Books / Kaivalya Upanishad

1. Kaivalya Upanishad

Page 1

ॐ भद्रं कर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्‍व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवा: स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिर्दधातु । ॐ शान्तिः शान्तिः शान्तिः ।

1

अथाश्वलायनो भगवान्तं परमेष्ठिनमुपसमेत्योवाच । अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां सदा सद्भिः सेव्यमानां निगूढाम् । ययाड़चिरात् सर्वपापं व्यपोह्य परात्परं पुरुषं याति विद्वान् ॥ १ ॥

2

तस्मै स होवाच पितामहस्य श्रद्धाभक्तिध्यानयोगादवैहि । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥ २ ॥

3

परेण नाकं निहितं गुहायां विभ्राजते यदतयो विशन्ति । वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्‌यतयः शुद्धसत्त्वाः ॥ ३ ॥

4

ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । विविक्तदेशे च सुखासनस्थः शुचिः समग्रो‌ऽविशरःशरोऽरः ॥ ४ ॥

5

अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य । हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशिदं विशोकम् ॥ ५ ॥

6

अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् । तयाड़चिदमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपम्‌प्रमुखुतम् ॥ ६ ॥

7

उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७ ॥

8

स ब्रह्मा स शिवः सेन्द्रः सो‌ऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालो‌ग्निः स चन्द्रमाः ॥ ८ ॥

Page 2

स एव सर्वं यज्जूतं यच्च भव्यं सनातनम् । ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये ॥

१०

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । सम्पश्यन् ब्रह्म परमं यान्ति नान्येन हेतुना ॥

११

आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्धनया पर्षं दहति पण्डितः ॥

१२

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् । स्त्रियनृपानादिविचित्रभोगैः स एव जाग्रत्स्वप्नतृप्तिमेति ॥

१३

स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया कल्पितेजीवलोके । सुषुप्तिकाले सकलं विलीनं तमोडभिभूतः सुखरूपमेति ॥ पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रभुद्धः ॥

१४

पुरत्रये क्रीडति यस्तु जीवस्तत्तस्तु जातं सकलं विचित्रम् । धारममानन्दमखण्डबोधे यन्मूल्लयं याति पुरत्रयं च ॥

१५

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्योतिरीपः पृथिवी विश्वस्य धारिणी ॥

१६

यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् । सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥

१७

जागनत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥

१८

त्रिषु धामसु यज्जोग्यं भोक्ता भोग्यं यज्जवेत् । तेभ्यो विलक्षणः साक्षी चिन्मात्रोडहं सदाशिवः ॥

१९

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् । मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥

२०

अणोरणीयानहमेव तद्ब्रह्ममहानहम् । विश्वमहं विचित्रम् । पुरातनोऽहं पुरुषोऽहमेशो हिरण्मयोऽहं शिवरूपमस्मि ॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यच्चक्षुः स श्रृणोम्यकर्‌णः । अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् ॥

Page 3

२१

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ।

२२

न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति ।

२२

न भूमिरापो न च वह्निरस्ति न चानिलो मेsस्ति न चाम्बरं च ॥

२३

एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् ।

२३

समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥

इति प्रथमः खंडः ॥

यः शतरुद्रीयमध्ये सोऽग्निपूतो भवति सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमाश्रितो भवति । अत्याश्रमी सर्वदा सकृद्वा जपेत् ॥

अनेन ज्ञानमाप्नोति संसारार्णवनाशनम् । तस्मादेवं विदित्वैनं केवल्यं फलमश्नुते कैवल्यं फलमश्नुते इति ॥

इति द्वितीयः खंडः॥

इत्यथर्ववेदे कैवल्योपनिषत्समाप्ता ।