1. Jaabaaladarshana Upanishad
Page 1
यमायष्टाझ्योयोगे॑ ब्रह्ममात्रप्रबोधतः ।
योगिनो यत्प॑दं यान्ति तत्कैवल्यपदं भेजे ॥
ॐ आप्यायन्तु ममा॑ऽऽनो वाक्प्राणश्रः श्रोत्रमथो बलमिन्द्रियाणि च ।
सर्वाङ्गि सर्वं ब्र॑ह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनि॑राकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
१
ॐ शान्तिः शान्तिः शान्तिः ॥
१
ॐ हरिः ॐ । वत्तात्रेयो महायोगी भगवान्भूतभावनः ।
२
चतुर्भुजो महाविष्णुर्योगसाम्राज्यदीक्षितः । १॥
२
तस्य शिष्यो मुनिवरः सांख्यतिनाम भक्तिमान् ।
३
पप्रच्छु गुरुमेकान्ते प्राञ्जलिर्विनयान्वितः ।
३
भगवन्नूहि मे योगं साष्टाङ्गं सपप्रचकम् ।
४
येन विजातिमात्रेण जीवन्मुक्तो भवाम्यहम् ॥ ३ ॥
४
सांकृतेः श्रुणु वक्ष्यामि योगं साष्टाङ्गदर्शनम् ।
५
यमश्व नियमश्वैव तथाैवासनमेव च । ४॥
५
प्राणायामस्तथा ब्रह्मप्रत्याहारास्तथा परम् ।
६
धारणा च तथा ध्यानं समाधिराष्टमं स्मृतम् ॥ ५॥
६
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ।
७
क्षमा धृतिस्तपोहारः शौचं चैव यमा दश ॥ ६॥
७
वेदोक्तेन प्रकारेण विना सत्यं तपोधन ।
८
कायेन मनसा वाचा हिंसाडहिंसा न चान्यथा ॥ ७॥
८
आत्मा सर्वगतोऽच्छेद्यो न ग्राह्यः इति मे मतिः ।
९
स चाहिंसा चरा प्रोक्ता मुने वेदान्तवेदिभिः ॥ ८॥
९
चक्षुरादीनिन्द्रियैः शृणुं श्रोत॑ं मुनेश्वर ।
१०
तस्यैवोक्तिभवेत्सत्यं विप्र तन्निष्ठोथ भवेत् ॥ ९॥
१०
सर्वं सत्यं परं ब्रह्म न चान्यदिति या मतिः ।
११
तच्च सत्यं वरं प्रोक्तं वेदान्तजानपारगैः ॥ १०॥
११
अन्यदीये तृणे रत्ने काञ्चने मोक्तिकेऽपि च ।
१२
मनसा विनिकृत्यौ तदस्तेयं विदुर्बुधाःः ॥ ११॥
१२
आत्मन्यनात्मभावेन व्यवहा॑रिविर्जितं ।
१३
यत्तदस्तेयमित्यु॑क्तमात्मविद्रि॑म॑हामते ॥ १२॥
कायेन वाचा मनसा स्त्रीणां परिवर्जनं ।
Page 2
१३
ऋतौ भार्यां तदा स्वस्य ब्रह्मचर्यं तदुच्यते ॥ १३ ॥
१४
ब्रह्मभावे मनधैरं ब्रह्मचर्यं परन्तप ॥ १४ ॥
स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ।
१५
अनुज्ञा या दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ १५ ॥
पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि सन्ततम् ।
१६
एकरूपं मुने यत्तदार्जवं प्रोच्यते मया ॥ १६ ॥
कायेन मनसा वाचा शुंभिः परिपीडिते ।
१७
बुद्धिक्षोभनिवृत्तिः क्षमा सा मुनिपुङ्गव ॥ १७ ॥
वेदादेव विनिर्मोक्षः संसारस्म न चान्यथा ।
१८
इति विज्ञाननिष्ठत्तद्भुतिः प्रोक्ता हि वैदिकैः ॥ १८ ॥
१९
अहमात्मा न चान्योऽस्मीतीयेवमप्रच्युता मतिः ॥ १९ ॥
अल्पाहाराशनाभ्यां च चतुर्थांशावशेषकम् ।
२०
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ २० ॥
स्वादेहमलनिमीलक्षो मृजज्जलाभ्यां महामुने ।
२१
यतच्छौचं च भवेदाहार्यं मानसं मननं विदुः ॥ २१ ॥
अहं शुद्ध इति ज्ञानं शौचंमाहुर्मनीषिणः ।
२२
अत्यान्तमलिनो देहो देही चात्यन्तनिर्मलः ॥ २२ ॥
उभयोर्न्तरं ज्ञात्वा कस्य शौचं विधीयते ।
२३
ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ॥ २३ ॥
स मूढः कः चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत ।
२४
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ॥ २४ ॥
न चास्ति किंचिदकर्तव्यमस्ति चेत्न स तत्ववित् ।
२५
लोकत्र्येडपि कर्तव्यं किंचिच्चिन्त्यास्ति आत्मवेदनाम् ॥ २५ ॥
तस्मात्सर्वप्रयत्नेन मुनेर्हिंसादिसाधनैः ।
२६
आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदानात् ॥ २६ ॥
इति प्रथमः खण्डः ।
१
तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ॥ १ ॥
सिद्धान्तश्रवणं चैव हींर्मित्य जपो व्रतम् ।
२
एते च नियमाः प्रोक्तास्तान्वक्ष्यामि ऋमाच्छणु ॥ २ ॥
वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायणादिभिः ।
३
शरीरशोषणं यत्तत्प इत्युच्यते बुधैः ॥ ३ ॥
को वा मोक्षः कथम् तेन संसारं प्रतिपद्यते ।
४
इत्यालोचनमर्थजास्तपः शंसन्ति पण्डिताः ॥ ४ ॥
यदृच्छालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।
५
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५ ॥
ब्रह्मादिलोकपर्यन्ताद्द्विरकृत्या यल्लभेत्प्रियं ।
Page 3
१
स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा । भद्रं मुक्तासनं चैव मयूरासनमेव च ॥
२
सुखासनसमायं च नवमं मुनिपुङ्गव । जानुर्वोरन्तरे कृत्वा सम्पक् पादतले उभे ॥
३
समग्रीवशिरः कायः स्वस्तिकं नित्यमभ्यसेत् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥
४
दक्षिणेऽपि तथा सव्यं गोमुखं तन्त्रप्रचक्षते । अदृष्टशावधि गुल्फौ द्वादशाभ्यां व्युत्क्रमेण तु ॥
५
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् । पृष्ठासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥
६
दक्षिणेतरपादं तु दक्षिणोरुणि विन्यसेत् । ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥
७
गुल्फौ तु वृषणस्याधः सीवन्या: पार्श्वयोः क्षिपेत् ।
६
सर्वत्र विगतस्नेहः संतोषं परमं विदुः । श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥
७
न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने । अन्यत्र यत्नदीयेन तद्वानं प्रोत्स्यते मया ॥
५
रागाद्वेपतं हृदयं वाग्दुष्टानृतादिना । हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥
९
सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् । प्रत्यगित्यवगतव्यं वेदान्तश्रवणं बुधाः ॥
८
वेदलौकिकमांशु कृत्स्नितं कर्म यद्ववेत् । तस्मिन्न्भवति या लज्जा ह्रीः सैवति प्रकीर्तिता ॥
१०
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिरभवेत् । गुरुषा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ॥
११
वेदोक्तेनैव मार्गेण मन्त्राभ्यसो जपः स्मृतः । कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणकै ॥
१२
इतिहासे च ऋतौ स जपः प्रोच्यते मया ॥
१३
जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥
१४
वाचिकोपांशुच्चैश्च द्विविधः परिकीर्तितः । मानसोमननध्यानभेदाद्द्विविधमाश्रितः ॥
१५
उच्चैर्जपादुपांशुश्च सहेग्रगुणमुख्यते । मानसस्तथा पांशोः सहेभ्रगुणमुख्यते ॥
१६
उच्चैर्जपस्य सर्वेषां यथोक्तफलदो भवेत् । नीचैःश्रोत्रेण वक्त्रेण श्रुतश्रोत्रेषु लिप्लवं भवेत् ॥
Page 4
७
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतद्विद्विशरोगविनाशनम् ॥
५
निपीड्य सीवनिं सूक्ष्मं दक्षिणंतरगुल्फतः । वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥
९
मेद्रादुपरि निक्षिप्य सर्वं गुल्फं ततोपरि । गुल्फान्तरं च संक्षिप्य मुक्तासनमिदं मुने ॥
१०
कृपंराग्रे मुनिश्रेष्ठ निक्षिपेत्पादाभिपार्श्वयोः । भूम्यां पाणितलद्वन्द्वं निक्षिप्यैकाग्रमानसः ॥
११
समुन्नतशिरःपादो दण्डवद्गोमिन्संस्थितः । मयूरासनमेतत्तु स्यात्सर्वपापप्रणाशनम् ॥
१२
येन केन प्रकारेण सुखं धेयं च जायते । तत्सुखासनमित्युक्तमतिशक्तस्तत्समाश्रयेत् ॥
१३
आसनं विजितं येन जितं तेन जगत्त्रयम् । अननेन विधिना युक्तः प्राणायामं सदा कुरु ॥
इति तृतीयः खण्डः ॥
१
शरीरं तावदेव स्याद्यषणवत्यझुलात्मकम् । देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥
२
त्रिकोणं मनुजानां तु सत्यमुक्तं हि सांख्येते । गुदात्तु द्वाङुलादूर्ध्वं मेद्रात्तु द्वाङुलादधः ॥
३
देहमध्ये मुनिप्रोक्तमनुजानीहि सांख्येते । कन्दस्थां मुनिश्रेष्ठ मूलाधारात्नवाङुलम् ॥
४
चतुरङुलमायामविस्तारं मुनिपुङ्गव । कुड्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥
५
तन्मध्ये नाभिरित्युक्तं योगज्ञेमुनिपुङ्गव । कन्दमध्ये स्थिता नाडी सुषुम्नैति प्रकीर्तिता ॥
६
तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥
७
सुषुम्ना पिङ्गला चैव तद्वदिडा चैव सरस्वती । पूषा च वरुणा चैव हस्तिजिह्वा यशास्वनी ॥
५
अलम्बुसा कुहूश्चैव विश्वोदरी तपस्वनी । प्राण्टिनी चैव गान्धारी इति मुख्याश्चतुर्दश ॥
९
तासां मुख्यतया स्थितिरस्ति मुख्यैककोतमोत्तमा । ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥
१०
पृष्ठमध्ये स्थितेनास्था वीणादण्डेन सुव्रत । सह मस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥
नाभिकन्दादधः स्थानं कुण्डल्या द्वाडुलं मुने ।
Page 5
११
अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम । यथावद्वायुचेष्टां च जलात्रादीनीन नित्यशः । परितः कनकाभेषु निरुद्धयेव सदा स्थिता ॥
१२
स्वमुखेन समावेष्ट्य ब्रह्मरन्ध्रमुखं मुने । सुपुम्नाया इडया सव्ये दक्षिने पिङ्गला स्थिता ॥
१३
सरस्वती कुहुश्चैव सुपुम्नापार्श्वयोः स्थिते । गान्धारा हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः ॥
१४
पूषा यशस्विनी चैव पिङ्गलायाः पृष्ठपार्श्वयोः । कुहूश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥
१५
यशस्विन्याः कुहूर्मध्ये वरुणा सुप्रतिष्ठिता । पूषाश्च सरस्वत्या मध्ये प्रोक्ता यशस्विनी ॥
१६
गान्धाराया सरस्वत्या मध्ये प्रोक्ता च शङ्खिनी । अलम्बुषा स्थिता पायुपर्यन्त कन्दमध्येगा ॥
१७
पूर्वभागे सुपुम्नाया राकायाः संस्थिताः कुहूः । अधश्रोण्यां स्थिता नाडी याम्यनासान्तमिश्यते ॥
१८
इडातु सव्यनासान्तं संस्थितामुनिपुङ्गव । यशस्विनी च वामस्य पादाङ्गुष्ठान्तमिश्यते ॥
१९
पूषा वामाक्षिर्यन्ता पिङ्गलायास्तु पृष्ठतः । पयस्विनी च याम्यस्य करणान्तं प्रोच्यते बुधैः ॥
२०
सरस्वती तथा चोर्ध्वगता जिह्वा तथा मुने । हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिश्यते ॥
२१
शङ्खिनी नाम या नाडी सव्यकरणान्तमिश्यते । गान्धारा सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः ॥
२२
विश्वोदराभिधा नाडी कन्दमध्ये व्यवस्थिता । प्राणोऽपानस्थथा व्यानः समानोदान एव च ॥
२३
नागः कूर्मेश कुकरो देवदत्तो धनञ्जयः । एते नाडीषु सर्वासु चरन्ति दश वायवः ॥
२४
तेषु प्राणदयः पञ्च मुख्याः पञ्चसु सुव्रत । प्राणसञ्जोऽस्थापानः पूज्यः प्राणस्तयोर्मुने ॥
२५
आसनासिकयोर्मध्ये नाभिमध्ये तथा हृदि । प्राणसञ्जोऽनिलो नित्यं वर्तते मुनिसत्तम ॥
२६
अपानो वर्तते नित्यं गुदमध्येोरुजानुशु । उदरे सकले कव्यां नाभौ जठरे च सुव्रत ॥
२७
व्यानः श्रोत्राक्षिमध्ये च कुकुम्यां गुल्फयोऽरपि । प्राणस्थाने गते चैव वर्तते मुनिपुङ्गव ॥
२८
उदानसञ्जो विज्ञेयः पादयोर्हस्तयोऽरपि ।
Page 6
29
समान: सर्वदेहेषु व्याप्त: तिष्ठत्यसंशय: ॥ २९ ॥
30
नागादिवायव: पञ्चत्वगस्थ्यादिषु संस्थिता: । नि:श्वासोच्छ्वासकासास्रु प्राणकर्म हि सांस्कृते ॥ ३० ॥
31
अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् । समान: सर्वसमीप्यं करोति मुनिपुङ्गव ॥ ३१ ॥
32
उदान ऊर्ध्वगमनं करोत्येव न संशय: । व्यानो विवादकृतोक्तो मुनेः वेदान्तवेदिभिः ॥ ३२ ॥
33
उद्नारादिगुण: प्रोक्तो व्यानाख्यस्य महामुने । धनञ्जयस्य प्रोभादि कर्म प्रोक्तं हि सांस्कृते ॥ ३३ ॥
34
निमीलनादि कुर्मस्य क्षुधा तु कुकुरस्य च । देवदत्तस्य विन्द्रे तन्न्रीकार्म प्रकोर्तितम् ॥ ३४ ॥
35
सुषुम्नाया: शिवो देव इडाया देवता हरि: । पिङ्गलाया विराट् स्वात्सरसत्या विराण्मुने ॥ ३५ ॥
36
पूषाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३६ ॥
37
यशस्विन्या मुनिश्रेष्ठ भगवान् भास्कर: स्स्थिता । अलम्बुसाया अबात्मा वरुण: परिकोर्तित: ॥ ३७ ॥
38
कुहो: क्षुद्रेवता प्रोक्ता गान्धारी चन्द्रदेवता । श्रद्धिन्याश्चन्द्रमा: स्तद्वत् पयस्विन्या: प्रजापति: ॥ ३८ ॥
39
विश्वोदराभिधायास्तु भगवान् पावक: पतिः । इडायां चन्द्रमा: नित्यं चरत्येव महामुने ॥ ३९ ॥
40
पिङ्गलायां रविस्तद्वन्मुने वेदविदां वर । पिङ्गलायामिडायां तु वायो: संक्रमनं तु यत् ॥ ४० ॥
41
तदुत्तरायणं प्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१ ॥
42
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुति: । इडापिङ्गलयो: सन्धिं यदा प्राण: समागत: ॥ ४२ ॥
43
अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधारं यदा प्राण: प्रविश्ट: पणिडतत्तम ॥ ४३ ॥
44
तदावं विषुवं प्रोक्तं तपसैषातपतत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्ध्नां प्राविश्रयदा ॥ ४४ ॥
45
तदन्त्यं विषुवं प्रोक्तं तपसैषाततश्चिन्तकै: । नि:श्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत् ॥ ४५ ॥
46
इडाया: कुण्डलीस्थानं यदा प्राण: समागत: । सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर ॥ ४६ ॥
यदा पिङ्गलया प्राण: कुण्डलीस्थानमागत: ।
Page 7
47
तदातदा भवेत्सूर्यग्रहण मुनिपुङ्गव ॥ ४७॥
48
श्रीपर्वतं शिरःस्थाने केदारं तु ललाटके । वाराणसी महाप्राज्ञ भुवोऽग्रंणास्य मध्यमे ॥ ४८॥
49
कुरक्षेत्रं कुचस्थाने प्रयागं हत्सरोहुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् ॥ ४९॥
50
आत्मतीर्थं समुत्सृज्य बहिस्तीर्थानि यो व्रजेत् । करस्थं स महातर्थं त्यक्त्वा काचं विमार्गते ॥५०॥
51
भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु । अन्यथालिङ्गयते कान्ता अन्यथालिङ्गयते सुता ॥ ५१॥
52
तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् । योगिनो न प्रपूज्यन्ते स्वात्मप्रत्ययकारणात् ॥ ५२॥
53
बहिस्तीर्थात्परं तीर्थमनन्तस्तीर्थं महामुने । आत्मतीर्थं महातीर्थमन्यतीर्थं निरर्थकम् ॥ ५३॥
54
चित्तमन्तर्गंतं दुष्टं तीर्थस्नानेनैनं शुद्धूयति । षण्शोऽधिक जलेन्धोऽन्तं सुराभण्डमिवश्रुति ॥ ५४॥
55
विषुवायनकालेपु ग्रहणे चान्तरे सदा । वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेञ्नरः ॥ ५५॥
56
ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् । भावशुद्धूयरथंमजानन् तत्तीर्थं मुनिपुङ्गव ॥ ५६॥
57
तीर्थेन ज्ञाने जपे यज्ञे काष्ठे पाषाणके सदा । शिवं पश्यति मुहात्मानं शिवे देहं प्रतिष्ठिते ॥ ५७॥
58
अन्तस्थं मां परित्यज्य बहिःस्थं यस्तु सेवते । हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ५८॥
59
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः । अज्ञानं भावनार्थीय प्रतिमा: परिकल्पिता: ॥ ५९॥
60
अपूर्वंपरं ब्रह्म स्वात्मानं सत्यमद्वयम् । प्रज्ञानघनमान्नदं यः पश्यति स पश्यति ॥ ६०॥
61
नाडीपुञ्जं सदा सारं नरभावं महामुने । समुत्सृज्यात्मनात्मानमहमित्येव धारय ॥ ६१॥
62
अशरीरीं शरीरीषु महान्तं विभुमीश्वरम् । आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६२॥
63
विभेदजनके ज्ञाने नष्टे ज्ञानबलान्मुने । आत्मनो ब्रह्मणो भेदमसन्तं किं करिष्यति ॥ ६३॥
इति चतुर्थ: वण्ड: ॥ ४ ॥
सम्यक्कथय मे ब्रह्मान्डीशुद्धिं समासतः । यथा शुद्धूया सदा ध्यायज्जीवन्मुक्तो भवाम्यहम् ॥ १॥
Page 8
2
सांकृते श्रुणु वक्ष्यामि नाड़ीशुद्धिं समासतः । विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥ २ ॥
3
यमाद्याष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः । स्वात्मन्यवस्थितः सम्यग्ज्ञाननिभृत् सुशिक्षितः ॥ ३ ॥
4
पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥ ४ ॥
5
आरभ्य चासनं पद्मात्पद्माद्राज्ञुसमोद्रजुसोडपि वा । समग्रीवंशिरःकायः संवृतास्यः सुनिश्चलः ॥ ५ ॥
6
नासाग्रे शशभुद्विवहे बिन्दुमध्ये तुरीयकम् । स्वन्ततन्मृदुतं पश्येन्त्रेत्राभ्यां सुसमाहितः ॥ ६ ॥
7
इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् । ततोडग्निं देहमध्यस्थं ध्यायरुज्ज्वालावलीयुतम् ॥ ७ ॥
8
बिन्दुनादसमायुक्तमग्निनबीजं विचिन्तयेत् । पश्वाद्द्रे चयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥ ८ ॥
9
पुनः पिङ्गलयापूर्य वन्हिवीजमनुस्मरेत् । पुनर्विंरचयेदीमानीडयैव शनैः शनैः ॥ ९ ॥
10
त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षडृतु वा विचरेत्रित्यं रिहत्सनिष्णु ॥ १० ॥
11
नाड़ीशुद्धिमवाप्तोति पृथक् चिह्नोपलक्ष्यतिः । शरीरलघुता दीप्तिस्त्रिवन्धेजाठररक्तिनः ॥ ११ ॥
12
नादाभिव्यक्तिरिल्येतच्चिह्नं तत्त्वसुचकम् । यावदेतानि संप्रेक्ष्येतावदेवं समाचरेत् ॥ १२ ॥
13
अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयमप्रभः ॥ १३ ॥
14
अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् । अज्ञानमलपङ्काद् यः क्षालयेज्ज्ञानतो यतः ॥ १४ ॥
स एव सर्वदा शुद्धो नान्यः कर्मतो हि सः । इति ॥ इति पञ्चमः खण्डः ॥ ५ ॥
1
प्राणायामक्रमं वक्ष्ये सांस्कृते श्रुणु सादरम् । प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ॥ १ ॥
2
वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष प्राणः प्रोक्तः प्राणायामस्तु तन्मयः ॥ २ ॥
3
इडया वायुमाकृष्य पूरयित्वोदरे स्थितम् । शनैः षोडशभिर्मात्रैरकारं संस्मरेत ॥ ३ ॥
4
पूरीतं धारयेत्पश्चाच्चतुःषष्ठ्या तु मात्रया । उकारमूर्तिमन्नापि संस्मरन्प्रणवं जपेत् ॥ ४ ॥
Page 9
५
यावद्वा शक्यते तावद्वारयेज्जपतत्पर: । पूरितं रेचयेत्पूर्वान्मकारणानिलं बुध: ॥
६
पुनै: पिङ्गलया तन्त्र द्वान्त्रिशन्मात्रया पुन: । प्राणायामो भवेदेव तत्शैवं समभ्यसेत् ॥
७
पुन: पिङ्गलया पूर्वं मातै: षोडशभिस्तथा । आकारमूर्तिमत्रापि स्मरेदेकाग्रमानस: ॥
८
धारयेत्पूरितं विद्धान्प्रणवं संजपन्वशी । उकारमूर्ति स ध्यायन्स्तु:षष्या तु मात्रया ॥
९
मकारं तु स्मरन्पश्चाद्रेचयेदिडयानिलम् । एवमेव पुन: कुर्यादिडापूर्वं बुद्धिमान् ॥
१०
एवं समभ्यसेत्रित्यं प्राणायामं मुनेश्वर । एवमभ्यास्तो नित्यं षण्मासासाध्यत्नवान्भवेत् ॥
११
वत्सराद्ब्रह्मविद्वान्स्यात्स्मात्स्मान्त्रित्यं समभ्यसेत् । योगाभ्यासरतो नित्यं स्वधर्मनिरतरत्न य: ॥
१२
प्राणसंयमननेनैव ज्ञानमुक्तो भविष्यति । बाह्यादापूरणं वायो:रुदरे पूरकौ हि स: ॥
१३
संपूर्णकुम्भवद्वायोधारणं कुम्भको भवेत् । बहिर्विरचनं वायोरुद्रात्रचेक: स्मृत: ॥
१४
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽडधम: । कंठनं मध्यं विद्यादुत्थानं चोत्तमं विदु: ॥
१५
पूर्वंपूर्वं प्रकुर्वीत यावदुत्थानसंभव: । संभवत्युत्तमे प्राज्ञ: प्राणायामे सुखी भवेत् ॥
१६
प्राणायामेन चित्तं तु शुद्धं भवति सुतराम् । चित्ते शुद्धे शुचि: साक्षात्प्रत्यग्ज्योतिर्व्यवस्थित: ॥
१७
प्राणस्थि:तेन संयुक्त: परमात्मनि तिष्ठति । प्राणायामपरस्यास्य पुरुषस्य महात्मन: ॥
१८
देहस्वोत्थिते तेन किंचिज्ज्ञानादिमुक्तता । रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥
१९
सर्वपापविनिर्मुक्त: सम्यग्ज्ञानमवाप्नुयात् । मनोजवत्वमाप्तोति पलितादि च नश्यति ॥
२०
प्राणायामेकनिष्ठस्य न किंचिदपि दुर्लेभम् । तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् ॥
२१
विनियोगान्प्रकक्ष्यामि प्राणायामस्य सुतराम् । सन्ध्ययोर्मोक्षकालेऽपि मध्याह्ने वाथवा सदा ॥
२२
बाह्यां प्राणं समाकृष्य पूरयित्वोदरेण च । नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥
Page 10
23
सर्वरोगविनिर्मुक्तो जीवेद्द्वर्षंयत् नरः । नासाग्रधारणाद्वापि जितो भवति सुव्रत ॥
24
सर्वरोगनिवृत्तः स्यान्नाभिमध्ये तु धारणात् । शरीरलघुता विप्र पादाङ्कुश्टनिरोधनात् ॥
25
जिह्वया वायुमाकृष्य यः पिवेत्सतं नरः । श्रमदाहविनिर्मुक्तो योगी नीरोगतामियात् ॥
26
जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् । पिवेदमृतमव्यग्रं सकलं सुखमाप्नुयात् ॥
27
इडया वायुमाकृष्य भ्रुवोर्मध्ये निरोधयेत् । यः पिवेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥
28
इडया वेदतत्त्वज्ञस्थथा पिङ्गलयैव च । नाभौ निरोधयेत्सेन व्याधिभिर्मुच्यते नरः ॥
29
मासमात्रं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । अमृतं च पिवेन्नाभो मन्दमन्दं निरोधयेत् ॥
30
वातजा: पित्तजा दोषा नश्यन्त्येव न संशयः । नासाभ्यां वायुमाकृष्य नेत्रद्वन्दे निरोधयेत् ॥
31
नेत्ररोगा विनश्यन्ति तथैव श्रोत्रनिरोधनात् । तथा वायुं समारोप्य धारयेच्छृङ्गरासि स्थितम् ॥
32
शिरोरोगा विनश्यन्ति सत्यमुक्तं हि साक्षिके । स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥
33
अपानमूर्ध्वमुत्थाप्य प्रणवेन धानैः शनैः शनैः । हस्ताभ्यां धारयेत्सम्यक्कर्णान्तिकरणानि च ॥
34
अधस्तादाभ्यां मुने श्रोत्रे तर्जनीभ्यां तु चक्षुषी । नासापुटवेधनाभ्यां प्रच्छाद्य करणानि वै ॥
35
आनन्दाविभेदो यावत्तावनन्दमृदुर्धारणात् । प्राणः प्रयात्यनेव ब्रह्मरन्ध्रं महामुने ॥
36
ब्रह्मरन्ध्रं गते वायौ नादश्श्रोत्पद्यते नघ । शब्दाद्वनिनिमित्तादौ मध्ये मेघद्वनिर्यथा ॥
37
शिरोमध्यगते वायौ गिरिप्रस्रवणं यथा । पञ्चात्रीतो महाप्राज्ञः साक्षाद्दातमोऽनुसुखो भवेत् ॥
38
पुनस्तज्ज्ञाननिष्ठत्तियोगात्संसारनिहुतिः । दक्षिणोत्तरगुल्फेन सीविग्रीं पीडयेत्स्थिरम् ॥
39
सव्येतेरण गुल्फेन पीडयेदुदीमान्तरः । जान्वोरधः स्थितां सन्धिं स्मृत्वा देवं त्रियम्बकम् ॥
40
विनायकं च संस्मृत्य तथैव वागीश्वरीं पुनः । लिङ्गनालात्समाकृष्य वायुमप्यग्रतो मुनेः ॥
Page 11
41
प्रणवेन नियुक्तेन विन्दुयुतेन बुद्धिमान् । मूलाधारस्य विप्रेन्द्र मध्ये तं तु निरोधयेत् ॥ ४१॥
42
निरुद्ध्य वायुना दीप्तो वदिरूहत्कुण्डलीम् । पुनः सुषुम्नया वायुंहिना सह गच्छति ॥ ४२॥
43
एवमभ्यासतस्तस्य जितो वायुर्भवेऽडुशम् । प्रस्वेदः प्रथमं पश्चात्कम्पनं मुनिपुङ्गव ॥ ४३॥
44
उत्थानं च शरीरस्य चिह्नमेतज्जतड्गनले । एवमभ्यासतस्तस्य मूलरोगो विनश्यति ॥ ४४॥
45
भग्नदरं च नष्टं स्यात्सर्वरोगौघसांकुले । पातकानि विनश्यन्ति क्षुद्राणि च महान्ति च ॥ ४५॥
46
नष्टे पापे विशुद्धं स्याच्चित्तदर्शनमडूत्तम् । पुनर्ब्रह्मादिभोगेषु वैराग्यं जयते हृदि ॥ ४६॥
47
विरक्तस्तु संसाराज्ज्ञानं कैवल्यसाधनम् । तेन पापपहानि: स्याज्जात्वा देवं सदाशिवम् ॥ ४७॥
48
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव परिभावति ॥ ४८॥
49
ज्ञानस्वरूपमहुर्ज्जगदेतद्द्विलक्षणम् । अर्थस्वरूपमज्ञानतश्रयन्त्यानये कुदृष्टय: ॥ ४९॥
50
आत्मस्वरूपविज्ञानादज्ञानस्य परिक्षय: । क्षीणेsज्ञाने महाप्राज्ञ रागादीनां परिक्षय: ॥ ५०॥
51
रागाद्यसंभवे प्राज्ञ पुण्यपापविमर्दनम् । तयोनांशे शरीरेण न पुनः संप्रयुज्यते ॥ ५१॥ इति ॥
इति षष्ठ: खण्ड: ॥ ६ ॥
1
अथातः संप्रवक्ष्यामि प्रत्याहारं महामुने । इन्द्रियाणि विचरतां विषयेषु स्वभावतः ॥ १॥
2
बलादाहरणां तेषां प्रत्याहारः स उच्यते । यत्पश्यति तु तत्सवं ब्रह्म पश्यन्समाहितः ॥ २॥
3
प्रत्याहारो भवेद् ब्रह्मविद्या: पुरोदितः । यदृच्छयादमशुद्धं वा करोत्यामरणान्तिकम् ॥ ३॥
4
तत्सवं ब्रह्मणि कुर्वीत्प्रत्याहारः स उच्यते । अथवा नित्यकर्माणि ब्रह्माराधनबुद्धितः ॥ ४॥
5
काम्यानि च तथा कुर्वीत्प्रत्याहारः स उच्यते । अथवा वायुमाकृष्य स्थानात्स्थानं निरोधयेत् ॥ ५॥
6
दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् । उरोदेशात्समाकृष्य नाभिदेशे निरोधयेत् ॥ ६॥
नाभिदेशात्समाकृष्य कुण्डल्यां तु निरोधयेत् ।
Page 12
७
कुण्डलीदेशतो विद्यान्मूलाधारे निरोधयेत् ।
५
अथापानात्मकिटद्वन्द्व तथोरौ च सुमध्यमे । तस्माज्जानुद्वये जङ्घे पादाङुष्ठे निरोधयेत् ॥
९
प्रत्याहारोङ्मुक्तस्तु प्रत्याहारस्मरै: पुरा । एवमभ्यासयुक्तस्य पुरुषस्य महान्तमन: ॥
१०
सर्वपापानि नश्यन्ति भवरोगघ्न सुव्रत । नासाभ्यां वायुमाकृष्य निश्श्वास: स्वस्तिकासन: ॥
११
पूरयेदनिलं विद्यानापादतलमस्तकं । पश्चात्ताद्द्वये तद्वन्मूलाधारे तथैव च ॥
१२
नाभिकन्दे च हृन्मध्ये कण्ठमूले च तालुके । भुवोर्मध्ये ललाटे च तथा मूर्ध्नि धारयेत् ॥
१३
देहं स्वात्ममयं विद्यान्माकृत्य समाहित: । आत्मनात्मनि निरीक्षेन्द्रे निर्विकल्पे निरोधयेत् ॥
१४
प्रत्याहार: समाख्यात: साक्षाद्दान्तवेदिभि: । एवमभ्यसतस्तस्य न किंचिदपि दुर्लभं ॥ इति ॥
इति सप्तम: खण्ड: ॥ ७ ॥
१
अथात: संप्रवक्ष्यामि धारणा: पञ्च सुव्रत । देहमध्यगते योभिर्न बाह्याकाशं तु धारयेत् ॥
२
प्राणे बाह्यानिलं तद्रज्ज्वलनं चाग्निमोदरे । तोयं तोयांशक भुवि भुवमिभागे महानुमने ॥
३
हयवरलकाराक्ष्यां मन्त्रमुच्चारयेत्कमात् । धारणैषा परा प्रोक्ता सर्वपापविशोधिनी ॥
४
जान्बन्तं पृथिवी हूँशो हृदयं पञ्चनमुच्यते । हृदयांशस्थाग्नेशो भूूमध्यान्तोनिलांशक: ॥
५
आकाशांशस्थथा प्राज्ञ मूर्धांश: परिकीर्तित: । ब्रह्मांशं पृथिवीभागे विष्णुं तोयांशके तथा ॥
६
अग्न्यांशे च महेशानमीश्वरं चानिलांशके । आकाशांशे महाप्राज्ञ धारयेतु सदाशिवं ॥
७
अथवा तव वक्ष्यामि धारणां मुनिपुङ्गव । पुरुषे सर्वशास्त्रार्थं बोधानन्दमयं शिवं ॥
५
धारयेद्धृद्मात्रयं सर्वपापविशुद्धये । ब्रह्मादिकार्यरूपाणि स्वे स्वे सहृत्य कारणे ॥
९
सर्वकारणमव्यक्तमनिरीप्यमचेतनं । साक्षादात्मनि संपुर्ण धारयेत्प्रणवेन तु । इन्द्रियाणि समाहृत्य मनसात्मनि योजयेत् ॥
इत्यष्टम: खण्ड: ॥ ५ ॥
Page 13
१
अथातः सम्प्रक्ष्यामि ध्यानं संसारनाशनम् । ऋतं सत्यं परं ब्रह्म सर्वंसंसारभेषजम् ॥
२
ऊर्ध्वरेतं विरूपाक्षं महेश्वंरम् । सोऽहमित्यादिरूपेण ध्यायेदोगीश्वरेश्वरम् ॥
३
अथवा सत्यमीयं ज्ञानमात्रानन्दमदूदयम् । अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥
४
तथा स्थूलमनाकाशं शून्यस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यं प्रमेयमनूपमम् ॥
५
आत्मानं सचिचदाननन्तं ब्रह्म सुव्रत । अहंस्मीत्यभ्ययेदूद्वये यतीतिं विमुक्तये ॥
६
एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः । कामोद्धदान्तविज्ञानं विजायेत न संशयः ॥ इति ॥
९
इति नवमः खण्डः ॥
१
अथातः सम्प्रक्ष्यामि समाधिं भवनाशनम् । समाधिः संविदुत्पत्तिः परजीवेकतां प्रति ॥
२
नित्यः सर्वगतो आत्मा कूटस्थो दोषवर्जितः । एकः सनिभ्र्चते भान्त्या मायया न स्वरूपतः ॥
३
तस्माद्द्वैतमेवास्ति न प्रपञ्चो न संसृतिः । यथाकाशो घटाकाशो मठाकाश इतीरितः ॥
४
तथा भ्रान्त्या प्रोक्तो ह्यात्मा जीवेश्वरात्मना । नाहं देहो न च प्राणो नेन्द्रियाणि मनो न हि ॥
५
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः । इति धीरो मुनिश्रेष्ठ स समाधिरिहोच्यते ॥
६
साहं ब्रह्म न संसारी न मतोडन्यः कदाचन । यथा फेनतरङ्गादि समुद्राद्भवदुद्भवात् पुनः ॥
७
समुद्रे लीयते तद्वज्ज्जगन्मध्येनुलीयते । तस्मान्नः पुथग् नास्ति जगन्माया च नास्ति हि ॥
८
यस्यैवं परमात्मायं प्रत्यग्भूतः प्रकाशितः । स तु याति च पुंभावं स्वयं साक्षात्परामृतम् ॥
९
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥
१०
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥
११
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणाडसौ तदा भवति केवलः ॥
१२
यदा पश्यति चात्मानं केवलं परमार्थतः ।
Page 14
१२
मायामात्रं जातकृत्स्नं तदा भवति निर्वृति: ।
१३
एवमुक्त्वा स भगवान्दत्तात्रेयो महामुनि: । सांस्कृति: स्वसृरोपेण सुवचमासेउतिनिर्भंय: ॥१३॥ इति॥
१०
इति दशम: खण्ड: ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्रक्षु: श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुयां मा मा ब्रह्म निराकरोदनिरीकरणमस्त्वनिराकरणं मेऽस्तु तदात्मानि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
ॐ शान्ति: शान्ति: शान्ति: ॥हरि: ॐ तत्सत् ॥ इति श्रीजबालदार्शनोपनिषत्समाप्ता ॥