Books / Kalisantarana Upanishad

1. Kalisantarana Upanishad

Page 1

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ।

द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यंटन् कलिं सन्तरेयंइति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु येन कलिसंसार तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारणमात्रेण निर्हृतकलिर्भवतीति ॥१॥ नारदः पुनः पप्रच्छ तत्नाम किमिति । स होवाच हिरण्यगर्भः ।

हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥ इति षोडशकं नाम्नां कलिकल्मषणनाशनम् । नातः परतरौपायः सर्ववेदेषु दृश्यते ॥

षोडशकलावतस्य जीवस्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवैति ॥२॥ पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति । तं होवाच नारस्य विधिरिति । सर्वदा शुचिरशुचिर्वा पठनं ब्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यमेति । यदास्य षोडशकस्य सार्धत्रिकोटीजपति तदा ब्रह्महत्यां तरति ।

Page 2

3

तरति वीरहत्याम् । स्वर्णस्तेयात् पूतो भवति । वृषलीगमनात् पूतो भवति । पितृदेवमनुष्याणामपकारात् पूतो भवति । सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३ ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यंकरवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ।