Books / Kaalaagni Upanishad

1. Kaalaagni Upanishad

Page 1

ब्रह्मज्ञानोपायतया यदृृशृूति: प्रकीर्तिंता । तमहं कालाग्निरुद्रं भजतां स्वात्मदं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु सहवीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथ कालाग्निरुद्रोपनिषद: संवर्तकोड्निरक्षिरुध्रूपष्ठान्द: श्रीकालाग्निरुद्रो देवता श्रीकालाग्निरुद्रप्रोत्यर्थे भस्मत्रिपुणड्रधारणे विनियोग: ॥

अथ कालाग्निरुद्रं भगवान्तं सनत्कुमार: पप्रच्छ अधीहि भगवन्स्त्रिपुणड्रविधिं सततं किं द्रव्यं कियत्स्थानं कतिप्रमाणं का रेखा के मन्त्रा: का शक्तिः किं दैवतं कः कर्ता किं फलमिति च ।

तं होवाच भगवान्कालाग्निरुद्र: यदूद्रव्यं तदाग्नेयं भस्म सद्योजातादिपञ्चब्रह्ममन्त्रै: परिगुह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमिति भस्मेत्यनेनाभिमन्त्र्य मानस्तोक इति समुद्धृत्य मा नो महान्तमिति जलेन सृज्य त्रियायुषमिति शिरोललाटवक्ष:स्कन्धेषु त्रियायुैष्ठ्यम्वकैस्त्रिशक्तिभिस्तिर्य्यकिमो रेखा: प्रकुर्वीत व्रतमेतच्च्छाम्भवं सर्वेषु देवेषु वेदवादिभिरुक्तं भवति तस्माचतत्समाचरेन्मुमुक्षुर्न पुनर्भवाय ॥

Page 2

अथ सनत्कुमारः पञ्चच्छ प्राणानमस्य त्रिपुण्ड्रधारणस्य त्रिधा रेखा भवत्याललाटाचक्षुषोरामूर्ध्वोरभूयोर्मध्यतस्थ यास्य प्रथमा रेखा सा गाहंपत्यस्याकारो रजोभूर्लोकः स्वात्मा क्रियाशक्तिरङ्गवेदः प्रातःसवनं महेश्वरो देवतेति यास्य द्वितीया रेखा सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तियंजुवेंदो माध्यंदिने सवनं सदाशिवो देवतेति यास्य तृतीया रेखा साहवनीयो मकारस्तमो लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति एवं त्रिपुण्ड्रविधिं भस्मना करोति यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिरवा स महापातकोपपातकेम्यः पूतो भवति स सर्वेषु तीर्थेषु सातो भवति स सर्वान्वेदानाधीतो भवति स सर्वान्देवाज्ञातो भवति स सततं सकलरुद्रमन्त्रजापी भवति स सकलभोगान्भुक्त्वा देहं त्यक्त्वा शिवसायुज्यमेति न स पुनरावर्तते न स पुनरावर्तत इत्याह भगवान्कालाग्निरुद्रः॥ यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यो सत्यमित्युपनिषत्॥३०॥

ॐ सह नाववतु सह नौ भुनक्तु तेजस्विनावर्धीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः॥ इति कालाग्निरुद्रोपनिषत्समाप्ता॥