Books / Kavya Alankara Sangraha Udbhata Commentary Pratihara Indu Raja Ed. Mangesh Ramakrishna Telang Nirnaya Sagar Press 1928

1. Kavya Alankara Sangraha Udbhata Commentary Pratihara Indu Raja Ed. Mangesh Ramakrishna Telang Nirnaya Sagar Press 1928

Page 1

TO THE READER. KINDLY use this book very carefully. If the book is disfigured or marked or written on while in your possession the book will have to be replaced by a new copy or paid for. In case the book be a volume of set which single volume is not available the price of the whole set will be realized.

PRATAP LLEGE, SRINAGAR. SRI LIBRARY

Class No. 891. 2.01 Book No. Accession No.

Page 4

THE

KÂVYÂLAÑKÂRA SAÑGRAHA

BY

UDBHATA BHATTA

with the commentary

OF

PRATÎHÂRENDURÂJA

EDITED BY

MANGESH RAMKRISHNA TELANG

Second Edition.

PUBLISHED BY PÂNDURANG JÂWAJÎ,

PROPRIETOR OF THE 'NIRNAYA SAGAR' PRESS,

BOMBAY.

SAC

Price 110Annas.

Page 5

[ All rights reserved.by the Publisher. ]

PUBLISHER :- Pandurang Jawaji, at the "Nirnaya Sagar" Press, PRINTER :- Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay.

Page 6

श्रीमदुभ्भटभट्टप्रणीतः

काव्यालङ्कारसंग्रहः ।

श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालङ्कारसार- लघुवृत्त्या समेतः।

अयं

मङ्गेश रामकृष्ण तेलङ्ग इत्येतैः संस्कृतः ।

(द्विनीयावृत्ति: )

मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयत्रेऽङ्यित्वा प्रकाशितः ।

शके १८५० सन १९२८.

मूल्यं १ छस्:। PRICE RNAY

Page 7

TBSIK 14775

Page 8

प्रस्तावना ।

अस्मिन्भरतखण्डे खल्वद्यावधि बहवः संस्कृतग्रन्थाः संशोध्य मुद्रणद्वारा आ्रकाश्यं नीतास्तन्रतत्र पण्डितप्रकाण्डैः । तथापि कतिचन प्राचीनाः प्रबन्धाः प्रकाशनार्हा अपि पुस्तककोशेष्वेव निलीना वर्तन्ते। तेषामन्यत- मोऽयं काव्यालङ्कारसंग्रहाख्यः प्रबन्धो योऽद्य महता प्रयत्नेन सहृदयहृदय- विनोदाय प्रकाश्यते। अस्य काव्यालङ्कारसङ्गहग्रन्थस्य प्रणेता उद्गटभट्टः। उद्धटभट्टस्य भट्टोद्रट उद्धटाचार्यः इत्यपि नामोलेखो ग्रन्थान्तरेषु दृश्यते। उद्धटभट्टः कश्मीरेषु जयापीड: भूपस्य सभापतिरासीदिति कल्हणविरचितराजतरङ्गिणी- अन्थादवगम्यते। जयापीडनृपतिराज्यकालस्तु स्त्िस्त ७७९ वर्षमारभ्य ८१३ वर्षपर्यन्तमासीदिति ज्ञायते। अतस्तत्सभापतेरुद्भटभट्टस्यापि जीवितसमयः स एवेति विदुषां निर्णयः । उद्धटाचार्येण कुमारसंभवाख्यं काव्यं तथा भामहकृतालङ्कारग्रन्थस्य विवरणं च विरचितमासीदिति ज्ञायते। अत्र प्रमाणं तु अस्ां लघुवृत्तौ "अनेन अ्रन्थकृता खोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः" पृ० १७ इति "विशेषोक्तिलक्षणे च भामहविवरणे भट्टोन्भटेन एक- देशशब्द एवं व्याख्यातः" पृ० १५ इति च प्रतीहारेन्दुराजस्ोक्तिः ।

१ झळकीकरोपाख्यश्रीवामनाचार्यप्रकाशितसटीककाव्यप्रकाशपुस्तकस्य प्रस्ता- चनायां २१ पृष्ठे द्रष्टव्यम्।

Page 9

काव्यालङ्कारसारलघुवृत्तेः प्रणेता श्रीप्रतीहारेन्दुराजस्तु कोङ्कणदेशवा- स्तव्यः कश्मीरेषु मीमांसाव्याकरणतर्कसाहित्यशास्त्रपारंगतभद्टश्रीमुकुलाद- घीतशास्त्रश्वेति अस्या लघुवृत्तेः प्रारम्भोपसंहारयोः स्थिताभ्यां निम्नलिखित- पद्याभ्यां स्फुटं भवति । "विद्वद्य्रयान्मुकुलकादधिगम्य विविच्यते। प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रह:॥।" "मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्री मुरारेर्बुधकुसुममधोः शौरिपादान्जभृङ्गात्। श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलात्कीर्तिवल््यालवालात् काव्यालङ्कारसारे लघुविवृतिमघात्कौङ्कणः श्रीन्दुराजः॥" इति। प्रतीहारेन्दुराजस्य जीवितकालस्तु निश्चित्य वक्तुं न शक्यते। तथाप्ययं भट्टोद्वटस्य पश्चाद्वभूवेति व्यक्तमेव । अनेन लघुवृत्तौ भामह-वामन-उद्धट- इत्यादिप्राचीनालङ्कारिकाणामेवोलेखः कृतः नतु महिमभट्ट-आनन्दवर्धन- काव्यप्रकाशकाराद्यमिनवालङ्कारिकाणाम्। अतोऽयं स्त्िस्तवर्षस्य नवमद्शम- शतकयोर्मध्ये वभूवेति तर्क्यते। अस्य ग्रन्थस्यादर्शपुस्तकमेकमेव पुण्यपत्तनस्थराजकीयपुस्तकालयाधि- कारिमि: प्रोफेसर विनायक सखाराम घाटे इत्येतैः संस्करणार्थे दत्वानुगृ- हीतोऽस्ीति कृतज्ञतया समरामि तेषामुपकृतिम्।

कारवारपुरे विद्वदनुचर: श्रावण शु० १२ शके १८३७ मङ्गेशशर्मा.

Page 10

प्रथमो वर्गः । रसवत् .. ... .. ५७

मन्लाचरणम् ... .. १ ऊर्जसवि ... ५९

पुनरुक्तवदाभासम् .. २ पर्यायोक्तम् ... .. .. ६०

छेकानुप्रासः ... .. ४ समाहितम् ... .. .. ६०

अनुप्रास: ... ५ उदात्तम् .. .. ६१

परुषावृत्तिः शिलिष्टम् ६३ " उपनागरिका ... ६ पश्चमो वर्गः । पाम्या .. " अपह्ुतिः ६७ लाटानुप्रास :... ७

रूपकम् ११ विशेषोकि: ६७ ... दीपकम् विरोधः १६ ६९ ... ... ..

उपमा तुल्ययोगिता ... ६९ ... ... ... १८ ७० प्रतिवस्तूपमा ... ... ३१ अप्रस्तुत प्रशंसा

द्वितीयो वर्गः। व्याजस्तुतिः .. ७१

३३ विदर्शना .. ७२ आक्षेपः ... संकर: ७३ अर्थान्तरन्यासः ३७ व्यतिरेक: उपमेयोपमा ७७

.. ४१ विभावना सहोकि: .. ७८

.. ४४ समासोक्ति: परिवृत्ति: .. .. ८०

.. ... ४५ अतिशयोक्ि: ४६ षष्टो वर्गः ।

वृतीयो वर्गः। ससंदेहः .. ८२

यथासंख्यम् ... ¥8 अनन्वयः .. ८४

उत्प्रेक्षा ... ... .. ५० संसष्टिः .. ८४

खभावोकि: ... .. ५३ भाविकम् ८५

चतुर्थो वर्गः। काव्यहेतुः .. .. ८७

प्रेयखत् ... ५४ काव्यदृष्टान्तः ... .. ९१

Page 11

काव्यालङ्कारसारलघुवृत्ती उपलभ्यमानानि ग्रन्थानां ग्रन्थकर्तृणां च नामानि।

पृ.

अमरुक: ८९ कात्यायन: २९, ३० चूर्णिकार: ३० दण्डी ३० भट्टवामनः १९, ८८, ९५, ९८ भट्टोद्भटः १५, ५६, ५७, ६३, ७२ भामहः १, ५४, ७२. ८६, ९० भामहविवरणं (भट्टोद्भटकृतं) १५

Page 12

श्रीः।

काव्यालङ्गारसंग्रह:।

श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालङ्कारसारलघुवृत्त्या समेतः। यल्लक्ष्म्या हसितैः सितैर्धवलितं नर्मोक्तिलीलाजुषः शौरेः स्फीतगभस्तिकौस्तुभरुचा यच्च कचित्पाटलम्। अन्यत्र च्छुरितं यदम्बररुचा हेमप्रभादीप्रया

महिषितवपुषि सुरद्विषि दर्शितभयमभयदं द्युसद्मभ्यः । नन्दितसुरेन्द्रवन्दितमङ्गियुगं गौरि तव वन्दे ॥ २ ॥ विद्वदय्यान्मुकुलकादधिगम्य विविच्यते। प्रतीहारेन्दुराजेन काव्यालङ्गारसंग्रहः ॥ ३ ॥ पुनरुक्तवदाभासं छेकानुप्रास एव च। अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः ॥ उपमा दीपकं चैव प्रतिवस्तूपमा तथा। इत्येत एवालङ्कारा वाचां केश्रिदुदाहताः॥ अत्रालद्कारा अष्टावुद्दिष्टाः । तत्रादौ चत्वारः शब्दालङ्कारा निरू- पिताः । रूपकादीनां तु चतुर्णामत्र अर्थालङ्कारता। अत्रानुप्रासे रूपके यथाक्रमं त्रिधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम्। भामहो हि

Page 13

२ काव्यालङ्कारसार-

आम्योपनागरिकावृत्तिभेदेन द्विप्रकारमेवानुप्रासं व्याख्यातवान्। तथा रूपकस्य ये चत्वारो मेदा वक्ष्यन्ते तन्मध्यादाद्यमेव भेदद्वितयं प्रादर्शयत्। अतः स्वाभिमतमेदोपदर्शनद्वारेण एवंविधविप्रतिपत्ति- निरासार्थमुद्देगावस्थायामेवानुप्रासस्न्निघेति रूपकं चतुरिति चोक्तम्। रूपकं चतुरित्यत्र रूपकत्वेन सह एकस्मिन्नर्थे वर्तमाना सत्ता रूपक- मेदेष्वावर्तमाना प्रतीयते। अतः प्रतीयमाना यासौ रूपकत्वैकार्थस- मवेता सत्तात्मिका भवनक्रिया तदभ्यावृत्तावयं "द्वित्रिचतुर्भ्यः सुच्" (पा. अ. ५.४.१८) इति सुच्प्रत्ययः । रूपकं चतुर्षु भेदेषु चतुरो वारान् भेदात्मना भवतीत्यर्थः । तत्र पुनरुक्तवदाभासं प्रोच्यते-

अभिन्नं वस्तु यस्मिन्रुद्धासते तदभिन्नवस्तु। भिन्नं रूपं ययोः पद- योस्ते भिन्नरूपे। अभिन्नवस्त्विव अमीक्ष्णमुद्धासेते भिन्नरूपे पदे य- स्मिस्तदभिन्नवस्त्विवोद्धासिभिन्नरूपपदम्। एवमयं बहुव्रीहिद्वितयगर्भ: पञ्चपदो बहु्रीहिः। तत्रैकोऽभिन्नवस्त्विति बहु्रीहिः। अपरस्तु भिन्न- रूप इति। तद्गर्भश्चायं बहुव्रीहिरभिन्नवस्त्विवोद्धासिभिन्नरूपपदमिति। अनेन च यत्र भिन्नरूपे पदे एकार्थवदाभासेते तत्पुनरुक्ताभासं काव्य- मलङ्कार्य निर्दिष्टम्। यद्यपि पुनरुक्तवदाभासमित्युद्देशे वतिः प्रयुक्त- स्तथापि तस्येह गम्यमानार्थत्वादप्रयोगः । उद्देशे त्वेवमनभिधानमभि- धावैचित्र्यप्रदर्शनार्थम्। काचित् खलु गम्यमानार्थान्वयेन अभिधा प्रव- रतते, काचित्त्वभिघीयमानार्थान्वयेन। तत्रोद्देशे वत्यभिघीयमानसादृश्या- न्वयेन अमिधा उपदर्शिता। इह त्वर्थसामर्थ्यावसेयसादृश्यान्वयेन। वदेवमर्थसामर्थ्यावसेयेन वत्यर्थेनान्वितं पुनरुक्तामासमत्र काव्यमलक्कार्य

Page 14

लघुवृत्तौ

निर्दिष्टम्। पुनरुक्तवदाभासमाने च पदे तस्यालङ्कारः । अत्रालङ्कार्य यत्काव्यं तद्धर्मत्वेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतब्रतया फलं चैवमभिधानस्य पुनरुक्तवदाभासमानपदसमन्वयस्य अलङ्कारताख्यापनम्। अलङ्कारस्य खल्वलक्कार्यपरतत्रतया निरूपणे क्रियमाणे सुष्ट स्वरूपं निरूपितं भवति। सवात्मन्यवस्थितस्य तस्यानल- हारत्वात्। समुद्गकस्थितहारकेयूरपारिहार्याद्यलङ्कारवत्। अतः पुनरुक्त- वदाभासत्वस्यालङ्कारताख्यापनाय काव्यपरतत्रतया निर्देशो युक्त एव। तस्योदाहरणम्- तदाप्रभृति निःसङ्गी नागकुञ्जरकृत्तिभृत्। शितिकण्ठः कालगलत्सतीशोकानलव्यथः ॥ तदाप्रभृति सतीवियोगादारभ्य स देवः शितिकण्ठो निःसङ्ग: सन् दिवसानतिवाहितवानिति वक्ष्यमाणे श्रोके वाक्यार्थपरिसमाप्तिः । कृत्ति- श्वर्म। कालवशेन निवर्तमाना (या) सती (तस्याः) वियोगेन जनितो यः शोकवडिस्तदुद्धवा पीडा यस्य स तथोक्तः। अत्र नागकुञ्जरशब्दौ शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासेते। तथाहि। नागकुञ्जरश- व्दयोरुपक्रमावस्थायां गजवाचित्वेन एकार्थत्वं प्रतिभाति। पदार्थान्व- यपर्यालोचनया तु तद्वाध्यते। नागशब्दः खल्वत्र हस्तिवाची। कुञ्ज- रशब्दस्तु तत्प्रशंसावगतिहेतुः। एवं शितिकण्ठकालगलशब्दयोरपि वलीविशेषावच्छिन्नशरीरावयव मेदोपेतार्थाभिघायित्वात्पौनरुत्तयं संभा- व्यमानं कालगलदिति तकारावधिपर्यालोचनया चापसार्यते। तेनात्र पुनरुक्ताभासत्वम्। ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते। रुर्ब तत्कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यास: कृतः।

Page 15

४ काव्यालङ्कारसार-

उच्यते। उदाहरणप्रदर्शनमन्तरेण लक्षणार्थस्य दुरधिगमत्वादिहैव तदु- पन्यस्तमित्यदोषः । एवमुत्तरत्रापि प्रमेयशब्दानुसारेण अन्थपाठकमवि- पर्यासेन व्याख्यायां नासूयितव्यम्। पाठक्रमादार्थकमस्य बलीयस्त्वाद्। छेकानुप्रास :- छेकानुप्रासस्तु द्वयोई्वयोः सुसद्शोक्तिकृतौ। द्वयोरद्वयोरज्झलसमुदाययो: सुष्ठु सदृशे उच्चारणे क्रियमाणे सति छेकानुपरासो भवति। तथाविधाः समुदायास्तत्रालक्कारतां प्रतिपद्यन्ते। द्वयोर्द्वयोरिति स्वार्थेऽवधार्यमाणे अनेकस्मिन्निति द्विर्वचनं खार्थग्रहणेन वीप्साया निरस्तत्वात् न यावन्तोऽत्र द्विका: संभवन्ति तेषां सर्वेषामेव सुसदृशत्वं कार्य, किं तर्हि कतिपयानामेव। वीप्सा हि साकल्ये सति भवति। सा चात्र स्वार्थशब्देन निरस्ता। अवधार्यमाणग्रहणाच्च द्वयो- द्योरेवात्र समुदाययोः सदृशत्वं, नतु त्रयाणां त्रयाणामिति द्रष्टव्यम्। अनेकस्मिन्निति वचनाच असकृदेवंविधरूपोपनिबन्धे सति छेकानुप्रा- सता न तु सकृदिति मन्तव्यम्। परस्परमेकरूपान्विता रसाद्यभिव्य- क्यनुगुणत्वेन लब्घोत्कर्षा वर्णास्तत्समुदाया वा शोभातिशयहेतुत्वेन काव्ये क्षिप्यमाणा अनुप्रासशब्देनान्वर्थेनाभिघीयन्ते। छेकशव्देन कुलायाभिरतानां पक्षिणामभिधानम्। तदुक्तम्-"छेकान् गृहेष्वमि- रतानुशन्ति मृगपक्षिणः" इति। तेषां च कुलायाभिरतत्वादन्येन केन- चिदनायास्यमाना नामनेनानुप्रासेन सदृशी मधुरा वागुचरति। अतोऽय- मनुप्रासश्छेकैर्व्यपदिश्यते छेकानुपरास इति। अथवा छेका विदग्धाः । तद्वल्लभत्वादस्य छेकानुप्रासता। तस्योदाहरणम्- स देवो दिवसान्निन्ये तस्मिञ्शैलेन्द्रकन्दरे। गरिष्ठगोष्ठीप्रथमैः प्रमथैः पर्युपासितः ॥

Page 16

लघुत्ृत्तौ ५

कन्दरो गुहा। गरिष्ठा गुरुतमाः। 'प्रियस्थिर-' (पा. अ. ६. ४. १५७) इतीष्ठनि गुरुशब्दस्य गरादेशः । गोष्ठी विदग्धानामासन- बन्घः । प्रथमैः प्रघानैः । प्रमथैर्गणैः । पर्युपासितः सेवितः । अत्र सदेवदिवसशब्दौ इन्द्रकन्दरशब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिउपासशब्दौ च द्वौ द्वौ अज्झलसमुदायौ सुसदृशावुच्चारितौ तेन छेकानुप्रासता। क्वचित्तु 'निन्ये तस्मिन्' इत्यत्र 'निन्येऽन्यस्मिन्' इति पाठः । तदा चैतदप्युदाहरणेऽन्तर्भवतीति। अनुप्रासः । स च त्रिविधो वृत्तिसंश्रयात् । यद्वक्ष्यति- "सरूपव्यञ्जनन्यासं तिसृप्वेतासु वृत्तिषु। पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥" इति। अस्यार्थ :- त्रिष्वेतेषु यथायोगं रसाद्यभिव्यत्त्यनुगुणेषु वर्णव्यव- हारेषु यः सरूपाणां व्यञ्जनानां पृथक् पृथगुपनिबन्धस्तमनुप्रासं कवयः सदेच्छन्तीति। अतस्तास्तावद्दत्तयो रसाद्यभिव्यत्त्यनुगुणवर्णव्यवहारा- त्मिका: प्रथममभिघीयन्ते। ताश्च तिस्रः, परुषोपनागरिकाग्राम्यत्वभेदात्। तत्र परुषा- शपाभ्यां रेफसंयोगैष्टवर्गेण च योजिता। परुषा नाम वृत्ति: स्ात् हह्वह्यादैश्र संयुता।। शकारषकारादियुक्तौ वर्णव्यवहारः परुषार्या वृत्तिः। रेफोपलक्षिताः संयोगा: करर्कादयो रेफसंयोगाः । टकारोपलक्षितो वर्गष्टवर्गः टठडढ गेति। अस्यां वृत्तौ योऽनुप्रासः स परुषानुप्रासः । तस्योदाहरणम्- तत्र तोयाशयाशेषव्याकोशितकुशेशया। चकाशे शालिकिंशारुकपिशाशामुखा शरत् ।।

Page 17

काव्यालक्कारसार- uY

तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकासितानि कुशे- शयानि पद्मानि यया इति समासः । तथा शालीनां धान्यानां किशा- रुभि: शूकैः कपिशानि पिज्जराणि आशामुखानि दिगवकाशा यस्या- मिति समासः। अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः। उपनागरिका- सरूपसंयोगयुतां मूर्व्नि वर्गान्त्ययोगिभिः । स्पर्शैयुतां च मन्यन्ते उपनागरिकां बुधाः। सरूपाणां वर्णानां ये संयोगाः क्वप्पच्च इत्यादयस्तैर्युक्का। तथा वर्गान्त्यैर्डञणनमैः ङञ्चण्टन्तम्प इत्यादिरूपतया उपरि ये युक्ताः कादयो मकारान्ताः स्पर्शास्तैर्युक्ता उपनागरिका वृत्तिः । एषा खलु नागरिकया वैदग्धीजुषा वनितया उपमीयते तत उपनागरिका। नाग- रिकया उपमिता उपनागरिकेति। "अवादयः कुष्टादयर्थे तृतीयया" इति समासः । तस्यामुपनागरिकानुप्रासः । तस्योदाहरणं च- सान्द्रार विन्द वृन्दोत्थमकरन्दाम्बुबिन्दुभिः । स्पन्दिभि: सुन्दरस्पन्दं नन्दितेन्दिन्दिरा कचित्॥ अत्र दकाराख्यः स्पर्शो नकारेणोपरि व्यवस्थितेन युक्तः सारूप्ये- णोपनिबद्धः । सान्द्रा घना अरविन्दवृन्दोत्था मकरन्दाम्बुबिन्दव इति संबन्धः । सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरम्पन्द- मिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्णातीतिवत्। सुन्दरः स्पन्दो यस्मिन्निति हि सामान्यभूते स्पन्दने अन्यपदार्थे सुन्दरतावि- शिष्टं स्पन्दनं वृत्तिपदार्थभूतम्। इन्दिन्दिरा भ्रमराः ॥ आ्म्या- शेषर्वणैर्यथायोगं कथितां कोमलाख्यया। ग्राम्यां धृत्ति प्रशंसन्ति काव्येष्वादतबुद्धयः ।

Page 18

लघुवृत्तौ 9

आाम्या। तस्या एव च अपरं नामघेयं कोमलेति। कोमलाख्यया कथि- तामिति संबन्धः । तस्यां चानुप्रासो ग्राम्यानुप्रासः । तस्योदाहरणम्- केलिलोलालिमालानां कलै: कोलाहलै: क्चित्। कुर्वती काननारूढश्रीनूपुररभ्रमम् ।। केलिलोला: क्रीडालम्पटाः। कलैर्मधुरैः । भ्रमो आ्रन्तिर्विपर्ययप्र- त्ययः । अत्र लकारककाररेफाः सारूप्येणोपनिबद्धाः । एवमेतास्तिस्त्रो वृत्तयो व्याख्याताः । तासु च रसाद्यभिव्यत्त्यानुगुण्येन पृथक् पृथग- नुप्रासो निबध्यते तदाह- सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु। पृथक्पृथगनुप्रासमुशन्ति कवयः सदा ॥ अयं क्रोक: सोदाहरणो वृत्तिस्वरूपनिरूपणप्रसङ्गेन व्याख्यातः । लाटानुप्रास :- स्वरूपार्थाविशेषेऽपि पुनरुक्ति: फलान्तराद्। शब्दानां वा पदानां वा लाटानुप्रास इष्यते।। स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत्। तदन्यस्य स्वतत्रत्वात् द्वयोवैंकपदाश्रयात्।। स्वतत्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च।। शब्दानामनुपलभ्यमानसुप्तिडां तथा पदानामुपलभ्यमानसुप्तिडां उभ- येषां च शब्दपदानां स्वरूपस्य वर्णात्मनः अभिधेयस्य च निरन्तरशब्द- व्यापारगोचरीकृतस्य वाच्यस्यार्थस्याभेदेऽपि फलान्तरात्ात्पर्यभेदात् Cisrary Srt Pratds College, Srinagar.

Page 19

८ काव्यालङ्कारसार-

स च प्रथमं तावत्रिप्रकारः । द्वयोः खतन्रयोर्द्वयोः परतन्नयोः खत- ञ्रपरतन्रयोश्च भावात् । तत्र यस्तावद्दयोः सवतब्रयोः स द्विप्रकारः । एकैकस्मिन् पदे पदसमुदायात्मके च पादे भावात्-तदुक्तम्- "स्वतब्रपदरूपेण द्वयोर्वापि प्रयोगतः । भिद्यतेऽनेकधा मेदैः पादाभ्यासक्रमेण च ।।" इति। अत्र हि स्वतन्रपदात्मकत्वेन द्वयोः प्रयोगादेकैकपदाश्रयो लाटानु- प्रासोऽमिहितः । तस्योदाहरणम्- काशा: काशा इवोद्भान्ति सरांसीव सरांसि च। चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निन्नगाः ॥ आचिक्षिपुरपहृतवन्तः । अत्र काशादय: शब्दा अपरैः काशा- दिभि: शब्दैः एकरूपा एकाभिधेयाश्च। तात्पर्यमेदेन तु तेषां पुन- रुक्तिः । तथा ह्यत्र एकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यप- रतया प्रयोगः । अपरेषां तु अनन्वयालक्कारच्छायया उपमानान्तर- व्यावृत्तिपरतया। अत्र च स्ातन्यं पदानां, काशादीनामुपलभ्यमानसु- पिङ्रूपत्वात्। एकैकरूपतया चावृत्तेरुपनिबन्धः । पदसमुदायात्मकस्य तु पादस्य स्वरूपार्थाविशेषे तात्पर्यभेदेन पुन- रुक्तौ पादाभ्यासपरिपाट्या स्वतब्रपदाश्रयो लाटानुप्रासो भवति। पादा- भ्यासक्रमेण चेति क्रमग्रहणेन सकृद्विस्त्रिश्च पादाभ्यासे ये भेदाः संभ- वन्ति तत्ीकारेण पादाभ्यासे लाटानुप्रासस्य प्रवृत्ति: सूचिता! तस्योदाहरणम्- स्त्रियो महति भर्तृभ्य आगस्यपि न चुकुघुः । भर्तारोऽपि सति स्त्रीभ्य आगस्यपि न चुकुधुः ॥

Page 20

लघुवृत्तौ ९

महत्यप्यागसीति संबन्धः । तथा च सत्यप्यागसीति भर्तृभ्य इति स्त्रीभ्य इति च 'कुधद्रुहे-'ति संप्रदानता । अत्र एकत्र पादे नायक- गतापराघविषयत्वेन स्त्रीकर्तृकः क्रोधाभावः प्रतिपादितः । अपरत्र तु नायिकानां यो भर्तृप्रणयातिक्रमात्मकोऽपराधस्तद्विषयो नायककर्तृकः कोधाभावोऽभिहितः । अतस्तात्पर्यभेदः सवरूपार्थाविशेषश्च। पदसमु- दायात्मकस्य च पादस्याभ्यासः । एवमयं स्वतब्रपदाश्रयो लाटानुप्रासो द्विविधोऽभिहितः । एकैकपदाश्रयः पदसमुदायाश्रयश्च स्वतब्रपदाश्रयो लाटानुप्रासः । द्वयोरनुपलभ्यमानसुप्तिडो: परतब्रयोः शब्दयोर्यो लाटानुप्रासस्त- स्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च । तदुक्तम्- 'स पदद्वितयस्थित्या द्वयोः' इति। सोऽनेकधा भेदैर्भिद्यते इति संबन्धः । तथा द्वयोवैंकपदाश्रयादिति। पूर्वस्योदाहरणम्- क्कचिदुतफुल्लकमला कमलभ्रान्तषट्पदा। षट्पदक्काणमुखरा मुखरस्फारसारसा ।। सारसा लक्ष्मणाख्या: पक्षिविशेषाः । अत्र कमलषट्पदमुखरशब्दानां स्वरूपार्थाभेदेऽपि तात्पर्यभेदेन पुनरुक्तिः पदद्वितयाश्रयित्वं च। तात्प- र्यमेदश्वात्र कमलषट्पदशव्दयोः कारकशक्तिमेदात्। तथाहि। पूर्वः कमलशब्दोऽत्र विकासक्रियाकर्तृत्वपरतयोपात्तः, उत्तरस्तु भ्रमणक्रिया- कर्तृभूतषट्पदाधारत्वेन । तथा पूर्वः षट्पदशब्दो भ्रमणक्रियां प्रति कर्तृत्वेनोपवर्णितः, उत्तरस्तु क्वाणक्रियासंबन्धित्वेन। मुखरशब्दौ तु विशेषणभूतं सशब्दत्वं भिन्नार्थनिष्ठतयावगमयतः । तथाहि। पूर्वेण मुखरशब्देन शरन्निष्ठं मौस्र्यमवगम्यते, अपरेण तु सारसनिष्ठम्। एवमयं पदद्वितयपरतत्रशब्दद्वयाश्रयो लाटानुप्रासोऽभिहितः ।

Page 21

१० काव्यालङ्कारसार-

एकपदाश्रयशब्दद्वितयवर्ती तु "द्वयोवैंकपदाश्रयात्" इत्युक्तः । तस्योवाहरणम्- जितान्यपुष्टकिञ्जल्ककिञ्जल्कश्रेणिशोभितम्। लेमेऽवतंसतां नारीमुखेन्दुष्वसितोत्पलम् ।। अत्र नारीमुखेष्विति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शश- करूपता ध्वन्यते। किञ्जल्कशब्दयोश्चात्र सवरूपार्थामेद एकपदाश्र- यत्वं तात्पर्यमेदश्च। एकस्य जीयमानतया उपादानात्, अपरस्य जय- नक्रियाकर्तृभूता यासौ श्रेणिस्तत्संबन्धित्वेन । एवमयं परतत्रयोः शब्द- योर्लाटानुप्रासो द्विविधो निरूपितः । स्वतत्रपरतत्रयोस्तु यत्रैकस्य शब्दस्य पदान्तरानुप्रवेशः, अपरस्य तु स्वातत्रयेण पदरूपतयावस्थानं तत्र भवति। तदुक्तम्-'एकस्य पूर्व- वत्तदन्यस्य स्वतत्रत्वात्' इति। एकस्य पूर्ववत्पदान्तराश्रयेणावस्था- नादित्यर्थः । तस्योदाहरणम्- पद्मिनीं पद्मिनीगाढस्पृह्यागत्य मानसात्। अन्तर्दन्तुरयामासुहंसा हंसकुलालयात्।। मानसाव् सरोविशेषात्। दन्तुरयामासुः महत्त्वाच्छुकत्वाच्च उन्नत- दन्ता इव चक्रः। अत्र स्वरूपार्थाभेदेऽपि पझ्मिनीशब्दयोर्हसशब्दयोश्च तात्पर्यभेदात्पुनरुक्तिः । एकस्य पदान्तरानुप्रवेशः, अपरस्य च सवतब्र- त्वम्। तात्पर्यभेदस्तु एकस्य पद्मिनीशब्दस्य कर्मरूपत्वात्, अपरस्य च स्पृहाविषयप्रतिपादनार्थत्वात्। तथा एकस्य हंसशब्दस्य दन्तुरण- क्रियाकर्तृभूतार्थाभिधायित्वात्, अपरस्य तु कुलसंबन्धित्वात्। एवमयं पञ्चविधो लाटानुप्रासः प्रतिपादितः । सवतब्रपरतव्राणां तस्य प्रत्येकं द्विभेदत्वात् खतब्रपरत्रयोश्च समुदितयोरेकप्रकारत्वात्॥

Page 22

लघुष्टृच्ौ ११

रूपकम्- भ्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम् । गुणवृत्तिप्रधानेन युज्यते रूपकं तु तत्।। बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत्। समस्तवस्तुविषयमेकदेशविवर्ति च ॥ समस्तवस्तुविषयं मालारूपकमुच्यते। यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात् ।। पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति। नन्वेवं सति नीलमुत्पलमित्यत्रापि नीलशव्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपक- ताप्रसङ्क इत्याशङ्कयोक्तं-भ्रुत्या संबन्धविरहादिति। श्रुतिर्निरन्तरा- र्थनिष्ठः शब्दव्यापारः । तया श्रत्या अनुपपद्यमानपदान्तरसंबन्धं सत् पदान्तरं गुणवृत्ति यत्रापरेण पदेन युज्यते तत्र रूपकता। यथा- ज्योत्स्ाम्बुनेन्दुकुम्भेन ताराकुसुमशारितम्। क्रमशो रात्रिकन्याभिर्व्योमोद्यानमसिच्यत ।। इति। अत्राम्बुशब्दो निरन्तरार्थनिष्ठशब्दव्यापारगोचरीकृते उदकत्वे वर्त- मानो ज्योत्साशब्देन सामानाधिकरण्यं नानुभवति । अम्बुत्वज्योत्स्ना- स्वयोरेकार्थसमवायाभावात्। अतोऽम्बुगताः शौक्कयाह्रादकत्वप्रसरण- शीलत्वादयो ये गुणास्तत्सदृशज्योत्सागतगुणवृत्तिः सन्नम्बुशब्दो ज्यो- रसायां वर्तते। तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापा- रेण यः पदान्तरेण ज्योत्स्ाशब्देन संबन्धस्तच्छून्यत्वाद्गुणवृत्तिता । अतोऽत्र रूपकता। नचैवं नीलमुत्पलमित्यादौ श्रुत्या संबन्धविरहाङ्ड- णवृत्तित्वं, किंतर्हि सत एवेति न रूपकताप्रसङ्गः। -- 16 ननु विरुद्धार्थाभिघायिनोः समानाधिकरणयोः शब्दयोर्निरन्तरार्थ- निष्ठेन अमिधाव्यापारेण अनुपपद्यमानान्योन्यसमन्वयत्वाद्यदेकस्य लक्ष-

Page 23

१२ काव्यालक्गारसार-

णया गुणवृत्तित्वमभिघीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं प्राम्नोति। नियमकरणाभावात्। ततश्च यथाम्बुशब्दस्य ज्योत्साशब्दसामानाघिक- रण्याद्गुणवृत्तित्वमुक्तं, तद्वज्योत्साशब्दस्यापि अम्बुशब्दसामानाघिकर- ण्याद्गुणवृत्तित्वं कथं न स्यादित्याशङ्क्योक्तं प्रधानेनेति। प्रधानार्थानु- रोधेन उपसर्जनस्य लक्षणया गुणवृत्तित्वमुपपन्नम् । प्रधानवशवर्तित्वा- ह्ुणानामित्यभिप्रायः । अतश्च प्राकरणिकार्थाभिधायित्वात्प्रधानार्थवि- षयो यो ज्योत्स्ाशब्दः तदनुरोधेन अम्बुशब्दस्य अप्राकरणिकार्थत्वा- दप्रधानार्थस्य गुणवृत्तित्वमुपपन्नमिति न पर्यायेण ज्योत्साम्बुशब्दयोः परम्परानुरोधेन गुणवृत्तित्वप्रसङ्गः । ननु च ज्योत्साम्बुनेत्यत्र अम्बुनः प्राधान्यं ज्योत्सायाश्च गुणभावः। तथा हि। एतस्मिञ्ल्लोके तद्धावाध्यवसानेन सेकावच्छादितरूपतया सेकात्मकत्वेन यासौ व्योम्नो व्याप्तिरसिच्यतेति प्रतिपादिता, तया स्वसाधनभूतं यत्तदम्भोऽपेक्षितं तदत्र ज्योत्सया विशिष्यते ज्योत्सैवा- म्ब्विति। यदत्र सेकसाधनत्वेनाम्बु अपेक्षितं तज्ज्योत्स्ैवेत्यर्थः। उक्तं च "उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः । यच्च प्रयुज्यते तद्रूपकमन्यत्समासोक्तम्" इति। एतयोरुभयोरिति। उपमानोपमेययो- रित्यर्थः । तत्कथमिदमुक्तं ज्योत्स्नापदस्य प्राधान्यात्तद्वशेनाम्बुशब्दस्य गुणवृत्तित्वं कल्प्यते इति। उच्यते। अत्र खलु द्वेऽवस्थे विद्येते। एका तावजयोत्साया अम्बूकरणावस्था। अपरा तु अम्वुत्वमापादिताया ज्योत्सायाः सेकसंबन्धरूपा। तत्र यदा तावज्ज्योत्स्ना अम्बुरूपत्वमाप- दयते तदा प्राकरणिकत्वात् ज्योत्सा प्रधानम्। अम्बु च तद्विपर्यया द्रुणः। तदानीं चाम्बुशब्दो ज्योत्स्ाशब्दानुरोधेनाम्बुगतशौक्क्यादिगुण- सदृशगुणयोगाल्लक्षणया ज्योत्सायां वृत्तिमनुभवति। तदा च तस्य प्रधानार्थानुरोधाद्गुणवृत्तित्वेन रूपकत्वमुक्तम्। यदा त्वसौ अम्बुशब्द

Page 24

लघुवृत्तौ १३

आपादिताम्वुभावज्योत्साभिघायी सन् सेकक्रियया समन्वयमापद्यमानो यदेतदत्र सेकसाधनत्वेनाम्बु उपयुज्यते तज्ज्योत्स्नैवेति ज्योत्स्या विशि- ष्यते तदा तस्य न रूपकावस्था। पूर्वावस्थायामेवानुभूतगुणवृत्तित्वात्। अतस्तस्यामवस्थायामसौ अतिशयोक्तिच्छायां भजते। पूर्वावस्थापेक्षया- त्वेतद्रूपकमुक्तम्। प्रधानानुरोधेन तत्र गुणेषु वर्तमानत्वात्। रूपकत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवतः क्रियमाणत्वादन्वर्थ द्रष्टव्यम्। अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनादुपमेय उपमान- गतयोः शब्दरूपयोरारोपः । तत्र त्रयो दर्शनमेदाः । केचिदत्र शब्दा- रोपपूर्वकमर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम्। अन्यैस्तु शब्दारोपार्थारोपयोर्यौगपद्यमभिघीयते। अयमेव च पक्षो युक्त इव दृश्यते। तदाहु :- "शब्दोपचारात्तद्रूपं रूपके कैश्चिदुच्यते। ताद्रूप्यारोपतश्चान्यैः शब्दारोपोऽत्र कथ्यते ॥ उपमानगुणैस्तु ल्यारूपमेयगतान् गुणान्। पश्यतां तु सकृद्भाति तत्र तच्छब्दरूपता ॥।" इति। तत्रेति। उपमेये इत्यर्थः । तच्छब्दरूपतेति। उपमानशब्दारोप उपमानरूपारोपश्च । तस्य च रूपकस्य द्विप्रकारता। स्वकण्ठेन सकलरूपणाभिघानादेक: प्रकारः । तदुक्तम्-'बन्धस्तस्य यतः श्रुत्या तेन तत्समस्तवस्तु- विषयम्' इति। श्रुतिर्निरन्तरार्थनिष्ठोभिघाव्यापारस्तयोदाहरणं 'ज्यो- त्साम्बुना' इत्याद्युक्तम्। शारितं शबलितम्। अत्र हि सर्वेषामेव रूप्य- न्द त्वेनोपाचानां ज्योत्सेन्दुतारारात्रिव्योम्नां यथाक्ममम्वुकुम्भकुसुमकन्यो-

Page 25

१४ काव्यालक्कारसार-

द्यानानि रूपकत्वेन स्वकण्ठेनोपात्ानि, न त्वर्थाक्षिप्कस्यचिद्रपणम्। तेन श्रुत्यैवात्र रूपणा। अतः समस्तवस्तुविषयत्वम्। समग्राणि द्वन्र रूप्यत्वेनाभिमतानि वस्तूनि स्वकण्ठेनोपात्तस्य रूपकस्य विषयः । अयमसावेक: प्रकारः । यत्र तु किंचित्सकण्ठेन किंचिच्चार्थाद्रूपणं भवति, तत्र श्रुत्यर्थाभ्यां रूपणादपरः प्रकारो भवति । तत्र चैकदेशविवर्तित्वम्, एकदेशविशे- षेण स्वकण्ठोत्त्या वर्तनात्। तदुक्तं 'यतश्र श्रुत्यर्थाभ्यां तस् बन्धस्तेन तदेकदेशविवर्ति च' इति। तस्योदाहरणम्- उत्पतद्धिः पतद्ध्िश्च पिच्छालीबालशालिभिः । राजहं सैरवीज्यन्त शरदैव सरोनृपाः ।। पिच्छाल्य: पक्षपङ्गयः । राजहंसा रक्तचञ्चुपादा हंसाः । अवीज्य- न्तेति। वीजिर्धातुष्वपठितोऽपि शिष्टप्रयोगात् मिलिखचिक्कविक्षपि- वद्धातुतया द्रष्टव्यः । अत्र द्वे रूपणे स्वकण्ठेनाभिहिते पिच्छालीबाल- शालिभिरिति सरोनृपा इति च। तथा हि एकत्र पिच्छाल्यो वालरू- पत्वेन रूपिताः, अपरत्र तु सरांसि नृपरूपत्वेन । राजहंसानां चामर- रूपत्वेन रूपणा अर्थाक्षिप्ता, शरदश्च प्रकृताया नायिकात्वेन । शरन्ना- यिकया कर्तृभूतया राजहंसचामरैः पिच्छालीवालशालिभिः सरोनृपा वीज्यन्ते स्मेति ह्यन्र वाक्यार्थः । एवमेतौ रूपकस्य समस्तवस्तुविषयै- कदेशविवर्तिलक्षणौ द्वौ प्रकारावु क्तौ । यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र ह्येकस्मिन् रूप्ये समु- च्चयेन अस्यन्ते क्षिप्यन्ते बहूनि रूपकाणि। तदुक्तं-'समस्तवस्तुविषयं मालारूपकमुच्यते'। यद्वेति प्रकारान्तरोपक्षेपार्थः । तस्योदाहरणम्- वनान्तदेवतावेण्यः पाम्थस्त्रीकालशृङ्गलाः । मारप्रवीरासिलता भृङ्गमालाश्चकाशिरे॥

Page 26

उघुवृत्तौ १५

वनान्ता वनैकदेशः । वेण्याः केशपाशाः कालशृङ्गला अन्तकप्र- युक्ता आकर्षणशृङ्कलाः । मारप्रवीरा मन्मथसंबन्धिनो भटाः। अत्र भृङ्कमालानामेव केवलानां रूप्यत्वेनोपात्तानां तिस्त्रो रूपणाः कृताः वनान्तदेवतावेष्य इत्येवमादिना । तेनात्र समस्तवस्तुविषयता, एक- स्मिन् रूप्ये समुच्चयेन बहूनां रूपणानां क्षिप्तत्वात्- एकदेशविवर्ति तु पररूपेण रूपणाद्भवति। तदुक्तं 'एकदेशवृत्ति स्यात्पररूपेण रूपणात्' इति। तस्योदाहरणम्। आसारधाराविशिखैर्नभोभागप्रभासिभिः । प्रसाध्यते स्म घवलैराशाराज्यं बलाहकैः ॥ आसारो वेगवद्वर्षम्। विशिखाः शराः । अत्र प्रसाध्यत इत्ययं शब्द: श्लेषच्छायया द्वयोरर्थयोर्वर्तते भूषणे उपार्जने च। तत्र भूषणं प्रकृतम्। शरत्समयो ह्यत्र प्रस्तुतः । तत्र च शुक्कैर्वलाहकैर्दिशो भूष्यन्ते। यदुपार्जनं तदप्रकृतत्वादत्र परमन्यन्। तस्य च परस्याप्रकृतस्य उपार्जनस्य यत्तद्रपं कारककदम्बकं येन तद्रूपवत्क्ियते नृपविशिखराज्यसंग्रामभू- म्यात्मकं तेनात्र यथाक्रमं बलाहकासारधारादिङ्भोभागानां रूप्यत्वेना- भिमतानां रूपणा विहिता। तेनात्रैकदेशवृत्तित्वम्। एकदेशवृत्तीत्यत्र हि एकदा अन्यदा ईशः प्रभविष्णुयों वाक्यार्थस्तद्ृत्तित्वं रूपकस्याभि- मतम्। विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेश- शब्द एवं व्याख्यातो यथेहास्माभिर्निरूपितः । तत्र विशेषोक्तिल- क्षणम्-"एकदेशस्य विगमे या गुणान्तरसंस्तुतिः । विशेषप्रथना- यासौ विशेषोक्तिर्मता यथा" इति। तेनात्र विशेषोक्तिलक्षणवदेकदेश- शब्देन अन्यदा प्रभविष्णुर्वाक्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभवि- ष्णूपार्जनम्। अप्रकृतं दि तत्र श्लेषवशेनात्र नीतं, तेनात्रैकदेशवृच्तिता॥

Page 27

१६ काव्यालक्वारसार-

दीपकम्- आदिमध्यान्त विषयाः प्राधान्येतरयोगिनः । अन्नर्गतोपमाधर्मा यत्र तद्दीपकं विदुः॥ यत्रान्तर्गतोऽर्थसामर्थ्यावसेयत्वादुपमानोपमेयभावो येषां तथाविधानां धर्माणामुपनिवन्धस्तत्र काव्यदीपकं भवति। तथाविधकाव्यविषयत्वाच्च दीपकस्य तत्काव्यं दीनकमित्युपचारात्सामानाधिकरण्यम्। अत्र च धर्माणामेकवारमुपनिबन्धो द्रष्टव्यः । असकृदुपादाने हि तेषां प्रतिव- स्तूपमां वक्ष्यति। अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानोपमेयभावेन अवस्थितौ वाक्यार्थौ बहवो वा तथाविधास्तदुद्दी- पनहेतुत्वाद्दीपकता। यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेना- त्रोपनिबन्धस्तावद्वलात्प्राधान्येतरयोगित्वमापतति । उपमेयस्य प्राधा- न्यादुपमानस्य च तादर्थ्येन गुणभावात्। एवं च प्राधान्येतरयोगिन इत्ययमत्रानुवादः । प्राप्तार्थत्वात् । प्राधान्यं च इतरच्चाप्राधान्यम्। ताभ्यां योग: संबन्धो विद्यते येषां ते तथोक्ताः । अस्य च दीपकस्य त्रैविध्यम्, तेषां धर्माणामादिमध्यान्तवाक्यवि- षयत्वेनोपनिबन्धात् । तदुक्तम् 'आदिमध्यान्तविषयाः' इति। तत्रादिदीपकस्योदाहरणम्- संजहार शरत्काल: कदम्बकुसुमश्रियः । प्रेयोवियोगिनीनां च निःशेषसुखसम्पदः ॥। अत्र संहरणात्मा धर्मः कदम्बकुसुमशोभाकर्मकत्वेन विरहिणीसु- खसम्पत्कर्मकत्वेन च उपनिबध्यमानोऽन्तर्गतोपमः । शरत्समयस्योप- वर्ण्यमानतया कदम्बकुसुमश्रीसंहारस्य प्राकरणिकार्थनिष्ठत्वाद्विरहिणी- सुखसंपत्संहारस्य चाप्राकरणिकार्थविषयत्वात्। तेनात्रान्तर्गतोपमत्वम्, यथा प्रेयोवियोगिनीनां निःशेषाः सुखसम्पदः संजहार तथा कदम्ब-

Page 28

लघुवृत्तौ १७

कुसुमश्रियोऽपीति। शरत्कालशब्दस्य चात्र शरत्समयः श्लेषच्छायया अन्तकानुरज्जितो वाच्यः । संहारस्यान्तककर्मत्वात्। अत्र च प्रथम एव वाक्ये संजहारेत्यस्योपनिबद्धस्य द्वितीयवाक्ये अनुषङ्गच्छायया उपजीव्यमानत्वादादिदीपकत्वम्। मध्यदीपकस्योदाहरणम्- विदेशवसतिर्यातपतिकाजनदर्शनम्। दुःखाय केवलमभूच्छरच्चासौ प्रवासिनाम् । यातपतिकाः प्रोषितभर्तृकाः । शरदः प्राकरणिकत्वाद्विदेशवसति- यातपतिकाजनदर्शनयोश्चाप्राकरणिकत्वादत्रान्तर्गतोपमता। अत्र च यातपतिकाजनदर्शनं दुःखाय केवलमभूदिति मध्यमे वाक्ये प्रवासि- दुःखैकहेतुत्वलक्षणो धर्म उपात्तः सन्नाद्यन्ताभ्यां वाक्याभ्यां पूर्ववदुप- जीव्यते। तेन मध्यदीपकता। अन्तदीपकस्योदाहरणम्- तदानीं स्फीतलावण्यचन्द्रिकाभरनिर्भरः । कान्ताननेन्दुरिन्दुश्च कस्य नानन्दकोऽभवत्।। तदानीं शरत्समये। अत्र इन्दुः प्राकरणिकः शरत्समयस्य उप- वर्ष्यमानत्वात्। कान्ताननेन्दुस्त्वप्राकरणिकः । अन्ते च सर्वसुख- हेतुत्वमुपनिबद्धं सत् पूर्वत्र उपजीव्यते। तेनात्रान्तदीपकता। एव- मेतद्दीपकं लक्षितमुदाहतं च।। ननु उपमाया 'उपमा दीपकं च' इति पूर्वमुद्दिष्टत्वात् यथोद्देश- लक्षणमिति न्यायात्तस्या एव पूर्व लक्षणं कर्तव्यम्, पश्चात्तु दीप- कस्य। तत्कथमादौ दीपकं लक्षितमिति वक्तव्यम्। उच्यते। अनेन ग्रन्थकृता स्वोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोप- २ काव्या०

Page 29

१८ काव्यालक्कारसार-

न्यस्तः । तत्र पूर्व दीपकस्योदाहरणानि। तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः परित्यक्तः । उद्देशस्तु तथा न कृतो वृत्तभञ्गभयात्। एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसारणसमाघिर्वाच्यः ॥ उपमा- यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत् ।। यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति। सदृशादिपदाश्लेषादन्यथेत्युदिता द्विघा। संक्षेपाभिहिताप्येषा साम्यवाचकविच्युतैः । साम्योपमेयतद्वाचिवियोगाच् निवध्यते।। उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्। क्वचित्समासे तद्वाचिविरहेण क्वचिच सा।। तथोपमानादाचारक्यच् प्रत्ययवलोक्तितः । क्कचित्सा कर्तुराचारे क्यडा सा च क्किपा क्वचित्।। उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिगतः । तद्वाच्या सा वतिना च कर्म सामान्यवचनेन ।। षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये। कल्पप्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः॥ सादृश्यसंबन्धित्वेनोपादीयते यत्प्राकरणिकं तदुपमेयम्। न खलु प्राकरणिकस्यापि सादृश्यसंबन्धित्वेन अनुपादीयमानस्योपमेयता, यथा राज्ञः पुरुषमानयेत्यत्र पुरुषस्य। पुरुषो ह्यत्रानीयमानत्वेन चोद्यमान- त्वात्सत्यपि प्राकरणिकत्वे सादृश्यसंबन्धित्वेनानुपादीयमानत्वान्नोष- मेयः । सत्यपि च सादृश्यसंबन्धित्वेनोपादाने यस्य प्राकरणिकत्वं

Page 30

लघुवृत्तौ १९

नास्ति तस्योपमानत्वं, न तूपमेयत्वमिति प्राकरणिकमित्युक्तम्। तदेवं सादृश्यसंबन्धित्वेनोपादीयमानं यत्प्राकरणिकं तदुपमेयम्। तद्धय्ुप- मानेन सादृश्यप्रतिपादनद्वारेण समीपे क्षिप्यते तस्मादुपमेयम् । अप्राकरणिकं तु तथाविधमेवोपमानम्। तयोरुपमानोपमेययोर्यत्सा- धम्ये समानो धर्मः तेन धर्मेण संबन्धो यः सा उपमानोपमेययोः सादृश्यद्वारेण सामीप्यपरिच्छेदहेतुत्वादुपमा। तस्याश्चालङ्काराधि- काराच्चेतोहारित्वं लब्धमेव। काव्यशोभावहानां धर्माणां गुणव्यतिरि- क्तत्वे सत्यलङ्कारत्वात्। गुणाः खलु काव्यशोभाहेतवो धर्माः । ते च माधुर्यौजःप्रसादलक्षणाः । येषां तु गुणोपजनितशोभे काव्ये शोभा- तिशयहेतुत्वं तेऽलद्काराः। यदवोचद्ट्टवामनः-'काव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलङ्काराः' इति तेनालङ्कार- त्वादेवोपमायाश्चेतोहारित्वं लब्धम्। अतश्चेतोहारीत्यनुवादः । प्राप्तार्थत्वात्। उपमानोपमेयभावश्च नात्यन्तं साधर्म्येण उपादाने सति भवति गौरिवायं गौरिति। अत उक्तं मिथोविभिन्नकालादि- शब्दयोरिति। कालादयोSत्र शब्दप्रवृत्तिनिमिच्तभूता विवक्षिताः । केषांचित्खलु शब्दानां सार्थे प्रवर्तमानानां काल: प्रवृत्तिनिमित्तम्, यथा वसन्तादीनाम्। केषांचित्तु दिक्, यथा प्राच्यादीनाम्। केषां- चिज्जातिर्यथा गवादीनाम्। शुक्कप्रभृतीनां तु गुणः । गच्छत्यादीनां किया। राजपुरुषादीनां स्वस्वामिभावादिः संबन्धः । एवमन्यदप्यनु- सर्तव्यम्। मिथः परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता ययोः शब्दयोस्तथाविधौ शब्दौ वाचकौ ययोरुपमानोपमेययोरिति बहुत्रीहिगर्मो बहुब्रीहिः। गौरिवायं गौरित्यभिधाने तु न प्रवृत्ति- निमित्तमेदः । गोत्वस्यैवैकस्य प्रवृत्तिनिमित्तत्वात्। तेन एवंविध उप-

Page 31

२० काव्यालङ्कारसार-

मानोपमेयभावो न भवति। 'उपमा तु तत्' इत्यत्र वाक्ये तुशब्दो- Sलङ्कारान्तरे व्यतिरेके। उपमा पुनरे वंप्रकारेत्यर्थः । एषा चोपमा द्विधा, पूर्णा लुप्ता च । पूर्णा यत्र चतुष्टयमुपादीयते उपमानमुपमेयं तयोश्च साधारणो धर्मः सौन्दर्यादिरुपमानोपमेयभावस्य द्योतक इवादिः । सा च पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेय- त्वात्। तत्र वाक्यावसेयायाः श्रौतत्वार्थत्वमेदेन द्वैविध्यम्। अव्य- यावसेया श्रौती। अन्ययं हि लुप्तविभक्तिकत्वेन उपमानोपमेययोरे-

यथायोगं कर्मकरणभावात्मकं संबन्धमवद्योतयति। अतस्तत्र श्रौती उपमा। तदुक्तम्-'यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति' इति। यथेवशब्दौ चात्रोपलक्षणम्। अव्ययान्तरादपि वाशब्दादेः तेन रूपेण उपमानोपमेयभावस्यावगतेः । यथा- तां जानीया: परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्। गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पझ्मिनीं वान्यरूपाम् । तत्र यथाशब्दयोगे तस्या उदाहरणम्- क्षणं कामज्वरोत्थित्यै भूयः संतापवृद्धये। वियोगिनामभूचचान्द्री चन्द्रिका चन्दनं यथा। अत्र चान्द्री चन्द्रिका उपमेया। चन्दनमुपमानम्। कामज्वरो- त्थितिहेतुत्वं संतापवृद्धिनिबन्धनत्वं चानवस्थितं साधारणो धर्मः । यथाशब्दश्चाव्ययत्वेन लुप्तविभक्तिकत्वादुपमानोपमेययोरेकतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति । तेनेयं संपूर्णा श्रौती च। एवमिवशव्दयोगेऽप्युदाहरणं योज्यम्।

Page 32

लघुवृत्तौ· २१

नेत्रैरिवोत्पलै: पद्मैर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः सतनैरिव ॥ एवमियमव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता । या तूपमा सदृशादिभि: पदैः ्लिष्टा तस्यां न श्रौतेन रूपेण उभयानुयायितया उपमानोपमेयभावोऽवगम्यते, अपि त्वर्थात् 1 सदृशादीनां पदानामुपमानोपमेययोरेकत्रैव विश्रान्तेः । अन्यत्र च तद्गतसादृश्यपर्यालोचनया तत्संबन्धित्वावगतेः । तेनासौ आर्थी। तदुक्तं 'सददशादिपदाक्षेषादन्यथा' इति। अन्यथेति। अश्रौतेन रूपेणेत्यर्थः । तस्या उदाहरणम्- प्रबोधाद्धवलं रात्रौ किञ्जल्कालीनषद्दम्। पूर्णेन्दुबिम्बप्रतिममासीत्कुमुदकाननम्।। अत्र कुमुदकाननं विकसितं किञ्जल्कालीनषद्दत्वविशिष्टमुप- मेयम्, पूर्णेन्दुबिम्चमुपमानम्, धवलत्वं साधारणो धर्मः । प्रतिमा- शब्द उपमानोपमेयभावावगतिहेतुः । स च उपमाने विश्रान्तः । तथाहि। पूर्णेन्दुबिम्बं प्रतिमा प्रतिबिम्वं सद्दशमस्येति बहुव्रीहिरत्र क्रियते। तेन प्रतिमाशब्द उपमाने विश्रान्तः। तेन चोपमाने विश्रान्तेनाप्ि अर्थादुपमेयस्य सादृश्यमवगम्यते। सादृश्यस्योभयाधि- ष्ानत्वात्। यदापि च पूर्णेन्दुविम्बेन प्रतिममिति तृतीयाततपुरुषस्त- दाप्युपमेये स्वकण्ठेनाभिहितं सादृश्यम्। उपमाने च तस्यार्थात्प्रति- पत्तिः। अतो. बहुत्रीहौ उपमानगतसादृश्यपर्यालोचनया उपमेयत्वम- वगम्यते। तत्पुरुषे तु उपमेयवर्तिसादृश्यविचारेण उपमानस्योप- मानत्वावयतिरित्यार्थोSत्रोपमानोपमेयभावः । अत्र च उपमेयवर्ति- किञ्जल्कालीनषट्रपदत्वाभिधानसामर्थ्यादपरमपि साधर्म्यमनभिहितम-

Page 33

२२ काव्यालक्कारसार-

सितोदरत्वलक्षणमाक्षिप्तम्। यथा पूर्णेन्दुबिम्बं शशलाञ्छनत्वादसि तोदरमेवं कुमुदकाननमपि किल्जल्कालीनषद्दत्वादिति। अतोऽसि- तोदरत्वलक्षणं धर्ममपेक्ष्य लुस्तैकदेशत्वाल्लुप्तापीयमुपमा। 'नेत्रैरिवोत्पलैः' इत्यादौ तु यद्यपि नेत्रोत्पलादीनां समानधर्मा दीर्घत्वनीलत्वादयः स्वशब्देन नोपात्तास्तथापि भान्तीत्यभिधीयमानार्थे तेषामनुप्रवेशात्सं- पूर्णत्वमेवोपमायाः, चतुष्टयोपलम्भात्। नेत्रादीनि ह्यत्रोपमानानि। उत्पलादीन्युपमेयानि। भानं दीर्घत्वनीलत्वादिविशेषणपर्यन्तं साधा- रणो धर्मः । इवशब्दश्च उपमानोपमेयभावावगतिहेतुः । तेनेयमुपमा- संपूर्णैव प्रबोधाद्धवलमितीयं त्वसितोदरत्वापेक्षया लुप्तत्वेनाप्युक्ता। समासोपमा चैषा पूर्णेन्दुबिम्बप्रतिममिति समासस्य विहितत्वाद्। यदा त्वत्र वाक्योपमा विवक्षिता भवति तदैतदेवोदाहरणं तदुदाहर- णार्थत्वेन 'अखण्डेनेन्दुना तुल्यमासीत्कुमुदकाननम्' इत्येवं परिण- मयितव्यम् ।। एवमेषा संपूर्णा वाक्यावगम्या द्विविघोपमा प्रतिपादिता श्रौती आर्थी च। समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्त्ता ।। या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतत्वार्थत्व- भेदेन। तत्र तस्येवेत्यनेन हि यो वतिर्विधीयते तस्य इवार्थे विधी- यमानत्वादिवशब्दवच्छौतेन रूपेण उभयानुयायितया उपमानोपमेय- भावावगतिनिबन्धनत्वम्। यः पुनस्तेन तुल्यमिति तुल्यार्थे वतिर्विघी- यते ततो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदघीते क्षत्रिय इत्युपमेये यत्त- दध्ययनक्रियाद्वारेण विश्रान्तं तुल्यत्वं तत्पर्यालोचनया अर्भादुपमान- स्योपमानत्वमवगम्यते। तेनार्थस्तत्र उपमानोपमेयभावः। तदुक्तम्- 'वतिना च कर्मसामान्यवचनेन । पष्ठीससम्यन्ताच यो वति-

Page 34

लघुवृत्तौ २३

र्नामतस्तदभिघेये' इति । कर्मसामान्यवचनो वतिः 'तेन तुल्यं क्रिया चेद्वतिः' (पा. अ. ५. १. ११५.) इति क्रियातुल्यत्वेऽ- मिघानात्। तेन चाभिघीयते उपमा। वाच्येति पूर्वोपकान्तमत्रानु- षज्यते। षष्ठयन्तात्सप्तम्यन्ताच्च नामतो नाम्नः प्रातिपदिकादिति संबन्ध: ।। तत्र पूर्वस्या उदाहरणम्- अपि सा सुमुखी तिष्ठेद्टृष्टेः पथि कथंचन । अप्रार्थितोपसंपन्ना पतितानभ्रवृष्टिवत् ।। अप्रार्थितोपसंपन्ना दृष्टे: पथि कथंचन पतिता तिष्ठेदिति संबन्धः अन्रानभ्रवृष्टिरुपमानम्, सुमुखी उपमेया। अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः । वतिश्च क्र्क्कियातुल्यत्वे विघीयमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः सस्तुल्य- त्वंपर्यालोचनयोपमानस्योपमानत्वमवगमयति । ततोSत्रार्थादुपमानोप- मेयभाव: प्रतीयते। तेनेयं संपूर्णा आर्थी च तद्धितावसेया। द्वितीयस्या उदाहरणम्- किं स्युरुत्कलिका मद्दत्तस्या अपि निर्रर्गळाः । अकाण्डोड्डामरानक्गहृतकेन समर्थिताः ॥ अकाण्डोड्डामरोऽनवसरे उद्भटः । 'प्रचण्ड' इति पाठान्तरम्। उत्कलिकाः उत्कण्ठाः । अन्रास्मदर्थ उपमानम्। तच्छब्दार्थ उप- मेयः । मन्मथेन समर्पिता यास्ता निरर्गलाः उत्कलिकास्तत्कर्तृकं भवनं साधारणो धर्मः । वतिश्चेवार्थे विधीयमानत्वादिवशब्दवदुप- मानोपमेययोरेकतरत्राप्यचिश्रान्तः श्रौतेन रूपेणोपमानोपमेयभावमेष य्योतयति। तेनेयं संपूर्णा श्रौती च तद्धितावसेया। अत्र तु तस्या

Page 35

काव्यालक्कारसार-

अपीति पाठे षष्ठयन्ताद्वतिर्विधेयः। यदा तु तस्यामपीति पाठखदा सप्तम्यन्तात् । यदुक्तम् 'उपमाने यः संशयः स उपमेयाद्यावर्तत इति। एवमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिविधोपमा प्रति- पादिता। तत्र च वाक्यतद्धितावसेययोरुपमयोः प्रत्येकं श्रौतत्वार्थ- त्वभेदेन द्वैविध्यमुक्तम्। समासावसेयायास्त्वार्थत्वमेव। अतः पश्च प्रकारैषा संपूर्णा। या तु लुप्तैकदेशत्वाल्लुप्ोपमा सा संक्षेपोपमा। तस्याश्च पञ्चविघत्वं वाक्यसमाससुब्धातुकृत्तद्धितावसेयत्वात्। तत्र वाक्ये या संक्षेपोपमा सा पूर्वमुदात्हता 'अखण्डेनेन्दुना तुल्यमिति'। अत्र ह्वसितोदरत्वस्य अनुपात्तत्वात्साधारण घर्मानुपादानाल्लुप्तैकदेशत्वमपि विद्यते। समासावसेया पुनः संक्षेपोपमा त्रिविधा। एकद्वित्रिलोपे भावात्-। एकलोपे द्विविधा, साधारणधर्मवाचिन इवादेर्वानुपादानात्। तदुक्तं 'साम्यवाचकविच्युते'रिति । 'तद्वाचिविरहेणे'ति च । साम्य- वाचकः साधारणधर्मवाची । (साधारणधर्मः) सौन्दर्यादिः।- तद्वाची उपमानोपमेयभाववाची च इवादिः। अन्र च सर्वत्र प्रकरणे 'संक्षेपाभिहिताप्येषा' इति, 'कचित् समास' इति, 'निबध्यत' इति च त्रयं प्रत्येकं यथोपयोगमनुषज्यते। तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्याः पूर्वमेवो- दाहरणमुक्तं 'पूर्णेन्दुबिम्बप्रतिममि'ति। अत्र ह्यसितोदरत्वमर्थसाम- धर्याबसेयत्वाच्छब्देन नोपात्तम्।। इवादिवियोगे तु तस्या उदाहरणम्- इति काले कलोल्लापिकादम्बकुलसहुले। त्रिदशाघीशशार्दूलः पश्चात्तापेन धूर्जटिः ॥ तां शशिच्छायवदनां नीलोत्पलदलेक्षणाम्। सरोजकर्णिकागौरीं गौरीं प्रति मनो दधौ।।

Page 36

लघुवृत्तौ २५ कादम्बाः पक्षिमेदाः। सरोजकर्णिकागौरीं गौरीमित्यत्र सरोज- कर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः । तच्च त्रयं स्वकण्ठेनोपात्तम्। इवाद्यर्थस्तु उपमानस्य साधारणधर्मवाचिना सह "उपमानानि सामान्यवचनैः" (पा. अ. २.१. ५५) इति यः समासस्तत्सामर्थ्यादवगम्यते। तेनेयमिवादिशव्दलोपाल्लस्तैकदेशा । एवमेकलोपे सति द्विविघा समासोपमोक्ता। द्वितयलोपे त्वेकप्रकारा भवति, साधारणधर्मवाचिन इवादेश्च युगपदप्रयोगात्। तदुक्तं 'उपमानोपमेयोक्तौ साम्यतद्वाचिविच्य- वात्'। अत्र साम्यशब्देन साम्यवाची शब्दो लक्ष्यते। साम्यविच्य- वाच्चोपमाया असंभवात्। तस्या उदाहरणं 'त्रिदशाघीशशार्दूल' इति, 'नीलोत्पलदलेक्षणम्' इति च। 'त्रिदशाधीशशार्दूलः' इत्यत्र च त्रिदशापीश उपमेयः, शार्दूल उपमानम् । तच्च द्वयं स्वकण्ठेनोपात्तम्। इवाद्यर्थः साधारणश्च धर्मस्तेजस्वित्वादिः सामर्थ्यादवसीयते। 'नीलो- त्पलदलेक्षणाम्' इत्यत्र तु नीलोत्पलपलाशानामुपमानत्वं, ईक्षणयोरुप- मेयता। एतयोश्च स्वकण्ठेनोपादानम्। नीलत्वदीर्घत्वादिसाधारणो धर्म इवादयर्थश्च उपमानोपमेयभावात्मकः खवशब्देन अनुपात्तोऽपि समासवशेनार्थसामर्थ्यादवसीयते। 'त्रिदशाघीशशार्दूल' इत्यस्मातु 'नीलोत्पलदलेक्षणामि'त्यस्य बहुव्रीहित्वकृतो विशेषः । तत्र हि "उपमितं व्याघ्रादिभिः" इति तत्पुरुषो विहितः । एवमेषा साधा- रणधर्मवाचिन इवादेश्चाप्रयोगात् द्वितयलोपे समासे संक्षेपोपमोक्ता। त्रितयलोपे तु साधारणघर्मवाचिन उपमेयाभिघायिन उपमानो- पमेयभाववाचिनश्र इवादेर्युगपदप्रयोगात्समासवर्तिनी संक्षेपोपमा भवति। तदुक्तं "साम्योपमेयतद्वाचिवियोगाच्च" इति। अत्रापि पूर्ववत्साम्योपमेयशब्दाभ्यां तद्ाची शब्दो लक्ष्यते। तस्या उदाहरणं

Page 37

२६ काव्यालहारसार-

"शशिच्छायवदनामि"ति। अत्र हि शशिच्छायातुल्या छाया यस्य तथाविधं वदनं यस्या इति बहुव्रीहिगर्मे बहुब्रीहौ शशिकान्तिरुपमानं, वदनकान्तिरुपमेया। तयोश्च साधारणो धर्म आहादकत्वादिस्तुल्यत्वं चेति चतुष्टयमवगम्यते । शब्दस्पृष्टं तूपमानमेव शशिच्छायेति। तदितरस्योपमेयादेस्त्रितयस्य समाससामर्थ्येनार्थावसेयत्वात्। पवमेषा त्रितयलोपे समासवर्तिनी संक्षेपोपमा उदाहता। तदेवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता। एकलोपे द्वे, द्वितयलोपे एका, त्रितयलोपे चैकेति। सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा क्यच् क्यङ् किप् प्रत्य- यावसेयत्वात्। क्यचूपरत्ययावसेयापि त्रिविधा कर्मोपमानकत्वादवि- करणोपमानकत्वाच्। तदुक्तं "तथोपमानादाचारे क्यच्प्रत्यय- वलोक्तितः" इति। यथा समासे संक्षेपाभिहिता उपमा समास- सामर्थ्यादवगम्यमाना निवध्यते तथा कसििश्चिद्विषये उपमानात्कर्मणः अधिकरणाद्वा आचारार्थे यथाक्रमं सौत्र औपसंख्यानिकश्च यः क्यच्प्रत्ययस्तद्लेन यासौ भणितिस्तत्सामर्थ्यादप्यवसीयमाना निब- ध्यते। तस्या उदाहरणं- स दुःस्थीयन् कृतार्थोऽपि निःशेषैश्वर्यसंपदा। निकामकमनीयेऽपि नरकीयति कानने ।। निःशेषैश्वर्यसंपदा कृतार्थोऽपीति संबन्धः । अत्र दुःस्थमिवात्मान- माचरन्निति दुःस्थः कश्चिद्दारिद्याद्युपन्कुत उपमानं, भगवदात्मा उप- मेयः, आचाराख्यः साधारणो धर्मः क्यच्पत्ययोपातः । अत्र चोप- मानसाधारणधर्मयोः शब्दस्पृष्टत्वं। उपमेयस्य उपमानोपमेयभावस्य च सामर्थ्यादवगतिः । तेनेयं द्वितयस्य गम्यमानार्थत्वाद्वितयलोपे सति सुब्धातूपमा । एवमियं कर्मोपमानिका सुब्धातूपमा उदाहता।

Page 38

लघुवृत्तौ २७

अधिकरणोपमानिका तु 'नरकीयति कानने' इति। अत्र नरक उपमानम्, काननमुपमेयम्, क्यच्प्रत्ययोपात्तस्त्वाचारः साधारणो धर्मः । इवादयस्तु क्यच्प्रत्ययसामर्थ्येनोपमानोपमेयभावस्यावसेयत्वाद- प्रयुक्ताः । तेनेयं एकलोपे सति सुब्धातूपमा । एवमेषा क्यच्पत्यया- चगम्या द्विविधा संक्षेपोपमोक्ता । क्यङप्रत्ययसामर्थ्यावगम्या तु कर्द्ुपमानिका संक्षेपोपमा भवति। तदाह "कर्तुराचारे क्यडा से"ति, "तथे"ति, "उपमानादा- चार" इति। क्वचिदिति च पूर्वोक्तस्यात्रानुषङ्गः। कर्तुरुपमानादुत्त- रेणाचारविषयेण क्यडा सा संक्षेपोपमा क्वचिन्निबध्यत इत्यर्थः । तस्या उदाहरणम्- कृशानुवज्जगत्तस्य पश्यतस्तां प्रियां विना। खद्योतायितुमारब्धं तत्त्वज्ञानमहामहः ॥ खद्योतो ज्योतिर्मालिका। अत्र खद्योतायितुमित्यादौ खद्योत उपमानम्। तत्त्वज्ञानं पदार्थस्वरूपयाथातथ्यपरिच्छेदः, तदात्मकं यत्तन्महदुत्कृष्टं महस्तेजस्तदुपमेयम्। क्यङ्प्रत्ययोपात्तश्राचारः साधा- रणो धर्मः । क्यङ्प्रत्ययसामर्थ्यावसेयत्वाच्चात्रेवादेरप्रयोगः । तेनेय- मेकलोपेन सुब्धातूपमोपनिबद्धा। क्वचित्तु विषये कर्त्रुपमानिका सा संक्षेपोपमा ककिपा निबध्यते। स च किपू "सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः" इत्यनेन विधीयते। तदुक्तं "सा क्किपा क्वचिदि"ति। अत्रापि तथेति, उपमानादाचार इति, कर्तुरिति च त्रयमनुषज्यते। तस्या उदाहरणम्-"कृशानु- वज्जगदि'ति। कृशानुशब्दादाचारक्किबन्ताच्छतरि रूपम्। अत्र कृशानुरुपमानम्, जगदुपमेयम्, आचारश्र साधारणो धर्मः किप्- Srinagar

Page 39

२८ काव्यालङ्कारसार-

सामर्थ्यादवगम्यते। अत्र चोपमानोपमेययोः शब्दोपात्तत्वादिवांदी- नामाचारस्य च अर्थसामर्थ्यावसेयत्वात्तद्वितयलोपः । न खल्वश्रूयमा- णस्य क्विपोऽर्थाभिधायिता वक्तुं शक्या। एवमेषा सुब्धात्ववसेया त्रिविधा संक्षेपोपमा प्रतिपादिता। क्यच्क्यङ्क्किपप्रत्ययावसेयत्वाद्। क्यच्प्रत्ययसामर्थ्यावसेया तु द्विविधा। कर्माधिकरणोपमानकत्वात्।' क्यप्प्रत्ययावसेया त्वेकप्रकारा। किपप्रत्ययावसेयाप्येकप्रकारैव भवति। तदेवमेषा चतुर्विधा सुब्धातुप्रत्ययावसेया संक्षेपोपमोक्ता। कृत्प्रत्ययसामर्थ्यावसेया संक्षेपोपमा द्विविधा, कर्मोपमानिका कर्त्ुपमानिका च। तदुक्तं 'उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिगतस्तद्वाच्या से'ति। कषादिगतः कषाद्यनुप्रयोगक इत्यर्थः । कर्मोपमानिकायास्तस्या उदाहरणम्- तस्येतरमनोदाहमदहत्प्रज्वलन्मनः । उमां प्रति तपःशत्त्याकृष्टबुद्धे: स्मरानल: ॥ अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवन्मन उपमेयं, दह्यमानत्वं साधारणो धर्मः । तच्च त्रयं शब्दस्पृष्टम्। उपमानोपमेय- भावस्त्वत्र णमुलसामर्थ्यादिवादीनामप्रयोगेऽपि गम्यते। तेनेयमेक- लोपे संक्षेपोपमा कर्मोपमानिका कृत्प्रत्ययावसेया। कर्त्रुपमानिकायास्तु तस्या उदाहरणम्- स दग्धविग्रहेणापि वीर्यमात्रस्थितात्मना । स्पृष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत्॥ विग्रहः शरीरम्। अत्र सामान्यभूतः प्राणी गुणातिशयशून्य उपमानं, तच्छब्दनिर्दिष्टश्च भगवानुपमेयः, चिन्तयितृत्वं साधारणों धर्मो, णमुलसामर्थ्याच्च इवादेरप्रयोगेऽप्युपमानोपमेयभावावसायः ।

Page 40

उघुवृत्तौ २९

तेनेयमेकलोपे सति कर्त्रुपमानिका संक्षेपोपमा कृत्प्रत्ययावसेया। एवमेषा कृत्प्रत्ययावसेया संक्षेपोपमा द्विविधा प्रतिपादिता । या तु तद्ितसामर्थ्यावसेया वतिशब्दादवगम्यते, सा संपूर्णत्वा- न्पूर्वमुक्ता। अन्या त्वसंपूर्णा कल्पवादेः तद्धितस्य प्रयोगादवसीयते। तदुक्तं 'कल्पप्प्रभृतिभिरन्यैश्च तद्धितैः सा निवध्यते कविभिः' इति। प्रभृतिशब्देनात्र 'इवे प्रतिकृतौ' इत्यादिविहितानां कनादीनां परिग्रहः । तस्या उदाहरणम्- चण्डालकल्पे कन्दर्पपुष्टा मयि तिरोहिते। संजातातुलनैराश्या किं सा शोकान्मृता भवेत् ॥ अत्र चण्डाल उपमानं, मयीत्यस्मदर्थ उपमेयः, कल्पप्प्रत्ययेन च सादृश्यमुपात्तम्। प्रकृत्यर्थसद्ृशेऽर्ये भगवत्कात्यायनद्दशा कल्प- बादीनां विधानात् क्रौर्यादिस्तु धर्मः सवशब्दानुपात्तोऽपि सामर्थ्याद- त्रावसीयते। तेनेयमेकलोपे सति तद्धितावगम्या संक्षेपोपमा। एवम- श्वक इत्यत्रापि द्रष्टव्यम् । इवार्थोपलक्षिते सदृशे कनो विधानात्। आयःशूलिक इत्यादौ तु त्रितयलोपेन तद्धितसामर्थ्यादुपमावसायः । तथाहि, अत्रायःशूलेनान्विच्छतीति विगृह्य "अयःशूलदण्डाजिना- भ्या"मिति ठग्विधीयते। अत्र चायःशूलमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः, तीक्ष्णत्वादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते। तन्मध्यात्खशब्दस्पृष्टमुपमानमयःशूलेनेति। शिष्टशब्दस्य तु त्रितयस्यात्रार्थसामर्थ्यादवगतिः । ननु चात्रोपमानेनायःशूलेनार्थान्वेषणोपायस्योपमेयस्य तद्भावाध्य- वसानेनापादिता भेदस्य प्रतीयमानत्वादतिशयोक्तिरियं न तूपमा । तत्कथमेतदुपमानोदाहरणम्। उच्यते। यथा 'शशिच्छायवदनाम्'

Page 41

३० काव्यालक्कारसार-

इत्यंत्र सत्यपि शशिच्छायाप्रच्छादितरूपत्वे वदनच्छायाया: कथश्चि द्वेदप्रतिपत्तिपुरःसरीकारेणोपमाभेदत्वमुपन्यस्तं तथात्रापि भविष्यती- त्यदोषः । तेनायःशूलिक इत्यत्र त्रितयलोपे सति तद्धितावसेया संक्षेपोपमा भवति। एवं श्वा मुमूर्षति कूलं पिपतिषतीत्यादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्भावाध्यवसानात्सन्वाच्यया इच्छयोपमानभूतया समापादिताभेदस्य प्रतीयमानस्य मेदावगति- निबन्धनं किश्चिद्विद्यते तदोपमामेदत्वं वाच्यम्। अन्यथा त्वतिशयो- क्तिभेदतास्यावसेया। यदाह सन्विधौ भगवान्कात्यायन :- "आश- क्कायामचेतनेषूपसंख्यानम्" "न वा तुल्यकारणत्वादिच्छाया हि प्रवृत्तित उपलब्धिरि"ति, "उपमानाद्वा सिद्धमिति" च । अत्र हि 'न वा तुल्यकारणत्वादि'त्यादिना तद्भावाध्यवसानं सूचितम् । 'उपमानाद्वा सिद्धमि'ति तूपमानोपमेयभावः प्रतिपादितः । इयं च धातोः सनो विधानात्तदन्तस्य च धातुत्वात्सुब्धातूपमावत् धातुधातू- पमावसेया। एवं वर्तमानसामीप्यादावप्युपमाभेदत्वमतिशयोक्तिमेदत्वं वा यथाप्रतीति योज्यम्। चूर्णिकाकारस्य त्वेवमादौ तद्भावाध्यवसान- समाश्रयेण नातिशयोक्तिभेदत्वमेवेष्टम्। यदाह-"न तिङन्तेनोप- मानमस्ती"ति। अत एव दण्डिना "लिम्पतीव तमोऽद्गानि वर्षती- वाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता" इत्यादेर्गर्भी- कृतातिशयोत्प्रेक्षाभेदत्वमेव महता प्रपञ्चेनाभ्यधायि । तेन कदा देवदत्त आमं गमिष्यसि, एष गच्छामीत्यादावपि वर्तमानसामीप्ये वर्तमानरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्वमेव वा-

१ "धातोः कर्मण०" इत्यादि सूत्रभाष्ये स्पष्टानि एतानि त्रीणि वार्तिकानि। महाभाष्ये अ. ३ पा. १ आ. १

Page 42

लघुवृत्तौ ३१

च्यम्। एवमन्यत्राप्यूह्यम्। एवमेषा वाक्यसमाससुब्धातुकृत्तद्धिताव- सेया संक्षेपोपमा पञ्चविधा प्रतिपादिता। संपूर्णा तु वाक्यसमासतद्धितमेदेन त्रिविधा पूर्वमुक्ता। आसामेव चावान्तरभेदा अन्ये निर्दिष्टाः । तथाहि, संपूर्णयोर्वाक्यतद्धितोपमयोः श्रौतत्वार्थत्वमेदेन प्रत्येकं द्वैविध्यमुक्तम्। संक्षेपोपमायाश्च समासो- पमाया एकद्वयत्रयलोपेन चतुर्विधत्वम्। एकलोपस्य हि तत्र द्वैवि- ध्यमुक्तम्, इवादेः साधारणधर्मवाचिनश्च लोपात् सुब्धातूपमाया- श्रतुर्विधत्वम्, क्यच्क्यङ्क्िप्प्रत्ययावसेयत्वात्। क्यच्प्रत्ययावसेया हि कर्माधिकरणोपमानकत्वेन द्विविधोक्ता। कृत्प्रत्ययावसेयायाश्च कर्तृकर्मोपमानकत्वेन द्विविधत्वम्। तदेवमेषा सप्तदशविधा ग्रन्थकृता उपमा प्रतिपादिता। तदाहु :- कृत्तद्वितसमासेभ्यः सुब्धातोरथ वाक्यतः । पूर्णा लस्तैकदेशा च गम्यते द्विविधोपमा । एकद्वयत्रयाणां च लोपात्स्याल्लोपिनी त्रिधा। पूर्वौ भेदौ द्विघा चात्र तृतीयस्त्वेकरूपकः ॥ इति पूर्वौ भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्वैविध्यम्। द्वितयलोपोऽपि साधारणधर्मवाचीवादिवियोगात्तथा उप- मेयवाचीवादिवियोगाद्विविधः । एषा चोपमा विचित्रभेदत्वे सत्यपि यत्रैव चेतोहारित्वमस्ति तत्रैवालक्कारतां प्रतिपद्यते न सर्वत्रेत्युक्तम्। प्रतिवस्तूपमा- उपमानसंनिधाने च साम्यवाच्युच्यते वुधैर्यत्र। उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता॥

Page 43

३२ काव्यालङ्कारसार-

यत्रोपमानोपमेययोः संनिघाने सायवाचिनः पदम्स्यासकृदुपादानं क्रियते सा प्रतिवस्तूपमा। ननु यदि साम्यवाचिनः पदस्य तत्रास कृदुपादानं क्रियते ततोऽनेकवाक्यत्वमापतति। न चानेकस्मिन् वाक्ये इवादीनि प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामर्थ्यावसित- त्वात्। अतश्चेवादीनामप्रयोगे कथं तत्रोपमानोपमेयभावावसाय इत्या- शङ्गयाह- - प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते। उपमानत्वं चापर इत्युपमावाचिशून्यत्वम् ॥ नानावाक्यत्वादिवादीनामप्रयोगेपि प्राकरणिकत्वाभाकरणिकत्व- पर्यालोचनया अर्थसामर्थ्यादत्रोपमानोपमेयभावोऽवसीयत इत्यर्थः ।

तदाहु :- इवादेरप्रतीतापि शब्दसंस्कारतः क्वचित् । उपमा लक्ष्यतेऽन्यत्र केवलार्थनिबन्धना ॥ इति इह प्रकारत्रयेण उपमायाः प्रतिपत्तिः । कचिदिवादिशब्दसामर्थ्या- दुपमा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ। क्वचित्तु तत्तद्विशिष्टसंस्कारसहायाच्छव्दात्स्ार्थाभिधानमुखेन लक्ष्य- माणायास्तस्याः प्रतिपत्तिः, यथा शस्त्रीश्यामेति। अत्र हि समास- निवन्धनैकपद्यादिसंस्कारसहिताभ्यां शस्त्रीश्यामाशब्दाभ्यां सवार्थाभि- धानव्यवधानेन लक्ष्यमाणोपमा गम्यते। कचित्तूपमानोपमेयनिबन्धन- शब्दसंस्काराभावेऽपि केवलादेवार्थसामर्थ्यात्तस्याः प्रतिपत्तिः, यथा रूपकदीपक प्रतिवस्तूपमादिष्वित्यर्थः । अतश्चास्यां प्रतिवस्तूपमायां केवलेनैवार्थसामर्थ्येनोपमानोपमेयत्वमवगम्यते इत्यदोषः ।

Page 44

लघुवृत्तौ

तस्या उदाहरणम्- विरलास्तादृशो लोके शीलसौन्दर्यसंपदः । निशा: कियत्यो वर्षेऽपि याखिन्दुः पूर्णमण्डलः ॥ विरला: खल्पाः । तादृशः पार्वतीवर्तिन्यो याः शीलसौन्दर्यसंपदः तत्सदृश्यः। शीलं सुखभावता। सौन्दर्य लावण्यम्। अत्र संवत्सर- मध्यवर्तिन्योऽखण्डशशिबिम्बा रात्रयो द्वादश उपमानम्। शीलसौन्द- र्ययोः संभाराः सकललोकोत्कृष्टाः कतिपयजनजुष उपमेयाः । साधा- रणश्च धर्मो विरलत्वम्। तच्चोपमानसंनिधाने कियत्य इत्युपात्तम्। उपमेयसंनिधाने तु विरला इति। इवाद्यनुपादानेऽपि च प्राकरणिकत्वा- प्राकरणिकत्वपर्यालोचनयात्रोपमानोपमेयभावावसायः । तेनेयं वस्तुनि वस्तुनि साधारणोपनिबन्धात्प्रतिवस्तूपमा ।।

संग्रहलघुव्ृत्तौ प्रथमो वर्गः ॥

अथ द्वितीयो वर्गः । आक्षेपोरऽर्थान्तरन्यासो व्यतिरेको विभावना। समासातिशयोक्ती चेत्यलङ्कारान्परे विदु:॥ 'समासातिशयोक्ती चे'त्यत्र समासातिशयशब्दयोरुक्तिशब्दः

आक्षेपः । प्रतिपेध इवेष्टस्य यो विशेषाभिधित्सया। आक्षेप इति तं सन्त: शंसन्ति कवय: सदा ॥ ३ काव्या०

Page 45

३४ काव्यालक्कारसार-

इह काचिद्वक्भणितिस्तथाविधा संभवति यस्यां विधित्सितोऽर्यो निषेधन्याजेन संस्क्रियते, न तु निषिध्यते। तत्र विधित्सितस्यार्थस्य यः प्रतिषेध: क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव। अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात्। अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति। तत्र हि विधित्सितोऽर्थ: पूर्वोपक्रान्तत्वेन स्थेन्नावतिष्ठमानः स्वविरुद्धत्वेन निषेधं निषेघतात्पर्या- त्प्रच्याव्य स्वगतविशेषाभिधानायावान्तरवाक्यार्थीकरोति। अतोऽनन्त- रोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेघ एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञको- डलक्कारः सत्कविभिरभिघीयते। सन्तः कवय इति संबन्धः । तस्य भेदद्वितयोपदर्शनायाह- वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते। वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः । ननु 'प्रतिषेध इवेष्टस्य' इत्याक्षेपलक्षणमुक्तम्। इष्टत्वं चेच्छा- कर्मता। यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति। इष्यमाणं हि कदाचिदुच्यते कदाचिन्न। अतश्चेष्टस्यो- क्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमणोक्तविपयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्याशङ्गचाह- निषेधेनेव तद्वन्धो विधेयस्य च कीर्तित: । विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्य- माणोक्तविषय आक्षेपो निवध्यते। एतदुक्तं भवति-विधानकर्मता- द्वारेणैवात्र इष्टत्वमवसीयते। निबन्धनान्तराभावात्। विधानकर्मता च विधानात्मिकाया उक्ते: कर्मता। साच द्विविघा, आर्थी शाब्दी च।

Page 46

लघुवृत्तौ ३५

यत्र खशब्दव्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेघमुखेनैव विधित्सितोऽर्थोऽवगम्यते तत्रार्थी। तत्र च वक्ष्यमाणविषय आक्षेपः । यत्र तु विधिमुखेनैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी। तत्र चोक्तविषयता आक्षेपस्य। एवं चानन्तरोदितया नीत्या शाब्देनार्थेन च विधिना यदवसितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्म- भूतो योरऽर्थस्तदाश्रयं वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते। तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्- अहो स्मरस्य माहात्म्यं यद्रुद्रेडपि दशेद्दशी। इयदास्तां समुद्राम्भ: कुम्भैर्माने तु के वयम् ॥ अहो इति विस्मये। अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्रतिपादयितुमिष्टम्। तच्च तस्य तथाप्रतिपादनमियदास्तामित्यादिना निषिद्धम्। निषेघश्चात्राभिधेयत्वविरोघात्। अभिधेयत्वेन च विरोघं वक्ति। आनन्त्येन तस्य तथाविधस्य वक्तमशक्यत्वात्। रुद्रेऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूपतया। अतो वक्तुमिष्टानां स्मरमाहात्म्यावस्थाविशेषाणामय- मानन्त्येनाभिधाननिषेध इव नतु निषेध एव। विवक्षितार्थविरोधेनावा- न्तरवाक्यार्थत्वात्। तथाहि, अत्र समुद्राम्भसः कुम्भैर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्व प्रतिपिपादयिपितत्वेन लब्घप्र- तिष्ठानां वाक्यार्थत्वम्। अतश्च तदभिधाननिषेघस्य तद्विरोघादत्रावा- न्तरवाक्यार्थता। न चावान्तरवाक्यार्थो वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः । न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपर- T- ल्ाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम्। अतोऽत्रापि निषेघ-

Page 47

३६ काव्यालक्कारसार-

स्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वमिव न तु निषेघरूपता। स च निषेघोSत्रावान्तरवाक्यत्वात्प्रधानवाक्यार्थानु- गुण्येन प्रवर्तमानः सकण्ठेनाभिघानं मन्मथमाहात्म्यावस्थाविशेषाणां निषेघति, न पुनरर्थसामर्थ्यावसेयमपि। अतश्च समुद्राम्भसः कुम्मै- र्मातुमशक्यत्वमस्मदर्थकर्तृकं स्वकण्ठेनाभिहितं यततत्सादृश्येनावसिते संविज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थ प्रतिषेधव्याजेन विशेषेऽवस्थापयति तस्मादाक्षेपः । अत्र च 'अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेद्दशी' इत्येतच्छब्दव्यापारसहायेन 'इयदास्ताम्' इति निषेधेनैव स्वकण्ठेना- नुपाच्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम्। तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यमेद- प्रतिपादनम्। अतो वक्ष्यमाणविषयता आक्षेपस्य । उक्तविषयस्य तु तस्योदाहरणम्- इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत्। क्क वा कामविकल्पानामन्तः कालस्य चेक्षितः ॥ अत्र चित्रत्वस्योक्तस्योक्तिः क वेति प्रसिद्धत्वादाक्षिप्यते। पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम्, इह तु प्रसिद्धत्वम्। द्वाभ्यामेव च प्रकाराभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च। उक्तंच- "वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य। अन्यत्तथा- त्वसिच्धै यत्र ्ूयात्स आक्षेपः" इति। प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यमुक्तम्। यथा कालस्यान्तो नेक्ष्यते तद्वत् कामविकल्पानाम्। अतो नैवात्र चित्रत्वम्। अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति। कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विशेष: संविज्ञान-

Page 48

लघुवृत्तौ ३७ पदशून्योऽभिघित्सितः । तस्य च चित्रतया सामान्येन पूर्वमुपक्ान्त- स्याधुना निषेधवशेन संविज्ञानपदशून्येन विवक्षितेन रूपेण वाक्यार्थीभू- तत्वान्निषेघस्य पूर्ववदवान्तरवाक्यार्थता। तेन क्ववेत्ययं निषेध इव नतु निषेध एव । तेनात्रोक्तविषयता आक्षेपस्य। तदाहु :- शब्दस्पृष्टेऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता। तदङगं तद्विरोधेन यत्राक्षेपो भवेदसौ ।। इति। शब्देन स्पृश्यते (स्पृष्टे?) वक्तुमिष्टे उक्तविषये आक्षेपे। वक्ष्य- माणविषये तु विवक्षितस्य आर्थता। शब्दान्तरव्यापारसहायनिषेध- मुखेन तस्योपस्थाप्यमानत्वात्। यश्चात्रोभयत्रापि निषेघः क्रियते स विवक्षितार्थविरोधात्स्वतात्पर्य त्यक्त्वा विवक्षितमेवार्थ संकुवस्तदङ्गतां प्रतिपद्यते। अतोऽत्र द्विविघ आक्षेपो भवतीत्यर्थः । अर्थान्तरन्यासः । समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः । विपर्ययेण वा यत्स्याद्विशब्दोक्त्यान्यथापि वा। ज्ञेयः सोऽर्थान्तरन्यास: यत्र समर्थ्यसमर्थकभावः सोऽर्थान्तरन्यासः । तत्र हि समर्थकस्य समर्थकतावगतिहेतुं व्यासिं पक्षघर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः कियते। व्याप्तिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीकृतत्वात्। अतोऽसावर्थान्तरन्यासः । स च चतुर्विघः । तत्र समर्थके पूर्वमभिहिते समर्थ्यस्य यत्र पश्चादभिघानं तन्न द्वौ प्रकारौ भवतः। हिशब्दाभि- व्यक्तत्वं समर्थ्यसमर्थकभावस्यैकः प्रकारः। तदुक्तं "समर्थकस्य पूर्व यद्वचोऽन्यस्य च पृष्ठतः" । इति, "हिशब्दोक्त्ये" ति च। - वस्योदाहरणम्- trary Sri Pratap Collene, Srinanar.

Page 49

३८ काव्यालक्कारसार-

तन्नास्ति यन्न कुरुते लोको हुत्पन्नकार्यिकः । एष सर्वोडपि भगवान् बटभूय स्म वर्तते॥। बट्भूय अचिरकृतोपनयनत्वमापद्य। अत्र शर्वस्य सर्वलोकाति- शायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशज्जय तत्समर्थनाय समर्थकं पूर्वमेवोपन्यस्तं "तन्नास्ति यन्न कुरुते" इति। अत्यन्तकार्यिकत्वादनु- चितमपि रूपमनुभूतवान् शर्वस्तदन्यैवंविधपुरुषवदिति। अत्र च हिशब्देनाभिव्यक्तः समर्थ्यसमर्थकभावः । यत्र पूर्वेणैव क्रमेण समर्थ्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसाम- थ्यावसेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोऽर्थान्तरन्यासमेदो भवति। तदुक्तं "अन्यथापि च" इति। हिशब्दोक्तिमन्तरेणापीत्यर्थः । तस्योदाहरणम्- प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे । प्रतस्थे धूर्जटिरतस्तनुं सवीकृत्य बाटवीम्।। भाव: आशयः। बाटवीं ब्रह्मचारिसंबन्घिनीम् । अत्र धूर्जटेर्बटवे- षालम्बनेन प्रच्छन्ना वृत्तिरनुपपन्नेत्याशङ्कय तत्समर्थनाय पूर्वमेव समर्थ- कमभिहितं "प्रच्छन्ना शस्यते वृत्तिः" इत्यादिना। योषिदाशयपरीक्ष- णप्रवृत्तत्वाडूर्जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति। हिशब्दश्चात्रातःश- व्दसामर्थ्येन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः। एवमेतौ समर्थकपूर्वो- पन्यासावर्थान्तरन्यासौ द्वावेवोक्तौ। यत्रापि चैतद्विपर्ययेण सामर्थ्यस्य पूर्वमुपन्यास: पश्चात्समर्थकस्य, तत्रापि समर्थ्यसमर्थकभावे हिशब्दाव- गतेऽर्थाक्षिप्ते च सति द्वैविध्यम्। तदुक्तं "विपर्ययेण वा यत्स्याद्धि शब्दोक्त्यान्यथापि वा" इति । पूर्वस्योदाहरणम्- हरोऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना । विसंवदेद्धि प्रत्यक्षं निर्ध्यातं ध्यानतो न तु ॥।

Page 50

लघुवृत्तौ ३९

बाद्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्य तत्समर्थना- योकं 'विसंवदेद्धि प्रत्यक्षम्' इत्यादि। अत्यन्ताविसंवादकोपलब्ध्यु- पायार्थित्वाद्य्ानमास्थितवान् हर इति। हिशव्दानभिव्यक्ते तु समर्थ्यसमर्थकभावे यत्र समर्थ्यस्य पूर्वमुप- न्यासस्तत्रोदाहरणम्- अपश्यच्चातिकष्टानि तप्यमानां तपांस्युमाम् । असंभाव्यपतीच्छानां कन्यानां का परा गतिः । बहूनामभिमतत्ररप्रास्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्क्य तत्समर्थनायाभिहितं 'असंभाव्य- पतीच्छानाम्' इति। दुःप्रापभर्त्रभिलाषित्वात्तपः समाश्रितवती। तपांसि भगवतीं खेदयन्ति। तानि पुनः सा तथाविधान्युपार्जयति । अतस्तपस्तप्यते 'तपस्तप: कर्मकस्यैवे'ति .कर्तुः कर्मवद्भावः। एवमेष चतुर्विघोऽर्थान्तरन्यासोऽभिहितः । ननु यदि समर्थ्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति। एवंसत्य- प्रस्तुतप्रशंसादृष्टान्तयोरपि समर्थ्यसमर्थकभावसद्भावादर्थान्तरन्यासता- प्रसङ्ग: । तथाहि । "प्रीणितप्रणयि सवादु काले परिणतं (च यत्)। व्रिना पुरुषकारेण फलं पश्यत शाखिनाम्" इत्यस्यामप्रस्तुतप्रंशसायां विशेषात्सामान्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविधगुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्व जगति दैवप्रधानमिति । अत्र च समर्थ्यसमर्थकभावो विद्यते। सर्व जगच्चेष्टितं दैवप्रधानं पुरुषकारान्वयव्यतिरे काननुविधायित्वाद्वनशाखि-

Page 51

89 काव्यालक्कारसार-

मघोष:। दृष्टान्तेऽपि च (समर्थ्य)समर्थकभावो विद्यने। तथाहि "त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः"।। इत्यत्र यथा चन्द्रगुणपक्षपा- तित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्वद्वुणपक्षपातित्वाच- स्यास्त्वद्दर्शने मनो मन्मथाभिप्रज्वलितमुपशाम्यतीति समर्थ्यसमर्थ- कभावोऽवगम्यते। तेन दृष्टान्तेऽप्यर्थान्तरन्यासताप्रसङ्ग इत्याशङ््याह- प्रकृतार्थसमर्थनात्। अप्रस्तुतप्रशंसाया दृष्टान्ताच पृथक्स्थितः ॥। सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समर्थ्यसमर्थकभावोऽवगम्यते, न तु तत्रार्थान्तरन्यासवत्समर्थ्यसमर्थकभावस्य संभवः। अर्थान्तरन्यासे हि समर्थ्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन स्वकण्ठेनोपात्तस्य सम- र्थनम्, अप्रस्तुप्रशंसायां त्वप्रकृतसामर्थ्येन प्रकृतमाक्षिप्यते, न तु स्कण्ठेनोपादीयते, यथा पूर्वोपवर्णिते उदाहरणे। तत्र हि वनशाखिनां फलदर्शनेनाप्रकृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राघान्यं प्रकृत- माक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्कण्ठेनोपादानम्। अतश्च तत्र सत्यपि समर्थ्यसमर्थकभावे शब्दोपकान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्त- रन्यासत्वम्। दृष्टान्तेऽपिच द्वयोरपि समर्थ्यसमर्थकयोः स्वकण्ठेनो- पात्तत्वात्सत्यपि स्वकण्ठोपात्तप्रकृतार्थनिष्ठत्वे दृष्टान्तस्य समर्थ्यसमर्थ- कभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्यर्थान्तरन्यासत्वम्। न खलु तस्य समर्थ्यसमर्थकभावपुरःसरीकारेण प्रवृत्तिः । बिम्बप्रतिबिम्बभाव- मात्रस्य शब्दस्पृष्टत्वात् । अर्थाद्धि तत्र समर्थ्यसमर्थकभावावसायः । अर्थान्तरन्यासे तु समर्थ्यसमर्थकभावेनैवोपक्रमः । तेन यत्र समर्थ्य- समर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाडृष्टान्तस्यार्थान्त-

Page 52

लघुवृत्तौ ४१ रन्यासतापसङ्को न भवति। तदिदमुक्तं 'प्रकृतार्थसमर्थनादि'ति। अत्र प्रकृतशब्द: स्वकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः । समर्थनं चात्रो- प्रक्रमावस्थावर्त्युपात्तम् ।। व्यतिरेक :- विशेषोपादानं यत्स्यादुपमानोपमेययोः । निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधा तु सः ॥ उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः । तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्माद्यतिरेकः । स च द्विविधः । तत्र विशेषख्यापननिमि- सस्यार्थसामर्थ्यादाक्षेपादेकः प्रकारः । अपरस्तु तस्य स्वशब्देन प्रति० पादनात्। तदुक्त 'निमित्तादृष्टिद्ृष्टिभ्यां द्विधा' इति। एतावपि च भेदौ प्रत्येकं द्विविधौ। कचिद्धि अर्थसामर्थ्यात्प्रतीयमाने उप- मानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपाततैः । तत्रार्थसामर्थ्येन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वस्मिन्प्र- कारद्ये पूर्वभेदस्योदाहरणम्- सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम्। राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम् ।। राहुणा पीता द्रवद्रव्यस्योदकादेः खगलबिलान्तर्भावनं यचद्वदात्मा- भ्यन्तरीकृता प्रभा यस्य स तथोक्तः । अत्र राहुपीतप्रभत्वविशिष्टस्येन्दो- स्नुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः सभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम्। तच स्कण्ठेनानु- पाचमपि पदार्थस्वरूपपर्यालोचनया लभ्यते। एवमिवाद्यभावेऽप्युपमा-

Page 53

४२ काव्यालक्कारसार-

नोपमेयभावस्यात्र सामर्थ्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेष: ख्यापितः । तस्य च विशेषस्य ख्याप्यमानस्य निमिच्तमत्र न स्वकण्ठेनोपातं, अर्थसार्थ्यान्तु तदवगम्यते। राहुरिन्दुप्रभापाने तथा न समर्थ: यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतोऽपि तप :- सातिशयत्वमुपमानादुपमेयस्य विशेषनिमिचमत्रावगम्यते। एवमयमनु- पात्तनिमित्तो व्यतिरेकः । उपात्तनिमित्तस्तु- पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम्। स्फुरच्छायेन सततं मुखेनाघ: प्रकुर्वतीम् ॥ मुखमुपमेयम्। पद्ममिन्दुश्चोपमानम्। तच्चात्र द्वयं स्वकण्ठस्पृष्टम्। तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्येतदुभयं सामर्थ्यादवगम्यते। न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्योतका इवादय उपात्ताः । अधः प्रकुर्वतीमिति चोपमानादुपमेयस्य विशेष: ख्यापितः । तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाघारत्वेन। उपमानयोस्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रमं निःश्रीकत्वनि- पप्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता। अतो विशेषे निमित्त- दर्शनेनायं व्यतिरेकः । तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यति- रेको दर्शितः । इवाद्युपात्ते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह- यो वैधर्म्येण दृष्टान्तो यथेवादिसमन्वितः । व्यतिरेकोऽत्र सोऽपीष्टो विशेषापादनान्वयात्।। 'यो वैधर्म्येण दृष्टान्त' इति 'विशेषापादनान्वयादि'ति च व्यति- रेकलक्षणं योजितम्। वैधर्म्य ह्यपमेयधर्मस्योपमाने विगमः । 'यथेवा-

Page 54

लघुवृत्तौ ४३

दिसमन्वित' इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह। तस्योदाहरणम्- शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम्। समुद्वहन्तीं नापूर्व गर्वमन्यतपख्विवत्। शीर्णपर्णाम्बुवातानामाशो भक्षणम्। अत्रान्यतपस्विन उपमानं, भगवती उपमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता। वतिश्चात्र गर्वोद्वहननिबन्धनं यत्तच्चेतसः सोल्लासत्वं तन्निबन्घनमुपमानोपमेयभावमवगमयति। गर्व न समुद्धहन्तीमित्युपमा- नादुपमेयस्य विशेष: प्रतिपादितः । अन्ये किल तपख्विनः सातिश- यतपोवशात्समुल्लसितचित्ताः सन्तो गर्व समुद्वहन्ति, भगवती त्वत्यन्त- सुपशान्तचित्तत्वान्न तथा। एवं चात्र गर्वोपक्मावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः। अनिर्वाहे च निमित्तमत्र स्वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवगम्यते अत्यन्तोपशान्त- चित्तत्वं नाम। एवमयं निमित्तादर्शने वत्युपात्तोपमानोपमेयभावो व्यतिरेक उदाहृतः । निमित्तोपादाने तु तस्योदाहरणमुन्नेयम्। एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः । निमित्तदर्शनादर्शनाभ्यां यौ व्यतिरेकौ तयोः प्रत्येकमुपमानोपमेयभावस्य इवाद्युपादानानुपादानाभ्यां द्विभेदत्वात्। एषामपि चतुर्णां व्यतिरेकाणां क्रिष्टोक्तियोग्यशव्दोपादाने सति पुनरपरे पूर्वोपकान्तेनैव रूपेण चत्वारो भेदा भवन्ति। तदाह- श्िष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहतौ। विशेषापादनं यत्स्याद्यतिरेकः स च स्मृतः ॥ 'एकप्रयत्नोच्चार्याणामि'त्यादिवक्ष्यमाणलक्षणं ्रिष्टम्। श्रिष्टाल क्ारसमुचितं यदुचचारणं तत्समुचितस्य शब्दस्य यदा तब्नेण सदृश-

Page 55

४४ काव्यालक्कारसार-

शब्दान्तरोपादानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक् पृथगु च्चारणं, तदा विशेषापादने सति व्यतिरेको भवति। तस्योदाहरणम्- या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता। तपसा तां सुदीर्घेण दूराद्विदघतीमधः ॥ अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्मस्तपोयुक्तत्वं नाम। एकत्र तपा माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छाचरणम् । इवादयश्रात्रानुपात्ता अपि सामर्थ्यादवगम्यन्ते । व्यतिरेकस्तु 'दूराद्विदघतीमध' इति। तस्य च निमित्तं मासैक्यं दीघर्त्व च तपसोः । तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम्। तत्र च वत्यादिना अनुपाते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः। एवमनया दिशा अन्यदपि क्रिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतिरे कस्य पूर्वोक्तनयेन भेदत्रयमुदाहार्यम् । विभावना- क्रियायाः प्रतिषेधे या तत्फलस्य विभावना। ज्ञेया विभावनैवासौ समाधौ सुलभे सति। इह यत्किंचिज्ज्ञायते तत्सर्व क्रियाफलम्। क्रियामुखेन कारणेभ्यः कार्योत्पत्ते: प्रातीतिकेन रूपेण परिद्ृश्यमानत्वात् सर्वेषां फलभूतानां क्रियैवाव्यवहितं कारणम्। यत्र च क्रिया प्रतिषिध्यते अथ च क्रिया- फलस्योत्पत्तिरुपदिश्यते तत्र विभावनाख्योऽलंकारः । कारणविगमे किल कार्यस्य तत्रोत्पत्तिरुपवर्ण्यते। अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना। नन्वेवं सति व्यर्थदोषत्वप्रसङ्गः 'विरुद्धार्थ मतं व्यर्थम्' इति अत आह-समाधौ सुलभे सतीति। समाधि: परिहारः । यत्र विरोधस्य सुलभः परिहार इत्यर्थः । तस्या उदाहरणम्-

Page 56

लघुवृत्तौ ४५

अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम्।। अङ्गलेखा शरीरयष्टिः। काश्मीरं कुङ्कुमम्। येमं पीतच्छायता शरीरस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रायेण परिद्ृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पा- दितम्। अतः कुङ्कमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रोपदेशः। परिहारश्चात्र स्वाभाविकतया तच्छायत्वमिति। तेनेयं विभावना। अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया राग- क्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा । अतो विभावना। अत्र च कुङ्कुमादिसंपाद्येन पिञ्जरत्वादिना उपमान- भूतेन स्वाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायोऽतिश- योत्त्या द्रष्टव्यः ॥ समासोक्ति :- प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः। अप्रस्तुतार्थकथनं समासोक्तिरुदाहता । यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तहारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथ- यति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वितयाभिघानात्समासोक्तिः । तस्या उदाहरणम्- दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम्। तन्वीं वनगतां लीनजटाषट्चरणावलिम्।। अत्र दन्तप्रभापाणिजटा भगवतीविशेषणमूता यथाक्रमं लतागतसु- मनःपल्लवषट्चरणरूपेण आरोपेण व्या(पाः) (?) तद्भावमापद्यन्ते।

Page 57

४६ काव्यालश्ारसार-

तनुत्वं तु भगवतीलतयोः साधारणो धर्मः । वनशब्देन च रूपकप्र- तिभोत्पत्तिहेतुना श्रेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते। अत एतान्यत्र प्रकृताया भगवत्या अप्रककृतया लतया समानानि विशेषणानि। तत्सामर्थ्येन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते। तेनेयं समासोक्तिः । अतिशयोक्ति :- निमित्ततो यत्तु वचो लोकातिकरान्तगोचरम् । मन्यन्तेऽतिशयोक्तिं तामलंकारतया बुधाः ॥ भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र वध्यते। तथा संभाव्यमानार्थनिबन्धेऽतिशयोक्तिधीः ॥ कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययाद्। आशुभावं समालम्ब्य वध्यते सोऽपि पूर्ववत्। यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्तिः । तस्याश्र चत्वारो भेदाः । यत्र भेदे अन्यत्वे अन- न्यत्वमैक्यं स एकः । अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः। तथा वहिरविद्यमानस्यार्थस्य संभावनामात्रेणोपनिबन्धे तृतीयः। कार्य- कारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः । तत्राद्यस्य मेदस्योदाहरणम्- तपस्तेजःस्फुरितया निजलावण्यसंपदा। कृशामप्यकृशामेव दृश्यमानामसंशयम् ।। अत्र यासावकार्श्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपो- जनितं कार्श्यं तदभेदेनोपनिबद्धमकृशामेवेति। तत्र च निमित्तं तप- स्तेजसा सविशेषत्वमापादितः सौन्दर्यसंभारः। अतो निमित्तवशेन लोकातिकान्तो गोचरोऽस्य वाक्यस्य। तेनेयमतिशयोक्तिः ।

Page 58

लघुवृत्तौ ४७

द्वितीयस्य तु भेदस्योदाहरणम्- अचिन्तयच्च भगवानहो नु रमणीयता। तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते ।। अत्र भगवती कुमारीभावेऽपि वर्तमाना तदुत्तरकालभाविनी यासौ यौवनावस्था तद्युक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति। निमित्तं चात्र तपोजनिता रमणीयता। तेनायमभेदे भेदोपनिबन्धः । तृतीयस्य पुनर्भेदस्योदाहरणम्- पतेद्यदि शशिद्योतच्छटा पद्मे विकाशिनि। मुक्ताफलाक्षमालायाः करेऽस्याः स्यात्तदोपमा । शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः । अस्याः करे मुक्ताफलाक्षमा- लायास्तदा उपमा स्यादिति संबन्धः । अत्र रजनिकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रतिभोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शितम्। अतोऽत्र संभाव्यमानार्थनिबन्धः । तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभाव- नाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम्। तथाहि-अयं तावल्लोकातिक्रान्तोऽपरिदृष्टपूर्वोऽस्माभि: गौरीकरमुक्ता- फलाक्षमालयोराधाराधेयभावोऽवलोकितः । तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याघाराधेयभावः स्यात्तदात्रोपमानोपमेय- भावो भवेदिति संभावना प्रवृत्ता। अतोऽत्र सजातीयपदार्थदर्शनाद्वहि- रसंभवदपि वस्तु संभवद्रपतयोपवर्ण्यते। एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकितेऽपि तत्सजातीयसंभावना प्रवर्तते। यथा दाक्षि- णात्यस्यैकस्मिन्नष्ट्रे परिदृष्टे सत्यपरिद्ृष्टोष्ट्रान्तरसंभाव्रना। अतोऽत्र संभावना सनिमित्ता। अनेन च प्रकारेणात्रोपमानाभावः प्रकृतस्य

Page 59

४८ काव्यालक्कारसार-

वस्तुनः प्रदर्श्यते नास्त्यन्यत्किंचिदस्योपमानमिति। अत एव संभान्य- पानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः। यदि- शब्देन ह्यत्राशङ्का द्योत्यते। आशङ्का चानिश्चितसद्भावे वस्तुनि भवति। यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुरा- पप्रजापतिनिर्मितपदार्थविषयया तद्विरूद्धया लोकप्रतीत्या यावन्निराक्रि- यमाणत्वं तावन्निरुपमत्वं प्रतीयते। एवमयं तृतीयो मेदः । चतुर्थस्तु- मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः । प्रायेणाओ्रे तु गच्छन्ति स्मरबाणपरम्पराः ॥ अत्र दिक्षु कटाक्षपातः कारणम्। स्मरबाणपरम्परागमनं तु कार्यम्। कार्यकारणयोस्तु कारणस्य नैसर्गिकं प्राग्भावित्वं कार्यस्य तु पश्चाद्वा- वित्वम्। इह तु विपर्ययः । कार्यस्य प्राग्भावेनोपनिबन्धनाद्। पश्चाद्भावितत्वेन च कारणस्य कटाक्षा दिश्ु पृष्ठतः पश्चात् पतन्ति अग्रे स्मरवाणपरम्परा गच्छन्तीति अत्र निमित्तं (अनु) कार्यस्य शीघ्रमेवोत्पादः । तेनेदं निमिच्ततो लोकातिक्रान्तगोचरं वचनम्। अतोऽतिशयोक्तिः ॥

संग्रहलघुवृत्तौ द्वितीयो वर्गः ॥

अथ तृतीयो वर्गः। यथासंख्यमथोत्प्रेक्षां स्वभावोक्तिं तथैव च। अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कवौ ।।

Page 60

३ वर्ग: ] लघुवृत्तौ ४९

यथासंख्यम्- भूयसामुपदिष्टानामर्थानामसधर्मणाम्। क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते।। पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासंख्यास्योऽलक्कारः । तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्दे- नानुपात्तोऽपि पदार्थानामन्वयः समाश्रीयते। अतो यथाक्रमं पदार्था- नामन्वयध्वननादेतस्यालक्कारस्य यथासंख्यता । सचालङ्कारो वहूनामल्प- शोऽप्युपनिवध्यमानो यतः शोभाबद्धो भवति अतो भूयसामित्युक्तम्। द्वयोर्हि तस्योपनिवध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः तावच्छोभोपेतत्वं न भवति। भूयसां पुनरर्थानां तद्यथासंर्यमल्पेनैव प्रयासेन रम्यं भवति। तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते । तदुक्तम्- तद्विगुणं त्रिगुणं वा बहुपूद्दिष्टेषु जायते रम्यम् । यत्तेषु तथैव ततो द्वयोस्तु बहुशो निवन्नीयात् ॥ इति । ननु "मृणालहं से" त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्ृादीनामुपमेयानां विशेषख्यापनाद्यतिरेकालङ्कारेण सहृदयहृदयाण्यावर्ज्यन्ते, न तु यथासंख्येन। तत्कथं यथासंख्यम- लक्कार इत्याशक््योक्तम्-"असधर्मणामिति"। यत्रापि हि साधर्म्या- भावादुपमानोपमेयभावाभावेन व्यतिरे कादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमावहतीत्यर्थः । यथा- कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं नः । जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु । इति। ४ काव्या०

Page 61

५० काव्यालङ्गारसार-

अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहन- त्वजलनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः । न च तत्र परस्पर- साधर्म्य विद्यते। अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते। तेनास्य साधर्म्याद्यभावेऽपि पृथगलङ्कारताप्रतिलम्भाद्यत्र साधर्म्यादि विद्यते तत्राप्यलक्कारत्वं दुर्निवारम्। अतो "मृणालहंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालक्कारस्य द्रष्टव्यम् । तेनायमङ्गाङ्गिभावेन सङ्करः । यद्वक्ष्यति "परस्परोपकारेण यत्रालङ्कृतयः स्थिताः । स्वातत्र्येणात्मलामं नो लभन्ते सोऽपि सङ्करः ॥" इति। अतो यथासंख्यं पृथगलङ्कारत्वे- नोपदेष्टव्यम् । तस्योदाहरणम्- मृणालहंसपद्मानि बाहुचङ्गमणाननैः। निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः ॥ अत्र बाहुचङ्रमणाननानामुद्दिष्टानां यथाक्मं मृणालहंसपद्मान्य- नुनिर्दिष्टानि । तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रभणितिसद्धावाद्यथासंख्यमलङ्कारः। उत्प्रेक्षा- साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः। अतङ्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता। यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोतपेक्षा- ख्योऽलक्कारः। नन्वेवं सत्यप्यसंभवो नाम लक्षणदोषः प्राप्तः। द्योत्यस्यो- पमानोपमेयभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्गयोक्तं "अतद्गुणक्रियायोगादि"ति। द्रव्यधर्मः सिद्धो गुणः । साध्य- स्वभावस्तु क्रिया। इदं खल विश्वं स्वतब्रपरतत्रपदार्थात्मकत्वाद्विविधम्।

Page 62

३ वर्ग: ] लघुवृत्तौ ५१

यश्च स्वतन्रः पदार्थः स धर्मीत्यभिधीयते। तच्च इदं तदिति सर्वना- मप्रत्यवमर्शयोग्यत्वाद्रव्यम्। परतन्रस्य पदार्थस्य धर्मरूपता। तस्य च द्वैविध्यम्। सिद्धसाध्यताभेदात्। तत्र यः सिद्धो धर्मः स गुणः । यस्तु साध्यः सा क्रिया। एतावन्तश्च लौकिकाः पदार्थाः । सामा- न्यादीनामत्रैव प्रातीतिकेन रूपेणान्तर्भूतत्वात्। अत्र असौ प्रकृतो योऽर्थस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणास्तद्योगात्साम्यरूपाविव- क्षायामपि इवादिशब्दप्रवृत्तिरविरुद्धा। यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीति- र्भवति। उत्प्रेक्षायामपि च योऽसावसः अप्रकृतस्तस्य ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लद्गितेऽपि प्रकृते वस्तुन्यासज्यन्ते। तेनातद्रुणक्रियायोगादस्या इवादिवाच्यत्वम्। अत एवान्यधर्माणां स्वध- र्मिभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यत्त्यनुगुणतया वस्त्वन्तराध्य- स्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा। नन्वेवमपि सुतरामसंभवः। न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशक्योक्तम्- अतिशयान्वितेति। पुराणप्रजापतिविहितरूपविपर्यासेन कविवेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः । इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोका- तिक्रान्तविषया संभावना । तस्याश्र द्वैविध्यम्, भावस्याभावस्य च चहिरसंभवत उपवर्ण्यमानत्वात्। तदाह- लोकातिक्रान्तविपया भावाभावाभिमानतः । संभावनेयमुत्प्रेक्षा येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चाभिमानात् द्वैविध्यं भजत इत्यर्थः । नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा भवतीत्युच्यते, एवं सति "चन्दनासक्तभुजगनिःश्वासानिल-

Page 63

५२ काव्यालङ्कारसार-

मूर्च्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥" इत्येवमादा- विवादेरप्रयोगादुत्प्रेक्षात्वाभावप्रसङ्ग इत्याशक्क्याह- वाच्येवादिभिरुच्यते। द्विविधा खलूत्प्रेक्षा। काचिदिवादिप्रयोगे सति भवति, काचि- त्वप्रयुज्यमानेप्वपीवादिप्वर्थसामर्थ्यादवगम्यमानेषु। तत्र या वाच्या स्वकण्ठेनेवादिभिर्वक्तव्या सा इवादिभिरुच्यते। या त्वर्थसामर्थ्याक्षि- सैरिवादिभिरवगम्यते तत्रेवादीनामप्रयोगः । 'चन्दनासक्तभुजग' इत्यादौ च मलयमारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमू- च्छाहेतुत्वं तत्र भुजगनिश्वासमूर्च्छितत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोऽर्थसामर्थ्यादवगम्यते। तेनेवादीनामप्रयोगः । इवादिशब्द- सामर्थ्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात्। तत्र भावाभिमाने- नोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम्- अस्याः सदार्कविम्बस्थदृष्टिपीतातपैर्जपैः । श्यामिकाङ्केन पतितं मुखे चन्द्रभ्रमादिव ॥ अस्या मुखे जपैहेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः । अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृशे मुखे श्यामिका संजाता । तच्चात्र तस्याः श्यामिकाया जन्म अतिशयोत्त्या पातरूपतया प्रतिपादितं पतितमिति। सा चात्र श्यामिका शशि- लाञ्छनेन शशेन तुल्या। अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादु- पसर्जनोपमेयं रूपकं श्यामिकैवाङ्क इत्युपनिबद्धम्। तस्य चाङ्कस्य श्यामिकोपर क्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता। यदेतच्छशिनो लाञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति। इन्दुभ्रान्तिश्र गुणः । सिद्धरूपत्वे सति द्रव्यधर्म-

Page 64

३ वर्ग: ] लघुवृत्ता ५३

त्वात्। एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदन- मिन्दुभ्रान्त्या न गोचरीकरोति। अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो निबद्धः । तेनात्र तस्य वस्त्व- न्तरस्य चेतनस्य योऽसौ गुणो भ्रमलक्षणस्तद्योगादिवादेः प्रवृत्तिः । इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यामिकाकर्तृकतया कविनिबद्धेन वक्रा भगवताभिमानेनाध्यवसितः । तेनेयमतद्गुणयोगेन भावाभिमानेन उत्प्रेक्षा। एवं क्रियायोगाध्यासाद्धावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम्। अभावविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम्- कपोलफलकावस्याः कष्ट भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ।। अत्र कपोलफलकयोस्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शन- मभावरूपं साध्यत्वात् क्रियारूपक्षामतायां कारणतयोत्प्रेक्षितम्। तेनेय- मतत्क्रियायोगादभावाभिमानेनोत्प्रेक्षा। एवमतद्रुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम्। स्वभावोक्ति :- क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम् । कस्यचिन्मृगडिम्भादेः सभावोक्तिरुदाहता ॥ मृगवालादेः सवसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः खजात्या- नुरूप्येणाभिनिवेश विशेषास्तदुपनिवन्धा स्वभावोक्तिः । तस्याश्चालङ्का- रत्वमसाधारणपदार्थस्वरूपध्वननात् । तस्या उदाहरणम्- क्षणं नंद्वार्घवलितः शङ्गेणाग्रे क्षणं नुदन्। लोलीकरोति प्रणयादिमामेष मृगार्भकः ॥

Page 65

५४ काव्यालङ्कारसार-

नष्ट्ेति। 'जान्तनशां विभाषा' इत्यनुनासिकलोपस्य विकल्पित- त्वादप्रवृत्तिः । अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनि- र्भरेण चेतसा व्याकुलीकुर्वतः खभावो निबद्धः क्षणमपरिद्दश्यमानत्व- मर्घकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा ॥ इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसार- संग्रहलघुवृत्तौ तृतीयो वर्गः ॥

अथ चतुर्थो वर्गः। प्रेयोरसवदूर्जसिविर पर्यायोक्त्तं समाहितम्। द्विधोदात्तं तथा श्िष्टमलङ्कारान्परे विदुः॥ प्रेयोरसवदिति समुदायान्मतुप्। क्विष्टमिति । तथा उदात्तवद्वि- विधं क्रिष्टमित्यर्थः । विप्रतिपत्तिनिरासार्थ चात्र क्िष्टस्य द्वैविध्यमुक्तम्। भामहो हि "तत्सहोत्तयुपमाहेतुनिर्देशात्रिविधं यथा" इति क्रिष्टस्य त्रैविध्यमाह । अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम् । उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः । यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्न- त्वादङ्गीकृतं तथा श्िष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः ॥ प्रेयस्वत् तावत्- रत्यादिकानां भावानामनुभावादिसूचनैः । यत्काव्यं वध्यते सद्भिस्तत्प्रेयसवदुदाहृतम्।। रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च। तत्र-"रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्साविस्म- यसमाः स्थायिभावाः प्रकीर्तिताः ॥ निर्वेदग्लानिशङ्काख्यास्तथासूया-

Page 66

४ वर्ग: ] लघुवृत्तौ ५५

मदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ त्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।। सुप्तं विबोधोऽमर्षश्वाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथो- न्मादस्तथा मरणमेव च ।। त्रासश्चैव वितर्कश्र विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः .... ॥। स्तम्भः सेदोऽथ रोमाञ्चः खरभेदोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥" एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्चत्वारोऽनुभावादयः । ते चानुभावो विभावो व्यभि- चारी स्वशब्दश्च। तत्रानुभावश्चतुर्विधः । आङ्गिको वाचिकः सात्त्विक आहार्यश्च। आद्गिको हस्ताभिनयादिः । वाचिकः काक्कादिप्रयोगः । सात्विकः स्तम्भादिः। आहार्यस्तु प्रतिशीर्षकञ्चुकादिः। एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्भावान् गमयति ॥ विभावस्तु द्विविधः । आलम्घनोद्दीपनरूपत्वात्। तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः। उद्दीपनवि- भावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः । एवमेष द्विविधो विभावो रत्यादीनां कारण- भूतः । स च कारणत्वात्कार्यभूतान् रत्यादीन् गमयति यथातिबहल- नीलजलदोदयो वृष्टिम्। यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्य- व्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्य प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते। अतो विभावः कारणत्वात् रत्यादीन्कार्य- भूतान् गमयति। व्यभिचारी तु रत्यादिकानां स्थायिनां भावानामव- स्याविशेषरूपो निर्वेदादिः । स च सहचारित्वात् स्थायिनो भावान्प्रति- पादयति रथस्यैकमिव चक्रं चक्रान्तरम् । स्वशव्दस्तु रत्यादिः । स च

Page 67

५६ काव्यालङ्गारसार-

वाचकत्वाद्भावान् गमयति । रत्यादीनां च शब्दानां यद्यप्यनुभावैकगो- चरखलक्षणस्वभावरत्याद्यवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव। यथा खल्वनुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्खशब्दा अपीत्यास्ताम्।

एवमेते भावानामवगतिहेतवश्चत्वारः । यदुक्तं भट्टोद्भटेन "चतू- रूपा भावा" इति। तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभावादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूच- नानि स्वलक्षणस्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयखवत्। प्रेयःशब्दवाच्येन प्रियतरेण रत्याल- म्बनेन विभावनेन रतिरुपलक्ष्यते। तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते। एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः। अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम्। तस्योदाहरणम्- इयं च सुतवात्सल्यान्निर्विशेषा स्पृहावती। उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः ॥ आत्मनः क्रोडे कृत्वेति संबन्धः । अत्रात्मनो वक्षसि निधानमाङ्गि- कोऽभिनयः, उल्लापनं सान्त्वनं वाचिकः । इममिति इदंशव्देन परा- मृष्टो यो मृगार्भकः स आलम्बनविभावः। वात्सल्योन्मीलितश्चौत्सु- क्यात्मा व्यभिचारीभावः । सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पहाया रतेरौत्सुक्यमेदाभिसंबन्धः प्रतीयते। सवशव्दस्तु स्पृहेति। एवमयं रत्यात्मको भावो वात्सल्यस्वभावश्चतुर्मिरनुभावादिभिरत्रावगमितः अन्येष्वपि भावेष्वेवमुदाहार्यम् ।

Page 68

४ वर्ग: ] लघुवृत्तौ ५७

रसवत्- रसवद्दर्शितस्पष्टशङ्गारादिरसादयम्। स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम्।। शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ एते च श्रृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्त्युपायतया तदितर- परिहारनिबन्धनतया च रत्यादीनां स्थायिनां नवानां भावानां यः परि- पोषस्तदात्मकाः । अतस्तथाविधेन रूपेणास्वाद्यत्वादास्वाद भेदनिबन्धनेन तात्तिरिकेण रसशव्देनाभिधीयन्ते। निर्वेदादौ तु तथाविधस्यासवाद्यस्या- भावात्प्रवृत्तिनिमित्तभेदनिवन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः । आस्वाद्यत्वमात्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशव्दप्रवृत्तिर- विरुद्धा। यदुक्तं शृङ्गारादीन् रसाननुक्रम्य-"रसनाद्रसत्वमेपां मधुरा- दीनामिवोक्तमाचार्येः। निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः॥" इति ॥ तदाहु :- चतुर्वर्गेतरौ प्राप्य परिहार्यो क्रमाद्यतः। चैतन्यभेदादाखाद्यात्स रसस्तादृशो मतः ॥ इति॥ स इति। चैतन्यमेद इत्यर्थः । तादृश इत्यनेन आस्वादविशेषनि- बन्धनत्वं शृङ्गारादिपु तात्रिकस्य रसशब्दस्योक्तम्। एपां च शृङ्गारा- दीनां नवानां रसानां स्वशब्दादिभिः पश्चभिरवगतिर्भवति। यदुक्ततं भट्टोद्टेन-"पञ्चरूपा रसा" इति। तत्र स्वशब्दाः श्रृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः । स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः । संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः । विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपना-

Page 69

५८ काव्यालङ्कारसार-

दयश्र। आङ्िकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः । एतेषां च खशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुट रूपतया शृङ्गारादिरसाविर्भावो दर्श्यते तत्काव्यं रसवत्। रसाः खलु तस्यालङ्काराः । तस्योदाहरणम्- इति भावयतस्तस्य समस्तान्पार्वतीगुणान्। संभृतानल्पसंकल्पः कन्दर्पः प्रबलोऽभवत् ॥ स्विद्यतापि स गात्रेण बभार पुलकोत्करम्। कदम्बकलिकाकोशकेसरप्रकरोपमम्॥ क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम्। क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत ।। कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम्। अत्र भगवत आभि- लाषिकविप्रलम्भशृङ्गारो निबद्धः। तस्य स्वशब्दः 'कन्दर्पः प्रबल' इति। स्थायी तत्रैव खवशब्देनोन्मीलितः कन्दर्प इति। रतिपरिपोषात्मको हि शृङ्गारो रसः। रतिश्च यूनां मन्मथात्मिका। अतो रतिविशेषस्य वाचकत्वात्कन्दर्पशब्दः स्थायिनोऽत्र स्वशब्दः। संचारिणश्चौत्सुक्य- चिन्ताहर्षाः स्वशब्देनोन्मीलिताः । खेदरोमाञ्वौ च सात्विकौ खवशब्दो- पात्तौ। तयोरपि च संचारित्वम्। सात्विकानां स्थायिभावावस्थाविशे- षत्वेन निर्वेदादिवत्संचारित्वात्। विभावस्तु 'इति भावयतस्तस्य' इति निर्दिष्टः । भगवती हि तत्तद्रुणोपेतत्वेन विभाव्यमाना विभावः। अभिनयस्त्वत्रापाङ्गाभिनयो निर्दिष्टो 'दशा' इति। अतोऽत्राभिलाषिकः शृङ्गाररसः स्वशब्दादिभि: पश्चभिरभिव्यज्यते। एवमन्येऽपि रसा उदाहार्याः। रसानां भावानां च काव्यशोभातिशयहेतुत्वात् किं काव्या- लङ्कारत्वमुत काव्यजीवितत्वमिति न तावद्विचार्यते ग्रन्थगौरवभयात्। रसभावस्वरूपं चात्र न विवेचितमप्रकृतत्वाद्वहुवक्तव्यत्वाच्च।।

Page 70

४ वर्ग: ] लघुवृत्तौ ५९

ऊर्जसिव- अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् । भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते ।। कचित्खल रसभावानां शास्त्रसंविद विरुद्धेन रूपेणोपनिबन्धः क्रियते, क्कचित्तु तद्विरुद्धेन। तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनि- बन्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्चाभिहितः । यत्र तु तद्विरुद्धत्वं तन्मूलकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावानामुपनिबन्धे सत्यूर्जस्विकाव्यं भवति। तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उपनिबध्यन्ते। अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यमानत्वादूर्जस्विव्यपदेशः । 'ज्योत्स्नातमिस्र' त्यत्र ऊर्जस्व- शब्द: (पा. अ. ५।२।११४) । तस्योदाहरणम्। तथा कामोऽस्य ववृधे यथा हिमगिरे: सुताम्। संग्रहीतुं प्रववृते हठेनोपास्य सत्पथम् ।। अत्र सकललोकातिशायिनो भगवतोऽकृतविवाहकुमारीविषयतया हठसंग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणक उपनिबद्धः । तेन ऊर्जखिता। तत्र कामो ववृधे इत्ययं शृङ्गारस्य स्वशब्दः । तस्य रति- परिपोषात्मकत्वेन कामवृद्धिस्वभावत्वात् कामशव्दस्त्वेतदन्तर्गतः । शृङ्गारस्य यासौ स्थायिभूता रतिस्तस्याः स्वशब्दः हिमगिरे: सुतामि- त्यालम्बनविभावः । हठेनेत्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपा- दितः। अपास्य सत्पथमिति तु मोहः, संग्रहीतुं प्रवृत्त इति आङ्गिकोऽ- नुमावः । एवमयमत्र पञ्चभिः सवशव्दादिभिरूर्जसिविलक्षणः शृङ्गारः सूचितः । एवमन्येष्वपि रसभावेपूर्जस्वि उदाहार्यम्-

Page 71

६० काव्यालङ्कारसार- पर्यायोक्तम्- पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते। वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना ।। वाचकस्याभिधायकस्य स्वशब्दस्य वृत्तिर्व्यापारो वाच्यार्थप्रत्यायनम्। वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्वासंनिधियोग्यता- माहात्म्यात्संसर्गगमनम् । एवंविधश्च यो वाच्यवाचकयोर्व्यापारस्त- मन्तरेणापि प्रकारान्तरेणार्थसामर्थ्यात्मनावगमखवभावेन यदवगम्यते तत्पर्यायेण स्वकण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्य- मानत्वात् पर्यायोक्तं वस्तु। तेन च सवसंक्षेपवशेन काव्यार्थोSलङ्रियते। तस्योदाहरणम्- येन लम्बालकः सास्रः करघातारुणस्तनः । अकारि भग्नवलयो गजासुरवधूजनः । सोडपि येन कृतः पुष्टदेहेनाप्येवमाकुलः । नमोSस्त्वचार्यवीर्याय तस्मै मकरकेतवे।। अत्र लम्बालकत्वादयः कार्यरूपत्वात् कारणभूतं गजासुरवधं वाच्य- वाचकव्यापारास्पृष्टमपि गमयन्ति। तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोऽर्था अलङ्रियन्ते। तस्मात्पर्या- योक्तमलक्कारः । समाहितम्- रसभावतदाभासवृत्तैः प्रशमवन्धनम्। अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम् ॥ इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्य- मुक्तम्। तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र

Page 72

४ वर्ग: ] लघुवृत्तौ ६१

विवक्षिताः । तद्विरुद्धास्तु तदाभासाः । तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंबन्धात्मिका तस्याः प्रशमे निवध्यमाने समाहि- तालङ्कारो भवति। तत्र हि तेषां रसभावानां समाधानं समाधि: परिहारो भवति। समाहितमिति भावे क्तः । ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिहियते, एवं सति पूर्वरसादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुप्रवेशः प्रसक्त इत्याशङ्कयोक्तं-अन्यानुभावनिःशून्यरूपमिति। अन्यस्य रसाद्यन्त- रस्य येऽनुभावादयः तैर्निःशेषेण शून्यं रूपं यस्य तत्तथोक्तम्। यत्र पूर्वेषां रसादीनां वासनाया दार्ढ्येन तेपूपशान्तेप्वपि रसाद्यन्तराणां न स्वरूपमाविर्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहितालङ्कारो भवति। तस्योदाहरणम्- अथ कान्तां दृशं दृष्ट्ा विभ्रमाच्च भ्रमं भ्रुवोः । प्रसन्नं मुखरागं च रोमाञ्चखेदसंकुलम् ॥ स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत्। उपासर्पद्विरिसुतां गिरिशः स्वस्तिपूर्वकम् ॥ समादघन्निजे रूपेऽवस्थापयन्। समादधदित्यभ्यस्तत्वान्नमोऽप्रवृत्तिः। अत्र भगवता श्रृङ्गारस्य येऽनुभावाः कान्तदृक्टादयस्तेषामवहित्थेन आकारप्रच्छादनात्मकेन भावेन तिरोधानं विहितम्। यदुक्तं-स्वस्ति- पूर्वकमिति। अनेन ह्याकारतिरोधानमुपदर्शितम्। उदात्तम्- उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम्। उपलक्षणतां प्राप्ं नेतिवृत्तत्वमागतम् ॥ ऋद्धिः सुवर्णादिधनसंपत्तिः । तद्युक्त वस्तूदात्तम्। तेन च काव्यार्थोऽलंक्रियते। तस्योदाहरणम्-

Page 73

६२ काव्यालह्वारसार-

उवाच च यतः कोडे वेणुकुञ्जरजन्मभिः । मुक्ताफलैरलद्कारः शबरीणामपीच्छया।

शिरोभिरुलिखद्यत्र शिखरं गन्धमादनम्।। उत्तरोपत्यका यस्य प्रधानसवर्णभूमयः । महान्मरकतोर्वीधः पादोपान्तं च संश्रितः । बभूव यस्य पातालपातिन्यां संक्षये क्षितौ। पतनं न तया सार्धमायामस्तु प्रकट्यभूत् ।। यस्य एवंविधरूपता हिमाद्रेर्भवती सुतेति संबन्धः। कोडः सूकरः। पुष्टो मणिविशेषः । गन्धमादनं पर्वतविशेषः । उपत्यकाः पर्वताघा- रवर्तिनो भूमिभागाः । प्रधानं स्वर्णं कार्तस्वरादि। उर्वीध्ः पर्वरतः । संक्षयः कल्पान्तः । भूमेरधोगमनाङ्गूम्याश्लिष्टस्य प्रदेशस्य भूमिविवि- क्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः । अत्र रत्नादिसंभारो निवद्धः। तेनेदमुदात्तम्। तस्य चालक्कारत्वं लोकातिशायिरतादिकार्य-

न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्तानां विपुलाशयानां चेष्टितमपि, तदुक्तम्-चरितं च महात्मनामिति। न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतु- त्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः । विपुलाशयचेष्टितस्यात्र वस्त्वन्त- रोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात्। न खल्वत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति। अर्थान्तरोपलक्षणपरत्वात्। यत्र च रसा- स्तात्पर्येणावगम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदित रप्राप्तिपरिहारोपायभूतस्था यिभावपरिपोपात्मनाखाद्यमानत्वाद्र सवदलद्करो

Page 74

४ वर्ग: ] लघुवृत्तौ ६३

भवति। तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि। तदुक्तम्-उपलक्ष- णतां प्राप्तं नेतिवृत्तत्वमागतमिति । तस्योदाहरणम्- तस्यादिकरोडपीनांसनिघर्षेSपि पुनः पुनः । निष्कम्पस्य स्थितवतो हिमाद्रेर्भवती सुता॥ अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराह्वपुषस्त्रैलोक्योद्ध- रणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्ष- णीभूतम्। आदिकोड आदिवराहः । एवं रसान्तरेप्वप्युपलक्षणीभूते- षूदाहार्यम् ।। श्िष्टम्- एकप्रयत्नोच्चार्याणां तच्छायां चैव विभ्रताम्। स्वरितादिगुणैभिन्नैर्न्धः श्िष्टमिहोच्यते। अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम्। इह खलु शव्दानामनेकार्थानां युगपदनेकार्थविवक्षायां दयी गतिः अर्थभेदेन तावच्छव्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः । तत्रार्थ- भेदेन भिद्यमाना: शब्दाः केचित्तत्रेण प्रयोक्तुं शक्याः केचिन्न। येषां हलस्वरस्थानप्रयत्नादीनां साम्यं ते तत्रेण प्रयोक्तं शक्यन्ते। यत्र तु हलामेकत्वानेकत्वरूपत्वात्खराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठयदन्त्यौष्ठत्वादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तत्रेण प्रयोग: कर्तुमशक्यः। साधारणरूपत्वात्तव्रस्य। तदुक्तम्-'साधारणं भ- वेत्तत्रम्' इति। एवं चावस्थिते ये तत्रेणोच्चारयितुं शक्यन्ते ते एकप्रय- तोच्चार्याः । तद्वन्धे सत्यर्थक्रेषो भवति। तदुक्तम्-एकप्रयतोच्चार्या- णामिति। तथा ये तेषामेवैकप्रयलोच्चार्याणां शव्दानां छायां सादृश्यं

Page 75

६४ काव्यालङ्गारसार-

बिभ्रति तदुपनिबन्धे च शब्दश्रिष्टम्। शब्दान्तरे उच्चार्यमाणे सादृश्य- वशेनानुच्चारितस्यापि शब्दान्तरस्य क्रिष्टत्वात्। तदुक्तम्-तच्छायां चैव विभ्रताम्। सरितादिगुणैर्भिन्नैर्वन्धः श्िष्टमिति। यथा- शब्दोक्तिविशिष्टं तत्प्रतीयतामिति। एतच्च क्रिष्टं द्विविधमप्युपमा- दयलङ्कारप्रतिभोत्पादनद्वारेणालङ्कारतां प्रतिपद्यते। अतोऽनेनानवकाश- त्वात् सविषयेSलक्कारान्तराण्यपोद्यन्ते तेषां विषयान्तरे सावकाशत्वात्। तदुक्तम्-अलङ्गारान्तरगतां प्रतिभां जनयत्पदैः। द्विविधैरिति। अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः । तदेवं शव्दश्रिष्टमर्थश्रिष्टं च लक्षितम्। तस्योदाहरणम्- स्वयं च पल्लवाताम्रभास्वत्करविराजिनी ।

इन्दुकान्तमुखी स्त्निग्धमहानीलशिरोरुहा। = अपारिजातवार्तापि नन्दनश्रीर्भुवि स्थिता । अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुका । न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्सयं चैवंप्रकारेति चशब्दः । अत्र भगवती किसलयवदाताम्रौ भाखन्तौ दीप्तिमन्तौ यौ करौ हस्तौ ताभ्यां विराजते। प्रभातसन्ध्या तु पल्लववदाताम्रैर्भाखत आदित्यस्य करैर्मयूखैर्विराजते। अत्र चोभयत्रापि हलादीनां साम्यम्। अतस्तत्रेणोच्चारण संभवादयमर्थश्ल्लेषः। अस्वापफललुब्घेहितप्रदेत्यत्र तु भगवतीपक्षे अस्वापं सुखेनामुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः । प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रानु- भवस्य यत्फलं श्रमनिवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्त- त्वात्तद्विपयं हितमदृष्ट समर्पयतीत्येवंविधेत्यर्थः । अत्र च पूर्वस्मिन्पक्षे

Page 76

४ वर्ग: ] लघुवृत्तौ ६५

ऐकपद्यात् (पा. अ. ६।२।१४४) थाथादिखरेणान्तोदात्तत्वम्। उत्तरत्र पुनरसापफललुब्धे इति हितप्रदेति च अनयोर्भिन्नपदत्वान्ना- नास्वरत्वम्। अखापफललुब्ध इत्यस्य "तत्पुरुषे तुल्यार्थेति" (पा. अ. ६।२।२) पूर्वपदप्रकृतिखवरे णाद्युतात्तत्वात्। हितप्रदेत्यस्य तु (पा. अ. ६।२।१४४) थाथादिस्रेणान्तोदात्तत्वात्। तेनात्र स्वरभेदः । अखापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदोऽपि। अतस्त्रेणोच्चार- यितुमशक्यता। एकसिमिंस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सा- दृश्यात्प्रतिपत्तिः अतोऽयं शब्दश्रेषः ।

प्रभातसन्ध्या ह्यत्रोपमानम्। भगवती उपमेया। इवशब्दश्चोपमानो- पमेयभावं द्योत्यति। शब्दव्यतिरेकेण तु साधारणो धर्मोऽर्थाधिकर- ोऽत्र न विद्यते। तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः । इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथा- विधा। तथा स्न्िग्धदीर्घकृष्णकेशी। मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा। त्रैलोक्योत्कृष्टा च। तथा पद्मवत् कमलवत् रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यास्तद्रूपा। यदा त्वसौ भगवती रूपकप्रतिभोत्पत्तिनिबन्धनेन श्रेषेण त्रैलोक्योदरवर्तिमाणिक्य- संभाररूपतया रूप्यते तदा प्रकृतोऽर्थश्चन्द्रकान्तेन्द्रनीलमौक्तिकशो- भापझरागैरवच्छादितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयो- गित्वाद् त्रिभुवनोदरान्तर्गतरल्नसमृद्धिरूपेति। अत्र च मुक्ताश्रीरित्यत्र खरमेदो विद्यते। बहुव्रीहिपक्षे "बहु्रीहौ प्रकृत्येति" पूर्वपदप्रकृति- सरत्वात्। तत्पुरुषे तु समासान्तोदात्तत्वाद। शिष्टानां तु शब्दानां ५ काव्या०

Page 77

६६ काव्यालङ्कारसार-

खरभेदो नास्ति। प्रयत्नगुरुत्वागुरुत्वे तु त्रिजगद्रलशब्दव्यतिरिक्तेषु तत्तद्वर्णविषयतया विद्येते। तेन तत्र शब्दश्लेषता। त्रिजगद्रतशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम्। अपारिजात- वार्तापीत्यत्र भगवत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोमा सर्वस्य चित्तमावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा। उदक- मध्यवर्तितया च योऽसौ अप्सु उदके प्रतिबिम्बित इन्दुस्तद्वससुन्दरी। नित्यं च गलल्लावण्यप्रवाहा। यदा त्वसौ भगवति नन्दनश्रीशब्दस्य

षेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपद- पर्यालोचनया विरोधप्रतिभाहेतोरपरस्यापि श्रेषस्याविर्भावो भवति। न खळु देवोद्यानशोभा अविद्यमानपारिजातारन्यवृक्षविशेषवृत्तान्ता भवति। न चासौ भूमौ तिष्ठति। अबिन्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्य नास्ति तस्याः कथं लावण्यविन्दवः प्रसरेयुरिति विरोघप्रति- पत्तिहेतुः श्रेषः । अपारिजातवार्तापीत्यत्राप्यपगता अरिजातवार्तेति बहु्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम्। तत्पुरुषपक्षेत्वन्तोदात्तत्वम्। अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सुन्दरीत्युपमानत्वात् "तरपुरुषे तुल्यार्थे"- त्यबिन्दुशब्दस्य प्रकृतिस्वरः । तस्य च सप्तम्यन्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिखरेणाद्युदात्तत्वम्। अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिसरत्वेन तदेव। तेनात्र सवरभेदस्याभावः । प्रयत्नभेद- कृताच्तु चकारवैचित्र्याच्छव्दश्लेषता।। इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटाल क्कारसार- संग्रहलघुवृत्तौ चतुर्थो वर्गः ॥

Page 78

५ वर्ग: ] लघुवृत्तौ ६७

अथ पश्चमो वर्गः। अपहुति विशेषोक्तिं विरोधं तुल्ययोगिताम् । अप्रस्तुतप्रशंसां च व्याजस्तुतिविदर्शने । उपमेयोपमां चैव सहोक्तिं संकरं तथा। परिवृत्ति च जगदुरलङ्गारान्परे गिराम्।। अपद्रुतिः- अपह्नुतिरभीष्टा च किश्चिदन्तर्गतोपमा। भूतार्थापह्ववेनास्या निवन्धः क्रियते बुधैः॥ यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपहुत्योपमानरूपारोपेणोपमानो- पमेयभावो तिरलङ्कारः । अत्र च प्राकरणिकस्य विद्यमानस्यार्थस्या · यद्वि- द्यमानोऽस्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीत्युक्तम्-किश्चिद- न्तर्गतोपमेति। तस्या उदाहरणम्- एतद्धि न तपः सत्यमिदं हालाहलं विषम्। विशेषतः शशिकलाकोमलानां भवादृशाम् ॥ अत्र प्राकरणिकस्य तपसः स्वरूपमपहत्य हालाहलविषविशेष- रूपताध्यारोपेण तत्सादृश्यमवगमितम्। तच्चात्र हालाहलविषसादृश्य- मुपमेयस्यापद्दुतत्वान्न स्फुटरूपम्। हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति। विशेषोक्ति :- यत्सामग़येऽपि शक्तीनां फलानुत्पत्तिबन्धनम् । विशेषस्याभिधित्सातस्तद्विशेषोक्तिरुच्यते ॥ १ अयमंश आदर्शपुस्तके त्रुटित उपलभ्यते।

Page 79

६८ काव्यालक्कारसार-

शक्तीनां कारकाणां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किश्चिद्विशेषमवगमयितुमनुत्पच्ेरुपनिबन्धः सा विशेषोकिः। तस्याश्च द्वौ भेदौ। कचित्खलु कारणसामम्येऽपि यत्कार्यं नोत्पद्यते तस्यानु- त्पत्तौ स्वकण्ठेन निमित्तमुपादीयते, कचित्त्वर्थसामर्थ्यादवगम्यते । तदाह- दर्शितेन निमित्तेन निमित्तादर्शनेन च। तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः ॥ अदर्शनमनुपादानम्। तत्र द्वितीयस्य भेदस्योदाहरणम्- महार्द्वेनि गृहे जन्म रूपं स्मरसुहृद्यः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न घीः ॥ अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूतायाः सुखप्राप्तेरनु- त्पत्तिरुपनिबद्धा पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेष- ख्यापनाय। अत्र च निमित्तं स्वकण्ठेनानुपात्तमप्यर्थसामर्थ्यादवग- म्यते। विधिवैधुर्यादिरूपशब्दोSत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रू- पप्रकर्षतात्पर्येणोपात्तः । स्मरसुदृध्वयो यौवनम्। यौवने हि मन्मथो- डभिमुखीभवति। आद्यभेदोदाहरणं तु- इत्थं विसंघुलं दृद्दा तावकीनं विचेष्टितम्। नोदेति किमपि प्रष्टुं सत्वरस्यापि मे वचः ॥ अत्र प्रश्नत्वरालक्षणकारणसद्भावेऽपि प्रश्नवचसोऽनुत्पत्तिरुपनि- बद्धा। तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषोऽव- गम्यते। अत्र च निमित्तं भगवतीगतिविसंछ्ठुलचेष्टितदर्शनं स्वकण्ठे- नोपात्तम् ।।

Page 80

५ वर्ग: ] लघुवृत्तौ ६९

विरोध :- गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः । यद्विशेषाभिधानाय विरोधं तं प्रचक्षते।। यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विर्वाशब्दस्योपात्त- त्वात् द्रव्यस्य विरुद्धोऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्मना क्रियते कश्चिद्विशेषमवगमयितुं स समये स्वरूपमुक्तम्। क्रिया कारणमुत्पादनं, तत्प्रधानं वचः क्रिया- वचः । कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थवि- लक्षणा: सरसाः पदार्था अभिनवा एव निर्मीयन्ते। अतः क्रिकियावच इत्युक्तम्। तस्योदाहरणम्- यद्वा मां किं करोम्येष वाचालयति विस्मयः । भवत्याः क्वायमाकारः क्ेदं तपसि पाटवम् ॥ अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेति- कृतः । किंवा करोमि विस्मयवाचालितः सन् व्रवीमि भवत्याः केति। एष विस्मयो मां वाचालयतीति संबन्धः । अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः । तेन च विस्मयविभावनाख्यो विशेषोऽत्र ख्याप्यते। अयं चासिद्ध- स्वभावधर्मनिष्ठत्वाद्गुणविरोघः । एवं साध्यस्वभावधर्मनिष्ठेऽपि क्रिया- विरोधे उदाहार्यम्। तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्य- विरोधे क्रियाद्रव्यविरोधे च ।। तुल्ययोगिता- उपमानोपमेयोक्तिशन्यैरप्रस्तुतैर्वचः । साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता ॥

Page 81

७० काव्यालक्कारसार-

अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता। अत

शून्यत्वं प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः । तस्याः पूर्वभेदस्योदाहरणम्- त्वदङ्गमार्दवं द्रष्टः कस्य चित्ते न भासते। मालतीशशभृल्लेखाकदलीनां कठोरता ।। त्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः । अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्वलक्षणं साम्यमुपनिबद्धम्। द्रष्टुरिति तृन्। तद्योगे च त्वद- क्रमार्दवमिति "न लोकाव्ययनिष्ठे"ति षष्ठीनिषेधः । द्वितीयमेदस्योदाहरणम्- योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम्। उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम् । अत्र प्राकरणिकानामपि योगपट्टादीनां भगवतीशरीरे संस्पर्शानौ- चित्यलक्षणः समानो धर्मो निबद्धः । तारवीत्वक् वल्कलम्। अङ्गस्य शरीरस्य। अप्रस्तुतप्रशंसा- अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः । अप्रस्तुतप्रशंसेयं प्रस्तुतार्थानुबन्घिनी ॥ अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रोपनिबन्धः सा अप्रस्तुतप्रशंसा। न चैवमपि तस्या उन्मत्तपला- पप्रख्यता, यतः सा केनचित्साजन्येन प्रकृतमर्थमनुबभ्नाति। तदु- क्तम्-प्रस्तुतार्थानुबन्धिनीति। तस्या उदाहरणम्-

Page 82

५ वर्ग: ] लघुवृत्तौ ७१

यान्ति खवदेहेषु जरामसंप्राप्तोपभोक्तृकाः । फलपुष्पर्द्धिभाजोऽपि दुर्गदेशवनश्रियः ॥ अत्र कृच्छेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्राकरणिक्य एव सवदेहजर्जरतयोपवर्णिताः । ताभिश्च सादृश्यं स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते। दुर्गेति "सुदुरोरधिकरण" इति डप्रत्ययः ॥ व्याजस्तुति :- शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते। वस्तुतस्तु स्तुतिश्रेष्टा व्याजस्तुतिरसौ मता। यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः स्वभावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव। पदार्थपर्यालोचनसामर्थ्योत्थायां स्तुतौ वाक्यार्थीभूतायाम- वान्तरवाक्यार्थत्वात्। अत एवाह-वस्तुतस्तु स्तुतिश्चेष्टेति वस्तुत इत्यर्थसामर्थ्यादित्यर्थः । तत्र न्याजस्तुतिर्नामालक्कारो भवति निन्दाव्याजेन हि सा स्तुतिः । अतो व्याजस्तुतिः । तस्या उदा हरणम्- विगनन्योपमामेतां तावकीं रूपसंपदम्। त्रैलोक्येऽप्यनुरूपो यद्वरस्तव न लभ्यते।। अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छन्दव्यापारेण स्पृष्टं न तत्स्ात्मपर्यवसितं, अर्थसामर्थ्योत्थलोकोत्तरभगवतीरूपो- त्कर्षप्रतिपादनपर्यवसितत्वात्। अतस्तस्यावान्तरवाक्यार्थता। तेनेयं व्याजस्तुतिः । निन्दाव्याजेन रूपोत्कर्षस्य स्तूयमानत्वात्। धिगन- न्योपमामि "त्युभसर्वतसोः कार्ये"ति द्वितीया॥

Page 83

७२

विदर्शना- अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत्। उपमानोपमेयत्वं कथ्यते सा विदर्शना ।। यत्र पदार्थानां संबन्धः स्वयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यवस्यति अथवा उपमानोपमेयभावकल्पनया खवात्मानमुपपादयति तत्र विदर्शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात्। तस्या उदाहरणम्- विनोचितेन पत्या च रूपवत्यपि कामिनी। विधुवन्ध्यविभावर्याः प्रविभर्ति विशोभताम्।। विधुश्चन्द्रः । विभावरी रात्रिः । अत्र रजनिकररहितविभावरी- विशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति। न ह्यन्यस्य संबन्धिनीं विशोभामन्यो बिभर्ति। अतः पदार्थसमन्वयस्यात्रानुपपत्तिः । उपमानोपमेयभावस्त्वत्र वाक्यार्थ- विश्रान्तिस्थानं कृष्णरात्रिवद्विशोभतां बिभर्तीति। एवमेतद्भवति वस्त्व- संबन्धे उपमानोपमेयभावकल्पनायामुदाहरणम्। यत्र तु पदार्थसम- न्वय उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तस्य विदर्शना- मेदस्योदाहरणमुद्भटपुस्तके न दृश्यते। तस्य तु भामहोदितमिद- मुदाहरणम्- अयं मन्दद्युतिर्भाखवानस्तं प्रति यियासिति। उदय: पतनायेति श्रीमतो बोधयन्नरान् ॥ इति। तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितस्य भाखतो यदेत- दस्तमयौन्मुखं तदुपेतस्य श्रीमतः प्रयोज्यकर्तृन् प्रति पातावसानो- दयकर्मकेऽवबोधे तत्समर्थाचरणलक्षणं. हेतुकर्तृत्वमुपनिबद्धम्। तथा-

Page 84

५ वर्ग: ] लघुवृत्तौ ७३

विधं खलु भाखन्तं पश्यन्तः श्रीमन्तो बुध्यन्ते भाखत इव सर्वस्योदयः पातावसान इति। तांश्रासौ तथावबुध्यमानान् खावस्थोपदर्शनेन प्रयुङ्े यथा ममायमुदयः पातावसानस्तथा भवतामपीति। अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाचरणलक्षण एव प्रयोजकव्यापारः कारी- षोऽध्यापयति भिक्षा वासयतीति यथा। तेन च प्रयोज्यप्रयोजकभावेन खात्मानमुपपादयितुमुपमानोपमेयभाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वङ्भवतामपीति यूयं बुध्यध्वमिति। तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन खात्मोपपादनायोपमानो- पमेयभावस्याक्षेपात् द्वितीयो विदर्शनाया मेद: ॥ संकर :-

नुग्राहकभेदेन। तत्र संदेहसंकरस्तावत्- अनेकालड्गियोल्लेखे समं तद्वृन्यसंभवे। एकस्य च ग्रहे न्यायदोषाभावे च संकरः ॥ अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति, न त्वेकशब्दाभिधानसंकरादावपि अनेकालक्कारोल्लेखः संभवति। यथा- मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी। तवापि मूर्धि गङ्गेव चक्रधारा पतिष्यति ॥ अत्र ह्ुपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषोऽनेकालङ्कार उल्लि- ख्यते। उपमानोपमेयभावे तावत् गङ्गोपमानम्। चक्रधारा उपमेया। मुरारिनिर्गतत्वं साधारणो धर्मः । श्रलेषस्त्वत्र नरकप्रतिपन्थिशब्दादा- त्मानं लभते। एकत्र हि नरको दानवः । अपरत्र त्ववीच्यादि । एतौ च द्वावलक्कारावेकस्मिन्निवशन्देऽनुप्रविशतः । न हयुपमानोपमेय-

Page 85

७४ काव्यालङ्कारसार-

भावस्तत्प्रतिभाहेतुर्वा श्रेषः समासाद्यभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते। तेनात्र द्वावलङ्कारावेकस्मिन्वाचके इवशब्देऽनुप्रविष्टौ। यदि चानेकालङ्कारोल्लेखे सति संदेहसंकरस्तत एवमादावप्यनेका- लङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्याशङ्कयोक्तम्-समं तट्ट - न्यसंभव इति। तस्यानेकस्यालङ्कारस्य समं युगपद्यदि वृत्तिर्व्यापारोS- लङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः । पूर्वोक्ते तूदाहरणे मुरारि- निर्गतेति साधारणधर्मोंपादानान्नरकप्रतिपन्थिनीति च क्लेषपदोपदर्श- नान्नानेक स्यालङ्कारस्य युगपद्रृत्तेरसंभवः । तेन तत्र न संदेहसंकरता। ननु यद्यनेकालङ्कारोल्लेखे युगपद्दृत्त्यसंभवे च संदेहसंकरत्वम्। एवं सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते। यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते । तत्राप्यनेकालङ्कारोल्लेखस्य समं तद्ृत्त्यसंभवस्य च संभवा- त्संदेहसंकरत्वं प्रसज्जतीत्याशक््योक्तम्-एकस्य च ग्रहे न्यायदोषा- भावे चेति। न्यायः साधकं प्रमाणम्। दोषो वाधकं प्रमाणम् । यत्रानेकालङ्कारोल्वेखे युगपद्दृत्त्यसंभवे च एकतरस्य ग्रहणे साधक- बाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः । तेन नानिष्टप्रसङ्गः । तथाहि-यत्र साधकबाधके प्रमाणे सामस्त्येन विद्येते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानाद्वाधकस्य प्रमाणो- पेतस्य च त्यागादेकस्य ग्रहणं भवति। यत्रापि साधकबाधकप्रमाण- योवैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमानानेकालक्कार- मध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागाचदितरस्य च पूर्वोल्लिखितस्य पारिशेष्ये- णोपादानादेकस्य अ्रहो भवति। यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव। एवमयं संदेहसंकरो लक्षितः । तस्योदाहरणम्-

Page 86

५ वर्ग: ] लघुवृत्तौ ७५

यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते। तथापि वच्मि कुत्रापि क्रियतामादरो नरे॥ अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासो- पमयोर्द्वयोरलङ्कारयोरुहेखः । न च तस्यानेकस्यालङ्कारस्य युगपद्दृत्तिः संभवति। एकालङ्कारसंश्रयेणैवालक्कारस्य कृतकृत्यत्वात्। न चात्र द्वयोर्मध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः । साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत्। तथा वाघकमपि प्रहातव्यालक्कारनिषेधमुखेनोपादेयमलङ्कारं पूर्वोलिखितं पारिशे्यादु- पादेयतया प्रतिपादयति। अत्र तु द्वयोः साधकबाधकप्रमाणयोर- भावात्संदेहः । तेन संकरोऽलद्कारः । शब्दार्थवर्त्यलङ्कारस्तु- शब्दार्थवर्त्यलङ्कारा वाक्य एकत्र भासिनः । संकरो वा यत्रैकस्मिन्वाक्ये शब्दवर्तिनोऽर्थवर्तिनश्चालक्काराः संसर्गमुपयान्ति स शब्दार्थालद्कारः । तस्योदाहरणम्- इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम्। रूपेण ते युवा सर्वः पादवद्धो हि किक्करः ॥ वरार्था भर्त्रर्था। किङ्करो दासः । अत्र थकारोपनिबद्धोऽनुप्रासा- त्मक: शब्दालक्कारः। अर्थालक्कारश्रार्थान्तरन्यासो विद्यते। तथाहि- अत्र मा कृथा व्यर्थमर्थितामित्युपादित्सितेऽर्थेऽर्थित्वस्याकरणं यदुप- निबद्धं तदनुपपद्यमानतया संभाव्य तत्समर्थनायोक्तं 'रूपेण ते युवा सर्व: पादबद्धो हि किङ्कर' इति। यो गुणोत्कर्षशाली स नार्थयते,

Page 87

७६ काव्यालङ्गारसार-

अपि त्वर्थ्यते यथा रलनादि। त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी। तस्मादुपादित्सितेऽर्ये तवार्थित्वमयुक्तमिति। तेनायं शब्दार्थवर्त्य- लक्कारसंकरः ।। एकशब्दाभिधानसंकरस्तु- एकवाक्यांशप्रवेशाद्वाभिधीयते। एकस्मिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एकशब्दाभिधानसंकरः । तस्योदाहरणम्- मैवमेवास्ख सच्छायवर्णिका चारुकर्णिका। अम्भोजिनीव चित्रस्था दृष्टिमात्रसुखप्रदा।। अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्र श्रेष इत्येतौ द्वाव- लङ्कारावेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ। तथाहि-अम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा। सच्छायवर्णिका चारुकर्णिकेति श्रेषः । अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्या तु गौरत्वम्। अम्भोजिन्यां कर्णिका कमल- मध्यवर्तिबीजकोशः । गौर्या तु चारू कर्णौ। कप्चात्र समासान्तः । तेनायं श्लेषः । एतौ च द्वावलक्कारावेकस्मिन्वाक्यांशे इवशब्देऽनु- प्रविष्टौ। तेनायमेकशब्दाभिधानसंकरः ॥ अनुग्राह्यानुग्राहकसंकरस्तु- परस्परोपकारेण यत्रालङ्कतयः स्थिताः । खातन्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः॥ यत्रोपकार्योपकारकभावावस्थितत्वादलक्काराः स्वातत्र्येणात्मानं न लभन्ते सोऽनुआ्ह्यानुग्राहकसंकरः। उपकार्योऽप्युपकारकमुपकरोति। तदीयस्योपकारस्य विषयभावेनावस्थानात्। उपकार्ये ह्युपकारकाधेय-

Page 88

५ वर्ग: ] लघुवृत्तौ ७७

सुपकारं प्रतीत्सति सत्युपकारकस्योपकारकत्वं भवति। तेनोपकार्येणा- प्युपकारकस्योपकारः क्रियत इति परस्परग्रहणमत्रोपात्तम्-परस्परो- पकारेणेति। तस्योदाहरणम्- हरेणेव स्मरव्याधस्त्वयानङ्गीकृतोऽपि सन्। त्वद्वपुः क्षणमप्येष धार्श्ादिव न मुञ्जति॥ अत्र धार्थ्ादिव न मुञ्चतीति या असावुत्प्रेक्षा सा हरेणेव स्मर- व्याघस्त्वयानङ्गीकृतोऽपि सन् इत्युपमाप्रतिभोत्पत्तिहेतुश्लेषवशेन स्वरूपं प्रतिलभते। अनङ्गीकृतो हि अनङ्गत्वमशरीरत्वमापादितः अनूरी- कृतश्च । यश्चानूरीकृतः क्षणमपि न मुञ्चति, तत्र धार्थ् हेतुतयोत्प्रे- क्षितुं शक्यते। तेन श्लेषवशेनात्रोत्प्रेक्षा आसादितस्वभावा। अतोऽ- यमनुग्राह्यानुग्राहकसंकरः । एवमयं चतुर्विधः संकरो नानालङ्कारगतविकल्पव्यवस्थासमुच्चया- ङ्राङ्गिभावसमाश्रयणेनाभिहितः । तत्रानेकालक्कारविकल्पात्संदेहसंकरः। विभिन्नाधारत्वेन शब्दार्थवर्तिनोरलङ्कारयोरवस्थानाद्यवस्थासमाश्रयः शब्दार्थवर्त्यलङ्कारसंकरः । एकशब्दाभिधानसंकरे तु समुच्चयेनाने- कोऽलद्कार एकस्मिन् वाक्यांशे इवादावनुप्रविशति। अनुग्राह्यानु- ग्राहकसंकरे त्वनेकस्यालङ्कारस्याङ्गाङ्गिभावः । अतो विकल्पव्यवस्था- समुच्चयाङ्गाङ्गिभावसंश्रया एते चत्वारः संकरभेदाः ॥ उपमेयोपमा- अन्योन्यमेव यत्र स्यादुपमानोपमेयता। उपमेयोपमामाहुस्तां पक्षान्तरहानिगाम् । यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा। उपमेयेनोपमानस्योपमानात्। ननु च प्राकरणिकं साम्याभिधानसंबन्धि Y Cri Pratap College, Srinagar.

Page 89

काव्यालङ्गारसार-

उपमेयं। अप्राकरणिकं उपमानं। यदि चात्रोपमेयस्योपमानत्वमभि- घीयते, एवं सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशड्च्योक्त्तम्- पक्षान्तरहानिगामिति। नात्रोपमानोपमेयभावे तात्पर्य किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति। अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात् परस्परमुपमानोपमेयभावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतिपाद्या- यामवान्तरवाक्यार्थत्वेनावस्थानात्, वरं विषं भक्षय मा चास्य गृहे भुङ्थाः इतिवत्। अत्र हि विषभक्षणं न विधीयते। दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात्। एवमिहाप्युपमानोपमेयभावस्याविवक्षापक्षा- न्तरहानौ तात्पर्यात्। तस्या उदाहरणम्-

शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम्। आजौ करोपमं चक्रं यस्य चक्रोपमः करः ॥ अत्र यस्येत्युपात्तस्य त्वत्कृते सोऽपि वैकुण्ठ इत्यत्र तच्छब्दसम- न्वयेनाकाङ्काविच्छेदो भविष्यति। उत्तरेप्वपि च श्लोकेषु तेनैव यच्छब्दार्थो निराकाङ्डी कार्यः । अत्र करचक्रयोः परस्परमुपमानो- पमेयभावः । साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरोऽवकर्त- नम्। एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः । यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति।।

सहोक्ति :- तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते। पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम् ॥

Page 90

५ वर्ग: ] लघुवृत्तौ ७९

यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्रवृत्त्या कथ्येते तत्र सहोक्तिर्नामालक्कारो भवति। ननु 'संजहार शरत्कालः' इत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे किये कथ्येते। अतश्च तत्रापि सहोक्तित्वं प्राम्नोतीति आशङ्कयोक्तम्-तुल्यकाले इति। यत्र सहादिना पदेन तुल्यकालतामवगम्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम्। न चैवं दीपक इति नातिव्याप्तिः । सहादिना च शब्देन युगपत्कालतायामवद्योत्यमानायां द्वयी गतिः । कदाचित्खलु ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया साश्रयविश्रान्तत्वेनाभिघीयेते, यथा देवदत्तयज्ञदत्तौ सह भुञ्जाते इति। कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहितायां सहाद्यर्थ- पर्यालोचनासामर्थ्यादपरस्याश्रयस्य क्रियासंबन्धोऽवगम्यते, यथा देव- दत्तो यज्ञदत्तेन सह भुङ्ग इति। तत्रेह द्वितीया गतिराश्रीयते। शाब्देन रूपेणैकत्र क्रियासंवन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीय- मानत्वेन वक्रभणिते सद्भावात्। एवंविधस्य यत्रैव शोभातिशयविधा- यित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम्। तस्या उदा- हरणम्- दुजनो मृत्युना सार्ध यस्याजौ तारकामये। चक्रे चक्रामिधानेन प्रैष्येणाप्तमनोरथः ॥ यस्य प्रैष्येण इति संबन्धः । अत्र मृत्योर्द्ुजनस्य च मनोरथावा- प्िकरणलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवाप्तमनोरथ इति। यद्य- प्यवाप्तमनोरथ इति चक्र इति च सुपिङन्तत्वभेदेन पदद्वित्वं तथापि क्रियापदद्वितयोपादानव्यावृत्तेर्विवक्षितत्वात्पदेनैकेनेति न विरुध्यते। अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यव-

Page 91

८० काव्यालङ्कारसार-

स्न्ती मनोरथावाप्तिलक्षणं विशेषं गर्भीकरोति। अतश्चात्र सत्य- प्यनेकपदत्वे एकपदीभाव इव प्रकाशते। तेन एकेन पदेनेत्युक्तम्। सार्ध शब्दश्वात्र तुल्यकालतामवद्योतयति। यस्य प्रैष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन मृत्युना सार्धमपृथक्ालतया द्युजन आप्तमनो- रथः कृत इति। अनेकलोककवलीकरणान्मृत्योर्मनोरथावाप्तिः, द्युजनस्य च शत्रुविनाशात्। परिवृत्ति :- समन्यूनविशिष्टैस्तु कस्यचित्परिवर्तनम्। अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा।। कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः । सा च त्रिविधा। परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वाद- धिकत्वाच्च । तदिदमुक्तम्-समन्यूनविशिष्टैरिति । तत्र यस्याः समोऽर्थः परिवर्त्यते तस्या अनर्थखभावता। अर्थशब्देन हि उपा- देयोऽर्थोऽभिधीयते,ऽथ्र्यतेऽसाविति कृत्वा। यत्र च साम्यं तत्रार्थ- नीयत्वं नास्ति। तेनार्थ्यत्वाभावानुगमात्तत्रानर्थत्वमभिधीयते। अत- स्तत्रानर्थस्वभावं परिवर्तनम्। यत्रापि च निकृष्टपरिग्रहेणोत्कृष्टपरि- त्याग: क्रियते, तत्राप्यनर्थखभावता। उपादेयविपरीतस्योपादानात्। अर्थप्रतिपक्षो ह्यत्रानर्थः । अघर्मानृतवत्। यथा ह्यघर्मानृतशब्दाभ्यां नोत्तरपदार्थाभावमात्रमभिधीयते, नाप्युत्तरपदार्थतुल्योऽर्थः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभि- धानम्। यथा अनर्थो वैरिणामापतित इत्येवमादौ। तेन यत्रोत्कृष्टेन निकृष्टः परिगृद्यते तत्र दुःखहेतुत्वादर्थप्रतिपक्षत्वेनानर्थस्वभावता। यत्र तु निकृष्टेनोत्कृष्टः परिगृद्यते तत्रोत्कृष्टस्य सुखहेतुत्वेनोपादेय-

Page 92

५ वर्ग: ] लघुवृत्तौ ८१

त्वादर्थस्वभावता। तदिदमुक्तम्-अर्थानर्थस्वभावमिति। तत्र सम- परिवृत्तेरुदाहरणम्- उरो दत्वामरारीणां येन युद्धेप्वगृद्यत। हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया ॥ अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणस्यार्थस्योत्साह- स्योपायतया प्रतीयते। अभिधेयोऽर्थो वक्षसो दानं नाम यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योत्साहस्य प्रतीतेः तदपेक्षया समेन समस्य परिवर्तनम्। उरोयशसोः समत्वात्। न्यूनपरिवृत्तेस्तूदाहरणम्- नेत्रोरगवलभ्राम्यन्मन्दराद्रिशिरश्ष्युतैः । रलैरापूर्य दुग्धान्घिं यः समादत्त कौस्तुभम्॥ नेत्रभूत उरगो वासुकिः । अत्र-कौस्तुभस्योत्कृष्टस्य निकृष्टरत्न- परित्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम्। विशिष्टपरिवृत्तेस्तूदाहरणम्- यो वलौ व्याप्तभूसीन्नि मखेन द्यां जिगीषति। अभयं स्वर्गसद्मभ्यो दत्वा जग्राह खर्वताम्॥ भूसीमा पृथिव्या अवधिः । मखो यज्ञः। अत्र अभयेनोत्कृष्टेन निकृष्टस्य खर्वत्वस्य ह्ृस्वत्वस्य परिवर्तनं अभिधेयापेक्षया पूर्वतरोदा- हरणवत्प्रतिभाति। तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः । यत्तद्ेवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण खर्वतायाः परिगृही- तत्वात्। इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्गारसार- संग्रहलघुवृत्तौ पश्चमो वर्गः ॥

६ काव्या

Page 93

८२ काव्यालङ्कारसार-

अथ षष्ठो वर्गः । अनन्वयं ससंदेहं संसृष्टिं भाविकं तथा। काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः॥ अत्र इतिशव्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयोगान्नानन्वयादिस्वरूपपरामर्शार्थत्वम्। इत्येवं वक्ष्यमाणलक्षणकत्वे- नानन्वयादीनलक्कारान्विदुरित्यर्थः । अतो वेदनक्रियाकर्मत्वादनन्वय- मित्यादौ द्वितीया। काव्यदष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्येकमभिसंबध्यते। दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽ- भ्यर्हितत्वात्। अभ्यर्हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात्। ससंदेह :- उपमानेन तत्वं च भेदं च वदतः पुनः । ससंदेहं वचः स्तुत्यै ससंदेहं विदुर्बुधाः। उपमानभेदपूर्व भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति संबन्धः । संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेद- मुपमेयस्याभिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदोऽभि- धीयते तदा ससंदेहोऽलज्कारः । ननु उपमानेन सह पूर्वमभेदेऽभिहिते सति पुनर्यदि तस्माद्वेदस्याभिधानं क्रियते। एवं सति गजस्ानं प्राम्नोतीत्याशङ्कयोक्तम्-स्तुत्यै इति। स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः । तस्योदाहरणम्- हस्ते किमस्य निःशेषदैत्यहृद्दलनोद्भवम् । यश:संचय एष स्यात्पिण्डीभावोऽस्य किंकृत: । नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः । इति यस्याभितः शङ्गमशङ्किष्टार्जवो जनः ॥

Page 94

६ वर्ग: ] लघुवृत्तौ ८३

आर्जवो मूर्खः । ऋजुत्वयोगात्। अत्र शङ्ग उपमेयः । यशःसं- चयो हंसश्चोपमानम्। तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसंचयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः । यशःसंचयात्तावद्भेदोपवर्णनं पिण्डीभावोऽस्य किंकृत इति। यशःसंचयः खलु प्रसरणशीलः । अस्य तु तद्विरुद्धः पिण्डी- भावो दृश्यते। तेन नायं यशःसंचय इति। हंसात्तु भेदाभिधानं नैव चञ्चल इति । हंसस्य हि चञ्चलत्वं नाम धर्मः । इहच तन्नोप- लभ्यते, तस्मान्नैव हंस इति। एवंविधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता सहस्तवर्ती कृत इति, तथासंभाव्य- मानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भग- वानिति॥ ससंदेहस्य भेदान्तरमाह- अलङ्कारान्तरच्छायां यत्कृत्वा धीपु वन्धनम्। असंदेहेऽपि संदेहरूपं संदेहनाम तत् ।। छाया शोभा। यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्ववदुपमानादुपमेयस्य भेद उपनिबध्यते किं तर्ह्यभेद एव संशय- च्छायया। तथाविधस्य चोपनिबन्धस्य फलमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः । यदाह-धीष्वलङ्कारान्तरच्छायां कृत्वा इति। तत्रापि संदेहालङ्कारः । तस्योदाहरणम्- नीलाब्दः किमयं मेरौ धूमोऽथ प्रलयानले। इति यः शङ्क्यते श्याम: पक्षीन्द्रेऽर्कत्विषि स्थितः ॥ अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवह्याश्रयश्च धूमः इत्येतदुभयमुपमानम्। गरुडारूढस्तु भगवान् कृप्णवपुरुपमेयः । तेन

Page 95

८४ काव्यालङ्कारसार-

च उपमानद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्ध: किम- यमेवंविधः अथैवंविधः इति। ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्व- वद्भेदनिबन्धनं नात्र किंचिदभिहितम्। फलं चैवमभिघानस्योपमा- लङ्कारध्वननम्। एवंविधोपमानद्वितयसदृशो भगवान्वैनतेयारूढ इति। अनन्वय :- यत्र तेनैव तस्य स्यादुपमानोपमेयता। असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ।। यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्योऽलद्कारः । ननु च सादृश्य- संबन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेय- योर्लक्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवती- त्याशङ्योक्तम्-असादृश्यविवक्षात इति । नात्रोमपानोपमेयभावे तात्पर्य किन्तूपमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः । इतिशब्दोऽत्र वक्ष्यमाणोदाहरणोपक्षेपार्थत्वादनन्वयशव्देन नाभिसंवध्यते। तेन अनन्वयमिति द्वितीया। तस्योदाहरणम्- यस्य वाणी स्ववाणीव स्वक्तियेव क्रियामला। रूपं स्वमिव रूपं च लोकलोचनलोभनम् ॥ अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपाद- यितुमात्मनैवोपमानोपमेयभावो निबद्धः । संसृष्टि :- अलङ्कतीनां वहीनां द्वयोर्वापि समाश्रयः। एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते ।

Page 96

६ वर्ग: ] लघुवृत्तौ ८५

बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलक्कारः । यत्र तु परस्परसापेक्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः । यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेका- लङ्कारोपनिबन्घस्तत्रापि शब्दार्थवर्त्यनेकालङ्कारसंकर उक्तः । एत- द्वैलक्षण्येन तु संसृष्टिः । तस्या उदाहरणम्- त्वत्कृते सोऽपि वैकुण्ठः शशीवोषसि चन्द्रिकाम्। अप्यधारां सुधावृष्टिं मन्ये त्यजति तां श्रियम् । तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे। वरेण सह तारुण्यं निर्विशन्ती गृहे वस।। निर्विशन्ती उपभुञ्जाना । अन्र शशी उषसि चन्द्रिकामिव वैकुण्ठः त्वत्कृते श्रियं त्यजति इत्युपमा । अधारां सुधावृष्टिमिति रूपकम्। तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संवन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगत- सकलगुणाभ्यनुज्ञारूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति। तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः । तयोः केवलाभिघेयाश्रयत्व्रात्परस्परनिरपेक्षत्वाच्च। 'तदुत्तिष्ठ' इत्येतच्छोकापेक्षया तु 'कमलेक्षणे' इति समासोपमात्मकमुपमाभेद- माश्रित्य पूर्वोक्तालक्कारद्दयसंकलनया बहूनामलङ्काराणां संसृष्टयुदाहरण- दिक्प्रदर्शनं द्रष्टव्यम्॥ भाविकम्- प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुता: स्यात्तद्वाचामनाकुल्येन भाविकम् ॥

Page 97

८६ काव्यालक्कारसार-

सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्था भूताः, यथा इदानीं युधिष्ठिरादयः । ये तु सांप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः । एव- मनन्तरोपलक्षिताः भूता भाविनश्च येऽर्थास्ते सांप्रतिकप्रध्वंसाभाव- प्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालक्कारो भवेत्। अत्र हेतुर्वाचामनाकुलता अर्थानां चात्य्भुतत्वम् । तदुक्तम्- वाचामनाकुल्येनेति। अत्यद्भुता इति च । तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दो- पनिबन्धाज्झगित्यर्थप्रतीतिकारिता । तस्यां हि सत्यां कवेः संबन्धी यो भाव आश्रयः शृङ्गारादिरससंवलितच तुर्वर्गोपायभूत विशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः सवाभिप्रायेऽभेदेन तत्तत्काव्यप्रतिवि- म्बितरूपतया साक्षात्किरियते। श्रोतृणामपि हि तथाविधसवच्छशव्द्वानु- भवद्रावितान्तरात्मनां सहृदयानां सवाभिप्रायप्रतिमुद्रा तत्र संक्रामति। अतः कवेर्योSसावभिप्रायस्तद्वोचरीकृता भूता भाविनोऽपि पदार्थास्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते। यथा चात्र शव्दगतमनाकुलत्वमनन्तरोक्त्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रो- दात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम्। तदुक्तं भाविकमुपक्रम्य भामहेन-"चित्रोदात्ताद्भुतार्थत्वं कथायां खभिनीतता। शब्दाना- कुलता चेति तस्य हेतून् प्रचक्षते" इति ॥ सवभिनीततेत्यभिनयादि- द्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तम्। तदेवमेवंविध- हेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम्।

अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरःरफुरद्रूपस्य विद्यमानत्वाद्धाविकव्यपदेशः । भावोऽस्मिन् विद्यते

Page 98

६ वर्ग: ] लघुवृत्तौ ८७ इति भाविकम्। तदाहु :- "रसोल्लासी कवेरात्मा स्वच्छे शव्दार्थ- दर्पणे। माधुर्यौजोयुतप्रौढे प्रतिविन्द प्रकाशते। संपीतस्च्छशब्दार्थ- द्राविताभ्यन्तरस्ततः । श्रोता तत्साम्यतः पुष्टिं चतुर्वर्गे परां त्रजेत्" इति। सवच्छ इति प्रसादगुणोऽभिहितः । प्रौढ इति तु सालक्कारता । संपीतौ सम्यगास्वादितौ। तत्साम्यत इति खाभिप्रायाभेदेन कविगत- स्याभिप्रायस्याध्यवसानादित्यर्थः । तस्योदाहरणम्- करोषि पीडां प्रीतिं च निरञ्जनविलोचना। मूर्त्यानया समुद्वीक्ष्य नानाभरणशोभया । अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरण- त्यागात्पीडा। सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः

षणसंबन्धो व्यतीतोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यक्ष इव कविनोपनिबद्धः । तथैव चासौ सहृदयानां चमत्कारमावहति । संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुत्रीहिः। काव्यहेतु :- श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ।। यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्यलिङ्गं नामालक्कारः। पक्षधर्मत्वान्वयव्यतिरे कानुसरणगर्भतया यथा तार्किकप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिवध्यमाना वैरस्यमावहन्ति न तथा काव्यहेतुः अतिशयेन सर्वेषां जनानां योऽसौ 31 हृदयसंवादी सरसः पदार्थस्तन्निष्ठतया उपनिवध्यमानत्वात्। अतः

Page 99

८८ काव्यालङ्कारसार-

काव्यलिङ्गमिति काव्यग्रहणमुपात्तम्। न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते। ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदर्श्यते। काव्यस्य सरसत्वात्। काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात् सरसमेव भवति, न तु नीरसम्। तथाहि-गुणाः काव्यस्य माधु- र्यौजःप्रसादलक्षणाः । तत्र माधुर्यमाह्लादकत्वम्, ओजो गाढता, प्रसादस्त्वव्यवधानेन रसाभिव्यत्तयनुगुणता। तदेतेषां त्रयाणां गुणानां मध्यात्प्रसादस्य प्राधान्यम्। माधुर्योजसोस्तु तत्तद्रसाभिव्यत्तयानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता। एवं च तत्र तद्र- सानुगुण्येन माधुर्योजोभ्यां तारतम्येनावस्थिताभ्यां उपकृतो योऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्तदुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता। यद्येवमिदानी गुणैरेव कृतकृत्यत्वात्काव्यस्यालक्काराणां तत्र निरुपयोगता प्राप्नोति। नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातिशयविधायित्वाल्लौ- किकालक्कारवत्। यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवति- वपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम्। ननु निर्गुणेऽपि काव्ये अलक्काराणां गुणवच्छोभाविधायित्वं कस्मान्नेष्यते। अपरिदृष्टत्वात्। न खलु निर्गुणे काव्ये निबध्य- मानानामलक्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते। तथाहि-जरद्योषित्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्यमानानां तेषामात्मीयमेव सौभाग्यं हीयते। तथा का याकाराणामपि निर्गुणे काव्ये निवध्यमानानां काव्यशोभाहेतु- त्वाभावः स्वशोभाहानिश्च भवति। यदवोचद्धट्टवामन :- "युवतेरिव

Page 100

६ वर्ग: ] लघुवृत्तौ ८९

रूपमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्त- राभि: सदलङ्कारविकल्पकल्पनाभिः ॥ यदि भवति वचश्र्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियत- मलङ्करणानि संश्रयन्ते ॥।" इति । अङ्गशब्द इष्टामब्रणे। शुद्धगुण- त्वात्सदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरिचयमतिशयेन खवदते इति संबन्धः । अत एवालक्काराणामनित्यता। गुणरहितं हि काव्य- मकाव्यमेव भवति, न त्वलङ्काररहितम्। अलङ्काराणां गुणोपजनित- शोभे काव्ये शोभातिशयविधायित्वात्। तदुक्तम्-"काव्यशोभायाः कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलङ्काराः । पूर्वे नित्याः ।" इति। पूर्वे इति गुणा इत्यर्थः । लक्ष्ये च अलङ्काररहितमपि केवल- गुणसंस्क्रियमाणशब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवे- रनिबद्धशृङ्गाररसस्यन्दी श्रोक :- "कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पितमश्रुतम्। असहन- सरीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छुसितं ततः ॥I" इति। न खल्वत्रार्थालक्कारः कश्चित्परिदृश्यते। अथ माधुर्यौजोभ्यां परिवृंहितस्य प्रसादस्य विद्यमानत्वात्काव्यरूपता। ननु चात्रापि ईर्ष्याविप्रलम्भविरहविप्रलम्भश्ृङ्गाराभ्यां स्वतिरोधा- नेनोपकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तदयोगाच् रसवत्त्वमलं भविष्यति । तथाहि 'कथमपि कृतप्रत्यापत्तौ प्रिये' इत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः । स्खलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईर्ष्या- विप्रलम्भशृङ्गारो निबदः। पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादै- रवहित्थेन भावेन नायिकाधारमीर्ष्या विप्रलम्भशृङ्गारं प्रच्छाद्य संभोग-

Page 101

९० काव्यालङ्गारसार-

शृङ्गारेण चित्तोल्लाससूचितेन वाक्यार्थसमाप्तिः कृता। तथा हि- विरहकृशेत्यादिना पादेन नायिकागतो मन्युरवच्छाद्योपदर्शितः । असहनसखीत्यादिना तु गोत्रस्खलितस्य सरीश्रोत्रपार्प्ति विरहविप्र- लम्भकारणत्वेनाशङ्कय दृष्टिपरावृत्त्या सखीजनशून्ये गृहे परिदष्टे यत्तन्नायिकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थो निर्वाहितः । तदेवमत्र संभोगस्य विप्रलम्भबाधेन लब्घपदवन्घस्योप- निबन्धाद्रसवत्त्वमलङ्कारः। तत्कथमत्र निरलङ्कारतोक्ता। उच्यते। न खलु काव्यस्य रसानां वालक्कार्यालक्कारभावः, किन्तु आत्मशरीर- भावः । रसा हि काव्यस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीर- रूपतया। यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते। तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषयतयात्मत्वेनावस्थानं, नत्वलङ्कारतया। रसा- भिव्यक्तिश्च यथायोगं माधुर्योजोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते। अतोऽत्र विप्रलम्भशृङ्गारोप- कृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलक्कारतयेति युक्तमिदमुक्तं निरलङ्कारमपि काव्यं सगुणं दृश्यते इति। एवं रसान्तरेषु भावेषु रसभावाभासेषु तत्प्रशमेषु च वाच्यम्। तदाहु :- "रसाद्यघिष्ठितं काव्यं जीवद्रूपतया यतः । कथ्यते तद्र- सादीनां काव्यात्मत्वं व्यवस्थितम् ।।" इति। यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया। तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम्। यद्येवं गुणशून्यत्वा- न्नीरसे व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः। ततश्र "वृत्तदेवादिचरितशंसि चोतपाद्यवस्तु च । कलाशास्त्राश्रयं चेति चतुर्घा भिद्यते पुनः ॥" इति भामहोदितं विरुध्यते, अत्र हि

Page 102

६ वर्ग: ] लघुवृत्तौ ९१ कलाश्रयशब्देन भरताद्यभिहितम्। शास्त्राश्रयशब्देन च व्याकर- णादि। अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति। उच्यते । मुख्यया तावद्ृत्त्या गुणसंस्कृतशब्दार्थशरीरमेव काव्यम्। गुणरहित- शब्दार्थशरीरे तु काव्यमात्रे काव्यशब्दस्य काव्यसादृश्यादुपचारा- त्प्रयोगो भविष्यति। उक्तं च-"काव्यशब्दोऽयं गुणालक्कारसंस्कृ- तयोः शब्दार्थयोर्वर्तते । भत्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्यते" इति। भत्त्येति उपचारेणेत्यर्थः । तदेवं गुणसंस्कृतशब्दार्थशरीरत्वा- त्काव्यस्य सरसत्वमिति। तद्विशिष्टं काव्यलिङ्गं सरसपदार्थनिष्ठमेव भवति, न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम् । तार्कि- काणां च हेतुव्यापारे द्वैविध्यम्। केचित्खलु तार्किका व्याप्तिग्रहण- काले यदनुभूतं व्यापकं वह्यादिवस्तु धूमादेर्व्याप्यस्य तत्स्मरणमात्रे धूमादिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते ! अपरे तु वहयादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादि- हेतुव्यापारसामर्थ्येन इदानीमेव अवसेयत्वाहिङ्गसामर्थ्याह्निङ्गयनुभवस्यैव उत्पत्तिमाहुः । तदिदमुक्तं स्मृतेरनुभवस्य वेति । तस्योदाहरणम्- छायेयं तव शेषाङ्गकान्तेः कि््िदनुज्ज्वला। विभूषाघटनोद्देशान्दर्शयन्ती दुनोति माम् ॥ अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामर्थ्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोSती- तोऽनुमीयते। तेन तत्काव्यलिङ्गम् । काव्यदृष्टान्त :- इष्टस्यार्थस्य विस्पष्टप्रतिविम्बनिदर्शनम्। यथेवादिपदैः शून्यं वुधैर्द्ृष्टान्त उच्यते॥

Page 103

१२ काव्याळकुारसार-

इष्टस्य प्राकरणिकतया मतिपादयित्तुमभिमतस्यार्थस्य यत्र विस्पष्ट- तया प्रतिबिम्बं सद्शं वस्तु निदर्श्यते तत्र काव्यदष्टान्तो नामा- लक्कारः । ननु "कोपादेकतराघातनिपतन्मत्तदन्तिनः । हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः" इत्येवमादावपि अप्रस्तुतप्रशंसायामिष्टार्थप्रति- बिम्बनिदर्शनं विद्यते। तथाहि-अत्र रामदेवस्य मारीचवधे व्यापारो निरायासो हरिणहननोद्योगिकेसरिकिशोरप्रतिबिम्बितत्वेन निदर्शितः । अतोऽत्रापि दृष्टान्तताप्रसङ्ग: । नैतत्। यत एतदर्थमेव विस्पष्टग्रह- णमुपात्तम्। अत्र हि प्रतिबिम्बादेव बिम्बस्योन्नयनाद्विस्पष्टरूपतया इष्टस्यार्थस्य प्रतिबिम्बनिदर्शनं नास्ति। यत्र तु इष्टमर्थ स्वकण्ठेनो- पादाय तस्य प्रतिबिम्बमुपदर्श्यते तत्र दृष्टान्तत्वम्। अतो नाति- व्याप्तिः । उपमादावप्येवंविधस्य रूपस्य संभव इति तन्निराकरणार्थ- मुक्तम्-यथेवादिपदैः शून्यमिति। आदिग्रहणेनात्र साधारण- धर्मस्यापि परिग्रहः । तस्योदाहरणम्- किञ्चात्र बहुनोक्तेन व्रज भर्तारमाम्ुहि। उदन्वन्तमनासाद्य महानद्यः किमासते ॥ अत्र भगवतीकर्तृकाया वरप्राप्तेर्महानदीकर्तृका उदन्वत्प्राप्तेर्विस्पष्ट- तया प्रतिबिम्बत्वेनोपनिबद्धा। अतो दृष्टान्तः । एवमेतेऽष्टकषटुत्रिकसप्तकैकादशकषटै: षङ्मिर्वर्गैरेकचत्वारिंशद- लङ्काराः प्रतिपादिताः । ननु यत्र काव्ये सहृदयहृदयाह्रादिन: प्रधानभूतस्य खशब्दव्या- पारास्पृष्टत्वेन प्रतीयमानैकरूपस्यार्थस्य सद्भावस्तत्र तथाविघार्थाभि- व्यक्तिहेतुः काव्यजीवितभूत: कैश्चित्सहृदयैर्ध्वनिर्नाम व्यक्जकत्वमे-

Page 104

६ वर्ग: ] लघुवृत्तौ ९३

दात्मा काव्यघर्मोऽभिहितः । स कस्मादिह नोपदिष्टः । उच्यते। एष्वेवालङ्कारेप्वन्तर्भावात्। तथाहि-प्रतीयमानैकरूपस्य वस्तुत्रै- विध्यं तैरुक्तं वस्तुमात्रालङ्काररसादिभेदेन। तत्र वस्तुमात्रं तावत्प्रती- यते यथा- चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य। आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्।। इति। अत्र हि राहुवधूरतोत्सवस्य या चुम्बनमात्रशेषता तत्कर्मका चक्राभिघातप्रसभाज्ञाकरणिका चकारेति करणलक्षणा क्रियाभिधीयते। सा चैवंविधा कार्यभूतत्वात्कारणमन्तरेणानुपपद्यमाना तथाविधवैरस्य- कारि राहुशिरश्छेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति। अतोऽत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारास्पृष्टस्य प्रतीयमानता, तद्विषयस्य च काव्यधर्मस्य ध्वन- नाभिधानस्य वाच्यवाचकव्यापारशून्यावगमनस्वभावत्वात्पर्यायोक्ताल- द्वारस्पर्शित्वं, तदुक्तम्-"पर्यायोक्तं यदन्येन" इत्यादि। ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमानत्वात्प्रतीयमानं वस्तु अभिघीयते। तच्चेह प्रतीयमानं प्रधानत्वादलद्कार्यतया वक्तुं युक्तम्, न त्वलक्कृतिकारणतया। अतः कथं तस्यालद्कारव्यपदेशः । उच्यते। प्रधानमपि गुणानां सौन्दर्यहेतुत्वादलङ्कतौ साधनत्वं भजति। दृश्यते हि लोके व्यपदेशः स्वाम्यलक्करणका भृत्या इति। अतोऽत्रापि प्रतीयमानस्य सत्यपि प्रधानत्वे सवगुणभूतवाच्यसौन्दर्यसाधकतमत्वा- दलङ्कारव्यपदेशो न विरुध्यते। यदि वा भगवद्वासुदेववर्तितया पोऽसौ वीररसोऽवगम्यते तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणभूत- पदलद्घारता। एवमुत्तरत्रापि यथासंभवं योज्यम्।

Page 105

९४ काव्यालक्कारसार- "स्न्िग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेका: कलाः । कामं सन्तु दृढ कठोरहृदयो रामोडस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि घीरा भव।।" इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यम्रंश- वनवाससीताहरणपितृमरणादयो दुःखैकहेतवः सवार्थसहचारिणो वस्तुमात्ररूपा व्यङ्गयधर्मास्तत्परिणतरूपतया सार्थस्य प्रतीतिस्तद्धेतु- भूतत्वात्पर्यायोक्तालद्वारसंस्पर्शितैव। न खल पदे पर्यायोक्त्ेन न भवितव्यमितीयं राज्ञामाज्ञा सूत्रकारवचनं वा। लक्षणयोगाद्धि विभ- क्तरूपतावस्थाप्यते। अत्र च पर्यायोक्तलक्षणं विद्यते। वाच्यवाचक- व्यापारशून्यस्यावगमनात्मनः प्रकारस्य सद्भावाद्। तेन कथं पर्यायो- क्तता न स्यात्। एवमन्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या। तस्मान्न वस्तुमात्रे प्रतीयमाने तदभिव्यक्तिहेतुः काव्यधर्मो ध्वनिर्नामार्थान्तरम् ॥। अलङ्काराणां तु यद्यपि- "लावण्यकान्तिपरिपूरितदि ब्बुखेऽस्मिन् स्मेरेधुना तव मुखे तरलायताक्षि। क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः" ॥ इत्यादौ प्रतीयमानैकरूपता, तथाप्यनन्तरोक्तलक्षणेष्वलद्कारेपु अनुप्रवेशो भविष्यति पर्यायोक्ते वा। तथा ह्यन्र श्लोके मुख्यस्य लावण्यकान्तिपरिपूरितदि्ुखस्य विकसितहासज्योत्सस्य संबोधन- सामर्थ्यावसिततरलायताक्षित्वस्य च संनिधानाज्जलनिधेः क्षोभमुपपति- मत्त्वेन संभाव्य तद्भावो जाड्यसमूहावच्छादितखभावत्वादमिहितः ।

Page 106

६ वर्ग: ] लघुवृत्तौ ९५

तथाविधार्थपर्यालोचनया चात्र मुखस्य चन्द्रेण रूपणा प्रतीयते। चन्द्रसंनिधानाज्जलनिधेः क्षोभस्योत्पाददर्शनात्। न च यस्यालङ्कारस्य प्रतीयमानरूपता तस्येहालङ्कारत्वं केनचिन्निवारितमिति प्रतीयमान- रूपतया रूपकाख्योऽलङ्कारो भविष्यति। अथवा पर्यायोत्त्या रूपक- स्यात्रावसितत्वात्पर्यायोक्तमलङ्कारः । "सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।" इत्यादौ तु शूरादिभिः सह सुवर्णपुप्पपृथिवीकर्मकस्य चयनस्या- नुपपद्यमानान्वयत्वात्सादृश्यस्यान्वयेनोपमेयभूतस्य बहुलाभत्वस्य तत्स- दृशस्य या लक्षणा तद्वारेण गर्भीकृतोपमानोपमेयभावा असंभवद्वा- च्यार्था निदर्शना द्रष्टव्या। यदुक्तम्-"अभवन्वस्तुसंबन्ध" इत्यादि। भट्टवामनेन चात्र वक्ोक्तिव्यवहारः प्रवर्तितः । यदवोचत्-"साह- श्याल्लक्षणा वक्रोक्तिरि"ति। "सर्वैकशरणमक्षयमधीशमीशं घियां हरिं कृष्णम्। चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम् ।" इत्यादावपि श्लेषः । तथा ह्यत्र सर्वैकशरणमक्षयमित्यादीनां शब्दा- नामर्थभेदेन भिन्नत्वे सति यथायोगमेकप्रयत्नोच्चार्याणामेकप्रयलोच्चार्य- शब्दसदृशानां वोच्चारणम्। अतो विरोधालङ्गारप्रतिभोत्पत्तिहेतुरत्र श्ेषः । यदुक्तम्-"एकप्रयलोच्चार्याणाम्" इत्यादि। एवमलङ्कारान्तरेष्वपि प्रतीयमानेषु वाच्यम् । तेनालङ्कारनिष्ठ- स्यापि अभिव्यञ्जकत्वस्योक्तेप्वलङ्कारे ष्वन्तर्भावादव्याप्यभावः । रस- भावतदाभासतत्प्रशमानां तु प्रतीयमानतायामुदाहरणम्-

Page 107

९६ काव्यालङ्कारसार-

"याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निर्ध्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम्। भूयस्तत्प्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया तन्वङ्गया न तु पारितः स्तनभरः ऋष्ठुं प्रियस्योरसः ॥" इति। तथा हि-अत्र गोत्रस्खलितस्य श्रुतिपथप्राप्तेरीर्ष्याविप्रलम्भशृङ्गारो नायिकायाः संमुखीभूतोऽपि संभोगश्रृङ्गारेण सहेतुसामत्र्यप्रतिलब्ध- प्रकर्षेण तिरोधाय प्रदर्शितः। निर्ध्यातं परिवर्तनमित्यादिना हि यथाक्रममीर्ष्याविप्रलम्भश्वृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थना- ध्यवसायानुष्ठानात्मिकाश्चतस्रोऽवस्थाः संभोगशृङ्गारमन्थरीकृतखवखभा- वत्वेनोपवर्णिताः । पुनश्च संभोगशृङ्गारेण वाक्यार्थो निर्वाहितो 'न तु पारितः' इत्यादिना। अतोऽत्र संभोगशृङ्गारस्येर्ष्या विप्रलम्भशृङ्गार- तिरोधानहेतोः प्रतीयमानता। तत्र च पूर्वं रसवत्त्वलक्षणोऽलद्कारः प्रतिपादितो 'रसवद्दर्शित' इत्यादिना। एवं रसान्तरेष्वपि वाच्यम्। यत्रापि भावास्तथा रसभावाभासा रसभावतदाभासप्रशमाश्च प्रती- यमानास्तन्रापि यथाक्रमं प्रेयखदूर्जसिविसमाहितलक्षणालक्कारयोगो वाच्यः । एवमेतत्प्रधानभूतेषु रसादिपूक्तम्। गुणभूतेष्वपि च रसे- पूदात्तालद्कारः प्रतिपादितः 'चरितं च महात्मनाम्' इत्यादिना । अतश्च रसादिप्वभिव्यञ्जकत्वस्य नार्थान्तरता। एवं च त्रिविधेऽषि प्रतीयमानेर्थे यच्छष्ठानां व्यञ्जकत्वमनन्तरोपवर्णितेषूदाहरणेषु षट्- प्रकारतयोपदर्शितं तस्योक्तेप्वेवालक्कारेप्वन्तर्भावाद्याप्तिः । षट्प्रकारता चात्र त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यामुक्ता। तथा हि-द्विविघं व्यञ्जकत्वं, वाचकशत्त्याश्रयं वाच्यशत्त्याश्रयं च। तत्र वाचक

Page 108

६ वर्ग: ] लघुवृच्तौ ९७

शत्त्याश्रयमलक्काराणामेव व्यङ्ग्यत्वादेकप्रकारम्। तत्र हयलक्कारा एव व्यज्यन्ते, न तु वस्तुमात्रं नापि रसादयः, यदुक्त्म्-"आक्षिप्त एवालङ्कारः शब्दशत्तया प्रकाशते। यस्मिन्ननुक्त: शब्देन शब्द- शत्तयुद्धवो हि सः ॥" इति। वाच्यशक्त्याश्रयं तु रसादिवस्तु- मात्रालक्काराभिव्यक्तिहेतुत्वात्रिविधम् । तत्र यत्तावद्वाचकशक्त्याश्रयं व्यङ्गयभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यतया सहद- यैर्व्यञ्जकत्वमुक्तं "सर्वैकशरणमक्षयम्" इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधादयोऽलक्कारास्तत्संस्कृतस्वभावं वाच्यमवगम्यते। अतस्तत्र वाच्यस्य विवक्षैव। यत्तु वाच्यशच्याश्रयं "याते गोत्रविपर्यये श्रुतिपथम्" इत्या- दावसंलक्ष्यक्रमरसादिव्यङ्गयनिष्ठं व्यञ्जकत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव । वाच्यभूतानुभावादिविवक्षयैव व्यङ्गयरसादिप्रतीते- रुत्पादात्। तदेवं वाचकशत्तयाश्रयव्यङ्गयभूतालद्कारैकनियते वाच्य- शक्त्याश्रये चासंलक्ष्यक्रमरसादिव्यङ्गयनिष्ठे व्यञ्जकत्वे वाच्यस्य विव- क्षितत्वमेव। वस्तुमात्रालद्कारविषयस्य तु वाच्यशक्त्याश्रयस्य व्यक्ष- कत्वस्य प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम्। तथाहि 'चक्राभिघातप्रसभाज्ञये'त्यादौ वस्तुविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्वकत्वेन कारणप्रतीतिप्रसवात्। 'स्त्निग्धश्या- मलकान्ती'त्यादौ तु रामादिशब्दानामर्थान्तरसंक्रमितवाच्यानां वाच्यमविवक्षितम् । व्यङ्गयधर्मान्तरपरिणतत्वात्। एवं वस्तुमात्रविषये व्यञ्जकत्वे वाच्यस्य विवक्षाविवक्षे,Sलद्कारविषयेऽपि वाच्यशक्त्याश्रये व्यक्षकत्वे। 'लावण्यकान्ती'त्यादौ एकस्मिन्मन्ये इत्येतस्मिन्शब्दे यो विशेषोक्त्युत्पेक्षयोरनुप्रवेशस्तद्वशेन समासादितसवभावो योऽसावेक- ७ काव्या०

Page 109

९८ कान्यालक्कारसार-

शब्दाभिधानसंकरस्तत्प्तिभोत्पत्तिहेतु श्लेषप्रौढीकृतं वाच्यं विवक्षितम्। तन्मूलकत्वेन रूपकप्रतीतेरुत्पादात्। "सुवर्णपुष्पां पृथिवी"मित्यादौ तु वाच्यस्याविवक्षा। उपमेयस्य बहुलाभत्वस्य तत्सद्दशस्य या लक्षणा तस्या अत्यन्ततिरस्कृतवाच्य- मूलत्वात्। यदि त्वत्र न तिङन्तेनोपमानमस्तीति दृथ्ा तद्भावाध्य- वसानात्सुवर्णपुष्पपृथिवीचयनलक्षणोपमानावच्छादितरूपत्वेन शूरादि- विषयस्य बहुलाभत्वस्योपमेयस्य प्रौढोक्त्या प्रतिपत्तिः, ततोऽत्र प्रौढो- क्िमात्रनिष्पन्नशरीरस्य वाच्यस्यार्थस्य प्राघान्या"द्वेदेऽनन्यत्वमि"- त्येवमात्मकतयोपवर्णितमतिशयोक्तिभेदत्वं वाच्यम्। व्यक्कया ह्युपमा तदानीमत्र गुणीभवति। एवमलङ्कारनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यविवक्षितत्वाविवक्षित- त्वाभ्यां द्वैविष्यम्। यत्र चाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलद्कारनिष्ठे वा व्यञ्जकत्वे तत्र व्यङ्गयरसादेर्झगित्यवगम्यमानत्वादसंलक्ष्यक्रमता द्रष्टव्या। यदुक्ततं भट्टवामनेन-"लक्षणायां हि झगित्यर्थप्रतिपत्ति- क्षमत्वं रहस्यमाचक्षते" इति। अत एव च सहृदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलक्कारयोः प्रतीयमानयोर्वाच्येन सह क्रम- व्यवहार: प्रवर्तितोरऽर्थशक्तिमूलानुरणनरूपव्यङ्गयो ध्वनिरित्युक्तं, न तु वाच्यविवक्षायामपि। यत्र च वाच्यस्याविवक्षा पूर्वमुक्ता "रामोऽ- स्मी'ति 'सुवर्णपुष्पा मिति च तत्र वयमधिकारोपेतप्रस्तुतार्थानुबन्धि- वस्तूपनिबन्धादप्रस्तुतप्रशंसाभेदत्वमेव न्याय्यं मन्यामहे। यदुक्त 'अधिकारादपेतस्ये'त्यादि। यचु पूर्वपर्यायोक्तमेदत्वं 'स्त्निग्घश्यामलकान्ती' त्यादौ रामादीनां शब्दानामभिहितं तदुपक्रममात्ररूपतया द्रष्टन्यम्। विवक्षितवाच्यस्य

Page 110

६ वर्ग: ] लघुवृत्तौ ९९

पर्यायोक्तमेदत्वात्। यत्र खलु वाच्यविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीयते 'चक्राभिघाते' त्यादावुदाहरणचतुष्टये तत्र पर्यायोक्तमेदता। पर्यायोक्तलक्षणस्याप्रस्तुतप्रशंसा लक्षणविचारवशेन तद्यतिरिक्तविषया- वगाहित्वात्। यत्र त्वविवक्षिते वाच्येऽर्थान्तरस्य प्रतीतिस्तत्राप्रस्तुत- प्रशंसा। अतश्च पर्यायोक्ताप्रस्तुतप्रशंसयोरेव यथाक्र्कमं विवक्षिताविव- क्षितवाच्ययोः सर्वध्वनि भेदसामान्यभूतयोर्ध्वनिभेदयोरन्तर्गतिर्वाच्या। 'सुवर्णपुष्पां पृथिवीम्' इत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तद-

र्शनाया अप्रस्तुतप्रशंसाभेदत्वादुपपद्यत एव। एतच्च विद्वद्धिर्विचार्य गृहीतव्यं न त्वविमृश्यैवासूयितव्यमित्यलमतिवाचालतया। तदेवं वाचकशक्तिमूलेऽलङ्कारैकनियते वाच्यशक्तिमूले च रसादि- विषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम्। वस्त्वलङ्कारविषये तु वाच्यशक्तिमूले व्यञ्जकत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षित- त्वाभ्यां द्विभेदता। अतस्तत्समाश्रयणेन त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य षट्प्रकारता भवति। एतेषां च षण्णां भेदानां मध्या- द्ूयोर्भेदयोर्वाच्यस्याविवक्षोक्ता। चतुर्षु विवक्षितत्वम्। यत्र च विव- क्षितत्वं तत्र वाच्यस्य स्वतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पादितशरीरत्वाच्च द्वैकध्यम्। अतस्तन्र तस्याष्टौ भेदा भवन्ति। एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाभ्यां पूर्वोदिताभ्यां द्वाभ्यां भेदाभ्यां संकलिताः सन्तो दश संपद्यन्ते। एत एव तु पदवाक्यप्रकाश्यतया द्वैगुण्यं भजमाना विंशतिर्भवन्ति। वर्णसंघटनाप्रबन्धाधारस्य व्यञ्ष- कत्वस्य कृत्तद्धितादिगतस्य च पदवाक्यानुप्रवेशनैवाविर्भावात्। पद- अकाश्यत्वं यथा 'रामोऽस्मीति'। 'चक्राभिघाते' त्यादौ तु वाक्यप्र-

Page 111

१०० काव्यालङ्गारसार- काश्यता। यथा च प्रधानभूते व्यङ्गये एषा व्यञ्जकता विंशतिविधा भवति, तथा गुणीभूतेऽपि यथासंभवं योज्येति। तदाहु :- विवक्ष्यमविवक्ष्यं च वस्त्वलक्कारगोचरे। वाच्यं ध्वनौ विवक्ष्यं तु शब्दशक्तिरसास्पदे।। भेदष ट्े चतुर्धा यद्वाच्यमुक्तं विवक्षितम्। स्तःसंभवि वा तत्स्यादथ वा प्रौढिनिर्मितम्।। दश मेदा ध्वनेरेते विंशतिः पदवाक्यतः । प्रधानवह्गुणीभूते व्यङ्गये प्रायेण ते तथा ॥ इति। वस्त्वलङ्कारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्यमविवक्ष्यं चेति संबन्धः । विवक्ष्यमिति विवक्षार्हमित्यर्थः । शब्दशक्तिरसास्पद इति वाचकशक्तिसमाश्रयं रसादिव्यद्धनिष्ठं च व्यञ्ञकत्वमुक्तम्। तद्वि- शिष्टशर्क्ति व्यञ्षकभूतां रसादींश्च व्यङ्गयभूतानास्पदीकरोति। एव- मेतद्यञ्जकत्वं पर्यायोक्तादिप्वन्तर्भावितम्। एतचेह बहुवक्तव्यत्वान्न वैतत्येन प्रपश्चितम्। कुशाग्रीयबुद्धीनां हि दिख्बात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिगव्यापित्वेन विस्तारमासादयतीति । मीमांसासारमेघात्पदजल धिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारे र्बुधकुसुममघोः शौरिपादाब्जभृङ्गात्।

काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः ॥ इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसार- संग्रहलघुवृत्तौ पष्ठो वर्गः ॥ Ty Sri Pratap CuN ... Srinagar,

Page 112

काव्यालङ्कारसारलघुवृत्तौ उदाहृतानां पद्यनामनुक्मणी ।

विषय: पटृ. | विषयः पृ.

अज्ञलेखा ४५ किश्चात्र ब .. ९२

अचिन्तय ४७ किं स्युरुत्क .. .. २३ अथ कान्तां .. ६१ कृशानुव .. २७

अपश्यच्चा केलिलोला .. ३९ .. .. ७

अपारिजात .. ६४ क्वचिदुत्फु .. .. ९

अपि सा सु .. २३ क्षणं काम .. .. २० अयं मन्द ७२ क्षणं नंट्टा ५३

अस्या: सदा क्षणमौत्सु .. ५२ ५८

अहो स्मर .. ३५ चण्डालक २९

आसारधा .. १५ चक्राभिघा ९३

इति काले २४ छायेयं त ९१

इति चिन्त जितान्यपु .. ३६ १०

इति भाव ज्योत्स्नाम्बुने. .. .. ५८ ११

इत्थं विसं ६८ तत्र तोया ५

इत्थं स्थिति ७५ तथा कामो ५९

इन्दुकान्त .. ६४ तदानीं स्फी ... १७

इयं च सु ३ .. ५६ तदाप्रभृ ... उत्तरोप .. ६२ तदुत्तिष्ठा ८५

उत्पतद्धिः . १४ तन्नास्ति य ३८

उरो दत्वा .. .. ८१ तपस्तज: .. ४६

उवाच च .. ६२ तस्यादिकरो ... ६३

एतद्धि न ६७ तस्येतर २८ .. ..

कज्जलहि .. ४९ तां जानीया ... .. २० ... करोषि पी .. ८७ तां शशिच्छा ... .. २४

कपोलफ .. ५३ त्वत्कृते सो .. .. ८५

काशा: काशा ... ८ त्वदज्मा .. .. .. ७०

Page 113

१०२

विषय: पृ. |विषयः दन्तप्रभा .. .. ४५ येन लम्बा ... .. ... ६० घुजनो मृ .. ... ७९ योगपट्टो ... ७० िगनन्यो यो बलौ व्या .. ... ७१ .. ८१ नाभिपद्म लावण्यकां ... ८२ ... ९४ नीलाब्दः .. ७१ वनान्तदे ... ... १४ नेत्रैरिवो .. .. .. २१ विदेशव .. १७ नेत्रोरग .. विद्वदम्या .. .. ८१ .. पतेद्यदि विनोचिवे ... ४७ .. .. .. ७२ पद्मं च नि विरलाखता .. .. ४२ ... .. ३३ पद्मिनीं प ... ... १० शिरांसि पं .. ... .. पुध्यन्द्रनी ६२ शीर्णपर्णा .. ... .. ... ४३ प्रच्छना श ... ... ३८ स दग्धवि .. .. .. २८ प्रवोधाद्ध ... २१ स दुःस्थीय ... .. .. ... २६ चभूव य .. ६२ स देवोदि ... .. ... ४ मन्ये च नि सर्वैकश .. ... ४८ .. ९५ महर्द्धिनि सा गौरीशि .. ४१ ... ६८ महिषित सान्द्रारविं ... ... ६ मीमांसासा .. ... १०० सुवर्णपु ... ९५ मुरारिनि ... ७३ सोऽपि येन .. ... ६० मृणालहं ... ५० संजहार .. १६ मेवमेवा ७६ स्तिरियो मह ८ यद्यप्यत्यं ७५ स्निग्धश्याम .. ९४ यद्वा मां किं .. ६९ स्मरज्वर ... ... ६१ यल्लक्ष्म्याह .. १ स्वयं च प .. .. ६४ यस्य वाणी ८४ स्विद्यतापि .. .. .. ५८ याते गोत्र ९६ हरेणेव ... ... ... ७७ यान्ति खदे ७१ हरोऽथ ध्या ... ... ३८ या शैशिरी ४४ हस्ते किम .. ... ८२

Page 114

विक्रेयसंस्कृतपुस्तकानि।

श्रीलौगाक्षिभास्करप्रणीतः अर्थसंग्रहः। श्रीमत्परमहंसरामेश्वरशिवयोगिभिक्षुप्रणीत- मीमांसार्थसंग्रहकौमुदीव्याख्यासहितः । मूल्यं १४ आणकाः, मार्गव्ययः २ आणकौ। शास्त्रदीपिका। सोमनाथप्रणीतमयूखमालिकाव्याख्यासंवलिता। प्रत्यधिकरणविभक्जैमिनीयन्यायमालायुता अस्या: प्रथमस्तर्कपादश्र रामकृष्णप्रणीतयुक्तिस्रेहप्रपूरणी- सिद्धान्तचन्द्रिकाव्याख्यायुतः सवोपज्ञसिद्धान्तचन्द्रिकागूढार्थ- विवरणसहितश्र। मूल्यं ८। रू., मार्ग० १ रू.

मीमांसान्यायप्रकाशः । (आपदेवी)। मूल्यं १० आणकाः, मार्गव्ययः २ आणकौ। मीमांसाशास्त्रसारः । निवीतान्तमीमांसासिद्धान्ततत्वार्थप्रकाशः। मूल्यं १ रूप्यकः, मार्गव्ययः ४ आणकाः ।

Page 115

वेदस्तुतिः। (श्रीमन्भागवतद्शमगता)

काशीना थोपाध्यायकृतव्याखयोपवृंहितश्रीधरीव्याख्या। श्रीमङ्भागवते वेदस्तुत्यादयो निर्दिष्टा विषया अखिलवेद्या गभीरार्थावेति न तिरोहितं विदुषाम्। मूलविषयगाम्भीर्याच्छ्रीधरीव्यास्यापि दुरूहैवासीदिति परमकारुणिकैर्धर्माब्धिकारैः काशीनाथोपाध्यायैः प्रणीतया श्रीधरीप्रकाशव्या- क्यया सह मुद्रितास्ति। मूल्यं १२ आणका:, मार्ग. ४ आणकाः पातञ्जलयोगसूत्रम्।

योगशास्त्रस्यातिस्वल्पः प्रकरणप्रन्थोऽयम्। अस्य १ समाधिपादः, २ साध- नपादः, ३ विभूतिपादः, ४ कैवल्यपादश्वेति चत्वारि प्रकरणानि खनाममिरेव प्रतिपादयविषयमाविष्कुर्वन्ति। निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुलम- मस्ति। मूल्यं १४ आ., मार्ग. ४ आणकाः,

जैनस्तोत्रसमुच्चयः । अनेक जैनपूर्वाचार्यविरचितः अपूर्वोयं (स्तोत्राणि १२२). पुराकालाच्छनैः शनैर्महाविद्वद्भिजैनमुनिवरैः प्रणीतानि नानाविधस्तोत्ररन्नानि 14 महत्प्रयासेन संपाद्यात्र गुम्फितानि सन्ति। अत्रत्यालंकार-यमक-प्रास-कमलबन्धादि काव्यरचनाकौशलं विदुषां चेतक्षमत्काराय स्यात्। कमलबन्धादीनां २५ विशति- 14 संख्या आकृतयोप्यन्ते संग्रथिताः सन्ति। अस्य संग्रहेण जैनानां महान् लाभ: 14 स्यात्। मूल्यं १।। रूप्यकः, मार्गव्ययः ६ आणकाः ॥ 20 पाण्डुरङ्ग जावजी, 209

निर्णयसागरमुद्रणालयाधिपतिः