Books / Isavasya Rahasya Brahmananda & Ramachandra Dipika Sankarnanda Ed. Rajaram Sastri Bodas Anand Ashram 5 1934

1. Isavasya Rahasya Brahmananda & Ramachandra Dipika Sankarnanda Ed. Rajaram Sastri Bodas Anand Ashram 5 1934

Page 1

(५)

ईशावास्योपनिषद।

Page 3

आनन्दाश्रमसंस्कृतग्रन्थावलिः ग्रन्थाङ्क: ५ आनन्दगिरिकतटीका संवलितशांकरभाष्योपेता। ईशावास्योपनिषत्। महामहोपाध्यायैः आगाशे इत्युपाह्वैरबालशास्त्रिभिः संशोधिता ।

शंकरानन्दकृतेशावास्यदीपिका । रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः । एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोघितम्। उवटार्यकृतमीशावास्यभाष्यम्। आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यम्। अनन्ताचार्यकृतमी शावास्यभाष्यम्। इद पुस्तकत्रयं मुम्बापुरीनिवासिभिर्वेदशास्रज्ञैर्म हाम होपाध्यायै- र्वोडस इत्युपाह्वे राजारामशास्त्रिभि: संशोधितं च।

एतानि बी. ए. इत्युपपदधारिमि: विनायक गणेश आपटे इत्यतः पुण्याख्थपत्तने श्रीमन् 'महादेव चिमणाजी आपटे' इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दाश्रमसुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितानि।

शालिलाहनशकाब्दा: १८५६। खिस्ताब्दा: १९१४। (अश्म मर्वेरधिकाश राजशासनानुसारेण स्वायत्तीकृताः)।

Page 5

भो मो: सुधियो विद्वांसो विदितमेवैतत्तत्रभवर्ता, यत्किळ् संप्रत्यस्मिञ्जगति विभि- त्रेपु द्वीपेषु विभिन्नेष देशेषु च ये ये घर्मास्तत्प्रतिपादका ग्रन्थाश्चोपलम्यन्ते। तेपु वैदिकधर्मस्य वैदिकग्रन्थानां चातिपाचीनत्वं मूच्भूतत्वं च निर्विवादमेव सर्वैराद्रियते। यद्यपि स्वस्वधर्माभिमानग्रहगृहीताः केचन वेदम्य प्राचीनत्वे विवदन्तो दृश्यते। ते सथैव विवदन्तु नाम। तथाऽपि निर्मत्सराः समधियो विवेकिनो नात्र विप्रतिपद्यन्ते। त इम आर्याणां चतुर्विधपुरुषार्थसाधनभूताश्वतुर्दशवद्यानां चत्ुःषष्टिकलानां च मूल- भूता वेदा भगवता जगत्कारणेन परमात्मनाSSदिकवये ब्रह्मणे हृद़ैवोपदिष्टाः ।सच ब्ह्मा तानितरेभ्यः प्रकाशयामास। तद्यथा- समाहितात्मनो ब्रह्मन्ब्रह्मण: परमेष्ठिनः।

ववोऽभूत्रिद्टदोंकारो योऽव्यक्तपभवः स्वराटू। स्वधात्रो ब्रह्मण: साक्षाद्वाचका: परमात्मन: ।। स सर्वमन्त्रोपनिषद्वेदबीजं सनातनम्। वस्य ह्यासंस्तयो वर्णा अकारादा भृगूदह।। घार्यन्ते यैस्त्रयो भावा गुणनामार्थतृत्तयः ।

तेनासौ चतुरो वेदांश्रतुर्भिवदनैवियु:।।

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान्।। ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन्। वे परम्परया प्ाप्तास्तत्तच्छष्यैर्धृतत्रतैः ॥ चतुर्युगेष्वथ व्यस्वा दवापरादौ महर्षिामिः। इसि। एवं ब्रह्मण: सकाशात्ततपुत्रा ये मरीच्यादयस्तेम्यः शिष्यप्रशष्यादिपरम्परया बेदा: प्रसृता बभूवुः। द्वापरादिषु वेदविस्तरकर्तारोडन्ये बेदव्यासा आसन्। अस्मिन्नष्यन्तरे-

अवतीणों महाभाग वेद चक्रे चतुर्विघम्।।

Page 6

[ ] ऋगथर्वयजुःसाम्नां राशीनुद्घृत्य वर्गरः। चतस्रः संहिताक्षके मन्त्रैमेणिगणा इव ॥ इति।

र्मि: वविशिष्यैग्रांहयामास मगवान्पाराशर्यों वेदव्यासः। ते व पैलाद्यः स्वम्वशिष्या- नध्यापयामासुः स्वां स्वां संहिताम्। तत्र यज्जुवेद्धरस्य वैशपायनस्य याज्ञवल्क्यप्रभू- तयो बहवः शिष्या आसन्। अथ कदाचिद्धगबान्चेशपायनो ब्रममहत्यां बालहत्यां स्वसतीयहत्यां चावासवानाक स्मिकेन दैवयोगेन। तदुकतं विष्णपुराणे- ऋषियोऽद्य महामेरौ समाजे नाऽडगमिष्यति। तस्य वे सप्तरात्रात्तु ब्रह्महत्या भषिष्यति।। पूर्वमेवं सुनिगणः समयोऽभूत्कृतो द्विज। वैशंपायन एवैकस्वं व्यतिक्रान्तवांस्तदा ।। स्वस्त्रीयं बाळकं सोडथ पदा स्पृष्टमघातयत। इति । एवमृषिकृतसमयानुसारेण मेरुपर्वत ऋषिसमाजेऽगमनाद्गह्महत्यामनिच्छयाडपि पदा स्पृष्टस्थ वालस्य मरणात्स्वस्त्रीयहत्यां बालहत्यां च लब्घवतो वैशपायनस्य शिष्या गुरोनिर्देशेन तत्पापशान्तय उग्रं तपश्चेरुः। अतस्तेषां चरकाध्वर्थव इति प्रथाऽडसीत्।

याङ्वल्क्यक्ष तच्छिष्य आहाहो भगवन्कियत्। चरितेनारपसाराणां चरिष्येऽहं सुदुश्रम्-।। सतीर्थ्यानधिक्षिपता याज्ञवल्क्येन- इत्युक्तो गुरुरप्याह कुपितो याह्यकं त्वया। विभाषमन्त्रा सिष्येण मदधीतं त्यजाऽडश्विति।। सोऽपि प्रमानवाज्शिष्यो याज्ञवल्क्यो गुरोवैशंपायनादघीत यजुषां गणं छर्दित्व। तदन्तिकानतिर्गतः। अथ तच्छर्दितान्यजुर्गणान्वीक्ष्य वेदलोलुपा ऋषयशछर्दितस्य विप्र- रूपेणाSSदानमनुचितमिति विचार्य तित्तिरसंज्ञकपक्षिरूपेण याज्ञवल्क्षत्य क्तान्यजुर्ग- णानाददुः। ततश्र सा तैत्तिरीयेति प्रसिद्धा शाखाऽमवत्। अथ याजवरकयो गुरोवैशपायनादप्यधिकानि यजुंषि गवेषयन्भगवन्तमर्क चवणरी वेदानामीश्वरमुपतस्थे। तथा च श्रुति :- ऋग्भिः पूर्याह्ने दिवि देव ईयवरे। यजुवेंदे विष्वति मध्ये अह्हः। सामवेदेनास्वममे महीयते। वेदैरशून्यस्त्रिभिरेति सूर्य: ॥ इवि।

Page 7

[ ३ ]

तस्य भकत्या तुष्टो भगवानादित्यो वाजिरूपघरो मृत्ा यजूष्ययातयामानि मुनयेऽदात्मसादित: । इवि।

रविणाऽश्वरूपेण वाजेम्यः केसरेम्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ाः शाखा वाज- सनासंज्ञास्तासां ग्रहणाद्वाजसनेयिन इत्याचक्षते। तदेवं यजुर्वेदस्य द्वौ मेदौ। वैशंपायनेन महषेंवेदव्यासादघीता चरकाध्वर्यवादी- नस्वशिष्यानध्यापिता संहिता कृष्णयजुःसंहितेत्यभिधीयते। याज्ञवल्कयेन वाजिरूप- वरात्सूर्यादधीता कण्वमाध्यंदिनादीनध्यापिता संहिता शुक्कयनुःसंहितेत्माचक्षते। शुक्कयजुर्वेदस्य पश्चदश शाखाः । तदुकं होलीरभाष्ये- "आदित्येनाSऽधायित्वादादित्यान्युच्यन्ते। वाज इत्यनस्प नामपेवम्। 'अभ्नं वै वाजः 'इति श्रुतेः। वाजश्य सनिर्दानं यश्य महषेरस्ति सोऽयं बाजसनिः । तस्य पुत्रो वाजसनेयः । तस्य याज्ञवल्क्य इव्रि नामपेथम्। याज्ञवल्क्येन तानि यजृंषि महर्षिभ्यः पञ्चदश समार्पेतानि"[इ]। केषांचिन्मते सप्तदश भेदाः । तदेव शाखामेदेपि न संहितामेद:। केवलं पाठ- भेद एव। सेयं शुक्कयजुःसंहिता काण्डदया्मिका ।"ऋग्मिः स्तुवन्ति यनुभिर्यनन्ति" इत्यामिधानाद्यज्नातत्मिकायामस्यां संितायां प्रथमाध्यायस्य प्रथममन्त्रमारम्येकोन- नचत्वारिंशाध्यायसमाप्तिपर्यन्तं दर्शपूर्णमासाद्यश्वमेधान्तं कर्मकाण्डं प्रतिपादितम्। अन्तिमे चत्वारिंशेऽध्यायेSष्ादशमिर्मन्त्रैर्ज्ञानकाण्डं प्रतिपादितम्। तस्य ज्ञानका

प्रदित्यभिधीयते। उपनिषदिति 'षद्ल विशरणे' इत्यस्थान्तर्मावितण्यर्थस्य विशवर- गार्थस्य वातो: क्विपि रूपम्। उप नितरां सादयति संसारहेतुभूतामविद्यां नाशयती

:यथाऽडहुराचार्या :- एपनीयेममात्मानं ब्रह्मापास्तदूयं ततः। निहन्त्यविरद्या तज्जं च वस्मादुपनिषन्मता ॥ इति। सेयं संदितोपनिपदिति, ईशावास्यमित्यादिमं मन्त्रमुपजीव्येशवास्योपनिषदिति अमिषीयतें।

Page 8

[:]

ननु-"ईशावास्याद्यो मन्त्रा: कर्मस्वविनियुक्ताः। तेषामकर्मशेषस्याऽडल्मनो पाधात्म्यप्रकाशकत्वात्" इत्येतेषां मन्त्राणां कर्मस्वविनियोगे कारणमुक्तम्। तत्र प्रथमाध्यायमारम्यैकोनचत्वारिंशत्तमाण्यायपर्यन्तं तेषां तेषां मन्त्राणां तेषु तेषु दर्श- पूर्णमासाद्यश्वमेघान्तेषु यथा विनियोगस्तथैव कर्मप्रतिपादकत्वाभावेऽवि सहस्रशीर्षे- त्यादिवदीशावास्यादीनामपि मन्त्रामां कर्मसु यथाकरयंचन विनियोगः कि न स्यातू- इति चेतू। मेवम्। "ऋचा पुरुष ब्रह्माणं दक्षिणतः पौरुषेण नारायणे नाभिष्ीति। 'सहस्रशीर्षा पुरुषः ' इत्यनेन षोडसर्चेन" इत्यादिवत्कर्मसु प्रमाणतो विनियोगामावात्कर्मप्रतिपादकत्वाभावाच्च। तर्हि याग- करपना कुतो न क्रियब्र इति चेतू। न। विशेषं परिहृत्येव सा कपना भविष्यति। अत एव श्रीमदाचार्यमगवत्पादे :- " विरोधादेवाविनियोगस्तेषां मन्त्राणां कर्मणि" इवि प्रतिपादितम्। तस्माद्विहितकर्मणा शुद्धान्तःकरणस्याधिकारिण आत्मस्व- रूपप्रकाशनेन शोकमोहादिसाधनाज्ञाननिवृत्तिपूर्वकमात्मस्वरूपं दर्शयतीत्वमिधेयसंव-

सेयमुपनिष्णद्/ष्यटीकादीपिकारहस्यादिसंवलिता सर्वसुलभा मवत्विति विचार्याSSन मश्रमाधिपतिना रवकी मग्रन्भावल्यां संगृहीता। इय च कलिकाताराजमान्यां बङ्क- वेश्रीमास्यातिकंसांमाजानुमत्या (बेंगाल माशियाटिकसोसाइटी) आांकरभाष्यानन्द- शिरिकृतटीकासहिता मुद्रिताSSसीत्। सा चाघुना दुष्प्राप्या संवृत्ता। किंध तत्रो वहाविमाष्यत्रयरहस्यदी पिकादिसंग्रहाभावान्न सा विदुषां प्रीतयेऽळमितीयं पुनर्मुद्रिता । अस्थां न- १ ओनन्दज्ञानविरचितटीकासनाथमी शाबास्यश्ञांकरभाष्यम्।

३ ब्रह्मानन्दकृतमीशावास्यरहत्यम् । ४ शंकरानन्दककृतेशावास्यदीपिका ।

केपुितपुस्तफेषु 'आनन्दज्ञान:' इति केषुचित्पुस्तकेषु "आनन्दगिरिः' दृति चोपल- शद्र। तथाजपे तन्र न क्िलेद:। नामद्यमेकस्येनेवि बिदुषां भवम्।

Page 9

एतानि सप् संगृहौतानि सन्ति। तत्रोवटार्यानन्दमट्टोपाध्यायानन्ताचार्यकृतं माध्यअर्य न केवलमस्या उपनिषद् एव, अपि तु समग्राया अपि शुकयजुःसंहिताया माष्याण तैः कृतानी त्यन्तिमवा क्यात्प्रतीयते। आनन्दभट्टोपाध्यायोऽनन्ताचार्यश्च काण्वावेवेति प्रतीयते। उवटार्यस्तु माध्यंदिनः। तेन तच्छाखापाठमाश्रित्यैव व्याखयतम्। रहस्यववृतिस्तु श्वतन्त्रव। न सा ब्रह्मानन्दकृतरहस्यविवृतिः। तेन व प्रथमं श्रोकरूपेण संक्षेपतो रहस्यं विरच्य तस्यव विवृतिः कृतेति प्रतीमः । शुक्कयजुःसंहितायां सायणमाधवा- चार्यकृतं महीधरकृतं च भाष्यद्वयं वरतते। शार्मण्यदेशमुद्रितपुस्तके टिप्प्गीरूपेण द्वयमपि संगृहीतम्। कलिकातामुद्रितपुस्तके महीघरमाष्यमेकमेव वर्तते। भाष्यद्वयम- पीदं प्रिद्धत्वान्मुद्गितत्वात्संप्रत्यपि सुलभत्वाच्च नास्मामिः संगृहीतम्। स एष प्रयत्नो विदुषां मोदमावहन्सर्वत्र विजयतामित्याशास्ते- तत्रभवदन्तेवासी- वामनशास्त्रिशर्मा. मुंबई-गिरगांव मार्गशीर्ष शाकप्रतिपत् शके १८१०। ई

Page 11

आदर्शपुस्तकोल्वेखपत्रिका।

ईश्नाधास्योपनिषद आदर्शपुस्तकान शुद्धीकरणार्थ येषां मिलिनानि तेषां संज्ञा नामानि च कृतज्ञतया प्रदर्श्यन्ते- (क.) इति संज्ञितम्-ईशानास्यं सभाष्यं सटीकं विब्लोधिकास्थं मुद्रितं कैला सवासिनां वे० शा० संपन्नदेवोपाह्वबालशास्त्रिणां तद-

(ख.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीक काश्यां शिलामुंद्रितं रा० र० महादेव चिमणाजी आपटे इत्येतेषाम्। मुद्रण- काल: संवत् १९२९. (ग.) इति संज्ञितम्-ईशावास्यभाष्यं पुण्यपत्तननिवाससिभि: श्रीयुतैः रा० रा० तात्यासाहेब खासगीवाले इत्येतैर्देत्तम्। (घ.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीक वटोदरनिवासिभ श्रीयुतैः पटवर्चनोपाह्वै: रा० रा० कृष्मरावभीमाशंकरैर्दस्तम्। (ङ) इति संज्ञितम्-ईश्ावास्यं सभाष्यं सटीकम्। इन्दूरपुरनिवासिि: किबे इत्युपाह्वै: श्रीयुतः रा० रा० भाऊसाहेव बाळासाहेब इत्येतेर्दत्तमू। (च.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीकं विंचूरपुरनिवासिभि: श्रीयुतैः रा० रा० राबसाहेब अण्णासाहेब इत्येवैर्दत्तम्। ले- खनकाल: शके १७३८. (छ.) इति संज्ञितम्-ईश्ावास्ष समाष्य सटीके मुम्बपुरनिवासिनां वेशाब संपन्नजय कृष्णमहाराजानां वदधिकारिभिर्दत्तम् । (ज.) इति संज्ञितम्- ईशवार्यं सभाष्यं सटी्कं बडली ग्रा म निवासििभि : वे

(झ.) इति संज्ञितम्-ईशावास्यं सभाष्य सटीक करवीरपुरनिवासिि: श्री- युतैः वे० शा० संपन्नैर्गुरुमहाराजैरदत्तम्। लेखनकाळः संवद् १८७५ (नं.) इति संज्ञितम्-ईश्ावास्य समा्ष्य करवीरपुरनिवासिमि: श्रीधुतैः वे शा० संपश्गुरुमहाराजैदत्तम्।

Page 12

[ a ]

(ट.) इति संज्ञितम्-ईश्ावास्य समाष्यं करवीरपुरनिवासिभि: वे० शा०

(ठ.) इति संज्ञितम्-ईश्ावास्यं सभाष्यं सटीकम्। अष्टेग्रामनिवासिभिर्लिमये इत्युपाह्व: रा० रा० गोविन्दश्नर्मभिर्दत्तम्। (ड.) इति संज्ञितम्-ईशावास्यं सभाष्यं सटीकम्। उज्जयिनीक्षेत्रनिवासिभ: वेदशास्त्रज्ञैः सोरटीबुवां इति पसिद्ैर्देत्तम्। (क.) इति संज्ञितम्-ईशावास्यं पुण्थपतननिवासिभि: श्रीयुतैः रा० रा० भाऊसाहेब नगरकर इति मसिद्धैदेचम्। (ख.) इति संज्ञितम्-ईशावास्यं सासवडग्रामनिवासिभि: श्रीमद्भिः पुरंदरे इत्युपाह्वैः रा० रा० मल्हारराव इत्यारुथेदेचम्। लेख- नकाल: शक १७६५. (क.) इति संज्ञितम्-उवटार्यकृतमीशावास्यभाष्यं समूळं विंचूरग्रामनिवा- सिमि: श्रीमन्दि: रा० रा० रावसाहब इत्येतेदेचम्। (ख.) इति संज्ञितम्-उवटार्यकृतमीशावास्यभाष्यं वटोदरनिवासिभि: पटवर्ध- नोपाह्वैः श्रीमन्दिः रा० रा० कृष्णरावभीमाशंकरै- देचम्। (क. ख.) इति संज्ञिते-ब्रह्मानन्दसरस्वतीकृतेशावास्यरहस्ये समूळे वटादरनि- वासिभि: पटवर्धनोपाह्ैः श्रीमद्भिः रा० रा० कृष्णराव. भीमाशंकरैरदत्ते। लेखनकाल: शके १७७१. (ग.) इति संज्ञितम्-ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समूलं करवीर- पुरनिवासिभि: वे० श्ा० संपन्नैः श्रीपन्भिर्गुरुमहाराजै देत्तम्। (घ.) इि संज्ञितम्-ब्रह्मानन्दसरस्वतीकृवमीशावास्यरहस्यं समूलं रा० रा० आपटे इत्युपाह्वमहादेव चिमणाजी इत्येतेषाम्। (क.) इति संज्ञिता-अ्रकरानन्दकवेद्यावास्यदीपिका विंचूरग्रामनिवासिभि: श्रीमन्भिः रा० रा० रावसाहेब इत्याख्यदेस्ता। (स्र.) इति संज्ञिता-शंकराननदकतेशवास्यदीपिका मुम्बापुरनिवासिनां े

Page 13

[ ३ ]

वर्घनोपाहैः श्रीमद्द्रः रा० रा० कृष्णरावभीमाशंकरा . भिघैदेचा। (घ.) इति संज्ञिता-शंकरानन्दकवेशावास्यदीपिका त्रुटिता श्रीमद्िः रा० रा० भाऊसाहेब नगरकर इत्येतैर्दचा। (क.) इति संज्ञिता-रामचन्द्रपण्डित करतेश्ावास्यरहस्यविट्टिति समूला करवी रपुरनिवासिभि: वे०शासंपन्नैः श्रीयुतैर्गुरुमहाराजैदना। (क.) इति संज्ञितम्-आनन्दभट्टोपाध्यायकृतमीशावास्यभाष्यं समूलं बडळी ग्रामनिवासिि: वे० शा० संपन्नैमतिण्डदीसितैर्दचंमू। लेखनकाळ: शके १७९०. (क.) इति संज्ञितम्-अनन्ताचार्यकृतमीआ्ावास्यभाष्यं संमूळ बडलीग्रामनि- वासिभि: वे० श्रा० संपननैमर्तण्डदीक्षिवैर्दच्तम्।

Page 15

ॐ तत्सङ्रह्मणे नमंः।

ईशावास्योपनिषत्।

अथ शांकरभाष्यम् । ईशा वास्यमित्यादयो मन्त्रा: कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याSडतमनो याथात्म्यप्रकाशकत्वात्। याथात्म्यं चाऽडत्मनः शुद्धत्वापापविद्धत्वैकत्वनित्य- त्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम्। तच्च कर्मणा विरुद्धचेतोति युक्त एवैषां कर्मस्त्रविनियोग:। नहेवलक्षणमात्मनो याथात्म्यमुत्पा्द्यविकार्यमाधयं संस्का र्थे कर्तृभोत्तृरूप वा येन कर्मशेषता स्यात्। सर्वांसामुपनिषदामात्मयाथा- आनन्दगिरिटीका। थेनाऽडत्मना परेणेशा व्यासं विश्वमशेषतः । सोडहं देहदूयी साक्षी वर्नितो देहतद्रुणैः ॥

द्वयुदस्यति। तथा हि-कर्मजडाः केचन मन्यन्ते र्म। ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविश्वषादिषे त्वादिमन्त्रवत्। अतः पृथक्प्रयोजनाद्यभावादव्यारंयेया इति तान्पत्याह-ईशा वास्यमित्यादय इति। कर्मस्वविनियुक्ता इति। इषे त्वेति शाखां छिनती त्यादिवद्विनियोजकप्रमाणादर्शनात्प्रकरणान्तरत्वाच्च्वेत्यर्थः। श्रीत- विनियोगामावेऽपि बर्हिदेवसदनं दाभीत्यस्ष्य वर्हिर्लवनप्रकाशनसामर्थ्याद्वा हैर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसमैर्थ्येन कर्मस्वे्षा विनियोग इत्यपि नाSडशङ्कनी- यमित्याह-तेषामिति। शद्धादिविशेषणस्याSडत्मनः कर्मशेषत्वे प्रमाणाभावात्तय्या- थात्म्यं न केवलं कर्मानुपयोगि किंतु कर्मणा विरुध्यते चेत्याह-याथात्म्यं चेति। शुद्धोऽहं स्वमावती नाऽडगन्तुकेनापि पाप्मना विद्ध : सर्वत्र कर शरीर आकाशोम इति जानन्न कटक्षिणापि कर्म पीक्षते। कित्वापातप्रतिपत्तिरप्येतादृशी निरुणद्धचेव कर्मप्रवृत्तिमित्यर्थः । किंच यः कर्मशेषः स उत्पाद्यो दष्टो यथा पुरोडाशािः। विकार्य: सोमादिः। आप्यो मन्त्रादिः। संस्कार्यो ब्रह्यादिस्तदुत्पाद्यादिरूपत्वं व्या- पक व्यावर्तमानमात्मयाथात्म्यस्य कर्मरोषत्वमपि व्यावतैयति। तथाऽडत्मयाथात्म्यं कर्तृ भोक्तृ च न भव्रति। येन ममेदं समीहितसावनं ततो मया कर्तव्यमितहंकारा- नवयपुरेःसरः कत्रन्वयः स्यादित्याह-नहयेवमिति। ननूपनिषदां जपोपयोगित्वाद-

१ . ङ. छ. ज. "मथ्यात्तत्र क° । २ च, ज, शुद्धत्वादि° , ३ क. ख. झ, 'तो न तु के! ४ घ. ऊ छ. 'त्यधिकारा" ।५ क. ख. झ. नान्न निरूप्यमेवैताद"।

Page 16

२ आनन्दगिरिकृतटी का संव लित शांकर भाष्योपेता-

शां. भा०त्म्यनिरूपणेनैवोपक्षयात्। गीतानां मोक्षधर्माणं चैवंपरत्वाद। वस्मा- दात्मनोडनेकत्वकर्तृत्वभोक्तृत्वादि चाशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विद्ितानि। यो हि कर्मफलेनार्थी दृष्टेन ब्रह्म-

आ० टी०यहपर: शब्दः स शब्दार्थ इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदां शक्यं वक्तम्। तथा हि-ईशा वास्य- मित्युपक्रम्य स पर्थगाच्छुकरमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यम्यास- दर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासंकीर्तनात्को मोहः कः शोक एकत्वमनुप- शयत इति फलवत्तासंकीर्तनात्कुर्वन्नेवेहेति जिजाविषोर्भेददर्शिनः कर्मकर- णानुवादेनासुर्या नाम त इति निन्दर्थकात्म्यदर्शनस्य स्तुतत्वात्तस्मिन्नपो मात- रिश्वा दघातीति युक्त्यमिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्य दृश्यते।

पपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शि- तानीति नेह प्रतन्यन्ते। किंच प्रत्ययसंवादोऽपि बलवेत्त्वे कारणं प्रसिद्धम्। विद्यते चोपनिषदर्थे गीतादिसंवादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमेका त्म्यं न प्रमाणान्तरानुपलम्भविरोधेनापलपनीयम्। यथेन्द्रियान्तरेणानवगम्यमा ममपि रूपं चक्षुषाऽवगम्यमानं नार्पह्नूयते तथकात्म्यमपि नापहूनवार्हमित्याह- गीतानामिति।समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्षयति स पश्यति' इत्यादिगीतानाम्।' एक एव हि भूतात्मा भूते मूते व्यव- स्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिमोक्षशास्त्राणां चैका- त्म्यपरत्वादित्यर्थः । यद्येतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डम्- च्छद्येतत्यपि नाSडशङ्निमित्याह-तस्मादिति। औपनिष हात्मयाथात्म्यवि- ज्ञानवत इष्यत एव कर्मकाण्डाप्रामाण्यम्। यथा न हिंस्यात्सवा+मूतानीति निषे- घशास्त्रार्थनिश्चयवत इष्यत एव शषेनादिविध्यपामाण्यम्। यथा च तीव्रकोधाका- न्तस्वान्तं प्रत्येव इयेनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रा माण्यमित्यर्थः। अन्र जैमिनिप्रमृतीनां संमतिमाह-यो हत्यादिना। अर्थि- त्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च

  • घ.ङ. सर्वभूतानीत्यत्र बहुपुस्तकेषु सर्वा भृतानीत्येव पाठो दृश्यते। स श्रतिमुलक इत्यनु- मीयते। सर्वा इति सर्वाणीत्यर्थकमेवाऽडर्षत्वादिि जेयम्। १क. ख. "तीत्याभिधायिन्याश्चास्या। झ. 'तीतियुक्त्यभिघायिन्याश्ास्या। २क.ख. नैं. वश्कार । ३ क. ख. झ. 'धैनोपलम्भनी। ४ क, ख, 'पहतुवते।

Page 17

ईंशावास्योपनिषत्। ३

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ॐ ईशा वास्यमिदश सर्वं यत्किंच जगत्यां जगत् । शां० भा० वर्चसादिनाऽद्ृष्टेन स्वर्गादिना च द्विजातिरहं न काणकुब्जत्वाघ. नधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विात हवघ- कारविदो वदन्ति। तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेनाऽSतम. विषयं स्वाभाविकैमज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसा-

योजनान्मन्त्रान्संक्षेपतो व्याख्यास्याम :- ईशा वास्यमित्यादि। ईशा ईष्ट इतीट् तेनेशा। ईशिवा परमेश्वरः परमात्मा सर्वस्य। स हि सर्वमीष्टे सर्वजन्तूनामात्मा सैन्मत्यगात्म- तया तेन स्वेन रूपेणाऽडत्मनेशा वास्यमाच्छादनीयम । किमू। इद सर्वे यत्किंच यतिकिचिज्जगत्यां पृथिव्यां जगत्तत्सर्वे स्वेनाSडतमैने- आ० टी० मिथ्याज्ञाननिदानम्। न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुख मे स्याद्दुःखं में मा भूदित्यार्थेत्वं शरीरे्द्रियसामर्थ्येन च सम्थॉऽहमित्यभिमानित्वं मिथ्याज्ञानं विना संभवतीत्यर्थः । यस्मादात्मया- थात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयो- जनादिमत्त्वमपि तेषां सिद्धमित्याह-तस्मादेत इति। व्याख्येयत्वमुक्त्वा प्रति- पदं व्याचष्टे-ईश्रेति। ईश ऐश्वर्येऽस्य घातोः कविपि लुघे कृदन्तरूपमीटू। तस्य तृर्तीयैकवचनमीशेति। ननु क्तरि ककिन्विधानात्पर्रमात्मनश्चाविक्रियत्वात्कथ

बन्तशब्द्वाच्यता न विरुध्यते निरुपाधिकस्य च लक्ष्यत्वं मविष्यतीत्यर्थः। ईशित्रीशितव्यभावेन तर्हि भेद: प्राप्त इत्याशङ्कयाऽह-सर्वजन्तूनामात्मा सन्निति। यथाSSदर्शादिषु प्रतिबिम्वानामात्मा सन्विम्बभूतो देवदत्त ईशिता भव- ति तथा कलपतभेदेने शित्रीशितव्यमाव संभवान्न वास्तवमेदानुमानं संभवतीत्यर्थः। वस आच्छादने। अस्य रूपं वास्यम्। तत्त्वत ईश्वरात्मकमेव सर्वै भ्रान्त्या यदनी- श्वररूपेण गृहीतं तत्सर्वरमीश्वर एवाऽडत्मैवेति ज्ञानेनाSSच्छादनीयम्। सर्वात्मक १ क्. ख. ग. 'ककर्मविज्ञा' । २ क ख. झ. ञ, ढ. सन्, तेन स्वेनाऽऽत्म°। ३ क, ख, झ.अ. 'तमनाऽह'।४ क ख. झ. रमेश्वरस्य चाकि।

Page 18

आननदागेरिकृ तटी का संवलितशांकरभाष्योपेता-

तेन त्यक्ेन भुखीथा मा गृधः कस्यस्विद्धनम् ॥१॥ शां० भा० शेन पत्यगात्मतयाऽहमेवेदं सवमति। परमार्थसत्यरूपणानुवामेदं सर्व चराचरमाच्छादनीयं स्वेन परमात्मना। यथा चन्दनागर्वादेरुकादि- संबन्धजक्ेदादिज मौपाधिकं दौर्गन्ध्य तत्स्वरूपनिवर्षणेनाSच्छादयते स्वेन पारमार्थिकेन गन्धेन तद्वदेव हि स्वात्मन्यध्यस्त स्वाभाविक, कर्तृत्वभोक्तृ- त्वादिळक्षणं जगद्द्वैवरूपं जगत्यां पृथिव्यां जगत्यामित्युपलक्षणार्थत्वा. त्सर्वमेव नामरूपकर्माख्यं विकारजातं परमार्थसत्यात्मभावनया त्यक्तं स्यात। एवमीश्वरात्मभावनया युक्तस्य पुत्राद्येषणात्रयसंन्यास एवाधिकारो न कर्मसु। तेन त्यक्तेन त्यागेनेत्यर्थः। न हि त्यक्तो मृतः पुत्रो वा भृत्यो वाऽत्मसंबन्धिताया अभावादात्मानं पालयत्यवस्त्यागेनेत्ययमेव वेदार्थः। भुञ्जीथा: पालयेथाः। एवं त्यक्तषणस्त्वं मा गृघ: गृधिमाकाङक्षां मा कार्षी आ०टी० ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेशरछान्दोग्ये तत्त्वमसीतिवदित्यर्थः। 'ब्रह्मैव सर्वमात्मैव सत्प्रकाशविशेषतः । हेयोपादेयमावोऽयं न सन््वप्रवदीर्यते' । उक्त च-'न बन्घोऽस्ति न मोक्षोऽस्ति न विकल्पोडस्ति तत्वतः । नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः' इति। यस्यौपदेशकज्ञानमात्रेणानृतटाष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यनृतदृष्टिस्तिरस्क्रियेते- त्यभिप्रेत्य दृष्टान्तमाह-वथेति। चन्दनागर्वादरुद कादिसं बन्धादाद्री मावादिना जातं यहोरगन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिघर्षणामिव्यक्ेन, स्वाभा-

संभवतीत्याह-तद्देव हीवि। स्वभावोऽनादिरविद्या तत्कार्य स्वाभाविक मित्यादिबाघयोग्यत्वप्रदर्शनार्थ विशेषणंम्। एवं विचारादिप्रयत्नवतोऽनृतद् ष्टितिरस्कारसंभावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावना- यामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेन त्यक्तनेत्यत्र त्यागपरामर्शात्। त्यजतैव हि तज्ज्ञेयँ त्यक्त: प्रत्यक्परं पदमित्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चितविक्षेपहेतुत्वेन प्रसति द्ध त्वच्चत्यभिप्रेत्याSSह-एवमीश्वरात्मेति। चिकीर्पित संन्यासं स्तौति-तेन त्यक्तेनेति। त्यागेनाऽडत्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकलत्वा- न्यागस्येत्यर्थः। संन्यासिन: शरीरसंधारणो ग्युक्तकोपीनाच्छादन मिक्षाशनादि - व्यतिरिक्त्तेऽपि कर्थचिद्द्रव्यपरिग्रहे रागश्चेत्पाप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधित्वादित्यमप्रेत्य नियमविघिमाह-एवं त्यक्तैषण इति। १क, ख, ग, झ, म. ट. मेवार्थ:। २ घ, ङ, ढ 'रादेव वस्तुबलस' । च. छ. ज, 'रादंव. स्तुवलस°। ३ घ. इ. छ. ज, द, विधित्सितँ।

Page 19

कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः। शां० भा० र धनविषयाम् । कस्यस्विद्धनं कस्यचित्परस्य स्वस्थ वा घन मा काङ्क्षीरित्यर्थः। स्विदित्यनर्थको निपातः। अथवा मा गृथ:। कस्माव्। कश्यस्विद्धनमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यद्गृध्येत। आत्मैवेदं सर्वमितीश्वरभावनया सर्वे त्यक्तमत आत्मन एवेदं सर्वमात्मैव च सर्वमतो मिथ्याविषयां गृषि मा कार्षीरित्यर्थ: ॥ १॥ एवमात्मविदः पुत्रादयेषणात्रयसंन्यासेनाSSतमज्ञाननिष्ठतयाऽडत्मा, रक्ष- तव्य इत्येष वेदार्थः। अथेतरस्यानात्मज्ञतयाऽSत्मग्रहणायाशक्तस्येदमुपदि- शति मन्त्र :- कुर्वन्नेवेति। कुर्वन्नेवेह निर्वर्तयन्नेव कर्माण्यम्निहोत्रादीनि जिजीविषेज्जीवितुमिच्छेच्छतं शतसंख्याका: समाः] संवत्सरान्। तावादे पुरुषस्य परमायुर्निरूपितम। तथा च प्राप्तानुवादेन यज्जिजीविषेच्छवं वर्षाणि तत्कुर्वन्नेव कर्माणीत्येतद्विधीयते। एवमेवंप्रकारेण त्वय जिजीवि- पवि नरे नरमात्राभिमानिनीत एतस्मादग्निहोत्रादीनि कर्माणि कुर्वतो बर्त- मानात्प्रकारदन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते कर्मणा न लिप्येत इत्यर्थः । अतः शास्त्रविहितानि कर्माण्यग्रहोत्रादीननि कुर्वन्नेव जिजीविपेत। कथं पुनरिदमवगम्यते। पूर्वेण मन्त्रेण संन्यासिनो ज्ञाननिष्ठोक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेत्युच्यते। ज्ञानकर्मणोर्विरोषं आ०टीस्विंदिति निपातस्य सामान्यार्थत्वेऽि कस्यस्विदिति वितर्कार्यत्वमन्यत्र प्रसिद्ध तदिह न गृह्यत इत्यनर्थकमित्युक्तम्। व्यवहारदृष्ट्याऽप्यात्मन एवेदं सर्व शेषभूतं जडस्य चित्परतन्त्रत्वादतोSप्राप्ते विषये नाऽडकाङक्षा कर्तव्या। पर- मार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थ: ॥ १॥ आद्यमन्त्रस्य पूर्वारेन तत्त्वोपदेशः कृतस्तृतीयपादेनापरिपक्कज्ञानस्य सन्यासवि- विरुक्तश्रतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्या- र्थमनुवदत्युत्तरस्य संबन्धामिधित्सया-एवमात्मविद इत्यादिना। पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्थ मन्त्रद्यस्थेत्येकदेशी शाङ्कामुद्ावयति-कथं पुनरिति। शुद्धबरह्मज्ञानकर्म- णोरेकाधिकारे विरुद्धत्वाद्दतुगमनत्रिदण्डिधर्मवदस्त्येव तत्रापि क्रमेणककर्तृकत्व- मिति चेन्न। विशिष्ट रुपभेदाद्भित्धिकारत्वात् यच्चो क ज्ञानकर्मणोर्वेदविहितत्वेन १ क. ख, झ. अ. 'णाश° । २ क. ख. झ. ज. ट. 'युरुचितम्। ३ क, ख. ज. झ. ठ.म्। अथा प्रा । ४ क ख. झ. न, ट 'रेल° । ५ क ख़. ग. 'प्यस इ" ! ६ क स. च. झ.

Page 20

एवं त्वाये नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥ शा०भा०पर्वतवदकमप्यं यथोक्तं न स्मरसि किम्। इहाप्युक्ततं यो हि जिजीवि- षेत्स कर्म कुर्बन्। ईश्ा वास्यमिंदं सर्वे तेन त्यक्तेन भुझ्जीथा मा गृध: कस्य स्विद्धनमिति च। न जीविते मरणे वा गृधि कुर्वीतारण्यमियादितति च पदम्। ततो न पुनरियादिवि सन्यासशासनात। उभयोः फलमे- दं च वक्ष्यति। इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भववः क्रियाप- यश्चैव पुरस्तात्सन्यासश्रोत्तरेण निवृत्तिमार्गेणैषणात्रय्य त्यागः। वयोः संन्यासपथ एवातिरेचयति। न्यास एवात्यरेचयदिति च तैतिरीयके। द्वाविमादथ पन्थानी यत्र वेदा: पतिष्ठिता: । प्रवृत्िलक्षणो धर्मों

सङ्गात्। तदुभयं नैकस्य विहितमिति चेत्तुल्यमेतत्पततिषेधात्तत्र न समुच्चय इति चेदिहापि न कर्मणा न प्रजया नानुध्यायाद्वहुञ्छव्दानित्यादिप्रतिषेघस्तुख्यः। केवलकर्मविषयो निषेध इति न च वाच्यं केवलपद्व्यवच्छेद्याभावात्समुच्चयविधवेर- द्याप्यनिश्चितत्वात्तस्मान्न समुचये तात्पर्य मन्त्रद्वयस्येत्याह-ज्ञानकर्मणोर्विरो धमिति। कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति संबन्धग्रन्थे यथोक्त सहानवस्थानलक्षणं विरोधं कि न स्मरसि येनैकाघिकारत्वं ययो: कल्पयसीत्यर्थः । मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह- इहाप्युक्तमिति। जिजीविषो रागिण: कर्मविहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः। किंच धनसंपन्नस्थैव कर्मण्यधिकारः। प्रथममन्त्रार्थाधिकारिणश्च धना- काङ्क्षानिषेधेन कर्माधिकारनिषेध: प्रतीयत इत्यर्थः। जिजीविषा हि कर्माधिका रिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह-न जीविव इति। अरण्वं

तसंन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्ति कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः। इतश्र नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह-उभयोरिति। को मोहः कः शोक एकत्वमनुपश्यत इति सनिदा- नानर्थप्रहाणं ज्ञानफलं वक्ष्यति। संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति। अझने.नय सुपथेत्यन्तेनेत्यर्थः। नारायणोपनिषद्वाक्यमपि मिन्नाधिकारित्वे प्रमाणयति-इमौ द्वावेवोवि। १क्र. ख. 'ध्यायेद्व"!

Page 21

ईशावास्योपनिषत। ७

असुर्यां नाम ते लोका अन्धेन तमसाऽऽवृताः। ताशस्ते प्रेत्याभिगच्छन्ति ये के चाऽडत्महनो जनाः॥३॥ ० भा० निवृत्तश् विभावित इत्यादि पुत्राय विचार्य निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता। विभागं चानयोर्दशयिष्यामः ॥२॥ अथेदानीमवद्वनिन्दारथोडयं मन्त्र आरभ्यते-असुर्याः परमात्मभावम- द्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषां च स्वभूता लोका असुर्या नाम। नाम शब्दोऽनर्थको निपातः। ते लोका: कर्मफलानि लोक्यन्ते दृश्यन्ते सुज्यन्त इति जन्मानि। अन्धेनादर्भनात्मकेनाज्ञानेन तमसाSडृता आच्छादिवास्ता- न्यावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम्। ये के चाऽडत्महनः। आत्मानं घन्तीत्यात्महनः । के ते जना येऽविद्वांसः । कथ व आत्मानं निर्त्य हिंसन्ति। अविद्यादोषण विद्यमानस्याऽडत्मनस्वि- रस्करणात्। विद्यमानस्याऽडत्मनो यत्कार्य फलमजरामरत्वादिसंवेदनल- क्षणं तद्धतस्येव तिरोभूव भवतीति भाकृताविद्वांसो जना आत्महन उच्य- नते। तेन ह्यात्महननदोषेण संसरन्ति ते ॥ ३ ॥

मयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानावित्यर्यः । व्यासवाक्यमपि संवादकमाह-द्वाविमाविति ॥२॥ आद्यमम्त्रार्थ प्रपश्चयतुं प्रथममविद्वन्निन्दा क्रियत इत्याह-अथेति। ते लोका इति तच्छन्दो यच्छब्दार्ये। यथाश्रुतमिति। येन यादशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमाप्ोतीत्यर्थः । आत्म- हन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह-कर्थ व इति। उंदरभेदिनोऽध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाडडत्म हन्तृत्वमित्याह-अविद्यादोषेणेति। यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोड शस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः । अजरामर स्वादिलक्षणोऽहमिति संवेदनमभिधानं च यत्कार्य तद्धतस्येव न दृश्यत इति हननमुपचर्यंत इत्याह-विद्यमानस्येति। अस्याSSत्मघातस्य प्रायश्चित्तवि धानादर्शनात्संसरणमेव फॅलमित्याह-तेन हीवि॥ ३ ॥ १ क. ख. वृत्तौ च वि° । घ. ङ च. ट. ठ वृत्तिश्व विभाषित। झ.ज. वृत्तौ चैव भावित। २ ग. न्ति योनिमन्ये प्रपद्यम्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसर्पन्ति य"।३ज. इति शंङ्कते क° 1४ ख. घ. ज. नो ह्यात्मा"। ५ घ, ङ च, ज, ठ, फलितामि।

Page 22

अनेजदेकं मनसो जवीयो नैनदेवा आप्नुव्न्पूर्वमर्षत्। शां० मा० यस्याऽडत्मनो इननादविद्वांसः संसरन्ति तद्विपर्थयेण विद्वांसो जना मुच्यन्ते ते नाऽऽत्महनः। तत्कीदृशमात्मततत्वमित्युच्यते-अतेज. दिि। अनेजद, न-एजतू। एजु कम्यने कम्पनं चलेनं स्वावस्थामच्युतिस्त- द्वरजिवं सर्वदैकरूपमित्यर्थः । तच्ैकं सर्वभूतेषु। मनसः संकल्पादिलक्षणा- उजवीयो जववत्तरम्। कथं विरुद्धमुच्यते ध्ुवं निश्चलमिदं मनसो जवीय इति च। नैष दोषः। निरुपाध्युपाधिमत्वेनोपपतेः। तत्र निरुपाधिकेन स्वेन रूपेणोच्यतेऽनेजदेकमिति। मनसोडन्तकरणस्य संकल्पविकल्पल- क्षणस्योपाधेरतुवर्तनादिह देहस्थस्य मनसो ब्रह्मलोकािदूररेंगमनं संक- ल्पेन क्षणमात्राद्मवतीत्यतो मनसी जविष्ठत्वं लोके पसिद्धम् । तस्मिन्म- नसि ब्रह्मलोकादीन्द्रुतं गच्छति सति प्रथमं प्राप्त इवाऽSत्मचैतन्यावभासो गृह्यतेडतो मनसो जवीय इत्थाह। नैनद्देवा द्योतन/ददेवाश्चक्षुरादीनीन्द्रिया- ण्येतत्मकृतमात्मतत्त्वं नाऽडपनुवत्र प्ाप्तवन्तः । तेभ्यो मनो जवीयो मनो व्यापारव्यवहितत्वात् । आभासमात्रमप्यात्मनो नैव देवानां विषयी भवति। यस्माज्जवनान्मनसोऽपि पूर्वमर्षत्पूर्वमेव गतम्। व्योमवद्व्या- पित्वात्। सर्वव्याषि तदात्मतत्त्वं सर्वसंसारधर्मव्जित स्वेन निरुपा- धिकेन स्वरूपेणाविक्रिवमेव सदुपाधिकृता: सर्वाः संसारविक्रिया अनुभवतीवाविवेकिनां मूढानामनेकमिव च प्रतिदेहं मत्यवभासत

आा० टी० उत्तरमन्त्रमवतारयति-यस्याSSत्मन इत्यादिना। अविक्रियमेंक चेदा- त्मतत्वं कथं तार्हि केचन स्वर्गगामिणः केचन नरकगामिण इति सांसारिक व्यवस्था स्यादिति चेन्मनउपाधिनिबन्घनेत्यभिप्रेत्याSSह-मनस इत्यादिना। उपाधेर्रनुवर्तनातूँ। विक्रियादिव्यवहाराश्रयत्वभिति शेषः । ननु मनसो देहा-

न संभवतीत्यर्थः । मनसो वा कर्थ न विषय आत्मेत्यत आह-यस्मादिवि। १ घ. ड. छ. मर्शत् । २ क, ख. नं स्थिरत्वप्र०, ३ क, ख. ग. ङ, च. छ. स, ह्र, 'मरनोप । ४ जै, घिकः स्वे ।५क ख. घ. ङ च, ड. 'रस्थसकल्पनं क्ष°। ६ घ. डं च. मर्शत् । ७ ज. ठ, इत्यत आह ! ८ क ख, झ. 'रनुबर्तमाना। ठ. रनिव 1.९ घ, ड, च ड्र. उ, त्। कि।

Page 23

तद्दावतोऽव्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा द- धाति॥४ ॥ तदेजति तन्नैजति तद्दूरे तद्न्तिके। तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥५॥ श्रां० भा० इन्ट्रियमभृतीनत्येत्य्तात्य गच्छवीँय। हैवार्ये स्वयमेव दर्शयति- तिष्ठदिति । स्व्रयमिक्रियमेव सदित्यर्थः । त्पिन्नात्मतत्वे सति नित्य चैतन्यस्वमावे मातरिश्वा मातर्यन्तरिक्षे श्वयति गच्छतीति मातरिश्वा वायु: सर्वप्राणभृत्कियात्मको यदाश्रपाणि कार्यकरणजातानि यस्मित्रोतानि प्रोतानि च यत्सूत्रसंज्ञकं सर्वस्य जगती विधारयेत स मातरिश्रवा। अपः कर्माणि पाणिना चेष्ालक्षणानि। अग्न्यादित्यपर्जन्यादीना ज्वलनदहनप- काशाभिवर्षणादिलक्षणानि दघावि विभजतीत्वर्थः। धार्यति वा। भीषाऽस्माद्वातं: पत्रत इत्वादिश्रुतिम्य:। सर्वा हि कार्यकारणादिविक्रिया नित्यचतन्यात्मस्वरूपे सर्वास्पदभुते सत्येव भवन्वीत्यर्थः ॥४॥ न मन्त्राणां जामिताऽस्तीवि पूर्वमन्त्रोक्तमप्यर्थ पुनराह-तदेजतीि। तदात्मतत्त्वं यत्मकृतं तदेजति चलति वदेव च नैजसि स्व्रतो नेव चलति स्वतोऽचलमेव सच्चळतवेत्यर्थः। किंच तद्दूरे वर्षकोटिशतर्यविदुष मपाध्यत्वाहर इव । तत, उ, अन्तिक इति च्छेदः। तदवन्तिके सभीपेड- त्यन्तमेव विदुषामात्मत्वान्न केवलं दूरेऽन्तिके च । तदन्तरभ्यन्वरेडस्य सर्वस्य। य आत्मा सर्वान्तर इति श्रुतेः । अस्य सर्वस्य जगतो नामरूप- क्रियात्मकस्य तदु अपि सर्वस्यास्य बाह्यतो व्यापकत्वादाकाश्नवन्निरति- शयसूक्षमत्वादन्तः । प्रज्ञानघन एवेति च शासनान्निरन्तरं च ।। ५॥ आ० टी.यथा मनःस्थं परिमाणं मनसो न विषयोऽत्यन्ताव्यवधानात्तथाऽडत्माडप्यत्य- न्ताव्यवधानान्मनक्षो न विषयस्तद्वचापकत्वाच्वेत्यर्थः। उकात्मसंभावनायोपप त्तिमाह-वस्मिन्नात्मवत्वे सवीति। श्रतानि कर्माणि सोमज्यपय:प्रभृति भिरद्भिः संपाध्यन्त इति संबन्ध ल्ाक्षणिकोऽप्शव्दः कर्मसु प्राणचेष्ायाश्राब निमित्तत्वसिद्धेः। कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक इत्यर्थः। ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽविष्ठाता परमेश्वरः संभाव्यत इत्युक्तमिदानी मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्थमाह- सर्वा हीवि॥ ४॥ जामिताऽडलस्य व्यापित्वाद्व ह्यतोस्त निरतिशयसूक्ष्मत्वानत्व्ति तरं

१घ, ङ, च. ठ. इममर्थ। २ ज. ठ. यैकार। ३ झ, अ. उ, थैंकर। ४ घ. च. छ. दिकि° ।५ क. ख, झ, प्राणिचे।

Page 24

आनन्दगिरिकृतटी कासंवलितश्ांकर भाष्योपैवा-

यस्तु सर्वाणि भूतन्यात्मन्येवानुपश्यति। सर्वभूतेषु चाऽऽत्मानं ततो न विजुगुप्सते ॥ ६ ॥ यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः॥७॥ श० भा० यस्तु। यः परित्राड्मुमुक्षुः सर्वाणि भूताम्य्यक्तादीननि स्थावरा- न्तान्यात्मन्येवानुपश्यत्यात्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु च वेष्वेव चाऽऽत्मानं तेषामपि भूतानां स्वमात्मानमात्मत्वेन यथाऽस्य देहस्य कार्यकारणसंघातस्थाऽडत्माऽइं सर्वप्रत्ययसाक्षिभूतश्रेतयिता केव- को निगुणोडनेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवाSSत्मेति सर्व. भूतेषु चाउडरमानं निर्विशेषं यस्त्वनुषश्यति स ततस्तस्मादेव दर्शनान्न विजुगुप्ससे विजुगुप्सां धृणां न करोति। प्रासतस्थेवानुवादोऽयम्। सर्वा हि घृणाऽडत्मनोऽन्यदूदुष्ट पश्यतो भवत्यात्मानमेवात्यन्तविशुद्धं निरन्तरं पश्यतो न घृणानिमित्तमर्थान्वरमस्तीति माप्तमेव। ततो न विजुगुप्सत इति ॥ ६ ॥ इममेवार्थमन्योऽपि मन्त्र आह-यस्मिन्सर्वाणि भूनानि। यस्मिन्काले ययोक्तात्मनि वा तान्येव भूतानि सर्वाणि परमार्थात्मदर्शनादात्मैवाभूदा- त्मेव संृत्त: परमार्थवस्तु विजानतस्त्रत्र तस्मिन्काले तत्राSडत्मनि वा को मोह: कः शोक:। शोकश् मोहश् कामकर्मवीजर्मेजानवो भवति न त्वात्मैकत्वं विशुद्धं गगनोपमं पश्यतः । को मोहः कः शोक इति शोकमोहयोरविद्या- कार्ययोराक्षेपेणासंभवमदर्शनात्सकारणस्य संसारस्यात्यन्तमेवोच्छेद: श्रद- शिंतो भवति । ७॥ आ० टी० उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्व रूपेणावस्थानमित्याह - यस्त्विवि ॥ ६॥ निरतिशयानन्दरवरूपमत एव दुःखारपृष्ठमात्मानमजानतः शोको भवति हा हतोडहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति।ततः पुत्राद्वीन्कामयते तदर्य देव. साराघनादि चिकीर्षति न त्वात्मेकत्वं पश्यतस्ततोऽवयव्यतिरेकार्म्या शोकादे- रविद्याकार्यत्वावधारणान्मूलाविध्यानिवृत्त्येव शोकादेरात्यन्तिकी निवृत्तिरविद्याफ- लश्वेन विवक्षिता लयमात्रस्य सुषुषेऽपि भावादित्याह-शोकेश् मोह- बेत्यादिना॥७॥ १ ध. न. त्मन्नेवा"। २ विचिकित्सतीत्ययं पांठ उवदभाष्यपुस्तकस्यः। ३क. खर. घ. ऊ इ.ड. 'मवीजमजञान' । ४ च. मज्ञानवतो।५ घ. ङ. च. छ. कमोहयोरिता"।

Page 25

ईंशावास्योपनिषत्। ११

स पर्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपाप- विद्मू। कविर्मनीषी परिभू: स्वयंभूर्यारथातश्ष्पतोऽ- र्थान्व्यदधाच्छाश्वतीभयः समाक्यः॥८॥ * अन्धं तमः प्रविशन्ति येबिद्यामुपासते। शां० भा० योऽयमतीतैर्मन्त्रैरुक्त आत्मा स स्वेन रूपेण किक्षण इत्याहाषं मन्त्र :- स पर्यमात्स यथोक्त आत्मा पर्यगात्परि समन्सादगाहबवाना काशवद्धयापीत्यर्थः। शुक्रं शुद्धं ज्योतिष्महीप्तिमानित्यथः । अकायमर- रीरो लिङ्गशरीरवर्जित इत्यर्थः । अव्रणमक्षतम्। अस्राविरं स्नावा: घिरा यस्मित्र विद्यन्त इत्यस्नाविरम्। अव्रणमस्राविरमित्याभ्यां स्थूळश रीरमतिषेधः । शुद्धं निर्मलमविद्यामलरहितमिति कारणशरीरपतिषेध:। अपापविद्धं धर्माधर्मादिपापवजितम्। शुक्रमित्यादीनि वर्चासि पुंिङ्गतवेन परिणेयानि। स पर्यगादित्युपक्रम्य कविर्ममीषीत्यांदिना पुंलिङ्गत्वेनोप- संहारात्। कविः क्रान्तदर्शी सर्वदक् । नान्योडतोऽस्ति द्रष्टेत्यादिश्रतेः। मनीषी मनस ईर्षिता सर्बज्ञ ईश्वर इत्यर्थः । परिभूः सर्वेषां पर्युपरि भष- वीति परिभूः। स्वयंभूः स्वयमेव भवतीति येषामुपररि भषाति यश्चोपरि भवति स सर्वः स्वयमेब भवतीति स्वयंभूः । स नित्यमुक्त ईश्वरो याथा- सथ्यतः सर्वज्ञत्वाद्यथातथा भावो याथातथ्यं तस्माद्यथाभूक्कमेफळसाथ

आाश्ववीभ्यो नित्याभ्यः समाभ्यः संवत्सवारुपभ्य: मजापतिभष इत्यर्थः ॥ ८॥ अत्राऽडद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो बेदार्थः । आ० टी० योऽयमिति। स्नु प्रक्षरणे धासुः । स्नावयन्ति शरीरमिति सनावाः शिराः क्रान्तमतिक्रान्तं नष्टमित्युषलक्षणं भूतभविष्यदूर्तमानदर्शी ।। ८।। प्रकरणविभागं दिदर्शयिषुर्वृत्तमनुवदति-अघ्राSSद्येनेवि। यदुक्तं भास्करेभ * उवटभाष्येशावास्यरह स्येशावास्यविवृत्तिषु तु नवमदशमयोर्मेन्त्रयोद्वादसम्रयोदशयोन मथातंख्य वैपरीत्यं तथा चतुर्दशैकादशयोैंप्रीत्यं तथाSसे नमेति मन्त्रः पोडशः। तथा वायुरनिलमिति पश्च दशः। किंच वायुरनिलमित्यस्योत्तरार्धस्थाने ॐ कतो स्मर क्विवे स्मर कृतर स्मरेति तथा हिरष्म यैनोति सप्तदशः । किंच हिरण्मयेनेत्यस्योत्तरार्वस्थाने योऽसावादित्ये पुरुषः सोञसावहम्॥ १॥ ॐ सं ब्रह्मेति तथा पूषन्नेकर्ष इति मन्त्रो नास्त्येव तथाऽसुर्या नामेतिमन्त्रान्तर्गत प्रेत्याभिगच्न्ती- त्यस्य स्थाने प्रेत्यापि गचचछन्तीति पाठस्तथा षष्टमन्त्रस्थधिनुगुप्सत इश्यस्य स्थाने विचिकित्सवीति

इति ज्ञेयम्.। पाठः। किंच दशममन्त्रस्य पूर्वार्धस्य स्थाने अन्यदेवाSSहुर्विद्याया अन्यदादुरर्विय्यायाः' एवं पाठ

१ क्र. ख. ज़. झ. ईंशिता।

Page 26

आननदागेरिकृत टौकासंवलतशाकरभाष्योपेवा-

ततो भूय इव ते तमो य उ विद्यायाश रताः ।९॥ शां० भा० ईशावास्यमिद सर्वे मा गृघः कम्य स्विद्धनवित्यज्ञानां जिजी- विषूणां ज्ञाननिष्ठासंभवे कुर्वन्नेवेह कर्माणि जिजीविषेदिति कर्मनि ष्ठोक्ता द्वितीयो वेदार्थः। अनयोध् निष्ठयोविभागो मन्त्रपदशितयो- रबृददारण्यकेऽपि मदर्शितः सोऽकामयत जाया मे स्यादित्यादिना। अज्ञस्य कामिनः कर्माणीति मन एवास्याऽडत्मा वाग्जायेत्याि- वचनात। अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्वितमवगम्यते। तथा च तत्फलं सपान्ननसर्गस्तेष्वात्मभावेनाऽडत्मस्वरूपावस्थानं जायाद्येपणा त्रयसंन्यासेन चाSडत्मविदां कर्मनिष्ठामातिकूल्पेनाऽSत्मस्वरूपनिष्ठैव दर्शि- ता कि प्रजया करिष्यामो येषां नोऽयमात्माड्यं लोक इत्यादिना। आ० टी०-सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचितमिति। तद्सत्। प्राणादयुपासनविधानस्याप्युपनिषत्सु दर्शनात्। न च तद्पि ब्रह्मज्ञाना- ङमिति वाच्यम्। पृथकफलश्रवणातें। तेनापि व्याकृताव्याकृतोपासनसमुच्चयवि-

कर्मकाण्डेडग्निहोन्ादिशकरणं मिन्नमेवेष्यते मिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोप.

मन्त्रार्थे ब्राह्मणसंमति दर्शथितुमुपक्मते-अनयोश्षेत्यादिना। तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्कयाऽडह-मन छचेति। जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्वादथ कर्म कुवीयेति कामयमानस्य सर्वथेव बाह्यो जाया दिर्यदा न संपद्यते तदाSध्यात्मजायादिसंपत्ति दर्शयति-एतच्चाज्ञत्वलिङ्गं

सुप्तौ मनोविजम्भितकामिनीमुपभुआ्जनोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः । तेषां च कर्मणां फलं संसारािरेवत्यपि तत्रैव दर्शितमित्याह-तथा चतति। एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा त्रण्यस्य भोग- साधनानि मनोवाक्प्राणलक्षणानि पश्चर्थमेकं तत्पय इति सतान्नसरगो दर्शितः श्रुत्या यत्सप्ाञ्ानि मेधया तपसाऽजन्पितेत्यादिना। अन्रकैको यजमान एव विहितपतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्थ संसारस्य साक्षात्पारम्पर्याम्यां जनकत्वात्पितोच्यते। तेष्ु च सष्टेष्वन्नेषु तस्य पितुरहमिदं ममेदमित्यात्मत्वा- ध्यासेन मनआदिष्वितरेषु च संबन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः । एवं मन्त्रप्रदर्शिते निष्ठाह्ये ब्राह्मणसंम्ति दर्शयित्वा प्रकरणविभागं १ च. रवासूपनिषत्स्वेकं।२क. श. त्। स्वेना"। ३ ज. तेन भास्करेणापि। ४ घ. ङ. ठ. 'नस्यापक्रान्तत्वा" ।५ छ, न. प्कान्तत्वा° , ६ क झ. ध्यात्मं जा।७घ. ङ. च. ज, ठ, त्रीणि स्वस्य। ८ न. झ.त्रैको।

Page 27

इंशावस्योपनिषद। १३

i० भा० ये तु ज्ञाननिष्ठाः सन्यासिनस्ते्पोडसूर्या नाम त इत्यादिनाऽविद्व

ह्त्राधिकृता न कामिन इि। तथा च श्वेवाश्ववराणां मन्त्रोपनिषदि, अत्याश्रमिभ्य: परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टमित्यादि विभज्यो क्म्। ये तु कर्मिणः कर्मीनेष्ठाः कर्म कुर्न्त एव जिजोविषवस्तेभ्य इद- सुच्यत-अन्धं तम इत्यादि। कथं पुनरेवमवगम्यते न तु सर्वेषामित्यु- त्युच्यते-अकामिनः साध्यसाधनभेदोपमर्देन यम्मिन्सर्वाण भूतान्यात्सै वाभूद्विजानतः । तत्र को मोहः का शोक एकत्वमनुपश्यत इति यदातमै- कत्वविज्ञानं त्षन्न केनचित्कर्मणा ज्ञानान्वरेण वा ह्मूढः समुचचिचीषति। इह तु समुच्चि चीषयाऽविद्वदादिनिन्दा क्रियते। तत्र च यस्य येन समुचय: संभवति न्यायतः शास्त्रतो वा तदिहोच्यते। यहदव वित्तं देवताविषयं आ० टी०-दर्शयति-ये तु ज्ञाननिष्ठा इत्यादिना। अत्याश्रमिभ्य इति। उत्त- माश्रमिम्य इत्यर्थः । साध्यसाधनभेदोपमर्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूनान्यात्मैवाभू देत्यवधारणेनोंक्तं पूर्वार्धेनोत्तरार्धेन च संसारनिवृत्तिफल कमु कं ं श्रीतेन स्मार्तेन वा कर्मणा केनचिदमूढ: समुच्चिचीषति। अन्धं तम इत्यादौ तु समुच्चिचीषयाडविद्वदादिनिन्दा दृश्यते। ततः किमित्यत आह-तत्र च यस्येति। कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः संभवतीत्यत आह-यद्दैवं विच मिति। यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रकरान्तत्वात्तस्या एव समच्चिचीषया निन्दोच्यत इति। तदसत्। न हि प्रकृतमित्येतावता संत्र- ध्यते किंतु संबन्धयोग्यम्। शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यव्यासोपमर्दक० त्वान्नास्ति कर्मसबन्घयोग्यता। किंच यस्मित्निष्पन्नेऽपि फलस्य व्यवधान संभा• व्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेरिह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफ- लम्। ततो न सहकारिसमुच्चिचीषा। किचास्या मन्त्रोपनिष्रदो ब्राह्मणे ब्राह्मणा विविदिषन्ति यज्ञेनत्यादौ तृतीयाश्ुत्या यज्ञादेरिष्यमाणवेदने करणत्वेन संबन्धः प्रतीयते। तत्कर्थ दुर्बलेन प्रंकरणेन सहकारितया सबन्धः प्रकल्प्यते। प्रधा- नस्य च विद्याया: सहकारिसंबन्धविधित्सया निन्देत्यप्ययुक्तम्। अत एव चाग्नीन्धनाद्यनपेक्षेति सूत्रविरोधर्य्रे समुच्चयश्ष परेणापि नष्यते। विराधेने च परिजहे तस्मात्कर्माविरुद्धदेवताज्ञानस्ैवात्र समुच्चयो विधित्स्यते। ननु देवता १ च. 'ते यथा द° । २ झ. देरिवेह। ३ ध. ङ, ज. ठ. किंच ब्राह्मणा वि° । ४ च. ज. 'क्व। अमीन्घनोपलक्षितकर्मस' ५ ग न. छ् ज 'न चापाचके त" । ङ ठ. न चापा चक्रमे!

Page 28

आनन्दागेरिकवटीका स वालितशांकरभाष्योपेता

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥ १० ॥ विद्या चावियां च यस्तदवदोभय सह। शा० भा० ज्ञानं कर्मसंबन्धित्वेनोपन्यस्वं न परमात्मज्ञानम् । विद्यया देव- लोक इवि पृथक्फलश्रवणात्। तयोज्ञनिकर्मणोरिहै के कानुष्ठाननिद्दा समु. विचाषया न निन्दापरवककस्य पृथक्फलश्रवणात्। विद्यया तदारोह- न्वि। विद्यया देवलोकः। न तत्र दक्षिणा यन्ति। कर्पणा पितृलोक इति। नहि शास्त्रविहितं किचिदकर्तव्पतामियात्। तत्रान्धं तमोऽदर्शैना- तमकं तमः प्रविशन्ति। के। येऽविद्या विद्याया अन्याऽविद्या वा कर्मे स्पर्थ:। कर्मणौ विद्याविरोधित्वात्। तामविद्यामश्नहोत्रािलक्षणामेव के वलामुपासते तत्परा: सन्तोऽनुतिष्ठन्तीत्यभिमायः। ततस्तस्मादन्धात्म- कासमसो भूय एव बहुतरमेव ते तमः प्रविशन्ति।के कर्म। हित्वा ये उ ये तु विद्यायामेव देववाज्ञान एव रता अभिरताः। तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलबदफळबतो: संनिहिति- मोरङ्गाड्गिं्तैव स्यादित्यथे। ॥ ९ ॥ अन्यदेवेत्यादि। अन्यत्पृथगेव बिद्यया क्रियते फळमित्याहुर्वदन्ति विद्यया देवलोको विद्यया बदारोहम्वीति श्रुतेः। अन्यदाहुरविद्यया कर्मणा क्रियते कर्मणा पितृलोक इति श्रतेः। इत्येवं शुश्तुम ख्रववन्तो बयं धीराणां भीमतां वचनम्। य आचार्या नोडस्मभपं तत्कर्म च ज्ञानं च विचचक्षिरे व्यार्यातवन्त्रस्तषामयमागमः पारम्पर्यागत इत्यर्थ: ॥ १० ॥ यत एवमतो विद्यां चाविदयां च देवताज्ञानं कर्म चेत्यर्थः। यस्तदेवदुभयं आ०टी •- ज्ञानस्य कर्मफलातिरिक्तफलभावात्समुच्चयो न संभवतीत्यत आह- विद्ययेति। ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते। अध्ययनविवे-

नेष्यते तत्राऽडह-तयोर्ज्ञानकर्मणोरिति। न फलशब्दो मोक्षे रूढो मोक्षम- निच्छतामाप समीहिते फलव्यवहारदर्शनात्ततो. यो देवलोकादिमुपादित्सते तस्म तदपि फछं भवत्येवेत्यर्थः ।९॥१०॥११ ।। १ 'विद्याया अन्य° । २ "विद्यायाः। इ°, उवटभाष्यस्थाविमौ पाठौ । ३ झ. ञ. ट. 'णोड. विद्याविरोघाभावात् । ग. घ. ङ, ज. ठ. एतेष्विदं नास्यव ।४ क. ख. डगितया जाभितै®। ग. म, न. 'इगितायां जामितै ५ज :त्वात्कर्मणो विन्दा मुण्ड कादिषु श्रूयते। प्वा. ह्येते अदढा पहरूपार प्रहा ।६ ग. "पि वाबच्कतस।

Page 29

ईश्ावास्योपनिषत्। १५

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते। १३॥ अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते। ततो भूय इव ते तमो व उ संभूत्या रताः ॥ १२ ॥ अन्यदेवाऽडहुः संभ्नवादन्यदाहुरसंभवात्॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ शां० भा० सदेकेन पुरुषेणानुष्ठेयं वेद वस्यैवं समुच्चयकारिण एवैकपुरुषा- र्थसंबन्धः क्रमेण स्वादित्युच्यते-अविद्यया कर्मणाऽन्निहोत्रादिना मृत्युं स्वाभाविकं कर्मज्ञानं च मृत्युशब्दवाच्यद्रुभयं तीर्त्वाडतिकम्य विद्यया देवताज्ञानेनामृतं देववात्मभावमश्तुवे मामोवि तद्यमृतमुच्यते यदेचवात्म- गमनम् ॥ ११ ॥ अधुना व्याकृताव्याकृतोपासनयोः समुच्िचीषया प्रत्येकं निन्दोच्यते- अन्धं तमः प्रविशन्ति येऽसंभूर्ति संभवनं संभूति: सा यस्प; कार्यस्य सा संभूतिस्तस्या अन्याऽसंभृतिः प्रकृति: कारणमविद्याव्याकृताख्या ताम- संभूतिमव्याकृतारयां अकृतिं कारणमविद्यां कामकर्मबीजभूतामदर्शनाल्नि- कामुपासते ये वे तदनुरूपमेवान्धं तमोSदर्शनात्मक पविशन्ति । ववस्वस्मा- दपि भूयो बहुतरभिव तमः प्रविशन्तिय उ संभूत्यां कार्यब्रह्मणि हिरण्य- गर्भारुये रताः ।।१२ ।। अधुनोभयो रुपासनयो: समुचयकारणमवयवफल मेदमाह-अन्यदेवेति। अन्यदेव पृथगेवाऽडहुः फलं संभवात्संभूवेः कार्यव्रझमोपासनादणि- माधैश्वर्यलक्षणं व्याख्याववन्त इत्यर्थः। तथा चान्यदाहुरसंभवादसंभूवेर- व्याकृतादव्याऊतोपासनाद्यदुक्त्तमन्धं तमः प्विशन्तीति प्कृतिलय इति च पौराणिकैरुच्यत इत्येवं शुश्रुम घीराणां बचनें ये नस्तद्विचचक्षिरे व्य़ाकृताव्याकृतापासनफलं व्याखयातवन्त इत्यर्थः ॥ १३॥ आ०टी चिततन्त्रा माया परमेश्वरस्योपाधिः। माया तु प्रकृति विद्यान्मायिनं वु महेश्व- रमित्यादिश्रुत्यन्तरप्रसिद्धान्रासंभूतिश्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः। भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके निरस्त एवास्माभि: सांसारिकदुःखानुमवाभावेन च सुषुत्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्य- मानताउप्युपपद्यते। फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति। ततो जडत्वात्प्रकृतेः फछदावृत्वानुपप त्तेरुपास्यत्वानूपपनरव्यवि कुचोदयमेव ॥ १२॥॥ १२ ॥ १३ ॥ १क. ख. तितन्त्रत्वा"

Page 30

१६ आनन्दागिरिकृतटीकासव लितिशांक भाष्योपेता- संभूति च विनाशं च यस्तद्वेदोभय सह। विनाशन मृत्युं तीत्वा संभूत्याऽमृतमश्नुते॥ १४ ॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं भुखम्। तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये।। १५।।

शो०भाव्यत एवमतः समुच्चयः संभूत्यसंभूत्युपासनयोर्युक्त एवैकपुरुषाथे त्वाच्चेत्याह-संभू्वि च विनाश च यस्तद्वेदोभय सह। विनाशेन विनाशो धर्मो यस्य कार्यस्य स तेन धर्मिणाSमेदेनोच्यते विनाश इवि। वेन तदु- पासनेनानैश्वर्थमधर्मकामादिदोषजातं च मृत्युं तीर्त्वा हिरण्यगर्भोपासनेन

सनयाऽमृतं प्रकृतिलयलक्षणमश्तुते। संभूर्ति च विनाशं चेत्यत्रावर्णलो- पेन निर्देशो द्रष्टव्यः। प्रकृतिलयफलश्चत्वतुरोधात॥१४॥ मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं पक्ृतिलयान्तमू। एवावती संसा- रगतिः। अतः परं पूर्वोक्तमात्मेवाभूद्विजानव इति सर्वोत्मभाव एव सवेष- णासन्यासज्ञाननिष्ठाफलस्। एवं दविपकार: पर्टत्तिनिवृत्तिलक्षणो वेदार्थो प्रकाशितः । तत्र व्ठत्तिलक्षणस्व वेदार्थस्य विधिमतिषेधलक्षस्य कृत्स्स्ष प्रकाशनेऽत ऊध्व बृद्ददारण्यकसुपयुक्के तत्र निषकादिश्मशानान्तंकर्ष कर्बझजीविषेद्यो विद्यया सहापरब्रह्मविषयया तदुक्तं विद्या चाविदां च यस्तद्वेदोभय५ सह। अविद्यया मृत्युं वीत्वा विद्ययाऽमृतमरनुत इति। तत्र केन मार्गेणामृतत्वमश्तुत इत्युच्यत-तय्यत्ततसत्यमस सआदित्यो य एष एवस्मिन्मण्डले पुरुषो यश्रायं दक्षिणेऽक्षनपुरुष एतदुभयं सत्य ब्रह्मो- पासीनो यथोक्तकर्मकुच्च यः सोन्तकाले प्राप्ते सत्यात्मानमात्मनः पराप्तिद्वार याचते हिरण्मयेन पात्रेण । हिरण्मयमिव हिरण्मयं ज्योतिर्भयमित्येतत्। तेन पात्रेणेवापिधानभूतेन सत्यस्थवाऽडदित्यमण्डलस्थस्य ब्रह्मणोडपिहि- तमाच्छादिवं सुखं द्वारं वत्वं हे पूषत्रपाृण्वपसारय सत्य-

आा०टी• विस्तरेणो क्मर्थजातं संक्षिष्योपसंहरति-मानुषदैववित्त साध्यमित्यादिना । शरीरपाट्वं गोभूहिरण्याविसाधनसंपत्तिश्र मानुषं वित्तम् । दैवं वित्तं देवता

Page 31

ईशावास्योपनिषत्। ०१७

धूषन्नेकर्षे यम सूर्य पाजापत्य व्यूह रश्मीनसमूह 7 तेजो यत्ते रूपं कल्याणतमं तन्ते वश्यामि योऽसा- वसौ पुरुषः सोऽहमस्मि ॥ १६ ॥ वायुरनिलममृ- तमथेदं भस्मान्त शरीरम्। शी० भा० धर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोडहं सत्यधर्मा वस्मे मह्यमथवायथाभूतस्य धर्मस्यानुष्ठा्रे दृष्टये तव सत्यात्मन उप- लब्धये॥ १५॥ पूषन्निति। हे पूषन्। जगतः पोषणात्पूषा रविस्तयैक एवं ऋषाति गच्छवीत्येकर्षिः । ह एकर्षे । तथा सर्वस्य संयमनादमः। हे यम। तथा रकमीनां पाणानां रसानां च स्वीकरणात्सूर्य। हे सूर्य। प्जाषतेर पत्यं माजापत्यः । हे पाजापत्य। व्यूह विगमय रश्मीन्सवान्। समूह, एकी कुरु, उपसंहर ते तेजस्तापकं ज्योतिः। यत्ते तव रूपं कल्याणतम मत्यन्तशोभनं तत्ते तवाऽड़त्मनः प्रसादात्पश्यामि। किवाह नतु त्वा भृत्य व- दयाचे। योऽसावादित्यमण्डलस्थो व्याहत्यवयव: पुरुषः पुरुषाकारत्वात्पूर्ण वाडनेन पावुणद्ध्यात्मंना जगत्समस्तमिति पुरुष पुरि शयनाद्ा पुरुष: सोऽहमस्मि भवामि ॥ १६ ॥ वांयुरिति। अथेदानी मम मरिष्यतो वायु: पराणोऽध्यात्मपरिचछेद हित्वाSविदेवतात्मानं सर्वात्मकमनिलनमृवं सूत्रात्मानं प्रतिपद्यवा- विवि वाकयशेष: । लिङ्गं चेदं, ज्ञानकमसंस्कृतमुत्कामत्विति द्रष्टन्यम्।

त्यादिना। तदुक्तमिति तं प्रत्युकं मन्त्रेण वरिद्यां चे यादिनाऽडेक्षिकामृसत्वं

व्याहृत्यवयव इति। तस्य भूरिति शिरः, भुव इति बाहु: । सुवरिति प्रतिष्ठा । पादावित्यथ:॥। १६॥ १७॥। १ च. सत्यधर्मस्तस्मै। यद्यप्ययमेव पाठे मूलानुसारेग समीचीन इति भाति तथाऽपि क व्यतिरिक्तपुस्तकेषु सत्यधर्मा तस्मै, इलेव पाठ उपलब्धः। स, एव शंकराचार्याभिप्रेत इते गभ्यते। कुत इति चेदुच्यते-मूले सत्यधर्मायेति पदं वतते तत्त भाषायां वैयाकरणरीत्या न सिध्यति किं सहि धर्मादनिकके व्रलादिति- पाणिनिसत्रेण समासान्तानिच्चात्यर्मन भाग्यम्। तथा च सत्यधर्मेण इति स्यादत आचा्षे: सत्यवर्मायुव्यस्याSडर्पप्रदरशनार्थ भाष्ऽनि जन्तसत्यवमश्दस्य प्रथमैकव चनस्य प्रदर्शिनत्वावृिति बेयम्। २ज. "वः परोक्षोडतौ शास्रदट्टया प्रत्यक्षः पु'। ३ च.' वरिति बाहु: सु ।

Page 32

१८

ॐ क्रतो स्मर कृत समर कतो स्मर कतश स्मर॥ १७॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्.। शां० मा० मार्गयाचनसामर्थर्यात्। अथेदं शरीरमग्नी हुतं मस्मान्तं भूयात।

-रयते। हे क्रवो संकल्पात्मक स्पर यन्मम स्मर्तव्यं तस्य कालोडयं मत्यु- पस्थितोऽतः रपरैतावन्तं कालं भावितं कृतमगने स्मर यन्मया बाल्यप्रभृत्य- सुष्ठितं कर्म तच्च स्मर।क्रतो स्मर कवं स्मरोति पुनर्वचनमादरार्थम्।।१७॥ पुनरन्येन मन्त्रेण मार्ग याचते-असे नयेति। हेऽये नय गमय सुपया शोभनेन मार्गेण। सुपयेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थक्। निर्वि- णणोडहं दक्षिणेन मार्गेण गतागतलक्षणेनातो याचे त्वां पुनः पुनर्गमना- गमनवर्जितेन शोभनेन पथा नय। राये धनाय कर्मफळभोगायेत्यर्थ: । अस्माग्यथोक्तधर्मफलविशिष्टान्विश्वानि सर्वाणि हे देव वयुनानि कर्माणि मानवानि वा विद्ाञ्जानन् । किंच युयोधि वियोजय विनाशयास्मद- स्पत्तो जुहुराणं कुटिलं वञ्चनात्मकमेनः पापम्। ततो वयं विशुद्धा: सन्त इष्ट पाष्स्याम इत्यभिमाय: । किंतु वयभिदानी वे न शक्नुम परि- वर्यां कर्तु भूयिष्ठां बहुतराम्। ते तुभ्यं नमउरकति नमस्कारवचनं विधम नमस्कारेण परिचरेमेत्यर्थः अविद्यया मृत्युं तीतरवा विद्ययामृतमश्तुते विनाशेन मृत्युं तीत्वा संभूत्याऽमृक्मश्तुत इति श्रत्वा केचित्संशर्य कुर्वन्ति। अतस्तशनिराकरणार्थ संक्षेपतो विचारणा करिष्यामः।तत्र तावर्तिकिनिमित्त: संशय इत्युच्यते। विद्याशब्दन मुख्या परमात्म- विध्येव कर्मान गृह्यवेऽमृतत्वं च / ननूक्तायाः परमात्मविद्याय कर्मणश्र विरोधात्समुच्चयातुपपत्तिः। सत्यम्। विरोधस्तु नावगम्पते। विरोधाविरोधयो: आस्त्रममाणकत्वात्। यथाऽविद्यानुष्ठानं विद्यो- पासनं च शास्रपमाणकं तथा तद्विरोधाविरोधावपि। यथा च न हिंर्स्योत्सर्वां भूतानीति शास्त्रादवगतं पुनः शास्रेणव बाध्यते आन्टी•मन्त्रान्पदशो व्यासयाय संक्षपतो विचारमास्मते-अवद्यया मृत्युं तीतेत्या दिना। अमृतत्वं चेति। अमृतत्वं च मुख्यमेव करमान्र गुद्यत इति सं- न्यः। सात्तीय योज्षननिकर्मणोविरो वाविरोयी वाक्किय।षेव ग्राह्या म तर्कमञे १ घ. ऊ च, छ. ठं. कम" । २ ग. ब्रह्मेव ओमितयुच्य। ३ क. ख. ग, मग्रे स्म। 5. ख. म. मं. ढ. 'सननिर्धार"। ५ध. अ. ठ. ड. 'स्यात्सर्वम्" 1 एंतदन्यपुस्त केषु सर्वा, हत्येव पाठो हशयते। अतः सर्वोणी त्यर्थकसवां, इतिपदघठितवाक्यस्य श्रतिस्थत्वमनुमायते।

Page 33

१९

युगोध्यरमज्जुहुंराणमेनो भूगिष्ठां ते नमडक्तिं विधेम ॥१८॥ इत्युपनिषत। इति वाजसनेयसंहितोपनिषत्संपूर्णा ।। ॐ पूर्णमदः० शिष्यत। ॐ शान्तिः शान्तिः शान्तिः ।

शं० भा० ध्वरे पञचुं हिंस्यादिति। एवं विद्याविद्ययोरपि स्पात् । विद्याकर्म- णोश्च समुच्चयो न दूरमेवे विपरीते षिषूची अविद्या या च विद्येति श्रुतेः। विद्यां चाविदयां चेति वचनादविरोध इति चेने। हेतुस्वरूपफलविरोधात्। विद्याविद्याविरोधयोर्विकल्पासंभवात्समुच्चय विधानादविरोध एवेति चेन्न । सहसंभवानुपपत्तेः । क्रमेणकाश्रये स्यातां विद्याविद्ये इवि वेन्न। विद्योत्पत्तावविद्याया ह्यस्तवत्वात्तदाश्रयेऽविद्यानुपपचेः । न ह्वमिरुष्ण: प्रकाशश्वेति विज्ञानोत्पत्तो य्मिन्नाअ्रपे सदुत्पन्नं तस्मिस्रेवाSडश्रये श्रीसोड प्रिरपकाशो वेत्यविद्याया उत्पत्तिर्नापि संशयोऽज्ञानं वा। यस्पिम्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोह: कः शोक एकत्वमनुपश्यत इवि झोकमोहादसंभवश्रुतेः । अविद्यासभवात्तदुपादानस्य कर्मणोडप्यनुपपत्ति आ० टी० णेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह-न दूरमेवे इि। विषूची नानागती विद्याविधे दूरं विपरीते अतिञ्ञयेन विरुद्धे इत्यर्थः । सहसंभवानुपपत्तरिति। काऽनुपपत्तिः। काठके विरोधश्रवणात्। तद्गत• विद्याविद्ययोर्विरोधोऽस्ठ। इह स्वविरोधश्रवणादविरोधो मविष्यतीति न वाच्यम्। विरोधाविरोधयोः सिद्धत्वेन विकल्प।संभवादुदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, त्ह्यविरोध एवास्तु समुच्चयविधिवलादिति चन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्याविद्ययोरिब सहसंभवानुपपत्तेः समु० चयविधिरसिद्धः । सिद्धे समुचचयविधौ तद्वलाद्विरोधावगमोडविरोधावगमाच्च समुच्चयसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः । सहसंभवानुपपत्तावपि क्र्मेणे- काश्रये विद्याविदे स्यातामिति चैद्यदि पूर्वमविदा पश्चात्तु विदेति कमस्तारहे- ष्यत एव। यदि पश्चात्तर्ह्वसंभव इत्याह-न विद्योत्पत्ताविति। पूर्विद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्रोत्पत्तौ कारणासंभवान्मूलाभावेन भ्रमसं- शयाग्रहणानामपि विदुषोऽनुपपततिरित्यर्थः । विद्योत्पत्तौ मा भूदविद्या कर्म तुं भविष्यति विदुषोऽपि व्यारूयानभिक्षाटनादिदर्शनादित्याशङ्कचाSडह-अवि. दासंभवादिति। चोदनाप्रयक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं १घ. ङ. च. छ, ज, ट. ड. 'ति ज्ञातेति श्र°। २ ग. घ. ज. ल. ढ. "त्र । विरोधावि" ।

Page 34

आनन्दगिरिक वटीकासवलितशांकरभाष्योपेता। शां० भा० मवोचाम। अमृतमश्नुत इत्यापक्षिकममृतं विद्याशव्देन परमात्म विद्याग्रहणे हिरण्मयेनेत्यादिना द्वारमार्गादियाचनमनुपपन्नं स्थात्तस्मादुपा सनया समुच्चयो न परमात्मविज्ञानेनेति यथाडस्माभिव्योंख्यातएव मन्त्राणामर्थ इत्युपरम्यते ॥१८ ॥ इवि श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ वाजसनेयसंहितोपनिषद्भाष्यं संपूर्णम् ॥ ॥ ॐ तत्सत् ॥

भा० टी० श्रह्मात्मैकत्वं वु साक्षाद्नुभवतो न चोदना संभवति कामाभावात्कामिनो हि सर्वाश्चादनाः । अकामिनः क्रिया काचिद्दृश्यते नेह कस्यचित्। यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥ इति स्मरणात्।

कर्म, धोदनामावात्किंतु यावत्प्राणशरीरसंयोगभावि तंत्कर्माभासं तच्च विद्वान् स्वगतं मन्यते। कर्माध्यासोपदानाविद्याया असंभवा/न्नैव किचित्करोमीति प्रत्यया- च्चेति भावः। यदुक्त्ममृतशब्देन मुख्यमेवामृतत्वं कि न गृह्यते। विद्याशबदेन च परमात्मविद्येति तत्रा-अमृतममिति। मुख्यामृतत्व्र णे हिरण्मया दिम- न्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात्। न. तस्य प्राणा उत्कामन्तन्न ब्रह्म समश्नुत इत्यादिश्रुतेः । ततो मुरूयार्थबाधाद्गौणार्थग्रहणं युक्तित्यर्थः । बक्मादर्थान्तरं न संगच्छते तस्मादित्युपसंहारः ॥१८॥ ईशाप्रभृतिभाष्यस्य शांकरस्य परात्मनः । मन्दोपकृतिसिद्धचर्थ प्रणीत टिप्पण स्फुटम् ॥

ज्ञानकृता वाजसनेयसंहितोपनिषद्धाष्यटीका समाप्ा॥ ॥। ॐ तत्सतू।।

9 क. ख. ग. झ. ञ.ट. समादथोपा: ३घ. ङ. ज. ट 'ते किचित्तत्त'- ३ ब, उब स.ड. वरेः।,अतो. मुख्यार्ये वा।"

Page 35

ॐ। समासं कर्मकाण्डं ज्ञानकाण्डमिदानी मस्तूयते । ईशा वाष्य सेस्रोऽनुष्टुभः । दध्यङ्ड्थर्वण ऋाषि: स्वं शिष्यं पुत्र वा गभाधानी देभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादिवपुत्रं यथाशकत्यनाष्ठ तयज्ञमंपापं निःस्पृहं यर्मनियमवन्तमतिथिपूजापनीतककिल्विषं मुमुक्षमुप- सन्नं शिक्षपन्नाइ-ईशा वास्यमिद सर्वमिति। ईश् ऐश्वयें किपि तवीया स्यैतदूर्प यदीशाऽनेन वास्यं वांसनीयं ममेदमित्यनया भावनयाSड चछादनीयामदं सर्वमिति प्रत्यक्षतो निर्दिशति। यत्किच यत्किचशब्दो भिन्नक्रमः। किंच यज्जगत्यां पृथिव्यां जगज्जंगमादि स्वस्वामिसबन्धा- लिङ्गित स्यांत्तिनानेन सर्वेण त्यक्केन त्यक्तस्वस्त्रांमिसंबन्धेन भोगा- न्भुञ्जीथा अनुभवेः। मा गृधः। गृधु अभिकाङ्क्षायामिति माडभिका- डक्षय मा कृथा ममेदमिति। कि कारणं कस्य स्विद्धनं स्त्रिदिति निपा- तो विवर्कवचनः । कश्य पुनरेतद्धनं न कस्थचिदपीत्यर्थ इत्याभिपायः। सर्वाण्ययथार्थानि हि द्रव्याण्ुत्पद्यन्ते। तद्यथा स्त्रियं पतिरन्यथा भुड्क्तेऽन्यथा पुत्रोऽन्यथा माघूणकः। तथा च कटककेयुरकुण्डलादीन्य- लंकरणान्यन्यं चान्यं च पुरुषमुपतिष्ठमानानि दश्यन्ते। अतः सर्वार्थस्य यः स्वस्वामिसँबन्धो ममेदमिति बुद्धि सा त्वविद्या। निःसपुइस्य योगेऽधिकार इति वाक्यार्थः ॥१॥ निःसपृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाइ- कुर्बलेव। कुर्वन्रेव कर्माणि मुक्तिहेतुकानीह लोके जिजाविषेज्जिजीविषे रिति पुरुषव्यत्ययः प्रत्थक्षकृतत्वान्मन्त्रस्य जीवितुमिच्छे: पथ्यहित- मितभक्षणेन शतं समा इत्युपलक्षणार्थम्। एवं त्वाये तवोव विभक्तिव्य-, त्थयः। मुक्तिरस्वीति शेष। नान्यथेतोरस्तीतः प्रकारादरन्यथा मुक्ति नौस्ति। एतदुक्तं भवति-यथा स्वर्गपास्ी नानाभूता: प्रकारा: सन्ति न तथा मुक्तावित्यर्थः। ननु कर्मणः फलेन भवितव्यम् । अथ कर्थ, मुंक्ते: पाप्तिरित्येतदाशङ्डयाSSह-न कर्म लिप्यते नरे। न हि मुक्त्यर्थे कर्म क्रियमाणं नरे मनुष्ये संबध्यते । मुक्तिदानेनोपक्षीणशक्तित्वात्ः।, तया च बृहदारण्यकम्-तमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण १ क. 'बार्या । ३ क प्राषुणिक। ने क 'स्पस कृत्षा मन्त्र"।

Page 36

तपसा शद्धय यजञेयानाशकेन चेति । विभिदिषन्ति वेदितुमिच्छनन्ति। इदानीं रवर्गादिपाप्तिभूतानि कर्माणि ये कुर्वन्ति ते निन्धन्ते-असुर्या नाम।असुर्या: परमात्मभावमट्यमपेक्ष्य देवादयोऽप्यसुरा असुराणां रव- भूका एवंसंज्ञकारवे कोकाः। अन्घेन तमसाउज्ञानलक्षणेन तमसाऽडबृता: संघतास्वालाँकांस्वे जना: प्रेत्य सृत्वाऽपि गच्छन्ति। ये के चाsडत्म- हनो जना:। ये जना आत्मानं निघ्नन्ति ये स्वर्गभाप्तिदेतुभूवानि हि ननं कर्माणि कुर्वन्ति वे हि जनित्वा स्रियन्ते मृत्वा जायनत एवं महतीं बिनषि पाप्तुवन्ति ॥ ३ ॥। इदानीं यमनियमवर्ता सुसुक्षणां यथाभूर्त परं ब्रह्म, आत्मत्वेनोपास्यं तदाह-उक च-'अहं ब्रह्मास्मि संबुष्य इद सर्वे च मन्मयम्। माये विध्या समुदिष्ट विमुत्तिर्यभिबन्धनी' इति । अनेजदेकम्। त्रिष्ठवयदनेजद्च- लन्कत्वमरित। एकमद्वितीयं विज्ञानघनरूपेण मनसो जबीयः । मनस्वा- वच्छीघं भवाति बतोड़पि शीघ्रतरं प्रसवदानेन कारणभूतत्वाद। नैनदेवा आप्नुवन्। न चैतत्तत्वं देवा अपि प्ाप्तुं पक्ता:। सूक्ष्मत्वात्। पूर्वमर्थद। रिशविहिसा कर्मा। पूर्व पूर्वमपि विद्यमानं सदर्भद्विशतीति रियन् रिभदर्शव। गावोरिकारळोपश्छान्दस: । इकारलोपे कृतेऽर्शद्रवत्यविनश्यदास्वेड- नादिनिषनमित्यर्थः। तद्धावतस्वदः स्थाने यदो वृत्तिरुददश्यत्बात्। यच् घावतोऽन्यान्पुरुषादीनत्येत्यतिक्रम्थ गच्छति तथा तिष्वत्सवत्र स्थिवं सर्वगवत्वं सर्वशक्तित्वम्रनेन व्याख्यायते । तस्मिश्रपः । यस्मिश्राप: कर्माणि मातरि्वा वायुदवाति स्थापयति सर्वाणि कर्माणि यज्ञदानहोमा- दीनि समिष्टयजुषि वायो स्थाष्यन्ते स्वाहा वावेधा हाते वायुमविष्ठत्वाभि- भावात्। सवष्टृिष्यष्टििरूपो ह्यसाविति वायुरपि यस्मिन्कर्माणि स्थापयावे बाग होपदानाना परमं निधानमित्मर्थ॥। ४॥

अनुष्टुपस्विस्रः । वदेव सर्वरूपेणावस्थितं सदेजावे कम्पवद्धवती क्रिया. पह्षवति वदेव नैजते न चळति स्थावररूपावस्थितं तद्दूरे वदेव दूर आदित्यनक्षम्रादिरूपेण। तदन्तिके तदेव चान्तिके पृथिव्यादिरूपेण सपे खल्पिदं अ्हैत्येदर्शनार्थो ग्रन्थः । तदन्तरस्य सर्वस्य पाणिजावस्य विद्ञानघनरूपेण्णान्तर्वध्यत आस्ते वदु सर्वत्यास्थ बाह्यतः । वदेष

Page 37

ईश्ावास्यभष्याम्। सर्वस्यास्य माणिजातस्य बाहतों जडरूपेण व्यवस्यितमारते चेवनाचे- वनरूपमनन्तं सर्वमतं ब्रह्मेत्यर्थः। अस्या उपासनाया अरचेरादिचिन्वनं नास्वीति केचिदाहुरिहैव ब्रह्मपास्नेः ॥५॥ यस्तु। तुशन्दो विशेषणार्थः । यः पुनः सर्वाणि भूवनि चेतनाचें- तनान्यात्मन्नात्मन्येवानुपश्यति मय्येव सर्वाणि भूतान्यवस्थितानि न मद््यतिरिक्तान्यहमेव परं ब्रह्म सर्वभूवेषु चाऽऽतमानमवस्यितप्यति. रिक्तें पश्यति ततो न विचिकित्सति। एवं पश्यतो योगिनो हि सर्वाणि भूवानि परब्रह्मरूपाण्यात्मसंस्थितानि भवन्ति विज्ञानघनानन्देकता दित्यतो विचारो निवर्तते ॥ ६ ॥ किंच-यस्िन्सर्वाणि। यस्पिन्रवस्थाविशेषे सर्वाणि भूतानि चेत- नाचेतनान्यातमैवाभूत्सभववि विजानत आत्मैवेद सर्वप् । सर्वे खलिवदं

तस्यामवस्थारयां योगिन: को मोहः कः शोको न कशिदर्षीत्यभिनायः। योकमोहावपरिजाववत्वस्य भवतो नैकत्वमनुपश्यतो ध्यायत:।।७।। स पर्यगात्। जगती। एवमात्मानमुपास्ते स पर्यमात्परिगच्छाति शुक्र शुभ्क विज्ञानानन्दस्वभावमचिन्त्वशाक्तिमकाय न विदयवे काय: शरीर यद्व स सथोक्तोऽव्रणं कायरहितत्वादेवास्त्ाविरं स्ायुरहितमकायरणादेव शुद्ध- मनुपहतं सत्वरजस्तमोभिरपापविद्धं क्ेशकर्मविषाकाशपेरसंस्पृष्ठमकायम- व्रणमस्नाविरमिति पुनरुक्तान्यभ्पासे भूयांसमर्य मन्यन्त इत्यदोष: । इत्यंभूवं ब्रह्म प्रतिषद्यते। अथाऽडत्मोपासनायुक्तस्ष फळमाह-यथ कविः क्ान्वदर्शनो मनीषी मेघावी परिभूः सर्ववो भविता विज्ञानकलत्सवर्यंभ्ः

मनविहितवान्। त्यक्तस्वस्वािसंबन्धेरैक्वेतनाचेतनेरुपभोगं कुववान्। . सान्वीभ्योऽनन्ताम्प समाम्योऽर्ययाननतवर्षपासये च कर्म कृतवान्। नमु कर्मजाडचालोक: कर्मवानेव भनाति। सत्यमातमसंस्कारकं तु कर्म म्रझमावजनकं स्थातसपात्सोऽपि गच्छति शुक्रमकार्यं बह्म ॥८I, इव उत्तरतपासनामन्नाः मोच्यन्ते-अन्ध तमद। पडनुप्रुभी लोकाव- विकार मस्तूय निन्यन्दी येपामेडेशनं जळनुद्चुरवज्जीका मदयक्तिवाि- हाननित्यम्वं तमः मवियन्त्र ये चासभूतियुमसते मृचश्य सत: पुनः संभवो नास्त्यतः जरीराअइणादरमाक पुक्कितिरेव न हि विज्ञानात्मा कथि

Page 38

एवटार्य कृतम्-

दनुच्छित्तिधर्माडस्ति यो यमनियमैः संबध्यते। एवं येऽध्वानसुपासते तेक् नळक्षणं तमः पविशन्ति। ततोऽपि भयो बहुतरमिवानर्थकमन्घं तमः भवि- शन्ति। ये उउकार: कर्मोपग्रहणार्थाय।ये संभूत्यामेव रता आत्मचास्वि नान्यल्किचिदस्वीत्यभिपायः। कर्मपराङ्मुखा यत्कर्मकाण्डज्ञानकाण्ड योरसबन्ध इत्यमिगायः स्वबुद्धिफल्गुतां विभावयन्त आत्मज्ञानमात्र एव रवाः ॥९॥ अन्यदेब।अन्यदेव फलमाहु: संभवात्संभवपरिज्ञानादन्यदाहु: फलम. संभवादसंभवपरिज्ञानात्। इत्येवं शुश्धम श्रुतवन्तो वर्यं धीराणों वचासि ये धीरा नोडस्माक तड्रहम विचचक्षिरे व्याख्याववन्तः ॥१०॥ संभूवि च। समस्तस्य जगतः संभवकहेतुं च परं ब्रह्म विनाशं च विनाशि च शरीरं यी योगी तदुभयमेव वेद जानाति सहैकीभूव शरीर- ग्रहणेन ज्ञनोत्पत्तिहेतूनि कर्माणि करोति स विनाशेन विनाशिना श्रीरेण मृत्युं तीत्वोत्तीर्थ संभूत्याउडत्मज्ञानेन विज्ञानेनामृतमरनुतेSमृतत्वें :प्राम्नोति ॥ १ १ ॥ । अन्घंतमः श्रिशन्ति। अज्ञानलक्षणं तमः पविशन्ति येऽविद्या स्वर्गार्यानि कर्माण्युपासतेऽनुतिष्ठन्ति ततोऽि ते भूय इव बहुतरं तमः भविशन्ति। ये पुन्विद्यायामेव रता आत्मज्ञान एवं त्यक्तकर्माणो रता: 1231 अन्यदेव। अन्यदेव फलमाहुविद्याया आत्मज्रानादन्यच्चाSडहुरवि दायाः कर्मण इि शुश्रमेत्यादि व्याख्यातम् ॥ १३ ॥ विद्या च। आत्मज्ञानं चाविदयां कर्मे च यस्तदुभयं वेद जानावि सइकीमूव कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमथ कर्मकाण्डं ज्ञानकाण्डं बैकी कृत्याविद्यया कर्मकाण्डेन मृत्यु तीत्वोत्तीर्य कृतकृत्यो भूत्वा विद्ययों ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्रुवे मामोति ॥१४ ॥ "इदानीभित्थं कवतब्रह्मापासनस्य योगिनः शरीरपातीत्तरकाले यद्- बति वदाह-वायुरनिलम्। वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पश्च जीवात्मेक एवं सपदशलिङ्ग्ेपलक्षणार्थम्। वायु: माणोऽनिलं स्वकीयां प्रकृततिमापद्यतेडमृतं परं ब्रश्म तद्धि तद्विज्ञाय संपद्यते। अथेदं स्थूलशरीरं कीडणं वदा भवात भरमैव भवति। कृतपयोजनकत्वात। इदानीं योगिन आळम्बनभूतमक्षरं कथ्यते-ॐनाम वा पतिमा या अ्रह्मणः। इदानीमन्तकाले योगी स्परण करोपि ।कतो स्पर। योऽ

Page 39

सिर्व्रह्मचर्यादारभ्य परिचरितः स मैनःश्वासरूपेणावस्थितः संबोध्यते। हे क्रतो मां स्मरेदानीगुपस्थितः पत्युपकारस्य काल इत्यभिप्रायः। क्रतुर्वा यज्ञ: संबोध्यते। क्रत्वो रपर*किवे स्मर क्लृपाय लोकाय स्मर कवं स्मर मया यत्कृतं तत्स्मर ॥ १२॥ अगे नय। हेडये नय सुपथा देवयानेग मार्गेण राये मुक्तिलक्षणाय धनायारमान्विश्वानि सर्वाणि देव दानादिगुणयुक्त वयुनानि प्रज्ञानानि विद्वाञ्जानानो युगोधि पृथकूकुरु च प्रतिबन्धकमेनः । यतो बहुतरां तब नमस्कारोकि कुर्मो व्याख्याताया: पुनर्वचन विश्ेषार्थम् ॥१६॥ इदानीमादित्योपासनमाह-हिरण्मयेन पात्रेण। यद्यपि हिरण्मयरुपेण पात्रेण पिवन्त्य्मिन्नवस्थितान्रसान्सकमय इति पात्रं मण्डलं मण्डलेन सत्य- स्याविनाशिन: पुरुषस्थापिहितमन्वाईतं मुखं शरीरं तथाऽपि योसावा- दित्ये पुरुषो योगिभिरुपळभ्यते सोडसावहम्मि। इत्थं चोपासनां कुर्याद्। ॐ खं ब्रह्म । ओमिति नामनिर्देशः। खमिति रुपनिर्देशः। आकाशरूपं ब्रह्म व्यायेत। आत्मत्वेन मनोभूरचेतन आकाशश्षेतनस्त्वात्मा तद्था विज्ञानघनानन्दं ब्रह्म रुत्राऽनन्दपतिपादक वाक्य तथा स यो मनुष्याणां राद्ध: समृद्धो भवतीत्युपकम्याथ ये शतं पजापतिलोक आनन्दा: स एको ब्रह्मलोक आनन्द इत्यन्तम्। तथा सर्वनियन्तृत्वं दर्शयति-एतस्य वा अक्षरस्य प्रशासने गागात्युपक्रम्प द्यावापृथिकी विधुते तिष्ठत इति। तथा सर्वज्ञत्वं दर्भयत-तद्यथा एवदक्षरं गारग्वदृष्टं द्राष्ट्रित्यादि। तथा सत्यसंकल्पादयोऽस्य गुणा: श्ूयन्ते सत्यसंकल्पः सत्यधृतिरित्यादय:। एवं ताई एतद्वे तदक्षरं गाग य्मिन्ाकार्य ओवश् पोतश्रेवि सामान्या- द्याकाशशब्देनैवैतद्रूप ब्रम्मामिहितं स्वादित्ययमेव ब्रह्मवित्सिद्धान्तः ॥ १७ ॥ इति श्रीमद्वज्टभट्टोपाध्यायात्मजसकल निगमविच्चूड। मणिश्रीमदुवटम- हार्यविरचिते औीयजुर्वेदस्य वाजसनेयपश्चदशभेदावान्तरमा्ध्य दिनशाखासंहितामन्त्रार्थपरकाशमाष्ये चत्वारिय त्तमोड- ध्याय:॥४0॥

  • क्लीवेति वा। १ क. मनति वासनारूपेणावस्थितिः। सं° ।२क सं सुषिर। ह क नतनुर

Page 41

ॐ येनाSडरमना परेणेशा व्यापं विश्वं चराचरयु। सत्यज्ञानश्वरूपेण तदेवाहं सदास्मकम् ।।१।। ईआ्ावाश्यादयो मन्त्रा न कर्मपतिपादकाः। अखण्डैकरसे शुद्धे ब्रह्मण्येव समन्वियाः॥३॥। कर्मसंबोधका वेदा न च ते ब्रह्मबोधका: । इवि मीमांसका: प्राहुस्वन्र सत्यं कथूंचन ॥ ३॥ अफ़र्मशेषमात्मानं निर्गुणं पकृते: परम। अशरीरं सदा मुक्तं नित्यं शुद्धस्वभावकम् ॥ ४ ॥ सत्यं ज्ञानमनन्तं च निष्कळं निष्क्रियं ध्रुवम्। बोधयन्ति यतः सत्यं सर्वे वेदा: षडङ्गकाः ॥५॥ अत एव हि ते मन्त्रा ब्रह्मतत्त्वपबोधका:। ईशा ईशेन संव्यासं त्रैळोक्यं सचराचरम्॥ ६ ॥ वासितं भुवनं सर्व सत्यमेवं श्रुतिज़ेगौ।

जगङ्गह्मैव परमं ब्रह्मैवेदमिति श्रुवेः । यरुपाह्गआात्मकं सर्वें वस्मात्यक्तेम सर्वदा ॥ ८ ॥ पालयेथा: रवमात्मानं स्वसवरूपं निरञ्जनम्। त्यागशब्देन चाप्यत्र संन्यासः परिकीर्तितः ।।९॥ संन्यस्य सर्वकर्माणि ब्रह्मैवार्पीति भावयन्। रक्षणीयः स्वयं चाऽऽत्मा संसारादत्कल्पिवात् ।१०॥ आत्मैवेद जगत्सर्वे घनं नैवास्ति कस्यचित्। गृषि वै घनविषर्यां मा कार्षीसत्वं कथंचन ॥ ११ ॥ स्विदित्यनर्थको वाडत चाडडक्षेपो वा भविष्यति। आत्मभिनं परं स्वं किं कस्यचिद्विद्यते घनम् ।। १२ ।। सुगन्ध चन्दनेनैव दुर्गन्धश्छाद्यते यथा। नामरूपात्मकं विश्वमात्मनाSSच्छादितं तथा।॥ १३॥ तस्मादात्मैव द्रष्टण्य: श्तव्यः सर्वदैव हि। इत्येष एव वेदार्थ: पथमो वे निरूपित: ॥१४ ॥ इत्येको मन्त्ो व्यारुयात: ।।

Page 42

:. 3 इशावास्यरहस्यम्।

संक्कर्माणि संन्यस्थ मन्तव्य: परमेश्वरः। सदशक्तस्य कर्माणि कर्तध्यान श्रुतिजगी ॥ १ ॥ अगिहांत्रादिकमाणि व्यवहारान्सदा नरः। कुर्वञ्ञीवितुमिच्छेद्दै शवं संवत्सरान्स्वयम् ॥ २ ।। तावद्धि पुरुषरयाऽडयु: शवायुरित च शुतेः। एवंम्कारे तु त्वयि नरमात्राभिमानिनि॥ ३।। प्रकारांन्तरं नैवास्ति न कम लिप्यते यथा। ईश्वशार्पणबुद्धया तु कर्म कुर्वन्न लिप्यते ॥४॥ प्रसीदतति परो ह्वात्मा शुद्धान्त:करणे स्वयम्। इति द्वितीयमन्त्रार्थः सम्यगेव निरुपितः ॥५॥ इति द्वितीयो मन्त्रो व्याखयातः। अविवेकान्तु संसारो विवेकान्नेव विद्यते। अविचकनिवृत्त्यर्थे मन्त्रोऽयं संभवर्तते ॥ १॥ आत्मज्ञानमुपेक्ष्याथ देवा ये भोगलम्पटाः। असुख् ए्रव ते ज्ञया आत्मधर्मबाहिष्कृताः॥२॥। यऽन्यथा सन्तमात्मानमकवार स्वयंमभभ्। कर्ता. भोक्तति मन्यन्ते त एवाSऽत्महनो जनाः ॥ ३ ॥ शवात्मनः स्वस्वरूपस्य तिरस्करणहेतुतः । अदर्शनांत्मकेनैव चान्धेन तमसाऽडृताः ॥४॥ प्रेत्य देहं परित्यज्य संसरान्त पुनः पुनः। ये के च प्ररमात्मानं न जानन्ति परात्परम् ॥५॥ योऽन्यथा सन्तमात्मानमन्यथा प्रसिपद्यते। रकि तेन न कृतं पापं चौरेणाऽडत्मापहारिणा ॥६॥ इति वाक्यं श्रुतिः शास्ति सत्यमेतन्न संशयः । अपि गच्छन्ति पाठे तु ज्ञानाभाव न चान्यथा ।। ७।। तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्। 6 स्वात्मानं परमं ज्ञात्वा सुच्यते जन्मबन्धनात् ॥ ८।। *इति तृतायो मन्त्रो व्याख्यातः ॥ कटृशं तत्परं तत्त्वं पूर्वमन्त्रेण कीर्तितम्। तदर्थप्रतिप्त्यर्थ चतुर्थोडयं प्रवर्वते ॥ १॥

Page 43

ईयावास्यर हस्यम्]

अनेजत्परमं तर्वं स्वतथ्चलनवर्जितम्। एजू कम्पन इाते च धात्वर्थोऽि सथाविध: ॥ २ ॥। अचलं सत्परं ब्रह्म नित्यमनुक्तस्वभावकम् ।: एकमेवाद्वितीयं च सत्यज्ञानस्वरूपकमू ॥ ३ ॥ संकल्पलक्षणाच्चास्मान्मनसो वेगवत्तरम् । नैन तत्वं पाप्तवन्तो देवा ये चक्षुरादय: ॥४॥ पूर्वमेव हि संव्यापं व्योमवन्निर्पलं परम् । तद्धावतोऽन्यान्वेगेन सर्वान्ब्याप्यैव तिषठुति ॥ ५॥ वस्मिस्तिष्ठति पूर्णेऽस्मिन्परे ब्रह्मणि केवले। अपः कर्माणि सर्वाणि सातरिश्वा दधाति च ॥ ६॥ अन्तरिक्षे स्वेयं याति सुत्रात्मा पवनः स्वयम्। कर्म चैतत्फलं चैव धारयत्येव सर्वेदा ॥ ७ ॥ इति संक्षेपतो मन्त्रश्चतुर्थोऽपि समापितः । प्रसीदतु परो देवः सर्वभूतगुहाशयः ॥८।: इसि चतुर्थो मन्त्रो व्याख्यातः। न मन्त्राणां जामितादिदोषः कक्षन विद्यते। उक्तमेव वदत्यर्थ ब्रह्मतत्त्वप्रकाशकम् ॥१॥ दुर्विज्ञेयं परं ब्रह्म सत्यज्ञानमनन्तकम् । निष्कलॅ निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ २ ॥ अमृतस्य परं सेतुं दग्धेन्घनमिवानलम्। इति वाक्यं यतः शादति ब्रह्म सत्यं पुनातु माम् ॥३ ॥ तदेजति परं ब्रह्म ब्रह्मविष्णुशिवात्मकम्। साकारं मायया भाति निराकारं तु वास्तवम् ॥४ ॥ उपाधिचलनेनैव चलनं तु विभाव्यते। तन्नैनति परं ब्रह्म निर्गुणं पकृतेः परम् ॥ ५॥ तच् दूरे परं ब्रह्म सर्वदैवाविवेकिनाम्। अप्राप्यत्वात्परं ब्रह्म वर्षेकोटिशतैरपि॥ ६ ॥ तदेव ह्यन्तिके ब्रह्म स्वात्मरूपं विवेकिनाम्। तद्वाह्याभ्यन्तरे ब्रह्म कार्यकारणवस्तुनः ॥७॥

१ ग, 'श्षे श्वसितीति। २ ख. स्वपिर्ताति । ३ व. निष्कम्पं नि !

Page 44

बिश्वातीवं परं ब्रम्म विश्वस्याभ्यन्तरे स्थितमू। नौरूपं सर्वगं जात्वा मुच्यते जन्मबन्धनात् ॥८॥ इति पञ्चममन्श्रोडयं समासेन निरूपितः । मायातीतं परं शुद्धं रहस्यं च प्रकीर्तितम् ।।९॥ इवि पञ्चमो मन्त्रो व्याख्याता। बद्स परम शुद्धं कर्मणा नैव लभ्यते। कर्मत्यागी परं ब्रह्म पाप्य सम्यक्ममुच्यते॥ १॥ कर्मणा लभ्यते ब्रह्म ज्ञानाननैव तदाप्यते। इति मीमासकाः माहुस्तेषां पक्षो निरस्यते ॥ २ ॥ वस्तु सर्वाणि भूवानि परिव्राट् स्वयमेय हि। ज्ानि सर्वाणि भूतानि स्वस्मित्नेव प्रपश्यति ॥ १॥ सर्वभृतेषु चाउऽत्मानं सर्वभृतगुहाशयम्। तस्मादेव तु विज्ञानान्न चैव विचिकित्सति।।४॥ स्वस्वरूपपरित्ञानात्संदेहं न करोत्ययम्। माध्यंदिनस्य पाठे तु व्यार्यानं परिकीर्तितम् ॥५॥ घृणा दया जुगुप्सा बा जायते भेददार्शिन: । न तु निर्भेदमद्वैवमात्मेकत्वं प्रपश्यतः ॥ ६ ॥ इति षष्ठोऽपि मन्त्रोडयं समासेन मयोदितः। अनेन भीयतां देवः सर्वभूतगुहाशषयः॥७॥ इति षष्ठो मन्त्रो व्याख्यातः । परिव्राडेव वद्वेत्ति स्वात्मानं पकृते: परम्। इत्रि पदर्शनार्थे सु सप्तमोऽयं प्रवर्वते ॥ १॥ यश्च संपश्यते ज्ञानं स वेत्ति परमेश्वरम्। इति शङ्कानिटृत्यर्थे तुशब्दोऽयं पवर्तते ॥ २॥ यस्मिन्ब्रह्मस्वरूपे तु निर्विकल्पे परेऽयये। सर्वाण्यात्मैव संवृत्तं व्रह्मतत्त्वं विजानतः ॥। ३।। ब्रह्मेव सकलं विश्वमहमस्मीति तत्पदम्। पद्यवे गम्यते नित्यं स्वस्वरूपं स्वयंम्रभम् ॥४ ॥ शोकमोहादिसंबन्धस्तस्मिन्नैव तु विद्यते। अपाणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनान् ॥ ५॥ १ ग. मैठैर्न चल्र'।

Page 45

ईशावास्थरहस्यंम्।

अविद्याकार्यनिर्मुक्ते संविद्रूपे परात्मानि। शोकमोहादिसंबन्ध: कथं ब्रह्मणि भाव्यते ॥ ६ ॥ इत्ययं सप्तमो मन्त्रः स्व्ररूपप्तिपादकः । सोऽइमस्मि स एवाहं ब्रह्मैवास्मीति वाक्यत:।।७।। इति सप्तमो मन्त्रो व्याख्यातः । ब्रह्मीऽडत्मा सकलं विश्वं तस्मिन्विश्वं प्रतिष्ठितम्। जीवाज्ञानवश्ादेव चाष्टमोऽयं प्रवर्तते H १ ।। आत्मानं सर्वगं शुद्धं निरुषयितुमञ्जसा। आम्नोति सकलं कार्य तस्मादात्मेति गीयते ॥ २ ॥ स पर्यगात्परो ह्यात्मा सर्व व्याप्य व्यवस्थित:। यच्च किंचिज्जगत्सर्वे दृश्यते श्ूयतेऽपि वा॥ ३॥। अन्वर्बहिश्व तत्सर्वे व्याप्य नारायण: स्थितः। इति मन्त्रो यतः शास्ति तस्मान्वेदो न चिद्यते ॥। ४ ॥ निर्विभाग: स्वयंज्योतिरात्मेव सकळं जगतु।

लिङ्गदेदविनिधुत्त: सर्वभूतगुहाशय:। एकीभूतः स्वयं चाउडत्मा सर्वे व्याप्य पविष्ठिकता है॥ तमात्मानं परं शान्तं देहत्रयविवर्जितम्। निरिन्द्रियं परं ज्ञात्वा सुच्यते सर्वेबन्घनात्।।७ । मायापाशविनिर्मुकं धर्माधर्मचिवर्जितम्। मनसोऽपि नियन्तारं सर्वसाक्षिणमव्ययम् ॥ढ॥॥ उपर्युपरि सर्वेषां भवितारं स्वयंभुवम्। बिभुं सर्वात्मकं ज्ञात्वा मुक्त एव भवत्यसा।। ।। अथवा स परो देव: सर्वव्यापी निरञ्ञनः।। सवेग: सकलं व्याप्य स्वयमेतर व्यवस्थितः ।१०॥ व्यवहारेपर शुद्धोऽसौ देहद्रयविवर्जित:। षीजधर्मविनिमुक्तो नियन्ता सर्वदेहिनाम्ं ॥११॥ परिभवति कार्याणि परिभ: स्वयमेन हि। स्वातन्तरषेण मवतीति सवर्थभू: पारविश्वटक्।.१२ ।।

१ ख. *झात्मस० :२ क. गं. झुक ज्यो।

Page 46

ईशावास्यरहस्यम्। याथातथ्यत एवायं कर्तव्यार्थान्स्वयं प्रभु: । शाश्तीभ्यः समाभ्यश्च मजापतिभ्य एव हि ॥। १३ ॥ प्रजाभ्यक्ष विभज्येव दत्तवान्परमेश्वरः। वदेवं परमात्मानं नित्यमुक्तुस्वभावकम् ॥ १४॥ सोऽइमस्मीति विज्ञाय सुक्त्त एव भवत्ययम्। इत्येवमष्टमो मन्त्रः सम्यगर्थनिरूपकः ॥ १५॥ समाप्तः सर्वगो ह्वात्मा नित्यं सर्वस्वभावकः । सोडइमस्मीति विज्ञाय सुच्यते सर्वतोभयात ॥ १६ ॥ इत्यष्टमो मन्त्रो व्याख्यातः । संन्यस्य सर्वकमाणि ज्ञावव्य: परमेश्वरः। इति पथमो वेदार्थ: सम्यगेव प्रदर्शितः ॥१॥ अग्निहोत्रादिकर्माणि तदशक्तेन सर्वदा। कर्तव्यानि द्वितीयोपि वेदार्थोडयं पदर्शितः ॥ २ ॥ विरोधं दर्शयित्वा तु तयोरेव हि मन्त्रयोः । बृहदारण्यके शाखे व्यवहारोऽपि दर्शित॥ ३॥। कामुकस्य तु संसारो निष्कामस्य परा गति:। इति प्रदर्शनार्थस्तु नवमोऽयं प्रवर्तते ॥ ४ ।। अन्धं मूढ तमो यान्ति ये मायां समुपासते। विरक्ता अपि संस्कारानैष्काम्ब ये विदु्नरः ॥५॥ असंभूतिव चसाडन्र मायातत्वं पकथ्यते। मायातत्त्वान्त संसारो जायते सर्वदेहिनाम् ॥ ६॥ भूय: पुनस्वमो यान्ति संभूत्यां ये रता नराः। संभवनं च संभूतिर्लिङ्गं सपदशात्मकम् ॥७ ॥ मायाबीजस्य कार्य तत्सत्रातमानं १चक्षते। कार्यकारणनिर्मुक्त वात्वाऽडत्मानं विमुच्यते॥८॥ नवमोऽपि समासोडयं संक्षेपार्थमदर्शक:। ॥समुच्चयचिकीर्षार्य दशमोऽपि भवते ॥ ९॥ इति नवमो मन्त्रो व्यारुपात:। संभवादम्यदेवाऽडहुः फळं कार्यर्व चिन्तनाव। कारणाद्वीजरूपस्य चिन्तनादन्यदेव हि।। १ ॥

Page 47

ब्रह्मानन्दकृतम्-

इत्याहुर्वेदविद्वांसः फलभेदं विचक्षणा: । श्रतबन्तो वयं पूर्वमाचार्याणां महात्मनाम् ॥ २॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवस्तत्त्वदर्शिनः । तेषामेव हि तद्वाक्यं फळभेदपदर्शेकम् ॥ ३॥ मतिभेदात्तु भेदोडयं दशितो न तु वस्तुतः । धीराणां परमं वाक्यं ब्रह्मतत्त्वमदर्शेकम् ॥ ४॥ सत्यं ज्ञानमनन्तं च ब्रह्मैव परमं धुवम्। इत्यं दशममन्त्रोऽपि समासेन समापित: ॥५॥ इति दशमो मन्त्रो व्याख्यात: ।। संभूवि कार्यरूपं च विनाशं कारणात्मकम् । एकादशोऽपि मन्त्रोडयं तयोरेकत्वदर्भकः ॥१॥ कार्यकारणयोरैक्यं यो वेद सततं नरः। विनाशेन मृत्युं सीर्त्वा संभूत्याऽमृतमश्रुते ॥ २॥ यस्मिन्विनश्यति कार्य विनाशं कारणं परम्। मायाबीजं च तत्मोक चैतन्यकवलीकृतम्॥ ३॥ तयोपासनया मृत्युं तीर्त्वा स्वाभाविक समः । हिरण्यगर्मोपासनया संभूत्या सुच्यते बुधः।४ ॥ आत्मविद्यावधिः सोडय पर कारणमुच्यते। साक्षी चेता जगद्वीजमन्तर्यामीति च ख्तौ।५॥ कार्यकारणरूपं च ब्रह्मैव केवलं शिवम्। कार्यकारणनिर्भुक्तं परं ज्ञात्वा विमुच्यते ॥ ६ै। इत्येक/दशमन्त्रीऽपि समाप्स्वत्व्रबोधकः । ब्रझ्मैव परमं शुद्धं ब्रह्मैवाईं सददयम्॥७॥। इत्येकादयो मन्त्रो व्यारुयातः ।। कर्भणा वष्यते जन्तुविंद्यया च विमुच्यते। इति पदर्शनार्थें तु द्वादथोऽयं भवतैवे ॥ १ ॥ अन्धं मूढं तमो यान्ति केवलं कर्मचिन्तका:। देवतोपासका ये च तेऽपि यान्ति पुनस्तमः ॥२॥ एकैकोपासनां भिन्नां निन्दयित्वा पुनः पुनः । एकेनैव दवयं सेव्यं श्रुतिराह पुनः स्वयम् ॥ ३ ॥

१ ख, सदाऽद्व।

Page 48

ईंशावास्यरहस्थस्।

इति द्वादशमन्त्रोपि समासार्थपरदर्शकः । समापितः स्वयं शुद्धं व्रश्मवाहं सददयम् ॥ ४॥ इति द्वादशो मन्त्रो व्याख्यातः।। एकत्वं तु न चैवास्ति रविशार्वरयोरिव। पृथगेव दर्शयितुं कर्मविज्ञानजं फलमू ॥ १ ॥ त्रयोदशोऽपि मन्त्रोडयं स्वयमेब भवतते। विद्याया अन्यदेवाऽडहुः पृथगेव फलं बुधाः ॥२ ॥ अविद्याया अन्यदाहुरगिहोत्रादिकर्मणः। श्रुतवन्तो वयं वाकयं धीराणां तत्त्वदर्शिनाम् ॥ ३॥ व्याख्यातवन्तो येऽस्मभ्यं गुरवो ब्रह्मतत्परा । तेषां वाक्यं ब्रह्मतत्त्ववोधकं परमं धुवम् ॥४ ॥ इति त्रयोदशो मन्त्रः पृथगर्थमदर्शक:। बोधको ब्रह्मतत्त्वस्य समासेन निरुपितः ॥५॥ इति त्रयोदशो मन्त्रो व्याख्यातः।। पृथक्फलं विद्यते चेदनिहोत्रादिकर्मणामू। उपासनफलं चैव क्थं वा क्रियते तदा ॥ १ ॥ पयोजनमनुददिश्य न मन्दोऽपि भवर्तते। फळं सम्यकमवक्तव्यं कैवल्यप्रतिपचये ॥ २ ॥। अधिहोत्रं च विर्द्या च देवतोपासनं परम्। एकीकृत्य चिन्तितं चेत्केवल्यं लभते पदम् ॥ ३ ।। पद्यते गम्यवे चेति स्वस्व्वरूपं निरञ्जनम्। विविधं सत्परं ब्रह्म सगुण निर्गुणात्मकम् ॥४ ॥ निर्गुणं वास्तवं ब्रह्म सगुणं परिकल्पितम्। कर्म विद्यां चैकीकृत्य यस्तद्वेदोभयं बुधः॥५॥ मृत्युं तीर्त्वा कर्मणा तु विद्ययाऽमृतमश्तुते। हिरण्यगर्भमात्मानं ब्रह्मलोकनिवासिनम् ॥ ६॥ तं माप्य तेन सार्थ तु परं ब्रह्माधिगच्छति। इत्थं चतुर्दशो मन्त्रः संक्षेपेण निरूपितः ॥ ७ ॥ इते चतुर्दक्षो मन्त्रो व्यार्यातः ।।

Page 49

ब्रझ्मानन्दकृतस्-

उपासकफलं चक्तुं मन्त्रः पश्चदशः स्वयम्। शाश्वतं कार्यरूपं च कृपया तत्परं पुनः।।१।। तत्रैवोपासकः साक्षाद्वायुं प्रार्थयवे स्वयम्। सुत्रात्मानं परं दिव्यममृतं शिवमव्ययम् ॥ २ ॥ प्ाणो गच्छतु मे शीघं लयं गच्छतु निश्चलम्। शाश्वतं शिवमव्यक्तं ब्रह्मैवाहं सनातनम् ॥ ३ ।। अथेदानी शरीरं मे भस्मी भवतु वै ध्रुवस्। अमृतात्मस्वरुपस्य ब्रह्मीभृतस्य केवलम् ॥ ४ ॥ कतो स्मर निर्बीजाय कृतं करमे शुभाशुभम्। द्विरावृत्तिरादरार्था क्रतो संकल्प हे स्मर ॥५॥ कृतमुपासनं कर्म फलं दातुं च शाश्वतम्। सत्यं तत्परमं ब्रह्म नित्यमव्ययमेत्ययम्। इति पश्चदशो मन्त्रः समाप्त: द्वार्थसाधकः ॥ ६ ॥ इति पश्चदशो मन्त्रो व्याख्यात:।। उपासकेन गन्तव्यं केन मार्गेण सांपतम्। इति प्रदर्शनार्थ तु षोडशोऽयं प्रवर्तते ॥ १ ॥ मन्त्रो मार्गे दर्शयितुं ब्रह्मलोकगर्ति प्रति । अग्ने प्रकाशरूपोऽसि शोभनेन पथा नय ॥ २ ॥ पापयास्थ्रान्महाभाग ब्रह्मलोकमनामयम् । विश्वानि देव सर्वाणि ज्ञानानि वयुनानि च ॥ ३ ॥ विद्वाञ्जानासि सर्वज्ञ पसीद वरदो भव। वियोजय जुहूराणं कौटिल्यं पाठकं मम ॥ ४ ॥ अन्तकाले चरीकर्तुमशरक्तास्ते परेश्वर। नमउक्ति विधेम त्वं पसीद परमेश्वर ॥५॥ षोडशोऽपि च मन्त्रोडमं संक्षेपेण समापितः । निष्कलं ब्रह्म परमं तदेवाहं सदोमिति ॥ ६॥ इति षोडशो मन्त्रो व्याख्यातः ।। द्वारं बिना कथं गन्तुं शक्यवे ब्रह्म वत्परम्। सत्यलोकस्य चाउडत्मानं सूत्रभूतं सनातनम् ॥ १ ॥

१ ग. ०सनफ'।

Page 50

इशावास्यरहस्यम् ।

तत्पाप्तिसाधनद्वारं मन्त्रः सप्तदशः स्वयम् । पवतते प्रार्थयितुमादित्यं सर्वरूपकम् ॥ २ ॥ हिरण्मयेन पात्रेण सत्यस्य ब्रह्मणो मुखम्। सीक्ष्णेन ज्योतिषा व्यापं गन्तुं नैव तु शक्यते ॥ ३ ॥ रहिमिजालं निराकृत्य द्वारं मे देहि भास्कर। सत्यलोकस्य सत्याख्यं ब्रह्म गन्तुं च मे प्रभो ॥ ४ ॥ सत्यवत्वां नैव याचे स्वरूपोऽहं तवाच्युत। अहं ब्रह्मैव परमं भवान्ब्रह्मैव केवलम् ॥५ ॥ आवयोरेकता नित्यं सत्यमेतङ्गवीम्यहम् । पूर्णत्वात्पुरुषश्चायं योऽसावादित्यमण्डळे ॥ ६ ॥ देहेन्द्रियधियां साक्षी सोऽसावहमिति स्वयम्। ब्रह्म वै परमं शुद्धं ब्रह्मैवाहं सदद्यम् । ७॥ संपूर्णो निखिलस्यास्य कार्यकारणवस्तुनः । पुरुषोडयं भवेदात्मा पूर्णत्वाद्योऽदूयात्मकः ॥८।। इति वाक्यं यतः शास्ति सत्यं ब्रह्मेव केवलम्। ब्रह्म सत्यं परं ज्ञात्वा सुच्यते जन्मवन्धनातु । ९॥ इति सप्दशो मन्त्र: समासेन निरूपिव: । सत्यस्य परमं सत्यं ब्रह्म सत्यं च पातु मामू ॥ १० ॥ ईशावास्यरहस्यं तु ब्रह्मानन्दविनिर्मितम्। ब्रह्मानन्दमयं ज्ञात्वा सुच्यते सर्वबग्धनात् ॥ ११ ॥। ब्रह्मैव सत्यं षरमं विशुद्धं सर्वान्तरस्थं सदसद्विहीनम्। निरञ्ञनं निष्क्ळमद्वितीयं तदेव चाहं सवतं विमुक्त ॥ १२॥।

इति सप्तदशो मन्त्रो व्यारयातः ।।

ईशावास्यरहस्यं च शुक्कतीर्थोत्तमे शुभे। रामानन्दसरस्वत्या लिखितं स्वात्मलब्धये ।।

इति श्रीब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यं समाप्रम्।।

Page 51

अथ शंकरानन्दळतेशावास्यदीपिका॥

ॐ ईश्ावास्यादयो मन्त्रा विनियुक्ता न कर्मणि। पमाणाभावतस्तेषां कुर्वे व्याख्यामकर्मगाम्।। ईश्ा ईष्ट इतीट् ईश्वर आनन्दात्मा तेन वास्यमाच्छादनीयं निवासयोग्यं वेदं विविधपत्ययगम्यं निखिलम्। सर्वश्रब्दार्थमाह-यत्किंच यर्त्कचिन्दूत- भौतिकं जगत्यां ब्रह्माण्डकटाहभूमौ जगच्चेतनात्मकमीश्वर एवेदमिति बुद्धि: करणीेत्यर्थः । तद्बुद्धुचत्पादे साधनमाह-तेन जगता त्यक्तेन तद्बुद्धया गृहीतेन भुञ्जीथा ईश्वरतत्वसाक्षात्कारलक्षणं भोजनं कुर्याः। जगद्बुद्धेरतु- त्पादे सर्वेसङ्गपरित्यागळक्षणमुपायमाह-मा गृध:, माऽभिलाषं काषींः। अभिलाषो हि विषयघटितो विषयाश्चानेके तेषामन्यमपतरित्याग उपायो मा

यः कश्चन धर्मोऽपि धनरूपः। धन च हिरण्यादिकं सवक्लेशबीर्ज प्रसिद्धम् ॥ १ ॥ यस्त्वमुमुक्षुर्धनाभिलाषी नास्य त्यागेऽधिकार इति तं प्रति सकरुणा मातेव श्रुतिराह-कुर्वन्नेवेति। इपष्टम्। इहास्मिन्कर्माधिकारे लोके कर्माणि नित्यान्य्निहोत्रादीन्यन्यानि च जिजीविषेज्जीवितुमिच्छेच्छतं समा:। धने वैराग्याभावे यावदायुः श्रवसंवत्सरं न्यूनमधिकं वा। कर्मणां करणे कारणमाह-एवं शतसंवत्सरं यथोक्तकर्मानुष्ठानवति त्वय्यधिका- रिणि वर्तमाने धनविषयेऽपि वैराग्यं भविष्यतीति शेषः। ननु यथा मुमुक्षो। कर्मपरित्यागेनैव पुरुषार्थसिद्धिस्तथाऽन्यस्यापि स्पादित्यत आह-नान्य- थेतोडस्ति। इतः स्ववर्णाश्रमोचितयथोक्तानुष्ठानादन्यपकारेण मुमुक्षोरिव पुरुषार्थों नास्ति। नानुतिष्ठामि विपरीतेनानुतिष्ठामीत्यध्यासेन भसभमुपची. यमानदुरितत्वात्तदनुष्ठाने च तन्न भवतीत्याह-न कर्म विपरीतानुष्ठानरूपं लिप्यते न संबध्यते। कस्मिन्नरे यथोक्तकर्मानुष्ठानवति त्रैवार्गिकेऽधिकारि- णि त्वयि। सूत्रभूतावेतौ मन्त्री। शिष्टमेतयोरेव व्यारुयानमू ॥ २ ॥। मा गृध इत्यादेव्याखि्यानमनेन मन्त्रेण धनाभिलाषवर्ता कष्टसंसारपाप्ति- रुच्यते -- असुर्या नामासुरसंबन्धिनः प्रसिद्धास्ते धनाभिलाषवतामा-

१ ग.र् र्मणामू।

Page 52

शंकरानन्दकता-

हमज्ञानशून्यानां ये श्रवसकरादिदेहरूपास्ते लोका: कर्मफलरूपा हेहविः शेषा अन्धेन तमसा क्लशचतुष्टयानुविद्धेन पश्चमेनान्धतामिस्रेणाइंममाभि निवेश रूपेणाSSवृताः। तानुकाँल्ोकांस्ते धनाभिलाषेणेश्वरज्ञानशून्याः प्रेत्ये दमधिकारिशरीरं परित्यज्याभिगच्छन्ति सर्वतः प्राप्तुवन्ति। तच्छन्दार्थ माह-ये के चाऽडत्महन आत्मानमीशं सर्वतः परिपूर्ण चिदानन्दं परेण धनरूपेण नन्ति तिरस्कुर्वन्ति ये त आत्महन इदं सर्वमहमेवेोति ज्ञानशून्या इत्यर्थ:। जनाः संसारचक्रे पुनः पुनः प्रादुर्भाववन्तः ॥ ३॥

ईद्शब्दार्थमाह-अनेजत्। कम्पनमक्कुर्वदनेन वायुपाणौ निराकृतौ। एकं देहादिभेदेन भेदशून्यम्। इदमित्यं चेत्स्यान्मनसा प्राप्यमित्यत आह-मनसो जवीयो मनसोऽपि वेगवत्तरम्। मनसा साक्षादनाप्यानामपे रूपादीनां चक्षु- रादिभिराष्यत्वदर्शनादिदमपि तथाऽस्त्वित्यत आह-नैनदिति । नैनदीश्वर- स्वरूपं देवाश्चक्षुरादय आपनुवत्नधिगतवन्तो मनसेन्द्रियैश्वानाप्यत्वेन । परि- चछेदश डू्न पाप्तां वारयति-पूर्व प्रथममर्शद्गवत्सर्वतो गतमित्यर्थः । सर्वतोग- तत्वे हेतु :- तदीश्वरस्वरूपं धावतो गर्ति कुर्वतोऽन्यान्कालवाय्यादीनत्वेत्यती- त्य गच्छती। तर्ह्येष्वेव किंचिदतिवेगवदित्यत आह-तिष्वद्धतिमकुर्वत्। इदानी- मसाधारणलक्षणमाह-तस्मिन्सर्वगत एकस्मिन्मन सेन्द्रियैशापाप्ये सर्वाधिके गतिशन्ये निश्चलेऽपः कर्माण्यध्यात्माद्याश्रयाणि शरीरारम्भादिकारणानि मातरिश्वा मातर्याकाशेऽव्याकृते श्वसति सत्तां प्राप्नोतति सत्रात्मा स जवि- संघो यः स मातरिश्वा प्रथमं कार्य ज्ञानक्रियाशक्तिरित्यर्थ:। दघाति विधारयति सूत्रात्मजनकत्वेन जगत्कारणं भवतीत्वर्थ: ॥।४ ।।

एवं मूर्तामूर्तविलक्षणमीश्यशब्दार्थमुक्त्वा प्रथमपादार्थमाह-तदशिस्वरूप मेजति मूर्तरूपेण कम्पते तदाश्वरस्वरूपं नैजति नैजत्याकाश्षादिरूपेण तदी- शस्वरूपं दूर एकस्य मूर्तस्यापेक्षया मूर्तान्तरेण रूपेण तदु ईश्वरस्वरूपमेवा. न्तिके सर्वस्थापि समीपे। तदीश्वरस्वरूपमन्वर्मध्येऽव्य जगतः सर्वस्य निखिळस्य तदु सर्वस्यास्य व्याख्यातं बाह्यतो बाहिरपि॥ ५॥ तृतीयपादार्थमाह-यस्तु । तुशब्दो जगद्दृष्टिनिवारणार्थः । यो विरक्तो मुमुक्षु: सर्वाणि भूतानि स्पष्टम्। आत्मन्येवास्मिननीशस्वरूप आनन्दात्मानि

१ क. बसरगो यः । ३ क. ख. 'फिमिश्य"।

Page 53

ईश्ावास्यदीपिका।

स्वयंज्योतिष्येव। आत्मेश्वरयोरभेंदनिवारणार्थ एवकारोऽनुपश्यतीशावा स्यमित्यांदिश्रवणानन्तरं मथ्येवाध्यस्तानि सर्वाणि भूतानीमानीति साक्षा- त्करोति। भूतान्यध्यस्तानि निरात्मकान्यात्मनोऽत्यन्वभिन्नानीति शङ्गं वारयति-सर्वभृतेषु चाउडत्मानमात्मानमषि सर्वेषु भूतेषु वस्तुतस्त्वहमेवैतेषु भतेष्ववस्थितो न मच्तोऽन्यान्येतानि भूतानीत्यर्थः । चकारोऽनुपश्यतीति क्रियासमुच्चयार्थः। तइ्दशेनफलमाह-तत आनन्दात्मा चिदेकरसोऽइमस्मि सर्वाभिन्न इति विज्ञानानन्तरं न विजुगुप्सते किमपि न निन्दति स्तुतिनि- न्दाशून्यो भवतीत्यर्थः॥ ६॥। अत्रोपपत्तिमाह-यस्मित्रीश्रवरस्वरूप आनन्दात्मि सर्वाणि भूतानि । स्पष्टम्। आत्मैवाभूत्स्वं स्वं रूपं परित्यज्य कल्पितमकल्पितमानन्दात्म- स्वरूपमेवाभूव। भूतानामानन्दात्मभवने कारणमाह-विजानव ईडात्म- कमिदमहमस्मीति विज्ञानवतस्तत्रेडात्मविज्ञातृस्वरूपे देशकालवस्तुपरिच्छे दशून्ये। क आक्षेपे। द्वैतभावो मोह आत्मावरणरूप: क आक्षेपे पूर्व- वत्। शोको विक्षेपरूपो दुःखदृक्षस्य बीजस्वरूपः सोऽपि क आवर- जविक्षेप योरभावे स्तुविनिन्दादिक दूरापास्वमित्यर्थः । विजानत इतिशब्दा- र्थमाह-एकत्वमनुपश्यतः। स्पष्टम्। ईश्वरस्वरूपमिद सर्वमहमसमीति विजानतः॥७।। आवरणविक्षेपयोरभाव उक्तः सोडयमनुपपत्र ईश्वरस्याप्पात्मत्वाज्जीवव- छरीरादिसंबन्धः स्वादित्याशङ्कय दृष्टान्ते साध्यवैकलयं साध्यसमत्वं चाऽडइ-स इश्वरस्वरूपाभिन्न आत्मा पर्यगात्परितः समन्तादिगतवान् शुक्र दीप्तिमदीट्स्वरूपमहमस्मीति। शुक्रविशेषणानि-अकायं कायः सूक्ष्म देहो न विद्यवे यस्य तदकायम्। तत्र हेतुरव्रणं वणरछद्रं भेद इत्यर्थ:। न विद्यते व्रणो यस्य वद्षत्रगम्। स्थूले सि सक्ष्मस्यापि सुसंपाद्यत्वभित्यत आह-अस्नाविरं स्नावानि शिरा न विद्यन्ते यस्थ वद्स्नाविरं स्थूकश रीररहितमित्यर्थ:। स्थुलशरीरराहित्ये हेतुः शुद्ध पुण्यपापादिरहितं पुण्यपा- पादिराहित्ये हेतुरपापविद्धं पापं दुःखहेतुरविद्या न तेन विद्धमपापविद्धम्। यस्मादेवाहृशं शुक्रमहमस्मीवि स जीवः पर्थगात्तस्मात्सोप्येवंविशेषण न तदुदृष्टान्तेनेशवरस्य संसारित्वमित्यर्थः। अनेजदादिरूपं यदुकमीट्स्वरूपं वदेवायं जीवोउधिगन्ता पुलिङ्गत्वेनो क्तोडस्लिङ्गमुररीकृत्याऽइ-कविः

Page 54

शंकरानन्दकृता-

र्वस्य हृदि सव्वेन मनसो नियन्तृत्वात्तदीयाभिपायोडस्यास्तीति मनीषी। परिभूः परितः समन्तान्भ्वति विविधै रूपैरविद्यावशादिति परिभूरविद्यां वा परिभावय तीति परिभू:। स्वयंभूः करणान्तरनिरपेक्ष: स्वयमेव भवतीति स्वयं- रविद्यादशायां याथातथ्यतः साध्यसाधनादिपतिनियतस्व रूपेणार्थश्च्ेत- चितनात्मकविविधपदार्थान्व्यदधाद्विविधं कल्पितवान्। ज्योतिष्टोमनैव वर्गो न कृष्यादिनेत्यादिना शाश्व्ता्यः समाभ्यः संवत्सराभिधाभ्योड रेमन्नस्मिन्काल इदमिद भवि ष्यतीत्यादिनेत्यथः ॥८॥ इदानी यस्तूक्तमात्मतत्त्वं न जानाति न च संन्यासेऽधिकारी संसारे च रात्यन्तं भीतिमांस्तमुररीकृत्य द्वितीयं मन्त्रं चार्थांद्याकर्तुमाइ-अन्घं तमः। महंममाभिमानरूप प्रविशन्ति मकर्षेणाधिगच्छन्ति। के, ये धनाभिलाषिण: सिद्धा द्वितीये मन्त्रेऽधिकारिणोडविद्यां कर्मविधिनिष्पादं ज्योतिष्ोमाि, उपासवे तदेकनिष्ठाः सन्तो विद्यामनुतिष्ठन्ति। ननु ताि त्याज्यं कर्मोपा याश्च देवता अथवाडइं ब्रह्मास्मीवि वक्तव्यमित्यत आह-ततस्तस्मादुक्ता- हूय इवाधिकमिव ते देवतोपासका सुखती ब्रह्मवादिनो वाऽनुत्पन्नसाक्षा- कारा: कर्मत्यागिनस्तमोऽहंममाभिमानरूपं विशन्तीत्यनुषङ्ग:। य उ ये तु विद्याया देवताज्ञाने केवल आत्मज्ञाने वा रवास्तदेकनिष्ठाः।। ९।। न नूभयोनिन्दायामुभयमप्यफलमित्यत आह-अन्यदेव । कर्मणः फला- रपतृयाणलक्षणातपृथगेव देवयानलक्षणमात्ममाप्तिळक्षणं वा । अन्यच्छ वदेन रुफलत्वमेवशन्देनाङ्गाङ्गिभावनिषेध आहुः कथयन्ति। विद्यया देव- वाज्ञानेनाSडत्मज्ानेन वान्यव्िद्याफलात्पृथग्भूतम्। अन्नेषकाराभावादात्म- ज्ञानोरपाद कत्वमपि कर्मणामवगम्यवे। आहुः कथयन्त्यविद्यया द्वितीयमन्त्रो सेन कर्मणेत्यस्ति विद्याकर्मेणो: फलमू / न चात्राङ्गाङ्गिभावोऽपि शङ्कनीयः। अन्यदन्यच्च वदित्यनेन प्रकारेण शुश्रुम श्रववन्तः । मन्त्रद्रष्टुरिदं वाक्यम्। धीराणां पूर्वोत्तरतं्त्रन्याय कुश्लाना वेदविदाम्। वाेगुरवो नो रमभ्यमेतड्रह्म कर्मसहितं विचचक्षिरे व्याख्यातवन्तः॥ १ ॥ एवं पेक्षदूरय च वैधतवादिना सफलं चाभिषायेदानी देवदाज्ञानस्व शाव्दर्य वा ब्रह्मज्ञानरय कर्मेणा सह समुचचयमाह-विद्या च देवता-

१क. पक्ष दूर्थ प द्विदिरधं विदित्बा स।

Page 55

ज्ञानं कोम(केव)कं ब्रह्मज्ञानं वा। अविदया च द्वितीयमन्त्रोक्तानि कर्माणि। चकाराचुपायोपेयभावेन समुचयारथौ। यः संजातवैराग्यः कर्म परित्युक्तुम- शक्तोऽनवरालवस्थस्ततकर्म ज्ञानं च वेद जानाति। उभयमुक्तमुपायोपेयभा- वेन सह कर्मोपायो ब्रह्मज्ञानमुपेयमिति मिलितम्। एवमुपायोपेयज्ञानवतः फलमाह-अविद्यया द्वितीयमन्त्रोक्ेन कर्मज्ञानेन संयोगपृथकत्वन्यायेन मृत्युमात्मज्ञानोत्पादपतिबन्धकं इवाआविके कर्मज्ञानं च दुःखकारणं तीत्वाड त्मज्ञानोत्पादेनातिक्रम्य विद्ययाऽइं व्रह्मास्मीति साक्षात्कारेणामृवं ब्रह्मात्म त्वमश्रुते व्याभोति स एव भवतीत्यर्थः। यदा तु ज्ञानकर्मणोरेव समु- चचयो न तु तज्ज्ञानयोस्तदोपायोपेयशब्दी विहायाSSमज्ञानशब्दस्थले च देववाज्ञानमिि शब्दं पठित्वा-आभूतसंपुवं स्थानममृतत्वं हि भाष्यत इवि न्यायेनामृख ब्रह्मलोकमिति व्याकुर्याु॥ ११॥ इदानीं व्याकताव्यक्तयोरुपासनस्य समुच्चयार्थमाह-अन्धं तमः पवि- शन्ति येडसंभूतिसुपासते। ततो भूय इव वे तमो य उ संभूत्यां रताः। अन्यदेवाऽडहुः० अश्ते। असंभूतिम्। संभृति: सम्यग्भवनमुत्पत्तिर्यस्व तत्कार्ये संभूति:। तद्ूयतिरिकामव्याऊृतरूपामसंभूति कारणं संभूत्या कारये

नाशेन विनाश्ववतः कार्यस्थोपासनेन संभूत्या सम्यग्भवति यस्मार्त्कार्य तत्कारणम्याकृतं संभूतिस्तदुपासनेन श्रेषं। कर्मदेवताज्ञानसमुच्चयवन्मन्त् मुच्चयेऽपि व्याख्येयम् ॥ १२॥१३॥१४॥ कार्यकारणात्मादित्यमण्डळस्थः पुरुषः समुचय्यैनि संमाध्योस् तमार्थनामन्त्रा :- हिरण्मयेन। सवर्णविकारेणेव ज्योतिर्मण्डलेन पात्रेण शराव, सदशेन घटस्थेव सत्यस्य बाधरहितस्थापिहितमाच्छादितं मुखं प्रतीक प्रधा- नभूवं तद्दिरण्मयं पात्रं त्वं कार्यकारणात्मा पूषन्हे पुष्टिकारित्रपाछण्वपसा- रय। अपलारणे कारगमाह-सत्वधर्मायावितयभावाय भवते दृष्टये दर्थ; नार्थ तब दर्शनार्थमित्यर्थः।१५॥ इदानीं तत्संबोधनानि कार्शन्तरार्थ पूबन्दे पूषन्नेकर्ष एकश्रासाट्टविश्चेक. विंस्तत्संबोधनमेकर्ष एक कित्ेन गन्तः। यम हे नियन्त:। सर् ह सुष्ठ गमन। प्राजापत्य हे नजापवे्यत्यसूब। इदानी कार्यमाह-व्यूह, उपसं- इर रश्मीन्किरणान्समूइ सम्यवस्वात्ममात्रं कुरु तेजश्न्द्रमण्डलकू। तत्रापि पयोजनमाह-यत्मसिरद्ध वे तव रूप स्वयंज्योतिःस्वभावं कल्याण ाममवि

Page 56

शंकरनन्दकृतेशावास्यदीपिका।

शयेन कल्याणमानन्दात्मरूप तदुक्त ते तव पुनस्तेशब्द उपचारनिवारणार्थ।। पश्यामि साक्षात्करोमि। द्रष्टदृश्यप्रयुक्त भेदं वारयति-यः पसिद्धोऽसावा- दित्यमण्डलस्थ: परोक्षोऽसौ शास्त्रदृष्टया प्रत्यक्ष: पुरुषः परिपूर्ण: स उक्तो थः मसिद्ध: स एवाहमस्मत्पत्ययालम्बनोडस्मि भवामि॥ १६ ॥ एते मन्त्रा हिरण्मयेनेत्यारभ्य पठिताः समुच्चयानुष्ठायेनाऽसकृन्नित्यं षठनीया:। अन्तकाले तु सर्वार्थातुसंधानपुरःसरमात्मानमादित्यरुपं ध्यात्वा वायुः पाणरूपोऽनिळं बाह्यवायुं यात्विति शेषः । अमृतमानन्दात्मरूपं सोउइमस्पीति पूर्वेण संबन्धः। अथ वायुनिर्गशनानन्तरमिद प्रत्यक्ष भस्मा- नामू। भस्पान्ते यस्मातन्रस्मान्तं शरीरं स्थूलं पार्िव पृथिवीं यात्विति शेष:। ॐ ऊँकाराभिधेयेशाभिन्नात्मन्नादित्य क्रती संकल्पात्मन्स्मर माँ त्वदुपासकं स्पर कृतं मयाऽनुष्ठिवं ज्ञानं कर्मे च रमर। स्पष्टम्। क्रत आदित्याभिन्न संक- स्पात्मन्। हे जीवाऽडत्मानं स्मर। स्पष्टम्। आत्मना कृतं स्मर ॥१७॥ उपास्यां देवतां संपार्थ्य कर्मसाधनभूतां देवतां प्रार्थयते-असे हेडसे नय मापय सुपथा सम्यङ्मार्गेण राये सवर्णाय कर्मफलभूतायेत्यर्थ:। अस्पान्समुच्चयातुष्ठातृन्विश्वानि सर्वाणि देव हे देव बयुनानि ज्ञानानि विद्वाञ्ानन्युयोधि वियोजयास्मदुपासकेभ्यो जुहुराणं कुटिलमेन:पापं भूषि- ष्ठामविशयेनाधिकां ते तुभ्यं नमउक्तिं नमस्कारोकिं विधेम विधास्याम: सर्वदा कुर्म इत्यर्थ: ॥ १८ ।।

इति श्रीशंकरानन्दकृतेशावास्यदीपिका संपूर्णा।।

Page 57

अथ रामचन्द्रपण्डितकतेशावास्यरहस्यविवृतिः ।

ॐ सत्यं ज्ञानमनन्तमीशमखिलस्यान्तर्बहिश् स्थितं यद्दूरे निकटे च यच्च सकलं यत्स्वमभं तद्विदः। अक्षागोचरमक्षचालकमहो येनेदवाच्छादितं स्वात्माभिन्नमुपासवे विजयते रामाभिधं तन्मदः ।। संस: रबी जान्ध तमिस्रनाशसर्वात्मताबोघजितारिषद्कम्। आनन्ददं सर्वसुहृत्तमं तं सिद्धेश्वरं सदगुरुवर्थमीडे। श्रीमच्छंकरभाष्यकृद्गुरुवरश्रीपादयुग्मं सदा ध्यान्वा हृत्कमले यथास्वमति तत्सिद्धान्तसूक्तीस्वया। टीका नैकविधा विचार्य कुरुते रामोऽय माध्यंदिन- स्थेशाख्योपनिषद्रहस्यवित्ृितिं श्रीसिद्ध सूनुः कृती। इह खलु सर्वेषां वेदानामद्वैते ब्रह्मण पर्यवसानमिति राद्दान्वस्तच्च ब्रह्म यथोक्ताषिकारिणे कथनीयम्। क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठा: स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषाभेवैतां ब्रह्मविर्द्या वदेतोति सुण्डको पनिषद्युक्तत्वात्। प्रश्ञान्तचित्ताय जितेन्द्रियाय महीणदोषाय यथोक्तकारिणे। गुणान्वितायानुगताय नित्यं प्रदेयमेतत्सततं सुमुक्षवे।। इति वचनाच। स चाधिकारश्वत्तशुद्धि विना नोत्पद्यते। चित्तशुद्धिश्र स्ववर्णाश्रमोचितकर्माचरणेनेति प्रथमं कर्मकाण्डमेकोनचत्वािंशदध्यायैः पतिपादितम्। अथेदानीं चित्तशुद्धयादियथोक्तगुणवन्तमव्विकारि णमु पदेषठुं ज्ञानकाण्डमेतेन चरमेणाध्यायेनाऽडरभ्यते। सेयमीश्चावास्योपनि-

वाच्या। उपनीयेममात्मानं ब्रह्मापास्तदूयं पुनः। निहन्त्यविद्यां तज्जं च तस्मादुपनिषन्मता ॥ इति वचनाच्च। अन्तर्भावितण्यर्थस्य विशरणार्थस्य सद्धातोः किपि रूपम्। उप नितरां सादयति संसारहेतुभूवामविर्द्या नाश यति। गत्यर्थस्य वा । ब्रह्म पापयवीति। वदर्यप्रतिपादकग्रन्थोऽप्यु-

Page 58

राम चन्द्रपण्डित कता-

पचारा दुपनिषत्। केवलस्य वा सदेरुपाऽडतमनः समीपे निषीदति प्रति- पादकत्वेनेत्यात्मयाथात्म्यप्रतिपादक इति। एषां च मन्त्राणां कर्मसु न विनियोगः । आत्मयाथात्म्यपत्तिपादकत्वात । तच्च कर्मणा विरुध्यते। न हि वक्ष्यमाणलक्षणविशिष्ट आत्मा संस्कार्यः कर्ता भोक्ता वा। यो हि यथोक्ताधिकारवानहं ममदमिष्टसाधनं दष्टं ब्रह्मवर्चसादयद्वं स्वर्गादि व फलमाप्नुयामिति मन्यते स कर्मण्यधिक्रियते। न हि स्वभावशुद्ध एकोऽशरीर्याकाशवन्निलेपोडइमिति शास्त्रत आपातज्ञानवानावे कर्मणि प्रवृत्तो दृश्यते। किसुता रोक्षज्ञानवानत एषां मन्त्राणामैकात्म्यलत्पर्य- कत्वम्। ईशा वास्यममित्युपक्रम्य सोऽसावइमित्युपसंहार: । अनेजत्त देजतीत्यभ्यासः । नैनदेवा आप्नुवत्नित्यपूर्वता। तत्र को मोह इति फळम्। असुर्या नाम त इति भेददृष्टीनां कर्मकारिणां निन्दयैकात्व्यदर्श- नस्तुतिसथवा स पर्यगादित्यादिनैकात्म्यदर्शिन ऐश्वर्यवर्णनं सदर्थवादः। वस्मिन्नपो मातरिश्वा दधातीत्युपपत्तिश्रेत्ति षण्णां तात्पर्यलिङ्गगानां दर्श- नातू। वस्मादेते मन्त्रा भेद निवर्तयन्तः संसारोच्छित्तिसाधनमात्मैकत्व विज्ञानमुत्पादयन्ति। अत्र दुःखहेतुस्वाज्ञाननिवर्तनेच्छुरधिकारी। आ. तमनो याथात्म्यमभिधेयं विषय:। याथात्म्यस्य तद्वाचकशब्दानां च प्रति- पाद्यपतिपादकभाव: संबन्धः।स्वगताज्ञाननिवृत्त्या सत्स्वरूपानन्दाविर्भा वः प्रयोजनमित्यनुबन्धचतुष्टयम्। अथ सन्त्रान्संक्षेपतो व्याख्यास्याम :- ईशा वास्यमति। ईष्ट इवीट्। ईश ऐश्वयें। किपू। तृर्तायान्तमीिति। ईश्वरेणेदं प्रत्यक्षं सर्व भूतजातं वास्यं वासयोग्यमिष्ठानेनाSडच्छादनीयं वा निवासार्थकाद्वसेबाँहुळकादघिकरणे ण्यत्। आच्छादनार्थस्य वा वसे रूपम्। कृत्यानां कतरि वेलि षष्ठीविकल्पात्पक्षे तृतीया। यच्छन्दो भिन्नक्रमः। चस्त्व्थे। यथोक्तानुभवसाधनमाह। किंतु यज्जगत्यामित्यु- पलक्षणं ब्रह्माण्डे जगत्स्थावरजंगमात्मक तेन भूतजातेन त्यक्केन न ममोति त्यक्तस्वीयत्वसंबन्धेन संन्यासेन यत आच्छादनीयमतो चत्किंच यावज्जगत्यां जगत्तेन त्यक्तेन नामरूपत्यागेन तद्बुद्धया गृहीतेनेति वा भुञ्जीथाः पूर्वोक्तमात्मानमनुभवेः। वा यच्छापाप्भोगाननुभवेः। स्वात्मानं जननमरणादिदु:खात्पाळयेथा वा स्वसुखमनुभवेरिति वा। एतमेव पव्राजिनो लोकमीप्सन्तः मव्रजन्तीति श्रुतस्त्यागेनैके अमृतत्व- मानशुः परेण नाक निहितं गुहायां विभ्राजदव्द्यतयो विशन्तीति श्रतेश्र सन्यस्थ श्रवणं कुर्यादित्युक्तेश्र।

Page 59

यदा मनास वैराग्यं जायते सर्ववस्तुषु। सदैव संन्यसेद्विद्वानन्यथा पतितो भवेद्।। इत्युक्तत्वादधिकारं बिना संन्यासे कृते पत्यवायापत्तिरित्यभियाये- णाऽडह-मा गृधो माडभिकाङक्षीः । स्विदित्यनर्थकोऽप्यर्थको बा। कस्यापि स्वस्य परस्य वा धनं भोग्यविषयजातम्। ब्राह्मणा: पुत्रैषणा- याश्च वित्तैषणाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्तीति त्यक्तैषणस्यैव संन्यासेऽघिकारात्। यद्वा स्विदिति वितके। लोके कस्येदं धनं न कस्यापि न हि लोके नियतस्वामिक किंचिदपि विषय जातं दश्यते। प्श्ने वा। अधिष्ठानेनाध्यस्वस्य स्वस्वामिभावायोगात्क- स्येदं धनमित्यर्थः। अतो माऽभिकाङ्क्षीः। केवलेच्छयैव विषयाणाम- वश्यप्राप्त्यभावान्ममेदमिति रक्षितानां च स्यैर्याभावाद्विनाशे दुःखप्राप्ेश्व विषयेच्छात्यागपूर्व कसंन्यासिना ब्रह्मणः सर्वान्तरस्थत्वं ज्रेयमिति भाव:। अथवा स्वात्मना विभुनाऽषिष्ठानेन ज्ञानेन रज्ज्वादिनाऽध्यस्तसर्पाि भासवदध्यस्तजगन्भास आच्छादिवे दूरीकृते सावे स्वातिरिक्तस्य विषयस्याभावादिच्छानुत्पत्ते: स्वात्मनैव स्वसुखमनुभवनीयमिति तात्प- र्यम्। आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदा वरिष्ठ इति श्रुतेः। वासिष्ठे समाध्युत्थितस्य कचस्य- कि करोि क गच्छामि कि गरृह्नामि त्यजामि किम्। आत्मना पूरितं सर्वे महाकल्पाम्बुना यथा ॥ इति वाक्याच ॥ १ ॥ अत्रायं संग्राहका श्रोक :- छादं मयेशेन समस्तमेतज्ज्ञात्वेति संन्यक्य सुखं हि भोग्यम्। धनस्य गृद्धिं न कुरु त्वमन्यत्स्वतोऽस्ति कि कस्ष धनं त्रिलोक्याम्।।१॥ ईशावास्यस्य विद्ृतौ कृतायां रामशर्मणा। स्रंपूर्ण: प्रथमो मन्त्रः भीयतां तेन राघकः ॥ २ ॥ त्यक्तेषणस्य संन्यासेऽधिकार इति श्रुत्वैषणात्यागसाधनं पष्टुकामस्य श्रोतुः पश्नात्पूर्वमेव सर्वज्ञा श्रतिथ्ित्तशुद्धिरीषणात्यागोपाय इत्यभिमा- येण चित्तशुद्ध धर्थ त्वया तावत्कर्माणि कर्षव्यानीत्युपदिशति।अथवाS- त्मतत्वसुपकम्य स्वानुभवगदर्शनेन श्रोतारमभिमुखीकृत्य प्रष्टुमिच्छन्तं

Page 60

रामचन्द्रपण्डिनकृता-

तमुपदेष्टुकामा श्रुतिः शुद्धचित्तस्यैव श्रवणेऽघिकारादधिकारसिद्धये पूर्व सत्साधनमुपदिश्ति-कुर्वन्निति। एवशब्दो भिन्नक्रमः । इह तृलोके कर्माण्येव केवलानि न तु फलच्छां कुर्बन् । कर्मण्येवाधिकारस्वे मा फलेषु कदाचनेति भगवतीक्ततवात्। फलेच्छेव्र बन्धनकत्रीति भावः। त्वं जिजीविषेज्जिजीविषेः पुरुषव्यत्यय्छान्दसः। भवाञ्जिजीविषेदिति था। शतं समा इत्युपलक्षणं सर्वस्य पुरुषायुषस्य। यावदायुरित्यर्थः। अनेन मनुष्यस्यैव कर्माद्यधिकार इति सूचितम्। जीवनेच्छोक्त्या संन्यासाधिकाराभावो न जविते मरणे वा गृधि कुर्यादरण्यमियादिति श्रीमद्गवत्पादैरिच्छारहित स्यैव सन्यासेकस्योक्त्वा्व स्ती नासंकीर्णमाश्रमं संन्यासमित्यर्थः। ननु यदि फलेच्छाया अभावस्तदे- एसाधनताज्ञानं विना पवृत्त्यनुपपतत्या कर्मणि प्रवृत्तिरेव न स्यादिति चेत्सत्यम्। भगवदधीनोऽहं तम्मादसक्तः सतवं कार्य कर्म समाचरेति गीतायामुक्तत्वात्तदाज्ालड्ने प्रत्यवाषोत्पतत्या ममानिष्ट स्वादतोऽवश्यं मया कर्माणि कर्तव्यानीत्येवं निश्चयेन नित्यनैमित्तिकादिकाम्यकर्मसु पतृत्ते: सूपपन्नत्वाद्। ननु कर्मणा बन्धः स्यादिनि चेन्न। असक्तो ह्याच- रन्कर्म परमान्नोति पूरुष इति भगवतोक्त्वान्निष्कामकर्मणा मुक्तिरेवे- त्यभिभायेणाऽडइ-एवं निष्कामकर्माणि कुर्वतस्त्वाय तव विभक्तिव्य त्ययश्छान्दसः । वृक्षे श्रखेतिवदधिकरणत्वविवक्षया वा सप्तमी। नरे नृदेहधारिण कर्म न लिप्यते कर्मेफललेपो न स्यात्। किंतु चित्तशुद्धिद्वाराऽधिकारसंपत्या ज्ञानसिद्धया मुक्तिरेव स्यादिि भावः। अनेन मनुष्यस्यैव कर्मफलसंबन्ध इति बोधितम्। अधिकारसंपादक- चित्तशुद्धे: कर्मातिरिक्त्तसाधनासिद्धत्वं दर्शयति-इवो निष्कामकर्माचर- णादन्यथा प्रकारान्तरं तब मुमुक्षोरनास्ति येन त्वं शुद्धचित्तः सन्नधि- कारी भविष्यसीत्यर्थः । आदौ स्ववर्णाश्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानस इि श्रीरामगीतायामुक्तत्वाद्। स्ववर्णाश्रमधर्मेण तपसा हरितोषणात्। साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयक् ।। इदि भगनत्पादोकेश्र। यावदिच्छा तावत्कर्मस्वधिकार इति वात्पर्यमू। वावत्कर्माणि कुर्वीन न निविदेत यावतेवि भागनतात् । २ ॥

Page 61

ईंय्यावास्यर हस्यविष्टति:। अत्रायं संग्राइक: श्रोक :- निष्कामकर्माणि तु यावदायुस्त्वमिच्छ कर्तु खलु यन्मुमुक्षुः। एवं तव स्यान्न फलेन लेपो न चित्तशुद्धावितरः प्रकारः ॥ १ ॥ ईशावास्यस्व विद्वतौ कृतायां रामशर्मणा। मन्त्रो द्वितीय: संपूर्ण: भीयतीं तेन राघवः ॥२ ॥ साधकस्य निष्कामकर्मस्वधिकार इत्युक्तमर्य काम्यकर्मपराणां बळ वदनिष्टफलकथनव्याजेन काम्यकर्निन्दया पबलयत-असुर्या इति। असुर्या असुषु पाणेषु रगन्त इत्यसुरा: प्राणपोषका ज्ञानहीना: केवल- प्राणपोषिणो देवा अप्यसुरा एव। अन्येष्वपि दृश्यत इत्यत्रापिशब्दस्य सर्वोपाधिव्यभिचाराथे वाद्रमधातोरय ड। तेषामिमेऽसुर्याः । तद्धिता इति बहुवचनस्यानुक्तसंग्रहार्थेत्वादिदमर्ये यत्। नाम प्रसिद्धा।। ते यच्छब्दस्थाने तच्छब्दः । ये लोका लक्यतेनुभूयते कर्मफलं येषु ते लोका जन्मानि स्थानानि वा तिर्यगादीनि नरकादीनि चान्धेन वाऽडवृता आच्छादितज्ञाना निरिन्द्रिपरचारा वा तान्पूर्वोक्तोभयविधेष्वन्यतरा- न्सवकर्मानुसारेण तत्रोत्पद् वे जना नराः शेत्यापि मरण माप्य पुनरपि गच्छन्ति माप्नुवन्ति। तच्छन्द्रोक्तानन्निर्दिशति-ये के च। अनेन जातिगुणादिनिरपेक्षत्वं सूच्यते। आत्महनो यथा गुरुणामवज्ञाकारी गुरुघातीत्युच्यते वथाऽतिपूज्यस्य सर्वप्रकाश्चकस्याप्यात्मनो देह एवाह नाउडत्मा कथ्नास्वीत्यवज्ञाकारिण आत्मघाविनस्ते। अनेन देहा- न्तरप्राप्तिरपि नरदेहकृतर्सचितकर्मबीजनिबन्धनेवि सूचयि। पुवा हेते अदढा यज्ञरूपा अष्टादशोक्तमवर येषु कर्म। पतच्छ्रेयो येडभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति। नाकस्य पृष्ठे सुकृतेऽनुभूत्वेमं लोर्क हीनारं वा विश्वनन्त।

वानहं द्विपतः क्रूरान्संसारेषु नराधमान्।

आसुरीं योनिमापन्रा मूढा जन्माने जन्मानि। माममाष्यैव कौन्तेय ततो यान्त्यघमां गविमू। इवि भगवद्वाकयाच्च। प्राणपोपणार्य नानाविधकाम्षकर्मपराणां पुनः पुनः संसरणेन मुक्तिर्नास्तीवि तानपर्यम्। ३।।

Page 62

रामचन्द्रपण्डितकता-

अन्नायं संग्राहक श्रोक :- स्वात्मानभिज्ञा निजघातिनस्ते प्रमीय मर्त्या असुपोषिभोग्यान्। विचारशून्यानतिदुःखयुक्तान्प्रयान्ति देहान्खरनारकादीन् ॥१॥ ईशावास्यस्य विद्ृतौ कृतायां रामशर्मणा। मन्तस्तृतीयः संपूर्णः भीयतां तेन राघवः ॥ २ ॥ कीदश: स आत्मा यस्याज्ञानेन जना: संसरन्तीत्याकाङ्क्षायामाह। अथवा येनेश्वरेण सकलमाच्छादितं तस्य स्वरूपमाह। यद्वाऽनुभवसा-

निष्कामकर्मणः श्ररवणाधिकारसाघनत्वं प्दर्श्य श्रोतव्यमात्मतत्त्वमुप- दिशति-अनेजदिवि। नैजति[न] चलति तदनेजत्स्वावस्थापच्युतिश्चलनं तद्वर्जितम्। अनेन बाल्यादीनां जाग्रदादीनां चाभावः। बाल्यादिष्वपि आाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः फुरन्तं सदा। स्वात्मानं प्रकटी करोतीति भगवत्पादैरुक्तत्वाव। एक. मद्वितीयम्। एकमेवाद्वितीयं ब्रह्मेवि श्रुतेः। अथवैक सर्वदेकरुवं वृद्धय- पक्षयविपरिणामशून्यं मनसो जवीयः संकल्पलक्षणादतिचश्चलान्मन- सोऽपि जवीयो वेगवत्तरम्ं। अपाणिपादो जवनो ग्रद्ीतिति श्रुतेः। देह. स्थस्यापि मनसः क्षणाङ्गह्मलोकगमने व्यापकत्वात्तत्र पूर्वगतमिवास्ति। परं त्वचिन्त्यत्वान्मनसा भाष्तुमशक्य न तु चक्षुरादिविषयवन्मनसा साक्षादनाप्यं यत एनदात्मस्वरूपं देवा द्योतनात्मकानि चक्षुरादी न्द्रियाणि नाउप्नुवत्र प्राप्तवन्तः। अव्यपदेश्यत्वादिन्द्रियागोचरम-

वदिन्द्रियाणां सुतरामगोवरम्। यद्वाचाऽनभ्घुदितं येन वागभ्पुद्यते व्रदेव ब्रह्म त्वं विद्धीत्यादिना मन:माणेन्द्रिपामाष्यत्वस्य केनोपनिषद्य- कत्वात। पूर्वमनादि जन्मरहितमर्शत् । रिय हिंसायामित्वस्य शत्र- न्तस्य रूपम्। न रिशदविनाशि। घावरिकारलोपश्छान्दस:। तदादिम ध्यान्तविहीनमेकमिति श्रुतेः। तङ्रह्म विष्ठद्र्यापकत्वेन सवत्र स्थितिमत्स- द्धाववो द्रुतं गच्छतोऽन्यान्कालवाय्वादीनत्येत्यतिकम्य गच्छवीव तेषा गत्याऽमाष्यमित्यर्थः। आसीनो दूर व्रजति श्यानो याति सर्वत इति भ्रुतेः। मातरिश्वा देहान्वर्गतो वायुस्तस्मिन्देहान्तविद्यमाने सत्यप आप्यन्ते प्राणादिसंज्ञा याभिस्वा आप अमतेर्हसव्षेति करणे किय्। वा: क्रिया: प्राणनादिचेष्ठा दधावि घारयति। अथवा समिष्ट्यजुपि

Page 63

वातेधा इति सर्वकर्षणां वायुस्थत्वोक्तेरपः श्रद्धा वा आप इति श्रुतेः श्रद्धाजन्यत्वादापः कर्माणि वस्थानि तानि वायुस्तत्र ब्रह्मणि दधाति स्थापयति कर्षणा पर्म निधानित्यर्थः। अथवा तत्रान्तर्यामिणि सति वायुः सूत्रात्मा तपनवारिदादीनां कर्मणिि तपनवर्षणादीनि। वायुना हि गौतम सूतरेणायं च लोक: परथ् लोका सर्वाणि चमृतानि संहब्धानि भवन्तीति श्रुवेः क्रियाशक्तिमत्वाद्धाति विभज्य धारयति। अन्तर्यामि- तया तस्वैय सर्वेश्त्वादन्तर्यामित्राह्मणे सर्वान्तर्यापित्वेन यः पृथिव्यां विष्वन्नित्यादिना सस्यैव सर्वनियानकत्वोक्ते्मी बाडसमाद्वातः पतरत इत्या दितैततिरीयध्रुवेश स वा अयमात्या सर्वस्य वशी सर्वस्थेशानः सर्वस्पा- विपति: सर्वमिव प्रश्चास्ति यहिद किचेति स सेतुर्विधरण एषां लोका नाम संभेदायेति शारीरब्राह्मण उक्तत्वाच्चाचिन्त्यमव्यपदेश्यं षड्भाववि काररहितं सर्वदैकरूपं सर्वान्वर्यामि सर्वचालकं ब्रह्मेस्यथेः ॥४ ॥ अत्रायं संग्राहका श्रोक :- अकम्पमेकं मनसस्तरस्वि न देवता आपुरनाशि पूर्वस्। तिष्ठत्तदत्येत्यपि घावतोऽन्यान्त्रायुई कर्माणि दघाति तत्र ॥ १॥ ईशावास्यस्य विद्ृती कृवारया रामशर्मणा। मन्त्रश्चतुर्थः संपूर्णः शीयता तेन राघकः ॥२॥

दुष्पापत्वान्तर्यामित्वव्यापकत्वालुवाहेन तस्यैव सर्वात्मकत्वं सुखभाप्पत्वं च श्ुिर्पपसयति। नात्र चुनरुफि पन्त्राणां जाभितादोष इति भग- वत्पादेरसन्वाद। जाविताऽडलस्यय्। रहस्यं सकदुक्त चित्ते नाऽडया- ती्यनलसा ख्तति: सकरुणा मातेव पुनर: पुनरुपदिशति-तदेजतीति। तत्परकृतमात्मवत्वमेजति वलति जंगम तन्नैजवि न चलति स्थावरम्। पुरुप एषेदं सघे यद्बूतं यञ् अव्यमिति भ्रद्येः । तदात्मतत्वं दूरे विप- कृष्टे तदु, उ पवार्थे यद्दूरस्थं तदेवान्तिके समीपे समीपंस्थमपि तदेव दूरस्थमन्तिकस्पं व्रह्मेय सर्वगत्वात्। अथवा सर्वरूपत्वाद्ंदूरस्थमन्ति कस्थं च ब्रह्मैय। अधवाउ्जानिनां वर्षकोटिभिरष्यपाष्यत्वादूंदूर इव स्थितम्। आत्मज्ञानिनातु सनीप एवाउडत्मत्वेन हत्स्थत्वात्सुपाप तद्क- आास्य मत्यक्षस्य सर्वस्य भूतजातस्यान्तरभ्पनतरेतर्यामित्वेनास्ति।

Page 64

रामचन्द्रपण्डितकृता-

बदु तदेव सर्वस्थास्य बाहयतो बाह्यपदेश उत्तमपुरुषत्वेन सार्वविभर्तिक- स्तसिः। अन्तर्वहिश्व तत्सर्वे व्याप्य नारायणः स्थित इवि श्रतेः। बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। इति। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते। उत्तम: पुरुषस्त्वन्य परमात्मेत्युदाहनः ॥ इति गीतावाक्याच्च । ५।। अत्रायं संग्राइका श्रोक :- ब्रह्मैव तत्स्थावरजंगमात्म स्वाज्ञानिनां दूर इवामकाशम्। वज्जानिनां भाति सदा समीपे विश्वस्य चान्तश्व बहिःस्थिवं तत्।।१। ईशावास्यस्य विद्ृतौ कृतायां रामशर्मणा। संपूर्ण: पञ्चमो मन्त्रः पीयवां तेन राघकः ॥ २॥ उक्तात्मज्ञानस्य फलमाह-यसत्विति। यस्तु तुशब्दो षैलक्षण्यद्यो- तको यः पुनर्लोकविलक्षणदृष्टिः सर्वाणि भूतान्यव्यक्तादिस्थावरान्ता- व्यात्मन्नात्मानि सुपा सुलुगिति डेलुगधिष्ठानरूप एवानु गुरूपदेश्वान- न्तरं पश्पत्यवलोकयति घ परं सर्वभूतेषु वेष्वात्मानमनु कारणात्मनाS नुगवं पश्यत्यनुभवति। तत ऐकात्म्यज्ञानास्स पुरुपो न विचिकित्सवि संशयं न पाप्तोति। संशय उभयकोटिक ज्ञानं द्वैवं पश्यतो भवाति नत्वै- कात्म्यज्ञस्येति भाव: । यदैवमनुपश्षत्यात्मानं देवमञ्जसा। ईश्ानं भूतभव्यस्य न तदा विचिकित्सति इते। बृहदारण्यकश्रुतेः। सर्वभृतस्थमात्मानं सर्वभूतानि चाउडत्मानि । संपश्यन्ब्रह्म परमं याति नान्येन हेतुना। इति कैवल्यश्रुतेश्र। अस्या एव श्तेरुत्तरार्ध गीतायाम्-ईक्षवे योगयुक्तात्मा सर्वश्र समदर्शन इति। छिद्यन्ते सर्वसंत्रयास्तस्मिन्दृष्टे परापर इवि मुण्डक्- श्ुतेश्र ॥ ६॥ अत्रायं संग्राइकः श्रोक :- य: पश्र्यतीत्थं सकलानि भूनान्यात्मन्यथाऽडत्मानमपीह विद्वान्। सर्वेधु भूतेषु स वत्त्ववेत्ता निःसंशया स्थात्सकलैरनिन्यः । १॥

Page 65

ईशावास्यस्य विवृतौ कृतायां रामशर्मणा। मम्तर: षष्ठोऽपि संपूर्णः प्रीयतां तेन राघनः ॥२ ॥ अधुनाऽडत्मज्ञस्य स्थितिमाह-यस्मिन्निति। यस्मिन्काले विजानत आत्मानं साक्षात्कुर्वतः सर्वाणि भूतानि ब्रह्मादिस्थावरान्तानि न मदूय- तिरिक्त्ं किचिदस्त्यहमेव सर्वरूप इत्यात्मैवाभूत्संतृत्तः। तत्र तस्मिन्काल एकत्वमैकात्म्यमन्वनुग्यूतं पश्पतोऽनुभवतो मोह आचरणरूपः क: किनिमित्क: शोकश्च विक्षेपरूपः कः किमिमित्तक आत्मज्ञानेनावि दयाया निरस्तत्वात्स्वरूपं जानतः समूलाविद्योचछेदादावरणविक्षेपयोर- भावेन कामाद्यनुदयाज्जीवन्मुक्तिस्थित्या तूष्णींभूत आस्त इत्पर्थः । यत्र त्वस्थ सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तस्य निष्क्रियत्वाभि धानाव। आत्मन्येव च संतुष्टस्तस्य कार्य म विद्यत इति भगवद्दाक्या- चच। ७। अत्रायं संग्राहका श्रोक :- सर्वाणि भूतानि मदात्मकानीत्येवंविदोऽभू-सकलं यदात्मा । तदैकतां पश्यत आत्मरुपे मोहश्र शोकश् भवेत्कर्यंस्वित॥ १॥ ईद्यावास्यस्य विद्ृतौ कृतायां रामशर्मणा। संपूर्णः सप्तमो मन्त्रः मीयतां तेन राघवः ॥ २॥ आत्मज्ञस्थितिमुक्त्वा पुनरात्मस्वरूपं लोकोत्तरैश्वर्यंपरदर्शनेनोपसंइते वर्णयति-स पर्यगादिति। अत्र स इत्युत्तरार्धे च कविरित्यादिशव्दैः पुंछिङ्गत्वेन निर्देशाच्छुक्रकमित्यादीननि विशेषणानि पुंलिङ्गत्वेन विपरि- णम्यान्यथवा स इति शब्दो भिन्नक्रम उत्तरार्धेन संबध्यते। यत्तदोनि- त्यसंवन्धात्। यद्रह्म पर्यगात्परिः सर्वतोभावे सर्वतो जगद्वयाप्याSSसीत्। शुक्रं शुद्धं दीस्षिमत्स्व्रमकाशम्। तमेव भान्तमनुभावि सर्वे तस्ष्य भासा सर्वमिदं विभातीवि श्रुतेः । अकायं सूक्ष्मदेहरहितमत्रणं व्रणः क्षवं वद्रहितमस्राविरं स्राविरा: शिरा न सन्ति यस्य तत्निरवयवत्वादव्रगम- स्नाविरमिति विशेषणद्वयेन स्थूलशरीरनिरासः। अशरीरं शरीरेष्वनव. स्थेष्वव्थितमिति श्रुतेः । शुद्धं मायासंबन्धरहितं चिरजः पर आकाश- दिवि श्रुतेस्तमसः परमुच्यत इति गीतावाक्याच्च। अपापविद्धं पुण्यमपि पुनरावृसिहेतुत्वात्पापमेव तेनोभवात्मकेनाविद्धमसंबद्धं स न साधुना कर्मणा भूयन्नो एवासाधुना कनीयानिति श्रुतेः । नाऽडदसे कस्मचि

Page 66

१०. रामचन्द्रपण्डितकृता-

न्पायं न चैव सुकृतं विभुरिति भगवद्वाक्याच। स एताद्ृशं ब्रह्मैव स्व शक्ति मादायेश्वरो भूत्वा कविर तीता नागतजः। वेदाइं समतातानि वर्तमानानि चार्जुन। भविष्याणि च भूतानीति गतिायामुत्तत्वात्। मनीषी मनीषा जगत्सर्जनेच्छा तद्दान् : सोडकामयत बहु स्या मजाये योति श्रुतेः । अथवा मनोनियन्ता मनसो ये मनो विदुरिति ्रुतेः। परिभूः परिरुपयर्थका परि सर्वेषामुपरि श्रेष्ठतवेन भवत्यस्वीि परिभू:। पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति श्रुतेः । स्वयंभूः स्वयमेव भवति न तु कारणान्तरणेत्यथः। अधवा येपामुपरि सशोपरि तत्सर्व ववयमेव भवतीति सर्वरूपा। याथातथ्यतो यथातथाभावो याथातथ्यं तेनेति याथातथ्यतः साध्यसाघनादिपतिनियतस्वरूपेण- थंश्चितनाचेतन रूपपदार्थान्व्यद्घा द्विभज्य दत्तवन्। व्ाश्वतीभ्पो नित्या- भ्यः समाभ्यः संवत्सराख्यभ्यः प्रजापतिभ्यो यो वै स संपत्सरः प्रजापति: पोडशकल इति श्रवेरिन्त्यशक्तकम्ड्रह्मोते भावः। अत्रार्थे श्रोकयोजना-

यद्टयापकं शुद्धमपापविद्धं देहद्यातीत्षमतिपकाशस्। कविः स धीमान्मवरः स्वर्यभूः प्रजापतिभ्यो व्यद्घाययर्थान्।। अथदा यथोक्तात्मजस्यो कतानुवाद पूर्व कमैश्वर्ममाइ। सरब्द उत्तरार्घेनैब संबध्यते। यः शुक्रमित्यादि यथोक्त विसेपणवेशिए ब्रह्म पर्ष मात्सर्वभावेन ज्ञातवान्। गत्यर्थानां बुद्धयर्थत्वात्स व्रह्मत्ञः करि क्रान्तदर्श। मनीपी द्वैतासंबन्धेन मशस्तबुद्धिमान्परितः सर्वमपि स्वयमेव भवतीति परिभू। सकलात्मक:। स्वयंभूर्ब्रह्मरूपो यथास्वरूपं तेन तेन रूपेणार्थान्पदार्था- न्भोग्यविषयान्। आाश्वतीभ्यः समाभ्यः। ताथये चतुर्थी अनन्तवर्षोप भोगाय व्यद्धात्स्वयमेव कृतदान् यस्यानुवितः प्रतिबुद्ध आत्माडस्मि- नसंदेहे गहने प्रविष्ठः। स विश्वकृत्स हि सर्वस्य कतोति शुतेतर्व्रह्मिद्व- ह्मैव भवतीति भावः ॥८।। अन्रायं संग्राहकः श्रोर :- यो ज्ञातवाञयुद्धमपापविद्धं देहद्दयावीतमतिप का शा स् । कविः स धीमान्सकलः स्वर्यंभूर्व्यघादथास्वं बहुकालमर्थान्।१॥ ईशवास्यस्य विद्ृती कृतार्यां रामशर्गणा। संपूर्णश्राष्टमो मन्त्र: प्रीयतां तेन राघकः ॥२।।

Page 67

ईशावास्यर हस्यविद्विि:।

उपक्रान्तमात्मव रवमुपसंहृत्य यस्तूक्ततत््वानभिज्ञ ईषणात्यागाभावेन संन्यासे च नाधिकारी संसारे च नात्यन्वं सक्तस्वं प्रति चित्तैकावर्यार्थ मुपासनासमुच्चयं कथयिष्यन्पत्ये कमुपासनां फलकथनव्याजेन निन्दवि। अथवोक्तात्मज्ञानस्पाखिल श्रेष्ठत्वं तद्वयतिरिकारन संसरणहेतुत्वपदर्शनेन द्रढयति-अन्धं तम इवि। ये नरा असंभूर्ति सम्यग्भवनं संभूतिरुत्पच्तिर्यस्य; कार्यस्य तन्द्रित्ां कारणरूपामव्याक्ृवाख्यां प्रकृतिमुपासते चिन्तयन्ति तेऽनधं तमोऽदर्शनात्मिकां प्रकृति प्रविशन्ति प्रकर्षेण विशन्ति पौराणि- कोक्तं प्रकृतिलयं प्राप्नुवन्ति। वं यथा यथोपासते वदेव भवतीति श्रुतेः। य उ। ये तु संभूत्यां प्रकृतिकार्ये हिरण्यगर्भार्ये रता आसक्तास्तदुपा- सका इत्यर्थः। ते ततः प्रकृतिलयान्मय इवाधिकमिव स्वरूपाज्ञानेन: संसरणहेतुत्वात्तमोऽणिमादिसिद्धिसमुदायं प्रविशन्ति प्राप्नुवन्ति ।।९।। अत्रायं संग्राहका श्रोक :- अच्याकतं हेतुपासते ये संपाप्नुवन्ति प्रकृतौ लयं ते। पजांपति कार्यमुपासते ये ते प्ाप्नुवा्ति हणिमादिसिर्द्धी: ॥१॥ ईशावास्यस्य विद्ृतौ कृतार्यां रामशर्मणा। संपूर्णो नवमो मन्त्रः श्रीयर्ता तेन राधवः ॥ २ ॥ व्याकृताव्याकृतोपासनयोरभिन्नफलत्वव श्रुतिराचार्यवचः प्रमाणयति- अन्यदेवेति। संभवात्संभूतिरूपकार्य पजापत्युपासनादन्यदेव भिन्नेवाणि मादिसिद्धिरूपं फलं तत्वज्ञा आहुर्वदन्ति तथाऽसंभवादसंभूतिरुपकार- णाव्याकृताखयमकत्युपासनादन्यत्पक्वतिलयाखूयं कलमाहु: कथयन्त्यु- पास्योपासनयोरभेदविवक्षया संभवादसंभवादित्युक्त ये ज्ञानिनो नोऽस्म- भ्यं भाष्यमतेऽन्वर्थसंज्ञाविज्ञानाभावात्संपदानम्। अस्मान्वा। अकयितं चेति व्यापारदूपार्यत्वाद्वा द्विकर्मत्वं तदुपासनाद्वयतत्वं विचचाक्षरे व्या- ख्यातयम्तस्तरेषां धीराणां वाक्यमिति शेषः । अथवा प्रसिद्धत्वाद्वा- क्यमिति कर्मणोऽपयोग अख्यात्ोपयोग इत्यपादनत्वस्याविवक्षया शेषे षष्ठी। घीरेभ्य इत्यर्थः । इति पूर्वाधोक्तपकारेण वय शुश्रम श्रम. वन्तः ॥ १०॥ अत्रायं: संग्राइका श्रलोक :- अन्यत्फलं कार्यमुपासतां स्यादुपासवां कारणमन्यदेव। : एवस्प तत्त्त्वं विुया य ऊचचुर्वेषां पुरा वाक्यमिति श्रुतं नः ।। १॥

Page 68

रामचन्द्रर्पण्डितकृवा-

ईशावास्यस्य विद्ृतौ कृतार्या रामशर्मणा। संपूर्णों दशमो मन्त्रः प्रीयर्वा तेन राघवः ॥ २ ॥ यत एवमत उभयो: समुच्चयो युक्त इत्याह-संभूतिमिति। य: पुमा- न्संभूवि चावर्णलोपः पृषोदरादित्वात। असंभूति प्रकृतिपथवा सम्य- ग्भवत्यस्या: कार्यमिति संभूति: कारणं पूर्वापरसंदर्भानुसारेण बक्तुर भिमायस्याभिधानियामकत्वात्मक्वतिस्तां च परं विनाशं च। चेत्ययें। बिनाशोऽस्यावीति विनाशं कार्यम्। अर्शआद्यच्। तदुभयं कार्यका- रणोपासनाद्वयं सह समुच्चितं फलदमिति वेद जानाति स विनाशेन

संभूत्या। अथवा पूर्वो क्तपकारेण संभूत्याऽव्याकृताख्यकारणोपास

भकृतिळयमश्नुवे प्राप्नोति ॥ ११ ॥ अत्रायं संग्राइकः क्षोक :- उपासने कार्यनिदानयोस्ते समाश्रिते वेद परस्परं यः । तत्राउडद्यया प्राप्य स ईश्वरत्वं द्वितीयया याति लयं प्रकृत्याम्।१। ईश्ावास्यस्य विद्टतौ कृतार्यां रामशर्षणा। पूर्ण एकादशो मन्त्रः प्रीयर्तां तेन राघवः ॥ २।। अधुना कर्मणोपासनां समुच्चिचीषन्प्रत्येकमुभयं फळं प्रदश्य निन्दावे। अथवा व्याकताव्याकृतोपासनयोः फकं पदश्य कर्मणां देवतान्वरोपा- सनानां च फलं दर्शति-अन्धं तम इति। ये नरा अविर्धा विद्या ज्ञानं तद्भ्िआाडविद्या तां कर्म केवलमुपासवे तत्परा: सन्तोऽनुतिष्ठन्ति तेंडन्धं तमो अन्ममरणरूप पविशन्ति प्ाप्नुवन्ति। य उ ये त्वशुद्धचिता अपि कर्म न कुर्बन्ति किंतु केवलायां विद्यार्या देवतोपासनार्या रता आसक्तास्ते कर्माधिकारे सत्यपि कर्मत्यागेन प्रत्यवायरूपदोषयुक्ता: सन्वस्ततः कर्मानुष्ठातृभ्षो भूय इवाधिकमिव तमः संसरणलक्षणं पति- शन्ति प्राप्तुवन्त्युपासनाफलं नाइनुवते। किंतु संसरन्वीति भाव:।१२।। अतायं संग्राहकः श्रोक :- उपासते केवलकर्मजालं ये संसरन्तीह पुनः पुनस्वे। वेभ्योऽघिकं यान्ति गतागतं वे उपासवे केवळदैषतानि ॥ १ ॥ ईशावास्यस्य विट्टतौ कृतायां रामशर्षणा। संपूणों द्वादशो मन्त्रः श्रीयता वेन राघवः॥ २ ॥

Page 69

उक्तार्ये श्रविविद्धद्वचः प्रमाणयति-अन्यदेवेति । विद्याया देवश्े पासनायाः फळमन्यदेव। विद्यया देवलोक इति श्रुवेदेवलोकप्ाप्िल क्षणं पाज्ञा आहुः। तथाविद्यायाः कर्मणोऽन्यत्कर्मणा पितृलोक इवि वचनात्पिसृलोकमास्तिलक्षणमाहुर्दूरमेते विपरीते विषूबी अविद्या या च विद्येति श्रतेश्च। एवंपरकारेणोभयवत्त्त्रव्याख्यातृभ्यः पूर्वमस्माभिः श्रुव- मस्तीवि तात्पर्यम्। पदव्याख्या तु व्याऊ्ताव्याकृतोपासनावन्मन्त्रे कुवा ॥ १३ ॥ अत्रायं संग्राहकः श्रोक :- बुधाः फलं कर्मण आहुरन्यत्स्याददेवतोपास्विफलं वथाऽन्यद्। ये तस्य तत्वं मुखवो न ऊचुस्वेभ्य: पुराऽस्माभिरिति श्षमं हि॥१॥ ईश्याषास्यस्य विद्टतौ कृताया रामशर्मणा। पूर्णस्त्रयोदश्ो मन्त्रः प्रीयता तेन राघनः ॥ २ ॥ उभयो: समुच्चये फलमाह-विद्या चेति। विद्या च देवतोपासनाम विद्या च कर्म तदुभयं सह समुच्चितं फलदात्रिति यः पुमान्वेद सोबि- धथा कर्मणा मृत्युं स्वामाविकमज्ञानं विस्मरणळक्षणं तीत्वा दूरीकृत्य विदयया देवतोपासनेनामृवं देवतात्मभावमश्तुते प्रामोति। तद्धयमृ वमुच्यसे यदेवतात्मगमनमिति श्रुतेः । अत्रार्ये श्रोक्कयोजना- यो देवतोपास्तिमथापि कर्म एकेन कार्य पुरुषेण वेद। स्वकर्मणा मृत्युमतीत्य विद्वान्स विद्ययाऽऽन्े ति हि देवतात्वम्॥ अथवा कर्भणासुपासनानां च फळं मदश्वाऽडरमज्ञानेनैव कृतकृ- स्यसेवि श्रतिरुपपादयति वक्तृतात्पर्यस्थाभिधानियामकत्वाद। विद्या मात्मज्ञानं च परमविद्यां च कर्मेत्युभर्य पठक्रमादर्थक्रमो बलीयानिति कर्माSSत्मज्ानं च पूर्वापराधिकार मैदेन सदैकपुरुषकर्बव्यत्वेन समुचिवं यो वेद सोऽविद्यया कर्मणोपासनाऽपि मानसं कर्मैव मृत्युं स्वरूपावि- स्परणहेतुं चित्तमलमनैकाउयं वी्त्वाडविक्रम्प विद्ययाऽSत्मज्ानेनामृवं मोक्षमश्तुवे। वमेव विदित्वाऽवि मृत्युकवि नान्यः पश्था विद्यतेऽयना- पेति श्रुतेः ॥१४॥ अत्रायं संग्राहका श्रोक :- कर्माऽडत्मविज्ञानवपि क्रमेण संपाद् केन नरेण वेद। यः कर्मणा चित्तविश्युद्धिगाप्त स विद्ययाऽडम्रोत्यमृतं हि विद्वान्॥।१।।

Page 70

१४ रामच-द्रपण्डिवकृता-

ईशावास्यस्य विवृतौ कृतार्या रामशर्मणा। पूर्णश्रतुर्दशो मन्त्रः श्रीयतां तेन राघकः॥ २ ॥ अथ पुनरादित्यान्तर्यामिपुरुषोपासनामभेदेन वर्णयन्नैकात्म्यसुप मंह रति-हिरण्मयेनेति। हिरण्मयेन हिरण्यस्य विकारे हिरण्न्यं तदिव प्काशात्मकं तेन पात्रेण पिबन्ति रश्वयो रसान्यत्र स्थितास्तेन विम्वेन सत्यस्य।सत्यक्य सत्यमिति श्रवेब्रह्मणो मुखं मुखमिव मुखं प्रधानं रूपमषिहितमाच्छादितं सर्वजनैरज्ञातमस्ि। तथाऽपि यः प्रसिद्धोऽसौ भाकृतजनानां परोक्ष आदित्ये सूर्यमण्डले स्वयंनकाश्सकलशकता रभूतः पुरुतः स वा अयं पुरुषः सर्वासु पूर्ष पुरिशय इति क्ुनेः। अन्व- र्याम्यर्वि स पुनरसावित्यनेनावधारणं स एव। अथवेतच्छब्दार्थोऽदह शब्दः। एव सर्वसमीपतरोऽहमिति मत्यक्षतः स्व्रानुभवं श्रुविरधिका रिणे प्रदरशयति। स यश्चायं पुरुषे यश्षासावादित्ये स एक इति श्रुनेः। ऊ ॐकारवाच्यं खमाकाशमित्र व्यापकं व्रश्माहपस्मीति भावः। एव- मेव त्वमपि ब्रह्मरूपोडसीति वात्पर्येक् ॥१५। अत्रायं संग्राहका श्रोक :- •तेजोमयेनापिहितं स्वरूपं सत्यस्य विम्बेन सदा परं तु। भानावसौ यः पुरुषोडस्वि सोडइं ज्ञे्यं वरिभु ब्रम्म सर्दोस्वरुम्॥।१॥ ईशावास्यस्य विद्ृतों कृतार्या रापशर्मेणा। : पूर्णः पश्चदशो मन्त्रः भीयर्तां तेन राघकः॥ २॥ ॥.+ प्रथमव्यार्यायामुक्तोपासमावान्योगी देवतामन्ते प्रार्थयते-वायुर- निलमिति। द्वितीयव्वारूपार्षा त्वात्मज्ञस्पाS्डस का म त्वेन े न्वे्य गमनं नास्त्याप्तकामो भवति।न बस्य माणा उत्क्रामन्त्यत्रेत समवली- यन्ते ब्रह्मैव सन्ब्रह्माप्येसीति अ्रुपेः। न च मार्थ्य देवतान्वरं यएवं वेदाहं ब्रह्मास्मीति स इद सर्व भवतीति अ्रुवेस्तस्य सर्वात्मकत्वादर्सक- • उपत्वाच्च तमकतुः पश्यति बीत्षशोक इत्युकत्वात्। अव आत्मज्ञवन्ना न्यस्यात्रैव कृतकृत्पतेति निदशयितुं सिंहावलोकनन्यायेन पूर्वोक्तव्या-

योगी देवतामन्ते मार्थयेतेति श्रतिरुपदिर्वतति-नायुरिति। मन वायुः शरीरस्थः पराणः प्राणोपलक्षित लिङ्गशरीरमुत्कान्तं सदमृनं मृत्ु- नाडनासं तानि मृत्यु: श्रमो भूत्योपयेम इति मक्रम्याथेममेव नाsडम्रो- घयोऽयं मध्यम: प्राण इष्वि श्रुतेः । अनिकवं सूत्रात्मानं प्राप्तोत्विति खेषः।

Page 71

:१५

यदा वै पुरुषोडस्पालोकात्मैतीत्यादिना वायोरेव परळोकमापकत्वोक्तें । अथेदं स्थूलं शरीरं मस्मानं भस्मैवानतः परिणामी यस्य ताहसं पृथि- व्यंशत्वादत्रैव विष्ठुत्विति तातर्षम्। ओमिति ब्रम्मनाम। अवति पाम्नोति सर्वान्पदार्थानथवाऽवति रक्षनि सर्वे भूतजातम्। अथवाजवति दीप्यत इति स्वरयंम्रकाश ब्रह्म। ॐ तत्सदिति निर्देशी व्रम्मणस्त्रिविष: स्मृत इति गीतावाक्यात्। तदूर कनो कुर्षन्ञः। तद्धेतुत्वात्संकल्पोऽपि कतुः। यथा क्रतुर्भवति तत्कर्म कुरुन इति श्रुनेः । हे संकल्प स्मर। यन्ममेष्टं तत्स्मर। यं यं वाडपि स्मरन्भावं त्यजत्पन्ते कलेवरमू। वं तमवैधि कौन्तेय सदा तन्कभावित:।। इति भगवद्वाकयात्क्रिये कर्पने माध्तुं योग्यो मवनीति कि्किवि- मागमशछान्दसस्तस्मै किये जशादेशोऽयस्मयादित्वेन पदत्वात्। मया पाप्तुं योग्याय। लोकाय क्रियार्थोपपदस्येति कर्मणि चंतुर्थी तं दातुं स्मरणचिषयं कुरु। कृतं यन्मया वाल्पमभृत्यनुष्ठिनं तत्स्मर। स्मरेत्यस्य त्रिरावृत्ति: संभ्रमेण पृत्तत्वा् ॥१७॥ अत्रार्यं संग्राहकः श्रोक :- सूतं मरुदयातु वपुर्ममेहं भम्मान्तमुर्वी पणवात्मकस्त्वम्। संकल्ण्य यत्कर्म कृतं मयेषटं माप्यं च लोके मम संसमराध ।१॥ ईशावास्पस्य विनृम ऊ्ववाया रामशर्भणा। पूर्णः सप्तदसो मन्नः पीयतां तेन राघनः ॥२॥ अथ कर्मकृत्सर्वाश्रभेषु परिचरितमसि पार्थपते-अपे नयेति। हे देव दीग्पतति पीप्पत इति देवो योतनात कमेडस्मासत्वदुससकान्सरया गतागवरहिदेन नार्गम राये भोग्वाय फशर मुकिराय। तादय मे चतुर्थी। वद्थ नय भापय। यतो मवनििधानि सर्वाणि वयुनानि ज्ञानानि कर्माणि वा विदाञनन्। कित जुहुरण तुक सनी लुक लोपक्ेति सिर्द्ध कौटिल्यं चन्चनात्मकें व्यवहरार्थना परितमेनः पाप- मस्मदस्मतो युपोध्यमित्रि। कुरु नयवत्प्था। अमत्रमार्पकाधुया- वोरादादिकादपि बहुलें छन्दमीति शुरउथति हबिषी छन्दसात्य पित्वविकल्शन्डिन्वाभावेन गुणः। निष्पापत्न भुकियोग्यत् स्वादिति

Page 72

रामचन्द्र पण्डितकृता ईश्यावास्यर हस्यविद्विति। भाव:। यतोऽधुना वयं नमस्कारमपि कतुमशक्ताः शरीरापाटवात्कि- मुतान्यपरिचर्यामतस्ते तव भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं विधेमोत्तमपुरुष आशीलिडे बहुवचनं छन्दस्युभयथेति सार्वधातुक- त्वमड््डलोपः क्रियाम नमस्कारेण वै खल्वपीति वचनान्रमोऽस्तु नमोऽसि्त्विति ब्रूम एतावतैव त्वं प्रसन्नो भवेति तात्पर्यक्।। १८॥ अत्रायं संग्राहक: श्रोक :- ज्ञानानि सर्वाणि विदंस्त्वमग्ने संभापयास्मान्सुपथा विमुक्तिम् ॥ कौटिल्यमेन: कुरु नः पृथकत्वां कुमो नमोऽन्ते बहुधा स्ववाचा॥१॥ ईशावास्यर्य वि्ृतौ कतायां रामशर्मणा। संपूर्णोऽष्टादशो मन्त्र: भीयतां तेन राघवः ॥ २ ॥

कृत्वाऽर्पित श्रीगुरुपादपदे पठत्यजस्त्रं स विमुक्तिमीथात् ॥ १ ॥ ईशाख्योपनिषद्रहस्यविवृ्ति श्रीरामशर्माऽकृत श्रीकृष्णात्रिकुलोन्भ्वः कविवरः श्रीसिद्धराजातमजः । श्ाके खटगुणाचलावनि१७१९ मते यामीश्वरेऽब्दे मधौ सेथं श्रीरघुवीरपादकमले भक्त्याऽर्पिता श्रीमति ॥ २ ॥

सूनुना श्रीरामचन्द्रपण्डितेन विरचिता श्रीमाध्यंदिनीये-

॥ ॐ तत्सत् ॥

Page 73

ॐ दर्शपूर्णमासादश्वमेधानतं कर्मकाण्डं समापमथेदानीं ज्ञानकार्ण्ड परस्तूयते-ईशा वास्थमिति। ईश्रा वास्यमित्यादीनां मन्त्राणामपि यथाकथंचन कर्मसु विनियोगः किन स्यादिति केनचित्पृष्ट ऋचा पुरुषं ब्रह्माणं दक्षिणतः पौरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपादित्यनेन षोडशर्चेनेत्यादि। तत ईशा वास्य- मित्यादिमन्त्राणं कर्मेसु ममाणतोऽविनियोगात्। यागकलपनार्या तु विशेषं परिहृत्यैव यागकल्पना सा भवति नेतरोति श्रीभगवच्छकरा चार्यो विरोधादेवाविनियोगस्वेषां मन्त्राणां कर्मणाति प्रतिपादयति- ईशा वास्यमित्यादयो मंत्रा: कर्मस्वविनियुक्तास्तेषामकर्मशेषस्याSड त्मनो याथात्म्यप्रकाशकत्वादिति। तमेवं सविस्वरं पतिपादयति-याथा रम्यमात्मनः शुद्धत्वापापविद्धत्वाशरीरत्वादि वक्ष्यमाणं कर्मणा विरु- ध्यव इत्यतो युक्तस्तेषां कर्मस्वविनियोगः। न चैवंलक्षणत्वं याथात्मय मुत्पादं संस्कार्य कर्तृत्वं भोक्तृत्वं येन कर्मशेषता स्यात्। सर्वासामुपनिष दामात्मयाथात्म्यनिरुपणनैवोपयोगाद्गीतानां मोक्षघर्माणां चैतत्परत्वात्। तस्मादात्मनोऽपृथक्त्वाकर्तृत्वादि शुक्कत्वादि नोपादाय तस्ष लोकबुद्धि सिद्धानि कर्माणि विहितानि। यो हि दट्टेन कर्मफलेन ब्रह्मवर्चसा वाडदृष्टेन स्वर्गादिना वाऽनुमीयते तत्र च द्विजाविरह लक्षणाद्याध- कारधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्वित्यधिकारविदो वदन्ति। तस्मादेते मन्त्रा ह्यात्मनो याथात्म्यप्रकाशनेनाऽऽत्मविषया: स्वात्मविकाराज्ञानं निवतयन्तः शोकमोहादिसंसारविच्छित्तिसाधनमा- त्मैकत्वादिविज्ञानमुत्पादयन्ति। एवमुक्तविषयसंबन्धपयोजनान्मन्न्ा न्सक्षेपतो व्याख्यास्यामः। अस्य कृत्स्स्याध्यायस्य दध्यङ्डथर्वण ऋषिः। आत्मा देवता। प्रतिमन्त्रं चेशा वास्य कुर्वन्नवासुर्या नामोति तिस्रोऽनुष्ुभ आत्मदेवत्या दध्यड्डथर्वण ऋषिः। अत्र च कंचन पुत्रं शिष्यं वा गर्भाधानादिभि: संस्कारैः संस्क्ववशरीरमधीतवेदमुत्पादितपुत्र मिह जन्मनि जन्मान्तरे वा यथाशक्त्यनुष्ठितयज्ञादिना क्षपितकल्मपं

युक्तं शमदमादिसंपनन मुमुक्षुं शिक्षपति। स्वयमाचार्यस्व्ररूपा सती श्रुविराह-ईशा वास्यमिति। ईश ऐश्वर्येऽस्य कविचन्तं तृतीयान्वं रूपमीशे-

Page 74

आनन्दभट्टोपाध्यायकृतम्-

तीष्ट इतीट् नेनेशेशिश्ेशा तेनरमेश्वरणपरमामना सर्वजनतूनमार्म भूतेन स्वेनाऽडत्मनेशा वास्यं बस निवासे वार्स्य निवसनीयं किमि तीदं पत्यक्षादिभिः प्रतीयमानं साक्षिदृश्यं चेदमात्मव्यतिरिक्तं सर्वमि दमीशा वास्यं सर्वेषु स्वकार्येषु स्वकारणभूते निवास्य। जगतति पृथि व्यां जगत्यां जगत्युपलक्षिने जगति किंचेति चकारो भिन्नकमः। जगति व्यक्तं च लोकपसिद्धं वस्तुजावं तत्सर्वमीशा वास्यं निवास्यं स्वेरेनाऽड. तमना निवास्यम्। किंच वस आच्छानेऽइमेवेदं सर्वमिति परमसत्य- रूपेणेशा परमात्मनाSमृतमिद सर्वे वास्यं छादनीयमाच्छादनीयं कार्यक्य कारणसत्तामकाशव्यतिरे केणाSडरोपितस्यािष्ठानपका शव्यतरेकेण पृथ वसत्तापकाशनाभावादेवेदं सर्वे जगदीशा वास्यम्। यतः मत्यगात्मनः सच्चिदानन्दलक्षणपुरुषार्थरूपं स्वत एव सिद्ध॥। तेन स्वस्मिन्ना रोपि त्याहिदं ममेदमित्येवमनात्मकस्य सर्वस्यानर्थंभूतस्य जगतस्त्यक्तेन

त्यागेनाऽतमानं भुख्जीथाः । भुजोऽनवन इत्यस्य रूपम्। पालनेऽपि चछन्द स्यात्मनेपदं भवत्यत आत्मानं भुख्जीथाः पालयेथाः कृतं कृत्यं माप्तं प्रापणीयम्। आत्मलाभान्न परं विद्यत इति थ्ुतेः। त्यक्तैषणरत्वं मा गृधः कस्यस्विद्धनम्। गृधु अभिकाङ्क्षायाम्। कस्थस्तिरित्परस्प धनं मा गृधः। अभिकाङ्क्षां मा कार्पीर्धनविषयाभिकाङक्षां मा कार्षी रित्यर्थ: । स्विदिति निपाती विवर्कवचनः। अस्य संपूर्णकामत्वादे वान्यार्थविषयाकाड्क्षा किंनु कर्तव्या न कर्तव्पेत्यर्थः । विचार्यमाणे तथाविधस्यार्थस्याभावादेवाथवा मा गृधः कस्पचिद्ध नमित्याक्षेपार्थो न कस्यचिद्धनमस्ति यद्गृध्येत। आत्मैन सर्वमितीशवरभावनया सर्व द्वैव- मात्रं त्यक्तमत आत्मन एवेदमात्मन एव तु सर्व परस्म कम्यचित्संब न्धित्वेन प्रतीयमानस्य स्वयं संबन्धित्वमापादवितुमभिकाड्सषा मा कार्षी: स्वव्यतिरेकेणातो मिथ्याविषयं ग्रहं मा कार्पीरित्यर्थ:। एवमा

इत्येष वेदार्थ: ॥ १॥ अथैतस्यार्थस्य ग्रहणस्प तु साधनत्वेनेदसुपदिवव-कुर्वन्रवहदेति। इह कर्मभूमो शतं समाः शतं वर्षाणि जिजीविषेद्यदे भवाञ्जीवितुि- च्छेनहिं कर्माण्यश्निहोत्रादीनि कुर्वत्रेत् भवाञ्ज्रिजीविषेच्छनं समा इति जीवतः पुरुषस्य जीवितं परमायुरनूदय कुर्यकर्माणीत्यवधीयते। एवं

Page 75

त्वाय नान्यथेतोडरित न कर्म लिप्यते नरे नराभिमानिनि तवाये। एवं जीवति सति कर्म ज लिप्यते कर्मणा न लिष्यत इत्यर्थः । नान्यथे तोडस्ति। इतोऽस्माद्यथोक्तप्रकारादन्यथा म्कारान्तरं नास्ति। एको ज्ञानमार्गो द्वितीयः कर्ममार्ग एवं प्रकारद्वयादन्यत्पकारान्तरं नास्ती- त्यर्थः। देवताभक्तिरप्युभयात्मिकैव। अतो न विरोधः। एवं चेदशुभं कर्ष न लिप्यते। केचिदेवं योजयन्ति-इह लोके कर्माणि यज्ञेन दामेनेत्यादिना मुक्तिसाधनत्वेन विहितानि कर्माणि कुर्वन्नेन शतं समाः संवत्सराणि जिजीविषेदिति व्यत्ययः । एवमिहैवं त्वाय वर्तमाने सति तव मुक्तिररित्विति शेषः । नान्यथेतोऽस्तिः । इतः प्रकारदन्यथा मुक्तिरना्तिीत्येतदुकं भवाते। यथा स्वर्गपाप्तर्नानाभूता विशेषास्तथा मुक्कर्न मार्गभेदोऽस्त्यपि त्वेक एव मार्गो ज्ञानलक्षणोऽन्यथा प्रकारान्वरं नास्ति येन प्रकाराततरेण विद्यमानेन कर्म लिप्यते तथा पकारान्तरं नास्तीत्यर्थ: । अ: शास्त्रविहितान्यग्निहोत्रादीनि कर्माणि कुर्बन्नेव जिजीविषेदिति । कथ पुनरिदमवगम्यत आद्येन मन्त्रेण ससंन्या- सज्ञाननिष्ठिक्ता द्वितीयेन तदशक्तस्य कर्मनिष्ठेति ज्ञानकर्मणो विशेषोपरोधं पर्वतसर्षपतदेवोक्तं न स्मरास किमित्याद्युक्तम्। यो जिजीविषेत्स वर्म कुर्वन्नेवेति। ईशा वास्यममिद सर्वे यत्किंच जगत्यां जगद । तेन त्यक्त्तेन भुख्जीथा मा गृध: कस्य श्विद्धनमिि। तेन जीविते मरणे वा गृधि मा कुर्वित्यरण्यमियादिति पदमतो न पुनरिया- दिवि व्यासशासनात । उभयो: फलभेदं च वक्ष्यति। इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरी भवतः । क्रियापथश्चैव पुरस्तात्सन्यासपथश्च तयोर्न्यास एवात्यरेचयदिति तैत्तिरीयके। द्वाविमावथ पन्थानो यत्र वेदा: प्रतिष्ठिनाः । पृत्तिळक्षणो धर्मो निवृत्तिश्र सुभाषित: ॥ इत्यादि पुत्राय विचार्य निश्चितमुक्त श्रीव्यासेन वेदाचार्येण। श्रीभगवता-लोकेडस्पिन्दिविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन सांख्यानां कर्मयोगेन(ण) योगिनाम् ॥ इति। विभागं चानयोर्दर्शैयिष्याम:॥२॥

परमात्मभादमद्यमपेक्ष्य देवादयोउपपसुरा असुषु रमन्व इति। तेषां संभूा लोका असुर्या नामशब्दः पसिद्धवचनस्ते लोका कर्मफलानि जन्मनि येषु लोक्पन्ते दृश्यन्ते सुज्यन्त इति। अन्धेनादर्शनात्मकेन

Page 76

तमसाऽज्ञानलक्षणेनान्धकारेणाSडवृता आच्छादिवास्तान्स्थावरान्ता- लाकांस्ते प्रेत्य मृत्वेमं देहं परित्यज्याभिगच्छन्ति। यथाकर्म यथाभुवं ते तान्गच्छन्ति। ते क इति तानाह-ये के चाऽडत्महनो जना इते। आत्मानं अन्तीत्यात्महननमात्मभेददर्शनं तत्कुर्वन्ति ते केऽविद्वांस: स्वस्वरूपाविदस्तद्विपर्ययेण बिद्वांसो मुच्यन्ते न त्वात्मइनः ।। ३ ।। ताई वत्कीष्टशमात्मतत्वमिति तदाह-अनेजदेकमिति। आत्मदेवत्या त्रिष्टप्। अतिवेगवान्बायुः प्रसिद्धस्ततो हि वेगवत्तरं मनस्ततोऽप्यतिवे गवत्तरमात्मतत्वं कर्थ विरुद्धमिदमुच्यते निश्चकं जषीय इति। नैष दोषो निरुपाध्युपाधिमत्त्वोपपत्तेः । तत्र निरुपाधिस्वरूपणोच्यते-अने- जदेकमति। सोपाधिस्वरूपेणोच्यते-मनसो जवीय इति। मनसो जवेनान्तःकरणस्य संकल्पादिलक्षणस्योपाघेरनुवर्तमानात्तत्र प्रतिश् व्यर्थे पुरतः पुरतश्चाऽऽत्मतत्त्वं प्रकाशत इि ज्योतिर्व्राह्मणे मसिद्धम्। इहैव दुःस्थस्य मनसो ब्रह्मलोकादिदूरसंकल्पनं नानागमनं क्षणपात्रा. दिव्यतो मनसो जविष्ठत्वं लोके प्रसिद्धम्। वस्मिन्मनसि ब्रह्मळोकादवि- दूरं गच्छती पथमं प्राप्त इवाऽडत्मचैतन्याभासो गृद्यते । अतो मनसो जवीय इत्याह। किंच नैनदेवा आप्तुवन्निति। एवदात्मवतत्वं देवा दयोवन- साधनत्वात्सर्वथाऽपि तदात्मतत्वं चक्षुरादीन्द्रियाणि देवा नाऽडप्तुवत्र पाप्तुवन्न विषय्यकुर्वन्निति। पकाशविषयीकर्तु वा श्रम एव वतस्तेभ्यो मनो जवीयः। मनोव्यवहारो व्यवहितत्वात्। नाSडभासमात्रमप्यात्मनो मैव देवतानां विषयो भवति यत्स्यान्मनसोऽपि पूर्वमर्षत्पूर्वमेव गरव व्योमवव्य्ापित्वात्। सर्वथाऽपि तदात्मतत्व सर्वसंसारधर्मवर्जितं स्वेन नीरूपेणाविक्रिय सदुपाधिकृता: सर्वाः संसारविक्रिया अनुभवतीवा विवेकिनां मूढानामेकमनेकमिव प्रतिदेहं पत्याचक्षते स्वत इत्येवदाइ-तद्धा- वत इति। तद्यत्मसिद्धमात्मतत्त्वं तद्धावतो दूर गच्छवोऽन्यान्मनोवागि- न्द्रियप्रभृतीनात्मविळक्षणानत्येत्यतीत्य गच्छतीव। इवार्ये स्व्रयमेव दर्शयति -- तिष्ठदिति। तिष्ठत्स्वयं सदित्यर्थः । तस्मिन्नात्मतर्वे सति चैतन्यस्वभावे मातरिश्रवा मातर्यन्तरिक्षे श्वयत इति मातरिश्रवा सर्वंभा- णभत्क्रियात्मकः। यदा सर्वाणि कार्यकारणजातानि यस्मिन्नोतानि प्रोताति यत्सूत्रसंज्ञकं सर्वस्थ जगतो विधारयितृ स मातरिश्वा।अपोडप इति कर्मनाम /अपः कर्माणि पाणिनां चेष्टालक्षणाण्यग्यादित्यपर्जन्या- दीनां ज्वलनदहनप्रकाशवर्षादिलक्षणानि यज्ञदानहोमादीनि दधावि स्थापयति विभजवीत्यर्थः। समष्टिव्यष्टिरूपो ववसौ वायुर्धारयवीति वा।

Page 77

भौषाऽस्वाद्वावः पवरत इत्यादिश्वुतिभ्यः सर्वा हि कार्यकारणादिविक्रिया नित्यचैतन्यात्मस्वरूपे सर्वस्याSSदिभूते सत्येव भवन्तीत्वर्थः । न मन्त्राणां जामिवाडस्तीवि पूर्वोक्तोऽथेः॥।४ ॥ कंचिद्विशेषं दर्शयन्राइ-तदजति। यस्तु सर्वाणि भूबानि यस्मिन्स वाणि भूतानीत्यात्मदेवतास्तिस्रोऽनुष्टुभः। तदेजाति। तद्यत्मकृतमात्म- वत्वं तदेजत्युपाधित एजति चळवि। तन्नैजति। तदेव त्वात्मतत्वमतो नैजति नैव चलति। अचलमेव सचचळतीव भवतीत्यर्थः । तद्दूरे। वर्ष- कोटिशतैरप्यविदुषाममाष्यत्वाद्दूर एव। तत् उ एष अन्तिकेऽतिसमीपे विद्ुषामात्मत्वात्तदन्तिक एव। अत्यन्तसमीप एव न केवलं दूरेऽन्तिके तदन्तरस्य सर्वस्थ अगतोऽन्तरात्मेव। एष त आत्मा सर्वान्तर इति श्रुतेः। अस्य सर्वस्य जगतो नामरूपक्रियात्मकस्य तदेव सर्वस्य बाह्ये व्यापित्वादाकाश्नवन्निरतिशयसूक्ष्मत्वादतो ज्ञानघन एवोति श्ासनान्नि- रन्तरम्॥ ५॥ यस्तु शोधिततत्वंपदार्थों मुसुक्षुः सर्वाणि भूतान्यव्यक्तामि स्थावरा न्वानि चेतनाचेवनान्यात्मानं त्वामन्वन्वेति सदा पश्यत्यात्मव्यतिरि कानि न प्रपश्यति। अपि त्वात्मन्यात्मत्वेन पश्पवीत्यर्थः । सर्वभूवेषु चाउडत्मानं तेधु सवेषु भृतेषु चाउडत्मानमनुपश्यति वेषामपि भूतानामा- त्मानमात्मततत्वं न पश्यति यथाऽस्य कार्यकरणलंघातरूवमात्मानं सर्व- प्रत्ययसाक्षिभूतं सत्यं केवलम्। निर्गुणोऽनेनेव स्वरूपेणान्यक्तारना स्थावरान्वानामहमेवाउडत्मेति सर्वभूतेधु चाउऽत्मानं यस्तु पश्षि। वत- स्तस्पादर्शनान्र विजुगुप्सते जुगुप्सां वृगा न करोशि। मुपू रक्षणे। देहा- दिकं गोपुं न मच्छतीति वा। ज्ञानपाप्तत्येवानुवादोऽयम्। सर्वा दि धृणाऽडत्मनोऽन्यदूदष्टववं पश्पतो भवति। आत्मानपेव त्वनन्तेषु विशुद्ध निरन्तरं पश्यतो न प्राणादिनिमित्तमस्वीति पाप्तभेव ततो न विजुगु पसत इवि ॥ ६॥ इमषेवार्थमन्योऽि मन्त्र आह सर्वासां श्रुतीनामनैव तात्पर्यमिति प्रदर्शथितृम्=यस्मिन्सर्वाणि भतानीति। यस्पिन्ययोक्त आत्मानि सर्वाणि भूवानि तान्येव परमार्थदर्यनादातमैवाभूदात्मेव संच: । परमार्थतो विजानव एवमात्मवत्वं विजानत एलसस्मिन्काले तस्मिन्रवस्थाविशेषे तन्र घाउडत्मनि को मोहः। युह वैचित्ये। को सौहः का शोकः कः संसार एकत्वमनुपपतः। शोकमोही कामषीजमजानती भषतो न स्वात्मकत्वं विशुद्धं गगनोपमं पश्पतः। को मोह: का ओोक इति।

Page 78

आनन्दभट्टोपाध्यायकृतम्-

शोकमोहयोरविद्याकार्ययोः संसारमसंसारमित्यज्ञानयाराक्षेपेण समदरश नात्सकारणस्य संसारस्यात्यन्तमेवोच्छेद: प्रदर्शितो भवाति ।७ ॥ योऽयमतीतेन मन्त्रेणोक्त आत्मा किलक्षण इत्यपेक्षायामयं भन्त्रः पवर्वते-स पर्यगादिति। आत्मदेवत्या जगनी। स यथोक्त आत्मा पर्यगात्परितः समन्तादगात्परितो गच्छति सर्वमवगच्छति व्यामोति च। आकाशवद्व्यापी शुकं शुच दीक्षी शुचिमद्दीप्तिमदित्यर्थः । अकायम शरीरं लिङ्गशरी रवर्जितमत्रणमहतम्। अस्नाविरं स्नावाः शिंरा न विद्यन्ते यश्य तदस्नाविरम्। कचि: क्रान्तदर्शी। नान्योडतोऽस्ति द्रष्टेत्या दिश्जुतेः । मनीषी मनस ईशिता सर्वज्ञ ईश्वर इत्यर्थः। परिभः सर्वेषा- सुपरि भवतीति परिभू:। स्वयमेव भवतीति स्वयंभूः । येपामुपरि भवति यश्चोपरि भवति स स्वयमेव सर्वो भवतीति स्वयंभू। स नित्य- मुक्त ईश्वरः। याथातथ्यतो यथातथा भावो याथातथ्यं यथाश्रुनकर्म-

धादित्यर्थः। शाश्वतीभ्यः समाभ्यः संवत्सरात्मभ्यः पजापतिभ्ष इत्यथ: अत्राउजधेन मन्त्रेण सर्वेषणापरित्यागाज्ज्ञाननिष्ठोका। प्थमो वेदार्थः। ईश्या वास्यमित्यादिना मा गृध: कस्यस्विद्धनमिति। अज्ञानिनां जिनी- विषूणां ज्ञाननिष्ठासंभवे सति कुर्वन्नेव कर्माणि जिजीविषेज्जिजीविषेरिति कर्मनिष्ठा। द्वितीयो वेदार्थः। अनयोश्चिरंतनयोर्भन्त्रः प्रदार्शितः-सोडका- मयत जाया मे स्यादिति तस्पाज्ञानिनः कर्माणि। मन एवास्याडडत्मा वाग्जायेत्यादिव चनात्। अज्ञत्वं कामित्वं च निश्चितमबगम्पते। तथा चाउडत्मस्वरूपावस्थानं जायाद्येषणासंन्या सेनाऽडतमविदा कर्मनिष्ठामा तिकुल्येनाऽत्मस्वरूपनिष्ठैव दर्शनात। कि प्जया करिष्यामो येवा नोडयमारमाडयं लोक इत्यादिना यज्ज्ञाननिष्ठासंन्यास्तिनस्तेडसूर्या नाम व इत्यादिनाऽविद्वभिन्दाद्वारेणाऽडत्मनः स पर्थगादिवि वदतो मत्ैं- रपादिष्टे ? यत्र तत्राधिकृता न कामिन इवि। यथा च श्वताश्वरार्ण मन्त्रोपनिषदि-अत्याश्रमिभ्यः परम पवित्रं प्रोवाच सम्यगृपिसंघजु- ष्टमित्याि विभज्योक्तम्। ये तु कर्मनिष्ठाः यर्म कुर्वन्त एव जिजीवि षचस्तेभ्य इदमुच्यते-अन्धं तम इत्यादिना। कर्थ पुनरिदमनगम्यवे साध्यसाधनभेदोपमर्शनम्। यस्मिन्सर्वाण भूतान्यात्मेवाभूद्विजानतः। तत्र को मोह: का शोक एकत्वमनुपश्य्। यदात्मकत्वविज्ञानें तन्र क्ेन चिदपि वर्मणा ज्ञानान्वरेण वा समूढः समुच्चिचीपति। भवतु

Page 79

.. Gha

समुन्चिचीषयाSविद्वन्निन्दा। तत्र च वस्य येन समुच्चयः संभवति न्यायतः शास्त्रतो वा तदिहोच्यते। दैवं वित्तं देवतादिज्ञानं कर्मसंबन्धि- त्वेनोपन्यस्तेन परमात्मविज्ञानं विद्यया देवलोक इति पृथवफलाश्रयणा- त्ततो ज्ञानकर्मणोरिहकैकानुष्ठाननिन्दासमुच्चिचीषया निन्दापरैककस्य पृथक्फलाश्रयणाद्विदयया तदारोहन्ि विद्यया देवलोकः। त्र क्षिण यन्ति कर्मणा पितृलोक इति। न हि शास्त्रचिहितं किचिदकर्तव्यता- मियात् ॥८ ॥। अन्धं तमः मविशन्ति। षडनुष्ठुभ आत्मदेवत्या।। अन्यं तमोऽदर्श- नात्मकं तभः प्रविशन्ति। के। येSविद्यामविद्या कर्मेत्यर्थः। अविद्यामश- होत्र।दिलक्षणामेव के वलामुपासते। तत्परा: सन्तोऽनुतिष्ठन्तीत्यभिगायः। ततो भूय इव ते तमः । ततस्तस्मादन्धात्मकादूय एव बहुतरमेव तमः पविशन्ति। ते क इति। य उ विद्यायां रवा ये तु कर्म हित्वा य उ एव विद्याथामेव रता ज्ञान एव रवास्ततो बहुनरमेत्र तमः प्रतिशन्ति। अनन्दा नाम ते लोका अन्धेन समसाऽडळृताः। तांस्वे पेत्याभिगच्छन्ति अविद्वांसोडवुधा जनाः ॥ इतिख्लुतेः॥ ९॥ अश्रावान्तरफलभेदं विद्याकर्मणोः समुच्चये कारणमाहान्यथा फल-

अन्यत्पृथणेच विद्यया क्रियते फलमित्याहुः। अन्यदेवाऽडहुरविद्याया कर्मणाऽन्यदेव फळं क्रियत इत्याहुर्वेदा: कर्षणा पितृलोको विद्यया देवलोक इत्यादयः। इत्येवं शुश्रुम भ्रुववम्तो वयं धीराणां धीमतां वचनं शुश्रम। य आचार्या नोऽ्मभ्यं तत्कर्म च ज्ञानं च विचचक्षिरे व्याख्यातवन्तस्तेषानयमागमः पारम्वर्यागत इत्यर्थ: ॥ १०॥ यस एवं चिर्द्या चाविदां चेति देवताज्ञानं कर्म चेत्पर्थ:। यस्त्वेद तदुभरय ज्ञानं कर्ष च सहैकेन रूपेणालुष्ठेमें यो वेद तस्यैत्र समुच्चयका- रिण एकपुरुपार्थसंन्धक्रमेण कि स्यादित्ुच्यते-अवद्यया मृत्युं ततत्वेति। अविद्या कर्मणाडमिहोत्रािना मृन्युं स्वाभाविकं रागतः क्रियमाणं कर्म ज्ञानं च मृत्युशब्दवाच्यं तदुभयं ती्त्वातिक्रम्प विद्यया

यद्देवतात्मगमनम् ॥ ११ ॥ अधुना व्याकृवाव्याक्ृवोपासनयोः सतुनत्तिचीषना मत्येकें निन्दी

Page 80

आनन्दभट्टोषाध्यायकृतम्-

च्यते-अन्धं तम इति। अन्धं तमः भविशन्ति के येऽसंभूर्ति संभवनं संभूतिः सा यस्य कार्यस्य संभूतिस्वस्षा अन्याऽसंभूतिः प्रक्ृतिः पक्रियत कार्य यया प्रकृति: कारणमव्याकतारूयां वामसंभूतिमव्याक्ृता -. ख्यां प्रकृतिकारणमविद्यां कामकर्मबीजभूतामदर्शना्मिकासुपासते ते तदनुरूपमेव फळं तमोदर्शनात्मकं प्रविशन्ति। ततस्तस्मादपि भूयो बहुतरमिच तमः प्रविशन्ति। के ये उ एव संभूत्यां रकाः संभूत्यां कार्य- ब्रह्मण हिरण्यगर्भारष एव रवास्ते भूय इव तमः प्रतिशन्ति ॥ १२ ॥ अथाधुनोपासनयोः समुच्चय करणायावयवफलभेदमाह-अन्वदेवाSड हुरिति। अन्यदेव पृथगेवाऽडहुः फछं संभवात्संभूते: कार्यब्रह्मोपासना- दणिमाद्यैश्वर्यलक्षणं फलमाहुर्वेदा:। तथाऽन्यदाहुरसंभवःदसंभूतेरव्या कृतादव्याकृतोपासनादन्यदेव फलमाहुः। अन्धं वमः मविशन्तीति शुश्रम श्रुतवन्तो वयं धीरा ये नस्तद्विचचक्षिरे। य आचार्या धीराणां वचनं विचचक्षिरे व्याकृताव्याकृतोपासनफलवचनं व्याख्यातवन्त इत्यर्थ: ॥ १३ ॥ यत एवमतः समुच्चयः संभूत्योर्युक्त एवैकपुरुषार्थत्वादित्याह- संभूति च विनाशं च यस्तद्वेदभियए सह विनाशेन मृत्युर्नाशो धर्मो यस्य स तेन विनाशघर्मणा हिरण्यगर्भोपासनेनैश्वर्षपास्तिद्वाराऽनैशवर्य धर्मकामादिदोषजावं च मृत्युं तीर्त्वा संभूत्या। अत्राकारल,परजन्दसः। असंभूत्याऽसंभूत्युपास नयाऽव्या कृतोपासनेनामृतं मककृतिलयलक्षणं कार- णत्वपास्तिलक्षणममृवमशनुत इति तत्रश्च पुनः संसारो भवतीत्येवमपर विद्याकर्मसमुच्चये फलमभिदितिम्। तत्र को मो: कः शोक एकत्वमतु पश्यत इति। स्वतन्त्रस्य सर्वकर्संन्यासपूर्वस्त सम्पगावस्य फलम- भिहितिमेवं द्विपकार: पतृत्तिनिवृत्तिलक्षणो वेदार्थोडनेन मकाशितः ।पट्ट- त्तिलक्षणस्य वेदार्थस्य विधिपतिषेधलक्षणस्य कृत्त्स्य प्रकाशने पव- ग्योन्तं ब्राह्मणमुपयुक्तम्। निवृत्तिलक्षणस्य पकाशने विद्यामुपासव इवि। तव ऊध्चे बृद्ददारण्यक तन्रापि प्राणादिविषयोपासनं न परं किंचिदन्यन्निर्गुणब्रह्मपरमिति विभज्य दर्शनीयन्। कार्य सगुणब्रम्मो; पासनावाक्यजातं चान्धं तमः प्रविशन्ति येविद्यासुपासव इत्यादिषण्म नत्रप्रकाशितार्थस्य प्रकाशन उपयुक्तमितरत्सर्व निर्गुणतत्वैकनिष्ठमिति। विद्यां चाविद्यां च यस्तद्वेदोभयर सह। अविद्यया मृत्युं तीत्वा विद्ययाऽमृतपश्तुते।।

Page 81

इशावास्थभाध्यम्। ९

इति यदुक्त तत्र केन मार्गेणामृतत्वमश्तुत इत्यार्षेशदिमार्गेणेत्यु- च्यते॥ १४ ॥ एंवं यथोक्तोपासनं कुर्वन्नपासका स्व्रदेहस्यान्तकाले प्राप्त आत्मनोङ् मृ तत्वपाप्तिद्वारभूतमादित्यं याचते-हिरण्मयेन पात्रेणेति / आदित्व- देवत्याऽनुष्टुब्हे पूषन्हे सूर्यास्मत्पोषक हिरण्मयेन ज्योतिर्मयेन पात्रेणाSS- धारभूतेन सत्यस्याSSदित्यमण्डलस्थस्य ब्रह्मणोऽपिहितं मुखं द्वारमपि- हितम्। हिरण्पयेन पात्रेण द्वारस्यापिधानं कृतम्। अवस्तत्वं पूषत्रपा- वृणु पूषंस्वत्पिधानं त्वप्रपादृण्तपगमय। सत्यधर्माय सत्यस्य तवोपास- नादहमपि सत्यधमों जातः। सत्यं धर्मो यस्य स सत्यधर्मा तस्मै सत्य- धर्माय महां तदपावृणु। यद्ा व्यत्ययः। सत्यधर्माय सत्यधर्मस्य तदूदृष्टये । १५।। पूषन्नेकर्ष इति। सूर्यदेवत्या त्रिष्टुग्पोषणात्पूषा रविस्तत्संबोधनं ह एकर्षे त्वया सर्वस्य संयमनादयमो हे यम सूर्य सुष्टवीरणात्सूर्यस्तत्सं- बोधनं प्रजापतेरपत्यं माजापत्यस्तत्संबोधनं हे पाजापत्य। एवं संस्तूय प्रार्थयते-व्यूह रश्मीनिति। रश्मीन्व्यूह विगमय समूह तेजस्तेजस्वापकं यज्ज्योतिस्तज्ज्योतिस्तत्समूहमेकी कुरु। यत्ते रूप कल्याणतमं वत्ते पश्यामि ते तव यत्कल्याणतम मङ्गलतम रूपं तत्ते तव प्रसादा त्तद्रूपमहं पश्यामि । किंच योऽसावसौ पुरुषः सोऽहमस्मि। योऽसौ मण्डलस्थो व्याकृतावयवो यः पुरुषः पुरुषा आहु: पूर्णतवाद्वा पुरुष: सोऽहमस्मीत्यादित्यमेकीकृत्य पश्यामीि ॥ १६ ॥ एवं ब्रह्मोपासकस्य योगिनः शरीरपातोत्तरकालं शरीरं यद्भवति तदाह-वायुरनिलमति। लिङ्गगेक्तदेवत्यं यजुर्वायुः प्राणोऽनिलं सूर्या- तमममृतमधिदैवतं स्वप्रकति हिरण्यगर्भार्यं प्राण प्रतिपद्यते। अथान- न्तरमिद मती यमानं शरीरमम्रौ हुतं भस्पान्तं भवति। कृतपयोजनत्वात्। इदानीं योगिनो बलभूतं सर्ववेदसारं सर्ववेदमयमक्षरं कथ्यते-ओमिति। अवतेराझोवेवां। ओमिति परमाक्षरस्य योगिनो बलभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्य स्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता। शब्दब्रह्मारम्भे विनियोगः । अपि च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येष्वपि काम्यनैमित्तिकादिष्वपि सर्वेष्वस्योंका- रस्य विनियोगः। ओमिति परब्रह्मणो नामनिर्देशः। ओं तद्रह्मेत्यादि-

Page 82

कार एवान्त्यकाल उत्तारक इते दर्शयत-आत्मरूपय ऊकारस्ततस्तेन सतम्। इदानीं कुतं स्मारयतति-कृतं स्मर, इति। लिङ्गक्क्तदैवत्यं यजुः। क्रतो कतुः संकल्पोडनेन संकल्विषयो योगिभिर्लक्ष्यते। हे क्रतो है श्रीभगवन्नये स्मर कतं ब्रह्मचर्ये मया कृतं तत्स्मर न विस्मर्तव्यम्। हे क्रतो गाईस्थ्ये मया यत्कृतं तच् स्मर। पुनश्र यत्साधु कृतं वत्सर्वे कृतं स्मर कतं स्मरेति। आदरार्थ पुनर्वचनम्। अथवा क्रतुशव्देन. यज्ञ: संबोध्यते। हे क्रवो हे यज्ञ। यज्ञशब्दोपलक्षिवो यज्ञाध्यक्षो यज्ञह विर्भागभुक् श्रीभगवान्विष्ण: संबोध्यते श्रीभगवन्विष्णो कृतं स्मर मया कृतं त्वया कारितं स्मर कृतं स्मर कृतं स्मरेति ॥१७॥ मार्गे याचते-अगे नयेति। अग्नेयी त्रिष्टुष्। हे श्रीभमवन्नग्ने हे सर्वंज्ञ नय सुपथा। दक्षिण मार्गनिवृस््पर्थ सुशब्दः। शोमनेन मार्गेण देवयानेना- स्मान्य प्रापथ। राये धनाय कर्मज्ञानफळोपभोगाय वा। अस्मान्य थोक्तज्ञानकर्मकारिणो नयेति संबन्धः। हे देव विश्वान सर्वाणि वयुनानि कर्माणि प्रज्ञानानि तदनुष्ठितानि च विद्वाज्ज्ञानवास्त्वं सुपथा नयेति संबन्धः । किंच युयोध्यस्मज्जुहुराणमेनः । अस्मदस्मत्तः सकाशाज्जुहुराणं कुटिकं कुटिलवश्चनात्मकमेनस्तस्कृतं चैनः पाप युयोधि योधय पृथक्कुरु। तत्ते विशुद्धाः सन्त इषट फळं प्राप्तुयामे- त्यभिप्रायः। किंतु वयमिदानीं किमप कर्तु म शक्नुमः । अपि तु भूयिष्ठां बहुतरां नमडक्तिं नमस्कारवचनं ते तुभ्यं विधेम कुर्मः । केव- लनमस्कारवचनेन परिचरेमेत्यर्थः ॥ १८ ॥ वन्देऽइं मङ्गलात्मानं भास्वन्वं वेदविग्रहम्। याज्ञवल्पयं मुनिश्रेष्ठं कृष्णं हरिहरं प्रभुम् ।

रमकारुण्यासादितर्श्रीकृष्णभक्तिसा म्राज्यस्य श्रीमज्जा त - वेदभट्टोपाध्यायस्य सूमुना चतुर्वेदिश्रीमदानन्दभट्टो- पाध्यायेन बिरचिते काण्ववेद्भन्त्रभाष्यसंग्रहे चत्वारिंशोऽध्यायः॥४॥

। ॐ तत्समु ।

Page 83

सर्ववेदैकसंयेद्यं हरिं देवशिखामणिम्। देशतः कालतव्वैव गुणतोऽमन्तमाशरये।। चत्वारिंघे त्विहाध्याये परमात्मनिरूपणम्। क्रियते शोकमोहादिवर्जितैः परलक्षणैः॥ ईश्ा वास्यमित्यस्थाध्यायस्य कर्मसु विनियोगो नास्ति। किंतु शुद्ध त्वैकत्वापाषविद्धत्वाशरी रत्वसर्वैगतत्वा द्यात्मयाथात्म्यप्तिपाद्कत्वम् । चरमाद्विहितकर्मणा झुद्धान्तःकरणस्वाधिकारिण आत्मस्वरूपपकामेन शोकमोहादिसाधनमज्ञानं निव्त्य स्वरूपं दर्शयतीत्यभिधेयसंबन्धभयो- जनवामिति व्याख्यायते। ईसा वाश्यमात्मदेवत्योऽनुष्टुप्छन्दस्कोऽध्यायो दध्यड्डथर्वण ऋषिर्द्रष्टा। गर्भाधानादिसंस्कारसंस्कृतमर्घातवेदं जनि- तसुतं यथाशक्तिकृतयज्ञं निप्पापं निःसपृहं यमनियमोपेतं सुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह-ईशेवि। ईश् ऐश्वयें किवन्त ईष इबीट्। सर्वस्येशिता परेश्वरः। स हि सर्वजन्तूनामात्मत्वात्सर्वमीष्े। तेना SSत्मनेशा परमेश्वरेणेदं सर्वे प्रत्यक्षपमाणसिद्धं विश्वं वास्यम्। वस आच्छादने। ऋहलोर्ण्यदिति व्यत्पत्ययो णित्वात्स्वरिता। आच्छा दनीयं सर्वे तेन व्याप्तमित्यर्थः। स एवाघस्तात्स एवोपरिष्ठात्। अन्त- र्वैहिश्व तत्सर्व व्याप्य नारायण: स्थित इत्यादिश्रुतेः । यद्वा-इद सर्व- मीशा परब्रह्मणा वास्यं बस निवासे बासितमुत्पादिवं स्थापितं निय- मितं च। यतो वा इमानि भूतानि जायम्ते। येन जाबानि जीवन्ति। यमयत्येष त आत्माऽन्वर्याम्यमृत इत्यादिश्रुतेः। न केवलं प्रत्यक्षगम्य- मीशा वास्यमपि तु सावरणं ब्रह्माण्डमित्याह-यदिति। यत्किंचिच्छ- तिपरमाणसिद्धं जगत्यां जगतु स्थावरजंगमात्मकं शेषं विश्वभीश्ेनोत्पा- दितं स्थापितं नियमितं चेत्यर्थः। अतः कारणातेनेशा त्यकेव विसष्टेन देचेन स्वादृष्टानुसारिणा विषयेण भुञ्जीथा भोगाननुभवेः । इवोऽिकं मा गृधो मृधु अिकाङ्कायां मा काडूक्षीः । इतो ममाधिकं भवत्विवि घियं त्यजेत्यर्थः । परमात्माधीनत्वेन स्वदिच्छाया व्याहवत्वादिि भाव:। एवं सद्धनं कस्यस्वितित्वद्विति निपातो बितकें। न कस्थापीत्य- यः । स एष सर्वस्य वश्री सर्वस्येशानः सर्वमिदं प्रशास्ति यवतिदं

Page 84

अनन्ताचार्यकृतम्।

णिजावमिति वैराग्येण भवितव्यमिति तात्पर्षम् ॥ १ ॥

कर्माण्यग्निहोत्रादीनि निष्कामाणि मुक्तिहेतुकानि कुर्वत्रेवेह लोके शतं समा: शतवर्षपर्यन्तं जिजीविषेत्। पुरुषव्यत्ययः पकरणात्।त्वं जिजी- विषेर्जीवितुमिच्छेः । भवाब्जिजीविषेदिति वा । पुरुषायुषस्य शतवर्षपि तत्वाच्छतग्रहणम्। कालाध्वनोरत्यन्तसंयोग इति द्वितीया। यावच्छक्ति कर्तव्यं न कदाऽपि त्याज्यमिति। कर्षण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ इति। ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा मनीषिणः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।। इति भगवद्वचनात। त्वयीति विभक्तिव्यत्ययस्वैवंकर्म कुर्वतो जिजी- विषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्तीत्ययमभिपायः। सवर्गादिपाष्ी यथा नानोपायाः सन्ति न तथा मुक्तावित्यर्थः । ब्रह्मार्पणबुद्धया कृतकर्मणा शुद्धान्तःकरणस्यैव मुक्तिरिति भावः। ननु कर्मणोऽवश्यं फलेन भाव्यं क्थ मुक्तिरित्याह- न कर्मेति। सुक्त्यर्थ क्रियमाणं कर्म नरे मनुष्ये त्वाय न लिप्यवे न बध्यते। स्वोचितेनासंकलपतफळेम कर्मणा भगवन्त्रमाराधयन्तं नरमपि त्वां न प्रागुत्तरकर्म वाधत इत्यर्थ: । मुक्ति कारणान्तः करणशुद्धयापाद- कत्वेनोपक्षीणशकत्तित्वात। उक्तं हि- द्वाविभावथ पन्थानी यत्र वेदा: प्रतिष्ठिवा:। पवृत्तिलक्षणो घर्मो निवृत्तौ च विभाषितः॥ इवि ॥२ ॥ अथ काम्यपरान्निन्दति-असुर्या इते। ये के च ये केचिज्जना आत्महन आत्मानं पन्ति संसारे संबन्धयन्तीत्यात्महनोSविद्वासः काम्य कर्मपरा आत्महन्तारसते प्रेत्य मृत्वा ताल्ीकानभिगच्छन्ति।अभिरामि मुख्ये। ते के। ये लोका असुर्या असुराणामिमेऽसुर्या असुषु प्राणेष्वेव रमन्त इत्यसुराः पराणपोषणमात्रपरा अज्ञानिनः केवळविषयासक्तास्वैः माप्या असुर्याः । कीदृशाः अन्धेन तमसाउज्ञानात्मकेन समसाSडवृता

Page 85

ईशावास्यभाष्यमू।

आच्छादिता अज्ञानाधिक्यकाररिणोऽनात्मज्ञा: पुनः पुनर्जायन्ते प्रियन्ते चेत्यर्थः। उक्तं हि भगवता श्रीगीतायाम्- कर्मजं बुद्धियुक्ता हि फलं त्यकत्वा मनीषिण:। जन्मबन्धविनिर्मुक्ता: पहँ गच्छन्त्यनामयम्।। इति। अनेकचित्तविभ्रानता मोहजालप्तमावृताः। मसक्ताः कामभोगेषु पतन्ति नरकेडशुचौ ॥। इति। तस्माद्यथायोगं वर्णाश्रमविहितिकर्मणा भगवन्त्रमाराधयंस्तत्मसादेन निवृत्तस्वान्तःकलुषो जातवैराग्य आत्मविन्मुक्तो भवतीतति मघट्टकार्यः ॥३॥ ब्रह्मविदानोवि परं तमेवं विद्वानमृत इह भवति नान्य: पन्था अप- नाय विदयते। एवं त्वाये नान्यथेतोऽस्तीत्यादिश्जतिभित्रह्मज्ञानमेव मोक्षसाधनमित्युक्तम्। तङ्रह्म किविधमित्यत आह-अनेजदिति। त्रिष्टुप्छन्दस्केयमृक्। तद्रह्मानेजत्। एजु कम्पने नैजवीत्यने जत्। अकम्पमानोऽभयमचलदिति केचितु। तथात्वे न मनसो जवीय इत्युत्तरविरोधोऽजरोऽमृतोऽभयो ब्रह्मेति श्रुवेश्। एकं समाधिकर हितम्। न तत्समश्चाभ्यधिकश्च दृश्यत इति श्वेताश्वतरोक्तेः। यद्वा सर्वभूवेषु विज्ञानघनरूपेणैकम्। एको देवः सर्वभूतेषु गूढः सर्वन्धापी सर्वभूतान्तरात्मेतिश्जुतेः। मनसोजवीयो मनो हि वेगवत्पसिद्धं तवोि जवीयो वेगवत्तरं जवोऽस्यास्तीति जववदत्यन्तं जववदिति जवीय ईयसुनि कृते विन्मतोर्लुगिति मतुपो लुग्हेहस्थस्य मनसो दूरस्थब्रझमलो- कादिसंकल्पनं क्षणमात्रान्व्रवतीति मनसो वेगवत्तरत्वं वस्याप्यगम्यत्वा द्क्ष मनसो जवीय इत्युपपद्वे। किच देवा ब्रह्माद्या अप्येनङ्रह्व

वन्न गोचरी कुर्चन्तीति केचित्। तत्त मनोगम्यत्वादेवापीइ स्थितम्। पूर्व सर्वेजगत्कारणमू। यती वा इमानि सूतानि जायन्व इवि श्रुतेः । अत् ऋष गता, अर्थवीत्यर्षज्ज्ञानस्व रूपं सत्यं ज्ञानमनन्तं ब्रह्मति भ्रुतेः। किंच लोकविलक्षणम्। लक्षणान्तिरमाह-विष्वदिति। विष्ठवीति विष्ठ तवस्थाने स्थिवमपि सर्वगवत्वाद्धाववो द्वुवं गच्छतोऽन्यान्मनआदी नत्येत्यतित्रम्थ तिष्वत्यचिन्त्यश्ञक्तिकमित्यर्थः । किंच मातरिश्वा मात- र्यन्तरिक्षे श्वयावि वर्धत इति मातरिश्वा वायुः । दुओश्वि गतिवृद्धयो- रिति धातुः। तस्मिन्व्रह्मण्यपः कर्माणि दधाति घारयति। अप इति कर्मनाम। कार्यकारणजातानि यस्मिनोतानि मोतानि यक्च सूत्रसंज्ञः

Page 86

सर्वस्य जगतो विधारयिता सर्वमाणमृच्चेष्टकः सोप वायु: माणिनां घेष्टालक्षणानि कर्माणि तस्मिन्व्रअ्ण स्वाधिष्ठाने सति दधाव । सव- चेष्टको वायुस्तस्यापि वेतयितृ ब्रह्मेत्यर्थः । भौषाऽइमाद्वातःपश्रत इत्यादिश्रतेः। यद्वा मातरिश्वा वायुरपः कर्माण्याप्यन्ते प्राप्यन्से सुखदुः- खानि याभिस्ता अपः कर्माणि। आमोतेईस्वश्चेति किष्, धातोहस्वश्। तानि कर्माणि यज्ञहोमादीनि यव्पिन्दधाति स्थापयति। सर्वपाणिरः र्माणि समर्पयतीत्यर्थः । देवा गातुविदो मांतुं विच्वा गातुमित मनस स्पत इमं नो देवदेवेषु यज्ञश स्वाहा वाचि स्वाहा वातेधा इति समिष्ट- यजुर्मन्त्रे वायुस्थत्वोक्त: सर्वकर्माणि तावद्वायौ स्थाप्यन्ते। समष्टि व्यष्टिरूपोऽसौ वायुरपि तानि सर्वाणि वस्मिन्दघात्वतो यागहोमादीनां कर्मणां परमास्पदत्वं ब्रह्मलक्षणमेत्यर्थः ॥४॥ रहस्यं सकृदुक्तं न चित्तम रोहवीति पूर्वमन्त्रोक्कमप पुनर्वदति- तदिति। अनुष्रुप्। तत्मकृतमात्मवत्त्वमेजति चलति तदेव नैजति व । स्वतो नैव विभेति। अभयमेव सम्मूढदृष्टया विभेति च । यट्वैजातरनव- र्भाविकण्यर्थः। तदेजयवि दुष्टांस्त्देव नैअयति सदाचारानिति शेष:। परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय संभवकि युगे युगे॥ इति स्मृतेः। किच तद्दूरे दूरदेशैऽस्ति बदु तदेवान्तिके समीपेऽप्यस्ति। सर्व- गतत्वात। यद्वा तद्दूरेऽविदुषामब्दकोटयाऽप्यमाप्यत्वाद्चूर इवे- त्यर्थ:। तद्वन्तिके विदुर्षां हृयवभासमानत्वादन्तिक इब न केवलं टूरेऽन्तिकेडस्ति। कित्वस्य सर्वस्य नामरूपक्रियात्मकस्य जग- तोऽन्वरभ्यनवरे वदेवासत। अस्य सर्वेस्थ वह्मतो बहिरपि तदु तदेषास्त्याकाशवद्व्याप कत्वातु। अनतर्बहिश्व लत्सर्व व्याप्य नारायण: स्थित इति श्रुधेः । यद्वाऽस्य मन्त्रस्थार्थन्तरमू। पूर्व कारणरपमुक्ताम दानीं कार्यरूपमुद्दिशति-तदिति। तदात्मतत्वमेजति सर्वजन्पुरुषेज स्थितं सच्चति तदेष नैजवि स्थावररूपावस्थं न चलति तद्दूर आदि न्यनक्षत्ररूपेण स्थितत्वात्। तदु अन्तिके धरादिरूपेण सयतत्वाुं। अस्य सर्वस्य माणिजावस्यान्तर्मध्येऽ्र्यामिरुपेण स्थितं तदेव। यो विज्ञाने तिष्ठन्विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानशरीरं यो विज्ञानमन्वरो यमयवीति श्रुतेः । अश्य सर्वस्य जगतो बाह्यवस्तदु वदेव। कालरूपेण विद्यमानत्वान्। अन्तर्विः पुरुषः कालरूप इवि

Page 87

ईश्यावास्थभाष्यमूँ।

समृतेः। चेतनाचेतनरूपमनन्तं ब्रह्मैवेत्यर्थः । एवमुपासितुरचिरादिमा र्गेण गमनं नास्त। इहैव ब्रह्मभापिः। न तस्य प्ाणा उत्कामन्त्यत्रैव समवलीयन्ते। ब्रह्मैव सन्ब्रह्माप्येतीत्यादिश्रुतेः । वद्दन्तिक इत्यत्र, उक्ीरोऽपृक्तोऽस्पर्शादिति प्रातिशारुयेन संघिः ॥५॥ अयोपासनापरकारमाह-यस्त्विति। अनुष्ठुप्। यः पुनरधिकारी सर्वाणि भूनान्यव्यक्तादिस्थावरान्तानि चेतनाचेतनान्वात्मन्सप्तम्या लुगात्मन्ये- वानुपश्यति ब्रह्मण्येव सर्वाणि भूवानि स्थितानीति जानाति। अत्मानं च सर्वभूतेष्वतुपश्पति। ततस्वस्मादर्शनान्न विजुगुप्सते जुगुप्सां नाऽडप्नोति। मुक्तो भववीत्वर्थः। उपकोशो जुगुप्सा च कुत्सा निन्दा च गईणे। गुप्धातोर्गुप्तिज्किदूमपः सन्निति स्व्रार्थे सन्पत्ययः। यो मां पश्यति सर्वत्र सर्व च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्पति ॥ इति भगवद्वचनसमानार्थको मन्त्रोऽयम् ॥ ६॥ इममेवार्थ द्वितीयो मन्त्रो वदर्तीत्याह-षस्पित्निति। अनुष्रुप्। यस्पि- न्नवस्थाविशेषे विजानतः सर्वाणि यूतान्यात्मनि सन्ति। आत्मा च सर्वभूवेष्वस्तीवि विशेषेण ज्ञानवतः पुरुषस्य सवे खल्विदं ब्रहमेत्या- दिवाक्यार्थविचारेण सर्वाणि सूवान्यात्मेवाभूत्, भवन्ति सर्वभूवेष्चव- स्थित आत्मैक एवेति ज्ञानं भवति। सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्वमानोऽपि स योगी मयि वर्वते। इति भगवदुकेः। तत्रावस्थाविश्ेष एकत्वमात्मैकत्वमनुपश्पतस्तस्य को मोहः का शोक- श्राविद्याकार्ययो: शोकपोहयो: सर्वथाऽसंभवात्सकारणकस्य संसारस्या- त्यन्तमुच्छेद इवि भाव:। भिद्यवे हृदयग्रन्धिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे।। इति भ्रुवेः ॥७॥ एवंभूतात्मज्ञानिनः फळमाइ-स इति। जगती। योऽधिकारी पूर्वोक्तमकारेणाSडत्मानं पश्पति स ईदृशमात्मानं पर्यगात्मान्नोति। छन्दसि लुङळङ्लट् इति सत्राद्र्तमाने लुङ्। कीटरम्। शुक्र शुल्कं शुद्धं रलयोरमेदाद्विज्ञानानन्दस्व्रभावम्। अकायं न विद्यते भोगार्थ कायः शरीरं यस्य सः। तमकायत्वादेवाव्रणमच्छिद्रं पूर्णमित्यर्थः। अस्नाविरं

Page 88

६ अनन्वाजार्यकृतम्-

न विधन्ते स्नावाः शिरा यस्य सो्तविरस्वम्। अकायमित्वनेन ळिङ्गशरीरनिषेधः। अस्ाविरमिति स्नावोपलक्षितधातुमवस्थूल शरीर निषेध इत्यपुनरुक्ति:। अत्रैव हेतुगर्भविशेषणमाह-शुद्धमनुपहतं सत्त्वरं जस्तमोभिः। एतदेव रपष्टयति-अपापविद्धं न पापैर्विद्धं केशकर्मवि पाकाशयेरस्पृष्टमीदृश्मात्मान ज्ञानी पर्यगादित्यन्वयः। कायादिरहि सोऽपि परमात्मा जगत्सर्जनादि करोत्यचिन्त्यशक्तित्वादित्याह-कवि रिति। ज्ञानी य पर्येति स आत्मा शाश्वतीम्यः समाभ्यः शाश्वतीषु समासु विभक्तिव्यत्ययः। याथातथ्यतो यथातथाभावी याथातथ्यं याथार्थ्य तेन यथार्थस्वरूपानर्थान्पदार्थान्व्यदधाद्विदघाति। कीटशः सः। कवि: क्रान्तदर्शी सर्वज्रो मनीषी मेघावी ज्ञानस्वरूप: परिभू: परिभवति सर्व वशी करोवीति परिभूः। स्वषंभूः स्वयमेन्रान्यदनपेक्ष्य भवतीति स्वयंभूः स्वतन्त्रः। कविरित्युत्तराथमुपासितुः फलकथनपरमिति केचिद्वयाचक्षते तत्मकमभङ्गदुपेक्ष्यम् ॥८॥ इदानीं पूर्वोक्तपकारेणानात्मविदः कर्मनिष्ठाः सन्तः कर्म कुर्वन्त एव ये जिजीविषन्ति तान्पत्युच्पते-अन्धं तम इति। षडनुष्टुभः। विद्याविद्ययोः समुच्विचीषया मत्येकं निन्दोच्यते। ये जना अविद्यां विद्याया अन्याऽविद्या कर्म ता केवलामुपासते कुर्वन्ति स्वर्गार्थानि कर्माणि केवलमतुतिष्ठुन्तीत्यर्थः । अविद्ये- त्यत्र तदन्यार्ये नञब्राह्मण इतिवद। ते पाणिनोन्घमदर्शनात्मकं वमोS ज्ञानं पविशन्ति संसारपरम्परामनुभवन्तीत्यर्थ:। वतस्स्पा्वमक समसः संसारां्भरय इव। इव एवार्थ:। बहुतरमेत्र तमस्ते प्रविशन्ति। से के। य उ ये पुनविद्यायामात्मज्ञाने देववाज्ञान एव रवाः कर्म हित्वा विहितिकर्माननुष्ठानेन प्रत्यवाये सत्यन्तःकरणशुद्धयभावेन ज्ञानानुद- यादिति भाव:। अन्येऽमुं मन्त्रमन्यथा व्याकुर्वन्ति। यथा-आत्मया-

धनत्वमन्येन मन्त्रेणोच्यते। न तु केवलकर्मनिन्दनं तदभावे विद्याया

विषेदित्येवकरणं कर्मात्यन्तायोगव्य वच्छेदार्थेन केवलकर्मकरणविधाना भावाच्च। अत्रैवं योजना-येऽविद्यामन्यथाज्ञानमुपासते तेऽधं तमो नाम नरकं प्रविशन्ति। असन्नेव स भवति। असद्रस्मोते वेद चेदिति श्रुवेः।

Page 89

ईशावास्यभाष्यम्। 9

अथ ये जना विद्यायामु आत्मयाथार्थ्यज्ञान एव रता न त्वन्धतमः -साधनान्यथाज्ञाननिन्दने ते ततोऽन्यथाज्ञानं प्राप्य तमसः सकाशादभूय इव बहुतरमेवान्धं तमः पविशन्तीति। ९॥ ज्ञानकेवलकर्मणोः फळभेदमाइ-अन्यदेवेति। विद्ययाSSतमज्ञाने नान्यदेव फलममृतरूपमाहुर्बह्मव दिनः। अविद्यया केवलकर्मणा साध्य- मन्षदेव फळं पितृलोकादिरूपमाहुर्विद्वांसः । कर्मणा पितृलोको विद्यया देवलोको देवलोको वै लोकानाश् श्रेष्ठस्तस्माद्विद्यां प्रशभसन्तीत्यादि- श्रुतेः। कथमेतदवगतमित्यव आह इतीति। इत्येवं शुश्रुम श्रुतवन्तो वयं धीराणां धीमता वचनम्। य आचार्या नोऽस्मभ्यं तत्कर्म च ज्ञानं च स्वरूपफलतो विचचक्षिरे व्याख्यातवन्तस्वेषामयमागमः पारम्पर्ा- गत इति भाव:। द्वितीयपक्षे तु विद्ययाSSत्मयाथार्थ्यज्ञानेनान्यदेव मोक्षेकदेशलक्षणं फलं माप्यमाहुर्वद्धा अविद्ययाऽन्यथाज्ञानिन्द- याऽन्यदेव मोक्षिकदेशफलरूपं फलमाहुरिति धीराणां वचनं शुश्रुम । ये धीरा नोस्मान्पति तन्मोक्षसाधनं विचचक्षिरे व्याचचक्षिरे। तस्मादुपप- न्नः समुच्चय इति ॥ १० ॥ समुच्चयमाह-विद्यामिति। विद्याSSत्मज्ञानमविद्या कर्मान्यथाज्ञा- ननिन्दनं वा। चद्व्यं परस्परसमुच्चयार्थम्। तदुभयं सह पुरुषार्थहेतुत्वेन यो वेद, एकनैव पुरुषेणानुष्ठेयमिति जानाति सोडविद्ययेश्वरार्पणबु- द्धयाडकृता्निहोत्रकर्मणा मृत्युं मारकमन्तःकरणमलं ती्त्वाऽन्तःशुद्धया कृतकृत्यो भूत्वा विद्ययाऽSत्मज्ञानेनामृतं भावमधानो निर्देशः। अमृतत्वं मोक्षमश्नुते पाप्जीति।एक्त हि श्रीगीतायां भगवता- यत्सांख्यै: प्राप्यते स्थानं तद्योगैरवि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्याति॥ इति। सांखपयोगशब्दौ ज्ञानकर्मपरौ ॥ ११ ॥ उक्तमेवमुत्तरमन्त्रत्रयेण समर्थ्यते-अन्धं तम इति। येऽविद्यामुपा- सते तेऽन्धं तमः पविशन्तीत्युक्तमू। तत्राविद्यस्वरूपमुच्यते-असंभूति- मिति। ये प्राणिनोऽसंभूति नास्ति संभूविर्जगव उत्पतत्यादिर्यस्मात्सोड संभूतिस्तं संभूतेरुपलक्षणत्वात्। परमेश्वरो न जगदुत्पत्यादिकर्वापि तु स्वभावत एवोत्पद्यतेऽवतिष्ठते नश्यतीत्यात्मानमुपासवे तेऽन्वं तमः प्रविशन्तीत्यर्थः । यतो वा इमानि भूतानि जायन्ते। येन जातानि

Page 90

अनन्ताचार्यकृतम्-

असत्यमपतिष्ठं ते जगदाहुरनाश्वरम्। थपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोडल्पबुद्धयः। पभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। आसुरीं योनिमापन्ना मूढा जन्मि जन्माि। मामपाप्येव कौन्तेय तवो यान्त्यधर्मा गतिम्। इति भगवदुक्तेश। अन्य त्पूर्ववत्। यद्वा यमनियमादिसंबन्धवान्विज्ञानात्मा कक्षिन्ास्ति । जलबुद्बुद्बज्जीवाः। मदशक्तिवद्विज्ञानमित्यादिदुर्वादिनो बौद्धा अनेन निन्धन्ते। ये नर असंभूति न संभूतिरसंभूतिस्तां मृवस्य पुनः संभवो नारिति। अतः शरीरान्तेऽस्माकं मुक्तिरेवेति य उपासते सिद्धा. न्तयन्ति तेऽन्धं तमः प्रावशन्ति। तथा य उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभृतिः परदेवता तत्रै- वाSSसक्ता: कर्मपराङ्मुखाः स्वबुद्धिमालिन्यमजानाना आत्मज्ञानमात्र एव रता आत्मैवास्ति नान्यतकर्मान्यादीति कर्मकाण्डज्ञानकाण्डयोः संब- न्घो नास्तीत्यभिप्रायवन्त इत्यर्थः। ते नरास्ततोऽन्धात्तमसो भूय इव। इव- शब्दो निपातो बह्नर्थो बहुतरं तमो विशन्ति। यद्वा व्याकृताव्याकृता. पासनयो: समुच्चि चीषया प्रत्येकं निन्दोचषते। तेन यथा संभवनं संभूति: कार्यस्यात्पत्तिस्तस्या अन्याSसंभूतिः प्रकृतिः कारणमव्याक्वारयं तामसंभूतिमव्याकृताखयं प्रकृतिकारणम्। अविद्या कामकर्मबीजभूतामद- र्शनात्मिकां य उपासते ते तदतुरूपमेवान्घं तमः परविशन्ति संसारमेव पराप्नुवन्ति। ये तु संभूत्यां कार्यब्रह्मणि हिरण्यगर्भादावेव रतास्ते ततस्तस्मादपि भूयो बहुतरमेव तमः प्रविशन्ति ॥ १२ ॥ अथोभयोरुपासनयोः समुच्चयकारणमवयवतः फलभेदमाह-अन्य देवोती। संभवात्संभूतेः कार्यब्रह्मोपासनादन्यदेव पृथगेवाणिमाद्यैश्वर्य- लक्षणं फळमाहु: कथयन्ति धीरा:। तथाऽसंभवादसंभूतेरव्याकृवो- पासनादन्यदेव फलमुक्तमन्घं तमः प्रविशन्वीत्याहुः । क्लेशोऽघिकवर- स्तेषामव्यक्त्ासक्तचेतसामिति भगवद्क्के:। इत्येवंविधं धीराणां धीमवां वचः शुश्रुम वयं अ्रुतवन्तो ये धीरा नोऽस्माकं तत्पूर्व संभूत्यसंभूत्यु- पासनफलं विचचक्षिरे व्यारुयातवन्तः । १३ ।। उक्तं सर्वमुपसंहरति-संभूवि चेति। संभूवि सकळजगत्संभवैकहेतुं परब्रह्म विनाशं विनाशोडस्यास्तीति विनाशम। अर्थआदिभ्योजजि-

Page 91

ईशावास्यभाष्यम्।

त्यरपत्ययः। विनाशधर्मक शर्रीरादिसंसारं तदुभयं शरीरिशरीररपं दुष यो योगी सहैकीूतं वेद जानाति। नित्यानित्यं वस्तु विवेचयतीत्यर्थ।। देदभिन्नोऽहं देही वाऽऽसं कर्मनिमित्तमिति ज्ञात्वा शरीरेण ज्ञानोत्पत्ति- कराणि निष्कामकर्माण कृत्वेश्वरेऽर्पयतीति भाव:। स ब्ानी विना- शेन विनाशवता शरीरेण सातत्विककर्मानुष्ठानद्वारा मृत्युं वीर्त्वाऽनव :- करणशुद्धि संपाद्य संभूत्याऽSतमज्ञानेनामृतत्वमश्नुते मुक्ति प्राप्नोति। यद्वाडस्या अर्थान्तरम्। यथा-संभूत्यसंभृत्युपासनयोरेकपुरुषार्थत्वात्स सुच्चय एव युक्त इत्याह-संभूतिं चेति। अत्र विनाशं विनाशे[ने]विशब्द- द्वयेऽवर्णलोपो द्रष्टव्यः । पृषोदरादित्वात्साधुरन्यदाहुरसंभवादिति प्रक- रणात्। संभूतिं विनाशं च व्याकृताव्याकतोपासनदयं यः सह वेदो- भयमुपास्त इत्यर्थः । स योग्यविनाशेनाव्याकतोपासनेन मृत्युमनैश्वर्य- मधर्मकामादिदोषजातं च तीर्त्वाऽतिक्रम्य संभूत्या हिरण्यगभोंपासनेना- मृतं प्रकृतिलक्षणमश्नुते प्राप्नोति। यद्वा संभूत्या संभवतीति संभूतिहि- रण्यगभादिदेवता तया संभूत्या संभूत्युपासनया मृत्युमन्त:करणमलादि रूपं ती्त्वाऽविक्रम्याविनाशेन विनाश उपळक्षणमुत्पत्तिविनाशादिदोषर- हितेन परात्मना वज्ज्ञानेनामृ्वं मोक्षममश्चुव इति भिन्नक्रमेण पदयोर्व्यां- ख्यानम् ॥ १४ ॥ एवं प्रासताधिकारं शिष्यं पति परमात्मस्वरूपं निरुप्य तत्साक्षात्कारो मोक्षसाधनमित्यतीतग्रन्थेनोक्तम्। स चेश्वरमाक्षात्कारो न श्रवणादि मात्रेण भवति। नापि मोक्ष: साक्षात्कारमात्रेण किंतु भगवदनुग्रहा- देव। नायमात्मा पवचनेन लभ्यो न मेधया न बहुना श्रुवेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वित्रणुते तनूं स्वामिति श्रुतेः । अतोऽ नुषष्ठितश्रवणमननादिकेनापि साक्षात्कारार्थ माप्तसाक्षात्कारेणापि च मोक्षार्थ यथा भगवत्मार्थनं कार्ये तत्पकारपदर्शनार्था हिरण्मयेन पात्रे- णेत्याद्युत्तरमन्त्रा:। तत्राSदिव्य रूपोपासनमा हि्पयेन पात्रिणेतत । अनुष्टुप्। हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत्पात्रं पिबन्ति यत्र स्थिता रश्मयो यत्र स्थितानिति पात्रं सर्यमण्डलं तेन वेजोमयेन मण्डलेन सत्यस्पाऽडदित्यमण्डलस्थस्याविनाशिनः पुरुषोत्तमस्य श्रीभगवतो मुखं मुखमिति सर्वविग्रहोपलक्षणम्। लीलाविग्रइस्वरूपमपिहितमाच्छा दिवं वर्तते यत्तन्मुखं हे पूषन्पुष्णातीति पूषा तत्संबोधनं हे भक्तपोषक परमात्मंसत्वमपाठृण्व पाट तमनाच्छादितं कुरु/ किमर्थ, सत्यधर्माय दष्टये।

Page 92

अनन्ताचार्य कृता-

सत्ये सत्यज्ञानानन्दात्मकं त्वद्ूर्प धांशयति हृदये चिन्तयतीि सत्यधर्मा तस्मै। चतुर्थी षछठुचर्षे। सत्यधर्मस्य मदादिभक्तजनस्य दृष्टये दर्शनक्य साक्षात्काराय। दशिर प्ेक्षणेऽस्मान्भ्ावे क्तितिन्पत्ययः। वश्चभ्रम्जसजम. जयजराजभ्राजच्छशी ष इति शस्य षत्वं ष्टुना ष्टुरिति ष्टुत्वमित्यृषि- पार्थनम् ॥१५॥ एतदेव स्पष्टीकृत्य ऋषिर्याचते-पूषन्निति। उष्णिग्यजुरन्तोष्णि कत्रपदाऽन्त्यो द्वादशक इति वचनात। हे पूषन्ह एकषें। एकश्रासा वृषिश्चैकर्षिः। ऋष ज्ञाने। हे मुख्यज्ञान हे यम यमयति सर्वमिति यमो योऽन्तरो यमयतीति श्रुतेः । हे सूर्य। सूरिभिज्ञेयत्वात्स सूर्य:। सूरिश व्दात्तद्धितो यत। यस्येति चेतीकारलोप:। हे ाजापत्य। पजानां पति: प्रजापतिर्हिरण्यगर्भस्तस्य वेदोपदेष्टत्वेन पिय। यो ब्रह्माणं विद्धाति पूर्व तस्मै वेदांश्र प्रहिणोति सर्वानिति श्वेवाश्वश्रुतेः। मदीयान्रशमीन्प्र- काशयन्व्यूह तेजासमूहं च रवरूपं बाह्यं च मदीयं ज्ञानं विस्तारयेत्यर्थ:। तथा यत्ते रूपं कल्याणतमं परममङ्गलं मङळानां च मङ्गलमिति स्मृतेरस्ति तत्ते तव प्रसादादहं पश्यामि। यद्वा हे पूषन्नेकर्षे यम सूर्य पाजापत्य प्रजापतेधमेंस्यापत्य नरनारायणात्मन्मीन्मच्चक्षुष उपघात- कान्स्वान्रमीन्व्यूह विगमय। तेज आत्मीयं ज्योतिःसमूहमुपसंहर मढ र्शनयोग्यं कुरु। अन्यत्समानम्। केन प्रकारेण पश्यसीत्यत आह- य इंति। योऽसौ पूरुष: पूर्ष शेतेऽसौ मण्डलान्तःस्थो यः पुरुषोऽसौ तदितरमतीकस्थितश्र पुरुषः सोऽहमस्मि भवामि सूर्यमण्डलादिपवी कस्थो मद्घूदयन्तःस्थो ज्योतीरूपश्चैक एवेति प्रकारेण ते रूपं पश्यामी- त्यर्थः । एतादृशैक्यज्ञानस्यैव मोक्षसाधनत्वादिति भावः । अत्रासौ च शाक्टायन इति पातिशाख्ये न यवयोः पदान्तयोः स्वरमध्ये लोप इति प्राप्तलोपप्रतिषेधादसावसाविति द्रष्टव्यम् ॥ १६ ॥ इदानीं मरिष्यतो मम वायुरध्यात्मपरिच्छेदं हित्वाऽघिदेवतात्मान. मनिलं प्रविशात्विति प्रार्थयते-वायुरनिलमिति। वायुरनिलं यजुषी। ओमितिपरमाक्षरस्य योगिनामालम्बभूतस्य परस्य ब्रह्मणः प्रणवा- खयस्यास्थूलादिगुणयुक्तस्य ब्रह्मा ऋषिश्छन्दो गायत्रं परमात्मा देवता शब्दब्रह्मारम्भविरामे च यागहोमादिषु शान्तिपौष्टिककर्मसु चान्येषु विनियोगोऽस्य कवः। त्रिभिर्यज्ञान्योगी स्मारयतीव्यनुक्रपणी। हे परमा- रमन्मरिष्यतो मम वायु: पाणो वायुग्रहण सप्दशलिङ्गिेपलक्षणार्थम्।

Page 93

ईश्ावास्यभाष्यम्। तथा च सप्दशात्मकलिङ्गरूपः माणोऽध्यात्मपरिच्छेदं हित्वाऽधिदैवत- रूपं सर्वात्मममृतं सत्रात्मानमनिलं मुख्यमाणं प्रतिपद्य वामिति वाक्ष शेषः। वायुर्वे गौतम तत्सूत्रेण वायुना हि गौतम तत्सूत्रेणायं च लोक: परश्रं लोकः सर्वाणि च भूतानि संदब्धााने भवन्तीति अ्रुतेः । ज्ञानक- र्मसंस्कृतं लिङ्गमुत्क्रमयत्विःयर्थः। अथानन्तरमिदं स्थूलश्रीरमग्रर हुतं सन्भस्मान्तं भस्मैवान्तो यस्य तन्भ्र्वान्तं भस्मावसानं भूयात्कृतपयोज- नत्वात। ॐतीकात्मकत्वात्स्त्वात्मकमगन्याख्यं ब्रह्मामेदेनोच्यते। ऊ हे करतो संकल्पात्मक स्मर यन्मम स्मर्तव्यं तस्थायं काल; समुप- स्थितोऽतः रमर यरत्वं ब्रह्मच्यें गाईहथ्ये च मया परिवरितस्वत्स्मर। तथा कृतं यन्मया वाल्यपभृत्यद्ययावदतुष्ठितं कर्म तच्च स्मर क्रवो स्मर कृतं स्मरेति पुनर्वचनमादरार्थम्। यद्वा प्रत्यक्षत एव देहस्य भस्मान्त- त्वदर्शनाहेहनाथे च तदन्तर्गनश्य ब्रह्मणो जीनवन्मरणाद्यवश्सभावादि त्याशडनयामिदमुच्यते। अत्रायमर्थो यद्यपीद शरीरं भस्मान्वं दृश्पते तथाऽपि तदन्वर्वर्तिनः परमेश्वरस्य न मरणादिदोषमसङ्ग:। कुत व्यत्य यादनिळमनिलो वायुर्थदाऽमृतममृतोऽथ तदा ब्रह्मामृतमिति कि वक्तव्यं तदमृतत्वस्य कैमुत्यसिद्धत्वादिति। नतु संसारिणो वायो: कथममृतत्वं संभवति रदुपचारेण तहीश्वरस्यापि तथाविधममृवत्वं स्यादित्याशङ्कय वायोर्देंहनाशेऽपि तत्कार्यविज्ञानतिरोभावाभावोडस्त्पेव । वरायुना वै गौतम सुत्रेणायं च लक: परश् लोक: सर्वाणि च भूतानि संदब्धानि भवन्ति म्ले्छन्ति ह्वन्या देवता न वायु: सषाउनस्तमिता देवना यद्वायुरिति बृहदारण्यकश्रुतेः । अथ प्रणवमतीकं मार्थपते-ओषिति। ॐ ओवत्वादिगुणयुक्त हे क्रतो ज्ञानरूप मां स्मर मया कनं ध्यानादिकं च स्मर। अभ्यासस्वात्पर्यार्थः। अभ्यासेनार्थविशेषं मन्यत इति यास्कोक्ते: परमात्मकर्तृकं स्परणं भक्तानुग्रहोन्मुखं त्वमेव। अबवी त्योम्। अव रक्षण इत्यस्माद्धातोरन्येभ्योऽि हशयन्व इति मनिन्। तवोऽवेष्टिकोपश्रेति पश्चमीनिर्देव्यादवतेः परस्य मनिनष्टिलोपे कने ज्वरत्वरस्त्रिव्य विमवासुपधायाश्चेति धातोरकारवकार पोरुठौ तयो: सव- .णंदीर्घे सति सार्वधातुकेति गुणे रूपसिद्धिर्घातोरन्तत्वादुदात्ततत्वं त्रिमा- ऋ्रत्वं प्रातिशाख्यात ॥। १७॥ साक्षात्कारपार्थनानन्तरमग्निमतीकं भगवन्तर मोक्ष पार्थयते-अग्ने नयेति। अगस्त्यदृष्टाऽडग्नेयेवत्या अन्ते यज्ञान्योगी स्मारय वीति

Page 94

१२ कात्यायनस्मरणात्। हे देव क्रीडादिगुणविशिष्ट हेऽग्रेडग्निपतीक भगव नस्मान्सुपथा शोभनेन मार्गेण देवयानलक्षणेन नय गपय! सुपथेति विशेषणं दक्षिणायनमार्गनिवृत्त्र्थम्। यतो गतागतलक्षणेन दक्षिणाय- नमार्गेण निर्विण्णा वर्य य(अ)तोऽगे त्वां याचामहे। पुनर्गमनागमनवराज तेन शोभनमार्गेणास्मान्कर्मफलविशिष्टान्नय। सुपथेत्यत्र ऋकपूरब्धू: पथामानक्ष इत्यपत्ययो नानित्यत्वात्समासान्तविधेः । दृद्धिरादैच्, इतिवत्। किमर्थ, राये धनाय मुक्तिलक्षणाय। कीदशस्त्वश्। विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वाञ्जाननकंच जुहुराणं हुर्छा कौटिल्ये शानच्, जुहोत्यादित्वेन द्वित्वादौ सति रूपन्। कुटिलं प्रतिबन्धवञ्चनात्मकमेनः पापमस्मदस्मत्तः सकाशादुयोधि पृथवकुरु वियोजय नाशयेत्यर्थः। यु मिश्रणामिश्रणयोरदादित्वाच्छब्लो पद्वित्वे छान्दसं हेर्षित्वम्। ततो विशुद्धाय वे तुभ्यम। अनुदात्तत्वा- दुष्मदादेशः। भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं विधेप कुर्षाम। ईद्दशा भीष्टसाघकस्य तव प्रतिकरणं नमस्कारपरम्परैव न त्वन्यत्मत्युपक- रणमस्तीति भाव:। यद्वा हे देवाग्रेऽस्मान्सुपथा पुनरावृ्त्तिवजितनार्चि रादिमार्गेण राये मोक्षारयवित्ताय नय मुक्तिदो भव। कुतो हे देव, आसंसारमस्मदनुष्ठितानि विश्वान पूर्गानि मोक्षाय पूर्वाप्तानि वयुनानि सत्कर्माणि। वयुनमिति कर्मनामेवि निघण्टू केः। यद्वा वयुनानि श्रवण- मनननिदिध्यासरूपाणि ज्ञानानि भवान्वेद। त्वदत्तया वयुनयोनि भाग- बते वयुनशब्दस्य ज्ञानार्थकत्वात। नतु मारब्धकर्मभिर्बद्धस्य तव क्थ मोक्ष इत्यत आह-अतमाञ्जुहुराणमल्पान्कुर्षद। संसारे परिवर्तयदि- व्यर्थः। ह्वर चलन इति घातुः। छान्दसत्वेन ह्वादिरीदृशमेन: पापम- निष्ट कर्मेत्यर्थः। तदस्मदस्मतो युयोधि वियोजय। वय च ते तुभ्यं भूयिष्ठां नमउाक्तें विधेम। न च प्रकारान्तरेण प्रतिकर्तु शक्नुम इत्यर्थ:।।१८।। इति चत्वाररिश एक एवानुवाक:। इति श्रीमन्नागदेवभट्टात्मजेन प्रथमशाखिना श्रीमदनन्ता- चार्येण विद्वज्जनकृपापात्रभूतेन विरचितार्यां वेदा- र्यदीपिकायां काण्वशाखीय संहिताभाष्ये

॥ ॐ तत्सत् ॥

Page 96

रमनप8

(५)

ईशावास्योपनिषद।

Page 98

आनन्दाश्रमसंस्कृतग्रन्थावलि ग्रन्थाङ्क: ५ आनन्दगिरिकतटीका संवलितशांकरभाष्योपेता। ईंशावास्योपनिषत्। महामहोपाध्यायैः आगाशे इत्युपाह्वैवालशास्त्रिभि: संशोधिता । ब्रह्मानन्दसरस्वतीकृतमीशावास्यरहस्यम्। शंकरानन्दकृतेशावास्यदीपिका । रामचन्द्रपण्डितकृतेशावास्यरहस्यविवृतिः । एतत्पुस्तकत्रितयमानन्दाश्रमस्थपण्डितैः संशोघितम्। उवटार्यकृतमीशावास्यभाष्यम्।

अनन्ताचार्यकृतमीशावास्यभाष्यम्। इद पुस्तकत्रयं मुम्बापुरीनिवासिभिर्वेदशास्रज्ञैर्म हाम होपाध्यायै- र्वोडस इत्युपाह्वे राजारामशास्त्रिभिः संशोधितं च।

एतानि बी. ए. इत्युपपदधारिमि: विनायक गणेश आपटे इत्यतः पुण्याख्थपत्तने श्रीमन् 'महादेव चिमणाजी आपटे' इत्यभिधेय- महाभागपतिष्ठापिते आनन्दाश्रममुद्रणालये

प्रकाशितानि।

शालिवाहनशकाब्दा: १८५६। खिस्ताब्दा: १९१४। (अश्प वर्तेरधिकांश राजशासनानसरेण स्वायत्तीकृताः )।

Page 100

भो मो: सुधियो विद्वांसो विदितमेवैतत्तत्रभवर्ता, यत्किळ संप्रत्यस्मिञ्जगति विभि- लेपु द्वीपेषु विभिन्नेषु देशेषु च ये ये धर्मास्तत्प्रतिपादका ग्रन्थाश्चोपलम्यन्ते। तेपु वैदिकघर्मस्य वैदिकग्रन्थानां चातिपाचीनत्वं मूच्भूतत्वं च निर्विवादमेव सर्वैराद्रियते। यद्यपि स्वस्वधर्माभिमानग्रहगृहीताः केचन वेद्म्य प्राचीनत्वे विवदन्तो दृश्यते। ते सथैव विवदन्तु नाम। तथाऽपि निर्मत्सराः समधियो विवेकिनो नात्र विप्रतिषद्न्ते। त इम आर्याणां चतुर्विधपुरुषार्थसाधनभूताश्वतुर्दशवद्यानां चतुःषष्टकलानां च मूल- मूता वेदा भगवता जगत्कारणेन परमात्मनाSSदिकवये ब्रह्मणे हृदैवोपदिष्ठाः ।सच बह्मा तानितरेम्यः प्रकाशयामास। तद्यथा- समाहितात्मनो ब्रह्मन्व्रह्मण: परमेष्ठिनः। हृय्याकाशादभून्नादो वृत्तिरोघाद्विभाव्यते ।। ववोऽभूत्रिददोंकारो योऽव्यक्तपभवः स्वरादू। स्वधास्रो ब्रह्मण: साक्षाद्वाचक: परमात्मन:।। स सर्वमन्त्रोपनिषद्वेदवीजं सनातनम्। वस्य ह्यासंस्त्रयो वर्णा अकाराा भृगूदह।। धार्यनते यैस्त्रयो भावा गुणनामार्थतृत्तयः ।

तेनासौ चतुरो वेदांश्चतुर्भिवदनैवियु:।

पुत्रानध्यापयत्तास्तु ब्रह्मर्षीन्ब्रह्मकोविदान्।। वे तु धर्मोपदेष्टार: स्वपुत्रेभ्यः समादिशन्। वे परम्परया प्राप्तास्तत्तच्छष्यैर्धृतत्रवैः ॥ चतुर्युगेष्वथ व्यस्ता दवापरादौ महर्र्षिामिः। इसि। एवं ब्रह्मण: सकाशात्ततपुत्रा ये मरीच्याद्यस्तेम्य: शि्य्रश्यादिपरम्परया वेदा: प्रसृता बभूवुः। द्वापरादिषु वेदविस्तरकर्तारोऽन्ये वेदव्यासा आसन्। अस्मिन्नष्यन्तरे-

अवतीणों महाभाग वेद चक्रे चतुर्विघम्।।