। सुषुप्तस्थानस्तृतीया मात्राऽडत्मनस्तृतीयोंऽशः। मकारः। म इत्याक्रि- यमाणः। कुतो मितेरपीतेर्वा स्वात्मनि जीवमन्तर्गमयतीति स्वान्तर्गमनहे- तोर्बा वृत्तिज्ञानस्यापीतेरप्यय शव्दितलयकरणाद्वा म इत्याक्रियत इत्यर्थः। योऽधिकारि एवं निमित्तद्वययुक्तत्वेन मकारवाच्यं प्राज्ञं वेद स ज्ञानीदं सर्वं यथायोग्यं जगम्मिनोति स्वान्तर्गमयति जीवानामणत्वेऽपि अधि- कारिणः सूर्यादेरिव प्रकाशतो व्याप्तिरस्तीति तन्मध्येऽन्तर्गमयति मुक्त: सन्निति ाव: । अपीतिश्व भवति अप्ययकृच्च भवति दुःखाद्यनिष्ट- स्येत्यर्थः ॥४ ॥ एवं रूपत्रयं प्रणवस्याकारादिवर्णत्रयप्रतिपाद्यमुक्त्वा चतुर्थ रूपममा- तश्तुर्थ इत्यादिनाऽयरे विवश्षु: प्रागुक्तरूपत्रयज्ञानिनो यानि फलान्यु- क्तानि तत्र ब्ह्मदृष्टश्लोक्कान्प्रणयति- अत्रैते श्लोका प्रचन्ति।
अत्र रुपत्रयज्ञानिफल एते वक्ष्यमाणा: श्लोका: संवादिनो भवन्ति। क्रमेण तान्मन्त्रान्पठति- विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासंप्रतिपत्ती स्यादाप्तिसामान्यमेव च ॥१९॥ अत्वविवक्षायामिति। विवक्षापदेनोपासनं ग्राह्यम्। आदिमत्त्वा- द्वेत्यत्रोक्तदिशाSSदिम्त्वनिमित्तेन प्रणवैकदेशावर्णवाच्यत्योपासनायां
मादित्वेन विश्वसाम्यं भवत्युत्कैंटं स्पष्टमेतत्। यथा यथोपासते स तदेव भवतीत्यादेरिति भावः। मात्रासंप्रतिपत्तावात्मनोंडशो विश्व आप्ति- निमित्तप्रणवांशाकारार्थ इति विश्वरूपाशध्याने ध्यातुराप्तिसामान्यमेव स्यात्सर्वकामावाप्त्यैव विश्वसाम्यतैव भवेदित्यर्थः॥१९ ॥
Page 213
२१० रामानुजमतानुयायिकूरनारायणविरचित प्रकाशिकोपेता-[मा०ख० ३]
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम्। मात्रासंपतिपत्तौ स्यादुभय्त्वं तथाविधम्॥२०॥ तेजसस्योत्वविज्ञाने प्रागुक्तरीत्योत्कर्पनिमित्तेन प्रणवैकदेशोकार- वाच्यत्वोपासनारयां तस्योपासकम्योत्कर्पतीत्यत्रोक्तदिशा स्फुटमुत्कर्षो दृश्यते प्रमित इत्यर्थः। मात्रासंप्रतिपत्ती प्रागुक्तदिशोभवहेतुत्वनिमित्तेन
प्रागुक्तं ज्ञानसंततिरूपं समानत्वं चेत्युभयत्वं स्यादित्यर्थः ॥ २० ॥ मकारभावे प्राज्ञस्य मानसामान्यमुत्कटम्। मात्रासंप्रतिपत्तो तु लयसामान्यमेव च। २१।। प्राज्ञस्य मकारभावे मकारत्वे प्रागुक्तमितिरूपनिमित्तेन प्रणवैकदेश- मकारवाच्यत्वे विज्ञाते सति मानसामान्यं सर्वान्तर्भावरूपप्राज्ञसाभ्यमु- त्कटं स्फुटमित्यर्थः । मात्रासंप्रतिपत्ती बाह्यादिज्ञानलयकृत्वनिमित्तेन
लयकृत्वेन प्राज्ञसाम्यमेव वा स्यादित्यर्थः ॥ २१॥
मुक्तं तद्दार्ढ्याय विश्वादेरत्वादिज्ञानिन आदिसामान्यादिकं फलमिति यो जानाति तस्याप्यस्ति फलमित्याह- त्रिषु धामसु यत्तुल्यं सामान्यं वेति निश्चितम् ।। स पूज्यः सर्वभृतानां वन्यश्षेत्र महामुनिः ॥२२॥ व्रिपु धामसु त्रिपु रूपेपूक्तविधया ध्वातेषु सत्सु ध्यातः पुरुषस्य यत्तुल्यं ध्येयं विश्वादिसाहृश्यमादिममत्त्वादिसामान्यं भवतीति निश्चितं यथा तथा वेत्ति स वेदिता महामुनिः सर्वभूतानां पूज्यो वन्दश्ष भवतीत्यर्थः ।।२२।। विश्वादिरूपोपासनायाः सर्वकामाप्त्यादिफलमुक्तं प्राक। इदानीं विश्वादिप्रासिरूपफलं चाsडह- अकारो नयते विश्वमुकारश्रापि तेजसम्॥ मकारश्र पुनः प्राजञं नामात्रे विद्यतेऽगतिः ॥ २३।। इत्यथर्ववेदीयमाण्डूक्योपनिपदि तृतीय: खण्टः ॥३॥
Page 214
मा०ख० ४ माण्डूक्योपनिषत्। २११
अ इत्याक्रियमाणो विश्वः स्वात्मोपासकं विश्वं स्वात्मानं नयति प्राप- यति। उकारक्वापि तेजसनित्यादी नयत इत्यनुकर्षः । प्राग्वद्याख्या। पुनः प्राज्ञमिति पुनःशव्दः प्रत्यहं सुप्ती प्राप्तिसत्त्वेऽपि स्थानविशेषे मुक्ती तत्नाप्त्यभिप्रायणेति ज्ञेयम्। तुरीयोपासकस्य कथमित्यतस्तस्यापि तत्प्राप्तिरस्तीत्याह-नामान्र इति। अमात्रेऽनंशे विश्वतैजसयोः प्राज्ञेन प्रतिदविनमकीभावो विश्वस्यारतीति मात्रत्वं तुरीयस्य तन्नेत्यमात्र इत्यु-। च्यते तुरीयः । अमात्रे चतुर्येऽगतिस्तपाप्त्यभावस्तदुपासकस्य न विद्यते विद्यत एव गतिरित्यर्थः। तुरीयेऽस्ति गतिरिति वक्तव्येऽगतिर्न विद्यत इत्युक्तिविश्वादेरिव बाह्यादिव्यवहारकारणत्वं न विद्यते यथा तथा गम्य- त्वमपि नेति शङ्कायां तन्निरासार्थमिति ज्ञेयम् ॥ २३॥ इत्यथर्ववेदीयमाण्टक्योपनिषत्पकाशिकायां तृतीय: खण्डः ।
नान्तःप्रज्ञमित्यादिनोक्तं तुरीयगुणातुवादपूर्व तुरीघस्य नावर्पं- तिपाद्यत्वमाह- अमात्रश्र्वतुर्थोऽव्यवहार्यः प्रपश्चोपरामः शिवोउद्वैत एवमोंकार आत्मैव संवि- शत्यात्मनाऽडत्मानूं य एवं वेद ॥१ ॥ अमात्रोऽव्यवहार्यः प्रपञ्चोपशमः शिवोद्दैतश्रतुर्थ इत्यनुवादः । ओंकारः। प्रणवैकदेशनादप्रतिपाद्यत्वं विवक्षितम्। अमात्र इत्यादि- पदानां प्रागुक्तरीत्यार्ऽर्थो बोध्यः। अदृष्टमव्यवहार्यमित्यादिना प्रागुक्त-
मुक्ताविति प्रदर्शनायेति ज्ञेयम। यथा विश्वादीनामकारादिवाच्यत्व- मेवमोंकारैकदेशनाद्वाच्यत्वं तुरीयस्येत्यर्थः। नादप्रतिपाद्यत्वेन तुरीयो- पासकस्य फलमाह-आत्मेति। योऽधिकार्येवममात्त्वाव्यवहार्यत्वादि- नोकारमोंकारेकदेशनादप्रतिपाद्यं वेद जानाति स आत्मैव सञ्शुद्स्वरूप एव सन्देहगेहादावन्यत्र ममताद्यभिमानत्यागी भूत्वेति यावत्। आत्मना परमात्मना तत्पसादनेति यावत्। आत्मानं नाद्बोध्यं तुरीयात्मानं संविशति प्रविशति। प्रविश्य बहिरन्तः स्वेच्छया स्वयोग्यभोग्यान्भु- आनः सुखमास्त इति भाव: ॥१ ॥
Page 215
66
मित्यत्र मन्त्रान्बह्मदटूष्टानाह- अत्रैते श्लोका भवन्ति। अत्रेत्युक्तार्थम्। ओंकारं पादशो विय्यात्पादा मात्रा न संशयः । ओंकारं पादशो ज्ञात्वान किंचिदपि चिन्तयेत। २४।।
प्राप्यन्ते ओंकारमोमित्याक्रियमाणं समग्रप्रणवप्रतिपार्यं पादशः पादेः पदन्ते स्वोपासकैरिति पावेरविश्वादंशैविद्यादद्विश्वदिचतु रुपात्मना जानीयात्। पादा: किरूपा इत्यत आह -- पादा मात्रा इति। प्रणवां शभूताकारादिप्तिपाद्या इत्यर्थः । ओकार प्रणववाच्यं पादशश्रतूरूप- तथा ज्ञात्वा किचिदपि न चिन्तयेत्। इतरचिन्तया जायमानफलस्य तृतोऽध्िकफलस्य चतज्ज्ञानादेव सिद्धेरिति भाव: ॥ २४॥
पठति- संसारभयं तितीर्पुर्णोंकारो भगवान्सर्वथा ध्येय इत्यत्र श्लोकं
युआीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ॥ प्रणवे नित्ययुक्तस्य न भयं विद्यते कवचित्॥२५। प्रणवे हरौ चेतो मनो युञ्जीत तद्विपयं कार्यम्। स कीदृशः प्रणव इत्यत आह-प्रणवो ब्रह्मेति। गुणबृहणत्वात्पूर्णत्वाद्विश्वाविरुपचतुष्ट यात्मकः प्रणवो निर्भयं ब्रह्म गुणपूर्णमिति विश्वादिचत्रूपो हरिजागरदा- द्यवस्थाप्रणयनात्प्रणव इत्युच्यते। प्रपूर्वान्नयतेरचप्रत्यये धातोर्नुशब्दादे शगुणावादेशणत्वेषु प्रणव इति सिद्धिः । फलमाह-प्रणवे नित्य- युक्तस्येति तस्मिन्प्रणवे हरौ नित्ययुक्तस्य नित्यं तद्ष्यायिन इत्यर्थः । क्वचित्केनापि निमित्तेनेत्यर्थः। फलसाम्यार्थमेव प्राङनिर्मयमितिविशे- षणोक्ति:॥२५॥ विश्वादिरूपाणामन्योन्यं मूलरूपेण प न गुणतारतम्यमित्याह- प्रणवो ह्वपरं ब्रह्म प्रणवश्र परः स्मृतः । अपूर्वोडनन्तरोऽबाह्योऽनपरः प्रणवोऽव्ययः॥ २६॥ अपरमपरः पूर्वतनो मूलरूपपूर्वावतारात्मा प्रणवो हरिर्श्र्ह्म पूर्ण हि
Page 216
[मा०ख०४] माण्डूक्योपनिषत्। २१३ प्रसिद्धमेतत्। 'सर्वेषु मूतेष्वेतमेव ब्रह्मेत्याचक्षते' इत्यादाविति भावः। परः पश्चात्तनो विश्वाद्यवताररूपः प्रणवो हरिश्र ब्रह्म पूर्ण इत्याकर्षः । स्सृतः श्लोकद्रष्टेति योज्यम्। पूर्वावतारे पश्चिमावतारे च पूर्णतैव न क्वचिद्पि न्यूनतेति भावः। प्रणवो ब्रह्मेत्युक्तं पूर्णत्वं व्यनक्ति-अपूर्व इति। न विद्यते पूव कारणं यस्य सोऽपूर्वः प्रणवः कारणहीनः। नाशाभावा- दनन्तरः । अन्तशब्दपर्यायोऽत्रान्तरशब्दः। सर्वगतत्वादबाह्यः। पराधीन- स्थित्यभावादनपरः । अव्ययः शश्वदेकप्रकारः ॥ २६ ॥ सर्वस्य प्रणवो ह्यादिर्मध्यमन्तस्तथैव च।। एवं हि प्रणवं ज्ञात्वा व्यश्नुते तदनन्तरम् ॥ २७॥ प्रणवो हरिः सर्वस्याSडदि: कारणं मध्यं स्थितिकर्ता तथा नाशकर्ता च। एवेति निश्चये। ज्ञानिनः फलमाह-एवं ब्रह्मत्वादिना प्रकारेण प्रणवं हरिं ज्ञात्वा तद्नन्तरं प्रारब्धभोगानन्तरं तङ्गह्म व्यश्नुते िशेषेण प्राप्ोति सदा सत्वेऽपि स्थानादिविशेषाभिप्रायेण वीत्युक्ति: ।। २७।। प्रणवस्य हरेर्महिमान्तरमाह- प्रणवं हीश्वरं विद्यात्सर्वस्य हृदये स्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ २८ ॥ ईश्वरं सर्वनियामकम्। प्रणवं हररिं सर्वस्य हदि संस्थितं विद्यादु- पासीत। ईश्वरः सर्वभूतानां हद्देशेरडर्जुन तिष्ठति। तमेव शरणं गच्छ [गी० १८६१ ] इति स्मृतेरिति भावः । एवं सर्वव्यापिनमोकारमोमि- त्याक्रियमाणं मत्वोपास्य धीरो ज्ञानी न शोचति। आविर्भूतापहतपा- प्मत्वादिगुणाष्टको मुच्यत इत्यर्थः ॥ २८। एवमुक्तां समस्तव्यस्तप्रणवाभिधेयभगवदुपासनामनुवदंस्तज्ज्ञानिनः स्तवेनोपसंहरति- अमात्रोऽनन्तमात्रश् द्वैतस्योपशमः शिदः । ओकारो विदितो येन स मुनिर्नेतरो जनः स मुनिर्नेतरो जनः॥२९॥ इत्यथर्ववेदीयमाण्डूक्योपनिषदि तुरीयः खण्डः ॥४ ॥
Page 217
२१४ माण्डूक्योपनिषत्। मा०व० ४ ]
अमात्रः। मात्रा अंशास्तद्विहीनोऽमात्र:। मूलरूपेण स्थित इति यावत्। अनन्तमात्रः। जगद्यापारनिर्वहृण्णार्थमिच्छाकृतविश्वाद्यन- न्तांशः । इच्छागृहीताभिमानोरुदेह इति स्मृतेः। द्वैतस्योपशमः। स्वोपासकाना सर्वानिष्टनिवर्तकः। शिवः। निर्टुःखसुखरूपः । ओंकार: ओमित्याक्ियमाणः। एवंरूपो येन विढिती ज्ञातः स मुनिर्नेतरः कितु स जनो जननमरणादिना परिवर्तत इत्यर्थः । मुनिस्तु मुच्यत इति भाव:।स मुनिर्नेतरो जन इति द्विरुक्तिरुक्तसर्वपमेयावधारणार्था। उपनिषत्समाप्त्यर्था च।। २९॥ इत्यथर्ववदीयमाण्डूक्योपनिषत्प्रकाशिकार्या तुरीयः खण्डः ॥४ ॥
समाप्तेयं माण्डूक्योपनिषत्।
Page 218
ॐ तत्सद्रह्मणे नमः। रङ्गरामानुजविरचितप्रकाशिकोपेता
अथ परमतत्त्वहित पुरुषार्थप्रतिपादिका तैत्तिरीयशाखास्थाSSनन्दवलली व्याख्यायते- ॐ ब्रह्मविदामोति परम्। निरतिशयबृहस्वाश्रयवस्तूपासकः सर्वेभ्यः परमुत्कृष्ट ब्रह्म प्राप्नोती- त्यर्थः। 'आवृत्तिरसकृदुपदेशात्' [ब० सू० ४।१।१] इत्यधिकरणोक्त- न्यायेन वेदनोपासनादिशद्दानामेकार्थत्वाद्ब्रह्मविदित्यत्र विच्छब्द उपा- सनपरः ।'तत्क्रतुन्यायेन प्राप्यस्येवोपास्यत्वात्। ब्रह्मविदानोति परमिति परस्य ब्रह्मणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वमिति द्रष्टव्यम्। अत्र ब्रह्म तद्रेदनं, प्राप्तिः प्राप्यं चेति चतुष्ट्यमुक्तम्। किं शब्हर कीवृशं तद्वेदनं कीहशी प्राप्ति: कीदृशं च प्राप्यमित्याकाङक्षार्या मन्तर- मुखेण विवरितुं मन्त्रमवतारयति- तदेषाऽभ्युक्ता । तद्वह्माभिमुखी कृत्येषर्गध्येतृभिरुक्ता। बाह्मणोक्तस्यार्थस्य वैशद्यम- नेन मन्त्रेण क्रियत इत्यर्थः । एवमेव हि मान्त्रवर्णिकसूत्रे माषितम्। सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन्। सोऽश्नुते सर्वाकामान्सह ब्रह्मणा विपश्र्वितेति। तत्र जन्मादिसूत्रे 'यतो वा इमानि' इत्यादिकारणवाक्येन प्रतिपन्नज- गजन्मादिकारणस्य ब्रह्मणः सकलेतरव्यावृत्तं स्वरूपमभिधीयते- सत्यं ज्ञानमनन्तं ब्रह्मेति। तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्ह्माऽडह। तेन विकारास्पदमचेतनं संसृष्टचेतनक्ष व्यवृत्तः। नामान्तरभजनाहाव- स्थान्तरयोगणैतर्यो निरुपाधिकसत्तायोगरहितत्वात्। ज्ञानपवं नित्यासं- कुचितज्ञानेकाकारमाह। तेन कदाचित्संकुचितज्ञानत्वेन मुक्ता व्यावृत्ताः। अनन्तपदं देशकालवस्तुपरिच्छेदरहितं स्वरूपमाह। सगुणत्वात्स्वरूपस्य
Page 219
२१६ रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन ०अ० १ ]
स्वरूपेण गुणैश्वानन्तं तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणा: साति- शयस्वरूपस्वगुणा नित्या व्यावृत्ताः । विशेषणानां व्यावर्तकत्वादिति भाषितम्। नन्वत्र ज्ञानपदस्य विषयावगाहिज्ञानत्वं प्रवृत्तिनिमित्तं ेत्स्वरूपस्यातादक्त्वाज्ज्ञानगुणकत्वमित्यर्थः पर्यवस्येत्। न तु स्वरू पस्य ज्ञानत्वम् । स्वप्रकाशतारूपं ज्ञानत्वं प्रवृत्तिनिमित्तं चेत्स्वरुपस्य ज्ञानत्वमात्रं सिध्येत्। न तु ज्ञानगुणकत्वम् ।न चेषापत्तिः । 'तत्ठुणसा- रत्वात्तु तद्यपदेश: प्राज्ञवत् '[ब०सू० २।३।२९]इति सूत्रे यथा सत्यं ज्ञान मिति ब्रह्मणो ज्ञानगुणसारत्वाज्ज्ञानमिति व्यपदेश इतिभाष्यं विरुध्येतेति चेदुच्यते। स्वपकाशत्वमेव प्रवृत्तिनिमितं तत्र ज्ञानत्वाश्रयत्वमसंको- चात्स्वरूपतो गुणतश्र सिध्यति। ब्रह्मशब्दात्प्रतीयमानं वृहत्त्वं यथा स्वरूपतो गुणतश्र सिध्यति। तद्वदिति व्यासार्वरुक्तम्। वस्तुतस्तु सत्यं ज्ञानमित्यस्यान्तोदान्तत्वादर्शआद्यजन्तत्वेन ज्ञानगुणकत्वमेवार्थः । 'प्रज्ञानघन एवाऽडनन्द्मयः ' इति श्रुत्यन्तराब्गह्मणो ज्ञानस्वरूपत्वम- स्तीति दध्व्यम्। इहेदं नान्यत्रेति परिच्छेत्तुमशक्यत्वं । देशापरि- च्छेदः। इदमिदानीं नान्यदेतिपरिच्छेदायोग्यत्वं कालापरिच्छेदः । इदमिदं नेतिपरिच्छेशनर्हत्वलक्षणं सर्ववस्तुसामानाधिकरण्यार्हत्व- रूपं वस्त्वपरिच्छेदः। यद्वा वस्तुस्व्रभावतः परिच्छेदो वस्तुपरिच्छेद:। यथा तुल्यकालत्वेऽपि तुल्यपरिमाणत्वेऽषि दशवर्णसुवणापक्षया कलधौतादेरपकर्षः । तव्राहित्यं वस्त्वपरिच्छेदः। समाभ्यधिकरा- हित्यनिदानभूतर्गुणैनिरतिशयप्रकर्षो, वस्त्वपरिच्छेद इत्युक्तं भवतीति व्यासार्येर्व्याख्यातम्। नान्तं गृणानां गच्छन्ति तेनानन्तोऽयमुच्यत इति स्मरणाह्गुणानन्त्यमनन्तशब्दार्थः । अत्र रूढिवशाद्देवताविशेष- निर्णयः। नचानन्तपदस्य नारायणवाचिनः पुंलिङ्गत्वं स्वादिति वाष्यम्। इषटापत्तेः। तम्य द्वितीयान्ततवेन पुंलिङ्ृत्वस्येश्टत्वात। द्विती- यान्तत्वाभावे च 'यो वेद निहितं गुहायाम्' इत्यत्र तच्छव्दस्याध्याहा- रमसङ्गात्। अनध्याहरेणोपपत्तावध्याहारस्यान्याव्यत्वात्। अत्रानन्त- पद्योगिकार्थस्य त्रिविधपरिष्छेदराहित्यस्य नारायणादन्यत्रापसक्त्या श्रीपत्यादिशव्देष्विव न रूढि: कल्पनीयेत्युच्येत तदाऽवि न क्षतिः। तत्र 'सत्यं ज्ञानमनन्तं बह्म' इत्यनेन ब्ह्मशब्दार्थो विदृतः। हृदयगुहा- निहितत्वप्रकारकज्ञानपतिपादुकेन 'यो वेद निहितं गुहायाम्' इत्यनेन विच्छन्दार्थ उक्तः । 'परमे व्योमन् । सो्नुते' इत्यनेनाऽडमोति-
Page 220
[आन०अ० १ ] आनन्द्वल्युपनिषत्। २१७
शब्दार्थ उक्तः । परमेव्योमन्नप्राकृताकाशशब्द्विते परमपद इत्यर्थः। 'सर्वान्कामान्सह बह्मणा विपश्चिता' इत्यनेन प्राप्यमुक्तम्। काम्यन्त इति कामा: कल्याणगुणाः। मुक्तस्य सर्वविषयविरक्तस्य तद्यतिरिक्त- काम्यान्तरासंभवात। 'अथ य इहाऽडत्मानमनुविद्य व्रजन्त्येतांश्र सत्या- न्कामान्' [छा० ८। १।६] इत्यादों कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात्। विविधं पश्यन्ती चिद्यस्येति बहुबीहिः। निरुपाधिकानन्या- धीनासंकुचितसर्वविषयकज्ञानवत्त्वं विपश्चित्वम्। अय च गुणो नित्य- मुक्तादिव्यावर्तकः। ब्रह्मापेक्षयाऽपि तद्ठुणानां फलदशायां प्राधान्यं प्रतिपाद्यितुं ब्रह्मणा सहेति निर्देशः। 'सहयुक्तSप्रधाने [ पा० सू०२। ३। १९ ] इति पाणिनिस्मृतिः। न च भोग्यतायां गुणापेक्षया ब्रह्म- णोऽप्राधान्यं दोषायेति शङकयम् । थ्रियं त्वत्तोऽप्युच्चैर्वयमिह प्रणाम: शृणुतरामित्यादिवत्परमात्मापेक्षया तत्कल्याणगुणानां भोग्यतातिशय- प्रतिपादनस्य परमात्मातिशयपर्यवसायित्वेनैतादशापाधान्यस्य गुणत्वेन दोषत्वाभावात्। अत एव हि पुत्रेण सहौदनं भुङ्क इतिवन्धोक्तृसा हित् परत्वे ब्रह्मणोऽप्राधान्यप्रसङ्गात्तत्परित्यज्य पयसा सहौदनं भुङ्क इतिव द्वोग्यसाहित्यपरत्वमेव। नात्र च पक्षे ब्रह्मणोऽप्राधान्यं दोषायेति भौग्यसाहित्यपक्ष एव भगवता भाष्यकृता समाश्ितः । ननु 'तेषा- सृग्यत्रार्थवशेन पादव्यवस्था' [जै० २। १।३५]इतिजेमिनिनाऽर्थव- शाधीनपादव्यवस्थावत्त्वस्यर्ग्लक्षणतयोक्तत्वात्सहेत्यस्य पादान्तरस्थस्य ब्रह्मणेति पादान्तरस्थेनान्वयो न समीचीनो मवति ततश्र बह्म- णेति न सहयोगे तृतीया। अपि त्वित्थंभूतलक्षणे तृतीया। सहेत्यस्य च युगपदित्यर्थः । सर्वान्कामान्युगपदनुभवति ब्रह्मणा बह्मरूपोपलक्षितः सन्नित्यर्थः । ब्ह्मभूत इति यावत्। अत एव स्कान्दे- सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः । विदितव्ह्मरूपेण जीवन्मुक्तो न संशयः ॥ इत्युपबृंहितमिति चेन्न। तेषामृग्यत्रार्थवशेनेत्यस्योपलक्षणमात्रत्वात्। उपलक्षणत्वपक्षमभ्युपगम्यैव तद्याख्यातृभिरप्यर्थवशेन वर्ग्वशेन वा पाद्व्यवस्थेति व्याख्यातत्वाच्च। अभियुक्तानां मन्त्रप्रसिद्धिविषयत्वं मन्त्रत्वमितिववृक्पदप्रसिद्धिविषयत्वमेवक्त्वं, ततश्र पादान्तरस्थे- नापि पादान्तरस्थपदान्वयो युक्तः। ब्रह्मणेत्यस्यत्थंभूतलक्षणत्वाश्रयणे
Page 221
२१८ रङ्गरामानुजविरचितप्रकाशिकोषेता- [आन०अ० १}
ब्रह्मभूत इत्यर्थोऽपि न संभवति। श्वेतच्छत्रेण राजेत्यादी तथाऽमेदा- दर्शनात्। त्वदुक्तस्कान्दवचनस्य पूर्व: संप्रतिपन्नैरनुदाहृतत्वाच्च भाष्य- कृदुक्त एवार्थः । इतिशब्दो मन्त्रसमाप्तिद्योतनार्थः । सत्यं ज्ञानमनन्तमित्युक्तं वस्त्वपरिच्छेदलक्षणमानन्त्यं सर्वोपादान- त्वसर्वान्तरत्वमुखेन प्रपञ्चयति- तस्माद्वा एतस्मादात्मन आकाशः संभूतः । तस्मादित्यनेन ब्रह्मविदाप्नोति परमित्यव्यवहितबराह्मणोक्त: परामू- इयते। एतस्मादिति सत्यं ज्ञानमनन्तमित्यव्यवहितमन्त्रोक्तं परामृश्यते। ततक्च मन्त्रब्राह्मणोक्तादेव तस्मादात्मन आकाश उत्पन्न इत्यर्थः । आकाशाद्वायुः । वायोरभिः । अग्नेरापः। अद््यः पृथिवी। 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' [छा० ६।२३। ४ ] इति तेज :-
त्मपरा इति 'तेजोऽतस्तथा ह्याह' [ ब० सृ०२।३।१०] इत्यधिकरणे स्थितम्। प्रथिव्या ओषधयः। ओषधीतयोऽन्नम्। अन्नात्पुरुषः। शरीरमित्यर्थः । शिषं स्पष्टम् । . स वा एष पुरुषोऽन्नरसमयः। स वा एष पुरुषोऽयं देहोऽन्नरसस्थ परिणामः। 'अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीपं भवति यो मध्यमस्तन्मांसम्' [छा०६।५११] इत्याद्यक्तरीत्या जाठरािपच्यमानान्नसारांशनिर्वर्त्यमा- सादिमयत्वाच्छरीरस्येति भाव:। तस्पेदमेव शिरः । अयं दक्षिणः पक्षः । अय- मुत्तरः पक्षः । अयमात्मा। इदं पुच्छं प्रतिष्ठा। तस्य देहरूपस्य पुरुषस्येदं प्रत्यक्षतो दृश्यमानमेव शिरः। बाहुदुयं पक्षौ। अधस्ताङ्गीवाया नाभेरुर्ध्व परिदश्यमानाऽयं मध्यमो देहमागोS- द्वनामात्मा। 'मध्यं ह्येषामङ्गानामात्मा' इति श्रुतेः। धारकत्वेन प्रधान- मूत इत्यर्थः इद नामेरघस्तात्परिद्वश्यमानं चरणद्वयं पुच्छवृदाधारत्वा- त्पुच्छमित्यर्थः । अत्र पुरुषशव्दितमनुष्यपाण्यादेः पक्षत्वादि[नि]रूपण प्रतिपत्तिसौकर्यार्थमिति वटव्यम्।
Page 222
[आन०अ० २] २१६
तदप्येष श्लोको भ्रवति। इति कृष्णय जुर्वेदीयतैत्तिरयोपनिषदि ब्ह्मवल्लयध्याये प्रथमोऽनुवाकः ॥१ ॥
तत्तस्मिन्नेवार्थे ब्राह्मणोक्तेऽयं मनपरूपश्लोकोऽपि भवतीत्यर्थः । इति कृष्णय जुर्वेदीयतैत्तिररीयोपनिषदि ब्रह्मवल्वयध्यायप्रका- शिकायां प्रथमोऽनुवाकः॥। १।।
अन्राद्वै प्रजाः प्रजायन्ते याः काश्व पृथिवी शरिताः। अथो अन्नेनैव जीवन्ति अथैतदपियन्त्यन्ततः ॥ पृथिध्यां वर्तमाना: सर्वाः प्रजा अन्नादेवोत्पद्यन्ते। उत्पन्नाश्रान्ने- नैव जीवन्ति। अन्तकाले तत्रैव लयं यान्तीत्यर्थः। अन्न हि भूतानां ज्येष्ठम् । तस्मात्वर्वौषिधमुच्यते। सर्वभूतोपकारकत्वादन्नमेव ज्येष्ठम्। अत एवाशनायादिव्याधि- निवर्तकत्वात्तदेव सर्वोषधमुच्यत इत्यर्थः । ओषधीभ्योऽन्नमित्योषधिप- रिणामित्वं निमित्तीकृत्यान्ने प्रयुक्तमोषधीशब्दं भेषजत्वनिमित्ततया श्रतिर्व्यपदिशतीति द्रष्टव्यम्। सर्व वै तेऽन्नमामुवन्ति येऽन्नं ब्रह्मोपासते । अन्ने बह्मद्ृष्टिं कुर्वन्तो यावदपेक्षितमन्न्ं प्राप्तुवन्तीत्यर्थः । ब्रह्महा्टिहेतुभूतं ब्ह्मसाम्यमाह- अन्न हि भतानां ज्येष्ठम्। तस्मात्सर्वोषधमुच्यते। ब्रह्मणोऽपि सकलरोगनिवर्तकतया सर्वभेषजत्वस्य सत्त्वादिति माय: । अन्नाद्भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। जननवृद्धिहेतुत्वमन्नन्रह्मणोः सममित्यर्थः । अन्नशब्दस्य निर्वचनमाह- अद्यतेऽति च भूतानि तस्मादन्नं तदुच्यत इति। जीवनदृशायां स्वयमद्यते। नाशद्शायामलभ्यमानतया वा विपरीत-
Page 223
२२० रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन ०अ० २] परिणामहेतुतया घा 'अन्नं सृत्युं तमु जीवातुमाङ्कुः' इतिश्रुत्युक्तरी- त्याSततृत्वलक्षणं संहर्तृत्वं द्रष्टव्यम्। एवमाकाशादेरन्नमयस्य स्थूलशरीर पर्यन्तस्य मम्त्रब्राह्मणोदितव्रह्मोपादनकत्वमात्मन आकाश इत्यात्मशब्द- भरवणात्। तृदन्तर्यामिकत्वं चोक्तं भवति। एवमाकाशादेरन्नमयशब्दि- तस्थूलशरीरपर्यन्तस्य म्रह्मैवाऽडत्मोपादानं चेत्युक्त्वा स आत्मा क हत्यपेक्षायामानन्दमय एव स आत्मेति दर्शयितुं स्थूलारुन्धतीन्यायेन स्थूलदेहान्तर्वर्तिनं प्राणजयमात्मत्वेन दर्शयति। सूक्ष्मारुन्धतीं दर्शयि- तुं प्रवृत्तः प्रथमत एव सूक्ष्माया अरुन्धत्याः प्रदर्शनासंभवं पर्यालोग्य तत्समीपवर्तिनीं स्थूलतारकामियमेवारन्धतीति दर्शयति। तस्या स्थूल- तारकार्या श्रोतुररुन्धतीत्हुद्धी धृतायां तत्समीपवर्तिनीं वस्तुतोSरुन्धती सूक्ष्मा मियमेवारुन्वपीति दर्शयति। सोडयं स्थूलारुन्धतीन्याय इत्यर्थः । तस्माद्वा एतस्मादन्नरसमयात्। अन्योऽन्तर आत्मा प्राणमयः। देहान्तर्वर्ती देहादन्यो यः प्राणमयः स एवाऽडत्मन आकाशः संमूत इत्याकाशादिसर्वोपादानत्वेन तदन्तर्यामित्वेन च निर्दिष्ट आत्मेत्यर्थो मग- वता माष्यकृता 'अन्ययाविति चेतस्पाववधारणात्' [ब० सू०३।३।१७] इति सूेSन्रमयादन्तरे प्राणमये प्रथम एरमा[त्म]बुद्धिरवतीर्णा तदनन्तरं घ प्राणमयादन्तरे मनोमये ततो विज्ञानमये तत आनन्दमय इति माषि- तम्। अत्र पश्चवृत्तेः प्राणस्य प्राणनवृत्तिपचुरत्वात्प्राणमयत्वम्। तनेष पूर्णः । तेन प्राणमयेनाऽडल्मनाऽयमत्नरसमय आत्मा पूर्ण इत्यर्थः।व्याप्त इति यावत्। सर्वस्यापि देहस्य प्राणव्याप्तत्वादिति माव: । स वा एप पुरुषविध एव। प्राणमयोऽपि पुरुषाककृतिरेवेत्यर्थः । हस्तपादादिमत्त्वेन पुरुषविधत्वभ्रान्तिं व्युदस्यति- तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । तस्यान्नमयस्य पुरुषविधत्वमनुकृत्य प्राणमयोऽपि पुरुपविध इत्यर्थः। ततक्र तह्देव शिरःपुच्छादिमत्तया पञ्चविध इत्यर्थः । तस्य प्राण एव शिरः।व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः ।
Page 224
भन० अ०३] आनन्द्वलय्युपनिषत् । २२१ स्पष्टोऽर्थः । आकाश आत्मा। यथाSडकाशस्थितो नित्यं वायुः सर्वत्रगो महानितिस्मृत्युक्तरीत्या
पृथिवी पुच्छं प्रतिष्ठा। पृथित्यामाकाशस्य प्रतिष्ठितत्वादस्या: पुच्छत्वमू। तदप्येष श्लोको भ्रवति ॥ इति कष्णय जुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्मवल्चध्याये द्वितीयोऽनुवाक: ॥२॥
इति कृष्णय जुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्मव ह्व्यध्यायप्रकाशिकार्यां द्वितीयोऽनुवाकः ॥ २॥
प्राणं देवा अनु प्राणन्ति मनुष्या: पशवश्र ये। देवमनुष्यपशवः प्राणमनुपाणन्ति प्राणाधीनजीवना इत्यर्थः । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते। यस्मात्सर्वेषां भूतानां यावच्छरीरे प्राणो वसति तावदायुरिति पाण- स्पोष्टासनिश्वासादिलक्षणसर्वभूतायुर्हेतुत्वम् । अत एव सर्वेषामा- युरित्युच्यत इत्यर्थः । सर्वमेव त आयुर्यन्ति ये प्राणं ब्रह्मोपासते। एवंलक्षणे प्राणे ब्ह्मद्टष्टि कुर्षन्तः सर्वमायुः प्राप्नुवन्तीत्यर्थः । एवं प्राणमय आकाशाद्यन्नमयान्तस्याऽऽत्मत्वबुद्धिमवतार्य बुद्धिं निवर्तयति- तस्यैष एव शारीर आत्मा। यः पूर्वस्थ। पूर्वस्यान्नमयस्याऽऽत्मैष एव तस्य प्राणमयस्याऽडत्मेत्यर्थः । शारीरः शरीरसमन्ध्यात्मेत्यर्थः। अनेनाऽडत्मशव्दस्य स्वरूपार्थभ्रान्तिर्व्युदस्ता मयति। ततश्रास्तमयप्राणमयावेकात्मकी नस्वन्नमयस्य प्राणमय आत्मे-
तस्माद्वा एतस्मात्पाणमयात्। अन्योऽन्तर आत्मा मनोमयः ॥
Page 225
२२२ रङ्गरामानुजविरचितप्रकाशिकासमेता- [आन० अ० ४ ]
अत्र मनोमय इत्यम्र प्राचुर्यार्थे मयद। मनोबुध्यहंकारचिन्ताख्यान्त :- करणवृत्तिषु मनोवृत्ते: प्राचचुर्यात्। तेनैष पूर्णः। स वा एष पुरुषविध एव। तस्य पुरुषविधताम् । अन्वयं पुरुषविधः। पूर्षधवर्थः । तस्य यजुरेव शिरः । तस्यान्त:करणस्य यजुर्वेद्विषयज्ञानजनकमनोव्यापारः शिर इत्यर्थः। मुख्यार्थस्य यजुर्षेदस्य मनःसंबन्धाभावेन मनसः शिरोरूपणासंभवा- दिति वष्टव्यम्। एधमुत्तरत्रापि। ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा। इदं कुर्षिदं मा कार्ीरिति विधिनिषेधरूपं रहस्यानुशासनमादेश
अर्थवाङ्गिरसः पुच्छं प्रतिष्ठा। अथर्वाङगिरसा हष्टा मन्त्रा: प्रतिष्ठाहेतुभूतं पुच्छमित्यर्थः। अत्रापि
तदप्येष श्लोको भवति।
तृतीयोऽनुवाक: ॥३॥
इति कृष्णय जुर्वेदीयतैत्तिरी योपनिषदि ब्रह्मवल्यध्याय प्रकाशिकायां तृतीयोडनुवाकः॥ ३॥
यतो वाचो निवर्तन्ते। अप्राप्य; मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न विभेति कदाचनेति। यस्माङ्वह्मानन्वाहाखन [सानी] यत्तालक्षणं पारमप्राप्य निवर्तन्ते तादशं बह्मानन्दं 'हश्यते त्व्यया बुध्ध्या''मनसातुविशुद्धेन'इत्युक्तरीत्या शुद्धन मनसा ज्ञात्वा कदाऽपि न बिभेरतीत्यर्थः । अत्र ब्रह्मानन्दस्य विशुद्धमनोगोचरत्वप्रतिपादकत्वादस्य श्लोकस्य मनोविषयत्वमस्तीति दष्टव्यम् ।
Page 226
[आन० अ० ५] आनन्द्वलचुपनिषत्। २२३ तस्यैष एव शारीर आत्मा। यः पूर्वस्य । पूर्वस्य प्राणमयस्य य आत्मा स एव मनोमयस्याऽडत्मेत्यर्थः। एवं चान्नमयप्राणमयमनोमयानामेक आत्मेत्युक्तं भवति। स क इत्यपेक्षायामाह- तस्माद्वा एतस्मान्मनोमयात्। अन्योऽन्तर आत्मा विज्ञानमयः। अत्र विज्ञानमयो जीवो न बुद्धिमात्रं मयद्प्रत्ययेन व्यतिरेकप्रतीतेः। तेनैष पूर्णः । स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । पूर्ववदर्थः । तस्य श्रद्वव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः अत्र श्रद्धर्तसत्यशब्दा ज्ञानविशेषपराः। योग आत्मा। 'ब्रह्मणे त्वा महसे' ओमित्यात्मानं युञ्जीतेति विहितज्ञानविशेषो योगशब्देनोच्यते। महः पुच्छंप्रतिष्ठा। योगविरोधिनिरसनसामर्थ्यलक्षणं महः पुच्छमित्यर्थः । एतेषां श्रद्धा- दीनामात्मगुणत्वेन सिद्धत्वात्तत्तद्वच्छिन्नमात्मस्वरूपं शिरःपक्षपुच्छा- दितया प्रतिपाद्य[त] इति द्ृषव्यम्। अतः स्वस्मादनतिरिक्तैः स्वावयवै- शिरःपक्षपुच्छादिरूपणपरत्वात्प्रकरणस्येति भाष्यस्य न विरोध:। तदप्येष श्लोको भवति। इति उष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्वल्लयध्याये चतुर्थोडनुवाकः ॥४ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्मवल्यध्यायप्रकाशिकार्या. चतुर्थोडनुवाकः॥।४ ।। विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च। अत्र विज्ञानमयशब्दोदितो जीवो विज्ञानशन्देनोच्यते। आत्मस्वरू-
Page 227
२२४ रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन०अ० ५]
पस्य स्वप्रकाशतया ज्ञानैकनिरुपणीयत्वेन विज्ञानशब्देनाभिधानसंम- वात्। कृत्यल्युटो बहुलमिति या जानातीत्यर्थे ल्युडाश्रीयते। नन्द्या- दित्वं वाऽडश्रित्य नन्दिग्रहीत्यादिना कर्तरि ल्युराश्रीयते। तेन विज्ञान- मात्रपरामशे यज्ञं तनुते कर्माणि तनुतेऽपि चेतिप्रतिपादितलौकिकवैदिक- कर्मकर्तृश्वासंभवादन्तर्यामिब्राह्मणे य आत्मनि तिष्ठन्नितिमाध्यंदिन- पाठगतात्मशब्दस्थाने यो विज्ञाने तिष्ठन्निति काण्वपाठद्शनाद्विज्ञान- शब्दो जीवात्मपरः । विज्ञानं देवाः सर्वे। ब्रह्मज्येष्ठमुपासते। सर्वे देवा विज्ञानं जीवस्वरूपमेध प्रधानशब्दामिलप्याव चेदनाद्बह्- णोऽपि ज्येष्ठं प्रजापतिविद्योक्तरीत्योपासत इत्यर्थः । विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमायति। शरीरे पाष्मनो हित्वा। सर्वान्कामान्समश्षुत इति। यस्तु विज्ञानरूपं ब्रह्म वेद तस्माच्च जीवादन्तिमप्रत्ययपर्यन्तं न प्रमाद्यते चेच्छरीरे पाप्मनो हित्वा देहे वर्तमान एव विनष्ठाशलिष्ट- पूर्वोत्तराघः सर्वान्कामान्समश्नुते । तस्यैष एव शारीर आत्मा। यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात्। अन्यो- उन्तर आत्माSSनन्दमयः। तनैष पूर्णः।सवा एप पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा। बह्म पुच्छं प्रतिष्ठा । इष्टवस्तुदर्शनजन्यं सुखं प्रियम्। तल्लाभजन्यं सुखं मोद:। लब्धस्यो- पयोगजन्यं सुखं प्रमोद:। सुखातिशय आनन्दः। न च मध्यकायत्वेन रूपितस्याSSनन्दस्य पुच्छत्वेन रुपितब्रह्मणश्र मेदाभावेन तस्पैवाऽडत्म- त्वेन पुच्छत्वेन च रूपणं कथमिति वाच्यम्। एकस्यैव ब्रह्मणो बह्मरूपत्व- वेषेण पुच्छत्वमानन्दत्वेन वेषेणाSSतम[श]व्दितमध्यकायत्वमित्युपपचेः। न चाSडनन्दुरूपब्रह्मस्वरूपस्य कथमानन्दप्रच्ुरत्वलक्षणमानन्दमयत्व-
Page 228
[भान ०अ०६] आनन्दवह्युपनिषत्। २२५
प्रियमोदप्रमोदशन्ड्वाच्य शिर:पक्षतारूपित धर्मभृतानन्प्रचुरत्वेनाSSनन्व- मयत्वस्याप्युपपत्तेः। अत्र च पूर्वेष्वन्नमयादिषु पर्यायषु निरूपितस्य ब्रह्मणोऽवयवत्वस्यास्मिन्नानन्दपर्याये निरूपणं ब्रह्मविदानोति परभि- त्युपक्रान्तस्य ब्रह्मोपदेशस्याSSनन्द्मयपर्याये समानमिति ज्ञापनार्थ- मिति वृष्टव्यम्। ततोऽत्राSSनन्दमय एव प्रक्रान्त एव बह्मा। तदप्येष श्लोको भवति। इति कष्णय जुर्वेदीयतैत्तिरीयोपनिषदि बह्यवहचष्याये पञ्चमोऽनुवाकः ॥ ५ ॥
शिकार्या पश्चमोऽनुवाकः ॥५॥ f असन्नेव स भवति। असद्वह्ेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति। पूर्वेषु चतुर्ष पर्यायेषूदाइतानां श्लोकार्ना पुष्छवद्विषयत्वदर्शनादृय- मपि श्लोक: पुच्छवदानन्दमयविषय एव न तु ब्ह्मपुच्छमिति निर्दिष्टत- वेकदेशविषयः। ततश्च ब्ह्मशव्देनाSSनन्दमय एवोच्यते। आनन्दमय- सदसत्त्वज्ञानान्मोक्षसंसारी मवत इत्यर्थः । आनन्दमयरूपस्य ब्रह्मण आकाशादिविज्ञानमयान्तपदार्थान्तर्यामि- तया निर्दिष्टस्याप्यात्मान्तरं नास्ति किमिति शङ्कां व्युदस्यति- तस्यैष एव शारीर आत्मा। यः पूर्वस्य । विज्ञानमयान्तपदार्थस्याऽडत्मभत एवाऽडनन्दमय आत्मा तस्याऽड- नन्युमयस्याऽडत्मेत्यर्थः। ततश्रानन्यात्मकत्वमुक्तं मवति। न च पूर्वेषु पर्यायेषु तस्यैष एव शारीर आत्मेत्यस्यानन्यात्मकत्वप्रतिपादकत्वादर्शना- दस्मिन्पर्याये सदाश्रवणेऽर्थवैरूप्यं स्यादिति शङ््षम्। पूर्वेषु पर्यायेष्धनु- क्स्य ब्रह्मावयवत्वस्येह निरूपणात्तस्माद्वा एतस्मादानन्दमयादन्योS न्तर आत्मेति निर्देशाभावाच्चैतत्पर्यायस्य तस्यैष एव शारीर आत्मेत्य- स्यानन्यात्मत्वमेवार्थः ।. २९
Page 229
२२६ रङ्गरामानुजविरचितप्रकाशिकोपेता- [भान०अ ० ६ ]
आनन्दपयब्रह्मप्रतिपादनानन्तरं बह्मविदामोति परमित्युपक्रमामि- हित राति विशदीकरणार्थँ प्रश्नानुपक्षिपति- अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य। कश्षवन गच्छंति। आहो विद्वा- नमुं लोकं प्रेत्य । कश्र्वित्समश्नुते । पूर्वप्रतिपादनस्य बुभुत्साहेतुत्वमतःशब्देनोच्यते। उतेति निपातस्य- छ्छान्दसो दीर्घः। अविद्वानिति पदे सत्याछयुदात्तत्वं स्यात्। तत्पुरुषे तुल्यार्थ० [पा० सू०६।२२] इति स्मरणात्। अन्तोदान्तं चेदं पदम्। उताविद्विानितिच्छेदः । अविप्रकृष्टहृदयादिस्थानस्थमनवच्छिन्नं च ब्रह्मोपासीनो विद्वान्किमितः प्रेत्यामुं लोकं परमे व्योमन्नित्युक्तं लोकं गच्छतीत्येक: प्रश्नः । उत गत्यनपेक्षमिहेव ब्रह्माऽडप्ोतीत्यर्थसिद्धः प्रश्नः। आहो विद्वान्कश्रित्समश्नुत इति भोक्तृत्वं विवक्षितम् । अय- मर्थःत्वः कश्विदहंग्रहेणोपासीनोऽपि विद्वानमुं लोकं गत्वा किं कश्चित्स- मश्नुते भोग्यभतं ब्रह्मानुभवतात्येकः प्रश्नः।उत ब्ह्मस्वरूपेणैकी भवती- त्यर्थसिद्धः प्रक्षः । एवं शास्त्रवैविध्यमूलागतिविशेषस्वरूपभेदसदसन्भ्ा- वविषयाः प्रश्ना बहुवचनविवक्षिताः। एतत्सवं व्यासार्येरुपासात्रेविध्या- द्विति सत्रे स्पटमुक्तम् । एतान्प्रति वक्तुं जगत्कारणत्वौपयिकगुणवि- /शिष्टस्यैव ब्रह्मणः प्राप्यत्वादिज्ञापनायाSSह- सोडकामयत बहु स्यां प्रजायेयेति। स आनन्द्मय आनन्दमय आत्मा देवमनुष्यादिरूपेण बहु स्यां तद- र्थमाकाशादिभूतरूपेण प्रजायेयेति व्यष्टिसमट्टिरूपचेतनाचेतनविषयसंक- ल्पमककृत्व्रेत्यर्थः । स तपोऽतप्यत । स परमात्मा स्षव्यालोचनरूपं तपः कृतवानित्यर्थः। तप आलो- चन इति धातु:। स तपस्तप्त्वा। इद सर्वमसृजत। यदिदं किंच। तत्मृद्टा। तदेवानुप्राविशत्। ननु सर्वदा सर्वव्याप्तस्य ब्रह्मण: कोऽसौ सष्टिकालानुप्रवेश इति १ आनन्दाक्षमस्थपुस्तके-छती ३। आ° । १ मता है उ।
Page 230
(आन ०अ१] आनन्दवह्युपनिषद्। १२७
चेदुच्यते। गोजठरगतवत्से गोत्वादिवत्सर्वव्यासस्य ब्रह्मणः प्रत्येकं सर्व- वस्तुषु पुष्कलप्रतीत्यर्हस्थितिविशेष एवानुप्रवेशः । अनेन सत्वं ज्ञान- मनन्तं ब्रह्म यो वेद निहितं मुहायामिति मन्त्रोक्तमनन्तस्य व्ह्मणो हृदयगुहानिहितत्वमुपपादित भवति। तदनुभविश्य। सच्च त्यच्चाभवत्। सच्छव्देन निर्विकारतया सततैकरूपश्र्ेतन उच्यते। त्यच्छव्देन पूर्व- पूर्वावस्थात्यागिविकारास्पद्मचेतनमुच्यते। ब्ह्मैव चेतनाचेतननामरूप- भाग्भवतीत्यर्थः । ननु ब्रह्मण एव सर्वोपादानतया सर्वभावे विकारास्पदृत्वं स्यादित्या
निरुक्तं चानिरुक्त च निलयनं चानिलयनं च। जातिगुणक्रियावत्तया जातिगुणाभिधायिशब्द्वाच्यमचेतनं निरु- क्म्। जातिगृणाविक्वशन्यं चेतनजातमनिरुक्तम्। एता भूतमात्रा: प्रज्ञा- मात्रास्वर्पिता इत्युक्त्रीत्याऽचेतनवर्गाधारभूतं चेतनजातं निलयनमा- भरितमचेतनजातं त्वनिलयनम्। विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्। अजडस्वरूपं जडस्वरूपं च निर्विकारतया सत्यत्वं चेतनस्येतरस्य त्वत-
नामरूपभाग्भवद्पि बह्म सत्यमेवाभवत्। अजहत्निर्विकारत्वलक्षणस्व- स्वभावमेवाभवदित्यर्थः । यदिदं किंच तत्सत्यमित्याचक्षते। यस्माच्चेतनाचेतनात्मकवर्गानुपविष्टतया सत्यशब्दितस्य ब्रह्मण आत्म- त्वमत एव सर्वमपि चेतनाचेतनात्मकं जगच्छास्तदृष्टमिन्तः पुरुषा: पराशराद्य:, 'हरेर्न किंचिद्यतिरिक्तमस्ति ज्योतीषि विष्णुर्भुवनानि विष्णुः' इत्याचक्षत इत्यर्थः । तदप्येष श्लोको ्रवति । इति कष्णय जुर्वेदीयतैत्तिरीयपनिषदि बह्मवल्लयध्याय- प्रकाशिकायां षछ्ठोऽनुवाक: ॥ ६ ॥
Page 231
२२८ रङ्गरमानुजविरचित प्रकाशिकोपेता- [आन ० अ ० ७ ] व्यक्तोऽर्थः ।
कायां षष्ोऽनुवाक: ॥ ६ ॥
असद्वा इदमग्र आसति। ततो वै सदजायत। इदं स्थूलं चेतनाचेतनशररकं ब्रह्मानमिव्यक्तनामरूप ब्रह्म सृषेः प्रागासीत्। तस्मादिवं जगवभिव्यक्तनामरूपमभववित्यर्थः। नन्वसच्छ- व्दितस्य ब्रह्मण उपादानत्वे कर्त्रन्तरमपेक्षितं निमिस्सोपादानयोर्मे-
तदात्मान स्वयमकुरुत। अन्तरा[तमा]नमेषोपावानत्वेन स्वीकृत्य स्वयमेवाकुरुत। तस्मात्तत्सुकतमुच्यत इति। एस्मात्स्वयमेव स्वस्य कार्यमत एव बह्म सुकृतं सुद्भु कृतं कार्य यस्य तत्सुकृतं कार्यस्य सौष्ठवं चानतिकेशरूपत्वम्। स्वभिन्नस्य कार्यस्य निर्माणे हि क्वेशपसक्तिः। ततश्र 'अक्किष्टकाय ब्रह्मेति निश्वसितमेतन्म- इतो मूतस्य' [पृ० ४।२१०] इत्याविश्ुतयो धदन्तीत्यर्थः । मवतु तत्मु- तद्वै तत्मुछतम्। रसो वै सः । सुफृतमिति निर्षिटं बहम रस आनन्दः । रस हेवायं लब्ध्वाSSनन्दी भवति । तल्लामावस्याSSनन्दित्वं ततश् सस्थाऽडनन्दस्य प्राप्यत्वात्माप्यखोपा- स्थत्वे युक्त्ते इति भाव: । तवेषोपपादयति- को होवान्यात्क: प्राण्यात्। यदेष आकाश आनन्दो न स्यात्। एष ह्वेवाऽऽनन्दयाति। यद्ययमपरिच्छिन्नानन्दरसः परमात्मा न स्यात्सांसारिकमापवर्गिक वा सुखं क मापुयात्। अत एष झेवाऽनन्दयति। अतस्तस्य सर्वविधानन्द- हेतुत्वात्तस्य प्राप्यत्जमस्तीति माव:।
Page 232
[आन०अ७] आनन्दवलन्युपनिषत्। २२९
निरुक्त्ेऽनिलयनेऽअयं प्रतिष्ठां विन्द- ते। अथ सोऽअयं गतो भ्रवति। अवृश्ये चक्षरादिग्रहणानहै। आत्म्यं व्याप्यं शरीरमित्यर्थः। अनात्म्येऽ शरीर इत्यर्थः । अत एवानिरुक्ते जातिगुणादिवाचिदेवादिपदावारये। अनिलयने। आधारशून्ये। अमयममयाय। 'नाव्ययीभावात्' [पा० सू०२। ४ ।८३] इति चतुर्थ्या अम्भावः । अर्थाभावे यद्व्ययमित्यव्य- यीमावः समासः। अभयसाधनमूतां प्रतिष्ठा निरन्तरस्मृतिलक्षणां निष्ठा यो विनदते लभते सोडभयं प्राप्नोति। अत्र व्यासार्येरहृश्य इत्यचिद्या- वृत्तिः। अनात्म्य इति बद्धव्यादृत्तिः। तेषां हि परमात्मना व्याप्यत्वम्। यद्ाऽडत्म्यं व्याप्यं कर्मकृतं शरीरं तद्रहितोडनात्यः । अनिरुक्त इति मुक्तव्यावृत्तिः। स हि बद्धावस्थायां देवादिशव्दैरुक्तः । अनिलयन इत्ति नित्यमुक्तव्यावृत्तिः । तेषां हि भगवानाधार इत्युक्तम्। एवं विहिताया: प्रतिष्ठाया विच्छेदेऽनर्थ दर्शयति- यदा ह्वेवैष एतस्मिल्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। एष उपासकः। एतस्मिन्परमात्मनि ध्यानस्यान्तरं विष्छेदमुरमल्पमपि यः कुरुते सस्य भयमुन्दवतीत्यर्थः । पूर्ववाक्ये प्रतिष्ठाशद्देन निरन्तर- ध्यानवाचिना ध्यानगतनैरन्तर्यस्य विहितत्वादत्रान्तरशव्देनापि तस्पैव ध्यानगतनैरन्तर्यस्य विरोधिनो ध्यानविच्छेदस्य ग्रहणमुचितं न तु परोक्तरीत्या ब्रह्मण्यन्तरं भेवं यः कुरुते जानातीत्पर्थ उचित इति द्रष्टव्यम्। वस्तुतस्तु बह्मक्यवाविनामस्माकं ब्रह्मणि नानात्वनिषेधो न प्रतिकूलः। अस्मामिर्नानाब्रह्मवादस्यानभ्युपगमात्। तथाऽपि प्रकरणानु- गुण्यादुक्त एवार्थ उचित इति द्वष्ट्व्यम्। किं मय तत्राडह- ततत्वेव भयं विदुपोऽमन्वानस्य। विदुपो वह्मोपासननिष्ठस्य तदतिरिक्तविषयस्पृहया निरन्तरं मनन- मकुर्वतस्तदेवामननं मरं न हि तद्पेक्षयाऽन्यन्धयमस्ति। उक्तं च महर्षिमि :-
Page 233
२३० रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन०अ० <]
यन्मुहूस क्षणं वाऽपि वासुदेवो न चिन्त्यते। सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया॥
न शौरिचिन्ताविमुखजनसंवासवैशसम्॥ इति। तदप्येष श्लोको भवति। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्मवल्चध्याये सप्मोनुवाकः॥७॥
इति कृष्णयजुर्वेदीयतैसिरीयोपनिषदि ब्ह्मवह्व्यध्यायप्रकाशि- कायां सप्तमोऽनुषाकः॥७॥
भीपाऽस्माद्वातः पवते। भीषोदेति सूर्यः। भीषाऽ- स्मादग्निश्रवेन्द्रश्र्व । मृर्त्युधावति पश्चम इति । अग्रीन्द्रसूर्यप्रमुखा: सर्वेडपि देवप्रवराः परमात्मशासनातिवृत्तौ किं भविष्यतीति भीत्या स्वकर्मसु जागरूका भवन्ति। अतश्र ब्रह्मव्यति- रिक्तं कृत्समपि परं दुःखोदर्कत्वादनर्थरूपमेव। ततश्र ताद्ृशपदकामनया मननविच्छेदस्यात्यन्तमयावहत्वात्ततोऽपि न भयं किंचिवस्तीत्यर्थः। एवं ब्रह्मवेदनस्य जगत्कारणत्वतदौपयिकसार्वज्ञ्यादिगुणविशिष्टवि- घयकत्वमविच्छिन्नत्वं च विधाय प्राप्यस्याऽडनन्द्मयस्य ब्रह्मण आनन्द- मयशब्दपरवृत्तिनिमि त्तमानन्दपराचूर्यं दर्शयति- सैषाSSनन्दस्य मीमासा प्रवति॥ वक्ष्यमाणानन्दविषयकविचारो मवतीत्यर्थः । युवा स्यात्साधुयुवाऽध्यायकः । आशिष्ठो दृदिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्पात्। स एको मानुष आनन्दः । अत्र व्यासायैः, साधुयुवाऽध्यायकः। साधु यथाविधि सम्पक्संपदाध
Page 234
[आन ०अ० <] आनन्दवल्ल्युपनिषत्। २३१ सिद्धतया स्वरवर्णविभ्रंशरहितं वा। युवशब्देन प्रत्यग्रत्वं विवक्षितम्। भविस्मरणं नित्यं नवं यथा भवति तथाऽध्ययनवानित्यर्थः। यद्दा समवयस्कानां सर्वेषामध्यापकस्तद्धिकज्ञान इत्यर्थः । आशिष्ठ आशुत- रक्रिपः । यद्वा। अशनक्षमोऽरोग इत्यर्थः । यद्वा। आशीर्वाद्विषय- भूतसर्वानुरञ्ञक इत्यर्थः । सर्वान्वेवान्नमस्यन्तीति वत्। हिष्ठ इति। शरीरबलस्योक्तत्वात्। यद्वा हढिष्ठो दढतरो न त्वव्यवस्थितस्व- माव इत्यर्थः । बलिष्ठः शारीरमानससर्वविधबलवान। वित्तस्य पूर्णा विप्तेन पूर्णा। पूरणगुणसुहितार्थेति तृप्त्यर्थयोगे षध््या अनुज्ञानात्। एवं गुणसमुदायं विभूतिपौष्कल्यं चोक्त्वा 'स एको मानुष आनन्दः' इति भ्ुत्या तस्यैवाSSनन्दत्वमुक्तम्। न च ज्ञानभिन्नस्य गुणविभूत्यादेः कथमानन्दृत्वमिति शङ्क्यम्। अनुकूलत्वं ह्यानन्दृत्वं तञ्च स्वत एवेष्टत्वं तञ्च गुणविभूत्योरपि संभवति तद्विषयज्ञानस्याप्यनुकूलत्वं विषयानुरूप- त्वमेवेत्यन्वयव्यतिरेकसिद्धम्। अतः श्रुतिस्वारस्याद्रुणविभत्यादेरानन्द त्वम्। श्रोत्रियो बह्मनिष्ठोऽकामहतः समस्तसांसारिकभोगानुपहतोऽतो मुक्त इत्युथ्यत इत्युक्तम्। एवं च युवत्वदृढ़गातरत्वसौन्दर्यज्ञानवलैश्वर्या- दय: संभूय यत्र भवन्ति स एको मानुष आनन्दः । अकामहृतश्रोत्रि- यस्य मुक्तस्यापि स आनन्दोऽस्ति मुक्तस्य सर्वानन्दानुभवशालितया तत्र मानुषानन्दस्यान्तर्गतत्वादिति माव:। ते ये शत मानुषा आनन्दाः(१)स एको मनुष्यग- न्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवगन्धर्वाणामानन्दाः।स एक: पितृणां चिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामह- तस्य। ते ये शतं पितृणां चिरलोकलोकानामा- नन्दाः । स एक आजानजानां देवानामानन्दः (२ ) । श्रोत्रियस्य चाकामहतस्य। ते ये शत- माजानजानां देवानामानन्दाः । स एक: कर्म-
Page 235
२३२ रङ्गनरामानुज विर चित प्रकाशिकोषेता- [आान ०अ० <]
देवानां देवानामानन्दः।ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः।श्रोत्रि- यस्य चाकामहतस्य। ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽडनन्द: (३) । श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्याऽSनन्दाः । स एको बृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापते- रानन्दः । शोत्रियस्य चाकामहतस्य ॥ १०॥ ये मनुष्या एव सन्तः कर्मविशेषेण विद्याविशेषेण वाऽन्तर्धानादिश- क्त्युपेततया गन्धर्वत्वं प्राप्तास्ते मनुष्यगधर्वाः। अन्तरिक्षलोकवासिनो देवगन्धर्वाः। चिरकालावस्थायिलोकथ्विरलोकः। चिरलोको लोको येषां ते चिरलोकलोकाः पितरः । अजानो वेवलोकः। तत्र जाता आजानजा: स्मार्तकर्मविशेषतो देवस्थानेषु जाता इत्यर्थः । अग्निहोत्रा- दिकर्मणाSग्रीन्ट्रादिसायुज्यं पाप्ताः कर्मदेवाः । वेवास्तु वसुरुद्वाद्यरतय- स्तिरिंशद्ध विर्भुजः । इन्द्रबृहस्पती प्रसिद्धौ प्रजापतिश्वरतुर्मुखः । न तु दक्षाद्यः । एकवचनश्रवणात्। ते ये शतं प्रजापतेरनन्दाः।स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य (४)। अत्र ब्ह्मशब्दो ब्रह्मविदाप्ोति परमिति प्रकृतब्रह्मपरः । न च ब्रह्मानन्दस्य ते ये शतमिति परिष्छिन्नत्वं कथमिति शबचम्। क्षणार्घेन बहूनि योजनानि गच्छति रवाविषुवद्वच्छति सवितेतीषुसाम्य- प्रतिपादकवचनस्य हि मान्यनिवृत्तिपरत्ववसे ये शतमिति वाक्यस्यापि चतुर्मुखानन्दाधिक्यमात्रपरत्वेन शतगुणितचतुर्मुखानन्दान्न्यूनाधिकप- रत्वामावात्। एवंभूतानन्दमयो यो वेद निहितं गहायामिति हृदयगुहानिहित-
Page 236
[आन० अ० <] २३३
त्वेनोपास्यमान: कीहशविग्रहविशेषविशिष्टः को वा देवताविशेष इत्या- काङक्षायामाह- स यश्रायं पुरुषे। यश्षासावादित्ये। स एकः । य एपोऽन्तरादित्ये हिरण्मय: पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः। तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नामेति [छा०१। ६।६।७] आदित्यमण्डलान्तर्वर्तिक- मनीयविग्रहयुक्तो यः पुण्डरीकाक्ष: स एव हृद्यगुहावर्तिविज्ञानमया- दन्तरः। ततश्र पुण्डरीकाक्षत्वादिविग्रहयुतो नारयण एवेत्यर्थः। ततश्र ताद्वृशविग्रहविशिष्टत्वेन हृदयगुहावर्तिनो भगवतो ध्यानं कर्तव्यमिति फलितार्थः। अत्र सच्च त्यञ्चाभवदिति चिद्चिच्छरीरकत्वेनानुसंधान- सुक्तं सत्यं ज्ञानमिति स्वरूपेणानुसंधानमुक्त तञ्व स्वरूपेणानुसंधान- मादित्यमण्डलान्तर्वर्तिपुण्डरीकाक्षविग्रहविशिष्टतया चोक्तं भवतीति जीवमुख्यप्राणलिङ्गादिति चेन्नोपासात्ैविध्यादिति सूत्रे [ब० सू० १। १। ३१ ] भगवता भाष्यकृता तदिदं त्रिविधं ब्रह्मानुसंधानं प्रकरणान्त- रेष्वप्याश्रितम्।'सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिषु स्वरूपेणानुसंधानम्। तत्सृहूवा तदेवानुप्राविशत्तदनुपविश्य सच्च त्यच्चाभवदिति भोकतशरी-
एवं प्राप्यस्य प्राप्यत्वोपयुक्तमुताविद्वानसुं लोकभित्वादिनोपक्षिप्तानां प्रश्नानामुत्तरमाह- स य एवंवित्। अस्माल्ोकात्प्रेत्य। एतमन्नमयमात्मान- मुपसंक्रामति। एतं प्राणमयमात्मानमुपसंकामति। एतं मनोमयमात्मानमुपसंकामति।एतं विज्ञानमयमात्मा- नमुपसंक्रामति। एतमानन्दमयमात्मानमुपसंक्रामति। अस्मालोकात्प्रेत्येत्यनेन सर्वेषां ब्रह्मविदामर्चिरादिमार्ग उक्तो भवति। आनन्द्मयमात्मानमुपसंक्रामतीति मुक्तिदशायां जीवब्रह्मणोरुपास्यो- पासकयोभोक्तृभोग्यभावप्रतिपादनान्मुक्तौ ब्रह्मैक्यपक्षो व्युदस्तो भवति। एतमन्नमयमित्यादिपञ्चस्वपि पर्यायेष्वेतच्छव्दः परमात्मपरः । अन्न- मयप्राणमयमनोमयविज्ञानमयशब्दास्तच्छरीरकपरमात्मपराः। अत्र व्यासार्य: सर्वोऽपि विद्वानस्मालोकात्मेत्यान्नमयादिसमष्टिव्यष्टिविभू- 3n
Page 237
२३४ रङ्गरामानुजविरचितप्रकाशिकोषेता- [आन०अ० <]
तिकं निरतिशयानन्दं परमात्मानं भोग्यभूतं भोक्ता सन्ननुभवंतीति प्रश्नस्योत्तरमुक्तं भवतीत्युक्तं भवति। अभयं प्रतिष्ठां विन्दुते। अथ सोऽभयं गतो भवतीत्युक्तार्थे साक्षित्वेन श्लोकं पठति- तदप्येष श्लोको भ्रवति। इति कष्णय जुर्वेदीयतैत्तिरीयोपनिषदि बह्मवह्लचव्यायेS- प्टमोऽनुवाक: ॥८ ।
यतो वाचो निवर्तन्ते।अप्राप्य मनसा सह।आनन्दं ब्रह्मणो विद्वान्। न विभेति कुतश्र्नेति। वाऊनसे आनन्दस्येयत्तालक्षणं पारं गन्तुं प्रवृत्ते तदप्राप्येव निवृत्ते भवतः। तादृशानन्दगुणकबह्मोपासनेन सर्वकेशभयात्यन्तिक निवृत्तिर्भ- वतीत्यर्थः । तदेषोपपाद्यति- एन५ ह वाब न तपति। किमह साधु नाकरवम्। किमहं पापमकरवमिति। स्वर्गादिहेतुकं सुकृतं नाकार्ष नरकादिहेतुभूतं दुष्कृतमकार्षमिती- हशी चिन्तेतं ब्रह्मविदं न बाधते स्वर्गादिलोकेच्छाया अभावात्। बरह्मज्ञानद्ग्धपापतया नरकादिकस्याप्यभावात्। एतादृशं ब्रह्मविद्यापयुक्तमाहात्म्यमपि ध्येयमित्याह- स य एवं विद्वानेते आत्मान स्पृणुते। एते एताभ्यां पुण्यपापाभ्यामात्मानं स्पृणुते रक्षतीत्यर्थः। पुण्यपाप- फलानुभवो नास्तीत्युक्तं भवति। उभे ह्वेवेष एते आत्मान स्पृणुते। य एवं वेद। पुनर्षचनं पुण्यपापविधूननध्यानसातत्यतात्पर्यद्योतनायानुवाकसमा- सिद्योतनाय।
Page 238
[आन ० अ० ९] आनन्द्वल्युपनिषत्। २३५
इत्युपनिषत् । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि बह्मवल्व्यध्याये नवमोऽनुवाकः ॥९॥ इढं परमरहस्यरूपोपदेशयोग्यायैव वत्तव्यमिति भावः । इंद च प्रक- रणं समन्वयाध्याये प्रथमपादे चिन्तितम्-'तस्माद्वा एतस्माद्विज्ञान- मयादन्योऽन्तर आत्माऽडनन्दमयः'[तै०२।५] इति ध्रुत आमन्द- मयो जीव एव । नित्यं वृद्धशरादिभ्यः [ पा० सू० १ । ४ । १४४ ] इति वृद्धानन्दाद्विकारार्थे मयद्प्रत्ययस्य विधानेनाविकारे परमात्मनि मयट्रप्रत्ययाथसिंभवाच्छारीर इति शरीरसंबन्धश्रवणादन्नमयप्राणमय- मनोमयविज्ञानमयानन्दमयाः शुध्यन्तामित्यानन्दमयस्य शोध्यत्वश्रव- णाम्नित्यशुद्धस्य परमात्मनः शोध्यत्वासंभवादानन्दुमयो जीव एवेति प्राप्त उच्यते-'आनन्द्मयोऽभ्यासात्।'[त० सू० १। १ ।१२] आनन्दमयः परमात्मा कुतोऽम्यासात। निरतिशयदशाशिरस्कतया ते ये शतमित्यभ्यस्यमानस्यापरिच्छिन्नानन्दस्य परिमितसुखलवभागिनि जीवेऽसंभवात्। विकारशव्दान्नेति चेन्न प्राचुर्यात्। विकारवाचिमय- द्रप्रत्ययश्रवणादानन्दमचो जीव इति चेन्नात्र विकारवाची मयट्प्रत्ययः । 'मयहुतयोर्भाषायामभक्ष्याच्छादनयोः [पा० सू० ४। ३। १४३] इति पूर्वसूत्रान्नित्यं वृद्धशरादिम्यः [ पा०सू० ४ । ३ । १४४ इत्यत्र भाषायामित्यनुवृत्तेर्विकारावयवयोर्मयद्प्रत्ययस्य माषाविषयत्वेन च्छन्दसि विकारार्थे मयटोऽसंभवात्। 'यस्य पर्णमयी' इत्यादो तु 'द्यच- शछन्दसि [ पा० सू० ४।३।१५०] इति विधानबलादुपपद्यते । प्रकृते त्वानन्दपदस्य द्यच्त्वाभावेन न मयट्प्रत्ययसंभवः । अत आन- न्दमय इत्यत्र मयट्प्रत्ययस्य 'तत्प्रकृतवचने मयटू' [पा० सू० ५।४। २१ ] इति सूतविहितत्वात्पराचुर्यार्थमयट्प्रत्यय एव। अतश्राSSनन्द- प्रचुरतं परमात्मनः संभवतीति परमात्मैवाऽडनन्दमयः । ननु ब्राह्मण- प्रचुरो ग्राम इत्युक्ते तस्मिन्ग्रामेडब्राह्मणानामप्यल्पानां सत्त्वं प्रतीयते। एवमिहापि ब्रह्मण आनन्दप्राचुर्ये कथितेऽनानन्दस्यापि लेशतः स्त्त्वं प्रतीयत इति दुःखलेशशून्ये परमात्मन्यानन्दप्राच्ुर्योकिरषि न संभव- तीतिचेतु। नैवम्। प्रचुरप्रकाशः सवितेत्यत्र सवितुः प्रकाशप्राचुर्ये कथिते तद्विरोधितमोल्पत्वस्य तत्राप्रतीतेः।न हि सवितरि तमोलेशस्यापि संभावनाऽस्ति। अतस्तत्र यथा सवितरि प्रकाशप्राच्ुर्यं व्यधिकरणच- न्द्रादिगतप्रकाशाल्पत्वापेक्षं न तु समानाधिकरणादित्यगततमोल्पत्ना- पेक्षम्। एवं ब्रह्मण्यानन्दप्राचुर्यमापे व्य.धेकरणजीवगतानन्दाल्पत्वापे-
Page 239
२३६ रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन०अ०९]
क्षमेव न तु समानाधिकरणव्रह्मगतस्वविजातीयदुःखाल्पत्वापेक्षमतो ब्रह्मण्यानन्दप्राचुर्ये नानुपपत्तिः। 'तद्धेतुव्यपदेशाच्च।'[त० सू० १। १।१४] ' एष ह्येवाऽडनन्दयाति' [तै०२। ७] इत्यानन्दमयस्य जीवानन्दयितृत्वं व्यपदिश्यते। अत आनन्दयितव्याज्जीवानन्दयिताऽन्य एव। 'मान्त्रवर्णिकमेव च गीयते' [ब०सू०१।१।१५]'सत्यं ज्ञानम- नन्तं ब्रह्म' इति मन्त्रवर्णोदितं ब्रह्मैव। 'तस्माद्वा एतस्मादात्मन आकाशः संभूत:' [तै० २।१ ] इत्यादिनाSडकाशािकारणत्वेनाSSनन्दमयत्वेन च गीयते। न च सत्यज्ञानत्वादिकं सविकारस्य संकुचितज्ञानस्य जीवस्य संभवति। ननु परिशुद्धस्वरूपस्य मन्त्रवर्णोदितसत्यज्ञानादिकं सविकारस्य संकुचितज्ञानस्य संभवतीति चेत्तत्राऽऽह-'नेतरोऽनुपपत्तेः।' [त० सू० १।१।१६] इतरो मुक्तोऽपि जीवो नात्र प्रतिपाद्योऽनु-
प्रकरणप्रतिपादितानां धर्माणां परमात्मव्यतिरिक्तेऽनुपपत्तेः । 'भेदव्य- पदेशाझ।' [ब० सू०१।१।१७]'तस्माद्वा एतस्माद्विज्ञानम यात्। अन्योऽन्तर आत्माऽडनन्दमयः' इति विज्ञानश्दितबद्धमु- क्ात्मकसकलजीवभेदव्यपदेशाञ्च न मुक्तात्मेह प्रतिपाद्यः।'कामाच् नानुमानापेक्षा।' [ब० सू०१।१।१८] 'सोऽकामयत बहु स्यां प्रजायेयेति' [तै० २। ६] कामनामात्रादेवाऽडनुमानिकप्रधाननिरपे- क्षजगत्सषटृत्वप्रतीतेर्न जीव आनन्द्मयः। अस्मिन्नस्य च तद्योगं शास्ति। [त० सू० १।१।१९]अस्मिन्नानन्दमये लब्धे सत्यस्य जीवस्याSS- नन्दयोगं 'रस ह्येवायं लब्ध्वाSडनन्दी भवति' [ते० २। ७] इति शास्त्रं शास्ति। अतो जीवानन्दहेतुभूतलाभकर्मभूतस्य ब्रह्मणो न जीवाभेद उपपद्यते। ननु नाऽडनन्दमयस्य ब्रह्मत्वमुपपद्यते 'ब्रह्मपुच्छं प्रतिष्ठेति' तदाधारभूततया तत्पुच्छत्वेन च निर्दिटस्येव ब्रह्मत्वेनाभि- धानात्। आनन्दमयस्यैव प्रधानप्रतिपाद्यत्वे 'असन्नेव स भवतीति' [ते० २। ६] तत्पर्यायोक्तश्लोकोऽप्यानन्दमयविषय एव स्यात्। न च तस्मिञश्लोक आनन्दमयस्य निर्देशो हष्टः। तत्र ब्रह्मशब्दस्येव श्रवणात्। अतः पुच्छमेव ब्रह्म नाऽडनन्दमय इति चेन्न। आनन्द्मयस्यैव ब्ह्मणः कयाचन भेदविवक्षयाऽवयवावयविभावेन निर्देशोपपत्तेः। इतरथाऽडनन्द आत्मेति मध्यमावयवत्वेन निर्दिष्ट- स्याऽडनन्दमयस्यापि पुच्छत्वेन निर्दिष्टव्ह्मणो भेद: प्रसज्येत। मध्य- मावयवपुच्छयोर्भेदावश्यंभावात्। न चेष्टापत्तिः। ब्रह्मणोडनानन्दरू-
Page 240
[आन ०अ० ९] आनन्दवल्युपनिषत्। २३७
पत्वप्रसङ्गात्। यदि च कयाचन भेदविवक्षयैकस्यैव ब्रह्मणः पुच्छत्व- मध्यमाङ्गत्वनिरूपणं तर्ह्यवयवावयविभावभेदकल्पनमप्यभेदेऽपि संगच्छत इति नाऽडनन्दमयब्रह्मणोर्भेदप्रसक्तिः। न चाऽडनन्दमयस्य ब्रह्मत्व आन- न्दमया मे शुध्यन्तामिति शोध्यत्वमनुपपन्नमिति वाच्यम्। शोध्यत्वस्य प्रसाद्यत्वरूपतया भक्तिप्रपत्तिलक्षणोपायवशेन शान्तकोपत्वलक्षणप्रसाद- विशिष्टत्वरूपेण साध्यत्वसंभवेन शोध्यत्वस्यापि संभवात्। आनन्द- मयस्यावह्मत्वे चाऽऽनन्द्मयोऽभ्यासादित्या दिसूत्रगणस्यासंबद्धप्रलापत्वं स्यादित्यास्तां तावत् ॥ तथा गुणोपसंहारपादे यथा विद्यान्तरे श्रुतानां संयद्वामत्वादीनां न विद्यान्तर उपसंहारस्तथा तस्य ज्ञानत्वादीनामपि विद्याविशेषप्रकरणश्रुतानां न विद्यान्तर उपसंहारः प्रापकाभावादिति पूर्वपक्षे प्राप्त उच्यते-आनन्दादयः प्रधानस्य [ब० सू० ३३।११] गुणिनो ब्रह्मण: सर्वेषूपासनेष्वभेदाद्गुण्यपृथग्भूतानामानन्दादीनां गुणा- नामपि सर्वेषपासनेषूपसंहारः। नन्वेवं तस्य पियमेव शिर इत्यादिषु, श्रुतानां प्नियशिरस्त्वादिगृणानामपि सर्वेपपसंहारः प्राप्नोति तत्राSSह- 'प्रियशिरस्त्वाद्यपाप्तिरुपचयापचर्यौ हि भेदे' [ब० सू० ३।३।१२] प्रिय- शिरस्त्वादीनां ब्रह्मणो बुद्धच्युपारोहाय कल्पितत्वेन ब्रह्मगुणत्वाभावा- न्नोपासनान्तरे तस्य प्राप्तिः । यदि हवि ब्रह्मणः शिरःपक्षपुच्छाद्यवयव- भेद: स्यात्ताहि ब्ह्मणो मध्यप्रदेश उपचयः शिरप्रदेशेऽपचय इत्या- दिकं पक्षिवत्प्रसज्येत। न चानन्तस्य ब्रह्मणस्तदुपपद्यते। ननु प्रियशिरस्त्वा- दीनां ब्रह्मगुणतया सर्वविद्योपसंहाराप्राप्तावपि संयद्दामत्वादीनां ब्रह्म- गुणानां सर्वविद्यासूपसंहारः प्रन्नोति ब्रह्मगुणानामानन्त्येनोपसंहारोऽ- शक्यश्र तत्राऽऽह-'इतरे त्वर्थसामान्यात्।' [त० सू० ३।३।१३] इतरे
परविद्यासूपसंहर्तव्याः । ततश्र स्वरूपनिरूपका धर्माः सत्यत्वज्ञानत्वान- न्दत्वाद्य: सर्वासु परविद्यासूपसंहर्तव्याः। निरूपितस्वरूपधर्माः सत्यका- मत्वादयो न सर्वासु विद्यासूपसंहर्तव्याः। ननु प्रियशिरस्त्वादीनां वस्तुतो ब्रह्मधर्मत्वाभावे तदुपदेश: किमर्थमित्यत्राSSह-'आध्यानाय प्रयोजनाभा- वात्'। [ब०सू०३।३।१४]आध्यानाय बुद्ध्यारोहाय प्रियशिरस्त्वादिरुप उपदिश्यन्ते प्रयोजनान्तरस्वामावात्। 'आत्मशब्दाच्च' [त्० सू० ३।३। १५]'अन्योऽन्तर आत्माऽडनन्दमयः' इत्यानन्द्मयस्याऽडतमशब्देन निर्दे- शादात्मनश्र शिरःपक्षपुच्छाद्यसंभवात्प्रियशिरस्त्वादिकं बुध्धारोहाय
Page 241
२३८ रङ्गरामानुजविरचितप्रकाशिकोपेता- [आन ० अ ० ९]
कल्पितमित्येषावसीयते। ननु 'अन्योऽन्तर आत्मा प्राणमयः' [तै०२२] इत्यात्मशब्दस्यानात्मस्वपि पूर्व प्रयुक्तत्वादन्योऽन्तर आत्माSडनन्दमय
रितरवदुत्तरात्'। [ब० सू० ३।३।१६] अन्योऽन्तर आत्माSडनन्दमय इत्यत्राऽडत्मशब्डस्य परमात्मन एव ग्रहणमितरवत्। यथेतरत्राSडत्मा वा हद्मेक एवाग्र आसीत। [ऐ०१।१]स ईक्षत लोकान्तु सृजा इत्या- दिष्यात्मशब्देन परमात्मन एव ग्रहणं तद्दत् । कुत एतत्। उत्तरात्। सोडकामयत बहु स्यां प्रजायेयेति आनन्दमयविपयादुत्तरवाक्यात्। 'अन्वयादिति चत्स्याद्वधारणात्। [त० सू० ३। ३। १७] पूर्वत्र
दृवधारणात्स्यादेव निश्चयः कुतोऽवधारणात्। पूर्वत्रापि 'तस्माछवा एतस्मादात्मन आकाश: संभूतः '[तै० २।१] इति परमात्मन एव बुध्ध्यामवधारितत्वात्। अन्नमयानन्तरे प्राणमये प्रथमं परमात्मबुद्धि- -रवतीरणा तदनन्तरं च प्राणमयानन्तरे मनोमये ततो विज्ञानमये तत आनन्दमये प्रक्रान्ता परमात्मबुद्धिस्तदनन्तरभावात्तद्ुत्तराच्च सोडकाम- यतेति वाक्यात्प्रतिष्ठितेत्युपक्रमेडप्यपरमात्मबुध्या शब्दान्वय इति निरव- द्यम्। न चाSडनन्द्मपेSपि परमात्मबुध्य्याSत्मशब्प्रयोगोऽस्त्विति
ह्मस्वरूपप्रतिपत्तिकाले सत्यत्वज्ञानत्वादीनां न् प्रतीयमानत्वनियम: संभ वति। अस्थूलत्वादिना वाऽन्तर्यामित्वजगत्कारणत्वलक्ष्मीपतित्वनिरुप- घिकसर्वज्ञत्वादिभिर्वेतरव्यावृत्तब्रह्मस्वरूपप्रतीतेः संभवात्।अत आनन्दा- दीनां सत्यकामत्वसंयद्वामत्वादीनां च वैषम्यं दुर्विवेचमिति चेत्। अत्र केचित्। धर्मा हि द्विविधा विशेष्यस्वरूपनिष्ठा विशिष्टस्वरूपनिष्ठाश्र। ये विशेष्यस्वरूपनिष्ठा आनन्दादयस्ते सर्वानुयायिन इतरे तुव्यवस्थिता:। जगत्कारणत्वस्य प्रकृतिपुरुषकालविशिष्टलक्षणतया तदुपयुक्तसार्वज्या- देरपि तथात्वान्न सर्वानुयायित्वम्।अयंभावः। केचिद्दर्माः स्वरूपपयुक्ताः सततेकरूपा निर्विकाराः । अत एव- यञ्च कालान्तरेणापि नान्यसंज्ञामुपैति वै। परिणामादिसंभूतां तद्वस्तु नृप तञ्च किम् ॥ अनाशी परमार्थश्र प्राज्ञरम्युपगम्यते। इत्यादिभिरुपपादिता: परमार्थशब्दवाच्यभावाः सर्वज्ञत्वसर्वनियन्तृ-
Page 242
[आन ०अ० ९] आनन्द्वल्ल्युपनिषत्। २३९
त्वादिविलक्षणास्ते सर्वविद्यानुयायिनः । संयद्वामत्वसर्वज्ञत्वाद्यस्तु धर्मा: स्वरूपव्यतिरिक्ता: सततैकरूपत्वशून्यप्रकृतितत्कार्यजीवकालेश्वर- धर्मभूतज्ञानघटिता न ते एकरूपा: । ईश्वरधर्मभूतज्ञामस्यापि नानावि-
न्नधर्माः । अत एव पररण्यानन्द्ो विषयानुभवो नित्यत्वं चेति सन्ति o धर्मास्ते चापृथक्त्वात्तत्तद्घटितधर्माणामपि नैकरूपत्वमत एव न परमा- र्थशब्दितत्वं च। अतस्तेरषा न सर्वानुयायित्वम्। ज्ञानत्वानन्तत्वसत्य- त्वादीनां तुन तथेति वैषम्यमाहु।अन्ये तु स्वरूपप्रतीत्यन्तर्गता धर्माः सर्वविद्यानुयायिनः। स्वरूपप्रतीत्यन्तर्गतत्वं स्वरूपान्तर्गतत्वमेव। ज्ञान- त्वानन्दत्वाद्यस्तु स्वरूपाभिन्नधर्माः । अत एव पररव्यानन्दो विषया नुभवो नित्यत्वं चेति सन्ति धर्मास्ते चापृथकत्वेऽपि पृथगिवाऽडमासन्त इत्युक्तम्। ततश्र ये स्वरूपाभिन्नधमास्ति सर्वविद्यानुयायिनः। सर्वज्ञत्व- सर्गकर्तृत्वाद्यस्तु धर्मभूतज्ञानक्रियादिरूपा धर्मिस्वरूपभिन्ना इति न सर्वानुयायिनः । अपरे तु स्वरूपोपदेशपरवाक्यप्रतिपन्ञानां सर्वविद्यानु- यायित्वं नोपासनोपदिष्टानाम्। न च यः सर्वज्ञः सर्वविवित्याविषु स्वरूपोपदेशवाक्यप्रतिपन्नतया सार्वश्यादीनामपि सर्वविद्यानुयायित्व- प्रसङ्ग इतिवाच्यम्। तस्याप्युपासनविध्यश्रवणेऽपि तत्परत्वात्। 'अत एव संभृतिद्युव्याप्त्यपि चातः [ब०सू० ३।३। २३] इत्यधिकरणेS- नारम्य श्रुतानामश्ुतोपासनविधीनामप्युपासनार्थत्वं सिद्धवत्कृत्यैव किं सर्वविद्यानिवेश उताल्पायतनव्यतिरि[क्त]स्त्विति चिन्ता प्रवर्तिता। न चैवमुपासनार्थत्वे सार्वइ्यादीनामपारमार्थ्यप्रसङ्ग इति वाच्यम्। बाध- काभावेन सत्यत्वात्। अत एव ध्यानार्थेऽपि गुणोपदेशे तह्रुणक ईश्वरः सिध्यतीति व्यतिहारसूवे शंकरभाष्येप्युक्तम। इतरथा परमते सत्य-
दित्याहुः । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि ब्रह्मवल्व्यव्यायप्रकाशि- कार्या नवमोऽनुबाकः॥९॥
इति ब्रह्मवल्यध्यायः समाप्तः ।
Page 243
२४० रङ्गरामानुजविरचितप्रकाशिकोपेता- [भृगु • अ० १] अथ लक्षणान्तरमुखेन (ण) ब्रह्म प्रतिपादयितुं ब्रह्मप्रतिपत्ती तपोनि- हृतकल्मषान्त:करणस्य हेतुत्वमिति प्रतिपादनाय च भृगुवल्यारभ्यते- भृगुर्वै वारुणिः । वरुणं पितरमुपस- सार। अधीहि भगवो ब्रह्मेति। वरुणसुतो भृगुः पितरं वरुणमधीहि भगवो ब्रह्मेतिमन्त्रपूर्वकमुप- सन्न इत्यर्थः । हे भगवन्पूजारह ब्रह्माधीहि उपदेशाय स्मराधीप्वेति वाऽध्यापयेति वार्डर्थः । तस्मा एतत्पोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति तश होवाच। अन्नं बह्म प्राणो ब्रह्मेत्यादिकं तन्मनःशोधनायोपदिश्य किं सर्वा- • ण्यर्षि म्रह्माणि उतैकं तव्रापि किं वा ब्रह्मेति व्याकुलचेतसं पुत्रमा- लोक्य वक्ष्यमाणमुवाचेत्यर्थः । यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्पयन्त्यभिसंवि- शन्ति। तद्विजिज्ञासस्व । तद्वह्नेति। जीवन्ति आत्मभूतेन जीवन्तीत्यर्थः। यत्प्रयन्ति सन्ति मूतानि यदमिसं- विशन्ति लीयमानानि सन्ति यद्भिसंविशन्ति लीयन्ते। समित्येकी करणे। एकीकृततया प्रवेश: संवेशः। यद्वा यन्तीति मोक्षः। अभिसंविशन्तीति प्लयः। अस्मिन्पक्षे यच्छब्दस्याऽडवृत्तिः । 'यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयम्स्यभिसंविशन्ति '[ते० ३१] इत्यत्र प्रतिवाक्यं तद्गह्वेत्यनुक्तेरन जगज्जन्मादि प्रत्येकं लक्षणम्। प्रत्येक- लक्षणत्वे लक्षणान्तरवैयर्थ्यप्रसङ्गाच्च। अतः समुदितमेव लक्षण्। न च जन्मादिसमुदायस्य लक्षणत्वे व्यावृत्त्यभावेन निष्पयोजनत्वमू। लक्ष्याकारविपरीतश ङ्गानिवारणपरत्वेन सप्रयोजनत्वात्। उत्पत्तिकार-
शङ्कया जगज्जन्ममात्रकारणस्य ब्रह्मणो निरतिशयवृहत्त्वं न सिध्येत्। तथा लयकार[ण] त्वानभिधान आत्यन्तिकलयरूपमोक्षप्रदान्तरसन्भ्ा-
Page 244
[भृगु ०अ०१] भृगुवह्मयुपनिषत्। २४१ वशक्कया मोक्षप्रदत्वप्राप्यत्वानुगुणगणैबृहत्त्त्वं न सिध्येत् । अतो जगजा- न्मादिकारणत्वमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेऽपि जन्मादिका- रणसमुदायस्यैव बृहत्त्वातिशयौपयिकत्वात्सृष्टिस्थितिप्रलयसमुदायकार- णत्वं लक्षणमिति ज्ञापितम्। यतो येन यदिति यद्वृत्तयोगात्कारणमनू- द्यते तद्वह्मेति कारणस्य ब्रह्मत्वं विधीयते तेन कारणत्वस्य ब्रह्मलक्षणत्वं सिद्धं भवति 'तद्विजिज्ञासस्व' इति न विचारस्योपासनस्य वा विधिः । चिचारात्मकज्ञानं रागप्राप्तत्वान्न विधेयम्। उपासनात्मकस्य तु ज्ञानस्य 'ब्रह्मविदानोति' [तै० २।१] इति प्राकारणिकवाक्यान्तरसिद्धत्वात्। उपक्रमे'अधीहि भगवो ब्रह्म' [तै०३।१] इति प्रश्नस्यातत्त्वपरत्वेनोपाय- विषयत्वाभावाच्च मोपासनाज्ञानमिह विधेयम्। अतो 'विजिज्ञासस्व' इत्युपदिश्यमानेऽर्थे सावधानत्वार्थ संदेहनिवृत्त्यर्थं चोक्तम्। या गन्धवती तां पृथिवीं विद्धीतिवत्। अतः कारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम्। यथा यत्र सारसः स देवदृत्त केदार इत्युक्त सारस- संबन्धस्य देवदृत्तकेदारलक्षणत्वमेवोक्तं स्यासद्वदिति व्यासार्येरुक्तम् । नन्वीश्वरस्य लिलक्षयिषितत्वे तर्हि तद्साधारणसर्वज्ञत्वादिप्रतिपादक- सत्यज्ञानादिवाक्यानादरेण जन्मादिकारणत्वेन किमर्थं लक्ष्यत इति चेदुच्यते। गुणैः स्वरूपस्य लक्ष्यत्वे तद्पेक्षया बहिष्ठाया विभूतेरुपा- स्यान्तर्मावो न प्रतीयेत सर्गादिविषयभूतया तु विभूत्या स्वरूपे लक्ष्य- माणे विभूते: सर्गाद्यीपयिकसर्वज्ञत्वादिगुणानामपि जिज्ञास्यान्तर्भावः सिध्यति विभूतेश्र जिज्ञास्यान्तर्भाव उपासात्रैविध्यादिति सूत्रितः ।- नन्वेवमपि कृत्स्विभूतेजिज्ञास्यान्तर्भावो न सिध्यति त्रिपाद्विभूतेर्ज -- न्माद्यस्पृष्टत्वादिति चेन्न। प्रयन्तीति प्रलयवाक्यस्थ यच्छव्देन मुक्तपाप्यस्य ब्रह्मणो विवक्षितत्वान्नित्य[ वि]भूतिविशिष्टस्यैव मुक्तस्य प्राप्यत्वा- न्नित्यविभूतरपि जिज्ञास्यत्वसिद्धिः। एवं च जगत्कारणत्वलक्षणं विशिष्टनिषठं सत्यज्ञानत्वलक्षणं तु विशेष्यनिष्ठमिति भिदा। एषमेव व्यासारयेरुक्तम्। अत्र यत इति पश्चमी हेत्वर्थिका यच्छव्दस्यानुवाद- रूपत्वात्। अनुवादस्य व प्रापकवाक्यसापेक्षतया त[ द्विरुद्धा ]थिपर- त्वासंमवात्। प्रापकवाक्येपु 'एकमेवाद्वितीयं' [छा०६। २।१ ] 'तदै- क्षत' 'बहु स्यां तत्तेजोऽसृजत' इति निमित्तत्वोपादानत्वयोः प्रति- पाठनात्तदनुवादिलक्षणवाक्ये यत इति पदमुभयविषयकमिति व्यासार्ये- ३१
Page 245
२४२ रङ्गरामानुजविरचित प्रकाशिकोपेता- [भृगु ०अ० २]
रुक्तम। न च हेतौ पञ्चमी नानुशिष्टेति शङ्कचम्। अइउणिति सूत्रे विवारभेदादिति भाष्यनिर्देशेन 'विभाषागुणेऽस्त्रियाम्' [पा०सू० २३। २५ ] इत्यत्र विभाषेति योगविभागस्याऽडश्रिततया ततो हेतुपञ्चम्युपप- त्तेरिति द्रष्टव्यम्। इदं च चिन्तितम् 'जन्माद्यस्य यतः' [त्०सू०११।२] इति सूत्रे 'यतो वा इमानि भूतानि जायन्ते' 'येन जातानि जीवन्ति' [तै०३२] इत्यत्र जगज्जन्मादयो न विशेषत्वेन ब्रह्म लक्षयितुं शक्नु- वन्ति विशेषणानां व्यावर्तकस्वभावत्वेन व्यावर्तकबछुत्वे व्यावर्स्यबद्ग- त्वावश्यंभावेन विशेषणानां बहुत्वे विशेष्यनानात्वप्रसङ्गात्। खण्डो मुण्डः पूर्णशृङ्गे गौरित्यत्र विशेषणबहुत्वेन विशेष्यबहुत्वस्य दर्शनात्। नच देवदत्तः श्यामो युवा समपरिमाण इत्यादी विशेषणबहुत्वे विशेष्यैक्यं दृष्टमिति वाष्यम्। प्रत्यक्षावगतविशेपक्यवलात्तत्र विशेष्यभेदत्यागेऽपि
व्यभेदस्व त्यागायोगात्। नाप्युपलक्षणतया जन्मादीनां व्यावर्तकत्वम्। यत्रायं सारसः स देवदत्तकंदार इत्यादो केदारत्वादिना केनचिदाकारेण पूर्वप्रतिपक्ष एव केदारो देवदत्तकेदारत्वरूपधर्मान्तरवत्तया सारसेनोप- लक्ष्यते। इह तु जगज्जन्मादिमिर्निरतिशयबृहत्त्वरूपब्रह्मत्व उपलक्ष- णीय, उपलक्ष्याकारसमानाधिकरणकेदारत्वस्थानीयः पूर्वप्रतिपत्रः कश्ष- नाऽडकारो वत्तव्यः। न चेह ब्रह्मणि पूर्वप्रतिपन्नाकारः कश्- दृस्ति। न चेह 'सत्यं ज्ञानमनन्तं ब्रह्म'[ तै० २। १ ।१] इति वाक्ये प्रतिपन्नसत्यत्वज्ञानत्वादीनां पूर्वप्रतिपन्नाकारत्वस्य संभव: सत्यत्वादिध्वपि विशेषणत्वोपलक्षणत्वविकल्पदीःस्थ्येन तेषामपि लक्षणत्वासंभवादिति प्राप्त उच्यते-'जन्माद्यस्य यतः' [त्र० सू० १। १। २ ] अस्याचिन्त्यविविधचित्रचनस्य ब्रह्मादिस्तम्चपर्यन्तक्षेत्रज्ञमि- :श्रितस्य जगतो जन्मस्थितिलया चतो भवन्ति तद्गह्मेति सूत्रार्थः।ततश्र जगज्जन्मादिहेतुत्वं बह्मलक्षणं भवितुमर्हतीति सूत्रार्थः । अय भाव :- यद्यपि विशेषणानां व्याव्नकत्वं स्वभावो,ऽथापि विशेषणं स्वविरुद्धधर्मा- श्रयात्म्वाश्ररयं व्यवच्छिनत्तीत्येव न तु स्वाविरुद्धधर्माश्रयादपि स्वा्रयं व्यावर्तयति। नीलनुत्वलमित्यादौ नेल्यस्य शौक्ल्याश्रयव्यावर्तक-1 त्ववद्ैध्याश्रियव्यावर्तकत्वाभावात्। प्रकृते च जन्महेतुत्वस्थितिहेतुत्वादीनां परस्परविरुद्धत्वाभावेन व्यक्तिवहुत्वस्याप्रसक्तेः। खण्डो मुण्ड इत्यादो
Page 246
[शृगु ०अ० १ ] भृगुवल्ल्युपनिषत्। २४३ खण्डत्वादीनां परस्परविरुद्धत्वात्स्वाश्रयभेद्कत्वमू। उपलक्षणपक्षेऽपि न दोषः । उपलक्षणभूताज्जगज्जन्मादिहेतुत्वादुपलक्ष्याच्च निरतिशयबृह- स्वादन्यस्य बृहत्त्वसामान्यस्य पूर्वप्रति[प]न्नाकारस्य संभवेनोपलक्षणत्व- पक्षेपि दोषाभावात्। ननु परस्परविरुद्धयोविशेषणत्वोपलक्षणत्वप- क्षयोरपि भाव्ये कथमभ्युपगम इति चेत्। अ्र केचित्-विशिष्टनिषठं जगत्कारणत्वं विशेष्यनिष्ठं तु सत्यत्वादिकमिति व्यासार्यैस्तत्र तत्रो- क्तम्। भाष्ये च जगत्कारणत्वोपलक्षितस्वरूपस्येति बहुशो व्यवहृत- त्वाज्जगत्कारणत्वं चिद्चिद्विशिष्टस्य ब्रह्मणः । विशेषणभूतं लक्षणं शुद्धस्वरूपस्य तूपलक्षणं/जगत्कारणत्वस्य शुद्धस्वरूपनिष्ठत्वाभावात्। तदभिप्रायेणैव विशेषणोपलक्षणाभ्युपगमः । न च शुद्धस्वरूपानिष्ठस्य विशिष्टस्य जगत्कारणत्वस्य कथ शुद्धस्वरूपोपलक्षणत्वमिति वाच्यम्। तटस्थस्यापि शाखाग्रस्य चन्द्रोपलक्षकत्वदर्शनादिति वदन्ति। अन्ये तु विशेष्यनिष्ठत्वानिष्ठत्वाभ्यामेव विशेषणोपलक्षणभेदमाशित्य जगत्का- णत्वस्य ब्रह्मनिष्ठतया विशेषणत्वं प्रपञ्चगतजन्मादेस्तु ब्रह्मनिष्ठत्वाभाषे- नोपलक्षणमिति वर्णयन्ति। अपरे तु'यतो वा इमानि' [तै०३।१] इति- वाक्येन जन्मादिविशिष्टे बह्मत्वं बोध्यत उत लक्ष्यते। नाऽडद्यः।जन्मा- दिविशिष्टे ब्रह्मत्वबोधने विशेषणभूतजन्मादावपि ब्रह्मत्वपसङ्ग: । उप- लक्षणपक्ष आकारान्तराप्रतिपत्तिर्दोप इति पूर्वपक्षिणो भावः। तन्न। न विधेयान्वयित्वं विशेषणत्वं येन जन्मादिविशेषणत्वे विधेयभूतब्रह्मा- न्वयोपि प्रसज्येत। अषि तु यदन्विततया ज्ञात इतरान्वयधीस्तत्तत्रा- विशेषणम्। प्रकृते च जगज्जन्मादिहेतुत्वान्वियितया ज्ञाते ब्रह्मणि ब्रह्म- त्वान्वयधीरिति विशेषणत्वे नानुपपत्तिः । यदि विधेयान्वय्येव विशेष- णमित्याग्रहस्तर्व्यपलक्षणपक्षो वाऽस्तु बृहत्त्वसामान्यलक्षणतृतीयाकारप्र- तिपत्तेः संभवादित्येव सिद्धान्तिनोऽभिप्रायः। न तु विशेषणत्वोपलक्ष- णत्वयोः समुच्चयः । इतरे तु तद्विजिज्ञासस्वेत्यत्रोपासनं विधीयते तत्र केपुचिदुपासनेपु जगत्कारणत्वमनुसंघेयम्। तत्र ज्ञाप्यान्तर्गतत्वाज्जग- त्कारणत्वं विशेषणम्। यत्र तु नानुसंघेयं तत्रोपलक्षणं ज्ञाप्यानन्तर्गत- त्वादिति'इतरे त्वर्थसामान्यात्'। [ब०स०३।३१३ ] इति सूते व्यासा- र्ये(र्या) स्तदनुसारेण विशेषणत्वोपलक्षणत्वसमुच्चयो नानुपपन्न इति वदन्ति। अतो जगज्जन्मादिहेतुत्वं ब्रह्मलक्षणमिति स्थितम्। प्रकृतमनुसराम :-
Page 247
२४४ रङ्गरामानुजविरचित प्रकाशिकोपेता- [भृगु०अ०२]
. सतपोऽतप्यत। स तपस्तप्त्वा। इति कष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्चध्याये प्रथमोऽनुवाकः॥ १ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्यध्यायप्रका- शिकायां प्रथमोऽनुवाकः ॥ १ ॥
अन्नं ब्रह्मेति व्यजानात्। अन्नाद्धयेव खल्विमानि भूतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविश- न्तीति। तद्विज्ञाय। पुनरेव वरुणं पितर- मुपससार। अधीहि भगवो ब्रह्मेति। शूङ्गग्राहिकयेदं ब्रह्मेत्युपदेशं परित्यज्य लक्षणोपदेशपूर्वकं विजिज्ञा- सस्वेत्युपदिशतो ह्ययं माव :- संपावनीयं ब्रह्मज्ञानसाधनं संपाध्यैतलक्षण -- लक्षितं ब्रह्म विजानीहीत्येतमर्थ निश्चित्येन्द्रियनिग्रहादिलक्षणस्य तपसो ब्रह्मविद्यायामन्तरङ्गोपायत्वासदेव साधनमिति ज्ञात्वा तप: कृत्वा प्रथ- मतोऽन्नं ब्रह्मेति ज्ञातवानित्यर्थः । अन्नस्य सर्वभूतोत्पत्त्यादिकारणत्वात्। अन्नं म्रह्मेति ज्ञात्वोत्पत्तिमत्वादिनाऽन्नस्य ब्रह्मत्वेऽपरितुष्यन्पुनरपि पितृ: समीपमागत्याधीहि भमव इति मन्त्रमुच्चारितवानित्यर्थः। तः होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। : पूर्ववदेव त[प:] समाचर तप एव ब्रह्मविद्यासाधनं तस्मान्तपसा बह विजिज्ञासस्वेत्युक्तवानित्यर्थः । स तपोऽतप्यत। स तपस्तप्त्वा।
द्वितीयोऽनुवाक: ॥२ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल््यध्यायप्रकाशि- कायां द्वितीयोऽनुवाकः ॥२॥
Page 248
[भृगु०अ० ३।४] मृगुवल्लयुपनिषत्। २४५
प्राणो ब्रह्मेति व्यजानात्। प्राणाध्येव खल्विमानि भूतानि जायन्ते। प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभ्िसंवि- शन्तीति। तद्विजाय। पुनरेव वरुणं पितर मुपससार। अधीहि भगवो ब्रह्मेति। त होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोडतप्यत। स तपस्तप्त्वा। इति कष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्लचष्याये तृतीयोऽनुवाक: ॥ ३ ॥
इति कृष्णय जुर्वेदीयतैत्तिरी योपनिषदि भृगुवल्वयध्यायपका - शिकायां तृतीयोऽनुवाकः॥ ३॥
मनो ब्रह्मेति व्यजानात्। मनसो ह्वोव खल्वि- मानि भूतानि जायन्ते। मनसा जातानि जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो बह्मेति। त होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो व्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा। इति उष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्लयध्याये चतुर्थोऽनुवाक:॥४ ॥
इति कृष्णव जुर्वेदीयतैत्तिरीयोपनिषदि मृगुवल्लय ्यायप्रका- शिकायां चतुर्थोऽनुवाकः ॥ ४ ॥
Page 249
२४६ रङ्गरामानुजविरचितप्रकाशिकोपेता- [भृगृ ०अ० १ । ६]
विज्ञानं ब्रह्मेति व्यजानात्। विज्ञानाद्येव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति। विज्ञानं प्रयन्त्यभ्िसं- विशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। त होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। सतपोऽतप्यत।स तपस्तप्त्वा। इति कष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्वचध्याये पञ्चमोऽनुवाकः ॥५॥
इति कृष्णय जुर्वेदीयतै त्तिरि यो प निि भृ गुव्व्यध्याय्ा प्र्क्रक्ा - शिकायां पञ्चमोऽनुवाकः ॥५॥ ५
आनन्दो व्रह्मेति व्यजानात्। आनन्दाध्येव खल्वि- मानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभ्िसंविशन्तीति। स्पष्टोऽर्थः । सेषा भार्गवी वारुणी विद्या। परमे व्योमन्प्रतिष्ठिता। भृगुणा वरुणात्प्राप्ता विद्याऽन्नमयादिकमतिक्रम्याक्षरे परमे व्योम- न्निति निर्दिष्टे परमव्योमशब्दिते परमात्मनि प्रतिष्ठिता न तमतिक्रम्य ततोऽन्यत्र गतेत्यर्थः । तद्वेदनस्य फलमाह- य एवं वदे प्रतितिष्ठति। अन्नवानन्ादो भवति। महान्भवति। प्रजया पशुभिर्व्रह्मवर्चसेन। महान्कीर्त्या। इति ष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्लचध्याये षष्ठोऽनुवाक: ॥ ६ ॥
Page 250
[भृगु०अ०७] भृगुवल्ल्युपनिषत्। २४७
स्पष्टोऽर्थः । इति कृष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह््यध्यायप्रका- शिकार्या षठोडनुवाकः ॥ ६॥
एतद्विद्याङ्ग व्रतमाह- अन्नं न निन्यात्। तद्व्रतम्। प्राणशरीरयोरप्तेजसो: पृथिव्याकाशयोरन्नान्नादत्वटष्टि तयोः परस्प- रप्रतिष्ठितत्वहृष्टिं परस्परप्रतिष्ठितितया परम्परया स्वप्रतिष्ठितत्वहृष्टिं तदङ्ग- वतविशेषं तत्फलं चाडडह- प्राणो वा अन्नम्। शरीरमन्नादम्। प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेव प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति।प्रजया पशुभिर्वह्नवर्चसेन।महान्कीर्त्या। इति कृष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्लचध्याये सप्तमोडनुवाकः॥ ७॥
शिकायां सप्तमोऽनुवाकः ॥ ७॥
अन्नं न परिचक्षीत। तद्व्रतम्। न परिचक्षीत पात्रस्थमन्नं न निराकुर्यादित्यर्थः । आपो वा अन्नम्। ज्योतिगन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्न- मन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं
Page 251
२४८ रङ्गरामानुजविरचितप्रकाशिकोपेता- [गुभृ०अ० ८।९]
वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महा- न्भवति। प्रजया पशुभिर्व्रह्मवर्चसेन। महान्कीर्त्या। इति रष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्लचध्यायेऽ- ष्टमोऽनुवाकः ॥ ८ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यध्यायप्रका- शिकायामष्टमोऽनुवाकः ॥८॥l
अन्नं बहु कुर्वीत। अतिथ्यभ्यागतस्वजनपर्याप्तं कुर्यात्। यद्वा। बहु कुर्वीत बहु मन्वी- तेत्यर्थः । अन्ने बहुमतिं कुर्यादित्पर्थः । तद्व्रतम्। पृथिवी वा अन्नम्। आकाशोS- न्नादः। पृथिव्यामाकाशः प्रतिष्ठितः।आकाश पृथिवी प्रतिष्ठिता। तदेतदन्नमन्ने प्रतिष्ठितम्। स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भ- वति प्रजया पशुभिर्ब्रह्नवर्चसेन। महान्कीर्त्या। इति उष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवह्यष्याये नवमोऽनुवाकः ॥ ९ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि मृगुवह्यध्यायप्रका- शिकायां नवमोऽनुवाकः ॥ ९ ॥
- न कंचन वसतौ प्रत्याचक्षीत। तद्वतम्। स्वगृहे रातयादौ[ वसत्यर्थ]भोजनार्थमागसं कमपि नरं न निरा कुर्यादित्यर्थः । १ आनम्दाश्रमस्थमदितपुस्त के द्विरुतिन हृश्यते।
Page 252
[भृगु०अ० १०] मृगवल्ल्युपनिषत्। २४९
तस्मादया कया च विधया बह्वन्नं प्राप्नुयात्। भोजनार्थमागतानां पुरुषाणा[म]प्रत्याख्यानस्याSSवश्यकत्वान्निषि- द्ेनापि येन केन मार्गेण बह्नन्नं संपाद्येदित्यर्थः । अराध्यस्मा अन्नमित्याचक्षते। अस्मा उपासकायान्नमराधि सिद्धम्। उपासकार्थमेव ह्यन्नस्य निष्पत्तिः। अतस्तद्र्थमेध निष्पन्नत्वाद्म्नानां तेषां येन केनाप्युपायेना- जने न दोष इति भाष:। एतद्वै मुखतोऽन्न राद्म्। मुखतोऽस्मा अन्न: राध्यते। एतद्वै मध्यतोऽन्न राद््म्। मध्य- तोडस्मा अन्न राध्यते। एतद्वा अन्ततोऽन्न राद्द्म्। अन्ततोऽस्मा अन्न राध्यते।. एतद्वै मध्यतो राद्द्ं सर्वावयवयुक्तमप्यन्नमस्मा उपासकाय सिद्धम् । तदर्थमेवोत्पन्नमिति हि सन्त आचक्षत इत्यर्थः। य एवं वेद। स यया कया च विधया बह्वन्नं प्रापुयादिति पूर्वेण संबन्धः । क्षेम इति वाचि। क्षेमसाधनत्वाद्वाच: क्षेमत्वबुद्धिस्तत्र कार्येत्यर्थः। एवमुत्तरत्रापि। योगक्षेम इति प्राणापानयोः । कर्मेति हस्त- योः। गतिरिति पादयोः । विमुक्तिरिति पायौ। विमुक्तिर्विसर्ग इत्यर्थः । इति मानुषीः समाज्ञाः। अध्यात्ममेता उपासना उक्ता इत्यर्थः । अथ देवीः । उपासना आचक्षत इत्यर्थः ।
Page 253
२५०
तृप्तिरिति वृष्टौ। बलमिति विद्युति। यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थे । एतत्त आध्यात्मिकोपासने संगतम्। पाठक्रमादर्थक्रमस्य बलवश्वा- दिति द्रष्टव्यम्। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान्भ- वति। तन्मह इत्युपासीत। महान्भवति। तन्मन इत्यु- पासीत।मानवान्भवति। तन्नम इत्युपासीत। नम्य- न्तेडस्मै कामाः। तद्दल्नेत्युपासीत। ब्रह्मवान्भवति। आकाशस्य प्रतिष्ठितत्वादिगुणयुक्ततयोपासने तत्क्रतुन्यायेन प्रति- छादिकं भवतीत्यर्थः । ब्रह्मवान्बह्मत्ववानित्यर्थः। नम्यन्ते प्राप्यन्त इत्यर्थः । तट्रह्मणः पर्मिर इत्युपासीत। पर्येणं त्रियन्ते द्विषन्तः सपत्ना: परितो म्रियन्तेऽस्मिन्निति परिमरः। सार्वत्रिकमरणस्याप्यवकाशत- याऽडश्रय इत्यर्थः। एवमाकाशस्य ब्रह्मशेषत्वेन परिमरत्वेनोपासन एन- मुपासकं परितो दविषन्तो म्रियन्त इत्यर्थः । पर्येणमिति णत्व छान्वसम्। तदेतद्याचषटे- परि येडप्रिया ध्रातृव्याः । अप्रिया भ्रातृव्याः शत्रवः परितो वर्तमाना ब्रियन्त इत्यर्थः । स यश्वायं पुरुपे। यश्रासावादित्ये। स एक: । स य एवंवित्। अस्मालोकात्वेत्य। एतमन्नमयमात्मा- नमुपसंक्रम्य। एतं प्राणमयमात्मानमुपसंक्रम्य । एतं मनोमयमात्मानमुपसंक्रम्य। एतं विज्ञानमयमा- त्मानमुपसंक्रम्य। एतमानन्दमयमात्मानमुपसंक्रम्य। पूर्ववदर्थः ।
Page 254
[भूग ० अ ० १०] २५१ इमाँल्ोकान्कामान्नी कामरुप्यनु- संचरन्। एतत्साम गायन्नास्ते। एतदवृक्ष्यमाणमित्यर्थः । हा३वुहा ३बुहा ३वु। स्तोभाक्षराण्येतानि। अहमन्नमहमन्नमहमन्नम् । अहम-
अत्राहंशब्द: परमात्मपर्यन्तः। मोक्तृमोग्यवाच्यन्नान्नादशब्दावपि तत्पर्यन्तौ। अहः श्लोककदहए श्लोककदह श्लोककत्। श्लोक्यत इति श्लोक: श्लाघनीयजगद्गक्षणादिकृदित्यर्थः। अहमस्मि प्रथमजा कता ३ स्य । ऋतस्य कर्मणः प्रथमजाः सर्गाद्यसमये तत्परिपाककृदित्यर्थः । पूर्व देवेक्यो अमृतस्य ना ३ भायि । देवेभ्यः पूर्व बर्तमानोऽमृतस्य मोक्षस्य नाभी रथरचक्रस्य नाभिरि- वाSडश्रयभूतः । नाभा इति गानकृतो विकारः । यो मा ददाति स इदेव मा ३७वाः ॥ ५ ॥ यो मां योग्याय शिष्याय ददात्युपदिशति स इदेव माऽवा अवा: प्राप्तो मवति। वा गतिगन्धनयोरिति धातु:, इच्छब्दोऽनर्थकः। अहमन्नमन्नमदन्तमा ३ि। अन्नशब्दितमचेतनं तन्भ्ोक्तारं चेतनं चाि व्यापोमि। अहं विश्वं भुवनमश्यभवा३म्। परलयकाले विश्वमभिभूतवानस्मीत्यर्थः । सुवर्न ज्योतीः । कमनीयदेदीप्यमानशरीरो भवति।
Page 255
२५२रङ्गरामानुजविरचितप्रकाशिकोपेता भृगुवल्ल्युपनिषत्।भृगु०अ०१०
य एवं वेद। इत्युपनिषत्। इति रुष्णयजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल्ल्यध्याये दशमोऽनुवाकः ॥ १०॥ समाप्तेति शेष: ॥ ३ ॥ इति कृष्णय जुर्वेदीयतैत्तिरीयोपनिषदि भृगुवल््यध्याय- प्रकाशिकायां दशमोऽनुवाकः ।१० ।
इति भृगुवल्ल्यध्यायः समाप्तः ।
Page 256
[४]
0 ९१ गौतमप्रणतिन्यायसूत्राणि-भाष्यवृत्तिभ्यां समेतानि। ...
९३ दर्शपूर्णमासप्रकाशः-श्रीवामनश रििकृतः प्रथमो भागः। ...
९४ संस्कारपद्धतिः-अभ्यंकरोपाह्मा क शास्त्रिविरचिता । ... ९५ काश्यपशिल्म्-महेश्वरोपदिष्टम्। ... ९६ करणकौस्तुभ :- कृष्णदेवज्ञविरचितः । ९७ मीमांसादर्शनम्-सतन्त्रवार्तिकशावरभाष्योपेतं भागत्रयात्मकग्। १३ ९८ धर्मतत्त्वनिर्णयः-अभ्यंकरोपाह्वव सुदवशास्त्रिप्रणीतः । 3
९९ भास्करीयबीजगणितम् --- नवाङ्कुराटीकासहितम्। 0603 C १०० प्रायश्चित्तेन्दुशेखर :- नागोजीभद्टविरचितः । १ s.c. श्रीमत्पझ्मपुराणम्-महापुराणान्तर्गतं चतुर्भागात्मकम्। २० 0 सिद्धान्तदर्शनम्-महर्षिवेदव्यासपर्ण तं निरञ्जनभाप्ययुतम्। ... आधानपद्धतिः-श्रीवामनंशास्त्रिमि: कृता। ... ... १४ पश्चालम्भमीमांसा-श्रीवामनशास्त्रिविरचिता। .. ०. 0 १० शिवभारतम्-कवीन्द्रपरमानेन्दविरचितम्। ... विषयानुसारेण ब्रन्थानां सूचीपत्रम्। विषयः ग्रन्थाङ्का: विषयः श-थाङ।: २ अलंकाग ६६, ८९: ११ श्रुति: १-३, ३२, २६-३८ 6. धमशास्त्रम् ५'९, ५७, ५८. ८८, ९०/ ६०, ११, ७८. ६ बैद्यकम् ४, १९, २६, २७,
८६. ६८, १०० ३३, ७२। व्याकरणम् ४३, U, ६ श्रीतम् '३, ७१, ८१, ८७,
पमपुगाणम् : "३, आधानपद्धतिः । १४ संकीणम् २२, २४, ३५, १७,