1. Jaabaali Upanishad
Page 1
1
जाबाल्युपनिषद्वद्यपदतत्त्वस्वरूपकम् । पारमेश्वर्यविभवं रामचन्द्रपदं भजे ॥ ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्र्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्वाणा मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्माम्स्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ अथ हैनं भगवान्तं जाबालिं पैप्पलादिः पप्रच्छ भगवान्ने बृहि परमतत्त्वरहस्यम् । किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति । स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाजातमिति । पुनः स तमुवाच कुतस्त्वया ज्ञातमिति । पुनः स तमुवाच षडानादिति । पुनः स तमुवाच तेनाथ कुतो ज्ञातमिति । पुनः स तमुवाच तेनेशानादिति । पुनः स तमुवाच कथं तस्मात्तेन ज्ञातमिति । पुनः स तमुवाच तदुश्पासनादिति । पुनः स तमुवाच भगवन्कृपया मे सरहस्यं सर्वे निवेदयति । स तेन पृष्टः सर्वं निवेदयामास तत्त्वम् । पशुपतिरहङ्काराविष्टः संसारी जीवः स एव पशुः । सर्वज्ञः पशङ्कृत्यसंपन्नः सर्वेश्वर ईशः पशुपतिः । के पशव इति पुनः स तमुवाच जीवा: पशव इति । कथम् तत्पतिरिति । स तमुवाच यथा तृणाशिनो विवेकहीना: परप्रेष्या: कृष्यादिकर्मसु नियुक्ता: सकलदुःखसहा: स्वस्वामिभृत्यमना गवादयः पशवः । यथा तत्त्वामिन इव सर्वज्ञ ईशः पशुपतिः । तज्ज्ञानं केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव । तत्प्रकारः कथमिति । कुतर्क कुतं धार्यम् । पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममनेनैव सङ्गृह्याग्निरिति भस्मे त्यनेनाभिमन्त्र्य मानस्नोक इति समुदूत्य जलेन संस्पृश्य व्याहृपमिति शिरोलाटवक्षःस्कन्धेष्विति तिसृभिस्त्र्यायुपैस्त्रिवृत्स्नयम्वकैस्तिस्रो रेखाः प्रकुर्वीत ।
Page 2
1
व्रतमेतच्छ्रेष्ठं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति । तत्स्माचरेऽनुमुखं पुनर्भवाय । अथ सनत्कुमारः प्रमाणं पुष्टृतौ । त्रिपुण्कधारणस्य त्रिधा रेखा आललाटादाक्ष्ष्योरामूत्रोमध्यतस् । यास्य् प्रथमा रेखा सा गाईपत्यसाकारो रजो भूलोंकः स्वात्मा क्रियाशक्ति: ऋग्वेद: प्रातःसवनं प्रजापतिदैवो देवतेति । यास्य् द्वितीया रेखा सा दक्षिणाग्निराकारः सत्स्वमन्तरिक्षमन्तरात्मा तेच्छाशकितर्युजुर्वेदो मध्यन्दिनसवनं विष्णुदैवो देवतेति । यास्य् तृतीया रेखा साहवनीयो मकारस्तमो द्यौलौंक: परमात्मा ज्ञानशक्ति: सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्कं भस्मना करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापातकोपपातकेभ्य: पूतो भवति । स सर्वान्देवानभ्यादतो भवति । स सर्वेषु तीर्थेषु स्नातो भवति । स सकलरुद्रमन्त्रजापी भवति । न स पुनरावर्तते न स पुनरावर्तते ॥ इति ॐ सत्यमित्युपनिषत् ॥
1
ॐ आप्यान्तु मामाझानि वाक्प्राणशक्षु: श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्ति: शान्ति: शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति श्रीजबाल्युपनिषत्समाप्ता ॥