1. Jabala Upanishad
Page 1
जाबालोपनिषत्
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाभिर्यजत्राः । स्थैरेगैःस्तुष्टुवाँ सस्तनूभिरव्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रों वृद्धश्रवा स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः
प्रथमः
खण्डः
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कु रुचत्रे देवयानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । ग्रविमुक्तं वै कु रुचत्रे देवयानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । तस्मादत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव । इदं वैकुरुचत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । क्षत्र हि जन्तोः प्राणेषूत्कममायेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतोभूत्वा मोदते तस्मादविमुक्तमेव निषेवेत ग्रविमुक्तं न विमुञ्चेदेवैवतद्याज्ञवल्क्यः इति प्रथमः खण्डः
द्वितीयः
खण्डः
ग्रथ हैनमतिः पप्रच्छ याज्ञवल्क्यं य एषोडनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोगविमुक्त उपास्यो य एषोडनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरुणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरुणा का च नासीतिसर्वाणीन्द्रियकृतान्दोषानवारयतीति तेन वरुणा भवति सर्वानिन्द्रयकृतान्पापान्नाशयतीति तेन नासी भवतीति । कतमद्यास्तस्य स्थानं भवतीति । भुवोर्ध्वाग्नास्य च यः संधिः स एष द्वैलोकस्य परस्य च संधिर्भवतीति । एतद्दैसंधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो वै तद्वतेदेवं वेदेति इति जाबालोपनिषत्सु द्वितीयः खण्डः
तृतीयः
खण्डः
ग्रथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति । स होवाचयाज्ञवल्क्यः शतरुद्रियेगेैत्येनि ह वा ग्रामृतनामध्येग्न्येतर्ह वाअमृतोभवतीति । एवमेवतद्याज्ञवल्क्यः इति जाबालोपनिषत्सु तृतीयः खण्डः
Page 2
1
अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवान् संन्यासमनुब्रूहीति । स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् गृही भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रवजेद्गृहाद्वा भिक्षाचर्यान्नाद्या । अथ पुनर्रवती वा व्रती वा स्नातको वाड्स्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेतदहरेव प्रव्रजेत् । तद्वैके प्राजापत्यामेवोष्टं कुर्वन्ति । तदु तथा न कुर्यादाग्रेयामेव कुयात् । श्राग्रिहोत्रं वै प्राश्नेत्प्राश्नवत्तया करोतिपूर्वैधातवीयामेव कुयात् । एतयैव त्रियः धातवो यतुत्तत्त्वं रजस्तम इति । अग्रयं ते योनितृमृतव्यो यतो जातो अग्ररोचथाः । तं ज्ञानं त्वारोहाथा नो-वर्धय रायिम् इत्येनन् मन्त्रेशाग्रिमाजिघ्रेत् । एष वा अग्रेयोर्निर्यः प्राणः प्राणांश्च स्वाहेत्यमेवैतदाह । ग्रामादग्रिमाहृत्य पूर्ववदग्रिमादधापयेत् । यद्यग्रिन्न विन्देदप्सु जुहुयात् । अग्रापो वै सर्वा देवताः । ॐ सर्वाभ्यो देवताभ्योऽजुहोमि स्वाहेति हुत्वा समुद्दृत्य प्राश्नीयात्साज्यं हविरनामयं मोद्मनस्त्रायेवन्ते । तद्वैतदुपासितव्यम् । एवमेवैतद्गवन्निति वै याज्ञवल्क्यः
1
इति जाबालोपनिषत्सु चतुर्थः खण्डः
2
अथ हैनमत्रिः पप्रच्छ । याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्क्य गृह्णोप-वीती कथम् ब्राह्मण इति । स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं यत आत्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् । वीराऽध्वाने वाडनाशके वाडपां प्रवेशे वाड्मिप्रवेशे वा महाप्रस्थाने वाडथ परिव्राड् विवर्णवासा मुरडोऽपरिग्रहः शुचिद्रोही भिक्षाऽशो ब्रह्मभूयाय भवति । यद्यातुरः स्यान्नसा वाचावा संन्यसेत् । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्वैवमेव भगवन्निति वै याज्ञवल्क्यः
2
इति जाबालोपनिषत्सु पञ्चमः खण्डः
2
तत्र परमहंसाः नाम संवर्तकारुणिश्वेतकेतुदुर्वासास्तृभुनिदाघजडभरतदत्तात्रेय-पैरिवतकप्रभृतयोऽनिक्लिन्ना ग्रन्यक्ताचारा ग्रनुनमत्ता उन्मत्तवदाचरन्तस्त्रिदरडं कमण्डलुं शिख्यं पात्रं जलपवित्रम् शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छन्तु । यथा जातरूपधरो निर्निद्रन्द्रो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक्संपन्नः शुद्धमानसः प्राणसंधारणार्थं यथो-
Page 3
६
त्कालेविमुक्तो भैक्षमाचरन्भुदरपात्रेण लाभालाभौ समौ भूत्या शून्यागारदेवगृहतृणाकूटवृक्षमूलकुलालशालागृहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिझररसथिडलेष्ट्वनिकेतवास्यप्रयतो निर्ममः शक्तध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकरमनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहं सो नाम स परमहंसो नामेति
६
इति जाबालोपनिषत्सु षष्ठः खण्डः
६
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्-व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
६
ॐ शान्तिः शान्तिः शान्तिः ।
६
इत्यथर्ववेदे जाबालोपनिषत्समाप्ता