Books / Kavya Alankara Sangraha Udbhata Commentary Pratihara Indu Raja Ed. Mangesh Ramakrishna Telang Nirnaya Sagar Press 1915.djvu

1. Kavya Alankara Sangraha Udbhata Commentary Pratihara Indu Raja Ed. Mangesh Ramakrishna Telang Nirnaya Sagar Press 1915.djvu

Page 1

THE

KĀVYALANKĀRA SANGRAHA

BY

UDBHATA BHATTA

with the commentary

OF

PRATIHĀRENDURĀJA

EDITED BY

MANGESH RÂMKRISHNA TELANG

PUBLISHED BY

TUKĀRĀM JĀVAJĪ,

Proprietor of the "Nirnaya-sāgar" Press,

Bombay:

Price 10 Annas.

Page 2

S.V.U College

Library.

TIRUPATI

Acc. No 32172

( All rights reserved by the publisher. )

Publisher :-Tukaram Javaji,

the Nirnaya-sagar Press,

Printer :-Ramchandra Yesu Shedge,

23, Kolbhat Lane, Bombay.

32172

Page 3

काव्यालङ्कारसंग्रहः

श्रीमदुष्टभरतप्रणीतः

श्रीमत्ततीहोरन्द्रराजविरचितया काव्यालङ्कारसारलघुवृत्त्या समेतः

अयं

मुद्रचा रामकृष्ण तेलङ् हतोदे:

संस्कृतः

मुद्रवर्यां

तुकाराम जावजी

इत्येतैः श्रीये निर्णयसागरास्व्यमुद्रणयंत्रेऽडयित्वा प्रकाशितः

शके १८३७ सन १९१५

मूल्यंम् १० आणका:

Page 4

प्रस्तावना ।

असिन्भरतखण्डे खलु काव्यावधि बहुधा: संस्कृतग्रन्था: संशोध्या मुद्रणद्वारा ह्ये नीतासत्त्र तत् पणिडतप्रकाण्डै: । तथापि कतिचन प्राचीना: प्रबन्धा: नाहाँ अपि पुस्तककोशेऽपि निलीनाः वर्तन्ते । तेषामन्यातमोद्यं काव्यालङ्कार- सङ्ग्रहस्य प्रणेता उद्घटभट्टः । उद्घटभट्टस्य भट्टोद्घट- चार्यः इत्यपि नामोलेेखो ग्रन्थान्तरेपु दृश्यते । उद्घटभट्ट: कश्मीरेऽपु जयापीड: सम्रापतिरासीदिति कल्हणविरचितराजतरङ्गिणीग्रन्थादवगम्यते । जयापीड- राज्ये कालस्तु विक्षत ७५९ वर्षमारास्य ८१३ वर्षपर्यन्तमासीचिविति ज्ञायते ।

तत्सभापतेरुद्घटभट्टस्यापि जीवितसमय: स एवार्नो विदुषां निर्णय: । तद्वाचायेंण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च इतमासीदिति ज्ञायते । अत्र प्रमाणं तु अस्यां लघुग्रन्थोऽननेन ग्रन्थकृता "अनन्तेन ग्रन्थकृता विरचितकumarसंभवैकदेशेऽत्र उदाहरणोपन्यासत:" पृ० १५ इति "विशेष- लक्षणे च भामहविवरणे भट्टोद्घटेन एकदेशशब्द एव व्याख्यात:' १३ इति च प्रतीहारेन्रुराजस्योक्तिः ।

काव्यालङ्कारसारालघुग्रन्थ: प्रणेता श्रीप्रतीहारेन्रुराजस्तु कोङ्कणदेशवास्तव्य: तत्रैव मीमांसासाह्याकरणतर्कसाहित्यशास्त्रापारङ्गतभट्टश्रीकुलादलक्षितशास्त्रश्रेति अस्या त्तेः प्रारम्मोपसंहारयोः स्थिताभ्यां निम्मलिखितपद्याभ्यां स्फुटं भवति ।

"विन्ध्रदघ्यान्मुकुलाकाद्धिगम्य विविच्यते । प्रतीहारेन्रुराजेन काव्यालङ्कारसंग्रह: ॥" "मीमांसासारमेघात्पदजलधिविघोषत्कर्माणिक्यकोषात् साहित्यश्रीमुरोरेकुधकुसुममधो: शौरिपादान्जभूष्णात् ।

१ इदानीकरोपाख्यश्रीवामनाचार्यप्रकाशितसटीककाश्यप्रकाशपुस्तकस्य प्रस्तावनायां पृष्ठे द्रष्टव्यम् ।

Page 5

श्रुत्वा सोजन्यसिन्धोर्दिजवरमुकुलालोकतीर्तिंवह्यालवालात

काव्यालङ्कारसारे लघुव्युत्पत्तिमधात्कोण्डः श्रीन्द्रुराजः ॥१॥ इति

प्रतीहारेनदुराजस्य जीवितकालस्तु निश्र्रित्य वचुं न शक्यते । तथाप्ययं

महोदयटस् पश्राद्धभूवति व्यक्तमेव । अनেন लघुग्रतौ मामह-चामन-उद्घाट-इत्यादि

प्राचीनालङ्कारिकाणामेवोद्घेक्षः कृतः नतु महिमभट्ट-आनन्दवर्धन-काव्यप्रकाशका-

रोद्यभिनवाळङ्कारिकाणाम् । अतोडयं खिस्तवर्षस्य नवमदशशतकयोर्मध्ये बभूवेतित

तक्येते ।

अस्य ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थराजकीयपुस्तकालय्याधिकारीभिः

प्रोफेसर विनायक सखाराम घाटे इत्येतैः संस्करणार्थं दत्त्लाहुग्रीहীতोडस्मीति कृतज्ञ-

तया स्मरामि तेऽशुप्रकृतिम् ।

कारवारपुरे

श्रावण शु० १२ शके १८३७

विद्यादसुधरः

मङ्गळेशशर्मा।

Page 6

काव्यालङ्कारसारलघुच्वृत्तोर्विषयानुक्रमणी।

प्रथमो वर्गः: 1

मङ्गलाचरणम् ... ... ... ९

पुनरुक्तवदाभासम् ... ... ... २

छेकानुप्रास: ... ... ... ३

अनुप्रास: ... ... ... ४

परुषानुप्रास: ... ... ... ५

उपनागरिका ... ... ... ,,

ग्राम्या ... ... ... ६

लाटानुप्रास: ... ... ... ,

रूपकम् ... ... ... ९

दीपकम् ... ... ... १४

उपमा ... ... ... १६

प्रतिवस्तूपमा ... ... ... २५

द्वितीयो वर्गः: 1

आक्षेप: ... ... ... ... ३९

अर्थान्तरन्यास: ... ... ... ३२

व्यतिरेक:... ... ... ... ३५

विभावना... ... ... ... ३८

समासोक्ति: ... ... ... ३९

अतिद्ययोक्ति: ... ... ... ४०

तृतीयो वर्गः: 1

यथासंख्यम् ... ... ... ... ४२

उत्प्रेक्षा ... ... ... ... ४३

स्वभावोक्ति: ... ... ... ... ४६

चतुर्थों वर्गः: 1

प्रेयस्वत् ... ... ... ... ४७

रसवत् ... ... ... ... ४९

कुजाक्षि ... ... ... ... ५१

पर्यायोक्तम् ... ... ... ... ,,

समाहितम् ... ... ... ... ५२

उदात्तम् ... ... ... ... ५३

ललितम् ... ... ... ... ४८

पञ्चमो वर्गः: 1

अपह्नुति: ... ... ... ... ५८

विशेषोक्ति: ... ... ... ... ,,

विरोध: ... ... ... ... ५९

तुल्ययोगिता ... ... ... ... ६०

अप्रस्तुतप्रशंसा ... ... ... ... ६१

व्याजस्तुति: ... ... ... ... ,,

विदर्शनना ... ... ... ... ६२

संकर: ... ... ... ... ६३

उपमेयोपमा ... ... ... ... ६५

सहोक्ति: ... ... ... ... ,,

परिक्रति: ... ... ... ... ६९

षष्ठो वर्गः: 1

रससंदेह: ... ... ... ... ७०

अनन्वय: ... ... ... ... ७२

संस्तुति: ... ... ... ... ,,

भाविकम् ... ... ... ... ७३

काव्यहेतु: ... ... ... ... ७४

काव्यदोषान्त: ... ... ... ... ७६

Page 7

काव्यालङ्कारसारलघुवृत्तौ उपलब्ध्यमानानि

ग्रन्थानां ग्रन्थकर्तृणां च नामानि

पृ.

अमरुक:

७६.

कात्यायन:

२५, २६.

चूर्णिकार:

२६.

दण्डी

२६.

भट्टवामन:

१७, ७६, ८१, ८४.

भट्टोद्भट:

१३, ८४, ८९, ५५, ६२.

भामह:

१, ४७, ६२, ७४, ७८.

भामहविवरणं (भट्टोद्भटक्रतम्) १३.

Page 8

श्रीः

श्रीमदुरुटमटप्रणीतः

काव्यालङ्कारसंग्रहः।

श्रीमत्पतीहारेनदुराजविराचितया

काव्यालङ्कारसारलघुवृत्त्या समेतः।

यल्लक्ष्म्या हसितैः सितैर्धवलितं नम्रोक्तिलीलाजुषः

शौरेः स्फीतगव्दिकौस्तुभरुचा यच्च कचित्पाटलम्।

अन्यत्र च्छुरितं यदम्बररुचा हेमप्रभादीप्तिप्रिया

तद्रक्षोदक्षतशक्रचापशबलव्योमाभमव्याजगत्॥ १ ॥

माहिपतेः पतिव्रुषि सुरद्रोहिदर्शितभयम्भियेद् गुस्स्वद्रभ्यः।

नन्दितसुरेन्द्रवन्तिवतमद्रिसुगं गौरी तव वन्दे॥ २ ॥

विद्युद्गग्यान्सुकुलकादधिगम्य विविध्यते।

प्रतीहारेनदुराजेन काव्यालङ्कारसंग्रहः॥ ३ ॥

पुनरुक्तवदाभासं छेकानुप्रास एव च।

अनुप्रासस्विधा लाटानुप्रासो रूपकं चतुः॥

उपमा दीपकं चैव प्रतिवस्तूपमा तथा।

इत्येत एवालङ्काराः वाचां कैश्चिदुदाहृताः॥

अत्रालङ्कारा अग्रावाहिष्यः। १. तत्रादौ चत्वारः शब्दालङ्काराः निह-

न्ताः। रूपकादीनां तु चतुर्णामितरे अर्थालङ्कारता। अत्रानुप्रासे रूपके

थाकर्म त्रिधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम्। यामहो हि

म्योपनागरिकावृत्तिभेदेन द्विप्रकारमेवानुप्रासं व्यास्य्यातवान्। तथा

त्पकस्य ये चत्वारो भेदा वक्ष्यन्ते तन्मध्यादाव्यमेव भेदद्वितयं प्रदर्शयत्।

तः स्वाभिमतभेदोपदर्शनद्धारेण एवंविधविप्रतिपत्तिनिरासार्थमुदेशावस्था-

Page 9

काव्यालङ्कारसार-

यास्येवानुप्रासविधौ रूपकं चतुरिति चोक्तम् । रूपकं चतुरित्यत्र रूप-कत्पेन सहैकसिन्न्र्थे वर्तमानासत्त्या रूपकमेदेष्ववर्त्तमानाः प्रतीयेते ।

अतः प्रतीत्यमाना यासौ रूपकत्वैकार्थसमवेता सत्तालिमका भवनक्रियातदभ्यावृत्तावृत्या “द्वित्रिचतुर्थ्यः सुच्यः” ( पा. अ. ५.४.१८ ) इति सुच्य-प्रत्ययः । रूपकं चतुष्ट्वे भेदेषु चतुरो वारान् भेदान्मना भवतीत्यर्थः ।

तत्र पुनरुक्तवदाभासं प्रोच्यते—

पुनरुक्ताभासमभिन्नवस्तुवोद्रासिभिन्नरूपपदम् ॥

अभिन्नं वस्तु यसिच्चुद्रास्तते तदभिन्नवस्तु । भिन्नं रूपं ययोः पद-योस्ते भिन्नरूपे । अभिन्नवस्तिवच अभिक्षणचुद्रास्ते भिन्नरूपे पदे यस्स्स्तदभिन्नवस्तुवोद्रासिभिन्नरूपपदम् । एनमयं बहुत्रीहिद्वितयगर्भः पञ्चपदो बहुत्रीहिः । तत्नैकोडभिन्नवस्तिवाति बहुत्रीहिः । अपरस्तु भिन्नरूप इति ।

तद्र्सेश्वायं बहुत्रीहिरभिन्नवस्तिवोद्रासिभिन्नरूपपदमिति । अनैन च यत्र भिन्नरूपे पदे एकार्थवदाभासते तत्र पुनरुक्ताभासं काव्यालङ्कारौ निर्दिष्टम् ।

यद्यपि पुनरुक्तवदाभासमसिख्येदेशो वति: प्रयुक्तस्थालीप तस्येह गम्यमानाार्थे-स्त्वद्मयोगः । उद्देशो त्वैवमनभिधानमभिधावैचिच्यप्रदर्शनार्थम् । काचित् खलु गम्यमानाार्थोन्वयेन अभिधा प्रवर्त्तते, काचित्त्वभिधीयमानार्थोन्वयेन ।

तत्रोद्रेशो वस्त्वभिधीयमानसादृश्योन्वयेन अभिधा उपदर्शिता । इह त्वर्थ-सामर्थ्योवसेसादृश्योन्वयेन । तदेवमर्थसामर्थ्योवसेन वत्यर्थेनान्वितं पुनरुक्ताभासमत्न काव्यमलङ्कार्यै निर्दिष्टम् ।

तस्यालङ्कारः । अत्रालङ्कार्यै यत्काव्यं तद्वदर्थवेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतन्त्रतया । फलं चैवमभिधानस्य पुनरुक्तवदाभासमानपदसमन्वयस्य अलङ्कारताव्यापनम् ।

अलङ्कारस्य खल्वलङ्कार्यैपर-तन्त्रतया निरूपणे क्रियमाणे शुद्ध स्वरूपं निरूपितं भवति । स्वात्मन्यव-स्थितस्य तस्यालङ्कारताव्यापनाय काव्यपरतन्त्रतया निर्देशो युक्त एव ।

Page 10

१ वर्गः ]

लघुवृत्तौ

तस्योदाहरणम्—

तदाप्रृत्ति नि:सझी नागकुञ्जरकृत्तिभृत् ।

शितिकण्ठ: कालगलत्सतीशोकानलवयथ: ॥

तदाप्रृत्ति सतीचियोगादारभ्य स देव: शितिकण्ठो नि:सझ: सन्

दिवसान्तेन त्वाहितवान्ते तं वक्ष्यमाणं श्लोकं वाक्यार्थपरिसमासि: । कृत्ति-

शर्म । कालवशेन निवर्तमाना (या) सती (तस्या:) वियोगेन जनितो य: शोकवह्निसदृदृद्वा पीडा यस्य स तथोक्त:। अत्र नागकुञ्जरशब्दौ

शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासते । तथाहि । नागकुञ्जरश-

ब्दयो:पक्रमावस्थां गर्जवाचित्स्वेन एकार्थत्वं प्रतिभाति । पदार्थान्वयपर्य्य-

लोचनया तु तद्वध्यते । नागशब्द: खल्वत्र हस्तिवाची । कुञ्जरशब्दस्तु

तत्प्रशंसावगतिहेतु: । एवं शितिकण्ठकालगलशब्दद्योरपि वलीविरोषाव-

च्छिन्नशरीरावयवभेदोपेतार्थाभिधायित्वात्पुनरुक्त्यं संभाव्यमानं कालगल-

दिति तकारार्थपर्योचतया ज्ञाप्यतेते । तेनात्र दुग्धकथामतिवच्‍न ।

ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते । त-

कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यास: कृत: ।

उदाहरणप्रदर्शनमनन्तरेण लक्षणार्थस्य दुरोधिगमतवादिहैव तदुप-

न्यासमित्यदोष: । एवमुतरत्रापि प्रमेयशब्दानुसारेण ग्रन्थपाठक्रमविपर्य्य-

सेन व्याख्यायां नासूचितव्यम्। पाठक्रमादर्थक्रमस्य वलीयस्त्वात् ।

छेकानुप्रास:—

छेकानुप्रासस्तु द्वयोद्रदयो: मुसदृशोक्तिकृतौ । ३६

द्वयोद्रद्योर्भेदजनितसमुदायो: शुद्ध सदृशे उदाहरण क्रियामागे सति छेको-

नुप्रासो भवति । तथाविधा: समुदायास्तत्रालङ्कारतां प्रतिपचन्ते । द्वयोद्रद्र-

योरिति (स्वार्थेडवधार्यमाणे अनेकस्मिन्‍निति)द्विवचनं स्वार्थप्रहणेन वीप्साया

निरसत्न्वात् न यावन्तोद्व द्विक्ला: संभवन्नि तेषां सर्वेषामेव मुसदृशस्त्वं

कार्यं, किं तर्हि कतिपयानामेव । वीप्सा हि साकल्ये सति भवति । सा

चात्र स्वार्थशब्देन निरस्ता । अवधार्यमाणग्रहणाच्च द्वयोद्रद्योनेवात्र समुदा-

Page 11

ययोः सदृशत्वं, न तु तयोः तयाणामिति दृष्टव्यम् । अनेकस्मिन्विति वचनाच्च असङ्कदेवंबिविधरूपोपनिबन्धे सति छेकानुप्रासता न तु सकृदिति मन्तव्यम् । परस्परमेकरूवान्विता रसाद्यभिव्यक्त्यनुगुणत्वेन लड्घ्योत्कर्षा वर्णास्तत्समुदायैः वा शोभातिशयहेतुत्वेन काव्ये क्षिप्यमाणा अनुपास-शब्देनान्वर्थनाभिधीयन्ते । छेकशब्देन कुलायाभिरततां पक्षिणामभिधानम् । तदुक्तम्—“छेकान् गृहेप्वभिरतानुशन्ति मृगपक्षिणः” इति । तेषां च कुलायाभिरततवादन्येन केनचिदनायासममानेनानुप्रासेन सदशी मधुरा वागुच्यते । अतोड्यमनुप्रासरुकेकाव्यपदियते छेकानुप्रास इति । अथवा छेका विदग्धा । तद्रूश्रभतवादस्य छेकानुप्रासता । तस्योदाहरणम्—

स देवो दिवसावनिन्ये तसिद्धौलेन्द्रकनन्दरे । गरिष्ठगोष्ठीप्रथममैः प्रमथैः पर्युपासितः ॥

कनदरः शुचिः । गरिष्ठा गुरुस्तमा । 'प्रियङ्खिरः' (पा. अ. ६. ४. १५७) इतीष्ठानि गुरुशब्दस्य गरादेशः । गोष्ठी विदग्धानामासनबन्धः । प्रथमैः प्रमथैर्गणेैः । पर्युपासितः सेविचः । अत्र सदेवोदिवसशब्दौ इन्द्रकनदर्शब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिपुपासशब्दौ च द्वौ द्वौ अज्ञालस्सुदायौ मुसदशायुवुचारितौ तेन छेकानुप्रासता । कचितु 'निन्ये तसिन्र' इत्यत्र 'निन्येडन्यासिन्र' इति पाठः । तदा चैतदण्युदाहर-पेदन्तर्भवतीति ।

अनुप्रासः । स च त्रिविधो वृत्तिसंश्रयात् । यद्यक्ष्यति—

“सहृपाणां व्यज्जनानां पृथक् पृथगुपनिबन्धस्तमनुप्रासं कवयः सदैच्छन्ति । अतस्तास्वावृत्तयो रसाद्यभिव्यक्त्यनुगुणवर्णव्यवहाराल्मिका: प्रथम-ममिधीयन्ते । ताश्रित्तिस्रः; परुषोपनागरिकाग्राम्यस्वभेदात् ।

Page 12

१ वर्गः ]

लघुवृत्तौ

तत्र परुषा—

32 शवाभ्यां रेफसंयोगेष्टवर्गेण च योजिता ।

परुषा नाम वृत्तिः स्यात् हृदयाद्वैश संमता ॥

शकारषकारादियुक्तौ वर्णव्यवहारः परुषाख्या वृत्तिः । रेफो‌अलक्षितः

संयोगः कर्कशो रेफसंयोगः । टकारो‌अलक्षितो वर्गेष्टवर्गः टठडढणान्ति ।

अस्यां वृत्तौ योजनुप्रासः स परुषानुप्रासः । तस्योदाहरणम्——

तत्र तोयाशयशेषव्याकोशितकुरोशया ।

चकाशे शालिकिंशारुकपिशाशामुखा शरत् ॥

तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकारितानि कुरोश-

यान्ति पद्मानि यया इति समासः । तथा शालीनां धान्यानां किंशारुभिः

शूकैः कपिशानि पिङ्गराणि आशामुखानि दिगवकाशा यस्मिति समासः ।

अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः ।

उपनागरिका—

33 सरूपसंयोगयुतां सूक्ष्मवर्गान्त्ययोगिभिः ।

स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥

सरूपाणां वर्णानां ये संयोगाः कर्पच्च इत्यादयतैर्युक्ता । तथा वर्ग-

नैयैडडणणभैः डच्वणटन्तमप् इत्यादिरूपतया उपरि ये युक्ताः कादयो

मकारान्ताः स्पर्शो‌स्तैर्युक्ता उपनागरिका वृत्तिः । एषा खलु नागरिकया

वैदग्धीजुषा वनितया उपमितया तत् उपनागरिका । नागरिकया उपमिता

उपनागरिकेति । “अवादयः कुष्ठधर्थे तृतीया‌आ” इति समासः । तस्या-

उपनागरिकानुप्रासः । तस्योदाहरणं च——

सान्द्रारविन्दद्वृन्दद्योतस्थमकरन्दाम्बुविन्दुभिः ।

स्पृशन् स्पन्दिभिः सुन्दरस्पन्दन् नन्दितेन्दिन्दिरा कचित् ॥

अत्र दकारस्य स्पर्शो‌ऽकारेणोपनिबन्धेन युक्तः सारूप्येणो-

पनिबद्धः । सान्द्रा घना अरविन्दद्वृन्दद्योत्था मकरन्दाम्बुविन्दव् इति

संवन्यः । सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरस्पन्द-

Page 13

काव्यालङ्कारसार-

मिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्टनातितवत् । सुन्दर: स्पन्दो यस्यिन्रिति हि सामान्यमूते स्पन्दने अन्यपदार्थे सुन्दरताविशिष्टं स्पन्दनं वृत्तिपदार्थमूतम् । इन्दनिदरा भ्रमरा: ॥

ग्राम्या—

शेषैर्वर्णैरैयेथायोगं कथितां कोमलाल्पया । ग्राम्यां वृत्ति प्रशंसन्ति काव्ये शेषादतबुद्धय: ॥

परुषोपनागरिकोपयुक्तवर्णैरैकृतैरलेकारालिद्रिरुपनिबध्यमानां ग्राम्यां। तस्या एव च अपंर नामधेयं कोमललेति । कोमलाल्पया कथितामिति संबन्ध: । तस्यां चानुप्रासो ग्राभ्यानुप्रास: । तस्योदाहरणम्—

केलिलोलालिमालानां कलै: कोलाहलै: कचित् । कुर्ङ्यती काननारूढश्रीनूपररवभ्रमरम् ॥

केलिलोला: क्रीडालम्पटा: । कलैर्मधुरै: । अमो आन्तिरविरपर्ययप्रतय: । अत्र लुक् कारकारेफा: सारुप्येणोपनिबद्धा: । पृथक्मेतास्वित्थो वृत्तयो व्याख्यातात: । तासु च रसादिभिव्यक्तियानुगुण्येन पृथक् पृथगनुपासो निव-

ध्यते तदाह—

सरुपण्यझनन्यासं तिसृष्वेतासु यत्निषु । पृथक्पृथगनुप्राससमुशान्ति कवय: सदा ॥

अयं श्लोक: सोदाहरणो वृत्तिस्वरुपनिरुपणप्रसङ्गेन व्याख्यात: ।

३५ लाटानुप्रास:—

स्वरुपार्थोविभेषेऽपि पुनरुक्ति: फलान्तरात् । शब्दानां वा पदनां वा लाटानुप्रास इष्यते ॥

स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत् । तदनयस्य खतच(त्वा)त् द्वयोरैकपदाश्रयात् ॥

खतचपदरुपेण द्वयोरैपि प्रयोगत: । भिग्यते(ग्यते)डनेकधा भेदै: पादाभ्यासक्रमेण च ॥

शब्दानामनुपलब्यमानसुविदां तथा पदानामुपलभ्यमानसुविदां, उभ-

Page 14

येषां च शब्दपदानां स्वरूपपस्य वर्णात्मक्मन: अभिधेयेस्य च निरन्तरशब्दव्यापारगोचरोकृतस्य वाच्यस्यार्थस्यामेदेडपि फलान्तरातात्पर्यभेदात् पुनरुक्ति: सा लाटदेशनिवासिजनवल्लभतल्लाटानुप्रासोडभिधीयते ।

स च प्रथमं तावत्न्रिपकार: । द्वयो: स्वातन्ञ्योद्द्रयो: परतन्ञ्रयो: स्वातन्ञ्र्यपरतन्ञ्रयोरैश्व भावात् । तत्र यस्तावद्द्रयो: स्वातन्ञ्र्यो: स द्विपकार: ।

एकेकस्मिन् पदे पदसमुदायात्मके च पादे भावात् । तदुक्तम्—

"स्वातन्ञ्र्यपदरूपेण द्वयोरपि प्रयogत: ।

भियते डनेकधा भेदै: पादाभ्यासक्रमेण च ॥" इति ।

अत्र हि स्वतन्ञ्रपदात्मक्वेन द्वयो: प्रयogादेकैकपदाश्रयो लाटानुप्रासोडभिहित: । तस्योदाहरणम्—

काशा: काशा इवोद्यान्ति सरांसीव सरांसि च ।

चेतांस्याचिक्षिपुर्यूनां निर्गगा इव निर्गगा: ॥

आचिक्षिपुरपततवन्त: । अत्र काशादय: शब्दा अपरे: काशादिभि:

शब्दै: एकरूपा एकाभिधेयाश्र । तात्पर्यभेदेन तु तेषां पुनरुक्ति: । तथा

व्यतिरेकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यपरतया प्रयog: । अपरेषां तु अनन्वयालुब्धारच्छायया उपमानान्तरव्यावृत्तिपरतया । अत्र च

स्वातन्ञ्र्यं पदानां, चाद्वैतेरुपनिबन्ध: ।

एकेकरूपतया चाद्वैतेरुपनिबन्ध: । एकैकरूपतया

पदसमुदायात्मकेsस्य तु पादस्य स्वरूपार्थोविशेषे तात्पर्यभेदेन पुनरुक्तौ

पादाभ्यासपरिपाट्या स्वतन्ञ्रपदाश्रयो लाटानुप्रासो भवति । पादाभ्यासक्रमेण चेत्यत्र कमग्रहणोत् सकलक्रमग्रहणं पादाभ्यासे । ये भेदा: संभवन्ति तत्वीकारण पादाभ्यासे लाटानुप्रासस्य प्रवृत्ति: सूचित । तस्योदाहरणम्—

स्त्रियो महति भर्तृभ्य आगस्यपि न चुक्कुधु: ।

भर्तारोडपि सति क्षीभ्य आगस्यपि न चुक्कुधु: ॥

महत्यागसीति संबन्ध: । तथा ऋत सत्यागसीति भर्तृभ्य इति

क्षीभ्य इति च 'कृध हुह' इति सम्प्रदानता । अत्र एकत्र पादे नायकगताप-

Page 15

<

काव्यालङ्कारसार-

राधाविषयत्वेन क्षीकरत्वैक: क्रोधाभाव: प्रतिपादितः । अपरत्र तु नायिकानां यो भरतृप्रणयातिक्रमात्मकोडपराधस्तद्विषयो नायककर्तृक: क्रोधाभावोद्भिहितः । अतस्तात्पर्यभेद: स्वरूपार्थाविशेषेऽपि । पदसमुदायात्मकस्य च पादस्याभ्यास: । एवमयं स्वतन्त्रपदाश्रयो लाटानुप्रासो द्विविधोऽभिहितः । एकपदाश्रय: पदसमुदायाश्रयश्च स्वतन्त्रपदाश्रयो लाटानुप्रास: ।

द्वयोरनुपलभ्यमानसुसिद्धो: परतन्त्रयो: शब्दयोर्यो लाटानुप्रासस्तस्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च । तदुक्तम्—‘स पद-द्वितयस्थित्या द्वयो:' इति । सोऽनेकधा भेदैरिभिद्यते इति संबन्ध: । तथा द्वयोरेव पदाश्रयादिति ।

पूर्वस्योदाहरणम्—

कचिदुत्फुल्लकमला कमलभ्रान्तषट्पदा । घट्पदकाणमुखरा मुखरस्फारसारसा ॥

सारसो: लक्षणमाश्रया: पक्षिविशेषा: । अत्र कमलषट्पदपदमुखरशब्दानां स्वरूपार्थाभेदेऽपि तात्पर्यभेदेन पुनरुक्तिः: पदद्वितयाश्रयत्वं च । तात्पर्यभेद-श्वान्त कमलषट्पदशब्दद्वयो: कारकशक्तिभेदात् । तथाहि । पूर्व: कमल-शब्दोऽत्र विकारक्रियाकर्तृत्वपरतयोपात्त:, उत्तरस्तु क्रियाकर्तृभूतषट्-पदाधारत्वेन । तथा पूर्वे घट्पदशब्दोऽभणनक्रियां प्रति कर्तृत्वेनोपवर्णित:, उत्तरस्तु काणक्रियासंबन्धित्वेन । मुखरशब्दद्वौ तु विशेषणभूतं सहशब्दत्वं येनवगम्यते, अपरेण तु सारसनिष्ठम् । एवमयं पदद्वितयपरतन्त्रशब्दद्वय-याश्रयो लाटानुप्रासोऽभिहितः ।

एकपदाश्रयशब्दद्वितयवर्ती तु “द्रयोरेकपदाश्रयात्” इत्युक्त: ।

तस्योदाहरणम्—

षष्' जितान्यपुष्पकिज्जल्ककिङ्करश्रेणिशोभितम् । लेभेऽवतंसतां नारीमुखेन्दु:वसितोत्पलम् ॥

Page 16

लघुवृत्तौ

अत्र नारीसुरसैन्यति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शशक-

रूपतां ध्वन्यते । किज्जलकशब्दयोश्चात्र स्वरूपार्थोभेदः पुष्पदाश्रयत्वं तात्प-

र्यभेदश्च । एकस्य जीयमानतया उपादानात्, अपरस्य जन्यनक्रियाकर्तृभूता

यासौ श्रेणिसततसंनिधित्वेन । एवमयं परतन्त्रयो: शब्दयोर्लोटानुप्रासो

द्विविधो निर्दिष्टः ॥

स्वतन्त्रपरतन्त्रयोश्च यत्नैकस्य शब्दस्य पदान्तरानुप्रविशः, अपरस्य तु

स्वातन्त्र्येण पदरूपतयावस्थानं तत्र भवति । तदुक्तम्—“एकस्य पूर्ववत्-

दन्यस्य स्वतन्त्रत्वात्” इति । एकस्य पूर्ववत्पदान्तराश्रयेणावस्थानादि-

त्यर्थः । तस्योदाहरणं—

पदिनीन पदिनीसङ्गत्सुहृदयागत्य मानसात् ।

अनतद्नुरयमासुहृदैसा हंसकुलाल्यात् ॥

मानसात् सरोविशेषात् । दन्तुरयमासुः महत्त्वाच्छुचिकुत्वाच्च उत्तमदन्ता

इव चकुः । अत्र स्वरूपार्थोभेदेऽपि पदिनीशब्दयोर्हंसशब्दयौग्य तात्पर्य-

भेदात्पुनरुक्तिः । एकस्य पदान्तरानुप्रविशः, अपरस्य च स्वतन्त्रत्वम् ।

तात्पर्यभेदस्तु एकस्य पदिनीशब्दस्य कर्मरूपत्वात्, अपरस्य च सङ्ग्रहाविष-

यप्रतिपादनार्थत्वात् । तथा एकस्य हंसशब्दस्य दन्तुरणक्रियाकर्तृभूतार्थ-

भिधायित्वात्, अपरस्य तु कुलसंनिधित्वात् । एवमयं पद्यविधो लाटानुप्रा-

सः प्रतिपादितः । स्वतन्त्रपरतन्त्राणां तस्य प्रत्येकं द्विभेदत्वात् स्वतन्त्रपर-

तन्त्रयोश्च समुदितयोरेव लाटानुप्रासत्वात् ॥

रूपकम्—

श्रुत्या सङ्न्धाविरहाद्यत्पदन पदान्तरम् ।

गुणाश्र्चित प्रधानेन युज्यते रूपकं तु तत् ॥

वन्ध्यस्तरु यतः श्रुत्या श्रुत्यार्थाभ्यां च तेन तत् ।

समस्तवस्तुनिषयमेकदेशविवर्तिं च ॥

समस्तवस्तुविषयं मालारूपकमुच्यते ।

यदैकदेशवृत्या स्वात्पररूपेण रूपणात् ॥

Page 17

९०

काव्यालङ्कारसार-

पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति । नन्वेवं सति नीलशुत्पलमित्यत्रापि नीलशब्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपकताप्रसङ्ग इत्याशङ्क्योचं—श्रुत्या संबन्धाच्चिरहादिति । श्रुतिनिर्नन्तरार्थेनिष्ठ: शब्दव्यापार: । तथा श्रुत्या अनुपपद्यमानपदान्तरसंबन्धं सत् पदान्तरं गुणवृत्ति यत्रापेक्ष्यते तत्र रूपकता । यथापद्यमुनेन्दुकुम्भेन ताराकुसुमशारितम् ।

ऋमशो रात्रिकन्या|भिवयों मोघानमसिच्छत । इति ।

अत्राम्बुशब्दो निरन्तरार्थनिष्ठ|शब्दव्यापारगोचरीकृते उदकत्वे वर्त्मानो ज्योतिराशब्देन सामानाधिकरण्यं नानुभवति । अम्बुत्वज्योतिरात्ययोद्रेकार्थसमवायाभावात् । अतोडमुगा|त: शो|कृचाह्लादकत्वप्रसरणशीलत्वाद्दयो ये गुणास्तत्सदृशाज्ज्योतिरागतगुणवृत्ति: सादृश्याद्बुशब्दो ज्योत्स्नायां वर्तते । तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापारेण य: पदान्तरेण ज्योतिराशब्देन संबन्धस्तच्छून्यत्वादुणवृत्तित्वा । अतोडत्र रूपकता । नचैवं नीलशुत्पलमित्यादौ श्रुत्या संबन्धविरहादुणवृत्तित्वं, किंतर्हि स्वत एवेति न रूपकताप्रसङ्ग: ।

ननु विरुद्धार्थोभिधायिनो: समानाधिकरणयो: शब्दयोर्निरन्तरार्थनिष्ठेन अभिधाव्यापारेण अनुपपद्यमानान्योन्यसमानवयत्वादृग्वेकस्य लक्षणया गुणवृत्तित्वमभिधीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं भासते । नियमक|तित्वरूपकं, तद्रुज्योतिराशब्दस्यापि अम्बुशब्दसामानाधिकरण्यादुणवृत्ति|कथं न स्यादित्याशङ्क्योचं प्रधानेनैति । प्रधानार्थेनुरोधेन उपसर्जनस्य लक्षणया गुण|वृत्तित्त्वुपपत्तेः । प्रधानवशात्प्रवृत्तित्वादुणानामित्यभिप्राय: ।

तुरोधेन अम्बुशब्दस्य अमाकरनिकार्थोभिधायित्वात्र प्रधानार्थस्य गुणवृत्तित्वमुपपन्न|मिति न पर्यायेण ज्योत्स्नाम्बुशब्दयो: परस्परानुरोधेन गुणवृत्तित्वप्रसङ्ग: ।

ननु च ज्योत्स्नाम्बुनेत्यत्र अम्बुन: प्राधान्यं ज्योत्स्नायाश्च गुणभाव: ।

Page 18

१ वर्गः ]

लघुवृत्तौ

१९

तथा हि । एतस्मिन्नेवोदके तद्वावाघ्यवसानेन सेकावच्छादितरुपतया सेकातमकत्वेन यासौ व्योमो व्याप्तिरसिच्यते तत्र प्रतिपादिता, तथा खसाधनभूतं यत्तदम्भोडपेक्षितं तदत्र ज्योत्क्षया विशेषयते ज्योत्कैवामिळ्यति । यदत्र सेकसाधनत्वेनाम्भु अपेक्षितं तज्ज्योत्कैवेत्यर्थः । उक्तं च “डुपसर्जनोपमेयं रूपं तद्‌

कृत्वा' तु समासमेतयोरुभयोः । यच्च प्रयुज्यते तदपकमन्यत्समासोक्तम्” इति । एतयोरुभयोरिति । उपमानोपमेयोरित्यर्थः । तत्त्कथंमिदमुक्तं ज्योत्क्षापदस्य प्राधान्यात्तद्रशेनाम्भुरशदस्य गुणश्रुतित्वं कल्प्यते इति । अत्र खलु द्वे डवस्थे विद्येते । एका तावज्ज्योत्क्षया अम्भूकरणावस्था । अपरा तु अम्भुत्वमापादिताया ज्योत्क्षया: सेकसंचनयरूपा । तत्र यदा तावज्ज्योत्स्ना अम्भुरुपत्वमापद्यते तदा प्रकारणिकत्वात् ज्योत्क्षा प्रधानम् । अम्भु च तद्विपर्ययादणु । तदानीं चाम्बुशब्दो ज्योत्क्षाशब्दानुरोधेनामुगतशौक्यादिगुणसदृशगुणयोगाल्लक्षणया ज्योत्क्षायां वृत्तिमनुभवति । तदा च तस्य प्रधानार्थानुरोधादणुरुक्तम् । यदा त्वसौ अम्भुशब्द आपादिताम्भुभावज्योत्क्षामिध्याथी सन् सेकक्रियया समन्वयमापद्यमानो यदेतदत्र सेकसाधनत्वेनाम्भु उपयुज्यते तज्ज्योत्कैवेत्यर्थ: ज्योत्क्षया विशेषयते तदा तस्य न रूपकावस्था । पूर्वावस्थायामेवानुभूतगुणवृत्ति-

त्वात् । अतस्तस्यावस्थायामसौ अतिशयोक्तिच्छाया भाजते । पूर्वावस्था-पेक्षयात्वेतद्रूपकमुक्तम् । प्रधानानुरोधेन तत्र गुणेषु वृतिमानत्वात् । रूप-कत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवत्‌ क्रियमानत्वादन्वर्थे दृष्टव्यम् ।

अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनानादुपमेय उपमानगतयो: शब्दरूपयोरारोप: । तत्र तयो दर्शсनभेदा: । केचिदत्र शब्दारोपपूर्वक-मर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम् । अन्ये त्वर्थारोपार्थी-रोपयोरेवंगपथममिधीयते । अयमेव च पक्षो युक्त इव हृश्यते । तदाहु:-

“शब्ददोषचारात्तद्रूपं रूपकं कैश्चिदुच्यते । । तादृङ्यारोपतद्वाच्यै: शब्दारोपोडत्र कथ्यते ॥

Page 19

१२

काव्यालङ्कारसार-

उपमानगुणेsशुल्यानुपमेयगतान् गुणान् । पश्यतां डु सकृद्वाति तत्र तच्छब्दरुपता ॥" इति । रूपं तत्रेति । उपमेये इत्यर्थः । तच्छब्दरुपत इति । उपमानशब्दारोप उपमानरूपारोपश्च ।

तस्य च रूपकस्य द्विपकारता । सकर्णठेन सकलरुपणाभिधानादेक: प्रकार: । तदुक्तम्—"बन्धस्तस्य यत: श्रुत्या तेन तस्य वस्तुविषयमू" इति । श्रुतिनिरंतरार्थान्नि:ष्ठोsमिधाव्यापारस्तस्योदाहरणं 'ज्योत्स्नाम्बुना' इत्यादुक्तम् । शाब्दितं शाबलितमू । यत्र हि सर्वेषामेव रूप्यत्वेनोपात्तानां ज्योत्स्नैन्दुताराराशिव्योम्नां यथाक्रममभुकुम्भकुसुमकन्यकन्यानि रूपकत्वेन सकर्णठेनोपात्तानि, न तु स्वार्थौक्षिणं कस्यचिद्रूपणम् । तेन श्रुत्यैवात्र रूपणां । अत: समस्तवस्तुविषयत्वम् । समग्राणि ह्यात्र रूप्यत्वेनाभिमतानि वस्तूनि सकर्णठेनोपात्तस्य रूपकस्य विषय: । अयंसावेक: प्रकार: ।

यत्र तु किंचिद्वस्तुकर्णठेन किंचिद्वार्यौद्दूपणं भवति, तत्र श्रुत्यर्थोभ्यां रूपणाद्द्वैपर: प्रकारो भवति । यत्र चैकदेशाविवर्तित्वम्, एकदेशविशेषण सकर्णठोक्त्या वर्तनात् । तदुक्तं 'घटश्र श्रुत्यर्थोभ्यां तस्य बन्धस्तेन सदेकदेशविवर्ति च' इति ।

तस्योदाहरणम्—

उत्पत्तौ: पतदृश्व पिच्छालोलीवालशालिभि: । राजहंसैर्वीजयन्त शरदेव सरोऽन्वपा: ॥

पिच्छाल्य: पक्षपङ्कय: । राजहंसां रक्तच्छुपादा हंस: । अवीज्य- न्तेति । वीजिधातो:ष्पप्ठीतोडपि शिष्टप्रयोगात् मिलितचिक्क्रविक्षपिद्धा- तुतया दृश्यव्य: । यत्र द्वे रूपणे सकर्णठेनाभिहिते पिच्छालोलीवालशालिभि- रिति सरोनृपौ इति च । तथाहि एकत्र पिच्छालो व्यालरूपत्वेन रूपिता:, अपरत्र तु सरांसि त्रपरूपत्वेन । राजहंसानां चामररूपत्वेन रूपणां अर्थो- दिसा, शरदक्ष । प्रकृतया नायिकात्वेन । शरद्वायिकया कर्त्रृभूतया राज- हंसचामरै: पिच्छालोलीवालशालिभि: सरोनृपा वीज्यन्ते स्मेति ह्यात्र वाक्यार्थ: । एवमेतौ रूपकस्य समस्तवस्तुविषयैकदेशविवर्तिलक्षणौ द्वौ प्रकारावुक्तौ ।

Page 20

१ वर्गः ]

लघुवृत्तौ

१३

यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र द्वेकेसिनं रूप्ये समुच्चयेन अस्सन्ते क्षिप्यन्ते बहूनि रूपकाणि । तदुक्तं—‘समस्तवस्तुविषयं मालारूपकं मुख्यते ।’ यद्वेति प्रकारान्तरोपक्षेपार्थः । तस्योदाहरणं—

वना न्तदेवतावेण्यः पान्थश्रीकालश्रृङ्गुला ।

भरितविरासिलता भृङ्गमालाश्विकासिरे ॥

वना न्ता वनैकदेश । वेण्यः केशपाशः । कालश्रृङ्गुला अन्तकप्रयुक्ता आकर्षणश्रृङ्गुला । मारप्रवीरा मन्यथासंबन्धिनो भटा । अत्र भृङ्गमालानामेव केवलानां रूप्यत्वेनोपाचमानां तिष्ठो रूपाणः कृताः वना न्तदेवतावेण्य इत्येवमादिना । तेनात्र समस्तवस्तुविषयता, एकसिनं रूप्ये समुच्चयेन बहूनां रूपणानां क्षिप्तत्वात्—

एकदेशविवर्त्तिं तु पररूपेण रूपणाद्व्रवति । तदुक्तं ‘एकदेशवृत्ति स्वातपररूपेण रूपणात्’ इति । तस्योदाहरणम् ।

उपसरधराविशिखेनभोगिप्रभासौ स्फुरिते ।

प्रसाध्यते स्म धवलैराशाराज्यं बलाहकैः ॥

आसारो वेगवृद्धर्षम् । विशिखा: शराः । अत्र प्रसाध्यत इत्ययं शब्दः क्षेपवच्छायया दृयोरथयोरथवर्त्तते भूषण उपार्जने च । तत्र भूषणं प्रकृतम् । शरत्समयो ह्यात्र प्रसक्तः । तत्र च शुकवेलाहकैर्दिशो भूष्यन्ते । यदुपार्जनं तदप्रकृतत्वादत्र परमन्यत । तस्य च परस्वापकृतस्य उपार्जनस्य यच्च दृपं कारककव्बकं तेन तदृपवचक्रियते नृपविशिखराज्यसंग्रामभूम्या-

त्सकं तेनात्र यथाक्रमं बलाहकासारधारादिगृदृभोभागानां रूप्यत्वेनाभिमतानां रूपणां विधिता । तेनात्रैकदेशवृत्तित्वम् । एकदेशशब्दश्चित्त्वन् हि एकदा अन्यदा ईशः प्रभविष्णुर्यों वाक्यार्थस्तद्वृत्तित्वं रूपकस्याभिमतम् । विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्ट्टेन एकदेशशब्द एव

व्याख्यातो यथेहास्याभिनिरूपितः । तत्र विशेषोक्तिलक्षणम्—“एकदेशस्य

विगमे श्रा गुणान्तरसंस्कृति: । विशेषप्रथनायासौ विशेषोक्तिरमता यथा?’

इति । तेनात्र विशेषोक्तिलक्षणवदेकदेशशब्देन अन्यदा प्रभविष्णुर्यो-

३४

Page 21

१४

काव्यालङ्कारसार-

काव्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभाविणोपरर्जनम् । अप्रकृतं हि तत् शेषकशेषनात्र नीतं, तेनात्रैकदेशद्रव्यचिता ॥

दीपकम्—

आदिमध्यान्तविषया: प्राधान्ये तरयोगिन: ।

अन्तर्गतोपमाधर्मा यत्र तधीपकं विद: ॥

यत्रान्तर्गतोपदर्थसामर्थ्याद्वसेयतादुपमानोपमेयभावो येषां तथाविधानां धर्माणामुपनिबन्धस्तत्र काव्यदीपकं भवति । तथाविधकाव्यविषयत्वाच्च दीपकस्य तत्काव्यं दीपकमित्युपचारात्सामानाधिकरण्यम् । अत्र च धर्माणामेकवारसुपनिबन्धो द्रष्टव्य: । असकृदुपादाने हि तेषां प्रतिवस्तूपमां वक्ष्यति । अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानोपमेयभावेन अवस्थितौ वाक्यार्थौ बहवो वा तथाविधास्तदुद्दीपनहेतुत्वाद्विपकता । यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेनात्रोपनिबन्धस्ता वद्धलत्याधान्ये तरयोगित्वमापतति । उपमेयस्य प्रकारणिकतया प्राधान्यादुपमानस्य च तादर्थ्येन गुणभावात् । एवं च प्राधान्ये तरयोगिन इत्ययम्संनुवाद: । प्राप्तार्थत्वात् । प्राधान्यं च इतरेतरचाप्राधान्यम् । ताभ्यां योग: संबन्धो विधते येषां ते तथोक्ता: ।

अस्य च दीपकस्य त्रिविधम्, तेषां धर्माणामादिमध्यान्तवाक्यविषयस्वेनोपनिबन्धात् । तदुक्तं ‘आदिमध्यान्तविषया:’ इति ।

तत्रादिदीपकसोदाहरणम्—

संजहार शरत्काल: कदम्ककुसुमश्रिय: ।

प्रेयोवियोगिनीना च नि:शेषसुखसम्पद: ॥

अत्र संहारणात्मा धर्म: कदम्ककुसुमशोभाकरमकत्वेन विरहिणीसुख-

संपत्करकत्वेन च उपनिबन्ध्यमानोऽन्तर्गतोपमत्वम् । शरत्समयस्योपवर्ण्य-

मानतया कदम्ककुसुमश्रीसंजहारस्य प्रकारणिकार्थेनिष्ठत्वाद्विरहिणीसुखसंप-

त्संहारस्य चाप्राकरणिकार्थविषयत्वात् । तेनात्रान्तर्गतोपमत्वम्, यथा

प्रेयोवियोगिनीना नि:शेष: सुखसम्पद: संजहार तथा कदम्ककुसुमश्रियो-

Page 22

१ वर्गः ]

लघुवृत्तौ

१५

उपोति । शरत्कालशब्दस्य चात्र शरत्समयः श्रेष्ठच्छायया अन्तकानुरक्षितो वाच्यः । संहारस्यान्तकर्मत्वात् । अत्र च प्रथम एव वाक्ये संजहारेत्यसोपनिबद्धस्य द्वितीयवाक्ये अनुषङ्ङछायया उपजीव्यमानस्वादादिदीप-कतवम् ।

मध्येदीपकस्योदाहरणम्—

विदेशवसतिर्यातपतिकार्जनदर्शनम् ।

दुःखाय केवलमभूच्च्छरच्चासौ प्रवासिनाम् ॥

यातपतिका: प्रोक्षितभर्तृका: । शरद: प्रकारणिकत्वादिदेशवसतिर्यात-पतिकार्जनदर्शनयोश्वाकारणिकत्वादत्नर्गतोपमता । अत्र च यातपतिकार्जनदर्शनं दुःखाय केवलमभूदिति मध्ये वाक्ये प्रवासिनु:शैवहेतुत्वरक्षणो धर्मे उपात्त: सन्नायान्ताभ्यां वाक्याभ्यां पूर्ववदुपजीव्यते । तेन मध्येदीपकता ।

अन्तदीपकस्योदाहरणम्—

तदानीं स्फीतलावण्यचन्द्रिकामरनिर्भरः ।

कान्ताननेन्दुरिन्दुश्व कस्य नानन्दकोडभवत् ॥

तदानीं शरत्समये । अत्र इन्दुः प्रकारणिक: शरत्समयस्य उपवर्ण्य-मानत्वात् । कान्ताननेन्दुरिन्दुस्वप्रकारणिक: । अन्ते च सर्वेश्वखहेतुत्वस्मुपनिबद्धं सत् पूर्ववत् उपजीव्यते । तेनात्रान्तदीपकता । एवमेतद्दीपकं लक्षित-सुदाहृतं च ॥

ननु उपमाया 'उपमा दीपकं च' इति पूर्वंसुदृष्टत्वात् यथोदेशलक्षण-स्मति न्यायात्स्या दीपकं पूर्वं लक्षणं कृतव्यानम्, पश्चात्तु दीपकस्य । तत्कथ-मादौ दीपकं लक्षितमिति वक्तव्यम् । उच्यते । अनेऩ ग्रन्थकृता खोपरोचि-तकुभारसंभवैकदेशोदत्र उदाहरणत्वेनोपन्यासत् । तत्र पूर्व दीपकस्योदाहर-णानुसन्धानाविच्छेदायात्र उद्देशक्रमः परित्यक्तः । उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात् । एवमुत्तरत्रापि लक्षणेपु उद्देशक्रमानुसा-रणसमाधिवोच्यः ॥

Page 23

३६

काव्यालङ्कारसार-

उपमा——

यच्चेतोहारीसाधर्म्यमुपमानोपमेययोः ।

मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ॥

यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति ।

सहशादिपदाश्रेषादन्यथेत्यादिता द्वया ॥

संक्षेपाभिहिताप्येषा साम्यवाचकविच्युतेत् ।

साम्योपमेयतद्वाचिवियोगाच्च निर्बध्यते ॥

उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात् ।

कचित्समासे तद्वाचिविरहे कचिच्च सा ॥

तथोपमानादाचारकृतुप्रतयबलोक्कितः ।

कचित्सा कर्तुराचारे कचिद्सा च किपा कचित्

उपमाने कर्मणि वा कर्तरि वा यो नशुलकसादि

तद्वाच्या सा वतिना च कर्मे सामान्यवचनेन ॥

पष्टीसप्तम्यन्ताच्च यो वतिनोमतसद्भिधये ।

कल्पप्रभृतिभिरन्यैश्च तर्जितैः सा निर्बध्यते कवि

सादृश्यसंनिधितवेनोपादीयते यस्मादणिकं तदुपमेयम् । न खलु

रणिकस्यापि सादृश्यसंनिधित्वेन अनुपादीयमानस्योपमेयता, यथ

पुरुषमानीयेत्यत्र पुरुषस्य । पुरुषो ज्ञात्रीयमानत्वेन चौदमानत्व

प्राकरणिकत्वे सादृश्यसंनिधित्वेनानुपादीयमानस्वान्त्रोपमेयः । य

सादृश्यसंनिधित्वेनोपादाने यस्य प्राकरणिकत्वं नास्ति तस्योपमानत्वं

मेयत्वमिति प्राकरणिकस्यैवोपमेयत्वम् । तद्वेन सादृश्यसंनिधित्वेनो

पादीयते यस्मादणिकं तदुपमेयम् । तद्वच्युपमानेन सादृश्यप्रतिपादनद्वारे

क्षिप्यते तस्मादुपमेयम् । अपाकरणिकं तु तथाविधमेवोपमानस्

पमानोपमेययोर्यत्साधर्म्ये समानो धर्मः तेन धर्मेण संबन्धो यः सा

नोपमेयोः सादृश्यद्वारेण सामीप्यपरिच्छेदहेतुस्वादुपमा । तस्याश्च

धिकाराच्चेतोहारित्वं लडधर्मेव । काव्यशोभाभावहानां धर्माणां गुण

Page 24

कत्वे सत्यलङ्कारत्वात् । गुणाः खलु काव्यशोभाहेतवो धर्माः । ते च माधुर्यौजःप्रसादलक्षणाः । येषां तु गुणोपजनितशोभे काव्ये शोभातिशयहेतुत्वं तेऽलङ्काराः । यदवोचद्रुढवामनः—‘काव्यशोभायाः कर्तारो धर्मो गुणाः । तदतिशयहेतवस्त्वलङ्काराः” इति । तेनालङ्कारत्वादेवोपमायाश्रेतोहारित्वं लेढ्यते । अतश्रुतोहारित्वमनुवादः । प्राप्यार्थत्वात् । उपमानोपमेयभावाच्च नात्यन्तं साधर्म्येण उपादाने सति भवति गौरवायं गौरिति । अत उत्तं मिथोविमिश्रकलादिशब्दयोरिति । कालादयोऽत्र शब्दप्रवृत्तिनिमित्तसूता विवक्षिताः । केषांचित्खलु शब्दानां स्वार्थे प्रवर्तमानानां कालः प्रवृत्तिनिमित्तम्, यथा वसन्तादीनाम् । केषांचित्तु दिक्, यथा प्राच्यादीनाम् । केषांचिज्जातिर्यथा गवादीनाम् । शुक्रपक्षृतीनां तु गुणः । गच्छत्यनुसर्तव्यम् । मिथः: परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता यथा: शब्दार्थास्तावद्भावो शब्दो वाचको यथारुपमानोपमेयोरिति बहुश्रुहीङ्गमो बहुत्रीहिः । गौरवायं गौरित्यमिधाने तु न प्रवृत्तिनिमित्तभेदः । गोत्रवशैवैकस्य प्रवृत्तिनिमित्तत्वात् । तेन एवंविध उपमानोपमेयभावो न भवति । ‘उपमा तु तत्त्व’ इत्यत्र वाक्ये तुशब्दोऽलङ्कारान्तरे व्यतिरेके । उपमा पुनरेवमपकारेत्यर्थः ।

एषा चोपमा द्विधा, पूर्णा छसा च । पूर्णो यत्र चतुष्टयस्युपादीयते उपमानसमपमेयं तयोश्च साधारणो धर्मः: सोन्दर्योदिरुपमानोपमेयभावस्य बोतक इवादिः । साच पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेतत्वात् । तत्र वाक्यावसेयाया: श्रौतत्वार्थस्वभेदेन द्विविध्यं । अव्ययावसेया श्रौती । अव्ययं हि लिङ्विभक्तिकत्वेन उपमानोपमेययोरेकतरत्राप्यविश्रान्त्वादुपमानोपमेययोरुपमितिक्रियाविषयतया यथायोगं कर्मकरणभावात्मकं सम्बन्धमवचद्योतयति । अतस्तत्र श्रौती उपमा । तदुक्तम्—‘यथेवशब्दयोगेन श्रुस्थान्वयमहति’ इति । यथेवशब्दौ चात्रोपलक्षणम् । अव्ययान्तरादपि वाशब्दादौ: तेन रुपेण उपमानोपमेयभावस्यावगते: ।

Page 25

३८

काव्यालङ्कारसार-

यथा—

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं । दूरीभूते मथि सहचरे चक्रवाकीमिवैकाम्‌ । गाढोत्कण्ठां गुरुधु दिवसेष्वेषु गच्छत्सु बालां । जातां मन्ये शिशिरमथितां पद्मिनीं वानरुपाम्‌ ॥

तत्र यथाशब्दयोगे तस्यां उदाहरणम्‌—

क्षणं कामज्वररोथितये भूयः संतापयितुं द्वये । वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा ॥

अत्र चान्द्री चन्द्रिका उपमेया । चन्दनं सुपमानम्‌ । कामज्वररोस्थिति-हेतुत्वं संतापयितुं द्विती निवन्धनतद्वं चानवस्थितं साधारणो धर्मः । यथा-शब्दश्राव्यतयैवेन लुप्तविभक्तिकतदुपमानोपमेयोरे कतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति । तेनेयं संपूर्णा श्रौती च । एयमिवाशब्दयोगेऽप्युद्यादाहरणं योज्यम्‌ ।

नेत्रैरिवोत्पलैः पद्मैरिव खैरिव सरःश्रियः । तरुण्य इव भान्ति स चक्रवाकीः स्तनैरिव ॥

एवमियमवव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता ।

अत्र या तृपमा सदृशादिमिः पदैः दृष्टा तस्यां न श्रौतेन रूपेण उभयानु-यायितया उपमानोपमेयभावोद्गम्यते, आपि तु अर्थतः । सदृशादीनां पद्यानामुपमानोपमेयोरे कत्रैव विश्रान्ते । अन्यत्र च तदुतसादृश्यपर्यो-लोचनया तत्संबन्धित्वावगते । तेनासौ अर्थः । तदुक्तं ‘सदृशादिपदा-श्लेषाद्‌ न्यथा’ इति । अन्यथेति । अश्रौतेन रूपेणेत्यर्थः । तस्या उदाहरणम्‌—

प्रबोधाद्वलं रात्रौ किल्कल्कालीनषट्पदसम्‌ । पूर्णेन्दुबिम्बप्रतिमममासीत्कुसुमदकाननम्‌ ॥

अत्र कुसुमदकाननं विकसिंतं किल्कल्कालीनषट्पदत्वविशिष्टमुपमेयम्‌, पूर्णेन्दुबिम्बमुपमानं, धवलत्वं साधारणो धर्मः । प्रतिमाशब्द उपमानो-पर्णेनदुविभ्रुप्रतिममुपमानम्‌ ।

Page 26

उपमेयभावावगतिहेतुः । स 'च उपमाने विश्रान्तः । तथाहि । पूणेंदुविम्बं प्रतिमा प्रतिविम्बं सहशमस्येति बहुत्रीहिरन्व् क्रियते । तेन प्रतिमाशब्द उपमाने विश्रान्तः । तेनापि अर्थोऽुपमेयस्य साध- र्यमवगम्यते । साधश्यसौभयाधिष्ठानत्वात् । यदापि च पूणेंदुविम्बेन प्रतिममिति । तत्प्रतिपुरुषषष्ठीसमासे य उपमेये स्वक्पदेनाभिहितं साधश्यम् । उपमाने च तस्यार्थप्रतिपत्तिः । अतो बहुत्रीहौ उपमानगतसाधश्यपर्य्य- लोचनया उपमेयस्ववरागम्यते । तत्पुरुषे तु उपमेयवर्तिसाधश्यविचारेण उपमानस्योपमानस्वभावगतिरित्यर्थोऽत्रोपमानोपमेयभावावगतिहेतुः ।

अत्र च उपमेयवर्तिंकिङल्कालीनषड्पदार्थाभिधानासमध्योदपरमपि साध्य श्येमनभिहि- तमसितोदरत्स्वलक्षणमाक्षिप्तम् । यथा पूणेंदुविम्बं शशा लाछनत्वादसि- तोदरमेवं कुशद्काननमपि किङल्कालीनषड्पदस्वादिति । अतोऽसितोदरत्व- लक्षणं धर्म्ममपेक्ष्य ल्हुटैकदेशत्व्वालुसापीयसमुपमा । 'नेत्रेरिवोतरलैः' इत्यादौ तु यथापि नेत्रोत्पलादीनां समानधर्मा दीर्घेत्यवनीलत्वादयः । खशब्ददेन नोप- चास्तथापि भान्तीतिभिधीयमानार्थे तेषामनुप्रवेशात्संपूर्णत्वमेवोपमाया;, चतुष्प्रेयोपलम्मात् । नेत्रादीनि ज्योतोपमानानि । उत्पलादीन्युपमेयानि । मानं दीर्घत्वनीलादिविशेषणपर्यन्तं साधारणो धर्मः । इहशब्ददक्ष्य उपमा- नोपमेयभावावगतिहेतुः । तेनैयुपमासंपूर्णेव प्रबोधाद्रलमितीयं त्वसि- तोदरत्वापेक्ष्या ल्हुत्वेनाध्युक्ता । समासोपमा चैषा पूणेंदुविम्बप्रतिममितिं समासस्य विहितत्वात् । यदा त्वत्र वाक्योपमा विवक्षित भवति तदैतदे- वोदाहरणं तदुदाहरणार्थेवेन 'अखण्डेनेन्दुना तुल्यमसीकुशद्काननम्' इत्थेवन परिणमयितव्यम् ॥

एवमेषा संपूर्णा वाक्यावगम्या द्विविधोपमा प्रतिपादिता श्रौती आर्थी च । समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्ता ॥

या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतस्वार्थत्वभेदेन । तत्र तस्येवेयनेन हि यो वतिवृधीभूतेयता तस्स इवार्थे विधीयमानत्वादिव- शब्दवच्छ्रौतेन खपेण उभयानुयायितया उपमानोपमेयभावावगतिनिबन्ध-

Page 27

२०

काव्यालङ्कारसार-

नत्वम्। यः पुनस्तेन तुल्यमिति तुल्यार्थे वतिरिविधीयते तत्तो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इत्युपमेये यत्तदृश्ययतनक्रियाद्वारेण विश्रान्तं तु तुल्यत्वं तत्पर्यालोचनया अर्थोदुपमानस्योपमानत्वमवगम्यते । तेनार्थस्तत्र उपमानोपमेयभावः । तदुक्तम्—‘वतिना च कर्मसामान्य-वचनेन । पष्टीससमन्वन्ताच्च यो वतिनोमतस्तदाभिधेये’ इति । कर्म-सामान्यवचनो वति: ‘तेन तुल्यं क्रियाचेद्वति:’ (पा. अ. ५. १. ११५.) इति क्रियातुल्यत्वे वेदभिधानात् । तेन चाभिधीयते उपमा । वाच्येति पूर्व-पकान्तरानुषज्यते । पष्टघन्तात्सससमन्वन्ताच्च नामतो नाम्नः प्रातिपदिका-दिति सम्बन्धः ॥

तत्र पूर्वस्या उदाहरणम्—

अपि सा सुमुखी तिष्ठेदृश्टे: पथि कथंचन ।

अप्रार्थितोपसंपन्ना पतितानश्रद्धचित् ॥

अप्रार्थितोपसंपन्ना दृष्टे: पथि कथंचन पतिता तिष्ठेदिति संबन्धः । अग्नोनाग्रावृ्टिरुपमानम्, सुमुखी उपमेया । अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः । वतिशब्द क्रियातुल्यत्वे विधी-यमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः संसुत्यत्वपर्यालोचन-योपमानस्योपमानत्वमवगमयति । ततोडन्रार्थोदुपमानोपमेयभाव: प्रतীয়ते । तेनेयं संपुर्णी आर्थीच तद्वित्तावसेया ।

द्वितीयस्या उदाहरणम्—

कि सुरुत्कलिका मदृत्तस्या अपि निर्गेला: ।

अकाण्डदोण्डामरानकहतकेन समर्थिता: ॥

अकाण्डदोण्डामरोदनवसरे उद्भट: । प्रचण्ड इति पाठान्तरम् । उत्क-लिका: उत्कण्ठा: । अत्रासदृर्थ उपमानम् । तच्च्छदृार्थ उपमेय: । मनमथेन समर्पिता यासां निर्गेला: उत्कलिकास्तासु कर्तृकं भवनं साधारणो धर्म: । वतिशब्देवार्थे विधीयमानत्वादिवशब्दबहुपमानोपमेययोरेकर्तरत्राध्यविश्रान्त: श्रौतेन रूपेणोपमानोपमेयभावांवमेव द्योतयति । तेनेयं संपुर्णी श्रौती च

Page 28

१ वर्गः ]

लघुवृत्तौः

२९

तद्धितावसेया । अत्र हि तस्या अपीति पाढे षष्ठ्यन्ताद्वर्तिन्विधेयः । यदा तु तस्यामपीति पाढस्तदा संशयः स उपमेयाद्यावर्त्तत इति । एषमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिविधोपमा प्रतिपादिता । तत्र च वाक्यतद्धितावसेयोरुपमयोः प्रत्येकं श्रेण्यर्थविमर्दन द्विविध्यस्सुक्कं । समासावसेयारियारिस्वार्थविमर्दन । अतः पञ्चप्रकारेशा संपूर्णा ।

या तु लैकदेशत्वाल्लिङ्गतोपमा सा संक्षेपोपमा । तस्याश्च पश्चविधत्वं वाक्यसमाससहुधातुकतद्धितावसेतत्वात् । तत्र वाक्ये या संक्षेपोपमा सा पूर्वसुदाहृता ‘अखण्डनेनहुना तुल्यमिति’ । अत्र हि स्थितोदरत्वस्य अनुपातत्वात्त्साधारणधर्मोनुपादानाल्लैकदेशत्वमपि विधते ।

समासावसेया पुनः संक्षेपोपमा त्रिविधा । एकद्वित्रिलोके भावात् । एकलोके द्विविधा, साधारणधर्मेवाचिन् । इवादेरवोनुपादानात् । तदुक्तं ‘मात्रावाचकनिचित्ये’मिति । ‘नताधिकरणोदेशे’मिति । मात्रावाचकसाधारणधर्मेवाची । ( साधारणधर्मः ) सौन्दर्यादि: । तद्वाची उपमानोपमेयभाववाची च इवादि: । अत्र च सर्वत्र प्रकरणे ‘संक्षेपामिहिताव्येपा’ इति, ‘कचित् समास’ इति, ‘निबध्यते’ इति च त्रयं प्रत्येकं यथोपयोगमनुषज्यते ।

तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्या: पूर्वमेवोदाहरणमुक्तं ‘पूर्णेन्दुमिम्बप्रतिमिमि’मिति । अत्र हि स्थितोदरत्वमर्थसामर्थ्याद्व्यवसेतत्वाच्छन्देन नोपात्तम् ॥ इवादिवियोगे तु तस्या उदाहरणम्—

इति काले कलेोल्लापिकादम्बकलसज्जले ।

त्रिदशाधीशशाद्दूलीं पश्वाच्चापेन धूर्जटि: ॥

तां श्रशिच्छायावदनां नीलोत्पलदललक्षणाम् ।

सरोजकर्णिकागौरीं गौरीं प्रति मनो ददौ ॥.

कादम्ब्या: पक्ष्मभेदा: । सरोजकर्णिकागौरीं गौरीमित्यत्र सरोजकर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः । तच्च त्रयं स्वकप्ठेनोप-

Page 29

२२

काव्यालङ्कारसार-

पातचम् । इवाध्यर्थेसतु उपमानस्य साधारणधर्मेवाचिना सह "उपमानानि सामान्यकचनै:" (पा. अ. २.१.५५ ) इति यः समाससत्त्सामर्थ्योदवगम्यते । तेनेयमिवादिशब्दलोपाल्लुप्तैकदेशा । एवमेकलोपी सति द्विविधा समासोपमोक्ता ।

द्वितयलोपी त्वेकप्रकारा भवति, साधारणधर्मेवाचिन इवादेश्य समुपद्यमान्त्र साम्यवाचिनो शब्दो लक्ष्यते । तदुक्तं 'उपमानोपमेयोक्कौ साम्यतद्वाचिविच्छव्यवात्' ।

अन्त्र साम्यशब्देन साम्यवाची शब्दो लक्ष्यते । साम्यविच्च्यवाचोपमाया असंभवात् । तस्या उदाहरणं 'त्रिदशशाधीशशार्दूल' इति, 'नीलोत्पलदललेखणम्' इति च । 'त्रिदशशाधीशशार्दूल:' इत्यत्र च त्रिदशशाधीश उपमेय:, शार्दूल उपमानम् । तच्च द्वयं स्वकण्ठेनोपात्तम् । इवाध्यर्थे: साधारणश्र धर्मस्तेजस्वित्वादि: सामर्थ्योदवसीयते । 'नीलोत्पलदललेखणाम्' इत्यत्र तु नीलोत्पलप्लाल्पाननुपमानत्वं, ईक्षणयोरुपमेयता । एतयोश्र स्वकण्ठेनोपपादानम् । नीलरवदीर्यत्वादिसाधारणो धर्म इवाध्यर्थेश्र उपमानोपमेयभावक: सविशेषेण अनुपात्तोऽपि समासवशेनार्थसामर्थ्योदवसीयते ।

त्रितयलोपी तु साधारणधर्मेवाचिन उपमेयाभिधायिन उपमानोपमेयभाववाचिनश्र इवादेश्यगपदप्रयोगात्समासवर्त्तिनी संक्षेपोपमा भवति ।

तदुक्तं "साम्योपमेयतद्वाचिवियोगाच" इति । अत्रापि पूर्ववत्साम्योपमेयाभिधानां तद्वाची शब्दो लक्ष्यते । तस्या उदाहरणं "शशिच्छायादनासि"ति । अत्र हि शशिच्छायातुल्या तद्वाचौ शब्दौ लक्ष्यते ।

यस्या इति बहुत्रीहिगमे बहुत्रीहीह शशिकान्तिरुपमानं, वदनकान्तिरुपमेया । तयोश्र साधारणो धर्म आह्लादकत्वादिसुल्यत्वं चैति चतुष्ठयभवगम्यते । शब्दस्फुटं तूपमानमेव शशिच्छायायेतितदितरसोपमेयादे-भवगम्यते ।

Page 30

१ वर्गः ] लघुवृत्तौ । २३

क्षितयस्य समाससामर्थ्येनार्थावसेयत्वात् । एवमेषा त्रितयलोपी समास-वर्तिनी संक्षेपोपमा उदाहृता । तदेवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता । एकलोपी द्वे, द्वितयलोपी एका, त्रितयलोपी चैकैति ।

सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा कयच् कयड् किप् प्रत्ययाव-सेयत्वात् । कयच् कयड् किप् प्रत्ययप्रकृत्यादिकरणे-पमानकत्वाच्च । तदुक्तं “तथोपमानादाचारे कयच्‌प्रत्ययबलोक्तितः” इति । यथा समासे संक्षेपाभिहिता उपमा समाससामर्थ्यादवगम्यमाना निवध्यते तथा कंसिंश्चिद्वृत्तिष्ये उपमानात्कर्मणः अधिकरणाद्वा आचारा-र्थे यथाक्रमं सौत्र औपसंख्यानिकश्व यः कयच्‌प्रत्ययस्तद्‌लेन यासौ मणितिस्सतस्सामर्थ्यादप्यवसीयमाना निवध्यते । तस्याः उदाहरणं—

स दुःस्थीयन् कृतार्थोंऽपि निःशेषैश्वर्यसंपदा । निकामकमनयीऽडपि नरकीयति कानने ॥

अत्र दु:स्थीयमानसाच्चरिति दुःस्थः कृतार्थोऽपीति संबंधः । अत्र दु:स्थीभावात्समान-निति दु:स्थः कव्चिद्रारिप्यादुपपकृष्ट उपमानं, भगवदात्मा उपमेयः; आचारा-रात्थ्यः साधारणो धर्मः कयच्‌प्रत्ययोपपत्तः । अत्र चोपमानसाधारणधर्मयोः शब्दस्फुटत्वं । उपमेयस्य उपमानोपसेव्यभावस्य च सामर्थ्यादवगतिः ।

तेनेयं द्वितयलस्य गम्यमानार्थस्वाद्वितयलोपी सति सुब्धातूपमा । एवमियं कर्मोपमानिका सुब्धातूपमा उदाहृता ।

अधिकरणोपमानिका तु ‘नरकीयति कानने’ इति । अत्र नरक उप-मानम्, काननसुपमेयम्, कयच्‌प्रत्ययोपपत्तस्वाच्चारः साधारणो धर्मः ।

इवादयस्तु कयच्‌प्रत्ययसामर्थ्येनोपमानोपमेयभावस्यावसेयादभेदमयुक्ता: । तेनेयं एकलोपी सति सुब्धातूपमा । एवमेषा कयच्‌प्रत्ययावगम्या द्विविधा संक्षेपोपमोक्ता ।

कयड्प्रत्ययसामर्थ्यादवगम्या तु कर्तृपमानिका संक्षेपोपमा भवति । तदाह-कत्केराचारे कयडा से”ति, “तथे”ति, “उपमानाद्‌नर” इति । काचिदिति च पूर्वोक्तशास्त्रानुषङ्गः । कर्तृपमानादुत्चरेणाचारविषयेप कयडा

Page 31

सा संक्षेपोपमा कचित्‌निवध्यत इत्यर्थे? तस्या उदाहरणम्‌—

कृशानूवज्जगत्तस्य पश्यतस्तस्य मियां विना ।

खद्योतायितुमारव्धं तत्वज्ञानमहामहः ॥

खद्योतो ज्योतिर्‌मालिका। अत्र खद्योतायितुमियादौ खद्योत उपमानम्‌ ।

तत्वज्ञानं पदार्थस्वरूपयाथातथ्यपरिच्छेदः, तदायम्‌ यत्नेन महदुत्कृष्ट-

महस्तेजस्तदुपमेयम्‌। कयच्‌प्रत्ययोपात्तस्याचारः साधारणो धर्मः । कयच्‌-

प्रत्ययसामर्थ्याव्‌सेयत्वाच्चात्रैवादेरपयोगः । तेनैवमेकलोपेन शुद्धातूपमो-

पनिबद्धा ।

कचित्‌ु विषयेऽपुमानिका सा संक्षेपोपमा किपा निवध्यते । स

च किपू “सर्वेप्रातिपदिकेभ्यः किठवा वक्तव्यः” इत्यनेन विधीयते ।

तदुक्तं “सा किपा कचित्‌”इति । अत्रापि तथेति, उपमानादाचार

इति, कर्वीरिति च त्र्यमनुषज्यते। तस्या उदाहरणम्‌—“कृशानुरज्जगदिति

ति। कृशानुशब्दादाचारकिबन्ताच्छतरि रूपम्‌ । अत्र कृशानुरुपमानम्‌,

जगदुपमेयम्‌, आधिकारिश्शे साधारणो धर्मः किपूसामध्याद्‌वगम्यते । अत्र

चोपमानोपमेयोः शब्दोपात्तस्वादिवादीनामाचारस्य वच अर्थसामर्थ्यो-

वसेयत्वाच्चाद्वितयालोपः । न खलु श्रूयमाणस्य किपोःड्योऽभिधायिता वचकुं

शक्या । एवमेषा शुद्धात्वसेया त्रिविधा संक्षेपोपमा प्रतिपादिता ।

कयच्‌कयच्‌किप्रकृत्याय्‌वसेयत्वात्‌ । कयच्‌प्रत्ययसामर्थ्याव्‌सेया हु द्विविधा ।

ऊ. कर्माधिकरणोपमानकत्वात्‌ । कयपुमृत्याव्‌सेया त्वेकभकारा । किप्रत्य-

याव्‌सेयाप्येकप्रकारैव भवति । तदेवमेषा चतुर्विधा शुद्धातुप्रत्ययावसेया

संक्षेपोपमोक्ता ।

कृतप्रत्ययसामर्थ्याव्‌सेया संक्षेपोपमा द्विविधा, करणपमानिका च । तदुक्तं

“उपमाने कर्माणि वा कर्तरि वा यो नश्‌लुक्‌षा-

दिगतस्तदाच्चा से”इति । कषादिगतः कषाद्यनुपयोगक इत्यर्थः । कर्मों-

तस्‌तर्मनोदाहामदहत्पज्‌जलन्‌मन्‌ः ।

उमां प्रति तपःशत्‍याकृत्‌छुद्धेः सरानलः ॥

Page 32

१ वर्गः ] लघुवृत्तौ २५

अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवान्मना उपमेयं, दृश्यमानत्वं साधारणो धर्मः। तच्च त्रयं शब्दस्पृष्टम्। उपमानेोपमेयभावस्वत्र णसुल्लसामर्थ्योदिवादीनामप्रयोगेऽपि गम्यते। तेनैयमेकलोऽपे संक्षेपोपमा कर्मोपमानिका कृतप्रत्यावसेया।

कच्वुपमानिकायास्तु तथोदाहरणम्—

स दृढविग्रहेणापि वीर्यमात्रस्थितात्मना । स्पष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत् ॥

विग्रहः शरीरम्। अत्र सामान्यमूर्त्तः प्राणी गुणातिशयशून्य उपमानं, तच्छब्दनिर्दिष्टश्व भगवानुपमेयः, चिन्तयितृक्यं साधारणो धर्मः, णसुल्लसामर्थ्याच्च इवादेरशयोगेऽप्युपमेयभावावसायः। तेनैयमेकलोऽपे सति कच्वुपमानिका संक्षेपोपमा कृतप्रत्यावसेया। एवमेषा कृतप्रत्यावसेया संक्षेपोपमा द्विविधा प्रतिपादिता।

या तु तादृत्तसामथ्यावसेया नातिशब्दद्वयवर्ग्यमते, सा संपूर्णत्वात्पूर्वमुक्ता। अन्य त्वसंपूर्णा कल्प्यादेः तादृत्तस्य प्रयोगादवसीयते। तदुक्तं 'कल्प्यप्रभृतिभिरन्यैश्च तादृत्तैः सा निवध্যত इति। प्रभृत्-तिशब्देनात्र 'इवे प्रतिकृतौ' इत्यादिविधितानां कानादीनां परिग्रहः।

तस्योदाहरणम्—

चण्डालकल्पे 'कनकपुञ्जच्छ मयि तिरोहिते । सञ्जाततुलनैराश्या किं सा शोकोन्मत्ता भवेत् ॥

अत्र चण्डाल उपमानं, मथीत्सदृशं उपमेयः, करुणप्रत्ययेन च साहश्यमुपपत्तम्। प्रकृत्यर्थसदृशोडयं भगवत्कार्योऽपि करुणपादेनैव विधानात् क्रियादिसु धर्मः स्वशब्दानुपात्तोडपि सामर्थ्योदत्त्रावसीयते। तेनैयमेकलोऽपे सति तादृत्तावगम्या संक्षेपोपमा। एवमशक इत्यत्रापि दृश्यवम्। इवार्थोलक्षिते सदृशे कनो विधानात्। आ्यःशूलिक इत्यादौ तु त्रितयलोऽपे तादृत्तसामर्थ्यादुपमावसायः। तथाहि, अत्रायःशूलनाद्वि-च्छतीति विग्रहः 'अयःशूलदण्डाजिनाभ्या'मिति ठग्विधीयते। अत्र

Page 33

२६

काव्यालङ्कारसार-

चायःश्लोकमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः; तदक्षणत्वादिः साधारणो धर्मः उपमानोपमेयभावश्रेति चतुष्टयमवगम्यते। तन्मध्येsलङ्कारदृष्ट्रुप्रधा-मुपमानमयःश्लोकेनेति। शिष्टशब्दस्य तु त्रितयस्यान्वर्थसामर्थ्यादवगति।

ननु चात्रोपमाननेनायःश्लोलेनार्थान्वेषणोपायस्योपमेयस्य तद्र्वाव्याधयवसाने-नोपादिताभेदस्य प्रतीममानस्वादनस्यैकत्वात् न तूभयो। तत्कथंनेतदुप-मानोदाहरणम्। उच्यते। यथा ‘शशिच्छायावदनम्’ इत्यत्र सत्यपि सरीकारेणोपमानेदस्वमुपनयस्तं तथाsत्रापि भविष्यतीत्यदोषः। तेनाय-श्लोकिक इत्यत्र त्रितयलोके सति तद्वितावसेया संक्षेपोपपमा भवति। एवं श्वा सुमृष्टिते कूलं विपप्तिषितीयादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्र्वाव्याधयवसानात्स्वाच्चया इच्छयोपमानभूतया समा-पादिताभेदस्य प्रतीममानस्य भेदावगतिनिबन्धनं किंचिद्विद्यते तदोप-मानोदाहरणं वाच्यम्। अन्यथा स्वतिशयोक्तिभेदतामवसेवा। यदाह सन्निधौ भगवन्कात्यायनः-“आशङ्कायामचेतनेषूपसंल्यानम्” “न वा तुल्यकारणत्वादिच्छया हि प्रवृत्तित उपलभ्यते”इति, “उपमानाद्वा सिद्धमिति” च। अत्र हि ‘न वा तुल्यकारणत्वादि’स्यादिना तद्र्वाव-ध्यवसानं सूचितम्। ‘उपमानाद्वा सिद्धमि’ति तूपमानोपमेयभावः प्रतिपादितः। इयं च धातोः सनो विधानात्तदन्तस्य च धातुत्व-त्सुब्धान्त्रुपमावत् धातूर्धातूपमावसेया। एवं नर्तेमानसमीप्यादाव-न्युपमाभेदस्वमतीशयोक्तिभेदत्वं वा यथाप्रतीति योज्यम्। चूर्णिकारस्य त्वेवमादौ तद्र्वाव्याधयवसानसमाश्रयेण नातिशयोक्तिभेदत्वमेवेष्टम्। यदाह-“न तिङन्तेनोपमानमस्ती”इति। अत एवं दण्डिनना “लिम्पतीव तमो-डक्नानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव हृद्यनिर्ह्लादलतां गताः” इत्य-देशर्भीकृतातिशयोक्तिपेक्षाभेदत्स्वमेव महता प्रपञ्चेनाभ्यधायि। तेन कदा

१ “धातोः कर्मणः” इत्यादि सूत्रभाष्ये स्पष्टानि एतानि श्रीणी वार्तिकानि। महा-भाष्ये अ. ३ पा. १ सू. १

Page 34

देवदत्त ग्रामं गमिष्यसि, एष गच्छामीयादावपि वर्तमानसमीप्ये वर्तमान-

नरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्समेव वाच्यम् ।

एवमन्यत्राप्यय्यूह्यम् । एवमेषा वाक्यसमाससुनिब्धालुकार्ताद्वितावसेया संक्षेपो-

पमा पक्वविधा प्रतिपादिता ।

संक्षेपो नाम वाक्यसमासैकद्वित्तवमेदेन त्रिविधा पूर्वसुक्ता । आश्रयमेव चावान्तरमेदेन अन्ये निर्दिष्टाः । तथाहि, संपूर्णयोर्वाक्यतद्वितोपमयो:

श्रोतस्वार्थत्वमेदेन प्रत्येकं द्विविधमुक्तम् । संक्षेपोपमायाश्र समासोपमाया एकद्रयत्नयलोपेन चतुर्विधत्वम् । एकलोपस्य हि तत्र द्विविध्यमुक्तम्,

इवादे: साधारणधर्मवाचिनश्र लोपात् सुधांशूपमायाश्रतुर्विधत्वम्, कयच-

किक्रिप्रत्ययावसेत्प्रतिपात् । कयचप्रत्ययावसेया हि कर्माधिकरणोपमान-

कर्तवेन द्विविधोक्ता । कृतप्रत्ययावसेयायाश्र कर्तृकर्मोपमानकर्तवेन द्विविध-

त्वम् । तदेवमेषा सद्दशविधा ग्रन्थकृता उपमा प्रतिपादिता । तदाहु:

"कृताद्वितसमभेदेभ्य: सुधांशातरच वाक्यतः ।

पूर्णां लसैकदेशा च गम्यते द्विविधोपमा ॥

एकद्रयत्नयानां च लोपात्स्यालोपिनी त्रिधा ।

पूर्वों भेदौ द्विधा चात्र तृतीयस्वेकरूपकः ॥ इति

पूर्वों भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्विविध्यम् ।

द्वितयलोपोडपि साधारणधर्मवाचिवादिवियोगातथा उपमेयवाचीवादिवियो-

गाद्विविध: । एषा चोपमा विचित्रभेदत्वे सत्यपि यत्नैव चेतोहारित्वमस्ति

ततैवोल्लङ्कारतां प्रतिपद्यते न सर्वत्रैष्युक्तम् ॥

प्रतिवस्तूपमा

उपमानसन्निधाने च साम्यवाच्युच्यते बुधैर्यत्र ।

उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता ॥

यत्रोपमानोपमेययोः सन्निधाने साम्यवाचिनः पदस्यासकृदुपादानं क्रि-

यते सा प्रतिवस्तूपमा । ननु यदि साम्यवाचिनः पदस्य तत्साकृदुपा-

दानं क्रियते ततोडनेकसिन् वाक्ये इवादीनि

Page 35

२०

काव्यालङ्कारसार-

प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामर्थ्यैवसितत्वात् । अतद्ग्रे-

वादीनामप्रयोगे कथम् तत्रोपमानोपमेयभावावसाय इत्याशङ्क्याह—

प्रकारणिकेतरत्वाख्यित्यैकश्रोपमेयतां लभते ।

उपमानत्वं चापर इत्युपमावाच्छब्द्यत्वम् ॥

ननौविकल्पद्वादशीनामप्रयोगेऽपि प्रकारणिकत्वामकारणिकत्वपर्योलो-

चनया अर्थस्तामर्थ्यादत्रोपमानोपमेयभावोदवसीयत इत्यर्थः ।

तदाहुः—

इहादेरप्रतीतापि शब्दसंस्कारात् काचित् ।

उपमा लक्ष्यतेsन्यत्र केवलार्थेनिबन्धना ॥ इति

इह प्रकारत्रयेण उपमाया: प्रतिपत्तिः । कचित् दिवादिशब्दसामर्थ्यादुप-

मा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ । कचित्

तत्तद्रूढिसंस्कारसहायाच्छब्दार्थौ भिधानमुखेन लक्ष्यमाणोयास्तत्स्या: प्र-

तिपत्तिः, यथा शेखरीयमिति । अत्र हि समासानिबन्धनैकपदादिसंस्का-

रसहिताभ्यां शब्दीयामाश्रयदाभ्यां स्वार्थाभिधानव्यवधानेन लक्ष्यमाणोपमा

गम्यते । कचित् उपमानोनिबन्धनशब्ददसंस्काराभावेsपि केवलादेवार्थ-

सामर्थ्योचत्स्या: प्रतिपत्तिः, यथा रूपकदीपकप्रतिवस्तूपमादिष्वित्यर्थः ।

अतद्ग्रास्यां प्रतिवस्तूपमायां केवलैनैवार्थसामर्थ्येनोपमानोपमेयत्वमवगम्यते

इत्यदोषः ।

तस्या उदाहरणम्—

विरलास्तादृशो लोके शीलसौन्दर्यसंयुतः ।

निशाम् कियत्य वेधाः योsसिन्दुरः पूणमण्डलः ॥

विरला: श्लपा: । तादृश: पार्वतीवच्चिन्यो या: शीलसौन्दर्ये सम्पद:

तत्सहृदय: । शीलं सुसभाजनता । सौन्दर्य लावण्यम् । अत्र संवत्सरमध्ये-

वर्तिन्यौडपिण्डेsशिविम्बा शत्रयो द्वादश उपमानम् । शीलसौन्दर्ययो:

संभारा: सकललोकैकसृष्टा: कतिपयजनजुष उपमेया: । साधारणश्र धर्मो

विरलस्वम् । तच्चोपमानसन्निधाने कियत्य इत्युपात्तम् । उपमेयसन्निधाने तु

Page 36

१ वर्गः ]

लघुवृत्तौ २९ विरलैति । इवाच्चनुपादानेडपि च प्रकारणिकत्वाप्रकरणिकत्वपर्यालोचनयात्रोपमानोपमेयभावावसायः । तेनेयं वस्तुनि वस्तुनि साधारणोपनिब-न्धास्प्रतिवस्तूपमा ॥

इति महाराजाधिराजेन्दुराजविरचितायामुद्राटलङ्कारसारसंग्रहलघुवृत्तौ प्रथमो वर्गः ॥

अथ द्वितीयो वर्गः ॥

आक्षेपोडर्थान्तरन्यासो नयतिरेको विभावना । समासातिशयोक्ती चेत्सलङ्कारान्परे विदुः ॥ 'समासातिशयोक्ती चे'त्यत्र समासातिशयशब्दयोरक्तिशब्दः प्रत्येकम्-भिसंबध्यते ।

आक्षेपः । ३१ ३६ प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । आक्षेप इति तं सन्तः शंसन्ति कवयः सदाः ॥

इह काचिद्रकथनितिस्थाविधा संभवति यस्यां विधित्सितोऽर्थो निषेधघव्याजेन संसूच्यते, न तु निषिध्यते । तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव । अवान्तरवा-क्यार्थस्यापर्यवसानात् । अवान्तरवाक्यार्थता च तत्र निषेधस्य विधिस्ततार्थविरोधाद्धवति । तत्र हि विधित्सितोऽर्थः पूर्वपक्षोऽनुत्तमेन स्थिरीभूतिश्चमानः स्वीकृत्योत्तरं निषेधतत्प्रतिपक्ष्याध्यासक्तविशेषाभिधानायांवांतरचाक्यार्थीकरोति । अतोडनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविद्यार्थेनिराकरणस्य लेशेन संभवादाक्षेपसंज्ञकोऽलङ्कारः सत्कविविभिरभिधीयते । सन्तः कवय इति संबन्धः । तस्य भेदद्वितयोपपादनायाह—

वाक्यमाणोक्तविषयः स च द्विविध इष्यते ।

Page 37

३०

काव्यालङ्कारसार-

वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः।

ननु ‘प्रतिषेध इवेष्टस्स’ इत्याक्षेपलक्षणमुक्तम्। इष्टत्वं चेच्छाकर्मता।

यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति।

इत्यमाणं हि कदाचिदुच्यते कदाचिन्न। अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेततदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तत्र संगच्छते इत्य-

श्राह—

निषेधेनैव तद्रन्थो विधेयस्य च कीर्तितः ॥

विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमाणोक्तविषय आक्षेपो निवध्यते। एतदुक्तं भवति—विधानकर्मेताद्वारेणैवात्र इष्टत्वमवसीयते। निवन्धनान्तराभावात्। विधानकर्मता च विधान-

लिमिकाया उक्तेः कर्मता। साच द्विविधा, आर्थी शाब्दी च। यत्र स्वशब्द-

व्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधसुरवलेनैव विधिधिस्ततोऽर्थो-

ड्वगम्यते तत्रार्थी। तत्र च वक्ष्यमाणविषय आक्षेपः। यत्र तु विशिष्ट-

नैव वक्तुमिष्टसार्थस्योपादानं क्रियते तत्र शाब्दी। तत्र चोक्तविषयता

आक्षेपस्य। एवं चानन्तरोदितया नीत्या शब्देनार्थेन च विधिना यदव-

सितमिष्टं तस्योचिक्रियाकर्मत्वसंभावादुक्तिक्रियाया: कर्मभूतो योडर्थस्तद-

श्रयं वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निवध्यते।

तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्——

अहो सरस्य माहात्म्यं यहुद्रेडपि दरशोऽदृशी।

मा नु इयदास्तां समुद्राभः कुम्भैरमाने तु के वयम् ॥

अहो इति विस्मये। अत्र न मनस्समादान्तरं तद्विषयविशेषसंश्रयेन प्र-

तिपादयितुमिष्टम्। तच्च तस्य तथाप्रतिपादनमियादास्तामिल्यादिना निषि-

द्धम्। निषेधश्वात्राभिधेयत्वविरोधात्। अभिधेयत्वेन च विरोधं वक्ति।

आनन्ट्येन तस्य तथाविधस्य वक्तुमशक्यत्वात्। हुद्रेडपि नाम ईदृशी

तथा। अतो वक्तुमिष्ठानां सरमाहात्म्यावस्थाविशेषणामयमानन्ट्येनाभिधान-

Page 38

२ वर्गः ] लघुवृत्तौ। ३१

निषेध एव नतु निषेध एव । विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात् । तथाहि, अत्र समुद्राम्भसः कुम्भैरम्भोमुतुमशक्यत्वं यदस्सदर्थंकरत्नकमिहितं तत्साहस्र्येनानन्त्यविशिष्टस्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्वं प्रतिपादयिषितत्वेन लघुप्रतिष्ठानां वाक्यार्थत्वम् । अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता । न चावान्तरबाक्यार्थो वाक्यविश्रान्तिस्थानतया वच्यं शक्यः । न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नापटरूपभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम् । अतोडत्रापि निषेधस्यावान्तरबाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वम् न तु निषेधान्तरुपपत्ता । स च निषेधोऽन्त्रावान्तरबाक्यार्थत्वात्प्रधा-

णां निषेधति, न पुनरर्थसामर्थ्यादवसेमपि । अतश्च समुद्राम्भसः कुम्भैर्मौतुमशक्यत्वमसदर्थंकरत्नकं सकृण्ठेनाभिहितं यत्तत्साहस्र्येनावसि-तसंविज्ञानपदशून्यानन्त्यभेदप्रतिपादनं विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थ प्रतिपेधव्याजेन विशेषेडवस्थापयति तस्मादक्षेपः । अत्र च 'धाहो सारस्य माहात्म्यं यदृदृशेडपि दरशेभी' इत्येतच्छ-ठदव्यापारसहायेन 'इयदास्ताम्' इति निषेधेनैव सकृण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम् । तेषां च तथासूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम् । अतो वक्ष्यमाणविषयता आकारेपस्य ।

उक्तविषयस्य तु तसोदाहरणम्—

इति चिन्तयतस्तस्य चित्रं चिन्तावधिने यत् । क वा कामविकल्यानान्तः कालस्य चेष्टितः ॥

अत्र चित्रत्वस्योक्त्योकिः क वेति प्रसिद्धस्वादाक्षिप्यते । पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुत्कम्, इह तु प्रसिद्धत्वम् । द्वाभ्यामेव च प्रकाराभ्यामेव च प्रक-राभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च । उक्तं च—“वस्तु प्रसिद्धमिति वास्य वचनमाक्षिप्य । अन्यथात्वासिद्धौ यत्न

Page 39

३२

काव्यालङ्कारसार-

नीयातस्त आक्षेपः" इति । प्रसिद्धत्वं चात्र समर्थयितुं कालसाहस्र्यमुक्तम् । यथा कालस्यान्तो नेक्ष्यते तद्वत् कामविकलपानाम् । अतो नैवात्र चित्र- त्वम् । अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति । कालतुल्यतया चात्र कामविकलपानामननत्यासको विशेषः संविज्ञानपदशून्योडभिधित्सितः । तस्य च चित्रतया सामान्येन पूर्वेषामुपक्रान्तस्याधुना निषेधवशेन संविज्ञान- पदशून्येन विवक्षितेन रूपेण वाक्यार्थीभूतत्वान्निर्देशस्य पूर्ववदवान्तर- वाक्यार्थता । तेन कवेयं निषेध इव न तु निषेध एव । तेनात्रोक- विषयता आक्षेपस्य । तदाहुः—

शब्दस्पृष्टेऽथवाप्यार्थे वकुमिष्टे निषिद्धता । तदृङ् तद्विरोधेन यत्राक्षेपो भवेदसौ ॥ इति ।

शब्देन स्पृष्टयते (स्पृश्यते ?) वकुमिष्टे उत्तविषये आक्षेpe । वक्ष्यमाण- विषये तु विवक्षितस्य आर्थीता । शब्दान्तरव्यापारसायानिषेधसुखेन त- स्वोपस्थापनमार्गोऽस्ति । यत्रात्राभिधान्तरपीति निषेधः क्रियते स विवक्षितार्थे- विरोधात्स्वतात्पर्यं त्यकत्वा विवक्षितमेवार्थे संकुर्वस्तदर्थां प्रतिपघते । अन- अर्थान्तरन्यासः ।

35 समर्थकस्य पूर्वं यद्वचोऽन्यासं च गृच्छति ।

32, विरुद्धयेण वा यत्स्यादिशब्ददोक्त्यान्यथापि वा ॥

शेयः सोऽर्थान्तरन्यासः

यत्र समर्थ्येसमर्थकभावः सोऽर्थान्तरन्यासः । तत्र हि समर्थकस्य सम- र्थकतावगतिहेतुं व्यस्ति पक्षधर्मतया चानुपन्यस्यार्थान्तरस्मोपन्यासः क्रि- यते । व्यासिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीक्ततत्वात् । अतो- डसावर्थान्तरन्यासः । स च चतुर्विधः । तत्र समर्थकं पूर्वमभिहिते सम- ध्र्येसमर्थकभावसैकः प्रकारः । तदुक्तं "समर्थकस्य पूर्वं यद्वचो- डन्यासं च गृच्छति" । इति, "हिशब्ददोक्त्ये"ति च । तस्योदाहरणम्—

Page 40

२ वर्गः ]

लघुवृत्तौ

३३

तन्नास्ति यत्न कुरते लोको हेतुप्रत्यकार्ययोः ।

पुष शरवोंडपि भगवान बड्भुज्य स्म वर्तते ॥

बड्भुज्य अचिरकृतोपनयनतवमापद्य ।

अत्र शर्वस्य सर्वलोकातिशायिनो

चडूभावेन वृत्तिमनुपद्यमानतयाश्रक्य तत्समर्थनाय समर्थकं पूर्वमेवोप-

न्यस्तं "तन्नास्ति यत्न कुरते" इति ।

अत्यान्तकार्यकारणत्वादनुचितमपि रूप-

मनुभूतवान शर्वस्तद्वैयंविविधपुरुषवदिति ।

अत्र च हिशब्देनाभिव्यक्त:

समर्थ्येसमर्थकभावः ।

यत्न पूर्वेणैव क्रमेण समर्थ्येसमर्थकयोरुपन्यासे हिशब्दशार्थेसामध्य्योव-

सेयार्थस्वार्त प्रयुज्यते ततः द्वितीयोऽर्थोऽन्तरतन्यसामेदो भवति ।

तदुक्तं "अन्यथापि क" इति ।

हिशब्दोक्तिमन्तरेपणापीत्थर्थः ।

तस्योदाहरणं—

प्रच्छन्ना शस्यते वृत्तिः क्षीणां भावपरीक्षणे ।

प्रतिष्ठ धूर्जटिरतरस्तनु शौर्ये वाटवचम् ॥

भावः आशयः ।

बाटवचं ब्रह्मचारिसंवन्धिनीनम् ।

अत्र धूर्जटिरवेदुर्वेशाल-

मबनेन प्रच्छन्ना वृत्तिरुपनपनतेयाश्रक्य तत्समर्थनाय पूर्वमेकं समर्थकमभि-

हितं "प्रच्छन्ना शस्यते वृत्तिः" इत्यादिना ।

योषिदाशयपरीक्षणप्रवृत्तत्वा-

दूर्जेटिः प्रच्छन्नां वृत्तिमाश्रितवानिति ।

हिशब्दश्वात्रातः शब्दसामर्थ्येन

यस्सादित्यस्यार्थस्यावमतस्वारोपातः ।

एवमेतौ समर्थकपूर्वोऽन्यासावर्थान्त-

रन्यासौ द्वावेवौकौ ।

यत्रापि चैतद्विपर्ययेप सामर्थ्येस पूर्वेपन्यासः पक्षा-

त्समर्थकस्य, तत्रापि समर्थ्येसमर्थकभावे हिशब्दावगतेऽर्थक्षिसे च सति

द्वैविध्यम् ।

तदुक्तं "हिपर्ययेपा वा यत्रापोद्रुशदर्थोपन्यासेऽपि कच" इति ।

पूर्वस्योदाहरणम्—

हरोडथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना ।

विसंवदेदृप्र प्रत्यक्षं निरीक्ष्योतं ध्यानतो न तु ॥

अत्र हरस्य ।

व्यवहितादर्थविषयत्वेनापतिहतबाह्येन्द्रियव्यृत्तित्वात् सति बाधोन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वैन संभाव्य तत्समर्थना-

Page 41

३४

काव्यालङ्कारसार-

योक्तं ‘विसंवेदद्रि प्रत्यक्षम्’ इत्यादि । अत्यन्ताविसंवादकोपलब्ध्युपाया-

ऋितवाच्च्यानमास्थितवान् हर इति ।

हिरशब्दानभियुक्ते तु समर्थ्यसमर्थकभावे यत्र समध्येयस्य पूर्वमुपन्यास-

सत्रोदाहरणम्—

अपृथ्व्यादिभिरष्टाभिि तप्त्यमानाॅ तपांस्युमाम् ।

असंभाव्यपतीच्छानां कन्यानां का परा गति: ॥

बहूनामभिमतवरमाश्रुपायानां प्रार्थनादीनां संभवे कस्मादृगवती

तपसा शरीरमयासितवतीत्याशङ्क्य तत्समर्थनायाभिहितं ‘असंभाव्यपती-

च्छानाम्’ इति । दुर्दैवापभरत्रभिलाषितवाच्च तप: समाश्रितवती । तपांसि भग-

वतीं खेदयन्ति । तानि पुन: सा तथाविधानुपार्जयति । अतस्तत्पस्तपऽ्यते

तपस्तप: कर्मकरत्वेति कृत्वा: कर्मवद् द्वाव् । एतच्‍मेष चतुर्विधोऽर्थोऽन्तरन्या-

सोऽभिहित: ।

30 ननु यदि समर्थ्यसमर्थकभावे सत्यर्थोऽन्तरन्यासो भवति । एवं सत्यम्‍-

स्तुतप्रशंसादिहेत्वन्तरौप समथ्यसमर्थकभावसद्भावादर्थोऽन्तरन्यासतामसक्त: ।

तथाहि । “प्रणितप्रणयि खादु काले परिणतं ( च यत्‌ ) । बिना पुरुष-

कारेण फलं पश्यत शाखिनाम्” इत्याद्यामप्रस्तुतप्रशंसायां विशेषात्सामा-

न्यस् प्रतिपत्तिथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविध-

गुणोपेतस्य फलस्य प्रसूतीदैवप्रधाना एवमेतसर्वे जगति दैवप्रधानमिति ।

अत्र च समर्थ्यसमर्थकभावो विद्यते । सर्वे जगच्चेष्टितं दैवप्रधानं पुरुषका-

रान्वयवतिरेकाननुविधायित्वाद्दान्तश्लिफलवदिति । ततश्च तत्नाप्यर्थान्त-

र्यासत्प्रसङ्जादलक्ष्यव्यासङ्गिललक्षणदोष: । दृष्टान्तेऽपि च ( समर्थ्य ) समर्थ-

कभावो विद्यते । तथाहि “त्वयि दृष्टे न तस्मा निधनाति भवो भवाभि-

ज्वलितम् । आलोके हि सिताॅशोर्विकसति कुसुदं कुसुद्रुत्या:” ॥ इत्यत्र

यथा चन्द्रगुणपक्षपातित्चेन कुसुदिन्याश्चन्द्रालोके कुसुदं विकसति, तद्व-

दुणपक्षपातित्स्वातस्यास्वदर्शनेन मनो मन्मथाभिम्रज्वलितमुपशाम्यतीति

समर्थ्यसमर्थकभावोऽवगम्यते । तेन दृष्टान्तेऽप्यर्थान्तरन्यासतामसक्त इत्या-

शङ्खाह—

Page 42

प्रकृतार्थेसमर्थेनात्॥

सत्यमप्रस्तुतप्रशंसाया दृष्टान्ते च समर्थनसमर्थकभावोद्गम्यते, न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः। अर्थान्तरन्यासे हि समर्थ्येस यथायोगं पूर्वोत्तरकल्पनाभित्तौ सङ्कण्ठेनोपस्थितसमर्थनस्य, अप्रधेयेस तथायोगे पूर्वोत्तरपक्षनिर्णीत उदाहरंण। तत्र हि वनशाखिनां फलदर्शनेनाप-

कृतेन दैवप्रधानेन समर्थनगदद्रोचंरं दैवप्राधान्यानं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्सकण्ठेनोपादानं। अतश्र तत्र सत्यपि समर्थनसमर्थ-कभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वभावावादर्थान्तरन्यासत्वं। दृष्टान्तेऽपि च द्वयोरपि समर्थनसमर्थ्ययोः सङ्कण्ठेनोपात्तत्वात्सत्यपि सङ्कण्ठोपात्तप्रकृतार्थ-निष्ठत्वे दृष्टान्तस्य समर्थनसमर्थकभावोपरिसरीकारेण प्रवर्तमानत्वान्न भवत्य-र्थान्तरन्यासत्वं॥ न खलु तस्य समर्थनसमर्थकभावोपरिसरीकारेण

प्रवृत्तिः। बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्फुटत्वात्। अर्थोंद्धि तत्र समर्थ्येसमर्थकभावेनैवोपक्रमः। तेन यत्र समर्थनसमर्थकभावोपक्रममर्यादान्तरोपादानं तत्रार्थान्तरन्यासत्वादृ-ष्टान्तस्यार्थो न भवति। तदिदं सूक्तं 'प्रकृतार्थेसमर्थेना-दि'ति। अत्र प्रकृतशब्दः सङ्कण्ठोपात्तप्रकृतार्थनिष्ठो दृष्टव्यः। समर्थनं चातोपक्रमावस्थावत्त्युपात्तं॥

व्यतिरेकः—

विशेषेोपादानं यत्स्यात्प्रतिमानोपमेययोः॥ निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधा तु सः॥

उपमानोपमेययोः परस्परं यत्र विशेषः स्याधीयते स व्यतिरेकः। तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्द्विशेषेणातिरेकः। स च द्विविधः। तत्र विशेषस्यापननिमित्तस्यार्थसाम-

ध्यादाक्षेपादेकः प्रकारः। अपरस्तु तस्य स्वशब्देन प्रतिपादनात्। तदुक्तं

Page 43

३६

काव्यालङ्कारसार-

'निमित्तादृष्ट्रिदृश्यं द्विधा' इति । एतावपि च तौ द्वौ प्रत्येकं द्विविधौ । कचित् अर्थसामर्थ्योत्पत्तीयामाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः स्थीयते, कचितु इवादिद्विरुपपत्तौ: ।

तत्रार्थसामर्थ्येन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वसिन् प्रकारद्वये पूर्ववेदसोदाहरणम्—

सक गौरीशिखरं गत्वा ददर्शोर्मिां तपःकृशाम् । राहुपीतप्रभासेनदोर्जयन्नीं दूरतस्तनुम् ॥

राहुणा पीता द्वद्रव्यस्योदकादेः स्वगलविलान्तर्मज्वलं यच्चद्वदातमाभ्यन्तरीकृता प्रभा यस स तथोक्तः। अत्र राहुपीतप्रभवविशिष्टस्येन्दोस्तनुरूपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्दृश्यत्वम् । तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्वरूपपर्य्यालोचनया लभ्यते । एवमिवाचभावेऽप्युपमानोपमेयभावस्यात्र सामर्थ्यादवगम्यते । राहुरिन्दुपभापाने तथा न समर्थः यथा तपःसातिशयत्वत्पार्वेल्या: क्षामत्वे इति राहुतोदपि तपःसातिशयत्वस्वुपमानादुपमेयस्य विशेशनिमित्तमत्रावगम्यते । एवमयमनुपात्तनिमित्तो व्यतिरेकः ।

उपात्तनिमित्तस्तु—

पदं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम् । स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम् ॥

मुखस्मिन्दुश्रोपमानम् । तत्रात्र द्रयं स्वकण्ठतस्पृष्टम् । मूलमुपमेयम् । पदस्मिन्दुश्रोपमानम् । तत्रात्र द्रयं स्वकण्ठतस्पृष्टम् । मूलमुपमेयम् ।

तयोस्सु साधारणो धर्मः कान्तिमत्त्वादिरूपस्योपमेयभावेऽप्यवच्छेदकत्वं सामर्थ्यादवगम्यते । न स्ववक्त्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य धोतवगम्यते । न च स्ववक्त्रवचनादय उपात्ताः । अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः

स्थावत्पदाचन्द्रयोरिन्दिशि दिवा च यथाक्रमं निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता । अतो विशेषे निमित्तदर्शननायं व्यतिरेकः ।

Page 44

२ वर्गः ]

लघुवृत्तौ

३७

तदेवं यत्रेवादिनोपमानोपमेयभावो नावयोतीतस्तत्र द्विविधो व्यतिरेको दर्शितः । इवायुपात्ते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह—

यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः ।

व्यतिरेकोऽत्र सोऽपिष्टो विशेषापादनान्वितः ॥

'यो वैधर्म्येण दृष्टान्तः' इति 'विशेषापादनान्वितोऽत्र' इति च व्यतिरेकक्षणं योजितम् । वैधर्म्ये ह्युपमेयधर्मस्योपमाने विगमः । यथेवादिसमन्वित इत्यनेन यथेवादिव्योतीतत्वमुपमानोपमेयभावस्याह । तस्योदाहरणम्—

शीर्णपर्णोऽम्लुवाताशकटेष्टडि तपसि स्थिताम् ।

ससुद्रहन्तीं नापूर्वीं गर्वेमन्यतपस्विनीम् ॥

शीर्णपर्णोऽम्लुवातानामाशो भक्षणम् । अन्यान्‍यतपखिन् उपमानं, भगवत्युपमेया, साधारणश्‍व धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोऽपि सता । वतिस्वात् गर्‍वेऽद्धननिबन्धनं यत्तच्चेतसः सोऽपि सत्‍वं तत्रिबन्धनसुपमानोपमेयभावसमवर्गमयोति । गर्वे न ससुद्रहन्तींतमिस्रुपमानाऽडुपमेये विशेषः प्रतिपादितः । अन्ये किल तपस्विनः सातिशयतपोवशात्समूलस्थितचित्ता: सन्तो गर्वे ससुद्रहन्ति, भगवती त्वत्‍यनुपाशान्तचित्तत्वात् तथा । एव चात्र गर्वोंपक्रममावस्थापेक्ष्युपमानोपमेययोः साध्रयं, तदनिरोहीततूपमानाऽडुपमेयस्य व्यतिरेकः । अनयोर्हि च निमित्तमत्र स्वकर्णटेनानुपातमथ्यर्थीसामर्ध्योदवमानोपमेयभावो व्यतिरेक उदाहरणम् । निमित्तोपादाने तु तस्योदाहरणस्तोत्रम् । एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः । निमित्तदर्शनाऽदर्शनाभ्यां यौ व्यतिरेकौ तयोः प्रत्येकमुपमानोपमेयभावस्य इवाऽयुपादानाऽनुपादानाभ्यां द्वैमेदत्वात् । एषामपि चतुर्णां व्यतिरेकाणां श्‍विष्टशक्तियोग्यशब्दोपादाने सति पुनरपरे पूर्वोंपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति ।

तदाह—

श्‍विष्टशक्तियोग्यशब्दस पृथक्त्वेऽपृथगुदाहृतौ ।

विशेषापादनं यत्स्याद्‌व्यतिरेकः स च स्मृतः ॥

Page 45

३८

काव्यालङ्कारसार-

'एकप्रयत्नोज्ज्वार्योणामि'त्यादिवक्ष्यमाणलक्षणं द्विघट्म् । क्रिय्द्वालङ्कारस-मुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तत्रैण सहशाब्दान्तरोप-दानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक् पृथगुच्चारणं, तदा विशेषापादने सति व्यतिरेको भवति । तस्योदाहरणं—

या शैशिरी श्रीमत्पसा मासेनैकेन विश्रुता । तपसा तां सुदीर्घेण दूराद्विदधतीमध: ॥

अत्र शिशिरशोभा उपमानं, भगवती उपमेया; तयोश्च साधारणो धर्म-स्तपोयुक्तत्वं नाम । एकत्र तपो माघो मास:, अपरत्र त्वभ्युदयहेतु: कृच्छ्रू-चरणम् । इवदयक्षत्रानुपात्तोऽपि सामध्यर्योद्वेगस्यान्ते । व्यतिरेकस्तु दूराद्विदधतीमध इति । तस्य च निमित्तं मासैक्येन दीर्घत्वं च तपसोर्: । तत् च यथाक्रममुपमानोपमेयगतत्वेनोपलभ्यते । तत्र च वत्यादिना अनुषाच्चे उपमानोपमेयभावे निमित्तदर्शननेन व्यतिरेक उदाहरण: । एवमनया दिशाऽ-न्यदपि श्लेषोक्तियोग्यशब्दनिबन्धे सति व्यतिरेकस्य पूर्वोक्तनयेन भेद-त्रयसुदाहरणम् ॥

क्रियाया: प्रतिषेधे या तत्फलस्य विभावना । ज्जेया विभावनैवासौ समाधौ सुलभे सति ॥

इह यत्रकिचिज्ज्ञायते तत्सर्वं क्रियाफलम् । क्रियासुरेखेन कारणेभ्य: कार्योत्पत्ते: प्रातीतिकेन रूपेण परिहस्यमानत्वात् सर्वेषां फलमूलतानां क्रियैवाव्यवहितं कारणम् । यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफल-स्रोत्पतिरुपदिश्यते तत् विभावनाव्योडलङ्कार: । कारणविगमेऽपि किल कार्यस्य तत्रैवचिकुपर्णेन्ते । अतो विरुद्धधर्मासा भावना उत्पादिता, तेन विभावना । नन्वेवं सति व्यर्थदोषत्वप्रसङ्ग: 'विरुद्धार्थी मतं व्यर्थम्' इति अत एवाह—समाधौ सुलभे सतीति । समाधि: परिहार: । यत्न विरोधस्य सुलभ: परिहार इत्यर्थ: । तस्याऽऽदाहरणम्—

अज्जलेखामकाश्मोरसमालम्भनपिज्जराम् । अनलकतताम्राभामोष्ठमुद्रां च बिभ्रतीम् ॥

Page 46

२ वर्गः ]

लघुवृत्तौ

३९

अज्ञलेखा शरीरयष्टिः। कार्मीरं कुडुममम्। येयं पीतच्छायतया शरीर-

रस्य सा नायिकानां कुडुममसमालम्भनलक्षणक्रियाकार्यो प्रायेग परिहृश्यते,

भगवत्यास्तु शरीरे पीतच्छायत्वं न कुडुममसमालम्भनेनोत्पादितम्। अतः

कुडुममसमालम्भनलक्षणाया: क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रो-

पदेशः। परिहारक्षात्र स्वभाविकतया तच्छायत्वमिति। तेनेयं विभा-

वना। अनलक्तकादिम्राक्षोभिमित्यादिलककारणकार्यो रोगाक्रियां निषेध

तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा। अतो विभावना।

अत्र च कुडुमादिसंपादेन पिङ्गरत्वादिना उपमानभूतेन स्वाभाविकस्य

पिङ्गरत्वादेरुपमेयभूतस्यामेदाधयवसायोदतिशयोक्त्या दृश्यते॥

सामासोक्ति:-

प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः।

अप्रस्तुतार्थकथनं सामासोक्तिरुदाहता॥

यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणौक्तेन प्रकृतेनार्थेन तुल्यानी

यानि विशेषणानि तद्वारेण साधर्म्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति,

सा संक्षेपेणोपमानोपमेयलक्षणार्थे द्रवितया भिधानात्सामासोक्तिः। तस्या

उदाहरणम्—

३५ दन्तप्रभासुमनसं पाणिपल्लवशोभिनीन् ।

तन्वी वनगतां लीनजटालक्ष्मीचरणावलिम्॥

अत्र दन्तप्रभापाणिजटा भगवतीविशेषणस्मृता यथाक्रमं लतागतसुम-

नःपल्लवषड्चरणरूपेण आरोपेण व्यासा(?) () तद्वावमापद्यन्ते।

तनुत्त्वं तु भगवतेर्लतयः: साधारणो धर्मः। वनशब्देन च रूपकप्रतिभो-

त्पत्तिहेतुना शेषेण भगवतीतपश्र्याधारसूतमुदकं लताधारेण काननेन

रूप्यते। अत पतान्यत्र प्रकृतया भगवत्या अप्रकृत्या लतया समा-

नानि विशेषणानि। तत्सामर्थ्येन च प्रकृतया भगवत्या उपमेयभूतया

लता उपमानत्वेनाक्षिप्यते। तेनेयं सामासोक्तिः।

Page 47

80

काव्यालङ्कारसार-

अतिशयोक्ति:-

निमित्ततो यतु वचो लोकातिक्रान्तगोचरम् ।

मन्यन्तेऽतिशयोक्तिं तामलङ्कारतया बुधाः ॥

भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र वध्यते।

तथा समाध्यर्थमानार्थनिबन्धनेऽतिशयौक्तिगौ: ॥

कार्यकारणयोगे तत्र पौर्वापर्यविपर्ययात् ।

आश्रुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत् ॥

यदृच्छयं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्ति: ।

तस्याश्र्व चत्वारो भेदाः ।

यत्र भेदेऽनन्यत्वेऽनन्यत्ववमैक्यं स एक: ।

अन्यत्राभेदे ऐक्येऽपि नानात्वं भेदो यत्र स द्वितीय: ।

तथा बहिरविविधमानस्थैर्यसंभावनामात्रेऽपि निबन्धे तृतीय: ।

कार्यकारणयोगेऽस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्यये ऽण चतुर्थों भेद: ।

तत्राद्यस्य भेदस्योदाहरणम्—

तपस्तेज:स्फुरितया निजलावण्यसंपदा ।

कृशामप्यकृशामेव हृद्यमानामसंशयम् ॥

अत्र यासावकार्यावस्था भगवत्या: पूर्वमभूततो मिन्नमपि तपोजानितं

कार्यं तदभेदेनोपनिबद्धमकृशामेवति ।

तत्र च निमित्तं तपस्तेजसा सर्वशेषत्वमापादित: सौन्दर्यसंभार: ।

अतो निमित्तवशेन लोकातिक्रान्तो

गोचरौदस्य वाक्यस्य । तेनेयमतिशयोक्तिः ।

द्वितीयस्य तु भेदस्योदाहरणम्—

अचिन्तयच्च भगवानहो नु रमणीयता ।

तपसास्त्रा: कृतान्तस्य कौमाराद्येन लक्ष्यते ॥

अत्र भगवती कुमारभावेऽपि वर्तमाना तदुत्तरकालभाविनी

यासौ यौवनावस्था तथुक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति ।

निमित्तं चात्र तपोजानिता रमणीयता ।

तेनायमभेदे भेदोपनिबन्ध: ।

Page 48

२ वर्गः ]

लघुवृत्तौ

४१

तृतीयस्य पुनर्भेदसोदाहरणम्—

पतेऽपदि शशिद्योतच्छटा पद्मे विकाशिनि ।

मुक्ताफलाक्षमालाया: केरङस्या: स्यात्तदोपमा ॥

मुक्ताफलाक्षमालाशशिद्योतच्छटा चन्द्रप्रकाशप्रकार: । अस्या: केरे मुक्ताफलाक्षमालायास्तदा उपमा स्वादिति संबन्ध: । अत्र रजनीकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्रिकाशितं बहिरसंभवदपि कविज्जनतिना प्रतीमोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शिततम् । अतोडत्र संभाव्यमानार्थनिबन्ध: । तस्य च लोकातीतान्तर्गोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम् । तथाहि-अयं तावत्लोकातीतान्तोडपरिदृश्पूर्वोडस्मा: गौरीकरमुक्ताफलाक्षमालयोराधेयभाववोडवलोकित: ।

तत्सजातीयस्य पद्मस्य विकाशिनश्रन्द्रकराणां च यद्याधाराधेयसाव: स्याद्वात्रोपमानोपमेयभावो भवेदिति संभावनया प्रदर्शिता । अतोडत्र सजातीयपदार्थदर्शनादहिरसंभवदपि वस्तु संभवद्रूपतयोपवण्यते ।

एकोऽसिन्‌ खलु पदार्थे परिहृषे अन्यसजातीयवलोकितेऽपि तर्सजातीयसंभावना प्रवर्तते । यथा दाक्षिणात्यसैकसिन्धुट्टे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तर-

संभावना । अतोडत्र संभावना सन्निमित्ता । अननेन च प्रकारेणात्रोपमानभाव: प्रकृतस्य वस्तुन: प्रदर्श्यते नास्त्यन्यत्रिकिचिदसोपमानमिति । अत एव संभाव्यमानतार्थस्योपनिबदद्रुस् निराचीकीर्षया यदिशब्द: प्रयुक्त: ।

यदि शब्बदेन वात्राश्रया द्योत्यते । आश्रया चानिश्रितसद्रावे वस्तुनि भवति । यच्चानिश्रितसद्रावं कविवेधसा संभवाद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिमित्तपदार्थविषयया तद्विदुरद्धया लोकक्षतिया यावद्विराक्रियमाणत्वं तावद्विरुपसखं भवितेते । एवमय तृतीयो भेद: ।

चतुर्थस्तु—

मत्ये च निपतनस्याः कटाक्षा दिक्षु पृष्ठतः ।

प्रायेणात्र तु गच्छन्ति सरबाणपरम्परा: ॥

अत्र दिक्षु कटाक्षपातः कारणम् । सरबाणपरम्परागमनं तु कार्यम् ।

Page 49

कार्यकारणयोसु कारणस्य नैसर्गिकं प्रागभावित्वं कार्यस्य तु पश्चाद्भावित्वम् । इह तु विपर्ययः । कार्यस्य प्रागभावेनोपनिबन्धनात् । पश्चाद्भावितत्वेन च कारणस्य कटाक्षादिकं दृश्यते । पश्चात् पतन्ति अग्रे सरबाणपरम्परा गच्छन्तीति अन्य निमित्तं ( अनु ) कार्यस्य श्रृङ्गमेवोत्पादः । तेनेदं निमित्ततो लोकातिकान्तगोचरं वचनम् । अतोऽतिशयौक्तिः ॥

इति महाश्रीप्रतीहारेनदुराजविरचितायाम्‌ष्टालङ्कारसारसङ्ग्रहलब्धोच्चौ द्वितीयो वर्गः ॥

अथ तृतीयो वर्गः ।

यथासंख्यमथोत्तमेकां स्वभावोक्तिं तथैव च । अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ ॥

यथासंख्यम्—

भूयसामुपदिष्टानामर्थोनामसङ्गमेणास् । क्रमशो योडनुद्देशो यथासंख्यं तदुच्यते ॥

पूर्वेषामुपदिष्टानामर्थानां यदा क्रमेणार्थान्तरनुर्देश्यन्ते तदा यथासंख्यं रेयारुयोडलङ्कारः । तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपतोडपि पदार्थानामन्वयः समाश्रीयते । अतो यथाक्रमं पदार्थानामन्वयध्वननादेतस्यालङ्कारस्य यथासंख्यता । स चात्रोभयो बहूनामल्पशोऽप्युपनिबन्ध्यमाने यत: शोभांवद्दो भवति अतो भूयसामित्युच्यम् । द्वयोर्हि तस्योपनिबन्ध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न क्रत: तावच्छोभोपेतत्वं न भवति । भूयसां पुनरर्थानां तथासंख्यमलङ्कृतेनैव प्रयासेन रम्यं भवति । तत्र हि तस्य द्विगुणस्य त्रिगुणस्य योपनिबन्धे शोभातिशयो जायते ।

तदुक्तम्—

तद्धिगुणं त्रिगुणं वा बहुशो दृश्येषु जायते रम्यम् । युक्तेषु तथैव ततो द्वयोसु बहुशो निबद्धीयात् ॥ इति ।

Page 50

३ वर्गः ]

लघुवृत्तौ !

४३

ननु “मृणालहंसे”त्यादौ उपवर्ण्यविषयमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्यादीनामुपमेयानां विशेषस्यापनाव्यतिरेकालङ्कारेण सद्धद्यहद्याण्यावड्येनते, न तु यथासंश्रयेन । तत्कथम् यथासंश्रयमलङ्कार इत्याशङ्क्योक्तम्-“असधर्मेणामिति” । यत्रापि हि साधर्म्योभावादुपमानोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राध्ययं शोभातिशयमावहत इत्यर्थः । यथा—

कज्जलहिमकरकुचः सुपर्णवृषहंसवाहनः शं नः ।

जलनिधिगिरिपयस्या हरिहरचतुरानना ददतु ॥

इति ।

अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलकुचकुसुपर्णवाहनत्वजलनिधिस्थत्वादयो धर्माः कमेणानुनिर्दिष्टाः । न च तथा परस्परसाधर्म्यं विद्यते । अथ च क्रमपयोचयनया अर्थोनामानुरूप्येण समन्वयमतीते: शोभातिशयो विद्यते । तेनास्य साधर्म्योऽभावेऽपि पृथगलङ्कारतांप्रतिलम्भाच्चात्र साधर्म्योद्भावते तत्राध्यलङ्कारत्वं दुर्निवारम् । अतो “मृणाल-

हंसे”त्यादिके उदाहरणं यथासंश्रयमज्ञोभूत व्यतिरेकालङ्कारस्य दृष्टव्यम् । तेनायमज्ञोऽलङ्कारभावे सद्भारः । यदृश्यति “परस्परोपकारेण यत्रालङ्कृतयः

स्थिता: । स्वात्मन्येनात्मलाभं नो लभन्ते सोऽपि सद्भारः!”

॥ इति । अतो यथासंश्रयं पृथगलङ्कारत्वेनोपदेशव्यम् । तस्योदाहरणम्—

३५ मृणालहंसप्रभानि बाहुच्छङ्गमणानने: ।

निजेयान्यानया व्यक्तं नलिन्य: सकला जिताः ॥

अत्र बाहुच्छङ्गमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसप्रभान्यनुनिर्दिष्ट-

स्थानि । तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रोभणि-

तिसदृशोऽच्यस्थासस्र्यमेलङ्कारे: ॥

उत्प्रेक्षा—

साम्यलूपाचिवक्ष्यां वाच्येवाध्यात्मभि: पदैः ।

अतदुणक्रियायोगादुत्प्रेक्षातिशयायान्विता ॥

यत्रैवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षालङ्कार्योऽल-

ङ्कारः ।

33

Page 51

झार:। नन्वेवं सत्यसंभवो नाम लक्षणदोष: प्रास:। चोत्थस्योपमानोपमेयभावस्यास्यावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्क्योचं “अतद्गुणाक्रियायोगादिति” । द्रव्यधर्म: सिद्धो गुण:। साध्यस्वभावस्तु क्रिया । इदं खलु विश्वं स्वतन्त्रपरतन्त्रपदार्थोभयात्मकत्वादिविधम् । यत् खलु स्वतन्त्रं पदार्थ: स धर्मीत्यविधीयते । तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्व्रव्यम् । परतन्त्रस्य पदार्थस्य धर्मरूपता । तस्य च द्विविध्यम् । सिद्धसाध्यताभेदान्तश्र लौनिक:। पदार्थ:। सामान्यादीनामत्रैव प्रतीतिकेन रूपेणान्तर्भूतत्वात् । जत्र असौप्रकृतो योडर्थस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणसास्तदयोगास्म्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरविहतद्धा । यत्न किलोपमानोपमेयभावेन सामान्यं तत्पमानुसार्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीतिरभवति । उपेक्षायामपि च योडसावस: अप्रकृतस्तस्य ऋते ये क्रियागुणास्ते तस्मिन्नप्रकृते वध्नुनुपमानतयाचुलिक्षितेऽपि प्रकृते वस्तुन्यासज्यन्ते । तेनातद्गुणक्रियायोगादस्या इवादिवाच्यत्वम् । अत एवान्यधर्माणां स्वधर्मिभूताद्रवस्तुन् उत्कलितानां रसभावाद्यभिव्यक्त्यनुगुणतया वस्त्वन्तराधिष्ठत्वेन लब्धप्रकाराणामेक्षणादियुक्तपेक्षा । नन्वेवमपि सुतकम्—आतिशयान्वितेति । पुराणमजापतिविहितरुपविपर्योसेन कविचेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमध्यासक्तं शक्यत इत्यर्थ: । इयं चोत्तेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णननालोकातिक्रान्तविषया संशावना । तस्माद् द्विविध्यम्, भावाभावविषयं च बोहिरसंभवत उपर्येमानत्वात् । तदाह—

३३ लोकातिक्रान्तविषया भावाभावाभिमानत:। संभावना यमुत्पेक्षा

येयं लोकातिक्रान्तविषया संभावना सा भावस्याभावस्य च—मिमानात् द्विविध्यं भजत इत्यर्थ:। नन्विवाच्युपनिबन्धे सति यद्युत्पेक्षा

Page 52

३ वर्ग: ]

लघुवृत्तौ

४५

भवतीत्युच्यते, एवं सति "चन्दनासक्तमुजगनिश्वासानिलमूर्छ्छित: । मूर्छ्छोयतेऽपि पथिकान्मधौ मलयमारुत:" ॥ इत्येवमादिविधादेरपयोगादुत्ते-क्षान्त्वाभावप्रसङ्ग इत्याराक्ष्याह—

वाच्येवादिभिरुच्यते ।

द्विविधा खलु द्वयक्षता । काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयुज्यमानेऽपि विवक्षितव्या सा इवादिभिरुच्यते । या तु द्वयर्थसामर्थ्योदवगम्यमानेऽपि तत्र या वाच्या स्वकण्ठनेवादिभिरुच्यक्तव्या सा इवादिमिरुच्यते । या तु द्वर्थसामर्थ्योदक्षैरिवादिभिरवगम्यते तत्क्षेपादीनामपयोग: । 'चन्दनासक्तमुजग' इत्यादौ च मलयमारुतस्य यदेतन्मन्थादिविभोवनिवन्धनत्वात्पथिकमूर्छ्छोहेतुत्वं तत् तु भुजगनिश्वासमूर्छ्छितत्वे कारणस्वेनौत्प्रेक्ष्यमाणे इवाद्यर्थोडर्थसामर्थ्योदवगम्यते । तेनेऽवादीनामपयोग: । इवादिशब्दसामर्थ्याद्वसेयाया मेवोत्प्रेक्षायासिवादीनां प्रयोगात् । तत्र भावाभिमाननेनोत्प्रेक्ष्यां तस्या गुणवयोगाद्वासेन प्रवृत्ताया

उदाहरणम्—

अस्याः सदृक्विमृच्यहृदृष्टिपीततातपैर्जपैः । श्यामिकाऽऽदृशेन पतितं मुले चन्द्रभ्रमादिव ॥

अस्या मुखे जपैर्हेंडुहूते: श्यामिकाऽऽदृशेन पतितमिति संबन्ध: । अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्या: शशाङ्कसहशो मुखे श्यामिका संजाता । तच्चात्र तस्या: श्यामिकाया जन्म अतिशयोच्यथा पातरूपतया प्रतिपादितं पतितमिति । सा चात्र श्यामिका शशिलाञ्छनेन शशोन तुल्या । अतस्तस्या: शशिलाञ्छनशशातुल्यतादुपसर्जनोपमेयं रूपकं श्यामिकवाञ्छ इत्युपनिबद्धम् । तस्य चाङ्कस्य श्यामिकोपपक्तस्

भगवतीचन्दनिपाते कारणत्वेनेऽन्दुभान्तरुत्प्रेक्षिता । यदेतच्च्छशिनो ललचनं श्यामिकारूपं तद्धगवतीवदन इन्दुभान्त्येव निपतितमिति । इन्दुभ्रान्तिस्थ गुण: । सिद्दरुपत्वे सति द्वयधर्मेत्त्वात् । एवं चात्र शशसहशो. श्यामिकां चैतन्यारोप्यतेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरोकरोति । अथ च तस्या: शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो

Page 53

निबद्धः। तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य योडसौ गुणोऽमलक्षणस्त-

द्योगादिवादे: प्रवृत्ति: । इन्द्रियाश्रयं भावरूपो गुण: शशीकृततश्यामिकाक-

ृकतया कविनिबद्धेन वाक्या भगवताभिमानेनाध्यवसितः । तेनेयमतद्गुण-

योगेन भावाभिमानेन उत्प्रेक्षा ।

एवं क्रियायोगाध्यासाद्धावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम् । अभा-

ववविष्याया: पुन: क्रियाध्यासेन प्रवृत्त्यायास्तस्या उदाहरणम्—

कपोलफलकावस्या: कष्टं भूत्का तथाविधौ ।

अपश्यन्ताविवान्योन्यमीक्ष्षां क्षामतां गतौ ॥

अत्र कपोलफलकयो:स्पष्टपोवशात् क्षामत्वमापन्नयो: परस्परादर्शनमभाव-

रूपं साधयत्वात् क्रियारूपक्शामताया: कारणं तयोत्प्रेक्षितम् । तेनेयमतक्रिया-

योगादभावाभिमानेनोत्प्रेक्षा । एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा

तस्यामुदाहार्यम् ।

स्वभावोक्ति:—

क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् ।

कसचिन्मृगडिम्भादे: स्वभावोक्तिकरदाहुता ॥

मृगबालादे: स्वस्मुचिते व्यापारेऽप्रवृत्तस्य ये हेवाका: स्वजात्यनुरू-

प्येणासिनिवेशविशेषास्तदुपनिबन्ध: स्वभावोक्ति: । तस्याश्रयालङ्कारत्वम-

साधारणपदार्थस्वरूपपध्वननात् । तस्या उदाहरणम्—

क्षणं नष्ट्रधवलित: श्रृङ्गेणैके क्षणं नुदन् ।

लोलोकरोति प्रणयादिमामेष मृगाङ्क: ॥

नेष्ट्रेति । 'जानन्तशां विषादं' इत्यतुनासिकलोपस्य विकलितत्ववाद-

मद्विप् । उभे मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिम्रेरण

चेतसा व्याकुलीकुर्वत: स्वभावो निबद्ध: क्षणमपरिहृत्यमानत्वमर्धंकायेन

परिदृश्यति: श्रृङ्गेण च नोदनमित्येवमास्मा ॥

इति श्रीमहारतीहारेनदुराजविरचितायाशुद्वाटलङ्कारसार-

संग्रहलघुविद्वत्तौ तृतीयो वर्ग: ॥

Page 54

४ वर्ग: ]

लघुवृत्तौ

४७.

अथ चतुर्थो वर्ग:

प्रेयोरसदूर्जास्वि पर्यायोक्तं समाहितम् ।

द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः ॥

प्रेयोरसवदिति समुद्रायान्तहुप । श्लिष्टमिति । तथा उदात्तवद्विविधं

श्लिष्टमिल्यर्थ: । विप्रतिपनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तम् ।

भामहो हि "तत्सहोक्त्युपमामहेतुनिर्देशात्रिविधं यथा" इति श्लिष्टस्य

त्रैविध्यमाह । अतो विप्रतिपतिनिरासाय तयैव्युक्तम् । उदात्ते तु द्विधे-

त्यमनुवादो दृष्टान्तवार्थः । यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वाद-

रीकृतं तथा श्लिष्टापि तदङ्गीकर्तव्यमित्यर्थः ॥

रत्यादिकानां भावानामनुभावादिसूचनैः ।

यत्काव्यं बध्यते सङ्कीर्त्येयस्खदुदाहृतम् ॥

रत्यादयो भावाः विविधाः स्थायिनो व्यभिचारिणः । सात्विकोऽपि । तथा-

रत्यादिसकृच्छोकश् क्रोधोत्साहो भयं तथा । जुगुप्साविस्मयसम्मा-

स्थायिभावा: प्रकीर्तिताः॥ निर्वेदग्लानिशङ्काद्यास्त्रयास्तथासूयामदश्रमाः । आ-

लस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष

आवेगो जड़ता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥

सुसं विप्रोथोडमर्यादश्रव्यवहिस्थमथोप्रता । मतिव्याधिस्थौन्मादस्तथा मर-

णमेव च ॥ त्रासश्र्चैव वितर्कश्र्च विशेष्या व्यभिचारिणः ।

त्रयोऽंश्रिशदम्भी भावाः॥ स्तम्भः स्वेदोदथ रोमाञ्चः स्वरभेदोदथ वेपथुः । वैवर्ण्येमश्रु प्रलय

इत्यष्टौ सात्विकाः । स्मृता:" ॥ एतेषां पञ्चाशत्सङ्ख्यानां भावानां सुचकाक्ष-

त्वारोडनुभावादयः । ते चानुभावो विभावो व्यभिचारी स्वशब्दद्र्व ।

तत्रानुभावश्र्चुविधः । आङ्गिको वाचिकः सात्विक आहार्यश्र्च । आ-

ङ्गिको हस्ताभिनयादिः । वाचिकः काकादिपयोगः । सात्विकः . स्त-

म्भादिः । आहार्यश्र्च प्रतिशीर्षककुकादिः । एवमयमनुभावश्र्तु:संल्यः

कार्येत्वात्कारणभूतान्भावान् गमयति ॥

Page 55

४८

काव्यालङ्कारसार-

विभाववस्तु द्विविधः । आलम्बनोद्दोपनरुपत्वात् । तत्रालम्बनविभावो रतादिश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः । उद्दीपनविभावस्तु यद्र्दशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः । एवमेप द्विविधो विभावो रत्यादीनां कारणभूतः । स च कारणत्वात्कार्येभूतान् रत्यादीन् गमयति यथातिबहलेनौजललोन्द्रियद्वारि दृष्टिम् । यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्ययाभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्ये प्रत्ययाभिचारिता व्यवहारे बाहुल्येन दृश्यते । अतो विभावः कारणत्वात् रत्यादीन्कार्यभूतान् गमयति । व्यविचारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरुपो निवेंदादिः । स च सहचारित्वात् स्थायिनो भावान्प्रतिपादयति रथसैकमिव चक्रं चक्रान्तरम् । स्वशब्दश्रु रत्यादिः । स च वाचकत्वाद्वान् गमयति । रत्यादीनां च शब्दानां यद्यप्यनुभावैकगोचरसवलक्षणस्थभावरत्याधवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिव्यतिरेक् एवं । यथा स्वलक्षणानुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्र्द्वार्शब्दा अपि तद्वास्ताम् ।

एवमेते भावानामवगतिहेतवश्शब्दास्त्रारः । यदुक्तं भट्टोद्भटेन "चतुरुपा भावा" इति । तदर्शं रत्यादिकानां भावानां पद्शब्दतसंश्रयानां यान्यनुभावादिभिश्र्वतुसंख्या यथायोगं सूचनानि स्वलक्षण-स्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यसुपनिबध्यमानं प्रेयस्वत् । प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुप-लक्ष्यते । तथा च साहचर्याद्रत्यादयो भावाः पद्शब्दगम्यन्ते । एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः । अत्र च भावानाभलक्ष्यारता, काव्यमलङ्कार्यम् । तस्योदाहरणम्—

इयं च सुतवत्सल्यान्तर्विशेषणा सृद्हावती । उल्लापयितुमारुढा कृतवेमं क्रोड आत्मनः ॥

आत्मनः क्रोडे कृतवेतिं संबन्धः । अत्रात्मनो वक्षसि निधानमाक्षि-

Page 56

४ वर्गः ]

लक्षणसूत्रो

४९

कोडमिनय:, उल्लापनं सान्स्वनं वाचिक: । इममिति इदंशब्ददेन परामृष्टो

यो मृगाभेक: स आालम्बनविभाव: । वातसत्योन्मीलितश्रौत्सुक्यात्मा

व्यभिचारीभाव: । शृङ्गारालङ्कारनिर्विशेषत्वेन हि स्पृहाया रतेरौत्सुक्यभेदा-

मिसंबन्ध: प्रतीयते । स्वशब्दस्तु स्पृहाहेति । एवमयं रत्यात्मको भावो

वात्सल्यस्वभाववश्रुतुमिरनुभावादिभिरत्रावगमित: । अन्येष्वपि भावेष्वेव-

सुदाहार्यम् ।

रसवत्—

रसवद्रङ्गितस्पष्टशृङ्गारादिरसोदयम् । ३२

स्वशब्ददर्श्यायिसंचारिविभावाभिनयास्पदम् ॥

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।

वीभत्साद्भुतशान्ताश्च नव नालो रसा: स्मृताः ॥

एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राश्रुपयतया तदितरपरि-

हारनिबन्धनतया च रत्यादीनां स्थायिनां नवानां भावानां य: परिपोषस्त-

दायकः । अतस्तथाविधेन रूपेणाश्रयत्वादस्वादभेदनिबन्धनेन तान्त्रि-

केप रसशब्देनाभिधीयन्ते । निर्वेदादौ तु तथाविधस्वाश्रयस्वभावात्म-

वृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्ति: । आश्रयादात्मा-

त्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दभवृतिचिरविरुद्धा । यदुक्तं

शृङ्गारादीन् रसानुजुष्म-“रसनाद्रसल्लवमेषां मधुरादीनामिवोक्तमाचर्यैः ।

निर्वेदादिष्वपि तत्प्राकाममस्मीति तेऽपि रसा:” इति ॥ तदाहु:—

चतुर्वर्गे न्तरौ प्राप्त्य परिहायौं ऋमाद्गत: ।

चैतन्यभेदादाश्रयादान्तं रसस्तादृशो मतः ॥ इति

स इति । चैतन्यभेद इत्यर्थ: । तादृश इत्यनेन आश्रादविशेषणिव-

घनत्वं शृङ्गारादिषु तान्त्रिकस्य रसशब्दसोक्तम् । एषां च शृङ्गारादीनां

नवानां रसानां स्वशब्दादिभि: पश्चाभिरवगतिर्भवति । यदुक्तं 'मद्रोद्भटेन-

पञ्चरूपा रसा” इति । तत्र स्वशब्दा: शृङ्गारादेरवकाः शृङ्गारादय:

शब्दा: । स्थायिनो रसानामुपादानकारणप्रस्य रत्यादयो नव भावाः ।

Page 57

संचारिणसु निवेंदादयो रसानामवस्थाविशेषरूपाः । विभावासु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्व । आङ्गिकादयसु चत्वारो रसानां कार्यभूता अभिनयाः । एतेषां च स्वशब्दादीनां पद्यानां समस्तव्यस्ततया आस्पदत्वाचेन काव्येन स्कुटतरूपतया श्रृङ्गारादिसांविमौवो दर्श्यिते तत्काव्यं रसवत् । रसा: खलु तस्यालङ्काराः । तस्योदाहरणस्

इति भावयतस्तस्य समस्तान्पार्वतीगुणान् । संभृतानरुपसंकल्प: कन्दर्प: प्रबलोऽभवत् ॥

स्विच्यतापि स गात्रेण वभार पुलकोत्करम् । कदम्बकलिकाकोषेशरप्रकररोपमाम्र ॥

क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्वलया क्षणम् । क्षणं प्रमोदालसया दशास्यास्यममूष्यत ॥

कदम्बकलिकालङ्कोश: कदम्बकलिकाभ्यन्तरम् । अत्र भगवति आभिलाषिकविप्रलम्भशृङ्गारो निवद्ध: । तस्य स्वशब्द: 'कन्दर्प: प्रबल' इति । स्थायी ततैव स्वशब्देनोन्मीलित: कन्दर्प इति । रतिपरिपोषात्मकको हि श्रृङ्गार रस: । रतिश्च यूनां मनोमथात्मिका । अतो रतिविशेषस्य वाचकत्वात्कन्दर्पेशब्द: स्थायिनोडत्र स्वशब्द: । संचारिणश्रृङ्गारस्यचिन्ताहर्षो: स्वशब्दकदेनोन्मीलिताः । स्तेदरोमाञ्चौ च सात्विकौ स्वशब्दोपचौ । तयोरपि च संचारित्वम् । सात्विकानां स्थायिभावावस्थाविशेषेन निर्वेदादिवत्संचारि-

त्वात् । विभावसु 'इति भावयतस्तस्य' इति निर्देश: । भगवती हि तत्कुण्डोपेतत्वेन विभाव्यमाना विभाव: । अभिनयस्त्वप्राप्ताभिनयनयो निं-दिष्टो 'दशा' इति । अतोडत्राभिलाषिक: श्रृङ्गाररस: स्वशब्दादिभि: पञ्चमिरभिव्यज्यते । एवमन्येडपि रसा उदाहरणार्य: । रसानां भावानां च काव्यशोभातिशयहेतुत्वात् किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न तावद्विचार्यते ग्रन्थगौरवभयात् । रसभावस्वरूपं छात्र न विवेचितम-

क्कृतत्वादहहवक्तव्यतया च ॥

Page 58

४ वर्गः ]

लघुवृत्तौ

५१

ऊर्जस्वि—

अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।

भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ॥

कचित्स्वल्पं रसभावानां शाखसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते,

कचित्तु तद्विरुद्धेन । तत्र यत्न शाखसंविदविरुद्धेन रूपेण तेऽप्युपनिब-

न्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्वाभिहितः । यत्र तु तद्विरुद्धत्वं तन्मू-

लकलोकविवह्नारिविरुद्धस्तं च तद्विषयाणां रसभावानुमनिबन्धे सत्यूर्येस्वि-

काव्यं भवति । तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उप-

निबध्यन्ते । अत एवं तत्र स्वकारणापरिकस्पितत्वेन ऊर्जेसो बलस्य

विध्यमानत्वादूर्जेस्विव्यपदेशः: । ‘ज्योत्स्नातमिस्रे’ इत्यत्र ऊर्जेस्विशब्दः ( पा. अ.

५।२।९४ ) ॥ तस्योदाहरणम् ।

तथा कामोऽस्य वध्रेधे यथा हिमगिरे: सुताम् ।

संग्रहीतं प्रवत्तते हतनेतोपमस्य सहपथम् ॥

अत्र सकललोकातिशायिनो भगवतोद्कृतविवाहकुमारविषयतया हठ-

संग्रह: शाखसंविदविरुद्ध: मदनद्रारागकारणक उपनिबद्ध: । तेन ऊर्जेस्विता ।

तत्र कामो वध्रेधे इत्ययं शृङ्गारस्य स्वशब्द: । तस्य रतिपरिपोषात्मकत्वेन

कामद्रद्विस्वभावत्वात् कामशब्दस्वेतदनन्तर्गतः + शृङ्गारस्य यासौ स्थायी-

मूता रतिस्तस्या: स्वशब्द:; हिमगिरे: सुतामिल्यालम्बनविभाव: । हठने-

तनेनावगतलक्षणो व्यभिचारिभाव: प्रतिपादित: । अपास्य सत्पथमिति तु

मोह:; संग्रहீडं प्रदृत्त इति आर्षिकोडनुभाव: । पवसयस्त्र पथ्यभि:

स्वशब्दादिभिरुर्येस्विलक्षण: शृङ्गार: सुचित: । एवमनेनैवOn. Griffithlega;

Librarg,

TIRUPATI.

Acc. No 32122

पर्थायोक्तं यदन्येन प्रकारेणाभिधीयते ।

वाच्यवाचकयोरवृत्तिभ्या शून्येनावगमातमनुरूपं

वाचकस्याभिधायकस्य स्वशब्दस्य; वृत्तिव्यपारो वाच्यार्थप्रत्यायनम्

Page 59

५२

काव्यालङ्कारसार-

वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामाहार्म्यात्सेसर्गगमनम्। एतद्विधश्र यो वाच्यवाचकयोरव्यापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामर्थ्योत्थनावगमसक्भावेन यदवगम्यते तत्पर्योयेण स्वक-ण्ठानविहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात् पर्योयोकं वस्तु। तेन च स्वसंके षवरोन काव्यार्थोडलक्षिते। तस्योदाहरणम्-

येन लम्बालुकः साक्षात् करघातारणस्तनः। आकारि भ्रमचलयो गजासुरवधूजानः॥ सोडपि येन कृतः शुष्कदेहेनाप्येवमाकुलः। नमोडस्त्ववार्यवीराय तसै मकरकेतवे॥

अत्र लम्बालकत्वादयः कार्यरूपत्वात् कारणभूतं गजासुरवधं वाच्य-वाचकव्यापारासृष्टमपि गमयन्ति। तेन च तथाविधया विच्छिन्नन्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोऽर्था अलक्षितान्ते। तस्मात्पर्यो-योक्कमलङ्कारः॥

समाहितम्-

रसभावतदभावस्वच्चैः प्रशमबन्धनम्। अन्यानुभावनिर्झून्यरूपं यत्तत्समाहितम्॥

इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्विविध्यमु-क्रम्। तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र विव-क्षिताः। तद्विरुद्धास्तु तदाभासाः। तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंवन्ध्यात्मिका तस्याः प्रशमे निवृत्तिमाने समाहितालङ्कारो भवति। तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति समाहितमिति कः॥

ननु यदि तसिन्नकाळये रसादीनां वृत्तिः परिहियते, एवं सति पूर्वसादिनिवृत्त्या रसाच्चान्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुपवेशः प्रसक्त इत्य-शङ्क्योकम्—अन्यानुभावनिर्झून्यरूपमिति। अन्यस्य रसाद्यान्तरस्य येऽ-नुभावादयः शून्यं रूपं यस्य तत्। यत्र पूर्वेषां रसा-

Page 60

४ वर्गः ] लघुवृत्तौ ५३

दीनां वासनाया दार्ढ्येन तेषूपशान्तेष्वपि रसाध्वान्तराणां न स्वरूपमावि-भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहिताल-ल्कारो भवति । तस्योदाहरणम्—

अथ कान्तां हृशां दृष्ट्वा विभ्रमाच्च अमं भुवोः । प्रसन्ने मुखरागे च रामाध्वश्वेतदशकुलम् ॥ स्मरशरप्रदीप्ताननि सर्वज्ञानी समाधत् । उपासपेद्रिरक्षितां गिरिशः स्वस्तिपूर्वकम् ॥ समाधनिजे रूपेडवस्थापयन्त् । समाधदित्यभ्यस्तत्स्वाल्च्युमोडप्रवृत्तिः । अत्र भगवता श्रृङ्गारस्य येडनुभावा: कान्तदृष्ट्यादयस्तेऽपमवहित्थेन आका-रपच्छादनात्मकेन भावेन तिरोधानं विहितम् । यदुक्तं—स्वस्तिपूर्वक-मिति । अननेम भाकारातिरोधानमुपदर्शितम् ।

उदात्तम्—

उदात्तश्रीदृशोदारस्तु चारुत्वं च महात्मनोः । उपलक्षणतां प्रापं नेतिवृत्तत्वमागतम् ॥

कदर्थि: सुवर्णोदनसंप्रत्ति: । तथुक्तं वस्तूदात्तम् । तेन च काव्य-थोडलंक्रियते । तस्योदाहरणम्—

उवाच च यतः क्रोडे वेङुकुञ्जरजनन्मभिः । मुक्ताफलैरलेलक्कारः शबरीणामपीच्छया ॥ पुष्पेन्द्रनीलवैडूर्यपद्मरागमयैर्वियत् । शिरोमिरुढिलसितग्रन्थं गन्धमादनम् ॥ उत्तुङ्गोपत्यका यस्य पादौ पाणिसर्गभूषितौ । महानसमरक्ततोर्वीन्द्र: पादोपान्तं च संस्कृतः ॥ बभूव यस्य पातालपातिन्यां संक्षये क्षितौ । पतनं न तथा सार्धमायामस्तु प्रकट्यभूत् ॥ यस्य एवंविधरूपता हिमाद्रिर्द्भवती शुतेति संबन्धः । क्रोड: सूकरः । पुष्पो मणिविशेषः । गन्धमादनं पर्वतविशेषः । उपत्यकाः पर्वताधारव-

Page 61

४८

काव्यालङ्कारसार-

तिनो भूमिभागा: । प्रधानं वर्णं कार्तस्वरादि ।'उर्वीसंश्रः पर्वताः । संक्षयः कल्पान्तः । भूमेरधोगमनाद्धि'म्याक्रुष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धि-मवतः कल्पान्ते आयामः । प्रकटीभूतः । अत्र रत्नादिसंभारो निबद्धः । तेनेष्टसुदात्तम् । तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्येध्वननात् । एकमेतद्धिमतस्तत्प्रतिनिधिरन्वयादनेकैकरसैकतद्धेतुकतया । न केवलमृद्धिमद्रस्तूदात्तं यावदर्थमात्रावनर्थपरिहारेऽपि चौद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्—चारितं च महात्मनामिति । न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य श्रृङ्गारादिरसप्रतिपत्तिहेतुत्वादसव-दलककारानुप्रवेशोऽत्र शुमणः । विपुलाशयचेष्टितस्यात्र वस्तुन्तरोपलक्षण-त्वेनावान्तरवार्थीभूतत्वात् । न खलु वत्र महापुरुषचेष्टितं वाक्यतात्पर्य-गोचरतामनुभवति । अर्थान्तरोपलक्षणपरत्वात् । यत्न च रसास्तात्पर्येणाव-गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चरुर्वैर्गतदितरस्मासिपरिहारो-पायमूर्तस्थायिभावपरिपोषातमनाःसायादमानत्वाद्वस्तुलङ्कारो भवति । तेन कुतोऽत्र रसवदलङ्कारगणोऽपि । तदुक्तम्—उपलक्षणतां प्राप्तं नेतिद्व-तत्त्वमागतमिति । तस्योदाहरणम्—

तस्यादिकोडपीनां सनिघर्षेण्डपि पुनः पुनः । निष्कम्पस्य स्थितवतो हिमाद्रेरहेति शुता ॥

अत्र हिमवतः शैलेन वाक्यार्थीभूते भगवतो वराहपुरुषस्यै लोकयुद्धरणो-युक्तस्य चेष्टितं धीररसप्रतिपत्तिहेतुभूतमवान्तरवार्थत्वादुपलक्षणीभू-तम् । आदिकोड आदिवराहः । एवं रसान्तरेप्युपलक्षणीभूतेप्युदाहार्येऽपि॥-

श्लोक्रम्—

३४ एकप्रयत्नलोचाचार्याणां तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैरभिनैर्वर्णः श्लिष्टमिहोच्यते ॥

अलङ्कारान्तरगतां प्रतीमां जनयत्पदैः । द्विविधैरर्थशब्ददौक्तिविशिष्टं तत्व्रतीतियताम् ॥

इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वैथी गति:

Page 62

४ वर्गः ]

लघुवृत्तौ

५५

अर्थभेदेन तावच्छब्दा भिद्यन्ते इति भट्टोजिदीक्षितस्य सिद्धान्तः । तत्रार्थभेदेन भिद्यमाना: शब्दा: केचित्त्रेएण प्रयोक्तुं शक्या: केचित् । येषां हल्स्थानप्रयत्नादीनां साम्यं ते तत्रेएण प्रयोक्तुं शक्यन्ते । यत्र तु हलामेकत्वानेक्त्वरूपपत्वात्स्वराणां चोदात्तस्वरितानुदात्तवादिना स्थानां चोच्च्यदनः्यौष्ठत्वादिना प्रयत्नानां च लघुस्वालघुत्वादिना भेदस्तेऽपि तत्रेएण प्रयोक्‌तुं शक्य: । साधारणरूपपत्वात्त्रयस्य । तदुक्तम—‘साधारणं भवेतत्रयम्’ इति । एवम् चावशिष्ते ये तत्रेएणोचार्यिथं शक्यन्ते ते एकप्रयत्नोचार्य्य: । तद्रन्‍धे सत्यर्थेऽलेओ भवति । तदुक्तम—‘एकप्रयत्नोचार्योणामिति । तथा ये तेषामेवैकप्रयलोचार्याणां शब्दानां छायां सारध्ये बिभ्रति तदुपनिबन्धे च शब्दद्विष्ठम् । शब्दान्तरे उच्चार्यमाणे सारधव्यशेनानुचारितस्यापि शब्दान्तरस्य द्विष्ठत्ववाद् । तदुक्तम—‘तच्छायां चैव बिभ्रताम् । स्वरितादिगुणैरैरैरन्ध्र: क्ष्विष्ठ्रमिति । तथा—‘शब्दोक्तिविशिष्टं त्स्रतीयतामिति । एतच्च क्ष्विष्ठं द्विविधमप्युपमाद्यलङ्कारमतिोत्त्पादनद्वारेणालङ्कारतां प्रतिपद्यते । अतोडनेनानवकाशत्वात् स्वविषयेडलङ्कारान्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात् । तदुक्तम—‘अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थ: । तदेवं शब्दद्विष्ठमर्थद्विष्ठं च लक्ष्यताम् । तस्योदाहरणम्—

स्वयं च पल्लवाताम्रभास्करकविराजिनी । प्रभातसन्ध्येवार्कापफलगललुन्धे हितप्रदा ॥

इन्दुकान्तमणुली क्नि॑गधमहानीलशिरोरुहा । मुक्ताश्रोक्नि॑जगद्रत्नपद्मरागाक्नि॑डपद्मिनी ॥

अपरिजातवातांपि नन्दनश्रीरिव स्रिता ।

अविन्दुसुन्दरी नित्यं गलच्छायण्यविन्दुका ॥ .

न केवलं त्वं हिमाद्रेरेंविविधस्य सुता यावरखयं चैवंप्रकारोति च-शब्द: । अत्र भगवती किसलयवदातामौ भासन्तौ दीसिमन्तौ यौ करौ

Page 63

५६

काव्यालङ्कारसार-

हस्तौ ताम्ब्यां विराजते । प्रभातसन्ध्या तु पल्लववदाताग्रेभास्वत आदित्यस्य करेमेयरूवैविराजते । अत्र चौभयत्रापि हलादीनां साम्यम् । अतस्तत्रोणोचारणसंभवादयमर्यशेष: । अस्वापफललुङ्घे हितमदेसत्र तु भगवतीपक्षे प्रदर्शातिलर्थ: । प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रातुमवस्थ यत्करं श्रम-निवृत्तिलक्षणं तत्र यो न लुङ्घ: सन्ध्योपासनप्रवृत्ततत्त्वाद्विषयें हितमदृष्टं समर्पयतीलर्थविवेत्स्यर्थ: । । अत्र च पूर्वसिन्पक्षे ऐकपद्यात् (पा. अ. ६।

२१८४) थाथादिस्वरेणान्तोदाचत्वम् । उत्तरत्र पुनरस्वापफललुङ्घे इति हितमदेति च अनयोरभिन्नपदस्वार्थानानास्वरत्वम् । अस्वापफललुङ्घ इत्यस्य "तत्पुरुषे तुल्यार्थेति" (पा. अ. ६।२।२) पूर्वेपदप्रकृतिस्वरेणाद्युतात्त्वात् । हितमदेतस्य तु (पा. अ. ६।२।१४९) थाथादिस्वरेणान्तोदात्तत्वात् । तेनात्र स्वरभेद: । अस्वापेति आकारस्य फललुङ्घे इति च एकारस्य उभयो: पक्षयोऽर्थाथोयंगं लाघवालाघवाभ्यां प्रयल्नभेदोदपि । अतस्तत्रेणोचारणविधुमशक्यता । एकसिस्स्ववत्र शाब्दे समुचारिते शब्दान्तरस्य तत्तादृश्यापतिपत्तिः । अतोडयं शब्दशेष: । एतयोर् द्वयोरप्यर्थशेषशब्दशेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम् । प्रभातसन्ध्या द्वारोपमानम् । भगवती उपमेया । इवशब्दश्रोपमानोपमेयभावं द्योतयति । शब्दव्यतिरेकेण तु साधारणो धर्मोऽधिकरणोऽत्र न विद्यते ।

इन्दुकान्तमुखलीयत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्या: सा तथाविधा । तथा खगभद्दीर्घकृणकेशी । मुक्ता परित्यक्का अश्रीरशोभा यया सा तथाविधा । त्रैलोक्योत्तकृष्णा च । तथा प्रभाते कमलवत् रागो लोभयत्ययोस्थाविधौ पादपल्लवौ यस्यास्तद्गुपा । यदा त्वसौ भगवती रूपक-प्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरर्वतिमाणिक्यसंभाररुपतया रूप्यते तदा मकुतोऽड्र्डशकान्तेन्दननीलमौक्तिकशोभापद्मरागैररवच्छा-दितरुपतया प्रतीयते, साक्षादेवंविधरलमयावयवयोगिस्वात् त्रिषु-वनोदरान्तर्गतबहुसमृद्धिरूपेति । अत्र च मुक्ताश्रीरित्यत्र स्वरभेदो

Page 64

५ वर्गः ] लघुवृत्तौ । ५५०

विध्यते । बहुव्रीहीपेक्षे "बहुव्रीहीहू प्रकृत्येति" पूर्वपदमकृतिस्वरत्वात् । तत्पुरुषे तु समासान्तोदात्तत्वात् । शिष्टानां तु शब्दानां स्वरभेदो नास्ति । प्रयत्नगुरुणाम्गुरुण्वे तु त्रिजगद्गुरुशब्दव्यतिरिक्केषु तत्तद्वर्णविषयतया विध्यते । तेन तत्र शब्दश्रेषता । त्रिजगद्गुरुशब्दस्स तूभयत्रापि कस्यचिद्विशेषस्याविधमानत्वादर्थश्रेषत्वम् । अपारिजातवार्तापीत्यत्र भगवत्यजातरश्रुत्वादपगतश्रुसमूहवार्ता तदीया च शोभा सर्वेष चित्तमार्जयतीत्यतो नन्दना श्रीयसीसास्तधाविधा । उदकमध्यवर्तितया च योडसौ अप्सु उदके प्रतिबिम्बित इन्द्रुसद्रतसुन्दरी । निलयं च गळल्हावण्यप्रवाहा । यदा त्वसौ भगवती नन्दनश्रीशब्दस्स देवोयानशोभालक्षण-

थोऽन्तराभिधायित्वादुपकप्रतिभोत्पत्तिनिबन्धनेन श्रेषेणैतद्दावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तोपीत्यादिपदपर्य्योलोचनया विरोधमति भाहेतोरपरस्यापि श्रेषतया विरुद्धो भवति । न खलु देवोयानशोभा अविद्यमानपारिजातस्यवृक्षविशेषवृत्तान्ता भवति । न चासौ भूमौ तिष्ठति । अधि-

न्दुसुन्दरीसहितत्र तु बिन्दुभियस्याः सौन्दर्य नास्ति तस्या: कथम् लावण्याबिन्दवः प्रसरेगुरिति विरोधप्रतिपत्तिहेतुः श्रेषः । अपारिजातवार्तोपीत्यत्राप्यपगतार्तापीत्यत्र-तत्पुरुषपक्षेवन्तोदात्तत्वम् । अभिन्दुसुन्दरीयत्र अभिन्दुसत्सुन्दरीत्युपमनत्पूर्वपदसादृशेनैव सूत्रेण प्रकृतिस्वरेणाऽपुदाच्तत्वम् । अभिन्दुसुन्दरीयत्र स्वव्ययत्वान्नात्र: ' पूर्वपदमकृतिस्वरत्वेन तदेव । तेनात्र स्वरभेदस्याभावः । भु प्रयत्नभेदकृतात्तु आकारवैचिच्याच्छब्द श्रेषता ॥

इति महाथी प्रतिहारोपुराजविप्रचित्तायाऽहृकुलडार-सारसंग्रहलघुवृत्तौ चतुर्थो वर्गः ॥

अथ पञ्चमो वर्गः ।

अपहृतिं विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसां च न्यायस्तुतिविदर्शने ॥ ६

Page 65

४८

काव्यालङ्कारसार-

उपमेयोपमां चैव सहोक्तिः संकरं तथा ।

परिसङ्ख्यां च जगदुरलङ्कारान्परे गिराम् ॥

अपह्नुति:-

अपह्नुतिरभीष्टा च किश्चित्प्रतिदर्शितोपमा ।

भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः ॥

यत्र भूतं विद्यमानसुपमेयलक्षणसार्थमपहुयोपमानरूपारोपेणोपमानोपमे-

यभावो ९...................... तिरलङ्कारः । अत्र न च प्रकारणि-

कस्य विद्यमानस्यार्थस्या ९...................... यदृश्यमानोऽस्फुटेन

रूपेणोपमानोपमेयभावश्रुतिकास्तीत्युक्तम्—किश्चित्प्रतिदर्शितोपमेति । तथा

उदाहरणम्—

एतद्वि न तपः सत्यमिदं हालाहलं विषम् ।

विशेषतः शशिकलाकोमलानां भावाद्दशाम् ॥

अत्र प्रकारणिकस्य तपसः स्वरूपमपहुत्ये हालाहलविषेऽप्यविशेषरूपत-

ध्यारोपेण तत्सादृश्यमवगमितम् । तच्चात्र हालाहलविषसाहृश्यमुपमेयस्या-

पहुत्वान्न स्फुटतरूपम् । हालाहलाख्यो विषभेदो यः शिबिर्न व्यापादयति ।

विशेषोक्तिः-

४९ यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् ।

विशेषस्याभिधित्सातस्तद्विशेषोक्तिरुच्यते ॥

शक्तीनां कारणानां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किश्चित्-

द्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः । तस्याश्रयं द्वौ

भेदौ । कार्यत्वलक्ष्णु कारणसामग्र्येऽपि यत्कार्ये नोत्पद्यते तस्याजुत्पच्चौ

स्फुटण्टेन निमित्तमुपादीयते, कचित्त्वर्थसामध्याद्वगम्यते तदाह—

दर्शितेन निमित्तेन निमित्तादर्शनेन च ।

तथा बन्धो द्विधा लक्ष्ये हृद्यते ललितात्मकः ॥

९ अयमर्थ आदर्शानुस्के दृष्टित उपलभ्यते ।

Page 66

५ वर्ग: ] लङ्घनवत्तौ ५३

अदर्शनमनुपादानम् । तत्र द्वितीयस्य भेदसोदाहरणम्—

महर्द्धिनि गृहे जन्म रूपं संसुहृद्रय: । तथापि न सुखप्राप्ति: कस्य चित्रीयते न धी: ॥

अत्र धनसंबारयोग: सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूताया: सुखप्राप्तेरनुपपत्तिरूपनिबद्धा । पूर्वोक्तानां सुखहेतूनां विषयविमावनात्मकविशेषरुप्यापन्नाय । अत्र च निमित्तं सकण्ठेनानुपात्तमप्यर्थसामर्थ्योदवगम्यते । विधिवैचुर्यादिरूपशब्द्रोडत्र शरीरस्य रूपमात्राव्यभिचारित्वादुपमपकर्षतत्परयेणोपपत्त: । संसुहृद्रयो यौवनम् । यौवने हि मननस्थेऽभिमुखीभवति । आधाभेदोदाहरणं तु—

इस्थं विसंशुलं दृष्ट्वा तावकीनं विचेष्टितम् । नोदेति किमपि मृदु सत्स्वरस्यापि मे वच: ॥

अत्र पक्षतत्पराय लक्षणकारणसद्भावेऽपि पक्षवचनोक्तत्पतिरुपनिबद्धा । तथा च प्रशस्तवचनकरणस्य विषयविमावनाद्यो विशेषोडवगम्यते । अत्र च निमित्तं भगवतीगर्त्ताविसंशुलचेष्टितदर्शनं सकण्ठेनोपात्तम् ॥

विरोध:—

गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावच: । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते ॥

यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विरोशब्दस्योपात्तत्वात् द्रव्यस्य विरुद्धोक्त्या: पदार्थ: सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्पन्ना क्रियते कविकृद्दिरोशमवगमितुं स विरोधाभासोऽलङ्कार: । गुणवियाद्रव्यानामुक्तौ लक्षणव्याख्यानसमये स्वरुपसुक्तकम् । क्रिया कारणमुत्पादनं, तत्पधानं वच: क्रियावच: । कविप्रतिभया खलु पुराणप्रजापतिनिर्मितचषुष्कपरुषपदार्थेविलक्षणा: सरसा: पदार्थो: अभिनवा एवं निर्मीयन्ते । अत: क्रियावच इत्युक्तम् । तत्सोदाहरणम्—

यद्वा मां किं करोेम्येष वाचालयति विषय: । भवत्या: कायमाकार: केदं तपसि पाटवम् ॥

Page 67

६०

अत्र यदेतत्पूर्वसुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः । किंवा करोमी विषयवाचालितः सन् ब्रवीमि भवत्याः केति । एष विषयो मां वाचालयतीति संबन्धः । अत्राकृते: सुकुमाराया: पाटवस्य च कठिनिकायसाध्यस्य विरोधो भगवतीनिष्ठेनोपनिबद्धः । तेन च विरोधार्थविवरणाभ्यां विशेषोद्भर स्वप्निते । अयं चौसिद्धस्वभाववधर्म-- निष्ठत्वादुणविरोधः । एवं साध्यस्वसावधर्मनिष्ठेपि क्रियाविरोधे उदाहार-- यम् । तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्य-- विरोधे च ॥

तुल्ययोगिता—

उपमानोपमेयोक्तिशून्यैरप्रस्तुतैरैवचः । साम्याभिधायी प्रस्तावभागिमिर्वा तुल्ययोगिता ॥

अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता । अत एव प्राकरणिकामप्राकरणिकोभयार्थनिष्ठस्वभावाच्चोपमानोपमेयोक्तिशून्यत्वं, प्रस्तावभागिमिः प्रकृतैः साम्याभिधायी वच इति संबन्धः । तस्या: पूर्व-- भेदस्योदाहरणम्—

त्वदृक्मार्दवं दृष्ट्वः कस्य चित्ते न भासते । मालतीशोभ्रयुग्मलेखकदलीनां कठोरता ॥

अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्व- लक्षणं साम्यमुपनिबद्धम् । दृष्टुरिति तत्र । तचोरे च त्वदृक्मार्दवमिति द्वितीयभेदस्योदाहरणम्—

योगपद्यो जटाजालं तारवीत्वड्मृगाजिनम् । उचितानि तवाङ्गस्य यद्गमूनि तदुच्यताम् ॥

अत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरें संसर्गानौचित्य- लक्षणः समालो धर्मो निबद्धः । तारवीत्वक् वल्कलम् । अजिनस्य शरीरस्य ॥

Page 68

अमस्तुतप्रशंसा—

अधिकारादपेतस्य वस्तुनोऽन्यास्य या स्तुति: ।

अग्रस्तुतप्रशंसेयं प्रस्तुतार्थाऽनुबन्धिनी ॥

अधिकारादुपवर्णनानावसरादपगतस्य प्रकारणिकादपरस्य वस्तुनो यत्रोपनिबन्ध: सा अगस्तुतप्रशंसा । न चैवमपि तस्या उन्मत्तप्रलापमव्रुयता,

यत: सा केनचित्स्वाज्ञेन प्रस्तुतमर्थमनुरुन्धति । तदुक्तम—प्रस्तुतार्थ-

थोऽनुबन्धिनीति ॥

तथा उदाहरणम्——

यान्ति सद्देहेऽपु जरामसंप्राप्तोपभोगकृता: ।

फलपुष्पादिभिर्जोडपि दुर्गे देशे च नाश्रय: ॥

अत्र कुत्रच्छेण मार्ग्यते यसिन्देशे तद्वत्कननानां शोभा अग्रा-

करणिक्य एव स्वदेहजरतयोपवर्णिता । तामिश्र सादृश्ये स्वाज्ञयेन

भगवतीचेष्टितमुपमेयमूतं एवंविधरूपतया वगम्यते । दुर्गेति “शुदुोरोधि-

करण” इति डप्रत्यय: ॥

व्याजस्तुति:——

शब्दशक्तिसंभावेन यत्र निन्दादेव गम्यते ।

वस्तुतस्तु स्तुतिश्रेष्ठा व्याजस्तुतिरसौ मता ॥

यत्र शब्दानामिधायाकानां या शक्तिरर्थमत्यानौत्सुक्यं तस्या य: स्व-

भावो नियतार्थनिष्ठस्वात्मकस्तेन निन्दा गम्यते इव नत्स्वसौ निन्दैव । पद-

थोऽपर्यालोचनासमध्येर्थायां स्तुतै वाक्यार्थीभूतायामवान्तरचाक्यार्थैत्वात् ।

अत एवंाह—वस्तुतस्तु स्तुतिश्रेष्ठेति । वस्तुत इत्यर्थोऽमुख्योदित्यर्थ: ।

तत्र व्याजस्तुतिनामलङ्कारो भवति । निन्दाव्याजेन हि सा स्तुति: । अतो

व्याजस्तुति: । तथा उदाहरणम्—

धिगनन्योपमामेतां तावकीं रूपसंपदम् ।

त्रैलोक्येऽप्यनुरूपो यद्वारस्तव न लभ्यते ॥

अत्र यदेतद्विग्वादोपहतत्वं रूपसंपद: साक्षाच्छलद्वयापारेण स्पष्टं न

Page 69

६२

काव्यालङ्कारसार-

तत्स्वात्मपर्यवसितं, अर्थसामध्योंस्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्ये-वसितत्वात् । अतत्स्यावान्तरवार्थता । तेनेयं व्याजस्तुति: । निन्दा-व्याजेन रूपोत्कर्षस्य स्तूयमानत्वात् । धिग्गनन्योपमामि "स्तुभसर्वेतसो: कार्ये" ति द्वितीया ॥

विरूदर्शनम्—

अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत् । उपमानोपमेयत्वं कथ्यते सा चिदर्शना ॥

यत्र पदार्थानां संबंध: स्वयमनुपपद्यमान: । सत्वेऽथवा उपमानोपमेयभावकल्पनया स्वात्मानशुपपादयति तत्र विदर्शना, विशिष्टार्थेषु उपमानोपमेयभावात्मकस्योपदर्शनात् । तस्या उदा-हरणम्—

विनोचितेन पत्त्या च रूपवत्यपि कामिनी । विधुवद्रव्यविभावऱ्या: प्रभिभर्ति निशोभिताम् ॥

विधुश्चन्द्रद्र: । विभावरी रात्रि: । अत्र रजनिकररहितविभावररीविरशोभतवस्य यदेतत्कर्मत्वं तत्कामिनीकरकृतकायां भरणक्रियायां न समन्वयं गच्छति । न ज्ञानस्य संभन्धिनीं विशोभामन्या बिभर्ति । अतः पदार्थसमन्वयस्यात्रानुप-पत्तिः । उपमानोपमेयभाववस्तुनः वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशो-भतां बिभर्ति । एवंमेतद्वति वस्तुसंबन्धे उपमानोपमेयभावकल्पनाया-

मुदाहरणम् । यत्र तु पदार्थसमन्वय उपमानोपमेयभावकल्पनया स्वात्मान-

सुपपादयति तस्य विदर्शनामेदस्योदाहरणमुपपुस्तके न दर्शयते । तस्य वु भामहोदितमिदमुदाहरणम्—

अयं मन्त्रद्युतिभास्वानस्तं प्रति यियासति । उदयः पतनायेतेः श्रीमतो बोधयत्क्षरान् ॥ इति

तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितस्य भासतो यदेतदस्तमयौ-

न्सुखं तदुपेतस्य श्रीमतः प्रयोज्यकर्तुः प्रति पातावसानोदयकर्मके डवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम् । तथाविधं खलु भाषन्तं

Page 70

पश्यन्तः श्रीमन्तो बुध्यन्ते भाषत इव सर्वेऽप्योदयः पातावंसान इति । तांध्यासौ तथावबुध्यमानान् स्वावस्थोपदेशीनेन प्रभृत्कः यथा ममायसुदयः पातावसानस्तथा भावतामपीति । अत्र च प्रेषणाद्येषण्योरभावात्तत्समर्थोच- रणलक्षण एव प्रयोजकव्यापारः कार्योऽध्यापयति शिक्षां वासयतीति यथा । तेन च प्रयोज्यप्रयोजकभावेन स्वात्मानुपपाद्यितुंहुपपमानोपमेय- भाव आक्षितः हे श्रीमन्तो यथा ममायसुदयः पतनाय तदृदृश्वतामपीति यूयं बुध्यध्वमिति । तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन स्वात्मोपपादनायोपमानोपमेयभावस्याक्षेपात् द्वितीयो विदर्शनाया भेदः ॥

संकरः—

स च चतुर्विधः संदेहशब्दार्थवर्त्येलक्‍ारैकशब्दाभिधानानुगामानुगाहक- भेदेन । तत्र संदेहसंकरस्तावत्—

अनेकालङ्कारोऽलेक्षे समं तदूच्यसंभवे । एकस्स च ग्रहे न्यायदोषाभावे च संकरः ॥

अनेकस्यालङ्कारस्योलेक्षे चेतस्युपारोहे संदेहसंकरो भवति; न त्वेकश-ब्दाभिधानसंकरादचpi अनेकालङ्कारोलेक्षः संभवति । यथा— सुरारिनिर्गता नूनं नरकप्रतिपथस्थिनी । तवापि मूर्धि गढ़ेव चक्रधारा पतिष्यति ॥

अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुतुश् श्लेषोऽनेकालङ्कारोल्लक्ष्यते । उपमानोपमेयभावे तावत् गजोपमानम् । चक्रधारा उपमेया । सुरारिनिर्ग- तत्वं साधारणो धर्मः । श्लेषस्तु नरकप्रतिपन्थशब्दादात्मानं लभते । एकत्र हि नरको दानवः । अपरत्र त्ववींच्यादिः । एतौ न द्वावलङ्कारावै- कस्यिवशब्देऽनुप्रविशातः । न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुत्वो श्लेषः समासार्थभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते । तेनात्र द्वावलङ्कारा- नेकसिन्वाचके इव शब्देऽनुप्रविश्ये । यदि चानेकालङ्कारोऽलेक्षे सति संदे-. हसंकरससत् एवमादाप्यनेकालङ्कारोल्लक्ष्यस्य संभवात्संदेहसंकरप्रसङ्ग इत्यार- शङ्क्योक्तम्—समं तदूच्यसंभव इति । तस्यानेकस्यालङ्कारस्य समं युगप-

Page 71

६४

काव्यालङ्कारसार-

यदिदं वृत्तिव्यापारोलङ्कार्योलङ्करणात्मको न संभवतीत्यर्थः । पूर्वोक्ते तूदाहरणे मुरारिर्निगेति साधारणधर्मोपादानाच्छरकप्रतिपन्थिनीतीति च शेषपदपदर्शनाल्लाने कस्यालङ्कारस्य युगपदृत्तेरसंभवः । तेन तत्र न संदेहसंकरता । ननु यदनेकालङ्कारोदाहरणे युगपदृत्तयसंभवे च संदेहसंकरत्वम् । एवं सति यत्र प्रतिभामात्रेणानेकस्यालङ्कार उद्भिद्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते । यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते । तत्राप्यनेकालङ्कारोदाहरणस्य समं तदृत्त्यसंभवस्य च संसवासंदेहसंकरत्वं प्रसज्जतीत्याशङ्क्योक्तम्—एकस्य च ग्रहे न्यायदोषभावे चेति । न्यायः साधकं प्रमाणम् । दोषो बाधकं प्रमाणम् । यत्रानेकालङ्कारोद्रेके युगपदृत्त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विध्येते तत्र संदेहसंकरः । तेन नानिष्टप्रसङ्गः । तथाहि—यत्र साधकबाधकप्रमाणे सामस्त्येन विध्येते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानात्

कवाधकप्रमाणयोरेकस्यैवान्यतरस्य विधमानता तत्रापि प्रतिभोक्तिह्यमाना-नेकालङ्कारसम्यात्साधकप्रमाणोपेतस्योपादानात्ममानरूप्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागात्तदितरस्य च पूर्वोक्तितस्य पारिशेष्येऽनुपादानादेकस्य ग्रहो भवति । यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव । एवमयं संदेहसंकरो लक्ष्यितः । तस्योदाहरणम्—

यदप्यतन्त्रमुचितो वरेंद्रदृष्टे न लभ्यते । तथापि वचिमि कुतrapi क्रियातामादरो नरैः ॥

अत्र वरेंद्रुरिति वर एवं इन्द्रः, वर इन्दुरिति रूपकसमासोपम-योर्द्वयोरलङ्कारयोर्लक्ष्यते । न च तस्याने कस्यालङ्कारस्य युगपदृत्ति: संभ-वति । एकालङ्कारसंश्रये नैवालङ्कारस्य कृतकृत्यत्वात् । न चात्र द्वयोरमध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः । साधकं हि प्रमाणं विधमानं नोपादेयमलङ्कारं ज्ञापयेत् । तथा बाधकमपि प्रमाणत्वालङ्कारनिवेधमुखेनोपादेयमलङ्कारं पूर्वोक्तितं पारिशेष्यादुपादेयतया प्रतिपादयति । अत्र द्वयोः साधकबाधकप्रमाणयोगाभावात्संदेहः । तेन संकरोदलङ्कारः ।

Page 72

५ वर्गः ]

लघुवृत्तौ

६५

शब्दार्थवर्त्यलङ्कारसु—

शब्दार्थवर्त्येलङ्कारा वाक्य एकत्र भासिनः ।

संकरो वा

यत्रैकसिन्वाक्ये शब्दवर्तिनोडर्थवर्तिनश्वालङ्कारा: संसर्गमुपयान्ति स

शब्दार्थोभयालङ्कारः । तस्योदाहरणम्—

इत्थं स्थितिर्यैरार्थो चेन्‍मा कृथा व्यर्थमार्थिताम् ।

रूपेण ते युवा सर्वे: पादबद्धो हि किञ्चरः ॥

वरार्थो भत्रेर्था । किञ्चरो दासः । अत्र थकारोपनिबद्धोऽनुप्रासात्मक:

शब्दालङ्कारः । अर्थालङ्कारश्वार्थान्तरन्यासो विद्यते । तथाहि—अत्र

मा‌कृथा व्यर्थमार्थितामेत्युपादिसितेर्डर्थेर्धितिस्वस्याकरणं यदुपनिबद्धं तदनुप-

पद्मानतया संभाव्य तस्समर्थनायोक्तं ‘रूपेण ते युवा सर्वे: पादबद्धो हि

किञ्चर’ इति । यो गुणोत्कर्षशाली स नार्थयते, अपित्वर्‍थ्यते यथा

रवादि । यं च ‘रूपेण’ गुणोत्कर्षशालिनो । तस्सादुपादिसितस्सडर्थ तथो-

र्थमयुक्तमिति । तेनायं शब्दार्थवर्त्यलङ्कारसङ्करः ॥

एकशब्दाभिधानसङ्करस्तु—

एकसिन्वाक्यांशो वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एक-

शब्दाभिधानसङ्करः । तस्योदाहरणम्—

मैवमेवास्स सच्छायावर्णिका चारुकर्णिका ।

अम्बोजिनीच चित्रस्था दृष्टिमात्रसुखप्रदा ॥

अत्रोपमालङ्कार उपमानप्रतिभोलपत्तिहेतुभूतस्स श्लेष इत्येतौ द्वावलङ्कारावे-

कसिन्वाक्यांशो इवशब्देडनुप्रविष्टौ । तथाहि—अम्बोजिनीव उपमानम्,

मौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्म: इत्युपमा । सच्छायव-

र्णिका चारुकर्णिकेति श्लेषः । अम्बोजिन्या हि वर्णा राजवर्त्तादय: गौर्यो

तु गौरत्वम् । अम्बोजिन्यां कर्णिका कमलमध्येवर्त्तिबीजकोशः । गौर्यो तु

Page 73

६६ काव्यालङ्कारसार-

चारू कर्णौ । कपचात्न समासान्तः । तेनायं श्रेष्ठः । एतौ च द्वावलङ्कार-वेकसिन्यावयो इवशब्देऽनुप्रविश्टौ । तेनायमेचशब्दाभिधामसङ्करः ॥

अनुप्राह्यानुप्राहकसङ्करस्—परस्परोपकारेण यत्रालङ्कृतयः स्थिताः ।

स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि सङ्करः ॥

यत्रोपकार्योपकारकभावावस्थिततत्त्वादलङ्कारा: स्वातन्त्र्येणात्मानं न लभन्ते सोडनुप्राह्यानुप्राहकसङ्करः । उपकार्येऽङ्ग्युपकारकसुपकरोति । तदी-यस्योपकारस्य विषयभावेनावस्थानात् । उपकार्ये ह्युपकारकाधेयमुपकारं प्रतीत्सति सत्युपकारकस्योपकारकत्वं भवति । तेनोपकार्येङ्गयुपकारकस्यो-पकारः क्रियत इति परस्परमणमन्त्रोपात्तम्—परस्परोपकारेणति । तस्यो-दाहरणम्—

हरेणेव सरस्व्याधिष्ठानलीलयैव सोदरम् ।

स्वद्रुपु: क्षणमप्येष धार्ष्यादिव न मुच्यति ॥

अत्र धार्ष्यादिव न मुच्यतीति या असावुलेखा सा हरेणेव सरस्व्याध-स्वयानङ्कीर्तितोडपि सन् इत्युपमाप्रतिभोत्पत्तिहेतुत्वेन श्लेषवरेण स्वरुपं प्रतिल-भते । अनङ्कीर्ततो हि अनङ्गत्वमशरीरत्वमापादितः अनूकीर्ततश्र यश्राः-नूकीर्तः क्षणमपि न मुच्यति, तत्र धार्ष्यं हेहुतयोरेक्षितुं शकयते । तेन श्रेषपदशेनात्रोल्लेखा आसादितस्वभावा । अतोडयमनुप्राह्यानुप्राहकसङ्करः ।

एवमयं चतुर्विधः सङ्करो नानालङ्कारगतविकल्पव्यवस्थासमुचयाज्ञा-ज्ञिभावसमाश्रयणाचाभिहितः । तत्रानेकलङ्कारविकल्पसदसदसङ्करः । विभि-न्नाधारत्वेन शब्दार्थैर्वर्तिनोरलङ्कारयोरवस्थानाद्यवस्थासमाश्रयः शब्दार्थवर्त्य-लङ्कारसङ्करः । एकशब्दाभिधानसङ्करे तु समुच्चयेनानेकोडलङ्कार एकसिनू वाच्यांश इवानुपविशति । अनुप्राह्यानुप्राहकसङ्करे त्वनेकस्यालङ्कार-स्याङ्गाङ्गिभावः । अतो विकारव्यवस्थांसमुचयाज्ञाङ्गिभावसंश्रया एते चत्वारः सङ्करभेदाः ॥

Page 74

५ वर्ग: ]

लघुवृत्तौ

६७

उपमेयोपमालङ्कार:

अन्योन्यमेव यत्र स्वादुपमानोपमेयता ।

उपमेयोपममाहुष्टां पक्षान्तरहानिगाम् ॥

यत्रोभयोरुपमानोपमेययो: परस्परुपमानोपमेयभावस्तत्रोपमेयोपमा ।

उपमेयेनोपमानसोपमानात् । न तु च प्रकारणिकं साम्याभिधानसंबन्धि

उपमेयं । अप्रकरणिकं उपमानं । यदि चान्रोपमेयसोपमानत्वमभिधीयते,

एवं सति तस्य प्रकारणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम्-पक्षान्तरहानि-

गामिति । नात्रोपमानोपमेयभावे तात्पर्ये किन्तु एतदेव द्वयमेविविधं

विध्यते, न त्वन्यदेतयो: सहशं वस्त्वन्तरं विध्यते इति । अतश्र एतत्पक्ष-

द्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानिर्विवक्षितत्वात् परस्परुपमानोपमेय-

भावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतिपाद्यायास्वान्तरवाक्यार्थत्वे-

नावस्थानात्, वरे विष्णु भक्षय मा चास्य गृहे शूद्राः: इति वत् । अत्र हि

विषभक्षणं न विधीयते । दुर्जनगृहे भोजनपरिजनेनात्पयोत्त । एवमिह-

उपमानोपमेयभाव्योर्विवक्षाप्रक्षान्तरहानौ तात्पयोत्त । तस्यां उदाहरण-

णम्—

शिरांसि पद्मजानीव वेगोल्पातयतो दृशाम् ।

आजौ करोपरं चक्रं यस्य चक्रोपमः कर: ॥

अत्र यस्येत्युपलाक्ष्य त्वक्तृतः सोडपि वैकुण्ठ इत्यत्र तच्छब्द:समन्वयेन-

काऽऽविन्च्छेदो भविष्यति । उत्तरेऽपि च श्लोकेऽपु तेनैव यच्छब्दोऽर्थो निर-

काऽऽर्थी कार्य: । अत्र करचकयो: परस्परुपमानोपमेयभाव: । साधारणस्वात्र

धर्म: अतित्वरितत्वेन शस्तुशिरोडवकर्तनम् । एष चान्रोपमानोपमेयभाव:

उपमानान्तराभाव: पर्यवसित: । यद्‌पि परमतयाॅरप परस्परुपमानोपमेयभाव:

स्यादन्यत्वे तयोरपमानं नास्तीति ॥

सहोक्ति:

तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते ।

पदेनैकं कथ्यते सा सहोक्तिरमंतां सताम् ॥

Page 75

यत्र वस्तुद्रयसमवेते द्वे क्रिये पदेनैकेन तत्र वस्त्रद्रया कथ्येते तत्र सहोक्तिर्नामालङ्कारो भवति । ननु 'संजहार शस्त्रालः' इत्यादावपि दीपके पदेनैकेन वस्तुद्रयसमवेते द्वे क्रिये कथ्येते । अतस्तत्रापि सहोक्तित्वं प्रामोतीति आक्षाङ्क्योक्तम-तुल्यका‌ले इति । यत्र सहादिना पदेन तुल्यकालतामवगस्य वस्तुद्रयतयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम् । न चैवं दीपके इति नातिव्याप्तिः । सहादिना च शाङ्देन युगपत्कालताया-

मवघोत्पमादिनां द्वययी गति: । कदाचित्स्कन्धययो: क्रियोस्तुल्यककषतया स्वाश्रयविश्रान्तवेनाभिधीयेते, यथा देवदत्तयज्ञदत्तौ सह उवास इति । कदाचित्स्वेकाश्रयविश्रान्तियां क्रियायामभिहि-

तायां सहार्थपर्यायोलोचनासामध्यादपरस्वाश्रयस्य क्रियासंबन्धोडवगम्यते, यथा देवदत्तो यज्ञदत्तेन सह मुक्त इति । तत्रेह द्वितीया गतिराश्रीयते । शब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापत्रर्थेन रूपेणोक्त्रीया‌मानत्वेन वक्रोक्तिते सद्भावात् । एवंविधस्य यत्रैव शोभातिशयविधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रैव दृश्यते । तथैवोदाहरणम्—

दृ बुञ्जनो मृत्योना साधै यस्याजौ तारकामये । चक्रे चकाभिधानेन प्रैष्येणासमनोरथ: ॥

यस्य प्रैष्येण इति संबंधः । अत्र मृत्योर्यो‌जनस्य च मनोरथावसिकर-णलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवस‌मनोरथ इति । यथा‌ग्र्यवासस्स‌मनो-रथ इति चक्र इति च सुमिद्धन्न तत्वभेदन पदद्रुत्वं तथापि क्रियापद-द्वितयोपादानव्याघ्रचरेविवक्षितत्वात्पदेनैकनेनेति न विरुध्यते । अथवा चक्र इति करोति क्रिया सामान्यभूता विशेषमन‌न्तरेणाप्यवस्यन्ती मनोरथाव-सिलक्षणं विशोषं गर्भीकरोति । अतस्त्रात्र सत्यप्यनेकपदत्वे एकपदीभाव एव प्रकाशते । तेन एकेन पदेनै‌कुक्तम् । साधै शब्दद्वात्र तुल्यकालतामवघोतयति । यस्य प्रैष्येणाञ्ज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन, मृत्योना

साधेमपृथक्वालतया भुञ्जन आस्समनोरथ: कृत इति । अनेकलोककवली-करणान्मृत्यो‌र्मनोरथावासि; भुञ्जनस्य च शस्त्रविनाशात् ॥

Page 76

परिवृत्ति:—

समन्युविगिष्टैस्तु कस्याचित्परिवर्तनम् ।

अर्थोऽनर्थैकभावं यत्परिवृत्तिरभाणि सा ॥

कस्यचिद्रसुनो वस्त्वन्तरेण परिवर्तनं परिवृत्ति: । सा च त्रिविधा ।

परिवर्तनकारकाणां परिवर्तनोयेन सह समुत्थानत्वादधिकत्वाच ।

तदिदमुक्तम्—समन्युविगिष्टैरिति । तत्र यस्या: समोऽर्थ: परिवर्तनेऽपि

तस्या अनर्थस्वभावता । अर्थशब्देन हि उपादेयोऽर्थोऽमिधीयते,ऽर्थ्यतेऽ—

साविति कृत्वा । यत्र च साम्यं तत्रार्थनीयत्वं नास्ति । तेनार्थैतैवाभावा—

जुगमात्स्वानर्थैतैवमिधीयते । अतत्स्वानार्थस्वभावं परिवर्तनम् । यत्रापि

च निकृष्टपरिग्रहेनोत्तकृष्टपरित्याग: क्रियते, तत्राप्यनर्थस्वभावता । उप—

देयविपरीतस्योपादानात् । अर्थप्रतिपक्षो ह्यत्नानर्थ: । अधर्मोऽनृतत्ववत् ।

यथा द्वधर्मोऽनृतशब्दस्यां नोत्तरपदार्थोभावमात्रमभिधीयते, नाप्युत्तरप—

दार्थतुल्योऽर्थ: किं तर्हि एतत्प्रतिपक्षस्थैवाभिधानं, एवमिहाप्यनर्थशब्देन

अर्थप्रतिपक्षस्थैवाभिधानम् । यथा अनर्थो वैरीणामापतित इत्येवमादौ ।

तेन यत्नोत्कृष्टेन निकृष्ट: परिगृह्यते तत्र दुःखहेतुत्वादर्थप्रतिपक्षत्वेनानर्थ—

स्वभावता । यत्र तु निकृष्टेनोत्तकृष्ट: परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वे—

नोपादेयत्वादर्थस्वभावता । तदिदमुक्तम्—अर्थोऽनर्थस्वभावमिति । .तत्र

समपरिदृतेरुदाहरणम्—

उरो दत्वामरारिणां तेन युज्येष्टवग्रृब्धत ।

हिरण्याक्षवधाघेषु यश: सार्क जयश्रिया ॥

अत्र उरोदानने उत्साहो लक्ष्यते यश्वात्र लक्ष्यमाणस्यार्थसोत्साहस्यो—

पायतया प्रतोयते । अभिघेयोऽर्थो वक्ष्यमाणं तद्वान् यत्न यो हि यत्र वक्ष्य

उद्यमयति स तत्नोत्साह इति तत्प्रतिभावच्छादितस्योत्साहस्य प्रतीते:

तदपेक्षया समेन समस्त्य परिवर्तनम् । उरोयशस: समुत्थानम् ।

न्यूनीपरिदृतेस्तूदाहरणम्—

नेत्रोरगवलभ्राम्यन्मनन्दरादिशिरश्छुते: ।

रहैरापूर्य दुग्धार्घ य: समादत कौस्तुभम् ॥

Page 77

नेत्रभूत उदगो वासुकिः । अत्र-कौस्तुभभासोल्क्रष्य निकृष्टरत्नपरित्यागेन महणानिकृष्टेधनोत्कृष्टस्य परिवर्तनम् ।

विशिष्टपरिदृत्तेस्तूदाहरणम्—

यो बलौ व्याप्तभूसीमि मखेन यां जिघीषति । अमयं स्वर्गेसज्जस्यो दत्वा जम्राह खर्वीताम् ॥

मूसीमा पृथिव्या अवधिः । मखो यज्ञः । अत्र अभयेनोत्कृष्टेन निकृष्ट-

षस्य खर्वत्वस्य ह्रस्वत्वस्य परिवर्तनं अभिधेयापेक्षया पूर्वतरोदाहरणवत्प्रतिभाति । तादृश्यार्थोपेक्षया तु नेयं परिदृत्तिः । यत्तदेवेम्यः अभयं प्रतिज्ञातं

तदुपायभूताया वामनवेषेण खर्वताया: परिगृहीतत्वात् ।

इति महाश्रीप्रतिहारेंद्रराजविरचितायाश्चूडामणिटालड्ढार-

सारसंग्रहलग्नवृत्तौ पञ्चमो वर्गः ॥

अथ षष्ठो वर्गः ।

अनन्वयं ससंदेहं संरष्टिं भाविकं तथा ।

काव्यदृष्टान्तहेतूतू चेत्यलङ्कारानुपरे विदुः ॥

अत्र इतीशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थस्वेन प्रयो-

गान्वानन्वयादिस्वरूपपरपरामर्शोऽर्थस्त्वम् । इत्येवं वक्ष्यमाणलक्षणकर्त्वेनानन्व-

यादिलङ्कारान्विदुरित्यर्थः । अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया । काव्यदृष्टान्तहेतूतू चेत्यत्र दृष्टान्तहेतुत्वाभ्यां काव्यशब्दः पतये-

क्रमभिसंबध्यते । दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽभ्याहितत्वात् । अभ्य-

हितत्वं दृष्टान्तनिबन्धनान्बतव्योस्मुक्लेन हितोः प्रायेण गमकता संपद्ययात् ।

ससंदेहः—

उपमानेन तत्त्वं च भेदं च वदत्: पुनः ।

ससंदेहं वचः स्तुल्यै ससंदेहं विदुर्बुधाः ॥

उपमानभेदपूर्वं भेदमभिदधत: कवे: कविनिबद्धस्य वा वकुर्थेव इति

Page 78

६ वर्गः ]

लघुत्रिकौ

७१

संबन्धः । संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्वाच्यमेदसुपमेयस्या-

मिषायोत्तरकालं यदा तसादुपमानातस्योपमेयस्य भेदोडभीयते तदा

ससंदेहोऽलङ्कारः । ननु उपमानेन सह पूर्वमभेदेडभिहिते सति पुनरेइद

तसाद्वेदस्याभिधानं क्रियते । एवं सति गजस्थानं प्रामोतीत्याश्र्योक्तम्—

स्तुल्यै इति । स्थूल्यर्थेने एवंविधा अभिधा समाश्रीयते इत्यर्थः ।

तस्योदाहरणम्—

हस्ते किमस्य निशेषदैवयह्हलनोद्ववम् ।

यशःसंचय एष स्थातिपिण्डीभावोऽस्य किङ्कृतः ।।

नामिपद्मस्पृहायातः किं हंसो नैष चञ्चलः ।

इति यसाभितः शङ्कामशङ्किष्ठार्जवो जनः ।।

आर्जवो मूर्खः । ऋजुस्वयोगात् । अत्र शङ्का उपमेयः । यशःसंचयो

हंसश्र्योपमानम् । तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहिते किंमेष यशःसं-

चयः स्थादिति, तथा किं हंस इति पुनःशङ्कान्त्रोपमानादुपमेयस्य भेदो वर्णितः ।

यशःसंचयादिवृत्तान्तवर्णनं पिण्डीभावोऽस्य किङ्कृत इति । यशःसंचयः

खलु प्रसरणशीलः । अस्य तु तद्विरुद्धः पिण्डीभावो हृश्यते । तेन नायं

चञ्चलत्वं नाम धर्मः । इह च तस्योपलभ्यते, तस्माच्चैव हंस इति । एवं-

विधस्य चात्राभिधानस्य फलं श्लाघ्यते;, यशःसंचयो भगवता स्वहस्तवर्ती कृत

इति, तथासंभाव्यमानहंसागमनं त्रिसुवर्णोल्पत्तिनिबन्धनं यत्कचाभिनलिनं

तद्वान् भगवानीति ।।

ससंदेहस्य भेदान्तरमाह—

अलङ्कारान्तरच्छायां यत्कत्वा श्रेष्ठ वचो विदध्याम् ।

असंदेहेडपि संदेहरूपं संदेहनाम तत् ।।

छाया शोभा । यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्वव-

दुपमानादुपमेयस्य भेद उपनिबध्यते किं तर्हि भेद एव संशयच्छायया ।

तथाविधस्य चोपनिबन्धस्य फलंलड्कारान्तरोपजनिता सौन्दर्यप्रतिपत्ति: ।

यदाह—धीष्वलङ्कारान्तरच्छायां कृत्वा इति । तत्रापि संदेहालङ्कारः ।

Page 79

७२

काव्यालङ्कारसार-

तस्योदाहरणम्——

नीलाब्दः किमयं मेरौ घूमोऽथ प्रलयानले ।

इति यः शङ्क्यते श्यामः पक्षीन्द्रैरक्षतिंवधि स्थितः ॥

अत्र मेरोःपरिवर्त्ती नीโล बलाहकः कल्पान्तवह्न्याश्रयक्ष धूमः इत्येतद्-

भयस्युपमानसि । गरुडैरहिशत्रु भगवान् कृष्णवपुरुपमेयः । तेन च उपमा-

नद्रयेन संदेहव्याजेन भगवानापादितामेद उपनिबद्धः किमयमेवंविधः

अथैवंविधः इति । ताम्यां चोपमानाभ्यामुपमेयस्य पूर्ववदूद्रेदनिबन्धनं नात्र

किंचिदमिहितम् । फलं चैवममिधानस्योपमानालङ्कारध्वननम् । एवंविधो-

पमानद्वितयसदृशो भगवान्वैनतेयारूढ इति ।

अनन्वयः——

यत्र तेनैव तस्य स्वादुपमानोपमेयता ।

असादृश्यविवक्षातस्तमिल्याहुरनन्वयम् ॥

यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्यानुपमानोपमेयभावो

भवेतत्र वस्त्वन्तरानुपमाभावादनन्वयोऽलङ्कारः । ननु च साधर्म्यसं-

बन्धे सति प्रकारणिकसुपमेयमुपमाकरनिकं तूपमानमित्युपमानोपमेयोभे

क्षितत्वात्कथंस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्क्यो-

क्रमः——असादृश्यविवक्षात इति । नात्रोमपानोपमेयभावे तात्पयं किंतु-

पमेयोपमानान्तरव्यावृत्तिवितर्यर्थः । इति शब्दोऽत्र वक्ष्यमाणोदाहर-

णोपक्षे पार्थत्वादनन्वयशब्देन नामिसंबध्यते । तेन अनन्वयमिति द्वितीया !

तस्योदाहरणम्——

यस्य वाणी स्ववाणीव स्वक्रियैव क्रियामला ।

रूपं स्वमिव रूपं च लोकरञ्चनलोभनम् ॥

अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपाद्यि-

तुमात्मनैवोपमानोपमेयभावो निबद्धः ।

संस्कृष्टिः——

अलङ्कृतीनां बहूनां द्वयोर्वापि समाश्रयः ।

एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ॥

Page 80

६ वर्गः ] लघुवृत्तौ ७३

बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्व्योर्वो तथाविधयोरेकत्र शब्द-

एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः । यत्र तु परस्परापे-

क्ष्वं तत्र सन्देहैकशब्दाभिधानानुगृहीताजुमाहकसङ्करालङ्कारः; पूर्वमभिहिता ।

यत्र च शब्दार्थलक्षणाश्रयद्वितीयनिṣ्ठतया अनेकालङ्कारोपनिबन्धसत्त्वापि

शब्दार्थवत्त्वेनैकालङ्कारसङ्कर उक्तः । एतद्वैलक्षण्येन तु संसृष्टिः । तस्या

उदाहरणम्—

त्वक्‍कुते सोडपि वैकुण्ठः शशीवोपसि चन्द्रिकाम् ।

अप्यधारां सुघाष्ट्रिष्टिं मन्ये त्वजाति तां श्रियं ॥

तदुचितिःथातथ्येन केनापि कमलेक्षणे ।

वरण सह तारुण्यं निर्विशान्ती गुहे वस ॥

निर्विशान्ती उपपज्ज्ञाना । अत्र शशी उपसि चन्द्रिकामिव वैकुण्ठः

त्वक्‍कुते श्रियं त्यजति इखुपमा । अधारां सुघाष्ट्रि-

ष्टिमिति रूपकम् । तथा वात लक्ष्म्या: सर्वे पीयूषवृष्टे: सञ्चन्धिनो धर्मा विशिष्टान्ते केवलं धारासंबन्धो

नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका श्लिष्टोपमानगतसकलगुणाभ्यनुज्ञा-

रूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति । तदेतसिन् श्लोके

उपमाया रूपकस्य च द्व्योरलङ्कारयोः संसृष्टिः । तयोः केवलमित्ये-

यस्वात्परसपरनिरपेक्षत्वाच । ‘तदुचितिः’ इत्येतच्छ्लोकापेक्षया तु ‘कमलेक्षणे’

मलङ्काराणां संसृष्टच्युदाहरणदिकुमदर्शनं द्वष्टव्यम् ॥

भाविकम्—

प्रत्यक्षे इव यत्रार्था हृद्यन्ते भूतभाविनः ।

अत्यन्तुतां स्यात्तद्वाचामनाकुल्येन भाविकम् ॥

सांप्रतिकेन प्रभवसाभावेनोपलक्ष्यमाणा: पदार्था: सूता:, यथा इदानों

युधिष्ठिरादयः । ये तु सांप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा

इदानों भगवदवतारः कलकिं भविष्यत्युशाः । एवमनन्तरोपलक्षिताः

भूता भाविनश्र येड्थोस्ते सांप्रतिकप्रभवसाभावविभक्ततया वतं-

Page 81

मानायमाना: प्रत्यक्षा इव यत्र हृश्यन्ते तद्वाचिकं नामालङ्कारो भवेत् ।

अत्न हेतुर्वाचमनाकुलता अर्थानां चात्यन्तदुतत्वम् । तदुक्तम्—वाचामनाकुल्येनोक्ति । अत्यन्तदुता इति च ।

तत्र वाचामनाकुलता व्यवस्तसंवन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्ज्ञगित्यर्थप्रतीतिकारिता । तस्यां हि सत्यान् कवे: संबन्धी यो भाव: आश्रय: श्रृङ्गारादिरंससंवलितचतुर्वर्गोपायमूतद्वि-

शिष्टार्थोल्लेखी स कविनैव सहृदयै: श्रोत्रुभि: स्वाभिप्रायेडमेदेन तत्तत्काव्यप्रतिपिम्बितरुपतया साक्षात्कारितयते ।

श्रोत्रुणामपि हि तथाविधस्वच्छशब्दानुभवद्रवितान्तरात्मनां सहृदयानां स्वाभिप्रायम्प्रतिसुदृढा तत्र सक्रामति ।

अत: कवेयोण्डसाविम्रायस्तद्रोचरीकृता भूतो भाविनोऽपि पदार्थोस्तत्न सहृदयै: श्रोत्रुभि: स्वाभिप्रायामेदेन प्रत्यक्षा इव हृश्यन्ते ।

यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्त प्रकरण हेतुत्स्थार्थंगतमपि चित्रोदात्तार्थोंपनिबन्धहेतुकमत्या ह्यदुतत्वं दृश्यव्यम् ।

तदुक्तं भाविकसुपक्रम्य भामहेन—“चित्रोदात्तदुतार्थत्वं कथयां स्वभिनीतता । शब्दानाकुलता चेति तस्य हेतूने प्रचक्षते” इति ॥

स्वभिनीतततलयाभिनयाद्दर्शन श्रृङ्गारादिरसंवलितत्वं चतुर्वर्गोपायस्योक्तम् ।

तदेवमेवंविधहेतुनिबन्धनं कविश्रोत्रृभाविकं दृश्यव्यम् ।

अत एव चात्र कविसंवन्धिनो भावस् श्रोत्रृभावाभेदाध्यवसितस्य पुर:स्फुरद्रुपस्य विधमानत्वाद्वाविकव्यपदेश: ।

भावोऽसिन् विध्यतो इति भाविकम् । तदाहु:—“रसोऽलासी कवेरात्मा स्वच्छे शब्दार्थदर्पणे ।

माधुर्यौजोज्ज्वलतपौधे प्रतिविन्ध प्रकाशते । संपीतस्वच्छशब्दार्थद्वाविताभ्यन्तरसतत: ।

श्रोता तस्याम्यत: पुष्टिं चतुर्वर्गे परां ब्रजेत्” इति ।

स्वच्छ इति प्रसादगुणोडभिहित: । प्रोढ इति तु सालङ्कारता । संपीतौ सम्यगास्वादितौ ।

तस्याम्यत इति स्वाभिप्रायामेदेन कविगतस्याभिप्रायस्याध्यवसाना-दित्यर्थ: ।

तस्मोदाहरणम्—

करोषि पीडां प्रीतिं च निरज्जनविलोचनां ।

ज्ञात्या मृर्त्योनया समुद्धीक्ष्य ज्ञातुमभरण शोभया ॥

Page 82

अत्रामरणाचितद्यूतिन्दुवेढपि निरज्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा। सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंप्रदायाः शोभाया: परिदृश्यमानस्वप्रतिपत्तिः। तेनात्र सांप्रतिकप्रधानवंशाभावोपलक्षितस्वादृशणसंवन्धो व्यतीतोऽप्यद्युतो योडसौ वपुःप्रकर्षस्तद्रशोन प्रत्यक्ष एव कविनोपनिबद्धः। तथैव चासौ सहृदयानां चमत्कारमावहति। संततमुसृकृषतया वैचित्र्येण ईक्षणीया आभरणाशोभा यस्मिनति बहुत्रीहिः।

काव्यहेतुः—

37 श्रुतमेकं यदन्यत्र स्मृतमतेरनुभवस्स वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥

यत्र एकं वस्तु श्रुतं सदृदृश्वन्तरं सारयति अनुभावयति वा तत्र तत्र काव्यलिङ्गं नामालङ्कारः। पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तर्किकम्प्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविशदयत्वेनोपनिबध्यमाना वैरसभावहन्ति न तथैव काव्यहेतुः; अतिशयेन सर्वेषां जनानां योडसौ हृदयसंवादी सरसः पदार्थस्त्रिश्रितया उपनिबध्यमानत्वात्। अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम्। न खलु तच्छास्त्रालिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते।

हेतौः

37 ननु काव्यग्रहणेन कथम् काव्यस्य सरसपदार्थनिष्ठतोपदर्श्यते! काव्यस्य सरसत्वात्। काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात् सरसमेव भवति, न तु नीरसन्। तथाहि—गुणाः काव्यस्य माधुर्योजःप्रसादलक्षणाः। तत्र माधुर्यमाहादकत्वम्, ओजो गाढता, प्रसादस्त्रवव्यवधानेन रसाभिव्यक्तियुगुणता। तदतेपां त्रयाणां गुणानां मध्यात्समासद्य प्राधान्यम्। माधुर्यो-

जसौ तु तत्कद्रसाभिव्यक्तयानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता। एवं तत् सद्रसानुगुण्येन माधुर्योजोभ्यां तारतम्येनावस्थितताभ्यां उपकृतो योडसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुगुणस्त-दुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता।

यघेवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालङ्काराणां तत्र निरुपयोगता

Page 83

७६

काव्यालङ्कारसार-

प्रामोति। नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातिशयविधायित्व-

लौकिकालङ्कारवत्। यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवति-

वपुषि निवध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि दृश्यव्यम्।

३३ ननु निर्गुणेपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मादे-

प्यते। अपरिदृष्टत्वात्। न खलु निर्गुणे काव्ये निबध्यमानानामल-

ङ्काराणां जरदोषिदलङ्कारवच्छोभाविधायित्वं दृश्यते। तथाहि——जरदोषि-

तलङ्कारा निबध्यमाना न तस्या: शोभां कुर्वेन्नित, प्रकृत तस्यां निबध्य-

मानानां तेषामात्रीयमेव सौभाग्यं हीयते। तथा काव्यालङ्काराणामपि

निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभाव: स्वशोभाहानिश्व

भवति। यदवोचदृद्वामन:——“युवतिरेव रूपमज्ञं काव्यं स्वदते शुद्धगुणं

तदप्यतीव। विहितमप्यं निरन्तराभि: सदलङ्कारविकलपनाभि: ॥

यदि भवति वचश्चयुतं गुणेभ्यो वपुरिव यौवनवन्ध्यमज्ञनाया:। अपि जन-

दयितानि दुर्लभत्वं नियतमलङ्करणानि सङ्क्रान्ति:” इति। अज्ञशब्द

इष्टामन्चणे। शुद्धगुणस्वात्स्वदमानं सदलङ्कारविकलपनाभिरपि हितपरि-

चयमतिशयेन स्वदते इति संबन्ध:। अत एवालङ्काराणामनियता। गुण-

रहितं हि काव्यमकाव्यमेव भवति, न स्वलङ्काररहितम्। अलङ्काराणां गुणो-

पजनितशोभे काव्ये शोभातिशयविधायित्वात्। तदुक्तम्‌——“काव्यशोभाया:

कर्ताโร धर्मी गुणा:। तदतिशयहेतवस्त्वलङ्कारा:। पूर्वे नित्या:।” इति।

पूर्वे इति गुणा इत्यर्थे। लक्ष्ये च अलङ्कारहितमपि केवलगुणसंस्कियमाण-

शब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धदृश्यान्तररसस्यान्दी

३५ श्लोक:——“कथमपि कृतप्रत्ययापत्तौ पिये स्वालितोचरे विरहकृशया क्ल्वा

२९ व्याजप्रकल्पितमश्रुतम्। असहनसखीश्रोत्रप्रणामद्रससंघ्रमं विवलितदशा

शून्ये गेहे सुमुच्युसितं तत: ॥” इति। न खल्वत्रार्थोलङ्कार: कश्चित्परि-

दृश्यते। अथ। माधुर्यौजोजभ्यां परिणद्धितस्य प्रसादस्य विध्यमानत्वात्काव्य-

·रूपता।

ननु चात्रापि ईदृश्योविभ्रमलम्भविरहविप्रलम्भशृङ्गाराभ्यां स्वातिरोधानेनो-

Page 84

पकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवस्तुमलं भविष्यति । तथाहि 'कथमपि कृतभत्यापत्तौ प्रिये' इत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमवित्तसंग्रहूल्यात्मा संभोगशृङ्गारः सूचितः । स्वालितोत्तर इति तु संजातगोत्रस्खालितत्वात्रेयसो नायिकाया ईर्ष्याविप्रलम्भशृङ्गारो निबद्धः । पुनश्च विरहकृतयेत्यादिभिस्त्रिभिः पादैरबहिस्तेन भावेन नायिकाधर्मींष्य विप्रलम्भशृङ्गारेण चित्तोल्लाससूचिततैन वाक्यार्थसमासि: कृता । तथा हि—विरहकृतोयादिना पादेन नाधिकागतो मन्युरवच्छादपदर्शितः । असहनसखीयादिना तु गोत्रस्खालितस्य सखीश्रोतप्राप्तिं विरहविप्रलम्भकरणत्वेनाशङ्क्य दृष्टिपात्वत्या सखीजने शून्ये गृहे परिदृष्टे यत्स्वाधिकारया समुज्ज्वसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थौ निर्वोहितः । तदेवमात्र संभोगस्य विप्रलम्भभावधेन लड्धपदबन्धसोपनिबन्धाद्रसवस्तुमलङ्कारः । तत्रकथमात्र निरलङ्कारतैकका । उच्यते ।

न खलु काव्यस्य रसानां वाच्योऽर्थोलङ्कारभावः;, किन्तु आत्मशरीरभावः । रसो हि काव्यसात्मतया अवस्थितः;, शब्दार्थौ च शरीररूपतया । यथा धात्वादिष्ठितं शरीरं जीवतीति व्यवदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवदूपतया व्यवदेशः क्रियते । तस्माद्रसानां काव्यशरीरमूतशब्दार्थश्रितं विषयतयात्मश्रेनावस्थानं, नतवलङ्कारतया । रसाभिव्यक्तिश्व यथायोगं माधुर्यैर्जोष्म्यां तारतम्येनावस्थिताभ्यामुपकर्षंह्रितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते । अतोडत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मवेनावस्थानं, न तु काव्यं प्रति अलङ्कारयतेति युक्तिमदुक्तं निरलङ्कारमपि काव्यं सगुणं हृश्यते इति । एवं रसान्तरेषु भावेषु रसभावामोेषु तल्श्रेमपु च वाच्यम् । तदाहुः—"रसाद्यधिष्ठितं काव्यं जीवदूपतया यतः । कध्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम् ।।" इति ।

यचु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया । तदेवं गुणसंस्कृतशब्दार्थशरीरावत्सरसदेव काव्यम् । यदेवं गुणशून्यत्वान्नीरसें व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः । तल्लक्ष्य "वृत्तदेवा—

Page 85

दिचारितश्ंसि चोत्पाधवस्तु च । कलाशास्त्राश्रयं चेति चतुर्थी भिद्यते पुनः ॥" इति भामहोदितं निरुध्यते, अत्र हि कलाश्रयशब्देन भरताभिहितम् । तत्र काव्यव्यपदेशः इति । उच्च्यते । मुख्यया तादृक्त्या गुणसंस्कृतशब्दार्थशरीरमपि काव्यम् । गुणालङ्कारार्थशरीरे तु काव्यमाने काव्यशब्दस्य काव्यास्यादुपचाराल्लयोगो भविष्यति । उक्तं च—“काव्यशब्दोयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोरवर्तते, भवति तु शब्दार्थमात्रवचनोऽत्र गृह्यते" इति । भवत्येति उपचारेणेत्यर्थः । तदेवं गुणसंस्कृतशब्दार्थशरीरत्वाल्काव्यस्य सरसत्वमिति ॥ तद्विशिष्टं काव्यलिङ्गं सरसपदार्थनिष्ठमेव भवति, न तु नीरसकथुमात्रनिष्ठं । शास्त्रलिङ्गवदित्युपपन्नम् । तार्किंकाणां च हेतुव्यापारे द्वैविध्यम् । केचित्तथ्खलु तार्किका व्यासिग्रहणकाले यदनुभूतं व्यापकं वह्यादिवस्तु धूमादेर्‌व्याप्त्यस तत्सरणिमात्रे धूमदिहेतुदर्शनप्रबुद्धसस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते । अपरे तु वह्यादीनां पर्वतादिर्मविशेषसंबन्धस्य पूर्वमग्रहীতस्य धूमादिहेतुव्यापारसामर्थ्येन इदानीन्तमेव अवसेयत्वाल्लिङ्गसामर्थ्योल्लिङ्गनुभवसैव उत्पत्तिमाहुः । तदिदमुक्तं स्वस्थे रहुभवस्य वेति । तस्योदाहरणम्—

अत्र विभूषणविन्यासापद्भूता ये कण्ठादयस्तदवशिष्टानामज्ञानां यासौ कान्तिः दीप्तिः तस्या अनुज्ज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्योच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोदितोऽनुमीयते । तेन तर्कालिङ्गम् ॥

35 काव्यदृष्टान्तः—

इष्टसार्थस्य विशिष्टप्रतिबिम्बनिदर्शनमू । यथेवादिपदैः शून्यं बुद्धेर्दृष्टान्त उच्च्यते ॥ इष्टस्य प्राकरणिकतया प्रतिपादयितुमभिमतस्यार्थस्य यत्र विशिष्टतया प्रतिबिम्बं सदृशं वस्तु निदर्श्यते तत्र काव्यदृष्टान्तो नामलङ्कारः ।

Page 86

६ वर्गः ]

लघुवृत्तौ

७९

ननु “कोपादेक्वराघातनिपतनमचदन्तिनः । हरेर्हरिणयुद्धेषु कियान्‍व्‍याक्षेपविस्तर:” इत्येवमादावपि अमृतसुतमशंसायामिष्वार्थेपतिबिम्बनि-

दर्शेनं विद्यते । तथाहि—अत्र रामदेवस्य मारीचवधे व्यापारो निरा-

यासो हरिणहननोयोगिकेसरिकिशोरप्रतिविम्बितत्‍वेन निर्देशितः । अतोद्‍व्‍रापि दृश्यान्तताम्रसूचः । नैतत्‍ । यत् एतदर्थमेव विशिष्टप्रहणमुपात्तम् ।

अत्र हि प्रतिबिम्बादेव बिम्बस्योक्त्या नादृष्टरूपतया दृश्यसार्थस्य प्रति-विम्बानिदर्शनं नास्ति । यत्र तु इष्टमर्थे सक्करणेनोपपादाय तस्य प्रति-विम्बोपदर्श्यते तत्र दृश्यान्तत्वम् । अतो नातिव्याप्तिः । उपमादावप्येवं-

विधस्य रूपस्य संमव इति तत्रिराकरणार्थमुक्तम्‍—यथेवादिपदैः शून्य-मिति । आदिमहणेनात्र साधारणधर्मस्यापि परिग्रहः । तस्योदाहरणम्‍—

किञ्चात्र बहुनोक्तेन व्रज भरतोरभासुहि ।

उदन्‍वन्तमनासाद्य महानद्यः किमासते ॥

अत्र भगवतीकर्तृकाया वरमासेरमहानदीकर्तृका उदन्‍वल्पासोरविशष्टतया प्रतिबिम्बत्‍वेनोक्तिः । अतो दृश्यान्तः ।

एवमेतेडशककृदृत्रिकसकैकार्दशकषट्कैः षड्‌धीरवैरेकरत्वारिंशदलक्‍कारा:

प्रतिपादिता ।

ननु यत्र काव्ये सहृदयहृदयाह्लादिनः प्रधानभूतस्य खशब्दव्यापारा-

२स्पष्टत्‍वेन प्रतीमानेकरूपस्यार्थस्य सङ्‍ज्ञावस्त्र तथा विविधार्थाभिव्यक्तिहेतोः

काव्यजीवितमूतः काचित्सहृदयहृद्‌यैर्ध्वनिर्योम व्‍यङ्‍ककर्तुमवेदितमा काव्यधर्मोऽ-

भिहितः । स कस्मादिह नोपदिष्टः । उच्यते । पृथक्‍‌चालक्‍कारेप्वन्तर्भा-

वात् । तथाहि—प्रतीमानेकरूपस्य वस्तुतैरविध्यं तैर्यक्‍कं वस्तुमात्राल-

ङ्‌कारसादिभेदेन । तत्र वस्तुमात्रं तावत्प्रतीयते यथा—

चक्राभिधात्पसभाज्ञयैव चकार यो राहुध्नूजनस्य ।

आलिङ्‌गनोद्धामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशोषम्‍ ॥ इति ।

अत्र हि राहुबधूर्ततोत्सवस्य या चुम्बनमात्रशेषता तत्करीमिका चक्राभि-

धात्पसभाज्ञाकरणिका चकारोति करणलक्षणा क्रियाभिधीयते । सा चैवं-

विधा कार्यभूतत्वात्करणमन्तरेणानुपपद्यमाना तथाविधवैशसकारि राहुशिर-

Page 87

८० काव्यालङ्कारसार-

रछेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति । अतोडत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारस्य शब्दस्य वा च्यवाचककव्यापाररूप-

नता, तद्विषयस्य च काव्यधर्मस्य ध्वननाभिधानस्य वाच्यवाचककव्यापाररूप-

न्यायागमनस्वभावात्स्वात्पर्योक्तालङ्कारस्पर्शितवं, तदुक्तम्—“पर्यायोक्तं यदन्येन” इत्यादि ।

ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमानस्वात्मतीयरूपं वस्तु अभिधीयते । तद्वेह प्रतीयमानं प्रधानत्वादलङ्कारयतया वचु युक्तम्, न तल्लक्षणकारणतया । अतः कथम् तस्यालङ्कारव्यपदेशः । उच्यते । प्रधान-

नमपि गुणानां सौन्दर्यहेतुत्वादलङ्कृतौ साधनत्वं भजति । हृश्यते हि लोके व्यपदेशः स्वाम्यलङ्करणका भृत्या । इति । अतोडत्रापि प्रतीयमानस्य सत्यपि प्रधानत्वे स्वगुणसौन्दर्यवाच्यसौन्दर्यासाधकतया तस्यालङ्कारव्यपदेशो न विरुध्यते । यदि वा भगवद्वासुदेववर्तितया योडसौ वीररसोडवगम्यते

तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणवत्त्ववादलङ्कारता । एवमुत्तरेप्यथासंभवं योज्यम् ।

"सिंहशश्यामलकान्तिलसितवियतो वेल्लद्धलाका घना वाताः शङ्करिणः पयोदसुहृदामानन्दकेकाः कलाः ।

कारं सन्तु हृदयं कठोरहृदयो रामोऽसि सर्वे सहैवैंदेहि तु कयं भविष्यति वहा हहा देवी धीरा भव ॥"

इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यभंशावन-

वाससीताहरणपित्रुमरणादयो दुःखैकहेतवः स्वार्थसहचारिणो वस्तुमात्ररूपा व्यञ्जयधर्मोस्तरणितरुपतया स्वार्थस्य प्रतीतिसहदेवतभूतत्वादप्योक्ताल-

ङ्कारसंश्रितैव । न खलु पदे पर्यायोक्तेन न भवितव्यमितिं राज्ञामाशा सूत्रकारवचनं वा । लक्षणयोगाद्धि विभक्तरूपतया व्यवस्थाप्यते । अत्र च पर्यायोक्तलक्षणं विध्यते । वाच्यवाचककव्यापाररूपस्यावगमनात्मनः प्रका-

रसस्य सङ्क्रावात् । तेन कथम् पर्यायोक्तता न स्यात् । पूर्वमध्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या । तस्माद् वस्तुमात्रे प्रतीयमाने तदभिध्य

Page 88

६ वर्गः ]

लघुवृत्तौ

८९

किञ्चिदेतु: काव्येषु ध्वनिनिरूपार्थान्तरम् ॥ अलङ्काराणां तु यद्यापि-

"लावण्यकान्तिपरीपूरीतदिङ्मुखरोडसिन्

सेरेडधुना तव मुखे तरलायताक्षि ।

क्षोभं यदेति न मनागपि तेन मत्ये

सुहृद्वरमेक ननु तारलोचनेति ॥

इत्यादौ प्रतीमानेकरूपता, तथाऽऽभ्यानन्तरोक्तलक्षणेष्वलङ्कारेपु अनुमेयो भाविष्यति पर्यायोक्ते वा । तथा बान्छ श्लोके सुरद्विषाम् लावण्यकान्तिपरीपूरीतदिङ्मुखरोडसि

क्षितिस्थ च सेन्धानाज्ज्वलनिधे: क्षोमभुपतिमवैतेन संभाध्य तद्धावो

जाड्यसमूहावच्छादितसभावचवादमिहित: ! तथािविधार्थपर्यायोलोचनया चात्र

मुखस्य चन्द्रेण रूपणां प्रतीतं । चन्द्रस्संन्धानाज्ज्वलनिधे: क्षोमसोत्त्पादर्र्शनात् । न च यस्यालङ्कारस्य प्रतीममानरूपता तस्येहालङ्कारत्वं केनचिद्-

विचारितमिति । प्रतीममानरूपतया रूपकस्योदाहरणं भवित्यति ।

अथवा पर्यायोक्त्या रूपकस्यान्तावस्थितस्वार्थपर्यायोक्तमलङ्कार: ।

"सुवर्णपुप्पां पृथिवीं चिन्वन्ति पुरुपाख्यया: ।

शूरक्ष कृतविद्याश्च यक्ष्रा जानाति सेवितुम् ॥"

इत्यादौ तु श्लाघादिमिः सह सुवर्णपुप्पंगृथिवींविकर्मकं चयनस्यानुपपद्य-

मानान्वयस्वात्सादृश्यस्यान्वयेनोपमेयमूतस्य बहुलाभतस्य तत्सदृशस्य या

लक्षणा तद्वारेण गर्बीकृतोपमानोपमेयभावा असंभावद्वाच्यार्थी निदर्शना

दृश्यते । यदुक्तम्—"अभवन्वस्तुसंबन्ध" इत्यादि । भट्टवामनेन चात्र

वक्रोक्तिव्यवहारः प्रवर्तते । यदवोचत्—"सहित्यलिलक्षणा वक्रोक्तिर्"'ति ।

"सर्वेकशरणमक्षयमधीशामिभां धियां हरिं कषणम् ।

चक्ररातमां निक्षिपयमरिमथनं नमत्त चक्रप्रम् ॥"

इत्यादावपि श्रेयः । तथा बान्छ सर्वेकशरणमक्षयमिल्यादीनां शब्दानाम-

थीमेंदेन मिल्लत्वे सति यथायोगमेकपदलोच्चार्याणामेकप्रयोलोचार्यशब्दस-

Page 89

८२

काव्यालङ्कारसार-

दशानां वोचারণम् । अतो विरोधालङ्कारप्रतिभोत्पत्तिहेतुरत्र श्लेषः । यदु-

कम्- 'पृथयलोचायाणीआम्' इत्यादि+

एवमलङ्कारान्तरेष्वपि प्रतीममानेषु वाच्यम् । तेनालङ्कारनिष्ठ्यापि

अभिव्यञ्जकत्वस्योक्तेष्वलङ्करेष्वन्तर्भावदव्यास्यभावः । रसभावतदाभास-

तदभावानां च प्रतीममानतायामहुदाहरणम्-

"याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्रासय

निध्योर्तं परिवर्तेन पुनरपि प्रारळ्ढयुमर्हीकतम् ।

मूयस्तत्पकृतं कृतं च शिथिललक्ष्यसैकदोर्लेखया

तन्वज्ञा न तु पारितः स्तनभरः कष्टं प्रयस्योरसः ॥" इति ।

तथा हि-अत्र गोत्रस्वलितस्य श्रुतिपथप्रासरीप्याविप्रलम्भशृङ्गारो नायि-

काया: संसुखीभूतोडपि संभोगशृङ्गारेण सहेतुतासमग्रप्रतिलब्धप्रकर्षेण तिरो-

धाय प्रदर्शितः । निध्योर्तं परिवर्तत इत्यादिना हि यथाक्रममीर्ष्यो विपल-

मशृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थनाध्यवसायानुष्ठानारम्भकाश्चतखो

डवस्था: संभोगशृङ्गारमन्थरीकृतस्वखभावव्वेनोपवर्णिता: । पुनश्र संभोगशृ-

ङ्गारेण वाक्यार्थो निर्वोहितो 'न तु पारित:' इत्यादिना । अतोडत्र संभोग-

शृङ्गारस्येष्वो विप्रलम्भशृङ्गारतिरोधानहेतो: प्रतीममानता । तत्र च पूर्वे

रसवदलक्षणोडलङ्कार: प्रतिपादितो 'रसवदर्शितं' इत्यादिना । एवं रसा-

नतरेष्वपि वाच्यम् ।

यत्रापि भावास्तथा रसभावाभासा रसेभावतदाभासप्रच्यामाश्र प्रतीममा-

नामत्नापि यथोक्तं प्रहर्षदैन्यौक्लिष्टसमाहितलक्षणोल्लोभोरियोगा वाच्यः ।

एवमेतत्प्रधानतेषु रसादिषूक्तं रसादिषूदात्तालङ्कार:

प्रतिपादित: 'चरितं च महात्मनाम्' इत्यादिना । अतश्च रसादिष्वभिव्य-

ञ्जकत्वस्य नार्थोन्तरता । एवं च त्रिविधेऽपि प्रतीममानेऽर्थे यच्छोभानां

व्यञ्जकत्वमन्तरोपवर्णितेऽर्थे भूदाहरणेषु षट्प्रकारतयोदर्शितं तस्योक्तेष्वेवा-

लङ्कारेष्वन्तर्भावदव्यासि: ।

Page 90

६ वर्गः ]

वाच्यवृत्तौ

८३

घटप्रकारता चात्र त्रिविधप्रतीममानार्थनिष्ठस्यापि व्यङ्कत्वस्य वाच्यस्य विवक्षितत्वानवक्षितत्वाभ्यामुक्ता । तथा हि- द्विविधं व्यङ्कत्वं वाच्यस्य वाचकशक्त्याश्रयं वाच्यशक्त्याश्रयं च । तत्र वाचकशक्त्याश्रयमलङ्काराणामेव व्यङ्गत्वादेकमकारम् । तत्र द्वालङ्कारा एव व्यज्यन्ते, न तु वस्तुमात्रं नापि रसादयः, यदुक्तम्- “आश्रित्य पदार्थान् सन्निधानस्था प्रकासते । यस्याऽनुक्तः शब्दशक्त्युद्भवो हि सः ॥” इति । वाच्यशक्त्याश्रयं तु रसादिवस्तुमात्रालङ्काराभिव्यक्तिहेतुत्वात्त्रिविधम् । तत्र यत्तावद्वाचकशक्त्या- श्रयं व्यङ्ग्यभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यतया सहृदय-

यैर्व्यङ्कत्वमुक्तं “सर्वैकशरणमक्षयम्” इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधाद्योडलङ्कारास्तत्संस्कृतसभावं वाच्यमवगम्यते । अतस्तत्र वाच्यस्य विवक्षैव ।

यतु वाच्यशक्त्याश्रयं “याते गोत्रविपर्यये श्रुतिपथम्” इत्यादावसं- लङ्क्यरूपरसादिप्रतिपादनिष्ठं व्यङ्कत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव । वाच्यभूतानुभावादिविवक्षयैव व्यङ्ग्यरसादिप्रतीतितेहेतुपादात् । तदेवं वाचक-

शक्त्याश्रयव्यङ्ग्यभूतालङ्कारैकनियते वाच्यशक्त्याश्रये चासंलक्ष्यक्रमरसादिविष- दिव्यङ्ग्यनिष्ठे व्यङ्कत्वे वाच्यस्य विवक्षितत्वमेव । वस्तुमात्रालङ्कारविष- यस्य तु वाच्यशक्त्याश्रयस्य व्यङ्कत्वस्य प्रत्येकं वाच्यस्य विवक्षित-

स्वानविवक्षितत्वाभ्यां द्वैविध्यम् । तथाहि ‘चक्राभिधातप्रसभाञ्जयै’त्यादौ वस्तुविषये व्यङ्कत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्विकत्वेन कारणप्रतीतिप्रसवात् । “खड्गाद्यमलकान्ती”त्यादौ तु, रामादिवृत्तानामर्थोन्तर-

संक्रमितवाच्यस्य वाच्यत्वनिवर्हिनम् । व्यङ्ग्येभार्थप्रतीतिलक्षणं तत्र । एवं वस्तुमात्रविषये व्यङ्कत्वे वाच्यस्य विवक्षाविवक्षे, अलङ्कारविषयेऽपि वाच्यशक्त्याश्रये व्यङ्कत्वे वाच्यस्य विवक्षाविवक्षे । ‘लावण्यकान्ती’त्यादौ एकस्मिन्मत्ये इत्येत-

सिन्शब्दे यो विशेषोऽस्युशेषयोरनुप्रवेशस्तद्वशेन समासादितस्वभावो . योजसावेकशब्दाभिधानसंकरसतत्त्वतिभोत्पत्तिहेतुश्शेषमौढीकृतं तम् । तन्मूलकत्वेन रूपकमतीतेर्हेतुपादात् ।

Page 91

"सुवर्णपुष्पां पृथिवीं"मित्यादौ तु वाच्यस्याविवक्षा । उपमेयस्य बहुलाभत्वस्य तत्तद्धर्मस्य या लक्षणा तस्याऽऽत्यानतिरसृक्ततवां च्यमूलत्वात् । यदि त्वत्र न तिडन्ततेनोपमानमस्तीति हेतुना तद्वाव्यवसायानत्सुवर्णपुष्पपृथिवीचनलक्षणोपमानावच्छादितरुपत्पत्तेन सूरादिविषयस्य बहुलाभत्वस्योपमेयस्य पौढोक्लिमात्रनिष्पन्नशोरीरस्य वाच्यस्यार्थस्य प्राधान्यात्"दृश्ये डेन नत्यस्मि"'त्येवमात्मकतयोपरिणतमतिशयोक्तिभिरदत्वं वाच्यम् । व्यक्ना ह्युपमा तदानीमत्र गुणीभवति ।

एवमलङ्कारनिष्ठस्यापि व्यककत्वस्य वाच्यविवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम् । यत्र वाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलङ्कारानिष्ठे वा व्यककत्वे तत्र व्यज्यरसायोद्देश्येन गम्यमानत्वादसंलक्ष्यकमतया दृष्ट्या । यदुक्तं भट्टचनन--"लक्षणायां हि झगित्यर्थेप्रति प्रतिक्षणमत्वं रहस्यमाचक्षते" इति । अत एव च सहदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलद्दारयोः मती-यमानयोर्व्यङ्ग्योच्चयो मधुरकमात्ररतः; पदार्थनोदर्शितसकलकमानुसंधानसहृदयहृदयध्वनिरित्युक्तं, न तु वाच्यविवक्षायामपि । यत्र च वाच्यस्याविवक्षा पूर्वं-

मुक्ता "रामोऽस्ति"ति 'सुवर्णपुष्पा'मिति च तत्र वयमधिकारोपेतप्रस्तुतार्थोनुबन्धिवस्तूपनिबन्धादग्रसुतमशंसाभेदद्वमेव न्यायं मन्यामहे । यदुक्तं नामभिहितं तदुपक्रमात्ररुपतया दृष्टव्यम् । विवक्षितवाच्यस्य पर्यायोक्तभेद्वात् । यत्र शब्दो वाच्यविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीतये 'चक्राभि-धानेऽप्युदाहरन्ति युष्टं तत्र पर्यायोक्तमदन्तो । पर्यायोक्तलक्षणस्थिर-स्फुटमशंसालक्षणविवचारवशेन तद्यतिरिकविषयावगाहित्वात् । यत्र त्वावि-वक्षिते वाच्येऽर्थोन्तरस्म प्रतितिसतत्राप्रस्तुतप्रशंसास । अतश्च पर्यायोक्त-प्रस्तुतप्रशंसयोरेव यथाक्रमं विवक्षिताविवक्षितवाच्ययोः सर्वेऽपि निमेदास-मान्यभूतयोर्ध्विनिमेदयोरन्तर्गतिवोच्च्या । 'सुवर्णपुष्पां पृथिवीं' इत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तदधिकारोपेतप्रस्तुताथौंचनिधवस्तूपनिबन्धा-

Page 92

६ वर्गः ]

लघुवृत्तौ

८५

स्मत्वेनासंभवद्राच्याया विदर्शनाया अप्रस्तुतप्रशंसाभेदस्यालुपपघत्त एव । एतच्च . विधद्रिद्रिविंचायें ऋृहीतवयं न त्वचिंष्रयैवासूयितव्यमित्यलमतिचा-लतया ।

तदेवं वाचकशक्तिमूले डलङ्कारेकनियते वाच्यशक्तिमूले च रसादिविषये व्यङ्ककत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम् । वस्तुलङ्कारविषये तु वाच्यस्य-कि्मूले व्यङ्ककत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्विधेदत्ता । अतस्त्रसमाश्रयणेन त्रिविधपतीमानार्थेनिष्ठस्यापि व्यङ्ककत्वस्य पदप्रकातता भवति । एतेषां च षण्णां भेदानां मध्ये आद्योऽभेदयोगोऽच्यस्वात:संभवित्यौडेकिमात्रनिष्पादित तशरीरसवाच्य द्वैविध्यम् । अतस्तत्र तस्यादौ भेदा भवनित । एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाणां पूर्वोदितानां द्वाभ्यां मे दाभ्यां सकलित्ता: सन्तो दश संपघन्ते । एत एव तु पदपाकान्तर्गतौ तद्गुण्ण्य भेदभिन्ना विशिष्टभवान्ते । वर्णसंधटनादिपदवन्धाधारस्य व्यङ्ककत्वस्य कृतद्वितादिगतातस्य च पदवाक्यानुप्रवेशेनैवाविर्भावात् । पदप्रकाइयत्वं यथा 'रामोऽदस्स्मिति' । 'चक्राभिखाते' त्यादौ तु वाक्यप्रकाइ्यता । यथा च प्रधानभूते व्यङ्ग्ये एपां व्यङ्ककता विंशतिविधा भवति, तथा गुणीभूतेडपि यथासंभवं योज्येति । तदाहु:-

विवक्ष्यमविवक्ष्यं च वस्तुलङ्कारगोचरे । वाच्यं ध्वनौ, विवक्ष्यं तु शब्घशक्तिरसासपदे ॥ भेदेष्ट्टे चतुर्धा यद्वा च्यमुक्तं विवक्षितम् । स्वत:संभवि वा तस्यादथ वा प्रौढिनिर्मितम् ॥ दश भेदा ध्वनेरेते विंशति: पदवाक्यत: । प्रधानडुणीरूते व्यङ्ग्ये प्रायेण ते तथा ॥ इति ।

वस्तुलङ्कारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्यमविवक्ष्यं चेतिं संबंध: । विवक्ष्यमिति विवक्षाहेत्यर्थ: । शब्घशक्तिरसासपद इति वाचकशक्तिस-

Page 93

माश्रयं रसादिव्यञ्जननिष्ठं च व्यङ्ककत्वमुक्तम् । तद्वद्विशिष्टश्राक्ति व्यङ्ग्य रसाद्यंश्र व्यज्यमूतानास्पदीकरोति । एवमेतद्व्यङ्ककत्वं पर्योयोक्तादि भौवितम् । एतच्चेह बहुवक्तव्यत्वात् नैतत्येन प्रपञ्चितम् । कुशार्घ दीनां हि दिङ्मात्र एवोपदर्शिते सति बुद्धिवशात् प्रतानशतेर्नोनादिश त्वेन विस्तारमासादयतीति ॥

मीमांसासारसङ्ग्रहोत्पदेज्जलाधिविधिस्थिरमणिकाञ्चात् साहित्यश्रीमुरारेर्वृधकुसुममधोः शौरिपालाजभृङ्गात् । श्रुत्वा सौजन्यसिन्धोर्दिजवरसुकुलात्कीर्तितवह्नालवाळात् काव्यालङ्कारसारे लघुविचरितिमभात्कौतुकेन श्रीनृराजः ॥

इति महाश्रीप्रतीहारन्द्रराजविराचितायामुद्रटालङ्कारसार- संग्रहलघुकृतौ पष्टो वर्गः ॥

S. V. O. College Library, TIRUPATI. Acc. No 321.72

32172

Page 94

काव्यालङ्कारसारलघुवृत्तौ उदाहरणानां पद्यानामचुक्रमणी।

यः

लेखा ... ... ... ३८ केलिलोला ... ... ... ६

चेन्तय... ... ... ७० कचिदुत्कट... ... ... ८

। कान्तां ... ... ... ५३ क्षणं काम... ... ... १८

इयच्चा ... ... ... ३८ क्षणं नेत्रा... ... ... ७८

तारिजात ... ... ... ५५ क्षणमौत्सु ... ... ... ८३

पे सा सु ... ... ... २० चण्डालक ... ... ... २८

। मन्द् ... ... ... ६२ चक्राभिचा ... ... ... ६९

या: सदा ... ... ... ८५ छायेयं त ... ... ... ८८

रो स्मर... ... ... ३० जितान्यपु ... ... ... ८

सारधा ... ... ... १३ ज्योत्स्नाम्बुने ... ... ... ११

। काले... ... ... २१ तनु तोया... ... ... ८

ते चिन्त ... ... ... ३१ तथा कामो ... ... ... ८३

ते भाव... ... ... ५० तदार्नीं स्फी ... ... ... ११

यं विसं... ... ... ५९ तदाप्रभे ... ... ...

यं स्थितिं ... ... ... ६५ तदुत्तिष्ठा ... ... ... ९

हुकान्त ... ... ... ५५ तन्वस्ति य ... ... ... २

। च सु... ... ... ८० तपस्लेज: ... ... ... ८

तरोप ... ... ... ५३ तस्यादिको ... ... ... ४

पतद्रिः ... ... ... १३ तस्येत्तर ... ... ... २

ते दत्वा... ... ... ६९ तां जानीयात ... ... ... ९

ग्राच च ... ... ... ५३ तां लब्ध्वा ... ... ... २

तर्दिं न... ... ... ५८ लत्क्कते सो ... ... ... ५

जलहिं ... ... ... ८३ त्वदृश्नमा ... ... ... १

रोधिं पी... ... ... ७४ दन्तप्रभा ... ... ... ८

पोलफ ... ... ... ८६ युजानो मृ... ... ... ८

। शा: कार्शा ... ... ... ७ धिगनन्यो... ... ... ६

न्वात्र ब ... ... ... ७९ नाभिपद्म ... ... ... ८

। असस्मर ... ... ... २० नीलाब्द: कि ... ... ... ८

Page 95

विषय:

नेत्रोरग ... ... ... ६९

पतेऽपदि ... ... ... ७९

पदं च नि ... ... ... ३६

पद्मिनीं प... ... ... ९

पुष्पेन्दननी... ... ... ५३

प्रच्छन्ना शा ... ... ... ३३

प्रवोधाद्द ... ... ... १८

वभूव य ... ... ... ५३

सन्ये च नि ... ... ... ७९

मर्हदिनि ... ... ... ५९

महिषित ... ... ... ९

मीमांसासा ... ... ... ८६

सुरारिनि ... ... ... ६३

मैवमेवा ... ... ... ६५

मृणालहं ... ... ... ८३

यचप्यतं ... ... ... ६८

यद्वा मां किं ... ... ... ५९

यलक्ष्म्ययाह ... ... ... ९

यस्य वाणी ... ... ... ७२

याते गोत्र ... ... ... ८२

यान्ति खदे ... ... ... ६१

या शैशिरी ... ... ... ३८

येन लम्चा ... ... ... ५२

योगपद्यो ... ... ... ६९

यो बलौ व्या ... ... ... ७०

विषय:

लावण्यकां... ... ...

वनान्तदे ... ... ...

विदेशश्च ... ... ...

विद्रद्रुया ... ... ...

विनोचि ते... ... ...

विरलस्ता ... ... ...

शिरसि पं ... ... ...

शीर्णपर्णी ... ... ...

स दग्धवि ... ... ...

स दुःस्थीय ... ... ...

स देवोदिँ... ... ...

सवैकनो ... ... ...

सा गौरीशि ... ... ...

सान्द्रारवि... ... ...

सुवर्णपु ... ... ...

सोडपि चैन ... ... ...

संजहार ... ... ...

लियो सह... ... ...

खिगघरयाम ... ... ...

स्मरजंवर ... ... ...

स्वयं च व प... ... ...

स्विद्यतापि ... ... ...

हरेपव ... ... ...

हरौद्धत् ध्या ... ... ...

हस्ते किंम... ... ...

Page 96

ब्रह्मसूत्रशाङ्करभाष्यम् ।

भामती-कल्पतरु-परिमलव्याख्यासहितम् ।

ब्रह्मस्वरूपमान्त्रप्रकाशनार्थं प्रणीततत्वायथार्थोभिधानाति ब्रह्मसूत्राणि खलुसतः योलोच्यमानान्यद्वैतसिद्धयेवगमयन्ति । तत्परं चेदं शाङ्करंभाष्यं प्रसन्नतरम्मीरं तैरैयौधयानैस्तथा नकास्ते यथा भामत्या । यस्या हि व्याख्या कल्पतरुमलानन्दसरस्वतीकृतिरतितरामनन्दमलं प्रेक्षका णामादधाति । तद्विवरणं च रिमलाभिधानं कल्पतरोरः कल्पतरुभावमादधानं सुविनतत्रस्वतन्त्रादिविरु-

कितान्पपघदैकक्षितेन प्रणीतं शब्दनुयायमिमांसादिशास्त्रप्रक्रियाप्रखुरं विदुषांभ-

न्तमानन्दमावहतिल्यवचनसिद्धमिदम् । तेषामेषामेकत्र समावेशेन सहृदय-दयाहादकरीमिमां पश्चभन्यींमध्य प्रकाशायामः ।

मूल्यं ९० रु., मार्गे. ११॥ रु.

वेदस्तुति: । ( श्रीमद्भागवतदर्शमगता )

लोके व्यावमेति श्लोकः, जन्माद्यस्येति श्लोककक्ष ।

काशीनाथोपाध्यायकृतव्याख्योपबृंहितश्रीधरीयव्याख्या ।

श्रीमद्भागवते वेदस्तुत्यादयो निर्दिष्टा विषयाः अखिलरुचेया गभीरा र्थौक्षेति तिरोधितं विदुषाम् । मूलविपयगाम्भीर्योञ्च्छोेभरीयारह्यापि दुरुहैवासीदिति रमकाण्डिकैधेमी बिंधकारैः काशीनाथोपाध्यायैः प्रणीतया श्रीधरीप्रकाशव्या-

यया सद्ध मुद्रितास्ति । मूल्यं १२ आणकाः, मार्गे. ८ आणका:.

पातञ्जलयोगसूत्रम् ।

भाष्य-वृत्ति-नागोजिभट्टरी-व्याख्यासहितम् ।

योगशास्त्रस्यातिस्वल्पः प्रकरणग्रन्थोऽयम् । अस्य १ समाधिपादः, २ साध-पादः, ३ विभूतिपादः, ४ कैवल्यपादश्चेति चल्वारि प्रकरणानि । स्वनामभिरेव सिपाद्यविषयमाविष्कुचैन्त । निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुल-मस्ति ।

मूल्यं १२ आ., मार्गे. ८ आणका:.

पापडुरङ्ङ जाहजो,