Books / Kavya Alankara Rudrata Nama Sindhu MLBD (Intro Missing)

1. Kavya Alankara Rudrata Nama Sindhu MLBD (Intro Missing)

Page 1

श्रीरद्रटाचार्यविरचितः काव्यालङकार:

श्रीनमिसाधुप्ररीतया संस्कृतटीकया समुपेत:

मोतीलाल बनार सी दास दिल्ली 0 वाराणसी पटना

Page 2

श्रीरद्रटाचार्यविरचितः काव्यालङकार:

शरीनमिसाधुप्रणीतया संस्कृतटीकया समुपेतः

मोतीलाल बनारसीदास दिल्ली वाराणसी पटना

Page 3

शकशाषतर

० मोतीलाल बनार सीदास मुख्य कार्यालय : बंगलो रोड, जवाहर नगर, दिल्ली-७ शाखाएँ : १. चौक, वाराणसी-१ (उ० प्र०) २. अशोक राजपथ, पटना-४ (बिहार)

संस्करण : दिल्ली, १६८३

मूल्य : रु० (सजिल बर (अजिल्द)

श्री नरेन्द्र प्रकाश जैन, मोतीलाल बनारसीदास, दिल्ली-७ द्वारा प्रकाशित तथा श्री शान्तिलाल जैन, श्री जैनेन्द्र प्रेस, ए-४५, फेज-१, नारायणा, नई दिल्ली-२८ द्वारा मुद्रित ।

Page 4

काव्यमाला।

श्रीरुद्रटप्रणीतः काव्यालंकारः। श्वेताम्बरजैनपण्डितनमिसाधुकृतटिप्पणसमेतः।

प्रथमोऽध्यायः । निःशेषापि त्रिलोकी विनयपरतया संनमन्ती पुरस्ता- द्यस्याद्विद्वन्द्वसक्ताङुलि विमलनखादर्शसंक्रान्तदेहा.। निर्भीतिस्थानलीना भयदभवमहारातिभीत्येव भाति श्रीमान्नाभेयदेवः स भवतु भवतां शर्मणे कर्मभक्तः॥ पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि। संक्षिप्ततर रुद्रटकाव्यालंकारटिप्पणकम् ॥ इह शात्रकार: शिष्टस्थितिपालनार्थमविघ्नेन शास्त्रसमाप्त्यर्थ च प्रथममेव तावद्रणना- यकस्य स्तुतिमाह- अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । उद्धिन्ननवश्मश्रुश्रेणिरिव गणाधिपो जयति ॥ १ ॥ गणाधिपो विनायको जयति सर्वोत्कर्षेण वर्तते। कीदशः। अविरलं ध्न विगलच तन्मदजलं दानाम्बु ययोस्ते, अविरलविगलन्मदजले च ते कपोलपाल्यौ च प्रशस्तक- पोलौ च। पालीशब्दस्य समासे केशपाशवतप्रशंसार्थलात्। तयोर्निलीनं श्िष्टं मधुपकुलं भ्रमरगणो यस्य सोऽविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। अत उत्प्रेक्षते- उद्धित्रोद्गता नवा नूतना इमश्रुश्रेणिर्मुखरोमसंस्थानविशेषो यस्य स उद्धिन्ननवश्म- श्रुश्रेणि: स इव ।। १. खिस्तसंवत्सरीयैकादशशतकोद्धतमोजदेवप्रणीते सरस्तीकण्ठाभरणे 'किं गौरि मां प्रति रुषा' इत्याया रुद्रटश्लोकाः समुपलभ्यन्ते, तेनैकादशशतकातप्राचीनो रुद्रट :. २. नमिसाधुरस्य ग्रन्थस्य टिप्पण १०६९ मिते खिस्तसंवत्सरे रचितवानिति टिप्पणस- माप्तौ स्थितात् 'पञ्चविंशतिसंयुकैरेकावशसमाशतैः। विक्रमात्समतिक्रान्तेः प्रातृषीदं समर्थितम् ।।' इत्यसच्डोकाज्ज्ञायते. राजकीय संग्रद्दान्तर्वर्तिनि तालपत्रलिखिते टिप्पण- पुस्तके तु 'वट्ररसततिसयुक्केरकादशसमाशतैः इति पाठो वर्तते. अत्र तु छन्दोभग्ः

Page 5

२ काव्यमाला। एवमभीष्टदेवतां स्तुलाधुना वाळ्ययव्यापिभवानीनमस्कृतिपुरःसरं श्रेष्ठजनप्रपृत्तये- भिधेयादि विवक्षुराह- सकलजगदेकशरणं प्रणम्य चरणाम्बुजद्वयं गौर्याः । काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति ॥ २ ॥ सकलजगदेकशरणं निखिलविश्वाद्वितीयशरण्यम्, प्रणम्य नमस्कृत्य, चरणाम्बुजद्वय- मङ्गिकमलयुगम्, गौर्या उमायाः, काव्यस्य कवेर्भावः कर्म वा काव्यं तस्यालंकारो भूषणं काव्यालंकारः, अयमेषः, ग्रन्थः शास्त्रम्, क्रियते विधीयते। बुद्या निष्पन्नमिव अ्रन्थं गृहीलेदमा परामृशत्ययमिति। तत्र काव्यालंकारा वक्रोक्तिवास्तवादयोऽस्य ग्रन्थस्य प्राधा- न्यतोऽभिधेयाः । अभिधेयव्यपदेशेन हि शास्त्रं व्यपदिशन्ति स्म पूर्वकवयः। यथा कुमार- संभव: काव्यमिति। दोषा रसाश्चेह प्रासत्निकाः, न तु प्रधानाः । संबन्धस्तूपायोपेयलक्षणो नाम्नैवोक्तः। नहि तेन विनास्यालंकाराः प्रतिपाद्या भवन्ति। ननु दण्डि-मेधाविरुद्र-भामहा- दिकृतानि सन्त्येवालंकारशास्त्राणि, तत्किमर्थमिदं पुनरिति पौनरुक्त्यदोषं क्रियाविशेषणेन निरस्यन्नाह-यथायुक्तीति। शेषेष्वलंकारेषु च या या युक्तिर्यथायुक्ति, युक्तिमनतिक्रम्य वा कियते। एतदुक्त भवति-अन्यैरलंकारकारैन तथा युक्तियुक्तानि सक्रमाणि वा स्फुट एव. पाठद्वयानुसारेणापि नमिसाधुरेकादशशतकोत्तरार्घें विद्यमान आसीदिति निर्विवादमेव. नमिसाधुना च प्राचीनां रुद्रटग्रन्थवृत्ति विलोक्य टिप्पणं व्यरचीति टिप्प- णप्रारम्भस्थितया 'पूर्वमहामतिविरचितवृत्त्यनुसारेण किमपि रचयामि' इत्याद्यार्यया प्रती- यते. अत्र पूर्वमहामतिशब्दाभ्यां वृत्तिकर्तुः प्राचीनलवमादरणीयलं च नमिसाधुर्वदति. तस्मादेकादशशतकस्थनमिसाधुतो वृत्तिकर्ता प्राचीनः, मूलग्रन्थकर्ता रुद्रटस्तु प्राचीनतर इति सिद्धम्. रुद्रटस्यैकादशशतकापेक्षया प्राचीनतरत्वम. डॉक्टर व्यूलरस्तु सकीयॅं- 'काश्मीररिपोर्ट' पुस्तके 'स्न्निस्तसंवत्सरीयैकादशशकोत्तरावे काव्यालंकारकर्ता रुद्रटो aya' ("In the latter half of the eleventh century falls Rudrata, the author of the Kavyalamkara."-Jour. B. B.R. A. S. Vol.XII. No. XXXIV. P.67) इति वदति. यदि मूलग्रन्थकाररुद्रट-वृत्तिकार-टिप्पणकारास्रयोऽपि समकालीना: सवीक्रियन्ते, तदा डॉक्टर व्यूलरमतं संगच्छत इति स्वयमेव पण्डिता विचारयन्तु. अस्य ग्रन्थस्य 'ग्रामतरुण तरुण्या' इत्याद्या बहवः शोकाः काव्यप्रकाशादिषु प्राप्यन्ते. काव्यप्रकाशस्य नवमोहल्लासे साहित्यदर्पणस्य च नवमपरिच्छेदे रुद्रटमतमुपन्यस्तमस्ति. काव्यादर्शसरणिमनुकरोत्यस्य अन्थस्य परिपाटी. अन्यो ग्रन्थस्तु रुद्रटकृतो न प्राप्यते. शज्ञारतिलककर्ता तु रुद्रभट्टः, न रुद्रट :. रुद्रटस्य विशेषवर्णनं तु डॉक्टर पीटर्सनस्य प्रथम 'रिपोर्ट' पुस्तके (Jour. B. B. R. A. S. Vol. XVI. No.XLI.P.14-20) द्रष्टव्यम्. १. मेधाविरुद्र इति कालिदासस्य नामान्तरमिति केचित्.

Page 6

१ अध्याय: ] काव्यालंकारः। ३

लक्ष्यानुसारीणि वा हृदयावर्जकानि वालकारशास्त्राणि कृतानि, न तथा मया। अपितु यथारुचीति न पौनरुक्त्यदोषावसरः ॥ ग्रन्थस्याभिधेयसंबन्धी व्याख्यायेदानीं प्रयोजनं विवशुराह- अस्य हि पौर्वापर्य पर्यालोच्याचिरेण निपुणस्य। काव्यमलंकर्तुमलं कर्तुरुदारा मतिर्भवति ॥ ३ ॥। अस्य काव्यालंकारस्य। हिशब्दो यस्मादर्थे। यम्मात्पौर्वीपर्य हेतुहेतुमद्भावम्। हेतुरेष ग्रन्थः । हेतुमन्तोऽलंकाराः । हेतुकार्ययोश्च पौर्वापर्य सिद्धमेव। अथवाद्यन्तोदित- अन्थार्थ पर्यालोच्यावगत्य, अचिरेण शीघ्रमेव, निपुणस्य प्रवीणस्य, काव्यं कविभावम्, अलंकर्तुमलंकारसमन्वितं विधातुम्, अलमत्यर्थम्, कर्तुः कवेः, उदारा स्फारा योग्या वा, मतिर्भवति वुद्धिजायते। तस्मात्सप्रयोजनमिदमलंकारकरणमिति ॥ अथ काव्यकरणस्ैव तावत्किं प्रयोजनमित्याह- ज्वलदुज््वलवाक्पसरः सरसं कुर्वन्महाकविः काव्यम्। स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि॥ ४ ॥ ज्वलन्देदीप्यमानोऽलंकारयोगात्, उज्वलो निर्मलो दोषाभावात्, वाचां गिरां प्रसरः प्रबन्धो यस्य स जवलदुज्वलवाकप्रसरः। सरसं सरक्गारादिकम्, कुर्वनरचयन्, काव्यं कवे: कर्म, यत एवैवंगुणस्तत एव महाकविर्वृहत्काव्यकर्ता, स्फुट प्रकटम्, आकल्पं युगान्तस्थायि, अनल्पमस्तोंकम् । जगन्वयापीत्यर्थः । प्रतनोति विस्तारयति, यशः कीर्तिम्, परस्य काव्यनायकस्य संबन्धि। अपिशव्दोऽत्र विस्मये। चित्रमिदं यत्कविः खल्पायुरप्येवंविधं यशस्तनोति। आत्मनोऽपीति तु व्याख्याने 'स्कारस्फुरदुरुमहिमा' (१२१) इत्याद्यनर्थकं स्यातू, गतार्थलात् ।। ननु देवगृहमठादिकं कारयिला स्वयमेव नायकः स्वयशो विस्तारयिष्यति, कि कवे- स्तदर्थ काव्यकरणेनेत्याशक्कयाह- तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन। न भवेन्नामापि ततो यदि न स्युः सुकवयो राजाम् ॥ ५॥ तत्कारितमुरसदनप्रभृतिनीत्यत्र तच्छव्देनोत्तरत्र राज्ञामितेतत्पदोपात्ताः काव्यना- यका: परामृश्यन्ते। ततः काव्यनायकविधापितदेवगृहादौ कालपर्ययेण नष्टे नाश गते सति। तथा हीति हिशब्दो यस्मादर्ये, तथाशब्द उपप्रदर्शने। न भवेन् स्यात्, नामा- व्यभिधानमपि। आस्तां तावदन्वय इति । ततः सुरसदनादिनाशाद्वेतोः, यदि राज्ञां नायकानां सुकवयो न स्युः। तच्चरितकथाप्रबन्धकतीर इति। राज्ञामिति काव्यनायको- पलक्षणम् ।।

Page 7

8 काव्यमाला।

अथ यदि नाम राजां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतौ प्रवर्तन्त इत्याह- इत्थं स्थास्तु गरीयो विमलमलं सकललोककमनीयम्। यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ॥ ६ ॥ इत्थम् 'स्फुटमाकल्पमनल्पम्' (१।४) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम्, गरीय: प्रभूतम्, दोषाभावाच्च विमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्यस्य राजादेर्यशस्तनुते तेन कथ तस्य नोपकृतम् । सर्वथोपकृतं भवतीत्यर्थः ॥ ननु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याह- अन्योपकारकरणं धर्माय महीयसे च भवतीति। अधिगतपरमार्थानामविवादो वादिनामत्र ॥।७॥। गतार्थ न वरम्। चकारोऽन्योपकारकरणं चेत्यत्र योज्यः । एवं धर्म एव कवे: काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्षहेतुलमप्याह- अर्थमनर्थोपशम शमसममथवा मतं यदेवास्य। विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥८ ॥। अर्थमिति। अर्थो धनम्, अनर्थोपशमो विपदभावः, शं सुखम्, असममसाधारणम्। इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम्। अथवा किमेमिर्बहुभिरुक्तैर्यदेवास्य कवेः संमतं तदेवाप्रोतीति। कीदृशः । विरचितसदलंकारदेवतास्तुतिः॥ किमत्र प्रमाणमिति चेत्तह- नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम्। अपरे रोगविमुक्तिं वरमन्ये लेभिरेsभिमतम् ॥ ९ ॥ नुलेति। तथाहीत्युदाहरणोपदर्शने। दुर्गाग्रहणं देवतोपलक्षणार्थम्। तथाहि केचिद- निरुद्धादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरुजत्वं प्रापुः। अपरे शत्रुम्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । एवमन्येऽप्युदाहरणत्वेन तथाविधा ज्ञेया इति॥ इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुताधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यथा नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचि- त्फलं भविष्यतीत्याशक्क्याह- आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः। अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ॥ १० ॥ स्फुटार्थ न वरम्। यदि नामेति नामशब्दः परं शब्दार्थे। यदि परं नृपाः। अन्ये देवास्तु त एवेति॥

Page 8

१ अध्याय: ] काव्यालंकारः । ५

काव्यकरणे प्रयोजनाप्रमेयतामाह- कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य। कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य ।। ११ ।। कियदिति। कियदथवा भण्यते। यतो यथा सागरे मणीनामानन्त्यमेवं काष्ये गुणानामपीति तात्पर्यम्। खलुर्निश्वये। एवं प्रयोजनानन्त्ये सति कृत्यमाह- तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः। अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम् ॥ १२ ॥ तदिति। तस्मात्पुरुषार्थसिद्धिं पूर्णा चिकीर्षुभिः काव्यं कर्तव्यम्। कीदशैः । अधि- गतसकलज्ञेयैः । न तनीदृशामपि काव्यकरणं संभवतीत्याह-अलममलम् । सनिर्म- लकरणेऽन्येषामसार्थ्यमित्यभिप्रायः॥ ननु ज्ञातसकलज्ञेयस्य तत्त्वादेव पुरुषार्थसिद्धिर्भविष्यति, किं काव्यकरणेनेत्याह- फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः । यत्संस्कारो वाचां वाचश्र सुचारुकाव्यफलाः ॥ १३ ॥ फलमिति। हि यस्माज्जानतामिदमेव ज्ञानफलं यच्छुचिपदवाक्यप्रमाणशास्त्रेभ्यो विशदव्याकरणतर्कप्रन्थेभ्यः सकाशात्संस्कारो वाचाम् । ननु वाक्संस्कारस्यापि किं फलमित्याह-वाचश्च सुचारुकाव्यफलाः । चः समुचये। सुन्दरकाव्यकरणमेव वाक्सं- स्कारस्य फलमित्यर्थः ॥ यथा च काव्यं चारु भवति, यथा च चारु कर्तु ज्ञायते तथाह- तस्यासारनिरासात्सारग्रहणाच्च चारुण: करणे। त्रितयमिदं व्याप्रियते शक्तिर्व्युत्पत्तिरभ्यासः ॥ १४ ॥ तस्येति। तस्य काव्यस्यासारनिरासादसमर्थादिवक्ष्यमाणदोषत्यागात्, तथा सारग्रह- णाद्वकोक्तिवास्तवाद्यलंकारयोगाद्वेतोः, चारुत्गुणोपेतस्य करणे त्रितयमिदं शफ्तिव्यु- त्पत्त्यभ्यासलक्षणं व्याप्रियते। तस्य तत्र व्यापार इत्यर्थः । तथा च दण्डी-'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम्। अमन्दश्वाभियोगोऽस्याः कारणं काव्यसंपदः ॥' तत्र शक्त्या शब्दार्थौं मनसि संनिधीयेते। तयोः सारासारग्रहणनिरासौ व्युत्पत्त्या क्रियेते। अभ्यासेन शक्तेरुत्कर्ष आधीयत इति शक्त्यादिव्यापारः। असारनिरासात्सारग्रहणादिति च पदद्वयोपादानमुभययोगेन चारुत्मिति ख्यापनार्थम् । तत्राप्यसारस्य प्रागुपन्यासस्त- तनिरासस्य प्राधान्यख्यापनार्थः । सकलालंकारयुक्तमपि हि काव्यमेकेनापि दोषेण दुष्येत, अलंकृतं वधूवदनं काणेनेव चक्षुषा। उक्त च [दण्डिना ]-'तदल्पमपि नोपेक्ष्यं काव्ये दुष्ट कर्थचन। स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्'॥

Page 9

६ काव्यमाला।

अथ शक्तिसरूपमाह- मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य। अक्किष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥१५॥ मनसीति। असौ शक्तिर्यस्यामविक्षिप्त चेतसि सदानेकप्रकारस्य वाक्यार्थस्य विस्फु- रणम्। यस्यां चाकिष्टनि झगित्येवार्थप्रतिपादनसमर्थानि पदानि प्रतिभान्ति। यद्वशा- द्ृदयंगमौ नानाविधौ शब्दार्थों प्रतिभासेते सा शक्तिरित्यर्थः ॥ अस्या एव मेदानाह- प्रतिभेत्यपररुदिता सहजोत्पाद्या च सा द्विधा भवति। पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा ॥ १६ ॥ प्रतिमेति। एषा च शक्तिरपरैदण्डिमुख्यैः प्रतिभेत्युक्ता। सा च द्विधा भवति। कथम्। सहजोत्पाद्या चेति । तयोश्ष मध्यात्सहजा ज्यायसी प्रशस्यतरा। पुंसा सहो- त्पन्नतात् ।। यदि नाम पुंसा सहोत्पन्ना किमित्येतावता ज्यायसीत्याह- खस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम्। उत्पाद्या तु कथंचिद्युत्पच्या जन्यते परया ॥ १७॥ सवस्येति। असौ सहजा शक्तिः खस्यात्मनः संस्कार उत्कर्ष एव परं केवलम्। अविद्यमान: परोऽन्यो यस्मादसावपरोऽभ्यासस्तं यतो मृगयतेऽन्वेषयति नोत्पत्तावतो ज्यायसी। उत्पत्तौ तु सहजातत्वमेव हेतुः। उत्पाद्या तु व्युत्पत्त्या परयानन्तरया कर्थ- चिन्महता कष्टेन जन्यते। अतो न ज्यायसी सा॥ इदानीं व्युत्पत्तिखरूपमाह- छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात्। युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ।। १८ ॥ छन्द इति। छन्दो जयदेवादि, व्याकरणं पाणिन्यादि, कला नृत्यादिविषयभरता- दिप्रणीतशास्त्राणि, लोकाः सःप्रभृतयस्तेषु चराचरादिखरूपनियमः स्थितिः, पदानि नाममालापठिताः पर्यायशब्दाः, पदार्थस्तेषामेव पदानामभिधेयार्थविषयप्रवृत्तिनैयत्यम्। एतेषां षण्णां छन्दःप्रभृतीनां विज्ञानाद्विशिष्टावगमाद्वेतोर्यो युक्तायुक्तविवेक उचितानु- चितलपरिज्ञानम्। यथात्रेदं छन्द उचितमनुचितं वेत्यादि सर्वेषु द्रष्टव्यम् । व्युत्पत्तिरि- यम्। समासेन संक्षेपेण ।। तर्हि विस्तरव्युत्पत्तेः किं स्वरूपमित्याह- विस्तरतस्तु किमन्यत्तत इह वाच्यं न वाचकं लोके। न भवति यत्काव्याङ्कं सर्वज्ञत्वं ततोऽन्यैषा ॥ १९ ॥

Page 10

१ अध्याय: ] काव्यालंकारः ।

विस्तरत इति। व्युत्पत्तिसंबन्धिनो विस्तारात्किमन्यद्विद्यते यदन्तःपाति न भवति। कुत इत्याह-यस्मादिह लोके न तद्वाच्यमभिधेयमस्ति, न वाचकः शब्दो विद्यते यत्का- व्याञं काव्योपकरणं न भवतीति। ततो हेतोरेषान्या विस्तृता व्युत्पत्तिः । ततः संक्षेपाद्वा सकाशात्। अन्येति द्वितीया। सर्वज्ञत्मेव विस्तीर्णा व्युत्पत्तिरित्यर्थः। उक च-'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यन्न काव्याज्ञमहो भारो महान्कवेः ॥' अभ्यासो लोकप्रसिद्ध एव ।। केवलं तस्य स्थाननियमं कर्तुमाह- अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम्। नक्तंदिनमभ्यस्येदभियुक्त: शक्तिमान्काव्यम् ॥ २०॥ अधिगतेति। वाक्यार्थः सुगमः । अन्राह-ननु यद्धिगतसकलज्ञेयः शक्तिमांश्च तत्किं सुजनस्य सुकवेः संनिधानेऽभ्यस्यति। सत्यम्। छन्दोव्याकरणादिविषयलक्षणा- तिरिक्तमन्यदपि ज्ञेयं जानाति । यन्महाकविलक्ष्येषु दृश्यते। सुजनलाच्च निर्मत्सरो भूला सर्वमसी दर्शयति। तथाहि। छन्दसि पिक्ललजयदेवाद्यनुक्तान्यपि वृत्तानि सुक- विकाव्येषु दृश्यन्ते बहुशः। यथा माघस्य-'कृतसकलजगदिबोधो विधूतान्धकारोदयः क्षपितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । गुरुतरगुणदर्शनादम्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमहामयं नायकः ॥' तथा भारवे :- 'इह दुरधिगमैः किंचिदेवा- गमैः सततमसुतरं वर्णयन्त्यन्तरम्। अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्म- योनि: परंम् ।' एवमन्येषामपि सन्ति। तथा व्याकरणे वर्वर्ष्टि-अजर्घाः-सस्ति-दर्द्रष्टि- ई टे-ईत्सति-जिह्ायकयिषति-अट्विडिषतीत्येवमादीनि पदानि न प्रयोज्यानि। काव्यस्य माधुर्यलालित्यविनाशप्रसङ्गात्। तथा क्षपि-मिलि-अर्थि-वचि-क्वीवप्रभृतयो धातवो धातु- गणेषु पठिता अपि। सहेश्र परस्मैपदं प्रयोगदर्शनात्प्रयोत्तव्यम्। पदविषयं च यभा पक्ष्मशब्दोऽक्षिरोमखभिधानेषु पठितोऽन्यत्रापि दृश्यते। यथा माघस्य-'निसर्गचित्रो- ज्वलसूक्ष्मपक्ष्मणा' इति। एवमन्यदपि कलादिविषये द्रष्टव्यम्। यत्सुजनकविसंनिधा- नाज्ज्ञेयम्। नियतमित्यनेन सुकविसंनिधान एवाभ्यासः कार्य इति नियम इति। नक्तं- दिनमित्यनेन तु यदैव पट्टी बुद्धिः क्षणश्र भव्रति तदैवाभ्यस्येत्, न पुनर्यथा कैश्चिदुक्तम् 'पश्चाद्रात्रे एव' इति तु कवेः काव्यकरणेऽत्यन्तादराधानार्थम्॥ पुनः काव्यस्य प्रयोजनान्तरमाह- स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम्। कल्पान्तस्थायि यशः प्राम्नोति महाकविः काव्यात् ॥ २१॥ स्फार इति। स्फारो दृढः, स्फुरजनमनःसु प्रसरन्, अत एवोरुर्विस्तीर्णो महिमा यस्य कवेः सः । तथा यशः कीदशम्। हिमधवलमित्यादि सुगमम् ॥ १. माघश्लोकस्य महामालिनीछन्दः, भारविश्रठोकस्य च क्षमाछन्द इति टीकायं महिनाथः

Page 11

काव्यमाला।

ननु काव्यादेवंविधयशोभवने प्रमाणाभावाहवगृहादिकमेव कारयितव्यमित्येतन्निरस्य- न्दृष्टान्तपुरःसर काव्यकरणे यम्नोपदेशमाह- अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये। तदलममलं कर्तु काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥ २२ ॥ अमर इति। सुगमम्। तस्मारिस्थितमेतत्कवेः काव्यकरणादेव परं यशो भवतीति। उक्त च -'यतः क्षणध्वंसिनि संभवेऽस्मिन्काव्याहतेऽन्यत्क्षयमेति सर्वम्। अतो मह- द्विर्यशसे स्थिराय प्रवर्तितः काव्यकथाप्रसङ्गः' ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः प्रथमोऽध्यायः समाप्तः।

द्वितीयोऽध्यायः । शात्त्रस्य काव्यकरणस्य च प्रयोजनमाख्यायेदानीं काव्यलक्षणं पृष्टः सन्राह- ननु शब्दार्थो काव्यं शब्दस्तत्रार्थवाननेकविधः । वर्णानां समुदायः स च भिन्नः पञ्चधा भवति ॥१ ॥ नन्विति। ननुशब्दः पृष्टप्रतिवचने। यथा 'अपि तं कटं करिष्यसि। ननु भोः करोमि' इति। शब्दश्वार्थश्च तौ काव्यमुच्यते। कवेः कर्माभिप्रायो वेति शब्दार्थः। कवेः काव्योपयोगिनो: शब्दार्थयोरन्योन्याव्यभिचारादेकतरोपादानेनैव द्वितीये लब्धे द्वितीयो- पादानं काव्ये द्वयस्यापि प्राधान्यख्यापनार्थम्। अन्यथा हि शब्दार्थयोरेकतरोपादाने- इन्यतरस्यालंकारैर्विरहितमपि दोषैश्र युक्तमपि काव्यं साधु स्यात्। अद्वयोपादाने न तुल्यकक्षतया शब्दार्थौं द्वावपि काव्यलेनाङ्गीकृतौ भवतः। द्वयमेतत्समुदितमेव काव्यं भवतीति तात्पर्यम्। शब्दार्थौं काव्यमित्युक्तम्, अथ शब्द: किमुच्यत इत्याह-शब्द- स्तत्रार्थवाननेकविधो वर्णानां समुदाय इति। तत्रेति शब्दार्थयोर्मध्यात्। शब्दोऽर्थवान्। साभिधेयोऽनेकविधोऽर्थवानिति स्वरूपविशेषणमात्रम्। यथा। कीदृशः शक्रः । वज्री सहस्राक्ष इति। न तु व्यवच्छेदकम्। काव्यलक्षणाख्यानेनैव निरर्थकस्य निरस्तलात्। कीदश: शब्दः । वर्णानामकारादीनां समुदायः । वर्णानामिति बहुवचनमतत्ररम्। तेनैक- वर्णो द्विवर्णश्च शब्द: सिद्धो भवति। सोऽपि संभवतः कियद्भेद इत्याह-अनेकविधः । तदथा। कश्षिद्यकैकार्थावयव: यथा घट इति। अत्र हि घकारादयो वर्णा व्यक्ताः प्रकटाः संभूय कुम्भाख्यमेकमर्थमाहुः। कश्विद्यक्पृथगर्थावयवः । यथा एति पचतीति वा। अत्र हि एकारादयो वर्णा व्यक्ताः पृथगर्थाश्। तथापि हि धातुना क्रियाभिधीयते प्रत्य- येन तु कर्ता। कश्विदव्यक्तैकार्थावयवः। यथा संपदादितात्किपि कृते 'अवनं ऊः' इति

Page 12

२ अध्याय: ] काव्यालंकारः ।

पदम्। अत्र लकारवकारौ कृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः । कश्चिदव्यक्तपृथगर्थावयवः । यथा 'ऐ:' इति क्रियापदम् । अत्र हि आकारैकारौ पूर्व- वदेकीभूतौ सकारश्र कृतादेशतादव्यक्तीभूतः पृथगर्थश्च। यत ऐकार आगतिक्रियामाह, सकारो युष्मदर्थ कर्तारमेकलं चेति चतुर्भेदत्वादनेकविद्यत्वम्। यदि वा द्रव्यजाति- क्रियगुणवाचिलेन चातुर्विध्यम्। अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारमेदेन शब्दस्याने- कविधतमाहुः। यदि पुनः पश्चधेत्युत्तरपदापेक्षयानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात्। अनेनैवोक्तार्थतादिति। तं चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिडन्तरूपतया द्विमेदमाहु: केचिच्चतुर्धेति। तद्यं निरसितुमाह-स च भिन्नः पश्चधा भवतीति। स चेति चकार: पुनरर्थे। ततश्वायमर्थः । स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्थापितः सन्पश्चधा भवति। ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीय- लक्षणा: पुरो भङ्गयन्तरेण वक्ष्यन्ते॥ अथ ये चतुर्घेत्याहुस्तेषामव्याप्तिदोषं प्रचिकटयिषुराह- नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम्। तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु ॥ २ ॥ नामेति। वस्तुवाचि पदं नाम । क्रियाप्रधानं तिडन्तमाख्यातम् । नामाख्यातयोः समुच्याद्यर्थप्रख्यातिनिमित्तं निपाताः । क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः । चशब्द एवार्थे। इति परिसमाप्तौ। एत एव चत्वारः शब्दविधा इति येषां सम्यड् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः। तुरवधारणे भिन्नक्रमः । सप्तमीसंभावने नैव संगृहिता भवन्तीति संभावयामि। यतस्तैरुपसर्गेष्व- न्तर्भावः कृतः स चायुक्तः। विद्यते ह्युपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथगव्यापारमेदः। तथाहि-'वृक्षमभिविद्योतते विद्युत्' इति विद्युद्ृक्षयोर्लक्ष्यलक्षणसं- चन्धोऽभिना दयोत्यते। उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव करियते। तथा कार्य- मेदोऽपि तेषां दृश्यते। यथा षत्वणत्ादिकार्यस्योपसर्गा एव निमित्तम् । द्विवचनादि- कस्य तु कर्मप्रवचनीया एवेति। तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति कथमिवोपसर्गेष्वेषामन्तर्भावः । नन्वव्ययानि खरादीनि मेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम्। खरादीनां स्वर्गादिमत्त्वभूतार्थवा- चकत्वेन नामखेवान्तर्भावात्। यदि वा नैरुक्तानामव्ययानि निपात एवेति निपातग्रह णेन तेपां संग्रहः। गतयोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम् ॥ ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिक्ता विद्यन्त इति कथमुक्त पञ्चधेत्याशडक्याह- नाम्नां वृत्तिर्द्वेधा भवति समासासमासभेदेन। वृत्तेः समासवत्यास्तत्र स्यू रीतयस्तिस्रः ॥३॥ का० लं० २

Page 13

१० काव्यमाला।

नाम्नामिति। नाम्रां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति। तयोरपि प्रका- रविशेषमाह- तत्र तयोरत्रत्त्योर्मध्यात्समासवत्या वृत्तेस्तिस्रो रीतयो भवन्ति। रीति्भज्चि- र्विच्छित्तिरिति पर्याया: । कास्ता इत्याह- पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः । लघुमध्यायतविरचनसमासभेदादिमास्तत्र॥ ४ ॥ पाश्चालीति। चः समुचये। इति समाप्तौ। एतास्तित्र एवेत्यर्थः। नामत इत्यनेन नाममात्रमेतदिति कथयति। न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः । अतिप्रसङ्गात्। तर्हि केन विशेषेण तित्र इत्याह-लघुमध्येत्यादि । लघु मध्यमायतं च विरचनं यस्य समासस्य तद्भेदात्। तत्रेत्युत्तरत्र योज्यते। अनियमे प्राप्त नियमार्थमाह- द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत्। शब्दा: समासवन्तो भवति यथाशक्ति गौडीया ॥५॥ द्वित्रिपदेति। द्वे त्रीणि वा यस्यां पदानि। द्वित्रिग्रहणस्योपलक्षणार्थताच्चतारि वा समासवन्ति यस्यां सा पाञ्चाली रीतिर्भवति। यस्यां तु द्वितयादारभ्य पञ्च सप्त वा यावत्सा लाटीया। पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम् यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति । यावतः कर्तु शक्कोति तावन्त इत्यर्थः। सा गौडीया। नन्वाख्यातेऽपि पचति प्रपचतीति वृत्तिद्वैविध्यं कर्थ न स्यादित्यत आह- आख्यातान्युपसर्गैः संसृज्यन्ते कदाचिदर्थाय। वृत्तेरसमासाया वैदर्भी रीतिरेकैव ॥ ६ ॥ आख्यातानीति। आख्यातानि तिडन्तक्रियापदान्युपसगै: सार्ध संसज्यन्ते, न तु समस्यन्ते। सुप्सुपेत्यधिकारात्। किं नित्यमेव। न । कदाचित्कचिदपि । किमर्थमि- ल्याह-अर्थाय। यत उक्तम्-'धातर्थ बाधते कश्ित्कश्चित्तमनुवर्तते। तमेव विशि- नष््यन्य उपसर्गगतिस्त्रिधा II' तत्र बाधते यथा-प्रहरति प्रतिष्ठते इत्यादि । अनु- वर्तते यथा-प्रहन्ति अभिहन्ति विशिनष्टि यथा-प्रपचतीत्यादि। इदानीमसमा- साया वृत्ते रीतिमाह-वृत्तेरसमासायाः समासरहितपदव्ृत्तेवैंदर्भी नाम रीतिरेकैव। एताश् रीतयो नालंकाराः, किं तर्हि शब्दाश्रया गुणा इति॥ पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानीं वाक्यस्य लक्षणं कर्तुमाह- वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । समुदायः शब्दानामेकपराणामनाकाह्कः ॥७॥ वाक्यमिति। तत्रेति पञ्चविधशब्दमध्यादन्यतरद्वित्रादिमेदानां समुदायो वाक्यम्।

Page 14

२ अध्याय: ] काव्यालंकारः । ११

नतु नामादीनां पश्चानामेव युगपत्सद्भावे। कीदृशां शब्दानाम्। परस्परं सव्यपेक्षवृत्तीनां अन्योन्यं साकाङ्कव्यापाराणाम् । न त्वेवंविधानां यथा-'आषाढी कार्तिकी मासी वचा हिङ्डु हरीतकी । पश्यतैतन्महच्चित्रमायुर्मर्माणि कृन्तति II' तथा एकपराणाम् । एकं वस्तु साधयितुमुद्यतानामित्यर्थः । तथा अनाकाङ्कः । साकाङ्कक्वेत्र भवति यस्मादाख्यातं विना शब्दसमुदायः साकाह्ढो भवति। तमपेक्षत इत्यर्थः ॥ अथ वाक्यगुणानाह- अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदम्। क्षोदक्षममेक्षूणं सुमतिर्वाक्यं प्रयुञ्जीत ॥८। अन्यूनेति। शब्दाश्व ते चारुपदानि च शोभनपदानि च शब्दचारुपदानि, ऊनानि चाधिकानि चोनाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधि- कानि, तानि च तानि वाचकानि च, सुक्रमाणि च पुष्टार्थानि च शब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्यं प्रयुजीतेति संबन्धः । तत्रान्यूनग्रहणाद्यत्र कंचिच्छब्दं विना दुष्टार्थप्रतीतिर्विवक्षितार्थाप्रतिपत्तिरेव वा भवति तन्न्यूनपदं वाक्यं निरस्तम्। यथा-'सं- पदो जलतरङ्विलोला यौवनं त्रिचतुराणि दिनानि। शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम् II' अत्र हि धनशब्दादनन्तरं यावत्कार्यशब्दो न प्रयुक्तस्तावत् 'धनैः किमिति परहितानि कुरुध्वम्'। मा कुरुत इति दुष्टोऽर्थः प्रतीयते। विवक्षिता- र्थाप्रतीतिर्यथा -'सीसपडिच्छियगंगं पणमिय संझं नमह नाहं' । अत्र संझं' शब्दा- दनन्तरं 'ततः' शब्दमन्तरेण न ज्ञायते कि 'प्रणम्य संध्यां ततो नाथं नमत,' आहो- ख्वित् 'प्रणतसंध्यं नाथ नमत' इति। निशब्दग्रहणाद्यत्र विनापि पदमसाधारणविशेषणो- पादानात्तदनुरूपकारकप्रयोगाद्वा। विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव। यथा-'स वः पायात्कला चान्द्री यस्य मूर्धि विराजते। गौरीनखाग्रधारेव भग्नरूढा कचग्रहे ॥' अत्र ह्यसाधारणविशेषणैः शंभुरित्यनुक्तमपि लभ्यते। अनुरूपकारकप्रयोगात्पदार्थप्रती- तिर्यथा-'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥' अत्र च्छेदसेकालंकारा अनुक्ता अपि परश्वाद्युपादानात्प्रतीयन्ते। नहि तेषां च्छेदा- देरन्यो व्यापार इति। अधिकग्रहणाद्यत्र शब्दान्तरेणोक्तेऽप्यर्थे पुनस्तदर्थपदं प्रयुज्यते तन्नि- रसम्। यथा-'स्फारध्वानाम्बुदालीवलयपरिकरालोकनं प्रेमदाम्नोः' इत्यत्रालीशब्देन मे- घानां बाहुल्यं प्रतिपादितमिति तदथौं वलयपरिकरशब्दौ निष्प्रयोजनाविति। निग्रहणादधि- कमात्रं साध्वेव। यथा-'नादेन यस्य सुरशत्रुविलासिनीनां काश्यो भवन्ति शिथिला जघनस्थलेषु' । अत्र हि काञ्वयस्तत्स्थानत्ादेव जघनस्थले लब्धे तदुपादानमधिकमा- त्रमिति। वाचकत्रहणमवाचकनिवृत्त्यर्थम् । यथा-'लावण्यसिन्धुरपरेव हि केयमत्र

१. 'अक्षूणहेतोरिव पांसुतल्पान्' इति विक्रमाङ्कदेवचरितम् (७४०). 'अक्षुण्णम्' इति पाठः सम्यम्भाति.

Page 15

१२ काव्यमाला। यत्रोत्पलानि शशिना सह संल्वन्ते । उन्मज्ति द्विरदकुम्भतटी च यत्र यत्रापरे कद- लिकाण्डमृणालदण्डाः II' अत्र शशिशब्देन मुखम्, उत्पलशब्देन नेत्रे द्विरदकुम्भाभ्यां स्तनौ, कदलिकाण्डशब्देनोरू, मृणालदण्डशब्देन बाहू कवेर्विवक्षितौ। न च शब्दा- स्तथा वाचकाः, न च मुखादिषु शशिप्रभृतीनि पदानि यौगिकानि रूढानि वेत्यवाचका- न्येव। उपमेयपदाप्रयोगाच रूपकभ्रान्तिरपि नास्ति । तथा दशरथ इति वक्तव्ये पङ्ञिरथशब्दोऽप्यवाचकः संज्ञाशब्दतात्तस्य। न च दशसंख्यार्थो वा घटते। येन यौगिकरूढपदं स्यात् । तथा आम्रदेवादिषु चूतामरादयः शब्दा अवाचका इति। सुक्मग्रहणं दुष्टक्रमनिवृत्त्यर्थम् । यथा-'वदन्त्यपर्णामिति तां पुराविदः' इत्यत्र हि इतिशब्देन पुराविदां संबन्धः, न तपर्णायाः । अपर्णायास्तु संबन्धे द्वितीया न स्यात्। यथा-'क्मादमुं नारद इत्यबोधि सः' इत्यादौ हि वस्तुखरूपमात्रमवस्थापय- तीति। लिङ्गार्थमात्रे प्रथमैव न्याय्या न द्वितीया । क्वापि च शब्दमात्रप्रतिपादनेन प्रथ- मापि न भवति यथा-'गवित्ययमाह'इति। पुष्टार्थग्रहणमपुष्टार्थनिवृत्त्यर्थम् एकशब्द- प्रतिपाद्यार्थे निरभिप्रायबहुशब्दप्रयोगादपुष्टार्थता जायते। यथा-'पातु वो गिरिजा- माता द्वादशार्धार्धलोचनः । यस्य सा गिरिजा माता स च द्वादशलोचनः ॥' इत्यत्र न त्रिलोचनशब्दाद्वादशार्धार्धलोचन इत्यादिभि: शब्दैरधिकोऽर्थः प्रतिपाद्यत इत्यपुष्टार्थता। शब्दग्रहणमपंशब्दनिरासार्थम् । अपशब्दनिरासश्च यद्यपि व्युत्पत्तिद्वारेणैव कृतस्तथापि महाकवीनामप्यपशब्दपातदर्शनात्तन्निरासादरख्यापनाय पुनरभियोगः । तथाहि पाणिनेः पातालविजये महाकाव्ये-'संध्यावधूं गृह्य करेण' इत्यत्र गरह्येति क्त्वो ल्यबादेशः तथा तस्यैव कवे :- 'गतेऽर्वरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः। अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुं करोति ।। 'इत्यत्र 'पश्यती इदं लुप्त 'न्ती'नकारं पदम्। तथा च भर्तृहरे :- 'इह हि भुवनान्यन्ये धीराश्रतुर्दश भुजते' इत्यत्रात्मनेपदम्। यथा वा कालिदासस्य-'अवजानासि मां यस्मादतस्ते न भविष्यति। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ।' इत्यत्र हि अनाराध्येति भिन्नकर्तृ पूर्वकाले क्ला। यस्मादारा- धनस्य राजा कर्ता भवनस्य प्रजेति। यथा च भारवे :- 'गाण्डीवी कनकशिलानिभं भुजाभ्यामाजन्ने विषमविलोचनस्य वक्षः ।' इत्यात्रात्मनेपदमखाज्ने। एवमन्येषामपि। चारुग्रहणं बर्बर्ष्टीत्यादिदुःश्रवशव्दनिवृत्त्यर्थमिति। यथेवमेवंगुणयुक्त्ते काव्ये प्रसादगुण- योगात्प्रसाद एव काव्ये गुणः समाश्रितो भवति, न तु गाम्मीर्यमित्याह-क्षोदक्षमं प्रेरणसहं वाक्यं प्रयुजीत। गाम्भीर्ययुतमिति तात्पर्यार्थः । किमेतावद्गुणमेव वाक्यमि- त्याह-अक्षूणमिति। समस्तदोषत्यागात्समस्तगुणसंग्रहाच् परिपूर्णम्। एतेन 'असमर्थ- मप्रतीतं विसंधि' इत्यादि वक्ष्यमाणदोषत्यागाच्च वाक्यस्य प्रयोगाईतमावेदितम्॥। अथ पूर्वत्रासंगृहीतवाक्यगुणप्रतिपादनार्थमाह- रचयेत्तमेव शब्दं रचनाया यः करोति चारुत्वम्। सत्यपि सकलयथोदितपद गुणसाम्येऽभिधानेषु ॥ ९॥

Page 16

२ अध्याय: ] काव्यालंकारः । १३

रचयेदिति । तमेव शव्द विरचयेत्। सकलैर्यथोदितैर्यथाभिहितैः पदगुणैरन्यूना- दिकै: साम्ये समानले सत्यपि विद्यमानेऽप्यभिधानेषु। नामसु मध्ये रचनायाः शब्द- संदर्भरूपायाश्चारुतं सौन्दर्य करोति ।। किमिति चारुत्वापादकं शब्दं रचयेदित्याह- रचनाचारुत्वे खलु शब्दगुण: संनिवेशचारुत्वम्। तर्वाल्युर्वेवर्षे तरुपक्किरसंकटैव मुने ॥ १० ॥ रचनेनि। खलुर्यस्मादर्थे। यतो रचनाचारुले गुम्फसौन्दर्ये सति संनिवेशः शब्दानां संहिताख्यं नैरन्तर्योच्चारणं तस्य चारुत्लक्षणो यः शब्दगुणः स भवतीति। तत्रोदाह- रणं यथा-तरूणामाली पङ्किरर्व्येव महत्यव हे ऋषे मुने। एतदचारुरचनं वाक्यम्। एतत्समानार्थ चारुरचनं लिदम्। यथा-तरुपङ्किरसंकटैव मुने। अत एवंविधमेव वाक्यं प्रयोज्यम्, न लाद्यसममिति॥ वाक्यलक्षणमभिधाय तस्य भेदप्रदर्शनार्थमाह- वाक्यं भवति द्वेधा गद्यं छन्दोगतं च भूयोऽपि। भाषा भेदनिमित्त: षोढा भेदोऽस्य संभवति ॥ ११ ॥ वाक्यमिति। वाक्यं च द्विविधं भवति। कथम्। एकं गद्यमुत्कलम् अन्यच्छ- न्दोगत छन्दोनिबद्धम्। भूयस्तथापि भाषामेदात्वोढा। मेदो वाक्यस्य संभवतीति। पोढेत्यनेन यदुक्त कैश्विद्था-'प्राकृतं संस्कृतं चैतदपभ्रंश इति त्रिधा' इत्येतन्निरसतं भवति ॥ कास्ता भाषा इत्याह- प्राकृतसंस्कृतमागधपिशाचभाषाश्च सूरसेनी च। षष्ठोऽत्र भूरिभेदो देशविशेषादपअ्रंशः ॥१२॥ प्राकृतेति । सकलजगज्जन्तूनां व्याकरणादिभिरनाहितसंस्कार: सहजो वचनव्या- पारः प्रकृतिः। तत्र भवं सैव वा प्राकृतम्। 'आरिसवयणे सिद्धं देवाणं अद्धमागहा बाणी' इत्यादि वचनाद्वा प्राक्पूर्व कृतं प्राकृतं बालमहिलादिसुबोधं सकलभाषानिबन्ध- नभूतं वचनमुच्यते। मेघनिर्मुक्तनलमिवैकस्वरूपं तदेव च देशविशेषात्संस्कारकरणाच्च समासादितविशेषं सत्संस्कृताद्युत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टं तदनु संस्कृतादीनि । पाणिन्यादिव्याकरणोदितशव्दलक्षणेन संस्करणात्सं- स्कृतमुच्यते। तथा प्राकृतभाषैव किंचिद्विशेषलक्षणान्मागधिका भण्यते। तच्चेदं यथा- रसयोर्लशौ मागधिकायाम्। रेफस्य लकारो दन्त्यसकारस्य तालव्यशकारः। यथा- सुरा शुला, सरसी शलशी इत्यादि। तथा एलमकारस्य सौ पुंसि। यथा-एसो पुरिसो, एशे पुलिसे इत्यादि। पुंस्येवैत्वम्। तेन तं शलिलं। तथा अहंवयमोरहंगे आदेशः। यथा-हगे संपत्ते, हगे संपत्ता। तथा जय्ययोर्यकारो भवति। यथा-य्याणदि-

Page 17

१४ काव्यमाला। य्याणवादी जाणइ जाणवदेयस्य च। अवय्यं मय्यं विय्याहलै। अव्यं म्यं विद्याधरः । तथा क्षस्य इकोऽनादौ। यथा-यश्के लश्कसे यक्षो राक्षस इति। अनादावित्येव । क्षयजलधरः खयय्यलहले इति न स्यात्। स्कः प्रेक्षाचक्ष्योः । प्रेक्षाचक्ष्योर्धात्वोः क्षस्य स्कादेशः । यथा-पेस्कदि आचस्कदि। तथा छस्य क्ो भवति। यथा-पिश्चिले आवण्णश्चले । तथा षशोः संयोगस्थयोस्तालव्यशकारः। यथा-विष्नुः विहस्पदी कास्यगालं। अर्थस्थयो: थस्य स्तादेशः । यथा-एसे अस्ते एषोऽर्थः, समुपस्तिदे समुपस्थितः । तथा जण्यन्यव्वीनां जो भवति। यथा-ज । अजली अज्जलिः । थय। पुजकम्मे पुण्यकर्मा, पुजाहं पुण्याहम् । न्यस्य च अभिमनुः अभिमन्युः, कनका कन्यका । व्रजेः कृतादेशस्य वव्वइ वजइ। तथा तस्य दकारोऽन्ते। यथा- मालेदि होदि य्याणदि इत्यादि। अन्यल्लक्षणं अ्न्थान्तराल्क्ष्याच् जेयमिति। तथा प्राकृ- तमेव किंचिद्विशेषात्पैशाचिकम्। यथा णनोर्नकार: पैशाचिक्याम्। यथा-आगंनून- यनमतीत्यादि। तथा दस्य वा तकारः। यथा-वतनं वदनम्। प्राकृतलक्षणापवाद- श्वात्र। यथा टस्य न डकारः। यथा-पाटलिपुत्रम् । तथा पस्य न वकारः। यथा- पदीपो, अनेकपो। तथा कगचजतदपयवानामनादौ यथाप्रयोगं लोपः खवरशेषता च न कर्तव्या। यथा क्रमेण-आकाशं, मिगंको, वचनं, रजतं, वितानं, मदनो, सुपुरिसो, दयालू, लावण्णं। एवं सुको, सुभगो, सूची, गजो, भवति, नदी इत्यादि च। तथा खघथधफभानां हो न भवति। यथा-मुखं मेधो रथो विद्याधरो विफलं सभा इत्यादि। यथा थठयोर्ढोऽपि न भवति। यथा-पथमं, पुथुवी, मठो, कमठो। तथा जञस्य जो भवति। यथा-यजकोसलं, राजा लपितं। तथा हृदये यस्य पः। हितपकं। तथा स्वत्र तकारो न विक्रियते। एति वित्रमित्यादिपु। इत्यादयोऽन्येऽपि प्राकृतवि- हिता व्यख्नादेशा न क्रियन्ते ते च वृहत्कधादिलक्ष्यदर्शनाज्ज्ञेया इति। सूरसेन्यपि प्राकृतभाषैव। केवलमयं विशेषः। यथा सूरसेन्यामखसंयोगस्यानादौ तस्य दो भवति यथा-तदो, दीसदि, होदि, अन्तरिदमित्यादिषु। अससंयोगस्येति किम्। मत्तो, पसुत्तो। स्वग्रहणात् निच्चिन्दो, अन्देउरमिति स्यादेव। अनादावित्येव। तेव तदे- त्यादौ न भवति। तथा र्यस्य य्यो भवति। यथा लक्ष्यम्-अय्यउत्त, पय्याकुली- कदहि। यथालक्ष्यमित्येव। तेन कज्जपरवसो, वज्जकज् इत्यादौ न भवति। इह थध्वमां धो वा भवति। इध, होध, परित्तायध। पक्षे इथ, होह, परित्तायह। तथा पूर्वस्य पुरवो वा। यथा-न कोवि अपुरवो पक्षे। अपुव्वं पदं । तथा कट्टय करिय गट्टय गच्छिय इति क्वान्तस्यादेशः । तथा एदु भवं, जयदुभवं, तथा आमत्त्रणे भयवं कुसुमाउह इत्यादि। तथा इनः आ वा। यथा-भो कंचुइया। अतश्च। भो वयस्सा, भो वयस्स। तथा इलोप इदानीमि। यथा-किं दाणि करइस्सं। निलज्जो दाणि सो जणो। तथा अन्त्यान्मादिहेतोर्णों भवति । यथा-जुतण्णिमं, किण्णिमं, एवण्णेदं। यथाप्रयोगमित्येव। तेन किं एत्थं करइस्सं। तदसता भवति। यथा ता जाव पविसामि। तथा एवार्धे व्येव। यथा-मम य्येव एकस्स। हंजे चे्याह्वाने। हंजे चतुरिए। हीमा-

Page 18

काव्यालंकारः । १५

णहे निर्वेदविस्मययोर्निपातः। यथा-हीमाणहे पलिस्सता हगे एदिणा नियविहिणो दुव्विलसिदेण। हीमाणहे जीवंतवच्छा मे जनणी। णं निपातो नन्वर्थे। यथा-णं भणामि। अम्महे हर्षे निपातः। हीहीभो विदूषकाणां हषे। शेषं प्राकृतसमं द्रष्टव्य- मिति। तथा प्राकृतमेवापभ्रंशः । स चान्यैरुपनागराभीरग्राम्यलमेदेन त्रिधोक्तस्तन्नि- रासार्थमुक्तं भूरिभेद इति। कुतो देशविशेषात्कारणात्। तस्य च लक्षणं लोकादेव सम्यगवसेयम्। सामान्यं तु किंचिदिदम्। यथा न लोपोऽपभ्रंशेऽधोरेफस्य। यथा- प्रखुरभ्रायरवघ्रेणेत्यादि। तद्वदभूतोऽपि क्वाप्यधो रेफः करियते। यथा-व्राचालउत्रच- त्रचउकाखक्रखीत्यादि। तथोदन्तस्य दकारो भवति। यथा-गोत्रुगंजिद्रुमलिदुचा- रितु इत्यादि। तथा ऋतः स्थाने ऋकारो वा भवति। यथा-तृणसमुगणिजई। पक्षे तणं इत्यादि लक्ष्यादवसेयम् । व्यत्ययो बहुलं भाषालक्षणस्य। यथा-थहकारयोः सूर- सेन्यां धत्मुक्तं मागध्यामपि भवति। आभीरीभाषा अपभ्रंशस्था कथिता क्वचिन्मा- गध्यामपि दृश्यते। सूरसेन्यामिदानींशब्दे इलोप उक्तः शुद्धप्राकृतेऽपि भवति। तथा कगचजतदपयादीनां पैशाचिक्यां खरशेषलाभावोऽभिहितः। सघघफभादीनां हत्ाद- भावश्च सूरसेन्यामपि भवति । इत्याद्यन्यदपि सांकर्य महाकविलक्ष्यादवसेयमिति । विशेषतस्तु भापालक्षणं ग्रन्थान्तरादवसेयमिति॥ एवं शब्दलक्षणं गुणदोषांश्राभिवायेदानीं तस्यालंकारान्विवक्षुराह- वक्रोक्तिरनुप्रासो यमकं श्लेषस्तथा परं चित्रम्। शब्दस्यालंकाराः श्लेषोरऽर्थस्यापि सोऽन्यस्तु ॥ १३ ॥ वक्रोक्तिरिति। तथाश्दः समुचये। अन्यैरनुक्तं चित्रं शब्दालंकारमध्ये समुच्ची- यते। परमुत्कृष्टमपरं वा। अन्यदित्यर्थः । शब्दस्येत्यर्थनिवृत्त्यर्थम्। अतश् कश्विदा- शङ्कते-शब्दालंकार एवायं श्लेषो न लर्थालंकारोऽपीति तं प्रत्याह-शेषोऽर्थस्यापीति। किमयमेव शलेषोऽर्थस्यापि नेलयाह-सोऽन्यस्तु। तुरवधारणे। सोऽन्यादक्ष एवेलर्थः । तेन यदन्यैरमेदेन शलेपलक्षणमवादि तदयुक्तमित्युक्तम्। नन्वलंकारोSलंकार्याद्भिन्नो दृष्टः । यथा पुरुषात्कटकादयः । न चैवमत्र मेदमवगच्छाम इति। सत्यम्। विद्यत एव भेदः। यथा-'किं गौरि मां प्रति रुषा' इति शब्दसमुदायोऽलंकार्य एव। तस्य यद्द- जयन्तरेण व्याख्यानं सोऽलंकारः । अनुप्रासेऽपि प्रथमोक्ता वर्णा आवृत्ताथ्वान्यो- न्यमलंकुर्वते। यथा हि-द्वौ साधू संगतौ परस्परमलंकुर्वाते इति। एवं यमके श्लेषे च् द्रष््व्यम्। चित्रेऽपि सपष्टो वर्णक्रमोऽलंकार्यो भङ्गयन्तरकृतस्त्वलंकार इति ॥ यथोद्देशं निर्देश इति पूर्व वकोक्तिलक्षणमाह- वक्रा तदन्यथोक्तं व्याचष्टे चान्यथा तदुत्तरदः । वचनं यत्पदभङ्गैर्ज्ञैया सा श्लेषवक्रोक्तिः ॥ १४ ॥ वका प्रतिपादकेन तस्मादुत्तरवचनादन्यथा प्रकारान्तरेणोक्तम्। तदन्यथोकं

Page 19

१६ काव्यमाला।

व्याचष्टे वक्ति चान्यथा। तस्योक्तस्योत्तरं ददातीति तदुत्तरदः। यद्वचनं यद्वाक्यम्। कैर्व्याचष्टे पदभगैः। पदखण्डनयेत्यर्थः। सा श्लेषवक्रोक्तिईैया। वक्रोक्तिस्तु द्विविधा, श्लेषवकोकिः काकुवकोक्तिश। तल्लक्षणयोश्व वैलक्षण्यान्नैकं लक्षणमस्तीति भेदेनाभि- धानमुपपन्नम् ।। तत्रीदाहरणमाह- कि गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम्। जानाम्यतस्त्वमनुमानत एव सत्य- मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ १५ ॥ किमिति। इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति। कथम्। प्रणयकुपितां गौरीं शंभुरनुनयन्नाह-हे गौरि उमे, मां प्रति मामुद्दिश्य किं तव रुषा रोषेण ! तत्प्रसीदेत्यर्थः। एतदुत्तरदायिनी सान्यथा पदभज्ैराह-ननु गौरहं किम्। ननुरक्षमायाम्। किमहं गौस्त्वया कृता यद्गौरित्यामन्त्रयसे। कां च प्रति। मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति। पुनः शंभुमाह-अतोऽस्मादनुमानतोऽनुमा- नाद्वक्रवचनलक्षणान्मयि विषये लं कुप्यसीत्यहं जाने। भूयो भवान्याह-तवमनुमानत एव सत्यम्। न उमा अनुमा तस्या एव नतः । अस्मदनमनं केन तव ज्ञातमित्यर्थः ॥ इदानीं काकुवक्रोक्तिलक्षणमाह- विस्पष्ट क्रियमाणादक्किष्टा खरविशेषतो भवति। अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ १६ ॥ विस्पष्टमिति। यत्र सवरविशेषादर्थान्तरप्रतीतिर्भवति। कीदशात्। विस्परष्ट स्फुटं क्रियमाणादुचार्यमाणात्। कीदशी अर्थान्तरप्रतीतिः । अक्किष्टा कल्पनारहिता सा काकुवकोक्तिः ॥ तत्रोदाहरणम्- शल्यमपि स्खलदन्तः सोहुं शक्येत हालहलदिग्धम्। घीरैरन पुनरकारणकुपितखलालीकदुर्वचनम् ॥ १७ ॥ शल्यमिति। इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह-आस्ता- मन्यत्। शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघट्टनां कुर्वाणं सोढुं क्षन्तुं शक्येत। कीदशम्। हालहलेन विषेण दिग्धं लिप्तम्। धीरैवैर्योंपेतैन पुनरकारणकुपितखला- लीकदुर्वचनमित्येकोऽर्थः। एतदेव वाक्यं काक्का सवरविशेषेण वदन्समाश्वासयति- यथा अपि शल्यं स्खलदन्तः सोढुं शक्येत धीरैन पुनरकारणकुपितखलालीकदुर्वचनम्। १. उदाहृतोऽयं श्रोकः सरखतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन.

Page 20

२ अध्याय: ] काव्यालंकारः । १७

यदि शल्यमपि सोढुं शक्यते तदा दुर्वचनं सुसहमेवेत्यर्थः। पूर्वपक्षे खलदुर्वचनस्य दुःसहतोक्ता, द्वितीये तु सुसहतेति मेद: ॥ अथानुप्रासलक्षणमाह- एकद्वित्रान्तरितं व्यञ्जनमविवक्षितखरं बहुशः। आवर्त्यते निरन्तरमथवा यदसावनुप्रासः ॥ १८॥ एकेति। यव्यञनं बहुशो बहून्वारानावर्त्यते। कीदृशम् । एकद्वित्रान्तरितम्। एकेन द्वित्रैर्वा व्यज्ञनैरन्तरितं व्यवहितम्। किं व्यवहितानुवर्तनमेवानुप्रासो नेत्याह- निरन्तरमथवा। एतेनैकव्यजनश्लोकानामनुप्रासतोक्ता। व्यजनग्रहणं खरनिरासा- र्थम्। ननु खरनिरासे कृतेऽनुप्रासस्याभाव एव स्यात्। खररहितस्यावृत्तेरनुपलम्भा- दित्याह-अविवक्षितखरम्। अविवक्षिताः खरा यत्र तथा। खरचिन्ता न क्रितय इत्यर्थः । बहुशोग्रहणादेकावृत्तिमात्रेण नानुप्रासः । किं त्हि। एकद्वित्रान्तरितमनेक- वारानावर्त्यते ततोऽनुप्रास इति॥ सामान्येनानुप्रासलक्षणमभिधायेदानीमस्यैव भेदानाह- मधुरा प्रौढा परुषा ललिता भद्रेति वृत्तयः पञ्च। वर्णानां नानात्वादस्येति यथार्थनामफलाः ॥ १९ ॥ मधुरेति। अस्यानुप्रासस्य पञ्च वृत्तयो भवन्ति। कुतः । वर्णानां व्यञनानां नाना- त्वात् । व्यञ्ञनानामावृत्त्यानुप्रासस्योक्तत्वाद्वर्णानामित्युक्तेऽपि व्यज्जनानामिति गम्यते। कास्ता: मधुरा, प्रौढा, परुषा, ललिता, भद्रा। इतिशब्द: परिसमाप्यर्थः । एता एव, न त्वष्टौ तिस्रो वा। तथा ह्यष्टै हरिणोक्ताः। यथा-'महुरं परुसं कोमलमोजस्सि निट्ठरं च ललियं च। गंभीरं सामण्णं च अद्भणिति उनायच्चा ।' अन्रौजखििनिष्ठुरग- म्भीराणां न तथा मेद इत्येकतरोपादानमेव न्याय्यम्। तथा वृत्तीनां मिश्रता सामान्यम्। तच्चानुक्तमपि लभ्यते। इत्येताः पश्चैव। तथान्यैग्राम्या परुषोपनागरिकेत्युक्तं तत्र त्वसंग्रह एवेति। कीदश्यस्ताः । यथार्थनामफलाः सान्वयनामिकाः । कुतः । इति हेत्वर्थे। सा च माधुर्यान्मधुरा, प्रौढलात्प्रौढा, इत्यादिहेतर्थों द्रष्टव्यः॥ इदानीमासां लक्षणमाह। तत्र मधुरायास्तावत्- निजवर्गान्त्यैर्वर्ग्याः संयुक्ता उपरि सन्ति मधुरायाम्। तद्युक्तश्र लकारो रणौ च हखखरान्तरितौ॥ २० ॥ निजवर्गान्त्यैरिति। मधुरायां वर्ग्याः कचटतपवर्गवर्णा उपर्युपरिष्ठात्संयुक्ताः सहिताः सन्ति विद्यते। कैरित्याह-निजवर्गान्त्यैर्डञणनमैर्वर्णै:। तथा तद्युक्तसेन लकारेण युक्तो लकारः । रणौ च रेकणकारी च। कीढशी। हखखरेणान्तरितौ व्यवहितौ भवतः। नन्वेकव्यज्ञनावृत्तिरनुप्रासलक्षणमुक्तम्, तत्किमिह बहुवर्णसद्भाव उच्यते। सत्यम्। बहुत्वाद्वर्णानां बहवोऽनुप्रासा अपीति न दोषः । एतेषां च वणानां युगपत्प्रयोग एव

Page 21

१८ काव्यमाला।

मधुरा वृत्तिरित्येव न दष्टव्यम्। किं तहिं। तेषां वर्णानां मच्यादन्यतमवणैरनुजासे म्रधुरा वृत्तिरिति। किमविशेषेणैते प्रयोक्तव्याः। नेत्याह- तत्र यथाशक्ति रणौ द्विस्तिरिर्वा युक्तितो लकारं च। पञ्चभ्यो न कदाचिह्वर्म्यानूर्ध्व प्रयुञ्जीत ॥। २१ ।। तत्रेति। तत्र तेषु वर्णेषु मध्ये रणौ यथाशक्ति यावतोः प्रयोगकरणे सामर्थ्यमस्ति तावत्प्रमाणौ प्रयोक्तव्यौ। माधुर्यलाभात्। युक्तितः संयोगाल्लकारं द्विस्त्रिर्वा प्रयुजीत। वर्ग्यास्तु पश्चभ्य ऊर्ध्वमधिकं न कदाचनापि प्रयुजीत। माधुर्यभक्गप्रसङ्गादित्यर्थः ॥ एतदुदाहरणमाह- भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि। यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥ २२॥

परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥ २३ ॥ (युग्मम्) भणेति। अनण्विति। कश्चित्परमहिलां निजदयितगृहं व्रजन्तीं वीक्ष्याह-भण वद लमेव हे तरुणि, यदि लं निजदयितमन्दिरं व्रजसि तत्किम्। खदीयं परिसरणं मे निष्प्रयो- जनमेव रणरणकं हृदयाकुललं कुरुते। आनन्दस्यन्दि हर्षकारि सुन्दर रम्यमिन्दुवन्मुखं यस्या: सामच्यते। तथा सलीलया सुविलासेनोलपितुं वक्तुं शीलं यस्याः सा चाम- डयते। तथारुणचरणे लोहितकमे। कीढशं परिसरणम्। अनणु तारं रणन्ती शब्दा- यमाना मणिमेखला रत्नरशना यत्र तत्। तथाविरतं शिञ्जनानि रणन्ति मजूनि मधु- राणि मजीराणि चरणाभरणानि यत्र तत्। लक्षणं तु खधिया सर्वमायोज्यम् ।। अथ प्रौढामाह- अन्त्यटवर्गान्मुवत्वा वर्ग्ययणा उपरि रेफसंयुक्ताः। कपयुक्तश्र तकारः प्रौढायां कसतयुक्तश् ॥। २४॥ अन्त्यटवर्गानिति। प्रौढायां वृत्तौ वग्याँः कादयो यकारणकारौ चोपरिभागे रेफेण संयुक्ता भवन्ति। किं कृला। अन्त्यान् उजणनमान् टवर्ग च मुक्ला विहाय। तथा ककारपकाराभ्यामुपरिभागे तकारश्च युक्तो भवति। चः समुचये। तथा ककारस्तका- रेणोपरिभागे संयुक्त इत्यर्थ: ॥ तत्रेदमुदाहरणम्- कार्या कार्यमनार्यैरुन्मार्गनिरर्गलैर्गलन्मतिभि.। नाकर्ण्यते विकणैर्युक्तोक्तिभिरुक्तमुक्तमपि॥ २५॥ कार्याकार्यमिति। येऽनार्या अश्िष्टा उन्मार्गे कुमार्गे निरर्गला निरङ्कशाः। खच्छन्दा

Page 22

२ अध्याय: ] फाव्यालंकार:। १९

इत्यर्थः । तथा गलन्मतयो नश्यद्ुद्धयः । विकर्णा जडासैरेवंभूतैः कार्याकार्य हिताहित- मुक्तमुक्तमपि पुनःपुनर्भणितमपि नाकर्ण्यते न श्रूयते। कैरुक्कमित्याह-युक्ता संगता उच्तिर्वचनं येषां तैः । पयुक्ततकारस्य तयुक्तककारस्य च खयमुदाहरणं द्रष्टव्यमिति। एषा वृत्तिरन्यैरोज इत्युक्ता।। अथ परुषामाह- सर्वैरुपरि सकारः सर्वे रेणोभयत्र संयुक्ताः । एकत्रापि हकारः परुषायां सर्वथा च शषौ ॥ २६ ॥ सवैरिति। परुषायां वृत्तौ सवैंरुकैरनुक्तैश वर्णैरुपरिभागे सकारो युक्तो भवति। तथा सर्वे वर्णा उक्ता अनुक्ता रेफेणोभयत्रोपर्यधोभागयोः पर्यायेण युगपद्वा युक्का भ- वन्ति। तथा हकारो रेफेणैकत्रोपर्यधो वा युक्तो भवति। अपिशब्दो नियमार्थः । एक- त्रैवेत्यर्थः । शकारषकारौ च सर्वथा सर्वेण प्रकारेण। रेफेणान्यैर्वा युक्तावसंयुक्तौ वेति सर्वथाशब्दार्थः ॥ उदाहरणम्-

जिह्ेत्यगर्यबर्हिःशेषशयः कोषशून्यः सन् ॥ २७॥ लिप्सूनिति। कथ्चिन्महासत्त्वो दत्तसर्वखोऽत्र वर्ण्यते । स महासत्त्वोऽन्तर्मध्ये जि- हेति लजते। कि कुर्वन्। पश्यन्। कान्। लिप्सृंछव्धुकामान्। सर्वान्याचकानित्यर्थः । कीदृशः । वृतः परिगतः । कैः ब्रह्मोदैर्वेदपारगैर्व्राह्मणैः । पुनः कीहक् । अग्ह्यः प्रशस्तो यो बर्हिर्दर्भः स एव शेषमुर्वरितं तत्र शेते यः । तन्मात्रधन इत्यर्थः । लक्षणयोजना स्वयं कार्या॥ अथास्याः सर्वत्र प्रयोगनिवारणार्थमाह- परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषाम् । रचयेदथागतिः स्यात्तत्रापि हादयो हेयाः ॥ २८॥

वृत्ति न रचगेत्। अथागतिर्गत्यन्तराभावः स्यात्, तन्नापि हादयो हेयास्तयाज्याः। अत्यन्तपरुषत्वात्। केवलं शषादिप्रयोग: कार्यः ॥ ललिताभद्रयोर्लक्षणमाह- ललितायां घधभरसा लघवो लश्चापरैरसंयुक्तः । परिशिष्टाभद्रायां पृथगथवा श्रव्यसंयुक्ता: ॥ २९॥ ललितायामिति। ललितायां वृत्ती घकारधकारभकाररेफसकारा भवन्ति । ते च लघवो न गुरवः । तथा लकारथ्ापरैवर्णेरसंयुक्तः । आत्मना तु भवेदिति। भद्रायां तु

Page 23

२० काव्यमाला। वृत्तौ परिशिष्टा वृत्तिचतुष्टयोपयुक्तवर्णशेषाः । ते च पृथगसंयुक्त्ताः सन्ति। युक्का- श्वेद्भवन्ति तदा श्रव्यैः श्रुतिसुखैर्योज्या इति॥ ललितोदाहरणमाह- मलयानिलललनोल्ललमदकलकलकण्ठकलकलललामः। मधुरमधुविधुरमधुपो मधुरयमधुना विनोति घराम् ॥ ३० ॥ मलयेति। अयं मधुर्वसन्तोऽधुना धरां पृथ्वीं धिनोति प्रीणयति। किंभूतः । मलया- निलस्य मलयवायोर्यल्ललनं गमनं तेनोल्ला: सोत्कण्ठा मदकला मदमधुरा ये कलकण्ठाः कोकिलास्तेषां यः कलकल: कोलाहलस्तेन ललामः श्रेष्ठः । अथवा स एव ललामो ध्वजो यस्य स तथा। अन्यन्च मधुरेण मधुना मकरन्देन विधुरा मत्ता ्रमरा यस्य स तथा। अत्रान्ये उदाहृताः। घभसानां स्वयमुदाहरणं द्रष्टव्यम् ॥ भद्रोदाहरणमाह-

खेलेऽपि न खलु नखरैरुल्लिखति हरिः खरैराखुम् ॥ ३१ ॥ उत्कटेति। हरि: सिंहो न खलु नैव खेलेऽपि क्रीडायामप्याखुं मूषकमुल्िखति विदारयति नखैः। कीटशैः । उत्कटा दृढा ये करिकरटतटा द्विपगण्डस्थलानि तेषां यत्फुटं प्रकटं पाटनं दारणं तत्र सुध्रु पदुर्दक्षा कोटिरग्रं येषां तैः। तथा कुटिलैरनृजुभि: खरस्तीक्ष्णैः । अत्र कटखा' केवलाः केवलाः पूर्वत्र न प्रयुक्ता इति परिशिष्टत्वम्।। अथाध्यायमुपसंहरन्यथैता वृत्तयो रचिता रमणीया भवन्ति तथाह- एता: प्रयत्नादधिगम्य सम्यगौचित्यमालोच्य तथार्थसंस्थम् । मिश्रा: कवीन्द्रैरघनाल्पदीर्घाः कार्या मुहुश्चैव गृहीतमुक्ताः ॥ ३२॥ एता इति । एता पूर्वोक्ता वृत्तयः कवीन्द्रैः सुकविभिर्मिश्राः परस्परान्तरिता कार्याः। किं कृता। अधिगम्य ज्ञात्वा प्रयत्नात्तात्पर्येण। कथम् । सम्यगविपरीतम् । तथा औचित्यमर्थसंस्थ पात्रगतमभिधेयगतं चालोच्य विमृश्य। कीदृश्यः सत्यो मिश्राः कार्या इत्याह-अघनाल्पदीर्घाः । अघना असंहताः । वृत्तौ वृत्तिर्निरन्तरलमा न कार्या। यदि वा अघना असंयोगाक्षराः । एवंविधा अप्यल्पदीर्घाः कर्तव्याः । एकैव वृत्तिरत्यन्तमायता न कार्या यदि वा अल्पानि दीर्घाणि दीर्घाक्षराणि याख्ति योज्यम्। एवंविधा अप्यलंकारान्तररहिता उद्वेगकारिण्यः श्रोतृणां स्युरित्याह-कार्या मुहुः पुनर्गृहीतमुक्ताः । मुहुर्मोक्तव्यः कर्तव्यश्चानुप्रास इति॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो द्वितीयोऽध्यायः समाप्तः।

Page 24

३ अध्याय: ] काव्यालंकारः । २१

तृतीयोऽध्यायः । अथेदानीं यमकलक्षणमाह- तुल्यश्रुतिक्माणामन्यार्थानां मिथस्तु वर्णानाम्। पुनरावृत्तिर्यमकं प्रायश्छन्दांसि विषयोऽस्य ॥१॥ तुल्येति। पुनरावृत्तिः पुनरुच्चारणं वर्णानां तद्यमकम्। कीदृशानाम्। तुल्या समाना श्रुतिः श्रोत्रेन्द्रियोपलब्धिः क्रमश्च परिपाटी येषाम्। श्रुतिग्रहणाद्यत्र वर्णविकारेण षतरत्ादिना वपुष्टा वपुस्ता इत्यादौ तथा पुनर्गता पुना रौतीत्यादौ च सत्यपि कमे तुल्यश्रुतित्वाभावस्तत्र यमकत्वनिरासः । क्रमग्रहणात्प्रतिलोमानुलोमसर्व तोभद्रानुप्रासा- दीनां यमकत्वनिरासः। नहि तेषु तुल्यश्रुतिसद्भावेऽपि तुल्यक्रमो विद्यते। मिथोऽन्या- र्थानां परस्परं भिन्नार्थानाम् । इत्यनेन तु पुनरुक्तस्य यमकत्वव्युदासः। यथा 'अहो रूपमहो रूपमहो मुखमहो मुखम्। अहो कान्तिरहो कान्तिस्तस्याः सारङ्चक्षुषः ॥' इत्यादिषु । अन्यार्थानामित्यत्रार्थशब्दः प्रयोजनवाच्यपि । तेनेहापि यमकत्वं सिद्ध भवति। 'विजृम्भितोद्दामरसेन चेतसा निरूप्यमाणं किमपि प्रियावपुः। तदैव वैराग्यवता विभागशो निरूप्यमाणं किमपि प्रियावपुः ॥'अत्र हि वर्णानामेकामिधेयलेऽपि प्रयोजनं मिद्ते। अस्य च यमकस्य प्रायो बाहुल्येन च्छन्दांसि पद्यं विषयः । प्रायोग्रहणादद्य- मपि क्वापीति॥

पूर्व द्वि भेदमेतत्समस्तपादैकदेशजत्वेन। पादार्घश्रोकानामावृत्त्या सर्वजं त्रेधा ॥ २ ॥ पूर्वमिति। पूर्व मूलमे दायपेक्षया एतय्मकं द्विमेदम् । केन भेदेनेल्याह-समस्ते- त्यादि। तत्र समस्तपाद-व समस्तपादौ च समस्तपादाश्वेत्येकशेषः । तथा एकदेशश्च एकदेशौ च एकदेशा वेति। समस्तपादजमेकदेशजं चेति मेदद्यम्। अत्र च वक्ष्य- माणभेदाः सर्वेऽप्यन्तर्भवन्तीति पञ्चधा चतुर्दशधा चेति परोक्तवचनव्युदास इति। तत्र समस्तपादजप्रमेदानाह-पादार्धेत्यादि। पादावृत्त्या अर्धावृत्त्या शोकावृत्त्या च सम- स्तपादजं त्रेधा भवति॥ तत्रापि पादावृत्तेस्तावद्धेदानाह- पर्यायेणान्येषामावृत्तानां सहादिपादेन। मुखसंदंशावृतयः क्रमेण यमकानि जायन्ते ॥ ३ ॥ पर्यायेणेति। पर्यायेण क्रमेणान्येषां द्वितीयादीनां त्रयाणां पादानामादिपादेन सहा- वृत्तानां यमकितानां मुखसंदंशावृतिसंज्ञितानि क्रमेण यथासंख्यं यमकानि त्रीणि जायन्ते भवन्तीति ॥ का० लं० ३

Page 25

२२ काव्यमाला।

तदुदाहरणानि क्रमेणाह- चक्ं दहतारं चक्रन्द हतारम्। खङ्गेन तवाजौ राजन्नरिनारी।। ४ ।। चक्रमिति। कश्िन्नृपमाह-हे राजन्, तव संबन्धिना खज्नेनाजौ रणे आर रिपुसकं चक्रं समूहमरं शीघ्रं दहता घनता अरिनारी रिपुस्त्री भर्तृवधेन हता ताडिता सती चक्रन्द। कन्दितवतीत्यर्थः । इति प्रथमद्वितीयपादयमकं मुखसंज्ञम् ॥ अथ संदंश :- सन्नारीभरणोमायमाराध्य विघुशेखरम्। सन्नारीभरणोSमायस्ततस्त्वं पृथिवीं जय ।। ५ ।। सन्नारीति। कश्िननृपस्याशिषमाह-ं विधुशेखरं हरमाराध्य ततः पृथिवी जय। कीदृशं हरम्। सत्यश्न ता नार्यश्र सन्नार्य: साध्व्यः स्रियस्ता बिभर्ति पोषयतीति सन्ना- रीभरण: स चासावुमायक्च। उमा पार्वती तां याति गच्छति तया सह संयुज्यते यसतं तथाविधम्। ं कीटशः । सन्नाः खिन्ना अरीभा रिपुद्विपा यत्र स तथाविधो रण: सङ्गामो यस्य स तथा। पुनः कीदृशः । अमायो मायारहितः । सात्त्विक इत्यर्थः। अत्र प्रथमतृतीयपादयो: संदंशनामकं यमकम्॥ अथावृति :- मुदारताडी समराजिराजितः प्रवृद्धतेजाः प्रथमो धनुष्मताम्। भवान्बिभर्तीह नगश्र मेदिनीमुदारताडीसमराजिराजितः ॥ ६ ॥ मुदेति। कश्चिच्चाटुककृत्नृपमाह-इह भवांस्तवं नगश्ादिश्च मेदिनीं भुवं बिभर्ति पोष- यति धारयते च। कीदंशस्तम्। मुदा हर्षेण, न तु मयेन, आरताडी रिपुसमूहताडन- शीलः । तथा समराजिरे रणाङ्गणेऽजितोऽपरिभूतः । तथा प्रवृद्धतेजाः प्रथितप्रतापः । धनुष्मतां धानुष्काणां प्रथमो मुख्यः । नगः कीदशः । उदारा उन्नता यास्ताड्यस्ताडि- वृक्षास्तासां समा अविषमा या राजयः पङ्कयस्ताभी राजितः शोभितः । इह चतुर्थपा- दयमकमावृतिर्नाम।। मेदान्तरमाह- प्रत्यकं पश्चिमयोरावृत्त्या पादयोर्द्वितीयेन। यमके संजायेते गर्भः संदष्टकं चेति॥ ७॥ प्रत्येकमिति। पश्चिमयोस्तृतीयचतुर्थपादयोर्द्वितीयेन पादेन सहावृत्त्या प्रत्येकं पृथ- ग्यमके संजायेते भवतो गर्भसंदष्टकसंजञिते। तत्र गर्भोदाहरणम्- यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव। समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदासते॥ ८॥

Page 26

३ अध्याय: ] काव्यालंकार:। २३

य इति। यः पुरुषो राज्यं प्राप्य तस्य रक्षणादौ निशिन्तो भवति। तथा प्राप्तं राज्यमिति समुत्सहर्षः। यो रतारम्भरतः सदैव निधुवनप्रारम्भासकः। सततं स तथा- विधनृपो भवतो भरेण समुद्रतारं जलनिधितरणं बाहुभ्यामारभ्य पयसि जलमध्य उदास्ते निष्क्रियो भवति। कथम्। दैवं पुराकृतं कर्म प्रमाणं यत्र तत्तथेति क्रियाविशेष- णम्। यः प्राप्तराज्यो निरुद्यमः स बाहुतरणप्रवृत्तजलधिमध्यस्थितनिष्कियनरतुख्य इत्यर्थः । इति नध्यमपादयोर्गर्भों नाम यमकम् ॥ अथ संदष्टकम्- इदं च येन खयमात्मभोग्यतां समस्तकाश्चीकमनीयताकुलम्। नितम्बबिम्बं कथमस्तु नो नृणां स मस्तकाञ्ची कमनीयताकुलम्।।९।l इदमिति। कश्चिद्रागी परस्त्रियं दृष्ट्रा कंचिदाह-इदं नितम्बबिम्बं श्रोणीतटं येन स्यमसहायेनात्मभोग्यतां खोपकारितामनीयत नीतं स तथाविधो नृरणां पुंसां मस्तकाशी धिरोवती कथ नो अस्तु कर्थ मा भूत् । सौभाग्यातिशयवानित्यर्थः। कीदृशं कटि- तटम्। आकुलं प्रयोगवशाश्टुलमत एव समस्ता सम्यविक्षप्ता काशी मेखला यतस्तत्व- मस्तकाश्ीकम्। तथा च कमनीयताया रामणीयकस्य कुलं स्थानम्। अत्र द्वितीयचतु- र्थंपादयोः संदष्टयमकम् ।। पुनराह- अन्योन्यं पश्चिमयोरावृत्त्या पादयोर्भवेतपुच्छः। सर्वैः साध युगपत्पथमस्य तु जायते पक्किः ॥ १० ॥ अन्योन्यमिति। पश्चिमयोस्तृतीयचतुर्थपादयोः परस्परावृत्त्या पुच्छो नाम यमकं भवेत्। तथा प्रथमपादस्य सर्वैस्तिभिरन्यैः सार्ध युगपत्समकालमावृत्त्या पडगिर्नाम यमकं जायते।। तत्र पुच्छ :- उत्तुङ्गमातङ्ककुलाकुले यो व्यजेष्ट शत्रून्समरे सदैव। स सारमानीय महारि चक्रं ससार मानी यमहारिचक्रम् ॥ ११॥ उत्तुन्रेति । कब्विद्वीरो वर्ण्यते-स मानी मानवान्नरोऽरिचकरं रिपुराष्ट्र ससार जगाम। कीदशः । यः समरे रणे। कीदृशे। उत्तुङ्गमातन्ञकुलाकुले उन्नतद्विपसमूहसंकुले सदैव सर्वदैव व्यजेष्टभ्यभूत्, शत्रून्रिपून्। कथम् । सारमुत्कृष्टं महारि महद्भिररैर्युक्कं चक्रमायुधविशेषमानीयादाय। कीदशो मानी। यमं युग्मं कृतान्तमपि वा हन्तीति यमहा।। अथ पङ्गयुदाहरणम्- सभाजनेनोपरि पूरितासौ सभाजने नोपरिपूरितासौ। सभा जनेनोऽपरिपूरितासौ सभाजने नोऽपरिपूरितासौ ॥१२ ॥

Page 27

२४ काव्यमाला। सभाजनेनेति। 'कस्यचिद्राजो मन्रिरिणः पौरैस्तिरस्कृताः। ततस्तस्य खवसभ्याधिक्षेपजात- कोपस्यापरागभयात्पौराननिगृह्नतः कान्तित्रंशो बभूव। ततः कस्मिश्चिदवसरे ते सभ्या लब्धावसराः सन्तः पौराणामुपरि कटकयात्रामदुः। ततस्ते पौरा निरायुधाः सन्तः पराजिग्यिरे। ततो राजा परितुष्टः पुनरात्मीयां कान्तिमाप' इति समुदायार्थः । पादानां त्वेवं योजना। कश्चित्सभ्यः परस्य कथयति-सभाजनेन सभ्यलोकेन । मन्नििजनेनेत्यर्थः। उपरि पृष्ठतः, पूः पौरजनता। इता प्राप्ता, असौ। एषां पौराणां पृष्ठतः सभ्या आगता इत्यर्थः। कदा। सभा सभालोकमजति क्षिपतीति सभाजनस्तस्मिन्पौरजने। न उपरिपु शत्रुसमीपे सभ्यसंनिधाने ऊरिता असयः खङ्गा येन स ऊरितासिस्तस्मिन्रेवंविधे। अनु- द्यतखज्ग इत्यर्थः । अत एव जनानामिन: खामी जनेनो राजा, सह भासा वर्तते इति सभा: सदीप्षिकः संवृत्तः। अन्यन्त कीदशे पौरलोके। अपरिपूरिता अनाप्यायिता असवः प्राणा यस्यासौ तथोक्तस्तस्मिन्। मृततुल्य इत्यर्थः । तथा सभाजने। 'सभाज प्रीतिदेर्शने' इत्यस्मात्कर्तरि ल्युट्। नोऽस्माक प्रीतिकरे। पूजक इत्यर्थः । अत एवा- स्माकं पूर्वप्रकान्तो जनेनः, अवतीत्यूः । रक्षिता संपन्न इत्यर्थः । कथम्। अपगता रिपवो यत्रावने तत्तथेति क्रियाविशेषणम्। किंभूते पौरलोके। इतासौ इंता प्राप्ता असुः अपूजा येन तस्मिन्। अधिगतमानभ्रंश इत्यर्थः । 'परिप्रतिगतार्थौं तु सु पूजायां यदा भवेत्। अतिरतिकरमणे चैव नोपसर्गा इमे तदा ।' इति सर्वपादजं पड्कियमकम्॥ भूयोऽपि मेदान्तरमाह- परिवृत्तिर्नाम भवेद्यमकं गर्भावृतिप्रयोगेण। मुखपुच्छयोश्च योगाद्युग्मकमिति पादजं नवमम् ॥ १३ ॥ परिवृत्तिरिति। पूर्वोक्तगर्भावृतियमकयोर्युगपद्योगे वृत्तिनाम यमकं भवति। तथा पूर्वोक्तमुखपुच्छयोर्युगपद्योगाद्युग्मकं नाम समस्तपादसंभवं नवमं यमकं भवति।। तत्र परिवृत्त्युदाहरणम्- मुदा रतासौ रमणी यता यां स्मरस्यदोडलं कुरुतेन वोढा। स्मरस्यदोऽलंकुरुतेSनवोढामुदारतासौ रमणीयतायाम्॥१४॥ सुदेति। एतन्मानिन्याः सखी अनुनयप्रत्याख्यानभयादपसटृतं नायकमाह-असौ रमणी स्त्री लयि रता। मुदा प्रीत्या। न तु धनलोभादिना। यता लदागमनार्थ प्रयत्न- परा। यां लं वोढा परिणेता। अदोऽलं निःसंदेहं स्मरसि ध्यायसि। कीदृशस्तम्। कुरुतेनोपलक्षितः । कुत्सितं रुतं कुरुतं तेन। यत्पुरुषस्य धैर्यच्युतिप्रकाशकमत एव तत्स्मरणपरिज्ञानम्। ननु यदि सा मानिनी तत्किमनुनयार्थ लं प्रेषितेत्याह-यस्मादु- दारतासौ औचित्यमिदम्। रमणीयतायां रमणीयले। यत्स्मरस्यदः कामोद्रेकोऽलंकुरुते भूषयति। अनवोढां प्रगल्भां नायिकाम् ।। १. नवीनेषु धातुपाठसिद्धान्तकौमुद्यादिपुस्तकेषु 'सभाज प्रीतिदर्शनयोः' इति पाठो दृश्यते.

Page 28

३ अध्याय: ] काव्यालंकारः । २५

अथ युग्मकम्- विनायमेनो नयताऽसुखादिना विना यमेनोनयता सुखादिना। महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ॥ १५ ॥ विनेति। कश्चित्कंचिदाह-अयं महाजनः सत्पुरुषलोकः। एनोऽपराधं बिना। अनपराध इत्यर्थः । अदीयत खण्ड्यते स्म। केन। यमेन । कि कुर्वता यमेन। नयता- त्मसमीपं प्रापयता। तथाऽसुखादिना प्राणभक्षणशीलेन। ऊनयता महाजनमूनीकुर्वता। सुखादिना सौख्यभक्षकेण। अथवा सुखादिनार्थेन न्यूनयता । कीदृशो महाजनः । विना विगता नरो यस्मात्। यम प्रति पुरुषकारविफलत्वाद्विपुरुष इत्यर्थः। बहुललात्को न भवति। यद्वा विनष्टो ना पुरुषो विना। पुनः महाजनः कीदृशः । मानसान्मानमहंकार सादयतीति मानसाद्रिपूणाम् । यदि वा मानसाच्चित्तात्सकाशात्सुखादिना। तथा महाज- नोदी महमुत्सवमजन्ति क्षिपन्ति महाजा दुर्जनास्तान्नुदति प्रेरयतीति महाजनोदी। कथमदीयत। अरं शीघ्रम्। तथा यतमानसादर यतमानानां मरणप्रतिक्रियाव्यापृतानां सादं खेदं राति ददातीति च क्रियाविशेषणम्। एतानि नव यमकानि समस्तपादस्योक्ानि। अधुना समस्तपादयोः समस्तपादानां चाह- अर्ध पुनरावृत्तं जनयति यमकं समुद्धकं नाम । श्लोकस्तु महायमकं तदेवमेकादशैतानि ॥ १६ ॥ अर्धमिति। प्रथममर्ध पुनरावृत्तं भूय उच्वरितं समुद्रकाख्यं यमकं जनयति करोति। नामशब्दः संस्थाननिषेधसूचनार्थः । तेन चित्रमध्येऽस्य नान्तर्भावः। अर्धद्वयसारूप्येण च समुद्धकसादश्यम्। शोकः श्ोकान्तरे यमकितो महायमकं जनयति। तुः पुनरर्थे। श्लोक इत्येकवचनं द्वयोरूयादीनां च यमकत्वनिवृत्त्यर्थम्। यथालक्ष्येष्वदर्शनात्। एवं मुखादारभ्य महायमकान्तान्येकादशैतानि समस्तपादयमकानि भवन्ति॥ तत्र समुद्रकम्- ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्। न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम् ॥ १७ ॥ ननामेति। लोको जनो विदं पण्डितं ननाम प्रणतः । केन। आनवेन सतुत्या। कीदृशः । महा उत्सवाः सन्त्यस्येति मही तथारीन्रिपूंस्ायतेSरित्रा मुत्प्रमोदो यस्य स तथाभूतो न च नैव। विदं कीद्ृशम्। अरीणां समूह आरं तस्य धीर्वुद्धिस्तामीरयतीति तं तथाविधम्। लोकस्तु न नामलः, अपि त्वमलो निर्मल एव। विदं पुनः कीदृशम्। अकोविदा मूर्खास्तेषां मानमहंकारं वान्ति गन्यन्ति नाशयन्तीत्यकोविदमानवास्तेषा- मिनः खामी तम्। तथाहीनचारित्रमखण्डशीलम्। उदारो विपुलाशयो धीरो धैर्योंपेतः। उदारं च धीरं चेति।।

Page 29

२६ काव्यमाला।

अथ महायमकं शोकद्वयैनाह- स त्वारं भरतोऽवश्यमबलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थितः ॥ १८ ।। सत्त्वारम्भरतो वश्यमवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ॥ १९ ॥ स इति। सत्वेति। स पूर्वप्रक्रान्तो वित्। तुशब्दः क्रियान्तरोपन्यासार्थः । आरम- रिसमूहम्, भरतो भरेण, अवश्यं निश्चितम्, अबलं बलरहितम्, विततारवं कृतभया- र्तिविस्तीर्णनिःखनम्, सर्वदा सदा, रणं समरम्, आनैषीदानीतवान्। कीदृशोऽसौ। अवानगच्छन्। कम् । अलसं निष्कियं जनम्। तथास्थितोऽस्थीनि शत्रूणां तस्यति क्षयं नयतीत्यस्थित इति । तथा सत्वेनावष्टम्मेनारम्भा ये तेषु रतः सकः। किदशमा- रम्। वश्यं वशगतमथवावश्यमनायत्तम्, अवलम्बिततारवं समाश्रिततरुसमूहम् । वित्कीदशः। सर्वदारणमानैषी सर्वेषां मद्दारणं विनाशनं तेन मानमिच्छतीति कृत्वा, अत एव दवानलेन द्वामिना समं तुल्यं स्थितं स्थितिर्यस्येति। शब्दश्ेषस्यास् च महायम- कस्यायं विशेष: । तन्रैकेनैव प्रयललेन वाक्यद्वयमुन्नार्यते, हह तु द्ाभ्याम् । एवं समस्तपादजं यमकमाख्यायेदानीमेकदेशजमाह- पादं द्विषा त्रिघा वा विभज्य तत्रैकदेशजं कुर्यात्। आवर्तयेत्तमंशं तत्रान्यत्नापि वा भूयः ॥ २०॥ पादमिति। यच्छन्दोऽर्धादिभागं ददाति तस्य पादं द्विधा त्रिघा वा विभज्य द्विखण्डं त्रिखण्डं वा कृत्वा तत्र विभकेऽश एकदेशजं यमकं कुर्यात्। कथमित्याह- आवर्तयेद्यमकयेत्तमंशं विभकं भागम् । तत्रैवांशे प्रथमार्धानि प्रथमार्धेषु द्धितीयार्धानि द्वितीयार्घेष्वित्यादिक्रमेण। अन्यत्र वाप्यंशान्तरैर्भूयः प्रभूतमावर्तयेत्। अंशान्तरावृत्तौ बहवो मेदा भवन्तीत्यर्थः । अपिशब्दः समुचये ॥ तत्रैवावृत्त्या ये मेदाः संभवन्ति तानाह- आद्यर्धान्यन्योन्यं पादावृत्तिक्रमेण जनयन्ति। दश यमकान्यपरस्मिन्परिवृत्त्या तद्वदन्यानि॥ २१॥ आद्यर्घानीति। शोकपाद्चतुष्टयस्य प्रथमार्धान्यपरस्मिन्पादेऽन्योन्यं परस्पर पादा- वृत्तिक्रमेण समस्तपादद्वययमकवद्दश यमकानि जनयन्ति । तद्वत्तथैव चान्यान्यपि दश जनयन्ति। तानि च मुखसंदंशावृतिगर्भसंदष्टकपुच्छपङ्किपरिवृत्तियुग्मकसमुद्र कसंज्ञानि॥ किं पुनेरषामुदाहरणानि नोक्तानीत्याह- एतदुदाहरणानां पादावृत्त्यैव दर्शितो मार्गः । इह विशतिभेदमिदं यमकं नोदाहतं तेन ।। २२ ।।

Page 30

३ अध्याय: ] काव्यालंकारः । २७

एतदिति। समस्तपादावृत्तियमकोदाहरणैरेव पूर्वेक्तिरेतदुदाहरणानां दिकप्रदर्शनं कृतमितीह विंशतिभेदं यमकं नोदाहृतमिति। यद्यपि चोभयत्राप्यत्रैकादशोऽपि मेद: संभवति। यथा याद्ृशानि प्रथमष्ोक आद्यन्तानि चार्धानि कृतानि तादृशान्येव तानि लोकान्तरे क्रियन्त इति कृत्वा तथापि महाकवीनां न क्वचिदेवंविध लक्ष्यं दृश्यत इति दशैव मेदा उक्ताः ॥ इदानीमन्यत्र देश आवृत्या तानाह- प्रथमतृतीयान्त्यार्घे तदनन्तरभागयोः परावृत्ते । अन्तादिकमिति यमकं व्यस्तसमस्ते त्रिघा कुरुतः ॥ २३ ॥ प्रथमेति। प्रथमपादान्त्यार्ध द्वितीयपादाद्यर्धे तृतीयपादान्त्यार्ध च चतुर्थपादाद्यर्षे परावृत्तं प्रत्येकं युगपच्चेत्यन्तादिकं नाम त्रिविधं यमकमन्ताद्योर्यमकनाद्भवतीति॥ तत्रोदाहरणानि- नारीणामलसं नाभि लसन्नाभि कदम्बकम्। परमास्त्रमनञ्कस्य कस्य नो रमयेन्मनः ॥ २४ ॥ नारीणामिति। नारीणां कदम्बकं त्रैणं कस्य मनश्चितं नो रमयेत्प्रीणयेत्। कीट- शम्। अलसं मन्थरगमनम्। तथा नामि अबलात्वात्सभयम् । तथा लसन्ती मनोज्ञा नाभिर्यस्य तत्तथा। तथा परमालं प्रकृष्टायुधमनज्जस्य।। द्वितीयोदाहरणमाह- पश्यन्ति पथिकाः कामशिखिघूमशिखामिव। इमां पझ्मालयालीनां लयालीनां महावलीम्॥ २५॥ पश्यन्तीति। पद्मान्यालयो येषां ते च तेऽलयक् भ्रमराश्च तेषां महावली दीर्घश्रेणी- मिमां पथिका: पान्थाः पश्यन्ति । कीदृशीम्। लयेनान्योन्यशलेषेणालीनां संबद्धाम्। कामशिखिधूमशिखामिव स्मरानलधूमलेखामिव। इति व्यखोदाहरणे। समस्तोदाहरणमाह- पुष्यन्विलासं नारीणां सन्नारीणां कुलक्षयम्। आ कल्पं वसुधासार सुघासार जगज्जय ॥ २६ ॥। पुष्यन्निति । हे वसुधासार भूप्रधान नृप, आ कल्पं युगान्तं यावज्गद्भवनं जय। कीदृश। सुधासार अमृतवेगवर्ष। किं कुर्वन् । पुष्यन्पुष्टिं नयन्। कम् विलासम्। कासाम्। नारीणाम्। तथा सन्नानामवसादं गतानामरीणां रिपूणां कुलक्षयमन्वायान्त पुष्यन्। अन्तर्भावितकारितार्थोऽत्र पुषिः सकर्मकः ॥ भेदान्तराण्याह- द्वैतीयमन्यमर्घ परिवृत्तमनन्तरे भवेन्मध्यम्। मध्यसमस्तान्तादिकयोगादपि जायते वंशः ॥२७॥

Page 31

२८ काव्यमाला।

द्वैतीयमिति। द्वितीयपादस्यान्त्यार्ध तृतीयपादाद्यर्घे परिवृत्तं मध्याख्यं यमकं जन- यति। एतस्य मध्यस्य पूर्वोक्तसमस्तान्तादिकस्य योगे वंशो नाम यमकम्। समस्तग्रहणं व्यस्तान्तादिकनिवृत्त्यर्थम्। तन्निवृत्तिस्तु लक्ष्यदर्शनात्, न त्वसंभवात्। एवमन्यत्रापि दष्टव्यम् । अपिः समुच्चये ॥ तत्रोदाहरणमाह- समस्तभुवनव्यापियशसस्तरसेहते। रसेहते प्रिय कर्तुं प्राणैरपि महीपते ॥ २८॥ समस्तेति। हे महीपदे भूपते, तवेहात्र रसा पृथ्वी प्राणैरपि। आस्तां धनादिभिः । प्रियं हितं कर्तुमीहते चेष्टते, । तरसा झगिति। कीद्ृशस्य ते। समस्तभुवनव्यापियशसः सकलजगद्यापिश्लोकस्य। इति मध्यः ॥ अथ वंश :- ग्रीष्मेण महिमानीतो हिमानीतोयशोभितः । यशोऽितः पर्वतस्य पर्व तस्य हि तन्महत् ॥ २९॥ ग्रीष्मेणेति। श्रीष्मेण निदाघेन पर्वतस्य शैलस्य महिमा माहात्म्यमानीतः । कीदृशः। महद्धिमं हिमानी ततः सुतेन तोयेनाम्बुना शोभितो राजितः । हि यस्मात्तस्य पर्वतस्य तद्धिमानीतोयमभितः समन्तादशो वर्तते। तथा पर्व महोत्सवश्च महन्महाप्रमाणम् ॥ पुनर्मेदमाह- आवृत्तं प्रथमादौ द्वितीयमर्ध चतुर्थपादस्य । वंशश्च चक्रकाख्यं षष्ठं चान्तादिकं यमकम् ॥ ३०॥ आवृत्तमिति । चतुर्थपादद्वितीयार्घ प्रथमपादाद्यर्घेन सहावृत्तं पूर्वोक्तवंशश्वेति यमक- योगे चक्रकं नाम यमकम्। षष्ठोऽन्तादिकमेदः । एकश्रकारो वंशकसमुचये द्वितीयश्च चक्रस्यान्तादिकमध्ये समुच्चयार्थः ॥ सभाजनं समानीय स मानी य: स्फुटन्नपि। स्फुटं न पिहितं चक्रे हितं चक्रे सभाजनम् ॥ ३१ ॥ सभाजनमिति। स एव मानी मनखी यश्षके राष्ट्रे हितं चक्रेऽनुकूलं चकार। किं कृत्वा। सभाजनं सभालोकं समानीय सम्यगात्मसमीपं प्रापय्य। सभ्यानां विदितं कृत्वेत्यर्थः । क्थं हितं चक्रे। पिहितं गुप्तम्, न स्फुटं प्रकटम्। अविकत्थनात्। किं कुर्वन्नपि। स्फुटन्नपि पीडितोऽपि। कीदशं सभाजनम्। सभाजनं प्रीतिदर्शनम्। लक्षणं सर्वत्र खधिया योज्यम्। अत्र च सप्तमोऽप्येष मेदः संभवति। यत्र केवलमेव प्रथमा- दर्थे चतुर्थान्त्यार्धमावर्त्यते स तु पूर्वकविलक्ष्येषु दृश्यमानोऽपि कथमपि नोकः ॥

Page 32

३ अध्याय: ] काव्यालंकारः । २९

अथाद्यन्तकभेदानाद- प्रथमादिप्रथमार्घैः परिवृत्तान्यत्र सार्धमर्धानि। अन्त्यान्यनन्तराणां जनयन्त्याद्यन्तकं नाम ॥ ३२ ॥ प्रथमादीति । प्रथमद्वितीयतृतीयपादप्रथमार्धैः सार्धमनन्तराणां द्वितीयतृतीयचतुर्थ- पादानामन्त्यार्धानि परिवृत्तानि यमकितानि सन्त्याद्यन्तकसंज्ञकं यमकं जनयन्ति॥ किमेकमेदमेवेदम्। नेल्याह- इदमप्यन्तादिकवत्कमेण षोढैव भिद्यते भूयः । अस्योदाहरणानां तेनैव च दर्शितो मार्ग: ॥ ३३ ॥ इहमिति। न केवलमन्तादिकमिदमप्याद्यन्तकं तेनैव क्रमेण षोढा षड्भिभेदैर्भिद्यते। भूय: पुनः। यथा प्रथमाद्यर्धे द्वितीयपादान्त्यार्घेन सह यमकिते तृतीयादयर्षे चतुर्थान्त्या- र्घेन सह व्यस्तमादयन्तकं द्विधा तदुभययोगे समस्तमिति तृतीयो मेद: । द्वितीयाद्यार्थ तृतीयान्त्यार्घेन सह मध्यनामा चतुर्थः। मध्यसमस्ताद्यन्तकयोगे वंशः पश्चममेदः । प्रथ- मान्त्यार्धचतुर्थाद्यर्धसारूप्ये वंशे च युगपत्कृते चक्रकं नाम षष्टः । पूर्ववच सप्तमो मेद: संभवतीति यत्र प्रथमाद्यर्धचतुर्थान्त्यभागयोः सारूप्यम् । अस्य च निदर्शनानां तेनैवा- न्तादिकेन मार्गो दर्शितो दिक्प्रदर्शनं कृतमिति नोदाहरणं दत्तम् ॥ भूयो मेदमाह- प्रथमतृतीयाद्यर्षे तदनन्तरचरमयोः परावृत्ते । भवति समस्तान्तादिकयोगादप्यर्धपरिवृत्तिः ॥ ३४॥ प्रथमेति। प्रथमाद्यर्ध द्वितीयपादान्त्यार्धेन तृतीयाद्यर्ध चतुर्थान्त्यार्धेन यमकितं समस्तान्तादिकं चेत्युभययोगेऽर्धपरिवृत्तिर्नाम भवति॥ यथा- ससार साकं दर्पेण कंदर्पेण ससारसा। शरन्नवाना बिभ्राणा नाविभ्राणा शरं नवा।। ३५॥ ससारेति। कंदर्पेण कामेन साकं सार्ध दर्पेण वेगेन शरत्ससा प्रसता। कीदशी सा। ससारसा सह सारसैः पक्षिविशेषैर्वर्तते या सा। तथा नवानि नूतनान्यनांसि शकटानि यस्यां सा नवानाः। तथा शरं काण्डतृणविशेषं बिभ्राणा धारयमाणा। तथा भ्राणनं भ्राण: शब्दः । वीनां पक्षिणां भ्राणो विश्राणो न विद्यते विभ्राणो यस्यां साडविभ्राणा नैवंविधा। सपक्षिरुतेत्यर्थः । तथा नवा प्रत्यग्रा तत्कालप्रवृत्तत्वात् ॥ पुनर्भेदान्तरण्याह- पादसमुद्गकसंज्ञं तत्रावृत्तानि कुर्वते तच्च। अन्तरितानन्तरितव्यस्तसमस्तेषु पादेषु ॥ ३६ ॥

Page 33

काव्यनाक।

पादेति। चतुर्णामपि पादानां यान्यर्धानि तानि तत्रैव पादे परिवृत्तानि सन्ति पादे पादे समुद्रकसादृश्यात्पादसमुद्रकं नाम यमकं कुर्वन्ति। तच पादेष्वन्तरितेषु व्यावहिते- ध्वनन्तरितेषु च तथा व्यस्तेषु केवलेषु समस्तेषु च पादेषु बहुधा भवति । ते च बहवः प्रकारा: पश्चदश । कथमन्तरितं तावत्पश्चधा। प्रथमतृतीययोद्विंतीयेन, द्वितीयचतुर्थ- योस्तृतीयेन, प्रथमतृतीयचतुर्थानां द्वितीयेन, प्रथमद्वितीयचतुर्थानां तृतीयेनान्तरणम्। इत्येकान्तरितं चतुर्भेदम्। प्रथमचतुर्थयोस्तु द्वितीयतृतीययाभ्यामिति द्यन्तरितमेकमेव। इत्यन्तरितं पश्चमेदम्। अनन्तरितमपि प्रथमद्वितीययोर्युगपद्वितीयतृतीययोवा तृतीयचतु- र्थयोवैति द्वियोगे त्रिभेदम्। त्रियोगेण तु प्रथमद्वितीयतृतीयानां द्वितीयतृतीय चतुर्थानां चेति द्विमेदम् । एवमेकत्रानन्तरितं तत्पश्धा । तथा व्यस्तेषु चतुर्षु पादेषु चत्वारो भेदाः, समस्तेषु त्वेक एव भेदः । इत्येवं सर्वे पञ्चदश। तत्राद्येऽन्तरितमेददये तथा पञ्चदशे समस्तजमेदे च दिक्प्रदर्शनायोदाहरणत्रय- माह। यथा- मुदा सेनामुदासेनादसौ तामसमञ्जसम्। महीनाथमहीनाथ जयश्रीरालिलिङ्ग तम्॥ ३७॥ मुदेति। असौ महीनाथो राजा तां सेनां मुदा हर्षेण इनात्खामिन: सेनाभर्तुः सका- शादुदास चिक्षेप। वियोजितवानित्यर्थः । कथम् । असमज्जसमितस्ततः। अथानन्तरं महीनाथमहीना संपूर्णा जयलक्ष्मीरालिलिन् परिषखजे॥ द्वितीयोदाहरणमाह- यत्त्वया शात्रव जन्ये मदायतमदायत। तेन त्वामनुरक्तेयं रसायत रसायत ॥। ३८।। यदिति। कश्विद्राजानमाह-यद्यस्मात्त्वया शात्रवं शत्रुगणो जन्ये रणेऽदायतालू- यत तेन हेतुनेयं रसा पृथ्व्यनुरक्ता सती त्वामयतागता। 'अय गतौ' इत्यस्य रूपम्। कीदशम्। शात्रवं मभ्रातीति मत् रिपुमथनसमर्थम्। आयतं विस्तीर्णम्। यद्वा मदेनायतम्। कीदृशी रसा। आयतरसा त्वां प्रति दीर्घाभिलाषा । तृतीयोदाहरणमाह- रसासार रसासार विदा रणविदारण। भवतारम्भवतारं महीयतमहीयत ॥ ३९।। रसासारेति। हे रसासार भूश्रेष्ठ, तथा रसाना शज्गारादीनामासार वेगवर्षतुल्य, तथा रणविदारण समरमेदक, भवता त्वया, विदा पण्डितेन, आरम्भवता सोदोगेन, आरं शात्रवमहीयत हानिं नीतम्। जितमित्यर्थः। कीदृशम्। मह्यां पृथिव्यां यतं संबद्धम्। हर्म्यादिवियोजितत्वादिति। अन्यदेशावृत्तौ मनोहारित्वमाश्रित्यैते त्रिंशद्धेदा जाताः । यथान्तादिके षट्कमाद्यन्तके षट्कमिति द्वादश संभवन्ति। सप्तमभेदाभ्यां सह चतुर्दश।

Page 34

३ अष्याय: ] काव्याडकार:। ११

पचदशार्घपरिपृत्ति: तथामी पादसमुद्कमेदाथ पमदरेति। बचेडं यावृत्तावसंदयता मैदाः संभवन्ति। ते तु नोका: । कविलक्ष्येष्वदर्शनादरम्यत्वाचेति ॥ अधुना प्रकरान्तरमाह- आवृत्तानि तु तस्मिन्नाद्यर्षान्यर्घशो विभक्तानि। वक्रं तथा शिखान्त्यान्युभयानि च जायते माला ॥ ४० ॥ आवृत्तानीति। पादानामाद्यान्यर्धान्यर्घशः खण्डितानि तस्मिन्रेव खण्डितेऽर्वे यम- कितानि वकं नाम यमकं जनयन्ति। तथान्त्यार्धान्यर्धीकृतानि तस्मिन्नेव यमकितानि शिखां जनयतिन्ति। वकशिखयोश्व युगपद्योगे माला भवति॥ कमेणैषामुदाहरणत्रयमाह- वनाघनाभिनीलानामास्थामास्थाय शाश्वतीम्। चलाचलापि कमले लीनालीनामिहावली ॥ ४१ ॥ धनेति। इह कमले पद्मेऽलीनां भ्रमराणामावली पङ्गर्लीना िष्टा। कीडक्। चलाचलापि चश्चलापि। कीदृशामलीनाम् । घनाघना वार्षुकमेघास्तद्वदभिनीलानां श्यामानाम्। किं कृत्वा। लीनां शाश्वतीं स्थिरामास्थां वृत्तिमास्थाय कृत्वा। वकमिदम्। यासां चित्ते मानोडमानो नारीर्भूयोडरं ता रन्ता। सारप्रेमा सन्नासन्ना जायेतैवानन्ता नन्ता ॥ ४२ ॥ यासामिति। सन्ना सत्पुरुषो भूयः पुनरर शीघ्रं जायेतैव भवेदेव। कीदृशः । रन्ता रमणशीलः । रमेरन्तर्भूतकारितार्थाद्रमयितेत्यर्थः। कारताः। नारीः। कीदशीः । अनन्ताः प्रचुरास्तथा आसन्ना अभ्यर्णाः। यासां नारीणां चित्ते मनसि मानोऽहंकारोऽमानोऽतिबहुः। कीदृशः । सन्ना नन्ता नम्रः । सारप्रेमा स्थिरप्रीतिः । इति शिखा ॥ भीताभीता सन्नासन्ना सेना सेनागत्यागत्या। वीरावीराह त्वा हत्वा संत्रासं त्रायखायखा ।। ४३॥। भीतेति। कश्विदूतो राजानमाह-हे धीर निर्भय, आधीर मनोदुःखप्रेरक, सा परकीया सेना चमू: सेना सस्ामिका त्वा भवन्तमाह बूते। कीदशी। भीता त्रस्ता, अभीता संमुखमागता, सन्ना सखेदा, आसन्ना निकटवर्तिनी, भागत्य समेत्य, अगत्या गत्यन्तरा- भावेन। किं तदाह-हत्वा विनाश्य, संत्रासं भयम्, त्रायख पालय। पुनः कीदशी। आयखा आयस्त्वत्सकाशादागमनमेव खं धनं यस्याः । इति माला ॥ भूयोऽप्याह- मध्यान्यर्धार्धानि तु मध्यं कुर्वन्ति तत्र परिवृत्त्या। आद्यन्तान्याद्यन्तं काञ्चीयमकं तथैकत्र ।। ४४ ॥ मध्यानीति। तुः पुनरथे। मध्यान्यधार्धानि पुनस्तन्रैव मध्ये परिवृत्त्या मध्यं नाम

Page 35

३२ काव्यमाला ।

यमकं जनयन्ति। एवमाद्यन्तान्य्घार्धानि परिषृत्त्याद्यन्तं नाम कुर्वन्ति। तदुभय- योगे समकालं काश्चीयमकं जनयन्ति। तथाशब्दः समुचचये॥ तत्रोदाहरणत्रयं क्रमेणाह- सन्तोऽवत बत प्राणानिमानिह निहन्ति नः । सदाजनो जनोऽयं हि बोुं सदसदक्षमः ॥। ४५ ॥ सन्त इति। कश्विदाह-हे सन्तः शिष्टाः, नोऽस्माकं प्राणानवत रक्षत। हि यस्मा- दयं जनो लोक इहात्रेमान्प्राणान्निहन्ति हिनस्ति। बतेति खेदे । कीदृशो जनः। सदा- जनः सतां क्षेप्ता। तथा सच्चासच्च युक्तायुक्तं बो्ुं ज्ञातुमक्षमोऽसमर्थः। इति मध्यम् ॥ दीना दूनविषादीना शरापादितभीशरा। सेना तेन परासे ना रणे पुंजीवितेरणे ॥ ४६ ॥ दीना इति। कथ्चित्कस्यापि कथयति- हे नः पुरुष, तेन केनापि वीरेण रणे समरे सेना चमू: परासे क्षिप्ता। कीदशे रणे पुंजीवितस्येरणे 'क्षेप्तरि। सेना कीदशी। दीना निष्पौरुषा । तथा दूनः परितप्तो विषादी विषण्ण इनः सामी यस्याः सा तथाभूता। तथा शरैवाणैरापादिता भीभयं शरो हिंसा च यस्याः सा तथा इत्याद्यन्तम् ॥ या मानीतानीतायामा लोकाधीरा धीरालोका। सेनासन्नासन्ना सेना सारं हत्वाह त्वा सारम् ॥ ४७॥ येति। कश्रिदूतः खसेनासंदेश राज: कथयति-सा त्वदीया सेना पृतना, आरं रिपु- समूहम्, हत्वा विनाश्य, आह व्रवीति। त्वा भवन्तम्। किं व्रवीति। सारं प्रधानं वस्तु। शत्रवो जिता इति निवेदयतीत्यर्थः । तस्यैव सारत्वादिति। कीदृशी । या मानिभिर्मनखि- भिरिताधिष्टिता । तथा आनीतः संपादितः परबलखीकारेणायामो विस्तारो यस्याः सा तथाभूता। लोकानामाधीर्मनःपीडा ईस्यति सा लोकाधीरा। तथा धीरो निरभय आ- लोक: प्रेक्षणं यस्याः सा तथाभूता। सेना सदण्डनायका, असन्ना सोत्साहा, आसन्ना निकटा। इति काच्चीयमकम्। पादसमुद्गकमेदवदन्तादिकादियमकभेदवचेहापि सर्व एव भेदा द्रष्टव्या इति॥ 'पादं द्विधा त्रिधा वा विभज्य' (३।२०) इत्युक्तम्, तत्र द्विधा विभक्ते यमकान्या- ख्यायेदानीं त्रिधा विभक्तस्याह- पादस्त्रिधा विभक्तः सकलस्तस्यादिमध्यपर्यन्ताः । तेष्वपरत्रावृत्त्या दश दश यमकानि जनयन्ति ॥ ४८॥। पाद इति। यस्य पादस्य त्रिधा भाग: संभवति स त्रिधा खण्डितस्ततथ् तस्यादि- मध्यान्तभागा अपरत्र पादान्तरे तेष्वेव प्रथमद्वितीयतृतीयभागेषु यथाक्म यमकिता दश दश यमकानि पूर्ववज्जनयन्ति। एवं त्रिंशद्यमकानि भवन्ति॥

Page 36

३ अध्याय: ] काव्यालंकारः । ११

एतदाह- सुमतिरिमानि त्रीण्यपि पादावृत्तिक्रमेण दशकानि। यमकानां जानीयात्तदुदाहरणानि तद्वच ।। ४९।। सुमतिरिति। एतानि यमकानां श्रीणि दशकानि प्राज्: पादावृत्तिक्रमेण मुखसंदशा- दिसंज्ञाभिर्जानीयात्। तदुदाहरणान्यपि तद्वदेव तेनैव प्रकारेण। सर्व चैतद्विघा विभ- कपाद इव यमकजातं ज्ञेयम्। केवलं तृतीयभागकृतो विशेषः ॥ तदेवाह- अन्तादिकमिव षोढा विभिन्नमेतत्करोति तावन्ति। यमकान्याद्यन्तकवत्तथापरामर्धपरिवृत्तिम् ॥ ५० ॥ अन्तादिकमिति। यथान्तादिकमाद्यन्तकं च पूर्वत्र षोढा भिन्नं सन्प्रत्येकं षड्यमकानि जनितवत्तथेदमपि। तथापरामन्यामर्धपरिवृत्ति द्वेधाविभक्तपादवज्जनयति। तथाशब्दस्यो- भयत्र योगः । इति त्रयोदश यमकानि ॥ एषामुदाहरणानि कानीत्याह- तद्वदुदाहरणान्यपि मन्तव्यानि त्रयोदशैतेषाम्। कृत्वार्घशश्च भागानिहापि सर्व तथा रचयेत् ॥५१॥ तद्वूदिति। उदाहरणान्यपि तद्वदेव त्रयोदश जेयानि। उपलक्षणं चैतद्। पादसमुद्र- कवदिहापि पश्चदशानां भेदानां संभवात्केवलमिह भागत्रयस्य सादृश्यम्। तत्र तु दयस्य पुनरपि मेदानाह-कृत्वाधशश्चेत्यादि। यथा पूर्वत्रार्धार्धानि कृत्वा वक्रशिखामालामध्या- दन्तकाश्चीयमकानि कृतान्येवमिहापि कर्तव्यान्युदाहरणानि च देयानीति॥ भूयो मेदान्तराण्याह- स्थानाभिधानभाञ्जि त्रीण्यन्यानीति सन्ति यमकानि। आदिर्मध्येऽन्ते वा मध्योऽन्ते तत्र परिवृत्तः ॥ ५२॥ स्थानेति। त्रिधा विभक्ते पादेऽन्यानि त्रीणि वक्ष्यमाणानि यमकानि सन्ति। किं- नामधेयानीत्याह-स्थानाभिधानभाज्जीति । स्थानकृतमभिधानं भजन्ते यानि। कथ- मित्याह-आदिभागे मध्यभागेन यमकिते आदिमध्ययमकम्। आदिभागेऽन्त्येन चेत्त- दाद्यन्तयमकम् । मध्यभागेऽन्त्येन यदि तदा मध्यान्तयमकम् ॥ तदुदाहरणत्रयं क्रमादाह- स रणे सरणेन नृपो बलितावलितारिजनः । पद्माप दमात्खमतेरुचितं रुचितं च निजम् ॥ ५३॥ स इति। स कश्षित्ृपो रणे समरे सरणेन यानेन तथा दमादुपशमाच्च हेतोः खमते- का० लं० ४

Page 37

३४ काव्यमाला।

निजबुद्धेरुचितं योग्यं रुचितमिष्टं च निजं सकीयं पदं स्थानमाप लेमे। कीदशोडसौ। खलिता बलित्वं तया वलितो वेष्टितोऽरिजनः शत्रुलोको यैन स तथाविधः ! इत्यादि- मध्यम्।। घनाघ नायं न नभा घनाघनानुदारयन्नेति मनोऽनु दारयन्। सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥ ५४॥ घनेति। एतत्प्रावृषि पथिकस्य सुहृदोच्यते-हे घनाघ गृहाननुसरणाद्वहुपाप, अय- मसौ नभा: श्रावणो मासो न नैति। अपि त्वायात्येव। नभःशब्दो मासवाचकः पुंलिङ्गः । कीदृशो नभाः । घनाघनान्सजलजलदानुदारयन्विस्तारयन्। अनु पश्चाच्च मनश्चित्तं दारयन्विपाटयन्। तथा हे सखे अविलास निर्लील, तां कान्तामदयं निर्दयं खेदयन्नुद्वे- जयन्नहीयसे सर्पायसे। अथवा गोर्बलीवर्दान्न हीयसे। बलीवर्द एवासीत्यर्थः । इत्याद्य- न्तयमकम् ॥ असतामहितो युधि सारतया रतया। स तयोरुरुचे रुरुचे परमेभवते भवते ॥ ५५॥ असतामिति। हे उरुरुचे विस्तीर्णकान्ते। अथवा उर्वी रुग्यरय स तस्मै विस्तीर्ण- कान्तये। स कश्विद्वीरो भवते तुभ्यं रुरुचे प्रीतिमुत्पादितवान्। तया जगप्रसिद्धया युधि रणे सारतयोत्कृष्टतया हेतुभूतया। कीदृश्या। रतया सक्तया। संबद्धयेत्यर्थः । कीदृशोडसौ । असतां दुर्जनानामहितो द्रोहकारी । अत एव महितः पूजितः। भवते कीदृशाय। परमा उत्कृष्टा इभा हस्तिनो विद्यन्ते यस्य स तथा तस्मै ।। अथोपसंहारं कुर्वन्ननियतदेशावयवयमकानामानन्त्यमाह- यमकानां गतिरेषा देशावयवावपेक्षमाणानाम्। अनियतदेशावयवं तपरमसंख्यं सदेवासिति ॥५६॥ यमकानामिति। देश आदिमध्यान्तलक्षणः । अवयवोऽर्वत्रिभागादिः । तौ देशाव- यवावपेक्षमाणानामत्यजता यमकानां गतिरेषा परिपाटीयं पूर्वोक्ता। यत्तु यमकं देशाव- यवौ नापेक्षते तदपरमसंख्यमसंख्यातम्। तथ महाकविलक्ष्येषु सदेव साध्वेवास्ति वि- द्यते। एतदुक्त भवति-स्वेच्छाकृतत्वेनानन्तत्वात्तस्य लक्षणं कर्तु न शक्यते । केवलं महाकविलक्ष्यदर्शनाज्ज्ञेयम्। अत्र तु दिड्यात्र प्रदर्शनार्थमाह- कमलिनीमलिनी दयितं विना, न सहते सह तेन निषेविताम्। तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम्॥५७॥ कमलिनीति। सालिनी भ्रमरी दयितं प्रियं विना कमलिनीं पध्मिनीं न सहते न क्षमते ! ता दृष्ट्रा तप्यत हत्यर्थः। कीदशी कमलिनीम्। तेन दयितेन सह सम निषेवि-

Page 38

३ अध्याय: ] काव्यालंकारः। ३५

ताम्। कि तर्हीदानीं करोतीत्याह-तं प्रियमधुनेदानीं मधुना वसन्तेन हृदि मनसि निहितमर्पितं रतिसारं रसप्रधानं सा स्मरति ध्यायति। अहर्निशं दिवानिशम्। अत्र न देशविभागेनावृत्तिर्नाप्यवयवविभागेन । यतो द्रुतविलम्बिताख्यं द्वादशाक्षरमेतद्वत्तम्। अस्यार्धे षडक्षराणि। अत्र च प्रथममक्षरं मुक्ला त्रीणि यमकितानि॥। तथा- कमलिनी सरसा सरसामियं विकसितानवमं नवमण्डनम्। किमिति नाधिगता धिगतादृशं मधुकरेणु बताणवता कृतम् ॥५८ ॥ कमलिनीति। इयं कमलिनी पद्मिनी किमिति तस्मान्मधुकरेण भृङ्गेन नाधिगता न संप्राप्ता। धिक्कष्टम्। तेनाणवता शब्दवता तादृशमयुक्तं कृतम्। धिग्बतशब्दावत्र खेदा- धिक्यं सूचयतः। कीदशी। सरसा नूतना। विकसिता प्रफुल्ला। अत एव सरसां जला- शयानामनवमं श्रेष्ठं नवमण्डनं प्रत्यग्रालंकरणम् । अत्रापि देशावयवानपेक्षयावृत्तिः॥ अध्यायमुपसंहरन्यमकस्वरूपं विषयं चाह- इति यमकमशेषं सम्यगालोचयद्धि: सुकविभिरभियुक्तैर्वस्तु चौचित्यविद्धिः । सुविहितपदभङ्गं सुप्रसिद्धाभिधानं तदनु विरचनीयं सर्गबन्धेषु भूम्ना ॥ ५९॥ इतीति। इति पूर्वोक्त यमकमशेषं सर्वं समस्तपादैकदेशजं सम्यग्यथान्यायमालोच- यद्धिः सत्कविभिरमियुक्तैः सावधानैः । तथा वस्तु च विषयविभागमालोचयद्धिः। यथा कस्मिन्रसे कर्तव्यम्, क्वन्प न कर्तव्यम्। यमकश्वेषचित्राणि हि सरसे काव्ये कियमा- णानि रसखण्डनां कुर्युः । विशेषतस्तु शङ्गारकरुणयोः । कवेः किलैतानि शक्तिमात्रं पोषयन्ति, न तु रसवत्ताम्। यदुक्तम् -'यमकानुलोमतदितरचक्रादिमिदो हि रसवि- रोधिन्यः । अभिधानमात्रमेतद्वइ्करिकादिप्रवाहो वा ॥' प्रयोगस्तु तेषां खण्डकाव्येषु देव- तास्तुतिषु रणवर्णनेषु च। तदेवाह-औचित्यंविद्धिरिति। औचित्यं यमकादिविधाना- स्थानस्थानादिकं विदन्ति ये तैः । कीदशं यमकम्। सुष्ठु विहिता हृदयंगमाः पदभज्ग यत्र तत्तथाभूतम् । तथा सुप्रसिद्धान्यभिधानानि वस्तुवाचकशब्दा यत्र तत्तथाभूतं यमकम्। तदनु चौचित्यादिज्ञानानन्तरं विरचनीयम्। भूम्रा बाहुल्येन सर्गबन्धेषु मह्य- काव्येषु। नाटककथाख्यायिकादिषु पुनः खल्पमेवेत्यर्थः ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः तृतीयोऽव्यायः समाप्तः ।

Page 39

३६ काव्यमाला।

चतुर्थोऽध्यायः । यमकं व्याख्याय श्लेषं व्याचिख्यासुराह- वककुं समर्थमर्थ सुश्लिष्टाक्किष्टविविघपदसंधि। युगपदनेकं वाक्यं यत्र विघीयेत स श्लेषः ।। १ ।। वक्तुमिति। यत्रालंकारे युगपत्तुल्यकालमेकप्रयन्ननैवानेकं द्यादिकं वाक्यं विधीयेत स श्लेषः। युगपत्पह्प्रहणान्महायमकादीनां श्लेषतनिवृत्तिः। कीदृशम्। वाक्यमर्थमभिधेयं वक्तुं भणितुं समर्थ शक्तम्। अनेकमितीहापि द्रष्टव्यम्। तथा सुष्रु श्िष्टः सुप्रयोजितो- Sक्किष्टः कष्टकल्पनारहितो विविधो नानाविधः पदानां सुप्तिडन्तानां संधिरेकीभावो यत्र

सामान्यलक्षणमभिधाय विशेषाभिधानाय श्ेषप्रकारानाह-

अत्रायं मतिमद्िर्विधीयमानोऽष्टधा भवति ॥ २ ॥ वर्णपदेति। अत्र शब्दालंकारेष्वयं शेषो मतिमद्भिर्विधीयमानो धीमद्धिः क्रियमा- णोऽषटघाष्टप्रकारो भवति। केषां विधीयमान इत्याह-वर्णेत्यादि। वर्णश्च पदं च लिज्ञं च भाषा च प्रकृतिश्च प्रत्ययश्च विभक्तिश वचनं च वर्णपदलिक्गभाषाप्रकृतिप्रत्ययविभ- किवचनानि तेषाम्। वर्णपदादिविष्रयमेदात्तन्नामाष्टधा श्लेष इत्यर्थः । अत्रेति परमतनि- रासार्थम् । अन्यैर्ह्यविशेषेण शब्दार्थयोः श्ेषोऽ्भ्यधायि। वर्णादिनिर्देशादेवाष्टविधले लब्धेऽष्टधेति नियमार्थम्। मेदे सत्यष्टधैव नान्यथेत्यर्थः । केचिद्धि पदेषु लिङ्गमन्तर्भा- वयन्ति। प्रत्यये च विभक्तिवचने। विभक्तौ च वचनम्। तदेतन्न चारु। भेददर्शनात्। तथाहि हार इति भूषणं मुक्ताकलापः, हरणं हारो मोषः, हरस्यायं हारः कोऽप्यर्थः इत्यत्र पदश्ल्ेषेऽपि लिङ्गश्लेषो न विद्यते। सर्वत्र पुंलिक्गलात्। तथा पद्मो निधिः, पदमं कमलम्, पद्मा श्रीरिति लिङ्गश्लेषेऽपि पदमभिन्नम् । तथा तपनस्यायं तपयतीति का तापनः । इत्यादिषु प्रत्ययमेदेऽपि विभक्तिवचनमेदो न विद्यते। तथा सतां मुख्यः पुरःसरः सन्मुख्यः सच्छो- भनं मुखं यासां ताः सन्मुख्यः इत्यत्र वचनमेदेऽपि विभक्तिमेदो न विद्यते इति मेदप्रतीतेर्न शोभनोऽन्तर्भाव इति॥ यथोद्देशस्तथा निर्देश इत्यादौ वर्ण लेषलक्षणमाह- यत्र विभक्तिप्रत्ययवर्णवशादैकरूप्यमापतति। वर्णानां विविधानां वर्णश्लेषः स विज्ञेयः ॥ ३ ॥ यत्रेति। यत्र विविधानां नानारूपाणां वर्णानामैकरूप्यं साम्यमागच्छति स वर्ण लेषः । विरूपाणां कथं सादृश्यमित्याह-विभक्तिबलात्प्रत्ययबलाद्वूर्णबलाच्चेति॥

Page 40

४ अध्याय: ] काव्यालंकारः । ३७

उदाहरणमिदम्- साधौ विधावपर्तावपराहावास्थितं विषादमितः । आयासि दानवत्त्वं तद्धर्म्य परमकुर्वाणः ॥ ४॥ साधाविति। अत्र महासत्त्वो दरिद्रो वर्ण्यते-कश्चिन्नरो दानवतो भावो दानवत्त्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोSसंपादयन्विषादंखेदमितः प्राप्तः। कीदृशं दातृत्वम्। विधिर्दैवं तस्मिन्नास्थितमायत्तम् । दैवाधीनमित्यर्थः। दैवेऽनुकूले भवतीति भावः। कीदृशे विधौ। सहाधिभिर्वर्तत इति साधिस्तस्मिन्। नित्यमेव मनःपीडावह इत्यर्थः। तथापतौं सदा संनिधानादपगतोऽर्तुः कालविशेषो यस्य सोऽपर्तुस्तस्मिन्। तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्व सर्पश्र पीडाकारितादपराहिस्तस्मिन्। अपरस्याहेनकुलादिहिसको भवति, अस्य तु नैव। अन्यच्च कीदृशं दानवत्त्वम्। आया- स्यघटनादभीक्ष्णं खेददायि। तथा धर्म्य सभावतो धर्मादनपेतम्, अत एव परं श्रेष्ठम्। एष एकस्य वाक्यस्यार्थ: ॥ अपरस्य तु-साधावित्यादि कथ्विद्वाणासुरमाह-हे दानव दनुसुत, त्वं बाणो बाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदशं शिवम्। विधौ चन्द्रमस्यास्थितमास्या संजातास्येति तम्। कीदृशे विधौ। साधौ सुन्दरे। तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन् सदावस्थिते। तथापगतो राहुर्वि- धुंतुदो यस्मादसौ तथाविधस्तस्मिन् । किमिति तत्सकाशमायासीत्याह-तस्य हर्म्य स्थानं तद्धर्म्य यतः परमोत्कृष्टा कुर्भूमिः। निर्वाणपदमित्यर्थः । साधावित्यादाविकारोकारयोः सप्तमीविभक्तिवशादैकरूप्यम्। आस्थितमितःप्रभृतिषु प्रत्ययत्रशात्। तद्वर्म्यमित्यत्न धकार- हकारवर्णवशादिति । परमकुर्वाण इत्यत्रैकत्रीश्ट्योऽन्यत्र दन्तयौष्ट्यो वकारस्तत्कथमेकरू- पता वर्णानाम्। सत्यम् । यमक लेषचित्रेषु ववकारयोरौध्यदन्त्यौध्ययोरभेदो दृश्यते। यथा-'तस्यारिजातं नृपतेरपश्यदबलं वनम्। ययौ निर्भरसंभोगैरपश्यदवलम्बनम् ॥' तथा नकारणकारयोश् न भेदः। यथा-'वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्' इति शिवभद्रस्य। विसर्जनीयभावाभावयोक्च न विशेषः । यथा-'द्विषतां मूलमुच्छेतुं राजवंशादजायथाः । द्विषच्जस्त्स्यसि कथ वृक्यृथादजा यथा ।' अत्र ह्येकत्राजायथा इति विपर्गान्तं क्रियापदम्, अपरत्र यथाशव्दोञ्व्ययम्। तथान्त्ययोर्मकारनकारयोश न. भेदः। यथा-'प्रापयासुरथं वीर समीरसमरंहसम्। द्विषतां जहि निःशेषपृतनाः समर हसन् II' अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम्। तथा व्यञ्जनात्परस्यै- कस्य व्यज्नस्य द्योवा न विशेषः । यथा-'शुके शुक्लेशनाशं दिशति' इत्यादी शुक्के शुक्के यमकः । तस्मिश्वैकत्र शुक्कगुणयुक्ते, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः । अत्र ह्येकत्र ककाराह्कार एवैकं व्यजनम्। अन्यत्र ककारो लकारश् द्वयमिति॥ अथ पदश्लेष :- यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः । पदभङ्गेषु विविक्तो विज्ञेयोऽसौ पदश्लेषः ॥ ५ ॥

Page 41

३८ काव्यमाला।

यस्मिन्निति। यत्र वाक्ये विभक्तियोगो विविधो नानासमासयोगश् जायते। केधु। पद्भक्षेषु सत्सु । विविक्त: ह्फुटः स पद्लेषः ॥ उदाहरणमिदम्- सुरतरुतलालसगलन्नयनोदकलालसत्कुचारोहम्। समराजिदन्तरुचिरस्मिते नमदसौ शरीरमदः ॥ ६॥ नवरोमराजिराजितवलिवलयमनोहरतरसारं भाः। धवलयति रोहितानवमद्द्यानमदाहितस्तनि ते॥। ७॥ (युग्मम्) सुरेति। नवरोमेति। कश्चिच्चाटुकृत्प्रियामाह-हे समराजिदन्तरुचिरस्मिते अविषम- दन्तपश्विकान्तहसिते, तवासौ भा एषा दीप्तिरद एतच्छरीरं वपुर्धवलयति शुक्कयति। कीदृशम्। सुरतरुतेषु निधुवनभणितेषु लालसो लम्पटो गल: कण्ठो यस्य तत्तथाभूतम्। तथा प्रियसंनिधानाद्यन्नयनोदकमानन्दलोचनवारि तस्य यो लालः प्रसरणं तेन सञ्शो- भनः कुचारोहः स्तनोच्छ्रायो यत्र तत्तथाभूतम्। तथा नमत्सनाभोगभारान्रम्रम्। तथा नवा नूतना या रोमराजी रोमलेखा तया राजितं भूषिंत यद्वलिवलयं वलयाकारं वलि- त्रयं तेन मनोहरतरं रम्यतरं त् तत्सारमुत्कृष्टं चेति समासः। रोहत्युत्तिष्टतीति रोहि तानवं कृशत्वं यस्य तद्रोहितानवं यन्मध्यमुदरं तत्रानमन्तौ कठिनलादलम्बमानावाहि- ताववस्थितौ सतनौ यस्यास्तस्या आमत्रणं हे रोहितानवमध्यानमदाहितस्तनि ! एष एकस्य वाक्यस्यार्थः ॥ अपरस्य तु यथा-कश्षित्खङ्गप्रहरणो धानुष्कं स्पार्धि- नमुद्दिश्य वयस्यानाह-यतोऽहमेवंविशिष्टस्तेन हेतुना मदसावस्मत्खज्गे न वरो न श्रेष्टः योऽसौ शरीरमदः ! शरा विद्यन्ते येषां ते शरिणो धानुष्कास्तानीरयति क्षिपत्यभिभवतीति शरीरस्तस्य मदः । जितधनुर्धरोऽहमिति कृत्वा यो दर्प इत्यर्थः । यतः कीदृशोऽहम् । सुरतरुतलेषु देववृक्षाधोभागेष्वलसा मन्दा ये गलन्नया भ्रश्यन्नीतयः । विषयासक्ता इत्यर्थः ! तेषां नोदस्ततः पातनं तत्र या कला विज्ञानं तया लसञ्शोभमानः कौ पृथिव्यां चारो वल्गनं यस्य स तथाविधोऽहम्। खङ्गविद्यया खर्गस्थानपि पातयानी- त्यर्थः। तथा समर रणमासमन्ताज्जयन्त्यभिभवन्तीति समराजितो ये शूरास्तेषामप्यन्ते विनाशे रुचिरभिलाषो यस्य स एवंविधोऽस्मि भवामीति। अधुना वयस्यानामत्र्रयते- अमराजिरेषु देवाङ्गनेष्वजितमपराभूतं यद्वलिबलं बलिदानवसैन्यं तस्य यमनं बन्धनं तत्रोहस्तर्कश्चिन्ता तत्र रतो विष्णुस्तस्येव रसस्तात्पर्यमारम्भश्वानुष्ठानं येषां ते तथाभूता भवन्त आमचयन्ते। कीदशे मदसौ। धवा वृक्षविशेषास्तेषु लयो दुर्गधिया संश्रयस्तेन तिरोहितमन्तरितमनवं बहुदिवसभवं यन्मध्यान मदीयचिन्तनम् । दुर्गस्था वयमतः स किं करिष्यतीति कृत्वा। तेन मच्चिन्तान्तर्धानेन मदो येषां ते च तेऽहिताथ् शत्रवक्ष तेषु स्तनिते तद्दारणाच्छणच्छणायमाने। खप्ञ इत्यर्थः। अथवा धवाः पुरुषास्तेषां लयः खपौरुषकर्मकौशलम्। अनवम उत्कृष्टो ध्यानमदो नीतिशास्रचिन्तादर्पो येषां तेऽनवम-

Page 42

४ अध्याय: ] काव्यालंकारः । ३९

ध्यानमदा मन्नि्रिप्राया उच्यन्ते। धवलयेन कर्मकौशलैन तिरोहिता न्यकता अनवम- ध्यानमदा यैसे तथा ते च तेऽहिताश्र शत्रवस्तेषु स्तनिते शब्दिते। अन्योऽप्यत्र यदि भङ्ग: संभवति सोऽपि तद्विदा विचार्य कर्तव्य एव ।। अथ लिङ् श्लेष :- स्त्रीपुंनपुंसकानां शब्दानां भवति यत्र सारूप्यम् । लघुदीर्घत्वसमासैर्लिङ्गश्लेषः स विज्ञेयः ॥८ ॥ स्त्रीपुमिति। यत्र स्त्रीपुंनपुंसकलिज्वानां सारूप्यं भवत्यसौ लिङ्श्लेषः। कैः कृला। लघुदीरघलसमासैरिति कचिद्ीर्वस्य लघुलेन। हृस्वतेनेत्यर्थः । क्रचिद्धसवस्य दीर्घलेन क्वचित्समासेन चेति॥ उदाहरणम्- देवी मही कुमारी पद्मानां भावनी रसाहारी। सुखनी राज तिरोऽहितमहिमानं तस्य सद्धारी ।। ९ ।। देवीति। कश्चिद्राजानमाशासते-वं राज शोभख। तथा तिरश्रीनं यथा भवत्येव- महितं शत्रुं तस्य क्षयं नय। 'तमु उपक्षये' इत्यस् रूपम्। कीदृशस्तम्। दीव्यतीति देवी क्रीडारतः, मही उत्सववान्, कुत्सितांश्रौरादीन्मारयतीति कुमारी। अथवा कुः पृथ्वी मारः कामस्तौ विद्येते यस्य स कुमारी। तथा पद्मानां श्रियां भावं सत्तां नयति भृत्येष्विति भावनी। सेवकानां लक्ष्मीप्रद इत्यर्थः। रसां भुवमाहरत्यात्मसात्करोतीति रसाहारी। यदि वा रसैर्मघुरादिभिराहरतीति रसाहारी। सुखं नयति मृत्यानिति सुखनीः, सतः शिष्टान्धारयति पोषयतीति सद्वारी, शोभनहारवान्वा। कीदृशम्। अहितमहिमानमहेर्वृत्रस्येव मानोऽहंकारो यस्य तं तथाविधम्। अयमेकस्य वाक्य- स्यार्थ: ॥ अपरस्य तु-मही पृथ्वी राजति शोभते। देवीति पूजापदम्। कीदशी मही। कुमार्यकृतविवाहा नित्तरुणी वा । पद्मानां नलिनानां भावन्युत्पादिका। रसाज्लादीनाहरति गृह्लातीति। 'कर्मण्यणन्तादी।' सुखनिः शोभनाकरा ! तथानन्तस्य शेषस्य रोहित आरोपितो महिमा माहात्म्यं यया। स्वयमात्मवारणे शक्तयाप्यनन्तस्य लोके माहात्म्यख्यापनात्मभरस्तयार्पित इत्यर्थः । सद्विदमानं वस्तुजातं धरतीति । 'कर्मण्यणन्तादी।' देवीलादौ दीर्घरवे रसाहारीतादौ दीर्घले समासे न सारूपं दीर्घस्य । हसलं लन्यत्र खधिया द्रष्टव्यम् ।। अथ भाषा लेप :- यरिन्नुच्चार्यन्ते सुव्यक्तविवि क्तमित्रभाषाणि। वाक्यानि यावदर्थ भाषाक्लेषः स विज्ञेय: ॥ १० । यस्मिन्निति। यत्र यावदर्थ कवेर्यावन्तोऽर्था विवक्षितास्तावन्ति वाक्यान्युच्चार्यन्ते स

Page 43

४० काव्यमांला।

भाषाश्लेष इति। कीदशानि। सुव्यक्त स्फुटं यथा भवत्येवं विविक्ताः पृथगुपलभ्यनान- विवेका भिन्ना द्वित्राद्या भाषा येषु तानि तथाविधानि॥। तत्र संस्कृतप्राकृतश्लेषोदाहरणम्- सैरसबलं स हि सूरोSसङ्गामे माणवं धुरसहावम्। मित्तमसीसरदवरं ससरणमुद्धर इमं दबलम्॥ ११ ॥ सरसबलमिति। कश्षित्कंचिदाह-स सूरो रविरिमं तं माणवं रोगित्वात्कुत्सितमनु- व्यमसीसरत्सारयामास। गतियुक्तं चकारेत्यर्थः । कीदृशम् । सरसं गतिलाभात्प्रत्यग्रं बलं शक्तिर्यस्य तं तथाभूतम्। हि स्फुटम्। क्व सति पूर्वमसीसरदसज्गामे न विद्यते सड्ो यत्रासावसङ्गः स चासावामश्र तस्मिन्। असंपर्कयोग्ये रोगे सतीत्यर्थः । पुनः कीदृशं माणवम् । धुरसहावं धुरि प्रथममसहासमर्था अवा रक्षितारो वैद्या यस्य। पूर्व वैद्यत्यक्क्मित्यर्थः । सूर: कीदृशः । मिन्मेद्यति स्त्निह्यति। कृपणेषु दयापर इत्यर्थः । कीदृशम्। तमवर सरोगत्वादश्रेष्ठम्। तथा दवं लातीति दवलमुपतापयुक्तम्। कीदशः । ससरणमुद्धर: सह सरणेन ज्ञानेन वर्तन्ते ये ते ससरणा योगिनस्तेषां मुदं हर्ष धारयति पुष्णातीति कृत्वेति संस्कृतवाक्यार्थः । प्राकृतस्य तु-काचिद्धर्तारमुद्दिश्य सखीमाह-हे सखि, स शूरोऽस्मद्धर्ता मित्रं सुहृदं सङ्गामे रण उद्धरति रक्षति। कीहराम् । शरैर्बाणैः शबलं कर्बुरम्। तथा मानेन गर्वेण बन्धुरो रम्यः खभावो यस्य तं तथाभूतम् । तथासीश्वराणां खज्गयोधिनां दवरमुपतापदम्। तथा सह शरणेन वर्तते यस्तं सशरणं परित्राणार्थिनामार्तिहरम्। यद्येवंविधं तत्किमिति तेनोद्वियत इत्याह- मन्दबलं मन्दमसमर्थ बलं यस्य तं तथाभूतम्। बहुयोधनादक्षमसैन्यमिति॥ इदानीं संस्कृतमागध्युदाहरणम्- कुलला लिलावलोले शलिलेशे शालशालिलवशूले। कमलाशवलालिबलेऽमाले दिशमन्तकेऽविशमे ॥ १२॥ कुलेति। कश्चिवज्जातसंसारभयो वक्ति-एवंविधेऽन्तके मृत्यौ सति ए विष्णौ विषये या दिन्यार्गस्तां दिशमविश प्रविष्टोऽस्मि। कीटशेऽन्तके। कुलानि लालयन्ति पोषयन्ति तच्छीला: कुललालिनः सत्पुरुषास्तेषां लावे छेदे कर्तव्ये लोलो लम्पटो यस्त- सिमिन्। तथा शलन्तीति शलाः सोदमासते विद्यन्ते यत्र देशे स शली। यद्वा शर्ल खङ्गकोषबन्धोस्ति येषां ते शलिनः खङ्गयोधास्तांल्लिरत्यल्पीकरोतीति शलीलेशस्तस्मिन्। तथा शालैरगहैः शालन्ते श्लाघन्त इत्येवंशीलाः शालशालिनस्तांछुनातीति शालशालि- लवः स चासौ शूलं च। पीडाकरत्वात्। तथा कमला लक्ष्मीस्तस्याः शवा दरिद्रा- १. प्राकृतच्छाया-'शरशबलं सखि शूरोऽसङ्गामे मानवन्धुरखभावम्। मित्रमसी- श्वरदवरं सशरणमुद्धरति मन्दबलम् ॥'. २. मागधीछाया-'कुररालिरावरोलं सलिलं तत्सारसालिरवशूरम्। कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥'.

Page 44

४ अध्यया: ] काव्यीलंकारः। ४१

स्वेष्वपि छलति विलसतीत्येवंशीलं बलं सैन्यं यस्य स तथा तस्मिन्। तथामाले। 'मल धारणे।' मलनं मालो न विद्यते मालो यस्यासावमालस्तस्मिन्। अनिवार्य इत्यर्थ: । एष संस्कृतवाक्यार्थः ॥ भागधस्य तु-शे शलिले तत्सलिलं जलं शमन्तके शाम्यतः शमिनोऽपि मालेदि मारयति। कीदशं तत् । कुरराः पक्षिविशेषास्तेषामालि: पङ्गिस्तदीयै रावैः शब्दै रोल: कलकलो यत्र ततथाभूतम्। तथा सारसालिरवेण सार- सश्रेणिवाशितेन शूरं तद्विरहिमारणसमर्थम्। तथा कमलानां पद्मानामासवं मकरन्दाख्यं लान्ति ये ते च तेऽलिनश्च भ्रमरास्तैर्वरं श्रेष्ठं यत्तत्। तथा विषमं वियोगिमीषणमेवं- विधं शरदि सलिलं विलोक्य मुनयोऽपि क्षुभ्यन्ति। इति मागधवाक्यार्थः॥ इदानीं संस्कृतपिशाचभाषाश्रेषोद्राहरणमाह- कैमनेकतमादानं सुरतनरजतु च्छलं तदासीनम्। अप्पतिमानं खमते सोऽगनिकानं नरं जेतुम् ॥ १३ ॥ कमिति। कस्यचित्केनचित्पौरुषस्तुतिः कृता । ततोऽन्यस्तामसहमान आह-हे सुरतनः निधुवनपुरुष, ते तव पौरुषं न रणे इत्यामन्त्रणपदाभिप्रायः । तथा खमते शू- न्यबुद्धे, यस्तया वर्ण्यते स कं नरं जेतुमजतु गच्छतु। नास्त्येवासौ पुरुषो यं सोडभिभ- विष्यतीत्यर्थः। कीटशं नरम्। अनेकतमान्याकनान्युत्पतिस्थानानि यस्य तं तथाभूतम्। तथा छलं तदासीनं तां मायामाश्रितम् । आश्रयणार्थः 'आसिः' सकर्मकः। तथापां पते- रप्पतेर्वरुणस्येव मानो गर्वो यस्य तम्। तथागस्येव मन्दरस्येव निकाना दीप्तिर्यस्य तम्। अथवा न गच्छतीत्यगो निकानो यस्येत्यन्यथास्य वाक्यस्यार्थः । अथवा यदा न सन्त्ये- वंविधास्तदा सर्वमेव तेन यतो जितमतः स कमिव नर जेतुमजतिति स्तुतिरेवात्रार्थः । इति संस्कृतवाक्यार्थः ॥ पैशाचस्य तु-केनचिद्वेश्यानामुपकारः कृतः। ताभिस्तु तस्य न कृत इति सोडन्र वर्ण्यते-स पूजितगणिकः पुरुषो गणिकानां वेश्यानामप्पतिमानम- प्रतीपमपूजनं न क्षमते न सहते। किमर्थम्। रज्जयितुमात्मरजनाय। इदानी मां ताः पूजयन्तित्येवमर्थम्। कीशीनां गणिकान्क। कामविषये कृतामोदानां कृतहर्षाणाम्। तथा सुरन(स्वर्ण)रजताभ्यामुच्छलन्त्यो तनिलसन्त्यो दास्यो यासाम्। पिशाचभाषायां कगचजतदपयवानां लोपो न क्रियत इत्यादिपूर्धोंक्त लक्षणम् ॥ इदानीं संस्कृतसूरसेनीवाक्योदाहरणमाह- तोदी सदिगगणमदोडकलहं स सदा बलं विदन्तरिदम्। आर दमेहावसरं सासदमारं गदासारम् ॥ १४ ॥। तोदीति। कश्चिन्नरो रणस्थो वर्ण्यते-स कश्चिच्छूरो वित्पण्डित इदमारमरिसर्क १. पैशाचीछाया-'कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम्। अप्रतिमानं क्षमते स गणिकानां न रखयितुम् ।।'. २. सूरसेनीछाया-'ततो दृश्यते गगनमदः कलहंर,शतावलम्बितान्तरितम्। आर तमेघातसरं शाश्वतमार गतासारम् ।'.

Page 45

काज्यमाळा।

बलं सैन्यमन्तर्मध्य आर ससार। कीदशोऽसौ। तुदति परानिति तोदी। तथा देशनं दिगुपदेशो व्यूहरचनादिविषयः सह दिशा वर्तत इति सदिक। तथा न गणेन सहाय- वर्गेण मदो यस्यासावगणमदः खमुजबलसहायकापेक्ष इत्यर्थः। सदा सर्वकालमेव। कीदशं बलम्। अकलहं परिभूतत्वान्निर्वैरम् । अत एव दमेहाया उपशमचेष्टया अव- सरः कालो यस्य तत्तथाभूतम् । तथास्यन्ते क्षिप्यन्त इत्यासाः शरास्तान्यन्ति खण्डय- न्तीत्यासदा धानुष्काः सह तैर्वर्तत इति सासदम्। तथा गदाभिः सारमुत्कृष्टम्। एष संस्कृतवाक्यार्थ: ॥ सूरसेन्यास्तु-शरदि नभो वर्ण्यते-तो इति ततः प्रावृषोऽनन्तरं दृश्यतेऽवलोक्यते। गगनं नभः । अद एतत्। कीदृशम् । कलहंसशतैरवलम्बितं चा- न्तरितं च। तथा आरतो निवृत्तो मेघानां घनानामवसरः कालो यत्र। यदि वा आरता उपरता मेघानामाप एव शरा बाणा यत्र तत्तथाभूतम् । तथा शाश्रतः स्थिरो मार: कामो यत्र। तथा गत आसारो वेगवर्षो यतस्तत्तथाभूतम् ॥ अथ संस्कृतापभ्रंशयो: शेषोदाहरणमाह- धीरागच्छदुमे हतमुदुद्धरवारिसद:सु। अभ्रमदप्प्रसराहरणुरविकिरणा तेजःसु॥१५ ॥ धीरेति। अत्र काचिद्गौरीसखी गङ्गायाः सपढ्या व्यसनेन गौरीमानन्दयति-यथा हे उमे गौरि, धीरा सवस्था भवेति करिया गम्यते। यतः, अभ्रे गगने माद्यत्युद्धतो भवति यः स तथाविधोऽपां जलानां प्रसरो यस्याः सा अभ्रमदप्प्रसरा गङ्गा अवेरिव गड्डरि- काया इव किरणं विक्षेपणं निर्वासनं यस्याः साविकिरणा । अहर्दिवसमपि। 'कलाध्व- नोरत्यन्तसंयोगे-' इति कर्म। अत एव हतमुद्रतहर्षा। तत एव चाणुः कृशा सत्यग- च्छदपतत्। क तेजःसु। कीदशेषु। उद्ता धरा पृथ्वी अलयापन्निममा सती यस्मात्त- दुद्धरं तच तद्वारि च समुद्रजलं च तदेव सदो गृहं येषां तानि तथाविधानि तेषु। वड- वानलतेजःख्विित्यर्थः । हरनिर्वासनदुःखिता सती गङ्गात्मानं वडवानलेन्धनीचकारेति भावार्थः । एष संस्कृतवाक्यार्थः ॥ अथवा काचित्सखी गौर्याः पुरतो हरसमरं वर्णयति- हे उमे, धीर्बुद्धिरागच्छदागता। कथमहृतमुदनष्टहर्ष यथा भवति तथोद्रता निघृत्ता हर- वारिणो हरनिषेधकाः शत्रवो यत्र कर्मणि तदुद्धरवारि यथा भवति यथास्माकं बुद्धिस्तु- टिश्चाभूत्तथा हरेणारयो जिता इत्यर्थः । सा च धी: सदःसु सभासु तेजःसु च परतेजो- विषयेऽभ्रमत्प्रस्ता। तेजस्ततारेत्यर्थः । कीदशी धीः। सर्वगत्वादपामिव प्रसरो गतिर्यस्याः साप्प्रसरा । अहर्दिवसम्। सदेत्यर्थः। अणुः कुशाग्रीया। तथाविकिरणा निरसितुमशक्या। इति संस्कृतवाक्यार्थः ॥ अपभ्रंशस्य तु-वर्षावर्णनम्-हे धीराः, गच्छत्वपसरतु। किम्। तन्मेघकृतं तमो मेघतमः । कीदशम्। दुर्घरा दुर्वारा वार्षिका वर्षासु भवा दस्यवश्चोरा यत्र। यदि वा वार्षिका मेघा एव दस्यवश्चौरास्तेजसी हरणायत्र। १. अपभ्रंशच्छाया -'धीरा गच्छतु मेघतमो दुर्धरवार्षिकदस्यु। अभ्रमदप्सरा हरणं रविकिरणास्ते यस्य ।।',

Page 46

8 अध्याय: ] काव्यालंकारः। ४३ तथा यस्य मेघतमसस्ते रविकिरणाः सूर्यकरा हरणं हर्तारः। कीदृशाः। अभ्रमदप्रसरा भ्रमो भ्रान्तिर्न श्रमो निश्चयस्तं ददातीत्यभ्रमदः प्रसरो येषां ते तथाविधाः । यथाव- स्थितं वस्तुस्वरूपं ये प्रकाशयन्तीत्यर्थः॥ अथ भाषा श्लेषस्य प्रकारान्तरमाह- वाक्ये यत्रैकस्मिन्ननेकभाषानिबन्घनं क्रियते। अयमपरो विद्वद्धिर्भाषाश्लेषोऽत्र विज्ञेयः ॥ १६ ॥ वाक्य इति। यत्रैकस्मिन्नेव वाक्येऽनेकभाषा निबध्यन्ते सोऽयमपरः पूर्वस्मादन्यो भाषाश्लेषोऽत्र ज्ञातव्यः । पूर्वत्रानेकार्थोऽनेकाभिर्भाषाभिरुक्तः, इह लेक एवार्थो वह्नी- भिर्भाषाभिरुच्यत इति तात्पर्यार्थः ॥ उदाहरणम्- समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम्। सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे ॥। १७॥ समर इति। तमहं सूरिं वन्दे स्तौमि। कीटशम्। समरे रणे भीमारम्भं भीषणो- द्योगम्। विमलासु कलासु सुन्दर्र निर्मलकलाविषये शोभनम्। सरसं शरङ्गारादिरसो- पैतम्। तथा सभासु सद:सु सारमुत्कृष्टम्। अत एव सुरगुरुसमं बृहस्पतितुल्यम्। अयमेकत्रार्थे संस्कृतप्राकृतश्लेषः । समसंस्कृतप्राकृतशब्दरचितत्वात्। एवमुत्तरत्रापि समसंस्कृतमागधशव्दरचितत्वादित्यादि द्रष्टव्यम् ॥। समसंस्कृतमागधशब्दोदाहरणमाह- शूलं शलन्तु शं वा विशन्तु शबला वशं विशक्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥ १८ ॥ शूलमिति। दुःशीला दुष्टचारित्राः खलाः शलवोऽशिवं पीडादिकं दिशन्ति ददति यतोऽतस्ते शबलाः पातकिन: शूलं वा शलन्त्वधिरोहन्तु। शं वा सुखं वा विशन्त्व- धिगच्छन्तु। वशं पराधीनतां वा यान्तु। विशङ्काः सच्छन्दा वा भवन्तु तचचिन्तामपि न कुर्म: । कीदशमशिवम् । अविद्यमानः शम उपशमो यस्या सा तथाविधा दशावस्था यत्र तदशमदशम् ।। संस्कृतपैशाचिकयो: श्ेषोदाहरणमाह- चम्पककलिकाकोमलकान्तिकपोलाथ दीपिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ १९ ॥। चम्पकेति। काचित्रायिका गजेन्द्रसमगमना चच्चलदीर्घलोचना च। तथा चम्प- ककलिकावत्कोमलकान्ती रम्यरुची कपोलौ यस्याः सा तथाविधा। तथानङ्स्येयमा- नज्ञी दीपिका। तया कामस्य प्रकाशितत्वात्। सा लपितुं वक्तुमिच्छाति॥

Page 47

४४: काव्यमाला।

अथ संस्कृतसूरसेनी श्लेषमाह- अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्। साधु पिबन्तु सुपीवरपरिणाहिपयोघरारम्मे ॥ २०॥ अधरेति। मदिरामदेन मधुरा वाणी यस्याः सा संबोध्य भण्यते। ते तवाधरद्ल- मोष्ठपल्लवं तरुणा युवानः साधु यथा भवत्येवं पिबन्तु चुम्बन्तु। कीदृशम्। सामोदं सुगन्धि। किंविशिष्टे। सुत्रु पीवरो मांसलः परिणाही परिमण्डलः पयोधरारम्भः कुचा- भोगो यस्या: सैवमामकयते॥ संस्कृतापभ्रंशश्रेषमाह- क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति। भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ।। २१ ।। क्ीडन्तीति। कश्चित्कंचिदाह-हे मित्र, भ्रमरा मत्ताः सन्तः क्रीडन्ति विचरन्ति। प्रसरन्तीतस्ततो गच्छन्ति। तथा मधु मकरन्दं कमलप्रणयि पद्मसंबद्ध लिहन्त्यास्ाद- यन्ति। कीदृशाः । सुष्ठु विभ्रमो येषां ते तथाविधाः । तथा भूरि प्रभूतं रसन्ति शब्दा- यन्ते। अन्योऽपि मत्त एवंविधो भवति॥ भाषा श्लेष मुपसंहरत्राह- एवं सर्वासामपि कुर्वीत कविः परस्परं श्लेषस्। अनयैव दिशा भाषार्र्यादी रचयेद्यथाशक्ति ॥ २२॥ एवमिति। तथा संस्कृतभाषाया अन्याभिर्भाषाभिः सह श्रेषः कृत एवमन्यासामपि परस्परं कर्तव्योऽसौ। तद्यथा-प्राकृतभाषाया मागधिकापैशाचीसूरसेन्यपभ्रशैः सह, मागधिकाया: पैशाच्याः सूरसेन्यपभ्रंशैः पैशाच्याः सूरसेन्यपत्रंशाभ्याम्, सूरसेन्या अपभ्रंशेन। एते दश मेदाः प्राच्यैः सह द्वियोगे सर्व एव पश्चदश भेदा भवन्ति। तथानयैव दिशानेनैव न्यायेन त्र्यादीस्तिस्रशतस्त्रः पश्च षड्डा युगपच्छिष्टा भाषा यथा- सामर्थ्यमेकवाक्यतया भिन्नवाक्यतया वा रचयेत्। तत्र त्रियोगे विंशतिर्मेदाः। यथा- सं० प्रा० मा० १, सं० प्रा० पै० २, सं० प्रा० सु० ३, सं० प्रा० अ० ४, प्रा० मा० पै० ५, प्रा० मा० सू० ६, प्रा० मा० अ० ७, मा० पै० सू० ८, मा० पै० अ० ९, पै० सू० अ० १०, सं० मा० पै० ११, सं० मा० सू० १२, सं० मा० अ० १३, प्रा० पै० सू० १४, प्रा० पै० अ० १५, प्रा० सू० अ० १६, सं० पै० सू० १७, सं० पै० अ० १८, प्रा० सू० अ० १९, सं० सू० अ० २०। चतुर्योंगे तु पश्चदश। तद्यथा-सं० प्रा० मा० पै० १, सं० प्रा० मा० सू० २, सं० प्रा० मा० अ० ३, प्रा० मा० पै० सू० ४, प्रा० मा० पै० अ० ५, मा० पै० सू० अ० ६, सं० मा० पै० सू० ७, सं० मा० पै० अ० ८, सं० पै० सू० अ० ९, प्रा० पै० सृ० अ० १०, सं० प्रा० सू० अ० ११, सं० मा० सू० अ० १२, सं० प्रा० पै० सू० १३, सं०

Page 48

४ अध्याय: ] काव्यालंकारः । ४५

प्रा० पै० अ० १४, प्रा० मा० सू० अ० १५। पञ्चयोगे षट्। तद्था-सं० प्रा० मा० पै० सू० १, सं० प्रा० मा० पै० अ० २, सं० मा० पै० सू० अ० ३, सं० प्रा० पै० सू० अ० ४, स० प्रा० मा० सू० अ० ५, प्रा० मा० पै० सू० अ० ६। षडयोगे त्वेक एव मेदः ।। तत्र षड्योगादिकप्रदर्शनायैकार्थ लेषमेकमुदाहरणमाह- अकलङ्ककुल कलालय बहुलीलालोल विमलबाहुबल। खलमौलिकील कोमल मङ्कलकमलाललाम लल ॥ २३॥ अकल्टेति। हे एवंविध, लं लल क्रीड। कीदश । अकलङ्टकुल निर्मलान्वय। कलालय कलावास। बहुलीलालोल प्रचुरविलासलम्पट। विमलबाहुबल प्रकटभुजप- राक्रम । खलमौलिकील दुर्जनशिरःशङ्टो । कोमल कमनीय। मङ्गलकमलाललाम जयलक्ष्मीचिह्न। अत्रैकस्मिन्नर्थे भाषाषङ्कस्यापि समानं रूपम् ।। अथ प्रकृति श्लेषमाह- सिद्धयति यत्रानन्यैः सारूप्यं प्रत्ययागमोपपदैः । प्रकृतीनां विविधानां प्रकृतिश्लेषः स विज्ञेयः ॥ २४ ॥ सिद्धथतीति। यत्र प्रत्ययैरागमैरुपपदैश्वानन्येस्तैरेव प्रकृतीनां तु नानाप्रकाराणां चारूप्यं समानरूपता सिद्धथति स प्रकृतिछेषः ॥ तत्रोदाहरणमाह-

सौरमनारं कलयति सदसि महत्कालचित्सारम्॥ २५॥ परेति। देवासुरयुद्धं वर्ण्यते-सौरं सुरसमूहः कर्तृ कलयति कलिं गृह्ाति। युध्धत इत्यर्थः । क सन्तः । अस्यन्ते क्षिप्यन्ते यत्र तत्सदस्तत्र सदसि युद्धे। सौर कीदश्म्। परहृदयानि रिपुवक्षांसि विध्यतीति परहृदयवित्। यथासुरहितानां दानवपक्षपातिनां प्राणनं जीवनं मभ्नातीत्यसुरहितप्राणमत्। तथा काव्यं दानवगुरुं कृन्तति पीडयतीति काव्य- कृत। तथा सुधारसममृतरसं नौति स्तौतीति सुधारसनुत्। तथा देवलान्न विद्यते नार नरसमूह्ो यत्र तदनारम्। तथा महत्प्रभूतम् तथा काले कृत्यकरणसमये चिच्चैतन्यं ज्ञानं यस्य तत्कालचित् तथा सहारेणारिसमूहेन वर्तते यत्तत्सारं यथा भवत्येवं कलयति। एष एकस्य वाक्यस्यार्थः ॥ परस्यापि तादृशान्येव पदानि। सौर सूरिसमूहः सारमुत्कृष्टं वस्तु न्याय्यं वा सदसि सभायां कलयति परिच्छिनत्ति। किं कुर्वत्सौरम्। महत्यूजयत्पूज्यजनम्। तथा परहृदयवित्परचित्तज्ञम्। तथासुरहितानां प्राणवर्जितानां प्राणनेन प्रत्युज्जीवनेन माद्यति हृष्यतीत्यसुरहितप्राणनमत्। तथा काव्यं कविकर्म करोतीति काव्यकृत्। तथा शोभनो धारो मर्यादादिधारणं येषां ते सुधाराः सुजनास्तान्स्न्ति अ्नन्ति ये ते सुधा- रसा: खलास्तान्रुदति प्रेरयत्तीति सुधारसनुत्। तथा न विद्यत आरमरिस्मूहदो यस्य का० लं० ५

Page 49

४६ काव्यमाला।

तदनारम्। तथा कलानां समूहः कालं चिनोत्यजयतीति कालचित्। अत्र प्रकृतयो व्यधिविदिप्रभृतयो भिन्नाः । प्रत्ययाः क्विवादय उभयत्रापि त एव। परहृदयादीन्युप- पदानि च तान्येव। आगमश्च कालचिदादिपदेSतोऽन्तागमादिकोऽनन्यः । ननु चैकत्र पक्षेतोऽन्तोऽस्ति द्वितीये नास्तीति कथमनन्यः । सत्यम्। नास्यान्योऽस्तीत्यनन्यो द्वितीयपक्षेऽन्यागमाभावादुच्यत इति सुस्थम्॥ अथ प्रत्ययश्लेष :- यत्र प्रकृतिप्रत्ययसमुदायानां भवत्यनेकेषाम्। सारूप्यं प्रत्ययतः स ज्ञेयः प्रत्ययश्लेषः ॥ २६ ॥ यत्रेति। यत्र प्रकृतिप्रत्ययसमुदायानां बहूनां प्रत्ययात्सकाशात्सारूप्यं समानरूपता भवति स प्रत्ययश्लेषो ज्ञातव्यः । उदाहरणम्- तापनमाजं पावनमारं हारं पराप दासेयः । कारं चारणमाहितमाज दर साधनं बहुशः ॥ २७ ॥ तापनमिति। एष दासेयो दासीपुत्र श्वौरो हार मुक्ताकलापं हियमाणं वा वस्तु पराप सुषिता प्राप्तवान् । कीदशम्। तापयतीति तापनम् । बन्धादिहेतुलात्। तथा अज्यते क्षिप्यतेऽनेनेत्याजयतीति वा आजम्। चौरो हि चारकादौ क्षिप्यते तथा पावयतीति पावनः शुद्धिकृन्मारो मरणं यत्र तत्पावनमारम्। तथा स दासेयो हरणकाले दर भयमाज चिक्षेप त्यक्तवान्। कीदशं दरन्। सधनादीश्वरादागतं साधनम्। आहितं हृदये निहितम्। पुनः कीदशं दरम्। करयोरिदं कारम्। तथा चरणयोः पादयोरिदं चारणम्। करचर- णखण्डनादिभयं नाजीगणदित्यर्थः । यतोऽसौ बहूञ्श्यतीति बहुशः। बहवस्तेन धना- दयपहारतस्तनूकृता इत्यर्थ:। एष एकोऽर्थ: ॥ द्वितीयस्तु-आसेय आरं गर्ति पराप- स्प्राप्तवान्। 'षिन् बन्धने'। आसेतव्य आसेयो मोक्षमप्राप्तो ज्ञानी भण्यते। ईषत्कर्म- बन्धनात्। कीहशमारम् । तपनस्येमं तापनम्। अजस्येममाजम् । पवनस्येमं पाव- नम्। हरस्येमं हारम्। सूर्यविष्णुवायुरुद्राणां संबन्धिनीं गति लेभ इत्यर्थः । यतोऽसौ कारं क्रियामाजत्यक्वान। कीदशं कारम्। चारयति गमयति संसारे प्राणिनमिति चारणम्। पुनः कीहरम्। अहितानां रागादीनामिदमाहितम्। कि तत्। साध्यवेऽने- नेवि साधनम् । रागादीनामुपकरणमित्यर्थः। कर्थ साधनम्। बहुशोडनेकशः। अदं शीघ्रम्। अत्र प्रत्ययवशास्प्रकृतिप्रत्ययसमुदायानां सारूप्यम्।। अथ विभफ्तिवचन लेप :- सारूप्यं यत्र सुपां तिडां तथा सर्वथा मिथो भवति। सोडत्र विभक्तिश्ेषो वचनश्लेषस्तु वचनानाम् ॥ २८॥ सारप्यमिति। यत्र सारूप्यं समानरूपता सुपां स्वादीनां तिडवां ल्यादीनां मिथ: पर-

Page 50

8 अध्याय: ] काव्यालंकारः । 8७

स्पर सर्वथा सर्वप्रकारैर्भवति सोडत्र श्ेषाधिकारे विभक्तिषेषो ज्ञेयः। वचनानां लेक- वचनादीनां मिथः सारुप्ये वचनेषः ॥ तत्र तावद्विभक्िश्लेषोदाहरणम्- आयामो दानवतां सरति बले जीवतां न नाकिरताम्। नयदानवाँललाम: किमभूरसि दारुण: सहसा ॥ २९॥ आयाम इति। जीवता प्राणभृतां दानवतां दानं ददतां सतां संबन्धिनि बले सैन्य आयामो विस्तार: सरति प्रसरति। न नाकिरतां न विक्षिपताम् । कार्पण्येन गलेऽर्िनं गृहतां नेत्यर्थः । कुतः । यतो नयश दानं च ते विद्येते यस्यासौ नयदानवान्पुरुषो ललामो भूषणं जगतः । तथा किमः कुत्साया अभूरस्थानं किमभूः । तथा सहसा बलेना- सिदारुण: खज्गमीषणश् ललामः । इत्येकोऽर्थः ॥ अपरस्तु-केचित्सुरा वलिनामानम- सुरम्चुः-हे बले वैरोचन, दानवतामसुरलभायाम आगच्छामः । कथम्। सरति सप्रीतीति कृत्वा। न पुनर्जीवतां बृहस्पतिताम्। किंभूताम् नाकिषु देवेषु रतां सकां नाकिरताम्। तर्मान्नय प्रापय दानवानसुरान्। येन तेषां मध्ये ललामो विलसामः। किमसि त्वं दारुण: काष्ठादभू: संजातः सहसा। येनास्माकं वचनं न शृणोषीतर्थः । अत्रायाम इत्यादयो य एव स्याद्यन्तास्त एव त्यादयन्ता: शब्दा इति सारूप्यम्।। अथ वचन ्छेषोदाहरणम्- आर्योऽसि तरोमाल्यः सत्योऽनतकुक्षयः स्तवावाच्यः । सन्नाभयो युवतयः सन्मुख्यः सुनयना वन्धः ॥ ३० ॥ आर्य इति। कश्चिदुत्साह्यते-असि त्वं वन्धो वन्दनीयः, यत आर्यो विशिष्टः। तथा तरो बलं माल्यमलंकरणं यस्यासौ तरोमाल्यः। सत्योऽवितथवाक्। अनतानाम- ग्रणतानां कोर्भूमे: क्षयो नाशहेतुरनतकुक्षयः । स्तवैः स्तुतिभिरवाच्यो वक्तुमशक्यः। तथा सच्ानां क्षीणानामभयो न विद्यते भयं यस्मादिति सन्नाभयः । तथा यूनस्तरुणां- स्तयतेSमियुद्ध इति युवतयः । सतां साधूनां मुख्य आद्यः। तथा शोभनो नयोऽस्येति सुनयः स चासौ ना च। सुनीतिपुरुष इत्यर्थः । एष एकवचनेनैकस्य वक्यस्यार्थः॥ अपरस्य तु-कश्विद्राजानमाह-तव संबन्धिन्य आर्योऽरिसक्ता युवतयस्त्रियो वन्धो अहानीता एवंविधाः । असिता रोमाली यासां तास्तथाभूताः । तथा सत्यः साध्व्यः। कतकुक्षय: कृशोदर्यः । अवाच्योऽघोमुख्यः । तथा सती रम्या नाभिर्यासां ताः सन्नाभयः। तथा सच्छोभनं मुखं यासां ताः सन्मुख्यः । शोभने नयने यासां ताः सुनयनाः । अन्रार्य इत्यादीनि पदानि बहुवचनान्तानीति वचन लेषः ॥ एवं श्लेषलक्षणमभिधाय पूर्वकविलक्ष्यसंग्रहाय लक्षणशेषमाह- भाषाश्लेषविहीन: स्पृशति प्रायोऽन्यमप्यलंकारम्। धत्ते वैचित्र्यमयं सुतरामुपमासमुच्चययोः ॥ ३१॥

Page 51

काव्यमाला।

भाषेति। अयं पूर्वोक्तश्ेषो भाषाश्लेषरहितः प्रायो बाहुल्येनान्यमप्यलंकारमर्थविषयं व्यतिरैकादिकं स्पृशति। श्लेषस्याप्यौपम्यादिभिः सह संकरो भवतीत्यर्थः । अपिशब्दो विस्मये। प्रायोग्रहणमसाकल्यप्रतिपादनार्थम्। अन्यमलंकारं स्पृशति पर न सर्वमेवे- त्यर्थः । तत्रापि सुतरामतिशयेन वैचित्र्यं रम्यत्वमयं श्ेष उपमासमुच्चययोर्धत्ते धार- यति उपमासाहचर्यात्समुच्चयोऽप्यत्रौपम्यमेदो गरह्यते॥ नन्वत्र शेषवाक्यदूये शब्दमात्रं श्लिष्टं भवति, न लर्थ इति साम्याभावस्ततश् कथ- मुपमासमुच्चयाभ्यां स्पर्शो घटत इत्याशंड्ड्याह- स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु। आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥ ३२ ॥ स्फुटेति। स्फुटं सत्यमर्थालंकारावेतावुपमासमुच्चयौ न कदापि सरूपं त्यजतः । किं तु शब्दमात्ररूपं सामान्यं साधारणं धर्ममाश्रित्य संभवतः । ताभ्यां योगो घटत इत्यर्थः । अर्थतो न सादृश्यं कि तु वाक्यद्वयसाधारणशब्दाश्रयं सादृश्यं विद्यत इति तात्पर्यार्थः ॥ उदाहरणमाह- यदनेकपयोधि भुजस्तवैव सदशोऽस्यहीनसुरतरसः । ननु बलिजितः कथं ते सदशस्तदसौ सुराविकृतः ॥ ३३ ॥ यदिति। कश्षिदुच्यते-लं तवैव सदृशो नान्यस्येत्यनन्वयानामुपमाविशेषणद्वारेण साम्यमाह-कीदृशस्तम्। अनेकपानां द्विपानां योद्धा भुजो बाहुर्यस्यासावनेकपयोधि- भुजः । तथाहीनः परिपूर्णः सुरतरसो निधुवनरसो यस्यासावहीनसुरतरसः । तव कीदृशस्य। अनेकांश्रतुरः पयोधीन्समुद्रान्भुनक्ति रक्षतीत्यनेकपयोधिभुक्तस्य। तथाहीनामिनो नागराज: सुरा देवास्तेषामिव तरो बलं यस्यास्रावहीनसुरतरास्तस्य। अत्र प्रथमानिर्दिष्टमुपमेयं षष्ठीनिर्दिष्ट्मुपमानमनयोस्तु न वस्तुतः किंचिदपि साम्यमस्ति, किं- तु तत्प्रतिच्छायशब्द प्रयोगात्साम्यं प्रतिभासते। एवमुत्तरत्रापि योज्यम्। किमिति। त्वं तवैव सदृशो न त्विन्द्रस्येत्याह-नन्वित्यादि। ते तव कथमसौ सदश इति व्यतिरेको- डयमलंकारः । कीदृशस्य ते। बलिनः समर्थाज्जयत्यमिभवतीति बलिजित्तस्य बलिजितः । तथा सुराणामाधीन्मनःपीडाः कृन्ततीति सुराधिकृत्तस्य सुराधिकृतः । इन्द्रस्तु कीदृशः । बलिनाम्रा दानवेन जितः पराभूतः । तथा सुरैरधिकृतो राज्ये नियोजितः । एवं व्वं सुराणामाधीञ्छिनत्सि, स तु सुरैरधिकृत इति स्फुट एव तवेन्द्रस्य च विशेषः। यत्तच्छव्दौ हेतथौं। नन्वमर्षे। यस्मात्वं तवैव सदशस्तस्मात्तव कथमिन्द्रः सदशो भवतीत्यर्थः ॥ उपमासमुच्चयोदाहरणमाह- वसुधामहितसुराजितनीरागमना भवांश्च वर्षाश्च। सुरचितवराहवपुषस्तव च हरेश्रोपमा घटते॥ ३४ ॥

Page 52

५ अध्याय: ] काव्यालंकारः । ४९

वसुधेति। त्वं वर्षाक्र सदशौ। त्वं तावत्कीदशः । वसु धनम्, धाम तेजः, ताभ्यां हितमनुकूलं सुरैर्देवैरजितमपराभूतं नीरागं रागरहितं मनश्चित्तं यस्य स तथोक्तस्त्म्। वर्षास्तु वसुधायां भुवि महितं पूजितं सुष्ठु राजितं शोभितं नीरागमनं जलागतिर्यासु तास्तथोक्ताः । चशब्दावत्र समुच्चयार्थौ। साधारणविशेषणादौपस्यस्य सद्भावः । शुद्धाया उपमाया उदाहरणमाह-सुरचितेत्यादि । तव विष्णोश्च साम्यं घटते । कीदशस्य तव सुष्ठु रचितं वरं श्रेष्ठमाहवं समर पुष्णाति पुष्टिं नयतीति यस्तस्य सुरचित- वराहवपुषः । हरेस्तु सुरैदवैश्चितं व्याप्तं वराहवपुः सूकरशरीरं यस्य स तथा तस्य। अत्रापि साधारणशब्दयोगात्साम्यम्, न लर्थतः ॥ अथ श्लेषमुपसंहरत्नाह- शब्दानुशासनमशेषमवेत्य सम्य- गालोच्य लक्ष्यमधिगम्य च देशभाषाः । यलादघीत्य विविधानभिधानकोषा- ज्ल्लेषं महाकविरिमं निपुणो विदध्यात्।॥ ३५॥ शब्दानुशासनमिति। इदमिदं च कृता ततो महाकविरिमं श्लष कुर्यात्। किं कृत्ा। शब्दानुशासनं व्याकरणं समग्रं सम्यग्ज्ञाला । तथा लक्ष्यमुदाहरणं महाकविकृतमा- लोच्य। तथा सूरसेन्यादिदेशभाषा विदित्ा। तथामिधानकोषान्नाममाला अधीत् पठिलेति। एतच् कृता निपुणः कुशलो महाकविश्व यः स श्लेषं कुर्यादिति॥ इति श्रीरद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत- श्वतुर्थोऽध्यायः समाप्तः ।

पश्चमोऽव्यायः । वक्रोक्त्यनुप्रासयमक छेषान्निरूप्य क्रमप्राप्तं चित्रं प्रतिपादयितुमाह- भज्जयन्तरकृततत्क्रमवर्णनिमित्तानि वस्तुरूपाणि। साक्कानि विचित्राणि च रच्यन्ते यत्र तच्चित्रम् ।। १ ।। भङ्गयन्तरेति। यत्र काव्ये वस्तूनां चक्रादीनां रूपाणि संस्थानानि रच्यन्ते निब- ध्यन्ते तश्चित्रसादृश्यादाश्चर्याद्वा चित्रं नामालंकारः। काव्ये कथं वस्तुरूपाणि रच्यन्त इति प्रश्ने विशेषणद्वारेण युक्तिमाह-भक्ञयन्तरेण चक्रादिविच्छित्तिलक्षणेन प्रकारेण कृतः स सकललोकप्रसिद्धः क्रमो रचनापरिपाटी येषां ते च ते वर्णाश्ाक्षराणि च ते निमित्तं कारणं येषां वस्तुरूपाणां तानि तथोकानि। तथा सहाङ्ेन खनामचिहेन वर्तन्त इति साक्ानि। तथा विचित्राणि चान्यानि च सर्वतोभद्रानुलोमप्रतिलोमादीनि। चकारो वस्तुरूपेषु मध्ये सर्वतोभद्रादिसमुच्चयार्थः ॥

Page 53

काव्यमाला।

सामान्यतश्वित्रलक्षणमभिधाय विशेषेणाभिधातुं तद्वेदानाह-

चतुरञ्कपीठविरचितरथतुरगगजादिपदपाठैः ॥ २ ॥ अनुलोमप्रतिलोमैरर्भ्रममुरजसर्वतोभद्रैः । इत्यादिभिरन्यैरपि वस्तुविशेषाकृतिप्रभवैः ॥३॥ भेदैर्विभिद्यमानं संख्यातुमनन्तमस्मि नैतदलम्। तस्मादेतस्य मया दिब्बात्रमुदाहृतं कवयः ॥ ४ ॥ तदिति। अनुलोमेति। मेदैरिति। तदेतच्चित्रं यस्मादित्यादिभिरुक्तैरन्यैरनुकैरपि। मेदैः कीटरैः । वस्तुविशेषाकारात्प्रभवन्ति जायन्ते ये तैर्विभिद्यमानं भेदेन व्यवस्थाप्य- मानमनन्तमसंख्यातं तत्संख्यातुं संख्यया प्रतिपाद्यितुं नालं न समर्थोऽस्म्यहम् । तस्मादेतख मया दिख्मात्रमुदाहृतं दर्शितं हे कवयः। इत्यादिमिमेदैरित्युक्त तानेव दर्शयति-तच्बक्रेत्यादि। चक्रादीनि प्रतीतानि न वरम्। बाणासनं धनुः। चतुरत्पीठं छूतकारिविदितचतुरञफलकस्तत्र रचितै रथतुरगगजादिपदपाठैः । पठ्यतेऽनेनेति पाठ: शलोकः। आदिग्रहणान्नरपदसंग्रहः । क्रमव्युत्कमाभ्यां यः सदृशः सोऽनुलोमप्रतिलोमश्लोकः। अर्धभ्रमणादर्वभ्रमः । सर्वतस्तु भ्रमणात्सर्वतोभद्रः । आदिग्रहणात्पद्मगोमूत्रिकादिसंग्रहः । किं पुनस्तेषां वस्तुरूपाणां विरचने लक्षणमित्याह- यन्नाम नाम यत्स्यात्तदाकृतिर्लक्षणं मतं तस्य। तल्लक्ष्यमेव दृष्ट्रावधार्यमखिलं तदन्यदपि॥५॥ यदिति। चक्रादिकं प्रसिद्धं नाम संज्ञा यस्येति विग्रहः। तद्यन्नाम । द्वितीयस्तु ना- मशब्दः प्राकाश्ये। तदेवंविधं वस्तु यत्स्यात्तदाकृतिस्तदाकारसस्य चित्रस्य लक्षणमभि- हितम्। यदनुकार्यस्य चक्रादेरनाम संस्थानं च तदेवानुकरणस्य करणीयमित्यर्थः । तच्व चित्रलक्षणमखिलं समग्रं माघादिमहाकविरचितं लक्ष्यमुदाहरणमेव दृष्ट्रावघार्य ज्ञेयम्। ततो वस्तुरूपादन्यदपि सर्वतोभद्रादिकं लक्ष्यमेव दृष्ट्रावधार्यम्। अथवा ततो लक्ष्योक्ाद्व- स्तुरूपादन्यदपि मत्स्यबन्धादिकं खधियैवाभ्यूह्यम्। मार्ग दष्ट्रान्यथापि करणं न दोषाये- त्यर्थः । तेन चक्रारनेमिपद्मदलादावनियम उक्तो भवतीति स्थितमेतत्। तत्राष्टभि: श्ोकैर्गर्भीकृतखङ्गादिवस्तुरूपान्तरैश्वकमाह- मारारिशक्रामेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदर्तिहरणक्षमा॥ ६ ॥ माता नतानां संघट्टः श्रियां बाघितसंग्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमादिजा॥७। खज्ञबन्धः ॥ (युग्मम्)

Page 54

५ अध्याय: ] काव्यालंकारः । ५१

मारेति। मातेति। उमा गौरी शं सुखं मे मह्यं दिश्याह्देयात्। कीटशी। आदिजा जगदादिभवा। तथा मारारिः शंभुः, शक्र इन्द्रः, रामो जामदम्यो दाशरथिर्वा, इभमुखो गणाधिपस्तैरासाररंहसा वेगवर्षवद्वेगेनादरावेशात्सार उत्कृष्ट आरब्धः प्रकृतः स्वः स्तुति- र्यस्याः सा । तथा नित्यं सदा तेषां मारारिप्रभृतीनामर्तेः पीडाया हरणेऽपनयने क्षमा समर्था। तथा नतानां मातेव माता। वत्सललात्। तथा संघट्टः समूहः। कासां श्रिया- मृद्धीनाम् । तथा बाधितो नाशितो भक्तानां संत्रमो भयं यया सा तथाभूता। तथा मान्या पूज्या। अथ सीमा मर्यादा रामाणां स्त्रीणाम्। सर्वोत्तमेत्यर्थः । अनेन संदानित- केन खड उत्पद्यते। आद्यः श्रोकः फलरूपोऽपरो मुष्टिरूपः । 'सा' शब्द: फलान्ते तैक्ष्ण्याकारी 'दिजा' इति मुष्टेरुपरि 'मा' शब्दौ तत्र साधारणौ। अस्य न्यासः॥ अथ मुसलधनुषी- मायाविनं महाहावा रसायातं लसद्भुजा । जातलीलायथासारवाचं महिषमावघीः ॥८॥ मुसलम्॥ माममीदा शरण्या मुत्सदैवारुक्प्रदा च घीः। घीरा पवित्रा संत्रासात्रासीष्ठा मातरारम ॥ ९॥ धनुः ॥ (युग्मम्) मायाविनमिति। मामिति। हे मातः, सा त्वं संत्रासाद्धयान्मां त्रासीष्ठा रक्ष। आरम व्यापारान्तरात्रिवर्तख। पश्य मामित्यर्थः । या त्वं महिषं महिषासुरमावधीर्हतवतीति संबन्धः । कीदृशं महिषम् । मायाविनं छद्मपरम् । त्वं तु महाहावा महान्हावक्वेष्टा- विशेषो यस्याः सा। रसेन दर्पेणायातं महिषम् । त्वं लसद्भुजा लसन्तौ भुजौ यस्याः । तथा जातलीला संपन्नविलासा। महिषमयथासारवाचमयथासारा मर्यादोलद्विनी वाग्यस्य। तथा लमभियमभयं ददासीत्यमीदा। शरणे साधुः शरण्या। मुत्प्रहृष्टा। सदैव सर्व- कालमरुक्प्रदा नीरोगतदायिनी। चः समुचये । धीर्वुद्धिः । तद्वेतुल्ात्। धीरा निर्भया। पवित्रा पावनी। अत्रादयश्ोकेन मुसलम्-मध्ये तनु पार्श्वयोः स्थूलमेकत्र प्ान्ते तीक्ष्णम्। तत्र मध्ये 'वारसा' इत्यक्षरत्यं साधारणमन्ते 'जा' इति । द्वितीय- शलोकेन धनुः-तत्राद्यमर्घ कुटिलं वंशभागे, द्वितीयं गुणाकारं 'मा' शब्दोऽघस्तनकोटि प्रान्ते, तदुपान्ते च मकारो द्विरावृत्ति, 'घी' शब्दश् शिखारूपः। न्यासः ॥ अथ शर :- माननापरुषं लोकदेवीं सद्रस सन्नम। मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥ १० ॥ शरः ॥ माननेति। अक्वेति कोमलामत्रणे। हे सद्स सुभक्तिमरेणार्द्रहृदय, सर्वदा सदा सोदर सप्रयत्नं मनसा चेतसा ता लोकदेवीं भुवनदेवतां सन्नम सम्यकप्रणम। दासभावं अत्वाभ्युपेत्य। माननया पूजनयापगता रुट्र क्रोधो यस्यास्तां माननापरुषम्। सापराधेऽरपि १. संदानितकमिति युग्मस्य संज्ञान्तरम्. २. सर्वेषां बन्धानां न्यासो ग्रन्थसरमाप्तौ द्रष्टव्य :.

Page 55

५२ काव्यमाला।

पूजया सप्रसादामित्यर्थः । अन्र प्रथमपादेन दण्डः, द्वितीयेन फलम्, तृतीयचतुर्थाभ्यां वाजावटनी च। न्यास:॥। अथ शूलम्- मा मुषो राजस खासूंल्लोककूटेशदेवताम्। तां शिवावाशितां सिद्दाध्यासितां हि स्तुतां स्तुहि ॥११॥ शूलम्॥ मा मुष इति। हे राजस रजोगुणयुक्त, खासूनात्मप्राणान्मा मुषो मा हार्षीः । ता लोककूटानां जनसमूहानामीशा राजानस्तेषां देवतां सतुहि नुहि। कीदशीम्। शिवेन शंभुना वाशितामाहूतां शिवाभिर्वा वाशितां कृतकलकलाम्। सिद्धया कार्यसिद्धयाध्या- सितां समधिष्ठिताम्। सुतां जगतेति। त्रिशिखमेतेन शूलमुत्पद्यते। प्रथममर्ध दण्डभागे द्वितीयं लावर्तपरावतैः शिखासु। तत्र सर्वश्िखामूले 'तां' शब्दो वारपञ्चकमुचचार्यते। शिखायामेकस्यां 'शिवा', द्वितीयायां 'सिद्धथा', मध्यमायां 'स्तुहि'। न्यास:॥ अथ शत्त्यादीनि- माहिषाख्ये रणेऽन्या नु सा नु नानेयमत्र हि। हिमातञ्जादिवामुं च कं कम्पिनमुपन्ठुतम् ।। १२ ।। शक्तिः ॥ मातङ्ञानङ्गविधिनामुना पादं तमुद्यतम्। तङ्गयित्वा शिरस्यस्य निपात्याहन्ति रंहसा ॥ १३ ॥ हलम् ॥ इतीक्षिता सुरैश्रके या यमामममायया। महिषं पातु वो गौरी सायतासिसितायसा ॥१४।। रथपदम् ।। (विशेषकम्) माहिषेति। मातङ्गेति। इतीति। सा गौरी वो युष्मान्पातु रक्षतु। या सुरैरित्थमी- क्षिता सती महिषं यमामं यमगामिनं मृतममायया च्छदना चक्रे कृतवती। किंभूता। आयतैदीर्घैरसिभि: सितो बद्ध आयोऽर्थागमो यैस्तान्दानवादीन्स्यति हिनसिति या सा तथोक्ता। क्वेक्षिता। माहिषाख्ये रणे महिषासुरसंबन्धिनि समरे। कथमीक्षिता। नानानेकप्रकारम्। तदेव नानात्वमाह-अन्या नु सा न्विति। नुर्वितर्के। अत्र रण इयं देवी किमन्या स्यादुत सैव। भयानकत्वादनिश्चयः। तथैवंवादिभिः सुरैरीक्षिता यथामुं महिषं कं कुत्सितम्। कम्पिनं कम्पयुक्तम्। कुत इव हिमातक्कादिव हिमर्तेरिव। तथो- पष्ठतं मदोद्धतमाहन्ति मारयति। केनाहन्ति। अमुना प्रत्यक्षदष्टेन मातज्ञानङ्गविधिना। सदर्पत्वाद्जविधिना, सलीलत्वादनङ्गविधिना। किं कृला। तं लोकप्रसिद्धं पादमुद्यत- सुत्पाटितं तक्कयित्वा भ्रामयित्वा। तदनन्तर चास्य महिषस्य शिरसि रंहसा वेगेन निपात्य निःक्षिप्य। इत्यादि जल्पद्धिः सुरैरीक्षिता यमामं चक्र इति संबन्धः । देवतास्तुत्या चैतदत्र सूच्यते-यथा प्रायेण चित्रस्य देवताखुतिर्विषयो न सरसं काव्यमिति। अन्राद- श्ोकेन मध्यतन्वी तीक्ष्णप्रान्ता शक्तिरुत्पद्यते। तत्र 'हिमातं' इत्यक्षरत्रयं मध्ये, 'नुसा'

Page 56

५ अध्याय: ] काव्यालंकारः ।

अंधः, 'कं' उपरि। तत्र 'हि' द्विरावृत्तिः, 'मातंनुकं' एते द्विरावृत्तयः । द्वितीयश्रठोकेन हलम्। तत्र हलप्रविष्टेषाशल्यभागे 'तं' शब्द:, 'मा' तस्य पृष्ठे, 'नामु' फलतीक्ष्णाप्रे, 'गानङ्गविधि पादं तमुद्' वर्णाः फलेऽनुलोमविलोमश्रेणिद्वयस्थाः, 'गयित्वा शिर- स्यस्यां इतीषायाम्, 'निपात्या' हलोर्ष्वभागे, हकारो हलोर्ध्वभागे कीलिकाशल्यमच्ये, हकारोर्ध्वे 'न्ति', हकाराग्रे '२', हकारपृष्ठे 'सा' । मारारिप्रमुखैरेभिरष्टमि: श्रलोकैरष्टारं चक्रमुत्पद्यते। अत्र पूर्वार्घान्यष्टाराः अन्त्यार्घानि लेका नेमिः । 'मा' शब्दो नाभिः सर्वसाधारणः । अर्धान्त्य श्रोकान्त्याक्षराणि च। अत्र च न चकरे खवनामाङ्कमूतोऽयं शोकः कविनान्तर्भावितो यथा- 'शतानन्दापराख्येन भट्वामुकसूनुना। साधिंतं रुद्रटेनेदं सामाजा घीमतां हितम् ॥' अस्यार्थ :- वामुकाख्यभद्सुतेन शतानन्द इत्यपरनाम्ना रुद्रटेन कविना साघितं निष्पादितमिदं चक्र काव्यं वा । कीदशेन। साम गीतिविशेषमजति प्राप्नोतीति सामाकू, तेन सामाजा। सामवेदपाठकेनेत्यर्थः । तच् धीमतां बुद्धिमतां हित मुपकारकम्। न्यासः । तृतीयश्लोकेन रथपदानि पूर्यन्ते। रथपदन्यायेन युक्पादयोरावृत्तिनिवृत्तिभ्यां पाठ: ॥ अथ तुरगपद्पाठ :- सेना लीलीलीना नाली लीनाना नानालीलीली। नालीनालीले नालीना लीलीली नानानानाली॥ १५ ॥ सेनेति। तत्र-सेना, लीलीलीन:, न, आली, लानानाः, नानालीलीली, न, आली- नाली, ईले, ना, आलीना:, लीलीली, नानाना, अनाली, इति पदानि। पदार्थस्त्वयं यथा-कश्चिद्वक्ति-अहं ना पुरुषः सेना: पृतना ईले सतौमि। 'ईड स्तुतौ'। वर्तमा- नायां ए। सेना: स्तौम्यहमिति संबन्धः। यट्वा परोक्षायां 'इले' इति रूपम्। बहुलत्वादा- म्प्रत्ययाभावः । ततः कव्वित्रा सेना ईले। तुष्टावेत्यर्थः । कीदशीः सेनाः । लीला विद्यते येषां लीलिनस्तौतीत्येवंशीलो लीलीली स इनः खामी यासां ता लीलीलीनाः। ना कीदशः । आलमनर्थोऽसत्यं वा विद्यते यस्य स आली एवंविधो न। तथा लीनानि संबद्धान्यनांसि शकटानि शकटारूढा वा जना यस्य स लीनानाः । तथा नानाप्रकारा आल्यः पङ्कयो नानाल्यस्तासां ली: श्रलेषसतां लान्ति गृह्न्ति ये ते नानालीलीला: पुरुषा विद्यन्ते यस्य स नानालीलीली। व्यूहाश्रितनरनायक इतर्थः । तथा आलीना- नामाश्रितानामाली अनर्थकरः आलीनाली एवंविधो न । सेवकानुकूल इत्यर्थ: । कीहशी: सेनाः। आलीना आश्लिष्ः । ना कीदशः । लीलिनी लीलावती सुखितत्वा- त्ाणिनामिला भूर्येषां ते लीलीला नृपास्ते यस्य सन्ति स लीलीली। तथा नाना- प्रकारो ना मनुष्यो यस्य स नानाना । तथा आली मूर्ख उच्यते आलमस्यास्तीति वा न आली अनाली। प्राज्ञ इत्यर्थः । अत्र तुरगपदपरिज्ञानाय शलोको यथा-'कशक्षे-

Page 57

५४ काव्यमाला।

नागभटाय तथखेवेगराघवे। षजेथाढेपचेमेठे दोणसछलडेपडे।।' अमुं श्ोकं 'सेनाली' इत्यादि प्रस्ुतश्लोकोपरिभागे यथाक्रमाक्षरं लिखित्वा ततः एतच्छोकगतमातृकापठितका- दिवर्णक्रमानुमिततुरगपदक्रमेण प्रस्तुतः शरोक उच्चेय इति ॥ अथ गजपदपाठमाह- ये नानाघीनावा घीरा नाघीवा राघीरा राजन्। किं नानाशं नाकं शं ते नाशङ्कन्तेऽशं ते तेजः ॥ १६ ॥ य इति। अत्र-ये, नानाधीनावाः, धीराः, न, अधीवाः, राधीराः, राजम् किं, नानाशं, ना्क, शं, ते, न, आशङ्कन्ते, अशं, ते, तेजः, इति पदानि। पदार्थस्तेवम्- यथा कश्विद्राज: कस्यापि सेवकानभिनन्दति-हे राजन्, ये तदीयमृत्या एवंगुणयुक्तास्ते कि नाकस्येदं नाकं खर्गसकं शं शिवं सुखमाशङ्कन्ते। नव उत्तरत्र संबन्धः। किंशब्द- काक्ावश्यं तेषां खवर्गसुखं भवतीत्यर्थः। कीदृशा ये। नानाविधा आधयो यस्य स नानाधि: स चासाविनश् प्रभुस्तमवन्ति विनाशाद्रक्षन्तीति नानाधीनावाः तथा धीरा: सत्त्वयुक्ताः । तथा दुष्टा धीर्युद्धिरधीसतां वान्ति गच्छन्त्याश्रयन्त्यधीवा एवंविधा न। तथा 'राधो हिंसायाम्'। राधिनो हिंसकास्तानीरयन्तीति राधीराः। शं कीदृशम्। नानाविधा आशाः सुखाभिलाषा यत्र तन्नानाशम्। किंच ते तव संबन्धि यत्तेजस्तदशं दुःखरूपमित्येवं नाशक्कन्ते। प्रभुतेजोऽत्माकं नाशायेति चेतसि नैव कुर्वन्तीत्यर्थः । अत्र गजपदन्यायेन श्रोक उत्पद्यते। स व श्रोकगतप्रथमनवमद्वितीयदशमतृतीयैकादशचतुर्थ- द्वादशादिक्रमेण उच्चेय इति॥ अथ प्रतिलोमानुलोमपाठं स्रग्धरावृत्तमाह- वेदापन्ने स शक्के रचितनिजरुगुच्छेदयलेऽरमेरे देवासक्तेऽमुदक्षो बलदमनयदसतोददुर्गासवासे। सेवासर्गादुदस्तो दयनमदलवक्षोदमुक्ते सवादे रेमे रल्नेऽयदच्छे गुरुजनितचिरक्केशसन्नेऽपदावे ॥ १७॥ वेदापन्न इति। स कथ्विद्गुणिप्रियो रलने गुणवति जने रेमे ननन्द। 'जातौ जातौ यदुष्कृष्टं तद्रत्नमभिधीयते'। वेदानापन्नो वेदापन्नस्तत्र। अधीतवेद इत्यर्थः । तथा शक्के प्रियंवदे। तथा रचितः कृतो निजाया रागद्वेषात्मिकाया रुजो बाघाया उच्छेद उन्मूलने यल्नो येन तस्मिन्रचितनिजरुगुच्छेदयनने। तथा न रमन्ते सुजनेषु धर्मे वा ये ते अरमा दुर्जनास्तानीरयति यस्तस्मिन्नरमेरे। तथा देवेष्वासक्तो देवासक्तसतस्मिन्देवासके। देव- पूजोदत इत्यर्थ: । स कीदशः। न मोदन्ते प्रमोदं यान्तीत्यसुन्दि अक्षाणीन्द्रियाणि यस्य स्ोडमुदक्षो जितेन्दियः। तथा बलदमनयद: शक्त्युपशमनीतिदाता। रन्ने कीदशे। तोदस्य व्यथाया दुर्गा इव दुर्गा: परानभिभूतास्तानप्यस्यन्ति क्षिपन्तीति तोददुर्गासास्तेषा वासे निलये। शूराणामपि शूरा यमाश्रिता इत्यर्थः । स कीदृशः। सेवायां परप्रणतौ सर्ग

Page 58

५ अध्याय: ] काव्यालंकारः। ५५

उत्साहस्तत उदस्तो निवृत्तः । खाधीन इत्यर्थः । रनने कीदशे। दयनं दानं रक्षा वा तेन यो मदलवो गर्वकणिका तेन यः क्षोदः परिकत्थनं तेन मुक्ते रहिते। प्रियं कृत्वाप्य- गर्वित इत्यर्थः । यद्वा अदयनेन निर्दयलेन मदलवेन गर्वलेशेन क्षोदेन हिंसया च मुचे। तथा सह वादेन वर्तते सवादस्तस्मिन्। प्रमाणशाब्ज्ञ इत्यर्थः । तथा अयन्नगच्छत्नच्छी नैर्मल्यं यस्य तत्रायदच्छे। शुद्धिमतीत्यर्थः तथा। गुरुभिः पूज्यैर्जनितो यथ्विरं क्लेशः शुश्रूषाश्रमस्तनैव सन्ने श्रान्ते। न त्वेन्येन। तन्र वा सन्ने सके। तथा अपदान्पदभ्रषन- चतीत्यपदावः। यदि वापगतो दाव उपतापो यस्य तस्मिन्निति। यथैवायं शोकः क्रमेण पठ्यते, एवं व्यतिक्रमेणापीति प्रतिलोमानुलोमः ॥ अथार्धभ्रममाह- सरसायारिवीरालीरसनव्याध्यदेश्वरा। सा नः पायादरं देवी याव्यायागमदध्यरि॥ १८। सरसेति। सा इश्वरा देवी गौरी नोऽस्मानर शीघरं पायादव्यात। या अगमद्गता। कथम्। अध्यरि रिपूनधिकृत्य। कीदृश्यगमत् । अव्याया विगत आयोऽर्थागमो यस्या: सा व्याया, न व्याया अव्याया। सलामेत्यर्थः। तथा अयनमायः, सरसः सरोष आयो रणे गमनं यस्याः सा सरसाया, सा चासावरिवीराली च शत्रुसुभटपद्चिस्स्या रसनेनाखा- दनेन हिंसया विशेषेण भक्कतानामाधीर्मनोदुःखान्यत्ति नाशयतीति सरसायारिवीरालीरस- नव्याध्यदा। यदि वा सरसाया अरिवीराल्या रसेन भावेन नव्या खुत्या। आध्यदा दुःखना- शिका। अर्धभ्रमणादर्षत्रमोऽयम्। न तु सर्वतोभद्रवत्सर्वत्र भ्राम्यति। न्यासः ॥ अथ मुरजबन्ध :- सरलाबहलारम्भतरलालिबलारवा। वारलाबहलामन्दकरला बहलामला ॥ १९ ॥ सरलेति। सर्वभाषाभिरमागधिकाभिः शरद्वर्णने शरोकोऽयम्। तत्र कीदृशी कारद्व- तते। सरलो दीर्घ आ समन्ताद्वहलेन प्रभूतेनारम्मेण तरलानां चञ्चलानामलिबलानां अ्रमरसैन्यानामारवः शब्दो यस्यां सा सरलाबहलारम्भतरलालिबलारवा। तथा वार- लाभिरहसीभिर्वहला संतता। यदि वा वारेण परिपाठ्या लावो लवनं येषां तानि तथा- विधानि हलानि हलकृष्टधान्यक्षेत्राणि यस्यां सा तथाविधा। तथा करं लान्ति गृहन्ति ये ते करला नृपाः । अमन्दा यात्रायां सोदमाः करला यस्यां सा तथाविधा। तथा बहलानि प्रभूतान्यामलान्यामलकीफलानि यस्यां सा तथाविधा। यदि वा बहलमत्यर्थ- ममला निर्मला बहलामला। अत्र मुरजन्रयमर्धमुरजौ चान्ते भवतः। न्यासः॥ अथ सर्वतोभद्रमाह- रसा साररसा सार सायताक्ष क्षतायसा। सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥ २० ॥

Page 59

५६ काव्यमाला।

रसेति। कव्विद्राजानमाह-हे सार उत्कृष्ट, तव रक्षतः पालयतः सतः सा रसा पृथ्वी साररसा उत्कृष्टरसास्तु भवतु। हे आयताक्ष दीर्घलोचन, तथा सा क्षतायसा चासतु। क्षतो नाशित आयोऽर्यागमो यैखे क्षतायाश्चौरादयस्ान्त्यत्यन्तं नयतीति कृत्वा। तथा सातं सुखमवतीति सातावा। श्रेयस्करीत्यर्थः। अस्त्विति सर्वत्र योज्यम्। है अत। अतति नित्यमेवोद्यमं भजत इत्यर्थः । तथा अतासा अक्षया रसा। भवति- त्यत्रापि योग:। तुर्नियमे। रक्षत एव, न त्ववलिप्तस्य। तथा हे अतक्षर तक्षणं तक्ष- खनूकरणं तं राति ददातीति तक्षरः, न तक्षरोऽतक्षरः। पुष्टिद इत्यर्थः। चतुर्दिशं वाच्यत्वात्सर्वतोमद्रोऽयं शोकः ॥ आदिभ्रहणसंगृहीतं पद्माद्युदाहरणमाह- या पात्यपायपतितानवतारिताया यातारिपावपति वाग्भुवनानि माया। यामानिना वपतु वो वसु सा खगेया यागे खसासुररिपोर्जयपात्यपाया ॥ २१॥ येति। सा इना खामिनी गौरी वो युष्मभ्यं यामानष्टावपि प्रहरान्रित्यं वसु धनं वपतु जनयतु। या अपायपतितानापद्वतान्प्राणिन: पाति रक्षतीति । किंभूता सती। अवतारितः प्रापित आयोऽर्यागमो यया सावतारिताया। तथा याता निवृत्तारिता शत्रुभावो यस्यां सा यातारिता। निर्मत्सरेत्यर्थः । या तथा वाक् वचनरूपा सती भुवनानि जगन्ावपति व्याप्रोति। या च तत्त्वतो ज्ञातुमशक्यत्वान्मायेव माया। या च यागे यज्ञे खेनात्मनैव गेया सतुत्या। वातूपत्वात्तस्याः । तथा या चासुररिपोर्विष्णोः खसा भगिनी। या च जयं सर्वोत्कर्षवर्तनं भकानां पाति रक्षतीति जयपा। तथातिकान्ता अपाया अनर्था यया सात्यपाया। निरापदेत्यर्थः । इदमष्टदलं पद्ममिति पूर्वे भणन्ति तन्न सम्य- म्बुध्यते। चतुर्दलं तु बुध्यते। यथा 'या' शब्दोऽत्र कर्णिका अष्टवारान्परावर्त्यते। दलानि द्वादशाक्षराणि। तत्र पार्श्ववर्तिनश्रत्वारश्वत्वारो वर्णा दलसंधिगतत्वाद्विरावर्त्यन्ते॥ अथानुलोमविलोम विपर्यस्ताक्षरपाठेन शरोकाच्छ्रोकान्तरोत्पत्तिमाह। तत्राद्यः श्रोक :- समरणमहितोपा यासतनामारिपाता वनरतिसरमाया वानरा मापसारम्। अमरततवरालीमानमासाद्य नेदू रणमहिमतताशा धीरभावेऽसिराते ॥ २२ ॥ समरणेति। सुग्रीवाज्नदप्रभृतयोऽत्र वानरा वर्ण्यन्ते-वानरा नेदुः। जगदुरित्यर्थः । कीढशाः । समौ तुल्यौ रणमहौ संग्रामोत्सवौ येषां ते समरणमह्या इन्द्रजित्प्रमृतयखे विद्यन्ते येषां ते समरणमहिनों रावणादयस्तांस्तुपन्ति हिंसन्ति ये ते समरणमहितोपाः ।

Page 60

५ अध्याय: ] काव्यालंकारः । ५७

तथा यान्ति गच्छन्तीति या अभियोगिनः, अस्तः परित्यक्तो नामो नतियैंस्तेऽसत- नामा, याश्च तेऽस्तनामाश्च ते च तेऽरयक् शत्रवश्च तान्पातयन्ति नाशयन्तीति यासना- मारिपाताः। यदि वा समशब्दः सर्वनामसु। ततः समरणेषु सर्वसमरेषु महितः पूजित उपायो येषां ते च तेऽस्तनामारिपाताश्वेति समासः। तथा वने रतिर्येषां ते वनरतयो मुनयस्तान्सरन्ति जिघांसयाभिगच्छन्तीति वनरतिसरा राक्षसादयस्तान्मीनन्तीति कर्मं- ण्यणि वनरतिसरमायाः। कर्थ नेदुः। मापसारम्। मा प्रतिषेधे ततश्वाविद्यमानोऽपसा- रश्छेदो यत्र कर्मणि तन्मापसारम्। किं कृता नेदुः। अमरर्देवैस्तता विस्तारिता दत्ता या वराली वरपरम्परा तया मानं पूजां गर्व वासाद प्राप्य। तथा रणमहित्रा युद्धमाहात्म्येन तता व्याप्ता आशा दिशो यैसे तथोकाः। कदा नेदुः । धीरभावे धैर्येडसिना खजेन राते दत्ते सति॥

अस्माच्छ्रोका देकाक्षरव्यवधानेन द्वयोई्योश विपर्ययपाठेनायं शोको निर्याति। यथा- सरमणहिमतोयापास्तमानारितापा वरनतिरसमावायानमारा पर सा। अरमत बत रामा लीनसामाद्यदूने रमणहितमताघीशारवे भासितेरा ।। २३ ।।

सरमणेति। काचिन्मानिनी प्रसन्नात्र वर्ण्यते-सा रामा युवतिरधीशारवे दयितव- चसि परमतिशयेनारमत प्रीति कृतवती। बत विस्मये। चित्रं मानिन्यपि प्रसन्ना यत्। कीदृशी। रमणो दयितः स एव संतापापहारित्वाद्धिमतोयं नीहारजलम्, सह तेन वर्तते यया सा सरमणहिमतोया। अत एवापास्तो निरस्तो सानारितापो गर्वशत्रुजनितोपतापो यया सापास्तमानारितापा। तथा वरा श्रेष्ठा नतिर्मानपरित्यागेन प्रणतिर्यस्याः सा वर- नतिः। यद्वा वरे भर्तरि नतिर्यस्याः । तथा असमा सर्वोत्कृष्टा। तथा अवति रक्षत्या- समानं प्रियं वेत्यवा। न विद्यते यानं गमनमस्येत्ययानः स्थिरो मारः कामो यस्याः साया- नमारा। तथा लीनं संबद्ध साम कोमलवचनं यस्याः सा लीनसामा। प्रियभाषिणीत्यर्थः। कीदशे5घीशारवे। आद्यः प्रधानभूतः, दून उपतप्तो गद्गदः, आद्यक्ष दूनक् तत्राद्यदूने। रामा कीदशी। रमणस्य प्रियस्य हिता च मता च। अनुकूलतादिष्टेत्यर्थः । तथा भा- सिता शोमिता इरा वाणी यस्याः सा भासितेरा। मधुरवागित्र्थः । अस्माच्छोकात्तथैव पूर्वश्रोको निर्याति। एवमन्येऽपि चित्रप्रकारा महाकाव्येभ्योऽवधार्याः । सर्वेषां स्वरूप- दर्शन कर्तुमशक्यमानन्त्यादिति। एतेषु यमकश्लेषचित्रोदाहरणेषु व्याख्यानान्तराण्यपि महामतिकृतानि दष्टानि, परमेकैकमेव चार्वित्येकैकमेव लिखितम्। यत उक्त सु- धीमि :- 'व्याख्यानमनेकविधं लिज्गमबोधस्य धूम इव वहेः। स्पषटं मार्गमजानन्स्पृशत्य- नेकान्पथो सुह्यन्' इति॥ का० लं० ६

Page 61

५८ काव्यंमाला।

अथ य एते मात्राच्युतादयस्ते किमलंकाराः, उत नेत्याशक्ट्याह- मात्राबिन्दुच्युतके प्रहेलिका कारकक्रियागूढे। प्रशोत्तरादि चान्यत्क्ीडामात्रोपयोगमिदम् ॥।२४॥ मात्रेति। च्युतकशब्दो गूढशब्दश्वोभयत्र संबध्यते। ततथ मात्राच्युतकबिन्दुच्युत- कप्रहेलिकाकारकगूढक्रियागूढानि प्रश्नोत्तरादि। चः समुचये। अन्यत्पूर्वालंकारेभ्यो व्यतिरिक्त तत्क्ीडामात्रोपयोगम्। मात्रग्रहणेनाल्पप्रयोजनतां सूचयति। अल्पप्रयोजन- लादेवालंकारमध्ये न संगृहीतम् । काव्येषु च दर्शनाद्वक्तव्यमिति॥ तल्लक्षणं यथाक्रममाह- मात्राबिन्दुच्यवनादन्यार्थत्वेन तच्चयुते नाम। स्पष्टप्रच्छन्नार्था प्रहेलिकाव्याहृतार्था च ।। २५। प्रच्छन्नत्वाद्धवतसतदूढे कारकक्कियान्तरयोः । प्रश्नानां च बहूनामुत्तरमेकं भवेद्यत्र ॥ २६ ॥। प्रश्नोत्तरं तदेतव्यस्तसमस्तादिभिर्भवेद्वहुघा। मेदैरनेकभाषं. व भिदयते ॥ २७ ॥ मात्राबिन्दुच्यनादिति। प्रच्छन्नत्वादिति। प्रश्नोत्तरमिति मात्रायाः खरस्य, तथा बिन्दोरनुख्ारस्य च्यवनाऋ्ंशाद्वेतोरन्यार्थलेन भिन्नाभिधेयत्वेन तच्चयुते मात्राबिन्दुच्युते भवतो नाम। प्रहेलिका द्विधा। स्पष्टप्रच्छन्नार्था व्याहृतार्था च। तत्र स्पष्टः पदारूढ- तात्प्रच्छन्नश्व प्रश्नवाक्य एवान्तर्गतत्वेन भ्रमकारित्वादर्थो यस्याः सा तथाविधा। तथा- साधारण विशेषणोपादानादेवाधिगतत्वेनाव्याहृतः। साक्षादनुक्तोऽर्थों यस्यां सा तथाभूता द्वितीया। तथा कर्त्रादिकारकाणां गूढलादप्रकटत्वात्कारकगूढम्। क्रियापदानां तु प्रच्छन्नत्वात्किरियागूढम् । तथा प्रश्नोत्तरमेतदत्र बहूनां प्रश्नानां वचनस्यातत्रत्ादेकस्य द्वयोवैंकमेवोत्तरं भवेत् । एतच् प्रश्नोत्तरं व्यसतसमस्तादिभिः, आदिग्रहणाद्वतप्रत्या- गतैकालापकप्रतिलोमानुलोमादिभिर्भेदैबहुधा भवेत्। तथैकभाषत्वेनानेकभाषत्वेन च भिद्यते। अधुनैतेषामेव यथाक्रममेकैकमुदाहरणं दिक्प्रदर्शनार्थमाह- नियतमगम्यमद्दश्यं भवति किल त्रस्यतो रणोपान्तम्। कान्तो नयनानन्दी बालेन्दुः खे न भवति सदा ॥ २८ ॥ नियतेति। त्रत्यतो बिभ्यतो नरस्य। किलेति सत्ये। रणोपान्तं समरनिकटं नियतं निश्चितमगम्यमप्राप्यमदृदश्यमनवलोकनीयं भवति। इत्येकवाक्यार्थः। अत्र मात्रया ककार- गतेकाररूपया च्युतयान्य एवार्थों भवति मात्राच्युतके च सर्वत्र मात्रापगमेऽप्यकारा- न्ततावस्थितिः। उच्चारणार्थत्वादकारस्य। तन्रान्योऽर्थो यथा-कलन्नस्य दाराणां तो-

Page 62

५ अध्याय: ] काव्यालंकारः। ५९ रणोपान्तं तोरणनिकटं राजपथो नियतमगम्यमद्दश्यं च भवति। कुलवधूतादिति। बिन्दुच्युतकमाह-कान्त इत्यादि। कश्चित्कंचिदाह-एष बालेन्दुरपूर्णचन्द्रः खे वियति सदा न भवति। कान्तः कमनीयः । अत एव नयनानन्दी नयनानन्दकरः। अत्र बिन्दौ च्युतेऽर्थान्तरं भवति। इदं काचित्सखीमाह-हे बाले मुग्धे, कान्तो वल्लमो नयनानन्दी दुःखेन क्लेशेन भवति सदा। तस्मान्मैनं तिरस्कार्षीरिति शेषः । व्यज्नच्यु- तकाक्षरच्युतकेत्यादिग्रहणात्संगृहीते तदुदाहरणे अप्यनयैव दिशा द्रष्टव्ये।। अथ स्पष्टप्रच्छन्नार्थप्रहेलिकामाह- कानि निकृत्तानि कथं कदलीवनवासिना खयं तेन। कथमपि न दृश्यतेऽसावन्वक्षं हरति वसनानि ॥ २९॥ कानीति। कदलीवनवासिना रम्भावनगतेन नरेण कानि निकृत्तानि कानि च्छिन्नानि। कथं केन प्रकारेणेति प्रश्ने। स्पष्टोऽपि प्रच्छन्नोऽर्थः । स चायम्-कानि शिरांसि मस्त- कानि निकृत्तानि। कथम्। कदलीव रम्मेव। केन। असिना खङ्गेन । कियन्ति। नव नवसंख्यानि। खयमात्मना। तेन दशाननेन। कथंशब्दोऽत्र विस्मये। चित्रमिदं यत्खयं तृणराजवदात्मनः शिरांसि च्छिन्नानीत्यर्थः । प्रश्नोत्तरात्त्वस्या अयमेव विशेषो यत्प्रश्न- वाक्येनैवोत्तरदानम्। अथ व्याहृतार्थामाह-कथमपीत्यादि। असौ कश्चिदन्वक्षं प्रत्यक्ष- मेव वसनानि वस्त्राणि हरति। अथ च कथमपि न दृश्यते नावलोक्यते। अतः कोरडयं स्यात्। अन्रासाधारणविशेषणोपादानाद्वायुरिति गम्यते। नान्यस्य चौरादेरेवंविधा शक्तिरिति। प्रश्नोत्तराच्चास्या वायुर्वातः समीर इत्याद्यनियतशब्दतं विशेषः ॥ अथ कारकगूढमाह- पिबतो वारि तवास्यां सरिति शरावेण पातितौ केन। वारि शिशिरं रमण्यो रतिखेदादपुरुषस्येव ।। ३० ।। पिवत इति। कश्चित्कंच्विदाह-तवास्यां सरिति नयां शरावेण वर्धमानकेन भाजन- विशेषेण जलं पिबतः केन पातितौ। कौ पातिताविति साकाङ्कवात्कर्मात्र गूढम्। तच्चैवं प्रकटम्-हे एण मृग, तवास्यां सरिति वारि पिबतः केन शरौ बाणौ पातिताविति। अथ क्रियागूढम्-वारि शिश्षिरमित्यादि। वारि जलम्, शिशिरं शीतलम्, रमण्यो नार्यः, रतिखेदान्निधुवनायासादपुरुषस्येव। अत्र क्रिया गुप्ता। सा चेयम्-रमण्यो रतिखेदा- द्वारि शिशिरमुषस्येव प्रभात एवापुः पीतवत्यः। अथ प्रश्नोत्तरमाह- उद्यन्दिवसकरोSसौ किं कुरुते कथय मे मृगायाशु। कथयानिन्द्राय तथा किं करवाणि क्वणितुकामः ॥ ३१॥

Page 63

६० काव्यमाला।

अहिणवकमलद्लारुणिण माणु फुरत्तिण केण। जाणिज्जई तरुणीअणस्स निद्धा (?) भण अहरेण ॥ ३२ ।। उद्यन्निति। अहिणवेति। कश्चिन्मूर्खलेन मृग: सन्कंचन पृच्छति-यथा मह्यं मृगाय त्वं कथय। एष दिवसकरः सूर्य उद्यन्नुदयं प्राम्ुवन्किं कुरुत इत्येक: प्रश्नः। अप- रमाह-अनिन्द्रायाशकाय मह्यं कथय निवेदय। क्वणितुकामः शब्दितुकामः सन्नहं किं करवाणि किं करोमीति द्वितीयः । उत्तरानुरोधेन चात्र मृगायेत्यनिन्द्रायेति च प्रश्नवाक्येऽभिहितम्। वक्तृबहुत्ख्यापनार्थमनेकभाषत्वख्यापनार्थ तृतीयप्रश्नोऽयं प्राकृ- ते च यथा-अहिणवेत्यादि। कश्चित्सुहृदमाह-अभिनवकमलद्लारुणेन स्फुरता केन तरुणीजनस्य मानो लक्ष्य इति भण वद। निद्धेत्यामन्रणपदम् (?)। अत्र यथाकमं यथाभाषं चोत्तरमाह-अहरेणेति । तत्र-अहर्दिनम्। एण हे मृग। तथा अहरेऽ- निन्दर। अण शब्दं कुरु। तथा प्राकृतोत्तरम्-अहरेणाधरेण। ओष्ठेनेत्यर्थः। इत्युत्तरत्रयं युगपदुकम् । एतदनेकवक्तृकमनेकभाषं व्यस्तसमस्तं च प्रश्नोत्तरम्। एकवक्तृकं त्र्यादि- भाषं च प्रश्नोत्तरजातमन्यत्र विस्तराद्वगन्तव्यम् ।।

इत्थं स्थितस्यास्य दिशं निशम्य शब्दार्थवित्क्षोदितचित्रवृत्तः । आलोच्य लक्ष्यं च महाकवीनां चित्रं विचित्रं सुकविर्विदध्यात्।।३३।। इत्थमिति। अस्य चित्रस्येत्थं पूर्वोक्तप्रकारेण स्थितस्य दिशं मार्ग निशम्य श्रुत्वा तथा महाकवीनां लक्ष्यमुदाहरणं चालोच्य विमृश्य ततः सुकविश्चित्रमलंकारं चित्रं नाना- विधं विदध्यात्कुर्यात्। किंविशिष्टः सन्। शब्दार्थो वेत्ति शब्दार्थवित्। तथा क्षोदि- तानि पर्यालोचितानि चित्राणि नानाविधानि वृत्तानि तनुमध्यादीनि येन स तथाविधः। यतः किल न सर्वेण वृत्तेन सर्व चित्रं कर्तु पार्यते। तथालोच्य वीक्ष्य, लक्ष्यमुदाहरणम्, महाकवीनां सुकवीनाम्। चित्रकरणे किल लक्षणाभावाल्लक्ष्यदर्शनमेव महानुपाय इति कृत्वा।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चमोऽध्यायः समाप्त: ।

षष्ठोध्यायः। शब्दस्यालंकारानभिधायेदानीं तद्दोषानभिधित्सुराह- पदवाक्यस्थो दोषो वाक्यविशेषप्रयोगनियमेन। यः परिहृतस्ततोऽन्यस्तदतिव्याप्िश्र संहियते ॥ १ ॥ पदवाक्यस्थ इति। पूर्वम् 'अन्यूनाधिक-' (२८)इत्यादिना अ्न्थेन काव्योपयोगिनो वाक्यविशेषस्य प्रयोगे नियमेन यः पदस्थो वाक्यस्थश्च दोषः परिहृतः ततो दोषादन्यो-

Page 64

६ अध्याय: ] काव्यालंकारः । ६१

Sसमर्थाप्रतीतादिकः समिति संप्रति हियते परिहियते। तया तस्माच््यूनादिकस्यासमर्था- दिकस्य च दोषस्य यातिव्याप्तिरतिप्रसक्तिः सा च संहियते संकोच्यते। ननु पूर्वत्र वाक्यस्थ एव दोषः परिहृतो न पदस्थस्तत्कथमिहोच्यते पदवाक्यस्थ इति। सत्यम्। अन्यूनाधिकविशेषणविशिष्टैः पदैर्वाक्यस्य नियमितत्वात्पदस्थोऽपि दोषसेन परिहृत एवेति। तर्हि पदग्रहणमत्र न कर्तव्यमाशङ्कानिरासार्थम्। यतः कश्विदाशङ्ड्येत यथा वाक्यस्थ एव दोषस्ते परिह्ृतो न पदस्थ इति । तथा पदग्रहणाभावे ततोऽन्य इति। वक्ष्यमाणदोषोऽपि पदस्योक्तो न स्यादिति। पृथक्करणं तु तस्य दोषस्य महीयस्तख्या- पनार्थम्। न्यूनाधिकादिदोषो हि नेत्रोत्पाटतुल्यः । असमर्थादिकस्तु पटलनिभ: ॥ अथ तानेवान्यान्दोषानाह- असमर्थमन्रतीतं विसंधि विपरीतकल्पनं आम्यम्। अव्युत्पत्ति च देश्यं पदमिति सम्यग्भवेदुष्टम् ॥ २ ॥ असमर्थमिति। इतिशब्दो हेतौ, स च प्रत्येकं संबध्यते। असमर्थमिति हेतोः पद दुष्ट भवेत्। एवमप्रतीतमित्यादौ बोध्यम्। सम्यक्शब्दो नियमार्थः । अवश्यं दुष्टमित्यर्थः । चशब्दः समुचये। अन्यैरनुक्त व्युत्पत्तिहितं देश्यमसमर्थादिदोषमध्ये समुचीयत इत्यर्थः॥ यथोद्देशस्तथा लक्षणमिति पूर्व मसमर्थलक्षणमाह- पदमिदमसमर्थ स्याद्वाचकमर्थस्य तस्य न च वक्तुम्। तं शक्ोति तिरोहिततत्सामर्थ्य निमित्तेन॥ ३ ॥ पदमिति। यत्पदं तस्य निर्दिष्ठार्थस्य वाचकम्। अथ च तमेवार्थ वक्तुं न शक्कोति तदा- समर्थम् । वाचकं चेत्कर्थ न शक्कोतीत्याह-निमित्तेन केनचिच्छव्दान्तरसंबन्धादिना तिरोहितं स्थगितं तत्रार्थे सामर्थ्य वाचकतं यस्य तत्तमभिधातुं न शक्कोतीति। एतेना- वाचकत्दोषादसामर्थ्य दोषमेद उक्तः ॥ सामन्येनाभिधायैतदेव विशेषेणाह- धातुविशेषोऽर्थान्तरमुपसर्गविशेषयोगतो गतवान्। असमर्थः स खार्थे भवति यथा प्रस्थितः स्थाननौ॥ ४॥ धातुविशेष इति। धातुविशेषस्तिष्ठत्यादिरुपसर्गविशेषेण प्रादिना योगतः संबन्धा- द्वेतोरर्थान्तरं गतिनिवृत्यादिलक्षणादन्यमर्थ गतवान्प्राप्तः सन्खार्थेऽसमर्थो भवति। तमर्थ वक्तुं न शक्कोतीत्यर्थः। यथा प्रस्थितशब्दः स्थास्नावर्थे। विशेषग्रहणमुभयत्र न सर्वो धातुः सर्वेणोपसर्गेण संबन्धे सत्यर्थान्तरं याति। अपि तु कश्चिदेव केनचिदेवेत्यस्यार्थस्य सूच- नार्थम्। तथाहि प्रेण योगे तिष्ठत्यादिरेवार्थान्तरं याति न तु यातिप्रभृतिः । तथा तिष्ठ- तिरपि प्रेण योगे न लवादिना। आकुलनिधनादीनि कलधौतकार्तखरवच्छव्दान्तराण्येव। न नामोपसर्गयोग उदाहृतः ।

Page 65

६२ काव्यमाला।

प्रकारान्तरेणासमर्थमाह- इदमपरमसामर्थ्य घातोर्यत्पठ्यते तदर्थोSसौ। न च शक्कोति तमर्थ वक्तुं गमनं यथा हन्ति ॥ ५॥ इदमिति। इदमन्यदसामर्थ्य धातोः, यत्तदर्थोऽसौ धातुः पठ्यते न च तं निर्दिष्टमर्थ वक्तुं शक्कोति। यथा 'हन् हिंसागत्योः' इति पाठेऽपि। हन्तीत्युक्ते हिनस्तीति प्रतीयते न च गच्छतीति। यमकश्लेषचित्रेषु गत्यर्थोऽपि दश्यते। अत एवाल्पोडयं दोषः ॥ पुनः प्रकारान्तरमाह- शब्दप्रवृत्तिहेतौ सत्यप्यसमर्थमेव रूढिबलात्। यौगिकमर्थविशेषं पदं यथा वारिधौ जलभृत्॥ ६ ॥ शब्देति। यौगिकं संबन्धजं क्वचिदर्थविशेषेSसमर्थमेवावाचकमेव पदम्। तत्र तदर्थ- स्याभाव इति चेन्न। शब्दप्रवृत्तिहेतौ सत्यपि विद्यमानेऽपि। अपिर्विस्मये। चित्रमिद- मित्यर्थः । यदि शब्दप्रवृत्तिहेतुतं कथं तर्ह्यसमर्थत्वमित्याह-रूढिबलात्प्रसिद्धिबलात्। क्कचिदेव किंचिदेव शब्दरूपं वाचकलेन रूढमतस्तत्रैव प्रवर्तते नान्यत्र। एवकारोऽवधा- रणे। असमर्थमेव न तु समर्थम्। उदाहरणं यथा वारिधौ जलभृदिति। जलधारण- क्रियालक्षणे प्रवृत्तिनिमित्ते सत्यपि जलभृच्छव्दो वारिधिं समुद्रमभिधातुमसमर्थः । मेघ एव तस्य रूढित्वादिति॥ भूयोऽपि मेदान्तरमाह- निश्चीयते न यस्मिन्वस्तु विशिष्टं पदे समानेन। असमर्थ तच्च यथा मेघच्छविमारुरोहाश्वम्॥७॥ निश्चीयत इति। यस्मिन्पदे तदर्थाभिधायिन्यपि विशिष्ट वस्तु न निश्चीयते तदप्य- समर्थम्। कथ न निश्चीयत इत्याह-समानलात्। समानस्तुल्यो मान: परिच्छेदो विव- क्षितेऽन्यत्र च वस्तुनि येन पदेन तत्तथा तद्भावस्तत्त्वम्। तस्मादनेकार्थवाचकत्वादि- त्यर्थः । यथा मेघच्छविमारुरोहाश्वमित्युक्ते मेघानामनेकवर्णानां दर्शनान्न निश्चयः कर्तु पार्यते। यत्र तु निश्चयस्तत्समानार्थमपि साध्वेव। यथा-'लक्ष्मीकपोलसंक्रान्तकान्त- पत्रलतोळ्वलाः । दोर्डमा: पान्तु वः शौरेर्घनच्छाया महाफलाः ॥' अत्र हि शौरिः कृष्णवर्ण इति ॥ इदानीमस्यैवासमर्थदोषस्यातिव्याप्तिं संहर्तुमाह- यत्पदमभिनयसहितं कुरुतेरऽर्थविशेषनिश्चयं सम्यक्। नैकमनेकार्थतया तस्य न दुष्येदसामर्थ्यम्॥८॥ यदिति। यत्पदं विशेषणभूतमनेकार्थतया विवक्षितविशिष्टार्थविशेषनिश्चयं सम्यक्ुरुते। किंभूतं सदभिनयसहितम्। तस्य। सामर्थ्य 'निश्चीयते न यस्मिन्' (६।७) इत्यनेन प्राप्तं दोषाय न भवति॥

Page 66

६ अध्याय: ] काव्यालंकारः । ६३

नन्वर्थस्य शब्दो वाचको न लभिनयः, तत्कर्थ तेनार्थविशेषनिश्चयः क्रियत इत्याह- शब्दानामत्र सदानेकार्थानां प्रयुज्यमानानाम्। निश्चीयते हि सोऽर्थः प्रकरणशब्दान्तराभिनयैः ॥ ९॥ शब्दानामिति। हि यस्मादत्र काव्येऽनेकार्थानां शब्दानां प्रयुज्यमानानां स विव- क्षितोऽर्थ: प्रकरणेन प्रस्तावेन शब्दान्तरसंनिधानेन वाभिनयेन वा निश्चीयते। तत्र प्रकरणे यथा-'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्' इत्यत्र हिम- वानेव महीभृदुच्यते। शब्दान्तरेण यथा-'कोपादेकतलाघातनिपतन्मत्तदन्तिनः । हरे- र्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥' अत्र दन्तिहरिणशब्दसंनिधानात्सिंह एव हरिर्नि- खीयते। अभिनयने र्थविशेषप्रतीतावुदाहरणं सूत्रकार एव दास्यति। यतः प्रकरण- शब्दान्तरे प्रसिद्धत्वादुपमाने। अभिनयस्तु प्रस्तुतत्वादुपमेयः । तथा ताभ्यां विवक्षिता र्थनिश्चयस्तथाभिनयेनापीत्यर्थः ॥ तदेवोदाहरणमाह- सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि। एतावतीमवस्थां याता दिवसैरियन्मात्रैः ॥ १० ॥ सेति। अत्रेयन्मात्रैतावच्छन्दौ महति खल्पे च वर्तेते। ततोभिनयेन विशेषप्रती- विरयथा-हे सुन्दर, सा सुतनुस्तव विरहे इयन्मात्रलोचना। प्रसृत्यभिनयेन विशाललो- चनेति निश्चीयते । तथैतावतीमवस्थां यातेति । अत्रोर्ष्वीकृतकनिष्ठिकाङ्गुल्या कृशलं प्रतीयते। दिवसैरियन्मात्रैरित्यत्र पश्चाङ्कुलिदर्शनेन खवल्पत्वं चेति। अथाप्रतीतमाह- युक्तया वक्ति तमर्थ न च रूढं यत्र यदभिधानतया। द्वेघा तदप्रतीतं संशयवदसंशयं च पदम् ।। ११ ।। युत्त्येति। तदप्रतीतं यद्युत्त्या गुणक्कियायोगेन तं विवक्षितमर्थ वक्ति प्रतिपादयति। अथ च तत्रार्थाभिधानतया वाचकलेन न रूढं न प्रसिद्ध तच्चाप्रतीतं द्वेधा। कर्थ संशय- वदसंशयं वेति।। तत्र संशयवद्यथा- साधारणमपरेष्वपि गुणादि कृत्वा निमित्तमेकस्मिन्। यत्कृतमभिधानतयार्थे संशयवद्यथा हिमहा ॥ १२ ॥ साधारणमिति। यत्पदं गुणक्रियादिनिमित्तमुद्दिश्यान्येष्वप्यर्थेषु साधारणं सदेकस्मि- न्विशिष्टेऽर्येsभिधानतया संज्ञात्वेन कृतं न तु विशेषणत्वेन तदनेकार्थतयैकत्र निश्चयानु- त्पादनात्संशयवदप्रतीतम्। उदाहरणं यथा-हिमहेति। अन्र हिमहननलक्षणया क्रिय- यैतत्पदं रवौ वहौ च साधारणम्। अमिधानतया चैकन्नापि न रूढम्। अत एकत्र

Page 67

६४ काव्यमाला।

प्रयुज्यमानं संशयं कुर्वीत। अथ किमेतत् 'शब्दप्रवृत्तिहेतौ सत्यपि' (६।६) इत्यनेनास- मर्थलक्षणेन न परिहृतम्। नेत्युच्यते। यतो यदेकत्र रूढमन्यत्र तु तदर्थसद्धावेऽपि न प्रयोगाईं तत्तस्य विषयः । इह तु यत्क्वचिदपि न रूढं युक्त्या च तदर्थवाचकतवं तदेक- त्रार्थेनुचितमिति स्फुट एव भेदः। तथा 'निश्चीयते न यस्मिन्' (६।७) इत्यस्याप्ययम- विषयः । यतस्तत्र विशेषणपदं संशयकारि निषेध्यम्। अथासंशयमाह- पदमपरमप्रतीतं यद्यौगिकरूढशब्दपर्यायैः । कल्पितमर्थे तस्मिन्यथाश्वयोषिन्मुखार्चिष्मान् ॥१३ ॥ पदमिति। अपरमिदं पदमप्रतीतं यद्यौगिकानां संबन्धजानामथ च रूढानां संज्ञात्वेन प्रसिद्धानां पर्यायैस्तस्मिन्विवक्षितेऽर्ये कल्पितमभिधानतया प्रयुक्तम्। यथा वडवामुखा- नलशब्दे वाच्येऽश्वयोषिन्मुखार्चिष्मानिति शब्दः । स ह्यश्विमुखसादृश्यादौर्वामी यौगिको रूढिशब्दश्च। तत्र वडवापर्यायोऽशयोषिदिति, अनलस्यार्चिष्मानिति। मुखशब्दः स्रू- पेण प्रयुक्तः। केचित्त्वश्वयोषिद्वदनवहिरिति पठन्ति। एवंविधं पदं विवक्षितमर्थ निर्विक- ल्पमेव प्रत्यापयति। केवलं न तथा रूढमिति दुष्टम् । यथा माघस्य-'तुरङ्गकान्ता- मुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास'। अल्पश्चायं दोषः, महाकविभिरपि प्रयुक्त- त्वात्। अथ किमेतावसमर्थाप्रतीतदोषाववाचकत्वेन परिहतौ। नेत्युच्यते। यतो यत्किं चिदपि तमर्थ नाभिधत्ते तदवाचकम्। इह तु पदमर्थाभिधायकमेव। केवलं पदान्तरसं- निधानादसामर्थ्यमरूढ्या चाप्रतीतत्वमागतमिति॥ अथ विसंधिपदमाह- यस्यादिपदेन समं संधिर्न भवेद्भवेद्विरुद्धो वा । तदिति विसंधि स इत्थं मन्थरया भरत आहूतः ॥ १४ ॥ यस्येति। यस्य द्वितीयपदस्यादिपदेन सार्ध संधिः संधानं न भवेद्धवन्नपि विरुद्धार्थ- त्वाद्विरुद्धो वा भवेत्तत्पदं विसंधि। विरुद्धार्थो विशब्दः। ननूभयाश्रयत्वात्संघेः किमिति द्वितीयपदमेव विसंधि भण्यते, न त्वाद्यम्। सत्यम् । यतो द्वितीयपदे सत्येव विसंधि- तवमायाति। ततस्तस्य तदुक्तम्। उभयत्रोदाहरणमाह-स इत्यादि। स भरतो मन्थ- रया कुब्जयेत्थमाहूत आकारितः । स इत्थमिति, भरत आहूत इति चासंध्युदाहरणम्। मन्थरया भरत इति तु विरुद्धसंधिनिदर्शनम्। संहितापाठे सति पदभङ्गवशान्मन्थरे याभे मैथुने रत इति प्रतीपोर्ऽर्यो गम्यते।। नन्वेवं विसंधिपदे दूषिते सति सर्वमेव पूर्वकविलक्ष्यं दूषितं स्यादित्याशक्क् विशे- षमाह- तत्रासत्संधि पदं कृतमसकृदयुक्तितो भवेहदष्टम्। दूरं तु वर्जनीयं विरुद्धसंधि प्रयलनेन ॥१५ ॥

Page 68

६ अध्याय: ] काव्यालंकारः। ६५

तत्रेति। तत्र द्वयोर्मध्याद्यदसंधि तदसकृत्कृतं पुनःपुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदा- सं्लेषाहुष्टं भवति। यथा-'कान्ते इन्दुशिरोरलने आदधाने उर्दशुनी। पातां वः शंभुश- र्वाण्यावितो दुःखाकुलाद्भवात् ।।' इत्यादि । विरुद्धसंधि पुनःपदं दूरमतिशयेन प्रयन्नतो वर्जनीयमेव।। अथ विपरीतकल्पनमाह- पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति। विपरीतकल्पनं तद्भवति पदमकार्यमित्रमिव ॥ १६॥ पूर्वार्थेति। यस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एवाव्याख्यात एवार्थ: संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम्। निदर्शनमाह-अकार्यमित्र- निनेति। अत्र ह्यकार्यसकृत्रिमं मित्रमकारणबन्धुरित्ययमर्थो विवक्षितोऽप्यकार्ये पापे मित्र- मिति विरोध्यर्थों झगित्येव प्रतिभाति। ननु विरुद्धसंधित्वेन किं न परिहृतमेतत्। न परिहतम्। तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संच्यभावेऽपीति ।। अथ ्राम्यमाह- यदनुचितं यत्र पदं तत्तत्रैवोपजायते आ्रम्यम्। तद्व क्तृवस्तुविषयं विभिद्यमानं द्विधा भवति ॥ १७॥ यदिति। यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते। एतदुकक भवति, न खाभाविकं पुरुषस्येव शब्दस्य आ्रम्यत्वम्, अपि तु विषयमेदेन । तच् आ्रम्यं वक्त वस्तुविषयत्वेन भिद्यमानं सद्विधा द्विमेदं भवति। अत्र यद्स्तुनि वक्तुमुचितं वक्त्तरि खनुचितं तद्वक्तृविषयं आ्रम्यम्। विपरीतं तु वस्तुविषयमिति।। तत्र वक्तृग्राम्यमाह- वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया। तत्र च कश्ित्किंचिन्नैवार्हति पदमुदाहर्तुम् ॥ १८॥ वक्तेति। वक्ताधममध्यमोत्तमया प्रकृत्या खभावेन त्रिधा त्रिप्रकारो भवति। तत्रा- धमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मुनि- नृपतिप्रभृतयः । अथ बालयुववृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते। तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव। सत्यम् । अर्थविषयमेव तद्ाम्यत्वम् । तच् तत्रैव परिहरिष्यते 'ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्' इत्यनेन। तत्र तेष्वधमम- ध्यमोत्तमेषु वक्तृषु मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुँ वक्तुं नैवार्हति न योग्यो भवति॥ तत्र दिक्ात्रप्रदर्शनायाह- तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम्। भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ १९ ॥

Page 69

६६ काव्यमाला।

तत्रभवन्निति । गरीयस उत्तमान्सुरमुनिप्रभृतींस्तत्रभवन्भगवञ्शब्दवाच्यानप्यधमो वक्तैवमादिभि: शब्दैरवकुं नाहति न योग्यो भवति। वक्तृविषयं पदमिदमनुचितम्। तथैतान्गरीयसोभट्टारकशब्दयोग्यानप्यन्य उत्तमखभावो राजादिर्वक्तुं नार्हति। इति- शब्दौ खरूपनिर्देशाथौं। चशब्दोऽनुक्तस्वामि प्रभृतिशब्दसमुच्चयार्थः । भट्टारकेति स्ामि- त्रित्यादि वेत्यर्थः ॥ इदानीं वस्तुविषयं ग्राम्यमाह- तत्रभवन्भगवन्निति नैवार्हत्युत्तमोऽपि राजानम्। वक्तुं नापि कर्थंचिन्मुनिमपि परमेश्वरेशेति ॥ २०॥ तन्नभवन्निति । उत्तमो मुनिमन्त्रिप्रमृतिस्तत्रभवदादिपूजापदानि वक्तुं योग्योऽपि राजानमेभिः पूजापदैर्वक्तुं नार्हति। वस्तुविषयमेतदनौचित्यम्। राजा हि परमेश्वरादिभिः शब्दैर्वाच्यो न तु तत्रभवदादिभिरिति। तथा स एवोत्तमो राजा मुनिं तपोधनं परमे- श्ररेशेत्यादिभिरामत्रणपदैः कदाचिदपि वक्तुं नार्हति। नियतविषया 'हि शब्दास्तेऽन्यत्र केलिं विना प्रयुज्यमाना अनौचित्यज्ञतां गमयेयुरिति आ्म्यतं तेषाम्। आस्तां ताव- दघम उत्तमोऽपि नार्हतीत्यपिशब्दार्थः । दिब्यान्रप्रदर्शनं चैतत्। विस्तरस्तु भरतादव- गन्तव्यः ॥ भूयोऽपि प्राम्यविशेषमाह- पदमिदमनुचितमपरं सभ्यासभ्यार्थवाचि सभ्येऽर्थे। तद्धि प्रयुज्यमानं निदधाति मनस्यसभ्यमपि ॥ २१॥ पदमिति। इदमपर पदमनुचितं आ्रम्यं यत्सभ्यासभकार्थवाचकं सत्सभ्येऽर्थे प्रयुज्यमा- नम्। सभायां पर्षदि वक्तुं योग्यः सभ्यस्ततोड्मीउत्तम्पोऽयः । कुतोऽनुचितम् । हिर्य- स्मादर्थे। यतस्तत्प्रयुज्यमानं सन्मनसि चेतस्यसममष्पय विदणति स्फुरयति। नन्वेवं- विधस्य पदस्योभयार्थवाचकत्वादसभ्योऽपि प्रयोगे न स्वात्ततश्वास्य प्रयोगोच्छेद एवा- गतः । नैतत्। अदुष्टो ह्यर्थों दुष्टेन दूष्यते न तु दुष्टः साधुनेति ॥ निदर्शनमाह- वारयति सखी तस्या यथा यथा तां तथा तथा सापि। रोदितितरां वराकी बाष्पभरक्किन्नगण्डमुखी॥ २२ ॥ वारयतीति। तस्या नायिकायाः सखी यथा यथा तां वारयति तथा तथा सा वराकी रोदितितराम्। कीटशी। वाष्पभरेण क्विन्नगण्डमार्द्रकपोलं मुखं यस्याः सा तथाविधा। अत्र क्विन्नगण्डशब्दावार्द्रकपोले सभ्येऽर्ये प्रयुक्तावपि पूययुक्तपिटकत्वलक्षणमसभ्यमप्यर्थ स्फुरयतः । यतोऽसभ्यद्वययोगाच्चात्र विशेषणविशेष्यभावे सति दुष्टतरार्थत्वस्।।

Page 70

६ अध्याय: ] काव्यालंकारः । ६७ अथैतदतिव्याप्तिपरिहारार्थमाह- अर्थविशेषवशाद्वा सभ्येऽपि तथा कचिद्विमक्तेर्वा। अनुचितभावं मुश्चति तथाविधं तत्पदं सदपि ॥ २३ ।। अर्थेति। ग्रम्यं यत्पदं तत्तथाविधं आ्रम्यं सदपि क्वचित्सभ्येऽर्ये उच्चितभावं आ्रम्यतं सु्ति। कुतोऽर्थविशेषवशाद्वा, विभक्तेवी। वाशब्दौ विकल्पार्थौ। विशिष्टसभ्यार्थग्र- योगाद्वा विभक्तिविशेषाद्वेत्यर्थः । अपिर्विस्मये संभावने वा। तथाशब्दः समुच्चयार्थः । पदमेतद्दोषाभावमध्ये समुचचीयते । क्वचिच्छब्दो विरललप्रतिपादनार्थः । क्वचिदेवार्थवि- शेषे न सर्वत्रेत्यर्थः ॥ निदर्शनमाह- कथमिव वैरिगजानां मदसलिलक्किन्नगण्डभित्तीनाम्। दुर्वारापि घटासौ विशांपते दारिता भवता ॥ २४ ॥ कथमिति। निगदसिद्धम्। अत्रार्थविशेषो गजो वीररसथ। कर्थ तर्हि नायिकाया बाहुल्येन दृश्यते। यथा-'धृतबिसवलये निधाय पाणौ मुखमधिरूषितपाण्डुगण्डलेखम्। नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदष्यौ ।।' कामिनीलक्षणोऽर्थविशेषो पत्रापीति चेत्तर्हि 'वारयति सखी तस्याः' (६।२२) इति दुष्टले कथमुदाहरणम्। पाण्डशब्द- संनिधानादत्रानुप्रासलेन रम्यत्वाददोष इति नोत्तरम्। विनापि पाण्डुशब्दप्रयोगं दर्श- नात् । 'दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः' इत्यादिषु । तस्मात्पूर्वकविलक्ष्याणां बाहूनां दुष्टत्वमायाति। अत्रोच्यते-क्विन्नशब्दसंनिधानादेव गण्डशब्दस्यासभ्यत्वं स्फुरति न त्वन्यदा। इत्येतदेव दर्शयितुमुदाहरणे नथैव प्रयुक्तवानिति। विशापते इत्यत्र षष्ठीबहुवचनवशान्न विद्शव्देन विष्ठालक्षणोSसभ्यार्थों मनसि निधीयते॥ भूयोऽपि आ्राम्यविशेषानाह- मञ्जीरादिषु रणितप्रायान्पक्षिषु च कूजितप्रभृतीन्। मणितप्रायान्सुरते मेघादिषु गर्जितप्रायान् ॥।२५। दृष्ट्रा प्रयुज्यमानानेवंप्रायास्तथा प्रयुद्ीत। अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥ २६ ॥ ( युग्मम्) मजजीरादिष्विति । दृष्ट्ेति । वाच्येऽर्थे तुल्येऽप्येतेष्वेतान्धातून्पूर्वकविभिः प्रयुज्य- मानान्टृष्टा तेष्वेव निबध्रीयात्। नान्यत्र। यतस्तल्लक्ष्यमेवान्यत्र व्यवस्थाकारि मजीरं नूपुरम्। आदिग्रहणाद्रशनाघण्टाभ्रमरादिसंग्रहः। रणितप्रायानिति प्रायग्रहणं सदशार्थ- वृत्तिक्वणिशिज्जिगुन्त्याद्यर्थम्। प्रभृतिग्रहण वाशत्यादयर्थम्। सुरतग्रहणं व्यापरान्तरनि- वृत्त्यर्थम्। मेघादिष्वित्यत्रादिग्रहण सिंहगजाद्यर्थम्। प्रायग्रहण ध्वनत्याद्यर्थम्। एवं- प्रायानिति ये शास्त्रेषु सामान्येन पठ्यन्ते। अथ च विशेष एव दृश्यन्ते। यथा-हेषति-

Page 71

६८ काव्यमाला।

रश्वेषु। भणतिः पुरुषेषु। कणतिः पीडितेषु। वातिवायौ। न त्वन्यत्र। नहि दृश्यते पुरुषो वातीति। एवमन्येऽपि द्रष्टव्याः । अन्यत्रैतेऽनुचिताः । मेघादिषु रणत्यादय इत्यर्थः । अपिशब्दो विस्मये। चित्रमिदं यच्छब्दार्थे समानेऽपि आ्म्यत्वमेषां वस्तुविषयेणैव। आ्राम्यत्वेनास्मिन्दोषे परिहते पुनर्वचनं प्रपश्चार्थम्। अथ देश्यमाह- प्रकृतिप्रत्ययमूला व्युत्पत्तिर्नास्ति यस्य देश्यस्य। तन्मडहादि कथंचन रूढिरिति न संस्कृते रचयेत् ॥ २७॥ प्रकृतीति। विशिष्टदेशे भवं देश्यम्। महाराष्ट्रादिदेशप्रसिद्धम्। देशीयं पद संकृते न रचयेत्। यस्य पदस्य प्रकृतिप्रत्ययमूला व्युत्पत्तिर्न विद्यते तच्च मडहादि। तत्र मडह- डहहोरणघुंघुलमकंदोद्टएलहुक्कसयरुय अलंबकुसुमालवाणवालादिकं यथाक्रमं सूक्ष्मश्रेष्ठ- वत्त्रपटमण्डपपद्महरिद्राज्जलिसुवर्णकारकुक्कुट चौरशक्रादिवाचकं कर्थंचिदपि नैव रचयेदि- त्यर्थः । ननु देश्यप्राकृतमेदत्वात्कथं संस्कृते प्रयोगप्रसङ्क इत्याह-रूढिरिति। रूढि- आ्रान्त्या न बभ्नीयात्। कश्चिद्यात्मदेशप्रसिद्धार्थ शब्दं सर्वत्रायं वाचक इति मन्यमानः प्रयुजीत। व्युत्पत्तिर्यस्य नास्ति' इति वचनात्तु सव्युत्पत्तिकं देश्यं कदाचित्प्रयुजीतेत्युक्त भवति। यथा दूर्वायां छिन्नोद्धवाशब्दः । ताले भूमिपिशाचः । शिवे महानटः । वृक्षे परशुरुजः । समुद्रनवनीतं चन्द्रामृतयोः । जले मेघक्षीरशब्दः । एवमन्येऽपि ॥ अथ दोषानुपसंहर्तुमाह- इत्थं पददोषाणां दिञ्यात्रमुदाहृतं हि सर्वेषाम्। तस्मादनयैव दिशा ततोऽन्यदभ्यूह्यमभियुक्तैः ॥२८॥ इत्थमिति। इत्थमनेन पूर्वोक्तप्रकारेण पददोषाणां सर्वेषां दिगेव दिब्बात्रं हिर्यस्मादु- दाहतं निदर्शितं तस्मादनयैव दिशान्यदपि दोषजातं खयमूहनीयम्॥ पूर्वमुक्तमधिकपदं वाक्यं न प्रयोक्तव्यमथ च दृश्यते क्वचिदसकृत्प्रयोगस्तदतिव्या- प्तिसंहारमाह- वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृद्धयात्तत्पुनरुक्तं न दोषाय ॥। २९ ॥। वक्तेति। वक्ता प्रतिपादको हर्षभयादिभिराक्षिप्तचित्तः सन्यत्पदमेकस्मिन्नेवार्थे पुनः पुनर्वक्ति तत्पुनरुक्तत्वं दोषाय न भवति। अपि त्वलंकारायेत्यर्थः । आदिग्रहणाद्विस्म- यशोकादिसंग्रहः । तथाशब्दः समुचये॥ निदर्शनमाह- वद वद जितः स शत्रुर्न हतो जल्पंश्र तव तवास्मीति। चित्रं चित्रमरोदीद्धा हेति परा हते पुत्रे ।। ३०॥

Page 72

६ अध्याय: ] काव्यालंकारः । ६९

जय जय वैरिविदारण कुरु कुरु पादं शिरःसु शत्रूणाम् । धिग्धिक्तमरिं यस्त्वामप्रणमन्खं विनाशयति ॥ ३१ ॥ वदेति। जयेति। अत्र वद वदेति। हषे। तव तवास्मीति भये। चित्रं चित्रमिति विस्मये। हा हेति शोके। जय जयेति सतुतौ। कुरु कुर्विति त्वरायाम्। विग्धिगिति निन्दायाम्। अन्यन्निगदसिद्धम् ॥ भूयोऽप्याह- यत्पदमर्थेऽन्यस्मिस्तत्पर्यायोऽथवा प्रयुज्येत । वीप्सायां च पुनस्तन्न दुष्टमेवं प्रसिद्धं च ।। ३२ ।। यदिति। यत्पदमन्यमर्थमभिधातुं द्विः प्रयुज्यते तत्। तथा तस्य प्रयुक्तपदस्य पर्यायो वाचको यः प्रयुज्येत। तथा वीप्साप्रतिपादनार्थ वा यत्पुनः पदं प्रयुज्येत तत्पद न पुनरुक्तदोषदुष्टं भवति। एवं प्रसिद्ध च। इत्येवं वीप्सातुल्यरूपेण प्रकारेण यत्कविलक्ष्येषु प्रसिद्धं तदपि पुनरुक्तं न दोषाय । यथा कलकलरणकादिकम् । तथैव लोके प्रसिद्धत्वादिति। ननु तुल्यपदस्य तत्पर्यायपदस्य वान्यार्थलेन वीप्सावाच- कस्य वीप्साप्रतिपादकलेन तदर्थत्वादेव पुनरुक्तिन दुष्टा तत्किमनेनेति सत्यम्। किं तु कश्चिदतिमन्दमतिः पुनः प्रयोगं दृष्ट्रा दुष्टत्वमाशङ्केतेति॥ क्रमेण निदर्शनमाह- गजरक्तरक्तकेसरभारः सिंहोऽत्र तनुशरीरोऽपि। दिशि दिशि करिकुलभङ्गं वारंवारं खरैः कुरुते ॥ ३३ ॥ गजेति। प्रथमेऽत्र पादे रक्तशव्दावन्याथौं। एको रुधिरवाचकोऽपरस्तु रज्नक्रि- याभिधायी। तनुशरीर इत्यत्र तनुशव्दस्तानवाभिधायी तत्पर्यायः शरीरशब्दः काय- वाचकः । दिशि दिशीति वीप्सायाम्। सर्वस्यां दिशीत्यर्थः । वारंवारमिति लोकप्रसि- द्वम्। अन्यदपि लोकप्ररिद्धं दृश्यते। यथा-'मानिनीजन विलोचनपानानुष्णवाष्पकलु- षान्प्रतिगृह्नन्। मन्दमन्दयुदितः प्रययौ खं भीत भीत इव शीतमयूखः ॥' तथा- 'ता किंपि किंपि ता कह वीअब्बो निमीलियच्हीहिम्। कडुओसहं व पिजइ अहरो घेरस्स तरुणीहिम् ॥' उद्टस्तु सर्वत्रात्र पुनरुक्ताभासालंकारतमाचे॥ प्रकारान्तरमाह- यच्च प्रतिपत्ता वा न प्रतिपद्येत वस्तु सकृदुक्तम्। तत्र पदं वाक्यं वा पुनरुक्तं नैव दोषाय ॥ ३४ ॥ यदिति। यद्वस्तु सकृदेकवारमुक्त सत्प्रतिपत्ता। वाशव्दोऽवधारणे । प्रतिपत्तैव न प्रतिपद्येत तत्र वस्तुनि वाच्ये पदं वाक्यं वा नैव दोषाय। चः समुचये। तच्व पर्द निर्दोषपदमध्ये समुचीयत इत्यर्थ: ॥ का० लं० ७

Page 73

७० काव्यमाला।

उदाहरणमाह- किं चिन्तयसि सखे त्वं वच्मि त्वामस्मि पश्य पश्येदम्। ननु किं न पश्यसीदृक्पश्य सखे सुन्दर स्रैणम्। ३५॥ किमिति। कश्चिन्मित्रमाह-हे सखे, इदमीद्टकसुन्दर रम्यं त्त्रैणं स्त्रीसमूहं पश्येति। तेन लन्यगतचित्ततान्न श्रुतमतः स पुनराह-किं चिन्तयसीत्यादि। अत्र पश्य पश्येति पदपौनरुक्तयं नन्वित्यादि तु वाक्यपौनरुक्त्म्। ननुरभिमुखीकरणे॥ भूयोऽप्याह-' अन्याभिधेयमपि सत्प्रयुज्यते यत्पदं प्रशंसार्थम्। तस्य न दोषाय स्यादाधिक्यं पौनरुक्त्यं वा ॥ ३६॥ अन्येति। प्रशंसालक्षणादर्थादन्यदभिधेयं वाच्यं यस्य पदस्य तदित्थंभूतमपि सत्प्र- शंसार्थ प्रयुज्यते यतस्तस्याधिक्यं पानरुक्त्यं वा दोषाय न भवति। अन्याभिधेयस्य हि प्रस्तुतार्थानुपयोगिन: प्रयोगे सत्याधिक्यं स्यात्। पदान्तरेणैवोक्ततदर्थस्य तु पौनरुकतं स्यात्। ननु यद्यन्याभिधेयं कथं प्रशंसार्थ प्रयोग:, प्रयोगश्चेन्नान्याभिधेयमिति। सत्यम्। अन्याभिधेयस्यापि प्रशंसार्थगमकतास्तीति। यथा मुनिशार्दूलः, कर्णतालः, केशपाशः, नृपपुंगव:, गोनागः, अश्वकुजजरः । तथा चूतवृक्ष, मलयाचलः, इत्यादिषु शार्दूलादि- शब्दानां व्याघ्रादिवाचित्वेनान्याभिधेयत्वेऽपि, वृक्षादीनां तु पदान्तरोक्तार्थत्वेऽपि प्रशंसार्थगमकत्वेन न दुष्टतेति॥ निदर्शनमाह- नासीरोद्धतधूलीधवलितसकलारिकेशहस्तस्य। अविलङ्मयोऽयं महिमा तव मेरुमहीधरस्येव । ३७॥ नासीरेति। नासीरं सैन्यं तदुत्खातधूल्या धवलिता: सकलारीणां केशहसताः केश- कलापा येन तस्य तवाविलङ्गनीयो महिमा। कस्येव। मेरुमहीधरस्येव मेरुपर्वतस्य यथा। अत्र हस्तशव्दस्य पाणिवाचकस्यान्यार्थस्यापि नाधिक्यम् । महीघरशव्दस्य च मेरुपदान्तरेण गतार्थस्य न पौनरुक्त्यम्। प्रशंसार्थत्वादिति। परस्परं संबद्धपद वाक्यं प्रयुञीतेति यदभ्यधायि तदतिव्याप्तिं संजिहीर्षुराह- यस्मिन्ननेकमर्थ खयमेवालोचयेत्तदर्थानि। जल्पन्पदानि तेषामसंगतिर्नैव दोषाय ॥ ३८॥ यस्मिन्निति। यस्मिन्वाक्ये वक्तानेकार्थवाचकानि पदानि जल्पन्खयमेवानेकमर्थमा- लोचयति तेषां तद्वाक्यपदानामसंगतिनैंव दोषाय। विवक्षावशेन हि शब्दाः प्रयुज्यन्ते। वक्ता चेत्खयं विलक्षणमनेकमर्थ वक्तुकामोऽन्योन्यमसंबद्धानि पदानि ब्रूते तत्किमसां- गत्यम्। असंबद्धत्वाच्च दोषाशङ्का चेति स्वयंग्रहणात्परेण यत्र प्रतिपाद्यस्तन्रासंगतिर्दु-

Page 74

६ अध्याय: ] काव्यालंकारः । ७१

श्टैव। यथा-'आषाढी कार्तिकी माघी वचा हिद्ठ हरीतकी। पश्यतैतन्महचित्रमायुर्म- र्माणि कृन्तति'॥ उदाहरणमाह- कुसुममरः सुतरूणामहो नु मलयानिलस्य सेव्यत्वम्। सुमनोहरः प्रदेशो रूपमहो सुन्दरं तस्याः ॥ ३९॥ कुसुमभर इति। एतत्कश्चित्कामी मलयोद्याने तरुणीं दृष्ट्रा खयमेव पर्याळोचयति। तन्निगदसिद्धम् ।। इदानीं वाक्यदोषमाह- वाक्यं भवति तु दुष्ट संकीर्ण गर्मितं गतार्थ च। यत्पुनरनलंकारं निर्दोषं चेति तन्मध्यम् ॥। ४०॥ वाक्यमिति। तुः पुनरथे। वाक्यं पुनः संकीर्णगर्मितगतार्थरूपं दुष्ट भवति। ननुः वाक्यस्य पदात्मकत्वात्पदद्वारेणैव तद्दोष उक्त इति किं पुनरुच्यते । सत्यम्। किं तु सन्ति तादृशानि वाक्यानि येषु पददोषाभावेऽपि वाक्यस्य दुष्टता भवति। यथा- 'गौरीक्षणं भूधरजाहिनाथः पत्रं तृतीयं दयितोपनीतम् । यस्याम्बरं द्वादशलोचनाख्यः काष्ठासुतः पातु सदाशिवो वः ॥' कुसुमभर इत्यादौ वाक्यार्थानामसंगतिरिह तु वाक्या- नामिति विशेषः । ननूपादेयलादलंकारनिर्देश एव न्याय्यः, ततोऽन्यत्सर्वमनुपादेय- मिति सेत्स्यति, किं संकीर्णादिलक्षणोक्तिप्रयासेनेत्यत आह-यत्पुनरित्यादि। यदलंका- रशून्यं निर्दोषं च तन्मध्यमवाक्यम्। एतदुक्त भवति-यदि हेयोपादेयपक्षद्वयमेव स्यात्त- दालंकारनिर्देश एव। यावता तृतीयं मध्यमपि वाक्यं विद्यत एवेति सर्वमेव वक्तव्यम्।। अथ संकीर्णलक्षणमाह- वाक्येन यस्य साकं वाक्यस्य पदानि सन्ति मिश्राणि। तत्संकीर्ण गमयेदनर्थमर्थ न वा गमयेत् । ४१ ॥ वाक्येनेति। यस्य वाक्यस्य वाक्यान्तरेण सह मिश्राणि पदानि भवन्ति तत्संकीर्ण नाम। किमित्येतावता तस्य दुष्टलमत आह-गमयेदनर्थम् । यतः करणाद्विवक्षित- मर्थ वा न गमयेत्ततस्तदुष्टमित्यर्थः॥ उदाहरणमाह- किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणैनम्। ननु मुश्च हृदयनाथं कण्ठे मनससमोरूपम् ॥ ४२ ॥ किमिति। काचित्सखी मानिनीं वक्ति-किमिति। कस्मात्पादगतं हृदयनारथं प्रियं बहुगुणं न पश्यसि। ननु मनसस्तमोरूपं कोपं मुख त्यज। एनं च प्रियं कण्ठे गृहाण। इत्येवंविधो वाक्योऽत्र विवक्षितः। पदानां तु मिश्रतादुष्टोऽर्थो गम्यते। यथा-पाद-

Page 75

७२ काव्यमाला।

पतितं कोपं कस्मान्न पश्यसि। एनं च कोपं बहुगुणं गृहाण। मनसो हृदयाच तमोरूपं हृदयनाथं वल्लभं मुञ्च त्यजेति॥ गर्भिंतमाह- यस्य प्रविशेदन्तर्वाक्यं वाक्यस्य संगतार्थतया। तद्गर्भितमिति गमयेन्निजमर्थ कष्टकल्पनया॥ ४३॥ यस्येति। यस्य वाक्यस्यान्यद्वाक्यं समृद्धार्थलेनान्तर्मध्ये प्रविशेत्तदर्भितं नाम। का तस्य दुष्टतेत्याह-गमयेन्निजमर्थमभिधेयं कष्टकल्पनया क्वेशेनेति॥ निदर्शनमाह- योग्यो यस्ते पुत्रः सोडयं दशवदन लक्ष्मणेन मया। रक्षैनं मृत्युमुखं प्रसह्य लघु नीयते विदशः ॥ ४४ ॥ योग्य इति। अङ्गदमुखेन लक्ष्मणो रावणमाह-हे दशवदन, योग्यो यस्ते तव पुत्रः सोडयं मया लक्ष्मणेन प्रसह्य हठान्मृत्युमुख विवशः परवशः संलघु शीघ्रं नीयते तस्मा- द्रक्षैनम्। अत्र रक्षैनमिति गर्भवाक्यं यावन्मध्यान्नोदृत्य पृथक्कतं तावन्मूलवाक्यं कष्टक- ल्पनयार्थ गमयति।। गतार्थमाह- यस्यार्थ: सामर्थ्यादन्यार्थैरेव गम्यते वाक्यैः । तदिति प्रबन्धविषयं गतार्थमेतत्ततो विद्यात्।४५॥ यस्येति। यस्य वाक्यस्यार्थोऽभिधेयं प्रयोजनं वान्याभिधेयैर्वाक्यैर्गम्यते। एवकारो भिन्नक्रमे। गम्यत एवेत्येवं द्रष्टव्यम्। क्थ गम्यते सामर्थ्यात्। अन्यार्थानामपि तद- र्थाभिधानशकतियुक्तत्वादित्यर्थः । तदित्येवंप्रकार वाक्यं गतार्थम्। अथ कथमत्र नोदा- हृतमित्याह-तदेतत्प्रबन्धविषयं विपुलग्रन्थगोचरमतस्ततः प्रबन्धादेव विद्याज्जानीयात्। नान्यथाख्यातुं शक्यत इति। प्रबन्धे दर्श्यते यथा किरातार्जुनीयकाव्ये हिमाचलवर्णने- 'मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥' इत्यनेन श्लोकेन मणयोऽप्सरस उद्यानानि च सन्त्यतः सेव्यो- 5यं पर्वत इति प्रतिपाद्यते। एतच्चान्यास्वार्थैर्वाक्यान्तरैरेव कथितम्। तद्था-'रहित- रत्नचयान्न शिलोच्चयानपलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूरकुसु- मान्दधतं न महीरुहः ॥' 'दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पा- पीडाः । पीडाभाज: कुसुमचिताः साशंस शंसन्त्यस्मिन्सुरतविशेषं शय्याः ॥' अत्र यदेतन्मध्यम वाक्यमुक्तमेतत्कविना किं कर्तव्यमुत नेत्याह- पुष्टार्थालंकारं मध्यममपि सादरं रचयेत्। गामभ्याजेति यथा यत्किंचिदतोऽन्यथा तद्धि ॥ ४६॥

Page 76

७ अध्याय: ] काव्यालंकार:। ७३

पुष्टेति। मध्यममपि वाक्यं सादर रचयेत्। किमविशेषेण नेत्याह-पुष्टो हृदयाव- र्जकोऽर्थ एवालंकारो यस्य तत्तथाभूतम्। एतदुक्तत भवति-यद्यपि वक्रोक्त्ादयोऽलं कारा न सन्ति तथापि तद्विवक्षितोऽर्थः सरस उत्कृष्टो वा विधेयः । यथा-'भ्रूमेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं रोड्ुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्य कर्तुमपि स्थिरीकृतमिदं चेतः कर्थचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ।I' अपिशब्दो मध्यवाक्यस्यादुष्टवाक्यमध्ये समुच्चयार्थः । अन्यालंकार- विरहात्तत्र कस्यचिदनादरः स्यादिति सादरग्रहणम्। अथ किमित्यपुष्टार्थ मध्यं नाद्रियत इत्याह-यत्किंचिदित्यादि। हि यस्मादतः पुष्टार्थालंकारादयदन्यथान्यादृशमपुष्टार्थ तद्य- स्किंचित्। नात्यादरणीयमित्यर्थः । किमिव । यथा-गामभ्याजेति। 'देवदत गाम- भ्याज शुक्कां दण्डेन' इत्यत्र न शब्दार्थदोषो नापि कश्चिदलंकारो न चैतत्पुष्टार्थमतोत्र नादरो नाप्यनादरः। विषयसत्वस्य कथासंधिसंहारौ। यथा-'श्रियः कुरूणामधिपस्य पालनीम्' इत्यादि। यथा च-'इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे' इत्यादि ॥ अथ सर्वेषामेव शब्ददोषाणां विषयविशेषे साधुतं दर्शयितुमाह- अनुकरणभावमविकलमसमर्थादि सरूपतो गच्छन्। न भवति दुष्टमतादृग्विपरीतक्किष्टवर्ण च ।। ४७॥ अनुकरणेति। असमर्थादिदोषैर्दुष्टमपि पदं वाक्यं वाविकलं परिपूर्ण स्वरूपतोऽनुक्रि- यमाणं दोषाय न भवति। अर्थमेदेन शब्दान्तरत्वादिति भावः । अनुचिकीर्षया प्रयुक्त- मथ च प्रतिपादनायासमर्थ तदविकलप्रहणेन दुष्टमिति दर्श्यते। तथा तादृशा भिन्नख- रूपत्वादसदृशा विपरीता दुष्टक्रमाः क्विष्टा लुप्ता वर्णा यस्य तत्तथाविधम्। तदपि पदं न दोषाय। यथा विकटनितम्बायाः पतिमनुकुर्ताणा सखी प्राह-'काले मा्ष सस्ये मासं वदति शकासं यक्च सकाशम्। उष्ट्रे लुम्पति रं वा षं वा तस्मै दत्ता निकटनि- तम्बा ॥' इय्यादि ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षष्टोऽध्यायः समाप्त: ।

सप्तमोऽध्यायः। शब्दार्थौ काव्यमित्युक्तम् । तत्र शब्दलक्षणप्रमेदालंकारदोषा अभिहिताः । इदानी- मर्थस्य तान्विवक्षुराह- अर्थः पुनरभिधावान्प्रवर्तते यस्य वाचकः शब्दः। तस्य भवन्ति द्रव्यं गुणः करिया जातिरिति भेदाः ॥ १ ॥ अर्थ इति। पुनःशब्दो लक्षणविभागार्थः । वर्णसमुदायात्मकः शब्दः । अभिहितोऽर्थ: पुनः। स यस्य वाचकोऽभिधायकः शब्द: प्रवर्तते। इत्यनेन त्वर्थस्य शब्दवाच्यत्वाभि-

Page 77

७४ काव्यमांला।

धानेन शब्दार्थयोभिन्नतं वाच्यवाचकभावश्च दर्शितो भवति। श्रोत्रेन्द्रियग्राह्यो हि शब्दः। तदन्येन्द्रियग्राह्यस्त्वर्थः । शब्दे चोचचारिते सत्यर्थः प्रतीयत इति। तथा शब्दार्थो काव्यमित्युक्तम्, अतश्चक्षुर्निकोचकमूर्धकम्पाङ्गुलिदर्शनादिप्रतिपादितार्थस्य काव्यत्वनितृ- त्यर्थ प्रवर्तते यस्य वाचकः शब्द इत्युक्तम्। वाचकस्यापि वाच्यसिद्धर्थ विशेषणमाह- अभिधा प्रतीति: सा विद्यते यस्य स तथा। ध्वनौ हि प्रतीयमानार्थसंभव इति। प्रती- तिश्च यस्य यो विद्यमानस्तेन यः सन्सोऽर्थः। यस्तु न विद्यते तत्र प्रतीत्यभावान्नासावर्थ इत्युक्कतं भवति। लक्षणमभिधाय प्रभेदानाह-तस्येत्यादि। इति परिसमाह्यर्थः । तस्यार्थस्यैतावत एव द्रव्यगुणक्रियाजातिलक्षणाश्चत्वारः प्रमेदाः ॥ तेषां च यथोद्देशं लक्षणं वाच्यमिति कृत्वा द्रव्यस्य तावदाह- जातिक्रियागुणानां पृथगाधारोऽत्र मूर्तिमद्रव्यम्। दिक्कालाकाशादि तु नीरूपमविक्रियं भवति ॥ २ ॥ जातीति। अत्रैतेषु मध्ये द्रव्यं मूर्तिमदिन्द्रियग्राह्यमुच्यते । गुणस्य द्रव्यत्वनिवृत्त्यर्थ- माह-पृथक्प्रत्येकं जातिगुणक्रियाणामाधार आश्रयः । जात्यादयो हि न कदाचिदपि द्रव्यं विना भवन्तीति। पृथग्ग्रहर्ण तु केत्रलानामपि जात्यादीनामाधारत्वे द्रव्यत्वप्रतिप- त्त्यर्थम्। अन्यथा हि समुदितानामेव य आधारस्तदेव द्रव्यं स्यात्। ततश्व निष्क्रिय- त्वात्पाषाणादीनां द्रव्यतं न स्यात् । मूर्तिमदिति वचनाददिगादीनां द्रव्यत्वं न स्यात् । अंथ चेष्यतेऽत आह-दिक्कालेत्यादि। तुः पूर्वस्माद्विशेषे। मूर्त द्रव्यमुच्यते। दिक्काला- काशात्ममनांसि पुनर्नीरूपाण्यपि द्रव्यमित्यर्थः । तत्र नीरूपत्वादविक्रियं भवति। मूर्तिम- तुनः सविकारमेव ।। अथ द्रव्यमेदानाह- नित्यानित्यचराचरसचेतनाचेतनैर्बहुभिः । मेदैर्विभिन्नमेतहिधा द्विधा भूरिशो भवति ॥ ३॥ नित्येति। एतड्रव्यं नित्यानित्यादिभिर्मेदैर्वहुभिर्द्विधा द्विधा विभिन्नं सद्भूरिशोडनेकशो भवति। आदिग्रहणात्स वचनावचनव्यक्ताव्यक्तस्थूलसूक्ष्मन कंचर दिवाचरस्थलजजलजप्र- भृतयो भेदा गृह्यन्ते । बहुग्रहणमानन्त्यप्रतिपादनार्थम् । न च वाच्यं चराचरयोः सचेतनाचेतनयोश्च न विशेष इति। वृक्षादयो ह्यचरा अपि सचेतनाः ॥ अथ गुण :- द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः । सहजाहार्यावस्थिकभावविशेषादयं त्रेधा ॥ ४ ॥ द्रव्यादिति। द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणो भवति। जातिक्रिययोर्द्रव्यस्थत्वा- द्रुणलं स्यादित्याह-सततमिन्द्रियप्राह्यः सर्वदैव प्रत्यक्षगम्यः । नानुमेय इत्यर्थः । जाति- क्रिये तु न प्रत्यक्षगम्ये । गुणं च केचिदुत्पाद्यसहजत्वेन द्विघेति ब्रुवते तन्निरासार्थ-

Page 78

७ अध्याय: ] काव्यालंकारः । ७५

माह-सहजेत्यादि । तत्र सहजो गुणो यथा-क्षत्रिये शौर्यम् । काके कार्ष्ण्यम्। आहार्यो यथा-शास्राभ्यासात्पाण्डित्यम् । पटे रागः । आवस्थिको यथा-फलानां लौहित्यम्। केशानां शौक्कयम् ॥ अथ क्रिया- नित्यं क्रियानुमेया द्रव्यविकारेण भवति घात्वर्थः । कारकसाध्या द्वेघा सकर्मिकाकर्मिका चेति॥५॥ नित्यमिति। धातर्थः । किया भवति। 'क्ियाभावो धातुः' इति वचनात्। सा तु न प्रत्यक्षा। किं तु द्रव्यस्य तण्डुलदेविकारेण वैक्लेदादिनानुमेया। गमनादिका तु देशा- न्तरप्राह्यादिनेति । सा च कारकैः कर्तृकर्मादिभिः साध्या निष्पाय्या यदुक्तम्-सर्व- कारकनिर्वर्त्या कर्तृकर्मद्वयाश्रया । आख्यातशब्दनिर्देश्या धातर्थः केवलं करिया ॥' सापि सकर्मिकाकर्मिकालभेदेन द्वेधा। आद्या ग्रामं गच्छतीत्यादिका। द्वितीया आसते शेते इत्यादिका। नियतानियतकर्मिकातसमुचचयार्थश्वशब्दः । तत्राद्या कटं करोतीति। द्वितीया वहति भारम्, वहति नदी॥ अथ जाति :- भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु। एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः ॥ ६ ॥ भिन्नेति। बहुषु द्रव्येषु यतो यद्वशादेकाकारा समाना वुद्धिर्भकति सा जातिर्भवेदिति। कदाचित्समानगुणक्रियायोगात्सा बुद्धिर्भवेदित्याह-भिन्नेत्यादि। मिन्नौ विलक्षणौ किया- गुणौ येषु ते्वपि। कदाचिदत्यन्तमवयवसादृश्याद्वा सा स्यादित्याह-चित्रगात्रेष्विति। चित्रं नानारूपं काणकृशकुब्जादिकं गात्रं येषां तेषु। सा च जातिस्त्रिष्वपि द्रव्यक्रियागुणेषु समवेतेति त्र्याश्रया। अथासामेव द्रव्यगुणक्रियाजातीनामन्यथातनियममाह- सर्व: खं खं रूपं धत्तेऽर्थो देशकालनियमं च। तं च न खलु बभ्नीयान्निष्कारणमन्यथातिरसात्॥७॥ सर्व इति। सर्वोऽर्थों द्रव्यगुणक्रियाजातिलक्षणः खं खमात्मीयं स्वभावं देशकाल- नियमं च घत्ते। नियते क्वापि देशे काले च नियताकारश्वार्थो भवतीत्यर्थः । ततः किमि- त्याह -- तं चेत्यादि। चशब्दो हेतौ। खल्ववधारणे। ततः कारणात्तमर्थमन्यथा नैव बध्रीयादित्यर्थः । तत्र ये नित्या भावास्तेषां वर्तमानेन निर्देशो न्याय्यः। अतीतानां तु भूतेन। अनागतानां भविष्यत्कालेन । एवं चराचरसचेतनाचेतनादिषु द्रष्टव्यम्। देश- कालनियमश्च यथा-हिमवति हिमस्य सदा सद्भावोऽन्यत्र तु शीतकाले। एवमन्यदपि। निष्कारणग्रहणं कारणसद्भावेऽन्यथातस्यादुष्टतख्यापनार्थम्। यथा शुकसारिकादीनां व्यक्तवचनले मनुष्यप्रयत्नः कारणमिति। कुतः पुनर्निष्कारणस्यान्यथाभिधानप्रसन्न

Page 79

७६ काव्यमाला।

इत्याह-अतिरसादिति। अतिरसहृतहृदयानां हि प्रायशो मर्यादोल्ङ्घनमपि भवति। एतदुक्तम्-'गणयन्ति नापशब्दं न वृत्तभज्नं क्षयं न वार्थस्य। रिकलेनाकुलिता वेश्यापतयः कुकवयश्ष॥ यद्यन्यथातं निर्वार्यते तर्हिं कथं दिगाकाशादिष्वमूर्तेषु मूर्तधर्माः कविभिर्वर्ण्यन्ते। यथा-निर्मला दिशः। निर्मलं नभ इति। तथा विचेतनेषु सचेतनधर्मा इत्याह- सुकविपरम्परया चिरमविगीततयान्यथा निबद्धं यत्। वस्तु तदन्यादृशमपि बश्नीयात्तत्प्रसिच्धैव ।। ८।। सुकवीति। पूर्वसुकवीनां परम्परया समूहेन चिरं बहुपूर्वकालेSविगीततयाविगानेन निर्दोषतयेति यावत्। यद्वस्त्वन्यथा निबद्धं तदन्यादृशमपि तत्प्रसिध्धेव बध्रीयात्। न त्वात्मबलेन । महाकविप्रसिद्धिरेवात्र प्रमाणमित्यर्थः ॥ सप्रभेदमर्थमभिधाय सांप्रतं तदलंकारानाह- अर्थस्यालंकारा वास्तवमौपम्यमतिशयः श्लेषः । एषामेव विशेषा अन्ये तु भवन्ति निःशेषा: ॥ ९॥ अर्थस्येति। उक्तलक्षणस्यार्थस्य वास्तवादयश्चत्वारोऽलंकारा भवन्ति। चतुर्भिः प्रकारैरसौ भूध्यत इत्यर्थः । नन्वन्येऽपि रूपकादयोऽलंकारा: सन्ति तत्किमिति चत्वार एवोक्ता इत्याह-एषामेवेत्यादि। तुर्हेतौ। एषामेव सामान्यभूतानां चतुर्णा ते भेदा यतस्ततो मूलमेदलेन नोक्ा इत्यर्थ: ॥ यथोद्देशस्तथा लक्षणमिति वास्तवलक्षणमाह- वास्तवमिति तज्ज्ञेयं क्रियते वस्तुखरूपकथनं यत्। पुष्टार्थमविपरीतं निरुपममनतिशयम श्रेषम् ॥ १० ॥ वास्तवमिति। यद्वस्तुस्रूपकथनं क्रियते तद्वास्तवमिति ज्ञेयम्। वस्तुन इदं वास्त- वमिति कृत्वा। इतिशब्दोऽर्थनिर्देशे। वास्तवशब्दवाच्यः सोऽर्थ इत्यर्थः । पुष्टार्थग्रहणम- पुष्टार्थनिवृत्त्यर्थम्। तेन 'गोरपत्यं बलीवर्दस्तृणान्यत्ति मुखेन सः। मूत्रं मुश्ति शिक्रेन अपानेन तु गोमयम् II' अस्य वास्तवत्वं न भवति। अविपरीतग्रहणं विवक्षितविपरी- तार्थस्य वास्तवत्वनिवृत्त्यर्थम् । यथा-'दन्तान्निर्दलयद्रसां च जडयत्तालु द्विधा स्फोट- यन्नाज्यः संघटयद्गलदलबिलादान्त्राणि संकोचयत्। इत्थं निर्मलकर्करीस्थमसहप्राले- यवाताहतं नाधन्याः प्रचुरं पिबन्त्यनुदिनं प्रोन्मुक्तधारं पयः ॥' अत्र हि पयसः शीतल- त्वमाह्लादकतं च विवक्षितम् । तद्वैपरीत्यं च प्रतीयते। निरुपमादिग्रहणं त्वनुवादमा- न्रम्। न तूपमातिशय ्लेषाणां वास्तवत्वनिवृत्तये । पृथगुपादानादेव तेषामन्यत्वसिद्धेः॥ अथ वास्तवप्रभेदानाह- तस्य सहोक्तिसमुच्चयजातियथासंख्यभावपर्यायाः। विषमानुमानदीपकपरिकरपरिवृत्तिपरिसंख्याः।। ११।।

Page 80

७ अध्याय: ] काव्यालंकारः । ७७

हेतु: कारणमाला व्यतिरेकोऽन्योन्यमुत्तरं सारम्। सूक्ष्मं लेशोऽवसरो मीलितमेकावली भेदाः ॥ १२ ॥ ( युग्मम्) तस्य वास्तवस्य वक्ष्यमाणलक्षणाः सहोक्तादयत्त्रयोविशतिरिमे मेदा भवन्ति ॥ सांप्रतमेषां परिपाट्या लक्षणमाह-तत्र सहोक्ति :- भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथाभूतम्। उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ।।१३ ॥ भवतीति। योऽर्थः कर्तृभूतः प्रधानं यथारूपो याद्गात्मा यद्गुणयुक्तो भवति। कथ भवति-अपरमन्यमर्थ कर्मलक्षणमप्रधानं तथाभूतम् । तथाशब्दः प्रकारे । तथाप्र- कारमात्मगुणसदृशं कुर्वन्नेवेति । एवकारोऽन्यकालनिवृत्त्यर्थः । कुर्वन्नेव भवति। न तु भूत्वा करोति, कृत्वा भवतीत्यर्थः। अतस्तस्य कुर्वतोऽर्थस्य तेन कार्येणार्थेन समं समाना तुल्या योक्ति: सा सह सार्धमुक्तिः सहोक्तिः । हेतुहेतुमद्भावोऽत्र सहार्थः । एकवचनमिहातन्त्रम्। तेन बहूनामप्यर्थानां सहोक्तिर्भवतीति। निदर्शनमाह- कष्टं सखे क याम: सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बभित्तिभरः ॥ १४ ॥ कष्टमिति। कश्विद्विरही मित्रमिदमाह-हे सखे, कष्ट क व्रजामः। यतस्तस्यास्त- रुण्याः स्तनकलशभरो नितम्बभित्तिभरश्चानुदिनं सकलस्य जगतो यो मन्मथस्तेन सह वृद्धिमुपैति। तां प्रति कामो वर्धत इत्यर्थः । अत्र प्रधानभूतः कुचकलशनितम्बभि- त्तिभरो वृद्धिगुणयुक्तोऽपरमर्थ मन्मथाख्यं वृद्धियुक्त करोतीति। ततस्तस्य तथा कुर्वतः सहोक्तिरिति लक्षणयोजना । अस्या एव प्रकरान्तरमाह- यो वा येन क्रियते तथैव भवता च तेन तस्यापि। अभिधानं यत्कियते समानमन्या सहोक्ति: सा ।। १५॥ य इति। योऽर्थः कर्मभूतो येन कर्तृभूतेन क्रियते तस्य कर्मभूतस्य तेन कर्तृभूतेना र्थेन। कीदशेन। तथैव तादृशधर्मयुक्तेन भवता। सहाभिधानं यत्कियते सान्या सहोक्तिः। वाशब्दः प्रकारार्थः । प्रकारान्तरेण सहोक्तिरित्यर्थः ॥ उदाहरणमाह- भवदपराधैः सार्ध संतापो वर्धतेतरां तस्याः । क्षयमेति सा वराकी सनेहेन समं त्वदीयेन ॥ १६ ॥ भवदिति । कस्याश्चिन्मानिन्याः सखी नायकमन्यचित्तमिदमाह-तस्यास्त्वत्का- न्तायाः संतापस्त्वदीयापराधैः सहातीव वर्धते। अत एव सा वराकी त्वदीयेन सनहेन

Page 81

७८ काव्यमाला।

सार्ध क्षयं गच्छति। अत्र संतापस्य वराकीक्षयस्य च शब्देन प्राधान्यम्। अपराध- स्नेहयोस्तु तत्कारणयोरप्राधान्यम् । अत एव तृतीया। तत्त्वतस्तु भवदपराधा वर्धन्ते तस्याः संतापेन सह। भवत्स्नेह्व क्षीयते तया सहेति । यदा त्वेवमुच्यते तदा पूर्वैव सहोक्तिरिति। पूर्वस्यां कर्तुः प्राधान्यं क्रियमाणस्य गुणभावः । इह तु क्रियमाणस्य प्राधान्यं कुर्वतस्त्वप्राधान्यमिति भेद: ॥ प्रकारान्तरमाह- अन्योन्यं निरपेक्षौ यावर्थावेककालमेकविधौ। भवतस्तत्कथनं यत्सापि सहोक्ति: किलेत्यपरे ॥ १७ ॥ अन्योन्यमिति। यावर्थौ पूर्वोक्तसहार्थाभावात्परस्परं निरपेक्षावेकविधौ समानधर्म- युक्तौ तुल्यकालं भवतस्तयोर्यत्सह कथनं सापि किल सहोक्तिरित्यपरे केचित्। किलशव्दो- Sत्रारुचौ। अरुचिश्वोक्तसहार्थाभावादिति ।। निदर्शनमाह- कुमुददलैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि। सह कमलैर्ललनानां मानः संकोचमायाति ॥ १८॥ कुमुददलैरिति । प्रदोषवर्णनमेतत्सुगममेव। अत्र न कुमुददलैश्वकवाकाणां तैवा तेषां विघटना क्रियते। अपि तु कालेन। तथा न कमलैर्मानस्य मानेन वा तेषां संकोचो जन्यते। अपि तु रात्र्या, शशिना वा। औपम्यं न विवक्षितम् ॥। अथ समुचयमाह- यत्रैकत्रानेकं वस्तु परं स्यात्सुखावहाद्येव। ज्ञेयः समुचयोऽसौ त्रेधान्यः सदसतोर्योगः ॥ १९ ।। यत्रेति। यत्र समुचये एकत्राधारेऽनेकं वस्तु द्रव्यगुणक्ियाजातिलक्षणं परमुत्कृष्टं शोभनत्वेन वा स्यात्स समुचयः । तथा सुखावहाद्येवेति। सुखमावहत्युत्पादयतीति सुखावहम्। आदिग्रहणाद्दुःखावहादिपरिग्रहः । एवशब्दः समुचये। सुखावहादि च यत्रानेकं द्रव्यादि स्यात्सोऽपि समुचय इत्यर्थः । तथा त्रेधान्यः सदसतोर्योगः । त्रेधा त्रिविधः, अन्यः प्रकारान्तरेण समुचचयः । कीहशः । सदसतोर्योंग इति। सतोः सुन्दर- योर्योग इत्येक: । असतोरसुन्दरयोर्योग इति द्वितीयः । सदसतोः सुन्दरासुन्दरयोर्योग- स्तृतीयः । अत्र च सदसतां योग इति बहुवचनेन निर्देशे न्याय्ये द्विवचननिर्देशो द्वयोरेव सतोरसतोः सदसतोवी समुचयो नान्यथा इति ख्यापनार्थः ॥ एतदुदाहरणानि क्रमेणाह- दुर्ग त्रिकूटं परिखा पयोनिधि: प्रभुर्दशास्यः सुभटाश्र राक्षसाः। नरोऽभियोक्ता सचिवैः प्ठवंगमैः किमत्र वो हास्यपदे महद्भयम् ॥२०॥

Page 82

७ अध्याय: ] काव्यालंकारः । ७९

दुर्गमिति। निगदसिद्धमेव। अत्रैकं वस्तत्र शब्दवाच्यम्। अनेकं तु त्रिकूटदुर्गा- दिकम्। शोभनलेनोत्कृष्टं यथा-'उमा वधूर्मवान्दाता याचितार इमे वयम्' इत्यादि: अशोभनलेन यथा-'कीबो विरूपो मूर्खन्च मर्महा मत्सरान्त्रितः। चित्रं तथापि न धनी दुर्भगः खलु मानवः ॥' इति। गुणाद्युत्कर्षोदाहरणानि खयमूह्यानि॥ सुखावहाद्युदाहरणान्याह- सुखमिदमेतावदिह स्फारस्फुरदिन्दुमण्डला रजनी। सौघतलं काव्यकथा सुहृद: सिग्धा विदग्धाश्च ॥ २१॥ सुखमिति। एष सुखावहद्रव्यसमुचय आधारोऽत्रेहशब्दवाच्यः । वस्तूनि सितर- जनीप्रभृतीनि ॥ तरलत्वममालिन्यं पक्ष्मलतामायतिं सुमाधुर्यम् । आधास्यन्नस्त्रत्वं मदनस्तव नयनयो: कुरुते ॥ २२ ॥ तरलत्मिति। कामस्तदीयनयनयोरस्त्रलं करिष्यंस्तरलतादीनि कुरुत इति तात्प- र्यार्थ: । एष गुणसमुच्चयः । तरलत्वादिगुणानां सुखावहानां नयनाधारे समुच्चितत्वादिति ।। प्रस्फुरयन्नधरोष्ठं गात्रं रोमाञ्चयन्गिरः स्खलयन्। मण्डयति रहसि तरुणीः कुसुमशरस्तरलयन्नयने ॥ २३ ॥ प्रस्फुरयन्निति। एष क्रियासमुचयः। तरुणीष्वाधारेषु स्फुरणादिक्रियाणां समुचि- तत्वादिति। द्रव्यादीनां तूद्देशो वस्तुग्रहणेन कृतः । जातिसमुच्चयस्तु न संभवति। नह्येकत्नानेका जातिर्विद्यते। दुःखावह इत्यादयुदाहरणानि तु 'राज्यभ्रंशो वने वासो दूरे माता पिता मृतः । एकैकमपि तद्दुःखं यदब्धिमपि शोषयेत् ।' इत्यादीनि द्रष्टव्यानि॥ अथ सतोर्योंग :- सामोदे मधु कुसुमे जननयनानन्दने सुधा चन्द्रे। कचिदपि रूपवति गुणा जगति सुनीतं विधातुरिदम्॥ २४ ॥ सामोद इति। ्नष्टुरिदं सुनीतं सुकृतं भद्रकं यत्सामोदकुसुमादिषु मध्वादीनां सर्ता योग: कृत इत्यर्थः ॥ अथासतोर्योग :- आलिङ्गिताः करीरैः शम्यस्तप्तोषपांसुनिचयेन । मरुतोऽतिखरा ग्रीष्मे किमतोऽन्यद्भद्रमस्तु मरौ ॥ २५॥ आलिक्विता इति। ग्रीष्मकाले मरुदेशे यत्करीरैः शमीवृक्षा मिश्रीभूताः । तथा तप्तानामूषपांसूनां चयैर्मिश्राः प्रचण्डा वायवः । किमतोऽन्यदपरमभद्रमशिवम्। इत्य- सतोर्योग: ।।

Page 83

८० काव्यमाला।

अथ सदसतोर्योग :- कमलवनेषु तुषारो रूपविलासादिशालिनीषु जरा। रमणीष्वपि दुश्चरितं धातुर्लक्ष्मीश्र नीचेषु ॥ २६ ॥ कमलेति। सुगममेव योजनम्॥ प्रकारान्तरमाह- व्यधिकरणे वा यस्मिन्गुणक्रिये चैककालमैकस्मिन्। उपजायेते देशे समुच्चयः स्यात्तदन्योऽसौ ॥ २७॥ व्यधिकरण इति। वाशब्द एवशब्दार्थे भिन्नक्रमः । ततश् यस्मिन्समुच्चये गुणक्रिये भिन्नाधिकरणे एकस्मिन्देशे समकालमुपजायेते असौ समुचयस्तदन्यः । ततः पूर्वसमुच- यादपर इत्यर्थः । गुणक्रिये एव व्यधिकरणे इत्यवधारणं तु गुणक्रियाधिकरणयोर्वस्तुनो- र्देशाधिकरणमेकमेवेति कृत्वा। निदर्शनमाह- विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ २८ ॥ विदलितेति। अत्र नैर्मल्यगुणस्य बलमाधारो मालिन्यस्य तु खलमुखानीति। चश- व्दावेककालत्वसूचनार्थौ। एवं गुणसमुच्चयः ॥ क्रियासमुच्चयस्तु यथा- दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्र। अविरलविलोलजलदः काल: समुपागतश्चायम् ॥ २९॥ दैवादिति। अत्र वियोगक्रिया वियोगिनि स्थिता, समुपागमनक्रिया तु वर्षाकाले॥ अथ जाति :- संस्थानावस्थानक्रियादि यद्यस्य यादृटशं भवति। लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥ ३० ॥ संस्थानेति। यस्य पदार्थस्य यत्संस्थानादि याद्टशं भवति तस्य यदनन्यथा तेनैव प्रकारेण कथनं सा जातिरिति योगः । यच्छव्दस्तु सर्वनामत्वात्सामान्येन सर्वसंग्रहार्थः । विशेषरूपतया हि तत्संस्थानादि कथयितुमानन्त्यान्न शक्यते। अनुकं तर्हिं कथ कविना ज्ञातव्यमित्याह-लोके चिरप्रसिद्धमिति। यद्यपि पुराणादिषु किंचिदुक्तं तथापि लोक- रूढिवशात्सम्यक्तदवगम इति। तत्र संस्थानं स्वाभाविकं रूपम् । यथा-'एतत्पूतन- चक्रमक्तमकृतग्रासार्धमुक्तर्वृकानुत्पुष्णत्परितो नृमांसविघसैराघर्घरं क्न्दतः । खर्जूरदुम- अवस्थास्थानं स्थानकादि। यथा-'स दक्षिणापाङ्गनिविष्ठमुष्टिं नतांसमाकुश्चितसव्यपादम्।

Page 84

७ अध्याय: ] काव्यालंकारः । ८१ ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।।' इत्यादि। क्रियाव्यापारो यथा- 'प्रहरकमपनीय खं निदिद्रासतोच्चः प्रतिपदमुपहूतः केनचिज्ागृहीति । मुहुरविशद- वर्णा निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्धते नो मनुष्यः ॥' इत्यादि। आदिग्रहणा- द्विभववेषादिकं च द्रष्टव्यम् । यथा-'वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधदण्डकं ग्रीवालम्बितमृन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटचचर चरणयोर्बद्धा- ध्वगः श्रान्तवानायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् II' इत्यादि। अथ वास्तवस्य जातेश्र को विशेषः, यो शृक्षस्य धवस्य च। वास्तवं हि वस्तुखरूपकथनम्, तथ्ब सर्वेष्वपि तद्भ्ेदेषु सहोक्त्यादिषु स्थितम् । जातिस्त्नुभवं जनयति। यत्र परस्थं स्वरूपं वर्ण्यमानमेवानुभवमिवैतीति स्थितम्॥ अथैतद्विशेष प्रतिपादनार्थमाह- शिशुमुग्धयुवतिकातरतिर्यक्संभ्रान्तहीनपात्राणाम्। सा कालावस्थोचितचेष्टासु विशेषतो रम्या। ३१॥ शिश्िति। सा जातिः शिशुप्रभृतीनां याः कालोचिता अवस्थोचिताक् चेष्टाः किया- स्ताखतिशयतो रम्या भवति॥ तत्र शिशूनां यथा- धूलीधूसरतनवो राज्यस्थितिरचनकल्पितैकनृपाः । कृतमुखवाद्यविकाराः क्रीडन्ति सुनिर्भरं डिम्भाः ॥ ३२ ॥ धूलीति। एषा शिशूनामवस्थोचिता चेष्टा। कालोचिता तु खयं द्रष्टव्या।। सुग्धयुवतीनां यथा- हरति सुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने। यदतिबहुशः पृष्टा किंचिद्गवीत्यपरिस्फुट रमयतितरां तेनैवासौ मनोडभिनवा वधूः ॥३३ ॥ हरतीति। एषा मुग्धयुवतीनामवस्थोचिता चेष्टा। मुग्धग्रहणं मुग्धयुवतीनामेव जातिसौन्दर्य न ग्रौढानां चेष्टाखिति ज्ञापनार्थमिति। कातरादयुदाहरणानि ग्रन्थान्तराद्रष- व्यानि। 'नष्टं वर्षवरैर्मनुष्यगणनाभावादकृलवा त्रपामन्तः कश्चुकि कञ्चुकस्य विशति न्रासादरय वामनः । त्रस्यद्धिः सहसा निजस्य सदशं नाम्न: किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङकिनः ॥' एषा कातरचेष्ट । तिरश्ां यथा-'उत्खाय दर्पचलि- तेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण। आकुल्यकारि कटकस्तुरगेण तूर्णमश्रेति विद्रुतमनुद्रवतान्यमश्वम् ।I' अतर्कितोपनतभयसुख्दुःखकुतूहलादिहृतचित्तानां संत्रान्तानां यथा-'प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव। उत्सष्टलीलागतिरागवा- का० लं० ८

Page 85

ट२ काव्यमाला।

क्षादलक्तकाङ्डां पदवीं ततान ।I' इत्यादि । हीनपात्राणां यथा-'उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फिकपृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्वा। आर्त: पर्यस्तनेत्र: प्रकटितदशनः प्रेतरष्टः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्य- मव्यग्रमत्ति ॥I' एवमन्यदपि द्रष्टव्यमिति॥ अथ यथासंख्यमाह- निर्दिश्यन्ते यस्मिन्नर्था विविधा ययैव परिपाट्या। पुनरपि तत्प्रतिबद्धास्तयैव तत्स्याद्यथासंख्यम् ॥ ३४॥ निर्दिश्यन्त इति। यत्र विविधा नानारूपा अर्था ययैव परिपाठ्या येनैव क्रमेण पूर्व निर्दिश्यन्ते पुनरपि तयैव परिपाय्या तत्प्रतिबद्धास्तेषु पूर्वनिर्दिष्टेषु विशेष्यस्य विशेषण- भावेन प्रतिबद्धास्तदनुयायिनो निर्दिश्यन्ते तद्यथासंख्यं स्यात्। अर्था इति बहुवचन- स्यातत्र्रत्वाइ्मयोरपि यथासंख्यं भवति । ययैव परिपाठ्येति परिपाटी कवेः क्रमविवक्षा गृह्यते।। अथैतस्यैव विशेषार्थमाह- तद्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम्। यत्तेषु तथैव ततो द्वयोस्तु बहुशोऽपि बन्नीयात्॥३५॥ तदिति। तद्यथासंख्यं बहुषूदिष्टेषु प्रधानार्थेषु यद्यस्माद्विगुणं त्रिगुणं वा रम्यं जायते, तस्माद्वेतोस्तेषूदिषेषु तथैव द्विस्त्रिवा बध्रीयात् नान्यथा । द्वयो: पुनरुद्दिष्टियोर्बहुशोऽपि बध्रीयात्। सुखावहत्वादिति॥ तत्र त्रिगुणोदाहरणमाह- कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु ॥ ३६ ॥ कज्जलेति। अत्र हरिहरब्रह्माणत्रय उद्देशिनः । त्रिविशेषणयोगाच्च त्रैगुण्यम्।। द्वयोर्बहुगुणोदाहरणमाह- दुग्घोदविशैलस्थौ सुपर्णवृषवाहनौ घनेन्दुरुची। मधुमकरध्वजमथनौ पातां वः शार्ङ्गशूलघरौ ॥ ३७ ॥ दुग्घेति। अत्र मधुमथनमकरध्वजमथनौ द्वावुद्देशिनौ, चलारि तद्विशेषणानीति ॥ अथ भाव :- यस्य विकार: प्रभवन्नप्रतिबद्धेन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिबन्धं च भावोऽसौ ॥ ३८॥ यस्येति। यस्य विकारवतो येनाप्रतिवद्धेनानैकान्तिकेन हेतुना विकार: कार्य प्रभव- नुत्पाद्यमानस्तस्य विकारवतः संबन्धिनमभिप्रायं प्रतिपत्तुर्गमयति, तथा स एव विकार-

Page 86

७ अध्याय: ] काव्यालंकारः । ८३

स्तयोर्विकार हेतुविकारयो: प्रतिबन्धं च कार्यकारणभावं गमगति, असावेवंरूपो भावनामा- लंकारो भण्यते। भवत्यस्मादभिप्रायनिश्चय इति कृत्वा। ननु विरुद्धमिदम् । अप्रतिब- द्धश्षेत्कथं हेतुरथ हेतु: कथमप्रतिबद्धो नाम । अपि च योऽप्रतिबद्धेन हेतुना जन्यते स कुतस्तत्प्रतिबन्धं गमयति, विद्यते चेत्प्रतिबन्धो न तह्यप्रतिबद्धो हेतुरिति। सत्यमेतत्। किं तु महाकविलक्ष्यमेवंविधं दृश्यतेऽनुभूयते च। न च दुष्टे किंचिदनुपपत्रं नाम ॥ निदर्शनमाह- आमतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ३९॥ ग्रामेति। कस्याश्वित्तरुण्या नववज्जलमज्जरीसनाथकरं ग्रामतरुणं पश्यन्त्या मुखमा- लिन्यमभवदित्यर्थः । वज्जुलो वृक्षविशेषः । अत्र विकारो मुखमालिन्यं तस्य हेतुर्वज्ञुल- मजरीदर्शनं तच्चाप्रतिबद्धम्। सर्वदा तदर्शने तदभावादिति। तथ् मालिन्यं तरुण्या भावं प्रतिपत्तुः प्रकाशयति। नूनमनया तस्य तरुणस्य वजुलगहने संकेतोऽकारि, कर्मान्तर- व्यासह्वाच्च न तत्र संप्राप्ता, तं च मजर्या गतप्रत्यागतं विज्ञाय सुखाद्वश्चितास्मीति खिन्ना संपन्ना। मुखमालिन्यं चास्य मञ्जरीसनाथकरत्वस्य प्रतिबन्धं गमयति। अन्यथा कथ तद्र्शनेन तदुत्पय्यते। प्रकारान्तरमाह- अभिधेयमभिदधानं तदेव तदसदृशसकलगुणदोषम्। अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ॥ ४० ॥ अभिधेयमिति। यद्वाक्यं कर्तृ, तदेव पदारूढमेवाभिधेयं वाच्यमभिदधानं प्रतिपादय- स्सदर्थान्तरं वक्रभिप्रायरूपं गमयति सोऽपरोऽन्यो भावभेदः । कीदशमर्थान्तरम्। तेन पदारूढेनार्थेनासदृशा विलक्षणा गुणदोषा विधिप्रतिषेधादयो यस्य तत्तथोक्तम्। एतेन चान्योक्तिसमासोत्तयोर्भावलं निषिद्धम् । तत्र हीतित्ृत्तसादृश्यं वर्तते। औपम्य- मेदात्तयोरिति ॥ निदर्शनमाह- एकाकिनी यदबला तरुणी तथाह- मस्मिन्गृहे गृहपतिश्व गतो विदेशम्। किं याचसे तदिह वासमियं वराकी श्वथूर्ममान्धबधिस ननु मूढ पान्थ ।। ४१ ॥ एकाकिनीति। तरुणपथिकस्य वासं याचमानस्य काचित्साभिलाषा योषिदिदं प्रकट- प्रतिषेधार्थ वाक्यमाह। एतेन चोक्तपदार्थेन विलक्षणो वासानुमतिविधिलक्षणो भावो- डवगम्यते॥

Page 87

८8 काव्यमाला।

अथ पर्याय :- वस्तु विवक्षितवस्तुप्रतिपादनशक्तमसदशं तस्य । यद्जनकमजन्यं वा तत्कथनं यत्स पर्यायः ॥ ४२ ॥ वस्तिति। यद्वस्तु विवक्षितस्य मनोगतस्य वस्तुनः प्रतिपादनसमर्थ तस्य कथनं यत्स पर्यायोऽलंकार: । समासोक्त्यन्योक्त्योः पर्यायत्वनितृत्त्यर्थमाह-असद्ृशं तस्य। तस्य वाच्यस्य वस्तुनोऽसदशमतुल्यम्। भावसूक्ष्मयोः पर्यायोक्तनिवृत्त्यर्थमाह-अजनकमजन्यं वेति। अयमर्थ :- प्रथमभावे विकारलक्षणेन कार्येण विकारवतोऽभिप्रायो यथा गम्यते तथा खजनकेन सह प्रतिबन्धश्चेति गमकस्य जन्यतास्ति । द्वितीयभावसूक्ष्मयोस्तु वस्त- न्तरप्रतीतिजननाज्जनकतेति तेषां व्यवच्छेदकमिदं विशेषणद्वयम्। इह तु विवक्षितवस्तु- प्रतिपादकं वस्तु न तथाभूतम्। वाच्यवाचकभावशून्यमित्यर्थः। द्वितीयभावे हि वक्तुरभि- प्रायरूपमर्थान्तरं वाक्येन गम्यते। सूक्ष्मे तु युक्तिमदर्थोऽपि शब्दोऽर्थान्तरमुपपत्तिमद्ग- मयति। इह तु स एवार्थ: पर्यायेणोच्यते। न लभिप्रायरूपार्थान्तरप्रतीतिरिति ॥ उदाहरणमाह- राजञ्जहासि निद्रां रिपुबन्दीनिबिडनिगडशव्देन। तेनैव यदन्तरितः स कलकलो बन्दिवृन्दस्य ॥४३॥ राजन्निति। राजश्ाटुवचनमिदम्। अत्र बन्दीनिगडरवेण निद्रामोक्षकथनं यद्वस्तु तस्य तावन्मात्रमेव न तात्पर्यमपि तु तया रिपूजिता तन्नार्यों हता इति निखिलरिपुविजय: पर्यायेण प्रतिपाद्यते।। प्रकारान्तरमाह- यत्रैकमनेकस्मिन्ननेकमेकत्र वा क्रमेण स्यात्। वस्तु सुखादिप्रकृति क्रियेत वान्यः स पर्यायः ॥ ४४ ॥ यत्रेति। अनेकस्मिन्नाधारे क्रमेणैकं वस्तु यत्र खवयमेव स्यात्स पर्यायः। अथवैकस्मि- ब्राधारेऽनेकं यत्र स्यात्सोऽपि पर्यायः। कीदशमेकमनेकं वा वस्लित्याह-सुखादिप्रकृति। सुखदुःखादिसरूपमित्यर्थः। स्यादिति कर्तृनिर्देशात्कर्मण्यप्राप्तं पर्यायतमाह-क्रियेत वेति। तदेवं चतुर्विधः पर्यायः ॥ उदाहरणमाह- कमलेषु विकासोSभूदुदयति भानावुपेत्य कुमुदेभ्यः । नभसोऽपससार तमो बभूव तस्मिन्नथालोकः ॥ ४५ ॥ कमलेष्विति । अत्रैको विकासोऽनेकस्मिन्वस्तुनि कुमुदकमलाख्ये क्रमेण भवति। तथैकस्मिन्नभसि तमः प्रकाशश्। अनेकवस्तु सुखरूपम्। एते कर्तर्युदाहरणे॥

Page 88

७ अध्याय: ] काव्यालंकारः । ८५

कर्मण्याह- आच्छिद्य रिपोर्लक्ष्मीः कृता त्वया देव भृत्यभवनेषु। दत्त भयं द्विषब्दः पुनरभयं याचमानेभ्यः ॥ ४६॥ आच्छिद्येति। अत्रैका लक्ष्मीरनेकत्र रिपुषु भृत्येषु च कृता। तथैकस्मिन्द्विषल्लक्षणे वस्तुनि भयाभये च दुःखसुखरूपे क्रमेण दत्ते। पूर्वत्र पर्यायशब्दस्य शब्दान्तरेण कथ- नमर्थः । इह तु परिपाटी॥ अथ विषममाह- विषम इति प्रथितोऽसौ वक्ता विघटयति कमपि संबन्धम्। यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सच्वे ॥ ४७॥ विषम इति । असावलंकारो विषम इति प्रथितो विषमनामा प्रसिद्धो यत्रार्थयोः संबन्धं घटनां वक्ता प्रतिपादको विधटयति। कीदशं संबन्धम्। असन्तमविद्यमानम्। ननु यद्यसन्संबन्धस्तर्हि सवयं विघटित एव किमस्य विघटनीयमित्याह-तस्य सत्वे सद्भावे परमतं पराभिप्रायमाशक्क। परमतेन सन्तं कृतेत्यर्थः ॥ उदाहरणमाह- यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः । सततं खलेषु भवतां क खलाः क्क च सज्जनस्तुतयः ॥ ४८ ॥ य इति। केनचित्कस्यचिदग्रे उक्तममुना खलेनासौ सज्न: स्तुत इति। स त्वसह- मानस्तमाह-अहो भवतां खलेषु दुर्जनविषये बलात्कारः पक्षपातः। यतस्तदनुकूलं बूथ। कस्मात्ते तत्स्तुति न कुर्वन्तीत्याह-यस्य खलस्य यो न विषयः सज्जनस्तवादि: स तं नैव कुर्यात्। किमिति खलानां शिष्टस्तवादिर्न विषय इत्याह-क खलाः क्वच सज्जनस्तुतय इति। अत्र खलस्तुत्योरसन्नेव्र संबन्धः परमते सत्त्वाशङ्कया विघटितः । इदं चात्रोदाहरणम्-'निसर्गदुर्बोधमबोधविक्कवाः क्व भूपतीनां चरितं क्व जन्तवः' इत्यादि ॥ प्रकारान्तरमाह- अभिधीयते सतो वा संबन्धस्यार्थयोरनौचित्यम्। यत्र स विषमोऽन्योऽयं यत्रासंभाव्यभावो वा ॥४९ ॥ अभिधीयत इति। यत्रार्थयोर्विद्यमानस्य संबन्धस्य केवलमनौचित्यमुच्यते सोऽन्यो- यं विषमाख्योऽलंकारः । अथवा यत्रासंभाव्यस्य भावः सत्ताभिधीयते सोऽपि विषमः । अनुचितार्थोडत्र विषमशब्दः ।। उदाहरणमाह- रूपं क मधुरमेतत्क चेदमस्याः सुदारुणं व्यसनम्। इति चिन्तयन्ति पथिकास्तव वैरिवधूं वने दृष्टा ॥५०॥

Page 89

८६ काव्यमाला।

रपमिति। अत्र रूपव्यसनयोरर्थयोरेकत्र रिपुस्तियां विद्यमानयोरनौचित्यम्। यत्र हि रूपं न तत्र व्यसनम् । यदाह-'अलभ्यशोकाभिभवेयमाकृतिः' इति। अथवासं- गाव्यस्य रूपस्यातिव्यसनस्य च भावोऽत्र कथ्यत इति साधारणमेकमुदाहरणम् ॥ भूयोऽपि भेदान्तराण्याह- तदिति चतुर्घा विषमं यत्राण्वपि नैव गुर्वपि च कार्यात्। कार्य कुर्यात्कर्ता हीनोऽपि ततोधिकोऽपि न वा॥ ५१॥ तदिति। तद्विषममिति वक्ष्यमाणेन प्रकारेण चतुर्धा चतुष्प्रकारम्। कथमित्याह-यत्र कुतश्वित्कार्याद्वेतोररावपि खल्पमपि कार्य कर्ता नैव कुर्यादित्येकः प्रकारः । गुर्वपि कुर्या- दिति द्वितीयः । अत्र च हीनाधिकलं कर्ता नापेक्षते। तथा हीनोऽशक्तोऽपि कर्ता तत्कार्य कुर्यादिति तृतीयः । तथाधिकोऽपि न वा नैव कुर्यादिति चतुर्थः । अत्र कार्य- योरणुत्गुरुत्वापेक्षा न कर्तव्या। कार्यादिति च सर्वेषु योज्यम्। अन्यत्र वैषम्यनिरासा- र्थम्। अपिशब्दा विस्मयार्थाः । चशब्दः समुचये पूर्वापेक्षः । अत्रानौचित्यमशक्यक- र्तृतं च विषमशब्दार्थः । विषममिति नपुंसकनिर्देशो विषमालंकारयुक्तकाव्यापेक्षयेति।। एतदुदाहरणानि चल्वार्यार्याद्वयेनाह- त्वद्धृत्यावयवानपि सोढुं समरे क्षमा न ते क्षुद्राः । असिधारापथपतितं त्वं तु निहन्या महेन्द्रमपि ॥ ५२॥ त्वं तावदास्ख दूरे भृत्यावयवोऽपि ते निहन्त्यहितान्। का गणना तैः समरे सोढुं शक्ोऽपि न सहस्त्वाम् ॥ ५३॥ लदिति। त्वमिति। अत्राणुत्वख्यापनार्थोऽवयवशब्दः । ततोऽरावपि भृत्यावयवस- हनलक्षणं कार्य रिपवः कर्तुमशक्ाः । नृपभयाशङ्कनात्कार्याद्धेतोः । तथा गुर्वपि शक्र्कह- ननं कार्यात्सत्त्वानृपेण क्रियते। तथा हीनोऽपि मृत्यावयवो रिपुवर्धं कार्य तेजस्िनृपसं- पर्कात्कीर्त्याशया वा करोति। तथाधिकोऽपि शक्रः कर्ता राजसहनलक्षणं तद्भयात्का र्यात्र करोति॥ भूयोऽप्याह- यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत्। कर्तुरनर्थश् भवेत्तदपरमभिघीयते विषमम् ॥ ५४॥ यत्रेति। यत्र क्रियाविपत्तेः कर्मनाशाद्वेतोर्न केवलं तावत्कर्तुः क्रियाफलं न भवेद्या- चतानर्थक्च भवेत्तदपरमन्यद्विषममभिधीयते । दारुणार्थव्वात्र विषमशब्दः। यथा- 'विषममिदं वनम्' इति ॥ निदर्शनमाह- उत्कण्ठा परितापो रणरणकं जागरखनोस्तनुता। फलमिदमहो मयासं सुखाय मृगलोचनां दृष्टा।। ५५॥

Page 90

७ अध्याय: ] काव्यालंकारः । ८७

उत्कण्ठेति। अत्र सुखाय मृगलोचनां स्तिरियं दृष्ट्रा न केवलं सुखं न प्राप्तं यावदनर्थ उत्कण्ठादिक: प्राप्तः । क्रियाविपत्तिरत्र दर्शनच्छेद: ।। अथानुमानमाह- वस्तु परोक्षं यस्मिन्साध्यमुपन्यस्य साधकं तस्य। पुनरन्यदुपन्यस्येद्विपरीतं चैतदनुमानम् ॥५६॥ वस्तिति। साध्यं परोक्षं वस्तु यत्र प्रथममुपन्यस्य पुनस्तस्य साधकं हेतुं कविरुप- न्य स्येत्तदनुमानमलंकारः। तथापि विपरीतं चेति पूर्व साधकोपन्यासः पश्चात्साध्यनिर्देशो यत्र तच्चानुमानम्। वास्तवलक्षणेनैवापुष्टर्थस्य परिहृतलादमिरत्र धूमादित्यलंकारतं न भवति। साधकमिति जातावेकवचनम्। तेन द्वयोर्बहुषु च साधकेषु भवति। यथा- 'स्पष्टाक्षरमिदं यत्रान्मधुरं स्त्रीखभावतः। अल्पाङ्गत्वादनिहादि मन्ये वदति सारिका ॥' साधकग्रहणादेव वस्तुनः साध्यत्वे लब्धे साध्यग्रहणमवस्तुत्वेन सिद्धस्याभावस्यापि वस्तु- त्वप्रतिपत्त्यर्थम्। यत्साध्यं तद्भावरूपमभावरूपं वा भवखिति क्त्वाप्रत्ययेनैव पुनःशब्दार्थे लब्धे साध्यसाधकयोश्ष विलक्षणत्वादन्यत्वे सिद्धे पुनरन्यपदप्रहणं बहूनां साधकानामु- पन्यासे सत्यनुमानोज्ज्वलत्वख्यापनार्थम्। साधकमुपन्यस्येतपुनश्चान्यदुपन्यस्येदिति शब्द- शक्तैव वा भूयस्ताप्रतीतिः । उदाहरणमाह- सावज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे, यावकरसतिलकपड्किरियम्॥ ५७ ॥ सावज्ञमिति। अत्र पादपतनं साध्यमुपन्यस्य ललाटगतयावकरसतिलकपङ्गि: साधक- मुपन्यस्तम् ॥। तथा- वचनमुपचारगर्भ दूरादुद्गमनमासनं सकलम्। इदमद्य मयि तथा ते यथासि नूनं प्रिये कुपिता ॥५८॥

वैपरीत्यम्॥ वचनमिति। अत्र वचनादीनि पूर्व साधकान्युपन्यस्तानि प्ात्कुपितत्वं साध्यमिति

अथ भेदान्तराण्याह- यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति। भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम्॥ ५९॥ यत्रेति। यत्रालंकारे बलवत्तरकारणदर्शनेनान्यदिति कार्यमभूतमेवानुत्पन्नमेव भूतत्वेन भावित्वेन वा कथ्येत तत्तथेति पूर्ववद्यथापूर्व साध्यमुपन्यस्य साधकोपन्यासः साधकं चोपन्यस्य साध्योपन्यास इत्येवं चतुर्धा तदन्यत पूर्वोक्कादपरमनुमानम्॥

Page 91

८८ काव्यमाला।

उदाहरणान्याह- अविरलविलोलजलद: कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त मृताः पथिकगेहिन्यः ॥ ६० ॥ अविरलेति। अत्रादौ बलवतः कालस्य साधकस्योपन्यासः पश्चात्साध्यस्य मरणस्य भाविनोऽपि मृता इति भूतत्वेन निर्देशः ॥ तथा- दिष्टया न मृतोऽस्मि सखे नूनमिदानीं प्रिया प्रसन्ना मे। ननु भगवानयमुदित स्त्रिभुवनमानन्दयन्िन्दुः ॥ ६१॥ दिष्येति। अत्र प्रियाप्रसादस्य साध्यस्य भाविनो भूतत्वेनादावुपन्यासः पश्चाचन्द्रो- द्यस्य बलवतः साधनस्येति भूतोदाहरणम् ॥ भाविन्याह- यास्यन्ति यथा तूर्ण विकसितकमलोज्वलादमी सरसः। हंसा यथैवमेतां मलिनयति घनावली ककुभम् ॥ ६२॥ यास्यन्तीति। अत्र हंसगमनस्य साध्यस्यादौ भावित्वेन निर्देशः पश्चात्साधनस्य बलवतो घनावलीलक्षणस्येति॥ तथा- वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि। प्रियसखि तथेह न चिरादेष्यति तव वल्लभो नूनम् ॥ ६३ ॥ वहतीति। अथ पूर्व बलवतो मलयवातादिकस्य साधकस्य निर्देशः । पश्चाद्वल्लभाग- मनस्य साध्यस्य भावित्वेनेति॥ अथ दीपकम्- यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति। तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेषा॥ ६४ ॥ यत्रेति। यत्रानेकेषां वाक्यार्थानामेकं क्रियापदं भवति तद्वत्कर्त्रादिकारकपदं वा तदि- त्यमुना प्रकारेण दीपकं द्वेधा। करियादीपकं कारकदीपकं चेत्यर्थः ॥ अथास्यान्वर्थमेदान्दर्शयितुमाह- आदौ मध्येऽन्ते वा वाक्ये तत्संस्थितं च दीपयति। वाक्यार्थानिति भूयस्त्रिघैतदेवं भवेत्वोढा ॥ ६५ ॥ आदाविति। तदिति द्विविधं दीपकं पद्यादिलक्षणवाक्यस्यादौ मध्येऽन्ते वावस्थितं

Page 92

७ अध्याय: ] काव्यालंकारः । ८९

वाक्यार्थान्दीपयति प्रकाशयतीत्यन्वर्थबलादादिदीपकं मध्यदीपकमन्तदीपकं चेति त्रिविधम्। एवं चैतत्षोढा षड्धिधं भवेदिति॥ तदुदाहरणानि यथाक्रममाह- कान्ता ददाति मदनं मदनः संतापमसममनुपशमम्। संतापो मरणमहो तथापि शरणं नृणां सैव ॥। ६६ ॥। कान्तेति। इदमादिक्रियादीपकम्। तारुण्यमाशु मदनं मदनः कुरुते विलासविस्तारम्। स च रमणीषु प्रभवञ्जनहृदयावर्जनं बलवत् ॥ ६७ ॥ तारुण्यमिति। इदं मध्यक्रियादीपकम् ॥ नवयौवनमङ्गेषु प्रियसङ्गमनोरथो हि हृदयेषु। अथ चेष्टासु विकारः प्रभवति रम्यः कुमारीणाम् ॥ ६८॥ नवेति। इदमन्तक्रियादीपकम्॥ निद्रापहरति जागरमुपशमयति मदनदहनसंतापम्। जनयति कान्तासंगमसुखं च कोऽन्यस्ततो बन्धुः ॥ ६९ ॥ निद्रेति। इदमादिकर्तृदीपकम्॥ संसयति गात्रमखिलं गलपयति चेतो निकाममनुरागः । जनमसुलभं प्रति सखे प्राणानपि मह मुष्णाति ॥ ७० ॥ स्रंसयतीति। इदं मध्यकर्तृदीपकम् ॥ दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते। त्रस्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥ ७१॥ दूरादिति। इदमन्तकर्तृदीपकम् ॥ एवं कर्मादिषु कारकेषूदाहरणानि द्रष्टव्यानि। अस्य च दीपकस्य प्रायोऽलंकारान्तरैः समावेश इष्यते । तथा ह्वादयोरुदाहरणयोः कारणमालायाः सद्भावः । तृतीयचतुर्थपश्चमेषु वास्तवसमुच्चयस्य। षष्ठे जातेः ॥ अथ परिकर :- साभिप्रायैः सम्यग्विशेषणैर्वस्तु यद्विशिष्येत। द्रव्यादिमेदभिन्नं चतुर्विघ: परिकरः स इति॥ ७२॥ सेति। यद्व्यगुणक्रियाजातिलक्षणं चतुर्विधं वस्तु साभिप्रायैर्विशेषणैः सम्यग्विशि- ष्येत स इत्यमुना प्रकारेण चतुष्प्रकार: परिकरालंकारो भवति। साभिप्रायग्रहणं वस्तु- स्रनपमात्राभिधानकल्पितानां विशेषणानां निरासार्थम्। यथा-'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्च: कुज्जरबिन्दुशोणा: ।' इत्यत्र भूर्जलचां कुज्जरबिन्दुशोणा इति विशेषणं

Page 93

९० काव्यमाला।

वस्तुस्रूपमात्राख्यापकमिति। सम्यग्ग्रहण तु कविविवक्षिताभिप्रायाप्रत्यायकविशेषणानां निवृत्त्यर्थम्। तस्य भवन्ति द्रव्यमित्याद्यर्थचातुर्विध्याभिधानादेव तत्त्वावगमे सति द्रव्या- दिमेदभिन्नं चतुर्विध इति यत्कृतं तत्कैश्चित्कियाया अवस्तुतमुक्तं त्रिविधश्च परिकरो- ज्भ्यधायि तन्मतनिरासार्थमिति॥ तदुदाहरणानि यथाकममाह- उचितपरिणामरम्यं खादु सुगन्धि सयं करे पतितम्। फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधेदानीम्॥ ७३॥ उचितेति। काचित्सखीमाह-हे मुग्धे खल्पप्रज्ञे, एवंविधं फलं तदानीमुत्सज्येदानीं मुधैव वृथैव ताम्यसि खिद्यस इत्यर्थः । अत्र फलत्रस्तुनो विशेषणानि साभिप्रायाणि। अयं चाभिप्राय :- योग्यपरिपाकसुन्दरता सुखादुरसता सौगन्ध्यं खयं हस्तपतनं चैकै- कमपरित्यागकारणम्। तया त्वेतत्सकलगुणयुतं फलं त्यजन्त्या स्यं जानन्त्यैव महा- ननुतापोऽ्वीकृत एव। तत्किमिदानीं खेदेनेति । अथवात्रेदमुदाहरणम्-'कर्ता द्यूत- च्छलानां जतुमयभवनादीपनो योऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वासते दुर्योधनोऽसौ कथय न तु रुषा द्रष्टमभ्यागतौ खः ।I' इदं द्रव्योदाहरणम् ॥ कार्येषु विन्नतेच्छं विहितमहीयोपराघसंवरणम्। अस्माकमधन्यानामार्जवमपि दुर्लमं जातम्॥७४॥ कार्येष्विति। मानिनी नायकमिदमाह। अत्रार्जवं गुणस्तद्विशेषेणान्यन्यानि साभि- प्रायाणि। तथाह्यार्जवे सति मुग्धतया यदेव कार्येषु सुरतेषु युष्मदादिरिच्छति तदेव क्रियते। तथा महीयसां गुरूणामपराधानां संवरणमाच्छादनं भवति। तच्चार्जवमस्मा- कमधन्यानां दुष्प्रापं जातम्। अयमभिप्रायः-नाहमृज्वी येनैतानार्जवगुणान्मयि संभाव्य मां प्रसादयसीति। क्रियापरिकरसु-

गतनिद्रमविश्वासं जीवति राजा जिगीषुरयम्॥ ७५॥ सततमिति। अत्र जीवतीति किया। तद्विशेषणान्यनिर्वृतमानसमित्यादीनि। तेषा- मभिप्रायो राज्यगहादिकः । एवंविधं राजञो जीवनं गर्हितमित्यर्थः॥ अथ जातिपरिकरमाह- अत्यन्तमसहनानामुरुशक्तीनामनिन्नवृत्तीनाम्। एकं सकले जगति स्पृहणीयं जन्म केसरिणाम्॥ ७६॥ अत्यन्तमिति। अत्र केसरिणामिति सिंहजातिः । तद्विशेषणान्यसहनानामित्यादीनि।

Page 94

७ अध्याय: ] काव्यालंकारः। ९१

अभिप्रायस्तु तैः सिंहानां महत्त्वप्रतिपादनमेव । कथमन्यथा तज्जन्मनि स्पृहा भवेस्। अथवात्रैवमुदाहरणम्-'कृशः काणः खजः श्रवणरहितः पुच्छविकलः क्षुधाक्षामो वृद्धः पिठरककपालार्दितगलः । व्रणैः पूतिक्किनैः कृमिकुलचितः खापबहुलः शुनीमन्वेति श्वा तमपि मदयत्येव मदनः' ॥ अथ परिवृत्ति :- युगपद्दानादाने अन्योन्यं वस्तुनो: क्रियेते यत्। क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृतिः॥ ७७॥ युगपदिति। यदन्योन्यं परस्परं वस्तुनोर्युगपत्समकालं दानादाने त्यागप्रहणे क्रियेते सेत्यमुना प्रकारेण परिवृत्तिर्नामालंकारो भवति। अथवा क्वचिदसती दानादाने यदुपचर्येते सा परिवृत्तिः । कथमसत उपचार इत्याह-प्रसिद्धितः । प्रसिद्धा हि न किंचिदपि विरुध्यते। अन्यथा गगनादीनामपि मूर्तधर्मवर्णनमयुक्तं स्यादिति भावः ॥ उदाहरणे द्वाभ्यामार्यार्धाभ्यामाह- दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः। किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ ७८॥ दत्त्वेति। कश्िद्यसनी वक्ति। इदमत्र दर्शनसमकालमेव प्राणक्रयस्तथा चित्तहरण- समकालमेव हृदयोत्कलिकादानमुपचरितम् ॥ अथ परिसंख्या- पृष्टमपृष्टं वा सद्गुणादि यत्कथ्यते कचितुल्यम्। अन्यत्र तु तदभाव: प्रतीयते सेति परिसंख्या।।७९॥। पृष्टमिति । यद्रुणादि गुणक्रियाजातिलक्षणं वस्तु क्वचिन्नियतैकवस्तुन्याधारे विद्यमानं कथ्यते। कीदशम्। सत्तुल्यं साधारणम्। अन्यत्रापि विद्यमानं सदित्यर्थः । यद्येवं कस्मात्क्वच्वित्कथ्यत इत्याह-अन्यत्र वस्तन्तरे तस्याभावः प्रतीयते । कथने कृते सति तच क्वचित्पृष्टं कथ्यते क्वचिदपृष्टमिति द्विधा । पृष्टग्रहणं वाक्ये प्रश्नस्योपादानार्थम् । सेत्यमुना प्रकारेण परिसंख्या भण्यते । उदाहरणानि यथा- किं सुखमपारतञ्यं किं धनमविनाशि निर्मलाविद्या। किं कार्य संतोषो विप्रस्य महेच्छता राज्ञाम् ॥। ८० ॥ किमिति। अत्र सुखो गुणं धनं लविनाशितगुणयुक्तं पृष्टम्। तथा किं कार्यमित्त्र द्िज़नृपकर्तृका करिया पृष्टा। तेषां चान्यत्र सत्त्वेऽप्यपारतडये विद्यायां संतोषे महेच्छतायां च सद्भावः कथितः । अन्यत्र तदभाव एव प्रतीयते। अपारतच्यमेव सुखमित्याद्यव- धारणप्रतीतेरिति। जातौ तु के ब्राह्मणा येषां सत्यमित्यादि द्रष्टव्यम्॥

Page 95

९२ काव्यमाला।

अपृष्टोदाहरणमाह- कौटिल्यं कचनिचये करचरणाघरदलेषु रागसते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥८१॥ कौटिल्यमिति। इदं कौटिल्यादिषु गुणेषूदाहरणम् । द्रव्यक्ियाजातिषु तु सयं द्रष्ट- व्यानि। लक्षणयोजना च कर्तव्येति। अथ हेतु :- हेतुमता सह हेतोरभिधानममेदकृद्धवेद्यत्र। सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥ ८२॥ हेलिति। हेतुमता कार्येण सह हेतोः कारणस्य यत्राभिधानमभेदकृदमेदेन भवेत्स हेतुर्नामालंकार । अन्येभ्योऽलंकारेभ्यः पृथग्भूतो विलक्षणः । अत्र वालंकारग्रहणम- न्येभ्यः पृथग्भूत इति च परमतनिरासार्थम् । तथा हि नाम हेतुसूक्ष्मलेशानामलंकारत्वं नेष्टम्। एषां चालंकारत्वं विद्यते। वाक्यार्थालंकरणान्न चान्यत्रान्तर्भावः शक्यते कर्तुमिति॥ उदाहरणमाह- अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकर: कालः ॥ ८३ ॥ अविरलेति। अविरलानां कमलानां विकासहेतुत्वाद्वसन्तकाल एव तथोच्यते। एवं सकलालिमदश्वेत्यादावपि द्रष्टव्यम्। न त्वविरलानां कमलानां विकासो यत्रेत्यादि बहु- व्रीहिः कर्तव्यः। तदा त्वमेदो न स्यात्। उदाहरणदिगियम्। इदं तूदाहरणं यथा- 'आयुर्धृतं नदी पुण्यं भयं चौरः सुखं प्रिया। वैरं द्यूतं गुरु्ज्ञानं श्रेयो ब्राह्मणपूजनम्'॥ अथ कारणमाला- कारणमाला सेयं यत्र यथापूर्वमेति कारणताम्। अर्थानां पूर्वार्थाद्भवतीदं सर्वमेवेति॥८४॥ कारणेति। सेयं कविप्रसिद्धा कारणमाला यस्यामर्थानां मध्याद्यथापूर्व यो यः पूर्वः स स उत्तरेषामर्थानां कारणभावं याति। क्थ याति पूर्वस्मादर्थादिदमुत्तरोत्तरार्थजातं सर्वमेव भवतीत्यमुना प्रकारेणेति। उदाहरणमाह- विनयेन भवति गुणवान्गुणवति लोकोऽनुरज्यते सकलः । अभिगम्यतेऽनुरक्तः ससहायो युज्यते लक्ष्म्या।। ८५।। विनयेनेति। अत्र पूर्वः पूर्वो विनयादिरुत्तरोत्तरस्य गुणवत्त्वादेर्निमित्तम् ।।

Page 96

७ अध्याय: ] काव्यालंकारः । ९३

अथ व्यतिरेक :- यो गुण उपमेये स्यात्तत्प्रतिपन्थी च दोष उपमाने। व्यस्तसमस्तन्यस्तौ तौ व्यतिरेकं त्रिधा कुरुतः ॥ ८६॥ य इति। उपमेये यो गुणः स्यादुपमाने च तस्य गुणस्य प्रतिपन्थी विरुद्धो यो दो- षस्तौ गुणदोषा व्यतिरेकमलंकारं त्रिधा त्रिविधं कुरुतः । कथमित्याह-व्यस्तसमस्त- न्यस्ताविति। तत्र गुण एवोपमेये न्यस्यते न तूपमाने दोष इत्येकः प्रकारः। तथोपमाने दोषो न्यस्यते, न तूपमेये गुण इति द्वितीयः । एवं व्यस्तमेदौ द्वौ। तथोपमेये गुणोऽपि न्यस्यते, उपमाने च दोषोऽपीति समस्तन्यासे एक एव प्रकार इति त्रैविध्यम् । गुण- व्वात्र हृदयावर्जकार्थविशेषो गृह्यते, न तु द्रव्यगुणक्रियाजातिषु प्रसिद्धः । दोषोऽपि चोक्तगुणविपक्ष एव । न चात्रौपम्यालंकारमेदत्वमाशङ्कनीयम् । सादृश्याभावात् । उपमानोपमेयपदोपादानं तु व्यतिरेकसिद्धर्थम्। नह्न्यथा संघटते गुणिनः सदोषेण सहौपम्यविघटनं व्यतिरेक इति कृत्वा।। तदुदाहरणान्याह- सकलड्केन जडेन च साम्यं दोषाकरेण कीडक्ते। अभुजंगः समनयन: कथमुपमेयो हरेणासि॥ ८७॥ सकलङ्केनेति। सकलङ्केत्यार्यार्धम् । अत्रोपमाने दोषन्यास उपमेये गुणवत्ता प्रती- यते। अभुजंग इत्याद्युत्तरार्धम्। अत्रोपमाने सदोषत्वं गम्यते॥ तरलं लोचनयुगलं कुवलयमचलं किमेतयोः साम्यम्। विमलं मलिनेन मुखं शशिना कंथमेतदुपमेयम॥। ८८॥ तरलमिति। अत्रोपमेये गुण उपमाने दोषश्च न्यस्त इति समस्तो भेदः ॥ मेदान्तरमाह- यो गुण उपमाने वा तत्प्रतिपन्थी च दोष उपमेये। भवतो यत्र समस्तौ स व्यतिरेकोऽयमन्यस्तु ॥ ८९॥ य इति। सोडयं व्यतिरेकोऽन्यः पूर्वविलक्षणः, यत्रोपमाने गुणस्य न्यास उपमेये च दोषस्य तौ समस्तौ न्यसनीयौ। व्यस्तयोरपि केचिदिच्छन्ति । यथा-'अभ्यर्णवर्ति दाहयं वस्तु तदानीं विदह्यामिः । शाम्यति यस्तेन कथ समो ननु स्यात्प्रियाविरहः ॥' तथा-'खदन्नेव तदात्वेऽपि बाधितोऽपि न शाम्यति। यः स दासेरकः क्षद्रक्ष्वेडतुल्यः किमुच्यते ॥' तदेतद्युक्तम् । पूर्वेणैव सिद्धत्वात् । सर्वोऽप्यात्मीयधर्पोरकर्षो गुणः । स चात्रोपमेये विद्यत इति॥ उदाहरणमाह- क्षीण: क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥ ९० ॥ ९ काव्या०

Page 97

काव्यमाला। क्षीण इति। अत्र शश्युपमानं क्षीणोऽपि वृद्धिगुणयुक्तो निर्दिष्टः। यौवमं तूपमेयं क्षयदोषयुक्तमिति॥ अथान्योन्यमाह- यत्र परस्परमेक: कारकभावोऽभिधेययोः क्रियया। संजायेत स्फारिततत्त्वविशेषसदन्योन्यम । ९१॥ यत्रति। यत्रामिधेययो: पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्त्रादिकारकत्वं संजायेत। कीदृशः । स्फारितः परिपोषितस्तत्त्वविशेषो विशिष्टधर्मो येन स तथाभूतः । तदन्योन्यमलंकारः । परस्परग्रहणं 'सिंहः प्रसेनमवधी- त्सिंहो जाम्बवता हतः' इत्यन्योन्यनिवृत्त्यर्थम्। एकग्रहणं तु 'कृष्णद्वैपायनं पार्थः सिषेवे शिष्यवत्ततः । असावध्यापयत्तं तु विद्यां योगसमन्विताम् I' इत्येतनिवृत्त्यर्थम् ॥ उदाहरणमाह- रूपं यौवनलक्ष्म्या यौवनमपि रूपर्सपदस्तस्याः । अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः ॥९२॥ रूपमिति। अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः। तेन च रूपस्य दीघनयनस्वादिको विशेष: स्फारितः । यौवनस्यापि वपुविभागश्चतुरस्त्शोभादिक- त्वविशेषः स्फारितः ।। अथोत्तरम्- उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम्। क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ।। ९३,।। उत्तरेति। उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निश्चीयन्ते तदुत्तरम्। तथा प्रश्ना- च्चोत्तरं यत्र स्यात्तदप्युत्तरम्। इति द्विधेदम् । अस्य चाद्योत्तरमेदस्यानुमानस्य चायं वि- शेषो यत्तत्र सामान्येन हेतुहेतुमद्धावः साध्यते। अत्र तु न हेतुहेतुमद्भावो वाक्ये निब- ध्यते। किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति॥ उदाहरणम्- भण मानमन्यथा मे भ्रुकुटिं मौनं विधातुमहमसहा। शक्रोमि तस्य पुरतः सखि न खलु परास्मुखीभवित्ुम् ॥ ९४॥ भणेति। अत्रारमान्नायिकोक्तादुत्तरात्सखीवचनान्युश्चीयन्ते। नूनमस्याः सखीभिरुक सथा सापराधस्य प्रियस्य भ्रुकुटिमौनपराखुखीभावान्कुरुष्वेति।। द्वितीयोदाहरणमाह- किं खर्गादघिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः । सौराज्यमदुर्भिक्षं सत्काव्यरसामृताखादः ॥ ९५॥

Page 98

७ अध्याय: ] काव्यालंकारः । ९५

किमिति। इति प्रश्नादुत्तरम्। अथास्य परिसंख्यायाश्चायं विशेषो यत्तत्र नियमप्रती- तिरेतदेवात्रैव वेति। इह तु प्रश्नादुत्तरमात्रम्, न तु नियमप्रतीतिः॥ अथ सारम्- यत्र यथासमुदायाद्यथैकदेशं क्रमेण गुणवदिति। निर्धार्यते परावधि निरतिशयं तद्भवेत्सारम् ॥ ९६ ॥ यत्रेति। यो यः समुदायो यथासमुदायम्, यो य एकदेशो यथैकदेशमित्यव्ययीभावः । यथासमुदायाद्यथैकदेशं क्रमेण निर्धार्यते पृथक्किरियते। कथम्, परावधि। परमुत्कृष्टतममे- कदेशमवधि कृला। निर्धारणं च गुणक्रियाजातिमिः संभवति। अत आह-गुणवदिति। गुणवत्त्वेन, न तु क्रियाजातिभ्बाम्। क्रमेणेति चाक्रमनिवृत्त्यर्थम्। तेनेह सारत्वं न भ- वति। यथा-'नदीषु गज्गा नगरीषु काश्वी पुष्पेषु जाती रमणीषु रम्भा। सदोत्तमत्वं पु- रुषेषु विष्णुरैरावणो गच्छति वारणेषु ॥' नह्यत्र श्ङ्गलाकटकवन्निर्धारणम्। कस्तर्ह्ेषो- डलंकार: साराभास इत्युच्यते। सर्वत्र हि संपूर्णलक्षणाभावे आभासत्वं कविमिर्व्यवस्था- पितम्। निरतिशयग्रहणमतिशयालंकारतनिवृत्त्यर्थम्। अन्यरूपत्वात्तस्य। सारत्मुत्क- र्षस्तत्र चातिशयालंकाराशङ्केति। अथवाप्याक्षेपिकगुणवत्त्वनिवृत्त्यर्थमिति॥ उदाहरणम्- राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानञ्कसर्वखम्॥ ९७॥ राज्य इति। अत्र सप्ताङ्वराज्यसमुदायाद्वसुधार्यैकदेशस्य, ततोऽपि पुरस्येत्यादि- गुणवत्त्वेन निर्धारणम् ।। अथ सूक्ष्मम्- यत्रायुक्तिमदर्थो गमयति शब्दो निजार्थसंबद्धम्। अर्थान्तरमुपपत्तिमदिति तत्संजायते सूक्ष्मम्।। ९८ ।। यत्रेति। प्रतिपाद्ेऽर्ये यस्य युक्तिर्न विद्यतेऽसावयुक्तिमदर्थः शब्दो यत्रात्मीयार्थसं- बद्धमर्थान्तरं गमयति प्रत्यापयति तत्सूक्ष्मम्। ननु यस्य निजार्थेऽपि युक्तिर्नास्ति तस्य कुतस्तत्संबन्धे स्यादित्याह-उपपत्तिमदिति। इतिर्हेतौ। यतोऽर्थान्तरे तत्संबद्धे घटना विद्यते। अत एव सूक्ष्मावगमकारणात्सूक्ष्ममिति नाम।। उदाहरणमाह- आदौ पश्यति बुद्धिर्व्यवसायोSकालहीनमारभते। वैर्य व्यूढंमहाभरमुत्साहः साधयत्यर्थम् ॥ ९९॥ आदाविति। व्यवसायः कर्मण्युद्योगः । धैर्थमसंमोहः । उत्साहः शफ्तिः । अत्र पुनर्बुद्धे- दर्शनम्, व्यवसायस्यारम्भः, धैर्यस्य भरवहनम्, उत्साहस्य च साधनमचेतनलाज् घटते।

Page 99

९६ काव्यमाला।

इत्येते शब्दा यथोक्तेऽर्येऽनुपपन्नाः । करणभावो ह्येषां घटते, न कर्तृलम्। बुद्धादि- संबद्धे तु देवदत्तादौ सर्वमुपपद्यत इति कृत्वा। यदा बुद्धिमानर्थ पश्यति तदा बुद्धि: पश्यतीत्याद्युच्यत इति॥ अथ लेश :- दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः । अभिघीयते तथाविधकर्मनिमित्तः स लेशः स्यात् ॥ १०० ॥ दोषीभाव इति। यस्मिन्गुणस्य दोषभावो दोषस्य च गुणभावो विधीयते। कीदृशः । तथाविधं गुणस्य दोषीकरणं दोषस्य गुणीकरणं वा कर्म निमित्तं यस्य स तथोक्तः। वा- शब्द एकयोगेऽपि लेशत्वख्यापनार्थः । अन्यथा यत्रोभययोगस्तत्रैव स्यादिति॥ उदाहरणमाह- अन्यैव यौवनश्रीस्तस्याः सा कापि दैवहतिकायाः । मझ्नाति यया यूनां मनांसि दूरं समाकृष्य॥ १०१॥ अन्येति। अत्र यौवनस्य गुणस्यापि युवचेतोमथनाद्दोषीभावः ॥ अथ दोषस्य गुणभावोदाहरणमाह- हृदयं सदैव येषामनभिज्ञं गुणवियोगदुःखस्य। धन्यास्ते गुणहीना विदग्धगोष्ठीरसापेताः ॥१०२ ॥ हृदयमिति। सुगममेव।। अथावसर :- अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणं क्रियते। अर्थस्य तदभिधानप्रसञ्वतो यत्र सोऽवसरः ॥ १०३ ॥ अर्थान्तरमिति। तत्रार्थस्य न्यूनस्य यद्युत्कृष्टमुदात्तं सश्ङ्गारादिकं वार्थान्तरमुपलक्षणं क्रियते सोऽवसरालंकारः। किमर्थ क्रियत इत्याह-तस्योत्कृष्टत्वादेरभिधानप्रसङ्गेन। उत्कृष्टत्वं सरसत्वं वा न्यूनस्याभिधातुमित्यर्थः ॥ उदाहरणम्- तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्बाहुसहायश्रकार रक्षःक्षयं रामः ॥ १०४ ॥ तदिति। अन्र साक्षाद्रामवासस्तत्कृतश्च राक्षसक्षय उत्कृष्टो वनस्योत्कृष्टत्वरूयापना- योपलक्षणत्वेन कृतः । द्वितीयोदाहरणमाह- सा सिम्रानाम नदी यस्यां महूर्मयो विशीर्थन्ते। मज्जन्मालवललनाकुचकुम्भास्फालनव्यसनात् ॥ १०५ ॥

Page 100

७ अध्याय: ] काव्यालंकारः । ९७

सेति। अत्र मालवतरुणीलक्षणं सश्क्वारं वस्तु सरसत्वाभिधानायोपलक्षर्ग सिप्रायाः कृतम् । अथ मीलितम्- तन्मीलितमिति यस्मिन्समानचिह्लेन हर्षकोपादि। अपरेण तिरस्क्रियते नित्येनागन्तुकेनापि ॥ १०६॥ तदिति। तन्मीलितमित्यलंकारः, यत्र हर्षकोपभयाद्यमपरेण वस्तुना हर्षादितुल्यचि- हेन खाभाविकेन कृत्रिमेण वा तिरस्क्रियते। अपिर्विस्मये। इतिः प्रकारे॥ उदाहरणम्- तिर्यक्पेक्षणतरले सुस्िग्घे च खभावतस्तस्याः। अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत ॥ १०७ ॥ तिर्यगिति। अत्र नयनयुगस्य खाभाविकतिर्यक्प्रेक्षणादियुक्तस्य यादृशी चेष्टा ताद्- श्येवानुरागयुक्तस्येत्यसौ नित्येन तेनापहूयते। मदिरामदभरपाटलकपोलतललोचनेषु वद ... कोपो मनखिनीनां न लक्ष्यते कामिभिः प्रभवन् ॥ २०८॥ मदिरेति। अत्र कोपसदृशचिह्वेन मदिरामदेनागन्तुकेन कोपस्तिरस्क्रियते॥ अथेकावली- एकावलीति सेयं यत्रार्थपरम्परा यथालाभम्। आधीयते यथोत्तरविशेषणा स्थित्यपोहाभ्याम् ॥ १०९॥ एकेति। सेयमेकावलीनामालंकारो यत्रार्थानां परम्परा यथालाभमाधीयते न्यस्यते। कीदृशी सा। यो य उत्तरोऽर्थः स स पूर्वस्य विशेषणं यस्यां सा तथाविधा। एतेन समु- च्वयस्यैकावलीत्वं निषिद्धम्। कथ यथोत्तरविशेषणा, कथ वाधीयत इत्याह-स्थित्यपो- हाभ्यामिति। स्थितिर्विधिरपोहो व्यवच्छेदस्ताभ्यामिति।। यथाक्ममुदाहरणे- सलिलं विकासिकमलं कमलानि सुगन्धिमघुसमृद्धानि। मधु लीनालिकुलाकुलमलिकुलमपि मधुररणितमिह ॥ ११०॥ सलिलमिति । अत्र सलिलायर्थपरम्परा य्थोत्तरकमलादिविशेषणा यथालाभं विधि- मुखेन निर्दिष्टा।।

Page 101

९८ काव्यमाला।

नाकुसुमस्तरुरस्मिन्नुदाने नामधूनि कुसुमानि। नालीनालिकुलं मधु नामधुरक्काणमलिवलयम् ॥ १११॥ नेति। अन्रन विषेधरूपेण तर्वादिकार्यपरम्परा यथोत्तरकुसुमादिविशेषणा निहितेति ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः सपमोऽ्यायः समाप्तः ।

अष्टमोऽध्यायः। वास्तवं सप्रमेदमाख्यायेदानीमापम्यमाह- सम्यक्प्रतिपादयितुं स्वरूपतो वस्तु तत्समानमिति।

सम्यगिति। यत्र प्रस्तुतं वस्तु स्वरूपविशेषेण सम्यगनन्यथा प्रतिपादयितुं वस्त्वन्त- रमप्रस्तुतं वक्ताभिदध्यात्तदौपम्यं नामालंकारः। ननु वस्त्वन्तरोत्त्या कर्थ वस्तुखरूपं विशेषतः प्रतिपाद्यत इत्याह-तत्समानमिति। इति हेतौ। यतो वस्त्वन्तर प्रकृतवस्तु- सदृशमतस्तेन तत्सम्यक्प्रतिपाद्यते। 'सर्वः सवं सवं रूपम्' ( ७७) इत्यादिना सम्यक्त्वे लब्धे सम्यग्ग्रहणं विशिष्टसम्यक्त्वार्थम् । अभिदध्यादिति। कर्तृपदेनैव वक्तरि लब्धे वक्तृत्रहणं रक्तविरक्तमव्यस्थादिवक्तृविशेषप्रतिपत्त्यर्थम्। तेन यो यादृशो वक्ता येन स्वरूपेण वक्तुमिच्छति तादृशमेव वस्त्वन्तरमभिदध्यात्तदौपम्यम्। रक्तो यथा- 'अमृतस्येव कुण्डानि सुखानामिव राशयः। रतेरिव निधानानि योषितः केन निर्मिताः ॥' इत्यादि। विरक्तो यथा-'एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च नरं न च विश्वसन्ति। तस्मान्नरेण कुलशीलसमन्वितेन वेश्या: श्मशानसुमना इव वर्जनीयाः ॥' इत्यादि। मध्यस्थस्तु सरूपमात्रं वक्ति यथा-'दर्शनादेव नटवद्धरन्ति हृदयं स्त्रियः। सुविश्वस्तेऽप्यविश्वस्ता भवन्ति च चरा इव ।।' यत्रोपमानोपमेयभावः श्रीतः प्रातीतिको वा तदौपम्यमिति तात्पर्यम्। तेन संशयादयोऽप्येतद्वेदा एवेति॥ सामान्यमभिधाय तद्भेदानाह- उपमोत्प्रेक्षारूपकमपह्ुतिः संशयः समासोकिः । मतमुत्तरमन्योक्ति: प्रतीपमर्थान्तरन्यासः ॥ २॥

पूर्वसहोक्तिसमुच्चयसाम्यस्रणानि तद्वेदाः ॥ ३ ॥ उपमेति। उभयेति। तस्यौपम्यस्योपमादय एते एकर्विशतिर्भेदाः ॥ यथोद्देशस्तथा लक्षणमिति पूर्वमुपमालक्षणमाह- उभयोः समानमेकं गुणादि सिद्धं भवेद्यथैकत्र । अर्थेऽन्यत्र तथा तत्साध्यत इति सोपमा त्रेधा ॥ ४ ॥

Page 102

८ अध्याय:] काव्यालंकारः । ९९

उभयोरिति। उभयो: प्रस्तावादुपमानोपमेययोः समानं साधारणमेकमद्वितीयं गुणादि गुणसंस्थानादि यथा येन प्रकारेणैकत्रोपमाने सिद्ध प्रतीतम्, तथा तेनैव प्रकारेणान्यत्रार्थ उपमेये साध्यत इत्येवं प्रकारोपमा। सा च त्रेधा-वाक्योपमा, समासोपमा, प्रत्ययोप- मेति। अमिधानस्य मानमेदेनेत्यत्र चैकत्रेति सामान्योक्तावपि 'ग्रसिद्धमुपमानम्' इति न्यायादुपमानं लभ्यते।। अथैतद्भेदत्रयमाह- वाक्योपमात्र षोढा तत्र त्वेका प्रयुज्यते यत्र। उपमानमिवादीनामेकं सामान्यमुपमेयम् ॥५॥ वाक्येति। अत्रोपमायां वाक्योपमा तावत्षद्प्रकारेति। एतच्च ब्रुवता वाक्योपमा प्रथमेत्युक्तं भवति। तेन पृथगुद्देशाभावो न दोषाय। तत्र तासु षट्सु मध्यादियमेका प्रथमा, यस्यामुपमान: प्रयुज्यते। तथेवादीनामिववत्सदृशयथातुल्यनिभादीनां साम्यवाच- कानां मध्यादेकम्। तथा सामान्यमुपमानोपमेययोः साधारणधर्मामिधायकं पदम्। तथोपमेयमिति चतुष्टयम्। तुशब्दो लक्षणान्तरेभ्योऽस्य विशेषणार्थः। ननु यदीवादी- नामेकमेव प्रयुज्यते कर्थ तहिं 'दिने दिने सा परिवर्धमाना' इत्यादिष्वनेकेषां प्रयोगः । सत्यम्। औपम्यानामनेकलात्। अत्र ह्यनेकं कारकमुपमानोपमेयतया निर्दिष्टम्। यथा- 'ततः प्रतस्थे कौबेरीं भाखानिव रघुर्दिशम् । शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यत्रसानिव ।।' अत्रेवादीनामपि बहूनां प्रयोगो न्याय्यः । एवं हि परिपूर्णमौपम्यं भवति। यत्र तु बहू- नामप्यौपम्य एक एवेवादि: प्रयुज्यते तत्र गतार्थतादप्रयोगो बोद्धव्यः । यथा-'सा भूधराणामधिपेन तस्याम्' इत्यादौ। अत्र हि नीताविव मेनायाम्, उत्साह्गुणेनेव नगेन, संपदिव पार्वती जनितेति व्याख्यानम्। इत्यलं विस्तरेण । उदाहरणमाह- कमलमिव चारुवदनं मृणालमिव कोमलं भुजायुगलम्। अलिमालेव सुनीला तवैव मदिरेक्षणे कबरी ॥ ६ ॥ कमलमिति। अत्र कश्चित्कामी मुखादिकं वस्तु सम्यक्खरूपतः कमलादिगतचारु- त्वादियुक्तं प्रतिपाद्यितुं वस्त्वन्तरं कमलाटिकं तत्समानत्वात्प्रयुक्तवानित्यौपम्यम्। तथोभयोः कमलमुखयोः समानमेकं चारुत्वं यथैकत्र कमले सिद्धं तथोपमेये मुखे साध्यत इत्युपमालक्षणम्। तथा कमलमुपमानम्, इवशब्दः, चार्विति सामान्यम्, वदनमुपमेयम्, इति चतुष्टयं समस्तमिति वाक्योपमालक्षणम्। एवमन्यत्रापि लक्षणयोजना कर्तव्या।। अथ द्वितीयामाह- इयमन्या सामान्यं यत्रेवादिप्रयोगसामर्थ्यात्। गम्येत सुप्रसिद्धं तद्वाचिपदाप्रयोगेऽपि। ७॥ इयमिति। इयमन्या द्वितीया वाक्योपमा, यस्यां सामान्यं साधारणो धर्मस्तद्वा-

Page 103

१०० काव्यमाला।

चिपदाप्रयोगेऽपि गभ्यते। नन्वप्रयुक्तस्य पदस्य कथमर्थो गम्यत इत्याह-इवादिप्रयो- गसामर्थ्यात्। इवादयो हि कस्य सादृश्यप्रतिपादनाय प्रयुज्यन्ते । यदि च प्रयुक्तैरपि तैरसौ न गम्यते तदानर्थकस्तेषां प्रयोग: स्यात्। यद्येवमुच्छेद एव सामान्यपदप्रयो- गस्येत्याह-सुप्रसिद्धमिति। लोकप्रसिद्धमेव गम्यते नान्यदिति॥। उदाहरणमाह- शशिमण्डलमिव वदनं मृणालमिव भुजलतायुगलमेतत्। करिकुम्भाविव च कुचौ रम्भागर्भाविवोरू ते ॥। ८ ।। शशीति। अत्र यथाक्रमं चारुतकोमलत्वोत्तुन्नलगौरत्वान्यनुक्तान्यपि प्रसिद्धत्वा- रप्रतीयन्ते॥ तृतीयामाह- वस्त्वन्तरमस्त्यनयोर्न सममिति परस्परस्य यत्र भवेत्। उभयोरुपमानत्वं सक्रममुभयोपमा सान्या । ९॥ वसवन्तरमिति। अनयोर्वस्तुनोर्वस्त्वन्तरं समं तुल्यं नास्तीत्यतः कारणाद्यस्यामुभयो- रुपभानोपमेययो: क्रमेण परस्परमुपमानत्वं स्यात्सोभयोपमा। अन्या पूर्वविलक्षणा। इयमपि सामान्यस्य प्रयोगाप्रयोगाभ्यां द्विविधा।। प्रयोगोदाहरणं खयमाह- शशिमण्डलमिव विमलं वदनं ते मुखमिवेन्दुबिम्बमपि। कुमुदमिव स्मितमेतत्सिमतमिव कुमुदं च धवलमिदम् ॥ १० ॥ शशिमण्डलमिति। अप्रयोगे तु यथा-'खमिव जलं जलमिव खं हंस इव शशी श- शाङ्क इव हंस: । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।।' इति।। चतुर्थीमाह- सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदशमिति। स्वस्य ख्यमेव भवेदुपमानं चोपमेयं च ।। ११ ।। सेति। न विद्यतेऽन्वयो वस्त्वन्तरानुगमो यस्यामित्यनन्वयसंज्ञा सोपमा, यस्यामेकमेव वस्तु खयमेवोपमानमुपमेयं चात्मन एव भवेत्। कस्मात्, अनन्यसद्शमिति हेतोः। ननु यद्यन्यस्यात्रानुगमाभावस्तत्कथमौपम्यलक्षणमुपमालक्षणं वा घटते। नैष दोषः। यतोऽनन्यसमत्वं लक्षणं वस्तुनः सम्यक्खरूपं च यदा युगपद्विवक्षति वक्ता तदा सम्य- क्खरूपप्रतिपादनं वस्त्वन्तराभिधानं विना न घटते। तदमिधाने चानन्यसमत्वं दुर्घट- मिति कृत्वैकमेव वस्तूपमानोपमेयरूपतया विभिद्य वक्ति। अतः सामान्यमौपम्यलक्षण- मुपमालक्षणं चासिति। वस्त्वन्तरानन्वयश्वेत्यनन्वयोपमालक्षणम् ।।

Page 104

८ अध्याय: ] काव्यालंकारः । १०१

सुश्लिष्टमुदाहरणमाह- आनन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु। इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसरा ॥ १२ ।। आनन्देति। ह करिकरोरु, तमिव त्वं सरसि गच्छसीत्याद्यन्वयः ॥ पञ्चमीमाह- सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम्। तावद्भिस्तादग्भिः स्यादुपमानं तथा यत्र ॥ १३ ॥ सेति। यैर्यादशैर्यत्संख्यैश्व विशेषणैर्युक्तमुपमेयम्, तादम्भिरेव तत्संख्यैश्वोपमानमपि युक्तं यस्यां सा कल्पितोपमाख्या। कल्पिता चासावुपमा च तथाविधाख्या संज्ञा यस्या इति। विशेषणैरित्यतत्त्रम्। तेनैकस्य द्वयोक्ष संग्रहः । किं तु बहुभिरौज्वल्यं भवति॥ उदाहरणम्- मुखमापूर्णकपोलं मृगमदलिखितार्घपत्रलेखं ते। भाति लसत्सकलकलं स्फुटलाञ्छनमिन्दुबिम्बमिव ॥ १४ ॥ मुखमिति। अत्र मुखमुपमेयं परिपूर्णकपोलं मृगमदलिखितार्धपत्रलेखमिति विशेष- णद्वयोपेतम्। शशिबिम्बमुपमानमपि स्फुरत्ोडशकलं स्फुटकलक्कं चेति।। षष्ठीमाह- अनुपममेतद्वस्त्वित्युपमानं तद्विशेषणं चासत्। संभाव्य सयदयर्थ या क्रियते सोपमोत्पाद्या ।१५ ।। अनुपममिति। उत्पाद्यत इत्युत्पाद्या। उत्पाद्यानामोपमा सा, या क्रियते। किं कृता। उपमानमुपमानविशेषणं । संभाव्य संभवि कृला। कुतः । अनुपममुपमानदिकलमेतद्व- स्त्विति कारणात्। कीदशम्। उपमानमसदविद्यमानम्। असतः कथं संभव इत्याह-सय- दर्थ यदिचेदादिशब्दसहितमित्यर्थः । उपलक्षणं च सयदर्थशब्दः । यस्मादभूतपूर्वासंभ- वादिप्रयोगेऽपि भवति। यथा माघस्य-'मृणालसूत्रामलमन्तरेण स्थितश्वलच्चामरयोई्वयं सः । मेजेऽमित:पातुकसिद्धसिन्धोरभूतपूर्वा रुचमम्बुराशेः ॥' इत्यादि ॥ उदाहरणम्- कुमुददलदीघितीनां त्वक्संभूय च्यवेत यदि ताभ्यः । इदमुपमीयेत तया सुतनोरस्याः सनावरणम् ॥ १६॥ कुमुदेति। अत्र कुमुददलदीधितित्वमुपमानम्, तद्विशेषणं च्यवनं च द्रयमणि सयदर्थ संभावितम् । तथा-'सुवृत्तमुक्ताफलजालचित्रितं भवेदखण्डं यदि चन्द्रमण्डलम्। श्रमा- म्बुबिन्दूत्करराजितं ततो मुखं रतावित्युपमीयते प्रिये ॥।' 'ततो मुखं तेन तवोपमीयते'

Page 105

१०२ काव्यमाला। इति वा पाठः। अत्र पूर्णचन्द्रमण्डलस्य सुवृत्तमुक्ताफलजालचित्रितत्वं विशेषणमेव संभावितमिति॥ एवं वाक्योपमां षड़्धाममिधायेदानीं समासोपमामाह- सामान्यपदेन समं यत्र समस्येत तृपमानपदम्। अन्तर्भूतेवार्था सात्र समासोपमा प्रथमा ॥१७॥ सामान्येति। उपमानपद चन्द्रकमलादिकं सामान्यपदेन सुन्दरशब्दादिना यत्र सम- स्येत सा समासोपमासु मध्ये प्रथमा। तुर्विशेषे। विशेषस्तु वाक्योपमातः समासकृत एव। यद्युपमा कथमिवादिपद न श्रूयत इत्याह-अन्तर्भूत इवार्थ औपम्यं यस्याः सा तथोका।। उदाहरणम्- मुखमिन्दुसुन्दरमिदं बिसकिसलयकोमले भुजालतिके। जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् ॥। १८॥ मुखमिति। अत्रेन्दुरिव सुन्दरमित्यादिविग्रह्दः ॥ प्रकारान्तरमाह- पदमिदमन्यपदार्थे समस्यतेऽथोपमेयवचनेन। यस्यां तु सा द्वितीया सर्वसमासेति संपूर्णा ।। १९।। पदमिति। इदं पूर्वोंक्त सामान्योपमानसमासपदमथानन्तरमुपमेयवचनैनान्यपदार्थे यत्र समस्यते सा सर्वपदसमासात्संपूर्णा समासोपमा द्वितीया। उदाहरणम्- शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे। दहति मनः कथमनिशं रम्भागर्भाभिरामोरुः ॥ २०॥ शरदिति। अत्र शरदिन्दुशब्दसुन्दरशब्दयोः पूर्ववत्समासं कृत्वा ततो मुखेनोपमेयेन सह नायिकायामन्यपदार्थे समासः ॥ भूय: प्रकारान्तरमाह- उपमानपदेन समं यत्र समस्येत चोपमेयपदम्। अन्यपदार्थे सोदितसामान्येवामिघेयान्या ॥२१॥ उपमानेति। उपमानपदेन सह यत्रोपमेयपदमन्यपदार्थेन सह समस्यते सान्या समासोपमा। चः पुनरर्थे मिन्रक्रमः । सा पुनः समासेनोक्तौ सामान्यमिवार्थश्र यस्यां सा तथोक्ता।।

Page 106

८ अध्याय: ] काव्यालंकारः। १०३

उदाहरणम्- नवविकसितकमलकरे कुवलयदललोचने सितांशुमुखि। दहसि मनो यत्तत्क रम्भागर्भोरु युक्तं ते ॥। २२ ॥ नवेत। अत्र नवविकसितकमलमिव रम्यौ करौ यस्या इति बहुत्रीहिः॥ अथ प्रत्ययोपमामाह- उपमानात्सामान्ये प्रत्ययमुत्पाद्य या प्रयुज्येत । सा प्रत्ययोपमा स्यादन्तर्भूतेवशब्दार्था ।।२३॥ उपमानादिति। उपमानादुपमानपदादन्यतो वा धात्वादिकात्प्रत्ययं सामान्येन साधा- रणधर्मविषय उत्पाद्य या प्रयुज्यते सा प्रत्ययोपमा। सा च प्रत्ययान्तशब्देऽन्तर्भूते- वशब्दा ॥ उदाहरणम्- पद्मायते मुखं ते नयनयुगं कुवलयायते यदिदम्। कुमुदायते तथा स्मितमेवं शरदेव सुतनु त्वम् ॥ २४ ॥ पद्मायत इति। पद्ममिवाचरतीत्यादि वाक्यम्। एवं धातोः प्रत्यये उष्ट्रकोशीत्यादि द्रष्टव्यमिति॥ एवमुपमात्रयममिधायेदानीमेतद्भेदान्सामान्येनाह- मालोपमेति सेयं य्त्रैकं वस्त्वनेकसामान्यम्। उपमीयेतानेकैरुपमानैरे कसामान्यैः ॥ २५॥ मालोपमेति। यत्रैकमुपमेयं वस्तनेकसामान्यमनेकधर्मकमेकसामान्यैरेकैकधर्मयुक्तैरने- कैरुपमानैरुपमीयते सेयमित्यमुना प्रकारेण मालोपमा। अथायं कोऽलंकार :- 'गायन्ति किनरगणा: सह किनरीमिरतुशज्कुहरेषु हिमाचलस्य। क्षीरेन्दुकुन्ददलशङ्गमृणाल- नालनीहारहारहरहाससितं यशस्ते ।I' मालोपमैवेत्याहुः। यत एकत्वेऽपि शौक्कथस्याने- कसामान्यं विद्यत एव। तस्यानेकरूपत्वादन्यादृशमेव हि तच्छह्वेऽन्यादृटशं चन्द्रादौ तच सर्व यशसि विद्यत इति। केचित्तु मालोपमाभास इत्याहुः॥ उदाहरणम्- श्यामालतेव तन्वी चन्द्रकलेवातिनिर्मला सा मे। हंसीव कलालापा चैतन्यं हरति निद्रेव ॥ २६ ॥ श्यामालतेति। अत्रोपमेया कान्ता तनुत्वाद्यनेकधर्मयुक्ता। श्यामालतादीन्येकैक- धर्मयुक्तान्युपमानानि। एषा वाक्योपमा। अन्ये त्विमे-'नवश्यामालतातन्वी शरच्- न्द्ांशुसप्रभा । मत्तहंसीकलालापा कस्य सा न हरेन्मनः ॥' समासोपमेयम्। 'शरच्-

Page 107

१०४ काव्यमाला।

न्दरायसे मूर्तौं त्वं कृतान्तायसे युधि। दाने कर्णायसे राजन्सुनीतौ भास्करायसे ।।' प्रत्ययोपमेयम्।। मेदान्तरमाह- अर्थानामौपम्ये यत्र बहूनां भवेद्यथापूर्वम्। उपमानमुत्तरेषां सेयं रशनोपमेत्यन्या ।। २७॥ अर्थानामिति। अन्नार्था नामुपमानोपमेयानां बहूनां सादृश्ये सति तेषामेव मध्याद्यथा- पूर्व यो यः पूर्वः स स उत्तरेषामुपमानं भवेत्सेयं रशनासादृश्याद्रशनोपमेत्यन्या। यथा रशनायां परस्परमाभरणानां शङ्मलाकटकवतसंबन्ध एवमिहार्थानामिति पूर्ववत्।। उदाहरणम्- नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम्। शशिबिम्बमिव लसद्दथुति तरुणीवदनं शरत्कुरुते ॥ २८॥ नभ इति। अन्र गगनादिरर्थ: पूर्व उत्तरेषां सलिलादीनामुपमानम्। एषा वाक्यरश- नोपमा। अन्ये त्विमे-'शरत्प्रसन्नेन्दुसुकान्ति ते मुख मुखश्रि लीलाम्बुजमम्बुजारुणौ। करौ करश्रीरवतंसपल्लवो वरानने पह्लवलोहितोऽघरः ॥' समासरशनोपमेयम्। 'चन्द्रायते शुक्रुचाद्य हंसो हंसायते चारुगतेव कान्ता। कान्तायते तस्य मुखेन वारि वारीयते सच्छतया विहायः ॥' प्रत्ययरशनोपमेयम् ॥ भूयोऽपि भेदान्तरमाह- क्रियतेऽर्थयोस्तथा या तद्वयवानां तथैकदेशानाम्। परमन्या ते भवतः समस्तविषयैकदेशिन्यौ ॥ २९॥ क्रियत इति। अर्थयोरुपमानोपमेययोरवयविनोस्तदवयवानां च सहजाहार्योभयरूपाणां या क्रियते, न त्ववयविनोः, एषान्या एकदेशविषया। इति द्वितीयः प्रकारः ॥ उदाहरणम्- अलिवलयैरलकैरिव कुसुमस्तबकैः सनैरिव वसन्ते। भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥ ३० ॥ अलिवलयैरिति। अत्र लता ललना अवयविन्योSलिवलयादयश्वावयवाः सर्व एवोप- मिताः । इत्येषा समस्तविषया ॥ कमलद्लैरधरैरिव दशनैरिव केसरैर्विराजन्ते। अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥ ३१॥ कमलदलैरिति। अन्रावयवानामेव कमलदलादीनामौपम्यं न त्ववयविन्या नलिन्याः प्रदीयते । [वास्या] इत्येषैकदेशविषया। द्विविधापि वाक्योपमेयम्। अन्ये तिमे-'मृ-

Page 108

८ अध्याय: ] काव्यालंकार:। १०५

णालिकाकोमलबाहुयुग्मा सरोजपत्रारुणपाणिपादा। सरोजिनीचारुतनुर्बिभाति प्रियालि- नीलोज्वलकुन्तलासी II' तथा-'पद्मचारुमुखी भाति पद्मपत्रायतेक्षणा। दशनैः के- सराकारैरलिनीलशिरोरुहा ।I' समासोपमेयं द्विधा। 'लतायसेऽतितन्वी लमोष्ठस्ते पह्- वायते। सितपुष्पायते हासो भृग्गायन्ते शिरोरुहाः ॥' 'मुखेन पद्मकल्पेन भाति सा हं- सगामिनी । दोर्भ्यां मृणालकल्पाभ्यामलिनीलै: शिरोरुहैः ॥' प्रत्ययोपमेयं द्विधा॥ अथोत्प्रेक्षा- अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम्। आरोप्यते च तस्मिन्नतद्गुणादीति सोतपरेक्षा।। ३२ ।। अतिसारूप्यादिति। उपमानोपमेययोरतिसादृश्याद्वेतोरैक्यमभेदं विधाय। कीदृशं तत्। सिद्ध उपमानस्यैव, न तूपमेयस्य, सद्भावः सच्ं यत्र तत्तथाविधम्। अनन्तर च तस्मिन्नुपमाने तस्योपमानस्य ये गुणक्रिये न संभवतस्ते समारोप्येते यत्र सा। इत्यमुना प्रकारेणोतप्रेक्षा भण्यते। चशब्दोऽतद्गुणाद्यनध्यारोपितस्यापि समुच्चयार्थः । येन सि- द्धोपमानसद्भावे तयोरमेदमात्रेऽप्युत्प्रेक्षा दृश्यते । यथा-'तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः । व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥I'इत्यादि॥ उदाहरणम्- चम्पकतरुशिखरमिदं कुसुमसमूहच्छलेन मदनशिखी। अयमुच्चैरारूढ: पश्यति पथिकान्दिधक्षुरिव ॥ ३३॥ चम्पकेति। अत्रोपमेयश्वम्पकराशिरुपमानं मदनाम्निस्तयोलौंहिलयेन सारूप्यादैक्यं सिद्धोपमानसद्धावं विधाय ततोऽमेर्यदर्शनमचेतनत्वादसंभवि तदारोपितमिति॥ प्रकारान्तरमाह- सान्येत्युपमेयगतं यस्यां संभाव्यतेऽन्यदुपमेयम्। उपमानप्रतिबद्धापरोपमानस्य तत्त्वेन ॥ ३४ ॥ सेति। इतीत्थं सान्योत्प्रेक्षा यत्रोपमेयस्थमुपमेयान्तरमुपमानप्रतिबद्धस्योपमानान्त- रस्य तत्त्वेन ताद्रूप्येण संभाव्यते।। उदाहरणम्- आपाण्डुगण्डपालीविरचितमृगनाभिपत्ररूपेण। शशिशङ्कयेव पतितं लाञ्छनमस्या मुखे सुतनोः॥ ३५॥ आपाण्डुगण्डेति। अत्र शश्युपमानं तत्प्रसिद्धमपरं लाञ्छनमुपमानान्तरम्। तत्सा- दृश्येनोपमेयं नायिकामुखगतमन्यदुपमेयं मृगनामिपत्रलक्षणं संभावितमिति। १० काव्या·

Page 109

१०६ काव्यमाला।

भूयोऽपि भेदान्तरमाह- यत्र विशिष्टे वस्तुनि सत्यसदारोप्यते समं तस्य। वस्त्वन्तरमुपपत्त्या संभाव्यं सापरोत्प्रेक्षा।। ३६।। यत्रोत्प्रेक्षायां शोभनत्वेनाशोभनत्वेन वा विशेषणेन विशिष्टे वस्तुन्युपमेयरूपे सत्यवि- ययमानमेव वस्तन्तरमुपमानलक्षणं समं समानमारोप्यते सापरान्योत्प्रेक्षा। ननु यद्यवि- द्यमानं कर्थ सममित्यारोपस्तस्येत्याह-उपपत्त्या युक्त्या संभाव्यं सावसरत्वात्संभावना योग्यं यत इत्यर्थ: ॥ उदाहरणम्- अतिघनकुङ्कमरागा पुरः पताकेव दृश्यते संध्या। उदयतटान्तरितस्य प्रथय त्यासन्नतां भानोः ॥ ३७॥ अतिघनेति। अत्र विशिष्टे संध्याख्ये वस्तुन्यसदेव वस्त्वन्तरं पताकाख्यं साम्यादा- रोपितम्। तच् युक्त्या संभाव्यम् । यतो रविरथे पताकया भाव्यम्, साप्युदयाचलव्यव- हितस्य रवेर्द्दश्यमाना सती नैकव्यं प्रकटयति। अथ यत्र साम्यमात्रे सति विनैवोपपत्त्या संभावना भवति न चोपमाव्यवहारस्तत्र कोऽलंकारः। यथा-'यश्चाप्सरोविभ्रममण्ड- नानां संपादयित्रीं शिखरैबिंभर्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुम- त्ताम् I।' तथा-'आवर्जिता किंचिदिव स्तनाभ्याम्' इत्यादिषु। अत्र ह्यकालसंध्यादीनां संभावने न काचिदुपपत्तिनिर्दिष्टा। न चाप्युपमाव्यवदारः । यतः सिद्धमुपमानं भवति। न वा काले सिद्धत्वम्। तथा यद्यर्थाश्रवणान्नाप्युत्पाद्योपमाव्यवहारः। न चाप्यतिशयो- सपरेक्षा संभवोऽस्ति। अत्रोच्यते-उपमायामसंभव उत्प्रेक्षायां त्वनुपपत्तिरत उभयत्रापि लक्षणस्य न्यूनतायामुपमाभासो वा स्यादुत्प्रेक्षाभासो वा। एवम् 'पृथिव्या इव मानदण्डः' इत्यादावपि द्रष्टव्यम्। सूत्रकारेणानुक्त भेदान्तरमपि चास्यां विद्यते-'कर्तुरुपमानयोगः सत्यौपम्येऽनिवादिरपि यत्र। संभाव्यतेऽनुरोधाद्विज्ञेया सा परोत्प्रेक्षा ।I' यथा-'यः क- रोति वधोदर्का निःश्रेयसकरी: क्रियाः । ग्लानिदोषच्छिद: सच्छाः स मूढः पङ्कयत्यपः ॥' तथा-'अरण्यरुदितं कृतं शवशरीरमुद्दर्तितं स्थलेऽब्जमवरोपितं सुचिरंमूषरे वर्षितम्। श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः' ॥ अथ रूपकम्- यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा। अविवक्षितसामान्या कल्प्यत इति रूपकं प्रथमम् ॥ ३८॥ यत्रेति। यत्रोपमानोपमेययोर्गुणानां साम्ये तुल्यत्वे सति विद्यमाने प्रतीतिपथवारिण्या भिदा तयोरैक्यं कल्प्यते तदित्यमुना प्रकारेण रूपकं प्रथमम्। उत्तरत्र समासग्रहणादिह ्रथमशब्देन वाक्यरूपकं विवक्षितम्। उप्रेत्क्षायामप्यभेदो विद्यते,ततस्तन्निरासार्थमाह- अविवक्षितसामान्येति। सदप्यत्र सामान्यं न विवक्ष्यते। सिंहो देवदत्त इति। उत्प्रेक्षार्या

Page 110

८ अध्याय: ] काव्यालंकारः । १०७

तु छद्लक्ष्मव्याजव्यपदेशादिमि: शब्दैरुपमानोपमेययोरमेदो मेदश्व विवक्षित इति। परमार्थतस्तूभयत्रामेद एवेति।। उदाहरणम्- साक्षादेव भवान्विष्णुर्भार्या लक्ष्मीरियं च ते। नान्यद्धूतसृजा सृष्ट लोके मिथुनमीद्शम्॥ ३९॥ साक्षादिति। सुगममेव ।। अथ मेदान्तरमाह- उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यत्तु प्रयुज्यते तद्रपकमन्यत्समासोक्तम् ॥ ४० ॥ उपसर्जनेति । एतयोरुपमानोपमेययोः समासं कृत्वा यत्पुनः प्रयुज्यते तदपर समा- सोकं रूपकम्। समासोपमाया रूपकतनिवृत्त्यर्थमाह-उपसर्जनमप्रधानमुपमेयं यत्र । यथा-दुर्जन एव पत्नगो दुर्जनपन्नगः। समासोपमायां तूपमानमुपसर्जनम्। यथा- शशीव मुखं यस्या: सा शशिमुखी। तुशब्दः समुचचये। उभयग्रहणं नियमार्थम् । उभयोरेव समासे, न तृतीयस्यापि सामान्यपदस्येत्यर्थः ॥ सामान्यं रूपकमेदद्वयमेतद भिवायेदानीमेतद्विशेषानाह- सावयवं निरवयवं संकीर्ण चेति भिद्यते भूयः । द्वयमपि पुनर्द्विधैतत्समस्तविषयैकदेशितया ॥। ४१॥ सावयवमिति। एतद्वाक्यसमासलक्षणं रूपकद्वयं भूय: सावयवं निरवयवं संकीर्ण चेत्यमुना प्रकारेण त्रिधा भिद्यते। पुनश्र द्वयमपि वाक्यसमासलक्षणमेतद्रूपकं समसत- विषयतयैकदेशितया च द्विधा मिद्ते। न तु सावयवादिभेदभिन्नं सत्। निरवयवादिषु सर्वत्रासंभवात्। तेनात्र मेदद्वये सावयवादिप्रमेदानुप्रवेशो यथासंभवमेव भवतीति।। इदानीमेषामेव लक्षणमाह-तत्र सावयवम्- उभयस्यावयवानामन्योन्यं तद्वदेव यक्कियते। तत्सावयवं त्रेधा सहजाहार्योभयैस्तैः स्यात् ॥४२ ॥ उभयस्येति। उभयस्योपमानोपमेयलक्षणस्य येऽवयवास्तेषां परस्परं यद्रपणं तद्वदे- वेति समस्तोपमावत्कियते तत्सावयवं रूपकम्। यथा समस्तोपमायामुपमानोपमेययो- स्तदवयवानां चौपम्यम्, एवमिहापि रूपणमित्यर्थः । तच्च सहजैराहायरुभयैश्च तैरवय- वैख्ेधा स्यात्रिविधं भवेत्। उदाहरणम्- लननाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः। अधरैर्दलैश् तासां नवबिसनालानि बाहुलताः॥ ४३ ॥

Page 111

१०८ काव्यमाळा।

ललना इति। एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च। आहार्यावयवं तु यथा-'गजो नगः कुथा मेघाः शहलाः पन्नगा अपि। यन्ता सिंहोऽमिशोभन्ते भ्रमरा हरिणास्तथा ॥' उभयावयवं यथा-'यस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति ग्रहो नित्यं तु स्मृतिरङ्करः सुतसुहज्ज्ञात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे तत्सुतिसेवया परशुना तृष्णालता लूयताम् ॥।' इदानीं समासरू- पकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम्, ग्रन्थकृता तु नोदाहृतम्। तच्चेत्थं यथा-'वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः। मुखकमलमनु- स्मरत: स्मरहतमनसः कुतो निद्रा'। समासरूपकाहार्योदाहरणमाह- विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले। विलसति शशिकलहंस: प्रावृड्डिपदपगमे सदयः ॥ ४४॥ विकसितेति। अन्र गगनमुपमेयं सर उपमानम्। तयोश्च समासः । ताराज्योत्स्नाश- शिनो गगनस्याहार्यावयवाः । उपमानस्य तु ते यादृशास्तादृशा भवन्तु। नात्र तद्वि- वक्षा। प्रावृड्डिपदिति रूपकमपि नोदाहरणत्वेन योज्यम् । अवयवलाभावात्। अथ समासरूपकोभयोदाहरणमाह- अलिकुलकुन्तलभाराः सरसिजवदनाश् चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः ॥ ४५॥ अलीति। अत्र वाप्य उपमेया विलासिन्य उपमानभूताः । तयोः समासोऽत्र। वाप्या अलिकुलचक्रवाकहंसाः । कृत्रिमा अवयवाः । सरसिजानि तु सहजा विवक्षिताः। बिलासिन्यश्च यथातथा भवन्तु। न तद्विवक्षा ।। अथ निरवयवमाह- मुक्त्वावयवविवक्षां विधीयते यत्तु तत्तु निरवयवम्। भवति चतुर्धा शुद्धं माला रशना परम्परितम् ॥ ४६ ॥ मुक्त्वेति। यत्त्ववयवविवक्षां त्यक्ता विधीयते तन्निरवयवं रूपकम्। तचचतुर्धा। कथमित्याह-शुद्धमित्यादि॥ अथ तल्लक्षणम्- शुद्धमिदं सा माला रशनाया वैपरीत्यमन्यदिदम्। यस्मिन्नुपमानाम्यां समस्यमुपमेयमन्यार्थे॥ ४७॥ शुद्धमिति। इदमिति 'मुक्त्वावयवविवक्षाम्' इति पूर्वलक्षणकं सा मालेति। यत्रैकं वस्त्वनेकसामान्यम्। 'उपमीयेतानेकैरुपमानैरेकसामान्यैः' इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः । रशनाया वैपरीत्यमिति। यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युप-

Page 112

८ अध्याय: ] काव्यालंकारः । १०९

मालक्षणवैपरीत्यम्। रूपकरशनायां हि यो यः पूर्वोऽर्थः स स उत्तरेषामुपमेय इति। अन्यत्परम्परितमिदं वक्ष्यमाणलक्षणकम्। तदेव लक्षणमाह-यस्मिन्नित्यादि। यत्र द्वाभ्यामुपमानाभ्यां सहैकमुपमेयमन्यस्य द्वितीयस्योपमेयस्यार्थे वर्तमानं समस्यते। यत्र हि द्वे उपमाने तत्रावश्यमुपमेयद्वयेनैव भाव्यमित्युपमेयार्थे उपमेयं समस्यते। यथा- रजनिपुरंध्रिरोध्रतिलकश्रन्द्र इति ।। एवेषामुदाहरणानि चत्वारि यथाक्रममाह- कः पूरयेदशेषान्कामानुपशमितसकलसंतापः । अखिलार्थिनां यदि त्वं न स्याः कल्पद्रुमो राजन् ॥ ४८ । क इति। अत्र राजा शाखादिमिरवयवैर्विना कल्पद्रुमेण रूपितः । एतच्छुद्धं वाक्य- रूपकम्। समासरूपकं तु यथा-'नीचोऽपि मन्दमतिरप्यकुलोद्भवोऽपि भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि। लत्पादपद्मयुगले भुवि सुप्रसन्ने संदृश्यते ननु सुरैरपि गौरवेण'॥ मालामाह- कुसुमायुधपरमाख्रं लावण्यमहोदधिर्गुणनिधानम्। आनन्दमन्दिरमहो हृदि दयिता स्खलति मे शल्यम् ॥ ४९ ॥ कुसुमेति। अत्रैका दयिता विरहिहृदयदारणाद्यनेकधर्मयोगात्कुसुमायुधपरमास्त्रादिमि- रनेकैरुपमानैरेकैकधर्मयुक्तत रूपिता। अत्र वाक्यमेव। रशनापरम्परितयोः समास एव संभव इति॥ रशनारूपकमाह- किसलयकरैर्लतानां करकमलै: कामिनां जगज्जयति। नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥ ५० ॥ किसलयकरैरिति। अत्र यो यः पूर्वोऽर्थः किसलयादिकः स स उत्तरेषां करादीना- मुपमेय इति।। परम्परितमाह- स्मरशबरचापयष्टिर्जयति जनानन्दजलंघिशशिलेखा। लावण्यसलिलसिन्धुः सकलकलाकमलसरसीयम् ॥।५१॥ स्मरेति। अत्रैकः स्मर उपमेयो द्वाभ्यामुपमानाभ्यां शबरचापयष्टिभ्यामन्यस्य नायि- कालक्षणस्य पदार्थस्यार्थे समस्यते। स्मरस्य शवर उपमानम्, नायिकायाश्वापयष्टिः। स्मर एव शबरस्तस्य नायिका चापयष्टिः। यथा शवरश्वापयष्ट्या हरिणादीन्दिध्यति, एवं स्मरस्तया कामिन इत्यर्थ: । एवमन्यत्रापि योज्यम् ॥

Page 113

११० काव्यमाला।

संकीर्णमाह- उपमेयस्य क्रियते तदवयवानां च साकमुपमानैः। उभयेषां निरवयवैर्विज्ञेयं तदिति संकीर्णम्।। ५२ ।। उपमेयस्येति। उपमेयस्योपमेयावयवानां च सहजाहार्योभयरूपाणामुपमानैरुभयेषा- मपि निरवयवैः सह यद्रूपणं क्रियते तत्संकीर्ण नाम ज्ञेयम्। एवं च सहजाद्यवयवभेद- जत्वाब्रिधा भवति। उभयेषामित्यनेनोपमेयस्तदवयवाश्च निर्दिश्यन्ते॥ उदाहरणानि- लक्ष्मीस्त्वं मुखमिन्दुर्नयने नीलोत्पले करौ कमले। केशा: केकिकलापो दशना अपि कुन्दकलिकासे॥ ५३॥ लक्ष्मीरिति। नायिकात्रोपमेया । तदवयवाश्च सहजा मुखादयः। लक्ष्मीचन्द्रप्रमृ- तीनि चोभयेषामुपमानानि निरवयवानि। नहि लक्ष्म्याश्चन्द्रादयोऽवयवाः। उपमेय सावयवमुपमानेषु विपर्यय इति संकीर्णत्वमिति॥ अथाहार्यावयवोदाहरणमाह- सुतनु सरो गगनमिदं हंसरवो मदनचापनिर्घोषः । कुमुदवनं हरहसितं कुवलयजालं दृश: सुदृशाम् ॥५४॥ सुतन्विति। हे सुतनु, इद सरः शरदि निर्मलत्वाद्विस्तीर्णत्वाच्च गगनसदृशमित्यर्थः । अत्र च गगनकामधनुर्ध्वनिहरहसिततरुणीदृशो निरवयवोपमानानि। उपमेयं सरः। तदवयवा हंसरवकुमुदवनकुवलयजालान्याहार्याणि विवक्षितानीति॥ अथोभयावयवमाह- इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ। खङ्ग: कृतान्तरसना जिह्रा च सरखती राजन् ॥ ५५॥ इन्द्र इति। अत्र राजोपमेयः । तदवयवाश्च बाहुखद्गजिह्वाः सहजाहार्याः । इन्द्रजय- लक्ष्मीद्वारतोरणस्तम्भादीनि निरवयवोपमानानि। एतेषु वाक्यभेद एवेति। समस्तविषयरूपकं निरूप्येदानीमेकदेशिरूपकमाह- उक्त समस्तविषयं लक्षणमनयोस्तथैकदेशीदम्। कमलाननैर्नलिन्यः केसरदशनैः स्मितं चक्रुः ॥५६॥ उक्त्मिति। अनयोर्वाक्यसमासरूपकयोर्यत्समस्तविषयं लक्षणं तत्सावयवं रूपयद्धि- रुक्तम्। तथैकदेशीदमार्योत्तरार्घेनोदाहियते। यथा-कमलेत्यादि। अत्रावयवानामेव कमलकेसराणां मुखदशनै रूपणं कृतम्, न तु पद्मिन्या अज्गनयेत्येकदेशित्वमिति। अन्यदपि रूपकं संगत नाम विद्यते। यत्र संगतार्थतया रूप्यरूपकभावः । यथा कालि- दासस्य-'रावणावग्रहक्कान्तमिति वागमृतेन सः । अमिवृष्य मरुत्सस्यं कृष्णमेघस्तिरों-

Page 114

८ अध्याय:] काव्यालंकार: । १११

दघे ।।' अत्र न सावयवादिव्यपदेशः । तस्केदमन्तर्भवतीत्युच्यते-सामान्ये रूपकलक्ष- णममिधाय तस्य वाक्यसमासमेदौ व्यापकावुक्तौ। तयोश्च सावयवादिभेदा यथासंभर्व योज्याः। ततस्तस्मिन्मूलमेदद्वये संगताद्यनुक्तमेदानामन्तर्भावः। अथापह्ुतिः- अतिसाम्यादुपमेयं यस्यामसदेव कथ्यते सदपि। उपमानमेव सदिति च विज्ञेयापह्ुतिः सेयम् ॥ ५७॥ अतिसाम्यादिति। यस्यामुपमानोपमेययोरत्यन्तसाम्यादुपमेयं प्रस्तुतं वस्त्वविद्यमानं कथ्यते, उपभानमेव सत्तया, सेयमपह्ुतिर्नाम। उत्प्रेक्षायां व्याजादिशब्दैरुपमेयस् सत्त्वमप्युच्यते, इह तु सर्वथवापह्रव इति विशेषः ॥ उदाहरणम्- नवबिसकिसलयकोमलसकलावयवा विलासिनी सैषा। आनन्दयति जनानां नयनानि सितांशुलेखेव॥ ५८ ॥ नवेति । अत्रातिसादृश्याद्विलासिनीमुपमेयमपह्नुत्य शशिकलाया उपमानस्यैव सद्धावः क्रथितः ।। अथ संशय :- वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः सादृश्यादनिश्चयः संशयः स इति ॥५९॥ वस्तुनीति। यत्रैकस्मिन्वस्तुन्युपमेये प्रतिपत्तुरनेकविषयः सादृश्यात्संदेहो भवति, अनिश्रयान्तः स इत्येवंप्रकार: संशयनामालंकारः । तुर्विशेषे॥ उदाहरणम्- किमिदं लीनालिकुलं कमलं किं वा मुखं सुनीलकचम्। इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् ॥ ६०॥ किमिति। अत्रैकस्मिन्मुखे कमलमुखविषयः सादृश्यादनिश्चयसंशयः॥ प्रकारान्तरमाह- उपमेये सदसभवि विपरीतं वा तथोपमानेऽपि। यत्र स निश्चयगर्भस्ततोऽपरो निश्चयान्तोऽन्यः ॥ ६१॥ उपमेय इति। यत्रोपमेये यद्वस्तु नैव संभवति तत्सत्कथ्यते, विपरीतं वा यत्सत्तदसं- भवि कथ्यते, अथोपमाने यदसंभवि तत्सत्, यच्च सत्तदसंभवि कथ्यते स निश्चयगर्भाख्यः संशयो भवति। ततोऽन्यथा तु यत्र पर्यन्ते निश्चयो भण्यते सोऽन्यो निश्चयान्ताख्यः संशयो द्वितीयः । पूर्वोक्तं सामान्यं संशयलक्षणमुभयत्र योज्यम् ।

Page 115

११२ काव्यमाला।

निश्चयगर्भोदाहरणमाह- एतत्किं शशिबिम्बं न तदसिति कथ कलङ्कमङ्केऽस्य। किं वा वदनमिदं तत्कथमियमियती प्रभास्य स्यात् ॥ ६२॥ किं पुनरिदं भवेदिति सौधतलालक्ष्यसकलदेहायाः। वदनमिदं ते वरतनु विलोक्य संशेरते पथिकाः ॥ ६३ ॥ (युग्मम्) एतदिति। कि पुनरिति। अत्रोपमाने शशिनि संभविनः कलङ्कस्याभावः, उपमेये स्वसंभविनः प्रभाबाहुल्यस्य सद्ाव उक्तः। वैपरीत्यं तु नोक्तम्। तदन्यत्र द्रष्टव्यम्। निश्चयान्तमाह- किमयं हरि: क्थ तद्गौरः किंवा हरः क सोऽस्य वृषः । इति संशय्य भवन्तं नान्ना निश्चिन्वते लोकाः ॥ ६४ ॥ किमिति। अत्रोपमाने कृष्णे गौरत्वमसंभवि विद्यते। हरे च संभविनो वृषस्याभावः। नामग्रहणाच् निश्यः । अस्मिन्निश्रयान्ते संशयगर्भलक्षणापेक्षा न कार्येति। तेन 'उप- मेये सदसंभवि' (८।६१) इत्यादिलक्षणाभावेऽपि भवति। यथा माघस्य-'किं ताव- त्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते तरुण्याः। संशय्य क्षणमिति निश्चिकाय कश्विद्विब्बोकैर्बकसहवासिनां परोक्षैः ॥।' इति। अन्येऽपि संशयमेदा विद्यन्त एव। यथा-'यत्रोकेऽपि निवर्तेत संदेहो नैव साम्यतः। संशयोऽन्यः स विज्ञेयः शेषगर्भः स्फुटो यथा ।।' 'प्रत्यभ्राहितचित्रवर्णकृतकच्छायो मयायेक्षितः सौधे तत्र स कोऽपि कः पुनरसावेतन्न निश्चीयते। वाक्यं वक्ति न वकमस्ति न शणोत्यंसावलम्बिश्रुतिश्क्षु- ष्मांथ् निरीक्षते न विदितं तत्स ध्रुवं पार्थिवः ॥I' तथा-'उपमेयमपहुत्य संदेग्धुर्यत्र कथ्यते। उपमानमसावन्यः संशयो दृश्यते यथा ॥' 'यो गोपीजनवल्लभः स्तनतटव्यासङ्ग- लब्धास्पदरछायावाभनवरक्तको बहुगुणश्षित्रश्रतुर्हस्तकः । कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं राघे मधुसूदनो नहि नहि प्राणाधिकथ्चोलकः ॥' तथा 'अति- शयकारिविशेषणयुक्तं यत्रोपमेयमुच्येत। साम्यादुपमानगते संदेहे संशयः सोऽन्यः ।' यथा-'भुजतुलिततुन्गभूमृत्खविक्रमाक्रान्तभूतलो जयति। किमयं जनार्दनो नहि सक- लजनानन्दनो देव: ॥I' एवमन्येऽपि संशयप्रकारा लक्ष्यानुसारेण बोद्धव्या इति॥ भूयोऽपि मेदान्तरमाह- यत्रानेकत्रार्थे संदेहस्त्वेककारकत्वगतः । स्यादेकत्वगतो वा सादश्यात्संशयः सोऽन्यः ॥ ६५॥ यत्रेति। सोऽयमन्यः संशयो यत्रानेकत्रोपमानोपमेयलक्षणेऽर्ये कर्त्रादिकारकत्वविषयः संशयो भवति। अस्याः क्रियायाः किमुपमानं कारकं स्यादुतोपमेयमिति, इत्थं यत्र

Page 116

८ अध्याय: ] काव्यालंकार: । ११३

भ्रान्तिरित्यर्थः । तथैकरवगतो वेति यत्रोपमानोपमेययोरैक्ये संभाव्यमान एकस्य ता- तत्विकमन्यस्यातात्त्विकमिति संदेह इत्यर्थ: ॥ उदाहरणद्वयमप्यार्ययैकयाह- गमनमधीतं हंसैस्त्वतः सुभगे त्वया नु हंसेम्यः । किं शशिनः प्रतिबिम्बं वदनं ते किं मुखस्य शशी ॥ ६६॥ गमनमिति । अत्राद्यार्घेऽध्ययनक्रियां प्रति कर्तृत्वसंदेह उक्तः । द्वितीये तु मुखशशि- नोस्तात्त्विकातात्त्विकत्वमेकत्र संदिग्धमिति। अथायं कोऽलंकारः । यथा भारवेः 'रजिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥I' औपम्याभास इति केचित्। उत्प्रेक्षैवेयमित्यन्ये।। अथ समासोकि :- सकलसमानविशेषणमेकं यत्राभिधीयमानं सत्। उपमानमेव गमयेदुपमेयं सा समासोक्तिः ॥ ६७॥ सकलेति। यत्रैकमुपमानमेवोपमेयेन सह सकलसाधारणविशेषणममिधीयमानं सदु- पमेयं गमयेत्सा समासोक्तिः । सकलग्रहणं मिश्रत्वनिवृत्त्यर्थम्। एकग्रहणं तूपमेयवाचि- पदप्रयोगनिवृत्त्यर्थम्। सद्गहणं प्रतिपादनसमर्थत्वख्यापनार्थम् ।। उदाहरणमाह- फलमविकलमलघीयो लघुपरिणति जायतेऽस्य सुसादु। प्रीणितसकलप्रणयिप्रणतस्य सदुन्नतेः सुतरोः ॥६८ ॥ फलमिति। फलमाम्रादिकम्। दृष्टार्थश्वेत्यत्र तरुरुपमानं गुणसाधर्म्यात्सत्पुरुषमेव गमयति॥ अथ मतम्- तन्मतमिति यत्रोक्त्वा वक्तान्यमतेन सिद्धमुपमेयम्। ज्रूयादथोपमानं तथा विशिष्टं खमतसिद्धम् ॥ ६९॥ तदिति। तन्मतनामालंकारः । इत्यमुना वक्ष्यमाणप्रकारेण। यत्र वक्तान्यमतेन पराभिप्रायेण सिद्धं लोकप्रतीतमुपमेयमुक्त्वा प्रतिपाद्योपमानं ब्रूयात्। किंभूतम्। तथाविशिष्टमुपमेयधर्मसदृशम्। पुनश्र कीदृशम्। खमतेन खामिप्रायेण तथोपमानत्वेन सिद्धम्। उपमेयमेव तत्त्वतस्तदित्यर्थः ॥ उदाहरणमाह- मदिरामदभरपाटलमलिकुलनीलालका लिधम्मिल्लम्। तरुणीमुखमिति यदिदं कथयति लोकः समस्तोऽयम्॥ ७०॥

Page 117

११४ काव्यमाला।

मन्येऽहमिन्दुरेष: स्फुटमुदयेऽरुणरुचिः स्थितैः पश्चाद्। उदयगिरौ छद्मपरैर्निशातमोभिर्गृहीत इव ॥ ७१ ॥ (युग्मम्) मदिरेति। मन्य इति। अत्र मुखमुपमेयं लोकमतेनोक्त्वा खमतेनेन्दुमाह। विशे- षणानि तुल्यानि। तथा हि मुखं मदिरामदभरण लोहितमिन्दुरुदयारुणकान्तिः । मुखं कृष्णकेशकलापेन युक्तं शशी निशातमोमिः ॥ अथोत्तरम्- यत्र ज्ञातादन्यत्पृष्टस्तत्त्वेन वक्ति तत्तुल्यम्। कार्येणानन्यसमख्यातेन तदुत्तरं ज्ञेयम्॥ ७२॥ यत्रेति। यत्र वक्ता ज्ञातात्प्रसिद्धादुपमानलक्षणादन्यदुपमेयभूतं वस्तु पृष्टः संस्- त्वेन तद्भावेन तत्तुल्यमुपमानसदृदशं वक्ति। तत्तुत्यतापि कुत इत्याह-कार्येण। कीदृशेन। अनन्यसमेन ख्यातेन च। तदुपमानं वर्जयित्वान्यत्राविद्यमानेन। तत्र च. प्रसिद्धेनेत्यर्थः । अथ परिसंख्याया वास्तवोत्तरस्यास्य चोत्तरस्य को विशेषः । उच्यते- परिसंख्यायामज्ञातमेव पृच्छति नियमप्रतीतिश्वौपम्याभावश्। 'किं सुखमपारतक्चयम्" (७।८०) इत्यत्र त्यपारतन्यमेव सुखं नान्यदित्यर्थः । इह तु ज्ञातादन्यत्पृच्छयते, न. च नियमप्रतीतिरस्ति, औपम्यं च विद्यते। यथा 'किं मरणम्' (८। ७३) इत्यादि। वास्तवोत्तरे तु न नियमप्रतीतिर्नाप्यौपम्यसद्भावः । केवलं प्रश्नादुत्तरमात्रकथनमेव। यथा लक्ष्मीसौराज्यादि तत्र कथितम् ।। अथोदाहरण्रमाह- किं मरणं दारिद्ं को व्याधिर्जीवितं दरिद्रस्य। कः स्वर्गः सन्मित्रं सुकलत्रं सुप्रभुः सुसुतः ॥ ७३॥ किमिति। अत्र मरणात्प्राणत्यागसकाशात्प्रतीतादन्यत्पृष्टो वक्ता कार्येणाकिंचित्कर- खदुःखकारितादिना तत्तुल्यं दारिद्यं मरणमिव कथितवान्।। अथान्योक्ति :- असमानविशेषणमपि यत्र समानेतिवृत्तमुपमेयम्। उक्त्ेन गम्यते परमुपमानेनेति साऽन्योक्तिः॥ ७४ ॥ असमानेति। यत्रासाधारणविशेषणभप्युपमेयमुपमानेनोकेन परं केवलं गम्यते प्रतीयते सेत्युक्तेन प्रकारेणान्योकतिर्भवति। ननु यद्यसमानविशेषणं तत्क्थ तेन गम्यत इत्याह-समानेतिवृत्तमिति। समानं सदृशमितिवृत्तमर्थशरीरं यस्य तत्तथोक्तम्। यत उपमानतुल्यव्यवहारमुपमेयमतस्तेन गम्यत इत्यर्थः । अपिशब्दात्किंचित्समानविशेषण- त्वेऽपि क्वापि भवतीति सूच्यत इति।।

Page 118

८ अध्याय: ] काव्यालंकारः । ११५

उदाहरणमाह- मुक्त्वा सलीलहंसं विकसितकमलोज्ज्वलं सरः सरसम्। बकलुलितजलं पल्वलमभिलषसि सखे न हंसोऽसि॥ ७५॥ मुक्त्वेति। अत्र हंसेनोपमानेनोक्तेन सजनः प्रतीयते। विशेषणानि चात्र सलील- हंसादीन्यसमानानि। नहि पुरुषः सरो मुक्त्वा पल्वलममिलषति। इतिवृत्तं तु समानम्। यतस्तस्य शिष्टजनाधिष्ठितं स्थानं त्यजतः खलमन्यं चाश्रयतस्तत्तुल्य उपालम्भ इति॥ अथ प्रतीपमाह- यत्रानुकम्प्यते सममुपमाने निन्द्यते वापि। उपमेयमतिस्तोतुं दुरवस्थमिति प्रतीपं स्यात् ॥ ७६॥ यत्रेति। यत्रोपमेयमनुकम्प्यते निन्धते वा तत्प्रतीपं नामालंकारः। कस्मात्तस्य निन्दा- नुकम्पे क्रियेते इत्याह-सममुपमाने इति कृत्वा। यत उपमानेन तुल्यमतो निन्दानु- कम्पे तस्येत्यर्थः । तादृशं तर्हि किमर्थमुपमानं क्रियत इत्याह-अतिस्तोतुं सातिशयमुप- मेयं ख्यापयितुम्। ननु यदि सातिशयं तर्ह्युपमानेन सह साम्यं नास्तीत्याह-दुरवस्थ- मिति। इतिर्हैतौ। यतो दुष्टामवस्थां प्राप्तम्। उपमेयमुपमानेन समम्, अत एव निन्धते- ऽनुकम्प्यते वेत्यर्थः । अपिर्विस्मये। एतदेव चालंकारस्य प्रतीपत्वं यदन्येनान्यद्रम्यते॥ उदाहरणम्- वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत्। मलिनयति यत्कपोलौ लोचनसलिलं हि कज्जलवत्।। ७७॥ वदनमिति। अत्राज्नवारिमलिनत्वान्मुखस्य दौरवस्थ्यम्, अत एवेन्दुनोपमीयते। अनुकम्प्यते। तत्त्वतः स्तुतिर्मुखस्य कृता॥ निन्दोदाहरणमाह- गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भद्रे। सन्तीदृशानि दिशि दिशि साःसु ननु नीलनलिनानि॥ ७८॥ गर्वमिति। अत्र बाहुल्योपलभ्यमाननलिननिभनयनवत्तया गर्ववहनान्निन्दा स्तुति- प्रातीतिकी । दुरवस्थं कस्मादपि कारणाद्वोद्धव्यम् । अर्थान्तरन्यासमाह- घर्मिणमर्थविशेषं सामान्यं वाभिधाय तत्सिद्धयै। यत्र सधर्मिकमितरं न्यस्येत्सोऽर्थान्तरन्यासः॥ ७९॥ धर्मिणमिति। यत्रोपमेयं धर्मिणमर्थविशेषरूपं सामान्यरूपं वा केनचिद्वर्मेण परो- पकारादिना युक्तममिधाय तस्य धर्मस्य दृढीकरणार्थमितरं यथाक्रममेव सामान्यं विशेष- रूप च समानधर्मकमुपमानभूतमर्थ कवि र्यस्येत्सोऽर्थान्तरन्यासोऽलंकारः।

Page 119

११६ काव्यमाला।

उदाहरणमाह- तुज्जानामपि मेघाः शैलानामुपरि विदघते छायाम्। उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥८० ॥ तुङ्गानामिति। अत्रोपमेयविशेषं मेघपर्वताख्यं तुज्त्वादि युक्तममिधाय सामान्यमु- पमानं महल्लक्षणमुपन्यस्तम्॥ द्वितीयमाह- सकलमिदं सुखदुःखं भवति यथावासनं तथाहीह। रमयन्तितरां तरुणीर्नखक्षतादीनि रतिकलहे॥ ८१ ॥ सकलमिति। अत्र सामान्यरूपेणैव सुखदुःखादियुक्तं सकलमुपमेयमुक्ता ततो विशिष्टं नखक्षताद्युपमानमुक्तम् ।। अयं चार्थान्तरन्यासः साधर्म्यप्रयुक्तसामान्यविशेषद्वारेण चतुर्विधो भवति। तत्र साधर्म्येण मेदद्वयमुक्तम्। वैधर्म्येणाह- पूर्ववदभिधायैकं विशेषसामान्ययोर्द्वितीयं तु। तत्सिद्धयेऽभिदध्याद्विपरीतं यत्र सोऽन्योऽयम् ॥ ८२॥ पूर्ववदिति। यत्र विशेषसामान्ययोर्मध्यादेकं पूर्ववत्केनचिद्धर्मेणोपेतमुक्त्वा ततस्तद्धर्म- सिद्धये द्वितीयं सामान्यं विशेषं वा विपरीतं विधर्मकं कविर्ब्रयात्सोऽन्योऽयमर्थान्तरन्यासः॥ उदाहरणमाह- अभिसारिकाभिरमिहतनिबिडतमा निन्दते सितांशुरपि। अनुकूलतया हि नृणां सकलं स्फुटमभिमतीभवति॥८३॥ अमिसारिकामिरिति। अत्र शशी अभिसारिकाश्व विशेषावुपमेयौ पूर्वमुक्तौ, ततो नृणां सकलमिति सामान्यं वैधर्म्येणोक्तम्। निन्धत इत्यस्य ह्यमिमतीभवतीति विरुद्धम्॥ द्वितीयमाह- हृदयेन निर्वृतानां भवति नृणां सर्वमेव निर्वृतये। इन्दुरपि तथाहि मनः खेदयतितरां प्रियाविरहे॥ ८४॥ हृदयेनेति। अत्र सामान्यमुक्त्वा विशेषो वैधर्म्येणोक्तः । अथायं कोऽलंकारः । यथा-'प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने। स्नजं न काचिद्वि- जहौ जलाविलां वसन्ति हि ग्रेम्णि गुणा न वस्तुनि ॥' नह्यत्रौपम्यसद्भावोऽस्तीत्यर्था- न्तरन्यासाभास इति ब्रूमः । भामहादिमतेन त्वर्थान्तरन्यास एव। 'अर्थद्वयस्य न्यास: सोऽर्थान्तरन्यासः' इति तदीयलक्षणात् ॥

Page 120

८ अध्याय: ] काव्यालंकारः । ११७

अथोभयन्यासमाह- सामान्यावप्यर्थो स्फुटमुपमायाः सरूपतोडपेतौ। निर्दिश्येते यस्मिन्नुभयन्यासः स विज्ञेयः ॥ ८५॥ सामान्याविति। यत्र प्रकटं विद्यमानसामान्यावपि द्वावर्थो तुल्यकक्षतया कृता तथा- प्युपमाया यत्सरूपं ततो व्यपेती निर्दिश्येते। उपमायां हि सामान्यस्येवादेश्व प्रयोग:, इह तु नैवेत्यर्थः । स उभयन्यासो ज्ञेयः॥ उदाहरणमाह- सकलजगत्साधारणविभवा भुवि साघवोऽघुना विरलाः । सन्ति कियन्तस्रवः सुखादुसुगन्धि चारुफलाः ॥ ८६ ॥ सकलेति। अत्र साधव उपमेयास्तरव उपमानानि तेषां तुल्यकक्षतया निर्देशः। न तु सताप्युपमानोपमेयभावेनेति॥ अथ भ्रान्तिमान्- अर्थविशेषं पश्यत्रवगच्छेदन्यमेव तत्सदृशम्। निःसंदेहं यस्मिन्प्रतिपत्ता आ्रन्तिमान्स इति॥८७॥ अर्थेति। यत्र प्रतिपत्तार्थविशेषमुपमेयलक्षणं पश्यंस्तत्सादृश्यादन्यमेवार्थमुपमानल- क्षणं निःसंशयमबुध्येत स इत्यमुना प्रकारेण भ्रान्तिमान्नामालंकार:। उदाहरणम्- पालयति त्वयि वसुधां विविधाध्वरधूममालिनीः ककुभः । पश्यन्तो दूयन्ते धनसमयाशङ्कया हंसाः ॥ ८८॥। पालयतीति। अत्र यज्ञधूमधारिण्यो दिश उपमेयाः । वर्षाकाल उपमानम्। तत्रै- वावगतिः।। अथाक्षेप :- वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य। अन्यत्तथात्वसिच्धै यत्र ब्रूयात्स आक्षेपः ।। ८९।। वस्तिति। थत्र वक्ता यत्किमपि लोके प्रसिद्धमिति विरुद्धमिति वा कारणाद्वस्तु भूतं वर्तते, अस्य वचनमाक्षिप्य ततश्रान्यद्वस्तन्तरं तथात्सिद्धै तस्य स्वरूपस्य सिद्धर्थ न्रूयात्स आक्षेपो नामालंकार:। तत्र प्रसिद्धस्योदाहरणमाह- जनयति संतापमसौ चन्द्रकलाकोमलापि मे चित्रम्। अथवा किमत्र चित्रं दहति हिमानी हि भूमिरुहः ॥ ९० ॥ ११ कांव्या०

Page 121

११८ काव्यमाला।

जनयतीति। अत्र चन्द्रकलाकोमलत्वेनापि संतापकत्वे सति विस्मयः। अथ च विरहे तथैव प्रतीयमानत्वाद्वस्तुत्वं प्रसिद्धम्। ततश्च किमत्र चित्रमित्येतेनाक्षिप्य तथा- लसिद्धौ हिमानीलक्षणमुपमानमुक्तम्।। अथ विरुद्धोदाहरणमाह- तव गणयामि गुणानहमलमथवासत्प्रलापिनीं धिच्बाम्। कः खलु कुम्भैरम्भो मातुमलं जलनिधेरखिलम् ॥ ९१ ॥ तवेति। अत्र समस्तगुणगणनमशक्यताद्विरुद्धमथवेत्यादिनाक्षिप्य तद्विरुद्धत्वसिद्यर्थ- मन्यदुपमानमुक्त क इत्यादिना ।। अथ प्रत्यनीकम्- वक्तुमुपमेयमुत्तममुपमानं तज्जिगीषया यत्र। तस्य विरोधीत्युत्त्या कल्प्येत प्रत्यनीकं तत् ॥ ९२ ।। वक्तुमिति। यत्रोपमेयमुत्तमं वक्तुं तज्जिगीषयोपमेयविजयेच्छया हेतुभूतया तस्योप- मेयस्य विरोधीति विपक्षभूतमित्युपमानं कल्प्येत तत्प्रत्यनीकनामालंकारः । ननु विरुद्धयोः कथमौपम्यमित्याह-उक्त्या वचनमात्रेण विरोधो न तत्त्वतः । उपमेयस्तुति- स्तत्र तात्पर्यार्थः ॥ उदाहरणम्- यदि तव तया जिगीषोस्तद्वदनमहारि कान्तिसर्वखम्। मम तत्र किमापतितं तपसि सितांशो यदेवं माम् ॥ ९३ ॥ यदीति। अत्र मुखमुत्तमं वक्तुं तज्जिगीषया शशी उपमानं कल्पितः । एतच् वचन- मात्रेण, न तत्त्वतः ।। अथ दृष्टान्त :- अर्थविशेषः पूर्व यादङ् न्यस्तो विवक्षितेतरयोः । तादृशमन्यं न्यस्येद्यत्र पुनः सोऽत्र दष्टान्तः ॥ ९४ ॥ अर्थेति। विवक्षितेतरयोः प्रस्तुताप्रस्तुतयोरर्थविशेषयोमध्याद्यादृशो येन धर्मेण युक्तो- डर्थविशेष: पूर्वमादौ न्यस्तो भवेत्तादशं तद्वर्मयुक्तमेव पुनस्तमर्थविशेषमन्यं यत्र वक्त्ता न्यस्येत्स दृष्टान्तो नामालंकारः । विशेषग्रहणमर्थान्तरन्यासादस्य मेदख्यापनार्थम्। तत्र हि सामान्यविशेषयोर्मध्यादेकमुपमानमन्यदुपमेयम्। इह तु द्वयमपि विशेषरूपमिति। उभयन्यासस्यास्मात्सत्सामान्यत्वादिविशेषः ।। विवक्षितोदाहरणमाह- त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि सितांशोर्विकसति कुमुदं कुमुद्दत्याः ।।२५।।

Page 122

८ अध्याय:] काव्यालंकारः । ११९

त्वयीति। अत्रार्थविशेषो नायिकामनोलक्षणः पूर्व कान्तदर्शनाननिर्वृतिधर्मयुक्तो यादृशो निर्दिष्टः पुनस्तादृशमेव चन्द्रदर्शनात्कुमुदं विकासयुक्तमिति॥ अविवक्षितोदाहरणम्- लोकं लोलितकिसलयविषवनवातोऽपि मङ् मोहयति। तापयतितरां तस्या हृदयं त्वद्गमनवार्तापि ॥ ९६॥ लोकमिति। अत्राप्राकरणिकस्य विषवनवातस्य मोहकतवधर्मयुक्तस्य पूर्वमुपन्यासः। पश्चात्प्रस्तुतस्य तापकारित्वयुक्तस्य [गमनवृत्तस्य] अर्थवैधर्म्येण दृष्टान्तः कथं नोकः । असंभवादिति ब्रूमः । यत्र हि विशिष्टोऽर्थों विधर्मकश् दृष्टान्तस्तादशं लक्ष्यं न पश्यामः। दृश्यते चेत्तदा समुच्चय एव ज्ञेयः।। अथ पूर्वम्- यत्रैकविधावर्थौ जायेते यौ तयोरपूर्वस्य । अभिधानं प्राग्भवतः सतोऽभिधीयेत तत्पूर्वम् ।।९७॥ यत्रेति। यत्र द्वावर्थावुपमानोपमेयलक्षणावेकविधौ तुल्यकर्मको यौ जायेते भवतस्त- योर्मध्यादपूर्वस्य सह पश्चाद्धाविनो वार्थस्योपमेयस्य प्राक्पूर्व भवतः सतोऽमिधानं क्रियेत तत्पूर्व नामालंकारः ।। उदाहरणम्- काले जलदकुलाकुलदशदिशि पूर्व वियोगिनीवदनम्। गलदविरलसलिलभरं पश्चादुपजायते गगनन् ॥। ९८ ।। काल इति। अन्नार्थौ गगनवदनलक्षणी। तन्र वदनमुपमेयम्। तच्च गगनसमकालं पश्चाद्वा गलतसलिलभरं भवति। अथ च विरहासहत्वप्रतिपादनार्थ प्रागुक्तम् ।। अथ सहोकि :- सा हि सहोक्तिर्यस्यां प्रसिद्धदूराधिकक्रियो योऽर्थः । तस्य समानक्रिय इति कथ्येतान्यः समं तेन ॥ ९९॥ सेति। इति वक्ष्यमाणप्रकारेण सा सहोकिर्नामालंकारः। यस्यां प्रसिद्धा दूरमतिश- येनाधिका किया यस्य स तथाविध उपमानलक्षणो योऽर्थस्तेन सार्धमन्य उपमेयार्थ- स्तस्योपमानस्य समानक्रिय इत्यमुना प्रकारेण कथ्येत इति। अथ वास्तवसहोक्तेरस्याश् को विशेषः । उच्यते-तत्र कार्यकारणभाव औपम्याभावश्व समस्ति। अस्यां तु तद्विपर्ययः ॥ उदाहरणमाह- मधुपानोद्धतमधुकरमदकलकलकण्ठदीपितोत्कण्ठाः । सपदि मघौ निजसदनं मनसा सह यान्त्यमी पथिकाः ॥ १०० ॥

Page 123

१२० काव्यमाला।

मधुपानेति। अत्रोपमानं मनः शीघ्रगमनक्कियया दूरािकमपि पथिकैः सह समान- क्रियमुक्तम्।। मेदान्तरमाह- यत्रैककर्तृका स्यादनेककर्माश्रिता क्रिया तत्र। कथ्येतापरसहितं कर्मैकं सेयमन्या स्यात् ॥ १०१॥ यत्रेति। यत्रैककर्तृकानेककर्माश्रिता क्रिया भवति, तत्र चैकं प्रधानमुपमेयाखयं कर्मापरेण कर्मणोपमानेन सहोच्यते सेयमन्या पुनः सहोकि:॥ उदाहरणम्- स त्वां बिभर्ति हृदये गुरुमिरसंख्यैर्मनोरयैः सार्धम्। ननु कोपनेऽवकाशः कथमपरस्या भवेत्तत्र ॥ १०२ ॥ स इति। अत्रैका क्रिया धारणलक्षणानेकं कर्म नायिकां मनोरथांश्वा्रिता। तथैक एव नायकस्तस्यां कर्ता। प्रधानमेक चात्र कर्म नायिकार्यमुपमेयमपरैर्मनोरथैरुपमानैः सह कथितम् ॥। अथ समुचय :- सोडयं समुच्चयः स्याद्यत्रानेकोऽर्थ एकसामान्यः । अनिवादिर्द्रव्यादि: सत्युपमानोपमेयत्वे॥ १०३॥ स इति। सोडयं समुचयो नामालंकारो यत्रानेकरूयादिकोऽर्थ उपमानोपमेयलक्षणो द्रव्यादिर्द्रव्यगुणक्रियाजातिरूप एकसामान्य एकेन साधारणेन धर्मेण युक्तः स्यादिति। उपमायाः समुच्चयत्वनिवृत्त्यर्थमाह-अनिवादिः। उपमायामिवादिशब्दप्रयोग इत्यर्थः । एवमपि रूपकत्वं स्यादित्यत आह-सत्युपमानोपमेयत्व इति। रूपके ह्यमेद एव हेतु- मेदः। तयोरनेकग्रहणमत्र त्र्याद्यर्थपरित्रहार्थम्। त्रिचतुराः पश्चषा वा यत्रार्था निर्दि- श्यन्ते स समुच्चयः शोभामावहतीति भावः ॥ उदाहरणम्- जालेन सरसि मीना हिंसैरेणा वने च वागुरया। संसारे भूतसजा सनेहेन नराश्र बध्यन्ते ॥ १०४॥ जालेनेति। अत्र जालादीनां करणानां सरःप्रमुखाणामधिकरणानां हिंस्ादीनां क- र्तृणां बहूनामुपमानोपमेयभावे बन्धनमेकं सामान्यमिति॥ अथ साम्यम्- अर्थक्रियया यस्मिन्नुपमानस्यैति साम्यमुपमेयम्। तत्सामान्यगुणादिककारणया तद्धवेत्साम्यम् ॥१०५॥

Page 124

८ अध्याय: ] काव्यालंकारः । १२१

अर्थक्रिययेति। तयोरुपमानोपमेययोर्यत्सामान्यं साधारणं गुणक्रियासंस्थानादि तत्का- रणं यस्यास्तया तथाविधयार्थक्रियया यत्रोपमानस्योपमेयसाम्यमिति तत्साम्यं भवेत् ॥ उदाहरणम्- अभिसर रमणं किमिमां दिशमैन्द्रीमाकुलं विलोकयसि। शशिन: करोति कार्य सकलं मुखमेव ते मुग्घे ॥ १०६ ॥ अमिसरेति। अत्र शश्युपमानं मुखमुपमेयम्, प्रकाश्यमर्थक्रियासामान्यं कान्ति- मत्त्वं गुणः ।। मेदान्तरमाह- सर्वाकारं यस्मिन्नुभयोरभिधातुमन्यथा साम्यम्। उपमेयोत्कर्षकरं कुर्वीत विशेषमन्यत्तत् ॥१०७॥ सर्वाकारमिति। यस्मिलुपमेयोत्कर्षकराद्विशेषादन्यथा प्रकारान्तरेणोभयोरुपमानोप- मेययोः सर्वाकारं सर्वात्मना साम्यममिधातुमुपमेयोत्कर्षकरविशेषं कंचन कविः कुर्वीत तदन्यत्साम्यमलंकार: ।। उदाहरणम्- मृगं मृगाङ्क: सहजं कलङं बिभर्ति तस्यास्तु मुखं कदाचित्। आहार्यमेवं मृगनाभिपत्रमियानशेषेण तयोर्विशेषः ॥ १०८॥

स्योत्कर्ष: प्रतिपादितः । अन्यथा तु नयनाह्वादनादिगुणैः सर्वथा साम्यमुक्तमिति॥ अथ स्मरणम्- वस्तुविशेषं दृष्ट्रा प्रतिपत्ता स्मरति यत्र तत्सदशम्। कालान्तरानुभूतं वस्त्वन्तरमित्यदः स्मरणम् ॥ १०९॥ वस्तिति। अत्र प्रतिपत्ता विशिष्टं वस्तु किंचनावलोक्य कालान्तरानुभूतं वस्तन्तर स्मरति, अद एतत्स्मरणं नामालंकारः। अथ भ्रान्तिमतोऽस्य च को विशेषः । उ- च्यते-तत्रोपमानावगतिरेव नतूपमेयावगतिः । इह तूपमानस्मरणमात्रं न भ्रान्तिरिति।। उदाहरणम्- तव भवने पश्यन्तः स्थूलस्थूलेन्द्रनीलमणिमालाः। भूभृन्नाथ मयूराः स्मरन्त्यमी कृष्णसर्पाणाम् ॥ ११०॥ तवेति। अत्रेन्द्रनीलमणिमालादर्शनात्तत्सदृशं कृष्णसर्पाख्यं वस्तन्तरं मयूराः स्र- न्तीति लक्षणयोजना।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो- ऽष्टमोऽध्यायः समाप्तः ।

Page 125

१२२ काव्यमाला।

नवमोऽध्यायः । अथ क्रमप्राप्तंमतिशयालंकारं वक्तुमाह- यत्रार्थघर्मनियम: प्रसिद्धिबाधाद्विपर्ययं याति। कश्चित्कचिदतिलोकं स स्यादित्यतिशयस्तस्य ।। १ ।। यत्रेति। यत्रालंकारेऽर्थधर्मयोनियमो नियतं स्वरूपं विपर्ययमन्यथात्वं गच्छति। नियमश्वेत्कथं विपर्ययं यातीत्याह-प्रसिद्धेरुष्णं दहतीत्यादिकायाः ख्यातेर्यों बाधो बाधनं तस्माद्वेतोः । स इत्यनेन प्रकारेणातिशयो नामालंकार: स्यात्। ननु यदि निय- मस्यान्यथात्वमतिशयस्ताहि स नास्तयेव नियमस्यान्यथाभावादित्यत आह-कश्चित्क- चिदिति। न सर्व: सर्वत्रेत्यर्थः। कर्थ विपर्ययं यातीत्याह-अतिलोकं लोकातिक्रान्तं यथा भवति। अत एवातिशयनामकत्वम्। तस्येत्युत्तरेण संबन्धः ॥ अथ सामान्यस्यैव विशेषानाह- पूर्वविशेषोत्प्रेक्षाविभावनातद्रुणाधिकविरोधाः । विषमासंगतिपिहितव्याघाताहेतवो मेदाः ॥ २ ॥ पूर्वेति। एते तस्य पूर्वादयो द्वादश मेदाः ॥ तत्र पूर्वस्य तावह्क्षणमाह- यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य। प्रादुर्भावः पश्चाज्जनकस्य तु तद्भवेत्पूर्वम् ॥ ३ ॥ यत्रेति। यत्र प्रागेव जन्यस्य कार्यस्य प्रादुर्भावो विवक्ष्यते जनकस्य तु कारणस्य पश्चात्तत्पूर्व नामालंकार: । विवक्षापि कथं तथा भवतीत्याह-अतिप्रबलतया [ हेतुभूतया। तत्र जनकव्यापारं विना जन्योत्पत्तिरिति जन्यस्थातिप्रबलता। ] जन्यं जनयित्वा स्वयमुत्पद्यत इति जनकस्याप्रबलता। विवक्ष्यत इत्यनेन विवक्षामात्रमेतन् परमार्थत इति सूचयति॥ उदाहरणम्- जनमसुलममभिलषतामादौ दन्दह्यते मनो यूनाम्। गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति ॥ ४ ॥ जनमिति। अन्र दाहः कार्य पूर्व जातम्, मदनामिज्वलनं तु दाहकारणं पश्चादिति विशेषलक्षणम्। ज्वलितोऽननिर्दहृतीत्येवंविधश् योऽर्थधर्मनियमः स क्वचिदेव कामिनि विपर्ययं यात इतीदं सामान्यलक्षणम्। अत्र चातिप्रबलत्वं हेतु: ।। अथ विशेषमाह- किंचिदवश्याधेयं यस्मिन्नभिघीयते निराधारम्। ताद्ृगुपलभ्यमानं विज्ञेयोऽसौ विशेष इति ॥५॥

Page 126

९ अध्याय: ] काव्यालंकारः । १२३ किंचिदिति। यस्मिन्नलंकारे किंचिद्वस्तवश्याधेयमिति विद्यमानाधारमेव सनिराधा- रमित्यभिधीयते स इत्यनेन प्रकारेण विशेषनामालंकारो ज्ञेयः। ननु तथाभूतस्यान्यथा- कथनं दोष एव स्यान्न त्वलंकार इत्याह-तादृगुपलभ्यमानमिति। तथा दर्शनान किं- चिदनुपपन्नमित्यर्थः । वस्त्वन्तरेभ्यो विशिष्टधर्मामिधानाद्विशेषसंज्ञा ।। उदाहरणम्- दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥ ६ ॥ दिवमिति। अत्र गिर आधेयाः । प्राण्याश्रितत्वात्। अथ च विनापि कविमिरा- वारै रमयन्तीत्युपलब्ध्या कथितम् ॥। प्रकारान्तरमाह- यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया। युगपदभिधीयतेSसावत्रान्यः स्याद्विशेष इति ॥ ७॥ यत्रेति। यत्रानेकस्मिर्यादिक आधारे वस्तु सत्तया कथ्यते सोऽत्रान्यः प्रकारान्त- रेण विशेष इति। कदाचिद्वस्त्वप्यनेकं स्यात्तत्रातिशयत्वमित्यत आह-एकमिति। एकमपि पर्यायेणानेकत्र तिष्ठत्येवेति न विशेष इत्याह-युगपदित्यादि ॥ उदाहरणम्- हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति। वयमत्र निरवकाशा विरम कृतं पादपतनेन ।। ८ ।। हृदय इति। अत्रैका तरुणी युगपदनेकस्मिन्ञाधारे हृदयादिके वसन्ती कथिता अत एव परस्या निरवकाशत्वम्॥ भूयोऽपि भेदान्तरमाह- यत्रान्यत्कुर्वाणो युगपत्कार्यान्तरं च कुर्वीत। कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥ ९॥ यत्रेति। असावन्यो विशेषो ज्ञेयः, यत्र कर्तान्यत्कर्म कुर्वाणः सन्कर्मान्तरं कुर्वीत। पर्यायेणान्यदपि करिष्यति कोऽतिशय इत्यत आह-युगपत्समकालमिति। एवमपि हसन्पठतीत्यादिवद्धविष्यति तत्किमत्रातिशयलमित्याह-कर्तुमशक्यमिति। अशक्य- क्रियान्तरकरणादंतिशय इत्यर्थः ॥ उदाहरणम्- लिखितं बालमृगाक्ष्या मम मनसि तया शरीरमात्मीयम्। स्फुटमात्मनो लिखन्त्या तिलकं विमले कपोलतले ॥ १० ॥

Page 127

१२४ काव्यमाला।

लिखितमिति। अत्र नायिकया कर्त्या निजकपोले तिलकलेखनं कुर्वाणया तदैव कर्तुमशक्यं नायकचित्ते शरीरलेखनलक्षणं कर्मान्तरं कृतम् ॥ अथोत्प्रेक्षा- यत्रातितथाभूते संभाव्येत क्र्कियाद्यसंभाव्यम्। संभूतमतद्वति वा विज्ञेया सेयमुत्पेक्षा ।। ११।। यत्रेति। यत्रासंभाव्यं क्रियादिकं वस्तुनि क्वापि संभाव्यते सेयमुत्प्रेक्षा। यद्त्र न संभवति कथं तत्र संभावनेत्याह-अतितथाभूत इति। अतिशयेन तथाभूते। तथात्वमसंभाव्यसंभावनायोग्यं प्रकारं प्राप्त इत्यर्थः । प्रकारान्तरमाह-संभूतमतद्वति वेति। यत्र वा वस्तुन्यतद्वत्यविद्यमानतत्किरियादिकेऽप्यसंभाव्यं क्रियादि तथाभूतत्वात्संभू- तमेवोच्येत सान्योत्प्रेक्षा।। प्रथमोदाहरणमाह- घनसमयसलिलघौते नमसि शरच्चन्द्रिका विसर्पन्ती। अतिसान्द्रतयेह नृणां गात्राण्यनुलिम्पतीवेयम् ।। १२।। घनेति। अत्र चन्द्रिकाया अनुलेपनमसंभाव्यमेव संभावितमनुलिम्पतीवेति। नैर्म- ल्याननभसः, घनत्वेन च तस्यास्तथाभूतत्वम् ।। द्वितीयोदाहरणमाह- पछ्लवितं चन्द्रकरैरखिलं नीलाश्मकुट्टिमोर्वीषु। ताराप्रतिमाभिरिदं पुष्पितमवनीपतेः सौधम् ॥ १३ ॥ पक्लवितमिति। अत्र सौधाख्ये वस्तुन्यपछ्लवितेऽपुष्पिते च चन्द्रतारकाप्रतिबिम्बसं- पर्कात्तदोग्ये सत्यसंभाव्यमपि पल्लवितत्वं पुष्पितत्वं च संभूतं कथितम् । इवार्थक्ष साम- थ्याद्रम्यते ।। प्रकारान्तरमाह- अन्यनिमित्तवशाददथा भवेद्वस्तु तस्य तु तथात्वे। हेत्वन्तरमतदीयं यत्रारोप्येत सान्येयम् ।। १४ ।। अन्येति। सेयमन्योत्प्रेक्षा यस्यां तद्वस्त्वन्यनिमित्तवशात्कारणायथा येन रूपैण भवति तस्य वस्तुनस्तथा भवने तत्स्वरूपतोत्पत्तौ कारणान्तरमतदीयं यत्तस्य सकत न भवति तदारोप्येतेति॥ उदाहरणम्- सरसि समुल्लसदम्मसि कादम्बवियोगदूयमानेव। नलिनी जलप्रवेशं चकार वर्षागमे सद्यः ॥१५ ॥

Page 128

९ अध्याय: ] काव्यालंकारः । १२५ सरसीति। अत्र नलिन्या जलप्रवेशे निज जलोल्लासाख्यं कारणं विमुच्य हंसवियो- गाखयं हेलन्तरमारोपितम्। या किलान्यापीष्टेन वियुज्यते सा प्रायो जलप्रवेशादि कुरुते॥ अथ विभावना- सेयं विभावनाख्या यस्यामुपलभ्यमानमभिघेयम्। अभिघीयते यतः रगात्तत्कारणमन्तरेणैव ॥ १६ ॥ सेति। सेयमेषा विभावना, यस्याममिधेयः पदार्थो यतः कारणान्निजाद्धेतोर्भवति स पदार्थस्तत्कारणमन्तरेणाप्यमिधीयत इति। ननु तत्कारणं चेत्कथं तद्विनोत्पत्तिरि- त्याह-उपलभ्यमानं दृश्यमानमिति। अत एवातिशयतमिति।। उदाहरणम्- निहतातुलतिमिरभरः स्फारस्फुरदुरुतरप्रभाप्रसरः । शं वो दिनकृददिश्यादतैलपूरो जगद्दीपः ॥ १७ ॥ अत्राभिधेयं दीपलक्षणं यतः कारणात्तैलाख्याद्भवति तद्विनापि कथितमतैलपूर इति। अत्र च दीप इव दीप इति सत्यपि रूपकत्वेऽतैलपूर इति विभावनाविभागः ॥ प्रकारान्तरमाह- यस्यां तथा विकारस्तत्कारणमन्तरेण सुव्यक्तः । प्रभवति वस्तुविशेषे विभावना सेयमन्या तु ॥ १८ ॥ यस्यामिति। सेयमेषान्या विभावना, यस्यां तथेति यतः कारणाद्विकारः क्वचिद्वस्तुनि प्रभवति तत्कारणमन्तरेणापि सुव्यक्तः प्रकटः स विकारः कथ्यत इति॥ उदाहरणम्- जाता ते सखि सांप्रतमश्रमपरिमन्थरा गतिः किमियम् । कस्मादभवदकस्मादियममधुमदालसा दृष्टिः ॥ १९ ॥ जातेति। अत्र गतिदृष्टिलक्षणे वस्तुविशेषे मन्थरतालसतलक्षणो विकारो यतः कार- णाच्छरममधुमदलक्षणाद्वति तेन विनैवोक्तः। अथ पूर्वतोऽस्याः को विशेषः। उच्यते- पूर्वत्रामिधेयं कारणमन्तरेणोक्तमिह तु विकार इति॥ भूयोऽपि मेदान्तरमाह- यसम यथात्वं लोके प्रसिद्धमर्थस्य विद्यते तस्मात्। अन्यस्यापि तथात्वं यस्यामुच्येत सान्येयम् ॥ २० ॥ यस्येति। यस्यार्थस्य यथात्वं यादग्घर्मत्वं लोके प्रसिद्धं ततोऽर्थादन्यस्यापि तथात्वं ताहग्धर्मता कथ्यते सेयमन्या विभावना॥

Page 129

१२६ काव्यमाला।

उदाहरणम्- स्फुटमपरं निद्रायाः सरसमचैतन्यकारणं पुंसाम्। अपटलमान्ध्यनिमित्तं मदहेतुरनासवो लक्ष्मीः ॥ २१॥ स्फुटमिति। अत्राचैतन्यनिमित्तत्वं निद्रायाः प्रसिद्धम्। आन्ध्यहेतुत्वं पटलस्य। मदकारणत्मासवस्य। अथ चान्यस्यार्थस्य लक्ष्मीलक्षणस्योक्तमिति॥ अथ तद्गुण :- यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम्। संसर्गे नानात्वं न लक्ष्यते तद्रुणः स इति ॥ २२ ॥ यस्मिन्निति । यत्राभिन्नगुणानामर्थानां संबन्धे सति नानात्वं भेदो न लक्ष्यत इत्यु- च्यते स तद्रुणो नामालंकार: स्यात्। स एव गुणो यत्रेति कृत्वा। ननु दुग्धतकादीनां संसर्गे नानात्वं न लक्ष्यत एव तत्किमतिशयत्वमित्याह-योगलक्ष्यरूपाणामिति। यत्र योगे सति रूपं लक्षयितुं शक्यमथवा लक्ष्यमिति कथ्यत इत्यर्थ: ॥ उदाहरणम्- नवधौतघवलवसनाश्र्न्द्रिकया सान्द्रया तिरोगमिताः । रमणभवनान्यशङ्कं सर्पन्त्यभिसारिकाः सपदि ॥२३ ॥ नवेति। अत्र ज्योत्स्नामिसारिकालक्षणावर्थावेकेन सहजाहार्येण शुक्कगुणेन युक्तौ संसर्गे लक्ष्यरूपावप्यलक्ष्यतयोक्तौ ।। भेदान्तरमाह- असमानगुणं यस्मिन्नतिबहलगुणेन वस्तुना वस्तु। संसृष्टं तद्गुणतां धत्तेऽन्यस्तद्रुणः स इति ॥ २४ ॥ असमानेति। यत्र वस्तुनान्येन संसृष्टं वस्तु तद्रुणतां धत्ते तदीयगुणं भवतीति कथ्यते स इत्यन्यसतद्रुणः । कदाचिदेकगुणता तयोर्भविष्यति, अतो नातिशयत्मि- त्याह-अतिबहलगुणेनेति। अतिबहुगुणता तद्रुणतहेतुः किभत इत्यर्थ:॥ उदाहरणमाह- कुब्जकमालापि कृता कार्तखवरभाखरे तथा कण्ठे। एतत्प्रभानुलिप्ता चम्पकदामभ्रमं कुरुते ॥ २५ ॥ कुब्जकमालेति। अत्र शुक्कगुणा कुब्जकमाला गौरवर्णकण्ठन संघुक्ता गौरमेव वर्ण धत्ते॥ अथाधिकम्- यत्रान्योन्यविरुद्धं विरुद्धबलवत्क्रियाप्रसिद्धं वा। वस्तुद्वयमेकस्माज्जायत इति तद्भवेदधिकम् ॥ २६॥

Page 130

९ अध्याय: ] काव्यालंकारः । १२७ यत्रेति। यत्रैकस्मात्कारणाद्वखतुद्वयमुत्पद्यत इत्युच्यते तदधिकम्। किमेतावतातिश यत्वमित्याह-अन्योन्यविरुद्धम्। परस्परविरुद्धखभावमित्यर्थः । प्रकारान्तरमाह-विरु- द्वाभ्यां बलवतीभ्यां करियाभ्यां प्रसिद्धं वा यत्रैकस्मात्कारणाद्वस्तुद्वयं जायते तदप्यधिकम्। उदाहरणम्- मुञ्चति वारि पयोदो ज्वलन्तमनलं च यत्तदाश्चर्यम्। उदपद्यत नीरनिधेर्विषममृतं चेति तच्चित्रम् ॥ २७। मुख्तीति। अत्र पूर्वार्धे एकस्मान्मेघाद्वस्तुद्वयं वारिज्वलनलक्षणं विरुद्धं जायमानमु- क्तम्। उत्तरार्धे त्वेकस्मात्समुद्राद्वस्तुद्वयं विषामृतलक्षणमन्योन्यविरुद्धक्रियमुक्तम्। विषा- मृतयोर्हि न परस्परं विरोधः। किं तु मारणजीवनक्िये विरुद्धे। इत्युदाहरणद्वयमेतत्। मेदान्तरमाह- यत्राधारे सुमहत्याघेयमवस्थितं तनीयोऽपि। अतिरिच्येत कथंचित्तदधिकमपरं परिज्ञेयम् ॥ २८॥ यत्रेति। यत्र सुमहत्यप्याधारेऽतिशयवत्यप्याधेयं वस्तवस्थितं कुतश्वित्कारणात्र माति तदपरमधिकं बोद्धव्यम्॥ उदाहरणम् -- जगद्विशाले हृदि तस्य तन्वी प्रविश्य सास्ते स्म तथा यथा तत्। पर्याप्तमासीदखिलं न तस्यासतत्रावकाशस्तु कुतोऽपरस्या: ॥२९ ॥ जगदिति। अत्र जगद्विस्तीर्णेऽपि हृदये आधारे तन्वीलक्षणमाधेयं खल्पमपि न माति। तस्यास्तत्रामानमनुरागाद्वहिरपि सर्वत्र दर्शनात्। तन्वीति सामिप्रायमत्र नाम। अथ विरोध :- यस्मिन्द्रव्यादीनां परस्पर सर्वथा विरुद्धानाम्। एकत्रावस्थानं समकालं भवति स विरोधः ॥ ३० ॥ यस्मिन्निति। यत्र द्रव्यगुणक्रियाजातीनां विरुद्धानामेकत्राधारेऽवस्थानं भवति स विरोधः । परस्परमन्योन्यम्। न त्वाधारेण सह। तथा सर्वप्रकारं सजातीयैर्विजाती- यैश्र सहेत्यर्थः । समकालमिति युगपत्। अत एवातिशयत्वं भवति॥ एवं सर्वथा विरोधे सति कियन्तो भेदा इति तत्संख्यामाह- अस्य सजातीयानां विधीयमानस्य सन्ति चत्वारः । भेदास्तन्नामानः पञ्च त्वन्ये तदन्येषाम्॥ ३१॥ अस्येति। अस्य विरोधस्य सजातीयानां द्रव्यादीनां विधीयमानस्य चत्वारो मेदा: सन्ति। यथा द्रव्ययोर्विरोधो द्रव्यविरोधः। एवं गुणविरोधः क्रियाविरोधो जातिविरो-

Page 131

१२८ काव्यमाला।

धश्च। अत एव तन्नामान: । तथा तेभ्यः सजातीयेभ्योऽन्येषां विजातीयानां पुनर्विधी- यमानस्य पञ्च मेदा भवन्ति। यथा द्रव्यगुणयोर्द्रव्यक्किययोर्गुणक्रिययोर्गुणजात्योः क्रिया- जात्योश्वेति॥ ननु द्रव्यजात्योरपि षष्टो मेद: समस्ति तत्कथं पञ्चेत्युक्त तत्राह- जातिद्रव्यविरोधो न संभवत्येव तेन न षडेते। अन्ये तु वक्ष्यमाणाः सन्ति विरोधास्तु चत्वारः ॥ ३२ ॥ जातीति। नित्यमेव द्रव्याश्रितताज्जातेन जातिद्रव्ययोर्विरोध इत्यर्थः । एवं नव मेदाः। तथात्रान्ये वक्ष्यमाणाश्चत्वारो विरोधाः सन्ति॥ तद्था- यत्रावश्यंभावी ययोः सजातीययोर्भवेदेकः । एकत्र विरोधवतोस्तयोरभावोऽयमन्यस्तु ॥ ३३ ॥ यत्रेति। यत्राधारे विरुद्धयोः सजातीययोरर्थयोर्मध्यादेकोऽवश्यंभावी निश्चितो भवति, तयोरद्वयोरप्यभावो यत्र कथ्यते सोऽपरो विरोधश्चतुर्धा द्रव्यगुणक्र्ियाजामेदेन । इत्येवं त्रयोदशसंख्योऽयं विरोधालंकारः ॥ अथैषामेव यथाक्रममुदाहरणान्याह- अत्रेन्द्रनीलभित्तिषु गुहासु शैले सदा सुवेलारूये । अन्योन्यानभिभूते तेजस्तमसी प्रवर्तेते॥ ३४ ॥ अत्रेति। अत्र तेजस्तमसोर्विरुद्धद्रव्ययोरेकत्र गुहाधारेऽवस्थितिरुक्त्ा ॥ सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि। ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि। ३५॥ सत्यमिति। अत्र सरलख्कुब्जत्वादिविरुद्धगुणावस्थितिः । बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति संतापयति च दूरे हृदये च मे वसति॥ ३६॥ बालेति। अत्र जडीकरणसंतापनादिक्रिये विरुद्धे। एकस्यामेव तनौ बिभर्ति युगपन्नरत्वसिंहत्वे। मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥ ३७ ॥ एकस्यामिति। अत्र नरत्वादिजातिविरोधः । अथ विजातीयोदाहरणान्याह- तेजखिना गृहीतं मार्दवमुपयाति पश्य लोहमपि। पात्रं तु महद्विहितं तरति तदन्यच्च तारयति ॥३८॥

Page 132

९ अध्याय: ] काव्यालंकार:। १२९ तेजख्विनेति। अत्र कठिनस्य लोहद्रव्यस्य मार्दवगुणस्थ च विरोषेऽप्येकत्रावस्थिति:। अत्र लोहद्रव्यस्य तरणक्रियायाथ् विरोधेऽवस्थितिः ॥ सा कोमलापि दलयति मम हृदयं पश्यतो दिशः सकलाः ।

सेति। अत्र कोमलगुणस्य दलनक्रियायाश विरोधेऽप्यवस्थितिः । अत्र भ्रमरजातेः शुकत्वगुणस्य च विरोध: ।। वरतनु विरुद्धमेतत्तव चरितमदष्टपूर्वमिह लोके। मश्ासि येन नितरामबलापि बलान्मनो यूनाम् ॥ ४० ॥ वरतन्विति। अत्राबललजातेर्मथनक्रियायाथ विरोधः ॥ अन्ये तु मेदाश्चलारः सन्तीत्युक्तम्। तेषामुदाहरणान्याह- अविवेकितया स्थानं जातं न जलं न च सथलं तस्याः। अनुरज्य चलप्रकृतौ त्वय्यपि भर्ता यया मुक्तः ॥ ४१ ॥ अविवेकितयेति। अत्र द्रव्ययोर्जलस्थलयोर्विरोघिलादेकस्याभावेSवश्यमेवेतरस्याव- स्थानेन भाव्यम् । अत्र चोभयोरप्यभाव उककः ॥ न मृदु न कठिणमिदं मे हतह्ृदयं पश्य मन्दपुण्यायाः । यद्विरहानलतसं न विलयमुपयाति न च दार्व्यम्।। ४२।। नेति। यदि मडृदयं मृदु भवेत्ततो विरहाभितप्तं जतुवद्विलीयेत। कठिनं स्यात्ततो घनवह्रढिमानमाझ्नुयादिति।,अत्र मार्दवकाठिन्ययोर्गुणयोरेकस्याप्यभावः ।। नास्ते न याति हंस: पश्यन्गगनं धनश्यामम्। चिरपरिचितां च बिसिनीं ख्वयमुपभुक्तातिरिक्रसाम् ॥। ४३ ॥ नेति। यथा पूर्वत्र गुणयोरेवमत्र क्रिययोरासनगमनलक्षणयोर्विरुद्धयोर्मध्यादेकस्या अप्यभाव इति ॥ न स्त्री न चायमस्त्री जात: कुलपांसनो जनो यत्र। कथमिव तत्पातालं न यातु कुलमनवलम्बितया ॥ ४४॥ नेति। कुलपांसन: । कुलनाशन इत्यर्थः । अ्रापि स्त्रीत्वपुरुषत्वजात्योर्विरुद्धयोर्म- ध्यादेकस्या अप्यभाष: ॥। अथ विषममाह- कार्यस्य कारणस्य च यत्र विरोध: परस्परं गुणयोः। तद्वत्किययोरथवा संजायेतेति तद्विषमम् ॥।४५ ॥ कार्यखेत। यत्र कार्यकारणसंबन्धिनोर्गुणयो: करिययोरचा परस्परमन्योन्यं विरोको १३ काव्या

Page 133

१३० काव्यमाला।

भवेत्तद्विषमनामालंकारः । ननु यदि वस्तुनो: कार्यकारणभावः, कथ तद्रुणयोः क्रिययोरवा विरोधः । सत्यम् । अत एवातिशयत्वम् ॥ उदाहरणम्- अरिकरिकुम्भविदारणरुधिरारुणदारुणादत: खङ्गात्। वसुधाधिपते घवलं कान्तं च यशो बभूव तव।। ४६ ।। अरीति। अत्र कारणस्य खङ्गस्य गुणौ लौहित्यदारुणत्वे, कार्यस्य यशसो धवलल- कान्तत्वे, तेषां चान्योन्यं विरोधः ।। तथा- आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥। ४७॥ आनन्देति। अत्र कारणस्य नायिकायाः क्रिया आर्नन्ददानम्, कार्यस्य तु विरहस्य तापनम्, तयोश्ान्योन्यं विरोधः ॥। अथासंगति :- विस्पष्टे समकालं कारणमन्यत्र कार्यमन्यत्र। यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥ ४८ ॥ विस्पष्ट इति। सेयमसंगतिर्बोद्धव्या, यस्यां विस्पष्टे प्रकटे समकालमेव च कार्य- मन्यत्रोपलभ्यते कार्य वान्यत्रेति, अत एवासंगतिर्नाम, अतिशयत्वं च।। उदाहरणम्- नवयौवनेन सुतनोरिन्दुकलाकोमलानि पूर्यन्ते। अङ्गान्यसंगतानां यूनां हृदि वर्घते कामः ॥ ४९ ॥ नवेति। अन्राङ्कपूरणाख्यं कारणं तन्वीस्थम्, मदनवर्धनं कारणं युवस्थं विस्पृष्टमेवो- पलभ्यते॥ अथ पिहितम्- यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम्। अर्थान्तरं पिद्ध्यादाविर्भूतमपि तत्पिहितम् ॥ ५० ॥ यत्रेति। यत्रैकाधारमर्थान्तरं कर्मभूतं गुणः कर्तातिप्रबलतया हेतुभूतया पिद्ध्यात्स्थ- गयेत्तत्पिहितं नामालंकारः। ननु तुल्यं गुणान्तरं स्थग्यत एव किमतिययत्वमित्याह- असमानम्। असदृशमित्यर्थः । कदाचिद्समानमप्यलब्धपाटवं स्यादित्यत आह- आविर्भूतमपीत्यर्थः। असमानग्रहणेन प्रथमातद्गुणालंकाराद्विशेष: ख्याप्यते, तत्र धेक- गुणानामर्थानां संसर्गे नानात्वं लक्ष्यत इत्युक्तम्। द्वितीयात्तर्हिं कोऽस्य विशेषः । उच्यते-तत्रासमानगुणं वस्तु वस्तन्तरेण प्रबलगुणेन संसष्टं तद्रुणतां प्राप्यते, न त-

Page 134

९ अध्याय: ] काव्यालंकारः । १३१

द्विधीयत इति। मीलितात्तर्हि कोऽस्य मेदः । उच्यते-असमानचिह्नलमेव। तत्र हि समानचिहेन वस्तुना हर्षकोपादि तिरस्क्रियत इति सर्व समजसम् ॥ उदाहरणम्- प्रियतमवियोगजनिता कृशता कथमिव तवेयमङ्गेषु। लसदिन्दुकलाकोमलकान्तिकलापेषु लक्ष्येत ॥ ५१॥ प्रियेति। अत्र कान्तिगुणेनार्थान्तरं कृशताख्यमेकाधारमसमानगुणमतिप्रबलत्वात्पि- हितमिति। अथ व्याघात :- अन्यैरप्रतिहृतमपि कारणमुत्पादनं न कार्यस्य। यस्मिन्नभिधीयेत व्याघातः स इति विज्ञेयः ॥ ५२॥ अन्यैरिति। यत्र कारणं कार्यस्याजनकमुच्येत स कार्यव्याघाताख्योSलंकारः। कदा- चित्कारणं केनचित्प्रतिहतं भविष्यतीत्यत आह-अन्यैः कारणैरप्रतिहतमपीति। अत एवातिशयितमिति॥ उदाहरणमाह- यत्र सुरतप्रदीपा निष्कज्जलवर्तयो महामणयः । माल्यस्यापि न गम्या हृतवसनवधूविसृष्टस्य ॥ ५३॥ यत्रेति। अत्र दीपः कारणं कार्यस्य कज्जलस्य नोत्पादकम्। तच् कारणं कारणा- न्तरैर्माल्यादिमिरप्रतिहतमिति॥ अथाहेतु :- बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम्। यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति॥५४॥ बलवतीति। असावहेतुर्नामालंकारः, यत्रार्थो विकारमन्यथात्वं नायाति। कदाचि- द्विक्रियाकारणं न स्यादित्याह-विकारहेतौ सत्यपि। कदाचिदसौ हेतुः प्रबलो न स्या दित्याह-बलवतीति। अत एवातिशयत्वमिति। कर्थ नायाति, स्थैर्यादिति।। उदाहरणम् रूक्षेऽपि पेशलेन प्रखलेऽप्यखलेन भूषिता भक्ता। वसुधेयं वसुधाधिप मधुरगिरा परुषवचनेऽपि ॥ ५५॥ रूक्ष इति। अत्र रूक्षादिके बलवति विकारकारणे सत्यपि विकारमपेशलत्वादिकं राजा महासत्त्वान्नायातीति।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरच्ितटिप्पणसमेतो नवमोऽध्यायः समाप्ः।

Page 135

१३२ काव्यमाला।

दशमोऽध्यायः। वास्तवौपम्यातिशयान्व्याख्यायाधुना क्रमप्राप्तं श्रेषं व्याचिर्यासुराह- यत्रैकमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन्। अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ॥ १ ॥ यत्रेति। यत्रैकमेव वाक्यं रचितं सदनेकस्मिन्नर्थे निश्चयं कुरुते सोऽर्थळेषो विज्ञेयः। नन्वेकं चेद्वाक्यं कथमनेकार्थनिश्चयं करोतीत्याह-अनेकार्यः पदै रचितमिति कृला। एकं वाक्यमित्येकग्रहणं शब्दश्क्ेषादस्य विशेषख्यापनार्थम्। तत्र हि 'युगपदनेकं वाक्यं यत्र विधीयेत स श्लेषः'(४1१) इत्युक्तम्। किं च तत्र शब्दानां श्लेषः,अत्र त्वर्थानामिति॥ अथास्यैव भेदानाह- अविशेषविरोधाधिकवक्रव्याजोक्त्यसंभवावयवाः । तत्त्वविरोधाभासाविति मेदास्तस्य शुद्धसय ॥। २ ॥ अविशेषेति। तस्य श्ेषस्य शुद्धस्याविशेषादयो दश मेदाः । इतिशब्द: समाप्यर्थों निर्देशार्थो वा। शुद्धग्रहणं परंमतनिरासार्थम्। यतः कैश्वित् 'तत्सहोक्त्युपमाहेतुनिर्दे- शात्रिविधम्' इति संकीर्णत्वेन त्रैविध्यमुक्तमिति शुद्धस्यैव सतोऽस्य दश मेदाः। अलं- कारान्तरसंस्पर्शेऽनन्ता इत्यर्थ: ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमविशेषं लक्षयितुमाह- अविशेष: श्रेषोऽसौ विज्ञेयो यत्र वाक्यमेकसमात्। अर्थादन्यं गमयेदविशिष्टविशेषणोपेतम् ॥ ३॥ अविशेष इति। असावविशेषश्रेषो ज्ञेयः, यत्र वाक्यमेकस्मात्प्रकान्तादन्यमर्थ गमयेत्। कीदृशम्। अविशिष्टैः समानैर्विशेषणैरुपेतं युक्तम्। यादृशानि चैकस्य विशेषणानि ताह- शान्येवापरस्यापीत्यर्थः । ननु प्रकृतानुपयोग्यर्थान्तरमुन्मत्तवाक्यवदसंबद्धमवगतमपि क्कोपयुज्यते। सत्यम्। एतदेवास्यालंकारत्वम्। एवं हि सहृदयावर्जकत्वसस्य। अत्र च महाकवय एव प्रमाणम् ।। उदाहरणम्- शरदिन्दुसुन्दररुचं सुकुमारां सुरभिपरिमलामनिशम्। निदधाति नाल्पपुण्यः कण्ठे नवमालिकां कान्ताम्।। ४॥ शरदिति। नवा प्रत्यग्रा माला यस्यास्तां नवमालिकां कान्तां प्रियतमामल्पपुण्यः कण्ठे न करोतीति। एतत्प्रकृतं वाक्यं कान्तानवमालिकाशब्दयोरनेकार्थत्वादिदमर्था- न्तर गमयति। यथा-नवमालिकाख्यां सुमनोजाति कान्तां हृद्यामल्पपुण्यः कण्ठे न कुरुत इति। शरदिन्दुसुन्दररुचमित्यादीन्यविशिष्टानि विशेषणानि॥

Page 136

१० अध्याय: ] काव्यालंकारः । १३३

अथ विरोधश्लेष :- यत्र विरुद्धविशेषणमवगमयेदन्यदर्थसामान्यम्। प्रक्रान्तमतोऽन्यादग्वाक्यश्लेषो विरोधोऽसौ ॥५॥ यत्रेति। असौ विरोधाख्यश्छेषः, यत्र प्रकान्तवाक्यमन्यदर्थसामान्यं विरुद्धविशेषणम- वगमयेत्। कीदृग्वाक्यम्। अतोऽर्थान्तरादन्यादृशम्। विशेषरूपमविरुद्धं चेत्यर्थः । तेन यत्र प्रक्रान्तोऽर्थविशेषोऽन्यदर्थसामान्यं विरुद्धविशेषणमवगमयति स विरोधश्लेष इति तात्पर्यार्थः ॥ उदाहरणम्- संवर्धितविविधाधिककमलोऽप्यवदलितनालिकः सोऽभूत् । सकलारिदाररसिकोऽप्यनभिमतपराङ्गनासङ्ग: ॥ ६ ॥ संवर्धितेति। अन्रायं प्रक्रान्तोऽर्थ :- स कश्विद्राजा एवंविधोऽभूत् । यथा संवर्धित- नानाभ्यधिकलक्ष्मीकोऽवदलितमूर्खश्र। तथा सकलशत्रुविदारणरसिकोSनिष्टपरस्त्रीसन्न- श्रेति। इदं तु विरुद्धमर्थसामान्यं गम्यते-यदि संवर्धितानि विविधान्यधिकं कमलानि पद्मानि येन, कथमवदलितानि नालिकानि पद्मानि तेनैवेति। तथा यदि सकलेष्वरिदा- रेषु शत्रुकलत्रेषु रसिकः कथमनमिमतपराङ्गनासङ्ग इति। सामान्यरूपता चास्य विशे- ष्याविशेषणादिति।। अथाधिक लेष :- यत्राधिकमारब्घादसमानविशेषणं तथा वाक्यम्। अर्थान्तरमवगमयेद/धकलेषः स विज्ञेयः ॥७॥ यत्रेति। यत्र वाक्यं कर्तृभूतमारब्धात्प्रकृतादन्यदर्थान्तरमधिकमुत्कृष्टं गमयेत्सोऽघि- कक्षेषः । अविशेष लेषादसय विशेषमाह-असमानविशेषणमिति। तत्र हि समानार्थानि विशेषणान्युक्तानि ॥ उदाहरणम्- प्रेम्णा निघाय मूर्घनि वक्रमपि बिभर्ति यः कलावन्तम्। भूर्ति च वृषारूढः स एव परमेश्वरो जयति ॥ ८॥ प्रेम्णेति। यः कलावन्तं विदग्धं वक्रमनृजुहृदयमपि बिभर्ति, प्रेम्णा प्रीत्या शिरसि- कृत्वा। तथा भूतिं समृद्धि च विभर्ति। कीदशः सन्। वृषे धर्मे समारूढः । स एव परमेश्वरो नायको जयति। एतत्प्रकृतं वाक्यमिदं तूत्कृष्टमर्थान्तर गमयति-यथा स एव परमेशवरो महादेवो जयति, यः कलावन्तं चन्द्रं वकं कलाशेषमपि प्रेम्णा मूर्मि निधाय वहति। भूरति च भस्म वहति। वृषे वृषमे समारूढ इति। उत्कृष्टत्वं चात्र देववर्ण- नात्। नृभ्यो हि देवा अधिकाः । विशेषणान्यपि मिन्नार्थान्यत्रेति॥

Page 137

१३४ काव्यमाला।

अथ वक्रश्लेष :- यत्रार्थादन्यरसस्तत्प्रतिबद्धश्च गम्यतेऽन्योऽर्थः । वाक्येन सुप्रसिद्धो वक्रक्लेषः स विज्ञेयः ॥ ९॥ यत्रेति। यत्र वाक्येन खमर्थ ब्ुवतान्योऽर्थः प्रासज्ञिको गम्यते। कीदृशः। प्रकृ- तादन्यरसः । तथा तेन प्रकृतार्थन प्रतिबद्धः। प्रतिबद्धता चैकविषयत्वेन। तथा सुप्रसि- द्धस्तत्प्रतिबद्धत्वेन सुष्ठु प्रतीतः । उदाहरणम्- आक्रम्य मध्यदेशं विद्धत्संवाहनं तथाञ्ञानाम्। पतति करः काश््यामपि तव निर्जितकामरूपस्य ॥ १० ॥ आक्रम्येति। तव निर्जितकामरूपाख्यजनपदस्य संबन्धी करो नृपदेयभागः काशी- नाम्नि यावह्ेशे पतति। काशयपि तया जितेत्यर्थः किं कृता। मध्यदेशं कान्यकुब्जा- दिकमाक्रम्यामिभूय। अनन्तरम्गानां देशविशेषाणां संवाहनमुपमर्दनं कुर्वन्निति। अथ गम्यमर्थान्तरं भण्यते-यथा तव तिरस्कृतमदनरूपस्य करो हस्तः काश्वयां रसनाप्रदेशे पतति। मध्यदेशमुदरमात्रम्। अज्ञानामूरुस्तनादीनां संवाहनं परिमलनं कुर्वन्। अयं चार्थ: शङ्गाररसयुक्तः एकविषयत्वेन च पूर्वार्थप्रतिबद्धः। पूर्वत्र तु रसो वीराभिध: ॥ अथ व्याज केष :- यस्मिन्निन्दा स्तुतितो निन्दाया वा स्तुतिः प्रतीयेत। अन्याविवक्षिताया व्याजश्लेषः स विज्ञेयः ॥ ११॥ यस्मिश्निति। यत्र स्तुतेर्विवक्षिताया अन्या प्रासज्ञिकी निद्रा प्रतीयते निन्दाया वा विवक्षितायाः प्रासज्निकी स्तुतिः स व्याजश्लेषः ॥ उदाहरणमाह- त्वया मदर्थे समुपेत्य दत्तमिदं यथा भोगवते शरीरम्। तथास्य ते दूति कृतस्य शक्या प्रतिक्रिकियानेन न जन्मना मे ॥ १२ ॥ त्वयेति। अत्र कयापि नायिकया दूती दयितपार्शें प्रेषिता। सा तु तत्र खार्थ कृतवती। समागत्य चाधरक्षतादिकमुद्दिश्योत्तरं दत्तवदी यथाहं तत्र लदर्थे गता सती सर्पेण दष्टा, परं वैदैश्िविकित्सितेति जीविता। ततस्तां कृतदोषां दूतीं नायिका सुति- द्वारेण निन्दति लयेत्यादिना। भोगवते इत्येकत्र सर्पाय, अन्यत्र विलासिने। प्रतिक्रिया त्वेकत्रोपकारः, अन्यत्रापकारः ॥ निन्दास्तुतिमाह- नो मीतं परलोकतो न गणितः सर्वः खकीयो जनो मर्यादापि च लङ्विता न च तथा मुका न गोत्रस्थितिः ।

Page 138

१० अध्याय: ] काव्यालंकारः । १३५

भुक्ता साहसिकेन येन सहसा राज्ञां पुरः पश्यतां सा मेदिन्यपरैः परं परिहृता सर्वैरगम्येति या ॥ १३॥ नो इति। अत्र निन्दा तावत्-या सर्वैरेव लोकैरगम्यत्वात्परिहृता सा मेदिनी शिल्पिविशेषनारी येन साहसिकेन राज्ञां पुरतः सहसैव भुक्ता। तेन किं कृतम्। न पर- लोकाद्भीतम्, न खजनो गणितः, मर्यादा च ल्तिा, गोत्रस्थितिमुक्तेति। अतोऽपि निन्दाया: प्रासज्निकी स्तुतिरेव गम्यते। यथा-सा मेदिनी भूर्येन साहसिकेन राज्ञां पुरः पश्यतां सहसा भुक्तात्मवशीकृता। या सर्वैरेव राजभिर्दुर्गमलाहूरं परिहता। तेन किं कृतम् । परलोकतः शत्रुलोकान्नो भीतम्। तथातिबलवत्त्वादात्मीयजनोऽपि साहाय्ये नापेक्षितः । तथा मर्यादा खदेशसीमा लड्िता। तथा गोत्राः पर्वतास्तेषु स्थितिश्च मुक्ता दुर्ग मुक्तमित्यर्थः ॥ अथोकिश्लेष :- यत्र विवक्षितमर्थ पुष्यन्ती लौकिकी प्रसिद्धोकिः। गम्येतान्या तस्मादुक्तिश्लेषः स विज्ञेयः ॥१४ ॥ यत्रेति। यत्र तस्माद्विवक्षितार्थादन्या लोकप्रसिद्धोकिर्वचनं गम्यते स उक्तिकेषः। का तर्स्यालंक्रियेत्याह-विवक्षितमर्थ पुष्यन्ती । एतदुक्त भवति-प्रकृतोर्थो रम्यो भवतु, मा वा भूत, लौकिकी चेदुकिर्गम्यते तयैव तस्य पोषः क्रियत इति ॥ उदाहरणमाह- कलावतः संभृतमण्डलस्य यया हसन्त्यैव हताशु लक्ष्मीः । नृणामपाक्वेन कृतश्र कामस्तस्याः करस्था ननु नालिकश्रीः ॥।१५॥ कलावत इति। कस्याश्विद्रूपवर्णनं क्ियते-कलावतश्चन्द्रस्य पूर्णबिम्बस्य यया हसन्त्ैवाशु शीघ्रं लक्ष्मीः शोभा हतामिभूता। नृणां चापाज्वेन कटाक्षेण कामः कृतः तस्या नालिकश्रीः पद्मशोभा करस्थैव। यया मुखेनाखण्डः शशी जितस्तया हस्तशो- भया पद्ममपि नूनं जीयेतेत्यर्थ इति। एषोऽत्र विवक्षितोऽर्थः । एतस्यैव परिपोषं कुर्वा- णान्या लौकिकी प्रसिद्धोक्तिर्गम्यते। यथा-यया नर्तक्या कलावतो विदग्धस्य संभृत- मण्डलस्य ससहायवृन्दस्य हसन्लैवाक्लेशेनैवाशु लक्ष्मीर्हता धनं भक्षितम्। नृणां चापा- ज्वेन हेलयैव काम: कृतः । तस्या नालिकश्रीर्मुग्धजनसंपत्करस्थितैवेति। एष एव चात्र पूर्वार्थपोषो यल्लोकप्रसिद्धोक्त्यवगम इति॥ अथासंभवश्लेष :- गम्येत प्रक्रान्तादसंभवतद्विशेषणोऽन्योऽर्थः । वाक्येन सुप्रसिद्ध: स ज्ञेयोऽसंभवश्लेषः ॥ १६॥ गम्येतेति । सोऽसंभवश्लेषो ज्ञेयः, यत्र वाक्येन प्रक्रान्तादर्थादन्योSप्रस्ुतोऽर्यों

Page 139

१३६ काव्यमाला। गम्यते। कीदृशः । असंभवत्तद्विशेषण इति। असंभवन्ति तस्य प्रस्ुतार्थस्य संबन्धीनि विशेषणानि यस्य स तथोकः । तथा सुप्रसिद्धः र्यात इति ॥ उदाहरणमाह- परिहृतभुजंगसङ्गः समनयनो न कुरुषे वृष चाघ: । नन्वन्य एव दष्टस्त्वमत्र परमेश्वरो जगति ॥ १७॥ परिहृतेति । अत्र प्रकृतान्नृपलक्षणादर्थादन्योऽर्थों महादेवलक्षणोऽसंभवद्विशेषण: प्रसिद्धो गम्यते । महादेवो हि विद्यमानवासुकिसज्नस्त्रिनयनो घृषवाहनश्च। राजा तु दूरीकृतविटः समदृष्टिः पूजितधर्मश्र। अस्य चालंकारस्यान्यैर्व्यतिरेक इति नाम कृतम्। अत्र तुन व्यतिरेकरूपेण साम्यं प्रतिपिपादयिषितम् । अन्यत्वमेव विशेषणान्तरयुक्त- मिति। रूपकताशङ्काप्यत्र न कार्या। साम्यस्य खयमेवाप्रकृतत्वादिति ॥ अथावयव श्लेष :- यत्रावयवमुखस्थितसमुदायविशेषणं प्रधानार्थम्। पुष्यन्गम्येतान्यः सोऽयं स्यादवयवश्लेषः ॥ १८ ॥ यत्रेति। यत्र प्रधानार्थ पुष्यन्प्रकृतार्थपोषं कुर्वाणोऽन्योऽर्थो गम्यते सोऽवयवश्चेषः। कीदश प्रधानार्थम्। अवयवमुखेनावयवद्वारेण स्थितानि कृतानि समुदायस्य विशेषणानि यत्र तत्तथोक्तम्।। उदाहरणम्- भुजयुगले बलमद्र: सकलजगलङ्डने तथा बलिजित। अक्रूरो हृदयेऽसौ राजाभूदर्जुनो यशसि॥ १९ ॥ भुजयुगल इति। स राजा भुजयुगले बलेन हेतुना भद्रः श्रेष्ठः । तथा सकलस्य जगतो लङ्डने आक्रमणे कर्तव्ये बलिनः शक्तानपि जयत्यमिभवतीति बलिजित्। तथा हृदये मनस्यक्रूरो मृदुः। यशसि चार्जुनः शुक्ः । अत्रैतानि विशेषणान्यवयवद्वारेण समुदायस्य स्थितानि। यस्मानात्र बलभद्रत्ादिकं भुजादीनाम्। अपि तु राजैव यदा भुजयुगले बलेन भद्रस्तदा स एव बलभद्र इत्युच्यते। तथा सकलजगल्लङ्गने बलिजय- नाद्वालजित्। एवं हृदयस्याक्रूरतात्स एवाक्रूर: । यशसोऽर्जुनत्वात्स एवार्जुन इति। एवं प्रधानार्थ पोषयन्नयमन्योऽर्थोऽवगम्यते। यथा-बलभद्रो हलधरः। बलिजिद्वासुदेवः। अक्रूरो वृष्णिविशेषः । अर्जुनः पाण्डवः। एष एव चात्र प्रधानार्थपोषो यदन्येषां यामि नामानि तान्येवास्यान्वर्थेन प्रशंसाकारीणीति॥ अथ तत्त्वश्लेष :- यस्मिन्वाक्येन तथा प्रकरान्तस्य प्रसाधयत्तत्वम्। गम्येतान्यद्वाच्यं तत्त्वक्ेषः स विज्ञेयः ॥ २० ॥

Page 140

१० अध्याय: ] काव्यालंकारः । १३७

यस्मिन्निति। यत्र वाक्येन पूर्ववत्प्रक्रान्तस्यार्थस्य तत्त्वं परमार्थ प्रसाधयदलंकुर्वाण- मन्यद्वाच्यमर्थान्तरं गम्यते स तत्त्वश्चेषो विज्ञेयः ॥ उदाहरणमिदम्- नयने हि तरलतारे सुतनु कपोलौ च चन्द्रकान्तौ ते। अघरोऽपि पद्मरागस्त्रिभुवनरत्नं ततो वदनम् ॥। २१ ॥ नयन इति। हे सुतनु, तव नयने चञ्चलकनीनिके। कपोलौ च चन्द्रवत्कान्तौ। प- दवल्ोहित ओष्ठः । ततो वदनं मुखं त्रिभुवने रन्नं सारम्। जातौ यद्यदुत्कृष्ट तत्तद्रन्न- मुच्यते। एनमर्थ प्रसाधयन्नयमन्योऽर्थो गम्यते। तव नयने तरले च तारे च। तरलो हारमध्यमणिः । तथा चन्द्रकान्तो मणिमेदः, पद्मरागश्। यतश्चैतेऽवयवा रन्नरूपास्ततो वदनं त्रिभुवनरत्नं चिन्तामणिरेव। अस्माच्च पूर्वत्र विशेषो्वयवमुखस्थितसमुदायवि- शेषणत्मिति॥ अथ विरोधाभास :- स इति विरोधाभासो यस्मिन्नर्थद्यं पृथग्भूतम्। अन्यद्वाक्यं गमयेदविरुद्धं सद्विरुद्धमिव ।। २२ ।। स इति। स इत्यनेन प्रकारेण विरोधाभासोऽलंकार:, यस्मिन्नेकमेव वाक्यमन्यदर्थद्वयं पृथग्भूतं गमयति। कीदृशमर्थद्वयम् । सरूपेणाविरुद्धमपि विरुद्धमिव लक्ष्यमाणम् ।। उदाहरणमाह- तव दक्षिणोऽपि वामो बलभद्रोऽपि प्रलम्ब एष भुजः। दुर्योधनोऽपि राजन्युिष्ठिरोऽस्तीत्यहो चित्रम् ॥ २३ ॥ तवेति। हे राजन्, तव बाहुर्भक्तान्प्रत्यनुकूलत्वाद्दक्षिणोऽपि शत्रून्प्रति प्रतिकूलतया वाम इत्यविरुद्धमर्थद्वयम् । तथा स एव बलेन भद्रोऽपि श्रेष्ठोऽपि प्रलम्बो दीर्घः । तथा दुःखेन योध्यत इति दुर्योधनोऽपि युधि समरे स्थिरोऽचञ्चल इत्यविरोधः। विरोधप्र- तिभासथ् दक्षिणवामयोः सव्येतररूपयोरन्यलात, तथा बलभद्रप्रलम्बयोहलधरासुरयो- रन्यत्वात्, तथा दुर्योधनयुधिष्ठिरयोधीर्तराष्ट्रपाण्डवयोर्भिन्नवाललक्ष्यते। अथ विरोधादस्य को विशेषः । उच्यते-तत्र यादृग्विशेषणमादौ निर्दिष्टं तत्प्रत्यनीक पुनरुच्यते। यथा संवर्धितकमलोऽप्यवदलितनालिक इति। अत्र तु वाक्यान्तरार्थपर्यालोचनया विरोध- च्छायास्तीति। अत्रापि भवति, यदि दुर्योधनोऽपि सुयोधन इत्युच्यते। अत एव वि- रोधाभाससंज्ञा।। एवं शुद्धानलंकारान्सप्रमेदानाख्यायाधुना पूर्वकविलक्ष्यसिद्धर्थ संकीर्णासानाह- एषां तु चतुर्णामपि संकीर्णानां स्युरगणिता मेदाः । तन्नामानस्तेषां लक्षणमंशेषु संयोज्यम्॥। २४॥

Page 141

१३८ काव्यमाला।

एषामिति। एषां चतुर्णा वास्तवौपम्यातिशय ्लेषाणां संकीर्णानां मिश्राणां मेदा: स्यु- र्भवन्ति। कियन्त इत्याह-अगणिताः बाहुल्यपरमेतद्वचनम्। संख्या तु विद्यते। एषां त्विति तुरवधारणे। तेषामेव नान्यदलंकारजातमस्तीत्यर्थः । किं तेषां मेदानां नामे- त्याह-तन्नामान इति । येषामलंकाराणां मिश्रभावसत एव मिलितास्तेषां नामेत्यर्थः । यदि सहोक्तेः समुचचयस्य च संकरस्तदा सहोक्तिसमुच्चय इति नाम। उत सहोक्ेर्व्यति- रेकस्य च तदा सहोक्तिव्यतिरेक इति नाम। एवमन्यत्रापि दृश्यम् । किं तेषां तर्हि लक्षणमित्याइ-तेषामित्यादि। तेषां संकरमेदानां लक्षणमंशेषु भागेषु संयोज्यम्। यस्यालंकारस्य योंऽशस्तदीयमेव तत्र लक्षणमित्यर्थः ॥ अथ संकरस्यैव मेदानाह- योगवशादेतेषां तिलतण्डुलवच्च दुग्धजलवच्च। व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेघा ॥२५॥ योगवशादिति। एतेषां वास्तवादीनां संकरो व्यक्ताव्यक्ांशलाद्धेतोर्द्वेधा द्विप्रकारो भवति। व्यक्ताव्यकांशत्वमपि कुत इत्याह-योगवशात्। तथाविधसंबन्धवशादित्यर्थः । केषां यथा स स्यादित्याह-तिलतण्डुलवदित्यादि। तिलतण्डुलानां यथा व्यक्तांशः सं- करः, दुग्धजलयोश्वाव्यक्तांशस्तद्वदेतेषामपीत्यर्थः ॥ अत्र हि दिब्बात्रप्रदर्शनार्थमाह- अभियुज्य लोलनयना साध्वसजनितोरुवेपथुसेदा। अबलेव वैरिसेना नृप जन्ये भज्यते भवता ॥ २६॥ अमियुज्येति। त्वया सेनामियुज्याक्रम्य भज्यते भज्ं नीयते। कीदृशी। भयवशा- छोलनयना चञ्चलाक्षी । तथा साध्वसेन भयेन जनित उरुर्महान्वेपथु: कम्पः खेदश्व यस्याः । अत्राबलेव सेनेति। यथा येन केनचिद्वनिता भज्यते सेव्यते तेनामियुज्यामि- सत्यादौ ततो भज्यते। तथा सापि प्रथमसमागमवशाचञ्चलनेत्रा भवति। तस्या अपि साध्वसेनोर्वोर्वेपथुखेदौ भवत इति। इहाबलेवेत्येष उपमाविभागः । अभियुज्येत्यादि- कस्तु शलेषविभागः । तयोर्लक्षणं खधिया योज्यम्। एतौ तिलतण्डुलवत्प्रकटौ।। तथान्यदप्यत्रैवाह- सन्नारीभरणो भवानपि न किं किं नाघिरूढो वृ्षं किं वा नो भवता निकामविषमा दग्धाः पुरो विद्विषाम्। इत्थं द्वौ परमेश्वराविह शिवस्त्वं चैकरूपस्थिती तत्कि लोकविभो न जातु कुरुषे सङ्ग भुजंगैः सह ॥ २७॥ सन्नारीति। हे लोकविभो राजन्, इत्थमुक्तप्रकारेण त्वं हरश्र परमेश्वरौ। यस्मादे- करूपस्थिती तुल्यस्भावव्यवहारौ । तत्कदाचिदपि भुजंगैः सह सज्ञं न कुरुषे। तदेव

Page 142

१० अध्याय: ] काव्यालंकारः । १३९

तुल्यत्वं वक्ति-स हि वरः सतीं नारीमुमाख्यां बिभर्ति धारयति। भवानपि सोभना नारी बिभर्ति पोषयत्येव। अथवा सन्ना अवसादं गता अरीभा रिपुकरिणो रणे यस्य स तथाविधः । हरो वृषं जरद्रवमधिरूढः। भवानपि वृषं धर्मम्। तथा हरेण विद्विषां त्रिपुरवासिनां विषमास्तिस्रः पुरो दग्धाः । भवतात्यन्तदुर्गाः शत्रूणां पुरो दग्धाः । सर्वत्र किंशब्दः प्रश्ने। तथा तस्य परमेश्वर इति संज्ञा। लमपि परम उत्कृष्ट ईश्वरो- उर्थवान्। एवं यादृशो हरस्तादृशो भवानपि। तद्यथा तेन भुजंगैः सह संपर्क: कृतस्तथा त्यापि खिह्नैः कथ न कृत इति व्यतिरेकस्य श्लेषस्य चात्र संकरः । साधारणविशेषण- योगात् (श्लेषणयोगात्) श्ेषसद्भावः । हरे उपमाने भुजंगसज्गस्य दोषस्य सत्त्वाद्राजनि चासत्त्वाद्गुणत्वे सति व्यतिरेकसद्भावः । एतौ चात्र तिलतण्डुलवत्प्रकटौ।। इदानीमव्यक्तसंकरोदाहरणमाह- आलोकनं भवत्या जननयनानन्दनेन्दुकरजालम्। हृदयाकर्षणपाशः स्मरतापप्रशमहिमसलिलम् ॥ २८॥ आलोकनमिति। भवत्या आलोकनं जननयनानन्दनेन्दुकरजालमेवेति रूपकम्। गुणानां साम्ये सत्युपमानोपमेययोरमिदेति रूपकलक्षणात्। अथवा भवत्या आलोकनं जननयनानन्दने इन्दुकरजालमिवेत्युपमा। एतौ चालंकारावव्यक्तांशौ। अत्र प्रमाणा- भावादेकत्रानिश्रयः । दोषाभावाच्चोभयमप्याश्रयितुं योग्यम्। एवं हृदयाकर्षणपाश- एव पाश इव वा। स्मरतापप्रशमने हिमसलिलमेव तदिव वेति। रूपकोपमासंकरो- Sयमलंकारः ।। तथा- आदौ चुम्बति चन्द्रबिम्बविमलां लोल: कपोलस्थलीं संप्राप्य प्रसरं क्रमेण कुरुते पीनस्तनास्फालनम्। युष्मद्वैरिवधूजनस्य सततं कण्ठे लगत्युल्लस- न्किं वा यन्न करोत्यवारितरसः कामीव बाष्पः पतन् ॥। २९।। आदाविति। हे नृप, युष्मद्वैरिवधूजनस्य संबन्धी बाष्पः पतन्प्रसरन्कामीव किं वा यन्न करोति। वा इवार्थे। किमिव यन्न करोतीत्यर्थः। बाष्पस्तावत्पतन्प्रथमं कपोल- स्थलीं चुम्बति। कामुकोऽपि तथैव। ततो बाष्पः प्रसर प्राप्य क्रमेण पीनस्तनास्फा- लनं कुरुते। काम्यपि तदेव। ततः कण्ठे च द्वावपि लगतः। ततश्रावारितरसो बाष्पः कामीव किमिव न कुरुते। जघनस्थलमपि स्पृशतीत्यर्थः । अत्र रूपकोपमाश्लेषपर्या- याणां संकरः । तत्र कपोलस्थलीमिति रूपकम् । कामीव चन्द्रबिम्बविमलामिति चोपमा। बाष्पकामिनोः साधारणविशेषणयोगाच्छेषः। शत्रवश् तया जिता इति तात्पर्यतः पर्यायसद्भाव इति। अत्र चालंकारसंकरे पूर्वकविलक्ष्याणि भूरिशो दृश्यन्त इत्यत्र महानादर: कार्यः । तथा च-'दिवाकराद्रक्षति यो गुहासु' इत्यादि। अत्रोत्रे-

Page 143

१४० काव्यमाला।

क्षार्थान्तरन्यासोपमानां संकरः । यथा च-'रक्तस्त्वं नवपल्लवैरहमपि श्राध्यैः त्रियाया गुणैस्ामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥' एतौ श्रेष- व्यतिरेकौ। एवमन्यदपि बोद्धव्यमिति॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो दशमोऽव्यायः समाप्तः।

एकादशोऽध्यायः । अर्थस्यालंकारा अमिहिताः । संप्रति दोषाः कथ्यन्ते। नन्वर्थालंकारप्रतिपादनात्प्रागे- वार्थदोषाः परिहता एव तत्किमिति पुनस्ते कथ्यन्त इत्याह- परिहृत एव प्रायो दोषोऽर्थस्यान्यथोक्तिपरिहारात्। अयमुच्यते ततोऽन्यस्तत्कारणमन्यथोक्तौ च ।। १॥ परिहृत इति। 'सर्वः खं खं रूपम्' (७। ७) इत्यादिना ग्रन्थेनार्थस्य विपरीतकथ- नलक्षणो यो महान्दोषः सोडस्माभि: 'तं च न खलु बभ्रीयान्निष्कारणमन्यथातिरसात्' (७। ७) इत्यनेनान्यथोक्तिपरिहारात्परिहृत एव। यस्तु ततोऽन्यथोकेरन्यः खल्पदोषः सोऽयमधुनोच्यते। तथा तस्यार्थस्यान्यथोक्तौ यत्कारणं तदप्युच्यते। परिहृतमेव सर्व दोषजातमन्यथोक्तिपरिहारद्वारेण । किंचिदेव दुर्लक्ष्यमपरिहृतमस्तीति प्रायोग्रहणेन सूच्यते। यत्तु विद्यते तदधुना परिहियते। अथ तानेव दोषानुद्दिशति- अपहेतुरप्रतीतो निरागमो बाथयन्नसंबद्धः । आ्रम्यो विरसस्तद्वानतिमात्रश्ेति दुष्टोऽर्थः ॥२॥ अपहेतुरिति। अपहेत्वादयो नवार्थदोषाः । इतिशब्दो हेत्वर्थे प्रलेकमभिसंबध्यते। यतोऽपहेतुरतो दुष्ट इत्यर्थः । एवमन्यत्रापि योज्यम् ॥ यथोद्देशस्तथा लक्षणमिति कृत्वा पूर्वमपहेतुलक्षणमाह- अपहेतुरसौ यस्मिन्केनचिदंशेन हेतुतामर्थः। याति तथात्वे युक्त्या बलवत्या बाध्यते परवा ॥ ३ ॥ अपहेतुरिति। असावपहेतुर्दोषः, यत्र केनचित्प्रकारेणार्थस्तथात्वे तद्धर्मतायां हेतुत्वं याति। स च हेतुतां गतः सन्नपरया बलिष्ठया युक्ता बाध्यते। यदा चार्थहेतुलसद्धा- वस्तदान्यथोक्तिपरिहारेण न परिहृतः ॥ उदाहरणम्- तव दिग्विजयारम्मे बलघूलीबहलतोयजनितेषु। गगनस्थलेषु मानोश्वक्कमभूद्रथभरामिज्ञम्॥।४।।

Page 144

११ अध्याय: ] काव्यालंकारः । १४१ तवेति। गतार्थमेव। अत्र धूलैर्बहलतलक्षणोऽथः स्थलत्वे हेतुतां यात्येव। किं तु स्थलस्य गगने निराधारत्ादवस्थानं न संभवतीत्यनयोत्तरकालभाविन्या बलवत्या युक्त्या बाध्यते।। अथाप्रतीत :- अर्थोऽयमप्रतीतो यः सन्नपि न प्रयुज्यते वृद्धैः। शरदिव विभाति तन्वी विकसत्पुलकोत्करेयमिति ॥५॥ अर्थ इति। अयमप्रतीतोऽर्यों भण्यते यो विद्यमानोऽपि वृद्धैः पूर्वकविमिर्न प्रयुज्यते। उदाहरणम्-[ शरदिति ।] प्रसरद्रोमाश्चनिवहा तन्वी भाति। शरच्च पुष्प्यतपुलकाख्यवृ- क्षविशेषनिवहा। अत्र पुलकशब्दो वृक्षविशेषवाचकोऽपि तद्वाचकत्वेन पूर्वकविमिर्न प्रत्युक्त इति न प्रयोज्यः ॥ अथ निरागम :- आगमगम्यस्तमृते य उच्यतेऽर्थो निरागमः स इति। सततं सराजसूयैरीजे विप्रोऽश्वमेघैश्र ॥ ६॥ आगमेति। योऽर्थ आगमात्सिद्धान्ताद्रम्यते, अथ चागमनिरपेक्ष एवोच्यते, स इत्यनेन प्रकारेण निरागमः । उदाहरणम्-सततमिति। अत्र विप्रस्य राजसूयाश्वमेधौ यागौ कथितौ। तौ च वेदगम्यौ। वेदे च तयोर्नृपस्यैवाधिकारो न ब्राह्मणस्येत्युक्तम्॥ अथ बाधयन्- यः पूर्वमन्यथोक्तं तद्वक्तृकमेव बाधयेदर्थम्। अर्थः स बाघयन्निति मृगाक्षि नेत्रे तवानुपमे॥। ७॥ य इति। योऽर्थ उत्तरकालं भण्यमान: समानवक्तृकं पूर्वमन्यथोक्तमर्थ बाधयेत्स बाध- यन्निति भण्यते। यथा-मृगाक्षि नयने तवानुपमे, अत्र येनैव वक्त्रा प्रथमं मृगाक्षीत्युक्तं तेनैव पुनस्तव नयने अनुपमे इति पूर्वस्य बाधकमुक्तम्। इदं चात्र निदर्शनम्। यथा- 'वपुरनुपमं नामेरूर्ध्व विधाय मृगीदृशो ललितललितैरज्नन्यासैः पुरा रभसादिव । तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ।।' अत्र नामेरूर्ध्वमनुपमं वपुरित्याद्युक्ला मृगीदृश इत्युक्तम् ॥ अथासंबद्ध :- प्रक्रान्तानुपयोगी प्राप्तो यस्तत्क्रमादसंबद्धः । स इति गता ते कीर्तिर्बहुफेनं जलघिमुल्लक्क॥ ८॥ प्रक्रान्तेति। योऽर्थः प्रकरान्तार्थकमायातोऽपि प्रक्रान्तेऽर्येऽनुपयोगी सोऽसंबद्ध इत्युच्यते। उदाहरणम्-गता ते कीर्तिरित्यादि। अत्र जलधौ संबद्धत्वात्फेनानां बहु- फेनत्वं क्रमप्राप्तम्। अथ न्व प्रस्तुतेऽर्थेऽनुपयोगि। यदि बहुफेनत्वं जलधेर्दुस्तरत्वे १३ का०

Page 145

१४२ काव्यमांला।

हेतुर्भवेत्तदा भवेदपारजलघिलङ्गनं कीर्तेरतिशयाय। नं चैवमरिति । तस्माद्वहुफेनमिलये- तदकिंचित्करम्॥ अथ ग्राम्य :- ग्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्। देशकुलजातिविद्यावित्तवयःस्थानपात्रेषु ॥ ९॥ आ्राम्यत्मिति। यद्यवहाराकारवेषवचनानां चतुर्णामपि प्रत्येकं देशकुलजातिविद्या- वित्तवयःस्थानपात्रेष्वष्टसु विषयेष्वनौचित्यं तद्राम्यत्वं दोषः। तत्र व्यवहारश्वेष्टा। आ- कार: खाभाविकं रूपम्। कृत्रिमं तु वेषः । वचनं भाषा । तथा देशो मध्यदेशादि- रार्यानार्यमिन्नः । कुलं गोत्रमिक्ष्वाक्कादिः । देवदैत्यादिकमित्यन्ये । जातिः स्त्रीपुंसा- दिका। ब्राह्मणत्ादिका वा। विद्या शास्रज्ञता । वित्तं धनम् । वयः शैशवादिकम्। स्थानं पदमधिकारः । पात्राणि भरतोक्तान्युत्तममध्यमादीनि । तत्रार्यदेशेष्वकरुणो व्यवहारः, भयंकर आकारः, उद्धतो वेषः, पुरुषवचनमनुचितम्। म्लेच्छेषु त्वेतदेवो- चितम्। तथा ग्रामेषु यदुचितं तदेव नगरेषु आ्रम्यम्। एवं कुलजेषु परिभवस- हत्ादिको व्यवहार:, असौम्य आकारः, विकृतो वेषः, वितर्थ वचनमनुचिता- नि। जातौ तु ब्राह्मणादीनां निजनिजजाति विहितव्यवहाराकारवेषवचनान्युचितानि तदन्यथा लनुचितानि। पुरुषेषु शूद्रवजमन्नपाकादिको व्यवहारः, स्थूलस्तनश्म- श्रुरहितं च रूपमाकारः, कौसुम्भवस्त्रं काचाद्याभरणं च वेषः, समन्मथादिवच- नमनुचितम्। स्त्रीषु तदेवोचितम् । एवमन्येषामपि। तथा विद्यायां पण्डितेषु शस्त्रग्रहणपूर्वको व्यवहार:, सव्याधिवपुराकारः, उद्धटो वेषः, असंस्कृतवचनमनुच्ि- तानि। मूर्खेषु तान्येवोचितानि। वित्ते धनिनां दानोपभोगरहितो व्यवहार:, दुःस्पर्शा- दिराकार:, मलिनवस्त्रादिको वेषः, दीनं वचनमनुचितानि। द्रमकेषु (?) तान्येवो- चितानि। वयसि वृद्धेषु सेवादिव्यवहारः, इन्द्रियपाटवादिराकारः, कुण्डलादिधारणं वेषः, समन्मर्थं वचनमनुचितानि । तरुणेषु तान्येवोचितानि। स्थाने राज्ञां सक्ोधलो- भादिको व्यवहारः, निर्लक्षण आकार:, कुण्डलादिरहितो वेषः, परुषं दीनं वचनमनु- चितानि। एवं पात्रेषु यानि भीमसेने व्यवहारादीन्युचितानि तान्येव युधिष्ठिरे आम्याणी- त्यादि। एतत्तु आ्म्यत्वमन्यथोक्तिपरिहारेण न परिहृतम् ॥ अथात्रैव दिक्प्रदर्शनार्थमाह- प्रागल्भ्यं कन्यानामव्याजो मुग्घता च वेश्यानाम्। वैदग्ध्यं ग्राम्याणां कुलजानां धौर्त्यमित्यादि॥ १० ॥ प्रागल्भ्यमिति। कन्याशब्देन नवोढा लक्ष्यते । कन्यानां नवोढाङ्गनानां प्रागल्भ्य वैयात्यम्। तथा वेश्यानां पण्यस्त्रीणामव्याजमकृत्रिमं मौग्यम्। तथा आम्याणां वैद- गध्यम्। तथा कुलीनानां धूर्तत्वमनुचितम् । ग्राम्यमित्यर्थः ॥

Page 146

११ अध्याय: ] काल्यालंकारः। १४३ ततश्च किमित्याह- एतद्विज्ञाय बुघैः परिहर्तव्यं महीयसो यल्ञात्। नहि सम्यग्विज्ञातुं शक्यमुदाहरणमात्रेण ।। ११ ।। एतदिति। एतद्राम्यत्वं विशेषेण ज्ञाला महीयसो यत्नादादरेण परिहर्तव्यम्। महा- कवयो यत्र मुह्यन्तीत्यतो महीयसो यत्रादित्युक्तम्। तर्द्युदाहरणानि किमेतेषु नोच्यन्त इत्याह-नहीत्यादि। यस्मादुदाहरणमात्रेण न यथावद्विज्ञातुं शक्यते। ततः खधिया विज्ञाय यथा आ्रम्यत्वं न भवति तथा प्रयोज्यम्। यथा-'व्याहृता प्रतिवचो न संदघे गन्तुमैच्छदवलम्बितांशुका। सेवते स्म शयनं पराख्ुखी सा तथापि रतये पिनाकिनः॥।' तथा-'उपचरिताप्यतिमात्रं प्रकटवधू: क्षीणसंपदः पुंसः । पातयति दशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥' एवमादि ॥ अथ विरस :- अन्यस्य यः प्रसक्ने रसस्य निपतेद्रसः क्रमापेतः । विरसोऽसौ स च शक्यः सम्यग्ज्ञातुं प्रबन्धेभ्यः ॥१२ ॥ अन्यस्येति। रसान्तरप्राप्तौ सत्यां यो रसः शक्गारादिः निपतति स विरसोऽर्थदोषः । ननु सर्वरसयुक्ततान्महाकाव्यस्य रसान्तरापातोऽभ्युपगत एव। तत्कथमत्र विरसो- र्थदोष इत्याह-क्रमापेतः प्रसङ्गविरुद्धः । यस्य रसस्य तत्रानवसरः स दुष्ट इत्यर्थः । किमत्रोदाहरणभित्याह-स चेत्यादि। चो हेतौ। यस्मात्स विरसोऽर्थदोषः प्रबन्धेभ्यो महाकाव्यादिभ्यः सम्यग्विज्ञातुं शक्यते। अत इह नोदाहृत इत्यर्थः ॥ सूचीमात्रमाह- तव वनवासोऽनुचितः पितृमरणशुचं विमुञ्च किं तपसा। सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ १३ ॥ तवेति। हयग्रीवसुतो नरकासुरानयनाय तत्पुरीं गतः, तत्र च हरिहतं नरकासुर जनेभ्यः श्रुला तत्सुतां च पितृमरणदुःखेन वनगतां बुद्धा समाश्वासनाय गतः, तत्र दृष्टा च तां सकाम: सन्नाह-तव वनवास इत्यादि। पातनिकयैव गतार्थम्॥ प्रकारान्तरमाह- यः सावसरोऽपि रसो निरन्तरं नीयते प्रबन्घेषु। अतिमहतीं वृद्धिमसौ तथैव वैरस्यमायाति ॥ १४ ॥ य इति। यः काव्यादौ क्वापि प्रस्तुतो रसो नैरन्तर्येंण महतीं वृद्धिं नीयते स श्रो- तृणां वैरस्यमावहतीति विरसो भवति। अत्र वेणीसंहारषष्ठोऽङ्को निदर्शनम्॥ अथ तद्वान्- यो यस्याव्यभिचारी सगुणादिसतद्विशेषणं क्रियते। परिपूरयितुं छन्दो-यत्र स तद्वानिति ज्ञेयः॥ १५॥

Page 147

काव्यमाला।

य इति। यो गुणादिर्यस्य पदार्थस्याव्यमिचारी नित्यस्थः स गुणादिस्तस्य विशेषणतया यत्र क्रियते स दोषसतद्वानिति ज्ेयः। यद्यव्यमिचारी तहि किमर्थ क्रियत इत्याह- परिपूरयितुं छन्दः । तस्य हि छन्दःपूरणमात्रमेवार्थ इति॥ उदाहरणम्- क्क नु यास्यन्ति वराकास्तरुकुसुमरसैकलालसा मधुपाः। भस्मीकृतं वनं तह्दवदहनेनातितीव्रेण ॥ १६॥ क्ेति। अत्र दवदहनस्यातितीव्रेणेति विशेषणं छन्दःपूरणार्थमेव। तत्राव्यमिचारा- दिवि। अथातिमात्र :- अतिदूरमतिकान्तो मात्रां लोकेऽतिमात्र इत्यर्थः । तव विरहे हरिणाक्ष्याः प्ावयति जगन्ति नयनाम्वु ॥ १७॥ अतिदूरमिति। योऽर्यों लोकप्रसिद्धां मात्रां परिणाममतिदूरमत्यर्थमतिक्रान्त उह्लड्ितः सोपतिमात्रोऽर्थदोषः । उदाहरणम्-तवेत्याद्युत्तरार्धम्। अत्राश्रुलक्षणोऽर्यो मात्रां अयक्तवान्। परा ह्यश्रूणां भूयस्ा यद्दखार्द्रीकरणम्। न तु प्रलयजलदवज्जगतलावनम् । अथ यत्पूर्वमुक्तम् 'तत्कारणमन्यथोक्तौ च' (११। १) इति तदाह- अत्यन्तमसंबद्धं परमतमभिधातुमन्यदल्लिष्टम्। संगतमिति यद्रयात्तत्रायुक्तिन दोषाय ॥ १८ ॥ अत्यन्तमिति। असंबद्धार्थता महान्दोषः। तस्यापवादोऽयम्। यत्र परकीयं मतमतिश- येनासंबद्धं प्रतिपादयितुमन्यदात्मीयमर्लिष्टमसंबद्धमर्थ वक्ता वक्ति तत्रायुक्तिरसंगतता न दोषाय। अथ कथं तेनासंबद्धेन परमतस्यासंबद्धता प्रतिपाद्यत इत्याह-संगतमिति। इतिर्हेतौ। यतस्तस्यासंबद्धस्याश्ठिष्टमेव संगतं सदशतया दर्शयितुम्॥ उदाहरणम्- किमिदमसंगतमस्मिन्नादावन्यत्तथान्यदन्ते च। यलेनोप्ता माषाः स्फुटमेते कोद्रवा जाताः ॥l १९ ॥ किमिदमिति । कश्विदसंबद्धं परवचनं क्षिपब्राह-अस्मिन्वस्तुनि किमिदमसंगतं भवतोच्यते। कुतः। आदौ प्रारम्मेऽन्यत्तथान्ते च निर्गमे चान्यदिति। किमिवासंभव- मिति तत्सदृशमाह-यथा माषा उप्ाः कोद्रवाश्रोत्पज्ञा इत्संबद्धम्, एवं तवापि वचन- मित्यर्थ: ॥ भूयोऽप्याह- अभिधेयस्यातथ्यं तद्नुपपन्नं निकामसुपपन्नम्। यत्र स्युर्वक्तृणामुन्मादो मौर्खूर्यमुत्कण्ठा ॥ २०॥

Page 148

११ अध्याय: ] काव्यालंकार: । १४५

अभिधेयस्येति । यत्र वक्तुरुन्मादो मौर्ख्र्यमुत्कण्ठा च दोष: स्वाशत्रातथ्यमयथार्थ- तानुपपन्नापि निकाममतिशयेनोपपन्ना युका। स्वस्थस्य ह्वयन्यथावचनं दोषाय। उन्म- त्तादीनां तु तदेव भूषायै ।। एतदुदाहरणानि यथाकममाह- भुक्ता हि मया गिरय: स्नातोऽहं वहिना पिबामि वियत्। हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यामि ॥ २१ ॥ भुक्ता इति। इत्युन्मादे ।। किं मां ज्वीषि मूर्ख पश्येदं शिशिरमेव ननु तिमिरम्। सुखादुरयं गन्धस्तमसा त्वेनं न पश्यामि ॥ २२ ॥ किमिति। इति मौख्ये।। हे हंस देहि कान्तां सा मे भवता हृतेति किं मिथ्या। ननु गतिरियं तदीया वाणी सैवेयमतिमधुरा ॥ २३॥ हे इति। इत्युत्कण्ठायाम्। अन्न गिरिभोजनं वहिस्तानमाकाशपानमजादिपुत्रत्वं च, तथा तिमिरस्य शीतललम्, गन्धस्य सुखादुत्वम् , तस्य चान्धकारेण दर्शनम्, तथा हंसेन

एवं सर्वार्थालंकारसाधारणान्दोषानभिधायेदानीं केवलोपभादोषानाह- सामान्यशब्दमेदो, वैषम्यमसंभवोSप्रसिद्धिश्व। इत्येते चत्वारो दोषा नासम्यगुपमायाः ॥ २४॥ सामान्येति। औपम्यमेदस्योपमाया इत्येते सामान्यशब्दभेदादयश्चलारो दोषाः। ते न नासम्यक्। अपि तु स्फुटा एव। अन्र च स्रूपोपादाने सत्यपि चत्वार इति ग्रहणाद्यन्मेधाविप्रमृतिमिरुक्तं यथा-"लिज्नवचनभेदौ हीनताधिक्यमसंभवो विपर्ययो- 5सादश्यमिति सप्तोपमादोषाः। तत्र लिग्गवचनमेदावन्योन्यमुपमानोपमेययोः। यथा- 'भक्षिता: सक्तवी राजञ्युद्धा: कुलवधूरिव। परमातेव निःल्ेहाः शीतलाः परकार्य- वत् ।।' उपमेयादुपमानस्य यत्रोनानि विशेषणानि सा हीनता । यथा-'स मारुताक- म्पितपीतवासा बिश्रत्सलीलं शशिभासि शङ्कम् । यदुप्रवीर: प्रगृहीतशार्: सेन्द्रायुधो मेघ इवावभासे i।' एवं यत्रोपमेयादुपमानस्यायिकानि विशेषणानि तदाधिक्यम्। यथा-'स पीतवासाः प्रगहीतशार्ङो मनोन्यभीमं (?) वपुराप कृष्णः। शतहदेन्द्रायुध- वाणिशायां संसज्यमान: शशिनेव मेघः ॥I' अत्रोपमाने मेघे शशियोगोऽधिकः । यत्र विनैव यद्यर्थमसंभवद्विशेषणमुपमानं कियते सोडसभवः। यथा-'निपेतुरास्यादिव तस्य गीसता: शरा धनुर्मे डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्वभाज: परि- वेबिणोऽर्कोत् ।I' नहि वारिधाराणामयदर्थ जाज्वल्यमानत्वं रविविम्बाद्वा दारिधारापतन

Page 149

१४६ काव्यंमाला।

सैभवति। यत्रोपमेयाद्धीनमुत्कृष्टं वोपमानं क्रियतेऽसौ विपर्ययः। तत्र हीनं येथा- 'स्फुरन्ति निखिला नीले तारका गगने निशि। भास्करामीशुसंस्पृष्टाः कृमयः कर्दमे यथा ।।' उत्कृष्टं यथा-'अयं पद्मासनासीनश्चकवाको विराजते। युगादी भगवान्त्रह्मा विनिर्मित्सुरिव प्रजाः ॥' यत्रोपमानोपमेययोः साम्यं नास्ति तदसादृश्यम्। यथा- 'वनेऽथ तस्मिन्वनिताविहारिणः प्रमिन्नदानार्द्रकटा मतज्जंजाः। विचित्रवर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्हाः॥' अत्र न किंचिदन्तिनां मयूराणां च ग्रहैः सारू प्यमस्तीति"। तदेतन्निरस्तम्। यतश्रवार एवामी संग्राहका भेदाः। न त्वन्ये। तथाहि सामान्यशब्दमेदं विना लिङ्गवचनभेदमात्रं न दुष्टम्। इह हि का दुष्टता। यथा-'अ- न्यदा भूषणं पुंसः क्षमा लजजेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥' किं च लिङ्गवचनमेदे दोषत्वेनाश्रीयमाणे कालकारकविभक्तिमेदा नाश्रिताः । सामान्यश- ब्दभेदे तु तेऽपि संगृहीताः । तथा हीनताधिक्ये चोपमानोपमेयसाम्याभावाद्दोषत्वेनाश्रिते परेण। तत्र च वैषम्यमेवोभयदोषसंग्राहकमेकमुक्तमस्मामिः । तथा योऽपि हीनताधि- क्यविशिष्टो विपर्यय उक्तः सोऽपि न तावन्मात्रेण दोषहेतुः । अतिप्रसज्गात्। अपि लप्र- सिद्धित एव। अन्यथा हि निन्दास्तुती यत्र चिकीर्षिते भवतस्तन्रापि यथाक्रमं निकृष्ट- स्योत्कृष्टस्य चोपमानस्य दुष्टत्वं स्यात् । यथा-'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन। निशि चण्डाल इवाय मारयति वियोगिनीश्चन्द्रः ॥' स्तुतौ यथा-'जिला सपन्नानुक्षायं धेन्वा सह विराजते। यथा क्षपितदैत्येन्द्रः श्रिया साक जनार्दनः ॥' न चात्र काचिददुष्टता। यस्तर्थो यत्रोपमानत्वेन न प्रसिद्धः स सादृश्ये सत्यपि न कर्तव्यः। तथाहि सिंहादधिकोऽपि शरभः शौर्येणोपमानं न केनचित्रिबद्धः । असादृश्यस्य तु दोष- त्वेऽप्युपमानलक्षणेनैव निरस्तत्वादिहोपादानमनर्थकम्। को हि ज्ञातोपमालक्षणः साद- श्याभावे उपमां कुर्वीत । तस्मादेतन्निरासाच्चलार एवामी दोषाः, न तु सप्तेति स्थितम्। अत एव नासम्यगित्युक्तम् ॥ इदानीमेतेषामेव दोषाणां लक्षणमाह- सामान्यशब्दभेद: सोडयं यत्रापरत्र शक्येत। योजयितुं नाभमं तत्सामान्याभिधायिपदम् ॥ २५॥ सामन्येति। सोडयं सामान्यशब्दभेदाख्यो दोषः, यत्र तयोरूपमानोपमेययोः सामा- न्यवाचिपद यावन भमं तावदपरत्रोपमाने योजयितुं वाचकीकर्तु न शक्यते।। अथ सामान्यामिधायिपदमेदे हेतुमाह- तल्िञ्ञकालकार कविभक्तिवचनान्यभावसद्भावा्। उभयोः समानयोरिति तस्यां भिद्येत किंचितु ॥ २६ ॥ तदिति। तत्सामान्याभिधायिपदं लिग्वादीनामन्यथात्वाद्वेतोस्तस्यामुपमायां भिद्येत। चनु तर्हि वैषभ्यमेवेदं तत्किमस्य पृथक्पाठेनेत्याह-उभयोरुपमानोपमेययोः। समानयो-

Page 150

११ अध्याय: ] काव्यालंकारः । १४७

रिति। वैषम्ये पुनरुमे अप्यसमाने ते। तर्हि लिज्वादिमेद एव स्वरूपेण कि नोकत इत्याह-मिद्येत किंचिन्तु। तुरवधारणे। तत्सामान्याभिंधायिपदं लिग्गादि मेदेऽपि किं- चिदेव भिद्यते, न सर्वम्। ततो यत्रैव तस्य भेदखन्नैव दोषः, न सर्वत्र ॥ एतदुदाहरणानि यथाक्रममाह- चन्द्रकलेव सुगौरो वात इव जगाम यः समुत्सृज्य। दहतु शिखीव स कामं जीवयसि सुधेव मामालि ॥ २७॥ चन्द्रकलेति। काचिद्विरहिणी सखीं त्रूते-आलि सखिर, यथा चन्द्रकला सुगौरी तथायं सुगौरः । इति लिङ्मेदे। यथा वातो गच्छति तथा मां समुत्सज्य यो जगाम। हति कालमेदे। भूतकालो वर्तमानेन भग्नः सन्नुपमाने योज्यते। दहतु शिखीव स कामम्। इति कारकमेदे। विधिविशिष्टो हि कर्ता कर्तृमात्रेण शिखिनोगमितोऽत्र। जीवयसि सुधेव मामालि। इति विभक्तिमेदे। मध्यमपुरुषो हि प्रथमपुरुषेण विपरिण- म्योपमाने योज्यते। कुवलयदलमिव दीर्घे तव नयने इत्ययं तु सुव्यक्तः। युक्त्या तावददोषो विद्वद्धिरपि प्रयुक्तश्र ॥ २८ ॥। कुवलयेति। कुवलयदलमिव दीर्घे तव नयने। इति वचनमेदे। दीर्घे इति द्विवच- नान्तं हेकवचनान्तं कृला योज्यते। नन्वेवं लिङ्गादिमेदे दोषीकृते महाकविलक्ष्यम् 'तां हंसमाला: शरदीव गग्गाम्' इत्यादिकं कालादिमेदस्य विद्यमानत्ात्प्रायशः सवमेव दूष्यत इत्याह-इत्ययं त्वित्यादि। तुरवधारणे । युक्त्या तावदयं सुव्यक्त एव दोषः। ततो- इस्माभिरुक्तः। उक्त च पूर्वमेव 'काव्यालंकारोऽयं अ्रन्थः कियते यथायुत्ि (१।२) इति। विद्वद्भिरपि प्रयुक्तश्वेत्यनेन दोषस्याप्यपरिहार्यतामाह॥ वैषम्यमाह- अकृतविशेषणमेकं यत्स्यादुभयोस्तदन्यवैषम्यम्। संभवति कल्पितायामुत्पाद्यायां च नान्यत्र ॥ २९।। अकृतेति। उभयोरुपमानोपमेययोर्मध्यादेकमुपमानमुपमेयं वा निर्विशेषणं भवेत्तद- स्याकृतविशेषणस्य कृतविशेषणेन सह वैषम्यम्। तच्च कल्पितायामुत्पाद्यायां चोपमायां संभवति॥ विपरीतरते सुतनोरायस्ताया विभाति मुखमस्याः । श्रमवारिबिन्दुजालकलाञ्छितमिव कमलमुत्फुल्लम् ॥ ३०॥ विंपरीतरत इति। इवशब्दो मिन्नकमे। कलस्योपमानस्य न किंचिदवश्यायजलकण- निकुरम्बाश्चिततादिकं कृतम्। कल्पितोपमेयम् ।।

Page 151

१४८ काव्यमाला।

उत्पाद्यामाह- मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततसेन। विपरीतरते सुतनोरुपमीयेताननं तस्याः ॥ ३१॥ मुक्ताफलेति। अत्रोपमानरयेन्टुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम् न तु मुखस्योपमेयस्य श्रमवारिकणचितलवादि ॥ अथासंभव :- उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात्। संभूतमयद्यर्थ विज्ञेयोऽसंभवः स इति ॥ ३२ ॥ उपमानमिति। स इत्यनेन प्रकारेणासंभवो नाम दोषः । यत्रोपमानमसंभवत्तद्विशे- षणमसभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात्। ननु तर्हि 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्ठमस्थम्' इत्यायपि दुष्ट स्यादि- त्याह-अयदयर्थम्। यद्यर्थविकलं यदि करियते। सयदर्थे तुन दोषः ॥ उदाइ णमाह- तनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या। अजलप्रकृतिरदूरस्थितमित्रा गगननलिनीव ॥ ३३ ॥ सुतनुमति। अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम्। परं यदि गगने नलिनी संभवेत्तदा तन्वीसदशी भवेद्। अतो यद्यर्थ विना दुष्टता ॥ अथाप्रसिद्धि :- उपमानतया लोके वाच्यस्य न तादशं प्रसिद्धं यत्। क्रियते यत्र तदुत्कटसामान्यतयापसिद्धि: सा ॥ ३४॥ उपमानतयेति। यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थसयोपमानतया न प्रसिद्धमथ च तथा क्रियते सा प्रसिद्धिर्दोषः । कदाचिद्वाच्येन सह विसदशं स्यादथवा तादृशं तुल्य- मपि यदि न प्रसिद्धं कथ क्रियत इत्याह-उत्कटसामान्यतया। अतिसादृश्यादित्यर्थः ॥ उदाहरणमाह- पद्मासनसंनिहितो भाति ब्रह्मेव चक्रवाकोडयम्। श्वपचश्यामं वन्दे हरिमिन्दुसितो बकोऽयमिति॥ ३५॥ पद्मेति। इह ब्रह्मकेशवचन्द्राणां कमेण पद्मासनत्वेन श्यामत्वेन सितर्वेन च चक्रवा- कश्चपचबकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः। यत्र तु प्रतिद्धित्तत्र भवलेव। यथा-नभामि शंकर काशसंकाशं शशिशेखरम्। नमो नुताय गीर्वाणैरलिनीलाय वि- ष्णवे ।।' इत्यादि। ननु कथम् 'भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि। कय न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाभिरुच्छिखः ॥' इत्यादिष्वौपम्यम्।

Page 152

१२ अध्याय: ] काव्यालंकारः। १४९ अत्र ह्ेकत्र विधिरपरत्र निषेधः । यथा शमीतरुमनिर्दहत्यैवं ला मन्युः कर्थ न दह- तीति। सत्यम्। प्रथममौपम्ये विहिते पश्चादुपमेयप्रतिषेधे न किंचिदनुपपन्नम्। केचित्तु व्यतिरेकोऽयमित्याहुः॥ अथ सर्वमेव शास्त्रोक्तमुपसंहरत्राह- शब्दार्थयोरिति निरूप्य विभक्तरूपा- न्दोषान्गुणांश्र निपुणो विसृजन्नसारम्। सारं समाहितमनाः परमाददानः कुर्वीत काव्यमविनाशि यशोऽिगन्तुम् ॥। ३६॥ शब्दार्थयोरिति। इति पूर्वोक्तेन युक्तिमता प्रकारेण शब्दार्थयोर्दोषान्गुणांश्च निपुणः प्रवीण: कविर्निरूप्य पर्यालोच्य। किंभूतान्। विभक्तरूपान्विभागेन स्थितरूपान्। शब्दस्य हि वकोक्त्यादयः पञ्च गुणाः । दोषास्तसमर्थादयः षट। अर्थस्य पुनर्गुणा वास्त- वादयश्चलारः। दोषास्तपहेतुलादयो नव। ततश्वासारं दोषान्विसजन्, परमुत्कृष्ट सा- रमलंकारानाददानो गृह्नन्। किंभूतः सन्। समाहितं सावधानं मनो यस्य स तथाविधः । अनवधाने हि महाकवीनामपि स्खलितं भवति। किमर्थ पुनरेवं कुर्वीतेत्याह-अविना- श्यविनश्वरं यशः प्रापुमिति। अत्र च वास्तवादीनां चतुर्णामपि ये सहोक्तादयः प्रभेदा उक्तासे बाहुल्यतो न पुनरेतावन्त एव। उक्तं च 'न हुघटु इताणअवही नयने वीसन्ति कहवि पुणरुत्ता। जेवि सनापियआणं अत्था वा सुकइवाणीए ।।' ततो यावन्तो हृदया- वर्जका अर्थप्रकारास्तावन्तोऽलंकाराः । तेनेत्यादयपि सिद्धं भवति यथा-क्षान्तं न क्षमया गृहोचितसुखं त्यक्त न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्ं तपः। ध्यातं वित्तमहर्निशं नियमितप्राणैन शंभो: पदं तत्तत्कर्म कृतं परानतिपरैसतैस्तः फलैर्व- च्वितम्'॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत एकादशोऽघ्यायः समाप्तः ।

द्वादशोऽध्य य: ननु काव्यकरणे कवे: पूर्वमेव फलमुक्तम्, श्रोतृणां तु किं फलमित्याह- ननु काव्येन क्रियते सरसानामवगमश्चतुर्वर्गे। लघु मृदु च नीरसेऽभ्यस्ते हि त्रस्यन्ति शास्त्रेश्यः ॥ १॥ नन्विति। ननुशब्द: पृष्टप्रतिवचने। काव्येन हेतुना चतुर्वरगे धर्मार्थकाममोक्षलक्ष- णेSवगमोऽवबोध: करियते। ननु तत्र धर्मादिशास्त्राण्येव हेतुरस्ति, कि काव्येनेलयाह- लघु मृदु चेति क्रियाविशेषणम्। श्ीघ्रं कोमलोपायं च यथा भवतीत्यर्थः । तथापि धर्मादिसारसंग्रहशास्त्रेभ्यो लघु मृदु च भविष्यतीलाह-सरसानां शज्ञारादिप्रियाणाम्।

Page 153

१५० काव्यमाला। धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतील्याह-नीरसेभ्यः शास्त्रभ्यो हिर्यस्मात्ते सरसा- स्रस्यन्ति विभ्यति॥ ततः किमित्याह- तस्मात्तत्कर्तव्यं यलेन महीयसा रसैर्युक्तम्। उद्देजनमेतेषां शास्त्रवदेवान्यथा हि स्यात् ॥ २ ॥ तस्मादिति। गतार्थम्। नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमिति नास्य सर्वजनीनत्वं स्यात्। नैष दोषः। सरसानां प्रवृत्त्युपाय एषोऽस्मामिरुक्तः, न तु नीरसप्रवृत्तिनिषेध: कृत इति। तेऽपि प्रवर्तन्त एव। अथालंकारमध्य एव रसा अपि किं नोकाः। उच्यते-काव्यस्य हि शब्दार्थौ शरीरम्। तस्य च वक्रोक्तिवास्तवादयः कटककुण्ड लादय इव कृत्रिमा अलंकाराः। रसास्तु सौन्दर्यादय इव सहजा गुणाः इति मिन्नस्तत्प्रकरणारम्भ: ॥ अथ क एते रसास्तानेवोद्दिशति- शृङ्गारवीरकरुणा बीभत्सभयानकाद्ता हास्यः । रौद्रः शान्तः प्रेयानिति मन्तव्या रसाः सर्वे ॥ ३ ॥ शज्वारेति। गतार्थ न वरम्। शुक्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः । इति- शब्द एवंप्रकारार्थः । एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्यः । तत्र रत्यादयः स्थायिनः । निर्वेदादयो व्यमिचारिणः । स्तम्भादयः सा- त्विकाः। तथथा-'रतिर्हासश् शोकश कोधोत्साही भयं तथा। जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः ॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्पृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापरमार एव च। सुप्तं प्रबोधोऽमर्षश्वाप्यवहित्थस्तथोग्रता। मतिर्व्या- धिस्तथोन्मादस्तथा मरणमेव च॥ त्रासश्चैव वितर्कश्र विज्ञेया व्यमिचारिणः। त्रय- स्रिरिंशदिमे भावा: समाख्यातास्तु नामतः। स्तम्भः स्वेदोऽथ रोमान्चः खरमेदोऽथ वैपशुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विकाः स्मृताः ॥' तत्र शङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति। निर्वेदभयस्तम्भादयस्तु सर्वेष्विति।। ननु कर्थ तहि निर्वेदादयो रसतां यान्तीत्याह- रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः । निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः।४॥ रसनामिति। आचार्यैर्भरतादिमिरेषां स्थायिभावानां रसनादाखादनाद्वेतो रसलमु- कम्। केषामिव। मधुराम्लादीनामिव। मधुरादयो ह्याखाद्यमानाः सन्तो रसतां या- न्तीति। उक्त च-'अनेकद्रव्यसंयुक्तैर्व्यज्ञनैर्बहुमिश्चितम्। आखादयन्ति भुजाना भक्तं भक्तभुजो यथा । भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान्। आखादयन्ति मनसा

Page 154

१२ अध्याय: ] काव्यालंकारः। १५१

तस्मान्नाव्ये रसा: स्मृताः ॥' स्यादितत् । स्थायिभावानामेव रसनं भविष्यतीत्याह- निर्वेदादिष्वपि तद्रसनं निकाममस्तीति हेतोसेऽपि रसा ज्ेयाः। यस्य तु परिपोष न गतास्तस्य भावा एव ते अयमाशयो अ्न्थकारस्य-यदुत नारिति सा कापि चित्तवृ- त्तिर्या परिपोषं गता न रसीभवति। भरतेन सहृदयावर्जकत्वप्राचुर्यात्संज्ञां चाश्रित्याष्टौ नव वा रसा उक्त्ता इति।। अथ शृङ्कारलक्षणम्- व्यवहारः पुंनार्योरन्योन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा संभोगो विप्रलम्भश्च ॥ ५ ।। संभोग: संगतयोर्वियुक्तयोर्यश्र विप्रलम्भोडसौ। पुनरप्येष द्वेधा प्रच्छन्नश्च प्रकाशश्र ॥ ६ ॥ व्यवहार इति। संभोग इति गतार्थ न वरम्। मातृसुतयोः पितृदुहित्रोर्भ्रातृभ- गिन्योः शृङ्गारनिवृत्त्यर्थ रक्तयोरिति पदम्। रतिः कामानुविद्धा प्रकृतिः कारणं यस्य। अथ शृङ्गारभेदव्याख्या संभोग इत्यादिका। पुनरप्येष इत्यादिना प्रभेदकथनम् ॥ शृङ्गारश्च नायकाश्रय इति तस्य गुणानाह- रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुख्मानी। अग्राम्योज्ज्वलवेषो ऽनुल्बणचेष्टः स्थिरप्रकृतिः॥७॥ सुभग: कलासु कुशलस्तरुणस्त्यागी प्रियंवदो दक्षः । गम्यासु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥ ८ ॥ युग्मम् ॥ रत्युपचार इति। सुभग इति। सुगमम् । एतैः षोडशमिर्गुणैर्युतो नायकः स्त्रीणाम-

अथैवंगुणस्यास्य भेदान्सलक्षणानार्याचतुष्टयेनाह- एवं स चतुर्घा स्यादनुकूलो दक्षिण: शठो धृष्टः । तत्र प्रेम्णः स्थैर्यादनुकूलोऽनन्यरमणीकः ॥ ९ ॥ खण्डयति न पूर्वस्यां सद्धावं गौरवं भयं प्रेम। अभिजातोऽन्यमना अपि नार्या यो दक्षिणः सोऽयम् ॥ १०॥ वक्ति प्रियमभ्यधिकं यः कुरुते विप्रियं तथा निभृतम्। आचरति निरपराधवदसरलचेष्टः शठः स इति ॥११ ॥ कृतविप्रियोऽप्यशक्को यः स्यान्निर्भर्तिसतोऽपि न विलक्षः । प्रतिपादितेऽपि दोषे वक्ति च मिथ्येत्यसौ धृष्टः ॥१२॥

Page 155

१५२ काव्यमाला।

एवमिति। खण्डयतीति। वकतीति। कृतेति। गतार्थम् ।। अथ तस्य नर्मसचिवः क्रीडासहायो भवति, तस्य चाष्टी गुणाः। तानाह- भक्तः संवृतमन्नरो नर्मणि निपुण: शुचि: पटुवाग्मी। चित्तज्ञ: प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥१३॥ भक्क इति। गतार्थीर्या।। अथ तस्यैव भेदानाह- त्रिविध: स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु। नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्दोडन्र ॥ १४ ॥ विट एकदेशविद्यो विदूषकः कीडनीयकप्रायः। निजगुणयुक्तो मूर्खो हासकराकारवेषवचाः ॥ १५॥ त्रिविध इति विट इति। गतार्थमार्याद्वयम्।। अथ नायिकानां स्वरूपं भेदान्प्रभेदांश्व भेदप्रभेदखरूपं चाह- आत्मान्यसर्वसक्तासितिस्रो लज्जान्विता यथोक्तगुणाः । सचिवगुणान्वितसर्यस्तस्य स्युर्नायिकाश्चेमाः ॥ १६ ॥ शुचिपौराचाररता चरित्रशरणार्जवक्षमायुक्ता । आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च ।। १७।। सुग्धा तत्र नवोढा नवयौवनजनितमन्मथोत्साहा। रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च ॥ १८ ॥ तल्पे परिवृत्यास्ते सकम्पमालिङ्गनेऽङ्गमपहरति। वटनं च चुम्बने सा पृष्टा बहुशोऽस्फुट वक्ति ॥ १९ ॥ अन्यां निषेवमाणे सा कुप्यति नायके ततस्तस्य। रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च ॥ २० ॥ आरूढयौवनभरा मध्याविर्भूतमन्मथोत्साहा। उद्धिन्प्रागल्भ्या किंचिद्धृतसुरतचातुर्या ।। २१ ।। व्याप्रियते सायसा सुरते विशतीव नायिकान्वेषु। सुरतान्ते सानन्दा निमीलिताक्षी विमुद्यति च ।। २२ ।। कुप्यति तत्र सदोषे वक्रोक्त्या प्रतिभिनत्ति तं धीरा। परुषद वोभिरधीरा मध्या सासैरुपालम्मैः ॥२३॥

Page 156

११ अध्याय: ] काव्यालंकारः । १५३

लब्घायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा। आक्रान्तनायकमना निर्व्यूढविलासविस्तारा॥ २४॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याके। न च तत्र विवेक्तुमलं कोडयं काहं किमेतदिति॥ २५॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते। कोपमपहुत्यास्ते धीरा हि रहस्युदासीना ॥ २६॥ मध्या तु साधुवचनैस्तमीद्दशं प्रतिभिनति सोलुण्ठैः । ताडयति मङ्क्ष्वधीरा कोपात्संतर्ज्य संतर्ज्य ॥ २७॥ ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च। मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात् ॥ २८॥ दाक्षिण्यप्रेमभ्यां व्यवहारो नायकसय काव्येषु। दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो मेदः ॥ २९ ॥ परकीया तु द्वेधा कन्योढा चेति ते हि जायेते। गुरुमदनार्ते नायकमालोक्याकर्ण्य वा सम्यक् ॥ ३० ॥ साक्षाचित्रे खमे स्याद्दर्शनमेवमिन्द्रजाले वा। देशे काले भङ्गया साधु तदाकर्णनं च स्यात् ॥ ३१ ॥ द्रष्टुं न संमुखीनं कन्या शक्कोति नायकं हृष्टा। वक्तुं न च ज्रुवाणं वक्ति सखीं तं सखी चासौ ।। ३२ ॥। पश्यत्यवीक्षमाणं सुस्तिग्वस्फारलोचना सततम्। दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम् ॥ ३३ ॥ अनिमित्तं च हसन्ती सादरमाभाषते सखीं किमपि। रम्यं वा निजमझं सव्यपदेशं प्रकाशयति ॥ ३४ ॥ सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि। चेष्टां करोति विविधामनुल्चणैरङमड्गैर्वा ।। ३५ ॥ अन्योढापि तथैतत्स्व कुरुतेऽनुरागमापन्ना। नायकमभियुङ्के सा प्रगल्भभावेन पुरतश् ॥ ३६ ॥ १४ का०

Page 157

१५४ काव्यमाला। उद्धूतानन्दभरा प्रस्तुतजघनस्थलार्द्रवसना च। निःष्पन्दतारनयना भवति तदालोकनादेव। ३७।। कन्या पुनरभियुङ्गे न खयमेनं गतापि दुरवस्थाम्। सुस्निग्धा तदवस्थां सखी तु तस्ै निवेदयति ॥ ३८॥ सर्वाञ्चना तु वेश्या सम्यगसौ लिप्सते धनं कामात्। निर्गुणगुणिनोसतस्या न द्वेष्यो न प्रिय: कश्चित् ॥ ३९॥ गम्यं निरूप्य सा स्फुटमनुरक्तेवाभियुज्य रज्जयति। आकृष्टसकलसारं क्रमेण निष्कासयत्येनस् ।। ४० ।। आत्मेत्याद्यार्यापञ्चविंशतिः सुगमा न वरम्। आत्मीया परकीया वेश्या चेति मूलमे- दत्रयम्। आत्मीया च, मुग्धा मध्या प्रगल्भा चेति पुनस्न्नेधा। पुनश्च मध्याप्रगल्भयो- र्धीराधीरा मध्या चेति प्रत्येकं मेदत्रयम्। पुनश्च ज्येष्ठाकनिष्ठात्वेन मध्याप्रगल्भयोभें- दद्वयम् । मुग्धा त्वेकभेदैव । काव्येषु तथा प्रसिद्धेः'। अक्षतयोनितात्पुनर्विवाहिता पुनर्भू:। परकीया, कन्या परिणीता चेति द्विमेदा। वेश्या त्वेकरूपैवेति। तल्लक्षणं च सयं योजनीयमिति।। [ता एवाधीनपतिर्वासकसज्जाभिसारिकोत्का च। अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ।। यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्श्वे। विविधकरीडासक्ता साधीनपततिर्भवेत्तत्र ।। निश्चितदयितागमना सज्जितनिजगेहदेहशयनीया । ज्ञैया वासकसज्ा प्रियप्रतीक्षेक्षितद्वारा।। अभिसारिकेति सेयं लज्जाभयलाघवान्यनालोच्य। अभिसरति प्राणेशं मदनेन मदेन चाकृष्टा।। नोपगतः प्राणेशो गुरुणा कार्येण विभ्नितागमनः । यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का।। अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति। यस्या रुषेव दयितो गच्छत्यभिसंघिता सेयम् ॥ यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि। नायत्युपागतायां तस्पामिति विप्रलब्घेयम्।।

Page 158

१२ अध्याय: ] काव्यालंकार:। १५५

सेयं प्रोषिताथा यस्या दयितः प्रयाति परदेशम्। दत्त्वावधिमागमने कालं कार्यावसानं वा।। कार्यान्तरकृतविन्ो नागच्छत्येव वासकस्थायाः। तस्मिञ्जीवितनाथो यस्याः सा खण्डिता ज्ञेया॥ पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाघमाभेदात्। इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च॥ अपराघे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम्। स्न्िद्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया॥ आलोच्य दोषमल्पं कुप्यत्यघिकं प्रसीदति चिरेण। स्निग्धापि कारणेन च महीयसा मध्यमा सेयम् ॥ स्िह्यति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव। स्वल्पादप्यपकाराद्विरज्यते साधमा प्रोक्ता ।। संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः । भिन्नरहस्या व्यङ्गाः प्रन्नजिताश्च्ेत्यगम्याः स्यु: ॥ एताश्चतुर्दशार्या मूले प्रक्षिप्ताः ॥] अथ सर्वासामपि संविधानकवशाद्भेदान्तरमाह- द्वेघाभिसारिकाखण्डितात्वयोगाद्भवन्ति तासतासु। खीया खाधीनपतिः प्रोषितपतिका पुनर्द्वेधा॥ ४१॥ [द्वघेति]। ताः सर्वा अभिसारिकाः खण्डिताश् भवन्ति। अथात्मीयामेदान्त- रमाह-तासु खीया, खाधीनपतित प्रोषितपतिकात्वमेदतो द्वेधा। अभिसारिकाया लक्षणमभिसरणकमं चाभिधातुमाह- अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा। अभिसरति प्राणेशं कृतसंकेता यथास्थानम् ॥ ४२॥ काश्यादिरणत्कारं व्यक्त्तं लोके प्रयाति सर्वस्त्री। वृष्टितमोज्योत्सादिच्छन्नं खीया परस्त्री च ।। ४३।। इत्यायोदयं सुगमम् ॥ खण्डितालक्षणमाह- यस्या: प्रेम निरन्तरमन्यासङ्गेन खण्डयेत्कान्तः। सा खण्डितेति तस्याः कथाशरीराणि भूयांसि ॥ ४४ ॥

Page 159

१५६ काव्यमाला।

सुगमं न वरम्। तस्याः कथाशरीराणि भूयांसि। तेन विप्रलब्धाकलहान्तरिते अत्रान्तर्भूते। तल्लक्षणं चेदम् । यथा-'यस्या दूर्ती प्रियः प्रेक्ष्य दत्त्वा संकेतमेव वा। नागतः कारणैनेह विप्रलब्धा तु सा स्मृता ।। ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंतप्ता कलहान्तरिता मता ।' एवंविधानि संविधानकवशाङ्गयांसि कथाशरीराणि तस्या भवन्ति। ततश्र यदुक भरतेन। यथा-'तत्र वासकसज्जा च विरहोत्कण्ठितापि च। खाधीनभर्तृका चापि कलहान्तरिता तथा॥ खण्डिता वित्र- लब्घा च तथा प्रोषितभर्तृका। तथाभिसारिका चैव इत्यष्टौ नायिका: स्मृताः ॥' तद- न्रपि संगृहीतम् ।। खाधीनपतिप्रोषितपतिक योर्लक्षणमाह- यस्याः पतिरायत्तः क्रीडासु तया समं रतौ मुदितः । सा स्यात्खाधीनपती रतिमण्डनलालसासक्ा॥ ४५॥ सा स्यात्रोषितपतिका यस्या देशान्तरं पतिर्यातः । नियतानियतावधिको यास्यति यात्येत्युपैष्यति च॥ ४६ ॥ सुगमम्॥ अथाध्यायमुपसंहर जन्यथाकरणनिषेधमाह -- इति कथितमशेषं लक्षणं नायकाना- मनुगतसचिवानां हीनमध्योत्तमानाम्। अतिरसिकतयेदं नान्यथा जातु कुर्या- त्कविरविहतचेताः साधुकाव्यं विधित्सन् ॥। ४७॥ प्कटार्थमेव ।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो द्वादशोऽध्यायः समाप्तः ।

त्रयोदशोऽव्यायः। संभोग: संगतयोरिति वचनात्संपर्क एव नायकयो: शङ्गारो न त्वालोकनादीत्याश- शाह- अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ। आलोकनवचनादि स सर्वः संभोगशृक्गारः॥ १॥ अन्योन्यस्येति। नायकौ दंपती सचित्तौ तुल्यमानसौ यदालोकनवचगोद्यानविहार- पुष्पोच्चयजलक्ीडामधुपानताम्बूळसुरतादिकं परस्परसंबन्ध्यनुभवतः स सर्वः, न तु

Page 160

१३ अध्याय: ] काव्यालंकारः । १५७

निधुवनमात्रं संभोगशज्गार इति। प्रवासविप्रलम्भस्य संभोगराज्गारत्वनिषेधार्थमाह-इ- द्धमुदाविति। प्रमुदितावित्यर्थः ॥ अथास्य संभोगशङ्गारस्यानुभवमाह- तत्र भवन्ति स्त्रीणां दाक्षिण्यस्नेहसौकुमार्याणाम्। अविरोधिन्यश्रेष्टा देशे काले च सर्वासाम् ॥२ ॥ तत्रेति। सुगर्म न वरम्। दाक्षिण्यमनुव्ृत्तिः। स्नेह: प्रेम। सौकुमार्य मार्दवम्। देशो वनोद्यानादिः । कालो वसन्तसुरतादिः ॥ दयितचेष्टानुकारो नाम लीला स्त्रीणां भवतीति दर्शयितुमाह- दयितस्य सखीमध्ये चेष्टां मधुरैर्वचोभिरुचितैसताः। ललितैरञ्विकारैः क्रीडन्त्यो वानुकुर्वन्ति ॥ ३ ॥ दयितस्येति। सुगमम्।। तत्रापि तदनुकार्य यदनुकर्तुं शक्यते, न तूल्बणमपि। तदाह- अनुकार्य न तु नार्या यत्रेरणकर्म तत्परोक्षे सा। अनुकुर्वती विजद्यान्माघुर्य सौकुमार्य च ॥ ४ ॥ अनुकार्यमिति । सुगम न वरम्। तुरवधारणे। नैवेत्यर्थ: ॥ चेष्टान्तराण्याह- अपहारे वसनानां कुचकलशादिग्रहे रतान्ते च। अन्तर्निहितानन्दा पुरुषेषु रुषेव वर्तन्ते ॥ ५॥ अपहार इति। सुगमम् ।। समकालं निन्दन्ति त्रस्यन्ति हसन्त्यहेतु लज्जन्ति। अस्यन्त्यालिङ्गन्ति च दयितान्भूतैरिवाविष्टाः ॥६॥ समकालमिति। सुगमम् ।। पूर्वमुक्तम् 'ग्राम्यत्वमनौचितं व्यवहाराकारवेषवचनानाम्' ( ११।९) इति तत्कचि- ्साध्वेवेति दर्शयितुमाह- समये त्वरावतीनामपदेषु विभूषणादिविन्यासः । भवति गुणाय विभाविततात्पर्यलेरितादिरपि॥ ७॥ समय इति। सुगमम् ॥ अननुकूलाचरणं सर्वत्र दोषत्वेन प्रसिद्धम, तस्य विशेषगुणत्वभाइ- कुर्वन्ति प्रतिकूलं रहसि च यद्यत्प्रियं प्रति प्रमदाः । ततदुणाय तासां भवति मनोभूप्रसादेन ।। ८ ।।

Page 161

१५८ काव्यमाला।

कुर्वन्तीति। सुगमम् ॥ नवोढानां स्रूपमाह- दृष्टरा प्रियमायान्तं तन्मनसस्तेन संवदन्त्यो वा। मन्मथजनितस्तम्भाः प्रतिहतचेष्टाश्च जायन्ते ॥ ९ ॥ किमपि प्रियेण पृष्टास्तस्याथ ददत्यसंस्तुतस्येव। साध्वससादितकण्ठ्यः स्खलितपदैरुत्तरं वाक्यैः ॥ १० ॥ यत्किमपि रहस्यतमं कर्णे कथयेत्रियः सखीमध्ये। शृण्वन्ति स्फारदशस्तदुदितघनकण्टकखवेदाः ॥ ११॥ मदनव्याकुलमनसः सकलं तस्यार्थमनवगत्यैव । हुंकारं तदपि मुहुः कुर्वन्त्यवधारयन्त्य इव ॥ १२ ॥ दृष्ट्रेति। किमिति। यदिति। मदनेति। सुगमम् ॥। नवपरिणीता वध्वो यलादपनीय साध्वसं सान्ना। नीता अपि विस्म्मं रहः सुनिर्बन्धिमी रमणैः ॥१३ ॥ प्रेर्य प्रेर्य सखीमिर्नीयन्ते वासवेश्म दयितस्य। तत्संगमाभिलावे भूयसि लज्जाहतप्रसरे ॥ १४ ॥ (युग्मम) [नवेति। प्रेमेति सुगमम् ॥] ननु किमिति सखीभि: प्रार्थनया नीयन्ते नायकः कथ हठादेव न प्रवर्तयती ाह- सुकुमाराः पुरुषाणामाराध्या योषितः सवा तल्पे। तदनिच्छया प्रवृत्तः शृङ्गारं नाशयेन्मूर्खः ॥ १५ ॥ सुकुमारा इति॥ तस्माल्कि कर्तव्यमित्याह- वाग्मी सामप्रवणश्ाटुभिराराधयेव्नारीम्। तत्कामिनां महीयो यस्ाच्छृआारसवैखम् ॥ १६॥। वाग्मीति। सुगमम् । अध्यायमुपसंहरन्कवेरुपदेशनाह- सुकविमिरभियुक्तैः सम्यगालोच्य तत्त्वं त्रिजमति जनताया मत्वरूपं निबद्ूम्।

Page 162

१४ अध्याय: ] काव्यालंकारः । १५९

तदिदमिति समस्तं वीक्ष्य काव्येषु कुर्या- त्कविरविरलकीर्तिप्राप्तये तददेव॥ १७ ॥ सुकविभिरिति। सुगमम् ।। इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत- स्त्रयोदशोऽध्यायः समाप्तः ।

चतुर्दशोऽध्यायः । अथः संभोगं व्याख्याय विश्लम्भशज्वारं व्याचिख्यासुराह- अथ विप्रलम्भनामा शृङ्गारोऽयं चतुर्विधो भवति। प्रथमानुरागमानप्रवासकरुणात्मकत्वेन ।। १ ॥। अथेति। अथशब्द आनन्तर्ये। संभोगानन्तरम्। विप्रलम्भोडयं शज्गारश्रतुर्विधो भवति। कर्थ चतुर्विध इत्याह-प्रथमानुरागादय आत्मा स्वरूपं यस्य तद्भावस्तत्त्वं तेन हेतुना। प्रकारनिर्देशादेव चातुर्विध्ये लब्घे चतुर्विधग्रहणं चतुर्विधस्याप्यस्य शक्ञारत्वनि- यमार्थम्। चतुर्विधोऽपि शक्षार एवायम्। केचिद्धि करुणरस एव विप्रलम्भभेदं करुण- मन्तर्भावयन्ति। तदसत्। वैलक्षण्यात्। शुद्धे हि करुणे शज्ञारस्पर्श एव न विद्यते । करुणविप्रलम्भस्तु शक्ञार एव । यथा कालिदासस्य-'प्रतिपद्य मनोहरं वपुः पुनरप्या- दिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ।।' अथैषामेव यथाकमं लक्षणमाह- आलोकनादिमात्रप्ररूढ गुरुरागयोरसंप्राप्ती। नायकयोर्था चेष्टा स प्रथमो विग्रलम्भ इति ॥ २ ॥ आलोकनेति। सुगमम् ॥। ता एव काश्िच्चेष्टा आह- हिमसलिलचन्द्रचन्दनमृणालकदलीदलादि तत्रैतौ। दुर्वारस्मरतापौ सेवेते निन्दतः क्षिपतः ॥ ३॥ हिमेति। सुगमम् ॥ अथास्य सूचकानवस्थाभदानाह- आदावभिलाष: स्याच्चिन्ता तदनन्तरं ततः सरणम्। तदनु च गुणसंकीर्तनमुद्देगोऽथ प्रलापक्च ।। ४ ।। उन्मादस्तदनु ततो व्याविर्जडता ततस्ततो मरणम्। इत्थमसंयुक्तानां रकानां दश दशा जेयाः ॥ ५ ॥ (युग्ममू) आदाविति। उन्माद इति। सुगमम् । एताश् दशाः कादम्बरीकथायां प्रकटाः ।

Page 163

१६० काव्यमाला।

मरण तु केचित्रेच्छन्ति दशाम्। मृतस्य हि कीदशः शृह्ारः। यैरुक्तं ते तु मन्यन्ते। नवमीं दशा प्राप्तस्य निरुदमस्य मरणमेव दशमी दशा स्यात्। ततस्तामप्राप्ेन नायकेन तन्निषेधार्थ यतितव्यमिति दर्शनार्थ दशमी दशोक्ता ।। अथ कस्तत्र प्रयत्न इति प्रयत्नकममाह- अथ नायकोऽनुरक्तस्तस्यामर्जयति परिजनं तस्याः । उद्दिश्य हेतुमन्यं साम्ना दानेन मानेन ॥ ६ ॥ तस्य पुरतोऽथ कुर्वन्गृहीतवाक्यस्य नाथिकाविषयाम्। चिरमनुरागेण कथां खयमनुरागं प्रकाशयति ॥ ७॥ तदभावे प्रव्रजिता मालाकारादियोषितो वापि। उभयप्रत्ययितगिर: कर्मणि सम्यडियुङ्के च ।। ८ ।। तद्दारेण निवेदितनिजभावो विदितनायिकाचित्तः । त्वस्यति तामुपचारैः खावस्थासूचकै्लेखैः ॥ ९ ॥ सिद्धां च तां विविक्ते दष्ट्राथ कलाभिरिन्द्रजालैवा। योगैरसकृत्क्मशो विस्मापयति प्रसङ्गेषु ॥ १० ॥ गतार्थम् ।। यदा तु सा कन्या नानेन क्रमेण प्राप्यते तदा किमित्याह- मन्येत यदा नेयं कथमपि लभ्येत नायिका नाथात्। क्षीणसमस्तोपायः कन्यां स तदेति साधयति ॥ ११ ॥ मन्येतेति। सुगमं न वरम्। नाथाज्जनकादिकातू।। ननु कन्यायाः सीकारकमोपदेशो न दुष्टः, परदाराणां तु विरुद्ध एव महापापत्वादि- खत आह- नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्याः । कर्तव्यतयान्येषां न च तदुपायोऽभिधातव्यः ॥१२॥ किं तु तदीयं वृत्तं काव्याज्नतया स केवलं वक्ति। आराधयितुं विदुषस्तेन न दोष: कवेरत्र ।। ११ ।। (युग्मम्) नेति। किमिति। सुगसम् ।। जनु पारदारिकवृत्तार्यानमपि न युक्तमित्याह- सर्वत एवात्मानं गोपायेदिति सुदारुणावस्थः । आत्मानं रक्षिष्यन्मवर्तते नायकोऽप्यत्र ॥ १४ ॥

Page 164

१४ अध्याग: ] काव्यालंकारः । १६ सर्वत इति। यत्र शास्त्रे भणितं परदारा न गन्तव्यास्तत्रैवोकं सर्वत एवात्मानं गोपायेदित्यस्माद्वचनानायको Sप्यात्मरक्षार्थमत्र परदारेषु न प्रवर्तत इति।। प्रथमानुराग उक्कः। अथ मानमाह- मान: स नायके यं विकारमायाति नायिका सेरष्या। उद्दिश्य नायिकान्तरसंबन्धसमुद्धवं दोषम् ।। १५। मान इति। सुगमम् ॥ दोषस्यैव सारेतरविभागानाह- गमनं ज्यायान्दोषः प्रतियोषिति मध्यमस्तथालापः । आलोकनं कनीयान्मध्यो ज्यायान्स्यं हृढ्टः ॥ १६ ।। गमनमिति। सुगमम् ॥ दोषस्यैव लिज्ञान्याह- वसनादि नायकस्थं तदीयमार्द्रक्षतं च तस्याक्म्। दोषस्य तथा गमकं गोत्रस्खलनं सखीवचनम् ॥ १७॥ वसनादीति। सुगमम् ॥ अथासौ दोषो ज्ञातस्तस्याः किं कुरुत इत्याह- देशं कालं पात्रं प्रसङ्गमवगमकमेत्य सविशिष्टम्। जनयति कोपमसाध्यं सुखसाध्यं दुःखसाध्यं वा॥ १८॥ देशमिति। सुगमं न वरम्। यदि ज्यायांसो देशकालपात्रप्रसन्गा भवन्त्यसाध्यस्दा कोप: स्यात्। अथ मध्यास्तदा कृच्छसाध्यः । अथ कनीयांसस्तदा सुखसाध्य इति॥ अथ क एते देशादयो ज्यायांस इत्याह- ज्वलदुज्ज्वलप्रदीप कुसुमोत्करधूपसुरभि वासगृहम्। सौधतलं च सचन्द्रिकमुद्यानं सुरभिकुसुममरम् ॥ १९॥ इति देशा ज्यायांसो मधुरजनी स्मरमहोदयः कालः। पात्रं तु नायकौ तौ ज्यायो मध्याधमावुक्तौ ॥ २० ॥ (युग्मम्) ज्वलदिति। इतीति। सुगमं न वरम्। ताविति पूर्वोक्तनायकौ। तत्रानुकूलदक्षिणा- दिश्वतुर्धा नायकः। आत्मान्यसर्वसक्ताश् नायिकाः। तत्रानुकूलेन दक्षिणेन च नायकेन ज्यायस्या नायिकाया दोषः कृतोऽसाध्यः : शठेन घृष्टेन च ज्यायस्याः कृच्छ्साध्यः। शठेन च ज्यायस्या: सुखसाध्य इत्यादि चिन्तम् ॥ प्रस्ञ्गं ज्यायांसमाह- सकलसखीपरिवृत्तता रत्यभिमुखता च तत्प्रशंसा च। जायेत नायिकायां यत्र ज्यायान्प्रसङ्गोडसौ॥ २१॥

Page 165

१६२ काव्यमाल।

सकलेति। सुगमम्। मध्याधमौ तु प्रसज्नौ खयमुन्नेयौ॥ तत्र प्रत्यक्षदोषदर्शने परिहारो नारिति, लिग्गगम्ये त्वस्तीत्याह- परिहारो वसनादावन्यस्मादागमोऽन्यदिदमिति वा। परिहरतु कृतमस्मिन्न लक्ष्यते नायिकां रमयेत्ं ॥ २२॥ तदनु त्वत्कृतमिदमिति परिहार: पूर्वमेव वा सुरतम्। शब्दान्तरनिष्पत्तिर्गोत्रस्खलने तु केलिवा ॥ २३ ॥ अभियोज्यायां मयि वा कुपितेयमनेन हेतुना तेन । वक्ति सखी ते मिथ्या किलेति तद्वचसि परिहारः ॥ २४॥ परिहार इति। तदन्विति। अभियोज्यायामिति। सुगमम् ॥ अथ यतः कोपान्नायकाय कुरुते (?) तदाह- ज्यायोभि: सह दोषो ज्यायाञ्जनयत्यसाध्यमतिकोपम् । तस्मान्म्रियते सद्ो मनखिनी त्यजति वा पुरुषम् ॥ २५॥ ज्यायोभिरिति। सुगमम् ॥ अथास्याः कोपस्य साध्यासाध्यविभाग: कथ ज्ञेय इत्याह- दोषस्य सहायानामालोच्य बलाबलं समेतानाम्। बुध्येत कोपमस्याः सुखसाध्यं कृच्छ्साध्यं वा॥ २६ ॥ दोषस्येति। सुगमम्।। अथ जाते कोपे उपाया प्रयोक्तव्याः, क्ववाके प्रयोक्तव्याः, कथ वा प्रयोक्तव्या इत्येतदाह- साम प्रदानमेदौ प्रणतिरुपेक्षा प्रसङ्गविभ्रंशः। अन्रैते षडुपाया दण्डस्त्विह हन्ति शृङ्गारम् ॥ २७॥ दासोडस्मि पालनीयस्तवैव घीरा बहुक्षमा त्वं च। अहमेव दुर्जनोऽस्मिन्नित्यादि स्तुतिवचः साम ॥ २८॥ कालेऽलंकारादीन्दद्यादुद्दिश्य कारणं त्वन्यत्। बन्धुमहादिकमिति यत्तद्दानं साधु लुब्घासु ॥ २९ ॥ तस्या गृहीतवाक्यं परिजनमाराध्य दानसंमानैः । तेन सदोष: कोपे तां बोधयतीत्ययं भेदः ॥ ३० ॥ दैन्येन पादपतनं प्रणतिरुपेक्षावधीरणं तस्याः। सहसात्युत्सवयोगो अंशः कोपप्रसङ्गस ।। ३१ ।।

Page 166

१४ अध्याय: ] काव्यालंकारः । १६३

मृदुरत्र यथा पूर्व सर्वेषु यथोत्तरं तथा बलवत्। साध्येत यो न मृदुना बलवांस्तत्र प्रयोक्तव्यः ॥ ३२॥ सुगमम् ॥। अथ प्रवासमाह- यास्यति याति गतो यत्परदेशं नायकः प्रवासोऽसौ। एष्यत्येत्यायातो यथर्त्ववस्थोऽन्यथा च गृहान् ॥३३ ॥ यास्यतीति। सुगमं न वरम्। यथरत्ववस्थ इति ऋत्वनतिक्रमेणावस्था दशा प्रत्यातृ- त्तिव्यवस्था वा यस्य स तथाभूतः । अन्यथा चेति ऋतुविवक्षामन्तरेणेत्यर्थः ॥ अथ करुणमाह- करुण: स विप्रलम्भो यत्रान्यतरो त्रियेत नायकयोः । यदि वा मृतकल्पः स्यात्तत्रान्यस्तदृतं प्रलपेत् ॥ ३४ ॥ करुण इति। सुगम न वरम्। नायको म्रियते नायिका वा, तथा नायको मृतकल्पो नायिका वा भवतीति चत्वारः प्रकाराः ॥ अथ यस्तत्रैको जीवति तस्य सदशचेष्टो जनो भवतीत्याह- सर्वेष्वेषु जनः स्यात्सस्तावयवो विचेतनो ग्लानः । अच्छिन्ननयनसलिल: सततं दीर्घोष्णनिःश्वासः ॥ ३५॥ सर्वेष्विति। सुगमं न वरम्। सर्वेष्विति चतुर्ष्वपि करुणप्रकारेष्विति रसोत्पत्तिश्व विभागभावानुभावसंयोगाद्भवति। तत्र शृङ्गारे विभाग: संभोगविप्रलम्भादिकः । भावस्तु स्थायी रतिः। इतर स्तु निर्वेदादिः। अनुभावस्तु 'तत्र भवन्ति स्त्रीणाम' (१३।२) इत्या- दिनोक्तः । एवं वीरादिश्वपि योज्यम्॥ अन्योन्यानुरक्तपुंन््योः शज्ञारोऽन्यथात्वे तु शङ्गाराभास इत्याह- शृङ्गारतभासः स तु यत्र विरक्केऽपि जायते रक्तः । एकस्मिन्नपरोऽसौ नाभाष्येषु प्रयोक्तव्यः ॥ ३६॥ शङ्गाराभास इति। सुगमं न वरम्। आभाष्येषूत्तमेष्वसौ न प्रयोक्तव्यः ॥ अथात्र रीतीनामनुप्रासवृत्तीनां चावसरे विषयविभागमाह- इह वैदर्भी रीति: पाञ्चाली वा विचार्य रचनीया। मधुराललिते कविना कार्ये वृत्ती तु शृङ्गारे ॥ ३७॥ इहेति। सुगमम् ॥ अथाध्यायमुपसंहरन्सर्वरसेभ्यः शङ्गारस्य प्राधान्यं प्रचिकटयिषुराह- अनुसरति रसानां रस्यतामस्य नान्यः सकलमिदमनेन व्याप्तमाबालवृद्धम्।

Page 167

१६४ काव्यमाला।

तदिति विरचनीयः सम्यगेष प्रयतना- द्वति विरसमेवानेन हीनं हि काव्यम् ॥ ३८॥ अनुसरतीति। सुगमम्॥ इति श्रीरुद्रदकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत- श्वतुर्दशोऽध्यायः समाप्तः ।

पञ्चदशोऽध्यायः। शज्गारं व्याख्यायाधुना वीरादीनां विभावभावानुभावलक्षणं कारणत्रयं तथा नायका- नायकगुणांश्च प्रत्येकं क्रमेणाह- उत्साहात्मा वीरः स त्रेधा युद्धधर्मदानेषु। विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः ॥१ ॥ नयविनयबलपराक्रमगाम्मीर्यौदार्यशौर्यशौटीयैः । युक्तोऽनुरक्तलोको निर्व्यूढभरो महारम्भः ॥२॥ उत्साहात्मेति। नयेति। गतार्थे न वरम्। उत्साहः स्थायीभावः। धर्मदानयुद्धल- क्षणं च विषयत्रयं विभावः। नायकगुणा एवानुभावः । तेजो रणे च सामर्थ्य बलम्। रिपूणां बलादाक्रमणं पराक्रमः । गाम्भीर्यमलब्धमध्यता। 'दानमभ्युपपत्तिश्च तथा च प्रियभाषणम्। खजनेऽथ परे वापि तदौदार्य प्रचक्षते ॥I' समरैकत्वं शौर्यम्। सत्यपि त्यागकारणे योग्यकार्यस्यात्यागः शौटीर्यम्। धैर्यमित्यर्थः ॥ अथ करुण :- करुणः शोकप्रकृतिः शोकश्र भवेद्विपत्तितः आ्रतेः॥कपाल इष्टस्यानिष्टस्य च विधिविहतो नायकस्तत्र ॥ ३ ॥ अच्छिन्ननयनसलिलप्रलापवैवर्ण्यमोहनिर्वेदाः। क्षितिचेष्टनपरिदेवनविधिनिन्दाश्रेति करुणे स्युः ॥४ ॥ करुण इति। अच्छिन्नेति। सुगम न वरम्। शोक: स्थायिभावः । इष्टानिष्टविपत्ति- प्राप्ती विभाग: । अच्छिन्ननयनाश्ुप्रभृतिरनुभावः ॥ अथ बीभत्स :- भवति जुगुप्साप्रकृतिर्बीभत्सः सा तु दर्शनाच्छवणात्। संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम् ॥५॥ हल्लेखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः। उद्वेगः सन्त्यस्मिन्गाम्मीयानोत्तमानां तु ॥ ६ ॥

Page 168

१५ अध्याय: ] काव्यालंकारः । १६५

भवतीति। हृदिति । सुगमं न वरम्। जुगुप्सा स्थायिभान:। वियामस्लहयदर्श- नादि: । अनुभावो हृल्लेखनादिः। हृल्ेखनं हृदयकम्पः ॥ अथ भयानक :- संभवति भयप्रकृतिर्भयानको भयमतीव घोरेभ्यः । शब्दादिभ्यस्तस्य च नीचस्त्रीबालनायकता ।।७॥ दिक्प्रेक्षणमुखशोषण वैवर्ण्यखेदगद्गदत्रासाः। करचरणकम्पसंभ्रममोहाश्र भयानके सन्ति ॥८॥ संभवतीति। दिगिति। सुगमं न वरम्। भयं स्थायिभावः । घोरशब्दादिर्विभागः । दिक्प्रेक्षणादिरनुभावः ॥ अथाद्भुत :- स्यादेष विस्मयात्मा रसोऽद्ुतो विस्मयोऽप्यसंभाव्यात्। स्वयमनुभूतादर्थादनुभूयान्येन वा कथितात् ॥। ९ ॥ नयनविकासो बाष्पः पुलकः खेदोऽनिमेषनयनत्वम्। संभ्रमगद्गदवाणीसाधुवचांस्युत्तमे सन्ति ॥ १०॥ स्यादिति। नयनेति। सुगमं न वरम्। विस्मयः स्थायिभावः । विभागश्ासंभवि। अनुभावो नयनविकासादि: ॥ अथ हास्य :- हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाम्यः । भवति परस्थाभ्यः स च भूम्ना स्रीनीचवालगत: ।। ११ ।। नयनकपोलविकासी किंचिलक्ष्यद्विडप्यसौ महताम्। मध्यानां विवृतास्यः सशव्दवाष्पश्र नीचानाम् ॥ १२ ॥ हास्य इति। नयनेति। सुगमं न वरम्। हारः स्थायिभावः। विभावस्तु विकृता- ङचेषादिः ! अनुभावो नयनकपोलविकासादि: । अथ रौद्र :- रौद्रः क्रोधप्रकृतिः क्रोधोऽरिकृतात्पराभवाद्भवति। तत्र सुदारुणचेष्टः सामर्षो नायकोऽत्युग्र: ॥१३॥ तत्र निजांसस्फालनविषमभ्रुकुटीक्षणायुघोतक्षेपाः। सन्ति सवशक्तिशंसाप्रतिपक्षाक्षेपदलनानि ॥ १४॥ रौद्र इति। तन्रेति। सुगम न वरम्। क्रोधः स्थायिभावः । विभावो रिपुकृतपराभ- वादिः। अनुभावो निजांसास्फालनादिः ॥ १५ का०

Page 169

१६६ काव्यमाला।

अथ शान्त :- सम्यग्ज्ञानप्रकृतिः शान्तो विगतेच्छनायको भवति। सम्यग्ज्ञानं विषये तमसो रागस्य चापगमात् ॥१५ ॥ जन्मजरामरणादित्रासो वैरस्यवासना विषये । सुखदुःखयोरनिच्छाद्वेषाविति तत्र जायन्ते ॥ १६ ॥ सम्यगिति। जन्मेति। सुगमं न वरम्। सम्यग्ज्ञानं स्थायिभावः । विभावस्तु शब्दा- दिविषयसवरूपम् । अनुजावो जन्मादित्रासादयः । कैश्विच्छान्तस्य रसत्वं नेष्टम्। तद- युक्तम्। भावादिकारणानामत्रापि विद्यमानलात्। एवं प्रेयोरसेऽपि द्रष्टव्यमिति। अथ प्रेयान्- स्नेहप्रकृतिः प्रेयान्संगतशीलार्यनायको भवति। स्नेहस्तु साहचर्यात्प्रकृतेरुपचारसंबन्घात् ।।१७।। निर्व्याजमनोवृत्तिः सनर्मसद्भावपेशलालापाः । अन्योन्यं प्रति सुहृदोर्व्यवहारोऽयं मतस्तत्र ॥ १८ ॥ प्रस्यन्दिप्रमदाश्रु: सुस्तनिग्धस्फारलोचनालोकः । आर्द्रान्त:करणतया स्नेहपदे भवति सर्वत्र ॥ १९ ॥ सुगमं न वरम्। स्नेहः स्थायिभावः । विभावः साहचर्यादिः। अनुभावः प्रस्यन्दिप्र- मदाश्रुप्रभृतिः ।। अथ वीरादिषु रीति नियममाह- वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे भयानका्ुतयोः । लाटीयागौडीये रौद्रे कुर्याद्यथौचित्यम् ॥। २०॥ वैदभीति। प्रेयःकरुणभयानकाद्भतेषु चतुर्षु रसेषु वैदभी पाश्चाली चेति रीतिद्वयं कुर्यात्। तथा रौद्रे रसे लाटीया गौडीया च कर्तव्या। शेषरसेषु न रीतिनियमः । सर्वा अपि क्थ कार्या इत्याह-यथौचित्यमिति। औचित्यं रसस्रूपपरिपोषः । तदनतिक्र- मेणेत्यर्थः । रसानामलंकाराणां च लक्षणस्य मात्रयापि न्यूनत्वे तदाभासता बोद्धव्या।। अध्यायमुपसंहरंस्तद्रचनाक्ममाह- एते रसा रसवतो रमयन्ति पुंसः सम्यग्विभज्य रचिताश्चतुरेण चारु। यस्मादिमाननधिगम्य न सर्वरम्यं काव्यं विधातुमलमत्र तदाद्रियेत ॥ २१ ॥

Page 170

१६ अध्याय: ] काव्यालंकारः। १६७

एत इति। एते रसाः सम्यग्विभज्य चतुरेण कविना चारु यथा भवति तथा रचिताः सन्तो रसिकान्पुंसो रमयन्ति यस्मात्। तथेमाननधिगम्याविज्ञाय सर्वथा रम्यं काव्यं विधातुं कविर्नालं न समर्थः । तत्तस्मादत्रैतेष्वाद्रियेतादरं कुर्यात् ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः पञ्चदशोऽध्यायः समाप्तः ।

'ननु काव्येन क्रियते सरसानामवगमश्चतुर्वरगे' (१२1१) इत्युक्तम्, तत्र कश्चतुर्वर्ग: कथं च तं रसैः सह निबन्नीयादित्याह- जगति चतुर्वर्ग इति ख्यातिर्धर्मार्थकाममोक्षाणाम्। सम्यक्तानभिदध्याद्रससंमिश्रान्प्रबन्घेषु ॥ १॥ जगतीति। सुगमम् ॥ प्रबन्धेध्वित्युक्तम्, अथ के ते प्रबन्धाः कियन्तो वेल्येतन्मुखेन महाकाव्यादिलक्षणं वक्तुमाह- सन्ति द्विधा प्रबन्धा: काव्यकथाख्यायिकादय: काव्ये। उत्पाद्यानुत्पाद्या महल्लघुत्वेन भूयोडपि ॥ २ ॥ सन्तीति। द्विधा प्रबन्धाः सन्ति। प्रबध्यते नायकचरितमेतेष्विति कृला। के च ते। काव्यकथार्यायिकादय इति। आदिग्रहणं कुलकनाटकायर्थे। क्व ते प्रबन्धाः । काव्ये कविकर्मणि। कथम्। द्विंधा। उत्पाद्यानुत्पाद्यमेदात्। तथा महल्घुत्वेन भूयोऽपि पुनरपि। उत्पाद्या महान्तो लघवश्चानुत्पाद्या महान्तो लघवश्चेत्यर्थः॥ अथोत्पाद्यलक्षणमाह- तत्रोत्पाद्या येषां शरीरमुत्पादयेत्कविः सकलम्। कल्पितयुक्तोत्परत्ति नायकमपि कुत्रचित्कुर्यात् ।। ३।। तत्रेति। तत्र काव्यादिषु मध्ये उत्पाद्यास्ते येषां शरीरमितिवृत्तं सकलं कविरुत्पाद- येत्। नायकं प्रसिद्धं गृहीता तव्यवहार: सर्व एवापूर्वो यत्र निबध्यत इत्यर्थः। यथा माघकाव्ये। प्रकारान्तरमाह-कल्पिता युक्ता घटमानोत्पत्िर्यस्य तमित्थंभूतं नायकमपि कुत्रचित्कुर्यात्, आस्तामितिवृत्तम् । अन्न च तिलैकमजरी बाणकथा वा निदर्शनम्॥ अथानुत्पाद्यलक्षणमाह- पञ्जरमितिहासादिप्रसिद्धमखिलं तदेकदेश वा। परिपूरयेत्खवाचा यत्र कविस्ते त्वनुत्पाद्याः ॥४ ॥ १. तिलकमशरीकथा धनपालकविप्रणीता, बाणेकथा तु कादम्बरी सुप्रसिद्धैव. ना-

Page 171

१६८ काव्यमाला। पञ्जरमिति। तेषु काव्यादिमध्ये तेऽनुत्पाद्याः, येषां पज्जरं कथाशरीरमखिलं सर्वमि- तिहासादिप्रसिद्धं रामायणादिकथाप्रसिद्धं कविः खवाचा परिपूरयेत्। वदेदित्यर्थः । यथार्जुनचरिते। अथवा तदेकदेशं वा, इतिहासादयेकदेशं वा खवाचा यत्र पूरयेत्तदप्यनु- स्पाद्यम्। यथा किरातार्जुनीयं काव्यम्।। अथ महान्त :- तत्र महान्तो येषु च विततेष्वभिधीयते चतुर्वर्गः । सर्वे रसाः क्रियन्ते काव्यस्थानानि सर्वाणि ॥५॥ तत्रेति। सुगमं न वरम्। काव्यस्थानानि पुष्पोच्चयजलक्रीडादीनि भण्यन्ते॥ अथ लघव :- ते लघवो विज्ञेया येष्वन्यतमो भवेच्चतुर्वर्गात्। असमग्रानेकरसा ये च समग्रैकरसयुक्ताः ॥ ६ ॥ त इति। सुगमं न वरम्। ते मेघदूतादयो लघवः । महान्तस्तु शिशुपालवधादयः ॥ अथानुत्पाद्येषु पुराणादिक्रमेणैवेतिवृत्तनिबन्धः, केवलं तत्र कविः खवाचा चतु- वर्गरसकाव्यस्थानवर्णनं नमस्कारपूर्वकं करोतीति न तद्विषयनिबन्धोपदेशो जायते। ये पुनरुत्पाद्यासतत्र कर्थ निबन्ध इत्यनुपदिष्टं न ज्ञायत इति तन्निबन्धक्मोपदेशमाह- तत्रोत्पाधे पूर्व सन्नगरीवर्णनं महाकाव्ये। कुर्वीत तदनु तस्यां नायकवंशप्रशंसां च।। ७।। तत्र त्रिवर्गसक्त समिद्धशक्तित्रयं च सर्वगुणम्। रक्तसमस्तप्रकृर्ति विजिगीषुं नायकं न्यस्येत्॥ ८ ॥। गिधिवत्परिपालयतः सकलं राज्यं च राजवृतं थ। कदाचिदुपेतं शरदादिं वर्णयेत्समयम् ।। ९ ॥। त्रार्थ वा धर्मादिं साधयिष्यतस्तस्य। कुल्यादिष्व न्यतमं प्रतिपक्ष वर्णयेद्गुणिनम् ॥ १० ॥ खचरात्तदूताद्व कुतोऽपि वा शृण्वतोऽरिकार्याणि। कुर्वीत सदसि रानां क्षोभं क्रोघेद्धचित्तगिराम् ।। ११ ।। संमन्रय समं सचिवर नेश्िचित्य च दण्डसाध्यतां शत्रोः । तं दापयेत्र्रयाणं दूतं प्रेषयेन्मुखरम् ।। १२ ।। र्जन्चरितमानन्दवर्धनाचार्यकृतं पाकृतकाव्यम्.

Page 172

१६ अध्याय: ] काव्यालंकारः । १६९

अथ नायकप्रमाणे नागरिकाक्षोभजनपदाद्रिनदीः । अटवीकाननसरसीमरुजलघिद्वीपभुवनानि ॥ १३ ॥ स्कन्धावारनिवेशं क्रीडां यूनां यथायथं तेषु। रव्यस्तमयं संध्यां संतमसमथोदयं शशिनः ॥। १४ ॥ रजनीं च तत्र यूनां समाजसंगीतपानशृङ्गारान्। इति वर्णयेत्प्रसङ्कात्कथां च भूयो निबन्नीयात् ॥१५॥ प्रतिनायकमपि तद्वत्तदभिमुखममृष्यमाणमायान्तम्। अभिदध्यात्कार्यवशान्नगरीरोधस्थितं वापि॥ १६॥ योद्धव्यं प्रातरिति प्रबन्धमधुपीति निशि कलत्रेभ्यः । स्ववधं विशङ्कमानान्संदेशान्दापयेत्सुभटान्।।१७।। संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुमयोः । कृच्छेण साधु कुर्यादभ्युदयं नायकस्यान्ते ॥ १८॥ गतार्थ न वरम्। कुल्यादिष्विति कुल्यो गोत्रजः । आदिशब्दात्कृत्रिमादिः । तथा संमन्न्य निश्चित्य चेत्यत्रान्तर्भूतः कारितार्थो द्रष्टव्यः । अन्यथा भिन्नकर्तृकलात्क्ला न स्यात्। नायकमुखेन कविरेव मन्रयते निश्चिनोति चेति केचित्। तथा नदः सरितः । अटवी निर्जनो देशः। काननमुद्यानवनम्। सरस्यो महान्ति सरांसि । मरुर्निर्जलो देशः। द्वीपं जलमध्यस्थभूप्रदेशः । भुवनानि लोकान्तराणि। तथा यूनां दंपतीनां कीडा। सा च वनेषु कीडा, नदीषु जलकेलि:, अटव्यां विहार ३त्यादिका। तथा यूनां समाजः संगमः । संगीत गेयम् । पानकं सरकम्। शृज्वारः सुरतादिः । तथा कलन्नेभ्यः सुभटा- न्संदेशान्प्रदापयेत्। कथ दापयेत्। प्रबन्धेन मधुपीतिर्मधुपानं यत्र कर्मणि। मधुपान- मपि कुत इत्याह-योद्व्यं प्रातरिति। तथा नायकस्येति नायकस्यैव विजयं कुर्यान्ञ विपक्षस्येति सूचनार्थम्।। अथ किमयं प्रबन्धोऽनवच्छेद एव कर्तव्यो नेल्याह- सर्गाभिधानि चास्मिन्नवान्तरप्रकरणानि कुर्वीत। संधीनपि संश्लिष्टांस्तेषामन्योन्यसंबन्धात् ॥ १९॥ सर्गेति। सुगम न वरम्। सर्गाभिधानि सर्गनामकानि। यतः 'सर्गबन्धो महाकाव्यम्'

न्कुर्वीत। कथं तथा ते स्युरित्याह-अन्योन्यसंबन्धादिति।।

Page 173

१७० काव्यमाला।

महाकाव्यलक्षणमाख्याय कथालक्षणमाह- श्लोकैर्महाकथायामिष्टान्देवान्गुरून्नमस्कृत्य। संक्षेपेण निजं कुलमभिदध्यात्खं च कर्तृतया॥२०॥ शोकैरिति । सुगमं न वरम्। संक्षेपेण निजं कुलममिदध्यात्। न त्वाख्यायिकाया- मिव विस्तरेण। खं चेति चकारोऽनुक्तसमुचये। तेन सुजनखलस्तुतिनिन्दादिकं चाभि- दध्यादिति सूच्यते॥ ततश्र- सानुप्रासेन ततो भूयो लध्वक्षरेण गद्येन । रचयेत्कथाशरीरं पुरेव पुरवर्णकप्रभृतीन्।। २१।। सानुप्रासेनेति। सुगम न वरम्। भूयो लघ्वक्षरेण।। प्रकारान्तरमाह- आदौ कथान्तरं वा तस्यां न्यस्येत्प्रपश्चितं सम्यक्। लघुतावत्संधानं प्रकरान्तकथावताराय ॥। २२ ।। आदाविति। गतार्थ न वरम्। लघुतावत्संधानं लाघवयुक्कत संधानं यत्र कथान्तरे। अथवादौ तावत्कथान्तरं न्यस्येत्। ततो लघु शीघ्रं प्रक्रान्तकथावताराय संधानमिति। यथा कादम्बर्याम् ।। तथा- कन्यालाभफलां वा सम्यग्विन्यस्तसकलशङ्गाराम्। इति संस्कृतेन कुर्यात्कथामगद्येन चान्येन ।। २३ ॥। कन्येति। वाशव्दः पक्षान्तरसूचकः । तेन राज्यलाभादि फलमपि क्वचित् । सम्य- गिविन्यस्तसकलशङ्गारामित्यनेन शङ्गारसन्न प्राधान्येन निबन्धनीय इत्युक्तं भवति। इत्येवं संस्कृतेन कथां कुर्यात्। अन्येन प्राकृतादिभाषान्तरेण त्वगद्येन गाथाभिः प्रभूतं कुर्यात्। चकाराद्द्यमपि किंचिदित्यर्थः ॥ आख्यायिकालक्षणमाह- पूर्ववदेव नमस्कृतदेवगुरुनोत्सहेत्स्थितेष्वेषु। काव्यं कर्तुमिति कवीञ्शंसेदाख्यायिकायां तु ॥२४ ॥ तद्नु नृपे वा भक्ति परगुणसंकीर्तनेऽथवा व्यसनम्। अन्यद्वा तत्करणे कारणमक्किष्टमभिदध्यात्॥ २५॥ पूर्ववदिति। तदन्विति। सुगमम् ॥

Page 174

१६ अध्याय: ] काव्यालंकारः । १७१

आख्यायिकाया एव लक्षणशेषमाह- अथ तेन कथैव यथा रचनीयाख्यायिकापि गद्येन। निजवंशं खं चास्यामभिदध्यान्न त्वगदेन॥ २६॥ अथेति। एवोऽमिन्नकमे। ततथायमर्थः-अथ तेन कविना यथैव कथाख्यायिकापि तथैव गद्येन रचनीया। तुरवधारणे। ततो निजवंशमात्मानं च गद्येनैवास्यामभिदध्यात्। यथा हर्षचरिते॥ अपि च- कुर्यादत्रोच्छ्वासान्सर्गवदेषां मुखेष्वनाद्यूनाम् (?)। द्वे द्वे चार्ये ल्लिष्टे सामान्यार्थे तदर्थाय ॥२७॥ कुर्यादिति। सुगम न वरम्। तदर्थाय प्रस्तुतार्थसूचनाय। संशयशंसावसरे भवतो भूतस्य वा परोक्षस्य । अर्थस्य भाविनस्तु प्रत्यक्षस्यापि निश्चितये ॥ २८॥ संशयितु: प्रत्यक्षं खावसरेणैव पाठयेत्कंचित् । अन्योक्तिसमासोक्तिश्लेषाणामेकमुभयं वा ॥ २९ ॥ तत्र च्छन्दः कुर्यादार्यापरवक्त्रपुष्पिताग्राणाम्। अन्यतमं वस्तुवशादथवान्यन्मालिनीप्रायम् ॥ ३० ॥ संशयेति। संशयितुरिति । तत्रेति। वर्तमानस्यातीतस्य च परोक्षस्य भाविनस्तु प्रत्यक्षस्यापि संदेहकथनावसरे सति निश्चयाय कंचित्प्राणिनमवसरेणैवान्योक्तिसमासो- क्तिश्लेषाणां मध्यादेकसुभयं वाऽलंकार पाठयेत्। तत्र चार्यादिच्छन्दः कुर्यात्॥ एवं काव्यादित्रयस्य लक्षणान्याख्याय तच्छेषमाह- साभिप्रायं किंचिद्विरुद्धमिव वस्तु सत्प्रसङ्गेन। अन्तः कथाश्च कुर्यान्रिष्वप्येषु प्रबन्धेषु ॥ ३१॥ साभिप्रायमिति। सुगम न वरम्। विरुद्धमिव न तु विरुद्धम्। त्रिष्वपीति काव्यक- थाख्यायिकासु ॥ कुर्यादभ्युदयान्तं राज्यभ्रंशादि नायकस्यापि। अभिदध्यादेषु तथा मोक्षं च मुनिप्रसङ्गेन ।। ३२ ।। सुगमम् ॥

Page 175

१७२ काव्यमाला।

अथ लघूनां काव्यादीनां लक्षणमाह- कुर्यात्क्षुद्रे काव्ये खण्डकथायां च नायकं सुखिनम्। आपद्गतं च भूयो द्विजसेवकसार्थवाहादिम्॥ ३३॥ अत्र रसं करुणं वा कुर्यादथवा प्रवासशृङ्कारम्। प्रथमानुरागमथवा पुनरन्ते नायकाभ्युदयम् ॥ ३४॥ सुगमम्।। अथ किमेतल्लक्षणं सर्वेषामपि काव्यादीनां सामान्यं स्यान्नेत्याह- नैतदनुत्पाद्येषु तु तत्र ह्यमिधीयते यथावृत्तम्। अल्पेषु महत्सु च वा तद्विषयो नायमुपदेशः ॥ ३५॥ सुगमम् ॥ अथ काव्यकथाख्यायिकादय इत्यत्रादिग्रहणसंगृहीतं दर्शयितुमाह- अन्यद्वर्णकमात्रं प्रशस्तिकुलकादिनाटकाद्यन्यत्। काव्यं तह्हुभाषं विचित्रमन्यत्र चाभिहितम् ॥ ३६ ॥ अन्यदिति। सुगम न वरम्। तत्र यस्यामीश्वरकुलवर्णनं यशोर्थ क्रियते सा प्रशस्तिः। यत्र च पञ्चादीनां चतुर्दशान्तानां श्रोकानां वाक्यार्थः परिसमाप्यते तत्कुलकम्। आदि- ग्रहणादेकस्मिञ्छन्दति वाक्यसमाप्तौ मुक्तकम्, द्वयो: संदानितकम्, त्रिपु विशेषकम्, चतुर्षु कलापकम्। तथा मुक्तकानामेव प्रघट्टकोपनिबन्धः पर्याययोगः कोषः । तथा बहूनां छन्दसामेकवाक्यत्वे तद्वाक्यानां च समूहावस्थाने परिकथा। भूयोऽप्याह-नाटकाद- न्यदिति। अत्र भरताद्यभिहितम् । नाटकादी त्यत्रादिशब्दान्नाटकप्रकरणेहामृगसमवका- रभाणव्यायोगडिमवीथी प्रहसनादिसंग्रहः । तद्वहुभाषं च बह्लीभिर्भाषामिर्निबध्यते। विचित्रं च। नानासंधिसंध्यङ्गाभिनयादियुक्तलादिति ।। महाकाव्यादिलक्षणमभिधायेदानीं काव्यगुणातिशयविवक्षायां मा कश्चिदसंभवि वोच- दिति तन्निषेघार्थमाह- कुलशैलाम्बुनिधीनां न ब्रूयाल्ङ्दनं मनुष्येण। आत्मीययैव शक्त्या सप्तद्वीपावनिक्रमणम् ॥ ३७॥ कुलेति। सुगमम् ॥ ननु भरतहनूमत्प्रभृतीनां सर्वमेतच्छयते, ततक्च यथा तेषां तथान्यस्यापि भविष्य- तीति को दोष इत्याह- येडपि तु लद्वितवन्तो भरतप्राया कुलाचलाम्बुनिधीन्। तेषां सुरादिमुख्यैः सङ्गादासन्विमानानि ॥ ३८॥

Page 176

१६ अध्याय: ] काव्यालंकारः । १७३

य इति। सुगमं न वरम्। सुरादिमुख्यैः सुरादिप्रधानैः । आदिशब्दात्सिद्धविद्याधर- किंनरगन्धर्वादिसंग्रहः ॥ ननु च सत्त्वचित्तादिहीनलान्मनुष्याणां कथं सुरादिभि: सह सज्चोऽपीत्याह- शक्तिश्र न जात्वेषामसुरादिवघेऽघिका सुरादिभ्यः । आसीत्ते हि सहाया नीयन्ते स्मामरैः समिति ॥३९॥ शक्तिरिति। सुगमं न वरम्। चशब्दो हेतौ।। भूयोऽप्याह- दारिद्य व्याधिजराशीतोष्णाद्युद्गवानि दुःखानि । बीभत्सं च विदध्यादन्यत्र न भारतादवर्षात् ॥।४० ॥ दारिद्येति। सुगमं न वरम्। भारतं भरतक्षेत्रम्।। अन्यत्र त्विलावृत्तादौ कुतो न विदध्यादित्याह- वर्षेष्वन्येषु यतो मणिकनकमयी मही हितं सुलभम्। विगताघिव्याषिजराद्वन्द्वा लक्षायुषो लोकाः ।। ४१ ॥ वर्षेष्विति। सुगमं न वरम्। द्वन्द्वानि शीतोष्णादीनि॥ अथ शाखपरिसमाप्तिमञ्लार्थ देवता: संकीर्तयन्नाह- जयति जनमनिष्टादुद्धरन्ती भवानी जयति निजविभूतिव्याप्तविश्वो मुरारिः । जयति च गजवक्रः सोऽत्र यस्य प्रसादा- दुपशमति समस्तो विन्नवर्गोपसर्गः ॥ ४२ ॥ जयतीति। सुगमम् ।। एवं रुद्रटकाव्यालंकृतिटिप्पणकविरचनात्पुण्यम्। यदवापि मया तस्मान्मनः परोपकृतिरति भूयात्॥ थारापद्रपुरीयगच्छतिलकः पाण्डित्यसीमाभव- त्सूरिर्भूरिगुणैकमन्दिरमिह श्रीशालिभद्रामिधः। तत्पादाम्बुजषद्रपदेन नमिना संक्षेपसंप्रेक्षिण: पुंसो मुग्धधियोऽधिकृत्य रचितं सहिप्पणं लघ्वदः ॥ अज्ञानाद्यद्वितथं विवृतं किमपीह तन्महामतिभिः । संशोधनीयमखिलं रचिताज्जलिरेष याचेऽहम् ॥

Page 177

१७४ काव्यमाला।

सहस्त्रत्रयमन्यूनं ग्रन्थोऽयं पिण्डितोऽखिलः । द्वान्रिंशदक्षरश्ोकप्रमाणेन सुनिश्चितम्।। पञ्चविशतिसंयुक्तैरेकादशसमाशतैः (११२५)। विक्रमात्समतिकान्तैः प्रावृषीदं समर्थितम् ॥

इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः षोडशोऽध्यायः समाप्तः ।

समाप्तोऽयं ग्रन्थः।

Page 178

काव्यालंकारः। १

१ खड्गबन्ध:ः (श्लोको६।७) २मुसलबन्ध:(श्लोक:८)

जा दि

मेदिश्यादु मा रामाणांश मा घी: पी या

श्रियांबाधित संभ मा तानतानांसंघ टृ: वि मा

क्ष रा

हि

र्ति रा

मे वा

भ सा

या था

तं य

ल ला

र स ली

रा ह त

सा जा

Page 179

काव्यमाला. २ ३ धनुर्बन्धः (श्लोक: ९)

त्स मु दे

ण्या वा

र रु

श क्त्र

दा

भी

र रत मा छासीत्रा सात्रा सेंत्रा विप रा धी:

मा

Page 180

काव्यालंकार: । ३ ४ शरबन्धः(श्लोक:१०) ५ शूलबन्धः(श्लोक: ११)

वी त्र हि

दे म वा ूवा

शि तां सि

सा न द रं म खा

दा स्य म स

Page 181

४ काव्यमाला ६ शक्तिबन्धः(श्लोक: १२ )

का

७ हलबन्धः (श्लोक: १३)

नि न्ति पा सा हर स्य

र स्य

त्या शि

ग यि रवा

मा

गा ना धि

Page 182

का व्यालंकार: 5 ८चकबन्धः (श्लोका: ६, ७,८, ९, १०, ११, १२, १३)

ह सायरयखवानि स्वास्थ निमा सा ह/ति र A

सा

बी मारा माणाक मे रा रहह मे दिश्या दु या दि उ वललाय पास दिवा मुाका

मा या या वा 9 खुताख इ मातह क क महि ष मा द ता

दे

w स नससदरग लास वैदा दास्पम

Page 183

६ काव्यमाला। ९रथपदपाठ: (श्लोकः१४) १० तुरगपदपाठः(श्लोकः१५)

य ना ली ट ली इ ती क्षिता स रेश्र के ली ना ली

रव 와 씩

या य मा म म मा य या ना ना ना ना

म हि वं पा तु वो गौ री घ ना ली ना ली ना ली ना

सा य ता सि सि ता य सा स छ ली ली ली ना ना ना ना 실 쇠

१० गजपदपाठ.(श्लोक:१६) १२ अर्धश्रमः(श्रोक:१८)

ये ना ना धी ना वा धी रा स र सा या रि । वी रा ली

ना धी वा रा धी रा रा जन र स न व्या ध्य दे श् रा

किं सा न: ना ना शं कं शं ते पा ना या द रं दे वी

या व्या या ग ना श कं ते शं ते ने ज म द ध्यरि

Page 184

२ काव्यालकार: ७

१३ मुरजबन्ध: (श्लोक:१९)

ला

ब्र

लेर का नर्द

क ला लर

१४ सर्वतोभद्रम् (श्लोक: २०)

र सा सा र र सा सा र

सा य ता क्ष क्ष ता य सा

सा ता वा त त वा ता सा

र क्ष त सच राच त क्ष र

र क् त रूतय रत्व त क्ष

सा ता वा त वा ता सा

सा य ता क्ष क्ष ता य सा

र सा सा र र सा सा र

Page 185

काबामाला

१५ पद्मबन्ध: (श्लोक:२१)

ति र्ै

ता रि

या 一 止 星 止 央

नते AK

Page 187

श्री

डा

काव्य-प्रकाश काव्यशास्त् और व्याकरण में महाभाष्य क का है। मम्मट ने केवल १४३ कारिकाश तमेटने की चेष्टा की। साथ ही आवश्यकतानुसार मीमांसा, व्याक रण इत्यादि के सिद्धान्तों का भी समावेश किया। संक्षिप्तीकरण की इस प्रवृध्ति के कारण काव्य-प्रकाश कुछ दुरूह हो गया है। प्राचीन टीकाओं में कठिन स्थलों की ही व्य ख्या की गई है। अब हिन्दी में भी कुछ टीकाएं लिखी गईं हैं। पर उनमें साम न्य रूप से मूल ग्रन्थ का अनुवाद और संक्षिप्त टिप्पणियां ही पाई जाती हैं। इस ग्रन्थ की पृष्ठभूमि में विद्यमान वित्वारधारा के परिवेश में मूलग्रन्थ का अध्ययन एक आवश्यकता बनी हुई थी। डा० त्रिपाठी की ज्योतिष्मती टीका ने इस आवश्यकता को पूरा किया है। इस टीका में विभिन्न विचारधाराओं पर पूरा प्रकाश डालकर ग्रन्थ को स्पष्ट करने की चेष्टा की गई है। विषय को स्पष्टता देने के लिए समस्त वस्तु को उपशीर्षकों में इस प्रकार विभाजित कर दिया गया है कि पाठक को विषयानुसंधान में कठिनाई न हो। (सजिल्द) रु० ५० (अजिल्द) रु० ३५

श्रीधनञ्जयविरचित दशरूपक डा० बैजनाथ पाण्डेय ंकारवादी काव्यशास्त्रियों में धनञ्जय का प्रमुख स्थान है। उन्होंने इस ओं को रचा और धनिक ने इन पर संस्कृत में व्याख्या की। र प्रकाशों में रूपकोपयोगी तत्वों का सारगभित विवेचन T और संसूच्य वस्तु-विवेचन के माध्यम से अर्थप्रकृति, यों की विवेचना की गई है। द्वितीय प्रकाश में भेद- गन साथ-साथ योषिद्-अलंकार और नाट्यवृत्तियों है। तृतीय प्रकाश में काव्य की स्थापना के की सोदाहरण रूप-रेखा प्रस्तुत की गई है। व्याख्या है। अन्त में रसभेदों को नवीन रूप

क नामक हिन्दी टीका द्वारा सरल रूप में रु० १८

नारसीदास पटना