1. Kavya Alankara Sutra Vamana Vritti Kamadhenu Balasubramanya J.K. Sri Vani Vilas Press
Page 1
Kavyalankarasutra Vritti
with the commentary
APORE MADRAS-A KAMADHENU.
SRIRANGAM :
SRI VANI VILAS PRESS
1909
Copanwiht Reaitertd.
Page 3
। श्रीः ।।
॥ काव्यालकारसूत्रव्ृात्तः ॥
वामनविरचिता
श्रीगोपेन्द्रतिप्पभूपालविरचिनया
कामधेन्वाग््यया व्याख्यया
समुद्धामिता
विरुदभाजा वात्म्यचक्रवर्तिना
श्रीकष्णमृरिणा
सम्यक्परिशोधिता
श्रीरङ्गनगरस
श्रीवाणीविलासमुद्ायन्त्नालये समुद्रिता।
१२०२
Page 5
PREFAO
LAITEN It was first proposed to melade tls book m the sri Vam Vilas Sastra Series two cousiderations weighed m my mind. The first was there was no good and accurate edition of the work The Kavxamala Series contained the text of the Sutras and the Vrith but unfortunatel this edition left much to be desired. The Sutras were mistaken for the Vritti m several places and ue tersa Hence a corrert edition was a necesity The second conaderation was to publish the rare commentars called Kamadhenu by Gopendra Tippa . Bhupala. Two fine manuseripts of this commentary were obtamed throngh the kinduess of sri Addanki Kumaratatachariar of Madras and ru ri-ailatatachariar of Little Conjeeveram With the aid of these. this edition was begun and while it was m the pres. there appeared m the Chow kamba San-krit Series this same work with this vers commentarv A peru-al of it dlearh showed that I need not delay this edition and accordmgl with the co-operation' of Pandit R. V Krishnamachariar. to whom my thanks are due. I have been able to complete this work and I leave it to the readers to judge how far I nas justified m havig pushed on this editton when others evisted already m the field. . J K Balasubrahmanyam
Page 7
॥ विषयानुक्रमणिका ॥
उम्
भूमिका प्रथमाधिकरणम्। ? ー ル
प्रथमाऽध्यायः । १-१२
प्रयोजनपरीक्षा ४
द्वितीयाऽध्यायः १३-२५
अधिकारिचिन्ता १३
रीतिनिश्चय १५ ..
तृतीयोऽध्यायः। २६-३८ काव्याङ्गानि ... २६
काव्यभेद: ३४
द्वितीयमधिकरणम्। ३०-६८
प्रथमोऽध्यायः । ३९-५२
पददोषा: ३९
पदार्थदाषा .. ४ ३
द्वितीयोऽधयायः । ५३-६८
वाक्यदोषा. ५३
वाक्यार्थदोषा: ... ५८
तृतीयमधिकरणम्। ६०-९७ ..
प्रथमोऽध्याग्र: । ६९-८३ ..
Page 8
वषयानुक्रमाणका।
पृष्ठम्
गुणालंकारविवक: ६९
शब्दगुणनिरूपणम ६९ .. .
द्वितीयोऽध्यायः। .. . ८४-९७
अर्थगुणनिरूपणम् ८४ चतुर्थमधिकरणम्। "८-१४७ ..
प्रथमाऽध्यायः । ९८-११० ...
शब्दालंकारविचार: ... ९८ ..
द्वितीयोऽध्यायः । १११-१२४
उपमानिरूपणम १११
उपमादोषकथनम ११५
तृतीयाऽध्यायः । १२५-१४७
उपमाप्रपश्चनिरूपणम १२५ ..
पञ्चममधिकरणम्। १४८-१०२
प्रथमाऽ्ध्यायः। १४८-१५५
काव्यसमयः १४८
द्वितीयोऽध्यायः। १५६-१९२
गव्दशोधनम १५६
Page 9
। श्रीः ।।
॥ भूमिका॥
•साहित्यकलायामलंकारनिबन्धनेषु प्राचीनमत्युत्तमं चेदं सवृत्ति काव्यालं- कारसूत्राख्यं वामनीयं निबन्धरत्नम्। पुरा हि सर्वेप्वपि दर्शनेषु म्मृतिपथारोपण- सौकर्थाय ते ते महर्षयः परे च मेधाविनः प्रायः सूत्रात्मनैव विषयानुपनिबबन्धु- रिति स्पष्टमिदं पुरातनचरितपरिशीलिनाम्। अतोऽपि सुकरमम्य वामनीयस्य प्राचीनत्वमवगन्तुम्। व्वामनात्पूर्वे च भामहप्रभृतयो यद्यप्यलंकारदर्शने निब- न्दारः, तथापि ते किल कारिकारूपेणैव कलयामासुर्विषयानिति नात्र वाम- नेन ते तुलामधिरोढुं प्रभवन्ति। अलंकारदर्शनपरमतत्त्वस्य रसम्य स्वरूपा- दिविचारपराणि सूत्राणि महर्षिणा भरतेन प्रणीतानीति श्रूयते। परं तु बदु- भिर्बहुधा 'व्याख्यायमानम् 'विभावानुभावव्यभिचारिसंयोगाद्रसनिप्पत्तिः' इत्येकं विहाय नान्यत्किंचिदपि संप्रति भरतप्रणीतमुपलभामहे सूत्रम्। सांप्रतमधि- गम्यमानं बह्वर्थप्रतिपादकं भरतप्रणीततया व्यवह्नियमाणं नाट्यशस्त्रं तु प्रायेण कारिकात्मना क्वचित्कचित्सूत्रविलक्षणगद्यरूपेण चोपनिबद्धमेव सर्वतः समु- पलभ्यते। पश्यामश्च वयं पूर्वोक्तं सूत्रमम्मिन्नाट्यशास्त्रेऽपि। किंतु नाम्माकं निर्णयः, यदित एवेदं सूत्रमुद्धृत्य तैम्तैर्मेधाधनैरन्यथा चान्यथाच व्याख्यायत इति। यत इहैव एकतमपक्षावलम्बनपर्याप्ता अ्रन्थकृतैव प्रदर्शिता कापि विवृतिः । 'उक्तं हि भरतेन' इति प्रकाश व्याचक्षाणो हि महेश्वरः 'तदीय- ग्रन्थान्तरोक्तकारिकाकथने च तम्य प्रकृतग्रयकृत्वाभावार अ्न्थकृतेति नो- क्तम्' इति विलिखन्, मानवधमेसूत्रमनुस्मृत्यारिव भरतसूत्रनाट्यशास्त्रयोः परस्परसंबन्धमभिप्रेतीत्यवगम्यत इति तदिदं मन्यामहे युक्त्तमभिहितं विमृश्य- वादिना। अथवा एतदेव नाट्यशास्त्राभिहितं सूत्रमालंकारिकैरनेकधा व्याख्या- 1. दृश्यतां काव्यप्रकाशरसगङ्गाधरादिषु व्याख्याभेदः।
Page 10
यत इत्यभ्युपगच्छाम। क्वचित्क्वचित्सूत्रविलक्षणमपि वाक्यं श्रद्धाजाड्येन सूत्रमित्यङ्गीकुर्मः । तदेतदस्माक सर्वात्मना भवति भूषणम्, नांशतोऽपि किर्मप दूषणम्। एतदेव खलु वयमाभधातुमभिलषामः-न खल्वस्ति संप्रति समुपलभ्यमानेषु अलंकारदर्शननिबन्धेषु. विहाय वामनीयम्, प्राचीनं किमपि सपूर्ण सूत्रात्मना समुपनिबद्धं निबन्धनमिति। परस्ताच्च वामनमनुकुर्वाणा राजानकरुय्यकप्रभृतयः कतिपये सूत्राणि निर्ममिर इत्यन्यदेतत् । अलंकारनिबन्धनानां च भिन्नभिन्नानि प्रस्थानानि दृश्यन्ते। ध्वन्या- लोकादिषु हि प्राधान्येन ध्वनिविचार एव कृतः। काव्यप्रकाशादयस्तुं नाटका- दिलक्षणनिरूपणादिकमंशतोडापे न विरचयन्ति। दशरूपकादिकतारम्तु प्राधा- न्येन नाटकलक्षणादिकं संक्षेपेण रसांश्र निरूपयन्ति। रसचन्द्रिकादीनां तु रसनिरूपणं परं विषयः । अलंकारसर्वम्वकाराद्वयम्तु अलंकारनिरूपणं परमा- द्रियन्ते। आचार्यदण्डिनापि प्राचीनेन काव्यादर्शे काव्यमार्गविभागार्थालंकार- शब्दालंकारा एव प्रतिपादिता। साहित्यदर्पणादिकृतः कतिपये परमर्वाचीना प्रायेणालंकारदर्शनस्य सर्वा अपि गमनिकाः संक्षेपेण सम्यङ् निरूपयामासुः । तन्नैतदाश्चर्यमसंभावितं वा, यदनेनापि वामनेन अलकारदर्शनम्य कतिपये परं विषयाः प्रतिपादिताः, न पुना रसनिरूपणादिषु रम्यतरेप्वपि विषयेषु म्वात्मना कोडपि समदर्शि समादर इति॥ अत्र हि पञ्च अधिकरणानि, द्वादश अध्यायाश्च सन्ति। प्रायण हि ब्रह्मसूत्रादिषु अध्यायम्य प्राधान्येन अन्तर्गतानामधिकरणव्यपदेशो दृश्यते। इह तु भिन्नैव विपरीतेय रीतिरिति न जानीम कि वाभिमत वामनस्य । प्रथ्मे खल्वधिकरणे आदितः काव्यम्य दृष्टाउष्टथत्वम्. पश्चाच्च अधि- कारिणं निरूप्य, आत्मत्वेन म्वाभिमता रीतिः परस्तात्प्रतिपादिता। शब्दार्थ- युगलात्मकम्य हि काव्यस्य आत्मानं प्रति बहूनामभिप्रायभेद उपलक्ष्यते। अर्वाचीनाश्च तदिद वामनमतं नाभिनन्दन्ति। विशिष्टपदरचनात्मिकायाश्च रीते कथं वा आत्मत्वमभ्युगम्यतां तैः । यद्यपीदं मतं गुणोद्देशसूत्रे व्याख्यात्रा महता संरम्भेण समर्थितम्; अथापि व्याख्यातृवचनं तदद्याप्यप्रतिष्ठितमेवेति ध्वनिवादिमतमिव न सहृदयानां हृदयेन संवदति वामनमतमित्येतावदेव संप्रति क्तुं वाञ्छामः । 'सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति' इति वामनः ।
Page 11
अस्त्यनको गिरां मार्ग: सूक्ष्मभंदः परम्परम्। तत्र वैदर्भगौडीयो वर्ण्येते प्रम्फु- टान्तरौ' इत्याचार्यदण्डी। 'सा पुनः म्याच्चतुर्विधा। वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा' इति दर्पणकृदादयः। भोजराजम्तु 'वैदर्भी चाथ पाश्चाली गौडीयावन्तिका तथा। लाटीया मागधी चेति पोढा रीति्निंगद्यते' इत्याह। रसावस्थानसूचिकानामन्यैरभिहितानमपि कैशिक्यादिवृत्तीनामिहानिरूपणं तु, रीतेर्गुणविशेषलक्षितत्वात् गुणम्य च अन्योक्तविधया प्रतिरसनियतत्वात् रीतिनि- रूपणेनैव गतार्थ तन्निरूपणमिति, अत्रैवोक्तरीत्या अन्तर्भावान्न ताः प्रथगयप- देशमर्हन्तीसि वा अभिप्रायेण म्यादिति मन्यामहे। ततशच 'लोको विद्या प्रकीर्ण च काव्याङ्गानि' इत्युपक्रम्य, अनितरसावारणमतिविशद काव्याङ्गानि प्रतिपाद्य, 'काव्य गद्यं पद्य च' इत्यादिना काव्यभेदः सलक्षणं निरूपितः । अन्यैरभिदर्शितो ध्वन्यादिकाव्यभेदप्रकारम्तु 'नानेनाहतः ॥ द्वितीये त्वधिकरणे प्रथमतः पदपदार्थदोषनिरूपणं परस्ताच्च वाक्यवाक्या- र्थदोषनिरूपणमारचितम्। अत्र च प्रकरण परिमिता एव दोषा: प्रदर्शिताः प्रा- चा वामनेन। प्रकाशादिषु तु महता प्रघट्टकेन दोषाणामवान्तरभेदा अपि बहवो निरूपिता। संज्ञाया एकत्वेऽपि वामनमम्मटादीनां लक्षणभेदेन एकम्य लक्षणम- परम्य इतरस्य लक्षणमन्यम्येत्येवमापतितमिति सुगममेवेद बहुग्रन्थपरिशीलिनाम्। इदमस्माकमत्र प्रतिभाति- कालानुसारेण तात्तत्कालिकव्युत्पित्सुसमुदायानुरोधेन च खलु दोषाणामुचितं परिगणनम्। पूर्वे हि परीक्षका व्युत्पत्तिदाढ्यात्कठिनम- पि पदजातमर्थतोऽवगन्तुमलमभूवन् । रसप्रतीतिः परं यत्र स्थगिता भविप्यति, तत्रैव दोषबुद्धिं कलयामासुः । तथा च तदानीं रसप्रतीतिस्थगभपराणामेव. न तु अर्थप्रतीतिम्थगनकारिणां दोषाणा दोषत्वमिति संख्यया तेषां न्यूनता स्वाभा- विक्येव। क्रमेण च साहित्यपरिश्रमस्येव व्युत्पत्तेरपि परिक्षीणतया अर्थप्रतीति- स्थगनंपराणामपि क्ेशानां कालानुरोधेन दोषगणना अवशयकर्तव्या संवृत्तेति त- दिदमेव स्यात्कारणमर्वाचीनानामालकारिकाणाधिकाधिक गेषनिरूपणे कार- णमिति ॥।
- 'वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वकरोक्त्यलकारत्व त्रुवता कश्षित् ध्वनिभेदीऽलंकारतयैवोक्तः । केवल गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता' इति सर्वस्वकार. ।
Page 12
तृतीये चाधिकरणे ओजःप्रसादादयः काव्यशोभायाः कर्तारो दश गुणाः शब्दार्थाश्रिता निरूपिताः । 'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इत्याचा- र्यदण्डिमतमनभिनन्दतेव वामनेन 'काव्यशोभाया. कर्तारो धर्मा गुणा' 'तदतिशयहेतवस्त्वलंकाराः' इति तयोर्विवेकः प्रदर्शितः । मम्मटादयम्तु 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतुवस्ते स्युरचलस्थितये। गुणाः' उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्। हारादिवदलंकारास्तेऽनु प्रासोपमादयः' इत्याहु. । आचार्यदण्डिनेव वामनेनापि दशैव गुणा अङ्गी- कृता.। भरतेनापि दशैव ते म्वीकृताः। प्रकाशकारादयस्तु केषांचिङ्गुणानां दोषाभावत्वमभ्युपेत्य, 'माधुर्थीजःप्रसादाख्यास्त्रयस्ते न पुनर्दश' इत्यातिष्ठन्ते। सति चैवं वैपरीत्यं विनिगमकाभावश्च कुता न स्वादिति त एते प्रष्टव्या भव- न्ति। दोषगुणविवेचकाभ्यां चैताभ्यां द्वितीयतृतीयाभ्यामधिकरणाभ्यां कीदृशी कोटिमधिरूढ: पूर्वेषामाचार्याणां विमर्शविभव इति ननु, नव्यशिक्षितैरवश्यमिद- मालोचनापथमधिरोपणीयम्।। चतुर्थे त्वधिकरणे प्रथमतः शब्दालंकारविचारः, पश्चादुपमाविचार, पर- स्ताच्च उपमाप्रपञ्चविचारः कृतः। शब्दालंकारौ च यमकानुप्रासौ द्वावेव निरू- पितौ। अर्वाचीनैस्तु वक्रोक्तिपुनरुक्तवदाभासानुप्रासयमकश्रेषचित्राण्यपि शब्दा- लंकारतया प्रकाशितानि। भरतम्तु यमकमेकमेव स्वयमाद्रियते। अर्थालंकारनि- रूपणावसरे च. सर्वेडप्यालंकारिका उपमामेवादौ निरूपयन्ति। उपमायाः प्रकृति- त्वादुपजीव्यत्वात्तन्निरूपणमेव प्रथमतः सांप्रतमेति 'उपमैका शैलूषी-' इत्यादि लिखन्तः समर्थयन्ते व्याख्यातार.। प्रदर्शयन्ति च ते प्रायः सर्वेप्वपि अलंकारेषु उपमाया अनुगममुदाहरणमुखेन। वयं पुनर्बहुधा श्राम्यन्तोऽपि विभाववार्विरोधाभासादिषु बहुषु अलंकारेषु उपमानुगममपश्यन्त उपमाया. प्रकृतित्व प्रायोवादेनेति त्रूमः । इदमत्र वक्तव्यमस्माकमाभाति-आस्तां नाम शासत्त्रीय संप्रदायानुसारेण अलंकाराणां काव्यशरीरभूषकत्वप्रयोजनाभ्युपगमनिर्बन्धः। एतदेव पुनरलंकारयोजनस्य परमं प्रयोजनम्- यद्वक्तव्यार्थस्य स्फुटप्रतीत्या श्रोतुर्मनसि दृढं संलगनम्। निर्विवादमेवेदमभ्युपगम्यते हृदयालुभिविद्वद्भिर्भा- षान्तरेप्वलंकारप्रयोगम्य प्रयोजनम्। अस्य च फलम्य स्वप्रयोगेण सुविशदं 1, नाध्यशास्त्र षांडशे अध्याय ९२. पद् दृश्यताम्।
Page 13
XIII
निर्वाहको नूनमुपमालकार एवांत ननु जानाांत यथाजाताडाप। सापमानमाभ- हितोऽर्थः म्फुटं मनसि संक्रामतीति को नु खल्वनुन्मत्तो नाभ्युपैप्यति? यथा चोपमाया, तथा तदुपजीविनामपि परेषां भवति तदिदं फलमलंकाराणामिति न खलु दुरवगाहोऽयमर्थः सहृदयानाम्। इत एव च, मन्यामहे, कारणादागतं :स्यादन्यतः प्राधान्यमुपमाया इति। अत एव चादिकाव्ये श्रीमति रामायणे भगवान्वाल्मीकिः, तदुपजीवनन कृतार्थ परिपूतं चात्मानमभिमन्यमानो महा- कवि कालिदासश्च सर्वप्वाप स्वकीयेषु प्रबन्धरत्नेषु भूयसा उपमां तत्संनि- कृष्ठांश्र अलंकारान् लेशेन च तदितरान्प्रयुङ्ग। पग्शिील्यन्तां कालिदासीयानि गद्यानि पद्यानि च। कति नाम तत्र उपमास्तदुपजीविनश्च विद्यन्ते अलंकारा इति पर्यालोच्यताम्। शते पञ्चसप्तत्यधिकानि किल वाङ्यान्येवमुपारूढका- न्तीनि प्रकाशन्ते। को हि नाम महामना अलंकारतत्त्वमुपमावैभवं च जानानो विहायैतां रीतिमन्यामेव कांचिज्जातुचिदाद्रियेत। 'उपमा कालिदा- सम्य' इति प्रथापि निपुण निरूप्यमाणे, विश्वसिमः इत एव जगति सर्वतः समुपारूढा। एतदेव च सर्वात्मना संदर्शयितु महाकविरयम् 'वागर्थाविव संपृक्तौ' इति प्रथमपदये प्रथमत एव उपमाशिरम्कमात्मनः साहित्यशिल्पमन- ल्पमाविश्चक्रे। शब्दे उच्चारिते अर्थप्रतीति संभवति विना विलम्बमिति प्रतिक- लमनुभवेन जानतां शब्दार्थसंबन्धम्य नित्यत्वमजानतामपि बालानां म्वानुभव- साक्षिक एव शब्दार्थयो परम्परमतिनिबिड सबन्ध इति काव्यारम्भ एव साधीयसीमिमामुपमामुपनिबध्नतो महाकवेरस्य मतिमहिमान कथं वयं वर्णयितुं प्रभवामः। एतदेव किल महाकवेरन्यविलक्षणं लक्षणम्, यदत्र विचारेण शब्दार्थ- संबन्धनित्यत्वमवगच्छतां पण्डितानामिव अनुभवन शब्दार्श्योर्निबिडं कमपि संबन्धमूहमानानां बालानामप्यनुग्रहाय तदुभयसाधारण्येनोपमायाः समूपनिबन्धो नाम। एतत्सर्वमालोच्यैव भरतेनापि उपमा रूपक चैव दीपकं यमकं तथा। काव्यस्यैते ह्यलकाराश्चत्वार. परिकीर्तिताः' इत्यर्थाल'स्त्रय एव स्वीकृता। वामनश्चात्र आदित उपमां तद्दोषांश्च निरूप्य अगन्तरम् प्रतिवस्तुप्रभृतिरुपमा- प्रपञ्चः' इति प्रतिज्ञाय प्रतिवस्तुप्रभृतीन् शुद्धान् सप्तविशतिमलंकारान् लक्षणतो लक्ष्यतश्च निरूपयति। परस्ताच्च 'अलंकारस्यालंकारान्तरयोनित्व संसृष्टिः' इति लक्षयित्वा 'तद्भेदावुपमारूपकोत्प्रेक्षावयवौ' इति द्वावाह। अर्वाचीनाम्तु अल-
Page 14
कारम्यालंकारान्तरयोगे संसृष्टिसंकरतद्ेदान्बहूनभयुपगच्छन्ति। उपमाप्रपञ्चत्व च विरोधादीनां कथमित्येतदतिनिगूढं रहम्यम्। अपि नाम समासोक्त्यादिन्यायेन उभयोरर्थयोरुपमानोपमेयभावकल्पनं सत्ेदयहृदयसंवाि ? इत्थ च वामनमते त्रिंशदर्थालंकारा इति सिद्धम्। काव्यादर्शे तु 'सभावार्यानमुपमा -- ' इत्या- दिना पञ्चत्रिंशदर्थालंकारा अभ्युपगता.। पर तु'ते चाद्यापि विकल्प्यन्ते कस्तान्कात्स्न्येन वक्ष्यति' इति परिगणनम्य प्रायिकत्वं तत्वैवाभिहितम्। रुद्रटम्तु 'अर्थम्यालंकारा वास्तवमौपम्यमतिशयः श्रषः । एषामेव विशेषा अन्ये तु भवन्ति निशेषाः' इति प्राधान्येन चतुर एवालंकारानभ्युपगच्छति। मम्मटः पुनः संसृष्टिसंकराभ्यां सह उंमादीनेकषष्टिमलंकारानभिप्रैति। सर्वम्वकारमते तु द्वासप्ततिरर्थालकाराः । कुवलयानन्दकारः परम् 'इत्थ शतमलंकारा लक्ष- यित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः' इत्युक्त्वा, रसवदादिकांश्चतुर भावोदयादीस्त्रीन्, प्रमाणालंकारानष्टौ, संसृष्टिसंकरौ च द्वावङ्गीकरोतीत्याहृत्य तन्मत सप्तद्शाधिकशतमर्थालंकारा इति सिध्यति। अ- र्वाचीनाश्च केचिन्मम्मटमतमाद्रियन्ते; अपरे च सर्वस्वसरणिम्, कतिपये च कुवलयानन्दरीतिम्। चमत्कारैकजीवातुत्वादलकाराणां यत्र चमत्कारविशेष उपलक्ष्यते, तत्र भिन्न एवालंकार इत्यातिष्ठमानाः अत्र चमत्कारभेदोडस्ति नास्तीति विवादेन तत्र तत्रान्तर्भावं पार्थक्यं च म्वम्वानुभवबलेन म्वेच्छया वा स्थापयन्त्यर्वाचीना आलंकारिकाः । म्वम्वानुभवसाक्षिके शपथैकनिर्णयेडम्मि- न्विचारे पुनरस्मादृशामन्यतमपक्षावलम्बनं सर्वथा दुःशकमिति तत्तन्मताभिनन्द- नमव सांप्रतमिति, प्रतिभाति। अर्थालंकारविषये च वामनादारभ्यैव प्राचामर्वीचां च लक्षणभेदेन एकम्य मते एकोडलंकार:, स एव परम्य मते पर एव भव- तीति म्परष्टभिद विमशकानाम्। पञ्चमे त्वधिकरणे वामनोऽयं द्वाभ्यामधिकरणाभ्यां काव्यसमयं शब्दशु- द्विं च निरूपयति। काव्यसमयनिरूपणं च नितरां संकुचित न खलु तद्वचपदे- शमर्हतीति प्रतिभाति। अर्वाचीनाम्तु 'मतामप्यनुपनिबन्धः । असतां चोपनि- बन्धः' इत्यारभ्य सुम्पष्ट बहूंन् काव्यसमयानभिदशयामासुः । शब्दशुद्धिविवेक- 1. अनिशयोक्तिभेदान्तरस्य गणने त्रयःसप्तति । 2. दृश्यन्ता वामनीयानि समासोकत्यप्रस्तुतप्रशसादिलक्षणानि।
Page 15
प्रकरणे च प्रायेण वैयाकरणैः समर्थितान् शब्दान् तथैव समर्थयति। अगत्य च तत्र तत्र चिन्त्यतामप्याविर्भावयति। धातुपाठादिविषये च क्वचित्कचिदाधुनिक- वैयाकरणग्रन्थमताभ्यामस्ति दृश्यते वार्भनस्य विरोधः । आनुनामिक्यप्रतिज्ञान्या- येन संप्रदायागतांस्तांम्तान्विशेषानतिदृढं विश्वसन्तो वयं न खल्वत्र किमपि का- :रणमात्मना जानीमः । प्रायोगिकाधिकरणद्विती या ध्यायम्य वैय करणकृत्यत्वमा क्क - लयन्तः प्रत्यवम्थातारः, काव्यशरीरश्दशोधनमपि नालंकारिकम्य नानुगुणमिति परं निवेदनीया भवन्ति।
अथास्य वामनम्य जावतसमय विमृशामः । अत्र केचित्- "अय ख्रि्रिम्तीयसप्तमशतकोत्तराधान्न प्राचीनः; यतोऽयं भवभूतिप्रणीतोत्तररामचरिता- दिक्लोकानुदाहृतवान् । भवभूनिः स्त्रिम्तीयसप्तमशतकोत्तगर्ध कान्यकुजमही- पालम्य यशोवर्मणः सभायामामीदिति सुप्रसिद्धमेव । अथ च ध्वन्यालोकलोचने प्रथमोद्दचोते 'वामनाभिप्रायणायमाक्षप.। भामाहाभिप्रायेण तु समासोक्तिरित्य- मुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरेकमेवोदाहरणं व्यंतरद्रन्थकृत्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तु श्रीमदानन्दवर्धनाद्वामंनस्य प्राचीनत्वं प्रकटयन्ति। कश्मीरेषु अवन्तिवर्मराज्यसमये नवमशतकोत्तरारधें श्री मदानन्दवर्धन आसीदिति राजतरङ्गिण्या. प्रतीयते। तम्मात् स्त्रिस्ताब्दीयनवमश- तकोत्तरार्धान्नाधस्तनो वामनः । भाति चायं काश्मीरकः। अष्टमशतके कश्मीरमही- पतेर्विपश्चिद्वरम्य श्रीजयापीडम्य मन्त्री कश्चन वामनाभिध आसीत्। 'मनोरथ शङ्गदत्तश्रटकः संधिमांस्तथा । बभूवु. कवयस्तस्य वामनाद्याश्च मन्त्रिणः' इति राजतरङ्गिणी। स एवायं काव्यालकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति। काशिकावृत्तिकारो वामनमत्वस्माद्विन्नः प्राचीनश्च। चीनदेशांत्तीर्थयात्रार्थ भार- तवर्षे सप्तमशतकपूर्वार्धे कश्चन ह्यून्सङ्गनामा पुरुषः समागतः । तदात्र वामन- प्रणींतायाः पाणिनिसूत्रव्याख्यायाः (काशिकायाः) परनवाठनेषु प्रचार आसी- दिति हि तदीययात्रावर्णनपुस्तकात्पाश्चात्त्यैः 4डतैरधिगतप" इति विलिखन्ति।
परे त्वत्र प्रत्यवतिष्ठन्ते- चीनयात्रिकेण खलु तदा काशिकायाः प्रचार आसीदित्येव विलिखितम् ; न तु संपूर्णाया इति, न वा वामनप्रणीताया इति। तच्च तदीयं वचन जयादित्यकृतं भागमादायेव कुतो नात्मलाभमधि-
Page 16
गच्छतु। अत एव केचन विमर्शकाः प्रायशः खिस्ताब्दीये अष्टमे नवमे वा शतके काशिकावृत्तेः पूर्तिरासीदिति नवीनविचारणाविशारदानां मतम्' इत्यभि- प्रयन्ति। नापि पूर्वोक्तेन लोचनवाक्यमाश्रेण वामनस्य ध्वन्यालोककर्तुः प्राची- नत्वमभ्युपगन्तुं शक्यते; यत इयं शैली व्याख्यातृणाम्- यत्स्वापेक्षया प्राचीनं मत स्वव्याख्येयग्रन्थाभिप्रायादपि पूर्वत्वं प्रापय्य तत्र तत्रावतारिकादान- भाववर्णनादिष्वप्रतिबन्धं प्रवर्तनं नाम। इंदं चात्रालोचनीयम्, यदत्र वृत्तौ माघो भट्टनारायणशच पद्याभ्यामुदाहृताविति । माघस्य च कालो नवमशतकोत्तरार्ध इति (८६०) डव्प्रभृतयो वदन्ति सहेतुकम्। भट्टनारायणशच अष्टमशतको- त्तरार्धे नवमशतकारमभे वा स्कादिति श्रीवैद्यप्रभृतिभिः सप्रमाणं निर्धारितम्। उ- दाहरणतया ग्रन्थकृद्धिरुपादानम्य च ग्रन्थावतारात्परं कतिपये वत्सरा अपेक्षणी- या इति सर्वसंप्रतिपन्नमिदम्। ध्वन्यालोकलोचनकता अभिनवगुप्तपादाचार्यश्च स्त्रिम्तीयदशमशतकात्तरभाग एकादशशतकारम्भ च कश्मीरेुवात्साादांत तत्कृ- तबृहत्प्रत्यभिज्ञाविमर्शेनीसमाप्तिस्थपद्यादवगम्यत इति श्रीमान् दुर्गाप्रसादः । इत्थं. च वामनोडयं स्त्रिस्तीयदशमशतकोत्तरार्धान्नार्वाचीनः नवमशतकान्न प्रा- चीन इति प्रमाणमार्गागतमिति प्राहुः । इदं च वयं विमर्शकानां दृष्टो कुर्म :- काव्यादर्शकर्ता आचार्यदण्डी ता- वद्वामनादिभ्यः प्राचीन आलंकारिक इति निर्विवादमिदम्। तेन च काव्याद- शे द्वितीयपरिच्छेदान्ते 'उपमारूपकं चापि रूपकेप्वेव दर्शितम्' इति, 'उत्प्रेक्षा- भेद एवासावुत्प्रेक्षावयवोडपि च' इति वदता 'तंद्वेदावुपमारूपकोत्प्रेक्षावयवौ' इति वामनमतं निराकृतमिव प्रतिभाति। तत्कथमिदमुपपद्यताम्। वामनादन्येन च प्राचीनेनालंकारिकेण तावभ्युपगतौ स्यातामिति वा ममूहनीयम। एवमपि प्रा- चीनेनांकारिकण खण्डितम्य विषयम्यार्वाचीनेन विनैव युक्तिप्रदर्शनमभ्युपगम व्यसनं कथं नाम संगच्छतामिति तु संशयः प्रादुर्भवति। परम्परवार्तानभिज्ञा ता- विति कल्पनं त्वतिसाहसमेव सहृदयानाम । अम्य च प्राचीनम्यालंकारनिबन्धनम्य नैतावता समीचीनं परिशोधितं मुद्रापणमासीत्। मूलमात्रं 'च चिराद्वहोम्तैम्तैर्मुद्रापितमपि न व्युत्पित्सूनामुप- काराय तावते समकल्पत, वम्तुतो यावते ाव्यमेतेन। शोधकाश्च आलम्याद्वा 1. दृश्यता मद्रपुरमुद्दापितरूपावनारभूमिकासप्रमपुटः ।
Page 17
11II
प्रमादाद्वा अन्यैवी कारणेः मूत्रवृत्तिविवेकमनाकलयन्त एव सूत्राणि वृतीवृ- त्तीइच सूत्राणि तत्र तत्र विद्यार्थिभिरविलिख्यमाना ग्रन्थाद्वहिभूताश्च टिप्पणी ग्रंन्थाक्षराणि च मन्यमानाम्तथैव मुद्रापयित्या काव्यालंकारसूत्रवृत्तिमिमां प्रा- चीनां बहुधा आकुल्यकार्षुः। तिप्पभूपालकृतव्यास्यानन सह वृत्तिमिमां सुद्रा पितवन्तश्च कंचित् मुद्ितपूर्वमूलग्रन्थपाठादिप्रामाण्यभ्रमेण व्याख्याक्षराण्यवा- न्यथयन्तः, क्वचित्कचिच्च व्याख्यानपङ्कीरेव मुद्रितमूलग्रन्थविसंवादिनीः परित्य- जन्तः, तत्रैव पुम्तकं निर्दिष्टानि पाठान्तराणि व्यास्यानेन संवदन्तीत्यालीच- यितुमप्यलसा बह्नाकुल्यभावयन्भूयाऽपि वृत्तिमेनाम्। तंदतत्सर्वमालोच्य व्याख्या- नग्रन्थम्येव मूलग्रन्थम्याप्यादर्शान्तराण्यानीय व्याख्यामूकग्रन्थयो. सवादं सम्यक परीक्ष्य व्याख्यानानुगुणं तत्र म्थितं पाठमादृत्य सयुक्तिप्रमाणं सूत्राणि वृत्तीशच शृङ्गग्राहिकया निर्धार्य यावन्मतिबलं परिष्कारमाधाय सव्याख्यानामेनां काव्या- लंकारसूत्रवृत्तिं बहिरिदानीमवतारयामः । यदि च व्युत्पित्सूनां विदुषां चायम- म्मत्परिश्रमो विमर्शनावसरे लेशेनाप्यंभिनन्दनमर्हति, तदा ससंतोषमम्मदीय- प्रयासम्य चारितार्थ्यमाकलयामः ।
Page 19
। श्रीः ।।
॥ काव्यालंकारसूत्रवृत्तिः ॥
कामधेनुसहिता।
Page 21
।। श्री: ॥।
॥ काव्यालंकारसूत्रवृत्तिः ॥
॥ कामधेनुसहिता ॥
प्रथममधिकरणम्ं ॥
प्रणम्य परमं ज्योतिर्वामनेन कविपिया। काव्यालंकारमृत्राणां स्वेपां वृत्तिविंधीयते॥
॥ श्रीः ।। कल्याणानि करोतु नः स भगवान्क्रीडावराहाकृति- देष्ट्राग्रेण नवप्ररोहपुलकां देवीं धरामुद्धहन्। यस्याङ्गेपु वहन्ति लोमविवरालभ्ना महाम्भोधयः कान्तास्पर्शसुखादिव प्रकटितां स्वेदोदबिन्दुश्रियम् ॥ १॥
दरोन्मीलत्फालद्युतिम दमृतस्यन्दिशुभिकं भ्रमन्मीनोष्णीषं पदसरणिपारीणवलयम्। विराजद्ंभावव्यतिकरितपुंभावसुभगं पुरस्तादाविःस्तान्नुवनपितरी तन्मम महः ॥ २ ॥
चित्ते शृङ्गलितं भक्त्या चिन्तये चिन्मयं गजम् ॥ ३ ॥
करुणामसृणालोकप्रवणा शरणार्थिपु। प्रगुणाभरणा वाणी स्मरणानुगुणास्तु म ॥।४ ॥
उन्मीलत्प्रतिभानकन्दमुदयत्संदर्भनालं लस -· च्छलेषाद्याकुलशब्दपत्रमतुलं बन्धारविन्दं सदा। अध्यासीनमलंक्रियापरिलसद्गन्धं वचोदैवतं वच्दे रीतिविकासमाशु विगलन्माघुर्यपुप्पासवम्॥ ५॥
Page 22
२ काव्यालंकारसूत्रवृत्ति: [अधि. १.
नमस्कुर्वे खर्वेतरविविधविद्याविलसिता- न्प्रवाचः प्राचोऽहं प्रथितयशसो भामहमुखान्। कृता यैरर्थानां कृतिषु नयचर्चा सदसतां प्रभेवाभिव्यक्तिं प्रजनयति भासामधिपतेः ॥ ६ ॥
पावनी वामनस्येयं पदोन्नतिपरिष्कृता। गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी ॥ ७ ॥
प्रबन्धं तालानां भवनुतिमिषेणातनुत यः शिवाक्लृपाकारा नटनकरणानामपि भिदाः । स वृत्तेर्व्याख्यानं सरलरचनं वामनकृते- र्विधत्ते गोपेन्द्रन्रिपुरहरभूपालतिलकः ॥। ८ ॥
पावनपद्विन्यासा समग्ररसदोहशालिनी भजताम्। घटयति कामितमर्थ काव्यालंकारकामधेनुग्यिम् ॥ ९॥
यत्रोपयुज्यते यावत्तावत्तत्र निरुप्यते। प्रसङ्गानुप्रसङ्गेन नात्र किंचित्प्रपञ्च्यते ॥ १०॥
अभ्यर्थके मय्यनुकम्पया वा साहित्यसर्वस्वसमीहया वा। मदीयमार्या मनसा निबन्धममुं परीक्षध्वममत्सरेण ॥ ११ ॥
अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम्। अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ॥ १२ ॥
कारव्याङ्गकाव्यभेदानां तृतीये प्रतिपादनम्। तुर्ये पदपदार्थानां दोपतत्त्वविवेचनम् ॥१३ ॥
वाक्यवाक्यार्थदोपाणां पञ्चमे नु प्रपञ्चनम। गृणालंकारभेदपवृ पष्टे शव्दगुणास्तथा ॥ १४ ॥
'सप्तमेऽर्थगुणाः शब्दलंकारा: पुनरष्टमे। उपमा नतमे तस्याः प्रपञ्चो दशमे भवेन ॥ १५॥
काव्यस्यंका दशे संविद्धादशे शब्दशोधनम्। इन्येष द्वादशाध्यायीप्रमेयाणामनुक्मः ॥१६॥
अथ ग्रन्थकारः स्वकर्तृकाणि सूत्राणि व्याकर्तुकामः, प्रारम्भ एव प्राचीना-
Page 23
अ. १.] कामधनुसहिता। ३
सपन्नोऽपि, व्याख्यातृश्रोतृणामविन्नव्याख्यानश्रवणलाभाय ग्रन्थादौ तन्मङ्गलनिब- न्धनपूर्वकं तत्प्रवृत्तिसिद्धये विषयप्रयोजनादि निर्दिश्य दर्शयन्नाद्येन पद्येन कर्तव्यं प्रतिजानीते-प्रणम्येति। भक्तिश्रद्धातिशयलक्षणः प्रकषः प्रशब्देनात्र प्रकाश्यते, वाद्टगेव हि मङ्गलमन्तरायसंतानशान्तिं संतनोति। अन्यथा कृतायामपि नतौ प्रारिप्सितग्रन्थपरिसमाप्तिं न संपादयेत्, किरणावल्यादौ तथा दर्शनात्। अथ कथमिह नमिः सकर्मकः स्यात्, प्रह्वीभाववृत्तेरस्याकर्मकत्वात् 'नमन्ति शाखा नवमञ्जरीभिः' इत्यादिप्रयोगदर्शनाच्च। न चायमुपसर्गवशात्सकर्मकः. प्रश- ब्दस्य प्रकर्षमात्रार्थत्वेन कर्मसंबन्धोपपादकत्वायोगात्; 'नमामि देवम्' इत्यादावुपसर्गस्याप्यभावात्। न चायमन्तर्भीवितण्यर्थः, अनौचित्यप्रसङ्गादिति- तदेतत्पाणिनिफणितिपारायणपरिणतान्तःकरणानामम्माकं चेतसि चोदं न चातुरी- माचरति। तथा हि। यथा जयतिरकर्मकः प्रकर्षेण वर्तने, पराजये तु सक्मकः; तथा नमिधातुः क्वचिश्प्रह्वीभावार्थः क्वचिन्नमस्कारार्थश्च भवति। तत्न यदा प्रह्रीभावमात्रविवक्षया प्रयुज्यते, तदानीमेषोऽकमकः। यदा नमम्कारार्थविवक्षया प्रयुज्यते, तदा सकमक इति विवेकः । यद्येव तर्हि 'देवं प्रणतः' इत्यत्र कर्तेरि क्तप्रत्ययो न सिध्येत्, सकर्माकर्मकाद्धातो क्ो भवेत्कर्मभावयोः' इति सकर्मका- द्वातोः कर्मणि क्तविधानात्, 'गत्यर्थाकर्मकादिषु नमेः परिगणनाभावाच्चेत्यपि न चो- दनीयम्। 'व्यवसितादिषु क्तः कर्तरि चकारात्' इतीहैव वक्ष्यमाणेन सूत्रेण नमे- रपि कर्तरि क्तप्रत्ययसंभवात्.। व्यवसितः प्रतिपन्न इत्यादिषु गत्यर्थादिसूते चकारादनुक्तसमुच्चयार्थात्कर्तरि क्तप्रत्ययो भवतीति हि तम्य सूत्रस्यार्थः । परमं परिदृश्यामानज्योति.परिपाटीमतिवर्तमानम्। ज्योतिः चिन्मयम्।परमं ज्योतिः प्रणम्य' इत्यत्र वाक्यार्थस्प्रमथ्येन, निखिलनिगमनीरजराजिराजहंसस्त् परमहं- सभावनापदवीदवीयसः परस्य ब्रह्मणो यत्पारमार्थिकं रूपम्. तदेव प्रणिधान बलेन प्रमुषितविषयान्तरप्रसङ्गे प्रहर्षतरङ्वितेऽन्तःकरणे पत्यक्षतोऽनुभवन्प्रणाम- प्रचयेन पर्यचरदिति प्रतीतेः परमयोगित्वमस्य प्रबन्धुः प्रत्यायते। वामनेनेति। निजनामर्निर्देशो यशःप्रकाशनाय। कवीन् प्रीणातीति कविप्रीः 'अन्येभ्यो- डपि दृश्यते' इति क्विप्प्रत्ययः। तेन कविप्रियेति तृतीयान्तं कर्तृविशेषणम्, कवीनां प्रियेति प्रथमान्तं वा कर्मविशेषणम्। काव्येति।"कवनीयं काव्यम्' इति
Page 24
४ क।व्यालंकारसूत्रवृत्ति. [अधि. १.
काव्यं ग्राह्यमलंकारात् ॥ १ ॥
काव्यं खलु ग्राह्यमुपादेयं भवति, अलंकारात्। काव्यशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्तते। भक्त्या तु शब्दार्थमात्रवच- नोडत्र गृह्यते।।
लोचनकारः। 'कवयति इति कविः, तम्य कर्म काव्यम्' इति विद्याधरः । 'कौति शब्दायते विमृशति रसभावान् इति कविः तम्य कर्म काव्यम्' इति भट्टगोपालः । लोकोत्तरवर्णनानिपुणकविकर्म 'काव्यम्' इति काव्यप्रकाशकारः । भामहोऽपि •प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता। तदनुप्राणनाज्जीवेद्ूर्णनानिपुणः कविः॥ तम्य कर्म स्मृतं काव्यम्' इति। तदेतत्काव्यशव्दव्युत्पत्तिकथनम्। चारुताशालि- शब्दार्थयुगलं काव्यमिति रूढोऽर्थः । तस्य अलंकारः अलंकृतिः । भावे घन्। दोषहानगुणालंकारादानाभ्यामाधीयमानं सौन्दर्यमिति यावत्। तत्प्रतिपादकानि सूत्राणि, तेषाम्। सूत्रलक्षणमुक्तं भामहेन,.'अल्पाक्षरमसंदिग्धं सारवद्विश्वतो- मुखम्। सम्यक्संसूचितार्थ यत्तत्मूत्रमिति कथ्यने॥' इति। स्वेषामिति। मूत्रवृत्त्यो- रेककर्तृकत्वप्रतिपादनेन सूत्रकाराभिमनार्थप्रतिपादिनी वृत्तिः. वृत्तेरन्यकर्तृकत्व- शङ्काविरहश्चेत्युभयमप्युपक्षिप्यते। वर्तते अम्यां सूत्राणां यथावत्पदपदार्थविवेक इति वृत्तिः । ,अधिकरणार्थे क्तिन्प्रत्ययः । वृत्तिलक्षणमुक्तं भामहेन. 'सूत्रमात्र- स्य या व्याख्या सा वृत्तिरभिधीयते।' इति। 'काव्यालंकारमृत्राणां वृत्तिः' इत्य- नेन विषयसंबन्धौ सूचितौ। 'कविप्रिया' इत्यनेन अधिकारिप्रयोजने सूचिते । तदेतदनुबन्धचतुष्टयमुत्तग्त्र विम्तग्ण प्रतिपादयिप्यते।
ननु काव्यस्य कः पुनरलकारादुपकार, यन प्रतिज्ञायमान तत्सूत्रवृत्तिविधानं सफलं स्वादिति शङ्कामपनतुमलंकारप्रयोजनप्रतिपादकमादिमं सूत्रमुपादत्ते- काव्यमिति। खलु शब्दो वाक्यालंकारे। यद्वक्ष्यति 'वाक्यालंकारप्रयोजनं तु नान- र्थकम्, यथा-खलु हि हन्त' इति। काव्योपादाननिदानत्वादलंकारो भवत्युपयोगीति भावः। ननु काव्यमव तावदुपादेयं चेत्, अलंकारस्यापि तदुपादानहेतुत्वमुपपद्येत। तत्सूत्रधृत्तिविधानं च सफलं स्थात। तम्योपादेयत्वमेव कुत इति चेत्- अत्र वक्त- 1. 'अल्पाक्षगममदिग्व साग्वत्मर्वतोमुखम। अस्तोभमनवदय सृत् र्ीदुः।'
Page 25
अ. १.] कामधनुसहिता।
व्यम्-यत्काव्यमुपादेयं न भवतीति, तत्कम्य हेताः: न तावदृषिप्रणीतत्वाभावाद- नुपादेयत्वम्, वाल्मीकिबाधायनप्रभृतिभिरपि महर्षिभिः काव्यम्य प्रणयनात् । नापि पुरुषप्रणीतत्वात् , शास्त्रनिबन्धनानामपि तथात्वेनानुपादेयत्वप्रसङ्गात्। न च काव्यत्वात्, रामायणादावनैकान्तिकत्वात्। तस्वापि पक्षसमत्वशङ्कायामेकैकाक्ष- रोचारणेऽपि फलविशेषवचनविरोध । नापि दृष्टप्रयोजनाभावात्, दृष्टप्रया- जनानां बहूनामुपदिष्टत्वात्। तथा चोक्त काव्यप्रकाशे, 'काव्यं यशसेऽर्थ- कृते व्यवहारविदे शिवेतरक्षनये। सद्य. परनिवृतये कान्तासंमिततयोपदेशयुजे॥' इति। नाप्यदृष्टप्रयोजनाभावात्, न्वर्गापवर्गलक्षणम्यादृष्ट्रप्रयोजनम्य शिष्टग्नुशि- ष्टत्वात् यदाहु: 'धर्मार्थकाममोक्षिषु वैचक्षण्यं कलासु च। करोनि कीर्ति प्रीति च साधुकाव्यनिषेवणम् ।' इति। काव्यादर्शऽपि •चतुवर्गफलायत्तं चतुरेदात्तनाय- कम्।' इति। इहापि 'काव्यं सत ' इति वक्ष्यमाणत्वाच्च। अथ मन्यसे 'का- व्यालापांश्र वर्जयेत्' इति निषेधवचनादनुपादेयत्वं काव्यम्येति, तदप्यनालोचित- चतुरम्। काव्यालापनिषेधवचनम्यासत्काव्यविषयत्वेन व्यव्थोपनात्। यदाह विद्यानाथः 'यत्र पुनरुत्तमपुरुपचरितं न निवध्यने तत्काव्यं परित्याज्यमेव। तंद्वि- षया च स्मृतिः, काव्यालापांश् वर्जयेदिति' इति। न कवलं विषयवैगुण्यनासाधु- त्वं काव्यस्य, कितु प्रबन्धुः, प्रतिभादरबल्यकुलवैकल्याभ्यामपि भवति। तदुक्तं काव्यादर्शे.तदल्पमपि नोपेक्ष्यं काव्ये दुष्ट कथंचन। म्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ।' इति। कविगजाड्डुशे.गुनीदुग्धमिव त्याज्यं पद्य शूद्रकृत बुधैः। गवामिव पयो ग्राह्य काव्यं विप्रेण निर्मितम् ॥' इति। उत्तमपुरुषकथाकथनं तु काव्य ग्राह्यमेव। तदुक्त भामहेन. 'उपक्लोक्यम्य माहा- त्म्यादुज्ज्वला: काव्यसंपद: ।' इति। भट्टोद्भटेनापि फणितम् . गुणालंकारचारु- त्वयुक्तमप्यधिकोज्ज्वलम्। काव्यमाश्रयसंपत्त्या मेरुणेवामरदमः ॥' इति। भोज- राजनापि कथितम्.कवेरल्पापि वाग्वृत्तिरविद्वत्कर्णावतंगनि। नायको यदि व्ण्येत लाकात्तरगुणात्तरः ॥ इात।क बहुना। पातपाद्माह' प्रबन्धप्रशम्तिरिति शास्त्राणामपि समानमेतत्। तथा हि। न्यायवैशेषिकशास्त्रयोरीश्वरप्रतिष्ठापकतया प्र- र्वोत्तरमीमांसयोर्धर्मब्रह्मप्रतिपादकतया च महनीयत्वम्। तत्त्वचिन्तायां तु शास्त्राणा- मपि कांव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत्1। यदाहु, 'स्वादुकाव्यरसोन्मिश्रं 1 उपनिषत् रहस् सिद्धान्त इति यावत । 'रसम्योपनिषत्परा इति 'वन्यालोंक।
Page 26
६ काव्यालंकारसूत्रवृत्ति: [अधि. १.
शास्त्रमप्युपयुञ्जत। प्रथमालीढमधवः पिबन्ति कटु भेषजम्॥' इति। किंच शास्त्र काव्ययोरियान्विशेषः यत्प्रभुसंमिततया दुर्लभोऽनुप्रवेशः शास्त्रे, कान्तासंमितत- या तु सुलभोऽनुप्रवेशः काव्य इति । यदाहुः, 'कटुकौषधवच्छास्त्रमवि- द्याव्याधिनाशनम्। आह्लाद्यमृतवत्काव्यमविवे क ग दा पह म् ।' इिाहि त्यचूडामणावप्युक्तम्,तदिदं पुण्ड्ेक्षुभक्षणाद्वेतनवित्तलाभः, यत्काव्यश्रवणाद्वयु- त्पत्तिसिद्धिः' इति। तम्माद्दष्टादृष्टानेकोपकारकारितया काव्यमुपादातव्यम्, ततश्च सफलोऽयमलकारसूत्रवृत्तिविधानयत्न इति सिद्धम्। अथ काव्यशब्दम्यानेकार्थ- त्वेन विप्रतिपत्तौ स्वसिद्धान्तसिद्धं मुख्यार्थ तावत्प्रख्यापयति-काव्यशब्दोऽ- यमिति। लिलक्षयिषितगुणालंकारसम्कृतशब्दार्थयुगलवाची नपुंसकलिङ्ग: काव्य- शब्द इत्यर्थः । गुणालंकारसंस्कृतयोरिति। गुणैः ओजःप्रमुखैः. अलंकारै: यमकोपमादिभिश्च संस्कृतयो अलंकृतयोरित्यर्थः । अत्र शब्दार्थो द्वौ सहितावेव काव्यमिति काव्यपदार्थकथनात्. कमनीयताशाली शब्द एव काव्यम्, अथवा अर्थ एवेति पृथक्पक्षद्वयं प्रत्यक्षपि; यतो द्वयोः संभूयाह्लादनिबन्धनत्वमिति। तदुक्तं वक्रोक्तिजीविते. 'न शब्दम्य रमणीयताविशिष्टस्य केवलम्य काव्यत्वम्, नाप्यर्थस्य' इति। यद्यपि काव्यपद गुणालंकारसंस्कृतशब्दाथयुगलं म्वभावत
1 अत्रदमवधेयम। काव्यमुच्चे पठ्यते, काव्यादर्थाऽवगम्यत, काव्य श्वतमर्थो न ज्ञात इत्यादिविश्वजनीनव्यवहारतः श्दविशषस्येव काव्यपदार्थत्वम। तथा च 'रमणायार्थ- प्रतिपादक: शब्द: काव्यम' इति तल्लक्षण युक्त्तमिनि पण्डितराज । 'वाक्य रसात्मक का- व्यम' इति लक्षयन्दर्पणकृदप्यनमेव पक्ष कटाक्षरयत। प्राचनपक्षपातिनस्तु, अर्थम्याि शब्दद्वारा प्रतीतिविषयत्वान्न पूर्वाक्तव्यवहारानुगरपन्त। इत्थमंव हि आत्मश्रवणवाक्य सम- र्थित सवै.। इद च काव्यत्व न व्यामज्यवृत्ति, एको न द्वाविनि व्यवहारस्येव श्रोकशक्य न काव्यरमात व्यवहारस्याप्यापत्तः । अर्थाज्ञानऽपि शब्दावलीमात्रे काव्यत्वानुभवानुपपत्तंश्र।
पर तु परस्परवशिष्टया: शब्दार्थयोरव काव्यत्वम। तब च किच्छद्दविशिष्ठोऽर्यः, क्रि- र्वर्थविशिष्टः शब्दः काव्यमिति बोध्यम्। न त्वेकश्रोक एव दविधा काव्यत्वम्, एकध। काव्यत्वेनव व्यवहारोपपत्तः। यत्रार्थी व्यक्षना, तदभवजप्यर्थालकारमात्र वा; तत्रार्थीं विशंष्य.। यत्र तु शाव्दी व्यक्षना, तदभावडप शब्दालकारमात्र वा, तत्र शब्दो, विशेष्य इत्येव विनिगमनावधेया। उभयालकारसत्वे तु तत्तच्चमत्कारतारतम्य विनिगमकमवसेय मिति प्राहः ।
Page 27
अ. १.] कामधेनुसहिता।
कोऽसावलंकार इत्यत आह- सौन्दर्यमलंकारः ॥ २॥ अलंकृतिरलंकारः । करणव्युत्पच्या पुनरलंकारशब्दोऽयमुपमा- दिषु वर्तते।
एवाचष्टे, तथाप्यस्मिन्सूत्रे मुख्यार्थस्ानुपयोगलक्षणं बाधं पश्यन् शब्दार्थ- युगलमात्रे तदुपचर्यत इत्याह-भक्त्येति। भक्त्या उपचारेण। गुणालंकारसं- स्कृतत्वस्व पृथक्करणं मात्रचोऽर्थ.। ननु मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयो- जनात्। अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इत्युक्तरीत्या मुख्या- र्थबाधादौ सत्येवोपचारो वक्तव्यः । तथा च 'गुरुरभिवाद्यो गुरुत्वात्' इत्यत्र यथा गुरुशब्दपरिगृहीतम्यैव गुरुत्वस्य तदभिवादनहेतुत्वं दृष्टम्. तथैव अत्रापि अलंकारस्य काव्यग्रहण्प्हेतुत्वमुपपद्यत इति कथं मुख्यार्थबाधः । चारुताशालि- शब्दार्थयोः, शब्दार्थमात्रस्य च वम्तुत एकत्वाद्धेदनिबन्धनो दुर्घटः संबन्धः । 'काव्यं ग्रह्यमलंकारात् इति भेदनिर्देशेनैव गुणालंकारवैशिष्टयं तद्वचुत्पत्तिरूपं प्रयोजनं च संभवतीति कथमुपचारः? अत्रोच्यते-'यथा गुरुत्वादभिवाद्यः' इत्युक्ते गम्यत एव गुरुरिति, तथापि गुरुरित्युच्यमानमतिरिच्यते; एवमिहापि 'अलंकाराद्राह्यम्' इत्युक्ते काव्यमिति गम्यत एव, तथापि काव्यमित्युच्यमानम- तिरिच्यत इति पुनरुक्तप्रायत्वादनुपयुक्तमिति मुख्यार्थभङ्गः।न चे अनुपयुक्तत्वे- डप्यनुपपत्तेरभावात्कथं मुख्यार्थबाध इति चोदनीयम्। यतो योग्यताविरहवत् आकाङ्काविरहोऽपि मुख्यार्थभङ्गहेतु, अन्वयविघटनाविशेषात्। ततश्रानुपयु क्तावा- काड्भनवैकल्यम्, अनुपपत्तौ तु योग्यतावैकल्यमित्यवगन्तव्यम्। चारुताशालि- शब्दार्थयोः शब्दार्थमात्रस्य च गुणभेदाद्गेदे सति सादृश्यलक्षणः सबन्धः । गुरुपदोपलक्षिते पुंसि हितानुशासनकौशलादिप्रतिपत्तिवत, शब्दार्थयोर्गुणालंकार- वैशिष्टयप्रतिपत्तिः प्रयोजनं च संभवतीत्युपपन्न एवोपचार इत्यलमतिविस्तरेण। अलंकारशब्दोऽयं किं 2भावसाधनः उत करणसाधन इति संदेहा- स्पृच्छति-कोऽसाविति। तत्नोत्तरं वक्तुमुत्तरसूत्रमवतारयति-अत आहे-
- 'भज्यते सेव्यते मुख्यार्थोऽनयेति भक्तिः उपचारः लक्षणेत्यर्थ'।' 2. साधन प्रत्यय। भावसाधनः भावार्थकप्रत्ययान्तः ।
Page 28
- ८ [अधि. १.
ति। वृत्तिकारदशातः सूत्रकारदशान्यैवेति कर्तृभेदमाश्रित्योक्तम् 'आह' इति । अत्र भावव्युत्पत्तेर्विवक्षितत्वादलंकारशब्दो भावार्थमाचष्ट इत्याह-अलंकृति रलंकार इति। अलंकारशब्दस्य करणव्युत्पत्तिपक्षे तु न गुणानां काव्यग्रहण- हेतुत्वमिति, 'युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणम्' इत्यादि वक्ष्यमाणं नोपपद्यत इत्यर्थासंगतिः 'न क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिरिप्यते' इति करणे ल्युट एव प्राप्तेः शब्दासंगतिश्चेत्याशयः । ननु अलंकारशब्दम्य कटक- मुकुटादाविव यमकोपमादिप्वविगीतशिष्टप्रयोगदर्शनात् ''अध्यायन्याय' इत्यादि- सूत्रे चकारादनुक्तसमुच्चयार्थाद्वा 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणाद्वा करण- साधनोऽप्यलंकारशब्दः संगच्छत इति चेन्मतम्, तत्तु नानिष्टमित्यभ्युपगम्या- नुवदति-करणव्युत्पच्या पुनरिति। कथचित्कल्पितायामपि करणव्युत्पत्तौ न गुणानां काव्यग्रहणहेतुत्वमिति स दोषम्तदवम्थ इत्याशयः । ननु करणसाध- नोऽयमलंकारशब्दो यमकोपमादिषु वर्तमानो गुणानपि गृह्हाति. सौन्दर्यहेतुत्वा- विशेषादुभयेषामिति-तदेतदविचारितग्मणीयम्। न हि व्युत्पत्तिरम्तीति शब्दः सर्वत्र प्रयोक्तुं शक्यते, किंतु शिष्टप्रयोगे दृष्टे व्युत्पत्तिरन्विप्यते, अन्यथा पङ्कजादयः शब्दाः पद्मादिप्विव कुमुदादिषु प्रयुज्येरन्, पङ्कजननाविशेषादिति स्यादतिप्रसङ्गः । तम्मात्पझ्मादिषु पङ्कजादिशब्दवन्,. अलंकारशब्द: कटकमुकुटा- दिप्विव यमकोपमादिषु योगरूढ इत्यवगन्तव्यम्। एवं च सति यमकोपमादेरलं- कारम्य काव्यग्रहणहेतुत्वाभ्युपगमे, सालंकारमेव काव्यं ग्राह्यम्, नतु निरलंकार- मित्यापद्येत। न चैवं वक्तुं युक्तम्, अलंकारविरहेऽपि शुद्धगुणमेव काव्यमास्वा- दयमिति वक्ष्यमाणत्वात। न केवलमियमम्य ग्रन्थकृतः प्रक्रिया, अन्यैरप्यालंका- रिकैरनलंकारम्य शब्दार्थयुगलम्य सगुणम्य काव्यत्वे लक्षणोदाहरणयर्दिर्शित- त्वात् तिथा चोक्तं काव्यप्रकाशे. तददोषों शब्दार्थो सगुणावनलंकृती पुनः क्वापि' इति। अत्र व्याचष्ट भट्टगोपालः, .निर्दोषौ सगुणौ सालंकारौ श- ्दार्थो काव्यमिति घण्टापथः । किंतु 'सर्व वाक्यं सावधारणम' इति युक्तया यथा दोषशून्यावेव•गुणवन्तावेव शब्दार्थो काव्यमित्यवधारणम्, तथा सालंका- रावेवेति न पार्यते नियन्तुम्। वयं हि काव्यशोभासंभावनया स्वैरमलं- कारान् सहामहे, अलंकारनैयत्यं तु न सहामहे। उक्तं हि, 'दोषहानं गुणादानं 1. अभ्यायन्यायोद्यावसहाराश्र। ३-३.१२D.
Page 29
अ. १. कामधेनुसहिता।
स 'दोषगुणालंकारहानाढानाभ्याम् ॥ ३ ॥
स खल्वलंकारो दोषहानात्, गुणालंकारादानाच्च संपाद्यः कवेः। कर्तव्यं नियमात्कृतौ। कामचारः पुनः प्रोक्तोऽलंकारेषु मर्नाषिभिः ॥' इति। उंदाहरणं तु 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपाम्ते चोन्मीलित-7 मालतीसुरभय प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापार- लीलाविधौ, रेवारोधसि वेतसीतरुतले चेत समुत्कण्ठत ।।' इति। अत्र म्फुटो
नायामलंकारनैयत्यपक्षनिर्वाह इत्यलं दूराभिनिवेशया दुराशया, कविसंरम्भगोच- राणामलंकाराणां न कस्यचिदुपलम्भ इति।" तथापि न काव्यत्वभङ्ग । विशे- षोक्तिविभावनयोः स्वस्वविरुद्धार्थमुखेन कथंचिदुद्धावनेऽपि न म्फुटत्वम्, कण्ठो- क्त्या निषेध्ययोः कार्यकारणयोर्भीवान्तरमुखेनाभावाभिधानात्। अथ साधकबा- धकप्रमाणाभावादटयोः संदह रूपसंकर एवेति. तत्राप्यम्फुटतानुवृत्तिर्दुप्परिहरैवेत्यलं प्रसक्तानुप्रसक्तार्थप्रपश्चनेन। यद्यपि 'काव्यं ग्राह्य सौन्दर्यात् तद्दोषगुणालं कारहानादानाभ्याम् इति विन्यासान्तरे लाघवं भवति। तथापि, योऽयमलंकारः काव्यग्रहणहेतुत्वेन उपन्यस्यते, तद्रयुत्पादकत्वाच्छास्त्रमपि अलंकारनाम्ना व्यपदिश्यत इति शास्त्रस्य अलंकारत्वेन प्रसिद्धि: प्रतिष्ठिता स्यादिति सूचयितु- मयं विन्यास: कृतः, 'काव्य ग्राह्यमलंकारात्' इति।
इत्थमलंकारपदार्थ समर्थ्य तस्य कारणं वक्तुमुत्तरसूत्रमुपक्षिपति-स दो- षेति। प्रकरान्तप्रसिद्धानुभूताद्यनकार्थत्वात्तच्छब्दोत्र प्रक्रान्तार्थपरामर्शीत्याह- स खल्विति। गुणाश्चालकाराश्च गुणालंकारा इति प्रथमं समस्य, पश्चाल् दो- •1 अत्र दोषपदेन रसप्रतिबन्धकानां प्रतिकूलवर्णश्रुतिकटकष्टानां शब्दबोधसामग्री- विघटकाना च्युतसस्कृतिक्किष्टाभवन्मतयोगानामेव ग्रहणम्। ॥ च काव्यत्वविघटकाःः अन्ये तु काव्यापकर्षका एवेत्यर्वाचीना। 2 विभाक्नाविशेषोत्तयाः, तत्सदेहसकरस्य च अस्फुटत्व ग्रन्थकृतैव दशगिष्यते। सविसर्गगुरुरेफानुप्रासोऽपि रसाननुगुणत्वादस्फुटः । न च प्रकृने विप्रलम्भश ङ्गागरसप्रतीते रमवदलकार एव स्फुट इति वाच्यम्। रसस्यात्र प्राधान्यात् ; अप्राधान्य एवालकारत्वोपगमात्। 3. विशेषोक्तिविभावनयोः स्फुटत्व नाम कार्यकारण-
Page 30
१० काव्यालंकारसूत्रवृत्ति: [अधि. १. -
शास्त्रतस्ते ॥। ४ ।।
ते दोषगुणालंकारहानादाने शास्त्रादस्मात्। शास्त्रतो हि ज्ञात्वा दोषाञ्जद्यात् . गुणालंकारांश्राददीत। किं पुनः फलमलंकारवता काव्येन, येनेतदर्थोऽयं यत्र इत्यत आह-
काव्यं सद्ृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ॥ ५॥
षाश्च गुणालंकाराश्चेति द्वन्द्वः कर्तव्यः । हानं च आदानं च हानादाने। दोषगु- णालंकाराणां हानादाने इति विग्रहः। ततश्र दोषाणां हानम्, गुणालंकाराणा- मादानमिति यथासंख्य संबन्धः संपत्म्यते। इष्टानुवर्तनात्कुर्यात्प्रागनिष्टनिवर्त- नम्।' इति नीत्या गुणालंकारादानात पूर्व दोषह्ानरमेर्व कविना कर्तव्यमिति सूचयितुं दोषहानस्य प्रथमतो निर्देश कृतः । 'गुणालंकारादानाच्च' इत्यत्रेदम- नुसंधेयम्-गुणविवेचनाधिकरणप्रमयपर्यालोचनायां नित्यत्वानित्यत्वभेदेन गुणा- लंकारव्यवस्थामाम्थाम्यमानेन ग्रन्थकृता. अत्र सूत्रे दोषहानवत् गुणादानवच्च नालंकारादानं नियतम् ; किंतु गुणकृतशे।भातिशयाधायकत्वसभावनयवेति विव क्षितम्-इति। एवं च सति सौन्दर्यमलंकार, इत्यत्रापि. या गुणैराधीयंत शोभा. यश्चालंकारेस्तदतिशयः. तदुभयमपि सौन्दर्थपर्यायेण अलंकारपदेन संग्रृहीतमिति व्याख्येयम्। अतो न पूवीपरप्रमेयविगेध इति सर्वमनवद्यम्। कवेशिति। 'कृत्यानां कर्तरि वा' इति षष्ठी। नभु दोषहानगुणालंकारादाने किनिबन्धन इति जिज्ञाममान प्रत्याह- शास्त्रत इनि। ननु सालंकार काव्यं फलवच्चत् ; अलंकारम्य निरूपणाय शास्त्रारम्भ उपपद्यते। अतम्तदुपपत्तये फलं वक्तव्यम्। किं पुनम्तत्फलमिति प्रश्नपूर्वक- मुत्तरसूत्रमुपन्यम्यति- 'किं पुनरिति। सच्छब्दम्य विवक्षितमर्थमाह- 1. 'ध्मी्थकाममक्षेषु वैचक्षण्य कलासु च। कगोनि कीर्नि प्रीति च साधुकाव्यनि षंवणम् ।'
Page 31
अ. १.] कामधनुसहिता। ११
काव्यं सत् चारु दृष्टमयोजनम्, म्रीतिहेतुत्वात्। अदृष्टप्रयोजनम्, कीर्तिहेतुत्वात्। अत्र श्ोका :-
'प्रतिष्ठां काव्यवन्धस्य यशसः सर्गण विद्ुः। अकीर्तिवतनीं त्वेवं कुकवित्वविडम्बनाम्।। कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः। अकीर्ति तु निरालोकनरकोददेशदूतिकाम् ॥ चार्विति। सालंकारतया सुन्दगमित्यर्थः । दृष्टादृष्टौ ऐहिकामुम्मिकौ अर्थौ यम्येति विग्रहः। अत्र यथासंख्यं संबन्ध दशयति-दृष्टप्रयोजनमिति। अत्र प्रीति- शब्देन श्रवणसमनन्तरमेव राहृदयहृदयपु जायमाना या रसाम्वादलक्षणा, या च पुनरिष्टप्राप्त्यनिष्टपरिहारनिबन्धना. सेयमुभयविधा प्रीतिर्विवक्षिता। तथा च सति. साक्षात्परंपरया न्वैहिकप्रीतेः साधनत्वात्काव्यं दृष्टार्थमित्यर्थः । ननु कीर्ति- रपि म्वर्गसाधनतया प्रयोजनमिति वक्तव्यम्। म्वर्गपदार्थोडपि प्रीतिरेव। तथा च सति, प्रीतिहेतुत्वादित्युक्ते विवक्षितार्थसिद्धः किं हेत्वन्तरोपादानगौरवेणति चेत्, सत्यम्।यन्न दु खेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च सुखं स्वर्गपदाम्पदम् ।' इत्युक्तलक्षणाया दृष्टप्रीतिविलक्षणाया अदृष्टप्रीतेः पृथङ्- निरूपणीयत्वात्काव्यम्य तन्मूलतया लोकातिशयवत्त्वं प्रकटितमिति हेत्वन्तरमुपात्त- मिति द्रष्टव्यम् ।
अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तोक्तिसंवादेन समर्थयते- अत्र श्लोका इति। प्रतिष्ठा सहृदयहृदयानुरञ्जकतया लोकोत्कर्षेण स्थितिः । सरणिः पद्धतिः।'अकीर्तिवर्तनीम्' इत्यत्र नञ् तद्विरोधिनमंईप्प्चष्टे । यथा, अनृताधर्माविद्यादय. ऋतधर्मविद्यादीनां प्रतिपक्षाः, तथा अकीर्तिरपि कीर्तेर्विरोधिनी; तस्या वर्तनी एकपदी। सरणि छाने पद्या वर्तन्येक- पदीति च ।' इत्युभयत्राप्यमरः । आसंसारं यावन्न माक्ष. कीर्तेयित्प्र- सरणं वा। निरालोकः तेजोमात्रशून्यः, तमोमय इति' यावत्। नरकः दुर्गतिः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।' इत्यमरः। तस्य उद्देशः प्रदेशः. तम्य दूतिका प्रापयित्रीति यावत् । प्रसाद्यः विशेषतो विमर्शेन विशदीकर्तव्यः ।
Page 32
१२ काव्यालंकारसूत्रवृत्ति [अधि. १.
तस्मात्कीर्तिमुपादातुमकीर्ति च व्यपाहितुम्। काव्यालकारशास्त्राथः पसाद्यः कावपुंगवैः ॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे प्रथमाऽध्यायः।
अस्यालंकारशास्त्रस्य सौन्दर्यापरपर्याये अलंकारे परमप्रतिपाद्े साक्षात्प्रति- पाद्यत्वेन दोषगुणालंकारा विषयाः, हेयोपादेयतया तद्रचुत्पादन प्रयोजनम्, तस्य च प्रयोजन सत्काव्यकरणम्, दम्य च कीर्त्यादयः, तत्र कवीनां प्रीतिः। शास्त्रस्य विषयस्य च प्रतिपाद्यप्रतिपादकभाव संबन्ध; काव्यम्य कीर्त्यदिश्च कार्यकारण- भाव इति प्रथमाध्यायप्रमेयसंग्रहः ।
शारीर इति। प्रथमं काव्यशरीरम्, तदनु दोषा: ततो गुणाः. तदन- न्तरमलंकारा:, ततः शब्दप्रयोगशैलीति क्रमेण पंञ्चाधिकरणानि। तत्र काव्यश- रीरमधिकृत्य कृतमिति शारीरमधिकरणम्। अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्रमेयात्मनीत्यधिकरणं' प्रमेयविरतिस्थानम्। अध्याय अवान्त- रप्रमेयविरामस्थानम् । 'प्रमेयविरतिम्थानमध्यायश्च प्रपाठकः ।' इति वेजयन्ती।
व्यामव्याया काव्यालकार्कामधेनों शारीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः॥
- 'विषयो विशयश्रैव पूर्वपक्षस्तथोत्तरम्। निर्णयशति पजाङ्ग शाब्रेऽधिकरण म्मृतम् ।' इति त्वन्यत्र दृश्यतें।
Page 33
द्वितीयोऽध्यायः॥
प्रयोजनस्थापना। अधिकारिनिरूपणार्थमाह अरोचांकनः सतृणाभ्यवहांरणश्च कवयः ॥ १ ॥
इह खलु द्ये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहा- रिणश्चेति। अरोचकिसतृणाभ्यवहारिशब्दो'गौणार्थों। कोऽसावर्थः ? विवेकित्वमविवेकित्वं चेति। कवीन्द्रकैरवानन्दसुधास्यन्पटीयसीम्। विभिन्दानां तम.स्पन्दं वन्दे वाङ्मायचन्द्रिकाम्॥ प्रयोजने काव्यम्य प्रतिष्ठापिते तदर्थितया अधिकारिणिो निरूपणीया इत्यध्यायद्वयसंगतिमधिगमयति- प्रयोजनेति। काव्यप्रयोजनम्य स्थाषना, कृतेति शेषः । तिष्ठतेर्ष्यन्तात 'ण्यासश्रन्थो युच' इति युच्प्रत्यय । अधिकारीति। अधिकार. प्रयोजनम्वाम्यम्, तद्रान् अधिकारी। तदुक्त दशरूपके 'अधिकारः फलम्वाम्यमधिकारी च तत्प्रभुः ।' इति। अरो- चकिन इति। कृप्णसर्पपदन्यायेन अरोचकशब्दस्तत्पुरुषमेवावगभयतीति 'कृ- प्णसर्पवदरण्यम्' इतिवत् 'अरोचकिन.' इति प्रयुक्तं न त्वरोचका इति। अतः 'न कर्मधारयान्मत्वर्थीयः' इति निषेधस्यानवकाश। अरोचको नाम व्याधि- विशेष. । यदाह वाग्भटः, 'अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रितैः1' इति। सतृण- मिति, 'अव्ययं विभ्ति इत्यादिना साकल्यार्थेऽव्ययीभावः । सतृणमभ्यवह- रन्तीति सतृणाभ्यवहारिणः । द्वय इति । 'प्रथमचरम' इत्यादि सूत्रे तयपः परि- गणनान, 'द्वितरिभ्यां तयस्यायज्वा' इति तत्सथानिकाय जनगेSपि स्थानिवद्धावा- तसर्वनामसंज्ञां भजते; अतः प्रथमाबहुवचनान्तं 'क्वय' इति. रूपम् । ननु किम- नेन प्रकृतानुपयोगिना अरोचकित्वादिविचारेणेति चेदतं आह-अरोचकीति। गौणार्थाविति। सादृश्यमूलकलक्षणाव्यापारेण लक्षितार्थावित्यर्थः । गौणार्थस्वरूपं जिज्ञासुः पृच्छति-कोऽसाविति। पृष्टमर्थ स्पष्टमाचष्टे-विवेकित्वमिति।
Page 34
१४ काव्यालकारसूत्रवृत्ति. [अधि. १. f
यदाह पूर्वे शिष्या विवेकित्वात् ॥ २ ॥ पूर्वे खल्वरोचकिनः, शिष्याः शासनीयाः। विवेकित्वात् विवे- चनशीलत्वात्। नेतरे तद्विपर्ययात्॥ ३॥
इतर सतृणाभ्यवहारिणः, न शिष्याः । तद्विपर्ययात् अविवेच नशीलत्वात्। न च शीलंमपाकर्तु शक्यम्।
नन्वेवं न शास्त्रं सर्वानुग्राहि स्यात, को वा मन्यते? तदाह-
न शास्त्रमद्रव्येष्वर्थवत् ॥४॥ उक्तम्य गौणार्थम्य उपपादकमधिकारिनिश्चायकं सूत्रमवतारयति। यदाहेति। अथ 'नेतरे' इति सूारम्भ किमर्थ। विवेकिन: शिप्या इत्युक्ते अविवेकिन: पुनरशिप्या इति गम्यत एव. तथाप्यासूत्र्यमाणं पुनरुक्तिं पुप्णाति : 'अर्थादापन्नम्य पुनर्वचनं पुनरुक्ति' इति न्यायादिति-सत्यम्-यथा 'धूमध्व- जाभावे धूमाभावः' इति यावद्यतिरेको न दर्शितः, तावत् 'सति धूमध्वजे धूमः' इति साह चर्यमातदर्शनान्न कार्यकारणाभावनिश्चयः; तर्थवात्रापि व्यतिरेकदर्शन मन्वयदाढ्यायेति युज्यत एव सूत्रारम्भ. । वृत्तिः म्पष्टार्था। ननु शिलित शास्त्रमविवेकमपाकरोति. तत्त्वविवेकम्य तज्जन्यत्वात्। अतः कथमविवेकिनो न शिप्या इति शङ्कां शकलयति-न चेति। यद्येवं विरलम्तर्हि विद्ययोपयोग इति शङ्कते-नन्वििति । अभ्युपगमेन परिहरति-को वा मन्यत इनि। शास्त्र सर्वानुग्राहीत्यनुषज्यते। न कश्चिदपि तथा मन्यत इति फलितोऽर्यः । विधीयमानोऽपि विवेकविधुरेषु विद्योपदेशो विपिनविलापवद्विफल इत्याह- न शास्त्रमिति। शास्त्रोपदेशद्वाग यत्र सद्धिराधीयमाना गुणाः संक्रामन्ति
Page 35
अ. २.] कामधेनुसहिता। १५
न खलु शास्त्रं अद्रव्येषु अविवेकिषु अर्थेवत्।
निदर्शनमाह-
न कतकं पङ्गप्रसादनाय॥ ५ ॥ नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति।
अधिकारिणो निरुष्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्यं॥ ६ ॥
रीतिर्नामेयमान्मा काव्यस्य। शरीरस्यवति वाक्यशेषः ।
तद्र्रव्यमिह विवक्षितम्। तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत्। अत्र गाथा, 'अयं भम्मनि होमः म्यादियं वृष्टिर्मरुस्तले। इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम् ।' इति। प्रतिपादितं प्रमेयं प्रसिद्धद्ृष्टान्नेन स्पष्टयितुमाह- निदर्शनमिति। कतकं अम्भ:प्रसादनवीजम् ।:कतकं मेदनीयं च श्ृक्ष्णं वारिप्रसादनम्। इति वैद्यनिघण्टुः। प्रकरणोचितां संगति प्रकटयन्नत्तरसूत्रमवतारयति-अधिकारिण इति कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगति। व्याचष्टे-रीतिर्नामेति। रिणन्ति गच्छन्ति अस्यां गुणा इति. रीयते क्षरत्यस्यां वाङ्मधुधारेति वा रीतिः। अधिकरणार्थे क्तिम्प्रत्यय। करक्कगात्रकल्पकर्कशतर्कवाक्यवैकक्षण्यप्रक-
•1. 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्रातपूर्वः' इत्यग्नन्दवर्धनः । 'शब्दार्थौं मूर्तिराख्यातौ जीवित व्यङ्गयवैभवम्' इति विद्यानाथ । 'वगप्रधानेऽपि रस एवात्र जीवितम्' टत्यग्निपुराणम्। 'काव्यस्यात्मनि सङ्गिनि रसादिरूपे न .. स्यचिद्विमति' इति व्यक्तिविवेक। 'ये रसस्याङ्गिनो धर्मा शौर्यादय इवात्मन' इति कार्व्यप्रकाश । 'अलकारा- स्त्वलकारा गुणा एव गुणा सदा। औचित्य रससिद्धस्य स्थिर काव्यस्य जीवितम्' इति क्षेमेन्द्र:। 'वकरोत्ति' काव्यर्जीवितम' इति वक्रोक्तिजीवितकार। एतद्रेदसाधुत्वादिविचारस्तु वत्तिवार्तिकव्याख्याने करनोऽस्माभि।
Page 36
१६ काव्यालंकारसूत्रवृत्ति: [अधि. १.
किं पुनरियं रीतिरित्यत्राह- विशिष्टा पदरचना रीतिः॥।७॥ विशेषवती पदानां रचना रीतिः।
कोऽसौ विशेष इत्यत आह- विशेषो गुणात्मा ॥।८ ॥ वक्ष्यमाणगुणरूपो विशेषः ।
टनप्रगल्भम्फुरत्ताहेतुः कश्चन म्वभावोऽतात्मेत्युच्यते'। ननु काव्यस्य आत्मेत्ये- तत् कथमुपपद्यते ; अशरीरभूतस्य आत्मावच्छेदकत्वासंभवादित्याशङ्कच, शब्दा- र्थयुगल शरीरम्, तस्याधिष्ठाता रीतिर्नाम आत्मेत्युपपत्तिमुन्मीलयितुम् आकाङ्वितं पदमापूरयति-शरीरस्येवेति वाक्यशेष इति। अत्र रीतेरात्मत्वमिव, शब्दा- र्थयुगलम्य शरीरत्वमौपचारिकमिति मन्तव्यम्। रीते: काव्यशरीरं प्रत्यात्मत्वेनोक्तमुत्कर्षमुपश्रुत्य, कौतुकोत्कलिकाकरम्बि- तान्त.करणस्तां प्रतिपित्सुः पृच्छति-किं पुनरिति। किमित्यव्ययं प्रश्नार्थे। 'किमव्ययं च. कुत्सायां विकल्पप्रश्नयोरपि।' इति नानार्थरत्नमाला। इयं रीति- र्नाम किं पुनः किंलक्षणेत्यर्थः। प्रतिपित्सितमर्थ प्रतिपादयितुमनन्तरसूत्रमवतारय- ति-आहोते। 'विशिष्टा इति पद व्याचष्टे-विशेषवतीति। पदानामिति। अर्थेप्वौपचारिकी रीतिरङ्गीकर्तव्या; अन्यथा अर्थानामात्मभूतरीतिवैधुर्ये काव्य- शरीरन्तःमातो दुष्करः । यद्वक्ष्यति, 'तम्यामर्थगुणसंपदास्वाद्या' 'सापि वैदर्भी तात्स्थ्यात्' इति। किमयं वैशेषिकपरिभाषितः पश्चमः पदार्थो विशेषः, अन्यो वेति संदि- हान: पृच्छति -- कोऽसाविति। विवक्षितं विशेषं विवरीतुं सूत्रमवतारयति- आहेति। गुणात्मा ओजःप्रसादादिगुणस्वभाव इत्यर्थेः । 1 .एतन 'यत्तु वामनेनोक्तम्, रीतिरात्मा काव्यस्यति-तन्न। रीतेः सघटनाविशेष- त्वात्, सघटनायाश्रावयवसस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात्' इति दर्पणोक्ति प्रत्युक्ता।
Page 37
अं. २.] कामधेनुसहिता। १७
सा त्रेधा वैदर्भी गौडीया पाश्चाली चेति। ९॥
सा चेयं रीतिस्तिधा भिद्यते-वैदभीं, गौडीया, पाश्चाली चेति। किं पुनर्देशवशाद्रव्यवद्रुणोत्पत्तिः काव्यानाम्, येनायं देशवि शेषव्यपदेशः ? नैवम्। यदाह- विदर्भादिषु दष्टत्वात्तत्समाख्या ॥ १० ॥ विंदर्भगौडपाश्चालेपु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वा देशसमाख्या। न पुनर्देशैः किंचिदुपक्रियते कांव्यानाम। तासां गुणभेदाद्भेदमाह- समग्रगुणोपेता वैदर्भी॥ ११ ॥ समग्रैः ओजःप्रसादप्रभृतिभिः गुणैः उपेता वैदर्भरी नाम रीतिः। अत्र श्रोक :- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्भिता। विपश्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यने ।।' रीतिं विवेक्तुमाह-सा त्रेधेति। सकलगुणसध्रीचीनत्वेनाभ्यर्हितत्वा- द्वैदर्भ्याः प्रथमं निर्देशः। अनन्तरयोरुभयोः स्तोकगुणत्वेऽपि प्रशस्तगुणसंस्कृ- तत्वादनन्तरं गौडीयायाः, अवशिष्टाया अन्ते निवेशः । किं पुनरिति। यथा लवणादयः पदार्थाः सिन्ध्वादिदेशवशाद्विशिष्ट- गुणा भवन्ति, तथा किं देशवशाद्विशिष्टानि काव्यानीति शङ्कार्थः । समाधुत्ते- नैवमिति। विदर्भादिपदैरुपचाराद्विदर्भादिदेशस्थाः कवयो वक्ष्यन्ते ; अन्यथा विदर्भादिपदानां क्षत्रियवृत्तित्वे अर्थासंगतिः, जनपदवृक्तिरे 'जनपदतदवध्योश्च' इति गौडशब्दात् 'अवृद्धादपि बहुवचनविषयात्' इति वि र्भपश्चालशब्दाभ्यां च वुञ्प्रत्ययप्राप्तौ शब्दासंगतिश्चेत्यनुसंघेयम्। विदर्भपश्चालंशब्दाभ्यां 'शेषे' इत्यण्प्रत्ययः, गौडशब्दात् 'वृद्धाच्छः' इति छप्रत्ययः । स्पष्टमवशिष्टम्। प्रतिपादितेऽर्थे प्रावादुकपद्यं प्रमाणयति -- अत्र श्लोक इति। दोषमा-
Page 38
१८ काव्यालंकारसूत्रवृत्ति: [अधि. १.
नामेतामेवं कवयः स्तुवन्ति- 'सति वक्तरि सत्यर्थे सति, शब्दानुशासने। अस्ति तन्न विना येन परिस्रवति वाङधु।'
उदाहरणम्- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
त्राभि: असाधुत्वादिदोषलेशैरपि : अस्पृष्टा असंबद्धा, अनुपगतदोषमात्रसंबन्धेति यावत्। 'मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे । सैवाल्पपरिमाणे च' इति नानार्थरल्माला। समग्रैः अन्यूनैः गुणैः ओजःप्रसादादिभिः गुम्भिता संघटिता। विपञ्ची वीणा। 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्याः खराः श्रोतृमनो- रञ्जका: षड्जादयोऽत्र विवक्षिताः न तु क्वणनमात्रम्; तस्य मनोरञ्जकत्वाभावात्। तदुक्तं संगीतरल्नाकरे, 'श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः। स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ।।' इति। षड्जादिषु रूढश्चायम्। तथा चाञ्जनेये, 'स्रशब्दो मयूरादिसमुत्पन्नेषु सप्तसु। षड्जादिप्वेव रूढोऽयमतो नैवाक्षु वर्तते॥' इति। ते सौभाग्यमिव सौभाग्यं यस्या इति विग्रहः। किंच, अस्याश्चर्वणीयरसचमत्कारकारितया समग्रसौन्दर्यशालितया च कवि- कुलोपलालनीयतामाकलयति-तामेतामिति। सतीति। सच्छब्दोऽत्र साध्वर्थः। 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ।' इत्यमरः । वक्ता कविः । अर्थ: अपूर्वतयोलिलिखितः । शब्दानुशासनम् अनुशिष्टः शब्द आकाङ्कायोग्यतादि- विशिष्टश्च। वक्तरि शब्दे च अर्थे च साधौ सत्यपि बेन विना वाञबधु वाचां मधु न परिस्रवति न स्वन्दते; तद्वैदर्भीनामकं वस्त्वस्तीति योजना। इह मधु- ब्देन मुख्यार्थासंभवात्सहृयत्ददयैरासाद्य समग्रसौन्दर्यसमुन्मिषितो रसो लक्ष्यत। उक्ताया रीतेरुदाहरणमुपदर्शयितुमाह-उदाहरणमिति। उच्यत इति शेष: । 'वैदर्भीरीतिसंदर्भे कालिदासः प्रगल्भते' इति दर्शयितुं तदीयं पद्यमुदा- हरति-गाहन्तामिति। एषा हि शकुन्तलाविलोकनोत्कलिकावशंवदहृदयस्य मृगयाविहाराद्विरिरंसतो दुष्यन्तम्योक्तिः । महिष्यश्च महिषाश्च महिषाः । 'पुमा-
Page 39
अ. २.] कामधेनुसहिता। १९
विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं,च शिथिलज्याबन्धमस्मद्धनुः ॥' ओज:कान्तिमती गौडीया ॥ १२ ॥
न्स्निया' इत्येकशेषः; एवं मृगकुलमित्यत्राप्येकशेषो वेदितव्यः । निपानानि कूप- समीपतः कल्पिता जलाधाराः । 'आहावम्तु निपानं म्यादुपकूपजलाशये' इत्य- मरः। तेसु सलिलम्। तदेव विशिनष्टि-शृङ्गैर्मुहुस्ताडितमिति। महिषा हि जलमवगाह्य दशतः शिरसि दंशानपवारयितुं शृङ्गैर्सुहुस्ताडयन्तीति म्वभावोक्तिः । गाहन्तामित्यादिषु सर्वत्र आमन्त्रणे लोद्। छायासु अनातपेषु बद्धानि कदम्ब- कानि समूहा येनेति विग्रहः। 'निकुरुम्बं कदम्बकम्' इत्यमरः । कदम्बकानां बहुत्वविवक्षायां मृगकुलस्य अन्यपदार्थत्वमुपपद्यते; अतो न पौनरुक्त्यमाशङ्क- नीयम्। उद्गीर्णस्यवावगीर्णस्य वा मन्थो रोमन्थः, चर्वितचर्वणमित्यर्थः । 'विस्रब्धं कुरुतां वराहविततिर्मुस्ताक्षतिं पल्वले' इति प्राचीनः पाठ इति संप्र- दायविदः। पाठान्तरं तु प्रक्रमभङ्गशङ्काकलङ्कमङ्कुरयेत्। 'अम्मत्' इति पञ्चमी- बहुवचनान्तं पृथकूपदम्। विश्राम्यतेर्व्यापारविरामार्थत्वात् पञ्चमी। षष्ठीसमासो वा। अत्र ओजःप्रसादादयो गुणाः परा प्रतिष्ठां लभन्ते। तथा हि-'छाया- बद्धकदम्बकम्' 'शिथिलज्याबन्धम्' इत्यत्र बन्धस्य गाढत्वादोजः । 'छायाबद्ध- कदम्बकं मृगकुलम्' इत्यत्र बन्धस्य गाढत्वशैथिल्ययो संप्नवात्प्रसादः । 'महिषा निपानसलिलम्' इत्यत्र मसृणत्वाच्छलेषः। 'गाहन्ताम्' इत्यारभ्य येनैव मार्गेण उपक्रमः, तेनैव मार्गेण उपसंहार इति मार्गाभेदात्समता। 'गाहन्ताम्' इत्यत्रारोहः। 'महिषाः' इत्यत्रावरोहः। एवमन्यत्रापि आरोहावसेहक्रमस्फुर- णात्समाधिः । 'शृङ्गैर्मुहुस्ताडितम्' इति पृथक्पदत्वान्माधुर्यम्। 'रोमन्थमभ्य- स्यतु' इत्यादौ बन्धस्याजरठत्वात्सौकुमार्यम्।थिलज्याबन्धमस्मद्धनुः इत्यत्र बन्धस्य विकटत्वादुदारता। पदानामुज्ज्वलत्वात्कान्। अर्थाभिव्यक्ति- हेतुत्वादर्थव्यक्तिरिति दिख्बात्रप्रदर्शनम्। गुणस्वरूपनिरूपंणं तु गुणविवेचने अधिकरणे करिष्यते। क्रमप्राप्तां गौडीयामाह-ओजःकान्तिमतीति। प्रत्ययार्थ प्रत्याययति-
Page 40
२० काव्यालंकारसूत्रवृत्ति: [अधि. १.
ओज: कान्तिश्च विद्येते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः। माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्बणपदा च। अत्र श्रोक :-
गौडीयामपि गायन्ति रीतिं रीतिविचक्षणाः ।।'
उदाहरणम्- 'दोर्दण्डाञ्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
ओज: कान्तिश्च विद्येते इति। अत्र भूमार्थेन मतुपा ओजःकान्त्योः प्राचुर्थ- प्रतिपादनात् अनुकूलानामनुल्बणानामन्येषां गुणानामनिराकरणम्, प्रतिकूलयोस्तु माधुर्यसौकुमार्ययोरपवारणम्, अत एव दीर्घसमासत्वम्, अत्युद्धटपदत्वं च सूचितम् ; तदिदमभिसंधायाह-माधुर्यसौकुमार्ययोरभावादिति। प्रतिपा- दितेडर्ये प्राचामाभाणकं प्रमाणयति -- समस्तेति। समस्तानि समासवृत्तिमाप- न्नानि अत्युद्धटानि पदानि यम्या इति विग्रहः। लक्षिताया रीतेर्लक्ष्यमुपक्षिपति- उदाहरणमिति। एषा खलु धनुर्धरधुरन्धरेण रघुनन्दनेन गाढाकर्षणात्खण्डिते खण्डपरशोः कोदण्डे तद्भङ्गसंघटितनिराघाटघोषवर्णनोपोद्धातेन तम्यैव भुजबल- भूमानमभिलक्षसतो लक्ष्मणस्योक्तिः। दोर्दण्डेन अश्चितमाक्ृष्टम्। औचित्यादश्न- तिरत्राकर्षणे वर्तते। ननु यद्याकर्षणमञ्चतेरर्थ, तर्ह्यपूजनार्थस्य तस्त 'नाश्चेः पूजायाम्' इति नलोपप्रतिषेधो न सिद्धचेत्, 'अश्चेः पूजायाम्' इति इडागमश्च न म्यादिति न चोदनीयम्; अत्र कवेः कार्यकारणयोरभेदोपचाराद्दुराधर्षधनुराक- र्षणमेवृ पूजनं विवक्षितमित्यविरोधः । आर्यः अग्रजः ।तदुक्तं भामहेन, 'भग- वन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजास्त्वार्या नटीसूत्रभृतौ मिथः॥' तस्य यत् बालचरितं ताटकावधादि धनुर्भङ्गान्तं तदेव प्रस्तावना तत्र डिण्डिमः । अत्र बालचरितस्य प्रस्तावनात्वरूपणेन रावणवधान्तस्य तस्य कुमारचरितस्वापि नाटकत्वमासूत्यते। तथा घ कुमारचरितनाटकस्य बालचरितं प्रस्तावना प्राथ- मिकमङ्गमिति परम्परितरूपकौचित्यमपि परिगृहीतं भवति। प्रस्तावनास्वरूपं दशरूपके दर्शितम्, 'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम्। स्वकार्य
Page 41
अ. २.] कामधेनुसाहिता। २१
द्राक्पर्यस्तकपालसंपुटमित ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ।' माधुर्यसौकुमार्योपपन्ना पाश्चाली ॥ १३ ॥ माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः। ओजःकान्त्यभावात् अनुल्बणपदा विच्छाया च। तथा च श्रोक :- 'आश्चिष्टश्रथभावां तु पुराणच्छाययन्विताम् मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥' अत्रोदाहरणम्- 'ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्ी युवा।
प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम्। प्रम्तावना वा तत्न स्यात्' इति। अन्यच्च 'वस्तुनः प्रतिपाद्यस्य तीर्थ प्रस्तावनोच्यते' इति। द्राक्पर्यम्ते झटिति चलिते कपाले शकले तयो: संपुटः समुंद्रकः तेन मितं परिमितं परिच्छिन्नं यत् ब्रह्माण्ड तदेव भाण्डं तस्योदरे भ्राम्यन् समन्तात्पर्यटन् पिण्डितः संकोचितः चण्डिमा यम्येति विग्रहः । तथा पुराणम्, अप एव ससर्जादौ तासु वीर्यमपासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वय ब्रह्मा सर्वलोकपितामहः । तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरान्। स्वयमेवात्मनो ध्यानात्तदण्डमकरो दविधा। ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे' इति। अद्यार्पियचि्ाती- तेऽपि./ टङ्कारध्वनिः प्रतिश्रुत् । न विश्राम्यति न विरमति। अत्र बन्धस्य
चातिस्फुटे। अथ पाञ्चाली प्रपञ्चयति-माधुर्येति। माधुर्यसौकुमार्यप्रतिपक्षयोरो- जःकान्त्योरभावाद्वन्धस्य शैथिल्यम्, अनुल्बणपदत्वं चेत्याह- ओज इति। आश्षिष्टेति। श्रोकः स्पष्टार्थः । उदाहरति -- ग्राम इति। इयं हि कस्यचि-
Page 42
२२ काव्यालंकारसूत्रवृत्ति: [अधि. १.
तेनोत्थाय खलेन गर्जति घने स्पृखा पियां तत्कृतं येनाद्यापि करङ्गदण्डपतनाशङ्की जनस्तिष्ठति।' एतासु तिसषु रीतिषु रेखास्व्रिव चित्रं काव्यं प्रतिष्ठितमिति। तासां पूर्वा ग्राह्या गुणसाकल्यात्॥ १४ ॥ तासां तिसणां रीतीनां पूर्वा वैदभी ग्राह्या, गुणानां साकल्यात्। न पुनरितरे. स्तोकगुणत्वात् ॥ १५ ॥। इतरे गौडीयपाञ्चाल्यो न ग्राह्ये, स्तोकगुणत्वात्।
तदारोहणार्थमितराभ्यास इत्येके ॥ १६ ॥
द्रामीणम्य गृहे निशि निद्रातु भद्रवेदिमधिशय्य पर्जन्यगर्जितैस्तर्जिते निजनिदे- शापचार निष्कृप कुपित कुसुमशरशरव्रातपातक्किष्टतया निर्विष्टवति कष्टां दशां वैदे- शिके तद्दण्डपातभीतिसमाकुलायाः कुलवृद्धायाः पुनरन्यमध्वन्य प्रत्युक्तिः । अत्र 'पथ: प्कन्' 'पन्थो ण नित्यम्' इति नित्यं गच्छत पान्थत्वम्, अन्यम्य च पथिकत्वमिति वृत्तिकारवचनादर्थभेदमाश्रित्य, यदि पथिकाय वसतिर्न दीयेत तत्पान्थेन किभपराद्धमिति न चोदनीयम् ; पान्थपथिकशब्दयोः पर्यार्यतयाभि- धानदर्शनात् कविभिरविशेषेण प्रयुज्यमानत्वात् । 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि।' इत्यमर । 'तत्' इति अमङ्गलतयोच्चारयतुमनुचित- त्वान्मरणं तच्छब्देन व्यपदिश्यते। करङ्कः शवः। रीतिम्वरूपं निरूप्य तदु पयोगं सदृष्टान्तमाचष्टे- एतास्व्रिति। नन्वेतास्तिस्रो वृत्तयः समशीर्षकतया किं कविभिरुपादेयाः ? नेत्याह- तासामिति। वृतिः स्पष्टार्था । प्रयोजकाभावादन्ययोरन ग्र््ाह्यत्वमित्याह- न पुनरिति। वाहारोहाय बालस्य मेषारोहानुशीलनवद्वैदर्भीसंदर्भलाभाय तदितराभ्यार इति केचिदाचक्षते। तत्पक्षं प्रतिक्षेप्तुमुपक्षिपति- तदारोह़णार्थमिति।
Page 43
अ. २.] कामधेनुसहिता। २३
तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते। तच्च न। अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥१७॥ नह्यतत्वं शीलयतस्त्त्वं निष्पद्यते। निदर्शनार्थमाह- न शणसूत्रवानाभ्यासे त्रसरसूत्रवान- वैचित्यलाभः ॥ १८ ॥
सापि समासाभावे शुद्धवैदर्भी।। १९ ॥ सापि वैदभी रीतिः शुद्धवैदर्भी भण्यते; यदि, समासवत्पदं न भवति। तस्यामर्थगुणसंपदास्वाद्या॥ २० ॥ तस्यां वैदर्भ्यामर्थगुणसंपत् आस्वाद्या भवति। तेषां मतं दूषयति-तच्च नेति। न ह्यतादृशं कर्म परिशीलयतस्तादृशक- र्मकौशलं सिध्यति। यथा लोके वाजिनमारुरुक्षतो राजपुत्रादेस्तदुर्पयोगिजान्वव- ष्टम्भजवगतिमण्डलीक्रियादिसिद्धये मेषारोहाभ्यासा दृश्यते, न तथा कस्वचिदपि कुविन्दस्य सूक्ष्मतन्तुवानकौशलसिद्धयै गोणीवानाभ्यासो दृष्टः; 'तयोर्वैसादृश्येन उपयोगाभावात। अतो वैदर्भीसंदर्भलाभाय गौडीयपाश्चालरीत्योरभ्यास इति मतमनादरणीयम्। • शणसूत्रं गोण्या दयुपादानम्। त्रसरतन्तुः श्रक्ष्णवस्त्राद्यणदानम्। वानमिति, वयतेर्ल्युटि रूपम्। सापीति। सर्वै स्पष्टम्। शब्दभाग इव अर्थभागेऽपि गुणसंपत्तिर्वैदर्भ्युपरागादास्वादनयित्याह- इद सूत्र तदृत्तिश्र बहुषु कोशेषु नोपलभ्यते।
Page 44
२४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
तदुपारोहादर्थगुणलेशोऽपि ॥ २१॥ तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते। किमङ्ग, पुनरर्थगुण- संपत्। तथा चाहु :- "किं त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति ।' 'वचसि यमधिशय्य स्यन्दते वाचकश्री- र्वितथमवितथत्वं यत्र वस्तु प्रयाति। तस्यामिति। वैदर्भीरीत्यवष्टम्भादर्थेऽप्यारोपिता गुणसंपत्तिरास्वादनीयेत्यर्थः । अमुमेवार्थ कैमुतिकन्यायेन समर्थयते- तदुपेति। तदुपधानत इति। उपधानं उपरञ्जनम्। 'अङ्गेत्यामन्त्रणेऽव्ययम्' इत्यमरः । उक्तार्थेऽभियुक्तो- क्तिमभिव्यनक्ति-तथा चाहुरिति। 'किं त्वग्ति ... ' इत्यत्र 'जीवन्पदार्थपरि- रम्भणमन्तरेण शब्दावधिर्भवति न म्फुरणेन सत्यम' इति पूर्वाध पठन्ति। ननु पदंपदार्थयोर्गुणचमत्कारो वैदर्भीप्रसादलभ्य इति यदुक्तम्, तदयुक्तम्; पदार्थ- परिरम्भणमन्तरेण वैदर्भीस्फुरणमात्रेण जीवन्त्या वाक्यविश्रान्तेरसंभवादिति शङ्कामनुभाषते-जीवन्निति। जीवन् तर्कवाक्यवैलक्षण्येन सहृदयहृदयाह्राद- कारीत्यर्थः । शब्दावधिः वाक्यविश्रान्तिः । यदुक्तं शक्कावादिना, तत् सत्यम् अम्त्येव। किं तु पदार्थव्यतिरिक्ता तत उत्कृष्टा पदसंघटनापरिपाटी काचिदस्ति। सा च पदपदार्थयोः सजीवत्वायावश्यमङ्गीकरणीयेत्याह- किं त्विति। यस्यां पदानुपूर्व्याम्। न किंचिदपि अमदपि वम्तु। किंचिदिव सदिव। अवभाति प्रति- भाति, एबन्धृप्रौढिप्रकटितपदघटनापरिपाटिवशात्कतप्यं वस्तु प्रत्यक्षायमाणं प्रतिभासत इत्यर्थः । यदाहु:, 'अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथाम्मै रोचते विश्वं तथेदं परिवर्तते ।।' इति। वचसीति। काव्यात्मके 1. निर्णयसागरादिमुद्रितषु पुस्तकेषु 'कित्वस्ति' इत्येतत् पूर्वार्धतया, उत्तरार्धतया च 'आनन्दयत्यथ च 'कर्णपथ प्रयाता चेतः सताममृतव्ृष्टिरिव प्रविष्टा' इत्येतत् योजितं दृश्यते। पर त्विद्मसगतमिव प्रतिभाति; यतो व्याख्याता पूर्वार्धमन्यदेवाभिविलिख्य व्याचष्टे; न च व्याकरोति 'आनन्दयति' इत्येतत्। अतोऽम्माभिरन्यस्थल्विवात्रापि व्याख्याकृदादृत एव पाठः सयोजिन ।
Page 45
अ. २.] कामधेनुसािता। २५
उदयति हि स तादृक्कापि वैदर्भरीतो सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥' सापि वैदर्भी तात्स्थ्यात् ॥। २२।।
सापीयमर्थगुणसंपद्वैदर्भीत्युच्यते। तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति।
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः ।
वाक्य इत्यर्थः । वाचकश्री शब्दसंपत्। यं वैदर्भीपाकम्। अधिशय्य, स्यन्दते रसवर्षिणी भवति। यत्र यम्मिन्वैदर्भीपाके। वितथं नीरस वस्तु। अवितथत्वं सरसत्वम्। प्रयाति। तदुक्तं लोचने, 'जगद्भावप्रख्य निजरसृभरात्पूरयति च' इति। अन्यच्च, 'भावानचेतनानपि चेतनवच्चेतनानचेतनवत्। व्यवहारयति यथेच्छं सुकविः काव्ये स्वतन्त्रतया ।' इति। स्पष्टमवशिष्टम्।
वैदर्भीनिष्ठत्वादर्थगुणसंपदि वैदर्भीति व्यवहारोऽप्युपचर्यत इत्याह- सापीति। 'तम्मिन् तिष्ठतीति तत्स्थः, तम्य भावः तात्स्थ्य तस्मादिति. उपचारे संबन्ध उक्तः ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचताया वामनालकारसूत्रवृत्ति व्याख्याया काव्यालकारकामवेनौ शारीरे प्रथुमेSधिकरणे द्वितीयोऽध्यायः॥
सामान्यतो व्युत्पत्तिरियम
Page 46
तृतीयोऽध्यायः
अधिकारिचिन्तां रीतितत्त्वं च निरुप्य काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्ण च काव्याङ्गानि ॥ १ ॥ उद्देश कमेणैतव्याच्टे- लोकवृत्तं लोकः ॥ २ ॥ लोकः स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति।
शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकाम- झास्त्रदण्डनीतिपूर्वा विद्याः॥ ३॥
वरिवम्यामि मनसा वचसामधिदेवताम्। लीलालास्यगृह। यस्याचतुर्मुखचतुर्मुखी । २ ।। अध्यायान्तरमारभमाण: प्रागध्यायप्रपश्चितमर्थ संक्षिप्य दर्शयन्नध्यायद्वय- मैत्रीमासूत्रयति- अधिकारिचिन्तामिति। अङ्गिनि निरूपितेऽङ्गानां निरूपण- मुचितमिति संगतिः । अङ्गान्युद्िशति- लोक इति। वर्णनीयमन्तरण किं वर्ण्यत इति लोकः प्रथममुद्दिष्टः । ततश्र संम्कृताः शब्दाः। तदनु तदर्थाः । अथ वृत्तम्। अनन्तररमितिवृत्तवैचित्यहेतुः शृङ्गाराङ्गं कलाकौशलम् । ततो रसोपयोगी काम- व्यवहारः। ततश्चार्थानर्थविवेकहेतुर्दण्डनीतिः। पश्चाल्लक्ष्यज्ञत्वादय इत्युद्देशक्रमः । अत्र 'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम्। अमन्दश्चाभियोगोडस्या कारणं काव्यसम्पदः ।' इति, 'शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति' हेतुस्तदुद्धवे ॥' इति चोक्तरीत्या कवित्वबीजं प्रथमं परिगणनीयम् । यत्तु पश्चात् परिगणितमिति, तच्चिन्त्यम्। लोकशब्दोऽयमुपचारालोकवर्तने वर्तत इत्याह -- लोकळ्रत्तमिति।
Page 47
अ. ३.] कामधेनुसहिता। २७
. शब्दस्मृत्यादीनां तत्पूर्वत्वं पूर्व काव्यवन्धेष्वपेक्षणीयत्वात्। तासां काव्याङ्गत्वं योजयितुम्ृाह- शब्दस्मृते: शब्दशुद्धिः ॥४॥ शब्दस्मृते: व्याकरणात् शब्दानां शुद्धि: साधुत्वनिश्चयः कर्तव्यः। शुद्धानि हि पदानि निष्कम्पैः कविभिः प्रयुज्यन्ते। अभिधानकोशात्पदार्थनिश्चयः ॥ ५॥ पदं हि रचनाप्रवेशयोग्यं भावयन्संदिग्धार्थेत्वेन न गृह्नीयान्न वा जद्यादिति काव्यबन्धविघ्नः। तस्मादभिधानकोशतः पदार्थनिश्चयः कर्त- अथ विद्या उद्दिशति-शब्दस्मृतीति। 'शास्त्रतस्ते' इत्यत्र सूत्रे अल- क्कारविद्योपयोगम्य प्रागेवोपदशितत्वान्नात्र विद्यामध्ये परिगणनमित्यवगन्तव्यम्। शास्त्रशब्द: कलाकामशब्दाभ्यामभिसंबन्धनीयः, तत्संबन्धं विनापि अन्यत्र शास्त्र- त्वप्रतिपत्त.। 'पूर्वाः' इत्यनेन गणितविद्यादिपरिग्रहः। 'प्रधानस्योपकारकमङ्गम्' इति न्यायेन क्रमादङ्गानामङ्गिन्युपयोगं दर्शयिप्यन्ननन्तरसूत्रावताराय पीठिकां प्रतिष्ठापयति- शब्दस्मृत्यादीनामिति। व्याकरण हि मूलं सर्वविद्यानामिति युक्त्या प्रथमोददिष्टायाः शब्दविद्याय। उपयोगं दर्शयति-शब्दस्मृतेरिति। व्याचष्टे-शब्दस्मृतेर्व्याकरणादिति। साधुत्वनिश्चयः अस्मिन्नर्थेडयं शब्द: साधुरिति निश्चयः। निष्कम्पैः निर्भयैरित्यर्थः। अपशब्दप्रयोगे तु कविकाव्ययोरनादरणीयत्वप्रसङ्ग इति द्रष्टव्यम्। तदुक्तम्. 'यस्तु प्रयुङ्क्ते कुशलो 'विशेषे शब्दान्यथावद्यवहारकाले। सोर्डवन्तमाम्नोति जयं परत्र वाग्योगविद्ुष्यति चापशब्दैः ॥' इति। दण्डिनाप्युक्तम्, 'गौगौः कामदुघा सम्यक्प्रयुक्ता स्मर्येते बुधैः। दुप्प्रयुक्ता नगोत्व प्रयोक्तुः सैव शंसति॥' इति, 'तदल्पमपि नोपेक्ष्यं काव्ये दुछ् कथंचन। ग्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ।' इति च। · पदं हीति। अयमर्थः- 'आधानोद्धरणे तावद्यावद्दोलायते मनः' इत्यु- क्तनीत्या किमपि पदं काव्यबन्धे प्रयोगयोग्यं पुनः पुनश्चेतसि विनिवेशयन्कवि-
Page 48
२८ काव्यालंकारसूत्रवृत्ति: [अधि. १.
व्यः। अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य, अप्रयुक्तस्या- प्रयोज्यत्वात्। यदि प्रयुक्तं पयुज्यते तर्हि किमिति संदिग्धार्थत्वमाशङ्गितं पदस्य? तन्न; तत्र सामान्येनार्थावगतिः संभवति। यथा नीवी शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्यः । स्त्रिया वा पुरुषस्य वेति संशयः 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालापती- कमपश्यत इति। अथ कथम् 'विचित्रभोजनाभोगवर्धमानोदरास्थिभिः। केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्रथीकृतः ।' इति प्रयोग:१ भ्रान्तेरुपचाराद्वा।
रभिधानकोशपरिशीलनमन्तरेण संदिग्धार्थतया प्रयोक्तुं परित्यक्तुं वा नोत्सहते। अतो बन्धविध्रो जायेत। तम्मादभिधानकोशतः पदस्यार्थ निश्चित्य निर्विचिकित्सं प्रयुञ्जीत-इति। नन्वभिधानकोशम्येदमेव प्रयोजनमिति कोडयं नियमः। अपूर्वपद प्रयोगलाभोऽपि किं न स्यादिति चोद्यमनूद्यावद्यति- अपूर्वेति। तत्र हेतुमाह- अप्रयुक्तस्येति। कविभिरिति शेषः । 'यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते' इत्यप्रयुक्तत्वदोषस्य पददोषेषु लक्षितत्वात्। अप्रयोज्यत्वं चार्थाभिव्यक्तेरविलम्बेन समर्पकत्वाभावादिति द्रष्टव्यम्। ननु यदि प्रयुक्त्तमेंव पदं कविना प्रयुज्येत, तर्हि कुतः संदेहः म्यादिति शक्कते- गढ़ीति। समाधत्ते-सामान्येनेति। 'एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम्' इति प्रयोगदर्शनात् जघनशब्दः प्रष्ठवंशाधरत्रिकमात्रमभिधत्त इत्यभिमन्यमानस्य कम्यचिन्नीवीशब्दो जघनवस्त्रग्रन्थिमनिधत्त इति प्रतिपत्तिर्जायते। तच्च स्त्रिया वा पुरुषस्य वेति संशय उपपद्यत इत्यर्थः । नाममालां अभिधानकोशः तस्याः प्रतीकं अवयवम्। 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । अपश्यतः अपरिशीलयत इति यावत्। यद्येवं तर्हि प्रयोगविरोधः किं न स्यादिति शङ्कते -- अथ कथ- मिति। विचित्रभोजनाभोगेत्यस्मिन् पद्य पुंसि विषये नीवीशब्दप्रयोगः कथमिति शक्कितुरभिप्रायः । परिहरति-भ्रान्तेरिति। भ्रान्तिप्रयुक्तोऽयं प्रयोगः । अथवा, नीवीशब्दः पुरुषविषये लक्षणया प्रयुक्तः । पौरुषराहित्यप्रतिपत्तिः प्रयोजनमिति भावः।।
Page 49
अ. ३.] कामधनुसाहिता। २९
छन्दोविचितेर्वृत्तसंशयच्छेदः ॥ ६ ॥
काव्याभ्यासादृत्तसंक्रान्तिर्भवत्येव। किं तु मात्रावृटत्तादिषु कचि- त्संशयः स्यात्। अतो वृत्तसंशयच्छेदश्छन्दःशास्त्रतो विधेय इति।
कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥७ ॥
कला गीतनृत्यचित्रादिकास्तामामभिधायकानि शास्त्राणि विशा- खिळादिप्णीतानि कलाशास्त्राणि। तेभ्यः कलातत्वस्य संवित् संवेदनम्।
वृत्तविद्यायाः प्रयोजन प्रस्तौति- छन्दोविचितेरिति। काव्येति। नानावृत्तात्मकत्वात्काव्यम्य तत्परिशीलनाद्वृत्तस्वरूपप्रतिफलनमस्त्येव ; तथापि मात्रावृत्तादिषु मात्राकल्प्येषु वैतालीयादिषु छन्दःशास्त्रं विना निर्णयो दुप्कर इत्यर्थः । वैतालीयलक्षैणं तु वृत्तरत्नकारे,ष्डिषमेऽष्टे का्ता्मे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौं गुरुः' इति॥
कला इंत। दिखमात्र तु लोकतो विज्ञायत। तत्त्वज्ञान तु तच्छास्त्रत एव संपद्यते इत्यर्थः । कला नृत्यगीतादयश्रतुःषष्टिः। उपकलाश्चतुःशतम्। कलानामुद्देशः कृतो भामहेन. 'नृत्तं गीतं तथा वाद्यम/लेखव्यं मणिभूमिकाः । दशनाद्यङ्गरागश्च माल्यगुम्फविचित्रता। वेणुवीणादिकालापपाटवं शेखरक्रिया। नेपश्यं गन्धयुक्तिश्च कर्णपत्रकरियाभिधा। विशेषभेद्यक्लप्तिश्च नानाभूषणयोजनम्। इन्द्रजालं कौचिमारं सामुद्र हस्तलाघवम्। सूचीवानक्रिया सूत्रक्ञिया सलिलवा- द्यकम्। सूदशास्त्रपरिज्ञानं शारिकाशुकवादनम्। रसवादो वास्तुविद्या तक्षण मेचिकोत्करः । सजीवनिजीवद्यूतशास्त्रसंपाद्पाटवम्। धोरणा मातृकार्य्जंमातृ- काकाव्यलक्षणम्। आकर्षकक्रीडितं च निमित्तागमवेदनम्। अग्न्यम्बुसेनादि- स्तम्भो विषप्रतिविषागमः । पाञ्चालीनृत्तकरणं तण्डुल लिक्रिया। प्रहेलिका दुर्वचकप्रतिमायादियोजनम्। मन्त्रवादपरिज्ञान •विशीर्णाक्षर तुष्टिका। सर्वाभि- धानकोशोक्तिः परकायप्रवेशनम्। जयव्यायामचित्राप्तिः' पत्रिकाचित्रकर्तनम्। रत्नो- त्पत्तिस्थानशास्त्रं दर्पणादिलिपिक्रिया। तिरस्करिण्याद्यावाप्तिः पुष्पशाटकिकागमः । हस्त्यश्वलक्षणज्ञान तिर्यग्धृदयवेदनम्। परेङ्गितपरिज्ञानं जलयानागमज्ञता। पर-
Page 50
३० काव्यालंकारसूत्रवृत्ति: [अधि. १.
नहि कलाततत्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति।
कामशास्त्रतः कागोपचारस्य ॥ ८॥
सांवदित्यनुव्तते। कामापचारस्य सांवत् कामशास्त्रत इात। का- मोपचारबहुलं हि वस्तु काव्यस्येति। दण्डनीतेर्नयापनययोः ॥ ९॥
दण्डनीतेरस्थशास्त्रान्नयस्यापनयस्य च संविदिति। तत्र षाङ्गुण्यम्य यथावत्प्रयोगो नयः । तद्विंपरीतोऽपनयः। नहि तावविज्ञाय नायकप्रति- नायकयोर्वटैत्तं शक्यं काव्ये निबन्धुमिति। इतिवृत्तकुटिलत्वं च ततः ॥ १० ॥
इतिहासादि: इतिवृत्तं काव्यशरीरम्, तस्य कुटिलत्वं ततो दण्ड-
चतःप्रवशश्च चतुःषष्टिरिमाः कलाः । अन्या उपकला प्राक्तास्तासां संख्या- चतु शतम्। आभिरेव प्रपञ्चोऽय वर्तते विजयी म्फुटम्' इति। अत्र ग्रन्थ- विस्तरभयादुपकलानामुद्देशो न कृत । कलातत्त्वसंवित्तेरुपयोगं दर्शयति- न हीति। कामापचारबहुलमिति। वम्तु काव्यप्रांतपाद्यमितिवृत्तम् । काव्यम्य रसवत्त्वावश्यम्भावाद्रसम्य च शृङ्गारप्रमुखत्वात तस्य च कामोपचारप्रचुरत्वात. काव्यवस्त्वपि कामोपचारबहुलमिति भावः ।। • दण्डनीतेरुपयोगं दर्शयति- दण्डनीतेरिति। पाड्गुण्यस्यति। संधि- विग्रहयानासनद्वेघीभावसमाश्रयाः षड़गुणाः। पड़ गुणा एव षाड्गुण्यम्। स्वार्थिकः प्यञ्। कुटिलत्वमिति ।, यथा तापसवत्सराजादौ। आबलीयसेति। अबली- यांसमधिकृत्य कृतमधिकरणमाबलीयसम्, तत्प्रभृतौ प्रयोगाः मित्रभेदसुहृल्लाभा-
- वात्स्यायनीयादिषु तु क्कचद्रद उपलभ्यते।
Page 51
अ. ३.] कामधेनुसहिता। ३१
नीतेः आबलीयसादिप्रयोगव्युत्मत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति। लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभान- मवधानं च प्रकीर्णम् ।। ११।।
तत् काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥ • अभ्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम्। नतो हि काव्यबन्धस्य व्युत्पत्तिर्भवति॥ काव्यबन्धोद्यमोऽभियोगः ॥ १३ ॥ बन्धनं बन्धः। काव्यस्य बन्धो रचना काव्यवन्धः। तत्रोद्यमोऽ- भियोगः । स हि कवित्वपरकर्षमादधाति
काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा । १४ ।। काव्योपदेशे गुरव उपदेष्टारः। तेषां शुश्रृषणं वृद्धसेवा। ततः काव्यविद्याया: संक्रान्तिर्भवृति। दयः तेषां व्युत्पत्तौ सा दण्डनीतिर्मूलमिति भावः । एवमन्ग्रासामिति । गणितादिविद्यानामित्यर्थः । एवमष्टादशभेदभिन्नानामशेषाणामपि विद्यानां काव्या- ङत्वमुक्तं भवति। तासामुपयोगश्च यथाम्वं लब्धवर्णैर्द्रष्टव्य । यथाहुः, 'न स शब्दो न तद्वाच्यं न सा विद्या न सा कला। जायते यन्न काव्याङ्गमहो भारो गुरु: कवे: ।' इति। अन्येषामिति। कवीनामिति शेषः । बन्धशब्दो भावसाधन इत्याह-बन्धनं बन्ध ,वे। पूर्व कथापरीक्षा, तत्राधिकावावापोद्वापौ, फलपर्यन्ततानयनम्, रसं पति जागरूकता, रसोचित- विभावादिवर्णनायामलंकारौचित्यमि त्याद्युलेखपूर्वक गुम्फंनं काव्यबन्धः । तत्ोद्मः अभियोग़ः ॥ काव्योपदेश इति। यद्यपि. श्रोतुमिच्छा शुश्रूषा इति शब्दव्युत्पत्तिः;
Page 52
३२ काव्यालंकारसूत्रवृत्तिः [अधि. १.
- पदाधानोद्धरणमवेक्षणम् ॥ १५ ॥ पदस्य आधानं न्यासः। उद्धरणमपसारणम्। तयोः खल्ववेक्षणम्। अत्र श्लोकौ- 'आधानोद्धरणे तावद्यावद्दोलायते मनः । पदस्य स्थापिते स्ैर्ये हन्त सिद्धा सरस्वती !! यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्। तं शब्दन्यासनिप्णाताः शब्दपाकं प्रचक्षते।।'
कवित्वबीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीज कवित्वबीजं जन्मान्तगगतसंस्कारविशेष: कश्ित; यस्माद्विना काव्यं न निष्पद्ते, निष्पन्नं वावहासायतनं स्यात्। चित्तैकाग््यमवधानम् ॥१७॥
तथापि 'वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम्' इति निरूढत्वेनाभिधानात्सा- मानाधिकरण्यं घटते। अवेक्षणमाह-पदाधानेति। अत्र भामहेन भणितं प्रमाणयति- आधानोद्धरणे इति। श्र्ोकद्व्येन करमादन्वयव्यतिरेका भ्ां पानां ्ैर्य संपादनीयमित्युक्तम्। इत्थमर्थपाकोऽपि समर्थनीयः । कवित्वस्येति। बीजमभिनवपदार्थम्फुरणहेतुः। संम्कारो वासनात्मा। यदाह भट्टगोपाल, 'कवित्वस्य लोकोत्तरवर्णनानैपुणलक्षणम्य, बीजमुपादानस्था- नीय. संस्कारविशेष: कार्यकल्पनीया काचिद्वासना शक्तिः' इति। काव्यादर्शेऽपि 'न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानम्ुतम्।' इति। यस्मा- द्विनेति। पृथग्विनादिसूत्े विकल्पेन तृतीयाविधानात् पक्षे पश्चमी। हासाय- तनं परिहासाम्पदम्। तांद्ृंशं हि काव्यमनर्थाय भवति कवेः। तदुक्तम्, 'ना- कवित्वमधर्माय मृतये दण्डनाय वा। कुकवित्वं पुनः साक्षान्मृतिमाहुर्मेनीष्रिणः ।।' इति।
Page 53
अं. ३.] कामधेनुसहिता। ३३
चित्तस्यैकाग््यं बाह्यार्थनिवृत्तिः; तत् अवधानम्। अवहितं हि चित्तमर्थान्पश्यति। तद्देशकालाभ्याम् ॥ १८ ॥ तत् अवधानं देशात्कालाच्च समुत्पद्यते। कौ पुनर्देशकालावित्यत्राह- विविक्तो देशः ॥ १९ ॥ विविक्तो निर्जन:।
रात्रियामस्तुरीयः कालः ॥ २० ॥ रात्रेर्यामो रात्रियामः महरः तुरीयश्चतुर्थः काल इति। तद्वशाद्विप- योपरतं चित्तं प्रसन्नमवधत्ते।।
एवं काव्याङ्गान्युपदर्श्य काव्यविशेषज्ञानार्थमाह-
चित्तस्येति। बहिरिन्द्रियव्यापारविरामान्मनसो बाह्यार्थानुपरक्तिरवधानम्। अवधानस्य प्रयोजनमभिधत्ते -- अवहितमिति। अर्थान्पश्यति अभिनवप-
तद्देशकालाभ्यामिति। अर्थाद्विशिष्टाभ्यां समुच्चिताभ्यामित्यवगन्तव्यम्। विविक्तो निर्जनप्रदेशः । 'विविक्तौ पूतविजनौ' इत्यमरः ॥ तुरीय इति। प्रथमादिषु त्रिषु प्रहरेप्वाहारविहारनिद्रासु सांमुख्यं मनसः। पश्चिमे तु प्रहरे प्रसाद: संभवतीति तुरीय इत्युक्तम्। यद्वा, यद्यपि प्रथमादीना- मपि चतुःसंख्यापूरकत्वम्, तथाप्युपादानसामथ्यादिह पश्चिमो यामस्तुरीय इति गम्यते। तथा च कालिदासः, 'पश्चिमाद्यामिनीय" :्पसादमिव चेतना।' इति। माघोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादा: कवय इव पहीपाश्चिन्तयन्त्य- र्थेजातम्।' इति। वृत्तवर्तिष्यमाणयोः संगतिमुल्लिङ्गयन्, काव्यभेदान् कथयितुमाह- एवमिति। गद्यमिति। 'गद व्यक्तायां वाचि' इति धातोः 'गदमदचरयमश्चा-
Page 54
३४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
काव्यं गद्यं पद्यं च ।। २१ ।। गद्यस्य पूर्व निर्देशो दुर्लक्षकिशिषत्वेन दुर्बन्धत्वात्। तथाहु :- 'गद्यं कवीनां निकषं वदन्ति।' इति। तच्च त्रिधा भिन्नमिति दर्शयितुमाह- गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च॥। २२ ॥
तल्लक्षणान्याह-
नुपसर्गे' इति कर्मणि यत्प्रत्यये सति गद्यमिति रूपम्। यद्वा 'स्तनगदी देवशब्दे' इति चौरादिकणिजन्तात् 'अचो यत्' इति यत्प्रत्यये सति गद्यमिति रूपम्, देवैः शब्दनीयं गद्यमिति। पादेषु भवं पद्यम्। शरीरमिति विवक्षायां 'शरीरावयवाच्च' इति भवार्थे यत्प्रत्यये भसंज्ञायां पदादेशे च सति पद्यमिति रूपम्। अनेन पद्यसामान्यलक्षणं सूचितं भवति। तदुक्तं काव्यादर्शे, 'पद्यं चतुप्पदी तच्च वृत्तं जातिरिति द्विधा।' इति। गद्यस्य पूर्वनिर्देशे हेतुमाह- गद्यस्येति। दुर्लक्षाः कृच्छ्ेण लक्ष्याः विशेषा: गुरुलघुनियमादयो यम्य तम्य भावः तेन हेतुना, दुर्बन्धं कृच्छेण बन्धुं शक्यं तम्य भावस्तम्मात् पूर्वनिर्देशः, कृत इति शेषः । अत्राभाणकमपि दर्शयति- तथाहुगिि। निकषो हेमादिकषणोपलः । 'निकषस्तु घृषिर्धृप्यो हेमादिनिकषोपलः। इति वैजयन्ती। कनकानामिव कवीनां प्रकर्षापकर्षपरीक्षास्थानमिति यावत्। गद्यभेदान् गणयितुमाह- तच्चेति। वृत्तगन्धि क्वचिद्भागे वृत्तच्छा- यानुकारि। चूर्णपदेनोपचारात व्यम्तपदसमाहारो लक्ष्यते। तेन व्यस्तपदबहुल चूर्णम्। उत्कलिकाप्ायमिति। उत्कलिका उत्कण्ठा। 'उत्कण्ठोत्कलिके समे' इत्यमरः । उत्कलिकायाः प्रायः प्रयोगबाहुल्यं यस्मिंस्तत् उत्कलिकाप्रायं गद्यम्। यस्मिन् श्रूयमाणे श्रोतृणामुत्कण्ठा बहुला भवतीत्यर्थः । यद्वा कलिकाशब्दोऽत्र लक्षणया रुहरुहिकायां वर्तते। उल्लसन्तीं कलिकां रुहरुहिकां प्रैति प्राम्नोतीत्युत्कलि- काप्रायम्। यत्र पदसंदर्भपरिपाटी काण्डोपकाण्डसंरोहशालिनी कलिकेवोल्लसति, तदुत्कलिकाप्रायमित्यर्थः । विशेषलक्षणानि विवरीतुमाह- तल्लक्षणानीति। ,वसन्ततिलकेति ।
Page 55
अ. ३.] कामधेनुसहिता। ३५
पद्यभागवद्दत्तगन्धि ॥ २३ ॥ पद्यस्य भागा: पद्यभागास्तदत् वृत्तर्गन्धि। यथा- 'पातालतालुतलवासिषु दानवेषु' इति। अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भागः प्रत्यभिज्ञायते।
अनाविद्धललितपदं चूर्णम् ॥ २४ ॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मि- स्तदनाविद्धललितपदं चूर्णमिति। यथा- 'अभ्यासो हि कर्मणां कौशलमावहति। नहि सकृन्नि- पातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधाति ।' इति। विपरीतमुस्कलिकाप्रायम्॥२५॥ विपरीतमाविद्धोद्धतपदमुत्कलिका प्रायम् । यथा- 'कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमा- तङ्गकुम्भस्थलगलन्मदच्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति। पद्यमनेकभेदम् ॥ २६॥
'उक्तं वसन्ततिलकं तभना जगौ गः' इति तल्लक्षणम्।
अनाविद्धेति। वृत्तिः स्पष्टार्था । उदाहरति -- अभ्यास इतति । नहि सकृदिति। नहीति निपातसमुदायः प्रतिषेधवाचकः सकृदित्यनेन संबध्यते, तथा चासकृदित्यर्थः संपद्यते। मात्रशब्देन सहकारिमान्गदिर्व्यावर्त्यते। तेनोद- बिन्दुरप्यसकृन्निपातमात्रेण ग्रवणि पाषाणे निवृतामादवातत्यन्वयमुखेन पूर्व- वाक्यार्थः समर्थितो भवति।
विपरीतमिति। सुगमम् । चपेटा करतलाघातः । 'चपेटः प्रतते पाणौ तदाघाते स्त्रियामयम्' इत्यमरशेषः ॥
Page 56
३६ काव्यालंकारसूत्रवृत्ति: [अधि. १.
पद्यं खल्वनेकेन समार्समविषमादिना भेदेन उपेतं भंवति।
तदनिबर्द्ध निब्द्ं च ॥ २७॥।
तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च। अनयोः प्रसिद्ध- त्वाल्लक्षणं नोक्तम्। क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ २८॥
तयोरित्यनिबद्धं निबद्धं च परामृभ्यते। क्रमेण सिद्धि: क्रमसिद्धि:। अनिबद्धसिद्धौ निबद्धसिद्धि: स्त्रगुत्तंसवत्। यथा स्रजि मालायां सिद्धा- यामुत्तंसः शेखरः सिध्यति।
पद्यं विभजते -- समेति। समवृत्तमर्धसमवृत्तं. विषमवृत्तम्। आदि- शब्देनार्यावैतालीयादिमात्रवृत्तानां परिग्रहः । समवृत्तादिलक्षणमुक्तं भामहेन, 'सममर्धसमं वृत्तं विषमं च त्रिधा मतम्। अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षण- लक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समवृतं प्रचक्षते। प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत्। द्वितीयस्तुर्यवद्दत्तं तदर्धसममुच्यते। यस्य पादचतुप्केऽपि लक्ष्म भिन्नं परस्परम्। तवाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदा. ।I' इति।
गद्यपद्ययोरुभयोरप्यवान्तरभेदावाह- तदिति। गद्यपद्यात्मकं काव्यं प्रकृतं तच्छब्देन परामृश्यत इति व्याचष्टे- तदिदं गद्यपद्यरूपमिति। व्याख्याने जाड्यंमव्याख्याने मौढ्यमित्यत आह -- अनयोः प्रसिद्धत्वादिति। अनिबद्धं युक्तकं निबद्ध प्रबन्धरूपमिति प्रसिद्धिः। सुक्तकलक्षणमुक्तं भामहेन, 'प्रथमं मुक्तकादीनामृजु लक्षणमुच्यते। यदेव गाम्भीर्यौदार्यशौर्यनीतिमतिस्पृशा। भवेन्मुक्तकमेकेन द्विकं द्वाभ्यां त्रिकं त्रिभिः ॥' इति। निबद्धानि सर्गबन्धादीनि। तल्लक्षणं काव्यादर्शे, 'सर्गबन्धो महाकाव्यमुच्यते तस्व लक्षणम्' इत्यादिना द्रष्टव्यम् ॥
अनयोरभ्यासक्रममाह-क्रमसिद्धिरिति। अनिबद्धमभ्यस्य निबद्ध- रचनायां यतितव्यमित्यर्थः । अत्र दृष्टान्तः 'स्त्रगुत्तंसवत्' इति ।
Page 57
अ. ३.] कामधनुसहिता। ३७
केचिदनिबद्ध एव पर्यवसिताः, तहूषर्णाथमाह- नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥ २९ ॥ न खल्वनिबद्ध काव्यं चकास्ति दीप्यते। य्थेकतेजःपरमाणुरिति। ·अत्र श्षोक :- 'असंकलित रूपाणां काव्यानां नास्ति चारुता। न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः i' इति।
संदर्भेषु दशरूपकं श्रेयः ॥ ३० ॥ संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः ।
कस्मात्? तदाह- तद्धि चित्रं चित्रपंटवद्विशेषसाकल्यात् ॥ ३१॥ तत् दशरूपकं हि यस्मात् चित्रं चित्रपटवत्। विशेषाणां 'सा- कल्यात्। अनिबद्धसिद्धिमात्रेण क्रविंमन्यानन्यनपवदितुमाह-केचिदिति। प्रा- वादुकसंमति दर्शयति- अत्र श्लोक इति। असंकलितरूपाणाम् अनिबद्ध- रूपाणामित्यर्थः । निबद्धेषु तरतमभावं निरूपयति- संदर्भेष्विति। रूपकस्वरूपं निरू- पितं दशरूपके, 'अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते। रूपकं तत्समारो- पाद्दशघैव रसाश्रयम् ।I' इति। भावप्रकाशेऽपि, 'रूपकं तद्धवेद्पं दृश्यत्वात्प्रे- क्षकैरिदम्। रूपकत्वं तदारोपात्कमलारोपवन्मुखे॥' इति। दश रूपकाणि तु, 'नाटकं सप्रकरणं भाणः प्रहसनं डिमः। व्यायोगमपवाकारौ वीथ्यङ्केहामृगा दश॥' इति। दशानां रूपकाणां समाहारो दशरूपकम। समाहारस्यैकत्वा- देकव चनम्। पात्रादित्वात् स्त्रीत्वप्रतिषेधे नपुंसकत्वम्। श्रेयः अतिशयेन प्रशस्य- मित्यर्थः ॥ ३०॥ श्रेयस्त्वे हेतुं पृच्छति-कस्मादिति। हेतुमुपन्यस्वति- तदिति।
Page 58
३८ काव्यालंकारसूत्रवृत्ति: [अधि. १.
नता दशरूपकादन्येषों भेदामां क्लृप्तिः कल्पनमिति। दशरूप- कस्यैव हीदं सर्व विलसितम्, यदुत कथार्यायिके महाकाव्यमिति। तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः। तदन्यतो ग्राह्यम्॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेडधिकरणे तृतीयोऽध्यायः॥
समाप्तं चेदं शारीरं प्रथममधिकरणम्।।
विशषाणां भाषाभेदादिरूपाणाम् । कथार्यायिकादीनां महाकाव्यभेदानामम्मादेव वम्तुविन्यासकल्पनमिति प्रकारान्तरेणापि श्रेयस्त्वमस्य प्रतिपादयितुमाह- तत इति। इदं सर्वमिति। कथाख्यायिकादि मंहाकाव्यस्वरूपम्। विलसितमित्यम्य व्याख्यानं खण्डशः कृत- मिर्ति, यत् कथा चाख्यायिका च महाकाव्यमिति व्यपदिश्यते, तदिदं सर्वमिति व्याकुट्य योजनीयम्। यदि कथार्यायिके महाकाव्ये तर्हि तल्लक्षणं किमिति न प्रदर्शितमिति तत्राह-तल्लक्षपमिति। यदि केनचित ्लवक ्ष् ण म पेक्षि तम् तद्धामहालंकारादौ द्रष्टव्यमित्याह-तदन्यत इति। नाटकादिलक्षणं तु ग्रन्थ- विस्तरभयादस्माभिर्न लिखितम्।
इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरित्रीमण् डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधंना -. वधिकरणमयासीदादिमं पूर्तिमेतन्॥
इंत श्रीगपेन्द्रतिप्पभूपालविरचितार्यां वामनालका््सू रवृ्ति व्याख्याया काव्यालकारकामधेनों शारीर नाम प्रथममधिकरणम्।।
Page 59
15250
॥ द्वितीयमधिकस्णम् ॥
.. काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते। दोषस्वरूपकथनार्थमाह- गुणविपर्ययात्मानो दोषाः ॥ १॥ गुणानां वक्ष्यमाणानां ये विपर्ययाः, तदात्मानो दोषाः । अर्थतस्तद्वगमः॥२॥ गुणस्वरूपनिरूंपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः।
निष्कलङ्कनिशाकान्तगर्वसर्वकषप्रभाम्। कविकामगवीं वन्दे कमलासनकामिनीम्॥ दोषदर्शनं द्वितीयमधिकरणमारभ्यते। अधिकरणद्वयसंबन्धमेव बोधयति- काव्यशरीर इति। सौन्दर्यस् गुणालङ्कारघटितचारुत्वस्य आक्षपः स्वस्थानात् प्रच्यावनं तस्य हेतवस्तथाविधा दोषाः कविना ज्ञातव्या इत्यनेन दोषज्ञानस्याव- शयकर्तव्यतोक्ता। तेषामज्ञाने परित्यागात्मनः फलस्य दुर्लभत्वादिति भावः । दृश्यन्तेऽस्मिन् दोषा इति दोषदर्शनम्। अधिकरणार्थे ल्युद्। .
दोषसामान्यलक्षणं धक्तुं सूत्रमवतारयति- दोषस्वरूपेति।गुणाना- मिति। विपरीयन्त इति विपर्ययाः विपरीताः । कर्मार्थेऽच्प्रत्ययः । त एवा- त्मानो येषां ते विपर्ययात्मनो विपरीतम्वरूपाः, न त्वभकपा इत्यर्थः । अनेन गुणविपरीतस्वरूपत्वं दोषसामान्यलक्षणमुक्तं भनाि। ननु गुणेष्ववगतेषु तद्विपर्ययस्वरूपा दोषा विनापि लक्षणोदाहरणाभ्यां सामर्थ्यात् प्रेक्षावद्भिरुत्प्रेक्षितुं शक्यन्ते। कि लक्षणादि प्रपञ्चनेनेत्याशङ्कासूत्रमनु- भाषते -- अर्थत इति।
Page 60
४० काव्यालंकारसूत्रवृत्ति: [अधि. २.
किमर्थ ते पृथक् पपञच्यन्त इत्यत्नाह- सौकर्याय प्रपञ्चः ॥ ३ ॥ सौकर्यार्थः प्रपश्चो विस्तरो दोषाणाम्। उद्िष्टा लक्षणलक्षिता हि दोषा: सुज्ञाना भवन्ति। पददोषान् दर्शयितुमाह- दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकं च।।.8। क्रमेण व्याख्यातुमांह-
शब्दस्मृतिविरुद्दमसाधु ॥५॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पदम् असाधु। यथा-अन्यकारकवैयर्थ्यम्' इति। अत्र हि 'अषप्ठयतृतीया- आशक्कामिमामपाकर्तुमनन्तरसूत्रं व्याचष्टे-सौकर्यार्थ इति। दोष- म्वरूपे हि प्रेक्षावतामुत्प्रेक्षितुं शक्येपि, व्युत्पित्सूनधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य तैस्तु पदपदार्थवाक्यवाक्यार्थदोषाणां स्थूलसूक्ष्माणामुद्देशलक्षणपरीक्षाभिर्विना दुर- वगमत्वात् तेषां दोषविवेकम्य सौकर्याय प्रपश्च इत्यर्थः । उद्दिष्टा इति। उद्दिष्टाः नामतः परिगणिताः । लक्षिताः परम्परव्यावृत्ततया दर्शिताः। दोषाः, सुज्ञानाः सुखेन ज्ञातव्या भवन्ति। 'आतो युच्' इति खलर्थे युच्प्रत्ययः। अस्मिन्नधिकरणे लक्षणीया दोषा: काव्यस्यासाधुत्वापादकाः म्थूला इत्यवगन्तव्यम्। यद्वक्ष्यति- 'ये त्वन्ये शब्दार्थदोषाः सूक्ष्माम्ते गुणविवेचने वक्ष्यनते' इति ॥
शब्दार्थशरीरं हि काव्यम्। अत्र शब्द: पदवाक्यात्मकः । अर्थश्च पदा- र्थवाक्यार्थरूपः । तत्र पदपदार्थप्रतिपत्तिपूर्विका वाक्यवाक्यार्थप्रतिपत्तिरिति क्रम- मभिसंधाय प्रथमं पददोषान् प्रतिपादयितुमाह-पददोषानिति। दुष्टं पदमिति प्रत्येक संबन्धनीयम्॥ यथोद्देशं लक्षणं वक्तुमाह- क्रमेणेति। शब्दस्मृतीति। शब्दशास्त्र- मर्यादामुल्लक्क् प्रयुक्तं शब्दस्मृतिविरुद्धम्। तदुदाहरति- अन्यकारकेति।
Page 61
अ. १.] कामधेनुसाहता। ४१
स्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोनिकारकरागच्छेषु' इति दुका भवितव्यमिति। श्रुतिविरसं कष्टम् ॥ ६ ॥ श्रुतिविरसं श्रात्रकटु पदं कष्टम्। तद्धि रचनागुम्भितमप्युद्रेज- यति। यथा- 'अच्चुरच्ण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदः शशाङ्क:।' लोकमात्रप्रयुक्तं ग्राम्यम् । ७॥
लो एव यत्पयुक्तं पदम्, न शास्त्रे; यत् ग्राम्यम्। यथा -- 'कष्टं कथं गेदिति फूत्क्रृतेयम्।' अन्यदपि तल्लगल्ला- दिकं द्रष्टव्यम्। शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥८॥।
'अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति आशीरादिषु परतोऽन्यपदस्य दुगागमेन भवितव्यम्। स तु न कृतः; 'दुगागमोऽ- विशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर्नेष्ट आशीरादिषु 'सप्तसु ॥' इति कारकपदे परतो दुगागमो नियत इत्यन्यकारकपदमसाधु। श्रोत्रकद्विति। कर्णोद्वेगकरमित्यर्थः । यदुक्तं भामहेन 'संनिवेश- विशेषात्तु तदुक्तमभिशोभने।' इति, तन्निराचष्टे-तद्धीति। विशिष्टसंदर्भ- गर्भगतमपि सहृदयहृदयोद्वेगमाविर्भावयतीत्यर्थः । अचूचुरदिति। अत्र द्रागिति पदं कष्टम्। ग्रामे भवं ग्रम्यमिति व्युत्पत्तिः: ल:कमात्रसिद्धयर्थः । कष्टामति। अत्र फूत्कृतेति पदं आ्म्यम्. तस्य काव्ये प्राचुर्येण भयोगादं्शनात्। ''ताम्बूल- 1 गल्लपदं कपोलार्थकम्। तल अल्पमिति केचित् : तल्लशब्दस्तडागवाचीति कश्चित्। 'भल्लम्' इति भूयसां पाठः। 'भल्ल भद्रम्' इति, 'भल्ं समीचीनम्' इति च प्रका- शव्यख्यातार: ।
Page 62
४२ काव्यालंकारसूत्रवृत्ति: [अधि. २.
शास्त्र एव प्रयुक्तं यत्, न लोके; तत् अप्रतीतम्। यथा- 'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः। गुणनान्तरीयकं च पेमेति न तेऽस्त्युपालम्भः।' अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीनम् ॥ पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रपयोजनमव्ययपदमनर्थकम्। दण्डापूपन्यायेन पदमन्य- दप्यनर्थकमेव। भृतगल्लोडयं तल्लं जल्पति मानवः' इत्यादौ यत् तल्लगल्लादिपदं प्रयुज्यते, तदपि ग्राम्यं द्रष्टव्यम्। किं भार्षितेनेति। इयं हि कम्याश्चिद्रिप्रलब्धायाः शठनायकं प्रत्युक्ति:। रूपंविज्ञानवेदनासंज्ञासंस्कारलक्षणाः पञ्च म्कन्धा मौगतमते प्रसिद्धा। अत्र विष येन्द्रियलक्षणम्य रूपस्कन्धम्य गुणा मे न सन्ति। गुणनान्तरीयकम्, अन्तरश- ब्दोऽत्र विनार्थः । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादथ्ये। छिद्रात्मीय- विनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । न अन्तरं नान्तरम्। ततो भवार्थे छप्रत्यये म्वार्थिके च कप्रत्यये सति नान्तरीयकमिति रूपं सिद्धम्। अवि- नाभूतमित्यर्थः । प्रेम च गुणनान्तरीयकमिति हेतोः, उपालम्भो निन्दावचनम्. ते तव नाम्ति। व्यापकपरावृत्तो व्याप्यपगवृत्तिरुचितेति भावः । अत्र रुपम्क- न्धनान्तरीयक्कपदे अप्रतीते। पूरणार्थमिति। पूरणं पादपूरणम् अर्थः प्रयोजनं यम्येति विग्रह। दण्डा पूपोति। दण्डप्रोता अपूपा दण्डापूपाः । तथा च दण्डानयनप्रेरणायां दण्डानय- नेनैवापूपानयने सिद्धे पुनरपूपान्यनप्रेरणं व्यर्थमिति दण्डापूपन्यायः। अथवा, अपूपदण्डो मूषकैर्भक्षित इत्युक्ते पुनरपूपभक्षणप्रश्नवचनं व्यर्थमिति दण्डापूप- न्यायः। तन्न्यायेन चादीनामसत्त्ववचनानामसत्यपि प्रयोगे तदर्थम्यान्यतोऽवग- 1. 'विज्ञान वेदना सज्ञा सस्कारो रूपमव च। भिक्षूणां शाक्यसिहेन स्कन्धाः पञ्च प्रकीर्तिताः।'
Page 63
अ. १.] कामधनुसहिता। ४३
यथा- 'उदितस्तु हाक्तिकविनीलमयं तिमिरं निपीय किरणेः सविता।' अत्र तुशब्दस्य पादपूरणार्थमेव प्रयाग: । न वाक्यालङ्कारार्थम् ॥ १०॥ अपवादार्थमिदम्। वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति। तथा हि खलु हन्तेति। संप्रति पदार्थदोषानाह --
दुष्टं पदमित्यनुवर्तते। अर्थाच्च विभक्तिविपरिणामः। अन्यार्था- दीनि पदानि दुष्टानीति सूत्रार्थः ।
तत्वान्नैराकाङ्मयेण वाक्यार्थविश्रान्तिसिद्धाविह प्रयुज्यमानानां तेषामव्ययानां द्योत्य- राहित्येनानर्थकत्व भवति; किमु वक्तव्यमात्मोपजीव्यवाच्यार्थविरहे वाचकानां पदानामनर्थकत्वमिति भाव। उदित इति। हस्तिनां समूहो हास्तिकम् । 'अचि- त्तहस्तिधेनोष्ठक्' इति ठक्ूप्रत्ययः । हास्तिकं गजता बृन्दे' इत्यमरः । तद्वद्वि- नीलम्। अत्र तुशब्दस्येति। भेदावधारणादेर्द्योत्यस्यानाकाद्भितत्वादित्यर्थः ।
वाक्येति। पूरणं त्तु प्रतिभादौर्बल्यसूचकतया काव्यविद्धि: प्रयोजनत्वेन नाङ्गीकृतम्।
पदार्थदोषान् प्रपञ्चयितुमाह- संप्रतीति। गदिभिस्त्रिभिरर्थशब्दः प्रत्येकमभिसंबन्धनीयः। तेषामश्लीलक्किष्टशब्दयोग्विर्थपदप्रयागमन्तरेण न हठा- दर्थप्रतिपत्तिहेतुत्वमित्यर्थपदं प्रत्युक्तम्। विभक्तीतिं। अत्र प्रथमाया विभक्ते- रभेदेन विपरिणामासंभवात् वचनविपरिणाम इति व्याख्येयम्। अन्यार्थादी- नीति। अर्थदौष्टयात् पदान्यपि दुष्टानीत्यर्थः ।
Page 64
४४ [अधि. २.
एषां क्रमेण लक्षणान्याह- रूढिच्युतमन्यार्थम् ॥ १२ ॥ रूढेः च्युतं रूढिच्युतं रूढिमनपेक्ष्य यौगिकार्थमात्रोपादानात्, अन्यार्थ पदम्। स्थूलत्वात् सामान्येन घटशब्दः पटशब्दार्थ इत्यादिक मन्यार्थ नोक्तम । यथा -- 'ते दुःखमुच्चावचमावहन्ति ये प्रस्मरन्ति प्रियसंगतानाम्।' अत्र आवहतिः करोत्यर्थों धारणार्थे प्रयुक्त:, प्रस्मरतिर्विसार- णार्थ: प्रकृष्टस्मरणे इति। रूढि: प्रसिद्धिः, ततः च्युत रूढिच्युतम्। रूढेषु पदेषु रूढिमनादृत्य यौगिकार्थे यत् प्रयुज्यते, तदन्यार्थ पदम्। ननु यत घटादिपदं पटादिषु प्रयुज्यते. तत् अन्यार्थ पद दुष्टमिति किमिति नोच्यत इत्याशङ्कयाह- स्थूलत्वादिति। पटादिषु प्रयुज्यमानं घटादिपदमन्यार्थमिति मामान्यन नोक्तम्। कुतः! म्थूल- त्वात् उत्तानवुद्धिभिरुपलब्धुं शक्यत्वात्। ये केचित् म्थूलमपि दोषमविज्ञाय तथा प्रयुञ्जते, ते पुनरविवेकिनः शासनयोग्या न भवन्तीति प्राक् प्रतिपादितम्। उदाहरणमुपद्शयितुमाह- यथेति। ये प्रियसगतानां प्रणयप्रयुक्तसबन्धाना प्रम्मरन्ति प्रकर्षेण स्मरन्ति। 'अधीगर्थदयेशा कर्मणि' इति कमणि षष्ठी। ते जनाः उच्चावचमनेकभेदम्। 'उच्चावचं नैकभेदम्' इत्यमर.। दुःखम् आवहन्ति धार- यन्तीति कवेर्विवक्षितोऽर्थः। अन्यार्थत्वमुपपादयति- अत्रेति। आङ्पूर्वो वहिधातुः करोत्यर्थे रूढः । तथा च प्रयोगः, 'व्रीडमावहति मे स संप्रति व्यस्त- वृत्तिरुदयोन्मुखे त्वयि।' इति। स च रूढिमनादृत्य धारणे यौगिकार्थे प्रयुक्त इत्यन्कार्थत्वंम्। प्रपूर्व स्मरतिरपि विस्मरणार्थे रूढः। तथाच प्रयोगः, 'नाक्ष- राि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि।' इति। स च रूढिमगण- यित्वा प्रकृष्टम्मरणे यौगिकार्थ प्रयुक्त इत्यन्यार्थत्वम्। किंच 'रूढिच्युतम्' इत्यत्र रूढीति सामान्येनोपात्तत्वांद्योगरूढिरपि परिगृह्यते। तेन पद्चजादयः शब्दाः कुमुदादिषु न प्रयोज्याः । 1. इद च नेयार्थ प्रकाशक्तिषु अवाचकप्रभेदेषु अन्यतमम्। प्रकारान्तराणि तु तत एवावसेयानि।
Page 65
अ. १.] कामधनुसहिता। ४५
कल्पितार्थं नेयार्थम् ॥१३ ॥
अश्रौतस्याप्युन्नेयस्य पदार्थस्य कल्पनात् कल्पितार्थ नेयार्थम्।
यथा --
'सपदि पङ्गिविहङ्गमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षि शितैः शरेंः प्रवगसैन्यमुलूकजिता जितम् ॥' अंत्र विहङ्गमश्चकवाकोऽभिप्रेतः, तन्नामानि चक्राणि, तानि बि- भ्रतीति विहङ्गमनामभृतो रथाः, पङ्गि: दश विहंङ्गमनामभृतो रथा यस्य स पङ्गिविहङ्गमनामभृत् दशरथः, तत्तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसेन्यं जितम्। उलूकजिता इन्द्रजिना। काशिकशब्देनेन्द्रोलूकयो- रभिधानमिति कौशिक्शब्दवाच्यत्वेनेन्द्र उलूक उक्तः । नतु चैवं रथाङ्
नेयार्थ लक्षयति- कल्पितार्थमिति। अश्रौतस्येति। संकेतसह्ययः शब्दव्यापारः, तद्विशिष्टः शब्दो वा श्रुतिः । तत आगतोऽर्थः श्रौत, सन भवतीति अश्रौतः अनभिधेय इत्यर्थः । नन्विदमश्रौतत्वमर्थस्य किं लाक्षणिक- त्वम्? नेत्याह-उन्नेयस्येति। 'अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इत्येवं- लक्षणलक्षणाकक्ष्यामधिक्षिप्य कम्यचदर्स् कल्पन कलपितार्थम्, न तुलाक्ष- णिकार्थमित्यर्थः । उदाहरणमाह- यथति। उदाहरणवाक्यार्थ विवृणोति- अत्रेति। पक्षिसामान्यवाचिना विहुङ्गमपदेन तद्विशेषश्रक्रापरनामा चक्रवाको लक्ष्यते। 'कोकश्चक्रश्चकरवाकः' इत्यमरः। तस्य नामेव नाम येषां तानि तन्ना- मानि चक्राणीत्यर्थः । प्िरिति। पङ्किच्छन्दसः पादस्य दशाक्षरात्मकत्वात् पङ्गिपदेन दशसंख्या लक्ष्यते। विपुलपर्वतवर्षीति प्लवगसैन्यविशेषणम् । कौशिकशब्देनेति। 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु शिक'।' इत्यमरः । कौशिकशब्देनेन्द्रोलूकयोरभिधानादित्यर्थः । उलूकशब्देन को कशब्द उन्नीयते, तेनेन्द्रोऽभिधीयत इति उलूकजित्पदेन इन्द्रजिदुन्नीयत' इत्यभिप्रायः। एवं तर्हि प्राचीनकविप्रयोग: पर्याकुल: स्ादिति शङ्कते- नन्विति। रथाङ्गनामादीनामि- त्यादिपदेन रथाञ्जपाणिप्रभृतीनां परिग्रहः। रथाङ्गनामादिपदानां चक्रवाकादौ
Page 66
४६ काव्यालंकारसूत्रवृति: [अधि. २.
नामादीनामपि प्रयोगोऽनुपपन्नः न; तेषां निरूढलक्षणत्वात्'।
अप्रसिद्धार्थप्रयुक्तं गूढार्थम्॥१४ ॥ यस्य पदस्य लोके अर्थः प्रसिद्धश्वापसिद्धश्च, तत् अप्रसिद्धेऽर्थे मयुक्तं गूढार्थम्।
निरूढत्वेन रूढ्या योगस्य निगीर्णत्वान्न काचिदनुपपत्तिरिति परिहरति-नेति। निरूढा लक्षणा येषामिति बहुब्रीहिः। लक्षणा हि रूढिप्रयोजनवशातू द्विविधा भवति। तत्र रूढलक्षणा कुशलादय शब्दाः प्रयोगप्राचुर्यबलेन वाचकशब्दव- त्प्रयुज्यन्तं। प्रयोजनलक्षणास्तु मुखं विकसितम्मितं वशितवक्रकिम प्रेक्षणम्' इत्यादौ विकसितादयः शब्दा: म्मितविलासादिलक्षकतयाद्यापि प्रयुज्यन्ते। तदु- क्तम्, 'निरूढा लक्षणाः काश्चित् सामर्थ्योदभिधानवत्। क्रियन्ते सांप्रत काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति। गूढार्थ लक्षयितुमाह -- अप्रसिद्धति। अभिमतमनेकत्वमर्थस्य दर्श-
अय भाव :- 'निरूढा लक्षणा' काश्चित्' इत्युक्तरीत्या रूढिप्रयोजनाभ्यां विना 1 यत्र निषिद्धा लक्षणा स्वीक्रियते, तत्रेव नेयार्थत्वम्। सपदीत्युदाहरणे च विहङ्गमादिपदाना तत्र तत्र लक्षणोपासने न रूढिः, नवा प्रयोजन किर्माप: मुख्यशब्दार्थािरेकेण कम्याप्यर्थ- स्याप्रतीतः । अतश्च तत्र भवात नयार्थत्व दोष। रथाङ्गनामादिषु तु रूढििति न दोष । दूषकताबाज च अशक्तवक्तृकत्वज्ञानाद्रमप्रकषबाधविघात.। वृत्तयभावेन अर्थानुषस्थितिस्तदिति केचित्। एतेन 'न तु लाक्षणिकार्थमित्यर्थः' इति कामाधेनुरषि व्याख्याता। समस्तमेक पदमिति वैयाकर्णर्रातिमाश्रित्य पदार्थदोषावसरे अस्योपन्यासः । हेमचन्द्रस्तु विशिष्टा- भिप्रायेण मतान्तरानुसारेण वा इदमेव पद्यं वाक्यदोषप्रकरणे निरूपितवान्। 2.,' 'अस्य दूषकताबीज च प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्बेनीप- स्थितिः। अत एव यमकादावदोषत्वम्, तत्रोपस्थितिविलम्बस्वापि सहृदयसमतत्वंनाविलम्बा- नुद्देश्यत्वात्' इति प्रदीपकारः। ननु प्रसिद्धस्यापि अविवक्षितार्थस्य कथमुपस्थिि, 'शब्दा- रथस्यानवच्छेदे' इति प्रकरणादेनियामकस्य सत्त्वादिति चेत्, न; तुल्यप्रसिद्धिकानकार्थष्वंव तथा नियमस्य तदर्थत्वादिति दिक्'। 3. काश्षिल्वक्षणाः निरूंढा: प्रसिद्धाः । ताथ्र बोधकत्वरूपसा मर््यात् अभिधासत्म करक्ष्याः । काश्चिच्च प्रयोजनवशात् सांप्रत क्रियन्ते। काश्चिदपि रूढिप्रयोजनाभावेऽपि वक्तुरशक्त्तिमा- त्रेण नैव क्रियन्त इति कारिकार्थः । 'निरूदलक्षणा तु शककतितां नाममात्रेण भिद्यत' इति भट।
Page 67
अ. १.] कामधेनुसहिता। ४७
यथा- 'सहस्त्रगोरिवानीकं दुःसहं भवतः परैः ।' इति। सहसत्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः, तस्येवेति गोशब्द- स्याक्षिवाचितं कविष्वप्रसिद्धमिति।
यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात्, तत् असभ्यार्थान्त- रम्। यथा-'वर्चः' इति पदं तेजसि विष्ठांयां च। यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थ स्मारयति, तत् असभ्यस्मृतिहेतुः। यथा -- 'ककांटिका' इति।
यति-प्रसिद्धश्चेति। उदाहरणमुपदर्शयितुमाह- यथेति। गोशब्दस्येति। ·गौर्नाके वृषभे चन्द्रे वाग्भूदिग्घेनुषु स्त्रियाम्। द्वयोम्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलो- मसु' इत्यभिधाने सत्यपि गोशब्दम्य प्राचुर्येणाक्षि्ण प्रयोग।दर्शनादक्षिवाचकत्व- मप्रसिद्धमित्यर्थः । एतेन'तीर्थान्तरेषु स्नानेन समुपार्जितसत्पथः । सुरस्रोतख्ि- नीमेष हन्ति सम्प्रति सादरम्' इत्यादिषु हन्तीत्यादीनां गमनादर्थेषु प्रयोगा: प्रत्युक्ता: । अश्लीलं लक्षयितुमाह-असभ्येति। सूत्रार्थ विवृण्वन् क्रमेण लक्षणो- दाहरणे दर्शयति -- यस्येति। यम्यानेकार्थवाचकम्य पदस्यैकोऽर्थोऽसभ्यः स्यात्, तदसभ्यार्थान्तरं पदमश्रीलम्। वर्च इति। 'वर्चीसि ज्वालविड्भसिः' इत्यभिधानाज्ज्वालप्रभावाचकत्वेऽपि विद्वाचितया वर्च इति पद्मसभ्यार्थान्तरम् । यच्विति। सभायां साधुः सभ्यः । 'सभाया ग.' इति य त्ययः। यत्तु पदं सभ्यार्थवाचकमप्येकदेशेन यद्यसभ्यार्थस्मृति जनये् तदप्यक्रीलम्। कृका- टिकेति। 'प्रेतयानं खटिः काटिः' इति वेजयन्त्यां शवयानपर्यायत्वेनाभिधानात्
- अश्रीरस्यास्तीत्यर्थे सिध्मादित्वाल्लच्प्रत्ययः । कपिलादित्वाद्रेफस्य लत्वम्। 2. इद च पछसमर्थोदाहरणतया प्रकाशे उपात्तम्।
Page 68
४८ काव्यालंकारसूत्रवृत्तिः [अधि. २.
न गुप्तलक्षितसंवृतानि ॥१६ ॥ अपवादार्थमिदम्। गुप्तं लक्षितं संतृतं च नाश्रीलम्।। एषां लक्षणान्याह- अप्रसिद्धासभ्यं गुप्तम् ॥ १७॥ अप्रसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासभ्यं यत्, तत् गुप्तम्। यथा- 'संबाधः' इति पदम्। तद्धि संकटार्थ प्रिद्धम्, न गुद्यार्थमिति। लाक्षणिकासभ्यं लक्षितम् ॥ १८ ।। तदेवासभ्यार्थान्तरं लाक्षणिकासभ्यार्थान्वितं पदं लक्षितम्।
कण्ठापरभागवाचकमपि कृकाटिकापदं काटीत्येकदेशेनासभ्यार्थम्मृतिहेतुरित्य क्रील- मित्यभिप्रायः । अश्लीलम्य क्वचिदपवादं वक्तुमाह-न गुप्तेति। वृत्तिः स्पष्टार्था। अप्रसिद्धेति। यम्यानेकार्थस्व पदम्यैकोऽर्थोऽसभ्योऽपि यद्यप्रसिद्धो भव- ति, तदप्रसिद्धासभ्यं पदं गुप्तमित्यर्थ। तदिदमभिसंधायाह-असभ्यार्थान्त रमिति। संबाध इति। 'लेशेऽपि गन्ध' संबाधो गुह्यसंकटयोर्द्वयोः ।' इत्यभि- धाने सत्यपि 'संबाधे सुरभीणाम्' आसने मित्रसबाधे' इत्यादिषु प्रयोगप्राचुर्यात् संबाधशब्दः संकटार्थः प्रसिद्धः; तदभावात् गुह्यार्थोऽप्रसिद्ध इत्यर्थः । लाक्षणिकासभ्यमिति। लक्षणया सान्तरार्थनिष्ठशब्दव्यापारेण प्रतिपादं लाक्षणिकम्। अध्यात्मादित्वात भवार्थे ठन्। तथाविधमसभ्यमर्थान्तरं यस्य, तत् लक्षितमिति सूत्रार्थः। अमुमर्थमभिसंधायाह-तदेवेति। लाक्षणिकं
1 'दूषकताबीज त्वनुभवसिद्धरमापकर्षकताद्दश्यार्थोप्थितिः। नीरसे तु चमत्कारा पकर्षकत्व तस्याः । अथवा तांदशार्थोपस्थित्या श्रोतुर्वैमुख्य तद्वीजम्। अत शमकथायां दाष- त्वाभावः, तादृशोपसस्थितेः शमपोषकत्वात्। भाव्यमङ्गलादिसूचने कामशास्त्रस्थितौ च न दोषश्वम्, श्रोतुर्वैमुख्याभावात्। शिवलिङ्गभगिनीव्रह्माण्डादिशन्दंषु तु सर्वीतग्रप्तलक्षितेष असभ्यार्थानुपस्थितिः' इति प्रदाप: ।
Page 69
अ. १.] कामधेनुसहिता।
यथा- 'जन्मभूः' इति। तद्धि लक्षणया गुह्यार्थम्, न स्व्र- शक्त्येति। लोकसंवीतं संवृतम् ॥ १९॥ लोकेन संवीतं लोकसंवीतं यत्, तत् संत्ृतम्। यथा-'सुभगा, भगिनी, उपस्थानम्, अभिप्रेतम्, कुमारी, दोहद़:' इति अत्र श्राक :- 'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य मंस्थाने कस्यासभ्यत्वभावना ।।' तत्त्रैविध्यं त्रीडाजुगुप्सामङ्गलातङ़कदायिभेदात्॥२०॥ नस्याश्लीलस्य त्रैविध्यं भवति, व्रीडाजुगुप्सामङ्गलातङ्गदायिनां भेदात्।
च तत् असभ्य चेति कर्मधारयः। अर्थविशेषणम्। तेनार्थेनान्वितं तादृशार्थप्रति- पादकमित्यर्थः। जन्मभूशब्देन जननस्थानसामान्यमभिधया प्रतिपाद्यते। तद्वि- शेषस्तु लक्षणयेति व्याचष्टे -- तद्धीति। न स्वशक्त्येति। मुख्यव्यापारेणेत्यर्थः ।
लोकेन संवीतम् आवृतं परिगृहीतमित्यर्थः। सुभगादविपदान्येकदेशेन असभ्यार्थस्मृतिहेतुत्वेऽपि लोकपरिगृहीतत्वात्प्रयोज्यानि। तदुक्तं दण्डिना, 'भगि- नीभगवत्यादि सर्वत्रैवानुमन्यते।' इत्यादि। दोहद इति। 'हद पुरीषोत्सगे' इति धातुं म्मारयन्नेकदेशेन असभ्यार्थस्मृतिहेतुः । अत्र प्राचीनाचार्यसंवादं प्रकटयति- अत्र श्राकेति। म्पष्टोऽर्थः ।
द्विविधमश्रीलं त्रेधा विभजते-तत्तरैविध्यमिति। तिस्रो विधाः प्रकारा यस्य तत् त्रिविधम्। 'विधा विधौ प्रकारे च' इत्यमरः । तस्य भावस्त्रैविध्यम् । ब्राह्मणादिरकृतिगणत्वात व्यञ्। तस्याश्लीलस्य त्रैविध्यम् ! ममङ्लस्यातङ्कः शक्का। 'रुकूतापशङ्काम्वातङ्कः' इत्यमरः । दायिशब्दः प्रत्ये-
Page 70
काव्यालकारसूत्रवृत्ति· [अधि. २.
किंचित् व्रीडादायि। यथा- "वाक्काटवम्' इति। किंचित् जुगुप्सादायि। यथी- 'कपर्दकः' इति। किंचित् अमङ्गलानङ्गदायि। यथा- 'संस्थिनः' इति। व्यवहितार्थप्रत्ययं क्विष्टम् ॥ २१ ॥
अर्थस्य प्रतीतिः अर्थप्रत्ययः ! म व्यवहितो यस्मात् भवति, तत व्यवहितार्थप्रत्ययं क्रिष्टम् । यथा-'दक्षात्मजादयिनवल्लभवेदिकानां ज्योत्स्नाजुषां जलल- वास्तरलं पतन्ति।' दक्षात्मजाः ताराः, नासां दयितो दक्षात्मजादयितश्ञन्द्रः, तस्य वल्लभाश्चन्द्रकान्ताः तद्वेढिकानामिति। अत्र हि व्ववधानेनार्थ- प्रत्ययः, अन्यत्र अरूढत्वात्। अरूढावपि यतोरऽर्थप्रत्ययो झटिति, न
कमभिसंबध्यते। तत्राद्यमुदाहर्तुमाह- किंचिदिति। वावकाटवमिति। कटो- र्भाव: काटवम्, वाचः काटव वचस्तैक्ष्ण्यमित्यर्थः । अत्र काट इत्येकदेशेन लिङ्गप्रतीतेत्रींडादायि. काटश्रा्णवश्च इत्यत्र मन्त्रभाप्य तथा दर्शनात्। द्वितीयं दर्शयितुमाह-किंचिदिति : पर्द: पायवीयपवनध्वनिः। पर्दस्तु गुदजे शब्दे कुर्दः कुक्षिजनिःस्वने' इति वैजयन्ती। अवशिष्टमक्कीलं म्पष्टयति- किंचि िति। 'प्रमीतः संम्थितो मृतः' इत्यमरः। विलष्टमाचष्टे-व्यवहितेति। समासार्थ वित्रहण दर्शयति-अर्थस्य प्रतीतिरिति। प्रत्ययोऽत्र ज्ञानम् । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्य- मरः। उदाहरति- दक्षात्मजेति। ननु नेयाथें कलष्टमिदं किमिति नान्तर्भ- वति, व्यवहितार्थप्रत्ययहेतुत्वाविशेषादित्याशङ्कय ततो वैषम्यं दर्शयन् लक्ष्ये लक्षणमनुगमयति -- अत्र हि व्यवधानेनेनि। व्यवधानमर्थप्रतिपत्तेविलम्बः । विलम्बेनार्थाभिधायकं क्लिष्टम्, नेयार्थ तु कल्पितार्थमिति ततो भेदः । अन्या- रथेडपि चेदं नान्तर्भवतीत्याह-अन्यत्रेति। प्रकृतादर्थादर्थान्तरे क्विदप्यरूढत्वात् अप्रसिद्धत्वात् विळम्बेनापि योगवशात् प्रकृतमर्थमभिधच इत्यर्थः। अप्रसि-
Page 71
अ. १.j कामधेनुसहिता। ५१
नत् क्लिष्टम्। यथा- 'काञ्चीगुणस्थानमनिन्दितायाः' इति।
अन्त्याभ्यां वाक्यं व्याख्यांतम् ॥ २२ ॥ अक्षीलं किलिष्टं चंत्यन्त्य पढे, ताभ्यां वाक्यं व्याख्यातम्। तदप्यक्षीलं किलिष्टं च भवति। अश्लीलं यथा- 'म सा धनोन्नतिर्या म्यात्कलत्ररतिदायिनी। परार्थवद्धकक्ष्याणां यत्सत्यं पेलवं धनम् ।। 'सोपानपथमुत्सज्य वायुवेगः समुदतः। महापथेन गतवान्कीर्त्यमानगुणो जनैः ॥'
द्वमप्यविलम्बेनार्थाभिधांयक चेन्न तत क्विष्टमित्याह-अरूढावपीति। उदाहगि -- यथेति।
लक्षित प्रायमेवेत्युपपादयितुं सूत्रमुपादत्ते-अन्त्याभ्यामिति। प्रतिपत्तिलाघ- वार्थमप्रकरणेऽप्यभिधानमित्यवगन्तव्यम्। अक्लीलं वाक्यमपि त्रिविधम्, तत्र ब्रीडादायि अक्लीलमुदाहरति- ग्रथेति। सा तादृशी । धनान्नतिः अर्थसंपत्तिः । न भवति। या कलत्ररतिदायिनी कलत्रस्य रति प्रीतिं दातु शीलमस्या इति कलत्ररतिदायिनी, न तु परप्रीतिदायिनी यस्मात् ; तस्मात् परार्थबद्धकक्ष्याणां परेषामर्थे प्रयोजने बद्धा कक्ष्या कच्छो यैस्तेषां परोपकारबद्ध प्रतिज्ञानामित्यर्थः । 'कक्ष्या कच्छे वरत्रायाम्' इति वेजयन्ती। धनम् अर्थ.। यत्सत्यं परमार्थतः । पेलवं मनोज्ञमिति प्रकृतार्थः । अर्थान्तरं तु-साधनम्य शफस उन्नतिः । साधनमुपगमनत्योः शेफसि सिद्धौ निवृत्तिदापनयोः ति नानार्थमाला यस्मात् कलत्रम्य रतिं सुरतं दातुं शीलमम्या इति नादृशी ; भवतिः तस्मात् परासामर्थे बद्धकक्ष्याणां परस्त्रीवशंवदचित्तानामित्य्थः । धनं पेलवं विरलं भवति । 'पेलवं विरलं तनु' इत्यमर। अत् ब्रीडादायित्वमतिरोहितम्। अवशिष्टमक्रो- लद्वयमुद्दाहरति- सोपानेति। सोपानपथमुत्सृज्य। वायुवेगः वायोर्वेग इव
Page 72
५२ अधि. २
क्लिष्ट यथा-
'धम्मिल्लस्य न कस्य प्रेक्ष्म निकामं कुरङ्गशाबाक्ष्याः।
एतान् पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति नान्पर्यार्थः ॥
इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे प्रथमोऽध्यायः ।
वेगो यस्य स ताहृशः समुंद्यतः सन् जने म्तूयमानगुणः सन्, महापथेन राजमार्गेण गतवानिति प्रकृतार्थ । वायुवेगः अपानपथमुत्सृज्य समुद्यत इति जुगुप्सादायि। महापथेन परलोकमार्गेण गतवानित्यमङ्गलातक्कदायि।
क्िष्टमुदाहरति -- धम्मिल्लस्येति। कुरंङ्रशावाक्ष्याः धम्मिल्लम्य संयत- कचनिचयम्य। अपूर्वोऽदृष्टचरो बन्धो ग्रथनं तम्य व्युत्पत्तंश्चातुर्यम्य। शोभा प्रेक्ष्य। कस्य मानसं निकामं न रज्यति सर्वम्यापि मानस रज्यतीत्यर्थ। रज्यतीति कर्मकर्तरि रूपम्। 'कुषिरजोः प्राचां श्यन् परम्मैपद च' इति पर स्मैपदम्। अपूर्वबन्धव्युत्पत्तेरिति धम्मिल्लविशेषण वा। अत्रान्वयव्यवधानान्न हाठिकी वाक्यार्थप्रतिपत्तिरिति म्पष्टमेव क्विष्टत्वम्। ननु किं फलममीषां दोषा- णामवबोधनेनेत्याशक्कय, परित्याग एव फलमित्याह -- एतानिति।
इति श्रींगपिन्द्रांतिपभूपालविराचताया वामनालकारसूतवत व्याख्याया काव्यालकारकामधेनों दोषदर्शने द्विनीयेSधिकरणे प्रथमोऽध्यायः॥
Page 73
द्वितीयोऽध्यायः॥
पदपदार्थदोषान प्रतिपाद्य वाक्यदोषान् दर्शयितुमाह भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि॥ १॥ दुष्टानीत्यभिसंबन्धः । क्रमेण व्याचऐ- लक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २ ॥ स्वस्माल्लक्षणाच्चयुतं दृत्तं यस्गिन्, तत स्वलक्षणच्युतवृत्तं वा्क्यं भिन्नवृत्तम् । यथा-'अयि पश्यमि सौधमाश्रितामविरलसुमनोमालभारिणीम्।' वेतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्य निषिद्धम्। नञ्च कृतमिति भिन्नवृत्तत्वम् ।
चिन्तयामि चिदाकाशचन्द्रलंखां सरम्वतीम्। शिरसा श्राघनाय्म्याः सार्वजञ्यं समवाप्यते ।।
अध्यायद्वय सौहार्दमुन्मुद्रयति- पदपदार्थेति। पदपदार्थदोषनिरूपणा- नन्तरं वाक्यवाक्यार्थदोषनिरूपणं लब्धावसरमिति सगतिः । वाक्यदोषानुद्दि- शति-भिन्नवृत्तेति। दुषं पदम् इत्यादिसूत्रात दुष्टमित्येतत् वर्चनन्मरि- णामेन वाक्यविशेषणतयानुवर्तत इत्याह-दुष्टानीति।
यथाद्देशमेषा लक्षणानि द्शेयिष्यन्. अनन्तरः वतारयति -- क्रमे- णेति। लक्षणच्युतवृत्तमिति। लक्षणहीनवृत्तानुरन्धि वाक्यांमेत्य्थे। उदा- हरति-यथेति। अयि पश्यसीति। सुमनोमालभारिणीमित्यत्र "इष्टकेषी- कामालानां चिततूलभारिषु " इति मालाशब्दस्य हृख्ः । वैतालीयलक्षणं प्रागु कम्। तत्र 'ताश्च,समे म्युनो निरन्तरा.' इति समपादे लध्वक्षरषट्कम्य नैर
Page 74
५४ काव्यालंकारसूत्रवृत्ति: अधि. २.
विरसविरामं यतिभ्रष्टम्॥ ३॥ विग्सः श्रुतिकटुः विरामो यस्मिन्, नत विरसविरामं यतिभ्रष्टम्। तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ॥ ४ ॥ नत् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति स्वर- संधिना अकृते प्रायेण बाहुल्यन । धातुभागभेदे मन्दाक्रान्तायां यथा एतासां गजति सुमनसां दाम कण्ठावलम्बि।' नामभागभेढे शिखरिण्यां यथा -- कुरङ्राक्षीणां गण्डतलफलके स्वेदविसरः ।'
न्तर्य निषिद्धम्। अत्र 'अविरलसुम -- ' इति समपादे षडपि प्रयुक्तानीति लक्षणच्युतत्वम । द्वितीयं व्याख्यातुं मूत्रमुपादत्त- विरमविगममिनि। विरामो विच्छे- दनियमः । शेषं सुगमम् : तद्विभांगं दर्शयितुमाह-नदिति। धातु भूवादि। नाम प्रातिपदि- कम्। धातोः प्रातिपदिकस्य वा भागतो भेदे अशतो विच्छेदे। भागभेदमेव विशिनष्टि-स्वरसंध्यकृत इति। स च भागभेदो यदि म्वरसंधिना कृतो न म्यात्. तुस्मिन् भागभेदे सति यतिभ्रष्टं नाम दुष्ट भवति। म्वरसंधिकृते तु भागभेंद न दुष्टमिति सूचितम् । तत्र प्रथममुदाहतुमाह --- धातुभागभेद इति। एतासामिति। मन्दाक्रान्ताख्यमिद वृत्तम। मन्दाक्रान्ता जलधिषडगैरम्भौ न तौ तो गुरू चेत' इति तल्लक्षणादादितश्चतुर्भि .. नतः षड़भिः, तत. सप्तभिवर्णै- र्विराम: कर्तव्यः ।.तथा सति 'एतासां ग-'इत्यत्र धातुभागभेदे प्राप्तम्य तस्य वैरस्यादिदं वाक्यं यतिभ्रष्टं नाम दुष्ट भवति। द्वितीयमुदाहरति-नामभाग- भेद इति। कुर अ्राक्षीणामिति। शिखरिणीवृत्तमंदम्। रसै रुद्रैशिछिन्ना यमनसभल। गः शिखरिणी' इति लक्षणादादितः षड्भिः, तत एकादशभिर्यतिः कर्तव्या। ततश्च
Page 75
अ. २.] कामधनुसहिता। ५५
मन्दाक्रान्तायां यथा 'दुर्दरशश्रक्रशिखिकपिशः शार्ङ्िणो बाहुदण्डः ।'
भ्रष्टत्वम्। धातुनामभागपद्ग्रहणात तद्भागातिरिक्तभेदे न भवति यति-
यथा मन्दाक्रान्तायाम्-
'शोभां पुष्यत्ययमभिनवः सुन्दरीणं प्रबोधः । शिख्रिण्यां यथा- 'विमिश्रः ्यामान्तेष्वररपुटचीत्कारविरुतैः।' स्वरसंध्यकत इति वचनात् स्वग्संधिकृते भेदे न दोषः। यथा-'किंचिद्भावालसमसरलं प्रेक्षितं सुन्दरीणाम्।'
'कुरङ्ाक्षीणां ग-'इत्यन्र प्रातिपदिकभागभेदे प्राप्तायास्तस्या वैरस्यात् यति- म्रष्टं भवति। उदाहरणान्तरमाह- दुर्दर्श इति। मन्दाक्रानतालक्षणमुक्तम् । 'दुर्दरशश्च' इत्यत्र विरामा विरसः। ननु पदभागभेद इति सूत्रकरणे धातुना- म्रोरुभयोरपि संग्रहाल्लाघव भर्वात. किं धातुनामग्रहणगोरवेणेत्याशक्कय, पदग्र हणे प्रकृतिप्रत्ययमध्यविरामेऽपि यतिभ्रंश म्यात्: स मा भूदिति घातुनाम- ग्रहणं कृतमित्याशयवानाह- धातुनामेति। तयोर्धातुनाम्नोभागाः तद्भागाः, तेभ्योऽतिरिक्तमेदे धातुनामभागभेदव्यतिरिक्ते भागभेद इत्यर्थः। उदाहरति- यथेति। 'शोभां पुप्य- इत्यत्र विरामो न वैरम्यमावहतीति भावः। धातुप्रत्य- यमध्यविरामे दोषाभावं निरूप्य प्रातिपदिकप्रत्ययमध्यभेदेऽप्युदाहरति-विमिश्र इति। श्यामा रात्रिः, अररं कवाटम्। ·इ्यामान्ते- इत्यत्र प्रातिपदिक- प्रत्ययमध्यविरामो न दुष्यति। विशेषणव्यावत्य कीर्तर्यात - स्वरसंधीति। उदाहरति-किंचिद्भावालसमिति। अत्र चतुर्थाक्षरावसाने यतिर्विहिता। तथा च अलसमित्यत्र अकारस्य सवर्णदीर्घेणैकादेशेन कबलितत्वात््वरसंधिकृतोऽयं नामभागभेद इति नृ यतिभ्रष्टत्वम्।
Page 76
५६ काव्यालंकारसूत्रवृत्ति: [अधि. २.
न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य यत्यात्मक्त्वात् ॥ ५॥ वृत्तदोषात् पृथक् यतिदोषो न वक्त्तव्यः, वृत्तस्य यत्यात्मकत्वात्। यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भोवान्न पृथग्ग्रदण कार्यम् अत आह- न लक्ष्मणः पृथक्त्वात् ॥ ६ ॥ नायं दोषः। लक्ष्मणो लक्षणस्य पृथक्त्वात। अन्यद्धि लक्षणं वृत्तस्य, अन्यच्च यतेः- गुरुलघुनियमात्मकं वृत्तम्। विरामात्मिका च यतिरिति। विरूपपदसंधि विसंधि ॥ ७॥ पदानां संधिः पदसंधिः। स च स्वरसमवागरूपः प्रत्यासत्तिमा- त्ररूपो वा। स विरूपो यत्मित्निति विग्रहः।
ननु भिन्नवृत्तयतिभ्रष्टयोरर्थतो भेदाभावात् न पृथक्कथनमर्थवदिति शङ्कामङ्कुरयितुमुपरितनं सूत्रमुपन्यम्यति- न वृत्तेति। गुरुलघुनियमवत् यति- नियमम्यापि वृत्तलक्षणवाक्येनैवावगन्तव्यत्वात यतिविशिष्टं च वृत्तमिति वृत्तदोषे एव यतिदोषाऽन्तर्भवतीति शङ्कितुरभिप्राय। शङ्कार्मिंमां शकलयितुमुत्तरसूत्रमुपादत्ते-न लक्ष्मणः पृथक्त्वादिति। यतिवृत्तयोर्कक्षणभेदात् म्वरूपभेदोऽङ्गीकर्तव्य. । तथा च वृत्तदोषे यतिदोषस्या- न्तर्भावो दुर्भण इति भाव। लक्षणभेदमेवाह-गुरुलध्विति। स्थानविरामेडपि गुरुलघुविपर्यासे भवति वृत्तभङ्गः । अस्थानविरामात्मके यतिभङ्गेऽपि यथो- क्तगुरुलघुनियमे सति न वृत्तभङ्ग इत्यन्वयव्यतिरेकाभ्यां भिन्नवृत्तयतिभ्रष्ट- योर्भिन्नत्वान पृथक्कथनमर्थवदित्यर्थ। अथ विसंधि वाक्य विवरीतुमाह विरुपपदसंधीति। स चेति।'कि- चिद्धावालसम्' इत्यत्र म्वरसमवायरूपः । 'ते गच्छन्ति प्रभुपरिवृढम्' इत्यत्र पत्यासत्तिरूपः ।
Page 77
अ. २.] कामधेनुसहिता। ५७
पदसंधेर्वैरूप्यं विश्लेषोउश्लीलत्वं कष्टत्वं च ॥। ८ ।। विश्लेषः अवग्रहः विभागेन पंदानां संस्थितिः । अश्लीलत्वम् अमभ्यस्मृतिहेतुत्वम्। कष्टत्वं पारुष्यमिति। विश्लेषो यथा- 'कमले इव लोचने इमे अनुवन्ञाति विलासपद्धतिः।' 'लोला- लकानबद्धानि आननानि चकासति।' अक्लीलत्वं यथा- 'विरेचकमिदं नृत्तमाचार्याभासयोजितम्।'
विसधिनस्त्रैविध्य वक्तुमाह- पदसंघेरिति। विश्लेषोऽवग्रह इति। अत्र पदकालप्रसिद्धोऽवंग्रहो न विवक्षितः, किंतु मात्राकालव्यवधानसाम्यादसंहि- ताप्रगृह्यलक्षण इत्यभिसंधायाह-विभागेनेति। स च विश्रेषो द्विविध :- प्रगृह्यनिबन्धनः, सध्यविवक्षानिबन्धनश्च। तत्राद्यमुदाहरति -- कमले इति। यदवादि दण्डिना, 'न संहितां विवक्षामीत्यसंधानं पदेषु यत्। तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ।' इति। अत्र प्रगृह्यादिहेतुकं विसंधि न भवतीति सकृत्प्रयोगविषयमिदं द्रष्टव्यम्; असकृत्प्रयोगे तु दुष्टमेव। तदुक्तं साहित्यचू- डामणौ, "प्रगृह्यादिनिबन्धनत्वे पुनरसकृद्दोषः । यथा- 'धीदोबेले अतितते उचितार्थवृत्ती' इत्यादि । सकृत्तु न दोषः । तथाच प्रयोग :- 'लीलयैव धनुषी अधिज्यताम् ' इति, 'सहसपाते इव लक्ष्यमाणे" इति च। द्वितीयमुदाहरति- लोलालकेत्यादि। अत्र न संहितां विवक्षामि' इति कामचारप्रयुक्कः सकृ- दपि दोष एव, 'नित्या सहितैकपदवत्पादेप्वर्धान्तवर्जम्' इति काव्यसमयाध्याये वक्ष्यमाणत्वात्। त्रिविधमश्लीलं क्रमेणोदाहरति-अश्लीलत्वं गथेति। रचका नाम नृत्ते पाणिपादादिभ्रमणरूपाश्चत्वारो भरतशास्त्रे प्रसिद्धाः। तदुक्तं संगीतरत्नाकरे, रेचकानथ वक्ष्यामश्चतुरो भरतोदितान्। पदयोः करयोः कट्या श्रीवायाश्च भवन्ति ते ॥' इति। आचार्येण सता नृत्तं सरेचकं योजनीयम्: इदं तु नृत्तं
Page 78
काव्यालंकारसूत्रवृत्ति: [अधि. :
'चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः।' 'विना शपथदानाभ्यां पदतादसमुत्सुकम्।' कष्टत्वं यथा- •मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा दुमा बभुः ।' एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह- व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्या- विरुद्धानि च ।। ९ ॥। वाक्यानि दुष्टानीति संबन्धः ॥
क्रमण व्याख्यातुमाह- व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ १० ॥ व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तत् व्याहतपूर्वोत्तरार्थ वाक्यं व्यर्थम्। यथा -- 'अद्यापि त्मरति रसालसं मनो मे सुग्धायाः स्मरच तुराणि चेष्टितानि।' मुग्धायाः कथ स्मरचतुराणि चेष्टितानि? तानि चेत् कथ मुग्धा विरेचक रेचकविहीनम्। अत एवाचार्याभासयोजितम् यः स्वयमनाचार आचार्यवदवभासते, सोडयमाचार्याभास ; तेन योजितम्। अत्र विरेचकयाभ शेपपुरीषबिनाशपदविन्यासेः, विरेचनमिथुनीभावमेहनपुरीषविनाशप्रतीतेस्त्रिवि धान्य श्क्लीलानि द्रष्टव्यानि। कष्टत्वमुदाहर्तुमाह- कष्टत्वं यथेति॥ उक्तवक्तव्यसंगतिपूर्वकमुत्तरसूत्रमवतारयति-एवमिति। चकारेण समु चयमाह-वाक्यानि दुष्टानीति संबन्ध इति। व्याहतो परस्परविरुद्धावित्यर्थः । मुग्धायाः कथं स्मरचतुराि चेष्टितानीति। न क्थंचित्मंभवन्ति, व्याहतत्वादित्यर्थः । व्याहतिमेव व्याह
Page 79
अ. २.] कामधेनुसहिता। ५९
अत्र पूर्वोत्तरयोरर्थयोर्विरोधात् व्यर्थमिति। उक्तार्थपदमेकार्थम् ॥११॥ उक्तार्थानि पदानि यस्पिस्तत् उक्तार्थपदम् एकार्थम्। यथा- 'चिन्तामोहमनङ्गमङ्ग! तनुते विश्रेक्षितं सुभ्रुवः।' अनङ्गः शृङ्गारः। तस्य चिन्तामोहात्मकत्वाचिन्तामोहशब्दा प्रयु- क्तायुक्तार्थी भवतः । एकार्थपदत्वात् वाक्यमेकार्थमित्युक्तम्। . न विशेषश्चेदेकार्थं दुष्टम्॥ १२ ॥ न मतार्थ दुष्टम्, विशेषश्रेत् प्रतिपाद्यः स्यात्। तं विशेषं प्रर्तिपादयितुमाह- धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्यै ॥ १३ ॥।
रति 'स्मरचतुराणि' इति। एकार्थ समर्थयितुमाह-उक्तार्थपदमिति। उक्ताः पदान्तरैः प्रतिपा- दिता. अर्था: येषां तानि उक्तार्थानि। तथाविधानि पदानि यम्मिन् वाक्ये तत् उक्तार्थपदं वाक्यमेकार्थ नाम दुष्टं भवतीति वाक्यार्थः । चिन्तामोहमिति । कामिनीकटाक्षपातकलुषितान्तःकरणम्य विरहवेदनामसहमानस्य कस्यचित्कामु- कस्येयमुक्तिः । अनङ्गशब्देनात्र विप्रलम्भश्ृङ्गारो विवक्षितः । तम्य िन्तामोहा- द्युपचचितात्मकस्यैव शृङ्गारपदार्थत्वात् तत्कथनेनैव चिन्तामोहयोरवगतत्वाच्चिन्ता- मोहशब्दौ गतार्थावित्येकार्थो। नन्वेकार्थलक्षणपरीक्षायामेकार्यत्वं पदस्य प्रतीय- ते, न तु वाक्यस्य। तत्कथमयं वाक्यदोषः स्य,इिन्याशडक्य छत्रिन्यायेनैकदेश- धर्म: समुदाये पर्यवस्यतीत्याशयवानाह- एकार्थपदत्वादिति।
क्वचिदपवादं वक्तुमाह- न विशेषश्चेदेकार्थ दुष्टमिति। यदि विशेषः प्रतिपाद्यः, तदानीमेकार्थ दुष्टं न भवतीति सूत्रार्थः॥
Page 80
६० काव्यालंकारसूत्रवृत्ति [अधि. २.
धनुर्ज्याध्वनावित्यत्र ज्याशब्देनरेक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते, आरूढे: प्रतिपन्यै आरोहणस्य प्रतिपत्यर्थम्। न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुज्येति शक्यं प्रतिपत्तुम्। यथा- 'धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव।' इति।'. कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादि- निर्देशः संनिधेः ॥ १४ ॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदेरुक्तार्थानामपि नि- र्देशः संनिधेः प्रतिपत्यर्थमिति संबन्धः । न हि कर्णादिशब्दनिर्देशम- न्तरेण कर्णादिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति। यथा- 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम्।' 'लीलाचलच्छूव णकुण्ड लमापतन्ति।' 'आययुर्भृङ्रमुखरा: शिरःशेखरशालिनः।'
धनुज्याध्वनाविति। श्रुतिरत्र वाचक. शब्द । स्पष्टमवशिष्टम्। धतु- ज्र्याकिणेति । ज्याशब्दमात्रप्रयोगे ज्याबन्धनेनापि किणसंभवात् भवेदनौचि- त्यम् । तथा च प्रयोगः, 'ज्याबन्धनिप्पन्दभुजेन यम्य' इति। . उक्तन्यायमन्यत्रापि संचारयितुमाह- कर्णावनंसेत्यादि। उक्तार्था- नामपीति। अवतसादिभि कर्णाभरणादीन्येवोच्यन्त इति अवतंसादिप्रयोगे कर्णादीनां गतार्थत्वमित्यभिप्रायः । अन्वयं द्रढयितुं व्यतिरेकमाह - न हीति। 'कर्णावतंसा: कलयन्ति कम्पम्' 'लीलाचलच्छूवण कुण्डलमापतन्ति' इत्यत्र लीलाचलन क्रियायोगादारूढ प्रतिपत्तिर्भवत्येव। अतः 'अम्याः कर्णावतंसेन जितं सर्व विभूषणम्। तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम्' इत्याद्युदाहर्तव्यम्। आययुरिति। स्पष्टार्थम् : धनुर्ज्यादिसूत्र एवैकत्र कर्णावतंसादीनामपि परिग- णने कर्तु शक्येऽपि प्रयोजनभेदं प्रतिपादयितुं सूत्रभेदः कृत इति द्रष्टव्यम्।
Page 81
अ. २.] कामधनुसहिता। ६१
मुक्ताहारशब्द मुक्ताशब्दः शुद्धः॥१५॥ मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यते शुद्धे: प्रतिपत्यर्थमिति संबन्धः । मुक्तानां शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहार: ।
मुक्ताहारेण लसता हसतीव स्तनद्वयम्।।' पुष्पमालाशब्दे पुष्पपद्मुत्कर्षस्य ॥ १६ ॥। पुष्पमालाशब्दे मालाशब्देनेव गतार्थ पुष्पपदं प्रयुज्यत उत्कर्षस्य प्रतिपत्यर्थमिति। उत्क्रष्टानां पुष्पाणां माला पुष्पमालेति। यथा- 'प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत्।' नतु मालाशब्दोऽन्यत्रापि दृष्यत; यथा-रत्नमाला, शब्दमालेति? स तावदुपचरितम्य प्रयोगः निरुपपदो हि मालाशब्दः एुष्परचना- मुक्ताहारेत्यादि। सुबोधम्। ननु हसतीव स्तनद्वयमिति हासोत्प्रेक्षण- सामर्थ्यादेव हारस्य रत्नान्तरासवलनलक्षणा शुद्धि: प्रतीयते, न मुक्ताशब्दसंनि- धानात्। अन्यथा हासोत्प्रेक्षेव नोदयमासादयेत्। अतो नेदमुदाहरणमिति चेत्, मवम् ; हारशुद्धिप्रतिपत्या हासोत्प्रेक्षा हासोत्प्रेक्षया च हारशुद्धिप्रतिपत्तिरिति परस्पराश्रयप्रसङ्गात्। अतो मुक्ताशब्दसंनिधानादेव हारशुद्धिप्रतिपत्तिरिति भव- त्युदाहरणमिदम्। 'हारो मुक्तावली' इत्यभिधानादत्र हारशब्दो मुख्यया वृत्त्या रत्नान्तरासंवलितमुक्तागुणमभिधत्ते। अतः शुद्धेः प्रतिपत्ति. शब्दत एष सिद्धेति यदि पक्षः, तदा पुष्पमालाशब्दे पुप्पपदवन्मुक्ताहारशब्द्ेऽपि मुक्तापद कस्वचिदु- त्कर्षस्य प्रतिपत्त्यै प्रयुज्यते। स चात्कर्ष :- त्रासादिदाषश-गत्वम्, स्थूलवृत्त- त्वम्, स्वच्छतातिशयश्चेति व्याख्येयम्। S पुष्पमालेत्यादि। म्पष्टाथम्। ननु मालाशञ्दस्य रूपहंसमघादिमालासु प्रयोगदर्शनात् तद्यावृत्ति प्रयोजनं पुष्पपदस्, न पुनरुक्तिरिति शङ्कते- नन्विति। मालाशब्द: पुष्परचनायां मुख्यः, लाक्षणिकः पुनरन्यतेति वृत्तिभेदा- न्नायं दोष इति परिहरति - स तावदिति।
Page 82
६२ काव्यालंकारसूत्रवृत्ति: [अधि. २.
विशेषमेवाभिधत्त इति।
करिकलभशब्दे करिशब्दस्ताद््प्यस्य ॥१७॥ करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्यर्थमिति। करी प्रौढकुञ्जरः, तदूपः कलभः करिकलभ इति॥ यथा-'त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः।'
विशेषणस्य च ॥ १८ ॥ विशेषणस्य प्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः। यथा -- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम्।' तदिदं प्रयुक्तेषु॥१९ ॥ तदिदमुक्तं प्रयुक्तेषु, नाप्रयुक्तेषु। न हि भवति-यथा श्रवणकुण्ड- लमिति, तथा नितम्बकाश्चीत्यपि। यथा वा करिकलभ इति, तथा उष्ट्रकलभ इत्यपि।
करिक़लभेत्यादि। व्यक्तार्थम्।
विशेषणस्येति। शव्दान्तरम्य सनिधानादुक्तार्थोऽपि विशेष्यशब्द प्रयुज्यते; स न विशेषणम्य प्रतिपत्त्यै भवति। जगादेत्यनेन गतार्थस्य वाक्- छब्दस्य माधुर्यवर्णवैशद्यलक्षणप्रतिपत्त्यै प्रयेग इप्यत इति वाक्यार्थ। जगाद मधुरोदारविशदाक्षरमीश्वरः' इति विन्यासकल्पनायां विशेषणस्य प्रयोगः क्रिया- विशेषणत्वेऽप्युपपद्यते। अत. 'नीलनीरजविकासहारिणा कान्तमीक्षणयुगेन वीक्षते' इत्युदाहार्यम्। तदेतत्सार्थकत्वसमर्थनमभियुक्तप्रयुक्तपद निर्वाहाय, न सर्वत्रेति नियन्तु- माह-तदिदमिति। प्रयुक्तेषु, अभियुक्तरिति शेषः। नापयुक्तेष्विति। तथोक्तं काव्यप्रकाशे, कर्णावतंसादिपद कर्णादिध्वनिनिर्मितिः । संनिधानादि- बोधार्थ स्थितेष्वेतत्समर्थनम् ॥' इति। अप्रयुक्तानि दर्शयति -- यथेति।
Page 83
अ. २. कामधेनुसहिता। ६३
संशयकृत्संदिग्धम् ॥ २० । यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां चाश्रुतेः संशयं 'करोति; तत् संशयकत् सादिग्धमिति। यथा- 'स महात्मा भाग्यवशान्महापदमुपागतः किं भाग्यवशान्महापदमुपागतः, आहोस्विदभाग्यवशान्महतीमा- पदम्रिति संशयकृत् वाक्यं प्रकरणाद्यभावे सतीति। मायादिविकल्पितार्थमयुक्तम् ॥२१॥ मायादिना विकल्पितोर्ऽर्थो यस्मिंस्तन्मायादिविकल्पितार्थमयु- क्तम्। अस्तोकमुदाहरणम् ! क्रमहीनार्थमपक्रमम् ॥ २२ ॥
इत्थमेकार्थ समर्थ्य, सदिग्धं समर्थयितुमाह-संशयकृत्संदिग्धमिति। व्याचष्टे-यद्वाक्यमिति। विशिष्टानामिति। असाधारणानामित्यर्थः । उक्त- लक्षणमुदाहरणे योजयति-किं भाग्यवशादिति। लक्षणं विशिनष्टि प्रक- रणादिति। अत्रादिपदेन संयोगादयो गृह्यन्त। यथोक्तं हरिणा, 'संयोगो विप्र- योगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्ति स्वरादयः । शब्दार्थम्यानवच्छेदे विशेष- म्मृतिहे तवः ॥' इति। अयुक्त व्यक्तयितुमाह-मायादिविकल्पितार्थमयुक्तमिति। मायादिना कुशलमतिकुण्ठनपटिष्ठ कुहनादिना विकल्पितः विरुद्धूतया व ' अर्थो यम्मिं- स्तद्वाक्यमयुक्त भवति। अस्तोकमुदाहरणमिति। विवनं हि।वदग्धमुखमण्डने, 'प्राहुर्व्यम्तं समस्तं च द्विर्व्यस्त द्विःसमस्तकम्। तथा व्यम्तसमस्तं च द्विव्ये- स्तकसमस्तके ।।' इत्यादिना। कमहीनार्थमपक्ममिति।प्रतियोगिप्रतिपत्तिपूर्वकत्वात् क्रमाभावप्रतिपत्ते
Page 84
६४ काव्यालंकारसूत्रवृत्ति: [अधि. २.
उद्देशिनाम् अनूद्देशिनां च क्रमःसंबन्धः; तेन हीनोऽर्थो यस्मि- न्, तत् क्रमहीनार्थेमपक्रमम् यथा-'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।' अत्र कीर्तिश्चन्द्रमसस्तुल्या; प्रतापः मूर्यस्य तुल्यः। मूर्यर्स्य पूर्व निपातादक्मः । अथवा प्रधानस्यार्थस्य प्रथमनिर्देशः क्रमः; तेन हीनोऽर्थो यस्मिन तदपक्रमम्। गथा- 'तुग्ङ्ूमथ मातङ्गं प्रयच्छास्मै मदालसम्।' देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि॥ २३ ॥ देशकालस्वभावैर्विरुद्धोऽ्यों येषु, तानि देशकालस्वभावविरुद्धा- र्थानि वाक्याि लोकविरुद्धानि। अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम्। देशविरुद्धं यथा- सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता। आक्षोटनालिकेराठ्या यस्याः पर्यन्तभूमयः ॥' कालविरुद्धं यथा- 'कदम्बकुसुमस्मेरं मधौ वनमशोभत।' प्रथमतः क्रममेक प्रथथितुमाह-उद्देशिनामिति। तेन हीनः तदभाववान् । उदाहरणमुज्ज्क्लार्थम्। अन्यं क्रममभिधत्ते-अथवेति। प्रधानस्य अभ्य- र्हितम्येत्यर्थः । मातङ्कं तुरङ्गं वा प्रयच्छात वक्तव्ये व्युत्क्मेणोक्तं वाक्यमम्य कवेर्नभिज्ञतामापादयतीति दुष्टम्। लोकविरुद्धं दर्शयितुमाह-देशकालस्वभावविरुद्धार्थानीति। अर्थद्वारे- णेति। विरुद्धार्थ प्रतिपादकत्वाद्वाक्यानि विरुद्धानि व्यपदिश्यन्ते। क्रमेणोदाहरति- देशविरुद्धमिति। सौवीरेष्विति। आक्षोटाः शैलोत्पन्ना गुडफलवृक्षाः । 'पीलौ गुडफल: सतरंसी तस्मिम्तु गिरिसंभव । आक्षोटकन्दरालो द्वौ' इत्यमरः । यमुनातीरवर्तिन्या मधुराया नगर्याः सौवीरेषु देशेप्वसभवात् देशविरोधः । कदम्बेति। मधुर्वसन्तः । 'चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः' इति
Page 85
अ. २.] कामधेनुसहिता। ६५
स्वभावविरुद्धं यथा-'मंत्तालिमङ्खमुखरासु च मञ्जरीषु सप्त- च्छदस्य तरतीव शरन्मुखश्रीः ।' सप्तच्छदस्य स्तबका भवन्ति, न मञ्जर्य इति स्वभावविरुद्धम्। तथा- 'भृङ्गोघैः कलिकाकोशस्तथा भृशमपीड्यत। यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ॥' कलिकायाः सर्वस्या मकरन्दस्यैतावद्धाहुल्यं स्वभावविरुद्धम्। कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्या- विरुद्धानि ॥२४॥
नानार्थरत्नमाला। प्रावृमि प्रसवोद्रमशालिनः कदम्बस्य वसन्ते प्रसूनप्रसङ्गासं- भवात् कालविरोधः । मत्तालिमङ्वेति। मङ्ग. स्तुतिपाठकः। 'नान्दीकारश्राटु- कारो मङ्मश्र स्तुतिपाठकः' इति वैजयन्ती। स्तबकाः गुच्छाः।'स्याद्गुच्छकस्तु स्तबक.' इत्यमरः । ते नाम स्तबकाः, पुप्पाणि पुञ्जीभूय यत्र वर्तन्ते। मञ्जर्यः वल्लर्यः। 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः। यत्र आयामवती प्रसूनपरिपाटी, ता एव मञ्जयेः । अतः सप्तच्छदस्य म्वभावता गुच्छा एव, न तु मञ्जयः सभव- न्तीति स्वभावविरुद्धम्। भृङ्गोघैरिति। कलिका कोरकः । अनुद्धभिन्नमुकुला कलिका कलिकाकोशः। तत्न गोप्पदपूरणपर्याप्तस्य मधुनोऽसंभवात् स्वभाव- विरुद्धम्। गोष्पदपूरमित्यत्र- गोः पद प्रमाणतया अवच्छेदकंमस्य वर्षस्ये- त्यस्मिन्नर्थे गोष्पदमिति, भवति; 'गोष्पदं सेवितामेवितप्रमाणेषु' इति गोष्पदशब्दो निपातितः। गोप्पदं पूरयित्वा ववर्ष गोप्पदपूरं ववर्ष। वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुलू। लोकविरुद्धमपि क्वितकविसमयप्रसिद्धेः प्राबल्यान्न दुष्टम् ; यथा- 'सुसितवसनालंकागयां क३ न कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवत. कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क नासि शुभप्रदः ॥' इति। एवमन्यत्रापि लोक- यात्राकविमर्यादयोर्विप्रतिषेधे पूर्वदौर्बल्यमवगन्तव्यम्। विद्याविरुद्धानि विवरीतुमाह- कलाचतुर्वर्गेति। शास्त्रपदस्योभयत्र
Page 86
६६ काव्यालंकारसूत्रवृत्ति: [अधि. २.
कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्र विरुद्धोऽर्थो येषु, तानि कलाचतुर्वर्गेशा- स्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि। वाक्यानां विरोधोऽर्थ द्वारक:। कलाशास्त्रविरुद्ध यथा- 'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकाग्रम्।" कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः तद्विरूद्ध- त्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूद्यः । चतुर्वर्गशास्त्रविरुद्धांनि तूदाहियन्ते- 'कामोपभोगसाकल्यफलो राजां महीजयः ।' धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजय इत्यागमः; तद्विरोधाद्धर्मशास्त्रविरुद्धमेतद्वाक्यमिति। संबन्धः। प्रतिपाद्यम्य दुष्टत्वे प्रतिपादकमपि दुप्टं भवतीत्याह- वाक्याना- मिति। कलाशास्त्रविरुद्धमुदाहरति-कलाशास्त्रोति। कालिङ्गमिति। कलिङ्रज- नेषु दृष्टं पत्रं कालिङ्गमित्युच्यते; तच्च पतितकोटिकण्टकाअ्रतया लेखनीयम्। तत्रार्थे तच्छास्त्रफक्किकामाह-कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामा- म्राय इति। 'विरोधस्तु परिस्फुट एव। एवमिति। भरतकलाविरोधो यथा -- 'रणद्भिराघट्टनया नभस्वतः' इत्यादावानुलोम्येन प्रातिलोम्येन वा नभस्वत्संचार- क्रमेण स्वरा उत्पदन्ते, न पुनर्वैचित्र्येणेति कुतो रागसंबन्धिनीनां मूर्च्छनानां स्फुटीभाव इत्यादि द्रष्टव्यम्। धर्मार्थकाममोक्षाः चतुर्वर्गः । 'त्रिवर्गों धर्मकामार्थैश्वतुर्वर्गः समोक्षकः' इत्यमरः । तत्प्रतिपादकशास्त्राणि चतुर्वर्गशास्त्राणि; तद्विरुद्धानि क्रमेणो- दाहर्तु प्रतिजानीते- चतुर्वर्गेति। तत्र धर्मशास्त्रविरुद्धमुदाहरति- कामोपभोगेति ।. तत्रागमवाक्यं दर्शयति- अश्वमेधादीति। महीजयस् राज्ञामश्वमेधादिफलत्वेन धर्मशास्त्रेडभिधानात्, तद्विरुद्धं कामोपभोगसाक- ल्यफलवाक्यम्। यथा वा- 'सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः। नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ।।' अन्नृ ग्रहोपरागं बिना
Page 87
अ. २.] कामधेनुसहिता। ६७
'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीतो; तद्विरोधादर्थशास्त्रवि- रुद्धं वाक्यमिति। 'दशनाङ्कपवित्रितोत्तरोष्ठ रतिखेदालसमा ननं स्मराम ।' 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्था- नानि' इति कामशास्त्रे स्थितम्; तद्विरोधात् कामशास्त्रविरुद्धार्थ वाक्य- मिति। 'देवताभक्तितो मुक्तिर्न तत्वज्ञानसंपदा।' एतस्यार्थस्य मोक्षशास्त्र स्थितत्वात् तद्विरुद्धार्थम्। एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः। ये त्वऽन्ये शब्दा- रात्रौ स्नानं धर्मशास्त्रविरुद्धम्, 'रात्रौ म्नानं न कुर्वीत राहोरन्यत्र दर्शनात्' इति स्मृतेः । अर्थशास्त्रमत्न दण्डनीतिः । यत्र पुनरर्थकामौ प्रधानम्, लोकया- त्रानुवृत्तिमात्राय धर्म सा दण्डनीतिः ; यस्ा भगवान् बृहस्पतिः प्रवक्ता । तद्विरुद्ध्मुदाहरति- अहंकारेणेति। विरोधं विवृणोति -- द्विषज्जयस्येति। तत् कामशास्त्रम्, यत्र त्रिवर्गम्य परम्परानुपरोधादुपयोगोपदेशः; यम्य भगवान् भार्गवः प्रणेता। कामशास्त्रविरुद्धं दशयति- दशनेति। विरोधं विवेचयति- उत्तरोप्ठमिति। उक्त हि रतिरहस्ये, 'अङ्गुष्ठे पदगुल्फजानुजघने-' इत्यादि। मोक्षशास्त्रविरुद्धमुदाहरति- देवताभक्तित इति। विरोधं व्युत्पादयति -- एतस्येति। 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽजुन। आर्तो•जिज्ञासुर- र्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिप्यते ॥' इत्युक्तनीत्या या ज्ञानलक्षणा भक्ति सात्र न विवि किंत्वार्तत्वादि- प्रयुक्ता त्रिरूपा। ज्ञानरूपायाम्तु भक्तेर्मोक्षो, भवत्येव। तदुक्तं तत्रैव- 'ज्ञानी त्वात्मैव मे मतम्।' इति। अतः 'न 'तत्त्वज्ञानसंपदा' इत्येतत् 'ज्ञानादेव तु कैवल्यम्' इत्यादिमोक्षशास्त्रविरुद्धम् । प्रतिपादितानाममीषां दोषाणां परिज्ञानस्य फलमाह-एत इति।
Page 88
६८ काव्यालंकारसूत्रवृत्ति: [अधि. २.
र्थदोषा: सूक्ष्माः, ते गुणविवेचने वक्ष्यन्ते; उपमादोषाश्चोपमाविचार इति। इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीयेऽधिकरणे द्वितीयोऽध्यायः ॥
समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम् ।
ये त्वन्य इति। सूक्ष्माः काव्यसौन्दर्याक्षेपानतिक्षमाः।'ओजोविपर्ययात्मा दोषः' इत्यारभ्य तदुदाहरणप्रत्युदाहरणाभ्यां वक्ष्यन्ते; ते गुणविवेचने यथा- यथमवबोध्याः । यद्येवं तार्हि स्थूलत्वादुपमादोषा दोषविवेचने विविच्यन्ता- मित्यत आह-उपमादोषश्चेति। उपमाविचारे तद्दोषविचारणं प्रतिपत्तिसौ- कर्याय भवतीति भावः ।
इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीत्पूर्तिमेतद्द्वितीयम् ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचिताया वामनालकारसूत्रवृत्ति- व्याख्यायां काव्यालकारकामधेनों दोषदर्शन नाम द्वितीयमधिकरणम्॥
Page 89
तृतीयमधिकरणम्
-- यद्विपर्ययात्मानो दोपाः, तान्गुणान्विचारयितुं गुणविवेचनमधि- करणमारभ्यते। तवोजःप्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः काव्यविदाम्। तेषां किं भेदनिबन्धनमित्यत्राह- काव्यशेभायाः कर्तारो धर्मा गुणाः ॥१॥ ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति, ते गुणाः; ते चौ- जःप्रसादादयः, न यमकोपमादयः, कैवल्ये तेषामकाव्यशोभाकरत्वात्।
देव्याः कृतिषु दीव्यन्त्या वाचां वैचित्र्यकारिणीम्। चेतोहरचमत्कारां प्रम्तौमि गुणविस्तृतिम् ॥। १॥ e
उक्तवक्तव्यसंगतिमुल्लिङ्गियति -- यद्विपर्ययात्मानो दोषा इति। निर्वृ- त्ते दोषनिरूपणे तत्प्रतिभटानां गुणानां निरूपणं लब्धावसरमिति संगति । गुणा अलंकारेभ्यो विविच्यन्ते. ते च परम्परं विविच्यन्ते विभज्यन्तेऽस्मिन्निति गुणविवे- चनं नामाधिकरणमारभ्यते। काव्यशोभाकरान् धर्मानलंकारान्प्रचक्षते। काश्चि- न्मार्गविभागार्थमुक्ता प्रागप्यलंक्रियाः ॥' इति दण्डिमतं खण्डायेतुं गुणालंकार- भेद दर्शयिष्यन्, पीठिकां प्रतिष्ठापयति -- तव्रेति। काव्यविदाँ कविकर्ममर्म- विदाम् ओज:प्रसादादीना गुणा इति. यमकोपमादीनामलंकारा इति च विभिन्न- व्यवहारविषयत्वं व्यवस्थितमित्यर्थः । प्रश्नपूर्वकमुत्तरमूतं प्रसञ्जयति- तेषा- मिति। तेषां गुणालकाराणां भेदस्य किं निबन्धनं कारणमित्ि प्रश्नः । व्या- चष्टे-ये खल्विति। गुणा वस्तुतो रीतिनिष्ठा अपि उपन गच्छब्दधर्मा इत्युक्तम्। एतच्च गुणोद्देशसूत्रे कुशलमुपपादयिप्यामः गुणशब्दप्रवृत्तिनिमित्त- मयोगान्ययोगव्यवच्छेदाभ्यां परिच्छेत्तु प्रक्रमते-ते चेति। अन्ययोगव्यव- च्छेदं तावदाख्याति-कैवल्य इति। तेषामलंकाराणां कैवल्ये गुणसाह ह चर्य्या भावे काव्यशोभाकलनाक्षमत्वादित्यर्थः । अयोगं व्यवच्छिनत्ति -- ओज :-
Page 90
७० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति॥ तदतिशयहेतवस्त्वलंकाराः ॥ २।।
तस्याः काव्यशोभाया अतिशयः तदतिशयः, तस्य हेतवः। तु- शब्दो व्यतिरेके। अलंकाराश्च यमकोपमादयः। अत्र श्षोकौ- 'युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव। . विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ।। यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ।।' पूर्वे नित्याः ॥३ ॥
पसादादीनां त्विति। केवलानाम् अलंकारासहचरितानाम्। अम्त्यवेति संबन्धः । अलंकारपद प्रवृत्तिनिमित्तमावेदयितुमाह-तदतिशयहेतव इति। जडबु- द्विषु जातानुग्रहो विग्रहमाह-तस्या इति। तुशब्द इति। व्यतिरेको भेदः। 'तुः'स्याद्वेदेऽवधारणे' इत्यमरः । अमुमेवार्थमन्वयव्यतिरेक्ाभ्यामभियुक्तसवादेन द्रदयति-अत्र इलो- काविति। शुद्धाः अलंकारासंकलिता गुणा ओजःप्रसादादयो लावण्यादयश्च यस्य तत्। गुणमात्रविशिष्टमपि काव्यं युवते रूपमिव। स्वदते रोचते रसिके- भ्य इति शेष। निरन्तराभिः निबिडाभिः । अलंकाराः यमकोपमादयः कटकाद- यश्च, तेषां विकल्पाः विच्छित्तय., तेषां कल्पनाभिः रचनाभिः । विहितप्रणयं रचितानुबन्धं सत् काव्यं युवते रूपमिव अतीवातिमात्रं म्वदते इत्यन्वयमुक्त्वा व्यतिरेकमाह-यदीति। वंचः काव्यात्मकं गुणेभ्यशच्युत यदि, तद्वचो यौवन- वन्ध्यं लावण्यशून्यम् अङ्गनाया वपुरिव भवति। तदा जनदयितान्यपि लोक- प्रियाण्यपि अलंकरणानि नियतमवश्यं दुर्भगत्वं सौन्दर्यवैधुर्यादनादरणीयत्वं संश्र- यन्ते इति श्लोकद्वयार्थः ।
Page 91
अ. २.] कामधेनुसहिता। ७१
पूर्वे गुणा नित्याः, तैविंना काव्यशोभानुपपत्तेः । एवं गुणालंकाराणां भेदं दर्शयेत्वा शब्दगुणनिरूपणार्थमाह- ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्यो- दारतार्थव्यक्तिकान्तयो वन्धगुणाः ॥४ ॥ बन्धः पदरचना, तस्य गुणाः बन्धगुणाः ओजःप्रभृतयः। 'विरुद्धधर्माध्यासो भावं भिन्द्ात्' इति न्यायेन नित्यत्वानित्यत्वाभ्यामपि गुणालंकारभेदः सिद्ध इति दर्शयितुमाह- पूर्वे नित्या इति। पूर्वे गुणा नित्या इत्युक्ते अन्ये पुनरलंकारा अनित्या इति गम्यत एव। गुणानां नित्यत्वे हेतुः - ते्विनेति। गुणान्वयव्यतिरेकानुविधायित्वात् काव्यशोभाया इत्यर्थः ।
एवमभेदमतं खण्डितम्। अथोक्तानुवादपूर्वकमुद्देशसूत्रमुदीरयति- एव- मिति। शब्दगुणेति। शब्दनिष्ठा गुणाः शब्दगुणा. । वस्तुतो रीतिधर्मत्वेऽपि गुणानामात्मलाभस्य शब्दार्थाधीनत्वात् तम्य निरूप्यत्वाच्च शब्दार्थधर्मत्वमुपचा- रादुक्तम्। अथेदानी मुख्यया वृत्त्या रीतिधर्मत्वमिति आत्मसिद्धान्तमाविष्कुर्वन् सौत्र पदं व्याकरोति- बन्धः पदरचना, तस्य गुणा इति। नं तु शब्दा- र्थयोरिति शेषः । एवं च सति उपक्रमोपसंहारलिङ्गैर।चार्यतात्पर्यपर्यालोचनाया- मात्मभूतरीतिनिष्ठा गुणा: तच्छरीरभूतशब्दार्थनिष्ठाः पुनरलंकारा इति निश्चीयते। अतो मन्यामहे- गुणत्वादोजःप्रभृतीनामात्मनि समवायवृत्त्या स्थिति, अलं- कारत्वाद्यमकोपमादीनां शरीरे संयोगवृत्त्या स्थितिरिति ग्रन्थकारस्याभिमतम् इति। न ह्यविपश्चिदपि कश्चिदभिजानीयादभिवदेद्वा- गुणनामात्मनि रीता- विव, अलकाराणां शरीरभूते शब्दार्थयुगले समवनृत्त्या स्थ रिति। एवं च गुणालंकाराणामुभयेषामपि समवायवृत्या स्थितिरित्यांभमन्यमानै, 'भेदाभि- धानं 'गण्डुरिकाप्रवाहनयेन' इति यदुक्तम्, तन्निरस्तम्। किंच, 'रीतिरात्मा
1 गड्डलिकेति पाठान्तरम्। गड्डलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छ- ति। इतरास्तु विनैव विमित्तविचार तामनुगच्छन्ति। तथा केनाप्यालकारिकेण गुणालकारौ
Page 92
७२ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
काव्यस्य' इति शब्दार्थयुगलकाव्यशरीरस्य रीतिमात्मानमुपपाद्य, 'विशिष्टा पदरचना रीतिः' इति रीतिं लक्षयित्वा, 'विशेषो गुणात्मा' इति गुणमात्रस्यै- वात्मभूतरीतिनिष्ठत्वे प्रतिष्ठापिते यमकोपमादीनामलंकाराणां तच्छरीरभूतशब्दा- र्थनिष्ठत्वमर्थात्समर्थित भवति। अत एवौजःप्रसादादीनां गुणत्वं यमकोपमादी- नामलंकारत्वमिति च व्यपदेशभेदोऽप्युपपद्यत । एवच सति 'पूर्वे नित्याः' इति सूत्रे गुणानां नित्यत्वम् अलंकाराणाम् अनित्यत्वमासूत्रयता सूत्रकृता गुणानां काव्यव्यवहारप्रयोजकत्वमुक्तं भवति। यथा च परमते व्यङ्गचस्य प्राधान्ये ध्वनिरुत्तमं काव्यम्, गुणभावे गुणीभूतव्यङ्गयं मध्यमं काव्यम्, संभावनामाते चित्रमवरं काव्यमिति काव्यभेदाः कथिताः ; तथात्रापि गुणसामग्रचे वैदर्भी, अविरोधिगुणान्तरानिराधिन ओजःकान्तिभूयिष्ठत्वे गौडीया, माधुर्यसौकुमार्यप्रा- चुर्ये पाञ्चालीति काव्यभेदाः कथ्यन्ते। रीतिध्वनिवादमतयोरियांस्तु भेद :- तत्न प्रथमे रीतिरात्मा काव्यस्य; तद्व्यवहारप्रयोजका गुणाः। चरमे तु ध्वनिरात्मा; स एव तद्वयवहारप्रयोजक इति। उभयत्राप्यात्मनिष्ठा गुणाः । शब्दार्थयुगलं शररिम् ; तन्निष्ठा अलङ्कारा इति च सर्वमविशिष्टम्। ततश्च किं समस्तैर्गुणैः काव्यव्यवहारः? उत कतिपयैः? यदि समम्तैस्तत्; कथमसमस्तगुणा गौडीया पाञ्चाली वा रीतिः काव्यस्यात्मा। अथ कतिपयेः; 'अद्रावत्र प्रज्वलत्यमनिरुच्चैः प्राज्य: प्रोद्यन्नुल्लसत्येष धूमः' इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहार- प्राप्ति: ।स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि। अस्या रदच्छदरसो न्यक्वरोतितरा सुधाम्' इत्यादौ गुणनैरपेक्ष्येण विशेषोक्तिव्यतिरेकालङ्कारयोरेव काव्यव्यवहार- प्रयोजकत्वं च दृश्यते' इति स्वसंकल्पमान्नकल्पितविकल्पाना नावश्यमवकाशं पश्याम :• अथापि यदि पाण्डित्यकण्डूलवैतण्डिकचण्डिम्ना चिखण्डयिषा परस्य, तर्हि स्वमतं पृष्टः स्वयमेवाचष्टाम्; 'तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि' इति काव्यसामान्यलक्षणे शब्दार्थयोर्गुणसाहित्यमिप्यते। 'काव्यम्यात्मा रसः' इति चोच्यते। तन्न किं गुणसमष्टिविशिष्टं काव्यम्? तद्वघष्टिवि-
केनचिदभिप्रायेण भिन्नतयोक्तौ। इतरे तु हेतुविचार विनैव तदनुमारेण तद्भेद वदन्तीति' तस्या भिप्रायः ।'गड्डरिका अज्ञातप्रवाहागमस्थानो धारावाहिकाप्रवृत्ता नदीविशेष इति केचित्। मेषयूथैरनुगम्यमाना मेषीत्यन्ये। तन्न्यायन भ्रान्तपरम्परयैव भेदो व्यर्वह्ियते' इति तु च्र वर्तिप्रभृतय।
Page 93
अ. १.] कामधेनुसहिता। ७३
तान् क्रमेण दर्शयितुमाह- गाढबन्धत्वमोजः ॥५॥ बन्धस्य गाढत्वं यत्, तत् ओजः । यथा -- 'विलुलितमकरन्दा मञ्जरीरनर्तयन्ति' । न पुनः 'विलु- लितमधुधारा मञ्जरीर्लोलयन्ति।' शैथिल्यं प्रसाद: ॥ ६ ॥ बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः। नन्वयमोजोविपर्ययात्मा दोष:, तत् कथ गुण इत्यत आह- गुणः संप्लवात् ॥७॥
शिष्टं वा? नाद्यो निरवद्यः, एकैकगुणोदाहरणेषु काव्यत्वाभावप्रसङ्गात् गुणस- मष्टिवैशिष्टचाभावात्। न द्वितीयः, वस्त्वलंकारध्वनिषु गुणिनो रसस्याभावेन गुणस्यैवाभावात्। किंच, किं सर्वे रसा: संभूय काव्यात्मीभवन्तिः उत एको रसः? आद्ये न कुत्रापि काव्यात्मसंभावना, विरोिरसानामैकाधिकरण्यासंभवात्। द्वितीये वस्त्वलंकारध्वनिषु रसासंभवात् आत्मविधुरेषु काव्यव्यवहाराभावप्रसङ्ग इत्यलं परमतदोषोद्धाटनपाटवप्रकटनेन। प्रकृतमनुसरामः । उद्देशकमादमीषां गुणानामसाधारणघर्मानाख्यातुमारभते-तान् क्रमेणे- ति। बन्धस्य पदरचनायाः गाढत्वं कनकशलाकावयवघटनवान्निबिडत्वम्। तन्र हेतव :- संयुक्ताक्षरत्वम्, निरन्तररेफशिरस्कैर्वर्गाणां प्रथमद्वितीयैस्वृतीयचतुर्थैः प्रथमैस्तृतीयैश्च संयोगाः, विसर्जनीयजिह्वामूलीयोपध्मानीयाः, गुर्वन्तता, समासा- श्र, इत्येवमादयस्तरतमभावेनावस्थिताः। तत्रोदाहरणप्रत्युद : दर्शयति- यथेति। उभयत्न गाढत्वशैथिल्ये स्फुटे। शैथिल्यमिति। अस्य वृत्तिः स्पष्टार्था । शिथिलत्वमोजोगुणविपर्ययरूपम्। तदात्मकत्वे प्रसादस्य दोषत्वमेव स्या- दिति परशङ्कां प्रस्तुत्य तां पराकर्तुमनन्तरसूत्रमवतारयति- नन्विति। संप्रवो . 10
Page 94
७४ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
गुण: प्रसाद:, ओजसा सह संप्रवात्। शुद्धस्तु दोष एवेति नतु विरुद्धयोरोजःप्रसादयोः कथ संपुव इत्यत्राह- स त्वनुभवसिद्धः ॥ ८॥ स तु संप्ुवस्तु अनुभवसिद्ध: तद्विदां रव्नादिविशेषवत्। अत्र क्कोक :- 'करुणप्रेक्षणीयेषु संप्ुवः सुखदुःखयोः। यथानुभवतः सिद्धस्तथैवौजःमसादयोः ॥' साम्योत्कर्षौ च ।। ९ ।। साम्यमुत्कर्षश्रौजःपसादयोरतुभवादेव। साम्यं यथा-'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दच्वा यूने सितातपवारणम्।'
मेलनम्। प्रसादो गुणो भवत्येव, ओजसा गुणेन सह संप्रवात्। तदमिश्रं तु शैथिल्यं दोष एवेत्याह- शुद्धस्त्विति।
संभवतीति शङ्कामनूद्यानन्तरसूत्रेणापवदितुमाह-नन्विति। व्याचष्टे-स तु संप्लव इति 1. रत्नविशेषवत्परीक्षानुभवसाक्षिक इत्यर्थः । विरुद्धयोरपि कचित्संप्रवः संभवतीत्यभियुक्तोक्तिमभिदर्शयति- करु- जेहि। यीनि करुणानि कारुण्यावहानि यानि मनोज्ञानि च वस्तूनि, तेषु युगपद- नुभूयमानेषु समसमयसमुत्पन्नयोः सुखदुःखयोः संप्लवो यथा अनुभवतः स्वसं- वेदनात् सिद्धः, तथा ओजःप्रसादयोरपि संप्नवः स्वसंवित्संवेद्यतया सिद्ध इति श्रोकार्थः । अत्र ओज:प्रसादयो: साम्ये पर्यायतः प्रकर्षे च प्रसादस्त्रिप्रकारो भवति। ते च प्रकारा अप्यनुभवगम्या इति दर्शयितुमाह-साम्योत्कर्षौ चेति। क्रमेण त्रिविधं प्रसादमुदाहृत्य दर्शयति-साम्यं यथेति,। 'विषयव्यावृत्ता-
Page 95
अ. १.] कामधेनुसहिता ७५
क्वचिदोज: प्रसादादुत्कष्टम्। यथा-'्रजति गगनं भल्लात- क्या: फलेन सहोपमाम्।' क्वचिदोजसः प्रसादस्योत्कर्षः। यथा- 'कुसुमशयनं न प्रत्यग्रं . न चन्द्रपरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः।' मसृणत्वं श्ेषः ।। १० ।। मसृणत्वं नाम तत्, यस्मिन् सति बहून्यपि पदान्येकवद्भासन्ते। यथा- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगा- धिराजः।' न पुनः 'सूत्रं ब्राह्ममुरःस्थले।' 'भ्रमरीवल्गुगीतयः।''तटि- त्कलिलमाकाशम्' इति। एवं तु श्लेषो भवति 'ब्राह्मं सूत्रमुरःस्थले।' 'भ्रमरीमञ्जुगीतयः ।' 'तटिज्जटिलमाकाशम्।' इति। मार्गाभेदः समता ॥ ११ ॥ त्मा-' इत्यादावोजः, 'यथाविधि सूनवे' इत्यादौ प्रसादः। भिन्नदेशयोरप्योजः- प्रसादयोः परस्परच्छायानुकारितया संप्लवः । उभयोरत्र साम्यं वेदितव्यम्। ओजसः प्रसादादुत्कर्षमुदाहरति-त्रजतीति। भल्लातकी नाम वीरवृक्षः।'बीरवृ- क्षोऽरुप्करोडभिमुखी भल्लातकी त्रिषु' इत्यमरः । 'कुसुमशयनम्' इत्यत्र प्रसा- दस्योत्कर्षो द्रष्टव्यः । श्लेष विशदयितुमाह- मसृणत्वं श्षेष इति। मसृणत्वं विशिष्य दर्श- यति-यस्मित्निति। यत्र हि व्यासेऽपि समासवदवभासः स श्लेषः' 'अस्त्यु- तरस्याम्' इति सामान्येनोदाहरणमुक्त्वा श्लेषस्य व्यतिरेकमुखेनान्वयमाविष्क- रोति-न पुनरिति। 'सूत्रं ब्राह्ममुरःस्थले,' 'भ्रमरीव "तियः,' तटित्क- लिलमाकाशम्' इत्यत्र शलेषः पुनर्नास्तीति संबन्धः । मूत्रं ब्राक्कमित्यत्र परस- वर्णेऽपि परुषाक्षरोत्थानान्न श्रेषः । तर्हि कीदृशि विन्वासे श्रेषो भवतीत्यत आह- एवं त्विति। अस्य गुणस्य विपर्ययो विसन्धेर्वाक्यदोषस्य विक्रेषात्मा भेदः । समतां समाख्यातुमाह-मार्गाभेद इति। आदिमध्यावसानेष्वैकरूप्यं
Page 96
७६ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
मार्गस्य अभेदः मार्गाभेद: समता। येन मार्गेणोपक्रमः, तस्य अत्याग इत्यर्थ:, श्रोके प्रबन्धे जेति। पूर्वोक्तमुदाहरणम्। विपर्ययस्तु यथा -- 'प्रसीद चण्डि ! त्यज मन्युमन्जसा जनस्तवायं पुरतः कृताञ्जलिः। किमर्थमुत्कम्पितपीवरस्तन- दूयं त्वया लुप्तविलासमास्यते ।।' आरोहावसेहक्रमः समाधिः ॥ १२ ॥ आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः। आरोहस्यावरोहे सति परिहारः, अवरोहस्य वा आरोहे सतीति। तत्रारोहपूर्वकोऽवरीहो यथा- 'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे।' अवरोहपूर्वकस्त्वारोहो यथा-'नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः।' समतेत्यर्थः । तस्या विषयं दर्शयति- श्लोके प्रबन्धे चेति। किमत्रोदाहर- णमिति चेदाह- पूर्वोक्तमिति। अम्त्युत्तरस्यामित्यादि। प्रत्युदाहरणमाह- विपर्ययस्त्विति। प्रसीद त्यजति कर्तृवाचितया प्रक्ान्तस्य मार्गस्व आस्यत इत्यत्र त्यागान्न. समता। पञ्चमं गुणं प्रपश्चयितुमाह-आरोहावरोहक्रम इति। अत्र स्वा- भिमूतं तांवदेकमर्थ लक्षणवाक्यस्य समर्थयते- समाधिः परिहार इति। अव- रोहे प्रवर्तमाने सत्यारोहस्य प्रवृत्तम्य परिहारः परित्यागः; आरोहे च सत्यवरोहस्य परिहारः; आरोहावरोहयोर्विरुद्धत्वेन यौगपद्यासंभवादिति भावः । दीर्घादिगुर्व- क्षरप्राचुर्ये आरोहः। लध्वादिशिथिलप्रायत्वे चावरोह इति द्रष्टव्यम्। तथा च आरोहपूर्वकोऽवरोहः, क्वचिदवरोहपूर्वक आरोह इति समाधेर्वैविध्यमुक्तं भवति। तत्राद्यमुदाहरति-आरोहपूर्वक इति। 'निरानन्दः कौन्दे' इत्यत्र गुर्वक्षरबाहुल्या- दारोहः। मधुनीत्यत्र लंध्वक्षरप्राचुर्यादवरोहः। द्वितीयमुदाहरति-अवरोहपूर्वक
Page 97
अ. १.] कामधेनुसहिता। ७७
आरोहस्य क्रमः अवरोहस्य च क्रमः, आरोहावरोहक्रमः; क्रमे- णारोहणमवरोहणं चेति केचित्। .- यथा-'निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति।' न पृथगारोहावरोहयोरोजःप्रसाद- रूपत्वात् ॥ १३ ॥ न. पृथक् समाधिर्गुणः, आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजोरुपश्चारोहः, प्रसादरूपश्चावरोह इति। . नासंपृक्तत्वात् ॥ १४ ॥ यदुक्तमोजःपरसादरूपत्वमारोहावरोहयोः, तन्न; असंपृक्तत्वात्। संपृक्तौ खल्वोज:प्रसादौ नदीवेणिकावद्वहतः । lncvn अनैकान्त्याच्च॥ १५ ।। न चायमेकान्तः नियमः; यदोजस्यारोहः ; प्रसादे चावरोह इति। इति। नरा इत्यत्र शैथिल्यादवरोहः। शीलभ्रष्टा इत्यत्र गुर्वक्षरप्रचुरत्वादारोहः।
इति। निःश्रेणिकारोहावरोहन्यायेन क्रमेणारोहणम्, क्रमेण चावरोहशमिति लक्ष- णवाक्यार्थः । उदाहरति-निवेश इति।'निवेशः सःसिन्धोः' इत्यत्र नि.श्रेणि- काक्रमेणारोहः । 'तुहिनगिरि -- ' इत्यत्रावरोहः । ननु लक्षणवाक्यार्थपर्यालोचनया समाधेरोजःप्रसादानतिरेकान्न, पृथक्त्व- मिति शङ्कामङ्कुरयितुमुत्तरसूत्रमुपक्षिपति- न पृथगिति। व्याचष्ट-'न पृथक् समाधिरिति। आरोहावरोहावोज:प्रसादरूपौ न भवतः, पृक्तत्वात् अत. परस्पर- च्छायानुकारितया संपृक्त्तयोरोज:प्रसादयोरन समाधिरन्नभवतीत्यभिसंधाय सिद्धा- न्तसूत्रं व्याचष्टे -- यदुक्तमिति। संपृक्तत्वं सदृष्टान्तमुपपादयति-संपृक्तौ ख- ल्विति। संपृक्त्तसरिद्ठयसलिलन्यायेन संपृक्तावोज:प्रसादाविति तद्विलक्षणयोरारो-
Page 98
७८ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
ओजःप्रसादयोस्तीव्रावस्था ताविति चेदभ्युंपगमः ॥ १६ ॥ ओजःप्रसादयोः क्वचित्तीव्रावस्था। सा च आरोहावरोहाख्येत्येवं चेन्मन्यसे; अभ्युपगमः न विप्रतिपत्तिः। विशेषापेक्षित्वात्तयोः ॥ १७॥ स विशेषो गुणान्तरमेव। ननु न केवलं नदीद्वयवेणिकान्यायेनौजःप्रसादयोः साम्येनावस्थितिः, किंतु 'साम्योत्कर्षो च' इत्युक्तत्वात्समुद्रकस्थमणि प्रभासमूहन्यायादुच्चावचभावेन स्थितिः । तस्मिन् पक्षे कथमयं समाधिः पृथग्गुण इति शङ्कामपनेतुमाह- अनैकान्त्याच्चेति। ओजःप्रसादयोरारोहावरोहसाह चर्यनियमो न संभवति, व्य- भिचारात्। न्यभिचारस्तु, 'उद्गच्छदच्छसुभगच्छविगुच्छकच्छम्' इत्यादौ, 'यतो यतो निवर्तते ततस्ततो विमुच्यते' इत्यादौ च आरोहशून्यस्यौजसः, अव- रोहशून्यस्य प्रसादस्य च स्थितत्वादित्यभिप्रायः । नन्वारोहावरोहावोज:प्रसादयोरवस्थाविशेषौ स्याताम्; अतो न पृथक् समाधिरिति यदि चोद्ेत, तर्हि समाधेर्दत्तो हस्तावलम्ब इति दर्शयितुमनन्तरसूत्र- मवतारयति -- ओजःप्रसादयोस्तीव्रावस्था ताविति। शङ्कांशं संकलय्य द- र्शयति-ओजःप्रसादयोः कचिदिति। सा चेति। सा च तीव्रावस्था। आ- रोहावरोहाख्येति। कारणे कार्यत्वमुपचर्योक्तम् ; यद्वक्ष्यति- 'विशेषापेक्षि- त्वात्' इति, 'आरोहावरोहनिमित्तम्' इति च । अनुपचारे तु 'विशेषरूपत्वात्' इति, 'आरोहावरोहौ' इति च ब्रूयात्। ओजःप्रसादयोस्तीव्रावस्था आरोहावरोह- यो: कारणमित्यर्थः । अनिष्टमापादयन् भवानभीष्टमेवाचष्टे इत्याह-अभ्युपग- म इति। परोक्तम्याभ्युपगमे पर्यवसितमर्थ समर्थयितुमाह-विशेषेति। विशेषः तीव्रावस्थात्मा, तमपेक्षितुं शीलमनयोरिति विशेषापेक्षिणौ तयोर्भवस्तत्वं तस्मात्। आरोहावरोहाभ्यामोज:प्रसादयोस्तीव्रावस्था हि स्वनिमित्तत्वेनापेक्षिता। सोऽय- मोज:प्रसादव्यतिरेकेण समाधिरन्यो गुण इति सूत्रार्थः ।'
Page 99
अ. १. कामधेनुसहिता। ७९
आरोहावरोहनिमिनं समाधिराख्यायते ॥ १८ ॥ आरोहावरोहक्रमः समाधिरिति गौण्या वृत्या व्याख्येयम्। क्रमविधानार्थ वा ॥ १९ ॥ पृथक्करणमिति। पाठधर्मश्र न संभवतीति 'न पाठधर्माः सर्व- त्रादृष्टेः' इत्येवं वक्ष्यामः। पृथक्पदत्वं माधुर्यम् ॥ २० ॥ बन्धस्य पृथक्पदत्वं यत्, तत् माधुर्यम्। पृथक् पदानि यस्य स पृथक्पदः, तस्य भावः पृथक्पदत्वम्। समासदैध्यनिषृत्तिपरं चैतत्। पूर्वोक्तमुदाहरणम्। विपर्ययस्तु यथा- 'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकि- तवराहव्याकुला विन्ध्यपादाः।' नन्वमुमर्थमभिधातुं समाधिलक्षणवाक्यं न क्षमत इत्याशङ्कय गौणवृत्ति- राश्रयणीयेत्याह-आरोहावरोहेति। क्रमपदेन तन्निमित्तं लक्ष्यत इत्यर्थः । ननु अवस्था पुनरवस्थावतो यदा न भिद्यते, तदा तीव्रावस्था ओजःप्र- सादात्मिकैव भवति। यद्यपि यद्यत् ओजः, तत्तत् आरोह इति नास्ति नियमः; तथापि यो य आरोहः, तत्तत् ओज इति भवति। ततः सत्युं न समाधिना प्रसाद: सवीक्रियते, प्रसादेन च समाधिः संग्रृह्यत एवेति किमर्थमस्योपादानमि- त्यत आह-क्रमविधानर्थि वेति। नात्र कमः परस्परम्; अपि तुं क्रमेण- रोहणं क्रमेणावरोहणमित्येवरूपः क्रमो ज्ञेयः । नन्वारोहावरोहक्रमः पाठधर्मः किं न स्यादिति चोदं वक्ष्यमाणयुक्त्या विघटितमित्याह-पाठ केति। माधुर्यमवधारयितुमाह-पृथक्पदत्वमिति। सूत्रार्थ, विविङ्के-बन्ध- स्येति। अव्याप्तिं परिहरति- समासदैध्यनिवृत्तिपरमिति। पूर्वोक्तमिति। 'अस्त्युत्तरस्याम्' इत्यादयुदाहरणम्। प्रत्युदाहरणमाह- विपर्ययस्त्विति। समासपददैर्ध्यात् विपर्ययः । दन्तं धृतम्।
Page 100
८० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अजरठत्वं सौकुमार्यम् ॥२१॥ बन्धस्य अजरठत्वम् अपारुष्यं यत्, तत् सौकुमार्यम्। पूर्वो- क्तमुदाहरणम्। विपर्ययस्तु यथा-'निदानं निर्दैतं प्रियजनसदक्त्वव्यवसितिः सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि।' विकटत्वमुदोरता॥ २२ ॥ बन्धस्य विकटत्वं यत्, असौ उदारता। यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति, तत् विकटत्वम्, लीलायमान- त्वमित्यर्थः ।
सीत्तत्र चित्रं कलं च।' न पुनः- 'चरणकमललग्नैर्नूपुरैनर्तकीनां झटिति रणितमासी- न्मञ्जु चित्रं च तत्र।' अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ २३ ॥ पत्र झटित्यर्थप्रतिपत्तिहेतुत्वम्, स गुणः अर्थव्यक्तिरिति । पूर्वो- क्तमुदाहरणम्। प्रत्युदाहरणं तु भूयः सुलभं च। सौकुमार्य पर्यालोचयितुमाह-अजरठत्वं सौकुमार्यमिति। बन्धस्य अजरठत्वं कोमलत्वम्, श्रुतिसुखत्वमिति यावत्। पूर्वोक्तमिति। 'अम्त्युत्तरस्याम्' इत्मादयुदाहरणम्। प्रत्युदाहरणमाह-विपर्ययस्त्विति। सौकुमार्यम्य विपर्ययः कष्टत्वभिन्नवृत्तत्वे। निर्द्वैत संशयाभावः । अत्र निर्द्वैतमिति कष्टम्। उदारतामुदीरयितुमाह-विकटत्वमिति। क्रमशो वर्धमानाक्षरपदत्वम्, पद प्रथमाद्यक्षराणां पदान्तरप्रथमाद्यक्षरेः सादृश्यं च। उदाहरणप्रत्युदाहरणे दर्श- यति- यथेति। अर्थव्यक्तिं समर्थेयितुमाह-अर्थव्यक्तीति। वृत्तिः स्पष्टार्था। पूर्वोक्तम् 'अस्त्युत्तरस्याम्' इति। सुलभ चेति। 'सपदि पङ्किविहक्कमनाम' इत्यादि।
Page 101
अ. १.] कामधेनुसहिता। ८१
औज्जवल्यं कान्तिः ॥। २५।। बन्धस्योज्ज्वलत्वं नाम यत्,असौ कान्तिरिति ; तदभावे पुराण- च्छायेत्युच्यते। यथा- 'कुरङ्गीनेत्रालीस्तवकितवनालीपरिसरः।' विपर्ययस्तु भूयान सुलभक्ष। श्रोकाश्चात्र भवन्ति- पदन्यासस्य गाढत्वं वदन्त्योज: कवीश्चराः। अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम्॥ इलथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते। अनेन न बिना सत्यं स्वदने काव्यपद्धतिः।। यत्रैकपढवद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स श्लेषः परमो गुणः ।। प्रतिपादं प्रतिश्षोकमेकमार्गपरिग्रहः । दुर्वन्धों दुर्विभावश्च समतेति मतो गुणः ॥ अव्यवहितान्वयप्रसिद्धार्थपदत्वे हि भवत्यर्थव्यक्तिः । अस्य च विपर्ययः- हि भवति नार्थव्यक्तिः । यत्र च भवति, तत्न 'असाधुरनुमानन.वाचकः कै्चि- दिप्यते' इत्युक्तत्वादसाधुशब्द साधुशब्दानुमानद्वारेणार्थबोधक इति नार्थ- व्यक्ति। पूरणार्थमव्ययंच कस्मादस्य प्रयोग इति संदेहावहत्वादर्थत्यक्तिं व्यवदधाति। यतिभ्रंशे च अर्थव्यक्तिहतिः । एवमन्यत्रापि द्रष्टव्यम्॥ कान्तिं कथयितुमाह-औज्ज्वल्यमिति "त्रमितति पकवये किसल- यमित्यादि, जलधाविति वक्तव्ये अधिजलधीति, राशाते वक्तव्ये राजनीति, कमलमिवेति वक्तव्ये कमलायत इत्यादि: कान्तिहेतुः। विपर्ययस्य विषयं दर्श- यति-तदभाव इति। अत्र संवादं संदर्शयन्, अमून् गुणान् अन्यक्रोकैरु- पश्लोकयति- पद्न्यांसस्येत्यादि। क्रोकाः स्पष्टार्थाः । 11
Page 102
८२ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
आरोहन्त्यवरोहन्ति क्रमेण यनयो हि यत्। समाधिर्नाम स गुणस्तेन जवा सरखवती।। बन्धे पृथक्पदत्वं च माधुर्यमुदितं युषैः। अनेन हि पदन्यासाः कामं धारामधुश्च्युतः॥ बन्धस्याजरठत्वं व सौकुमार्यमुदाहृतम्। एतेन वर्जिता वाचो रूक्षत्वात्र श्रुतिक्षमाः ॥ विकटत्वं च बन्धस्य कथयन्ति हुदारताम्। वैचित्र्यं न प्रपद्यन्ते. यया शून्याः पदक्रमाः ॥ पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्ति: स्मृतो गुणः॥ औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः। पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥ यथा विच्छिद्यते रेखा चतुरं चित्रपण्डितैः। तथैव वागपि प्राज्ैः समस्तगुणगुम्फिता॥ नासन्तः संवेद्यत्वात् ॥ २६ ॥ न खलवेते गुणा असन्तः, संवेद्यत्वात्तद्विदाम्। संवेद्यत्वेऽपि भ्रान्ताः स्युरित्यत आह- न भ्रान्ता निष्कम्पत्वात् ॥ २७ ॥ •नन्वेते गुणा: ससंकल्पनामात्रसाराः, रूपरसादिवदपरोक्षतया अधिगन्तुम- शक्यत्वादिति शङ्कामुट्टक्कयितुमाह-नासन्त इति । अयमर्थः- ओज :- प्रमुखा एते गुणाः, असन्तः तुच्छा न भवन्ति। कुतः: संवेद्यत्वात्। सहृद- यसंवेदनस्य विषयत्वात्। असर्वजनीनत्वादियं प्रतीतिर्भ्रान्तिरेव किं न स्यादिति शङ्कामङ्कुरयित्वा समुन्मूलयितुमाह-न भ्रान्ता इति। निष्कम्पत्वात् असर्वजनीनत्वेऽप्यना- धितत्वादित्यर्थ: ॥
Page 103
अ. १.] कामधेनुसहिता। ८३
न गुणा भ्रान्ता:, एतद्विषयायाः पृत्तेर्निष्कम्पत्वात्। न पाठधर्माः सर्वत्रादष्टेः ॥ २८॥ नैते गुणा: पाठधर्माः, सर्वत्र अदृष्टेः । यदि पाठधर्माः स्युः, तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन्। न च सर्वत्र दृश्यन्ते। विशेषापे- क्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति।
इति काव्यालंकारसूत्रवृत्तो गुणविवेचने तृतीयेऽ्धिकरणे प्रथमोऽध्यायः॥
ओजःप्रमुखा गुणाः पाठधर्मा इति प्रत्यवस्थातारं प्रत्याह -- न पाठ- धर्मा इति। व्याचष्टे-नैते गुणा इति। सर्वत्र, उदाहरणे प्रत्युदाहरणे च। पाठधर्मत्वे बाधकमाह- यदि पाठधर्माः स्युरिति। सतृदयसंविदालम्बनतया विशेषाः केचिदपेक्षणीयाः त एव विशेषा गुणा इत्यभ्युपगन्तव्या इति।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति- व्याख्याया काव्यालकारकामधेनौ गुणविवेचन नाम तृतीयेऽधिकरणे प्रथमोऽध्यायः॥
R. A CHIMA:TUTE. MVIAPRD MADRAS-A
Page 104
CIF :OIPUSWAMY SASiEdL, Pr FARCH INSTITUTE. VORE MADRAS-4:
शब्दगुणविवेके कृते संप्रत्यर्थगुणविवेचनार्थमाह- त एवार्थगुणाः ॥ १॥ त एव ओजःप्रभृतयः अर्थगुणाः। वाच्यवाचकद्वारेण शब्दार्थगुणानां भेदं दर्शयति- अर्थस्य प्रौढिरोज: ॥ २ ॥ अर्थस्याभिधेयस्य मौठिः मरौढत्वं यत् तत् ओजः। पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा। मौढिर्व्याससमासौ च साभिप्ायत्वमस्य च।।
द्यौः।' पदार्थे वाक्यवचनं यथा-'अथ नयनसमुत्थं ज्योतिरत्रेरिव
का रुण्य संपदु त्कूललावण्यगुणशालिनीम्। स्वच्छस्वच्छन्द्वाचालां भावये हृदि भारतीम् ॥१॥ शब्दगुणविवेचने कृते लब्धावसरमर्थगुणविवेचनमिति संगतिमुल्लिङ्गय- न्ननव्तरसूत्रमवतारयति-शब्दगुणविवेक इति। शब्दगुणा एव चेदर्थगुणाः, किमनेन विधान्तरविधानव्यसनेन, लक्षितत्वात्तेषामित्याशङ्कच, शब्दार्थगुणानां नामतो भेदाभावेऽपि शब्दार्थोपक्लेष- वशादस्ति भेद इत्माह- वाच्येति। प्रागुद्देशपरिपाट्या प्रथमप्राप्तमोजः प्रतिपादयितुमाह- अर्थस्येति। वृत्तिः स्पष्टार्था । प्रौढिं पद्येन पञ्चधा प्रपञ्चयति-पदार्थ इति। तत्राद्यमुदाहरति-
Page 105
अ. २.] कामधेनुसहिता। ८५
अत्र चन्द्रपदवाच्येऽर्थे 'नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयुक्तम्। पदसमूहश्च वाक्यमभिमेतम्। अनया दिशा अन्यदपि द्रष्टव्यम्। तद्यथा- पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपद
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति ।' न चैवमतिप्रसङ्ग:, काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याच- स्थिनत्वात्। वाक्यार्थे पदाभिधानं यथा-'दिव्येयं न भवति, किंतु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति।
पदार्थ इति। लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-चन्द्रपदेति।'तिङ्सुबन्त- चयो वाक्य क्रिया वा कारकान्विता' इत्युक्तलक्षणं वाक्यं न विवक्षितम्, किंतु पदसमुदायमात्रमभिमतमित्याह-पदसमूहश्चेति। अयं न्यायोऽन्यत्रापि सचारणीय इत्याह-अनयेति । अन्यदपि दर्शयति-पुरः पाण्डुच्छायमिति। स्थपुटो निम्नोन्नतः । विष्कम्भ आभोगः। अत्र कपिलमिति वक्तव्ये ·कपिलिम्ना कृतपदम्' इति, शुप्कमिति वक्तव्ये 'शनैः शोषारम्भे' इत्यादि च वाक्य प्रयुक्तमिति पदार्थे वाक्यरचना । 'दक्षात्मजाद- यितवल्लभवेदिकासु' इत्यादग्वतिप्रसङ्गं परिहरति- न चैवमिति। तत्र हेतु :- काव्यशोभाकरत्वस्येति। तत्र गुणसामान्यलक्षणाभावान्नातिप्रसङ्ग इत्यथेंः । द्वितीयां प्रौढिं द्रढयति- वाक्यार्थ इति। किमिगुत मानुषीति पृष्टः कश्चिदुत्तरमाह-निमिषतीति। अनेन मानुषधर्मनाचिना पदन-देवीयं न भवति, किं तर्हि, मानुषी- इति वाक्यार्थः प्रतिपादितो भवति। पदार्थे वाक्यम्. वाक्यार्थे पदमिति प्रौढेर्भेदाभ्यां व्याससमासौ पुनरुक्तौ स्वातामिति न शङ्कनीयंम्। तत्र हि पदार्थो वाक्यार्थताम्, वाक्यार्थश्च पदार्थतां
Page 106
८६ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अस्य वाक्यार्थस्य व्याससमासौ। व्यासो यथा- 'अय नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा न भवति भवत्येव च ततः। पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि त- त्पुनस्तस्मादूर्ध्व भवति न च दुःखं न च सुखम्।' समासो यथा- 'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसष्टाः खमुद्ययुः ॥' साभिप्ायत्वं यथा- 'सोऽयं संप्रति चन्द्रगुप्ततनयश्चन्द्रपकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्टया कृतार्थश्रमः।' आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात्साभि- प्रायत्वम्। एतेन 'रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र सुके- इ्या इत्यस्य.च साभिपरायत्वं व्याख्यातम्।
प्रतिपद्यते। इह तु वाक्यार्थस्यैव व्यासो विस्तरः, समासश्च संक्षेपो वाक्येनैवेति भेदादित्याह- अस्य वाक्यार्थस्येति। व्यासमुदाहरति-अयं नानाकार इति। अयम् अविसंवादितया अनुभूयमानः सुखदुःखव्यतिकरः, नानाकारो विचि- त्ररुधो भवतीति वाक्यार्थः । अस्चैव विस्तरः 'सुखं वा दुःखं वा' इत्यादिना कृत इति व्यासः। समासं समुन्मेषयति-ते हिमालयमिति। अत्र संक्षेपः स्फुटः । पञ्चमीं प्रोढिं प्रपञ्चयति-साभिप्ायत्वमिति। पदान्तरप्रयोगमन्तरेण तदर्थप्रत्यायनप्रागल्भ्यं साभिप्रायत्वम्। लक्ष्यलक्षणयोरानुरूप्यं निरूपयति- आश्रयः कृतधियामिति। एतेनेति। न्यायेनेति शेषः । सुकेश्या इत्यत्र कवेरभिप्रेतं केशसौष्ठवं कलापिकलापकदर्थनसामर्थ्य केशहस्तस्व समर्पयतीति
Page 107
अ. २.] कामधेनुसहिता। ८७
अर्थवैमल्यं प्रसादः ॥ ३ ॥ अर्थस्य वैमल्यं प्रयोजकमात्रपदपरिग्रहे प्रसादः। यथा- 'सवर्णा कन्यका रूपयौवनारम्भशालिनी' विपर्ययस्तु-'उपास्तां हस्तो मे विमलमणिकाश्चीपदमिदम्।' काश्चीपदमित्यनेनेव नितम्बस्य लक्षितत्वात् विशेषणस्याप्रयोज- कत्वमिति। घटना श्लेष: ।l ४ ।। क्मकौटिल्यानुल्वणत्वोपपत्तियोगो घटना। स श्षेषः। साभिप्रायत्वम्। अस्य च विपर्यय :- व्यर्थमपुष्टार्थ च । अपुष्टार्थस्व दोषत्वम् 'नापुष्टार्थत्वात्' इति सूत्रे वक्ष्यते। व्यर्थ यथा- 'श्यामां श्यामलिमानमानयत भोः' इत्यत्र श्यामाशब्दः कृप्णत्वमपि प्रतिपादयतीति श्यामलिमानमानयतेति श्या- मलिम्नः करण व्याहतमिति व्यर्थम्। 'चापाचार्य स्त्रिपुरविजयी' इत्यादौ 'तार- कारिः' इत्यस्य स्थानेऽनुप्रासानुरोधात्प्रयुक्तम् 'कार्तिकेयः' इति पदमपुष्टार्थम्। प्रसादं प्रसञ्जयितुमाह -- अर्थवैमल्यमिति। प्रयोजकमात्रपदपरिग्रह इति। विवक्षितार्थसमर्पकपदमात्रप्रयोगेऽर्थस्य यद्वैमल्यं स प्रसादः । न च पञ्चमप्रौढिप्रसादयो: को भेद इति वाच्यम्। तयोः परस्परपरिहारेण दर्शनात्। यथा- 'रतिविगलितबन्धे केशहस्ते' इत्यादौ 'कृशाङ्गयाः' इति पाठे वैमल्ये- डपि न साभिप्रायत्वम्। 'अवन्ध्यकोपम्य विहन्तुरापदाम्' इत्यादौ साभिप्राय त्वेऽपि नार्थवैमल्यम्। सवर्णेत्यादि। स्पष्टम्। अस्य विपर्ययोऽपुष्टार्थमनर्थकं च। तत्राद्यमुदाहरति-विपर्ययस्तिति। विशेषणस्याप्रयोजकत्वमिति। अपुष्टार्थत्वमित्यर्थः । अनर्थकं तु प्रागुदाहृतम्।
श्लषमुन्मेषयितुमाह-घटनेति। मणिपुत्रिकादिषु मुखाद्यवयवयोज- नेऽपि श्लेषणं घटना भवति, सा मा भूदित्याह- क्रमेति। नेत्रनिमीलनादीनां यः क्मः परिपाटी, कौटिल्यं च, तयोरनुल्बणत्वेनोपपत्त्या युक्ततया पृच्छाक्षे- परूपतया बाघाभावस्वभावतया च योजनं घटना विवक्षिता। उदाहरति-
Page 108
८८ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
यथा- दष्ट्रैकासनसंगते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तहासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' शूद्रकादिरचितेषु प्रबन्धेष्वस्य भूयान् प्रपश्चो दृश्यते। अवैषम्यं समता ॥ ५॥ अवैषम्यं प्रक्रमाभेदः समता। क्वचिद्धि प्रक्रमोऽपि भिद्यते। यथा- 'च्युतसुमनसः कुन्दाः पुष्पोद्रमेष्वलसा ड्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्वन्ते क्रमोदयदायिनीम् ।।'
दृष्ट्ेति। प्रियतमयोरेका स्वकीया, अपरा तत्सखी प्रच्छन्नानुरागा। अन्यथा नास्त्येकासनसंगतिः । निमील्यमाननयना च न द्वेप्या; तथात्वे हि 'प्रियतमे' इति कथम्।क्रीडामनुबध्नातीति क्रीडानुबन्धं तच्च तत् छलं च। विहितं क्रीडानुबन्धच्छलं नेत्रनिमीलनकापट्यं येन स तथोक्तः । अम्य विपर्ययो लोक- विरुद्धत्वम्। यथा हि मधुरायाः सौवीरेषु सत्ता, यथा मधुराया म्लोषणसत्ता, तथैव एकासने प्रसिद्धसपतन्योरवस्थिति। यथा मधौ कदम्बविकासः, तथा सपत्नी- संनिधावेकम्याः क्रीडा। यथा कलिकामकरन्दो गोप्पदपूरः, तथा क्रमेण युगप- द्वा, द्वयोरेकस्या वा निधुवनमिति देशकालस्वभावैर्विरुद्धम्। प्रबन्धान्तरेषु भूयि- छ्मुदाहरणमस्ति, तदूहनीयमित्याह- शुद्रकेति। समतां समुन्मीलयितुमाह-अवैषम्यमिति। अवैषम्यं नाम प्रक्रमा- भेदः, सुगमत्वं वा भवतीत्यभिसंधाय प्राथमिकं पक्षमुपक्षिपति -- अवैषम्यं पक्नमाभेद इति। प्रक्रमस्याभेदो भेदाभाव ; तत्प्रतिपत्तेः प्रक्रमभेदप्रतिपत्तिपूर्व- कत्वात् प्रक्रमभेदं दर्शयितुं प्रथमतः प्रत्युदाहरणं दर्शयति- कचिद्धि प्रक्रम
Page 109
अ. २.] कामधेनुसहिता। ८९
ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे पक्रमभेद:, मलयमरुता- मसाधारणत्वात्। एवं द्वितीयः पाद: पठितव्यः- 'मनसि च गिरं बध्रन्तीमे किरन्ति न कोकिला:' इति। सुगमत्वं वा अवैषम्यमिति। यथा- 'का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या। मध्ये तपोधनानां किसलयमित पाण्डुपत्राणाम्।।' प्रत्युदाहरणं सुलभम्।
अर्थदृष्टिः समाधिः ॥६॥ अथर्स्य दर्शनं दृष्टिः। समाधिकारणत्वात् समाधिः। अवहितं हि चित्तमर्थान पश्यनीत्युक्तं पुरस्तात्।
इति। अत्र प्रक्रमभेदं प्रतिपादयति- ऋतुसंधीति। ऋत्वोः शिशिरकस- न्तयोः संधिः । असाधारणलात्-वसन्तैकधर्मत्वादित्यर्थः । इदमेवोदाहरण- यितुं पाठान्तरं प्रकल्पयति- एवं द्वितीय इि। 'मनसि च गिरं बघ्नन्तीमे किरन्ति न कोकिला:' इति पाठे प्रक्रमाभेदः स्फुटः। विवेकिनोऽत शिप्या इति कथमवैषम्यं प्रक्रमाभेद इति तत्रारुच्या पक्षान्तरमुपक्षिपति- सुगमत्वं वेति। उदाहरति-का स्विदिति। अत्र सुगमत्वं सुगमम्। प्रत्युदाहरणं सुलभमिति। अम्य विपर्ययः क्रमादपक्रमं क्िष्टत्वं च। तदुभयमपि पूर्वमुदाहृतं द्रष्टव्यम् । समाधिं संप्रधारयितुमाह- अर्थदृष्टिरिति। ननु समाधिरवधानम्, दर्शनं तु ज्ञानविशेषः । कथमुभयो. सामानाधिकरण्यमित्यत आह -- समाधि- कारणत्वादिति। समाधि: कारण यस्येति बहुव्रीहि कार्यकारण ोरुभयोरभेद- मुपचर्योक्तमित्यर्थः । कार्यकारणभावमेव ज्ञापयति -- अवहितं हीति। 'चित्तै- काग्र्यमवधानम्' इति सूत्रे प्रागुक्तमित्यर्थः । 'सद्यःकृत्तद्विरदरदनच्छेदगौरै:' इत्यादौ यथा च्छेदश्छि्द्यमाने दन्तादौ पर्यवस्यति, तथा दर्शनमत्र दृश्यमानेऽर्थे पर्यवस्यतीति भवत्ययमर्थगुण. । . 12
Page 110
९० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अर्थो द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥७॥ योऽसावर्थः प्रस्तुतः, सोऽथों द्विविधः- अयोनिरन्यच्छायायो- निश्चेति। अयोनिः अकारणः, अवधानमात्रकारण इत्यर्थः । अन्यस्य' काव्यस्य च्छाया अन्यच्छाया, तद्योनिः।
तघ्था- 'आश्वपेहि मम शीघुभाजनाद्यावदग्रदशनैर्न दृभ्यसे। . चन्द्र मद्दशनमण्डलाितः खं न यास्यसि हि रोहिणीभयात् ।।' 'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं विभेषि। पायो विदग्धवनिवानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चिंत्रम् ।' अत्र पूर्वस्य श्ोकस्यार्थोऽयोनिः। द्वितीयस्य च अन्यच्छाया- योनिरिति। व्यक्तः सूक्ष्मश्च ॥८ ॥
द्वैविध्यमर्थस्य दर्शयितुमाह -- अर्थो द्विविध इति। व्याख्यातुं पूर्व- सूत्रार्थमनुवदति- योऽसाविति। अयोनिरिति न विद्यते योनिः कारणं यस्येति विग्रहमभिसंधायाभिधत्ते-अयोनिरकारण इति। कथमसति कारणमात्रे कार्योत्पत्तिरित्याशङ्कय कवित्वबीजप्रतिभोन्मेषप्रयोजकमवधानमेवात्र कारणमि त्यवंगमयितुं नञरा प्रसिद्धकारणं प्रतिषिध्यत इत्याह- अवधानेति । विधा- न्तरं व्याकरोति-अन्यस्य काव्यस्येति। तद्योनिरित्यत्र सा च्छाया योनि- र्यस्येति बहुब्रीहिः। प्रथमं भेदं दर्शयति -- आश्वपेहीति। स्पष्टमुदाहरणम्। विधान्तरं व्युत्पादयति- मा भैरिति। बिभेषीत्यत्र मत्त इत्यध्याहार्यम् । स्त्रीणां प्रियस्य पुरतः स्ववैदग्ध्यप्रकटनमुचितमेवेत्यवगन्तव्यम्। लक्ष्ये लक्षण- मवगमयति- अत्र पूर्वस्योति। पूर्वभाविना कविना कृतत्वात्। द्विविधस्याप्यर्थस्त द्वैविध्यं दर्शयितुमाह-व्यक्तः सूक्ष्मश्रेति।
Page 111
अ. २.] कामधेनुसहिता। ९१
अयोनिरन्यच्छायायोनिश्च योऽयमर्थः, स द्वेधा-व्यक्त: सूक्ष्मश्र। व्यक्त: स्फुट उदाहृत एव। सूक्ष्मं व्याख्यातुमाह- सूक्ष्मो भाव्यो वासनीयश्च॥९॥ सूक्ष्म: खलु द्वेधा भवति-भाव्य, वासनीयश्। शीघ्रनिरूप- णागम्यो भाव्य:। एकाग्रतापकर्षगम्यो वासनीय इति। भाव्या यथा- 'अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसंचलिताधेतारम्। लीलाग्रृहे प्रतिकलं किलिकिश्चितेषु व्यावर्तमाननयनं मिथुनं चकास्ति ।।'
व्याचष्टे-अयोनिरिति। व्यक्तार्थदवयस्य प्रागुक्तमुदाहरणद्वयं प्रत्येतव्यमि- त्याह-उदाहृत एवेति। सूक्ष्मविभागं दर्शयितुं सूत्रमवतारयति-मूक्ष्ममिति। विभागं व्युत्पाद- यति -- मूक्ष्मः खल्विति। भावुकानामवधानमात्रेण विमर्शो भावना, तद्यो- ग्यो भाव्यः। सहृदयसद्वयवहारसमुल्लसितसंस्कार संपन्नो योऽवधानप्रकर्षस्तेन गम्यो वासनीयः । तदिदमभिसंधायाह- शीघ्रेति। आद्यमुदाहरति- भाव्यो यथेति। लीलागृहे मिथुनमुक्तविधं चकास्तीति वाक्यार्थेः । अन्योन्यसंवलितमां- सलदन्तकान्तीत्यनेन स्मितसंलापाधरास्ादादयः, सोललासमित्यनेन हर्षौत्सुक्यादयः, अलसमित्यनेन श्रमाङ्दौर्बल्यादय, किलिकिश्चितेषु व्यावर्ननगननयनमित्यनेन प्रणयकलहगर्वभयकम्पादयश्च व्यज्यन्ते; 'क्रोधाश्रुहृर्ष-यादेः सक किलिकिश्चि- तम्' इति दशरूपके तल्लक्षणकथनात्। अत्र मिथुनमालम्बनविभावः। लीलागृ- उल्लासोन्मीलितहर्षौतसुक्यादय: किलिकिश्चिताक्षिप्तकोधशोकभयगर्वाश्र संचारिणः। इत्थं विभावानुभावसंचांरिभिरास्वादनीयतामापाद्यमानो रतिलक्षणः स्थायी भावः
Page 112
९२ काव्यालंक।रसूत्रवृत्ति: [अधि. ३.
वासनीयो यथा- 'अवहित्थव लितजघनं विवार तैताभिमुखकुचतटं स्थित्वा। अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ॥' उक्तिवैचित्यं माधुर्यम् ॥१० ॥ उक्तेवैंचित्र्यं यत्, तन्माधुर्यमिति
यथा- 'रसवदमृतं क: संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहा्न्यत्स्वादु स्यात्पियादशनच्छदात्
साधारण्येन चर्व्यमाणतैकप्राणः संभोगशृङ्गारो रसः। तदुक्त दशरूपके, 'विभावै- रनुभावैश्च सात्त्विकैर्व्यभिचारिभिः। आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति। वासनीयमुद्धासयति- वासनीय इति। अवहित्थेति। अवहित्थमाकारगोपनम्। दुर्लभस्त्वत्संभोगः, त्वय्येव लभमिदं मदीयं मनः, दुरन्तसंतापशान्तये हारलतिकेयमेका मय दाक्षिण्यमवलम्बत इत्येवं स्वाभि- प्रायप्रकाशनमवधानप्रकर्षेणात्र सहृदयहृदयसंवेद्यम्। अत्र विप्रलम्भश्ृङ्गारः । विभावादयः स्वरामूह्याः । अस्य गुणस्य विपर्ययो आ्रम्यत्वम् 'स्वपिति यावत्' इत्यादौ द्रष्टव्यम्। माधुर्ये पर्यालोचयितुमाह-उक्तिवैचित्र्यमिति। वर्ण्यमानस्यार्थस्य प्र- कर्षे प्रतिपाद्ये भङ्ग्न्तरेणोक्तिरुक्तिवैचित्यम्। रसवदमृतमित। ्चिन्न कस्येयमुक्तिः । अमृतं रसवद्धवत्येव। मधून्यपि नान्यथा, रसवन्त्येव। प्रसन्नरसं चूतस्यापि फलमधिकं मधुरमेवं। कः संदेह इति सर्वत्रानुषज्ज्यते। तथापि रसान्तरवित् सकृदपि रसविशेषाभिज्ञो जनो मध्यस्थः सन् वदतु। इह लोके प्रियादशनच्छदादन्यत् यद्वस्तु स्वादु स्यात्, तत् वदतु। रसज्ञोऽपक्षपाती चेत् अन्यत्स्वादु भवतीति न वदेत्, तादृशवम्त्वन्तरासंभवादित्यर्थः । नानाविधोप-
Page 113
अ. २.] कामधेनुसहिता। ९३
अपारुष्यं सौकुमार्यम् ॥ ११ ॥ परुषेऽर्ये अपारुष्यं सौकुमार्यमिंति। यथा-मृतं यशःशेषमित्याहुः, एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति च। अग्राम्यत्वमुदारता ॥ १२ ॥ ग्राम्यतवपसङ्गे अग्राम्यत्वमुदारता । यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भज़थः। अयि द्वंद्वं दिष्टया तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया॥'
मानातिशायि दशनच्छदमाधुयमेते वक्तव्य, रसवदमृतमेत्यादिभङ्गचन्तरेण प्रतिपादनादत्र माधुर्यम्। अस्य गुणस्य विपर्ययो ह्येकस्यैवार्थस्य पुनः पुनः कथनमित्येकार्थत्वम्, प्राय एकार्थश्रुतेर्वेरस्यात् कष्टत्वं वा।
सौकुमार्य समाख्यातुमाह-अपारुष्यमिति। परुषे अमङ्गलातक्कदा- यिन्यर्थे वर्णनीये यदपारुप्यम्, तत् सौकुमार्यमिति लक्षणार्थः उदाहरणानि स्पष्टानि। अस्य गुणस्य विपर्ययोडक्लीलत्वम् । उदारतामुदीरयितुमाह- अग्राम्यतमिति। अत्र कन्ये कामयमानं कान्त कामयखेति वक्तव्ये ग्राम्यार्थे, यदौचित्येन प्रतिपादनं सा उदारता। त्व- मेवमिति। एवं वर्णनापथोत्तीर्णतयानुभूयमानं सौन यस्या.स तथोक्ता। स च माधवो रुचिरतायां सौन्दर्यविषये, परिचितः संस्तुतः, प्रसिद्ध इति यावत्। युवां स च त्वं च। युवामेव परमिह लोके कलानां सीमानं भजथः । अयि हे माल- ति। वां युवयोः द्वंद्वं मिथुन दिष्टया भाग्येन संवदति सददशं भवतीत्यर्थः । अतः शेषं पाणिगहणरूप, मङ्गलं कर्म स्याच्चेन्, तदानी गुणितय। गुणवत्त्वेन जितम्,
Page 114
९४ काव्यालंकारसूत्रवृत्ति. [अधि. ३.
विपर्ययस्तु- 'स्वपिति यावदयं निकटे जनः स्वपपिमि तावदहं किमपैति ते। इति निगद्य शनैरतुमेखलं मम करं स्वकरेण रुरोध सा ।।' वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः ॥१३ ॥ वस्तूनां भावानां स्वभावस्य स्फुटत्वं यत्, असौ अर्थव्यक्तिंः । यथा- पृष्ठेपु शंखशकलच्छविषु च्छदानां
गोरोचनाहरितबभ्रुवहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य ।I' युवयोर्गुणसंपत्तिर्विश्वातिशायिनी भवेदित्यर्थः । अत्र प्रथमं त्वंस चेति पृथक्त- योक्तेः, ततो युवामिति मिश्रीकरणेन, तदनन्तरं द्वन्द्वमिति, ततः शेषमिति च विवक्षितार्थव्यञ्जनमुखेन फलपर्यवसायित्वमित्योचित्यशालिना क्रमेण कामन्दक्या मालतीमुद्दिश्योक्तमिति स्पष्टमुदाहरणत्वम्। प्रत्युदाहरणं प्रत्याययितुमाह-वि पर्ययस्त्विति। स्वपितीति। अत्र कश्चित् कामी वयस्याय रहस्य कथयति। अयं निकटे जनः परिसरसंचारी जनो यावत् स्वपिति यावता कालेन नियतं कर्म निर्वर्त्य निद्राति। तावत् तावन्तं कालं स्वपिमि। ते किमपैति तावता कालवि- लम्बेन तव का हानिर्भवति। इति उक्तप्रकारेण, शनैरुपांशु, निगद्य कथयित्वा, अनुमेखलं मेखलासमीपे, प्रसारितं मम मे करं स्वकरेण रुरोध निरुद्धवती। स्पष्टं ग्राम्यत्वम्। अर्थव्यक्तिं समर्थयितुमाह-वस्त्विति। व्याचष्टे-वस्तूनामिति। अशेष- विशेषैरवर्णने पुर इव प्रतिभासमानत्वमर्थम्य म्फुटत्वम्। उदाहरति- पृष्ठेष्विति। शङ्गशकलच्छविषु पृष्ठेषु चरमभागेषु, अलक्तकलोहिनीभी रेखाभिरङ्वितम्, गोरो- चनावद्धरितानि बभ्रूणि कपिशानि बहिःपलाशानि यस्य तत्ं, कुमुदम्, पल्वलस्य
Page 115
अ. २.] कामधेनुसहिता। ९५
यथा वा- 'प्रथममलसैः पर्यस्ताग्रं स्थितं मृथुकेसरै
तदतु बलनामात्रं किंचिद्यधायि वहिर्दलै- र्मकुलनविधौ वृद्धाब्जानां बभूब कदर्थना।' दीप्रसत्वं कान्तिः ॥। १४।।, दीप्ताः रसाः शृङ्गागादयो यस्य स दीप्रसः । तस्य भावो दीप- रसत्वं कान्तिः । यथा- 'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
धावित्वेव कृतप्रणाममहहा प्रेम्णो विचित्रा गतिः ।।' एवं रसान्तरेष्वप्युदाहार्यम्। वेशन्तम्याम्भसि, आमोदते आमोदमुद्गिरतीति योजना। उदाहरणान्तरमाह प्रथममिति। प्रथममलसे पृथुकेसरैः पर्यस्तायं शैथिल्यशालिशिखरं स्थितम् .! ततः परं विरलविरलैरत्यन्तशिथिलैरन्त.पत्रैर्मनागीषन्मिलितम्। तदनु बहिर्दलै- र्वलना मात्रं संकोचक्रियारम्भमात्रं किंचित् ्यधायि। इत्थ वृद्धाठजानां कदर्थना केशदशा बभूवेति योजना। अस्य विपययः संदिग्धत्वं क्विष्टत्वं च।, कान्तिं कथयितुमाह-दीप्षरसलमिति व्याचष्टे- दीप्ता इति। दीप्ताः विभावानुभावव्यभिचारिभिरभिव्यक्ताः। प्रेयानिति। भत्र विप्रलम्भपू- र्ैकः संभोगशृक्गारः। एवं रसान्तरेष्विति। शरृदङ्गारे द्विविध .- भोगो विप्र- लम्भश्च। तत्राद्यः परस्परावलोकनपरिचुम्बनाद्यमनन्त े द परिच्छेद्यः। रै भेद उदाहृतः । विप्रलम्भस्तु परस्पराभिलाषविरहेर्प्याप्रवासशापहेतुक इति पञ्च- विधः। तत्राद्यो यथा-'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मु- ग्घदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि। यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी .
Page 116
९६ काव्यालंकारसूत्रवृत्ति: [अधि. ३
अत्र श्लोका :- गुणस्फुटत्वसाकल्ये काव्यपाकं प्रचक्षते। चूतस्य परिणामेन स चायमुपमीयते।। क्षणादाशंसापरिकल्पिताम्वपि भवत्यानन्दसान्द्रो लयः ॥' एवमन्येऽि विप्रलम्भभेदा ज्ञातव्याः । वीरो यथा- 'क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्गातेषु लज्जां दधति परममी सायकाः संपतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषो नन्वहं मेघनादः किंचिद्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि॥' करुणो यथा -- 'हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषो धिक् प्राणा- न्परितोऽशनिर्दुतवहो गात्रेषु दग्धे दशौ। इत्थ गद्गदकण्ठरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अद्भुतो यथा- 'चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गी। लोकोत्तरं धैर्य- महो प्रभावः काप्याकृतिर्नूतन एष सर्गः॥' हास्यो यथा -- 'आकुञ्च्य पाणिम- शुचि मम मूर्धि वेश्या मन्त्राम्भसां प्रतिपदं प्रृषतैः पवित्रे। तारस्वनं प्रहितसी- त्कमदात्प्रहारं हा हा हतोऽहमिति रोदिति विप्णुशर्मा ॥I' भयानको यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्घेन प्रविष्टः शरपतन- भिया भूयसा पूर्वकायम्। दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदत्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥' रौद्रो यथा- 'एत- तकरालकरवालनिकृत्तकण्ठनालोच्चल द्वहुलबुद्धुदफेनिलौघैः । सार्ध डमडुमरुडा- त्कृतिहूतभूतवर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥' बीभत्सो यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसान्यंसस्फिक्प्रष्ठपीठाद्यवयवजटिलान्युग्रपूतीनि जग्वा। आत्तस्राय्वान्त्रनेत्र: प्रकटितदशनः प्रेतरङ्कंः करक्वादङ्कस्थादस्थिसंधि- स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' शान्तो यथा-'अहौ वा हारे वा कुसुमशयने वा दषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः कचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥' एवं भावा अप्युदाहार्याः। इत्थमर्थगुणान् समर्थ्य काव्यम्य गुणम्फुटत्वसाकल्याभ्यां तदभावेन चोपादेयत्वानुपादेत्वे सदष्टान्तमाचष्टे-गुणस्फुटत्वेति। गुणानां म्फुटत्वं सा-
Page 117
अ. २.] कामधेनुसहिता।
सुप्तिङ्संस्कारसारं यत् करिष्टवस्तुगुणं भवेत्। काव्यं वृन्ताकपाकं स्याज्जुगुासन्ते जनास्ततः। गुणानां दशता त्यक्तो यस्यार्थस्तदपार्थकम्। दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥ इति।
इति काव्यालंकारसूत्रवृत्तौं गुणविवेचने तृतीयेडधिकरणे द्वितीयोऽध्यायः॥ समाप्तं चेदं गुणविवेचनं तृतीयमधिकरणम्।।
कल्यं च यत्, स चायं काव्यपाकः। सुप्तिडां संस्कारो यथाशास्त्र प्रकृतिषु प्रत्यय- योजनमेव सारः स्थिरांशो यम्य। क्रिष्टा अस्फुटा वस्तुनोऽर्थस्य गुणाः यस्य। अनेन स्फुटगुणव्यावृत्तिं: सूचिता। वृन्ताकस्य पाक इव पाको, यस्य। तत् का- व्यम्। ततो जना जुगुप्सन्ते, किमुत कवय इति भावः। गुणानामिति। दशता दशसंख्यापरिमितेन वर्गेणेत्यर्थः । गुणदशकेन त्यक्त इत्यर्थः। 'पञ्चद्दशतौ वर्गे वा' इति निपातितो दशच्छब्दः। अपार्थकं वाक्यमुदाहरति-दा- डिमानीति। 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः' इति वाक्यं विचारयोग्यं न भवति। अतोडलंकारशास्त्राद्दोषगुणस्वरूपं विज्ञाय, कविर्दोषाञ्ज- ह्यात्, गुणानाददीतेत्युपदेशः । इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचंसि काव्यालंक्रिया कामधेना- वधिकरणमयासीत्पूर्ततिमेत त्तृतीयम्।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामन कारसूनडा, व्याख्याया काव्यालकारकामधेनौ गुजविवेच। नाम तृतीयमधिकरणम्॥
Page 118
चतुर्थमधिकरणम्॥
गुणनिर्वर्त्या काव्यशोभा; तस्याश्वातिशयहेतवोऽलंकाराः। तन्नि- रूपणार्थमालंकारिकमधिकरणमारभ्यने। तत्र शब्दालंकारौ द्वौ यमका- नुपासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ॥ १ ॥ पदम् अनेकार्थ भिन्नार्थम् एकमनेकं वा तद्वत् अक्षरमाटृटत्तं स्थान- नियमे सति यमकम्। स्वव्टत्या सजातीयेन वा कार्त्स्यैकदेशाभ्यामने- कपादव्याप्तिः स्थाननियम इति। यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते, तेषु श्रोकान्तरस्थसंस्थानयमकापेक्षयेव स्थाननियम इति।
निजसौन्दर्यनिर्धौतस्फुरन्मौक्तिकभूषणा। प्रसादविशदालोका शारदा वरदास्तु मे।। आलंकारिकं चतुर्थमधिकरणमारभ्यते। अधिकरणद्वयसंघटनामुद्धाटयति- गु्निर्वर्त्येति। गुणैनिर्वर्त्या निप्पाद्या। अलंकारः प्रयोजनमस्येति आलंकारि- कम्। 'प्रयोजनम्' इति ठक्। अलंकारा द्विविधा :- शाब्दाः, आर्थाश्र। तत्र शब्दप्रतिपत्तिपूर्विका अर्थप्रतिपत्तिरिति प्रथमं शब्दालंकारान् प्रतिपिपादयिषु- स्तद्विभागं दर्शयति-तत्रेति। यमकं विवरीतुं यतते-क्रमेणेति। पदमने- कार्थमिति। अनेकार्थमिति पदविशेषणम्, न त्वक्षरविशेषणम्। गवादिश्रिष्टप- दवन्नानार्थमात्रं न भवति; किंतु स्वरव्यञ्जनात्मकं भिन्नार्थ पदमिह विवक्षितमि- त्याह-भिन्नार्थमिति। अनेकमिति। पदमिति जातावेकवचनमिति भावः । 'तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम्। वर्णानां यः पुनर्वादो यमकं तन्निग- दते॥।' इति भामहेनोक्तं प्रत्याख्यातुमाह-स्थाननियमे सतीति। नियमनमत्र गुणनम्, आवृत्तिरिति यावत्। यम्यते गुण्यते आवर्त्यते पदमक्षरं वेति यमः । बहुलग्रहणात् कर्मोणे घप्रत्ययः । यम एव यमकम्। अयमत्न वाक्यार्थ :-
Page 119
अ. १.] कामधनुसहिता। ९९
स्थानकथनाथमाह- पादाः पादस्यैकस्यानेकस्थ चादिमध्यान्तभागाः स्थानानि ॥२॥
पादा: एकस्य च पादस्यादिमध्यान्तभागा, अनेकस्य च पादस्य त एव स्थानानि।
भिन्नार्थमेकमनेकं वा पदम्, तद्वदेकमनेकं वाक्षरं च स्थाननियमे सत्यावृत्तं यम- कं भवतीति। तथा च पदयमकम्, अक्षरयमकमिति च द्वैविध्यं दर्शित भव- ति। कीदगत्र स्थाननियम इति, तत्राह-स्ववृत्येति। यदेव पदमक्षरं वा यमकनिबन्धनं तदेव यदि पादान्तरे वर्तते यथा 'भ्रमर दुमपुप्पाणि' इत्यादौ, तत्न स्ववृत्त्या आवृत्तिः । 'सजातीयनैरन्तर्ये चास्य' प्रकर्षः' इतीहैव वक्ष्यमाण- युक्तया सजातीयं यत्र पादान्तरे वर्तते यथा 'हन्त हन्तः' इत्यादौ, तत्र सजा- तीयस्यावृत्तिः । नियतस्थानावृत्तसमानसंख्याकाक्षर संनिवेशोऽत्र साजात्यम् । कात्स्न्येन समस्तपादगतत्वेन । एकदेशेन पादस्यादिमध्यान्तभागगतत्वेनेत्यर्थः । ननु 'अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम्। यमकुबेरजलेश्वर- वज्जिणां समधुरं मधुरश्चितविक्रमम्' इत्यादौ पादान्तरव्याप्तिलक्षणस्थाननियमा- संभवेन यमकता न स्यात् ; अतो लक्षणस्याव्याप्तिरिति, तत्राह- यानि त्विति। एकस्यैव पादस्य भागे वृत्तिर्येषां तानि एकपादभागवृत्तीनि, तेषु 'दरुम- वतीमवतीर्य वनस्थलीम्' इत्यादिश्लोकान्तरस्थ संस्थानं यस्य सत्तथाभूतं यम- कम्, तदपेक्षया सजातीयेनानेकपादव्याप्तिर्भवतीति भवत्येव स्थाननियमः । यमकस्थानानि दर्शयितुं सूत्रमवतारयति -- स्थानकथनार्थमिति । व्याचष्टे-पाद इति। अत्ायं विभाग :-- प्रथमपादो द्वितीये गीये चतुर्थे क्रमेण यम्यते। एवं द्वितीयस्तृतीये चतुर्थे च। तृतीयश्चतुर्थे। तथ। प्रथमो द्वितीयादिषु त्रिषु युगपद्यम्यत इति सप्तधा भवति। पथमो द्वितीये तृतीयश्चतुर्थे, प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वौ भेदाविति पादयमकं नवधा। पादस्य त्रेधा विभागपक्षे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, प्रथमादि- पादमध्यभागो द्वितीयादिपादमध्यभागेषु, प्रथमादिपादान्तभागो द्वितीयादिपादा-
Page 120
१०० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
पादयमकं यथा- 'असज्जनवचो यस्य कलिकामधुगर्हितम्। तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ।'
एकपादस्यादिमध्यान्तयमकानि यथा- 'हन्त हन्तररातीनां धीर धीरर्चिता तव। कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ।' 'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिमभम् । पियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का।'
न्तभागेषु यम्यत इति सप्तविंशतिधा। खण्डभेदकल्पनया परिगणनायां भूयसी भेदसंख्येत्युपरम्यते। तत्र दिख्बात्रं दर्शयितुं पादयमकं तावदुदाहरति- पाद्यमकमिति। कले: कामं दोग्धीति कलिकामधुक्। तथाविधम् असज्जनम्य खलस्य वचो यस्थ अर्हितं पूजितं भवति, तस्य पुंसः, विषतरोः कलिकामधु कोरकमकरन्दः गर्हितं न स्वात् तदप्युपादेयं स्यादित्यर्थः ।
अथैकस्य पादस्यादिमध्यान्तेषु यमकं क्रमेणोदाहरति-एकपादस्येति। हन्तेति। अरातीनां हन्तः, धीर प्राज्ञ। 'धीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः । तव धी: अर्चिता। हन्तेति हर्षे। अतः कामन्दकसंबन्धिनी नीतिः कामन्दकप्रणीता दण्डनीतिरित्यर्थ। अस्यास्तव धियः काममत्यर्थ रस्या अस्वादनीया। नन्वत्र पदयमके द्वयोरपि पदत्वाभावे कथं पदयमकमिति न चोदनीयम्, यमकनिबन्धन- योद्वयोरेकस्य पदत्वे सति तदन्यस्य संहिताकाले तदाकारानुकारितया पदावभास- जनकत्वाद्धवत्येव पदयमकमिति।
वसुपरास्विति। अविकल संपूर्णमित्यर्थः । विकलक्कशशिप्रभम् । यतः उपरतः मन्तुः अपराधो यस्य तथाविधं निरागसमित्यर्थः । 'आगोऽपराधो म- न्तुश्च' इत्यमरः । अनीश्वरम् ऐश्वर्यरहितम्। प्रियतमं परासुं मृतमिव उज्झतीषु त्यक्तवतीषु वसुपरासु वेश्यासु। सिकताख्विव। रसिकता रसः आसामस्तीति र- सिकाः । 'अत इनिठनौ' इति ठन्प्रत्ययः। तासां भावो रसिकता, का न का-
Page 121
अ. १.] कामधेनुसहिता। १०१
'सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम्। अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामघुगं मधुराम्।। पादयोरादिमध्यान्तयमकानि यथा- 'भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिवन मधु । का कुन्दकुसुमे प्रीतिः काकुं दत्वा विरोषि किम् ।' 'अप्यशक्यं खया दत्तं दुःखं शक्यन्तरात्मनि। वाष्पो वाहीकनारीणां वेगवाही कपोलयोः ॥'
चित् तासु रिकतेत्यर्थ। अत्र प्रियतममित्यक्षरयमकत्वेन पदावृत्त्यसंभवान्नेद मुदाहरणम्। सुदृश इति। रसेन रागविशेषेण रेचकित भ्रेमितम्। चकितं भयसंभ्रा- न्तम्। 'चकितं भयसंभ्रमः' इत्यमरः। मितं स्तोकं स्तिर्मित निभृतं सुदृश ईक्षणं भवति त्वयि अस्ति। अपि किंच, हासस्य लवो लेश.। 'लवलेशकंणा- णवः' इत्यमरः । स्तबक इव हासलवो हासलवस्तवकः । 'उपमितं व्याघ्रादिभि.' इति समासः। वबयोरभेदः। सोऽपि त्वय्यस्तीत्यनुषज्यते। अतः कः पुमान् तव। मधुरां मनोज्ञां कामस्य धू कामधुरा ताम्। 'ऋक्पूरब्धू.पथामानक्ष इत्यकारः समासान्तः । ननु तुलयेत् न कोऽपि तुलयेत्. तव कामधुरां परिच्छे- तुं न शक्नुयादित्यर्थः ।
अथ पादयोरादिमध्यान्तभागेषु यमकं क्रमेणोदाहरति- पादयोरिति। हे भ्रमर, मधु पिबन्, रत्यैं सुखाय, द्रुमपुप्पाण्युद्दिश्य भ्रम संचर। कुन्दकुसुमे का प्रीतिः। काकुं ध्वनिविकार दत्त्वा 'काकु: स्त्रियां विकारो यः शोकभीत्यादि- भिर्ध्वेनेः' इत्यमरः । कि विरौषि। 'रु शब्दे इति धातुः ।
अप्यशक्यमिति। अशक्यम् असह्यम्, दुःखं शकीनां शकाख्यजन- पदस्त्रीणाम् अन्तरात्मनि। त्वया दत्तम्। त्वयेति कर्तृपदम्; तदर्थस्तु प्रकरणा- नुसारेण द्रष्टव्यः। अपि किंच, वाहीकिनारीणां कपोलयो, वेगवाही वेगेन वहति प्रवहतीति वेगवाही बाष्प. दत्त इत्यनुषज्यते।
Page 122
१०२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
'सपदि कृतपदस्त्वदीक्षितेन' स्मितशुचिना स्मरतन्वदीक्षितेन। भवति बत जनः सचित्तदाहो न खलु मृषा कुत एव चित्तदाहो।।'
एकान्तरपादान्तयमकं यथा- 'उद्देजयृति भूतानि यस्य राज्ः कुशासनम्। सिंहासनवियुक्तस्य तस्य क्षिमं कुशासनम् ॥' एवमेकान्तरपादादिमध्ययमकान्यूह्यानि। समस्तपादान्तयमकं यथा
विलोक्य तन्वीं शशिपेशलास्याम्। मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञा यदि पुष्कला स्याम् ॥' सपदीति। स्मितशुचिना कामतत्त्वदीक्षितेन त्वदीक्षितेन सपदि कृतपदो जनस्तदैव सचित्तदाहो भवति। न कुतश्चित् कुतोऽपि न मृषा खलु। अहो। एकान्तरितपादान्तयमकमाह -- एकान्तरेति। यस्य राज्ञः कुशासनं कुत्सितं शासनं भूतानि प्रािन उद्वेजयति। सिंहासनवियुक्तस्य तस्य कुशासनं कुशमयमासनं भंवति। एनमिति। एकान्तरितपादादियमक यथा-करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमम्। करोति सेष्ये कान्ते च श्रवणोत्पलताडनम् ॥ एकान्तरित- पादमध्ययमकं यथा -- 'यान्ति यस्यान्तिके सर्वेऽप्यन्तकान्तमुपाधय.। तं शान्त- चित्तवृत्तानतं कालीकान्तमुपास्महे ॥' इति। चतुर्ष्वपि पादेषु अन्तयमकमुदाहरति-नतोन्नतेति। हे चञ्चल मनः, नते उन्नते च भ्रुवौ तयोर्गतिभिर्वलनभङ्गीभिर्बद्धं लास्यं श्रृङ्गारनटनं यया ताम्। शशीव पेशलं मनोज्ञमास्यं यस्यास्तां तन्वीं विलोक्य किमुत्ताम्यसि। अस्यां तन्व्यां स्मराज्ञा यदि पुष्कला भवेत्, तर्हि कृती स्यामिति संबन्धः ।
Page 123
अ. १.] कामधेनुसहिता। १०३
एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि। अन्ये च संकरजातिभेदाः सुधियोत्मेक्ष्याः। अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च। एकाक्षरं यथा- 'नानाकारेण कान्ताभ्रूराराधितमनोसुवा। विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ।।' एवं स्थानान्तरयोगेऽपि द्रष्टव्यः। सजातीयनैरन्तर्यादस्य प्रकर्षो भवति।' स चाय हरिप्रबोधे दृश्यते; यथा-
एवमिति। समस्तपादादियमकं यथा-'सपसालंकृताकारा मारसामोद- निर्भरा। सारसालवृतप्रान्ता सा रसाढ्या सरोजिनी ।I' समक्तपादमध्ययमकं यथा-'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान्। अमायते यतेऽप्यभूद्सु- खाय ते यते क्षयम् ॥ अन्ये चेति। 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदेरनेदैर्वृतममुम् । मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥' इत्यादि। अक्षरयमकम् अध्यक्षयितुं तद्विभागमाह -- अक्षरयमकमिति। तत्र- द्यमुदाहरति-नानेति। नानाकारेण विविक्तेन शुद्धेन आराधितमनोभुवा विलासेन। कान्ताभ्रूः, नृणां हृदयं ततक्ष। 'अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम्। धातूपसर्गयोः, शास्त्रे धातुरेव हि तादृशः ॥' इति वचनात् विश- ब्दस्य धात्वंशत्वेनाक्षरावृत्तिरेवेति न पदावृत्तिशङ्कावकाशः ।
एवमिति। स्थानान्तरयोगे यथा-'सभासु राजन्नसुरा मेखैर्महीसु- राणां वसुराजितैः स्तुताः । न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रगात्मसु राशितां गताः' ॥ इति, 'अकलङ्कशशाङ्काङ्कामिन्दुमौलेमतिर्मम' इत्यादि। इत्थमक्षरयमकमुदाहृत्य तदेव नैरन्तर्येंणावृत्तमुदाहर्तुमुपक्लोकयति- सजातीयेति।
Page 124
१०४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
'विविधधववना नागगर्द्धर्दनाना- विविततगगनानाममज्जज़्जनाना। रुरुशशललना नाववन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना ।I' अनया च वर्णयमकमालया पदयमकमाला व्याख्याता। भङ्गादुत्कर्षः ॥ ३ ॥ उत्कृष्टं खलु यमकं भङ्गान्भवति। शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्गः ॥४ ॥ विविधेति। अत्र पारावारपरिसरभुवमभिलक्ष्य हलधरं हरिराह। विविधानि बहुविधानि धवानामर्जुनानां वनानि 'यस्यां सा विविधधववना 'धवो वृक्षे नरे पत्यावर्जुने च द्रुमान्तरे' इति वैजयन्ती। नागाः कुञ्जराः सर्पा वा तानूं गृध्यन्ति अभिलषन्तीति नागगर्द्धाः; तथाविधा ऋद्धाः समृद्धा ये नाना- विधा वयः पक्षिणः, तैर्विततं व्याप्तं गगनं यस्याः सा नागगर्द्धर्द्धनानाविवि- ततगगना। न विद्यते नामो नमनं यस्मिन् कर्मणि तत्तथा मज्जन्तो जना यस्यां सा अनाममज्जज्ना। अनिति प्राणितीति अना, म्फुरन्तीति यावत्। अथवा न विद्यन्ते नरो यस्यां सा अना। समासान्तविधेरनित्यत्वात् कबभावः । रुरूणां शशानां च ललनं विलसनं यस्यां सा रुरुशशललना। नौ आवयोः, अबन्धुं शत्रुं धुनाना। हि यस्मात् कारणात्। मम हितं तनोतीति हिततना। न विद्यते आननं यस्यासौ अनाननः, स्व आत्मीयः सन एव अनः प्राणनं यस्याः सा अनाननस्वस्वनाना। एवंविधा समुद्रभूमिरिति वाक्यार्थः ।
पदयमकमालेति। 'स्वभुवे स्वभुवे भयोभयोर्भवतां भवताम्भसि ते भसिते' इत्यादि द्रष्टव्यम्। अथ यमकगोचरमेव किंचद्वैचित्र्यमासूत्रयितुमाह- भङ्गादुत्कर्ष इति। व्याचष्टे-उत्कृष्टमिति। भङ्गो नाम वर्णविच्छेदः। भङ्गभेदान् भणितुमनुभाषते- भृङ्खलेति। वृत्ति: स्पष्टार्था ।
Page 125
अ. १.] कामधेनुसहिता। १०५
एते खलु शृङ्खलादयो अ्रमकभङ्गानां प्रकारा भवन्ति।
तान् क्रमेण व्याचष्टे- वर्णविच्छेदचलनं शृङ्खला ॥ ५ ॥ वर्णानां विच्छेदो वर्णविच्छेदः, तस्य चलनं यत्, सा ४ङ्खला। · यथा- कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्, लिमवर्णयोर्विच्छेदात्। सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥ ६ ॥ अन्यवर्णसंसर्ग: सङ्ग:, तद्विनिृत्तौ स्वरूपस्य अन्यवर्णतिरस्क्- तस्य आपत्ति: प्राप्तिः परिवर्तकः । यथा-'कलिकामधुगर्हितम्' इत्यत्र अर्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गात् गर्हितमित्यन्यस्य रूप-
शृङ्गलादीन् संकथयितुं सूत्रमवतारयति -- तानिति। विग्रहं विवृण्वन् व्याचष्टे-वर्णानामिति। लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति -- यथेति। 'कलि- कामधुशब्दे कामशब्दविच्छेदे च तम्य चलनम्' इति पाठः। अत्र चस्त्वर्थे। पदद्वयात्मके कलिकामधुशब्दे, कामशब्दम्य तु विच्छेदे पृथक्वारे तस्य कालिं- कामधुशब्दस्य चलनं भवति। कुत इत्यत आह-लिमवर्णयोरिति। यद्वा, 'कलिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम्' इति पाठान्तरम् । अत्र चः समुच्चये । अत्र कामशब्दस्य विच्छेदे पृथक्कारे कलि- काविच्छेदस्य चलनं भवति, लिवर्णस्य विच्छेदात्। मधुशब्दस्य विच्छेदे पृथक्कारे कामविच्छेदस्य चलनं भवति, मवर्णस्य विच्छेदादित्यर्थः । श्रृङ्ग- लारूपेण वर्णविच्छेद प्रतीतेरयं भङ्गमार्ग: शृङ्गलेति .व्यपदिश्यत।
परिवर्तकं कीर्तयितुमाह-सङ्गेति। तद्विनिवृत्तौ अन्यवर्णसाङ्गत्य- विनिवृत्तौ । अन्यवर्णो व्यञ्जनम्, तेन तिरस्कृतस्य तिरोहितस्य स्वरूपस्यापत्तिः । अर्थान्तरभ्रमं निवारयति- प्राप्तिरिति। लक्ष्ये लक्षणं योजमति -- यथेति। 14
Page 126
१०६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
मापन्नम्। तत्र व्यञ्जनसङ्गे विनिवृत्ते •स्वरूपमापद्यते-अर्हितमिति। अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयममिति तात्पर्यार्थः। एतेनेतरावपि व्याख्यातौ। पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णम्॥७॥ पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपः चूर्णम्। यथा-, योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः । साग्नि विभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्गान्तः।।' अत्र शुक्तिपदे क्तीति पिण्डाक्षरम्, तस्य भेदे शुक्तिपदं लुप्यते, ककारतिकारयोरन्यत्र संक्मान् । दूरसमुन्मुक्तशुक् अचलकुलम्, तिमी- नां कान्तः समुद्रः: स्पष्टमन्यत्। नन्वन्यवर्णसंयोगे हि यमकत्वं संगच्छते, कथं तन्निवृत्तिरुपयुज्यत इत्याशङ्क्य तात्पर्यमाविष्करोति- अन्यवर्णसंक्रमेणेति। एतेनेति। नानावि- च्छेदशालिपदमेलने स्वरूपलाभः, भिन्नयोरहलो पिण्डीकरणे च स्वरूपलाभ इति द्वौ भेदौ द्रष्टव्यौ। चूर्णके वर्णयितुयाह-पिण्डाक्षरस्येति। पिण्डाक्षरम्य संयुक्ताक्षरस्य । . उदाहरति-योऽचलकुलमिति। दूरे समुन्मुक्ता शुक् शोको येन। तिमीनां मत्स्यानां कान्तः प्रियः । उन्मुक्ता उद्गतमुक्ताः शुक्तय उन्मुक्तशुक्तयः मीनाश्च अङ्का यस्य स ताद्टक् अन्तः पर्यन्तो यम्य तादृशो य सयुद्रः। चलं भयचञ्चलं दूरक्षमुन्मुक्तशुक् अचलकुलमवति। दूरसं दुष्टरसं साग्नि सलिलं बिभर्ति च । लक्ष्ये लक्षणानुगममभिलक्षयति-अत्रेति। पिण्डाक्षरं दर्शयति-शुक्तिपदे क्ती- ति। तस्य पिण्डाक्षरस्य वर्णेयोः शुगित्यत्र ककारस्य तिमीत्यत्र तिकारस्य च भेदे शुक्तिपदस्वरूपं लुप्यते; तत्र हेतुमाह-ककारेति। ककारतिकारयोः अन्यत्र शुक्तिपदे तिमिपदे च संक्रमादित्यर्थ। संक्रममेव दर्शयति- दूरसमुन्मु- कतशुगिति, तिमीनामिति च। विशेषणद्वयस्य यथासङ्ग्यं विशेष्यद्वयं दर्श- यति- अचलकुलमिति, कान्तः समुद्र इति च।
Page 127
अ. १.] कामधनुसहिता। १०७
अत्र श्षोका :- अखण्डवर्णविन्यासचलनं भृङ्खलामला। अनेन खलु भङ्गेन यमकानां विचित्रता॥ यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः । शब्द: स्वरूपमारोहेत्स ज्ञेयः परिवर्तकः ॥ पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात्। वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः ॥ अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि। अलकानीव नात्यर्थ यमकानि चकासति।। विभक्तिपरिणामेन यत्र भङ्ग: कचिद्भवेत्। न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः ॥ आरूढं भूयसा यत्तु पदं यमकभूमिकाम्। दुष्येच्चन्न पुनस्तस्य युक्तानुपासकल्पना ।। विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च। आवृत्ति: सुप्तिडन्तानां मिथश्च यमकाद्दुतम् ।
प्रतिपादितेऽर्थे परसंवादं प्रकटयति-अत्र श्लोका इति। पद्यत्रयं स्पष्टार्थम्। भङ्गादुत्कर्ष इत्युपक्रम्य भङ्गमार्गेषु प्रकर्ष प्रतिपाद्य अन्यत्रापकर्ष- मवगमयितुमाह- अप्राप्तेति। अप्राप्तचूर्णभङ्गानीति विशेषणमलकेष्वपि यो- जनीयम्, विभक्तीति। विभक्तीनां परिणामो विपरिणामः, अन्यथाभाव इति यावत्। उदाहरणं तु 'शिवमात्मनि सत्त्वस्थान् पश्यतः पश्यन, शिवौ' इत्यादि द्रष्टव्यम्। आरूढमिति। यत्पदं भूयसा भूम्ना, ५नकभूमिका यमक- वदवभासमानत्वम्, आरूढम् , तत् दुष्येत् दुष्ट भवेत्। ननु न चेत्तद्यमकम्, तर्ह्यनुप्रासोस्त्विति शङ्कां शकलीकरोति- न पुनरिति। यथा दण्डिनोक्तम्, 'कालकाल गलकाल कालमुख-' इत्यादि। विभक्तीनामिति। प्रथमादीनां विभक्तीनां विभक्तत्वं, विविधत्वम्, एकवचनादिलक्षणायाः संख्यायाः कर्तृकर्मादेः
Page 128
१०८ काव्यालंकारसूत्रवृत्ति: अधि. ४.
शेषः सरूपोऽनुप्रासः॥८॥ पदमेकार्थमनेकार्थ च स्थानानियतं तद्विघमक्षरं च शेषः । सरू- पः अन्येन प्रयुक्तेन तुल्यरूपः अनुप्रासः। नतु 'शेषोऽनुमासः' इत्येतावदेव सूत्रं कस्मान्न कृतम्? आवृसि- शेषोनुपास इत्येव हि व्याख्यास्यते; सत्यम् ; सिध्यत्येवावृत्तिशेषे; किं- त्वव्याप्तिमसङ्ग :; विशेषार्थ च सरूपग्रहणम्-कार्त्स््येनैवावृत्तिः, का- त्स्न्यैकदेशाभ्यां च सारूप्यमिति।
कारकस्य विभक्तत्वन्, सुबन्तानां तिडन्तानां च पदानामावृत्तियत्र, तत् यमकाद्दु- तम् अतिशयितं यमकमित्यर्थः । क्रमेणोदाहरणानि 'विश्वप्रमात्ा भवता जगन्ति व्याप्तानि मात्रापि न मुञ्चति न्वाम्' इति, 'एताः सन्नाभयो बाला यासां सन्नाभयः प्रियः' इति, 'व्यतस्ततः प्राप्तगुणः प्रभावे यतस्ततश्चेतसि भासतेऽयम्' इति, 'सरति स रतिकान्तस्ते ललामो ललामः' इत्यादीनि। अत्र विभक्तिविपरिणा- ममात्े यमकत्वहानिः। प्रकृत्यर्थस्यापि भेदे यमकाद्भुतत्वमिति विवेकः ।
इत्थं यमकं लक्षयित्वा अनुप्रासं लक्षयितुमाह- शेष इति। शेषश- ब्दार्थमाह-पदमिति। स्थानानियतं प्रागुक्तस्थाननियमरहितमित्यर्थः । एकार्थ पदम्, स्थानानियतमनेकार्थ च, तद्विधं तथाविधमस्थाननियममक्षरं शेष.। सरूपपदार्थमाह-सरूप इति। अन्येन अक्षरेन प्रयुक्तेन पदान्तरेण वा तुल्यरूपः शेषोऽनुप्रासो भवति। अत्र सूत्रे सरूपपदवैयर्थ्यमाशङ्कते- नन्विति। शेषोऽनुप्रास इत्येव कृते सूत्रे आवृत्तपदानुषङ्गादस्थानुनियमं पदमक्षरं च आवृत्त- मनुप्रासो भवतीति सूत्रार्थे संपन्ने सारूप्यमर्थात् संपत्म्यते; किं सरूपग्रहणेनेति शङ्कार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति। अङ्गीकृतमंशमाह-सिध्यत्ये- वेति। सारूप्यमिति शेषः । तथाप्यावृत्तेरविशेषत्वेन सामान्येन यत् व्याप्तं कात्स््येनावृत्तत्वम्, तन्मात्रप्रसङ्गः स्यात् ; विशेषस्तु न सिध्येदित्यर्थः । तमेव विशेषं दर्शयितुमाह-विशेषार्थ चेति। यद्यपि सामान्येन कार्त्न्येनावृत्ति- र्भवति, तथापि कात्म्न्यैकदेशाभ्यां सारूप्यमत्र वक्तव्यमिति सरूपग्रहणं कृत- मित्यर्थः ।
Page 129
अ. १.] कामधेनुसहिता। १०९
अनुल्बणो वर्णानुप्रासः श्रेयान् ॥ ९ ॥ यो वर्णानुमासः, स खलु अनुल्वणः अपीनः श्रेयान्। उल्वणस्तु न श्रेयान्। यथा- 'वल्लीबद्धोर्ध्वजूटोङ्भटमटति रट- त्कोटिकोदण्डदण्डः' इति।
पादानुप्रासः पादयमकवत् ॥ १० ॥ ये पादयमकस्य भेदाः, ते पादानुपासस्येत्यर्थः । तेषामुदाहरणानि यथा- 'कविराजमविज्ञाय कुतः काव्यक्रियादरः। कविराजं च विज्ञाय कुतः काव्यक्रियादरः।' 'आखण्डयन्ति मुहुरामलकीफलानि वालानि वालकपिलोचनपिङ्गलानि।' 'वस्त्नायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश काशाः काशाभा भान्ति तासां नवपुलिनगताः श्रीनद्ीहंस हंसाः।
अनुप्रासो द्विविध :- उल्बण: अनुल्बणश्च। तत्रोल्बणार्दनुल्बण उत्कृष्ट इत्युपपादयितुमाह- अनुल्बण इति। व्याचप्टे- यो वर्णानुमास इति। अनुल्बणपदव्याख्यानम् -- अपीन इति। मसृण इत्यर्थः । उदाहरणं तु अप- सारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥' इत्यादि प्रसिद्धमिति मत्वा उल्बणमुदाहरति -- बथा वल्लीबद्धेति। 'पादानुप्रासः पादयमकवत्' इत्यत्रतिदेशप्रात्तम र्थमावेदयति -- ये पा- दयमकस्येति। कविराजमिति। एकत्र आदरः, अन्यत्र दरः। दरत्नासो भीतिर्भी: साध्वसं भयम्' इत्यमरः। उभयत्र आदर इति वा व्याख्येयम्। आखण्डयन्तीति। अत्र 'लानि' इत्यक्षरानुप्रासः । वस्त्रायन्त इति। हे श्रीशसंकाश, सितकुसुमधराः काशाः नदीनां वस्त्रायन्ते दुकूलवदाचरन्तीत्यर्थः ।
Page 130
११० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्र- श्रन्द्राङ्क: शारदस्ते जयकृद्रुपगतो विद्विषां काल कालः ।' 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां बिमुश्चति केशवः। कुवलयद्लश्यामा शयामालताद् विजृम्भते कुवलयद्लश्यामं चन्द्रो नभः प्रविगाहते।।'
एवमन्यऽपि द्रष्टव्याः।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः ॥
हे श्रीनदीहंस श्री राज्यलक्ष्मीरेव नदी तत्र हंस, तासां नदीनां नवपुलिनगताः काशाभा हंसा भान्ति। हे मेदिनीचन्द्र, चन्द्रः हंसाभैरम्भोदैर्मुक्तः, अत एव स्फुरदमलरुचिर्भवति। हे विद्विषां काल, चन्द्राङ्क: शारदः कालः, ते जयकृदुपगत इति। अत्र समस्तपादान्तपदानुप्रासः। पादान्तपदानामुपरि पादा- दिषु पुनर्ग्रहणान्मुक्तपदग्रहाख्यमन्यदपि वैचित्रयं द्रष्टव्यम्। कुवलयदलेति। अत्र सर्वपादादिपदानुप्रासः । एवमन्येऽपीति। 'सितकरकररुचिरविभा विभा- कशकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य।' इत्यादयः प्रत्येतव्याः ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचिताया वामनालकारसूत्रत्ति व्याख्यायां काव्यालकारकामधेनो आलकारिके नाम चतुर्थेऽधिकरणे प्रथमोऽध्यायः॥
Page 131
द्वितीयोऽध्यायः॥
-*
संप्रत्यर्थालंकाराणां प्रस्तावः; तन्मूलं चोपमेति सैव विचार्यते। उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ १॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्, तत् उपमानम्। यदुपमीयते न्यूनगुणम्, तत् उपमेयम्। उपमानेनोपमेयस्य गुणलेशतः साम्यं यत्, असावुपमेति। ननु च उपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ. तयोरेकतरो- पादानेनैवान्यतरसिद्धिः। यथा 'उपमितं व्याघ्रादिभिःममान्याप्रयोगे' इत्यत्रोपमितग्रहणमेव कृतम्, नोपमानग्रहणमिति। तद्वदत्रोभयग्रहणं न कर्तव्यम्; सत्यम्; तत् कृतं लोकमसिद्धिपरिग्रहार्थम्। यदेवोपमेयमुप-
उत्खण्डिततम:स्तोममुपेयमुपरि श्रुतेः ।
शब्दालंकारेषु चर्चितेषु, खलेकपोतन्यायादखिलानामर्थालंकाराणामशे- षेण प्राप्तौ, प्रकृतित्वात्तेषां प्रथममुपमां प्र्तौति- संप्रतीति। व्याख्यातुं सूत्रमुपादत्ते-उपमानेनेति। उपमानोपमेयपदव्युत्पत्तिं प्रदर्शयति-उपमीयत इति। उत्कृष्टगुणेन येन चन्द्रादिना सादृश्यमानीयतेऽन्यन्मुखादिकम्, तदुपमा- नम्। यत्तु न्यूनगुणमुत्कृष्टगुणेनान्येनोपमीयते तदुपमेयम्, उपमानेन सादृश्यं प्रापयितुमर्हमित्यर्थ । गुणलेशत इति। गुणा गयमानोपमेययोरुत्कृप्टधर्माः, तेषां लेशत एकदेशतः, क्चिदपि सर्वाकारसादृश्यासंभ गदिति भावः । ननु संबन्धिशब्दयोरेकतरग्रहणेऽन्यतरस्यानुक्तसिद्धत्वमिति शङ्कते -- ननु चेति ! अमुमर्थमभियुक्तोक्तिसंवादेन समर्थयते-यथेति। 'उपमितं व्याघ्रादिभिः' इति पाणिनीयसूत्रे यथोपमितपदग्रहणेनैव व्याघ्रादीनामुपमानत्वमवगम्यते, तद्वदत्राप्यु पमानग्रहणं न कर्तव्यमिति शङ्कितुरभिप्रायः । परिहरति- तत्कृतमिति।
Page 132
११२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
मानं च लोकप्रसिद्धम्, तदेव परिग्रृद्यते नेतरत्। न हि यथा मुखं क- मलमिन इति, तथा कुमुदमिव इत्यपि भवति।।
गुणबाहुल्यतश्च कल्पिता ॥ २ ॥ गुणानां बाहुल्यं गुणबाहुल्यम्, तत उपमानोपमेययोः साम्यात् कल्पितोपमा; कविभिः कल्पितत्वात् कल्पिता। पूर्वा तु लौकिकी। नतु कल्पिताया लोकप्रसिद्धयभावात् कथमुपमानोपमेयनियमः? गुण- बाहुल्यस्योत्कर्षापकर्षकल्पनाभ्याम्। तद्था- 'उद्गर्भहूणतरुणीरमणोपमर्द- भुग्रोन्नतस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरबिसकाण्डकडारगौरै- र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ।' तत् उभयग्रहणं कृतम्। किमर्थम्? लोकप्रसिद्धस्योपमानस्य परिग्रहार्थम्। न ह्यत्न व्युत्पत्तिबलादागतमुपमानं विवक्षितम्, किंतु लोकप्रसिद्धमेवेत्यवगमयितुमु- भयग्रहणं कृतमित्यर्थः । तत्प्रसिद्धप्रसिद्धी दर्शयति- यथेति। यथा मुखं पद्ममिवेत्यत्र पद्म मुखोपमानत्वेन प्रसिद्धम्, न तथा कुमुदमिवेत्यपि भवति प्रसि- द्धमिति भावः । लौकिकी कल्पिता चेत्युपमा द्विविधा; तत्र कल्पितोपमां प्रकटयितुमाह- गुणबाहुल्यत इति। उपमायाः कल्पितत्वव्यपदेशे कारणमाह-कविभि- रिर्ति। या पुनरुपमा गुणलेशतः साम्यलक्षणा सा लौकिकी प्रागुक्तवेत्याह- पूर्वा तु लौकिकीति। प्रसिद्धयभावात् कल्पितायामिदमुपमानमिदमुपमेयमिति व्यवस्था न घटत इति शङ्कते- नन्विति। इह सवलूपमानोपमेययोर्मुखचन्द्र योर्गुणोत्कर्षापकर्षौ व्यवस्थापकौ। तत्तत्कल्पनया कल्पितायामुपमानोपमेयनियमो घटते। अतो न लोकविरोध इति परिहरति- गुणबाहुल्यस्येति। उदा- हरति -- तद्यथेति। उद्गर्भा व्यक्तगर्भा या हूणाख्यजनपदतरुणी तस्या रमणेन भर्त्रा उपमर्दो गाढालिङ्गनं तेन भुग्ः स चासावुन्नतः स्तनश्र भुमोन्नतस्तनः तस्य
Page 133
अ. २.] कामधेनुसहिता। ११३
'सद्योमुण्डितमत्तहूणचिवुकप्रस्पर्धि नारङ्गकम्।' 'अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम्।' 'इदानीं प्रक्षाणं जरठदलविश्लेषचतुर- स्तिभीनामावद्धस्फुरितशुकचञ्चूपुटनिभम्। ततः स्त्रीणां हन्त क्षममधरकान्तिं तुलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम्।।' .
तद्दैविध्यं पदवाक्यार्थवृत्तिभेदात् ॥ ३॥ तस्या उपमाया द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात्। एका पदार्थ- वृत्तिः, अन्या वाक्यार्थवृत्तिरिति। पदार्थवृत्तिर्यथा-
• हरिततनुषु वभ्रुत्वग्विमुक्तांसु यासां कनककणसघर्मा मान्मथो रोमभेदः।'
निवेश: संनिवेशो मण्डलाकार इति यावत् तन्निभम्। हिमांशोर्बिम्बम्। कठोर- बिसकाण्डा इव कडारगौरा: कपिशावदातास्तै.। अग्रकरैः, प्रथममग्रे, विष्णो पदमाकाशं व्यनक्ति। विषयव्याप्त्यर्थमुदाहरणान्तराण्याह- सद इति। मुण्डितेन वापितेन मत्तस्य हूणजनपदपुरुषस्य चिबुकेन प्रम्पर्द्धितुं शीलमम्यास्तीति तत्संनिभं भवति नारङ्गकमिति। इदानीमिति। जरठदलानां जीर्णपर्णानां विश्लेषेण चतुरा मनोज्ञा: स्तिभयोडर्कुरा येषाम्। 'स्तिभिश्च स्तिभितः शुङ्गाऽप्यड्कूरोऽ- डुर एव च' इति हलायुधः। तेषां प्लक्षाणां किसलयम्। आबद्धो घटितः स्फुरित ईषद्विवृतः शुकस्य यश्चश्चूपुटस्तत्संनिभं भगदे। ततोऽनन्तरम्। स्फुट- सुभगरागं व्यक्तमनोज्ञारुण्यम्, स्त्रीणामधरकान्तिं तुलायतुं क्षमं योग्य सत्, निर्याति।
उपमाविभागमुदीरयितुमाह-तद्वविध्यमिति। व्याचष्टे-तस्या इति। पदार्थवृत्तिमुपमां प्रतिपादयति- पदार्थेति। हरिततनुष्विति। कनककणस- 15
Page 134
११४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
वाक्यार्थवृत्तिर्यथा- ' पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्रिराज:॥' सा पूर्णा लुप्ता च ।। ४ ।। सा उपमा पूर्णा लुप्ता च भवति। गुणद्योतकोपमानोपमेयशब्दानां सामग्ये पूर्णा ।। ५ । गुणादिशब्दानां सामग््ये साकल्ये पूर्णा। यथा-'कमलमित मुखं मनोज्मेतत्' इति। लोपे लुप्ता ॥ ६ ॥ गुणादिशब्दानां लोपे वैकल्ये लुप्ता।
धर्मेत्यत्र पदार्थवृत्तिरुपमा। वाक्यार्थवृत्तिमुपमामुदाहरति- पाण्ड्योऽयमिति। पुनर्भेदं प्रादुर्भावयितुमाह-सा पूर्णा लुप्ता चेति। पूर्णा वर्णयितुमाह -- गुणद्योतकेति। व्याचष्टे- गुणादीति। उप- मानोपमेयसमानधर्मसादृश्यप्रतिपादकानामन्यूनत्वेन प्रयोगे पूर्णा। कमलमि- वेति। अत्र कमलमुपमानम्, मुखमुपमेयम्, इवशब्द. सादृश्यद्योतकः, मनोज्ञ- शब्द: समानधर्मवचनः; एतेषामन्यूनतया प्रयोगादियमुपमा पूर्णा। लुप्तां लक्षयति -- लोंप इति। गुणादिशब्दानामिति। उपमानोप- मेयगुणसादृश्यप्रतिपादकानां मध्ये एकस्य द्वयोस्रयाणां वा लोपे लुप्ता। शशीव राजेत्यत्र साधारणधर्मस्याप्रयोगादेकस्य लोपः । दूर्वाश्यामेत्यत्रोदाहरणे सादृश्य- द्योतकम्याप्रयोगादेकम्य लोपः। श्यामाशब्देनैव धर्मधर्मिणारुक्तत्वात्। 'दूर्वा-
Page 135
अ. २.] कामधेनुसहिता। ११५
गुणशब्दलोपे यथा- "शशीव राजा' इति। द्योतकशब्दलोपे यथा- 'दूर्वाभ्यामेयम्' इति। उभयलोप यथा- 'शशिमुखी' इति। उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः । स्तुतिनिन्दातत्त्वाख्यानेषु॥७॥ स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः। स्तुतिनिन्दयोर्यथा -- 'स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव।' तत्वाख्याने यथा- 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डल। यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ।।' हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्या- संभवास्तदोषाः॥८ ।।
तस्या उपमाया दोषा भवन्ति- हीनत्वम्, अधिकत्वम्, लिन्ग- भेदः, वचनभेदः, असादृशयम्, असंभव इति।
मरकतश्यामं दुष्टराक्षसहारि यत् । अचलं लोचनाग्रान्मे मा चलत्वानश महः ॥ इत्युदाहरणान्तरमपि द्रष्टव्यम्। शशिमुखीत्यत्र सादृश्यधर्मवचनयोर्द्वयोर्लोपः । उपमानस्योपमेयस्य वा लोप समासोक्त्यादावुदाहरिप्यत इत्याह -- उपमा- नेति। समासोक्त्यादावुपमेयस्य, आक्षेपादावृपमानस्प तोप इति द्रष्टव्यम्। उपमामात्रस्य विषयं दर्शयितुमाह-स्तुतीति। स्त्िग्धमित्यादौ स्तुतिः । हालाहलमित्यादौ निन्दा। तां रोहिणीमित्यत्र तत्त्वाख्यानम्। उपमादोषानुद्धाटयितुमाह-हीनत्वोति। समासार्थ विविच्य दर्श- यति- तस्या इति।
Page 136
११६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
तान् क्रमेण व्याख्यातुमाह- जातिप्रमाणधर्मन्यूनतोपनानस्य हीनत्वम् ॥ ९॥
जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या, तत् हीनत्व- मिति। जातिन्यूनत्वरूपं हीनत्वं यथा-'चाण्डालैरिव युष्माभिः साहसं परमं कृतम्' प्रमाणन्यूनत्वरूपं दीनत्वं यथा- 'वहिस्फुलिङ्ग इव भानुरयं चकास्ति' उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्, तत् धर्मन्यूनत्वम्; तद्रूपं हीनत्वं यथा- 'स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्िष्ट इवांशुमान्।।' -
अत्र मौञ्जीप्रतिवस्तु तटिन्नास्त्युपमान इति हीनत्वम्। न च कृ- ष्णाजिनपटमात्रस्योपमेयत्वं युक्तम्, मौञ्ज्या व्यर्थेत्वप्रसङ्गात्। ननु
तत्र प्रथमोदिष्टं हीनत्वं प्रथयितुमाह-जातीति। व्याचष्टे -- जात्येति। जातिर्ब्राह्मणत्वादिः। प्रमाणं परिमाणम्। धर्मः समानगुणः । एतेषामन्यतमेन'न्यूनत्वमुपमानस्य हीनत्वम् । तत्राद्यमुदाहरति -- जाति- न्यूनत्वरूपमिति। चाण्डालैरित्यत्न साहसकारित्वं साधर्म्यम्। जातिन्यूनत्वं स्फुटभ्। वहिम्फुलिङ्ग इत्यत्र परिमाणन्यूनत्वमतिरोहितमेव। स मुनिरिति। नीलजीमूतेन कृष्णमेघेन भागे एकत्र प्रदेशे आश्रिष्टः। धर्मतो न्यूनत्व- मुपमानस्य दर्शयति- अत्रेति। मौञ्ज्याः समानं वम्तु प्रतिवम्तु तटित्, सात्र नास्ति, उपमानविशेषणतया अनुपादानादित्यर्थ। ननु उपमाने यावद्द- ष्टम्, तावदेव साधर्म्यमुपमेये विवक्षितम्। मौञ्जीलाञ्छनं तु स्वरूपकथनार्थ- मिति शङ्कां शकलयति -- न चेति। नीलजीमूतस्य तटित्साहचर्यात् तद्रहणे- नैव तटित्संवित्तिरप्युपलभ्यते; ततो न काचिन्न्यूनतेति शंङकते- नन्विति।
Page 137
अ. २.] कामधनुसहिता। ११७
नीलजीमूतग्रहणेनैव तडित्प्तिपाद्यते; तन्न; व्यभिचारात्। अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते; तदाह- धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ॥१० ।। धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य धर्मस्य संवित् प्रतिपत्ति भवति। कुतः१ साहचर्यात्। सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्दे- शेऽन्वस्य प्रतिपत्तिर्भवति। तघ्था- निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदा मधुपृषत्पिङ्गाः पयोविन्दवः। चूडाबर्वरके निपत्य कणिकाभावेन जातां: शिशो-
अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते; तत्र पिङ्गशब्देन पिङ्ग- त्वे प्रतिपन्ने वृत्तत्वपतीतिर्भवि। एतेन 'कनकफलकचतुरश्रं श्रोणि-
तटितमन्तरेणापि नीलजीमूतस्य सद्भावान्नैवमिति परिहरति -- तन्न व्यभिचा- रादिति। व्यभिचाराभावे तु सहचरितधर्मप्रतीतिरस्त्येवेति प्रदर्शयितुमनन्तरसूत्रम- वतारयति- अव्यभिचारे त्विति। व्याचष्टे -- धर्मयोरिति। कार्यत्वानि त्यत्ववदविनाभूतयोर्धर्मयोरेकम्य ग्रहणेन अशाब्दस्याप्यन्यस्य प्रतिपत्तिर्भवति, तयोरव्यभिचारादिति वाक्यार्थः । उदाहरति- तद्ययेति। निर्वृष्ट इतिं। बहिर्धने निर्वृष्टे निर्गतं वृष्टं वर्षणं यम्मात् तादृशि सषि। जरद्वेश्मनः शिथि- लगृहस्य। लूतास्तन्तुजालकरा. कृमय।ता स्त्री तननुवायोर्णनाभमर्कटका. समा:' इत्यमरः । तत्तन्तूनां ततीश्छिन्दन्तीति तथोक्ताः । मधुप्रषत्पिङ्गाः मधु- बिन्दुपिङ्कलाः। पयोबिन्दवो न विरमन्ति। विरतेऽपि वर्षे वेश्मबिन्दवो न विर- मन्तीत्यर्थः । अत्रेति । मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते अविनाभूते। तत्र पिङ्गशब्देनैव पिऋत्वन्रतिपत्तौ, अशाब्दयपि वृत्तत्वप्रतीतिभर्वति। उदाहरणान्त.
Page 138
११८ काव्यालंकारसूत्रवृत्ति. [अधि. ४.
विम्बम्' इति व्याख्यातम्। अत्र कनकफलकस्य गौरत्वचतुरश्रत्वयोः साहचर्याच्चतुरश्रत्वश्रुत्यैव गौरत्वप्रतिपत्तिरिति। ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः; कथमयं प्रयोग :- 'सूर्याशु संमीलितलोच नेपु दीनेषु पद्मानिलनिर्मदेषु। साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु।' इतिः अत्र बहुत्वमुपमेयधर्माणामुपमानात्; न ; विशिष्टानामेव मुखाना- मुपमेयत्वात्, तादृशेष्वेव केकाविनाशस्य संभवात्। तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥ तेन हींनत्वेन अधिकत्वं व्याख्यातम्-जातिप्रमाणधर्माधिक्यम धिंकत्वमिति।
रमाह-कनकफलकेति। उक्तं सूत्रार्थमुदाहरणे योजयति-अत्रेति। कनकफ- लकस्य चतुरश्रत्वश्रुत्या तत्सहचरितं गौरत्वमपि प्रतीयते, अव्यभिचारादित्यर्थः ॥ धर्मन्यूंनत्वस्योपमादोषत्वे प्रयोगविरोधमाशङ्कते -- नन्ु चेति। प्रयोगं प्रदर्शयति-सूर्येति। मुखे्वित्युपमेयस्य लोचनसंभीलनदैन्यनिर्मदत्वानां धर्मा- णां बाहुल्यं प्रतीयत इति विरोधः । परिहरति-नेति। भर्तृहीनजनाश्रयत्वेन गृ- हेष्वपि दैन्यमवगम्यते। तादृशेषु गृहेषु साध्वीनामिव दैन्य,वशिष्टेषु शिखिमुखेषु केकानां विलयो वक्तव्यः, अन्यथा तदसंभवात्। दैन्यं च नेत्रनिमीलननिर्मद- त्वाभ्यां तदनुभावाभ्यामुपपादितमिति नाम्ति धर्मन्यूनतेत्याह- विशिष्टा- नामिति।धर्मागमे दुर्मदतिग्मरश्मिसंतापसंमीलितलोचनेषु। साध्व्यः स्वगेहे- प्विव भर्तृहीना. केका विलीना: शिखिनां मुखेषु ॥' इति विधान्तरं विधातु न प्रबन्धकर्ता न प्रगल्भते; किंतु भर्तृहीनत्वस्य निर्मदत्वादेश्वोपपादकस्य भेदे- डप्युभयत्र दैन्यमेव साधर्म्यमिति विवक्षितमिति न कश्चिद्विरोधः । अधिकत्वं व्याख्यातुं सूत्रं व्याहरति- तेनेति।, हीनत्वमिवाधिकत्व-
Page 139
अ. २.] कामधेनुसहिता। ११९
जात्याधिक्यरूपमधिकत्वं व्यथा-विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः। प्रमाणाधिक्यरूपं यथा- पातालमित नाभिस्ते स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ: ।।' धर्माधिक्यरूपं यथा- सरंश्मि चञ्चलं चक्रं दधदेवो व्यराजत। सवाडवाग्रिः सावर्तः स्रोतसामिव नायकः ॥।' सवाडबाग्निरित्यस्य प्रतिवस्तुन उपमेयेऽभावाद्धर्माधिक्यमिति। अनयोर्दोषयोविपर्ययाख्यस्य दोषस्यान्तर्भावात्र पृथगुपादानम्। अन एवास्माकं मते षट् दोषर इति। उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ॥ १२॥ उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः । मपि जात्यादिभिस्त्रिविधम् । तस्य क्रमेणोदाहरणानि दर्शयति -- जात्येति । विष्टयः कारवो भृत्या वा। 'विष्टिः कारौ कर्मकरे' इति वैजयन्ती। पातालमि- त्यादि स्पष्टम्। सबाडबाग्निः सावर्त इत्यत्राधिक्यमुपमाने दर्शयति -- सबा- डबेति। अत्र सरश्मीति चक्रविशेषणवदावर्तविशेषणानुपादानान्न्यूनत्वमपि द्रष्ट- व्यम्। जातिप्रमाणहीनत्वाधिकत्वे पदार्थोपमायां दोष धर्मन्यूनंत्वाधिकत्वे तु वाक्यार्थोषमायाम्। पदार्थोपमायां न धर्मन्यूनाधिकभावः संभवति, समानधर्मस्यै- कत्वेन वाक्यार्थोपमायामिवानेकविशेषवेशिष्टयासंभवादिति द्रष्टव्यम् । विपर्य- याख्यस्येति। उपमेयधर्मस्व हीनत्वमधिकत्वं च विपर्ययः; तदात्मकस्य दोष- स्य हीनत्वाधिकत्वानतिरेकात् तत्रैवान्तर्भाव इति तान्नरूगणेनैव निरूपितप्राय त्वान्न प्रथगभिधानं कृतमित्यर्थः । अस्माकमिति। मत इति शेषः । लिक्कभेदमुल्लिङ्कयितुमाह-उपमानोपमेययोरिति। सूत्रार्थविवरणोदा- हरणे सुगमे एव। 'गङ्गप्रवाह इव तम्य निरर्गला वाक्' इत्यादिषु स्त्रीपुंसयो रपि द्रष्टव्यः । .
Page 140
१२० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि।' इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥ पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः पायेण बाहुल्येन इष्टः। यथा-'चन्द्रमिव मुखं पश्यति' इति। 'इन्दुरिव मुखं भाति' इत्येवंप्रायं तु नेच्छन्ति। लौकिक्यां समासाभिहितायामुपमाप्रपश्चे च । १४ ॥
लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपश्चे चेष्टो लिङ्गभेदः प्रायेणेति। लौकिक्यां यथा- 'छायेव स तस्याः' 'पुरुष इव स्त्री' इति। समासाभिहितायां यथा-'भुजलता नीलोत्पलसदृशी' इति।
उपमाप्पञ्चे यथा- 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य। दूरीकृता: खलु गुणैरुद्यानलता वनलताभिः ॥' एवमन्यदपि प्रयोगजातं द्रष्टव्यम्।
उक्तयुक्तया पुंनपुंसकयोरदोषत्वप्रसड्गे लिङ्गभेदस्य कचिदपवादं दर्शयितु- माह-इष्ट इति। एवंप्रायमिति। एवंप्रायं तु नेच्छन्तीत्यात्मनस्तत्रौदासी- न्यमवगमयति । यत्र हि लिङ्गभेदेSपि विशेषणमुभयान्वयक्षमम्, तत्र न दोषः । यत्र तु विशेषणमेकत्रान्वितं सदितरत्र नान्वयक्षमम्, तत्र दोष इति तात्पर्यम्। लिङ्गान्तरेऽप्यपवादं दर्शयितुमाह-लौकिक्यामिति। लोकतः प्रसि- द्धा उपमा लौकिकी। समामेनाभिहिता लुप्ता। उपमाप्रपञ्चः प्रतिवस्तुप्रभृतिः। तत्र लिङ्गभेद: प्रायेणेष्ट । उदाहरणानि दर्शयति- लौकिक्यामिति। उदाहरणा- नि स्पष्टार्थानि। शुद्धान्तदुर्लभमित्यत्न प्रतिवस्तूपमा। एवमिति। 'नेदं नभो- मण्डलमम्बुराशिः' इत्याद्यपह्नुत्यादौ द्रष्टव्यम्।
Page 141
अ. २.] कामधेनुसहिता। १२१
तेन वचनभेदो व्याख्यातः॥ १५॥
तेन लिङ्गभेदेन वचनभेदो व्यांख्यातः । यथा- 'पास्यामि लोचने तस्याः पुष्पं मधुलिहो यथा।'
अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥
अप्रतीतैरेव गुणैर्यत् सादृश्यम्, तत् अप्रतीतमुणसादृश्यम् असा- दृश्यम्। यथा-'ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्।' काव्यस्य शशिना सह यत् सादृश्यम्, तदमतीतैरेव गुणैरिति। ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भवि- व्यति; मेवम् ; काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिध्यति; नाप्यर्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति। तदेवमितरेतराश्रयदोषो दुरुत्तर इति।
वचनभेदं विवेचयितुमाह-तेनेति। पास्यामीति पास्याम इति वक्तव्ये पास्वामीति प्रयुक्तत्वाद्वचनभेदः ।
असादृश्यं प्रकाशयितुमाह- अप्रतीतेति। अप्रतीतैः सहृदयसंवा- दिप्रतिपत्त्यविषयैरित्यर्थः । ग्रथ्रामीति। काव्यशशिनो सादृश्यमप्रतीतगुण- मित्यसादृश्यम्। नन्वर्थानां रश्मिसादृश्यप्रतीत्या काव्यशशिनोरपि सदृश्यं संभवतीति शङ्कते-नन्विति। परस्पराश्रयपराहतमिदं चोदमिति परिह- रति- नैवमिति। अर्थानां रश्मिसादृड्ये सिद्ध शशिसादृश्यं काव्यम्य सिध्यति; सिद्धे च काव्यस्य शशिसादृश्येऽर्थानां रश्मिसादृश्यमिति परस्परा- श्रय इत्यर्थः । ननु काव्यशशिसादृश्यनिरपेक्षमेव अर्थरश्मिसादृश्यं संभवति ;
दुप्परिहरः। कुतः परस्पराश्रयप्रसङ्क इत्यत आह- नाप्यर्थानामिति। दुरुत्तरः
16
Page 142
१२२ काव्यालंक।रसूत्रवृत्ति: [अधि. ४.
असादृश्यहता ह्युपमा तन्निष्ठाश्च कवयः ॥ १७ ॥ असादृश्येन हता असादृश्यहता उपमा। तन्निष्ठा उपमानिष्ठाश्च कवय इति। उपमानाधिक्यात्तदपोह इत्येके ॥। १८ ॥ उपमानानामाधिक्यात् तस्य असादृश्यस्य अपोह इत्येके मन्यन्ते। यथा- 'कर्पूरहारहरहाससितं यशस्ते।' इति। अत्र कर्पूरादिभिरुपमा- नैर्बहुभिः सादृश्यं यशसः सुस्थापितं भवति, तेषां शुक्लगुणातिरेकात्। नापुष्टार्थत्वात्॥ १९॥ उपमानाधिक्यादपोह इति यदुक्तम्, तन्न; अपुष्टार्थलात् एकस्मि-
सादृश्यैंकसारायामुपमायां परां काष्ठामातिष्ठमानैः कविभिरसादृश्यमवश्य- मपोहनीयमिति शिक्षायतुं सूत्रमुपक्षिपति-असादृश्येति। उपमानिष्ठाः उप- मापरायणा इत्यर्थेः । परपक्षं प्रतिक्षेप्तुं पूर्वपक्षसूत्रमुपक्षिपति-उपमानेति। तदपोहः तम्न्र असादृश्यम्य अपोहः परिहारः । उदाहरति- कर्पूरेति। श्वेतिमातिशयविशि- ष्टत्या वर्णनीये यशसि सितिमगुणाप्रतीतौ वैसादृश्यशङ्कायां सितिमगुणातिशय- विशिष्टैर्बहुभिरुपमानैः सादृश्यदृढीकरणे उपमेये शौक्ल्यगुणातिरेकावगमात् वैसादृश्यमपोह्यत इत्यभिसंधाय व्याचष्टे-अत्रेति। अत्र हेतुमाह- तेषामिति। •बाहुल्येऽप्युपमानानामर्थप्रकर्षाधायकत्वाभावान्नायं पक्षो युज्यत इति दूषयितुं सूत्रमनुभाषते-नापुष्टार्थत्वादिति। परपक्षमनूद्य प्रतिक्षिपति -- उपमानेति। अत्र हेतुमुपन्यस्वति - अपुष्टार्थत्वादिति। हेतुं विवृणोति -- एकस्मिन्निति। एकेनैवोपमानेनं सितिमगुणावगमे सिद्धे पुनः सहस्रमप्युप- मानानि यशसि सितिम्नः परं प्रकर्षमाधातुं न पारयन्तीत्यर्थः । ननु कर्षूगदयः शब्दा यशसि सितिमानं प्रतिपादयन्तः, सहृदयचर्वणीयत्वं परिष्कारत्वं व्यापकत्वं च गुणान्तरमवगमयन्ति; अतोऽस्त्येवार्थपरिपोष इति चेत्, मैवम्; कर्पू-
Page 143
अ. २.] कामधेनुसहिता। १२३
न्नुपमाने प्रयुक्ते उपामानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति। एतेन 'बलसिन्धुः सिन्धुरिव क्षुभितः' इति प्रत्युक्तम्। ननु सिन्धुशब्दस्य द्वि :- •प्रयोगात्पौनरुत्त्यम्; न ; अर्थविशेषात्; बलं सिन्धुरिव वैपुल्यात् बल- सिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात्। तस्मादर्थभेदान्न पौनरु- क्यम्। अर्थपुष्टिस्तु नास्ति। सिन्धुरिव क्षुभित इत्यनेनेव वैपुल्यं प्रति- पत्स्यते। उक्तं हि-'धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात्' इति। . अनुपपत्तिरसंभवः ॥ २० ॥ अनुपपत्तिः अनुपपन्नत्वम् उपमानस्य असंभवः । यथा- 'चकास्ति वदनस्यान्वः स्मितच्छाया विकासिनः । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिक्रा।।'
रादयः शब्दाः सितपदसमभिव्याहारेण सितिमनि शृङ्गलितशक्तयो न किमपि गुणान्तरमुदीरयितुमुत्सहन्ते। यदि कनकफलचतुरश्रत्वं तद्गौरत्वमिव कर्पू- रादिपदैः सितिमगुणोऽवगम्यमानः स्वसहचरितमपि चर्वणीयत्व परिप्कारत्वं व्यापनशीलत्वं च गुणान्तरमवगमयेत्, तदा भवतु पुष्टार्थत्वम् ।.उक्तं दूषणम- न्यत्राप्यतिदिशति-तेनेति। नन्वसत्यर्थभदे सिन्धुशब्दस्य द्विरुक्तो पौनरुं- क्यमिति वक्तव्यमिति शङ्कामनुभाषते -- नन्विति। दूषयति -- नेति। हेतुमाह -- अर्थेति। अर्थभेदादित्यर्थः । अर्थभेदमेव समर्थयते-बलं सिन्धु- रिवेति। बलसिन्धुरित्यत्र'वैपुल्यं प्रतिपाद्यम्। अन्यत्न तु क्षोभसारूप्यमिति भेदः। निगमयति-तस्मादिति। अपुष्टार्थत्वं स्पष्टयति-अर्थपुष्टिस्त्विति। सिन्धुक्षोभोSत्र गम्यमान: स्वसहचरितं वैपुल्यमप्यवर गतीत्यत्र सूत्रं संवादयति- उक्तं हीति। 'इह राजति राजेन्दुरिन्दुः क्षीरनिधावि' इत्यत्र द्वयोरिन्दु- शब्दयो: श्रेष्ठचन्द्रवाचकत्वेनैकार्थ्याभावान्न अपुष्टार्थत्वमित्यवगन्तव्यम्।
असंभवं व्याख्यातुमाह-अनुपपत्तिरिति। अनुपपन्नत्वमिति। उपप- त्तिशून्यत्वमनुपपत्तिरित्यर्थः । उदाहरति-चकास्तीति। विकासिनो वदनस्य -
Page 144
१२४ काव्यालंकारसूत्रवृत्तिः [अधि. ४.
स्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्येष्टत्वात्। कथं तर्हिं दोष इत्यत आह- न विरुद्धोऽतिशयः ॥ २१॥
विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य ता त्पर्यार्थः । तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत्।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥
न्तर्मध्ये स्मितच्छाया उन्निद्रस्यारविन्दस्य मध्ये मुग्धा मनोज्ञा चन्द्रिकेव चका- स्ति। अत्रासंभवमवगमयति-चन्द्रिकायामिति। असंभवस्यार्थदोषत्वमपाक- र्तुमनुभाषते-नन्विति। उन्निद्वारविन्दतन्मध्यवर्तिचन्द्रिकार्थयोर्विरोधित्वादयम- संभवोऽर्थदोषोऽस्तु; नोपमादोषत्वं कल्पनीयमित्यर्थः । परिहरति-नेति। वि- कासिनो मुखस्य स्मितविकासे वर्णनीये तदुपमानभूतया उन्निद्वारविन्दसंबन्धिन्या चन्द्रिकया साहश्ये सति कस्यचिदतिशयस्याभिमतत्वादित्यर्थः ।
कथं तर्हीति। इष्टश्रेदयमतिशयः, तर्हि गुण एवायम्; न तु दोष इत्यर्थः । परिहरति-नेति। अतिशयो विरुद्ध इति यत., अतो दोष एवेत्य- र्थः। निर्वृत्तमर्थ सूत्रस्य निगमयति-विरुद्धस्यति। प्रदार्शतानामेषामुपमादो- षाणां परित्याग एव फलमित्याह-तानेतानिति।
इति श्रीगोपेन्द्रतिप्पभूपालविरचिताया वामनालकारसूत्रवृत्ति- व्याख्यायां काव्यालकारकामधेनौ आलकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः॥
Page 145
तृतीयोऽध्यायः॥
---- *-
संप्रत्युपमापपश्चो विचार्यते। कः पुनरसावित्याह- प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥१॥ प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुमभृतिः । उपमायाः प्रपश्चः उपमापपश्च इति।
सुधारसाभे सुपमाप्रवाहे मुक्तायमानैर्मणिभिर्विचितैः। ज्योत्स्नेव ताराभिरलंकृता मे सा शारदा चेतसि संनिधत्ताम्।।
मूलं वस्तु निगुम्भनोदितकन द्वाक्यानि शाखाः परं दीव्य द्वाचकसंहतिर्दलगणो राजद्ुणाः पल्लवाः। अर्थाः पुष्पकदम्बकं सुरुचिरा भूपा: फलं रीतयो जीवो यस्य विभाति सोऽयमतुलो वाग्दिव्यशाखी चिरम्॥।
सर्वालंकारप्रकृतिभूतामुपमामुपपाद्य तत्प्रपञ्नं प्रपञ्चयितुम् आरभते- संप्रतीति। अनुयोगपूर्वकमनन्तरसूत्रमवतारयति-कः पुनरिति। व्या- चष्टे-प्रतिवस्त्विति। प्रभृतिशब्द आद्यर्थः । प्रतिवस्तुप्रमुखाणाम् अलंकां- राणामुपमागर्भत्वादुपमाप्रपश्च इति व्यपदेशः कृतः। "प्रतिवस्तुप्रभृतय उदि- इयन्ते यथाक्रमम्। प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम् ॥ अपह्नुती रूपकं च श्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्व संदेहः सविरोधकः ॥ विभावना- नन्वयः स्वादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना॥ अर्थान्तरस्य न्यसनं व्यतिरेकस्ततः परम् । विशेषे करथ व्याजस्तुतिर्व्याजो- क्त्यलकृतिः ॥ स्यात्तुल्ययोगिताक्षेपः सहोक्तिश्च समासत.। अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा॥ उत्प्रेक्षावयवश्चेति विज्ञेयोऽलंकृतिक्रमः ॥" ननु प्रतिवस्तुनो वाक्यार्थरूपत्वेन वाक्यार्थोपमानिरूपणेनैव गतार्थत्वमिति न लक्षणान्तरापेक्षेति शङ्कां शकलयन् लक्षणभेदं दर्शयितुमाह-वाक्या-
Page 146
- १२६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह- उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ २ ॥ समानं वस्तु वाक्यार्थः, तस्य न्यासः समानवस्तुन्यासः; उप- मेयस्य अर्थाद्वाक्यार्थस्योक्तौ सत्यामिति। अत्र द्वो वाक्यार्थो; एको वाक्यार्थोपमायामिति भेद: । तदथा- 'देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम्॥' प्रतिवस्तुनः समासोक्तेरभेंदं दर्शयितुमाह- अनुक्तौ समासोक्तिः ॥३॥ उपमेयस्य अनुक्तौ समानवस्तुन्यासः समासोक्तिः। संक्षेपवच- नात् समासोक्तिरित्याख्या। यथा- 'श्लाध्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः । धिङ्मोरो कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥' र्थेति। सूत्रार्थ विवृणोति-समानं वस्त्विति । किमिदं समानं वस्तु पदार्थरूपम्, उत वाक्यार्थरूपमिति विशयो मा भूदित्याह- वाक्यार्थ इति। समानवस्तुन उपमानस्य वाक्यार्थत्वाभ्युपगमबलादुपमेयस्यापि वाक्यार्थत्वसिद्धि- रित्याह-उपमेयस्येति। उपमेयस्य वाक्येन प्रतिपादने उपमानस्यापि वाक्या- न्तरेण प्रतिपादनं प्रतिवस्त्विति लक्षणार्थः; अत एव वाक्यार्थोपमायाः प्रतिवस्तुनो भेद इत्याह-अत्रेति। देवीभावमिति। अत्र पूर्वोत्तरवाक्याभ्यां वस्तुप्रति- वस्तुनो: प्रतिपादनात् प्रतिवस्त्वलंकारः । समासोक्तिं वक्तुमाह-प्रतिवस्तुन इति। लक्षणवाक्यार्थ विवृणोति- उपमेयस्येति। समानवस्तुन उपमानस्य न्यास: वाक्येनोपपादनमित्यर्थः । समा- सोक्तिरिति संज्ञान्वर्थेत्याह-संक्षेपेति। उदाहरति-श्ाध्येति। करीरो
Page 147
अ. ३.] कामधेनुसहिता। १२७
समासोक्तेरप्रस्तुतप्रश्नंसायत भेदं दर्शयितुमाह- किंचिदुक्तावप्रस्तुप्प्रशंसा ॥४ ॥ उपमेयस्य किंचित् लिङ्गमात्रेण उक्तौ समानवस्तुन्यासः अप्रस्तृ- तप्रशंसा।
यथा- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संपुवन्ते। उन्मज्जनि द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।।'
'यत्रोत्पलानि शशिना सह' इति, 'दविरदकुम्भतटी च यत्र' इति, 'यत्रापरे' इति च अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुनप्रशंसा। अपद्ुतिरपि ततो भिन्नेति दर्शयितुमाह- समेन वस्तुनान्यापलापोऽपहुतिः॥ ५॥ समेन तुल्येन वस्तुना वाक्यार्थेन अन्यस्य वाक्यार्थस्य अपलापो निह्नवो यः तत्वाध्यारोपणाय, असावपह्रुतिः।
वंशो बर्बूरो वा 'करीरोऽस्त्री दन्तिदन्तमूले चक्रकरे घटे। सल्लक्यामपि बर्बूरे काचे वंशे तदङुरे ॥' इत्यमरशेषः। अव्युत्पन्नार्थिनाम् अर्थिपदार्थव्युत्पत्तिरहि- तानाम्। अत्र करीरस्य मसस्थितिश्राघनेन कल्पवृक्षाणां मेरुस्थितिनिन्दनेन,च तदुपमेययो परोपकारप्रवणतद्विमुखयोः श्राघानिन्दे समस्योक्ते इति समासोक्तिः । अप्रस्तुतप्रशंसां प्रस्तोतुमाह- किंचिदिति िङ्गमात्रेणोक्तौ एक- देशेनोपादाने। लावण्येति। अत्र लावण्यपदार्थेनैकदेशेनापमेयानां नयनादी- नामुक्तावुत्पलादीनामप्रस्तुतानां प्रशंसनादप्रस्तुतप्रशंसा नामालंकारः । अपह्नुतिमवगमयितुमाह-अपहुतिरिति। ततः प्रतिवम्तुनामालड्डा- रात्, भिन्नेत्यर्थः । समेनेति। वाक्यार्थ भूतेनोपमानेनान्यस्व वाक्यार्थभूतर्वोप-
Page 148
१२८ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
यथा- 'न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः। तटिल्लितेयं न चकास्ति चश्चला पुरः स्मरज्योतिरिदं विवर्तने ।' वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम्। तत्तु कीदृशमित्याह- उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ॥ ६ ॥ उपमानेन उपमेयंस्य गुणसाम्यात् तत्त्वस्य अभेदस्य आरोपणमा- रोपो रूपकम्। उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पिता- यांश्रोपमायाः प्रकृतित्वमत्र यथा विज्ञायेतेति। यथा- 'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्या: स्पर्शो वपुषि बहुलश्चन्दनरसः। मेयस्यापलापः अतस्मिस्तत्त्वाध्यारोपेण अपह्ुतिरिति लक्षणार्थ. । न केतकी- नामिति। सून्नयः कुड्मलाः । 'केतकीमुकुले सूचिः सेविन्यां पिशुने तु ना।' इति हलायुधः। केतकीसूचिविलासतटिल्लताविलासयोरुपमेययोरुपमानभूतविधि- हासस्मरज्योतिर्विवर्तनाध्यारोपेण तयोरपलापादपह्रुतिः। आरोपरूपत्वाविशेषात् कथमपहुते रूपकाद्गेद इत्याशङ्कय भेदं दर्शयति- वाक्यार्थयोरिति। अप- हुतौ वाक्यार्थयोरार्थिकं ताद्ूप्यम्, रूपके तु पदार्थयोः शाब्दं ताद्रूप्यमिति भेदः । रूपकं निरूपयितुमाहं-तत्तु कीदशमिति। व्याचष्टे-उपमानेनेति। लौकिककल्पितोपमाप्रकृतिकत्वं रूपकस्य निरूपयितुमुपमानोपमेययोर्ग्रहणं कृत- मित्याह-उपमानेति। उदाहरति- इयं गेहे लक्ष्मीरिति। अत्र इयमिति सर्वनान्ना सीतां निर्दिश्य तत्र लक्ष्मीत्वममृतवर्तित्वम्, अस्याः स्पर्शे चन्दनरस-
Page 149
अ. ३.] कामधेनुसहिता। १२९
अयं कण्ठे बाहु: शिशिरमसणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' मुखचन्द्रादीनां तूपमासमासात् न रूपकत्वं युक्तमिति। .रूपकाच्छलेषस्य भेदं दर्शयितुमाह- स धर्मेषु तन्त्रप्रयोगे श्लेषः ।। ७।। उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्त्वाध्यागेपः तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति क्षेषः। यथा- 'आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो त्रणिनो विपक्षहृदयपरोन्माथिनः कर्केशाः। त्वम्, बाहौ मौक्तिकसरत्वं चाध्यारोप्यत इति रूपकम्। इत्थसुपमानोपमेययो- व्यासेन प्रयोगे रूपकमुदाहृत्य समासेन प्रयोगे तूपमैव न रूपकमित्याह- मुखेति। मुखचन्द्रादीनां पुरुषव्याघ्रादिसादृश्यादुपमात्वमेव, न रूपकत्वं संभ- वति, तत्त्वाध्यारोपासंभवादिति भावः । इदमत्रानुसंघेयम्-येषां व्याघ्रादिषु पाठोडस्ति तेष।मुपमैव। ये त्विन्दुप्रभृतयस्तत्र न पठ्यन्ते, ते च व्याघ्रादेराकृति- गणत्वात् तत्र द्रष्टव्याः । तथापि मतान्तरानुरोधेन मुखचन्द्रादिषु क्वचिदुपमा, क्वचिद्रूपकमिति द्वैरूप्यं संभवति। तथाच यत्र 'ज्योत्स्नेव भाति द्ुतिरानने- न्दोः' इत्यादावुपमायां साधकं प्रामाणमस्ति, तत्र व्याघ्रादिसमाखः । यत्र 'मोह- महाचलदलने भक्तिः कुलिशाग्रकोटिरेव नृणाम्' इत्यादौ रूपके साधकं प्रमाण- मस्ति, तत्र मयूरव्यंसकादिसमासः; 'अविहितलक्षणस्ततपुरुषो मयूरव्यंसका- दिषु द्रष्टव्यः' इति वचनात्। श्लेषं लक्षयितुमाह- स धर्मेष्विनि। सूत्राथ विवृणोति -- उपमाने- नेति। धर्माणां धर्मिसापेक्षत्वाद्धर्मिणमनुषज्ज्य दर्शयति-उपमानेनोपमेयस्ये- ति। गुणसाम्यत इति शेषः । धर्मस्वरूपमाह- गुणेति। तच्छब्दपरामृश्यं दर्श- यति-तत्त्वाध्यारोप इति। अनेकोपकारकारि सकृदुच्चारणं तन्त्रम्। उपमानोपमे- ययोर्गुणसाम्ये तद्धर्मेषु' गुणादिषु तन्त्रेण प्रयोगे सति यत्ताद्वूप्यारोपणम्, स क्लेष
Page 150
१३० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उद्दृत्ता गुरवश्च यस्य वशिनः इ्यामायमानानना योधा मारवघूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ।।' यथा च गौणस्यार्थस्यालंकारत्वम्, तथा लाक्षणिकस्यापीति दर्शयितुमाह- सादृश्याल्लक्षणा वक्रोक्तिः ॥ ८ ।। बहूनि हि निबन्धनानि लक्षणायाम्; तत्र सादृश्याल्लक्षणा वक्रोक्तिरिति। यथा-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्।' इति लक्षणार्थः । आकृष्टेति। आकृष्टे कोशादुद्धते मण्डलाग्रे खङ्गे रुचिः प्रीतिये- षाम्। आकृष्टा आहृता स्वीकृतेति यावत्, मण्डलस्य बिम्बस्य अग्रे उपरिभागे रुचि: कान्तियैः। संनद्धं कवचितं परिणद्ध च वक्षस्थलं येषाम्। ऊप्मणा दर्पेण उष्णगुणेन च सह वर्तन्त इति सोप्माणः । व्रणाः शस्त्रक्षतानि नखक्ष- तानि च एषां सन्तीति व्रणिनः । विपक्षाणां शत्रूणां सपत्नीनां च हृदयं वक्षश्रे- तश्च प्रकर्षेण उन्मथ्नन्तीति तथोक्ताः । कर्कशाः क्रूराः कठिनाश्च। उद्दृत्ताः उद्धता उन्नताश्च। गुरवो महान्तः स्थूलाश्च। श्यामायमानानि अङ्कुरितश्म- श्रतया कचासङ्गेन वा, स्वभावेन च इयामलायमानानि आननानि मुखानि चूचु- कानि च येषां ते तथोक्ताः । वशिनो यस्येति संबन्धः । अत्र यथासंभवं गुण- क्रिया द्रष्टव्याः । यद्यपि समुच्योऽत्र स्फुरति, तथापि साधारणविशेषणमहिम्रा आरोपः प्रतिपार्द्यत इति श्रलेषः । वक्रोक्तिं वक्तुं संगतिमुल्लिङ्गयति -- यथा चेति। यथा मुखचन्द्रादौ गुणयोगादागतस्य गौणार्थम्य रूपकाद्यलंकारता, तथा लक्षणातः प्रतिपन्नम्य लाक्षणिकार्थस्व वक्रोक्त्यलंकारता भवतीति लक्षणार्थः। बहूनीति। 'अभिधे- येन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चा मता' इति लक्षणाया निमित्तानि द्रष्टंव्यानि। द्विरेफशब्दस्याभिधेयो भ्रमरशब्द इति तेन स्वाभिधेयसंबन्धात् भृङ्गरूपार्थो लक्ष्यते। सिंहो माणवकः, गङ्गायां घोषः, बृहस्पतिरयं मूर्खः, महति समरे शत्रुघ्नस्त्वम्, इति यथाक्रम मुदाहरणानि द्रष्टव्यानि। उन्मिमीलेति। कमलं विचकास कैरवं संचु-
Page 151
अ. ३.] कामधेनुसहिता। १३१
अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकाचों लक्षयतः। 'इह च निरन्तरनवमुकुलपुलक्रिता हरति माधवी हृदयम् मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ।' अत्र च निःश्रवसितमिति परिमलनिर्गमं लक्षयति। 'संस्थानेन स्फुरतु सुभगः स्वार्चिषा चुम्बतु द्याम्।' 'आलस्यमालिङ्गति गात्रमस्याः ॥' 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम्'।' 'प्रत्यूपेषु स्फुटितकमलामोदमैत्री कपायः।' 'ऊरुद्वन्दं तरुणकदलीकाण्डसब्रह्मचारि।' इत्येवमादिषु लक्षणार्थो निरुप्यत इति लक्षणाया झटित्यर्थप्रतिप- त्तिक्षमत्वं रहस्यमाचक्षत इति। असादृश्यनिबन्धना तु लक्षणा न वक्रोक्ति:। यथा- 'जरठकमलकन्दच्छेदगौरैर्मयूखैः।' कोचेति ऋजुवृत्त्या वक्तव्ये तत्सादृश्यादुन्मिमील निमिमीलेति.नेत्रक्रियाध्यवस।- यवक्रिम्णोक्तिरिति वक्रोक्तिः। लक्ष्यलक्षणयोर्मैत्रीमासूत्रयति-अत्र नेत्रेति। अतस्मिंस्तत्त्वाध्यारोपो रूपकम्। विषयनिगरणेन साध्यवसानलक्षणायां वक्रोकि- रिति विवेकः। उदाहरणान्तराण्युपदर्शयति-इह चेति। वक्रोक्तिं दर्शयति- अत्र चेति। मुकुलपुलकितेत्यत्र पुलकितत्वं माधव्या मुकुलैरावृत्स्वं लक्षयतीत्यपि द्रष्टव्यम्। चुम्बतु द्यामिति चुम्बनं द्योसम्बन्धम्, गात्रमालिङ्गतीति आलिङ्गनम् आलस्यवैशिष्टं गात्रस्य, अनुवदतीत्यत्रानुवाद: कमलिनीसादृश्यम्, मैत्नी चबआ- मोदसंक्रान्तिम्, सब्रह्मचारीति कदलीकाण्डसमानतां न लक्षयतीत्येवमादिषु प्र- योगेषु लक्षणार्थो निरुप्यते। लक्षणाया इति। पत्र सादृश्यलक्षणा सहृदय- हृदयेष्वविलम्बेन लक्ष्यार्थप्रतिपत्तिमुद्धावयितुं प्रगल्भते, तत्र वक्रोक्तिरलंकार इति रहस्यमिति लक्षणाविद आचक्षत इत्यर्थः । सादृश्यपदव्यावर्त्य कीर्तयति-असा- दृश्येति। संबन्धान्तरनिबन्धना तु लक्षणा वक्रोक्तिर्न भवतीत्यर्थः । तदेव दर्श- यति-यथा जरठेति। सामीप्यमत्र धर्मधर्मिभावसंबन्धः ।
Page 152
१३२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
अत्र च्छेद: सामीप्याद्रव्यं लक्षयति, तस्यैव गौरत्वोपपत्तेः। रूपकवकरोक्तिभ्यामुत्पेक्षाया भेदं दर्शयितुमाह- अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा।। ९।। अतद्रूपस्य अतत्स्वभावस्य, अन्यथा तत्स्वभावतया, अध्गवसा- नम् अध्यवसायः; न पुनरध्यारोपो लक्षणा वा। अतिशयार्थमिति ्रान्तिज्ञाननिवृत्यर्थम्। सादृश्यादियमुत्प्रेक्षेति। एनां चेवादिशब्दा द्योतयन्ति। यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिल: स्मरारेरयो मूर्त्नि ज्वलनकपिशे भाति निहितः। स्वरूपान्यथाभावकल्पनास्वभावत्वाविशेषेण रूपकव क्रोक्तिभ्यामुत्प्रेक्षाया अ- भेदशङ्कायां लक्षणतो भेदं दर्शयितुमनन्तरसूत्रमवतारयति-रूपकेति। सूत्रार्थ- माविष्करोति- अतद्रूपस्येति। अतदूप प्राकरणिकं वस्तु तदात्मना अप्रा- करणिकवस्तुरूपत्वेन अतिशयमाधातुमध्यवसीयते प्रतिभामात्रेण कविना संभा- व्यते, न पुनरिन्द्रियदोषेण, तथाविधं संभावनापरपर्यायमध्यवसानमुत्प्रेक्षेति लक्ष- णार्थः । न पुनरिति। अतत्स्वभावस्य वस्तुनस्तद्गुणयोगात्तद्वावकल्पनम- ध्यारोपः; यत्र रूपकादिस्वरूपलाभः । यत्तु सादृश्ये सत्येकेन वस्तुना वस्त्वन्त- रस्य प्रतिपादनमध्यवसायरूपं सा सादृश्यमूला लक्षणा; यत्र वक्रोक्तित्यपदेशः । यत्पुनरतद्रूपे वस्तुन्यतिशयमाधातुं तद्रूपतयाध्यवसानम्, सोऽयमध्यवसायः संभावनालक्षण उत्प्रेक्षेति विवेकः। अतो न रूपकम्, नापि वक्रोक्तिरिति ततो भेदो दर्शितः। अतिशयार्थमिति। भ्रान्ति विपर्ययज्ञानम्। अन्यथाध्यवसाय- त्वाविशेषेऽपि बुद्धिपूर्वकत्वादुत्प्रेक्षायास्तद्विलक्षणाया आ्रन्तेर्व्यावृत्तिरित्यतिशयः । उत्प्रेक्षोदाहरणेषु केषुचिदिवशब्दश्रवणात् कम्यचिदुपमाशङ्का जायते; तामा- शङ्क्य परिहरति -- सादृश्यादियमुत्पेक्षेति। प्रयुक्तोऽपि क्वचिदिवशब्दः सादृश्यनिबन्धनत्वसूचनद्वारेणोत्प्रेक्षामपि द्योतयतीत्यर्थ.। तदुक्तं दण्डिना, 'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभि. । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः' इति। स वः पायादिति। अत्र नवबिसलताकोटिकुटिल इंति विशेषणसामर्थ्या-
Page 153
अ. ३.] कामधेनुसहिता। १३३
स्त्रचन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इन ।।' उत्प्रेक्षैवातिशयोक्तिरिति केचित्; तन्निरासार्थमाह- संभाव्यधर्म तदुत्कर्षकल्पनातिशयोक्तिः १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पना अतिशयोक्तिः । . यथा- 'उभौ यदि व्योष्नि पृथक्पतेतामाकाशगङ्गापयसः प्रवाहौ। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।।'
यथा वा- 'मलयजरसविलिप्ततनवो नवहारलताविभूपिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः। शशभृति विततधाम्न्रि धवलयति धरामविभाव्यतां गताः पियवसतिं प्रयान्ति सुखमेत निरस्तभियोऽभिसारिकाः ॥'
दिन्दुपदेनेन्दुकलावगम्यते। इन्दुर्मन्दाकिनीसलिलसेकेन कपालादुद्वित्नोडकुर इव- त्युत्प्रेक्ष्यत इत्युत्प्रेक्षालंकार. ।
संभावनारूपत्वाविशेषादुत्प्रेक्षातिशयोक्त्योरभेदं केचिन्मन्यन्ते; तन्मतं निरसितुं लक्षणभेदं दर्शयतीत्याह-उत्प्रेक्षैवेति। संभाव्यस्येति। संभा- व्यस्य उत्प्रेक्ष्यस्य धर्मस्य यद्यर्थानुबन्धेन कल्पना, तदुत्कर्षस्य तम्य संभव्यि- धर्मस्य य उत्कर्षस्तस्य कल्पना चातिशयोक्तिः। रदाहरति -- उभाविति। यदि तथाविधं व्योम संभाव्येत, तदेव आमुक्तमुक्ताफलम वक्षस उपमानं भवेत् न पुनरन्यत् किंचिदित्यतिशयस्योक्तेरतिशयोक्ति । एवं संभाव्यधर्मकल्पनामुदा- हृत्य तदुत्कर्षकल्पनामुदाहरति -- मलयजेति। मलयजरसनवहारलतादीनां तावान् धावल्यस्योत्कर्षोडतिशयः कल्प्यते, यावता चन्द्रिकायां तद्विवेचनाक्ष- मत्वं चक्षुषोरिति।.
Page 154
१३४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
यथा भ्रान्तिज्ञानस्वरूपा उत्प्रेक्षा, तथा संशयज्ञानस्वरूपः संदे- होऽपीति दर्शयितुमाह- उपमानोपमेयसंशयः संदेहः ॥ ११ ॥ उपमानोपमेययोरतिशयार्थ यः क्रियते संशयः, स संदेहः।
यथा- 'इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि। न निश्चिनोति हृदयं किंतु दोलयते मनः ॥' संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह- विरुद्धाभासत्वं विरोधः ॥ १२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विगेधः।
यथा- 'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि।
भ्रान्तितः पृथक्कृत्य प्रदर्शितवान्, तथा संशयमपि लौकिकसजातीयं तथाविधेन वैधर्म्येण ततः षटृथक्कृत्य दर्शयितुमाह-यथेति। संदेहस्य कोटिद्वयावलम्बि- त्वादिहापि तदाह- उपमानोपमेययोरिति। अतिशयार्थमिति। उपमेये अतिशयमाधातुं संदेहः संपाद्यते, न तु विशेषादर्शनादित्यर्थः । व्यक्तमुदा- हरणम्। कल्पनारूपत्वाविशेषादतिशयोक्तेरनन्तरं यथा संदेहालङ्कारः प्राप्तावसरः, तथा विरुद्धकोटिद्वियावलम्बिनः सदेहस्यानन्तरं विरोधालंकारः प्राप्तावसर इति तल्लक्षणं दर्शयतीत्याह-संदेहवदिति। व्याचष्टे-अर्थस्येति। विरुद्धवद- वभासत इति विरुद्धाभासस्तस्य भावस्तत्त्वम्। प्रकारान्तरेण परिहारे सत्येव विरुद्धस्यार्थस्यावभासनं विरोधालंकारः । उदाहरति- गंथेति। पानशब्दोऽत्र
Page 155
अ. ३.] कामधेनुसहिता। १३५
त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपशु- स्त्वन्मध्ये तनुता ममाधृतिरहो प्रेम्णो विचित्रा गतिः ।।' यथा वा- 'सा वाला वयमपगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सरेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यन्ुंतम् ॥' विरोधाद्विभावनाया भेदं दर्शयितुमाह- क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्ति- र्विभावना ॥ १३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य एसिद्धस्य व्य- कितिर्विभावना। यथा- 'अप्यसज्जनसांगत्ये न वमत्येव वैकृतम्। अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम्।।' विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह- एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥। १४ ॥ कर्मसाधनः पेयद्रव्यमाह। पानादीनां च वैयधिकरण्याद्विरोधः। मदादीनामर्था- न्तरत्वस्वीकारेण विरोधपरिहारः । सा बालेत्यादावपि विरुद्धाभासत्वं द्रष्टव्यम्" विभावनां विवरीवुमवतारिकामारचयति- विगेधादिति। लक्षणवाक्यार्थ विवृणोति -- क्रियाया इति। क्रियायाः कारणरूपाय" प्रतिषेधे प्रसिद्धस्य तस्याः क्रियायाः फलस्य कार्यभूतस्य व्यक्तिः प्रकाशनं यत्, सा विभावनेति वाक्यार्थः । विरोधविशेषो विभावनेति भेदः । अप्यसज्जनेति। विकृतमेव वैकृतम्। प्रज्ञादित्वात् सार्थेऽण्। अक्षालितविशुद्धेष्वित्यत्र कारणरूपक्षालनक्रि- याप्रतिषेधेऽपि तत्फलभूताया विशुद्धेः प्रकाशनात् विभावना।
Page 156
१३६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः ।
यथा- 'गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ।।' अन्यासादृश्यमेतेन प्रतिपादितम्। क्रमेणोपमेयोपमा ॥१५॥ एकस्यैवार्थस्योपमेयत्वसुपमानत्वं च क्रमेण उपमेयोपमा।
था- 'खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम्। कुमुदाक़ारास्तारास्ताराकाराणि कुमुदानि ।' इयमेव परिवृत्तिरित्येके ; तन्निरासार्थमाह- समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥ समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः।
अनन्वयं वक्तुमाह-विरोधेति। एकस्यैवार्थस्यैकस्मिन्नेव वाक्ये उप- मानान्तरव्युदासेनातिशयमाधातुमुपमानत्वं चोपमेयत्वं चोपकल्प्यते। तत्र व्यधि-
योरिति। स्पष्टम्। एकस्यैवोपमानोपमेयत्वकल्पनायां फलितमाह-अन्येति । उपमानान्तरेण असादृश्यं सादृश्याभावः । उपमेयोपमामुपपादयितुमुपरितनं सूत्रमुपादत्ते-क्रमेणेति। एकस्यैवे- त्यनुवर्तते। यत्र क्रमेण वाक्यदूये एकस्यैव वस्तुन उपमानत्वमुपमेयत्वं च निबध्यते तत्रोपमेयोपमा। खमिवेति। उदाहरणं स्पष्टम्। साम्यशङ्कायामुपमेयोपमातः परिवृत्ति व्यावर्तयितुं लक्षणं दर्शयतीत्याह- इयमेनेति। व्याचष्टे-समेनेति। समेन समानेन विसदृशेन असदृशेन वा
Page 157
अ. ३.] कामधेनुसहिता। १३७
यथा- 'आदाय कर्णकिसलयमियमस्मे चरणमरुणमर्पयति। उभयोः सदृशविनिमयादन्योन्यमवश्चितं मन्ये ॥' यथा- 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुपचन्दना। बबन्ध वालारुणवभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति।' उपमेयोपमायाः कमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंबन्धः क्रमः॥ १७॥ उपमेयानामुपमानानां चोददेशिनामनूददेशिनां च क्रमसंबन्धः क्रमः। यथा- 'तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः। जीयन्ते वल्लकीकुन्दकुमुमेन्दीवरसजः ।।' क्रमसंबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह- उपमानोपमेयवाक्येष्वेका क्रिया दीपकमूं ॥ १८ ॥ उपमानवाक्येपूपमेयवाक्येषु चैका करिया अनुषङ्गतः संबध्यमाना अर्थेन अर्थस्य यत्परिवर्तनं विनिमयः, सा परिवृत्तिः । उदाहरति- यथेति। अत्र प्रसारिताख्यं करणं सूचितमिति केचिदाचक्षते। 'नायकस्यांस एको द्वितीयः प्रसारित इति प्रसारितकम्' इति वात्स्यायनसूत्रम्। तद्विवृतं रतिरहस्ये, प्रियस्य वक्षोंऽसतलं शिरोऽथवा नयेत सव्यं चरणं नितम्बिनी। प्रसाश्येद्वा परमायतं पुनर्विपर्ययः स्वादिति हि प्रसारितम्' इति। अत्र चरणकिसलययोः सादृश्यात् समपरिवृत्तिः। विहायेत्यादौ हारवल्कलयोवैसदश्याद्विसदृशपरिवृत्तिः । क्रमालंकारं कथयितुमाह-उपमेयेति। वृत्ति. स्पष्टार्था । प्रबन्धेनावि- च्छेदेन लीला यासां ताभि. प्रबन्धलीलाभिः । क्रमदीपकयोः सौहार्दमुन्मुद्रयन् सूत्रमवतारयति-क्रमेति। व्या- चष्टे-उपमानेति। एकम्यैव प्रधानसंबन्धितया सकृदुपात्तस्य पदस्य वाक्यान्त- . 18
Page 158
१३८ काव्यालंक।रसूत्रवृत्ति: अधि. ४.
दीपकम्। तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात्॥ १९॥
तत् त्रिविधं भवति, आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेंदाद्। यथा- 'भूष्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः। ब्रह्माण: श्रुंतगदितैः क्रियाकलापै राजानो विरलितवैरिभि: मतापैः ॥' 'वाष्पः पथिककान्तानां जलं जलमुचां मुह्ुः। विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥' 'गुरुशुश्रूपया विद्या मधुगोष्ठया मनोभवः । उदयेन शशाङ्कस्य पयोधिरभिवर्धते।' दीपकवन्निदर्शनमपि संक्षिप्तमित्याह- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥ क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम्। रेषु प्रसद्वात् संबन्धोऽनुषङ्गः। तद्गेदमाह-तर्त्त्रविध्यमिति। भूप्यन्त इत्यत्न आदिदीपकम्। ब्रह्मा- णः ब्राह्मणाः । बाष्प इत्यत्र मध्यदिकम्। गलनं बाष्पजलयो स्यन्द, द- ण्डयात्रोद्योगे नाशः । गुरुशुश्रृषयेत्यत्र अन्तदीपकम्। एवमेव कारकदीपकमप्यू- हनीयम्। निदर्शनं दर्शयितुमाह- दीपकवदिति। शुद्धया अनन्यसहायया क्रिययैवावृत्तिरहितयेत्यर्थ । स्वस्य तदर्थम्य सा क्रिया अर्थः प्रयोजनं यस्य तत्तदर्थ स्वप्रयोजनकमर्थान्तरमित्यर्थः । तयोः स्वतदर्थयोरन्वयस्य संबन्घस्य ख्यापनं निदर्शनम्। निदर्शनपदार्थ निर्वक्ति-संलुलितेति। संलुलितः
Page 159
अ. ३.) कामधेनुसहिता। १३९
यथा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत्। आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ।।' पततीति करिया। तस्या: स्वं पतनम्। तदर्थः अत्युच्चपदाध्यासः। तुयारन्वयः अत्युच्चपदाध्यासः पतनायेति। तस्य ख्यापनम् अर्थशालिनां शंसदिति। इदं च नार्थान्तरन्यासः ; स तु यथाभूतस्तमाह- उक्तसिद्धयै वस्तुनोऽर्थान्तरस्यैव न्यसनम- र्थान्तरन्यासः ॥ २१॥ उक्तसिद्धयै उक्तस्यार्थस्य सिद्ध्यर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्य सनमर्थान्तरन्यासः। वस्तुग्रहणात्पदार्थस्य हेतोर्न्यसनं नार्थान्तरन्यासः। यथा-'इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात्' इति। अ- र्ान्तरस्यैवेति वचनम्, यत्र हेतुर्व्याप्तिगूढलात् कर्थचित्मतीयते तत्र य- था स्यात्; यद्यत् कृतकं तत्तदनित्यमित्येवंप्रायेषु मा भूदिति।
अविवेचितः हेतुदृष्टान्तयोर्विभागस्तस्य दर्शनाद्विवेचनात्, निगूढहेंतुदृष्टान्तदर्शन- रूपत्वान्निदर्शनमित्यर्थः । उदाहरति- अत्युच्चेति । अर्थशालिनाम् अर्थोल्लेख- शालिनां धनशालिनां वा। लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयत्ति- पततीति क्रियेति अर्थान्तरन्यासं समर्थयितुं सूत्रसंगतिं सूचयति- इदं चेति। उर्तस्व वाक्यार्थस्य सिद्धयै। वाक्यार्थान्तरस्व अन्यस्य वाक्यार्थस्यैव। वस्तुग्रहणप्रयोजनं प्रस्तौति -- वस्त्विवति। प्रत्युदाहरणं प्रदर्श्यति- यषेति। अत्र कमलसौग- न्ध्यादिति हेतोः पदार्थरूपत्वात् तस्य न्यसनं नार्थान्तरन्यासः। अवधारणप्रयो- जनमभिधत्ते -- अर्थान्तरस्यैवेति वचनमिति। यत्र वस्तुतो हेतुरूपमेवा- र्थान्तरं तद्वचाप्तिस्तु यत्नगौरवेण प्रतीयते, तत्रालंकारता यथा स्यात्, प्रसिद्ध व्याप्तिस्थले तु मा भूदित्येवमर्थमेवकारकरणमित्यर्थः । उदाहर्तुमाह -- उदाहर
Page 160
१४० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उदाहरणम्- प्रियेण संग्रथ्य विपक्षसंनिधा- वुपाहितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' अर्थान्तरन्यासस्य हेतुरूपत्वात्, हेतोश्वान्वयव्यतिरेकात्मकत्वात् न ततः पृथग््यतिरेफ इति केचित् ; तन्निरासार्थमाह- उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ॥ २२ ॥ उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमानाद, स व्यतिरेकः । यथा- 'सत्यं हरिणशावाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किंतु स कलङ्कविडम्बितः ।I' कश्चित्तु गम्यमानगुणो व्यतिरेकः । यथा- 'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंपदः। णमिति। पियेगेति। अत्र विशेषरूपमुपमेयं सामान्येनोपमानेन समर्थ्यते। अर्थान्तरन्यासव्यतिरेकयोर्भेदं दर्शयितुमभेदशङ्कामुन्मीलयति-अर्था- न्तरेति । व्याचष्टे -- उपमेयस्येति। गुणशब्दोऽत्र धर्ममात्रवचनः । स च वाच्यो गम्यश्चेति द्विविध। उभयोऽप्युपमानगतस्तदपकर्षहेतुः उपमे- यगतस्तदुत्कर्षहेतुश्चेति द्विविधो भवति। यदा उपमानगतस्तेन तदपकर्षहे- तुना गुणेनोपमेयस्य गुणातिरेकित्वमर्थाद्भवति। तदा गुणातिरेकित्वमार्थम्। यदा पुनरुपमेयगतस्तदा तेन तदुत्कर्षहेतुना अर्थादुपमानादुपमेयस्य गुणातिरे- कित्वं भवति। तदा शाब्दमतिरोकित्वम्। तत्रोपमानगतवाच्यगुणप्रयुक्तं व्यतिरे- कमुदाहरति -- सत्यमिति। अत्र कलङ्कविडम्बितपद वाच्येनौपृमानस्यापकर्षहेतुना
Page 161
अ. ३.] कामधेनुसहिता। १४१
विषसुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरललितैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥' व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह- एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ २३॥ एकस्य गुणस्य हाने: कल्पनायां शेषैर्गुणेः साम्मं यत्, तस्य दा- ढर्य विशेषोक्तिः। रूपकं चेदं प्रायेणेति। यथा- 'भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः।' 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्।' 'इयं ह्यकमला लक्ष्मीः ।' 'हस्ती हि जङ्गमं दुर्गम्' इति।
नैव। एतेन 'वेश्या हि नाम मूर्तिमत्येव निक्ृतिः' 'व्यसनं हि नाम
कल्वित्वगुणेनोपमेयस्यार्थादकल्वित्वलक्षणं गुणातिरेकित्वमिति व्यतिरेकः । उप- मानगतगम्यमानगुणप्रयुक्तं व्यतिरेकमुदाहरति-कुवलयवनमिति। कुवलयवनं- मध्यादिषु प्रत्याख्याननिन्दनादिभिरवगम्यमानेन निकर्षहेतुना चूतुरललितलीला- तन्त्रत्वराहित्यलक्षणेन गुणेनार्धविलोकितेषु चतुरललितलीलातन्त्रत्वरूपं गुणातिरे- कित्वं शाब्दमपि प्रकृष्टतया 'प्रतिष्ठापितं भवतीति गम्यमानगुणप्रयुक्तो व्यतिरेकः। अर्थान्तरन्यासे व्यतिरेको विपक्षव्यावृत्तिः । अत्र तु गुणाधिक्यमिति भेदः ।
विशेषोक्तिं विवेक्तुमाह-व्यतिरेकादिति, एकस्येति। अर्थादुपमेय- गतस्य। हानिः लोपः । अवजेनीयतया रूपकमषि संभवतीत्याह- रूपकमिति। अतैलपूरा इति, असिंहासनमिति, अकमलेत्यत्रैकगुणहानिकल्पना सिध्यति। ननु जङ्गममित्येकगुणहानिकल्पनाया अप्रतीतेः कथं विशेषोक्तिरिति तत्राह- जङ्गमशब्दस्येति । समर्थितामेकगुणहानिकल्पनामन्यत्रातिदिशति-एतेनेति।
Page 162
१४२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
सोच्छवासं मरणम्' 'द्विजो भूमिबृहस्पतिः' इत्येवमादिष्वेकगुणहानि- कल्पना व्याख्याता।
व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकरणान्निन्दा स्तोलार्था व्याजस्तुतिः॥ २४ ॥ अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशिष्टकर्म, तस्य सं- भाव्यस्य कर्तु शक्यस्य अकरणान्निन्दा विशिष्टसाम्यसंपादनेन स्तोत्रा- र्था व्याजस्तुतिः।
यथा- 'बबन्ध सेतुं गिरिचक्रवालै- 'र्विर्भेद सप्तैकशरेण तालान्। एवंविधं कर्म ततान राम- स्त्वया कृतं तन्न मुघैव गर्वः ॥' व्याजस्तुंतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह- व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ २५॥
'कुसृतिर्निकृति; शाठ्यम्' इत्यमरः । मूर्तिमत्येवेत्यत्रामूर्तत्वनिवृत्तिः' सोच्छास- मित्यत्रानुच्छासतानिवृत्तिः, भूमिबृहस्पतिरित्यत्राभौमत्वनिवृत्तिश्व् प्रतिपाद्यत इत्ये- कगुणहानिकल्पना अवगन्तव्या। व्याजस्तुति व्याख्यातुं प्रसङ्गं परिकल्पयति-व्यतिरेकेति। व्याचष्टे- अत्यन्तेति ! विशिष्टो रामादिरुपमानभूतस्तम्य कर्म सेतुबन्धनादि। तस्य कर्तु शक्यस्य कर्मणोऽकरणाद्वर्णनीयस्य निन्दा रामादिसाम्यापादनात् स्तुतिपर्यवसा- यिनी व्याजस्तुतिः । बबन्धेति। त्वं राम एवासीति तात्पर्यम्। निन्दाव्याजेन स्तुतिरूपत्वात् व्यतिरेकविशेषोक्तिभ्यां भेदः । व्याजोक्तिं व्याकर्तुमाह- व्याजस्तुतेरिति। व्याचष्टे-व्याज-
Page 163
अ. ३.] कामधेनुसहिता। १४३
व्याजस्य च्छद्यनः सत्येन,सारूप्यं व्याजोक्ति :; यां मायोक्तिरि- त्याहुः। यथा- शरचन्द्रांशुगौरेण वाताविद्धेन भामिनि। काशपुष्पलवेनेदं साध्रुपातं मुखं कृतम् ।।' व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह- विशिष्टेन साम्यार्थमेककालक्ियायोग- स्तुल्ययोगिता ॥ २६ ॥
योगिता। विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगः तुल्य-
यथा- 'जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभुर्भवद्धुजश्र।
उपमानाक्षेपश्राक्षेपः । २७ ।। स्येति। असत्यस्येत्यर्थः । सत्येन यथार्थेन। सारूप्यं सत्यत्वकल्पनया समु- न्मिषितं सादृश्यम्। असत्यस्य सत्यत्ववचनं व्याजोक्तिरिति लक्षणार्थः । व्याजो- क्तिमिमां मतान्तरे संज्ञान्तरेण व्यवहरन्ति, न तु स्वरूपभेद इत्याह-यामिति। उदाहरति-शरदिति। चन्द्रांशुगौरेणेत्यनेन चन्द्रिकायां काशमुप्पलवस्याविवे- चनीयता सूचिता। वाताविद्धेनेत्यनेन अप्रसक्तिशङ्का निराकृता। अत्र सत्येन सान्विकभावेन कृतोऽश्रुपातः पुप्पलवेन कृत इत्यसत्यस्य सत्यतोक्तिः । अत एव व्याजस्तुतितो भेदः। तुल्ययोगितां वक्तुमाह-व्याजोक्ते: पृर्था। न। विशिष्टेन गुणाधिके- नोपमानेनेति यावत्। अर्थादत्र न्यूनस्येत्यननोपमेयस्येत्यवम्यते। एक: कालो यस्याः सा एककाला तस्यां क्रियायां साम्यार्थ यो योगः, सा तुल्ययोगिता। उदाहरति-जलनिधीति। आक्षेपं लक्षयितुं सूत्रमुपक्षिपति-उपमानेति। उपमानस्व तादशि उपमेये
Page 164
१४४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उपमानस्य आक्षेपः प्रतिषेध उपमानाक्षेपः; तुल्यकार्यार्थस्य नैर- र्थक्यविवक्षायाम् आक्षेपः।
यथा- 'तस्याश्रेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः। किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' उपमानस्य आक्षेपः आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः ।
यथा- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्। प्रसादमन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।।' अत्र शरद्वेश्येव, इन्दुं नायकमित, रवेः प्रतिनायकस्येवेत्युपमा- नानि गम्यन्त इति।। तुल्ययोगितायाः सहोक्तर्भेदमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ २८॥
वस्तुद्रयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्द सापर्थ्यात् सहोक्तिः।
सति नैरर्थक्यविवक्षायां प्रतिषेध आक्षेप इति वाक्यार्थः। तस्याश्चेन्मुखमित्युदाह- रणम्। चकारेण समुच्चितमर्थमाह-उपमानस्याक्षेप इति। आक्षेपोSत्राकर्षण- म्। ऐन्द्रं धनुरित्युदाहरणम्। अत्राक्षेपलभ्यं प्रकटयति-अत्र शरदिति। सहोक्तिं वक्तुमाह-तुल्ययोगिताया इति। वस्तुद्वयसंबन्धिन्योः क्रिययो: सहार्थानां सहशब्दपर्यायाणां ग्रहणसामर्थ्यादेकेन पदेनाभिधानं सहोक्तिः।
Page 165
अ ३.] कामधेनुसहिता। १४५
यथा- 'अस्तं भाखान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि।' अत्रार्थयोर्न्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति। समाहितमेकम वशिष्यते; तल्लक्षणार्थमाह- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥२९ ॥ यस्य वस्तुनः सादृश्यं ग्रृह्यते, तस्य वस्तुनः सुंपत्तिः समाहितम् यथा- 'तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभि: शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्मा। चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ।।' अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति। एते चालंकारा: शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम- स्पष्टमुदाहरणम्। उभयोरलंकारयोर्भेदं दर्शयति- अत्रेति। समाहितं समीरयितुमाह-समाहितमिति। शुद्धेप्वलंकारभेदेषु समाहि- तमेकं लक्षयितुमवशिष्यत इत्यर्थः । यस्येति। तस्य संपत्तिस्तदाकारतापरिणतिः, ताद्रूप्यसंपत्तिरिति यावत्। अत्रोदाहरणं विक्रमोर्वशीये दर्शयितुमाह-तन्वीति। लतायामुर्वशीसादृश्यं पश्यतः पुरूवरस इयमुक्तिः । अत्रेति। लतामवलोक्य त-
त्प्रेक्षमाणस्य पुरूरवसः सैव लतोर्वशी संपन्नेति लताया उर्वशीत्वसंपत्तेः संभवात् समाहितम्। समनन्तरक्षणभावित्वेऽपि ततंणत्तेस्तस्थ त दात्विकत्वाभिमानं सूच- यितुं भूतप्रत्ययः ॥ शुद्धालंकारनिरूपणोपसंहारव्याजेन मिश्रालंकारनिरूपणाय प्रसङ्गं प्रस्फो- रयति- एते चेति। शुद्धाः पूर्व लक्षिताः । मिश्राः संसृष्टिभेदाः । शुद्धा इव मिश्रा अप्यलंकारा: प्रयोगयोग्याः, शोभातिशयहेतुत्वादिति भावः। इतिशब्दो 19
Page 166
१४६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
लंकारणां मिश्रत्वं संसष्टिरित्याह- अलंकारस्यालंकारयोनित्वं संसृष्टिः॥३०॥ अलंकारस्य अलंकारयोनित्वं यत्, असौ संसृष्टिरिति। संसष्टिः संसर्ग: संबन्ध इति। तन्द्रेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१॥ तस्याः संसषनर्भेदौ-उपमारूपकं चोत्प्रेक्षावयवश्रेति।
उपमाजन्यं रूपकमुपमारूपकम् ॥ ३२॥ यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तित कौतुकमपश्चम्। प्रथम इह भवान्स कूर्ममूर्ति- जयति चतुर्दशलोकवलिकंदः ।I' एवं 'रजनिपुरंत्रिलोध्रतिलकः शशी' इत्येवमादयस्तद्भ्ेदा द्रष्टव्याः। हेतौ। विशिष्टानामलंकाराणाम् अलंकारविशेषाणाम्। ससृष्टेर्लक्षणमाह-अलंका- रस्येति। कार्यकारणभावापन्नयोरलंकारयो. संबन्धः संसृष्टिरित्यरथः । संसृष्टिविभागं दर्शयितुं सूत्रमनुभाषते-तद्भेदाविति। अलंकारयोनि- त्वमित्यत्र यथाक्रमं बहुव्रीहितत्पुरुषाश्रयणेन द्वौ भेदौ भवतः-उपमारूपकमुत्ये क्षावयवश्चेति॥। · तत्राद्यं लक्षयितुं सूत्रमुपक्षिपति- उपमाजन्यमिति। सूत्रमिदं निग- दव्याख्यानमित्यभिसंधाय उदाहरणं दर्शयति -- यथेति। नन्वत्र कूर्ममूर्तेः कंद- त्वारोपाल्लोकानां वल्लित्वारोपणं वक्तुं युक्तम्। तथा च रूपकजन्यमिह रूपकमिति वक्तव्यम्। यन्मतान्तरे परंपरितरूपकमित्युच्यते। तत्कथमिदमुपमाजन्यं रूपक- मिति चेत्, सत्यम् ; लोको वल्लिरिव लोकवा्लिः। व्याघ्रादेराकृतिगणत्वादुपमि- तसमासः। लोकवल्ल्याः कंद इति कूर्ममूर्तो कंदत्वारोपणमिह अ्रन्थकृतो विव- क्षितमिति न दोषः । इत्थमेव रजनिपुरंध्रीत्यादावपि द्रष्टव्यम्।
Page 167
अ. ३.] कामधेनुसहिता। १४७
उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३३ ॥ उत्प्रेक्षाया हेतुरलंकार उत्पेक्षवयवः। अवयवशब्दो ह्यारम्भकं लक्षयति। यथा- अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः। कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।' एभिर्निंदर्शनेः स्वीयैः परकीयैश्व पुप्कलैः। शब्दवैचित्र्यगर्भेयमुपमैव प्रपश्चिता॥ अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽप्यलंकारदेशीया योजनीयाः कबीश्वरैः ॥ इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेडधिकरणे तृतीयोऽध्यायः। समाप्तं चेदमालंकारिकं चतुर्थमधिकरणम्। उत्प्रेक्षावयवं लक्षयितुमाह- उत्प्रेक्षाहेतुरिति। अव्यवशब्द इति। अवयव आरम्भको हेतुरित्यर्थः । अङ्गुलीभिरिति। अत्रांपमारूपकानुप्राणितम्य श्ललषस्य उत्प्रेक्षोपपादकत्वादुत्प्रेक्षावयवत्वम्। अमीषामलंकाराणाभुपमाप्रपञ्चरूप- त्वमुपपादितमुपसंहरति -- एभिरिति: निदर्शनैः उदाहरणैः । अलंकाराणा- मप्येकलक्षणलक्षितानां शोभातिशयजनकत्वं कैमुतिकन्यायेन सिद्धमिति सूच- यितुं तदेकदेशानामपि शोभातिशयहेतुत्वमस्तीत्याह- अलंकारेति। इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरितीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना वधिकरणमयासीत्पूर्तिमेत ततुरीयम्॥ इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति व्याख्यायां काव्यालकारकामधेनौ आलकारिक नाम चतुर्थमधिकरणम्॥
Page 168
पञ्चममधिकरणम्॥
-(8:)- संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिक- रणमारभ्यते। तत्र काव्यसमयस्तावदुच्यते- नैकं पदं द्विः प्रयोज्यं प्रायेण ॥ १॥
एकं पदं न द्वि: प्रयोज्यं प्रायेण बाहुल्येन। यथा-'पयोदपयोद' इति। किंचिद्धि चादिपदं द्विरपि प्रयो- क्तव्यमिति। नित्या.संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥। २।।
किरन्ती कौतुकस्मेरैः कटाक्षैः करुणामृतम्। समये संनिधत्तां मे संलपन्ती सरस्वती॥ निर्हेतुके नियतिनिःस्पृहसुज्िहाने कान्तानिभे कविवरप्रतिभाविवर्ते। प्रत्यर्थिशून्यपरनिर्वृतिके प्रपञ्जे सारस्वतेऽस्तु समयः सुधियानुपाल्यः॥
प्रायोगिकं पञ्चममधिकरणमारभ्यते। अधिकरणान्तरारम्भौचित्यमासूत्र- यति-संप्रतीति। संप्रतिशब्देन काव्यम्य प्रयोजनाधिकार्यात्माङ्गभेददोषगुणालं- कारेवु दर्शितेषु प्रयोगनियमशब्दशुद्धयोः प्राप्तावसरत्वं प्रत्याय्यते। प्रयोगविषये नियामकत्वेन भवतीति प्रायोगिकम्। तयो: प्रथमं प्रयोगमर्यादा पर्यालोच्यत इत्याह-तत्रेति। समयः संकेतः, प्रयोगे वर्ज्यावर्ज्यनियम इति यावत्। न द्विः प्रयोज्यमिति। प्रतीतिवैरस्यादशक्तिसूचकत्वाच्चेत्यभिप्रायः। प्रायग्रह- णस्य प्रयोजनमाह-किंचिद्धीति। यथा-'ते च प्रापुरुदन्वन्तं बुबुधे चादि- पूरुषः ।' इति। आदिग्रहणात् पदानुप्रासपादयमकेषु द्विःप्रयोगो न दोषायेति द्रष्टव्यम्।
Page 169
अ. १.] कामधनुसाहेता। १४९
नित्या संहिता पादेषु एकपदवत् एकस्मिन्निव पदे। तत्र हि नित्या संहितेत्याम्रायः। यथाहु :- 'संहितेकपदे नित्या नित्या धातू- पसर्गयो: ।' इति। अर्धान्तवर्जम् अर्धान्तं वर्जयित्वा। न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥ पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम्; न सर्वत्र न सर्वस्मिन वृत्त इति। यथा- 'यासां बलिर्भवति मद्ृहदेहलीनां हंसैश्र सारसगणैश्र विल्दुप्तपूर्वः । तास्वरेव पूर्वबलिरूठयवाङ्कुरासु बीजाञ्जलि: पतति कीटमुखावलीढः ।।' एवंप्रायेष्वेव वृत्तेष्विति। न पुनः-'वरूथिनीनां रजसि प्रसर्पति समस्तमासीदविनिमीलितं जगत्।' इत्यादिषु। चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः । नित्येति। एकस्मिन् पदे संहिता प्रकृष्टसंनिकर्षो यथा नित्या, तथा पादेष्वपि संहिता नित्या भवति। आम्नायः प्रमाणवचनम्। तं दर्शयति- संहितेति। अविशेषेण सर्वत्र प्राप्तौ क्वचित्संहितां पर्युदस्यति- अर्धान्त- वर्जमिति। यदपि 'वा पादान्ते' इति पादान्तवर्णम्य लघोर्गुरुत्व विकल्पेन विहि- तम्, तदपि न सर्वत्र भवतीति प्रतिपादयितुमाह-न पादान्तेति । प्रथमं ता- वल्लघोर्गुरुत्वं दर्शयति-यथेति। एवंप्रायेष्विा 'श्रीतिप्पभूपालक मध्यलो- कदेवन्द्र वज्राकदचन्द्रिकाभिः। त्वद्वाहुराभाति हसनिवायं प्रोढौ प्रदाने मणि- पारिजातौ।' इत्यादिषु इन्द्रवज्रादिषु उपजातिभेदेष्वपि द्रष्टव्यम्। प्रतिषेधवि- षयं प्रदर्शयति-न पुनरिति। तेन 'वा पादान्ते' इति व्यवस्थितविभाषा वेदितव्या।
Page 170
१५० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादान् ॥४ ॥
गद्ये समाप्तमायं वृत्तं न विधेयम्, शोभाभ्रंशात्। अन्यत्रोद्गतादि- भ्यो विषमदृत्तेभ्यः, संवादाद्गद्येनेति। न पादादौ खल्वादयः ॥ ५॥ पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः प्रकारार्थः। येषामादौ प्रयोगो न श्विष्यति ते गृह्यन्ते। न पुनर्वतहन्तप्रभृतयः। नार्धे किंचित्समातं वाक्यम् ॥ ६ ॥
वृत्तस्यार्धे किंचित्समापं वाक्यं न प्रयोक्तव्यम्।
यथा- 'जयन्ति ताण्डवे शंभोर्भङ्गराङ्गुलिकोटयः। कराः कृष्णस्य च भुजाश्चकांशुकपिशत्विषः ।।'
न गह इति। गद्ये वृत्तगन्धिनि समाप्तप्रायं परिपूर्णकल्पं वृत्तं न विधेयम्। तत्र हेतुमाह-शोभेति। गद्यपरिपाटीविसंवादेन शोभाभ्रंशो जायत इत्यर्थः । अन्यन्नेति। उद्गतादिषु विषमवृत्तेषु गद्यसंवादिषु किंचिद्वृतं समाप्त- प्रायमपि गद्ये प्रयोक्तव्यम्। तत्र हेतु :- संवादादिति। विसंवादाभावादि- त्यर्थ: । न पादादाविति। पादादौ खल्वादिप्रयोगो न क्विप्यति, श्रुतिविरस- त्वादिति भावः । यथा-'खलूकत्वा खलु वाचिकम्' 'इव सीतागृहच्छद्च्छन्नो लङ्कापतिः पुरा।' 'किल सृजति कामिनीनां किलकिश्चितमेव कामिजनमोहम्।' इत्यादि। नार्ध इति। किंचित्समाप्तम् एकपदावशेषं वाक्यम्। एकपदार्थावशेष- वाक्यार्थप्रतिपादकमर्धमित्यर्थः । तादृशमर्धमुदाहरति- जयन्तीति।
Page 171
अ. १.] कामधेनुसहिता। १५१
न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥ ७॥ बहुव्रीहिपतिपत्तिं करोति यः कर्मधारयः, स न प्रयोक्तव्यः। यथा-अध्यासितश्रासौ तरुश्वाध्यसिततरुरिति । तेन विपर्ययो व्याख्यातः ॥।८।। बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा-वीराः पुरुषा यस्य स वीरपुरुष्ः। कलो रवो यस्य स कलरवः इति।
संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ९॥ संभाव्यस्य निषेधस्य निवर्तने द्वो प्रतिषेधौ प्रयोक्तव्यौ। यथा- 'समरमूर्यनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः। स खलु तापसवाणपरंपराकबलितक्षनजः क्षितिमाश्रितः ।' विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ॥ १० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः ।
न कर्मधारय इति। वृत्तिः स्पष्टार्था। तादृशमुदाहरणं दर्शयति-अध्या- सित इति 1 निष्ठापूर्वपदत्वेन बहुत्रीहिप्रतिपत्तेरेव पुरःस्फूर्तिकत्वादिति भावः । तेनेति। समासान्तरप्रतिपिकृतःसमासस्य प्रयोगो न कार्य इति न्यायो यः फलितः पूर्वसूत्रे, तेनेत्यर्थः । विपर्ययशब्द विवृणोति- बहुव्री- हिरपीति। वीराः पुरुषा यस्येति। राजा चासौ पुरुष इति, राजा पुरुषो यस्येति वा राजपुरुष इति कर्मधारयो बहुव्रीहिर्वा ईदृशो न कर्तव्य इति तात्पर्यम्। संभाव्यस्येति। संप्रतिपतियोग्यस्य, प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः । समरेति। नं जित इति न, किंतु जित एवेत्यर्थः ।
Page 172
१५२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
यथा-'निधानगर्भामिव सागगम्बराम्।' अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम्। एतेन- 'क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः।' 'गिरेस्तडिलानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः।' इत्यादयः प्रयोगा व्याख्याताः। सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥। ११ ॥ सर्वनाम्ना अनुसंधि: अनुसंधानं प्रत्यवमर्शः कार्यः, वृत्तिच्छन्नस्य वृत्तौ समासे च्छन्नस्य गुणीभूतस्य। यथा-'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानग- न्धिनः ।' इति। संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥ संबन्धेन संबन्धः संबन्धसंबन्धः तस्मिन् षष्ठी प्रयोज्या कचित्, न सर्वत्रेति ।
विशेषशेति। यत्रानन्यसाधारणविशेषणमहिस्रा विशेष्यस् प्रयोगमन्त- रेण प्रतिपत्तिर्भवति. तत्र विशेषणमात्रप्रयोग: क्रियते। तददात्हत्य दर्शयति- निधानेति। अत्र सागराम्बरत्वं भुव एव, ऊर्ध्वाचिर्योगश्चाग्नेरेव, तडित्संबन्धश्च मेघस्यैवेत्येषामनन्यसाधारणत्वम्। यत्र तु विशेषणमहिम्ना प्रतिपन्नं विशेष्यं साधा- रणविशेषणविशिष्टमभिधित्सितम्, तत्र विशेष्यस्यापि गतार्थस्य प्रयोगे न दोष इत्यपि द्रष्टव्यम्। सर्वनाम्नेति। अत्र भाष्यकारवचनं प्रमाणम्- 'अथ शब्दानुशा- सनम् । केषाम्? शब्दानाम्।' इति। तद्रेण्विति । अत्र तच्छब्दः समासे उप- सर्जनीभूतं नीलोत्पलं परामृशति।
Page 173
अ. १.] कामधेनुसहिता। १५३
यथा-'कमलस्य कंदः' इनि। कमलेन संबद्धा कमलिनी तस्याः कंद इति संबन्धसंबन्धः । तेन कदलीकाण्डादयो व्याख्याताः । अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥ अतीव कविभि: प्रयुक्तं देशभाषापदं प्रयोज्यम्। यथा-'योषिदित्यभिललाष न हालाम्।' इत्यत्र हालेति देशभा- षापदम्। अनतिप्रयुक्तं तु न प्रयोज्यम्। यथा- 'कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः।' इत्यत्र कङ्केलीपदम्। लिङ्गाध्याहारौ ॥ १४ ॥ लिङ्गं च अध्याहारश्र लिङ्गाध्याहारौ अतिपयुक्तो प्रयोज्याविि। लिङ्गं यथा- 'वत्से मा बहु निःश्वर्सीः कुरु सुरागण्टूषमेकं शनैः।' इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तः न स्त्ियाम्, आम्ना- तोऽपि स्त्रीत्वे। अध्याहारो यथा- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्गा। वाहिनीजलभरः कुलिशं वा खस्ति तेस्तु लतया सह वृक्ष ।I' अत्र हि धाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्त इति। संबन्धेति। संबन्धपारम्पर्येपि षष्ठी भवतीत्यर्थः । कदली हि समुदा- यस्तस्या गर्भस्तत्र काण्डमिति संबन्धसंबन्ध इति। अतिप्रयुक्तमिति। अतीव प्रयुक्तं प्रायशः प्रयुक्तम्। देशव्यवस्थिता भाषा देशभाषा, तत्र सिद्धं पदं देशभापदं दश्य पदमित्यर्थः। अतिन। व्यावर्त्य कीर्तयति- अनतीति । कङ्रेलिरशोकंः । लिङ्गाध्याहाराविति। अतिप्रयुक्तमित्यनुवर्तते । न स्त्रियामिति । 'शुण्डाग्रभागे गण्डूषा द्वयोस्तु मुखपूरणे' इति स्त्रीत्वेऽप्याम्नातः स्त्रियां न प्रयु- ज्यते। मा भवन्तुमिति। धाक्षीदित्यत्र आदिपदेन भाङ्ीत्, छैत्सीत्, भैत्सीत् 20
Page 174
१५४ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
लक्षणाशब्दाश्र,॥ १५॥
लक्षणाशब्दाश्च अतिमयुक्ताः प्रयोज्याः। यथा-द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ। अनतिप्रयुक्ताश् न प्रयोज्याः । यथा -- द्विकः काक इति।
न तद्वाहुल्यमेकत्र ॥ १६ ॥ तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम्। शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुम्, न बहूनामिति। स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ १७॥
स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जाति: प्रायेण बाहुल्ये- नेति। यथा-'स्तनयोस्तरुणीजनस्य' इति। प्रायेणेति वचनात् कचि- न्न भवति, यथ :- 'स्त्रीणां चक्षुः' इति।
इत्येषामध्याहारो न दुप्यति, अतिप्रयुक्तत्वेन बुद्यारूढत्वादिति भावः । लक्षणाशब्दाश्रेति। द्वौ रेफौ यम्येति द्विरेफः। र उदरे यस्येति रोदरः। द्विरेफरोदरशब्दौ मुख्यया वृत्त्या भृङ्गरथाङ्गनामवाचकयोर्र्र्रमरचक्रवाकशब्दयोर्व- तेते, तेन तदर्थयो रेफसंबन्धाभावात्। अतो वाच्यवाचकयोरभेदोपचारेण तदर्थ- योर्वतैते इति लक्षणाशब्दौ। 'चक्रवाको रोदरश्र कोकश्चक्राभिधाह्वयः' इति वैजयन्ती। यथा द्विरेफशब्दो भ्रमरे रोदरशब्दश्चकवाके; न तथा द्विक इति काके, अनतिप्रयुक्तत्वादिति। यदाहु :- 'निरूढा लक्षणाः काश्चित्सामर्थ्याद- भिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः' इति।
न बहूनामिति। लक्षणापदबाहुल्ये क्विष्टतादोषप्रसङ्गादिति भावः । तरुणीजनस्येति। जनशब्दः समूहवचनः । ननु न जातेर्द्वित्वाविष्ट-
Page 175
अ. १.] कामधेनुसहिता। १५५
अथ कथ द्वित्वाविष्टत्वं जातेः? तद्धि द्रव्ये, न जातो; अतद्ूप- त्वात्तस्याः । न दोष: ; तद्रूपत्वाज्जातेः। कथं तदरूपत्वं जातेः? तद्धि जैना जानन्ति। वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः । न चैवमति- प्रंसङ्ग:, लक्ष्यानुसारित्वान्न्यायस्येति। एवमन्यापि व्यवस्थोह्या।
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पश्चमेऽधिकरणे प्रथमोऽध्यायः ।'
त्वमुपपद्यत। संख्याया द्रव्यधर्मत्वेन जातिधर्मत्वाभावादिति शङ्कते- अथ कथमिति। जातेर्द्रव्याभिन्नत्वान्नायं दोष इति परिहरति -- न दोष इति। जातिव्यक्त्योरभेद एव कुत इति शङ्कते -- कथं तद्ूपत्वमिति। जात्यपला- पवादिनो जैना: प्रष्टव्या इत्याह -- जैना इति। अपसिद्धान्तशङ्कामवधीरयति- वयं त्विति। न वयं जातिमपलप्यान्यापोहवादं समर्थयामहे, किंतु सिद्धं पर- मतमनूद प्रयोगं प्रतिष्ठापयामः। एवं तर्हि यस् कम्यचिन्मतमवलम्ब्य यत्कं- चिदपि सम्थयितु शक्यत इत्यतिप्रसङ्गमाशङ्कत परिहरति -- न चैवमिति। यथा पाणिनीये क्वचिज्जातिः क्वचिद्यक्तिरिति पक्षद्रयमवलमव्य लक्ष्यनिर्वाहः क्रियते तद्वदत्रापि परमतमनुसृत्य प्रयोगनिर्वाहः कृतः । प्रसिद्धे लक्ष्ये सति तद- नुसारी न्यायोऽन्विष्यते; न तु न्यायोऽस्तीति लक्ष्यमन्वेषणीयम्, लक्ष्यानुसारि- त्वान्न्यायस्येति। एवमन्या व्यवस्था प्रयोगमर्यादा स्वयं बुद्धिमद्धिरूहनीया ।
इति श्रीगोपेन्त्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति व्याख्यायां काव्यालकारकामधेनौ प्रायोगिके पश्चमेऽधिकरणे प्रथमोऽध्यागः॥
Page 176
द्वितीयोऽध्यायः॥
सांप्रतं शब्दशुद्धिरुच्यते-
रुद्रावित्येकशेषोऽन्वेष्यः ।।१।
रुद्रावित्यत्र प्रयोगे एकशेषः अन्वेष्यः अन्वेषणीयः । रुद्रश्व रुद्राणी चेति 'पुमान् स्त्रिया' इत्येकशेषः; स च न प्राम्नोति। तत्र हि 'तल्लक्षणश्रेदेव विशेषः' इत्यनुवर्तते इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम्। अत्र तु 'पुंयोगादाख्यायाम्'
छिन्ते मोहं चित्प्रकष प्रयुक्के सूते सूक्तिं सूयते या पुमर्थान्। प्रीतिं कीति प्राप्तुकामेन सैषा शाब्दी शुद्धि: शारदेवास्तु सेव्या।। अथेदानीमध्यायान्तरं व्याचिर्यासुस्तत्प्रयोजन प्रस्तौति-सांप्रतमिति। तत्र तावदेकशेषविषियं किंचिच्छोधयितु सूत्रमनुभाषते- रुद्राविति। 'पुमान् स्त्रिया' इत्येकशेषो विधीयते। तत्र 'वृद्धो यूना-' इति सूत्रात् 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते। तदिति स्त्रीपुंसयोनिर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यरथे। एवकारोऽवधारणे। विशेषो वैरूप्यम्। स्त्रिया सह वचने पुमान् शिप्यते। स्त्रीपुंसलक्षण एव चेद्विशेषो भवति, स्त्रीपुंसकृतमेव यदि वैरू- प्यं भवतीत्यर्थः। ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविति । तद्वदेव रुद्रश्च रुद्राणी च रुद्राधित्यत्राप्येकशेषः प्राम्नोतीति यः कश्चिदभिमन्यते, तत्प्रतिषेधाय प्रयोगादर्शनं प्रत्याययति-अन्वेषणीय इति। न्यायतः प्राप्तौ प्रयोगोऽप्युन्नीयतामिति, तत्रा- ह-स च न प्राप्नोतीति। अप्राप्तिमेव दर्शयितुमाह-तत्र हीति। अस्त्वेवं व्यवस्था, प्रकृते को विरोध इति तत्राह-अत्र त्विति। रुद्राणीत्यत्र 'पुंयोगा- दाख्यायाम्' इत्यनुवर्तमाने 'इन्द्रवरुण-' इत्यादिना डीष् विधीयते-पुंस आख्याभूतं यत्प्रातिपदिकं पुंयोगात् स्त्रियां वर्तते तस्मात् डीप्प्रत्ययो भवतीति। अतस्तल्वक्षणविशेषव्यतिरेकेण विशेषान्तरस्यापि विद्यमानत्वान्नंंतैकशेषप्राप्तिरिति।
Page 177
अ. २.] कामधेनुसहिता। १५७
इति विशेषान्तरमप्यस्तीति। एजेनेन्द्रौ भवौ शर्वावित्यादयः प्रयोगा: प्रत्युक्ता:। मिलिक्कविक्षपिप्रभृतीनां धातुत्वं धातु- गणस्यापरिसमाप्तेः ॥२॥ . मिलति विक्रबति क्षपयतीत्यादयः प्रयोगा दृश्यन्ते। तत्र मिलिक्र- विक्षपिप्रभृतीनां कथं धातुत्वम्, गणपठितानामेव धातुसंज्ञाविधा- नात्१ तत्राह-धातुगणस्यापरिसमाप्तेः । 'वर्धते धातुगणः' इति हि शब्दविद आचक्षते। तेनैषां गणपाठेऽनुमतिः, शिष्टपयोगादिर्तिं। वलेरात्मनेपदमनित्यं ज्ञापकात् ॥ ३॥ वलेरनुदात्तेत्वादात्मनेपदं यत्, तदनित्यं दृश्यते-'लज्जालोलं वलन्ती' इत्यादिपयोगेषु; तत् कथमित्याह-ज्ञापकात्। किं पुनस्त- ज्ज्ञापकम्? चक्षिडे द्वयनुबन्धकरणम्। चक्षिङ इकारेणैवानुदात्तेन सिद्ध
एतत्समानयोगक्षेमाणि प्रयोगान्तराणि प्रत्याख्येयानीत्याह-एतेनेति।
मिलिक्लबीति। 'भूवादयो धातवः' इति गणपठितानामेव धातुसंज्ञा विधानाद्धातुगणे मिलिप्रभृतीनामपाठात् कथं धातुत्वमित्याशङ्कापूर्वकं धातुत्वं समर्थयते -- मिलति विक्लबति क्षपयतीति। धातुगणस्वापरिसमाप्तौ प्राची- नाचार्यवचनं प्रमाणयति -- वर्धते धातुगण इति। प्रभृतिग्रहणाद्वीज्यान्दोला- दयः । . वलेरात्मनेपदमिति। 'अनुदात्तडित आत्मनेपदम्' इति वलेर्धातोरनु- दासेत्त्वान्नित्यमात्मनेपदप्राप्तौ शिष्टप्रयोगेषु पाम्मैपददशन न तत्सिद्धये क्वचिदनु दात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन संमर्थयितुमाह-वलेरनुदात्ते- च्वादिति। अनुदात्तेत्त्वनिबन्धनस्यात्मनेपदस्वानित्यत्वे चक्षिडो डित्करणं ज्ञापक- मित्याह-चक्षिडे द्वयनुबन्धकरणमिति। इकारेणैवेति। नन्वेवं 'गोः पादा- न्ते' इत्यतोऽन्तग्रहणांनुवृत्तेरन्तेदितत्वे सति 'इदितो नुं धातोः' इति नुम् स्यात्,
Page 178
१५८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
मात्मनेपदम्; किमर्थ डि्त्करणम्? तत्क्रियते अनुदात्तनिमित्तस्यात्मने- पदस्यानित्यत्वज्ञापनार्थम्। एतेन वेदिभर्त्सितर्जिप्रभृतयो व्याख्याताः। आवेदयति, भर्त्स यति, तर्जयतीत्यादीनां प्रयोगाणां दर्शनात्। अन्यत्राप्यनुदात्तनिबन्धन- स्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति। क्षीयत इति कर्मकर्तरि ॥ ४।। क्षीयत इति प्रयोगो दृश्यते; स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरना; त्मनेपदित्वात्। खिद्यत इति च॥ ५॥ खिद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव द्रष्टव्यः, न कर्तरि, अदैवादिकत्वात् खिदेः। तहिं 'चक्ष व्यक्तायां वाचि' इत्यकरान्तः पठ्येतेति भाव। उक्तमात्मनेपदस्या- नित्यत्वं वेदिभर्त्सप्रभृतिष्वपि द्रष्टव्यमित्याह- एतेनेति। 'आ गर्वादात्मनेप- दिन' इत्यात्मनेपदित्वेनानुदात्तेत्त्वं लक्ष्यत इति भावः। अन्यथानुदात्तत्त्वनि- बन्धनस्यात्मनेपदस्यानित्यताज्ञापने किमायातम् 'न चैवमतिप्रसङ्गः, शिष्टप्रयोग- मात्रविषयत्वाज्ज्ञापकस्य । क्षीयत इति। क्षिणोतेः सौवादिकस्य श्नुप्रत्ययान्तत्वेन प्रसिद्धावपि क्षीयत इति कर्तरि शिष्टप्रयोगो दृश्यते; तस्योपपत्तिमाह-स कर्मकर्तरि द्रष्टव्य इति । क्षिणोतेः कर्मस्थभावकत्वात् कर्मवद्धादः। खिद्यत इति चेति। चकारेण कर्मकर्तरीति समुच्चिनोति-सोडपीति। खिदोऽकर्मकत्वादन्तर्भावितण्यर्थत्वे प्रयोज्यकर्मस्थभावकत्वात् कर्मवद्धावः । खिदे- रनुदात्तेतः श्यनि कृते खिद्यत् इति रूपं सिध्यतीति शङ्कां परिहरति-अदै- वादिकत्वादिति। 1. वस्तुतस्तु पद्यतेरनन्तर सिव्रिद्यतिरात्मनेपदी दिवादावुपलभ्यत एवं। स्विद्यत इति पाठान्तरम्। व्याख्याता तु खिदिमेव मन्यंत। क्षीयत इति च दिवादरवृत्कृतत्वात्सिध्यतीति दीक्षितप्रभृतयः ।
Page 179
अ. २.] कामधेनुसहिता। १५९
मार्गेरात्मनेप्रदमलक्ष्म ॥ ६ ॥ चुरादौ 'मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विक- स्पितणिच्कः । तस्माद्यदात्मनेपदं दृथ्यते-मार्गन्तां देहभारमिति; तत् • अंलक्ष्म अलक्षणम्, परस्मैपदित्वान्मार्गे: । तथा च शिष्टप्रयोग :- 'करकिसलयं धृत्वा धूर्वा विमार्गति वाससी।' लोलमानादयश्चानशि॥७॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रश्ठव्याः। शानचस्त्वभावः, पंरस्मैपदित्वाद्धातूनामिति। लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ८॥ अस्त्ययं लभिः, यः प्राप्त्युपसर्जनां गतिमाह; अस्ति च यो गत्यु- मार्गेरिति । चौरादिकस्य मार्गे: 'आ धृषाद्वा' इति णिचो वैकल्पिकत्वेन तदभावे सति परम्मैपदित्वान्मार्गतीति शिष्टप्रयोगदर्शनाच्च परस्मैपदे प्रयोक्त- व्ये, यत्तु प्रयोगे कुत्रचिदात्मनेपदं दृश्यते-मार्गन्तामिति; तल्लक्षणहीनमित्याह- चुरादाविति। द्वयोरपि प्रयोगयोर्दर्शने कथमत्र व्यवस्थेति तत्राह -- तथा च शिष्टप्रयोग इति। लोलमानादय इति। 'लोलमाननवमौक्तिकहारं वेल्लमानचिकुरश्रथ- माल्यम्। स्विन्नवक्त्रमविकस्वरनेत्रं कौशलं विजयते कलकण्ठ्याः।' इत्यादिषु लोलमानादयः प्रयोगा दृश्यन्ते। परस्मैपदित्वादेतेषां शानजन्तत्वं विरुद्धम् ; आत्मनेपदित्वाच्छानच इत्याशङ्कायां प्रकारान्तरेण साधुत्वं समर्थयते- लोल- मानो वेल्लमान इति। 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति ताच्छील्या- दिप्वर्थेषु धात्वधिकारे चानशो विधानादेते प्रयोनशि द्रष्टव्या ; न तु शानचि। अतो न विरोधः । लभेरिति। यद्यपि 'डुलभष् प्राप्तौ' इति प्राप्तिरेव लभेरर्थ, तथापि प्राप्तर्गतिपूर्वकत्वात् प्राप्तिगत्योः कार्यकरणयोरभेदोपचारेण प्राप्त्युपसर्जनगत्यर्थ- त्वमपि लभेरङ्गकिृत्य प्रथमं तावत्पक्षद्वयं प्रस्तौति-अस्त्ययमिति। यः प्राप्त्यु-
Page 180
१६० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
पसर्जनां प्राप्तिमाहेति। अत्र पूर्वस्मिन् पक्षे गत्यर्थत्वाल्लभेर्णिचि अणौ यः कर्ता, तस्य गत्यादिसूत्रेण कर्मसंज्ञा। यथा- 'दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिर:ः शशिभासः।' द्वितीये तु पक्षे गत्यर्थत्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा। यथा- 'सितं सितिम्ना सुतरां मुनेर्वपु- विसारिभिः सौधमिवाथ लम्भयन्। द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ।।' तेमेशब्दौ निपातेषु ॥ ९ ॥ त्वया मयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ। यथा -- 'श्रुतं ते वचनं तस्य'वेदानधीत इति नाधिगतं पुरा मे।' तिरस्कृत इति परिभूतेऽन्तर्ध्युपचारात् ॥१० ॥
सर्जनां गतिमाह, सोडयं लभिरस्ति; यश्च गत्युपसर्जनां प्राप्तिमाह अयमपि लभिरस्तीति योजना। विवक्षावशात् लभिरयं कदाचित् प्राधान्येन गतिमाह, कदाचित्तु प्राप्तिमित्यर्थः । तत्न प्रथमे पक्षे निर्विवादमणिकर्तुर्णिचि कर्मत्वमित्याह- अत्र पूर्वस्मिन्निति। द्वितीये तु गत्यर्थत्वाभावान्नास्त्यणिकर्तुः कर्मसंज्ञेत्याह- द्वितीये त्विति। ततश्र सितिम्नेत्यत्र .कर्तकरणायोम्तृतीया' इति प्रयोज्ये कर्तरि तृतीया। तेमे इत्यादि। अत्र 'तेमयावेकवचनस्य' इति युष्मदस्मदोः षष्ठीचतु- र्थीद्वितीयास्थयोस्तेमयावादिष्टौ इति विभक्त्यन्तरस्थयोस्तयोरादेशाप्राप्तौ निपातेषु पाठात् तत्रापि प्रयोगसिद्धिरित्याह- तेमेशब्दाविति। तिरस्कृत इति। तिरस्कृतशब्दस्य परिभूतार्थे प्रयोगं दर्शयन्, तस्यानु-
Page 181
अ. २.] कामधेनुसहिता। १६१
तिरस्कृतशब्दः परिभूते .दृथ्यते- 'राज्ञा तिरस्कृतः' इति ; स च न माप्नोति। तिरःशब्दस्य हि 'तिरोऽन्तर्धौं' इत्यन्तर्धो गति- संज्ञा। तस्यां च सत्याम् 'तिरसोऽन्यतरस्याम्' इति सकारः । तंत्कथं, तिरस्कृत इति परिभूते? आह- अन्तर्ध्युपचारादिति। परि- भूलो ह्यन्तर्हितवद्भव्रति। मुख्यस्तु प्रयोगो यथा- 'लावण्यप्सरतिर- स्कृताङ्गलेखाम्।' नैकशब्दः सुप्सुपेति समासात् ॥ ११ ॥ 'अरण्यानीस्थानं फलनमितनेकद्रुममिदम्' इत्यादिषु नैकशब्दो दृशयते; स च न सिध्यति। नञ्समासे हि 'नलोपो नञरः' इति नलोपे 'तस्मान्नुडचि' इति नुडागमे सति अनेकमिति रूपं स्यात्। निरनुबन्धकस्य नशब्दस्य समासे लक्षणं नास्ति। तत् कथ नैकशब्द इत्यत्राह- सुप्सुपेति समासात्। मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १२ ॥ पपत्तिमुद्धाटयति- तिरस्कृतशब्द इत्यादिना। समाधत्ते-अन्तर्ध्युप- चारादिति। मुख्यपूर्वकत्वाद्गौणस्य मुख्यं दर्शयति- मुख्यर्त्विति। नञ््समासे हीति। 'नलोपो नञ्' इति नकारलोपे सति. 'तस्मान्नु- डचि' इति नुडागमे च कृते, अनेकमिति रूप स्यात्, न तु नैकमिति। नतु न सिध्यति चेन्मास्तु नव्समासः; प्रकारान्तरेण किं न स्यादित्यत आह-निर- नुबन्धकस्येति। सुप्सुपेति। 'सुबामन्त्रिते पराङ्क4रे' इत्यतः सुबित्यनुवृ- त्तौ, 'सह सुपा' इति योगविभागात् सुबन्तं पदं सुबन्तन सह समस्यत इति समासे नैकशब्दः सिद्धो भवतीत्यर्थः । मधुपिपासुप्रभृतीनामिति। श्रितादिष्वग्रहणान्नात्र द्वितीयासमासः संभ- वति। नापि कृदन्तेनं सह षष्ठीसमास 'न लोक-' इत्यादिसूत्रे उप्रत्यया- 21
Page 182
१६२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'मधुपिपासुमधुव्रतसेवितं मुकुलजालमजुम्भत वीरुधाम्' इत्या- दिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात्। 'श्रितादिषु गमिगाम्यादीनामुपसंख्यानम्' इति द्वितीयासमा,- सलक्षणं दर्शयति। त्रिवलीशब्दः सिद्धः संज्ञा चेत्ं ॥ १३ ॥ त्रिवलीशब्दः सिद्धो यदि संज्ञा, 'दिक्संख्ये संज्ञायाम्' इति संज्ञायामेव समासविधानान्'। बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम्॥१४॥
न्तेन योगे षष्ठीनिषेधात्। तत् कथमत्र समास इति चिन्तायां समासम्य गति- माह-गमिगाम्यादिष्व्रिति ।
त्रिवलीशब्द इति।कोणस्त्रिवल्येव कुचावलाबूस्तम्याम्तु दण्डस्तनुरो- मराजिः । हारोऽपि तन्त्रीरिति मन्मथस्य संगीतविद्यासरलम्य वीणा ॥' किमय संज्ञा, असंज्ञा वा?। असंज्ञापक्षे त्रिवलीशब्दम्य 'तद्धितार्थोत्तरपदसमाहारे च' इति समासो वक्तव्यः; तत्तु न संघटते। तथाहि-न तावत् पञ्चकपाल इत्या- दिवत् तद्धितार्थो विषयोऽस्ति। नापि पञ्चगवधन इत्यादिवदुत्तरपदं परम्। न चापि पञ्चपात्रमित्यादिवत् समाहारः, समाहारे हि तम्येकत्वादेकवद्भावे सति 'स नपुंसकम्' इति नपुंसकत्वं स्यात्। तदत्रासंज्ञापक्षो नेष्ट इत्यभिसंधाय संज्ञापक्षमाश्रित्य समासमाह- त्रिवलीशब्दः सिद्धो यदि संज्ञेति। यदि त्रिक्लीशब्दः संज्ञा भवति, तदा त्र्यवयवा वली त्रिवलीति विग्रहे 'दिक्संख्ये संज्ञायाम्' इति समासः सिध्यति।
विम्बाधर इति। अत्र समासवृत्ति संवेदयितुमभियुक्तप्रयोगं तावद्दर्श-
- अत्र वदन्ति- यदि त्रिवलीशब्दे सज्ञात्वात् 'दिक्सख्ये-' इत्यनेन समासः, तहिं सप्तर्षय इतिवत् बहुवचनेन भाव्यम्। यदि च त्र्यवयवा वली इति व्याख्यातृप्रदर्शितो विग्रहः, तर्हि शाकपार्थिवादित्वात्समास इति 'दिक्सख्ये' इति समास इति व्याहतम्। समासान्तरान्तर्भावाभिप्रायेण तु कथचिन्मूल नेयमिति।
Page 183
अ. २./ कामधनुसाहैता। १६३
'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते; सच न युक्तः । अधरबिम्ब इति भवितव्यम्, 'उपमितं व्याघ्रादिभिः-' इति समासे सृति। तत् कथं बिम्बाधर इति? आह-वृत्तौ मध्यमपदलोपिन्याम्। शांकपार्थिवादित्वात् समासे मध्यमपद्लोपिनि सति बिम्बाकारोऽधरो विमम्बाधर इति। तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्वव- दृत्तिः । शिष्टपयोगेषु चैष विधिः । तेन नातिप्रसङ्ग:। आमूललोलादिषु वृत्तिर्विस्पष्टपट्वत् ॥१६ ॥ 'आमूललोलम्' 'आमूलसरसम्' इत्यादिषु वृत्तिविस्पष्टपट्वत् मयूरव्यंसकादित्वात्। न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेध्रः पूरणेन तद्धितान्तत्वात् ॥१७॥
यति- बिम्बाधरः पीयत इति। प्रामाणिकप्रयोगदर्शनादयमसाधुरिति वक्तु- मयुक्तमित्याशङ्कगाह-स च न युक्त इति। लक्षणानुगुणं प्रयोगं दर्शय- न्नस्वा अयुक्तत्वं दर्शयति -- अधरबिम्ब इति। समाधत्ते -- वृत्तौ मध्यम- पदलोपिन्यामिति। उक्तामुपपत्तिमन्यत्राप्यनुगमयति -- तेनेति। ननु तारह्हि व्याघ्राकारः पुरुषो व्याघ्रपुरुष इत्यपि स्यादित्यतिप्रसङ्गं परिहाति- शिष्टप- योगेषु चैष विधिरिति। आमूललोलादिष्विरिंति। आमूलं लोलमिति विग्रहः। अत्र तत्पुरुषाधि- कारे लक्षणदर्शनात् समासान्तरम्य चाप्रसक्ते: कथमामूललोलादिप्रयोग: सिध्यतीति चिन्तायाम् 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकाति दष्टव्यः' इति वचनात् विस्पष्टपटुशब्दवत् समाससिद्धिरित्याह- आमू्ललोलमामूलसरसमिति। न धान्यषष्ठादिष्विति। धान्यानां षष्ठमुञ्छानां षष्ठमित्यत्र 'पूरणगुण- सुहितार्थ-' इति सूत्रेण पूरणप्रत्ययान्तेन समासनिषेधः क्रियते; सच न भवतीत्याह-धान्यषष्ठमिति। तत्र हेतुमाह-तद्धितेति। षष्ठशब्दस्य तद्धि
Page 184
१६४ काव्यालंकारसूत्रवृत्तिः [अधि. ५.
'धान्यषष्ठम्''तान्युञ्छषष्ठाङ्गितसैकतानि' इत्यादिषु न षष्ठीस- मासप्रतिषेधः पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् षष्ठो भाग: षष्ठ इति; 'पूरणाद्भागे तीयादन्' 'षष्ठाष्टमाभ्यां ञ च' इत्यन्विधानात्। पत्रपीतिमादिषु गुणवचनेन ॥ १८ ॥ 'पत्रपीतिमा,' 'पक्ष्मालीपिङ्गलिम्नः' इत्यांदिषु षष्ठीसमासप्रतिषे- धो गुणवचनेन प्राप्त:, बालिश्यात्तु न कृतः । अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युन्तरपदः॥ १९॥ अव्ज्यो न वर्जनीयो व्यधिकरणो बहुब्रीहिः। जन्मादि उत्तरपदं यस्य स जन्माद्युत्तरपदः । यथा- 'सच्छास्त्रजन्मा हि विचेकलाभः' 'कान्तवृत्तयः प्राणाः' इति। तान्तत्वादित्यर्थः । क पुनरत्र पूरणप्रत्ययव्यतिरेकेण तद्धित इत्याकाङ्कायां तद्धि- तं दर्शयति-षष्ठो भाग इति। 'पूरणाद्भागे तीयादन्' इत्यनुवृतौ 'षछाष्टमा- भ्यां ञ च' इत्यन्विधानादन्यतद्धितान्तत्वमित्यर्थः । पत्रपीतिमादिष्विति। अत्र 'पूरणगुण' इत्यादिसूत्रेण गुणवाचिना षष्ठीसमासप्रतिषेधः प्राप्तः । स तु मौढ्यान्न कृतः। अतः पत्रपीतिमादयो न युक्ता इत्याह- 'पत्रपीतिमा''पक्ष्मालीपिङ्गीलम्नः' इति। 'वर्त्तमानसामी- प्ये' इति ज्ञापकात् पत्रपीतिमादयः सिध्यन्तीति केचित्। येषां तु मतम्- गुणः संबन्धित्वाद्गुणिनमाक्षिपति। तेन गुणेन गुणिनः षष्ठीसमासनिषेध। न च वर्तमान: सामीप्ये गुणी। भूतभविष्यतोरेव तद्गुणित्वादिति; तेषां मते 'उत्तर- पदार्थप्राधान्ये' इति ज्ञापकादनित्यः षष्ठीसमासप्रतिषेध इति केचिदाचक्षते। अवर्ज्य इति। 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वच- नात् व्यधिकरणस्य बहुव्रीहेरसिद्धौ क्वचिद्विषये तत्प्रसिद्धिमाह -- अवर्ज्य इति। सच्छास्त्राज्जन्म यस्य स सच्छास्त्रजन्मा, कान्ते प्रिये वृत्तिर्येषां ते कान्तवृत्तय इति व्यधिकरणत्वम्। यत्र गमकत्वम्, तत्रेदं वेदितव्यम् ।
Page 185
अ. २.] कामधेनुसहिता। १६५
हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्॥ २० ॥ हस्ताग्रम्, अग्रहस्तः, पुष्पाग्रम्, अग्रपुष्पम्, इत्यादयः प्रयोगा: कृथम् ; आहिताग्न्यादिष्वपाठात्, पाठे वा तदनियमः स्यात्? आह- गुष्पगुणिनोर्भेदाभेदात्। तत्र भेदात् हस्ताग्रादयः। अभेदात् अग्रहस्ता- दंयः। पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१॥ काष्टतृणं तृणकाष्ठमिति यदच्छया पूर्वनिपातं कुर्वन्ति। तत्नाप- भ्रंशो रक्ष्यः परिहरणीयः। अनित्यत्वज्ञापनं तु न सर्वविषयमिति। निपातेनाप्यभिहिते कर्मणि न. कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ॥ २२ ॥
हस्ताग्रेति। अत्र गुणशब्देन परार्थत्वसादृश्यादवयवो लक्ष्यते। तथा च गुणगुणिनाविहावयवावयविनौ। तयोर्भेदविवक्षायां हस्ताग्रादयः । तदा षष्ठीसमा- सः। अभेदविवक्षायां त्वग्रहस्तादयः। तदा अभेदोपचारेऽपि प्रवृत्तिनिमित्तभेदाद्ि शेषणसमासः ॥ पूर्वनिपात इति। 'लध्वक्षरं पूर्व निपतति' इति वार्तिककारवचनेन द्वन्द्वे पूर्वनिपातविधानात्तृणकाष्ठमिति वक्तव्ये काष्ठतृणमिति क्रचित् केनचित् प्रयुक्तम्। तत्र पूर्वनिपाते अपभ्रशः शास्त्रमर्यादातिक्रमः । स रक्ष्यः परिहरणीयः, तथा न प्रयोक्तव्यमिति तांत्पर्यम्। 'कुमारशीर्षयोः' इति ज्ञापकात् पूर्वनिपात- व्यत्यासो भविष्यतीति तत्राह-अनित्यत्वज्ञापनं त्विति। न सर्वेति। 'प्राप्तस्य चाबाधा' इति वचनाच्छिष्टप्रयुक्तद्वन्द्वविःमेवेति भावः । निपातेनापीति। 'ब्राह्मणं देवदत्त इति मन्यते' इत्यादौ 'अनभिहिते' इत्यधिकारात् तिङ्कृत्तद्धितसमासैरनभिहिते कारके कर्मणि द्वितीयया भवितव्य- मित्याशङ्कायामाह-निपातेनापीति। तत्र हेतुमाह-परिगणनस्येति। भग- वता वार्तिककारेण स्ांयिकाभिप्रायेण 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृत-
Page 186
१६६ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'अनभिहिते' इत्यत्र सूत्रे 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृतम्। तस्य प्रायिकत्वान्निपातेना्यभिहिते कर्मणि न कर्मविभक्तिर्भ- वति। यथा-'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' 'पण्डितं मूर्ख इति मन्यते' इति। शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥२३ ॥ शके: 'शकिसहोश्र' इति कर्मणि यति सति शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने। लिङ्गवचनस्यापि सामान्योपक्रमात् विशेषानपेक्षायामिति।
म्। ततश्चैवविधाः प्रयोगाः सिद्धा इति दर्शयति- विषवृक्ष इति। अत्र संव- रधनच्छेदनक्रिययोः सकर्मकत्वेन कर्माकाङ्कायां न कर्मविभक्तिर्भवति, विधेयायुक्त- त्वाभिधायिना असाप्रतमिति निपातेनाभिहितत्वात्। नन्वसांप्रतपदस्य तद्धितान्त- त्वात् तेनैवाभिहिते न भवत्येव कर्मविभक्तिः । अतो नेदमुदाहरणमिति न चोद- नीयम्; 'युक्ते काले च सांप्रतम्' इत्यभिधानादतद्धितान्त एवायं निपातः । तद्धितान्तत्वे वा तस्यानन्यार्थत्वान्न तेनाभिधानमिति भावः । शब्दशक्तिस्वाभा- व्यादम्याभिधायकत्वमिति द्रष्टव्यम्। मूर्ख इति। अत्र समुदायस्य कर्मत्वेऽपि 'अर्थवत्समुदायानां समासग्रहणं नियमार्थम्' इति वाक्यान्न विभक्त्युत्पत्तिः । ''शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः' इत्यादयः प्रयोगा दृश्यन्ते। शके. कृत्यप्रत्यये शक्यमिति रूपम्। 'तयोरेव कृत्यक्तखवलर्थाः' इति कर्मार्थे विहितस्य तस्य कर्माभिधायां विशेष्यवल्लिङ्गवचनाभ्यां भवितव्यमिति प्राप्ते प्राह- शक्यमिति रूपमिति। कर्माभिधायामपि शक्यमिति रूपं सिद्धम्। तत्र हेतु- माह-लिङ्गवचनस्यापीति। लिङ्गं च वचनं च लिङ्गवचनम् । तस्य सामा- न्योपक्रमाललिङ्गसामान्यं नपुंसकम्, वचनसामान्यम् एकत्वम, तयोरुपक्रमात् वि- शेषनैरपेक्ष्येण लिङ्गवचनसामान्यस्य विवक्षणादित्यर्थः । उदाहृत्य दर्शयति-
Page 187
अ. २.) कामधेनुसहिता। १६७
यथा- 'शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव। अप्रगल्भयवसूचिकोमलाशछेत्तुमग्रनखसंपुटैः कराः ॥. न चैकान्तिकः सामान्योपकमः । तेन 'शक्या भङ्क्तुं झटिति ़िसिनीकंद वच्चन्द्रपादा:' इत्यपि भवति। हानिवदाधिक्यमप्यङ्गानां विकारः॥ २४॥ 'येनाङ्गविकारः' इत्यत्र सूत्रे यथा अङ्गानां हानिः, तथा आधि- क्यमपि विकारः। यथा 'अक्ष्णा काणः' इति भवति, तथा 'मुखेन त्रिलोचनः' इत्यपि भवति न कृमिकीटानामित्येकवन्द्रावप्रसङ्गात् ॥ २५॥ 'आयुष: क्रृमिकीटानामलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः, 'क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात्। न च मध्यमप- दलोपी समासो युक्तः, तस्य असर्वविषयत्वात्। न खरोष्र्रावुष्टखरमिति पाठात् ॥२६.॥
यथेति। ऐकान्तिको नियतः । हानिवदिति। मुखेन त्रिलोचन इत्यत्र तृतीयाप्राप्तावंनुशासनस्वादर्श- नात् कथमत्र तृतीयेति चिन्तायामाह-येनाङ्गविकार इति। हानिः न्यूनता। यथा अङ्गानां न्यूनता विकार: तथा आधिक्यमपि विकार एव, 'अतो 'येनाङ्गविकारः' इति तृतीया।
न कमीति। क्षुद्रजन्तुवाचिनां द्वन्द्वसमास एरवद्धावविधानांत् बहुव- चनान्तप्रयोगो न साधुरित्याह- आयुष इति। ननु मुखसहिता नासिका मुखनासिकेतिवत् मध्यमपदलोपी समासः स्यादित्यपि न वक्तुं युक्तम्। तस्य असार्वत्रिकत्वादिति समर्थयते- न चेति। न खरोष्ट्राविति। गवाश्वादिगणे उष्ट्रखरमिति निपातितत्वात् खरोष्ट्रा-
Page 188
१६८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्त:, गवाश्वपभृतिषु 'उष्ट्रखरम्' इति पाठात्। आसेत्यसतेः ॥ २७॥ 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्र आस इत्यसतेर्धातोः 'अस गतिदीप्त्यादानेषु' इत्यस्य प्रयोगः; न अस्तेः, भूभावविधानात्। युध्येदिति युधः क्यचि॥२८॥ 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः ; स चायुक्त:, युधेरात्मनेपदित्वात्। तत् कथं युध्येदित्यत्राह-युधः क्यचि। युध- मात्मन इच्छेत् युध्येदिति। विरलायमानादिषु क्यङ् निरुप्यः॥२९॥ 'विरलायमाने मलयमारुने' इत्यादिषु क्यङ् निरूप्यः, भृशादिष्व- पाठात्। नापि क्यष्, लोहितादिप्वपाठात्। अहेतौ हन्तेर्णिच् चुरादिपाठात्॥ ३० ॥
विति व्यत्यासेन प्रयोगोऽनुपपन्न इत्याह- खरोष्ट्री वाहनमिति। आसेति,। 'अस्तेर्भू:' इत्यार्धधातुके भूभावविधानात् कथमासेति प्रयोग इति प्राप्ते, असतेर्धातोर्लिटि रूपमासेति, न पुनरस्तेरित्याह -- लावण्य इति। युध्येदिति। युधेरात्मनेपदिन: परस्मैपदं दृश्यते। तस्य शिष्टप्रयोगस्य साधुत्वं दर्शयितुमाह-य इति। युध्शब्दात् 'सुप आत्मनः क्यन्' इति क्यच्प्रत्यये कृते सति लिडि युध्येदिति सिध्यतीत्याह- युधमिति। विरलायमानादिष्विति। क्यङ्क्यषोरप्राप्तत्वात् प्रत्याचष्टे- विर- लायमान इति। अहेताविति। घातयित्वेत्यत्र अहेतुकर्तृभावेऽपि प्रयोगो दृश्यते। स
Page 189
अ. २.] कामधेनुसहिता। १६९
'घातयित्वा दशास्यम्'. इत्यत्राहेतौ णिच् दृश्यते ; स कथमित्यत आह-चुरादिपाठात्, चुरादिष 'चट स्फुट भेदे' 'घट संघाते' 'हन्त्यर्थाश्र' इति पाठात्। अनुचरीति चरेष्टित्वात् ॥ ३१ ॥ अनुचरी प्रियतमा मदालसा' इत्यत्र अनुचरीति न युक्तः, ईकाराभावात्। तत् कथम्? आह-चरेष्टित्वात्।, पचादिषु चरडिति पठ्यंते। केसरालमित्यलतेरणि॥ ३२। 'केसरालं शिलीधरम्' इत्यत्र केसरालमिति कथम्? आह- अलतेरणि। 'अल भूषणपर्याप्तिवारणेषु' इत्यस्माद्धातोः केसरशब्दे कर्म- ण्युपपदे 'कर्मण्यण्' 'इत्यनेन अणि सति केसरालमिति सिध्यति। पत्रलमिति लातेः के ॥३३ ॥
'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति क्रथम्? आह- लाते: के। 'ला आदाने' इत्येतस्माद्धातोगदानार्थात् पत्रशब्दे कर्म- च चुरादिपाठात् स्वार्थण्यन्तः साधुरित्याह- घातयित्वेति। अनुचरीति। आक्षेपपूर्वकमनुचरीति पदस्य साधुतं समर्थयुते -- अनुचरी प्रियतमेति। ईकाराभावादिति। पचाद्यजन्तत्वेन डीपप्राप्ेरभावा- दित्यर्थः । केसरशब्दस्व प्राण्यङ्गवाचित्वाकारान्तत्वयोरभावात् 'प्राणिस्थादातो लज- न्यतरस्याम्' इति लजभावात् कथं केसरालमिति एपे. तदुपपत्ति वक्तुमाह- केसरालमिति। वृत्तिः स्पष्टार्था । पत्रशब्दः सिध्मादिषु न पठ्यते इति 'सिध्मादिभ्यश्च' इति नास्ति लचूप्रत्यय इति कथं पत्नलमिति चिन्तायां साधुत्वं समर्थयते-पत्रलमिति। पत्राणि लाति आदस इति विग्रहे 'आतोऽनुपसर्गे कः' इति कप्रत्यये सति उप- 22
Page 190
१७० काव्यालंकारसूत्रवृत्ति: अधि. ५'
ण्युपपदे, 'आतोऽनुपसर्गे कः' इति कपत्यये सतीति। महीध्रादयो मूलविभुजादिदर्शनात्॥३४॥ महीध्रधरणीघ्रादयः शब्दाः, मूलविभुजादिदर्शनात् कप्रत्यये सती ति। महीं धरतीति महीध्र इति। एवमादयोऽन्येऽपि द्रष्टव्याः। ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ३५॥ ब्रह्मादिपूपपदेषु हन्ते: कविब्विधौ 'ब्रह्मभ्रूणवृत्नेषु-' इत्यत्र निय- मात् ब्रह्माददिष्वेव, हन्तेरेव, क्विवेव, भूतकाल एवेति चतुर्विधश्चात्र नियम इति नियमात् अरिहा रिपुह्या इत्येवमादीनामसिद्धिः। ब्रह्मविदादयः कृदन्तवृत्त्या ॥३६ ॥ ब्रह्मवित्, वृत्रभिदित्यादयः प्रयोगा न युक्ताः । 'ब्रह्मभ्रूण-' इत्यत्र ब्रह्मादिषु हन्तेरेव इति नियमात्। आह- कृदन्तवृत्या। वेत्तीति वित्। अिनत्तीति भित्। 'क्किप् च' इति किप्। ततः कृदन्तैर्वि-
पदसमासे कृते पत्रलमिति सिद्धमित्याह-पत्रलं वनमिति। महीध्रादय इति। महीं धरतीति विग्रहे मूलविभुजादेराकृतिगणत्वात् कप्रत्यपे कृते कित्वेन गुणाभावाद्यणादेशे सति महीध्रादयः सिद्धा इत्याह- महीध्रधरणीधरादय इति। ब्रह्मादिष्विति। 'ब्रह्मभ्रूणवृत्रेषु क्विप्' इत्यत्न ब्रह्मादिप्वेवोपपदेषु भूत एव काले हन्तेरेव धातोः क्विबेव प्रत्ययो भवतीत्युपपदकालधातुप्रत्ययविषयम्य चतुर्धानियमस्यानुशिष्टत्वात् अरिहेत्यादीनामसिद्धिरित्याह- ब्रह्मादिषूपपदे- ष्विति। ननु तर्हि चतुर्धानियमाश्रयणे ब्रह्मविदादीनां का गतिरिति प्राप्त, प्राह- ब्रह्मवित् वृत्रभिदिति। उपपदकालनैरपेक्ष्येण किपि सति समासान्तराश्रयणेन ब्रह्मविदादयः सिध्यन्तीति व्याचष्टे- वेत्तीति। वेत्तीति वित्, भिनत्तीति भिदिति
Page 191
अ. २.] कामधेनुसहिता। १७१
दादिभिः सह ब्रह्मादीनां षष्ठीसमास इति। तैर्महीधरादयो व्याख्याताः॥३७॥ तैः ब्रह्मविदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः, मह्या धरो महीधरः। एवं गङ्गाधरादयः। भिदुरादय: कर्मकर्तरि कर्तरि च ॥ ३८ ॥ 'भिदुरं काष्ठम् 'भिदुरं तमः' 'तिमिरभिदुरं व्योम्नः शृङ्रम्' इति, 'छिदुरातपो दिवसः' 'मत्सरच्छिदुरं प्रेम' 'भङ्गरा प्रीतिः' 'मातङ्गं मानभङ्गरम्' इत्यादयोऽपि प्रयोगा दृश्यन्ते; ते कथमित्यत्राह- कर्मकर्तरि कर्तरि च। 'कर्मकर्तरि चायमिष्यने' इत्यत्र चकारः 'कर्तरि च' इत्यस्य समुच्चयार्थः। गुणविस्तरादयश्चिन्त्याः॥३९॥ गुणविस्तरः, व्याक्षेपविस्तर इत्यादयः प्रयोगाश्चिन्त्याः, 'प्र- थने वावशब्दे' इति घञ्पसङ्गात्। व्युपत्तिसिद्धेन कृदन्तेन सह षष्ठीसमासे सति ब्रह्मविदादीनां साधुत्वमित्यर्थः । . उक्तामेतां युक्तिमन्यत्नापि योजयति-तैरिति। अत्र 'कर्मण्यण' इति सूत्रेण कर्मण्युपपदे धातोरण्विधानान्महीधरादीनामसाधुत्वशङ्कायामिहाप्युप- पदनैरपेक्ष्यषष्ठीसमासाश्रयणाभ्यां साधुत्वमस्तीति व्याचष्टे -- धरतीति धर इति। भिदुरादय इति। 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकार प्रयुक्तवता तत्रभवता भाष्यकृता कर्तर्यपि प्रयोगोऽभ्यनुज्ञात रे भिदुरादयः शब्दाः कर्म- कर्तरि, कर्तरि च प्रयोक्तव्या इत्याह- भिदुरं काष्ठमेति। गुणविस्तरादय इति। 'प्रथने वावशब्दे' इति विपूर्वात्स्तृणातेरशब्द- विषये प्रथने घज्विधानाद्रुणविस्तार इत्येव प्रयोक्तव्यम्, न तु गुणविस्तर इती- त्याह -- प्रथन इति।
Page 192
१७२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
अवतरापचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ॥ ४० ॥ अवतरशब्दस्य, अपचायशब्दस्य च दीर्घत्वह्वस्वत्वव्यत्यासो ब।- लानां बालिशानां प्रयोगेष्विति। ते ह्यवतरणमवतार इति प्रयुञ्जते- मारुतावतार इति; स ह्ययुक्त:, भावे तरतेरब्विधानात्। अपचायमपच- य इति प्रयुञ्जते-पुष्पापचय इति। अत्र 'हस्तादाने चेरस्तेये' इति घञ् प्राप्त इति। शोभेति निपातनात्॥ ४१ ॥ शोभेत्ययं शब्द: साधुः, निपातनात् 'शुभ शुम्भ शोभार्थों' इति। शुभेर्भिदादेरकृतिगणत्वादङ् सिद्ध एव। गुणप्रतिषेधाभावस्तु निपात्यत इति, शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावगतिराचार्यपरम्परोपदेशादिति। अविधौ गुरो: स्त्रिंयां बहुलं विवक्षा।। ४२॥। अविधौ 'गुरोश्र हलः' इति अविधाने स्तिरियां बहुलं विवक्षा क्वचि- दीर्घव्यत्यास इति। दीर्घस्य स्थानात् प्रच्याव्य अस्थाने करण व्यत्या- सः। बालानां विमर्शविधुराणां भवतीति शेष. । तमव व्यत्यासं दर्शयति-ते हीति। अब्विधानादिति। 'अवे तृस्त्रोर्घञ्' इति करणाधिकरणयोरेव घन्वि- धानात् तरतेः 'ऋदोरप्' इति भावे अपप्रत्यय एव भवतीत्यर्थः । अपचायामि ति। 'हस्तादाने चेरस्तेये' इति हम्तेन आदानेऽभिधेये चिनोतेर्घज्विधानादप्प्र- त्ययो न प्राम्नोतीत्यर्थः । शोभेति। 'षिद्धिदादिभ्योऽङ्' इति शुभेधातोर्भिदादिषु पाठादङप्रत्यये सति डित्करणेन गुणप्रतिषेधे प्रसक्ते निपातनाद्गुणसिद्धिरित्याह-शोभेत्ययं शब्द इति। अविधाविति। बहुलग्रहणस्य विवक्षितमर्थमाह-कचिद्विवक्षा कचि-
Page 193
अ. २.] कामधेनुसहिता। १७३
द्विवक्षा, क्वचिदविवक्षा, कचिदुभयमिति। विवक्षा यथा-ईहा लज्ेति। अविवक्षा यथा -- आतङ्क इति। विवक्षाविवक्षे यथा- वाधा वाधः, ऊहा ऊहः, व्रीडा ब्रीड इति। ·व्यवसितादिषु क्तः कर्तरि चकारात् ॥४३॥ व्यवसितः प्रतिपत्र इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि। गत्थादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्। भात्रकर्मानुकर्षणार्थत्वं च- कारस्येति चेत्, आवृत्तिः कर्तव्या। आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि॥ ४४ ॥ 'ब्रुवः पञ्चानाम्' इत्यादिना आहेति लद् व्युत्पादितः; स भूते प्रयुक्तः 'इत्याह भगवान् प्रभुः' इति। अन्यस्य भूतकालाभिधायिनो
दविवक्षा, क्वचिदुभयमिति। आतङ्क इत्यादिषु स्त्रीत्वम्य अविवक्षितत्वात् घञेव भवति।
व्यवसितादिष्विति। व्यवसित, प्रतिपन्न इत्यादिषु क्र्तरि क्तप्रत्य- यो न प्राम्नोति, सकर्मकेभ्यो धातुभ्यः कर्मण क्तप्रत्ययविधानात्, गत्यर्थादिसूत्रे- ण चाप्राप्तेरिति प्राप्ते गत्यर्थादिसूत्रे चकारेणानुक्तसमुच्चयार्थेन न्यवस्यतिप्रभृतयः समुच्चीयन्त इत्याह-व्यवसित इति। ननु भावकर्मणोरनुकर्षणार्थश्चकारः कथ- मन्यदप्यनुक्तं समुच्चिनुयादिति शङ्कते-भावकर्मेति। समाधत्ते-आवृत्तिरि- ति। चकारस्यावृत्तौ भावकर्मणोरनुकर्षणार्थ एकश्रकारः, अन्यः पुनरनुक्तसमुच्- यार्थ इति येन केनाप्युपायेन शिष्टप्रयोगस्य गतिः लपनीयेत्यर्थः ।
आहेति । 'किमिच्छसीति स्फुटमाहं वासवः' इत्यादिषु आहेति भूते प्रयुज्यते। स च प्रयोगोऽनुपपन्नः 'ब्रुवः पञ्चानामादित अहो ब्रुवः' इति ब्रुवो लटि णलाद्यादेशपञ्चकविधानात्। अन्यणलन्तति। लिटि विहितो यो णलू तदन्तत्वभ्रान्तिमूलोडयं प्रयोग इत्यर्थः । आहेत्यव्ययमिति केचित्समा-
Page 194
१७४ काव्यालकारसूत्रवृत्तिः [अधि. ५.
लिटि णलन्तस्य भ्रमात्। निपुणाश्रैवं.प्रयुञ्जते-'आह स्म स्मितम- घुराक्षरां गिरम्' इति। 'अनुकरोति भगवतो नारायणस्य' इत्य- त्रापि, मन्ये, स्मशब्द: कविना पयुक्तो लेखकैस्तु प्रमादान्न लिखित इति। शबलादिभ्यः स्त्रियां टापोऽप्रापिः ॥।४५।। 'उपस्रोतः स्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमु दितविहङ्गास्तटभुवः' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः' इत्या- दिषु स्त्रियां टापोऽपाप्तिः 'अन्यतो डीष्' इति डीष्विधानात्। तेन शबली कल्माषीति भवति। प्राणिनि नीलेति चिन्त्यम् ॥४६ ॥ 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम्। कोकिला नीलीति भवितव्यम्, नीलशब्दात् 'जानपद-' इत्यादिसूत्रेण 'प्राणिनि च' इति डीष्विधानात्। मनुष्यजातेर्विवक्षाविवक्षे ।। ४७।। 'इतो मंनुष्यजातेः' 'ऊङ्तः' इत्यत्र च मनुष्यजातेर्विवक्षा, अविवक्षा च लक्ष्यानुसारतः ।
दधते। शिष्टप्रयोगशैलीं दर्शयति- निपुणाश्रेति। 'लट् स्मे' इति लटो विधानात्। प्रसङ्जादन्यत्रापि भूतार्थे लट्प्रयोगस्योपपत्तिमाह-अनुकरोतीति। शबलादिभ्य इति 'अन्यतो डीष्' इति डीप्विधानाच्छबलकल्माष- दिभ्यः स्त्रियां टाप्प्रत्ययस्याप्राप्तिरिति तथा प्रयोगं प्रदर्श्य प्रतिषेधति -- उप- स्रोत इति। प्रांणिनीति। जानपदादिसूत्रे वृत्तिकारेण 'नीलादोषधौ' 'प्राणिनि च' इति विषयव्यवस्थापनात् प्राणिनि विषये नीलशब्दात् डीष्प्रत्ययः प्राप्तः न तु टापू। अत. प्राणिनि नीलेति न प्रयोक्तव्यमित्याह -- कुवलयेति। मनुष्यजातेरिति। निम्ननाभिसुतनुप्रभृतिषु यदि मनुष्यजातित्वमभ्युपेयते, तदा 'इतो मनुष्यजातेः' 'ऊङुतः' इति डीषूङ्प्रत्यययोः प्राप्ती निम्ननाभेः, सुतनो
Page 195
अ. २.] कामधेनुसहिता। १७५
'मन्दरस्य मदिराक्षि पार्शतो निम्ननाभि न भवन्ति निम्नगाः।
भामिनीह पढ़वी विभाव्यते।'
अत्र मनुष्यजातेर्विवक्षायाम् 'इतो मनुष्यजातेः' इति डीषि सति 'अम्बार्थनद्योर्द्स्व्रः' इति संबुद्धौ ह्रस्वत्वं सिध्यनि। नाभिशब्दात्पुनः 'इतश्व माण्यङ्गात्' इतीकारे कृते निम्ननाभीके इति स्यात्।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ।। अत्र निमग्ननाभेरिति मनुष्यजातेरविवक्षेति डीष् न कृतः। 'सुतनु जहिहि मानं पश्य पादानतं माम्' इत्यत्र मनुष्यजाते- र्विवक्षेति सुतनुशब्दात् 'ऊङ्ुतः' इत्यूडि सति हस्वत्वे सुतन्वििति सि- ध्यति।
रित्यादयः प्रयोगा न सिध्येयुः । यदि नाभ्युपेयते, तर्हि संजुद्धौ निम्ननाभि, सुतनु इत्यादयः प्रयोग्रा न सिद्धाः स्युः। ततः कथं प्रयोगव्यवस्थति विचारणा- यामुभयत्र साधुत्वं व्यवस्थापयति- इतो मधुष्यजातेरिति। 'वक्तुर्विवज्षि तपूर्विका हि शब्दप्रवृत्ति.' इति न्यायेन मनुष्यजातेर्विद्यमानाया अपि कचि- द्विवक्षा, क्वचिदविवक्षा चेति लक्ष्यानुसारेणोत्प्रेक्षणीयेति प्रयोगदशेनपूर्वकं विवक्षा- विवक्षे व्युत्पादयति- मन्द्ररस्येति। अत्र मनुष्यजातिविवक्षायां रूपसिद्धिं दर्शयति-इतो मनुष्यजातेरिति। ननु 'इतश्र प्राप्यङ्गवाचिनो वा वक्तव्यः' इति नाभिशब्दादीकारे कृते 'अम्बार्थनदयोहखवः' इति हस्वत्वे च कृते निम्नना- भीति संबुद्धिः सिध्यति; किमनेन यत्नेनेति नेत् तत्राह - नाभिशब्दादिति। निम्ननाभीत्यत्र बहुव्रीहिसमासे 'नद्यृतश्च' इति कपा समासान्तेन 'न कपि' इति ह्रस्वत्वप्रतिषेधेन च भवितव्यम्। ततश्च निम्ननाभीके इति स्ात्, न तु निम्ननाभि इति। इतो मनुष्यजातेः क्वचिदविवक्षां दर्शयति- हृतोष्ठरागै- रिति। उक्तन्यायेन, सुतनुशब्दादौ विवक्षाविवक्षे दर्शयति- सुतनु जहिहीति।
Page 196
१७६ काव्यालंकारसूत्रवृत्तिः [अधि. ५.
'वरतनुरथ वास्मिन्नैव दृष्टा त्वया मे।' अत्र मनुष्यजातेरविवक्षे- त्यूङ् न कृतः । ऊकारान्तादप्यूङ् प्रवृत्तेः ॥ ४८॥ उत ऊङ्ू विहित ऊकारान्तादपि क्वचित् भवति। आचार्यप्रवृत्तेः क्वासौ प्रवृत्तिः? 'अपाणिजातेश्रारज्वादीनाम्' इति। अलाबूः, कर्क- न्धूरित्युदाहणम्। तेन 'सुभ्रु किं संभ्रमेण'। अत्र सुभ्रुशब्दः ऊडि सिद्धो भवति। ऊडि त्वसति सुभ्रूरिति स्यात्। कार्तिकीय इति ठञ् दुर्धरः ॥ ४९॥ 'कार्तिकीयो नभस्वान्' इत्यत्र 'कालाद्ठञ्' इति ठञ्् दुर्धरः। ठञ् भवन् दुःखेन ध्रियत इति। शार्वरमिति च ॥ ५० ॥ शार्वरं तम इत्यत्र च 'कालाद्ठञ्' इति ठञ्् दुर्धरः। ऊकान्तादपीति। यद्यपि 'ऊङुत' इत्यत्र तपरकरणमुकारान्तादूङ्- विधानार्थ कृतम्, तथाप्याचार्यव चनसामर्थ्यादूकारान्तादप्यूङ् प्रवर्तत इत्याह- उत ऊङ् विहित इति। प्रश्नपूर्वकं प्रवृत्ति दर्शयति-कासौ प्रवृत्तिरिति। प्रवृ- त्तिरारम्भः। अलाबू, कर्कन्धूरित्युदाहरणसिद्धर्थम् 'अप्राणिजातेश्वारज्ज्वादीनाम्' इत्यूकारान्तादप्यूङप्रत्ययारम्भात्तपरकरणमविवक्षितमिति ज्ञायते। ननु यदेतदूका- रान्तह्डूङ्विधानं तत् पिष्टपेषणप्रायमिति शङ्कां परिहरति तेनेति। सुभ्रू- शब्दादपि मनुष्यजातिविवक्षायामूङ्प्रत्यथे नदीसंज्ञायां संबुद्धौ हस्वो भवतीति दर्शयति- अत्र सुभ्रुशब्द इति। कार्तिकीय इति। अत्र कार्निके भव इति भवार्थत्वं वक्तुं युक्तम्; तथात्वे 'कालाट्ठज्' इति शैषिकेष्वर्थेषु विधीयमानष्ठन् दुर्निवारतया प्राम्नोति। अतः कार्तिकीय इति न सिध्यतीत्याह -- अत्रेति। दुर्घर इति पदार्थमाह- दुःखेति। दुर्निरोध इत्यर्थः । शार्वरमिति। अत्रापि ठज्रो दुर्धरत्वेन शार्वरमिति न सिध्यतीत्याह- शार्वरं तम इति।
Page 197
अ. २.] कामधेनुसहिता। १७७
शाश्वतमिति प्रयुक्तेः ॥५१॥ शाश्वतं ज्योतिरित्यत्र शाश्वतमिति न सिध्यति, 'कालाद्ञ्' इति ठञ्प्रसङ्गात्। 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोग: । आह- प्रयुक्ते:। 'शाश्वते प्रतिषेधः'इति प्रयोगात् शाश्त्र- तमिति भवति। राजवंश्यादयः साध्वर्थे यति भवन्सि ॥ ५२॥ राजवंश्याः, सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति। भवार्थे पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत्प्त्ययः, तदन्तविधेः प्रतिषेधात्। दारवशब्दो दुष्प्रयुक्तः ॥ ५३ ॥ दारवं पात्रमिति दारवशब्दो दुष्प्रयुक्तः। 'नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम्। नतु विकारावयवयोरर्थयोर्मयद् विधीयते;
'शाश्वते प्रतिषेधः' इति वार्तिककारवचनादत्र अप्प्रत्यये सति शाश्वत- मिति शब्द: साधुरित्याक्षेपपूर्वकं समर्थयते-शाश्वतं ज्योतिरिति। राजवंश्यादय इति। वंशशब्दस्य दिगादिषु पाठात् 'दिगादिभ्ये यत्' इति भवार्थे यत्प्रत्ययो विधीयते। स च वंशशब्दान्तान्न प्राप्नोति, 'ग्रहणवता प्रातिपदिकेन -- इति तदन्तविधिप्रतिषेधात्। साध्वर्थविवक्षायां तु 'तत्र साधुः' इति यत्प्रत्यये सति राजवंश्यादयः सिद्धा इत्याह-राजवंश्या इति। दारवशब्द इति। दारुणो विकार इत्यरिअर्थे 'नित्यं वृद्धशरादिभ्यः' इति मयटो विधानात् दारुमयमिति प्रयोक्तव्यम्, न तु दारवमितीत्याह-दार- वं पात्रमिति। नन्वत्र विकारार्थो न विवक्षितः, किं तु संबन्धसामान्यम्। ततः 'तस्येदम्' इति दारुशब्दादण्प्रत्यये कृते दारवमित्येवं भवतु; को विरोध इति शङ्कते -- नन्विति संबन्धसामान्यविवक्षायामप्यण्प्रत्ययो न सिध्यति, 'वृद्धा-
Page 198
१७८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति? नैतदेवम्; 'वृद्धाच्छः' इति च्छविधानात्। मुग्धिमादिष्विमनिज्मृग्यः॥५४॥ मुग्धिमा, मौढिमा इत्यादिपु इमनिच् मृग्यः अन्वेषणीय इति। औपम्यादयश्चातुर्वर्ण्यवत् ॥५५॥ औपम्यं सांनिध्यमित्यादयः चातुर्वर्ण्यवस् 'गुणवचन-' इत्यत्र 'चातुर्वर्ण्यादीनामुपसंख्यानम्' इति वार्तिकात् स्वार्थिकष्यञन्ताः। ष्यञः षित्करणादीकारो बहुलम् ॥५६ ॥ 'गुणवचनब्राह्मणादिभ्यः-' इति यः ष्यञ्, तस्य षित्करणा- दीकारो भवति बहुलम्। ब्राह्मण्यमित्यादिषु न भवति। सामग्न्यमि- त्यादिषु विकल्पित :-- सामग््यं सामग्री, वैदग्ध्यं वैदग्धीति।
च्छः' इति च्छप्रत्ययप्रसङ्गादिति परिहरति- नैतदेवमिति। सुग्धिमादिष्विति। 'पृथ्वादिभ्य इमनिज्वा' इतीमनिच्प्रत्ययो विधी यते। स च मुग्धप्रौढादिशव्देभ्यो न प्राम्नोति, तेषां पृथ्वादिपाठाभावादित्यभि- प्रायेणव्याचष्टे-मुग्धिमा प्रोढिमेति। औपम्यादय इति। 'चातुर्वर्ष्यादयः सार्थे' इति सार्थिके प्यजि चातुर्वर्ण्यमिति यथा सिध्यति, तथा चातुर्वर्ण्यादिपाठादुपमैवौपम्यं संनिधिरेव सांनिध्यमित्यादय सवार्थिकष्यञन्ताः साधिता इत्याह- औपम्यं सांनिध्य- मिति। ष्यञ इति। 'गुणवचनंब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् विधीयते। ततश्च प्यञन्तेभ्यः स्त्रियां 'षिद्गौरादिभ्यश्च' इति यो डीष्प्रत्ययो विधीयंत; स ईकारो बहुलं भवति क्वचिन्न प्रवर्तते, क्वचिद्विकल्पेन प्रवर्तत इत्याह- ब्राह्म- ण्यमित्यादिष्विति।
Page 199
अ. २.] कामधेनुसहिता। १७९
धन्वीति व्रीह्यादिपाठात्॥ ५७॥ त्रीह्यादिषु धन्वन्शव्दस्य पाठाद्धन्वीति इनौ सति सिद्धो भवति। चतुरश्रशोभीति णिनौ ॥ ५८॥ 'बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयोवनेन' इत्यत्र च- तुरश्रशोभीति न युक्तम् ; व्रीह्यादिपु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति 'ग्रहणवता प्रातिपदिकेन' इति तदन्तविधिप्रतिषेधात्। भवतु वा तदन्तविधिः। कर्मधारयान्मत्वर्थीयासुपपत्तिर्लघुत्वात् क्रमस्येति बहुव्रीहिणैत भवितव्यम्। तत्कथ मत्वर्थीयस्यामाप्तो चतुरश्रशोभीति प्रयोगः१ आह-िनौ चतुरश्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । धन्वीति। धन्वन्शब्दम्य अदन्तत्वाभावात् 'अत इनिठनौ' इतीनि- प्रत्ययम्याप्राप्तौ व्रीह्यादेराकृतिगणत्वेनंनिप्रत्यये सति धन्वीति सिध्यतीत्याह- व्रीह्यादिष्विति। चतुरश्रशोभीति। अत्र साधुत्वं समर्थयिप्यमाण प्रामाणिकप्रयोग तावत्प्रदर्शयति- बभूवेति। अत्र मत्वर्थीयप्रत्ययस्यानुपपत्तिमाह- अत्र चतुरश्रशोभीति। चतुरश्रा चासौ शोभा च चतुरश्रशोभा, सा अस्यास्तीति चतुरश्रशोभीति मत्वर्थीयेन न सिध्यति, त्रीह्यादिपाठाभावादिति शङ्कितुरभिप्रायः। अभ्युपगम्यमाने वा ब्रीह्यादिपाठे 'ग्रहणवता प्रातिपदिकेन न तंदन्तविधिः' इति
यथा क्थंचिदभ्युपगमेऽपि वा तदन्तविधः स दोषस्तदवस्थः, 'न कर्मधारया- न्मत्वर्थीयः' इति निषेधादित्याह- भवत्विति। कर्मधारयबहु्रीहिक्रमपरी- क्षायां बहुव्रीहिपरिपाटी श्रेयसी, लाघवान। अतीक्षत्रगुशब्दादिवत् बहुव्रीहेर्न मत्वर्थीयस्य प्राप्तिरित्याह- लघुत्वादिति। प्रयोगानुपपत्तिप्रतिपादनं निगम- यति-तत् कथमिति। चतुरश्रं शोभितुं शीलमस्येति विग्रहे 'सुप्यजातौ णिनि- स्ताच्छील्ये' इति ताच्छीलिके णिनिप्रत्यये सति चतुरश्रशोभीति सिध्यतीति सिद्धान्तयति- चंतुरश्रं शोभत इतीति।
Page 200
१८० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
अथ 'अनुमेयशोभि' इति कथम्? न ह्यत्र पूर्ववद्धृत्तिः शक्या कर्तु- मिति; शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चात् बहुव्रीहिः कर्तव्यः- अनुमेयं शोभित्वं यस्येति। भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्त:, यथा-निराकुलं तिष्ठति, सधीरमुवाचेति। कञ्चुकीया इति क्यचि॥५९॥
'जीवन्ति राजमहिषीमनु कञ्चुकीयाः' इति कथम्? मत्वर्थीयस्य च्छप्रत्ययस्याभावात्। अत आह- क्यचि। क्याच अच्पत्यये सति कञ्चुकीया इति भवति; कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः। बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६० ॥
ननु चतुरश्शोभीत्यत्र समर्थितेऽपि साधुत्वे अनुमेयशोभीति न सिध्यति, उक्तन्यायाप्रवृत्तेरिति शङ्कते -- अथेति। तदप्रवृत्तिमेव दर्शयति-न ह्यत्रेति। चतुरश्रशोभीतिवदनुमेयं शोभितुं शीलमस्येति विग्रहे विवक्षितार्थासिद्धिः, कर्म- विवक्षाया असंभवात्। अविवक्षिते कर्मण्युपपदे कृत्प्रत्ययः कर्तु न शक्यत इति शङ्कार्थः । ताच्छीलिकणिनेरसंभवेऽपि, 'साधुकारिणि च' इति वक्तव्य- बलात्, 'आवश्यकाधमण्येयोणिनिः' इति सूत्राद्वा साधुकारिण्यावश्यके वार्थे विवक्षिते णिनिः सिध्यति। ततः शोभिनो भाव इति भावार्थे त्वप्रत्यये सति पश्चादनुमेयं शोमित्वं यस्येति बहुब्रीहौ सत्यनन्तरम् 'उक्तार्थानामप्रयोगः' इति त्वत्प्रत्ययस्य निवृत्तौ च सत्याम् अनुमेयशोभीति सिध्यतीति परिहरति -- शुभे- रिति-। कश्चुकीया इति। कश्चुका एषां सन्तीति कश्चुकीया इति न शक्यते वक्तुम्, छप्रत्ययस्य मत्वर्थीयस्याभावात्। कथं कञ्चुकीया इति चोदयति- जीवर्न्तात्यादिना। कञ्चुकमात्मम इच्छन्तीत्येतस्मिन्नर्थे, 'सुप आत्मनः क्यन्' इति क्यच कृते 'क्यचि च' इतीकारे च सति ततः पचादचि कृते कञ्चुकीया इति सिध्यतीति परिहरति -- क्यच अच्प्रत्यये सतीति। बौद्धप्रतियोग्यपेक्षायामिति। इद धनम्, इदं च धनम्, इदमनयोर-
Page 201
अ. २.] कामधेनुसहिता। १८१
बौद्धस्य प्रतियोगिनोऽ़पेक्षायामपि आतिशायनिकास्तरवादयो भवन्ति-घनतरं तमः, बहुलतरं प्रेमेति। कौशिलादय इलचि वर्णलोपात्॥ ६१ ॥ कौशिल:, वासिल इत्यादयः कथम्१ आह-इलचि वर्णलोपात् कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इतीलचि कृते 'ठाजादावूर्ध्व द्वितीयादचः' इति वर्णलीपात् सिध्यति। मौक्तिकमिति विनयादिपाठांत् ॥ ६२ ॥ मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम्। 'स्व्रार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नषुंसकत्वम्।
तिशयेन घनमिति विग्रहे शब्दोपात्तप्रतियोग्यपेक्षया अतिशायनार्थें तरबादिविधा- नादसति शब्दोपात्ते प्रतियोगिनि घनतरं तम इति प्रयोगः कथमिति चिन्तायां बुद्धिसंनिधापितेऽपि प्रतियोगिन्यातिशायनिकाः प्रत्यया भवन्तीति दर्शयति -- बौद्धस्येति। कौशिलादय इति। अनुकम्पितः कौशिकः, अनुकम्पितो वासिष्ठ इत्य- स्मिन्नर्थे कौशिलो वासिल: इत्यादयः प्रयोगा: कथमिति विचारणायां साधुत्वं समर्थयते- कौशिलो वासिल इति। अत्र 'घनिलचौ च' इति मूत्रेण अनुकम्पायां नीतौ वा बहचो मनुष्यनाम्नो घनिलचौ प्रत्ययौ विधीयेते। अतः कौशिकवासिष्ठशब्दाभ्यामुक्तलक्षणाभ्यामिलचि कृते 'ठाजादावूर्ध्व द्वितीयाद्चः' इत्यजादौ प्रत्यये परतः प्रकृतेर्द्वितीयादचः परस्य शब्दरूपस्य लोपे सति 'यम्येति च' इतीकारलोपे च कौशिलो वासिल इत्यादयः प्रशेग: सिध्यन्तीति समर्थयते- कौशिकेति। मौक्तिकममिति। विनयादिषु पाठेऽम्युपगते 'विनयादिभ्यष्ठक्' इति स्वार्थिके ठकि कृते मौक्तिकमिति सिध्यतीत्याह-मुक्तैव मौक्तिकमिति। अन्न प्रकृतिलिङ्गस्यातिक्रमणे भाष्यकारवचनं प्रमाणयति-स्वार्थिका इति।
Page 202
१८२ काव्यालकारसूत्रवृत्ति: [अधि. ५.
प्रातिभादयः प्रज्ञादिषु ॥ ६३॥ प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः। प्रतिभाविकृतिद्विता- दिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते प्रातिभम्, वैकृतम्, द्वैतमित्यादयः प्रयोगाः सिध्यन्तीति।
न सरजसमित्यनव्ययीभावे॥ ६४ ॥ 'मधु सरजमं मध्येपद्मं पिवन्ति शिलीमुखाः' इत्यादिषु सरजस- मिति न युक्त: प्रयोगोऽनव्ययीभावे, अव्ययीभाव एव सरजसशब्दस्ये- ष्टत्वात्। न धृतधनुषीत्यसंज्ञायाम् ॥६५ ॥ 'धृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीति असंज्ञायां न युक्त: प्रयोगः, 'धनुषश्च' इत्यनङ्विधानात्। संज्ञायां ह्यनङ् विकल्पितः 'वा संज्ञायाम्' इति। दुर्गन्धिपद इदुर्लभः ॥६६ ॥ प्रातिभादय इति। 'प्रज्ञादिभ्यश्च' इति स्वार्थिकोऽण् विधीयते। प्रति- भादीनामप्यत्र पाठाभ्युपगमेन स्वार्थिकेSणप्रत्यये कृते प्रातिभं वैकृतं द्वैत चारि- त्रामत्यादयः सिध्यन्तीति व्याचष्टे- प्रातिभादयः शब्दा इति। 2 न सरजसमिति। बहुव्रीहिप्रयोगो न साधुरिति दर्शयितुमाह- मधु रजसमित्यादिना। अनव्ययीभावे प्रयोगो न युक्तः । रजसा सह वर्तत इति सरजसमिति बहुव्रीहिसमासो न सिध्यति। तम्मिन् हि सति सरजस्कमिति स्यात्। अव्ययीभावे तु सिध्यति। 'अव्ययं विभक्ति-' इत्याढिना साकल्यार्थे अव्ययीभावे कृते अचतुरादिसूत्रेणाकारान्तत्वनिपातनात् सरजसमिति भवति। तथा चाह वृत्तिकारः 'तत एकोऽव्ययीभावः साकल्ये। सरजसमभ्यवहरतीति । बहुव्रीहौ न भवति। रजसा सह वर्तते इति सरजस्कं पङ्कजमिति' इति। न धृतधनुषीति। निगदव्याख्यानमेतत्। दुर्गन्धिपद इति। 'गन्धस्यदुत्पूतिसुसुरभिभ्यः' इति उदादिभ्यश्च
Page 203
अ. २.] कामधेनुसहिता। १८३
'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत् समासान्तो दुर्लभः, उत्पूत्यादिषु दुःशब्दस्यापाठात्। सुदत्यादयः प्रतिविधेयाः ॥६७॥ सा दक्षरोषात्सुदती ससर्ज' इति, 'शिखरदति पतति रशना' इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः, दत्रादेशलक्षणाभावात्। तत्र प्रतिविधानम्- अग्रान्तादिमूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्या- दिषु दत्रादेश इत्येके। अन्ये तु वर्णयन्ति-सुदत्यादयः स्त्यभिधायिनो योगरूढशब्दाः; तेषु 'स्त्नियां संज्ञायाम्' इति दत्रादेशो विकल्पेन सिद्ध एवेति। क्षतदृढोरस इति न कप्तदन्त- विधिप्रतिषेधात् ॥ ६८ ॥ 'प्लवंगनखकोटिभिः क्षतदृढोरसो राक्षसाः' इत्यत्र दढोरःशब्दा- त्, 'उरःप्रभृतिभ्यः कप्' इति कप् न कृतः, 'ग्रहणवता प्रातिपदिकेन' तुर्भ्यः परस्व गन्धशब्दस्य समासान्तविधानात् उदादिषु दुरो ग्रहणाभावात् दुर्गन्धिरिति प्रयोगो न साधुरिति दर्शयति- दुर्गन्धिः काय इति। सुदत्यादय इति। वयस्यविवक्षिते दत्रादेशप्राप्तेरभावेSपि शिष्टप्रयुक्त- त्वात् सुदत्यादयः, प्रतिविधयाः समाधेयाः। अत् केचित्- अग्रान्तादिसूते चकारस्यानुक्तसमुच्चयार्थत्वात् अहिदन्नित्यादिप्विव दत्रादेशे कृते 'उगितश्र' इति डीपि सति सुदत्यादयँः सिध्यन्तीति प्रतिविदधते। अपरे तु -- स्त्रीमात्रा- भिधायिनो योगरूढाः सुदत्यादय इति, 'स्त्रियां संज्ञायाम्' इति दत्नादेशे सिध्यन्तीति वदन्तीत्यभिप्रायेण व्याचष्टे-सा देषादित्यादिना। क्षतदृढोरस इत्यस् साधुत्वं समर्थयेतुं प्रथमं तावत् प्रामाणिकप्रयोगं प्र- दर्शयति-प्लवंगेति। ननु बहुब्रीहौ समासे उरःप्रभृतिभ्यो नित्यं कब्विधानात् क्षतदृढोरस्क इति कपा भवितव्यमिति प्राप्ते, कबभावे कारणं कथयितुमाह- उरःप्रभृतिभ्य इतिः।'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते' इति वच-
Page 204
१८४ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
इति तदन्तविधेः प्रतिषेधात्। समासवाक्यं त्वेवं कर्तव्यम्- क्षतं दृढोरो येषामिति।
अवैहीति वृद्धिरवद्या ॥ ६९ । अवैहीत्यत्र दृद्धिरवद्या; गुण एव युक्त इति। अपाङ्गनेत्रेति लुगलभ्यः॥ ७० ॥
अपाङ्गे नेत्रं यस्याः सेयमपाङ्गनेत्रेत्यत्र लुक् अलभ्यः, 'अमूर्ध- मस्तकात्स्वाङ्गादकामे' इति सप्तम्या अलुग्विधानात्। नेष्टाः श्िष्टप्रियादयः पुंवन्भावप्रतिषेधात् ॥ ७१॥
नादुर:शब्दान्ताद् कप्प्रत्ययो न भवति। तथा च विग्रहवाक्यमेवं कर्तव्यम्-दृढं च तदुरश्च दढोरः, क्षतं दढोरो येषामिति; अतः क्षतदृढोरस इति सिध्यती- त्यर्थः । अवैहीति। अवैहीत्यत्र इणो लोण्मध्यमपुरुषे, 'सेर्ह्यपिच्च' इति ह्यादेशे सति डिद्वद्धावात् गुणाभावे, इहीति रूपम्। ततश्चावशब्दस्य प्राक्प्रयोगे 'आद्गुणः' इति गुणे सति, अवेहीति भवति। 'एत्येधत्यूत्सु' इत्यत्र, एतेरेचि इत्यनुवर्त- नात् वृद्धिने भवति। नन्ववाडोरुभयोरुपसर्गयोः प्राक्प्रयोगे वृद्धिः सिध्यतीति न चोदनीयम्, 'ओमाडेश्च' इति पररूपप्रसङ्गात्। तम्मादवैहीत्यत्र वृद्धिरसा- धीयसीत्यर्थः ।
अपाङ्गनेत्रेति। नेत्रशब्देन समुदायवाचिना तदेकदेशः कनीनिका लक्ष्यते। ततश्रापाक्के नेत्रं कनीनिका यस्याः सा अपाङ्केनेत्रेति प्रयोक्तव्यम; न त्वपाङ्कनेत्रेति, 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति नित्यं सप्तम्या अलुग्विधानादित्यभिप्रायवानाह- अपाङ्गे नेत्नमिति। नेष्टा इति। क्रिष्टा प्रिया येन, विश्रिष्टा कान्ता यस्मात् स विक्किष्टप्रि- यः, विश्किष्टकान्त इत्यादयः प्रयोगा इष्टा न भवन्ति, 'स्त्रियाः पुंवत्' इत्यादि-
Page 205
अ. २.] कामधेनुसहिता। १८५
श्षिष्टमियः, विश्चिष्टकान्त इत्यादयो नेष्टाः, 'स्त्रियाः पुंवत्-' इति पुंवद्धावस्य पियादिषु निषेधातू। दृढभक्तिरिति सर्वत्र॥। ७२ ॥
'दृढभक्तिरसौ ज्येष्ठे' अत्र पूर्वपदस्य अस्त्रियां विवक्षितत्वात्। जम्बुलतादयो ह्रस्वविधे: ॥७३ ॥ जम्बुलतादयः प्रयोगा: कथम्? आह- हस्वविधेः। 'इको हस्वोऽड्यो गालवस्य' इति हस्वविधानात्। तिलकादयोऽजिरादिषु॥ ७४॥
सूत्रे प्रियादिषु पुंवद्धावप्रतिषेधादिति दर्शयति -- श्विष्टपिय इत्यादिना। दृढभक्तिरिति। अत्र भक्तिशब्दस्य प्रियादिपाठात् पूर्वपदस्य पुंवद्धावो दुर्घट इति प्राप्ते पूर्वपदस्य दृढशब्दस्य विग्रहवाक्ये स्त्रीत्वस्याविवक्षितत्वात् दृढभक्तिरिति सिध्यतीत्याह-अत्ेति। तथाचाह वृत्तिकारः, 'दृढभक्तिरित्ये- वमादिषु पूर्वपदस्य स्त्रीत्वस्याविवक्षितत्वात् सिद्धमिति समाधेयम्' इति। गण- व्याख्यानकारोऽपि 'दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहु्रीहि इति। न्यास- कारोऽपि, 'अदार्ढ्यनिवृत्तिपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्र्रीत्वमवि- वक्षितमेव । तस्मादस्त्रीलिङ्गस्यैव दृढशब्दस्यायं प्रयोग इत्यभिप्रायः' इति। भोजराजस्त्वन्यथा समाधत्ते भक्तौ च कर्मसाधनायामित्यत्र सूत्रे- 'कर्मसाध- नस्यैव भक्तिशब्दस्य प्रियादिषु पाठात् भवानीभक्तिरित्यादौ पुंवद्धावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात् पुंवद्धावे सिद्धे स्त्रीपूर्वपदत्वमेव' इति। जन्बुलतादय इति। 'इको हसवोऽड्यो लवस्य' इति उ्यन्तव्यति- रिक्तस्येगन्तस्योत्तरपदे परतो विकल्पेन हस्वविधानाज्जम्बुलतादयः सिद्धा इत्याह- जम्बुलतादय इति। तिलकादय इति। 'मतौ बहचोऽनजिरादीनाम्' इति मतुप्प्रत्यये परतोऽजिरादिवर्जितुस्व बहचो दीर्घविधानात्तिलकादीनामजिरादिपाठाभ्युपगमेन 24
Page 206
१८६ काव्यालंकारसूत्रवृत्ति: [अधि. ५•
तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः अन्यथा तिलकवती कनकवतीत्यादिषु मतुपि 'मतौ बह्चोऽनजिरादीनाम्' इति दीर्घत्वं स्यात्। अन्ये तु वर्णयन्ति- 'नदां मतुप्' इति यो मतुप् तत्रायं विधिः; तेषां मतं न, अमरावतीत्यादीनामसिद्धेः। निशम्यनिशमय्यशब्दौ प्रकृतिभेदात्॥७५॥ निशम्य निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे। शमेः ल्यपि 'ल्यपि लघुपूर्वात्' इत्ययादेशे सति निशमय्येति भवितव्यम् ; न निश- म्येति। आह-प्रकतिभेदात्। शमेर्दैवादिकस्य निशम्येति रूपम्। 'श- मो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम्।
संयम्यनियम्यशब्दावणिजन्तत्वात्॥ ७६ ॥ कथं संयम्यनियम्यशब्दौ! ल्यपि 'ल्यपि लघुपूर्वात्' इति णेरया-
दीर्घनिषेधात्तिलकवतीत्यादयः सिध्यन्तीत्याह -- तिलकादयः शब्दा इति। अजिरादिषु पाठानभ्युपगमे प्रयोगविरोधं प्रदर्शयति -- अन्यथेति। परे तु प्रकारन्तरेण प्रयोगं प्रतिष्ठापयन्ति। तेषां मतं दूषयितुमनुभाषते -- अन्ये त्विति। यत्र 'नद्यां मतुप्' इति नदीविषये मतुप्प्रत्ययो विधीयते तत्रायं दीर्धविधिः । तिलेकादिषु 'तदस्यास्त्यम्मिन्' इति मतुब्विधानात्तिलकवतीत्या- दिषु दीर्घाभाव इति वदन्ति। तदेतदूषयति -- तेषां मतमिति।
निशम्येति। दिवादिपाठादण्यन्तशमिरेका प्रकृतिः । चुरादिषु पाठात् 'शमो दर्शने' इति श्रवणार्थे मित्संज्ञको णिजन्त शमिरपरा प्रकृतिः। अतः प्रकृ- तिभेदाद्रूप द्वूयसिद्धिरित्याह- निशम्येत्यादि।
संयम्येति। प्रयोजकव्यापारप्रतीतेरत्र णिचा भवितव्यम्। तस्मिस्तु सति 'ल्यपि लघुपूर्वात्' इति णेरयांदशे संयमय्य नियमय्य इति प्रयोक्तव्यम् कथं संयम्यनियम्यशब्दाविति अनुयोक्तुरभिप्रायः। शङ्कामिमां शकलयितुं हेतु-
Page 207
अ. २.] कामधेनुसहिता। १८७
देशेन भवितव्यम्। आह-,अणिजन्तत्वात्। धातोर्णिच् तुन, गता रथत्वात्; यथा- वाचं नियच्छति, इति। णिजर्थानवगतौ णिच प्रयू- ज्यते एव ; मथा -- संयमयितुमारब्ध इति। प्रपीयेति पीङ: ॥७७॥
प्रपीयेत्ययं शब्द: 'पीङ् पाने' इत्येतस्य। पिवतेर्हिं 'न ल्यपि' इतीत्वप्रतिषेधात् पपायेति भवति। दूरयतीति बहुलग्रहणात्ं ॥७८॥ 'दूरयत्यवनते विवस्वति' इत्यत्र दूश्यतीति कथम्? 'णाविष्ठव- द्ावे 'स्थूलदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्य- म्। आह-बहुलग्रहणात्। 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवञ्च' इत्यत्र बहुलग्रहणात् स्थूलदूरादिसूत्रेण यद्विहितं तन्न भविष्यतीति। गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ७९॥
माह -- अणिजन्तत्वादिति। णिजभावाण्णेरयादेशो न प्रसज्ज्यत इत्यर्थः । ननु प्रयोजकव्यापारप्रतीतौ णिच्प्रत्ययः किं न स्यादित्यत आह -- णिच् तु नेति। गतार्थत्वात् प्रयोजकव्यापारशून्यस्य सकर्मकस्य प्रकृत्यर्थस्य धातुनैवाभि- हितत्वादित्यर्थः । तत्र दृष्टान्तमाह -- यथा वाचमिति। यत्र णिजर्थः खवभा- वतो नावगम्यते तत्र णिच् प्रयुज्यत एवेति दर्शयति -- णिजर्थानवगताविति। प्रपीयेति। पीङ् पाने' इति धातोर्ल्यबन्तमिदम्, न तु पिबतेः । तस्य 'न ल्यपि' इतीत्वप्रतिषेधादित्याह- पिबतेरिति दूरयतीति प्रयोगस्य साधुत्वं समथेयितुं शङ्कामिमामङ्कुरयति-दूरय- तीति। शेषं सुगमम् । गच्छतीप्रभृतिष्विति। 'शप्श्यनोर्नित्यम्' इति नित्यं नुमागमस्य विधानात् गच्छतीत्यादयो न साधव इत्यर्थः ।
Page 208
१८८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'हरति हि वनराजिरगच्छती श्यामभावम्' इत्यादिषु गच्छती- प्रभृतिषु शब्देषु 'शष्शयनोर्नित्यम्' इति तुम् अनिषेध्यो निषेद्धुम- शक्य: । मितेण गोप्त्रेति पुंवद्भावात्॥। ८० ॥ मित्रेण गोप्त्रेति कथम्१ गोप्तृणा इति भवितव्यम्, 'इकोऽनि विभक्तौ' इति नुम्बिधानात्। आह-पुंवद्धावात्। 'तृतीयादिषु भाषि- तपुंस्कं पुंवद्धालवस्य' इति पुंवद्धावेन गोप्त्रति भवति। वेत्स्यसीति पदभङ्गात् ॥। ८१ ।। 'पतितं वेत्स्यति क्षितौ' इत्यत्र वेत्स्यसीति न सिध्यति, इद्प्रस- ङ्रात्। आह-पदभङ्गात्-1-वेत्स्यसीति पदं भज्यते-वेत्सि, असि। असीत्ययं निपातस्त्वमित्यस्मिन्नर्थे। कचिद्वाक्यालंकारे प्रयुज्यते। यथा- 'पार्थिवस्त्वमसि सत्यमभ्यधाः' इति। कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ८२ ॥ कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्य कृते; यद्यनादि: स्यात्। सौहृददौर्हदशब्दावणि हृद्भावात्॥ ८३॥ मित्रेण गोप्त्रेति। स्पष्टमवशिष्ठम्। वेत्स्यसीति। विदेर्ज्ञानार्थस्यानुदात्तोपदेशत्वाभावादिडागमेन भवितव्यम्। तथा च वेत्स्यसीति न सिध्यतीति चिन्तायां पदं विभज्य प्रयोगसाधुत्वं समर्थय- ते-पतितमित्यादिना। कामयान इति। 'आगमानुशासनमनित्यम्' इति वचनात् 'आने मुक्' इत्यकृते मुगागमे कामयान इति। स च प्रामाणिकैः प्रयुक्तश्चेत् साधु- रित्यभिप्रायः । सौहृददौर्हदशब्दाविति। शोभनं ह्ृदयं यस्य, दुष्ट हृदयं यस्येति विग्र-
Page 209
अ. २. कामधनुसहिता। १८९
सुहृदयदुर्दृदयशब्दाभ्यां, युवादिपाठादणि कृते हृदयस्य हृद्भावे आदिवृद्धौ सौहृददौर्हदशब्दौ भवतः। सुहृद्दरहच्छन्दाभ्यां युवादि- पाठादेवाणि कृते 'हृद्भगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि सत्युभयपददृद्धौ सत्यां सौहार्दे दौर्दार्दमिति भवति। विरम इति निपातनात्॥८४॥ · रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य-' इत्यादिना वृद्धिप- तिषेधस्याभावात् कथं विरम इति? आह-निपातनात् 'यम उपरमे' इत्यत्र उपरमे इति। एतन्तु उपलक्षणम्, अतन्त्रं च उपोपसर्ग इति। उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥८५॥
हसिद्धाभ्यां सुहृदयदुर्हृदयशब्दाभ्यां भावार्थे 'हायनान्तयुवादिभ्योऽण' इत्याण कृते सति 'हृदयस्य हहल्लेखयदण्लासेषु' इति हृदादेशे 'तद्धितेष्वचामादेः' इत्यादिवृद्धौ च सत्यां सौहृददौर्हदशब्दौ सिद्धौ। अत्र हृच्छव्दस्य लाक्षणिक- त्वात् 'हृद्भगसिन्ध्वन्ते -- ' इत्यत्र प्रतिपदोक्तस्य ग्रहणादुजथपदवृद्धयभावः । शोभनं हृद् यस्य, दुष्ट हृद् यस्येति विग्रहे, सिद्धाभ्यां सुहद्दुर्हच्छब्दाभ्यां युवा- दिपाठादणि कृत 'ह्हद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धौ सौहार्द दौर्हा- दमिति च सिद्धमिति व्याचष्टे-सुहृदय इत्यादिना।
विरम इति। विरमेर्मान्तत्वेऽपि अनुदात्तोपदेशत्वात्, 'नोदात्तोपदे- शस्व-' इत्यादिना वृर्द्धिप्रतिषेधाभावात् वृद्धौ सत्यां विराम इति युक्तं प्रयो- क्तुम्, कथं विरम इति प्राप्ते, 'यम उपरमे' इत्यत्र निपातनात् सिध्यतीति दर्शयति-रमेरिति। उपरम इति निपातेन 'प इत्यस्य किमायातमिति तत्राह- एतच्विति। एतत्तु निपातनं सोपसर्गस्य रमेरुपलक्षणंमित्यवग- न्तव्यम् । उपर्यादिष्विति। 'उपर्यध्यघसः सामीप्ये' इत्युपर्यादीनां सामीप्यार्थे द्विर्वचनविधानात् द्विरुक्त्तस्तैर्योंगे सति द्वितीयाविभक्तिभेँवति। वीप्सायां तु
Page 210
१९० काव्यालंकारसूत्रवृत्ति: अधि. ५.
उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यघसः सामीप्ये' इत्यनेन 'उपर्यादिषु त्रिषु द्वितीयाम्रोडितान्तेषु' इति द्वितीया। बीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति-'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः।' मन्दं मन्दमित्यप्रकारार्थत्वे॥ ८६ ॥ 'मन्दं मन्दं नुदति पवनः' इत्यत्र मन्दं मन्दमिति अप्रकारार्थत्वे भवति। प्रकारार्थत्वे तु 'प्रकारे गुणवचनस्य इति द्विर्वचने कृते कर्म- धारयवद्भावे च मन्दमन्दभिति प्रयोगः। मन्दं मन्दमित्यत्र तु 'नित्य- वीप्सयोः' इति द्विर्वचनम्ं। अनेकभावात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति। न निद्राद्रुगिति भष्भावप्राप्तेः ॥८७॥ 'निद्राटुक्काद्वेयच्छविरुपरिलसद्वर्घरो वारिवाहः' इत्यत्र निद्रा- दरुगिति न युक्तः, 'एकाचो बशो भष्-' इति भष्भावपाप्ेः । अनुप्रा- समियैस्त्वपभ्रंश कृतः । निष्पन्द इति षत्वं चिन्त्यम् ॥ ८८॥
षष्ठीविभक्तिर्भवतीति व्यवस्थामाह-उपर्यादिष्विविति। क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्यापुमिच्छा वीप्सा। मन्दं मन्दमिति। वीप्साप्रकारार्थयोः प्रयोगद्यव्यवस्थां प्रतिपादयि- तुमाह -- मन्दं मन्दं नुदतीति। कर्मधारयवद्भावे चेति। 'कर्मधारयवदुत्त- रेषु' इत्यनेन कर्मधारयवद्धावे सुलोपादिर्भवति। अनेकभावविषया व्याप्तुमिच्छा येति वीप्सा; तां दर्शयति-अनेकभावेति। न निद्ेति। निद्रधागिति वक्तव्ये निद्राद्रुगित्यपभ्रंश इत्याह- निद्राद्ुकाद्रवेय इति। निष्पन्द इति। अत्र षत्वप्राप्तावनुशासनादर्शनात् सृषामादिष्वपि पाठा-
Page 211
अ. २.] कामधेनुसहिता। १९१
न ह्यन्र षत्वलक्षणमस्ति। सुषामादिपाठोऽप्यस्य न निश्चितः।
नाङ्ुलिसङ्ग इति मूर्धन्यविधेः ॥८९॥
'म्लायन्त्यङ्गुलिसङ्रेऽपि कोमला: कुसुमस्रजः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः 'समासेडङ्गुले: सङ्ग:' इति मूर्धन्यविधानात्।
तेनावन्तिसेनादयः प्रत्युक्ताः ॥९०॥
तेन अङ्गलिसङ्ग इत्यनेन अवन्तिसेनः, इन्दुसेन, एवमादयः शब्दा: प्रत्युक्ता: प्रत्याख्याताः, 'सुषामादिषु च' 'एति संज्ञायामगात्' इति मूर्धन्यविधानात्।
नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् । ९१ ॥
'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यत्ेन्द्रवाहनशब्दे 'वाहनमाहि- तात्' इति णत्वं न भवति, आहितत्वस्य अविवक्षितत्वत्। स्वस्वामि-
निश्चयाच्च षत्वं चिन्त्यं निश्चेतुमशक्यमित्याह-न हीति।
नाङ्कुलिसङ्ग इति। स्पष्टोऽर्थः । तेनेति। 'सुषामादिषु च' इति सूत्रे, 'एति संज्ञायामगात्' इति गणसूत्रबलात् एकारपरस्थीगकारात् परस्य संज्ञायां विषये मूर्धन्यादेशविधाना- दवन्तिसेनादयः प्रत्याख्याता इत्याह- तेनाङ्गुलिसङ्ग इत्यनेनेति।
नेन्द्रवाहने णत्वमिति। 'चकासनं चारुचमूरूचर्मणा कुथेन नागेन्द्र- मिवेन्द्रवाहनम्' इत्यादिप्रयोगो दृश्यते। अत्र 'वाहनमाहितात्' इति सूत्रे आ- हितवाचि यत् पूर्वपदं तस्मान्निमित्तादुत्तरस्य वाहननकारस्य णकारादेशो विधी- यते। वाहने यदारोपितं तदाहितमित्युच्यते। तस्मादिक्षुवाहणमितिवदिन्द्रवाह- णमिति प्रयोक्तव्यमं, न पुनरिन्द्रवाहनमिति प्राप्ते तन्निषेद्धुमाह-इन्द्रवाहन- 25
Page 212
१९२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
भावमात्रं ह्यत्र विविक्षितम् ; तेन सिद्धामिन्द्रवाहनमिति। सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः । अनयैव दिशा कार्य शेषाणामप्यवेक्षणम्।।
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पश्चमेधिकरणे द्वितीयोऽध्यायः ॥
समाप्तं चेदं प्रायोगिकं पश्चममधिकरणम्।
शब्द इति। अयमर्थ :- पूर्वपदार्थस्येक्षुशरादेरिव नेन्द्रम्याहितत्वं विवक्ष्यते, किं तु इन्द्रम्वामिकं वाहनमिन्द्रवाहनमिति स्वस्वामिसंबन्धो विवक्ष्यते। ततश्च दाक्षिवाहनमितिवदिन्द्रवाहनमिति सिद्धमिति।
सद्सन्त इति। एवम् उक्तप्रकारेण। साधवश्चासाघवश्च शब्दा वि- विच्य पृथक्कृत्य निदर्शिता उदाहताः । अनयैव दिशा अस्मदुक्त्तनैव सदसद्वि- वेकमार्गेण। शेषाणामनुक्तानां सतामसतां च शब्दानाम्। अवेक्षणं पर्यालो- चनं कार्य कर्तव्यम्रिति भद्रम् ।
इत्थं समिद्धगुणसंपदि वामनस्य प्रस्थानमीमनि चिरादलसोज्झितायाम्। व्याख्यानपद्धतिरियं व्यवहारहेतो- रनिष्कण्टका निपुणमारचिता कवीनाम् ॥
न्यायोक्तिवीचिनिचयेन कुतर्कजाल- कूलंकषेण गहने गुणरत्नगर्भे। सारखतामृतसरस्वति नावमेना- मालम्ब्य रन्तुमनसो विचरन्तु धीराः ॥
पदे केचिद्वाक्ये कतिचन परे मान इतरे कवित्वेऽलंकारे कतिचन परे नाट्यनिगमे। भजन्ति प्रागल्भ्यं न खलु वयमेतेषु गणिता बहटकुर्वन्त्येते बुधमदसि नः किं तु सुधियः ॥
Page 213
अ. २.] कामधनुसहिता। १९३
शब्दारथौं चरणौ प्रतीकविसरो वाक्यानि गुम्भो लस- न्मूतिर्वस्तु शिरः परिष्कृतिरलंकारोऽसवो रातयः। यस्या: स्वीयगुणा गुणा: सुरूचिराः शङ्गारचेष्टादयो रम्याष्टादश वर्णनाः कृतिवधू: सेयं जगन्मोहिना ॥
इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीत्पञ्जमं पूर्तिमेतन्॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रत्रांत- व्याख्यायां काव्यालकारकामधेनौ प्रायोगिक नाम
पश्चममधिकरणम्॥
इति का व्यालंकारसृत्रवृत्ति: कामधेनुसहिता संपूर्णा।।
. WTGSWAFY SAJI RT SFARCH INSTITUTR MVLAPORE. MADRAB-4
Page 215
श्रीः॥।
।। सूत्रानुक्रमाणका।
पृष्टम पृष्ठम्.
अ अथवैमल्य ८७
अग्राम्यत्वमुदारता अथ्व्याक्तहतुत्व
अजरठत्व सोकु . अर्थम्य प्रौढि
•अतद्रपस्यान्यथा १३२ अर्थो द्विविधो .. . .
अतिप्रयुक्त १५३ अलकारस्याल १४६
अनाविद्धललित ३५ अवतरापचाय १७२
अनुक्तौ समासोक्ति: १२६ अवज्यो बहु १६४
अनुचरीति १६९ अविधौ गुरोः .१७२
अनुपपत्तरसभवः १२३ अवैषम्य समता
अनुल्बणो १०० अवेहीति वृद्धिग १८४
अनैकान्त्याच्च ७७ असम्याथान्तर
अन्त्याभ्या वाक्य ५१ अमादृश्यहता १२२
अन्यनेयगूढा ४३ अहेतो हन्तणिच १६८
अपाङ्गनेत्रेि १८४ आ
अपारुष्य सोकु आमूललोलािषु १६३
अप्रतीतगुण १२१ आरोहावरोहक्रमः • ७६
अप्रसिद्धार्थप्ररु ४६ आरोहावरोहनिमित्त ७०
अप्रसिद्धासभ्य ४८ आसेत्य 7. १६८ ..
अभिधानकोशात् २७ आहति भूते १७३
अरोचकिन: सतृणा १३ इ
अर्थतस्तदवगमः ३ ९ इतिवृत्तकुटिलत्व ३०
अर्थदृष्टिः समाधि: • ... ८० इषः पुनपुसकयोः .. १२०
Page 216
१९६ काव्यालंकारसूत्रवृत्ता
पृष्ठम् पृष्ठम्
उ
उक्तसिद्धये १३९ ओज्ज्वल्य कान्तिः .. ८१
उक्ताथपदमका औपम्यादयश्चा १७८
उक्तिवैचित्र्य १२ क
उत्प्रेक्षाहेतुरुत्प्र १४७ कञ्जुकीया इति १८०
उपमाजन्य रूपक १४६ करिकलभशब्द ६२
उपमानाक्षेपश्चा १४३ कर्णावतंसश्रवण .. ६०
उपमानाधिक्यान् १२२ कलाचतुरवगे ... ६५
उपमानेनोपमेयस्य १११ कलाशास्त्रेभ्यः ... २९
उपमानेनोपमेयस्य १२८ कल्पितार्थ नेयार्थम् ... ४५
उपमानोपमेययोर्लिंङ्ग ११९ कवित्वबीज .. ३२
१३७ कामयानशब्द: १८८
उपमानोपमेयसशयः १३४ कामशास्त्रतः ३०
उपमंयस्य गुणाति १४० कार्तिकीय इति .. १७६
उपमेयस्योक्तौ १२६ काव्य गद्य पद्य च ३४
उपमेयोपमानाना १३७ काव्य ग्राह्यमल ..
उपर्यादिषु सामीप्य १८० काव्य सहष्टादष्टा ... १०
ऊ काव्यबन्धोद्यमो .. ३१
ऊकारान्तादप्यूडू १७६ काव्यशोभायाः .. ६९
ए काव्योपदेशगुरु .. ३१
एकगुणहानि १४१ किचिदुक्तावप्रस्तुत १२७
एकस्योपमेयवो १३५ केसरालमित्यल १६९
ओ कौशिलादय इलाच १८१
ओज:कान्तिमती क्रमविधानाथ वा ७९
आज:प्रसादयो क्मसिद्धिस्तयोः ३६
ओज:प्रसाद श्लेप .... करमहीनाथम ६३
Page 217
सूत्रानुककमणिका । १९७
पृष्ठम् प्रष्ठ म्
क्रमेणोपमेयोपमा . १३६ जातिप्रमाण ११६
क्रिययैव स्वतदर्था १३८' त . क्वियाप्रतिषेधे १३५ न एवाथगुणा: ...
क्ष नच्च नातत्वगीलम्य .. २३.
अ्षतदढोरस इति १८३ ननोऽन्यभेद ३८
क्षीयित इति १५८ तत्त्रैविभ्य त्रीडा
ख तत्त्रैविध्यमादि १३८
स्विद्यत इति च १५८ तत्र काव्यपरिचयो ३१
ग तदतिशयहेतव ७०
गच्छती प्रभृतिष्व १८७ तदनिबद्ध निब ३६
गद्य वृत्तगन्धि ३४ तदारोहणार्थ २२
गाढबन्धत्वमोज: ७३ तदिद प्रयुक्त्तेषु ६२
गुण: सप्वात् ७३ तदुपारोहादर्थ २४
गुणद्योतकोप ११४ तद्देशकालाभ्याम् ३३
गुणबाहुल्यतश्च ११२ नद्वैविध्यं ११३
गुणविपयया ३० तद्धातुनामभाग ५४
गुणविस्तरादय १७१ तद्धि चित्र चित्र ३७
घ तन्द्रेदावुप • १४६
घटना श्लेष: तस्यामर्थगुण २३
च तासा पूर्वा गाह्या . २२ . चतुरश्रशोभीति १७९ तिरस्कृत इति १६०
चित्तैकाग्न्यमव ३२ तिलकाट : जि .. ' १८५
छ तेन वचनभेढो ... १२१
वन्दोविचितेवृत्त २९ तेन विपर्ययो ... १५१
ज तेनाधिकत्व ... ११८
जम्बलतादयो .. १५ तेनावन्तिसेनादयः .. १९१
Page 218
१९८ काव्यालंकार सूत्रवृत्तौ
पृष्ठम् पृष्ठम
नेमशब्दो .. १६० न निद्राद्रगिति १९०
तैर्महीधरादयो १७१ न पाठधर्मा: ८३
त्रिवलीशब्द: १६२ न पादादौ खल्वा १५-
दण्डनीतेर्नया ३० न पादान्तलघो '१४९
द न पुनरितरे २२
दाग्वगब्दो १७७ न पृथगारोहाव ७७
दीप्तरसत्व कान्ति: १५ न भ्रान्ता निष्कम्प ८२
दुर्गन्धिपद १८२ न लक्ष्मणः पृथक्त्वात् .. ५६
दुष्ट पदमसाधु ४० न वाक्यालंकाराथम् .. ४३
दूरयतीति बहुल १८७ न विरुद्धोSतिशयः ... १२४
दृढभक्तिरिति १८५ न विशेषश्चेदे .. ५९
देशकालस्वभाव ६४ न वृत्तदोषात्परृथ .. ५६
ध न शणसूत्रवाना ... २३
धनुरज्याध्वनौ ५९ न शास्त्रमद्रव्ये .. १४
धन्वीति व्रीह्यादि .. १७९ न सरजसमित्य १८२
धमयोरेक ११७ नाड्डुलिसङ्ग इति ... १०१
न नानिबद्धं चकास्त्येक ३७
न कतर्क पङ्कप्र १५ नापुष्टार्थेत्वात् १२२
न कर्मधारयो १५१ नार्धे किचित्समातं १५०
न कृनिकीटा १६७ नासंपृक्तत्वात् ... ७७
न खरोष्टावुष्ट .. १६७ नासन्त: संवेध्य ... ८२
न गद्ये समात .. १५० नित्या सहितैक .. १४८
न गुप्तलक्षित ... ४८ निपातेनाप्यभिहिते ... १६५
न तद्वाहुल्य १५४ निशम्यनिशमय्य ... १८६
न धान्यपष्ठादिषु .. १६३ निष्पन्द इति षत्वं ... १९०
न धृतधनुषीत्य .. १८२ नेतरे तद्विपर्य ... १४
Page 219
सूत्रानुक्रमाणका।
पृष्म् पष्म
नेन्द्रवाहने णत्व १९१. बिम्बाधर इति १६२
नेषा: श्िष्टप्रिया १८४ बौद्धप्रतियोग्यपे १८०
नैंक पदं द्वि: १४८. ब्रह्मविदादयः १७०
नैकशब्द: मुप्सु १६१ ब्रह्मादिपु हन्न
प भ
पत्रपीतिमादिपु १६४ मङ्गादुत्कप: . १०४
पत्रलमिति १६९ भिदुगदरः कर्म १७१
पदमनेकार्थमक्षर ९८ भिन्नवृत्तयति
पद्सधेर्वैरप्य म
पदाधानोद्धरण ३२ मधुपिपामुग्रभृ १६१
पद्यभागवद्गत्त ३५ मनुष्यजातेर्वि १७४
पद्यमनेकभेदम् ३५ मन्द मन्दमित्यप्र ९०
पादाः पादस्यैकस्या मसृणत्वं श्ेषः
पादानुप्रासः १०९ महीव्रादयो मूल १७०
पिण्डाक्षरभेदे १०६ माधुयसौकुमार्यो २१ ..
पुष्पमालाशब्दे .... ६१ मायादिविकल्पि '६३
पूरणार्थमनर्थकम् ... ४२ मार्गाभेदः समता ७५
पूर्वनिपातेऽपभ्रंशो ... १६५ मार्गेरत्मनेपद .. १५९
पूर्वे नित्याः s ... मित्रेण गोत्रेति १८८
पूर्वे शिष्या विवे १४ मिलिक्कि १५७ ...
पृथक्पदत्व ७० मुक्ताहारश ... ६१
प्रतिवस्तुप्रभृति .. १२५ भुग्धिमादिष्विम १७८ ..
प्रपीयेति पीङ: मौक्तिकमिति ... १८७ .. १८१
प्राणिनि नीलेनि ... १७४
प्रातिभादयः ... १८२ यत्सादृव्य तत्स .. १४५
oc .
Page 220
२००
पष्म् पृष्म्
र विदर्भादिषु दष्टत्वा १७
राजवंश्यादयः साध्च .. १७७ विपरीतमुत्कलिका ... ३५
रात्रियामस्तुरीयः .. ३३ विरम इति निपातनात् १८९
रीतिरात्मा काव्यम्य १५ विरलायमानातिपु १६%
रुद्रावित्येक १५६ विरसविराम ५४
रूढिच्युंतमन्यार्थम् ४४ विरुद्धाभासत्व १३४
ल विरूपपदसधि .. ५६
लक्षणच्युतव्ृत्त 43 विविक्तो देश: .. 33
लक्षणाशब्दाश्च १५४ विशिष्टा पदरचना १६
लक्ष्यज्ञत्वमभियो ३१ विशिष्टेन साम्यार्थ .. १४३
लभेर्गत्यथत्वा .. . १५९ विशेषणमात्र १५१
लाक्षगिकासभ्य ... विदोषणस्य च ६२
लिङ्गाध्याहारी ... १५३ विशेषापेक्षित्वात्
लोकमात्रप्रयुक्त विशेषो गुणात्मा १६
लोकतृत्त लोक: २६ वेत्स्यसीति पद १८८.
लोकसवीतं ... ४९ व्यक्त: सूकष्मश्च ...
लोको विद्या प्रकीण २६ व्यर्थैकार्थ ... ... ५८
लोपे लुमा व्यवसितादिषु ... ११४ .. १७३
कोलमानादय १५० व्यवहितार्थप्र ..
लौकिक्यां समासा १२० व्याजम्य सत्य १४२
व व्याहतपूर्वोत्त
वर्णविच्छेदचलन श
वलेरत्मनेपट १५७ शक्यमिति रूप १६६
वस्तुद्वयक्रिययो १४८ शबलादिभ्यः १७४
वस्तुस्वभावस्फुट ०४ शब्दस्मृतिविरुद्ध .. .. ४०
विकटत्वमदारता .. शब्दस्मते: शब्द .. . 25
Page 221
सूत्रानुक्रमणिका । २०१
प्रष्म् प्रष्टम
शब्दस्मृत्यभिधान २६ स धर्मेषु तन्त्र १२९
गार्वरमिति न १७६ ममग्रगुणोपेता .. १७
शौश्वतमिति प्रयुक्ते: ... समविसदशाभ्या .. १३६
शास्त्रंतस्ते .... १० ममेन वस्तुनान्याप .. १२७
शास्त्रमाव्प्रयुक्त मवनाम्रानु .. .. १५२
शृङ्गला परिवर्तक मा त्रधा वैदर्भी ... १०८ ... १७
शेषः सरूपोऽनुप्रासः ... १०८. सादृश्याल्क्षण १३८
शैथिल्यं प्रसाद: ७३ सापि वैदर्भी ...
शोभेति निपातनात् .. १७२ मापि समामाभावे .. २३
श्रतिविरस कष्टम् .. ४१ सा पूर्णा लता च ११४
साम्योत्कर्षो च
ष्यञः षित्कर मुदत्यादय: १८३
म मूक्ष्मो भाव्यो .. ९ १
मदर्भेषु दशरूपक मौकर्याय प्रपञ्ज .. ४०
सबन्धसबन्धेडपि १५२ मौन्दमलकार: ..
मभाव्यधर्म 933 मौहृददौर्हद ..
मभाव्यनिषेध ... १५१ स्तनादीनां १५४
मंभाव्यविशिष्ट १४२ म्तुतिनिन्दा ११५ ..
मयम्यनियम्यशब्दा ... १८६ ह
मशयकृत्स ६३ हस्ताग्राग्रहस्ता १६५ ...
मङ्गविनिवृत्तौ ... हानिवदाधिक्य १६७
म त्वनुभवसिद्धः ७४ हीनत्वाधिकत्व .. . ११५
स दोषगुणालंकार ... ९ *