Books / Katharudra Upanishad

1. Katharudra Upanishad

Page 1

परिब्रज्याधर्ममूगालंकारा यत्पदं ययुः । तदहं कठविद्यार्थं रामचन्द्रपदं भेजे ॥

ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ देवा ह वै भगवान्तमनब्रुवन्नब्रवीद्याचाम् । स प्रजापतिरब्रवीत्सशिक्षानेकेशात्रीनिष्कृत्य विषृज्य यजोपवीतं निष्कृत्य पुत्रं दृष्टवा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषड्कार- स्वमोऽकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विभाता त्वं प्रतिष्ठास्सिति वदेत् । अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽयं वषड्कारोऽहं स्वाहाहं स्वधाहं धाताहं विभाताहं

तान्येतान्यनुकज्नाश्रुमापातयेत् । यदश्रुमापातयेत्प्रजां विचिछन्न्यात् । प्रदक्षिणमावृत्यैतच्चैतच्छानवेवक्ष्माणा: प्रत्यायन्नि । स स्वर्गों भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचारितब्रह्मचर्यो दारानाहत्य पुत्रानुत्पाद्य ताननुपादिभिरविन्दतवेद्यस्त्वा च शक्तितो यजे: । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैषु । सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । द्वादशरात्रं पयोभक्ष्या स्यात् । द्वादशरात्रस्यांते

अग्नये वैश्वानराय प्रजापतये च प्रजापतये चरुं वैष्णवं चिकपालमपिं संस्थितानि पूर्वाणि दारुपात्राण्यनौ जुहुयात् । मृत्युमनुप्सु जुहुयात् । तैजसानि गुरवे दद्यात् । मा त्वं मामपहाय परागाः: नाहं त्वामपहाय परागामिति । गाईंरपत्यदक्षिणाग्न्याहवनीयेष्वरनिदेशेऽस्म्मुष्टि पिवेदित्येक । सशिक्षानेकेशात्रीनिष्कृत्य विषृज्य यजोपवीतं भूःस्वाहेत्यप्सु जुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेश- मग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्दाश्रमं वा गच्छेत् । पयसा यं प्राश्नीयात्सोडस्य सायंहोमः । यत्प्रातः सोऽस्य प्रातः । यदुर्शे तदर्शनम् । यत्पौर्णमास्ये तत्पौर्णमास्यम् ।

यदूषसन्ते केशश्मश्रुलोमनखानि वापयेत्सोडस्याग्निष्टोमः । सन्न्यास्याग्निन् न पुनरावर्तयेनमृत्युर्जयेमावहमित्यध्यात्म-

Page 2

मन्नान्पठेत् । स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमननं ध्यानं तदूर्ध्ववाहुर्विमुक्तमार्गो भवेत् । अनिकेतश्वरेत् ।भिक्षाशी यत्किंचिन्नाद्यात् ।लवैः न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जंमिति ।तदपि प्रलोककुङिडकां चमसं शिखिकं त्रिविष्टुपुपानहो । श्रीतोपघातिनीं कन्यां कौपीना च्छादनं तथा ॥

पवित्रं ज्ञानशक्तिं च उत्तरासङ्गमेव च । यज्ञोपवीतं वेदांशं सर्वं तद्र्ज्जुयेयवति: ॥

स्नानं पानं तथा शौचमण्डि: पूताभिराचरेत् । नदीपुलिनशाय्यां स्यादेवागारेऽपि वा स्वपेत् ॥

नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् । स्तुयमानो न तुष्णीत निन्दितो न गपेत्परान् ॥

ब्रह्मचर्येण संत्यष्टे प्रमादेन मस्करी । दर्शन् स्पर्शनं केलि: कीर्तनं गुह्यभाषणम् ॥

संकल्पो ध्यासायश्च क्रियात्रिवृत्तिरेव च । एतन्मेथुनमष्टधा प्रवदन्ति मनीषिण: ॥

विपरीतं ब्रह्मचर्यमनुष्ठेयं सुमुक्षुभि: । यज्जगद्वासकं भानं नित्यं भाति स्वतः स्फुरत् ॥

स एव जगत् साक्षी सर्वात्मा विमलाकृित: । प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षण: ॥

न कर्मेणा न प्रजया न चान्येनापि केचित् । ब्रह्मवेदनमात्रेण ब्रह्मप्राप्त्येव मानव: ॥

१०

तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् । संसारे च गुहावच्ये मायाज्ञानादिसंज्ञके ॥

११

निहितं ब्रह्म यो वेद परमे व्योम्नि संजिते । सोऽश्नुते सकलान्कामान्मन्र्कमेणैव द्विजोत्तम: ॥

१२

प्रत्यगात्मानमज्ञानमयाशक्तेऽपि साक्षिणम् । एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥

१३

ब्रह्मभूतात्मनस्तस्मादेतस्माच्छुक्तिमिश्रितात् । अपञ्चीकृत आकाशभूतो रजुर्सरपत्वत् ॥

१४

आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृत: पुन: । वायोरग्निस्थथा चाङ्गेरप डयो वसुन्धरा ॥

१५

तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा । तेभ्य एव विरुष्टं तद्ब्रह्माण्डादि शिवेन ह ॥

१६

ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नरा: । मनुष्या: पशुपक्ष्याद्यास्तत्तत्कर्मानुसारत: ॥

१७

अस्थिस्नाय्वादिरूपोडयं शरीरं भाति देहिनाम् । योडयंमन्नमयो यो आत्मा भाति सर्वशरीरिण: ॥

Page 3

१९

ततः प्राणमयो ह्यात्मा विभिन्नध्वान्तरः स्थितः । ततो विज्ञान आत्मा तु ततोडन्यध्वान्तरः स्वःः ॥

१९

आनन्दमय आत्मा तु ततोडन्यध्वान्तरस्थितः । योड्यमन्त्रमयः सोडयं पूर्णः प्राणमयेन तु ॥

२०

मनोमयेन प्राणोडपि तथैव पूर्णः स्वभावतः । तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥

२१

आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखरम् । तथानन्दमयश्रापि ब्रह्माण्डेन सాక्षिणा ॥

२२

सर्वान्तरेण पूर्णेष ब्रह्म नान्येन केनचित् । यदिदं ब्रह्मपुच्छाभ्यां सत्यज्ञानद्वयात्मकम् ॥

२३

सारमेव रसं लब्ध्वा साक्षादेही सनातनम् । सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥

२४

असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । को जीवति नरो जन्म को वा नित्यं विचेष्टते ॥

२५

तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । आनन्दयति दुःखादौ जीवात्मानं सदा जनः ॥

२६

यदा ह्यैवैतस्मिन्दृश्यत्वादिलक्षणे । निर्भेदं परमार्थतः विन्दते च महार्थतः ॥

२७

तदेवाभयमत्यन्तकल्याणं परमामृतम् । सद्रूपं परमं ब्रह्म त्रिपुरिच्छेदवर्जितम् ॥

२८

यदा ह्यैवैतस्मिन्नत्यल्पमप्यन्तरं नरः । विजानाति तदा तस्य भयं स्यात्तत्र संशयः ॥

२९

अस्यैवानन्दकोटेन स्तम्भान्ता विष्णुपूर्वकाः । भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥

३०

तत्तत्पदविरक्तस्य श्रोतु्रियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयमेव भाति परे यथा ॥

३१

निमित्तं किंचिदाश्रित्य श्वसु शब्दः प्रवर्तते । यतो वाचो निवर्तन्ते निमित्तानामभावतः ॥

३२

निर्विशेषे परानन्दे कथम् शब्दः प्रवर्तते । तस्मादेतन्मनः सूक्ष्मं व्यावृत्तं सर्वगोचरम् ॥

३३

यस्माच्छ्रोतव्यगोत्र्यादिकश्रादिकर्मेन्द्रियाणि च । व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥

३४

तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिदघनम् । विदित्त्वा स्वात्मरूपेण न विभेति कुतश्चन ॥

३५

एवं यस्तु विजानाति स्वगुरुोरुपदेशतः । स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः ॥

Page 4

36

ताप्यतापकरूपेण विभातमखिलं जगत् । प्रत्यगात्मतया भाति ज्ञानोद्र्दान्तवाक्यजात् ॥ ३६ ॥

37

शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च । प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥ ३७ ॥

38

इति सप्तविधे प्रोक्तं भिद्यते व्यवहारतः । मायोपाधिनिर्मुक्तं शुद्धमित्यभिधीयते ॥ ३८ ॥

39

मायासंबन्धतत्केशो जीवोऽविद्यावशस्थथा । अन्तःकरणसंबन्धात्मप्रामाणेत्यभिधीयते ॥ ३९ ॥

40

तथा तद्वृत्तिसंबन्धात्मप्रामाणमिति कथ्यते । अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥ ४० ॥

41

तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते । सर्वोपाधिविनिर्मुक्तं स्वातमानं भावयेत्सुधीः ॥ ४१ ॥

42

एवं यो वेद तत्त्वेन ब्रह्माभूयाय कल्पते । सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः ॥ ४२ ॥

स्वयं मृत्वा स्वयं भुत्वा स्वयमेवावशिष्यते ॥ इत्युपनिषत् । ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । ते्जस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति कठरुद्रोपनिषत्समाप्ता ॥