1. Katha Upanishad
Page 1
सह नाववतु सह नौ भुनक्तु सह वीर्य करवावहे तेjasस्वनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः
१
उशनं ह वै वाजश्रवसः सर्ववेदसं ददौ तस्य ह नचिकेता नाम पुत्र आस
२
तँ ह कुमारँ सन्तँ ददृशुर्नीमानासु श्रद्धाविवेश सोऽमन्यत
३
पीतोदका जगतृणा दुग्धदोहा निरिन्द्रिया: श्वानन्दा नाम ते लोकास्तान्स गच्छति ता ददत्
४
स होवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति
५
बहूनामेमि प्रथ मो बहूनामेमि मध्यमः किंँ स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति
६
अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः
७
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् तस्यैतां शान्तिं कुर्वन्ति हर वैश्वानरौदकम्
८
ग्राशाप्रतीच्चे संगतंँ सू नृतां चेष्टापूर्ते पुत्रपशूँश्र्च सर्वान् एतद्वृङ्के पुरुषस्याल्पमेधसो यस्यानश्नवसति ब्राझ्मणे गृहे
Page 2
९
तिस्रो रात्रीर्यदवात्सीर्गृहे मेsनशनब्रह्मन्नतिथिर्नमस्य: | नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेsस्तु तस्मात्प्रति त्रीन् वरान्वृणीष्व ॥
१०
शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्यौतमो माभि मृत्यो | त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥
११
यथा पुरस्तादविता प्रतीत गौडालकिारुणिर्गार्ग्यर्मतप्रसृष्टः | सुखं रात्रिः शयिता वीतमन्युः ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥
१२
स्वर्गे लोके न भयं किन्चनास्ति न तत्र त्वं न जरया विभेति | उभे तीर्त्वाशनायापिपासे शोकोतिगो मोदते स्वर्गलोके ॥
१३
स त्वमग्रिँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम् | स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥
१४
प्र ते ब्रवীমि तदु मे निबोध स्वर्ग्यमग्रिं नचिकेतः प्रजानन् | अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥
१५
लोकादिमग्रिं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा | स चापि तत्प्रत्यवददथोक्थमथास्य मृत्युः पुनरेवाह तुष्टः ॥
१६
तमब्रवीद् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः | तवैव नाम्ना भवितायमग्रिः सृङ्ङां चेमामनेकरूपां गृहाण ॥
१७
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू | ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाः शान्तिमत्यन्तमेति ॥
१८
त्रिणाचिकेतस्त्रयमेतद् विदित्वा य एवं विद्वान् शृणुते नाचिकेतम् | स मृत्युपाशान् पुरतः प्रणोद्य शोकोतिगो मोदते स्वर्गलोके ॥
१९
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण | एतमग्रिं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥
Page 3
१६
एतमग्रिं तवै प्रवद्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व
२०
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके एतद्विद्यामनुशिष्टस्याहं वराणामेष वरस्तृतीयः
२१
देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा उपरोत्सीरति मा सृजैनम्
२२
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुविज्ञेयमात्थ । वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्
२३
शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून् हस्तिहिरणयमश्वान् भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि
२४
एततुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि
२५
ये ये कामा दुर्लभा मर्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व । इमा रामा: सरथाः सतूर्या न हीदृशा लभननीया मनुष्यैः । आभिर्मृतप्रत्ताभिः परिचारयस्व नचिकेतो मरमं मानुप्राक्तिः
२६
श्रवोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । ग्रपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते
२७
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्त्वा चेत्था जीवष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरशीया: स एव
२५
ग्रजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । ग्रभिध्यानन्वर्शरतिप्रमोदमानतिदीर्घे जीविते को रमेत
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति बूढि नस्तत्
Page 4
26
योऽयं वरो गृहमन्त्रप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते
1
ग्रन्यच्छे योडन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतातः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते॥
2
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरित्य विविनक्ति धीरः। श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्त्रो योगक्षेमाद्वृणीते॥
3
स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोडत्यस्राक्षीः। नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः॥
4
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोडलोलुपन्त॥
5
ग्रविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः। दन्द्रम्यमाणा: परियन्ति मूढा ग्रन्धेनैव नीयमाना यथान्धाः॥
6
न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। ग्रयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे॥
7
श्रवणायापि बहुभिर्यो न लभ्यः श्रृण्वन्तोऽपि बहवो यं न विद्युः। ग्राश्चर्यो वक्ता कुशलोऽस्य लब्धा ग्राश्चर्यो ज्ञाता कुशलानुशिष्टः॥
8
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः। ग्रनन्यप्रोक्ते गतिरत्र नास्त्यन्यथा ह्यन्यातर्क्यमशुप्रमाणात्॥
9
नैषा तर्केगा मतिरापनेतुं प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ। यां त्वमापः सत्यधृतिर्वातासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा॥
जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।
Page 5
10
ततो मया नचिकेतश्वितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्
11
कामस्याप्तिं जगतः प्रतिष्ठां कतोरानन्त्यमभयस्य पारम् । स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोडत्यस्राक्षीत्
12
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गहरेप्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति
13
एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमग्नुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये
14
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद
15
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्
16
एतद् ध्येवाक्षरं ब्रह्म एतद् ध्येवाक्षरं परम् । एतद् ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्
17
एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते
18
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे
19
हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते
20
अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः
Page 6
21
ग्रासीโน दूरं व्रजति शयानो याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥
22
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
23
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥
24
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥
25
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः। मृत्युुर्यस्योपसेचनं क इत्था वेद यत्र सः ॥
इति प्रथमेऽध्याये द्वितीया वल्ली ॥
1
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे। छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥
2
यः सेतुरीजानानामदं ब्रह्म यत्परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥
3
आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
4
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥
5
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥
Page 7
६
तस्येन्द्रियाणि वश्यानी सदक्ष इव सारथे:
७
यस्त्वविज्ञानवान्भवत्यमनस्क: सदाशुचि: न स तत्पदमाप्नोति संसरं चाधिगच्छति
५
यस्तु विज्ञानवान्भवति समनस्क: सदा शुचि: स तु तत्पदमाप्नोति यस्माद्भूयो न जायते
९
विज्ञानसारथिर्यस्तु मन: प्रग्रहवान्नर: सोऽध्वन: पारमाप्नोति तद्विष्णो: परमं पदम्
१०
इन्द्रियेभ्य: परा ह्यार्था ऽऽर्थेभ्यश्च परं मन: मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्पर:
११
महतः परमव्यक्तमव्यक्तात्पुरुष: पर: पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति:
१२
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि:
१३
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि
१४
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत तूरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति
१५
अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवद्य यत् अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते
१६
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते
Page 8
17
य इमं परमं गुह्यं श्रावयेदब्रह्मसंसदि प्रयतः श्रद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति
1
पराञ्चि खानि व्यतृणात्स्वयंभूस्तस्मात्पराड् पश्यति नान्तरात्मन् कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्
2
पराचः कामाननुयन्नि बालास्ते मृत्योर्यन्ति विततस्य पाशम् ग्रथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेषु न प्रार्थयन्ते
3
येन रूपं रसं गन्धं शब्दान्स्पर्शींश्श्र मैथुनान् एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै तत्
4
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति महान्तं विभुमात्मानं मत्वा धीरो न शोचति
5
य इमं मध्वदं वेद ग्रात्मानं जीवमन्तिकात् ईशानं भूतभव्यस्य न ततो विजुगुप्सते एतद्वै तत्
6
यः पूर्वं तपसो जातम्ः पूर्वमजायत गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत एतद्वै तत्
7
या प्राणेन संभवत्यदितिर्देवतामयी गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत एतद्वै तत्
5
ग्रररयोनिर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः | देवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरभिः एतद्वै तत्
६
यतश्रोदेति सूर्योऽस्तं यत्र च गच्छति तं देवा: सर्वेऽर्पितास्तदु नात्येति कश्चन एतद्वै तत्
Page 9
10
यदेवेह तदमुत्र यदमुत्र तदन्विहं मृत्योः स मृत्युमा᳒प्नोति य इह नानेव पश्यति
11
मनसैवेदमाप्तव्यं नेह नानास्ति किंचन मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति
12
ग्र᳒ष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ईशानो भूतभव्यस्य न ततो विजुगुप्सते एतद् वै तत्
13
ग्र᳒ष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ईशानो भूतभव्यस्य स एवाध स उ्᳒श्र्वः एतद् वै तत्
14
यथोदकं दु᳒गे वृष्टं पर्वतेषु विधावति एवं धर्मान्पृथक् पश्यन्स्तानेवानुविधावति
15
यथोदकं शुद्धे शुद्धमासिक्तं ताद᳒गेव भवति एवं मुनेःविजानत आत्मा भवति गौतम
इति द्वितीयेऽ᳒ध्याये प्रथमा वल्ली समाप्ता
1
पुरमेकादशद्वारमजस्यावक्रचेतसः अनुष्ठाय न शोचति विमुक्त᳒श्व विमुच्यते एतद् वै तत्
2
ह᳒सः शुचिषद्वसुरन्तरिक्षसद्वोता वेदिषदतिथि᳒दुरोणसत् नृषद्वरसदृतसद्व्योमसद्बजा गोजा ᳒ऋतजा ग्र᳒जा ᳒ऋतं बृहत्
3
ऊ᳒र्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति मध्ये वामनमासीनं विश्वेदेवा उपासते
4
ग्रस्य विस᳒समानस्य शरीरस्थस्य देहिनः देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद् वै तत्
Page 10
५
न प्रायेण नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ
६
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मर्त्यः प्राप्य आत्मा भवति गौतम
७
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थानमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्
५
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत्
९
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च
१०
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च
११
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः
१२
एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्
१३
नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्
१४
तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति विभाति वा
Page 11
15
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोडयंमग्रिः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥
1
ऊर्ध्वमूलोडवाक्शाख एषोडश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥
2
यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम् । महद्द्रयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥
3
भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥
4
इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥
5
यथादर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके । यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥
6
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥
7
इन्द्र्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥
8
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च । यं ज्ञात्वा मुच्यते जन्तुरजन्ममृत्युप्रच्योतति ॥
9
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसा अभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥
Page 12
10
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्
11
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रयत्तस्तदा भवति योगो हि प्रभवाप्ययौ
12
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते
13
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीति श्रद्धयोपलब्धोऽन्यथा नाशः प्रसिद्धति
14
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते
15
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम्
16
शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति
17
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण
17
तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति
18
मृत्युप्रोक्तां नचिकेतोडथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव
इति द्वितीयेऽध्याये तृतीया वल्ली समाप्ता
इति द्वितीयोऽध्यायः
सह नाववतु
Page 13
सह नो भुनक्तु सह वीर्य करवावहे तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः
इति यजुर्वेदीया कठोपनिषत्समाप्ता