Books / Kaula Upanishad

1. Kaula Upanishad

Page 1

॥ कौलोपनिशत् ॥

॥ श्रीः ॥

कौलोपनिषत् ।

शान्तः कौलिकः शान्तो वारुणी शान्तः शुद्धिः शान्तोऽग्निशान्तः

सर्वं सम्भवत् ।

नमो ब्रह्मणे नमः पृथिव्यै नमोऽद्भ्यो नमोऽग्नये नमो वायवे नमो गुरुभ्यः ।

त्वमेव प्रत्यक्षं शैवासि ।

त्वामेव प्रत्यक्षं वदिष्यामि ।

ऋतं वदिष्यामि ।

सत्यं वदिष्यामि ।

तन्नामवतु ।

तदुक्तारमवतु ।

अवतु माम् ।

अवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

अथातो धर्म्मजिज्ञासा ।

ज्ञानं बुद्धिस्थ ।

ज्ञानं मोक्षैककारणम् ।

मोक्षस्स्वात्मतासिद्धिः ।

पञ्च विषयाः प्रपञ्चः ।

तेषां ज्ञानस्वरूपा ।

योगो मोक्षः ।

अधर्म्मकारणाज्ज्ञानमेव ज्ञानं

प्रपञ्च ईश्वरः ।

अनित्यं नित्यम् ।

अज्ञानं ज्ञानम् ।

अधर्म्म एव धर्म्मः ।

एष मोक्षः ।

पञ्च बन्धा ज्ञानस्वरूपा ।

पिण्डाज्जननम् ।

तत्रैव मोक्षः ।

एतज्ज्ञानम् ।

सर्वेन्द्रियाणां नयनं प्रधानम् ।

धर्म्मविरुद्धाः काय्याः ।

Page 2

धर्म्मविहिता न कार्य्याः ।

सर्व्वं शाङ्भवीरूपं ।

आम्नायैः न विवादः ।

गुरुरेवैकः ।

सर्व्वज्ञताबुद्धिमन्ते ।

आमन्वसिद्धिः ।

मदादिसत्याज्यः ।

प्राक्कृत्यं न कुuryyात् ।

न कुuryyात्पशुसम्भाषणं ।

अन्यायो न्यायः ।

न गणयेत्कर्मपि ।

आत्मरहस्यं न वदेत् ।

शिष्याय वदेत् ।

अन्तः शाक्तः ।

बहिः शैवः ।

लोके वैष्णवः ।

अयमेवाचारः ।

आत्मज्ञानान्मोक्षः ।

लोकात्त्र निन्द्यात् ।

इत्यध्यात्मं ।

व्रतं न चरेत् ।

न तिष्ठेत्रियमेन ।

नियमात्न मोक्षः ।

कौलप्रतिष्ठां न कुuryyात् ।

सर्व्वसमो भवेत् ।

स मुक्तो भवति ।

पठेदेतानि सूत्राणि प्रातरुत्थाय देशिकः ।

आजानुसिद्धिभवेत्तस्य इत्याज्ञा पारमेश्वरी ।

यस्याचारविहीनोऽपि यो वा पूजां न कुर्वते ।

यदि ज्येष्ठं न मन्येत नन्दते नन्दने वने ।

ग्रन्थः कौलिकः ।

ॐ शान्तिः शान्तिः शान्तिः ।

॥ कौलोपनिषत्समाप्ता ॥