1. Kavya Alankara Vamana Vritti Kamadhenu Vani Vilas Press
Page 2
SRI VANI VILAS SASTRA SERIES ... No. 5 ...
Kavyalankarasutra Vritti
with the commentary
KAMADHENU
SKIKANUAM :
SRI VANI VILAS PRESS.
Copyright Registered.
Page 4
। श्री: ।।
॥ काव्यालंकारसूत्रवृत्ति: ।।
वामनविरचिता श्रीगोपेन्द्रतिप्पभूपालविरचितया कामधेन्वाख्यया व्याख्यया समुद्भासिता •अभिनवभट्टृबाणशब्दतर्कोलंकारविद्याभूषण बिरुदभाजा वात्स्यचक्रवर्तिना श्रीकृष्णमूरिणा
सम्यक्परिशोधिता
श्रीरङ्गनगरस्थ
संमुद्रिता। १९०९
Page 6
PREFACE.
WHEN it was first proposed to include this book in the Sri Vani Vilas Sastra Series two considerations weighed in ny mind. The first was there was no good and accurate dition of the work. The Kavyamala Series contained the ext of the Sutras and the Vritti but unfortunately this edition ›ft much to be desired. The Sutras were mistaken for the 'ritti in several places and rice rersa. Hence a correct lition was a necessity. The second consideration was > publish the rare commentary called Kamadhenu hy opendra Tippa Bhupala. Two fine manuscripts of this mmentary were obtained through the kindness of Sri Addanki umaratatachariar of Madras and Sri Srisailatatachariar of Little onjeeveram. With the aid of these, this edition was begun d while it was in the press, there appeared in the Chowkamba nskrit Series this same work with this very commentary. perusal of it clearly showed that I need not delay s edition and accordingly with the co-operation of Pandit V. Krishnamachariar. to whom my thank are due, I ve been able to complete this work and I leave it to the ders to judge how far I was justified in having pushed on s edition when others existed already in the field. J. H. Balasubrahmanyam.
Page 8
॥ विषयानुक्रमणिका॥
पृष्ठम्
भूमिका ix
प्रथमाधिकरणम्। १-३८
प्रथमोऽध्यायः। १-१२
प्रयोजनपरीक्षा ४
द्वितीयोऽध्यायः। १३-२५ ....
अधिकारिचिन्ता १३ ....
रीतिनिश्चयः १५
तृतीयोऽध्यायः। २६-३८
काव्याङ्गानि .... २६ ...
काव्यभेद: .... ... ३४
द्वितीयमधिकरणम्। ३९-६८ प्रथमोऽध्यायः । ३९-५२ ....
पद्दोषा: .... ३९
पदार्थदोषा: .... ४३
द्वितीयोऽधयायः। .... ५३-६८
वाक्यदोषाः .... ५३
वाक्यार्थदोषा: ५८ ...
तृतीयमधिकरणम्। .... ६९-९७
प्रथमोऽध्यायः। ६९-८३ ...
Page 9
विषयानुक्रमणिका।
पृष्ठम्
गुणालंकारविवक: ६९
शब्दगुणनिरूपणम् ६९
द्वितीयोऽध्यायः। ... ८४-९७
अर्थगुणनिरूपणम् ८४
तुर्थेमधिकरणम्। ९८-१४७
प्रथमोऽध्यायः। ९८-११०
शब्दालंकारविचार: ९८ ...
द्वितीयोऽध्यायः । १११-१२४
उपमानिरूपणम ... १११
उपमादोषकथनम् ११५
तृतीयोऽध्यायः। १२५-१४७ ....
उपमाप्रपश्निरूपणम १२५
श्चममघिकरणम्। १४८-१९२
पथमोऽध्यायः। १४८-१५५
काव्यसमयः १४८
द्वितीयोऽध्यायः। १५६-१९२
शब्दशोधनम ... १५६
Page 10
॥ श्रीः ।।
। भूमिका॥
साहित्यकलायामलंकारनिबन्धनेषु प्राचीनमत्युत्तमं चेदं सवृत्ति काव्यालं- कारसूत्रार्यं वामनीयं निबन्धरत्नम्। पुरा हि सर्वेष्वपि दर्शनेषु स्मृतिपथारोपण- सौकर्याय ते ते महर्षयः परे च मेधाविनः प्रायः सूत्रात्मनैव विषयानुपनिबबन्धु- रिति स्पष्टमिदं पुरातनचरितपरिशीलिनाम्। अतोऽपि सुकरमस्य वामनीयस्य प्राचीनत्वमवगन्तुम्। वामनात्पूर्वे च भामहप्रभृतयो यद्यप्यलंकारदर्शने निब- न्दारः, तथापि ते किल कारिकारूपेणैव कलयामासुर्विषयानिति नात् वाम- नेन ते तुलामधिरोढुं प्रभवन्ति। अलंकारदर्शनपरमतत्त्वस्य रसस्य स्वरूपा- दिविचारपराणि सूत्राणि महर्षिणा भरतेन प्रणीतानीति श्रूयते। परं तु बडु- भिर्बदुधा 'व्याख्यायमानम् 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इत्येकं विहाय नान्यत्किंचिदपि संप्रति भरतप्रणीतमुपलभामहे सूत्रम्। सांप्रतमधि- गम्यमानं बहर्थप्रतिपादकं भरतप्रणीततया व्यवहियमाणं नाट्यशासत्रं तु प्रायेण कारिकात्मना कचित्कचित्सूत्रविलक्षणगद्यरूपेण चोपनिबद्धमेव सर्वतः समु- पलभ्यते। पश्यामश्च वयं पूर्वोक्तं सूत्रमस्मिन्नाट्यशासेSपि। किं तु नास्माकं निर्णयः, यदित एवेदं सूत्रमुद्धृत्य तैस्तैर्मेषाधनैरन्यथा चान्यथा च व्याख्यायत इति। यत इहैव एकतमपक्षावलम्बनपर्याप्ता अन्थकृतैव प्रदर्शिता कापि विवृतिः। 'उक्तं हि भरतेन' इति प्रकाशं व्याचक्षाणो हि महेश्वरः 'तदीय- अ्रन्थान्तरोक्तकारिकाकथने च तस्य प्रकृतग्रन्थकृत्त्वाभावात् अ्न्थकृतेति नो- क्तम्' इति विलिखन्, मानवधमेसूत्रमनुस्मृत्योरिव भरतसूत्रनाट्यशास्त्रयोः परस्परसंबन्धमभिप्रैतीत्यवगम्यत इति तदिदं मन्यामहे युक्तमभिहितं विमृश्य- वादिना। अथवा एतदेव नाट्यशास्राभिहितं सूत्रमालंकारिकैरनेकधा व्याख्या- 1. दृश्यतां काव्यप्रकाशरसगक्ञाधरादिषु व्याख्याभेदः।
Page 11
X
यत इत्यभ्युपगच्छामः । कचित्कचित्सूत्रविलक्षणमपि वाक्यं श्रद्धाजाड्येन सूत्रमित्यङ्गीकुर्मः । तदेतदस्माकं सर्वात्मना भवति भूषणम्, नांशतोऽपि किर्माप दूषणम्। एतदेव खलु वयमभिधातुमभिलषामः-न खल्वस्ति संप्रति समुपलभ्यमानेषु अलंकारदर्शननिबन्धेषु, विहाय वामनीयम्, प्राचीनं किमपि संपूर्ण सूत्रात्मना समुपनिबद्धं निबन्धनमिति। परस्ताच्च वामनमनुकुर्वाणा राजानकरुय्यकप्रभृतयः कतिपये सूत्राणि निर्ममिर इत्यन्यदेतत् ॥ अलंकारनिबन्धनानां च भिन्नभिन्नानि प्रस्थानानि दृश्यन्ते। ध्वन्या- लोकादिषु हि प्राधान्येन ध्वनिविचार एव कृतः । काव्यप्रकाशादयस्तु नाटका- दिलक्षणनिरूपणादिकमंशतोऽपि न विरचयन्ति। दशरूपकादिकर्तारस्तु प्राधा- न्येन नाटकलक्षणादिकं संक्षेपेण रसांश्च निरूपयन्ति। रसचन्द्रिकादीनां तु रसनिरूपणं परं विषयः । अलंकारसर्वस्वकारादयस्तु अलंकारनिरूपणं परमा- द्वियन्ते। आचार्यदण्डिनापि प्राचीनेन काव्यादर्शे काव्यमार्गविभागार्थालंकार- शब्दालंकारा एव प्रतिपादिताः । साहित्यदर्पणादिकृतः कतिपये परमर्वाचीनाः प्रायेणालंकारदर्शनस्य सर्वा अपि गमनिकाः संक्षेपेण सम्यङ् निरूपयामासुः । तन्नैतदाश्चर्यमसंभावितं वा, यदनेनापि वामनेन अलंकारदर्शनस्य कतिपये परं विषया: प्रतिपादिताः, न पुना रसनिरूपणादिषु रम्यतरेष्वपि विषयेषु स्वात्मना कोऽपि समदर्शि समादर इति॥ अत्र हि पञ्च अधिकरणानि, द्वादश अध्यायाश्च सन्ति। प्रायेण हि ब्रह्मसूत्रादिषु अध्यायस्य प्राधान्येन अन्तर्गतानामधिकरणव्यपदेशो दृश्यते। इह तु भिन्नैव विपरीतेयं रीतिरिति न जानीमः कि वाभिमतं वामनस्य । प्रथमे खल्वधिकरणे आदितः काव्यस्य दष्टादृष्टार्थत्वम्, पश्चाच्च अधि- कारिणं निरूष्य, आत्मत्वेन स्वाभिमता रीतिः परस्तात्प्रतिपादिता। शब्दार्थ- युगलात्मकस्य हि काव्यस्य आत्मानं प्रति बहूनामभिप्रायभेद उपलक्ष्यते। अर्वाचीनाश्च तदिदं वामनमतं नाभिनन्दन्ति। विशिष्टपदरचनात्मिकायाश्च रीतेः कथं वा आत्मत्वमभ्युगम्यतां तैः । यद्यपीदं मतं गुणोद्देशसूत्रे व्याख्यात्रा महता संरम्भेण समर्थितम्: अथापि व्याख्यातृवचनं तदधाप्यप्रतिष्ठितमेवेति ध्वनिवादिमतमिव न सहृदयानां हृदयेन संवदति वामनमतमित्येतावदेव संप्रति क्तुं वाञ्छामः । 'सा त्रेधा वैदर्भी गौडीया पाश्चाली चेति' इति वामनः।
Page 12
vii
तृतीये चाधिकरणे ओजःप्रसादादयः काव्यशोभायाः कर्तारो दश गुणाः शब्दार्थाश्रिता निरूपिताः । 'काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इत्याचा- र्यदण्डिमतमनभिनन्दतेव वामनेन 'काव्यशोभायाः कर्तारो धर्मा गुणाः' 'तदतिशयहेतवस्त्वलंकाराः' इति तयोर्विवेकः प्रदर्शितः । मम्मटादयस्तु 'ये रसस्याङ्विनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतुवस्ते स्युरचलस्थितयो गुणाः' 'उपकुर्वन्ति तं सन्तं येऽक्द्वारेण जातुचित्। हारादिवदलंकारास्तेऽनु- प्रासोपमादयः' इत्याहुः। आचार्यदण्डिनेव वामनेनापि दशैव गुणा अज्गी- कृताः । भरतेनापि दशैव ते 'स्वीकृताः । प्रकाशकारादयस्तु केषांचिद्गुणानां दोषाभावत्वमभ्युपेत्य, 'माधुर्योजःप्रसादाख्यास्त्रयस्ते न पुनर्दश' इत्यातिष्ठन्ते। सति चैवं वैपरीत्यं विनिगमकाभावश्च कुता न स्वादिति त एते प्रष्टव्या भव- न्ति। दोषगुणविवेचकाभ्यां चैताभ्यां द्वितीयतृतीयाभ्यामधिकरणाभ्यां कीदृशीं कोटिमधिरूढ: पूर्वेषामाचार्याणां विमर्शविभव इति ननु नव्यशिक्षितैरवश्यमिद- मालोचनापथमधिरोपणीयम् ॥। चतुर्थे त्वधिकरणे प्रथमतः शब्दालंकारविचारः, पश्चादुपमाविचार, पर- स्ताच्च उपमाप्रपञ्चविचारः कृतः । शब्दालंकारौ च यमकानुप्रासौ द्वावेव निरू- पितौ। अर्वाचीनैस्तु वक्रोक्तिपुनरुक्तवदाभासानुप्रासयमकक्लेषचित्राण्यपि शब्दा- लंकारतया प्रकाशितानि। भरतस्तु यमकमेकमेव स्वयमाद्रियते। अर्थालंकारनि- रूपणावसरे च सर्वेऽप्यालंकारिका उपमामेवादौ निरूपयन्ति। उपमायाः प्रकृति- त्वादुपजीव्यत्वात्तन्निरूपणमेव प्रथमतः सांप्रतमिति 'उपमैका शैलूषी-' इत्यादि लिखन्तः समर्थयन्ते व्याख्यातारः । प्रदर्शयन्ति च ते प्रायः सर्वेष्वपि अलंकारेषु उपमाया अनुगममुदाहरणमुखेन। वयं पुनर्बहुषा श्राम्यन्तोऽपि विभावनाविरोधाभासादिषु बहुषु अलंकारेधु उपमानुगममपश्यन्त उपमायाः प्रकृतित्वं प्रायोवादेनेति ब्रूमः । इदमत्र वक्तव्यमस्माकमाभाति- आस्तां नाम शास्त्रीय संप्रदायानुसारेण अलंकाराणां काव्यशरीरभूष कत्वप्रयोजनाभ्युपगमनिर्बन्धः। एतदेव पुनरलंकारयोजनस्य परमं प्रयोजनम्- यद्वक्तव्यार्थस् स्फुटप्रतीत्या श्रोतुर्मनसि डढं संलगनम्। निर्विवादमेवेदमभ्युपगम्यते हृदयालभिविद्वद्विर्भा- वान्तरेष्वलंकारप्रयोगस्य प्रयोजनम्। अस्य च फलस्य स्वप्रयोगेण सुविशदं 1, नाय्यशास्त्रे षांडशे अध्याये ९२. पदं दृश्यताम्।
Page 13
X111
निर्वाह को नूनमुपमालंकार एवेति ननु जानाति यथाजातोऽपि। सोपमानमभि- हितोऽर्थ: स्फुटं मनसि संक्रामतीति को नु खल्वनुन्मत्तो नाभ्युपैष्यति यथा चोपमायाः, तथा तदुपजीविनामपि परेषां भवति तदिदं फलमलंकाराणामिति न खलु दुरवगाहोऽयमर्थः सहृदयानाम्। इत एव च, मन्यामहे, कारणादागतं स्यादन्यतः प्राधान्यमुपमाया इति। अत एव चादिकाव्ये श्रीमति रामायणे भगवान्वाल्मीकिः, तदुपजीवनेन कृतार्थ परिपूत चात्मानमभिमन्यमानो महा- कविः कालिदासश्च सर्वेष्वपि स्वकीयेषु प्रबन्धरत्नेषु भूयसा उपमां तत्संनि- कृष्टांश्च अलंकारान् लेशेन च तदितरान्प्रयुङ्के। परिशील्यन्तां कालिदासीयानि गद्यानि पद्यानि च । कति नाम तत्र उपमास्तदुपजीविनश्च विद्यन्ते अलंकारा इति पर्यालोच्यताम्। शते पञ्चसप्तत्यधिकानि किल वाड्यान्येवमुपारूढका- न्तीनि प्रकाशन्ते। को हि नाम महामना अलंकारतत्त्वमुपमावैभवं च जानानो विहायैतां रीतिमन्यामेव कांचिज्जातुचिदाद्रियेत। 'उपमा कालिदा- सम्य' इति प्रथापि निपुणं निरूप्यमाणे, विश्वसिमः, इत एव जगति सर्वतः समुपारूढा। एतदेव च सर्वात्मना संदर्शयितुं महाकविरयम् 'वागर्थाविव संपृक्तौ' इति प्रथमपदये प्रथमत एव उपमाशिरस्क्रमात्मनः साहित्यशिल्पमन- ल्पमाविश्चकरे। शब्दे उच्चारिते अर्थप्रतीतिः संभवति विना विलम्बमिति प्रतिक- लमनुभवेन जानतां शब्दार्थसंबन्धस्य नित्यत्वमजानतामपि बालानां स्वानुभव- साक्षिक एव शब्दार्थयोः परस्परमतिनिबिडः संबन्ध इति काव्यारम्भ एव साधीयसीमिमामुपमामुपनिबध्नतो महाकवेरस्य मतिमहिमानं कथं वयं वर्णयितुं प्रभवामः । एतदेव किल महाकवेरन्यविलक्षणं लक्षणम्, यदत्र विचारेण शब्दार्थ- संबन्धनित्यत्वमवगच्छतां पण्डितानामिव अनुभवेन शब्दार्थयोर्निबिडं कमपि संबन्धमूहमानानां बालानामप्यनुग्रहाय तदुभयसाधारण्येनोपमायाः समुपनिबन्धो नाम। एतत्सर्वमालोच्यैव भरतेनापि 'उपमा रूपक चैव दीपकं यमकं तथा। काव्यस्यैते हयलंकाराश्चत्वारः परिकीर्तिताः' इत्यर्थालंकारास््रय एव सीकृताः । वामनश्चात्र आदित उपमां तद्दोषांश्च निरूप्य अनन्तरम् 'प्रतिवस्तुप्रभृतिरुपमा- प्रपञ्चः' इति प्रतिज्ञाय प्रतिवस्तुप्रभृतीन् शुद्धान् सप्तविंशतिमलंक्ारान् लक्षणतो लक्ष्यतश्च निरूपयति । परस्ताच्च 'अलंकारस्यालंकारान्तरयोनित्वं संसृष्टिः' इति लक्षयित्वा 'तद्भेदावुपमारूपकोत््रेक्षावयवौ' इति द्वावाह। अर्वाचीनास्तु अलं-
Page 14
XIV
कारस्यालंकारान्तरयोगे संसृष्टिसंकरतद्गेदान्बहूनभ्युपगच्छन्ति। उपमाप्रपश्चत्वं च विरोषादीनां कथमित्येतदतिनिगूढं रहस्यम्। अपि नाम समासोक्त्यादिन्यायेन उभयोरर्थयोरुपमानोपमेयभावकल्पनं सत्ृदयहृदयसंवादि : इत्थं च वामनमते त्रिंशदर्थालंकारा इति सिद्धम्। काव्यादर्शे तु 'खभावाख्यानमुपमा -- ' इत्या- दिना पञ्चत्रिशदर्थालंकारा अभ्युपगताः। परं तु 'ते चाद्यापि विकल्प्यन्ते कस्तान्कारत्स्न्येन वक्ष्यति' इति परिगणनस्य प्रायिकत्वं तत्नैवाभिहितम्। रुद्रटस्तु 'अर्थस्यालंकार वास्तवमौपम्यमतिशयः क्लेषः । एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः' इति प्राधान्येन चतुर एवालंकारानभ्युपगच्छति। मम्मटः पुनः संसृष्टिसंकराभ्यां सह उपमादीनेकषष्टिमलंकारानभिप्रैति। सर्वस्वकारमते तु 'द्वासप्तततिरथालंकाराः ।: कुवलयानन्दकारः परम् 'इत्थं शतमलंकारा लक्ष- यित्वा निदर्शिताः । प्राचामाधुनिकानां च मंतान्यालोच्य सर्वतः' इत्युक्त्वा, रसवदादिकांश्चतुरः भावोदयादीसीन्, प्रमाणालंकारानष्टौ, संसृष्टिसंकरौ च द्वावञ्जीकरोतीत्याहत्य तन्मते सप्तदशाधिकशतमर्थालंकारा इति सिध्यति। अ- र्वाचीनाश्च केचिन्मम्मटमतमाद्रियन्ते; अपरे च सर्वस्वसरणिम्, कतिपये च कुवलयानन्दरीतिम्। चमत्कारैकजीवातुत्वादलंकाराणां यत्र चमत्कारविशेष उपलक्ष्यते, तत्र भिन्न एवालंकार इत्यातिष्ठमानाः, अत्र चमत्कारमेदोडस्ति नास्तीति विवादेन तत्र तत्रान्तर्भावं पार्थक्यं च स्वस्वानुभवबलेन स्वेच्छया वा स्थापयन्त्यवाचीना आलंकारिकाः । स्वस्वानुभवसाक्षिके शपथैकनिर्णेयेऽस्मि- न्विचारे पुनरस्मादृशामन्यतमपक्षावलम्बनं सर्वथा दुःशकममिति तत्तन्मताभिनन्द- नमेव सांप्रतमिति प्रतिभाति। अर्थालंकारविषये च वामनादारभ्यैव प्राचामर्वाचां च लक्षणभेदेन एकस्य मते एकोऽलंकार:, स एव परस्य मते पर एव भव- तीति 2स्पष्टमिदं विमर्शकानाम्। पञ्चमे त्वधिकरणे वामनोऽयं द्वाभ्यामधिकरणाभ्यां काव्यसमयं शब्दशु- द्विं च निरूपयति। काव्यसमयनिरूपणं च नितरां संकुचितं न खलु तद्वचपदे- शमर्हतीति प्रतिभाति। अर्वाचीनास्तु 'सतामप्यनुपनिबन्धः । असतां चोपनि- बन्धः' इत्यारभ्य सुस्पष्टं बहून् काव्यसमयानभिदर्शयामासुः। शब्दशुद्धिविवेक- 1. अतिशयोक्तिभेदान्तरस्य गणने त्रयःसप्ततिः। 2. दश्यन्तां वामनीयानि समासोक्त्यप्रस्तुतप्रशंसादिलक्षणानि।
Page 15
XV
प्रकरणे च प्रायेण वैयाकरणैः समर्थितान् शब्दान् तथैव समर्थयति। अगत्या च तत्र तन्र चिन्त्यतामप्याविर्भावयति। धातुपाठादिविषये च कचित्कचिदाधुनिक- वैयाकरणग्रन्थमताभ्यामस्ति दृश्यते वामनस्य विरोधः । आनुनासिक्यप्रतिज्ञान्या- येन संप्रदायागतांस्तांस्तान्विशेषानतिदृढं विश्वसन्तो वयं न खल्वत्र किमपि का- रणमात्मना जानीमः । प्रायोगिकाधिकरणद्वितीयाध्यायस्य वैयाकरणकृत्यत्वमाक- लयन्तः प्रत्यवस्थातारः, काव्यशरीरशब्दशोधनमपि नालंकारिकस्य नानुगुणमिति परं निवेदनीया भवन्ति।
अथास्य वामनस्य जीवितसमयं विमृशामः । अत्र केचित्- "अयं स्न्रिस्तीयसप्तमशतकोत्तरार्धान्न प्राचीनः; यतोऽयं भवभूतिप्रणीतोत्तररामचरिता- दिक्लोकानुदाहृतवान्। भवभूति: स्त्रिस्तीयसप्तमशतकोत्तरार्धे कान्यकुब्जमही- पालस्य यशोवर्मणः सभायामासीदिति सुप्रसिद्धमेव । अथ च ध्वन्यालोकलोचने प्रथमोद्दयोते 'वामनाभिप्रायेणायमा्षेपः। भामाहाभिप्रायेण तु समासोक्तिरित्य- मुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरेकमेवोदाहरणं व्यतरद्रन्थकृत्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदानन्दवर्घनाद्वामनस्य प्राचीनत्वं प्रकटयन्ति। कश्मीरेषु अवन्तिवर्मराज्यसमये नवमशतकोत्तरार्घे श्री मदानन्दवर्धन आसीदिति राजतरङ्गिण्याः प्रतीयते। तस्मात् स्त्रिस्ताब्दीयनवमश- तकोत्तरार्घान्नाघस्तनो वामनः । भाति चायं काश्मीरकः। अष्टमशतके कश्मीरमही- पतेविपश्चिद्वरस्य श्रीजयापीडस्य मन्त्री कश्चन वामनाभिघ आसीत्। 'मनोरथं शङ्कदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः' इति राजतरङ्गिणी। स एवायं काव्यालंकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति। काशिकावृत्तिकारो वामनस्त्वस्माद्विन्नः प्राचीनश्च। चीनदेशात्ीर्थयात्रार्थ भार- तवर्षे सप्तमशतकपूर्वार्धे कश्चन ह्यून्सक्कनामा पुरुषः समागतः । तदान्र वामन- प्रणीतायाः पाणिनिसूत्रव्याख्यायाः (काशिकायाः) पठनपाठनेषु प्रचार आसी- दिति हि तदीययात्रावर्णनपुस्तकात्पाश्चात्त्यैः पण्डितैरघिगतम्" इति विलिखन्ति।
परे त्वत्र प्रत्यवतिष्ठन्ते- चीनयात्रिकेण खलु तदा काशिकाया: प्रचार आसीदित्येव विलिखितम् ; न तु संपूरणाया इति, न वा वामनप्रणीताया इति। तच्च तदीयं वचनं जयादित्यकृतं भागमादायैव कुतो नात्मलाभमधि-
Page 16
.XVI
गच्छतु। अत एव केचन विमर्शकाः 4प्रायशः खिविस्ताब्दीये अष्टमे नवमे वा शतके काशिकावृत्तेः पूर्तिरासीदिति नवीनविचारणाविशारदानां मतम्' इत्यभि- प्रयन्ति। नापि पूर्वोक्तेन लोचनवाक्यमात्रेण वामनस्य ध्वन्यालोककर्तुः प्राची- नत्वमभ्युपगन्तुं शक्यते; यत इयं शैली व्याख्यातृणाम्- यत्स्वापेक्षया प्राचीनं मतं सव्याख्येयअ्रन्थाभिप्रायादपि पूर्वत्वं प्रापय्य तत्र तत्रावतारिकादान- भाववर्णनादिष्वप्रतिबन्धं प्रवर्तनं नाम। इदं चात्रालोचनीयम्, यदत्र वृत्तौ माघो भट्टनारायणश्च पद्याभ्यामुदाहृताविति। माघस्य च कालो नवमशतकोत्तरार्ध इति (८६०) डवूप्रभृतयो वदन्ति सहेतुकम्। भट्टनारायणश्च अष्टमशतको- त्तरार्धे नवमशतकारम्भे वा स्यादिति श्रीवैद्यप्रभृतिभिः सप्रमाणं निर्धारितम्। उ- दाहरणतया अ्न्थकृद्धिरुपादानस्य च अन्थावतारात्परं कतिपये वत्सरा अपेक्षणी- या इति सर्वसंप्रतिपन्नमिदम्। ध्वन्यालोकलोचनकर्ता अभिनवगुप्तपादाचार्यश्च स््रिस्तीयदशमशतकोत्तरभागे एकादशशतकारम्भे च कश्मीरेषृवात्सीदिति तत्कृ- तबृहत्प्रत्यभिज्ञाविमर्शेनीसमाप्तिस्थपद्यादवगम्यत इति श्रीमान् दुर्गाप्रसादः । इत्थं च वामनोऽयं स्त्रिस्तीयदशमशतकोत्तरार्धान्नावाचीनः, नवमशतकान्न प्रा- चीन इति प्रमाणमार्गागतमिति प्राहुः । इंद च वयं विमर्शकानां दृष्टौ कुर्म :- काव्यादर्शकर्ता आचार्यदण्डी ता- वद्वामनादिभ्यः प्राचीन आलंकारिक इति निर्विवादमिदम्। तेन च काव्याद- शे द्वितीयपरिच्छेदान्ते 'उपमारूपकं चापि रूपकेष्वेव दर्शितम्' इति, 'उत्प्रेक्षा- भेद एवासावुत्प्रेक्षावयवोऽपि च' इति वदता 'तद्वेदावुपमारूपकोत्प्रेक्षावयवौ' इति वामनमतं निराकृतमिव प्रतिभाति। तत्कथमिदसुपपद्यताम्। वामनादन्येन च प्राचीनेनालंकारिकेण तावभ्युपगतौ स्यातामिति वा समूहनीयम्। एवमपि प्रा- चीनेनालंकारिकेण खण्डितस्य विषयस्यार्वाचीनेन विनैव युक्तिप्रदर्शनमभ्युपगम- व्यसनं कथं नाम संगच्छतामिति तु संशयः प्रादुर्भवति। परस्परवार्तानभिज्ञौ ता- विति कल्पनं त्वतिसाहसमेव सहृदयानाम्। अस्य च प्राचीनस्यालंकारनिबन्धनस्य नैतावता समीचीनं परिशोधितं मुद्रापणमासीत्। मूलमात्रं च चिराद्वहोस्तैस्तैर्मुद्रापितमपि न व्युत्पित्सुनामुप- काराय तावते समकल्पत, वस्तुतो यावते भाव्यमेतेन। शोधकाश्च आलस्याद्वा 1. दृश्यतां मद्रपुरमुद्रापितरूपावतारभूमिकासप्तमपुटः।
Page 17
xvii
प्रमादाद्वा अन्यैवी कारण: सूत्रवृत्तिविवेकमनाकलयन्त एव सूत्राणि वृत्तीरवृ- त्तीश्च सूत्राणि तत्र तत्र विद्यार्थिभिर्विलिख्यमाना अ्रन्थाद्वहिर्भूताश्च टिप्पणी- अ्रन्थाक्षराणि च मन्यमानास्तथैव मुद्रापयित्वा काव्यालंकारसूत्रवृत्तिमिमां प्रा- चीनां बहुषा आकुल्यकार्षुः। तिप्पभूपालकृतव्याख्यानेन सह वृत्तिमिमां सुद्रा पितवन्तश्च केचित् मुद्रितपूर्वमूलग्रन्थपाठादि प्रामाण्यभ्रमेण व्याख्याक्षराण्येवा- न्यथयन्तः, कचित्कचिच्च व्याख्यानपङ्कीरेव मुद्रितमूलग्रन्थविसंवादिनीः परित्य- जन्तः, तत्रैव पुस्तके निर्दिष्टानि पाठान्तराणि व्याख्यानेन संवदन्तीत्यालाच- यितुमप्यलसा बहाकुल्यभावयन्भूयोऽपि वृत्तिमेनाम्। तदेतत्सर्वमालोच्य व्याख्या- नग्रन्थस्येव मूलग्रन्थस्याप्यादर्शान्तराण्यानीय व्याख्यामूलग्रन्थयोः संवादं सम्यक परीक्ष्य व्याख्यानानुगुणं तत्र स्थितं पाठमादृत्य सयुक्तिप्रमाणं सूत्राणि वृत्तीश्च शृक्कग्राहिकया निर्धार्य यावन्मतिबलं परिष्कारमाधाय सव्याख्यानामेनां काव्या- लंकारसूत्रवृत्ति बहिरिदानमिवतारयामः । यदि च व्युत्पित्सूनां विदुषां चायम- स्मत्परश्रमो विमर्शनावसरे लेशेनाप्यभिनन्दनमर्हति, तदा ससंतोषमस्मदीय- प्रयासस्य चारितार्थ्यमाकलयामः ।
Page 19
। श्रीः ।।
॥ काव्यालंकारसूत्रवृत्तिः ।
कामधेनुसहिता।
Page 21
। श्रीः।।
॥ काव्यालंकारसूत्रवृत्ति: ।
॥ कामधेनुसहिता ॥
प्रथममधिकरणम् ॥।
प्रणम्य परमं ज्योतिर्वामनेन कविपिया। काव्यालंकारसूत्राणां स्वेषां वृत्तिर्विधीयते।।
॥ श्रीः ।। कल्याणानि करोतु नः स भगवान्क्रीडावराहाकृति- देष्टराग्रेण नवप्ररोहपुलकां देवीं धरामुद्दहन्। यस्याग्गेषु वहन्ति लोमविवरालझा महाम्भोधयः कान्तास्पर्शसुखादिव प्रकटितां स्वेदोदबिन्दुश्रियम् ॥ १॥
भ्रमन्मीनोष्णीषं पद्सरणिपारीणवलयम्। विराजइंभावव्यतिकरितपुंभावसुभगं पुरस्तादाविःस्तान्भुवनपितरौ तन्मम महः ॥२॥ ओंकारमणिघण्टानुरणन्निगमबृंहितम्। चित्ते शङ्कलितं भक्त्या चिन्तये चिन्मयं गजम् ॥३॥ करुणामसृणालोकप्रवणा शरणार्थिषु। प्रगुणाभरणा वाणी स्मरणानुगुणास्तु मे ॥४ ॥
उन्मीलम्प्रतिभानकन्दमुद्यत्संदर्भनालं लस- चलेषाद्याकुलशब्दपत्रमतुलं बन्धारविन्दं सदा।
वन्दे रीतिविकासमाशु विगलन्माधुर्यपुष्पासवम्॥। ५॥
Page 22
२ काव्यालंकारसूत्रवृत्ति: [अधि. १.
नमस्कुर्चे खवर्वेतरविविधविद्याविलसिता- न्पवाच: प्राचोऽहं प्रथितयशसो भामहमुखान्। कृता यैरर्थानां कृतिषु नयचर्चा सदसतां प्रभेवाभिष्यकि प्रजनयति भासामधिपतेः ॥६॥
पावनी वामनस्येयं पदोव्रतिपरिष्कृता। गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी॥। ७॥
प्रबन्धं तालानां भवनुतिमिषेणातनुत य: शिवाकलप्ताकारा नटनकरणानामपि भिदाः । स वृत्ते्याख्यानं सरलरचनं वामनकृते- र्विधसे गोपेन्द्रत्रिपुरहरभूपालतिलकः ॥। ८ ॥
पावनपद्विन्यासा समग्ररसदोहशालिनी भजताम्। घटयति कामितमर्थ काव्यालंकारकामधेनुरियम्॥ ९॥
यत्रोपयुज्यते यावत्तावत्तत्र निरूप्यते। प्रसङ्गानुप्रसङ्गेन नात्र किंचित्प्रपञ्च्यते ॥ १० ॥ अभ्यर्थके मय्यनुकम्पया वा साहित्यसर्वस्वसमीहया वा। मदीयमार्या मनसा निबन्धममुं परीक्षध्वममत्सरेण॥। ११ ॥
अध्याये प्रथमे काव्यप्रयोजनपरीक्षणम्। अधिकारिविचारश्र द्वितीये रीतिनिश्चयः । १२॥
काव्याङकाव्यभेदानां तृतीये प्रतिपादनम्। तुर्ये पदपदार्थानां दोषतत्वविवेचनम्॥ १३॥
वाक्यवाक्यार्थदोषाणां पञ्ञमे तु प्रपञ्ञनम्। गुणालंकारभेदस्तु षष्ठे शब्दगुणास्तथा॥। १४॥ सप्मेऽर्थगुणा: शब्दालंकारा: पुनरष्टमे। उपमा नवमे तस्याः प्रपज्चो दशमे भवेत्॥ १५ ॥
काव्यस्यैका दशे संविद्धादशे शब्दशोधनम्। इत्येष द्वादशाध्यायीप्रमेयाणामनुकमः॥१६॥
अथ ग्रन्थकार: स्वकर्तृकाणि सूत्राणि व्याकर्तुकामः, प्रारम्भ एव प्राचीना- चार्य परंपरासमाचारपरिपाप्तकर्तव्यभावेतिकर्तव्यताविशेष रूपमङ्लानुष्ठानेन स्व- यं प्रारिप्सित अन्थपरिसमाप्तिपरिपन्थिप्रत्यूह व्यूहप्रतिहननम्रगल्मसमत्रदेवतानुग्रह-
Page 23
अ. १.] कामधेनुसहिता। ३
संपञ्नोऽपि, व्याख्यातृश्रोतृणामविप्रव्याख्यानश्रवणलाभाय अ्न्थादौ तन्मङ्गलनिब- न्धनपूर्वकं तत्प्रवृत्तिसिद्धये विषयप्रयोजनादि निर्दिश्य दर्शयन्नाधेन पद्चेन कर्तव्यं प्रतिजानीते-प्रणम्येति। भक्तिश्रद्धातिशयलक्षणः प्रर्कषः प्रशब्देनात्र प्रकाश्यते, तादृगेव हि मझलमन्तरायसंतानशान्ति संतनोति। अन्यथा कृतायामपि नतौ प्रारिप्सितअ्रन्थपरिसमाप्ति न संपादयेत्, किरणावल्यादौ तथा दर्शनात्। अथ कथमिह नमिः सक्कर्मकः स्यात्, ्रहीभाववृत्तेरस्याकर्मकत्वात् 'नमन्ति शाखरा नवमञ्जरीभिः' इत्यादिप्रयोगदर्शनाच्च। न चायमुपसर्गवशात्सकर्मकः, प्रश- व्दस्य प्रकर्षमात्रार्थत्वेन कर्मसंबन्धोपपादकत्वायोगात्; 'नमामि देवम्' इत्यादावुपसर्गस्याप्यभावात्। न चायमन्तर्भावितण्यर्थः, अनौचित्यप्रसक्गादिति- तदेतत्पाणिनिफणितिपारायणपरिणतान्तःकरणानामस्माकं चेतसि चोदं न चातुरी- माचरति। तथा हि। यथा जयतिरकर्मकः प्रकर्षेण वर्तने, पराजये तु सकर्मकः; तथा नमिधातुः कचित्प्रहीभावार्थः, कचिन्नमस्कारार्थश्च भवति। तत्न यदा प्रहीभावमात्रविवक्षया प्रयुज्यते, तदानीमेषोऽकर्मकः। यदा नमस्कारार्थविवक्षया प्रयुज्यते, तदा सकर्मक इति विवेकः । यद्येवं तर्हि 'देवं प्रणतः' इत्यत्र कर्तरि क्प्रत्ययो न सिध्येत्, 'सकर्माक्कर्मकाद्धातोः क्तो भवेत्कर्मभावयोः' इति सकर्मका- द्धातो: कर्मणि क्तविधानात्, गत्यर्थाकर्मकादिषु नमेः परिगणनाभावाच्चेत्यपि न चो- दनीयम्। 'व्यवसितादिषु क्तः क्तारे चकारात्' इतीहैव वंक्ष्यमाणेन सूत्रेण नमे- रपि कर्तरि क्प्रत्ययसंभवात् । व्यवसितः प्रतिपन्न इत्यादिषु गत्यर्थादिसूत्े चकारादनुक्तसमुच्चयार्थात्कर्तरि क्तप्रत्ययो भवतीति हि तस्य सूत्रस्यार्थः । परमं परिद्ृश्यामानज्योतिःपरिपाटीमतिवर्तमानम् । ज्योतिः चिन्मयम्। 'परमं ज्योतिः प्रणम्य' इत्यत्र वाक्यार्थसामर्थ्येन, निखिलनिगमनीरजराजिराजहंसस्य परमहं- सभावनापदवीदवीयस: परस्य ब्रह्मणो यत्पारमार्थिकं रूपम्, तदेव प्रणिधान बलेन प्रमुषितविषयान्तरप्रसक्के प्रहर्षतर्वितेऽन्तःकरणे प्रत्यक्षतोऽनुभवन्प्रणाम- प्रचयेन पर्यचरदिति प्रतीतेः परमयोगित्वमस्व प्रबन्धुः प्रत्याय्यते। वामनेनेति। निजनामर्निर्देशो यशःप्रकाशनाय । कवीन् प्रीशातीति कविप्रीः 'अन्येभ्यो- डपि दृश्यते' इति किप्प्रत्ययः। तेन कविप्ियेति तृतीयान्तं कर्तृविशेषणम्, कवीनां मियेति प्रथमान्तं वा कर्मविशेषणम्। काव्येति। 'कवनीयं काव्यम्' इति
Page 24
४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
काव्यं ग्राह्यमलंकारात् ॥ १ ॥
काव्यं खलु ग्राह्ममुपादंयं भवति, अलंकारात्। काव्यशब्दोऽयं गुणालंकारसंस्कृतयो: शब्दार्थयोवर्तते। भक्त्या तु शब्दार्थमात्रवच- नोऽत्र गृह्यते।।
लोचनकारः। 'कवयति इति कविः, तस्य कर्म काव्यम्' इति विद्याधरः। 'कौति शब्दायते विमृशति रसभावान् इति कविः तस्य कर्म काव्यम्' इति भट्टगोपालः। 'लोक्ोत्तरवर्णनानिपुणकविकर्म काव्यम्' इति काव्यप्रकाशकारः । भामहोऽपि 'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता। तदनुप्राणनाज्जीवेद्वर्णनानिपुणः कविः॥ तस्य कर्म स्मृतं काव्यम्' इति। तदेतत्काव्यशब्दव्युत्पत्तिकथनम्। चारुताशालि- शब्दार्थयुगलं काव्यमिति रूढोऽर्थः । तस्य अलंकारः अलंकृतिः । भावे घञू । दोषहानगुणालंकारादानाभ्यामाधीयमानं सौन्दर्यमिति यावत्। तत्प्रतिपादकानि सूत्राणि, तेषाम्। सूत्रलक्षणमुक्त भामहेन, ''अल्पाक्षरमसंदिग्धं सारवद्विश्वतो- मुखम्। सम्यक्संसूचितार्थै यत्तत्सूत्रमिति कथ्यते॥।' इति। स्वेषामिति। सूत्रवृत्त्यो- रेककर्तृकत्वप्रतिपादनेन सूत्रकाराभिमतार्थप्रतिपादिनी वृत्तिः. वृत्तेरन्यकर्तृकत्व- शङ्काविरहश्चेत्युभयमप्युपक्षिप्यते। वर्तते अस्यां सूत्राणां यथावत्पदपदार्थविवेक इति वृत्तिः । अधिकरणार्थे क्तिन्प्रत्ययः । वृत्तिलक्षणमुक्तं भामहेन. 'सूत्रमात्र- स्य या व्याख्या सा वृत्तिरभिधीयते।' इति। 'काव्यालंकारसृत्राणां वृत्तिः' इत्य- नेन विषयसंबन्धौ सूचितौ। 'कविप्रिया' इत्यनेन अधिकारिप्रयोजने सूचिते । तदेतदनुबन्धचतुष्टयमुत्तरत्र विस्तरेण प्रतिपादयिष्यते।
ननु काव्यस्य कः पुनरलंकारादुपकारः, येन प्रतिज्ञायमानं तत्सूत्रवृत्तिविधानं सफलं स्वादिति शङ्कामपनेतुमलंकारप्रयोजनप्रतिपादकमादिमं सूत्रमुपादच्ते- काव्यमिति। खलु शब्दो वाक्यालंकारे। यद्वक्ष्यति 'वाक्यालंकार प्रयोजनं तु नान- र्थकम्, यथा-खलु हि हन्त' इति। काव्योपादाननिदानत्वादलंकारो भवत्युपयोगीति भावः। ननु काव्यमेव तावदुपादेयं चेत्, अलंकारस्यापि तदुपादानहेतुत्वमुपपद्येत। तत्सूत्रवृत्तिविधानं च सफलं स्थात्। तस्योपादेयत्वमेव कुत इति चेत्-अत्र वक्त- 1. 'अल्पाक्षरमसंदिग्ध सारवत्सर्वतोमुखम्। अस्तोभमनवयं च सूत्र सूत्रविदोविदुः ।।'
Page 25
अ. १.] कामधनुसहिता। ५
व्यम्-यत्काव्यमुपादेयं न भवतीति, तत्कस्य हेतोः न तावंदृषिप्रणीतत्वाभावाद नुपादेयत्वम्, वाल्मीकिबोधायनप्रभृतिभिरपि महर्षिभिः काव्यस्य प्रणयनात्। नापि पुरुषप्रणीतत्वात् , शासत्रनिबन्धनानामपि तथात्वेनानुपादेयत्वप्रसज्जात्। न च काव्यत्वात्, रामायणादावनैकान्तिकत्वात्। तस्वापि पक्षसमत्वशङ्कायामेकैकाक्ष- रोच्चारणेऽपि 'फलविशेषवचनविरोधः । नापि दृष्टप्रयोजनाभावात्, दृष्टप्रयो- जनानां बहूनामुपदिष्टत्वात्। तथा चोक्तं काव्यप्रकाशे, 'काव्यं यशसेऽर्थ- कृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे॥' इति। नाप्यदृष्टप्रयोजनाभावात्, स्वर्गापवर्गलक्षणस्यादृष्टप्रयोजनस्य शिष्टैरनुशि- ष्टत्वात् यदाहु:, 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ।।' इति। काव्यादर्शेऽपि 'चतुर्वर्गफलायत्तं चतुरोदात्तनाय- कम्।' इति। इहापि 'काव्यं सत् .... ' इति वक्ष्यमाणत्वाच्च। अथ मन्यसे 'का- व्यालापांश्र वर्जयेत्' इति निषेधवचनादनुपादेयत्वं काव्यस्येति, तदप्यनालोचित- चतुरम्। काव्यालापनिषेधवचनस्यासत्काव्यविषयत्वेन व्यवस्थापनात्। यदाह विद्यानाथः, 'यत्र पुनरुत्तमपुरुषचरितं न निबध्यते तत्काव्यं परित्याज्यमेव। तद्वि- षया च स्मृतिः, काव्यालापांश्च वर्जयेदिति' इति। न केवलं विषयवैगुण्येनासाधु- त्वं काव्यस्य, किंतु प्रबन्धुः प्रतिभादौर्बल्यकुलवैकल्याभ्यामपि भवति। तदुक्तं काव्यादर्शे, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन। स्याद्वपुः सुन्दरमपि श्वित्ेणैकेन दुर्भगम् ।।' इति। कविगजाङ्कुशे, 'शुनीदुग्धमिव त्याज्यं पद्यं शूद्रकृतं बुघैः। गवामिव पयो आह्यं काव्यं विप्रेण निर्मितम् ॥' इति। उत्तमपुरुषकथाकथनं तु काव्यं ग्राह्यमेव। तदुक्तं भामहेन, 'उपश्लोक्यस्य माहा- त्म्यादुज्ज्वला: काव्यसंपद: ।' इति। भट्टोद्भटेनापि फणितम्, 'गुणालंकारचारु- त्वयुक्तमप्यधिकोज्ज्वलम्। काव्यमाश्रयसंपत्त्या मेरुणेवामरद्मः ॥' इति। भोज- राजेनापि कथितम्, 'कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति। नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ।I' इति। किं बहुना। प्रतिपाद्यमहिन्रा प्रबन्धप्रशस्तिरिति शास्त्राणामपि समानमेतत्। तथा हि। न्यायवैशेषिकशास्त्रयोरीश्वरप्रतिष्ठापकतया पू- र्वोत्तरमीमांसयोर्धर्मब्रह्मप्रतिपादकतया च महनीयत्वम्। तत्त्वचिन्तायां तु शास्राणा- मपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत्'। यदाहुः, 'स्वादुकाव्यरसोन्मिश्रं 1. उपनिषत् रहखं सिद्धान्त इति यावत्ं। 'रसस्योपनिषत्परा' इति ध्वन्यालोके।
Page 26
६ काव्यालंकारसूत्रवृत्ति: [अधि. १.
शासत्मप्युपयुञ्जते। प्रथमालीढमधवः पिबन्ति कटु भेषजम्॥' इति। किंच शास्त्र- काव्ययोरियान्विशेष:, यत्र्रभुसंमिततया दुर्लभोऽनुप्रवेशः शासे, कान्तासंमितत- या तु सुलभोऽनुप्रवेशः काव्य इति । यदाङुः, 'कटुकौषधवच्छास्त्रमवि- द्याव्याविनाशनम् । आहाद्यमृतवत्काव्यमविवेकगदापहम् ।' इति । साहि- त्यचूडामणावप्युक्तम्, 'तदिदं पुण्ड्रेक्षुभक्षणाद्वेतनवित्तलाभः, यत्काव्यश्रवणाद्वयु- त्पत्तिसिद्धिः' इति। तस्मादृष्टादृष्टानेकोपकारकारितया काव्यमुपादातव्यम्, ततश्च सफलोऽयमलंकारसूत्रवृत्तिविधानयत् इति सिद्धम्। अथ काव्यशब्दस्यानेकार्थ- त्वेन विप्रतिपत्तौ स्वसिद्धान्तसिद्धं मुख्यार्थ तावत्प्रख्यापयति-काव्यशब्दोऽ- यमिति। लिलक्षयिषितगुणालंकारसंस्कृतशब्दार्थयुगलवाची नपुंसकलिङ्ग: काव्य- शब्द इत्यर्थः । गुणालंकारसंस्कृतयोरिति । गुणैः ओजःप्रमुखैः, अलंकारै: यमकोपमादिभिश्च संस्कृतयोः अलंकृतयोरित्यर्थः । अत्र शब्दार्थौ द्वौ सहितावेव काव्यमिति काव्यपदार्थकथनात्, कमनीयताशाली शब्द एव काव्यम्, अथवा अर्थ एवेति पृथक्पक्षद्वयं प्रत्यक्षेपि; यतो द्वयोः संभूयाह्ादनिबन्धनत्वमिति। तदुक्तं वक्ोक्तिजीविते, 'न शब्दस्य रमणीयताविशिष्टस्य केवलस्य काव्यत्वम्, नाप्यर्थस्य' इति। यद्यपि काव्यपदं गुणालंकारसंस्कृतशब्दार्थयुगलं स्वभावत
- अत्रेदमवधेयम्। काव्यमुचैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्यं श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीनव्यवहारतः शब्दविशेषस्यैव काव्यपदार्थत्वम्। तथा च 'रमणीयार्थ- प्रतिपादकः शब्द: काव्यम्' इति तल्लक्षणं युक्त्तमिति पण्डितराजः । 'वाक्यं रसात्मकं का- व्यम्' इति लक्षयन्दर्पणकृदप्येनमेव पक्षं कटाक्षयति । प्राचीनपक्षपातिनस्तु, अर्थस्यापि शब्दद्वारा प्रतीतिविषयत्वान्न पूर्वोक्तव्यवहारानुपपत्तिः । इत्थमेव हि आत्मश्रवणवाक्यं सम- र्थितं सर्वैः। इदं च काव्यत्वं न व्यासज्यवृत्ति, एको न द्वाविति व्यवहारस्येव श्लोकशाक्यं न काव्यमिति व्यवहारस्याप्यापत्तेः । अर्थाज्ञानेऽपि शब्दावलीमात्रे काव्यत्वानुभवानुपपत्तंक। व्यासज्यवृत्तिधर्मप्रकारकनिश्चयस्य यावदाश्रयविषयकत्वनियमात्। नापि प्रत्येकपर्याप्तम्, एकस्मिन्यधे काव्यद्वयव्यवहारापत्तेः । शब्दानुपनिबद्धार्थतदनिबन्धकशब्दयोरतिग्याप्तेथ। परं तु परस्परविशिष्यो: शब्दार्थयोरेव काव्यत्वम्। तत च क्चिच्छ्दविशिष्टोऽर्यः, कचि- स्वर्थविशिष्टः शब्द: काव्यमिति बोध्यम्। न त्वेकश्लोक एव द्विधा काव्यत्वम्, एकधा काव्यत्वेनैव व्यवहारोपपत्तेः। यत्रार्थीं व्यञ्ञना, तदभावेऽप्यर्थालंकारमात्रं वा; तत्रार्थो विशेष्यः। यत्र तु शाब्दी त्यजना, तदभावेऽपि शब्दालकारमात्रं वा, तत्र शब्दो विशेष्य इत्यैवं विनिगमनावधेया। उभयालंकारसत्त्वे तु तत्तच्रमत्कारतारतम्यं 'विनिगमकमवसेय मिति प्राहुः।
Page 27
अ. १.] कामधेनुसहिता। ७
कोऽसावलंकार इत्यत आह- सौन्दर्यमलंकारः।। २।।
दिपु बर्तते। अलंकृतिरलंकारः । करणव्युत्पन्या पुनरलंकारशब्दोऽयसुपमा-
एवाचष्टे, तथाप्यस्मिन्सूत्रे मुख्यार्थस्यानुपयोगलक्षणं बाधं पश्यन् शब्दार्थ- युगलमात्रे तदुपचर्यत इत्याह-भक्त्येति। 'भक्त्या उपचारेण। गुणालंकारसं- स्कृतत्वस्य पृथक्करणं मात्रचोऽर्थः । ननु 'मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयो- जनात्। अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इत्युक्तरीत्या मुख्या- र्थबाघादौ सत्येवोपचारो वक्तव्यः । तथा च 'गुरुरभिवाद्यो गुरुत्वात्' इत्यत्र यथा गुरुशब्दपरिगृहीतस्यैव गुरुत्वस्य तदभिवादनहेतुत्वं दृष्टम्, तथैव अत्नापि अलंकारस्य काव्यग्रहणहेतुत्वमुपपद्यत इति कथं मुख्यार्थबाधः । चारुताशालि- शब्दार्थयोः, शब्दार्थमात्रस्य च वस्तुत एकत्वाद्वेदनिबन्धनो दुर्घटः संबन्धः । 'काव्यं ग्ह्यमलंकारात्' इति भेदनिर्देशेनैव गुणालंकारवैशिष्टयं तद्वयुत्पत्तिरूपं प्रयोजनं च संभवतीति कथमुपचारः? अत्रोच्यते-'यथा गुरुत्वादभिवाद्यः' इत्युक्ते गम्यत एव गुरुरिति, तथापि गुरुरित्युच्यमानमतिरिच्यते; एवमिहापि 'अलंकाराड्राझ्यम्' इत्युक्ते काव्यमिति गम्यत एव, तथापि काव्यमित्युच्यमानम- तिरिच्यत इति पुनरुक्तमायत्वादनुपयुक्तमिति मुख्यार्थभङ्गः।न च अनुपयुक्तत्वे- डप्यनुपपत्तेरभावात्कथं मुख्यार्थबाध इति चोदनीयम् । यतो योग्यताविरहवत् आकाङ्काविरहोऽपि मुख्यार्थभञ्कहेतुः, अन्वयविघटनाविशेषात्। ततश्रानुपयुक्तावा- काङ्मनवैकल्यम्, अनुपपत्तौ तु योग्यतावैकल्यमित्यवगन्तव्यम्। चारुताशालि- शब्दार्थयोः शब्दार्थमात्रस्य च गुणभेदाद्भेदे सति सादृश्यलक्षणः संबन्धः । गुरुपदोपलक्षिते पुंसि हितानुशासनकौशलादिप्रतिपत्तिवत्, शब्दार्थयोर्गुणालंकार- वैशिष्टयप्रतिपततिः प्रयोजनं च संभवतीत्युपपन्न एवोपचार इत्यलमतिविस्तरेण।। अलंकारशब्दोऽयं किं भावसाधनः, उत करणसाधन इति संदेहा- स्पृच्छति-कोS साविति। तत्नोत्तरं वक्तुमुत्तरसूत्रमवतारायति-अत आहे- 1. 'भज्यते सेव्यते मुख्यार्थोऽनग्रेति भक्तिः उपचारः लक्षणेत्यर्थः।' 2. साधनं प्रत्ययः । भावसाधनः भावार्थकप्रत्ययान्तः।
Page 28
८ काव्यालंकार सूत्रवृत्ति: [अधि. १.
ति। वृत्तिकारदशातः सूत्रकारदशान्यैवेति कर्तृभेदमाश्रित्योक्तम् 'आह' इति । अत्र भावव्युत्पत्तेर्विवक्षितत्वादलंकारशब्दो भावार्थमाचष्ट इत्याह-अलंकृति- रलंकार इति। अलंकारशब्दस्य करणव्युत्पत्तिपक्षे तु न गुणानां काव्यग्रहण- हेतुत्वमिति, 'युवतेरिव रूपमञ्क काव्यं स्वदते शुद्धगुणम्' इत्यादि वक्ष्यमाणं नोपपद्यत इत्यर्थासंगतिः, 'न कल्युट्तुमुन्खलर्थेषु वासरूपविधिरिष्यते' इति करणे ल्युट एव प्राप्तेः शब्दासंगतिश्चेत्याशयः । ननु अलंकारशब्दस्य कटक- मुकुटादाविव यमकोपमादिष्वविगीतशिष्टप्रयोगदर्शनात् ''अध्यायन्याय' इत्यादि- सूत्रे चकारादनुक्तसमुच्चयार्थाद्वा 'कृत्यल्युटो बहुलम्' इति बहुलग्रहणाद्वा करण- साधनोऽप्यलंकारशब्दः संगच्छत इति चेन्मतम्, तन्तु नानिष्टमित्यभ्युपगम्या- नुवदति-करणव्युत्पन्या पुनरिति। कथंचित्कल्पितायामपि करणव्युत्पत्तौ न गुणानां काव्यग्रहणहेतुत्वमिति स दोषस्तदवस्थ इत्याशयः । ननु करणसाध- नोऽ्यमलंकारशब्दो यमकोपमादिषु वर्तमानो गुणानपि गृद्दाति, सौन्दर्यहेतुत्वा- विशेषादुभयेषामिति-तदेतदविचारितरमणीयम्। न हि व्युत्पत्तिरस्तीति शब्द: सर्वत्र प्रयोक्तुं शक्यते, किंतु शिष्टप्रयोगे दृष्टे व्युत्पत्तिरन्विष्यते, अन्यथा पङ्कजादयः शब्दाः पद्मादिष्विव कुमुदादिषु प्रयुज्येरन्, पङ्कजननाविशेषादिति स्यादतिप्रसङ्गः । तस्मात्पझ्रादिषु पङ्कजादिशब्दवत्, अलंकारशब्द: कटकमुकुटा- दिष्विव यमकोपमादिषु योगरूढ इत्यवगन्तव्यम्। एवं च सति यमकोपमादेरलं- कारस्य काव्यग्रहणहेतुत्वाभ्युपगमे, सालंकारमेव काव्यं आ्ह्यम्, न तु निरलंकार- मित्यापद्येत। न चैवं वक्तुं युक्तम्, अलंकारविरहेऽपि शुद्धगुणमेव काव्यमास्वा- द्यमिति वक्ष्यमाणत्वात्। न केवलमियमस्य ग्रन्थकृतः प्रक्रिया, अन्यैरप्यालंका- रिकैरनलंकारस्य शब्दार्थयुगलस्य सगुणस्य काव्यत्वे लक्षणोदाहरणयोर्दर्शित- त्वात्। तथा चोक्तं काव्यप्रकाशे, 'तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि' इति। अत्र व्याचष्ट भट्टगोपालः, "निर्दोषौ सगुणौ सालंकारौ श- ब्दार्थौ काव्यमिति घण्टापथः । किंतु 'सर्वै वाक्यं सावधारणम्' इति युक्तया यथा दोषशून्यावेव गुणवन्तावेव शब्दार्थो काव्यमित्यवधारणम्, तथा सालंका- रावेवेति न पार्यते नियन्तुम्। वयं हि काव्यशोभासंभावनया स्वैरमलं- कारान् सहामहे, अलंकारनैयत्यं तु न सहामहे। उक्तं हि, 'दोषहानं गुणादानं 1. अध्यायन्यायोद्यावसंहाराथ्। ३-३-१२२.
Page 29
अ. १.] कामधेनुसहिता।
स 'दोषगुणालंकारहानादानाभ्याम् ॥ ३ ॥
स खल्वलंकारो दोषहानात्, गुणालंकारादानाच संपाधः कवेः। कर्तव्यं नियमात्कृतौ । कामचारः पुनः प्रोक्तोऽलंकारेषु मनीषिभिः ॥' इति। उदाहरणं तु 'यः कौमारहरः स एव हि वरस्ता एव चैत्नक्षपास्ते चोन्मीलित- मालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापार- लीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' इति। अत्र स्फुटो न कश्चिदलंकारः2 । काशकुशावलम्बनाद्विशेषोक्तिविभावनयोरन्यतरालंकारोद्भाव- नायामलंकारनैयत्यपक्षनिर्वाह इत्यलं दूराभिनिवेशया दुराशया, कविसंरम्भगोच- राणामलंकाराणां न कस्यचिदुपलम्भ इति।" तथापि न काव्यत्वभङ्गः । विशे- षोक्तिविभावनयोः सवखविरुद्धार्थमुखेन कथंचिदुद्धावनेऽपि न स्फुटत्वम्, कण्ठो- क्त्या निषेध्ययोः कार्यकारणयोर्भावान्तरमुखेनाभावाभिधानात्। अथ साधकबा- धकप्रमाणाभावाद्टयो: संदहरूपसंकर एवेति, तत्राप्यम्फुटतानुवृत्तिर्दुष्परिहरैवेत्यलं प्रसक्तानुप्रसक्तार्थप्रपश्चनेन। यद्यपि 'काव्यं गह्यं सौन्दर्यात्' 'तद्दोषगुणालं कारहानादानाभ्याम्' इति विन्यासान्तरे लाघवं भवति। तथापि, योऽयमलंकारः काव्यग्रहणहेतुत्वेन उपन्यस्यते, तद्वयुत्पादकत्वाच्छास्रमपि अलंकारनान्ना व्यपदिश्यत इति शास्त्रस्य अलंकारत्वेन प्रसिद्धि: प्रतिष्ठिता स्यादिति सूचयितु- मयं विन्यासः कृतः, 'काव्यं आध्यमलंकारात्' इति।
इत्थमलंकारपदार्थ समर्थ्य तस्य कारणं वक्तुमुत्तरसूत्रमुपक्षिपति-स दो- षेति। प्रक्रान्तप्रसिद्धानुभूताद्यनेकार्थत्वात्तच्छब्दोSत्र प्रक्रान्तार्थपरामर्शीत्याह- स खल्विति। गुणाश्चालंकाराश्च गुणालंकारा इति प्रथमं समस्य, पश्चात् दो- 1. अत्र दोषपदेन रसप्रतिबन्धकानां प्रतिकूलवर्णश्रुतिकटुकष्टानां शाब्दबोधसामभ्री- विघटकानां च्युतसंस्कृतिक्किष्टाभवन्मतयोगानामेव ग्रहणम्। एत एव च काव्यत्वविघटकाः; अन्ये तु काव्यापकर्षका एवेत्यर्वाचीनाः। 2. विभावनाविशेषोत्त्योः, तत्संदेहसंकरस्य च अस्फुटत्वं प्रन्थकृतैव दर्शयिष्यते। सविसर्गगुरुरेफानुप्रासोऽपि रसाननुगुणत्वादस्फुटः । न च प्रकृते विप्रलम्भशक्वाररसप्रतीते रमवदलंकार एव स्फुट इति वाच्यम्। रसस्यात्र प्राधान्यात् ; अप्राधान्य एवालंकारत्वोपगमात्। 3. विशेषोक्किविभावनयो: स्फुटत्वं नाम कार्यकारण-
Page 30
१० काव्यालंकार सूत्रवृत्ति: [अधि. १.
शास्त्रतस्ते ॥। ४ ॥
ते दोषगुणालंकारहानादाने शास्त्रादस्मात्। शास्त्रतो हि ज्ञात्वा दोषाञ्जह्याद. गुणालंकारांश्राददीत। किं पुनः फलमलंकारवता काव्येन, येनैतदर्थोडयं यत्र इत्यत आह- काव्यं सदृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ॥५॥ षाश्च गुणालंकाराश्रेति द्वन्द्वः कर्तव्यः । हानं च आदानं च हानादाने। दोषगु- णालंकाराणां हानादाने इति विग्रहः। ततश्च दोषाणां हानम्, गुणालंकाराणा- मादानमिति यथासंख्यं संबन्धः संपत्म्यते। 'इष्टानुवर्तनात्कुर्यात्प्रागनिष्टनिवर्त- नम्।' इति नीत्या गुणालंकारादानात् पूर्व दोषहानमेव कविना कर्तव्यमिति सूचयितुं दोषहानस्य प्रथमतो निर्देशः कृतः । 'गुणालंकारादानाच्च' इत्यत्रेदम- नुसंघेयम्-गुणविवेच नाधिकरणप्रमेयपर्यालोचनायां नित्यत्वानित्यत्वभेदेन गुणा- लंकारव्यवस्थामास्थास्यमानेन ग्रन्थकृता, अत्र सूत्रे दोषहानवत् गुणादानवच्च नालंकारादानं नियतम् ; किंतु गुणकृतशोभातिशयाधायकत्वसंभावनयैवेति विव- क्षितम्-इति। एवं च सति 'सौन्दर्यमलंकारः' इत्यत्रापि, या गुणैराधीयते शोभा, यश्चालंकारैस्तदतिशयः, तदुभयमपि सौन्दर्यपर्यायेण अलंकारपदेन संगृहीतमिति व्याख्येयम्। अतो न पूर्वापरप्रमेयविरोध इति सर्वमनवद्यम्। कवेरिति। 'कृत्यानां कर्तरि वा' इति षष्ठी। ननु दोषहानगुणालंकारादाने किंनिबन्धने इति जिज्ञासमानं प्रत्याह- शास्त्रत इनि। ननु सालंकारं काव्यं फलवच्चेत् ; अलंकारस्य निरूपणाय शास्त्रारम्भ उपपद्यते। अतम्तदुपपत्तये फलं वक्तव्यम्। किं पुनस्तत्फलमिति प्रश्नपूर्वक- मुत्तरसूत्रमुपन्यस्यति- कि पुनरिति। सच्छब्दस्य विवक्षितमर्थमाह 1. 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोनि कीर्ति प्रीतिं च साधुकाव्यनि- षेवणम् ।।'
Page 31
अ. १.] कामधेनुसहिता। ११
काव्यं सत् चारु दृष्टपयोजनम्, प्रीतिहेतुत्वाद्। अदृष्टप्रयोजनम्, कीर्तिहेतुत्वात्। अत्र श्रोका :- 'प्रतिष्ठां काव्यबन्धस्य यशसः सरणि विदुः। अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् । कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः । अकीर्ति तु निरालोकनरकोद्देशदूतिकाम्॥ चार्विति। सालंकारतया सुन्दरमित्यर्थः । दृष्टाटृष्टौ ऐहिकामुष्मिकौ अर्थौ यस्येति विग्रहः। अत्र यथासंर्यं संबन्धं दर्शयति-दृष्टपयोजनमिति। अत्र प्रीति- शब्देन श्रवणसमनन्तरमेव सहृदयहृदयेषु जायमाना या रसास्वादलक्षणा, या च पुनरिष्टप्राप्त्यनिष्टपरिहारनिबन्धना, सेयमुभयविधा प्रीतिर्विवक्षिता। तथा च सति, साक्षात्परंपरया चैहिकप्रीतेः साधनत्वात्काव्यं दृष्टार्थमित्यर्थः। ननु कीर्ति- रपि स्वर्गसाधनतया प्रयोजनमिति वक्तव्यम्। स्वर्गपदार्थोऽपि प्रीतिरेव। तथा च सति, प्रीतिहेतुत्वादित्युक्ते विवक्षितार्थसिद्धेः किं हेत्वन्तरोपादानगौरवेणेति चेत्, सत्यम्। 'यन्न दुःखेन संभिन्नं न च अस्तमनन्तरम्। अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ।।' इत्युक्तलक्षणाया दृष्टप्रीतिविलक्षणाया अदृष्टप्रीतेः पृथङ्- निरूपणीयत्वात्काव्यस्य तन्मूलतया लोकातिशयवत्त्वं प्रकटितमिति हेत्वन्तरमुपात्त- मिति द्रष्टव्यम्। अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तोक्तिसंवादेन समर्थयते- अत्र श्लोका इति। प्रतिष्ठा सहृदयहृदयानुरञ्जकतया लोकोत्कर्षेण स्थितिः । सरणिः पद्धतिः। 'अकीर्तिवर्तनीम्' इत्यत्र नज् तद्विरोधिनमर्थमाचष्टे। यथा अनृताधर्माविद्यादयः ऋतधर्मविद्यादीनां प्रतिपक्षाः, तथा अकीर्तिरपि कीर्तेर्विरोधिनी; तस्या वर्तनी एकपदी। 'सरणिः पद्धतिः पद्या वर्तन्येक- पदीति च।' इत्युभयत्राप्यमरः। आसंसारं यावन्न मोक्षः, कीर्तेर्यावत्प्र- सरणं वा। निरालोकः तेजोमात्रशून्यः, तमोमय इति यावत् । नरकः दुर्गतिः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्।' इत्यमरः। तस्य उद्देशः प्रदेशः, तस्य दूतिका प्रापयित्रीति यावत्। प्रसादयः विशेषतो विमर्शेन विशदीकर्तव्यः।
Page 32
१२ काव्यालंकारसूत्रवृत्ति: अधि. १.
तस्मात्कीर्तिग्ुपादातुमकीर्ति च व्यपोहितुम्। काव्यालंकारशास्त्रार्थ: प्रसादः कविपुंगवैः ॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽ्धिकरणे प्रथमोऽध्यायः।
अस्यालंकारशास्त्रस्य सौन्दर्यापरपर्याये अलंकारे परमप्रतिपाद्े साक्षात्प्रति पाद्यत्वेन दोषगुणालंकारा विषयाः, हेयोपादेयतया तद्वघ्ुत्पादनं प्रयोजनम्, तस्त च प्रयोजनं सत्काव्यकरणम्, तस्य च कीर्त्यादयः, तत्र कवीनां प्रीतिः। शास्त्रस्य विषयस्य च प्रतिपाद्यप्रतिपादकभावः संबन्धः; काव्यस्य कीर्त्यादेश्च कार्यकारण- भाव इति प्रथमाध्यायप्रमेयसंग्रहः ।
शारीर इति। प्रथमं काव्यशरीरम्, तदनु दोषा:, ततो गुणाः, तदन- न्तरमलंकारा:, ततः शब्दप्रयोगशैलीति क्रमेण पञ्चाधिकरणानि। तत्र काव्यश- रीरमधिकृत्य कृतमिति शारीरमधिकरणम्। अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्रमेयात्मनीत्यधिकरणं1 प्रमेयविरतिस्थानम्। अध्यायः अवान्त- रप्रमेयविरामस्थानम् । 'प्रमेयविरतिस्थानमध्यायश्च प्रपाठकः ।' इति वैजयन्ती।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृ्ति- व्याख्यायां काव्यालंकारकामधेनौ शारीरे · प्रथमेऽधिकरणे प्रथमोऽध्यायः॥
- 'विषयो विशयश्रैव पूर्वपक्षस्तथोत्तरम्। निर्णयश्चेति पञ्चाज्ञं शाख्तरेऽधिकरणं स्मृतम् ॥' इति त्वन्यत्र दश्यते।
Page 33
द्वितीयोऽध्यायः॥
-- प्रयोजनस्थापना। अधिकारिनिरूपणार्थमाह- अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥ १ ॥ इह खल द्ये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहा- रिण्चेति। अरोचकिसतृणाभ्यवहारिशब्दौ गौणार्थौ। कोऽसावर्थः ? विवेकित्वमविवेकित्वं चेति। कवीन्द्रकैरवानन्दसुधास्यन्दपटीयसीम्। विभिन्दानां तमःस्पन्दं वन्दे वाड्लयचन्द्रिकाम्॥ प्रयोजने काव्यस्य प्रतिष्ठापिते तदर्थितया अधिकारिणो निरूपणीया इत्यध्यायद्वयसंगतिमधिगमयति- प्रयोजनेति। काव्यप्रयोजनस्य स्थापना, कृतेति शेषः । तिष्ठतेर्ण्यन्तात् 'ण्यासश्रन्थो युच्' इति युच्प्रत्ययः । अधिकारीति। अधिकारः प्रयोजनस्वाम्यम्, तद्वान् अधिकारी। तदुक्तं दशरूपके 'अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।' इति। अरो- चकिन इति। कृष्णसर्पपदन्यायेन अरोचकशब्दस्तत्पुरुषमेवावगमयतीति 'कृ- ष्णसर्पवदरण्यम्' इतिवत् 'अरोचकिनः' इति प्रयुक्तं न त्वरोचका इति। अतः 'न कर्मधारयान्मत्वर्थीयः' इति निषेधस्यानवकाशः। अरोचको नाम व्याधि- विशेषः । यदाह वाग्भटः, 'अरोचको भवेद्दोषैर्जिहाहृदयसंश्रितैः।' इति। सतृण- मिति, 'अव्ययं विभक्ति' इत्यादिना साकल्यार्थेऽव्ययीभावः । सतृणमभ्यवह- रन्तीति सतृणाभ्यवहारिणः । द्वय इति। 'प्रथमचरम' इत्यादि सूत्रे तयपः परि- गणनान्, 'द्वित्रिभ्यां तयस्यायज्वा' इति तत्स्थानिकायजन्तोSपि स्थानिबद्धावा- त्सर्वनामसंज्ञां भजते; अतः प्रथमाबहुवचनान्तं 'हूये' इति रूपम्। ननु किम- नेन प्रकृतानुपयोगिना अरोचकित्वादिविचारेणेति चेदत आह- अरोचकीति। गौणार्थाविति। सादृश्यमूलकलक्षणाव्यापारेण लक्षितार्थावित्यर्थः । गौणार्थस्वरूपं जिज्ञासुः पृच्छति-कोऽसाविति। पृष्टमर्थ स्पष्टमाचष्टे-विवेकित्वमिति।
Page 34
१४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
यदाह- पूर्वे शिष्या विवेकित्वात् ॥ २॥
पूर्वे खल्वरोचकिन:, शिष्याः शासनीयाः। विवेकित्वात् विवे- चनशीलत्वात्। नेतरे तद्विपर्ययात् ।। ३॥
इतरे सतृणाभ्यवहारिणः, न शिष्याः। तद्विपर्ययात् अविवेच- नशीलत्वात्। न च शीलमपाकर्तु शक्यम्।
नन्वेवं न शास्त्रं सर्वानुग्राहि स्यात्, को वा मन्यते? तदाह-
न शास्त्रमद्रव्येष्वर्थवत् ।।४।।
उक्तस्य गौणार्थस्य उपपादकमधिकारिनिश्चायकं सूत्रमवतारयति। यदाहेति। अथ 'नेतरे' इति सूत्रारम्भः किमर्थः । विवेकिन: शिष्या इत्युक्ते अविवेकिन: पुनरशिष्या इति गम्यत एव, तथाप्यासूत्र्यमाणं पुनरुक्तिं पुष्णाति ; 'अर्थादापन्नस्य पुनर्वचनं पुनरुक्ति.' इति न्यायादिति-सत्यम्-यथा 'धूमध्व- जाभावे धूमाभावः' इति यावद्यतिरेको न दर्शितः, तावत् 'सति धूमध्वजे धूमः' इति साहचर्यमात्रदर्शनान्न कार्यकारणाभावनिश्चयः; तथैवात्रापि व्यतिरेकदर्शन- मन्वयदाढ्योयेति युज्यत एव सूत्रारम्भः । वृत्ति: स्पष्टार्था । ननु शीलितं शास्त्रमविवेकमपाकरोति, तत्त्वविवेकस्य तज्जन्यत्वात्। अतः कथमविवेकिनो न शिष्या इति शक्कां शकलयति- न चेति। यद्येवं विरलस्तर्हि विद्ययोपयोग इति शङ्कते-नन्विति। अभ्युपगमेन परिहरति-को वा मन्यत इति। शासत्रं सर्वानुग्राहीत्यनुषज्यते। न कश्चिदपि तथा मन्यत इति फलितोऽर्थः । विधीयमानोऽपि विवेकविधुरेषु विद्योपदेशो विपिनविलापवद्विफल इत्याह- न शास्त्रमिति। शास्त्रोपदेशद्वारा यत्र सद्धिराधीयमाना गुणाः संक्रामन्ति,
Page 35
अ. २.] कामघेनुसहिता। १५
न खल शासतरं अद्रव्येषु अविवेकिषु अर्थेवत्।
निदर्शनमाह न कतकं पङ्कप्रसादनाय ।। ५॥ नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति।
अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह- रीतिरात्मा काव्यस्य ॥ ६ ॥
रीतिर्नामेयमात्मा काव्यस्य। शरीरस्येवति वाक्यशेषः ।
तद्र्व्यमिह विवक्षितम् । तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत्। अत्र गाथा, 'अयं भम्मनि होमः स्यादियं वृष्टिर्मरुस्थले। इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम् ।I' इति। प्रतिपादितं प्रमेयं प्रसिद्धदृष्टान्तेन म्पष्टयितुमाह-निदर्शनमिति। कतकं अम्भःप्रसादनबीजम् । 'कतकं मेदनीयं च श्रक्ष्णं वारिप्रसादनम्।' इति वैद्यनिघण्टुः। प्रकरणोचितां संगति प्रकटयन्नुत्तरसूत्रमवतारयति-अधिकारिण इति। कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगतिः । व्याचष्टे-रीतिर्नामेति। रिणन्ति गच्छन्ति अस्यां गुणा इति, रीयते क्षरत्यस्यां वाङ्मधुधारेति वा रीतिः। अधिकरणार्थे क्तिन्प्रत्ययः। करङ्गात्रकल्पकर्कशतर्कवाक्यवैलक्षण्यप्रक-
- 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्रातपूर्वः' इत्यानन्दवर्धनः। 'शब्दार्थौं मूर्तिराख्यातौ जीवितं व्यञ्यवैभवम्' इति विद्यानाथः । 'वाग्वैदग्ध्यप्रधानेऽपि रस एदात्र जीवितम्' इत्यम्निपुराणम्। 'काव्यस्यात्मनि सङ्गिनि रसादिरूपे न कस्यचिद्विमतिः' इति व्यक्तिविवेकः । 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः' इति काव्यप्रकाशः । 'अलंकारा- स्त्वलंकारा गुणा एव गुणाः सदा। औचित्यं रससिद्धम्य स्थिरं काव्यस्य जीवितम्' इति क्षेमेन्द्रः। 'वक्रोकि: काव्यजीवितम्' इति वक्रोक्तिजीवितकारः। एतद्रेदसाधुत्वादिविचारस्तु वृत्तिवार्तिकव्याख्याने कृतोऽस्माभिः।
Page 36
१६ काव्यालंकार सूत्रवृत्ति: [अधि. १.
किं पुनरियं रीतिरित्यत्राह- विशिष्टा पदरचना रीतिः।।७।। विशेषवती पदानां रचना रीतिः।
कोऽसौ विशेष इत्यत आह- विशेषो गुणात्मा ॥८ ॥। वक्ष्यमाणगुणरूपो विशेषः ।
टनप्रगल्भस्फुरच्ताहेतुः कश्चन स्वभावोऽत्ात्मेत्युच्यते1। ननु काव्यस्य आत्मेत्ये- तत् कथमुपपद्यते; अशरीरभूतस्य आत्मावच्छेदकत्वासंभवादित्याशक्कच, शब्दा- र्थयुगलं शरीरम्, तस्याधिष्ठाता रीतिर्नाम आत्मेत्युपपत्तिमुन्मीलंयितुम् आकाह्गितं पदमापूरयति-शरीरस्येवेति वाक्यशेष इति। अ्र रीतेरात्मत्वमिव, शब्दा- र्थयुगलस्य शरीरत्वमौपचारिकमिति मन्तव्यम्। .
रीतेः काव्यशरीरं प्रत्यात्मत्वेनोक्तमुत्कर्षमुपश्रुत्य, कौतुकोत्कलिकाकरम्बि- तान्तःकरणस्तां प्रतिपित्सुः पृच्छति- किं पुनरिति। किमित्यव्ययं प्रश्नार्थे। 'किमव्ययं च कुत्सायां विकल्पप्रश्नयोरपि।' इति नानार्थरत्नमाला। इयं रीति- र्नाम किं पुनः किंलक्षणेत्यर्थः। प्रतिपित्सितमर्थ प्रतिपादयितुमनन्तरसूत्रमवतारय- ति-आहोते। 'विशिष्टा इति पदं व्याचष्टे-विशेषवतीति। पदानामिति। अर्थेष्वौपचारिकी रीतिरभ्जीकर्तव्या; अन्यथा अर्थानामात्मभूतरीतिवैधुर्ये काव्य- शरीरान्तःपातो दुष्करः । यद्वक्ष्यति, 'तस्यामर्थगुणसंपदास्वाद्या' 'सापि वैदर्भी तात्स्थ्यात्' इति। किमयं वैशेषिकपरिभाषितः पश्चमः पदार्थो विशेषः, अन्यो वेति संदि- हान: पृच्छति -- कोऽसाविति। विवक्षितं विशेषं विवरीतुं सूत्रमवतारयति- आहेति। गुणात्मा ओजःप्रसादादिगुणस्वभाव इत्यर्थः । 1 .एतेन 'यत्तु वामनेनोक्म्, रीतिरात्मा काव्यस्येति-तन्न। रीतेः संघटनाविशेष- त्वात्, संघटनायाथ्ावयवसंस्थानरूपत्वात्, आत्मनश्र तद्भिन्त्वात्' इति दर्पणोकि: प्रत्युक्का।
Page 37
अ. २.] कामधेनुसहिता। १७
सा त्रेधा वैदर्भी गौडीया पाश्चाली चेति। ९ ।। सा चेयं रीतिस्तिधा भिद्यते-वैदर्भी, गौडीया, पाश्चाली चेति। किं पुनर्देशवशाङ्र्रव्यवद्गणोत्पत्तिः काव्यानाम्, येनायं देशवि- शेषव्यपदेशः १ नैवम्। यदाह- विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥ १० ॥
विदर्भगौडपञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वा- द्देशसमाख्या। न पुनर्देशैः किंचिदुपक्रियते काव्यानाम। तासां गुणभेदान्दरेदमाह- समग्रगुणोपेता वैदर्भी॥। ११॥ समग्रैः ओजःप्रसादप्रभृतिभिः गुणैः उपेता वैदर्भी नाम रीतिः। अत्र श्ोक :- 'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्भिता । विषश्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥' रीतिं विवेक्तुमाह- सा त्रेधेति। सकलगुणसध्रीचीनत्वेनाभ्यर्हितत्वा- द्वैदर्भ्याः प्रथमं निर्देशः। अनन्तरयोरुभयोः स्तोकगुणत्वेऽपि प्रशस्तगुणसंस्कृ- तत्वादनन्तरं गौडीयायाः, अवशिष्टाया अन्ते निवेशः । किं पुनरिति। यथा लवणादयः पदार्थाः सिन्ध्वादिदेशवशाद्विशिष्ट- गुणा भवन्ति, तथा किं देशवशाद्विशिष्टानि काव्यानीति शङ्कार्थः। समाधत्ते- नैवमिति। विदर्भादिपदैरुपचाराद्विदर्भादिदेशस्थाः कवयो वक्ष्यन्ते ; अन्यथा विदर्भादिपदानां क्षत्रियवृत्तित्वे अर्थासंगतिः, जनपदवृत्तित्वे 'जनपदतदवध्योश्च' इति गौडशब्दात् 'अवृद्धादपि बहुवचनविषयात्' इति विदर्भपञ्चालशब्दाभ्यां च वु्प्रत्ययप्राप्तौ शब्दासंगतिश्च्वेत्यनुसंघेयम्। विदर्भपञ्चालशब्दाभ्यां 'शेषे' इत्यण्प्रत्यय, गौडशब्दात् 'वृद्धाच्छः' इति छप्रत्ययः । स्पष्टमवशिष्टम्। प्रतिपादितेडर्ये प्रावादुकपद्यं प्रमाणयति -- अत्र श्ोक इति। दोषमा-
Page 38
१८ काव्यालंकारसूत्रवृत्ति: [अधि. १.
नामेतामेवं कवय: स्तुवन्ति- 'सति वक्तरि सत्यर्ये सति शब्दानुसासने। अस्ति तन् विना येन परिस्रवति वाब्धु।'
उदाहरणम्- 'गाइन्तां महिषा निपानसलिलं शृजैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु।
त्राभि: असाधुत्वादिदोषलेशैरपि। अस्प्ृष्टा असंबद्धा, अनुपगतदोषमात्रसंबन्धेति यावत्। 'मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे । सैवाल्पपरिमाणे च' इति नानार्थरत्माला। समग्रैः अन्यूनैः गुणैः ओजःप्रसादादिभिः गुम्भिता संघटिता। विपश्ची वीणा। 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्वाः खराः श्रोतृमनो- रञ्जका: षड्जादयोऽत्र विवक्षिताः न तु क्णनमात्रम्; तस्व मनोरञ्जकत्वाभावात्। तदुक्तं संगीतरलनाकरे, 'श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः। स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ।I' इति। षड्जादिषु रूढश्चायम्। तथा चाञ्जनेये, 'खरशब्दो मयूरादिसमुत्पन्नेषु सप्तसु। षड्जादिष्वेव रूढोडयमतो नैवाक्षु वर्तते॥' इति। तेगं सौभाग्यमिव सौभाग्यं यस्या इति विग्रहः। किंच, अस्याश्चर्वणीयरसचमत्कारकारितया समग्रसौन्दर्यशालितया च कवि- कुलोपलालनीयतामाकलयति-तामेतामिति। सतीति। सच्छब्दोड् साध्वर्थः। 'सत्ये साधौ विद्यमाने पशस्तेऽभ्यर्हिते च सत्।' इत्यमरः । वक्ता कविः। अर्थः अपूर्वतयोल्लिखितः । शब्दानुशासनम् अनुशिष्टः शब्द आकाङ्कायोग्यतादि- विशिष्टश्च। वक्तरि शब्दे च अर्थे च सांधौ सत्यपि येन विना वाख्यधु वाचां मधु न परिस्वति न स्वन्दते; तद्वैदर्भीनामकं वस्त्वस्तीति योजना। इह मधु- ब्देन मुख्यार्थासंभवात्सह्यह्ृदयैराखाद्यः समग्रसौन्दर्यसमुन्मिषितो रसो लक्ष्यते। उक्ताया रीतेरुदाहरणमुपदर्शयितुमाह-उदाहरणमिति। उच्यत इति शेष:। 'वैदर्भीरीतिसंदर्भे कालिदासः प्रगल्भते' इति दर्शयितुं तदीयं पद्यमुदा- हरति-गाइन्तामिति। एषा हि शकुन्तलाविलोकनोत्कलिकावशंवदहृदयस्य मृगयाविहाराद्विरिरंसतो दुष्यन्तस्योक्तिः । महिष्यश्च महिषाश् महिषाः । 'पुमा-
Page 39
अ. २.] कामधेनुसहिता। १९
विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षति: पल्वले विश्रान्ति लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ।'
ओज:कान्तिमती गौडीया ॥ १२ ॥
न्ख्िया' इत्येकशेषः; एवं मृगकुलमित्यत्राप्येकशेषो वेदितव्यः । निपानानि कूप- समीपतः कल्पिता जलाधाराः। 'आहावस्तु निपानं स्यादुपकूपजलाशये' इत्य- मरः। तेषु सलिलम्। तदेव विशिनष्टि-शृङ्गैर्मुहुस्ताडितमिति। महिषा हि जलमवगाह्य दशतः शिरसि दंशानपवारयितुं शृङ्कैर्मुहुस्ताडयन्तीति स्वभावोक्तिः । गाहन्तामित्यादिषु सर्वत्र आमन्त्रणे लोट। छायासु अनातपेषु बद्धानि कदम्ब- कानि समूहा येनेति विग्रहः। 'निकुरुम्बं कदम्बकम्' इत्यमरः । कदम्बकानां बहुत्वविवक्षायां मृगकुलस्य अन्यपदार्थत्वमुपपद्यते; अतो न पौनरुक्त्यमाशक्क- नीयम् । उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः, चर्वितचर्वणमित्यर्थः । 'विस्नब्धं कुरुतां वराहविततिर्मुस्ताक्षति पल्वले' इति प्राचीनः पाठ इति संप्र- दायविदः। पाठान्तरं तु प्रक्रमभङ्गशङ्काकलङ्कमङ्कुरयेत्। 'अस्मत्' इति पञ्चमी- बहुवचनान्तं पृथक्पदम्। विश्राम्यतेर्व्यापारविरामार्थत्वात् पञ्चमी। षष्ठीसमासो वा। अत्र ओज:प्रसादादयो गुणाः परां प्रतिष्ठां लभन्ते। तथा हि-'छाया- बद्धकदम्बकम्' 'शिथिलज्याबन्धम्' इत्यत्र बन्धस्य गाढत्वादोजः । 'छायाबद्ध- कदम्बकं मृगकुलम्' इत्यत्र बन्घस्व गाढत्वशैथिल्ययोः संप्नवात्प्रसादः । 'महिषा निपानसलिलम्' इत्यत्र मसृणत्वाच्छलेषः। 'गाहन्ताम्' इत्यारभ्य येनैव मार्गेण उपक्रमः, तेनैव मार्गेण उपसंहार इति मार्गाभेदात्समता। 'गाहन्ताम्' इत्यत्रारोहः। 'महिषाः' इत्यत्रावरोहः। एवमन्यत्रापि आरोहावरोहक्रमर्फुर- णात्समाषिः । 'शृङ्वैमुहुस्ताडितम्' इति पृथक्पदत्वान्माधुर्यम्। 'रोमन्थमभ्य- स्यतु' इत्यादौ बन्घस्याजरठत्वात्सौकुमार्यम्। 'शिथिलज्याबन्धमस्मद्धनुः' इत्यत्र बन्धस्य विकटत्वादुदारता। पदानामुज्ज्वलत्वात्कान्तिः। अर्थाभिव्यक्ति- हेतुत्वादर्थव्यक्तिरिति दिब्बात्रप्रदर्शनम्। गुणस्वरूपनिरूपणं तु गुणविवेचने अधिकरणे करिष्यते। क्रमप्राप्तां गौडीयामाह-ओजःकान्तिमतीति। प्रत्ययार्थ प्रत्याययति-
Page 40
२० काव्यालंकारसूत्रवृत्ति: [अधि. १.
ओज: कान्तिश्च विद्येते यस्यां सा ओज:कान्तिमती गौडीया नाम रीतिः। माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्बणपदा च। अत्र श्षोक :- समस्तात्युद्भ्टपदामोज:कान्तिगुणान्विताम् गौडीयामपि गायन्ति रीति रीतिविचक्षणः ।।'
उदाहरणम्- 'दोर्दण्डाञ्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- षंकारध्वनिरार्यबालचरितपस्तावनाडिण्डिमः । ओज: कान्तिश् विद्येते इति। अत्र भूमार्थेन मतुपा ओजःकान्त्योः प्राचुर्य- प्रतिपादनात् अनुकूलानामनुल्बणानामन्येषां गुणानामनिराकरणम्, प्रतिकूलयोस्तु माधुर्यसौकुमार्ययोरपवारणम्, अत एव दीर्घसमासत्वम्, अत्युद्भटपदत्वं च सूचितम् ; तदिदमभिसंधायाह-माधुर्यसौककुमार्ययोरभावादिति। प्रतिषा- दितेऽर्थे प्राचामाभाणकं प्रमाणयति-समस्तेति। समस्तानि समासवृत्तिमाप- न्नानि अत्युद्भटानि पदानि यस्या इति विग्रहः। लक्षिताया रीतेर्लक्ष्यमुपक्षिपति- उदाहरणमिति। एषा खलु धनुर्घरधुरन्धरेण रघुनन्दनेन गाढाकर्षणात्खण्डिते खण्डपरशोः कोदण्डे तद्धङ्गसंघटितनिराघाटघोषवर्णनोपोद्धातेन तस्यैव भुजबल- भूमानमभिलक्षयतो लक्ष्मणस्योक्तिः । दोर्दण्डेन अश्वितमाकृष्टम्। औचित्यादश्च- तिरत्राकर्षणे वर्तते। ननु यद्याकर्षणमश्चतेरर्थ, तर्यपूजनार्थस्य तस्त 'नाश्चेः पूजायाम्' इति नलोपप्रतिषेधो न सिद्धयेत्, 'अश्चेः पूजायाम्' इति इडागमश्च न स्यादिति न.चोदनीयम्; अत्र कवेः कार्यकारणयोरभेदोपचाराद्दुराधर्षधनुराक- र्षणमेव पूजनं विवक्षितमित्यविरोधः । आर्यः अग्रजः । तदुक्तं भामहेन, 'भग- वन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिज्विनः । विप्रामात्याग्रजास्त्वार्या नटीसूत्रभृतौ मिथः॥' तस्य यत् बालचरितं ताटकावधादि धनुर्भङ्गान्तं तदेव प्रस्तावना तत्र डिण्डिमः । अत्र बालचरितस्य प्रस्तावनात्वरूपणेन रावणवधान्तस्य तस्य कुमारचरितस्वापि नाटकत्वमासूत्र्यते। तथा च कुमारचरितनाटकस्य बालचरितं प्रस्तावना प्राथ- मिकमङ्गमिति परम्परितरूपकौचित्यमपि परिगृहीतं भवति। प्रस्तावनास्वरूपं दशरूपके दर्शितम्, 'सूत्रधारो नटीं जूते मारिषं वा विदूषकम्। स्वकार्य
Page 41
अ. २.] कामधेनुसािता। २१
द्राक्पर्यस्तकपालसंपुटमितब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति।।'
माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १३ ॥ माधुर्येण सौकुमार्येण च गुणेनोपपनना पाञ्चाली नाम रीतिः। ओज:कान्त्यभावात् अतुल्बणपदा विच्छाया च। तथा च श्लोक :-
'आश्चिष्टक्षथभावां तु पुराणच्छाययान्विताम्। मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥' अत्रोदाहरणम्- 'ग्रामेऽस्मिन्पथिकाय पान्थ वसतिनैवाधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्ा युवा।
प्रस्तुताक्षपि चित्रोक्त्या यत्तदामुखम्। प्रस्तावना वा तत्न स्यात्' इति। अन्यच्च 'वस्तुनः प्रतिपाद्यस्य तीर्थ प्रस्तावनोच्यते' इति। द्राक्पर्यस्ते झटिति चलिते कपाले शकले तयो: संपुटः समुद्रकः तेन मितं परिमित परिच्छिन्नं यत् ब्रह्माण्डं तदेव भाण्डं तस्योदरे भ्राम्यन् समन्तात्पर्यटन् पिण्डितः संकोचितः चण्डिमा यस्येति विग्रहः । तथा पुराणम्, 'अप एव ससर्जादौ तासु वीर्यमपासृजत्। तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरान्। स्वयमेवात्मनो ध्यानात्तदण्डमकरो- दविधा। ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे' इति। अद्यापि चिराती- तेडपि । टक्कारध्वनिः प्रतिश्रुत् । न विश्राम्यति न विरमति। अत्र बन्धस्य गाढत्वौज्ज्वल्ययोरुत्कटत्वादुल्बणावोज:कान्तिगुणौ। समासभूयस्त्वोल्बणपदत्वे चातिस्फुटे। अथ पाश्चालीं प्रपश्चयति- माधुर्येति। माधुर्यसौकुमार्यप्रतिपक्षयोरो- जःकान्त्योरभावाद्वन्धस्य शैथिल्यम्, अनुल्बणपदत्वं चेत्याह- ओज इति। आश्िष्टेति। छ्लोकः स्पष्टार्थः । उदाहरति -- ग्राम इति । इयं हि कस्यचि-
Page 42
२२ काव्यालकारसूत्रवृात्तः आध. १.
तेनोत्थाय खलेन गर्जति घने स्मृता पियां तत्कृतं येनाद्यापि करङदण्डपतनाशङ्की जनस्तिष्ठति॥' एतासु तिसषु रीतिषु रेखास्विव चित्रं काव्यं प्रतिष्ठितमिति। तासां पूर्वा ग्राह्या गुणसाकल्यात्॥ १४ ॥ तासां तिस्टणां रीतीनां पूर्वा वैदर्भी ग्राह्मा, गुणानां साकल्यात्। न पुनरितरे स्तोकगुणत्वात्॥ १५ ॥। इतरे गौडीयपाञ्चाल्यौ न ग्राह्ले, स्तोकगुणत्वाद्।
तदारोहणार्थमितराभ्यास इत्येके ॥। १६ ॥
ड्रामीणस्य गृह्े निशि निद्रातुं भद्रवेदिमधिशय्य पर्जन्यगर्जितैस्तर्जिते निजनिदे- शापचारनिष्कृपकुपित कुसुमशरशरव्रातपातक्किष्टतया निर्विष्टवति कष्टां दशां वैदे- शिके तद्दण्डपातभीतिसमाकुलायाः कुलवृद्धायाः पुनरन्यमध्वन्यं प्रत्युक्तिः । अत्र 'पथः ष्कन्' 'पन्थो ण नित्यम्' इति नित्यं गच्छतः पान्थत्वम्, अन्यस्य च पथिकत्वमिति वृत्तिकारवचनादर्थभेदमाश्रित्य, यदि पथिकाय वसतिर्न दीयेत तत्पान्थेन किमपराद्धमिति न चोदनीयम् ; पान्थपथिकशब्दयोः पर्यारयतयाभि- धानदर्शनात् कविभिरविशेषेण प्रयुज्यमानत्वात् । 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थ: पथिक इत्यपि।' इत्यमरः । 'तत्' इति अमङ्गलतयोच्चारयेतुमनुचित- त्वान्मरणं तच्छब्देन व्यपदिश्यते। करङ्कः शवः। रीतिम्वरूपं निरूप्य तदु- पयोगं सदष्टान्तमाचष्ट- एतास्विति। नन्वेतास्तिसो वृत्तयः समशीर्षकतया किं कविभिरुपादेयाः ? नेत्याह- तासामिति। वृतिः स्पष्टार्था । प्रयोजकाभावादन्ययोर्न आ्रह्यत्वमित्याह- न पुनरिति। वाहारोहाय बालस्य मेषारोहानुशीलनवद्वैदर्भीसंदर्भलाभाय तदितराभ्यास इति केचिदाचक्षते। तत्पक्षं प्रतिक्षेप्तुमुपक्षिपति- तदारोहणार्थमिति।
Page 43
अ. २.] कामधेनुसहिता। २३
तस्या वैदर्भ्या एवारोइणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते। तच्च न । अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥१७॥ नह्यतत्वं शीलयतस्तन्वं निष्पद्यते। निदर्शनार्थमाह- न शणसूत्रवानाभ्यासे त्रसरसूत्रवान- वैचिल्यलाभ: ॥ १८ ॥ नहि शणमूत्रवानमभ्यस्यन्कुविन्दस्त्रसरतन्तुवानवैचित्र्यं लभते। 'सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥ सापि वैदर्भी रीति: शुद्धवैदर्भी भण्यते; यदि समासवत्पदं न भवति। तस्यामर्थगुणसंपदास्वाद्या।। २० ॥ तस्यां वैदर्भ्यामर्थगुणसंपत् आस्वाद्या भवति। तेषां मतं दूषयति-तच्च नेति। न हतादृशं कर्म परिशीलयतस्तादशक- र्मकौशलं सिध्यति। यथा लोके वाजिनमारुरुक्षतो राजपुत्रादेसतदुपयोगिजान्वव- एम्भजवगतिमण्डलीक्रियादिसिद्धये मेषारोहाभ्यासा दृश्यते, न तथा कस्वचिदपि कुविन्दस्य सूक्ष्मतन्तुवानकौशलसिद्धयै गोणीवानाभ्यासो दृष्टः; तयोर्वैसादश्येन उपयोगाभावात। अतो वैदर्भीसंदर्भलाभाय गौडीयपाश्चालरीत्योरभ्यास इति मतमनादरणीयम्। शणसूत्रं गोण्याद्युपादानम्। त्रसरतन्तुः शक्ष्णवस्ताद्युपादानम्। वानमिति, वयतेल्युटि रूपम्। सापीति। सर्वे स्पष्टम्। शब्दभाग इव अर्थभागेऽपि गुणसंपतिर्वैदर्भ्युपरागादास्वादनीयेत्याह- 1. इदं सूत्र तदृत्तिक् बहुषु कोशेषु नोपलभ्यते।
Page 44
२४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
तदुपारोहादर्थगुणलेशोऽपि ॥ २१॥ तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते। किमङ्, पुनरर्थगुण- संपत्। तथा चाहु :- "किं त्वस्ति काचिदपरैव पदानुपूर्दी यस्यां न किंचिदपि किंचिदिवावभाति।।' 'वचसि यमधिशय्य स्यन्दते वाचकश्री- र्वितथमवितथत्वं यत्र वस्तु प्रयाति। तस्यामिति। वैदर्भीरीत्यवष्टम्भादर्थेऽप्यारोपिता गुणसंपत्तिरास्वादनीयेत्यर्थः । अमुमेवार्थ कैमुतिकन्यायेन समर्थयते- तदुपेति। तदुपधानत इति। उपधानं उपरञ्जनम्। 'अङ्गेत्यामन्त्रणेऽव्ययम्' इत्यमरः । उक्तार्थेडभियुक्तो- क्तिमभिव्यनक्ति-तथा चाहुरिति। 'किं त्वम्ति ... ' इत्यत्र 'जीवन्पदार्थपरि- रम्भणमन्तरेण शब्दावधिर्भवति न स्फुरणेन सत्यम्' इति पूर्वार्ध पठन्ति। ननु पदपदार्थयोर्गुणचमत्कारो वैदर्भीप्रसादलभ्य इति यदुक्तम्, तदयुक्तम्; पदार्थ- परिरम्भणमन्तरेण वैदर्भीस्फुरणमात्रेण जीवन्त्या वाक्यविश्रान्तेरसंभवादिति शङ्कामनुभाषते-जीवन्निति। जीवन् तर्कवाक्यवैलक्षण्येन सहृदयहृदयाहाद- कारीत्यर्थः । शब्दावधि: वाक्यविश्रान्तिः । यदुक्तं शङ्कावादिना, तत् सत्यम् अस्त्येव। किं तु पदार्थव्यतिरिक्ता तत उत्कृष्टा पदसंघटनापरिपाटी काचिदस्ति। सा च पदपदार्थयोः सजीवत्वायावश्यमङ्गीकरणीयेत्याह- किं त्विति। यस्यां पदानुपूर्व्याम्। न. किंचिदपि असदपि वस्तु। किंचिदिव सदिव। अवभाति प्रति- भाति, प्रबन्धृप्रौढिप्रकटितपदघटनापरिपाटिवशात्कल्प्यं वस्तु प्रत्यक्षायमाणं प्रतिभासत इत्यर्थः । यदाहु:, 'अपारे काव्यसंसारे कविरेक: प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ।।' इति। वचसीति। काव्यात्मके 1. निर्णयसागरादिमुद्रितेषु पुस्तकेषु 'किंत्वस्ति' इत्येतत् पूर्वार्धतया, उत्तरार्धतया च 'आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतत्ृष्टिरिव प्रविष्टा' इत्यंतत् योजितं दृश्यते। परं त्विदमसंगतमिव प्रतिभाति; यतो व्याख्याता पूर्वार्धमन्यदेवाभिविलिख्य व्याचष्टे; नच व्याकरोति 'आनन्दयति' इत्येतत्। अतोऽस्माभिरन्यस्थलेष्विवात्रापि व्याख्याकृदादृत एव पाठः संयोजितः ।
Page 45
अ. २.] कामधेनुसहिता। २५
उदयति हि स तादक्कापि वैदर्भरीतौ सहृदयहृदयानां रञ्जकः कोऽपि पाक: ।I' सापि वैदर्भी तात्स्थ्यात् । २२।।
दर्शयति सापीय मर्थगुणसंपद्वैद र्भीत्युच्यत। तात्स्थ्यादित्युपचारतो व्यवहारं
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः ।
वाक्य इत्यर्थः । वाचकश्री. शब्दसंपत्। यं वैदर्भीपाकम्। अधिशय्य, स्यन्दते रसवर्षिणी भवति। यत्र यस्मिन्वैदर्भीपाके। वितथं नीरस वस्तु। अवितथत्वं सरसत्वम्। प्रयाति। तदुक्तं लोचने, 'जगद्रावप्रख्यं निजरसभरात्पूरयति च' इति। अन्यच्च, 'भावानचेतनानपि चेतनवच्चेतनानचेतनवत्। व्यवहारयति यथेच्छं सुकविः काव्ये स्वतन्त्रतया ।' इति। स्पष्टमवशिष्टम्।
वैदर्भीनिष्ठत्वादर्थगुणसंपदि वैदर्भीति व्यवहारोऽप्युपचर्यत इत्याह- सापीति। 'तस्मिन् तिष्ठतीति तत्स्थः, तस्य भावः तात्स्थ्यं तस्मादिति. उपचारे संबन्ध उक्तः ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति- व्याख्यायां काव्यालकारकामधेनौ शारीरे प्रथमेऽधिकरणे द्वितीयोऽध्यायः॥
- मामान्यतो व्युत्पत्तिरियम् । 4
Page 46
तृतीयोऽध्यायः ॥
अधिकारिचिन्तां रीतितत्वं च निरूप्य काव्याङ्गान्युपदर्शयितुमाह- लोको विद्या प्रकीर्णं च काव्याङ्गानि ॥ १॥
उद्देश क्रमेणैतव्याचष्टे- लोकवृत्तं लोकः ॥ २ ॥ लोक: स्थावरजङ्गमात्मा तस्य वर्तनं वृत्तमिति। शब्दस्मृत्यभिधानकोशच्छन्दोविचितिकलाकाम- शास्त्रदण्डनीतिपूर्वा विद्याः ॥३॥
वरिवस्यामि मनसा वचसामधिदेवताम्। लीलालास्यगृहा यस्याश्चतुर्मुखचतुर्मुखी। २॥ अध्यायान्तरमारभमाण: प्रागध्यायप्रपश्चितमर्थ संक्षिप्य दर्शयन्नध्यायद्वय- मैत्रीमासूत्रयति-अधिकारिचिन्तामिति। अङ्गिनि निरूपितेऽज्गानां निरूपण- मुचितमिति संगतिः । अङ्गान्युद्दिशति- लोक इति । वर्णनीयमन्तरेण किं वर्ण्यत इति लोक: प्रथममुद्दिष्टः । ततश्र संम्कृताः शब्दाः । तदनु तदर्थाः । अथ वृत्तम् । अनन्तरमितिवृत्तवैचित्र्यहेतुः शृङ्गाराङ्कं कलाकौशलम्। ततो रसोपयोगी काम- व्यवहारः। ततश्चार्थानर्थविवेकहेतुर्दण्डनीतिः । पश्चाल्लक्ष्यज्ञत्वादय इत्युद्देशक्रमः। अत्र 'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम्। अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥' इति, 'शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।' इति चोक्तरीत्या कवित्वबीजं प्रथमं परिगणनीयम् । यत्तु पश्चात् परिगणितमिति, तच्चिन्त्यम्। लोकशब्दोऽयमुपचाराल्लोकवर्तने वर्तत इत्याह-लोकटृत्तमिति।
Page 47
अ. ३.] कामधेनुसहिता। २७
शब्दस्मृत्यादीनां तत्पूर्वत्वं पूर्व काव्यबन्धेष्वपेक्षणीयत्वात्। तासां काव्याङत्वं योजयितुमाह- शब्दस्मृते: शब्दशुद्धिः ॥४॥ शब्दस्मृतेः व्याकरणात् शब्दानां शुद्धिः साधुत्वनिश्चयः कर्तव्यः। शुद्धानि हि पदानि निष्कम्पैः कविभिः प्रयुज्यन्ते। अभिधानकोशात्पदार्थनिश्चयः ॥५॥
पदं हि रचनापवेशयोग्यं भावयन्संदिग्धार्थत्वेन न गृह्लीयान्न वा जह्यादिति काव्यबन्धविघ्नः। तस्मादभिधानकोशतः पदार्थनिश्चयः कर्त- अथ विद्या उद्दिशति-शब्दस्मृतीति। 'शास्त्रतस्ते' इत्यत्र सूत्रे अल- द्वारविद्यापयोगस्य प्रागेवोपदर्शितत्वान्नात्र विद्यामध्ये परिगणनमित्यवगन्तव्यम् । शास्त्रशब्द: कलाकामशब्दाभ्यामभिसंबन्धनीयः, तत्संबन्धं विनापि अन्यत्र शास्त्र- त्वप्रतिपत्ते.। 'पूर्वाः' इत्यनेन गणितविद्यादिपरिग्रहः । 'प्रधानस्योपकारकमङ्गम्' इति न्यायेन क्रमादङ्गानामङ्गिन्युपयोगं दर्शयिष्यन्ननन्तरसूत्रावताराय पीठिकां प्रतिष्ठापयति- शब्दस्मृत्यादीनामिति। व्याकरणं हि मूलं सर्वविद्यानामिति युक्त्या प्रथमोद्दिष्टायाः शब्दविद्याया उपयोगं दर्शयति-शब्दस्मृतेरिति। व्याचष्टे-शब्दस्मृतेर्व्याकरणादिति। साधुत्वनिश्चयः अस्मिन्नर्थेडयं शब्दः साधुरिति निश्चयः। निष्कम्पैः निर्भयैरित्यर्थः। अपशब्दप्रयोगे तु कविकाव्ययोरनादरणीयत्वप्रसङ्क इति द्रष्टव्यम्। तदुक्तम्, 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्यवहारकाले। सोऽनन्तमामोति जयं परत्र वाग्योगविद्ुष्यति चापशब्दैः ॥' इति । दण्डिनाप्युक्तम्, 'गौरगौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः। दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति ॥' इति, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्ट कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ।।' इति च। पदं हीति। अयमर्थः- 'आधानोद्धरणे तावद्यावद्दोलायते मनः' इत्यु- कनीत्या किमपि पदं काव्यबन्धे प्रयोगयोग्यं पुनः पुनश्चेतसि विनिवेशयन्कवि-
Page 48
२८ काव्यालंकारसूत्रवृत्ति: [अधि. १
व्यः। अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य, अपरयुक्तस्या- प्रयोज्यत्वात्। यदि प्रयुक्तं प्रयुज्यते तहि किमिति संदिग्धार्थत्वमाशङ्कितं पदस्य! तन्न; तत्न सामान्येनार्थावगतिः संभवति। यथा नीवी शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिननिश्चयः। स्त्रिया वा पुरुषस्य वेति संशयः 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालामती- कमपश्यत इति। अथ कथम्
केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः ।' इति प्रयोग:१ भ्रान्तेरुपचाराद्वा।
रभिधानकोशपरिशीलनमन्तरेण संदिग्धार्थतया प्रयोक्तुं परित्यक्तुं वा नोत्सहते। अतो बन्धविघ्नो जायेत। तस्मादभिधानकोशतः पदस्यार्थ निश्चित्य निर्विचिकित्सं प्रयुञ्जीत-इति। नन्वभिधानकोशस्येदमेव प्रयोजनमिति कोऽयं नियमः । अपूर्वपद- प्रयोगलामोऽपि किं न स्यादिति चोदमनूद्यावद्यति- अपूर्वेति। तत्र हेतुमाह- अपयुक्तस्येति। कविभिरिति शेषः। 'यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते' इत्यप्रयुक्तत्वदोषस्य पददोषेषु लक्षितत्वात्। अप्रयोज्यत्वं चार्थाभिव्यक्तेरविलम्बेन समर्पकत्वाभावादिति द्रष्टव्यम्। ननु यदि प्रयुक्तमेव पदं कविना प्रयुज्येत, तर्हि कुतः संदेहः स्यादिति शङ्कते-यढ़ीति। समाधत्ते-सामान्येनेति। 'एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम्' इति प्रयोगदर्शनात् जघनशब्दः प्रष्ठवंशाधरत्निकमात्रमभिधत्त इत्यभिमन्यमानस्य कस्यचिन्नीवीशब्दो जघनवसत्रग्रन्थिमभिधत्त इति प्रतिपत्तिर्जायते। तच्च स्त्िरिया वा पुरुषस्य वेति संशय उपपद्यत इत्यर्थः । नाममाला अभिधानकोशः, तस्याः प्रतीकं अवयवम्। 'अञ्गं प्रतीकोऽवयवः' इत्यमरः । अपश्यतः अपरिशीलयत इति यावत्। यद्ेवं तर्हि प्रयोगविरोधः किं न स्यादिति शङ्कते-अथ कथ- मिति। विचित्रभोजनाभोगेत्यस्मिन् पद्ये पुंसि विषये नीवीशब्दप्रयोगः कथमिति शङ्कितुरभिप्रायः। परिहरति -- भ्रान्तेरिति। भ्रान्तिप्रयुक्तोऽयं प्रयोगः । अथवा, नीवीशब्दः पुरुषविषये लक्षणया प्रयुक्तः । पौरुषराहित्यप्रतिपत्तिः प्रयोजनमिति भाव: ।।
Page 49
अ. ३.] कामधेनुसहिता। २९
छन्दोविचितेर्वृत्तसंशयच्छेदः ॥ ६ ॥
त्संशयः स्यात्। अतो वृत्तसंशयच्छेदश्छन्दःशास्त्रतो विधेय इति।
कलाशास्त्रेभ्यः कलातत्त्वस्य संवित् ॥७ ॥
कला गीतनृत्यचित्रादिकास्तासामभिधायकानि शास्त्राणि विशा- खिलादिप्णीतानि कलाशास्त्राणि। तेभ्यः कलातत्वस्य संवित् संवेदनम्।
वृत्तविद्याया: प्रयोजनं प्रस्तौति-छन्दोविचितेरिति। काव्येति। नानावृत्तात्मकत्वात्काव्यस्य तत्परिशीलनाद्वृत्तसवरूपप्रतिफलनमस्त्येव ; तथापि मात्रावृत्तादिषु मात्राकल्प्येषु वैतालीयादिषु छन्दःशासत्रं विना निर्णयो दुष्कर इत्यर्थः । वैतालीयलक्षणं तु वृत्तरल्नकारे, षड्षमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः । न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः' इति॥ कला इति। दिब्बात्रं तु लोकतो विज्ञायते। तत्त्वज्ञानं तु तच्छासत्रत एव संपद्यते इत्यर्थः । कला नृत्यगीतादयश्चतुःषष्टिः। उपकलाश्चतुःशतम्। कलानामुद्देश: कृतो भामहेन, 'नृत्तं गीतं तथा वाद्यमालेख्यं मणिभूमिकाः । दशनाद्यङ्गरागश्च माल्यगुम्फविचित्रता। वेणुवीणादिकालापपाटवं शेखरक्रिया। नेपथ्यं गन्धयुक्तिश् कर्णपत्रकियाभिधा। विशेषभेद्यक्लप्तिश्च नानाभूषणयोजनम्। इन्द्रजालं कौचिमारं सामुद्रं हस्तलाघवम्। सूचीवानक्रिया सूत्रक्रिया सलिलवा- दकम्। सूदशास्त्रपरिज्ञानं शारिकाशुकवादनम्। रसवादो वास्तुविद्या तक्षणं मेचिकोत्करः। सजीवनिर्जीवद्यूतशास्त्रसंपाद्यपाटवम् । धोरणा मातृकायन्त्रं मातृ- काकाव्यलक्षणम्। आकर्षकक्रीडितं च निमित्तागमवेदनम्। अग्न्यम्बुसेनादि- स्तम्भो विषप्रतिविषागमः । पाश्चालीनृत्तकरणं तण्डुलादिबलिक्रिया। प्रहेलिका दुर्वचक्कप्रतिमायादियोजनम्। मन्त्रवादपरिज्ञानं विशीर्णाक्षरमुष्टिका। सर्वाभि- धानकोशोक्ति: परकायप्रवेशनम्। जयव्यायामचित्राप्तिः पत्रिकाचित्रकर्तनम्। रत्नो- त्पत्तिस्थानशासत्रं दर्पणादिलिपिक्रिया। तिरस्करिण्याद्यावापिः पुष्पशाटकिकागमः । हस्त्यश्वलक्षणज्ञानं तिर्यग्घृदयवेदनम्। परेङ्गितपरिज्ञानं जलयानागमज्ञता। पर-
Page 50
३० काव्यालंकारसूत्रवृत्ति: [अधि. १.
नहि कलातच्वानुपलब्धौ कलावस्तु सम्यङ्निबन्धुं शक्यमिति। कामशास्त्रतः कामोपचारस्य ॥। ८ ॥
संविदित्यनुवर्तते। कामोपचारस्य संवित् कामशास्त्रत इति। का- मोपचारबहुलं हि वस्तु काव्यस्येति। दण्डनीतेर्नयापनययोः ॥ ९॥ दण्डनीतेरर्थशास्त्रान्नयस्यापनयस्य च संविदिति। तत्र षाङ्डुण्यस्य यथावत्पयोगो नयः । तद्विपरीतोऽपनयः। नहि तावविज्ञाय नायकप्रति- नायकयोरवत्तं शक्यं काव्ये निबन्धुमिति।
इतिवृत्तकुटिलत्वं च ततः ॥ १० ॥ इतिहासादि: इतिवृत्तं काव्यशरीरम्, तस्य कुटिलत्वं ततो दण्ड-
चेतःप्रवेशश्च चतुःषष्टिरिमा: कलाः'। अन्या उपकलाः प्रोक्तास्तासां संख्या- चतुःशतम्। आभिरेव प्रपश्चोऽयं वतते विजयी स्फुटम्' इति। अत्र ग्रन्थ- विस्तरभयादुपकलानामुद्देशो न कृतः। कलातत्त्वसंवित्तेरुपयोगं दर्शयति- न हीति।। कामोपचारबहुलमिति । वम्तु काव्यप्रतिपाद्यमितिवृत्तम् । काव्यस्य रसवत्त्वावश्यम्भावाद्रसस्य च शृङ्गारप्रमुखत्वात् तस्य च कामोपचारप्रचुरत्वात्, काव्यवस्त्वपि कामोपचारबहुलमिति भाव: ॥ दण्डनीतेरुपयोगं दर्शयति-दण्डनीतेरिति। षाड्गुण्यस्येति। संधि- विग्रहयानासनद्वैधीभावसमाश्रयाः षड्गुणाः। षड् गुणा एव षाड्गुण्यम्। स्वार्थिक: ष्यञ् ।। कुटिलत्वमिति। यथा तापसवत्सराजादौ। आबलीयसेति। अबली- यांसमधिकृत्य कृतमधिकरणमाबलीयसम्, तत्प्रभृतौ प्रयोगाः मित्रभेदसुहृल्लाभा-
- वात्स्यायनीयादिषु तु क्वचिद्धेद उपलभ्यते।
Page 51
अ. ३.] कामधेनुसहिता।
नीतेः आबलीयसादिप्रयोगव्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वसुपयोगो वर्णनीय इति।
लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभान- मवधानं च प्रकीर्णम् ।। ११।।
तत काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥। अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम्। ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति॥ काव्यबन्धोद्यमोऽभियोगः ॥१३ ॥ बन्धनं बन्धः । काव्यस्य बन्धो रचना काव्यवन्धः। तत्रोद्यमोऽ- भियोगः । स हि कवित्वपकर्षमादधाति। काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ।। १४ ।। काव्योपदेशे गुरव उपदेष्टारः। तेषां शुश्रूषणं वृद्धसेवा। ततः काव्यविद्याया: संक्रान्तिर्भवति। दयः तेषां व्युत्पत्तौ सा दण्डनीतिर्मूलमिति भावः । एवमन्यासामिति । गणितादिविद्यानामित्यर्थः । एवमष्टादशभेदभिन्नानामशेषाणामपि विद्यानां काव्या- कत्वमुक्तं भवति। तासामुपयोगश्च यथाम्वं लब्धवर्णेर्द्रष्टव्यः । यथाहुः, 'न स शब्दो न तद्वाच्यं न सा विद्या न सा कला। जायते यन्न काव्याङ्गमहो भारो गुरु: कवे: ।' इति। अन्येषामिति। कवीनामिति शेषः । बन्धशब्दो भावसाधन इत्याह-बन्धनं बन्ध इति। पूर्वै कथापरीक्षा, तन्राधिकावावापोद्वापौ, फलपर्यन्ततानयनम्, रसं प्रति जागरूकता, रसोचित- विभावादिवर्णनायामलंकारौचित्यमित्याद्युल्लेखपूर्वकं गुम्फनं काव्यबन्धः । तबोद्यम: अभियोग: ॥ काव्योपदेश इति। यद्यपि श्रोतुमिच्छा शुश्रूषा इति शब्दव्युत्पत्तिः;
Page 52
३२ काव्यालंकारसूत्रवृत्ति: [अधि. १.
पदाधानोद्दरणमवेक्षणम् ॥ १५॥ पदस्य आधानं न्यासः। उद्धरणमपसारणम्। तयोः खल्ववेक्षणम्। अन्र क्षोकौ- 'आधानोद्धरणे तावद्यावददोलायते मनः । पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती !! यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्। तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते।।'
कवित्वबीजं प्रतिभानम् ॥ १६ ॥ कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेष: कश्रित; यस्माद्विना काव्यं न निष्पद्यते, निष्पन्नं वावहासायतनं स्यात्। चित्तैकाग््यमवधानम् ॥१७॥
तथापि 'वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम्' इति निरूढत्वेनाभिधानात्सा- मानाधिकरण्यं घटते। अवेक्षणमाह- पदाधानेति। अत्र भामहेन भणितं प्रमाणयति- आधानोद्धरणे इति। श्रोकदयेन क्रमादन्वयव्यतिरेकाभ्यां पदानां स्थैर्य संपादनीयमित्युक्तम् । इत्थमर्थपाकोऽपि समर्थनीयः । कवितस्येति। बीजमभिनवपदार्थस्फुरणहेतुः। संस्कारो वासनात्मा। यदाह भट्टगोपालः, 'कवित्वस्थ लोकोत्तरवर्णनानैपुणलक्षणस्य, बीजमुपादानस्था- नीयः, संस्कारविशेष: कार्यकल्पनीया काचिद्वासना शक्तिः' इति। काव्यादर्शेऽपि 'न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्धुतम्।' इति। यस्मा- द्विनेति। पृथग्विनादिसूत्रे विकल्पेन तृतीयाविधानात् पक्षे पश्चमी । हासाय- तनं परिहासास्पदम्। तादशं हि काव्यमनर्थाय भवति कवेः। तदुक्त्तम्, 'ना- कवित्वमधर्माय मृतये दण्डनाय वा। कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥' इति।
Page 53
अ. ३.] कामधेनुसहिता। ३३
चित्तस्यैकाग्यं बाह्यार्थनिवृत्तिः; तत् अवधानम्। अवहितं हि चित्तमर्थान्पश्यति। तद्देशकालाभ्याम् ॥ १८ ॥ तत् अवधानं देशात्कालाच्च समुत्पद्यते। कौ पुनर्देशकालावित्यत्राह- विविक्तो देशः ॥ १९ ॥ विविक्तो निर्जन:। रात्रियामस्तुरीयः कालः ॥ २० ॥ रात्रेर्यामो रात्रियामः पहरः तुरीयश्चतुर्थः काल इति। तद्वशाद्विष- योपरतं चित्तं प्सन्नमवधत्ते। एवं काव्याङ्गान्युपदर्श्य काव्यविशेषज्ञानार्थमाह- चित्तस्येति। बहिरिन्द्रियव्यापारविरामान्मनसो बाह्यार्थानुपरक्तिरवधानम्। अवधानस्य प्रयोजनममिधत्ते -- अवहितमिति। अर्थान्पश्यति अभिनवप- दार्थानप्रतिबन्धमुल्लिखतीत्यर्थः ॥ तद्देशकालाभ्यामिति। अर्थाद्विशिष्टाभ्यां समुच्चिताभ्यामित्यवगन्तव्यम्। विविक्तो निर्जनप्रदेशः । 'विविक्तौ पूतविजनौ' इत्यमरः ॥ तुरीय इति। प्रथमादिषु त्रिषु प्रहरेष्वाहारविहारनिद्रासु सांमुख्यं मनसः। पश्चिमे तु प्रहरे प्रसाद: संभवतीति तुरीय इत्युक्तम्। यद्वा, यद्यपि प्रथमादीना- मपि चतुःसंख्यापूरकत्वम्, तथाप्युपादानसामर्थ्यादिह पश्चिमो यामस्तुरीय इति गम्यते। तथा च कालिदासः, 'पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना।' इति। माघोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्य- थेजातम्।' इति। वृत्तवर्तिष्यमाणयोः संगतिमुल्िङ्कयन्, काव्यभेदान् कथयितुमाह- एवमिति । गद्यमिति। 'गद व्यक्तायां वाचि' इति धातोः 'गदमदचरयमश्चा
Page 54
३४ काव्यालंकारसूत्रवृत्ति: [अधि. १.
काव्यं गद्यं पद्यं च।। २१ ।। गद्यस्य पूर्व निर्देशो दुर्लक्षविशेषत्वेन दुर्बन्धत्वात्। तथाहु :- 'गद्यं कवीनां निकषं वदन्नि।' इति। तच्च त्रिधा भिन्नमिति दर्शयितुमाह- गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायं च।। २२ ।।
तल्लक्षणान्याह- नुपसर्गे' इति कर्मणण यत्प्रत्यये सति गद्यमिति रूपम्। यद्वा 'स्तनगदी देवशब्दे' इति चौरादिकणिजन्तात् 'अचो यत्' इति यत्परत्यये सति गद्यमिति रूपम्, देवैः शब्दनीयं गद्यमिति। पादेषु भवं पद्यम्। शरीरमिति विवक्षायां 'शरीरावयवाच्च' इति भवार्थे यत्प्रत्यये भसंज्ञायां पदादेशे च सति पद्यमिति रूपम्। अनेन पद्यसामान्यलक्षणं सूचितं भवति। तदुक्तं काव्यादर्शे, 'पद्यं चतुष्पदी तच्व वृत्तं जातिरिति द्विधा।' इति । गद्यस्य पूर्वनिर्देशे हेतुमाह- गद्यस्येति। दुर्लक्षाः कृच्छ्रेण लक्ष्या: विशेषा: गुरुलघुनियमादयो यस्य तस्य भावः तेन हेतुना, दुर्बन्धं कृच्छ्ेण बन्धुं शक्यं तस्य भावस्तस्मात् पूर्वनिर्देशः, कृत इति शेषः । अत्राभाणकमपि दर्शयति- तथाहुरिति । निकषो हेमादिकषणोपलः । 'निकषस्तु धृषिर्धृष्यो हेमादिनिकषोपलः । इति वैजयन्ती। कनकानामिव कवीनां प्रकर्षापकर्षपरीक्षास्थानमिति यावत्। गद्यभेदान् गणयितुमाह -- तच्चेति। वृत्तगन्धि कचिद्भागे वृत्तच्छा- यानुकारि। चूर्णपदेनोपचारात् व्यस्तपदसमाहारो लक्ष्यते। तेन व्यस्तपदबहुलं चूर्णम्। उत्कलिकामायमिति। उत्कलिका उत्कण्ठा। 'उत्कण्ठोत्कलिके समे' इत्यमरः । उत्कलिकायाः प्रायः प्रयोगबाहुल्यं यसि्मिंस्तत् उत्कलिकाप्रायं गद्यम्। यस्मिन् श्रूयमाणे श्रोतृणामुत्कण्ठा बहुला भवतीत्यर्थः । यद्वा कलिकाशब्दोऽत्र लक्षणया रुहरुहिकायां वर्तते। उल्लसन्तीं कलिकां रुहरुहिकां प्रैति प्राम्ोतीत्युत्कलि- काप्रायम्। यत्र पदसंदर्भेपरिपाटी काण्डोपकाण्डसंरोहशालिनी कलिकेवोल्लसति, तदुत्कलिकापायमित्यर्थः । विशेषलक्षणानि विवरीतुमाह -- तल्लक्षणानीति। वसन्ततिलकेति ।
Page 55
अ. ३.] कामधेनुसहिता। ३५
पद्यभागवद्दत्तगन्धि ॥ २३ ॥ पद्यस्य भागा: पद्यभागास्तद्वत वृत्तगन्धि। यथा- 'पातालतालुतलवासिषु दानवेषु' इति। अत्र हि वसन्ततिलकाख्यस्य वृत्तस्य भाग: प्रत्यभिज्ञायते। अनाविद्धललितपदं चूर्णम्॥ २४॥ अनाविद्धान्यदीर्घसमासानि ललितान्यनुद्धतानि पदानि यस्मि- स्तदनाविद्धललितपदं चूर्णमिति। यथा- 'अभ्यासो हि कर्मणां कौशलमावहति। नहि सकृन्नि- पातमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामाढधाति ।' इति। विपरीतमुत्कलिकाप्रायम्॥ २५॥ विपरीतमाविद्धोद्धतपदमुत्कलिकाप्रायम्। यथा- 'कुलिशशिखरखरनखरप्रचयपचण्डच पेटापाटितमत्तमा- तङ्गकुम्भस्थलगलन्मद्च्छटाच्छुरितचारुकेसरभारभासुरमुखे केसरिणि' इति। पद्यमनेकभेदम् ॥२६॥
'उक्तं वसन्ततिलकं तभजा जगौ गः' इति तल्लक्षणम्।
अनाविद्धेति । वृत्ति: स्पष्टार्था। उदाहरति -- अभ्यास इति । नहि सकृदिति। नहीति निपातसमुदाय प्रतिषेधवाचक सकृदित्यनेन संबध्यते, तथा चासकृदित्यर्थः संपद्यते। मात्रशब्देन सहकारिमात्रादिर्व्यावर्त्यते। तेनोद- बिन्दुरप्यसककृन्निपातमात्रेण आवणि पाषाणे निम्नतामादधातीत्यन्वयमुखेन पूर्व- वाक्यार्थः समर्िता भवति। विपरीतमिति। सुगमम्। चपेटा करतलाघातः । 'चपेटः प्रतते पाणौ तदाघाते स्नियामयम्' इत्यमरशेषः ॥
Page 56
३६ काव्यालंकारसूत्रवृत्ति: [अधि. १.
पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन उपेतं भवनि। तदनिबद्धं निबद्धं च ।। २७ ॥
तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च। अनयोः प्रसिद्ध- त्वाललक्षणं नोक्तम्।
क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥२८॥
तयोरित्यनिबद्धं निबद्धं च परामृभ्यते। क्रमेण सिद्धि: क्रमसिद्धिः। अनिबद्धसिद्धौ निबद्धसिद्धिः स्त्रगुत्तंसवत्। यथा स्रजि मालायां सिद्धा- यामुत्तंस: शेखरः सिध्यति।
पद्यं विभजते- समेति। समवृत्तमर्धसमवृत्तं विषमवृत्तम्। आदि- शब्देनार्यवैतालीयादिमात्रावृत्तानां परिग्रहः। समवृत्तादिलक्षणमुक्तं भामहेन, 'सममर्धसमं वृत्तं विषमं च त्रिधा मतम्। अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षण- लक्षिताः । तच्छन्दःशास्त्रतत्त्वज्ञाः समवृतं प्रचक्षते। प्रथमाङ््रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्टत्तं तदर्धसममुच्यते। यम्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदा. II' इति।
गद्यपद्ययोरुभयोरप्यवान्तरभेदावाह -- तदिति। गद्यपद्यात्मकं काव्यं प्रकृतं तच्छब्देन परामृश्यत इति व्याचष्टे -- तदिदं गद्यपद्यरूपमिति। व्याख्याने जाड्यमव्याख्याने मौढ्यमित्यत आह -- अनयोः प्रसिद्धत्वादिति। अनिबद्धं मुक्तकं निबद्धं प्रबन्धरूपमिति प्रसिद्धिः। मुक्तकलक्षणमुक्त्तं भामहेन, 'प्रथमं मुक्तकादीनामृजु लक्षणमुच्यते। यदेव गाम्भीर्यौदार्यशौर्यनीतिमतिस्पृशा। भवेन्मुक्तकमेकेन द्विकं द्वाभ्यां त्रिकं त्रिभिः ॥' इति। निबद्धानि सर्गबन्धादीनि। तल्लक्षणं काव्यादर्शे, 'सर्गबन्धो महाकाव्यमुच्यते तस् लक्षणम्' इत्यादिना द्रष्टव्यम् ।!
अनयोरभ्यासक्रममाह-क्रमसिद्धिरिति। अनिबद्धमभ्यस्य निबद्ध- रचनायां यतितव्यमित्यर्थः । अत्र दष्टान्तः 'स्रगुचंसवत्' इति।
Page 57
अ. ३.] कामधेनुसहिता। ३७
केचिदनिबद्ध एव पर्यवसिताः, तहूषर्णाथमाह- नानिबद्धं चकास्त्येकतेजःपरमाणुवत् ॥२९॥ न खल्वनिबद्धं काव्यं चकास्ति दीप्यते। यथैकतेजःपरमाणुरिति। अत्र श्ोक :- 'असंकलितरूपाणां काव्यानां नास्ति चारुता। न प्रत्येकं प्रकाशन्ते तैजसाः परमाणवः ॥' इति। संदर्भेषु दशरूपकं श्रेयः।। ३० ॥। संदर्भेषु प्रबन्धेषु दशरूपकं नाटकादि श्रेयः।।
कस्मात्? तदाह- तद्धि चित्रं चित्रपटवद्विशेषसाकल्यात् ।। ३१॥ तत् दशरूपकं हि यस्मात् चित्रं चित्रपटवत्। विशेषाणां सा- कल्यात्। अनिबद्धसिद्धिमात्रेण कविंमन्यानन्यानपवदितुमाह-केचिदिति। प्रा- वादुकसंमति दर्शयति- अत्र श्लोक इति। असंकलितरूपाणाम् अनिबद्ध- रूपाणामित्यर्थः । निबद्धेषु तरतमभावं निरूपयति- संदर्भेष्विति। रूपकस्वरूपं निरू- पितं दशरूपके, 'अवस्थानुक्ृतिर्नाट्यं रूपं दृश्यतयोच्यते। रूपकं तत्समारो- पाद्दशैव रसाश्रयम् ।।' इति। भावप्रकाशेऽपि, 'रूपकं तद्भवेद्रपं दृश्यत्वात्प्रे- क्षकैरिदम्। रूपकत्वं तदारोपात्कमलारोपवन्मुखे॥' इति। दश रूपकाणि तु, 'नाटकं सप्रकरणं भाणः प्रहसनं डिमः। व्यायोगसमवाकारौ वीथ्यङ्चेहामृगा दश ।' इति। दशानां रूपकाणां समाहारो दशरूपकम्। समाहारस्यैकत्वा- देकव चनम्। पात्रादित्वात् स्त्रीत्वप्रतिषेधे नपुंसकत्वम्। श्रेयः अतिशयेन प्रशस्थ- मित्यर्थः ॥ ३० ॥ श्रेयस्त्वे हेतुं पृच्छति-कस्मादिति। हेतुमुपन्यस्ति- तदिति ।
Page 58
३८ काव्यालंकारसूत्रवृत्ति: [अधि. १.
ततो दशरूपकादन्येषां भेदानां क्लृप्तिः कल्पनमिति। दशरूप- कस्येव हीदं सर्वे विलसितम्, यदुत कथार्यायिके महाकाव्यमिति। तल्लक्षणं च नातीव हृदयंगममित्युपेक्षितमस्माभिः। तदन्यतो ग्राह्मम्॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे तृतीयाऽध्यायः ॥
समापं चेदं शारीरं प्रथममधिकरणम्॥
विशेषाणां भाषाभेदादिरूपाणाम्। कथाख्यायिकादीनां महाकाव्यभेदानामम्मादेव वम्तुविन्यासकल्पनमिति प्रकारान्तरेणापि श्रेयस्त्वमस्य प्रतिपादयितुमाह-तत इति। इदं सर्वमिति। कथाख्यायिकादिमहाकाव्यस्वरूपम् । विलसितमित्यस्य व्याख्यानं खण्डशः कृत- मिति, यत् कथा चाख्यायिका च महाकाव्यमिति व्यपदिश्यते, तदिदं सर्वमिति व्याकुट्य योजनीयम्। यदि कथा्यायिके महाकाव्ये तर्हि तल्लक्षणं किमिति न प्रदर्शितमिति तत्राह-तल्लक्षणमिति। यदि केनचित्तल्लक्षणमपेक्षितम् , तद्भामहालंकारादौ द्रष्टव्यमित्याह-तदन्यत इति। नाटकादिलक्षणं तु अ्रन्थ- विस्तरभयादस्माभिन लिखितम्।
इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीदादिमं पूर्तिमेतत्॥।
इनि श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृति- व्याख्यायां काव्यालंकारकामधेनौ शारीर नाम प्रथममधिकरणम्॥।
Page 59
॥ द्वितीयमधिकरणम्॥
काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते। दोषस्वरूपकथनार्थमाह- गुणविपर्ययात्मानो दोषाः ॥ १॥ गुणानां वक्ष्यमाणानां ये विपर्ययाः, तदात्मानो दोषाः। अर्थतस्तद्वगमः ॥२॥ गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थात्सिद्धिः।
निष्कलङ्कनिशाकान्तगर्वसर्वेकषप्रभाम्। कविकामगवीं वन्दे कमलासनकामिनीम्॥ दोषदर्शनं द्वितीयमधिकरणमारभ्यते। अधिकरणद्वयसंबन्धमेव बोधयति- काव्यशरीर इति। सौन्दर्यस्य गुणालद्चारघटितचारुत्वस्य आक्षेपः स्वस्थानात् प्रच्यावनं तस्य हेतवस्तथाविधा दोषाः कविना ज्ञातव्या इत्यनेन दोषज्ञानस्याव- श्यकर्तव्यतोक्ता। तेषामज्ञाने परित्यागात्मनः फलस्य दुर्लभत्वादिति भावः । दृश्यन्तेऽस्मिन् दोषा इति दोषदर्शनम्। अधिकरणार्थे ल्युद्। दोषसामान्यलक्षणं वक्तुं सूत्रमवतारयति-दोषस्वरूपेति। गुणाना- मिति। विपरीयन्त इति विपर्ययाः विपरीताः । कर्मार्थेऽच्प्रत्ययः । त एवा- त्मानो येषां ते विपर्ययात्मनो विपरीतम्वरूपाः, न त्वभावरूपा इत्यर्थः । अनेन गुणविपरीतस्व रूपत्वं दोषसामान्यलक्षणमुक्तं भवति। ननु गुणेष्ववगतेषु तद्विपर्ययस्वरूपा दोषा विनापि लक्षणोदाहरणाभ्यां सामर्थ्यात् प्रेक्षावद्विरुत्परेक्षितुं शक्यन्ते। किं लक्षणादिप्रपञ्चनेनेत्याशक्कासूत्रमनु- भाषते -- अर्थत इति।
Page 60
४० काव्यालंकारसूत्रवृत्ति: [अधि. २.
किमर्थ ते पृथक् प्पञ्च्यन्त इत्यत्राह- सौकर्याय प्रपञ्चः ॥ ३ ॥ सौकर्यार्थ: प्रपश्चो विस्तरो दोषाणाम्। उद्दिष्टा लक्षणलक्षिता हि दोषा: सुज्ञाना भवन्ति। पददोषान् दर्शयितुमाह- दुष्टं पदमसाधु कष्टं ग्राम्यमप्रतीतमनर्थकंच।।४॥ क्रमेण व्याख्यातुमाह- शब्दस्मृतिविरुद्धमसाधु ॥ ५॥ शब्दस्मृत्या व्याकरणेन विरुद्धं पदम् असाधु। यथा-'अन्यकारकवैयर्थ्यम्' इति। अत्र हि 'अषष्ठयतृतीया- आशक्कामिमामपाकर्तुमनन्तरसूत्रं व्याचष्टे-सौकर्यार्थ इति। दोष- स्वरूपे हि प्रेक्षावतामुत्प्रेक्षितुं शक्येऽपि, व्युत्पित्सूनधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य तैस्तु पदपदार्थवाक्यवाक्यार्थदोषाणां स्थूलसूक्ष्माणामुद्देशलक्षण परीक्षाभिर्विना दुर- वगमत्वात् तेषां दोषविवेकस्य सौकर्याय प्रपश्च इत्यर्थः । उदिष्टा इति। उद्दिष्टाः नामतः परिगणिताः । लक्षिताः परस्परव्यावृत्ततया दर्शिताः। दोषाः, सुज्ञानाः सुखेन ज्ञातव्या भवन्ति। 'आतो युच्' इति खलर्थे युच्प्रत्ययः। अस्मिन्नधिकरणे लक्षणीया दोषा: काव्यस्यासाधुत्वापादकाः स्थूला इत्यवगन्तव्यम्। यद्वक्ष्यति- 'ये त्वन्ये शब्दार्थदोषाः सूक्ष्माम्ते गुणविवेचने वक्ष्यन्ते' इति ॥
शब्दार्थशरीरं हि काव्यम्। अत्र शब्द: पदवाक्यात्मकः । अर्थश् पदा- र्थवाक्यार्थरूपः । तत्र पदपदार्थप्रतिपत्तिपूर्विका वाक्यवाक्यार्थप्रतिपत्तिरिति क्रम- मभिसंधाय प्रथमं पददोषान् प्रतिपादयितुमाह-पददोषानिति। दुष्ट पदमिति प्रत्येकं संबन्धनीयम्।। यथोद्देशं लक्षणं वक्तुमाह- क्रमेणेति। शब्दस्मृतीति। शब्दशासत्र- मर्यादामुलङ्त्य प्रयुक्तं शब्दस्मृतिविरुद्धम्। तदुदाहरति- अन्यकारकेति।
Page 61
अ. १.] कामधेनुसहिता। ४१
स्थस्यान्यस्य दुगानीराज्ास्थास्थितोत्सुकोतिकारकरागच्छेपु' इति दुका भवितव्यमिति। श्रुतिविरसं कष्टम् ॥। ६ H श्रुतिबिरसें श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्भितमप्युद्वेज- यति। यथा- 'अचूचुरञण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशढ़: सशाङ:।' लोकमालप्रयुक्तं ग्राम्यम्॥७॥ लो एव यत्मयुक्तं पदम्, न शास्त्रे; यत् ग्राम्यम्। यथा -- 'कष्ट कथं रोदिति फूत्कृतेयम्।' अन्यदपि तल्लगल्ला- दिकं द्रष्टव्वम्। शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥८॥।
'अषष्ठव तृतीयास्थस्यान्यस्व दुगाशीराशास्थास्थि तोत्सुकोतिकारकरागच्छेषु' इति आशीरादिषु परतोऽन्यपदस्य दुगागमेन भवितव्यम्। स तु न कृतः; 'दुगागमोS- विशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु ॥' इति कारकपदे परतो दुगागमो नियत इत्यन्यकारकपदमसाधु। भोत्रकट्विति। कर्णोद्वेगकरमित्यर्थः। बदुक्तं भामहेन 'संनिवेश- विशेषात्तु तदुक्तमभिशोभते।' इति, तन्निराचष्टे-तद्धीति। विशिष्टसंदर्भ- गर्भगतमपि सहृदयहृदयोद्वेगमाविर्भावयतीत्यर्थः । अचूचुरदिति। अत्र द्रागिति पदं कटस्। आामे भवं आम्थमिति व्युत्पत्तिः; लोकमात्रसिद्धमित्यर्थः। कष्टामीति । अल कूत्कृतेति पदं ग्म्यम्, तस्य काव्ये प्राचुर्येण प्रयोगादर्शनाद्।''ताम्बूल- 1. गहपदं कपोलार्थकम्। तल्ल अल्पमिति केचित्। तल्लशब्दखडागवाचीति कचित्। 'मलम्' इति भूकसां पाठः। 'भलं भद्रम्' इति, 'भहं समीयीनम्' इति य प्रका- शव्य्यातारः । 6
Page 62
४२ काव्यालंकारसूत्रवृत्ति: [अधि. २.
शास्त्र एव प्रयुक्तं यत्, न लोके; तत् अप्रतीतम्। यथा- 'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः। गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः॥।' अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम्॥ पूरणार्थमनर्थकम् ॥ ९॥ पूरणमात्रपयोजनमव्ययपदमनर्थकम्। दण्डापूपन्यायेन पंदमंन्य- दप्यनर्थकमेव। भृतगल्लोऽयं तल्लं जल्पति मानवः' इत्यादौ यत् तल्लगल्लादिपदं प्रयुज्यते, तदपि आ्रम्यं द्रष्टव्यम्। किं भाषितेनेति। इयं हि कस्याश्िद्विप्रलब्धायाः शठनायकं प्रत्युक्तिः। रूपविज्ञानवेदनासंज्ञासंस्कारलक्षणा: पञ्च स्कन्धाः सौगतमते प्रसिद्धाः । अत्र विष- येन्द्रियलक्षणम्य रूपस्कन्धस्य गुणा मे न सन्ति । गुणनान्तरीयकम्, अन्तरश- ब्दोऽत्र विनार्थः। 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादथ्ये। छिद्रात्मीय- विनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । न अन्तरं नान्तरम्। ततो भवार्थे छप्रत्यये स्वार्थिके च कप्रत्यये सति नान्तरीयकमिति रूपं सिद्धम्। अवि- नाभूतमित्यर्थः । प्रेम च गुणनान्तरीयकमिति हेतोः, उपालम्भो निन्दावचनम्, ते तव नास्ति। व्यापकपरावृत्तौ व्याप्यपरवृत्तिरुचितेति भावः । अत्र रूपम्क- न्धनान्तरीयकपदे अप्रतीते। पूरणार्थमिति। पूरणं पादपूरणम् अर्थः प्रयोजनं यम्येति विग्रहः। दण्डा- पूपोति। दण्डप्रोता अपूपा दण्डापृपाः । तथा च दण्डानयनप्रेरणायां दण्डानय- नेनैवापूपानयने सिद्धे पुनरपूपानयनप्रेरणं व्यर्थमिति दण्डापूपन्यायः। अथवा, अपूपदण्डो मूषकैर्भक्षित इत्युक्ते पुनरपूपभक्षणप्रश्नवचनं व्यर्थमिति दण्डापूप- न्यायः । तन्न्यायेन चादीनामसत्त्ववचनानामसत्यपि प्रयोगे तदर्थस्यान्यतोऽवग- 1. 'विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च। भिक्षूणां शाक्यसिंहेन स्कन्धाः पश्च प्रकीर्तिताः ।'
Page 63
अ. १.] कामधनुसहिता। ४३
यथा-'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणैः सविता।' अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः । न वाक्यालक्कारार्थम् ॥१०॥ अपवादारथामेदम्। वाक्यालङ्कारप्रयोजनं तु नानर्थकम् । यथा- 'न खल्विह गतागता नयनगोचरं मे गता' इति। तथा हि खलु हन्तेति। संप्रति पदार्थदोषानाह-
दुष्टं पदमित्यनुव्तत। अर्थाच्च विभक्तिविपरिणामः। अन्यार्था- दीनि पदानि दुष्टानीति मूत्रार्थः ।
तत्वान्नैराकाङ्मचेण वाक्यार्थविश्रान्तिसिद्धाविह प्रयुज्यमानानां तेषामव्ययानां द्योत्य- राहित्येनानर्थकत्वं भवति; किमु वक्तव्यमात्मोपजीव्यवाच्यार्थविरहे वाचकानां पदानामनर्थकत्वमिति भावः । उदित इति। हस्तिनां समूहो हास्तिकम् । 'अचि- चहस्तिघेनोष्ठक्' इति ठकूप्रत्ययः । हास्तिकं गजता बृन्दे' इत्यमरः । तद्वद्वि- नीलम्। अन्र तुशब्दस्येति। भेदावधारणादेर्द्योत्यस्यानाकाङ्कितत्वादित्यर्थः । वाक्येति। पूरणं तु प्रतिभादौर्बल्यसूचकतया काव्यविद्धिः प्रयोजनत्वेन नाङ्गीकृतम्। पदार्थदोषान् प्रपश्चयितुमाह- संप्रतीति । अन्यादिभिस्त्रिभिरर्थशब्दः प्रत्येकमिसंबन्धनीयः । तेषामश्लीलक्किष्टशब्दयोरिवार्थपद प्रयोगमन्तरेण न हठा- दर्थप्रतिपत्तिहेतुत्वमित्यर्थपदं प्रत्युक्तम्। विभक्तीति। अत्र प्रथमाया विभक्ते- रमेदेन विपरिणामासंभवात् वचनविपरिणाम इति व्याख्येयम्। अन्यार्थादी- नीति। अर्थदौष्टयात् पदान्यपि दुष्टानीत्यर्थः ।
Page 64
काव्यासंकारसूत्रवृत्ति: [अधि. २.
एवां कमेण लक्षणान्याह- रूढिच्युतमन्यार्थम् ॥१२॥ दे: च्युतं रूदिच्युतं रूढिमनपेक्ष्ण यौगिकार्थमात्रोपादानाद्, अन्यार्थ पदम्। स्थूलत्वात् सामान्पेन घटशन्द: पटशव्दार्थ इत्यादिक- मन्यार्थे नोक्तम । यथा-'ते दुःखमुचावचमावहन्ति ये प्रस्मरन्ति भियसंगतानाम्।' अन्र आवहतिः करोत्यर्थो धारणार्ये प्रयुक्त:, प्रस्मरतिर्विस्मर- णार्थ: प्रकृष्टस्मरणे इति1। रूढि: प्रसिद्धिः, ततः च्युतं रूढिच्युतम्। रूदेषु पदेषु रूढिमनादृत्य यौगिकार्थे यत् प्रयुज्यते, तदन्यार्थ पदम्। ननु यत् घटादिपदं पटादिषु प्रयुज्यते, तत् अन्यार्थ पदं दुष्टमिति किमिति नोच्यत इत्याशकचाह-स्थूलत्वादिति। पटादिषु प्रयुज्यमानं घटादिपदमन्यार्थमिति सामान्येन नोक्तम्। कुतः! स्थूल- त्वात् उत्तानबुद्धिभिरुपलब्धुं शक्यत्वात्। ये केचित् स्थूलमपि दोषमविज्ञाय तथा प्रयुञ्ते, ते पुनरविवेकिन: शासनयोग्या न भवन्तीति प्राकू प्रतिपादितम्। उदाहरणमुपदर्शयितुमाह- यथेति। ये प्रियसंगतानां प्रणयप्रयुक्तसंबन्धानां प्रस्मरन्ति प्रकर्षेण स्मरन्ति। 'अधीगर्थदयेशां कर्मणि' इति कर्मणि षष्ठी। ते जनाः उच्चावचमनेकभेदम्। 'उच्चावचं नैकभेदम्' इत्यमरः । दुःखम् आवहन्ति धार- यन्तीति कवेर्विवक्षितोऽर्थः। अन्यार्थत्वमुपपादयति- अत्रेति। आ्पूर्वो वहिधातुः करोत्यर्थे रूढः । तथा च प्रयोगः, 'व्रीडमावहति मे स संप्रति व्यस्त- वृत्तिरुदयोन्मुखे त्वयि।' इति। स च-रूढिमनादृत्य धारणे यौगिकार्ये प्रयुक्त इत्यन्यार्थत्वम् । प्रपूर्वः स्मरतिरपि विस्मरणार्थे रूढः । तथाच प्रयोग:, 'नाक्ष- राणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि।' इति। स च रूढिमगण- यित्ना प्रकृष्टस्मरणे यौगिकार्ये प्रयुक्त इत्यन्यार्थत्वम्। किंच 'रूठिच्युतम्' इत्यन्न रूढीवि सामान्येनोपातत्वाद्योगरूढिरपि परिगृबते। तेन पङ्चमादय: सच्याः कुमुदादिषु न प्रयोज्या: । 1. इदं च नेवार्चे प्रकाशोखेतु अवाचकप्रभेदेषु अन्यतमम्। प्रकारान्तराणि तु तत एबावसेयानि।
Page 65
अ. ९.] कामधेनुसहिता। ४५
कल्पितार्थ नेयार्थम् ॥१३॥
अश्रौतस्वाप्युभेयस्य पदार्थस्व कल्पनात् कल्पितार्थ नेयार्थम्। पथा -- 'सपदि पङ्किविहङ्मनामभृत्तनयसंवलितं बलशालिना। बिपुलपर्वतवर्षि शितैः शरेः पवगसैन्यमुलूकजिता जितम् ॥' अत्र विहङमश्रऋ्वाकोऽभिन्नेतः, तन्नामानि चक्राणि, तानि बि- भ्रतीति विइङ््मनामभृतो रथाः, पक्कि: दश विहङमनामभृतो रथा यस्य स पक्किविह्क्मनामभृत् दशरथः, तत्तनयाभ्यां रामलक्ष्मणाभ्यां संवलितं प्लवगसैन्यं जितम्। उलूकजिता इन्द्रजिता। कौशिकशब्देनेन्द्रोलूकयो- रभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः । नतु चैवं रथाज्-
नेयार्थ लक्षयति- कल्पितार्थमिति। अश्रौतस्येति। संकेतसहायः शब्दव्यापारः, तद्विशिष्टः शब्दो वा श्रुतिः । तत आगतोऽर्थः श्रौतः, सन भवतीति अश्रौतः अनभिधेय इत्यर्थः । नन्विदमश्रौतत्वमर्थस्य किं लाक्षणिक- त्वम् ? नेत्याह -- उन्नेयस्येति। 'अभिघेयाविनाभूतप्रतीतिर्लक्षणोच्यते' इत्येवं- लक्षणलक्षणाकक्ष्यामधिक्षिप्य कस्यचिदर्थस् कल्पने कल्पतार्थम्, न तु लाक्ष णिकार्थमित्यर्थः । उदाहरणमाह- यथेति। उदाहरणवाक्यार्थ विवृणोति- अन्नेति। पक्षिसामान्यवाचिना विह्ङ्मपदेन तद्विशेषश्रक्रापरनामा चक्रवाको लक्ष्यते। 'कोकश्चऋ्श्वक्रवाकः' इत्यमरः। तस्य नामेव नाम येषां तानि तभा- मानि चक्राणीत्यर्थः । प्किरिति। पक्किच्छन्दसः पादस्य दशाक्षरात्मकत्वात् प्किपदेन दशसंख्या लक्ष्यते । विपुलपर्वतवर्षीति प्लवगसैन्यविशेषणम् । कौशिकश्ञन्देनेति । 'महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ।' इत्यमरः । कौशिकशब्देनेन्द्रोलूकयोरमिधानादित्यर्थः। उलूकसब्देन कौशिकशब्द उन्तीयते, तेनेन्द्रोऽभिधीयत इत्ति उलूकजित्पदेन इन्द्रजिदुनीयत इत्यभिपामः। एवं तर्हि प्राचीनकिमयोग: पर्याकुल: सादिति शङ्कते- नन्विति। रभाजनामादीनामि - त्वादिपदेन रथाञ्रपाणिप्रभृतीनां परिभ्रहः। रथाङ्कनामादिपदानां चक्रवाकादौ
Page 66
४६ काव्यालंकारसूत्रवृत्ति: [अधि. २.
नामादीनामपि प्रयोगोऽनुपपन्नः न; तेषां निरूढलक्षणत्वात्। अप्रसिद्धार्थप्रयुक्तं गूढार्थम् ॥ १४॥ यस्य पदस्य लोके अर्थः प्रसिद्धश्ामसिद्धश्च, तत् अमसिद्धेऽर्ये प्रयुक्तं गूढार्थम्2।
निरूढत्वेन रूढ्या योगस्य निगीर्णत्वान्न काचिदनुपपत्तिरिति परिहरति-नेति। निरूढा लक्षणा येषामिति बहुव्रीहिः। लक्षणा हि रूढिप्रयोजनवशात् द्विविधा भवति। तत्र रूढलक्षणाः कुशलादयः शब्दाः प्रयोगप्राचु्येबलेन वाचकशब्दव- त्प्रयुज्यन्ते। प्रयोजनलक्षणास्तु 'मुखं विकसितम्मितं वशितवक्रिम प्रेक्षणम्' इत्यादौ विकसितादयः शब्दाः स्मितविलासादिलक्षकतयाद्यापि प्रयुज्यन्ते। तदु- क्तम्, 'निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति। गूढार्थे लक्षयितुमाह -- अप्रसिद्धेति। अभिमतमनेकत्वमर्थस्य दर्श-
- अय भाव :- 'निरूढा लक्षणाः काश्चित्' इन्युक्तरीत्या रूढिप्रयोजनाभ्यां विना यत्र निषिद्धा लक्षणा स्वीक्रियते, तत्रैव नेगार्थत्वम्। सपदीत्युदाहरणे च बिहङ्गमादिपदानां तत्र तत्र लक्षणोपासन न रूढिः, नवा प्रयोजन किमपि. मुख्यशब्दाथीतिरेकेण कम्याप्यर्थ स्याप्रतीतः । अतश्च तत्र भर्वात नेयार्थत्वं दोषः । रथाङ्गनामादिषु तु रूढिरिति न दोषः । दूषकताबीज च अशक्तवक्तृकत्वज्ञानाद्रसप्रकर्षबं।धविघातः। उृत्त्यभावेन अर्थानुपस्थितिस्तदिति केचित्। एतेन 'न तु लाक्षणिकार्थमित्यर्थः' इति कामाधेनुरपि व्याख्याता। समस्तमेकं पदमिति वैयाकरणर्रातिमाश्रित्य पदार्थदोषावसरे अस्योपन्यासः । हेमचन्द्रस्तु विशिष्टा- भिप्रायेण मतान्तरानुसारेण वा इदमेव पद्यं वाक्यदोषप्रकरणे निरूपितवान्। 2. 'अस्य दूषकताबीजं च प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्बेनाप- स्थितिः । अत एव यमकादावदोषत्वम्, तत्रोपस्थितिविलम्बस्यापि सहृदयसंमतत्वेनाविलम्बा- नुद्देश्यत्वात्' इति प्रदीपकारः । ननु प्रसिद्धस्यापि अविवक्षितार्थस्य कथमुपस्थितिः, 'शब्दा- र्थस्यानवच्छेदे' इति प्रकरणादेनियामकस्य सत्त्वादिति चेत्, न; तुल्यप्रसिद्धिकानेकार्थेष्वेव तथा नियमस्य तदर्थत्वादिति दिक्। 3. काश्चिल्वक्षणाः निरूठा: प्रसिद्धाः। ताक्ष बोधकत्वरसामर्यात् अभिधासम कक्ष्याः। काश्चिच्च प्रयोजनवशात् सांप्रतं करियन्ते। काश्विदपि रूढिप्रयोजनाभावेSपि वक्तुरशक्तिमा- त्रेण नैव क्रियन्त इति कारिकार्थः। 'निरूढलक्षणा तु शकितो नाममातेण भिद्यते' इति भट्टः।
Page 67
अ. १.] कामधेनुसहिता। ४७
यथा-'सहस्रगोरिवानीकं दुःसहं भवतः परैः।' इति। सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः, तस्येवेति गोशब्द- स्याक्षिवाचिलं कविष्वपसिद्धमिति।
यस्य पदस्यानंकार्थस्यैकोऽर्थोऽसभ्यः स्यात्, तत् असभ्यार्थान्त रम्। यथा- 'वर्चः' इति पदं तेजसि विष्ठायां च। यन्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थ स्मारयति, तत् असभ्यस्मृतिहेतुः। यथा -- 'ककाटिका' इति।
यति- प्रसिद्धश्चेति। उदाहरणमुपदर्शयितुमाह- यथेति। गोशब्दस्येति। 'गौर्नाके वृषमे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम्। द्वयोम्तु रश्मिदग्बाणसवर्गवज्राम्बुलो- मसु' इत्यभिधाने सत्यपि गोशब्दम्य प्राचुर्येणाक्ष्ण प्रयोगादर्शनादक्षिवाचकत्व- मप्रसिद्धमित्यर्थः । एतेन '2तीर्थान्तरेषु म्नानेन समुपार्जितसत्पथः । सुरस्रोतखि- नीमेष हन्ति सम्प्रति सादरम्' इत्यादिषु हन्तीत्यादीनां गमनाद्यर्थेषु प्रयोगा: प्रत्युक्ता: । अश्लीलं लक्षयितुमाह -- असभ्येति। सूत्रार्थ विवृण्वन् क्रमेण लक्षणो- दाहरणे दर्शयति -- यस्येति। यम्यानेकार्थवाचकम्य पदस्यैकोऽर्थोसभ्यः स्यात्, तदसभ्यार्थान्तरं पदमश्लीलम्। वर्च इति। 'वर्चौसि ज्वालविड्भासः' इत्यभिधानाज्ज्वालप्रभावाचकत्वेऽपि विड्वाचितया वर्च इति पदमसभ्यार्थान्तरम्। यच्विति। सभायां साधुः सभ्यः । 'सभाया यः' इति यप्रत्ययः। यत्तु पदं सभ्यार्थवाचकमप्येकदेशेन यद्यसभ्यार्थस्मृति जनयेत्, तदप्यश्लीलम्। कृका- टिकेति। 'प्रेतयानं खटिः काटिः' इति वैजयन्त्यां शवयानपर्यायत्वेनाभिधानात्
- अश्रीरस्यास्तीत्यर्थे सिध्मादित्वाल्लच्प्रत्ययः । कपिलादित्वाद्रेफम्य लत्वम्। 2. इद च पद्यसमर्थोदाहरणतया प्रकाशे उपात्तम्।
Page 68
काव्यालकारसूतरपृत्ति: [अधि. २.
न गुप्तलक्षितसंवृतानि' ॥१६।। अपवादार्थमिदम्। गुप्तं लक्षितं संवृतं च नाश्ीलम्। एषां लक्षणान्याह -- अप्रसिद्धासभ्यं गुत्तम् ॥ १७।। अमसिद्धासभ्यार्थान्तरं पदमप्रसिद्धासम्यं यद्, तत् गुतभ्। यथा -- 'संबाधः' इति पदम्। तद्धि संकटार्थ प्रसिद्धम्, न गुबार्थमिति। लाक्षणिकासभ्यं लक्षितम्॥। १८ ॥ तदेवासभ्यार्थान्तरं लाक्षणिकासभ्यार्थान्वितं पदं लक्षितम्।
कण्ठापरभागवाचकमपि ककाटिकापदं काटीत्येकदेशेनासभ्यार्थस्मृतिहेतुरित्य क्रील- मित्यभिप्रायः । अश्लीलम्य क्वचिदपवादं वक्तुमाह- न गुप्तेति। वृत्तिः स्पष्टार्था। अमसिद्धेति। यम्यानेकार्थस्य पदस्यैकोऽर्थोSसभ्योऽपि यद्यप्रसिद्धो भव- ति, तदप्रसिद्धासभ्यं पदं गुप्तमित्यर्थः । तदिदमभिसंधायाह- असभ्यार्थान्त- रमिति। संबाध इति। 'लेशेऽपि गन्धः संबाधो गुब्यसंकटयोई्योः ।' इत्यभि- धाने सत्यपि 'संबाधे सुरभीणाम्' 'आसने मित्रसंबाधे' इत्यादिषु प्रयोगपाचुर्यात् संवाधशब्द: संकटार्थः प्रसिद्धः; तदभावात् गुद्यार्थोऽपसिद्ध इत्यर्थः । लाक्षणिकासभ्यमिति। लक्षणया सान्तरार्थनिष्ठशब्दव्यापारेण प्रतिपादं लाक्षणिकम्। अध्यात्मादित्वात भवार्थे ठन्। तथाविधमसभ्यमर्थान्तरं यस्य, तत् लक्षितमिति सूत्रार्थः। अमुमर्थममिसंधायाह-तदेवेति। लाक्षणिकं
- 'दूक्कताबीज त्वयुभमबिद्धरसापकर्षकताटक्ार्पोपस्थितिः। नीरसे तु नामस्कार- पकर्षकत्क तस्याः । अथवा तादशार्थोपस्थितया भोतुवेमुरय तट्वीजम्। अल अमकथायां दंच त्वाभायः, तादृशोगस्थितेः शमपोषकत्वात्। भाव्यमअ्ञलादिसूचने कामशालस्थिती न व
असभ्यार्थानुपस्थितिः' इति प्रदीपः ।
Page 69
अ. १.] कामधेनुसहिता। ४९
यथा- 'जन्मभूः' इति। तद्धि लक्षणया गुद्यार्थम्, न स्व- शक्त्येति। लोकसंवीतं संवृतम् ॥ १९॥
लोकेन संवीतं लोकसंवीतं यत्, तत् संवृतम्। यथा -- 'सुभगा, भगिनी, उपस्थानम्, अभिगेतम्, कुमारी, ढोउढ़:' इति। अत्र श्ोक :- 'संवीतस्य हि लोकेन न दोषान्वेषणं क्षमम्। शिवलिङ्गस्य मंस्थाने कस्यासभ्यत्वभावना ।।' तत्त्रैविध्यं त्रीडाजुगुप्सामङ्गलातङ्कदायिभेदात्।।२० ॥ तस्याश्चीलस्य त्रैविध्यं भवति. व्रीडाजुगुप्सामङ्गलातङ्दायिनां भेदात्।
च तत् असभ्यं चेति कर्मधारयः । अर्थविशेषणम्। तेनार्थेनान्वितं तादृशार्थप्रति- पादकमित्यर्थः। जन्मभूशब्देन जननस्थानसामान्यमभिधया प्रतिपाद्यते। तद्वि- शेषस्तु लक्षणयेति व्याचष्टे -- तद्धीति। न स्वशक्त्येति। मुख्यव्यापारेणेत्यर्थः। लोकेन संवीतम् आवृतं परिगृहीतमित्यर्थः । सुभगादिपदान्येकदेशेन असभ्यार्थस्मृतिहेतुत्वेऽपि लोकपरिगृहीतत्वात्प्रयोज्यानि। तदुक्तं दण्डिना, 'भगि- नीभगवत्यादि सर्वत्रैवानुमन्यते।' इत्यादि। दोहद इति। 'हद पुरीषोत्सगें' इति धातुं स्मारयन्नेकदेशेन असभ्यार्थस्मृतिहेतुः। अत्र प्राचीनाचार्यसंवादं प्रकटयति -- अन्र श्षोक इति। स्पष्टोऽर्थः । द्विविधम श्रीलं त्रेषा विभजते -- तत्तैविध्यमिति। तिसरो विधाः प्रकारा यस्म तत् विविधम् । 'विधा विधौ प्रकारे च' इत्यमरः । तस्य भावलैविध्यम्। ब्राहणादेराकृतिगणत्वात् प्यञ। तस्याक्लीलस्य त्रैविध्यम् । भमझलस्यातङः शड्ा। 'रुकूतापशङ्कास्वातः' इत्यमरः। दायिशब्दः प्रत्ये-
Page 70
५० काव्यांलकारसूत्रवृत्ति: [अधि. २.
किंचित् ब्रीडादायि। यथा- 'वाकाटवम्' इति। किंचित् जुगुप्सादायि। यथा- 'कपर्दकः' इति। किंचित् अमङ्लानङ्कदायि। यथा- 'संस्थितः' इति।
व्यवहितार्थप्रत्ययं क्विष्टम् ॥ २१॥
अर्थस्य प्रतीतिः अर्थप्रत्ययः । स व्यवहितो यस्मात् भवति, तत् व्यवहितार्थप्रत्ययं क्रिष्टम् । यथा-'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जलल- वास्तरलं पतन्ति।' दक्षात्मजाः तारा:, नासां दयितो दक्षात्मजादयितश्चन्द्रः, तस्य वल्लभाश्न्द्रकान्ताः, तद्वेदिकानामिति। अत्र हि व्ववधानेनार्थ- पत्ययः, अन्यत्र अरूढत्वात्। अरूढावपि यतोऽर्यपत्ययो झटिति, न कमभिसंबध्यते। तत्राद्यमुदाहर्तुमाह -- किंचिदिति। वाक्काटवमिति। कटो- र्भाव: काटवम्, वाच: काटवं वचस्तैक्ष्ण्यमित्यर्थः । अत्र काट इत्येकदेशन लिङ्प्रतीतेव्रींडादायि. 'काटश्ार्णवश्च' इत्यत्र मन्त्रभाष्ये तथा दर्शनात्। द्वितीयं दर्शयतुमाह-किंचिदिति। पर्दः पायवीयपवनध्वनिः।'पर्दस्तु गुदजे- शब्दे कुर्द: कुक्षिजनिःस्वने' इति वैजयन्ती। अवशिष्टमक्रीलं स्पष्टयति- किचिदिति। 'प्रमीतः संम्थितो मृतः इत्यमरः । कलिष्टमाचष्टे-व्यवा्वितेति। समासार्थ विग्रहेण दर्शयति-अर्थस्य प्रतीतिरिति। प्रत्ययोऽन्र ज्ञानम्। 'प्रत्ययोऽघीनशपथज्ञानविश्वासहेतुषु' इत्य- मरः। उदाहरति-दक्षात्मजेति। ननु नेयार्थे क्लिष्टमिदं किमिति नान्तर्भ- वति, व्यवहितार्थप्रत्ययहेतुत्वाविशेषादित्याशक्कय ततो वैषम्यं दर्शयन् लक्ष्ये लक्षणमनुगमयति-अत्र हि व्यवधानेनेति। व्यवधानमर्थप्रतिपत्तेर्विलम्ब । विलम्बेनार्थामिधायकं क्लिष्टम्, नेयार्थ तु कल्पितार्थमिति ततो भेदः। अन्या- पेंडपि चेदं नान्तर्भवतीत्याह-अन्यत्रेति। प्रकृतादर्थादर्थान्तरे कचिदप्यरूढत्वात् अमसिद्धत्वात् विलम्बेनापि योगवशात् प्रकृतमर्थममिघच इत्यर्थः । अमसि-
Page 71
अ. ₹: कामचेनुसहिता।
तत् क्लष्टम्। यथा- 'काञ्चीगुणस्थानमनिन्दितायाः' इति। अन्त्याभ्यां वाक्यं व्याख्यातम् ॥ २२ ॥ अश्लीलं कलिष्टं चेत्यन्त्यं पदे, ताभ्यां वाक्यं व्याख्यातम्। तदप्य श्लीलं कलिष्टं च भवति। अश्लीलं यथा- 'न सा धनोन्रतिर्या स्यात्कलत्ररतिदायिनी परार्थबद्धकक्ष्याणां यत्सत्यं पेलवं धनम् ।' 'सोपानपथसुत्सज्य वायुवेगः समुद्यतः । महापथेन गतवान्कीर्त्यमानगुणो जनैः ॥'
द्मप्यविलम्बेनार्थाभिधायकं चेन्न तत् क्विष्टमित्याह- अरूढावपीति उदाहरति- यथेति।
लक्षित प्रायमेवेत्युपपादयितुं सूत्रमुपादत्ते-अन्त्याभ्यामिति। प्रतिपत्तिलाघ- वार्थमप्रकरणेऽप्यभिधानमित्यवगन्तव्यम्। अश्लीलं वाक्यमपि त्रिविधम्; तत्र ब्रीडादायि अश्लीलमुदाहरति- यथेति। सा तादृशी। धनोन्नतिः अर्थसंपत्तिः। न भवति। या कलत्नरतिदायिनी कलत्रस्य रति प्रीर्ति दातुं शीलमस्या इति कलत्ररतिदायिनी, न तु परप्रीतिदायिनी यस्मात् ; तस्मात् परार्थबद्धकक्ष्याणां परेषामर्थे प्रयोजने बद्धा कक्ष्या कच्छो यैस्तेषां परोपकारबद्धप्रतिज्ञानामित्यर्थः । 'कक्ष्या कच्छे वरत्रायाम्' इति वेजयन्ती। धनम् अर्थः । यत्सत्यं परमार्थतः । पेलवं मनोज्ञमिति प्रकृतार्थः । अर्थान्तरं तु-साधनस्य शेफस उन्नतिः । 'साधनमुपगमनत्योः शेफसि सिद्धौ निवृत्तिदापनयोः' इति नानार्थमाला। यस्मात् कलत्रस्य रति सुरतं दातुं शीलमस्या इति तादृशी न भवति; तस्मात् परासामर्थे बद्धकक्ष्याणं परस्त्रीवशंवदचित्तानामित्यर्थः । धनं पेलवं विरलं भवति । 'पेलवं विरलं तनु' इत्यमरः । अत्र ब्रीडादायित्वमतिरोहितम्। अवशिष्टमक्री- लद्यमुदाहरति -- सोपानेति। सोपानपथमुत्सृज्य। वायुवेग: वायोर्वेग इव
Page 72
५२ [अधि. २.
कलिषटं यथा-
'धम्मिल्लस्य न कस्य पेक्ष्य निकामं कुरङशावाक्ष्याः। रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।I' एतान् पदपदार्थदोषान् झञात्वा कविस्त्यजेदिति तात्पर्यार्थ:॥
इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीये ऽधिकरणे प्रथमोऽध्यायः।
वेगो यस्य स तादशः, समुद्यतः सन्, जनैः स्तूयमानगुणः सन्, महापथेन राजमार्गेण गतवानिति प्रकृतार्थः । वायुवेगः अपानपथमुत्सृज्य समुदत इति जुगुप्सादायि। महापथेन परलोकमार्गेण गतवानित्यमङ्कलातकदायि।
क्विष्टमुदाहरति -- धम्मिल्लस्येति। कुरङ्शाबाक्ष्याः धम्मिल्लस्य संयत- कचनिचयस्य। अपूर्वोऽदष्टचरो बन्धो अथनं तस्य व्युत्पत्तेश्रातुर्यस्य। शोभां प्रेक्ष्य। कस्य मानसं निकामं न रज्यति सर्वस्यापि मानसं रज्यतीत्यर्थः । रज्यतीति कर्मकर्तरि रूपम्। 'कुषिरजोः प्राचां श्यन् परस्मैपदं च' इति पर- हमैपदम्। अपूर्वबन्धव्युत्पत्तेरिति धम्मिल्लविशेषणं वा। अत्रान्वयव्यवधानान्न हाठिकी वाक्यार्थप्रतिपत्तिरिति म्पष्टमेव क्विष्टत्वम्। ननु किं फलममीषां दोषा- णामवबोघनेनेत्याशक्कच. परित्याग एव फलमित्याह -- एतानिति।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृात व्याह्यायां काव्यालंकारकामधेनौ दोषदर्शने द्वितीये Sधिकरणे प्रथमोऽध्यायः ॥
Page 73
द्वितीयोऽध्यायः॥
पदपदार्थदोषान् प्रतिपाद्य वाक्यदोषान् दर्शयितुमाइ- भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि॥ १॥ दुष्टानीत्यभिसंबन्धः। क्रमण व्याचऐ्ट- लक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २ ॥। स्वस्माल्लक्षणाच्चयुतं वृत्तं यस्मिन्, नत स्वलक्षणच्युतवृत्तं वाक्यं भिन्नवृत्तम् । यथा-'अयि पशयसि सौधमाश्रितामविरलसुमनोमालभारिणीम्।' वैतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्य निषिद्धम्। तच्च कृतमिति भिन्नवृत्तत्वम् ।
चिन्तयामि चिदाकाशचन्द्रलेखां सरस्वतीम्। शिरसा साघनादस्या: मार्वज्यं समवाप्यते।।
अध्यायद्वयसौहार्दमुन्मुद्रयति- पदपदार्थेति। पदपदार्थदोषनिरूपणा- नन्तरं वाक्यवाक्यार्थदोषनिरूपणं लब्धावसरमिति संगतिः। वाक्यदोषानुद्ि- शति-भिन्नवृत्तेति। दुष्टं पदम्' इत्यादिसूवात् दुष्टमित्येतत् वचनविपरि- णामेन वाक्यविशेषणतयानुकर्तत इत्याह-दुष्ानीति। यथोद्देशमेषां लक्षणानि दर्शयिष्यन्, अनन्तरसूत्रमवतारयति -- क्रमे- गेति। लक्षणच्युतवृत्तमिति। लक्षणहीनवृत्तानुबन्धि वाक्यमित्यर्थः। उदा- हरति -- यथेति। अयि पश्यसीति। सुमनोमालभारिणीमित्यत्र "इष्टकेषी- कामालानां चिततूलभारिषु" इति मालाशब्दस्य हखः । वैतालीयकक्षणं प्रागु- कम्। तत्र 'ताश्च समे म्युर्नो निरन्तराः' इति समपादे लध्वक्षरषट्कस्य नैर-
Page 74
५४ काव्यालंकारसूत्रवृत्ति: [अधि. २.
विरसविरामं यतिभ्रष्टम्।।३।। विरस: श्रुतिकटुः विरामो यस्मिन्, तत् विरसविरामं यतिभ्रष्टम्। तद्धातुनामभागभेदे स्वरसंध्यकृते प्रायेण ।।४ ।। नत् यतिभ्रष्टं धातुभागभेदे नामभागभेदे च सति भवति स्वर- संधिना अकृते प्रायेण बाहुल्यन। धातुभागभेदे मन्दाक्रान्तायां यथा -- एतासां राजति सुमनसां दाम कण्ठावलम्बि।' नामभागभेदे शिखरिण्यां यथा -- •कुरङ्राक्षीणां गण्डतलफलक स्वद्विसरः।'
न्तर्य निषिद्धम्। अन्न 'अविरलसुम -- ' इति समपादे षडपि लध्वक्षराण प्रयुक्तानीति लक्षणच्युतत्वम् । द्वितीयं व्याख्यातुं सूत्रमुपादत्त -- विरसविराममिति। विरामो विच्छे- दनियमः । शेषं सुगमम् । तद्विभागं दर्शयितुमाह-तदिति। धातुः भूवादिः । नाम प्रातिपदि- कम्। धातो: प्रातिपदिकस्य वा भागतो भेदे अंशता विच्छेदे। भागभेदमेव विशिनष्टि -- स्वरसंध्यकृत इति। स च भागभेदो यदि स्वरसंधिना कृतो न स्याद्, तस्मिन् भागभेदे सति यतिभ्रष्टं नाम दुष्ट भवति। स्वरसंघिकृते तु मागमेदे न दुष्टमिति सूचितम्। तत्न प्रथममुदाहर्तुमाह- धातुभागभेद इति। एतासामिति। मन्दाक्रान्ताख्यमिदं वृत्तम्। 'मन्दाकरान्ता जलधिषडगैम्भौ न तौ तो गुरू चेत्' इति तल्लक्षणादादितश्रतुर्भिः, ततः षड्भिः, ततः सप्तभिर्वर्णै- र्विराम: कर्तव्यः । तथा सति 'एतासां रा-' इत्यत्र धातुभागभेदे प्राप्तस्य तस्प वैरस्यादिदं वाक्यं यतिभ्रष्टं नाम दुष्ट भवति। द्वितीयमुदाहरति-नामभाग- भेद इति। कुरकक्षीणामिति। शिखरिणीवृत्तमिदम्। 'रसै रुद्रैश्छिना यमनसभला गः शिखरेणी. इति लक्षणादादितः पड्भिः, तत एकावशभिर्यतिः कर्तव्या। ततम्
Page 75
अ. २.] कामघेनुसहिता ५५
मन्दाक्रान्तायां यथा -- 'दुर्दर्शश्रक्रशिख्कपिशः शार््िणो बाहुदण्डः ।' धातुनामभागपद्ग्रहणात् तन्भागातिरिक्तमेदे न भवति यति- भ्रष्टत्वम्।
यथा मन्दाक्रान्तायाम्- 'शोभां पुष्यत्ययमभिनवः सुन्दरीणं प्रबोधः।' शिम्वरिण्यां यथा- 'विमिश्रः श्यामान्तेष्वररपुटचीत्कारविरुतैः।' स्वरसंध्यकृत इति वचनात् स्वरसंधिकृते भेदे न दोषः। यथा-'किंचिद्भावालसमसरलं पेक्षितं सुन्दरीणाम्।'
'कुरभ्ाक्षीणां ग-' इत्यत्र प्रातिपदिकभागभेदे प्राप्तायास्तस्या वैरस्यात् यति- भ्रष्टं भवति। उदाहरणान्तरमाह -- दुर्दश इति। मन्दाक्रान्तालक्षणमुक्तम् । 'दुर्दर्शश्च' इत्यत्र विरामो विरसः । ननु पदभागभेद इति सूत्रकरण धातुना- म्ोरुमयोरपि संग्रहाल्लाघवं भवति, किं धातुनाम्रहणगौरवेणेत्याशङ्कच, पदग्र- हणे प्रकृतिप्रत्ययमध्यविरामेऽपि यतिअ्रंशः स्यात्: स मा भूदिति घातुनाम- ग्रहणं कृतमित्याशयवानाह- धातुनामेति। तयोर्धातुनाम्नोर्भागाः तद्भागाः, तेभ्योऽतिरिक्तमेदे धातुनामभागभेदव्यतिरिक्ते भागभेद इत्यर्थः । उदाहरति- यथेति। 'शोभां पुष्य- इत्यत्र विरामो न वैरम्यमावहतीति भावः। धातुप्रत्य- यमध्यविरामे दोषाभावं निरूप्य प्रातिपदिकप्रत्ययमध्यभेदेप्युदाहरति-विमिश्र इति। श्यामा रात्रिः, अररं कवाटम्। 'श्यामान्ते -- 'इत्यत्र प्रातिपदिक- प्रत्ययमध्यविरामो न दुष्यति। विशेषणव्यावर्त्य कीर्तयति- स्वरसंधीति। उदाहरति-किंचिद्भावालसमिति। अत्र चतुर्थाक्षरावसाने यतिर्विहिता। तभा च अलसमित्यन्र अकारस् सवर्णदीर्घेणैकादेशेन कबलितत्वात्स्वरसंधिकृतोऽयं नामभागमेद इति न यतिभ्रष्टत्वम्।
Page 76
५६ काव्यालंकारसूत्रवृत्ति: [अधि. २.
न वृत्तदोषात्पृथग्यतिदोषो वृत्तस्य यत्यात्मकत्वात् ॥ ५॥ उत्तदोषातं पृथक् यतिदोषो न वक्तव्य:, वृत्तस्य यत्यात्मकत्वाद्। यत्यात्मकं हि वृत्तमिति भिन्नवृत्त एव यतिभ्रष्टस्यान्तर्भावात् पृथग्ग्रहणं कार्यम्। अत आह- न लक्ष्मण: पृथक्त्वात् ॥ ६ ॥ नायं दोष:। लक्ष्मणो लक्षणस्य पृथक्त्वात्। अन्यद्धि लक्षणं वृत्तस्य, अन्यच्न यने :- गुरुलघुनियमात्मकं वृत्तम्। विरामात्मिका च यतिरिति। विरूपपद्संधि विसंधि॥७॥ पढ़ानां संधि: पदसंधि:। स च स्वरसमवागरूपः मत्यासत्तिमा- त्रूपो वा। स विरूपो यत्मित्िति विग्रहः।
ननु भिन्नवृत्तयतिभ्रष्टयोरर्थतो भेदाभावात् न पृथक्कथनमर्थवदिति शङ्कामङ्करयितुमुपरितनं सूत्रमुपन्यस्यति-न वृत्तेति। गुरुलघुनियमवत् यति- नियमस्यापि वृत्तलक्षणवाक्येनैवावगन्तव्यत्वात् यतिविशिष्टं च वृत्तमिति वृत्तदोषे एव यतिदोषोऽन्तर्भवतीति शङ्कितुरभिप्रायः । शक्कामिमां शककलयितुमुत्तर सूत्रमुपाद त्ते-न लक्ष्मण: पृथक्त्वादिति। यतिवृत्तयोर्लक्षणभेदात् म्वरूपभेदोऽझीकर्तव्यः । तथा च वृत्तदोषे यतिदोषस्या- न्तर्भावो दुर्भण इति भावः । लक्षणभेदमेवाह-गुरुलघ्विति। स्वानविरामेSपि गुरुलघुविपर्यासे भवति वृत्तभङ्कः । अस्थानविरामात्मके यतिभक्रेऽपि यथो- कगुरुलधुनियमे सति न वृत्तभक् इत्यन्वयव्यतिरेकाभ्यां भिननवृत्तयतिभ्रष्ट- योर्भिनत्वात् पृथक्कथनमर्थवदित्यर्थः । अथ विसंधि वाक्यं विवरीतुमाह-विरूपपदसंभीति। स चेति।'कि चिद्धावालसम्' इत्यत्र स्वरसमवायरूपः । 'ते गच्छन्ति प्रभुपरिषृदम्' इत्पत्र मत्यासत्तिरूप: ।
Page 77
अ. २.] कामधेनुसहिता। ५७
पदसंघेर्वैरुप्यं विश्लेषोऽश्ीलत्वं कष्टत्वं च ।। ८ ।। विश्लेषः अवग्रहः विभागेन पदानां संस्थितिः। अश्लीलत्वम् असभ्यस्मृतिहेतुत्वम्। कष्टत्वं पारुष्यमिति। विश्लेषो यथा- 'कमल इव लोचने इमे अनुबन्नाति विलासपद्धतिः।' 'लोला- लकानुबद्धानि आननानि चकासति।' अश्चीलत्वं यथा- 'विरेचकमिदं नृत्तमाचार्याभासयोजितम्।'
विसंधिनस्त्रैविध्यं वक्तुमाह- पदसंघेरिति। विश्लेषोऽवग्रह इति। अत्र पदकालप्रसिद्धोऽवग्रहो न विवक्षितः, किंतु मात्राकालव्यवधानसाम्यादसंहि- ताप्रगृद्यलक्षण इत्यभिसंघायाह-विभागेनेति। स च विक्लषो द्विविध :- प्रगृद्यनिबन्धनः, संध्यविवक्षानिबन्धनश्च। तत्राद्यमुदाहरति- कमले इति। यदवादि दण्डिना, 'न संहितां विवक्षामीत्यसंधानं पदेषु यत्। तद्विसंधीति निर्दिष्टं न प्रगृद्यादिहेतुकम् ॥' इति। अत्र प्रगृद्यादिहेतुकं विसंधि न भवतीति सकृत्प्रयोगविषयमिदं द्रष्टव्यम् ; असकृत्प्रयोगे तु दुष्टमेव। तदुक्तं साहित्यचू- डामणौ, "प्रगृद्यादिनिबन्धनत्वे पुनरसकृद्दोषः । यथा- 'धीदोबले अतितते उचितार्थवृत्ती' इत्यादि । सकृत्तु न दोषः । तथाच प्रयोग :- 'लीलयैव धनुषी अधिज्यताम्' इति, 'सहंसपाते इव लक्ष्यमाणे" इति च। द्वितीयमुदाहरति- लोलालकेत्यादि। अत्र 'न संहितां विवक्षामि' इति कामचारप्रयुक्तः सकृ- दपि दोष एव, नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति काव्यसमयाध्याये वक्ष्यमांणत्वात्। त्रिविधमश्लीलं क्रमेणोदाहरति-अश्चीलत्वं यथेति। रेचका नाम नृत्ते पाणिपादादिभ्रमणरूपाश्वत्वारो भरतशास्त्रे प्रसिद्धाः। तदुक्तं संगीतरलाकरे, 'रेचकानथ वक्ष्यामश्चतुरो भरतोदितान्। पदयोः करयोः कट्या श्ीवायाश्च भवन्ति ते ॥' इति । आचार्येण सता नृत्तं सरेचकं योजनीयम्; इदं तु नृतं
Page 78
'चकाशे पनसमायैः पुरी पण्डमहाद्रुमैः।' 'विना शपथदानाभ्यां पदवादसमुत्सुकम्।' कष्टत्वं यथा- 'मञ्जर्युद्रमगर्भास्ते गुर्वाभोगा दुमा बसुः।' एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाइ- व्यर्थेकार्थसंदिग्धायुक्तापक्रमलोकविद्या- विरुद्धानि च । ९ । वाक्यानि दुष्टानीति संबन्धः ॥ क्रमेण व्याख्यातुमाह- व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥। १० ॥ व्याहतौ पूर्वोत्तरावर्थौ यस्मिस्तत् व्याहतपूर्वोत्तरार्थ वाक्यं व्यर्थेम्।
तुराणि चेष्टितानि।' यथा -- 'अद्यापि स्मरति रसालसं मनो मे सुग्धायाः स्मरच-
मुग्धायाः कथं स्मरचतुराणि चेष्टितानि? तानि चेत् कथ सुग्धा? विरेचकं रेचकविहीनम्। अत एवाचार्याभासयोजितम् यः स्वयमनाचार्य आचार्यवदवभासते, सोऽयमाचार्याभासः ; तेन योजितम्। अन्र विरेचकयाभ- शेपपुरीषविनाशपदविन्यासैः, विरेचनमिथुनीभावमेहनपुरीषविनाशप्रतीतेखिवि- घान्यश्लीलानि द्रष्टव्यानि। कष्टत्वमुदाहर्तुमाह- कष्टत्वं यथेति उक्तव कव्य संगतिपूर्वकमुत्तर सूत्रमवतारयति-एवमिति। चकारेण समु- चयमाह- वाक्यानि दुष्टानीति संबन्ध इति। व्याहतौ परस्परविरुद्धावित्यर्थः । सुग्धायाः कयं स्मरचतुराणि चेष्टितानीति। न कथंचित्संभवन्ति, व्याहतत्वादित्यर्थः । व्याहतिमेव व्याह-
Page 79
अ. २. कामधेनुसहिता। ५९
अन्र पूर्वोत्तरयोरर्थयोर्विरोधात् व्यर्थमिति। उक्ार्थपदमेकार्थम् ॥११॥ उक्तार्थानि पदानि यस्मिस्तत् उक्तार्थपदम् एकार्थम्। यथा-'चिन्तामोहमनङमङ! ननुते विशेक्षितं सुध्रुवः।' अनङ्ग: भृङ्गारः। तस्य चिन्तामोहात्मकत्वाचिन्तामोइशब्दौ प्रयु- क्तावुक्तार्थौ भवतः । एकार्थपदत्वात् वाक्यमेकार्थमित्युक्तम्। न विशेषश्चेदेकार्थं दुष्टम्॥। १२ ॥ न गतार्थ दुष्टम्, विशेषश्चेत् प्रतिपाद्यः स्याद्। तं विशेषं प्रतिपादयितुमाह- धनुर्ज्याध्वनौ धनुःश्रुतिरारूढेः प्रतिपत्यै। १३ ॥
रति 'स्मरचतुराणि' इति। एकार्थ समर्थयितुमाह-उक्तार्थपदमिति। उक्ताः पदान्तरैः प्रतिपा- दिता: अर्थाः येषां तानि उक्तार्थानि। तथाविधानि पदानि यस्मिन् वाक्ये तत् उक्तार्थपदं वाक्यमेकार्थ नाम दुष्ट भवतीति वाक्यार्थः । चिन्तामोहमिति। कामिनीकटाक्षपातकलुषितान्तःकरणस्य विरहवेदनामसहमानस्य कस्यचित्कामु- कस्येयमुक्तिः । अनङ्शब्देनात्र विप्रलम्भशृङ्गारो विवक्षितः । तम्य चिन्तामोहा- द्रुपचितात्मकस्यैव शृङ्गारपदार्थत्वात् तत्कथनेनैव चिन्तामोहयोरवगतत्वाच्चिन्ता- मोहशब्दौ गतार्थावित्येकार्थौ। नन्वेकार्थलक्षणपरीक्षायामेकार्थत्वं पदस्य प्रतीय- ते, न तु वाक्यस्य। तत्कथमयं वाक्यदोषः स्यादित्याशङ्क्य छत्रिन्यायेनैकदेश- धर्म: समुदाये पर्यवस्यतीत्याशयवानाह- एकार्थपदत्वादिति।
कचिदपवादं वक्तुमाह-न विशेषश्चेदेकार्थ दुष्टमिति। यदि विशेषः प्रतिपाय:, तदानीमेकार्ये दुष्टं न भवतीति सूत्रार्थ:॥
Page 80
६० काव्यालंकारसूत्रवृत्ति: [अधि. २.
धनुर्ज्याध्वनावित्यत्र ज्याशन्देनोक्तार्थत्वेऽपि धनुःश्रुतिः प्रयुज्यते, आरूढे: प्रतिपन्यै आरोहणस्य प्रतिपच्यर्थम्। न हि धनुःश्रुतिमन्तरेण धनुष्यारूढा ज्या धनुर्ज्येति शक्यं प्रतिपचुम्। यथा- 'धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव।' इति। कर्णावतंसश्रवणकुण्डलशिरःशेखरेषु कर्णादि- निर्देशः संनिधे: ॥ १४ ॥ कर्णावतंसादिशब्देषु कर्णादीनामवतंसादिपदैरुक्तार्थानामपि नि- र्देशः संनिधेः प्रतिपच्यर्थमिति संबन्धः । न हि कर्णादिशब्दनिर्देशम- न्तरेण कर्णादिसंनिहितानामवतंसादीनां शक्या प्रतिपत्तिः कर्तुमिति। यथा- 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम्।' 'लीलाचलच्छूव णकुण्ड लमापतन्ति।' 'आययुर्भृङ्गमुखराः शिरःशेखरशालिनः।'
धनुर्ज्याध्वनाविति। श्रुतिरत्र वाचकः शब्दः । स्पष्टमवशिष्टम्। धतु- ज्याकिणेति। ज्याशब्दमात्रप्रयोगे ज्याबन्धनेनापि करिणसंभवात् भवेदनौचि- त्यम्। तथा च प्रयोग:, 'ज्याबन्धनिष्पन्दभुजेन यक्य' इति।
उक्तन्यायमन्यत्रापि संचारयितुमाह-कर्णावतंसेत्यादि। उक्तार्था- नामपीति। अवतंसादिभिः कर्णाभरणादीन्येवोच्यन्त इति अवतंसादिप्रयोगे कर्णादीनां गतार्थत्वमित्यभिप्रायः । अन्वयं द्रढयितुं व्यतिरेकमाह- न हीति। 'कर्णावतंसाः कलयन्ति कम्पम्' 'लीलाचलच्छरवणकुण्डलमापतन्ति' इत्यत्र लीलाचलनक्रियायोगादारूढ प्रतिपत्तिर्भवत्येव। अतः 'अस्या: कर्णावतंसेन जितं सर्व विभूषणम्। तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम्' इत्याद्युदाहर्तेव्यम्। आययुरिति। स्पष्टार्थम् : धनुर्ज्यादिसूत्र एवैकत्र कर्णावतंसादीनामपि परिग- णने कर्तु शक्येऽपि प्रयोजनभेदं प्रतिपादयितुं सूत्रमेद: कृत इति द्रष्टव्यम्।
Page 81
अ. २.] कामधेनुसहिता। ६१
मुक्ताहारशब्द मुक्ताशब्दः शुद्धः॥१५॥ मुक्ताहारशब्दे मुक्ताशब्दो हारशब्देनैव गतार्थः प्रयुज्यत शुद्धे: प्रतिपत्यर्थमिति संबन्धः। मुक्तानां शुद्धानामन्यरत्नैरमिश्रितानां हारो मुक्ताहार:।
मुक्ताहारेण लसता हसतीव स्तनद्वयम्।।' पुष्पमालाशब्दे पुष्पपद्मुत्कर्षस्य ।। १६ ।। पुष्पमालाशब्दे मालाशब्देनैव गतार्थ पुष्पपदं प्रयुज्यते उत्कर्षस्य प्रतिपत्त्यर्थमिति। उत्क्रष्टानां पुष्पाणां माला पुष्पमालेति। यथा- 'प्रायशः पुष्पमालेव कन्या सा कं न लोभयेत्।' ननु मालाशब्दोऽन्यत्रापि दृष्यते; यथा-रत्नमाला, शब्दमालेति? स तावदुपचरितस्य प्रयोगः। निरुपपदो हि मालाशब्द: पुष्परचना- मुक्ताहारेत्यादि। सुबोधम्। ननु हसतीव स्तनद्वयमिति हासोत्प्रेक्षण- सामर्थ्यादेव हारस्य रत्नान्तरासंवलनलक्षणा शुद्धि: प्रतीयते, न मुक्ताशब्दसंनि- घानात्। अन्यथा हासोत्प्रेक्षैव नोदयमासादयेत्। अतो नेदमुदाहरणमिति चेत्, मैवम् ; हारशुद्धिप्रतिपत्त्या हासोत्प्रेक्षा हासोत्प्रेक्षया च हारशुद्धिप्रतिपत्तिरिति परस्पराश्रयप्रसङ्गात्। अतो मुक्ताशब्दसंनिधानांदव हारशुद्धिप्रतिपत्तिरिति भव - त्युदाहरणमिदम्। 'हारो मुक्तावली' इत्यभिधानादत्र हारशब्दो मुख्यया वृत्त्या रत्नान्तरासंवलितमुक्तागुणमभिधत्ते। अतः शुद्धः प्रतिपत्तिः शब्दत एव सिद्धेति यदि पक्षः, तदा पुष्पमालाशब्दे पुष्पपदवन्मुक्ताहारशब्देऽपि मुक्तापदं कस्यचिदु- त्कर्षस्य प्रतिपत्त्यै प्रयुज्यते। स चोत्कर्षः- त्रासादिदोषशून्यत्वम्, स्थूलवृत्त- त्वम्, सच्छतातिशयश्चेति व्याख्येयम् । पुष्पमालेत्यादि। स्पष्टार्थम्। ननु मालाशञ्दस्य रूपहंसमेघादिमालासु प्रयोगदर्शनात् तद्यावृत्ति: प्रयोजनं पुष्पपदस्व, न पुनरुक्तिरिति शक्कते- नन्विति। मालाशब्द: पुष्परचनायां मुख्यः, लाक्षणिकः पुनरन्यत्नेति वृत्तिभेदा- नायं दोष इति परिहरति- स तावदिति।
Page 82
६२ काव्यालंकारसूत्रवृत्ति: [अधि. २.
विशेषमेवाभिधत्त इति। करिकलभशब्दे करिशब्दस्ताद्ूप्यस्य॥१७॥ करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपच्यर्थमिति। करी प्रौढकुञ्जरः, तदूपः कलभः करिकलभ इति॥ यथा-'त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः।'
विशेषणस्य च ॥। १८ ॥
विशेषणस्य प्रतिपच्यर्थमुक्तार्थस्य पदस्य प्रयोगः । यथा -- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम्।' तदिदं प्रयुक्तेषु॥ १९ ॥
तदिदमुक्तं प्रयुक्तेषु, नामयुक्तेषु। न हि भवति-यथा श्रवणकुण्ड- लमिति, तथा नितम्बकाञ्चीत्यपि। यथा वा करिकलभ इति, तथा उष्ट्रकलभ इत्यपि।
करिकलभेत्यादि। व्यक्तार्थम्।
विशेषणस्येति। शब्दान्तरस्य संनिधानादुक्तार्थोऽपि विशेष्यशब्दः प्रयुज्यते; स च विशेषणस्य प्रतिपत्त्यै भवति। जगादेत्यनेन गतार्थस्य वाक्- छब्दस्य माधुर्यवर्णवैशद्यलक्षणप्रतिपत्त्यै प्रयोग इष्यत इति वाक्यार्थः। 'जगाद मधुरोदारविशदाक्षरमीश्वरः' इति विन्यासकल्पनायां विशेषणस्य प्रयोगः क्रिक्या- विशेषणत्वेऽप्युपपद्यते । अत. 'नीलनीरजविकासहारिणा कान्तमीक्षणयुगेन वीक्षते' इत्युदाहार्यम्। तदेतत्सार्थकत्वसमर्थनमभियुक्तप्रयुक्तपद निर्वाहाय, न सर्वत्रेति नियन्तु- माह-तदिदमिति। पयुक्तेषु, अभियुक्तैरिति शेषः। नापयुक्तेष्विति। तथोक्तं काव्यप्रकाशे, 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिषानादि- बोधार्थ स्ितेष्वेतत्समर्थनम् ॥' इति। अप्रयुक्तानि दर्शयति -- यथेति।
Page 83
अ. २.] कामधेनुसहिता। ६३
संशयक्कृत्संदिग्धम् ॥।२०।। यद्वाक्यं साधारणानां धर्माणां श्रुतेः, विशिष्टानां चाश्रुतेः संशयं करोति; तत् संशयकृत् सांदिग्धमिति। यथा- 'स महात्मा भाग्यवशान्महापदमुपागतः।'
किं भाग्यवशान्मडापदसुपागतः, आहोस्विदभाग्यवशान्महतीमा- पदमिति संशयकृत् वाक्यं पकरणाद्यभावे सतीति।
मायादिविकल्पितार्थमयुक्तम् ॥२१॥ मायादिना विकल्पितोऽर्थो यस्मिस्तन्मायादिविकल्पितार्थमयु- क्तम्। अस्तोकमुदाहरणम्।
क्रमहीनार्थेमपक्रमम् ॥ २२ ॥
इत्थमेकार्थ समर्थ्य, संदिग्धं समर्थयितुमाह-संशयकृत्संदिग्धमिति। व्याचष्टे -- यट्वाक्यमिति। विशिष्टानामिति। असाधारणानामित्यर्थः । उक्त- लक्षणमुदाहरणे योजयति -- किं भाग्यवशादिति। लक्षणं विशिनष्टि प्रक- रणादिति। अत्रादिपदेन संयोगादयो गृद्यन्ते । यथोक्तं हरिणा, 'संयोगो विप्र- योगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमाचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेष- स्मृतिहेतवः ॥।' इति।
अयुक्तं व्यक्तयितुमाह-मायादिविकल्पितार्थमयुक्तमिति। मायादिना कुशलमतिकुण्ठनपटिष्ठ कुहनादिना विकल्पितः विरुद्धतया कल्पितः अर्थो यस्मिं- स्तद्वाक्यमयुक्तं भवति। अस्तोकमुदाहरणमिति। विवृतं हि विदग्धमुखमण्डने, 'प्राहुर्व्यस्तं समस्तं च द्विर्व्यस्तं द्विःसमस्तकम्। तथा व्यस्तसमस्तं च द्विव्ये- स्तकसमस्तके ।I' इत्यादिना।
कमहीनार्थमपक्रममिति। प्रतियोगिप्रतिपत्तिपूर्वकत्वात् क्माभावप्रतिपत्ते:
Page 84
६४ काव्यालंकारसूत्रवृत्ति: [अधि. २.
उद्देशिनाम् अनूददेशिनां च क्रमः संबन्ध :; तेन हीनोऽर्यो यस्मि- न्, तत् क्रमहीनार्थेमपक्रमम्। यथा-'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।' अत्र कीर्तिश्चन्द्रमसस्तुल्या; प्रतापः सूर्यस्य तुल्यः । सूर्यर्स्य पूर्व- निपातादक्मः । अथवा प्रधानस्यार्थस्य प्रथमनिर्देशः क्रमः; तेन हीनोऽर्थो यस्मिन् तदपक्रमम्। यथा- 'तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम्।' देशकालस्वभावविरुद्धार्थानि लोकविरुद्धानि॥ २३ ॥
देशकालस्वभावैर्विरुद्धोऽर्यो येषु, तानि देशकालस्वभावविरुद्धा- र्थानि वाक्यानि लोकविरुद्धानि। अर्थद्वारेण लोकविरुद्धत्वं वाक्यानाम् । देशविरुद्धं यथा- सौवीरेष्वस्ति नगरी मधुरा नाम विश्रुता। आक्षोटनालिकेराढ्या यस्या: पर्यन्तभूमयः ॥' कालविरुद्धं यथा- 'कदम्बकुसुमस्मेरं मधौ वनमशोभत।' प्रथमतः क्रममेकं प्रथयितुमाह-उद्देशिनामिति। तेन हीनः तदभाववान् । उदाहरणमुज्ज्वलार्थम्। अन्यं क्रममभिधत्ते-अथचेति। प्रधानस्य अभ्य- र्हितस्येत्यर्थः। मातक्ं तुरं वा प्रयच्छेति वक्तव्ये व्युत्क्मेणोक्तं वाक्यमस्य कवेरनभिज्ञतामापादयतीति दुष्टम्। लोकविरुद्धं दर्शयतुमाह-देशकालस्वभावविरुद्धार्थानीति। अर्थद्वारे- णोति। विरुद्धार्थ प्रतिपाद कत्वाद्वाक्यानि विरुद्धानि व्यपदिश्यन्ते। क्रमेणोदाहरति- देशविरुद्धमिति । सौवीरेष्विति । आक्षोटाः शैलोत्पन्ना गुडफलवृक्षाः । 'पीलौ गुडफल. संसी तस्मिस्तु गिरिसंभवे । आक्षोटकन्दरालौ द्वौ' इत्यमरः । यमुनातीरवर्तिन्या मधुराया नगर्याः सौवीरेषु देशेष्वसंभवात् देशविरोधः । कदम्बेति। मधुर्वसन्तः । 'चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मघुशब्दः' इति
Page 85
अ. २.] कामधेनुसहिता। ६५
स्वभावविरुद्धं यथा-'मच्तालिमङ्खमुखरासु च मञ्जरीषु सप्त- चछदस्य तरतीव शरन्मुखश्रीः।' सप्तच्छदस्य स्तबका भवन्ति, न मञ्जर्य इति स्वभावविरुद्धम्। तथा- 'भृङ्गौघैः कलिकाकोशस्तथा भृशमपीड्यत। यथा गोष्पदपूरं हि ववर्ष बहुलं मधु ॥' कलिकायाः सर्वस्या मकरन्दस्यैतावद्धाहुल्यं स्वभावविरुद्धम्। कलाचतुर्वर्गशास्त्रविरुद्धार्थानि विद्या- विरुद्धानि ॥ २४॥
नानार्थरल्नमाला। प्रावृषि प्रसवोद्रमशालिनः कदम्बस्य वसन्ते प्रसूनप्रसक्जासं- भवात् कालविरोधः । मत्तालिमङ्खेति। मङ्ग: स्तुतिपाठकः। 'नान्दीकारश्राटु कारो मङ्कश्च स्तुतिपाठकः' इति वैजयन्ती। स्तबकाः गुच्छाः।'स्याद्रुच्छकस्तु स्तबकः' इत्यमरः । ते नाम स्तबकाः, पुष्पाणि पुञ्जीभूय यत्र वर्तन्ते। मञ्जर्यः वल्लर्यः। 'वल्लरी मञ्जरी स्त्रियाम्' इत्यमरः । यत्र आयामवती प्रसूनपरिपाटी, ता एव मञ्जर्यः । अतः सप्तच्छदस्य स्वभावतो गुच्छा एव, न तु मञ्जर्यः संभव- न्तीति खभावविरुद्धम्। भृङ्गौघैरिति। कलिका कोरकः । अनुद्धिन्नमुकुला कलिका कलिकाकोशः। तत्न गोष्पदपूरणपर्याप्तस्य मधुनोऽसंभवात् स्वभाव- विरुद्धम्। गोष्पदपूरमित्यत्र- गोः पदं प्रमाणतया अवच्छेदकमस्य वर्षस्ये- त्यस्मिन्नर्थे गोष्पदमिति भवति; 'गोष्पदं सेवितासेवितप्रमाणेषु' इति गोष्पदशब्दो निपातितः । गोष्पदं पूरयित्वा ववर्ष गोष्पदपूरं ववर्ष। 'वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्' इति णमुल्। लोकविरुद्धमपि क्चित्कविसमयप्रसिद्धेः प्राबल्यान्न दुष्टम् ; यथा- 'सुसितवसनालंकारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशक्का क नासि शुभप्रदः ।' इति। एवमन्यत्रापि लोक- यात्राकविमर्यादयोर्विप्रतिषेधे पूर्वदौर्बल्यमवगन्तव्यम्। विद्याविरुद्धानि विवरीतुमाह- कलाचतुर्वर्गेति। शास्त्रपदस्योभयत्र 9
Page 86
६६ काव्यालंकारसूत्रवृत्ति: [अधि. २.
कलाशास्त्रैश्रतुर्वर्गशास्तैश्र विरुद्धोऽर्थो येषु, तानि कलाचतुर्वर्गशा- स्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि। वाक्यानां विरोधोऽर्थ- द्वारक:। कलाशास्त्रविरुद्धं यथा- 'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकाग्रम्।' कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः; तद्विरुद्ध- त्वात् कलाशास्त्रविरुद्धम्। एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः । चतुर्वगेशास्त्रविरुद्धानि तूदाहियन्ते- 'कामोपभोगसाकल्यफलो राजां महीजयः ।' धर्मफलोऽश्मेघादियज्ञफलो वा राज्ञां महीजय इत्यागम :; तद्विरोघाद्धर्मशास्त्रविरुद्धमेतद्वाक्यमिति। संबन्धः। प्रतिपादस्य दुष्टत्वे प्रतिपादकमपि दुष्टं भवतीत्याह- वाक्याना- मिति। कलाशास्त्रविरुद्धमुदाहरति-कलाशास्त्रति। कालिङ्गमिति। कलिङ्रज- नेषु दष्टं पत्रं कालिज्गमित्युच्यते; तच्च पतितकोटिकण्टकाग्रतया लेखनीयम्। तत्रार्थे तच्छास्त्रफक्किकामाह-कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामा- म्राय इति। विरोधस्तु परिस्फुट एव। एवमिति। भरतकलाविरोधो यथा -- 'रणद्विराघट्टनया नभस्वतः' इत्यादावानुलोम्येन प्रातिलोम्येन वा नभस्वत्संचार- क्रमेण स्वरा उत्पद्यन्ते, न पुनर्वैचित्र्येणेति कुतो रागसंबन्धिनीनां मूर्च्छनानां स्फुटीभाव इत्यादि द्रष्टव्यम्। धर्मार्थकाममोक्षाः चतुर्वर्गः । 'त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकः' इत्यमरः । तत्प्रतिपादकशास्त्राणि चतुर्वर्गशास्त्राणि; तद्विरुद्धानि क्रमेणो- दाहतु प्रतिजानीते- चतुर्वर्गेति। तत्र धर्मशास्त्रविरुद्धमुदाहरति- कामोपभोगेति। तत्रागमवाक्यं दर्शयति- अश्वमेघादीति। महीजयस्थ राज्ञामश्वमेधादिफलत्वेन धर्मशास्त्रेऽभिधानात्, तद्रिरुद्धं कामोपभोगसाक- ल्यफलवाक्यम्। यथा वा- 'सदा स्नात्वा निशीथिन्यां सकलं वासरं दुघः। नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ।।' अत्र ग्होपरागं विना
Page 87
अ. २.] कामधेनुसहिता। ६७
'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया।' द्विषज्जयस्य नयमूलत्वं स्थितं दण्डनीतौ; तद्विरोध।दर्थशास्त्रवि- रुद्धं वाक्यमिति। 'दशनाङ्कपवित्रितोत्तरोष्ठं रतिखेदालसमाननं स्मरामि।' 'उत्तरोष्ठमन्तर्मुखं नयनान्तमिति मुक्त्वा चुम्बननखरदशनस्था- नानि' इति कामशास्त्रे स्थितम्; तद्विरोधात् कामशास्त्रविरुद्धार्थ वाक्य- मिति। 'देवताभक्तितो मुक्तिर्न तत्वज्ञानसंपदा।' एतस्यार्थस्य मोक्षशास्त्रे स्थितत्वात् तद्विरुद्धार्थम्।
एते वाक्यवाक्यार्थदोषास्त्यागाय ज्ञातव्याः । ये त्वऽन्ये शब्दा-
रात्रौ स्नानं धर्मशास्त्रविरुद्धम्, 'रात्रौ स्नानं न कुर्वीत राहोरन्यत्र दर्शनात्' इति स्मृतेः । अर्थशास्त्रमत्र दण्डनीतिः । यत्र पुनरर्थकामौ प्रधानम्, लोकया- त्रानुवृत्तिमात्राय धर्मः, सा दण्डनीतिः ; यस्या भगवान् बृहस्पतिः प्रवक्ता । तद्विरुद्धमुदाहरति- अहंकारेणेति। विरोधं विवृणोति -- द्विषज्जयस्येति । तत् कामशास्त्रम्, यत्र त्रिवर्गस्य परस्परानुपरोधादुपयोगोपदेशः; यस्य भगवान् भार्गवः प्रणेता। कामशास्त्रविरुद्धं दशयति -- दशनेति। विरोधं विवेचयति- उत्तरोष्ठमिति। उक्तं हि रतिरहस्ये, 'अङ्गुष्ठे पदगुल्फजानुजघने-' इत्यादि। मोक्षशास्त्रविरुद्धमुदाहरति-देवताभक्तित इति। विरोधं व्युत्पादयति -- एतस्येति। 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुर- र्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते॥' इत्युक्तनीत्या या ज्ञानलक्षणा भक्तिः, सात्र न विवक्षिता; किंत्वार्तत्वादि- प्रयुक्ता त्रिरूपा। ज्ञानरूपायास्तु भक्तेर्मोक्षो भवत्येव। तदुक्तं तत्रैव- 'ज्ञानी त्वात्मैव मे मतम् ।' इति। अतः 'न तत्त्वज्ञानसंपदा' इत्येतत् 'ज्ञानादेव तु कैवल्यम्' इत्यादिमोक्षशास्त्रविरुद्धम् ।
प्रतिपादितानाममीषां दोषाणां परिज्ञानस्व फलमाह-एत इति।
Page 88
६८ काव्यालंकारसूत्रवृत्ति: [अधि. २.
र्यदोषा: सूक्ष्मा:, ते गुणविवेचने वक्ष्यन्ते; उपमादोषाश्चोपमाविचार इति। इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने द्वितीये Sधिकरणे द्वितीयोऽध्यायः।
समाप्तं चेदं दोषदर्शनं द्वितीयमधिकरणम्।
ये त्वन्य इति। सुक्ष्माः काव्यसौन्दर्याक्षेपानतिक्षमाः।'ओजोविपर्ययात्मा दोषः' इत्यारभ्य तदुदाहरणप्रत्युदाहरणाभ्यां वक्ष्यन्ते; ते गुणविवेचने यथा- यथमवबोध्याः। यद्येवं तार्है स्थूलत्वादुपमादोषा दोषविवेचने विविच्यन्ता- मित्यत आह-उपमादोषश्रेति। उपमाविचारे तद्दोषविचारणं प्रतिपत्तिसौ- कर्याय भवतीति भावः ।
इति कृतरचनायामिन्दुवंशोद्दहेन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीत्पूर्तिमेतद्द्वितीयम्॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति- व्याख्यायां काव्यालकारकामधेनौ दोषदर्शन नाम द्वितीयमधिकरणम्॥
Page 89
तृतीयमधिकरणम्॥
यद्विपर्ययात्मानो दोषाः, तान्गुणान्विचारयितुं गुणविवेचनमधि- करणमारभ्यते। तत्रौजःपरसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थिति: काव्यविदाम्। तेषां किं भेदनिबन्धनमित्यत्ाह- काव्यशेभायाः कर्तारो धर्मा गुणाः ॥ १॥ ये खलु शब्दार्थयोर्घर्माः काव्यशोभां कुर्वन्ति, ते गुणाः; ते चौ- जःमसादादयः, न यमकोपमादयः, कैवल्ये तेषामकाव्यशोभाकरत्वाद्।
देव्या: कृतिषु दीव्यन्त्या वाचां वैचित्र्यकारिणीम्। चेतोहरचमत्कारां प्रस्तौमि गुणविस्तृतिम् ॥१॥ उक्तवक्तव्य संगतिमुल्लिक्कयति -- यद्विपर्ययात्मानो दोषा इति। निर्वृ- ते दोषनिरूपणे तत्प्रतिभटानां गुणानां निरूपणं लब्धावसरमिति संगति । गुणा अलंकारेभ्यो विविच्यन्ते, ते च परस्परं विविच्यन्ते विभज्यन्तेऽस्मिन्निति गुणविवे- चनं नामाधिकरणमारभ्यते। 'काव्यशोभाकरान् धर्मानलंकारान्प्रचक्षते । काश्चि- न्मार्गविभागार्थमुक्ता: प्रागप्यलंक्रियाः ॥' इति दण्डिमतं खण्डायेतुं गुणालंकार- भेदं दर्शयिष्यन्, पीठिकां प्रतिष्ठापयति -- तत्नेति। काव्यविदां कविकर्ममर्म- विदाम् ओज:प्रसादादीनां गुणा इति. यमकोपमादीनामलंकारा इति च विभिन्न- व्यवहारविषयत्वं व्यवस्थितमित्यर्थः। प्रश्नपूर्वकमुत्तरसूत्रं प्रसञ्जयति- तेषा- मिति। तेषां गुणालंकाराणां भेदस्व किं निबन्धनं कारणमिति प्रश्नः । व्या- चष्टे-ये खल्विति। गुणा वस्तुतो रीतिनिष्ठा अपि उपचाराच्छब्दधर्मा इत्युक्तम्। एतच्च गुणोद्देशसूत्रे कुशलमुपपादयिष्यामः । गुणशब्दप्रवृत्तिनिमित्त- मयोगान्ययोगव्यवच्छेदाभ्यां परिच्छेत्तुं प्रक्रमते-ते चेति। अन्ययोगव्यव- च्छेदं तावदाख्याति- कैवल्य इति। तेषामलंकाराणां कैवल्ये गुणसाह चर्या - भावे काव्यशोभाकलनाक्षमत्वादित्यर्थः । अयोगं व्यवच्छिनति -- ओज :-
Page 90
७० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
ओज:पसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति॥
तदतिशयहेतवस्त्वलंकाराः ।। २।।
तस्या: काव्यशोभाया अतिशयः तदतिशयः, तस्य हेतवः । तु- शब्दो व्यतिरेके। अलंकाराश्च यमकोपमादयः। अत्र श्षोकौ- 'युवनेरिव रूपमङ्ग काव्यं सवदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः॥ यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते।।' पूर्वे नित्याः ॥ ३ ॥ प्रसादादीनां त्विति। केवलानाम् अलंकारासहचरितानाम्। अस्त्येवेति संबन्धः । अलंकारपद प्रवृत्तिनिमित्तमावेदायेतुमाह-तदनिशयहेतव इति। जडबु द्विषु जातानुग्रहो विग्रहमाह-तस्या इति। तुशब्द इति। व्यतिरेके भेदः । 'तुः स्याद्भेदेऽवधारणे' इत्यमरः । अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तसंवादेन द्रढयति-अत्र श्लो काविति। शुद्धा: अलंकारासंकलिता गुणा ओजःप्रसादादयो लावण्यादयश्र यस्य तत्। गुणमात्रविशिष्टमपि काव्यं युवते रूपमिव । स्वदते रोचते रसिके भ्य इति शेष। निरन्तराभिः निबिडाभिः । अलंकाराः यमकोपमादयः कटकाद यश्च, तेषां विकल्पाः विच्छित्तयः, तेषां कल्पनाभिः रचनाभिः। विहितप्रण रचितानुबन्धं सत् काव्यं युवते रूपमिव अतीवातिमात्रं स्वदते इत्यन्वयमुक्त व्यतिरेकमाह-यदीति। वच: काव्यात्मकं गुणेभ्यश्च्युतं यदि, तद्वचो यौव वन्ध्यं लावण्यशून्यम् अङ्गनाया वपुरिव भवति। तदा जनदयितान्यपि लोव प्रियाण्यपि अलंकरणानि नियतमवश्यं दुर्भगत्वं सौन्दर्यवैधुर्यादनादरणीयत्वं सं: यन्ते इति श्लोकद्वयार्थः ।
Page 91
अ. २.] कामधेनुसहिता। ७
पूर्वे गुणा नित्याः, तैर्विना काव्यशोभानुपपत्तेः। एवं गुणालंकाराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह-
दारतार्थव्यक्तिकान्तयो बन्धगुणाः ।।४ ।।
बन्धः पदरचना, तस्य गुणाः बन्धगुणाः ओजःप्रभृतयः।
'विरुद्धघर्माध्यासो भावं भिन्द्ात्' इति न्यायेन नित्यत्वानित्यत्वाभ्यामपि गुणालंकारभेदः सिद्ध इति दर्शयितुमाह-पूर्वे नित्या इति। पूर्वे गुणा नित्या इत्युक्ते अन्ये पुनरलंकारा अनित्या इति गम्यत एव। गुणानां नित्यत्वे हेतुः - तैर्विनेति। गुणान्वयव्यतिरेकानुविधायित्वात् काव्यशोभाया इत्यर्थः ।
एवमभेदमतं खण्डितम्। अथोक्तानुवादपूर्वकमुद्देशसूत्रमुदीरयति- एव- मिति। शब्दगुणेति। शब्दनिष्ठा गुणा: शब्दगुणाः । वस्तुतो रीतिधर्मत्वेऽपि गुणानामात्मलाभस्य शब्दार्थाधीनत्वात् तस्य निरूप्यत्वाच्च शब्दार्थघर्मत्वमुपचा- रादुक्तम्। अथेदानीं मुख्यया वृत्त्या रीतिघर्मत्वमिति आत्मसिद्धान्तमाविष्कुर्वन् सौत्रं पदं व्याकरोति-बन्धः पदरचना, तस्य गुणा इति। न तु शब्दा- र्थयोरिति शेषः । एवं च सति उपक्रमोपसंहारलिङ्गैराचार्यतात्पर्यपर्यालोचनाया- मात्मभूतरीतिनिष्ठा गुणाः, तच्छरीरभूतशब्दार्थनिष्ठाः पुनरलंकारा इति निश्चीयते। अतो मन्यामहे- गुणत्वादोजःप्रभृतीनामात्मनि समवायवृत्त्या स्थितिः, अलं- कारत्वाद्यमकोपमादीनां शरीरे संयोगवृत्त्या स्थितिरिति ग्रन्थकारस्याभिमतम्- इति। न ह्यविपश्चिदपि कश्चिदभिजानीयादभिवदेद्वा -- गुणानामात्मनि रीता- विव, अलंकाराणां शरीरभूते शब्दार्थयुगले समवायवृत्त्या स्थितिरिति। एवं च गुणालंकाराणामुभयेषामपि समवायवृत्त्या स्थितिरित्यभिमन्यमानैः, 'भेदाभि- धानं 'गण्डुरिकाप्रवाहनयेन' इति यदुक्तम्, तन्निरस्तम्। किंच, 'रीतिरात्मा
- गड्डलिकेति पाठान्तरम्। 'गड्डलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छ- ति। इतरास्तु विनैव निमित्तविचारं तामनुगच्छन्ति। तथा केनाप्यालंकारिकेण गुणालंकारौ
Page 92
७२ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
काव्यस्य' इति शब्दार्थयुगलकाव्यशरीरस्य रीतिमात्मानसुपपाद्य, 'विशिष्टा पदरचना रीतिः' इति रीति लक्षयित्वा, 'विशेषो गुणात्मा' इति गुणमात्रस्यै- वात्मभूतरीतिनिष्ठत्वे प्रतिष्ठापिते यमकोपमादीनामलंकाराणां तच्छरीरभूतशब्दा- र्थनिष्ठत्वमर्थात्समर्थितं भवति। अत एवौजःप्रसादादीनां गुणत्वं यमकोपमादी- नामलंकारत्वमिति च व्यपदेशभेदोऽप्युपपद्यते। एवंच सति 'पूर्वे नित्याः' इति सूत्रे गुणानां नित्यत्वम् अलंकाराणाम् अनित्यत्वमासूत्रयता सूत्रकृता गुणानां काव्यव्यवहारप्रयोजकत्वमुक्तं भवति। यथा च परमते व्यङ्गयस्य प्राधान्ये ध्वनिरुत्तमं काव्यम्, गुणभावे गुणीभूतव्यङ्गयं मध्यमं काव्यम्, संभावनामात्ने चित्रमवरं काव्यमिति काव्यभेदाः कथिताः ; तथात्रापि गुणसामग्रचे वैदर्भी, अविरोधिगुणान्तरानिरोधेन ओजःकान्तिभूयिष्ठत्वे गौडीया, माधुर्यसौकुमार्यप्रा- चुर्ये पाश्चालीति काव्यभेदाः कथ्यन्ते। रीतिध्वनिवादमतयोरियांस्तु भेद :- तत्न प्रथमे रीतिरात्मा काव्यस्य; तद्व्यवहारप्रयोजका गुणाः। चरमे तु ध्वनिरात्मा; स एव तद्वयवहारप्रयोजक इति। उभयत्राप्यात्मनिष्ठा गुणाः । शब्दार्थयुगलं शरररिम् ; तन्निष्ठा अलक्कारा इति च सर्वमविशिष्टम्। ततश्च 'किं समस्तैर्गुणैः काव्यव्यवहारः? उत कतिपयैः? यदि समस्तैस्तत्; कथमसमस्तगुणा गौडीया पाञ्चाली वा रीतिः काव्यस्यात्मा। अथ कतिपयेः; 'अद्रावत्र प्रज्वलत्यमिरुच्चैः प्राज्य: प्रोद्यननुल्लसत्येष धूमः' इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहार- प्राप्तिः ।'सवर्गप्राप्तिरनेनैव देहेन वरवर्णिनि। अस्या रदच्छदरसो न्यक्वरोतितरां सुषाम्' इत्यादौ गुणनैरपेक्ष्येण विशेषोक्तिव्यतिरेकालक्कारयोरेव काव्यव्यवहार- प्रयोजकत्वं च दृश्यते' इति स्वसंकल्पमात्रकल्पितविकल्पानां नावश्यमवकाशं पश्यामः। अथापि यदि पाण्डित्यकण्डूलवैतण्डिकचण्डिम्ना चिखण्डयिषा परस्य, तर्हि खमतं पृष्टः स्वयमेवाचष्टाम्; 'तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः कापि' इति काव्यसामान्यलक्षणे शब्दार्थयोर्गुणसाहित्यमिष्यते। 'काव्यस्यात्मा रसः' इति चोच्यते। तत्र किं गुणसमष्टिविशिष्टं काव्यम्ः तद्वघष्टिवि-
केनचिदभिप्रायेण भिन्नतयोकौ। इतरे तु हेतुविचारं विनैव तदनुसारेण तद्भेदं वदन्तीति' तस्पा- भिप्रायः । 'गड्डरिका अज्ञातप्रवाहागमस्थानो धारावाहिकाप्रवृत्तो नदीविशेष इति केचित्। मेषयूयैरनुगम्यमाना भेषीत्यन्ये। तन्न्यायेन भ्रान्तपरम्परयैव भेदो व्यवहियते' इति तु चक्र- वर्तिप्रमृतयः।
Page 93
अ. १.] कामधेनुसहिता। ७३
; तान् क्रमेण दर्शयितुमाइ- गाढबन्धत्वमोजः ॥। ५।। बन्धस्य गाढत्वं यत्, तत् ओजः । यथा -- 'विलुलितमकरन्दा मञ्जरीनर्तयन्ति' । न पुनः 'विलु- लितमधुधारा मञ्जरीर्लोलयन्ति।' शैथिल्यं प्रसादः ॥६ ॥ बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः। नन्वयमोजोविपर्ययात्मा दोष:, तत् कथं गुण इत्यत आह- गुणः संप्लवात् ॥७॥
शिष्टं वा: नाद्यो निरवद्यः, एकैकगुणोदाहरणेषु काव्यत्वाभावप्रसङ्गात् गुणस- मष्टिवैशिष्टचाभावात्। न द्वितीयः, वस्त्वलंकारध्वनिषु गुणिनो रसस्याभावेन गुणस्यैबाभावात्। किंच, किं सर्वे रसा: संभूय काव्यात्मीभवन्ति उत एको रस:१ आद्ये न कुत्रापि काव्यात्मसंभावना, विरोघिरसानामैकाधिकरण्यासंभवात्। द्वितीये वस्त्वलंकारध्वनिषु रसासंभवात् आत्मविधुरेषु काव्यव्यवहाराभावप्रसङ्ज इत्यलं परमतदोषोद्धाटनपाटवप्रकटनेन। प्रकृतमनुसरामः । उद्देशकमादमीषां गुणानामसाधारणधर्मानाख्यातुमारभते-तान् क्रमेणे- ति। बन्घस्य पदरचनायाः गाढत्वं कनकशलाकावयवघटनवान्निबिडत्वम्। तत्र हेतव :- संयुक्ताक्षरत्वम्, निरन्तररेफशिरस्कैर्वर्गाणां प्रथमद्वितीयैस्वृतीयचतुर्यैः प्रथमैस्तृतीयैश्च संयोगाः, विसर्जनीयजिहामूलीयोपध्मानीयाः, गुर्वन्तता, समासा- ञ्र, इत्येवमादयस्तरतमभावेनावस्थिताः । तत्रोदाहरणप्रत्युदाहरणे दर्शयति- यथेति। उभयत्न गाढत्वशैथिल्ये स्फुटे। शैथिल्यमिति । अस्य वृत्ति: स्पष्टार्था । शिथिलत्वमोजोगुणविपर्ययरूपम्। तदात्मकत्वे प्रसादस्य दोषत्वमेव स्या- दिति परशङ्कां प्रस्तुत्य तां पराकर्तुमनन्तरसूत्रमवतारयति- नन्विति। संप्लवो 10
Page 94
७४ [अधि. ₹.
गुणः प्रसाद:, ओजसा सह संस्नवाद्। शुद्स्तु दोष स्देति। नतु विरुद्धयोरोज:प्रसादयो. कथ संपुव इत्यत्राह- स त्वनुभवसिद्धः ॥८। स तु संपुवस्तु अनुभवसिद्ध: तद्विदां रनादिविशेषवद्। अत्र श्षोक :- 'करुणप्रेक्षणीयेषु संप्ुवः सुखदुः्खयोः। यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः॥' साम्योत्कर्षो च ।। ९॥ साम्यमुत्कर्षश्रौजःप्रसादयोरतुभवादेव। साम्यं यथा- 'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपातिककुद दत्वा यूने सितातपवारणम्।' मेलनम्। प्रसावो गुणो भवत्येव, ओजसा गुणेन सह संल्लवात्। तदमिअं तु शैमिस्मं दोष एवेत्याह- शुद्धस्तिवति।
संभवतीति शष्टामनूदयानम्तरसूत्रेणापवदितुमाह-नन्विति। व्वाचष्ट-स तु संप्कन इति। रत्नविशेषवत्परीक्षानुभवसाक्षिक इत्वर्थः । विरुद्धयोरपि कजित्सप्तवः संभवतीत्यभियुक्तोक्तिमभिदर्शयति-करु- ेति। यानि करुणानि कारण्यावहानि यानि मनोज्ञानि व वस्तूनि, तेषु युगपद- नुजूयमानेषु समसममसमुत्पनयोः सुलदुःखयोः संप्लवो यथा अनुमवतः स्वसं- वेदनात् सिद्ध:, तथा ओोज:प्रसादयोरपि संप्ठवः स्वसंवित्सवेद्यतया सिद्ध इति छोकार्थः । अत्र ओजःप्रसादयोः साम्ये पर्यायतः प्रकर्षे च प्रसादलिपकारो भवति। से य प्रकार अध्यमुभवनम्या इति दर्शनितुनाइ-साम्योत्कर्मौ चेति। वरेन त्रिवियं प्रसादमुवाहत्य दर्सवति- साम्बे यथेति। 'विश्यव्याृता-
Page 95
अ. १.] कामयेनुसडिता। ७५
कचिदोन: पसादादुत्कृष्टम्। यथा- 'व्रनति मनमं भल्लात- क्या: फलेन सहोपमाम्।' कचिदोजसः प्रसादस्योत्कर्षः । यथा- 'कुसुमश्षयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वोद्ीणं न वा मणियशृय:।'
मसृणत्वं श््ेषः ।। १० ।। मसृणत्वं नाम तत्, यस्मिन् सति बहून्यपि पदान्येकवन्ासन्ते। यथा-'अस्त्युचरस्यां दिशि देवतात्मा हिमाल्यो नाम नगा- घिराज: ।' न पुनः 'सूत्रं ब्राह्ममुरःस्थले।' 'भ्रमरीवल्गुगीतयः।' 'तटि- त्कलिलमाकाशम्' इति। एवं तु श्लेषो भवति 'ब्राहमं सूत्रमुरःस्थले।' 'भ्रमरीमञ्जुगीतयः ।' 'तटिज्जटिलमाकाशम्।' इति। मार्गाभेद: समता ॥ ११ ॥ त्मा-' इत्यादावोजः, 'यथाविधि सूनवे' इत्यादौ प्रसादः। भिन्नदेशयोरप्योग :- प्रसादयो: परस्परच्छायानुकारितया संप्लवः । उभयोरत्र साम्यं वेदिवव्बम्। ओजसः प्रसादादुत्कर्षमुदाहरति-व्रजतीति। भल्लातकी नाम वीरवृक्षः।'वीरवृ- क्षोऽरुष्करोऽभिमुखी भल्लातकी त्रिप्ठु' इत्यमरः । 'कुसुमशयनम्' इत्यत्र प्रसा- दस्योत्कर्षो द्रष्टव्यः । श्रेषं विशदयित्रुमाह- मसणत्वं श्षेष हवि। मसणत्वं विश्विष्य दर्श- यति-पस्मिभिति। यत्र हि व्यासेऽपि समासनववभास: स श्रेष्ः। 'शसत्ु- सरस्याम्' इति सामान्येनोदाहरणमुकत्वा क्ेपस्य व्यतिरेकमुसेनान्नयमाविष्क रोवि-न पुनरिति। 'सूनं नाहमुरःस्थले,' 'अमरीयल्गुमीतम:,' तविल- लिळमाकाश्म्' हत्यत्र श्लेष: पुनर्नास्तीति संबन्धः। सूत्रं नशमित्यन्न मास- वर्णेश्री पर्माक्षरोत्णानान केप: । चर्हि कीडश्षि बिन्मासे ऐेसे भवतीत्यत नार- एवं स्विचि। अस्य गुणस्य विधर्यको विसन्धेर्वाक्यदोस्य निश्षेमालमा भेक:।
Page 96
७६ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
मार्गस्य अभेद: मार्गाभेद: समता। येन मार्गेणोपक्रमः, तस्य अत्याग इत्यर्थ:, श्रोके परबन्धे चेति। पूर्वोक्तमुदाहरणम्। विपर्ययस्तु यथा- 'पसीद चाण्डि ! त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः। किमर्थमुत्कम्पितपीवरस्तन- दयं त्वया लुप्तविलासमास्यते।।' आरोहावरोहक्रमः समाधिः ॥ १२ ॥ आरोहवरोहयोः क्रम आरोहावरोहक्मः समाधिः परिहारः। आरोहस्यावरोडे सति परिहारः, अवरोहस्य वा आरोहे सतीति। तत्रारोहपूर्वकोऽवरोहो यथा- 'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे।' अवरोहपूर्वकस्त्वारोहो यथा-'नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः।' समतेत्यर्थः । तस्या विषयं दर्शयति- श्चोके प्रबन्धे चेति। किमत्नोदाहर- णमिति चेदाह- पूर्वोक्तमिति। अस्त्युत्तरस्यामित्यादि। प्रत्युदाहरणमाह- विपर्ययस्त्विति। प्रसीद त्यजेति कर्तृवाचितया प्रक्रान्तस्य मार्गस् आस्यत इत्यत्र त्यागान्न समता। पश्चमं गुणं प्रपश्चयितुमाह-आरोहावरोहक्रम इति। अत्र स्वा- भिमतं तावदेकम्थै लक्षणवाक्यस्य समर्थेयते- समाधिः परिहार इति। अव- रोहे प्रवर्तमाने सत्यारोहस्य प्रवृत्तस्य परिहारः परित्यागः; आारोहे च सत्यवरोहस्य परिहारः; आरोहावरोहयोर्विरुद्धत्वेन यौगपद्यासंभवादिति भावः। दीर्घादिगुर्व- क्षरप्राचुर्ये आरोहः। लध्वादिशिथिलप्रायत्वे चावरोह इति द्रष्टव्यम्। तथा च आरोहपूर्वकोऽवरोहः, कचिदवरोहपूर्वक आरोह इति समाधेर्द्वैविध्यमुक्त भवति। तत्राद्यमुदाहरति-आरोहपूर्वक इति। 'निरानन्दः कौन्दे' इत्यत्र गुर्वक्षरबाडुल्या- दारोहः। मधुनीत्यत्र लध्वक्षरप्राचुयादवरोहः। द्वितीयमुदाहरति-अवरोइपूर्वक
Page 97
अ. १.] कामघेनुसहिता। ७७
आरोहस्य क्रमः अवरोहस्य च क्रमः, आरोहावरोहक्रमः ; क्रमे- णारोहणमवरोहणं चेति केचित्। यथा-'निवेश: स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति।' न पृथगारोहावरोहयोरोजःप्रसाद- रूपत्वात् ॥ १३ ॥ न पृथक् समाधिर्गुण:, आरोहदावरोहयोरोजःपसादरूपत्वात्। ओजोरूपश्चारोहः, प्रसादरूपश्चावरोह इति। नासंपृक्तत्वात्॥ १४ ॥ यदुक्तमोजःपसादरूपत्वमारोह्ावरोहयोः, तन्न; असंपृक्तत्वात्। संपृक्तौ खल्वोज:प्रसादौ नदीवेणिकावद्दहतः। अनैकान्त्याच्च ॥ १५॥ न चायमेकान्तः नियमः ; यदोजस्यारोहः ; प्रसादे चावरोह इति। इति। नरा इत्यत्र शैथिल्यादवरोहः । शीलभ्रष्टा इत्यत्र गुर्वक्षरप्रचुरत्वादारोहः।
इति। निःश्रेणिकारोहावरोहन्यायेन क्रमेणारोहणम्, क्रमेण चावरोहणमिति लक्ष- णवाक्यार्थः । उदाहरति-निदेश इति। 'निवेशः सःसिन्धोः' इत्यत्र निःश्रेणि- काक्रमेणारोहः। 'तुहिनगिरि-' इत्यत्रावरोहः। ननु लक्षणवाक्यार्थपर्यालोचनया समाघेरोज:प्रसादानतिरेकान्न पृथक्त्व- मिति शङ्कामङ्कुरयितुमुत्तरसूत्रमुपक्षिपति- न पृथगिति। व्याचष्टे- न पृथक् समाधिरिति। आरोहावरोहावोज:प्रसादरूपौ न भवतः, असंपृक्तत्वात्। अतः परस्पर- च्छायानुकारितया संपृक्तयोरोज:प्रसादयोरन समाधिरन्तर्भवतीत्यभिसंधाय सिद्धा- न्तसूत्रं व्याचष्टे -- यदुक्तमिति। संपृक्तत्वं सदष्टान्तमुपपादयति-संपृक्तौ ख- ल्विति। संपृक्तसरिद्यसलिलन्यायेन संपृक्तावोज:प्रसादाविति तद्विलक्षणयोरारो-
Page 98
७८ काव्यालंकारसूत्रवृत्ति: [अचि. २.
ओज:प्रसादयोस्तीव्रावस्था ताविति चेदभ्युपगम: ॥ १६ ॥ ओज:प्रसादयोः क्वचित्तीव्रावस्था। सा च आरोहावरोहाख्येत्येवं चेन्मन्यसे; अभ्युषगम: न विमविपचि:। विशेषापेक्षित्वात्तयो:।।१७। स विशेषो गुणान्तरमेव। ननु न केवलं नदीद्वयवेणिकान्यायेनौजःप्रसादयोः साम्येनावस्थितिः, किंतु 'साम्योत्कर्षो च' इत्युक्तत्वात्समुद्गकस्थमणिप्भासमूहन्यायादुच्चाव चभावेन स्थितिः। तस्मिन् पक्षे कथमयं समाधिः पृथग्गुण इति शक्ामपनेतुमाह- अनैकान्त्याच्चेति। ओजःप्रसादयोरारोहावरोहसाह चर्यनियमो न संभवति, व्य- भिचारात्। व्यभिचारस्तु, 'उदगच्छदच्छसुभगच्छविगुच्छकच्छम्' इत्यादौ, 'यता यतो निवर्तते ततस्ततो विमुच्यते' इत्यादौ च आरोहशून्यस्यौजसः, अव- रोहशून्यस्य प्रसादस्य च स्थितत्वादित्यभिप्रायः । नन्वारोहावरोहावोज:प्रसादयोरवस्थाविशेषौ स्याताम्; अतो न पृथक् समाधिरिति यदि चोद्ेत, तर्हि समाघेर्दत्ो हस्तावलम्ब इति दर्शयितुमनन्तरसूत्र- मवतास्यति -- ओज:प्रसादयोस्तीव्रावस्था नाविति। शङ्कांशं संकलय्य द- र्शयति -- ओजःप्रसादयोः कचिदिति। सा चेति। सा च तीव्रावस्था। आ- रोहावरोहाख्येति। कारणे कार्यत्वमुपचर्योक्तम् ; यद्वक्ष्यति- 'विशेषापेक्षि- त्वाद्' इति, 'आरोहावरोहनिमित्तम्' इति च। अनुपचारे तु 'विशेषरूपत्वात्' इति, 'आरोहावरोहौ' इति च ब्रूयात्। ओजःप्रसादयोस्तीव्रावस्था आरोहावरोह- यो: कारणमित्यर्थः । अनिष्टमापादयन् भवानभीष्टमेवाचष्टे इत्याह-अभ्युपम- म इति। परोक्स्याभ्युपगमे पर्यबसितमर्थ समर्थितुमाह-विशेषेति । विशेषः तीवावस्थात्मा, तमपेक्षितुं श्ीळमनयोरिति विशेषापेक्षिणौ वयोर्भावस्तत्वं तरमाद्।
मोज:प्रसादव्यतिरेकेण समाधिस्न्यो गुण इति सुनार्थः।
Page 99
अ. १.] ७९
आरोहावरोहनिमिनं समाधिराख्यायते ॥। १८॥ आरोद्दवरोइक्रमः समाधिरिति गौण्या वृत्या व्याख्येयम्। क्रमविधानार्थ वा ॥ १९॥ पृथक्करणमिति। पाठघर्मश्र न संभवतीति 'न पाठधर्माः सर्व- त्रादृष्टेः' इत्येवं वक्ष्यामः। पृथक्पदत्वं माधुर्यम्॥ २० । बन्धस्य पृथक्पदत्वं यद्, तत् माधुर्यम्। पृथक् पदानि यस्य स पृथक्पद:, तस्य भावः पृथक्पदत्वम्। समासदैर्ध्यनिवृत्तिपरं चैतद्। पूर्वोक्तमुदाइरणम्। विपर्ययस्तु यथा- 'चलितशबरसेनादत्तगोभृङ्गचण्डध्वनिचकि- तवराइव्याकुला बिन्ध्यपादाः ।' नन्वमुमर्थमभिधातुं समाघिलक्षणवाक्यं न क्षमत इत्याशङ्क्य गौणवृत्ति- राश्रयणीयेत्याह-आरोहावरोहेति। क्रमपदेन तबिमियं लक्ष्यत इत्यर्थः । ननु अवस्था पुनरवस्थावतो यदा न भिद्यते, तदा तीव्रावस्था ओजःप्र- सादात्मिकैव भवति। यद्यपि यद्यत् ओजः, तत्तत् आरोह इति नास्ति नियमः; तथापि यो य आरोहः, तत्तत् ओज इति भवति। ततः सत्यं न समाधिना प्रसाद: खीक्रियते, पसादेन च समाधिः संग्रृह्यत एकेति किमर्थमस्योपादानमि- त्यत आह-क्रमविधानार्थ वेति। नात्र कमः परस्परम्; अपि तु क्रमेणा- रोहणं क्रमेणावरोहणमित्येवंरूपः क्रमो ज्ञेयः । नन्वारोहावरोहक्रमः पाठमर्मः कि न स्यादिति चोधं वक्ष्यमाणयुक्त्या विघटितमित्याह-पाठधर्मश्रेति। माघुर्यमवधारयितुमाह- पृथक्पदत्वमिति। सूत्रार्थ विविज्े-क्प्- स्येति। अव्यापतिं परिहरति-समासदै्ध्यनिव्ृत्तिपरमिति। पूर्योक्तमिति। 'मसत्युत्तरस्वान्' इत्याघुदाहरणम्। प्रत्युदाहरणमाह-विषर्ययस्त्विति। समासपददैर्घ्यात् विपर्बदः। दसं धृतम्।
Page 100
८० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अजरठत्वं सौकुमार्यम् ॥ २१॥ बन्धस्य अजरठत्वम् अपारुष्यं यत्, तत् सौकुमार्यम्। पूर्वो- क्तमुदाहरणम्। विपर्ययस्तु यथा- 'निदानं निर्दैतं ियजनसदक्त्वव्यवसितिः सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि।' विकटत्वमुदारता ॥ २२ ॥ बन्धस्य विकटत्वं यत्, असौ उदारता। यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति, तत् विकटत्वम्, लीलायमान- त्वभित्यर्थः । यथा- 'स्वचरणविनिविष्टैर्नूपुरैनर्तकीनां झणिति रणितमा- सीत्तत्र चित्रं कलं च।' न पुनः- 'चरणकमललमनैर्नूपुरैनर्तकीनां झटिति रणितमासी- न्मञ्जु चित्रं च तत्र।' अर्थव्यक्तिहेतुत्वमर्थव्यक्ति: ॥ २३ ॥ यत्र झटित्यर्थप्रतिपत्तिहेतुत्वम्, स गुणः अर्थव्यक्तिरिति। पूर्वो- क्तमुदाइरणम्। प्रत्युदाहरणं तु भूयः सुलभं च। सौकुमार्य पर्यालोचयितुमाह-अजरठत्वं सौकुमार्यमिति। बन्धस्य अजरठत्वं कोमलत्वम्, श्रुतिसुखत्वमिति यावत्। पूर्वोक्तमिति। 'अस्त्युत्तरस्याम्' इत्याद्युदाहरणम्। प्रत्युदाहरणमाह-विपर्ययस्त्विति। सौकुमार्यस्य विपर्ययः कष्टत्वभिन्नवृत्तत्वे। निर्द्वैतं संशयाभावः । अत्र निर्द्वैतमिति कष्टम्। उदारतामुदीरयितुमाह-विकटत्वमिति। क्रमशो वर्षमानाक्षरपदत्वम्, पदप्रथमाद्यक्षराणां पदान्तरप्रथमाद्यक्षरैः सादृश्यं च। उदाहरणप्रत्युदाहरणे दर्श- यति- यथेति। अर्थव्यक्ति समर्थयितुमाह-अर्थव्यक्तीति। वृत्तिः स्पष्टार्था। पूर्वोक्तम् 'अस्त्युत्तरस्याम्' इति। सुलभं चेति। 'सपदि पक्किविहञ्जमनाम' इत्यादि।
Page 101
अ. १.] कामधेनुसहिता। ८१
औज्ज्वल्यं कान्तिः ॥ २५॥ बन्धस्योज्ज्वलत्वं नाम यत्, असौ कान्तिरिति ; तदभावे पुराण- च्छायेत्युच्यते।
विपर्ययस्तु भूयान् सुलभश्र। शलोकाश्चात्र भवन्ति- पदन्यासस्य गाढत्वं वदन्त्योज: कवीश्वराः। अनेनाधिष्ठिता: प्रायः शब्दाः श्रोत्ररसायनम् ॥ श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते। अनेन न विना सत्यं स्वदने काव्यपद्धतिः।। यत्रैकपद्वद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स श्लेष: परमो गुणः ।। पतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः। दुर्बन्धो दुर्विभावश्र समतेति मतो गुणः ।।
अव्यवहितान्वयप्रसिद्धार्थपदत्वे हि भवत्यर्थव्यक्तिः । अस्य च विपर्यय :-
हि भवति नार्थव्यक्तिः । यत्र च भवति, तत्न 'असाधुरनुमानेन वाचकः कैश्चि- दिष्यते' इत्युक्तत्वादसाधुशब्दः साधुशब्दानुमानद्वारेणार्थबोधक इति नार्थ- व्यक्तिः। पूरणार्थमव्ययं च कस्मादस्व प्रयोग इति संदेहावहत्वादर्थव्यक्ति व्यवदधाति। यतिअ्रंशे च अर्थव्यक्तिहतिः । एवमन्यत्रापि द्रष्टव्यम्॥ कान्ति कथयितुमाह- औज्ज्वल्यमिति। पत्रमिति बक्तव्ये किसल- यमित्यादि, जलधाविति वक्तव्ये अधिजलघीति, राज्ञीति वक्तव्ये राजनीति, कमलमिवेति वक्तव्ये कमलायत इत्यादिः कान्तिहेतुः। विपर्ययस्य विषयं दर्श- यति- तदभाव इति। अन्र संवादं संदर्शयन्, अमून् गुणान् अन्यक्रोकैरू पश्लोकयति-पदन्यासस्येत्यादि। श्लोकाः स्पष्टार्थाः । 11
Page 102
८२ काव्यालंकारसूत्रवृत्ति: [अधि. २.
आरोइन्त्यवरोइन्ति क्रमेण यतयो हि यद्। समाधिर्नाम स गुणस्तेन पूता सरखती।। बन्धे पृथक्पदत्वं च माधुर्यमुदितं दुषैः। अनेन हि पदन्यासा: कामं धारामघुश्च्युतः।। बन्धस्याजरठत्वं च सौक्ुमार्यमुदाहृतम्। एतेन वर्जिता वाचो रूक्षत्वात श्रुतिक्षमाः ॥। विकटत्वं च बन्धस्य कथयन्ति खुदारताम्। वैचित्र्यं न प्रपदन्ते यया शुन्याः पदकरमाः ॥ पश्चादिव गतिर्वाच: पुरस्तादिव वस्तुनः । यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्ति: स्मृतो गुणः। औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः। पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः। यथा विच्छिद्यते रेखा चतुरं चित्रपण्डितैः । तथैव वागपि प्राहैः समस्तगुणगुम्फिता।। नासन्तः संवेद्यत्वात् ॥ २६ ॥ न खल्वेते गुणा असन्तः, संवेदत्वात्तद्विदाम्। संबेद्यत्वेऽपि भ्रान्ता: स्युरित्यत आह- न भ्रान्ता निष्कम्पत्वात्॥ २७ ॥ नन्वेते गुणा: खसंकल्पनामान्रसाराः, रूपरसादिवदपरोक्षतया अधिगन्तुम- शक्यत्वादिति शह्कामुटृङ्कयितुमाह-नासन्त इति । अयमर्थ :- भोज :- प्रमुखा एते गुणाः, असन्तः तुच्छा न भवन्ति। कुतः! संवेदत्वात्। सहद- यसंवेदनस्य विषयत्वात्। मसर्वजनीजत्वादियं प्रतीतिर्भान्तिरेव किं न स्यादिति शङ्कामङ्कुरयित्वा समुन्मूलयितुमाह- न भ्रान्ता इति। निष्कम्पत्वात् असर्वजनीनत्वेडप्यवा- घितत्वादित्यर्थः ॥
Page 103
अ. १.] कामधेनुसहिता। ८३
न गुणा भ्रान्ता:, एतद्विषयायाः पृटत्तेर्निष्कम्पत्वाद्। न पाठधर्माः सर्वत्रादृष्टेः ॥ २८॥ नैते गुणाः पाठधर्माः, सर्वत्र अदृष्टेः । यदि पाठधर्माः स्युः, तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन्। न च सर्वत्र दृश्यन्ते। विशेषापे- क्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति।
इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥
ओज:प्रमुखा गुणाः पाठधर्मा इति प्रत्यवस्थातारं प्रत्याह -- न पाठ- धर्मा इति। व्याचष्टे-नैते गुणा इति। सर्वत्र उदाहरणे प्रत्युदाहरणे च। पाठधर्मत्वे बाघकमाह- यदि पाठधर्माः स्युरिति। सत्ृदयसंविदालम्बनतया विशेषा: केचिदपेक्षणीयाः त एव विशेषा गुणा इत्यभ्युपगन्तव्या इति।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां नामनालंकारसूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनो गुणविवेचनं नाम तृतीयेSधिकरणे प्रथमोऽध्यायः॥
Page 104
द्वितीयोऽध्यायः॥
शब्दगुणविवेके कृते संप्रत्यर्थगुणविवेचनार्थमाह- त एवार्थगुणाः ॥१॥ त एव ओज:प्रभृतयः अर्थगुणाः। वाच्यवाचकद्वारेण शब्दार्थगुणानां भेदं दर्शयति- अर्थस्य प्रौढिरोजः ॥ २ ॥ अर्थस्याभिधेयस्य मौढिः मौढत्वं यत् तत् ओजः। पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा। मौढिर्व्याससमासौ च साभिपायत्वमस्य च।।
पदार्थे वाक्यवचनं यथा-'अथ नयनसमुत्यं ज्योतिरत्रेरिव घौः।'
कारुण्यसंपदुस्कूललावण्यगुणशालिनीम्। स्वच्छस्वच्छन्दवाचालां भावये हृदि भारतीम् ॥ १॥ शब्दगुणविवेचने कृते लब्घावसरमर्थगुणविवेचनमिति संगतिमुल्िज्कय- न्ननन्तरसूत्रमवतारयति-शब्दगुणविवेक इति। शब्दगुणा एव चेदर्थगुणाः, किमनेन विधान्तरविधानव्यसनेन, लक्षितत्वात्तेषामित्याशक्कच, शब्दार्थगुणानां नामतो भेदाभावेऽपि शब्दार्थोपश्लेष- वशादस्ति भेद इत्याह- वाच्येति। प्रागुद्देशपरिपाठ्या प्रथमप्राप्तमोजः प्रतिपादयितुमाह- अर्थस्येति। वृत्तिः स्पष्टार्था। प्रौिं पद्येन पञ्चधा प्रपश्रथति-पदार्थ इति। तत्राद्यमुदाहरति-
Page 105
अ. २.] कामधेनुसहिता। ८५
अत्र चन्द्रपदवाच्येऽर्ये 'नयनसमुत्यं ज्योतिरत्रेः' इति वाक्यं प्रयुक्तम्। पदसमूहश्च वाक्यमभिपेतम्। अनया दिशा अन्यदपि द्रष्टव्यम्। तद्यथा- 'पुरः पाण्डुच्छायं तदनु कपिलिन्ना कृतपदं ततः पाकोत्सेघादरुणगुणसंसर्गितवपुः। शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति ॥' न चैवमतिपसङ्ग:, काव्यशोभाकरत्वस्य गुणसामान्यलक्षणस्याव- स्थितत्वात्। वाक्यार्थे पदाभिधानं यथा-'दिव्येयं न भवति, किंतु मानुषी' इति वक्तव्ये 'निमिषति' इत्याहेति।
चयो वाक्यं किया वा कारकान्विता' इत्युक्तलक्षणं वाक्यं न विवक्षितम्, किंतु पदसमुदायमात्रमभिमतमित्याह-पदसमूहश्ेति। अयं न्यायोऽन्यत्रापि संचारणीय इत्याह-अनयेति । अन्यदपि दर्शयति-पुरः पाण्डुच्छायमिति। स्थपुटो निम्नोन्नतः । विष्कम्भ आभोगः। अन्र कपिलमिति वक्तव्ये 'कपिलिम्ना कृतपदम्' इति, शुष्कमिति वक्तव्ये 'शनैः शोषारम्भे' इत्यादि च वाक्यं प्रयुक्तमिति पदार्थे वाक्यरचना। 'दक्षात्मजाद- यितवल्लभवेदिकासु' इत्यादावतिप्रसङ्गं परिहरति- न चैवमिति। तत्र हेतु :- काव्यशोभाकरत्वस्येति। तत्र गुणसामान्यलक्षणाभावान्नातिप्रसञ्क इत्यर्थः । द्वितीयां म्रौढिं द्रढयति-वाक्यार्थ इति। किमियं देव्युत मानुषीति पृष्टः कश्चिदुत्तरमाह-निमिषतीति। अनेन मानुषधर्मवाचिना पदेन-देवीयं न भवति, किं तर्हि, मानुषी- इति वाक्यार्थः प्रतिपादितो भवति। पदार्थे वाक्यम्, वाक्यार्थे पदमिति प्रौढेर्मेंदाभ्यां व्याससमासौ पुनरुक्त्ौ स्यातामिति न शङ्कनीयम्। तत्र हि पदार्थो वाक्यार्थताम्, वाक्यार्थश्र पदार्थतां
Page 106
८६ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अस्य वाक्यार्थस्य व्याससमासौ। व्यासो यथा- 'अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा न भवति भवत्येव च ततः। पुनस्तस्मादूर्ध्वे भवति सुखदुःखं किमपि त- त्पुनस्तस्मादूर्ध्व भवति न च दुःखं न च सुखम् ।' समासो यथा- 'ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शुलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसष्टाः खमुद्ययुः ॥' साभिप्रायत्वं यथा- सोऽयं संप्ति चन्द्रगुप्ततनयश्चन्द्रमकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्टया कृतार्थश्रमः।' आश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात्साभि- प्रायत्वम् । एतेन 'रतिविगलितबन्धे केशपाशे सुकेश्याः' इत्यत्र सुके- क्या इत्यस्य च साभिपरायत्वं व्याख्यातम्। प्रतिपद्यते। इह तु वाक्यार्थस्यैव व्यासो विस्तरः, समासश्च संक्षेपो वाक्येनैवेति भेदादित्याह-अस्य वाक्यार्थस्येति। व्यासमुदाहरति- अयं नानाकार इति। अयम् अविसंवादितया अनुभूयमान: सुखदुःखव्यतिकरः, नानाकारो विचि- त्ररूपो भवतीति वाक्यार्थः । अस्ैव विस्तरः 'सुखं वा दुःखं वा' इत्यादिना कृत इति व्यासः। समासं समुन्मेषयति- ते हिमालयमिति । अत्र संक्षेप: स्फुटः । पश्चमीं प्रोढिं प्रपञ्चयति-साभिपायत्वंमिति। पदान्तरप्रयोगमन्तरेण तदर्थप्रत्यायनप्रागल्भ्यं साभिप्रायत्वम्। लक्ष्यलक्षणयोरानुरूप्यं निरूपयति- आश्रय: कृतियामिति। एतेनेति। न्यायेनेति शेषः। सुकेश्या इत्यत्र कवेरभिप्रेतं केशसौष्ठवं कलापिकलापकदर्थनसामर्थ्ये केशहस्तस्व समर्पयतीति
Page 107
अ. २.] कामधेनुसहिता। ८७
अर्थवैमल्यं प्रसादः ॥ ३ ॥ अर्थस्य वैमल्यं प्रयोजकमात्रपदपरिग्रहे प्रसादः। यथा- 'सवर्णा कन्यका रूपयौवनारम्भशालिनी' विपर्ययस्तु-'उपास्तां हस्तो मे विमलमणिकाश्चीपदमिदम्।' काश्चीपदमित्यनेनैव नितम्बस्य लक्षितत्वात् विशेषणस्यापयोज- कत्वमिति। घटना श्ेष: ।। ४ ।। कमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना। स क्षेषः। साभिप्रायत्वम्। अस्य च विपर्यय :- व्यर्थमपुष्टार्थ च। अपुष्टार्थस्व दोषत्वम् 'नापुष्टार्थत्वात्' इति सूत्रे वक्ष्यते। व्यर्थ यथा- 'श्यामां श्यामलिमानमानयत भोः' इत्यत्र श्यामाशब्दः कृष्णत्वमपि प्रतिपादयतीति श्यामलिमानमानयतेति श्या- मलिम्न: करणं व्याहतमिति व्यर्थम्। 'चापाचार्यस्त्रिपुरविजयी' इत्यादौ 'तार- कारिः' इत्यस्य स्थानेऽनुप्रासानुरोधात्प्रयुक्तम् 'कार्तिकेयः' इति पदमपुष्टार्थम्। प्रसादं प्रसञ्जयितुमाह -- अर्थवैमल्यमिति। प्रयोजकमात्रपदपरिग्रह इति। विवक्षितार्थसमर्पकपदमात्रप्रयोगेऽर्थस्य यद्वैमल्यं स प्रसादः । न च पञ्चमप्रौढिप्रसादयोः को भेद इति वाच्यम्। तयोः परस्परपरिहारेण दर्शनात्। यथा- 'रतिविगलितबन्धे केशहस्ते' इत्यादौ 'कृशाङ्गयाः' इति पाठे वैमल्ये- डपि न साभिप्रायत्वम्। 'अवन्ध्यकोपस्य विहन्तुरापदाम्' इत्यादौ साभिप्राय- त्वेऽपि नार्थवैमल्यम्। सवर्णेत्यादि। स्पष्टम्। अस्य विपर्ययोऽपुष्टार्थमनर्थकं च । तत्राद्यमुदाहरति-विपर्ययस्तिति। विशेषणस्यापयोजकत्वमिति । अपुष्टार्थत्वमित्यर्थः । अनर्थकं तु प्रागुदाहृतम्।
श्लेषमुन्मेषयितुमाह-घटनेति। मणिपुत्रिकादिषु मुखाद्यवयवयोज- नेऽपि ल्लेषणं घटना भवति, सा मा भूदित्याह- क्रमेति। नेत्रनिमीलनादीनां यः क्रमः परिपाटी, कौटिल्यं च, तयोरनुल्बणत्वेनोपपत्त्या युक्ततया पृच्छाक्षे- परूपतया बाघाभावस्वभावतया च योजनं घटना विवक्षिता। उदाहरति-
Page 108
८८ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
यथा- दष्टैरकासनसंगते त्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः। ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तहासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' शूद्रकादिरचितेषु पबन्धेष्वस्य भूयान् प्रपञ्चो दृश्यते। अवैषम्यं समता ॥ ५॥ अबैषम्यं प्रक्रमाभेदः समता। कचिद्धि पक्रमोऽपि भिद्यते। यथा- 'च्युतसुमनसः कुन्दाः पुष्पोद्रमेष्वलसा द्रुमा मलयमरुतः सर्पन्तीमे वियुक्तधृतिच्छिदः। अथ च सवितु: शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम् ।।' दष्ट्रेति। प्रियतमयोरेका स्वकीया, अपरा तत्सखी प्रच्छन्नानुरागा। अन्यथा नास्त्येकासनसंगतिः । निमील्यमाननयना च न द्वेष्या; तथात्वे हि 'प्रियतमे' इति कथम्। क्रीडामनुबभ्नातीति क्रीडानुबन्धं तच्च तत् छलं च। विहितं कीडानुबन्धच्छलं नेत्रनिमीलनकापट्यं येन स तथोक्तः । अस्य विपर्ययो लोक- विरुद्धत्वम्। यथा हि मधुरायाः सौवीरेषु सत्ता, यथा मधुरायां म्लोषणसत्ता, तथैव एकासने प्रसिद्धसपत््योरवस्थितिः। यथा मघौ कदम्बविकासः, तथा सपत्नी- संनिधावेकस्याः क्रीडा। यथा कलिकामकरन्दो गोष्पदपूरः, तथा क्रमेण युगप- द्वा, द्वयोरेकस्या वा निधुवनमिति देशकालखभावैर्विरुद्धम्। प्रबन्धान्तरेषु भूयि- समुदाहरणमस्ति, तदूहनीयमित्याह-शुद्रकेति। समतां समुन्मीलयितुमाह- अवैषम्यमिति। अवैषम्यं नाम प्रक्रमा- भेदः, सुगमत्वं वा भवतीत्यभिसंघाय प्राथमिकं पक्षमुपक्षिपति-अवैषम्यं पक्रमाभेद इति। प्रक्रमस्याभेदो भेदाभावः ; तत्प्रतिपत्तेः प्रक्रममेदप्रतिपत्तिपूर्व कत्वात् प्रक्रमभेदं दर्शयितुं प्रथमतः प्रत्युदाहरणं दर्शयति-कचिद्धि पक्र
Page 109
अ. २.] कामधेनुसहिता। ८९
ऋतुसंधिप्रतिपादनपरेऽत्र द्वितीये पादे मक्रमभेद:, मलयमरुता- मसाधारणत्वात्। एवं द्वितीय: पाद: पठितव्यः- 'मनसि च गिर बध्रन्तीमे किरन्ति न कोकिलाः' इति। सुगमत्वं वा अवैषम्यमिति। यथा- 'का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या। मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्।।' प्रत्युदाहरणं सुलभम्।
अर्थदृष्टिः समाधिः ॥६॥ अथर्स्य दर्शनं दृष्टिः। समाधिकारणत्वात् समाधिः। अवहितं हि चित्तमर्थान् पश्यतीत्युक्तं पुरस्तात्।
इति। अत्र प्रक्रमभेदं प्रतिपादयति- ऋतुसंधीति। ऋत्वोः शिशिरवस- न्तयोः संघिः । असाधारणलात्-वसन्तैकधर्मत्वादित्यर्थः । इदमेवोदाहरण- यितुं पाठान्तरं प्रकल्पयति- एवं द्वितीय इति। 'मनसि च गिरं बघ्नन्तीमे किरन्ति न कोकिलाः' इति पाठे प्रकमाभेद: स्फुटः। विवेकिनोऽत शिष्या इति कथमवैषम्यं प्रक्रमाभेद इति तत्नारुच्या पक्षान्तरमुपक्षिपति-सुगमत्वं वेति। उदाहरति-का ख्विदिति। अत्र सुगमत्वं सुगमम्। प्रत्युदाहरणं सुलभमिति। अस्य विपर्ययः क्रमादपक्रमं क्विष्टत्वं च। तदुभयमपि पूर्वमुदाहृतं द्रष्टव्यम्। समाधिं संप्रधारयितुमाह- अर्थदृष्टिरिति । ननु समािरवधानम्, दर्शनं तु ज्ञानविशेषः । कथमुभयोः सामानाघिकरण्यमित्यत आह- समाधि- कारणत्वादिति। समाधि: कारणं यस्येति बहुव्रीहिः। कार्यकारणयोरुभयोरभेद- सुपचर्योक्तमित्यर्थः। कार्यकारणभावमेव ज्ञापयति- अवहितं हीति। 'चित्तै- काग्र्यमवधानम्' इति सूत्रे प्रागुक्तमित्यर्थः । 'सद्यःकृत्तद्विरदरदनच्छेदगौरै:' इत्यादौ यथा च्छेदशछ्दमाने दन्तादौ पर्यवस्यति, तथा दर्शनमत्र दृश्यमानेऽर्ये पर्यवस्यतीति भवत्ययमर्थगुणः । 12
Page 110
९० काव्यालंकारसूत्रवृत्ति: [अधि. ३.
अर्थो द्विविधोऽयोनिरन्यच्छायायोनिश्च ॥७॥ योऽसावर्थ: प्रस्तुतः, सोऽर्थो द्विविध :- अयोनिरन्यच्छायायो- निश्चेति। अयोनिः अकारण:, अवधानमात्रकारण इत्यर्थः । अन्यस्य काव्यस्य च्छाया अन्यच्छाया, तद्योनिः।
तघथा- 'आश्वपेहि मम शीधुभाजनाद्यावदग्रदशनैर्न दभ्यसे। चन्द्र मददशनमण्डलाङ्टितः खं न यास्यसि हि रोहिणीभयात्।' 'मा भैः शशाङ्क मम शीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं विभेषि। प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः पचलतीति किमत्र चित्रम् ।।' अत्र पूर्वस्य श्लोकस्यार्थोऽयोनिः। द्वितीयस्य च अन्यच्छाया- योनिरिति। व्यक्तः सूक्ष्मश्च ॥८॥
द्वैविध्यमर्थस्य दर्शयितुमाह -- अर्थो द्विविध इति। व्याख्यातुं पूर्व- सूत्रार्थमनुवदति- योऽसाविति । अयोनिरिति न विद्यते योनिः कारणं यस्येति विग्रहमभिसंघायाभिघचे-अयोनिरकारण इति। कथमसति कारणमात्रे कार्योत्पत्तिरित्याशक्कय कवित्वबीजप्रतिभोन्मेषप्रयोजकमवधानमेवात्र कारणमि- त्यवगमयितुं नञ्ा प्रसिद्धकारणं प्रतिषिध्यत इत्याह -- अवधानेति । विघा- न्तरं व्याकरोति-अन्यस्य काव्यस्येति। तद्योनिरित्यत्र सा च्छाया योनि- र्यस्येति बहुव्रीहिः। प्रथमं भेदं दर्शयति -- आश्वपेह्ीति। स्पष्टमुदाहरणम्। विधान्तरं व्युत्पादयति-मा भैरिति । बिभेषीत्यत्र मत्त इत्यध्याहार्यम् । स्त्रीणां प्रियस्य पुरतः स्ववैदग्ध्यप्रकटनमुचितमेवेत्यवगन्तव्यम्। लक्ष्ये लक्षण- मवगमयति-अत्र पूर्वस्योति । पूर्वभाविना कविना कृतत्वात्। द्विविघस्याप्यर्थस्य द्वैविध्यं दर्शयितुमाह-व्यक्तः सूक्ष्मश्रेति।
Page 111
अ. २.] कामधेनुसहिता। ९१
अयोनिरन्यच्छायायोनिश्व योऽयमर्थः, स द्वेवा-व्यक्तः सूक्ष्मश्र। व्यक्तः स्फुट उदाहृत एव।
सूक्ष्मं व्याख्यातुमाह- सूक्ष्मो भाव्यो वासनीयश्च । ९॥ सूक्ष्म: खल द्वेधा भवति-भाव्य:, वासनीयश्च। शीघ्रनिरूप- णागम्यो भाव्य: । एकाग्रतापकर्षगम्यो वासनीय इति।
भाव्यो यथा- 'अन्योन्यसंवलितमांसलदन्तकान्ति
लीलागृहे प्रतिकलं किलिकिश्चितेषु व्यावर्तेमाननयनं मिथुनं चकास्ति ।'
व्याचष्टे-अयोनिरिति। व्यक्तार्थद्वयस्य प्रागुक्तमुदाहरणद्वयं प्रत्येतव्यमि- त्याह-उदाहृत एवेति। सूक्ष्मविभागं दर्शयितुं सूत्रमवतारयति-सूक्ष्ममिंति। विभागं व्युत्पाद- यति -- सूक्ष्मः खल्विति। भावुकानामवधानमात्रेण विमर्शो भावना, तद्यो- ग्यो भाव्यः। सहृदयसद्वयवहारसमुल्लसितसंस्कार संपन्नो योऽवधानप्रकर्षस्तेन गम्यो वासनीयः । तदिदमभिसंधायाह- शीघ्रेति। आद्यमुदाहरति- भाव्यो यथेति। लीलागृहे मिथुनमुक्तविधं चकास्तीति वाक्यार्थः । अन्योन्यसंवलितमां- सलदन्तकान्तीत्यनेन स्मितसंलापाधराखादादय:, सोल्लासमित्यनेन हर्षोत्सुक्यादयः, अलसमित्यनेन श्रमाऊदौर्बल्यादयः, किलिकिश्चितेषु व्यावर्तमाननयनमित्यनेन प्रणयकलहगर्वभयकम्पादयश्च व्यज्यन्ते; 'क्रोधाश्रुहृर्षभीत्यादेः संकरः किलिकिश्चि- तम्' इति दशरूपके तल्लक्षणकथनात्। अत्र मिथुनमालम्बनविभावः । लीलागृ-
उल्लासोन्मीलितहर्षौत्सुक्यादय: किलिकिश्चिताक्षिप्तकोषशोकभयगर्वाश्च संचारिणः । इत्थं विभावानुभावसंचारिभिरास्वादनीयतामापाद्यमानो रतिलक्षणः स्थायी भाव:
Page 112
९२ काव्यालंक।रसूत्रवृत्ति: [अधि. ३.
वासनीयो यथा- 'अवहित्थवलितजघनं विवर्तिताभिमुखकुचतटं स्थित्वा। अवलोकितोऽहमनया दक्षिणकरकलितहारलतम् ।' उक्तिवैचिल्यं माधुर्यम् ॥ १० ॥ उक्तेवैचित्र्यं यत्, तन्माधुर्यमिति। यथा- 'रसवदमृतं क: संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्मियादशनच्छदात् ।।'
साधारण्येन चर्व्यमाणतैकप्राणः संभोगशृङ्गारो रसः। तदुक्तं दशरूपके, 'विभावै- रनुभावैश्च सात्त्विकैर्व्यभिचारिभिः। आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ॥' इति। वासनीयमुद्भासयति- वासनीय इति। अवहित्थेति। अवहित्थमाकारगोपनम्। दुर्लभस्त्वत्संभोगः, त्वय्येव लभमिदं मदीयं मनः, दुरन्तसंतापशान्तये हारलतिकेयमेका माय दाक्षिण्यमवलम्बत इत्येवं स्वाभि- प्रायप्रकाशनमवधानप्रकर्षेणात्र सहृदयहृदयसंवेध्यम्। अत्र विप्रलम्भशृङ्कारः । विभावादयः स्वयमूद्याः । अस्य गुणस्य विपर्ययो आ्म्यत्वम् 'स्वपिति यावत्' इत्यादौ द्रष्टव्यम्। माधुर्ये पर्यालोचयितुमाह-उक्तिवैचित्र्यमिति। वर्ण्यमानस्यार्थस्य प्र- कर्षे प्रतिपाद्े भङ्चन्तरेणोक्तिरुक्तिवैचित्र्यम्। रसवदमृतमिति। 'कस्यचिन्नागारि- कस्येयमुक्तिः। अमृतं रसवद्धवत्येव । मधून्यपि नान्यथा, रसवन्त्येव। प्रसन्नरसं चूतस्यापि फलमधिकं मधुरमेव। कः संदेह इति सर्वत्रानुषज्ज्यते। तथापि रसान्तरवित् सकृदपि रसविशेषाभिज्ञो जनो मध्यस्थः सन् वदतु। इह लोके प्रियादशनच्छदादन्यत् यद्वस्तु स्वादु स्यात्, तत् वदतु। रसज्ञोऽपक्षपाती चेत् अन्यत्स्वादु भवतीति न वदेत्, तादृशवस्त्वन्तरासंभवादित्यर्थः। नानाविधोप-
Page 113
अ. २.] कामधेनुसहिता। ९३
अपारुष्यं सौकुमार्यम् ॥ ११ ॥ परुषेऽर्ये अपारुष्यं सौकुमार्यमिति। यथा-मृतं यशःशेषमित्याहुः, एकाकिनं देवताद्वितीयमिति, गच्छेति साधयेति च। अग्राम्यत्वमुदारता ॥ १२ ॥ ग्राम्यतपसङ्के अग्राम्यत्वमुदारता।
यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायां परिचितः कलानां सीमानं परमिह युवामेव भजथः। अयि द्वंद्वं दिष्टया तदिति सुभगे संवदति वा- मतः शेषं चेत्स्याज्जितमिह तदानीं गुणितया॥'
मानातिशायि दशनच्छदमाघुर्यमिति वक्तव्ये, रसवदमृतमित्यादिभङ्गयन्तरेण प्रतिपादनादत्र माधुर्यम्। अस्य गुणस्य विपर्ययो ह्येकस्यैवार्थस्य पुनः पुनः कथनमित्येकार्थत्वम्, प्राय एकार्थश्रुतेर्वैरस्यात् कष्टत्वं वा।
सोकुमाये समाख्यातुमाह-अपारुष्यांमाते। परुष अमङ्कलातङ्कदा- यिन्यर्थे वर्णनीये यदपारुष्यम्, तत् सौकुमार्यमिति लक्षणार्थः। उदाहरणानि स्पष्टानि। अस्य गुणस्य विपर्ययोऽश्लीलत्वम्। उदारतामुदीरयितुमाह-अग्राम्यलमिति। अत्र कन्ये कामयमानं कान्तं कामयखेति वक्तव्ये आ्म्यार्थे, यदौचित्येन प्रतिपादनं सा उदारता। त्व- मेवमिति। एवं वर्णनापथोत्तीर्णतयानुभूयमानं सौन्दर्य यस्याः सा तथोक्ता। स च माधवो रुचिरतायां सौन्दर्यविषये, परिचितः संस्तुतः, प्रसिद्ध इति यावत्। युवां स च त्वं च। युवामेव परमिह लोके कलानां सीमानं भजथः । अयि हे माल- ति। वां युवयो: द्वंद्वं मिथुनं दिष्टया भाग्येन संवदति सदशं भवतीत्यर्थः । अतः शेषं पाणिग्रहणरूपं मझ्कलं कर्म स्याच्चेत्, तदानीं गुणितया गुणवत्त्वेन जितम्,
Page 114
९४ काव्यालंकारसूत्रवृत्ति: [अधि. ३.
विपर्ययस्तु- 'स्वपिति यावदयं निकटे जनः खपिमि तावदहं किमपैति ते। इति निगद्य शनैरतुमेखलं मम करं स्वकरेण रुरोध सा ।।.' वस्तुस्वभावस्फुटत्वमर्थव्यक्ति: ॥ १३ ॥ वस्तूनां भावानां स्वभावस्य स्फुटत्वं यद्, असौ अर्थव्यक्तिः । यथा- 'पृष्ठेषु संखशकलच्छविषु च्छदानां
मामोदते कुमुदमम्भसि पल्वलस्य ।I' युवयोर्गुणसंपत्तिर्विश्वातिशायिनी भवेदित्यर्थः । अत्र प्रथमं त्वं स चेति पृथक्त- योक्तेः, ततो युवामिति मिश्रीकरणेन, तदनन्तरं द्वन्द्वमिति, ततः शेषमिति च विवक्षितार्थव्यञ्जनमुखेन फलपर्यवसायित्वमित्योचित्यशालिना क्रमेण कामन्दक्या मालतीमुद्दिश्योक्तमिति स्पष्टमुदाहरणत्वम्। प्रत्युदाहरणं प्रत्याययितुमाह-वि- पर्ययस्त्विति। स्वपितीति। अत्र कश्चित् कामी वयस्याय रहस्वं कथयति। अयं निकटे जनः परिसरसंचारी जनो यावत् स्वपिति यावता कालेन नियतं कर्म निर्वर्त्य निद्राति। तावत् तावन्तं कालं स्वपिमि। ते किमपैति तावता कालवि- लम्बेन तब का हानिर्भवति। इति उक्तप्रकारेण, शनैरुपांशु, निगद्य कथयित्वा, अनुमेखलं मेखलासमीपे, प्रसारितं मम मे करं स्करेण रुरोध निरुद्धवती। स्पष्टं आ्म्यत्वम्। अर्थव्यक्तिं समर्थयितुमाह-वस्त्विति। व्याचष्टे-वस्तूनामिति। अशेष- विशेषैवर्णने पुर इव प्रतिभासमानत्वमर्थस्य स्फुटत्वम्। उदाहरति- पृष्ठेष्विति। शङ्कशकलच्छविषु पृष्ठेषु चरमभागेषु, अलक्तकलोदिनीमी रेखामिरक्वितम्, गोरो चनावद्धरितानि बभ्रूणि कपिशानि वहिःपलाशानि यस्य तत्, कुमुदम्, पल्वलस्य
Page 115
अ. २.] कामधेनुसहिता। ९५
यथा वा- 'प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरै-
तदनु वलनामात्रं किंचिद्यधायि बहिर्दलै- र्मुकुलनविधौ दृद्धाब्जानां बभूव कदर्थना।' दीत्रसत्वं कान्तिः ।। १४।। दीप्ताः रसाः शृङ्गारादयो यस्य स दीप्रसः । तस्य भावो दीप्ष- रसत्वं कान्तिः । यथा- 'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्र यात्युन्मना:। तावत्मच्युतपाणिसंपुटलसत्रीवीनितम्बं धृतो धावित्वैव कृतप्रणाममडदा प्रेम्णो विचित्रा गतिः ।।' एवं रसान्तरेष्वप्युदाहार्यम्। वेशन्तस्याम्भसि, आमोदते आमोदमुद्विरतीति योजना। उदाहरणान्तरमाह- प्रथममिति। प्रथममलसैः पृथुकेसरैः पर्यस्ताग्रं शैथिल्यशालिशिखरं स्थितम्। ततः परं विरलविरलैरत्यन्तशिथिलैरन्त.पत्रैर्मनागीषन्मिलितम्। तदनु बहिर्दलै- र्वलनामात्रं संकोचक्रियारम्भमात्रं किंचित् व्यधायि। इत्थ वृद्धाब्जानां कदर्थना क्ेशदशा बभूवेति योजना। अस्य विर्पययः संदिग्धत्वं क्विष्टत्वं च। कान्ति कथयितुमाह-दीप्नरसलमिति व्याचष्टे -- दीप्षा इति। दीप्षाः विभावानुभावव्यभिचारिभिरभिव्यक्ताः। प्रेयानिति। अत्र विप्रलम्भपू- र्वकः संभोगशृक्गारः। एवं रसान्तरेष्विति। शृङ्गारो द्विविध :- संभोगो विप्र- लम्भश्च। तन्राद्ः परस्परावलोकनपरिचुम्बनाद्यनन्तेदा प रिच्छे ्याःा । र त ो भेद उदाहृतः । विप्रलम्भस्तु परस्पराभिलाषविरहेर्ष्योप्रवासशापहेतुक इति पञ्च- विधः। तत्राद्यो यथा-'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयास्तास्ता मु- ग्वदृशो निसर्गमधुराश्वेष्टा भवेयुर्मयि। यास्वन्तःकरणस्य वाह्यकरणव्यापाररोषी
Page 116
९६ काव्यालंकारसूत्रवृत्ति: [अधि. ३
अत्र श्लोका :- गुणस्फुटत्वसाकल्ये काव्यपाकं पचक्षते। चूतस्य परिणामेन स चायमुपमीयते।। क्षणाद।शंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः॥' एवमन्येऽपि विप्रलम्भभेदा ज्ञातव्याः । वीरो यथा- 'क्षुद्राः संत्रासमेते विजहित हरयो भिन्नशक्रेभकुम्भा युष्मद्गातेषु लज्जां दघति परममी सायकाः संपतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषो नन्वहं मेघनाद: किंचिद्धूभङ्गलीलानियमितजलधिं राममन्वेषयामि॥' करुणो यथा-'हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषो घिक् प्राणा- न्परितोऽशनिर्दुतवहो गात्रेषु दग्घे दशौ। इत्थं गद्गदकण्ठरुद्धकरुणाः पौराञ्कनानां गिरश्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अद्भुतो यथा- 'चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भज्गी। लोकोत्तरं धैर्य- महो प्रभावः काप्याकृतिर्नूतन एष सर्गः॥' हास्यो यथा -- 'आकुञ्च्य पाणिम- शुचिं मम मूर्धि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे। तारस्वनं प्रहितसी- त्कमदात्प्रहारं हा हा हतोऽहमिति रोदिति विष्णुशर्मा ॥I' भयानको यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्घेन प्रविष्टः शरपतन- भिया भूयसा पूर्वकायम्। दर्भैरर्घावलीढैः श्रमविवृतमुखअंशिभिः कीर्णवर्त्मा पश्योदअ्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥' रौद्रो यथा- 'एत- त्करालकरवालनिकृत्तकण्ठनालोच्चल द्वहुलबुद्धुदफेनिलौघैः । सार्ध डमड्डुमरुडा- त्कृतिहूतभूतवर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥' बीभत्सो यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसान्यंसस्फिक्पृष्ठपीठाद्यवयवजटिलान्युग्रपूतीनि जग्ध्वा। आत्तस्त्ाय्वान्त्रनेत्रः प्रकटितदशनः प्रेतरक्कः करक्वादङ्कस्थादस्थिसंघि- स्थपुटगतमपि क्रव्यमव्यभमत्ति II' शान्तो यथा-'अहौ वा हारे वा कुसुमशयने वा दषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा। तृणे वा सैणे वा मम समदृशो यान्तु दिवसाः कचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥' एवं भावा अप्युदाहार्याः । इत्थमर्थगुणान् समर्थ्य काव्मस्य गुणस्फुटत्वसाकल्याभ्यां तदभावेन चोपादेयत्वानुपादेत्वे सदष्टान्तमाचष्टे-गुणस्फुटत्वेति। गुणानां स्फुटत्वं सा-
Page 117
अ. २.] कामधेनुसहिता। ९७
सुप्िङ्संस्कारसारं यत् क्रिष्टवस्तुगुणं भवेत्। काव्यं तृन्ताकपाकं स्याज्जुगुप्सन्ते जनास्ततः ।। गुणानां दशता त्यक्तो यस्थार्थस्तदपार्थकम्। दाडिमानि दशेत्यादि न विचारक्षमं वचः ॥ इति।
इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने तृतीयेऽधिकरणे द्वितीयोऽध्यायः॥ समापं चेदं गुणविवेचनं तृतीयमधिकरणम्।।
कल्यं च यत्, स चायं काव्यपाकः। सुप्तिडां संस्कारो यथाशासत्रं प्रकृतिषु प्रत्यय- योजनमेव सारः स्थिरांशो यस्य। क्विष्टा अस्फुटा वस्तुनोऽर्थस्य गुणाः यस्य। अनेन स्फुटगुणव्यावृत्ति: सूचिता। वृन्ताकस्य पाक इव पाको यस्य। तत् का- व्यम्। ततो जना जुगुप्सन्ते, किमुत कवय इति भावः। गुणानामिति। दशता दशसंख्यापरिमितेन वर्गेणेत्यर्थः । गुणदशकेन त्यक्त इत्यर्थः। 'पञ्चद्दशतौ वर्गे वा' इति निपातितो दशच्छब्दः। अपार्थकं वाक्यमुदाहरति- दा- डिमानीति। 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः' इति वाक्यं विचारयोग्यं न भवति। अतोऽलंकारशास्त्राद्दोषगुणस्वरूपं विज्ञाय कविर्दोषाञ्ज- द्यात्, गुणानाददीतेत्युपदेशः।
इति कृतरचनायांमिन्दुवंशोद्वह्देन त्रिपुरहरधरित्रीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयार्सत्पूर्तिमेतत्तृतीयम्।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनौ गुणविवेचनं नाम तृतीयमधिकरणम्॥
13
Page 118
चतुर्थमधिकरणम्॥
गुणनिर्वर्त्या काव्यशोभा; तस्याश्वातिशयहेतवोऽलंकाराः। तन्नि- रूपणार्थमालंकारिकमधिकरणमारभ्यते। तत्र शब्दालंकारौ दौ यमका- नुपासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्॥ १ ॥ पदम् अनेकार्य भिन्नार्थम् एकमनेकं वा तद्वत् अक्षरमावृत्तं स्थान- नियमे सति यमकम्। स्वटृत्या सजातीयेन वा कारत्स्यैकदेशाभ्यामने- कपादव्याप्तिः स्थाननियम इति। यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ने, तेषु श्रोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति।
निजसौन्दर्यनिर्धौतस्फुरन्मौक्तिकभूषणा। प्रसादविशदालोका शारदा वरदास्तु मे।।
आलंकारिकं चतुर्थमधिकरणमारभ्यते। अधिकरणद्वय संघटनामुद्धाटयति- गुणनिर्वर्त्येति। गुणैनिर्वर्त्या निष्पाद्या। अलंकारः प्रयोजनमस्येति आलंकारि- कम्। 'प्रयोजनम्' इति ठक्। अलंकारा द्विविधा :- शाब्दाः, आर्थाश्च। तत्र शब्दप्रतिपत्तिपूर्विका अर्थप्रतिपत्तिरिति प्रथमं शब्दालंकारान् प्रतिपिपादयिषु- स्तद्विभागं दर्शयति-तत्रेति। यमकं विवरीतुं यतते-क्रमेणेति। पदमने- कार्यमिति। अनेकार्थमिति पदविशेषणम्, न त्वक्षरविशेषणम्। गवादिश्िष्टप- दवन्नानार्थमात्रं न भवति; किंतु स्वरव्यञ्जनात्मकं भिन्नार्थ पदमिह विवक्षितमि- त्याह-भिन्नार्थमिति। अनेकमिति। पदमिति जातावेकवचनमिति भावः। 'तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम्। वर्णानां यः पुनर्वादो यमकं तन्निग- घते।।' इति भाभहेनोक्तं प्रत्याख्यातुमाह-स्थाननियमे सतीति। नियमनमत्र गुणनम्, आवृत्तिरिति यावत् । यम्यत गुण्यते आवर्त्यते पदमक्षरं वेति यमः । बहुलग्रहणात् कर्मोणे घप्रत्ययः । यम एव यमकम्। अयमत्र वाक्यार्थ :-
Page 119
अ. १.] कामधेनुसहिता। ९९
स्थानकथनार्थमाइ- पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ॥२॥ पादा: एकस्य च पादस्यादिमध्यान्तभाग, अनेकस्य च पादस्य त एव स्थानानि।
भिन्नार्थमेकमनेकं वा पदम्, तद्वदेकमनेकं वाक्षरं च स्थाननियमे सत्यावृत्तं यम- कं भवतीति। तथा च पदयमकम्, अक्षरयमकमिति च द्वैविध्यं दर्शितं भव- ति। कीदगत्र स्थाननियम इति, तत्राह-स्व्रवृत्येति। यदेव पदमक्षरं वा यमकनिबन्धनं तदेव यदि पादान्तरे वर्तते यथा 'भ्रमर द्रुमपुष्पाणि' इत्यादौ, तत्न स्ववृत्त्या आवृत्तिः । 'सजातीयनैरन्तर्ये चास्य प्रकर्षः' इतीहैव वक्ष्यमाण- युक्तया सजातीयं यत्र पादान्तरे वर्तते यथा 'हन्त हन्तः' इत्यादौ, तत्र सजा- तीयस्यावृत्तिः । नियतस्थानावृत्तसमानसंख्याकाक्षरसंनिवेशोsत्र साजात्यम् । कार्त्स््येन समस्तपादगतत्वेन । एकदेशेन पादस्यादिमध्यान्तभागगतत्वेनेत्यर्थः । ननु 'अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम्। यमकुबेरजलेश्वर- वज्रिणां समधुरं मधुरश्चितविक्रमम्' इत्यादौ पादान्तरव्याप्तिलक्षणस्थाननियमा- संभवेन यमकता न स्यात् ; अतो लक्षणस्याव्याप्तिरिति, तत्राह- यानि त्विति। एकस्यैव पादस्य भागे वृत्तिर्येषां तानि एकपादभागवृत्तीनि, तेषु 'द्रुम- वतीमवतीर्य वनस्थलीम्' इत्यादिश्लोकान्तरस्थं संस्थानं यस्य तत्तथाभूतं यम- कम्, तदपेक्षया सजातीयेनानेकपादव्याप्तिर्भवतीति भवत्येव स्थाननियमः ।
यमकस्थानानि दर्शयितुं सूत्रमवतारयति -- स्थानकथनार्थमिति । व्याचष्टे-पाद इति। अत्नायं विभाग :- प्रथमपादो द्वितीये तृतीये चतुर्थे क्रमेण यम्यते। एवं द्वितीयस्तृतीये चतुर्थे च। तृतीयश्चतुर्थे। तथा प्रथमो द्वितीयादिषु त्रिषु युगपद्यम्यत इति सप्तघा भवति। प्रथमो द्वितीये तृतीयश्चतुर्थे, प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वौ भेदाविति पादयमकं नवधा। पादस्य त्रेधा विभागपक्षे प्रथमादिपादादिभाग: पूर्ववत् द्वितीयादिपादादिभागेषु, प्रथमादि- पादमध्यभागो द्वितीयादिपादमध्यभागेषु, प्रथमादिपादान्तभागो द्वितीयादिपादा-
Page 120
१०० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
पादयमकं यथा- 'असज्जनवचो यस्य कलिकामधुगर्हितम्। तस्य न स्याद्विषतरोः कलिकामधु गर्हितम् ।'
एकपादस्यादिमध्यान्तयमकानि यथा- 'हन्त हन्तररातीनां धीर धीरर्चिता तव। कामं कामन्दकी नीतिरस्या रस्या दिवानिशम् ।' 'वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिमभम् । भियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विरिव तासु का।'
न्तभागेषु यम्यत इति सप्तविशतिषा। खण्डभेदकल्पनया परिगणनायां भूयसी भेदसंर्येत्युपरम्यते। तत्र दिब्बात्रं दर्शायेतुं पादयमकं तावदुदाहरति- पादयमकमिति। कले: कामं दोग्धीति कलिकामधुक्। तथाविधम् असज्जनस्य खलस्य वचो यस्त अर्हितं पूजितं भवति, तस्य पुंसः, विषतरोः कलिकामधु कोरकमकरन्दः गर्हितं न स्वात् तदप्युपादेयं स्यादित्यर्थः । अथैकस्य पादस्यादिमध्यान्तेषु यमकं क्रमेणोदाहरति-एकपादस्येति। हन्तेति। अरातीनां हन्तः, धीर प्राज्ञ। 'घीरो मनीषी ज्ञः प्राज्ञः' इत्यमरः । तव घीः अर्चिता। हन्तेति हर्षे। अतः कामन्दकसंबन्धिनी नीतिः कामन्दकप्रणीता दण्डनीतिरित्यर्थः। अस्यास्तव धियः काममत्यर्थ रस्या अस्वादनीया। नन्वत्र पद्यमके द्वयोरपि पदत्वाभावे कथं पदयमकमिति न चोदनीयम्, यमकनिबन्धन- योद्वयोरेकस्य पदत्वे सति तदन्यस्य संहिताकाले तदाकारानुकारितया पदावभास- जनकत्वाद्धवत्येव पदयमकमिति। वसुपरास्विति। अविकलं संपूर्णमित्यर्थः । विकलक्डशशिप्रभम् । यतः उपरतः मन्तुः अपराधो यस्य तथाविषं निरागसमित्यर्थः । 'आगोऽपराधो म- न्तुश्च' इत्यमरः । अनीश्वरम् ऐश्वर्यरहितम्। प्रियतमं परासुं मृतमिव उज्झतीषु त्यक्तवतीषु वसुपरासु वेश्यासु। सिकताखिव । रसिकता रसः आसामस्तीति र- सिकाः । 'अत इनिठनौ' इति ठन्प्रत्ययः। तासां भावो रसिकता, का न का-
Page 121
अ. १.] कामधेनुसहिता। १०१
'सुदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम् । अपि हासलवस्तवकस्तव कस्तुलयेभ्ननु कामधुरां मधुराम् ।' पादयोरादिमध्यान्तयमकानि यथा- 'भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन मधु। का कुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि किम् ।' 'अप्यशक्यं तया दत्तं दुःखं शक्यन्तरात्मनि। बाष्पो वाहीकनारीणां वेगवाही कपोलयोः ॥'
चित् तासु रसिकतेत्यर्थः । अत्र प्रियतममित्यक्षरयमकत्वेन पदावृत्त्यसंभवान्नेद- मुदाहरणम्।
सुदृश इति। रसेन रागविशेषेण रेचकितं भ्रमितम्। चकितं भयसंभ्रा- न्तम्। 'चकितं भयसंभ्रमः' इत्यमरः । मितं स्तोकं स्तिमितं निभृतं सुदृश ईक्षणं भवति त्वयि अस्ति। अपि किंच, हासस्य लवो लेशः। 'लवलेशकणा- णवः' इत्यमरः । स्तबक इव हासलवो हासलवस्तवकः। 'उपमितं व्याघ्रादिभिः' इति समासः। वबयोरभेदः। सोऽपि त्वय्यस्तीत्यनुषज्यते। अतः कः पुमान् तव। मधुरां मनोज्ञां कामस्य धूः कामधुरा ताम्। 'ऋक्पूरब्धूःपथामानक्षे' इत्यकार: समासान्तः । ननु तुलयेत् न कोऽपि तुलयेत्, तव कामधुरां परिच्छे- ततुं न शक्नुयादित्यर्थः । अथ पादयोरादिमध्यान्तभागेषु यमकं क्रमेणोदाहरति- पादयोरिति। हे अ्रमर, मधु पिबन्, रत्यै सुखाय, द्रुमपुष्पाण्युद्दिश्य भ्रम संचर। कुन्दकुसुमे का प्रीतिः। काकुं ध्वनिविकारं दत्त्वा 'काकुः स्त्िरियां विकारो यः शोकभीत्यादि- भिर्ध्वेने:' इत्यमरः । किं विरौषि। 'रु शब्दे' इति धातुः ।
अप्यशक्यमिति। अशक्यम् असद्यम्, दुःखं शकीनां शकाख्यजन- पदस्त्रीणाम् अन्तरात्मनि। त्वया दत्तम्। त्वयेति कर्तृपदम् ; तदर्थस्तु प्रकरणा- नुसारेण द्रष्टव्यः । अपि किंच, वाहीकनारीणां कपोलयो:, वेगवाही वेगेन वहति प्रवहतीति वेगवाही वाष्प. दत्त इत्यनुषज्यते।
Page 122
१०२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
'सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्वदीक्षितेन। भवति बत जनः सचिचदाहो न खलु मृषा कुत एव चित्तदाहो।।'
एकान्तरपादान्तयमकं यथा- 'उद्देजयति भूतानि यस्य राज: कुशासनम्। सिंहासनवियुक्तस्य तस्य क्षिमं कुशासनम् ।'
एवमकान्तरपादाादमध्ययमकान्यूह्यान। समस्तपादान्तयमकं यथा 'नतोन्नतभ्रूगतिबद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम्। मनः किमुत्ताम्यसि चञ्चलास्यां कृती स्मराज्ञा यदि पुष्कला स्थाम् ॥' सपदीति। स्मितशुचिना कामतत्त्वदीक्षितेन त्वदीक्षितेन सपदि कृतपदो जनस्तदैव सचितदाहो भवति। न कुतश्चित् कुतोऽपि न मृषा खलु। अहो। एकान्तरितपादान्तयमकमाह -- एकान्तरेति। यस्य राज्ञः कुशासनं कुत्सितं शासनं भूतानि प्राणिन उद्वेजयति। सिंहासनवियुक्तस्य तस्य कुशासनं कुशमयमासनं भवति। एवमिति। एकान्तरितपादादियमकं यथा -- 'करोऽतिताय्रो रामाणां तन्त्रीताडनविभ्रमम्। करोति सेष्य कान्ते च श्रवणोत्पलताडनम् ॥ एकान्तरित- पादमध्ययमकं यथा -- 'यान्ति यस्यान्तिके सर्वेऽप्यन्तकान्तमुपाधयः। तं शान्त- चित्तवृत्तान्तं कालीकान्तमुपास्महे ॥' इति। चतुर्ष्वपि पादेषु अन्तयमकमुदाहरति -- नतोन्नतेति। हे चञ्चल मनः, नते उन्नते च भ्रुवौ तयोर्गतिभिर्वलनभङ्गीमिर्बद्धं लास्यं शृङ्गारनटनं यया ताम्। शशीव पेशलं मनोज्ञमास्यं यस्यास्तां तन्वीं विलोक्य किमुत्ताम्यसि। अस्यां तन्व्यां स्मराज्ञा यदि पुष्कला भवेत्, तर्हि कृती स्यामिति संबन्धः ।
Page 123
अ. १.] कामधेनुसहिता। १०३
एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि। अन्ये च संकरजातिभेदा: सुधियोत्मेक्ष्याः। अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च। एकाक्षरं यथा- 'नानाकारेण कान्ताभ्रूराराधितमनोभुवा। विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ।।' एवं स्थानान्तरयोगेऽपपि द्रष्टव्यः । सजातीयनैरन्तर्यादस्य प्रकर्षो भवति। स चायं हरिमबोधे दृश्यते; यथा-
एवमिति। समस्तपादादियमकं यथा-'सारसालंकृताकारा सारसामोद- निर्भरा। सारसालवृतप्रान्ता सा रसाढ्या सरोजिनी ।।' समस्तपादमध्ययमकं यथा-'स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान्। अमायते यतेऽप्यभूत्सु- खाय ते यते क्षयम् ।।' अन्ये चेति। 'सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्दृतममुम्। मता फणवतोऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥' इत्यादि। अक्षरयमकम् अध्यक्षयितुं तद्विभागमाह -- अक्षरयमकमिति। तत्रा द्यमुदाहरति -- नानेति। नानाकारेण विविक्तेन शुद्धेन आराधितमनोभुवा विलासेन। कान्ताभ्रूः, नृणां हृदयं ततक्ष। 'अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् । धातूपसर्गयोः शास्ते धातुरेव हि तादृशः ॥' इति वचनात् विश- ब्दस्य धात्वंशत्वेनाक्षरावृत्तिरेवेति न पदावृत्तिशङ्कावकाशः ।
एवमिति। स्थानान्तरयोगे यथा-'सभासु राजन्नसुरा राणां वसुराजितैः स्तुताः । न भासुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः' ॥ इति, 'अकलङ्वशशाङ्काङ्कामिन्दुमौलेर्मतिर्मम' इत्यादि। इत्थमक्षरयमकमुदाहृत्य तदेव नैरन्तर्येणावृत्तमुदाहर्तुमुपक्लोकयति -- सजातीयेति।
Page 124
१०४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
'विविधधववना नागगर्द्धर्दनाना- विविततगगनानाममज्जज्जनाना। रुरुशशललना नाववन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना ।।' अनया च वर्णयमकमालया पदयमकमाला व्याख्याता। भङ्गादुत्कर्षः ॥ ३ ॥ उत्कृष्टं खलु यमकं भङ्गान्भ्रवति। शृङ्खला परिवर्तकश्चूर्णमिति भङ्गमार्ग: ॥४॥ विविधेति। अत्र पारावारपरिसरभुवमभिलक्ष्य हलघरं हरिराह। विविधानि बह्ुविधानि धवानामर्जुनानां वनानि यस्यां सा विविधधववना 'धवो वृक्षे नरे पत्यावर्जुने च द्रुमान्तरे' इति वैजयन्ती। नागाः कुञ्जराः सर्पा वा तान् गृध्यन्ति अभिलषन्तीति नागगर्द्धाः; तथाविधा ऋद्धाः समृद्धा ये नाना- विधा वयः पक्षिणः, तैर्विततं व्याप्तं गगनं यस्याः सा नागगर्द्धर्द्वनानाविवि- ततगगना। न विद्यते नामो नमनं यस्मिन् कर्मणि तत्तथा मज्जन्तो जना यस्यां सा अनाममज्जज्जना। अनिति प्राणितीति अना, स्फुरन्तीति यावत्। अथवा न विद्यन्ते नरो यस्यां सा अना। समासान्तविघेरनित्यत्वात् कबभावः । रुरूणां शशानां च ललनं विलसनं यस्यां सा रुरुशशललना। नौ आवयोः, अबन्धुं शत्रुं धुनाना । हि यस्मात् कारणात्। मम हितं तनोतीति हिततना। न विद्यते आननं यस्यासौ अनाननः, स्व आत्मीयः खन एव अनः प्राणनं यस्याः सा अनाननस्वस्वनाना । एवंविधा समुद्रभूमिरिति वाक्यार्थः ।
पदयमकमालेति। 'खभुवे खभुवे भयोभयोर्भवतां भवताम्भसि ते भसिते' इत्यादि द्रष्टव्यम्। अथ यमकगोचरमेव किंचद्वैचित्र्यमासूत्रयितुमाह -- भङ्गादुत्कर्ष इति। व्याचष्टे-उत्कृष्टमिति। भग्मो नाम वर्णविच्छेदः। भ्जभेदान् भणेतुमनुभाषते -- शृद्खलेति। वृत्तिः स्पष्टार्था।
Page 125
अ. १.] कामधेनुसहिता। १०५
एते खलु भृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति। तान् क्रमेण व्याचऐटे- वर्णविच्छेदचलनं शृङ्खला ॥ ५॥ वर्णानां विच्छेदो वर्णविच्छेद:, तस्य चलनं यत्, सा भृङ्खला। यथा- कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्, लिमवर्णयोर्विच्छेदात्। सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ॥६॥ अन्यवर्णसंसर्ग: सङ्ग:, तद्विनिवृत्तौ स्वरूपस्य अन्यवर्णतिरस्कृ- तस्य आपत्तिः प्राप्तिः परिवर्तकः। यथा-'कलिकामघुगर्हितम्' इत्यत्र अर्हितमिति पदं गकारस्य व्यञ्जनस्य सङ्गात् गार्हितमित्यन्यस्य रूप-
शृङ्गलादीन् संकथयितुं सूत्रमवतारयति -- तानिति। विग्रहं विवृण्वन् व्याचष्टे-वर्णानामिति। लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-यथेति। 'कलि- कामघुशब्दे कामशब्दविच्छेदे च तस्य चलनम्' इति पाठः । अत्र चस्त्वर्थे। पदद्वयात्मके कलिकामधुशब्दे, कामशब्दस्य तु विच्छेदे पृथकारे तस्य कलि- कामधुशब्दस्य चलनं भवति। कुत इत्यत आह-लिमवर्णयोरिति। यद्वा, 'कलिकामधुशब्दे कामशब्दविच्छेदे मधुशब्दविच्छेदे च तस्य चलनम्' इति पाठान्तरम् । अत्र चः समुच्चये । अत्र कामशब्दस्य विच्छेदे पृथक्कारे कलि- काविच्छेदस्य चलनं भवति, लिवर्णस्य विच्छेदात्। मधुशब्दस्य विच्छेदे पृथक्कारे कामविच्छेदस्य चलनं भवति, मवर्णस्य विच्छेदादित्यर्थः । एवं शृङ्ग- लारूपेण वर्णविच्छेद प्रतीतेरयं भङ्गमार्ग: शृङ्कलेति व्यपदिश्यते। परिवर्तकं कीर्तयितुमाह-सङ्गेति। तद्विनिवृत्तौ अन्यवर्णसाऊत्य- विनिवृच्तौ। अन्यवर्णो व्य्ञनम्, तेन तिरस्कृतस्व तिरोहितस्य स्वरूपस्यापत्तिः। अर्थान्तरभ्रमं निवारयति- माप्तिरितति। लक्ष्ये लक्षणं योजयति- ययेति। 14
Page 126
१०६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
मापन्नम्। तत्र व्यञ्जनसक्के विनिवृत्ते स्वरूपमापद्यते-अर्हितमिति। अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयममिति तात्पर्यार्थः। एतेनेतरावपि व्याख्यातौ। पिण्डाक्षरभेदे स्वरूपलोपश्चूर्णमू॥७॥ पिण्डाक्षरस्य भेदे सति पदस्य स्वरूपलोपः चूर्णम्। यथा- 'योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः । सागि बिभर्ति च सलिलं दूरसमुन्मुक्तशुक्तिमीनाङ्कान्तः।।' अत्र शुक्तिपदे क्ीति पिण्डाक्षरम्, तस्य भेदे शुक्तिपदं लुप्यते, ककारतिकारयोरन्यत्र संक्रमात्। दूरसमुन्मुक्तशुक् अचलकुलम्, तिमी- नां कान्त: समुद्रः! स्पष्टमन्यत्। नन्वन्यवर्णसंयोगे हि यमकत्वं संगच्छते, कथं तन्निवृत्तिरुपयुज्यत इत्याशङ्कय तात्पर्यमाविष्करोति- अन्यवर्णसंक्रमेणेति। एतेनेति। नानावि- च्छेदशालिपदमेलने स्वरूपलाभ:, भिन्नयोहलोः पिण्डीकरणे च स्वरूपलाभ इति द्वौ भेदौ द्रष्टव्यौ। चूर्णकं वर्णयितुयाह-पिण्डाक्षरस्येति। पिण्डाक्षरस्य संयुक्ताक्षरस्य। उदाहरति-योऽचलकुलमिति। दूरे समुन्मुक्ता शुक् शोको येन। तिमीनां मत्स्ानां कान्तः प्रियः । उन्मुक्ता उद्गतमुक्ताः शुक्तय उन्मुक्तशुक्तयः मीनाश्च अङ्का यस्य स तादकू अन्तः पर्यन्तो यस्य तादृशो यः समुद्रः। चलं भयचश्चलं दूरसमुन्मुक्तशुक् अचलकुलमवति। दूरसं दुष्टरसं साभि सलिलं बिभर्ति च। लक्ष्ये लक्षणानुगममभिलक्षयति-अन्रेति। पिण्डाक्षरं दर्शयतिशुक्तिपदे क्ती ति। तस्य पिण्डाक्षरस्य वर्णयोः शुगित्यत्र ककारस्य तिमीत्यत्र तिकारस्य च भेे शुक्तिपदस्वरूपं लुप्यते; तत्र हेतुमाह-ककारेति। ककारतिकारयोः अन्य् शुक्तिपदे तिभिपदे च संक्रमादित्यर्थः । संक्रममेव दर्शयति- दूरसमुन्मु क्तशुगिति, तिमीनामिति च। विशेषणद्वयस् यथासङ्गयं विशेष्यद्वयं दर्श यति- अचलकुलमेति, कान्तः समुद्र इति च।
Page 127
अ. १.] कामधेनुसहिता। १०७
अत्र श्रोका :- अखण्डवर्णविन्यासचलनं भृङ्खलामला। अनेन खलु भङ्गेन यमकानां विचित्रता। यदन्यसङ्गमुत्सृज्य नेपथ्यामेव नर्तकः । शब्द: स्वरूपमारोहेत्स ज्ञेयः परिवर्तकः ॥ पिण्डाक्षरस्य भेदेन पूर्वापरपदाश्रयात्। वर्णयोः पदलोपो यः स भङ्गश्चूर्णसंज्ञकः ॥ अप्राप्तचूर्णभङ्गानि यथास्थानस्थितान्यपि। अलकानीव नात्यर्थ यमकानि चकासति॥ विभक्तिपरिणामेन यत्र भङ्ग: कचिद्द्रवेत्। न तदिच्छन्ति यमकं यमकोत्कर्षकोविदाः॥ आरूढं भूयसा यन्तु पदं यमकभूमिकाम्। दुष्येच्चन्न पुनस्तस्य युक्तानुपासकल्पना ।। विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च। आवृत्ति: सुप्तिङनन्तानां मिथश्च यमकाद्ुतम् ॥
प्रतिपादितेऽर्थे परसंवादं प्रकटयति-अत्र श्लोका इति। पद्यत्रयं स्पष्टार्थम्। भङ्गादुत्कर्ष इत्युपक्रम्य भङ्गमार्गेषु प्रकर्ष प्रतिपाद्य अन्यत्रापकर्ष- मवगमयितुमाह- अप्राप्तेति। अप्राप्तचूर्णभङ्गानीति विशेषणमलकेष्वपि यो- जनीयम्, विभक्तीति। विभक्तीनां परिणामो विपरिणामः, अन्यथाभाव इति यावत्। उदाहरणं तु 'शिवमात्मनि सत्त्वस्थान् पश्यतः पश्यतः शिवौ' इत्यादि द्रष्टव्यम्। आरूढमिति। यत्पदं भूयसा भूम्ना, यमकभूमिकां यमक- वदवभासमानत्वम्, आरूढम् , तत् दुष्येत् दुष्टं भवेत्। ननु न चेचद्यमकम्, तर्ह्यनुप्रासोऽस्त्विति शङ्कां शकलीकरोति -- न पुनरिति। यथा दण्डिनोक्तम्, 'कालकाल गलकाल कालमुख-' इत्यादि। विभक्तीनामिति। प्रथमादीनां विभक्तीनां विभक्तत्वं विविधत्वम्, एकवचनादिलक्षणायाः संख्यायाः कर्तृकर्मादेः
Page 128
१०८ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
शेष: सरूपोऽनुप्रासः॥८।। पदमेकार्थमनेकार्थ च स्थानानियतं तद्विधमक्षरं च शेषः। सरू- पः अन्येन प्रयुक्तेन तुल्यरूपः अनुमासः। ननु 'शेषोऽनुपासः' इत्येतावदेव सूत्रं कस्मान्न कृतम्! आवृत्ति- शेषोऽनुमास इत्येव हि व्याख्यास्यते; सत्यम् ; सिध्यत्येवावृत्तिशेषे; किं- त्वव्याप्तिपसङ्गः; विशेषार्थ च सरूपग्रहणम्-कार्त्स््येनैवावृत्तिः, का- त्स्न्यैकदेशाभ्यां च सारूप्यमिति।
कारकस्य विभक्तत्वम्, सुबन्तानां तिडन्तानां च पदानामावृत्तिर्यत्र, तत् यमकाद्ु- तम् अतिशयितं यमकमित्यर्थः । क्रमेणोदाहरणानि 'विश्वप्रमात्ना भवता जगन्ति व्याप्तानि मात्रापि न मुञ्चति त्वाम्' इति, 'एताः सन्नाभयो बाला यासां सन्नाभयः प्रियः' इति, 'यतस्ततः प्राप्तगुणः प्रभावे यतस्ततश्च्ेतसि भासतेऽयम्' इति, 'सरति स रतिकान्तस्ते ललामो ललामः' इत्यादीनि। अत्न विभक्तिविपरिणा- ममाते यमकत्वहानिः। प्रकृत्यर्थस्यापि भेदे यमकाद्भुतत्वमिति विवेकः ।
इत्थं यमकं लक्षयित्वा अनुप्रासं लक्षयितुमाह- शेष इति। शेषश- ब्दार्थमाह- पदमिति। स्थानानियतं प्रागुक्तस्थाननियमरहितमित्यर्थः । एकार्थ पदम्, स्थानानियतमनेकार्थ च, तद्विधं तथाविधमस्थाननियममक्षरं शेषः । सरूषपदार्थमाह-सरूप इति। अन्येन अक्षरेन प्रयुक्तेन पदान्तरेण वा तुल्यरूपः शेषोऽनुप्रासो भवति। अत्र सूत्रे सरूपपदवैयर्थ्यमाशकते-नन्विति। शेषोडनुप्रास इत्येब कृते सूत्रे आवृत्तप्रदानुषङ्कादस्थाननियमं पदमक्षरं च आवृत्त- मनुप्रासो भवतीति सूत्रार्थे संपन्ने सारूप्यमर्थात् संपत्स्यते; किं सरूपग्रहणेनेति शह्ार्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति। अज्गीकृतमंशमाह-सिध्यत्ये- वेति। सारूप्यमिति श्ेषः । तथाप्यावृत्तेरविशेषत्वेन सामान्येन बत् व्यापं कात्स्न्येनावृत्तत्वम्, तन्मान्रप्रसङ्भः स्यात्; विशेषस्तु न सिध्येदित्वर्थः । तमेव विश्ञेषं दर्शवितुमाह-विशेषार्थ चेति। वद्यपि सामान्येन कातर्न्येनावृत्ति- र्भवति, तथापि कात्सन्यैकदेशाभ्यां सारूप्यमत्र वक्त्तव्यमिति सरूपग्रहणं कृत- मित्यर्थः ।
Page 129
अ. १.] कामधेनुसहिता। १०९
अनुल्बणो वर्णानुप्रासः श्रेयान् ॥९॥ यो वर्णानुभास:, स खलु अनुल्वणः अपीनः श्रेयान्। उल्वणस्तु न श्रेयान्। यथा- 'वल्लीबद्धोर्ध्वजूटोन्भ्टमटति रट- त्कोटिकोदण्डदण्डः' इति। पादानुप्रासः पादयमकवत्॥। १० ॥ ये पादयमकस्य भेदाः, ते पादानुपासस्येत्यर्थः। तेषामुदाहरणानि यथा- 'कविराजमविज्ञाय कुतः काव्यक्रियादरः। कविराजं च विज्ञाय कुतः काव्यक्रियादरः॥' 'आखण्डयन्ति मुहुरामलकीफलानि बालानि बालकपिलोचनपिङ्गलानि।' 'वस्न्नायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश काशाः काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसा:। अनुप्रासो द्विविध :- उल्बण: अनुल्बणश्च। तत्रोल्बणादनुल्बण उत्कृष्ट इत्युपपादयितुमाह- अनुल्बण इति। व्याचष्टे- यो वर्णानुभास इति। अनुल्बणपदव्याख्यानम्-अपीन इति। मसृण इत्यर्थः । उदाहरणं तु 'अप- सारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥' इत्यादि प्रसिद्धमिति मत्वा उल्बणमुदाहरति -- यथा वल्लीबद्धेति। 'पादानुप्रासः पादयमकवत्' इत्यत्रातिदेशप्राप्तमर्थमावेदयति -- ये पा- दयमकस्येति। कविराजमिति। एकत्र आदरः, अन्यत्न दरः। 'दरत्नासौ भीतिर्भी: साध्वसं भयम्' इत्यमरः। उभयत्र आदर इति वा व्याख्येयम्। आखण्डयन्तीति। अत्न 'लानि' इत्यक्षरानुप्रासः। वस्त्रायन्त इति। हे श्रीशसंकाश, सितकुसुमधराः काशाः नदीनां वस्नायन्ते दुकूलवदाचरन्तीत्यर्थः ।
Page 130
११० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्र- श्रन्द्राङ्क: शारदस्ते जयकृदुपगतो विद्विषां काल कालः ।' 'कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां विमुञ्चति केशनः । कुवलयट्लश्यामा श्यामालताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते।' एवमन्येऽपि द्रष्टव्याः।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः ॥
हे श्रीनदीहंस श्री राज्यलक्ष्मीरेव नदी तत्र हंस, तासां नदीनां नवपुलिनगताः काशाभा हंसा भान्ति। हे मेदिनीचन्द्र, चन्द्रः हंसाभैरम्भोदैर्मुक्तः, अत एव स्फुरदमलरुचिर्भवति। हे विद्विषां काल, चन्द्राङ्क: शारदः कालः, ते जयकृदुपगत इति। अत्र समस्तपादान्तपदानुप्रासः। पादान्तपदानामुपरि पादा- दिषु पुनर्ग्रहणान्मुक्तपदग्रहाख्यमन्यदपि वैचित्र्यं द्रष्टव्यम्। कुवलयदलेति। अत्न सर्वपादादिपदानुप्रासः । एवमन्येऽपीति। 'सितकरकररुचिरविभा विभा- कराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस।' इत्यादयः प्रत्येतव्याः ॥
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनौ आलंकारिके नाम चतुर्थेऽधिकरणे प्रथमोऽध्यायः॥
Page 131
द्वितीयोऽध्यायः॥
संप्रत्यर्थालंकाराणां पस्तावः; तन्मूलं चोपमेति सैव विचार्यते। उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥१॥ उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्, तत् उपमानम्। यदुपमीयते न्यूनगुणम्, तत् उपमेयम्। उपमानेनोपमेयस्य गुणलेशतः साम्यं यत्, असावुपमेति। ननु च उपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ, तयोरेकतरो- पादानेनैवान्यतरसिद्धिः । यथा 'उपमितं व्याघ्रादिभिः सामान्यापयोगे' इत्यत्रोपमितग्रहणमेव कृतम्, नोपमानग्रहणमिति। तद्वदत्रोभयग्रहणं न कर्तव्यम्; सत्यम्; तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम्। यदेवोपमेयसुप-
उत्खण्डिततम:स्तोममुपेयमुपरि श्रुतेः ।
शब्दालंकारेषु चर्चितेषु, खलेकपोतन्यायादखिलानामर्थालंकाराणामशे- षेण प्राप्तौ, प्रकृतित्वात्तेषां प्रथममुपमां प्रस्तौति- संप्रतीति। व्याख्यातुं सूत्रमुपादत्ते-उपमानेनेति। उपमानोपमेयपदव्युत्पत्तिं प्रदर्शयति-उपमीयत इति। उत्कृष्टगुणेन येन चन्द्रादिना सादृश्यमानीयतेऽन्यन्मुखादिकम्, तदुपमा- नम्। यत्तु न्यूनगुणमुत्कृष्टगुणेनान्येनोपमीयते तदुपमेयम्, उपमानेन सादृश्यं प्रापयितुमर्हमित्यर्थः । गुणलेशत इति। गुणा उपमानोपमेययोरुत्कृष्टधर्माः, तेषां लेशत एकदेशतः, कचिदपि सर्वोकारसादृश्यासंभवादिति भावः। ननु संबन्धिशब्दयोरेकतरग्रहणेऽन्यतरस्ानुक्तसिद्धत्वमिति शङ्कते- ननु चेति। अमुमर्थमभियुक्तोक्तिसंवादेन समर्थयते-यथेति। 'उपमितं व्याघ्रादिभिः' इति पाणिनीयसूत्रे यथोपमितपदग्रहणेनैव व्याघ्रादीनामुपमानत्वमवगम्यते, तद्वदत्राप्यु- पमानग्रहणं न कर्तव्यमिति शङ्कितुरभिप्रायः । परिहरति- तत्कृतमिति।
Page 132
११२ काव्यालंकारसूत्रवृत्ति: [अषि. ४.
मानं च लोकमसिद्धम्, तदेव परिगृह्मते नेतरत्। न हि यथा मुखं क- मलमिन इति, तथा कुसुदमिव इत्यपि भवति।। गुणबाहुल्यतश्च कल्पिता ॥ २ ॥ गुणानां बाहुल्यं गुणवाहुल्यम्, तत उपमानोपमेययोः साम्यात् कल्पितोपमा; कविभि: कल्पितत्वात् कल्पिता। पूर्वा तु लौकिकी। ननु कल्पिताया लोकमसिद्धयभावात् कथसुपमानोपमेयनियमः१ गुण- बाहुल्यस्योत्कर्षापकर्षकल्पनाभ्याम्। तद्था- 'उद्गर्भहूणतरुणीरमणोपमर्द- भुग्रोन्नतस्तननिवेशनिभं हिमांशो: । बिम्बं कठोरबिसकाण्डकडारगौरै- र्विष्णोः पदं पथममग्रकरैर्व्यनक्ति ॥' तत् उभयग्रहणं कृतम्। किमर्थम्? लोकपसिद्धस्योपमानस्य परिग्रहार्थम्। न ह्यत्न व्युत्पत्तिबलादागतमुपमानं विवक्षितम्, किंतु लोकप्रसिद्धमेवेत्यवगमयितुमु- भयग्रहणं कृतमित्यर्थः । तत्प्रसिद्धप्रसिद्धी दर्शयति- यथेति। यथा मुखं पद्ममिवेत्यत्र पद्म मुखोपमानत्वेन प्रसिद्धम्, न तथा कुमुदमिवेत्यपि भवति प्रसि- द्धमिति भावः । लौकिकी कल्पिता चेत्युपमा द्विविधा; तन्र कल्पितोपमां प्रकटयितुमाह- गुणवाहुल्यत इति। उपमायाः कल्पितत्वव्यपदेशे कारणमाह-कविभि- रिति। या पुनरुपमा गुणलेशतः साम्यलक्षणा सा लौकिकी प्रागुक्तैवेत्याह- पूर्वा तु लौकिकीति। प्रसिद्धयभावात् कल्पितायामिदमुपमानमिदसुपमेयमिति व्यवस्था न घटत इति शङ्कते- नन्विति। इह खलूपमानोपमेययोर्मुखचन्द्र योर्गुणोत्कर्षापकर्षौ व्यवस्थापकौ। तत्तत्कल्पनया कल्पितायामुपमानोपमेयनियमो घटते। अतो न लोकविरोध इति परिहरति- गुणवाहुल्यस्येति। उदा- हरति -- तद्ययेति। उदर्भा व्यक्तगर्मा या हूणास्यजनपदतरुणी तस्वा रमणेन भर्त्रा उपमर्दो गाढालिकनं तेन भुगः स चासावुनतः सनश् भुभोबतसनः तर
Page 133
अ. २.] कामधेनुसहिता। ११३
'सद्योमुण्डितमत्तहूणचिवुकमस्पर्धि नारङ्कम्।' 'अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम्।' 'इदानीं प्क्षाणां जरठदलविश्लेषचतुर- स्तिभीनामाबद्धस्फुरितशुकचञ्चूपुटनिभम्। ततः स्त्रीणां हन्त क्षममधरकान्ति तुलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम्।।' तड्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ॥ ३॥ तस्या उपमाया द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात्। एका पदार्थ- वृत्तिः, अन्या वाक्यार्थवृत्तिरिति। पदार्थवृत्तिर्यथा- 'हरिततनुषु बभ्चुत्वग्विमुक्तासु यासां कनककणसधर्मा मान्मथो रोमभेदः।'
निवेश: संनिवेशो मण्डलाकार इति यावत् तन्निभम्। हिमांशोर्बिम्बम्। कठोर- बिसकाण्डा इव कडारगौरा: कपिशावदातास्तैः। अग्रकरैः, प्रथममग्रे, विष्णोः पदमाकाशं व्यनक्ति। विषयव्याप्त्यर्थमुदाहरणान्तराण्याह- सद इति। मुण्डितेन वापितेन मत्तस्य हूणजनपदपुरुषस्य चिवुकेन प्रस्पर्द्धितुं शीलमस्यास्तीति तत्संनिभं भवति नारञ्जकमिति। इदानीमिति। जरठदलानां जीर्णपर्णानां विक्लेषेण चतुरा मनोज्ञा: स्तिभयोऽक्कुरा येषाम्। 'सितिभिश्च सितिमितः शुङ्गोऽप्यड्कूरोऽ- क्ुर एव च' इति हलायुधः। तेषां प्लक्षाणां किसलयम्। आबद्धो घटितः स्फुरित ईषद्विवृतः शुकस्य यश्चश्चूपुटस्तत्संनिभं भवति। ततोऽनन्तरम्। स्फुट- सुभगरागं व्यक्तमनोज्ञारुण्यम्, स्त्रीणामधरकान्तिं तुलयितुं क्षमं योग्यं सत्, निर्याति। उपमाविभागमुदीरयितुमाह-तद्रैविध्यमिति। व्याचष्टे-तस्या इति। पदार्थवृत्तिमुपमां प्रतिपादयति- पदार्थेति। हरिततनुष्विति। कनककणस-
Page 134
११४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
वाक्यार्थवृत्तिर्यथा- 'पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिरझेरोद्वार इवाद्रिराज:।l' सा पूर्णा लुप्ता च ।। ४ । सा उपमा पूर्णा लुप्ता च भवति। गुणद्योतकोपमानोपमेयशब्दानां सामग््ये पूर्णा । ५॥ गुणादिशब्दानां सामग्न्ये साकल्ये पूर्णा। यथा- 'कमलमिव सुखं मनोजमेतत्' इति। लोपे लुप्ता ॥। ६ ।। गुणादिशब्दानां लोपे वैकल्ये लुप्ता।
धर्मेत्यत्र पदार्थवृत्तिरुपमा। वाक्यार्थवृत्तिमुपमामुदाहरति-पाण्ड्योऽयमिति। पुनर्भेदं प्रादुर्भावयितुमाह-सा पूर्णा लुप्ता चेति। पूर्णी वर्णयितुमाह -- गुणद्योतकेति। व्याचष्टे- गुणादीति। उप- मानोपमेयसमानधर्मसादृश्यप्रतिपादकानामन्यूनत्वेन प्रयोगे पूर्णा। कमलमि- वेति। अत्र कमलमुपमानम्, मुखमुपमेयम्, इवशब्दः सादृश्यद्योतकः, मनोज्ञ- शब्द: समानधर्मवचनः; एतेषामन्यूनतया प्रयोगादियमुपमा पूर्णा। लुपां लक्षयति -- लोप इति। गुणादिशब्दानामिति। उपमानोप- मेयगुणसादृश्यप्रतिपादकानां मध्ये एकस्य द्वयोस्याणां वा लोपे लुप्ता। शशीव राजेत्यत्र साधारणधर्मस्याप्रयोगादेकस्य लोपः । दूर्वाश्यामेत्यत्रोदाहरणे सादृश्य- द्योतकस्याप्रयोगादेकस्य लोपः। श्यामाशब्देनैव धर्मधर्मिणोरुक्तत्वात्। 'दूर्बा-
Page 135
अ. २.) कामधेनुसहिता। ११५
गुणशब्दलोपे यथा- 'शशीव राजा' इति। दयोतकशब्दलोपे यथा- 'दूर्वाभ्यामेयम्' इति। उभयलोपे यथा- 'शशिमुखी' इति। उपमानोपमेयलोपस्तूपमामपञ्चे द्रष्टव्यः। स्तुतिनिन्दातत्त्वाख्यानेषु ॥७॥ स्तुतौ निन्दायां तत्वाख्याने चास्याः प्रयोगः । स्तुतिनिन्दयोर्यथा- 'स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव।' तत्वाख्याने यथा- 'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले। यस्तन्वि तारकान्यास: शकटाकारमाश्रितः ।।' हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्या- संभवास्तदोषाः॥८।।
तस्या उपमाया दोषा भवन्ति-हीनत्वम्, अधिकत्वम्, लिद्ग- भेद:, वचनभेदः, असादृश्यम्, असंभव इति। मरकतश्यामं दुष्टराक्षसहारि यत्। अचलं लोचनाआरन्मे मा चलत्वनिशं महः ॥' इत्युदाहरणान्तरमपि द्रष्टव्यम्। शशिमुखीत्यत्न सादृश्यधर्मवचनयोरद्वयोर्लोपः । उपमानस्योपमेयस्य वा लोपः समासोक्त्यादावुदाहरिष्यत इत्याह -- उपमा- नेति। समासोक्त्यादावुपमेयस्य, आक्षेपादावुपमानस्य लोप इति द्रष्टव्यम्। उपमामात्स्य विषयं दर्शयितुमाह- स्तुतीति। स्न्निग्धमित्यादौ स्तुतिः । हालाहलमित्यादौ निन्दा। तां रोहिणीमित्यत्र तत्त्वाख्यानम्। उपमादोषानुद्धाटयितुमाह- हीनत्वोति। समासार्थ विविच्य दर्श- यति- तस्या इति।
Page 136
११६ [अधि. ४.
तान् क्रमेण व्याख्यातुमाह- जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम्॥ ९॥ जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या, तत् हीनत्व- मिति। जातिन्यूनत्वरूपं हीनत्वं यथा-'चाण्डालैरिव युष्माभिः साइसं परमं कृतम्' प्रमाणन्यूनत्वरूपं हीनत्वं यथा- 'वहिस्फुलिङ्ग इव भानुरयं चकास्ति' उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्, तत् धर्मन्यूनत्वम्; तद्रूपं हीनत्वं यथा- 'स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्रीलजीमूतभागाश्िष्ट इवांशुमान् ।।' अत्र मौञ्जीपतिवस्तु तटिभ्ास्त्युपमान इति र्हानत्वम्। न च कृ- ष्णाजिनपटमात्रस्योपमेयत्वं युक्तम्, मौञ्ज्या व्यर्थत्वप्रसङ्गात्। ननु
तत्र प्रथमोहिष्टं हीनत्वं प्रथयितुमाह- जातीति । व्याचष्टे -- जात्येति । जातिर्ब्राह्मणत्वादिः। प्रमाणं परिमाणम्। धर्मेः समानगुणः । एतेषामन्यतमेन न्यूनत्वमुपमानस्य हीनत्वम् । तत्राद्यमुदाहरति- जाति- न्यूनत्वरूपमिति। चाण्डालैरित्यत् साहसकारित्वं साधर्म्यम्। जातिन्यूनत्वं स्फुटम्। वहिस्फुलिङ्ग इत्यत्र परिमाणन्यूनत्वमतिरोहितमेव। स मुनिरिति। नीलजीमूतेन कृष्णमेघेन भागे एकत्र प्रदेशे आश्िष्टः। धर्मता न्यूनत्व- मुपमानस्य दर्शयति-अन्रेति। मौञ्ज्याः समानं वस्तु प्रतिवस्तु तटित्, सात्र नास्ति, उपमानविशेषणतया अनुपादानादित्यर्थः । ननु उपमाने यावहृ- ष्टम्, तावदेव साधर्म्यमुपमेये विवक्षितम्। मौझीलाञ्छनं तु स्वरूपकथनार्थ- मिति शड्टां शकलयति -- न चेति। नीलजीमूतस्य तटित्साहचर्यात् तद्गहणे- नैव तटित्संवित्तिरप्युपलभ्यते; ततो न काचिन्न्यूनतेति शङ्ते- नन्विति।
Page 137
अ. २.] कामधेनुसहिता। ११७
नीलजीमूतग्रदणेनैव तडित्मतिपाद्ते; तन्न; व्यभिचाराठ्। अव्यभिचारे तु भवन्ती प्रतिपत्ति: केन वार्यते; तदाह- धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ॥ १० ।। धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य धर्मस्य संवित् प्रतिपत्ति- र्भवति। कुतः! साहचर्यात्। सहचररितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्दे- शेऽन्यस्य प्रतिपत्तिर्भवति। तघ्था- निर्दटष्टेऽपि बहदर्यने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोबिन्दवः। चूडाबर्बरके निपत्य कणिकाभावेन जाता: शिशो-
अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते; तत्र पिङ्गशब्देन पिङ्र- त्वे प्रतिपस्रे वृत्तत्वपतीतिर्भवति। एतेन 'कनकफलकचतुरश्रं श्रोणि-
तटितमन्तरेणापि नीलजीमूतस्य सद्भावान्नैवमिति परिहरति -- तन्न व्यभिचा- रादिति। व्यभिचाराभावे तु सहचरितधर्मप्रतीतिरस्त्येवेति प्रदर्शयितुमनन्तरसूत्रम- वतारयति- अव्यभिचारे त्विति। व्याचष्टे -- धर्मयोरिति। कार्यत्वानि- त्यत्ववदविनाभूतयोर्धर्मयोरेकस्य अहणेन अशाब्दस्याप्यन्यस्य प्रतिपत्तिर्भवति, तयोरव्यभिचारादिति वाक्यार्थः । उदाहरति- तथयेति। निर्दष्ट इति। बहिर्घने निर्वृष्टे निर्गतं वृष्टं वर्षणं यस्मात् तादशि सत्यपि। जरद्वेश्मनः शिथि- लगृहस्य। लूतास्तन्तुजालकरा: कमय.। 'लूता स्री तन्तुवायोर्णनाभमर्कटका. समाः' इत्यमरः । तत्तन्तूनां तती्छिन्दन्तीति तथोक्ताः । मधुप्ृषत्पिङ्काः मधु- बिन्दुपिक्लाः । पयोबिन्दवो न विरमन्ति। विरतेऽपि वर्षे वेश्मबिन्दवो न विर- मन्तीत्यर्थः । अन्रेति । मधुपृषतां वृत्तत्वपिङ्कत्वे सहचरिते अविनाभूते। तत्र पिकशब्देनैव पिकत्वप्रतिपत्तौ, अशाब्दयपि वृत्त्वप्रतीतिभर्वति। उदाहरणान्त-
Page 138
११८ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
विम्बम्' इति व्याख्यातम्। अत्र कनकफलकस्य गौरत्वचतुरश्रत्वयोः साहचर्योचतुरश्रत्वश्रुत्यैव गौरत्वप्तिपत्तिरिति। ननु च यदि धर्मन्यूनत्वमुपमानस्य दोष :; कथमयं प्रयोग :- 'सूर्याशु संमीलितलोचनेषु दीनेषु पद्मानिलनिर्मदेषु साध्व्य: स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ।' इति! अत्र बहुत्वमुपमेयधर्माणामुपमानात्; न; विशिष्टानामेव सुखाना- सुपमेयत्वात्, तादृशेष्वेव केकाविनाशस्य संभवात्। तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥ तेन हीनत्वेन अधिकत्वं व्याख्यातम्- जातिपमाणधर्माधिक्यम- धिकत्वमिति।
रमाह-कनकफलकेति। उक्तं सूत्रार्थमुदाहरणे योजयति- अन्रेति। कनकफ- लकस्य चतुरश्रत्वश्रुत्या तत्सहचरितं गौरत्वमपि प्रतीयते, अव्यभिचारादित्यर्थः ॥ धर्मन्यूनत्वस्योपमादोषत्वे प्रयोगविरोधमाशङ्कते-ननु चेति। प्रयोगं प्रदर्शयति-सूर्येति। मुखेष्वित्युपमेयस्य लोचनसंमीलनदैन्यनिर्मदत्वानां धर्मा- णां बाहुल्यं प्रतीयत इति विरोधः । परिहरति-नेति। भर्तृ हीनजनाश्रयत्वेन गृ- हेष्वपि दैन्यमवगम्यते। तादृशेषु गृहेषु साध्वीनामिव दैन्यविशिष्टेषु शिखििमुखेषु केकानां विलयो वक्तव्यः, अन्यथा तदसंभवात्। दैन्यं च नेत्रनिमीलननिर्मद- त्वाभ्यां तदनुभावाभ्यामुपपादितमिति नास्ति धर्मन्यूनतेत्याह- विशिष्टा- नामिति। 'धर्मागमे दुर्मदतिग्मरश्मिसंतापसंमीलितलोचनेषु। साध्व्यः स्वगेहे- ष्विव भर्तृहीनाः केका विलीनाः शिखिनां मुखेषु ॥' इति विधान्तरं विधातुं न प्रबन्धकर्ता न प्रगल्भते; किंतु भर्तृहीनत्वस्य निर्मदत्वादेश्वोपपादकस्य भेदे- डप्युभयत्र दैन्यमेव साधर्म्यमिति विवक्षितमिति न कश्चिद्विरोधः । अधिकत्वं व्याख्यातुं सूत्रं व्याहरति- तेनेति। हीनत्वमिवाधिकत्व-
Page 139
अ. २.] कामधेनुसहिता। ११९
जात्याधिक्यरूपमधिकत्वं यथा- विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः। प्रमाणाधिक्यरूपं यथा- 'पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ:॥' धर्माधिक्य रूपं यथा- 'सरश्मि चश्चलं चक्रं दधददेवो व्यराजत। सवाडबाग्नि: सावर्तः स्रोतसामिव नायकः ॥' सवाडबाग्निरित्यस्य प्रतिवस्तुन उपमेयेऽभावाद्धर्माधिक्यमिति। अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावात् पृथगुपादानम्। अत एवास्माकं मते षद् दोषा इति। उपमानोपमेययोर्लिङ्गच्यत्यासो लिद्गभेदः ॥ १२ ॥ उपमानस्योपमेयस्य च लिक्योर्व्यत्यासो विपर्ययो लिङ्रभेदः । मपि जात्यादिभिस्त्रिविधम् । तस्य क्रमेणोदाहरणानि दर्शयति -- जात्येति। विष्टयः कारवो भृत्या वा। 'विष्टिः कारौ कर्मकरे' इति वैजयन्ती। पातालमि- त्यादि स्पष्टम् । सबाडबाभिः सावर्त इत्यत्राषिक्यमुपमाने दर्शयति -- सबा- डबेति। अत्र सरश्मीति चक्रविशेषणवदावर्तविशेषणानुपादानान्न्यूनत्वमपि द्रष्ट- व्यम्। जातिप्रमाणहीनत्वाधिकत्वे पदार्थोपमायां दोषः, धर्मन्यूनत्वाधिकत्वे तु वाक्यार्थोपमायाम्। पदार्थोपमायां न धर्मन्यूनाधिकभावः संभवति, समानधर्मस्यै- कत्वेन वाक्यार्थोपमायामिवानेकविशेषवेशिष्टयासंभवादिति द्रष्टव्यम् । विपर्य- याख्यस्येति। उपमेयधर्मस्व हीनत्वमधिकत्वं च विपर्ययः; तदात्मकस्य दोष- स्य हीनत्वाधिकत्वानतिरेकात् तत्रैवान्तर्भाव इति तन्निरूपणेनैव निरूपितप्राय- त्वान्न पृथगभिधानं कृतमित्यर्थः । अस्माकमिति । मत इति शेषः । लिङ्गभेदमुल्िज्यितुमाह- उपमानोपमेययोरिति। सूत्रार्थविवरणोदा- हरणे सुगमे एव। 'गज्जाप्रवाह इव तस्य निरर्गला वाक्' इत्यादिषु स्त्रीपुंसयो- रपि द्रष्टव्यः ।
Page 140
१२० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि।' इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥ पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेद: प्रायेण बाहुल्येन इषटः। यथा-'चन्द्रमिव मुखं पश्यति' इति। 'इन्दुरिव मुखं भाति' इत्येवंायं तु नेच्छन्ति । लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च।। १४॥ लौकिक्यासुपमायां समासाभिहितायासुपमायासुपमामपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति। लौकिक्यां यथा- 'छायेव स तस्याः' 'पुरुष इव स्त्री' इति। समासाभिहितायां यथा-'भुजलता नीलोत्पलसदृशी' इति।
उपमाभपञ्चे यथा- 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य। दूरीकृता: खलु गुणैरुद्यानलता वनलताभिः ॥' एवमन्यदपि प्रयोगजातं द्रष्टव्यम्।
उक्तयुक्त्या पुंनपुंसकयोर्दोषत्वप्रसञ्ने लिङ्गमेदस्य कचिदपवादं दर्शयितु- माह-इष्ट इति। एवंश्रायमिति। एवंप्रायं तु नेच्छन्तीत्यात्मनस्तत्रौदासी- न्यमवगमयति। यत्र हि लिङ्कभेदेऽपि विशेषणमुभयान्वयक्षमम्, तत्र न दोषः । यत्र तु विशेषणमेकत्रान्वितं सदितरत्र नान्वयक्षमम्, तत्र दोष इति तात्पर्यम्। लिन्रान्तरेSप्यपवादं दर्शयितुमाह- लौकिक्यामिति। लोकतः प्रसि- द्वा उपमा लौकिकी। समासेनाभिहिता लुप्ता। उपमाप्रपश्चः प्रतिवस्तुप्रभृतिः । तत्र लिग्मेद: प्रायेणेष्टः । उदाहरणानि दर्शयति- लौकिक्यामिति। उदाहरणा- नि स्पष्टार्थानि। शुद्धान्तदुर्लभमित्यत्न प्रतिवस्तूपमा। एवमिति। 'नेदं नभो- मण्डलमम्बुराशिः' इत्याद्यपहुत्यादौ द्रष्टव्यम्।
Page 141
अ. २.] कामघेतु सहिता।
तेन वचनभेदो व्याख्यातः॥। १५॥ तेन लिक्भेदेन वचनभेदो व्याख्यातः। यथा- 'पास्यामि लोचने तस्याः पुष्पं मधुलिहो यथा।'
अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥
अप्रतीतैरेव गुणैर्यत् सादृश्यम्, तत् अप्रतीतगुणसाद्ृश्यम् असा- दृश्यम्। यथा-'ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्।' काव्यस्य शशिना सह यत् सादृश्यम्, तदमतीतैरेव गुणैरिति। ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भवि- ष्यति; मैवम् ; काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिध्यति; नाप्यर्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति। तदेवमितरेतराश्रयदोषो दुरुत्तर इति।
वचनभेदं विवेचयितुमाह-तेनेति। पास्यामीति। पास्याम इति वक्तव्ये पास्यामीति प्रयुक्तत्वाद्वचनभेदः ।
असादृश्यं प्रकाशयितुमाह- अप्रतीतेति। अपतीतैः सहृदयसंवा- दिप्रतिपत्त्यविषयैरित्यर्थः । ग्रथामीति। काव्यशशिनोः सादृश्यमप्रतीतगुण- मित्यसादृश्यम्। नन्वर्थानां रश्मिसादृश्यप्रतीत्या काव्यशशिनोरपि सादृश्यं संभवतीति शङ्कते-नन्विति। परस्पराश्रयपराहतमिदं चोद्मिति परिह- रति-नैवमिति। अर्थानां रश्मिसादृश्ये सिद्धे शशिसादृश्यं काव्यस्य सिध्यति; सिद्धे च काव्यस्य शशिसादृश्येऽर्थानां रश्मिसादृश्यमिति परस्परा- श्रय इत्यर्थः । ननु काव्यशशिसादृश्यनिरपेक्षमेव अर्थरश्मिसादृश्यं संभवति; कुतः परस्पराश्रयप्रसङ्क इत्यत आह- नाप्यर्थानामिति। दुरुत्तरः दुष्परिहरः । 16
Page 142
१२२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
असादृश्यहता हुपमा तन्निष्ठाश्च कवयः ॥ १७॥ असादृश्येन हता असादृश्यहता उपमा। तिष्ठा उपमानिष्ठाश्च कवय इति। उपमानाधिक्यात्तदपोह इत्येके ॥। १८ ॥ उपमानानामाधिक्यात् तस्य असादृश्यस्य अपोह इत्येके मन्यन्ते। यथा- 'कर्पूरहारहरहाससितं यशस्ते।' इति। अत्र कर्पूरादिभिरुपमा- नैबहुभिः सादृश्यं यशसः सुस्थापितं भवति, तेषां शुक्कगुणातिरेकात्। नापुष्टार्थत्वात्॥ १९ ॥ उपमानाधिक्यादपोह इति यदुक्तम्, तन्न; अपुष्टार्थलात् एकस्मि-
सादृश्यैकसारायामुपमायां परां काष्ठामातिष्ठमानैः कविभिरसादृश्यमवश्य- मपोहनीयमिति शिक्षयितुं सूत्रमुपक्षिपति -- असादृश्येति। उपमानिष्ठाः उप- मापरायणा इत्यर्थः । परपक्षं प्रतिक्षेप्तुं पूर्वपक्षसूत्रमुपक्षिपति-उपमानेति। तदपोहः तस् असादृश्यस्य अपोहः परिहारः । उदाहरति-कपूरेति। श्वेतिमातिशयविशि- ष्टतंया वर्णनीये यशसि सितिमगुणाप्रतीतौ वैसादृश्यशङ्कायां सितिमगुणातिशय- विशिष्टैर्बहुभिरुपमानैः सादृश्यदृढीकरणे उपमेये शौक्ल्यगुणातिरेकावगमात् वैसादृश्यमपोह्यत इत्यभिसंधाय व्याचष्टे- अत्रेति। अन्र हेतुमाह- तेषामिति। बाहुल्येऽप्युपमानानामर्थप्रकर्षाधायकत्वाभावान्नायं पक्षो युज्यत इति दूषयितुं सूत्रमनुभाषते-नापुष्टार्थेत्वादिति। परपक्षमनूद्य प्रतिक्षिपति -- उपमानेति। अत्र हेतुमुपन्यस्वति -- अपुष्टार्थत्वादिति। हेतुं विवृणोति -- एकस्मिन्निति। एकेनैवोपमानेन सितिमगुणावगमे सिद्धे पुनः सहस्रमप्युप- मानानि यशसि सितिग्नः परं प्रकर्षमाधातुं न पारयन्तीत्यर्थः । ननु कर्पूगदयः शब्दा यशसि सितिमानं प्रतिपादयन्तः, सहृदयचर्वणीयत्वं परिष्कारत्वं व्यापकत्वं च गुणान्तरमवगमयन्ति; अतोऽस्त्येवार्थपरिपोष इति चेत्, मैवम्; कर्पू-
Page 143
अ. २.] कामधेनुसहिता। १२३
न्युपमाने प्रयुक्ते उपामानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति। एतेन 'बलसिन्धुः सिन्धुरिव क्षुभितः' इति प्रत्युक्तम्। ननु सिन्धुशब्दस्य द्वि :- प्रयोगात्पौनरुक्त्यम्; न ; अर्थविशेषात्; बलं सिन्धुरिव वैपुल्यात् बल- सिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात्। तस्मादर्थभेदान्न पौनरु- क्यम्। अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं प्रति- पत्स्यते। उक्तं हि-'धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्याद्' इति। अनुपपत्तिरसंभवः ॥ २० ॥ अनुपपत्तिः अनुपपन्नत्वम् उपमानस्य असंभवः । यथा- 'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः। उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ।।'
रादय: शब्दाः सितपदसमभिव्याहारेण सितिमनि शृङ्गलितशक्तयो न किमपि गुणान्तरमुदीरयितुमुत्सहन्ते। यदि कनकफलचतुरश्रत्वं तद्गौरत्वमिव कर्पू- रादिपदैः सितिमगुणोऽवगम्यमानः स्वसहचरितमपि चर्वणीयत्वं परिष्कारत्वं व्यापनशीलत्वं च गुणान्तरमवगमयेत्, तदा भवतु पुष्टार्थत्वम्। उक्तं दूषणम- न्यत्राप्यतिदिशति-तेनेति। नन्वसत्यर्थभेदे सिन्धुशब्दस्य द्विरुक्तौ पौनरु- क्तयमिति वक्तव्यमिति शङ्कामनुभाषते -- नन्विति। दूषयति -- नेति। हेतुमाह -- अर्थेति। अर्थभेदादित्यर्थः । अर्थभेदमेव समर्थयते-बलं सिन्धु- रिवेति। बलसिन्धुरित्यत्र वैपुल्यं प्रतिपाद्यम्। अन्यत्न तु क्षोभसारूप्यमिति भेदः। निगमयति-तस्मादिति। अपुष्टार्थत्वं स्पष्टयति-अर्थपुष्टिस्त्विति। सिन्धुक्षोभोSत्र गम्यमान: स्वसहचरितं वैपुल्यमप्यवगमयतीत्यत्र सूत्रं संवादयति- उक्त्तं हीति। 'इह राजति राजेन्दुरिन्दुः क्षीरनिधाविव' इत्यत्र द्वयोरिन्दु- शब्दयोः श्रेष्ठचन्द्रवाचकत्वेनैकार्थ्याभावान्न अपुष्टार्थत्वमित्यवगन्तव्यम्।
असंभवं व्याख्यातुमाह-अनुपपत्तिरिति। अनुपपन्नत्वमिति। उपप- चिशून्यत्वमनुपपत्तिरित्यर्थः । उदाहरति-चकास्तीति। विकासिनो वदनस्या-
Page 144
१२४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
स्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्येष्टत्वाद्। कथं तहि दोष इत्यत आह- न विरुद्धोऽतिशयः ॥ २१॥
त्पर्यार्थः । विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य ता-
तानेतान् षडडपमादोषान् ज्ञात्वा कवि: परित्यजेत्।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥
न्तर्मध्ये स्मितच्छाया उन्निद्रस्यारविन्दस्य मध्ये मुग्धा मनोज्ञा चन्द्रिकेव चका- स्ति। अत्रासंभवमवगमयति-चन्द्रिकायामिति। असंभवस्यार्थदोषत्वमपाक- र्तुमनुभाषते-नन्विति। उन्निद्रारविन्दतन्मध्यवर्तिचन्द्रिकार्थयोर्विरोधित्वादयम- संभवोऽर्थदोषोऽस्तु; नोपमादोषत्वं कल्पनीयमित्यर्थः । परिहरति-नेति। वि- कासिनो मुखस्य स्मितविकासे वर्णनीये तदुपमानभूतया उन्निद्वारविन्दसंबन्धिन्या चन्द्रिकया सादृश्ये सति कस्यचिदतिशयस्याभिमतत्वादित्यर्थः ।
कथं तर्हीति। इष्टश्वेदयमतिशयः, तर्हि गुण एवायम् ; न तु दोष इत्यर्थः । परिहरति-नेति। अतिशयो विरुद्ध इति यतः, अतो दोष एवेत्य- र्थेः। निर्वृत्तमर्थ सूत्रस्य निगमयति-विरुद्धस्येति। प्रदर्शितानामेषामुपमादो- षाणां परित्याग एव फलमित्याह-तानेतानिति।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनौ आलंकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः॥
Page 145
तृतीयोऽध्यायः॥
संगत्युपमामपञ्चो विचार्यते। कः पुनरसावित्याह- प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ॥।१॥
प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुपभृतिः । उपमायाः प्रपश्चः उपमाप्रपश्च इति।
सुधारसाभे सुषमाप्रवाहे मुक्तायमानैर्मणिभिर्विचिलैः । ज्योत्स्नेव ताराभिरलंकृता मे सा शारदा चेतसि संनिधत्ताम्॥।
मूलं वस्तु निगुम्भनोदितकनद्वाक्यानि शाखा: परं दीव्यद्वाचकसंहतिर्दलगणो राजद्गुणाः पल्लवाः । अर्थाः पुष्पकदम्बकं सुरुचिरा भूषा: फलं रीतयो जीवो यस्य विभाति सोऽयमतुलो वाग्दिव्यशासत्री चिरम्।।
सर्वालंकारप्रकृतिभूतामुपमामुपपाद्य तत्प्रपञ्चं प्रपश्चयितुम् आरभते- संप्रतीति। अनुयोगपूर्वकमनन्तरसूत्रमवतारयति-कः पुनरिति। व्या- चष्टे-प्रतिवस्त्विति। प्रभृतिशब्द आद्यर्थः । प्रतिवस्तुप्रमुखाणाम् अलंका- राणामुपमागर्भत्वादुपमाप्रपश्च इति व्यपदेशः कृतः । "प्रतिवस्तुप्रभृतय उद्दि- श्यन्ते यथाक्रमम्। प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम् ॥ अपबुती रूपकं च क्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्व संदेहः सविरोधकः ॥ विभावना- नन्वयः स्यादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना॥ अर्थान्तरस्य न्यसनं व्यतिरेकस्ततः परम्। विशेषोक्तिरथ व्याजस्तुतिर्व्याजो- क्त्यलंकृतिः ॥ स्यात्तुल्ययोगिताक्षेपः सहोक्तिश्च समासतः । अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा ॥ उत्परेक्षावयवश्चेति विज्ञेयोऽलंकृतिक्रमः ॥" ननु प्रतिवस्तुनो वाक्यार्थरूपत्वेन वाक्यार्थोपमानिरूपणेनैव गतार्थत्वमिति न लक्षणान्तरापेक्षेति शङ्कां शकलयन् लक्षणभेदं दर्शयितुमाह-वाक्या-
Page 146
१२६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह- उपमेयस्योक्तौ समानवस्तुन्यास: प्रतिवस्तु ॥ २ ॥ समानं वस्तु वाक्यार्थः, तस्य न्यासः समानवस्तुन्यासः; उप- मेयस्य अर्थाद्वाक्यार्थस्योक्तौ सत्यामिति। अत्र द्वौ वाक्यार्थौ; एको वाक्यार्थोपमायामिति भेदः। तदथा- देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।' प्रतिवस्तुनः समासोक्तेर्भेंदं दर्शयितुमाह- अनुक्तौ समासोक्तिः ॥३॥ उपमेयस्य अनुक्तौ समानवस्तुन्यासः समासोक्तिः। संक्षेपवच- नात् समासोक्तिरित्याख्या। यथा- 'ल्लाध्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः। धिझ्ेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रिय: ॥' र्थेति। सूत्रार्थ विवृणोति-समानं वस्त्विति : किमिदं समानं वस्तु पदार्थरूपम्, उत वाक्यार्थरूपमिति विशयो मा भूदित्याह- वाक्यार्थ इति। समानवस्तुन उपमानस्य वाक्यार्थत्वाभ्युपगमबलादुपमेयस्यापि वाक्यार्थत्वसिद्धि- रित्याह-उपमेयस्येति। उपमेयस्य वाक्येन प्रतिपादने उपमानस्यापि वाक्या- न्तरेण प्रतिपादनं प्रतिवस्त्विति लक्षणार्थः; अत एव वाक्यार्थोपमायाः प्रतिवस्तुनो भेद इत्याह-अत्रेति। देवीभावमिति। अत्र पूर्वोत्तरवाक्याभ्यां वस्तुप्रति- वस्तुनो: प्रतिपादनात् प्रतिवस्त्वलंकारः । समासोक्ति वक्तुमाह-प्रतिवस्तुन इति। लक्षणवाक्यार्थ विवृणोति- उपमेयस्येति। समानवस्तुन उपमानस्य न्यास: वाक्येनोपपादनमित्यर्थः । समा- सोक्तिरिति संज्ञान्बर्थेत्याह-संक्षेपेति। उदाहरति- श्षाघ्येति 1 करीरो
Page 147
अ. ३.] कामघेनुसहिता। १२७
समासोक्तेरप्रस्तुतमशंसाया भेदं दर्शयिवुमाह- किंचिदुक्तावप्रस्तुतप्रशंसा ।।४ ।। उपमेयस्य किंचित् लिङ्मात्रेण उक्तौ समानवस्तुन्यासः अमस्तु- तपशंसा।
यथा- 'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्रवन्ते। उन्मज्जति द्विरदककुम्भतटी च यत्र यत्रापरे कदलिकाण्डमृणालदण्डाः ।।'
'यत्रोत्पलानि शशिना सह' इति, 'द्विरदकुम्भतटी च यत्र' इति, 'यत्रापरे' इति च अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतमशंसा। अपहुतिरपि ततो भिन्नेति दर्शयितुमाह- समेन वस्तुनान्यापलापोऽपहुतिः॥५॥ समेन तुल्येन वस्तुना वाक्यार्थेन अन्यस्य वाक्यार्थस्य अपलापो निह्नवो यः तत्वाध्यारोपणाय, असावपहुतिः।
वंशो बर्बूरो वा 'करीरोऽस्त्री दन्तिदन्तमूले चक्रकरे घटे। सल्लक्यामपि बर्बूरे काचे वंशे तदङ्कुरे ॥।' इत्यमरशेषः । अव्युत्पन्नार्थिनाम् अर्थिपदार्थव्युत्पत्तिरहि- तानाम्। अत्र करीरस्य मरुस्थितिश्लाघनेन कल्पवृक्षाणां मेरुस्थितिनिन्दनेन च तदुपमेययोः परोपकारपवणतद्विमुखयोः श्लाघानिन्दे समस्योक्ते इति समासोक्तिः। अप्रस्तुतप्रशंसां प्रस्तोतुमाह- किंचिदिति। लिङ्गमात्रेणोक्तौ एक- देशेनोपादाने। लावण्येति। अन्र लावण्यपदार्थेनैकदेशेनोपमेयानां नयनादी- नामुक्तावुत्पलादीनामप्रस्तुतानां प्रशंसनाद प्रस्तुतप्रशंसा नामालंकारः । अपन्ुतिम वगमयितुमाह-अपहुतिरिति। ततः प्रतिवस्तुनामालन्ा- रात्, भिन्नेत्यर्थः । समेनेति। वाक्यार्थभूतेनोपमानेनान्यस्य वाक्यार्थभूतरथोप-
Page 148
१२८ काव्यालंकारसूत्रवृत्ति: [भषि. ४.
यथा- 'न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः। तटिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते ॥' वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम्। तन्तु कीदशमित्याह- उपमानेनोपमेयस्य गुणसाम्यात्तत्वारोपो रूपकम् ॥ ६ ॥ उपमानेन उपमेयस्य गुणसाम्यात् तत्वस्य अभेदस्य आरोपणमा- रोपो रूपकम्। उपमानोपमेययोरुभयोरपि ग्रदणं लौकिक्याः कल्पिता- याश्चोपमायाः प्रकृतित्वमत्र यथा विज्ञायेतेति। यथा- 'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्या: स्पर्शो वपुषि बहुलश्रन्दनरसः । मेयस्यापलापः अतर्स्मिस्त्त्वाध्यारोपेण अपद्ुतिरिति लक्षणार्थः । न केतकी- नामिति। सूचयः कुड्मलाः।'केतकीमुकुले सूचिः सेविन्यां पिशुने तु ना।' इति हलायुध: । केतकीसूचिविलासतटिल्लताविलासयोरुपमेययोरुपमानभूतविधि- हासस्मरज्योतिर्विवर्तनाध्यारोपेण तयोरपलापादपद्ुतिः। आरोपरूपत्वाविशेषात् कथमपहुते रूपकाद्गेद इत्याशङ्कय भेदं दर्शयति -- वाक्यार्थयोरिति । अप- हुतौ वाक्यार्थयोरार्थिकं तादूप्यम्, रूपके तु पदार्थयोः शाब्दं ताद्रूप्यमिति भेदः । रूपकं निरूपयितुमाह-तच्तु कीदृशमिति। व्याचष्टे-उपमानेनेति। लौकिककल्पितोपमाप्रकृतिकत्वं रूपकस्य निरूपयितुमुपमानोपमेययोर्ग्रहणं कृत- मित्याह-उपमानेति। उदाहरति- इयं गेहे लक्ष्मीरिति। अत्र इयमिति सर्वनामा सीतां निर्दिश्य तत्र लक्ष्मीत्वममृतवर्तित्वम्, अस्याः स्पर्शे चन्दनरस-
Page 149
अ. ३.] कामधेनुसहिता। १२९
अयं कण्ठे बाहु: शिशिरमसटणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्वस्तु विरहः ।।' मुखचन्द्रादीनां तूपमासमासात् न रूपकत्वं युक्तमिति। रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह- स धर्मेषु तन्त्रप्रयोगे श्ेषः ।। ७।। उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स ततत्वाध्यारोपः तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति क्लेषः। यथा- 'आकृष्टामलमण्डलाग्ररुचय: संनद्धवक्षःस्थलाः सोष्माणो त्रणिनो विपक्षहृदयमोन्माथिन: कर्कशाः। त्वम्, बाहौ मौक्तिकसरत्वं चाध्यारोप्यत इति रूपकम्। इत्थमुपमानोपमेययो- व्यासेन प्रयोगे रूपकमुदाहृत्य समासेन प्रयोगे तूपमैव न रूपक्रमित्याह- सुखेति। मुखचन्द्रादीनां पुरुषव्याघ्रादिसादृश्यादुपमात्वमेव, न रूपकत्वं संभ- वति, तत्त्वाध्यारोपासंभवादिति भावः । इदमत्रानुसंघेयम्- येषां व्याघ्रादिषु पाठोऽस्ति तेषामुपमैव। ये त्विन्दुप्रभृतयस्तत्र न पठ्यन्ते, ते च व्याघ्रादेराकृति- गणत्वात् तत्र द्रष्टव्याः । तथापि मतान्तरानुरोधेन मुखचन्द्रादिषु क्वचिदुपमा, क्वचिद्रूपकमिति द्वैरूप्यं संभवति । तथाच यत्र 'ज्योत्सेव भाति द्युतिरानने- न्दोः' इत्यादावुपमायां साघकं प्रामाणमस्ति, तत्र व्याघ्रादिसमासः । यत्र 'मोह- महाचलदलने भक्तिः कुलिशाअकोटिरेव नृणाम्' इत्यादौ रूपके साधकं प्रमाण- मस्ति, तत्न मयूरव्यंसकादिसमासः; 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसका- दिषु द्रष्टव्यः' इति वचनात्। श्ेषं लक्षयितुमाह- स धर्मेष्विति। सूत्रार्थ विवृणोति -- उपमाने- नेति। धर्माणां धर्मिसापेक्षत्वाद्धर्मिणमनुषज्ज्य दर्शयति-उपमानेनोपमेयस्ये- ति । गुणसाम्यत इति शेषः । धर्मस्वरूपमाह-गुणेति। तच्छब्दपरामृश्यं दर्श- यति-तत्वाध्यारोप इति। अनेकोपकारकारि सकृदुचारणं तन्त्रम्। उपमानोपमे- ययोर्गुणसाम्ये तद्धर्मेषु गुणादिषु तन्त्रेण प्रयोगे सति यत्तादूप्यारोपणम्, स क्षेष 17
Page 150
१३० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उद्टत्ता गुरवश्च यस्य वशिन: श्यामायमानानना योधा मारवघूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ।।' यथा च गौणस्यार्थस्यालंकारत्वम्, तथा लाक्षणिकस्यापीति दर्शयितुमाह- सादृश्याल्लक्षणा वक्रोक्तिः ॥८॥। बहूनि हि निबन्धनानि लक्षणायाम्; तत्र सादृश्याल्लक्षणा वक्रोक्तिरिति। यथा-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्।' इति लक्षणार्थः । आकृष्टेति। आकृष्टे कोशादुद्धृते मण्डलाग्रे खङ्गे रुचिः प्रीतिये- षाम्। आकृष्टा आहृता स्वीकृतेति यावत्, मण्डलस्य बिम्बस्य अग्रे उपरिभागे रुचिः कान्ति्यैः । संनद्धं कवचितं परिणद्धं च वक्षःस्थलं येषाम्। ऊष्मणा दर्पेण उष्णगुणेन च सह वर्तन्त इति सोष्माणः। व्रणाः शस्त्रक्षतानि नखक्ष- तानि च एषां सन्तीति व्रणिनः । विपक्षाणां शत्रूणां सपत्नीनां च हृदयं वक्षश्रे- तश्च प्रकर्षेण उन्मथ्नन्तीति तथोक्ताः । कर्कशाः क्रूराः कठिनाश्च। उद्दृत्ताः उद्धता उन्नताश्च। गुरवो महान्तः स्थूलाश्च। श्यामायमानानि अङ्करितश्म- ्रुतया कचासङ्गेन वा, स्वभावेन च श्यामलायमानानि आननानि मुखानि चूचु- कानि च येषां ते तथोक्ताः। वशिनो यस्येति संबन्धः । अत्र यथासंभवं गुण- क्रिया द्रष्टव्याः । यद्यपि समुच्चयोऽत्र स्फुरति, तथापि साधारणविशेषणमहित्रा आरोपः प्रतिपाद्यत इति शक्लेषः । वक्रोक्तिं वक्तुं संगतिमुल्लिज्जयति -- यथा चेति। यथा मुखचन्द्रादौ गुणयोगादागतस्य गौणार्थस्य रूपकाद्यलंकारता, तथा लक्षणातः प्रत्िपन्नम्य लाक्षणिकार्थस्व वक्रोक्त्यलंकारता भवतीति लक्षणार्थः। बहूनीति। 'अभिषे- थेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चषा मता' इति लक्षणाया निमित्तानि द्रष्टव्यानि। द्विरेफशब्दस्याभिघेयो भ्रमरशब्द इति तेन स्वाभिघेयसंबन्धात् भृङ्गरूपार्थो लक्ष्यते । सिंहो माणवकः, गज्भायां घोष:, बृहस्पतिरयं मूर्खेः, महति समरे शत्रुन्नस्त्वम्, इति यथाक्रम मुदाहरणानि द्रष्टव्यानि । उन्मिमीलेति। कमलं विचकास कैरवं संचु-
Page 151
अ. ३.] कामधेनुसहिता। १३१
अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः। 'इह च निरन्तरनवमुकुलपुलकिता इरति माधवी हृदयम्। मद्यति च केसराणां परिणतमधुगन्धि निःश्वसितम् ।' अत्र च निःच्वसितमिति परिमलनिर्गमं लक्षयति। 'संस्थानेन स्फुरतु सुभगः स्वार्चिषा चुम्बतु द्याम्।' 'आलस्यमालिङगति गात्रमस्याः ॥।' 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम्।' 'प्रत्यूषेषु स्फुटितकमलामोदमैत्री कषायः।' 'ऊरुद्वन्दं तरुणकदलीकाण्डसब्रह्मचारि।' इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिप- च्तिक्षमत्वं रहस्यमाचक्षत इति। असादृश्यनिबन्धना तु लक्षणा न वक्रोक्ति:। यथा- 'जरठकमलकन्दच्छेदगारैमयूखैः।' कोचेति ऋजुवृत्त्या वक्तव्ये तत्सादृश्यादुन्मिमील निमिमीलेति नेत्रक्रियाध्यवसा- यवक्किम्णोक्तिरिति वक्रोक्तिः। लक्ष्यलक्षणयो्मेत्नीमासूत्रयति- अत्र नेत्रेति। अतस्मिस्तत्त्वाध्यारोपो रूपकम्। विषयनिगरणेन साध्यवसानलक्षणायां वक्रोक्ति- रिति विवेकः । उदाहरणान्तराण्युपदर्शयति-इह चेति। वक्रोकतिं दर्शयति- अत्र चेति। मुकुलपुलकितेत्यत्र पुलकितत्वं माधव्या मुकुलैरावृतत्वं लक्षयतीत्यपि द्रष्टव्यम् । चुम्बतु द्यामिति चुम्बनं द्योसम्बन्धम्, गात्रमालिङ्गतीति आलिङ्गनम् आलस्ववैशिक्षं गात्रस्य, अनुवदतीत्यत्रानुवाद: कमलिनीसादृश्यम्, मैत्री च आ- मोदसंक्रान्तिम्, सब्रह्मचारीति कदलीकाण्डसमानतां च लक्षयतीत्येवमादिषु प्र- योगेषु लक्षणार्थो निरूप्यते। लक्षणाया इति। यत्र सादृश्यलक्षणा सहृदय- हृदयेष्वविलम्बेन लक्ष्यार्थप्रतिपत्तिमुद्धावयितुं प्रगल्भते, तत्र वक्रोक्तिरलंकार इति रहस्यमिति लक्षणाविद आचक्षत इत्यर्थः । सादृश्यपदव्यावर्त्य कीर्तयति-असा- दृश्येति। संबन्धान्तरनिबन्धना तु लक्षणा वक्रोक्तिर्न भवतीत्यर्थः । तदेव दर्श- यति-यथा जरठेति। सामीप्यमत्न धर्मधर्मिभावसंबन्धः ।
Page 152
१३२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
अत्र च्छेद: सामीप्याद्रव्यं लक्षयति, तस्यैव गौरत्वोपपते:। रूपकवक्रोक्तिभ्यामुत्मेक्षाया भेदं दर्शयितुमाह- अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा।। ९।। अतद्रूपस्य अतत्सभावस्य, अन्यथा तत्स्वभावतया, अध्यवसा- नम् अध्यवसायः; न पुनरध्यारोपो लक्षणा वा। अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम्। सादृश्यादियमुत्पेक्षेति। एनां चेवादिशब्दा दयोतयन्ति। यथा- 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यो मूर्ति ज्वलनकपिशे भाति निहितः। स्वरूपान्यथाभावकल्पनास्वभावत्वाविशेषेण रूपकवक्रोक्तिभ्यामुखेक्षाया अ- भेदशङ्कायां लक्षणतो भेदं दर्शयितुमनन्तरसूत्रमवतारयति-रूपकेति। सूत्रार्थ- माविष्करोति- अतद्रूपस्येति। अतद्रूपं प्राकरणिकं वस्तु तदात्मना अप्रा- करणिकवस्तुरूपत्वेन अतिशयमाधातुमध्यवसीयते प्रतिभामात्नेण कविना संभा- व्यते, न पुनरिन्द्रियदोषेण, तथाविधं संभावनापरपर्यायमध्यवसानमुत्प्रेक्षेति लक्ष- णार्थः । न पुनरिति। अतत्स्वभावस्य वस्तुनस्तद्रुणयोगात्तद्भावकल्पनम- ध्यारोपः; यत्र रूपकादिस्वरूपलाभः । यत्तु सादृश्ये सत्येकेन वस्तुना वस्त्वन्त- रस्य प्रतिपादनमध्यवसायरूपं सा सादृश्यमूला लक्षणा; यत्र वक्रोक्तिव्यपदेशः । यत्पुनरतदूपे वस्तुन्यतिशयमाधातुं तद्रूपतयाध्यवसानम्, सोऽयमध्यवसायः संभावनालक्षण उत्प्रेक्षेति विवेकः। अतो न रूपकम्, नापि वक्रोक्तिरिति ततो भेदो दर्शितः। अतिशयार्थमिति। आ्रन्तिः विपर्ययज्ञानम्। अन्यथाध्यवसाय- त्वाविशेषेऽपि बुद्धिपूर्वकत्वादुत्प्रेक्षायास्तद्विलक्षणाया आ्रन्तेर्व्यावृत्तिरित्यतिशयः । उत्प्रेक्षोदाहरणेषु केषुचिदिवशब्दश्रवणात् कस्यचिदुपमाशक्का जायते; तामा- शङ्क्य परिहरति-सादृश्यादियमुत्मेक्षेति। प्रयुक्तोऽपि कचिदिवशब्दः सादृश्यनिबन्धनत्वसूच नद्वारेणोत्प्रेक्षामपि द्योतयतीत्यर्थः । तदुक्कं दण्डिना, 'मन्ये शङ्के धुवं प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादशः' इति। स वः पायादिति। अत्र नवबिसलताकोटिकुटिल इति विशेषणसामर्थ्या-
Page 153
अ. ३.] कामधेनुसहिता। १३३
स्ननन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्त: स्फटिकधवलेनाक्कुर इव ॥' उत्पेक्षैवातिशयोक्तिरिति केचित्; तभिरासार्यमाह- संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्ति:। १० ॥ संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पना अतिशयोक्तिः ।
यथा- 'उभौ यदि व्योष्नि पृथक्पतेतामाकाशगङ्गापयसः प्रवाहौ तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।।'
यथा वा- 'मलयजरसनिलिप्तनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः। शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः पियवसति प्रयान्ति सुखमेत्र निरस्तभियोऽभिसारिकाः ॥'
दिन्दुपदेनेन्दुकलावगम्यते। इन्दुर्मन्दाकिनीसलिलसेकेन कपालादुद्धिन्नोडकुर इवे- त्युत्प्रेक्ष्यत इत्युत्प्रेक्षालंकारः ।
संभावनारूपत्वाविशेषादुत्प्रेक्षातिशयोक्त्योरमेदं केचिन्मन्यन्ते; तन्मतं निरसितुं लक्षणभेदं दर्शयतीत्याह-उत्प्रेक्षैवेति। संभाव्यस्येति। संभा- व्यस्य उत्प्रेक्ष्यस्य धर्मस्य यद्यर्थानुबन्धेन कल्पना, तदुत्कर्षस् तस्य संभाव्य- धर्मस्य य उत्कर्षस्तस्य कल्पना चातिशयोक्तिः। उदाहरति- उभाविति। यदि तथाविधं व्योम संभाव्येत, तदेव आमुक्तमुक्ताफलस्य वक्षस उपमानं भवेत् न पुनरन्यत् किंचिदित्यतिशयस्योक्त्ेरतिशयोक्तिः। एवं संभाव्यधर्मकल्पनामुदा- हृत्य तदुत्कर्षकल्पनामुदाहरति -- मलयजेति। मलयजरसनवहारलतादीनां तावान् धावल्यस्योत्कर्षोऽतिशयः कल्प्यते, यावता चन्द्रिकायां तद्विवेचनाक्ष- मत्वं चक्षुषोरिति।
Page 154
१३४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
यथा भ्रान्तिज्ञानस्वरूपा उत्मेक्षा, तथा संशयज्ञानस्वरूपः संदे- होऽपीति दर्शयितुमाह- उपमानोपमेयसंशय: संदेहः ॥ ११ ॥ उपमानोपमेययोरतिशयार्थ यः क्रियते संशयः, स संदेहः। यथा- 'इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि। न निश्चिनोति हृदयं किंतु दोलयते मनः ॥' संदेहवद्विरोघोऽपि प्राप्तावसर इत्याह- विरुद्धाभासत्वं विरोधः ॥। १२ ॥ अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः ।
यथा- 'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि।
भ्रान्तितः पृथक्कृत्य प्रदर्शितवान्, तथा संशयमपि लौकिकसजातीयं तथाविधेन वैधर्म्येण ततः पृथक्कृत्य दर्शयितुमाह-यथेति। संदेहस्य कोटिद्वयावलम्बि- त्वादिहापि तदाह -- उपमानोपमेययोरिति। अतिशयार्थमिति। उपमेये अतिशयमाधातुं संदेहः संपाद्यते, न तु विशेषादर्शनादित्यर्थः। व्यक्तमुदा- हरणम्। कल्पनारूपत्वाविशेषादतिशयोक्तेरनन्तरं यथा संदेहालक्कारः प्राप्तावसरः, तथा विरुद्धकोटिद्वयावलम्बिनः संदेहस्यानन्तरं विरोधालंकारः प्राप्तावसर इति तल्लक्षणं दर्शयतीत्याह-संदेहवदिति। व्याचष्टे-अर्थस्येति। विरुद्धवद- वभासत इति विरुद्धाभासस्तस्य भावस्तत्त्वम्। प्रकारान्तरेण परिहारे सत्येव विरुद्धस्यार्थस्यावभासनं विरोधालंकारः । उदाहरति- यथेति। पानशब्दोऽत्र
Page 155
अ. ३.] कामधेनुसहिता। १३५
त्वं तुङस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु- स्त्वन्मध्ये तन्ुता ममाधृतिरहो पेम्णो विचित्रा गतिः ।।' यथा वा- 'सा बाला वयमपगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्दुतम् ॥' विरोधाद्विभावनाया भेदं दर्शयितुमाह- क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्ति- र्विभावना ॥ १३ ॥ क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य पसिद्धस्य व्य- कितिर्विभावना। यथा- 'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम्। अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ।।' विरोधपसङ्गेनानन्वयं दर्शयितुमाह- एकस्योपमेयत्वोपमानत्वेऽनन्वयः ।। १४ ॥ कर्मसाधनः पेयद्रव्यमाह। पानादीनां च वैयधिकरण्याद्विरोधः । मदादीनामर्था- न्तरत्वस्वीकारेण विरोधपरिहारः । सा बालेत्यादावपि विरुद्धाभासत्वं द्रष्टव्यम्। विभावनां विवरीतुमवतारिकामारचयति- विरोधादिति। लक्षणवाक्यार्थ विवृणोति -- क्रियाया इति । क्रियायाः कारणरूपायाः प्रतिषेधे प्रसिद्धस्य तस्याः क्रियायाः फलस्य कार्यभूतस्य व्यक्तिः प्रकाशनं यत्, सा विभावनेति वाक्यार्थः । विरोधविशेषो विभावनेति भेदः । अप्यसज्जनेति । विकृतमेव वैकृतम्। प्रज्ञादित्वात् सार्थेऽण्। अक्षालितविशुद्धेष्वित्यत्र कारणरूपक्षालनक्रि- याप्रतिषेघेऽपि तत्फलभूताया विशुद्धेः प्रकाशनात् विभावना।
Page 156
१३६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
एकस्यैवार्थस्योपमेयत्वसुपमानत्वं चानन्वयः ।
यथा- 'गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ।।' अन्यासादृश्यमेतेन प्रतिपादितम् ।
क्रमेणोपमेयोपमा ॥१५॥ एकस्यैवार्थस्योपमेयत्वसुपमानत्वं च क्रमेण उपमेयोपमा। यथा- 'खमिव जलं जलमिव खं इंस इव शशी शशीव हंसोऽयम्। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इयमेव परिषृत्तिरित्येके; तन्निरासार्थमाह- समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥ समेन विसदृशेन वार्येन अर्थस्य परिवर्तनं परिवृत्तिः।
अनन्वयं वक्तुमाह-विरोधेति। एकस्यैवार्थस्यैकस्मिनेव वाक्ये उप- मानान्तरव्युदासेनातिशय माधातुमुपमानत्वं चोपमेयत्वं चोपकल्प्यते। तत्र व्यधि-
योरिति। स्पष्टम्। एकस्वैवोपमानोपमेयत्वकल्पनायां फलितमाह-अन्येति। उपमानान्तरेण असादृश्यं सादृश्याभावः । उपमेयोपमासुपपादयितुमुपरितनं सूत्रमुपादत्ते-क्रमेणेति। एकस्यैवे- त्यनुवर्तते। यत्र क्रमेण वाक्यद्वये एकस्यैव वस्तुन उपमानत्वमुपमेयत्वं च निबध्यते तत्रोपमेयोपमा। खमिवेति। उदाहरणं स्पष्टम्। साम्यशङ्कायामुपमेयोपमातः परिवृतति व्यावर्तवितुं लक्षणं दर्शयतीत्याह- इयमेवेति। व्याचषटे-समेनेति। समेन समानेन विसदशेन असदसेन वा
Page 157
अ. ३.] कामधेनुसहिता। १३७
यथा- 'आदाय कर्णकिसलयमियमस्मे चरणमरुणमर्पयति। उभयो: सदृशविनिमयादन्योन्यमवश्चितं मन्ये ।' यथा- 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्चन्दना। बबन्ध वालारुणवभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥' उपमेयोपमायाः कमो भिन्न इति दर्शयितुमाह- उपमेयोपमानानां क्रमसंबन्धः क्रमः॥१७॥ उपमेयानामुपमानानां चोद्देशिनामनूद्देशिनां च क्रमसंबन्ध: क्रमः। यथा- 'तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः । जीयन्ते वल्लकीकुन्दकुमुमेन्दीवरस्नज: ।।' करमसंबन्धपसङ्गेनैव दीपकं दर्शयितुमाह- उपमानोपमेयवाक्येष्वेका क्रिया दीपकम्॥ १८ ॥ उपमानवाक्येषूपमेयवाक्येषु चैका करिया अनुषङ्गतः संबध्यमाना अर्थेन अर्थस्य यत्परिवर्तनं विनिमयः, सा परिवृत्तिः । उदाहरति- यथेति। अन्र प्रसारितास्यं करणं सूचितमिति केचिदाचक्षते। 'नायकस्यांस एको द्वितीय: प्रसारित इति प्रसारितकम्' इति वात्स्यायनसूत्रम्। तद्विवृतं रतिरहस्ये, 'प्रियस्य वक्षोंऽसतलं शिरोऽथवा नयेत सव्यं चरणं नितम्बिनी। प्रसारयेद्वा परमायतं पुनर्विपर्ययः स्वादिति हि प्रसारितम्' इति। अत्र चरणकिसलययोः सादृश्यात् समपरिवृत्तिः। विहायेत्यादौ हारवल्कलयोर्वैसादृश्याद्विसदृशपरिवृत्तिः। क्रमालंकारं कथयितुमाह-उपमेयेति। वृत्तिः स्पष्टार्था। प्रबन्धेनावि- च्छेदेन लीला यासां ताभि: प्रबन्धलीलाभिः । क्रमदीपकयोः सौहार्दमुन्मुद्रयन् सूत्रमवतारयति -- क्रमेति। व्या- चष्टे-उपमानेति। एकस्यैव प्रधानसंबन्धितया सकदुपात्तस्य पदस्य वाक्यान्त- 18
Page 158
१३८ काव्यालंक।रसूत्रवृत्ति: [अधि. ४.
दीपकम्। तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९॥ तत् त्रिविधं भवति, आदिमध्यान्तेषु वाक्येषु दृत्तेर्भेदात्। यथा- 'भूष्यन्ते पमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः। ब्रह्माण: श्रुतिगदितैः क्रियाकलापै राजानो विरलितवैरिभि: भतापैः॥' 'बाष्पः पथिककान्तानां जलं जलमुचां मुह्ठुः। विगलत्यधुना दण्डयात्रोद्योगो महीभ्ुजाम् ॥' 'गुरुशुभ्रूषया विद्या मधुगोष्ठया मनोभवः। उदयेन शशाङ्कस्य पयोधिरभिवर्धते ।' दीपकवन्निदर्शनमपि संक्षिप्तमित्याइ- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम्॥ २० ॥ क्रिययैव शुद्धया सवस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम्।
रेषु प्रसन्गात् संबन्धोऽनुषङ्जः । तद्ेदमाह-तत्तरविध्यमिति : भूष्यन्त इत्यत्र आदिदीपकम्। ब्रह्मा- णः ब्राह्मणाः । बाष्प इत्यत्र मध्यदपिकम्। गलनं बाष्पजलयोः स्यन्द, द- ण्डयात्रोद्योगे नाशः । गुरुशुश्रूषयेत्यत्र अन्तदीपकम् । एवमेव कारकदीपकमप्यू- हनीयम्। निदर्शनं दर्शयितुमाह- दीपकवदिति। शुद्धया अनन्यसहायया क्रिययैवावृत्तिरहितयेत्यर्थः । स्वस्य तदर्थस्य सा क्रिया अर्थः प्रयोजनं यस्य तत्तदर्थ स्वप्रयोजनकमर्थान्तरमित्यर्थः। तयोः खतदर्थयोरन्वयस्य संबन्स्य ख्यापनं निदर्शनम्। निदर्शनफ्दार्थ निर्वक्ति-संलुलितेति । संलुलितः
Page 159
अ. ३.] कामधेनुसहिता। १३९
यथा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत्। आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ।।' पततीति करिया। तस्या: स्वं पतनम्। तदर्थः अत्युच्चपदाध्यासः। तयोरन्वयः अत्युच्चपदाध्यासः पतनायेति। तस्य ख्यापनम् अर्थशालिनां शंसदिति। इदं च नार्थान्तरन्यास: ; स तु यथाभूतस्तमाह- उक्तसिद्धयै वस्तुनोऽर्थान्तरस्यैव न्यसनम- र्थान्तरन्यासः ।। २१॥ उक्तसिद्धयै उक्तस्यार्थस्य सिद्धयर्थ वस्तुनो वाक्यार्थान्तरस्यैव न्य सनमर्थान्तरन्यासः। वस्तुग्रहणात्पदार्थस्य हेतोर्न्यसनं नार्थान्तरन्यासः। यथा-'इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात्' इति। अ- र्थान्तरस्यैवेति वचनम्, यत्र हेतुर्व्याप्तिगूढलात कथंचित्मतीयते तत्र य- था स्यात् ; यद्यत् कृतकं तत्तदनित्यमित्येवंपायेषु मा भूदिति।
अविवेचितः हेतुदृष्टान्तयोर्विभागस्तस्य दर्शनाद्विवेचनात्, निगूढहेतुदृष्टान्तदर्शन- रूपत्वान्निदर्शनमित्यर्थः । उदाहरति- अत्युच्चेति । अर्थशालिनाम् अर्थोल्लेख- शालिनां धनशालिनां वा। लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति- पततीति क्रियेति। अर्थान्तरन्यासं समर्थयितुं सूत्रसंगति सूचयति- इदं चेति। उक्तस्व वाक्यार्थस्य सिद्धयै। वाक्यार्थान्तरस्व अन्यस्य वाक्यार्थस्यैव। वस्तुग्रहणप्रयोजनं प्रस्तौति-वस्त्विति। प्रत्युदाहरणं प्रदर्शयति -- यथेति। अन्र कमलसौग- नध्यादिति हेतो: पदार्थरूपत्वात् तस्य न्यसनं नार्थान्तरन्यासः। अवधारणप्रयो- जनमभिधत्ते -- अर्थान्तरस्यैवेति वचनमिति। यत्र वस्तुतो हेतुरूपमेवा- र्थान्तरं तद्वयाप्तिस्तु यल्नगौरवेण प्रतीयते, तत्रालंकारता यथा स्यात्, प्रसिद्ध व्याप्तिस्थले तु मा भूदित्येवमर्थमेवकारकरणमित्यर्थः । उदाहर्तुमाह -- उदाहर
Page 160
१४० काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उदाहरणम्- प्रियेण संग्रथ्य विपक्षसंनिधा- वुपाहितां वक्षसि पीवरस्तने। स्नजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' अर्थान्तरन्यासस्य हेतुरूपत्वात्, हेतोश्चान्वयव्यतिरेकात्मकत्वात् न ततः पृथग्व्यतिरेक इति केचित् ; ततिरासार्थमाह- उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ॥ २२ ॥ उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमाना्, स व्यतिरेकः ।
यथा- 'सत्यं हरिणशञाबाक्ष्याः प्रसन्नसुभगं मुखम् । समानं शशिनः किंतु स कलङ्कविडम्बितः ।।' कश्चिच्ु गम्यमानगुणो व्यतिरेकः । यथा- 'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंपद: । णमिति। पियेणेति। अत्र विशेषरूपमुपमेयं सामान्येनोपमानेन समर्थ्यते। अर्थान्तरन्यासव्यतिरेकयोर्भेदं दर्शयितुमभेदशङ्कामुन्मीलयति-अर्था- न्तरेति । व्याचष्टे -- उपमेयस्येति । गुणशब्दोऽत्र धर्ममात्रवचनः । स च वाच्यो गम्यश्चेति द्विविध। उभयोऽप्युपमानगतस्तदपकर्षहेतुः उपमे- यगतस्तदुत्कर्षहेतुश्चेति द्विविधो भवति। यदा उपमानगतस्तेन तदपकर्षहे- तुना गुणेनोपमेयस्य गुणातिरेकित्वमर्थाद्भवति। तदा गुणातिरेकित्वमार्थम्। यदा पुनरुपमेयगतसदा तेन तदुत्कर्षहेतुना अर्थादुपमानादुपमेयस्य गुणातिरे- कित्वं भवति। तदा शाब्दमतिरोकित्वम्। तत्रोपमानगतवाच्यगुणप्रयुक्तं व्यतिरे- कमुदाहरति-सत्यमिति। अत्र कलन्कविडम्बितपद वाच्येनोपमानस्यापकर्षहेतुना
Page 161
अ. ३.] कामधेनुसहिता। १४१
विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरललितैर्लीलातन्त्रैस्तवार्घविलोकितैः i।' व्यतिरेकाद्विशेषोक्तेर्भेंदं दर्शयितुमाह- एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ २३ ॥ एकस्य गुणस्य हाने: कल्पनायां शेषर्गुणैः साम्यं यत्, तस्य दा- ढ्य विशेषोक्तिः। रूपकं चेदं प्रायेणेति। यथा- 'भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः।' 'धूतं हि नाम पुरुषस्यासिंहासनं राज्यम्।' 'इयं ह्वाकमला लक्ष्मीः।' 'हस्ती हि जङ्गमं दुर्गम्' इति। जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनपरत्वादेकगुणहानिकल्प- नैव । एतेन 'वेश्या हि नाम मूर्तिमत्येव निकृतिः' 'व्यसनं हि नाम कलद्वित्व गुणेनोपमेयस्यार्थादकलद्वित्वलक्षणं गुणातिरेकित्वमिति व्यतिरेकः । उप- मानगतगम्यमानगुण प्रयुक्तं व्यतिरेकमुदाहरति-कुवलयवनिति। कुवलयवन- मध्यादिषु प्रत्याख्याननिन्दनादिभिरवगम्यमानेन निकर्षहेतुना चतुरललितलीला- तन्त्रत्वराहित्यलक्षणेन गुणेनार्धविलोकितेषु चतुरललितलीलातन्त्रत्वरूपं गुणातिरे- कित्वं शाब्दमपि प्रकृष्टतया प्रतिष्ठापितं भवतीति गम्यमानगुणप्रयुक्तो व्यतिरेकः। अर्थान्तरन्यासे व्यतिरेको विपक्षव्यावृत्तिः । अत्र तु गुणाधिक्यमिति भेदः ।
विशेषोक्तिं विवेक्तुमाह-व्यतिरेकादिति। एकस्येति। अर्थादुपमेय- गतस्य। हानिः लोपः । अवजेनीयतया रूपकमपि संभवतीत्याह-रूपकमिति। अतैलपूरा इति, असिंहासनमिति, अकमलेत्यत्रैकगुणहानिकल्पना सिध्यति। ननु जम्ममित्येकगुणहानिकल्पनाया अप्रतीतेः कथं विशेषोक्तिरिति तत्राह- जक्क्म सब्दस्येति। समर्थितामेकगुणहानिकल्पनामन्यत्रातिदिशति- एतेनेति।
Page 162
१४२ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
सोच्छवासं मरणम्' 'द्विजो भूमिबृहस्पतिः' इत्येवमादिष्वेकगुणहानि- कल्पना व्याख्याता। व्यतिरेकविशेषोक्तिम्यां व्याजस्तुति भिन्नां दर्शयितुमाह- संभाव्यविशिष्टकर्माकरणान्निन्दा स्तोलार्था व्याजस्तुतिः।। २४।। अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशिष्टकर्म, तस्य सं- भाव्यस्य कर्तु शक्यस्य अकरणान्निन्दा विशिष्टसाम्यसंपादनेन स्तोत्रा- र्था व्याजस्तुतिः।
यथा- 'बबन्ध सेतुं गिरिचक्रवालै- र्बिर्भेद सप्तैकशरेण तालान्। एवंविरधं कर्म ततान राम- स्त्वया कृतं तन्न मुर्घव गर्वः ।' व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह- व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ २५॥
'कुसृतिर्निकृतिः शाठ्यम्' इत्यमरः । मूर्तिमत्येवेत्यत्रामूर्तत्वनिवृत्तिः' सोच्छास- मित्यत्रानुच्छासतानिवृत्तिः, भूमिबृहस्पतिरित्यत्राभौमत्वनिवृत्तिश्च प्रतिपाद्यत इत्ये- कगुणहानिकल्पना अवगन्तव्या। व्याजस्तुति व्याख्यातुं प्रसअं परिकल्पयति-व्यतिरेकेति। व्याचष्टे- अत्यन्तेति। विशिष्टो रामादिरुपमानभूतस्तस्य कर्म सेतुबन्धनादि। तस्य कर्तु शक्यस्य कर्मणोऽकरणाद्वर्णनीयस्य निन्दा रामादिसाम्यापादनात स्तुतिपर्यवसा- यिनी व्याजस्तुतिः । नबन्धेति। त्वं राम एवासीति तात्पर्यम्। निन्दाव्याजेन स्तुतिरूपत्वात् व्यतिरेकविशेषोक्तिभ्यां भेदः । व्याजोकिं व्याकर्तुमाह- व्याजस्तुतेरिति। व्याच्टे-व्याज-
Page 163
अ. ३.] कामधेनुसहिता। १४३
व्याजस्य च्छवन: सत्येन सारूप्यं व्याजोक्ति :; यां मायोक्तिरि- त्याहुः। यथा- 'शरचन्द्रांशुगौरेण वाताविद्धेन भामिनि । काशपुष्पलवेनेदं साश्रुपातं सुखं कृतम् ।' व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह- विशिष्टेन साम्यार्थमेककालक्रि्ियायोग- स्तुल्ययोगिता ॥ २६ ॥ विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रिियायां योगः तुल्य- योगिता। यथा- 'जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभुर्भवद्धुजश्व।'
उपमानाक्षेपश्चाक्षेपः ।। २७।। स्येति। असत्यस्येत्यर्थः । सत्येन यथार्थेन। सारूप्यं सत्यत्वकल्पनया समु- न्मिषितं सादृश्यम्। असत्यस्य सत्यत्ववचनं व्याजोक्तिरिति लक्षणार्थः । व्याजो- क्तिमिमां मतान्तरे संज्ञान्तरेण व्यवहरन्ति, न तु स्वरूपभेद इत्याह-यामिति। उदाहरति-शरदिति। चन्द्रांशुगौरेणेत्यनेन चन्द्रिकायां काशपुष्पलवस्याविवे- चनीयता सूचिता। वाताविद्धेनेत्यनेन अप्रसक्तिश्का निराकृता। अत्र सत्येन सात्त्विकभावेन कृतोऽश्रुपातः पुष्पलवेन कृत इत्यसत्यस्य सत्यतोक्तिः । अत एव व्याजस्तुतितो भेदः। तुल्ययोगितां वक्तुमाह-व्याजोक्तते: पृथगिति। विशिष्टेन गुणाधिके- नोपमानेनेति यावत्। अर्थादत्र न्यूनस्येत्यनेनोपमेयस्येत्यवगम्यते। एक: कालो यस्या: सा एककाला तस्यां क्रियायां साम्यार्थ यो योगः, सा तुल्ययोगिता। उदाहरति-जलनिधीति। आक्षेपं लक्षयितुं सूत्रमुपक्षिपति-उपमानेति। उपमानस्य तादाश उपमेये
Page 164
१४४ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
उपमानस्य आक्षेपः प्रतिषेध उपमानाक्षेपः; तुल्यकार्यार्थस्य नैर- र्थक्यविवक्षायाम् आक्षेप:। यथा- 'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते कि नाम नीलोत्पलैः। किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ।।' उपमानस्य आक्षेपः आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः। यथा- 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्। परसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ।I' अत्र शरद्वेश्येव, इन्दुं नायकमिव, रवेः प्रतिनायकस्येवेत्युपमा- नानि गम्यन्त इति। तुल्ययोगिताया: सहोक्तेर्भेदमाह- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्िः ॥ २८॥
वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्द- साम्थ्यात् सहोक्तिः।
सति नैरर्थक्यविवक्षायां प्रतिषेध आक्षेप इति वाक्यार्थः। तस्याश्चेन्मुखमित्युदाह- रणम्। चकारेण समुच्चितमर्थमाह-उपमानस्याक्षेप इति। आक्षेपोSत्राकर्षण- म्। ऐन्द्रं धनुरित्युदाहरणम्। अत्राक्षेपलभ्यं प्रकटयति-अन्र झरदिति। सहोक्तिं वक्तुमाह-तुल्ययोगिताया इति। वस्तुद्वयसंबन्धिन्योः क्रिययोः सहार्थानां सहशब्दपर्यायाणां ग्रहणसामर्थ्यादेकेन पदेनाभिधानं सहोकि:।
Page 165
अ ३.] कामधेनुसहिता। १४५
यथा- 'अस्तं भाखान्मयातः सह रिपुभिरयं संहियन्तां बलानि।' अत्रार्थयोर्न्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति। समाहित मेकमवशिष्यते; तल्लक्षणार्थमाह- यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९॥ यस्य वस्तुनः सादृश्यं ग्रृह्यते, तस्य वस्तुनः संपत्तिः समाहितम्। यथा- 'तन्वी मेघजलार्रपल्लवतया धौताघरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा। चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ।।' अत्र पुरूरवसो लतायामुर्वेश्याः सादृश्यं गृह्तः सैव लतोर्वशी संपन्नेति। एते चालंकारा: शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम- स्पष्टमुदाहरणम्। उभयोरलंकारयोभेंदं दर्शयति- अत्रेति । समाहितं समीरयितुमाह-समाहितमिति। शुद्धेष्वलंकारभेदेषु समाहि- तमेकं लक्षयितुमवशिष्यत इत्यर्थः । यस्येति। तस्य संपत्तिस्तदाकारतापरिणतिः, ताद्रूप्यसंपत्तिरिति यावत्। अत्रोदाहरणं विक्रमोर्वशीये दर्शयितुमाह-तन्वीति। लतायामुर्वेशीसादृश्यं पश्यतः पुरूवरस इयमुक्तिः । अत्रेति। लतामवलोक्य त- त्राश्ुघौताधरत्वाभरणशून्यत्वचिन्तामौनाश्रितत्वाध्यवसायेन सा तादृश्युर्वशीवेत्यु- त्प्रेक्षमाणस्य पुरूरवसः सैव लतोर्वशी संपन्नेति लताया उर्वशीत्वसंपत्तेः संभवात् समाहितम्। समनन्तरक्षणभावित्वेऽपि तत्संपत्तेस्तस्य तादात्विकत्वाभिमानं सूच- यितुं मूतप्रत्ययः । शुद्धालंकारनिरूपणोपसंहारव्याजेन मिश्रालंकारनिरूपणाय प्रसक्क प्रस्फो- रयति- एते चेति। शुद्धाः पूर्व लक्षिताः । मिश्राः संसृष्टिभेदाः । शुद्धा इव मिश्रा अप्यलंकारा: प्रयोगयोग्याः शोभातिशयहेतुत्वादिति भावः । इतिशब्दो 19
Page 166
१४६ काव्यालंकारसूत्रवृत्ति: [अधि. ४.
लंकारणां मिश्रत्वं संसष्टिरित्याह- अलंकारस्यालंकारयोनित्वं संसृष्टिः॥३० ॥ अलंकारस्य अलंकारयोनित्वं यत्, असौ संसृष्टिरिति। संसृष्टिः संसर्ग: संबन्ध इति। तन्द्रेदावुपमारूपकोत्प्रेक्षावयवौ॥ ३१ ॥ तस्याः संसष्टेर्भेदौ-उपमारूपकं चोत्मेक्षावयवश्रेति।
उपमाजन्यं रूपकमुपमारूपकम् ॥ ३२॥ यथा- 'निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम्। प्रथम इह भवान्स कूर्ममूर्ति- जयति चतुदशलोकवल्लिकंदः ।।' एवं 'रजनिपुरंध्रिलोध्रतिलकः शशी' इत्येवमादयस्तन्भ्ेदा द्रष्टव्याः। हेतौ। विशिष्टानामलंकाराणाम् अलंकारविशेषाणाम्। संसृष्टेर्लक्षणमाह-अलंका- रस्येति। कार्यकारणभावापन्नयोरलंकारयोः संबन्धः संसृष्टिरित्यर्थः । संसृष्टिविभागं दर्शयितुं सूत्रमनुभाषते-तद्भेदाविति। अलंकारयोनि- त्वमित्यत्र यथाक्रमं बहुव्रीहितत्पुरुषाश्रयणेन द्वौ भेदौ भवतः-उपमारूपकमुत्य्े- क्षावयवश्चेति॥ तत्राद्ं लक्षयितुं सूत्रमुपक्षिपति-उपमाजन्यमिति। सूत्रमिदं निग- दव्याख्यानमित्यभिसंधाय उदाहरणं दर्शयति -- यथेति। नन्वत्र कूर्ममूर्तेः कंद- त्वारोपाल्लोकानां वल्लित्वारोपणं वक्तुं युक्तम्। तथा च रूपकजन्यमिह रूपकमिति वक्तव्यम्। यन्मतान्तरे परंपरितरूपक्रमित्युच्यते। तत्कथमिदमुपमाजन्यं रूपक- मिति चेत्, सत्यम् ; लोको वल्लिरिव लोकवाल्लिः। व्याघ्रादेराकृतिगणत्वादुपमि- तसमासः । लोकवल्ल्याः कंद इति कूर्ममूर्तौ कंदत्वारोपणमिह ग्रन्थकृतो विव- क्षितमिति न दोषः । इत्थमेव रजनिपुरंध्रीत्यादावपि द्रष्टव्यम्।
Page 167
अ. ३.] कामधेनुसहिता। १४७
उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः।। ३३ ॥। उत्प्ेक्षाया हेतुरलंकार उत्प्रेक्षावयवः। अवयवशब्दो ह्वारम्भकं लक्षयति। यथा- 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।।' एभिनिंदर्शनैः स्वीयैः परकीयैश् पुष्कलैः। शब्दवैचित्र्यगर्भेयमुपमैव प्रपश्चिता।। अलंकारैकदेशा ये मताः सौभाग्यभागिनः । तेऽ्प्यलंकारदेशीया योजनीयाः कबीश्वरैः ॥ इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः ॥ समापं चेदमालंकारिकं चतुर्थमधिकरणम्।।
उत्प्रेक्षावयवं लक्षयितुमाह-उत्प्रेक्षाहेतुरिति। अवयवशब्द इति। अवयव आरम्भको हेतुरित्यर्थः । अङ्गलीभिरिति। अत्रोपमारूपकानुप्राणितस्य श्ेषस्य उत्प्रेक्षोपपादकत्वादुत्प्रेक्षावयवत्वम्। अमीषामलंकाराणामुपमाप्रपश्चरूप- त्वमुपपादितमुपसंहरति -- एभिरिति । निदर्शनैः उदाहरणैः । अलंकाराणा- मप्येकलक्षणलक्षितानां शोभातिशयजनकत्वं कैमुतिकन्यायेन सिद्धमिति सूच- थितुं तदेकदेशानामपि शोभातिशयहेतुत्वमस्तीत्याह- अलंकारेति। इति कृतरचनायामिन्दुवंशोद्वहेन त्रिपुरहरधरितीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीत्पूर्तिमेतत्तुरीयम्।। इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनौ आलंकारिकं नाम चतुर्थमधिकरणम्॥।
Page 168
पञ्चममधिकरणम्॥
-( :: )- संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं पायोगिकार्यमधिक- रणमारभ्यते। तत्र काव्यसमयस्तावदुच्यते- नैकं पदं द्विः प्रयोज्यं प्रायेण ॥ १॥ एकं पदं न द्वि: प्रयोज्यं प्रायेण बाहुल्येन। यथा-'पयोदपयोद' इति। किंचिद्धि चादिपदं द्विरपि प्रयो- क्तव्यमिति। नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥२॥
किरन्ती कौतुकस्मेरैः कटाक्षेः करुणामृतम्। समये संनिधत्तां मे संलपन्ती सरस्वती।। निर्हेतुके नियतिनिःस्पृहमुजिहाने कान्तानिभे कविवरप्रतिभाविवर्ते। प्रत्यर्थिशून्यपरनिर्वृतिके प्रपञ्जे सारस्व्तेऽस्तु समय: सुधियानुपाल्यः ॥
प्रायोगिकं पश्चममधिकरणमारभ्यते। अधिकरणान्तरारम्भौचित्यमासूत्र- यति-संपतीति। संप्रतिशब्देन काव्यस्य प्रयोजनाधिकार्यात्माङ्गभेददोषगुणालं- कारेषु दर्शितेषु प्रयोगनियमशब्दशुद्धयोः प्राप्तावसरत्वं प्रत्याय्यते। प्रयोगविषये नियामकत्वेन भवतीति प्रायोगिकम्। तयो: प्रथमं प्रयोगमर्यादा पर्यालोच्यत इत्याह- तन्रेति। समयः संकेतः, प्रयोगे वर्ज्यावर्ज्यनियम इति यावत्। न द्वि: प्रयोज्यमिति। प्रतीतिवैरस्यादशक्तिसूचकत्वाच्चेत्यभिप्रायः। प्रायग्रह- णस्य प्रयोजनमाह-किंचिद्धीति। यथा-'ते च प्रापुरुदन्वन्तं बुबुघे चादि- पूरुषः ।' इति। आदिग्रहणात् पदानुभ्रासपादयमकेषु द्विःप्रयोगो न दोषायेति द्रष्टव्यम्।
Page 169
अ. १.] कामधेनुसहिता। १४९
नित्या संहिता पादेषु एकपदवत् एकस्मिन्िव पदे। तत्र हि नित्या संहितेत्याम्नायः। यथाहु :- 'संहितैकपदे नित्या नित्या धातू- पसर्गयोः ।' इति। अर्धान्तवर्जम् अर्धान्तं वर्जयित्वा। न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥ पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम्; न सर्वत्र न सर्वस्मिन वृत्त इति। यथा- 'यासां बलिर्भवति मद्ृहदेहलीनां इंसैश सारसगणैश्र विलुप्तपूर्वः । तास्वेव पूर्वबलिरूठयवाङ्कुरासु बीजाञ्जलि: पतति कीटमुखावलीढः ।l' एवंप्रायेष्वेव वृत्तेष्विति। न पुनः-'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत्।' इत्यादिषु। चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः। नित्येति। एकस्मिन् पदे संहिता प्रकृष्टसंनिकर्षो यथा नित्या, तथा पादेष्वपि संहिता नित्या भवति। आम्नायः प्रमाणवचनम्। तं दर्शयति- संहितेति। अविशेषेण सर्वत्र प्राप्तौ क्वचित्संहितां पर्युदस्यति- अर्धान्त- वर्जमिति। यदपि 'वा पादान्ते' इति पादान्तवर्णम्य लघोर्गुरुत्वं विकल्पेन विहि- तम्, तदपि न सर्वत्र भवतीति प्रतिपादयितुमाह-न पादान्तेति। प्रथमं ता- वल्षोर्गुरुत्वं दर्शयति-यथेति। एवंप्रायेष्विति। 'श्रीतिप्पभूपालक मध्यलो- कदेवन्द्र वज्राञदचन्द्रिकाभिः । त्वद्वादुराभाति हसन्निवायं प्रोढौ अदाने मणि- पारिजातौ।' इत्यादिषु इन्द्रवज्रादिषु उपजातिभेदेष्वपि द्रष्टव्यम्। प्रतिषेधवि- पवं प्रदर्शयति-न पुनरिति। तेन 'वा पादान्ते' इति व्यवस्थितविभाषा वेदितव्या।
Page 170
१५० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
न गधे समात्प्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात्॥ ४ ॥ गध्ये समाप्तमायं वृत्तं न विधेयम्, शोभाभ्रंशात्। अन्यत्रोद्गतादि- भ्यो विषमदृत्तेभ्यः, संवादाद्वघयेनेति। न पादादौ खल्वादयः॥।५॥ पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः पकारार्थः। येषामादौ प्रयोगो न क्षिष्यति ते गृह्यन्ते। न पुनर्बतहन्तपरभृतयः । नार्धे किंचित्समातं वाक्यम् ॥ ६ ॥
वृत्तस्यार्धे किंचित्समाप्ं वाक्यं न प्रयोक्तव्यम्।
यथा- 'जयन्ति ताण्डवे शंभोभङ्गुराङ्गुलिकोटयः। कराः कृष्णस्य च भुजाश्चकांशुकपिशत्विषः ।।'
न गद्य इति। गद्ये वृत्तगन्धिनि समाप्तप्रायं परिपूर्णकल्पं वृत्तं न विधेयम्। तत्र हेतुमाह-शोभेति। गद्यपरिपाटीविसंवादेन शोभाअ्रंशो जायत इत्यर्थः । अन्यन्रेति। उद्गतादिषु विषमवृत्तेषु गद्यसंवादिषु किंचिद्त्तं समाप्त- प्रायमपि गद्ये प्रयोक्तव्यम्। तत्र हेतु :- संवादादिति। विसंवादाभावादि- त्यर्थः । न पादादाविति। पादादौ खल्वादिप्रयोगो न क्लिष्यति, श्रुतिविरस- त्वादिति भावः । यथा-'खलूक्त्वा खलु वाचिकम्' 'इव सीतागृहच्छय्रच्छन्नो लङ्कापतिः पुरा।' 'किळ सृजति कामिनीनां किलकिश्चितमेव कामिजनमोहम्।' इत्यादि। नार्थ इति। किंचित्समाप्तम् एकपदावशेषं वाक्यम्। एकपदार्थावशेष- वाक्यार्थप्रतिपादकमर्धमित्यर्थः । तादृशमर्धमुदाहरति- जयन्तीति।
Page 171
अ. १.] कामधेनुसहिता। १५१
न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥७॥ बहुव्रीहिमतिपत्ति करोति यः कर्मधारयः, स न प्रयोक्तव्यः । यथा- अध्यासितश्रासौ तरुश्राध्यसिततरुरिति। तेन विपर्ययो व्याख्यातः॥८॥ बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः । यथा-वीराः पुरुषा यस्य स वीरपुरुषः। कलो रवो यस्य स कलरवः इति। संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ । ९॥ संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ। यथा- 'समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः। स खलु तापसबाणपरंपराकबलितक्षतजः क्षितिमाश्रितः ।।' विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥ विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः।
न कर्मधारय इति। वृतिः स्पष्टार्था। तादृशमुदाहरणं दर्शयति-अध्या- सित इति। निष्ठापूर्वपदत्वेन बहुब्रीहिप्रतिपत्तेरेव पुरःस्फूर्तिकत्वादिति भावः । तेनेति। समासान्तरप्रतिपत्तिकृतः समासस्य प्रयोगो न कार्य इति न्यायो यः फलितः पूर्वसूत्रे, तेनेत्यर्थः । विपर्ययशब्दार्थ विवृणोति- बङुब्री- हिरपीति। वीरा: पुरुषा यस्येति। राजा चासौ पुरुष इति, राजा पुरुषो यस्येति वा राजपुरुष इति कर्मधारयो बहुव्ीहिर्वा ईदृशो न कर्तव्य इति तात्पर्यम्। संभाव्यस्येति। संप्रतिपत्तियोग्यस्य, प्राप्तिपूर्वकत्वात् प्रतिषेघस्येति भावः । समरेति। न जित इति न, किंतु जित एवेत्यर्थः ।
Page 172
१५२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
यथा-'निधानगर्भामिव सागराम्बराम्।' अन्र हि पृथिव्या विशेषणमात्रमेव पयुक्तम्। एतेन- 'कुद्धस्य तस्याथ पुरामरातेलेलाटपट्टादुदगादुदर्चिः।' 'गिरेस्तडिलानिव तावदुचकैर्जवन पीठादुदतिष्ठदच्युतः।' इत्यादयः प्रयोगा व्याख्याताः। सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥। ११ ॥ सर्वनाम्ना अनुसंधि: अनुसंधानं प्रत्यवमर्शः कार्य:, ृत्तिच्छन्स्य वृत्तौ समासे च्छन्नस्य गुणीभूतस्य।
यथा-'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानग- न्धिनः।' इति। संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥
संबन्धेन संबन्धः संबन्धसंबन्धः तस्मिन् षष्ठी प्रयोज्या कचित्, न सवेत्रेति।
विशेषणेति। यत्रानन्यसाधारणविशेषणमहिम्रा विशेष्यस् प्रयोगमन्त- रेण प्रतिपत्तिर्भवति. तत्र विशेषणमात्रप्रयोगः क्रियते। तदुदाह्ृत्य दर्शयति- निधानेति। अत्र सागराम्बरत्वं भुव एव, ऊर्ध्वार्चिर्योगश्चामेरेव, तडित्संबन्धश्च मेघस्यैवेत्येषामनन्यसाधारणत्वम्। यत्र तु विशेषणमहिम्ना प्रतिपन्नं विशेष्यं साधा- रणविशेषणविशिष्टमभिधित्सितम्, तत्र विशेष्यस्यापि गतार्थस्य प्रयोगे न दोष इत्यपि द्रष्टव्यम्। सर्वनाम्नेति। अत्र भाष्यकारवचनं प्रमाणम्- 'अथ शब्दानुशा- सनम्। केषाम्: शब्दानाम्।' इति। तद्रेण्विति। अत्र तच्छब्दः समासे उप- सर्जनीभूतं नीलोत्पलं परामृशति।
Page 173
अ. १.] कामधेनुसहिता। १५३
यथा-'कमलस्य कंदः' इनि। कमलेन संबद्धा कमलिनी तस्याः कंद इति संबन्धसंबन्धः । तेन कदलीकाण्डादयो व्याख्याताः। अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥। अतीव कविभि: प्रयुक्तं देशभाषापदं पयोज्यम्। यथा-'योषिदित्यभिललाष न हालाम्।' इत्यत्र हालेति देशभा- षापदम्। अनतिप्रयुक्तं तु न प्रयोज्यम्। यथा- 'कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः।' इत्यत्र कङ्केलीपदम्। लिङ्गाध्याहारौ ॥ १४ ॥ लिङूं च अध्याहारश् लिङ्गाध्याहारौ अतिपयुक्तौ पयोज्याविति। लिजं यथा-'वत्से मा बहु निःश्वर्सीः कुरु सुरागण्टूषमेकं शनैः।' इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तः न स्त्रियाम्, आम्ना- तोऽपि स्त्रीत्वे। अध्याहारो यथा- 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वाहिनीजलभरः कुलिशं वा खस्ति तेऽस्तु लतया सह वृक्ष ।I' अत्र हि धाक्षीदित्यादीनामध्याहारोऽन्वयपयुक्त इति। संबन्धेति। संबन्धपारम्पर्येऽपि षष्ठी भवतीत्यर्थः । कदली हि समुदा- यस्तस्या गर्भस्तन्र काण्डमिति संबन्धसंबन्ध इति। अतिपयुक्तमिति। अतीव प्रयुक्तं प्रायशः प्रयुक्तम्। देशव्यवस्थिता भाषा देशभाषा, तन्र सिद्धं पदं देशभाषापदं देश्यं पदमित्यर्थः। अतिना व्यावर्त्य कीर्तयति -- अनतीति। कङ्केलिरशोकः। लिङ्गाध्याहाराविति। अतिप्रयुक्तमित्यनुवर्तते। न ख्रियामिति । 'शुण्डाग्रभागे गण्डूषा द्वयोस्तु मुखपूरणे' इति स्त्रीत्वेऽप्याझ्नातः स्तरियां न प्रयु- ज्यते। मा भवन्तमिति। धाक्षीदित्यत्र आदिपदेन भाङ्गीत्, छैत्सीत्, भैत्सीत् 20
Page 174
१५४ काव्यालंकारसून्नवृत्ति: [अमि. ५.
लक्षणाशब्दाश्च ॥ १५ ॥
लक्षणाशब्दाश्च अतिमयुक्ता: पयोज्याः । यथा-द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ। अनतिपयुक्ताश्च न प्रयोज्याः । यथा-द्विकः काक इति। न तद्ाहुल्यमेकत्र॥। १६ ॥ तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम्। शक्यते ह्ोकस्यावाचकस्य वाचकवद्भावः कर्तुम्, न बहूनामिति। स्तनादीनां द्वित्वाविष्टा जाति: प्रायेण॥ १७॥
स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जाति: प्रायेण बाहुल्ये- नेति। यथा-'स्तनयोस्तरुणीजनस्य' इति। प्रायेणेति वचनात् कचि- न्न भवति, यथा- 'स्त्रीणां चक्षुः' इति।
इत्येषामध्याहारो न दुष्यति, अतिप्रयुक्तत्वेन बुद्धारूढत्वादिति भावः । लक्षणाशब्दाश्रेति। द्वौ रेफौ यस्येति द्विरेफः। र उदरे यस्येति रोदरः। द्विरेफरोदरशब्दौ मुख्यया वृत्त्या भृङ्करथाङ्कनामवाचकयोर्अ्रमरचक्रवाकशब्दयोर्व- तेते, तेन तदर्थयो रेफसंबन्धाभावात्। अतो वाच्यवाचकयोरभेदोपचारेण तदर्थ- योर्वतेते इति लक्षणाशब्दौ। 'चक्रवाको रोदरश्र कोकश्चक्राभिषाह्यः' इति वैजयन्ती। यथा द्विरेफशब्दो भ्रमरे रोदरशब्दश्चक्रवाके; न तथा द्विक इति काके, अनतिप्रयुक्तत्वादिति। यदाहु :- 'निरूढा लक्षणाः काश्वित्सामर्थ्याद- भिधानवत्। क्रियन्ते सांप्रतं काश्वित्काश्चिन्नैव त्वशक्तितः' इति।
न बहूनामिति। लक्षणापदबाहुल्ये क्विष्टतादोषप्रसङ्गादिति भावः । तरुणीजनस्येति। जनशब्द: समूहवचनः । ननु न जातेर्द्वित्वाविष्ट-
Page 175
अ. १३ कामधनुसहिता। १५५
अथ कयं द्वित्वाविष्टत्वं जातेः१ तद्धि द्रव्ये, न जातौ; अतद्रूप- त्वात्तस्याः । न दोष: ; तद्ूपत्वाज्जातेः। कथ तद्ूपत्वं जातेः? तद्धि जैना जानन्ति। वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः । न चैवमति- प्रसङ्ग:, लक्ष्यानुसारित्वान्न्यायस्येति। एवमन्यापि व्यवस्थोह्ा।
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे प्रथमोऽध्यायः॥
त्वमुपपद्यत। संख्याया द्रव्यधर्मत्वेन जातिधर्मत्वाभावादिति शङ्कते-अथ कथमिति। जातेर्द्रव्याभिन्नत्वान्नायं दोष इति परिहरति -- न दोष इति। जातिव्यक्त्योरभेद एव कुत इति शङ्कते -- कथं तद्वूपत्वमिति। जात्यपला- पवादिनो जैनाः प्रष्टव्या इत्याह -- जैना इति। अपसिद्धान्तशङ्कामवधीरयनि- वयं त्विति। न वयं जातिमपलप्यान्यापोहवादं समर्थयामहे, किंतु सिद्धं पर- मतमनूद्य प्रयोगं प्रतिष्ठापयामः। एवं तर्हि यस्थ कस्यचिन्मतमवलम्ब्य य्त्किं- चिदपि समर्थयितुं शक्यत इत्यतिप्रसङ्कमाशङ्कत परिहरति -- न चैवमिति। वथा पाणिनीये कचिज्जातिः क्वचिद्यक्तिरिति पक्षद्र्यमवलम्ब्य लक्ष्यनिर्वाहः क्रियते तद्वदत्रापि परमतमनुसृत्य प्रयोगनिर्वाहः कृतः । प्रसिद्धे लक्ष्ये सति तद- नुसारी न्यायोऽन्विष्यते; न दु न्यायोऽस्तीति लक्ष्यमन्वेषणीयम्, लक्ष्यानुसारि- त्वान्न्यावस्येति। एवमन्या व्यवस्था प्रयोगमर्यादा सयं बुद्धिमद्धिरूहनीया ।
इति श्रीगोपेन्द्रतिप्पभूपालबिरचितायां वामनालंकार सूत्रवृत्ति- व्याख्यायां काव्यालंकारकामधेनो प्रायोगिके पञ्चमेऽध्रिकरणे प्रथमोऽध्यायः॥
Cotero-
Page 176
द्वितीयोऽध्यायः॥
सांमतं शब्दशुद्धिरुच्यते-
रुद्रावित्येकशेषोऽन्वेष्यः ।।१।।
रद्रावित्यत्र प्रयोगे एकशेष: अन्वेष्यः अन्वेषणीयः । रुद्रश्व रुद्राणी चेति 'पुमान् स्त्रिया' इत्येकशेषः; स च न प्राम्मोति। तत्र हि 'तल्लक्षणश्रेदेव विशेषः' इत्यनुव्तते इति तत्रेवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम्। अत्र तु 'पुंयोगादाख्यायाम्'
छिन्ते मोहं चित्प्रकर्ष प्रयुक्के सूते सूक्तिं सूयते या पुमर्थान्। प्रीति कीति प्राप्तुकामेन सैषा शाब्दी शुद्धि: शारदेवास्तु सेग्या ।। अथेदानीमध्यायान्तरं व्याचिख्यासुस्तत्प्रयोजनं प्रस्तौति-सांग्रतमिति। तत्र तावदेकशेषविषयं किंचिच्छोधयितुं सूत्रमनुभाषते-रुद्राविति। 'पुमान् ख्तया' इत्येकशेषो विधीयते। तत्र 'वृद्धो यूना-' इति सूत्रात् 'तल्लक्षणश्चेदेव विशेष:' इत्यनुवर्तते। तदिति स्त्रीपुंसयोनिर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे। एवकारोऽवधारणे। विशेषो वैरूप्यम्। स्त्रिया सह वचने पुमान् शिष्यते। स्त्रीपुंसलक्षण एव चेद्विशेषो भवति, स्त्रीपुंसकृतमेव यदि वैरू- प्यं भवतीत्यर्थः । ब्राह्मणश्च ब्राह्मणी च ब्राझणाविति। तद्वदेव रुद्रश्च रुद्राणी च रुद्रावित्यत्राप्येकशेषः प्राम्ोतीति यः कश्विदभिमन्यते, तत्प्रतिषेधाय प्रयोगादर्शनं प्रत्याययति-अन्वेषणीय इति। न्यायतः प्राप्तौ प्रयोगोऽप्युन्नीयतामिति, तत्रा- ह-स च न प्राप्नोतीति। अप्राप्तिमेव दर्शयितुमाह-तत्न हीति। अस्त्वेवं व्यवस्था, प्रकृते को विरोध इति तत्राह-अत्र त्विति। रुद्राणीत्यत्र 'पुंयोगा- दाख्यायाम्' इत्यनुवर्तमाने 'इन्द्रवरुण-' इत्यादिना डीषू विधीयते-पुंस आख्याभूतं यत्पातिपदिकं पुंयोगात् खियां वर्तते तस्मात् डीष्प्रत्ययो भवतीति। अतस्तल्लक्षणविशेषव्यतिरेकेण विशेषान्तरस्यापि विद्यमानत्वान्नात्रैकशेषप्राप्तिरिति।
Page 177
अ. २.] कामधेनुसहिता। १५७
इति विशेष/न्तरमप्यस्तीति। एतेनेन्द्रौ भवौ शर्वावित्यादयः भयोगाः पत्युक्ता:। मिलिक्कबिक्षपिप्रभृतीनां धातुत्वं धातु- गणस्यापरिसमासेः ॥२॥ मिलति विक्लबति क्षपयतीत्यादयः प्रयोगा दृश्यन्ते। तत्र मिलिक्क- बिक्षपिमभृतीनां कथं धातुत्वम्, गणपठितानामेव धातुसंज्ञाविधा- नात्१ तत्राइ-धातुगणस्यापरिसमाप्नेः। 'वर्धते धातुगणः' इति हि शब्दविद आचक्षते। तेनैषां गणपाठेऽनुमतिः, शिष्टपयोगादिति। वलेरात्मनेपदमनित्यं ज्ञापकात् ॥ ३ ॥ वलेरनुदात्तेच्वादात्मनेपदं यत्, तदनित्यं दृश्यते-'लज्जालोलं वलन्ती' इत्यादिमयोगेषु; तत् कथमित्याह-ज्ञापकात्। किं पुनस्त- ज्ज्ञापकम्! चक्षिडे द्व्यनुबन्धकरणम्। चक्षिङ इकारेणैवानुदात्तेन सिद्ध
एतत्समानयोगक्षेमाणि प्रयोगान्तराणि प्रत्याख्येयानीत्याह-एतेनेति।
मिलिक्लबीति। 'भूवादयो धातवः' इति गणपठितानामेव धातुसंज्ञा- विधानाद्धातुगणे मिलिप्रभृतीनामपाठात् कथं धातुत्वमित्याशक्कापूर्वकं धातुत्वं समर्थयते- मिलति विक्लबति क्षपयतीति। धातुगणस्वापरिसमाप्तौ प्राची- नाचार्यवचनं प्रमाणयति -- वर्घते धातुगण इति। प्रभृतिग्रहणाद्वीज्यान्दोला- दयः । वलेरात्मनेपदमिति। 'अनुदात्तडित आत्मनेपदम्' इति वलेर्षातोरनु- दासेत्त्वान्नित्यमात्मनेपदप्राप्तौ शिष्टप्रयोगेषु परस्मैपददर्शनात् तत्सिद्धये कचिदनु- दात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन समर्थयितुमाह-वलेरनुदाच्ते- स्वादिति। अनुदात्तेत्त्वनिबन्धनस्यात्मनेपदस्वानित्यत्वे चक्षिडो डित्करणं ज्ञापक- मित्याह-चक्षिडो द्रयनुबन्धकरणमिति। इकारेणैवेति। नन्वेवं 'गोः पादा- न्ते' इत्यतोऽन्तग्रहणानुवृत्तेरन्तेदित्वे सति 'इदितो नुं धातोः' इति नुम् स्यात्,
Page 178
१५८ [अधि. ५.
मात्मनेफ्दम्; किमर्य डित्करणम्? तत्किरियते अनुदा चनिमित्तस्यात्मने- पदस्यानित्यत्वज्ञापनार्थम्। एतेन वेदिभर्त्सितर्जिमभृतयो व्याख्याताः। आवेदयति, भर्त्स- यति, तर्जयतीत्यादीनां प्रयोगाणां दर्शनात्। अन्यत्राप्यनुदात्तनिबन्धन- स्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति। क्षीयत इति कर्मकर्तरि ॥ ४ । क्षीयत इति मयोगो दृश्यते; स कर्मकर्तरि द्रष्टव्यः। क्षीयतेरना- त्मनेपदित्वात्। खिद्यत इति च॥ ५॥ खिद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव द्रष्टव्यः, न कर्तरि, अदैवादिकत्वात् खिदे:। तर्हि 'चक्ष व्यक्तायां वाचि' इत्यकरान्तः पठ्येतेति भावः। उक्तमात्मनेपदस्या- नित्बत्व वेदिभर्त्सिपभृतिष्वषि द्रष्टव्यमित्याह-एतेनेति। 'आ गर्वादात्मनेष- दिन:' इत्याज्यनेपदित्वेनानुदातेत्वं लक्ष्यत इति भावः। अन्यथानुदातेत्त्वनि- मन्यनस्वात्मनेपदस्थानित्यताज्ञापने किमायातम्। न चैवमतिप्रसक्गः, शिष्टप्रयोग- मात्रविषयत्वाज्ज्ञापकस्य । "क्षीयत इति १ किजोते: सौवाविकस्य श्नुपत्यवान्तत्वेन प्रसिद्धावपि क्षीयत इति कर्तरि श्रिष्टप्रयोगो दृश्यते; तस्योपपत्तिमाह-स कर्मकर्तरि द्रष्टव्य इति । क्षिणोते: कर्मस्थभावकत्वात् कर्मबद्भावः । खिद्यत इति चेति। चकारेण कर्मकर्तरीति समुच्चिनोति-सोऽपीति। खिदोऽकर्मकत्वादन्तर्भावितण्यर्थत्वे प्रयोज्यकर्मस्थभावकत्वात् कर्मवद्धावः । खिदे- रनुदात्ेतः श्यनि कृते खिद्यत्त इति रूपं सिध्यतीति शङ्कां परिहरति- अदै- वादिकत्वादिति। 1. वस्तुतस्तु पद्यतेरनन्तर खिद्यतिरात्मनेपदी दिवादावुपलभ्यत एव। खिविद्यत इति पाठान्तरम्। व्याख्याता तु खिदिमेव मन्यते। क्षीयत इत्ति व दिवादेसवृत्कृतत्वात्सिध्मतीति दीक्षितत्रमतयः।
Page 179
अ. २.] कामधेसुसहिता। १५९
मार्गेरात्मनेपद्मलक्ष्म ।। ६ ।। चुरादौ 'मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विक- ल्पितणिच्क:। तस्माददात्मनेपदं दृध्यते-मार्गन्तां देहभारमिति; तत् अलक्ष्म अलक्षणम्, परस्मैपदित्वान्मार्गेः । तथा च शिष्टपयोग :- 'करकिसलयं धूत्वा धूत्वा विमार्गति वाससी।' लोलमानादयश्चानशि॥७॥ लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः । ज्ानचस्त्वभाव:, परस्मैपदित्वाद्धातूनामिति। लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मखवे ॥८॥ अस्त्ययं लभिः, यः प्राप्त्युपसर्जनां गतिमाह: अस्ति च यो गत्यु- मार्गेरिति। चौरादिकस्य मार्गे: 'आ धृषाद्वा' इति णिचो वैकल्पिकत्वेन तदभावे सति परस्मैपदित्वान्मार्गतीति शिष्टप्रयोगदर्शनाच्च परस्मैपदे प्रयोक्त- व्ये, यत्तु प्रयोगे कुत्रचिदात्मनेपदं दृश्यते-मार्गन्तामिति; तल्लक्षणहीनमित्याह- चुरादाविति। इयोरपि प्रयोगयोद्शने कथमत्र व्यवस्थेति तब्राह्- तथा च शिष्टपयोग इति। लोलमानादय इति। 'लोलमाननवमौक्तिकहारं वेल्लमानचिकुरश्रथ- माल्यम्। स्विन्नवक्त्रमविकस्वरनेत्रं कौशलं विजयते कलकण्ठ्याः ॥' इत्यादिषु लोलमानादयः प्रयोगा दृश्यन्ते। परस्मैपदित्वादेतेषां शानजन्तत्वं विरुद्धम् ; आत्मनेपदित्वाच्छानच इत्याशङ्कायां प्रकारान्तरेण साधुत्वं समर्थयते- लोल- मानो वेल्लमान इति। 'ताच्छील्यवयोवचनशक्तिषु चानग्' इति ताच्छील्या- दिष्वर्थेषु घात्वधिकारे चानशो विघानादेते प्रयोगाश्चानशि द्रष्टव्याः; न तु ज्ानचि। अतो न विरोषः । लभेरिति। यद्यपि 'डुलभष् प्राप्तौ' इति प्रापिरेव लभेरर्थ, तथापि प्राप्तेर्गतिपूर्वकत्वात् प्राप्तिगत्योः कार्यकरणयोरभेदोपचारेण प्राप्त्युपसर्जनगत्यर्थ- त्वमपि लभेरश्ीकृत्य प्रथमं तावत्पक्षद्ववं प्रस्तौति-अस्त्ययमिति। यः प्राप्त्यु-
Page 180
१६० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
पसर्जनां प्राप्तिमाहेति। अत्र पूर्वस्मिन् पक्षे गत्यर्थत्वाल्लभेर्णिचि अणौ यः कर्ता, तस्य गत्यादिसूत्रेण कर्मेसंज्ञा। यथा- 'दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शषिशिराः शसिभास:।' द्वितीये तु पक्षे गत्यर्थत्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा। यथा- 'सितं सितिम्ना सुतरां मुनेर्वपु- र्विसारिभिः सौधमिवाथ लम्भयन्। द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ।।' तेमेशब्दौ निपातेषु॥ ९ ॥ त्वया मयेत्यस्मिनर्ये ते-मे-शब्दौ निपातेषु द्रष्टव्यौ। यथा-'धरुतं ते वचनं तस्य'वेदानधीत इति नाधिगतं पुरा मे।' तिरस्कृत इति परिभूतेऽन्तर्ध्युपचारात्॥१० ॥
सर्जनां गतिमाह, सोडयं लभिरस्ति; यश्च गत्युपसर्जनां प्राप्तिमाह अयमपि लभिरस्तीति योजना। विवक्षावशात् लभिरयं कदाचित् प्राधान्येन गतिमाह, कदाचित्तु प्राप्तिमित्यर्थः । तत्न प्रथमे पक्षे निर्विवादमणिकर्तुर्णिचि कर्मत्वमित्याह- अन्र पूर्वस्मिन्रिति। द्वितीये तु गत्यर्थत्वाभावान्नास्त्यणिकर्तुः कर्मसंज्ञेत्याह- द्वितीये त्विति। ततश्च सितिम्नेत्यत्र 'कर्तृकरणायोस्तृतीया' इति प्रयोज्ये कर्तरि वृतीया। तेमे इत्यादि। अन्र 'तेमयावेकवचनस्य' इति युष्मदस्मदोः पष्ठीचतर- र्थीद्वितीयास्थयोस्तेमयावादिष्टौ इति विभक्त्यन्तरस्थयोस्तयोरादेशाप्राप्तौ निपातेषु
तिरस्कृत इति। तिरस्कृतशब्दस्म परिभूतार्थे प्रयोगं दर्शयन्, तखानु-
Page 181
अ. २.] कामधेनुसहिता। १६१
तिरस्कृतशब्दः परिभूते दम्यते- 'राज्ञा तिरस्कृतः' इति ; स च न प्राम्नोति। तिरःशब्दस्य हि 'तिरोऽन्तर्धौ' इत्यन्तर्धौ गति- संज्ञा। तस्यां च सत्याम् 'तिरसोऽन्यतरस्याम्' इति सकारः । तत्कथं तिरस्कृत इति परिभूते? आह- अन्तर्ध्युपचारादिति। परि- भूतो ह्यन्तर्हितवद्भ्वति। सुख्यस्तु प्रयोगो यथा- 'लावण्यप्रसरतिर- स्कृताङ्गलेखाम्।' नैकशब्द: सुप्सुपेति समासात् ॥ ११ ॥ 'अरण्यानीस्थानं फलनमितनैकद्ठुममिदम्' इत्यादिषु नैकशब्दो दृश्यते; सच न सिध्यति। नञ्समासे हि 'नलोपो नः' इति नलोपे 'तस्मान्नुडचि' इति नुडागमे सति अनेकमिति रूपं स्यात्। निरनुबन्धकस्य नशब्दस्य समासे लक्षणं नास्ति। तत् कथ नैकशब्द इत्यत्राह-सुप्सुपेति समासाद्। मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १२ ॥ पपत्तिमुद्धाटयति- तिरस्कृतशब्द इत्यादिना। समाधत्ते-अन्तर्ध्युप- चारादिति। मुख्यपूर्वकत्वाद्गौणस्य मुख्यं दर्शयति- मुख्यस्त्विति। नञ्समासे हीति। 'नलोपो नवः' इति नकारलोपे सति, 'तस्मान्नु- डचि' इति नुडागमे च कृते, अनेकमिति रूपं स्वात्, न तु नैकमिति। ननु न सिध्यति चेन्मास्तु नञ्समास :; प्रकारान्तरेण किं न स्यादित्यत आह-निर- नुबन्धकस्येति। सुप्सुपेति। 'सुबामन्त्रिते पराङ्वत्स्वरे' इत्यतः सुबित्यनुव- त्तौ, 'सह सुपा' इति योगविभागात् सुबन्तं पदं सुबन्तेन सह समस्यत इति समासे नैकशब्द: सिद्धो भवतीत्यर्थः । मधुपिपासुप्भृतीनामिति। श्रितादिष्वग्रहणान्नात्न द्वितीयासमास: संभ- वति। नापि कृदन्तेन सह षष्ठीसमासः, 'न लोक-' इत्यादिसूत्रे उप्रत्यया- 21
Page 182
१६२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'मधुपिपासुमधुव्रतसेवितं सुकुलजालमजृम्भत वीरुधाम्' इत्या- दिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात्। 'श्रितादिषु गमिगाम्यादीनासुपसंख्यानम्' इति द्वितीयासमा- सलक्षणं दर्शयति। त्रिवलीशब्द: सिद्ध: संज्ञा चेत् ॥ १३ ॥
त्रिवलीशब्दः सिद्धो यदि संज्ञा, 'दिक्संख्ये संज्ञायाम्' इति संज्ञायामेव समासविधानात्'। बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम्॥१४॥
न्तेन योगे षष्ठीनिषेधात्। तत् कथमत्र समास इति चिन्तायां समासस्य गति- माह-गमिगाम्यादिष्त्रिति।
त्रिवलीशब्द इति। 'कोणस्त्रिवल्येव कुचावलाबूम्तस्याम्तु दण्डस्तनुरो- मराजिः । हारोऽपि तन्त्रीरिति मन्मथस्य संगीतविद्यासरलम्य वीणा ।' किमयं संज्ञा, असंज्ञा वा?। असंज्ञापक्षे त्रिवलीशब्दस्य 'तद्धितार्थोत्तरपदसमाहारे च' इति समासो वक्तव्यः; तत्तु न संघटते। तथाहि-न तावत् पञ्चकपाल इत्या- दिवत् तद्धितार्थो विषयोऽस्ति। नापि पश्चगवधन इत्यादिवदुत्तरपदं परम्। न चापि पञ्चपात्रमित्यादिवत् समाहारः; समाहारे हि तस्येकत्वादेकवद्भावे सति 'स नपुंसकम्' इति नपुंसकत्वं स्यात्। तदत्रासंज्ञापक्षो नेष्ट इत्यभिसंधाय संज्ञापक्षमाश्रित्य समासमाह- त्रिवलीशब्दः सिद्धो यदि संज्ञेति। यदि त्रिवलीशब्द: संज्ञा भवति, तदा त्र्यवयवा वली त्रिवलीति विग्रहे 'दिक्संख्ये संज्ञायाम्' इति समासः सिध्यति। बिम्बाघर इति। अत्र समासवृत्तिं संवेदयितुमभियुक्तप्रयोगं तावद्दर्श-
- अत्र वदन्ति- यदि त्रिवलीशब्दे सज्ञात्वात् 'दिक्सख्ये- इत्यनेन समासः, साई सलव्य इातवत् बहुवचनन मग्थिम्। यदि न त्र्यवयवा वली इति व्याख्यातृप्रदर्शितो विग्रहः, तर्हिं शाकपार्थिवादित्वात्समास इति 'दिक्संख्ये' इति समास इति व्याहतम्। समासान्तरान्तर्भावाभिप्रायेण तु कथचिन्मूलं नेयमिति।
Page 183
अ. २.] कामधेनुसहिता। १६३
'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते; सच न युक्तः। अधरबिम्ब इति भवितव्यम्, 'उपमितं व्याघ्रादिभि :- ' इति समासे सति। तत् कथ बिम्बाधर इति? आह-वृत्तौ मध्यमपदलोपिन्याम्। शाकपार्थिवादित्वात् समासे मध्यमपदलोपिनि सति बिम्बाकारोऽघरो बिम्बाधर इति। तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः। अत्रापि पूर्वव- दृत्तिः । शिष्टपयोगेषु चैष विधिः। तेन नातिप्रसङ्ग:। आमूललोलादिषु वृत्तिर्विस्पष्टपट्वत् ॥१६ ॥ 'आमूललोलम्' 'आमूलसरसम्' इत्यादिषु वृत्तिर्विस्पष्टपटुवत् मयूरव्यंसकादित्वात्। न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेध: पूरणेन तद्ितान्तत्वात्॥१७॥
यति- बिम्बाधरः पीयत इति। प्रामाणिक प्रयोगदर्शनादयमसाधुरिति वक्तु- मयुक्तमित्याशङ्कयाह-स च न युक्त इति। लक्षणानुगुणं प्रयोगं दर्शय- न्नस्था अयुक्तत्वं दर्शयति -- अधरबिम्ब इति। समाधत्ते -- वृत्तौ मध्यम- पदलोपिन्यामिति। उक्तामुपपत्तिमन्यत्राप्यनुगमयति -- तेनेति। ननु तर्हि व्याघ्राकारः पुरुषो व्याघ्रपुरुष इत्यपि स्यादित्यतिप्रसअं परिहरति- शिष्टप- योगेषु चैष विधिरिति। आमूललोलादिष्विति। आमूलं लोलमिति विग्रहः । अत्र तत्पुरुषाधि- कारे लक्षणदर्शनात् समासान्तरस्य चाप्रसक्ते: कथमामूललोलादिप्रयोग: सिध्यतीति चिन्तायाम् 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् विस्पष्टपटुशब्दवत् समाससिद्धिरित्याह- आमूललोलमामूलसरसमिति। न धान्यषष्ठादिष्विति। धान्यानां षष्ठमुञ्छानां षष्ठमित्यत्र 'पूरणगुण- सुहितार्थ-' इति सूत्रेण पूरणप्रत्ययान्तेन समासनिषेधः क्रियते; सचन भवतीत्याह-धान्यषष्ठमिति। तन्र हेतुमाह-तद्धितेति। षष्ठशब्दस्य तद्धि-
Page 184
१६४ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'धान्यषष्ठम्' 'तान्युञ्छषष्ठाङ्गितसैकतानि' इत्यादिषु न षष्ठीस- मासप्रतिषेध: पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् षष्ठो भाग: षष्ठ इति; 'पूरणाद्भागे तीयादन्' 'षष्ठाष्टमाभ्यां ञ च' इत्यन्विधानात्। पत्रपीतिमादिषु गुणवचनेन ॥। १८ ॥ 'पत्रपीतिमा,' 'पक्ष्मालीपिङ्गलिन्नः' इत्यादिषु षष्ठीसमासमतिषे- धो गुणवचनेन प्राप्तः, बालिश्याचु न कृतः। अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्मादुत्तरपदः॥ १९॥ अवर्ज्यों न वर्जनीयो व्यधिकरणो बहुव्रीहिः। जन्मादि उत्तरपदं यस्य स जन्माद्युत्तरपढ़:। यथा-'सच्छास्त्रजन्मा हि विवेकलाभः' 'कान्तवृत्तयः प्राणाः' इति। तान्तत्वादित्यर्थः । क पुनरत्र पूरणप्रत्ययव्यतिरेकेण तद्धित इत्याकाङ्कायां तद्धि- तं दर्शयति-षष्ठो भाग इति। 'पूरणाद्भागे तीयादन्' इत्यनुवृत्तौ 'षष्ठाष्टमा- भ्यां ञ च' इत्यन्विधानादन्यतद्धितान्तत्वमित्यर्थः । पत्रपीतिमादिष्विति। अत्र 'पूरणगुण' इत्यादिसूत्रेण गुणवाचिना षष्ठीसमासप्रतिषेधः प्राप्तः । स तु मौढ्यान्न कृतः । अतः पत्रपीतिमादयो न युक्ता इत्याह -- 'पत्रपीतिमा' 'पक्ष्मालीपिङ्गीलम्नः' इति। 'वर्त्तमानसामी- प्ये' इति ज्ञापकात् पत्रपीतिमादय सिध्यन्तीति केचित्। येषां तु मतम्- गुणः संबन्धित्वाद्गुणिनमाक्षिपति। तेन गुणेन गुणिनः षष्ठीसमासनिषेध। न च बर्तमान: सामीप्ये गुणी। भूतभविष्यतोरेव तद्गुणित्वादिति; तेषां मते 'उत्तर- पदार्थप्राधान्ये' इति ज्ञापकादनित्यः षष्ठीसमासप्रतिषेध इति केचिदाचक्षते। अवर्ज्य इति। 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वच- नात् व्यधिकरणस्य बहुव्रीहेरसिद्धौ क्चिद्विषये तत्प्रसिद्धिमाह -- अवर्ज्य इति। सच्छास्राज्जन्म यस्य स सच्छास्त्रजन्मा, कान्ते प्रिये वृत्तिर्येषां ते कान्तवृत्तय इति व्यधिकरणत्वम्। यत्र गमकत्वम्, तत्रेदं वेदितव्यम्।
Page 185
अ. २.] कामधेनुसहिता। १६५
हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्॥ २० ॥
हस्ताग्रम्, अग्रहस्तः, पुष्पाग्रम्, अग्रपुष्पम्, इत्यादयः प्रयोगाः कथम् ; आहिताग्न्यादिष्वपाठाद, पाठे वा तदनियमः स्यात्? आह- गुणगुणिनोर्भेदाभेदात। तत्र भेदात् हस्ताग्रादयः । अभेदात् अग्रहस्ता- दयः। पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१ ॥ काष्ठतृणं तृणकाष्ठमिति यदच्छया पूर्वनिपातं कुर्वन्ति। तत्नाप- भ्रंशो रक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति। निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्॥। २२ ।।
हस्ताग्रेति। अत्र गुणशब्देन परार्थत्वसादृश्यादवयवो लक्ष्यते। तथा च गुणगुणिनाविहावयवावयविनौ। तयोर्भेदविवक्षायां हस्ताआ्रादयः । तदा षष्ठीसमा- सः। अभेदविवक्षायां त्वग्रहस्तादयः । तदा अभेदोपचारेऽपि प्रवृत्तिनिमि त्तमेदाद्वि- शेषणसमासः । पूर्वनिपात इति। 'लध्वक्षरं पूर्व निपतति' इति वार्तिककारवचनेन द्वन्द्वे पूर्वनिपातविधानात्तृणकाष्ठमिति वक्तव्ये काछ्ठतृणमिति कचित् केनचित् प्रयुक्तम्। तत्र पूर्वनिपाते अपभ्रंशः शास्त्रमर्यादातिक्रमः । स रक्ष्यः परिहरणीयः, तथा न प्रयोक्तव्यमिति तात्पर्यम्। 'कुमारशीर्षयोः' इति ज्ञापकात् पूर्वनिपात- व्यत्यासो भविष्यतीति तत्राह- अनित्यत्वज्ञापनं त्विति। न सर्वेति। 'प्राप्तस्य चाबाधा' इति वचनाच्छिष्टप्रयुक्तद्वन्द्वविषयमेवेति भावः । निपातेनापीति। 'ब्राह्मणं देवदत्त इति मन्यते' इत्यादौ 'अनभिहिते' इत्यधिकारात् तिड्कृत्तद्धितसमासैरनभिहिते कारके कर्मणि द्वितीयया भवितव्य- मित्याशक्कायामाह-निपातेनापीति। तत्र हेतुमाह-परिगणनस्येति। भग- वता वार्तिककारेण प्रायिकाभिप्रायेण 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृत-
Page 186
१६६ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'अनभिहिते' इत्यत्र सूत्रे 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृतम्। तस्य पायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भ- वति। यथा- 'विषव्ृक्षोऽपि संवर्ध्य स्वयं छेतुमसांग्रतम्' 'पण्डितं मूर्ख इति मन्यते' इति। शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपकमात्॥ २३ ॥ शके: 'शकिसहोश्र' इति कर्मणि यति सति शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने। लिङ्गवचनस्यापि सामान्योपक्रमात् विशेषानपेक्षायामिति।
म्। ततश्चैवंविधाः प्रयोगाः सिद्धा इति दर्शयति- विषव्ृक्ष इति। अत्र संव- रधनच्छेदनक्रिययोः सकर्मकत्वेन कर्माकाह्ायां न कर्मविभक्तिर्भवति, विघेयायुक्त- त्वाभिधायिना असांप्रतमिति निपातेनाभिहितत्वात्। नन्वसांप्रतपदस्य तद्धितान्त- त्वात् तेनैवाभिहिते न भवत्येव कर्मविभक्तिः । अतो नेदमुदाहरणमिति न चोद- नीयम्; 'युक्ते काले च सांप्रतम्' इत्यभिधानादतद्धितान्त एवायं निपातः। तद्धितान्तत्वे वा तस्यानन्यार्थत्वान्न तेनाभिधानमिति भावः। शब्दशक्तिस्वाभा- व्यादस्याभिधायकत्वमिति द्रष्टव्यम्। मूर्खे इति। अत्र समुदायस्य कर्मत्वेऽपि 'अर्थवत्समुदायानां समासग्रहणं नियमार्थम्' इति वाक्यान्न विभक्त्युत्पत्तिः । 'शक्यमञ्जलिभिः पातुं वाताः केतकगन्घिनः' इत्यादयः प्रयोगा दृश्यन्ते। शके: कृत्यप्रत्यये शक्यमिति रूपम्। 'तयोरेव कृत्यक्तखलर्थाः' इति कर्मार्थे विहितस्य तस्य कर्माभिघायां विशेष्यवलित्भवचनाभ्यां भवितव्यमिति प्राप्ते प्राह- शक्यमिति रूपमिति। कर्माभिधायामपि शक्यमिति रूपं सिद्धम्। तत्र हेतु- माह-लिङ्वचनस्यापीति। लिझं च वचनं च लिक्वचनम्। तस्य सामा- न्योपक्रमालिलिज्सामान्यं नपुंसकम्, वचनसामान्यम् एकत्वम, तयोरुपक्रमात् बि- शेषनैरपेक्ष्येण लिक्वचनसामान्यस्य विवक्षणादित्यर्थः। उदाहृत्य दर्शयति-
Page 187
अ. २.] कामधेनुसहिता। १६७
यथा- 'शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव।
न चैकान्तिकः सामान्योपकमः । तेन 'शक्या भङ्क्तुं झटिति बिसिनीकंदवच्चन्द्रपादाः' इत्यपि भवति। हानिवदाधिक्यमप्यङ्गानां विकारः॥ २४॥ 'येनाङ्गविकारः' इत्यत्र सूत्रे यथा अङ्गानां हानि:, तथा आधि- क्यमपि विकार:। यथा 'अक्ष्णा काणः' इति भवति, तथा 'सुखेन त्रिलोचनः' इत्यपि भवति। न कृमिकीटानामित्येकवन्द्रावप्रसङ्गात् ॥ २५॥ 'आयुष: कृमिकीटानामलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो न युक्त:, 'क्षुद्रजन्तवः' इत्येकवन्भावप्रसङ्गात्। न च मध्यमप- दलोपी समासो युक्तः, तस्य असर्वविषयत्वात्। न खरोष्ट्रावुष्ट्रखरमिति पाठात् ॥ २६ ॥
यथेति। ऐकान्तिको नियतः । हानिवदिति। मुखेन त्रिलोचन इत्यत्र तृतीयाप्राप्तावनुशासनस्वादर्श- नात् कथमत्र तृतीयेति चिन्तायामाह- येनाङ्गविकार इति। हानिः न्यूनता। यथा अङ्कानां न्यूनना विकारः तथा आधिक्यमपि विकार एव, अतो 'येनाङ्विकार:' इति तृतीया। न कमीति। श्षुद्रजन्तुवाचिनां द्वन्द्वसमासे एकवद्भावविधानात् बहुव- चनान्तप्रयोगो न साधुरित्याह- आयुष इति। ननु मुखसहिता नासिका मुखनासिकेतिवत् मध्यमपदलोपी समासः स्यादित्यपि न वक्तुं युक्तम्। तस्य असार्वत्रिकत्वादिति समर्थयते-न चेति। न खरोष्ट्राविति। गवाश्वादिगणे उष्ट्रखरमिति निपातितत्वात् खरोष्ट्रा-
Page 188
१६८ काव्यालंकारसूत्रवृत्ति: [अधि. ५•
'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्त:, गवाश्वपभृतिषु 'उष्ट्रखरम्' इति पाठात्। आसेत्यसतेः ॥ २७ ॥ 'लावण्यमुत्पाद्य इवास यत्रः' इत्यत्र आस इत्यसतेर्धातोः 'अस गतिदीप्त्यादानेषु' इत्यस्य प्रयोग :; न अस्तेः, भूभावविधानात्। युध्येदिति युधः क्यच ॥ २८॥ 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोग: ; स चायुक्त:, युधेरात्मनेपदित्वात्। तत् कथं युध्येदित्यत्राह- युधः क्यचि। युध- मात्मन इच्छेत् युध्येदिति। विरलायमानादिषु क्यङ् निरुप्यः॥ २९॥ 'विरलायमाने मलयमारुने' इत्यादिषु क्यङ् निरूप्यः, भृशादिष्व- पाठात्। नापि क्यष्, लोहितादिष्वपाठात्। अहेतौ हन्तेर्णिच् चुरादिपाठात्॥ ३० ॥
विति व्यत्यासेन प्रयोगोऽनुपपन्न इत्याह -- खरोष्ट्री वाहनमिति। आसेति । 'अस्तेर्भूः' इत्यार्घधातुके भूभावविधानात् कथमासेति प्रयोग इति प्राप्ते, असतेर्धातोर्लिटि रूपमासेति, न पुनरम्तेरित्याह -- लावण्य इति। युध्येदिति। युघेरात्मनेपदिन. परस्मैपदं दृश्यते। तस्य शिष्टप्रयोगस्य साधुत्वं दर्शयितुमाह-य इति। युध्शब्दात् 'सुप आत्मनः क्यन्' इति क्यच्प्रत्यये कृते सति लिङि युध्येदिति सिध्यतीत्याह-युधमिति। विरलायमानादिष्विति। क्यड्क्यषोरप्राप्तत्वात् प्रत्याचष्टे-विर- लायमान इति। अहेताविति। घातयित्वेत्यत्र अहेतुकर्तृभावेऽपि प्रयोगो दृश्यते। स
Page 189
अ. २.] कामधेनुसहिता। १६९
'घातयित्वा दशास्यम्' इत्यत्राहेतौ णिच् दृश्यते ; स कथमित्यत आह-चुरादिपाठात्, चुरादिषु 'चट स्फुट भेदे' 'घट संघाते' 'हन्त्यर्थाश्र' इति पाठात्। अनुचरीति चरेष्टित्वात् । ३१।। 'अनुचरी तियतमा मदालसा' इत्यत्र अनुचरीति न युक्त:, ईकाराभावात्। तत् कथम् : आह-चरेष्टित्वात्। पचादिषु चरडिति पठ्यते। केसरालमित्यलतेरणि ॥ ३२ ॥ 'केसरालं शिलीध्रम्' इत्यत्र केसरालमिति कथम्! आह- अलतेरणि। 'अल भूषणपर्याप्तिवारणेषु' इत्यस्माद्धातोः केसरशब्दे कर्म- ण्युपपदे 'कर्मण्यण्' 'इत्यनेन अणि सति केसरालमिति सिध्यति। पत्रलमिति लातेः के ॥ ३३ ॥ 'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम्? आह- लाते: के। 'ला आदाने' इत्येतस्माद्धातोगदानार्थात् पत्रशब्दे कर्म- च चुरादिपाठात् स्वार्थण्यन्तः साधुरित्याह- घातयित्वेति। अनुचरीति। आक्षेपपूर्वकमनुचरीति पदस्य साधुत्वं समर्थयते- अनुचरी तियतमेति। ईकाराभावादिति। पचाद्यजन्तत्वेन डीप्प्राप्तेरभावा- दित्यर्थः । केसरशब्दसव प्राण्यङ्मवाचित्वाकारान्तत्वयोरभावात् 'प्राणिस्थादातो लज- न्यतरस्याम्' इति लजभावात् कथं केसरालमिति प्राप्त, तदुपपति वक्तुमाह- केसरालमिति। वृत्तिः स्पष्टार्था । पत्रशब्द: सिध्मादिषु न पठ्यते इति 'सिध्मादिभ्यक्ष' इति नारिति लचूप्रत्यय इति कथं पत्तलमिति चिन्तायां साधुत्वं समर्थयते-पत्रलमिति। पत्राणि लाति आदत इति विग्रहे 'आतोऽनुपसर्गे कः' इति कपत्यये सति उप- 22
Page 190
१७० काव्यालंकारसूत्रवृत्ति: [अधि. ५•
ण्युपपदे, 'आतोऽनुपसर्गे कः' इति कमत्यये सतीति। महीध्रादयो मूलविभुजादिदर्शनात्॥३४ ॥ महीध्रधरणीघ्रादयः शब्दाः, मूलविभुजादिदर्शनात् कम्त्यये सती- ति। महीं धरतीति महीध्र इति। एवमादयोऽन्येऽपि द्रष्टव्याः। ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥३५॥
ब्रह्मादिषूपपदेषु हन्ते: किब्विधौ 'ब्रह्मभ्रूणवृत्रेषु-' इत्यत्र निय- मात् ब्रह्मादिष्वेव, हन्तेरेव, क्किबेव, भूतकाल एवेति चतुर्विधश्चात्र नियम इति नियमात् अरिहा रिपुडा इत्येवमादीनामसिद्धि:। ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ३६ ॥
ब्रह्मवित्, छत्रभिदित्यादयः प्रयोगा न युक्ताः । 'ब्रह्मभ्रूण-' इत्यत्र ब्रह्मादिषु हन्तेरेव इति नियमात्। आह- कृदन्ततृत्त्या। वेत्तीति वित्। भिनत्तीति भित्। 'क्किपू च' इति किप्। ततः कृदन्तैर्वि-
पदसमासे कृते पत्रलमिति सिद्धमित्याह-पत्रलं वनमिति। महीध्रादय इति। महीं धरतीति विग्रहे मूलविभुजादेराकृतिगणत्वात कप्रत्यये कृते कित्वेन गुणाभावाद्यणादेशे सति महीध्रादयः सिद्धा इत्याह- महीध्रधरणीध्रादय इति। ब्रह्मादिष्विति। 'ब्रह्मभ्रूणवृत्रेषु किप्' इत्यत्न ब्रह्मादिष्वेवोपपदेषु भूत एव काले हन्तेरेव धातोः किबेव प्रत्ययो भवतीत्युपपदकालधातुप्रत्ययविषयम्य चतुर्धानियमस्यानुशिष्टत्वात् अरिहेत्यादीनामसिद्धिरित्याह -- ब्रह्मादिषूपपदे- ष्विति। ननु तर्हि चतुर्धानियमाश्रयणे ब्रह्मविदादीनां का गतिरिति प्राप्त, प्राह- ब्रह्मवित् तृत्रभिदिति। उपपदकालनैरपेक्ष्येण किपि सति समासान्तराश्रयणेन ब्रह्मविदादय: सिध्यन्तीति व्याचष्टे- वेन्तीति। वेचीति वित्, मिनत्तीति भिदिति
Page 191
अ. २.] कामधेनुसहिता। १७१
दादिभि: सह ब्रह्मादीनां षष्ठीसमास इति। तैर्महीधरादयो व्याख्याताः॥३७॥ तैः ब्रह्मविदादिभिर्महीधरादयो व्याख्याताः। धरतीति धरः, मह्या धरो महीघरः। एवं गङ्गाधरादयः। भिदुरादयः कर्मकर्तरि कर्तरि च॥ ३८॥ 'भिदुरं काष्ठम्' 'भिदुरं तमः' 'तिमिरभिदुरं व्योम्रः शृङ्गम्' इति, 'छिदुशतपो दिवसः' 'मत्सरच्छिदुरं प्रेम' 'भङ्डरा प्रीतिः' 'मातङ्गं मानभङ्गरम्' इत्यादयोऽपि प्रयोगा दृश्यन्ते; ते कथमित्यत्राह- कर्मकर्तारि कर्तरि च। 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारः 'कर्तरि च' इत्यस्य समुच्चयार्थः। गुणविस्तरादयश्चिन्त्याः॥३९ ॥ गुणविस्तरः, व्याक्षेपविस्तर इत्यादयः प्रयोगाश्चिन्त्याः, 'प्र- थने वावशब्द' इति घञ्पसङ्गात्। व्युपत्तिसिद्धेन कृदन्तेन सह षष्ठीसमासे सति ब्रह्मविदादीनां साधुत्वमित्यर्थः । उक्तामेतां युक्तिमन्यत्नापि योजयति-तैरिति। अन्र 'कर्मण्यण' इति सूत्रेण कर्मण्युपपदे धातोरण्विधानान्महीघरादीनामसाधुत्वशङ्कायामिहाप्युप- पदनैरपेक्ष्यषष्ठीसमासाश्रयणाभ्यां साधुत्वमस्तीति व्याचष्टे -- धरतीति धर इति। भिदुरादय इति। 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारं प्रयुक्तवता तत्रभवता भाष्यकृता कर्तर्यपि प्रयोगोऽभ्यनुज्ञात इति भिदुरादयः शब्दाः कर्म- कर्तरि, कर्तरि च प्रयोक्तव्या इत्याह- भिदुरं काष्ठमिति। गुणविस्तरादय इति। 'प्रथने वावशब्दे' इति विपूर्वात्स्तृणातेरशब्द- विषये प्रथने घज्विधानाद्रुणविस्तार इत्येव प्रयोक्तव्यम्, न तु गुणविस्तर इती- त्याह -- प्रथन इति।
Page 192
१७२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
अवतरापचायशब्दयोर्दीर्घेव्यत्यासो बालानाम् ॥ ४० ॥
अवतरशब्दस्य, अपचायशब्दस्य च दीर्घत्वहस्वत्वव्यत्यासो बा- लानां बालिजानां प्रयोगेष्विति। ते ह्ववतरणमवतार इति प्रयुञ्जते- मारुतावतार इति; स ह्वायुक्तः, भावे तरतेरब्विधानात्। अपचायमपच-, य इति प्रयुञ्ते-पुष्पापचय इति। अत्र 'इस्तादाने चेरस्तेये' इति घञ् पाप्त इति। शोभेति निपातनात् ॥ ४१ ॥ शोभेत्ययं शब्द: साधुः, निपातनात् 'शुभ शुम्भ शोभाथौं' इति। शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति। शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावगतिराचार्यपरम्परोपदेशादिति। अविधौ गुरो: स्त्रियां बहुलं विवक्षा।। ४२।। अविधौ 'गुरोश् हलः' इति अविधाने स्त्रियां बहुलं विवक्षा क्वचि- दीर्घव्यत्यास इति। दीर्घस्य स्थानात् प्रच्याव्य अस्थाने करण व्यत्या- सः। बालानां विमर्शविधुराणां भवतीति शेषः । तमेव व्यत्यासं दर्शयति-ते हीति। अब्विधानादिति। 'अवे तृस्त्रोर्घञ्' इति करणाधिकरणयोरेव घञूवि- धानात् तरतेः 'ऋदोरप्' इति भावे अपूप्रत्यय एव भवतीत्यर्थः । अपचायमि- ति। 'हस्तादाने चेरस्तेये' इति हस्तेन आदानेभिधेये चिनोतेर्षज्विधानादप्प्र- त्ययो न प्राम्नोतीत्यर्थः ।
शोभेति। 'षिद्गिदादिभ्योऽड्' इति शुभेर्घातोर्भिदादिषु पाठादङ्प्रत्यये सति डित्करणेन गुणप्रतिषेधे प्रसक्ते निपातनाद्रुणासिद्धिरित्याह-शोभेत्ययं शब्द इति। अविधाविति। बहुलग्रहणस्य विवक्षितमर्थमाह-रचिद्विवक्षा कचि-
Page 193
अ. २.] कामधेनुसहिता। १७३
द्विवक्षा, क्वचिदविवरक्षा, कचिदुभयमिति। विवक्षा यथा-ईहा लज्जेति। अविवक्षा यथा -- आतङ्क इति। विवक्षाविवक्षे यथा-बाधा बाघः, ऊहा ऊहः, व्रीडा ब्रीड इति। व्यवसितादिषु क्तः कर्तरि चकारात् ॥ ४३ ॥ व्यवसितः प्रतिपन्र इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि। गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्। भावकर्मानुकर्षणार्थत्वं कारस्येति चेत्, आदृत्ति: कर्तव्या। आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि॥ ४४ ॥ 'ब्ुवः पञ्चानाम्' इत्यादिना आहेति लद् व्युत्पादितः ; स भूते प्रयुक्तः 'इत्याह भगवान् प्रभुः' इति । अन्यस्य भूतकालाभिधायिनो
दविवक्षा, क्वचिदुभयमिति। आतङ्क इत्यादिषु स्त्रीत्वस्य अविवक्षितत्वात् घञेव भवति।
व्यवसितादिष्विति। व्यवसित, प्रतिपन्न इत्यादिषु कर्तरि क्तप्रत्य- यो न प्राम्नोति, सकर्मकेभ्यो धातुभ्य कर्मण क्प्रत्ययविधानात्, गत्यर्थादिसूत्रे- ण चाप्राप्तेरिति प्राप्ते गत्यर्थादिसूत्रे चकारेणानुक्तसमुच्चयार्थेन व्यवस्यतिप्रभृतयः समुच्चीयन्त इत्याह-व्यवसिन इति। ननु भावकर्मणोरनुकर्षणार्थश्चकार: कथ- मन्यदप्यनुक्तं समुच्चिनुयादिति शङ्कते-भावकर्मेति । समाघत्ते-आवृत्तिरि- ति। चकारस्यावृत्तौ भावकर्मणोरनुकर्षणार्थ एकश्रकारः, अन्यः पुनरनुक्तसमुच्च- यार्थ इति येन केनाप्युपायेन शिष्टप्रयोगस्य गतिः कल्पनीयेत्यर्थः ।
आहेति । 'किमिच्छसीति स्फुटमाह वासवः' इत्यादिषु आहेति भूते प्रयुज्यते। स च प्रयोगोऽनुपपन्नः 'ब्रुवः पञ्चानामादित अहो ब्रुवः' इति त्रुवो लटि णलाद्यादेशपञ्चकविधानात्। अन्यणलन्तेति। लिटि विहितो यो णलू तदन्तत्वभ्रान्तिमूलोऽयं प्रयोग इत्यर्थः । आहेत्यव्ययमिति केचित्समा-
Page 194
१७४ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
लिटि णलन्तस्य भ्रमात्। निपुणाश्चैवं प्रयुञ्जते-'आह स्म स्मितम- धुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्य- त्रापि, मन्ये, स्मशब्दः कविना प्रयुक्तो लेखकैस्तु परमादान्न लिखित इति। शबलादिभ्यः स्त्रियां टापोऽप्रापिः।। ४५।। 'उपस्रोतःस्वस्थस्थितमहिषभृङ्गाग्रशवलाः स्रवन्तीनां जाताः प्रमु दितविहङ्ास्तटभुवः' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः' इत्या- दिषु स्त्रियां टापोऽमाप्ति: 'अन्यतो डीष्' इति डीष्विधाना्। तेन शबली कल्माषीति भवति। प्राणिनि नीलेति चिन्त्यम् ॥४६ ॥ 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम्। कोकिला नीलीति भवितव्यम्, नीलशब्दात् 'जानपद-' इत्यादिसूत्रेण 'प्राणिनि च' इति डीष्विधानात्। मनुष्यजातेविवक्षाविवक्षे ।। ४७।। 'इतो मनुष्यजातेः' 'ऊङन्तः' इत्यत्र च मनुष्यजातेर्विवक्षा, अविवक्षा च लक्ष्यानुसारतः। दधते। शिष्टप्रयोगशैलीं दर्शयति- निपुणाश्चेति। 'लट् स्मे' इति लटो विधानात्। प्रस्काद्न्यत्रापि भूतार्थे लट्प्रयोगस्योपपत्तिमाह-अनुकरोतीति। शबलादिभ्य इति 'अन्यतो डीष्' इति डीव्विधानाच्छबलकल्माषा- दिभ्यः स्त्रियां टाप्प्रत्ययम्याप्राप्तिरिति तथा प्रयोगं प्रदर्श्य प्रतिषेधति -- उप- स्रोत इति। प्राणिनीति। जानपदादिसूत्रे वृत्तिकारेण 'नीलादोषघौ' 'प्राणिनि च' इति विषयव्यवस्थापनात् प्राणिनि विषये नीलशब्दात् डीष्प्रत्ययः प्राप्तः न तु टापू। अत. प्राणिनि नीलेति न प्रयोक्तव्यमित्याह- कुवलयेति। मनुष्यजातेरिति। निम्ननाभिसुतनुप्रभृतिषु यदि मनुष्यजातित्वमभ्युपेयते, तदा 'इतो मनुष्यजातेः' 'ऊकुतः' इति डीषूङ्प्रत्यययोः प्राप्तौ निम्ननामेः, सुतनो
Page 195
अ. २.) कामधेनुसहिता। १७५
'मन्दरस्य मदिराक्षि पार्श्तो निम्ननाभि न भवन्ति निम्नगाः। वासु वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते॥'
अत्र मनुष्यजातेर्विवक्षायाम् 'इतो मनुष्यजातेः' इति डीषि सति 'अम्बार्थनद्योईस्व्रः' इति संबुद्धौ हस्वत्वं सिध्यति। नाभिशब्दात्पुनः 'इतश्च प्राण्यङ्गात्' इतीकारे कृते निम्ननाभीके इति स्यात्।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममेदं स्तनांशुकम् । अत्र निमन्ननाभेरिति मनुष्यजातेरविवक्षेति डीष् न कृतः। 'सुतनु जहिहि मानं पश्य पादानतं माम् इत्यत्र मनुष्यजाते- र्विवक्षेति सुतनुशब्दात् 'ऊङ्तः' इत्यूडि सति ह्स्वत्वे सुतन्विति सि- ध्यति।
रित्यादय: प्रयोगा न सिध्येयुः । यदि नाभ्युपेयते, तर्हि संबुद्धौ निम्ननाभि, सुतनु इत्यादय: प्रयोगा न सिद्धाः स्युः । ततः कथं प्रयोगव्यवस्थेति विचारणा- यामुभयत्र साधुत्वं व्यवम्थापयनि- इतो मधुष्यजातेरिति। 'वक्तुर्विवक्षि- तपूर्विका हि शब्दप्रवृत्ति' इति न्यायेन मनुष्यजातेर्विद्यमानाया अपि कचि- द्रिवक्षा, क्वचिदविवक्षा चेति लक्ष्यानुसारेणोत्प्रेक्षणीयेति प्रयोगदर्शनपूर्वकं विवक्षा विवक्षे व्युत्पादयति- मन्दरस्येति। अत्र मनुष्यजातिविवक्षायां रूपसिद्धिं दर्शयति-इतो मनुष्यजातेरिति । ननु 'इतश्र प्राप्यङ्गवाचिनो वा वक्तव्यः' इति नाभिशब्दादीकारे कृते 'अम्बार्थनदयोहख' इति हस्वत्वे च कृते निम्नना- भीति संबुद्धि सिध्यति; किमनेन यल्नेनेति चेत् तत्राह- नाभिशब्दादिति। निम्ननाभीत्यत्र बहुव्रीहिसमासे 'नद्यृतश्च' इति कपा समासान्तेन 'न कपि' इति हस्वत्वप्रिषेधेन च भवितव्यम्। ततश्र निम्ननाभीके इति स्ात्, न तु निम्ननामि इति। इतो मनुष्यजातेः कचिदविवक्षां दर्शयति- हृतोष्ठरागै- रिति। उक्तन्यायेन सुतनुशब्दादौ विवक्षाविवक्षे दर्शयति- सुतनु जहिहीति।
Page 196
१७६ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'वरतनुरथ वास्मिन्नैव दृष्टा त्वया मे।' अत्र मनुष्यजातेरविवक्षे- त्यूङ न कृतः । ऊकारान्तादप्यूङ् प्रवृत्तेः ॥४८ ॥ उत ऊङ्ू विहित ऊकारान्तादपि क्वचित् भवति। आचार्यपवृत्तेः। क्कासौ प्रवृत्तिः? 'अपाणिजातेश्वारज्वादीनाम्' इति। अलाबूः, कर्क- न्धूरित्युदाइणम्। तेन 'सुभ्ु किं संभ्रमेण'। अत्र सुभ्नुशब्द: ऊडि सिद्धो भवति। ऊडि त्वसति सुभ्रूरिति स्याद्। कार्तिकीय इति ठञ् दुर्घरः॥ ४९॥ 'कार्तिकीयो नभस्वान्' इत्यत्र 'कालाद्ठञ्' इति ठञ् दुर्घरः। ठञ् भवन् दुःखेन ध्रियत इति। शार्वरमिति च ॥ ५० ॥ शार्वरं तम इत्यत्र च 'कालाद्ठञ्' इति ठञ् दुर्घरः। ऊकान्तादपीति। यद्यपि 'ऊङ्ुत' इत्यत्र तपरकरणमुकारान्तादूड- विधानार्थ कृतम्, तथाप्याचार्यवचनसामर्थ्यादूकारान्तादप्यूङ् प्रवर्तत इत्याह- उत ऊङ् विहित इति। प्रश्नपूर्वकं प्रवृत्ति दर्शयति-कासौ प्वृत्तिरिति। प्रवृ- चिरारम्भ:। अलाबूः, कर्कन्धूरित्युदाहरणसिद्धर्थम् 'अप्राणिजातेश्वारज्ज्वादीनाम्' इत्यूकारान्तादप्यूङ्प्रत्ययारम्भात्तपरकरणमविवक्षितमिति ज्ञायते। ननु यदेतदूका- रान्तादूङ्विधानं तत् पिष्टपेषणप्रायमिति शङ्कां परिहरति -- तेनेति। सुभ्रू- शब्दादपि मनुष्यजातिविवक्षायामूङूप्रत्यये नदीसंज्ञायां संबुद्धौ हस्वो भवतीति दर्शयति- अत्र सुभ्रुशब्द इति। कार्तिकीय इति। अन्र कार्निके भव इति भवार्थत्वं वक्तुं युक्तम्; तथात्वे 'काळाट्ठन्' इति शैषिकेष्वर्थेषु विषीयमानष्ठन् दुर्निवारतया पाम्तोति। अतः कार्तिकीय इति न सिध्यतीत्याह- अन्रेति। दुर्घर इति पदार्थमाह- दुःखेति। दुर्निरोध इत्यर्थः । शार्वरमिति। अन्रापि ठनो दुर्घरत्वेन शार्वरमिति न सिध्यतीत्वाह- सार्वरं तम इति।
Page 197
अ. २.] कामधेनुसहिता। १७७
शाश्वतमिति प्रयुक्तेः ॥५१॥ शाश्वतं ज्योतिरित्यत्र शाश्वतमिति न सिध्यति, 'कालाद्वञ्' इति ठञ्मसङ्गात्। 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोगः । आह- प्रयुक्त्तेः । 'शाश्वते प्रतिषेधः' इति प्रयोगात् शाश्व- तमिति भवति। राजवंश्यादयः साध्वर्थे यति भवन्ति ॥ ५२॥ राजवंश्याः, सूर्यवंश्या इत्यादय: शब्दाः 'तत्र साधुः' इत्यनेन साध्वर्ये यति प्रत्यये सति साधवो भवन्ति। भवार्ये पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः, तदन्तविधेः प्रतिषेधात्। दारवशब्दो दुष्प्रयुक्तः।। ५३ ॥ दारवं पात्रमिति दारवशब्दो दुष्पयुक्तः। 'नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम्। ननु विकारावयवयोरर्थयोर्मयद् विधीयते;
'शाश्वते प्रतिषेधः' इति वार्तिककारवचनादत्र अण्प्रत्यये सति शाश्वत- मिति शब्द: साधुरित्याक्षेपपूर्वकं समर्थयते-शाश्वतं ज्योतिरिति। राजवंश्यादय इति। वंशशब्दस्य दिगादिषु पाठात् 'दिगादिभ्यो यत्' इति भवार्थे यत्प्रत्ययो विधीयते। स च वंशशब्दान्तान्न प्राप्नोति, 'ग्रहणवता प्रातिपदिकेन -- इति तदन्तविधिप्रतिषेधात्। साध्वर्थेविवक्षायां तु 'तत्र साधुः' इति यत्पत्यये सति राजवंश्यादयः सिद्धा इत्याह-राजवंश्र्या इति। दारवशब्द इति। दारुणो विकार इत्यस्मिन्नर्थे 'नित्यं वृद्धशरादिभ्यः' इति मयटो विधानात् दारुमयमिति प्रयोक्तव्यम्, न तु दारवमितीत्याह-दार- वं पात्रमिति। नन्वत्र विकारार्थो न विवक्षितः, किं तु संबन्धसामान्यम्। ततः 'तस्पेदम्' इति दारुशब्दादण्प्रत्यये कृते दारवमित्येवं भवतु; को विरोष इति शङ्कते -- नन्विति। संबन्ध सामान्यविवक्षायामप्यण्प्रत्ययो न सिध्यति, 'वृद्धा- 23
Page 198
१७८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति? नैतदेवम्; 'वृद्धाच्छः' इति च्छविधानात्। मुग्धिमादिष्विमनिज्मृग्यः॥। ५४॥ सुग्धिमा, मौढिमा इत्यादिषु इमनिच् मृग्यः अन्वेषणीय इति। औपम्यादयश्चातुर्वर्ण्यवत्॥५५॥ औपम्यं सांनिध्यमित्यादयः चातुर्वर्ण्यवत् 'गुणवचन-' इत्यत्र 'चातुर्वर्ण्यादीनामुपसंख्यानम्' इति वार्तिकात् स्वार्थिकष्यञन्ताः। ष्यञः षित्करणादीकारो बहुलम्॥ ५६॥ 'गुणवचनब्राह्मणादिभ्य :- ' इति यः ष्यञ्, तस्य षित्करणा- दीकारो भवति बहुलम्। ब्राह्मण्यमित्यादिषु न भवति। सामग््यमि- त्यादिषु विकल्पितः-सामग्यं सामग्री, वैदग्ध्यं वैदग्धीति। च्छः' इति च्छप्रत्ययप्रसक्गादिति परिहरति-नैतदेवमिति। मुग्धिमादिष्विति। 'पृथ्वादिभ्य इमनिज्वा' इतीमनिच्प्रत्ययो विधी यते। स च मुग्धप्रौढादिशव्देभ्यो न प्राप्नोति, तेषां पृथ्वादिपाठाभावादित्यभि- प्रायेण व्याचष्टे-मुग्धिमा भौढिमेति। औपम्यादय इति। 'चातुर्वर्ण्यादयः खार्थे' इति सार्थिके प्यञि चातुर्वर्ण्यमिति यथा सिध्यति, तथा चातुर्वर्ण्यादिपाठादुपमैवौपम्यं संनिधिरेव सांनिध्यमित्यादय खार्थिकष्यञन्ताः साधिता इत्याह-औपम्यं सांनिध्य- मिति। ष्यव इति। 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् विधीयते। ततश् ष्यञन्तेभ्यः स्त्रियां 'षिद्गारादिभ्यश्च' इति यो डीष्प्रत्ययो विधीयंत; स ईकारो बहुलं भवति क्वचिन्न प्रवर्तते, क्वचिद्विकल्पेन प्रवर्तत इत्याह- ब्राह्म- ण्यमित्यादिष्विति।
Page 199
अ. २.] कामधेनुसहिता। १७९
धन्वीति ब्रीह्यादिपाठात्॥ ५७॥ त्रीह्यादिषु धन्वन्शब्दस्य पाठाद्धन्वीति इनौ सति सिद्धो भवति। चतुरश्रशोभीति णिनौ ॥। ५८॥ 'बभूव तस्याश्तुरश्रशोभि वपुर्विभक्तं नवयौवनेन' इत्यत्र च- तुरश्रशोभीति न युक्तम् ; त्रीह्यादिषु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति 'ग्रहणवता प्रातिपदिकेन' इति तदन्तविधिमतिषेधात्। भवतु वा तदन्तविधिः। कर्मधारयान्मत्वर्थीयानुपपत्तिर्लघुत्वात् क्रमस्येति बहुव्रीहिणैव भवितव्यम्। तत्कथं मत्वर्थीयस्यामात्तौ चतुरश्रशोभीति प्रयोगः१ आह-णिनौ चतुरश्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । धन्वीति। धन्वन्शब्दस्य अदन्तत्वाभावात् 'अत इनिठनौ' इतीनि- प्रत्ययस्याप्राप्तौ व्रीह्यादेरकृतिगणत्वेनेनिप्रत्यये सति धन्वीति सिध्यतीत्याह-
चतुरश्रशोभीति। अत्र साधुत्वं समर्थयिष्यमाणः प्रामाणिकप्रयोगं तावत्प्रदर्शयति- बभूवेति। अत्र मत्वर्थीयप्रत्ययस्यानुपपत्तिमाह- अत्र चतुरश्रशोभीति। चतुरश्रा चासौ शोभा च चतुरश्रशोभा, सा अस्यास्तीति चतुरश्रशोभीति मत्वर्थीयेन न सिध्यति, ब्रीह्यादिपाठाभावादिति शङ्कितुरभिप्रायः। अभ्युपगम्यमाने वा ब्रीह्यादिपाठे 'अ्रहणवता प्रातिपदिकेन न तदन्तविधिः' इति वार्तिककारव चनाच्छोभाशब्दान्तादिनिप्रत्ययो न प्राप्नोतीत्याह-व्रीह्यादिष्विति। यथा कथंचिदभ्युपगमेऽपि वा तदन्तविधेः स दोषस्तदवस्थः, 'न कर्मधारया- न्मत्वर्थीयः' इति निषेधादित्याह-भवत्विति। कर्मधारयबहुव्रीहिक्रमपरी- क्षायां बहुव्रीहिपरिपाटी श्रेयसी, लाघवात्। अतश्चित्रगुशब्दादिवत् बहुव्रीहेर्न मत्वर्थीयस्य प्राप्तिरित्याह- लघुत्वादिति। प्रयोगानुपपत्तिप्रतिपादनं निगम- यति-तत् कथमिति। चतुरश्रं शोभितुं शीलमस्येति विग्रह 'सुप्यजातौ णिनि- स्ाच्छील्ये' इति ताच्छीलिके णिनिप्रत्यये सति चतुरश्रशोभीति सिध्यतीति सिद्धान्तयति- चतुरश्रं शोभत इतीति।
Page 200
१८० काव्यालंकारसूत्रवृत्ति: [आंध. ५
अथ 'अनुमेयशोभि' इति कथम्! न हत्र पूर्ववदधृत्ति: शक्या कर्तु- मिति; शुभे: साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावमत्यये पश्चात् बडुव्रीहि: कर्तव्य :- अनुमेयं शोभित्वं यस्येति। भावप्रत्ययस्तु गतार्थत्वात्र प्रयुक्त:, यथा-निराकुलं तिष्ठति, सधीरमुवाचेति। कञ्चुकीया इति क्यचि॥५९॥ 'जीवन्ति राजमहिषीमनु कञचुकीयाः' इति कथम्१ मत्वर्थीयस्य चछमत्ययस्याभावात्। अत आह- क्यचि। क्याच अच्यत्यये सति कञ्चुकीया इति भवति; कञचुकमात्मन इच्छन्ति कञ्चुकीयाः। बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६० ॥
ननु चतुरश्रशोभीत्यत्र समर्थितेऽपि साधुत्वे अनुमेयशोभीति न सिध्यति, उक्तन्यायाप्रवृत्तेरिति शङ्कते -- अथेति। तदप्रवृत्तिमेव दर्शयति-न ह्वत्रेति। चतुरश्रशोभीतिवदनुमेयं शोभितुं शीलमस्येति विग्रहे विवक्षितार्थासिद्धिः, कर्म- विवक्षाया असंभवात्। अविवक्षित कर्मण्युपपदे कृत्प्रत्ययः कर्तै न शक्यत इति शह्कार्थः । ताच्छीलिकणिनेरसंभवेऽपि, 'साधुकारिणि च' इति वक्तव्य- बलात्, 'आवश्यकाधमण्येयोर्णिनि.' इति सूत्राद्वा साधुकारिण्यावश्यके वार्थे विवा्षिते णिनिः सिध्यति। ततः शोभिनो भाव इति भावार्थे त्वप्रत्यये सति पश्चादनुमेयं शोभित्वं यस्येति बहुव्रीहौ सत्यनन्तरम् 'उक्तार्थानामप्रयोगः' इति त्वत्पत्ययस्य निवृत्तौ च सत्याम् अनुमेयशोभीति सिध्यतीति परिहरति -- शुभे- रिति। कश्चुकीया इति। कश्चुका एषां सन्तीति कश्चुकीया इति न शक्यते वक्तुम्, छप्रत्ययस्य मत्वर्थीयस्याभावात्। कथं कञ्चुकीया इति चोदयति- जीवर्न्तात्यादिना। कक्षुकमात्मन इच्छन्तीत्येतस्मिन्नर्थे, 'सुप आत्मनः क्यन्' इति क्यचि कृते 'क्यचि च' इतीकारे च सति ततः पचाद्यचि कुते कब्चुकीया इति सिध्यतीति परिहरति -- क्यचि अच्यत्यये सतीति। बौद्धपतियोग्यपेक्षायामिति। इदं धनम्, इदं च घनम्, इदमनयोर-
Page 201
अ. २.] कामधेनुसहिता। १८१
बौद्धस्य प्रतियोगिनोऽपेक्षायामपि आतिशायनिकास्तरबादयो भवन्ति-घनतरं तमः, बहुलतरं मेमेति। कौशिलादय इलचि वर्णलोपात्॥ ६१ ॥ कौशिल:, वासिल इत्यादय: कथम्! आह-इलचि वर्णलोपात् कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इतीलचि कृते 'ठाजादावृर्ध्व द्वितीयादचः' इति वर्णलोपात् सिध्यति। मौक्तिकमिति विनयादिपाठात् ॥ ६२ ॥ मुक्तैव मौक्तिकमिति विनयादिपाठाद द्रष्टव्यम्। 'स्वार्थिकाश्च प्रकृतितो लिक्वचनान्यतिवर्तन्ते' इति नपुंसकत्वम्।
तिशयेन घनमिति विग्रहे शब्दोपात्तप्रतियोग्यपेक्षया अतिशायनार्थे तरबादिविधा- नादसति शब्दोपात्ते प्रतियोगिनि घनतरं तम इति प्रयोगः कथमिति चिन्तायां बुद्धिसंनिधापितेऽपि प्रतियोगिन्यातिशायनिकाः प्रत्यया भवन्तीति दर्शयति- बौद्धस्येति। कौशिलादय इति। अनुकम्पितः कौशिकः, अनुकम्पितो वासिष्ठ इत्य- स्मिन्नर्थे कौशिलो वासिल: इत्यादयः प्रयोगा: कथमिति विचारणायां साधुत्वं समर्थयते -- कौशिलो वासिल इति। अत्र 'घनिलचौ च' इति सूत्रेण अनुकम्पायां नीतौ वा बहचो मनुष्यनाओ् घनिलचौ प्रत्ययौ विधीयेते। अतः कौशिकवासिष्ठशब्दाभ्यामुक्तलक्षणाभ्यामिलचि कृते 'ठाजादावूर्ध्वे द्वितीयादचः' इत्यजादौ प्रत्यये परतः प्रकृतेर्द्वितीयादचः परस् शब्दरूपस्य लोपे सति 'यस्येति च' इतीकारलोपे च कौशिलो वासिल इत्यादयः प्रयोगा: सिध्यन्तीति समर्थयते- कौशिकेति। मौक्तिकमिति। विनयादिषु पाठेऽम्युपगते 'विनयादिभ्यष्ठक्' इति सार्थिके ठकि कृते मौक्तिकमिति सिध्यतीत्याह-मुक्तैव मौक्तिकमिति। अत्र प्रकृतिलिङ्गस्पातिक्रमणे भाष्यकारवचनं प्रमाणयति-स्वार्थिका इति।
Page 202
१८२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
प्रातिभादयः प्रज्ञादिषु ॥ ६३ ॥ प्ातिभादय: शब्दाः पज्ञादिषु द्रष्टव्याः । प्रतिभाविकृतिद्विता- दिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते प्रातिभम्, वैकृतम्, द्वैतमित्यादयः प्रयोगा: सिध्यन्तीति।
न सरजसमित्यनव्ययीभावे॥ ६४॥ 'मधु सरजसं मध्येपदं पिवन्ति शिलीमुखाः' इत्यादिषु सरजस- मिति न युक्तः प्रयोगोऽनव्ययीभावे, अव्ययीभाव एव सरजसशब्दस्ये- षटत्वात्। न धृतधनुषीत्यसंज्ञायाम् ॥ ६५॥ 'धृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीति असंज्ञायां न युक्तः प्रयोग:, 'धनुषश्च' इत्यनङ्विधानात्। संज्ञायां ह्यनङ् विकल्पितः 'वा संज्ञायाम्' इति। दुर्गन्धिपद इद्दुर्लभः ॥६६ ॥ प्रातिभादय इति। 'प्रज्ञादिभ्यश्च' इति स्वार्थिकोऽण् विधीयते। प्रति- भादीनामप्यत्र पाठाभ्युपगमेन स्वार्थिकेऽण्प्रत्यये कृते प्रातिभं वैकृतं द्वैतं चारि- त्रमित्यादयः सिध्यन्तीति व्याचष्टे- प्रातिभादयः शब्दा इति। न सरजसमिति। बहुव्रीहिप्रयोगो न साधुरिति दर्शयितुमाह- मधु रजसमित्यादिना। अनव्ययीभावे प्रयोगो न युक्तः । रजसा सह वर्तत इति सरजसमिति बहुव्रीहिसमासो न सिध्यति। तस्मिन् हि सति सरजस्कमिति स्यात्। अव्ययीभावे तु सिध्यति। 'अव्ययं विभक्ति-' इत्यादिना साकल्यारथे अव्ययीभावे कृते अचतुरादिसूत्रेणाकारान्तत्वनिपातनात् सरजसमिति भवति। तथा चाह वृत्तिकारः 'तत एकोऽव्ययीभावः साकल्ये। सरजसमभ्यवहरतीति। बहुब्रीहौ न भवति । रजसा सह वर्तते इतति सरजस्कं पङ्कजमिति' इति। न धृतधनुषीति। निगदव्याख्यानमेतत्। दुर्गन्धिपद इति। 'गन्धस्येदुत्पूतिसुसुरमिभ्यः' इति उदादिभ्यश्च-
Page 203
अ. २.] कामधेनुसहिता। १८३
'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत् समासान्तो दुर्लभः, उत्पूत्यादिषु दुःशब्दस्यापाठात्। सुदत्यादयः प्रतिविधेयाः ॥६७॥ 'सा दक्षरोषात्सुदती ससर्ज' इति, 'शिखरदृति पतति रशना' इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः, दत्रादेशलक्षणाभावाद्। तत्र प्रतिविधानम्-अग्रान्तादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्या- दिषु दत्रादेश इत्येके। अन्ये तु वर्णयन्ति-सुदत्यादयः स्त्रयभिधायिनो योगरूढशब्दाः; तेषु 'स्त्रियां संज्ञायाम्' इति दत्रादेशो विकल्पेन सिद्ध एवेति। क्षतदृढोरस इति न कप्तदन्त- विधिप्रतिषेधात् ॥ ६८ ॥ 'प्लवंगनखकोटिभि: क्षतदृढोरसो राक्षसाः' इत्यत्र दढोर:सब्दा- त्, 'उरःपभृतिभ्यः कप्' इति कप् न कृतः, 'ग्रहणवता प्रातिपदिकेन' तुर्भ्यः परस्व गन्धशब्दस्य समासान्तविधानात् उदादिषु दुरो ग्रहणाभावात् दुर्गन्धिरिति प्रयोगो न साधुरिति दर्शयति- दुर्गन्धिः काय इति। सुदत्यादय इति। वयस्वविवक्षिते दत्रादेशप्राप्तेरभावेऽपि शिष्टप्रयुक्त्त- त्वात् सुदत्यादयः, प्रतिविधेयाः समाघेयाः। अत् केचित्- अग्रान्तादिसूते चकारस्यानुक्तसमुच्चयार्थत्वात् अहिदन्नित्यादिष्विव दत्रादेशे कृते 'उगितश्च' इति डीपि सति सुदत्यादयः सिध्यन्तीति प्रतिविदधते। अपरे तु -- स्रीमात्रा- भिधामिनो योगरूढाः सुदत्यादय इति, 'स्त्रियां संज्ञायाम्' इति दत्नादेशे सिध्यन्तीति वदन्तीत्यभिप्रायेण व्याचष्टे-सा दक्षरोषादित्यादिना। क्षतदृढोरस इत्यस्य साधुत्वं समर्थयेतुं प्रथमं तावत् प्रामाणिकप्रयोगं प्र- दर्शयति-प्लवंगेति। ननु बहुव्रीहौ समासे उरःप्रभृतिभ्यो नित्यं कब्विधानात् क्षतदढोरस्क इति कपा भवितव्यमिति प्राप्ते, कबभावे कारणं कथयितुमाह- उरभभृतिभ्य इति। 'अहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते' इति वच-
Page 204
१८४ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
इति तदन्तविधेः प्रतिषेषात्। समासवाक्यं त्वेवं कर्तव्यम्- क्षतं दढोरो येषामिति। अवैहीति वृद्धिरवद्या। ६९ ॥ अवैहीत्यत्र वृद्धिरवद्या; गुण एव युक्त इति। अपाङ्गनेत्रेति लुगलभ्यः । ७० ॥ अपाक्के नेत्रं यस्या: सेयमपाङनेत्ेत्यत्र लुक् अलभ्यः, 'अमूर्ध- मस्तकात्स्वाङ्गादकामे' इति सप्तम्या अलुग्विधानाव्। नेष्टाः श्लिष्टप्रियादयः पुंवन्भावप्रतिषेधात् ॥ ७१॥
नादुरःशब्दान्तात् कप्प्रत्ययो न भवति। तथा च विग्रहवाक्यमेवं कर्तव्यम्-दृढं च तदुरश्च दढोरः, क्षतं दृढोरो येषामिति; अतः क्षतदृढोरस इति सिध्यती- त्यर्थः । अवैहीति। अवैहीत्यत्र इणो लोण्मध्यमपुरुषे, 'सेर्पिच्च' इति बादेश्षे सति डिद्वद्भावात् गुणाभावे, इहीति रूपम्। ततश्रावशब्दस्य प्राक्प्रयोगे 'आदुणः' इति गुणे सति, अवेहीति भवति। 'एत्येधत्यूठ्सु' इत्यत्र, एतेरेचि इत्यनुवर्त- नात् वृद्धिने भवति। नन्ववाडोरुभयोरुपसर्गयोः प्राक्प्रयोगे वृद्धि: सिध्यतीति न चोदनीयम्, 'ओमाडोश्च' इति पररूपप्रसङ्गात्। तस्मादवैहीत्यत्र वृद्धिरसा- धीयसीत्यर्थः । अपाङ्गनेत्रेति। नेत्रशब्देन समुदायवाचिना तदेकदेशः कनीनिका लक्ष्यते। ततश्रापाज्के नेत्रं कनीनिका यस्याः सा अपाझ्रेनेत्रेति प्रयोक्तव्यम्;न त्वपाञ्नेत्रेति, 'अमूर्घमस्तकात्स्वाज्जादकामे' इति नित्यं सप्तम्या अलुग्विधानादित्यभिप्रायवानाह- अपाङ्के नेवमिति। नेष्टा इति। छिष्टा प्रिया येन, विश्िष्टा कान्ता यस्मात् स विक्विष्टप्रि- यः, विश्लिष्टकान्त इत्यादय: प्रयोगा इटटा न भवन्ति, 'खिया: पुंकत्' इत्मादि-
Page 205
अ. २.] कामघेनुसहिता। १८५
छ्िष्टभियः, विश्िष्टकान्त इत्यादयो नेष्टाः, 'स्तिरियाः पुंवत्-' इति पुंवद्धावस्य प्रियादिषु निषेधात्। दृढभक्तिरिति सर्वत्र! ७२॥ 'दृढभक्तिरसौ ज्येष्ठे' अत्र पूर्वपदस्य अख्नियां विवाक्षितत्वात्। जम्बुलतादयो हस्वविधेः ॥ ७३॥
जम्बुलतादयः प्रयोगा: कथम्? आह- हस्वविधेः। 'इको हस्वोऽडन्यो गालवस्य' इति हस्वविधानात्। तिलकाद्योऽजिरादिषु॥।७४॥
सूत्रे प्रियादिषु पुंवद्धावप्रतिषेघादिति दर्शयति -- श्विष्टमिय इत्यादिना। दृढभक्तिरिति। अत्र भक्तिशब्दस्व प्रियादिपाठात् पूर्वपदस्य पुंवद्ावो दुर्घट इति प्राप्ते पूर्वपदस्य दृढशब्दस्य विग्रहवाक्ये स्त्रीत्वस्याविवक्षितत्वात् दृढभक्तिरिति सिध्यतीत्याह- अनेति । तथाचाह वृत्तिकारः, 'दृढभक्तिरित्ये- वमादिषु पूर्वपदस्य स्त्रीत्वस्याविवक्षितत्वात् सिद्धमिति समाघेयम्' इति। गणः व्याख्यानकारोऽपि 'दढं भक्तिरस्येति नपुंसकपूर्वपदो बहुब्रीहिः' इति। न्यास- कारोऽवि, 'अदारव्यनिवृत्तिपरे इढशब्दे लिङविशेषस्यानुपकारकत्वात्स्नीत्वमवि- वक्षितमेव । तस्मादस्त्रीलिङ़स्यैव दृढशब्दस्यायं प्रयोग इत्यभिप्रायः' इति। भोजराजस्त्वन्यथा समाधत्ते भक्तौ च कर्मसाधनायामित्यत्र सूत्रे-कर्मसाध- नस्यैव भक्तिशब्दस्य प्रियादिषु पाठात् भवानीभक्तिरित्यादौ पुंवद्धावप्रतिषेषः । दृढभक्तिरित्यादौ भावसाधनत्वात् पुंबद्धावे सिद्धे स्त्रीपूर्वपदत्वमेव' इति। जन्बुलतादय इति। 'इको हरखोऽड्यो गालवस्य' इति अ्चन्तव्यति- रिक्तस्येगन्तस्योत्तरपदे परतो विकल्पेन हस्वविधानाज्जम्बुलतादयः सिद्धा इत्याह- जम्बुलतादय इति। तिलकादय इति। 'मतौ बहचोऽनजिरादीनाम्' इति मतुप्प्रत्यये परतोऽजिरादिवर्जितसव बहचो दीर्घविधानात्तिलकादीनामजिरादिपाठाभ्युपगमेन
Page 206
१८६ काव्यालंकारसूत्रवृत्ति: [अधि. ५•
तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः अन्यथा तिलकवती कनकवतीत्यादिषु मतुपि 'मतौ बहचोऽनजिरादीनाम्' इति दीर्घत्वं स्यात्। अन्ये तु वर्णयन्ति- 'नदां मतुप्' इति यो मतुप् तत्रायं विधिः; तेषां मतं न, अमरावतीत्यादीनामसिद्धेः। निशम्यनिशमय्यशब्दौ प्रक्ृतिभेदात्॥७५॥ निशम्य निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे। शमेः ल्यपि 'ल्यपि लघुपूर्वात्' इत्ययादेशे सति निशमय्येति भवितव्यम् ; न निश- म्येति। आह-प्रक्रतिभेदात्। शमेर्दैवादिकस्य निशम्येति रूपम्। 'श- मो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम्।
संयम्यनियम्यशब्दावणिजन्तत्वात्॥ ७६ ॥ कथं संयम्यनियम्यशब्दौ! ल्यपि 'ल्यपि लघुपूर्वात्' इति णेरया-
दीर्घनिषेधात्तिलकवतीत्यादयः सिध्यन्तीत्याह -- तिलकादय: शब्दा इति। अजिरादिषु पाठानभ्युपगमे प्रयोगविरोधं प्रदर्शयति -- अन्यथेति। परे तु प्रकारान्तरेण प्रयोगं प्रतिष्ठापयन्ति। तेषां मतं दूषयितुमनुभाषते -- अन्ये त्विति। यत्र 'नद्यां मतुप' इति नदीविषये मतुप्प्रत्ययो विधीयते तत्रायं दीर्घविधिः । तिलकादिषु 'तदस्यास्त्यम्मिन्' इति मतुब्विधानात्तिलकवतीत्या- दिषु दीर्घाभाव इति वदन्ति । तदेतदूषयति -- तेषां मतमिति ।
निशम्येति। दिवादिपाठादण्यन्तशमिरेका प्रकृतिः । चुरादिषु पाठात् 'शमो दर्शने' इति श्रवणार्थे मित्संज्ञको णिजन्त शमिरपरा प्रकृतिः। अतः प्रकृ- तिभेदाद्रूप द्वयसिद्धिरित्याह- निशम्येत्यादि। संयम्येति। प्रयोजकव्यापारप्रतीतेरत्र णिचा भवितव्यम्। तस्मिस्तु सति 'ल्यपि लघुपूर्वात्' इति णेरयादेशे संयमथ्य नियमय्य इति प्रयोक्तव्यम् कथं संयम्यनियम्यशब्दाविति अनुयोक्तुरमिप्रायः। शङ्कामिमां शकलयितुं हेतु-
Page 207
अ. २.] कामधेनुसहिता। १८७
देशेन भवितव्यम्। आह-अणिजन्तत्वात्। धातोर्णिच् तु न, गता थेत्वात्; यथा-वाचं नियच्छति इति। णिजर्थानवगतौ णिच् पयु- ज्यते एव : मथा- संयमयितुमारब्ध इति। प्रपीयेति पीङ: ॥ ७७॥
पपीयेत्ययं शब्द: 'पीङ् पाने' इत्येतस्य। पिवतेर्हि 'न ल्यपि' इतीत्वप्रतिषेधात् प्रपायेति भवति। दूरयतीति बहुलग्रहणात्॥७८॥ 'दूरयत्यवनते विवस्वति' इत्यत्र दूरयतीति कथम्? 'णाविष्ठव- द्भावे 'स्थूलदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्य- म्। आह-बडुलग्रहणात्। 'प्रातिपदिकाद्धात्वर्ये बहुलमिष्ठवच्च' इत्यत्र बहुलग्रहणात् स्थूलदूरादिसूत्रेण यद्विहितं तन्न भविष्यतीति। गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ७९॥
माह -- अणिजन्तत्वादिति। णिजभावाण्णेरयादेशो न प्रसज्ज्यत इत्यर्थः । ननु प्रयोजकव्यापारप्रतीतौ णिच्प्रत्ययः किं न स्यादित्यत आह -- णिच् तु नेति। गतार्थत्वात् प्रयोजकव्यापारशून्यस्य सकमकस्य प्रकृत्यर्थस्य धातुनैवाभि- हितत्वादित्यर्थः । तत्र दृष्टान्तमाह -- यथा वाचमिति। यत्र णिजर्थः खभा- वतो नावगम्यते तत्र णिच् प्रयुज्यत एवेति दर्शयति-णिजर्थानवगताविति। पपीयेति । पीङ पाने' इति धातोर्ल्यबन्तमिदम्, न तु पिबतेः । तस्य 'न ल्यपि' इतीत्वप्रतिषेधादित्याह- पिबतेरिति। दूरयतीति प्रयोगस्य साधुत्वं समर्थयितुं शङ्कामिमामक्कुरयति- दूरय- तीति। शेषं सुगमम् । गच्छतीपभृतिष्विति। 'शष्श्यनोर्नित्यम्' इति नित्यं नुमागमस्य विघानात् गच्छतीत्यादयो न साधव इत्यर्थः ।
Page 208
१८८ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
'हरति हि वनराजिर्गच्छती श्यामभावम्' इत्यादिषु गच्छती- पभृतिषु शब्देषु 'शप्यनोर्नित्यम्' इति नुम् अनिषेध्यो निषेड्ुम- शक्य:। मिलेण गोप्त्रेति पुंवन्द्ावात्॥ ८० ॥ मित्रेण गोप्त्रेति कथम्१ गोप्तृणा इति भवितव्यम्, 'इकोऽचि विभक्तौ' इति नुम्बिधानात्। आह-पुंवद्भावात्। 'तृतीयादिषु भाषि- तपुंस्कं पुंवद्धालवस्य' इति पुंवद्भावेन गोप्त्रेति भवति। वेत्स्यसीति पदभङ्गात् ।।८१ ।। 'पतितं वेत्स्यति क्षितौ' इत्यत्र वेत्स्यसीति न सिध्यति, इद्मस- झात्। आह-पदभङ्गात्। वेत्स्यसीति पदं भज्यते-वेत्सि, असि । असीत्ययं निपातस्त्वमित्यस्मिनर्थे। कचिद्वाक्यालंकारे पयुज्यते। यथा- 'पार्थिवस्त्वमसि सत्यमभ्यधाः' इति।
कामयानशब्द: सिद्धोऽनादिश्चेत् ॥ ८२॥ कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्य- कृते; यदनादि: स्याद्। सौहृददौर्हदशब्दावणि हन्द्ावात् ॥ ८३ ॥ मित्रेण गोप्त्रेति। स्पष्टमवशिष्टम्। वेत्स्यसीति। विदेर्ज्ञानार्थस्यानुदात्तोपदेशत्वाभावादिडागमेन भवितव्यम्। तथा च वेत्स्यसीति न सिध्यतीति चिन्तायां पदं विभज्य प्रयोगसाधुत्वं समर्थय- ते-पतितमित्यादिना। कामयान इति। 'आगमानुशासनमनित्यम्' इति वचनात् 'आने मुक्' इत्यकृते मुगागमे कामयान इति। स च प्रामाणिकः प्रयुक्तश्ेत् साधु- रित्यिमिप्रायः । सौदृददौर्हदभव्दाविति। शोभनं ह्ृदयं यस्य, दुषट हृदयं यस्येति विग्र-
Page 209
अ. २.] कामधेनुसहिता। १८९
सुहृदयदुर््दयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हद्भावे आदिवृद्धौ सौहृददौर्हदशब्दौ भवतः। सुहदुहच्छन्द्राभ्यां युवादि- पाठादेवाणि कृते 'हृद्भगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि सत्युभयपद्रवृद्धौ सत्यां सौहार्द दौर्द्दार्दमिति भवति। विरम इति निपातनात्॥८४॥ रमेरतुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य- इत्यादिना वृद्धिम- तिषेधस्याभावात् कथं विरम इति! आह-निपातनात् 'यम उपरमे' इत्यत्र उपरमे इति। एतचु उपलक्षणम्, अतन्त्रं च उपोपसर्ग इति। उपर्यादिषु सामीप्ये द्विरुक्ेषु द्वितीया॥ ८५॥
हसिद्धाभ्यां सुहृदयदुर्हृदयशब्दाभ्यां भावार्थे 'हायनान्तयुवादिभ्योऽण्' इत्याण कृते सति 'हृदयस्य हल्लेखयदण्लासेषु' इति हृदादेश 'तद्धितेष्वचामादेः' इत्यादिवृद्धौ च सत्यां सौहृद्दौर्हदशब्दौ सिद्धौ। अत्र हच्छब्दस्य लाक्षणिक- त्वात् 'हृद्भगसिन्ध्वन्ते-' इत्यत्न प्रतिपदोक्तस्य ग्रहणादुभयपदवृद्धयभावः । शोभनं हृद् यम्य, दुष्टं हृद् यम्येति विग्रहे, सिद्धाभ्यां सुहददुर्हच्छब्दाभ्यां युवा- दिपाठादणि कृत 'हद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धौ सौहार्द दौर्हा- दमिति च सिद्धमिति व्याचष्टे-सुहृदय इत्यादिना। विरम इति। विरमेर्मान्तत्वेऽपि अनुदात्तोपदेशत्वात्, 'नोदाचोपदे- शस्य-' इत्यादिना वृद्धिप्रतिषेधाभावात् वृद्धौ सत्यां विरास इति युक्तं प्रयो- क्तुम्, कथं विरम इति प्राप्ते, 'यम उपरमे' इत्यत्र निपातनात् सिध्यतीति दर्शयति-रमेरिति। उपरम इति निपातेन विरम इत्यस्व किमायातमिति तत्राह- एतच्विति। एतन्तु निपातनं सोपसर्गस्य रमेरुपलक्षणंमित्यवग- न्तव्यम्। उपर्यादिष्विति। 'उपर्यध्यघसः सामीप्ये' इत्युपर्यादीनां सामीप्याबे द्विर्वचनविधानात् डविरुक्तैस्तैर्योंगे सति द्वितीयाविभक्तिर्भवति। वीप्सायां तु
Page 210
१९० काव्यालंकारसूत्रवृत्ति: [अधि. ५.
उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यघसः सामीप्ये' इत्यनेन 'उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु' इति द्वितीया। वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति-'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः।' . मन्दं मन्दमित्यप्रकारार्थत्वे॥ ८६॥ 'मन्दं मन्टं नुदति पवनः' इत्यत्र मन्दं मन्दमिति अप्रकारार्थत्वे भवति। प्रकारार्यत्वे तु 'पकारे गुणवचनस्य इति द्विर्वचने कृते कर्म- धारयवद्भावे च मन्दमन्दमिति पयोगः। मन्दं मन्दमित्यत्र तु 'नित्य- वीप्सयोः' इति द्विर्वचनम्ं । अनेकभावात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति। न निद्राद्रुगिति भष्भावप्रात्तेः ॥८७॥ 'निद्रादुकाद्रवेयच्छविरुपरिलसद्धर्घरो वारिवाहः' इत्यत्र निद्रा- दुगिति न युक्तः, 'एकाचो बशो भष्-' इति भष्भावमाप्ेः। अनुमा- समियैस्त्वपभ्रंशः कृतः । निष्पन्द इति षत्वं चिन्त्यम् ॥ ८८॥
षष्ठीविभक्तिर्भवतीति व्यवस्थामाह-उपर्यादिष्विति। क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्यापुमिच्छा वीप्सा। मन्दं मन्दमिति। वीप्साप्रकारार्थयोः प्रयोगद्वयव्यवस्थां प्रतिपादयि- तुमाह-मन्दं मन्दं नुदतीति। कर्मधारयवन्भावे चेति। 'कर्मधारयवदुत्त- रेषु' इत्यनेन कर्मवारयवद्धावे सुलोपादिर्भवति। अनेकभावविषया व्याप्तुमिच्छा येति वीप्सा; तां दर्शयति-अनेकभावेति। न निद्वेति। निद्रधागिति वक्तव्ये निद्राद्रुगित्यपअ्रंश इत्याह- निद्राद्टुक्काद्रवेय इति। निष्पन्द इति। अत्र पत्वप्राप्तावनुशासनादर्शनात् सुषामादिष्वपि पाठा-
Page 211
अ. २.] कामधेनुसहिता। १९१
न हात्र पत्वलक्षणमस्ति। सुषामादिपाठोऽप्यस्य न निश्चितः।
नाङ्ुलिसंङ्ग इति मूर्धन्यविधेः।।८९।।
'म्लायन्त्यङ्गुलिसङ्रेऽपि कोमला: कुसुमस्रजः' इत्यत्राङ्कुलिसङ्ग इति न युक्तः 'समासेडङुले: सङ्ग:' इति मूर्धन्यविधानात्।
तेनावन्तिसेनादयः प्रत्युक्ताः॥९० ॥
तेन अङ्कलिसङ्क इत्यनेन अवन्तिसेन:, इन्दुसेन एवमादयः शब्दा: प्रत्युक्ता: प्रत्याख्याताः, 'सुषामादिषु च' 'एति संज्ञायामगात्' इति मूधन्यविधानात्।
नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ॥ ९१॥
'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यत्ेन्द्रवाहनशब्दे 'वाहनमाहि- तात्' इति णत्वं न भवति, आहितत्वस्य अविवक्षितत्वात्। स्वस्वामि-
निश्चयाच्च षत्वं चिन्त्यं निश्चेतुमशक्यमित्याह-न हीति। नाङुलिसङ्क इति । स्पष्टोऽर्यः । तेनेति। 'सुषामादिषु च' इति सूत्रे, 'एति संज्ञायामगात्' इति गणसूत्रबलात् एकारपरस्यागकारात् परस्य संज्ञायां विषये मूर्धन्यादेशविधाना- दवन्तिसेनादयः प्रत्याख्याता इत्याह- तेनाङ्गलिसङ् इत्यनेनेति।
नेन्द्रवाहने णत्वमिति। 'चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्र- मिवेन्द्रवाहनम्' इत्यादिप्रयोगो दृश्यते। अत्र 'वाहनमाहितात्' इति सूत्रे आ- हितवाचि यत् पूर्वपदं तस्मान्निमित्तादुत्तरस्य वाहननकारस्थ णकारादेशो विधी- यते। वाहने यदारोपितं तदाहितमित्युच्यते। तस्मादिक्षुवाहणमितिवदिन्द्रवाह- णमिति प्रयोक्तव्यम्, न पुनरिन्द्रवाहनमिति प्राप्ते तन्निषेद्धुमाह-इन्द्रवाहन- 25
Page 212
१९२ काव्यालंकारसूत्रवृत्ति: [अधि. ५.
भावमानं ब्त्र विविक्षितम्; तेन सिद्धमिन्द्रवाहनमिति। सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः। अनयैव दिशा कार्य शेषाणामप्यवेक्षणम्॥।
इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पश्चमेऽिकरणे द्वितीयोऽ्ध्यायः ॥
समाप्तं चेदं प्रायोगिकं पश्चममधिकरणम्॥
शब्द इति। अयमर्थ :- पूर्वपदार्थम्येक्षुशरादेरिव नेन्द्रम्याहितत्वं विबक्ष्यते, किं तु इन्द्रम्वामिकं वाहनमिन्द्रवाहनमिति स्वम्वामिसंबन्धो विवक्ष्यते। ततश्च दाक्षिवाहनमितिवदिन्द्रवाहनमिति सिद्धमिति।
सद्सन्त इति। एवम् उक्तप्रकारेण। साधवश्ासाघवश् शब्दा वि- विच्य पृथक्कृत्य निदर्शिता उदाहताः । अनयैव दिशा अस्मदुक्केनैव सदसद्वि- वेकमार्गेण। शेषाणामनुक्तानां सतामसतां च शब्दानाम्। अवेक्षणं पर्यालो- चनं कार्य कर्तव्यमिति भद्रम् ॥
इत्थं समिद्धगुणसंपदि वामनस्य प्रस्थानसीमनि चिरादलसोज्मितायाम्। व्या्यानपद्धतिरियं व्यवहारहेतो- निष्कण्टका निपुणमारचिता कवीनाम्॥
न्यायोक्तिवीचिनिचयेन कुतर्कजाल- कूलंकषेण गहने गुणरतनगमें । मारखतामृतसरस्वति नावमेना- मालम्मय रन्तुमनसो विचरन्तु धीरा:।।
पढ़े केचिद्वाक्ये कतिचन परे मान इतरे कवित्येSलंकारे कतिचन परे नाव्यनिगमे। भजन्ति प्रागल्म्यं न खलु वयमेतेचु गणिता बहूकुर्वन्सेते बुधसवसि नः किं तु सुधिय: ॥।
Page 213
अ. २.] कामधेनुसहिता। १९३
शब्दार्थौं चरणौ प्रतीकविसरो वाक्यानि गुम्भो लस- न्मूर्तिर्वस्तु शिरः परिष्कृतिरलंकारोऽसवो रीतयः। यस्या: स्वीयगुणा गुणा: सुरुचिरा: शङ्गारचेष्टादयो रम्याष्टादश वर्णना: कृतिवधू: सेयं जगन्मोहिनी॥
इति कृतरचनायामिन्दुवंशोद्दहेन त्रिपुरहरधरितीमण्डलाखण्डलेन। ललितवचसि काव्यालंक्रियाकामधेना- वधिकरणमयासीतपञ्जमं पूर्तिमेतत्।।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत- व्याख्यायां काव्यालकारकामधेनो प्रायोगिक नाम
पश्चममधिकरणम्॥
इति काव्यालंकारसूत्रवृत्ति: कामधेनुसहिता संपूर्णा ।।
Page 215
।। श्रीः ।।
।। सूत्रानुक्रमाणका ।।
पृष्ठम पृष्ठम्
अ अर्थवैमल्यं ८७
अग्राम्यत्वमुदारता ९३ अथर्व्याक्तहतुत्व ८०
अजरठत्वं सोकु ८० अर्थस्य प्रौढि ८४
अतद्रृपस्यान्यथा १३२ अर्थो द्विविधो ९०
अतिप्रयुक्तं १५३ अलंकारस्याल १४६
अनाविद्धललित ३५ अवतरापचाय १७२
अनुक्तौ समासोक्ति: १२६ अवज्यों बहु १६४
अनुचरीति १६९ अविधौ गुरो: १७२
अनुपपत्तिरसंभव: १२३ अवैषम्यं समता ८८
अनुल्णो १०९ अवैहीति वृद्धिर १८४
अनैकान्त्याच्च ७७ असभ्याथान्तर ४७
अन्त्याभ्यां वाक्यं ५१ असादृश्यहता १२२
अन्यनेयगूढा ४३ अहेतौ हन्तेर्णिचू १६८
अपाङ्गनेत्रेति १८४ आ
अपारुष्यं सोकु ९३ आमूललोलािषु १६२
अप्रर्तातगुण १२१ आरोहावरोहक्रमः ७६
अप्रसिद्धार्थप्रयु ४६ आरोहावरोहनिमित्तं ७९
अप्रसिद्धासभ्यं ४८ आसेत्यसतेः १६८
अभिधानकोशात् २७ आहेति भूते १७३
अरोचकिन: सतृणा १३ इ
अर्थतस्तदवगमः ३९ इतिवृत्तकुटिलत्वं ... ३०
अर्थर्दृाषषटिः समाधि: ... ८९ इष्टः पुनपुंसकयाः ... १२०
Page 216
१९६
पृष्ठम् पृष्ठम्
उ औ
उक्तसिद्धथै १३९ ओज्ज्वल्य कान्ति: ... ८१
उक्तार्थपदमेका ५९ औपम्यादयश्चा १७८
उक्तिवैचित्र्यं ९२ क
उत्प्रेक्षाहेतुरुत्प्रे १४७ कझचुकीया इति १८०
उपमाजन्यं रूपक १४६ करिकलभशब्दे ६२
उपमानाक्षेपश्चा १४३ कर्णावतंसश्रवण ६०
उपमानाधिक्यात् १२२ कलाचतुर्वग ६५
उपमानेनोपमेयस्य १११ कलाशास्त्रेभ्य: २९
उपमानेनोपमेयस्य १२८ कल्पितार्थ नेयार्थम् ४५
उपमानोपमेययोर्लिंङ्ग ११९ कवित्वबीज ३२
उपमानोपमेयवाक्येष्वे १३७ कामयानशब्द: १८८
उपमानोपमेयसशयः १३४ कामशास्त्रतः ३०
उपमेयस्य गुणाति १४० कार्तिकीय इति १७६
उपमेयस्योक्तो १२६ काव्य गद्य पद्यं च ३४
उपमेयोपमानानां १३७ काव्यं ग्राह्यमल ४
उपर्यादिषु सामीप्ये १८९ काव्यं सद्ुष्टादष्टा १०
ऊ काव्यबन्धोद्यमो ३१
ऊककारान्तादप्यूड १७६ काव्यशोभायाः ६९
ए काव्योपदेशगुरु ३१
एकगुणहानि १४१ किंचिदुक्तावप्रस्तुत १२७
एकस्योपमेयत्वां १३५ केसरालमित्यल १६९
ओ कौशिलादय इलाच १८१
ओज:कान्तिमती १९ क्रमविधानाथ वा ७९
आज:प्रसादयो ७८ ऋमसिद्धिस्तयोः ३६
ओज: प्रसाद ल्ेप ७१ कमहीनार्थम ... ६३
Page 217
सूत्रानुक्मणिका। १९७
पृष्ठम् पृष्ठ म्
क्रमेणोपमेयोपमा १३६ जातिप्रमाण ११६
क्रिययैव स्वतदर्था १३८ त
क्रिया प्रतिषेधे १३५ त एवार्थगुणा: ८४
क्ष नच्च नातत्त्वशीलम्य २३
क्षतदृढोरस इनि ... १८३ ततोऽन्यभेद ... ३८
क्षीयत इति १५८ तत्त्रैविध्यं व्रीडा ... ४९
ख तत्त्रैविध्यमादि १३८
स्विद्यत इति च १५८ तत्र काव्यपरिचयो ३१
ग नदतिशयहेतव ७०
गच्छतीप्रभृतिष्व १८७ तदनिबद्धं निब ३६
गद्यं वृत्तगन्धि ३४ तदारोहणार्थ ... २२
गाढबन्धत्वमोजः ७३ तदिदं प्रयुक्तेषु ६२
गुण: संप्टवात् ७३ तदुपारोहादर्थ २४
गुणद्योतकोप ११४ तद्देशकालाभ्याम् ३३
गुणबाहुल्यतश्च ११२ तह्वैविध्यं ११३
गुणविपर्यया ३ ९ तद्धातुनामभाग ५४
गुणविस्तरादय १७१ तद्धि चित्रं चित्र ३७
घ तन्द्रेदावुप १४६
घटना श्लेष: ... ८७ तस्यामर्थगुण २३
च तासां पूर्वा गाह्या २२ ...
चतुरश्रशोभीति १७९ तिरस्कृत इति १६० .. .
चित्तैकाग्न्यमव ३२ तिलकादयोऽजि १८५
तेन वचनभेदो १२१
छन्दोविचितेवृत्त २९ तेन विपर्ययो १५१
ज तेनाधिकत्वं ... ११८
नेनावन्तिमेनाटय: .. .
Page 218
काव्यालंकार सूत्रवृत्ती
पृष्ठम् पृष्ठम्
मशब्दौ ... १६० न निद्राद्रुगिति १९०
नर्महीधरादयो १७१ न पाठधर्मा: ८३
त्रवलीशब्दः १६२ न पादादौ खल्वा १५०
टण्डनीतेर्नया ३० न पादान्तलघो १४९
द न पुनरितरे २२
दारवशब्दो १७७ न पृथगारोहाव ७७
दीपरसत्व कान्तिः ९५ न भ्रान्ता निष्कम्प ८२
दुर्गन्धिपद १८२ न लक्ष्मणः पृथक्त्वात् ५६
दुष्ट पदमसाधु ४० न वाक्यालंकारार्थम् ४३
दूरयवीति बहुल १८७ न विरुद्धोSतिशयः १२४
दृढभक्तिरिति १८५ न विशेषश्रेदे ५९
देशकालस्वभाव ६४ न वृत्तदोषात्प्रथ ५६
ध न शणसूत्रवाना २३
धनुर्ज्याध्वनौ ५९ न शास्त्रमद्रव्य ... १४
धन्वीति व्रीह्यादि १७९ न मरजसमित्य १८२
धमयोरेक ११७ नाडुलिसङ्ग इति १९१
न नानिबद्धं चकास्त्येक ३७
न कतकं पङ्कप्र १५ नापुष्टार्थत्वात् १२२
न कर्मधारयो १५१ नार्धे किंचित्समासं १५०
न कृमिकीटा १६७ नासंपृक्तत्वात् ७७
न खरोष्ावुष्ट १६७ नासन्त: संवेद्य ... ८२
न गच्ये समाप्त १५० नित्या संहितैक १४८
न गुप्तलक्षित ४८ निपातेनाप्यमिहिते .... १६५
न तद्वाहुल्य १५४ निशम्यनिशमय्य ... १८६
न धान्यषष्ठादिषु १६३ निष्पन्द इति षत्वं ... १९०
न धृतधनुषीत्य ... १८२ नेतरे तद्विपर्य ... १४
Page 219
सूत्रानुक्रमणिका। १९९
पृष्टम् पृष्ठम
नेन्द्रवाहने णत्व ... १९१ बिम्बाधर इति १६२
नेष्टाः ल्िष्टप्रिया ... १८४ बौद्धप्रतियोग्यपे १८०
नैंकं पदं द्वि: १४८. ब्रह्मविदादयः १७
नैकशब्द: सुप्सु १६१ ब्रह्मादिषु हन्ने १७० २ ...
प भ 9
पत्रपीतिमादिषु १६४ भङ्गादुत्कषः १०४
भिदुगादयः कर्म 2. पत्रलमिति १६९ १७१
पदमनेकार्थमक्षरं ९८. भिन्नवृत्तयति २३
पदसंधेवैरूप्यं ५७ म १४
पदाधानोद्धरण ३२ मधुपिपासुप्रभृ १६१ ७४
पद्मभागवद्दुत्त ३५ मनुष्यजातेर्वि १७४ ८३
पद्यमनेकभेदम् ३५ मन्दं मन्दमित्यप्र १९० ९:
पादाः पादस्यैकस्या मसृणत्वं ल्लेषः ७५
पादानुप्रास: १०९ महीध्रादयो मूल १७०
पिण्डाक्षरभेदे १०६ माधुर्यसौकुमार्यों २१
पुष्पमालाशब्दे ६१ मायादिविकल्पि ... ६३
पूरणार्थमनर्थकम् ४२ मार्गाभेद: समता ... ७५
पूर्वनिपातेऽपभ्रंशो १६५ मार्गेरात्मनेपद ... १५९
पूर्वे नित्या: ७० मित्रेण गोप्त्रेति ... १८८
पूर्वे शिष्या विवे १४ मिलिकबि ... १५७ १
पृथक्पदत्वं ७९ मुक्ताहारशब्दे ६१ १
प्रतिवस्तुप्रभृति १२५ मुग्धिमादिध्विम १७८
प्रपीयेति पीङ: मौक्तिकमिति ... १८७ १८
प्राणिनि नीलेति ... १७४ य
प्रातिभादयः ... १८२ यत्सादृश्यं तत्स १४५
व युध्येदिति युध: ... १६८
Page 220
काव्यालंकारसूत्रवृत्ती
पृष्ठम् पृष्म्
र विदर्भादिषु दृष्टत्वा ... १७
जवंश्यादयः माध्व १७७ विपरीतमुत्कलिका ३५
त्रियामस्तुरीयः ३३ विरम इति निपातनात् १८९
तिरात्मा काव्यम्य १५ विरलायमानादिषु १६८
शावित्येक १५६ विरसविराम ५४
ढिच्युनमन्यार्थम् ४४ विरुद्धाभासत्वं १३४
ल विरूपपदसंधि ५६
क्षणच्युतवृत्तं ५३ विविक्तो देशः 33
अणाशब्दाश्र १५४ विशिष्टा पदरचना १६
श्यज्ञत्वमभियो ३१ विशिष्टेन माम्याथ १४३
भेर्गत्यर्थत्वा १५० विशेषणमात्र १५
क्षणिकामभ्यं ४८ विशेषणम्य च ६२
ङ्गाध्याहारौ १५३ विद्ेषापेक्षित्वात्
कमात्रप्रयुक्तं ४१ विशेषो गुणात्मा १६
कवृत्तं लोक: २६ वेत्स्यमीनि पढ १८
कसंवीतं व्यक्त: सूक्ष्मश्र ९८
को विद्या प्रकीण २६ व्यर्थैकार्थ ५८
पे लुमा ११४ व्यवसितादिपु १७
लमानादय १५० व्यवहिनाथप्र
किक्यां ममामा १२० व्याजम्य मत्य १४
व व्याहतपृर्वात्त
fिच्छेदचलनं 5. १०५
:गत्मनेपद १५७ शक्यमिति रूप १६६
वुद्दयक्रिययो १४४ शबलादिभ्य: १७४
तुस्वभावम्फुट ९४ शब्दस्मृतिविरुद्ध ४०
कटत्वमुदारता ८० शब्दस्मृते: शब्द २७
Page 221
सूत्रानुक्रमणिका । २०१
पृष्ठम् प्रष्म् शब्दस्मृत्यभिधान २६ म धर्मेषु तन्त्र १२९ शार्वरमिति च १७६ समग्रगुणोपेता १७ शाश्वतमिति प्रयुक्त: १७७ समविसदृशाभ्यां १३६ शास्त्रतस्ते १० समेन वस्तुनान्याप १२७ शास्त्रमावप्रयुक्त ४१ मर्वनाम्रानु १५२ वतन भृङ्कला परिवतक १०४ सा त्रधा वैदर्भी १७ शेषः सरूपोऽनुप्रास: १०८ सादृध्याल्लक्षणा १३० शैथिल्यं प्रसाद: ७३ सापि वैदर्भी २५ शोभेति निपातनात १७२ सापि समासाभावे २३ श्रुतिविरस कष्टम् १ सा पूणा लुप्ा च ११४ माम्योत्कर्षौ च ७४ ष्यञः षित्कर १७८ मुदत्यादयः १८३ स मूक्ष्मो भाव्यो ९१ मंदर्भेषु दगरूपक 39 सौकर्याय प्रपञ्चः ४० संबन्धसंबन्धेऽपि १५२ सौन्दमलंकार: ७ संभाव्यधर्म १३३ सौहृददौर्हद १८८ संभाव्यनिषेध १५१ स्तनादीनां १५४ मंभाव्यविशिष्ट १४२ स्तुतिनिन्दा ११५ मंयम्यनियम्यशब्दा १८६ ह संशयकृत्स ६३ हस्ताग्राग्रहस्ता ... १६५: सङ्गविनिवृत्तौ ... १०५ हानिवदाधिक्य ... १६८
स त्वनुभवसिद्धः ७४ हीनत्वाधिकत्व ११५
स दोषगुणालंकार ... ९