1. Isavasya Upanishad
Page 1
ईशावास्योपनिषद्
पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते
ॐ शान्तिः शान्तिः शान्तिः
१
ॐ ईशा वास्यमिदँ सर्वं यत्किं च जगत्यां जगत्
१
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्
२
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः
२
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे
३
असूर्या नाम ते लोका अन्धेन तमसावृताः
३
ताँँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनः
४
अनेनजदँ मनसो जवीयो नैनदेवा आप्नुवन् पूर्वमर्षत्
४
तद्धावतोऽन्यनत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति
५
तदेजति तन्नैजति तददूरे तद्वन्तिके
५
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः
६
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति
६
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते
७
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः
७
तत्र को मोहः कः शोक एकत्वमनुपश्यतः
८
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम्
८
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः
अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते
Page 2
9
ततो भूय इव ते तमो य उ विद्याया᳒ रता:
10
ग्रन्यदेवाहरविद्ययान्यदाहरविद्यया इति शुश्रुम धीराणा᳒ ये नस्तद्विचचचिरे
11
विद्यां चाविद्यां च यस्तद्वेदोभयं᳒ सह अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते
12
ग्रन्धन्तम: प्रविशन्ति येऽसंभूतिमुपासते ततो भूय इव ते तमो य उ संभूत्या᳒ रता:
13
ग्रन्यदेवाह: संभवादन्यदाहरसंभवात् इति शुश्रुम धीराणा᳒ ये नस्तद्विचचचिरे
14
संभूतिं च विनाशं च यस्तद्वेदोभयं᳒ सह विनाशेन मृत्युं तीर्त्वा संभूत्यामृतमश्नुते
15
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखं᳒ तत्सं पूषन्नपावृणु सत्यधर्माय दृष्टये
16
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीनसमूह तेज: यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुष: सोऽहमस्मि
17
वायुरनिलममृतमथेदं भस्मान्त᳒ शरीरम् ॐ क्रतो स्मर कृत᳒ स्मर क्रतो स्मर कृत᳒ स्मर
18
ग्रग्ने नय सुपथा राये ग्रस्मान्विश्वानि देव वयुनानि विद्वान् युयो᳒ध्यस्मज्जुहुराणमेनो भुइष्टा᳒ तेँ नमउक्तिं विधेम
ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति: शान्ति: शान्ति:
इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा