Books / Kavya Anuasana Hemachandra Gloss Pandit Sivadatta Kasinath Pandurang Parab Nirnaya KM 70 1901

1. Kavya Anuasana Hemachandra Gloss Pandit Sivadatta Kasinath Pandurang Parab Nirnaya KM 70 1901

Page 1

UNIVERSITY OF TORONTO 3 1761 01651711 2

Page 2

Digitized by the Internet Archive in 2011 with funding from University of Toronto

http://www.archive.org/details/kavyanusasanam00hema

Page 7

काव्यमाला ७१.

श्रीहेमचन्द्रविरचितं

काव्यानुशासनम् ।

मटीकम्

मूल्यं सपादरूप्यकद्यम् ।

Page 11

KÂVYAMÂLÂ. 70.

THE

KÂVYÂNUSÂSANA

OF

v HEMACHANDRA.

With his own gloss.

EDITED BY

MAHÂMAHOPÂDYÂYA PANDIT S'IVADATTA

Head Pandit and Superintendent, Sanskrit Department, Oriental College, Lahore, AND

KÂS'ÎNÂTH PÂŅDURANG PARAB.

PRINTED AND PUBLISHED

BY

TUKÂRÂM JÂVAJÎ PROPRIETOR OF JAVAJI DADAJI'S 'NIRNAYA-SAGARA' PRESS. BOMBAY.

Price 24 Rupees.

Page 12

(Registered according to Act XXV of 1867.)

[ All rights reserved by the publisher. ] PK $75 TBRART H4

DET 1 3 1956 1941

1150677

Page 13

काव्यमाला. ७०. 70

श्रीहेमचन्द्रविरचितं

काव्यानुशासनम्

सटीकम्।

जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- के दारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्न- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् ।

तच्च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् ।

१९०१

(अस्य प्रन्थस्य पुनर्मुद्रणादिविषये सवथा निर्णयसागरमुद्रायत्तालयाधिपते- रेवाधिकारः ।)

मूल्यं सपादं रूप्यकद्वयम्।

Page 15

हेमचन्द्रः।

अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामसेति जिज्ञासा- यामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके- 'तत्पट्टपूर्वाद्रिसहस्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्र कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ।' इति सोमप्रभाचार्य विरचित हे मकुमारचरित्रकाव्यतः, 'स्तुमस्त्रिसंध्यं प्रभु हेमसूरेरनन्यतुल्यामुपदेशशक्तिम्। अतीन्द्रियज्ञानविवर्जितोSपि यः क्षोणिभर्तुर्व्यधित प्रबोधम् ।। सत्त्वानुकम्पा न महीभुजां स्यादित्येष कुप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन श्लाध्यः स केषां न कुमारपालः ॥ इति सोमप्रभकथिते कुमारनृप-हेमचन्द्रसंवादे। जिनधर्मप्रतिबोधे प्रस्तावः पञ्चमः प्रोक्तः ॥' इति सोमप्रभविरचितकुमारपालप्रतिबोधकाव्यतंः, 'शिष्यो जम्बुमहामुने: प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रवाहुरिव द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिट्श्रीस्थूलभद्राह्वयः॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्रा महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिपत्समजनिष्ट विशिष्टलव्धिः ॥ शिष्योऽन्यो दशपूर्वभन्मुनिव्ृपो नाम्रा सुहस्तीत्यरुट् यत्पादाम्बुजसेवनात्समुदिते राज्ये प्रवोधर्धिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरग्रामाकरं भारते- डम्मिन्नर्धे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥ अजनि सुस्थित-सुप्रतिबुद्ध इत्यभिधयार्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरान्तिषद्भवमहातरुभञ्जनकुजरः ॥

१. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु-'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम्। जिनधमप्रतिबोधः कुप्तोऽयं गुर्जरेन्द्रपुरे ॥' इति वदता ग्रन्थक- त्रैव १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः, २, 'इति च' इति भवेत्. ३. मुस्थितः, सुप्रतिबद्धः, दृति मुनिद्वयम.

Page 16

महर्षिसंसेवितपादसंनिधे: प्रचारभागालवणोदसागरम्। महान्गण: कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमवद्गिरेरिव । तस्मिन्गणे कतिपयेष्वपि यातवत्मु साधूत्तमेषु चरमो दशपूर्वधारी। उद्दमतुम्बवनपत्तनवञ्रशाखावज्रं महामुनिरजायत वज्रसूरिः॥ दुर्भिक्षे समुपस्थिते प्रलयवद्ीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे। योऽभयुद्टत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा- पुर्या मङ्ड सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तम्माद्वज्राभिधा शाखाभूत्कोटिकगणद्ुमे। उच्चनागरिकामुख्यशाखात्रितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत्॥ धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र वभूव संयमधनः कारुण्यराशिर्यशो- भद्रः सूरिरपूरि येन भुवन शुद्धैर्यशोभिनिजैः॥ श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वादौ प्रतिपन्नवाननशन प्रान्ते शुभध्यानभाकू।

न्नुचैः पूर्वमहर्पिसंयमकथाः सत्यापयामासिवान्॥ श्रीमान्प्रद्युम्नसूरि: समजनि जनितानेकभव्यप्रबोध- स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्ृतैरर्थनीरै- रातत्यस्थानकानि श्रुतिविषयसुधासारसःयञ्चि विष्वक्।। सर्वग्रन्थरहस्यरत्नमुकुर: कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरि: क्षमां पावयन्धर्मराद् सेनानीर्गुणसेनसूरिरभवच्छिष्यस्तदीयस्ततः ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जङ्गमः स्याद्वादत्रिदशापगाहिमगिरिर्विश्वप्रबोधार्यमा। कृत्वा स्थानकवृत्तिशान्तिचरिते प्राप्तः प्रसिद्धिं परां सूरिर्भूरितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥।

Page 17

आचार्यों हेमचन्द्रोऽभूत्तत्पादाम्भोजपटपदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ जिष्णुश्रेदिदशार्णमालवमहाराष्ट्रपरान्तं कुरू- न्सिन्धूनन्यतमांश्र दुर्गविषयान्दोवीर्यशत्तया हरिः । चौलुक्यः परमार्हतो विनयवाञश्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोSत्रवीदेकदा ॥ पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं तत्सर्व निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामितुर्व्या निषिद्धं धनमसुतमृतस्याथ मुक्त तथाह- च्चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्रया साङ्गं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा। मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय- च्छन्दोलंकृतिनाम संग्रहमुखान्यन्यानि शास्त्राण्यपि॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिबोधकृते [शलाका] पुंसां प्रकाशयत वृत्तमिदं त्रिषष्ठेः ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम्। वर्मोपदेशैकफलप्रधानं न्यवीविशच्चारु गिरां प्रपश्चे ।। जम्बूद्वीपारविन्दे कनकगिरिरसावश्रुते कर्णिकात्वं यावद्यावच्च धत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः । यावद्योमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेत- त्काव्यं नाम्ना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ।' इत्याचार्य हेमचन्द्रविरचित शलाकापुरुषचरितप्रशस्तितश्व चौलक्यकुमारपा- लराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः, 'नृपस्य जीवाभयदानडिण्डिमैमहीतले नृत्यति कीर्तिनर्तकी। श्रीहेमचन्द्रप्रभुपादपझ्मं वन्दे भवाब्धेस्तरणैकपोतम्। ललाटपट्टन्तरकान्तराढ्याक्षरावली येन मम व्यलोपि।। बोधयित्वा महाराजं देवलोकं जगाम यः । पश्चात्कुमारपालोऽयं शोकं गत्वा मुमूर्छ सः ॥ तदनु धैयमवलम्व्य धर्मध्यानं करोति।' इति हेमकुमारचरितकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश् कुमार. पालराज्यसमय एवाचार्यहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमि लयबाधमवगतम्. विशेषकथा तु प्रबन्धकोश-प्रबन्धचिन्तामणिभ्यामवगन्तव्या.

Page 18

कुमारपालराज्यसमयस्तु -- ओं नमः शिवाय। ब्रह्माद्वैतधिया मुमुक्षुभिरभिव्यातस्य बद्धाक्षरे- रिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतेः सवसमये ब्रह्माण्डपिण्डैर्नवैः कीडन्ती मणिकन्दुकैरिव सदा स्वच्छन्दमाह्नादते॥ गीर्वाणैवींतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकार्थ वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे। सद्ो वीरं चुलुक्याह्वयमसटजदिमं येन कीर्तिप्रवाहै: पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः॥ वंश: कोऽपि ततो बभूव विविधाश्चयैंकलीलास्पदं यस्माद्भूमिभृतोSपि वीतगणिता(णना): प्रादुर्भवन्त्यन्वहम्। छायां यः प्रथितप्रतापमहतीं दध्रे विपन्नोऽपि स- न्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम्॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मूल्यमुक्तामणिः क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत्। यो मूलं कलिदावदग्धनिखिलन्यायद्रमोत्पादने यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः ॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां विद्व द्वान्धवविप्रवन्दिभृतकव्यूहोपभोग्यां व्यधात्। यत्खङ्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रम- कीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे॥ सूनुस्तस्य वभूव भूपतिलकश्चामुण्डराजाइयो यद्न्धद्विपदानगन्धपवनाघ्राणेन दूरादपि। विभ्रश्यन्मदगन्धभग्नकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोSपि निर्णाशितः ॥ तस्माद्वलभराज इत्यभिधया क्ष्मापालचूडामणि- जज्ञे साहसकर्मनिर्मितचमत्कारः क्षमामण्डले। यत्कोपानलज्म्भितं पिशुनयत्येतत्प्रयाणश्रुति- क्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्रमः ॥

१. मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्-वि० सं० १०५३-१०६६.

Page 19

श्रीमहुलैभराजनामनृपतिभ्रातास्य राज्य दधे शृङ्गारेऽपि निषण्णधी: परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भङ्गरा सद्ो दर्शयति स्म लाटवसुधाभद्गस्वरूपं फलम्॥ भीमोऽपि द्विपतां सदा प्रणयिनां भोग्यत्वमासेदिवा- न्क्षोणीभारमिदं(मं) बभार नृपतिः श्रीभीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर- त्कीर्तिप्रीणितविश्वकर्णविवरः श्रीकर्णदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्मे पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगण: कालोपि विद्धः कलिः ॥ दृप्यन्मालवभूपबन्धनविधित्रस्ताखिलक्ष्मापति- भत्तयाकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सदः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थिति- जज्ञे श्रीजयसिंह देवनृपतिः सिद्धादिराजस्ततः ॥ वश्या वेश्म रसातलं च विलसद्भोगि. 'भोक्तुम ..... क्षत्राणि रक्षांसि च। यः क्षोणीधरयागिनीं च सुमहाभोगां सिषिवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः रे॥। संख्यातीतवितीणदाननिवहैः संपन्नपुण्योच्चयः क्रीडाक्रान्तदिगन्तराल· 1

11

"कुलभूप ...... । वलाम्ब' कींडाकोड इवोद्दधार वमुधां देवाधिदेवाज्ञया। देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणि- र्य: स्वर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्नैः ॥

१. दुर्लभराजराज्यम्-वि० सं० १०६६-१०७८. २. भीमदेवराज्यम्-वि० सुं०१०७८-९१२०. ३. कर्णदेवराज्यम्-वि० सं० ११२०-११५०. ४. सिद्धराजा- परपर्यायजयसिंहराज्यम्-वि० सं० ११५०-११९९. ५. कुमारपालराज्यम्-वि० सं० ११९३-१२३०.

Page 20

अणोराजनराधिराजहृदये क्षित्वक(व)वाणत्रज श्र्योतल्लोहिततर्पणादमदयच्चण्डीं भुजस्थायिर्नाम् । द्वारालम्बितमालवेश्वरशिरःपझ्मेन यश्चाहर- लीलापङ्कजसंग्रहव्यसनिनीं चौलुक्यराजान्वयः ॥ शुद्धाचारनवावतारसरणिः सद्धमकमक्रम- प्रादुर्भूतविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेलङ्गय- न्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू ...... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो नष्टोदीच्यनराधिपोज्जितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नः प्राच्यनरेन्द्रमौलिकमलैः प्रौष्प(प्रोद्य)तफलद्योतित- इछायां दूरमवर्धयन्निजकुले यस्य प्रतापद्रमः ॥ आचार: किल तस्य रक्षणविधेर्विन्नेशनिर्ना(्णा)शित- प्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं ...... वः। देवीमण्डलख्ण्डिताखिलरिपोर्युद्धं विनोदोत्सव: श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुर-

एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं .. ष्टता बिभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आव्रह्मादिऋषिप्रवर्तितमहायज्ञकरमोत्तम्भितै- यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोSत्रैव चतुर्युगेSपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विवुधैनीमान्तरं निर्मितम् ॥

शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्र खज्जीकृतो यस्मिन्रद्य कलि: स्वकालविहितोत्साहोऽपि नोत्स्पति।। सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमङलरवैर्वाचालतां प्रापिताः ।

१. अयमर्णोराजश् वीरधवलमहाराजपितामह इति कीर्तिकौमुदीकाव्यस्य नरेम्द्रवं- शवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.

Page 21

मार्गा एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूत्तस्य तथापि तीव्रतपसो बाधेति भत्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः ॥ अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम्। एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः । पादाक्रान्तरसातलो गिरिरिव श्लाध्यो महाभोगतः शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इच क्रव्यादनाथद्विषां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारय- न्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नस्वर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः प्राकार: सुधया सितोपलशिराः संलक्ष्यते वृत्तवान्॥ कामं कामसमृद्धिपूर करमारामाभिरामाः सदा

उत्सपद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनै- रत्रान्तश्र वहिश्व संप्रति भुवः शोभाद्भुतं विभ्रति।। लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम्। विभ्राजते नागरकाम्यवष्टिर्वप्रश्च चौलुक्यनराधिपक्च ।। यावत्पृथ्वी पृथुविरचिताशेषभूमृन्निवेशा यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोSयम्।

श्रीचौलक्यक्षितिपतियशःकीर्तनं वप्र एपः । एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नवन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम्। संवत् १२०८ वर्षे आश्विन शुदि २ गुरौ लिखितं नागरव्राह्मणपण्डितबालणेन ।।' इति काव्यमालापुस्तकान्तर्गतप्राचीन लेखमालायां G. Buhler Ph. D., Ih L. D., C. I. E. महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ (A. D

Page 22

V

  1. रूप: स्फुटमेव प्रतीयते. एवं च द्वादशी स्त्निस्तशतिका हेमचन्द्रसत्ताधारभूता वगम्यते. अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव, परंतु तन्निमितग्रन्थे- षु-अनेकार्थकोपः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममालाव्याख्या), अलंकार- चूडामणि: (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम्, छन्दोनुशा- सनम्, छन्दोनुशासनवृत्तिः, देशीनाममाला सव्ृत्तिः, [द्याश्रयकाव्यं सवृत्तिः,] धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टशेषः, [प्रमाणमीमांसा सवृत्तिः,] बलाबलसूत्रवृहद्दत्तिः, वालभापाव्याकरणसूत्रवृत्तिः, [योगशा- स्त्रम्,] विभ्रमसूत्रम्, लिङ्गानुशासनं सवृत्ति, शब्दानुशासनं सवृत्ति, शेषसंग्रहः, शेषसंग्र- हसारोद्ारः, एते ग्रन्था: Catalogus Catalogorum ग्रन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः. एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्वर जैनाचार्यश्री हेमचन्द्र कृतं काव्यानुशासनं खवोपज्ञम- स्माभिर्मुद्रयितुं दत्तं तदेतस्य ग्रन्थस्य मुद्रणाय शोधनसमये येषां मुहृदयहृदयानां पुस्त- कानि प्राप्तानि, तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते- १ काव्यानुशासनम् पुण्यपत्तनपुस्तकालयतः. १ काव्यानुशासनविवेक: प० ज्येष्ठाराममुकुन्दशर्मणाम्. १ " अस्मद्गहस्थम्. तदेवमनेकपुस्तकाधारेण शोधितमुद्रिते सव्याख्ये काव्यानुशासनेSस्मद्दोषादक्षरयोजकदो- पाद्वा यत्र कुत्रचनाशुद्धिः स्थिता जाता वा तत्र मुहृदयाः सौहार्देण शोधयिष्यन्ति।यतः- गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥ इति प्रार्थयतः पण्डित-शिवदत्त-काशीनाथौ।

Page 23

काव्यानुशासनविषयानुक्रमणिका मूलग्रन्थश्र।

विषयः । मूलग्रन्थ: । पृष्ठसंख्या। मङ्गलाचरणम्- १ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम्। सर्वभाषापरिणतां जैनीं वाचमुपास्महे॥ १ ॥ प्रस्तावना- २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानीं काव्यत्वं यथावदतुशिष्यते ॥२ ॥ प्रयोजनम्- २ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च। काव्यकारणम्- ४ प्रतिभास्य हेतु: । प्रतिभाभेदौ- ४ सावरणक्षयोपशममात्रात्सहजा। मत्रादेरोपाधिकी। प्रतिभासंस्कार :- व्युत्पत्यभ्यासाभ्यां संस्कार्या। व्युत्पत्ति :- लोकशास्त्रकाव्येपु निपुणता व्युत्पत्तिः । अभ्यास :- काव्यविच्छिक्षया पुनः पुनः प्रृत्तिरभ्यासः । शिक्षा- V सतोऽप्यनिबन्धोSसतोऽपि निबन्धो नियमशछायाद्यपजी- वनादयश्च शिक्षाः ।

Page 24

२ काव्यमाला।

विषयः । मूलग्रन्थः । पृष्ठसंख्या। काव्यस्वरूपम्- १६ प्रदोपौ सगुणौ सालंकारौ शब्दार्थो काव्यम्। गुणदोषलक्षणम्- १६ रसस्योत्कर्षापकर्षहेतू गुणदोषौ भत्तया शब्दार्थयोः । अलंकारलक्षणम्- १७ अङ्गाश्रिता अलंकाराः । रसोपकारप्रकार :- १७ तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः । शब्दार्थस्वरूपम्- २२

शब्दा:। मुख्यार्थलक्षणम्- २२ साक्षात्संकेतविषयो मुख्यः । गौणार्थलक्षणम्- २४

लक्ष्यार्थलक्षणम्- मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभ्यामारोपितो गौणः। २४ मुख्यार्थसंबद्धस्तत्वेन लक्ष्यमाणो लक्ष्यः । व्यङ्गचार्थलक्षणम्- २५ मुख्याव्वतिरिक्तः प्रतीयमानो व्यङ्ो ध्वनिः । व्यङ्गचार्थभेदा :- ३८ व्यङ्गयः शब्दार्थशक्तिमूलः । शब्दशक्तिमूलव्यङ्गचार्थ :- ३९ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्या- र्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्व व्यञ्ञकत्वे शब्दशक्तिमूलः पदवाक्ययोः ।

Page 25

काव्यानुशासनविषयानुक्मणिका।

विषयः । मूलग्रन्थ: । पृष्ठसंख्या। अर्थशक्तिमूलव्यङ्गचार्थ :-

इति प्रथमोऽध्यायः ।

रसलक्षणम्- १६ विभावानुभावव्यभिचारिभिरभिव्यक्त: स्थायी भावो रसः। रसभेदा :- ६७ शृ ङ्गारहास्यकरुणा रौद्रवीरभयानका वीभत्साद्भुतशान्ता नव रसाः। शृङ्गाररस :- ६८ स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः । हास्यरस :- ७४ विकृतवेषादिविभावो नासास्पन्दनाद्यनुभावो निद्रादिव्य- भिचारी हासो हास्य: । करुणरस :- इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखव्यभिचारी ७६

शोक: करुण: । रौद्ररस :- ७६ दारापहारादिविभावो नयनरागाद्यनुभाव औध््यादिव्य- भिचारी क्रोधो रौद्र: । वीररस :- ७७ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीर:। भयानक :- ७८ विकृतस्वरश्रवणादिविभावं करकम्पाद्यतुभावं शङ्कादिव्य- भिचारि भयं भयानकः ।

Page 26

४ काव्यमाला।

विषयः । मूलभ्रन्थः । पृष्टसंख्या। बीभत्सरस :- ७९ अहृद्यदर्शनादि विभावाङ्गसंकोचाद्यनुभावापस्मारादिव्यभि- चारिणी जुगुप्सा वीभत्सः । अद्भुतरस :- ७९ दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्य- भिचारी विस्मयोडद्ुतः । शान्तरस :- वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः । स्थायिभावा :- ८३ रतिहासशोककोधोत्साहभयजुगुप्साविस्मयशमाः सायिनो भावाः। व्यभिचारिभावा :- ८४

सात्त्विकभावा :- ९९

साच्विकाः । रसाभासा :- १०१ नरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ। इति द्वितीयोऽध्यायः ।

काव्यदोष :- रसादेः स्वशब्दोक्ति: कचित्संचारिवर्ज दोपः। ११०

Page 27

काव्यानुशासनविषयानुक्रमणिका ।

विषयः । रसदोषा :- मूलग्रन्थः । पृष्ठसंख्या। ११८ विभावानुभावक्ेशव्यक्ति: पुनः पुनर्दीप्त्यकाण्डप्रथाच्छेदा-

पददोषा :- निरर्थकासाधुत्वे पदस्य। १२६

वाक्यदोषा :- १३७

पदवाक्यदोषा :- १५७

शविरुद्धबुद्धिकत्वान्युभयोः । अर्थदोषा :- १८४

यमानियम विशेषसामान्यविध्यनुवादत्वान्यर्थस्य। इति तृतीयोऽध्यायः ।

गुणा :- १९४ माधुर्योजःप्रसादास्त्रयो गुणाः। माधुर्यगुण :- २०१ द्रुतिहेतुर्माधुर्य शृङ्गारे। माधुर्यव्यञ्जका :- २०१ तत्र निजान्त्याक्ान्ता अटवर्गा वर्गा हस्वान्तरितौ रणावस- मासो मृदुरचना च। ओजोगुण :- २०२ दीप्तिहेतुरोजो वीरवीभत्सरौद्रेपु क्रमेणाधिकम्।

Page 28

काव्यमाला।

विषयः । मूलग्रन्थ: । पृष्ठसंख्याः । ओजोव्यञ्जका :- २०३ आद्यतृतीयाक्रान्तौ द्वितीयतुर्यो युक्तो रेफस्तुल्यश्च टवर्गशपा- वृत्तिदैर्ध्यमुद्धतो गुम्फश्चात्र। प्रसादगुण :- २०३ विकासहेतु: प्रसाद: सर्वत्र। प्रसादव्यञ्ञका :- २०३ इह श्रुतिमात्रेणार्थप्रत्यायका सर्ववृत्तिगुम्फाः। गुणान्यथात्वम्- २०४ वक्तृवाच्यपबन्धौचित्याद्वर्णादीनामन्यथात्वमपि। इति चतुर्थोऽध्यायः ।

शब्दालंकारा:।

अनुप्रास :- २०६

लाटानुप्रास :- २.०७ तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम्। यमकम्- २०८ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिकमैक्ये यमकम् । यमकस्थानम्- २१० तत्पादे भागे वा। चित्रकाव्यम्- २११ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । श्रलेष :- २२७ अर्थभेदभिन्नानां भग्गाभङ्गाभ्यां युगपदुक्ति: श्लेषः। वक्रोक्ति :- २३४ उक्तस्यान्येनान्यथा श्लेपादुक्तिर्वक्रोक्ति: ।

Page 29

विषयः । मूलग्रन्थ: । पृष्ठ संख्याः ।

पुनरुक्ताभास :- २३८ भिन्नाकृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पश्चमोऽध्यायः ।

अर्थालंकाराः। उपमा- २३९ हृद्यं साधर्म्यमुपमा। उपमाकारणानि- २४१ सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च। उत्प्रेक्षा- २४७ असद्धर्मसंभावनमिवादिद्योत्योत्मेक्षा । रूपकम्- २४९ सादृश्ये भेदेनारोपो रूपकमेकानेकविपयम् । निदर्शनम्- २१२ इष्टार्थसिद्ध्यँ द्ृष्टान्तो निदर्शनम्। दीपकम्- २५४ प्रकृतापकृतानां धर्मैक्यं दीपकम्। अन्योक्ति :- २५६ सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्ति: । पर्यायोक्तम्- २६२ व्यङ्गचस्योक्ति: पर्यायोक्तम्। अतिशयोक्ति :- २६४ विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्ति:।

Page 30

काव्यमाला। V

विषयः । मूलग्रन्थ: । पृष्ठसंख्याः । आक्षप :- २६७ विवक्षितस्य निषेध इवोपमानस्याक्षेपश्वाक्षेपः । विरोध :- २६९ अर्थानां विरोधाभासो विरोधः । सहोक्ति :- २७३ सहार्थवलाद्धर्मस्यान्वयः सहोक्ति:। समासोक्ति :- २७३ श्िष्टविशेषणैरुपमानधीः समासोक्तिः । जाति :- २७१ स्वभावाख्यानं जाति: । व्याजस्तुति :- २७६ स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । श्रेष :- २७६ वाक्यार्थस्यानेकार्थता श्लेपः । व्यतिरेक :- २७७ उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधि- क्यं व्यतिरेकः । अर्थान्तरन्यास :- विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्तर- २७८

न्यास:। ससंदेह :- २७९ स्तुत्यै संशयोक्ति: ससंदेहः । अपहुति :- २८१ प्रकृतापकृताभ्यां प्रकृतालापोऽपहुतिः । परावृत्ति :- २८२ पर्यायविनिमयौ परावृत्तिः ।

Page 31

काव्यानुशासनविषयानुक्रमणिका।

विषयः । मूलग्रन्थ: । पृष्ठसंख्याः । अनुमानम्- २२ हेतोः साध्यावगमोऽनुमानम्। स्मृतिः- २८४ सदृशदर्शनात्स्मरणं स्मृतिः । भ्रान्ति :- २८४ विपर्ययो भ्रान्तिः । विषमम्- २८४ क्रियाफलाभावोऽनर्थश्र विषमम् । समम्- २८४ योग्यतया योग: समम् । समुच्चय :- हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्च समु- २८५

चचयः । परिसंख्या- पृष्टेऽपृष्टे वान्यापोहपरोक्ति: परिसंख्या। २८६

कारणमाला- २८८ यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । संकर :- २८९ स्वातन्याङ्गत्वसंशयैकपद्यैरेपामेकत्र स्थितिः संकरः। इति पष्टोऽध्यायः । नायकादिलक्षणानि। नायक :- २९१ समग्रगुण: कथाव्यापी नायकः । नायकगुणा :- २९१

सत्वजास्तह्णाः।

Page 32

१० काव्यमाला।

विषयः । मूलग्रन्थ: । पृष्ठसंख्याः ।

नायकभेदा :- धीरोदात्तल लितशान्तोद्धतभेदात्स चतुर्धा। नायिकालक्षणम्- ३०१ तद्गुणा सवपरसामान्या नायिका त्रेधा। स्त्रीणां स्वाभाविकालंकारा :- ३०८

सच्वजा विंशतिः स्त्रीणामलंकाराः । इति सप्तमोऽध्यायः ।

प्रबन्धात्मकाः काव्यभेदा :- २१६ काव्यं प्रेक्ष्यं श्रव्यं च । प्रेक्ष्यं विभजते- २१७ प्रेक्ष्यं पाठ्यं गेयं च। पाठ्यं भिनत्ति- ११७ पाठ्यं नाटकपकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्स- ष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि । गेयं विभजते- ३२७

सकरासकगोष्ठीश्रीगदितरागकाव्यादि । प्रक्ष्यमुक्त्वा श्रव्यमाह- ३२९ श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च। अ्रन्थसमाप्ति :- ३४१

इत्यष्टमोऽध्यायः ।

Page 33

काव्यमाला।

आचार्यहेमचन्द्रविरचितं

काव्यानुशासनम्। सवोपज्ञालंकार चूडामणिसंज्ञकवृत्तिसमेतम्।

प्रथमोऽध्यायः । प्रणम्य परमात्मानं निजं काव्यानुशासनम्। आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते॥ ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्र- णिधत्ते- अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम्। सर्वभाषापरिणतां जैनीं वाचमुपास्महे॥ १॥ रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्धो- पादेयतामाह। उच्यते इति वाक्, वर्णपदवाक्यादिभावेन भाषा द्रव्यपरि- णतिस्तामुपास्महे। उपासनं योगप्रणिधानम् । अकृत्रिमखवादून्यनाहार्य- माधुर्याणि पदानि नामिकादीनि यस्यां सा तथोक्ता। स्वच्छस्वादुप्र- भृतयो हि गुणमात्रवचना अपि दृश्यन्ते। अथ वा अकृत्रिमाण्यसंस्कृ- तान्यत एव स्वादूनि मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः। उक्तं हि-'बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्किणाम्। अनुग्रहार्थ

विवरीतुं क्वचिहृब्धं नवं संदर्भितुं क्वचित्। काव्यानुशासनस्यायं विवेक: प्रवितन्यते॥

१. वृत्तिसमेतस्यैव मूलग्रन्थस्य नाम काव्यानुशासनमितीति प्रतीयते. काव्यानु- शासनपदमेव वा स्वव्याख्यावाच कम्.

Page 34

४ काव्यमाला।

'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ।।' इति। धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेम्योऽप्यनर्थनिवारणं प्रकारान्तरे- णापीति न काव्यप्रयोजनतयास्माभिरुक्तम् ।। प्रयोजनमुक्त्वा काव्यस्य कारणमाह- प्रतिभास्य हेतुः । प्रतिभा नवनवोललेखशालिनी प्रज्ञा। अस्य काव्यस्य। इदं प्रधानं कार- णम्। व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते ॥ सा च सहजौपाधिकी चेति द्विधा। तत्र सहजामाह- सावरणक्षयोपशममात्रात्सहजा। सवितुरिव प्रकाशस्वभावस्यात्मनोऽअ्रपटलमिव ज्ञानावरणीयाद्याचरणं तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्र-

पुत्र प्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिणः काव्यात् [स]हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया। हृदयानुप्रवेशश्च रसास्वादमय एवासवरसश्चतुर्वर्गोपाय- व्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोSपनत इत्येवं रसोचितविभावादयुपनिबन्धे रसास्वादवैवस्य(श्य)मेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु-'चरां बाल्येडिस्तां(?) तरुणिमनि यूनः परिणतावपी- प्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम्। त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रेषु त्रिः क्वचिदपि सतीलाञ्छनमभूत् ।I' इत्यादिकाव्यमसदुपदेशकं दृश्यते। व्युत्पत्तिरपि च तस्मात्तादृग्विषया संभाव्यते। ततश्च तदनुपदेश्यमित्यायातम्। सत्यम्। अस्त्ययमुपदेशः । किं तु निषेध्यत्वेन, न विधेयत्वेन । य एवंविधा विधयः परस्त्रीषु पुंसां संभवन्ति तानवबुध्य परिहरेदिति कवीनां भावः ॥ एवमानन्दयशश्चतुर्वरगोपाय- व्युत्पत्तीनां काव्यप्रयोजनतामसाधारणीं प्रतिपाद्य यत् कैश्चित् 'श्रीहर्षादेर्धावकादीना-

जनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति-धनमनैकान्तिकमिति। न हि काव्याद्धनं भवत्येवेत्यनैकान्तिकमित्यर्थः । तथा चाह-'उपशमफलाद्विदाबीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भुतम्। न नियतफलाः कर्तुर्भावाः फलान्तरमी- शते जनयति खल व्रीहेबीजं न जातु यवाङ्कुरम् ॥' इति ॥ शास्त्रेभ्य इति। चाण-

Page 35

काव्यानुशासनम् ।

तिभा। मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम्। सहजप्रतिभावलाद्धि गुणभृतः सदो द्वादशाङ्गीमासूत्रयन्ति स्म ॥ द्वितीयामाह- मत्रादेरौपाधिकी। मन्त्रदेवतानुग्रहादिप्रभवौपाधिकी प्रतिभा। इयमप्यावरणक्षयोपशम- निमित्तैव। दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते ॥ सा चेयं द्विधापि प्रतिभा- व्युत्पत्यभ्यासाभ्यां संस्कार्या। व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाही- नस्य विफलौ व्युत्पत्यभ्यासौ।। व्युत्पत्तिं व्यनक्ति- लोकशास्त्रकाव्येपु निषुणता व्युत्पत्तिः। लोके स्थावरजङ्गमात्मके लोकवृत्ते च शास्त्रेषु शब्दच्छन्दोनुशासनाभि- धानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्क नाट्यार्थकामयोगादिग्रन्थेपु का-

क्यादिप्रणीतेभ्यः ॥ प्रकारान्तरेणापीति। मन्र्रानुष्ठानादिना ॥ लोके इति। इह लोकशव्देन स्थावरजङ्गमात्मको लोकः। तद्यवहारश्चाभिधीयत इत्यर्थः।स च देशकाला- दिेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये रसदोपे प्रपञ्चयिष्यते॥ शब्देत्यादि। शब्दा- चुशासनं व्याकरणं ततो हि शब्दशुद्धिः। तन्नैपुण्यं यथा-'द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः। तत्पुरुष कम धारय येनाहं स्यां बहुव्रीहिः ॥' छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वृत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एव निश्चयः । तन्नैपुण्यं यथा-'उद्भिह्ी च संस्रतौ स्याद्भुवरओ्गुरुनो भवेद्यदि क्षितौ श्रीजिनेन्द्रशा- सनम्'॥ अभिधानकोशो नाममाला। ततो हि पदार्थनिश्चयः । अपूर्वाभिधान- लाभार्थत्वं प्रयुक्तमभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात्। यदि तर्हि प्रयुक्तं प्रयु- ज्यते किमितिपदस्य संदिग्धार्थत्वमाशङ्कितम्, तत्र सामान्येनार्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः स्त्रियाः पुरुषस्य वेति संशयः । 'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपदिश्यते इति॥ अपौरुपेयवचनं श्रुतिः। यथा-'उरवशीहाप्सराः पुरुरवसमैडं चकमे।' तन्नै- पुण्यं यथा-'चन्द्राद्वुधः समभवद्भगवान्नरेन्द्रमादं पुरूरवसमैलमसावतस्त(सूत)।

Page 36

६ काव्यमाला।

तं चाप्सरा: स्मरवती चकमे किमन्यदत्रोवैशी स्मितवशीकृतशक्रचेताः ॥' श्रुत्यर्थस्मर- णात्स्मृतिः । यथा-'वह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना। संभावितैकदेशेन देयं यदभियुज्यते ॥।' तन्नैपुण्यं यथा-'हंस प्रयच्छ मे कान्तां गतिस्तस्याश्र या हता। संभावितैकदेशेन देयं यदभियुज्यते।' वेदाख्यानोपनिबन्धनप्रायं पुराणम्। यथा- 'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत। भयभ्रान्तैः सुरैश्वके त्रिसंध्यं त्रिर्दिशे नमः ॥' तन्नैपुण्यं यथा-'स संचरिष्णुर्भुवनत्रयेऽपि यां यदच्छयाशिश्रियदाश्रयः श्रियाम्। अकारि तस्यै मुकुटोपलस्खलत्कारैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥' पुराणप्रति- भेद एवेतिहासः । यथा-'न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥' तन्नैपुण्यं यथा-'मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम्। जगजिजिघत्सातुरकण्ठपद्धतिर्न बालिनैवाहिततृप्तिरे- ककः ॥' आप्तवचनमागमः । तत्र शैवागमनैपुण्यं यथा-'घोरघोरतरातीतब्रह्म- विद्याकलातिगः । परापदपदव्यापी पायाद्वः परमेश्वरः ॥' बौद्धागमनैपुण्यं यथा-'क- लिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वा: परमसुखेन सुखावनीं प्रयान्तु ॥' एवमागमान्तरेष्वपि ॥ तर्कः षदप्रकारः । तत्रार्हतो यथा-शरीरपरिमाण आत्मा। अन्यथा शरीराफल्यमात्माफल्यं वा। तन्नै- पुण्यं यथा-'शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेति(?) यजातः सर्वाङ्पुलकोऽस्य मे ॥' बौद्धीयो यथा-विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सू- चयेयुः । तन्नैपुण्यं यथा-'भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति। न न न न म म मा मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥' लौकायतिको यथा-भूतेभ्यश्चैतन्यं मद- शक्तिवत्। तन्नैपुण्यं यथा-'बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कले- वरात्। अपि मदतिहिते(?) च चिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥I' सांख्यीयो यथा-'नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्त- त्वदर्शिभिः ॥' तन्नैपुण्यं यथा-'य एते यज्वानः प्रथितमहसो येऽप्यवनिपा मृगक्षो- (गाक्ष्यो) याश्चैताः कृतमपरसंसारकथया। अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरूपा विलसति मृदेषा भगवती ।।' न्यायवैशेषिकीयो यथा-स किं सामग्रीक ईश्वरः कर्तेति पूर्वपक्षे निरतिशयैश्वर्यस्य कर्तृत्वमिति सिद्धान्तः । तन्नैपुण्यं यथा-'किमीहः किकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सजति कि- मुपादानमिति च। अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुख- रयति मोहाय जगतः ॥' नाट्यशास्त्रनैपुण्यं यथा-'आतन्वत्सरसां स्रूपरच- नामानन्दिबिन्दूद्ूयं भावग्राहिशुभप्रवेशकगुणं गम्भीरगर्भस्थिति। उच्चैर्व्रृत्तिसपुष्करव्यति- करं संसारविष्कम्भकं भिद्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' अर्थ- १. 'निहिते' इति भवेत्,

Page 37

काव्यानुशासनम्। ७

व्येपु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः लोकादिनिपुणता। संस्कृतप्रतिभा हि तदनतिक्रमेण काव्यमुपनिबन्नाति॥

शास्त्रनैपुण्यं यथा मुद्राराक्षसनाटके। कामशास्त्रनैपुण्यं यथा-'अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशपुतकम्। तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ।I' योगशास्त्रनैपुण्यं यथा-'पृथुशास्त्रकथाकन्थारोमन्थेण वृथान्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्ञैर्ज्योतिरन्तरम् ॥' आदिग्रहणादायुर्वदशास्त्रनैपुण्यं यथा- 'अङ्गे चन्दनपङगपङ्गजबिसच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटः कंस्यः सपी- कस्य नः। श्वासासंवृतसारहाररुचयः संभिन्नपीनांशुकाजातः प्रागनिदानवेदनमहारम्भः स तस्या ज्वरः ॥' ज्योतिःशास्त्रनैपुण्यं यथा-'द्यामासौकयतां कलाः कलयतां छायां समादिन्वतां केशः केवलमङ्गलीर्गणयतां मौहूर्तिकानामयम्। धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञाचरणप्रियानयनयोः सीमानमेति प्रिया ॥' गज- लक्षणनैपुण्यं यथा-'कर्णाभ्यर्ण विकीर्णचामरमरुद्विस्तीर्ण निःश्वासवाञशङ्गच्छत्रविराजि- राज्यविभवद्वेषी निलीनेक्षणः । स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्ेशोष्मणा शुष्यति ॥' तुरगशास्त्रनैपुण्यं यथा-'आवर्तशोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः। गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकति कर्तु- मिवोद्यताब्धि: ॥' रत्नपरीक्षानैपुण्यं यथा-'द्वौ वज्रवर्णो जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ। यः स्याजपाविद्ुमभङ्गशोणो यो वा हरिद्रारससंनिकाशः ॥' धातुवाद- नैपुण्यं यथा-'नखदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्ड- भावः। बलवति सति यस्मिन्सार्धमावर्त्य हस्ता रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥' दूतनैपुण्यं यथा-'यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चास्ते। इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह बहुकलः कीडति प्राणिशारैः ॥' इन्द्रजालनैपुण्यं यथा-'एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्देत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्ैश्चतुभिः । एपोऽप्यैरावणस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये तृत्यन्ति व्योम्ि चैताश्चलचरणरण- तूपुरा दिव्यनार्य:॥' चित्रनैपुण्यं यथा-'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः। समनिम्नोन्नतानीव चित्रकर्मविदो जनाः ।' धनुर्वेदनैपुण्यं यथा-'आर्याशास्त्र- घनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः । निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥' एवमन्यदपि॥ लोकादिनिपुणता। संस्कृतप्रतिभा हीति। यदाह- 'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यन्न काव्याङ्गमहाभारो

१. 'शशी कस्य' इति भवेत्. २. 'दामालोकयतां' इति भवेत्. ३. 'समादित्सतां' इति भवेत्.

Page 38

काव्यमाला। V

अभ्यासं व्याचष्टे- काव्यविच्छिक्षया पुनः पुनः प्रतृत्तिरभ्यासः । काव्यं कर्तु जानन्ति विचारयन्ति वा ये ते काव्यविदः कविसहृदयाः। वेत्तेर्विन्तेश्वावृत्त्या रूपम्। तेषां शिक्षया वक्ष्यमाणलक्षणया काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः। अभ्याससंस्कृता हि प्रतिभा काव्यामृतकाम- धेनुर्भवति। यदाहुः-'अभ्यासो हि कर्मसु कौशलमावहति। नहि सकृन्नि- पतितमात्रेणोदबिन्दुरपि ग्रवणि निम्नतामादधतीति शिक्षयेत्युक्तम्' इति॥ शिक्षां लक्षयति- सतोऽप्यनिबन्धोऽसतोऽपि निवन्धो नियमश्छायाद्युपजीवना- दयश्च शिक्षाः। सतोडपि जातिद्रव्यगुणक्कियादेरनिबन्धनम्, असतोऽपि जात्यादेरेव निब- न्धनम्, नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम्, छायायाः प्रतिबि- म्बकल्पतया आलेख्यप्रख्यतया तुल्यदेहितुत्यतया परपुरप्रवेशप्रतिमतया

गुरुः कवेः ॥' इति ॥ छायाया इति। छायाया अर्थादर्थस्य । तदुपजीवनं क्वचि- त्प्रतिबिम्बतुल्यतया। यथा-'ते पाण्डवाः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृतांशुकणसेकसुखप्ररूढैयेरङ्कुरैरिव विराजति कालकूटः ॥' यथा च-'जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाह्यः। गलद्गङ्गाम्वुसंसिक्तकाल- कूटाङ्कुरा इव ॥' यदाह-'अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र। तदपरमा- र्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ।I' क्वचिदालेख्यप्रख्यतया। तत्रैवार्थे यथा- 'जयन्ति धवलव्यालाः शंभोर्जूटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव ।' यदाह-'कियतापि वस्तुसंस्कारकर्मणा वस्तु भिन्नवद्भाति। तत्कथितमर्थचतुरैराले- ख्यप्रख्यमिति काव्यम् ॥' क्वचित्तुल्यदेहितुल्यतया। यथा-'अवीनादौ कृत्वा भ- वति तुरगो यावदवधि: पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम्। अमीषां निर्माणं किमपि तदभूद्द्वकरिणां वनंवा क्षोणीभृद्भवनमथ वा येन शरणम्॥' अत्रार्थे-'प्रति- गृहमुपलायामेक एव प्रकारो मुहुरुपकरणत्वादर्थिता: पूजिताश्च। स्फुरति ह नु मणीनां किं तु तद्धाम येन क्षितिपतिभवने वा खाकरे वा निवासः ॥' यदाह-'विषयस्य यत्र भेदेऽप्यभेदबुद्धिर्नितान्तसादृश्यात्। तत्तुल्य देहितुल्यं काव्यं बध्न्ति सुधियोऽपि ॥' क्वचित्परपुरप्रवेशप्रतिमतया। यथा-'यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं १. 'कल्पतया' इति मूलपुस्तके उपलभ्यते.

Page 39

काव्यानुशासनम्।

प्रावृषि स्फूर्जद्गर्जित निर्जिताम्वुधिरिव स्फाराभ्रव्ृन्दाकुलम्। उत्सष्टप्रसभाभिषेणनभय- स्पष्टप्रमोदाश्ुभिः किंचित्कुश्चितलोचनाभिरसकृद्घाताः कदम्बानिलाः ॥' अत्रार्थ- 'आच्छिद् प्रियतः कदम्बकुसुमं यस्यारिदारैनवं यत्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत्। हे मातः परिचुम्बितं नयनयोन्यस्तं हृदि स्थापितं सीमन्ते निहितं कथं- चन ततः कर्णावतंसीकृतम् ॥' यदाह-'मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो- डनेकः । तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥' यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम्। पदोपजीवनं यथा-'दूराकृष्टशिलीमुखव्यतिकराननो कि किरातानिमाना- राध्यावृतपीतलोहितमुखान्किं वा पलाशानपि। पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥'यथा च-'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम्। स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥' पादोपजीवनं यथा-'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त(त्व)रा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम्। संसारे घटिकाप्रवाहविग- [ल]द्धारासमे जीविते को जानाति पुनस्त्वया सह मम स्याद्ा न वा संग- मः॥'यथा च-'हंहो स्न्िग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैमया गन्तव्यं कतिचि- द्दिनानि भवता नास्मत्सकाशात्क्वचित् । त्वत्सङ्ेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगम: ॥'पादद्वयोपजीवनं यथा-'तत्तावदेव शशिनः स्फुरितं महीयो यावत्र तिग्मरुचिमण्डलम- भ्युदेति। अभ्युद्रते तुहिनधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेष: ॥' यथा च-'तत्तावदेव शशिनः स्फुरितं महीयो यावन्र किंचि- दपि गौरितरं हसन्ति। ताभि: पुनर्विहसिताननपङ्कजाभिरिन्दोः सिताभ्रशकलस्य च को विशेष:॥' पादत्रयोपजीवनं यथा-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे। न्यासापह्नवने चैव दिव्या संभवति करिया ॥' यथा चोत्तरा- र्व-'तन्वङ्गी यदि लभ्येत दिव्या संभवति करिया ॥' पादचतुष्टयोपजीव- ने तु परिपूर्ण चौर्यमेवेति न तन्निर्दिश्यते । आदिग्रहणात्पदैकदेशोपजीवनम्। यथा-'नाश्चय यदनार्याप्तावस्तप्रीतिरयं मयि। मांसोपयोगं कुर्वीत कर्थ क्षुद्रं हितो जनः ॥' यथा च-'कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्वनकारणाद्यि तनोवायोर्विकारादयम्। तत्त्वं शुकसुगन्धिमाहितरसं स्निग्धं भजसवादरान्मुग्धे मांसरसं त्रुवन्निति तया गाढं ससालिङ्गितः ॥' उत्तयु- पजीवनं यथा-'ऊरुदून्दं सरसकदलीकाण्डसब्रह्मचारी' इति। यथा च-'ऊ- रुदूयं कदलकन्दलयोः सवंशश्रोणिः सि(शि)लाफलकसोदरसंनिवेशा। वक्षः स्तनद्वितयताडितकुम्भशोभ सब्रह्मचारि शशिनश्र मुखं मृगाक्ष्याः ॥' उक्तयोर्य- थान्तरसंक्रान्ता न प्रत्यभिज्ञायते सवदत्ते च (?)॥ नन्विदमुपदेश्यमेव न भवति। यदित्थं कथयन्ति-'पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते। अपि पुत्रेपु पौत्रेषु २

Page 40

१० काव्यमाला।

चोपजीवनम्, आदिशब्दात्पदपादादीनां च काव्यान्तराद्यथौचित्यमुप- जीवनम्। पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः । तत्र

वाक्चौर्ये न विशीर्यते ।' इत्याशङ्याह-यथौचित्यमिति। अयमप्रसिद्धः प्रसिद्धि- मानहम्, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्ान्तमिदम् अस्य संविधानकं प्रक्रान्तम् मम, गुडूचीवचनोऽयं मृद्वीकावचनोऽहम्, अनादृतभाषाविशेषोऽयम् आदृतभाषावि- शेषोऽहम्, प्रशान्तज्ञातृकमिदं देशान्तरकर्तृकमिदम्, उत्सन्ननिबन्धनमूलमिदं म्लेच्छि- तकोपनिबद्धमिदम्, इत्येवमादिभिः कारणैः शब्दहरणार्थहरणे चाभिरमेत्येवन्ति- सुन्दरी (?)। आहुश्च-'नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति विना वाच्यं यो जानाति निगूहितुम् ॥ उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्कोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचन नूतनम्। उल्लिखेतिकचन प्राच्यं दृश्यतां स महाकविः ॥' समस्यापूरणाद्या इति। तत्र पादसमस्या यथा-'मृगाति्सिहः पलायते' इति, 'समुद्रादूलिकच्छिते' इति चैतौ चतुर्थो पादौ। यथाक्रममन्यत्पादत्रयं यथा-'मदमन्थरमातङ्गकुम्भपाटनलम्पटः। दैवे पराङुखे कष्टं मृगात्सिहः पलायते ॥' 'सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शराङ्गारैःसमुद्राद्धूलिकच्छिते ॥।'॥ पादद्वयसमस्या यथा-'चव्यचित्र- कनागरैः,' 'लङ्कायां रावणो हतः' इति द्वितीयचतुर्थो पादौ। प्रथमतृतीयौ तु-'मुमूर्षो किं तवाद्यापि चव्यचित्रकनागरः। स्मर नारायणं येन लङ्कायां रावणो हतः ॥ 'किमपि किमिह दृष्ट स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित्। भ्रमति विहगसार्थानित्थमापृच्छ्यमानो रजनिविरहभीतश्चक्रवाको वराकः ।।' यथा च-'जयति सितविलोलव्यालयज्ञोपवीती घनकपिलजटान्तभ्रन्तिगङ्गाजलौघः । अविदितमृगचिह्रामिन्दुलेखां दधानो परिणतशितिकण्ठश्यामकण्ठः पिनाकी ॥' यथा च-'कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चकवाकः । उद- यमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥' इति वृत्तत्र- यात्प्रथमद्वितीयचतुर्थपादत्रयसमस्यायास्तृतीयपादेन पूरणं यथा-'किमपि किमिह दष्ट स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः।निवसति स पिनाकी यत्र यायात्तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥' आ-

बिन्दुवृन्दम्। इन्दिन्दिरान्दोलितमन्दमन्दनिष्पन्दनन्दन्मकरन्दवृन्दम् ॥' पुरातनवृत्तेषु पदपरावृत्त्याभ्यासो यथा-'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये। जगतो जनकौ वन्दे शर्वाणीशशिशेखरौ ॥' एवं महाकाव्यार्थचर्वणपरकृतकाव्यपाठाद्याः शिक्षा अप्यूह्याः । किं च-'स्वास्थ्यं प्रतिभाभ्यासो भक्तिविद्वत्कथा बहुश्रुतता। स्मृतिदार्व्यमनिर्वेदश्व

Page 41

काव्यानुशासनम् । ११

सतोडपि सामान्यस्यानिबन्धो यथा-मालत्या वसन्ते, पुप्पफलस्य चन्दनद्रुमेपु, फलस्याशोकेपु। द्रव्यस्य यथा-कृष्णपक्षे सत्या अपि ज्योत्सायाः, शुक्कपक्षे त्वन्धकारस्य। गुणस्य यथा-कुन्दकुडलानां कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्र हरितत्वस्य, प्रियङ्गुपुषप्पाणां तु पीतत्वस्य। क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, निशा- निमित्तस्य शेफालिकाकुसुमानां विस्त्रंसस्य च।। असतोऽपि सामान्यस्य निबन्धो यथा-नदीपु पदमनीलोत्पलानाम्, ज-

मातरोऽष्टौ कवित्वस्य ॥' इति । मालत्या वसन्त इति। 'अनिबन्धः' इति पूर्व स्मात्प्रत्येकमभिसंबध्यते। मालत्या वसन्तेSनिवन्धो यथा-'मालतीविमुखश्वैत्रो विकासी पुष्पसंपदाम्। आश्चर्य जातिहीनस्य कथं सुमनसः प्रियः(याः) ॥' पुष्पफलस्य चन्दनद्रुमेष्वनिबन्धो यथा-'यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः। निजवपुषैव परेषां तथापि संतापमपनयति ॥' फलस्याशोकेष्वनिवन्धो यथा-'दैवा- यत्ते हि फले किं क्रियतामेकमत्र तु वदामः। नाशोकस्य किसलयैर्व्ृक्षान्तरपल्लवा- स्तुल्याः ॥' कृष्णपक्षे ज्योत्स्नाया अनिवन्धो यथा-'ददृशाते जनैस्तत्र यात्रायां सकुतू हलैः । वलभद्रप्रलम्वन्नौ पक्षाविव सितासितौ ।।' शुकपक्षेऽन्धकारस्यानिवन्धो यथा-'मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुकयोः । तत्रैकः शुकतां यातो यशः पुण्यैरवाप्यते ।' कुन्दकुञलानां कामिदन्तानां च रक्तत्वस्यानिवन्धो यथा-'द्योतितान्तःप्रभैः कुन्दकुङलाग्रदतः स्मितैः । स्त्नपितेवाभवत्तस्य शुद्वर्णा सरसती ।' कमलमुकुलानां हरितत्वस्यानिबन्धो यथा-'उद्ण्डोदरपुण्डरीकमुकुल- भ्रान्तिस्पृशा दंट्रया ममनां लावणसैन्धवेत(म्भ)सि महीमुद्यच्छतो हेलया। तत्कालाकु- लदेवदानवनुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ।' प्रियङ्ग- पुष्पाणां पीतत्वस्यानिबन्धो यथा-'प्रियङ्गुश्याममम्भोधि(?)रन्त्रीणां स्तनमण्डलम्। अलंकर्तुमिव स्वच्छाः स्तुते मौक्तिकसंपदः ॥' दिवा नीलोत्पलानां विकासस्यानिबन्धो यथा-'आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे। जातः पुनर्विकसनावसरोऽयमस्येत्युक्त्वा सखी कुवलयं श्रवणे चकार ॥' निशानिमित्तस्य शेफालिकाकुसुमानां विस््रंसस्यानिबन्धो यथा-'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्ं दिवसं सवित्रा। इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥' नदीष्वित्यादि। 'निबन्धः' इति प्रत्येकमभिसंवध्यते। तत्र नदीपु पद्मनिवन्धो यथा-दीर्घीकुवन्बहु मदकलं कूजितं सारसानां प्रत्यूपेपु स्फुटितकमलामोदमैत्री- कपायः । यत्र स्रीणं हरति सुरतग्लानिमझ्ानुकूल: सिप्रावातः प्रियतम इव प्रार्थना-

Page 42

१२ काव्यमाला।

लाशयमात्रेऽपि हंसादीनाम्, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति। द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य, सूचीभेद्यत्वस्य च । ज्योत्स्नायां च कु- म्भोपवाह्यत्वादेः । गुणस्य यथा-यशोहासादौ शौकचस्य, अयशःपा- पादौ कार्ष्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य। क्रियाया यथा-चकोरेपु चन्द्रिकापानस्य, चक्रवाकमिथुनेपु निशि भिन्नतटाश्रयणस्य ।।

चाटुकार: ॥' नीलोत्पलानि यथा-'गगनगमनलीलालम्भितान्खेदबिन्दून्मृदुभिर- निलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यद्दिनपतिसुत- येव व्यक्तदन्ताङ्कपालीम् ॥' एवं कुमुदाद्यपि। जलाशयमात्रे हंसादयो यथा-'आ- सीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशववत्करिष्यति पुनः

नदी यच्चेष्टितं वीचिभिः ॥' यत्र तत्र पर्वते सुवर्णे यथा-'नागावासश्चित्रपोताभि- राम: स्वर्णस्फातिव्याप्तदिक्कक्ष(क्चक्र)वालः। साम्यात्सख्यं जग्मिवानम्वुराशेरेष ख्यात- स्तेन जीमूतभर्ता ।' रत्नानि यथा-'नीलाशमरश्मिपटलानि महेभमुक्तसूत्कारशीकर- विसृज्ञि(स्षि)तटान्तरेषु। आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्यः । तमसो मुष्टिग्राह्यत्वं यथा-'तनुलनना इव ककुभः क्ष्मावलयं चरणचार- मात्रमिव । दिवमिव वालकदन्नीं मुष्टिग्राह्यं तमः कुरुते ॥' सूचीभेद्यत्वं यथा-'पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेदे। मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ।' ज्योत्स्नायाः कुम्भोपवाह्यत्वादि यथा-'शह्गद्रावितकेतकोदरदलस्नोतः- श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत्। उत्सेव्या(क्या) कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते च- न्द्रिका ॥' यशसः शौक्कयं यथा-'क्षेमः स्तोकोऽपि नाडे श्वसितमविकलं चक्षुषा सैव वृत्तिर्मध्ये क्षीराब्धिमम्राः स्फुटमथ च वयं कोऽयमीद्क्प्रकारः । इत्थं दिग्भित्ति- रोध:क्षतविसरतया मांसलैस्त्वद्यशोभि: स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥' हासस्य यथा-'अट्टहासच्छलेनास्याः पश्य फेनौघपाण्डुराः । जगतक्षय इवापीताः क्षरन्ति क्षीरसागराः ॥' अयशसः कार्ष्ण्ये यथा-'प्रसरन्ति कीर्तयस्ते तब च रिपूणामकीर्तयो युगपत्। कुवलयदलसंचलिताः प्रतिदिशमिव मालतीमालाः ॥' पापस्य यथा-'उत्खातनिमलकृपाणमयूखलेखाश्यामायिता तनुरभूददशकंधरस्य। सद :- प्रकोपकृतकेशववंशनाशसंकल्पसंजनितपापमलीमसेव ।' क्रोधस्य रक्तत्वं यथा-'आ- स्थानकुट्मतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण। भौमेन मूर्छितरसातलकु- क्षिभाजा भूमिश्चचाल चलनोदरवर्तिनेव ।' अनुरागस्य यथा-'गुणानुरागमिश्रेण यशसा तव सर्पता। दिग्वधूनां सुखे जातमकस्मादर्धकुङ्कमम् ॥' चकोरेपु चन्द्रिका-

Page 43

काव्यानुशासनम्। १३

जातेरनियमो यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि। द्रव्यस्य यथा-मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम्। गुणस्य यथा-सामान्योपादाने रत्नानां शोणतैव, पुप्पाणां शुक्कतैव, मेघानां कृष्णतैव। क्रियाया यथा-ग्रीप्मादौ संभवदृपि कोकिलरुतं वसन्त एव, मयूराणां वर्षास्वेव विरुतं नृत्यं चेति। अथ वा नियमः समयः कवीनां यथा-कृष्णनीलयोः कृष्णहरितयोः

पानं यथा-'एतास्तो(स्ता) मलयोपकण्ठसरितामेणाक्षि रोधोभुवश्ापाभ्यासनिकेतनं भगवतः प्रायो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोध्वचञ्रु विचलत्कण्ठं चकोराङनाः ॥' चक्रवाकमिथुनस्य निशि भिन्नत- टाश्रयणं यथा-'संक्षिपता यावमतीस्तटिनीनां तनयतापयःपूरान् । र(ल)घु चरणा ह्वयवयसा(सां) किं नोपकृतं निदाघेन ॥' समुद्रेष्वेव मकरा यथा-'गोत्रागहारं(?) न- यतो गृहत्वं खनाममुद्राङ्गितमम्बुराशिम्। दायादवर्गेषु परिस्फुरत्सु दंष्ट्रवलेपो मक- रस्य वन्धः ॥' ताम्रपर्ण्यामेव मौक्तिकानि यथा-कामं भवन्तु सरितो भुवि सुप्र- तिष्टाः खादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णी नान्य(न्या)त्र संभवति मौक्तिककामधेनुः ॥' मलय एव चन्दनस्थानं यथा-'तापाप- हारचतुरो नागावासः सुरप्रियः। नान्यत्र मलयादद्रेर्द्ृश्यते चन्दनदुमः ॥' हिमवानेव भूर्जोत्पत्तिपदं यथा-'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥' माणिक्यानां च शोणतैव यथा-'सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि। रत्नानि ते दधति कच्चिदिहायताक्षि मेघौघरोदितविनाधिपविम्बशङ्गाम् ।' पुष्पाणां शुक्कतैव यथा-'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं प्रस्फुटविद्ुमस्थम्। ततोऽनुकुर्याद्विश- दस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।' मेघानां कृष्णतैव यथा-'मेघश्यामेन रामेण पूतवेदिविमानराठ्! मध्ये महेन्द्रनीलेन रत्नराशिरिवाचमौ !' कोकिलरुतं वसन्त एव। यथा-'वसन्ते शीतभीतेन कोकिलेन वने रुतम्। अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥' मयूरनृत्यगीते वर्षास्ेव यथा-'मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥' कृष्णनीलयो- रैक्यं यथा-'नदीं तूर्ण कर्णोऽप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुतीणो वर्णा- मुभयतटबला बद्धवानीरहारा। तटे सह्यस्योच्चेः खसलिलनिवहो भाति नीलः स यस्या प्रियस्यांसे पीने लुलित इव घनः केशपाशः मुकेश्याः ॥' कृष्णहरितयोरैक्यं ग्रथा-'मरकतसदशं च यामुनं स्फटिकशिलाविमलं च जाहवम्। तदुभयमुदकं १. 'रन्नानां' मूलपाठः समीचीनः, 'सामान्योपादाने' इत्युपकमातू.

Page 44

१४ काव्यमाला।

कृष्णश्यामयोः पीतरक्तयोः शुक्कगौरयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम्, नारायणदामोदरविष्णुमाधवकूर्मादेः, कमलासंपदोः, नागसर्पयोः, क्षीरक्षार-

पुनातु वो हरिहरयोरिव संगतं वपुः ॥' कृष्णश्यामयोरैक्यं यथा-'एतत्सुन्दरि नन्दनं शशिमणिस्त्रिग्धालवालद्ुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति। यत्र श्यामनिशासु मुश्चति मिलन्मन्दप्रदोपानिलामुद्दामामरयोषितामभिरतं कल्पद्रम- श्वन्द्रिकाम् ॥' पीतरक्तयोरैक्यं यथा-'लेख्यया विमलविद्रुमभासा संततं तिमिर- मिन्दुरुदासे। दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥' शुक्कगौरयो- रैक्यं यथा-'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्ते: कुम्भोदरं नाम निकुम्भमित्रम् ॥' एवं वर्णान्तरेष्वपि। चन्द्रे शशमृग- योरैक्यं यथा-'मा मैः शशाङ्क मम सीधुनि शास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि। प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलयन्ति किमत्र चि- त्रम्।' यथा च-'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्रुरक्षिप्तमृ- गपुङ्गो(यूथो) मृगाधिपः ॥' कामकेतने मकरमत्स्ययोरैक्यं यथा-'चापं पुष्पमयं गृहाण मकरः केतुः समुत्थीयतां चैते लक्ष्यभिदश्व पश्च विशिखाः पाणौ पुनः सन्तु ते। दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवाः ॥' यथा च-'मा(मी)नध्वत(ज)स्त्वमसि नो(?) नव(?)- पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि। इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं प्रलापः ॥' यथा च-'आपातमारतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिह्रम्। उल्लङ्व्य यादवमहोदधिभीमवेलं द्रोणाचलं पव- नसूनुरिवोद्धरामि ॥' अत्निनेत्रसमुद्रोत्पन्नयोश्वन्द्रयोरैक्यं यथा-'वन्धा विश्व- स्टजो युगादिगुरवः स्वायंभुवाः सप्त ये तत्रात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽभवत्। एका यस्य शिखण्डमण्डनमणिर्देवस्य शंभो: कला शेषाभ्योऽमृतमापृ- वन्ति च सदा सवाहासधाजीविनः ॥' यथा च-'यदिन्दोरन्वेति व्यसनमुदयं वारि- विरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता। अयं क: संबन्धो यदनुहरते तस्य कुमुदं विशुद्धा: शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥' द्वादशानामप्यादित्यानामै- क्यं यथा-'यस्याधोऽधस्तथोपर्युपरि निरवधि भ्राम्यते विश्वमश्वैरावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्रः । सोऽव्यादुत्तप्तकार्तखवरसरलशरस्पर्धिभिर्धामदण्डै- रुहण्डै: प्रापयन्वः प्रचुरतरतमःस्तोममस्तं समस्तम् ॥' नारायणादेरैक्यं कमलासंपदोश्च यथा-'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बहिंपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादष्- भुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥' यथा च-दोर्मन्दीरितमन्दरेण जलधेरुत्था-

Page 45

काव्यानुशासनम् । १५

समुद्रयोः, सागरसमुद्रयोः, दैत्यदानवासुराणां चैक्यम्। तथा चक्षुरादे- रनेकवर्णोपवर्णनम्, बहुकालजन्मनोऽपि शिवचन्द्रमसो वालत्वम्, कामस्य मूर्तत्वममूर्तत्वं चेत्यादि॥।

पिता या स्यं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयन्। तां लक्ष्मीं पुरुषो- त्तम: पुनरसौ लीलाश्चितभूलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षि- तिम् ।' नागसर्पयोरैक्यं यथा-हे नागराज बहुमस्य नितम्बभागं भोगेन गाढ- मभिवेष्टय मन्दराद्रेः। सोढा विषह्य वृपवाहनयोगलीला पर्यङ्गबन्धनविधेस्तव कोऽति- भार: ॥' क्षीरक्षारसमुद्रयोरैक्यं यथा-'शेतां हरिरभवतु रत्नमनन्तमन्तर्लक्ष्मीप्रसूति- रिति नो विवदामहेऽहो । हादूरदूरसपया(?)स्तृषितस्य जन्तोः किं त्वस्ति सिक्तप- यसः स मरोर्जघन्यः ॥' सागरमहासमुद्रयोरैक्यं यथा-'रङगत्तरङ्भ्नभहैस्तर्जयन्तीमि- वापगाः । स ददर्श पुरो गङ्गां सप्तसागरवल्लभाम् ॥' दैत्यदानवासुराणामिति। हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशंबरनमुचि- पुलोमप्रभृतयो दानवाः, वलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः, तेषामैक्यं यथा-'ज- यन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः। सुरासुराधीशशिखान्तशा- यिनो भवच्छिदख्यम्वकपादपांसवः ॥' यथा च-तं शंभुरासुरसुराशनिशल्यसारके- यूररत्नकिरणारुणवाहुदण्डम्। पीतांसलन्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ॥' यथा च-'आसीद्देत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः। प्रथयन्ति बलं वाह्को: सितच्छत्रम्मिताः श्रियः ॥' यथा च हयग्रीवं प्रति-'दानवाधिपते भूयो भुजोऽयं किं न नीयते। सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥' यथा च-'म- हासुरसमाजेऽस्मिन्न च कोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पषनीराजितमुरः- स्थलम् ।' एवमन्येऽपि भेदा अभ्यूह्याः ॥ चक्षुरादेरनेकवणोंपवर्णनमिति। चक्षुपः शुक्कता यथा-'तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीद्धामृदु प्रेद्वति। ह्वीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुखे(खरा) मुक्ताः कटाक्षच्छटाः ॥' श्यामता यथा-'अथ पथि गमयित्वा रम्यकप्तोपकाये कतिचिदवनिपालः शर्वरी(?)शर्व- कल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरुद्रतानाम् ॥' कृष्णता यथा-'पादन्यासक्वणितरशनासूतलीलावधूते रत्नच्छायाखचितव लिभिश्चा- मरेः क्ान्तहस्ताः। वेश्यास्त्वन्नो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्षत्तैत्वयैव(१) मधु- करश्रेणिदीर्घान्कटाक्षान् ।I' मिश्रवर्णना यथा-तामुत्तीर्य व्रजपरिचितभूलताविभ्र- माणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रभाणाम्। कुन्दे क्षेपानुगमधुकरश्रीमुखामा- त्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ।।' शिवचन्द्रमसो बालत्वं यथा-'मा० लायमानामरसिन्धुहंस: कोटीरवल्लीकुसुमं भवस्य। दाक्षायणीदर्पणविभ्रमश्रि वाले-

Page 46

१६ काव्यमाला।

काव्यस्य हेतुमुक्त्वा स्वरूपमाह- अदोपौ सगुणौ सालंकारौ च शब्दार्थी काव्यम्। चकारो निरलंकारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः । यथा- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विश्रब्धं परिचुम्व्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।' गुणदोषयोः सामान्येन लक्षणमाह- रसस्योत्कर्षापकर्षहेतू गुणदोपौ भत्तया शब्दार्थयोः । रसो वक्ष्यमाणस्वरूपस्तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । ते च रसस्यैव धर्माः उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते। रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात्। तथा हि यत्रैव दो- षास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोः स्युस्तर्हि बीभत्सादौ कष्टत्वादयो गुणा न भवेयुर्हास्यादौ चाश्रीलत्वादयः। अनित्याश्चैते दोषाः । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्त- द्वावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ।

न्दुखण्डं भवतः पुनातु ॥' कामस्य मूर्तत्वं यथा-'अयं स भुवनत्रयप्रथितसंयमः शंकरो विभर्ति वपुषाधुना विरहकातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियाया: करं करेण परिताडयञ्जयति जातहासः स्मरः ॥' अमूर्तत्वं यथा-'धनु- माला मौर्वी क्वणदलिकुलं लक्ष्यमबलामनो भेदयं शब्दप्रभृतय इमे पञ्च विशिखाः। इयजेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्ग- वसतिः ॥' निरलंकारयोरपीति। अनेन काव्ये गुणानामवश्यंभावमाह-तथा हि अनलंकृतमपि गुणबह्वः(बहुलं) खदते। यथोदाहरिष्यमाणं 'शून्यं वासगृ- हम्-' इत्यादि। अलंकृतमपि निर्गुणं न खदते। यथा-'स्तनकर्परपृष्ठस्था वार्जिनी छदमण्डकाः । वियोगाइयूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥' इति। उपचारे णेति। यथा 'आकार एवास्य शूरः' इति शौर्यमुपचा[रादाका]राद्यभिव्यञ्जके शरीने

Page 47

काव्यानुशासनम् । १७

अलंकाराणां सामान्यलक्षणमाह- अङ्गाश्रिता अलंकाराः। रसस्याङ्गिनो यदङ्गं शब्दार्थो तदाश्रिता अलंकाराः । तेषां च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचि- त्र्यमात्रपर्यवसिता भवन्ति॥ तत्र रसोपकारप्रकारानाह- तत्परत्वे काले ग्रहत्यागयोनातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसो- पकारिणः । अलंकारा इति वर्तते। तत्परत्वं रसोपकारकत्वेनालंकारस्य प्रवेशः, न वाधकत्वेन, नापि ताटस्थ्येन ।।

व्यवहियते। तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः ॥ अङ्गाश्रिता इति। ये त्वङ्गिनि रसे भवन्ति ते गुणाः। एष एव गुणालंकारविवेकः ॥ एतावता-शौर्यादिसदृशा गुणाः, केयूरादितुल्या अलंकाराः' इति विवेकमुक्त्वा 'संयोगसमवायाभ्यां शौर्यादीना- मस्ति भेदः । इह तूभयेषां समवायेन स्थितिरित्यभिधाय 'तस्माह्वडरिकाप्रवाहेण गुणालंकारभेदः' इति भामह्विवरणे यद्भद्ोद्भटोऽभ्यवात्, तन्निरस्तम् । तथा हि। कवितारः संदर्भेष्वलंकारान्व्यस्यन्ति न्यस्यन्ति च न गुणान्। न चालं- कृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति पुष्यति वा। तत्र शब्दालंकारापोद्धरणं यथा-'अलंकृतजटाचक्रं चारुचन्द्रमरीचिभिः । मृडानीदत्तदेहार्ध नमामः परमे- श्वरम्॥' यथा च-'अलंकृतजटाचक्रं तरुणेन्दुमरीचिभिः' इति। अर्थालंकारापोद्वरणं यथा-'इ्यामां स्मितासितसरोजदृशं कराग्रैरिन्दौ विभूषयति बालमृणालकल्पैः । आरे- भिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥' यथा च- 'श्यामां स्मितासितसरोजदृशं कराग्रैरिन्दौ विभूषयति केलिचकोरलेह्ैः' इति। अर्था- लंकाराहरणं यथा-नीलाश्मरश्मीति। यथा च-'नीलाश्मरश्मिपटलानि महेभमुक्तफू- त्कारसीकरविसृञ्षि मृगाक्षिसानौ' इति। गुणानामपोद्वाराहारौ तुन संभवत इति। तथा 'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः' इति वामनेन यो विवेक: कृतः सोऽपि व्यभिचारी। तथा हि-'गतोऽस्तमकों भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादौ प्रसादश्लेषसमतामाधुर्यसोकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहाराप्रवृत्तेः । 'अपि काचिच्छता वार्ता तस्यौन्निध्यविधायिनः। इतीव प्रषुमायाते तस्याः क्णान्तमीक्षणे II' इत्युत्प्रेक्षालंकारमात्रादविवक्षित त्रिचतुरगुणात्का- व्यव्यवहारदर्शनात्। तस्माद्यथोक्त एव गुणालंकारविवेक: श्रेयानिति। गुणाक्च त्रय ३

Page 48

१८ काव्यमाला।

यथा- 'चलापाड्गां दृष्टि स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव खवनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिवसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।।' अत्र भ्रमरस्वभावोक्तिरलंकारो रसपरत्वेनोपनिबद्धो रसोपकारी ॥ बाधकत्वेन यथा- 'स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ कन्दतः पादलसौ। व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम्।I'

चितान् विभावानुभावान् संपादयन् बाधकत्वेन भातीति न प्रकृतरसो- पकारी।। ताटस्थ्येन यथा- 'लीलावधूतपझ्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव।।'

एवेति गुणवर्णनाध्याये विवेचयिष्यते।। चलापाङ्गामिति। शकुन्तलावलोकने ज- निताभिलाषस्य दुष्यन्तस्योक्तिरियम्। किमियमस्मजातीया न वा, खतन्न्रा परतन्रा वा, इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः संप्रति मधुकर त्वमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि। तथा हि। चलौ वि- लासवशात्तरलावपाङगौ पर्यन्तरूपौ यस्यास्तां दृष्टि त्वत्स्पर्शनसंत्रासविधुरितनिजस्थि- तिमनवरतं कम्पवतीं तया मुग्धतया शोभातिशयशालिनीं प्रवातकम्पितनीलोत्प- लधिया स्पृशतीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बन- समयनयनस्पर्शविधानमुचितमत्रभवतानुष्ठितमिति । कथमिव न सुकृती भवान् । तथा लोचनकुवलयस्पर्शपराडुखः स्वजातिसमुचितकमलकोश निलय नाभ्यासवशवर्णकु- हरानुप्रवेशाभिलाषेण तन्निकटवर्तीं मृदुप्रियकारि मधुरं खनसि शिञ्जितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्बनाभिमुखीकृतकान्ताकर्णोपान्तनिविशिताननानां तदवसरो-

Page 49

काव्यानुशासनम्। १९

पुलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलापस्य वत्सराज- स्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालंकारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिपया ॥ अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा- 'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजम्भां क्षणा- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोऽपि विपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' अत्रोपमा तदनुग्राहकश्च श्रेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वन्नवसरे रेसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी। न त्वेवम्। यथा- 'वाताहारतया जगद्विषधैरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्नतैर्वर्हिभिः । तेडपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ।।'

चिताभिमताभिप्रायनिवेदनपरतया रहोवृत्तान्ताख्यानमुचितमनुष्ठितं भवतेति भवानेव

रोपविष्टो रतिविषये सुरतोपभोगस्याधररसाखादसारतया सर्वसमधररसपानमनुभ- वसीत्यस्मत्कृत्यसंपादनात्वमेव सुकृती।किल रहोवृत्तान्ताख्यानेनाङ्गीकारितसुरतर- सायाः प्रथममधररसामृतपानमस्माभिर्विधेयमिति॥ उद्दामोत्कलिकामिति। वास- वदत्तापरिग्ृहीता नवमालिकालता संप्रति न प्रफुल्ला माधवी लता तु मत्परिगृहीता प्रफुल्लेति तदर्शनाद्वेपवशेन विपाटलद्युति मुखमहं देव्याः करिष्यामीति वत्सराजोक्तिरि- यम्। उद्दामा बह्रय उद्गताः कलिका यस्याः । उत्कलिकाथ् रुहरुहिकाः । क्षणात्तस्मि- न्नेवावसरे प्रारब्धा लम्भाविकासो यया क्षमा मन्मथकृतोऽवमर्दः। श्वसनोद्मैर्वसन्त- १. 'संभोगशृद्गाररूपः' इत्यर्थ :. २. 'ईर्ष्याविप्रलम्भरूपस्य' इत्यर्थ :. ३. 'प्रारम्भ' इत्यर्थ :. ४. 'नीतं क्षयमिति प्रत्यन्तरे' इत्यर्थः. १ .- २ 'नुम्भा' स्यान.

Page 50

२० काव्यमाला।

अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तमित्यतिशयोक्तिरनवसरे गृहीता। तथा हि प्रथमत एव प्रथमपादे हेतूतपेक्षया यदतिशयोक्तेरुपा- दानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वे- दस्याङ्गतामति। न हि वाताहारत्वादधिको दम्भस्तोयकणत्रतं नापि ततो- डधिकं दम्भनत्वं मृगाजिनवसनमिति॥ गृहीतस्याप्यवसरे त्यागो यथा- 'रक्तस्त्वं नवपल्लवैरहमपि क्र्ाध्यैः प्रियाया गुणै- स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ता: सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वै तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥' अत्र प्रबन्धप्रवृत्तोऽपि श्रेषो व्यतिरेकविवक्षया त्यज्यमानोऽपि विप्र- लम्भोपकारी ।। न त्वेवम्। यथा- 'आज्ञा शकशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिर्द्रुहिणान्वये च तदहो नेद्टग्वरो लभ्यते स्याच्चेदेष न रावणः क् नु पुनः सर्वत्र सर्वे गुणाः ।।' अत्र न रावण इत्यस्मादेव त्यागो युक्तः। तथा हि रावण इत्येतज्ज- गदाकन्दकारित्वाद्यर्थान्तरं प्रतिपादयञ्जनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपाद्यते। ऐश्वर्य पाण्डित्यं परमेशभक्तिर्देशविशेषोडभिजन इत्येतत्सर्वै लोकमपवाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिर- स्कारकत्वेनैव रावणचेष्टितं निर्वाहणीयम्। यत्त्वन्यदुपात्तं क नु पुनरिति

मारुतोल्लासैरात्मनो ...... लक्षणस्यायासमायासनमन्दोलना यत्र तमातन्वतीं निःश्वास- परम्पराभिश्वात्मन आयासं हृदयस्थितं संतापमातन्वतीं प्रकटीकुर्वाणाम्। सह मदनाख्येन वृक्षविशेषेण मदनेन कामेन च । ध्रुवशब्दश्च भावीर्ष्यावकाशदानजीवि- तमिति॥ रक्तस्त्वमिति। सीतावियोगोपनतविसंस्थूलावस्थस्य दाशरथेरियमुक्ति: । रक्तो लोहितः अहमपि रक्तः प्रबुद्धानुरागः। तत्र च प्रबोवको विभावः पल्लवराग

Page 51

काव्यानुशासनम् । २१

तद्यदि ससंदेहत्वेन योज्यतेऽथाक्षेपत्वेनाथापि नेदग्वरो लभ्यते इत्यर्था- न्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कर्थंचिन्निर्वाहः। नात्यन्तं निर्वाहो यथा- 'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्ुतिपरः प्रेयान्रुदत्या हसन् ॥' अत्र रूपकमारव्धमनिर्व्यूढं च रसोपकाराय। न त्वेवं यथा- *स्वश्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन। उद्धाट्य मे प्रविष्टा देहगृहं सा हृदयचौरी।' अत्र नयनद्वारमित्येतावदेव सुन्दरं श्ृङ्गारानुगुणं न त्वन्यद्रूपणम्। निर्वाहेऽप्यङ्गत्वं यथा- 'श्यामासवङ्गं चकितहरिणीप्रेक्षिते दृष्टिपाता- न्गण्डच्छायां शशिनि शिखिनां वर्हभारेषु केशान्। उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥'

इति मन्तव्यम्। एवं प्रतिपादमाद्योऽर्यो विभावत्वेन व्याख्येयः ॥ सखीनां पुर इति। भवत्योऽनवरतं त्रुवते नायमेवं करोति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः । कासौ गीरित्याह-भूयो नैवमि- त्येवंरूपा। एदमिति यदुक्ततं तत्किमित्याह-दुश्चेषटितं नखपदादि। संमु(सू)च्य अ- दुल्या निर्देशेन। हन्यत एवेति। न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते। यतोऽसौ हननं निमित्तीकृत्य निद्रुतिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति। अनिर्व्यूढं चेति। वाहुवलतिकायाः पाशत्वेन यदि रूपणं निर्वाहयेद्द्यिता व्याधवधू- र्वासगृहं कारागारपञ्जरादीति। तदा रसभङः स्यादिति। इयामास्विति। सुग- न्धिप्रियङ्गलतामु पाणिम्रा(?)तनिम्रा कण्टकितत्वेन च योगात्। शशिनीति। पाण्डुरत्वात्। उत्पश्यामीति। यल्ेनोत्प्रेक्षे। जीवितसंधारणायेत्यर्थः । ह्ृन्तेति। कष्टमेकस्थसादृश्याभावे हि दालायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकत्र वृति लभे इति भावः । भीर्विति। यो हि कातरहृदयो भवति, नासौ सर्वमेकस्थं धारयती-

Page 52

२२ काव्यमाला।

अत्र ह्युत्प्रेक्षायास्तद्धावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय । न त्वेवं यथा- 'न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकृतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्ु भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः साश्षु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' अत्र रावणस्य दग्विंशतौ वैचित्येण स्वभावोक्तिर्निर्वाहितापि रसस्या- ङत्वेन न योजितेति। शब्दार्थयोः स्वरूपमाह- मुख्यगौणलक्ष्यव्यङ्गचार्थभेदान्मुख्यगौणलक्षकव्यञ्जका शब्दाः। मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्गचार्थविषयो व्यञ्जकः शब्दः, विषयभेदाच्छव्दस्य भेदो न खवाभा- विक इत्यर्थः ॥ मुख्यमर्थ लक्षयति- साक्षात्संकेतविपयो मुख्यः । अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योऽर्थान्त- रेभ्यः प्रथमं प्रतीयते इति मुख्यः, स च जातिगुणक्रियाद्रव्यरूपस्तद्वि-

त्य्थः ॥ न योजितेति। रसवशादेकैकमन्यक्रियमिति ह्येतावन्मात्रेऽप्युक्ते तद्रसग- तव्यभिचारिभदोपनिपाताय यौगपद्याशुभावित्वसंभावनाय च । किंचिद्विभाववैचित्र्यं वत्तव्यं यथा-'सभायां तादृश्यां नरपतिशतैरक्षकितवैः समभ्याकीर्णायामृजतु परि- तामेकवसना। यदकाक्षीहुःशासननरपशुः केशनिचयान्न कस्यासीत्तेन भ्रुकुटिविपमो वाष्पविसरः ॥' अत्र हि भ्रुकुटिः क्रोधस्यानुभावो बाष्पश्च शोकस्य शोकक्रोधयोश्च यौगपद्यमाशु भावो वा विभावबलाददशितम्। सा हि तादृशी शोकस्य विभावो दुःखा- नश्च तथानुचितकारी क्रोधस्य तच्च विभावदूयं झटिति पुरः पतितमनुभाववैचित्र्य- माधत्ते इति युक्तं विरुद्धस्सदीप्ततममस्णतमचित्तं वृ्त्युचितानुभावयोजनम् । 'न्यञ्च त्कुश्चितम्-' इत्यादौ तु तत्प्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृत-

Page 53

काव्यानुशासनम् । २३

पयः शब्दो मुख्यो वाचक इति चोच्यते। यथा-गौः, गुकः, चलति, देवदत्तः, इति। यदाह महाभाष्यकारः-'चतुष्टयी शब्दानां प्रवृत्तिः' इति। जात्यादिस्वरूपं च प्रकृतानुपयोगान्नेह विपञ्च्यते। जातिरेव संकेत- विषय इत्येके। तद्वानित्यपरे। अपोह इत्यन्ये।। मिति। चतुष्टयीति। जातिशब्दा गुणशब्दाः क्रियाशब्दा यदच्छाशव्दाक्ष। तथा हि। सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानामुपाध्युपदशितविषयविचे[च]क- त्वादुपाधिनिबन्धना प्रवृत्तिः। उपाधिश्च द्विविधः । वस्तुकृतसंनिवेशितो वस्तुधर्मक्ष। तत्र यो वक्ता(का) यदच्छया तत्तत्संज्ञिविषयशक्तिव्यक्तिद्वारेण तस्मिस्तस्मिन् संज्ञिनि निवेश्यते स वस्तुकृतसंनिवेशितः। यथा डित्थादीनां शब्दानामन्त्यवुद्धिनिर्ग्राह्यं संहृतकमं स्वरूपम्। तत्खलु तां तामभिधाशक्तिमभिव्यञ्जयता वक्रा यदच्छया तस्मि- स्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते अतस्तन्निवन्धनाद्यदच्छाशव्दा डित्थादयः ॥ येषामपि च [ए]डकारादिवर्णव्यतिरिक्तसंहृतक्रमस्वरूपाभावान्न डित्था दिशब्दस्वरूपं संह- तक्रम संज्ञिष्वध्यस्यत इति तेषामपि वक्तयदच्छाभिव्यज्यमानशक्तिभेदानुसारेण काल्प- निकसमुदायरूपस्य डित्थादेः शव्दस्य तत्संज्ञाभिधानाय प्रवर्तनत्वात् यदच्छाशब्दत्वं डित्थादीनामुपपद्यत एव । वस्तुधमस्य च द्वैविध्यम्। सिद्धसाध्यताभेदातू। तत्र साध्यो- पाधिनिवन्धना: क्रियाशब्दाः । यथा-पचतीति। सिद्धस्य तूपाधेद्वैविध्यम्। जातिगुणभे- दात्। तन्र पदार्थप्राणप्रद उपाधिर्जातिः। न हि कश्चित्पदार्थो जातिसंबन्धमन्तरेण स्वरूपं प्रतिलभते। यदुक्तं वाक्यपदीये-'गौः स्वरूपेण न गौर्नाव्यगौर्गोत्वाभिसंवन्धात्तु गौः' इति। लब्धसरूपस्य च वस्तुनो विशेषाधानहेतुर्गुणः। न हि शुक्कादेर्गुणस्य पटादिवस्तुस्रू- पप्रतिलम्भनिबन्धनत्वम्। जातिमहिम्रैव तस्य वस्तुनः प्रतिलब्धसरूपत्वात्॥ जाति- रेवेति। तथा हि-गुणशब्दानां तावच्छुक्कादीनां पयःशङ्गबलाकाद्याश्रयसमवेता ये गुक्कादिलक्षणा गुणास्तत्समवेतसामान्यरवोचिनः । एवं क्रियाशव्दानामपि गुडतिलतन्दु- लादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेनावस्थिताः क्रियाविशेपास्तत्समवेतं सामा- न्यमेव वाच्यम्। यदच्छाशब्दानां तु डित्थादीनां शुकसारिकामनुष्याधुदीरितेपु डित्था- दिशव्देपु समवेतं डित्थत्वादिकं सामान्यमेव यथायोगं संज्ञिष्वध्यस्तमभिधेयम् । यदि वोपचयापचययोगितया डित्थादौ संज्ञिनि प्रतिकलं भिद्यमानेऽप्यभिद्यमानो यन्महिम्रा डित्थो डित्थ इत्येवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो वाधशून्यः संजायते तत्तथाभूतं डित्थादिशब्दावसेयवस्तुसमवेतमेव डित्थत्वादिसाम्यमत्रेष्टव्यम्। तच्च डित्थादिशव्दैर- भिधीयते। इति गुणक्रियायदच्छाशब्दानामपि जातिशब्दत्वाज्जातिरेवैकः शब्दार्थ इति। तद्वानिति। जातेर्थक्रियायामनुपयोगाद्विफल: संकेतः। यदाह-जातिर्दाहपाकादावु- १. 'चलः' इति स्यात्. १. 'वाचिता' इति भवेत्.

Page 54

२४ काव्यमाला।

गौणं लक्षयति- मुख्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौण:। गौर्वाहीको गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षा- दिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने ताद्रूप्यप्रति- पत्तिरूपे सत्यारोप्यारोपविषययोर्भेदेनाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्वौणः तद्विषयः शब्दोऽपि गौणः, उपचरित इति चोच्यते। तत्र सादृश्ये निमित्ते भेदेनारोपितो यथा- 'गौर्वाहीकः'। इदं वक्ष्यमाणरूपकालंकारस्य वीजम्। अभेदेन यथा- 'गौरेवायम्' इति। इदमतिशयोक्तिप्रथमभेदस्ये । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोश- व्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् ॥ स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परा- र्थोडभिधीयते इत्यन्ये।। साधारणगुणाश्रयेण परार्थ एव लक्ष्यते इत्यपरे॥ संबन्धे कार्यकारणभावे आयुर्घृतम्, आयुरेवेदम्। अत्रान्यवैलक्षण्ये- नाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम्। ताद्थ्ये-इन्द्रार्था स्थूणा इन्द्रः । स्वस्वामिभावे-राजकीयः पुरुषो राजा ग्रामस्वामी ग्रामः । अवय- वावयविभावे-अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । मानमेयभावे-आ- ढको व्रीहिः। संयोगे-रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्कर्म्ये-अतक्षा तक्षा। वैपरीत्ये-अभद्रमुखे भद्रमुखः॥ लक्ष्यमर्थ लक्षयति- मुख्यार्थसंवद्धस्तच्वेन लक्ष्यमाणो लक्ष्यः । पयुज्यत इति। व्यक्तेश्वार्थक्रियाकारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तु शक्यत इति जात्युपहिता व्यक्ति: शब्दार्थ इति: जातिव्यक्तितद्योगजातिम द्रुद्धयाकारणाशब्दार्थ- त्व स्यानुपपद्यमानत्वाद्रवादिशव्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बकं स- वथा बाह्यार्थस्पर्शशून्यमन्योपोहशव्दवाच्यं शब्दार्थ इति । मुख्या इति। इदमेव हि शव्दानां मुख्यानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिरेव कारणम्। १. 'वीजम्' इति शेष :.

Page 55

काव्यानुशासनम् । २५

मुख्यार्थो गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्वे- नाभेदेन लक्ष्यमाणो लक्ष्यः। तत्त्वेन लक्ष्यमाण इति वचनाद्भेदाभेदाभ्या- मारोपित इति न वर्तते, शेषं तु गौणलक्षणमनुवर्तत एव। तद्विषयः शब्दो लक्षकः । यथा-'गङ्गायां घोषः, कुन्ताः प्रविशन्ति'। अत्र गङ्गाया घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य वा संभवान्मुख्यार्थवाधः, सामीप्यं साहचर्य च निमित्तम्, गङ्गातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथा प्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथा प्रतिपादनं प्र- योजनम् । गौरनुबन्ध्य इति तु नोदाहरणीयम्। अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाद्यक्तिराक्षिप्यते, न तु शब्दे- नोच्यते। 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे।' इति न्यायात्। न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिप्यते तदा क्रियतामित्यत्र कर्तुः, कुरु इत्यत्र कर्मणः, प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादेश्च लक्ष्यत्वं स्यात्। 'पीनो देवदत्तो दिवा न भुङ्के' इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यते, अपि तु अर्थापत्त्या आक्षिप्यते इति ॥ इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौ- णोऽर्थः, यत्र न तथा स लक्ष्य इति विवेकः । कुशलद्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिर्लक्ष्यस्यार्थस्य हेतुत्वेनास्मा- भिरुक्ता।। व्यङ्गयं लक्षयति- मुख्याव्यतिरिक्तः प्रतीयमानो व्यङ््चो ध्वनिः।

ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तेत तदातिप्रसङ्गः स्यादिति ॥ अस्माभिरिति। न तु भट्टमुकुलादिभिः । तैर्हि रूढिमपि प्रयोजनतया उपन्यस्य लक्षणतया प्रवर्तिता।

१. 'अनुसरणीयो हन्तव्यो वा' टिप्पणी. २. 'अत्र परै रूढिसक्ता सानेन प्रकारेण गता' टिप्पणी. ४

Page 56

२६ काव्यमाला।

मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गचोऽर्थः । स च ध्वन्यते द्योत्यते इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः । अयं च वस्त्वलंका- ररसादिभेदात्रिधा। तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः ॥ स हि वाच्ये विधिरूपे प्रतिषेधरूपो यथा- 'भेम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ तेण। गोलाणइकत्थकुडङ्गवासिणा दरिअसीहेण।' अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात्त्वयास्मिन्न गन्तव्यमिति निषेधः प्रतीयते॥

यदाहु :- 'रूढे: प्रयोजनाद्वापि व्यवहारेऽवलोक्यते' इति ॥ मुख्यगौणलक्ष्या- र्थव्यतिरिक्त इति। अयं भाव :- यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम्। नीलमिव पीताद्वाच्यादिव्यतिरिक्तश्र व्यङ्ग्योरऽर्थोऽवभासत इति॥ प्रतीतिविषय इति। अनेन ससंवेदनसिद्धतामाह। तथा च श्रीमदानन्दवर्धनः- 'प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्। यत्तत्प्रसिद्धावयवातिरिक्त- माभाति लावण्यमिवाङ्गनासु ॥' वस्त्वलंकारेति । इह लौकिकालौकिकभेदेनार्थों द्विधा। लौकिकश्च शब्दाभिधाने योग्योऽविचित्रविचिन्रात्मतया द्विधा। तत्राविचित्रो वस्तुमात्रम्, विचित्रस्त्वलंकारात्मा। यद्यपि चव्यक्षतायां(?) प्राधान्ये च विचित्र स्यालंकार्य- त्वम्, तथापि ब्राह्मणश्रमणन्यायेन तस्यालंकारव्यपदेशः। अनयोश्व वस्त्वलंकारयोर्व्यङच- तायां यद्यपि न वाच्यत्वम्, तथापि तयोर्विध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिक- त्वम्। अलौकिकस्तु खप्नेऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति ॥ भम धम्मिएति। काचिदविनयवधूर्गोदावरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादि- व्याजेन गृहान्निर्गत्य सदा रममाणा धार्मिकं पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभा- वयन्ती विदग्धापि मुग्धेव वक्ति। यस्तवास्मद्गहं प्रविशतो भयमकरोच्च श्वा निर्विचारः । अस्मद्भाग्योदयेन तेन लोकप्रसिद्धेन वृत्तेन कृपापात्रमपि श्वानमपश्यता सिंहेनाप्रतिका- रयोग्येन मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः। चिन्त्येकवस्रतेरनौचित्यायोगात्। न चात्र सिंहस्ते भयकारणम्। यतो गोदावर्या नद्यां न तु सरखत्यादिवत्तदुक्त देशे

१. 'आदिशब्दाद्भावतदाभासा इत्यादयो गृह्यन्ते' टिप्पणी. २. 'भ्रम धार्मिक विस्रब्धः स शुनकोऽद मारितस्तेन। गोदानदीकच्छनिकुञ्जवासिना इप्तसिंहेन॥' [गाथा० २।७५]

१. 'दप्तेन' भवेत.

Page 57

काव्यानुशासनम् । २७

यत्कूलं तत्र। न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति सततकृतास्पद- स्तेन निर्भयमिदानीं भिक्षादर्थ [स] चरेति। एवमादौ च विषये यद्यपि रसादिररथों व्यङ्ग्योऽसित तथापि महाराजशब्दव्यपदेश्यविवाहकरणप्रवृत्तसचिवानुयायिराजवद- प्रधानमेव गृह्णाति। लतागहनस्थयैवेदमभिधीयते इति व्याख्याने लाक्षणिकोऽयमर्थो भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्ग्य इति न संबध्यमागच्छते। इह वासिनेति चाभिधेयः स्यात्। न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम्। तथाहि। अगृहीतसंके- तस्यार्थप्रतिपत्तेरकरणाद्गहीतसंकेत एवशब्दोऽर्थप्रतिपादकः । संकेतश्वानन्त्याद्यभिचा- राच् वाक्यार्थ इव वाक्यस्य विशेषरूपे पदार्थे पदस्य कर्तु न पार्यत इति सामान्य एवासौ आकाह्कायोग्यतासंनिधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति। 'सामा- न्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि' इति। विशेषरूप :- 'विशेष्यं नाभिधा गच्छे- त्क्षीणशक्तिर्विशेषणे' इत्यपदार्थोऽपि वाक्यार्थ उल्लसति। विशेषस्यैव यत्राशब्दा- ्थत्वं तत्र वस्त्वन्तररूपस्य निषेधस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे ताव- न्निर्विवादैव निषेधस्य व्यङ््यता। येऽप्याहुः-'अनन्वितार्थ पदमप्रयोज्यम्' इति प्रयोगयोग्यं वाक्यमेव, तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव पदार्थ: संके- तभू: ॥ यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्यवैतानि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थ: संकेतगोचरः, तथापि सामान्याव- च्छादितो विशेषरूप एवासौ प्रतिपद्यते। व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्य- न्विताभिधाननये 'वाक्यार्थों न पदार्थः' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव। यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूतनिषेधचर्चा। अनन्वितोर्ऽर्थोऽभिहितान्वये पदार्थान्तर- मात्रेणान्वितस्तु अन्विताभिधाने अन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽव्यपदार्थ एच वाक्यार्थः ॥ यदप्युच्यते-'नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते' इति। तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा। शब्दस्य प्रकाशकत्वान्न कारकत्वंज्ञापकत्वं त्वज्ञातस्य कथम्। ज्ञातत्वं च संकेतेनैव, स चान्वितमात्रे। एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्य- न्ते इत्यविचारिताभिधानम् ॥ ये त्वभिद्धति-'सोऽयमिघोरिव दीर्घदीर्घो व्यापारः' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेधाय वाच्य इति। एतदतात्पर्यज्ञत्वं तात्पर्य वाचोयुक्तेर्देवानां प्रियाणाम्। तथा हि। भूतभव्यसमुच्चारणे भूतं भव्यायोप- दिश्यत इति कारकपदार्थाः क्रियापदार्थनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभि- संवन्ात्साध्यायमानतां प्राप्रुवन्ति। ततश्रादग्वदहनन्यायेन यावदप्राप्तं तावद्विधीयते। यथा 'रक्तं पटं वयः' इत्यादावेकविधिर्द्विविधिस्त्रिविधिर्वा। ततश्र यदेव विधेयं तत्रैव तात्पर्य मित्युपात्तस्यैव शब्दस्यार्थ तात्पर्यम्। न तु प्रतीतमात्रे। एवं हि 'पूर्वो धावति'

१. 'दीर्धदीर्घतरो' काव्यग्रकाशे.

Page 58

२८ काव्यमाला।

इत्यादावपरार्थेऽपि क्वचित्तात्पर्ये स्यात् ॥ यत्त-'विषं भुङ्क्ष्व मा चास्य गृहे भुक्थाः' इत्यत्र एतद्रहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते। तत्र च- कार एकवाक्यतासूचनार्थः । न चाख्यातवाक्ययोर्द्योरङ्गाङ्गिभाव इति विश्नभक्षणवा क्यस्य कृद्वाच्यत्वेनाङगता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्रहे भोजनमिति सवथा मास्य गृहे भुक्थाः इत्युपात्तशब्दार्थ एव तात्पर्यम् ॥ यदि च शब्दश्रुतेरनन्तरं यावानर्थोऽवगम्यते तावति शव्दस्याभिधैव व्यापारः, तत्कथं 'ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम्। कस्माच्च लक्षणा। किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थान[स]माख्यानां पूर्वपूर्ववलीयस्त्वमित्यन्विताभि- धानवादेऽपि निषेधस्य सिद्धं व्यङ्गयत्वम् ।। किंच कुरुरुचिमिति पदयोवैंपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम्। न ह्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनभिधेय एवेत्येवमादि अपरित्याज्यं स्यात् । यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्गयव्यञ्ज कभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं साधुत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात्। न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात्। वाच्य- वाचकभावव्यतिरेकेण, व्यङ्गयव्यञ्जकताश्रयेण तु व्यङ्गयस्य बहुविधत्वात्क्वचिदेव कस्य- चिदेवौचित्येनोपपद्यत एव विभागव्यवस्था। 'दूयं गतं संप्रति शोचनीयतां समागम- प्रार्थनया कपालिनः ।' इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ।। अपि च वाच्यार्थः सर्वान् प्रतिपत्तृन् प्रत्येकरूप एवेति नियतोऽसौ न हि 'गतोऽस्तमर्कः' इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति। प्रतीयमानस्तु तत्तप्र- करणवक्तप्रतिपत्रादिविशेषसहायतया नानात्वं भजते। तथा च 'गतोऽस्तमर्कः' इत्यतः 'सपत्नं प्रत्यवस्कन्दनावसरः' इति, अभिसरणमुपक्रम्यतामिति, प्राप्तस्ते प्रेयानिति, कर्म- करणान्निवर्तामहे इति, सांध्यो विधिरुपक्रम्यतामिति, दूरं मागा इति, सुरभयो गृहं प्रवेश्य- न्ताम् इति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संह्वियन्तामिति, नागतोऽद्य प्रेया- नित्यादिरनवधिर्व्यङ्गयोऽर्थस्तत्र तत्र प्रतिभाति। वाच्यव्यङ्गययोः 'निःशेष-' इत्यादौ निषेधविध्यात्मना, 'मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तश्ृद्गार्यन्य- तरगतनिश्चयरूपेण, 'कथमवनिप दर्पो यन्निशातासिधारादलनगलितमूर्धी विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताहैर्वल्लभा कीर्ति- रेभिः ॥' इत्यादौ निन्दास्तुतिवपुषा, 'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघटनावैमुख्य- लब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' इत्यादौ स्तुतिनिन्दारूपेण, स्वरूपस्यापूर्वपश्राद्भावेन प्रतीतेः । कालस्य शब्दाश्रयत्वेन तदर्थकसद्वटनाश्रयतवेन चाश्रयस्य शब्दार्थशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धमात्रविदग्धव्यपदेशयोः प्रतीतमात्रचमत्कृत्योश् करणकार्यस्य १. 'विधेरपि' काव्यप्रकाशे. २. 'कष्टत्वादीना' काव्यप्नकाशे.

Page 59

काव्यानुशासनम्। २९

'गतोऽस्तमर्कः' इत्यादौ प्रदर्शितनयेन संख्यायाः 'कस्स व-' इत्यादौ सख्रीतत्कान्ता- दिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्कचिदपि नीलानीलादौ भेदो न स्यात्। उक्त हि-'अयमेव भेदो भेदहेतुर्वा यद्विरुद्वधर्माध्यासः करणभेदश्वेति वाचकाना मर्थापेक्षा, व्यञ्जकानां तुन तदपेक्ष्यत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम्। किं च। 'वाणीरकुडंग-' इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रभेदे तात्पर्यभूतोऽप्यर्थः स्वशब्देनाभिधेयः । प्रतीतिप्रथमवतरन्कस्य व्यापारस्य विषयतामवलम्बताम् । ननु 'रामोऽस्मि सर्वे सहे' इति 'रामेण प्रियजी- वितेन तु कृतं प्रेम्णः प्रिये नोचितम्' इति। 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्रेति कोऽयं नूतनः प्रतीयमानो नाम। उच्यते-लक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशव्दाभिधेयवन्नियतत्वमेव न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते, व्यङ्गयस्तु प्रकरणादिविशेषबलेन निय- तसंबन्धोSनियतसंबन्धः संवन्धसंबन्धश्च द्योत्यते। न च 'भम धम्मिय' इत्यादौ अर्थशक्तिमूले व्यङ्गये मुख्यार्थवाधस्तत्कथमत्र लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यम्। यथा च समयसव्यपेक्षाभिधा। तथा मुख्यार्थबाधादित्रयसमयसव्यपेक्षा लक्षणा। अत एव अभिधापुच्छभूता सा इत्याहुः। न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात्। न च तदनुगतमेव। अभिधालम्वनेनापि तस्य भावात्। न चोभया- नुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शव्दानुसार्येव अशब्दात्मकनेत्र- त्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः। इत्यभिधातात्पर्यलक्षणात्मकव्यापारत्रया- तिवती अञ्जनव्यापारोऽवपह्रवीय एवेति सिद्धमेव निषेधस्य व्यङ्ग्यत्वम्। तत्र 'अत्ता एत्थ-' इत्यादौ नियतसंवद्धः । 'कस्स व ण होइ रोसो-' इत्यादावनियतसंवद्धः । 'विवरीयरए लच्छी बम्भं ददृण णाहिकमलत्थम्। हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ II' इत्यादौ संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते। तन्निमीलनेन सूर्यस्यास्तमयस्तेन पद्मस्य संकोचः ततो ब्रह्मणः स्थगनं तत्र सति गोप्याइस्यादर्शनSनियत्त्रणं निधुवनविलसितम्। येSप्याहु :- 'अखण्डवुद्विनिर्प्राह्यं वा क्यमेव च वाचकम्। वाक्यार्थ एव वार्थ :- ' इति, तैरंप्यविद्यापदपतितैः पदपदार्थ- कल्पना कर्तव्यैवेति। तत्पक्षेऽप्यवश्यमेव निषेधस्य व्यङ्ष्यत्वम्। अन्ये तु-वाच्या- दसंबद्धं तावन्र प्रतीयते। यतः कुतश्चिद्यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात्। एवं च संबन्धाद्यक्म्यव्यञ्षकभावोऽवश्यमप्रतिबन्धे न भवतीति त्रिरूपाद्वेतोरेव नियतधर्मि- निष्ठत्वंन प्रतीतिः। तथा च भीरूत्रम[ण]स्य कारणं भयकारणाभावस्तद्विरुद्धं च भय- कारणम् सिंहस्तदुपलब्धेलेतागहनेऽभ्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंह-

१. 'विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्रा नाभिकमलस्थम्। द्दरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ।' [इति च्छाया]

Page 60

३० काव्यमाला।

क्वचिन्निषेधे विधिर्यथा- "अत्ता इत्थ नु मज्जइ एत्थ अहं दिअसयं पलोएइ। मा पहिय रत्तिअन्धय सिज्जाए महं नु मज्जिहिसि ॥' अत्रावयोः शय्यायां मा निषत्स्यतीति निषेधवाक्ये-इयं श्वश्शय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते ॥ क्वचिद्विधौ विध्यन्तरं यथा- 'बेहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णम्। तह जैग्गिज्ु सयज्जिय न जहा अम्हे मुसिज्जामो ।।' अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रि- रत्यन्धकारा, पतिः प्रोपितः, गृहं शून्यम्, अतस्त्वमभयो मत्पार्श्र्वमागच्छेति विध्यन्तरं प्रतीयते॥ क्वचिन्निषेधे निषेधान्तरं यथा- 'आसाइयं अणाएण जेत्तीयं तत्तिएण वंधदिहिं। उरमसुवसहइन्हिं रक्खिज्जइ गहवईछित्तम् ।।'

सद्भावादि निषेधादेरनुमापकम् । न तु व्यञ्जकमपि इति [ये] वदन्ति। तेऽपि न युक्तवादिनः । तथा हि। अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतु: । स्ाम्यादेशेनानुरागेण लोभेनान्येन वा केनचिदेवंविधेन हेतुना भीरोरपि भयका- रणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः । शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिभेति। सिंहे तेजखििनि तु पराक्रम इति विरुद्धश्च । तत्कथमनुमानम् । एवंविधादर्थीदेवं- विधोऽर्थ उपपत्त्यनपेक्ष्यत्वेन प्रकाशत इति ॥ व्यक्तिवादिनस्तु तददूषणम्॥अत्तेति। श्वश्रूरसहिष्णुरन तु माता। तेन(१) गुप्तमभिलाषः पोषणीयः।न च सर्वदा भयदेत्याह- अत्रेति। दूरे। सा च शेते, न जागर्ति। अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या १. 'श्वश्रूरत्र नु मजति अत्नाहं दिवसकं प्रलोकय। मा पथिक रात्र्यन्धक शय्यायामावयोर्नु मजिष्यसि ॥' [गाथा० ७६७] २. बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम्। तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥' [गाथा० ४।३५] ३. 'जग्गेसु सअजिअण' इति गाथासप्तशत्यां (४।३५) पाठ :. ४. गृहपतिक्षेत्रम् I।' [इति च्छाया]

Page 61

काव्यानुशासनम्। ३१

अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिवारणं निषेधा- न्तरं प्रतीयते। क्कचिदविधिनिषेधे विधिर्यथा- 'महुएहिं किं च पन्थिय जइ हरसि नियंसणं नियम्बाओ। साहेमिकस्स रलने गामो दूरे अहं एक्का ।।' इति। अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी ग्रामो दूरे इति वि- विक्तोपदेशान्नितम्बवासोऽपि मे हरेति विधिः प्रतीयते । क्वचिदविधिनिषेधे निषेधो यथा- 'जीविताशा बलवती धनाशा दुर्बला मम। गच्छ वा तिष्ठ वा पान्थ स्वावस्था तु निवेदिता ॥' अत्र गच्छ वा तिष्ठ वेति अविधिनिषेधे 'जीविताशा वलवती धनाशा दुर्बला मम' इति वचनात् त्वया विनाहं जीवितुं न शक्रोमीत्युपक्षेपेण गमननिषेधः प्रतीयते॥ क्वचिद्विधिनिषेधयोविध्यन्तरं यथा- 'निअदइअदंसणुखित्त पहिय अन्नेण वच्चसु पहेण। गहवइ्धूया दुल्लङ्खवाउरा इह हयग्गामे ।।' अत्रान्येन पथा त्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपता-

सांप्रतं विन्नकारीति कुत्सितं दिवसम्, तस्मात्संप्रति विलोकय। एहि परस्परावलोकन- सुखमनुभवावः। पथिकेति। चेतितेऽपि(?) तव न दोषावहमिति न भेतव्यम्। रा- त्रावधिकमदनोद्रेकादन्ध शय्याविभागानभिज्ञ शय्यायां मा शयिष्ठाः, अपि तु मयि। मा आवयोः, अपि तु मस्येव। मा शयिष्ठाः, अपि तु प्रहरचतुष्टयमपि निधुवनेन क्रीडा। महं इति निपातोSत्रानेकार्थवृत्तिः । न तु ममेति। एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात्। विधिरिति। कांचित्प्रोषितपतिकां तरुणीम-

१. 6.0 .यदि हरसि. .नितम्बवासः । ..... ·".ग्रामो दूरे अहमेकाकिनी ॥' [इति च्छाया] २. 'निजदयितादर्शन ...... पथिकान्येन व्रज पथा। गृहपतिसुता दुर्लङ्व्यवागुरेह हतग्रामे ।।' [इति च्छाया] १. 'मजिष्य स्यैव' स्यात्.

Page 62

३२ काव्यमाला।

विकत्थनपान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति वि- ध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनिषेधयोर्निषेधान्तरं यथा- ·च्चिणसु पडिय कुसुमं मा धुण सेहालियं हलियसुन्हे। ऐस अवसाणविरसो ससुरेण सुओ वलयसद्दो ।।' अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयो- रभिधाने सखिचौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते।। क्वचिद्विधावनुभयं यथा- 'सिणियं वच्च किसोयरि पएण यत्तेण ठविसु महिवट्ठे। भज्जिहि सिविच्छयच्छणि विहिणा दुरेकणनिम्मचिया ॥' अत्र शनैर्व्रजेति विध्यभिधाने न विधिर्नापि निषेधः, अपि तु वर्णनामात्रं प्रतीयते।। क्वचिन्निषेधेऽनुभयं यथा- 'दे आ पसिय नियत्तसु मुहससिजोण्हाविलुत्ततमनिवहे। अहिसारियाणँ विग्घं करेसि अन्नाणँ वि हयासे ॥।'

वलोक्य प्रबुद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषे- धाभावो विधिर्न तु निमन्रणरूपोSप्रवृत्तप्रवर्तनास्वभावः । सौभाग्याभिमानखण्डनाप्र- वेशात्॥ दे आ इति। काचिदभिसर्तु प्रस्ता गृहागतं प्रियतममवलोक्य स्वयं निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते । दे इति निपातः प्रार्थनायाम्। आ इति तावच्छ-

१. 'उच्चिनु पतितानि कुसुमानि मा धुनीहि शेफालिकां हालिकस्नुषे। एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥' [इति च्छाया] २. 'अह दे विसमविरावो' इति ध्वन्यालोके. ३. 'शनैर्व्रज कृशोदरि परेण यत्नेन तिष्ठ महीपृष्ठे। ॥। [इति च्छाया] ४. 'प्राथये तावत्प्रसीद निवर्तखव मुखशशिज्योत्स्नाविलप्ततमोनिवहे। अभिसारिकाणां विन्नं करोष्यन्यासामपि हताशे ॥' [इति च्छाया]

Page 63

काव्यानुशासनम् । ३३

अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दु- कान्तिवर्णनामात्रं प्रतीयते॥ क्कचिद्विधिनिषेधयोरनुभयं यथा- 'वैच् महं विय एक्काए हुंतु निस्सासरोइयव्वाइं। मा तुज्झ वि त्तिइ विणा दखिन्नहयस्स जायंतु ।।' अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्य- लीकप्रियतमोपालम्भमात्रं प्रतीयते॥ क्वचिदविधिनिषेधेऽनुभयं यथा- 'णेहमुहपसाहियंगो निद्दाघुम्मंतलोयणो न तहा। जह निव्वणाहरोसा मलंग दूमेसि मह हिययम् ।।' विगतमत्सराया मम न तथा नखपदादिचिह्नं भवदङ्गसङ्गिखेदावहं य-

वाच्योऽर्थः । तद्वलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचु-

ब्दार्थे। प्रार्थये प्रसीद तावन्निवर्तसव किमेतत्कदाचिद्भवति यदहं नागच्छामि तस्माद्रृथा- यमुद्यमः । एतन्न जानासि यत्कृष्णपक्षे तदुचितवेपाप्यहं निजवक्रचन्द्रमसा शुक्कपक्षं करोमीति न केवलमात्मना विन्नं करोषि यावदन्यासामपि आस्ताम् । हंसीति। सकलदिक्प्रकाशस्त्वया क्रियत इति परमभिलापस्तद्रतो व्यज्यते इति॥ वच्चेति। कश्चिदनह्गीकृतप्रार्थनो निःश्वसन् रुदन्निव कयाचिदेवमुच्यते। त्रज इह हि ते कण्ट- कानामुपरि स्थितिः । ममैव न तु तव तस्या वा एकस्या नान्या हि मत्समा भवति । भवन्तु दुःसहान्यपि सन्तु। निःश्वासरोदितव्यानि न तु सुखानि। मा तवांपि दाक्षि्यमात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि तद्रयोर्मा भूत क्लेशः । तया विना न तु मत्कोपात्। दाक्षिण्येन हृदयशून्यरञनामात्र-

१. 'व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि। मा तवापि तया चिना दाक्षिण्यहतस्य जनिपत ।।' [इति च्छाया] २. 'नखमुखप्रसारिताङ्गो निद्रोन्मीलितलोचनो न तथा। यथा ...... दूनयसि मम हृदयम् ॥' [इति च्छाया ]

१. 'त्मनो' स्यात्. २. 'मुहससीति' स्यात्. ५

Page 64

३४ काव्यमाला।

म्बनपर एव तस्यास्त्वं यत्त्वदघरखण्डनावसरोऽस्या वराक्या न जात इति न केवलं तस्या भवानतिवल्लभो याव्भवतोऽपि सा सुतरां रोचते इति वय- मिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यङ्गयः ॥ क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा- 'कैस्स व न होइ रोसो दद्धू(टू)ण पियाइ सव्वणं अहरम्। सभमरपउमग्घाइरि वारियवामे सहसु इन्हिम् ॥' अत्र वाच्यं सखीविषयम्, व्यङ्गचं तु तत्कान्तोपपत्त्यादिविषयम् । एवमलंकारभेदा रसादिभेदाश्च व्यङ्ग्या मुख्यादिभ्योऽतिरिक्ता ज्ेयाः । तद्विषयो व्यञ्जकः शब्दः ॥ मुख्याद्यास्तच्छक्तय: । मुख्या गौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापाराः मुख्यादीनां श- व्दानाम्। तत्र समयापेक्षवाच्यावगमनशक्तिर्मुख्याभिधा चोच्यते । मु- ख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्गौणी लक्षणा च। तच्छत्तयु- पजनितार्थावगमपवित्रित प्रतिपत्तप्रतिभासहायार्थद्योतनशक्तिर्व्यञ्जकत्वम् ॥

करणेन हतस्य निर्जीवीकृतस्याजनिषतेति। कस्स वेति। कस्य वानीर्ष्यालोरपि । न भवति रोषो दष्ट्रैवाकृत्वापि कुतश्चिदेवापूर्वतया प्रियायाः सत्रणमधरं विलोक्य। सभ्रमरपद्माघ्राणशीले शीलं हि कथंचिदपि वारयितुं न शक्यम्। वारिते वारणायां हे वामे तदनङ्गीकारिणि सहस्वेदानीमुपालम्भपरम्परामित्यर्थः। एतत्कांचिदविनयरमणेन खण्डिताधरां विदितमिव प्रकाशयन्तीं तत्प्रत्यायनाय सख्री वक्ति। सहस्वेदानीमिति वाच्यमविनयवतीविषयं व्यङ््यम्। भर्तृविषयं तु तस्य मुग्धत्वेऽपरावो नास्तीति। वैदग्ध्ये तु मयेत्थं संवृत्तमतः प्रियेयमिति कृत्वा सहस्वेति व्यङ्गयम्। तस्यां प्रियेण गाढमुपालभ्यमानायां तद्यलीकशङ्गितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्गयम्। तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशय- ख्यापनं प्रियाया इति शब्दवलादिति सपत्नीविषयं व्यङ्ग्यम्। सपत्नीमध्ये इयती खली-

१. 'कस्य वा न भवति रोषो दृष्टरा प्रियायाः सव्रणमधरम्। सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ।।' [इति च्छाया] १. 'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तमनवलोकमा- नयेव कयाचिद्विदग्धासख्या तद्वाच्यतापरिहारायैवमुच्यते' इति ध्वन्यालोकलोचने.

Page 65

काव्यानुशासनम् । ३५

अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणार्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ।। वक्रादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम्।

शादर्थस्यापि मुख्यामुख्यव्यङ्गयात्मनो व्यञ्जकत्वम्॥ वक्तृविशेषाद्यथा- 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्टहे दास्यसि प्रायो नास्य शिशोः पिताद्य विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्धाः पुनरालखिन्तु जरठच्छेदा नलग्रन्थयः ॥' अत्र चौर्यरतगोपनं गम्यते। प्रतिपाद्यविशेषाद्यथा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोडधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'

कृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम्। प्रत्युतायं बहुमानो यतो रोषे कुपिता पादपतनादि लभख इति। सहस्व शोभस्वेदानीमिति सख्रीविषयं सौभाग्यख्यापनं व्यङ्गयम्। अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता। पुनः प्रकटदशन- च्छददंशनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यक्त्यम्। इत्थं मयैत- दपद्रुतमिति स्ववैदग्ध्याख्यापनं तटस्थविदग्धलोकविपयं व्यङ्त्यमिति ॥ताविति। सा च स च तौ। अत्रेति। शक्तिमध्येऽर्थमध्ये च ॥ दृष्टिं हे प्रतिवेशिनीति। काचिदुवतिः परपुरुषसंभोगानुभवेप्सया संकेतस्थानं त्रजन्ती सवप्रवृत्तिप्रयोजनं वि- शिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मकं तथा संभोगचिहानि नखरदनक्षतानि गात्र- संलम्नतया शाङ्यमानाविर्भावानि यथाक्रमं भर्तृपिपासाक्षमनादेयसरसपानीयानयनेन चिरच्छिन्ननलग्रन्थिपुरुषजर्जरप्रान्तजनिष्यमाणेन च गात्रगतविकारविशेषोद्गमेनापढु- त्याभिधत्ते। तस्याक्षासाध्वीत्वेऽवगते व्यक्म्यप्रतीतिरिति । निःशेपेति। च्युतं चन्दनं न तु क्षालितम्। संमृष्टो न तु किंचिन्मृष्टः । दूरमनञ्जने निकटे तु साअने।

Page 66

३६ काव्यमाला।

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते।। काकुर्ध्वनिविकारस्तद्विरोषाद्यथा- 'तथाभूतां दृष्टा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुपु ।' अत्र मयि न योग्यः खेदः कुरुपु तु योग्य इति काक्का प्रकाश्यते ॥ वाक्यविशेषाद्यथा- 'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥' अत्र नारायणरूपता गम्यते॥ वाच्यविशेषाद्यथा- 'उद्देशोडयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः । किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥' अत्र सतार्थ प्रविशेति व्यज्यते॥। अन्यासत्तेर्यथा- "णोलेइ अणोल्लमणा अत्ता मं घरभरम्मि सयलम्मि। खणमित्तं जइ संझाइ होइ न व होइ वीसामो।।'

पुलकिता तन्वीति चोभयं विधेयमिति ॥ नारायणरूपतेति। ससंदेहोत्प्रेक्षायाः संकरेणेत्यर्थः । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रपकस्याक्षेपो येन वाच्यालंकारोपस्का-

१. 'नुदत्यनार्द्रमना: शवश्रूर्मी गृहभरे सकले। क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥' [इति च्छाया]

Page 67

काव्यानुशासनम्। ३७

अत्र संध्या संकेतकाल इति तटस्थं प्रति कयापि द्योत्यते॥ प्रस्तावाद्यथा- 'सुव्बइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमित्तेण। एमेय किंति चिट्ठसि ता सहि सज्जेसु करणिज्जम् ॥' अत्रोपपति प्रत्यभिसर्तु न युक्तमिति ध्वन्यते ॥ देशविशेषाद्यथा- 'अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥।' अत्र 'विविक्तोऽयं देशः, प्रच्छन्नकामुकस्त्वया विसर्ज्यः' इति विश्वस्तां प्रति कयाचिन्निवेद्यते। कालविशेषाद्यथा- 'गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अह्यम् । अज्ज पवासं वच्चसि वच्च सयं जेव्व सुणसि करणिज्जम् ॥' अद्य मघुसमये यदि त्रजसि तदहं तावन्न भवामि तव तु न जानामि गतिमिति व्यज्यते।। चेष्टाया यथा- 'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् । आनीतं पुरतः शिरोंशुकमधः सषिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं संकोचिते दोर्लते ।'

रकत्वं व्यङ्रस्य भवेत्। यो योऽसंप्राप्तलक्ष्मीको निव्याजजिगीपाक्ान्तः स स मां

१. 'श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण। एवमेव किमिति तिष्टसि तत्सखि्र सजय करणीयम् ।' [इति च्छाया] २. 'गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम् । अद्य प्रवासं त्रजसि व्रज खयमेव श्रोष्यसि करणीयम् ॥' [इति च्छाया]

१. 'यो यः संग्राप्त' ध्वन्यालोकलोचने.

Page 68

३८ काव्यमाला।

अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ॥ एवं वक्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्र- वक्तबोध्ययोगे यथा-'अत्ताइत्थ' इत्यादि। अत्र वक्तबोध्यपर्यालो- चनयाशेषेति विधिरूपव्यङ्गचार्थप्रतीतिः ॥ एवं द्विकयोगान्तरे त्रिकादियोगान्तरे च स्वयमप्यूह्यम्। एपु मुख्या- र्थस्य व्यञ्जकत्वमुदाहृतम्॥। अमुख्यस्य यथा- 'साहेंती सहि सुहयं खणे खणे दूमियासि मज्झ कए। सज्झावनेहकरणिज्जसरसियं दाव विरइयं तुमए ॥' अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्। तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गचम् ।। व्यङ्गचस्य यथा- 'वाणियय हत्थिदंता कुत्तो अम्हाण वग्घकित्तीओ। जावि लुलियालयमुही घरम्मि परिसुक्कए सुण्हा ॥' अत्र विलुलितालकमुखीत्वेनानवरतक्ीडासक्तिस्तथा च सततसंभोग- क्षामता ध्वन्यते ।। व्यङ्गचस्य भेदानाह- व्यङ्गयः शब्दार्थशक्तिमूलः । शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्ग्चो द्विधा। उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात्।।

मश्रीयादित्याद्यर्थसंभावनात्। न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृ- ष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुद्रैक्यामात्रेणाप्युपपत्तेः। यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदन्येनेति। पूर्वा च निद्रा राजपुत्राद्यवस्थायाम-

१. 'साधयन्ति सखि सुभग क्षणे क्षणे दूनासि मत्कृते। सद्भावस्रेहकरणीयसदृशं तावद्विरचितं त्वया ॥' [इति च्छाया] २. 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च। यावह्लुलितालकमुखी गृहे परिसर्पते स्नुषा ॥' [इति च्छाया]

Page 69

काव्यानुशासनम्। ३९

तत्र शब्दशक्तिमूलमाह- नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मु- ख्यार्थवाधादिभिनियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्व व्यञ्ज- कत्वे शब्दशक्तिमूलः पदवाक्ययोः । अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नियन्निते- डमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनैगो- णीलक्षणारूपे व्यापारे नियन्निते मुख्यस्य शब्दस्य वस्त्वलंकारव्यञ्जक- त्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्गयः ॥ स च प्रत्येकं द्विधा। पदे वाक्ये च।। संसर्गादयश्चेमे भर्तृहरिणा प्रोक्ता :- 'संसर्गो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' यथा- 'वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः' इति। 'बिना सीतां रामः प्रविशति महामोहसरणिम्' इति। संसर्गाद्विप्रयोगाच्च दाशरथौ। 'बुधो भौमश्च तस्योच्चैरनुकूलत्वमागतौ' इति साहचर्याङ्रहविशेषे। 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' इति विरोधाद्धार्गवकार्तवीर्ययोः। 'सैन्धवमानय, मृगयां चरिप्यामि' इत्यर्थात्प्रयोजनादश्वे। 'अस्मद्धाग्यविपर्ययाद्यदि परं देवो न जानाति तम्' इति प्रकरणाद्यु- प्मदर्थे। प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेदः । 'कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम्' इति लिङ्गाचचिह्वात्पार्थे। 'किं साक्षादुपदेशयष्टिरथ वा देवस्य शृङ्गारिणः' इति शब्दान्तरसंनि- धानात्कामे। 'कणति मधुना मत्तश्रेतोहरं प्रियकोकिलः' इति सामर्थ्याद्वसन्ते। 'तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय' इत्यौचित्यात्प्रसादसांमुख्यपालने।

Page 70

४० काव्यमाला।

'अहो महेश्वरस्यास्य कापि कान्तिः' इति राजधानीरूपाद्देशाद्राजनि। 'चित्रभानुर्विभात्यह्नि' इति कालविशेषाद्रवौ। 'मित्रं हन्तितरां तमः परिकरं धन्ये दृशौ मादृशाम्' इति व्यक्तिवि- शेपात्सुहृदि च प्रतीतिः । स्वरात्त्वर्थविशेषप्रतिपत्तिः काव्यमार्गेडनुपयोगिनीति नोदाहियते। 'मश्नामि कौरवशतं समरे न कोपात्' इति काकुरूपात्स्वराद्जवत्यर्थवि- शेपप्रतिपत्तिः । आदिग्रहणादभिनयोपदेशनिर्देशसंज्ञेङ्गिताकारा गृह्यन्ते। अभिनयो यथा- 'एद्दहमित्तत्थणिया एद्दहमित्तेहिं अत्थिवत्तेहिं। ऐयावत्थं पत्ता एत्तियमित्तेहिं दिअहेहिं ॥' अपदेशो यथा- 'इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य सयं छेत्तुमसांप्रतम् ।।' निर्देशो यथा-'भर्तृदारिके, दिष्टया वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः ।' संज्ञा यथा- 'अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्। वीक्षितेन परिगृद्य पार्वती मूर्धकम्पभयमुत्तरं ददौ ।।' इङ्गितं यथा- 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापझं न्यमीलयत् ।।' आकारो यथा- 'निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥' १. 'एदृदमे त्तावस्था' इति काव्यप्रकाशे. २. 'एतावन्मान्नस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्। एतावद्वस्थां प्राप्ता एतावन्मात्रैर्दिवसैः ॥'

Page 71

काव्यानुशासनम् । ४१

तदेवं संसर्गादिभिर्नियमितायामभिधायां यार्थान्तरप्रतीतिः सा व्यञ्ज- नव्यापारादेव। अमुख्येऽपि शब्दे मुख्यार्थवाधादिनियमिते प्रयोजनप्रति- पत्तिर्व्यञ्जनव्यापारादेव। तथा हि तत्र संकेताभावान्नाभिधा नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् न हि लक्ष्यं मुख्यम्, नापि तस्य बाधः, न च किंचिन्निमित्तमस्ति, नापि तत्र शब्दः स्खलद्गतिः।न च किंचित्प्रयोजनमस्ति। अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाङ्डयते तर्हि तत्रापि प्रयोजनान्तराकाङ्कायामनवस्था स्यात् । तथा च लाभमि- च्छतो मूलक्षतिः। न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वत्तुं शक्यम्। विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः प्रयोजनं त्वर्थाधिगतिः प्राकट्यं संवित्तिर्वा। तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः । तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा- 'मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिरयन्दं विदधाति सदागमः ॥।' काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रका- इयते। अत्रार्थयोर्वैसदृश्यान्नोपमा ।। वाक्ये यथा- 'पेन्थिय न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उन्नयपओहरं पिखिऊण जइ वससि ता वससु ॥'

पीति सिद्ध रूपकध्वनिरेवायम्। स च वाक्यपर्यालोचनयावसीयत इति ॥ अर्थाधि- गतिरिति। नैयायिकादीनां प्राकट्यं भट्टमते, संवित्तिः प्राभाकरे ॥ मुक्तीति। मुक्तिरभेदव्यापारादपि। भुक्तिः कान्तोपभोगोऽपि। एकान्तः संकेतस्थानमपीति। सतः सुन्दरस्यागमनम्, शोभन आगमक्ष॥ उन्नतपयोधरमिति। उन्नतं मेघं प्रेक्ष्ये-

  1. 'पथिक नात्र सरंस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे। उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्ूस ॥' [इति च्छाया ।] १. 'मिति' लोचने. ६

Page 72

४२ काव्यमाला।

अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तु लभ्यते। सर्वे ह्यत्रावि- दग्धाः। तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते। वाच्य- बाधेन व्यङ्गचस्य स्थितत्वात् । तयोर्नोपमानोपमेयभाव इति नालंकारो व्यङ्गयः ॥ यथा च- 'शनिरशनिश्च तमुच्चैनिंहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्। यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च !।' अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः इति व्यत्ययेन ध्वन्यते ॥

'रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥' अत्र भीषणीयस्य भीमसेन उपमानम्। वाक्ये यथा- 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्र्ेभिलाषिणम् ।।' अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसाङ्कीदित्यप्राकरणिकप्राकरणिकयो- रुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्गचः ॥ यथा वा- 'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ।।' अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया। यद्यपि समुद्दीपितेति सानन्दमिति चार्थो व्यञ्जकस्तथापि न शब्दशक्तिं विनार्थशक्तिरुन्मीलति इति शब्दशक्तिरेव व्यञ्जिका।

त्यर्थः ॥ अशनिर्वज्रमपि। अनुदारोऽनुगतदारोऽपि ॥ प्रोल्सन् हारो यस्य, प्रोल्लसन्त्यश्ष धारा यस्य । तस्याः कामिन्याः, प्रावृषश्च ॥ अचन्द्रेति। चन्द्रः कर्पूर- मपि। समुत्सहर्षा । तारकाभ्यां कनीनिकाभ्यामपि। श्यामा रात्रिः, कान्ता च। १. 'अतन्द्रेति' स्यात्.

Page 73

काव्यानुशासनम् । ४३

यथा वा-'मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः ।' अत्र विरोधालंकारो व्यङ््यः ॥ यथा वा- 'खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्धासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये। ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरां- स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥' अत्र व्यतिरेकः ॥ एवमलंकारान्तरेऽप्युदाहार्यम् ॥ गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा- रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।' अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वा- दिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति॥ वाक्ये यथा- 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥'

मातङ्ो हस्ती चण्डालक्ष । गौर्यो गौराङ्योऽपि। विभवेरता विगतं भवे रतं यासा ताक्च। पद्मरागा मणिविशेषाः, पद्मवच्च रागो विद्यते यासाम् । द्विजा दन्ताः, विप्राश्च ॥ नखैः करजैः, न गगने च। क्षितिभृतो राजानोऽपि उभये रश्मिचरणरूपाः॥ एवमिति। यथा-'सरसं मउअसहावं विमलगुणाणं मित्तसंगमोल्लसिअम्। कमलं नद्च्छायं कुणंतदोसायरनमोदे ॥I' एतत्केनचिच्चन्द्रमेवोद्दिश्योच्यते। कमलप्रख्यस्य महापुरुषस्य श्रियं नाशितवन्तं कंचन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यङ्येति। निःश्वासान्ध इति। हेमन्तवर्णने पञ्चवट्यां रामस्योक्तिरियम्॥ या निशेति। सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिः तस्यां संयमी जागर्ति कथ प्राप्येति। न तु विषयवर्जनमात्रादेव संयमीति १. अस्य संस्कृतच्छाया न बुद्धा.

Page 74

४४ काव्यमाला।

अत्र निशायां जागरितव्वमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुप- देश्यं प्रत्युपदेशः सिध्यतीति बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तर- तालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ तु पराड्मुखत्वं ध्वन- तीति।। लक्षकशब्दशक्तिव्यङ्गचं वस्तु पदे यथा- 'स्त्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वै सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव।।'

यावत्। यदि वा सर्वभूतनिशायां मोहन्यां मिथ्यादृष्टौ जागर्ति कथमियं हेयेति। यस्यां तु मिथ्यादृष्टौ सर्वभूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रि- रप्रबोधविषयः । तस्यां हि चेष्टायां नासौ प्रवुद्धः । एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यैवान्तर्वहिष्करणवृत्तिश्वरितार्था। अन्यस्तु न पश्यति न मन्यते इति तत्त्वदृष्टिपरेण भाव्यमिति तात्पर्यम्॥ स्न्निग्धेति। स्न्निग्धया जलसंबन्ध- सरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या चाकचिक्येन लिप्तमाच्छु- रितं वियन्नभो यैः । वेल्लन्त्यो जम्भमाणास्तथा चलन्त्यः परभागवशात् प्रहर्षवशाच्च बलाकाः सितपक्षिविशेषा येषु सत्सु ते एवंविधा मेघाः । एवं नभस्तावहुरालोकं वर्तते। दिशोऽपि दुःसहाः । यतः सूक्ष्मजलोद्गारिणो वाता इति मन्दमन्दत्वमेषामनियतदि- गागमनं च बहुवचनेन सूचितम्। तर्हि गुहासु क्वचित्प्रविश्यास्यताम्, अत आह-पयो- दानां ये सुहृदस्तेषु च् सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवा- दिन्यो मधुराः केका: शब्दविशेषाः । ताश्च सर्वे पयोदवृत्तान्तं स्मारयन्ति सयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्वोधितविप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः । विभावानां च साधारण्यमभिमन्यमान इत एव प्रभृति प्रियतमां हृदये निधायैव स्वात्मवृत्तान्तं तावदाह-कामं सनत्विति। दृढमिति सातिशयम्। कठोरहृदय इति। रामशब्दार्थव्यङ्गयविशेषावकाशदानाय कठोरहृदयपदम्। यथा-तद्रेहमित्युक्के- Sपि नतभित्तीति। अन्यथा रामपदं दशरथकुलोद्भवकौशल्यास्नेहपात्रत्वबाल्यचरित- जानकीलाभादिधर्मान्तरपरिणतमर्थ कथं नाम ध्वनेत्। अस्मीति। स एवाहं भवामी- त्यर्थः । भविष्यतीति क्रियासामान्यम्। तन किं करिष्यतीत्यर्थः । अथ च भवनमे- वास्या असंभाव्यमिति। उक्तप्रकारेण हृदयनिहितां प्रियां सजलजलधारादीनामुद्दी- पनविभावानां साधारणत्वावधारणादिना स्मरणेन वैदेहीति शब्देन कथं भविष्यतीति

Page 75

काव्यानुशासनम् । ४५

अत्र प्रकरणात्ृतीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरणसीतावियोगाद्यनेकदुःखभाज- नत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति॥ वाक्ये यथा- 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्र कृतविद्यश्च यश्च जानाति सेवितुम् ।।' इदं हि वाक्यमसंभवत्स्वार्थ सत्सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयञ्छूरकृतविद्यसेवकानां प्राशस्त्यं ध्वनति ॥ अर्थशक्तिमूलं व्यङ्गचमाह- वस्त्वलंकारयोस्तद्वयञ्जकत्वेऽर्थशक्तिमूल: प्रबन्धेऽपि। वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्यञ्जकत्वेऽर्थशक्तिमूलः स च

विकल्पपरम्परया च प्रत्यक्षीभावितां हृदयस्य स्फुटनोन्मुखीं ससंभ्रममाह-हहा हेति। देवीति युक्तं तव धैर्यमित्यर्थः ॥ सुवर्णपुष्पामिति। सुव्णे न तु ताम्रादि पुष्पाणि प्रतिदिनं ग्राह्याणि न तु दीनारादिवत् सकृद्राह्याणि। पृथिवीं न तु नगरादि- मात्रं चिन्वन्ति प्रत्यहं गृहीतसारां कुर्वते। पुरुषा इति। अन्ये त्वकार्यकराः । त्रय इति न तु चत्वारः। एवं शूरः पराक्रमेण दुर्घटकार्यकारी। कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन। सेवक इति सेवाज्ञ इति वा वक्तव्ये ज्ञानस्यालौकिक- त्वमनौचित्याद्यगणनादि च ध्वनितुं यस्ये(श्वे)त्यादि कृतम् । शूरकृतविद्यवत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयक्षकाराः सतः संभवन्तीति न केवलं भणितिवशेनै- वाभिनिष्पन्नशरीरो यावद्वहिरप्यौचित्येन संभाव्यमानसद्भाव इत्यर्थः । यथा-'सिहि- पिञ्छकण्णऊरा जाया वाहस्स गव्विरी भमइ। मुत्ताहलरइअपसाहणाणँ मज्झे सवत्ती- णम् I।' शिखिमात्रमारणमेव तदासक्तस्य कृत्यम्। अन्यासु त्वासक्तो हस्तिनोऽप्यमार- यत् इति बहुवचनेनोक्तमुत्तमं सौभाग्यम्। रचितानि विविधभङ्गीभिः प्रसाधनानि इति तासां संभोगव्यग्रिमाभावात् तद्विरचनशिल्पकौशलमेव परमिति दौर्भांग्यातिशय इति दर्शितम्। गर्वक्च बाल्याविवेकादिनापि भवतीति नात्र खोक्तिसद्भावः शङ्कयः । एष चार्थो यथा यथा वर्ण्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति॥

१. 'शिसिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति। मुक्ताफलरचितप्रसाधनानां मध्ये सपत्ीनाम् ।।' [इति च्छाया]

Page 76

४१ काव्यमाला।

पदवाक्ययोः प्रबन्धे च। इह चार्थः सतःसंभवी कविप्रौढोक्तिमात्रनिष्प- न्नशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यम्। प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिंचित्करत्वात्। कविप्रौढोक्तिरेव च कविनिबद्धवक्त- प्रौढोक्तिरिति किं प्रपञ्चेन ।।

कविप्रौढोक्तिमात्रेति। कवेरेव या प्रौढा उक्तिस्तन्मात्रनिष्पन्नशरीर इत्यर्थः । यथा-'सज्जेइ सुरहिमासो ने याप णामेइ जुअइजणलक्खमुहे। अहिणवस्रहिया- रमुहे णवपल्लवपत्तले अणङ्गस्स सरे ॥' अत्र वसन्तश्वेतनोऽनङ्गस्य सखा स जयति केवलं न तावदर्पयति। इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारो- द्ेदिनी वसन्तदशा यत उक्ता अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तद- र्पितेषु कियद्विकृ(क)मिष्यते इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति । कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरो यथा-'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्वफलं शुकशावकः ॥' न हि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमा सिद्धिं विदध्युः । दिव्यकल्पसहस्त्रादिश्चात्र परिमितकालः। न चैवंविधोत्तमफलत्वेन चान्द्रायणप्रभृत्यपि तपः श्रुतम्। तवेति भिन्नं पदम् । समासेन विगलिततया सा न प्रतीयते। तव दशतीत्यभिप्रायेण। तेन वृत्तानुरोधात् त्वदधरपाटलम् इति न कृतमिति। तदसदेव। दशतीत्याखादयति। अविच्छिन्नप्रतिबन्धतया न त्वौदरिकवत्परिभुङ्के अपि तु रसज्ञोऽन्रेति तत्प्राप्तिवदेव। रसज्ञताप्यस्य तपःप्रभावादेवेति। शुकशावक इति। तारुण्याद्युचितकाललाभोऽपि तपस एवेति। अनुरागिणश्च प्रच्छन्नस्वाभिप्राय- ख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्ग्यम्। अन्र चाव्यवहरणन्नयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन खदते। स्वभावोऽपि हि वर्ण्यमान: कविप्रौढ्यैव खदते। एतच्च जात्यलंकारे विवेचयिष्यते। काव्यस्य च कविरेव कर्ता वक्ता च। तत्र कविनैव निबद्ध इति कवेरेव तथाविधार्था उल्लिखिताः इति स्वतःसंभवित्वम्। कविनिबद्ध्व क्तृप्रौढोक्तिमात्रशरीरत्वं चार्थस्य न वाच्यमित्यर्थः ॥ किं प्रपश्चेनेति।

१. 'सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान्। अभिनवसहकारमुखान्न व पल्लव पत्रलाननङ्गस्य शरान् ।।' [इति च्छाया] २. 'ण दाव अप्पेइ' ध्वन्यालोके. ३. 'न्तोचेतनो' ध्वन्यालोकलोचने.

Page 77

काव्यानुशासनम्। ४७

तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा- 'तं ताण सिरिसहोयररयणाहरणम्मि हिययमिक्करसम्। बिम्बाहरे पियाणं निवेसियं कुसुमबाणेन ।I' अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति॥ वाक्ये यथा- 'तापी नेयं नियतमथ वा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । अन्यो वाहं किमथ न हि तद्वारिवेल्लद्वलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ।।' अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते॥। वस्तुनोलंकारव्यञ्जकत्वं पदे यथा- "वीराण रमइ घुसिणारुणम्मि न तहा पियाथणुत्थङ्गे। दिट्ठी रिउगयकुम्भत्थलम्मि जह बलहसिन्दूरे ।।' अत्र धी(वी)राणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुम्भस्थलस्य चोपमालंकारं ध्वनति॥

एवं हि भेदपरिकल्पने शिष्यव्यामोह एव संपद्यत इत्यर्थः ॥ तं ताणेति। तेषाम- सुराणां पातालवासिनां यैः पुनः पुनरिन्द्रविमर्दनादि किं किं न कृतम् तद्ृदयमिति येभ्य स्तेभ्योSतिदुःखकरेभ्योऽप्यकम्पनीयव्यवसायम्। तच्च श्रीसहोदराणामत एवानि- र्वान्योत्कर्षाणामित्यर्थः । तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परम् यद्धृदयं तत्कु- सुमवाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां बिम्बाधरे निवेशितम्। तदव- लोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगित्वेन कामदेवेन कृतम् तेषां हृदयं यद त्यन्त विजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत्॥ वस्तुनोऽलंकारव्यञ्जक- त्वमिति। वस्तुना उपमादिरलंकारो व्यज्यत इत्यर्थः । तत्रोपमाध्वनिः 'वीराण-'

१. 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम्। बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।।' [इति च्छाया] २. 'वीरांणां रमते घुमणारुणे न तथा प्रियास्तनोत्सङ्गे। दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥' [इति च्छाया]

Page 78

काव्यमाला।

इत्यादिना दर्शितः । अर्थान्तरन्यासध्वनिः पदे यथा-'हिअअद्वियमन्नं खुअ अणरुद्धमुहं पि मं पसायन्त। अवरद्धस्स वि णे हु दे बहुजाणय रुसिउं सक्कम् ॥'हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया। अत एवाप्रदर्शितरोषमुखीमपि मां प्रसाद- यन्। हे बहुज्ञ, अपराद्धस्यापि तव खलु न रोषकरणं शक्यम्। अत्र बहुज्ञेत्यामन्र- णार्थो विशिषे पर्यवसितः। अनन्तरं तु तदर्थपर्यालोचनवलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि। तैथा हि। खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यक्षेण दर्शयन्ती इत्थमाह। यः कश्चिद्वहुज्ञो धूर्तः स एवं सापराधोऽपि स्वापराधावकाश- मवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति। उत्प्रेक्षाध्वनिर्यथा- 'चन्दनासक्तभुजगनिःश्वासानिलमूर्छितः । मूर्छयत्येष पथिकान्मधौ मलयमारुतः ॥' अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारणत्वं मन्मथोन्माथदायित्वेनैव। तन्तु च- न्दनासक्तभुजगनिःश्वासानिलमूर्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसा- मर्थ्यादवसीयते। न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम्, गमकत्वात्। अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात्। यथा-'ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायंदो। अज्ज सरिसत्तणं पाविऊण अद्गि व्विअ न माई ॥' ईर्ष्याकलुषितस्यापि ईषदरुणच्छायाकस्य। यदि तुँ प्रसन्नस्य मुखस्य साद- श्यमुद्धहेत्सर्वदा तर्तिक कुर्यात् त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमि- त्यपिशब्दस्याभिप्रायः। अङ्गे न स्वदेहे न माति दश दिशः पूरयति यतोऽद्येयता कालेन एकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं खरससिद्धमेवमुत्प्रे- क्ष्यते। यदि च ननुशब्देन वितर्कमुत्प्रेक्षारूपमाचक्षणेनासंबद्धता पराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा-'त्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्विदपि धन्विभिरन्वबन्धि। तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्ष- णश्रीः ॥' परितः सर्वतो निकेतान्परिपतन्नक्रामन्न कैश्चिदपि चापपाणिभिरसौ मृगोऽनु- बद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात् सवाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते। अङ्गनाभिराकर्णपूर्णैरनेत्रशरैर्हता ईक्षणश्रीः सर्वखभूता अस्य यतः अतो न तस्थौ। नन्वेतदप्यसंबद्धमस्तु। न। शब्दार्थव्यवहारे प्रसिद्धिरेव प्रमाणम्॥ दीपकध्वनि- र्यथा-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वज्रमिन्द्रकरविप्रस्टतं

१. 'हृदय स्थापितमन्युमपरोषमुखीमपि मां प्रसादयन्। अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥' [इति च्छाया] २. 'हिअअट्टाविअमण्णुं अवरुण्णमुहं' ध्यन्यालोके पाठः. ३. 'णं' ध्वन्यालोके. ४. 'सामर्थ्य' लोचने. ५. 'सा हि' लोचने. ६. 'ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । अद्य सदशत्वं प्राप्याङ्ग इव न माति ।।' [इति च्छाया] ७. 'त्वप्रस' लोचने.

Page 79

काव्यानुशासनम् । ४९

वाक्ये यथा- 'पुत्रक्षयेन्धनघनप्रविजम्भमाण- स्नेहोत्थशोकविषमज्वलनाभितप्तः। प्रालेयशीतलममंस्त स बाह्यवहि- महाय देहमथ संविदधे सरित्सात् ।।' अत्र विशिष्टः पुत्रक्षयोपतप्तोऽननिं प्रविष्टो न तेन दग्ध इत्ययं वाक्यार्थो वस्तुस्वभावः शोकस्य वाह्यवह्वेराधिक्यमिति व्यतिरेकालंकारं ध्वनति ॥

वा स्स्ति तेऽस्तु लतया सह वृक्ष ।I' इति। अत्र मा वाधिष्ठेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः ॥ अप्रस्तुतप्रशंसाध्वनिर्यथा- 'ढुण्ढुण्णन्तो मरिहिसि-' इति। प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमर- मेवमाहेति। भृङ्गस्यासिधायां प्रस्तुतत्वमेव। न चामन्रणादप्रस्तुतत्वगतिः प्रत्युतामत्रणं तस्या मौग्ध्यविजुम्भितमित्यभिधया तावनात्राप्रस्तुतप्रशंसा। समाप्तायां पुनरभिधायां वाच्यार्थसौन्दर्यवलादन्यापदेशता ध्वन्यते। यत्र सवसौभाग्याभिमानपूर्णा सुकुमारपरि- मलमालतीकुसुमसदृशी मुग्धकुलवधूर्निर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयति- शयानि शम्भलीकष्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानि इतश्षा- मुतश्र चश्चूर्यमाणं प्रियतममुपालभते। अपद्रुतिध्वनिर्यथा-'यत्कालागुरुपत्रभङ्ग- रचनावासैकसारायिते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि। विच्छेदानलदीपि- तोत्कचनिताचेतोधिवासोन्भवं संतापं विनिनीषुरेष विततैरह्वैर्नताङ्ग: स्मरः ॥' अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगान्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छ- विमन्मथाकारतयापह्नवो ध्वन्यते। अत्रैव ससंदेहध्वनिः । यतः चन्द्रवर्तिनोऽस्तस्य नामापि न गृहीतम्। अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गवि- च्छित्यास्पदत्वेन यच्छाखामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससंदेहो धवन्यते।। पूर्वमनङ्गीकृतप्रणयामनुतप्तां प्रणयिविरहोत्कण्ठितां वल्लभागमनप्रतीक्षापर- त्वेन कृतप्रसाधनादिविधेयतया वासकसजीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालगुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्रन्द्रवर्तिनी च कुवलयदलश्यामला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि। त्वदीयकुचकलशशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयते इति सहोक्तिध्वनिरपि॥ 'त्वत्कुचसदृशश्रन्द्रसमस्त्वत्कुचाभोगः' इति प्रतीतेरुपमाध्वनिरपि ॥ एवमन्येऽप्यत्र प्रभेदा: शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात्। यतः-'हेलापि कस्यचि-

१. 'वनिताचेतो' स्यात्.

Page 80

काव्यमाला।

अलंकारस्य वस्तुव्यङ्गचत्वं पदे यथा- 'चूअङ्करावयंसं छणपसरमहग्घमणहरसुरामोयम्। अपणामियं पि गहियं कुसमसरेण महुमासलच्छीए मुहम् ॥'

दचिन्त्यफलप्रसत्त्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणीं धुनोति खात्संपतन्नपि लतां चलयेन्न भृङ्ग: ॥' व्यतिरेकध्वनिर्यथा-'जाएज वणुद्देशे खुजो व्विअ पायवो घडिअवत्तो। मा माणुसम्मि लोए ताएक्वरसो दरिद्दो अ ॥' जायेय वनोद्देशे एव वनस्यैकान्ते गहने यत्र स्फुटबहुतरवृक्षसंपत्त्या प्रेक्षतेऽपि न क- श्चित् कुब्ज इति। यो रूपघटनादावेवानुपयोगी। झटितपत्र इति। छायामपि न क- रोति तस्य का पुष्पफलवातेति भावः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी स्या- दुल्लूकादेर्निवासायेति भावः । मानुष इति। सुलभार्थिजन इति भावः । लोक इति। यत्र लोक्यते सोऽर्थिभि: तेन चार्थिजनो न किंचिच्छक्यते कर्तु तन्महद्वैश- समिति भावः । अत्र वाच्योऽलंकारो न कश्चित्। त्यागैकरसस्य दरिद्रस्य जन्मानभि- नन्दनं त्रुटितपत्रकुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम्। तथाविधादपि पादपात्तादृशश्र पुंसः शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति॥ एवमन्येऽलंकारा व्यङ्गयतया अभ्यूह्या इति ॥। अलंकारस्य वस्तुव्यञ्जकत्वमिति। अलंकारेण उपमादिना वाच्येन वस्तु व्यज्यत इत्यर्थः । तत्र विरोधस्य वस्तुव्यञ्जकत्वं चूअङ्कुरा- वयंसमित्यादिना प्रदर्शितम्। उपमाया यथा। शिखरिणीति। अत्र तवाधरपाटलमिति पदे समासोपमयाभिलाषात्मकं वस्तु ध्वन्यते । रूपकस्य यथा 'चमहियमाणसकञ्च- णपङ्कयनिम्महियपरिमला जस्स। अखुडियदाणप्पसरा बाहुप्पलिहा व्विय गयन्दा ॥' अत्र बाह्नो: परिघरूपणात्मना रूपकालंकारेण भुजद्ूयान्यद्जाश्वादिसामग्री रूपं तस्यानु- पादेयमिति वस्तु व्यज्यते । एवमन्येऽप्यलंकारा वस्तुनो व्यञ्जकत्वेनोदाहार्याः॥ छणेति। महार्घेनो(णो)तसवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र। महार्घशब्दस्य परनिपातः। प्राकृते नियमाभावात्। असमर्पितमपि गृहीतं कु-

१. 'व्यञ्जकत्वं' स्यात् टीकानुरोधात्. २. 'चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम्। असमर्ितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥' ३. 'महं घणमहुरामोअम्' ध्वन्या०.

१. 'जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्रः। मा मानुषे लोके तापैकरसो दरिद्रश्च ।।' २. " ...... मानस काञ्चन पङ्गज नि र्ज थित प रिमला य स्य । अखण्डितदानप्रसरा बाहुपरिघा इव गजेन्द्राः ॥'

Page 81

काव्यानुशासनम्। ११

अत्रापणामियमसमर्पितमपि विरोधालंकारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं वस्तु ध्वन्यते ॥ वाक्ये यथा- 'गाढालिङ्गणरहसुज्जयम्मि दइए लहु समोसरइ। माणंसिणीण माणो पीलणभीय व्व हिययाओ ।।' अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि। तत्र जुम्भत इति वस्तु व्यज्यते।। अलंकारेणालंकार: पदे यथा- 'तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो। इअ नववहुया सोउण कुणई वयणं महीसमुहम्॥' अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेः त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते।। वाक्ये यथा- 'स वक्तुमखिलाञ्छक्तो हयग्रीवाश्रितान्गुणान्। योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तु महोदधेः ॥' अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणत- द्विशेषप्रकाशनपर आक्षेपो व्यज्यते ।। प्रबन्धेऽर्थशक्तिमूलो व्यङ्गचो यथा गृधरगोमायुसंवादे- तथा च- 'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले। न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥' इति दिवाप्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम्। 'आदित्योडयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् । बहुविन्नो मुहर्तोडयं जीवेदपि कदाचन ॥।'

१. 'गाढालिङ्गनरभसोदते दयिते लघु समपसरति। मनस्विन्या मान: पीडनाभीत इव हृदयात् ।।' २. 'तव वल्भस्य प्रातरासीदघरो म्लानकमलद्लम् । इति नववधू: श्रुत्वा करोति वदनं मह्दीसंमुखम् ।'

Page 82

१२ काव्यमाला।

'अमुं कनकवर्णाभं बालमप्राप्तयौवनम्। गृध्रवाक्यात्कथं वालास्त्यक्षध्वमविशङ्किताः ॥' इति निशि विजुम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठां चेति प्रबन्ध- प्रतिपाद्येनार्थेन गृधरगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते॥। एवं मधुमथनवि- जये पाञ्चयज्ञोक्तिषु, विषमवाणलीलायां कामदेवस्य सहचरसमागमेर्थ- व्यञ्जकत्वमुदाहार्यम्॥ एवं च वस्तुनोऽलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम्।। रसादिश्च।

न्यर्थशक्तिमूलानि व्यङ्गचानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्गचा एव भवन्ति, न तु कदाचिद्वाच्यतामपि सहन्ते इति रसादीनां प्राधान्यख्यापनार्थः। वस्त्वलंकारौ हि वाच्यावपि भवतः ॥

सुमशरेण मधुमासलक्ष्म्या मुखमारम्भो वक्रं च। तच्च सुरामोदयुक्तं भवति॥ पाञ्च- जन्योक्तिष्विति।'लीलादाढग्गुव्वूढ सयलमहिमण्डलस्स विअ अज्ज। कीस मुणालाहरणं पितुम्भगरुआइ अङ्गंपि ॥' पाञ्चजन्योक्तयो रुक्मिणीविप्रलम्भवासुदेवाशय प्रतिभेदना- भिप्रायमभिव्यञ्जन्ति॥सहचरेति। कामदेवस्य सहचरा मधुयौवनमलयानिलादयस्तेषां समागमे। तदुक्तिष्वित्यर्थः । यथा-'हुमिअवहच्छिअरेहो णिरङ्डसो अहविवेअरहि- ओ वि। सिविणेवि उम्मसमये पत्तिअभत्ति न पप्फसिमि॥' इत्यादयो यौवनोक्तयस्तं तं निजस्वभावं व्यञ्जन्ति ॥ रसभावेति। यद्यपि रसेनैव सर्वे काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोजकीभूतादधिकोSसौ चमत्कारो भवति। तत्र यदा कश्चिदुद्रिक्तावस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्माच्च- मत्कारातिशये प्रयोजको भवति तदा भावध्वनिः । यदा तु विभावाभासाद्रत्याभासो- दयस्तदा विभावानुभावाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि। एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निःस्पन्दाः । आखवादे प्रधानं प्रयोजकमंशं विभज्य व्यवस्थाप्यते। यथा-गम्रयुक्तिज्ञौ(?)रेकसंमूर्छितमोदोपभोगेऽपि सुपरिशुद्धमांस्यादि- प्रयुक्तमिदं सौरभमिति। रसध्वनिस्तु स एव, यत्र मुख्यतया विभावानुभावव्यभि-

१. 'पाञ्चजन्योक्तिपु' विवेके.

१. 'पाञ्चयज्ञोक्तिषु' मूल०. २, ३. अनयोश्छायास्फुटा.

Page 83

काव्यानुशासनम् ।

तत्रार्थशक्तिमूलो व्यङ्ग्चो रसः पदे यथा-

'उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने परिभृशं कुपिते वहन्ती। तीक्ष्णेन दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥' अत्र ते इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् ।

चारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवास्वादप्रकर्ष इति। उदाहरणानि चैतल्लक्षणाप्रस्तावे दर्शयिष्यन्ते ॥ उत्कस्पिनीति। अत्र हि ते इति पद रसमयत्वेन स्फुटमेवावभासते सहृदयानाम्। तथा हि-वासवदत्तादाहाकर्ण- नप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम्। तत्र च शोको नाभेषजनविना- शप्रभव इति तस्यास्य जनस्य ये भ्रूक्षेपकटाक्षादयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षत्वभावप्रमाणं करुणमुद्दीपय- न्तीति स्थिते। ते लोचने इति तच्छब्दस्तल्लोचनगतखसंवेद्याव्यपदेश्यानन्तगुणगणस्म- रणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्किचिच्चोदितं परिहृतं च तन्मिथ्यैव। तथा हि। चोद्यम्-प्रक्रान्तपरामर्षकस्य तच्छब्दस्य कथमियति व्या- पारः। उत्तरम्-रसाविष्टोऽत्र परामृष्टेति। तदुभयमनुस्था[प]नोपहतम्। यत्र ह्यनु- ददिश्यमानधर्मान्तरसाहित्ययोग्यधमयोगित्वं वस्तुनो यच्छव्देनाभिधाय तद्वुद्धिस्थध- र्मान्तरसाहित्यं तच्छव्देन निर्वाह्यते। तत्र पूर्वप्रक्रान्तपरामर्शकत्वं तच्छव्दस्य। यत्र तु निमित्तोपनतस्मरणविशेपाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति॥ उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकारमिति शोका- वेगस्य विभावतेति सातिशयविभ्रमैकायतनरूपे अपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती क स्नाता क्वासौ चार्यपुत्र इति तयोरलोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम्। तीक्ष्णेनेति। तस्यायं स्वभाव एव किं कुरुतां तथापि च धूमेनान्धीकृतो द्रषुमसमर्थ इति, न तु सविवेकस्येद्टशानुचितकारित्वं संभाव्यत इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्त इति तेशव्दे सति सर्वोडयमर्थो निर्व्यूढः । यथा वा-झगिति कनकचिन्ने तत्र दृष्टे कुरङे रभसविक-

१. 'निरपेक्षभावत्वप्राणं' लोचने. २. 'स्थितम्' स्यात्. ३. 'केनचित्' लोचने.

Page 84

९४ काव्यमाला।

त्याद्यन्ते यथा- मा पन्थं रुन्घीओ अवेहि बालय अहोसि अहिरीओ। अम्हे अणिरिक्काओ सुन्नघरं रक्खियव्वं णो ।।' अत्रापेहीति त्याद्यन्तत्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि अस्ति तु संकेतस्थानं शून्यं गृहं तत्रैवागन्तव्यमिति ध्वनति ॥ पदैकदेशोऽपि पदं यथा- 'तालैः शिञ्जद्वलयसुभगैर्नरतितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्दः।' अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति॥ 'लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं संवै हसितपठितं पञ्जरशुकै- स्तवावस्था चेयं विसृज कठिने मानमधुना ॥' अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्ते इति न त्वासित इति। भूमिमिति न तु भूमाविति। न हि बुद्धिपूर्वकं किंचिलिखतीति स्यादि- त्यादिविभक्तीनां व्यञ्जकत्वम्।। 'अस्म(ण्ण)त्थ वच्च बालय अण्हा इति किसमलेहसि एअम्। हो जायाभीरुयाण तीत्थं विय न होई॥।' अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन

सितास्ते दृष्टिपाताः प्रियायाः। पवनविलुलितानामुत्पलानां पलाशप्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥' इति ॥ अणिरिक्काओ इति। परतन्ना इति॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः ।

१. 'मा पन्थानं रुध अपेहि बालक अहो असि अहीकः। वयं परतन्त्रा: शून्यगृहं रक्षणीमस्माकम् ॥' २. 'अन्यत्र व्रज बालक प्रकर्षेणालोकयस्येतत्। भो जायाभीरुकाणां तीर्थमेव न भवति ॥'

Page 85

काव्यानुशासनम् ।

संबन्धेनैवेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः। जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम्। ये ह्यरसज्ञा धर्मपत्नीपु प्रेमपरतब्रास्तेभ्यः को- डन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः ॥ 'अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे। नववारिघरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥' अत्र चकारौ निपातावेवमाहतुः। गण्डस्योपरि स्फोटेवद्विप्रयोगश्च वर्षासमयश्र समुपनतमेतट्ठूयमलं प्राणहरणायेति । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ॥ 'प्रस्तिग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः' अत्र प्र इत्युप- सर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति॥ अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः सोऽपि रसव्य- त्तयर्थः । यदाह-'अहो वतासि स्पृहणीयवीर्यः' अत्राहो बतेत्यनेन लाघातिशयो ध्वन्यते ॥। 'मनुष्यवृत्त्या समुपाचरन्तं स्ववुद्धिसामान्यकृतानुमानाः । योगीशवरैरप्यसुबोधमीशं त्वां बोद्धुमिच्छन्त्यबुधाः स्वतर्कैः॥' अत्र सम्यग्भूतमुपांशु कृत्वा आसमन्ताच्चरन्तमित्यनेन लोकानुजिघृ- क्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते॥ 'रमणीयः क्षत्रियकुमार आसीत्' इति। अत्र शंकरधनुर्भङ्गश्रवणात्प्र- कुपितस्य भार्गवस्योत्त्या आसीदित्यतीतकालनिर्देशाद्दाशरथेः कथाशेषत्वं व्यज्यते।। यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा- 'तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता- माश्चर्यै दिवसैर्द्विजोऽयमियतीं भूमिं परां प्रापितः ॥'

१. 'ये हि रसज्ञाः' ध्वन्यालोके. २. 'स्फोट इतिवत्तद्वियोगवदूर्षा' ध्वन्या०.

Page 86

५६ काव्यमाला।

अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्र- कृत्यंशश्चात्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिकाद्या- कीर्णतां ध्वनति। एवं सा धेनुरित्यादावपि योज्यम्। तथा- 'रेइकेलिहिअनिअसणकर किसलयरुद्धनयणजुअलस्स। रुद्दस्य तइयनयणं पव्वइपरिचुम्बिअं जयइ ।।' अत्र जयतीति न तु शोभते इत्यादि। समानेऽपि हि स्थगनव्यापारे लोकेऽन्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते॥ भावादीनां पदप्रकाशत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते । वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षणे एवोदाहरिष्यते। प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव। वर्णरचनयोस्तु साक्षा- न्माघुर्यादिगुणव्यञ्जकत्वमेव। तद्ूारेण तु रसे उपयोग इति गुणप्रकरणे एव वक्ष्येते इतीह नोक्ते॥ इत्याचार्यश्रीहेमचन्द्र विरचितायाम लंकारचूडामणिसंज्ञखोपज्ञ- काव्यानुशासनवृत्तौ प्रथमोऽध्यायः ।

द्वितीयोऽध्यायः । रसलक्षणमाह- विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः। वागाद्यभिनयसहिता: स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोद्दीपन- स्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामा- जिकजनोऽनुभवन्ननुभाव्यते साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजोत्क्षे-

विभावैरिति। यदाह मुनिः-'बहवोरऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥' अनुभावैरिति। 'वागङ्गसत्त्वाभिनयैर्य- १. 'रति के लिहृत निवसनकर किसलयरुद् नयनयुगलस्य। रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्वितं जयति ॥'

Page 87

२ अध्यायः] काव्यानुशासनम् । १७

पादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिर्धृतिस्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैर्ममेवैते परस्यैवैते न ममैते न परस्यैते इति संबन्धिविशेषसवीकारपरिहारनियमान- वसायात्साधारण्येन प्रतीतेरभिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायब- लात् सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्व्यमाणतै- कप्राणो विभावादिभावनावधिरलौकिकचमत्कारकारितया परब्रह्मास्वाद- सोदरो निमीलितनयनैः कविसहृदयै रस्यमानः खवसंवेदनसिद्धो रसः ॥

स्मादर्थो विभाव्यते। वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः ॥'रस इति। तथा च भरतमुनि :- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति। तत्र भट्टलो- लटस्तावदेवं व्याचक्षे-विभावादिभिः संयोगोऽर्थात्स्थायिनः ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तेः कारणम्। अनुभावाश्च न रसजन्या अत्र विवक्ष्यन्ते तेषां रसकारणत्वेन गणनानर्हत्वात् अपि तु भावानामेव। (ये तु भा- वानामेव) येऽनुभावा व्यभिचारिणस्य [ते] चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना, तथापि वासनात्मतेह विवक्षिता। तेन स्थाय्येव विभावानुभावादिभिरुप- चितो रसः। स्थायी त्वनुपचितः। स चोभयोरपि मुख्यया वृत्त्या रामादावनुकार्येऽनु- कर्तरि च नटे रामादिरूपतानुसंधानबलादिति॥ तथा चाह दण्डी-'रतिः शङ्गारतां याता रूपबाहुल्ययोगतः । आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः ॥' अयं भाव :- विभावैर्जनितोऽनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो मुख्यवृत्त्यानुकरणीये रामे तद्रपतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति ॥ एतन्नेति शङ्ककः । तथा हि-विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते अवगमकस्याभावात्। न हि धूमं विना धराधरान्तःस्थो वह्निरवगम्यते। अपि च यथा स्वयमुत्पादिता विभावैः सूचिताश्षानुभावैः पोषमुपनीताक्ष व्यभिचारिभिः संयोगाद्रसीभवन्ति स्थायिनः । तदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं स कस्मान्न कृतम्। आदौ हि रसानामुद्देशलक्षणे अभिहिते कस्माच्च रसानां विभावानुभावांश्रोक्त्वा तानेव स्थायिनां पुनराह ।। तथा हि रसान्प्रतिपदं लक्षयन्मुनिर्वक्ष्यति-'अथ वीरो नामो- त्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनयविनयवलपराक्रमशक्ति प्रतापप्रभावा - दिभिर्विभावैरुत्पद्यते' इति। पुनश्च स्थायिभावानुवादे तु-'उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिसौन्दर्यादिभिरविभावैरुत्पद्यते' इति। एवमभिन्नार्था एवैते। विभावा १. प्रमादलिखितं भवेत्. ८

Page 88

काव्यमाला।

रसलक्षणे विस्तरत उक्ताः, भावानुवादे लेशतः प्रदर्शिताः । न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्पत्तिकारणमभिधातव्यम्, वैयर्थ्यापत्तेः । किं च- अनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमध्येत्यादिविशेषापेक्षया आनन्त्यापत्तिः । एवं रसस्यापि तीव्र- तीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रपद्यते। अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि 'स्मितमवहसितं विहसितमुपहसितं चापहसितमतिहसितम्' इति षोढात्वं हा- स्यरसस्य कथं भवेत्। अन्यच्च उत्तरोत्तरप्रकर्षतारतम्यवशेन 'प्रथमे त्वभिलाषः स्याद्वितीये त्वर्थचिन्तनम्। अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् । उद्देगः पञ्चमे ज्ञेयो विलाप: षष्ठ उच्यते। उन्मादः सप्तमे ज्ञेयो भवेद्याधिरथाष्टमे। नवमे जडता प्रोक्ता दशमे मरणं भवेत् ।I' इति दशावस्थः कामोऽभिहितः। तत्रापि प्रत्यवस्थमु- त्तरोत्तरप्रकर्षतारतम्यसंभवात्कामावस्थासु दशखसंख्याताः शङ्गाररतिभावादयः प्रस- ञ्ेयुः। अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि वि पर्ययो दृश्यते। यतः-इष्टजनवियोगाद्विभावादुत्पन्नो महान् शोकः क्रमेणोपशाम्यति। न तु दार्व्यमुपैति। करोधोत्साहरतीनां च निजनिजकारणबलादुन्भूतानामपि कालव- शादमर्षस्थेयं सेवाविपर्ययेऽपचयोऽवलोक्यते। तस्मान्न भावपूर्वकत्वं रसस्य। अपि तु तद्विपर्यय एव। उक्तं हि मुनिना-'रसपूर्वकत्वं भावानाम्, भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगे ह्यनुकर्तरि रसानास्वादयतामनुकार्ये भावप्रतीतिरुत्पद्यते' इति। प्रथमपक्षस्योत्थानम्। लोके तु भावदर्शनात्तत्सवरूपरसनिष्पत्तिरिति। तस्मादन्यथा व्याख्यायते हेतुभिर्विभावाख्यैः कार्यैश्वानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथानभिमन्यमानैः संयोगाद्गम्यगमकभावरूपादनुमीयमा- नोऽपि वस्तुसौन्दर्यबलात्कषायफलचर्वणपरपुरुषदर्शन प्रभवमुखप्रसेककलनाकल्पया रस- नीयस्वरूपतयान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावो नटे- Sत्यन्ताविद्यमानोऽपि सामाजिकजनताखाद्यमानो मुख्यरामादिगतस्थाय्यनुकरणरू- पोऽनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । 'सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ।।' 'दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः काल: समुपागतश्चायम् II' इत्यादौ हि विभावाः काव्यबलादनुसंधेयाः, अनुभावाः शिक्षातः, व्यभिचारिण: कृत्रिमनिजानुभावार्जनबलात्। स्थायी तु काव्यबलादपि नानुसंधेयः ॥ 'रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन, न तु वाचिकाभिनयरूपतयावगमयन्ति। न हि वागेव वाचिकमपि तु तया निर्वृत्तमङ्गै- रिवाङ्गिकम्। तेन-'विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि। वाडवेनेव जलधिः शोक: कोधेन पीयते ॥' इति। तथा-"शोकेन कृतस्तथा स्थितो येन क्रन्दैः। हृद-

१. 'स्येव' भवेत्. २. पूर्वारधे त्रुटितं प्रतीयते.

Page 89

२ अध्याय:] काव्यानुशासनम्। १९

यस्फुटनभयातैरादितुमभ्यर्थ्र्यते सचिवैः ॥' इत्येवमादौ न शोकोऽभिनेयोऽपि त्वभि- धेयः । 'भाति पतितो लिखन्त्यास्तस्या वाष्पाम्बुसीकरकणौघः । स्वेदोद्रम इव कर- तलसंस्पर्शादेष मे वपुपि ।।' इत्यनेन तु वाक्येन स्ार्थमभिदधता उदयनगतः सुखा- त्मारतिस्थायिभावोऽभिनीयते न तूच्यते। अवगमनाशक्तिर्त्वगमनं वाचकत्वादन्या। अत एव स्थायि (दिवसं) (?) पदं सूत्रे भिन्नविभक्तिकमपि मुनिना नोपात्तम्। तेन रतिरनुक्रियमाण: शङ्गार इति। अर्थक्रियापि मिथ्याज्ञानादृष्टा। यथोच्यते-'मणिप्र- दीपप्रभयोर्मणिवुद्धयाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ।।' इति। न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्ययमेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति । किं तु सम्य- ड्व्पथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असा- वयमिति प्रतीतिरस्तीति ॥ यदाह-'प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः । धीर- सावयमित्यस्ति नासावेवायमित्यपि॥ विरुद्धवुद्धयसंभेदादविवेचितविप्वः । युत्तया पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥' इति, तदिदमप्यन्तस्तत्त्वशून्यं विमर्दक्षममिति भट्टतोतः । तथा हि-अनुकरणरूपो रस इति यदुच्यते तत्क सामाजिकप्रतीत्यभि- प्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेकव्याख्यातृवुद्धिसंवलनेन। यथाहु- र्व्याख्यातारः खल्वेवं विवेचयन्तीति। अथ भरतमुनिवचनानुसारेण तत्राद्यः पक्षोऽसं- गतः । किंचिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तम्। यथा-एवमसौ सुरां पिवतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति। इह च नटगतं किं तदुपलब्धं स इत्यनुकरणतया भातीति चिन्त्यम् । तच्छरीरं तन्निष्ठं प्र-

वृत्तिरूपाया अनुकारत्वेन कस्यचित्प्रतिभाति। जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्ना- धिकरणत्वेन ततोऽतिवैलक्षण्यात्। मुख्यावलोकने च तदनुकरणप्रतिभासो न च रामर- तिमुपलब्धपूर्विणः केचित्॥ एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ॥ अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकार: शद्गार इत्युच्यते । तत्रापि किमा- त्मकत्वेन सा प्रतीयते इति चिन्त्यम् ॥ ननु ग्रमदादिभि: कारणैः कटाक्षादिभि: कायैं. वृत्यादिभिश्व सहचारिभिलिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति । तर्हि रत्या- दिकारणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः ॥ ननु ते विभावादयोऽनु कार्ये पारमारथिका इह त्वनुकर्तरि न तथेति विशेपः । अस्त्वेवम्, किंतु ते विभावा- दयोऽनन्तकारणानन्तकार्यानन्तसहचररूपा अपि काव्यशिक्षादिवलोपकल्पिताः कृ- त्रिमा: सन्तः किं कृत्रिमत्वेन सामाजिकैर्गह्यन्ते, न वा। यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः। नन्वत एव प्रतीयमानं रत्यनुकरणं मुग्धवुद्धेः कारणान्तरप्रभवे हि

१. प्रमादपतितं भवेत्. २. 'शीर्षका' स्यात.

Page 90

६० काव्यमाला।

कार्ये सुशिक्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमानं तावयुक्तम्। असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य यथा वृक्षिकविशेषाद्वोमयस्यैवानुमानं वृश्चिकस्यैव वा तत्परं मिथ्या- ज्ञानम्। प्रसिद्धा इति लक्षणात्कारणा इत्यनुकरणं नाम कारणान्तरं तत्प्रभवाश्वेदनु- भावा: स्युः। तथैव च विशेषभेदा यदि ज्ञायेरंस्तदा रत्यनुकरणलक्षणस्य वस्त्वन्तर- स्यानुमानं समञ्जसं स्यात्। न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम्। न हि वाष्पधूमत्वेन ज्ञानादन्यनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिङ्गान्न तदनुकारानुमानं युक्तं धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नान्यनुकारजपापुअ्जप्रतीतिदृष्टा॥ नन्वकुद्ोऽपि नटः क्रुद्ध इव भाति। सत्यम्, कुद्धेन सदृशः सादृश्यं च भ्रुकुट्यादिभिगोरिव गवयेन मुखादिभिरिति नैतावता- नुकार: कश्चित्। न चापि सामाजिकानां सादृश्यमतिरस्ति। सामाजिकानां च न भा- वशून्या नर्तके प्रतिपत्तिरित्युच्यते। अथ च तदनुकारप्रतिभास इति रिक्ता वाचो- युक्तिः। यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरका- लभाविवाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधकसद्भावे वा कथ न मिथ्या- ज्ञानम्। वास्तवेन च वृत्तेन बाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात्। तेन विरुद्ध- बुद्धयसंभेदादित्यसत्। नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति। ततश्र रामत्वं सामान्यरूपमित्यायातम् । यच्चोच्यते-विभावाः काव्यादनुसंधीयन्ते। तदपि न विद्मः। न हि ममेयं सीता काचिदिति स्वात्मीयत्वेन प्रतिपत्तिर्नटस्य । अथ सामा- जिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि, स्थायिनि सुतरामनुसंधानं स्यात्। तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रति- पत्तिः ॥ तस्मात्सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत। न चापि नट- स्येत्थं प्रतिपत्तिः राम तच्चित्तवृत्ति वा अनुकरोमीति। सदृशकरणं हि तावदनुकरण- मनुपलब्धप्रकृतिना न शक्यं कर्तुम् ॥ अथ पश्चात्करणमनुकरणम्, तल्लोकेऽप्यनुकर- णात्मतातिप्रसक्ता ॥ अथ न नियतस्य कस्यचिदनुकारोऽपि तच्च सप्रकृतेः शोकम- नुकरोमीति। तत्रापि कस्योन्तमर्हि(?)केनेति चिन्त्यम्। न तावच्छोकेन, तस्य तद- भावात्। न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्त्तम्। इयत्तु स्यात् उ- त्तमप्रकृतेयें शोकानुभावास्ताननुकरोमीति। तत्रापि कस्योत्तमप्रकृतेः यस्य कस्यचि- दिति चेत्, सोऽपि विशिष्टतां विना कथं वुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तभावः । किंच- नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलाननुभावा- न्दर्शयन्काव्यमुचितकाकुप्रभृत्युपस्कारेण पठंश्रेष्टत इत्येतावन्मान्रस्य प्रतीतेर्न त्वनुकारं वेदयते। कान्तवेषानुकारवद्धि न रामचेष्टितस्यानुकारः । नापि वस्तुवृत्तानुसारेण

१. 'भासादनु' स्यात्.

Page 91

२ अध्याय:] काव्यानुशासनम्। ६ १

तदनुकारणत्वम् असंवेद्यमात्रस्य वस्तुवृत्तत्वानुपपत्तेः ।न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रस इति ॥ यच्चोच्यते-वर्णकैईरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेतः । तदसत्। न हि सिन्दूरादिभि: पारमार्थिको गौरभिव्यज्यते, प्रदीपादिभिरिव। किं तु तत्सदृशः समूहविशेषो निर्वर्त्यते। त एव हि सिन्दूरादयो गवावयवसंनिवेशसदृशेन संनिवेशविशेषेणावस्थिता गोस- दृगिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशताप्रतिग्राह्यः । तस्मा- द्रावानुकरणं रस इत्यसत् ॥ येन त्वभ्यधायि सुखदुःखजननशक्तियुक्ता विषयसामग्री बाह्यैव सांख्यदृशा सुखदुःखखभावा रसः । तस्यां सामग्र्यां दलस्थानीया विभावाः संस्कारका अनुभावव्यभिचारिण: स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःख- स्वभावा इति। तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादावुपचारमह्गीकुर्वता ग्रन्थ- विरोधं स्यमेव बुध्यमानेन दूषणाविष्करणमौषर्यात्प्रामाणिकजनः परिरक्षित इति किमस्योच्यते यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् ॥ भट्टनायकस्त्वा- ह-'रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते। खगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात्। न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात्। स्वकान्तास्मृत्यसंवेद- नात्। देवतादौ साधारणीकरणायोग्यत्वात्। समुद्रोल्लद्दनादेरसावारण्यात्। न च तत्त्वतो रामस्य स्मृतिरनुपलब्धत्वात्। न च शब्दानुमानादिभ्यस्तत्प्रतीतौ ताटस्थ्यमेव भवेत्तत्प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता ॥ उत्पत्तावपि तुल्यमेतत् दूषणम्। शक्तिरूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । खगतपरगत- त्वादि च पूर्ववद्विकल्प्यम्। तस्मात्काव्ये दोषाभावगुणालंकारमयत्वलक्षणेन, नाट्ये चतु- विधाभिनयरूपेण निबिडनिजमोहसंकटतानिवारणकारणाविभावादिसाधारणीकरणात्म- नाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यबलात् हृदि विस्तरविकाशात्मना सत्त्वोद्रेकप्रकाशानन्दमयनिज- संविद्विश्रान्तिविलक्षणेन परव्रह्मास्वादसविधेन भोगेन परं भुज्यते' इति ॥ यत्स वाह-'अभिधा भावना चान्या तद्भोगीकृतमेव च। अभिधाधामतां याते शब्दार्था- लंकृती ततः ॥ भावनाभाव्य एषोऽपि शङ्गारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमान्नरः ॥' इति ॥ तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षादभ्युपगत इति । तद्ूषणमनु- त्थानोपहतमेव। प्रतीत्यादिव्यतिरिक्तश् संसारे को भोग इति न विद्यः। रसेनेति चेतू। सापि प्रतिपत्तिरेव। केवलमुपायवैलक्षण्यान्नामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युप- मितिप्रतिभानादिनामान्तरवत्। निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च तिस्रो वा सद्वा रस इति न तृतीया गतिः स्यात् न चाप्रतीतं वस्त्वस्ति तद्यवहारयोग्यम् ॥ अथो- च्यते-प्रतीतिरस्य भोगीकरणम्। तच्च रत्यादिस्वरूपं तदस्तु तथापि न तावन्मान्रम्। यावन्तो हि रसास्तावत्य एव रसात्मानः प्रतीतयो भोगीकरणस्वभावाः सत्त्वादिगु-

१. 'मौखर्या' स्यात्.

Page 92

६२ काव्यमाला।

णानां चाहगाद्वैचित्र्यमनन्तकल्प्यमिति का त्रित्वेनेयत्ता। 'भावनाभाव्य एषोऽपि शङ्गा- रादिगणो हि यत्।' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावा- दिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्भावनं तदभ्युपगम्यत एव ॥ यत्तूक्तम्-'संसर्गादि यथा शास्त्र एकत्वात्तलयोगतः। वाक्यार्थस्तद्वदेवात्र शङ्गारादी रसो मतः ॥' इति, तदस्माकमभिमतमेव । तहिं उच्यताम् परिशुद्धतत्त्व उक्तमेव मुनिना नत्वपूर्व किंचित् । तथा ह्याह-'काव्यार्था भावयन्तीति भावाः'। अस्यार्थ :- पदार्थवाक्यार्थौ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याच्च काव्य स्यार्था रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः, न त्वर्थशब्दोऽभिधेयवाची। स्वशब्दान- भिधेयत्वं हि रसादीनां दर्शितमेव। एवं काव्यार्था रसाः तान् कुर्वते ये स्थायिव्य- भिचारिणस्ते भावाः स्थायिव्यभिचारिकलापेनैव ह्यासवाद्योऽलौकिकोऽर्थो निर्वर्तते। पूर्व हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतया आस्वादयति। तेन पूर्वागम- गोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकाभागिन आखाद्यस्य रसस्य भावको निष्पादक उच्यते। तस्मात्काव्यार्थो रस इति। तथा हि-'आरोग्यमाप्तवान् शश्वत्स्तुत्वा देवम- हर्पतिम्। स्यादर्थावगतिः पूर्वमित्यादिवचने यथा । ततश्वोपात्तकालादिन्यक्कारेणो- पजायते। प्रतिपत्तुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्कर स्तौति स सर्वोऽप्यगदो भवेत्। तस्मादहमपि स्तौमि रोगनिर्मुक्त्ये रविम् ।' इति। एवं का- व्यात्मकादपि शब्दात्सहृदयस्याधिकास्ति प्रतिपत्तिन संशयः । तस्य च 'ग्रीवाभङ्गा- भिरामम्-' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तर मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते। तस्यां च यो मृतपो- तकादिभाति तस्य विशेषरूपत्वाभावाद्गीत इति। त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाद्यनालिद्गितं तत एव भीतोऽहम्। भीतोऽयं शत्रुर्वयस्यो मध्यस्थो वेत्या- दिप्रत्ययेभ्यो दुःखसुखादिकृतहान्यादिबुद्धयन्तरोदयनियमवत्तया विन्नबहुलेभ्यो वि- लक्षणनिर्विन्नप्रतीतिग्राह्यं साक्षादिव हृदये निवेशमानं चक्षुषोरुपरिवर्तमानं भयानको रसः। तथाविधे हि भये नात्मा तिरस्कृतो निरविशेषत उल्लिखितः । एवं परोऽपि। तत एव च न परिमितमेव साधारण्यम्। अपि तु विततम्। व्याप्तिग्रह इव धूमान्युभयरू- पयोरेव वा। तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसामग्री। यस्यां वस्तुमतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यसंबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति। अत एव सामाजिकानामेकधनतैव प्रतिपत्तेः सुतरां रसपोषाय सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात्। सा चाविन्ना संविच्चमत्कारस्तज्जोऽपि कम्पपुलकोहुकसनादिर्विकारश्चमत्कारो यथा-'अज्ज विहरी चमकइ कहकह वि न मंदरेण कलिआइं। चंदकलाकंदलसच्छहाइं लच्छीइं अंगाईं ।।' अद्भुतभोगात्मस्पन्दावेशरूपो हि चमत्कारः । स च साक्षात्कारख्वभावो मानसाध्यव- सायो वा संकल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्त्यस्तु। यदाह-'रम्याणि वीक्ष्य

Page 93

२ अध्याय:] काव्यानुशासनम्। ६२

मधुरांश्र निशम्य शब्दान्पर्युर्त्सुकीभवति यत्सुखितोऽपि जन्तुः। तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थितानि जननान्तरसौहृदानि ॥' इत्यादिः । अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थस्याननुभूतत्वात्। अपि तु प्रतिभानापरपर्यायसाक्षात्कारखभावेयमिति। स(?)वतावदेषास्ति प्रतीतिराखवादात्मा यस्यां रतिरेव भाति तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती लौकिकी न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा। एपैव चोपचयावस्थास्तु देशादनियन्त्रणात्। अनुकारोऽप्यस्त्वनुगामितया करणात्। विपयसाम्रयपि भवतु, विज्ञानवादावलम्बनात्। सर्वथा रसनात्मकवीतविन्नप्रतीतिग्राह्यो भाव एव रसः । तत्र विन्नापसारका विभावप्रभृतयः । तथा हि। लोके सकलविन्नविनिर्मुक्ता संवित्तिरेव चमत्कार निर्वेशरसना स्वादनभोगसमापत्तिलय विश्रान्त्यादिशब्दैरभिधीयते। विन्नाश्चास्यां सप्त संभावनाविरहरूपा प्रतिपत्तावयोग्यता। स्वगतपरगतत्वनियमेन देशविशेषावेशो निजसुखादिविवशीभावः। प्रतीत्युपायवैकल्यस्फुटत्वाभावोSप्रधानता । संशययोगश्च। तथा हि-संवेद्यमसंभावयमानः संवेदे संविदं निवेशयितुमेव न शक्तोऽस्ति। का तत्र विश्रान्तिरिति प्रथमो विन्नः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेषु अख्रण्डितप्रसिद्धिजनितगाढरूढप्रत्ययप्रसरकारी प्रख्या- तरामादिनामधेयपरिग्रहः। अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातचस्तुविषयत्वादिनियमेन निरूप्यते। न तु प्रहसनादिति (?)। स्वैकगतानां च सुखदुःखसंविदामाख्वादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्स- दशो जिजीषया वा तज्जिहासया वा तत्प्रतिष्ठापयिषया वा तद्रोपनेच्छया वा प्रकारा- न्तरेण वा संवेदनान्तरसमुद्रम एव परमो विन्नः। परगतत्वनियमभोषजा(?)मपि सुखदुःखानां संवेदने नियमेन स्वात्मनि सुखदुःखमोहमाध्यस्थादिसंविदन्तरोद्रमन- संभावनादवश्यभावी विन्नः। तदपसारेण कार्यो नातिप्रसङ्गोऽत्र पूर्वरङ्गविधिं प्रतीति पूर्वरङ्मानिगूहनेन नटी विदूषको वापीति लक्षितप्रस्तावनालोकनेन च यो नटरूपता- धिगमस्तत्पुरःसरप्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः । अलौकिकभाषादिभे- दला स्याङ्रङ्गपीठमण्डपगतकक्षापरिग्रहनाव्यधर्मासहितः । तस्मिन् हि सति अस्यैवात्रैव एतर्ह्येव च सुखं दुःखं वेति न भवति। प्रतीतिस्वरूपस्य निह्नवाद्रपान्तरस्य चारो- पितस्य प्रतिभासविश्रान्तिवैकल्येन सरूपे विश्रान्त्यभावात्। सत्येतदीयरूपनिह्वमात्र एव पर्यवसानात् इत्येष मुनिना साधारणीभावरसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः । तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संमदं विश्रमयेदिति तत्प्रत्यहव्यपोहनाय प्रतिपदार्थनिष्ैः साधारणो महिम्रा सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगने विचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जनं समाश्रितम्।

१. 'स्थिराणि' इति प्रसिद्धपाठः. २. 'भावजाना' स्यात्. ३. 'धर्म' स्यात्. ४. 'प्रत्यूह' स्यात्. ५. 'घने' स्यात्.

Page 94

६४ काव्यमाला।

येनाहृदयोऽपि हृदयवैमल्यप्राप्या सहृदयीकरियते। किं च प्रतीत्युपायानामभावे करथ प्रतीतिभावः । अस्फुटप्रतीतिकारिशब्दलक्षणसंभवेऽपि न प्रतीतिर्विश्राम्यति स्फुट- प्रतीतिरूपः ग्रत्यक्षोचितप्रत्ययसाकाङ्मत्वात्। यथाहुः-'सर्वा वेयं प्रमितिः प्रत्यक्षपरा' इति। स्वसाक्षात्कृते आगमानुमानशतैरप्यनन्यथाभावस्य स्वसंवेदनात्। अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तत्प्रमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मा- त्तदुभयविन्नविघातेऽभिनयालोकधर्मिवृत्तिप्रवृ्त्युपस्कृताः समभिषिच्यन्ते। अभिनयनं हि शब्दलक्षणलिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकल्पमिति। अप्रधाने च वैस्तूनि संवित्कस्य विश्राम्यति। तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्यनुधावतः स्वात्मन्यवि- श्रान्तत्वात्। अतोऽप्रधानत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदा- त्मकेऽपि नियमेन नान्यसुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव चर्वणापत्रम्। तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् । तद्यथा-रतिः कामतदनुषङ्गिधर्मा- र्थनिष्ठा, कोधस्तत्प्रधानेष्वर्थनिष्ठः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शमश्च मोक्षोपाय इति तावत्तेषां प्राधान्यम् । यद्यपि चैषामन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते। अदूरभागाभिनिविष्टद्दशा त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम्। तत्र सर्वेऽमी सुखप्रधाना: ससंविच्चर्वणरूपस्य एकघनस्य प्रकाशस्यानन्दसारत्वात्। तथा ह्येकघनशोकसंविच्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्ति- शून्यत्वात्। शरीरत्वात् (?) अविश्रान्तिरूपतयैव च दुःखम्। तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम्, किंतू- परञ्जकविषयवशात्केषामपि कटुपित्तास्पर्शोऽस्ति वीरस्येव । स हि क्लेशसहिष्णुतादि प्राण एव। एवं रत्यादीनां प्राधान्यम्। हासादीनां तु सातिशयं सकललोकसुलभ- विभावतयोपरञ्जकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बहुला न हासादयो भवन्ति। पामरप्रायः सर्वोऽपि हसति शोचति विभेति परनिन्दामाद्रियते। स्वल्प- सुभाषितत्वेन च सर्वत्र विस्मयते। रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यात् स्थायित्वं चैतावतामेव। एवमप्रधानत्वनिरासः । स्थायिनिरूपणया स्थायिभावान् सत्वं नेष्यामः। इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च मुनिना कृतः । तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक् स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्वदर्शनात्। व्याघ्रादेश्व क्रोधभयादिहेतुत्वात् । श्रमचि- न्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात्। सामग्री वा तु न व्यभिचारिणी। तथा हि। बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिश्चानुभावश्चिन्तादैन्यादिश्च व्य- भिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्गात्मकविघ्नशमनाय संयोग उपात्तः । तत्र

१. 'रूपप्रत्य' स्यात्. २. 'वस्तुनि' स्यात्.

Page 95

२ अध्याय:] काव्यानुशासनम् । ६५

एष पाटवादधुना तैरेवोद्यानकटाक्षधृत्यादिभिलीकि की कारणत्वादिभुवमतिक्ान्तैर्वि- भवेनानुभवेनासमअ्जरअ्जकत्वमात्रप्राणैरत एवालौकिकविभावादिव्यपदेशभाग्भि: प्राच्य- करणा दिरूपसंस्कारोपजीवनाख्यापनाय विभावादिनामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योगं संबन्धमैकाय्रयं वासादितवद्धभिरलौकिकनिर्विन्नसंवेदनात्म- कचर्वणागोचरतां नीतोऽर्थश्चर्व्यमाणतैकसारो न तु सिद्धस्वभावस्तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः । ननु यथा शङ्ककादिभिर- भ्यधीयत-स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते ।। एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः क्थ न भविष्यति। तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम्। तत्प्रत्युत शल्यभूतं स्यात्। केवलमौचित्यादेवमुच्यते-'स्थायी रसीभूतः' इति। औचित्यं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणो- पयोगितया विभावादित्वा(दि)लम्बनात्। तथा हि। लौकिकचित्तवृत्त्यनुमाने का रसता तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमानलौकिकस्वसंवेदनविलक्षण एव। तथा हि। लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसं- वादात्मकसहृदयत्वबलात्पूर्णीभ विष्यद्रसाखादाङ्कुरीभावेनानुमानस्मृत्या दिसोपानमनारुह्यैव तन्मयीभावोचितचर्वणाप्राणतया। न च सा चर्वणा प्राड्यानान्तरात्, येनाधुना स्मृतिः स्यात्। न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः, किं त्वलौकिकविभावादिसंयोगवलो- पनतैवेयं चर्वणा। सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यबोध- स्तथा योगिप्रत्यक्षजतटस्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यश्च ह्यपरयोगिगत- स्ानन्दैकघनानुभवाच्च विशिष्यते। एतेषां यथायोगमर्जनादिविन्नान्तरोदयेन ताटस्थ्य- हेतुकास्फुटत्वेन विषयावेशवैवश्येन च सौन्दर्यविरहात्। अत्र तु स्वात्मैकगतत्वनियमा- संभवान्न विषयावेशवैवश्यम्, स्वात्मानुप्रवेशात्परगतत्वनियमाभावान्न ताटस्थ्यस्फुट-

रादीनां संभवः। अत एव विभावादयो न निष्पत्तिहेतवे रसस्य, तद्वोधापगमेऽपि रससंभवप्रसङ्गात्। नापि ज्ञप्तिहेतवः, येन प्रमाणमध्ये पतेयुः। सिद्धस्य कस्यचित्प्रमे- यभूतरसस्याभावात्। तर्हि किमेतद्विभावादय इति। अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः। कोऽन्यत्रेत्थं दृष्टमिति चेद्धूपणमस्माकमेतदलौकिकत्वसिद्धौ। पान- करसास्वादोऽपि किं गुडमरिचादिपु दृष्ट इति समानमेतत् ॥ ने त्वेवं रसोऽप्रमेयः स्यात्। एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तर्हि सूत्रे निष्पत्तिरिति कथ नायं रसः(?) स्यात्, अपि तु तद्विपयाया रसनायाः। तन्निष्पत्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते। तन्न कश्चिदत्र दोपः। साच

१. 'नतु' स्यात्. २. 'क्वान्यन्नेत्थं' स्यात्. ३. 'नन्वेवं' स्यात्. ४. 'नाम रसस्य स्यात्' स्यात्.

Page 96

६६ काव्यमाला।

स च न विभावादेः कार्यः, तद्विनाशेऽपि रससंभवप्रसङ्गात्। नापि ज्ञाप्यः, सिद्धस्य तस्याभावात् । कारकज्ञापकाभ्यामन्यत् क्व दष्टमिति चेत्, न क्वचिदृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतन्न दूषणम्। विभावादीनां च समस्तानामभिव्यञ्जकत्वम्, न व्यस्तानां व्यभिचारात्। व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्राणाम्। अश्रुपातादयोऽनुभावाः करुण- स्येव शृङ्गारभयानकयोः । चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवी- रभयानकानाम्। यत्राप्येकैकस्योपादानम्, यथा- 'केलीकन्दलितस्य विभ्रममधो धुर्य वपुस्ते दशौ भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्वुजन्मासवः सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ।।' अत्र विभावानाम्,

रसना न प्राणव्यापारो न कारकव्यापारः स्वयं तु नाप्रामाणिकी स्वयं वेदनसिद्धत्वात्। रसना च बोधरूपैव किं तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावा- दीनां लौकिकवैलक्षण्यात्। तेन विभावादिसंयोगाद्रसनायत्तो निष्पद्यते। ततस्तथाविध- रसनागोचरालौकिकोत्तरार्थो रस इति तात्पर्यम्। सूत्रस्यायमत्र संक्षेपः । मुकुटप्रतिशी- र्षकादिना तावन्नटबुद्धिराच्छाद्यते। गाढप्राक्त्नसंवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति। तत एवोभयदेशकालत्यागः। रोमाश्चादयश्च भूयसा रति- प्रतीतिकारितया दृष्टास्तन्नावलोकिताः देशकालानियमेन रति गमयन्ति। यस्यां सात्मापि तद्वासनावत्त्वादनुप्रविष्टः । अत एव तटस्थतया रत्यवगमः । न च नियत- कारणतया, येनार्जनाभिष्वङ्गादिसंभावना। न च नियतपरात्मैकगतया, येन दुःखद्वेषा- गुदयस्तेन साधारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः श्ङ्गारः। साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः ॥ एतन्मतमेव वास्माभिरुपजीवितं वेदितव्यम् ।। तत्र विभावप्राधान्ये व्यभिचारिणां प्राधान्यं यथा- 'आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ। अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥' इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य वितर्कत्रास- शङ्कादेः प्राधान्यम्। तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात्। आत्तमित्याद्यर्पि-

१. 'ना यतो' स्यात्.

Page 97

२ अध्यायः] काव्यानुशासनम् । ६७

'यद्विश्रम्य विलोकितेपु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं दूनाजििनीनालवत्। दूर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयो: कृष्णे यूनि सयौवनासु वनितास्वेषैव वेपस्थितिः ॥' अत्रानुभावानाम्, 'दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संक्चिष्यत्यरुणं गृहीतवसने किंचाश्चितभ्रूलतम्। मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥' अत्रौत्सुक्यब्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम्, तत्राप्येते- षामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः ॥ रसभेदानाह- शृङ्गारहास्यकरुणा रौद्रवीरभयानका बीभत्साद्भुतशान्ता नव रसाः। तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रतिहृद्य- तेति पूर्व शृङ्गारः । तदनुगामी च हास्यः। निरपेक्षकभावत्वात्तद्विपरीत- स्ततः करुणः । ततस्तन्निमित्तमर्थप्रधानो रौद्रः। ततः कामार्थयोर्धर्ममूल-

तानुभाववर्गस्तु तदनुयायी। अनुभावप्राधान्ये च तेषां प्राधान्यं दूरादित्यादिना उदा- हरिष्यते। अन्यतमेति। विभावापेक्षयानुभावव्यभिचारिणाम्, अनुभावापेक्षया विभावव्यभिचारिणाम्, व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम्। तथा हि। केलीकन्दलितेत्यादौ विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रमभङ्गरनर्मादि- पदमहिम्रानुभाववर्गो भङ्विकमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभाति । यद्विश्रम्येत्यादी विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रता नवता रसस्य पुलकवै- वर्ण्यादेरनुभावस्यानुगतत्वेन विश्रम्येति बहुश इति प्रतिदिनमिति पदसमर्पितोऽभिलाप-

पदार्पितस्तु विभावः। दूरादुत्सुकमित्यादौ औत्सुक्यादेर्व्यभिचारिणोSनुगतत्वेन दूरा- दित्यादिपदार्पितः सहसा प्रसरणादिरूपोऽनुभावः प्रेयसीति विभावश्र प्रकाशत इति। एवं द्वयप्राधान्ये चोदाहार्यम्, किं तु समप्राधान्य एव रसास्वादस्योत्कर्षः। तच् प्रबन्ध

Page 98

६८ काव्यमाला।

त्वाद्धर्मप्रधानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः । इतीयद्वीरेणाक्षिप्ते वीरस्य पर्य- न्तेद्भुतः फलमित्यनन्तरं तदुपादानम्। ततस्त्रिवर्गात्मकप्रवृत्तिधर्मविपरी- तनिवृत्तिधर्मात्मको मोक्षफलः शान्तः । एते नवैव परस्परासंकीर्णा रसाः॥ तेनार्द्रतास्थायिकः स्ेहो रस इत्यसत्। तस्य रत्यादावन्तर्भावात्। तथा हि यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्भरतरि सनेहो धर्मवीरे, बालस्य मातापित्रादौ सनेहो भये, विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम्॥ तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वान्यत्र वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम् ॥ तत्र शृङ्गारमाह- स्त्री पुंसमाल्यादि विभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविपलम्भात्मा शृङ्गारः । स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुरहर्म्यनदीचन्द्रपवनो- द्यानदीर्घिकाजलक्रीडादयश्च श्रूयमाणा अनुभूयमाना वा आलम्बनोद्दीपन- रूपा विभावा यस्याः सा, जुगुप्सालस्यौग्र्यवर्जितव्यभिचारिका समग्र-

एव भवति। वस्तुतस्तु दशरूपक एव। यदाह वामनः-'संदर्भेष दशरूपकं श्रेयः'। 'तद्विचित्रं चित्रपटवद्विशेषसाकल्यात्। तद्रूपसमर्पणया तु प्रबन्धे भाषादिप्रवृत्तौ चित्यादिकल्पनात्। तद्रूपजीवनेन मुक्तके। तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प 'ईदृगत्र वक्तास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते। नवै- वेति। पुमर्थोपयोगित्वेन रञ्जनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्नेहस्य। स्नेहो भक्तिर्वात्सल्यमिति हि रतेरेव विशेषाः । तुल्ययोर्या परस्परं रतिः स स्नेहः । अनुत्तमोत्तमे रतिः प्रसक्तिः। सैव भक्तिपद्वाच्या । उत्तमस्यानुत्तमे रतिर्वात्सल्यम्। एवमादौ च विषये भावस्यैवास्वाद्यत्वमिति ॥ जुगुप्सालस्यौ- ग्र्यवर्जितव्यभिचारिणीति। जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायि- नामपि व्यभिचारित्वमनुज्ञापयति। आलस्यादिव खविभावप्रमदादिविषयमेव निषि- द्धम्। तेन 'चे पुरलसद्वाहु लक्ष्म्या' इति, तथा-'कतिचिदहानि बभूव केवलमल-

१. 'कल्प्य' स्यात्. २. 'अनुत्तमस्योत्तमे' स्यात्. ३. 'चारिका' इति मूले पाठ :. ४. 'दि च' स्यात्. ५. 'वपुरलसद्वाहु' स्यात्.

Page 99

२ अध्याय:] काव्यानुशासनम् । ६९

विषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोर्यूनोः परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गतः शृद्गारो रसः । देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव, न पुना रसः॥। देवविषया यथा- 'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपर न हि रूपमस्ति ।।' मुनिविषया यथा- 'गृहाणि नाम तान्येव तपोराशिर्भवादृशः । संभावयति यान्येव पावनैः पादपांशुभिः ।।' अनुभावास्तु संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्ते इति इह नोक्ताः ॥ संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यस्य स तथा। तेन(?) शृङ्गारस्येमौ भेदौ गोत्वस्येव शावलेयबाहुलेयौ। अपि तु दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः खाद्यमानं रूपं श्रृङ्गारः। संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रमशब्दवदु- पचारात्। तथाहि। विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात्। संभोगेऽपि न चेद्विरहाशङ्का तदा साधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः । यदाह मुनि :- 'यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते। दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः॥' अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः । सेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम् ॥ प्रारम्भादीति। एतेन अभिला- षमात्रसाराया: कामावस्थानुवर्तिन्याः व्यभिचारिरूपाया रतेर्विलक्षणत्वमाह॥ वामा- भिनिवेशित्वमिति। सुलभावमानी हि मदन इति तद्विदः । तथा ह्वयभिलष्यमाणं

Page 100

७० काव्यमाला।

यथा- 'एकस्मिञ्छयने पराङयुखतया वीतोत्तरं ताम्यतो- रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगोरवम्। दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुपो- र्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ।।' सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते, मुक्तकेपु तु का- ल्पनिक्येव।। तत्र संभोगमाह- सुखमयधृत्यादिव्यभिचारी रोमाश्चाद्यनुभावः संभोगः । लज्जाद्यैनिषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र संभुक्तः स सं- भोगः। स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चखेदकम्पाश्रुमे- खलास्खलनश्वसितसाध्वसके शबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिसम्यङ्डि- वेशनविचित्रे क्षणचाटुप्रभृतिवाचिककायिकमानसिकव्यापारलक्षणानुभावः परस्परावलोकनालिङ्गनचुम्बनाद्यनन्तभेदः । यथा- 'दृष्टैरैकासनसंगते प्रियतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।

वस्तु प्राप्तं चेत्कोऽभिलाषः। तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीति तनोति। न ह्यन्र कण्डूयायामिव निधृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वाद्रतिः काम इत्यर्थः ॥ सैषेति। स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेति रत्नावल्यादौ। ऋतुमाल्यादिर्हि विभाव आल- म्बनोद्दीपनतया उभयरूपोऽपि सामस्त्येन शङ्गारस्य विभावत्वेन मन्तव्यः। युक्तं चैतत्, अन्यथा अन्नैव रूपके उद्यानऋतुमाल्यादीनां सर्वेषां दर्शनान्नैको रसः स्यात् विभावभेदात् । काल्पनिकीति। विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः ॥ सुख्मयेति। यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति, तथापि न तद्रतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवेत्यत्र सुखमयत्वम् ॥ टष्ट्ैकासनेति। एका निजत्वेन स्थिता। अपरा तत्सखी प्रच्छन्ना।

१. 'संभुङ्कः' स्यात्,

Page 101

२ अध्याय:] काव्यानुशासनम्। ७१

ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' विप्रलम्भमाह- शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलापमानप्रवासरूपो विपलम्भः। संभोगसुखास्वादलोभेन विशेषेण प्रलभ्यते आत्मात्रेति विप्रलम्भः ।

न्मादजडताव्याधिस्वप्नापस्मारादिव्यभिचारी संतापजागरकार्श्यप्रलापक्षाम- नेत्रवचोवकतादीन संचरणानुकारकृतिलेखलेखनवाचनस्वभावनिहववार्ताप्र- श्वस्त्नेहनिवेदनसात्त्विकानुभवनशीतसेवन मरणोद्यम संदेशाद्यनुभावस्त्रिधा, अ- भिलाषमानप्रवासभेदात्। करुणविप्रलम्भस्तु करुण एव । यथा- 'हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम्। उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ।' इत्यादिरतिप्रलापेपु ॥ तत्राभिलापविप्रलम्भमाह- दैवपारवश्याभ्यामाद्यो देधा। आद्योऽभिलापविप्रलम्भः ॥

कथमन्यथा एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या। तथा हि प्रियतमे इति कथम्। क्रीडामनुबभ्नाति यन्नयननिमीलनं तदेवापरनायिकाचुम्बनार्थ विहितं छलं येन सः। चुम्बनार्थमीषद्वक्ितकंधरो मनाक्चलितग्रीवः । सपुलकः उत्पन्नसात्विकः प्रेमोदो- छसन्मानसादौ सपल्नीवञ्चनाभिमान एव हेतुः ॥ शङ्केति। दुःखप्रायव्यभिचारीत्यर्थः । मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शोकावस्थानमपि न लभते। यथा-'तीर्थे तोयव्यतिकर-' इत्यादौ । अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम्। प्रतीतिविश्रान्तिस्थानतपरिहाराय तृतीयपादेन च विभवानुसंधानं दर्शि- तम्। पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः । अथ वा चैतन्यावस्थैव प्राणत्यागकर्तृता-

१. 'प्रेमोल्स' स्यात्. २. 'विभावा' स्यातू.

Page 102

७२ काव्यमाला।

स दैवाद्यथा- 'शैलात्मजापि पितुरुच्छिरसोडभिलाषं व्यर्थ समर्थ्य ललितं वपुरात्मनश्च। सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् ।।' पारवश्याद्यथा- 'स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि- र्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरड्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रिया: ॥' प्रतिज्ञाभङ्गभीत्यापि यो न सङ्ग: कादम्बर्याश्चन्द्रापीडेन, सोऽपि पा- रवश्यज एव ।। मानविप्रलम्भमाह- प्रणयेर्ष्याभ्यां मानः । प्रेमपूर्वको वशीकारः प्रणयः, तद्भङ्गे मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा।

त्मिका पाशबन्धाद्यवसरगता मन्तव्या, न तु जीवितवियोग: सुलभोदाहरणं चैतदिति। उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कु- त्सिता तु संभवेऽपि नेति वृद्धाः । वयं तु ब्रूम :- तादृश्यां दशायां जीवितनिन्दात्मि- कायां तद्देहोपभोगसाररत्यात्मकस्थो बन्धादिर्विद्यत एवेत्यसंभव एवेति ॥ स्मरेति। स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रबुद्धलात्। तेन ऊढा परस्परसांमुख्य- मबुद्धिपूर्वमेव नीताः । अनन्तरं गुरव एव श्वश्रूप्रभृतयः सेतवः इच्छाप्रसरनिरोधक- त्वात्। अथ च गुरवोऽलङ््याः सेतवस्तैर्विधृताः प्रतिहतेच्छा अत एव पूर्णम- नोरथास्तिष्ठन्ति, तथापि परस्परोन्मुखतालक्षणान्योन्यतादात्म्येन स्वदेहे सकलवृत्ति- निरोधाल्लिखित प्रायैरङ्वैनयनान्येव नलिनीनालानि तैरानीतं रसं पैरम्परालक्षणमास्ा- दयति। परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाह्यतीति॥ १. 'तिष्टत्यपूर्णमनोरथा' इति वाग्भटकाव्यानुशासने. १. 'अपूर्ण' स्यात्. २. 'परस्परालोकनलक्षण' स्यात्. ३. 'न्ति' स्यात्. ४. 'नतीति' स्यातू.

Page 103

२ अध्याय:] काव्यानुशासनम्। ७३

स्त्रियाः यथा- 'प्रणयकुपितां दृष्ट्रा देवीं ससंभ्रमविस्मृत- स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्। नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतस्यक्षस्यैतद्विलक्षमवस्थितम् ।' पुंसो यथा- 'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते। आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य वद्धस्तया कातर्यादरविन्दकुञ्लनिभो मुग्धः प्रणामाञ्जलिः ॥' उभयस्य यथा- 'पैणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताणम्। निच्लनिरुद्धनीसासदिन्नकन्नाण को मल्लो ।।' ईर्ष्यामानः स्त्रीणामेव यथा- 'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज शिरसा तच्चापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरे: कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥' प्रवासविप्रलम्भमाह- कार्यशापसंभ्रमैः प्रवासः । प्रवासो भिन्नदेशत्वम्। तत्र कार्यहेतुकः प्रवासो यथा- 'याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतटरूढवस्जुललतामालिङ्गच सोत्कण्ठया।

निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मल्ः ॥' [इति च्छाया।] २. 'र्याताम्ुधिमन्थने यदि हरिं' इति वाग्भटकाव्यानुशासने पाठः साधु :. १०

Page 104

७४ काव्यमाला।

तद्गीतं गुरुवाष्पगद्गदगलत्तारखरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ।।' शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम्।। संभ्रमो दिव्यमानुषविद्वरादुत्पातवातादिविप्ठवात् परचक्रादिविप्ठवाद्वा व्याकुलत्वम् । यथा मकरन्दयुद्धसाहाय्यं कर्तु गतस्य माधवस्य- 'हा प्रिये, हा मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य- द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि। कलयसि कलितोऽहं वल्लमे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥' हास्यमाह- विकृतवेपादिविभावो नासास्पन्दनाद्यनुभावो निद्रादिव्यभि- चारी हासो हास्य: । देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः, आदिशब्दान्न- र्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौ- एठकपोलस्पन्दन दृष्टिव्याकोशाकुञ्चनखेदास्यरागपार्श्वग्रहणाद्यनुभावो निंद्रा- वहित्थत्रपालस्यादि व्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः । स चात्मस्थः परस्थश्च। तत्रात्मस्थमाह- उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्ेधा। स इति हासः । यद्धरत :- 'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्टवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ।। आकुश्चिताक्षिगण्डं यत्सखनं मधुरं तथा। कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ १. भरतमुनिना वाग्भटेन च तन्द्राप्यभिहिता.

Page 105

२ अध्याय:] काव्यानुशासनम्। ७१

अस्थानहसितं यत्तु साश्चुनेत्रं तथैव च। उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ।।' परस्थमाह- एतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि। एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिपु। यद्भरतः- 'उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ। किंचिल्लक्षितदन्तं च हसितं तद्विधीयते। उत्फुल्लनासिकं यत्तु जिह्मदृष्टि निरीक्षितम्। निकुश्चितांसकशिरस्तच्चोपहसितं भवेत् ॥ संरब्धसास्त्रनेत्रं च विकुष्टख्वरमुद्धतम्। करोपगूढपाश्चै च तच्चातिहसितं भवेत् ॥' तत्रात्मस्थो हासो यथा- 'पाणौ कङ्कणमुत्फणः फणपतिर्नेत्रं ज्वलत्पावकं कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम्। गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेर्हास्योद्गमः पातु वः ॥'

संक्रान्त्येपि। परं हसन्तं दृष्ट्रा स्यं विभावानपश्यत्नपि हसंलोके दृष्टः। तथा विभा- वादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत एवेति। यथा अम्लदाडिमादिरसास्वादोऽन्यत्रापि दन्तोदकविकारानुरूपदर्श- नात् संक्रमणसभावः, तथा हासोऽपि संक्रामति, नान्ये। यस्तु सवामिशोकाद्धत्यस्य शोक: सोऽन्यः एव शोकवत्सामिविभावको विभावभेदात्। इह च तद्विभावक एव हास्य: संकामतीत्यर्थः । स्मितं हि यदुत्तमप्रकृती, तत्संकीत हसितं संपद्यते। एवं विहसितं मत्यमप्रकृतौ संकान्तमुपहसितम्। अपहसितमधमप्रकृतौ संकान्तमतिहसित- मिति स्मितस्य ईषत्तायां व्यपगतायां हसितम्, ततो विशेषेण ततोऽपि परस्परसमीपं

१. 'साथुने' भरत० २. 'विक्रुष्ट' भरत०. १. 'न्त्येति' स्यात्. २. 'संक्रान्तं' स्यात्.

Page 106

७६ काव्यमाला।

परस्थो यथा- 'कनककल शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रतिबिम्बिताम्। असितसिचय प्रान्तम्रान्त्या मुहुर्मुहुरुत्क्षिप- ञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥' करुणमाह- इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोक: करुणः । इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषण-

ग्लानिचिन्तौत्सुक्य मोहश्रमत्रासविषाददैन्य व्याधिजड तोन्मादापस्मारालस्य- मरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायीभावश्चर्व- णीयतां गतः करुणो रसः । यथा- 'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । दद्दशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥' इत्यादि रतिप्रलापेषु ॥ रौद्रमाह- दारापहारादिविभावो नयनरागाद्यनुभाव औग्यादिव्यभि- चारी क्रोधो रौद्रः।

वाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तौष्ठपीडनगण्ड- स्फुरणहस्ताग्रनिःपेषताडनपाटनपीडनप्रहरणाहरणशस्त्र संपातरुधिराकर्षण- च्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोध: स्थायिभावश्चर्वणीयतां प्राप्तो रौद्रो रसः। १. 'निष्पेष' स्यातू.

Page 107

२ अध्याय:] काव्यानुशासनम्। ७७

यथा-

संचूर्णितोरुयुगलस्य सुयोधनस्य। स्त्यानावनद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥'

नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभिचार्युत्साहो धर्म- वीरमाह-

दानयुद्धभेदो वीरः।

धिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृ- त्यौग्र्यगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणीयतां गतो धर्मदानयुद्धभेदात्रेधा वीरः।

गतम् अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः ॥ चञ्चद्भजेति। चञ्चद्धयां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये पञ्च दारुणा गदा तया योऽभितः सर्वतः ऊर्ध्वाधस्तेन सम्यग्घूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुदवयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्याम- विचलद्रूपमत्यन्तमाभ्यन्तरतया घनं न तु रसमात्रस्वभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य। अत एव स भीमः कातरत्रासदायी। तवेति। यस्यास्तत्तदपमानज्ञीतं कृतं देव्यनुचितमपि, तस्यास्तव कचानुत्तंसयिष्यति उत्तंस- वतः करिष्यतीति वेणीतमपहरन् करविच्युतशोणित(शोणित)शकललोहित कुसुमापी- डेनेव योजयिष्यतीत्युत्प्रेक्षा। तव देवीत्यनेन कुलकलन्नखलीकारस्मरणकारिणा कोधस्यैवोद्दीपनविभावलं कृतमिति नात्र शङ्गारशङ्का कर्तव्या। सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः, स च संचूर्णितोरुत्वादेव। स्थानग्रहणेन द्रौपदीमन्यु- प्रक्षालने लरा सूचिता ॥ नयेति। संध्यादिगुणानां सम्यग्प्रयोगो नयः इन्द्रियजयो विनयः । असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्रदर्शिता । हस्त्यश्वरथपा- दातं बलम् । अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः । शत्रुविषयसंतापकारिणी प्रसिद्धि: प्रतापः । अभिजनधनमन्तिरिसंपत् प्रभावः । सामाद्युपायानामेक द्वित्रि चतु रा्द्द द भेंदैर्यथाविषयं नियोजनं वैशारद्यम्॥ धर्मेति। धर्मादित्रितयमनुभावात्मकं प्रति- १. 'येयं चण्डा' स्यात्. २. 'भिघातः' स्यात्. ३. 'म्यक्चू' स्यात्. ४. 'जातं' स्यात्. ५. 'स्त्याना' स्यात्.

Page 108

७८ काव्यमाला।

यथा- 'अजित्वा सार्णवामुर्वींमनिष्ट्रा विविधैर्मखैः । अदत्त्वा चार्थमर्थिम्यो भवेयं पार्थिवः कथम् ॥' तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य। दानवीरः परशुरामबलिप्र- भृतीनाम्। युद्धवीरो वीरचरिते रामस्य ।। इह चापत्पङ्कनिमन्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापस्य यस्तत्त्वनिश्च- यरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्रा- धान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेकः । भयानकमाह- विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभि- चारि भयं भयानकः ।

न्यगृहारण्यगमनादिविभावं करकम्पचलद्दृष्टिनिरीक्षणहृदयपादस्पन्दशुष्कौ- छठकण्ठत्वमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापलावेगदैन्य- मोहादिव्यभिचारी स्त्रीनीचप्रकृतीनां स्वाभाविकमुत्तमानां कृतकं भयं स्था- यिभावश्चर्वणीयत्वमागतं भयानको रसः । यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने वद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्दूयसा पूर्वकायम्। शष्पैरर्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥' ननु च राजादि: किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून् करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं नायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः । यदाह भरतः-'दा- नवीरं धर्मवीरं युद्धवीरं तथैव च। रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥' इति॥ स्त्रीनीचप्रकृतीनामिति । नोत्तममध्यमप्रकृतीनाम् ।। कृतकमिति। उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञस्य भयं दर्शयन्ति। एवं हि सुतरामुत्तमतवं

Page 109

२ अध्याय:] काव्यानुशासनम् । ७९

सर्वस्य हि कृतकत्वं संभवति, यथा वेश्या धनार्थिनी कृतकां रतिमादर्श- यति॥ उच्यते-भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति। कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थ- सिद्धिः । यत्र तु राजानः परानुग्रहाय क्रोधविस्मयादि दर्शयन्ति, तत्र व्यभिचारितैव, न तेषां स्थायितेति।। बीभत्समाह-

रिणी जुगुप्सा वीभत्सः । अह्ृद्यानामुद्वान्तत्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसं- कोच हृल्लासनासा मुख वि कूणनाच्छादननिष्ठीव नाद्यनुभावापस्मारौग्रयमोहग- दादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता वीभत्सः। यथा- 'उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूच्छोफभूयांसि मांसा- न्यंसस्फिकपृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आत्तस्नाय्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्क: करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' अद्भुतमाह- दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभि- चारी विस्मयोडद्जुतः ।

जालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाश्रुखे-

भवति। प्रभुभक्तत्वं चामात्यानां यथा स्वेच्छाकारीत्यत एवास्मीति॥ दिव्येति। दिव्या गन्धर्वादयस्तेषां दर्शनम्। शक्यप्राप्तिरर्थ ईप्सितः, शक्यप्राप्तिस्तु मनोरथः, तयो: ग्राप्तिः, उपवने देवकुलादौ च गमनमद्भुतविभावो येन तत्रत्यं सरः संनिवे- शादि न क्चिद्ृष्टम् । सभा गृहविशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका। इन्द्रजलं मत्र्रदिव्यहस्त्ययुत्त्यादिनासंभवद्वस्तुप्रदर्शनम् । सा- १. 'अशक्य' स्यात्. २. 'जालं' स्यातू. १. 'हस्त' स्यात्.

Page 110

८० काव्यमाला।

दसाधुवाददानहाहाकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजडतादिव्यभि- चारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोडद्द्ुतो रसः। यथा- 'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्धक्षिता स्वेच्छया, सत्यं कृष्ण, क एवमाह, मुसली, मिथ्याम्ब पश्याननम्। व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जग- द्ृद्टा यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥' शान्तमाह- वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृ- त्यादिव्यभिचारी शमः शान्तः । वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागपरिशीलनपर मेश्वरानुग्रहादिविभा- वो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्यादिव्यभि- चारी तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः । यथा- 'गङ्गातीरे हिमवति शिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य। किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विश ङ्काः कण्डूयन्ते जरठहरिणा: शृङ्गकण्डूं विनेतुम् ॥'

ध्वितिवदनं साधुवेदः। दानं धनादेः। हाहाशब्दस्य करणं हाहाकारः। चेलस्य अङ्गुलेश्व भ्रमणमिति॥ यमेति। अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसं- तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ कृष्णाक्षय इति। कृष्णानां विष- याभिलाषाणां क्षये यत्रात्मख्वभावः स शमः । अयमर्थ :- कालुष्योपरागदायिभिर्भय- रत्यादिभिरनुपरक्तं यदात्मखरूपं तदेव विरलोऽस्तिं तरलान्तरालनिर्भासमानसिततर- सूत्रवदाभातसरूपं रत्यादिधूपरञ्जकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन १. 'दानाहोकार' वाग्भटकाव्यानुशासने. २. 'विकासिते' स्यात्. ३. 'कृष्णाक्षय' इति टीकायां व्याख्यातम्. १. 'वादः' स्यात्. २. 'क्षयो यत्रात्मखभावे' स्यात्. ३. 'असितरत्ना' स्यात्.

Page 111

२ अध्याय:] काव्यानुशासनम्। ८१

भासमानं परोन्मुखतात्मकसकलदुःसजालहीनं परमानन्दलाभसंविदेकधनं तथावि- धहृदयसंवादवतो हृदयं विधत्ते।। एतेन निर्वेदस्यामङ्गलप्रायत्वेऽपि व्यभिचारिपु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायिताभिधानार्थमिति यदुक्तम्, तत्प्रतिक्षिप्तम्। तथाहि-कोऽयं निर्वेदो नाम, दारिद्वादिप्रभवस्तत्त्वज्ञानप्रभवो वा। तत्रादयस्य शोक- प्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्वं वक्ष्यते। अथ तत्त्वज्ञानजो निर्वेदः स्थायी, तर्हि तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात्। वैराग्यवीजादि(?)पु कथं विभाव: । तदुपायत्वादिति चेत्कारणकारणेऽयं विभावता व्यवहारः, स चातिप्रस- डावहः। किं च निर्वेदो नाम सर्वत्रानुपादेयता प्रत्ययो वैराग्यलक्षणः । स च तत्त्व- ज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते। तत्त्वज्ञानाद्धि मोक्षो, न तु तत्वं ज्ञात्वा निविद्यते॥ ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम्। भवत्येवं तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्था- यीति॥ यत्तु व्यभिचारिव्याख्यानावसरे 'वृथा दुग्धोऽनड्ान्' इत्यादौ चिरकाल विभ्रमविप्रलब्धस्योपादेयत्वनिवृत्तये सम्यग्ज्ञानं वक्ष्यते, तन्निर्वेदस्य खेदरूपस्य विभा- वत्वेनेति तस्मात् शम एव स्थायी। न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम्। हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्ष- ण्यात्। यथा च कामादिषु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणासवादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं शङ्गारादितया नीयते, तथा मोक्षाभिधानपरपुरुषार्थोपचितापि शमरूपा चित्त- वृत्ती रसतां नीयत इति। तथा हि तत्त्वज्ञानस्वभावस्य शमस्य स्थायिनः समस्तोऽयं लौकिकालौकिकश्चित्तवृत्तिकलापो व्यभिचारितामभ्येति तदनुभावा एव च यमनियमाद्यु- पकृता अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रभृतयः, प्रक्षयोन्मुखाश्च रत्यादयो- Sत्रास्वाद्यन्ते। केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेपि वा प्रेमासमाप्तोत्सव- मिति। यथा च रौद्रे औग्र्यम्, यथा च करुणवीरभयानकाद्भुतेपु निर्वेदधृतित्रास- हर्षा व्यभिचारिणोऽपि प्राधान्येन विभासन्ते, तथा शान्ते जुगुप्साद्याः सर्वथैव रागप्र- तिपक्षत्वात् सवात्मनि च कृतकृतस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोप- कारविषयेच्छा प्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्ग । अत एव केचिदयावीर- त्वेन व्यपदिश्यन्त्यन्ये धर्मवीरत्वेन ॥ ननूत्साहोऽहंकारप्राणः शान्तस्त्वहंकारशैथिल्या- त्मकः। ननु किमतः (?) व्यभिचारित्वं हि विरुद्धस्यापि नानुचितं रताविव निर्वे- दादेः। 'शय्यां शाङ्लम्-' इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकर्षो लक्ष्यते, नेनूत्साहशून्या काचिदप्यवस्था। इच्छाप्रयत्नव्यतिरेकेण पापाणतापत्तेः । यत एव च परिद्ृष्टपरम्परत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते। अत एव शान्तहृदयानां

१. 'तु' स्यात्. २. 'निर्विद्यते' स्यात्. ३. 'कृत्यस्य' स्यात्. ४. 'नतेऽन्ये' स्यात्. ५. 'नतू' स्यात्. ११

Page 112

८२ काव्यमाला।

न चास्य विषयजुगुप्सारूपत्वात् बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति, न तु स्थायितामेति। पर्यन्तनिर्वाहे तस्या मू- लत एवोच्छेदात् ॥ न च धर्मवीरे, तस्याभिमानमयत्वेन व्यवस्थानात् परोपकाराय शरीरसर्वस्वादिदानं न शास्त्रविरोधि। 'आत्मानं (यो) गोपायेत्' इत्या- दिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्याभावात्। तथा हि-'धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तान्निम्नता कि न हतं रक्षता किं न रक्षितम् II' इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायां निदानं दर्शि- तम्। कृतप्रेत्यस्य 'जलधौ श्वभ्रे वा पतेत्' इति संन्यासित्वेन श्रवणात्। तद्यथा कर्थं- चित्त्याज्यं शरीरम्, यदि परमार्थमुत्पद्यते तत्किमिव न संपादितं भवति। जीमूतवाहा- दीनां नयतत्त्वमिति चेत्, किं तेन। तत्त्वज्ञानित्वं तावदस्त्येव, अन्यथा परमार्थे त्यागस्यासंभाव्यत्वात्। युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः पेरावजयोद्देशेनैव प्रवृत्तेः। भृगुपतनादावपि शुभतमदेहान्तरसंपिपादयिषैवाभिविजृम्भते। तत्खार्थानुद्देशेन परार्थसंपत्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानाना मसंभाव्यमेवेति। तेऽपि (?) तत्त्वज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति। स्मार्तश्रुतौ यथोक्तम्-'देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धं कृत्वा ददह्व्यं गृहस्थोऽपि हि मुच्यते ।' इति केवलं परार्थाभिसंधिजाद्धर्मात्परोपकारफलत्वेनैवाभिसंहतातपुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्वानां तत्त्वज्ञानिनामपि। दृष्टश्चाङ्गेध्वपि विश्रान्तिलाभः स्वभावौचित्यात् । यथा रामस्य वीराङ़े पितुराज्ञां परिपालयतः। एवं श्ङ्गाराद्यङ्गेष्वपि मन्तव्यम्। अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम्। जीमूत- वाहने त्रिवर्गसंपत्तौ क्षयरोगकृतिप्रधानयोः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽ्भयु- त्साहोSत्र प्रधानम्। अन्ये तु व्यभिचारिणो यथायोगं भवन्तीति ॥ एवं यत्कैश्चिज्जी- मूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव। न च तदीया पर्यन्तावस्था व्याव- र्णनीया येन सर्वथेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात्। श्ङ्गारादेरपि फलभू- मावव्यावर्णनीयतैव। पूर्वभूमौ तु 'प्रशान्तवाहितासंस्कारात्तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादि- लक्षणा वा शान्तस्यापि जनकादेर्द्ष्टैवेत्यनुभावसद्भावादिमादिमध्यसंभाव्यमानभूयोव्य भिचारिसद्भावात्प्रतीयते एव (ने प्रतीयते)॥ ननु प्रतीयते सर्वस्य तु श्राध्यास्पदं न भवति। तर्हि वीतरागाणां शरङ्गारो श्राध्य इति। सोऽपि रसत्वाच्च्यवताम्। अयमर्थ :- यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावता, सा च लोकसामान्यमहानु भावचित्तवृत्तिविशेषवत्प्रतिक्षेम्रुं शक्या।। ननु धर्मप्रधानोऽसौ वीर एव संभाव्यत इत्याशङ्ग्याह-अभिमानमयत्वेनेति। उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः। १. 'कृत्यस्य' स्यात्. २. 'परविजयो' स्यात्. ३. लेखकप्रक्षिप्तं भवेत्.

Page 113

२ अध्याय:] काव्यानुशासनम् ।

अस्य चाहंकारप्रशमैकरूपत्वात्। तथापि तयोरेकत्वपरिकल्पनेन वीररौद्र- योरपि तथा प्रसङ्गः। धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकारमहंकार- रहितत्वे शान्तरसप्रभेदत्वमितरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः ॥ एषां क्रमेण स्थायिभावान् संगृह्णाति- रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः । भावयन्ति चित्तवृत्तय एवालौकिका वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्याखाद्यं कुर्वन्ति। यद्वा आवयन्ति व्याप्रुवन्ति सामाजिकानां मन इति भावा: स्थायिनो व्यभिचारिणश्च। तत्र स्थायित्वमेतावतामेव। जात एव हि जन्तुरियतीभिः संविद्धिः परीतो भवति। तथा हि दुःखद्वेषी सुखाखादनलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परमुपहसति । उत्कर्षापायशङ्कया शोचति । अपायं प्रति क्रुध्यति। अपायहेतुपरिहारे समुत्सहते। विनिपाताद्विभेति। किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते। ततश्च परकर्तव्यवैचित्र्यदर्शनाद्वि- स्मयते। किंचिज्जिहासुस्तत्र वैराग्यात्प्रशमं भजते। न ह्येतच्चित्तवृत्तिवास- नाशून्यः प्राणी भवति। केवलं कस्यचित्काचिदधिका भवति चित्तवृत्तिः, काचिदूना। कस्यचिदुचितविषयनियन्त्रिता, कस्यचिदन्यथा। तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्रोत्तमप्रकृत्यादिव्यवहारः ॥ ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाज्जन्म- मध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तचेतोग्ला- न्यालस्यश्रमप्रभृतयो न भवन्त्येव । यस्यापि वा भवन्ति विभावबलात्तस्यापि

अस्य चेति। शान्तस्य ॥ तथापीति। इह मेयत्वनिरीहत्वाभ्यामत्यन्तं विरुद्धयो- रपीत्यर्थः । वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्तविरोधोऽपि नास्ति॥ संगृह्णातीति। सकलयति, न तु लक्षयति। शङ्गारादिरसलक्षण एव स्था-

१. 'संकल' स्यात्.

Page 114

८४ काव्यमाला।

हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमुपवन्नन्ति। रत्यादयस्तु सं- पादितसवकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते। व- स्त्वन्तरविषयस्य रत्यादेरखण्डनात्। यदाह पैतिज्जलि :- 'न हि चैत्र ए- कस्यां स्त्रियां विरक्त इत्यन्यासु विरक्तः इत्यादि। तस्मात्स्थायिरूपचित्तवृ- त्तिसूत्रस्यूता एवामी खात्मानमुदयास्तमयवैचित्र्यशतसहस्त्रधर्माणं प्रतिल- भमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्ते इति व्यभिचारिण उच्यन्ते। तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेनास्थायितास्य सूच्यते। न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः। अत एव विभावास्त- त्रोद्वोधकाः सन्तः स्वरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचि- तत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु खविभावाभावे नामापि नास्ति ।। तत्र परस्परास्थाबन्धात्मिका रतिः । चेतसो विकासो हासः । वैधुर्य शोक:। तैक्ष्ण्यप्रबोधः क्रोधः । संरम्भः स्थेयानुत्साहः । वैकव्यं भ- यम्। संकोचो जुगुप्सा । विस्तारो विस्मयः। तृष्णाक्षयः शमः ॥ रसलक्षण एव स्थायिस्वरूपे निरूपिते पुननिर्देशः क्वचिदेषां व्यभि- चारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्वे एषां स्थायित्वम्, अल्प- विभावत्वे तु व्यभिचारित्वम्। यथा रावणादावन्योन्यानुरागाभावाद्रतिर्व्य- भिचारिणी। तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव। एवं भावान्तरेषु वाच्यम्। शमस्य तु यद्यपि क्वचिदप्राधा- न्यम्, तथापि न व्यभिचारित्वम्, प्रकृतित्वेन स्थायितमत्वात्। व्यभिचारिणो ब्रूते-

यिस्वरूपस्य निरूपितत्वादिति भावः ॥ प्रकृतित्वेन स्थायितमत्वादिति। रत्या- १. 'पतञ्जलिः' स्यात्.

Page 115

२ अध्याय:] काव्यानुशासनम्।

न्तामर्पत्रासापस्मारनिर्वेदावेगवितर्कास्यामृतयः स्थित्युदयप्रशमसं-

तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः। त्रीडा चित्तसंकोचः । जाड्यमर्थाप्रतिपत्तिः । विपादो मनःपीडा । मद आ- नन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम् । सुप्ं निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम्। अवहित्थमाकारगुप्तिः। शङ्कानिष्टोत्प्रेक्षा। चापलं चेतोनवस्थानम्। आलस्यं पुरुषार्थेष्वना- दरः। हर्षश्रेतः प्रसादः। गर्वः परावज्ञा। औग्यं चण्डत्वम्। प्रबोधो विनिद्रत्वम् । ग्लानिर्वलापचयः । दैन्यमनौजस्यम्। श्रमः खेदः। उन्मादश्चित्तविप्वः । मोहो मूढत्वम्। चिन्ता ध्यानम्। अमर्षः प्रति- चिकीर्षा। त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः खाव- माननम्। आवेगः संभ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिर्म्रियमाणता। एते च स्थित्युदयप्रशमसंधिशबलत्वधर्माणः । स्थितिर्यथा- 'तिष्ठेत्कोपवशात्प्रभावपिहिता दीघै न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तु विवुधद्विपोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोडयं विधिः ॥' अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आ- स्वादातिशयः । उदयो यथा- 'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम्।

दयो हि तत्ततकारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यवानवृत्तयः किंचित्कालमापेक्षिक- तया स्थायिरूपात्मवित्तिसंश्रयाश्च स्थायिन इत्युच्यन्ते। तत्त्वज्ञानं तु सकलभावान्तर- वित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वा रत्यादिकाः स्थायिचित्तवृत्तीव्यभिचारि-

Page 116

काव्यमाला।

भूयस्तत्प्रकृतं कृतं च शिथिलक्षित्तैकदोर्लेखया तन्वङ्ग्या न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥' अत्र मानस्योदयः । प्रशमो यथा- 'दृष्टे लोचनवन्मनास्युकुलितं पार्श्ववस्थिते चक्रव- न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति। नीवीबन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ॥' अत्र मानस्य प्रशम: । संधिर्यथा- 'उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- न्नानन्दी हरिचन्दनेन्दुशिशिरः स्त्निग्धो रुणद्यन्यतः ॥' अत्रावेगहर्षयोः संधिः । शबलत्वं यथा- 'क्वाकार्य शशिलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वनेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽघरं धास्यति ॥' अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम्। विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थ तेनान्येषा- मत्रैवान्तर्भावः । तद्यथा-दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादे- ग्लानौ। एवमन्यदप्यूह्यम् ।। अन्ये त्वाहु :- एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगप्रदशितेषु स्थायी चर्वणायोग्यो भवति॥ १. 'शशलक्ष्मणः' इत्यन्यत्र.

Page 117

२ अध्याय:] काव्यानुशासनम् । ८७

एषां विभावानुभावानाह- ज्ञानादेर्धतिरव्यग्रभोगकृत्। ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः । सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन योऽव्यग्रो भोगस्तं करोति। तेनानुभावेन धृति वर्णयेदित्यर्थः । यथा- 'वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे नविशेषा विशेषाः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोरऽर्थवान्को दरिद्रः ॥' सदृशदर्शनादेः स्मृतिर्भ्रक्षेपादिकृत्। सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां स्मरणं

यथा- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि। ता्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण- मा ज्ञातं स जटायुरेष जरसा क्विष्टो वधं वाञ्छति॥' शास्त्रचिन्तादेमतिः शिष्योपदेशादिकृत्। शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः। तां शिष्योपदेशार्थवि- कल्पनसंशयच्छेदादिभिर्व्णयेत्। यथा- 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेपु वस्तुपु प्रमाणमन्तःकरणप्रवृत्तयः ॥' भावयन्निसर्गत एव सिद्धस्थायिभावमिति ॥ विभावानुभावानिति। न तु व्यभि- चारिणः । एवं हि तदास्वादे सवं रसान्तरमपि स्यात्। यत्रापि च व्यभिचारिणि १. 'निर्विशेषाः' स्यात्.

Page 118

काव्यमाला।

अकार्यकरणज्ञानादेव्ींडा वैवर्ण्यादिकृत्। अकार्यकरणज्ञानगुरुव्यतिक्रम प्रतिज्ञाभङ्गादेश्चेतःसंकोचो व्रीडा । तां वैवर्ण्याधोमुखविचिन्तनभ्रूविलेखनवस्त्राङ्गुलीय कर्णस्पर्शननखनिस्तोदना- दिभिवर्णयेत्। यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया ।' इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत्।

भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत्। यथा- 'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति। सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये॥' कार्यभङ्गाद्विपाद: सहायान्वेषणमुखशोषादिकृत्। उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनःपीडा विषादः। तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानाम्, मुखशोषजिह्रासृक्कले हननिद्राश्चसितध्यानादिभिरधमानां वर्णयेत्। यथा- 'व्यर्थ यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि। मार्गे यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥' मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत्। मद्यपानादानन्दसंमोहयोः संगमो मदः। तं स्वापस्मितगानकिंचिदाकु-

व्यभिचार्यन्तरं संभाव्यते। तदथा पुरुषस्य उन्मादे वितर्कचिन्तादि। तन्नापि रतिस्थायि- भावस्यैव व्यभिचार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति।

Page 119

२ अध्याय:] काव्यानुशासनम् । <९

भुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम्, अस्मरणघूर्णनस्खलद्गमनरु- दितच्छर्दितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत्। तथा च- 'उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । द्वितीयो मध्यनीचेषु नीचेप्वेव तृतीयकः ॥' यथा- 'सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु। गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ।' विरहादेर्मनस्तापो व्याधिर्मुखशोपादिकृत्। विरहाभिलापादिभ्यो मनस्तापो व्याधिहेतुत्वान्याधिः । तं मुखशोष- स्रस्ताङ्गतागात्रविक्षेपादिभिर्वर्णयेत्। यथा- 'मनोरोगस्तीत्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव। हिनस्ति प्रत्यङ्गं ज्वर इव बलीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ।।' क्मादेनिद्रा जुम्भादिकृत्। क्कमश्रममदालस्यचिन्तात्याहारस्भावादिभ्यो मनःसंमीलनं निद्रा । तां जम्भावदनगौरैवशिरोलालन नेत्रघूर्णनगात्रमर्दोच्छसितनिःश्वसितसन्नगा- त्रताक्षिनिमीलनादिभिर्वर्णयेत्। यथा- 'निद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि। अद्यापि मे मृगदृशो मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥'

१. 'गौरवशरीरालालन' इति भरतः. १२

Page 120

९० काव्यमाला।

निद्रोद्ध्वं सुप्तमुत्स्वमायितादिकृत्। निद्रोद्धवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह। तदुत्खम्रा- यितोच्छसितनिःश्वसितसंमोहनादिना वर्णयेत्। यथा- 'एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेर्प्य शङ्कितया स वः सुखयतु स्वम्नायमानो हरिः ॥' इष्टानुस्मरणादेरौतसुक्यं त्वरादिकृत्। इष्टानुस्मरणदर्शनादेविलम्बासहत्वमौत्सुक्यम् । तत्त्वरानिःश्वसितो- च्छ्ुसितकाशर्यमनःशून्यतादि गवलो क नरणरणकादिभिर्वर्णयेत् । यथा- 'आलोकमार्गे सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥' लज्जादेरवहित्थमन्यथाकथनादिकृत्। लज्जाजैह्यभयगौरवादिभ्यो भ्रविकारमुखरागादीनामाच्छादनकारिणी चित्तवृत्तिरवहित्थमवहित्था वा। न बहिःस्थं चित्तं येनेति। पृषोदरा- दित्वात्। तदन्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिवर्णयेत्। यथा- 'एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।।' चौर्यादेः खपरयोः शङ्का पार्श्वविलोकनादिकृत्। चौर्यपारदार्यादेर्विरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का। सा च कदाचि- तस्वस्मिन्, यदा समापराधयोरात्मपरयोः परो राजादिना दण्ड्यते। कदा- चित्परस्मिन्, यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते। सा १. 'च' समुपलभ्यमानरघुवंशे.

Page 121

२ अध्याय:] काव्यानुशासनम्। ९१

भिर्वर्ण्यते। स्वस्मिन्यथा- 'दूराद्दवीयो धरणीघराभं यस्ताडकेयं तृणवद्यधूनोत्। हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ॥' परस्मिन्यथा-समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, दुर्योघनस्य वा भानुमत्याम्। रागादेश्वापलं वाक्पारुष्यादिक्कृत्। रागद्वेपमात्सर्यामर्पेर्ष्यादिभ्यश्चेतोनवस्थानं चापलम्। अविमृश्य कार्य- करणमिति यावत्। तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधवन्धादिभिर्वर्णयेत्। यथा- 'कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम्। रजोभिरन्तः परिवेषवन्धि लीलारविन्दं भ्रमयांचकार ।' श्रमादेरालस्यं निद्रादिकृत्। श्रमसौहित्यरोगगर्भस्वभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम्। तच्च निद्रातन्द्रासर्वकर्मविद्वेपशयनासनादिना वर्णयेत्। यथा- 'चलति कर्थंचित्पृष्टा यच्छति वाचं कदाचिदालीनाम्। आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥' प्रियागमादेर्हर्पो रोमाञ्च्ादिकृत्।

मनोरथावाह्यादिभ्यश्चेतःप्रसादो हर्षः। तं च रोमाञ्चाश्नखेदनयनवदन- प्रसादप्रियभापणादिभिर्वर्णयेत्। यथा- 'आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्वचतां गेहिन्या परितोषवाष्पसलिलामासज्य हष्टिं मुखे।

Page 122

९२ काव्यमालां।

दत्त्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलसं रजः ।।'

विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः। तमसूयामर्षपारु-

र्णयेत्। यथा- 'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदश्यस्तथा मित्रमन्यथा दुर्मनायते।।' चौर्यादेरौग़्यं वधादिकृत्। चौर्यद्रोहासत्प्रलापादिभ्यश्चण्डत्वमौग्यम्। तद्वधबन्धताडननिर्भर्त्सना- दिभिर्वर्णयेत्। यथा- 'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा- दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान्। पितयं तद्रक्तपूर्णह्ृदसवनमहानन्दमन्दायमान- क्रोधायेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' शब्दादे: प्रबोधो जम्भादिकृत।

द्रत्वं प्रबोधः । स च जम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटनशय्यात्यागग्री- वाङ्गचलनादिभिर्वर्ण्यते। यथा- 'प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणा- मात्मव्यापारगुर्वी जनितजललवाजुम्भणैः साङ्गभङ्गैः । नागाङ्कं मोक्तुमिच्छो: शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदोऽभिताम्रा चिरमवतु हरेदष्टिराकेकरा व: ॥'

Page 123

२ अध्याय:] काव्यानुशासनम्।

जराकलाभ्यासादिभ्यो बलापचयो ग्लानिः। तां वैवर्ण्यक्षामनेत्रकपोलो-

यथा- 'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः। ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम् ।।' दौर्गत्यादेर्दैन्यममृजादिकृत्। दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम्। तन्मृजात्यागगुर्वङ्गताशिरः- प्रावणादिभिर्वर्णयेत्। यथा- 'अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्ति च ताम्। सामान्यप्रतिपत्तिपूर्वकमियं दारेपु द्ृश्या च या भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥' व्यायामादे: थ्रमोऽङ्गभङ्गादिकृत। व्यायामाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽर्ङ्गभङ्गमर्दनमन्द- कमास्यविकूणनादिभिर्वर्णयेत्। यथा- 'अलसलुलितमुग्धान्यध्वसंतापखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि। मृदु मृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ।।'

१. 'डङमर्द' भरत :.

Page 124

९४ काव्यमाला। 1 इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत्।

तमनिमित्तस्मित रुदितोत्कुष्टगीतनृत्यप्रधावितोपवेशनोत्थानासंबद्धप्रलापभ- स्मपांशूद्धूलननिर्माल्यचीवरघट चक्रशरावाभरणादिभिर्वर्णयेत्। यथा- 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता। संभावितैकदेशेन देयं यदभियुज्यते ।' प्रहारादेमोंहो भ्रमणादिकृत्। प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं मोहः। मोहस्य प्रागवस्थापि मोहशब्देनोच्यते। तं भ्रमणदेहघूर्णनपतनसर्वेन्द्रिय- प्रमोहवैचित्र्यादिभिर्वर्णयेत्। यथा- 'तीत्राभिषङ्गप्रभवेण वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मुहूतै कृतोपकारेव रतिर्बभूव ।।' सुखजन्मापि मोहो भवति। यथा- 'कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना- त्तद्वासः लथमेखलागुणधृतं किंचिन्नितम्वे स्थितम्। एतावत्सखि वेझि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोडसौ कास्मि रतं तु किं कथमिति स्वल्पापि मे न स्मृतिः ॥' दारिद्यादेश्चिन्ता संतापादिकृत्। दारिद्येष्टद्रव्यापहारैश्व्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता। सा च स्मृतेरन्या ग्रसनाददनवत्। खेलनाद्गमनवच्च। तां संतापशून्यचित्तत्वकार्श्यश्वासाधो- मुखचिन्तनादिभिर्वर्णयेत्। सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृ- थग्भवति चिन्ता।

Page 125

२ अध्याय:] काव्यानुशासनम्। ९१

यथा- 'पश्यामि तामित इतः पुरतश्च पश्चा- दन्तर्बहिः परित एव विवर्तमानाम्। उह्ुद्धमुग्धकनकाज्जनिभं वहन्ती- मासज्य तिर्यगपवर्तितदृष्टि वक्रम् ।' आक्षेपादेरमर्षः स्वेदादिकृत्। विद्यैश्वर्यबलाधिककृतेभ्यः आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्पः।

यथा- लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेपु चित्तनिचयेपु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥' निर्घातादेस्त्नासोऽङ्गसंक्षेपादिकृत् ।

भ्यश्चेतश्रमत्कृतिरूपस्त्रासो भयात्पूर्वापरविचारवतो भिन्न एव। सोऽङ्गसं-

यथा- 'परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ।।' ग्रहादेरपस्मारः कम्पादिकृत्।

मिपतनारावमुखफेनादिभिरवर्णयेत्। अयं च प्राय आभासेप्वेव शोभते। यथा-

फेनायमानं पतिमापगानामसावपस्मारिणमाशशक्के।।'

Page 126

९६ काव्यमाला।

रोगादेनिर्वेदो रुदितादिकृत्।

रूपो निर्वेदः। स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यः । यथा- किं करोमि क्व गच्छामि कमुपैमि दुरात्मना। दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥I' उत्पातादिभ्य आवेगो विस्मयादिकृत्।

दिभिर्यथासंख्यं वर्णयेत्। तत्रोत्पातावेगो यथा- 'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेद्टक्वोऽपि जीवो द्रुतमुपनिपतन्पश्य संप्राप्त एव ।

तत्वज्ञानादिभ्य इति। चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये यत्सम्य- ग्ज्ञानं तन्निर्वेदं जनयति, न त्वात्मखभावः. तस्य शान्तस्थायित्वेनोक्तत्वात्। यथा- 'तृथा दुग्धोऽनड्डान्स्तनभरनता गौरिति चिरं परिष्विक्तः षण्ढो युवतिरिति लावण्यर- हितः । कृता वैडर्याशा विकचकिरणे काचशकले नयामूढेन त्वां कृपणमगुणज्ञं प्रण- मता ।' इति। अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादि वदत्यन्तानु- रञ्जनाय वा हासविस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्यभिचार्येवेति ॥ उत्पात- वातेति। आदिशब्दः प्रत्येकमभिसंबध्यते। ततश्वोत्पातादेरवातादेवर्षादेरन्यादेर्ग- जादेः प्रियश्रवणादेरप्रियश्रवणादेर्व्यसनादेश्ष विभावादित्यर्थः । एवं विस्मयादिना अवगुणनादिच्छन्नश्रयणादिना धूमान्यादिना त्वरितापसर्पणादिना पुलकादिना विला- पादिना संहननादिना चानुभावेनेति प्रतिपत्तव्यम् ॥ तत्र उत्पातावेगः 'किं किं सिंहः'

१. 'कुञ्जरोन्भ्रमण' इति भरतसंवादात् 'गजो(ङ्र्रमण)' इति भवेत्. टीकायां तु 'ग- जादेः' इत्थं व्याख्यातं तस्माद् 'गज' इत्येव स्यात्. २. 'छत्राश्रयण' इति भरते पा- ठातू 'छत्रश्रयण' इति भवेत्.

१. 'अवगुण्ठनादिना छत्राश्रयणा' स्यात्.

Page 127

२ अध्याय:] काव्यानुशासनम्। ९७

शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखाना- मित्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥' एवं वातावेगादिपूदाहार्यम्। संदेहादेर्वितर्कः शिरःकम्पादिकृत्। संदेहविमर्शविप्रतिपत्त्यादिभ्यः संभावनीयप्रत्ययो वितर्कः। स शिरः-

यथा- 'अनङ्ग: पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ।' परोत्कर्पादेरस्यावज्ञादिकृत्।

इत्यादिना निदर्शितः ॥ वातावेगो यथा-'वाताहतं वसनमाकुलमुत्तरीयम्-' इत्यादि। वर्षावेगो यथा-'देवे वर्षत्यसनपचनव्यापृता वह्निहेतौ गेहाद्रेहं फलकनिचितैः सेतुभि: पङ्कभीताः। नीत्रत्प्रान्तानविरलजलान्पाणिभिस्ताडयित्वा सूर्यच्छायास्थगित- शिरसो योषिन्तः संचरन्ति ॥' अन्यावेगो यथा-'क्षिप्तो हस्तावलग्नः-' इत्यादि। गजावेगो यथा-'स च्छिन्नवन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन। रामापरि- त्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ।I' प्रियदर्शनादावेगो यथा-'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम्। आरोप्य वा हृदि दिशामि शमुद्वहामि वन्देऽथ वा चरणपुष्करकद्यं ते ।।' अप्रियदर्शनश्रवणावेगो यथा उन्मत्तराघवे-'चित्रमायः-(ससंभ्रमम् ।) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम्। (इत्याकुलतां नाटयति ।)' इत्यादि। पुनः 'चित्रमायः-मृगरूप परित्यज्य विधाय चिकटं वपुः। नीयते रक्षसा तेन लक्ष्मणो युधि संक्षयम्॥ राम :- वत्सस्याभय- वारिधे: प्रतिभयं मन्ये कथं राक्षसाव्रस्तश्वैप मुनिर्विरौति मनसश्षास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्नहाद्गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥' व्यसनं राजविड्रादि, तद्धेतुरावेगो यथा-'आगच्छागच्छ शत्त्रं कुरु, वरतुरगं संनिधेहि द्रुतं मे, खङ्ग: क्वासौ, कृपाणीमुपनय, धनुषा किं किमङ्ग प्रविष्ठे। संरम्भोन्निद्वितानां क्षितिभति गहनेऽन्योन्यमेव प्रतीच्छनादः खप्नाभिदृष्टे त्वयि चकि- तदशां विद्विषामाविरासीत् ॥' संदेहेति। संदेहः किंस्विदित्युभयावलम्वी प्रत्ययः संशयरूपः । विमर्शो विशेषप्रतीत्याकाह्वात्मिका इच्छा। प्रमाणेन पक्षाभावप्रतीतिमात्रं १. 'नीयृत्प्रा' स्यान्. २. 'योषितः' स्यात्. ३. 'द्विड्वैरादि' स्यात्. १३

Page 128

९८ काव्यमाला।

वर्णयेत्। यथा- 'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते। यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ।' व्याध्यभिघाताभ्यां मृतिर्हिक्काकार्श्यादिकृत। व्याधिर्ज्वरादिः प्रतीतः, सर्पविषगजादिसंभवोऽभिघातस्ताभ्यां मृतेः प्रा- गवस्था मृतिः । साक्षान्मृतावनुभवाभावात्। तत्र व्याधिजां मृति हिक्का- श्वासाङ्गभङ्गाक्षिनिमीलनादैः, अभिघातजां तु कार्श्यवेपथुदाहहिक्काफेनाङ्गभ- ङ्जडतामरणादिभिर्वर्णयेत्। यथा- 'स गतः क्षितिमुष्णशोणिताद्री खुरदंष्ट्राग्रनिपातदारिताश्मा। असुभि: क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥' श्रृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्व झटिति पुनर्योगो वा निबध्यते। अन्यत्र तु सेच्छा। यथा- 'संप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निः्रियतया निश्चित्य किंचिच्चिरम् ।

विप्रतिपत्तिरित्याहुः। एभ्योऽनन्तरं भवितव्यताप्रत्ययस्भावः एकतरपक्षरैथिल्यदायी पक्षान्तरतुल्यकक्षभवोच्चावयतु(?)न्मन्नतामन्यस्य दर्शयंस्तर्कः । सच संशयात्पृथगेव। संदेहेन तत्त्वबुद्ाशादिरूपस्य विमर्शादेः खीकारेऽपि कविशिक्षार्थ भङ्गयानिरूपणम्। अन्ये तु-धर्मिणि संदेहो धमें तु विमर्शो भ्रान्तिज्ञानं विप्रतिपत्तिरित्याहुः । प्राग- वस्थेति। म्रियमाणावस्थैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्ति- रूपा॥ काश्येति। अष्टौ हि विषवेगाः । यदाह भरतः-'काश्यें तु प्रथमे वेगे द्वितीये वेर्पनं तथा। दाहं तृतीये हिकां च चतुर्थे संप्रयोजयेत्॥ फेनं च पश्चमे १. 'वेपशुस्तथा' भरतपुस्तके.

Page 129

२ अध्याय:] काव्यानुशासनम्। ९९

संप्रत्येव निवेद्य केलिकुररीः सास्त्रं सखीभ्यः शिशो- र्माधव्या सहकारकेण करुण: पाणिग्रहो निर्मितः ॥' तथा- 'तीर्थे तोयव्यतिकरभवे जहु कन्यासरय्वो- र्देहत्यागादमरगणनालेख्यमासाद्य सदयः। पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेप्वरमत पुनर्न क्षमाभ्यन्तरेषु ।' अथ सात्त्विकानाह- स्तम्भस्वेद रोमाञ्च्स्वरभेद(स्वर)कम्पवैवर्ण्याश्रुपलया अष्टौ सा- चवकाः। सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्र भवाः सात्त्विकाः। भावा इति वर्तते ॥ ते च प्राणभूमि- प्रसृतरत्यादिसंवेदनवृत्तयो वाह्यजडरूपभौतिकनेत्र जलादिविलक्षणा विभा-

कुर्यात्स्यात्यष्टे स्कन्धभञ्जनम्। जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥' आदिग्रहणा- तसहसा भूमिपतनविकम्पनस्फुरणादयो ज्ञेयाः ॥ प्राणभूमीति। अयं भावः । रत्या- दयश्चित्तवृत्तिविशेषा: पूर्वसंविद्रपाः समुललसन्ति। तत आभ्यन्तरं प्राणान्तस्वरूपा- ध्यासेन कलुपयन्ति। न चैतदसंवेद्यम्। तथा हि कोधावेशे अन्तरा ज्वलत्येव पूर्वमुन्मिपति ततः स्वेदः। अनैनैवाशयेन भट्ट्वाणेनोक्तम्-'पूर्व तपो गलति पश्चात्स्वे- दसलिलम्' इति। तथा तदवस्थां प्राप्तोऽवहित्थादिना भावो वहिर्विकारपर्यन्ताप्राप्तेः परिरक्ष्यमाणो दृष्टः। यथा-'पिअमुहससङ्कदंसणचलिअं रइसाअरं पिआहिअअम्। गुरु- संकमरुम्भियसेअपमुहपसरं पि हुण ठाइ ।' प्रियमुखदर्शनेन रतिविषये सादरं मत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति। निषिद्धस्वेदप्रभृति वाह्यप्रसरमपि न विश्राम्यति। आन्तरस्वेदादि सात्त्विकक्षोभमयमेवेत्यर्थः। निदर्शनं चात्र प्रतीय- मानम्। तथा हि। प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो

१. लेखकप्रमादपतितो भवेत्.

१. 'प्रियमुखशशाइदर्शनचलितं रतिसादरं प्रियाहृदयम् । गुरुसंक्रमरुद्धसेकप्रारम्भ- प्रसरमपि खलु न तिष्ठति ।' इति, '-रयिसागरोऽप्याहृदयम् । गुरुसंक्रमरुद्धसेकप्रार- म्भकप्रसरोऽपि खल न तिष्ठति ॥' इति च च्छाया.

Page 130

१०० काव्यमाला।

वेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति। तथा हि। पृथ्वीभागप्रधाने प्राणे संक्रान्तचित्तवृत्तिगणः स्तम्भो- विष्टत्वं चेतनत्वम्। जलभागप्रधाने तु वाष्पः । तैजसस्तु प्राणनैकट्यादु- भयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा सवेदो वैवर्ण्य च। तद्धेतुत्वात् च तथा व्यवहारः। आकाशानुग्रहे गतचेतनत्वं प्रलयः। वायुखातन्नये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाञ्चवेपथुस्वरभेदभावेन स्थितिरिति भर- तविदः ॥ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः। ते चान्तरालिकान् सात्त्विकान् भावान् गमयन्तः परमार्थतो रेतिर्निर्वेदादिगमका इति स्थि- तम् ॥ एवं च नव स्थायिनः, त्रयस्त्रिंशद्यभिचारिणः, अष्टौ सात्त्विकाः । इति पञ्चाशद्धावाः ॥ रयी वेगवत्सागरो गुरुणा सेतुना रुद्धाः सेकप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरद्गीभवति। सागरशब्द उभयलिङ्गः । प्राकृते वा लिङ्ग विपर्यासः । तदत्र रतिर्मनोरूपत्वाच्युता वाह्याभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता॥ रत्यादिगतेनैवेति। ननु विभावान्तरेण, सेषां वा- ह्यविषयविशेषाभिमुख्यनिरपेक्षत्वादित्यर्थः ॥ ग्लान्यालस्यश्रममूर्छादीनां तु यद्यप्याल- म्बनविषयशून्यता, तथापि बाह्यहेतुका अतो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय इति सातत्विकाः ॥ स्तम्भो विष्टम्भचेतनत्वमिति। मनसा हर्षादिषशे- नानिन्द्रियप्रदेशचारिणां विकल्पपर्यन्तागमनरहिता विकल्पकवृत्तिमात्र निष्ठानामिन्द्रियाण- मनधिष्ठानादित्यर्थः। यथा-'तेताणह्यच्छायणिव्वललोअणसिहंपउच्छवाद्यम्। आलि- रकपइवाणवणिपयपयइचडुलत्तणं पिवि अलिअम् ।' एवं वाष्पहेतुत्वाद्वाष्पो यथा- 'उत्पक्ष्मणोनयनयोरुपरुद्धबाष्पं वृद्धिं कुरु स्थिरतया विहितानुबन्धम्। अस्मिन्नल- क्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥' तीवातीव्रत्वेनेति। तीव्रत्वेन प्राणानुग्रहस्वेदों यथा-'आक्लेषे प्रथमं क्रमादथ जिते हृद्ेऽघरस्यार्पणे केलि- द्यूतविधौ पणं प्रियतमे कान्ता पुनः पृच्छति। सा तूहसनिरुद्धसंभृतरसो्ग्ेदस्फुरद्ण्डया तूष्णीं शारविशारणाय निहितः स्वेदाम्वुगर्भः करः ॥' अतीव्रत्वेन तु वैवर्ण्ये यथा- 'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट्व इव प्रपेदे विवर्णभावं स स भूमिपाल: ॥' प्रलयन्ति प्रकर्षेण प्राणनिलीनेष्विन्द्रियेषु लयः प्रलयः । यथा-'तीव्राभिषङ्गप्रभवेण-' इति ॥ तस्येति। प्राणस्य॥ मन्देति। प्राणस्य मन्दा- १. 'स्तम्भो विष्टम्भचेतनत्वम्' इति टीकायाम्. २. 'रतिनिर्वेदा' स्यात्. १. 'न तु' स्यात्. २. अस्य संस्कृतं न स्मर्यते.

Page 131

२ अध्याय:] काव्यानुशासनम्। १०१

रसभावानभिधाय तदाभासानाह- नेरिन्द्रियेषु तिर्यगादिपु चारोपाद्रसभावाभासौ । निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा- 'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥' विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा- 'वेणीभूतप्रतनुसलिला ताम्यती तस्य सिन्धुः पाण्डुच्छायातटरुहृतरुभ्रंशिभि: शीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती काश्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ।।' भावाभासो यथा- 'गुरुगर्भभरक्कान्ताः स्तनन्त्यो मेघपङ्मयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥' तिरश्चोः संभोगाभासो यथा- 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां सामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥' यथा च- 'ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः । अर्धोपभुक्तेन विशेन जायां संभावयामास रथाङ्गनामा ।।' विप्रलम्भाभासो यथा- 'आपृष्टासि व्यथयति मनो दुर्वला वासरश्री- रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि।

वेशाद्रोमाच्चो यथा-(वन्दावन्दाभिमुखम् ।) 'तद्वकाभिमुखं मुखं विनमितं दृष्टिः कृता पादयोस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया। पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्रमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः ॥' मिथ्यावे- १. 'निरिन्द्रि' स्यात्. २. 'तामतीतस्य(?)' स्यात्. १. लेखकप्रमादलिखितं भवेत्. २. 'मध्यावेशा' स्यात्.

Page 132

१०२ काव्यमाला।

नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतत्रस्त्यजामि ॥' यथा वा- 'नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । दानास्वादनिषण्ण मूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥' भावाभासो यथा- 'त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये। वनं प्रयात्यसौ त्रीडाजडदृष्टिर्मृगीजनः ।।'

'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुञलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी॥।' चन्द्रे भावाभासो यथा- 'त्वदीयमुखमालोक्य लज्जमानो निशाकरः । मन्ये घनघटान्तर्धि समाश्रयति सत्वरः ॥' रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमा क्ले- षादयो जीवितम्।। अनौचित्याच्च। अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ।

शाद्वेपथुर्यथा-'मागर्वमुद्ह कपोलतले चकास्ति कान्त खहस्तलिखिता मम मञ्जरीति। अस्यापि किं सखि न भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥' उत्कृष्टावे- शात्खरभेदो यथा-'याते द्वारमतीम्-' इति॥ एते च सातत्विकाः प्रतिरसं संभवन्तीति राजानुगतविवाहप्रवृत्तभृत्यन्यायेनापि व्यभिचारिवन्न स्वातन्त्र्यगन्धमपि भजन्त इति सुलभोदाहरणत्वाच्च वृत्तावुदाहरणानि न प्रदर्शितानि॥ रसाभास इति । परस्पर-

१. 'परस्परास्थानबन्धा' इति स्यातू.

Page 133

२ अध्याय:] काव्यानुशासनम्। १०३

रसाभासो यथा- 'दूराकर्षणमोहमन्र इव मे तन्नाम्नि याते श्रुति चेतः कालकलामपि प्रसहते नावस्थितिं तां विना। एतैराकुलितस्य विक्षतरतेरङ्वैरनङ्गातुरैः संपद्येत कथं तदाप्तिसुखमित्येतन्न वेझि स्फुटम् ।।' अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा- 'स्तुमः कं वामाक्षि क्षणमपि बिना यं न रमसे विलेे कः प्राणान्रणमखमुखे यं मृगयसे। सुलझे को जातः शशिमुखि यमालिङ्गसि बला- त्तपःश्री: कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारो- पादानं व्यनक्ति। भावाभासो यथा- 'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल। विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण- स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥' अत्रौत्सुक्यम् ।। काव्यस्य लक्षणमुक्त्वा भेदानाह- व्यङ्गधस्य प्राधान्ये काव्यमुत्तमम् । वाच्यादर्थाद्यङ्गचस्य वस्त्वलंकाररसादिरूपस्य प्राधान्ये काव्यमुत्तमम्।

स्थानबन्धात्मिकाया हि रतेः शद्गारत्वमुक्तम्। अत्र तु कामनाभिलापमात्ररूपा रतिर्व्य- भिचारिभावो न स्थायी। तस्य तु स्थायिकल्पत्वेनाभाति। अतक्ष स्थाय्याभासत्वं रतेः। यतो रावणस्य सीताद्विष्टमप्युपेक्षिका हृदयं नैव स्पृशति। तत्स्पर्शे ह्यभिमानोऽस्य ली- येतैवामयीयं रसक्तेति तु निश्चयोऽप्यनुपयोगी कामजमोहसारत्वात् शुक्तौ रूप्याभास- १. 'लीयेतैव । मयीयं न सक्तेति' स्यात्.

Page 134

१०४ काव्यमाला।

यथा- 'वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता। सर्वै साध्वथ वा रुणत्सि विरहक्षामस्य रामस्य चे-

अत्र दन्ताङ्कितपदेन तदवजयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते।। असत्संदिग्धतुल्यप्ाधान्ये मध्यमं त्रेधा। असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्गचस्य मध्यमं काव्यम्। तत्रासत्प्राधान्यं क्वचिद्वाक्यादनुत्कर्षेण। वत्। तस्माद्विभावाद्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शङ्गाराभास इति॥ एवं हास्याभासो यथा-'लोकोत्तराणि चरितानि न लोक एष संमन्यते यम किमङ् वदाम नाम। यत्त्वत्र हासमुखरे तममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति ॥' अत्र यदभिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरतं स हास्याभासः। किंशब्दस्य वाच्यस्य तु हास्यत्वमेव। एवं रसान्तरेपूदाहार्यमिति॥ दन्ताङ्गितपदेनेति। वस्तुखभावेन। अभिमानदर्प इत्यादीति। वस्त्वित्यर्थः । एवमलंकारे रसादौ च प्राधान्येन व्यङ्गये काव्यस्योत्तमत्वं विज्ञेयम्। तद्यथा-'लावण्यकान्तिपरिपूरित दिखुखेSस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि। क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधि: ॥' अत्र रूपकालंकारो व्यङ्गयः । तथा हि। लावण्यं संस्थानमुग्रिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि दिख्ुखानि येन। कोप- कषायकालुष्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दो- लनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्रणम्। अथ वा अधुना कोपादनन्तर प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत्। कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यम्। क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्ततं प्राक्। अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयताभिधाया विश्रान्तत्वाद्रूपकं व्यङ्गयमेव। तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम्॥ रसप्राधान्ये यथा-'कृच्छेणोरुयुगं व्यतीत्य सुचिरभ्रान्ता १. 'वाच्यात्' इति भवेत्. १. 'मज्जिमा' स्यात्. २. 'कृच्छादूरु' इत्युपलभ्यते.

Page 135

२ अध्याय:] काव्यानुशासनम्। १०५

यथा- 'वाणीरकुडङ्गुड्डीणसउणिकोलाहलं सुणन्तीए। घरकम्मवावडाए बहूए सीदन्ति अङ्गाईं ।' अत्र 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति वैक्यात् 'सीदन्त्य- ङ्गानि' इति वाच्यमेव सातिशयम्।. क्वचित्पराङ्गत्वेन यथा- 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्तरंसनः करः ॥' अत्र शृङ्गारः करुणस्याङ्गम्।

नितम्वस्थले मध्येSस्यास्त्रिवलीतरङ्गविपमे निःस्पन्दतामागता। मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङगौ स्तनौ साकाङ्ं मुहुरीक्षते जललवप्रस्पन्दिनी लोचने ॥' अत्र हि नायि-

रूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा इति (?) आरुह्य इति प्रा- धान्येनात्र रसो व्यङ्त्यः । एवं भावतदाभासादीनामुत्तमकाव्यप्रभेदतया उदाहरणानि ज्ञेयानीति॥ सातिशयमिति। तथा हि। गृहकर्मव्यापृताया इत्यन्यपराया अपि। वध्वा इति सातिशयलब्धा (?) पारतञ्यवद्धाया अपि। अङ्गानीत्येकमपि तादृश- महं यद्राम्भीर्यावहित्थवशेन संवरीतुं पारितम् । सीदन्तीत्यास्तां गृहकर्मसंपादनं स्वात्मानपि धर्तु न प्रभवति। गृहकमयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरतन्त्रताप्रतीतिरित्यर्थः । पराङ्गत्वेनेति। परस्परसमवेतदाभासभाव- प्रशमभावोदयभावसंधिभावशबलतारूपस्य भावस्य वाक्यार्थीभूतस्य अंङ्ग रसादिवस्त्व- लंकाररूपं व्यङ्त्यं तस्य भावस्तत्वम्। तेनेति रसेन। उत्कर्षीति। रसनां मेखलां सं- भोगावसरे ऊर्ध्व कर्पतीति। शङ्गार इति। समरभुवि पतितकरावलोकनेन प्राक्तनसं- भोगवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते अतः करुणस्याद्गतां याति । यथा च-'तव शतपत्रमृदुताम्रतलक्षरणश्लकलहंसनूपुरकल-

१. 'वानीर कुञ्जोड्डीनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापटताया वध्वाः सीदन्त्यह्गानि ॥' इति च्छाया. २. 'व्यङ्चान्' इति काव्यप्रकाशोक्तमेव वरं प्रतीयते.

१. 'प्रस्यन्दिनी' स्यात्. २. 'स्थाबन्धरूपो' स्यात्. ३. 'मपि न ताद' स्यात्. ४. 'स्तत्वं तेनेति । रसनोत्कर्पीति' स्यात्. १४

Page 136

१०६ काव्यमाला।

यथा च- 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लंकाभर्तुर्वेदनपरिपाटीपु घटना मयाप्ं रामत्वं कुशलवसुता न त्वधिगता ।।' अत्र व्यङ्गच उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः ।

ध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमम्व गतः ॥I' अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम्। यथा च-'समस्तगुणसंपदः सममलंक्रियाणां गणैर्भवन्ति यदि भूषणं तव तथापि नो शो- भसे। शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेस्तावदेव ननु वाणि ते जगति सर्व- लोकोत्तरम् ।' अत्र शङ्गाराभासो भावस्याङ्गम्। यथा च-'स पातु वो यस्य ह- तावशेषास्तत्तुल्यवर्णाञ्ञनरञ्जितेषु। लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तान यनोत्पलेषु ।' अत्र रौद्रप्रकृतीनामनुचितत्त्रासो भगवत्प्रतापकारणकृत इति भावा- भास इति। स च देवताविषयरतिभावस्याङ्गम्। यथा च-'अविरलकरवालकम्प- नैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥' अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम्। 'साकं कुरङसदृशा मधुपानलीलां कर्तु स्मरद्भिरपि वैरिणि ते प्रवृत्ते। अन्याभिधीय तव नाम विभोर्गृहीतं केनापि तत्र विषमामकरोदवस्थाम्।' अत्र त्रासस्योदयः । 'असोढा तत्कालोलसदसह- भावस्य तपसः कथानां विस्त्रम्भेष्वथ च रसिकः शैलदुहितुः। प्रमोदं वो दिश्यात्कप- टबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥' अत्रावेगधैर्ययोः संधिः। 'पश्येत्कश्चिचल चपल रे का त्वराहं कुमारी। हस्तालम्बं वितर हहहा न्युत्क्म: क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्पुलकि- सलयान्याददानाभिधत्ते॥' अत्र शङ्कास्तेयधृतिस्मृतिश्रमदैन्यविबोधौतसुक्यानां शबलता। एते च रसवदाद्यलंकाराः । यद्यपि भावोदयसंधिशबलत्वानि नालंकारतयोक्तानि तथापि कश्चिद्भयादित्येवमुक्तम्। इदानीं वाच्यं प्रत्यलंकारस्य व्यङ्ग्यस्याङ्गतामाह- यथा चेति। जनस्थाने इति। जनानां स्थानम्, दण्डकारण्यं च। कनकमृगतृष्णा, भ्रान्तिश्च। वैदेही सीता, वै देहि इति पदद्यं च। लङ्गापुरस्य भर्तुः रावणस्य, अलमी- षद्रूपत्वात्कुत्सितस्य भर्तुश्च। वदनेषु दशसु मुखेषु। घटना शरयोजना, विचित्रोक्ति- परम्परासु च। कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च। प्रलयेति। प्रलय १. 'स्तदेव' स्यात्. २. 'कुरङ्गकदृशा' काव्यप्रकाशे. ३. 'मुहृद्भि' काव्यप्रकाशे. ४. 'धायि' काव्यप्रकाशे, ५. 'विभो गृ' काव्यप्रकाशे. ६ 'व्युत्कमः' काव्यप्रकाशे. ७. '(फल किस' काव्यप्रकाशे.

Page 137

२ अध्याय:] काव्यानुशासनम्। १०७

यथा च- 'भ्रमिमरतिमलसहृदयं प्रलयं मूर्छा तमः शरीरसादम्। मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।' अत्र हालाहलं वस्तु व्यङ्गयं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा- 'अहयं उज्जुअरूया तस्स वि उम्मन्थराईं पिम्माइं। सहि आयणो अ निउणो अलाहि किं पायराएण ।।' अत्र स मां पुरुषायितेऽर्थयते, अहं च निषेद्धुं न शक्ता, तत्सख्यः पादमुद्रया तर्कयित्वा मामहासिपुरिति व्यङ्गयमस्फुटम्। क्वचिदतिस्फुटत्वेन यथा- 'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि ।' अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्गचमतिस्फुटत्वेन प्रतीयमा- नमसत्प्राधान्यमेव कामिनीकुचकलशवढ्गूढं चमत्करोति नातिगूढम्।

इन्द्रियाणामल्पं सामर्थ्यम्। मूर्छा मनस इन्द्रियाणां च शक्तिनिरोधः। तमः सत्ये च (?)मनसि इन्द्रियाणामशक्तिः मरणमतिः प्राणत्यागकर्तृतात्मिका पूर्वक्रियैव च पा- शबन्धाद्यवसरगता मरणश्देनात्र विवक्षिता। विषमिति जलं कालकूटं च॥ गूढ- मिति। यथा-'मुखं विकसितस्मितं वसितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गति- रपास्तसंस्था मतिः। उरो मुकुलितस्तनं जघनमंसबन्धोद्ुरं बतेन्दुवदनातनौ तरुणिमो- द्रमो मोदते ।' अत्र विकसितशव्देन बाधितव्याकोशात्मकमुख्यार्थेन सच्छायत्वप्रसर- णादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभिलबहुमानास्पदत्वनित्यसुलभत्वादिधर्मसहसं ध्वन्यते। वसितशव्देन निश्चेतने वक्रिमणि असंभवत्परम्पर्यात्मकस्वार्थेन किंकरत्वत- नमुखप्रेक्षित्वादिसादृश्यादवक्रिमाणं लक्षयता तापकत्वात्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः स्वेच्छया यत्र कुत्रचिदविवरणमित्यादि ध्वन्यते। समुच्छलितशव्देनानुपप- द्यमानसामस्त्योध्वललनात्मकस्वार्थेना कस्मा दुत्कल्ोलीभवनसाश्यद्विभ्रमं लक्षयता प्रौ-

१. अस्य संस्कृतं बहूनां पदानामस्फुटत्वान्न लिखितम्.

१. 'सत्वे' स्यान. २. 'मरण मृतिः' स्यात्.

Page 138

१०८ काव्यमाला।

संदिग्धप्राधान्येन यथा- ममहिलासहस्सभरिए तुह हियए सुह्य सा अमायन्ती। अणुदिणमणण्णकम्मा अङ्गं तनुयं पि तणुएइ ॥' अत्र अङ्गं तनुकमपि तनूकरोतीति किं वाच्यम्, किं वा तनूभावप्रकर्षा- धिरोहेण यावदत्याहितं नाम्नोति तावदुज्झित्वा दौर्जन्यं सानुनीयतामिति व्यङ्गचं प्रधानमिति संदिग्धम्। तुल्यप्राधान्ये यथा-'ब्राह्मणातिक्रम-' इति। अत्र जामदग्यः सर्वेषां क्षत्राणामिव रक्षसां क्षयं करिष्यतीति व्यङ्गचस्य वाच्यस्य च समं प्राधान्यम्। यथा वा- 'पङ्कौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताप्यथ वा त्रपेरन्। सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो- र्भासावृते नभसि शीतमयूखमुख्याः ॥' अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम्। यथा वा- 'मश्नामि कौरवशतं समरे न कोपा- दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।

ढप्रौढतरत्ववद्वास्य सर्वजनाभिलषणीयत्वादि ध्वन्यते। अपास्तशब्देनामूर्छायां मत्याश्रि तमर्यादायामसंभवदपेक्षणात्मकस्वार्थेन सत्त्वनिर्वृत्तिसादृश्यात्संस्थानं लक्षयता पुनरखवी- कारानवलोकनादि ध्वन्यते। मुकुलितशब्देनासंभवत्कोर कात्मस्वार्थेनाभिनवोद्भेदसादृश्या- तस्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयत्वरामणीयक स्यास्पदत्वमनोभवसमुद्दीपकत्वमिति ध्वन्यते। उद्धुरशव्देन बाधितधुरौन्मुख्यसार्थेनोच्चैस्त्वत्सादृश्यासंबन्धवजघनं लक्ष- यतोपचितत्वस्पृहणीयत्वमनोभवकेतनत्वादि ध्वन्यते। इन्दुवदनेत्यत्र यद्युपचारस्तदा इन्दुशव्देन बाधितसार्थेन पारिमाण्डल्यादिसादृश्यादवदनं लक्षयता जगजीवयितृत्वादि ध्वन्यते। उद्गमशव्देन बाधितोदयात्मकसवार्थेनाभिनवोद्भेदसादृश्यात्तरुणिमानं लक्षयता

१. 'महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती। अनुदिनमनन्यकर्माङं तन्वपि तनयति ॥' इति च्छाया.

Page 139

२ अध्याय:] काव्यानुशासनम्। १०९

संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ।।' अत्र मन्नाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम्। इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ। अव्यङ्ग्यमवरम् । शब्दार्थवैचित्र्यमात्रं व्यङ्गचरहितमवरं काव्यम्। यथा- 'अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हताद्धुरुघुराघोषः सुदीर्घो घोरघर्घरः ॥' यथा वा- 'ते दृष्टिमात्रपतिता अपि नात्र कस्य क्षोभाय पक्ष्मलद्दशामलकाः खलाश्च। नीचा: सदैव सविलासमलीकलग्रा ये कालतां कुटिलतामिव न त्यजन्ति ।' यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम्, तथापि

इत्याचार्यहेम चन्द्र विरचितायामलंकार चूडामणि संज्ञखोपज्ञकाव्यानुशासन- वृत्तौ रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः ।

स्पृहणीयत्वादि ध्वन्यते। मोदतेशव्देन बाधितहर्षात्मकमुख्यार्थेनार्दवितर्दकत्वसादृश्या- दुद्गमं लक्षयता उच्छृह्वलस्पृहणीयादि ध्वन्यते॥ न त्वष्टाविति। यथाह मम्मटः- 'अगूढमपर स्याङ्ं वाच्यसिद्धचह्गमस्फुटम्। संदिग्धतुल्यप्राधान्ये काक्काक्षिप्तमसुन्दरम्। व्य ङ्गयमेवंगुणीभूतव्यङ्ग्यस्याष्टी भिदा: स्मृताः ॥' इति॥ ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव। यस्मादवस्तुसंस्पर्शिता काव्यस्य तन्नोपपद्येत। वस्तु च सर्वमेव जगद्तमवश्यं कस्यचिद्रसस्य भावस्याह प्रतिपद्यते। अनन्तरो विभाव- त्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न किंचिच्चित्तवृत्तिविशेषमु- पजनयति। तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्ग्याह-यद्यपीति॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः ।

१. 'कस्य नात्र' काव्यप्रकाशे.

Page 140

११० काव्यमाला।

तृतीयोऽ्ध्यायः ।

'अदोषौ शब्दार्थौ काव्यम्' इत्युक्तम्। तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम्। विशेषलक्षणमाह- रसादे: स्वशब्दोक्तिः कचित्संचारिवर्ज दोषः। रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । संचारिणस्तु क्व- चित्त्वशब्दाभिधानेऽपि न दोषः । तत्र रसस्य स्वशव्देन शङ्गारादिना वाभिधानं यथा- 'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे

रौद्रो दक्षविमर्दने च हसकृन्नन्ः प्रशान्तश्विरा- दित्थं सर्वरसात्मकः पश्रुपतिर्भूयात्सतां भूतये ।।'

वाच्यत्वमिति। वाच्यत्वं हि रसादीनां स्व्रशब्दनिवेदितत्वेन वा स्याद्विभावादि- प्रतिपादनमुखेन वा। पूर्वस्मिन् पक्षे स्व्शव्दनिवेदितत्वाभावे रसादीनानप्रतीतिप्रसङ्गः। न च सर्वेत्रैतेषां सशब्दनिवेद्यत्वं यथा-'येद्विश्रम्च- इति। अत्रानुभावविभावबो धानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनान्तरच्वितस्त्रसं-

दिशव्दाभावेऽपि स्फुरत्येव॥ न च केवलश्रङ्गारादिशब्दमान्नभाजि विभावादिप्रति- पादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यथा-'ङ्गारहात्यकरुणा-' इ- ल्यादौ। तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम्। नत्वभि- धेयत्वं कथचिदिति। सशव्दोक्तिदोष इत्यर्थः । द्वितीयक्ष पक्षोऽस्माकमप्यभिमत

नयास्पदम् ।।' इत्येतद्याख्यानावसरे यद्भट्ोद्भटेन 'पश्चरूपा रसाः' इत्युपक्रम्य

१. 'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रति- दिनं लूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयावनासु वनितास्वेषैव वेषस्थितिः ॥' इति संपूर्णश्रोको भद्टेन्दुराजस्य ध्वन्यालोचने उदाहृतः. २. 'थो रसात्मा' लोचने. ३. अस्य मूलप्रतीकं 'दोष इति।' इति त्रुटितं भवेत्.

Page 141

३ अध्याय:] काव्यानुशासनम्। १११

सायिभावानां यथा- 'संप्रहारे प्रहरणैः प्रहाराणां परस्परम् । छणत्कारैः अ्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।।' अत्रोत्साहृस्य सायिनः । यत्रापि त्वशव्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपा- दनमुखेनैव रसादीनां प्रतीतिः। स्वशब्देन सा केवलमनूदते। यथा- 'याते द्वारवतीम्-' इत्यादि। अत्र विभावानुभाववलादुत्कण्ठा प्रतीयत एव। सोत्कण्ठः शब्द: केवलं सिद्धं साधयति। उत्कमित्यनेन तूक्तानु- भावाकर्षणं कर्तु सोत्कण्ठशब्द: प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यनिचारिणां यथा- 'सत्रीडा दयितानने सकरुणा मातङ्गचर्मीम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेSमृतस्यन्दिनि। सेथ्या जहुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र त्रीडादीनाम्। 'कचित्संचारिवर्जम्' इति वचनात्कचिन्न दोषः। यथा- 'औतसुक्येन कृत्त्वरा सहभुवा व्यावर्तमाना हिया तैन्तैवन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । हष्ट्रात्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता ल्रिष्टा शिवायास्तु वः ॥' अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत्। अत इब 'दू- रादुत्युकम्-' इत्यादौ त्रीडाद्यनुभावानां विचलितत्वादीनामिवोत्मुकत्वानु-

'स्व शच्दा: शद्वारादेवीचकाः शृद्धारादयः शब्दाः' इत्युक्तम्, तत्प्रतिक्षिप्म् ॥ नान-

९. 'ठण' 'झण' वा काव्यप्रकाशे.

Page 142

११२ काव्यमाला।

भावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम्। अवाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिप्रातिकौ- ल्यम् । अबाध्यत्वादिपु सत्सु विभावादिप्रातिकौल्यं रसादेर्दोषः । यथा- 'प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुप्यन्त्यङ्गान्यमृतमिव मे सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादि- वैराग्यकथाभिः प्रियानुनयनं निर्विस्येव कस्यचिदिति शृङ्गारप्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावप्रांतिकौल्यम्। तत्प्रकाशितो निर्वेदश्च स्वदते इति व्यभिचारिप्रोतिकौल्योदाहरणमप्येतत्। एवं शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम्। यथा च- 'निहुयरमणम्मि लोयणवहम्मि पडिए गुरूणमज्झम्मि । सयलपरिहारहियया वणगमणं वेव महइ वहू ॥' अत्र सकलपरिहारवनगमने शान्तानुभावौ। इन्धनाद्यानयनव्याजेनो- पभोगार्थ वनगमनं चेन्न दोषः । अबाध्यत्वे इति। अबाध्यत्वमशक्याभिभवत्वं तदभावेन केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा-'काकार्य शशलक्ष्मणः क च कुलम्' इत्यादि। अत्र वितर्कौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृति १ .- २. 'प्रातिकूल्यं' स्यात्. ३. 'निर्विण्ण' स्यात्. ४ .- ५. 'प्रातिकूल्यं' स्यात्. ६. 'निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये। सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ॥'इति च्छाया.

Page 143

३ अध्याय:] काव्यानुशासनम् । ११३

चिन्तने पैरस्परवाध्यबाधकभावेन भेवन्ती चिन्तायामेव पर्यवस्यन्ती परमास्वादस्थानम्। 'सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ।।' अत्र त्वाद्यमर्धे बाध्यत्वेनैवोक्तम्, द्वितीयं तु प्रेसिद्धास्थिरत्वापाङ्गभ- द्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद्वाधकत्वेनोपात्तं शान्तमेव पु- ष्णाति। न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु- 'विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव च। तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥' इति विरोधपरिहारमाह॥ आश्रयैक्य इति। एकाश्रयत्वे दोषः । भिन्नाश्रयत्वे तु वीरभयान- कयोः परस्परं विरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोषः। यथा अर्जुनचरिते- 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुपप्टवोऽभवत्पुरे पुरंदरद्विषाम्। श्रवेण तस्य तु ध्वनेर्विलुप्तमूलवन्धन- मशेषदैत्ययोपितां लथीवभूव जीवितम् ।।' इत्यादि।। नैरन्तर्य इति। एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोर्नि- रन्तरत्वे दोषः, न तु रसान्तरान्तरितयोः ।

र्थक इति। शब्दोपात्तस्यैव ह्यनुवादो भवति न प्रतीयमानस्येत्यर्थः ॥ मरणमिति। प्राणत्यागकर्तृतात्मिका पूर्वक्रियैत पात्रवन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता।।

१. 'परस्परं' लोचने. २. 'द्वन्द्वशो भवन्ती' लोचने. ३. 'रामाः' ध्वन्यालो- ककाव्यप्रकाशयोः. ४. 'प्रसिद्धास्थिरापाङ्गः' स्यात्. १. अस्य मूलं त्रुटितं भवेन्, अत्र वास्य प्रमादपतितत्वं भवेन्. १५

Page 144

११४ काव्यमाला।

यथा नागानन्दे शान्तरसस्य-'अहो गीतमहो वादितम्' इत्यद्धुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवतीं प्रति शृङ्गारो निवद्धः । न केवलं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानाद्विरोधो निवर्तते। यथा- 'भूरेणुदिग्धान्नवपारिजातमालार जोवासितबाहुमध्याः ।

सशोणितैः क्रव्यभुजां स्फुरद्धिः पक्षैः खगानामुपवीज्यमानान्। संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम्। निर्देश्यमानांल्लनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ।।' अत्र बीभत्सशृङ्गारयोरन्तरा वीररसनिवेशान्न विरोधः । वीराः सवदे- हानित्यादिना उत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायिकता। सवदेहानि- त्यनेन चैकत्वाभिमानादाश्रयैक्यम्। अनङ्गत्वमिति। द्वयोविरुद्धयोरङ्गित्वे दोषः, नाङ्गभावप्राप्तौ। सा हि नैसर्गिकी, समारोपकृता वा। तत्र येषां नैसर्गिंकी तेषां तावदुक्तावविरोध एव। यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम्। ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन हैंष्टा। यथा-'भ्रमिमरतिमलसहृदयताम्' इत्यादि।

शान्तरसस्येति। 'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः कृत्याकृ- त्यविचारणासु विमुखं को वा न वेति क्षितौ। इत्थं निन्दमपीदमिन्द्रियवशं प्रीत्यै भवे- दयौवनं भक्त्ा याति यदीत्थमेव पितरौ शुभ्रूषमाणस्य मे ॥' इत्यादिना उपक्षेपात्प्रभ तिपरार्थशरीरवितरणात्मकनिर्वहणपर्यन्तं प्रतिपादितस्य ॥ एकत्वाभिमानादिति। १. 'वादित्रम्' काव्यप्रकाशे. २. 'यकता' इति ध्वन्यालोकलोचने पाठः. ३. 'अनङ्गत्वे चेति' स्यात्. ४. दृष्टाः । 'यथा' स्यात्. १. 'निन्ध' स्यात्.

Page 145

३ अध्याय:] काव्यानुशासनम्। ११९

समारोपितायामप्यदोषो यथा-'कोपात्कोमललोलबाहुलतिका-' इ- त्यादि। अत्र वद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम्। इयं चाङ्गभावप्राप्तिरन्या। यदाधिकारिकत्वात्प्रधाने एकस्मिन्काव्यार्थे रसयोर्भावयोर्वा परस्परवि- रोधिनोरङ्गभावस्तत्रापि न दोषः ।

यथा- 'क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्नन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण। आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभि: कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शरामनिः ।।' अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः ।। पराङ्गत्वेऽपि कर्थं विरोधिनोर्विरोधनिवृत्तिरिति चेत्, उच्यते। विधौ विरुद्धसमावेशस्य दुष्टत्वम्, नानुवादे।

अन्यथा विभिन्नविषयत्वात्को विरोधः स्यादित्यर्थः ॥ ननु वीर एवात्र रसो न शृङ्गारो न वीभत्सः किं तु रत्तिजुगुप्से वीरं प्रति व्यभिचारीभूते। भवत्वेवम्। तथापि प्रकृतो- दाहरणे तावदुत्पन्नरतिजुगुप्सयोरपि न विरोधः ॥ करुण इवेति। तथा हि-ह- स्तावलम्नस्य वहेः क्षेपो विधूननं भयहेतुकमिति करुणाद्वत्वे उपलालनाप्रवृत्तस्य तु व व्भस्य करग्रहणासहनं क्षेपो नाविकारान्तरसंपर्कसमुत्थेव्याकोपनिमित्तो विप्रलम्भसं- सूचकः । पटाश्चलावलसनस्य वहेः प्रसभाभिह्ननं दाहनिमित्तदुःखजनितमवधूननं ज- लादि प्रक्षेपरूपं चेति करुणरसपरिपोषकम्। करावधूननेन करग्रहणासंपत्तावञ्चलावल- म्विनो वल्लभस्य प्रसभमभिह्ननमवदापनमस्तया(?)वशावज्ञानिमित्तं विप्रलम्भमपरिपोष- कम्। इतश्ेतश्र प्रवर्तमानस्य वहेः कबरीकलापासद्वितश्वासहेतुकः ससंभ्रमकरयुगलज- नितः प्रक्षेपोपासनमभिव्यञ्जकमिह करुणस्य प्रपश्चलवे ताण्डवपूर्वकत्वरितगतिनायिका-

१. इतः प्रभृति 'विरोधाभावात्' इत्यन्तो ग्रन्थः पुस्तकान्तरालाभेन शुद्धयशु- द्विज्ञानाभावेन यथादर्शमस्फुटार्थो विचार्य: २. 'हत्वम् ।' स्यातू.

Page 146

११६ काव्यमाला।

यथा- 'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभि: ॥' न ह्यत्र विधि: तदेव कुरु माकार्षीरिति वदेकदा प्राधान्यलक्षणः । अपित्वन्याङ्गतालक्षणोऽनुवादः । एहीति क्रीडन्ति गच्छेति क्रीडन्ति इति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः । न च रसेषु विध्यनुवादव्यवहारो वेणीलतावग्रहोपाय हठचुम्वनप्रवृत्तवल्लभ स्यायासनमपक्षेपेणामयि निर्लज्ज तथा नाम व्य- लीकशतानि कृत्वा संप्रतीत्थमाचरतीत्येवंरूपोपालम्भवचनादिमयं कृतककोपवशमी- ष्यारोषाभिव्यञ्जकम्। केशावलसनस्य वह्ेः सेन्धनस्य प्रक्षेपे च संभ्रमवशेनानालोचित- देशतया पादपतनमतज्ज्वालितस्य वा सर्वतोदिकस्य पादाक्रमणमिति तथाभूतस्य सं- भ्रमवशेनानिरीक्षणमनालोचनम्। वेछ्द्वेणीविलसननायकावलोकनजनित रोषावेषारुणि तन- यनस्फुरिताधरसंरब्धकान्तादर्शननिश्चितमानग्रहणः प्रणामान्ते मौन इति। वल्लमः पादपतितो न विगणिततदपराधोन्मुखीकरणविस्मृततदपराधया नायिकया वह्नयाक्रा- न्तपादतया पलायनासमर्थत्रिपुरनारीसमाल्लेकारी वहिरतितीव्रतरावेगावेशेन सर्वाङ्गे प्रकम्पनेनावधूतः क्षिप्तो दुःसहदुःखावस्थाद्योतकः। पादपतनप्रसादितवल्लभो वल्लभा- लिङ्गनप्रवृत्तः कान्तजनोSसहनया दृढकोपनया ऋगिति प्रसादमव्रजं गर्वगरिममन्थरि- तयावधूतस्तदा मोटने न निवारित इति संस्कार इति शेषेर्ष्याविप्रलम्भसंसूचनम् । अत एव परित्यक्तप्रायेर्ष्याकोपतया वल्लभकृतापराधानुस्मरणजनिताश्रुबाधाविलीकृतकु- वलयदलसदृशलोचनतया शङ्गारोद्दीपनम्। वह्िदाहजनितवल्लभ सुतादि विनाशानुस्मरण- हेतुकदुःखसंभारवशोद्गताश्रुप्रवाहविसंस्थुलीकृतसुन्दरतरनयनतया शोकावेगपोषणम् । आर्द्रापराधः प्रत्ययप्रेमखवलितादिप्रमादयुक्तः । अत एवेर्ष्याकोपनिमित्तता। वहेरपि प्रत्यग्रापराधना दाहजनिता तया शोकावेगहेतुतेति सदृशार्थवाचकपदनिकुरम्बजनितर- सद्वयप्रतीतिभूषितकाव्यार्थाभोगाः सहृदयानां परं चमत्कारमावहन्तीत्युच्यत इति॥ अयं भाव :- सामग्रीविशेषपरिपतितत्वेन भावानां विरोधाविरोधौ न खभावमात्रनि- बन्धनौ भिन्नदेशयोः शीतोष्णयोरपि विरोधाभावात्॥ नु प्रधानतया यद्वाच्यं तत्र विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सह्यत इत्याशङ्कयमानः प- रिहरति-न चेति। प्रधानाप्रधानत्वकृतौ विध्यनुवादौ, तौ च व्यङ््यतायामपि भवत १. 'विधिस्तदैव तदेव कुरु मा कार्षीरिति तावदे' इति पश्चात्कृतपाठः. २. 'दा' रहितोऽपि ध्वन्यालोचनस्थः पाठ :. १. 'झगिति' स्यात्. २. 'अप्रधानत्वेन' ध्वन्यालोकलोचने. ३. 'वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः' ध्वन्यालोकलोचने. ४. 'प्रधानाप्रधानमात्रकृतौ' ध्वन्यालोकलोचने.

Page 147

३ अध्याय:] काव्यानुशासनम् । ११७

नास्तीति शक्यं वक्तुम्। तेषां वाक्यार्थत्वेनाभ्युपगमात्। वाक्यार्थस्य च यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । अथ वा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव। अथ वा प्राग्यथा कामुक आचरति स्म, तथा शराननिरिति स्मर्यमाण- शृङ्गारेणेदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते। यतः प्रकृतिरमणीयाः पदार्थाः शोच- नीयतां प्राप्ताः प्रागवस्थादिभिः स्मर्यमाणै्विलासैरधिकतरं शोकावेगमुप- जनयन्ति।

यथा- 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।' इदं हि भूरिश्रवसः समरभुवि पतितं बाहुं दृष्ट्रा तत्कान्तानामनुशोच- नम्। तथात्रापि त्रिपुरयुवतीनां शांभवः शरासिरार्द्रपराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम्।

एवेति भाव:। मुख्यतया च रस एव काव्यवाक्यार्थानामर्थः। तेन यत्रामुख्यतया सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम्। यैदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्र- सस्यानूद्यमानता। तदाह-वाक्यार्थस्य चेति। अस्त्येवाविरोधित्वमिति। अत्रायं भाव :- पूर्व पक्षद्वये विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनान्निर्विरोधित्वमुक्तम्। अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति । तथा हि-करग्र- हणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यते इति वाक्यार्थीभूतस्य करुणस्य विरोधिनापि शङ्गारेण परिपोष एव विधीयते।। परतस्तु शद्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्वल्यते। उक्त हि-'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथाभूय निव-

१. 'वाक्यार्थस्य वाच्यस्य च'ध्वन्यालोके, २. 'स्थाभाविभिः सस्मर्थ' ध्वन्यालोके.

१. 'तेन मुख्यतया यत्र सोऽर्थः' ध्वन्यालोकलोचने. २. 'यदिचा' स्यातू.

Page 148

११८ काव्यमाला।

एवं च- 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्धिन्नसान्द्रपुलके भवतः शरीरे। दन्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ।।' इत्यादावपि शृङ्गारः शान्तस्याङ्गम्। तथा हि-यथा कश्चिन्मनोरथ- शतप्रार्थितप्रेयसी संभोगावसरे जातपुलकस्तथा त्वं परार्थसंपादनाय खवशरीर- दान इति शृङ्गारेण शान्त एव पोष्यते इति। यत्र तु न पोष्यते तत्रानङ्गत्वाद्दोष एव। यथा- 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।' अत्र प्रकृतस्य करुणरसस्य विरुद्धश्ृङ्गारो न पोषकः ।

एते चाष्टौ रसस्य दोषाः।

तते ॥' इति। दन्तक्षतानीति। बाधिसत्त्वस्य सिंहीं सकिशोरभक्षणप्रवृत्तां प्रति निजं शरीरं वितीर्णवतः केनचिच्चाटकं क्रियते। प्रोद्ूतः सान्द्रः पुलकः परार्थसंपत्ति- जनानन्दकरेण यत्र। रक्त्े रुधिरे मनोभिलाषो यस्याः । अनुरक्तं च मनो यस्याः । पुररयश्चोद्धोधितः मदनावेशश्षेति विरोधः। जातस्पृहैरिति। वयमपि यदि कदा- चिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः॥ न पोषक इति। अपि त्वङ्गितयैव प्रतिभासते॥ ननु यत्रैकतात्पर्येणेतरेषां विरुद्धा- नामविरुद्वानां च न्यग्भूतत्वेनोपादानं तत्र त्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेना-

१. 'प्रोद्धूत' विवेके लोचने च. १. 'बोधिसत्वस्य' लोचने. २. 'प्रोद्भिन्न' मूले ध्वन्यालोके च. ३. 'संपत्तिजेनानन्द- भरेण' ध्वन्यालोकलोचने. ४. 'तादृशे भवतः शरीरे' इत्यपि पूरणीयम्. ५. 'मुन- यश्चोद्वोवितमदनावेशाश्चे' ध्वन्यालोकलोचने.

Page 149

३ अध्याय:] काव्यानुशासनम् । ११९

तत्र विभावानुभावयोः क्लेशव्यक्तिर्यथा- 'परिहरति रतिं मति लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभाव: केशेन प्रतिपाद्यः । 'कर्पूरधूलिधवलद्युतिपूरधूत- दिङ्ण्डले शिशिररोचिषि तस्य यूनः ।

नेकस्य भावस्योपनिबन्धनं तत्र कथम्। यथा-'एकत्तो रुअइ पिआ अण्णत्तो सम- रत्तरनिग्घोसो। नेहेण रणसरसेण य भडस्स दोलाइयं हिअअम्॥' इत्यादौ रत्युत्साहयोः, 'मात्सर्यमुत्सार्य विचार्य कार्यम्-' इत्यादौ रतिशमयोः, 'इय सा लोलाक्षी त्रिभुवन- ललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत्। इतस्तीव्रः कामो गुरुरय- मितः कोधदहन: कृतो वेषश्चायं कथमिदमिति भ्राम्यति पुनः ॥' इत्यादौ रतिक्रो- धयोः, 'अन्नैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनह्व सरसा हत्पुण्डरीकस्जः । एताः शोणितपङ्ककुङ्कमजुषः संभूय कान्तैः पिवन्त्यस्थिस्नेहसुरां कपालचपकैः प्रीताः पिशाचाङ्गनाः ।' इत्यादौ रतिजुगुप्सयोः, 'एक ध्याननिमीलना- न्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्वुजस्तनतटे शङ्गारभारालसम्। अन्यदूर- विकृष्टचापमदनक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' इत्यादौ शमरतिकोधानाम्, 'एतेनाक्ष्णा प्रविततरुपा वीक्ष्यते व्योमसंस्थं भानोर्बिम्बं सजललुलितेनापरेणात्मकान्तम् । अह्वश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सं- कीरणो रचयति रसौ नर्तकी च प्रगल्भा ।' इत्यादौ रतिशोकक्रोधानां समप्राधान्येना- निबन्धस्तत्र कथ न विरोधः। अत्रोच्यते-अन्राप्येक एव स्थायी । तथा हि-'ए- कत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षण हेतुसंदेहकारण- तया करुणसंग्रामतूर्ययोरुपादानम् वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादि-

युज्यते। किं च-उपक्ान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासी- न्येन महदनौचित्यम्। अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमा-

१. 'भृशं' काव्यप्रकाशे. २. 'धौत' काव्यप्रकाशे.

१ 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोपः । स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ।' इति च्छाया. २. 'तूर' स्यात्. ३. 'रणरसेण' ध्वन्यालोके. ४. 'एकेना' स्यात्.

Page 150

१२० काव्यमाला।

लीलाशिरोंशुकनिवेशविशेषक्कृप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।।' अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिताः इति क्लेशव्यक्तिः । पुनःपुनर्दीप्तिर्यथा कुमारसंभवे रतिप्रलापेपु । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनःपुनः परामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते इति। अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेडड्के। दुर्योधनस्य धीरोद्धत- प्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने। अकाण्डच्छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेडङ्के। रत्नावलीनाम-

करुणो वीरमेव पुष्णाति। एवम्-'मात्सर्य-' इत्यादावपि चिरप्रवृत्तिमत्या रतिवासना- या हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम्-' इत्यनेन प्रकाशितम् । 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेव। 'अन्न्रैः कल्पितमङ्गलप्रतिसरा :- ' इत्यादौ हास्यरसैकपरत्वम् । 'एक ध्याननिमीलनान्मुकुलि- तम्-' इत्यादौ तु शंभोर्भावान्तरैरनाक्षिप्ततया समस्तस्यापि योग्यान्तरशमाद्वैलक्ष• ण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये' इत्यनेन स्फुटीकृता ॥ 'एतेनाक्ष्णा-' इ- त्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम्। तदे- वमुक्तप्रकारेण रत्याद्युपनिबन्धे सर्वत्राविरोध इति॥ अनुभावापर्यवसायिन इति। शङ्गारी चेयुवा, संभवन्ति तथाविधानुभावाः। शान्तश्वेत्, न संभवति।तं प्रतिपन्नरूपत्वा- त्तथाविधानां विभावानामिति शङ्गारित्वनिश्चयाभावे सत्सपि तथाविधेषु लीलादयोऽनु- भावा: क्लेशेन व्यज्यन्ते इति॥ पुनःपुनः परामृश्यमान इति। तथा हि-वि- भावानुभावसामग्रीपरिघटितर्शरस्यापि रसयितृरसनयोग्यरसस्य पुनरान्दोलनं मालती- कुसुमपरिमर्दनवदननुगुणमेव। धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पी- १. 'श्ङ्गारकथायामवतारवर्णने' ध्वन्यालोके. १. 'एकेना' स्यात्. २. 'शङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्। स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।I' इति ध्वन्यालोकसंवादात् 'तकविः' स्यात्. ३. 'परा- मृष्यमाणः' मूले ध्वन्यालोके च. ४. 'रसस्या' स्यात्.

Page 151

३ अध्याय:] काव्यानुशासनम्। १२१

धेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने। यथा वा वीरचरिते द्वितीयेडक्े। राघवभार्गवयोद्वरिाधिरूढवीररसे 'कङ्कणमोचनाय गच्छामि-' इति राघ- वस्योक्तौ। अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनंयथा-हयग्रीववधे हयग्रीवस्य। यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुक्रान्ते कवेर्यमका- द्यलंकारनिबन्धरसिकतया महाप्रबन्धेन समुद्रादेः । तथा हि हरिविजये ईर्ष्याकुपितसत्यभामानुनयनप्रवृत्तस्य हरे: पारिजातहरणव्यापारेणोपक्रान्त- विप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्ण- नमन्तरा गड्डस्थानीयं विस्तृतम्। तथा कादम्बर्याम् 'रूपविलास-' इत्यादिना महाविप्रलम्भवीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवीशबरेशाश्रममुनिनगरी- नृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते 'जयति ज्वलद्-' इत्यादिना हर्पोत्कर्पवद्विजयबीजे वाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एव सारस्वतोत्पत्तिपर्यन्तो महान्ग्रन्थसंदर्भः । शिशुपालवधादौ चादितः

दित्थम्। अप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महा- कविलक्ष्येपु भूयसा दृश्यते इति तत्त्वं त एव विदन्ति। अङ्गिनः प्रधानस्याननुसंधानं यथा-रत्नावल्यां चतुर्थेडक्के बाभ्र- व्यागेमनेन सागरिकाया विस्मृतिः । अनुसंधिर्हि सर्वस्वं सहृदयतायाः । यथा तापसवत्सराजे पट्स्वप्यङ्केपु वासवदत्ताविपयः प्रेमैसंबन्धः कथाव- शादाशङ्कयमानविच्छेदोऽप्यनुसंहितः ।

यस्येव। तथा च तस्यां दशायां महाकवीनामेको द्वित्रा वा श्रोका निर्यान्ति। अत एव तापसवत्सराजे धाराप्राप्तकरुणरसः सर्वाल्पो द्वितीयोऽङ्ः कविना निवद्धः।पट् स्वङ्केष्विति। तथा हि प्रथमे तावदङे-'तद्वक्ेन्टुविलोकनेन दिवसो नीतः प्रदोषं

१. 'र्धाराधिरू' काव्यप्रका०. २. 'गमने सा' का० प्र०. ३. 'प्रेमवन्धः' ध्वन्यालो- कलोचने. १६

Page 152

१२२ काव्यमाला।

अनङ्गस्य रसानुपकारकस्य वर्णनं यथा-कर्पूरमञ्जर्या नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य वन्दिवर्णितस्य वसन्तस्य राज्ञा प्र- शंसनम्। प्रकृतिव्यत्यय इति। प्रकृतिर्दिव्या मानुपी दिव्यमानुपी पातालीया

तथा तद्रोष्ठ्वैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः। ता संप्रत्यपि मार्गदत्तनयनां द्रषुं प्रवृत्तस्य मे वद्धोत्कण्ठमिदं मनः किमथ वा प्रेमासमाप्तोत्सवम् ।' इत्यनेन। द्वितीये- 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्रं ने किं नो्ध्वार्द्र हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा। कस्मिहव्धपदेन ते कृतमिदं क्ररेण प्रीतामनिना नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥' इत्यादिना। तृतीये-'सर्वत्र ज्वलितेपु वेश्मसु भयादाली- जने विद्रुते श्वासोत्केस्य विहृस्तया प्रतिपदं देव्या पतन्त्या तथा। हा नाथेति मुहुः ्रलापपरया देग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे॥' इत्यादिना। चतुर्थे-'देवी स्वीकृतमानसस्य नियतं खप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथ न व्यथाम्। इत्थं यन्त्रणया कथ कथमपि क्षीणा कथा जाग्रतो दाक्षि- ण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ।' इत्यादिना। पश्चमे समागमप्रत्याशया विप्रलम्भेडक्कुरिते-'तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रेयत्नान्तर्गूढा रुषमु पगता मे प्रियतमा। प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिमधुरं समुद्भिन्रा प्रीतैर्नय- नसलिलैः स्थास्यति पुरः ॥' इत्यादिना। षष्ठे च-'त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारितास्तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःस्नेहता। आसन्नोऽवसरस्तवा- नुगमने जाता धृतिः किं त्वयं खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुणे।।' इत्यादिना च वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमवन्धस्तेत्र द्विभावौचि- त्यात्करुणविप्रलम्भादिभूमिकां गृह्न् विच्छिन्नविच्छन्नो समस्तेतिवृत्तव्यापितया दर्ितः। राज्यप्रेत्यापत्या हि सचिवनीतिमहिमोपनतया तदङ्भूतपद्मावतीलाभानुगतयानुप्राण्य- मानरूपा वासवदत्ताधिगतिरेव तत्र फलम्। निर्वहणे हि-'दष्टा यूयं निर्जिता विद्वि- षश्च प्राप्ता देवी भूतधात्री च भूयः । संबन्धोऽभूददर्शकेनापि सार्ध किं तव दुःखं यत्नतः शान्तमद्य ।।' इति देवीलाभप्राधान्यं निर्वाहितम्॥ दिव्येति। दिव्यः सभाव इत्यर्थः । एवं मनुष्यादिष्वपि व्याख्येयम्। तत्र दिव्या यथा-'स्मृत्वा यन्निजवार- वासगतया वीणा समं तुम्बरोरुद्रीतं नलकूबरस्य विरहादुत्कण्ठसंरम्भया। तेनैरावणकर्ण १. 'नु' ध्वन्यालोकलोचने. २. 'त्कम्पवि' ध्वन्यालोकलोचने. ३. 'दुग्धं' ध्वन्यालो- कलोचने. ४. 'निशा' ध्वन्यालोकलोचने. ५. 'प्रयाणेऽन्तर्गूढां' ध्वन्यालोकलोचने. ६. 'विधुर समुद्भिन्ना पीतै'ध्वन्यालोकलोचने. ७. 'पुनः' ध्वन्यालोकलोचने. ८. 'मनसा,' 'चलितैः' च ध्वन्यालोकलोचने. ९. 'स्तद्विभावौ' ध्व० लोचने. १०. 'प्रत्यायिवृत्त्या' ध्व० लोचने. ११. 'रूपा परमामभिलषणीयतमतां प्राप्ता वास' ध्व० लोचने. १२. 'ते' स्यातू.

Page 153

३ अध्याय:] काव्यानुशासनम् । १२३

मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातालीया चेति सप्तधा। वीररौ- चापलमुखः शक्रोऽपि निद्रां जहद्रयः कारित एव हासिनि शचीवक्रे दृशां संभ्रमम् ॥' मानुपी यथा-'वधूः श्वथ्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्त्े रिक्ते विनिहि- तपदार्थान्तरमिति। नदीस्नोतोन्यायादकलितविवेकक्मघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ।' दिव्यमानुषी तु चतुर्धा। दिव्यस्य मर्त्यागमने मर्त्यस्य च स्वर्ग- गमने इत्येको भेदः । दिव्यस्य मर्त्यभावे मर्त्यस्य च दिव्यभाव इति द्वितीयः । दिव्येति- वृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्य रूपतया चतुर्थः । तत्र दिव्यस्य मर्त्या- गमनं यथा-'थ्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसभ्मनि। वस- न्ददर्शावतरन्तमम्वराद्विरण्यगर्भाङ्गभुवं मुनिं हरिः ॥' मर्त्यस्य स्वर्गमनं यथा-'पाण्डो- र्नन्दन नन्दनं वनमिदं संकल्पजैः साधुभिः कुप्ता पानककेलिकल्पतरुपु द्वन्द्वैः सुधालेहि- नाम्। अप्यत्रेन्दुशिलालवालवलयं संतानकानां तले ज्योत्सासंगलदच्छनिर्झरजलैर्यन्नं विना पूर्यते ।I' दिव्यस्य मर्त्यभावो यथा-'विकसित ...... तस्मिन्नेन्तराये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम्। किमपर[म]थ तस्मात्पोडशस्त्रीसहस््रप्रणिहितप- रिरम्भः पद्मनाभो वभूव ॥' मर्तयस्य दिव्यभावो यथा-'आकाशयानतटकोटिकृतैक- पादास्तद्वेदमण्डयुगलान्यवलम्बहसतैः। कौतूहलान च तरङविघट्वितानि पश्यन्ति देव- मनुजा: खवकलेवराणि ॥' दिव्येतिवृत्तपरिकल्पना यथा-'ज्योत्स्नापूरप्रसरविशदे सै- कतेSस्मिन्सरय्वा वारद्यूतं चिरतरमभूत्सिद्धयूनो: कयोक्षित्। एको त्रूते प्रथमनिहित कैटभं कंसमन्यः स्त्वं त्त्त्वं कथमभवता को हतस्तत्र पूर्वम् ।' प्रभावाविर्भूतदिव्यभावो यथा-'मा गाः पातालमुर्वि स्फुरसि किमपरं पाठ्यमान: कुदैत्यस्ैलोक्यं पादपीत- प्रथिमनहि वले पूरय स्फूतमङ्गेः। इत्युत्खप्नायमाने भुवनभृति दृशावङ्कसुप्ते यशोदा पायाच्चका इपादप्रणतिपुलकितस्मेरगण्डस्वभावः ॥' पातालीया यथा-'कर्कोटः को- टिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सक्तः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति वस्त्वस्तिकस्त्वाम्। पद्मः सग्नैष भक्तेरवलगति पुनः कम्बलोऽयं बलोऽयं सोत्सर्पः सर्पराजो त्रजतु निजगृहं प्रेष्यतां शेषेपालः ॥' मर्त्यः पातालीयो यथा-'आद्रावले ब्जत वेत्स्यप(?)कर्णकर्ण द्विः संदधाति निशिरं हरशिष्यशिष्यः। तत्सांप्रतं समिति यस्य कुतूहलेन मलयैः शरैरपि किरीटकिरीटमाद्यम् ॥' इहापि दिव्यमानुषवन्मिथो भे- दानुगम: ॥ दिव्यपातालीया यथा-'स पातु वो यस्य शिखा स्म कर्णिक सदेहनालं फणपत्रसंचयम्। विभाति जिह्वायुगलोलकेसरं पिनाकिन: कर्णभुजङ्गपङ्कजम् ॥' दि- व्यमर्लयपातालीया यथा-'आस्तीकोऽस्ति मुनिः स विस्मयकृतः पारीक्षितीयान्मखा- त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च। उद्वेल्लन्मलयाद्रिचन्दनलताख्वन्दो- १. 'विकसितरुचि,' 'विकसति भुवि' वा स्यात्. २. 'न्रन्ववाये' स्यात्. ३. 'तत्त्वं तत्त्वं कथय भवता' स्यात्. ४. 'च खस्तिक' वाग्भटकाव्यानुशासने. ५. 'शङपालः' वा० का० ६. 'न शरं' स्यातू.

Page 154

१२४ काव्यमाला।

द्रश्ृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता उत्तमा- धममध्यमा च। तत्र रतिहासशोकाद्भुतानि मानुषोत्तमप्रकृतिवद्दिव्यादिष्वपि। किं तु रतिः संभोगश्ृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्। यत्तु कुमारंसभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद्गूम्ना न दोषत्वेन प्रतिभासते।

लनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥' धीरोदान्तेति । धर्मयुद्धवीरप्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्रश्ङ्गारस्यान्त- लक्षणो नियतरसः प्राधान्येऽपि अवश्यंभावित्वादुत्साहस्य वीररसप्राधान्यमपि प्रति- पत्तव्यम्। ततो वीररौद्रप्रधानो धीरोद्धतः । वीरश्ङ्गारप्रधानो धीरललितः । दानध- रमवीरशान्तप्रधानो धीरप्रशान्त इति। ननु यद्युत्साहादिभाववर्णने कथचिद्दिव्यमानुषा- दौचित्यपरीक्षा करियते। रत्यादौ तु किं तया प्रयोजनम्। रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । तथा चाहु :- 'कस्माद्भारतमिषटं वर्षे- ष्वन्येपु देशविहितेषु। हृद्या सर्वा भूमिः शुभगन्धा काश्चनी यस्मात् ॥ उपवनगमन- क्रीडाविहारनारीरतिप्रमोदा: स्युः । तेपु च वर्षेपु सदा न तत्र दुःखं न वा शोक: ।' इत्याशङ्गयाह-मानुषोत्तमप्रकृतिवदिति। न वयं दिव्यमौचित्यं शङ्गारविषय- मन्यात्किंचिड्रमः । किं तहिं भारतवर्षेषु यथोत्तमनायकेषु राजादिषु शङ्गारोपनिव- न्वस्तथा दिव्याश्रयोऽपि शोभते। न च राजादिपु प्रसिद्धग्राम्यसंभोगोपवर्णनं प्रसिद्ध नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम्। नाटकादेरभिनेयत्वादभिनयस्य संभोगशृ- झारविपयस्य सभ्यत्वात्तत्र परिहार इति चेतू। ननु यद्यभिनयस्यैवंविषयस्य सा केन वार्यते। तस्मादभिनेयार्थेऽनभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभिः सह आ्राम्यसंभोगवर्णन तदसभ्यं तथैव दिव्यादिविपयम्। न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत्, अन्येऽपि परस्परप्रेमदर्शनादयः प्रभेदा: संभवन्ति।त एव चोत्तम- प्रकृतिविषये वर्णयितुमुचिताः । एवं हासादिष्वप्यौचित्यं योज्यमिति। दिव्यादिपु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभिधाने उत्तमदेवताविषयत्वैनापि तथा प्रसक्तौ विशेषमाह-किं त्विति। संभोगः परस्परावलोकनप्रणयकलहसंगत- कादिः। स चासौ श्ङ्गारश्च तद्रूपा। अनुचितमिति। आखादयितृणां हि यत्र चमत्काराविघातः तदेव रससर्वखम्। आस्वादयितृत्वात् उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लजातन्द्रादिना कश्मत्कारावकाश इत्यर्थः ॥ शक्तितिरस्कृतत्वा-

Page 155

३ अध्याय:] काव्यानुशासनम्। १२९

क्रोधोऽपि भ्रुकुट्यादिविकारवर्जितः सद्यः फलदो निद्धव्यः । यथा- 'क्रोधं प्रभो संहर संहरेति यावद्विरः खे मरुतां चरन्ति। तावत्स वह्िर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ।।' स्ःपातालगमनसमुद्रलङ्खनादावुत्साहस्तु मानुषेभ्योऽन्येपु। मानुपेपु तु यावदवदानं प्रसिद्धम् उचितं वा, तावदेव वर्णनीयम्। अधिकं तु व- ध्यमानमसत्यप्रतिभासेन 'नायकवद्वर्तितव्यं न प्रतिनायकवत्' इत्युपदेशे न पर्यवस्येत्। एवमुक्तानां प्रकृतीनामन्यथावर्णनं व्यत्ययः । तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम्, नाधमेन; मुनिप्रभृतौ, न राजादौ। भट्टारकेति न राजादौ। परमेश्वरेति न मुनिप्रभृतौ। प्रकृतिव्य- त्ययापत्तेः ।

दिति। संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्थपरामर्श कर्तु न ददाति। यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयोऽपि वुध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः। तथात्रापीति भावः । यदाह ध्वनिकारः-'अव्युत्पत्तिकृतो दोपः शक्त्या संत्रियते कवेः। यश्चे शक्तिकृतस्तस्य ऋगित्येवावभासते ।I' इति॥ अन्येप्विति। दिव्यादिपु। तथा च केवलमनुष्यस्य राजादेवर्णने सप्ताणवलङ्वनादिलक्षणा व्यापारा उपनिवध्यमाना वर्ण- नामहिम्रा सौष््वभृतोऽपि नीरसा एव नियमेन भवन्ति॥ ननु नागलोकगमनादयः सातवाहनप्रभृतयः श्र्यन्ते तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यम् सर्वो- र्वींभरक्षमाणां भूभुजामित्याशङ्कयाह-मानुपेप्विति। न वयं ब्रमः यत्प्रभावाति- शयवर्णन न समुचितं राज्ञाम्, किं तु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यादिकमौचित्यं न योजनीयम्। दिव्यमानुष्यादौ तु तद्योजनमविरुद्धमेव। यथा पाण्डवकथायाम्। सातवाहनादिपु तु येपु ह्वेवदानं श्रूयते तावदेवोपनिवद्धव्यमि- त्यर्थः ॥ अवदानमिति। सातिशयं कर्म । अधिकं त्विति। अयमर्थ :- यत्र च

१. 'सत्वशक्तिकृतो दोपः स झटित्यव' ध्वन्यालोके. २. 'मानुषस्य' ध्वन्यालोके. ३. 'भान्ति' ध्वन्यालो०. ४. 'तीनाम्' ध्वन्यालो०. ५. 'क्षमा' ध्वन्यालो०. ६. 'म- नुचि' ध्वन्यालो०. ७. 'मानुषा' ध्वन्यालो०. ८. 'पायां तु कथायामुभययोजन' ध्वन्यालो०. ९. 'यावदपदानम्' ध्वन्यालो०.

Page 156

१२६ काव्यमाला।

यदाह- 'तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ तत्रभवन्भगवन्निति नैवार्हत्युत्तमोऽपि राजानम्। वक्तुं नापि क्थंचन मुनिं च परमेश्वरेशेति।' एवं देशकालवयोजात्यादीनां वेषव्यवहारादिसमुचितमेवोपनिबद्धव्यम्।

नेयानां प्रतीतिखण्डना न ज्ञायते तादग्वर्णनीयम्। तत्र केवलमानुपस्य एकपदे सप्ता- र्णवलङ्कनमसंभाव्यमानतया कृतमिति हृदये स्फुरदेषास्य चतुर्वर्गोपायस्याप्यलीकतां वुद्धौ निवेशयति। रामादेस्तु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोचित संप्रत्ययोपा- रूढं नासत्यतया चकास्ति। अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृश- मेव न त्वसंभावनास्पद वर्णनीयमिति॥देशकालवयोजात्यादीनामिति। तत्र जगदेकदेशाश्र देशः। दावापृथिव्यात्मकमेकं जगदित्येके। 'हलमगु बलस्यैकोऽनड्ा- न्हरस्य न लाङलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङलम्। प्रभवति कृषिर्नाद्या- प्येषां द्वितीयगवं विना जगति सकले नेदग्दष्टं दरिद्रकुटुम्बकम् ॥' दिवस्पृथिव्यौ द्वे जगती इत्यपरे। यथा-'रुणद्धि रोदसी वास्य यावत्कीर्तिरनश्वरी । तावत्किलायम- ध्यास्ते सुकृती वैबुधं पदम् ।' स्वर्गमृत्युपातालभेदात्रीणि जगन्तीत्यपरे। यथा- 'त्वमेव देव पातालमीशानां त्वं निबन्धनम्। त्वं चामरमरुद्धूमिरेको लोकत्रयात्मकः ।' तान्येव भूर्भुवः खः इत्यन्ये। यथा-'नमस्त्रिभुवनाभोगधृतिखेदभरादिव। नाघनाघा- ङ्पर्यङ्कशायिने शार्ङ्गधन्विने ॥' महर्जनस्तपः सत्यमित्येतैः सह सह्ेत्यपरे। यथा- 'संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य स- प्रभुवनप्रथितोरुकीर्तेः प्रासादपङ्गिरियमुच्छिखरा विभाति ॥' तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दशेति केचित् । यथा-'निरवधि च निराश्रयं च यस्य स्थितमनुवर्तितकौ- तुकप्रपश्चम् । प्रथम इह भवान्सेर्वमूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥' तानि सप्तभिः पातालैः सहैकविंशतिरिति केचितू। यथा-'हरहासहरावासहरहारनिभप्रभाः । कीर्तयस्तव लिप्सेन्तु भुवनान्येकविंशति II' सामान्यविवक्षा एकयति, विशेषविवक्षा त्व- नेकयतीति सर्वमुपपन्नम्। तत्र भू्लोकः पृथ्वी, तत्र च सप्त महाद्वीपाः । 'जम्वूद्वीपः सर्वमध्ये ततश्व प्रक्षो नाम्रा शाल्मलोऽतः कमोऽतः । क्रौश्चः शाङ्क: पुष्करश्वेत्यथैषां

१. 'मा' का० प्र०. २. 'यसे' का० प्र०. ३. 'नागनाथाङ्क' स्यात्. ४. 'नि' का० प्र०. ५. 'स कूर्म' का प्र०. ६. 'लिम्पन्तु' वा० का०. ७ 'कृशो' स्यातू. ८. 'शाकः' वा० का०.

Page 157

३ अध्याय:] काव्यानुशासनम्। १२७

बाह्या वाह्या संस्थितिर्मण्डलीभिः ॥' 'लावणो रसमयः सुरोदयः सार्पिषो दधिजलः पयः- पयाः। स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥' एक एवायं लावण: समुद्र इत्येके। यथा-'द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृतास्योङ्खण्डैरेका- म्भोधिर्दिगन्तप्रसमरसलिल: प्राज्यमेतत्सुराज्यम्। तेस्मिन्नप्याजिकेलिव्यतिकरविज- योपार्जिते वीरवयें पर्याप्तं मे न दातुस्तदिदमिति घिया वेधसे यश्चुकोप ॥' त्रय इ- त्यन्ये। यथा-'आकम्पितक्षितिभता महता निकामं हेलाभिभूतजलधित्रितयेन य- स्य। वीर्येण संहतिभिदा विहितोन्नतेन कल्पान्तकालविस्ृतः पवनोऽनुचक्रे ॥' चत्वार इत्यपरे। यथा-'चतुःसमुद्रवेलोमिरचितैकावलीलतम्। मेरुमप्यद्विमुल्लङ््य यस्य क्वापि गतं यशः ॥' सप्तेत्यन्ये। यथा-'अगस्त्यचुलकोत्क्षिप्तसप्तवारिधिवारिणि। मुहूर्त के- शवेनापि तरता पूतरायितम्।।' (?) कविप्रसिद्धया वा विमृष्टपरमार्थ सर्वमुपपन्नम्। 'मध्ये जम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्रा काश्चनः शैलराजः । यो मूर्तानामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ।' 'तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा। तिर्यगूर्ध्वम- धस्ताच्च विश्वस्य रचना कृता ॥' मेरोश्चतुर्दिशमिलावृतं वर्षम्। तच्चोत्तरेण त्रयो वर्ष- गिरयः। नीलः श्वेतः शङ्गवांश्च। रम्यकं हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेपां वर्षाणि। दक्षिणेनापि त्रय एव। निषधो हेमकूटो हिमवांश्। हरिवर्ष किंपुरुषं तारतमिति त्रीणि वर्पाणि। तत्रेदं भारतवर्षमन्त्यम्। अस्य च नवभेदा :- इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गभस्तिमान् नगद्वीपः सौम्यो गन्धवो वरुणः कुमारीद्वीपक्च। पञ्च शतानि जलं पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्त्रावधेयो दक्षिणात्समुद्राद्धि- मवन्तं यावत्परस्परमगस्य स्थानान्येतानि योजयति स सम्राडित्युच्यते। कुमारीपुरा- त्प्रभृति विन्दुसरोवधि बीजनानां दशशती चक्रवर्तिक्षेत्रम्। तां विजयमानश्चक्रवर्ती भवति। चक्रवर्तिचिह्नानि तु-'चक्र रथो मणिर्भार्या निधिरश्वो गजस्तथा। प्रोक्तानि सप्त रत्नानि सर्वेपां चक्रवर्तिनाम् ॥I' कुमारीद्वीपाच्च-'विन्ध्यक्ष पारियात्रश्च शुक्ति- मानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥' तत्र विन्ध्यादयः प्रतीतख- रूपाः। मलयविशेषास्तु चत्वारः। तेपु प्रथमो यथा-'आ मूलयष्टेः फणिवेष्टितानां सच्चन्दनानां जननन्दनानाम्। कक्कोलकैलामरिचैर्वृतानां जातीतरूणां चस जन्मभूमिः॥।' द्वितीय :- 'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामचति ताम्रपणी। रत्नेश्वरो रत्नमहानि- धानं कुम्भोद्भवस्तं मलयं पुनाति ।।' 'यत्र दमा विद्रुमनामधेया वंशेपु मुक्ताफलजन्म तत्र। मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तम्मिन्घनसारव्रक्षाः ॥' तृतीय :- 'वि- लासभूमि: सकलामराणां पदं नृणां गोर्मुनिपुंगवस्य। सदा फलैः पुष्पलतावितानैराश्षर्य- मूलं मलयः स तत्र ॥' चतुर्थ :- 'सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीवि- टहः। द्वारागलाबद्धमुरेश्वराड्ा लह्केति या रावणराजधानी ॥' 'प्रवर्तते कोकिलनादहेतुः

१. 'दकः' वा० का० २. 'स्ा' वा० का० ३. 'कस्मिन्नव्याज' वा० का० ४. 'वीरचर्ये' वा० का० ५. 'भारत' स्यात्. ६. 'गन्धर्वो' स्यातू.

Page 158

१२८ काव्यमाला।

पुष्पप्रसूः पञ्चमजन्मदायी। तेभ्यश्चतु्भ्योऽपि वसन्तमित्रमुदखुखो दक्षिणमातरिश्वा ॥' पूर्वापरयोः समुद्रयोर्हिमवन्ध्यद्वयोक्षान्तरमार्यावर्तः । तस्मिश्वातुवर्ण्य चातुराश्रम्यं च। तन्मूलक्ष सदाचारः। तत्रत्यो व्यवहारः प्रायेण कवीनाम्। तत्र वाराणस्याः परतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोकेलमगरमधकवि दे हनेपालपुण्ड प्राग्ज्यो तिषताम- लिप्तकमलजदमह्लवर्तकसुह्मव्रह्मोत्तरप्रभृतयो जनपदाः। बृहद्रेहलोहितगिरचकोरदर्दुर- नेपालकामरूपादय: पर्वताः । शोणलौहित्यौ नदौ। गङ्गाकरतोयाकेलपमाद्याक्च नद्यः । लवलीप्रन्थिपर्णिकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । महिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्म काश्मकवैदर्भकुन्तलक्र््थकैशिकस्तर्षार कका श्चिकिरेलिकावेरमुरलवान- वासकर्णिसिंह लवोषेदेण्डकपाण्ड्य पल्लवगाङगनासिक्य को ङणगिरिवेह्रप्रभृतयो जनपदाः । विन्ध्यदक्षिणपदे माहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः। नर्मदातापीप- योष्णीगोदावरीकावेरी भैमरथीवेणीवज्जरातुङ्गभद्राताम्रपर्णीपलावतीरावणगङ्गाद्या नदः । तदुत्पत्तिर्मलयोत्पत्तिव्याख्याता। वेसभायाः परतः पश्चाद्देशः । तत्र देशसभसुराष्ट्र

गिरिनगर देवसभ्यमालशिषिरार्वुदादय: पर्वताः। सरस्वतीशुभ्रवतीवार्तप्नीमहीहिण्डिवा- द्यानदः । करीरपीलुगुग्गलुखर्जूरकरभादीनामुत्पादः। पृथूदकात्परत उत्तरापथः । यत्र शककेकयावोक्काणहूणवनायुजकम्बोजवाल्ही कबहूबल स्यातकुलूत कीरत ङ्णतुवारतुरैक्कवर्व- रहरहूरहुहुकसरुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः। हिमालयजालन्धरक लिन्द्रेन्द्र कीलचण्डाचलादयः पर्वताः। गङ्गासिन्धुसरख्वतीशतद्रचन्द्रभागायमुनैरावतीवितस्ता- विपाशाकुहूदेविकाद्या नद्यः । सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसौवीरस्ोतोअनसैन्ध- ववैडर्यतुरगाणामुत्पादः। तेषां मध्ये मध्यदेश इति व्यवहार इति। यदाहुः-'हिम- वद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥' तत्र ये देशा: पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धमिति न निर्दिष्टम्। 'द्वीपा- न्तराणां ये देशाः पर्वताः सरितस्तथा। नातिप्रयोज्याः कविभिरिति गाढं न चि- त्तिताः ॥' विनशनप्रयागयोर्गङ्गायमुनयोश्वान्तरमन्तर्वेदी। तदपेक्षया दिशो विभजेतेति केचित्। तत्रापि महोदैयं मूलमवधीकृत्य दिशो विभजेत्। प्राच्यवाचीप्रतीच्युदीची

१. 'मवद्विन्ध्ययो' वा० का० २. 'लोत्कलमगधमुद्गर' वा० का० ३. 'ताम्र' वा० का० ४. 'लदलमलर्तकसुब्रह्म' वा० का० ५ 'कपिशादा' वा० का० ६ 'प- णायु' वा० का० ७. 'मा' वा का० ८. 'सूर्पा' वा० का० ९ 'केरल' वा० का० १०. 'चोड' वा० का० ११. 'कोल्ल' इति पाठोऽधिकः वा० का०. १२. 'भी' वा० का० १३. 'जम्बुरा' वा० का० १४. 'त्या' वा० का०. १५. 'देवसभा' वा का० १६. 'हययवन' वा० का० १७. 'ल्हवलम्पाक' वा० का० १८. 'तुरुष्क' वा० का० १९. 'ण्ड' वा० का० २०. 'चन्द्र' वा० का० २१. 'राग' इति स्यातू.

Page 159

३ अध्याय:] काव्यानुशासनम्। १२९

चतस्रो दिश इत्येके। यथा-'चतसृष्वपि दिक्षु राणद्विपतः प्रति येन चित्रचरितेन। विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥' ऐन्द्र्ानेयी याम्या नैर्ऋती वारुणी वायवी कौबेयैशानी चाष्टौ दिश इत्यन्ये। यथा-'एक ज्योतिर्दशौ द्वे त्रिजगति गदितान्यद्र- जास्यैश्चतुर्भिर्भूतानां पञ्चमं यान्यलमृतुषु तथा षण्मुनीनां विधानि। युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाजि भानोर्यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥' ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे। यथा-'दशदिक्कूटपर्यन्तसी- मसंकटभूमिके। विषमास्थूलनक्षस्य(?) ब्रह्माण्डग्रामके स्थितिः ॥' सर्वमस्तु विवक्षा- परतत्त्रा हि दिशामियत्ता। तत्र चित्रास्वात्यन्तरे प्राची। तदनुसारेण प्रतीची। ध्रुवेण उदीची। तदनुसारेणापाची। अन्तरेपु विदिशः । ऊध्वे ब्राह्मी। अधस्तान्नागीया चेति। द्विधा च दिग्व्यवहारः कवीनां प्राक् सिद्धो विशिष्टस्थानावधिसाध्यः । तत्र प्राक् सिद्धे प्राची-'द्वित्ैर्व्योम्ि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर्ज्योत्स्ापान- भरालसेन वपुषा सुप्ताश्कोराङ्गनाः । यातोऽस्ताचलचूलमुद्वस्मधुच्छत्रच्छविश्चन्द्रमाः प्राची बालविडाललोचनरुचां जाता च पात्रं ककुपू ।' दक्षिणा-'दक्षिणो दक्षिणा. माशां जिज्ञासन्सोऽधिकं बभौ। जिहासन्दक्षिणामाशां भगवानिव भास्करः ॥' पश्चिमा-'यस्य पश्चिमदिगन्तलम्बिना निर्मितं मितकषे विवखता। दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुबन्धनम् ।I' उत्तरा-'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिवी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ-'यादांसि हे चरत संग- तगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन। नो चेन्निरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति वा वियोगः ॥' दक्षिणोत्तरौ यथा-'काश्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तवक्रीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्ग: ।।' उत्तरादावप्युत्तरदिगभिधानमनुत्तरादावप्युत्तरदिगभिधानं च । तयोः प्रथमम्-'त- त्रागारं धनपतिएृहानुत्तरेणास्मदीयं दूराल्ृक्ष्यं सुरपतिधनुश्चारुणा तोरणेन। यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हृस्तप्राप्यस्तबकविनतो बालमन्दारवृक्षः ॥' द्वितीयम्- 'सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी। पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥' एवं दिगन्तरेष्वपि। तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्रीयात्। साधारणं तूभयत्र लोकप्रसिद्धितश्च। तद्वदवर्णनियमः । तत्र प्राच्यानां श्यामो वर्णः- 'श्यामेष्वङ्वेषु गौडीनां सूत्रहारैकहारिषु। वक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति ।' दाक्षिणात्यानां कृष्णो यथा-'इदं भासां भर्तुर्द्वुतकनकगोलप्रतिकृतिक्रमान्मन्दज्यो- तिर्गलति नभसो बिम्बवलयम्। अथैष प्राचीनः सरति मुरलीगण्डमलिनस्तरुच्छाया- चक्ैः स्बकित इव ध्वान्तविसरः ॥' पाश्चात्यानां पाण्डुर्यथा-'शाखास्मेरं मधुकवलना

१. 'राग' इति स्यात्. २. 'पट्सुननावि' वा० का० ३. 'भाजि' वा० का०. ४. 'गह्ल' चा० का०. १७

Page 160

१२० काव्यमाला।

केलिलोलेक्षणानां भृद्स्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। कि चेदानी यवनतरुणी- पाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेपु ।।' उदीच्यां गौरो यथा-'काश्मीरीगात्रलेखासु लोलल्ावण्यवीचिषु। द्रावयित्वेव विन्यस्तं स्वर्ण पोडश- वर्णिकम् ।।' मध्यदेश्यानां कृष्णः श्यामो गौरश्च । कृष्णो यथा-'युधिष्ठिरक्रोधवहेः कुरुवंशैकदाहिनः । पाञ्चालीं दद्दशुः सर्वे कृष्णां धूमशिखामिव ॥' एवं इ्यामोऽपि। नवकविमार्गे कृष्णश्यामयोः पाण्डुगौरयोर्वा महान् विशेष इति। गौरो यथा-'तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्दुपुत्रि। अवगतमलिके मृगाङ्कविश्वं मृगमदप- त्रनिभेन लाञ्छनेन ॥' विशेस्तु पूर्वदेशराजपुत्र्यादीनां गौरः पाण्डुर्वा वर्णः-'कपोले जानक्याः करिकलभदन्तद्युतिमुखिस्मरस्मेरं गण्डोड्डमरपुलकं वक्ककमलम्। मुहुः पश्यञ्छृण्वन् जनकवरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढ्ः ॥' यथा च-'तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम्। शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ।' एवमन्यदपि यथासंभवमूह्यम् ॥ कालः काष्ठादिभेदभिन्नः । तथा च- 'काष्ठा निमेषो दश पञ्च चैव त्रिंशच्च काष्टाः कथिताः कलासु। त्रिंशत्कलश्चैव भवे- न्मुहूर्तस्तैस्तिंशता रात्र्यहनी समेते ॥' ते च चैत्राश्वयुजमासयोर्भवतः। चैत्रात्पर प्रतिमासं मौहूर्तिकी दिवसवृत्तिनिंशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशा- वृद्धिर्दिवसहानिश्च। आश्वयुजात्परतः प्रसरे तदेव विपरीतम्। राशितो राश्यन्त- संक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम् । शिशिरादयुत्तरायणम् । ध्ययनः संवत्सरः इति सौरं मानम्। पञ्चदशाहोरात्रः पक्षः । वर्धमानसोमशुक्किमा शुक्ः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्यं मासमानम्। अधुना च वेदादितः कृत्स्नापि क्रिया कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम्। इदमार्यावर्तवासिनः कवयश्च मानमाश्रिताः । एवं द्वौ पक्षौ मासः । द्वौ मासावृतुः । षण्णामृतूनां परिवर्तः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरिति लोकयात्राविदः । तत्र नभानभस्यश्ष वर्षाः। यथा-'गर्भ बलाकासु निवेशयन्तो वंशाङ्कुरात्खैर्निनदैर्व्रजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति ॥' 'सशल्लकीशालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः । दग्धोर्वरासुन्दरगन्धबन्धुरर्थत्ययं वारिमुचामनेहा ॥' 'वनानि नीलीदलमेचकानि धाराम्बुधौ ता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाडलानि॥' 'चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थ: कालोSयमाम्रातनभाः पयोदैः ॥' 'या केलियात्रा किल कामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भ सा वारिदर्तोः प्रथमातिथेयी ॥' 'चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भो- रगः। शिखण्डिकुलताण्डवामुदितमुद्रकङ्गाह्वयो वियोगिषु घनागमः स्मरविषं विष मुश्चति ।' 'दलत्कुटजकुडाल: स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रथितमञ्जरीकं

१. 'राश्यन्तरसं' स्यात्.

Page 161

३ अध्याय:] काव्यानुशासनम् । १३१

जनः । कदम्बकलुपाम्बरः कलितकेतकीकोरकश्वलन्निचुलसंचयो हरति हन्त घर्मा- त्ययः ॥' तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति समयः । यथा-'प्रावृष्यम्भोभृताम्भो- दभरनिर्भरमम्रम्। कदम्वकुसुमामोदा वायवो वान्ति वारुणाः ॥' यथा च- 'पौरस्त्यस्तोयदर्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः। संध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु वनितानन्दन: स्यन्दनस्य ॥' इष और्षश्ष शरत्। यथा-'प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान्। शरत्समभ्येति विकाश्य पद्मानुन्मूलयन्ती कुमुदोत्पलानि ।' 'सा भाति पुष्पाणि विशेषयन्ती बन्धूकबाणासनकुङ्कुमेषु। शेफा- लिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ।' 'सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति। कादम्बकारण्डवचक्रवाकससारसक्रौश्चकुलानुयाता।' 'उपान- यन्ती कलहंसयूथमगस्तिदृष्टया पुनती पयांसि। मुक्तासु शुभ्रं दधतीव गर्भ शरद्वि- चित्रैश्चरितैश्चकास्ति ॥' 'क्षिर्ति खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः। शृङ्ं त्यजन्तो रुरवश्च जीणे कुर्वन्ति लोकानवलोकनोत्कान् ।' 'अत्रावदातद्युति- चन्द्रिकाम्बुनीलावभासं च नभः समन्तात्। सुरेभवीथीदिवसावतारा जीणाभ्रखण्डानि च पाण्डुराणि ।' 'महानवम्यां निखिलास्रपूजा नीराजना वाजिभटद्विपानाम्। दीपा- लिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥' 'व्योम तारतरतारकोत्करं स्यन्दनप्रवरणक्षमा मही। भास्करः शरदि दीप्तदीधितिर्वुध्यते च सह माधवः सुरैः ॥' 'केदार एव कलमाः परिणामनम्रा: प्राचीनमामलकमर्थति पाकनीलम्। एर्वारुकं स्फुट- ननिर्गतगर्भगन्धमम्लीभवन्ति च जरत्रपुसीफलानि ॥' 'गेहाजिरेषु नवशालिकणावपा- तगन्धानुभावसुभगेपु कृषीवलानाम्। आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्व- लयपद्धतयो वधूट्याः ।' 'तीक्ष्णं रविस्तपति नीच इवाचिराठ्यः शङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचित्तं कामी दरिद्र इव शोषमुपैति मेघः ॥' 'नद्ो वहन्ति कुटिलक्रमयुक्तशुक्तिरेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारिबकदन्तकरालफालाः ।' 'अपङ्गिलतटावटः शफर- फाण्टफालोज्ज्वलः पतत्कुररकातरत्रमददभ्रमीनभ्रमः । लुठत्कमठसैकतश्चलबकोट- वाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥' वायुश्चात्रानियतदिकः । यथा- 'उपःसु वधुरा(?)कृष्टाः जडावश्यायशीकराः। शेफालीकलिकाकोशकपायामोदिनो- Sनिला: ॥' सत्यः सहस्यक्ष हेमन्तः । यथा-'द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीपु। पश्चपफलिनीकुसुमो जयति हिमर्तुर्नवावतरः ॥' 'पुन्नागरोध्रप्रसवा- वतंसाः वामभ्रुवः कश्चुककुश्चिताङ्गाः । वक्रोल्सत्कुङ्कमसिक्थकाढ्याः सगन्धतैलाः कबरीर्वहन्ति ॥' 'यथा यथा पुष्यति शीतकालस्तुपारचूर्णोत्करकीर्णवातः । तथा तथा

१. 'ऊर्ज' स्यात्. २. 'मयूराणां मदापनोदः' वाग्भटकाव्यानुशासनात्; 'प्रोत्सार- यन्ती' स्यान्. ३. 'विकास्य पद्मान्यु' स्यात्. ४. 'लोध' इति स्यात्.

Page 162

१३२ काव्यमाला।

यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥' 'वराह्वध्राणि नवोदनानि दधीनि संनद्धरसानि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥' 'अत्रोपचारः सलिलैः कवोष्णैर्यतिंकचिदत्र खदतेSन्नपानम्। सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तु हिमर्तवेऽस्मै ॥' 'विमुक्तवर्हा विमदा मयूराः प्ररूढगोधूमयवा च सीमा। व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥''सशमीधान्यपा- कानि क्षेत्राण्यत्र हरन्ति च। त्रिशङ्कुतिलका रात्र्यः पच्यन्ते लवणानि च ।'उदानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु। मन्दोद्योगा पक्षिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ।।' 'कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति। कृष्णेक्षूणां पुण्ड्ूकाणां च गर्भे माधुर्यश्रीजीयते चाप्यपूर्वा ।I' 'येषां मध्ये मन्दिरं तल्पसंपत्पार्श्वे दारा: स्फारतारुण्यसाराः। लीलावहिर्निदुतोद्दामधूमस्ते हेमन्तं ग्रीष्म- शेषं विदन्ति ॥' वायुरत्रोदीच्यः पाश्चात्यो वा। यथा-'लम्पाकीनां किरन्तश्चिकुरविर- चनां रल्लकांल्लासयन्तश्चुम्बन्तश्रन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः । एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः ॥' यथा च-'भञ्जन्भूर्जद्रुमाली स्तुहिनगिरितटेपूद्रतत्वत्कराला रेवाम्भ :- स्थूलवीचीचयचकितचलच्चातकं व्याधुनानः । पाश्चात्यो वाति वेगाद्ुततुहिनशिलाशी- करासारवर्ष मातङ्गक्षुण्णसान्द्रस्तुतसरलसरत्सारसारी समीरः ॥' तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव। विशेषस्तु-'रात्रिर्विचित्रसुरतोचितयामदैध्या चण्डो मरुद्वहति कुङ्कुमपङ्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्यदर्थन्ति चात्र विततागुरुधूपधूमा ॥' 'आश्लेषिताः पृथुरतक्कमपीतशीतमायामिनीं घनमुदो रजनीं युवानः । उर्वोर्मुहुर्वलन- बन्धनसंधिलोलपादान्तसंवलिततूलपटाः स्वपन्ति ॥' 'पानेऽम्भसोः सुरसनीरसयोरन भाति स्पर्शक्रियासु तुहिनानलयोन वात्र। नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभास्करयोर्विशेषः ॥' 'पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु वुरि स्थितानि। सौभाग्यमेणतिलकाद्भजतेऽर्कबिम्वं काले तुषारिणि दहन्ति च चन्द- नानि॥' 'सिद्धार्थयष्टिषु यथोत्तरहीयमानसंतानभिन्नघनसूचिपरम्परासु। द्वित्रावशेषकुसु- मासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥' 'उदीच्यचण्डानिलताडितासु निलीनमीनासु जलस्य मूले। नालाव शेषाब्जलताख्विदानीं विलासवापीषु न याति दृष्टिः ॥' 'मादयन्मतङ्ग: पृषतैकतोषी पुष्यद्वराहो धृतिमळलायाः । दरिद्रनिन्धः सधनैकनिन्दः स एष काल: शिशिरः करालः ॥' 'अतिनववधूरोषखादुः करीषतनूनपादसरलजनाल्लेषक्ूर- स्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्रुतिर्मस्ृरणा रवेर्विर हिवनितावक्रौपम्यं विभर्ति निशाकरः ॥' 'स्त्रियः प्रकृतिपित्तलाः कथितकुङ्कुमालेपनैर्नितम्बफलकस्तनस्थलभुजोरु- मूलादिभिः । इहाभिनवयौवनाः सकलरात्रिसंश्लेषितैर्हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीमपि ॥' मधुर्माधवश्र वसन्तः । यथा-'चैत्रे मदर्धिः शुकसारिकाणां हारीतदात्यू १. 'रनिन्धः' स्यातू.

Page 163

३ अध्याय:] काव्यानुशासनम्। १३३

हमधुव्रतानाम्। पुंस्कोकिलाना सहकारबन्धुर्मदस्य काल: पुनरेष एव ।' 'मनोऽधिकं चात्र विलासलास्ये प्रेङ्वासु दोलासु च सुन्दरीणाम्। गीते च गौरीचरिता वसन्ते पूजाप्र- पञ्चे च मनोभवस्य ।' 'पुंस्कोकिल: कूजति पञ्चमेन बलाद्विलासा युवतेः स्फुरन्ति। स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥' 'पिनद्धमाहारजतांशुकानां सीमन्तसिन्दूरजुषां वसन्ते। स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः खदते वधूनाम्।' 'अयं प्रसूनोद्ुरकर्णिकारः पुष्पप्रपश्चाश्चितकाश्चनारः। विजम्भणाकोविदकोविदारः कालो विकासोद्धतसिन्धुवारः ॥' 'रोहीतकाम्रातककिंकराता मधूकमोचा सह माधवीभिः । जयन्ति शोभां जनकश्च शाखी सशेखरः पुष्पभरैर्वसन्ते ॥' 'यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलाकलरुतेः कथने च लाभः । पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुःस भगवान्गुरुरङ्गनानाम्।' 'नालिङ्गितः कुरबकस्तिलको न दृष्टो नो ताडि- तश्व चरणैः सुदृशामशोकः । सिक्तो न वक्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥''चैत्रे चित्रौ रक्तनीलावशोकौ स्वणाशोकस्तत्ततीयश्च पीतः । जैन्रं तन्नं तत्प्रसूनान्तरेभ्यश्चेतोयोनेर्भूर्भुवःखस्त्रयेऽपि।।' 'गूवाकानां नालिकेरीद्रुमाणां हिन्ता- लानां पाटलीकिंशुकानाम् । खर्जूरीणां तालताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्ते ।' वायुश्चात्र दक्षिणः । यथा-'चुम्बंल्ङ्गावनालीर्मुहुरलकलता लासयन्केरलीनामन्ध्रीध- म्मिल्लबन्धान्सपदि शिथिलयद्वेल्लयन्नागवल्लीः । उद्दामं दाक्षिणात्यो मलितमलयजः सार- थिमोंनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः ॥' शुक्र: शुचिश्च ग्रीष्मः। यथा-'विकासकारी नवमालिकानां दलच्छिरीषप्रभवाभिरामः। पुष्पप्रदः काश्चनकेतकीना ग्रीष्मोऽयमुल्लास .. धातकीकः ॥'खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफ- लनारिकेलैः। द्वन्द्वानि खेदालसतामपास्य रतानुबन्धानमिहाद्रियन्ते ॥' 'स्रोतांस्येम्भांसि सकूपकानि प्रपाः कठोरेSहनि पान्थपूर्णाः। शुचौ समभ्यर्चितसक्तुधाने प्रागेव सायं च वहन्ति मार्गा: ॥''यत्कायमानेषु दिनार्धनिद्रा यत्स्नानके लिर्दिवसावसाने। यद्रात्रिशेषे सुर- तावतार: समुष्टियोगो घनघर्ममाथी।' 'या चन्द्रिका चन्दनपङ्गहृद्या या जालमार्गानिल- वीचिमाला। या तालवृन्तैरुदनिन्दुदृष्टिर्जलाञ्जलिं सा शुचये ददाति॥' 'कर्पूरचूर्ण सहका- रभङस्ताम्बूलमार्द्रक्रमुकोपकुप्तम्। हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः॥' 'मुक्तालताश्रन्दनपङ्कदिग्धा णालहारानुस्ता जलार्द्रः। स्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥' अत्र हि-'पच्यन्त इव भूतानि ताप्यन्त इव पां सवः । केथ्यन्त इव तोयानि ध्मायन्त इव वाद्रयः ॥' 'एण्यः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः । ताम्यत्तिमीनिवे सरांसि जलस्य शोषा- द्वद्वारघट्टघटिकावलयक्ष कूपाः ॥' 'करभाः शरभाः सरासभाः मदमायान्ति भजन्ति वि- क्रियाम्। करवीरकरीरपुष्पिणी: स्थलभूमीरधिरुह्य रासते ॥' 'सहकाररसार्चिता रसाला जलभक्तं फलपानकानिमन्थाः (?)। मृगलावरसाश्रितं (?) ... दुग्धं स्मरसंजीवनमौषरधं

१. 'स्यन म्भासि' स्यात्. २. 'क्वथ्यन्त' स्यात्. ३. 'नि च' स्यात्.

Page 164

१३४ काव्यमाला।

निदाघे।' 'जडचन्दनचारवस्तरुण्यः सजलार्द्राः सहतारहारमालाः। कदलीदलतल्पकल्प- नस्था: स्मरमाहूय निवेशयन्ति पार्श्वे ॥' "ग्रीष्मी चीरीनादवन्तो वनान्ताः पङ्गाभ्यक्ताः सेरिता: (?) सेभकोलाः। लोलज्जिद्वाः सर्वसारङ्गवर्गा मूलस्रस्तैः पक्षिणश्चांशदेशैः ॥' 'हर्म्ये रम्यं चन्द्रिकाधौतपृष्ठ कान्तोच्छिष्टा वारुणी वारिमित्रा। माला: कण्ठे पाटलामल्लिकानां सदो ग्रीष्मं हन्त हेमन्तयन्ति ॥' वायुश्वात्र नैर्ऋतोSनियतदिक्ो वा। यथा-'सोऽयं करैस्तपति वहिमयैरिवार्क: साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति ॥' यथा च-'वात्याचक्रकचुम्विताम्बरभुवः स्थूला रजोदण्डकाः संग्रन्थन्ति भविष्यदभ्रपटलस्थूणावितके नभः । किं चान्यन्मृगतृ- ष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनीं संप- दम् ॥' चतुरवस्थश्च ऋतुः । संधिः शैशवं प्रौढिरनुवृत्तिश्च। ऋतुद्वयमध्यं संधिः । स शिशिरवसन्तयोर्यथा-'व्यूतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमे मनसि च गिरं अ्रभ्नन्ति मे कीरन्ति न कोकिला: (?)। अथ च सवितुः शीतोल्लासं लुठन्ति मरीचयो नवजर- ठतामालम्बन्ते कमोदयदायिनीम् ॥' वसन्तस्य शैशवं यथा-'गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽडुरं पल्लवाः वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः। किंच त्रीणि जगन्ति जिष्णुदिव सैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥' प्रौढिर्यथा-'साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मोक्तिकैः कान्ति कर्षति काञ्च- नारकुसुमं माञ्जिष्ठधौतात्पटात्। हूणीनां कुरुते मधूकमुकुलं लावण्यलुम्पाकतां लाटीना- भिनिभं चकास्ति च पतद्वन्ताग्रतः केसरम् ॥' 'अतिकरान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्तते । लिङ्गानुवृत्ति तामाहुः सा ज्ञेया काव्यलोकतः ॥' वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः । यथा-'सं वस्ते कलविङ्ककण्टमलिनं कादम्बिनीकम्बलं चर्ची पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्। गन्धं चुम्बति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥' किं च-'ग्रैष्मिकसमयविकाशी कथितो धूलीकदम्ब इति लोके। जलधरसमयप्राप्तौ स एव धाराकदम्बः स्यात् ॥' यथा- 'धूलीकदम्बपरिधूसरदिखलुखस्य रक्तच्छटासुरशरासनमण्डनस्य। दीप्तायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समदवारिधरागमस्य ।।' 'जलसमयजायमानां जाति यां कर्दमेन जनयन्ति। सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ॥' यथा-'स्थृ- लावश्यायबिन्दुद्युतिदलितबृहृत्कोरकग्रन्थिभाजो जात्यं जालं लतानां जरठपरिमलप्रा- वितानां जजृम्भे। नानाहंसोपधानं सपदि जलनिधेश्रोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्गमम्भः ॥' स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति। यथा-'असूच्यत शरत्कालः केतकीधूलिधूसरैः । पद्माताम्रैर्नवायातचरणैरिव वासरैः॥' 'शरदभवानामनु्ृत्तिरत्र बाणासनानां सकुरण्टकानाम्। हेमन्तवक्रे यदि दृश्यतेऽपि न १. 'ग्रीष्मे' स्यात्. २. अत्र श्रोके कीद्टक् पाठ इति न ज्ञायते. ३. 'वाश्छायामात्र' बा०का० ४. 'चिरेप्सितं' वा० का०

Page 165

३ अध्याय:] काव्यानुशासनम्। १३५

यदुक्तम्- 'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिपत्परा ।' इति।

दृश्यते बन्धविधि: कवीनाम् ।।' हेमन्तशिशिरयोरैक्ये सर्वलिद्गानुवृत्तिरेव। उक्तं च- द्वादशमासः संवत्सरः पञ्चर्तवो हेमन्तशिशिरयोः समासेन । 'मरुवकदमनकपुन्नागपु ष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयश्चित्रश्रीः किंचित्कुन्दानुवृत्त्या च ॥' यथा-'गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरानुन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति। सदो गन्धानुसारस्तुतसुरभिशिराः शीकरः साहकारः सर्पन्नम्भःशरावे रचयति च रसो रेचकीचक्रकाणि॥' यथा-'कुन्दे मन्दस्तमाले मुकुलिनि विकल: कातरः किंकिराते रक्ताशोके सशोकश्चिरमपि विकचे चम्पके कुश्चिताक्षः । पान्थः खेदालसो- Sपि श्रवणकटुरचच्चक्रमभ्येति धुन्वन्सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन ।।' एवमन्याप्यनुवृत्तिः। 'विचकलिकेसरपाटलि चम्पकपुष्पा वसन्तयो (?) ग्रीष्मे। तत्र च तुहिनर्तुभवं मरुवकमपि केचिदिच्छन्ति ॥' यथा-'अभिनवकुशसूचिस्पर्धिकर्णे शिरीषं मरुबकपरिवारं पाटलादामकण्ठे। स तु सरसजलार्द्रोन्मीलितः सुन्दरीणां दिन- परिणतिजन्मा कोऽपि वेषश्चकास्ति ।I' 'एवमन्यदपि कविप्रसिद्धयाभ्यूह्यम् । 'शो- भान्धौ गन्धरसौ फलार्चनाभ्यां च पुष्पमुपयोगि। षोढा दशितमेतत्सप्तममनुप ... योगि तथा ।' 'यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम्। तदग्रिमे प्रौढिधरं च कार्ये तदग्रिमे पाकपरिष्कृतं च ॥।''दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा। तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥' 'अन्तर्व्याजं बहिर्व्याजं बाह्यान्तर्व्याजमेव च ।''सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम्॥''लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि। आम्रादयुभयव्याजं सर्वव्याजं च ककुभादि ॥''पनसादि बहु व्याजं नीलकपिच्छादि भवति निर्व्याजम्। सकलफलानां पोढा ज्ञातव्यः कविभिरिति भेद: ॥' तदेवं देशकालौ व्याख्यातौ ॥ वयः शैशवादिकम्॥ जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा। आदिग्रहणाद्विद्यावित्तकुलपात्रादयो लभ्यन्ते। वेषः कृत्रिमं रूपम्। व्यवहारश्षेष्टा। आदिग्रहणादाकारवचनादयो ज्ञेयाः । वेषव्यवहारादीति देशादिभि: प्रत्येकमभिसंवध्यते। तेन देशे वेषस्य व्यवहारस्य आकारस्य वचनस्य वा औचित्येन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम्। यथा कान्यकुब्जा- द्यार्यदेशे उद्धतो वेषः । दारुणो व्यवहारः । भयंकर आकारः । परुषं वचनमतुचितम्। १. 'औचित्योपनिबन्ध' का० प्र०.

१. 'विचकिल' स्यातू.

Page 166

१३६ काव्यमाला।

'भत्तया शब्दार्थयोर्दोपाः' इत्युक्तम्। तत्र च शब्दस्य पदवाक्यरू- पत्वात्प्रथमं द्वौ पददोषावाह- निरर्थकासाधुत्वे पदस्य। दोष इति वर्तते। कृतसमासयोर्भावप्रत्ययः। तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ। एवमुत्तरत्रापि योज्यम्। तत्र चादीनां पूरणार्थत्वे नि- रर्थकत्वं यथा- 'मुह्यन्मुहुर्मुहुरहं चपलाकुलाक्षः कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि। स्वामिन्भवच्चरणयोः शरणं प्रपन्नः संसारदारुणदरेण हि कांदिशीकः ॥' पदैकदेशः पदमेव, तन्निरर्थकत्वं यथा- 'आदावञ्जनपुञ्जलिप्वपुषां श्वासानलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥।' अत्र 'दृशाम्' इति बहुवचनमनर्थकम्। कुरङ्गेक्षणाया एकस्या एवो- पादानात्॥ न च- 'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः

हृदयनिहितं भावाकूतं वमद्धिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ।' इत्यादिवद्यापारभेदाद्वहुत्वम्। व्यापाराणामनुपात्तत्वात्। न च व्या- पारेऽत्र दृक्शब्दो वर्तते॥ यमकादौ निरर्थकत्वं न दोष इति केचित्। यथा- 'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम्।'

Page 167

३ अध्याय:] काव्यानुशासनम् । १३७

'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।' शब्दशास्त्रविरोधोऽसाधुत्वम्। यथा- 'उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य वाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजन्ने विषमविलोचनस्य वक्षः ॥' अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आ- जन्ने'पदमसाधु॥ 'न दोषोऽनुकरणे' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह-' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाह-

दोषा इति वर्तते। तत्र संधि: सवराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषाद- श्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसंधित्वम् । विश्लेषाद्यथा- 'कमले इव लोचने इमे अनुबन्नाति विलासपद्धतिः ।' 'लोलालकानुविद्धानि आननानि चकासति।' संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत्। 'संहितैकपदवत् पादे अर्धान्तवर्जम्' इति हि काव्यसमयः। अश्रीलत्वाद्यथा- 'विरेचकमिदं नृत्यमाचार्याभासयोजितम्।' अत्र 'विरेचकम्' इति जुगुप्सा। 'याभ' इति त्रीडा। म्लेच्छेधु त्वेतदेवोचितम्। तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा - 'परिभ्रमन्मूर्धजपट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः। मुखैश्चलत्कुण्डलरश्मिरज्जि- तैर्नवातपामृष्टसरोजचारुभिः ॥' गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति। एवं कालादावप्युन्नेयम् ॥ विरेचकमिति। विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र। १. 'नित्यं संहि तकपदवत्पादेप्वधा-' इति वामनकाव्यालंकारसूत्रम्. १८

Page 168

१३८ काव्यमाला।

तथा- 'चकाशे पनसप्रायैः पुरी षण्ढमहाद्गुमैः।' अत्र 'शेप' इति 'पुरीषम्' इति 'महाद्रुम' इति च त्रीडाजुगुप्साम-

कष्टत्वाद्यथा- 'मञ्जर्युद्रमगर्भास्ते गुर्वाभोगा इमा बभुः ।' वक्रादयौचित्येति वक्ष्यमाणत्वाह्ुर्वचकादौ न दोषः । यदाहु :- 'शुक स्त्रीबाल मूर्खाणां मुखसंस्कारसिद्धये। प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ॥' अवश्यवाच्यस्यानभिधाने न्यूनपदत्वम् ।

असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च॥ अवश्य- वाच्यस्येति। अवश्यंभावेनाभिघेयस्य अविनाभावेनौचित्येन वा प्रतीयमानस्या- भिधानेपि न दोषः । यथा-'कियन्मान्नं जलं विप्र जानुदघनं नराधिप। तथा पीयमवस्था ते न सर्वत्र भवादशाः ॥' 'यत्र ह्यन्यत्कियापदं नास्ति तत्रास्तिर्भवन्ती- परः प्रथमपुरुषे प्रयुज्यते' इति न्यायादस्तिर्लभ्यते। यथा च-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वज्रमिन्द्रकरविप्रस्तं वा खस्ति तेऽस्तु लतया सह वृक्ष II' अत्रौचित्याद्वाक्षी दित्यादिक्रिया गम्यते। तथा-'मा धाक्षीन्मा भाह्गीन्मा छैत्सीजातुचिद्त भवन्तम् । सुकृतैरध्वन्यानां मार्गतरो खस्ति तेऽस्तु सहलतया ॥' अन्नानल इत्यादीनि कर्तृपदान्यौचित्यात्प्रतीयन्ते ।। एवं चानभिहितवाच्यत्वं पृथ- ग्दोषत्वेन वाच्यम्। धर्मिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्प- र्यायः सर्वनाम वावश्यं वाच्यमपि नोक्तं यत्र, तत्रापि न्यूनत्वमिति केचिद्दन्ति । यथा-'दूयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इति। अन्न हि कपालिशब्दो धर्मधर्मोभयवृत्तिः संज्ञिमात्रं वा प्रत्याययेत्। कपालसंबन्धकृतं वा गर्हितत्वमुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिग्र- हणमपरमपि कर्तव्यम्, येनास्य गर्हितत्वं प्रतीयेत। द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्रा वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विव- क्षितार्थसिद्धावार्थो हेतुभावोऽवकल्प्येत। तत्र तेनैवोपादाने यथा-'सततमनङ्गोऽनङ्गो

१. 'नभिधाने' स्यात्. २. 'षत्वेन न वाच्यम्' स्यात्.

Page 169

३ अध्याय:] काव्यानुशासनम्। १३९

यथा-'तथाभूतां द्ृष्ट्रा' इति। अत्रास्माभिरिति खिन्नमित्यस्मात्पूर्व- मित्थमिति च नोक्तमिति न्यूनत्वम्। तथा- 'त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराड्मुखचेतसः । किमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥' अत्रापराधस्य लवमपीत्यर्थो वाच्यः । तथा- 'नवजलधरः संनद्धोऽयं न दप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्।

न वेत्ति परदेहदाहदुःखमहो। यदयमेदहं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः॥' इति। पर्यायेण यथा-'कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये।' अत्र हि हरस्येति पर्यायशव्देनोपात्तस्यार्थस्य पिनाकपाणित्वं धैर्यच्युतेरशक्यकरणी- यतायामार्थो हेतुः । अन्यथा हरग्रहणस्य पौनरुक्त्यं स्यादिति। यथा च-'एकः श- क्ामहिवररिपोरत्यजद्वैनतेयात्' इति। सर्वनाम्रा यथा-दशा दग्धं मनसिजं जीव- यन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अन्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरपि अभि- न्नहेतुकत्वोपपत्तावार्थो हेतुः। इतरथा वामलोचनात्वस्य पुनरुपादानप्रसङ्ग: । अत एव तृतीयः पक्षो न संभवत्येव। एकस्यैव शब्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसाम- थ्यासंभवात्। न चासावनिवन्धना शक्या कल्पयितुम्। न वैषामेकमप्यत्रोक्तमिति न्यूनपदत्वमिति। वयं तु ब्रूम :- न हि शव्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नेवार्थे उपक्षीणत्वात्तस्याः शव्दान्तरमर्थान्तरार्थ प्रयुज्येत तदावृत्तिनिबन्धनं वा किंचित्परि- कल्प्येत। किं तु वृत्त्यन्तरमपि सहृदयैकसंवेदं व्यक्तिखवभावमस्त्येव । एवं च वृत्य- न्तरोपकल्पनायामेकस्मादेव शव्दाद्वाच्येन सहैव व्यङ्ग्यस्यापि प्रतीतिरनिवारितप्रसरैव। तथा हि-परमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्ततं बीभत्सरसालम्बनविभावतां सूचयन् जुगुप्सास्पदत्वं ध्वनति। संप्रति द्वयं चेत्यतीव रमणीयम्। यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता। संप्रति पुन- स्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहृस्यते। प्रार्थनाशब्दोऽप्य- तितरां रमणीयः । यस्मात्काकतालीययोगेन तत्समागमः कदाचिन्न वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकौलीनकलइकारिणी। सा च त्वं चेति द्वयोरप्यनुभूयमानपरस्प- रस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम्। कलावतः कान्तिमतीति च मतुप्प्र- १. 'मदयं' स्यात्.

Page 170

१४० काव्यमाला।

अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्त्रिग्धा विद्युत्प्रिया न ममोर्वशी ॥' अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव विद्यु- तोऽपीदमा परामर्शो वाच्यः । यथा वा उपमायाम्- 'संह्यवक्कायजुया वियसिअं कमलामुणालसंछन्ना। वावीबहुत्वरोयण विलित्तथणया सुहावेई ।' अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्वोः केनापि पदेनानुपादानान्न्यून- पदत्वम्। क्कचिद्गुणः । यथा- 'गाढालिङ्ग नवामनीकृतकुच प्रोद्भतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छीमन्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्।' क्वचिन्न गुणो न दोषः । यथा-'तिष्ठेत्कोपवशात्-' इति। अत्र पिहितेत्यतोऽनन्तरं 'नैतत् यतः' इति एतैर्न्यूनः पदैर्विशेषवुद्धेर- करणान्न गुणः । 'उत्तरा- प्रतिपत्तिः पूर्वी प्रतिपत्ति बाधते' इति न दोषः । अधिकपदत्वं यथा- 'स्फटिकाकृतिनिर्मल: प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुद्धसमन्वितोक्तियुक्ति: प्रतिमल्लास्तमयोदयः स कोऽपि ॥' अत्र 'आकृति'शब्दोऽधिकः । तथा- 'ताडीजद्दचो निजन्ने कृततदुपकृतिर्यत्कृते गौतमेन।' अत्र 'तत्' शब्दः । १. 'वि' का० प्र०. २. 'नाडीजङ्को' स्यातू.

Page 171

३ अध्याय:] काव्यानुशासनम् । १४१

यथा 'दलत्कंदलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजि: सहशब्दो युजिश्चाधिकाः । तथा-'बिसकिसलयच्छेदपाथेयवन्तः' इति। 'त्वगुत्तरा सद्भवतीमधीतिनीम्' इति च मत्त्वर्थीयस्याधिक्यम्। बहु- व्रीहिसमाश्रयेणैव तदर्थावगतिसिद्धेः। यदाहुः-'कर्मधारयमत्त्वर्थीयाभ्यां

तथा-'वासो जाम्बवपल्लवानि जघने गुञ्जास्त्रजोभूषणम्' इति, 'तदी- यमातङ्गघटाविघट्टितैः' इति, 'येनाकुम्भनिमसवन्यकरिणां यूथैः पयः पीयते' इत्यत्र तद्धितप्रत्ययस्याधिक्यम्। पष्ठीसमासाश्रयेणैव तदर्थावगतेः । यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिः न तत्र समासात्प्रतीतिरिति न तस्या- धिक्यम् । यथा- 'अथ भूतानिवार्तन्नशरेभ्यस्तत्र तत्रसुः ।' इति। अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति। तथा- 'किं पुनरीदशे दुर्जाते जातामर्पनिर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य।' इत्यत्र क्रियाकरणयोः । यथा वा उपमायाम्- 'अहिणवमणहरविरइयवलयविहसा विहाइ नवबहुया। कुन्द्लय चसमुप्फुल्लगुच्छ परिच्छि त्तभमरगणा ।।' अत्रोपमेयस्य नीलरलादेरनिर्देशे ्रमरगणपदमतिरिच्यते इत्यधिक- पढत्वम्।

Page 172

१४२ काव्यमाला।

तथा- 'अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्किनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥' अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्याधिकप- दत्वम्। यथा वा रूपके-'शोकानलधूमसंभारसंभूताम्भोदभरितमिव वर्षति नयनवारिधाराविसरं शरीरम्।' अत्र शोकस्य केनचित्साधर्म्येणानलत्वेन रूपणमस्तु धूमस्य पुनर्न किंचिद्रूप्यमस्तीति अधिकपदत्वम्। तथा-'निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिवि- ष्टपस्य ।' अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिवशब्दस्याधिक्यम्। यथा वा समासोक्तौ- 'स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥' अत्र तिग्मरुचे: ककुभां च यथासदृशविशेषणवशेन व्यक्तिविशेषप- रिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रति नायिका- त्वेन भविष्यतीति दयितयेत्यधिकम्। यथा वान्योक्तौ- 'आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मैध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम्। खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतन प्रभुमिवानामृष्टतत्त्वान्तरम् ।।' अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्य- धिकम्। १. 'रगस्य' स्यात्. २. 'नायकतया नायिकात्वेन च व्यक्तिः' का० प्र०. ३. 'मध्येवारिधि वावस' का प्र०. ४. 'रुचम्' का प्र०. ५. 'सं' का० प्र०.

Page 173

३ अध्याय: ] काव्यानुशासनम् । १४३

तथा- 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्थ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥'

क्वचिद्रुणः । यथा- 'यद्वञ्चनाहितमतिर्बहु चाटुगर्भै कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किं तु कर्तु वृथा प्रणयमस्य न पारयन्ति ॥' अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम्। उक्तपदत्वं द्विःप्रयोगः । 'नैक पदं द्विः प्रयोज्यं प्रायेण' इति हि समयः । यथा- 'अधिकरतलतल्पं कल्पितश्वापलीला- परिमलननिमीलत्पाण्डिमा गण्डपाली। सुतनु कथय कस्य व्यञ्जयन्त्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ।।' अत्र लीलेति। कचिद्रुणः । यथा लाटानुप्रासे- 'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥' क्वचिच्छ्दशक्तिमूले ध्वनौ।

त्ययेन द्वयोरपि प्रशस्यता प्रतीयते॥ क्वचिद्रुण इति। लाटानुप्रासव्यङ्यविहितानुवा-

१. 'स्वाप' का० प्र०.

Page 174

१४४ काव्यमाला।

यथा- 'ताला जायन्ति गुणा जाला ते सहिअएहिं धिप्पन्ति। रविकिरणाणुगहियाइं हुन्ति कमलाइं कमलाईं ॥' विहितस्यानुवाद्यत्वे यथा- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अस्थानस्थपदत्वं यथा- 'प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम्। तथा- 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।' अत्र त्वंशब्दादनन्तरश्चकारो युक्तः । तथा- 'शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री- र्वक्रे पार्श्चे तथैषा प्रतिवसति महाकुट्टिनी खङ्गयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ।।' अत्रेत्थं प्रोच्येवेति न्याय्यम्।

द्यत्वेषु। तिमिरान्धाः घूकवर्जाः पक्षिणः ॥तालेति तदा। जालेति यदा। 'डेडाहे- डालाइया काले' इति यत्तद्रयां डेर्डीलादेशः ॥ त्वंशब्दादिति। समुच्चयद्योतको हि चकारः। समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनःशब्दोऽपि

९. 'तदा जायन्ते गुणाः यदा ते सहृदयैर्गृत्यन्ते। रविकिरणानुगहीतानि भवन्ति कमलानि कमलानि ॥' (इति च्छाया.) १-२. 'डेर्डा' स्यातू.

Page 175

३ अध्याय:] काव्यानुशासनम् । १४१

तथा- 'लग्नं रागावृताङ्ग्या सततमिह ययैवासियष्टारिकण्ठे मातङ्गानामपीहोपरि परपुरुपैर्या च दृष्टा पतन्ती। तत्सक्तोडयं न किंचिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥' अत्र 'इति श्रीनियोगाद्' इति वाच्यम्। तथा- 'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम्।' इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोडस्थानस्थ- पदत्वं दोषः । तथा- 'कष्टा वेधव्यथा कष्टो नित्यश्च वहनक्कमः । श्रवणानामलंकार: कपोलस्य तु कुण्डलम् ।'

व्यतिरिच्यमानार्थानन्तयेणैव प्रयोगमर्हति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थपदत्वं प्रयोजयति। यथा-'उदता जयिनि कामिनी मुखे तेन साहसमनुष्ठितं पुनः ।' अत्र हि पुनःशब्दस्तेनेत्यनन्तरं प्रयोज्यः ॥ श्रीनियोगादितीति। तथा चोक्तम्-'उ- क्तिस्वरूपावच्छेदफलो यत्रेतिरिष्यते। न तत्र तस्मात्प्राकिंचिदुक्तेरन्यत्पदं वदेत्। उपाधिभावात्सां शक्ति स पूर्वत्रादधाति हि। न च स्वरूपावच्छेदः पदस्यान्यस्य संमतः ॥ इतिनैवेतरेपामप्यव्ययानां गतिः समा। ज्ञेयेत्थमेवमादीनां तज्ातीयार्थयो- गिनाम्॥ यतस्ते चादय इच श्रूयन्ते यदनन्तरम्। तदर्थमेवावच्छियुरासमअ्जसम- न्यथा ।' इति। एवं चाकमत्वं पृथग्दोषत्वेन न वाच्यम्। अस्थानस्थपद एवान्तर्भा- वात् ॥ तदेति। तच्छव्दस्य हि प्रक्रान्तोऽर्यो विपय इष्टो न प्रकरंस्यमान: स्मृतिप- रामर्शरूपत्वात्। स्मृतेश्रानुभूत एवार्थो विषयो नानुभविष्यमाणः । अत्र च प्रतीति- मात्रमनुभावोऽभिमतो नेन्द्रियविषयभावः । न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत। न वात्र प्रमादज: पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तम्। तत्रापि प्रतीतगम- नहेतोः शाब्दस्य तदीयतार्थाभिधानव्यवधाने सत्यन्य स्यास्थानस्थपदत्वदोषस्याविर्भा- वापत्तेः। तेन पादयोर्विपर्ययः शब्दस्य च, हेतोर्गभ्गविशेषणमुखेनार्थत्वमित्युभयवि-

१. 'मुदृढ्' का० प्र०. १९

Page 176

१४६ काव्यमाला।

अत्र श्रवणानामिति पदं पूर्वार्धे निवेशयितुमुचितम्। 'नार्धे किंचिद- समाप्तं वाक्यम्' इति हि कविसमयः । यथा वोत्प्रेक्षायाम्- 'पेत्तनिअम्बप्फंसा व्हाणुत्तिन्नाए सामलङ्गीए। चिंहुरा रुयन्ति जलबिन्दुएहिं बन्धस्स व भएण ॥' अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितम्। तत्र प्राधान्याद्रोदनाभि- धायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम्। प्राधान्ये द्युत्प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति॥ यदाह- 'एकत्रोत्प्रेक्षितत्वेन यत्रार्था वहवो मताः । तत्रेवादि: प्रयोक्तव्यः प्रधानादेव नान्यथा ॥' इति। पतत्पकर्षत्वं यथा- 'कः कः कुत्र न घुर्धुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः । के के कानि वनान्यरण्यमहिपा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो विद्येते' अत्र क्रमात्कममनुप्रासो घनयितव्यः । पतन्निबन्धः क्वचिद्गुणः ।

पर्ययोऽत्र श्रेयान् ॥ निवेशयितुमुचितमिति। तेनार्थान्तरैकवाचकत्वं पृथग्दोष- त्वेन न वाच्यमित्यर्थः ॥ तदितरदिति। तस्मात्प्रधानादितरदप्रधानम्। यथा- 'ज्योतीरसाश्मभवनाजिर दुग्धसिन्धुरत्युन्मिषत्प्रचुरतुङ्गमरीचिवीचिः। वातायनस्थित- वधूवदनेन्दुबिम्बसंदर्शनादनिशमुह्लसतीव यस्याम् ।I' अत्र प्रधाने उल्लसने उत्प्रेक्षि- १. 'माप्तप्रायं' काव्यालंकारसूत्रे. २. 'प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्गयाः । चिकुरा रुदन्ति जलबिन्दुभिर्न्धस्येव भयेन ॥।' [इति संस्कृतम्।] ३. 'जलबिन्दुएहिं चिहुरा रुअन्ति' गाथासप्तशत्याम् ६/५५. ४. 'प्रधाने' स्मात्. ५. 'वर्तते' का० प्र०.

Page 177

३ अध्याय:] काव्यानुशासनम्। २४७

यथा- 'प्रागप्राप्तनिशुम्भशांभवधनुर्द्वेधाविधाविर्भव- त्क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम्। उज्जवाल: परशुर्भवत्वशिथिलत्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ।।' अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति। समाप्तपुनरात्तत्वं यथा- 'ज्योत्सां लिम्पति चन्दनेन स पुमान्सिश्चत्यसौ मालती- मालां गण्डजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणे- स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥' अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति। क्वचिन्न गुणो न दोषः। यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणमपि तु वाक्यार्थान्तरमेव क्रियते। यथा-'प्रागप्राप्त-' इति। रोलोंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम्। यथा- 'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभान्विताः ॥' हतं लक्षणच्युतं यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यमप्राप्तगुरुभावा- न्तलघु रसाननुगुणं च वृत्तं यत्र तद्धावो हतवृत्तत्वम् । यथा- 'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्।' अत्र वैतालीययुग्मपादे लध्वक्षराणां पण्णां नैरन्तर्य निषिद्धमिति ल- क्षण च्युतम्। 'एतासां राजति सुमनसां दाम कण्ठावलम्त्रि।' 'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ।'

Page 178

१४८ काव्यमाला।

इत्यनयोश्चतुर्थे पष्ठे च यतिर्न कृतेति यतिभ्रष्टम्। एतदपवादस्तु स्वच्छन्दोऽनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते। 'अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्खादु स्यात्प्रियादशनच्छदात् ।।' अत्र 'यदिहान्यत्खादु' इत्यश्रव्यम्। 'अन्यास्ता गुणरत्नरोहणभुवेः कन्या मृदन्यैव सा संभारा: खैलु तेऽन्य एव विधिना यैरेप सृष्टो युवा। श्रीमत्कान्तियुँषां द्विपां करतलात्स्रीणां नितम्वस्थला- दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च।।' अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते। 'हा नृप हा बुध हा कविबन्धो विप्रसहस्त्रसमाश्रय देव। मुग्ध विद्ग्धसभान्तररत्न क्वासि गतः क् वयं च तैथैते ॥' हास्यरसव्यञ्जकमेतद्वृत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वय्। यथा- 'कायं खाइइ च्छुहिओ कूरं धत्तेइ निज्झरं रुद्धो। सुणयं गिन्हइ कण्ठे हक्केइ अ निअत्तयं थेरो।।' अत्र 'काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वानं भषयति' इति वक्तुमुचितम्। एकवाक्यतायां क्विष्टमिति क्विष्टाद्वेदः।

१. चतुर्थे एकारोत्तरं षष्ठे गण्डपदे 'गं' इत्युत्तरं यतिर्भवति. २. 'वो धन्या' का० प्र०. ३. 'किल' प्रकाशे. ४. 'जुषा' प्रकाशे. ५. 'वैते' का० प्र०. ६. 'काकं खादति क्षिपति कूरं भषयति निष्ठुरं रुष्टः। शुनकं गृह्णाति कण्ठे आकारयति च नप्तारं स्थविरः ॥' ७. 'वुल्लेइ निद्ठुरं रुटो' वाग्भटकाव्यानुशासने. ८. 'अ निअत्तियं थेरो' वा० का०,

Page 179

३ अध्याय:] काव्यानुशासनम्। १४९

क्वचिदुक्तिप्रत्युक्तौ गुणः । यथा- 'बाले नाथ विमुञ्च मानिनि रुपं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि। तति्कं रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते, न त्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुदते ।।' वाक्यमध्ये वाक्यान्तरप्रवेशो गर्भितत्वम् । यथा- 'परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कदाचन ।।' अत्र तृतीयः पादो वाक्यान्तरं मध्ये प्रविष्टम्। क्वचिद्रुणः । यथा- 'दिआ्मातङ्गघटाविभक्त चतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत। विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ।।' अत्र वीराद्भुतरसवशाद् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये प्रविष्टं गुणाय। प्रस्तुतभङ्गो भग्नपक्रमत्वम् । यथा- 'एवमुक्तो मत्रिमुख्यैः पार्थिवः प्रत्यभाषत।' अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भमनप्रक्रमत्वम्। (यथा) 'प्रत्यवोचत' इति युक्तम् ।

तेSप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव ॥ प्रस्तुतभङ्ग इति। स हि यथा। प्रक्रममेकर सप्रस्तां प्रतिपत्तृप्रतीति रुन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः ॥ प्रत्यवोचतेति गुक्तमिति। एवंविधस्य प्रक्रमभेदाख्यस्य शब्दौचित्यस्य विध्य-

Page 180

१५० काव्यमाला।

यथा वा- 'ते हिमालयमामन्त्य पुनः प्रेष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥' अत्र 'अनेन विस्ृष्टाः' इति वाच्यम्। 'धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्योः । वीर्ये च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥' अत्र स्यादेः प्रत्ययस्य। 'तीत्रेण विद्वेषिभुवागसा च' इति तु युक्तम्। 'बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्क: सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम्। 'सस्तुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसंधृतविकासिविसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्व- दोषप्रवादममृजन्वननिम्नगानाम् ।।' अत्र त्यादेः। 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । 'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥' नुवादभावप्रकारत्वोपगमात्। यथा 'ताला जायन्ति' इति। यथा वा-'ऐमे जाणातिस्सा देहकवोलोवमाइस्ससिविव्वम्। परमच्छविआरेउण चन्दो चन्दोच्चिअवेराउ ।I' अत्र ह्युत्कर्षापकर्षविवक्षया परिकल्पितभेदोऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणैकेनैवाभिधा- नेन विध्यनुवादभावो भणित इति प्रकरमाभेदप्रकार एवायमिति मन्तव्यम् । केचन पर्यायप्रक्रमभेदनितृत्तये चन्दणमिति पाठः परिणमयितव्यः। न चैवमुक्तपदत्वदोषप्रसङ्गः। यथान्ये मन्यन्ते-'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति। उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो हि विषय उक्तपदत्वस्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्रमस्येति भिन्नविषयत्वात्॥ सस्ुरिति। अत्र स्तादौ यः कालविशेषः प्रक्रान्तः, स तेजनादावुपेक्षित इति कालस्याप्यत्र क्रमभेद इति केचिदाहुः। वयं तु ब्रूमः-कालविशेषस्य विवक्षामात्र- १. 'प्रेक्ष्य' का० प्र०. १. एतस्य संस्कृतं न विज्ञायते. २. 'स्नानादौ' स्यात्. ३. 'नेजना' स्यात.

Page 181

३ अध्याय:] काव्यानुशासनम् । ११

अत्र कृतः । 'सुखमीहितुं च' इति तु युक्तम् । 'उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूपा गगनपरिमाणं कलयति। इति प्रायो भावा: स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥' अत्र पर्यायस्य। 'मिता भूः पत्यायां स च निधिरपां योजनशतम्' इति तु युक्तम्। 'विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः । लैघुता नियता निरायतेरगरीयान्न पदं नृपश्रियः ॥' अत्रोपसर्गस्य पर्यायस्य च। 'तदभिभवः कुरुते निरायतिम्, लघुतां भजते निरायतिः, लघुताभाङ्गपदं नृपश्रियः' इति तु युक्तम् । 'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।।'

भावितयानवच्छिन्नत्वाद्दोपोऽयमनुद्धावनीय एव। यदाहुः-'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविवक्षायां लिड् भवत्येव'। 'अजयजतो(?) हूणाम्' इति। सतोऽपि वाविवक्षा भवति। यथा-'अनुदरा कन्या' इति ॥ सुख- मीहितं चेति तु युक्तमिति। एवं च तुल्यकक्ष्यत्वेन विकल्पार्थवृत्तेर्वाशव्दस्य न विषयोऽयमित्यपि परिहृतं भवति। यथा च-'रुदता कुत एव सा पुनर्भवता नानु- मृतारेवाप्यते। परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥' अत्र हि 'कुत एव तु सा नुरोदनात्' इति युक्तः पाठः। इह तु न दोष :- 'पृथ्वि स्थिरीभव भुजङ्गम धारयैनां त्वं कूमराज तदिदं द्वितयं दधीथाः । दिकुञ्जराः कुरुत तत्रितये दिधीर्षो देवः करोति हरकार्मुकमाततज्यम् ।' अत्र हि पृथिव्यादिविषयः प्रैषलक्ष- णोऽर्थः कविना वक्तुं प्रक्ान्तः तस्य प्रत्ययभेदेपि निर्व्यूढत्वात्प्रैषार्थीनां पादानामुद्दे- श्यप्रतिनिर्देश्यभावेनोपादानं न कृतमिति नैतादृशः प्रत्ययक्रमभेददोपस्य विषयोऽव- गन्तव्यः । 'मिताभू: पत्यापाम्-' इत्यपि। एवं च छिदिक्रियाकर्तुरुदन्वतो वक्ष्यमा-

१. 'नियता लघुता' किराते, का० प्रकाशे च. २. 'वान्न' का० प्र०.

१. 'वेति' का० प्रकाशे. २. 'Sप्यवाप्यते' स्यात्. ३. 'स्थिरा भव' इति तु म्मर्यते.

Page 182

१५२ काव्यमाला।

अत्रैकवचनेन भगवर्तीं संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देशः स वचनस्य। 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम्। किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ।।' अत्र कारकस्य। 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम्। यथा च- 'चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥' अत्र शृङ्कलाक्रमेण कर्तुः कर्मभावः। कर्त्रन्तरं च यथोपक्रान्तं तथा न निर्व्यूढम्। 'तमपि वल्लभसङ्गः, इति युक्तम्। 'तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- द्यमिदमयथार्थ दृश्यते मद्विधेषु। विसृजति हिमगर्भैर्वह्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ।।' अत्र क्रमस्य। यथा वा- 'अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिधावति। अभिनवधनुविद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥'

णनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहृतो भवति। यथा च- 'वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्। प्रकृत्या ह्यमणिः श्रेयान्नालंकारच्युतोपलः ॥' एवम्-'खमिव जलंजलमिव खंहंस इव शशी शशीव खलु हंसः। कुमुदाकारास्तारास्ता- राकाराणि कुमुदानि ॥' इत्यादौ द्रष्टव्यम्॥ अकलितेति। अत्र 'पादोपसंग्रहणाय' इति पूर्व वाच्यम्। एवमन्येऽपि भेदा अभ्यूह्याः । ननु कर्तृप्रक्रमभेदोऽपीह कस्मान्नो- पदर्शितः । असंभवादिति ब्रूमः । यत्त क्वचित्कविभिः प्रयुज्यमानो दृश्यते स कर्तृ-

Page 183

३ अध्याय:] काव्यानुशासनम्। १५३

यथा वा व्यतिरेकालंकारे- 'तरङ्गय दृशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम्। क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका- मुदञ्चय मनाङयुखं भवतु च द्विचन्द्रं नभः ।।' अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानामतिशयो वक्तुं प्रक्रान्तः 'भवतु च द्विचन्द्रं नभः' इति सादृश्यमात्राभिधानेन निर्व्यूढ इति भग्नप्रक्रमत्वम्। 'भवतु तद्विचन्द्रं नभः' इति तु युक्तम् । तथा- 'तद्वक्रं यदि मुद्रिता शशिकथा, तच्चेत्स्मितं का सुधा, सा चेत्कान्तिरतत्रमेव कनकं, ताश्चेद्विरो घिड्धु। सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेघसः ॥' अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं तस्यार्थान्तरन्यासेन वस्तु सर्गपौनरुत्तयस्य सादृश्यपर्यवसाना्मनप्रक्रमत्वम् ।

व्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं त्रक्रमभेदभ्रमो भवताम् (?)। तत्र युष्मदर्थस्य यथा-'यथाहं सप्तमो वैकुण्ठावतारः' इति। अत्र हि यथा त्मिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्यत्रारोप्यैवमुक्तम्। दाशरथि रामं प्रति हि कस्यचित्समक्षमियमुक्तिः। अस्मदर्थस्य यथा 'नाभिवादप्रसादयो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भङ्गापराधः' इति। अन्रापि हि नाभिवादप्रसादयोऽस्मीति वक्तव्ये पूर्ववच्चारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः। यथा वा-'अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिगोप्तुमईसि।' इति। अन्रापि 'अहं प्रषुमनाः' इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम्। द्विविधो ह्यन्यशब्दार्थः । तत्र चेतनेSन्यत्रारोपो निदर्शित एव। अचेतने तु यथा 'चापाचार्य-' इति। अत्र हि 'त्वं रेणुकाकण्ठवाधां कृतवान्' इति। 'त्वया वद्धस्पर्धोऽहं लजे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारोप्यैवमुक्तम्॥ यथा च- 'हे लङ्केश्रवर दीयतां जनकजा रामः स्यं याचते कोऽयं ते मतिविभ्रमः स्मर नयं

१. 'भो' प्रमिद्धः पाठः. २०

Page 184

१५४ काव्यमाला।

वक्रादयौचित्ये न दोषः । द्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटं धैर्यम्। अभिनदुदितं शिशुना जननीनिर्भर्त्सनवृद्धमन्युना ।।' अत्र शिशुना त्रजतिरेव प्रयुक्तो न वजतिस्तत्रैव परिचयगतार्थास्फुट- त्वधैर्यभेदित्वसंभवात्। केवलं शक्तिवैकल्याद्रेफोडनेन नोच्चारितः । पदार्थानां परस्परमसंबन्धोऽनन्वितत्वम्। यथा- 'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ॥' अत्र यद्याकारः संनिवेशलक्षणो विवक्षितस्तदा परस्परपरिहारस्थिति- मतोरर्थयोः सिद्ध एवेत्यनुपादेयः । अक्षरविशेषलक्षणस्तु शब्दनियतत्वादर्थयोर्न संभवत्येवेत्यनन्वितत्वम्। यथा वा- 'निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्धोषैः क्षोभयामास सिंहान्। नूनं तेषामभ्यसूयापरोडसौ वीर्योदग्रे राजशब्दे मृगाणाम् ।' अत्र सिंहानां न तावद्राजशब्द: संभवति, तेषां तद्वाच्यत्वाभावात्तत्सं- बन्धाभावाच्च। तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत्, न । तस्य प्रक्रा- न्तत्वाभावात्। मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्र। किं च मृगेषु राजत्वं भवति सिंहानाम्, न तु शब्द इति वीर्योदग्रत्वं तद्विशेषणमनुपप- न्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः। तेन सिंहानां मृगाणां वीर्योदग्रत्वस्य च न राजशब्देनान्वयः संगच्छते। तेन 'राजभावे' इति 'मृगेषु' इति वा पाठः श्रेयान्। यथा वा- 'येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि- र्लीलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः ।

नाद्यापि किंचिद्रतम्। नैवं चेत्खरदूषणत्रिशिरसां कण्ठासजा पड्किलः पत्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ॥' अत्राप्यहं न सहिष्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिणि समारोप्यैवमुक्तम्। इति॥ अर्थयोरिति । कृपणकृपाणशब्दवाच्ययोः ॥

Page 185

३ अध्याय:] काव्यानुशासनम्।

येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ।' 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्यो- न्यम्' इति नियमेन बहुभिर्यदर्थैनैक एवार्थो निर्दिश्यते इति यैरित्यत्र विशेषस्याप्रतीतिः । 'क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः । यथा वा उपमायाम्- 'वापीव विमलं व्योम हंसीव विमलः शशी। शशिलेखेव हंसोडयं हंसालिरिव ते यशः ॥' यथा 'सरांसीवामलं व्योम काशा इव सितः शशी। शशीव धवला हंसा हंसीव विशदा दिशः ॥' अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसाद- श्यादुपमानेन च संबध्यते इत्यनन्वितम्। यदि च लिङ्गवचसोविपरिणामादुपमानेनापि संबन्धः क्रियेत, तदा- भ्यासलक्षणो वाक्यभेद: स्यात्।

न त्वङ्गानामिति। प्रधानानुयायित्वेन समत्वादित्यर्थः । युज्यत इति। यदि क्षपा- चारिणामित्यस्य स्थाने क्षपाचारिभिरिति पच्यते तथात्र योऽपि यच्छव्दार्थः समशी- र्षकया धात्वित्वा(?) अह्गीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिस्वमाज्जास्यानेव संबन्ध- मनुभवतीत्यर्थः । यथा वा-'तेनावरोधप्रमदासखेन विगाहमानेन सरिदवूरां तामू। आकाशगङ्गारतिरप्सरोभिर्त्ृतो मरुत्वाननुयातलीलः ॥' अन्नानुयातिक्रियापेक्षो राज- मरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धयोः साक्षादुक्तः । सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात्। अतोऽत्र साक्षात्तत्संबन्धो वा वाच्यः। तदर्थमन्यत्कियान्तरं वा येन कर्तृक्मत्वभावस्तयोर्घटनामियात्। न चोभयोरेकमप्यु- क्तमित्यनुचितत्वम्। तेने च रस(?)मयमत्र पाठ :- 'आकाशगद्गारतिरेप्सरोभिर्व्ृतोऽनु- यातो मघवा विलासैः ।' इति ॥ अभ्यासलक्षण इति। पौनःपुण्यरूपः ॥ वाक्य- १. 'विशेष्य स्या' का० प्र०. १. 'पठ्यते' स्यात्. २. 'सामज्जस्येनैव' स्यात्. ३. 'तेन वरमयमत्र पाठः' स्यात्. ४. 'पुन्य' स्यात्.

Page 186

१५६ काव्यमाला।

एवं चाव्यवधानेन प्रकृतोऽर्थों न प्रतीयेत । विपरिणामश्च शास्त्रीयो न्यायः काव्येषु न युक्तः । यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते, न तत्रैतदूषणम्। यथा- 'वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णा: सर्वथा वयम् ॥' 'चन्द्रमिव सुन्दरं मुखं पश्यति।' 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥' इति। यत्रापि गम्यमानं साधारणधर्माभिधायि पदम्, तत्रापि न दोषः । यथा 'चन्द्रमिव मुखम्, कमलमिव पाणिः, बिम्बमिवाधरः' इत्यादि। कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसा- वपि अनन्वितस्यैव विषयः । यथा- 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्ूती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।।' अत्र चेतना प्रसादमाप्नोति, न पुनरापेति कालभेदः । 'प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता। विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ।।' अत्र लता विभ्राजते, न तु विभ्राजसे इति पुरुषभेदः । भेद इति। द्वे वाक्ये स्यातामित्यर्थः ॥ असदृश इति । टेगन्तत्वादेकवचनम्। क्विबन्तत्वाद्वहुवचनं च। मधुरतया भृतो धृतः। तां च बिभ्रति। दधते इति। १. 'विभ्राजसे इति संबोध्यमाननिष्ठस्य परभागस्यासंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः' इत्येवं काव्यप्रकाशे पाठ :. १. 'कजन्त' पाणिनीयमते. २. 'क्विन्नन्त' पाणिनीयानाम्.

Page 187

३ अध्याय:] काव्यानुशासनम्। १९७

'गङ्गेव प्रवहतु ते सदैव कीर्तिः' इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इति अप्रवृत्तप्रवृत्तात्मनो विधेः । एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः । अथाष्टावुभयदोषानाह- अप्रयुक्ता श्षीला समर्थानुचितार्थश्रुतिकटुक्िष्टाविमृष्टविधेयांशवि- रुद्धबुद्धिकृत्त्वान्युभयोः । उभयोरिति। पदस्य वाक्यस्य चेत्यर्थः । दोषा इति वर्तते। कविभिरनाद्ृतत्वादपयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्रमात्र- प्रसिद्धत्वाच्च। आद्यं यथा- 'कष्टं कथं रोदिति थूत्कृतेयम्'। देश्यं चैतत्प्रायमेव। यदाह- 'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य। तन्मडहादि कर्थचिन्न रूढिरिति संस्कृते रचयेत् ।।' क्वचिद्गुणो यथा- 'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे।

'दध धारणे' इत्यस्य दधातेश्वात्मनेपदैकवचनबहुवचनाभ्याम्॥ लोकमात्रप्रसिद्धत्वा- दिति। एतेन ग्रम्यमेयुक्तत्वान्न भिद्यत इत्याह ॥ शास्त्रमात्रप्रसिद्धत्वादिति। शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि। तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि अप्रयुक्तत्व एवान्तर्भावादिति॥ एतत्प्रायमेवेति। लोकमात्रप्रसि- द्विप्रायम्। केवलं नियतदेशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम्। मडहादीति।

दरिद्राअ्जलिचौरशक्रादिवाचकम्। रूढिरितीति। रूढिभ्रान्त्या कश्षिद्विद्वदेशप्रसिध्धा

१. 'प्रवर्तनात्मनो' का० प्र०.

१. 'अप्रयुक्त' स्यात्. २. 'विध्य' स्यात्.

Page 188

११८ काव्यमाला।

तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदा द्विवेकोऽस्तु नः ॥।' अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्वे स्वस्तीति गुणः । वाक्यस्य यथा- 'ताम्बूलभृतगल्लोऽयं भलं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा।।' क्वचिद्रुणाः । 'फुललुकरं कलमकूरसमं वहन्ति जे सिन्दुवारविडवा मह वल्लहा ते। जे गालिदस्स महिसीदहिणो सरिच्छा ते किं वि मुद्धवियइल्लपसूणपुञ्जा ।I' अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेSपि विदूषकोक्तौ गुणत्वम्। शास्त्रमात्रप्रसिद्धिर्यथा- 'यथायं दारुणाचारः सर्वदैव विभाव्यते। तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥' अत्र दैवतशब्दः पुंलिङ्गे लिङ्गानुशासने प्रसिद्धः । यथा वा- 'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्मबन्धकम् ।'

'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत। व्युत्पत्तिर्यस्य नास्तीति वचनाच्च स व्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्ततं भवति-यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानटः, वृक्षे पशुभक्तः, चन्द्रामृतयोः

१. 'पुष्पोत्करं कलमौदननिभं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते। ये गालितस्य महिषीदभ्रः सदशा- स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥' [इति संस्कृतम्।]

Page 189

३ अध्याय:] काव्यानुशासनम्। ११९

अत्राशयशब्दो वासनापरपर्यायो योगशास्त्र एव प्रसिद्धः । यथा वा- 'तीर्थान्तरेपु स्नानेन समुपार्जितसत्कृतः । सुरस्त्रोतख्विनीमेष हन्ति संप्रति सादरम् ।' अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम्। यथा वा- 'सहस्त्रगोरिवानीकं दुःसहं भवतः परैः।' अत्र गोशब्दस्याक्षिवाचकत्वमभिधानकोश एव प्रसिद्धम्। क्वचिद्रुणो यथा- 'सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपश्चकम् । सौगतानामिवात्मान्यो नास्ति मत्रो महीभृताम् ।।' अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विध्यसंवादादौ गुणत्वम्। ल्लेषे तु न गुणो न दोषः। यथा- 'येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो यश्चोद्वृत्तभुजंगहारवलयोगङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाघवः ।।' अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्चाप्रयुक्तः ।

समुद्रनवनीतम्, जले मेघक्षीरमित्यादि। अङ्गेति। कर्मणामारम्भोपायः, द्रव्यपुरुषसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गानि ॥ स्कन्धेति। 'वि- ज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । भिक्षूणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः ॥' येन ध्वस्तेति। माधवपक्षे-येन ध्वस्तं वालकीडायाम्। अनः शकटम्। अभवेन असंसारेण। बलिं जितवान्। यः कायः स पूर्वममृतहरणे स्त्रीत्वं नीतः। उद्धत्तं भुजंग कालियाख्यं पीडितवान्। रवे शब्दब्रह्मणि लयः समाप्तिर्यस्य। अगं गोवर्धनगिरिं गां च योऽधारयत्। शशिनं मभ्नाति यो राहुस्तस्य शिरोहरः । अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः। उमाधवपक्षे-बलिजित्कायो विष्णुदेहस्त्रिपुरवधे- Sस्रीकृतः शरतां नीतः । भुजंगाः सर्पाः शशियुक्तं शिरो यस्य तथाभूतो हरः। यदि

Page 190

१६० काव्यमाला।

वाक्यस्य यथा- 'तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमि: प्रियप्राप्तौ यत्नः सफलितः सखे॥ अत्राधिमात्रोपायादयः शब्दा योगशास्त्रे प्रसिद्धाः । क्वचिद्गुणो यथा- 'अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः । अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥।' अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः ।

तत्र पदस्य यथा- 'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ॥' 'लीलातामरसाहतोऽन्यव नितानि:शङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुडनलिताननेन ददती वायुं स्थिता तस्य सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥' 'मृदुपवनविभिन्नो मत्नियाया विनाशा- घनरुचिरकलापो निःसपल्नोडस्य जातः ।

वा शशियुक्तं शिर आहुर्नाम च हर इति। अन्धकाख्यो दैत्यः ॥तस्याधिमात्रोपाय- स्येति। "तथा हि नव योगिनो भवन्ति। मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तन्न मृदूपायस्त्रिविध :- मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति। एवमितरावपि। तत्राधिमा- त्रोपायानां "तीव्रेसवेगानामासन्नः"समाधिलाभः समाधिफलंच भवति॥" "संपिपादयि- षया चित्तवृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः "से दीर्धकालनैरन्तर्येण सत्कारासेवितो

१. 'डद्य' का० प्र०. १. 'ते खलु नवयोगिनो मृदुमध्याधिमात्रोपाया भवन्ति' इति पातञ्जलभाष्ये पाठः. २. 'इदं सूत्रम्। शेषं भाष्यम्' इति वाचस्पत्यम्. ३. इदं पातञ्जलसूत्रं समाधिपादे चतुर्दशम्। शेषं भाष्यम्.

Page 191

३ अध्याय:] काव्यानुशासनम्। १६१

रतिविलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बहीं ॥' एपु साधनवायुविनाशशब्दा त्रीडादिव्यञ्जकाः । वाक्यस्य यथा- 'भूपतेरुपसर्पन्ती कम्पना वामलोचना। तत्तत्प्रहणनोत्साहवती मोहनमादधौ ।' कम्पना सेना, वाम शत्रुं प्रति विरुद्धं वल्गु च। अत्रोपसर्पणप्रहणन- मोहनशब्दा त्रीडादायित्वादश्लीलाः । 'तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ।।' अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । 'पितृवसतिमहं त्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेपितशोकशल्यकम् ।' पावकेन पवित्रेणामिना च। अत्र पितुर्गृहमित्यादौ विवक्षिते इमशा- नादिप्रतीतावमङ्गलार्थत्वम्। क्वचिद्रुणो यथा- सुरतगोष्ठयां 'द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः। 'करिहस्तेन संवाधे प्रविश्यान्तर्विलोलिते। उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥' 'तर्जन्यनामिके छ्विष्टे मैध्या पृष्टस्थिता तयोः।' केरिहस्तः ............ । संवाधः संघट्टो वराङ्गं च । ध्वजः पताकाव- चिह्नं पुंव्यञ्जनं च। साधनं सैन्यं स्त्रीव्यञ्जनं च।

दृढभूमिः"। दीर्घकालेनासेवितो निच्छिद्रासेवितस्तपसा ब्रह्मचर्यण विद्यया श्रद्धया संपा-

१. 'मध्यमा पृष्ठतस्तयोः' इत्युदाहरणचन्द्रिकायां पाठः. २. 'करिहस्त इति प्रोक्त: कामशास्त्रविशारदैः' इति परिभाषितेन' इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र कियान्पाठस्त्रुटित: प्रतीयते. २१

Page 192

१६२ काव्यमाला।

रमकथासु यथा- 'उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे। केदिनि स्त्रीव्रणे सक्तिरकृमे: कस्य जायते ॥' 'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' अत्र भाव्यमङ्गलसूचनम् । रक्ताः सानुरागाः । प्रसाधिता अर्जिता भूर्यैः । रक्ेन मण्डिता भूश्च यैः । विग्रहो वैरं शरीरं च। स्वस्थाः कुश- लिनः स्वर्गस्थाश्च ॥ अवाचकत्वात्कल्पितार्थत्वात्संदिग्धत्वाच्च विवक्षितमर्थ वक्तुमश- क्तिरसमर्थत्वम्। पदस्य यथा- 'हा धिक्सा किल तामसी शशिमुखी द्ृष्टा मया यत्र सा, तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम्। किं कुर्मः, कुशले सदैव विधुरो धाता, न चेत्तत्कथं नादग्यामवतीमयो भवति मे नो जीवलोकोडघुना ।।' अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम् । यथा वा- 'जङ्डाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ।।' अत्र दधदित्यर्थे विदधदित्यवाचकम्। यथा वा- 'चापाचार्य स्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । दितः सत्कारवान्। दृढभूमिर्व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः॥ अवाचक- त्वादित्यनेनावाचकत्वप्रसिद्धिद्वुतत्वयोः, कल्पितार्थत्ादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादि-

Page 193

३ अध्याय:] काव्यानुशासनम्। १६३

अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ।।' अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा च- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदघेरयमभूतपूर्वः पुरः ॥' अत्र रवो मण्डूकादिपु प्रसिद्धो, न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च-

त्यनेन संदिग्धतस्यासमर्थत्वदोषेऽन्तर्भावमाह-मण्डकादिषु प्रसिद्ध इति। मण्ड- कादीनां शब्दो रवोऽभिधीयत इत्यर्थः ॥ यथा च-'यमिन्द्रशब्दार्थनिसूदनं हरेर्हि- रण्यपूर्व कशिपुं प्रचक्षते।' अन्न हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवा- चकम्। यतोऽन्र हिरण्यशब्दः कशिपुशव्दश्चाभिधेयप्रधानौ वा स्याताम्, खरूपमात्रप्र- धानौ वा। तत्र न तावदभिधेयप्रधानावनभ्युपगमात्। अर्थस्यासमुच्चयात्। नापि स्वरूपप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानानुकार: प्रख्यानक्रियाकर्मभा वेनाभिहितो भवति। द्विविधो हि शब्दानुकारः। शाब्दत्वार्थत्वभेदात्। तत्रेतिना व्यव- च्छेदे शाब्द: प्रसिद्ध एव। अर्थादवच्छेदावगतावार्थः । यथा-'महदपि परदुःखं शी- तलं सम्यगाहुः ।' इह चायमर्थोऽनुकार इति नानावच्छेदात्। केवलं यत्तस्याभिधान- मनुकार्य तन्नानुकृतम्। यच्चानुकृतं तत्तस्याभिधानमेव न भवति। लोके हि हिरण्यक- शिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्या वाचकम् ॥ यथा वा-'क्षुण्णं यदन्तःकरणेन वृक्षा: फलन्ति कल्पोपपदास्तदेव।' इत्यन्न कल्पव्ृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम्। यतो विशेषणमिदमभिधानस्वरूपविषयमेवावकल्पते। नाभिधेयविषयम्, सोपपदत्वनिरुपपदत्वयोरभिधानधर्मत्वात्। न चेतने विशेषितेन किंचित्प्रयोजनम्। अभिधानमान्नादनभिमतार्थसिद्धः। अभिधेयविषयत्वे च तत्सिद्धि- र्भवेत्, किं तुन तत्र यथोक्तविशेषणसंबन्धः संगच्छते। यत्र च संगच्छते न ततोऽभि- मतार्थसिद्धिरिति अवाचकत्वादसमर्थमेवेति। तम्मादवरमयमत्र पाठः श्रेष्ठः-'क्षुण्णं यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति।' अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्प- द्रुमाणां वावगतौ गुणान्तरलाभः । एवम् 'दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं प्रच-

Page 194

१६४ काव्यमाला।

'मञ्जीरादिपु रणितप्रायं, पक्षिषु च कूजितप्रभृति। स्तनितमणितादि सुरते मेघादिषु गर्जितप्रभृति ॥ दृष्टा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत। अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥' क्वचिद्गुणो यथा-

रक्तवैणिकहताधरतनू(?)मण्डलक्कणितचारु चुकूजे ।।' अत्र कूजितस्य पक्षिपु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्- 'पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोपित इवाम्बुनिधौ। अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥' अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निःप्रतिपक्षतया स्वेच्छाविहारो- पपत्तेः न तद्वन्मलिनानां तमसाम्, पतङ्गस्य मृगपतिरूपणावैयर्थ्यप्रसङ्गात्। न च तत्साम्यं सुन्दरहारिसदृशसुभगसंनिभादिशब्दा इव मलिनादिशब्दाः शक्कुवन्ति वक्तुम् इत्यवाचकत्वम्। यथा वा उत्प्रेक्षायाम्- 'उदयौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् । नारीलोचनचातुर्यशङ्कासंकुचितं यथा॥'

क्षते।' इत्यादावपि द्रष्टव्यम् ॥ मख्जीरादीति। आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम्। प्रायग्रहणं सदृशार्थवृत्तिकणिसिञ्ञिगुञ्जीत्याद्यर्थम्। प्रभृतिग्रहणं वश्येत्याद्यर्थम्। पुनरा- दिग्रहणं सिंहमृगाद्यर्थम्। प्रायग्रहणमपि ध्वनत्यादयर्थम्। एवंप्रायानिति। ये शास्त्रसामान्येन पच्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः। तद्यथा-हेषति- रश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, वातिर्वायौ, न त्वन्यत्र। न हि भवति १. 'निष्प्रति' स्यात्. १. 'शिञ्जि' स्यात्. २. 'तिरश्चां रुतवाशिते' इत्यभिधानात् 'वाशितादयर्थम्' स्यात्. ३. 'शास्त्रे' स्यात्. ४. 'पठ्यन्ते' स्यात्.

Page 195

३ अध्याय:] काव्यानुशासनम्। १६९

अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपाद्यितुं नोत्सहते इत्य- वाचकः । यथा वार्थान्तरन्यासे- 'किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नति यया ॥' अत्र महीयस इत्येकवचनं न सामान्यमर्थरूपं व्यक्तमभिधातुं क्षमते इत्यवाचकत्वम्। बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्ति- क्षमत्वात्। यथा- 'यावदर्थपदां वाचमेवमाधाय माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः ।।' सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः । यथा- 'छायामपास्य महतीमपि वर्तमाना- मागामिनीं जगृहिरे जनतास्तरूणाम्। सर्वोऽपि नोपनतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति।'

वाक्यस्य यथा- 'विभजन्ते न ये भूपमालभन्ते न ते श्रियम्। आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ।!' अत्र विभजतिर्विभागार्थः सेवने, आलभतिर्विनाशार्थे लाभे, आवहतिः करोत्यर्थो धारणे, स्मरतिर्विस्मरणार्थः स्मरणेऽवाचकः । कल्पितार्थत्वादेसमर्थम्। पदस्य यथा- 'किमुच्यतेऽस्य भूपाल मौलिमालामहामणेः । सुदुर्लभ वचोबाणैस्तेजो यस्य विभाव्यते ॥'

१. 'दसमर्थत्वम्' स्यात्.

Page 196

१६६ काव्यमाला।

अत्र वच:शब्देन गीःशब्दो लैक्षित इति कल्पितार्थत्वम्। अत्र न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते। जलध्यादौ तूत्तरपदमेव, वडवानलादौ तु पूर्वपदमेव। यथाहं- 'निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति। वाक्यस्य यथा- 'सपदि पङ्डिविहंगमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षिशितैः शरैः प्रवगसैन्यमुलूकजिता जितम् ॥' पङ्किरिति दशसंख्या लक्ष्यते। विहंगमोऽत्र चक्रस्तन्नामभृतो रथाः । दश रथा यस्य, तत्तनयौ रामलक्ष्मणौ उलूकजिता इन्द्रजिता कौशिक- शव्देनेन्द्रोलूकयोरभिधानमिति कौशिकशव्दवाच्यत्वेनेन्द्र उलूक उक्तः । संदिग्धत्वादसमर्थत्वम्। पदस्य यथा- 'आलिङ्गितस्तत्र भवान्संपराये जयश्रिया। आशीःपरम्परां वन्दां कर्णे कृत्वा कृपां कुरु ॥' अत्र वन्दां किं हठहृतमेंहेलायां किं नमस्यामिति संदेहः। यथा वा- 'कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ।।' अत्र 'भूतपूर्वे चरट्' इति चरप्रत्यये किं पूर्व साधुः, उत साधुषु चर- तीति संदेहः । क्वचिद्गुणो यथा- 'पश्याम्यनङ्गजातङ्कलङ्गितां तामनिन्दिताम् । कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥' ५. 'लक्ष्य ते' का प्र०. २. 'अत्र खलु न' प्रकाशे. ३. कुमारिलभट्टः ४. 'म- हिलायां' प्रकाशे.

Page 197

३ अध्याय:] काव्यानुशासनम् । १६७

अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्द: उत मृत्युवाचीति संदेहकारीदं वचनं युवानमाकुलीकर्तु प्रयुक्तमिति। वाक्यस्य यथा- 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भाखद्भूतिरेप विलोक्यते ।।' अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः । उत मदिरादयर्था इति संदेहः। क्वचिद्गुणो यथा- 'पृथुकार्तस्वरपात्र भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥' अत्र वाच्यमहिम्रा नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वा- द्ुणत्वम् । अनुचितार्थत्वं पदस्य यथा- 'तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या। प्रयान्ति तामाशु गति यशस्िनो रणाश्वमेधे पशुतामुपागताः ।' अत्र पशुपदं कातरतामभिव्यनक्तीति अनुचितार्थम्। यथा वा उपमायाम्- 'क्वचिदग्रे प्रसरता क्वचिदापत्यनिन्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥' तथा- 'वहिस्फुलिङ्ग इव भानुरयं चकास्तिं।' 'अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान्त्रह्मा विनिर्मित्सुरिव प्रजाः ॥'

पुरुषो वातीति। एवमन्यदपि वोद्धव्यम्। पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः खरास्तेषां पात्रम्, पृथूनि कार्तस्वरस्य स्वर्णस्य भाजनानि च यत्र । भुवि उपितो भूषितः, अलंकृतश्र। विलसन्कैर्गर्नसंधिभि: पंसुभिर्गहनम्, विलसन्तीभिः करे-

Page 198

१६८ काव्यमाला।

'पातालमिव नाभिस्ते स्तनौ क्षेतिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ: ।।' एपु श्वाद्युपमानानां जातिप्रमाणगता हीनताधिता चेत्यनुचितार्थत्वम्। निन्दायां प्रोत्साहने च न दोषः । यथा- 'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन। निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ।।' इति। 'विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः !' इति च। यथा वा उत्प्रेक्षायाम्- 'दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्। सुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ।।' अत्राचेतनस्य तमसस्तात्विकेन रूपेण दिवाकरात्रास एव न संभवति, कुत एव तत्प्रयोजितमद्रिपरित्राणम्। संभावितेन तु रूपेण प्रतिभासमानस्य न काचिदनुपपत्तिरवतरतीत्यनुचितैव तत्समर्थना। वाक्यस्य यथा- 'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव वियो। जरज््योत्सागौरस्फुट विकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह॥' अत्र कुविन्दादिशब्दास्तन्तुवायादिमभिदधाना उपश्लोक्यमानस्य तिर- स्कारं व्यञ्जयन्तीत्यनुचितार्थम्। परुषवर्णत्वं श्रुतिकदुत्वम्। पदस्य यथा-

आलिद्गितः स तन्वङ्ग्चा कार्तार्थ्य लभते कदा ॥' अत्र कार्तार्थ्यमिति। १. 'क्षिति' प्रकाशो क्तं स्यात्.

Page 199

३ अध्याय:] काव्यानुशासनम्। १६९

वाक्यस्य यथा- 'अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्क:।' अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि। वक्रादयौचित्ये गुणो यथा- 'देधी ट्वेवीङ्समः कश्चिद्गुणवृद्य्ोरभाजनम्। कित्प्रत्ययनिभ: कश्चिद्यत्र संनिहिते न ते ।।' अत्र वैयाकरणो वक्ता । 'यदा त्वामहमद्राक्षं पदविद्याविशारदैः। उपाध्यायं तदास्मार्ष समस्प्राक्षं च संमदम् ।।' अत्र वैयाकरणः प्रतिपाद्यः । 'मातङ्गा: किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं ब्रजत कि शून्येपु शूरा न के। कोपाटोपसमुद्धटोत्कटसटाकोटेरिभारे: शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्वर्जितं गर्जितम् ॥' अत्र सिंहे वाच्ये परुषा: शब्दाः ।

प्रायप्रेङ्गितभूरिभूषणरवैराघोषयत्यम्बरम्। पीतच्छर्दितरक्तकर्दमघनप्राधारघोरोल्लल- द्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ।।' अत्र बीभत्से व्यड़चे। 'रक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूत शिरः । उत्कण्ठाघटमानपट्पद्घटासंघट्टृदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुप्पोद्गमोडयं कुतः ॥' अत्र शिरोधूननेन कुपितस्य वचसि प्रक्रान्ते॥। १. 'दम्' प्रकाशे. २. 'पुरः' प्रकाशे, ३. 'प्राग्भारघोरोह्लस-' प्रकाशे. २२

Page 200

१७० काव्यमाला।

क्वचिन्नीरसे न गुणो न दोपः । यथा-

न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः । घर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विन्नवृत्ते- र्दत्तार्धाः सिद्धसंघैविंदधतु घृणयः शीघ्रमंहोविघातम् ।' व्यवहितार्थप्रत्ययजनकत्वं क्विष्टत्वम्। पदस्य यथा- 'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति।' दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदिका- नामिति। झगित्यर्थप्रतीतौ गुणः । यथा- 'काञ्चीगुणस्थानमनिन्दितायाः' । वाक्यस्य यथा- 'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्य त्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।।' अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति इति संबन्धे क्विष्टत्वम् ॥ अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टवि- धेयांशत्वम्।

णुभिः व्याप्तं च ।। प्राधारः सेकः ॥ उल्लङ्र्यन् स्वास्थ्यं नयन्। दक्षात्मजेति। अत्रैकपदप्रत्याय्योऽप्यर्थश्चन्द्रकान्तलक्षणो दक्षात्मजेत्याद्यनेकपदप्रत्यायितार्थपर्यालो- चनाव्यवहिततया क्विश्यमानो वाचकस्य क्विश्यतामावहति ॥ काश्चीगुणस्थान- मिति। अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैत-

१. 'उल्लाघय' स्यात्. २. 'क्िष्टता' स्यात्.

Page 201

३ अध्याय:] काव्यानुशासनम्। १७१

पदस्य यथा- 'वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्वरत्वेन निवेदितं वसु। वरेपु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥' अत्रालक्षितत्वं नानुवाद्यम्, अपि तु विधेयमिति 'अलक्षिता जनिः' इति वाच्यम्। यथा- 'स्त्रस्तां नितम्बादवलम्त्रमानां पुनः पुनः केसरपुष्पकाञ्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।।' अत्र 'मौर्वी द्वितीयामिव' इति द्वितीयात्वमात्रमुत्प्रेक्ष्यम्। यथा च- 'तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि। स्वं च संहितममोघसायकं व्याजहार हरसूनुसंनिभ: ॥' अत्र सायकानुवादेनामोघत्वं विधेयम् । 'अमोघमाशुगम्' इति तु युक्त: पाठः । यथा च- 'मध्येव्योम त्रिशङ्कोः शतमुखविमुखः स्वर्गसर्ग चकार।' इत्यत्र हि व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् । तेन 'मध्ये व्योम्रः' इति युक्तम्। यथा वा- 'वाच्या वैचित्यरचनाचारुवाचस्पतेरपि। दुर्वचं वचनं तेन वहु तत्रास्म्यनुक्तवान् ।।' अत्र नोक्तवानिति निषेधो विधेयः । यथा- 'नवजलधरः संनद्धोऽयं न दप्तनिशाचरः' इत्यादौ। न चानुक्तवत्त्वानुवादेनान्यदत्र किंचिद्विहितम्। यथा-

क्किष्म्॥ व्योमैव प्राधान्येनेति । अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शून्यो व्योमनि स्वर्गसर्गसामर्थ्यनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम्, न तन्मव्यम्॥ निषेधो विधेय इति। प्रसन्यविपयत्वादित्यर्थः । यदुक्त्तम्-'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । ग्रस-

१. 'मुक्त्ततानु' ग्रकाशे.

१. 'शून्ये' स्यात्.

Page 202

१७२ काव्यमाला।

'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्ुराददे सोऽर्थानसक्तः सुखमन्वभूः ॥' अत्रात्रस्त इत्यनुवादेनात्मनो गोपनादि। वाक्यस्य यथा- 'शय्या शाडूलमासनं शुचिशिला सझ दुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुप्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ।।' अत्र शाड्लानुवादेन शय्यादीनि विधेयानि। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य। एवं विध्यनुवादौ कर्तव्यौ-

ज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥'नञसमासस्त्वनुपपन्नः। तस्य हि पर्युदास एव विषयस्तत्रैव विशेषणत्वान्नवस्याद्यान्तेनोत्तरपदेन संबन्धोपपत्तेः । यदाह-'प्र- वानत्वं विधेर्यत्र प्रतिषेधे प्रधानता। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥' न च पर्युदासाश्रयणं युक्तम्, अर्थस्यासंगतिप्रसङ्गात्। उक्तवत्त्वप्रतिषेधो ह्यन्राभिमतः, नानुक्तवत्त्वविधिः । तस्मादस्य नजो विधेयार्थनिष्ठतया प्राधान्यस्यानूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छव्देन सह सदाचारनिरतस्येव पतितेन वृत्तिर्नेष्यत एवेति स्थितम्। यदाह-'नजर्थस्य विधेयत्वे निषेधस्य विपर्यये। समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥' इति ॥ शय्यादीनि विधेयानीति । यदाहु :- 'अनुवाद्य- मनुक्तैव न विधेयमुदीरयेत्। न ह्यलब्वास्पदं किंचित्कुत्रचित्प्रतितिष्ठति ॥ विधे- योद्देश्यभावोऽयं रूप्यरूपकेत्वाभावः । न तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ॥' ने तु 'शाडलं शय्या शुचिशिला आसनम्' इत्येवं विपर्ययेणात्र संबन्धः करिष्यते, तस्य पुरुषाधीनत्वात्। तथा च न यथोक्तदोषावकाशो भविष्यतीति। सत्यम् । स सर्व- विपयोऽयं संबन्धस्य पुरुषाधीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विष- योऽवगन्तव्यो यत्र स्वसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाह-

१. 'शाड्मलाद्यनु' स्यात्. १. 'जः स्याद्यन्ते' स्यात्. २. 'कभावतः । न हि तत्र' स्यात्. ३. 'ननु' स्यात्. ४. 'न' स्यात्. ५. 'एवं वीति' स्यात्.

Page 203

३ अध्याय:] काव्यानुशासनम् । १७३

वेक्तारवीनिवसनं मृगचर्म शय्या गहं गुहा विपुलपत्रपुटा घैटाश्च। मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥' यथा वा- 'संरम्भ: करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल।

न्योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ।' अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्र- तीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि। यत्र यत्तदोरेकतरनिर्देशे- नोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरणोपसंहारो न्याय्यः । तयोरप्यनुवा-

दार्थपौर्वापर्यनियमोऽवगन्तव्य इत्यर्थः। ततश्च यदनूद्यते तस्यादावुपादानमनुपपन्नम्। यस्तु विधीयते तस्य पश्चात्। 'विलिखने विलेपो भवति' इत्यादौ च तथैव दृष्टम्। तथा 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम्-यदत्र मङ्गलद्योत- नार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम्। अन्यथा दैजनुवादेन वृद्धिसंज्ञाविधाना त्पश्चादभिधानं कार्य स्यात्, यथा 'अदेङ्गणः' इत्येवमादौ ॥ 'प्रमाणमविसंवादि ज्ञानम्' इत्यत्रापि 'यत्प्रमाणमिति लोके प्रसिद्धम्, तदविसंवादि ज्ञानमेवेति विज्ञेयम्' इति तात्प- र्यार्थः । काव्येऽपि एपैव शैली। यथा-'इयं गेहे लक्ष्मीः' इत्यादि ॥ संरम्भ इति। अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनादरः। सर्वस्येति। यस्य कस्यचित्तुच्छप्रायस्येति अवहेला। जातेश्र मात्रशब्दविशिष्टत्वे- नावलेप: हेलाशव्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्साधनतया कविनोपनिबद्धम्। असंर- ब्धवानित्यत्र लविमृष्टत्वविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम्। पुनरविमृष्ट- विधेयांशत्वमेवाह-अत्र योऽसाविति। (एतदेव द्रढयितुं निदर्शयति-त्वत्कार- १. 'त्वक् तारवी नि' इति पाठो भवेत्. २. छन्दोनुरोधेन विधेयस्य गेहस्य प्राक्प्रयोग: प्रतिभाति. ३. कुम्भा इत्यर्थः.

१. 'एतदेकमाचार्यस्य महलार्थ मृध्यताम्' इति हि महाभाष्ये पाठः. २. अयं धनुश्चिह्ान्तर्गतपाठः 'संरम्भ इति' इत्यादि ग्रन्थात्प्राक्तनो भवेत्. ३. 'त्क तारवी नि' इति भवेन.

Page 204

१७४ काव्यमाला।

दविधेयार्थविषयत्वेनेष्टत्वात्, तयोश्च परस्परापेक्षया संबन्धस्य नित्यत्वात्। अत एवाहुः-'यत्तदोर्नित्यमभिसंबन्धः' इति। स चायमनयोरुपक्रमो द्विविध :- शब्दश्चार्थश्चेति। तयोरुभयोरुपादाने सति शाब्दो यथा- 'यदुवाच न तन्मिथ्या यद्ददौ न जहार तत्।' तथा च- 'स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां श्ृणोति यः ।' इति। एकतरस्योपादाने सत्यार्थः, तदितरस्यार्थसामर्थ्यनाक्षेपात्। तत्र तदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः । तत्र प्रसिद्धार्थविषयो यथा-'दयं गतम्-' इत्यादि । अनुभूतविषयो यथा-'ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' इति। प्रक्रान्तविषयो यथा- 'कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम्। अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥' यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्यार्थसंबन्धः संभवति, पूर्ववाक्यग- तस्य तच्छब्दस्यार्थादाक्षेपात्। यथा- 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥' प्रागुपात्तस्य यच्छद्दस्य तच्छब्दोपादानं विना साकाङ्गतैव। यथात्रैव ललोके आद्यपादयोविपर्यये। क्वचिदनुपात्तमपि द्वयं सामर्थ्याद्गम्यते। यथा- 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः ।

वोनिवसनमिति) ॥.ये नाम केचिदिति। नामशब्दोऽक्षमायाम्। यदुक्तम्-

Page 205

३ अध्याय:] काव्यानुशासनम्। १७६

उत्पत्स्यते तु मम कोडपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ।। अत्र स कोऽप्युत्पत्स्यते यं प्रति यत्नो मे सफलो भविष्यतीत्युभयोरपि अर्थादाक्षेपः ॥ एवं च स्थिते तच्छब्दानुपादानेडत्र साकाद्व्त्वम्। न चासावित्यस्य तच्छब्दार्थत्वं युक्तम्। यथा- 'असौ मरुचुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।।' अत्र हि न तच्छन्दार्थे प्रतीतिः। प्रतीतौ वा- 'यस्य प्रकोपशिखिना परिदीपितोऽभू· दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगच्चयलयस्थितिसर्गहेतुः पायात्स वः शशिकलाकलितावतंसः ।।' अत्र स इति पौनरुक्त्यं स्यात्।

'नाम कुत्सप्रश्नविषादामर्षप्रीतिसंख्यानृतानयसंभावनासु।' ये केचिदिह प्रबन्धे देश- काले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैप प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात्। लोकोत्तरं येज्ञानन्तीति व्याख्यातं(?)तत्तेषामुपहासाय। कान्प्रति तहील्याह-उत्पत्स्यते त्विति। सारे- तरविभागज उत्पत्स्यते कश्चिदिति संभाव्यते॥ एवमिति। तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेष्याभिधायिपदोपरचितशरीरतवं नाम सामान्यं लक्षण- माचक्षते। इतरथा तेषां समर्थतानुपपत्तेः। स च विशेषणविशेष्यभावो द्विधैव संभवति- समानाधिकरणो व्यधिकरणश्रेति। तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा पदान्यन्यस्य पदस्यार्थ विशेषणभावं भजन्ति सा बहुव्रीहेः सरणिः । तत्रैव यदा संख्यायाः प्रतिषेधस्य च विशेषणभावो भवेत्तदा द्विगोर्नञसमासस्य च गोचरः । द्वितीयः प्रकार: कारकाणां संबन्धस्य च विशेषणत्वाद्वहुविधः स तत्पुरुषस्य पन्थाः । तत्रापि यदाव्ययार्थस्य विशेषणता स्यात्तदाव्ययीभावस्य परामर्शः। तदेवं समासानां विशेष-

१. 'तेऽस्ति' इति मालतीमाधव-कात्यप्रकाशयोः. २. 'योऽसौ कुत्र चम-' इत्युदाहृतश्चोक इति. ३. 'ब्दार्थप्रतीतिः' प्रकाशे.

१. 'ये जानन्ति' इति स्यात्.

Page 206

१७६ काव्यमाला।

णविशेष्योभयांशसंस्पर्शत्वेऽपि यदा विशेषणांशः स्वाश्रयोत्कर्षाधानमुखेन वाक्यार्थचम- त्कारकारणतया प्राधान्येन विवक्षितौ विधेयधुरामधिरोहेदितरस्त्वनूद्यमानकल्पतया न्यग्भावमिव भजते तदासौ न वृत्तिपयो भवितुमर्हति। तस्यां हि स प्रधानेतरभा- वस्तयोरस्तमियात्। तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोर्विशेष: कश्चित्। नन्वत्र विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विवक्षितत्वाप्राधान्यं तत्कथं तयोभी- वाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्ये- तान्यत्र च विकल्प्येत। नैष दोषः। विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत्। न चेह वस्तुत्वमुभयोः संभवति। एकस्यैव वास्तवत्वादन्यस्य वैवक्षकत्वेन विपर्ययात्। न च वस्तुवस्तुनोविरोधः । न हि सत्यहस्तिनः कल्पना केसरिणश्च कश्चिदन्योन्यं विरो- धमवगच्छति। फलभेदस्त्वनयोर्निर्विवाद एव। एकस्य हि सकलजगद्गम्यं शा्दिकैक- विषयपदार्थसंबन्धमात्रम्। अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति। अन्न क्रमेणोदाहरणानि। तत्र कर्मधारये यथा-'उत्ति. छन्त्या रतान्ते भरमुरगपता पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभा- रमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहुलक्ष्म्याः पुनातु ॥' अत्र विगलितकबरीभारत्वमलसलसद्वाहुत्वं चांसवपुषोरविशेषणे रतेरुद्दीपनविभावतापादनेन वाक्यार्थस्य काममपि कमनीयतामा- वहत इति प्राधान्येन विवक्षितत्वान्न ताभ्यां सह समासे कविना न्यग्भावं गमिते। यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शौरेरुचिताच- रणलक्षणमतिशयमादधद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमी लितम्। 'पदमेकमनेकं वा यद्विधेयतार्थतां गतम्। न तत्समासमन्येन न चाप्यन्योन्य- मर्हति॥' तत्रैकमुदाहृतमेव। अनेकं यथा-'अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्त- नुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोह्लिखितो विभाति ॥' यथा च- 'विद्वान्दारसखः परं परिणतो नीवारमुष्टिंपचा सत्यज्ञाननिधिर्दधत्प्रहरणं होमार्जनी- हेतुतः । रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्रवान्नीतः कीर्त्यविशेषतां तदिह ते धिक् धिकू सहस्रं भुजाम्॥' यथा वा-'राज्ञो मानधनस्य कार्मुकभृतो दुर्यो- धनस्याग्रतः प्रत्यक्ष कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च। पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' यथा च-'हे हस्त दक्षिण मृतस्य शिशोद्विंजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । भो रामपाणिरसनिर्भरगर्भखिन्नदेवीप्रवासनपटो: करुणा कुतस्ते ॥' एवम्-'अङ्गराजसेनापते राजवल्लभ द्रोणापहासिन्, रक्ष भीमाद्ुःशासनम्' इत्यादौ द्रष्टव्यम्। विशेषणविशेष्यभा वतुल्यफलो विध्यनुवादोऽपीति। तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा- 'चापाचार्य स्त्रिपुरविजयी' इति। प्रत्युदाहरणं त्वेतेषामेव कृतसमासवै .. ... कल्पनीयम्। बहुव्रीहौ यथा-'येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः। वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥' अन्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेष

Page 207

३ अध्याय:] काव्यानुशासनम् । १७७

णतयोपात्तं तत्कर्तुर्मुनेरतिदुष्करकारितया कमपि तपःप्रभावप्रकर्षमेव द्योतयति । विन्ध्यस्य प्रतिदिवसमुच्छ्याच्छादितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेर- गाधत्वादपारत्वाच्च वातापेश्ष मायापरित्रहग्रस्तसमस्तलोकत्वात्ततस्तत्प्राधान्येन विव- क्षितमिति न तैः सह समासे निर्जीवीकृतम् । प्रत्युदाहरणं यथा-'यः स्थलीकृत- विन्ध्योSद्रिराचान्तापारवारिधिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥'

इति मन्यन्ते। ते इदं(एवं) प्रष्टव्याः-'किं भोः, सर्वेष्वेव समासेपु इयं तदप्रतीतिरुत बहुत्रीहावेवायं शाप.' इति। तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तर्हि सहृदयाः साक्षिणः पृच्छ्यन्ताम्। वयं तावन्महृदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुत्रीहावेवे- त्युच्यते, तदयुक्तम्। न हि प्रतीतिभेदहेतौ प्रतीतसामथ्ये सत्यकस्मात्तदसंभवो भवितुं न्याय्यः। एवं हि क्षित्यादिसामत्रयामविकलायामङ्गुरादिकार्योत्पादाभावाभ्यु- पगमोऽपि प्रसज्यते। सर्वत्रैवायं प्रतीतिभेदोऽ्भ्युपगन्तव्यो नैव वा कुत्रचिन्न पुन- रिदमर्धजरतीयं लभ्यते। इह प्रतीतिवैचित्रयं स्पष्टमवधारयतु मतिमान्। यत्र विध्यनुवादभावाभिधित्सयैव पदार्थानामुपनिबन्धस्तत्रापि हि प्रधानेतरभावविवक्षा निवन्धनौ सरमासस्य भावाभावावुपगतावेव। यथा-'सूर्याचन्द्रमसौ यस्य मातामह- पितामहौ। स्वयं वृतः पतिद्वभ्यामुर्वश्यावनुवाचयः ॥' अत्र हि त्रैलोक्यालंकारभू तौ चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामह- पितामहभावो विहितस्तत्तस्य पुरूरवसस्तौ लोकोत्तरभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशेषणविशेष्यभावाभिहितेनैव नयेनात्राप्यनूद्यमानगतोऽतिशयो विधीयमानाकारसंक्रमणक्रमेण तत्संबन्धिनः पर्यवस्यति। तयोर्हि स्वरूपमात्रं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्षलक्षणमेकमेवेति प्राधान्येन विवक्षितत्वान्न तौ ताभ्यां सह समासे म्लानिमानीतौ। इह च-'जनको जनको यस्या याता तस्योचिता वधू: 1.आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम् ।' इति। द्विगौ यथा-'उपपन्नं ननु शिवं सप्तस्वङ्वेषु यस्य मे। दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ।' इत्यत्र संख्यायाः संख्येयेष्वद्वेपु निरवशेषताप्रतिपत्तिफलमतिशयमादधानायाः प्राधान्येन विवक्षा। तत एव हि तेपु द्विविधापत्प्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः । यथा च-'निग्रहात्खसुराप्तानां वधाच्च धनदानुजः। रामेण निहितं मेनं पदं दशमु मूर्वसु ॥' प्रत्युदाहरणमेतदेवोदाहरणम्, कृतसमासवै- शसं(पम्यं) द्रष्टव्यम्। नञ्समासविपयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्व। तत्पुरुपे कर्तुर्यथा-'देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः। तान्येवाहितशास्त्रघस्मरगुरूण्यस्त्राणि भाखन्ति नो

१ 'शस्र' प्रकाशे. २ 'मे' प्रकाशे. २३

Page 208

१७८ काव्यमाला।

यद्रामेण कुतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष रौद्ररसपरिपोषपर्यवसायिनं समर्पयति। तस्य निरतिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैर्धण्यनिन्नतया च प्रसिद्धेः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं कत्रादेः कारकस्यानेकस्य समशीर्षकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चाभिधास्यत इति न तदुदाहरणमिहोपदर्शितम् । नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समानवृत्तान्तत्वो- पपादनात्। प्रत्युदाहरणं यथा-'यस्यावमत्य गुरुदत्तमिमं कुठारं डिम्भोऽपि राम इति नाम पदस्य हन्ता।' इति। कर्मणो यथा-'कृतककुपितैर्वाष्पाम्भोभिः सदैन्य- विलोकितैर्वनमसि गता यस्य प्रीत्या मृतापि तथा खया। नवजलधरश्यामाः पश्य- न्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' अत्र वनमिति यद्रमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषणं तत्तस्या रामप्रीतिप्रकर्ष- युक्ताया अन्यकुलमहेलादुर्लभं दुष्करकारित्वं नामोत्क्पमर्पयति। वनवासदुःखस्याति- कष्टत्वात्। स चोत्कर्षो रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृतम्। यथा च-'गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशा- दनवाप्य कामम्।' इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थक्रियामुखेन यद्विशेषणं तत्तस्य ल्राध्य- तातिशयाधानद्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नार्थिना सह समासे सताममतामवमतां गमितम्। संवर्धितानां सुतनिर्विशेषमिति। प्रत्युदाहरणं यथा-'प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ।' इति। 'तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।' इति। यथा-'कामार्चितार्थिनाम्' इति। यथा-'कालप्रबोधिनाम्' इति च। करणस्य यथा-'आलोक्मार्गे सहसा' इति। अन्न करणेति यत्केशहस्तकर्मकस्य संभाविता ......... स्पारोधानस्य करणभावेन विशेषणं तत्तस्याः कस्याश्चिद्रभस्ौत्सुक्यप्रहर्षप्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयोरुपसंपदम- साधारणीमभिव्यनक्ति। यदवलोकनाधानव्यवधानाधायिनीं तावतीमपि कालकलां विघ्नायमानां मन्यमानया सततस्ाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्ध इत्यनेन समासेऽस्तमुपनीतम्। यथा च-'कर्तुमक्षमया मानं प्राणेश: प्रत्यभेदि यत्। सोऽयं सखि सहस्तेन समाकृष्टस्तयानलः॥' इति। प्रत्युदाहरणं यथा-'धात्रा खहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ।' इति। संप्रदानस्य यथा-'पौलस्त्यः खयमेव याचत इति श्रुला मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति। तद्वाच्यः स दशाननो मम गिरा दत्त्वा द्विजे- भ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोर्निर्जित्य किं दीयताम् ॥' अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृकस्य महीदानस्य संप्रदानत्वेन यद्विशेषणं तन्मह्याः पात्रसा

Page 209

३ अध्याय:] काव्यानुशासनम्। १७९

भवतीति प्राधान्येन विवक्षितत्वान्न दत्तेत्यनेन सह समासे कविना विच्छायीकृतम्। प्रत्युदाहरणमेतदेव पूर्ववद्रष्टव्यम्। अपादानस्य यथा-'ताताजन्मवपुर्विलद्वितविय- त्कौर्य कृतान्ताधिकं शक्ति: कृत्स्नसुरासुरोष्मशमनी नीता तथोचैः पदम् । सर्वे वत्स भवातिशायि निधनं क्षुद्रान्नु यत्तापसात्तेनाहं त्रपया जुचा च विवशः कष्टां दशामा- गतः ।' अत्र तातादिति क्षुद्रान्नु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य [पितामह]पितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापकर्षद्वारेण तदवूतः कुम्भकर्णस्य कामपि कुलीनतां शौ- र्यापकर्ष चादधाने भ्रातुर्दशाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्रा- धान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते। प्रत्युदाहरणं यथा-अत्रैव 'कौर्य कृतान्ताधिकम्' इति। यथा च 'आसमुद्रक्षितीशानाम्' इति। अधिकरणस्य यथा-'शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्। वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ।I' अत्र शैशव इत्यादीनि यान्यभ्यस्तविद्यात्वादीनामधिकरणभावेन विशे- पणानि तानि तेपामितरान्वयवैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्यं नय विनया दि संपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तैः सह समासे समशीर्षिकां नीतानि। प्रत्युदाहरणं यथा-रेणुरक्तविलिप्ताद्गो विकृतो व्रणभूपितः । कदा दुःप्र. त्यभिज्ञातो भवेयं रणभूषितः ॥' संवन्धस्य यथा-'दूयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इति। यत्समागमप्रार्थनायाः शोचनीयतां गतौ हेतु- त्वेनोपात्तायाः संबन्धिद्वारेण विशेषणं तत्तस्यास्तत्र यत्साम्थ्य तत्सुतरामुपबृंह्यति। तस्य सकलामङ्गलनिलयतया निन्दिताचारनिरततया च दर्शनस्पर्शनसंभापणादीनामपि प्रतिषिद्धत्वात्। अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे प्रत्यरीकृतम् । यथा च 'स्कन्दस्य मातुः पयसां रसज्ञः' इति । 'कः क्षमेत तवानुजम्' इति। प्रत्युदाहरणं तु 'किं लोभेन विलद्वितः-' इति दर्शितमेव। यथा च- 'जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवा- र्पितः ॥' इति। अत्र हि हरेः संबन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्रा- धान्यविवक्षा न चक्रमात्रस्य। तच्च तस्य समासेऽस्तमुपगतम्। विभक्त्न्वयव्यति- रेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणा- न्तरसिद्धत्वोत्कर्षापकर्षाधायिनां शाब्दे गुणभावेऽव्यार्थ प्राधान्यम्। विशेष्याणं च शाब्दे प्राधान्येऽप्यार्थो गुणभावोऽप्यनूद्यमानत्वात्, समासे च विभक्तिलोपान्नोत्कर्षा- पकर्षावगतिरिति न तन्निबन्धनारसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधे- यांशत्वं दोपतयोक्तमिति। अव्ययीभावे यथा-'सा दयितस्य समीपे नावस्थातुं न चलितुमुत्सहते। हीसाध्वसरसविवशा स्पृशति दशां कामपि नवोढा ॥' इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषणं तत्तस्य सुकृतशतलभ्यतालक्षणमुत्क- र्मादधद्रतेरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नोपदयितमितिवत्समीपार्थे-

Page 210

१८० काव्यमाला।

नाव्ययेन सह समासेऽवसादं गमितम्। प्रत्युदाहरणं तु 'मध्ये व्योम-' इत्यादि प्रदर्शितमेव। अनेनैव न्यायेन कृत्तद्धितवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः। तत्राप्युक्तक्रमेण प्राधान्येन रसभावविवक्षाविशेषात्। तयोरुदाहरणं यथा-'यः सर्वे कपति खलो विभर्ति यः कुक्षिमेव सत्यतिथौ। यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि ते हंसी ॥' इत्यन्न सर्वादीनां कर्षणादिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाभिधायितया प्राधान्येन विवक्षितत्वान्न तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षा- बद्धकक्षाणां बोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात् । खलाः खलु दम्भादि- दोषारोपेण तदपि तेषां कषन्त्येव। कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधा- नत्वाद्विनश्वरत्वाच्च। विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिष्वकार्यकारितयापरा- धातिरेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा शीर्षच्छेदस्य च शरीरेपु निग्रहेपु तदतिरिक्तस्यान्यस्यासंभवात्। यथा च-'रामोऽस्मि सर्वे सहे' इति। उचितकारित्वं प्रति किमुच्यते। रामभद्रस्य दशरथप्रसूतिरसाविति च। प्रत्ययोत्पत्तिः पुनर्न्यग्भू- तसर्वादिकर्मभावः कषणादिषु कत्रेश एवोन्मसतया प्रकाशेत न कर्माशस्तत्रैव प्रत्ययो- त्पत्तेः। वाक्ये तु यद्यपि शव्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीतिः तथापि तत्रान्या विवक्षा कृतः साधनानामपि सा प्रतीयत एव। न चैकस्मिन्नेव वाक्ये दयोः साध्य- साधनयोर्युगपत्प्रधानभावोऽनुपपत्र इति शक्यं वत्तुम्। शब्दार्थसामर्थ्यविवक्षाकृतानां त्रयाणामप्येकस्यैव विवक्षाकृतस्य प्राधान्यस्य वलीयस्तया तयोः समशीर्षिकाभावात्। तदिदमत्र तात्पर्यम्। यत्कर्थंचिदपि प्रधानतया विवक्षितं न तन्नियमेनेतरेण सह समासमर्हतीति। इतरच्च विशेष्यमन्यद्वास्तु न तत्र नियमः तेन द्वन्द्वपदानां स्वरूपाणां च पदानामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येकं क्रिया- संबन्धोपगमलक्षणं प्राधान्यं विवक्ष्यते तदा तेषामपि समास एकशेषश्च नेष्यत एव। यथा-'किमञ्जनेनायतलोचनाया हारेण कि पीनपयोधरायाः। पर्याप्तमेतन्ननु मण्डनं ते रूप च कान्तिश्च विदग्धता च ।।' अन्न रूपादीनां प्रत्येकं मण्डनक्रियाभिसंबन्धकृतं प्राधान्यं रत्युद्दीपनपर्यवसायि विवक्षितमिति न तत्तेषां समासेऽवसादितम्। यथा च- 'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धामृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥' इति। एकशेषे यथा- 'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । कक्ष कश्च स कर्णारिः सच क्रूरो वृकोदरः ॥' इति। प्रत्युदाहरणमेतदेव कृतैकशेषमवगन्तव्यम् ॥ अत्र पुनरेप प्रधा. नेतरभावो न विवक्षितः सरूपमात्रप्रतिपत्तिफलक्ष विशेषणविशेष्यभावस्तत्र समासा- समासयोः कामचारः । यथा-'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥' इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणो स्तनयुगस्य च संबन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्षयोग: कश्चिद्वि- वक्षितः । अपि तु तत्संबन्धप्रतीतिमात्रं तच् व्रतमिव भवदरिवधूस्तनद्वयमित्यतः

Page 211

३ अध्याय:] काव्यानुशासनम्। १८१

समासादपि तुल्यमेव। यथा चात्रैव रिपुस्त्रीगामिति रिपुसंबन्धमात्रप्रतीतिः स्त्रीणा- मिति। 'विनोत्कर्षापकपाभ्यां सवदन्तेऽर्या न जातुचित्। तदर्थमेव कवयोऽलंकारं पर्युपासते॥ तौ विधेयानुवाद्यत्वविवक्षैकनिवन्धनौ। सा समासेSस्तमायातीत्यसकृत्प्रति- पादितम् ॥ अत एव हि वैदर्भी रीतिरेकैव शस्यते। यतः समाससंस्पशस्तत्र नैवो- पपद्यते। संबन्धमात्रमर्थानां समासो त्यवबोधयेत्॥' नोत्कर्षापकर्ष वा। यथा-'ऊर्धा- क्षितापगलितेन्दुसुधालवत्के जीवत्कपालचयमुक्तमहाद्ृहासम्। संत्रस्तमुग्धगिरिजाव- लिताङ्गसङ्गहृषटं वपुर्जयति हारि पिनाकपाणेः ॥' वाक्यात्तभयमप्यदः । यथा- 'न्यकारो ह्ययमेव मे यदरयस्तन्राव्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीव- त्यहो रावणः। धिकू धिक् शकजितं प्रवोधितवता किं कुम्भकर्णेन वा खवर्गग्रामटिका- विलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥' इति। तथा हि। मम अरय इति बहुवचनेन शत्रुशत्रुमद्भावो ममानुचित इति संबन्धानौचित्यं क्रोधविभावो व्यज्यते। तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम्। तत्रापिशव्देन निपातसमु- दायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम्। मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता तस्यां च स कर्ता। अपिशब्देन मानुष- मात्रकः। अत्रैवेति मदधिष्ठितो देशोऽधिकरणम्। निःशेपेण हन्यमानतया राक्षसबलं च कर्मेति। तदिदमसंभाव्यमुपनतमिति पुरुषकारासंपत्ति्वन्यते। रावण इति। येन इन्द्रपुरविमर्दनादि किं किं न कृतमिति। धिग्धिगितिनिपातेन शक्रजितमित्युपपदस- मासेन सह कृता च शक्रं जितवानित्याख्यायिकेयमिति व्यज्यते। खवर्गेत्यादिसमासस्य स्वपौरुषानुस्मरणं प्रति व्यञ्जकत्वम्। ग्रामटिकेति स्वार्थिकतद्धितप्रयोगेण स्त्रीप्रत्ययस- हितेनाबहुमानास्पदत्वं व्यज्यते। विलुण्ठनशब्दे विशब्दस्योपसर्गस्य निर्दयावस्कन्दव्यञ्ञ- कत्वं वृथाशव्देन स्वात्मपौरुषनिन्दा व्यज्यते। भुजैरिति बहुवचनेन प्रत्युत भारमात्र- मेतदिति व्यज्यते इति। किं तु प्रवृत्तिरेतस्य रसाभिव्यत्तयपेक्षया शान्तशृङ्गारकरुणान- न्तरेण प्रशस्यते। 'यतः समासो वृत्तं च वृत्तयः काकवस्तथा। वाचिकाभिनयात्मत्वा- द्रसाभिव्यक्तिहेतवः ॥ स चार्धान्तावधिः कार्यो नाधिको गद्यताप्तितः । गद्ये हि वृत्तवै- कल्यान्न्यूना तद्यक्तिहेतुता ।' यथानन्तरोक्ते उदाहरणे-'तस्याभिन्नः पदार्थानां संव- न्वश्चेत्परस्परम्। न विच्छेदोऽन्तरा कार्यो रसभङ्गकरो हि सः ॥' यथा-'माद्ह्दिग्गज- गण्डभित्तिकषणैर्भग्नस्न्नवच्चन्दनः' इति। अत्र हि 'क्षुण्णस्रवच्चन्दनः' इति युक्त: पाटः । विधेयत्वं चैतत्प्राधान्यापलक्षणमव्यभिचारात्। ततक्ष प्रधानाविमर्शापि दोषतयाव- गन्तव्यः । यथा-स्नेहं समादिशति कजलमादधाति सर्वान्गुणान्दहति पात्रमधः करोति। योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत्तमसो महत्त्वम् ।' अत्र हि प्रकाशनक्रियाया एव प्रावान्यविवक्षा नान्यासामिति तासां तत्समशीर्षिकया निर्देशो दोष एव।स च तत्र शत्रादिभिरेव वत्तुं न्याय्यो नाख्यातेन। यथा-'विभ्राणः शक्तिमाशु प्रशमितवलवत्तारकौर्जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्र-

Page 212

१८२ काव्यमाला।

अथ- 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥' इत्यादौ इदमदःप्रभृतयः शब्दाः तच्छब्दार्थमभिदधतीत्युच्यते। तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते। अव्यवहितत्वे हि प्रत्युत तदितराकाङ्का भवत्येव। यथा- 'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोक :- ' इत्यत्र। 'सोडयं वटः श्याम इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः' इत्यादौ च। अथ- 'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षतात्क्षताद्युष्मान्।' इत्यादावव्यवहितत्वेऽपि दृश्यते । तर्हि अत्रैव भिन्नविभक्तिकानां सो- डस्त्वित्यलम्। यथा वा- 'किं लोभेन विलद्गितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोडसौ गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ।।'

कान्तावभासम्। आधिक्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां बालो लक्ष्मी- मपारामपर इव गुहोऽहर्पतेरातपो वः ॥' इत्यादौ सर्वासां पुनः प्राधान्यविचक्षायां नाख्यातवाच्यतं दोषः । यथा-'सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारान्न- श्यति चित्रकेलिसदसो वेषं विषं मन्यते। आस्ते केवलमब्जिनीकिसलयप्रस्तारशय्या- तले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ।' 'यत्रैककर्तकानेका प्राधान्येतरभा- क्क्रिया। तन्नाख्यातेन वाच्यादया शत्रादैरपरा पुनः ॥' इत्यन्तरश्लोकः । अयं च समा- सासमासविषयः सूक्तरत्नपरीक्षाव्यसनैकरसिकतया पदवाक्यविवेकानवधारणेन प्रदर्शि-

Page 213

३ अध्याय:] काव्यानुशासनम् । १८३

अत्रार्यस्येति तातस्येति च वाच्यम्। न त्वनयोः समासे गुणीभावः कार्यः। एवं समासान्तरेप्वप्युदाहार्यम्॥ विरुद्धबुद्धिकृत्वं पदस्य यथा- 'गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ।I' अत्राम्बिकाया गौर्या रमण इति विवक्षितम्, मातृरमण इति विरुद्धां धियमुत्पादयति। यथा- 'सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी- मिवात्मानं मालामुपनयति पत्यौ दिविषदाम्। जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै- र्हसन्वो भद्राणि द्रढयतु मृडानीपरिवृढः ॥' अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीति करोति। 'चिरकालपरिप्राप्तिलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ।।' अत्र कण्ठग्रहमिति वाच्यम्। वाक्यस्य यथा- 'अनुत्तमानुभावस्य परैरपिहितौजसः । अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः । अत्रापकृष्टश्छादितमकार्येषु मित्रम्। अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणो यथा- 'अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुपः कर्तुमुपेत्य माननाम् ॥' अत्रानुशयमिति पश्चात्तापं कोप च । अभिमना इति प्रसन्नमना

१. आर्यानुज इत्येतत्स्थाने 'आर्यस्यानुजः' इति, तातकलत्रमित्यस्य स्थाने 'तातस्य कलत्रम्' इति वाच्यमित्यर्थः

Page 214

१८४ काव्यमाला।

निर्भयचित्तश्च। माननामिति पूजां निर्वर्हणं च। अत्र विपरीतार्थकल्प- नाद्विरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम्।। अथार्थदोपा :-

यमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य। दोषा इति वर्तते। कष्टादगम्यत्वात्कष्टत्वमर्थस्य। यथा- 'सदामध्ये यासाममृतरसनिःस्यन्दसरसं सरखत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एता घेनपरिचयाः के न महतां महाकाव्यव्योमि स्फुरितरुचिरा यान्तु रुचयः ॥' यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारवि- चित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योम्नि सर्गबन्धलक्षणे परिचयगताः कथमभिनेयका- व्यवत्प्रसादं यान्तु। तथा यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥ प्रकृतानुपयोगोऽपुष्टार्थत्वम्। यथा- 'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्। फालेन लङ्डयामास हनूमानेष सागरम् ॥।' अत्र तमालश्यामलादयोऽनुपादानेऽपि प्रकृतमर्थ न वाधन्ते इत्यपुष्टाः । यथा वानुप्रासे- 'भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि। यदि सल्लीलोल्लापिनि गच्छसि तत्कं त्वदीयं मे ॥'

१. 'मियममृतनिष्यन्दसुरसा' प्रकाशे. २. 'घनपरिचिता: केन' प्रकाशे. ३. 'स्फुरितमधुरा' प्रकासे.

Page 215

३ अध्याय:] काव्यानुशासनम्। १८५

परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥'

र्थत्वम् ।। अत्र वर्णसावर्ण्यमात्रं न पुनर्वाच्यवैचित्यकणिका काचिदस्तीत्यपुष्टा-

पूर्वापरव्याघातो व्याहतत्वम्। यथा- 'जहि शत्रुकुलं कृत्सं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥।' अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः । अवैदग्ध्यं ग्राम्यत्वम्। यथा- 'स्वपिति यावदयं निकटे जनः, स्वपिमि तावदहं, किमपैति ते। इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा।'

'हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः ॥' एतद्वाक्यं खलेषु प्रयुज्यमानं शेफसि प्रतीति जनयति। इहान्वयव्य- तिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥ साकाङ्कत्वम्। यथा- 'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभो:, प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर् च परस्य, मानयशसोर्विस्तरंसनं चात्मनः, स्त्रीरतं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्गति न हि परस्येत्यनेन संचन्धो योग्यः । यथा च- 'गृहीतं येनाशीः परिभवभयान्नोचितमपि, प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । तोऽपि सहृदयैः स्वयमेत्र तद्विवेकेन परामर्शनीयः ॥ स्वपितीति । निद्राति॥ १. 'डस्य' प्रकाशे. २. 'सीः' ग्रकाशे. २४

Page 216

काव्यमाला।

परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥' यत इति तत इत्यत्रार्थे। अत्र शस्त्रमोचनं हेतुमाकाङ्कति। यत्र त्वाकाङ्का नास्ति तत्र न दोषः । यथा- 'चन्द्रं गता पद्मगुणान्न भुङ्गे, पझ्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।।' अत्र रात्रौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्ध- मिति 'न भुङ्गे' इति हेतुं नापेक्षते ।। संशयहेतुत्वं संदिग्धत्वम्। यथा- 'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥' अत्र प्रकरणाद्यभावे संदेहः, (शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः) ॥ प्रधानस्यार्थस्य पूर्व निर्देशः क्रमस्तदभावोडक्रमत्वम्। यथा- 'तुरगमथ वा मातङ्गं मे प्रयच्छ मदालसम्-' अत्र मातङ्गस्य प्राड़िर्देशो न्याय्यः। यदा तृदारसत्त्वो गुर्वादिर्बलाङ्गा- ह्यमाणस्तुरगमित्यादि च वक्ति तदा न दोषः । क्मानुष्ठानाभावो वाक्रमत्वम्। यथा- 'कोराविऊण खउरं गामउडो मज्जिऊण जिमिऊण। २

नक्खत्तं तिहिवारे जोइसिओ पुच्छिओ चलिओ ।।' क्वचिदतिशयोक्तौ गुणः। यथा- 'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम्। प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ।।'

खपिमीति। कामये॥ हेतुमाकाङ्गतीति। तेन निर्हेतुः पृथङ् वाच्यः साकह्ा १. 'कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा भुक्त्वा च। नक्षत्रं तिथिवारौ ज्यौतिषिकं प्रष्ठुं चलितः ॥' इति छाया. २. 'जेमिअ अ' प्रकाशे.

Page 217

३ अध्याय:] काव्यानुशासनम्। १८७

यत्र तद्देशिनामनुद्देशिनां च क्रमभ्रंशोडक्रमखम्। यथा- 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।' इति। तत्र पदरचना विपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति। द्विरभिधानं पुनरुक्तम्। यथा- 'प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत्। च पुष्पशेषेऽखिललोककान्ता सानन्यकाम्या हयुरसीतरा नु।' इत्युक्त्वैकार्थमेवाह। 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य। आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥' यथा वा-'अश्वीयसंहतिभिरुद्धतमुद्धुराभिः।' अश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्र पौनरुक्त्यम्। यथा- 'छायामपास्य महर्ती परिवर्तमाना- मागामिनीं जगृहिरे जनतास्तरूणाम् ।' अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य च। तथा-'पायात्स शीतकिरणाभरणो भवो वः।' अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य तत्र पौनरु- त्तयमेव नास्ति। यथा- 'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा। कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति किं मम धन्विनोऽन्ये॥' अत्र हरशब्दस्य। यथात्र कुसुमायुधोऽपी त्यस्माद्विशेष्योपादानमन्तरेण- प्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति। नैवम्। सप्तम्युत्तमनिर्देशेनैवास्म- दर्थस्य विशेषस्य प्रतिपादितत्वात्। एवं धनुर्ज्यादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुत्तयम्। यदाह- 'धनुर्ज्याशब्दे धनुःश्रुतिरारूढेः प्रतिपत्यै' इत्यादि। यथा- 'धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव।'

Page 218

काव्यमाला।

अत्र धनुःशब्दादारूढे: प्रतिपत्तिः । 'दोलाविलासेपु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम्।' 'लीलाचलच्छूवणकुण्डलमापतन्ति ।' 'अपूर्वमधुरामोद प्रमोदितदिशस्ततः । आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ॥' एपु कर्णश्रवणशिरःशब्देभ्यः संनिधानस्य प्रतिपत्तिः ।

मुक्ताहारेण हैसता हसतीव स्तनद्वयम् ॥।' अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः । 'प्रायशः पुष्पमालेव कन्यका कं न लोभयेत्।' अत्र पुष्पशब्दादुत्कर्ष- प्रतीतिः। 'त्यज करिकलभ प्रेमबन्धं करिण्याः ।' अत्र करिशब्दत्वात्ताद्रू- प्यावगतिः । यत्र तुन विशेषप्रतिपत्तिर्यथा-'ज्याबन्धनिष्पन्दभुजेन यस्य' इति, 'अदादिन्द्राय कुण्डले' इति, 'पाण्ड्योऽयमंसार्पितलम्बहारः' इति, 'मालाकार इवारामः' इति, 'लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति'। इति च, तत्र केवला एव ज्यादिशब्दाः, न च नितम्बकाञ्जयोष्ठकरभादिषु तथा प्रसङ्ग:। तेषां कविभिरप्रयुक्तत्वात्। संकेतव्यवहाराभ्यां हि श- ब्दार्थनिश्चय इति। क्वचिद्गुणो यथा- 'प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् ।

एवान्तर्भावादिति ॥ धनुःशब्दादिति । अन्यथा ज्याकिणचिह्नेन दोष्णेत्युक्तेऽनव- रतदृढाकर्षणाहितकिणमण्डितत्वं दोष्णो न प्रतीयेत। वेष्ट्यमानेऽप्यमानया ज्यया कृतकिणचिह्रस्य संभवात् ॥ कर्णेति। विलासनिर्वाहार्थ प्रतिनियतखदेशसंनिहितै- राभरणैः प्रयोजनमिति तदर्थ प्रयुक्तेभ्य इत्यर्थः ॥ मुक्ताशब्दादिति। उत्प्रेक्ष्यमा- णस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवल- मुक्तालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्तात् ॥ पुष्पशब्दादिति । विदग्धजनमनोविलो- भनक्षमकन्यारत्नोपमानभावेन मालाया उपादानादुत्कृष्टपुष्पग्रथितत्वागमनाय प्रयुक्तादि- १. 'लसता' प्रकाशे.

Page 219

३ अध्याय:] काव्यानुशासनम् । १८९

संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥' अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत रसपोषाय। यदाह- 'वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृङ्गूते तत्पुनरुक्तं न दोषाय ।।' इति। उचितसहचारिभेदो भिन्नसहचरत्म्। यथा- 'श्रतेन बुद्धिर्व्यसनेन मूर्खता, मदेन नारी, सलिलेन निम्नगा। निशा शशाङ्केन, धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ।।' अत्र श्रुतवुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयो्निकृष्टयोभिन्नत्वम्। विरुद्धं व्यङ्गचं यस्य तद्धावो विरुद्धव्यङ्गयत्वम्। यथा- 'इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन्हेम्ः कटकमिति धत्से खलु धियम्। इदं तहुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ।' अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् । 'लसं रागावृताङ्गया-' इति। अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते॥ प्रसिद्धया विद्याभिश्च विरुद्धत्वम्, तत्र प्रसिद्धिविरुद्धत्वम्। यथा- 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्धवद्धिरवेक्ष्यताम्। इह हि विहितो रक्ताशोक: कयापि हताशयां

अत्र पादाघातेनाशोकस्य पुप्पोद्गम एव कविपु प्रसिद्धो नाङ्कुरोद्गमः ।

१. 'संतापिताः' प्रकाशे.

Page 220

१९० काव्यमाला।

यथा वानुप्रासे- 'चक्री चक्रारपङ्किं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता- नृक्षं नक्षत्रनाथोSरुणमपि वरुणस्तुम्बराग्रं कुबेरः । रंहःसंघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॥' अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोघेनैव कृता न पुराणादिषु तथा प्रतीता। कदाचिच्चक्रिणश्चक्रारप्रियत्वं संभाव्येतापि तु उत्तराणि तु न तथा संगच्छन्ते इति प्रसिद्धिविरोधः । यथा वोपमायाम्-'ग्रभनामि काव्यशशिनं विततार्थरश्मिम्।' अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यै न प्रसिद्धम्। तथा- 'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः । उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥' अत्र मध्यगतचन्द्रिकयारविन्दस्योन्निद्रत्वमसंभवमिति प्रसिद्धिवि- रुद्धत्वम् । कलाचतुर्वर्गशास्त्राणि विद्या। कलाश्च गीतनृत्यचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वम्। यथा- 'श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम्। प्रणिजगदुरकाकि श्रावकस्त्िग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥' श्रुतिसमधिकमिति। श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः । पीडयन्त इति श्रतिहासेनाल्पीकुर्वन्त इत्यर्थः। भिन्नकीकृत्य षड्जमिति। भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात्। अत्र भिन्नषड्जेन माधवी(गधी) गीतिरुपनिबद्धा। तस्यां च पञ्चमस्य ऋषभवदसंभव एव दूरे पुनः श्रुतिसमधिकत्वम्। यतो भिन्नषड्जस्येदं लक्षणम्-'घांशस्तु धैव- तन्यासः पञ्चमर्षभवर्जितः । षड्जोदीच्यवती जातेर्भिन्नषड्ज उदाहृतः ॥' त्यर्थः॥ धांश इति। धैवतांश इत्यर्थः । षड्जोदीच्यवती जातेरिति। जातयो

Page 221

३ अध्याय:] काव्यानुशासनम्। १९१

एवं कलान्तरेप्वप्युदाहार्यम्। चतुर्वरगे धर्मशास्त्रविरुद्धलं यथा- 'सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च।' अत्र विप्र इति। क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वं यथा- 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया।' द्विषज्जयस्य हि नयमूलत्वं स्थितं दण्डनीतौ। कामशास्त्रविरुद्धत्वं यथा- 'तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते।' उत्तरोष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनस्थानानि इति हि कामशास्त्रे स्थितम्। मोक्षशास्त्रविरुद्धत्वं यथा- 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदः ।' एतस्यार्थस्य मोक्षशास्त्रेऽस्थितत्वाद्विरुद्धत्वम् ॥ त्यक्तपुनरात्तत्वम् । यथा-'लसं रागावृताङ्गया-' इति। अत्र विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः । क्वचिद्गुण :- 'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संपुष्पत्यथ कालकूटपटलीसंवाससंदूषिताः । व्यष्टादश। तथा हि मुनिः-'पाड्जी चैवार्पभी चैव धैवत्यथ निषादिनी। षड्जोदीच्यवती चैव तथा स्यात्पड्जकैशिकी॥ स्यात्पड्जमध्यमावेव षड्जग्रामसमाश्रयाः। अत ऊ्ध्वे प्रव- क्ष्यामि मध्यमग्रामसंश्रयान्॥ गान्धारीं मध्यमा चैव गान्धारोदीच्यकी तथा। पश्चमी रक्तगान्वारी तथा गान्धारपञ्चमी ॥ मध्यमोदीच्यका चैव नन्दयन्ती तथैव च। कामी- रवी च विज्ञेया तथान्ध्री कैशिकी मता ॥' इत्येतासां मध्या या पड्जोदीच्यवती जाति- स्तस्याः सकाशादित्यर्थः ॥ कलान्तरेष्वप्युदाहार्यमिति। तत्र चित्रकलाविरोधो यथा-'कालिङ्ं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकथ्रि।' 'कालिङ्ं पति- ताग्रकण्टकम्' इति पत्रविदामाम्नायः। एवं कलान्तरेष्वभ्यूह्यम् ॥ क्षत्रियस्य हीति। तथा च स्मृति :- 'राजा राजसूयेन स्वाराज्यकामो यजेत। राजा सर्वतो विजाती अश्वमेधेन यजेत' इति॥ देवताभक्तित इति। 'चतुविधा भजन्ते मां जनाः सुकृ-

Page 222

१९४ काव्यमाला।

ध्यसे इति विधौ वाच्ये परिवोधित इत्युक्तमिति परिवृत्तविधित्वमपि। अत्र चान्वर्थवलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् ।। अथापवादानाह-

दोषा इत्यनुवर्तते। अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न नानुकरणे।

भवन्ति। उदाहरणं प्रागेव प्रदर्शितम्॥ वक्काद्यौचित्ये च। वक्तप्रतिपाद्यव्यङ्गयवाच्यप्रकरणादीनां महिम्रा न दोषो न गुणः । तथोदाहृतम् ।। क्वचिद्गुणः। वक्राद्यौचित्ये क्वचिद्रुण एव। तथैव्रोदाहृतम्।। इत्याचार्यश्री हे मचन्द्र विरचितायामलंका रचू डामणि संज्ञखोपज्ञकाव्यानुशा- सनतृत्तौ दोषविवेचनो नाम तृतीयोऽध्यायः ।

चतुर्थोऽध्यायः । सगुणौ शब्दार्थो काव्यमित्युक्तम्। गुणानां च रसोत्कर्षहेतुत्वं सा- मान्यलक्षणं प्रतिपादितम्। इदानीं तद्भेदानाह- माधुर्यौज:प्रसादास्त्रयो गुणाः। त्रयो न तु पैञ्च दश वा, लक्षणस्य व्यभिचारादुच्यमानगुणेष्वेवान्त- र्भावात्, दोषपरिहारेण सवीकृतत्वाच्च। गुणा इति रसस्य गुणाः शब्दार्थ- योस्तु भक्त्या इत्युक्तमेव।

न तु दश पश्च वेति। अयं भाव :- माधुयौनःप्रसादा एव गुणाः, ते च मुख्य- वृत्त्या रसस्यवेति प्राक् सामान्यलक्षणे निर्णीतम्। ततश्चैते शब्दार्थाश्रयलेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन्न युक्तमिति। तथा हि-'ओजःप्रसादश्लेपसमतासमाधिमाघुर्य- सौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणा दश' इति केचित्। तत्र 'अवगीतस्य १. टीकायां तु 'दश पञ्च वा' इत्युपलभ्यते, व्याख्यायते च तेनैव क्रमेण. तस्मात् 'पञ्च दश' इति पाठो लेखकप्रमादजो भवेत्. १. मूले तु 'पञ्च दश वा' इत्युपलभ्यते.

Page 223

४ अध्याय:] काव्यानुशासनम्। १९१

हीनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं निषिश्चन्ति कवयस्तदोजः इति भरतः। यथा-'गोमायवः शकुनयोऽत्र शुनां गणोSत्र लुम्पन्ति कीटकृमयः परितस्तथैते। त्वं संपदं सकलसत्त्वकृतोपकारं(?) नादृष्टवान्यदपि(?)तच्छव वब्चितोऽसि ॥'अनवगतस्या- हीनस्य वा वस्तुनः शब्दार्थयोरर्थसंपदा यदनुदात्तत्वं निषिश्चन्ति कवयस्तर्हि तदनोज: स्या- दिति मङ्गलः। यथा-'ये संतोषसुखप्रबद्धमनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसं- कुलधियस्तेषां तु दूरे नृणाम्। धिक्तं कस्य कृते कृतः स विधिना तादक्पदं संपदां स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते॥' कवीनामभिधेयं प्रति त्रयः पन्थानः। एते न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी। तस्मात्समासभूयस्त्वमोजः। तच्च गद्यविभूषणं प्रायेण, वृत्तवर्त्मन्यपि गौ- डास्तदाद्रियन्ते। प्रथममाख्यायिकादिषूपलभ्यते। द्वितीयं यथा-'दूरोहण्डतडित्क रालतरलज्योतिश्छटाडम्बरस्फारस्फूर्जित दुर्जयास्त्रसचिवज्याघोषघूत्कारिणाम्। यस्यै- कस्य शतानि पञ्च धनुषां दैत्याहवेषु व्यधुलोलीभावगभीरघोरमखिलव्रह्माण्डकोलाह- लम् ।' रीतित्रयेऽप्योजसः साधारणत्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्ग- लक्ष। तस्माद्राढत्वमोजः । यथा-'भस्मवर्म फणिनः पतिर्गवामस्थिपङ्गिरिति ते परि- ग्रहः । ईश इत्ययमनन्यचुम्बितश्चन्द्रचूड तदपि त्वयि ध्वनिः ॥' एवं रीत्यन्तरेऽपि॥ ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम् । तद्धि शुद्धमोजसः प्रत्युत हानिहेतुः। यथा-'वज्रेणान्तर्नु वज्रिन् जहि बहुविशतं(?) वामुके शेषघोणां दन्तैर्दिग्दन्तिनोऽक्ष्णो विघटयत पुटानङ्गुलीर्हि त्रिशूलैः। दंध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्प- योवीं मैनाक क्षुध्वि(?) वक्षस्तटमटतु रणे कुम्भकर्णोऽस्तनिद्रः ॥' तस्मान्न गाढैत्वमोजः । अर्थगुणस्तु 'अर्थस्य प्रौढिरोजः' इति वामनः । तत्र-'पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।।' इति या प्रौढिरोजस्तद्वै- चित्र्यमात्रम्। साभिप्रायत्वरूपं चौजोऽपुष्टार्थत्वदोपैमात्रं न गुणः । किं च। भो: स- हृदया अर्थो जडस्तस्याभिप्राय इति केषां भाषा। वत्तृश्रोत्रोः स इति चेत्तद्रतोऽर्थस्य गुण इति कथम्। अथ वस्त्वन्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते। तद्वस्त्वन्तरमा- क्षेप्यं वतरभिप्रायरूपमेवमाक्षेपकत्वमपि कविव्यापारबलादेव तथा विनिवेशनाप्रकारयोगे तथाभावात् अत एव प्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थ काममुपचर्यतामित्यलं बहुना॥

१. भरते तु 'समासवद्भिविंविधैविचित्रैश्च पदैर्युतम्। सा(?)तु खरैरुदारैश्च तदोजः परिकीर्लते ॥' इत्युपलभ्यते. २. 'नो' इति भवेत्. ३. 'गीत' इति भवेत्. ४. तथा च काव्यादर्शे-'ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम्। पद्येऽप्यदाक्षिणात्यानामि- दमेक परायणम्॥ तत्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः। उच्चावचः प्रकारं तद्ृश्यमाख्यायिकादिपु ॥' इति. ५. तथा च वामनसूत्रम्-'गाढवन्धनत्वमोजः' इति. ६. वामनेन तु 'न शुद्धः' इति सूत्रेण शुद्धस्य प्रसादस्य दोपत्वमङ्गीकृतम्. ७. 'दोषनिराकरणमात्रम्' इति भवेत्.

Page 224

१९६ काव्यमाला।

विभक्तवाच्यवाचकायोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसादः इति भरतः। पदपू- र्विका तदर्थावगतिरिति शब्दार्थयोरग्रहणम्। यथा-'यस्याहुरतिगम्भीरजलदप्रतिमं गलम्। स वः करोतु निःसङ्गमुदयं प्रतिमङ्गलम् ।' सेयं विशेषणाधारा विशेष्याणामु- क्तिरिति वामनीयाः । तस्मात् 'शैथिल्यं प्रसादः'। ओजोविपर्ययात्मा कर्थ गुण इति। गाढत्वसंपुतं शैथिल्यमेव गुण इति चेत्। परस्परविरोधित्वाद्वाढत्वशैथिल्ययोः कथ- मेकत्र संनिवेश: संभवतीति। अनुभवादेव विरोधप्रतिषेध इति चेते। यदाह-'क- रुणप्रेक्षणीयेषु संप्रवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥' सेयं दृष्टान्तस्यैव तावदसिद्धिः। दृष्टान्तविघातक्ष दार्ष्टान्तिकमपि प्रतिहन्ति। तथा हि-सा- माजिकजनो नाट्यकर्मणि करुणरसवासितचेताः प्रथमं दुःखातिमात्र प्रयोगवैशारद्येन च पश्चात्सुख्यति। ओजःप्रसादयोः पुनर्युगपदेवानुभवप्रतिज्ञा। यदि च तत्त्त्वं विवे- च्यते तदा सर्वेषामपि रसानां प्रतीतिश्चमत्कारसारत्वात्सुखरूपैवेति दृष्टान्त एव न संग- चछते। तस्माद्विकाशहेतुः सर्वत्र प्रसाद इति। अर्थगुणस्तु 'वैमल्यं प्रसादः इति। प्रयोजकर्पदपरिग्रहो हि वैमल्यम्। तच्चाधिकपदत्वदोषनिराकरणात्सीकृतमेव ॥ 'स्वर- भावस्पष्टं विचारगहनं वच: श्लिष्टम्' इति भेरतः । 'क्षणं स्थिताः पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः र्खलिताः प्रपेदिरे चिरेण नार्भि प्रथमो- दबिन्दवः ॥' सेयमभिधानाभिधेयव्यवहारे वैदग्धी, न पुनः संदर्भधर्मः। रचनारूपता हि गुणस्य स्वरूपमिति वामनीयाः । तस्मात् 'मसृणत्वं श्रेषः'। तदाह-यस्मिन् सति बहून्यपि पदानि एकपदवद्भासन्ते स श्रेषः ॥ यथा-'अस्त्युत्तरस्यां दिशि देवतात्मा' इति। मसणमदन्तरायां(?) हि रीतिवैशसोपनिपातः। तं चान्यतररसनिर्वाहे निषेवन्ते। तस्मात् 'अशिथिलं श्रिष्टम्' इति देण्डी । यथा-'प्रेक्षामृदङ्गनिनदानुपकर्ण्य तूर्ण- मम्भोदनादरभसान्न वृते मयूरैः। यन्मन्दिरे सरलकण्ठमकण्ठकूजमुन्मण्डलीकृतशिख- ण्डमकाण्ड एव ।' सोऽयमोजः प्रकार एव। अदृष्टगौडसंदर्भस्य वा दर्शनमित्युपेक्षणी- यम्। गौडा हि शिथिलमाद्रियन्ते। यथा-'लीलाविलासललनाललितालकलासकाः । विलुप्तमालतीमाला जलकालानिला ववुः ॥' इति। अर्थगुणस्तु 'घटना श्लेषः' । क्रम- कौटिल्यानुल्बणत्वोपपत्तियोगो हि घटना। यथा-'दष्ट्रैकासन-' इति। संविधानकभवं

१. भरते तु 'अथानुक्तो वुधैर्यत्र शब्दादर्थः प्रतीयते। सुखशब्दार्थसंयोगात्प्र- साद: परिकीर्त्यते ॥' इति. २. अत्र 'चेत्' इति भवेत्. ३. अत्र 'चेत्' इति न भवेत्. ४. अत्र 'चेतू' इति भवेत्. ५. अत्र 'चेत्' इति न स्यात्. ६. 'दुख्यति, पात्र- प्रयो' इति स्यात्. ७. वामनसूत्रं तु 'अर्थवैमल्यं' इत्युपलभ्यते. ८. 'मात्रपरि' इति वामनसूत्रवृत्तौ. ९. भरते तु 'विचारगहनं यत्स्यात्कफुटं चैव स्वभावतः। खतः सुप्र- तिबद्धं च श्रिष्टं तत्परिकीर्तितम् ॥' इति. १०. 'स्थिताः क्षणं' इति कुमारसंभवे. ११. 'यन्नैकपदवद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स श्लेषः परमो गुणः ।2 इति वामनसूत्रवृत्तौ. १२. काव्यादर्शे तु 'श्रिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम्' इति.

Page 225

४ अध्याय:] काव्यानुशासनम्। १९७

वैचित्र्यमात्रमिदं न गुणः ॥ 'परस्परविभूषणो गुणालंकारप्रामः समम्' इति भरतः । यथा-'स्मरनवनदी-' इति। भिन्नाधिकरणा हि गुगालंकारास्ततकथमन्योन्यं भूपये- युरिति दण्डी। शेषयमकचित्राणि हि प्रायेण गुणान्विग्ृह्य वर्तन्ते। अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तदूदेव। तस्माद्वन्धेष्वविषमं समम्। ते च प्रौढो मृदुर्मध्यश्वेति त्रयः। प्रौ- डमृदुमध्यवर्णविन्यासयोनित्वात्। प्रौढो यथा-'आहतं कुचतटेन तरुण्याः साधु सो- ढममुनेति पपात। त्रुव्यतः प्रियतमोरसि हारात्पुष्पत्रष्टिरिव मौक्तिकतृष्टिः ॥' मृदु- र्यथा-'ललितमङ्मपाङविलोकितं स्मितसुधालवपल्लवितोऽधरः । इति मनो जयतः प्रमदाजनं मनसिजस्य जयन्ति शिलीमुखाः ॥' मध्यो यथा-'ईदृशस्य भवतः कथमे- तल्लाघवं मुहुरतीव रतेषु। क्षिप्तमायतमदर्शयदुर्व्या काश्चिदाम जघनस्य महत्त्वम् ॥' तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः । तस्माद्येन रीतिविशेषेणोपकमस्तस्याप- रित्याग आ समाप्तेरिति समताया रूपम्। तन्मुक्तके प्रबन्धे च। वैदर्भमार्गनिर्वाहो यथा-'किं व्यापारैः-' इति। गौडमार्गनिर्वाहो यथा-'क्षुद्रः कोऽयं तपस्वी क्षच(?)- वदनवनच्छेद निष्ठयूनमज्व्याजाज्यस्कारधाराहुतिहुतहुतभुक्पच्यमानैः कपालैः। जाता- स्थिस्फोटभीति प्रविघटितव लद्वामपार्श्वप्रवेशक्राम्यत्सव्येतरार्धा कु लितहर हठाकृष्टख द्गो द- शास्यः ॥' पञ्चालमार्गनिर्वाहो यथा-'ते काकुत्स्थपृषत्कजर्जरजरत्तालदमस्थागवस्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टङ्काड्विताः । ते लीलाशबरेनदुशेखरशरव्याक्षेपत्रीथीभुवो दुर्गाहा अपि गाहिता: शशिरुचा कीर्त्या वनान्तास्तव ।' एवं प्रबन्धेऽपि। प्रयोग- मार्गे प्रतिवसन्तः प्रमाणम्। ते च न सर्वत्र समता वैचित्र्याय संगिरन्ते। तथा हि- 'अज्ञानादयदि वाधिपत्यरभसादस्मत्परोक्षे हृता सीतेयं प्रतिमुच्यतामिति वचो गत्वा

कपुरं पुत्रैर्ध्ृतो यास्यसि ॥'इत्यादौ मसृणमार्गत्यागो गुणः ॥ तस्मात्समता वक्तव्या। अर्थ- गुणस्तु 'अवैषम्यं क्रथता'। प्रकमाभेदो ह्यवैषम्यम्। यथा-'च्युतमुमनसः कुन्दाः पुष्पेष्व- लसा दुमा मनसि च गिरं ग्रन्थन्ति मे किरन्ति न कोकिलाः ।' प्रक्रमभेदो यथा- 'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा दुमा मलयमरुतः सर्पन्ति मे वियोगधृतिच्छिदः।' इति। मधुग्रीष्मर्तु प्रतिपादनपरेSत्र द्वितीयपादे प्रक्रमभेदः। मलयमरुतामसाधारण- त्वात्। ततश्वापदोषत्वमेतन्न गुण इति ॥ अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः । यथा-'परिणतशरकाण्डच्छायमच्छाच्छया यत्किसलयितमिवासीचारुलावण्य- लक्ष्म्या। तदनुदिवसमस्यास्तोयविच्छेदसीदन्नवकुवलयदामश्यामलं जातमङ्कम् ।' स्ो-

१. 'समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । वन्धा मृदुस्फुटोन्मिश्रवर्णविन्यास- योनयः ॥' इति काव्यादर्शवचनात्. २. 'च सन्तः' स्यात्. ३. 'समता' वामनसूत्रे. ४. 'पुष्पोद्रमे' वामनालंकारसूत्रवृत्त्युपलब्धः साधीयान्. ५. 'बन्नन्तीमे' वामनसूत्र- वृत्तौ. ६. 'पुष्पोद्रमे' सयात्. ७. 'न्तीमे' स्यात्. ८. 'वियुक्त' सूत्रवृत्तौ वामनः. ९. 'ऋतुसंधिप्र' सूत्रवृत्ति :.

Page 226

१९८ काव्यमाला।

डयमतिशयोक्तिविशेष इति वामनीयाः । तस्मात् 'आरोह्ावरोहक्रमः समाधिः ।' तत्रारोहपूर्वोऽवरोहो यथा-'शङ्गोत्खातभुवः कृतान्तमहिषादत्रस्त उच्चैःश्रवाः श्रुत्वैरा- वणकण्ठगर्जितमयं कुद्धोऽम्बिकाकेसरी। संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयो: कस्मान्मुखं म्लायति॥' अवरोहपूर्व आरोहो यथा- 'यद्वर्ज्याभिर्जगाहे गुरुसकलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु। अम्भोगम्भीर ...... कुहरकवलनोन्मुक्तिपर्यायलोलत् कल्लोलाबद्ध मुग्ध- ध्वनिचकितकणत्कुङ्कुमं कामिनीभिः ॥' तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी। तस्मादन्यधर्मस्थान्यत्र समाधानात्समाधिः । यथा-'प्रतीच्छत्याशोकीं किसल- यपरावृत्तिमधरः कपोल: पाण्डुत्वादवतरहिताडीपरणतिम्। परिम्लानप्रायामनुवदति दृष्टिः कमलिनीमितीयं माधुर्ये स्पृशति च तनुत्वं च भजते ॥' सेयमुपचरिता वृत्ति- रिति चेद्गुणः, योगवृत्त्या किमपराद्वमिति ॥ अर्थगुणस्तु 'अर्थदृष्टिः समाधिः'। यथा- 'अग्रादपि मध्यादपि मूलादपि सर्वतो््थ शोकस्य। पिशुनस्थमिव रहस्यं यतस्ततो निर्गतं कुसुमम् ॥' अर्थस्य योनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यं स्यात्। ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः ॥ बहुशो यच्छुतमभिहितं वाक्यमनुद्वेजकं मनसः तन्मधुरमिति भरतः । दयितजनरू- क्षाक्षराक्षेपव त्रनेऽपि तत्समानमिति वामनीयाः। तस्मात् 'पृथक्पदत्वं माधुयम्'। त- दिदमनुभवविरुद्धमिति दण्डी। समासेऽपि माधुर्यस्य दर्शनात्। यथा-'अनवरतन- यनजललव निपतनपरिमुषितपत्रलेखान्तम्। करतलनिषण्णमबले वदनमिदं किं न ताप- यति ॥' इति। तस्माद्रसवन्मधुरम् । रसस्तु द्विधा -... ·..• । व्यङ्गयस्तु विषयत्वेन। तयोः श्रुतिवर्णानुप्रासाभ्यां वाग्रसः । अनुप्रासो ह्यलंकारः । कथं तस्य गुणत्वम्। अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थनिबन्धनं हि ग्रा- म्यता। यथा-'ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा वुभुक्षया। भद्रे भजख मां तूर्ण तव दास्याम्यहं पणम् ।' सोवेदोमाभावो न गुणः । एतेनोक्तिवैचित्र्य- रूपं माधुर्ये वामनोक्तोऽप्यर्थगुणो निरस्त एव। तस्मादाह्लादकत्वं माधुर्यमिति॥ सुखशब्दार्थ सकुमारमिति भरतः । यथा-'अङ्गनि चन्दनरजःपरिधूमराणि ताम्बूल- रागसुभगोऽघरपल्लवश्च। अच्छाञने च नयने वसनं तनीयः कान्तासुभूषणमिदं विभ- वावशेषः ॥' 'सुखशब्दमेव' इति वामनः । यथा-'हरेः कुमारोऽपि कुमारविक्रमः

१. 'ति तालीपरि-' स्यात्. २. 'तोऽप्यशो' स्यात्. ३. 'अर्थस्यायोने' स्यात्. ४. 'बहुशो यच्छुतं काव्यमुक्तं वापि पुनः पुनः। नोद्वेजयति तस्माद्वि तन्माधुर्यमुदाह- तम् ॥' इति भरतोत्तयनुसारेण 'वा काव्य' स्यात्. ५. 'सा वै दोषाभावः' इति स्यात्. ६. 'सुखप्रयो ज्यैश्छन्दोभिर्युक्तं प्रश्लिष्टसंधिभिः। सुकुमारार्थसंयुक्तं सुकुमारं तदु्यते॥ इति भरतपाठः ७. 'अजरठलं सौकुमार्यम्' इत्येवं वामनसूत्रेषूपलभ्यते, तत्र जरठत्वं परुषत्वं श्रुतिकटत्वमिति यावतू.

Page 227

४ अध्याय:] काव्यानुशासनम्। १९९

सुरद्विपास्फालनकर्कशाङ्गुलौ। भुजे शचीपत्रलताक्रियोचिते खवनामचिह्नं निचखान साय- कम् ।।' स्रोऽयं श्रुतिकदुत्वदोषाभावो न गुणः । माधुर्यप्रकार एवाऽ्यम् । अर्थगु- णस्तु 'अपारुष्यम् सौकुमार्यम्'। यथा-'स किलेन्द्रप्रयुक्त्तेन सौरिणा भूमिनन्दनः । चक्रघातोपदिग्धाध्वा नीतात्यन्तप्रवासताम् ।' सोऽयममङलरूपाश्रीलत्वदोषाभावो न गुणः ॥ यदि वा उक्तिविशेषः पर्यायोक्तालंकारविषय एवासौ ॥ बहुभिः सूक्ष्मैश् वि- शेषैः समेतमुदारमिति भरतः । यथा-'ये पूर्व यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- च्छाया धाम(?)पुनर्मृणाललतिकालावण्यभाजोSत्र ये। ये धाराम्बुविडम्विनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाता: सुधांशोः कराः ॥' उल्लेखवा- नयमर्थः कथं गुण इति वामनीयाः । तस्माद् 'विकटत्वमुदारता'। यस्मिन् सति नृ- त्यन्तीव पदानीति वर्णना भवति। यथा-'अन्नान्तरे रणितहारलतानितम्बसंवाहन- स्खलितवेगतरङ्गिताङ्गी। देवी व्यपास्य शयनं वृतमानतन्तुरन्तःपुरं गतवती सह सौवि- दल्लैः ॥' सोऽयमीषदमृणोऽनुप्रासभावो न गुणः । ओजःप्रकार एव वायम्। अर्थगु- णस्तु-'अग्राम्यत्वमुदारता'। यथा-'त्वमेवंसौन्दर्या स च रुचिरतायाः परि- चितः कलानां सीमान्त परमिह युवामेव भजथ। अयि द्वन्दं दिष्ट्या तेदिह सुभगे संवदति वामतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया ॥' सोऽयं दोषाभावो न गुणः। यस्मिन्न तथास्थितोऽपि तथास्थित एवार्थः प्रतिभाति सोऽर्थव्यक्तिर्गुण इति भरतः । यथा-'च्युतामिन्दोरलेखां रतिकलहभन्नं च वलयं दवयं चक्रीकृत्य प्रहसितमुखी शैल- तनया। अवोचदं पश्येत्यवतु स शिवः साच गिरिजा स च क्रीडाचन्द्रो दशनकिर- णापूरिततनुः ॥' सोऽयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यन्न पुरस्तादिव वस्तुनो- Sवगतिः पश्चादिव वाचां सार्थव्यक्तिः। यथा-'महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥' सोऽयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः । तत्र चास्तोकमुदाहरणम्। दोषाभावोऽयं कथमिव गुणः । तथा चेद्वहुत्वाद्दोषाणां शतं गुणा: स्युः । अर्थगुणस्तु वैस्तुनः स्फुटत्वमर्थव्यक्तिः' । यथा-'पृष्ठेषु शङ्गशकलच्छविषु च्छदानां राजीभिरङ्गितमलक्तकलो हिनीभिः । गोरोचनाहरितबभ्रुबहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ।' कविव चनवैशारद्यतो वस्तुनः स्फुटत्वमनिसर्गतः । तदु- क्म्-'निवेशयति हृद्यर्थान्न तथापि तथेति वा। महाकवीनां विकटा वाणी विजय- तामसौ ॥' अपि च। जातिर्नीमायमलंकार इति ॥ श्रोत्रमनः प्रह्लादजननं कान्तं

१. 'नीतो' स्यात्. २. 'वासिताम्' स्यात्. ३. 'दिव्यभावपरीतं यच्छृङ्गाराद्गुतयो- जितम्। अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ।' इत्येवं भरते पाठ :. ४. 'नाम' स्यात्. ५. 'तदिति' वामनसूत्रवृत्तौ. ६. 'मुप्रसिद्धा धातुना(?)तु लोकक्मव्यव- स्थिता। या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥' इत्येवं समुपलभ्यते. ७. 'वस्तुखभावस्फुटत्व' वामनसूत्रे.

Page 228

२०० काव्यमाला।

भरतः। यथा-'दद्दशुद्वारदेशस्थां सीतां वल्कलवारिणीम्। अङ्गदाहादनङ्गस्य रति प्रव्रजितामिव ।' तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात्-'औज्ज्वल्यं कान्तिः'। यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति। यथा-'स्त्रीणां केतकगर्भपा- णडुसुभगच्छन्दावदातप्रभे मन्दं कुङालिताः कपोलफलके लावण्यनिष्पन्दिनि। अन्यां कामपि कामिनीयककलामातन्वते नूतनां शीतांशोर्बिसकन्दकन्दलशिखामुग्धश्रियो रशमयः॥' ओजोऽप्यौज्ज्वल्ययोगात्तर्हि कान्तिः । तस्माल्लोकसीमानतिक्रमः कान्तिरिति दण्डी। सा च द्विधा वार्तावर्णनयोः। तत्रोपचारवचनं वार्ता। प्रशंसावचनं वर्णना। वार्ता यथा-'एते वयममी दाराः कन्येयं कुलजीवितम्। व्रृत येनात्र वः कार्यमनास्था बाह्यवस्तुंषु ॥' वर्णना यथा-'तदाननं निर्जितचन्द्रकान्ति कन्दर्पदेवायतनं मनोज्ञम्। प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥' लोकसीमानतिकमः पुनर- कान्तिः। तत्र वार्ता यथा-'मम दृष्टस्य राजेन्द्र तव दीर्घेण चक्षुषा। चरणद्वितय- स्याग्रे नित्यं लुठति चन्द्रमाः ॥' वर्णना यथा-'वदनस्य तवेणाक्षि लक्ष्यते पुरतः शशी। पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः ॥'सेयमतिशयोक्तेर्यत्र्रणा न पुनर्गुणान्तरमिति। अर्थगुणस्तु 'दीप्तरसत्वं (पुनः) कान्तिः' इति वामनः । थथा-'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत्प्र- त्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।' रौद्रादयो दीप्ता रसास्ततोऽन्ये तु शङ्गारादयस्तद्विपरीतास्तन्निबन्धनमकान्ति- स्तरहि स्यात्। अथ वा व्यङ्गयं रसादिस्वरूपनिरूपणेनैव कान्तिः स्वीकृतेति।। ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पश्चेत्यपरे। तथा हि। यददर्शिविच्छेदं पठ तामोजः, विच्छिद पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिणि पाठे माधुर्यम्, ससौष्ठवमेव स्थानं पठतामौदार्यम्, अनुच्चनीचं पठतां साम्यमिति ॥ तदिदमलीकं कल्पनातत्र्रम् यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि। स्रग्धरादिष्वोजः । यथा-'ताम्यत्यामजमजन्मणि- मस्ृणफणाचकवाले फणीन्द्रे यत्सेनोद्दामहेलाभरच लितमहाशैलकीलां बभार। कृच्छत्पा- तालमूलाबिलबहलनिरालम्बजम्बालनिष्टः पृष्ठाक्षीलप्रतिष्ठामवनिमवनमन्कर्परः कूर्म- राज: ।' इन्द्रवज्रोपेन्द्रवज्रादिषु प्रसादो यथा-'यथा यथा सापदमङ्केषु प्रमोदि- लक्ष्म्या निद्धे मदस्य । तथा तथा कार्मुकमाततज्यं प्रसूनधन्वाकलयांचकार ।' मन्दाक्रान्तादिषु माधुर्ये यथा-'किं व्यापारैः-' इति ॥ शार्दूलादिषु समता यथा- 'गाहन्तां महिषा निपानसलिलं शङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्य-

१. 'यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ॥' इत्येवमुपलभ्यते. २. 'च्छेदा' स्यात्. ३. 'कामनीयक' स्यात्. ४. 'सीमातिकमः' स्यात्. ५. 'नितम्बं' वामनसूत्रवृत्तौ. ६. 'कृच्छात्' स्यात्. ७. 'नमत्कर्परः' स्यातू.

Page 229

४ अध्याय:] काव्यानुशासनम् । २०१

तत्र माधुर्यस्य लक्षणमाह- द्रुतिहेतुर्माधुर्य शृङ्गारे। द्रुतिरार्द्रता गलितत्वमिव चेतसः। शृङ्गारेऽर्थात्संभोगे। शृङ्गारस्य च ये हास्याद्भुतादयो रसा अङ्गानि, तेषामपि माधुर्य गुणः । शान्तकरुणविप्रलम्भेषु सातिशयम्। सातिशयमिति अत्यन्तद्रुतिहेतुत्वात्। एतद्यञ्जकानाह- तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा हस्वान्तरितौ रणावस- मासो मृदुरचना च। निजेन निजवर्गसंबन्धिनी ........ डजणनमलक्षणेन शिरस्याक्रान्ता अट-

स्यतु। विस्त्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पत्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' विषमवृत्तेष्वौदार्य यथा-'निरवधि निराश्रयं च-' इति। सोऽयमनवगाहितप्रयोगाणां विभागकमः । तथा हि। स्रग्धरादिष्वनोजोऽपि यथा- 'शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परि- चितमपि ते विस्मृतं कस्य हेतोः। नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निहनोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥' इन्द्रवज्रादिष्वप्र- सादो यथा-'विविच्य बाधाः प्रभवन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति। संसारमो- हस्त्वयमन्य एव दिख्योहवत्तत्वधिया सहास्ते ॥' मन्दाक्रान्तादिष्वमाधुर्ये यथा-'सर्व- प्राणप्रगुण मघवन्मुक्तमाहत्य वक्षस्तत्संघट्टाद्विघटितबृहत्खण्डमुच्चण्डरोचिः । एवं वेगाकुलिशमकरोद्योम विद्युत्सहस्त्रैर्भर्तुवऋज्वलन क पिशास्ते च रोपाद्वहासाः ॥'शार्दू- लादिध्वसाम्यं यथा-'अज्ञानाद्यदिवाधिपत्यरभसात्-' इति ॥ विषमवृत्तेष्वनौदार्ये यथा-'अयमहिमरुचिर्भजन्प्रतीचीं कुपितबलीमुखतुण्डताम्रविम्बः। जलनिधिमक- रीभिरीक्ष्यते द्राक् नवरुधिरारुणमांसपिण्डलोभात् ॥' तदेवं यथान्यैरगुणानां लक्ष- णमभिहितं तथा न वाच्यम्। यथायोगं लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भा- वाद्दोपपरिहारेण स्वीकृतत्वाच्चेति। द्रुतिरिति। द्रुतिहेतुत्वं माधुर्यस्य लक्षणं न तु श्रव्यत्वम्। ओजःप्रसादयोरपि श्रव्यत्वात्। तेन 'श्रव्यत्वं नातिसमस्तार्थशब्दं मधुर- मिष्यते' इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्धामहेनोक्तं तन्न युक्तमित्यर्थः ॥ अर्था- दिति। यद्यपि संभोगविप्रलम्भोभयरूपः शद्गारः तथापि गोवलीवर्दन्यायेनानन्तरवि- प्रलम्भप्रयोगसामर्थ्यात्। शद्गारः संभोग इत्युक्तः ॥ अङ्गानीति। यद्यपि हास्याद्भुत- १. 'अन्स्येन' इति त्रुटितं भवेत्. २६

Page 230

२०२ काव्यमाला।

वर्गा टठडढरहिता वर्गाः, हस्वान्तरितौ च रेफणकारौ। असमासः इति स- मासाभावोडल्पसमासता वा, मृद्वी च रचना। तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा-

कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥' 'दारुणरणे रणन्तं करिदोरुणकारणं कृपाणं ते। रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥' न पुनरेवं यथा- 'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलिकेण्ठि माम्। कम्बुकण्ठ्या: क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ।।' अत्र शृङ्गारप्रतिकूला वर्णाः । 'वाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि मुधा वक्रमश्रुप्रवाहैः। एषा प्रोद्वत्तमत्तद्विपकटकषणक्षुण्णवन्ध्योपलाभा दावाग्नेव्योमि लसा मलिनयति दिशां मण्डलं धूमलेखा ।' अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा। ओजसो लक्षणमाह- दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम्। दीप्तिरुज्ज्वलिता। चित्तस्य विस्तार इति यावत्। क्रमेणेति वीरा- द्वीभत्से ततोऽपि रौद्रे। तेषामङ्गेडद्ुते च सातिशयमोजः ।

योविकासहेतुतया ओजोऽप्यस्ति। तथापि शङ्गाराङगतया माधुर्यमेव प्रकृष्ट प्रतीयत इत्यर्थः ॥ न पुनरेवमिति । अयं भाव :- यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्य एतदुणविपर्ययेणैव स्वीकृतत्वात् ॥ वर्णा इति । समासरचनयो-

१. 'दारण' इति भवेत्. २. 'कण्ठिनाम्' इति वाग्भट्टकाव्यानुशासने. ३. 'रु- ज्ज्वलता' इति भवेत्.

Page 231

४ अध्याय:] काव्यानुशासनम्। २०३

एतद्यञ्जकानाह- आद्यतृतीयाक्रान्तौ द्वितीयतुर्या युक्तो रेफस्तुल्यक्च टवर्गशपा वृत्तिदैर्ध्यमुद्धतो गुम्फश्रात्र। आद्येन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाध उपरि उभ- यत्र वा येनकेनचित्संयुक्तो रेफस्तुत्यश्च वर्णो वर्णेन युक्तस्तथा टवगों- डर्थात् णकारवर्जः, शषौ च, दीर्घसमासः, कठोरा रचना च। अत्र ओ- जसि। ओजसो व्यञ्जिकेत्यर्थः । यथा-

कैलासोल्लासनेच्छाव्यतिकर पिशुनोत्सर्पिंदर्पोद्ुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ।।' न पुनरेवं यथा- 'देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्राणि भास्वन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' अत्र यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः। अथ प्रसादलक्षणमाह- विकासहेतु: प्रसाद: सर्वत्र। विकास: शुष्केन्धनासिवत्सच्छजलवच्च सहसैव चेतसो व्याप्तिः । स- र्वत्रेति सर्वेषु रसेषु। एतद्यञ्जकानाह- इह श्रुतिमात्रेणार्थपत्यायका वर्णवृत्तिगुम्फाः। श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे। प्रसादस्य व्यञ्जका इत्यर्थः । यथा-

रुपलक्षणमिदम्। माधुर्याजःप्रसादव्यन्नकेषु च वर्णादिष्वभिहितेपु वृत्तयो रीतयश्वा-

Page 232

२०४ काव्यमाला।

'दातारो यदि कल्पशाखिभिरलं, यद्यर्थिनः किं तृणैः, सन्तश्चेदमृतेन किं, यदि खलास्तत्कालकूटेन किम्। किं कर्पूरशलाकया यदि दृशो: पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥' माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिराचक्षते। वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये। यदाह- 'माधुर्यव्यञ्जकैवर्णैरुपनागरिकेष्यते। ओज: प्रकाशकैस्तैस्तु परुपा, कोमला परैः। केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः ॥' यद्यपि गुणेषु नियता वर्णादयस्तथापि- वक्तृवाच्यप्रबन्धौचित्या द्वर्णादीनामन्यथात्वमपि। तत्र वाच्यप्रबन्धानपेक्षया वेक्रादौचित्यादेव वर्णादयो यथा- 'मन्थायस्तार्णवाम्भ:प्रैतिकुहर चलन्मन्दरध्वानधीरः, कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्ट चण्डा। कृष्णाकोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मिन्सिंहनाद प्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।' अत्र यँद्यपि वक्तृवाच्यं क्रोधादिव्यञ्जकम्, काव्यं चाभिनेयार्थम्। तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः । भिहिताः, एतदव्यतिरिक्तस्वरूपत्वात्तासाम् ॥अवेति। यदि हि क्रोधादिव्यञ्जकं वाच्यं भवेत्तत उपपद्येरनुद्धता रचनादयः । न चैतदभिनेयार्थ, येन स्वेच्छाप्यनुमा- न्येत रचनादीनाम्। किं त्वभिनेयार्थमिदम् ।न च तत्र रौद्रादावप्युद्धता रचनादय १. 'कोच्यते' का० प्रका०. २. 'वक्रौचित्या' का प्रका० ३. 'पुतिकु' इत्याधु- निककाव्यप्र०. ४. 'चण्डः' इति भवेत्. ५. 'स्मत्सिह' इति प्रकाशे. ६. 'हि' का० प्रका०. ७. 'इति' का प्रका० १. 'अत्रेति' स्यात्.

Page 233

४ अध्याय:] काव्यानुशासनम्। २०५

कचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव। यथा- 'प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात- त्रासाकृष्टाश्च तिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्। कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥।' क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव। यथा आख्यायिकायां शृङ्गारेऽपि न मसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेडपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसर्तव्यम्॥ इत्याचार्यश्री हेमचन्द्रविरचितायामलंकार चूडामणिसंज्ञखवोपज्ञकाव्यानुशसनवृत्तौ गुणविवेचनश्चतुर्थोऽध्यायः ।

उपपन्नाः । अतो वक्रौचित्यादेव रचनादीनामप्यन्यथातमत्रेत्यर्थः ॥न मसृणा इति। गद्यस्य विकटनिबन्धाश्रयेण छायावत्त्वात्॥ नाटकादौ रौद्रेऽपीति। न केवलं करु- णविप्रलम्भयोः । रौद्रेऽपि न दीर्वसमासादयो निवन्धनीयाः ॥ कथमिति चेत्, उ- च्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतिपत्तौ व्यवधायिका विरोधिनश्च सर्वात्मनैव परिहार्याः। एवं च दीर्घसमासः। समासानामनेकप्रकारसंभावनया रसप्र- तीति कदाचिद्यवदधातीति तस्मिन्नात्यन्तमभिनिवेशः शोभते विशेषतोऽभिनेयार्थे काव्ये। तत्रापि करुणविप्रलम्भयोः । तयोहिं सुकुमारत्वात् खल्पायामप्यस्वच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्यो रौद्रादौ मध्यमसमासो- डपि। कदाचिद्धीरोद्धतनायक संवद्धव्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया न विगुणो भवतीति। सोऽपि नात्यन्तपरिहार्यः। सर्वत्र प्रसा- दाख्यो गुणो व्यापी।स हि सर्वरससाधारण इत्युक्तम्। प्रसादातिक्रमे हि असमासोऽपि करुणविप्रलम्भशृङ्गारौ न व्यनक्ति। तदपरित्यागे मध्यसमासोऽपि न प्रकाशयति। तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च-'यो यः शस्त्रं विभर्ति खभुजगुरुमदा- त्पाण्डवीनां चमूनां यो यः पञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्त- त्कर्मसाक्षी चरति मयि रणे यक्ष यश्ष प्रतीपं क्रोधान्धस्तस्य तस्य खयमिह जगता- मन्तकस्यान्तकोऽहम् ॥' इत्यादौ प्रसादाख्य एव गुणो न माधुर्ये नाप्योजः समासा- भावात्। न चाचारुत्वमभिप्रेतरसप्रकाशनात् ॥ एवमन्यदपीति । मुक्तकेपु रस-

१. 'एव ते। तथाहि' का० प्रका०, २. 'मस्रणव' का० प्रका०

Page 234

२०६ काव्यमाला।

पञ्चमोऽध्यायः । 'शब्दार्थौ सालंकारौ काव्यम्' इत्युक्तम्। तत्रालंकाराणाम् 'अ- द्गाश्रिता अलंकाराः' इति सामान्यलक्षणमुक्तम्। अथ विशेषलक्षणस्या- वसरः। तत्रापि शब्दालंकाराणां षण्णां तावदाह- व्यञ्जनस्यावृत्तिरनुप्रासः । व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः । पुनः पुनर्निबन्धो रसाद्यनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किंचिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते। अनेकस्य तु सकृदसकृच्। तत्रैकस्यासकृदावृत्तिर्यथा- 'अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥' अनेकस्य सकृदावृत्तिर्यथा- 'ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी। दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ।।' रुरिन्दन्दीत्यादेरनेकस्य सकृदावृत्तिः । बन्धाश्रयेण न दीर्घसमासरचना। अन्यथा तु कामचारः। संदानितकादिषु विकट- निबन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रबन्धाश्रितेषु तु मुक्तकादिषु यथोक्तप्रबन्धविशेषौचित्यमेवानुसर्तव्यम्। पर्यायबन्धेषु पुनरसमासामध्यमस्मासे एव। कदाचिद्रौद्रादिविषये दीर्घसमासायामपि संघटनायां परुषा ग्राम्या च वृत्ति: परि- हर्तव्या। परिकथायां कामचारः । तत्रेतिवृत्तमात्रोपन्यासेनात्यन्तं रसबन्धा(?)भि- निवेशते। खण्डकथासकलकथयोस्तु प्राकृतसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्ध- समास ...... योरपि न विरोधः। वृत्तौचित्यं च यथारसमनुसर्तव्यम्। सर्गबन्धे तु रस- तात्पर्ये यथारसमौचित्यम्। अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधा- यिनां दर्शनाद्रसतात्पर्य साधीय इति। इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके चतुर्थोऽध्यायः ।

१. 'षट्' टीकासंमत :. १. 'निविशते' इति स्यातू.

Page 235

५ अध्याय:] काव्यानुशासनम् । २०७

यथा वा- 'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन। चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ।।' अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा-'धूसरितसरिति- इति। अनेकस्यासकृदावृत्तिर्यथा- 'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि। शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ त्रजञ्जीवसि ॥' अत्र रुधीत्यादेः । तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम्। शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्यानेकस्य वा सकृदसकृच्चावृत्तिर्लाटानां संबन्धिनी लाटजनवल्लभोऽनुप्रासः । तत्रैकस्य नाम्रः सकृदावृत्तिर्यथा- 'स एष भुवनत्रयप्रथितसंयमः शंकरो विभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः ॥' अत्र करेति नामः। असकृद्यथा- 'दशरश्मिशतपमद्युतिं यशसा दिक्षु दशखपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्वुधाः ।।' अत्र दशेति नामः। अनेकस्य सकृद्यथा-'जयति क्षुण्णतिमिरः-' इति।

Page 236

२०८ काव्यमाला।

असकृद्यथा- 'वस्त्नायन्ते नदीनां सितकुसुमधराः शकरसंकाशकाशाः काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंसहंसाः । हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्रचन्द्र- श्रन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥' पदस्यैकस्य सकृद्यथा- 'वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क्र नु पुनः कलङ्कविकलो भवेत् ॥' 'न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति। कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥' अनेकस्य सकृद्यथा- 'यस्य न सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य ।।' असकृद्यथा- 'किंचिद्वच्मि न वच्मि वच्मि यदि वा कि वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु सवेषामदोषे दमाः । ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥' सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । आवृत्तिरिति वर्तते। सत्यर्थे भिन्नार्थानां वर्णानां खरसहितव्यञ्जनाना-

घडिति। अनुप्रासयमकचित्र श्लेषवक्रोक्तिपुनरुक्ताभासान्॥ यस्य न सविधे इति। अत्र पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाद्यम्। तदुभयमप्युत्त- रार्धे विपरीतं ज्ञेयमिति ॥ किंचिद्वन्मीति। भवादृशेषु पतिषु सत्सु स्वेषामात्मी- यानामदोषेदमादोषं विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदृशाः सन्ति। एतदेव सवितर्कमाह-ते किं सन्तीति। हृदयं हि सर्वस्य सर्व-

Page 237

६ अध्याय:] काव्यानुशासनम्। २०९

मुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये कमैक्ये च यमौ द्वौ सम- जातौ तत्प्रतिकृतिर्यमकम्। तेनैकस्याक्षरस्य द्वयोरवहूनां चाद्वितीयं सदशं निरन्तरं सान्तरं क शोभाजनकमलंकारः । 'मधुपराजिपराजितमानिनी-' इत्यादावुभयेषामनर्थकत्वे 'स्फुट परागपरागतपङ्कजम्-' इत्यादावेवैषामर्थ- वत्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थ इत्यु- क्तम्। न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणम्, पौनरुत्तयप्रसक्ते: इति सामर्थ्यलब्घेऽपि भिन्नार्थत्वे यत्र स एवार्थ: प्रसङ्गेन पुनः प्रतिपिपा- दयिषितो भवति बन्धुबन्धुरत्वादिना च प्रयुक्त एव शब्द: पुनः प्रयुज्यते 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ तत्र पौनरुत्तयदोषा- भावात् यमकत्वं केन निवायेंतेत्यन्यार्थानामित्युपात्तम्। श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम्। तेन दन्त्यौष्ठचौष्ठचवकारबकारादिवर्णभेदे, लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयो- र्वास्तवे विशेषे यमकबन्धो न विरुध्यते। यथा- 'तस्यारिजातं नृपतेरपश्यदवलम्वनम्। ययौ निर्झरसंभोगैरपश्यदबलं वनम् ।'

भूतमेवेति॥ वर्णस्येति। वर्णस्य पादान्तरगतत्वेनावृत्तिर्न वैचित्र्यमादधातीति तस्मि- न्नेव पादे आवृत्यन्तरविचित्रायां नैरन्तर्येणावृत्तौ यमकता ज्ञेया। यथा-'नानाका- रेण कान्तभ्राराधितमनोभुवा। विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥' मध्या- न्तयोरपि-'उदाररचनारोचिर्भासुरा राजते कथा। अकलङ्कयश ...... मिन्दुमौले मति मम ॥' यथा वा-'विविधधववना नागगर्धर्धनानाविविततगगनानाममज्जज्जना- ना। शशरुरुललना नावबन्धुं धुनाना मम हि हिततनानाननखखनाना ।' विविधानि धववनानि यस्याम्। नागान् हस्तिनो गृध्यन्ति अभिलपन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैर्व्याप्तं गगनं यस्याम्। अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मजन्तो जना यत्र। अनितीत्यना संस्फुरेति यावत्। स्त्रीरूपिणी वा। शशानां रुरूणां च ललनं यस्याम्। नौ आवयोः । अबन्धुं शत्रुं धु- नाना। मम यस्माद्वितं तनोति। अमुख आत्मीयः खवन एव आनः प्राणा यस्याः । सैवं समुद्रभूर्हरिणा हलधरं प्रत्यभिधीयत ॥ वर्णयोर्यथा-'भ्रमर द्रुमपुष्पाणि भ्रम प्रीत्यै पिबन्मधु। का कुन्दकुमुमे प्रीतिः काकुं हत्वा विरौषि यत् ।' तस्मिन्नेव पादे यथा-'हन्त हन्तररातीनां धीर धीरर्विता तब। कास कामन्दकेनीतिरस्या रस्या २५

Page 238

२१० काव्यमाला।

अवलम्बनं पार्ष्णिग्रहाकन्दासारादि। प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत्। अबलं सैन्यरहितम्। वनं काननम्। अत्रैकत्र-बवौ दन्त्यौ- छठचौष्ठचौ, अपरत्र-ओष्ठचदन्त्यौष्ठचौ। अपश्यदित्यत्रैकः शकारः, अप- रत्र द्वौ। तथा- 'भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैव ते क्वचित् ॥।' चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः । मलालसेत्यत्र लघुप्रयत्नतरः । तथा नकार-णकारयोरस्रमकार-नकारयोविसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित्। यथा- 'वेगं हे तुरगाणां जयन्नसावेति भेङ्गं हेतुरगानाम्।' 'पातयाशु रथं धीर समीरसमरंहसम्। द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥' 'द्विषतां मूलमुच्छेतुं राजवंशादजायथाः । द्विषञ्दस्त्रस्यति कथं वृकयूथादजा यथा।' कमैक्यग्रहणात्सरो रस इत्यादौ 'प्रवणः प्रणवो यत्र प्रथमः प्रमथेषु यः । रणवान्वारणमुखः स वः पातु विनायकः ।' इत्यादौ च यमकत्वं मा भूत् ॥ तत्पादे भागे वा। तद्यमकं पादे तस्य च भागे भवति। तत्र पादजं पञ्चदशधा। तथा हि-प्रथमो द्वितीयादावावर्तते। द्वितीयस्तृतीयादौ। तृतीयश्चतुर्थ इति षट्। प्रथमो द्वितीयतृतीययोः द्वितीयचतुर्थयोः, तृतीयचतुर्थयोः, द्विती- यस्तृतीयचतुर्थयोरिति चत्वारः । प्रथमस्त्रिष्वपीत्येकः । प्रथमो द्वितीये। १. अत्र विसर्जनीयपदम् 'यमकश्लेषचित्रेषु बवयोर्डलयोरन भित्। नानुस्वारविसगौ च चित्रभङ्गाय संमतौ ।' इति वाग्भटालंकारीयश्नोकोत्तरार्धस्थचित्रपदस्य यमकायु पलक्षणत्वं सूचयन्ननुखारपदमप्यत्र स्मारयति. २. 'भङ्गहेतु' स्यात्.

Page 239

९ अध्याय:] काव्यानुशासनम् । २११

तृतीयश्चतुर्थे इति । प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ। अर्धा वृत्ति: श्लोकावृत्तिश्च्ेति। द्वे इति। यथा- 'चक्रं दहतारं चक्रन्द हतारम्। खङ्गेन तवाजौ राजन्नरिनारी ।।' कश्िद्राजानमाह-समूहम्। न्ता। अरिसंबन्धि। रुरोद। भगाशा अत्यर्थम् । 'संयतं याचमानेन यस्याः प्रापि द्विषा वधः ! संयतं या च मानेन युनक्ति प्रेणताञ्जनम् ।' रणम्। देव्याः। जितेन्द्रियम्। पूजया ज्ञानेन वा ॥ 'प्रभावतोऽनाम न वासवस्य प्रभावतो नाम नवासवस्य। प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य ।।' प्रभावात् । शक्रस्य। तेजस्विनः । नामः नमतेः कारकः । अनाम नमनरहितः । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छित्तिरासीत्। नवेत्येक एव निपातः प्रतिषेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि ॥ अर्धावृत्तिर्यथा- 'सा रक्षतादपारा ते रसकृद्गौर बाधिका। सारक्षतादपारातेरसकृद्गौरवाधिका ॥' सा देवी। त्रायताम्। अनन्ता। तव। रागकृदभिमतं वस्त्वित्यर्थः । वाग्रूपा। पालिनी। उत्कृष्टक्षतेः । अपगतविपक्षात् । अविरतम्। गौरवे- णाधिका सर्वेषां गुरुरित्यर्थः ॥ श्लोकावृत्तिर्यथा- 'स त्वारं भरतो वश्यमबलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थितः ॥

१. 'कक्षिनपमाह-हे राजन्, तव संबन्धिना खह्गेनाजौ रणे आरं रिपुसंबन्धि चक्रं समूहं अरं शीघ्रं दहता त्रता अरिनारी रिपुत्त्री हता भर्तृवधेन ताडिता सती चक्रन्द कन्दितवतीत्यर्थः' इति रुद्रटालंकारव्याख्या. २. 'प्रणतं जनम्' स्यात्.

Page 240

२१२ काव्यमाला।

सर्वदारणमानैषी दवानलसमस्थितः ॥I' महापुरुषः । पुनः। शत्रुसमूहम्ं। भरात्। वशे वर्तमानम्। वलर- हितम्। दीर्घाक्रन्दम्। सर्वकालम्। संग्रामम्। प्रापयामास। अवानलसम् अपि तु त्वरितं गच्छन्। अस्थीनि तस्यात्युपक्षिणोति। सत्त्वेन ये ते आरम्भास्तेपु रतः। सर्वथा आश्रितं तरुत्वग्वसनं येन शत्रुसमूहेन। सर्वेषां दारणे यो मानस्तमिच्छति। दवाझनिना समं स्थितं यस्य । तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्वितीयादि- पादादिभागेपु, अन्तभागोऽन्तभागेष्वित्यष्टाविंशतिर्भेदाः । ल्लोकान्तरे हि न भागावृत्ति: संभवति । तद्यथा- 'सरस्वति पदं चित्तसरस्वति विधेहि मे। त्वां विना न हि शोभन्ते नराः काया इवासुभिः ॥' 'करेण ते रणेध्वन्तःकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥' 'परागतरुराजीव वातैर्ध्वस्ता भटैश्चमूः । परागतमिव क्वापि परागततमम्बरम् ।' 'पातु वो भगवान्विष्णुः सदा नवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥।' 'भवानि शं विधेहि मे भवानिशं कृपापरा । उपासनानि यज्जनोऽभवानि शंसति त्वयि ॥'

दिवानिशम् ॥' इति ॥ चित्तसरस्वतीति । चित्तसमुद्रे ॥ अन्तःकरेणेति। द्विषतामन्तविधायिना॥ परागतेति। परा प्रतिपक्षभूता पर्वते तरुपक्किरिव। अत्र च व्यतिकारपरागेण रणरेणुना व्याप्तं गगनं परागतमिव न जाने क्व गतमित्यर्थः ॥ सदेति। सर्वदा। स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता॥ भवानीति। हे गौरि, शं सुखम्। अनिशमनवरतम्।न विद्यते जन्म येभ्यस्तान्यभवानि॥

१. रुद्रटालंकारव्याख्यायां तु-'अवान् अगच्छन्। कम्। अलसं निष्क्रियं जनम्' इत्येवमुपलभ्यते. २. 'अन्तकरेण' इति स्यात्. १. 'अन्तकरेणेति' स्यात्.

Page 241

५ अध्याय:] काव्यानुशासनम्। २१३

'पदद्वयं कपालिनः पुनातु लोकपालिनः । अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥' एवमन्यान्यप्युदाहार्याणि। त्रिधाविभक्ते द्वाचत्वारिंशत्। चतुर्धाविभक्ते पट्पञ्चाशत्। प्रथम- पादादिगतान्त्यार्धादिभागे द्वितीयपादादिगताद्यार्धादिभागे यम्यन्त इत्या- द्यन्वर्थतानुस्मरणेनानेकभेदमन्तादिकम्। अन्तादिकमाद्यन्तकं तत्समुच्चयः। तत्र पाददयगतत्वेन 'सरस्वति-' इत्यादयुदाहरणमेकमेव प्रदर्शितम्। पादत्रयगत- त्वेन च यमकं केषांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करेण-' इत्यादुदाहरणच- तुष्टयं दर्शितम्। एपु च प्रथमपादादिभागस्य द्वितीयपादादिभागेष्वावृत्तिर्दर्शिता। पा- दान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्तिप्रदर्शनार्थ तु पदद्वयमित्याद्युदाहृतम् ।। अ- न्यान्यपीति। तत्रोदाहृतशेपाण्याद्यभागजानि यथा-'सरस्ति यथा रत्नान्यनन्तानि स्फुरन्ति हि। सरखति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥', 'परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता। तस्या हेतुं नमामीशं परमायाविनाशनम् ।', 'योगिगम्यं गुणा- तीतं मधुकेतुं विभुं हरिम्। मधु केतुं नमाम्यादं दृप्तदैत्यविनाशनम् ॥' मधोः केतु- रिव। मधु ब्रह्म केतुं ज्ञातुम् । 'कि कित ज्ञाने' इत्यस्य ॥ 'प्रणमामि सुरारिन्नं शिवं सोमं भवान्तकम्। यो विभर्ति विपन्नेषु शिवं सोमं च मूर्धनि ॥' सह उमया ॥ 'सुरासुर- शिरोरत्नघृष्टपादनखांशवे। शंकराय नमस्तस्मै शंकराय जगत्रये ॥' सुखकराय ॥ 'पयोधरारवाः खराः पयोधरा जवान्विताः। पयोधरान्सरन्त्यतो पयोधरान्वियोगिनः॥।' जलधारी आरवो येषाम्। दुःसहाः । मेघाः । कुचान्। असंजातस्तन्यात् ॥ 'माध- वाय नमस्तस्मै धेनुकान्तविधायिने। धेनुकान्तवृपस्थायोमाधवाय नमोऽस्तु ते ॥' धेनु- को नाम खररूपधारी विष्णुविघाताय कंसप्रयुक्तो दैत्यः। गोवल्लभवृषभासीनायै॥'जग- देकगुरुयो हि जगदे कमलोद्धुवा। भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः ॥' जग- देकगुरुरिति ब्रह्मणा यः कथितः। युष्मान्। संसारात् ॥ 'देवि त्वा ये गिराजस्रं सत्य- संधेत्युपासते। देवि त्वा ये भजन्ते ते सत्यसंधेयसंपदाम् ।' एतानि वृत्युदाहरणप- व्चकेन सहादभागजानि चतुर्दश। एवमन्यभागजान्यप्युदाहरणीयानि ॥ अन्तादिक- मिति। दिध्यात्रम्। यथा-'नारीणामलसं नाभि लसन्नाभि कदम्बकम्। परमास्त्र- मनहस्य कस्य नो रमयेन्मनः ॥' अलसं क्रियासु सविलासम्। न अभि अपि त्वभयम्॥ आद्यन्तकं यथा-'पिनाकिने नमस्त्रातदैत्यभीवेपिनाकिने। नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥' भीवेपिनो भयकम्प्राः ॥ तत्समुच्चय इति । आद्यन्तकान्तादिक- १. 'देवि' इत्यस्यामन्तिरितत्वेनाविद्यमानवत्त्वेन त्वादेशाप्राप्या 'त्वां' इति पाठेऽपि यम- कनिर्वाहः, विसर्जनीयस्येवानुस्वारस्यापि यमकाविरोधित्वात्; यद्वा परसवर्णे कृते त्र्यक्षरमेव यमकं स्यात्.

Page 242

२१४ काव्यमाला।

मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः । तथा तस्मि- न्नेव पादे आद्यादिभागानां मध्यादिभागेप्वनियतेऽवस्थाने आवृत्तिरिति प्रभूततमभेदं यमकम् ॥

योर्योगः। यथा-'ससार साकं दर्पेण कन्दर्पेण ससारसा। शरं नवाना विभ्राणा नावि- भ्राणा शरन्नवा ॥' प्रवतृते । सार्धम् । दर्पेण कामेन च। लक्ष्मणाख्यपक्षियुक्ता। काण्डम्। नूतनशकटा। धारयन्ती। अपि तु पक्षिशब्द- युक्ता। ऋतुविशेषः । नूतना ॥ एवं मध्यादिक आदिमध्यः अन्तमध्यमध्यान्तकत- त्समुच्चयतोऽत्रोदाहरणानि अभ्यूह्यानि। मध्यादिकादयो भेदा: संभविनोऽपि न हृद्या इति नोदाहियन्ते इति केचित् ॥ तस्मिन्नेव पादे इति। न तु पादान्तरे। तत्रा- दिभागस्य मध्यभागेनावृत्तिर्यथा-'स रणे सरणेन नृपो बलितावलितारिजनः। पदमाप देमानमतेरुचितं रुचितं च निजम् ।I' सेमं ग्रामे। प्रयाणेन हेतुना। बलवत्वेन वेष्टिता- रिजनः । पदं राज्यलक्षणम्। उपशमाद्वेतोः । अनुरूपमभीष्टं च ॥ आदिभागस्यान्त- भागेन यथा-'घनाघ नायं न नभा घनाघनानुदीरयन्नेति मनोऽनुदारयन्। सखे- Sदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥' एतत्पथिकस्य प्रावृषि सुहृदो- च्यते-बहुपाप। श्रावणो मासो वार्षुकमेघान्विस्तारयन्न नायमेति। मनोऽर्थाद्विरहि- णाम्। पश्चात् स्फोटयन्। तां कान्ताम्। निर्लील। उद्धेजयन्। सर्पवदाचरसि। यद्वा कियत्तवैतदवलीवर्दान्न्यूनो न भवति ॥ मध्यस्यान्तेन यथा-'असतामहितो महितो युधि सारतया रतया। स तयोरुरुचे रुरुचे परमेभवते भवते ॥' अननुकूलः । अत एव पूजितः । उत्कृष्टतया बलवत्तया वा। तदेकसूक्तया। स कश्चिद्वीरः । प्रसिद्धतया। विस्तीर्णकान्तये। प्रीतिमुत्पादितवान् । प्रकृष्टगजयुक्ताय। तुल्यम् ॥ आदेमध्या- न्ताभ्यां यथा-'स्तेनतास्तेनतास्ते नता मानवामा नवा मानवाः। दानवादानवा दा- नवा वा नरावा नरा वानरा: ॥' चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीवि- नामात्मसमर्पणेन केनचिन्नरपतिनापमानितस्य तमेव प्रतीयमुक्ति :- हे नरा नृपाश्च। प्रणताः। नूतनाः। पुरुषाः । स्तेनतया चौर्येण क्षिप्तस्वामिलक्ष्मीकाः । दर्पेण प्रतिकूलाः । दानकथायामस्तुतिपराः । दानवा एव। नृपतयः । इत्यस्य(?) नरो न्यायस्तद्रहिता वा- नरा एवेति॥ अनियतस्थाने आवृत्तिर्यथा-'कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम्। तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥' पद्मि- नीम्। भ्रमरी। न क्षमते। तां दृष्टरा तप्यत इत्यर्थः । सार्धम्।तं प्रियम्। इदानीम्। वस- न्तेन। क्ीडाप्रधानम्॥ प्रभूततमभेदमिति। महाकविभिरादृतस्यानियतदेशावयस्य- १. 'वीनां पक्षिणां भ्राणो विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राण नैवंविधा। इति रुद्रटालंकारटीकादर्शनेनात्र त्रुटिः प्रतीयते. २. 'दमात्' रुद्रटालंकारे. ३. 'सः । संग्रामे।' स्यात्. ४. 'प्रसिद्धया' रुद्रटव्याख्याने. ५. 'तुभ्यम्' स्यात्. ६. 'ते' स्यात्.

Page 243

९ अध्याय:] काव्यानुशासनम्। २१५

एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात्का- व्यगड्भूततेति भेदलक्षणं न कृतम्। काव्यं हि महाकवयः सुकुमारम- तीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति। न च पृथग्यतनिर्वर्त्य यमकादि- निरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमङ्गनकष्टकाव्यम् ॥ तथा च लोल्लट :- 'यस्तु सरिदद्विसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेपु॥

अभिमानमात्रमेतद्गडुरिकादिप्रवाहो वा ॥' इति। स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । स्वरादीनां नियमश्च्युतगूढादिश्च चित्रं सादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम्। तत्र स्वरचित्रं यथा- 'जय मदनगजदमन वरकलभगतगमन । गतजननगद्मरण भवभयगनरशरण ।।' हस्वैकस्वरम् ॥ एवं दीर्घैकस्वरद्वित्र्यादिस्वरनियमे उदाहार्यम् । यमकस्यासंख्यत्वात् इत्यर्थः ॥ न च पृथग्यन्ननिर्वत्येति। यदाह ध्वनिकार :- 'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत्। अपृथग्यन्ननिर्वर्त्यः सोऽलंकारो ध्वनौ मतः ॥' इति॥ दीर्घकस्वरद्वित्यादिसवरनियमे इति। दीर्घैकखरनियमे यथा- 'वधैरनैशरैन्द्रैरेजैरैलर्जनेः सैद्रः। मैत्रैनैकैवे धै्येः सवै रौदैः स्वैधै दवैस्तैस्तैः ॥' विधिर्विरच्चिः । ईर्लक्ष्मीस्तस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरिः । ईज: कन्दर्पः । इला भूः । जिनोऽर्हन्। सिद्धा देवविशेषाः । मित्रो रविः । रौदो धनदः । देवा: मुराः। तेपां संचन्धिभिः तैसतैः। अनेकैधैयेः स्वैवित्तेश्र वे स्फुटं सुष्ठु । समन्ता- देधे समृद्वो भवाम्यहम् ॥ द्विस्वरनियमे यथा-'क्षितिस्थितिमितिक्षिप्तिविधिविन्नि- . 'मिदो हि र' रुद्रटव्याख्याने. २. 'अभिधान' रुद्रटव्याख्याने. १ .- २. 'पृथग्यत्न' इति मूले धवन्यालोके च. ३. 'रदैः' स्यात्. ४. 'रैदो' स्यात्.

Page 244

२१६ काव्यमाला।

व्यञ्जनचित्रं यथा- 'ने नोननुन्नो नुन्नोनो नाना नानानना ननु। नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत्।।' रणपराङ्खा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न नान पुरुषो य ऊनेन हीनेन जितः विजितहीनोऽपि पुरुषोऽपुरुषः । ननु संबोधने। जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जित जितं नुदतीति॥ एकव्यञ्जनम् ॥ एवं द्वित्यादिव्यञ्जननियमे उदाहार्यम्।।

धिसिद्धिलिट् । मम त्र्यक्ष नमद्दक्षहरः स्मरहर स्मर ॥' पृथिव्याः पालनपरिच्छेदःप्रेरण- सृष्टीर्वेत्ति निधिसिद्धीलेंढि चेति क्विपि संबोधने मां स्मरेति॥ त्रिस्रनियमे यथा- 'क्षितिविजितस्थितिविहितिव्रतरतयः परगतयः। उरु रुरुधुर्गुरु दुस्तुवु(?)र्युधि कुरवः स्मे मरिकुलम् ॥' भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम् । रुद्ध- वन्तः । दुःसहम् । विक्षिप्तवन्तश्र। युविष्टिरादयः ॥ आदिग्रहणाच्चतुःखरादिनियमे- डप्यभ्यूह्यम्॥ द्वित्यादिव्यञ्ञननियमे इति ॥ द्विव्यञ्जननियमे यथा-'भूरिभि- १. किरातार्जुनीयस्य पञ्चदशे सर्गे चतुर्दशस्यास्य श्रोकस्य व्याख्यानावसरे मल्लिनाथस्तु-"नेति। पदच्छेदस्तावत्-न. ना. ऊननुन्नः तुननोन :. ना. अना. नानानना: ननु । नुन्नः. अनुन्नः. ननुन्नेनः ना. अनेनाः, नुन्ननुन्ननुत् ॥ अथ योजना-हे नानानना नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुन्नो विद्ध ऊननुन्नो यः सनान पुरुषो न। तथा नुन्न ऊनो येन स नुन्नोनो ना पुरुषोऽना नन्वपुरुषः खलु। ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः । किंच नुन्न इनः सवामी यस्य स नुन्नेनः सन भवतीति ननु- न्नेनः । नवर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः।स नुन्नो विद्धोऽप्यनुन्नोऽविद्ध एव। यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः । तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्ता- त्ुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुपोऽनेना निर्दोषो न भवतीति। किंतु सदोप एवेति। 'नारत नातिपरिक्षतम्' इति निषेधादित्यर्थः । अयं तु नैतादृश इति न पला- यितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥" इत्येवं स्फुटं व्याख्यातवान्. १ .- २. विसर्जनीयो लेखकप्रमादजो भवेत्. ३. 'विजिति' स्यातू, ४. 'स' स्यात्.

Page 245

९ अध्याय:] काव्यानुशासनम्। २१७

स्थानमुरःकण्ठादि। तच्चित्रं यथा- 'अगा गां गाङ्गकाकाकगाहकाघककाकहा। अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ।' कश्चित्पुरुषः स्तूयते-हे गाङ्गकाकाकगाहक गङ्गासंबन्धीपज्जलकु- टिलगतिविलोडक, त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता। जिहीतेः क्विपि हानं हाः। न हां गति जहाति यत्तथाविधमङ्गं यस्य स खगः सू- र्यश्चिह्नं यस्य स गिरिरर्थान्मेरुस्तत्र कङ्काख्याः पर्वतपत्रिणः काककाः श- न्दकारिणो यस्य स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमान- कीर्तिर्गामगाः स्वंग गतोऽसीत्याशंसायां भूतवन्निर्देशः । कायति अर्थम- भिधत्ते इति काक: शब्दः औणादिके। तं करोति इति णिचि तदन्तादके च काककः ॥ कण्ठस्थानम्। एवं द्वित्यादिस्थाननियमे उदाहार्यम्। गतिर्गतप्रत्यादिका। तच्चित्रं यथा- 'वारणागगभीरा सा साराभीगगणारवा। कारितारिवधा सेना नासेधा वरितारिका ॥'

भरिभिर्भीरा भूभारैरभिरेभिरे। भेरीरेभिभिरभ्रामैरभीरुभिरेभिरिभाः ॥' बहुभिः। कङकटपताकादिभारयुक्ैः।भयप्रदाः। भुवो भारभूनैः। डुढौकिरे। संजग्मिरे इति यावत्। दुन्दुभिवन्नदनशीलः । मेघश्यामैः । निर्भयैर्गजैः । गजाः ॥ त्रिव्यञ्ञननियमे यथा- 'देवानां नन्दनो देवो नोदनो देवनिन्दिनः । "देवं दुदाव नादेन दाने दानवनन्दिनः॥।' देवो विष्णुः। स्वर्गमुपतापयामास किमित्युपजातशङ्कमकरोत्। नादेन वक्षोस्थिश- व्देन। दाने विदारणे। दानवनन्दिनो हिरण्यकशिपोः ॥ आदिग्रहणाच्चतुर्व्यञ्षनादिनि- यमेऽप्यभ्यूह्यम् ॥ द्वित्र्यादिस्थाननियम इति। द्विस्थाननियमे यथा-'अनङ्ग- लङ्गनाल्ननानातङ्का सदङना। सदानघ सदानन्दिन्नताङ्गासङ्गसंगत ।।' कंचित्कामिन- मन्यासंक्तनिजवधूनिमित्तं सानुनयं काचिदाह-हे सततमपाप, सतामानन्दकारिन्, प्रण- ताङ्गेष्वनुरागयुक्त सा सल्ना कामाक्रमणविलग्नानेकपीडा वर्तते। तत्तां रक्षेत्र्थः ॥ दन्तकण्ठलक्षणं स्थानद्वयमत्र । त्रिस्थाननियमे यथा-'अलिनीलालकलतं कं न हन्ति

१. 'प्रत्यागता' स्यात्. १. 'रिभैरिभा:' स्यात. २. 'दिवं' स्यात्. ३. 'सक्तत' स्यातू. ४. 'सल्ललना' स्यातू.

Page 246

२१८ काव्यमाला।

करिगिरिदुर्विगाहा। उत्कृष्टा। अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता। विहितशत्रुक्षया। सार्थे णिग्। अविद्यमान आसेधो यस्याः । मया सह युध्यध्वमिति वरिताः प्रार्थिता अरयो यया सा यदूनां सेना। द्विपतां बलं प्रयातेति पूर्वेण संवन्धः । अत्रायुक्पादयोर्गतिः यु- क्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम्।

मूत्रिकादीन्युदाहार्याणि। घनस्तनि। आननं नलिनच्छायनयनं शशिकान्ति ते ।' अलिवन्नीला अलका एव चश्चलत्वादिना लता यत्र ॥ दन्ततालुकण्ठलक्षणं स्थानत्रयमत्र । एवं चतुःस्थाना- दिनियमेऽप्युदाहार्यम् ॥ अर्धगतप्रत्यागतं यथा-'वेदापन्ने स शक्क रचितनिजरुगुच्छे- दय्नेऽरमेरे देवासक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे। सेवासर्गादुदस्तोऽदयनमद लवक्षोदमुक्ते सवादे रेमे रत्नेयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे॥'स कश्चित्कर्ंमिं- द्रन्ने रत्नभूते पुरुषे रेमे निर्वृतोऽभवत्। वेदापन्ने। प्रियंवदे। कृतः सहजाया अविद्याख्य- रुज उच्छेदयत्नो येन। न रमन्ते सुजनेषु धर्मे चेत्यमरान् दुर्जनानीरयति यः । देव- भक्ते। अविद्यमानहर्षाण्यक्षाणि यस्य सः। जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता। व्यथायाः परकृताया दुर्गा इव दुर्गाः। शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने। राजप्रणतिकरणान्निवृत्तः। अदयया दर्पाशेन हिंसया च तयक्ते। प्रमाणशास्त्र- कुशले। अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान्व्यति छिनति यः। यदि वा अ- यन् अयच्छन् अच्छा नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते। गुरुभिः शुश्रूष्य- माणैः जनितो यश्चिरं क्वेशस्तेन श्रान्ते तत्र वा सक्ते। पदरहितानवति यः ॥ श्रोकग- तप्रत्यागतं यथा-'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा। सारतो न विरोधी ने स्ाभासो भरवानुत॥ तनुवारभसो भाखानधीरोऽविनतोरसा। चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥' कुमारेण गणा जगदिरे इति प्रक्रान्तम्। हे अविद्यमान- रणाः । वीक्ष्णखङ्गप्रसक्तः । भीरहितः । बलात्। न न विरोधी। सुष्ठु आभासत इति सवाभासो दर्शनीयः । धुर्यश्च। उत चार्थे। वर्मणा वभस्ति। तेजखी। रुचा तेजसा हेतुना न्येजते न कम्पते। निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान्। सिंहना देनादशीले समरे कमनीयेनोन्नतवक्षसा। क्रीडतीति॥ सर्वतोभद्ं यथा-'जितानय १. 'अच्छो' रुद्रटालंकारव्याख्याने. २. 'नोऽस्माकम्' इति व्याख्यानस्योपलम्भेन 'नः' इति सविसर्गपाठः किरातार्जुनीये. ३. 'मरणरहिताः' इति घण्टापथसंवादात 'अविद्यमानमरणाः' स्यात्. ४. 'नोऽस्माकम्' घण्टापथे. ५. 'रसितेन शब्दितेनैवाश्नाति अ्रसतीति रवेणैव विश्वप्राणहारिणीत्यर्थः' इति घण्टापथे.

Page 247

५ अध्याय:] काव्यानुशासनम्। २१९

या नताजितारसाततसारता। न सावना नावसानयातनारिरिना(?)तया ॥' जिता स- नीतयोऽननुकूलदैवं वा यया। प्रणतानां रणान्तरे आतननमाततं सह तेनेति रावि स्तरा दृढतया। बहुतरं दार्व्यमित्यर्थः । न न सरक्षणा। अर्थाद्गक्तानाम्। अन्तकाल- दुष्कर्मविपाकताडनायाः वैरिणी सामिनी(?)तयेत्युक्तरणे संबन्धः ॥ अत्र न केवल- मधोधःक्रमेण स्थितानां पादानां प्रातिलोम्येन स्थितिर्यावदर्धभ्रमस्यापि। तत्र हि प्रथमादिपादानां प्रथमैश्चतुर्थतृतीयद्वितीयप्रथमपादानामष्टमैश्वाक्षरैः प्रथमपादः । एवं द्वि तीयसप्तमैस्तृतीयषष्टैश्रतुर्थपञ्चमैश्र द्वितीयतृतीयचतुर्थपादाः। इह च सर्वे तदेवोपल- भ्यत इत्यर्धभ्रमस्याप्यवस्थानात्सर्वतोभद्रम् । अर्धभ्रमं यथा-'ससत्वरतिदे नित्यं सदरामर्नाशिनि। त्वराधिककसन्नादे रमकत्वमकर्षति ॥' सपौरुषाणां रागप्रदे। सभ- यानां कोपाहारिणि। त्वरयाधिकप्रसरत्सिहनादे रणरसिकत्वमपनयति ॥ तुरगपदागतं यथा-'सेना लीलीलीना नाली लीनाना नानालीलीली। नालीनालीले नालीना लीलीली नानानानाली II' सेना अहं ना पुरुषो लडयोरेकत्वस्मरणमिति ईले स्तौमि। लीला विद्यन्ते येषां तान् लीलिन: ईले स्तौतीत्येवंशीलो यः स स्वामी यासाम्। शुद्धवि- षये सविलासान्नरानर्चयति यासां प्रभुरित्यर्थः । आलमनर्थो विद्यते यस्य स नाहम्। लीनानि अनांसि रथादौ यस्य सः। नानाप्रकारा या आल्यो व्यूहरचनास्तासु या ली- र्लयनं श्लेषस्तां लान्ति गृह्नन्ति ये ते विद्यन्ते यस्य। न आलीनामाश्रितानामली भृङ्ग: उपजीवकः । आलीना: श्रिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नृपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो यस्य। आलवान् मूर्खः । न आली अनाली अमूर्खः ॥ अनेन तुरगः खेल्यते। तथाहि-'खाद्यो द्यत्निर्विघुशरः स्तनाश्वः सागरा- षटमः । त्रिपष्ठोऽब्ध्यम्वुधिर्यङ्गिः खाननिर्द्वीषुः खसप्तमः ॥ त्र्यन्तोऽब्धिषष्ठर्यम्भोधि- स्तुर्याक्षिस्तनचन्द्रमाः । त्यपनिरव्धिखमङ्गयङ्गिः खाम्भोधिर्वह्निसायकः॥ वेदाश्वो द्विवसुः खर्तुख्यश्रः खान्तोऽङ्रिषष्ठकः । तुर्येपुर्द्यब्धिराद्यङ्गिरुयाद्योऽब्ध्यन्निर्ययोर्गमः ॥' खादि- भिरेकादीनि लक्ष्यन्ते। अत्र समासस्थं पूर्वपदं पङ्केरुत्तरपदं तु कोष्टकस्य ग्राहकम्। ययोरश्वस्य गमः संचारपदमिति यावत्। एवमेव च तुरगफलकस्यापारेर्धेर्धे खेल- नीयाः ॥ गोमूत्रिका यथा-'काङ्कन्पुलोमतनयास्तनताडनानि वक्षःस्थलोच्छितरया- ञ्चनपीडनानि। पायादपायभवतो नमुचिप्रहारी मायामपास्य भवतोऽम्वुमुचां प्रसारी॥' पादे गोमूत्रिकेयम् ॥ अर्धगोमूत्रिका यथा-'चूडाप्रोतेन्दुभागदुतिदलिततमःकन्दली- चक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा। कीडाधूतेशभामा घयुस-

१. 'दढता' स्यात्. २. 'सेनाः, लीलीलीनाः, न, आली, लीनानाः, नानालीलीली, न, आलीनाली, ईले, ना, आलीना:, लीलीली, नानाना, अनाली' इत्येवं पदानां विभागो रुद्रटव्याख्याने दर्शित :. ३. 'ईट्टे' स्यात्. ४. 'आलीनाना' रुद्रटव्याख्याने. ५. 'ली- लीली' स्यात्. ६. 'परे' स्यात्.

Page 248

२२० काव्यमाला।

आकारः खङ्ग-मुरजबन्घाद्याकृतिः। तच्चित्रं यथा- 'मारारिशकरामेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ।। माता नतानां संघट्टः श्रियां वाधितसंभ्रमा। मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥' मारारिः शिवः। रामो मुशली। आसारवेगतुल्येन सर्वेषामाद्या॥ खङ्ग: ॥ तथा च- द्राढिकान्तरे साधारणो माशब्दः । तस्य दक्षिणतोडघ: क्रमेण वर्णाश्चतुर्दश। शिखायां साशव्दः। ऊर्ध्वक्रमेण। वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् । तस्यैव माशब्दस्य दक्षिणतो निःसरणक्रमेण गण्डिकायां वर्णत्रयम्। उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वासश्चत्वारो वर्णाः । एतच्च कुलकम्। तत- स्तस्य माशब्दस्योपरि वर्णद्वयम्। एतन्मस्तकम्। सामामाशब्दा द्विःप- ञ्कृत्वो द्विरावृत्ताः ।। 'या दमानवमानन्दपदमाननमानदा। दानमानक्षमानित्यधनमानवमानिता ।।' या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम्। विद्यया हि शमसु- खलाभः । मुखस्य पूजां ददाति। निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दनतनिमच्छेदनीव भ्रुवा णो देहे देवी दुरीरं दममर ... तैनानन्दिनो नान्यधामा ।।' शं सुखम्। असाधारणस्थानः । क्रीडया अपनीतः शिवक्रोधो यया। भ्रुवा भ्रक्षेपेण अस्माकं शरीरो दुरपसार्यमुपशमं संततप्रणता प्रतीहारेण। उमा च अपूर्वद्युतिः॥ श्रोके गोमूत्रिका यथा-'पायाद्वश्न्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्योरुद्वा- द्रभाग: पुरदनुजदवः स्त्यानसंविन्निधानम्। कन्दर्पक्षोददक्षः सरससुरवधूमण्डलीगी- तगवों दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः ॥' घनज्ञाननिधिः । भव्यै- ध्येयः ॥ 'देयान्नश्चण्डधामा सलिलहरकरो रूढकन्दाभबिम्बो देहे रुग्भङ्गरागः सुर- मनुजदमस्त्यागसंपन्निधानम् । भंदं दिग्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो दैन्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः ॥' तिग्मांशुः । रुजां विनाशे आसक्तः। भंदं कल्याणम्। दिशां क्षोभदा श्रीर्यस्य। सत्योऽत एव निर्भया या वध्व- स्तन्निरभैतर्सनवचसामविषयः। न दैन्यमेधयत इत्येवंशीलः। क्मबन्वपरित्यागे विस्तीर्णों १. 'अस्माकं' इति व्याख्याकरणात् 'नो' स्यात्. २. 'नता नन्दिनानन्य' स्यात्. ३. 'शरीरे' स्यात्.

Page 249

५ अध्याय:] काव्यानुशासनम्। २२१

दानमानक्षमा एव शाश्रतं धनं येपां तैः पुरुपैः पूजिता। मानं ज्ञानम्॥ सुरजबन्धः ॥ तथा हि-पादचतुष्टयेन पङ्गिचतुष्टये कृते प्रथमादिपा- देभ्यः प्रथमाद्यक्षराणि चत्वारि। चतुर्थादिपादेभ्यः पञ्चमादीनि च च- त्वारि गृहीत्वा प्रथमः पादः। द्वितीयात्प्रथमं प्रथमाद्वितीयतृतीये द्विती- यतृतीयाभ्यां चतुर्थे चतुर्थात्तृतीयद्वितीये तृतीयात्पादात्प्रथममक्षरं गृहीत्वा द्वितीय: पादः। द्वितीयादष्टमं प्रथमात्सप्तमपष्ठे द्वितीयतृतीयाभ्यां पञ्चमे चतुर्थात्पष्ठसतमे तृतीयादष्टमं च गृहीत्वा चतुर्थः पादः। एवं मुसल- धनुः-वाण-चक्र-पद्मादय उदाहार्याः।।

नयो यस्य। शं पिप्ति पूरयति। आदिग्रहणाद्रजपदरथपदादीनि ज्ञातव्यानि ॥ मुस- लेत्यादि। मुसलधनुपी यथा-मायावित्तं महाहावा रसायातं लसन्दुजा। जात- लीलायथासारवाचं महिषमावधीः ॥' 'मामभीदा शरण्या मुत्सदैवारुक्प्रदा च घीः । धीरा पवित्रा संत्रासाव्रासीष्ठा मातरारमः ॥' संदानितकमिदम्। महान् हावश्वेष्टालं- कारो यस्याः। वीररसेनागतम्। सारदिपानतं यथासारं यथासारं वाग्यस्य। प्रतिज्ञा- भ्रष्टमित्यर्थः । हे मातः, हतवती त्वम् । एवंभूता या सा त्वमारमः व्यापारान्तरात्निव- र्तस मां भयात्रासीष्ठाः रक्ष्याः । अभियं ददाति या मुत् हर्षरूपा। धी: संविद्रूपा ॥ मुसलस्य न्यासो यथा-'मा' इत्यतः प्रभृत्यधोधः क्रमेण वर्णसप्तकम्। ततो वर्ण- देशमात्रं दक्षिणपार्श्वे प्रसत्याधोधः क्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम्। ततो वाम- पार्श्वे प्रसृत्य वर्णपञ्चकम्। ततो मध्ये 'जा'शब्दः साधारः। तदुपरि दक्षिणपाश्वें प्रसृत्योध्वक्रमेण वर्णपञ्चकम्। तदुपरि वामपार्श्वे प्रसृत्य साधारं वर्णत्रयम्। ततो दक्षिणपार्श्रे प्रसत्य वर्णसप्तकम्॥ धनुपो न्यासो यथा-'मा'शब्दः शिखा। ततो 'म'कारात् प्रभृत्याद्यमर्धे कुटिलमधः क्रमेण विन्यास्यम्। ततो 'वी'शब्दात्साधारात्प्रभृति 'त्रा' शब्दान्तमूर्धक्रमेण न्यासः । ततः 'सं'शब्दः । पार्श्वे ततः 'त्रा' इति साधारः । त- तोऽपरपार्श्रे 'सा' इति। ततः 'त्रा'शब्दः साधारः। ततोऽक्षरषट्मूव्वकरमेण न्यास्यम्। ततो 'म'शब्दः साधारः ॥ वाणो यथा-'माननापरुपं लोकदेवीं सद्रस संनम। मनसा सादरं गत्वा सर्वदा दास्यमह ताम् ।' पूजयापगतो रोषो यस्यास्ताम्। त्रिभुवनदे- वीम्। हे शोभनभक्तिरस। सम्यक प्रणम। मनसा दास्यं गत्वा। तां देवीम्। अ-

१. 'मायाविनं' रुद्रटे. २. 'दनपेतं' स्यात्. ३. 'न यथासारं' स्यात्.

Page 250

२२२ काव्यमाला।

दृति प्रियाहाने॥ न्यासो यथा-अधोधः क्रमेण वर्णचतुर्दशकम्। ततोऽक्षरद्वयं फ- लकार्धे साधारम्। तत ऊध्वकमेणाक्षरचतुर्दशकम् ॥ यथा वा-प्रथमपादेन ऊर्ध्व- क्रमेण शरः । तत ऊर्ध्वे फलस्यादौ 'दे'। तदू्त्वे च वामभागे 'वीम्'। मध्ये 'सः'। दक्षिणतो 'द्रः'। ततो मध्यसकार एव द्विः। तदुपरि फलाग्रे 'न्मौ'। अटनेर्वामत ऊ- ध्वक्रमेण 'मनौ' । मूले 'सा' साधारः। दक्षिणतोऽवःक्रमेण 'दरम्'। दक्षिणवाजे ऊर्ध्वक्रमेण 'गत्वा सवें'। ततः शरे 'सामा'वर्णयोरन्तरे 'दा' साधारः। वामवाजेऽः क्रमेण 'स्यमङताम्' ॥ चक्रं यथा-'त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराजयन्ति वरदे द्विषः ॥' हे अभिलषितदायिनि, वादे स्वपक्षपरपक्षप- रिग्रहे शास्त्रसक्तायां भारत्यां त्वम्। शोभसे। तथा देवा रिपून् अभिभवन्ति। कुतः तवाज्ञैवास्त्रं विनाशायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः ॥ अत्र पच्चाक्षरयमने- डप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् ॥ 'सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजसत्रं शिवताः सूदत्तोजदिशि स्थिताः ॥' सर्वदा अव्याजं जितेन्द्रियैर्ध्याताः । शोभनं कृत्वा गृहीतमन्त्रवर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्टूर्जितं विष्णुस्थानं परं ब्रह्म तत्र स्थिताः ॥ गोमूत्रिका धेनुरियं क्र्मव्युत्कमाभ्यां चतुर्विशतिप्रकाराः। तथा हि- चतु्ष्वपि पादेपु पङ्गिशो लिखितेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्र क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः। एवं ्रथमतृतीययोः शिष्टयोश्र प्रथमचतुर्थयोः शिष्टयोश्च द्वितीय- तृतीययो: शिष्टयोश्च द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयोः शिष्टयोश्च चत्वारश्च- त्वार इति साकल्येन षद्चतुष्का इति ॥ 'हरेः खसारं देवित्वा जनताश्रित्य तत्त्वतः । वेत्ति सवसारं देवि त्वा योगेन क्षपिताशुभा ॥' हे देवि, भगवतीं गोविन्दस्य भगिनीमु- पास्य जनसमूहो निजमुत्कर्ष परमार्थतो जानाति। कथम्। चित्तवृत्तिनिरोधेन व्यवहृत्य। कीदृग्जनता। विनाशितकिल्बिषा। तथा च मनुः-'प्राणायामैर्दहे द्दोषान्प्रत्याहारेण संगतिम्। ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ।' अनियतावयवं यमक- मेतत् ॥ 'सदाप्नोति पतिज्योतिस्तादृशं त्वत्प्रभावतः। प्रभावतः समो येन कल्पते मोहनुत्तितः ॥' शोभनम्। आदित्यस्य तुल्यः । मोहविनाशात्। एतेन ज्योतिःसरूपा भगवतीति प्रतिपादितम्। यद्ुक्तम्-'यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चान तत्तेजो विद्धि मामकम्॥।' मध्ययमकमन्तादिकमिदम् ॥तवं सदगतिः सितापारा पैरविद्योत्तितीर्षतः । संसा ... दत्र चाम्ब त्वं [सत्वं पासि विपत्तितः] ॥' त्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्त्वज्ञानम्। अन्न भवे। हे मातः। प्राणिनामा- पदः। गूढचतुर्थः ॥ 'परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः। परमायात पोषाय धियं शरणमादृताः ॥' हे जनाः, अत्यर्थ सादराः सन्तः देव्यास्तां स्मृति शरणमागच्छत ।

१. 'सूदात्ताज' इति देवीशतके. २. 'यति' इति देवीशतके. ३. 'परावि-' इति देवीशतके. ४. 'संसारा' इति देवीशतके. ५. 'प्राणिनम्। आ' स्यात्. ६· 'यां' इति देवीशतके.

Page 251

९ अध्याय:] काव्यानुशासनम् । २२३

किंविधा। या स्मृतिः प्रकृष्टा तपोवृत्तिः । देवीस्मरणमेव परमं तप इत्यर्थः । अनि- यतावयवं यमकमिदम् । 'प्रवादिमतभेदेपु दृशास्ते महिमाश्रयः । भान्ति त्वत्रिशि खस्येव शिखानामसमाश्रयः ॥' दर्शनानि महिम्रामाश्रयः । यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्टय इति तात्पर्यम्। भवत्रिशूलस्य कोटीनां विषमधारा इव। अन्त- यमकम् ॥ 'यच्चेष्टया तव स्फीतमुदारवसु धामतः । तच्चेतो यात्यवहितं मुदा रवसु- धामतः ॥' यच्चेतस्तव श्रवणचिन्तनाध्ययनादिव्यापारेण विकतितं सावधानं च। अत एव शाश्वतघनरूपम्। तच्चेतो हर्षेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् खसुधां शब्दामृतं शव्दत्रह्मोदयं याति। गोमूत्रिकाबन्धो यमकं वा ॥ 'सुरदेशस्य ते कीतिम- ण्डनत्वं नयन्ति यैः। वरदे शस्यते धीरै्भवती भुवि देवता ॥' सर्गस्य। ते पुमांसः । हे वरदे। धीरैरविकृतचित्तैः। तेपां कीर्तिः खग यातीति भावः । अनियतावयवं यम- कम् ॥ पादपरावृत्या गोमूत्रिकापि । 'तत्त्वं वीतावततनुत्तत्वं ततवती ततः। वित्तं चित्तं च वित्तत्वं वीतावीतवतां वत ।' यतस्त्वं भवती तत्तत्वं परत्रह्मसरूपम्। वीताव- ततनुत् विगतविस्तीर्णव्यथम्। विस्तारितवती। सांख्यानां त्वमेव यस्मात्सवत्र प्रधान- मित्यर्थः। ततो हेतोहे वित् विद्ये, वीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसेद्ावका दश हेतवस्तंदूत्तां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम्। त्वं धने प्रतिद्ध- मित्यर्थः । वतेत्याश्चयें। द्यक्षरः ॥ 'तारे शरणमुच्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापातिनोदग्रखवदोषा पासि नोदने ।।' हे ताराख्ये देवि विमले, वस्त्वं शरणं सती आश्रितत्राणायोत्तिष्ठमाना । शक्रस्य संग्रामम्। व्यापारैः। दोषक्षेपिणा निजबाहुना रक्षसि। प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः संपद्यन्त इति वाक्यार्थः । उद्यन्तीत्यत्र मुन् चिन्त्यः । अनियतावयवं यमकम्। पादगोमूत्रिकापि। प्रागुक्तेन 'सुरदेशस्य ते कीर्तिः' इत्यनेन पादपरावृत्तिगोमूत्रिकावन्धेन सह अमुना पादगोमूत्रिकाबन्धनतूणबन्धेयम् । तथा हि। प्राक्तनश्रोकस्य प्रथमतृतीयपादाक्षरै- रघोधः क्रमेण पद्िदये कृते गोमूत्रिकया नालिरुत्पद्यते। अनावृत्त्यान्त्यवर्णाभ्यां वुन्नम्। तदुपरिष्टाच्च 'तारे' इत्यादिल्लोकपादैरुध्वक्रमेण पङ्चतुष्ये कृते पादगोमू- त्रिकया मुखम्। अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थ द्वारप्रादेशद्शनम् । इति॥ 'मुमातरक्षयालोकरक्षयात्तमहामनाः । त्वं वैर्यजननी पाति जननीतिगुणस्थितीः॥' अक्षयज्ञानरक्षणेन। गृहीतं महन्मनो यया। वैर्योत्पादिका। अनियतावयवं मध्यादिय मकम् ॥ 'ख्यातिकल्पनदक्षेका त्वं सामर्ग्यजुषामितः। सदा सरक्षसां मुख्यदानवाना- ममुस्थितिः ॥' ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पनं छेदनमिति। अद्वितीया।

१. 'शस्ते' इति देवीशतके. २. 'वित्तव' इति देवीशतके. ३. 'वीतसंज्ञा-अवीत- संज्ञा च सांख्यानाम्' इति देवीशतकव्याख्यायां कैयटः. ४. 'सद्भावा वेदका देशहे-' इति देवीशतकव्याख्यायां कैयटः. ५. 'तदूतां' इति देवीशतकव्याख्या- ६. 'मुद्न्ती' इति देवीशतके. ७. 'नुम्' स्यात्.

Page 252

२२४ काव्यमाला।

त्रयाणां वेदानां परिपूर्णत्वभाजामपि। इतोऽस्मिंलोके। अस्माजगतश्च । सरक्षणाभि- मुख्यप्रदा। अकृतकानां वेदविशेषणमिदम्। जीवितरूपा सती। सराक्षसानां प्रधानदै- त्यानां दुःखासिका सत्यपि। रेफविवर्तिकोऽयम्। 'गर्य' इत्यन्न रेफ उपरिष्टादधश्च परिवृत्तः ॥ 'सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः। ततास्तितैति तस्तेतिसूतिः सूति- स्ततोऽसि सा ॥' हे देवि, यतो निर्मला। सभासु। शोभनता। तिष्ठति। स्तवात्। तव। सदा। साधोः। तथा विस्तीर्णा। विद्यमानता। एति। दीघायुर्भवतीत्यर्थः। क्षिप्ता ईतिसूतिरु- पद्रवप्रभवो यस्यामस्तितायाम्। ततो हेतोः शोभना ऊतिः सुरक्षा।सा प्रसिद्धा। भवसि त्वम्। द्यक्षरः ॥ 'त्वदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धम- रिनुत्तितः ॥' हे मलनुत् आवरणनिवारिणि, त्वच्छासनेन त्रैलोक्यं वर्तते। यतो रिपुक्षे- पणात्वया प्रकाशितम्। अर्धगोमूत्रिकाबन्धः ॥I 'यतो याति ततोऽत्येति यया तां तायतां यतेः । मातामितोत्तमतमा तमोतीतां मति मम ॥' यया मत्या यतो निवर्तते ततो विमुच्यते तां मम मति विगततमस्कां तायतां पालयताम्। भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी। अपरिच्छिना। अत एव प्रकृष्टतमा। त्रयक्षरः ॥ एते पोडश श्रोकाश्चक्रे रेमेरारभ्य नामिं यावत् अनुलोमतो लिखितः पोडशाराः । अत एव च नाभेरारभ्य पुनरनुलोमतो लिखिता अन्ये पोडश। इत्थं द्वान्रिशदराः ॥ 'महतों तवं श्रिता दासजन मोहच्िदावस । येः शुद्धत्वं गतः पापमन्यस्य प्रसभ जयाँ ॥' माहात्म्यम्। हे मोहच्छिदज्ञाननाशिनि। आवस अधिष्ठाय। इति द्विविधो हि जनः, अपापः सपापक्ष ॥ 'त्वं साज्ञासु जगन्मातः स्पष्टेज्ञाता सुवत्मसु। प्रज्ञा मुख्या समुद्धासि तत्पृथुत्वं प्रदर्शय ॥'हे जगन्मातर्, विविक्तं विदिता सती त्वं शोभनवत्मसु सन्मागेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते। तस्याः प्रज्ञायाः प्रृथुत्वं समुद्धासनशीलं प्रकटी कुरु। अस्मादेव चेयमार्या प्रादुर्भवति। 'आज्ञासु जगन्मातः स्पष्टज्ञाता सुवर्त्मसु प्रज्ञा। भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ।।' शोभनं वर्त्म येषां तद्विपयासु राजा सः। स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात्। शेषं तथैव ॥ 'हृन्यो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥' क्रोधस्य विनाशिन्यः एताः क्षमाः शोभना अविकाराश्च त्वमसि। अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुकूल: ॥ 'करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पद यतिः सुतपसा लभतेऽतः सशुक्किम ॥' हे उन्मूलिताज्ञानपदे यतस्ता मतीमैंत्रीप्रभृदितादिकाः अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्किस्रा वर्तते यत्तत्पदम्। तमोमल- १. 'तता'स्यात्. २. 'वे समिद्धम-' इति देवीशतके. ३. 'तैः' इति देवीशतके. ४. 'नेमे' स्यात्. ५. 'तां' इति देवीशतके. ६. 'यच्छुद्ध-' इति देवीशतके. ७. 'य' इति देवीशतके. ८. 'अधितिष्ट' इति देवीशतकव्याख्यायाम्. ९. 'घं ज्ञा' इति देवीशतके. १०. 'एं' इति देवीशतके.

Page 253

९ अध्याय:] काव्यानुशासनम्। २२१

च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा। तत्र मात्राच्युतकं यथा- 'भूतियोजितभर्तव्यः कृपाणाक्रान्तमण्डलः । महापदशुभावास त्वत्समः कुपतिः कुतः ॥' अत्र कृपणेति। विभूतिर्भस्म च। महापदेति शुभावासेति संबोधने पदद्यम् । महापदोऽशुभस्यावासेति पदमेकं च ।। अर्धमात्राच्युतं यथा- 'पयोधरभराक्रान्ते विद्युललेखाविराजिते। कान्तः सर्वजनाभीष्टो वाले दुःखेन लभ्यते ।।' अत्र 'न्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् ॥ बिन्दुच्युतं यथा- 'सहंसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विवुधाश्रिता ॥' सह हसेन विकाशेनेत्यपि॥

हीनमित्यर्थः । चत्वार एते नेमिश्रोकाः । एभ्यश्र प्रथम प्रथमं त्रीणि त्रीण्यक्षराणि लिख्यन्ते। चतुर्थ चारश्लोकप्रारम्भाक्षरं भवति। इत्थ नेम्यर्धनिमीलनम् । पुनरनुलो- मलिखिताच्छ्रोकपोडशकाच्चैवमेवान्त्यमक्षरं त्रिपु लिखितेषु चतुर्थ भवतीति नेमेर्द्वि- तीयमर्ध मीलितं भवति। एवमेव चान्तर्लिखिरतैस्तैरेव नेंमिश्रोकैर्नाभिनिमीलनं भवति। अत एव चारद्वान्रिशतो नेमिस्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वा- त्रिंशतः श्रोकोऽयमुत्पद्यते॥ 'देव्या खप्नोद्गमादिष्टदेवीशतकसंज्ञया। देशितानुपमामा- घादतो नोणसुतो नुतिम्।' देव्या वागीश्वर्या खवप्नाविर्भावे आदिष्टा या देवी शतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्रतया सर्वातिशायिनीं नोणसुतः श्रीमानानन्दवर्धननामा स्तुतिमिमामकार्षीदिति॥पझ यथा- 'भासते प्रतिभासार रसाभाताहताविभा। भावितात्मा शुभा वादे देवाभा वत ते सभा ॥' हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद्दीप्ता हता अशोभा यया। एकाग्री- कृतहृदया वादे एव। देवैविजिगीपुभिः पण्डितैराभा यस्याः । वतेत्याश्चर्ये निपातः। एपोऽटदलपद्मबन्धः । तथा हि-भाशब्दः कर्णिकास्थाने। ततोऽक्षरद्ूयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरदूयेन प्रवेशकमेण।ततः स एव भाशब्दः। ततोऽक्षर- द्व्येन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्दं यावत्। ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशव्दं यावत्। पुनर्भाश्दो निर्गमेण च तदेवाक्षरमि- त्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवणीनां द्विर्भाशब्दस्य चाकृष्टत्व आवृत्ति: ।। २९

Page 254

२२६ काव्यमाला।

वर्णच्युतं यथा- 'सितनृशिर:स्त्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वद्ृक्पृथुललाटतटे तिलकक्रिया च सा। स्फुट विकटाटटहासललितं वदनं स्मितपेशलं च त- दभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्चयुक्।' अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षर- सप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन। यदि वा आद्याक्षरसप्- कच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन। गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा। क्रियागूढं यथा- 'स्तनजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ।।' 'हे युवान:, कथमिव यूयं न स्त' इति क्रियागूढम् ॥ कारकगूढं यथा- 'केनेमौ दुविदग्धेन हृदये विनिवेशितौ। पिवतस्ते शरावेण वारिकह्वारशीतलम् ॥' अत्र 'शरौ' इति कर्मणो गूढत्वम्।। संबधगूढं यथा- 'न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यति। अस्थानरुदितैरेभिरलमालोहितेक्षणे !' अत्र "मे चेतसागोरसाभिज्ञम्' इति संबन्धगूढम् ॥ पादगूढं यथा-

'द्युवियद्गामिनीतारसंरावविहतश्रुतिः । हैमेपुमाला शुशुभे ... ......... [l' अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वादगूढत्वम् ॥

१. 'मे, चेतः, आगोरसाभिज्ञम्' स्यात्.

Page 255

१ अध्याय:] काव्यानुशासनम् । २२७

गूढादीत्यादिपदेन प्रश्नोत्तर-प्रहेलिका-दुर्वचकादिपरिग्रहः ॥ एतच्च कष्टकाव्यत्वात्कीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते ॥ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्ति: श्लेपः। 'अर्थभेदाच्छब्दभेदः' इति नयेन वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुचारणं भिन्नस्वरूपापह्वनं क्विष्यन्ति शब्दा अन्रेति श्लेपः। स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययवचनविभक्तिरूपाणां शब्दानां भङ्गाद- भङ्गाच्च द्वेधा भवति। यथा- 'अलंकारः शङ्काकरनरकपालं, परिजनो विशीर्णाङ्गो भृङ्गी, वसु च वृष एको बहुवयाः ।, अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विधौ वक्रे मूर्धि स्थितवति वयं के पुनरमी ॥' अन्र विघुर्विधिश्चेत्युकारेकारयोर्वर्णयोर्भङ्ग: ।। 'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूपिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥'

आदिग्रहणात् हल-शक्ति-शूल-खस्तिक-नागपाशादयो ज्ञेयाः ॥ प्रश्नोत्तरेति। तथा चाह-'यस्तु पर्यनुयोगस्य निर्भेदः क्रियते वुधैः। विदग्धगोष्टयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥' यथा-'काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् । कथमुक्तं न जानासि कदर्थयसि यत्सखे ॥' अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीति उत्तरम् ॥ एतच्च अन्तःप्रश्न-वहिःप्रश्न-जातिप्रश्नादिभेदैरनेकप्रकारं प्रकृता- नुपयोगात्कविशक्तिख्यापनफलत्वान्न प्रतन्यते।। प्रहेलिका यथा-'पयखिविनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम्। ताभ्योSटादश विक्रीय गृहीत्वैकां गृहं गतः ॥' धेन्वा ऊनाम् ॥ एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूह्याः ॥ तथा दुर्वचं दुःश्रवं दुर्बोधमपि कीडायां न विरुध्यते। यथा-'नांध्र त्वाष्ट्ररिराष्ट्रे न भाष्ट्रे नादंष्टिणो जनाः। धा- र्तराष्ट्राः मुराष्ट्रे न महाराष्ट्रे तु नोष्टिणः ॥' नांट्र्रः राक्षसाः । त्वष्टुरपत्यमिति त्वाष्ट्रो

Page 256

२२८ काव्यमाला।

अत्र महतीमापदं महत्पदं वेत्यादि पदानां भङ्ग: ॥ 'भक्तिप्रह्रविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्वनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्ृशोस्तन्वती युष्माकं कुरुतां भवार्तिशैमिनी नेत्रे तनुर्वा हरे: ॥' अत्र च 'नीता ईहितप्राप्तये' इति च स्त्रीनपुंसकलिङ्गयोः श्रेषः ॥ 'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने। हरिणारिसारदेहे वरे वरं हर उमे भावम् ।' कश्चिद्युयुत्सुर्ध्यानोनीनां भवानीं सवकान्तां च संस्कृतमांकृतया वाचा तुष्टुवे-हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि। अर्थान्मम। कीदृशे हरे। लालसमर्थान्मनस्तद्ुवं कामं लेढि स्म यस्तत्र । महिमैव वितर्कहर्तरि । हरसंनिधौ हि सर्वज्ञानाभिभव इति श्रुतिः। तोहन्त्यर्दन्ति येऽरयस्तैर्वि- रहिते सिंहबलशरीरे परिणेतरि श्रेष्ठम्। उमाया एव इमानि संबोधनप- दानि। प्राकृते तु-हे वरे कान्ते, ते तव संबन्धिनि कुरुलालसभ्रूलेखे महीमोहगृहे हारिणि विच्छिन्ने च तनुमध्यत्वात्। हरिप्रियाप्रधानवपुषि(?) यद्वरं नयनाननस्तनजघनादि तन्मेऽभिलाषं हरतु कामं पूरयतु ॥ एवं भाषान्तरभङ्गेडप्युदाहार्यम् ॥

वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे खर्गे॥ भाषान्तरभङ्गेऽपीति। संस्कृतभाषाया माग- ध्या समावेशो यथा-'कुललालिलावलोले शलिले शे शालशालिलवशूले। कमलाशव- लालिबले मालेदि शमन्तके विशमे ॥' कश्चिजातसंसारभयो वक्ति-कुललालिनो महापु-

१. 'शमनं' का० प्र०. २. 'ध्यानोन्नीतां' स्यात्. ३. 'कुरु लालसभूलेहे महिमो हहरे तुहारिविच्छिन्ने हरिणारिसारदेहे वरे वरं हरे उमे भावम्' इत्येवं संस्कृतपक्षे पदानि. ४. 'कुरुलालसभ्रूलेखे महीमोहगहे ते हारिविच्छिन्ने। हरिनारीसारदेहे वरे वरं हरतु मे भावम् ॥' इति प्राकृतपक्षे छाया. १. 'कुररालिरावलोलं सलिलं तत्सारसालिरवशूरम्। कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥' इति मागधीच्छाया.

Page 257

५ अध्याय:] काव्यानुशासनम्। २२९

. रुषान् लुनातीति। कर्मण्यण। स चासौ लम्पटश्च तस्मिन् । शलं वज्रं तदुपलक्षितः खङ्गो येपां तान् लिशत्यल्पीकरोति यस्तस्मिन्। गृहशालिनां छेदनशूले। लक्ष्म्याः शवानि अस्पृष्टतया दरिद्रास्तल्वालनशीलं बलं यस्य। क्षमारहिते। मलनं मालो धारणं क्षमेति यावत्। यमे एवंभूते सति ए विष्णौ दिशमविशम्। विष्णुविषयं मार्गमहमास्थित इत्यर्थः । अपरोर्ऽर्थो मागध्याम्। कुररपङ्गिरवैलोलं व्याप्तम्। रवश- ब्दस्य प्राकृते दीर्घः। सलिलं तत्। सारसश्रेणिकूजितेन शूरं विरहिणां मारणसमर्थ- त्वात्। कमलसोधुग्राहकैरलिभिः श्रेष्ठम्। मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम्। अनेकपक्षिसंकुलं सलिलं दृष्ट मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः ॥ संस्कृतस्य पैशाच्या यथा-कमनेकतमादानं सुरतनरजतुच्छलं तदासी- नम् । अप्पतिमानं समते सोगनिकानं नरअेतुम् ॥' कस्यचित्केनचित्पौरुषे स्तुते- न्योऽसहमान आह-हे सुरते प्रधानपुरुष, न तु रणे। खमते शून्ययुद्धे स त्वया वर्ण्यमानो राजादिः कं नरं जेतुमजतु गच्छतु। नास्त्येवासौ यं सोऽभिभवति। कीदृशं बहुतमोत्पत्तिस्थानम्। मायां प्रसिद्धामाश्रयमाणम्। अर्थान्तरवृत्तित्वेन सकर्मक- ता। यद्वा मूर्तच्छद्मरूपं लब्धरूपं च। अपां पत्युर्वरुणस्येव मानो यस्य। पर्वतस्येव नि- कान: कान्तिर्यस्य। 'कनी दीप्तिकान्तिगतिषु' इति हि पठ्यते। अथ वा न गच्छतीत्यगो- Sनश्वरः। अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयत्विति वाक्यार्थः । अथ वा एवंविधा यदा न सन्ति सर्वे तेन जितमतः स कं नरं जेतुमजत्विति एवात्र। परार्थः पिशाचभाषायाः-'कामे कृतमदाः सुरतरजतोच्छल- दासीः । अप्रतिमाः क्षमते म गणिका न रञ्जयितुम् ॥' अत्र हि द्वितीयार्थे पष्ठी। केन- चिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते ॥ संस्कृतस्य सूर- सेन्या यथा-'सैवादिसारसंपत्ती सदागोरिजयेमुदे। भवसत्तीरदे सेत्ते संसारे सुसमानदे।।' हे देवि प्राणदायिनि, तव संबन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति

१. 'यावत्' इत्युत्तरं योग्यम्. २. 'पविष्टौ' क. २. 'मधु' इति स्यादासवशब्दा- थत्वात्. ४. 'कम् अनेकतमादानम् सुरतनः अजतु छलं तदा आसीनम् अप्पतिमानं खमते सः अगनिकानं नरं जेतुम् ॥' इति संस्कृतपक्षे पदानि. ५. 'निधुवनपुरुष-' इति रुद्रटव्याख्यायाम्. ६. 'वु' इति रुद्रटव्याख्यायाम्. ७. 'शंवातिसारसंप्राप्तिः सदा गौरि जगत्सु ते। तपः शक्ती रते सत्वे शंसारे मुशमानते ॥' इति शूरसेनीच्छाया. 'संवादिसारसंपत्ती सदागोरिजये असुदे तव सत्तीरदे सत्ते संसारे सुसमानदे' इति संस्कृतपक्षे पदानि.

८. 'तव' इति देवीशतके; 'रव' ख. ९. 'सन्तु' इति देवीशतके.

Page 258

२३० काव्यमाला।

'आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत्। भयकृद्पतेर्वाहुर्द्विपां च सुहृदां च ते ।।' अत्र नौतिनुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्ग: ॥

विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥' हरिणीभूतेति मृगीभूता, श्यामा संपन्नेति च । अत्र च्विडीप्रत्यय- योर्भङ्ग:।।

द्वौ भावौ विद्यमानतोज्वलतालक्षणौ विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वतेंते इत्यर्थः । अरिविजये जनस्य तव सांनिध्यमौजवल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे शोभनपारप्रदे त्वयि सत्यां त्वत्प्रभावेण संसारसागरादुत्तीर्यंत इत्यर्थः। तथा सुसमामनपभ्रंशमानं शब्दं यदि वा ब्रह्मस्तम्भपर्यन्त- चतुर्दशभूतसगे नित्योदिततया सुगमं साधारणलेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ। अपरोऽर्थः सूरसेन्या :- हे गौरि, जगत्सु सर्वदा देवतपःशक्तिर्वज्रवदतिदृढधाचिचिः ।अन- पायिनी वर्तत इत्यर्थः। कीदृशि। रदे आसके। क। संसारे। सत्ते श्रेयःप्रधाने सत्वे सुस- मैश्चित्तोद्रेकजयिभिर्मुमुक्षुभिः प्रणते चित्तजय एव हि मोक्षः । तथा च-'चित्तमेव हि संसारो रागादिक्केशदूषितम्। तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' संस्कृतस्यापभ्रं- शेन यथा-'आगममणिसुदमहिमसमसंमदकृदपरजस्सु। किर सविभयवदितोसमय उज्लभावसहस्सु ॥' हे देवि, अपरजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्चित्तोपशम एव निर्वापकत्वात् हिमं तयो: संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तद- र्थादज्ञानम् इतः संसारात् किर क्षिप। सविभयवत् यज्विनां भयं यथा किरसि तद्वद- ज्ञानं किरेत्यर्थः ॥ परोऽर्थ :- जस्सु पर यस्य केवलमागमाश्चेतसि तथाश्रुतमहिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददाना: कृताः । किल स्ापि भगवती तोषमयं निर्मलपदार्थसहसरं सहस्रशब्दो वाहुल्यार्थे। देवी प्रसादविल-

१. 'संप्राप्तिः' इति देवीशतकव्याख्यायाम्. २. 'मुशमै' स्यात्. ३. 'आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य। किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥' इत्यपभ्रंशच्छाया. 'आगममणिसुदमहिमसमसंमदकृत् अपरजस्सु किर सविभयवत् इतः असमये उज्ज• लभावसहस्सु' इति संस्कृतपक्षे पदानि.

Page 259

५ अध्याय:] काव्यानुशासनम्। २३१

'विषं निजगले येन बश्रे च भुजगप्रभुः । देहे येनाङ्गजो दध्रे जाया च स जयत्यजः ॥' अत्र गिलितं, निजे गले। दग्धो वपुषि चेति स्यादित्यादिविभत्तयोर्भङ्ग: ॥। 'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥' अत्रैकवचनबहुवचनयोर्भङ्ग: ।। एपामेव वर्णादीनामभङ्गाद्यथा- 'असावुदयमारूढः कान्तिमात्रक्तमण्डलः । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥' उदयः शत्तयुपचयो गिरिविशेषश्च। रक्तमण्डलोऽनुरक्तप्रकृतिररुणवि- म्वश्च। राजा नृपतिश्चन्द्रश्च। मृदुभिरखेदावहैः करैर्दण्डादिभिः किर- णैश्चेत्यभङ्ग: शब्दश्रेषः ॥ अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ॥ न चायमर्थालंकार इति वाच्यम्। अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात्। तथा हि-उदयादिशव्दप्रयोगेऽलंकारः, तदर्थशत्तयुपचयगिर्यादिप्रयोगे तु नेति तद्धावतदभावानुविधायित्वात् शब्दालंकार एवायम् ॥ 'स्वयं च पल्लवाताम्रभास्वत्करविराजिनी। प्रभातसंध्येवास्वापफललुव्धेहितप्रदा ।।' इत्यादौ तु संकरत्वमेव युक्तम्। अथ वा न्यायपरीक्षायामुपमात्वमेव। तथा हि-यथा गुणक्रियासाम्ये उपमा, तथा शव्दमात्रसाम्येऽपि दृश्यते- 'सकलकलं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव।' इत्यादौ। न च तत्र शब्दश्लेपत्वं युक्तम्। पूर्णोपमाया निर्विषयत्वा- सितं तत्तस्येति वाक्यार्थः ॥ ननु खरितादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणं तदभेदादभि-

द्विविधाप्ययमथालंकारमध्ये गणितोऽन्यैरित्याशङयाह-न चायमर्थालंकार इति॥ स्वयं चेति। गौरीपक्षे-किसलयवद्दीव्यमानाभ्यां शोभते सुखेनाुं यन्न शक्यं फलं तत्र लुब्धानामीहितं प्रददाति। संध्यापक्षे-उज्वलस्तया मरीचिभिः शोभिता साप- १. 'कराभ्यां' त्रुटितं स्यात्. २. 'उज्ज्वलसूर्यमरी' स्यात्.

Page 260

२३२ काव्यमाला।

पत्तेः । गुणक्रियासाम्ये सा भविष्यतीति चेत्, न । अर्थक्लेषस्य निर्वि- पयत्वप्रसङ्गात्। अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उपमावि- रहितोऽर्थश्लेषस्य विषयः कल्प्यते। तदा द्वयोरप्यन्यत्र लब्धसत्ताकयो- रेकत्र संनिपाते संकरतैव प्राम्नोति। गुणक्रियासाम्यमुपमा शब्दसाम्यं तु केष इति विशेषस्यानभिधानात् शब्दसाम्यमुपमाया विषयः । श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-' इत्यादौ उपमैव न्याय्या ।। एवं च- 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुका।' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतु: श्रेषः, अपि तु श्लेषप्रतिभोत्पत्ति- हेतुर्विरोध एव। अत्र हि श्लेषस्य प्रतिभामात्रं न पुनः प्ररोहः । न च विरोधाभास इव विरोध: श्रलेषाभासः श्रेषः । तस्मादेवमादिषु श्रलेषप्रतिभो- त्पत्तिरलंकारान्तरमेव ॥

फले विश्रान्तौ यो न लुब्धस्तद्विषये हितं प्रददाति ॥ अलंकारान्तरमिति। समा- सोक्तयादिरूपम्, न तु श्लेष इत्यर्थः। तथा च-'अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः ॥' इत्यत्र समासोक्तित्वम्। तत्पुरःसर इति आगच्छन्त्या इव संध्यायाः कामुक इव दिवसः पुरः संमुखं सरतीति व्याख्ये- यम्। न तु पदातिन्यायेनाग्रे दिवसो गच्छति संध्या पश्चादिति। एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् I 'नालस्यप्रसरः-' इत्यादौ अन्योक्तित्वम् ॥ 'यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धास्पदश्छायावान्नवरक्तको बहुगणश्चित्रश्चतुर्हस्तकः। कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः ॥' इत्यत्र ससंदेहत्वम् ॥ यदि वान्योक्ते: सारूप्यादिः, ससंदेहस्य • च सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि ्लेषस्यान्योक्ति- ससंदेहानुग्राहकत्वेन प्रवृत्तत्वात्संकरत्वं भवतु श्रेषत्वमिति। 'अलौकिकमहालोकप्रकाशि- तजगत्रय। स्तूयते देव सद्वंश मुक्तारत्नं न कैर्भवान् ॥' 'आदाय चापमचलं कृत्वा- हीनं गुणं विषमव्ृष्टिः। यश्चित्रमच्युतशरो लक्ष्यमभाद्गीन्नमस्तस्मै।' अचलं पर्वतं निश्चलं च। अहीनां सर्पाणामिनं स्वामिनं हीन च। विषमा त्रिरूपा अस्थिरा च। अच्युतः कृष्णः गतिशून्यश्च ॥ 'अखण्डमण्डलः श्रीमान्यस्यैष पृथिवीपतिः। न निशा- करवजातु कलावैकल्यमागतः II' इत्यादौ च एकविषयरूपकविरोधव्यतिरेकानुग्राहकः

१. दृष्टिः' स्यात्. २. 'पश्यैष' का० प्र०.

Page 261

१ अध्याय:] काव्यानुशासनम्। २३३

अर्थैक्ये व्यादिभाषाणां च। द्वित्रिचतुःपञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिर्धादिभापाश्लेप:। तत्र संस्कृतप्राकृतमागधपिशाचशूरसेनापभ्रंशभाषाणां द्वियोगे पञ्चदश, त्रियोगे विंशतिः, चतुर्योगे पश्चदश, पञ्चयोगे पट्, षड्योगे एकः । सर्वमीलने भाषाश्लवेषस्य सप्तपञ्चाशद्धेदाः । एते च पूर्वोक्तभाषाक्लेषे भिन्ना- र्थत्वेऽपि द्रष्टव्याः ॥ संस्कृतप्राकृतयोयोगो यथा- 'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥' संस्कृतमागध्योर्यथा- 'शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' शलन्तु गच्छन्तु । अधिरोहन्त्वित्यर्थः । शं शुभं वा यान्तु । संकीर्णाः पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्घनं वा विशन्तु। यतो- Sविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अकल्याणं दिशन्त्येव। संस्कृतपैशाच्योर्यथा- 'चम्पककलिकाकोमलकान्तिकलापाथ दीपिका नङ्गी। इच्छति गजपतिगमना चपलायतलोचनालपितुम् ।।' संस्कृतशूरसेन्योर्यथा- 'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्। साधु पिबन्तु सुपीवरपरिणाहपयोधरारम्भे ।।' सुपीवरेत्याद्यपि संबोधनपदम्। संस्कृतापभ्रंशयोर्यथा- 'कीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ।।' एवं द्वियोगान्तरे त्रिचतुर्णो च योगेषु चोदाहार्यम्। १. 'कपोला' रुद्रटे. २. 'परिणाहि' रुद्रटे. ३०

Page 262

२३४ काव्यमाला।

षड्योगो यथा- 'अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमवलामले ॥' हे चण्डि देवि, रक्ष। अचपललक्ष्म, मनःप्रसाधनपद्मालये। महामो- हस्य जन्मलक्षाभ्यस्ताया अविद्याया भञ्जने उग्रं यद्वलं तेन अकलक्के।।

अन्येन वक्रान्यथोक्तस्यान्येन प्रतिवक्रा श्रेषाद्भङ्गाभङ्गरूपादन्यथाभि- धानं वक्रोक्तिः । भङ्गाद्यथा- 'किं गौरिमां प्रति रुषा, ननु गौरहं किं, कुप्यामि कां प्रति, मयीत्यनुमानतोऽहम्। जानाम्यतस्त्वमनुमानत एव सत्य- मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' अभङ्गाद्यथा- 'कोडयं द्वारि, हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, बिभेमि सुतरां कृष्णादहं वानरात, । कान्तेऽहं मधुसूदनो, त्रज लतां तामेव मध्वन्विता- मित्थं निर्वचनीकृतो दयितया हीतो हैर: पातु वः ॥' केाकुवक्रोक्तिस्त्वलंकारत्वेन न वाच्या। पौठधर्मत्वात्। तथा च श्लेष इति संकर एवायम् । एवमन्यत्राप्यूह्यमिति ॥ अत इति। अस्मादनुमानात्। न उमा अनुमा अर्थात्संध्या तस्या नत इत्यपि ॥ काकुवक्रोक्तिरिति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः। तत्र हि साकाङ्कनिराकाङ्कादिक्रमेण पठ्यमानोSसौ शब्द: प्रकृतार्थादतिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते। यदि वा ईषदर्थे कु० शब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषद्धूमिः काकुः। काकुर्वा जिह्वा तद्या पारसंपाद्यत्वात्काकुः । तद्रपा वकरोक्तिः काकुवक्रोक्तिरिति॥ पाठधर्मत्वादिति १. 'हरिः' स्यात्. २. 'विस्पष्ट क्रियमाणादक्किष्टा खरविशेषतो भवति। अर्था न्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥' इति रुद्रटे तल्लक्षणं ज्ञेयम्. ३. 'पाठ्य' स्यात्. १. 'अनुपमा' इत्येवं कैश्चित्पश्चाच्छोधितः पाठ :. २. 'पाठ्य' इति स्यात्, अ

Page 263

९ अध्याय:] काव्यानुशासनम्। २३१

अभिप्रायवान् पाठधर्म: काकु: स कथमलंकारी स्यादिति यायावरीयः गुणीभूतव्यङ्गचप्रभेद एव चायम्, शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात्। यदाह ध्वनिकार :- 'अर्थान्तरगतिः काक्का या चैषा परिद्ृश्यते। सा व्यङ्गचस्य गुणीभावे प्रकारमिममाश्रिता ।।'

तथा च भरतः-'सप्त खरास्त्रीणि स्थानानि चलारो वर्णा द्विविधा काकु: पडलंकारा: पडङ्गानीति पाठ्यगुणाः । तत्र काकौ खरा एव वस्तुत उपकारिणः। तत्परिकरभूतं तु स्थानादि। खरेपु प्रकृतिभूतेपु काकुरूपता जन्यते। तत्र स्थानशब्देनैपां स्वरूपनि- 5पत्तेराश्रयो दर्शितः। उदात्तानुदात्तखरितकम्पितरूपतया खराणां यद्रक्तप्रधानत्व- मनुरणनमयं तत्त्यागेनोच्चनीचमध्यमस्थानस्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् । यदि हि स्वरमतारक्तिः पाठ्ये प्राधानान्येनावलम्व्यते तदा नागक्रियासौ स्यात्, न पाठः। अत एव गानवैलक्षण्ये संपन्ने वाद्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिन- यानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते। तत एव काकुरूपत्वमेव सर्वत्रा नुयायि, अभिनयत्वे भुख्यापयोगात्। तथा चोच्चदीप्ताद्यलंकारेष्वपि काकुशब्देनैव मुनिर्व्यवहरति। काकोरेव हि प्रकारसंपादकाः परिपूर्णताधायिनोऽलंकाराः । अलमिति पर्याप्यर्थ इह, न भूषणार्थः। अङ्गानि तु विच्छेदादीनि समर्थ शोभादिकं च पोषयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकुरेवेयं पश्चमी रूपान्तरैः पूर्णीक्रियते। काका च पठ्यमानस्य खवोचितचिजडरूपार्थाभिमुख्यनयनेनाभिनयतादीयत इति काकुरेवात्र प्रधानमिति। तत्र च सप्तखराः-पड्जऋषभगान्धारमध्यमघैवतनिर्षादवन्तः । एते रसेपूपपाद्या :- 'हास्यश्ङ्गारयोः कार्यों खरौ मध्यमपञ्चमौ। षड्जर्पभौ तु कर्तव्यौ वीर- रौद्राद्धुतेध्वथ। निषादवान् सगान्धारः करुणे संविधीयते। धैवेतश्वापि कर्तव्यो बी- भत्से सभयानके ।' त्रीणि स्थानानि-उरः कण्ठः शिर इति। अयमर्थः-शा- रीर्यो वीणायां केवलमुरःशिरःकण्ठलक्षणेभ्यस्त्रिभ्यः एव स्थानेम्यो न तु पड्जष्टः(?), स्वरः परित्यक्तरञ्जनात्मकगानोपयोगिसव्यापारः काकुभूतः संप्रवर्तते। बाह्यायां हि १. 'पाठ्य' स्यात्. एव 'पाठ्यगुणानिदानीं वक्ष्यामः' इत्युपक्रम्य 'तद्यथा-सप्त खराः तु' इत्याद भिधानमुपलभ्यते. १. 'मुख्योप' क. २. 'रेवाप' क. ३. 'पञ्चभी' स्यात्. ४. 'पश्चम'पद त्रुटितं भरते. ५. 'निपादाः । त एते' भरते. ६. 'यथा' इत्यपीतः प्राग्भरते. ७. 'पु च' भरते. ८. 'गान्धारक्ष निषादश्च कर्तव्यः करुणे रसे' भरते. ९. 'धैवतश्वैव' भरते, १०. 'पड्भ्योऽटभ्यः(?)' स्यातू,

Page 264

२२६ काव्यमाला।

वीणारयां प्रतिबिम्बात्मिकायां रञ्जनात्मकस्वरस्वरूपव्यतिरेकेण न काकुसंपत्तिः ॥ य- दाह-'शीरार्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु। उरसः शिरसः कण्ठात्सरः काकु: प्रवर्तते ॥' तत्र उरोनिष्पन्नेन तारेण दूरस्थानामाभाषणविधि: कार्यः । यद्वा मन्द्रस्वरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमापुयादित्यभिप्रायः ॥ उदात्ता- नुदात्तखवरितकम्पिता वर्णाः । तत्र हास्यश्ङ्गारयोः खरितोदात्तर्वर्णैः पाठ्यमुपपाद्यम्। वीररौद्राद्धुतेषूदात्तकम्पितैः। करुणबीभत्सभयानकेष्वनुदात्तकम्पितैरिति ॥ द्विविधा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते ॥ 'उच्चो दीप्तश्व मन्द्रश्च नीचो द्रुतविलम्बितौ। पाठ्यास्यैते ह्यलंकारी :- ' इति। उच्चो नाम शिरःस्थानगतस्तारः । स च दूरस्थाभा- षणविस्मयोत्तरोत्तरसंजल्पन्रासनावादाद्येषु । दीप्तो नाम शिरःस्थानगतस्तारतरः । स चाक्षेपकलहविवादामर्षोत्कुष्टाघर्षणशौर्य दर्पतीक्ष्णरूक्षाभिधान निर्भत्सनाकन्दादिषु।। मन्द्रो नामोरःस्थानस्थः निर्वेदग्लानचिन्तौत्सुक्यदैन्यव्याधिगाढशस्त्रक्षतमूर्छामदादिषु। नीचो नामोरःस्थानस्थो मन्द्रतरः। स स्वभावाभाषणव्याधितपःश्रान्तत्रस्पतितमू- र्छादिषु ।। द्वुतो नाम कण्ठगतस्त्वरितलल्लमन्मनभयशीतज्वरार्तत्रस्तायस्तात्ययिक- कार्यावेदनादिषु। लल्लं सविलासम्। मन्मनमव्यक्तम्। अहमेव मनो मन्ता यत्रेत्यनेना- श्रूयमाणम्। लल्लमन्मनौ नायिकागतावेव बालविनोदनसान्त्वनादौ। मुञ्च मुश्चेत्येवंप्रायप- राभियोगानङ्गीकरणादौ वेति। आत्ययिकं शीघ्रसंपाद यत्कार्ये तस्यावेदनम् ॥ विलें- म्बिता नाम कण्ठस्थानस्थो मन्द्रः। श्ङ्गारवितर्कविचारामर्षांसूयिताव्यक्तार्थप्रवादल- जाचिन्तातर्जितविस्मितदीर्घरोगनिपीडनादिषु । 'हास्यश्रङ्गारकरुणेष्विष्टा काकुर्विल- म्विता। वीररौद्राद्धुतेषूच्ा दीप्ता चापि प्रशस्यते । भयानके सबीभत्से द्ुता नीचा च कीर्तिता। एवं भावरसोपेता काकु: कार्या प्रयोक्तृभिः ॥' अङ्गानि-वि- च्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनमिति ॥ तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुखरेण पूरयतेव रङं यत्पठ्यते। विसर्गो नाम वाक्य- न्यासः । अनुबन्धो नाम पदान्तरेष्वविच्छेदोऽनुच्छुसनम्। दीपनं नाम विस्थानशोभि वर्धमानस्वरं च। प्रशमनं नाम तारगतानां खराणामेवैश्वर्येणावतरणम् ॥ तत्र हास्यश्- द्वारयोरर्पणविच्छेददीपनप्रशमनसंयुक्तम्। करुणे विच्छेद प्रशमनार्पणदीपनानुबन्धबहु- लम्। वीररौद्राद्गुतेषु विसर्गविच्छेदार्पणयुक्तम्। बीभत्सभैयानकयोरिति। सर्वेषामप्ये- तेषां मन्द्रमध्यतारकृतः प्रयोगस्त्िस्थानस्थो भवति। तत्र दूरस्थाभाषणे तारं शि- रसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति ॥मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति। तदेवं ध्वनिधर्मविशेषस्य काकोः पांठः । धर्मत्वमवस्थितम्॥

१. 'वात्सल्य' भरते. २. 'हृस' भरते. ३. 'पाठ्यस्यैते' भरते. ४. 'लक्षणं च निबोधत' इत्यस्याग्रे भरते. ५. 'त्रासनार्थ वादयेषु' भरते. ६. 'हखो' भरते. ७. 'विल- म्बितो भरते. ८. 'त्रिस्थान' भरते. ९. 'भयानकयोर्विसर्गविच्छेदाकाङ्किण(?)- प्रायम्' इति भरते उपलम्भादत्र पाठस्टितः प्रतीयते. १०. 'पाठ्यधर्मत्व' स्यात्.

Page 265

१ अध्याय:] काव्यानुशासनम् । २३७

सा च काकुर्द्विधा-साकाङ्णा निराकाङ्का च। वाक्यस्य साकाङ्गनि- राकाङ्कत्वात् । यस्माद्वाक्यात् यादृशः संकेतबलेनार्थः प्रतीयते, न तादृश एव, किं तु न्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं साकाङ्कम्। तद्विपरीतं निराकाङ्कम्। वक्तगता ह्याकाङ्का वाक्ये उपचर्यते। साच प्रकरणबलान्निश्चीयते। विशिष्टविषयत्वं च तस्यास्तत एवावसीयते॥ विषयोऽपि त्रिविध :- अर्थान्तरम्, तदर्थगत एव विशेषः, तदर्था- भावो वा। यथा- 'देशः सोऽयमरातिशोणितजलैर्-' इति। अत्र साकाङ्ककाकुप्रभावात् 'तेतोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः।।

साकाङ्कमिति। मन्द्रा दितारान्तमेपरिसमाप्तवर्णालंकारं कण्ठोरःस्थानगतं यथा भवति तथैतत्पठनीयम् ॥ तद्विपरीतमिति। यादृशो वाक्यात्संकेतबलेनार्थः प्रतीयते तादृश एव यत्रान्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तेदति॥ निराकाङ्गमिति। मन्द्रादितारान्तं पेरिसमाप्तवर्णालंकारं शिरःस्थानगतं यथा भवति तथेदं पठनीयमि- त्यर्थ: ॥ काकुप्रभावादिति। उदात्तकम्पितवर्णस्योच्चदीप्तालंकारस्य वासमाप्या या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्ककाकूदाहरणद्वये व्याख्येयम् ॥ ननु श्रुतमर्थमनादृत्य कथ काकुरर्थान्तरं प्रतिपादयेत्। तत्रोक्तमन्यैः-वस्तुखभा- वोऽन् द्रष्टव्यः, न हि दृष्टेऽनुपपन्नं नाम' इति। वयं तु ब्रूमः-इह येयं प्रथमेन संवित्स्यन्देन प्राणोल्लासया वर्णादिरूपविशेषहीना वाग्जन्यते सा नादरूपा सती हर्षो- त्कादिचित्तवृत्ति विधिनिषेधाद्यभिप्रायं वा तत्कार्य लिङ्गतया तादात्म्येन वा गमय- तीति तावत्स्थितम्। तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोष- शोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽनुमानं तावत्। ये त्वेते वर्णवि- शेपास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिक्तनिमित्तान्त-

१. 'यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहात्। तान्येवाहि तहे तिघ स्म रगुरूण्यस्त्राणि भाखन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' इति शेषपूरणे संपूर्ण: श्रोको वेणीसंहारे. २. 'ततोऽप्यधिक' स्यात्. १. 'अनियुक्तार्थमनिर्यातितवर्णा' भरते. २. 'तदिति ... ' स्यातू. ३. 'नियु क्तार्थ निर्यातित' भरते.

Page 266

२३८ काव्यमाला।

'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क्क स क्क स दशाननो ननु निवेद्यतां राक्षसाः ॥' अत्र 'तदात्मज इहाङ्गदः' इति साकाङ्ङया काका खगता वालिपुत्रो- चिता विशेषा अर्प्यन्ते ॥ 'निर्वाणवैरदहनी :- ' इति। अत्र भवन्तीति साकाङ्काकाकुर्भवनाभावमाह। भवन्तीति व- चनोच्चारणं त्वर्थेडसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवनल- क्षणमर्पयति। न भवन्त्येवेत्यर्थः ॥ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । भिन्नरूपाणां सार्थकानर्थकानां शब्दानामेकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभास: । यथा- 'सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ।।'

रापेक्षास्तत एवान्यत्राप्यभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्धित्रमुखरागपुलकस्थानीयो नान्यथाकर्तु पार्यत ईत्यन्यथासिद्वोऽन्यथा- सिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरुर्नाम भयमिति। अन्यप्रकारतां वा वाक्या- र्थस्य विशेषार्पणेन विधत्ते॥ वचनोच्चारणमिति। वचनस्य भवन्तीति रूपस्य॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके पञ्चमोऽध्यायः ।

१. 'प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्स्था भवन्तु कुरुराजसुताः सभृत्याः ॥' इति शेषयोजने संपूर्णश्रोको वेणीसंहारे द्रष्टव्यः. २ .- ३. 'भवन्त्विति' स्यात्, नाटके वा 'भवन्ति' इति स्यात्, विवेकसंवादात्. १. 'इत्यनन्यथासिद्धो' स्यात्.

Page 267

६ अध्याय:] काव्यानुशासनम्। २३९

हे देवि, विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे। अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती। अत्र 'भासि'-'विराजसे'- इत्यादिशब्दाः सार्थकाः । 'उदकम्'-'पयः'-शब्दौ निरर्थकौ ॥ इत्याचार्यश्री हेमचन्द्रविरचिताया मलंकारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दालंकारवर्णनः पश्चमोऽध्यायः ।

षष्ठोऽध्यायः । अथार्थालंकाराणामेकोनत्रिंशतमाह- हृदं साधर्म्यमुपमा। कार्यकारणयोरसंभवादुपमानोपमेययोरेव साध्म्यै भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा। हृद्यं सहृदयहृदयाह्रादकारि। तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाध्म्यै नोपमा। तथा 'कुम्भ इव मुखम्' इत्यादि श्रृङ्गारादौ। हास्यादौ तु न दोपः । हृद्यग्रहणं च प्रत्यलंकारमुपतिष्ठते । साध्म्य च देशादिभिर्भिन्नानां गुणक्रकियादिसाधारणधर्मवत्त्वम्। अभेदे ह्येकत्वमेव स्यात्। तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुष- त्वानुगमनलक्षणे साम्ये नोपमा। यदा तु द्वितीयः पुरुषशब्दः शक्ति- मूलव्यङ्गचपरतयावदातकर्मवचनः, तदानीं भिन्नत्वाद्धवत्येव। यथा- 'निन्नन्नभिमुखः शूरोऽनेकशो बहुशः परान्। संग्रामे विचरत्येष पुरुषः पुरुषो यथा ॥' एवं च यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेद: कल्प्यते, तत्रा- प्युपमा भवति।

= साधारणताप्रतिपादनार्थमिति। एतत्सदृशमन्यं नास्तीत्यसाधारणता तत्प्रतिपाद- नार्थमित्यर्थः । यथा 'उभौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यादौ कल्पितोपमायामन्यै- रुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य

Page 268

२४० काव्यमाला।

यथा- 'न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥।' तत्र देशेनोपमानोपमेययोर्भेदो यथा-'मधुरेव पाटलिपुत्रमाढ्यजन- पदम्'। कालेन यथा-'वसन्त इव हेमन्तः कामिनीसुखहेतुः' । क्रियया यथा-'नृत्यमिव गमनमस्याः सविलासम्' । गुणेन यथा-'गौरीव श्यामा सुभगा'। जात्या यथा-'विप्र इव क्षत्रियः श्रोत्रियः' । द्रव्येण यथा-'तीर्थकर इव गणघरः पूज्यः'। समवायेन यथा-'विषाणित्वमिव दंष्टिरित्वं हिंस्रम्' । अभावेन यथा-'मोक्ष इव समाधौ दुःखाभावः'।

धर्मस्य च साम्यसमन्वयसमुद्धवसातिशयत्वविरहात्सवेषां पुराणानां पदार्थानां नूतनम सन्दूतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति तथानन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात्काल्पनिकमप्युपमानमुपप- न्नम्॥ ननु वास्तवस्य द्वित्वस्याविद्यमानत्वात् उभयनिष्ठत्वाच्चोपमानोपमेयभावव्यव- स्थितेरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशङ्ग्याह-एकस्यापि भेद: कल्प्यत इति। अयमभिप्रायः-समारोपितरूपस्य द्वित्वस्याभ्युपगमादुपमानो- पमेयभावसंबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नान्वयः पृथगलंकारत्वेन वाच्य इति॥ विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतच्चो- पमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते॥ विषाणित्वमिव दंष्रित्वमिति। अत्र 'समासकृत्तद्वितेषु संबन्धाभिधानम्' इति वचनात्संयोगस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाद्रव्ये शब्दनिवेशस्तदभिधाने 'त्वतलौ' इति त्वप्रत्ययेन समवायस्याभिधानम्। तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेदकल्पनं न्याय्यम्। ततश्च विषाणोपाधिकः समवाय उपमानं दंष्ट्रोपाधिकस्तूपमेय इति॥ मोक्ष इवेति। मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इति भावः ॥[नित्यसमास १. 'मानन्वयः' स्यात्. २. 'इत्यर्थः' स्. ३. अयं कोष्टकान्तर्गतः पाठोऽत्र लेखकप्रमादात्पतितो भवेत्, अग्रे 'नेत्रैरिवो-' इत्येतच्छोकप्रकरणे 'इवेन नित्यस- मासः' इत्यस्य व्याख्यारूपो भवेत्.

Page 269

६ अध्याय:] काव्यानुशासनम्। २४१

सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये तृत्तौ च। सेत्युपमा। प्रसिद्धमुपमानमप्रसिद्धमुपमेयम्। प्रसिद्धचप्रसिद्धी च कविविवक्षावशादेव। धर्मो मनोज्ञत्वादिः। उपमावाचका इव-वा-यथा- शब्दा: सदृशसंनिभादयश्च। अमीषामुपादाने पूर्णा। सा च वाक्ये वृत्तौ च भवति। वाक्ये यथा- 'क्षणं कामज्वरोच्छित्त्यै भूयःसंतापवृद्धये। वियोगिनामभूच्चान्द्री चन्द्रिका वदनं यथा ॥' परार्थाभिधानं वृत्तिः । सा च यद्यपि समासतद्धितनामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते, तथापीह समासतद्धितयोरेव संभवति। यथा- 'नेत्रैरिवोत्पलैः पझमैर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥' अत्रेवेन नित्यसमासः ।

इति। ये त्विवेन समासं नेच्छन्ति, तन्मते वाक्योपमायामिदमुदाहरणम्। समा- सोपमायां तु-'अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुतदृशः स भवानभिलपणीयः क्षितीश्वर न कस्य ।I' इत्युदाहार्यम् ॥] प्रसिद्धमिति । इन्दु- मुखी कन्या इत्यादो प्रसिद्धं चन्द्रादि उपमानम्, प्रसिद्धं तु मुखाद्युपमेयम्। ननु 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।।' इत्यादौ कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्वोपमेयत्वमुपलभ्यते, तत्कथमुच्यते प्रसिद्ध- मुपमानमप्रसिद्धमुपमेयमिति आशङ्क्याह-प्रसिद्धयप्रसिद्धी चेति। तथा हि स्त्रीमात्रस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगित्वाश्रयणे कामिनीशव्दात्प्रतीयमानहृदयस्थित दुर्लभमनोहारिप्रियतमाया गण्डश्न्द्रादप्यधिकचम- त्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीकि- येते। न सर्वलोकप्रसिद्धयेत्यर्थः । यैरपि प्राकरणिकमुपमेयमप्राकरणिकमुपमानमिति पक्षः समाथियते, तैरपि कविप्रसिद्धिरवश्यमङ्गीकर्तव्यैव। तथा हि चन्द्रकामिनीगण्डा- दिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकरणिकं मुखचन्द्राद्यप्रसिददगुणमुपमीयते। उप समीपे मीयते क्षिप्यते स्वसादृश्यपरिप्रापणादुपमेयं येन तदुपमानम्। यत्तु तेन समीपे क्षिप्यते सौन्दर्यादिगुणयोगित्वेन तत्र प्राकरणिकेSप्रसिद्धं वद्नचन्द्रादि तदुपमे- १. 'योगिकत्वा' स्यात्.

Page 270

२४२ काव्यमाला।

'गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत्। दुरालोकः स समरे निदाघाम्बररत्नवत् ।' अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः । एकद्वित्रिलोपे लुप्ता। उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तो- पमा। सा च वाक्ये वृत्तौ च। एकलोपे वाक्यगता यथा- 'अनाधिव्याधिसंबाधममन्दानन्दकारणम्। न किंचिदन्यदस्तीह समाधेः सदृशं सखे ॥'

दुपमानत्वं बलादायातम्, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः। तथा- 'धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्रेतः सत्यं तस्यामृतं यथा ॥' अत्राह्मादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति। द्विलोपे यथा- 'दुण्ढिल्लिन्तु मरीहिसि कण्टयकलियाइं केयइवणाइं। मालइकुसुमेण समं भमर भमन्तो न पाविहिसि ।।' अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे यथा- 'अनाधिव्याधिसंवाधममन्दानन्दकारणम् । न किंचिदन्यदस्तीह समाधिसदृशं सखे ॥' अत्र समासे उपमानस्यानिर्देशः ।

१. 'ढुण्ढुजन्त' का० प्र०. २. 'अन्पैषयन्मरिष्यसि कण्टककलितानि केतकीवनानि। मलतीकुसुमेन समं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [झत च्छाया।]

Page 271

६ अध्याय:] काव्यानुशासनम्। २४३

तथा- 'राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव। रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ।।' अत्रेवेन नित्यसमासे धर्मलोपः । तथा- 'शरदिन्दुसुन्दरमुखीकुवलयदलदीर्घलोचना सा मे। दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥' अत्र बहुव्रीहौ उपमावाचकलोपः । तथा- 'मृधे निदाघघर्माशुदर्श पश्यन्ति ते परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः ।' अत्र नित्यसमासे 'कर्मकत्रोर्णमि' इव-लोपः। तथा- 'हंसो ध्वाङ्कविरावी स्यादुष्ट्रकोशी च कोकिलः । खरनादी मयूरोऽपि त्वां चेद्वदसि वागिग्मिनि ॥' अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । यथा वा- 'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता। चक्रदेशीयजघना सा स्वन्नेऽपि न दृश्यते ।।' अत्र तद्धितवृत्तौ धर्मलोपः। इवार्थश्च कल्पवादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसद्ृशमित्यर्थो न तु पूर्णेन्दुरेवेति ईषदप- रिसमाप्तिविशिष्टेऽयें कल्पवादीनां स्मरणात्। ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते, तथापि प्रातीतिकेन रूपेणोपमैव।

यम्॥ वचनवृत्त्येति। सामानाधिकरण्यरूपया। ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णेन्दुजातिरुच्यते तदाधारो वा द्रव्यम्। तत्र जातिस्तावदेका

१. '(वं' स्यात्.

Page 272

२४४ काव्यमाला !

तथा ह्यत्र पूर्णेन्दुसदशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति। यथा वा- 'सूर्यीयति सुधारश्मिमनाथति मृतायते। मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥।' अत्र नामधातुवृत्तौ कर्माधारयोः क्यनि कर्तुः क्विपि क्यडि च इव-लोपः। द्विलोपे यथा- 'ढुण्डुलिन्तु मरीहिसि कण्टयकलियाइं केयइवणाइं। मालइकुसुमसरित्थं भमर भमन्तो न पाविहिसि ।।' अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः। तथा- 'परिपन्थिमनोराज्यशतैरपि दुराक्रमः । संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः ॥' अत्र समासे धर्मस्येवस्य च लोपः ।

निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता। द्रव्यमपि यत्तया संबद्ध तत्सर्वतः पूर्णतात्स- माप्तमेव। तस्मादसंभव एवास्याः १ सामानाधिकरण्यमपि पूर्णन्दुकल्पं वदनमिति वदन- शब्देन प्राप्नोति तस्यार्थान्तरवाचित्वाननैष दोषः । इह शब्दादुच्चरितद्वयं प्रतीयते। शब्दार्थो जातिर्द्रव्यं वा। अभिधेयसंबन्धेन वा अशब्दार्थभूता अपि गुणाः । यत्र चैतदुभयमस्ति तत्र परिसमाप्तिः । यत्र त्वन्यतरन्नास्ति तत्रेषदपरिसमाप्तिः। तत्रेह पूर्णेन्दुशब्दः पूर्णेन्दुजातिहीने आह्लादनादिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते । ईष- दपरिसमाप्तिः। सामानाधिकरण्यमुपपद्यत एव कथं यदा तावत्पूर्णेन्दुजातिहीने केनचि- त्साधम्येण वदनशब्दाभिधेयेऽर्थे वर्तित्वात्पूर्णेन्दुशब्दः कल्पप्प्रत्ययमुत्पादयति तदा वदनशव्देन सामानाधिकरण्यं भवति। उभयोरेकार्थवृत्तिलात्। यदा तु गुणहीने पूर्णे- न्दुजातीय एव पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीनक इति। सामानाधिकरण्यं तथा भवति। गुणहीनो हि पूर्णेन्दुः पू्णेन्दुकल्पशव्देनोच्यते तेन च तुल्यं वदनमिति तदपि

१. 'ढुण्हुज्न्त' का० प्र०. २. 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि। मालतीकुसुमसदृक्षं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [इति च्छाया ।]

Page 273

६ अध्याय:] काव्यानुशासनम्। २४१

यथा वा- 'अरातिविक्रमालोकविकस्वर विलोचनः । कृपणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥' अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा उपमेयः । स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः क्यप्प्रत्ययेन साक्षादभिहितः । तथा- 'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥' अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः । त्रिलोपे यथा-मृगनयनेति। मृगस्य नयने इति प्रथमं तत्पुरुषः, ततो मृगनयने इव नयने यस्या इति उष्ट्रमुखादित्वाद्वहुत्रीहिः । अत्र गुणद्योतकोपमानशब्दानां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्योपमासमासस्येति नास्ति स्थानमुप- मायास्त्रिलोपिन्याः । केचित्तु-अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ क्रूराचारोपमेयतैक्ष्ण्यधर्मेवादीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति, तन्न

क्तिरेवायम्। एवं दाण्डाजिनिक इत्यादिप्वपि द्रष्टव्यम्।

पूर्णन्दुकल्पशब्देनाभिधायिष्यते। कराचारोपमेयेति। तथा ह्यन्रायःशूलमुपमानम्, अर्थान्वेषणोपायः कथ्चिदुपमेयः, तीक्ष्णलादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्यमवगम्यते तन्मध्याच्च शब्दस्पष्टमुपमानमयःशलेनेति शिष्टस्य तु त्रितयस्यार्थसा- मर्थ्यादवगतिरिति ॥ दाण्डाजिनिक इत्यादिप्वपीति। तथा हि दम्भस्य दण्डा जिनतयाध्यवसितस्य जीवनक्रियाकरणत्वं दण्डाजिनेनार्थानन्विच्छति दम्भेन जीवतीति दाण्डाजिनिकः । दाम्भिक इत्यर्थः। एवं पार्श्वेनार्थानन्विच्छति। अनृजूपायेन जीवतीति पार्वकः । कौम्रतिको जालिक इत्यर्थः। तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्यवसितयोः करणक्रियां प्रति विशेषणत्वं कमत्वं च। शीतं करोति शीतकोऽलसः। जड इत्यर्थः । एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च 'श्वा मुमू-

Page 274

२४६ काव्यमाला।

मालोपमादयस्तूपमाया नातिरिच्यन्ते इति न पृथग्लक्षिताः । तथा हि- "सोह व लक्खणमुहं वणमाल व् वियडं हरिवइस्स उरम्। कित्ति व पवणतणयं आण व बलाईं से वेलग्गए दिट्टी ।।' इयमभिन्ने साधारणे धर्मे ज्योत्सेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥' इति भिन्ने वा तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा। तथा- 'याम इव याति दिवसो दिनमिव मासोऽथ मासवद्वर्षम्। वर्षमिव यौवनमिदं यौवनमिव जीवितं जगतः ।।' 'नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्त्रम्। शशिविम्बमिव लसद्दच्युति तरुणीवदनं शरत्कुरुते ।।' अत्र यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे रसनोपमा ॥ 'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते। भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥' तथा- 'कमलदलैरधरैरिव दशनैरिव केसरैविराजन्ते। अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥।' षति,' 'अश्मा लुलुठिषते,' 'कूलं पिपतिषति' इत्यादि ॥ भाष्यकारस्यापि चैवमादावति- शयोक्तिभेदत्वमेवेष्टम्। यदाह-'न तिडन्तेनोपमानमरिति'। आख्यातं नोपमानं भव- तीत्यर्थः। एवं वर्तमानसामीप्यादावतिशयोत्तिभेदत्वं यथाप्रतीति योज्यम्। तथा च- 'सत्सामीप्ये सद्वद्वा' इति वर्तमानसमीपे भूते भविष्यति च वर्तमानवत्प्रत्यया भवन्ति। कदा देवदत्त आगतोऽसि। अयमागच्छामि। आगच्छन्तमेव मां विद्धि। अयमागमम्। एषोऽस्म्यागतः । कदा देवदत्त, गमिष्यसि। एष गच्छामि। गच्छन्तमेव मां विद्धि। एष गमिष्यामि। एष गन्तास्मि । एवमन्यदपि । हरिपतेः सुग्रीवस्य। से इति १. 'शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः। कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ॥' [इति च्छाया ।] २. 'विलग्गइ' सेतुबन्धे.

Page 275

६ अध्याय:] काव्यानुशासनम्। २४७

अत्रोपमानोपमेययोरवयविनोः समस्तविपया, अवयवानां चैकदेश- विपया॥ 'तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। निलीनां नलिनीखण्डे कथं तु त्वां लभेमहि ॥' अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा॥ 'त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ तवद्दशाविव। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥' अत्नैकस्येवोपमानोपमेयत्वेऽनन्वयः॥ 'उभौ यदि व्योम्ि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥'

'तासां तु पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे। वलाकिनीनीलपयोदराजिः पुरः परिक्षिप्शतहदेव ॥' अत्र यथेष्टं विशेषणैरुपमेयं परिकल्प्य तादृशमेव सिद्धमुपमानमुपात्त- मिति कल्पितोपमेत्यादि। आसां हि पृथग्लक्षणकरणे एवंविधवैचित्य- सहस्रसंभवादतिप्रसङ्गः स्यादिति ॥

प्राकरणिकेऽर्थे ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां संभावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा। सा चेव-मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्यादिभिः शब्दैद्योत्यते।

रामस्य । तदभावलक्षणेति। गुणक्रियाभावलक्षणः । तद्योगोत्प्रेक्षणमिति। अन्यधर्माणां स्वधर्मीभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यत्तयनुगुणतया वस्त्वन्त- राध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुव्ृत्तेलोंकातिकान्तगोचरत्वमस्या अभ्यनुज्ञातमेव। तेन यत्र कुतश्चिन्निमित्तालीकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा। न हि 'भारं वहतीव पुंगवः', 'पयो ददातीच स्त्रीगवी' इत्युत्प्रेक्षा प्रवर्नते, लोकातिक्रान्त-

Page 276

२४८ काव्यमाला।

यथा- 'वलं जगध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि। इतीव संचिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ।' अत्र रोपलक्षणस्य गुणस्योत्प्रेक्षा।। 'असंतोषादिवाकृष्टकर्णयोः प्राप्तशासनः । स्वधाम कामिनीनेत्रे प्रसारयति मन्मथः ॥' अत्र संतोषगुणाभावस्य । 'वियति विसर्पतीव कुमुदेपु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिपु । अम्भसि विकसतीव हसतीव सुधाधवलेपु धामसु ध्वजपटपल्लवेपु ललतीव समीरचलेषु चन्द्रिका ।।' अत्र क्रियायाः ॥ 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ।।' अत्र दर्शनक्रियाभावस्य ।। एवं च- 'हिरण्मयी सा ललनेव जङ्गमाच्युता दिवः स्थास्त्ुरिवाचिरप्रभा। शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥' तथा- 'अकालसंध्यामिव धातुमत्ताम्' । तथा- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।।' तथा- 'अचिराभामिव विघनां ज्योत्सामिव कुमुदबन्धुना विकलाम् । रैतिमिषमन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥' १. 'रतिमिव मन्म०' स्यादू.

Page 277

६ अध्याय:] काव्यानुशासनम्। २४९

तथा- 'स्थितः पृथिव्या इव मानदण्डः ।' इत्यादावुत्प्रेक्षाबुद्धिर्न विधेया॥ यद्यप्येपु स्वरूपतो विशेषणतश्चोपपाद्य(?) कल्पितम्, तथाप्युपमैव। उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां प्रतीयमानत्वात्। सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् । सादृश्ये निमित्ते सति भेदेन विषयविषयिणोनिर्देशेन आरोपोऽतथा- भूतेऽपि तथात्वेनाध्यवसायो रूपयत्येकतां नयतीति रूपकम्। आरोप्य- माणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात्। सादृश्यग्रहणं कार्यका- रणभावादिनिमित्तान्तरव्युदासार्थम्। तेन 'आयुर्घृतम्' इत्यादौ न रूप- कम्। भेदग्रहणमभेदारोपनिरासार्थम्। तत्र ह्यतिशयोक्तिर्वक्ष्यते। तच्च एकमनेकं चारोपस्य विषयो यत्र तत्तथा॥ तत्रैकविषयं यथा- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- तैसखी: कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्।

गोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात्॥ विषयविपयिणोरिति। अर्थादु- पमानोपमेययोः ॥ तथात्वेनाव्यवसाय इति। 'मुखंचन्द्रः' इत्यादौ गौणीवृत्तिविष- यतयेत्यर्थः । तथा हि उपमेयशब्दो धर्मिवाची। द्वितीयेनोपमानशब्देन तथाभूतेनानुप- पद्यमानसामानाधिकरण्यस्तस्यैवोपमानपदस्य खाभिधेयाविनाभूतगुणवृत्तितां नियमयति। ततश्च सामानाधिकरण्यमप्युपपद्यते। अंत एव च भेदेऽप्यभेदप्रतीतिरियं नापन्यायः । तथा ह्यज्ञाते भेदे किलाभेदप्रतीतिरेव यत्र, तन्मि्याज्ञानम्। यथा शुक्तिकायां रजत- प्रतीतिः। तथा भेदे ज्ञातेऽपि यत्राभेदप्रतीतिरिव सोपमा। भेदे ज्ञातेऽप्यामुख्ये कि- लाभेदप्रतीतौ संजातायामपि पश्चादत्रैवंविधे विशिष्टे सादृश्ये विश्रान्तिस्तद्रपकम्। अन्यथा भेदेऽप्यभेदप्रतीतावन्याय एव स्यात्। ततश्ष मिथ्याज्ञानसालंकाररूपत्वं कथ- मुच्यते। अत्र च केचिच्छब्दारोपपूर्वकमर्थारोपं त्रुवते। अपरे विपर्ययम्। अन्ये यौग- पद्येनोभयम्। एप एव च युक्तः पक्ष इत्याहुः। तथा हि-'शब्दापचारात्ताद्रूप्यं रूपके कैथ्िदुच्यते। ताद्रप्यारोपतस्त्वन्यैः शब्दारोपोऽ्र कथ्यते ॥ उपमानगुणैस्त्वन्यानुप- पमेयगुणान्गुणान्। पश्यतां युगपद्भाति तत्र तच्छब्दरूपता॥' तत्रेत्युपमेये। तच्छ- १. 'सखी' का० प्र०. ३२

Page 278

२५० काव्यमाला।

विनिद्रं यच्चान्तः सवपिति तदहो वेदयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' यत्र चैकस्मिन्विषयेऽनेकान्यारोप्याणि, तदप्येकविषयम्। यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥' यत्र चैकत्र विषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येकविषयम्।

व्देति। उपमानशब्दारोप उपमानरूपारोपश्च । प्रेमलतिकेति। प्रेमैव लति- केति। मयूरव्यंसकादित्वादेवशव्दलोपी समासः॥ ननु व्याघ्रादिद्वारेण इवशब्दलोपी समासो उप्तोपमाया दृश्यते। ततश्वोभयप्राप्तेरवश्यंभाविनीत्वाद्वक्ष्यमाणसंदेहसंकरः प्राप्नोति। उच्यते-यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाणं तत्रैवोभयप्रसक्तिरनिवार्येति स एव संदेहसंकरोSलंकारस्य विपयो वक्ष्यते। इह तु लतायाः सेवनमानुकूल्यादारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्ति तत्संकरशङ्का न कार्या। एवं बाधकेनापि प्रमाणेन संदेहांशापवर्तनादपरांशप्रतिष्ठायां निरवकाशतैव संदेहस्य। यथा-'मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूरिव। "मुख इव पुष्पे मधुकरेण चुम्व्यते स्म' इति विवक्षायामिवश. व्दद्येन वाक्यार्थासंगतिर्वाधकं प्रमाणं समासे लप्तोपमायाः, न तु 'साललतावधूगु- णयोगिनी मुख इव षट्पदेन चुचुम्वे' इति रूपकस्य। तथा हि मुख इव पुष्प इत्यत्र सदृशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता पुष्पाश्रिता पूर्वमेव प्रतीतौरस्यतयो- पारोहति। तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति। सात्र लताभिधी- यते। तस्माल्लतैव वधूरित्याञ्जसी रूपके प्रतिपत्तिः । उपमाप्रतिपत्तेस्तनाञ्जसत्वं मुखो- पमितिसामर्थ्याक्षिप्तपुष्पगतरूपविशेषानुपयोगित्वात्। तथा चात्रोपमेये पुष्पविशेषे मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न सालताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात्। तेन वधूरत्र प्रधानम्, तदुपयोगिनी तु साललता साललतैव वधूरि- त्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति। तस्माद्यत्र विशेषावसाये निमित्तमस्ति, तत्र रूपकं समासाभिहितोपमा वान्यत्र संकर इति ॥ सौन्दर्यस्येति। अत्र तरद्ि- १. 'अनिद्रं' का० प्र०. १. 'साललताया' स्यातू.

Page 279

६ अध्याय:] काव्यानुशासनम् । २५१

यथा- 'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलयम्। रससंमुही वि सहसा परम्मुही होइ रिउसेणा ।।' अत्र रणस्यान्तःपुरत्वारोपः श्रौतो मण्डलाग्रलताया नायिकात्वं रिपु- सेनायाश्र प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते। अनेकविषयं यथा- 'यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरङ्करः सुतसुहज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता लूयताम् ।।' यथा वा- 'इन्द्रस्त्वं तव वाहू जयलक्ष्मीद्वारतोरणस्तम्भौ। खङ्ग: कृतान्तरसना रेसना च सरख्ती राजन् ।।' एवं च येऽन्ये रूपकप्रभेदा वर्ण्यन्ते। यथा- 'ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः। अधरैर्दलैश्च तासां नवविसनालानि बाहुलताः ॥' इदं सहजावयवं रूपकम् । 'गजो नगः कुथा मेघाः शृङ्कलाः पन्नगा अपि। यन्ता सिंहोडपि शोभन्ते भ्रमरा हरिणास्तथा ॥' इदमाहार्यावयवं च। 'अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्र्वाककुचाः । राजन्ति हंसवसनाः संप्रति वापीविलासिन्यः ।।'

१. 'यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम्। रससंमुख्यपि सहसा पराखखी भवति रिपुसेना ।I' [इति च्छाया ।] २. 'जिह्वा' रुद्रटे,

Page 280

२५२ काव्यमाला।

इदमुभयावयवमित्यादि ॥ ते न लक्षिताः, उक्तग्रहणेनैव संगृहीत- त्वात्। एवंविधवैचित्र्यसहस्त्र संभवाच्चातिप्रसङ्ग: स्यात्। यदाह- 'न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिख्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् ॥' इति। इष्टार्थसिद्धै दृष्टान्तो निदर्शनम्। इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिच्धै यो दृष्टान्तः स निर्दिश्यते प्राकरणिकोडर्थोडन्रेति निदर्शनम्। यथा- "होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण। किरपण्हुवइ ससिमणी चन्दे पियामुहे दिद्ठे।।' यथा वा- 'उपरि घनं घनपटलं दूरे दयिता तदेतदापतितम्। हिमवति दिव्यौषधयः कोपाविष्टः कणी शिरसि ॥'

ण्यादेरारोप्यस्य प्रियालक्षण एक एव विषयः । रहसामिति हास्यानाम् ॥ इष्टस्ये- ति। उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्थान्तरन्यासत्वं वक्ष्यत इत्त्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते। ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहिष्यते। किं तस्य पृथग्लक्षणकरणेनेत्याशङ्ग्याह-यो दृष्टान्त इति। दृष्टो- डन्तो निश्चयो यत्र स दृष्टान्तः। निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ। तेन 'यत्र सामान्यस्य विशेषस्य वा विशेषेण समर्थनं तन्निदर्शनम्। यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उत्पद्यते॥ होइ न गुणाणु- राओ इति। अन्न सामान्यं विशेषेण साध्यते॥ उपरीति। अत्र विशेषो विशेषेण

१. 'भवति न गुणानुरागो जडानां केवलं प्रसिद्धिशरणानाम्। ......... ... शशिमणिश्चन्द्रे प्रियामुखे दृष्टे ॥।' [इति च्छाया ।]

१. 'संग्रही' स्यात्.

Page 281

६ अध्याय:] काव्यानुशासनम्। २१३

यथा वा- 'देवीभावं गमिता परिवारपदं कथं भजत्येपा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रलम्।।' यथा वा- 'क सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्पुर्दुस्तरं मोहादुड्डुपेनास्मि सागरम् ॥।' यथा वा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत्। आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः ॥' एते साधर्म्येण निदर्शनप्रकाराः ॥ वैधर्म्येणापि यथा- 'गुणानामेव दौरात्म्याद्गुरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं जीवति गौर्गलिः ।' 'तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीपतः । भटाः परेपां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥' इति॥

साध्यते॥ देवीभावमिति, क्व सूर्येति, अत्युच्चपदाध्यास इति। उदाहरण- त्रयस्यायमभिप्रायः। यथा कैश्चित्प्रतिवस्तूपमा, प्रकारदूयेन निदर्शना च पृथक् लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणेनैव व्याप्तलात् । तथा हि 'देवीभावं-' इति 'क सूर्य-' इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते। ननु प्रति- वस्तूपमान्तर्भवतु निदर्शने। निदर्शनाविशेषस्तु कथमन्तर्भविष्यति। तस्य 'अभवद्व- स्तुसंबन्ध उपमापरिकल्पकः' इत्येवं लक्षणलात्। अत्रोच्यते-क सूर्येत्यादौ दार्ष्टा- न्तिके वस्तुसंबन्धस्य असंभवः, दृष्टान्ते वा, अल्पविषयमत्या सूर्यवंशस्य वर्णनमसं भवदिति दार्श्टान्तिके वस्तुसंबन्धस्यासंभव इति चेतु, न। यत्र वाक्येऽसंभवन्नेवार्थः प्रतिपद्यते, तत्र कथमभवद्वस्तुसंबन्धता । स्यादेवं यदि प्रतिपद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात्। तस्मान्न दार्श्टान्तिके वस्तुसंवन्धस्यासंभवः दार्ष्टान्तिकप्रतिवि- १. 'शर्मणः' का० प्र०. 'साहसक्मणा शर्म सुखं यस्येति विग्रहः' इत्युदाहरण- चन्द्रिका.

Page 282

२५४ काव्यमाला।

प्रकृताप्कृतानां धर्मैक्यं दीपकम्। बहुवचनं समस्तव्यस्तपरिग्रहार्थम्। तेन प्रकृताप्रकृतानां प्राकरणिका- प्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च केवलानां धर्म: क्रियादिर्यदेक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपनादी- पकम् । यथा- 'चन्दमऊएहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया। हंसेहिं सरयसोहा कबकहा सज्जणेहिं कीरइ गरुई॥' अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि। गुरुकीकरणमेका क्रिया।

म्वरूपल्ाच्च दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः। 'उदयति विततोध्वरश्मिरजौ-' इत्यादौ तु अतिशयोक्तिभेदतं वक्ष्यते। 'अत्युच्चपदाध्यासः' इत्यत्र तु सामान्यं दृष्टा- न्तेन समर्थ्यते। साक्षात्कियापि तदर्थीन्वयख्यापनं कुर्वतीति न दृष्टान्तात्प्रच्यवत इति॥ चन्दमऊएहिं इति। चन्द्रमयूखादीनामपि न निशादिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी साधुजनता। चन्द्रमयूखैश्ष निशाया गुरुकीकरणं भासरत्वसेव्यतादि यत्किरियते, कमलैर्नलिन्याः शोभा परिमलल- क्षम्यादि, कुसुमगुच्छैर्लताया अभिगम्यतमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसु- खकरत्वमनोहरत्वादि, तत्सर्वे काव्यकथायाः सज्नैरित्येतावानयमर्थो गुरुकी क्रियते इत्येतद्दीपकबलाच्चकास्ति। कथाशब्द इदमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सज्जनैर्विना काव्यकथा काव्यमित्येष शब्दोऽपि विध्वंसते। तेषु तु सत्सु आस्तां सुभगं काव्यं काव्यशब्दस्य व्यपदेशभागपि शब्दसंदर्भमात्रं तथा तथा तैः क्रि- यते यथादरणीयतां प्रतिपद्यते॥ ननु यदि क्रियापदोपनिबन्धो दीपकम्, तर्हि न त- दलंकारः । क्रियापदे हि सति वाक्यपरिसमाप्तिः प्रतीयते, न पुनरर्थातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नास्ति यदवोचाम । 'सविशेषणमाख्यातं वाक्यम्' इति आख्यातशब्देन चात्राख्यातान्तं पदमुच्यते, तस्यैव क्रियावाचकत्वात्। तेनात्र कुतः कस्यातिशयः, शास्त्रारम्भवैयर्थ्याच्च। तथा हि-अलंकारशून्यं काव्यं मा भूदिति कवीनामलंकारव्युत्पत्तिः क्रियते। क्रियापदस्य च दीपकत्वे सर्वे काव्यं सालंकारमिति नार्थोऽनेन ग्रन्थेन। अलंकारभेदप्रज्ञापनार्थोडयं ग्रन्थ इति चेत्, तेनैव तावज्ज्ञा- पितेन कोर्ऽर्थः सर्वथा सालकारं काव्यं विधेयम्। तत्र यद्यलंकारान्तरं काकतालीयेन

१. 'चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छैर्लता। हंसैः शारदशोभा काव्यकथा सजनैः क्रियते गुरुकी ॥' [इति च्छाया ।]

Page 283

६ अध्याय:] काव्यानुशासनम् । २५१

यथा वा- 'मदो जनयति प्रीतिं सानङ्गं मानभङ्गरम्। स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' अत्र मद़ादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि। न च क्मैकत्वमुपमां रुणद्धीति वाच्यम्। 'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ।।' इत्यादौ क्मैकत्वेऽप्युपमादर्शनात्। प्रकृतानां धर्मैक्यं यथा- 'पाण्डुक्षामं वदनम्-' इति। यथा वा- 'हैंसाण सरेहिं सिरी सारिज्जइ अह सराण हंसेहिं। अण्णोण्णं विय एए अप्पाणं णवर गरुअन्ति ।।'

भवति तदा शोभनमेव, नो चेह्टीपकमवस्थितमेव। कि च संकरस्योच्छेदप्रसद्गान्न क्रि- यापदं दीपकालंकारः । पृथक् पृथक लब्धात्मनामलंकाराणामेकवाक्यसंसर्गे संकरः । न च कियापदस्य दीपकन्वे रूपकादयोऽलंकारा दीपकात्पृथगात्मानं लव्युमुत्सहन्ते। त- स्मान्न क्रियापदं दीपकम। सत्यम्। न क्रियापदमान्नमस्साकं दीपकम्। किं तु बहुभि: समानजातीयैः कारकविशेपैरभिसंबध्यमानम्। तस्य चानेकेष्वर्थेष्वभिसंवव्यमानस्या- ्ादन्वयिरूपं यत्तत्साम्यमुच्यते। प्राकरणिकाप्राकरणिकत्वाभ्यां च तेपामर्थानामुपसा- नोपमेयभावो गम्यमानो न थ्रौतः । अत एव दीपकमुपमातो भिद्यते। यत्रापि प्राकर- णिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किंचित्साम्यं विज्ञेयमेव ॥ ननु रुद्रटप्रभृतिभिर्वास्तवभेदतयापि दीपकं प्रतिपादितम्, तत्र च कथमौपम्यं स्यादित्याशङ््य निदशयति-मद इति। मदः सुरादिपानविकार- विशेष: । मानभङ्गुरं मानभञ्जनशीलम्। यद्वा मानो भङ्गुरो यत्रेति समासः ॥ करिया- देर्धमेस्यैकस्यैव वाक्यार्थेध्वनेकेष्वपि साधारणतयोपादीयमानत्वादत्रौपम्यं वलादाप- तति। तत्रापि यद्विवक्षितं तदुपमेयमितरस्तूपमानमिति। अत एव रुद्रटोक्त औपम्य- समुच्चयोऽपि दीपकमेव तुल्यस्भावत्वादिति ॥ हंसाणेति। अत्र हंसानां श्रीः स-

१. 'हंसानां सरोभि: श्रीः सार्यतेऽथ सरसां हंसैः । अन्योन्यमेवैते आत्मानं केवलं गुरूकुर्वन्ति ॥' [इति च्छाया ।]

Page 284

२५६ काव्यमाला।

अप्रकृतानां यथा- 'कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्द्दशोः पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे त्वदाननस्य ।।' 'स्विद्यति कूणति वेल्वति विचलति निमिपति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्धितुमिच्छति नवपरिणया वधूः शयने ॥' इत्यादौ जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते। सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः । सामान्ये प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कार- णस्य, कारणे कार्यस्य, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभिधानम- न्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः ।

रोभि: सरसां च हंसैः सार्यत इति साधारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संबन्ध इति अन्योन्यनामालंकारो न दीपकतामतिक्रामति ॥ यथा वा-कण्ठस्य त- स्यास्तनुबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य। अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ।' इति। अत्र कण्ठमुक्ताकलापयो: प्राकरणिकयोरन्योन्यं भूष्यभूष- णभाव इति ॥ कुमुदेति। अन्र कुमुदादीनि अमृतादीनि चाप्राकरणिकानि दशोरान- नस्य च प्रकृतस्य वर्ण्यमानत्वात्। यथा वा-'यैर्द्ृष्टा सा नवा दृष्टा मुषिताः सममेव ते। हृतं हृदयमेकेषामन्येषां जन्मनः फलम् ॥' अत्र प्रियतमां प्राकरणिकीं प्रति अ- वलोकयितृणामनवलोकयितृणां च प्राकरणिकानां मुषितत्वमेको धर्म इति। एवं च तुल्ययोगिता पृथक् न वाच्या इति। ननु कारकदीपकमन्यैरुक्तं त्तिक नोच्यते इत्या- शङ्कचाह-स्विद्यतीत्यादि ॥ अप्रस्तुतस्येति। उपवर्णनावसरादपेतत्वादप्राकर- णिकस्येत्यर्थः । अभिधानमिति। स्तुतिनिन्दोभयानुभयरूपम्॥ ननु चाप्रस्तुतप- दार्थस्वरूपोक्तावसंबद्धभाषिता नालंकारगन्धोऽपि। तथा हि। पर्वतोपवर्णनायां कः समुद्रखरूपमुपवर्णयेत्। उपवर्णने वा शिष्टविगर्हणमवश्यं भावीत्याशङ्कय, अन्योक्ति- शब्दार्थ प्रकटीचिकीर्षुराह-अप्राकरणिकस्याभिधानेनेत्यादि। सान्तरेण श- ब्दव्यापारेण गोचरीक्रियमाणः प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभा- वादौ संबन्धे सति सहृदयहृदयावर्जकमलंकाररूपत्वमेतस्या इत्वर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः ।

१. 'तवा' का० प्र०,

Page 285

६ अध्याय:] काव्यानुशासनम्। २५७

यथा- 'ऐरावणं स्पृशति मन्त्रयते मरुद्भि- र्वज्रं परामृशति पश्यति योघसार्थान्। मेरोस्तटानि विपमीकुरुते महेन्द्र- स्त्वच्छङ्कया निशि न याति नरेन्द्र निद्राम् ।।' अत्र त्वय्युद्युक्ते न कश्चित्सुखं शेते इति सामान्ये प्रस्तुते विशेष उक्तः। 'अहो संसारनैर्धृण्यमहो दौरात्म्यमापदाम्। अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः॥' अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवसवातत्रयं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् । 'ये यान्त्यभ्युदये प्रीति नोज्झन्ति व्यसनेपु च। ते वान्धवास्ते सुहृदो लोक: सार्थपरोऽपरः ॥' अत्र जरासंधः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यक्तुं सु- हृद्दान्धवरूपत्वमप्रस्तुतं कारणं वर्णयति। 'सैग्गं अप्परियायं कुच्छुहलच्छिविरहियं महुमहस्स उरम्। सुमरामि महणपुरओ अमुद्धयन्दं व हरजटापव्भारम् ॥।' अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहारकौशलादौ मन्ति्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्ष:स्मरणादिकमप्रस्तुतं कार्य वर्णयति। तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ। श्िष्टविशेषणता, सादृश्य- मात्रं वा तुल्यान्तरस्याक्षेपहेतुः ।

अन्योक्तौ च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिद विवक्षितत्वं. कदाचिद्विवक्षिता विवक्षितत्वमिति त्रयी वन्धच्छाया। तत्र विवक्षितत्वं यथा-'परार्थे यः पीडामनुभ- वति भक्गेऽपि मधुरो यदीयः सर्वेपामिह खलु विकारोऽप्यभिमतः। न संप्राप्तो वृद्धिं १. 'स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः । स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥'[इति च्छाया ।] २. 'अपारिजाअं कौत्थुह' सेतौ. १. 'अप्रस्तुतप्रशंसायां' ध्वन्यालोके. ३२

Page 286

२१८ काव्यमाला।

यथा- 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि- दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेपश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥' अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषणवलात्तुल्यः सत्पुरुष आक्षिप्यते॥ 'आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन। क्षारीकृतं च वडवावेदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।।' अत्रार्णवस्य गर्हणयान्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चि- तपुरुषविशेष आक्षिप्यते।

यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' इक्षौ पीडनं पीडा, सत्पुरुषे तु परार्थोद्यते तदर्थ क्लेशः । भङ्गोऽपीक्षौ ग्रन्थित्रोटनम्, सत्पुरुपे तु धनाभावनिमित्तो विप्रवः । इक्षोर्माधुर्यमाखाद्यलक्षणो गुणः, सत्पुरुषे त्वनुल्बणत्वम् । इक्षोर्विकार: शर्करागुडखण्डादि, सत्पुरुषे तु चित्तविक्रिया। न हि सत्पुरुषा विकृत्य- वस्थायामप्यसेव्याः। उल्बणत्वाभावात्। इक्षोरक्षेत्रमूषरम्, सत्पुरुषे निर्विवेकखाम्या- दिस्थानम् ॥ यथा वा-'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम्। निरालोके देशे कथमिदमहो चक्षुरधुना समं जातं सवैंन सममथ वान्यैरवयवैः ॥' नन्विति । यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो वि- षयतां क्षण गतानामेषां सफलता भवति तदिदं चक्षुरिति संवन्धः । आलोको विवे- कोऽपि। न सममिति। हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुख्वामिभि- रितरजनसमसत्कारतया ततोऽपि चाप्रयोजनया न्यूनसत्कारतया खलीक्रियमाणः प्रस्तुतः ॥ यथा च-'प्राणा येन समर्पितास्तव बलादेन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपयो पुरः। तस्यास्य स्मितमात्रकेण जनयञ्जीवाप-

१. 'शतेभ्यः' प्राग्लिखितम्. २. 'दहने' का० प्र०.

१. 'न सममित्यर्थः' ख.

Page 287

६ अध्याय:] काव्यानुशासनम्। २१९

विशेष्यश्चिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या। यथा- 'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात्। अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ।।'

हारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥' अत्र यद्यपि सारप्यवशेन कृतन्नः कश्षिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्य वेतालवृत्तान्तस्यापि चम- त्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोऽयमर्थ इति। एषु वाच्यं विवक्षित- स्वरूपमेव, न तु प्रस्तुतम्। आद्ययोर्द्वयोर्महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य, तृतीये च कृतन्नस्य कस्यचित्सरूपं वर्णयितुं तात्पर्येण स्तुतमिति । अविवक्षितत्वं यथा-'कस्त्वं भो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यसे। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ।I' कथयामीत्यादि प्रत्युक्तिः । अनेन पदेनेद- माह-'अकथनीयमेतत्, श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यद्यनुवन्धस्तत्क- थयामि'। वैराग्यादिति। काक्वा दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत्। साधु विदितमित्युत्तरम्। कस्मादिति वैराग्ये हेतुप्रश्नः। इदं कथ्यत इत्यादि सनिवेंदस्मरणोपकमं कथं कथमपि निरूपणीयतयोत्तरम्। वामेनेति। अनुचितेन कुलादिनोपलक्षित इत्यर्थः। वट इति। छायामात्रकरणादेव फेलदानशून्यादुद्ुरकन्धर इत्यर्थः। छायापीति। शाखोटको हि शमशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेषः । न हि वृक्षविशेषेण सद्दोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभिधेयेनैवानेन श्रोकेन समृद्धासत्पुरुषसमीपे वासिनो निर्धनस्य कस्यचिन्मनखिविनः परिदेवितं तात्पर्येण वा- क्यार्थीकृतमिति ग्रतीयते॥ विवक्षिताविवक्षितत्वं यथा-'उप्पहजायाए असोहि- णीए फलकुसुमपत्तरहिआए। वोरीए वइं दन्तो पामर हो हो हसिज्जिहसि ॥' अत्र वाच्योरऽर्थों नात्यन्तं संभवी ने वासंभवीति वा न वक्तुं शक्यम्, व्यङ्गयस्यापि भावात्। १. 'लेदपि' का० प्र०. १. 'यदि निर्बन्ध' ध्वन्यालोकलोचने. २. 'फलदानादिशून्या' ध्वन्यालोकलोचने. ३. 'उत्पथजाताया अशोभिन्या: फलकुसुमपत्ररहितायाः । वदया वृर्त्ति ददत्पामर भो भो हसिष्यते ॥' [इति च्छाया ।] ४. 'हो ओहसिज्जिहसि' ध्वन्यालोके. ५. 'वाच्य एव नियमो नास्तीति' ध्व- न्यालोकलोचने.

Page 288

२६० काव्यमाला।

अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुत- त्वादभिधा एकत्र नियन्त्रितेति सत्पुरुप एव वाच्यो न विष्णुः, तच्चरितस्या- प्रकृतत्वात् । तत्प्रतीतिस्तु शब्दशक्तिमूलात् ध्वनेरेव। यद्यपि च सत्पुरु-

तथा हि-उत्पथजाताया इति न तथा कुलोदतायाः। अशोभनाया इति लाव- ण्यरहितायाः। फलकुसुमपत्ररहिताया इति। एवंभूतापि काचित्पुत्रिणी वा म्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषिका वा परिरक्ष्यते। वदर्या वृत्ति ददत्पामर भो भो हसिष्यसे। सकललोकैरिति भावः ॥ यथा वा-'सोऽपूर्वो रसनाविपर्ययविधिस्तत्क- णयोश्चापलं दृष्टिः सा मदविस्मृतखपरदिकिं भूयसोक्तेन वा। सर्व विस्मृतवानसि भ्र- मर हे यद्वारणोऽद्याप्यसावन्तःशून्यकरो निपेव्यत इति भ्रातः क एष ग्रहः ॥' रसना- विपरययोऽसत्यभाषित्वमपि। चापलमश्रोतव्यश्रवणमपि। मदो गर्वोऽपि । शून्यकरत्व- मपि। अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तमिति॥ ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठिताना- मनेकविधव्यापारोपवर्णने भूतकालसंबन्धिनि प्रस्तुते 'औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुला क्वापि मतिः प्रयाति। निरत्ययप्रेमनिवन्धनं च वियोगकाले द्रवतीव चेतः ॥' इत्यप्रस्तुतार्थाभिधायिनि श्रोकान्तरे। तथा समुद्रेण रामं प्रति-'त्वयैव मह्यमियं स्थितिर्दत्ता। यामनुपालयता मया भवान्विष्णुरारोषितः' इति प्रस्तुत्योपन्यस्ते 'वि- असन्तरअक्खउरं मअरन्दरसुद्भुमायमुहलमहुअरम्। उउणा दुमाण दिज्न्ति हीरइ न उेणा अप्पण च्िअ कुसुमम् ॥' इत्यप्रस्तुतार्थप्रतिपादके छन्दोन्तरे च अन्योक्तित्वप्र- सङ्गः। अत्र हि तद्ये उपवर्ण्यमानेनाप्रस्तुतेनार्थेन वृत्तान्तरोपनिबद्धः प्रस्तुतोऽर्थो- डनुसंवध्य मैवम्। यत्र हि तस्मिन्नेव वाक्येऽभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारू- ढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादिभिराक्षेपः सोऽन्योक्तेर्विपयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्ये वा समर्थ्यसमर्थकतया बिम्बप्रतिविम्बभावेन वा प्रस्तुताप्रस्तुतयोर- भिधयैव संस्पर्शो वाक्यैकवाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः । एवं च 'औत्सुक्यगर्भा-' इत्यादौ यद्यपि ल्लोकान्तरे समर्थस्य वस्तुन उपक्रान्तत्वात् श्रोकान्तरेण तथाभूतमप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिवध्यते, तथापि नान्यो-

१. 'कुलोदूता' ध्वन्यालोकलोचने. २. 'विकसद्रजःकलषं मकरन्दरसाध्मातमुखरमधुकरम्। ऋतुना दुमाणां दीयते हियते न पुनस्तदात्मनैव कुसुमम् ॥' [इति च्छाया ।] (आ० ६ स्क० ११) सेतुटीकानुसारेण. ३. 'उदुणा' सेतौ. ४. 'दिजइ' सेतौ. ५. 'उणो तमप्पण' सेतौ. ६. 'वृत्तदये' स्यात्. ७. 'वध्यमेवेति चेतू। मैवम्' स्यातू.

Page 289

६ अध्याय:] काव्यानुशासनम् । २६१

षस्य विष्णोरिव विश्वोद्धरणशक्तिर्नास्ति, तथापि गुणवृत्त्या संभवतीति न दोषः ।। अन्योक्तिश्च क्वचित्स्तुतिरूपा। यथा-'नालस्य प्रसर-' इति। क्वचिन्निन्दारूपा। यथा-'आदाय वारि-' इति।

क्तिरिति वक्तव्यम्। अपि त्वर्थान्तरन्यास एवासौ। अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंवन्धी विशेषभूतः स कालमात्रसं- न्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः ॥ यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायोऽन्नानुसर्तव्यः । यद्वा संकर एवास्तु, न तावदन्योक्तिरियम्। तथा 'वियसन्तरअरकेउरं' इत्यत्रापि वृत्तान्तरोपनिवन्धनोपस्थि- तेऽर्थें रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुद्मव्यापारात्मनस्तत्प्रतिबिम्वस्य निदर्शित- लान्निदर्शनालंकारतैव। 'विकसद्रजःकर्वुरं मकरन्देसाध्मातमुखरमधुकरम्। ऋतुद्- माणां दीयते ह्वियते न पुनरात्मनैव कुसुमम् ॥' इत्यर्थः। ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम्॥ अथात्र कोऽलंकार :- 'लावण्यद्रविणव्ययो न गणितः क्ेशो महा- नसवीकृतः सवच्छन्दस्य सुखं जनस्य वसतश्चिन्तानलो दीपितः। एषापि खयमेव तुल्य- रमणाभावाद्वराकी हता कोऽर्थश्वेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥' द्रवि- णशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम्। गणित इति। चिरेण हि थो व्ययः संपद्यते न तु विद्युदिव झटिति, तत्रावश्यं गणनया भवितव्यम् । अनन्तकाल- निर्माणकारिणोऽपि (तु) विधेर्न विवेकलेशोऽप्युदभूदिति परर्मस्याप्रेक्षावत्वम्। अत एवाह-केशो महानिति। अनेन प्रत्युतानर्थप्राप्तिरुक्ता। एवमपि यदि परस्योपकार: स्यात्तदा को दोष इत्याशङ्मयाह-स्वच्छन्दस्येति। परार्थोऽपि न कश्चित्। यतो वि- शङ्धलस्य। जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनमिति। चिन्ता नलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप््युपायान्वेपणपरः संजातः । न चाप्यस्या कश्षित्सार्थोSनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवह्भलाभाभावादसं- प्राप्त संभोगविफलमनोरथवच्चितैवेयं वराकीत्याह-एपापीति। यत्खयं निर्मीयते तदेव

१. 'क्खउरं' सेतौ. २. 'न्दरसा' स्यात्. ३. 'ऋतुना' स्यात्. ४. 'स्च्छन्दं चरतो' व्वन्यालोके. ५. 'सख्रीजनस्य' ध्वन्यालोके. ६. 'हृदये चिन्ताज्वरो निर्मितः' ध्वन्यालोके. ७. 'योग्यो यः' व्वन्यालोकलोचने. ८. 'मस्य प्रेक्षा,' 'मस्योत्प्रेक्षा०' ध्वन्यालोकलोचने.

Page 290

२६२ काव्यमाला।

क्वचिदुभयरूपा। यथा- 'निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कशेरुस्थलीं जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्। दंष्ट्रायां चतुरर्णवोमिपटलैराप्तावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी ।' अत्र पूर्वार्धे निन्दा, अपरार्धे तु स्तुतिः ॥

च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम् । कोरऽर्थ इति। न खात्मनो न लोकस्य न निर्मितस्येत्यर्थः ॥ निन्दाद्वारिका स्तुतिरत्र प्रतीयत इति व्याजस्तुतिरिति केचित्। तचे न चतुरस्रम्। यतोऽस्याभिधेय स्यैतदलंकारखरूपमात्रपर्यवसायित्वेन सुल्लिष्टता। तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एपापि इत्येवंवि- वोत्तयनुपपत्तेः । रागिणो हि वराकी हता इति कृपालिङ्गितममङ्गलोपहत चानुचितं वचनम्। तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम्। आत्मन्यपि हि तद्रूपासंभा- वनायां रागितायां च पशचुप्रायत्वं स्यात्। नापि नीरागस्य तस्यैवंविध विकल्पपरिहारै- कव्यापारत्वात्। ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्टान्तप्रायस्य वा निर्ज्ञातजातिविशेषे कुन्तलादौ किमियं सवसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिन भवति। वीतरागस्यापि वा- नादिकालाभ्यस्तरागवासनादिवासिततयामध्यस्थत्वेनापि ता वस्तुतस्तथा पश्यतो नेयमु- किर्न संभाव्या। न हि वीतरागो विपर्यस्तान् भावान् पश्यति। न ह्यस्य वीणाक्कणितं काकरटितकल्पं भाँति। तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपपद्यते। अन्योक्ता- वपि ह्यप्रस्तुतः संभवत्रेवार्थो वक्तव्यः । न हि तेजसीत्थमन्योक्तिर्भवति-'अहो धिक् ते कार्ष्ण्यम्' इति। सपरंप्रस्तुतपरतयेति नात्रासंभवः, किं तर्हि सुश्रिष्टतैवेति। सत्यमे- तत्। किंतु न ह्ययं श्रोक: क्वचित्प्रवन्ध इति श्रूयते, येन तत्प्रकरणानुगुणार्थतास्य परिक- ल्प्यते तस्मादेन्योक्तिरेवेयम्। यस्मादनेन वाच्येन गुणीकृतात्मना निःसामान्यगुणा- वलेपाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न किंचिदे- वापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते। निःसामान्येनेति निजमहिमेति विशेष

१. 'न' नास्ति लोचने. २. 'च'ध्वन्यालोके नास्ति. ३. 'शकुन्तलादौ' ध्वन्यालो- कलोचने. ४. 'उत स्तुतिगर्भोक्ति' ध्वन्यालोकलोचने. ५. 'न' लोचने तु नास्ति. ६. 'प्रतिभाति' लोचने. ७. 'अप्रस्तुतप्रशंसायामपि' लोचने. ८. 'सा' लोचने. ९. 'दप्रस्तुतप्रशंसेय' ध्वन्यालोके. १०. 'नयेति' लोचने.

Page 291

६ अध्याय:] काव्यानुशासनम्। २६२

क्वचिदनुभयरूपा। यथा- 'इतो वसति केशवः पुरमितस्तदीयद्विषा- मितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोडपि वडवानल: सह समस्तसंवर्तकै- रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥' अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा ॥ व्यङ्ग्यस्योक्ति: पर्यायोक्तम्। व्यङ्गचस्य प्रतीयमानस्यार्थस्य अभिधानं यत्पर्यायेण भङ्गचन्तरेण कथनं पर्यायोक्तम्। अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गचन्तरेणाभिधानम्, अपि त्वप्रस्तुतद्वारेण तस्या- क्षेप इति।

ज्ञमिति परिदेवितमिति अमीषां चतुर्णी वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्य- तया प्रतीयमानत्वात्। तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य श्रोक इति प्रसिद्धिः। एतदर्थसंसूचकश्चापरो हि स्फुट एव तस्य श्रोको विद्वद्भिः परिपठचते। य-

मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधे: पय इव स्वदेहे जराम् ॥' अवगा हनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम्। परमं यदर्थतत्त्वं कौस्तुभादिभ्यो- उप्युत्तमम्। अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तम् सदशमस्य तथाभूतं प्रतिग्राहम् एकैको ग्राहो जलचरः प्राणी ऐरावणोच्चैःश्रवो धन्वन्तरिप्रायो यत्र तदलब्धसदृशप्रति- प्राहकम्। इयति चार्ये साम्यादुपमालंकारोऽनन्तरं तु खवात्मनि विस्मयधामतयाद्गुते विश्रान्तिः, परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनेवें भूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिता- ग्रदर्शनया धमवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम्। अन्यथा परिदेवितमात्रेण किं कृतं स्यात्। अप्रेक्षापूर्वकारित्वमात्मन्यावैदितं चेत्कं ततः सवार्थपरार्थासंभवा- दिति। तदनेन निर्विवादतदीयश्लोकेनैव तदभिप्रायस्य परिदेवितविषयस्य संवेद्यमान स्वात्पूर्वत्राप्यन्योक्तिरेव संभाव्यते। तत्रापि चाद्धुताखादपुरःसरा वीररसविश्रान्तिपर

१. 'अप्रस्तुतप्रशंसोपमालक्षणमलकारठ्वयम्' लोचने. २. 'नैवंभूत' लोचने. ३. 'उ- त्प्रेक्षा' लोचने.

Page 292

२६४ काव्यमाला।

यथा- 'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ॥' अत्र 'भीष्मेण भार्गवो जितः' इति व्यङ्गयस्य 'देशिता धर्मदेशना' इत्यनया भङ्गया भणनम् ॥ विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः । प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽमेदाभिधानं यत्त- दतिशयाभिधानादेकातिशयोक्तिः । यथा-

किरञ्योत्सामच्छां लवलफलपाकप्रणयिनीम्। उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोडयं गलितहरिणः शीतकिरणः ॥' अत्र मुखचन्द्रयोर्भेदेऽप्यभेद: ॥

तानुसंधेयेति। तर्हिं यत्र प्रकरणमेव किंचिन्नास्ति तत्र कोऽलंकारः । यथा-'निग्तण्ड? दुरारोहम्-' इति। उच्यते। तत्रोभयोरलंकारयोरन्यतरपरिग्रहेण दोषः, नापि साधकं प्रमाणम्, तत्र संकरालंकारो वक्ष्यते। अत्र च शठतरपोटापाटलयोरन्यतरस्या: प्राकरणिकत्वाभावान्न ज्ञायते। किमियं समासोक्तिरुतान्योक्तिरिति संकरालंकार एव। अन्ये त्वाहु :- यत एव प्रकरणापरिज्ञानमत एवात्र प्राधान्येन पाटलोपवर्णने क इव वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनिवृत्ती प्रत्युपदेशाय शास्रमिव श्रोका: कल्पन्त इति समासोक्तिपरिग्रहे कुतो दोषाभावः। तस्मादन्योक्तिरेवेयमिति॥ व्यङ्गचस्येति योग्यतया निर्देशः । अनया भङ्ग्या भणनमिति। देशिताधर्मदेशनेति भङ्गयन्तर- रचितशब्दैरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्ग्यम्। यथाप्येकघनरूपतात्मक- प्रकारेण व्यङ्गयं प्रतीयते, न तथा वक्तुं शक्यते। क्रमभाविविकल्पप्रभवानां शव्दानां तथाभिधानशक्तेरभावात् । यथा गवि शुक्के चलति दृष्टे गौः शुक्कश्चल इति विकल्पो यदेव दृष्टमभ्यासपाठवापेक्षी तदेव विकल्पयति न तु यथादृष्टम्। अशेषवि- शेषावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः । तथा अभिन्नासंसृष्टत्वेन दृष्ट भेदसं गभ्यां विकल्पयति। निरंशस्य वस्तुनो भेदसंसर्गयोरभावात्। तौ हि विकल्पस्यैव व्यापारः । स ह्यभिन्नमपि वस्तु गौः शुक्कश्चल इत्येवं भिनत्ति। भिन्नमपि पदार्थजात- मयं गौरयमपि गौरित्येवं संसृजति ॥ अभेदाभिधानमिति । गौण्या वृत्येत्यर्थः ॥

Page 293

६ अध्याय:] काव्यानुशासनम् । २६५

यथा वा- 'अयि दियर किं न पेच्छसि आयासं किं मुहा पलोएसि। जायाऍँ वाहुमूलम्मि अद्धयन्दाण परिवाडिम् ॥' अत्र नखार्धचन्द्राणाम् ।। अभेदस्य व्यत्ययो भेदो द्वितीया। यथा- 'अण्णं लडहत्तणयं अण्ण च्िचिअ कावि वत्तणच्छाया। सामा सामण्णपयावइस्स रेह च्चिय न होइ ।।' अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम्॥ योगस्य संबन्धस्य व्यत्ययोऽसंबन्धस्तृतीया। यथा- 'मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्सायामभिसारिकाः ॥' अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्ाबाहुल्योत्कर्षविवक्षया- योग उक्तः । यथा वा- 'अपाऊ्गतरले दशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।I' अत्र मदोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया लक्षणस्यायोग उक्तः ।

  1. 'अथि देवर किं न प्रेक्षसे आकाशं (आयासं वा) किं मुधा ग्रलोकयसि। जायाया बाहुमूलेर्धचन्द्राणां परिपाटीम् ॥' [इति संस्कृतम्।] २. 'अइ दिअर किंण' गाथासप्तशत्याम्. ३. 'अन्यत्सौकुमार्यमन्यैव कापि वर्त्तनच्छाया। इ्यामा सामान्यप्रजापते रेखैव न भवति ॥' [इति संस्कृतम्।] ४. 'अण्णा' का० प्र०. ५. 'पआवइणो' का० प्र०. ३४

Page 294

२६६ काव्यमाला।

एवम् - 'ऐसो वि ण सच्चविओ जीसे पसरन्तपल्लवारुणराओ। मज्झणतम्बेसु भओ तह मदातम्बेसु लोयणेसु शमरिशो॥' इति अयोगस्य व्यत्ययो योगश्चतुर्थी। यथा- 'पश्चात्पर्यस्य किरणामुदीर्ण चन्द्रमण्डलम्। प्रायोऽत्र हरिणाक्षीणामुदीणों रागसागरः ।' अत्रानुद्धते चन्द्रे रागसागरवृद्धेरयोगेपि चन्द्रस्योद्दीपनविभावनाति- शयप्रतिपादनार्थ योग उक्तः । यथा वा- 'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासा: कुसुमायुधस्य ।।' तथा- 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्। न षटूपदोऽसौ कलगुज्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥' अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेरयो- गेडपि योग उक्तः । यथा वा- 'उद्यति विततोध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।।' अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेति संबन्धः । यद्वा गिरिवार- णेन्द्रगतयोलींलयो भेंदेऽप्यैक्यमध्यवसितम्।

एवमिति। मज्जनाताम्रयोलोचनयोर्मदरागे मदाताम्रयोः कोपोपरागे च

१. 'एषोऽपि न ..... यस्याः प्रसरत्पल्लवारुणरागः । मजनताम्रेषु भवस्ताथा मदाताम्रेपु लोचनेषु ...... ॥' [इति संस्कृतम्।] २. 'किरणानुदीणै' स्यात्.

Page 295

६ अध्याय:] काव्यानुशासनम्। २६७

यथा वा- 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्दाः ॥' अत्र दिवंगतकविगुणानां रमणायोगेडपि योग उक्तः । तथा- 'हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति। वयमत्र निरवकाशा विरम कृतं पादपतनेन ।।' अत्रैकस्य युगपदनेकवृत्तित्वायोगेडपि योग उक्तः ॥ एवंविधे च सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते। तां विना प्रायेणालंक- रणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेषाद्यलंकारोप- न्यास: श्रेयान्॥ विवक्षितस्य निषेध इवोपमानस्याक्षेपश्वाक्षेपः। विशेषविवक्षयेत्यनुवर्तते। वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याश- क्यवक्तव्यत्वमैतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव। निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य भाक्षेपस्तिरस्कारः सोऽन्यः ।

लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ॥ अलंकरणत्वायोगादिति। तथा चाह- 'सेषा सर्वेव वक्रोफिरनयार्थो विभाव्यत। यत्नोऽस्यां कविना कार्यः कोऽलंकारो- ऽनया विना ॥' इति ॥ सामान्येति। 'मह्लिका-' इत्यादी सामान्यम्, 'अपाङ्गतरले' इति 'एत्तोवि' इत्यनयोर्मीलितम्, 'पुराणि' इति 'न तज्जलम्' इत्यनयोरेकावली, 'उद- यति-' इत्यादी निदर्शना, 'दिवमंप्युपयातानाम्' इति 'हृदये चक्षुपी' इत्यनयोर्विशेष- ्वालंकारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति ॥ अशक्यवक्तव्यत्वमिति। वक्ष्यमाणविषयतामाह। अतिसिद्धत्वमिति। अतिप्रसिद्धत्वम्। अनेन उक्त-

१. 'गिरः कथमिह' रुद्रटे. २. 'अतिप्रसिद्वत्वं' का० प्र०.

१. 'सर्वत्र' ध्वन्यालोके. 'यातिशयोत्तिरलक्षिता सैव सर्वा' लोचने व्याख्यो- परम्भात् 'सैव सर्वात्र' इति पाठो भवेत्. २. 'एसो' मूले.

Page 296

२६८ काव्यमाला।

निषेधो यथा- 'अहं त्वा यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते।।' अयं वक्ष्यमाणप्रकरणहृदयो निषेधात्माक्षेपः। उक्तविषयोऽपि यथा- 'ज्योत्सा मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर- व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ।' उपमानाक्षेपो यथा- 'तस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दशौ च यदि ते किं नाम नीलोत्पलैः। किंवा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' यथा वा- 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं भैमे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥' अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः । यथा वा- 'अहमेव गुरु: सुदारुणानामिति हालाहल तात मा स्म द्ृप्यः । ननु सन्ति भवाद्ृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलंकारान्तरम् ।।

विषयतामाह। 'विभुक्तेनाप्रियेण ते' इति त्वददर्शनास्तास्ता अवस्था या वक्तुमपि न शक्यत इत्यस्यार्थस्य प्रतिपत्तये ।I किमनेनेति। त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्या- १. 'मरण' स्यात्. २. 'श्रे' वामनकाव्यालंकारे. ३. 'चेत्' वामनालंकारवृत्तौ. ४. 'भद्रे' रुद्रटे. १. 'किमुक्ते' मूले. २. 'नात्तास्ता' स्यात्.

Page 297

६ अध्याय:] काव्यानुशासनम्। २६९

अर्थानां विरोधाभासो विरोधः । जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्या विरोधेऽपि परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वाद्यो विरोधस्तद्वदाभासमानो विरोधः । तत्र जातेर्जात्या यथा- 'एकस्यामेव तनौ विभर्ति युगपन्नरत्वसिंहत्वे। मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥' गुणेन यथा- 'द्रोणाश्चत्थामर्यमेशु श्रुत्वा श्रुत्वा द्वूयं स्थितम् । ब्राह्मण्यमथ शौर्य वा को नु चित्रीयते पुमान् ।' क्रियया यथा-'सिंहोऽपि परिभूयते।' द्रव्येण यथा- 'सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥' गुणस्य गुणेन यथा- 'सत्यं त्वमेव सरलो जगति जराजनितकुञ्भावोडपि। ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥' क्रियया यथा- 'पेशैलमपि खलवचनं दहतितरां मानसं सेंतत्त्वविदाम्। परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति ॥' पारहेतवस्तस्या भवन्तीत्यतिप्रसिद्वोऽयमर्थ इत्यस्य प्रतिपादनाय॥ व्याघात इति। एकतरप्रतिबन्धरूपः ॥ तद्वदाभासमान इति। अयं भाव :- विशेषविवक्षयेत्यत्रा- व्यनुवर्तमानत्वात्, यत्र भावान्तरेभ्यो वैशिष्यं ख्यापयितुमामुखे विरोधप्रतीतिकारि न तु विरोधपर्यवसायि वचस्तत्रायं विरोधालंकारः, यत्र पुनः परिहारासंभवस्तत्र व्याहत दोष इति॥ सत्यं त्वमेवेति। अत्र सरलविमलशब्दयोरेकार्थत्वात् श्विट्टता न समस्तीति संकराशङ्का न कार्या। चेतसो हि सरलत्वाद्विमलत्वाच्च सोऽपि सरल- १. 'रामेषु स्यात्' २. 'महदिद' का प्र०. ३. 'पेलव' का० प्र०. 6. 'सतत्त्वतत्त्वशब्दौ पर्यायों' का० प्र० टी०.

Page 298

२७० काव्यमाला।

द्रव्येण यथा- 'क्रौञ्चाद्रिरुद्दामदृपटटृढोडसौ यन्मार्गणानर्गलशातपाते। अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥' क्रियायाः क्रियया यथा- 'वालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् । जडयति संतापयति च दूरे हृदये च मे वसति ॥' द्रव्येण यथा- 'सीतां ददाह नैवागिर्हिमं दहति भूरुहः । ताप्यन्ते शशिना चित्रं विरहे कामिनो भृशम् ॥' द्रव्यस्य द्रव्येण यथा- 'समदमतङ्गजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात्। क्षितितिलक त्वयि जटजुषि शंकरजूटापगापि कालिन्दी ॥।' एवं दश भेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा- 'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम्। अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥ अत्र क्षालनाभावे विशुद्धिर्व्याहन्यते। यथा वा- 'महर्धिनि कुले जन्म रूपं स्मरसुहृद्वयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न घीः ॥' तथा- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न हृतं वलम् ।।'

विमलः ॥ विभावनेति। 'अप्यसज्जनसांगत्ये' इत्यादौ विभावना, 'महर्धिनि' इति

१. 'निस्पन्द' का० ग्र०.

Page 299

६ अध्याय:] काव्यानुशासनम्। २७१

तथा 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ।।' एपु कारणसामग्रये फलाभावो व्याहन्यते। यथा वा- 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोपैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' अत्रान्यदेशस्थितेन कारणेनान्यदेशस्थकार्योत्पादो व्याहन्यते। यथा वा- 'दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुकतरं निजं यशः ॥' अत्र मलीमसेन शुक्कतरीकरणं व्याहन्यते। तथा- 'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥' अत्रानन्ददानं शरीरतापेन व्याहन्यते। 'शिरीषादपि मृद्वङ्गी केयमायतलोचना। अयं क्व च कुकूलागनिकेर्कशो मदनानलः ।' अत्र मार्दवं कार्कश्येन व्याहन्यते।

'स एकः' इति 'कर्पूर इव' इति च त्रिपु विशेषोक्तिः, 'सा वाला' इत्यादावसंगतिः, 'दिशामलीकालक' इति 'शिरीपादपि' इति 'आनन्दममन्दमिमम्' इति 'विपुलेन' इति १. 'मकरकेतवे' का० प्र०. २. 'पीतोन्नतिमत्पयोधरयुगं' वामनवृत्तौ. ३. 'केय' का० प्र०. ४ 'दुःसहो मलयानिलः' का० प्र०.

Page 300

२७२ काव्यमाला।

तथा- 'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥' अत्र हीनेन गुरुकार्यकरणं व्याहन्यते। 'किं ददातु किमश्नातु भर्तव्यभरणाकुलः । उदारमतिराप्तेऽपि जगत्रितयमात्रके ।।' अत्राधिकेन स्वल्पकार्याकरणं व्याहन्यते। यथा वा- 'अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते।।' अत्र मानाशक्यत्वेन मानं व्याहन्यते। तथा- 'भवत्संभावनोत्थाय परितोषाय मूर्छते। अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥' अत्राङ्गानामतिविपुलतया परितोषाभानं व्याहन्यते। यथा ना- 'दृशा दग्धं मनसिजं जीवयन्ति दशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्र दशैव दाहो जीवनं च व्याहन्यते। यथा वा- धेवलोसि जइ वि सुन्दर तह वि तए मज्झ रज्जियं हिययम्। रायभरिए वि हियए सुहय निहित्तो न रत्तोसि ॥ अत्र धवलेन रञ्जनं रागभृतहृदयेनारञ्जनं च व्याहन्यते ।। एवं च विभावनाविशेषोत्तयसंगतिविषमाधिकव्याघातातद्रुणाः पृथगलंकार- 'किं ददातु' इति च पञ्चसु विषमम्, 'अहो विशालम्' इति 'भवत्संभावनोत्थाय' इति च द्वयोरधिकम्, 'दृशा दग्धम्' इति व्याघातः, 'धवलोऽसि' इत्यत्रातद्गुणश्चेति पृथगलंकारा न १. 'धवलोSसि यद्यपि सुन्दर तथापि लया मम रजित हृदयम्। रागभरितेऽपि हृदये सुभग निहितो न रक्त्तोऽसि ॥' [इति संस्कृतम् ।]

Page 301

६ अध्याय:] काव्यानुशासनम्। २७३

त्वेन न वाच्याः । विरोध एवान्तर्भावात्। उक्तिवैचित्र्यमात्राद्धेदे च

सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः । धर्मस्य क्रियागुणलक्षणस्य सहार्थसामर्थ्याद्योऽन्वयः प्रतिपाद्यतेऽर्था- दनेकेपु वस्तुपु सा सहोक्ति:। क्रियालक्षणा यथा- 'रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तद्यथां सहो थतः सैनिकहर्षनिःसनैः ॥' गुणलक्षणा यथा- 'सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाङ्ैः सार्ध ताश्चन्द्रभूषणाः ॥' श्िष्टविशेषणैरुपमानधीः समासोक्तिः । श्रेषवद्भिरुपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षेपेणार्थ- दयकथनात्समासोक्तिः । वाच्या इति ॥ रघुर्भृशमिति। अ्र रघुगता पतनक्रिया शाब्दी। अश्रुगता तु सहार्थसामर्थ्यादवसीयते॥ एवं गुणोदाहरणेऽप्यूह्यम्। अत्राभिधाव्यापाराद्वर्मा नोभयान्वयिन: प्रतीयन्ते, प्राकरणिकत्वाप्राकरणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहोक्तरनोपमादावन्तर्भावः । तथा ह्युपमायामुभयोरुपमानोपमेययोरनुया- यित्वं धर्माणामिव वत्याद्यभिधाव्यापारात्प्रतीयते, इह तु तादृशोऽभिधाव्यापारो नो- पलभ्यते तेनात्रोपमात्वाभावः ॥कश्चित्तु-'समासोक्तिः सहोक्तिश् नालंकारतया मता। अलंकारान्तरत्वेन शोभाशून्यतया तथा।' इति सहोक्तिरलंकारो न भवतीति प्रतिपादय- ति। तन्र शोभाशून्यत्वं हृद्यत्वं तत्र चोपमादयोऽप्यलंकारा न भवन्तीति सर्वसंम- तमेव। अहृद्यत्वे च शिप्येण सहोपात्यायः पठति, पुत्रेण सह पिता तिष्ठतीत्यादौ सहो- क्िर्मा भवतु। 'सह दिअसनिसाहिं दीहरा सासदण्डा सह मणिवलएहिं वाहधारा गलन्ति। तुह सुहअ विओए तीए खवेम्विरीए सह य तनुलदाए दुव्वला जीविदासा ।।' इत्यादौ तु हृद्यत्वे किमिति नेष्यते ॥ अथ तत्र परस्परसाम्यसमन्वयो मनोहारितानिवन्धनसिति प्र- १. 'सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति। तव सुभग वियोगे तस्या उद्ूेगशीलायाः सह च तनुलतया दुर्वला जीविताशा।।' [इति च्छाया]. • 'नीअ उव्विग्गिरीए' का० प्र०. १५

Page 302

२७४ काव्यमाला।

यथा- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।'

रुपमानयोः प्रतीतिः ॥

तीयमानोपमास्वरूपं नानिवर्तत इत्युपमैवेष्यते। हन्त तर्हि रूपकापह्नुत्यप्रस्तुतप्रशंसाद- योऽपि पृथङ्क वक्तव्याः। तत्राप्युपमानोपमेयभावप्रतीतेरुपमैवैकालंकारो वाच्यो नालं- कारान्तरम्। यदाह वामनः-'प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः' इति ॥ अथ रूपकादिपु तत्वारोपादिलक्षणं विशेषमद्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते । तर्हि सहोत्त्यादावपि सहार्थसामथ्यवसितसाम्यसमन्वयो विशेषः समस्तीति सहोत्तयादिभिः किमपराद्वमित्यलं वहुना॥ उपोढरागणति। उपोढो धृतो रागः सांध्योरुणिमा, प्रेम च येन। विलो- लास्तारका ज्योतींषि, नेत्रविभागाश्च यत्र। तथेति झटित्येव, प्रेमरभसेन च। गृहीतमा- भासितम्, परिचुम्बितुमाक्रान्तं च। निशाया मुखं प्रारम्भः, वदनकोकनदं च। यथेति। यथा झटितिग्रहणेन, प्रेमरभसेन च। तिमिरं च अंगुकाश्र सूक्ष्मा अंशवस्तिमिरांगुकं र- स्मिशवलीकृतं तमःपटलम्, तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचित्ता। नतु तिमिरमेवांशुकमिति व्याख्येयम् । एकविषयरूपकल्वापत्तेः । रागाद्रक्तलवात्संध्याकृतात्, नदनन्तरं प्रेमरूपाच्च हेतोः । पुरोऽपि पूर्वस्यां दिशि, अग्रे च। गलितं प्रशान्तम्, पतितं च। तया रात्र्या करणभूतया। समस्तं मिश्रितमुपलक्षणत्वेन वा । न लक्षितं रात्रिप्रा- रम्भोऽसौ इति न ज्ञातम्। तिमिरशवलतांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुटे आलोके। नायिकापक्षे तु तयेति कर्तृपदं रात्रिपक्षेSपिशब्दो लक्षितमित्यस्या- नन्तरम्। अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽग्रे तथा गृहीतं नायकेन मुखमिति संबन्धः । एतस्याश्र समासो्तेर्न श्लेष- मन्तरेण विविक्तविषयता उपलभ्यते इति श्लेषेण सह संकराशङ्का न कार्या। येषां ह्यलं- काराणां विविक्तविषयतयाप्यात्मलाभः संभवति तेषामेव परस्परसंकीर्यमाणतायां संक- रता युक्ता। यथा विरोधव्यतिरेकयोः श्लेषस्य च। श्लेषाभावेऽपि हि 'एकस्यामेव तनौ-' इत्यादौ विरोधो 'यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्र दृश्यते। विरोधव्यतिरेका- भावे च 'असावुदयमारूढः' इत्यादौ श्लेषश्रेति। भवतु विरोधश्लेषयोः शलेषव्यतिरेकयोश्च संकरत्वम्। समासोक्तिस्तु समानविशेषणाभिधायिभिः श्लेषपदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते। शेषापवादेनैवास्याः प्रवृत्तेरिति ॥ नायकयोरिति।

१. 'लितांगु' इति स्यान् ; 'संवलितांशु' ध्वन्यालोकलोचने.

Page 303

६ अध्याय:] काव्यानुशासनम्। २७१

स्वभावाख्यानं जातिः । अर्थस्य तादवस्थ्यं स्वभावः। स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः । तत्र संस्थानं यथा- 'पर्याणस्खलितस्फिजः करतलोत्क्षिपोत्तरीयां बला वल्गद्धिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतेनयाहुःक्रिष्टसंपादितै- निर्लक्ष्यारपितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥' स्थानकं यथा- 'स दक्षिणापाङ्गनिविष्टमुष्टिं नतां समाकुश्चितसव्यपादम्। ददर्श चक्रीकृतचारुचापं प्रहर्त्ुमभ्युद्यतमात्मयोनिम् ।।' व्यापारो यथा- 'ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह संमिताः कथा नयनोपान्तविलोकितं च तत् ।।'

नायकश्च नायिका चेत्येकशेषः ॥ तादवस्थ्यमिति। सा अनुभवैंकगोचरा अवस्था यम्य स इत्यस्य भावस्तादवस्थ्यमिति। अयमर्थः-कविप्रतिभया निविकत्पकप्रत्यक्षकल्पया विषयीकृता वस्तुस्वभावा यत्रोपवण्यन्ते स जातविषयः । एवं च 'अलंकारकृतां येपां म्वभावोक्तिरलंकृतिः । अलंकार्यतया तेपां किमन्यदवशिष्यते ॥' इति यत्कैश्ित्प्रतिपादितम्, नन्निरस्तमेव। वस्तुनो हि सामान्यस्वभावो लौकिकोऽर्थोऽलंकार्यः । कविप्रतिभासंरम्भ- विशेषविषयस्तु लोकोत्तरार्थीSलंकरणमिति। नथा चाह-'उच्यत वस्तुनस्तावद्वैरूप्य- मिह विद्यते। तत्रैकमन्यसामान्यं यद्विकत्पैकगोचरः ॥ स एव सर्वशब्दानां विषयः परि- कीर्तिनः । अन एवाभिधीयन्ते व्यामलें बोधयन्त्लम । विशिष्टमस्य यद्रपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरां गोचरः प्रतिभाभुवाम ॥' यतः 'रसानुगुणशब्दार्थचिन्ता- स्तिमिनचंतसः । क्षणं स्वरूपस्पर्शान्था प्रज्ञव प्रतिभा कबेः ॥ सा हि चक्षुभगवतस्तृतीय- मिति गीयते। येन साक्षात्करोन्येप भावंत्तरकाल्यवर्तिनः ॥ अस्य स्वभावस्योक्तिर्या सालं- कारतया मता। यतः साक्षादिवाभान्ति तत्रार्थीः प्रतिभार्पिताः ॥' यथा। ऋजुतामि- त्यादि। 'सामान्यस्तु म्वभावो यः सोऽन्यालंकारगोचरः। श्विष्टमर्थमलंकर्तुमन्यथा को हि शक्ुयान॥ वम्तुमात्रानुवादस्तु पूरणकफलो हि यः। अर्थदोपः स दोपज्ञरपुष इति गी १. 'याञला' म्यान. २. 'ननया दुः-' इनि म्यान्.

Page 304

२७६ काव्यमाला।

स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । स्तुतेनिन्दापरता निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिः व्याजस्तुतिः । यथा- 'दिनमवसितं विश्रान्ताः स्स्त्वया मरुकूप हे परमुपकृतं शेपं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा- नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥' 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठचा- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः॥।' वाक्यस्यानेकार्थता श्लेपः। पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स श्लेपः । यथा- 'दिशः प्रसादयन्नेष तेजोभिः प्रसृतैः सदा। न कस्यानन्दमसमं विदधाति विभाकरः ॥' अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ।

यते ॥' व्याजरूपेति। छद्मरूपा निन्दाद्वारिकेत्यर्थः ॥ व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकायां स्तुतौ केनचिदुदाहृतम्-'आसीनाथ पितामही तव मही माता ततोऽनन्तरं जाता संप्रति साम्बुराशिरशना जाया कुलोद्भूतये। पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्ुषा युक्तं नाम समग्रनीतिविदुपां किं भूपतीनां कुले ॥' इति, तदस्माकं ग्राम्यं प्रतिभाति । अत्यन्तासभ्यम्मृतिहेतुलात् । का चानेन स्तुतिः प्रकृता तवं वंशक्रमेण राजेति हि कियदिदमित्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैद ॥ अनेकार्थतेति। विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थदूयप्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः । तथाहि-दिग्लक्षण एक एवार्थ एकत्र, ककुभोऽन्यत्र तत्स्थाः प्रजाः । प्रसादनं प्रकाशनम्, हर्षाधानं च। तेजो ज्योतिः, प्रतापश्न॥अभिधाया अनि-

Page 305

६ अध्याय:] काव्यानुशासनम्। २७७

उत्कर्पापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः । उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात्स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्वोपादाने त्रिविधायामुक्तौ युगपदनुक्तौ चैकविधायां चतुरविधः। पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टमेदः । यथा- 'यस्यावर्जयतो नित्यं रिपूनप्युजवलैर्गुणैः । लक्ष्यते नेतरस्येव गाम्भीर्यैकनिधेः स्मयः ॥' अत्र गाम्भीर्येकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः । 'तुच्छस्यान्यजनस्येव न स्मयो हन्त लक्ष्यते' इत्यत्रैव पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति। 'असिमात्रसहायोडयं प्रभूतारिपराभवे । नैवान्यतुच्छअनवत्सगर्वोडयं धृतेर्निधि: ।' अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ। 'शीर्णपर्णाम्बुवाताशा कष्टेऽपि तपसि स्थिता। समुद्धहन्ती नापूर्व गर्वमन्यतपस्विवत् ।' अत्रोत्कर्षापकर्षहेत्वोर्वयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः । साम्यानुक्तौ यथा- 'नवीनविभ्रमोद्वेदतरङ्गितगतिः सदा। मुखेन स्मितमुग्धेन जयत्येषा सरोरुहम् ॥' अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव

यन्त्रणादिति। द्रयोरप्य्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः ॥ उपमेयस्या- धिक्यमिति। न तूपमानस्य ॥ यन्तु-'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद मुन्दरि यौवनमनिवर्ति यातं तु ।।' इत्यादावुपमानस्योपमेयादाधि- धिक्यमिति केनचिदुक्त्तम, तद्युक्तम्। यावनगतास्थर्यस्य हि अत्राधिक्यं विवक्षितमिति १. 'महाधृनिः' का० प्र०. १. 'निनराम' का प्र०; 'नित्यम्' सा० द०.

Page 306

२७८ काव्यमाला।

'विडम्वयति वक्रेण निश्येव स्मितमम्बुजम्' इति पाठपरिणामे उपमानापकर्षः । 'आननेनाकलङ्केन जयतीन्दुं कलङ्गितम्' अत्र युगपदुत्कर्षापकर्षो। 'अहो विडम्बयत्येषा वदनेन सरोरुहम्' अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः। साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते। श्ेष- व्यतिरेकस्तु संकरालंकारविषय इति तत्रैवोदाहरिष्यते।। विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्तरन्यासः। साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तर- स्येव न्यसनमर्थान्तरन्यासः । तत्र साधर्म्येण यथा- 'रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ। वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥' वैधर्म्येण यथा- 'अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या। पीतभूरिसुरयापि न मेदे निर्वृत्तिर्हि मनसो मदहेतुः ॥'

यथोक्तनेव श्रेयः ॥ संकरालंकारविषयतीति। शलेषव्यतिरेकयोरन्यत्रापि लब्धसत्ता- कत्वादिति भावः । ततश्र तद्भेदा अत्र न प्रदर्शयितुमुचिताः । 'यद्यप्यनुपमचरितस्तथापि तब नाच्युतस्तुलां लभते। स हरिर्नाम्ना देवः स हरिवींरस्तुरगनिवहेन ॥!' इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पृथगुपादाने ये भेदाः संभवति उक्तलक्षणेनेव संग्रहीताः, तत्र हि एकस्य पदस्य द्विरुपादानान्न श्लेपः। उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भवत्येव॥ अर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्तिर्गूढत्वात्कथंचित्प्रतीयते, न तु स्पष्टमवभासत, तत्रार्थान्तरस्येवासमानजातीयस्य वस्तुनो यन्न्यसनमसावर्थान्तरन्यासः । न तु यद्यत्कृतकं तदनित्यमित्येवंप्रायमित्यर्थः ॥ नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यत। तथा हि-'ऐरावण स्पृशति-' इत्यादावन्योक्तो विशेषेण महेन्द्रवृत्तान्तेन वाच्येन लद्युक्त्ेन कश्चित्मुखं शेते इति सामान्यं गम्यमानं सनर्थ्यते। तथा 'होइ न गुणाणुराओ' इत्यादौ १. 'निन्दतीन्दुं कलङ्गिनम्' का० प्र०. १. 'पय इनीति' स्यात्.

Page 307

६ अध्याय:] काव्यानुशासनम्। २७९

स्तुत्यै संशयोक्ति: ससंदेहः । स्तुत्यै अलंकारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनार्थ संशयस्योक्तिर्नि- र्णयान्ता अनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससंदेहः।

निदर्शने दृष्टान्तेन दार्ष्टान्तिकं समर्थ्यते, तेनास्य लक्षणस्यातिव्याप्तिः । सत्यम्। उभय- त्रापि तत्र समर्थ्यसमर्थकभावो गम्यते किं तु यथार्थीन्तरन्यासे न तथा तयोः। अर्था- न्तरन्यासे हि समर्थ्यस्य स्वकण्ठेनोपात्तम्य समर्थनम। अन्योक्तौ तुन तत्तथा। निदर्शने च यद्यपि स्वकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विश्ेषं प्रति सामान्यस्य समर्थक- भावः । अपि तु सामान्यविशेषौ प्रति विश्योपस्य। यतो दृष्टान्तम्य विशेषरूपतयैव प्रतिविम्बभावः संगच्छत इति पृथगवस्थित एवायम् ॥ स्तुत्यै इति। स्तुनये यत्संशय- चद्रच: प्रयुज्यते तत्र संदेहालंकारसंज्ञा । सह संदेहेन अनिश्रयेन वर्तत इति कृला। त्रिधा खलु संदेहवद्ूचो भवति। संदेहस्य प्रतिपादकत्वेन अलंकारान्तरच्छायां गभीकृत्यासं- देहेऽपि संदेहस्येव जननेन चेति। संशयश्र शुद्धसंकीर्णमूढभेदात्रेधा। तत्र शुद्धः प्रति- पाद्यो यथा-'वामेक्षणे स्फुरति धीः पुरुषस्य कष्ट स्याद्वा न वेति विद्धाति गतागतानि। नार्या: पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिमयादशुभं शुभं वा ॥'अत्र संदेहनिष्ठत्व- मेवेति शुद्ध: संदेहः । संकीर्णो यथा-'गिरिरयममरेन्द्रेणाद्य निर्मूलपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत बत स एप व्यातता- युर्जटायुः ॥' अत्र स्थाणुवा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्ण: संदेहः । यथा किमेप जटायुरिति। पूर्वत्र तु कष्टस्य भविष्यत्वेन भावाभावावु- भावपि संदिग्धौ। कदाचन तृतीयस्याप्युपेक्षणीयन्यायेन मध्यरूपस्य प्रादुर्भावसंभावनमित्यन- योर्विवेक: । मूढो यथा-'स्पन्दते दक्षिणं चक्षुः फलकाड्का न मे क्वचित्। न च मिथ्या मुनिवच: कथयिष्यति किं खिदम् ।।' अत्र न संदेहनिष्ठता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूट: संदेहः । यथा ह्यगृहीतसंकेतस्यापूर्वपदार्थादर्शने सति किमिदं स्या- दिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपाद्यः संदेहो निदर्शितः ॥ उत्पाद्यो यथा-व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूमृतस्तेभ्यो भयमाशु प्रमादिनाम् ।' व्यालाः सर्पाः, दुर्जनाश्र। दुरारोहा दुःखोत्कलनीयाः, चिरकालप्रत्यासत्तिलाभा- श्र । रत्नान्युपलविशेषाः, गुणवन्तश्च। भूमृतः पर्वताः, राजानश्च। इत्येतम्माद्वूचसः प्रतिपत्तुः पर्वतराजविषयः संदेह उपजायते। अलंकारान्तरच्छायागभींकारेण जन्यस्तु 'सरोजपत्रे-' इत्यादिना उदाहृतः । एतेषु संदेहवत्सु वचनेषु बहुधा प्रवृत्तेषु प्रथमस्य प्रतिपाद्यसंदेहपक्षस्य रसभावतदाभासालंकारेष्वन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावाद्वश्यं क्रचिद्रसेऽT्ग- ता भवत्यत एव रसादिसद्भावेनान्तरीयकत्वेन तदाभासतापि भवतीति। द्वितीयस्य तु १. 'ससंदेहा' म्यान,

Page 308

२८० काव्यमाला।

यथा- 'सरोजपत्रे परिलीनपट्पदे विशालदृष्टेः खिविदमू विलोचने। शिरोरुहाः स्युर्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ अगूढहासस्फुटदन्तकेसरं मुखं ख्विदेतद्विकचं नु पङ्कजम्। इति प्रलीनां नलिनीवने सखीं विदांवभूवुः सुचिरेण योपितः ।' अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः । यथा वा- 'अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिद्ृक्षया। अभिययौ स हिमाचलमुच्छितं समुदितं नु विलङ्गयितुं नभः ॥' अत्रातिशयोक्तिगर्भी कारेणानिर्णयान्तः । यथा वा- 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो वैष नियतम् ।

जन्यसंदेहपक्षस्य प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधा- यिकेति संदेहो दोष एवेति दोषरूपतेति। तृतीयस्तु जन्यसंदेहाभासलक्षणः पक्षोऽस्य ससंदेहालंकारस्य विषयोSवगन्तव्यः ॥ सरोजपत्रे इत्यादि। अत्र प्रकृतं विलोचनादि वक्रा निश्चितमेव यदि परं रूपकालंकारापादनमाहात्म्यात्संदेहस्येवशव्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादावेव विश्रान्तिः । संदेहवर्णनभङ्गया तु तस्यैवालंकारता॥ अथ जयायेति। प्रतिकोद्टन्यायेन मेरुजयसंभावना ॥ रसभयेति। लरितया। अ- न्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव। हिमाचलमिति। हिमाचलैकदेशमिन्द्रप्रस्थाख्यं तपोर्थमिति तात्पर्यम्। समुदितमिति । पिण्डीभूतम् । अवा(?)जयादिव्यापारकर्तृत्वं हिमाचलस्य व्याख्येयम् ॥ अतिशयोक्तिगर्भीकारेणेति। तथा हि योSसौ पौरुषेयव्यापारतिरस्कारेण नुशब्दत्रितयावद्योत्यमानतया कोटित्रयोल्लेखे- नावास्तवः संशयः प्रतिपादितः स स्वसिद्धिनिर्वाहाय तथाविधोत्कटोच्छायशून्येऽपि पर्वते

शयोक्तिमवगमयति ॥ अयं मार्तण्डः किमिति। अत्रोपमेयस्य तद्भावमुपमानेनोक्ला १. 'नैष' का० प्र०. १. 'रभसयेति' स्यान् मूलानुरोधान्. २. 'अत्र जयादि' स्यात्.

Page 309

६ अध्याय:] काव्यानुशासनम्। २८१

कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ॥' अत्र रूपकगर्भीकारेण भेदस्योक्तौ संशयः ॥ पकृताप्रकृताभ्यां प्रकृतापलापोऽपहुतिः । प्रकृतेन प्रकृतस्यापलाप एका अपहुतिः । अप्रकृतेन प्रकृतस्यापला- पोडन्या। तत्राद्या यथा- 'शैलेन्द्र प्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दष्टोऽवताद्वः शिवः ।।' अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतौ प्रकृते- नैव तुहिनाचलशैत्येनापहुतौ। द्वितीया यथा- 'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः। अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥'

पश्चाद्भेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पश्चाद्यतिरेकाकारता, तथापि नास्मिन्नलं- कारद्ूयविश्रान्तिः । अपि तु किमित्यादिशब्दोपादानात्संदेह एव वाक्यार्थतया पर्यवस्यति। तस्य परिकरवन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशङ्का न कार्या॥ भेदकस्योक्ताविति। पूर्वोदाहरणद्ये तु भेदकस्यानुक्तिरित्यर्थः ॥ अप्रकृतेन प्रकृत- स्यापलापोऽन्येति। अत्र पारमार्थिकस्यासत्यकरणमपारमार्थिकस्य सत्यतया स्थापनं स्थूलद्ृष्ट्या वोद्धव्यम्। तात्पर्य तु वाक्यस्य सादृश्ये एव। तथा ह्यत्र पदार्थस्वरूपविपर्यी- सोऽभिधीयते। न च तत्र स्वेच्छया पुरुपाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयचमत्कारिता भवति। सोऽयं वाक्यार्थापेक्षयापह्नुत्यलंकारो लाक्षणिकार्थपरिग्रहः । उपमेयस्यापह्नुतलात् न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशङ्का न कार्या ।। व्यासङ्गो निरोधस्तम्माद्भद्गो भयम् ॥ नेयं विरौतीति। १. 'भेदकस्योक्तौ' स्यातू. ३६

Page 310

२८२ काव्यमाला।

यथा- 'विलसदमरनारीनेत्र नीला जखण्डा- न्यधिवसति सदा यः संयमाघःकृतानि। न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' यथा वा-'इदं ते केन-' इति। एवमियं भङ्गचन्तरैरप्यूह्या॥ पर्यायविनिमयौ परावृत्तिः। एकस्यानेकत्रानेकस्य चैकत्र क्रमेण वृत्ति: पर्यायः । समेन समस्योत्कृ- ष्टेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परावृत्तिः। यथा- "जो तीऍ अहरराओ रत्तिं उव्वासिओ पिययमेण । सो व्विय दीसइ गोसे सवत्तिनयणेसु संकन्तो ।।' अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसि- तत्वादेकत्वमविरुद्धम् ॥ 'तद्गेहं नतभित्ति-' इति। अत्रानेकं गृहाद्येकत्र द्विजे वर्तते। विनिमयः समेन समस्य यथा- 'आदाय कर्णकिसलयमियमेस्मादत्र चरणमर्पयति। उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥'

अत्र मदमुखमधुकरावलीविरुतं विरहिणां हैदयं भेदिला विशेषेण कामकार्मुकक्ेङ्कतेन स- मानमध्यवसाय तदैक्यारोपेण तेनैवापहूयत इति॥ जो तीए इति। अत्र स एवेति ताम्बूलादिजनितरागकोपनिर्वृत्तरागयोरभेदोपचारः ॥ यथा वा-ने लाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना १. 'यस्तस्या अधररागो रात्रावुद्भासितः प्रियतमेन। स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥' [इति संस्कृतम्.] २. 'मस्मै चरणमरुणमर्पयति' वामनवृत्तौ.

१. 'हृदयभेदित्वाविशेषेण' स्यात्. २. 'नन्वा' का० प्र०.

Page 311

६ अध्याय:] काव्यानुशासनम्। २८३

'यो वलौ व्याप्तभूसीम्नि मखेन द्यां जिगीपति। अभयं स्वर्गसझभ्यो दत्त्वा जग्राह खर्वताम् ।।' अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य। 'तस्य च प्रवयसो जटायुषः ख्वर्गिणः किमिव शोच्यतेऽधुना। येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥।' अत्र निकृष्टेनोत्कृष्टस्य । हेतोः साध्यावगमोऽनुमानम्। अन्यथानुपपत्त्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितार्थस्य प्रतीतिर्यत्र वर्ण्यते तदनुमानम्। यथा- 'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्किरियम् ॥' यथा वा- 'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि । अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥' यथा वा- 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूलं लीलापझं निमीलितम् ।।' अत्र कैमलिनीमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम्॥

वससि वाचि पुनः खलानाम् ॥' खर्वतामिति। वामनताम् ॥ स्वर्गिण इति। यशः- शेपतां गतस्येत्यर्थः ॥ अर्थस्येति। भावरूपस्याभावरूपस्य वा। तत्र भावरूपसाध्यार्थ- प्रतीतिः 'सानुज्ञम्-' इत्यत्र निदर्शिता। अभावरूपसाध्यार्थप्रतीतिस्तु यथा-'पण्णवसि अव्वअच्छसि सव्वं विअ सो तएण सव्व विओ। णहु होन्ति तम्मि दिद्े ......... सच्छा- वच्छाई ।।' अत्रादर्शनं साध्यते॥ निर्णेतुं शक्यमस्तीति। अत्र स्तननितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्रेयं पयोधरभरस्थितिः सान्यथानुपप- द्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति। उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोSलंकारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वा- दनुमानस्येति। अनुमानमेवेदमिति। न तु सूक्ष्मम्, अनुमानान्तर्भूतलात्सूक्ष्मस्येति १. 'कमलनिमीलनेन' इति स्यात्.

Page 312

२८४ काव्यमाला।

सदृशदर्शनात्स्मरणं स्मृतिः । पूर्वोपलव्धस्यार्थस्य तादृशदर्शनात्संस्कारोद्वोधे सति यत्स्मरणं सा स्मृतिः । यथा- 'अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्कयः । अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥' विपर्ययो भ्रान्तिः । सदृशदर्शनाद्विपर्ययज्ञानं भ्रान्तिः । यथा- 'नीलेन्दीवरशङ्गया नयनयोर्बन्धूकबुद्धचाघरे पाणौ पद्मघिया मधूककुसुमभ्रान्त्या तथा गण्डयोः। लीयन्ते कबरीपु वान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति॥' न चैतद्रूपकं प्रथमा वातिशयोक्तिः । तत्र वस्तुतो भ्रमस्याभावात्॥ क्रियाफलाभावोऽनर्थश्च विषमम्। न केवलं क्रियाफलाभावोऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तद्विपमम्। यथा- 'उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता। फलमिदमहो मयापं सुखाय मृगलोचनां दृष्टरा ।।' अत्र मृगलोचनादर्शनेन न केवलं सुखं न प्राप्तम्, यावद्विच्छेदे उत्क- ण्ठादिरनर्थः प्राप्तः ॥ योग्यतया योगः समम् । उत्कृष्टमुत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः समम्। यथा- 'धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपेमे दत्तपत्रः स्मरस्य । १. 'रूपो देवो' का० प्र०. २. 'पमो' का० प्र०.

Page 313

६ अध्याय:] काव्यानुशासनम्। २८५

जातं दैवादुचितमनयोः संगतं यत्र तस्मि- ञशृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ।।' यथा वा- 'चित्रं चित्रं बत बत महच्वित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविद: काकलोकः ।।' हेतौ काये चैकत्र हेतुकार्यान्तरोक्तिर्युगपङ्गुणक्रियाश्च समुच्चयः। कस्यचित्कार्यस्य एकस्मिन्हेतौ साधके सति हेत्वन्तराभिधानम्, कार्यें चैकस्मिन्प्रस्तुते कुतश्चिन्निमित्तात्कार्यान्तराभिधानं च समुच्चयः । युगपद्गुणौ च किये च गुणक्रिये च समुच्चयः। बहुवचनं व्याप्यर्थम्। हेतौ हेत्वन्तरं यथा- 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणाः कुलं निर्मलम्।

भाव: ॥ समुच्चय इति । अतुल्यकक्ष्यतामनपेक्ष्यैव समुच्चयनं समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधि: सुकरं कार्य कारणान्तरयोगतः' इत्येवं लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति। अन्यथा 'मानमस्या निराक- र्तुम्' इत्युदाहरिष्यमाणे तुल्यकक्ष्यत्वाभावान्न समुच्चयः स्यादिति। एष एव च समुच्चयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते। तथा हि-'कुलममलिनं भद्रा मूर्तिमतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो त्रजति सुतरां दर्प राजंस्त एव तवाङ्कशाः ॥' अत्र सतां योगः । 'दुर्वाराः' इत्यादौ त्वसतां योगः । नववयःप्रभृतिर्हि सत्यपि शोभनत्वे सर्वेषामप्यशोभ- नत्वकथनम्, अशोभनत्वेनैव विरहिण्या भावितत्वात्। 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥।' अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । तथा हि-शशिनः शोभनत्वं प्रकृतिसौन्दर्यात्, अशोभनत्वं धूस- १. 'यत्तदेतच्छ' का० प्र०. १. 'श्रुति' का० प्र०.

Page 314

२८६ काव्यमाला।

स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मैया ॥' अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति, तेषु सत्सु प्रियतमदूर- स्थित्याद्युपात्तम् । यथा वा- 'मानमस्या निराकर्तु पादयोमे पतिष्यतः । उपकाराय दिष्टयेदमुदीणे घनगर्जितम् ॥' कार्ये कार्यान्तरं यथा- 'स्फुरदद्गुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता वृहस्पतिश्च ।।' अत्र त्वां सृजतेत्येकस्मिन्कार्ये प्रस्तुते मनोभवादीनां कार्यान्तराणा- मुपनिबन्धः । युगपद्गुणौ यथा- 'विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥' क्रिये यथा- 'प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ।' गुणक्रिये यथा- 'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः॥' पृष्टेऽपृष्टे वान्यापोहपरोक्ति: परिसंख्या। पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात्परिसं- खया। उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता वेति चत्वारोऽस्या भेदाः। रत्वोत्पादात् । एवं चास्य सदसद्रूपस्य तादृशेनैवापरेण योगादिह सदसद्योगः । गुणक्रि- याश्चेत्यत्र यथा रुद्टेन 'व्यधिकरणे वा यस्मिन्' (७।२७) इत्यादिना व्यधिकरणे इति एकस्मिन्देश इति च प्रतिपादितम्, न तथा प्रतिपादनीयम्। 'धुनोति चासिं तनुते च कीर्तिम्' इत्यादेः 'कृपाणपाणिश्च भवान्रणक्षितौ ससाधुवादाश्र सुराः सुरालये' १. 'क्षमो' का० प्र०. २. 'शठः' का० प्र०.

Page 315

६ अध्याय:] काव्यानुशासनम् । २८७

पृष्टे यथा- 'कोऽलंकारः सतां शीलं न तु काञ्चननिर्मितम्। किमादेयं प्रयत्नेन धर्मों न तु धनादिकम् ।' 'का विसमा दिव्वगई किं लद्धं जं जणो गुणग्गाही। किं सोक्खं सुकलत्तं किं दुग्गे जं खलो लोओ।।' अत्र दैवगतिरेव विषमेत्यादिरन्यापोहः प्रतीयते। अपृष्टे यथा- 'धेहि धर्मे धनधियं मा धनेषु कदाचन। सेवख सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति॥' यथा वा- 'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ।।' 'दानं वित्ताद्रसं वाचः कीर्तिधर्मो तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ।।' 'पोढमहिलाण जं सुट्ठ सिक्खियं तं रएसु होवेइ। जं जं असिक्खियं नववहूण तं तं दिहिं देई ।।' एपु कौटिल्यं कचनिचये एवेत्यादि, राज्ये सारं च वसुधैवेत्यादि,

इत्यादेश्वान्यथापि दर्शनादिति ॥ राज्ये सारमिति। अत्र सारालंकार: कैश्रिदुक्तः, स चान्यापोहमन्तरेण न चमत्कारकारीति परिसंख्यैव युक्तोलंकारः॥दानं वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालंकार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमिती-

१. 'का विपमा दैवगतिः किं लब्ध यजनो गुणग्राही। किं सौख्यं मुकलत्रं किं दुःखं यत्खलो लोकः ॥' [इति छाया.] २. 'दुक्खं' का० प्रदी०. 'प्रौढमहिलानां यत्मुष्टु शिक्षितं तद्रतेषु भवति। यद्यदशिक्षितं नववधूनां तत्तत् ...... ददाति ।।' [इति छाया.]

Page 316

२८८ काव्यमाला।

वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोह्यमानस्य प्रतीयमानत्वमन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित््यं किंचिदिति नोत्तरं पृथग्लक्षितम् ।। उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव। यथा- 'वाणियय हत्थिदन्ता कुत्तो अम्हाण वग्घकित्तीआ। जाव लुलियालयमुही घरम्मि परिसप्पते सोण्हा ।।' अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम्। तथा- "जें भणहतं सहीओ आम करेहामि तं तहा सव्वम्। जइ सरहरुं संभिउं मे धीरं संमुहागए तम्मि ॥' तत्र भ्रुकुट्यादिभिर्मानं कुर्विति सख्याः पूर्ववाक्यमनुमीयते ॥ यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला। यथा- 'निर्द्रव्यो हियमेति ह्वीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमायाति च। निर्विण्ण: शुचमेति शोकविवशो बुद्धया परित्यज्यते निर्वुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ।।' कारणमात्रं तु न वैचित्यमिति न हेतुरलंकारान्तरम् ॥

यमपि परिसंख्यैव युक्तेति ।। अनुमानमेवेति। न तु र्द्रटोक्त :- 'प्रश्नादप्युत्तरं यत्र-' (७।९३) इत्युत्तरालंकारः ॥ एवं जं भणहेत्यत्रापि वाच्यम्॥ कारणमात्रं १. 'वाणिजक हस्तिदन्ताः कुतोSस्माकं व्याघ्रकृत्तयश्च। यावह्ललितालकमुखी गृहे परिसर्पते स्नुषा ।।' [इति छाया.] २. एतस्य शुद्धेर्वुद्धावनारोहात्संस्कृतमसंदिग्वं न स्मर्यते, तथापि समन्वयवाक्यानु- सारेण तु- 'यद्भणिष्यत सख्यः सत्यं करिष्यामि तत्तथा सर्वम्। यदि. ........ .मे वैर्ये संमुखागते तस्मिन् ॥' इति कल्प्यते. ३. 'आम' इत्यभ्युपगमकाकु: साकाङ्ढोपहासा' इति ध्वन्यालोकलोचनम्.

Page 317

६ अध्याय:] काव्यानुशासनम्। २८९

स्वातन्र्याङ्गत्वसंशयैकपदैरेपामेकत्र स्थितिः संकरः । परस्परनिरपेक्षत्वं स्वातत्रयम्। उपकारकत्वमङ्गत्वम्। एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मि- न्पदेऽर्थाच्छब्दार्थालंकारयोः समावेश ऐकपद्यम्। एमिरेषां पूर्वोक्ताना- मलंकाराणामेकत्र वाक्ये वाक्यार्थे वावस्थानं संकीर्यमाणस्वरूपत्वा- त्संकरः । स्वातन्रयेण शब्दालंकारयोः संकरो यथा-

वलितया विद्धे कलमेखलाकलकलोऽलकलोलदृशान्यया ।' अत्र यमकानुप्रासयोः ।

त्विति।अग्नेर्धूम इत्येवंरूपमित्यर्थः॥ नन्वीदृशस्य हेतोर्हद्यत्वाभावादलंकारत्वं मा भवतु । यत्र तु-'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रण- तवान्। नमन्मुक्तः संप्रत्यतनुरह्मग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराधद्वयमपि॥' इत्यादौ, 'भस्मोडूलन भद्रमस्तु भवने रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुता- कान्तालयालंकृतिम् । अद्याराधनरोपितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्ष - नामनि महामोहे निधीयामहे ।' इत्यादौ च अपराधद्वये पूर्वापरजन्मनोरनमनलक्षणो हेतुर्वाक्यार्थींभूतो महामोहे मुखालोकोच्छेदित्वलक्षणश्र पदार्थीभूतो हृद्यतयावसीयते तत्र कथं सालंकारत्वमिति ॥ सत्यमस्ति । हृद्यता परं न हेतोः, किं तर्हि अलंकारान्त- रस्य। तथा हि प्रथमे उदाहरणेऽनुमानस्य रामणीयकम्, द्वितीये तु मोक्षस्य महामोह- तया रूपणमिति रूपकस्येति हेतुर्नालंकारः । तन्निराकरणेन तद्रूपं काव्यलिङ्गमपि निरा- कृतमेवेति। एवं च 'हेतुमता सह हेतोरभिधानमभेदेतो हेतुः।' इत्येवंरूपोऽपि हेतुर्न वाच्यः । 'आयुर्घृतं नदी पुण्यं भयं चौरः सुखं प्रिया। वैरं द्ूतं गुरुज्ञानं श्रेयो ब्राह्मणभोजनम् ।' इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात्। गौणे ह्युपचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम्। यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति॥'अविरलकमल- विकास: सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥' इत्यत्र तु काव्यरूपतां कोमलानुप्रासमहिम्रैव समाम्रासिपुः, न तु हेत्वलंकारकल्पनयेति । यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजनं व्यङ्गयम्,

१. 'तोषितेन' का प्र०. २. '-दकृद्भवेद्यन्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथ- ग्भूनः ।' इत्येवं रुद्रटे समुपलभ्यते. ३. 'पूजनम्' रुद्रटव्याख्या. ४. 'करः' रुद्रटे. ३७

Page 318

२९० काव्यमाला।

अर्थालंकारयोर्यथा- 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥' अत्रोत्प्रेक्षोपमयोः । शब्दार्थालंकारयोर्यथा- "सो नत्थि एत्थ गामे जो एयं महमहन्तलायण्णम् । तरुणाण हिययलूडिं परिसक्कन्ति निवारेइ ॥।' अत्रानुप्रासरूपकयोः । अङ्गत्वेन संकरो यथा- 'कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्कया कुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते। कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितत्रीडं शनैर्जल्पति ।।' अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्ता। तदाश्रयेण चातिशयोक्तिश्च- मत्कारहेतुरित्यवयवयोरङ्गाङ्गिभावः । 'त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ। इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥' अत्र केषो व्यतिरेकस्याङ्गम् । 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ।।' अत्र क्रेषो विरोधस्याङ्गम्। तदसुन्दरमपि काव्यस्य मध्यमत्वनिबन्धनं भवति। तथाप्यलंकारचिन्तायाः प्रक्रान्तत्वा- दपह्ुत्यैव हेतोरलंकारत्वं निराक्रियते ॥ दुर्वाराविति। दुर्वारोऽव्याहतप्रसरः, दुष्टं क्षारं वार्जलं च यस्य दुर्वाः। सत्त्वं धैर्यम्, सत्त्वाश्च प्राणिनः । तेजः प्रभावः, वडवान- लश्च। जडात्मेति, उदकसवभावोऽपि॥ कृष्णार्जुनेति। कृष्णा असिताः । अर्जुनाः शुक्काः। १. 'स नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्याम्। तरुणानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति ॥' [इति संस्कृतम्.] २. 'सप्पन्ति' का० प्र०. ३. वार्वारशब्दयोरेकशेषस्तु दुःशक इति ध्येयम्.

Page 319

६ अध्याय:] काव्यानुशासनम्। २९१

'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्। कोशदण्डसमग्राणां किमेपामस्ति दुष्करम् ।'

संशयेन संकरो यथा- 'निग्गण्डदुरारोहं मा पुत्तय पाडलं समारुह्सु। आरूढनिवडिया के इमिए न कया इह ग्गामे।।' अत्र शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान्न ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः । तथा- 'नयनानन्ददायीन्दोविम्बमेतत्प्रसीदति। अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥।' अत्र मुखेन सहाभेदारोपात्किमतिशयोक्तिः, किमेतदिति मुखं निर्दि- श्येन्दुसमारोपणाद्रूपकम्, किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः, अथैतयोः समुच्चयविवक्षायां दीपकम्, किं प्रदोपवर्णने विशेषणसाम्यात्समासोक्तिः, किं मदनोद्दीपकः कालो वर्तते इति तात्पर्यात्पर्यायोक्तमित्यनेकालंकार- संशयः ! तथा-

गगनजलस्थलसंभवहृद्याकारा कृता विधिना ।' अत्र तु रूपकमुपमा वेति संशयः ॥ यत्र तु-'मोहमहाचलदलने सा सुनिशितवज्रकोटिरेकापि' इत्यादावारोपितकुलिशकोटिरूपाया भक्ते- र्मोहस्य महाचलेनोपमितमात्रस्य दलने कर्तृत्वं न हृदयावर्जकं स्यादिति

अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंथरिता । विरोधे तु कृष्णो हरिः, अर्जुनः पार्थः, तत्र सानुरागा सा कर्णे राधेयं कथमालम्वत इति। अनयैव च विरोधभङ्गचा अविश्वाम्यत्वं निवद्धम् । कोशदण्डसमग्राणामिति। कोशो भाण्डा- 'निर्गण्डदुरारोहं मा पुत्रक पाटलं समारोह। आरूढनिपतिताः केऽनेन न कृता इह ग्रामे ।।' [इति संस्कृतम्.]

Page 320

२९२ काव्यमाला।

रूपकस्य, 'ज्योत्स्नेव हासद्युतिराननेन्दोः-' इत्यादौ मुख्यतयावगम्य- माना हसितद्युतिर्वक्र एवानुकूल्यं भजत इत्युपमायाः साधकं प्रमाणमस्ति, 'स्मरन्ति ज्योत्स्ायाः शशिमुखि चकोरास्तव दृशि' इत्यादौ तत्त्वारोपे स्मरणानुपपत्ते रूपकस्य, 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ सदृशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवादुपमायाश्च वाधकं प्रमाणमस्ति, न तत्र संशयः । ऐकपद्येन संकरो यथा- 'मे रूरुकेसर मुदारदिगन्तपत्र- मामूललम्बिचलशेषशरीरनालम्। येनोद्धृतं कुवलयं ललना सलील- मुत्तंसकार्थमिव पातु स वो वराहः ॥' अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ। यद्यप्यनेकविषयमिदं रूपकम- खिलप्राक्पथ्यापि (?), तथापि प्रतिपदं रूपकसद्भावादेकपदानुप्रवेशो न विरुध्यते ॥। इत्युक्ताः शब्दार्थालंकाराः ॥ कः पुनरङ्गाश्रितत्वान्निःशेषेऽप्ययं शब्दस्यालंकारोऽयमर्थस्येति विशेषः। उच्यते-दोषगुणालंकाराणां शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरे- कावेव निमित्तम्। निमित्तान्तरस्याभावात्। ततश्च योऽलंकारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यते इति ॥ यद्यपि पुनरुक्त- वदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि द- श्यन्ते, तथापि तत्र शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमिति उभयालंकारत्व- मनपेक्ष्यैव नाष्टालंकारत्वेन नार्थालंकारत्वेन चोक्ताः । इह वापुष्टार्थत्वलक्ष- णदोषाभावमात्रं साभिप्रायविशेपणोक्तिरूपः परिकरो भन्नप्रक्रमतादोषा- गारोऽपि। दण्डश्वतुर्थोपायोऽपि ॥ निर्गण्डेति। कठिनदुरारोहम् ॥ साभिप्रायवि- शेषणोक्तिरूप इति । तथा च 'विशेषणैर्यत्साकृतैरुक्तिः परिकरस्तु सः' इति । यथा-'कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीय- व्यपनयनपटः पाण्डवा यस्य दासाः। राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोSसौ कथयत न रुपा द्रष्टुमभ्यागतौ सः ॥ इति। अत्र हि द्यूतच्छलकर्तृ- त्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया साभिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवा-

Page 321

६ अध्याय:] काव्यानुशासनम्। २९३

भावमात्रं यथासंख्यं दोषाविधानेनैव गतार्थम्। विनोक्तिस्तु तथाविधह- द्यत्वविरहात्।। भाविकं तु भूतभाविपदार्थप्रत्यक्षीकारात्मकमभिनेयप्रबन्ध एव भवति। यद्यपि मुक्तकादावपि दृश्यते, तथापि न तत्खदते। उदात्तं तु ऋद्धिमद्वस्तुलक्षणमतिशयोक्तेर्जतर्वा न भिद्यते। महापुरुषवर्णनारूपं च यदि रसपरं तदा ध्वनेर्विषयः ॥ यम्।। यथासंख्यमिति। तथा चाह-'यथासंख्यं क्रमेणैव क्रमिकाणां सम- न्वयः' इति । यथा-'एकस्त्रिधा वससि चेतसि चित्रमेव देव द्विषां च विदुषां च मृगीदृशां च। तापं च संमदरसं च रति च पुष्णञ्शौर्योष्मणा च विनयेन च लीलया च ।।' इति। अत्र न यथासंख्यकृतं किमपि वैचित्र्यं किंतु एकस्त्रिधा वससीति आमुखे विरोधप्रतीतिकृतमेवेति ।। विनोक्तिस्त्विति। तथा चाह-'विनोक्ति: सा वि- नान्येन यत्रान्यः सन्न नेतरः' इति। सन् शोभनः, इतरोऽशोभनः । यथा- 'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नयेन्द्रसूनुः ॥', 'अरुचिर्निशया विना शशी शशिना सापि विना मह- त्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥' इति उदाहरणद्वयेऽपि वदन्तु सहृदया :- यदि किमपि विनोक्तिकृतं वैचित्र्यभवभासते, सहोक्तौ तु सहार्थ- वलात्साम्यसमन्वयप्रतीतेर्युक्तमेव वैचित्र्यमिति। किंच-शब्दमात्रयोगेनालंकारत्वकल्पने हा धिगाद्युक्तावप्यलंकारत्वप्रसङ्गः प्राप्नोतीति ॥ भाविकमिति । भावः कवेरभिप्रायः स यत्रास्ति तद्भाविकम्। भूतभाविपदार्थप्रत्यक्षीकारात्मकमिति । प्रध्वंसाभा- वप्रागभावक्रान्ता अपि भावाः खमहिम्नायः प्रसादवशाच यत्पुरः स्फुरन्त इव दृश्यमाना वध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्वहेतु- वर्णनमिति तु व्याख्याने सवभावोक्तिर्न भिद्यते। अभिनेयप्रबन्ध एवेति। प्रवेशक- विष्कम्भकादिभिस्तत्रैव तत्र वर्ण्यमानत्वादिति भावः ॥ ननु-'आसीदजनमत्रेति प- श्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ।I' अत्राद्येऽर्धे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्या- शाङ्ग्याह-यद्यपीति ॥ ऋद्धिमद्वस्तुलक्षणमिति । यदाह-'उदात्तं वस्तुनः संपत्' इति। यथा-'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गण- सीम्रि मन्धरचलद्वालाङ्गिलाक्षारुणाः । दूराद्दाडिमवीजशङ्कितधियः कर्पन्ति केलीशुका यद्विद्वद्भवनेपु भोजनृपतेस्तत्त्यागलीलायितम् ।।' न ह्यतिशयैश्वर्योSपि मुक्तारलानामवा- करप्रायत्वेन पुजीकरणं संभवति। उक्तं च-'असंवन्धे संवन्धात्मिकामतिशयोक्तिमव- गमयति'। तदाह-अतिशयोक्तिरिति । अतिशयोक्तेरलंकारान भिद्यत इत्यर्थः ॥ १. 'मत्र' का० प्र०. २. 'चेतःप्रसाद' स्यात्. ३. 'स्तद्दान' का० प्र०. ४. 'श्रर्ये' स्यात्. ५. 'कतेरिति' मूलानुसारी.

Page 322

२९४ काव्यमाला।

अथ तथाविधवर्णनीयवस्तुपरम्, तदा गुणीभूतव्यङ्गचस्येति नालं- कारः ॥ रसवत्पेयस्व्यूर्जस्विभावसमाहितानि गुणीभूतव्यङ्गचप्रकारा एव ॥ आशीस्तु प्रियोक्तिमात्रं भावज्ञापनेन गुणीभूतव्यङ्गयस्य

अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्गयाह-खवभावो- क्तेर्वति। किं च। यदि ऋद्धिमद्वस्तुवर्णनमलंकारस्तदा ऋद्धिरहितवस्तुवर्णनमप्यलंकारं कश्चित्प्रसजतीति। महापुरुषवर्णनारूपमिति । यदाह-'महतां चोपलक्षणम्' इति। यथा-'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्वाहुसहायश्चकार रक्ष:क्षयं रामः ॥I' रामो हि पितृवचनमनुतिष्ठनयपराक्रमादिधर्मयोगादुत्साहयोगाचच वीर- रसवानेवेति रसध्वनिरेवायम्। ननु उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे । ततश्वोप- लक्षणीभूतस्य रामचरितस्य वाक्यार्थीभावाभावादङ्गत्वमेव। दण्डकारण्योत्कर्षप्रतिपत्तिर्हि वाक्यार्थ: सैव प्रधानं ततः कथ ध्वनिविषयतेत्याशङ्गयाह-अथेति । गुणीभूतव्य- ङ्ग्यप्रकार एवेति। मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः। आशीस्त्विति। आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथ वा आशास्यमानो योSसावर्थोऽन- र्थप्राप्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीर्विषयत्वादाशीरिति। तत्र पक्षद्वयेSपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीर्यदि प्रयुज्यते तदा 'गतोऽस्त-

दयानां किमप्येतदिति चमत्काराभावादित्यर्थः ॥ अथ स्नेहातिशयेनोच्यते, तदा ध्वने- र्विषयः । तथा हि कश्चित्कस्मैचित्स्ेहनिर्भरहृदयतया आशिषं प्रयुङ्गे तत्र च तस्य चेतो- वृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारेण प्रतीयत इति भावध्वनिरेवायम् । यथा-'अस्मिज्हीहि मुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुनानतमादरेण। विन्ध्यं महानिव घनः समयेSभिवर्पन्नानन्दजैनयनवारिभिरुक्षतु त्वाम् ।' कयोश्चिन्मैत्नीसंबन्धे पिशुनजनानुप्रवेशनविच्छार्य:(?) कृते सति कस्यचिन्नायकस्य तत्स्नेहदार्ढ्यसंपादनाये- यमुक्तिः । अत्र च सौहृदमप्यर्थप्राप्तिरूपं मैत्रीसंबन्धस्य प्रवर्धमानतयोपनिवद्धम्। जहीहीति आश्लिष्येति च प्रार्थना पञ्चम्यन्तौ। उक्षत्विति प्राप्तकालतायां पंञ्चमी। तेनात्राशास्यमानस्य मैत्रीसंबन्धस्योपनिबन्धो न त्वप्राप्तप्राप्तीच्छात्मिका आशिषः। तथा- 'मदान्धमातङ्गविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरी: पश्यतु राजलोकः ॥' अत्र शत्रुनगरीविनाशोपनिबन्धद्वारेणानर्थोपरमस्य दर्शितत्वा- दाशास्यमानार्थोपनिवन्ध एव ।। नन्विदं भूयादित्येवमात्मिकायाः प्रयोक्तृधर्मत्वेनावस्थि- ताया आशिषोSत्रोपदर्शनम् । तथा ह्येवंविधा शत्रुनगरी राजलोको दृश्यादिति नाय- मत्रार्थः संपन्नत्वादेतस्यार्थस्य किंतु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतया-

१. 'विच्छायीकृ' स्यात्. २ .- ३. लोटो लकारस्य पञ्चमीनामाभिधेयत्वं स्यात्.

Page 323

७ अध्याय:] काव्यानुशासनम् । २९५

विषयः। प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालंकारान्तरतया वाच्यम् । इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकार चूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दार्थालंकारवर्णनः पष्टोऽ्यायः ।

सप्तमोऽध्यायः ।

इह च काव्यं नायकादिप्रतिबद्धं भवतीति नायकादिलक्षणमुच्यते। तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिस्रः प्रकृतयो भवन्ति। तत्र केवलगुणमय्युत्तमा। सवल्पदोपा बहुगुणा मध्यमा। दोषवत्यधमा। तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति। उत्तम- मध्यमप्रकृतियुक्तस्तु- समग्रगुणः कथाव्यापी नायकः । समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभान्वितश्च। तत्र नेतृत्वा- दिगुणबाहुल्यात् मध्यमप्रकृतावपि समग्रगुणता।

भ्यनुज्ञायते। अत्रापि शत्रुविनाशलक्षणविभावद्वारेण हर्षात्मनो भावस्योपनिबन्धात्पूर्व- वद्ावध्वनिरेवेति। तदाह-भावज्ञापनेनेति। प्रत्यनीकमिति । अनीकप्रतिनि- वितुल्यत्वात्प्रत्यनीकम् । यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिद- भियुज्यते तथेह ग्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः । तथा चाह- 'प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्य- नीकं तदुच्यते ॥' यथा-'त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥' तां त्वय्यनुरक्तां मनोभवशरैस्ता- डयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य त्वद्रूपेण विनिर्जितत्वाद्योSसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा। सा च ग्रतीयमाना इवादिशब्दाप्रयोगात् । जातिगतिरीति- वाक्ये वाक्याध्येयाप्रेक्ष्यगेयाभिने- यानि शब्दालंकारा: संभवप्रत्यक्षागमोपमानार्था पत्यभावलक्षणाश्रार्थीलंकारा ये भोजरा- जेन प्रतिपादितास्ते केनचिदुक्तेष्वेवान्तर्भवन्ति । केचिच्च कंचनापि चमत्कारं नावहन्ति, केचिच्च ये काव्यशरीरस्वभावा एवेति न सूत्रिताः ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ॥

१. 'दिव कामः' का० ग्र०. २. 'भवः' स्यात्.

Page 324

२९६ काव्यमाला।

नेतृगुणाश्ेमे- 'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोक: शुचिर्वाग्ग्मी व्यूढवंशः स्थिरो युवा॥

शूरो दृढश्र तेजखी शास्त्रचक्षुश्च धार्मिकः ॥' कथाप्रबन्धस्तद्यापी। नयति व्याप्नोति इतिवृत्तं फलं चेति नायकः । तस्य सात्विकान्गुणानाह-

वजास्तद्गुणाः। सत्त्वं देहविकारस्तस्माज्जाताः । क्रमेण लक्षयति- दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा। यतः शरीरविकाराद्दाक्ष्यादि गम्यते सा शोभेत्यर्थः । दाक्ष्यं यथा- 'स्फूर्जद्वन्नसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । शुण्डार: कलभेन यद्वदचले वत्सेन दोर्दण्डक- स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भझं च तत् ।।' शौर्य यथा- 'खरेण खण्डिताशेषगात्रेण रणमूर्धनि। रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ।।' उत्साहो यथा- 'मूर्धा जाम्बवतोऽभिवाद चरणावापृच्छ्य सेनापती- नाश्वास्याश्चमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च। आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्गने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥'

Page 325

७ अध्याय:] काव्यानुशासनम्। २९७

नीचजुगुप्सा यथा- 'उत्तालताडकोत्पातदर्शनोऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ।' उत्तमस्पर्धा यथा- 'एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम् ।।' धीरे गतिदृष्टी सस्मितं वचो विलास:। यथा- 'दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्। कौमारकेSपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ।।' मृदुश्ङ्गारचेष्टा ललितम्। यथा- 'कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम्। रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं भ्रमयांचकार ।।' क्षोभेडप्यनुल्वणं माधुर्यम्। महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्वणत्वं मधुरा चेष्टा माधुर्यम्। यथा- 'कपोले जानक्याः करिकलभदन्तद्युतिमुपि स्मरस्मेरं गण्डोडडुमरपुलकं वक्रकमलम्। मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढधः ॥'

१. 'सत्यपि' स्यात्. ३८

Page 326

२९८ काव्यमाला।

विघ्नेऽप्यचलं स्थैर्यम्। सत्यपि विन्न उद्यमादपभ्रंशः स्थैर्यम्। यथा- 'यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति। तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ।' हर्षादिविकारानुपलम्भकृद्धाम्भीर्यम्। यस्य प्रभावाद्वहिर्हर्षक्रोधादीनां विकारा दृष्टिविकासरागादयो नोपल- भ्यन्ते तन्निस्तिमितदेहस्वभावं गाम्भीर्यम्। यथा- 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥' स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम्। अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम्। परजनविषयं दानादि चेष्टा- त्मकमेवौदार्यम्। स्वग्रहणं तु दृष्टान्तार्थम्। स्वेष्विव परेष्वपीत्यर्थः । दानं यथा- 'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मान् ।।' अभ्युपपत्तिर्यथा- 'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत केनात्र व: कार्यमनास्था बाह्यवस्तुषु ॥' संभाषणं यथा- 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु: शौर्य यत्तु न तद्विरां पथि ननु व्यक्तं यतः कर्मभिः। त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधि: सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ।।' पराधिक्षेपाद्यसहनं तेजः । पराच्छत्रोर्न तु गुरोमित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः। यथा- 'ब्रूत नूतनकूष्माण्डफलानां किं भवन्त्यमी। अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥'

Page 327

७ अध्याय:] काव्यानुशासनम् । २९९

नायकभेदानाह- धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्घा । स इति नायकः। धीरशब्दः प्रत्येकमभिसंबध्यते। तेन धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धत इति।

एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडश भेदा नायकस्य। धीरोदात्तादींल्लक्षयति- गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्वो दृढ- व्रतो धीरोदात्तः । गूढगर्वो विनयच्छन्नावलेपः । अविकत्थनोऽनात्मश्लाघापरः। महासत्त्वः कोधाद्यनभिभूतान्तःसत्त्वः। दृढव्रतोऽङ्गीकृतनिर्वाहकः।यथा-रामादिः । कलासक्त: सुखी शृङ्गारी मृदुर् निश्चिन्तो धीरललितः । कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः । शृङ्गारप्रधानः सुकुमा- राकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः। यथा-वत्सराजः। विनयोपशमवान् धीरशान्तः । यथा मालतीमाधव-मृच्छकटिकादौ-माधव-चारुदत्तादिः । शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोऽवलिसो धी- रोद्धतः । मत्सरी असहनः। मब्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छद् वञ्चनमात्रम्। रौद्रश्चण्डः। अवलिप्ः शौर्यादिमदवान्। यथा-जामदग्य- रावणादि: । 'देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ।

देवा धीरोद्धता इति । अत्र हि 'धीरोदात्त जयति चरितं रामनाम्रश्र विष्णोः' इत्यादेर्दर्शनाज्नकप्रभृतीनां रामादीनां च न वीरललितत्वानुचितत्वमिति धीरललितत्वं राज् एव वर्णनीयं नान्यस्य। सेनापत्यमात्ययोरधीरोदात्तत्वमेव। देवानां धीरोद्धतत्वमेव। द्वि-

Page 328

३०० काव्यमाला।

धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा। इति चत्वार एवेह नायका: समुदाहताः ॥' इत्यन्तरश्लोकौ। अथ नायकस्य शृङ्गारित्वेवस्थाभेदानाह- ज्येष्ठायामपि सहृदयो दक्षिणः । कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद्दक्षिणः । यथा- 'प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविस्रम्भ: कश्चित्कथयति च किंचित्परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ।' व्यक्तापराधो घृष्टः। यथा- 'लाक्षालक्ष्म ललाटपट्टमभित: केयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्ा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगद्दशः श्वासाः समाप्तिं गताः ॥' जादीनां धीरप्रशान्तत्वमेवेत्येवं परं व्याख्येयम्। धीरोद्धतादिशब्दाश्च यथोक्त्तगुणसमारोपि- तावस्थाभिधायिनो वत्सवृषमहोक्षादिवन्न जात्या कश्चिदवस्थितरूपो धीरोद्धतादिरस्ति। तत्त्वे हि महाकविप्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्। जातेरनपायित्वात्। तथा च भवभूतिना एक एव जामदम्यः 'कैलासोद्धारसार-' इत्यादिभी रामादीन् प्रति प्रथमं धीरोद्धतत्वेन, पुनः 'व्राह्मणातिकमत्यागो भवतामेव भूयते' इत्यादिना रावणं प्रति धीरोदात्तत्वेन, 'पुण्या ब्राह्मणजातिः-' इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः । न चाव- स्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरपेक्षया महासत्त्वादेरव्यवस्थित- त्वात्। अङ्गिनस्तु रामादेरेकप्रबन्धोपात्तान् प्रत्येकरूपत्वादारम्भोपात्तावस्थातोSवस्थान्त- रोपादानमन्याय्यम्। यथोदात्ताभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया स्वाव- स्थापरित्याग इति। वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वा प्रत्यन्यया हृत इति नित्यसा-

१. 'भूतये' का० प्र०. २. 'न्तरापेक्षया' स्यात्.

Page 329

७ अध्याय:] काव्यानुशासनम्। २०१

एकभार्योऽनुकूलः । यथा- 'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो- रसावस्याः स्पर्शो वपुपि वहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराध: शठः। यथा-'एकत्रासनसंगते प्रियतमे-' इति। नायकविजेयं प्रतिनायकमाह- व्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ। नायिकालक्षणमाह- तह्गुणा खपरसामान्या नायिका त्रेधा। तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका। सा च सकीया, परकीया, सामान्या, चेति त्रेधा। सस्त्रीलक्षणमाह- स्वयमूढा शीलादिमती स्वा। आदिग्रहणादार्जवलज्जागृहाचारनैपुण्यादिपरिग्रहः । शीलं यथा- 'कुलवालियाए पेच्छह जोवणलायण्णविव्भमविलासा। पवसन्ति व पवसिए एन्ति व पिए घरम इन्ति ॥' चयःकौशलाभ्यां मुग्धा मध्या परौढेति सा त्रेधा। वयः शरीरावस्थाविशेपः, कौशलं कामोपचारनैपुण्यम्, ताभ्यां मुग्धा। एवं मध्या प्रौढा चेति।

१. 'कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रविशन्तीव ग्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥' [इति च्छाया].

Page 330

२०२ काव्यमाला।

तत्र वयसा मुग्धा यथा- 'दोर्मूलावधिसूत्रितस्तनमुरः स्त्निद्यत्कटाक्षे दशौ किंचित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिपु भ्रूलते। चेतः कन्दलितं स्मरव्यतिकरै्लावण्यमङ्गैर्धृतं तन्वङ्गचास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा- 'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया। वपुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि वाढमभूत ।' वयसा मध्या यथा- 'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च। दशोर्लीलारम्भा: स्फुटमपवदन्ते सरलता- महो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥' कौशलेन यथा- 'स्वेदाम्भ:कणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते। दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय- स्तन्वङ्गया हठकेशकर्षणघनश्लेषामृते लुब्घया ।।' वयसा प्रौढा यथा- 'नितम्ब्रो मन्दत्वं जनयति गुरुत्वाद्रुतगते- रमहत्त्वादुद्वृत्तः स्तनकलशभारः शमयति। विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ।'

काविति। अन्तरे मध्ये वक्तव्यशेषाभिधायकौ शलोकावन्तर'लोकौ। वयसा मुग्धेति। वयसासंपूर्णेत्यर्थः । एवं कौशलेनापि। वयसा मध्येति। किंचिदसंपूर्णेत्यर्थः । वयसा

Page 331

७ अध्याय:] काव्यानुशासनम् । ३०३

कौशलेन यथा- 'उद्धृतैनिभृतमे कमनेकैश्छेदवन्मृगद्शामविरामैः । श्रूयते स्म मणितं कलकाश्चीनूपुरध्वनिभिरक्षतमेव ।।' धीराधीराधीराधीराभेदादन्त्ये त्रेधा। अन्त्ये मध्याप्रौढे। त्रेधा धीरामध्या, धीराधीरामध्या, अधीरामध्या। एवं प्रौढापि त्रेधा। पोढापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा। मध्यापौढयोः प्रत्येकं त्रि- भेदत्वम्। षडिधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति। तत्र प्रथममूढा ज्येष्ठा ! पश्चादूढा कनिष्ठा। अथासां क्रोधचेष्टामाह- सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोधिन्यो मध्या- धीरादाः। मध्याघीराद्यास्तिस्त्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं कुर्वन्ति। तत्र सोत्प्रासवक्रोत्त्या धीरामध्या यथा- 'न खलु वयममुष्य दानयोग्याः पिवति च पाति च यासकौ रहस्त्वाम्। त्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥' सवाष्पया सोत्प्रासवक्रोत्त्या धीराधीरा यथा-'बाले नाथ-' इति। वाक्पारुष्येणाधीरा यथा- 'धिड्मां किं समुपेत्य चुम्बसि वलान्निर्लज्ज लज्जा क्क ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वाधसे। खिन्नाहं तव रात्रिजागरतया तामेव या च प्रियां निर्माल्योज्झितपुप्पदाननिकरे का पट्दानां रतिः ।।'

Page 332

३०४ काव्यमाला।

उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाताभ्यां मौढाधीरादयाः। प्रौढाधीराद्यास्तिस्रोडपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रो- धिन्यो भवन्ति। तत्र धीरा ग्रौढा सोपचारा यथा- 'एकत्रासनसंगतिः परिहृता प्रत्युद्गमादूरत- स्ताम्बूलानयनच्छलेन रभसाश्रलेषोऽपि संविष्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चैतुरयो कोपः कृतार्थीकृतः ॥' सैव सावहित्था यथा- 'वरं भ्रूभङ्गास्ते प्रकटितगुरुक्रोधविभवा वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानो येन प्रसभजनितोऽनादरविधि- र्न गूढान्तःकोपा कठिनहृदये संवृतिरियम् ।।' प्रौढा धीराधीरानुकूला यथा- 'यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्रन्थय- न्भ्रूभेदो न कृतो मनागपि मुहुर्यतखण्ड्यमानेडधरे। यन्निःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥' सैवोदासीना यथा- 'आयस्ता कलहं पुरेव कुरुते न संसते वाससो भग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे। अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥'

१. 'चतुरया' स्यात्.

Page 333

७ अध्याय:] काव्यानुशासनम् । २०१

प्रौढाधीरा संतर्जनेन यथा- 'तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोडनु त्वं प्रेयानहमपि हताशा प्रियतमा। इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ।।' सैव साघाता यथा-'कोपात्कोमलबाहुलोल-' इति। परस्त्रीलक्षणमाह- परोढा परस्त्री कन्या च। परेणोढा परस्य स्त्री परस्त्री। सा च नाङ्िनि रसे उपकारिणीति नास्या: प्रपञ्चः कृतः। ऊढेत्युपलक्षणम्। अवरुद्धापि परस्त्रीत्युच्यते। परोढा यथा-'दृष्टिं हे प्रतिवेशिनि-' इति। कन्या तु पित्राद्यायत्तत्वादनूढापि परस्त्री। यथा- 'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुलयोः शोभां नवामीहते। नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥' सामान्यां लक्षयति- गणिका सामान्या। कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका सामान्या सगुणस्य निर्गुणस्य च साधारणी केवलधनलोभालम्बनेन कृत्रिमप्रेमत्वात्। यथा- गाढालिङ्गनपीडितस्तनतटं सिविद्यत्कपोलस्थलं संदष्टाधरमुक्तसीत्कृतलस ्ूभ्रान्तनृत्यत्करम्। चाटुप्रायवचोविचित्रभणितं घातै रुतैश्चाङ्कितं वेशानां धृतिघाम पुष्पधनुपः प्राम्नोति धन्यो रतम् ।' सवपरस्त्रीणामवस्था आह- स्वाधीनपतिका प्रोपितभर्तका खण्डिता कलहान्तरिता वास- १. 'कुचयोः' स्यात्. ३९

Page 334

३०६ काव्यमाला।

कसज्जा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका चेति स्वस्त्री- णामष्टावस्थाः । रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्स्वाधीन आयत्तः पतिर्यस्याः सा तथा। यथा- 'सालोए च्िय सूरे घरिणी घरसामियस्स घित्तूण। णेच्छन्तस्स ये चलणे धुयइ हसन्ती हसन्तस्स ॥' इति। कार्याय प्रोपितो देशान्तरं गतो भर्ता यस्याः सा तथा। यथा- 'श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि नास्मि तेन कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥' वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता। यथा- 'नवनखपदमङ्कं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवपरिमलगन्धः केन शक्यो वरीतुम् ।।' ईर्ष्याकलहेन निष्क्ान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त- रिता। यथा- 'निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नैक्तंदिनं रुदयते। अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥'

१. 'सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा। अनिच्छतश्व चरणे धावति हसन्ती हसतः ॥' [इति च्छाया.] २. 'वि पाए' इति पाठे 'अपि पादौ' इत्यर्थ :. ३. 'नक्तंदिवं' स्यातू.

Page 335

७ अध्याय:] काव्यानुशासनम्। ३०७

'परिपाट्यां फलार्थे वा नवे प्रसव एव वा। दुःखे चैव प्रमोदे च पडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकाले तु वा बुघैः । द्वेष्याणामथ वेष्टानां कर्तव्यमुपसर्पणम् ।' इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा। यथा- 'तल्पकल्पनविधेरनन्तरं भर्तृमार्गमवलोकते मुहुः । दर्पणेक्षणमुदीक्षते वपुर्हर्षभूषणमनिन्द्यभूषणा ।' प्रियमन्या चिरयति भर्तरि विरहोत्कण्ठिता। यथा- 'अन्यत्र त्रजतीति का खलु कथा नाप्यस्य तादक्सुह- द्यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितख्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाम्नोति निद्रां निशि ॥' दूतीमुखेन स्वयं वा संकेतं कृत्वा केनापि कारणेन वश्चिता विप्र- लब्धा। यथा-

प्रौढेति। संपूर्णेत्यर्थः । परिपाट्यामिति। परिपाटिर्यथा कल्पितानुपूर्वी । अस्या एकेन दिनेन वारः अस्या द्वाभ्यामित्यादिः ॥ तदपवादमाह-फलार्थे इति । ऋताविति यावत्। नव इति। नवत्वे प्रसवे वृत्ते चिरविरहखिन्नां सुखयितुम्। दुःखे तदीयबन्धुव्यापत्त्यादौ दुःखिता आश्वसनीयेति। प्रमोद इति। तदीयपुत्रोत्सवादौ। उत्सवो हि माननीय इत्युक्तम्। वासयन्ति तत्र स्थाने रात्रिमिति वासका रात्र्युचिताः कामोपचाराः। फलार्थ इत्यस्य हेतोः सत्त्वापवादकत्वं दर्शयितुं धर्मवृत्तिना राज्ञा परिपाठ्या दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति। आर्तवकालो हि भूयानपि फलतः परिमितीभवति। यथोक्तम्-'ऋतुः पोडश तेऽत्रादाश्रतस्रो दशमात्पराः । त्रयोदशी च निन्दाः स्युरयुग्माः कन्यकोद्भवाः। पष्यष्टमी च दशमी द्वाभ्यां वर्णैश्व साधिका । युग्मा पुत्राय रात्रिः स्यात्' इति। तत्रापि नक्षत्रविशेषपरिवर्जनम्। पुत्रश्च

१. 'अनेककार्यव्यासङ्गादस्या नागच्छति प्रियः । तस्यानुगमदुःखार्ता विरहोत्कण्ठिता भयेत् ।I' इति भरतसंवादात् 'कार्यासत्तया' इति भवेत्.

Page 336

३०८ काव्यमाला।

'तत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूर्ती स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भम्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्रुभि- र्भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः॥' अभिसरत्यभिसारयति वा कामातै कान्तमित्यभिसारिका। यथा- 'उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ। प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्वान्ता दिशो मुहुरीक्षसे॥' तथा- 'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि। निपुणमथैनमभिगम्य वदेरभिदूति कांचिदिति संदिदिशे ॥' अन्वर्थ एवासां लक्षणमित्याहृत्य लक्षणं न कृतम्। अन्त्यत्र्यवस्था परस्त्री। परस्त्रियौ तु कन्योढे। संकेतात्पूर्वै विरहोत्कण्ठिते, पश्चाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि कारणात्संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्र्यवस्थतैवानयोरिति। नायिकानां प्रतिनायिकामाह- ईर्ष्याहेतुः सपन्री प्रतिनायिका। यथा-रुक्मिण्याः सत्यभामा। दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ स्त्रीणामलंकारानाह- सच्वजा विंशतिः स्त्रीणामलंकाराः। संवेदनरूपात्प्रसृतं यत्ततोऽन्यद्देहधर्मत्वेनैव स्थितं सत्त्वम्। यदाह- 'देहात्मकं भवेत्सत्त्वम्' इति। ततो जाताः सत्त्वजाः राजसतामसशरी- रेष्वसंभवात्। चाण्डालीनामपि हि रूपलावण्यसंपदो दृश्यन्ते न तु

Page 337

७ अध्याय: ] काव्यानुशासनम्। ३०९

चेष्टालंकारा इति। तासामपि वा भवन्तु। उत्तमतामेव सूचयन्ति। अलं- कारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवने उद्रिक्ता दृश्यन्ते। बाल्येऽनुद्धिन्ना वार्धके तिरोभूताः । यद्यपि च ते पुरुषस्यापि सन्ति, तथापि योषितां न एवालंकारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोडलंकारः । तथा च सर्वेप्वेव नायकभेदेपु धीरत्वमेव विशेषणतयोक्तम्। तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ। अलंकाराश्च केचन क्रि्यात्मकाः केचिद्रुणखभावाः। क्रियात्मका अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोहुद्वेन देहमात्रे सति भवति ते अङ्गजा इत्युच्यन्ते। अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटी- भवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते खाभाविकाः। स्वस्माद्रतिभावात् हृदयगोचरीभूताद्भवन्तीति । तथाहि कस्याश्चिन्नायिकायाः कश्चिदेव स्वभावबलाद्धवति अन्यस्या अन्यः कस्याश्चिद्वौ त्रयः इत्याद्यतोऽपि स्ाभा- विकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सतत्वाधिकासूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाः क्रियात्मानः । शोभादयस्तु गुणात्मानः । ते चायत्रजाः। यत्नाज्जाताः क्रियात्मकाः। इच्छातो यत्नतस्ततो देहे क्रियेति पदार्थविदः। ततोऽन्येडयलजाः । तान्क्रमेण लक्षयन्ति- भावहावहेलास्त्रयोडङ्गजा अल्पभूयोविकारात्मकाः । यद्यपि 'देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाद्वेला समुत्थिता ।' इति भरतवचनात्क्रमेणैतेपां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्व- स्याङ्गस्यैव करणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थितत्वेऽप्यमी- १. 'भवन्ति' स्यात्.

Page 338

३१० काव्यमाला।

षामङ्गजत्वमेव। तथा हि-कुमारीशरीरे प्रौढतरकुमार्यन्तरगतहेलावलोकने हावोद्धवो भावश्रेदुल्लासितपूर्वः। अन्यथानुभावस्यैवोद्धवः । एवं भावे- डपि दृष्टे हावो हेला वा। यदा तु हावावस्थोद्धिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला। एवं हावात् हावः, भावाद्भाव इत्यपि वाच्यम्। एवं परकीयभावादिस्मरणात्सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वं तत्राङ्गस्याल्पो विकारोऽन्त- र्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः। यथा- 'दृष्टिः सालसतां बिभर्ति न शिशुकीडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि। पुंसामेकमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥' बहुविकारात्मा भ्रूतारकचिबुकग्रीवादेर्धर्मः सचित्तवृत्ति परत्र जुह्वतीं ददतीं कुमारीं हावयतीति हावः। सा चाद्यापि स्वयं रतेः प्रबोधं न मन्यते केवलं तत्संस्कारबलात्तथा विकारान्करोति यैर्द्ष्टा तथा कल्पयति। यथा- 'स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्यन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भ: किसलयति लीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥' यदा तु रतिवासनाप्रबोधात्तां प्रवुद्धां रतिमभिमन्यते केवलं समुचि- तविभावोपग्रह्विरहान्निर्विषयतया स्फुटीभावं न प्रपद्यते तदा तज्जनित- बहुतराङ्गविकारात्मा हेला हावस्य संबन्धिनी क्रिया प्रसरत्वावेगवाहि- त्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति। एवं चोद्धि - द्योद्विद् विश्राम्यन् हावः। स एव प्रसरणैकखवभावो हेलेति। यथा- 'कुरङ्गीवाङ्गानि-' इति।

Page 339

७ अध्याय:] काव्यानुशासनम्। ३११

अत्र ह्यन्तर्गतिरतिप्रबोधमात्रमुक्तं न त्वभिलापशृङ्गार इति मन्तव्यम्। तदेतद्वाह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामा- मनन्ति। लीलादयो दश स्वाभाविकाः। विशिष्टविभावलाभे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिविव्वोकविभ्रमकिलिकिंचितमोट्टायितकुट्ट- मितललितविहृतनामानः । एते च प्राप्तसंभोगेऽप्राप्तसंभोगे च भवन्ति। शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव। लीलादीन् लक्षयति- वाग्वेपचेष्टितैः प्रियस्यानुकृतिर्लीला। प्रियगतानां वाग्वेषचेष्टानां प्रियबहुमानातिशयेन नत्वघट्टकरूपेणात्म- नियोजनमनुकृतिर्लीला। यथा- "जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि। तं तमणुसिस्किरीए दियहो दियहो न संवडइ ।।' स्थानादीनां वैशिष्यं विलास: । स्थानमूर्धता। आदिशब्दादुपवेशनगमनहस्तभ्रूनेत्रकर्मपरिग्रहः। तेषां वैशिष्टं विलासः। यथा- 'अत्रान्तरे किमपि वाग्विभवातिवृत्तं वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।

माचार्यकं विजयि मान्मथमाविरासीत् ।।' गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः । सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्याल्पस्या- कल्पस्य न्यासः सौभाग्यमहिम्रा शोभाहेतुर्विच्छित्तिः। यथा- १. 'यद्यत्करोषि यद्यच्च जल्पसे यथा त्वं नियमयसि। तत्तदनुस्वीकुर्वे दिवसो दिवसो न संवर्धते ।' [इति च्छाया.]

Page 340

३१२ काव्यमाला।

'स्न्रिहिपिच्छकण्णऊरा जाया वाहस्स गबिरी भमइ। मुत्ताहलरइयपसाहणाण मज्झे सवत्तीणम् ।।' इष्टेऽप्यवज्ञा विव्वोकः । सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विव्वोकः। यथा- 'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा। शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥' वागङ्गभूषणानां व्यत्यासो विभ्रमः । वचनेऽन्यथावक्तव्येऽन्यथाभाषणं हेस्तेवादातव्ये पादेनादानं रसनायाः कण्ठे न्यासः। यथा- 'चकार काचित्सितचन्दनाक्के काञ्चीकलापं स्तनभारपृष्ठे। प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम् ।' स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसंकरः किलिकिं- चितम्। सौभाग्यगर्वात्स्मितादीनां संकरः किलिकिंचितम्। यथा- 'रतिक्रीडादयूते कथमपि समासाद्य समयं मया लब्घे तस्या क्वणितकलकण्ठार्घमघरे। कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित- स्मितकुद्धोद्भ्ान्तं पुनरपि विदध्यान्मयि सुखम् ।' प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम्। प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वं ततो योद्भता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गपर्यन्ताङ्गमोटनान्मोट्टायितम्। यथा- 'स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति। मुक्ताफलरचित प्रसाधनानां मध्ये सपत्नीनाम् ।।' [इति च्छाया.] २. 'हस्तेना' स्यात्.

Page 341

७ अध्यायः] काव्यानुशासनम् । ३१३

हरति विनतपृष्ठोदग्रपीनस्तनाग्रा नतवलयितबाहुर्जम्भितैः साङ्गभङ्गैः ॥' अधरादिग्रहाद्डःखेऽपि हर्षः कुट्टमितम् । अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेपः । दुःखेऽपि हर्षः कुद्टमितम् । यथा- 'ईषन्मीलित लोललोचनयुगं व्यावर्तितभ्रूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम्। तन्वङ्गयाः सुरतावसानसमये दष्ट मया यन्मुखं स्वेदार्द्रीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते।' मसणोडङ्गन्यासो ललितम्। अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृण: सुकुमारो विन्यासो ललितिम्। यथा- 'सभ्रभङ्गं करकिसलयावर्जनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन। विन्यस्यन्ती चरणकमले लीलया स्वैरपातै- निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ।I' कर्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्रयं स विलासः । यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यबुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम्। अन्ये तु 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः । व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् । व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौर्ख्यलज्जादिपरि- ग्रहः। ततो भाषणावसरेऽप्यभाषणं विहृतम्। यथा- 'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्। सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।'

राज्ञां मुख्यं फलम्। यथाह-'प्रजायै गरहमेधिनाम्' इति ॥ अनेनेति। अलक्तकोपर-

Page 342

३१४ काव्यमाला।

केचिद्वाल्यकौमारयौवनसाधारणविहारविशेषं क्रीडितम्। क्रीडितमेव च प्रियतमविषयं केलिं चालंकारावाहुः। यथा- 'मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्ीडारसं निर्विशतीव बाल्ये।।' 'व्यपोहितं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥' शोभादयः सप्तायत्रजाः ।

तजाः । क्रमेण लक्षयति- रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीव्राङ्गच्छाया शोभा कान्तिर्दीपतिश्च। तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छायान्तरं श्रयन्तीति सा छाया मन्दमध्यतीवत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्ति- र्दीप्तिश्च भवति। शोभा यथा- 'करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति। स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥' कान्तिर्यथा- 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीकेशमंसं वहन्त्याः। क्तस्य हि चन्द्रमसि परं भागलाभः । अनवरतपादपतनप्रसादनैर्विना न पत्युरझटिति यथे- ष्टानुवर्तिन्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला तामपि परिभवेति सपत्नीलोकविजय उक्तः ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके सप्तमोऽध्यायः ।

Page 343

७ अध्याय:] काव्यानुशासनम् । २१५

भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥' दीप्तिर्यथा- 'आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः सेदाम्वुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः॥' चेष्टामसृणत्वं माधुर्यम्। ललितेपु त्रीडादिपु यथा मसृणत्वं चेष्टायास्तथा दीत्षेष्वपि क्रोधादिपु यत्तन्माधुर्यम्। यथा- 'कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्यानतिमतिः । न दष्टे: शैथिल्यं मिलितमिति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ।।' अचापलाविकत्थनत्वे धैर्यम्। चापलानुपहृतत्वमात्मगुणानाख्यानं च वैर्यम्। यथा- 'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति। मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।' प्रथ्रय औदार्यम्। अमर्प्येर्ष्या क्रोधाद्यवस्थास्वरपि प्रश्रय औदार्यम्। यथा- 'भ्रूभङ्गे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रतिभेदकारि हसितं नोक्तं वचो निष्ठुरम्। अन्तर्वाप्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं क्ोधश्च प्रकटीकृतो दयितया मुक्तश्र न प्रश्रयः ॥'

Page 344

३१६ काव्यमाला।

प्रयोगे निःसाध्वसखं प्रागल्भ्यम् । प्रयोगे कामकलादौ। चातुःपष्ठिके इत्यर्थः । यदाह- 'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रम: परिभवे वैजात्यं सुरतेष्विव ।।' मनःक्षोभपूर्वकोडङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । यथा-'आशु लङ्वितवतीष्टकराग्र-' इति। अत्र शोभाकान्तिदीप्यो वाह्यरूपादिगता एव विशेषा आवेगचापला- मर्षत्रासानां त्वभाव एव माधुर्याद्या धर्मा न चित्तवृत्तिस्वभावा इति नैतेपु भावशङ्कावकाशः। शाक्याचार्यराहुलादयस्तु-मौग्ध्यमदभाविकत्वप- रितपनादीनप्यलंकारानाचक्षते। तेऽस्माभिर्भरतमतानुसारिभिरुपेक्षिताः ॥

नायकवर्णनः सप्तमोऽध्यायः समाप्तः ।

अष्टमोऽध्यायः । अथ प्रबन्धात्मकान्काव्यभेदानाह- काव्यं प्रेक्ष्यं श्रव्यं च। नानृषि: कविः 'कवृ वर्णे' इति च दर्शनाद्वर्णनाच्च कविस्तस्य कर्म काव्यम्। एवं च दर्शने सत्यपि वर्णनाया अन्तर्भावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते। तथा चाह भट्टतोत :- 'नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात्। विचित्रभावधमौशतत्त्वप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः। दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनिः । नोदिता कविता लोके यावज्जाता न वर्णना ॥' इति प्रेक्ष्यमभिनेयम्।

Page 345

< अध्याय:] काव्यानुशासनम् । ११७

प्रेक्ष्यं विभजते- प्रेक्ष्यं पाठ्यं गेयं च। तत्र पाठ्यं भिनत्ति- पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगोत्सष्टि- काङ्कमहसनभाणवीथीसट्टकादि । तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयस्वभावानि भरतमु- निनोपदर्शितानि। सट्टकश्च कैश्चिदयथा- 'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकम्। राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ।।

प्रख्यातेति। प्रख्यातमितिहासाख्यानादि वस्तु विषयो यस्य। तत्र हि लोकस्य क- थापरिचयादादरातिशयो भवति। यद्वा प्रकर्षेण ख्यातं वस्तु विष्टितं तथा विषयो मालवप- च्चालादिर्यस्मिन्। चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्वीव्यतिरिक्ते विषये कार्यान्तरो- पक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति। वस्तुविषययोः प्रख्यातिमुक्ला तृतीयां प्रख्यातिमाह-प्रख्यातोदान्तेति। उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतवीरोदात्ताश्चत्वारोSपि गृह्यन्ते। राजर्षिवंश्येत्यनेन प्रख्या- तमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देव- चरितं वरप्रभावादिवाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिपेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशसाधु चरितं यस्मिन्निति बहुत्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किंतु दिव्यानामाश्रयत्वेनो- पायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोSड्गीकरणं यत्र। तथाहि नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते। निरन्तरभक्तिभाविता- नामेवं नाम देवताः प्रसीदन्ति। तस्मादेवताराधनपुरःसरमुपायानुष्ठानं कार्यमिति ।। ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्मान्न व्याख्यायते। व्याख्या- येत यद्येवं लक्षणेन नाटकेन कश्चिदर्थो व्युत्पाद्येत। न चैतदेवं दिव्यानां दिव्यप्रभावैश्वर्य- योगाहुरुपपादेष्वर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते। तस्माच्चरितं मत्यैर्वि- धातुमशक्यमिति नवोपदेशयोग्यम्। तथा ह्युक्तम्-देवानां मानसी सिद्धिर्गहेपूपवनेपु च। क्रियायन्नाभिनिप्पन्नाः सर्वे भावा हि मानुषाः । तस्माद्देवकृतै्भीवैर्न विस्पर्धेत मानुप: ॥' इति। तम्मादिष्टानिष्टदैवमानुपकर्मोपपादितशुभाशुभफलभाजां मर्त्यानामेव समुपभोगविपत्प्रतिविधानमत्युत्पादकं चरितमाश्रित्य नाटकं निबन्धनीयमिति नृपतय एव नाटकेंपु युज्यन्ते। नायिका तु दिव्याप्यविरोधिनी। यथोवशी। नायकचरितेनैव तद्ट-

Page 346

३१८ काव्यमाला।

नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि। अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ।I' 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव। औत्पत्तिकं प्रकुरुते प्करणमिति तह्ुघैज्ञेयम्। यदनार्पमथाहार्य काव्यं प्रैकरोत्यभृतगुणयुक्तम्। उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥

त्तस्याक्षेपात्। प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-नानाविभूति- भिर्युतमिति। धर्मार्थकाममोक्षविभावैः फलभूतैर्विचित्ररूपैर्युक्तम्। तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादेः संपत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची। तत्प्रधानाभि: फलसंपत्तिभियुक्तमित्यर्थः । तेन राज्ञा सर्वे राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतमित्येवंप्रायं फलं नोपनिवद्धव्यम्। धर्ममोक्षबहुलमिति। दृष्टसुखार्थी हि बाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसी भवेत्। गुणैरिति। अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतागतान्यपनयप्रधानानि तैर्युक्तम्। तेषां पूर्वपक्षस्थानीयानां प्रतिक्षे- पेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहात् जनकोशादिसंपत्तिर्ऋद्धिः । कौमुदीमहोत्स- वादयो विलासाः । संधिविग्रहादयो गुणा इति चाणक्यपरिया(?)वेदनमात्रफलम्। वस्तुश- व्देन राजर्षिवंश्यचरितशव्देन च सर्वस्याप्यर्थस्य राशे: संग्रहात्। अवान्तरवस्तुसमाप्तौ विश्रान्ताय ये विच्छेदा अङ्कास्तैः पञ्चादैर्दशाधरैः ये च निमित्तवलादप्रत्यक्षदृष्टानां चेष्टि- तानामावेदकाः प्रवेशकास्तैश्राढ्यं तन्नाटकं नाम रूपकम् ॥ आत्मशक्तयेति । इतिहासा- दिप्रसिद्धिं निरस्यति। वस्त्विति। साध्यं फलम्। शरीरमिति। तदुपायम् । नायक- मिति। साधयितारम्। चकारः पूर्वसमुच्चये । द्वितीयस्त्समग्रसमुच्चये। एवकार: समु- च्चयाभावे। उत्पत्तौ भवमौत्पत्तिकं निर्मितम् । तदयमर्थः-त्रितयमपि यत्र विकृतं द्वयमेकं वा, अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणम्। भेदसप्तकमयम् । वस्त्ादिकं का- व्याभिधेयमात्मशत्तया प्रकुरुते यत्र काव्ये तत्प्रकरणमिति वुधैज्ञेयमिति संबन्धः ॥ यत्र सर्वमुत्पाद्यं भवति तत्र योऽनुत्पाद्योंडशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यद- नार्षमिति। पुराणादिव्यतिरिक्तवृहत्कथाद्युपनिबद्धं मूलदेवतच्चरितादि ॥ आहार्य- मिति। पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्ततच्चेष्टितादि ॥ ननु च तत्रांशे कविकृतत्वाभा- वात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्नेति। पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्वेतो- रेतदपि प्रकरणम्। तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते १. 'कुरुते प्रभूत' भरते.

Page 347

< अध्याय:] काव्यानुशासनम् । ३१९

यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च। तत्म्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्। चरितं यन्नैकविधं तज्ज्ञेयं प्रकरणं नाम।। नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम।। दासविटश्रेष्ठियुतं वेशरूयुपचारकारणोपेतम्। मन्दकुलस्त्रीचरितं काव्ये कार्य प्रकरणे तु।'

तदा प्रकरणम्। एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टिता दिवर्णनेSप्यधिकावापं विदध- त्कवि: प्रकरणं कुर्यादिति तात्पर्यम् । नन्वस्येतिवृत्तस्य कथं योजनेत्याशङ्कय पूर्वाक्तमे- वातिदेशद्वारेण स्मारयितुमाह-यन्नाटके इति। 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फलचयमुक्त तद्वस्तुशरीरमित्यङ्कप्रवेशकाद्यम् ॥ वृत्तिभेदाश्चेति। नाना- रसभावचेष्टितैर्वहुधा मुखदुःखोत्पत्तिकृतमिति॥सलक्षणमिति। लक्षणमङ्कपरिमाणम्। अङ्कान्तरसंनिधानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्य यद्यङ्केनोपपद्यत इत्यादि तत्सर्वे प्रकरणेऽपि योज्यम् । अतिदेशायातमतिप्रसङ्गं वारयत्यार्याद्वयेन-विप्रे- त्यादि। अमात्योऽधिकृतः । सार्थवाहो दिगन्तरात्पण्यानामाहर्ता। तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव। नैकविधमित्यनेकरसयुक्त इति। तदितिदेशमात्रमिति सूचितं प्रख्या- तोदात्तत्यतिप्रसक्तं निषेधति। तन्निषेधे चार्थान्नाटकवैपरीत्यमायातम्। नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत आह-न दिव्यचरित- मिति। तथा दिव्याश्रयमिति यदतिदेशाद्देवानामुपायत्वेन प्रयोज्यतं प्रसक्तम्, तदप्यनेन निपिद्धम्। नाटके देवानामिवेहापि राज्ञः प्रवेशं शङ्कमानो निराकरोति-न राजसंभोग इति। यदि वात्रौत्पत्तिकत्वेSपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शि- क्षयति। अत एव राजनि य उचितोऽन्तःपुरजनःकश्रुकिप्रभृतिस्तद्यतिरिक्तो वाह्यज- नोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः । एतदेव द्शयति-दासविटेति। कश्ु- किस्थाने दासः, विदृपकस्थाने विटः, अमात्यस्थाने श्रेष्टीत्यर्थः। वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्धः स कारणं यस्य शृङ्गारस्य तेनोपेतम्। कुलस्त्रीविषयं चेष्टि-

१. 'कार्य केवलमुत्पाद्यवस्तु स्यात्' भरतैकपुस्तके.

१. 'तदतिदेशमात्र' स्यात्. २. 'नोदात्तनायकेति' इति प्रतीकं त्रुटितं भवेत्.

Page 348

३२० काव्यमाला।

'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम्। अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी। बहुगीतनृत्यवाद्या रतिसंभोगात्मिका चैव।। राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता। नायकदेवीदूतीसपरिजना नाटिका ज्ैया॥' समवकारस्तु- 'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव। त्रयङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च' ॥ इति। तम्। प्रकरणेति। बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशङ्गारप्रायात् कैशिकीप्रधानाच्च प्रकरणभेदान्नाटकभेदाच्च नाटिका ज्ञेयेति दूरेण संबन्धः॥ उत्पादं वस्तुच- रितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां वाधिकृत्य प्राप्यत्वेनाभिसंधाय कर्तव्या च। तेन स्त्रीप्राप्तिः संभोगश्ङ्गारोऽभ्यन्तरः कैशिकी च वृत्तिः। तथावस्थासंध्यङ्गार्थ

प्रयोज्यानि। यदपि किंचित्साधारणं तदपि योज्यते। अतश्च 'उत्पादं वस्तु' इति प्रकरणधर्मः । 'नायकं नृपतिम्' इति नाटकधर्मः । 'अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्व नाटकधर्म एव। अथास्य विशेषलक्षणमाह-स्त्रीप्रा- येति। स्त्रियः प्रायेण वाहुल्येन यत्र। चत्वारोऽङ्का यस्याम्। कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत्। सुष्टु पूर्णतया विहितानि चत्वार्यपि कैशिक्यङ्गानि यत्र। एतेन स्त्रीप्रायेति ललितेति बहुतृत्येति च कैशिकीं वृत्ति वाहुल्येन दर्शयति। रतिपुरःसरः संभोगो राज्यप्राप्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम्। अत एवाह-राजगतैरुपचारैर्व्यवहारैरयुक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायि- कागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति-प्रसादनेति। आर्यानुरोधात्को- धस्य पश्चात्पाठः । ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्गयाह-नाय- केति। नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ॥ देवासुरेति। देवासुरस्य यद्वीजं फलसंपा- दनोपायस्तेन कृतो विरचितः । देवासुरा अपि वा प्रख्याता बृहत्कथादौ श्रूयन्ते स्यं वा केनचिदूह्यन्त इति तन्निरासार्थ प्रख्यातपदम्। यद्यपि देवाः पुरुषापेक्षया दूतास्तथापि स्वापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थन्रयस्य तावत्येव समापन्ना(?)र्यङ्क इत्युक्तम्। कपटो वच्चना

Page 349

< अध्याय:] काव्यानुशासनम् । ३२१

'दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ।।

संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव। स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुश्ृङ्गारः । ईहामृगस्तु कार्य: सुसमाहितकाव्यबन्धश्च ॥

मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा-यत्रानपराद् एव वच्चकेन वश्यते स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः । यत्र तु द्वयोरपि न कश्चिद- भिसंधिदोष: काकतालीयेन तुल्यफलाभिसंधानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स देवकृतस्तृतीयः । चेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु यतो विद्रवन्ति जनाः स विद्रव इति। तत्र चेतनं गजेन्द्रादि। अचेतनं जलवाद्यादि। उभयं नगरो- परोधादिति। तस्य युद्धाग्निदानादिसंपाद्यत्वात् । शङ्गारस्त्रिधा-धर्मार्थकामभेदात्। धर्मो यत्र हेतुः साध्यो वा नायिकालाभे स धर्मशङ्गारः । एवमर्थकामयोर्वाच्यम्। अथ नाय- कयोगं कार्यनिष्पत्तिकालविभागं चाह-द्वादशेति। द्वादशनायकबहुलमिति प्रत्येकमिति केचित्। अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति। चतुर आह-समुदायापे- क्षया हि द्वादशेति। बहुलग्रहणान्न्यूनाधिकत्वेऽप्यदोषः । अष्टादशेति। अष्टादशना- लिकमेव तत्र कार्ये निबन्धनीयमित्यर्थः ॥ दिव्येति। दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र। दिव्यानुप्रवेशात्समवकारवदसं- बद्धार्थता मा प्रसाङ्कीदित्याह-सुविहितेन संप्लिष्टेन वस्तुना निबद्धः विगतानि प्रत्यय- कारणानि विश्वासहेतवो यत्र। मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति। उद्धतेति। उद्धता उद्ृत्ताः पुरुषाः प्रायेण यत्र स्त्रीनिमित्तको रोषः। संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फोटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथे- त्युक्तसादृश्यार्थः । चः समुच्चये । एवशब्दोऽधारणे। एतल्लक्षणयुक्त एवेत्यर्थः । स्त्रीनि- मित्तं भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्यविषयाणि वा तैः प्राप्तं वस्तवधि- ष्टानं प्रमदालक्षणं यस्य तादृशः शद्गारो यस्मिन्। भेदसामदानादिना अवमर्दनं दण्डः । ईह्दा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र। सुसमाहितकाव्यवन्ध इत्यनेन वीथ्यङ्गानि अत्र योज्यानीति। अङ्कपरिमाणं नायकसंख्यं वृत्तिरसविभागं च व्यायोगातिदेशेनाह-

१. 'प्रहितो' भरते. २. 'श्रतुरङ्कविभूषितश्रैव' भरतैकपुस्तके.

१. 'दीति' स्यात्. ४१

Page 350

३२२ काव्यमाला।

यद्यायोगे कार्य ये पुरुषावृत्तयो रसाश्चैव। ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योग: ।।' 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव। षड्सलक्षणयुक्तश्रतुरक्को वै डिमः कार्यः ॥ श्रृङ्गारहास्यवर्जे शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसंपन्नः ।। निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्र विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्र । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसंपन्नः ।I'

यदिति। कार्यशब्देनाङ्क उच्यते। तेन एक एवाङ्कः। नायकास्तु द्वादश समवकाराति- देशेन व्यायोगे तल्लाभात्। अन्र तु समवकारातिदेशेन सर्वासंपत्तेगौरवं स्यात् ॥ प्रख्या- तेति। पड्सा यस्मिन् तल्लक्षणं षड्सं तेन युक्तः। नाटकतुल्यं सर्वमन्यत्केवलं सं- धीनां रसानां च समग्रतात्र शङ्गारहास्यवर्ज षड्सत्वे उक्ते पर्यायेण शान्तस्य प्रयोग: स्यादित्याह-दीप्तरसेति। दीप्ता रसा वीररौद्रादयस्ते काव्ययोनिर्यत्र। नानाविधा- भावा व्यभिचारिणः । आधर्षणं बलात्काररूपः पराभवः । माया शब्दरूपादीनाम- न्यथापादमसतां वा प्रकाशनम्। पुस्तं लेप्यं किलिञ्जचर्मवस्त्रकाष्टकृतानि रूपाणि। देवा- दयो बाहुल्येनात्र। बहुलग्रहणं व्यभिचारार्थम्। तेन न्यूनाधिका अपि नायकाः प्र- योज्याः । सात्वती चारभटी चेति 'द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो 'द्वन्द्ैन्ला- व्ययीभावौ' इति नपुंसकलिङ्गता च। वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः। तया संपन्नः । डिमो डिम्बो विद्रव इति पर्यायास्तदयोगादयं डिमः ॥ नानाश्रयभाव- संपन्न इति। नानेत्येकस्यान्योSपरस्यान्य इति नानारूप आश्रयो येषां ते नानाश्रया भावास्तैः संपन्नः । बहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्त-

१. 'नम्, असतां' स्यातू.

Page 351

< अध्याय:] काव्यानुशासनम् । ३२३

"वैयायामस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ।। बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न तु तत्प्रमाणयुक्त: कार्यस्त्वेकाङ्क एवायम्॥ न च दिव्यनायककृतः कार्यो राजर्पिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्र कर्तव्यः । एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ॥' 'वक्ष्याम्यतः परमहं लक्षणमुत्सष्टिकाङ्कस्य। प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात्। दिव्यपुरुषैवियुक्त: शेषैरन्यैर्भवेत्पुंभिः ।। करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च। वैचित्र्यमात्रोपदिशन्ति। व्यायोगस्त्विति। व्यायोगः पुर्नार्डमस्यैव शेषभूतो दिव्यना- यकाभावात् केवलमत्रोदात्तस्य राजादेन नायकता, अपि तमात्यसेनापतिप्रभृतेदीप्तरसस्य। अत एव प्रख्यातनायकेत्यत्र उदात्तग्रहणं न कृतम्। शरीरमितिवृत्तम्। प्रख्यातो नायकः शरीरं च यत्र स तथा। अल्पश्च स्त्रीजनश्च तेन युक्तः। चेट्यादिना न तु ना- यिकादूत्यादिभि: कौशिकीहीनलवात्। एकाहःकृत इति। एकदिवसनिर्वर्त्य यत्कार्य तत्कृतम् । यथा समवकार इति। द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामिति देशा- त्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह-एकाङ्क एवेति। एवकारेण एकाहचरितविषय- त्वान्यायप्राप्तमेवात्रैकाङ्कत्वमित्याह-ननु प्रख्यातनायकशव्देन किमत्र गृहीतमित्यतिप्र- सङ्गं शमयति-न चेति। चो भिन्नकमः । दिव्यैर्देवैर्नृपैरऋषिभिश्च नायकैन निबद्धोऽयं भवतीत्यर्थः ॥ ननु कस्मादयं व्यायोग इत्याह-युद्धनियुद्धेति। व्यायोगे युद्धनियुद्ध- प्राये युज्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा। दीप्तं काव्यमोजोगुणयुक्तम्, दीप्ता रसा वीररौद्राद्याः, तदुभयं योनि: का- रणमस्य। प्रख्यातेति। प्रख्याते भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वण्यते तत्ग्व्यातम्। श्रीपर्वव्रत्तान्तवद्भवतु मा वा भूदित्यप्रख्यातग्रहणेनोक्तम्। तेनोभयोपादानस्य परस्परविरुद्धार्थलादकिंचित्करववं नाशङ्गनीयम्। दिव्यपुरुपैर्वियुक्त इति। दुःखात्मकत्वात्। शेपैरन्यैरिति। अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते। तत्र कृतः । निवृत्तयुद्धा उद्धतप्रहाराः पुरुषा यस्मिन्। परिदेवितं १. 'व्यायोगस्तु' भरते विवेके च. १. सविसर्गपाठः ग्रामादिकः. २. 'मतिदेशा' स्यात्.

Page 352

३२४ काव्यमाला।

स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ।। नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनम्। कार्य: काव्यविधिज्ञैः सततं ह्युत्सष्टिकाङ्कस्तु ॥' 'प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वक्ष्यामि तयोर्युक्त्या पृथकपृथग्लक्षणविशेषम्।। भगवत्तापसविप्रैरन्यैरपि हासवादसंबद्धम्। कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अधिकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु। वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनियतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् ।।' 'आत्मानुभूतशंसी परसंशयवर्णनाप्रयुक्तश्र। विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ देवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र। निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते ता दृंशि भाषितानि यत्र। व्याकुलाश्रेष्टा भूमिनिपातविवर्तिताद्याः। सात्वत्यारभटिकैशिकीहीन- मिति। समाहारद्वन्दूगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः। उत्क्रमणोन्मुखा दृष्टिर्जीवितं प्राणा यासां ता उत्सष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्गित इति तथोक्तः॥ प्रहसनमपीति।अपि- शब्दो भिन्नक्रमः । तथेति । सामान्ये लक्षणम् । तदयमर्थः । द्विविधमपि प्रह- सनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः । अन्ये शाक्तादयस्तैरुपलक्षितं हास्यप्रधानवचनसंबद्धं शीला- दिना कुत्सितैः पुरुषैः अत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम्। तथापि च भाषाचारौ यत्र न विकृतावसत्याश्लीलरूपो तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन्। नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीय- लक्षणोऽर्थो यत्र तच्छुद्धं प्रहसनम्। अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र बाहुल्येन भवन्ति। तेन यत्रैकस्यैव कस्यचिच्चरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्ध- मित्यथः । यत्र तु वेश्यादिभिर्योगोSत्युल्बणं वा कल्पादि तदेकद्वारेणानेकवेश्यादिचारेतेन हसनीयेन संकीर्णत्वात्संकीर्णम्। आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाण: । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रि- यन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मा- १. 'सृष्टि' स्यात्.

Page 353

< अध्याय:] काव्यानुशासनम्। ३२१

परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च।। धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव। एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥' 'सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥' 'विष्कम्भकप्रवेशकरहितो वस्त्वेकभाषया भवति। अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' इति। आदिशब्दात्कोलाहलादिलक्षितास्तोटकादयो ग्राह्याः ।

नुभूतं वा शंसति परगतं वा वर्णयति। तत्र च प्रयोगयुक्तिमाह-परवचनमिति। परसंबन्धि वचनं स्वयमङ्गविकारैरभिनयेत्। (आहो)आकाशे यानि पुरुषकथितानि दृष्टानि यत्र ह्यन्ये तं पश्यन्त्येकश्च पश्यत्याकर्णयति च तत्र तदूचनं स एवानुवदन् सामाजिकान्बो- धयति। यथा रामाभ्युदये-'तापसः-(आकाशे ।) भावाद्वलेत्कावकाशे(?)रामभद्रस्ति- ष्ठति। किं ब्रवीषि। तेऽस्या एव पथिकजनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया ल- क्षमणेन च सह न्यग्रोधच्छायायां सुखोपविष्स्तिष्ठति।' इति।न केवलं परवचनमभिनयेत्। किं तु प्रतिवचनैः स्वोक्तैः सह। अत एवोत्तरोत्तरग्रथितैर्योजनाभिरुपलक्षितैः। ननु योऽसावेकोSत्र प्रविशति सक इत्याह-धूर्तेति। नानाप्रकारावस्थाविशेषा लोकोपयोगि- व्यवहारात्मका आत्मा वाच्यं यस्य। अत एव बहुचेष्टः सततं कार्य इति। सकलसामा- न्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति। बाहुल्येन पृथग्जनव्युत्पत्त्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभलावृत्तान्तो ज्ञेय एवावञ्चनार्थ- मिति स प्रयोज्य इत्यर्थः । सर्वरसेति। सवै रसैः शङ्गारादिभिर्लक्षणैश्च विभूषणादिभि: षटत्रिशता तत्साहच्याद्ुणालंकारादिभिरपि सर्वैराढ्या। तदुपरि चाङ्गैस्त्रयोदशभिर्युक्ता तथाशब्दादुक्तप्रकारव्यतिरिक्तवक्रोत्तयन्तरसहस्रसंकुलापीत्यर्थः । एकाङ्केति। इतिवृत्त- संक्षेपमस्यां दर्शयति-एकहार्येति। आकाशपुरुषभाषितैरित्यर्थः । द्विहार्येति। उक्ति- प्रत्युक्तिवैचित्र्येणेत्यर्थः॥ पुमर्थोपयोगश्रामीपां प्रदर्श्यते। तथा हि-नाटके धर्मकामाना- मन्यतमस्य गुणीभूतेतराथद्वयव्ृरत्तेराधनं राज्ञां वृत्तं नाट्ये साक्षादिव पश्यन्त उपादेयतया १. प्रमादपतितं भवेत्. २. 'तस्या' स्यात्. ३ 'धर्मार्थकामाना' स्यात्. ४. 'रारा- धनं' स्यात्.

Page 354

३२६ काव्यमाला।

प्रतिपद्यन्ते। तत्रापि धर्माराधने दानतपोयोगरूपमनुष्टानं यशस्करं दृष्टफलमामुष्मिकफलं च व्युत्पादते। अर्थाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभपालनसमेधनफलवि- नियोगपर्यन्ता कपटातिसंधानबहुला संधिविग्रहात्मिका राजवृत्तिर्व्युत्पाद्यते। कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृतशौचासु च स्वाधीनपतिकादिषु अष्टासु परस्परावलोकनादि, दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राजस्तासां च राजनि व्युत्पाद्यते। तथा राज्ञामभ्यन्तरोपभोगे महादेवी देवी स्वामिनी स्थापिता भोगिनी शिल्पकारिका नाटकीया नर्तकी अनुचारिकापचारिका प्रेषणकारिका महत्तरा प्रतीहारी कुमारी स्थविरा युक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथास्वं राजनिवृत्तिः। तथा स्थापत्यकश्चुकिवर्षवरोपस्थायिकनिर्मुण्डादीनामन्तर्भवनकक्षासंचारः। तथा युवराज- सेनापतिमन्त्रिसचिवप्राडिवाककुमाराधिकृतानां बाह्यसंचारिणां वृत्तम्। तथा विदूषकशका- रचेटादिवृत्तं व्युत्पाद्यते। नायकप्रतिपक्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते । प्रकरणे तु सचिवसार्थवाहादीनां पूर्ववत्स्वाचिता त्रिवर्गप्राप्तिस्त- दर्जनस्थैर्यधैर्यादि, व्यापत्समूढता, कुलस्त्रियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो वैशिष्टनायकलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देश- कालौ नायिकाया रागापरागलिङ्गानि नायकयोरपरागकारणानि नायका हृदयग्रहणमप्रयोगः । उत्तममध्यमाधमनायिकालक्षणयैव न लाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेद- दण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते॥ नाटिकायां तु विला- सपराणां राज्ञां धर्मार्थाविरोधिरतिफलं वृत्तं नाटक इव व्युत्पाद्यते॥ समवकारे च देवासुर- निमित्तो युद्धादिसंभवो विद्रवस्तथा कपटः संक्षिप्तश्र शृङ्गारो हास्यादि सर्वमेव लौकिकी- भिरुपपत्तिभिहीनं दिव्यप्रभावसाध्यं व्युत्पाद्यते। पूर्वापरानुसंधानशून्यधियां प्रहसनकपट- विद्रवादिरुचीनां पुस्तावप्लुतलङ्गनच्छेद्यमायेन्द्रजालचित्रयुद्धादि बहुलयारभट्या परितोष उत्पाद्यते। तथा चाह-'शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च। वाला मूर्खाः स्त्रियश्रैव हास्यशोकभयादिषु ॥' तुष्यन्तीति गम्यते। इष्टं देवता कर्मप्रभावानुकीर्तनाच्च तद्भक्तानां प्रीतिः। यात्राजागरादिषु च प्रेक्षाप्रवर्तनं च।। ईहामृगडिमयोरप्येवमेव।। व्यायोगे तु मन्त्रिसेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धाघर्षणसंघर्षबहुलं व्युत्पाद्यते॥ उत्सृष्टिकाङ्के चोत्त- मानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरिदेवितबहुलं वृत्तं प्रेक्षकाणां चित्तस्थेयं विधातुं व्युत्पाद्यते। एवंविधव्यसनपतितानां चित्तस्थैर्यात्पुनरुत्पत्तिर्द्श्यते इति तत्प्रयोगदर्शनात्प्र- तिपद्यमाना व्यसनेSपि न विषीदन्ति॥ प्रहसने तु स्त्रीबालमूर्खाणां हास्यप्रयोगदर्शनेन नाट्ये प्ररोचना क्रियते। ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते। प्रसङ्गतश्र भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृत्तं शुद्धं तथा वेश्याचेटनपुंसक- विटधूर्तवण्टकीप्रभृतीनां प्रवर्तकाख्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्तादम्भधूर्तविवा- दबहुलं त्याज्यतया व्युत्पाद्यते॥ भाणे च धूर्तविटवेश्याशंभलीनां परस्य वञ्चनपरं प्रेक्ष-

१ 'खोचिता' स्यात्.

Page 355

< अध्याय:] काव्यानुशासनम्। २२७

गेयं विभजते-

करासकगोष्ठीश्रीगदितरागकाव्यादि। पदार्थाभिनयनस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनै- रुक्तानि। तद्यथा- 'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः। आचर्यते मनः सा तु मसृणा डोम्बिका मता ॥' 'नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाण: स्यादुद्धताङ्ग: प्रवर्तितः ॥' 'गजादीनां गति तुल्यां कृत्वा प्रवसनं तथा। अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ।I' 'सख्याः समक्षं पत्युर्यदुद्धृतं वृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः ॥' 'वाला क्रीडानियुद्धादि तथा शूकरसिंहजा। धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥'

काणामवञ्चनीयत्वमववोधादापादयितुं वर्ण्यते॥ वीथ्यां तु बहुविधा वकोक्तिविशेषा व्युत्पा- दन्ते। सट्टके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते। एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम्। तच्छरीरभूतसंधिसंध्यङ्गाधिलक्षणं विस्तरतस्तु भरतादेवावसेयः ॥ मसृणेति। त्रिविधो हि गेयकाव्यस्य प्रयोगः । मसृण उद्धतो मिश्रश्र। तथा हि- डोम्विकामु नरपतिचाटुकप्राधान्येन प्रपत्तामु मुकुमारमेव शुद्धं रूपम् ।। भाणकेषु नृसिं- हादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेSप्युद्धतं प्रविशति तदुचितमेव। तत्राप्यल्पत्व- बहुत्वकृतो भेदः । पूर्वप्रस्थानप्रवन्धः । उत्तरः शिङ्गटकभेदः । उद्धते तु मसृणानुप्रवेशो-

प्रविष्टं वेदितव्यम् ॥ ननु डोम्बिकाशिङ्गटकादौ अन्योन्यानुचितत्वं वाक्यानां ततश्रानन्वये क्थ रक्जकत्वमिति चेत्, न। देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शङ्गारस्य सर्वत्रानु- गमात्। तथा चाह-'देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम्।' इति। तत एव चूडामणि-

१ 'संव्यज्गादिलक्षणविस्तरस्तु' स्यात्.

Page 356

३२८ काव्यमाला।

'हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम्।' 'ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ।' 'मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम्। एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥' 'अनेकनर्तकीयोज्यं चित्रताललयान्वितम्। आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ।।' 'गोष्ठे यत्र विहरतश्चेटितमिह कैटभद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥'

डोम्बिकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात्। यद्वामाभिनिवेशिलमित्यनेन मन्मथसारत्वेनाभिधानात्। सिंहशूकरधवलादिवर्णनेनापि भाणकप्रेरणभाणिकादावप्रस्तुत- प्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात्। अथ पाठ्यस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते-पाट्ये हि अर्ङ्ग गीतं चेत्युभयमप्रतिष्ठितम्। तथा हि करकरणचारी मण्डलादि यत्तत्राङ्गोपयोगि तत्स्वरूपेण लयादिव्यवस्थया चानि- यतमेव यथारसं प्रयुज्यमानलेन विपर्यासात्। गेये तु गीतमङ्ग च द्वयमपि सवप्रतिष्ठम्। तथा हि-यस्य यादृशं लक्षयति स्वरूपादिकं निरूपितं तन्न विपर्ययेति मन्त्रादिवत्। यद्यपि क्वचिद्वर्णाङ्गप्राधान्यं यथा प्रस्थानादौ, क्वचिद्वाद्यप्राधान्यं यथा भाणकादिषु भग्नतालपरि- कमणादौ, क्वचिद्रीयमानरूपकाभिधेयप्राधान्यं यथा शिङ्गटकादौ, क्वचिननत्यप्राधान्यं यथा डाम्बिलिकादिप्रयोगानन्तरं हुड्डत्कारादयवसरे। अत एव तत्र लोकभाषया वल्लिमार्ग इति प्रसिद्धिः। तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् ॥ रागकाव्येषु च गीतेनैव निर्वाहः । तथा हि-राघवविजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव नि- र्वाहः, मारीचवधस्य तु ककुभग्रामरागेणैवेति ॥ किं च पाठ्ये साक्षात्कारकल्पानुव्यव- सायसंपत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलंकारादेश्वाभिधानं दृश्यते। गीयमानं च नाभिधीयते असंगत्यापत्तेरपि तु यादृशा लयतालादिना याद्ृगर्थसूचन- योग्योऽभिनयः सात्विकादिः प्रभानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रवागीतेन क्रियते। गेये च स्तदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रतीतिः साध्या। डोम्बिकादेन नटस्येवालौकिकरूपप्रादुर्भावनया। तथा हि-डोम्बि- कादौ च वर्णच्छटा वर्णादिप्रयोगे तावदभिनयकथैव नास्ति किं तत्र विचार्यते केवलवृत्त- स्वभावं हि तत्। तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे 'पाआलअलोससाहि- णिहु जय जय लच्छिवच्छमतिआ' इत्यादि यद्रीयते तत्कस्योक्तिरूपम्। यदि तावन्नर्ति- १. 'विपर्येति' स्यात्. २. 'प्रधान' स्यात्. ३. 'सूदादे' स्यात्. ४. 'नदस्येवा' स्यात्.

Page 357

< अध्याय:] काव्यानुशासनम्। ३२९

'यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान्। उपालम्भं च कुरुते यत्र श्रीगदितं तु तत् ।।' 'लयान्तरप्रयोगेण रागैश्वापि विवेचितम्। नानारसं सुनिर्वाद्यकथं काव्यमिति स्मृतम् ।।' आदिग्रहणात् शम्याच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरत- कोलाहलादिशास्त्रेम्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह- श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च।

तुमागताया लौकिक्या डोम्बिकाप्रभृतेनर्तक्यास्तदा सैवेदानीमेवंभूतं वमुरूपं लौकिकं वचनमभिधत्ते। गायनादिसंक्रमितस्ववास्तव्यतयेति कः साक्षात्कारकल्पत्वाध्यवसायगोचरी- कार्यत्वे च पाठ्यस्य प्रधानोंऽशः । तेन यथा लोके कश्चित्कंचिदन्योपदेशगानादिक्रमेण वस्तूद्वोधनकरणद्वारेण वा छन्दोनुप्रवेशितया वाक्यस्य चिन्मनस्यावर्जनातिशयं विधत्ते नृत्यन्नपि गायन्नपि। तद्ूदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् ॥ 'हठे वि डोम्बी' इत्यादावपि वचसि सैव। डोम्विका नयपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वाद्येन नृत्येन च राजानमनुरञ्जयितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदीदृशी चौर्यकामुकके- लिलालसमानसा, काचित्पुनरेवंविधा, कश्षिदेवंभूतश्चौर्यकामुकः, कोऽप्येवंभूतस्तत्र काचि- देवं प्रौढदूतीत्येवमादिराजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादनेन धनाद्यर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समुद्दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्विकाकृत्य- मेवोपसंहरति। गुणमालायां 'जामि तारा अनुडिअपुणुणम्बीसमि' इत्यादौ। तत्र तु सा नृत्यन्ती डोम्बिका बहुतरोपरञ्जकगीतादिपटुपेटकपरिव्टृता लां प्रत्येवमहमुपश्लोकितवतीति तन्मव्यवर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैव रूपेण तद्रीयमानरूपकगतलयताल- साम्येन तावनृत्यति। तद्रीयमानपदार्थस्य च सातिशयमावर्जनीये राजादौ हृदयानुप्रवे- शितां दर्शयितुं लौकिकव्यवहारगतहस्तस्तू(?) कर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयै- वाङ्गविकारादिसंभवमप्याक्षिपति। एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाइव्यापारं प्रदर्श्य नृत्येन पुनश्चित्तग्रहणं कुर्वती नृत्यं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्रीयमानाङ्गभावाक्षिप्ततत्समुचितभावमेवाङ्गवि- क्षेपं करोति लयपरिष्वत्कणादौ। तत्रेयत्यंशे लौकिकमात्रस्वभाव एव रामनटादिव्यवहार- वत्काप्रयोज्यप्रयोजकभावादङ्का। तदनन्तरं च यथैव सा गीतनृत्यादि प्रायुङ्क तथैव तत्स- दयां नर्तकी प्रयुक्के। न तु डोम्बिकां साक्षात्कारकल्पेन दर्शयति तदीया हार्यादिना स्वात्म-

१. 'वा कस्यचि' स्यात.

Page 358

२३० काव्यमाला।

एतानि क्रमेण लक्षयति- पद्यं प्रायः संस्कृतपाकृतापभ्रंशग्राम्यभाषानिवद्धभिन्नान्त्यवृत्त- सर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधि शब्दार्थवैचित्र्योपेतं महाका- व्यम्। छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानियद्धैभिन्नान्त्यवृत्तै्यथासंख्यं सर्गादिभिनिर्मितं सुश्रिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थ- वैचित्र्योपेतं महाकाव्यम्। मुखादयः संधयो भरतोक्ता इमे- 'यत्र वीजसमुत्पत्तिर्नानार्थरससंभवा। काव्ये शरीरानुगता तन्मुखं परिचक्षते ।।'

रूपप्रच्छादनाद्यभावात्। तत एव न डोम्बिकां साक्षात्कारकल्पेन सा दर्शयति, अपि तु तदैव नृत्यं साभिनयं केवलं च प्रदर्शयतीति सा लौकिकरूपान्तरप्रादुर्भावेनेति। व्युत्पत्त्यभि- संधान च गेये नास्ति। पाठ्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मूलतः प्रृत्ते- रित्यलं बहुना अप्रस्तुतप्रपश्चेनेति ॥ भिन्नान्त्यवृत्तैरिति। उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-'अथ स ललितयो- षिद्रूलता चारुश्ङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे। सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमख्मुपतस्थे प्राञ्जलि: पुष्पधन्वा II' यथा वा हरिप्रबोधे आर्यागीतिच्छन्दोबद्धाश्वास- कान्ते पुष्पिताग्रा-भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम्। गततमसतया विभावरीणां सघनमहः समतां विभावरीणाम् ॥' संधिवन्धेपु च नाराचतो- टकादीनि विचित्राणि छन्दांसि दृश्यन्ते ॥ यत्र वीजेति। वीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानाथीः संभवन्तीति संभवः । नानार्थरसाः संभवो यस्याः सा तथा। काव्ये नाटकादौ। तत्र च संधीनां युक्ततयावभा- सात्। अत एव तत्रैवोदाहरिष्यते-शरीरानुगता इति। वृत्तानुगता इति वृत्तव्या- पिनी। तन्मुखम्। यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेव: कुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे-'निर्वाणवैर- दहना प्रशमादरीणाम्' इति। अत्र प्रशमोऽवसानमुदयनिरोधात्। यथा शान्तो वायुः शान्तोSगनिरवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावान्निर्वाणवैरान्रयः पाण्डुत- नया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु समृत्या रुधिरप्रसाधितभुवः क्षतशरीराः स्वर्गस्था भवन्त्वति शत्रुक्षयपूर्वस्थस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्ना- १. 'संधिविधेषु' ख. २. 'शरीरानुगता' स्यातू

Page 359

< अध्याय:] काव्यानुशासनम्। २११

'बीजस्योद्धाटनं यत्र टष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥' 'उद्धेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ।।'

दुत्पन्नम्। नानारससंभवा चास्योत्पत्तिः। नाटकानेकत्वेन पात्रानेकत्वविवक्षया नानार्थता रसानाम्। तथा हि-अत्र, 'एष कुरुसंधानममृष्यमाणः पृथुललाटतटघटितभीषण- भ्रुकुटिरापिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते' इति पारिपार्श्वकवचनात्सूचितक्रोधस्थायिभावानुभावः 'लाक्षागृहानलविषान्नसभाप्रवेशैः-' इ- त्यादिस्ववचन प्रकाशितस्वविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयोजनो बीजेन प्रकाशि- तत्वाद्वीजोत्पत्तेरेव संभवन्निबद्धः । कुरूणां च कुलक्षयनिमित्तकः करुणः पाण्डवसिद्धि- प्रयोजनो वीजोत्पत्तेरेव संभवन्निवद्धः । यथा दुर्योधनः शोचत्राह-'अद्यैवावां रणमुप- गतौ तातमम्बां च द्ृष्ट्रा घ्रातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च। तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्व पित्रोरपगतघृणः किंनु वक्ष्यामि गत्वा ।I' तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम्। दुर्योधनस्येव च दौरात्म्यभू- यिछं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्तेर्नानार्थता पात्रानेकत्वाश्रया रसानाम्। नाटकानेकत्वाद्यथा सागरिकाप्राप्यर्थो वत्सराजस्य शङ्गारः वीजसमुत्पत्तिरिति। बीजं समुत्पन्नमुक्तैर्विशेषणैर्विशिष्टमिष्यते। तथा हि वीजमेव काव्यशरीरव्यापि यतो मुखसंधौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्वाटनं गर्भे चोद्धेदस्तस्य अवमर्शे च गर्भनिर्भेदः । निर्वहणे च समानयनमिति काव्यशरीरव्यापिता॥ बीजस्योद्वाटनमिति। अयमर्थ :- दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात्-' इत्यादिना न्यस्तं भूमाविव बीजम् अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव, नहि तन्नष्टमेव । सागरिकाचेष्टितस्य हि वीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननश- त्युद्वोधकम्। तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्यते। एवं कुङ्गुमबीजस्य यदुद्वाटनं तत्कल्पं यत्रोद्वाटनं सर्वत्रैव कथाभागसमूहे स प्रतिमुखम्। प्रतिराभिमुख्ये । मुखस्याभिमु- र्येन यतोSन्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता। तथा हि रत्नावल्याम्-परपेसण- करिसिदं पि सरीरमेदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्' इत्यादिसागरिको क्तेरनन्तरं सु- संगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसंधिरुद्धाटित्वाद्वीजार्थस्य ।। उद्भेदस्तस्थेति। प्राप्तिरप्राप्तिरन्वेपणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिः युक्तो गर्भसंधिः । ग्राप्तिसंभवाग्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात्। तथा हि रत्ना-

५. 'परग्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद् मे बहुमदं संपन्नम्' इति च्छाया,

Page 360

३३२ काव्यमाला

वल्यां द्वितीयाक्के सुसंगता-'सेहि, अदक्खिण्णासि तुवम्। दाणीं जा एवं भट्टिणा हत्थेण गहिदा वि कोवं न मुश्चेसि' इति प्राप्तरूप उद्भेदः। ततोऽत्र 'सागरिका-(सभ्रूभङ्गम् ।) मुसंगदे, इआणिं पि न विरमसि' इति कुमारीभावसमुचितकृतकोपेनापि परिपूर्णरतिप्रका- शनादन्वेषणम्। ततो 'भो, एसा खु अवरा देवी वासवदत्ता' इति विदूपकोक्ते राजनि सचकितं सागरिकां मुश्चति सागरिकासुसंगतयोश्र निष्क्माद्वासवदत्ताप्रवेशाच्चारभ्य तृती- याक्के प्रवेशके 'साहु रे वसन्तय, साहु। अदिसइदो ते अमच्चजोअन्धराअणो इमाए संधिविग्रहचिन्ताए' इति काञ्चनमालयोक्तं यावदप्राप्तिस्ततोSस्याः 'अज् क्खु मए राअउ- लाओ पडिणीव्वत्तन्तीए चित्तसालिआदुआरे वसन्तअस्स सुसंगदाए सह आलावो सुदो' इत आरभ्य 'हिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्द्प्ट्ालापं कवयति कथामा- त्मविषयाम्। सखीषु स्मेरस्ते प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातङ्क- विधुरम् ॥ तद्वार्तान्वेषणाय गतश्चिरयति वसन्तकः' इति वत्सराजोक्तिं यावदन्वेषणम्। ततश्च "ही ही। कोसम्बीरज्जलम्भेणावि ण तादिसो पिअवअस्सस्स परिदोसो आसि, जादिसो मम सआसादो पियवयणं मुणिअ भविस्सदि।' इत्यादिविदूषकोक्त्तेन प्राप्तिरसो- ऽस्यां समागमसंकेतस्थानप्राप्तिं यावदन्वेषणम्। ततः 'प्रिये, पश्य पश्य। उदयोवींभृत एष त्वद्ूदनापहृतकान्तिसर्वखः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥' इति राजो- क्तिपर्यन्तं परिपूर्णा प्राप्तिः। ततः 'दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे' इति वास- वदत्तामुखोद्वाटनादनन्तरम् 'राजा-क्थ देवी वासवदत्ता। वयस्य, किमेतत्। विदूपक :- अह्माणं जीविदसंसओ' इत्यादिना अप्राप्तिः । अस्यां च 'दिट्ठिआ इमिणा विरइदभट्विणी- वेसेण केण वि इमादो चित्तसालादो णिक्कमन्ती ण लक्खिदहि' इति सागरिकोत्तया अन्वेष- णम्। ततश्च सागरिकाया लतापाशे कृते 'कहं एसा देवी वासवदत्ता उव्बन्धिय अप्पा- णअं वावादेदि' इति विदूषकोक्त राजनि च समुपेत्य कण्ठपाशमपनयति, सागरिकया 'अज्ज-

१. 'सखि्र, अदक्षिणासि त्वम्। इदानीं या एवं भत्र्या हस्तेन गृहीतापि कोपं न मुञ्चसि' इति च्छाया. २. 'सुसंगते, इदानीमपि न विरमसि' इति च्छाया. ३. 'भोः, एषा खलु अपरा देवी वासवदत्ता' इति च्छाया. ४. 'साधु रे वसन्तक, साधु । अतिशयितस्त्वयामात्ययौगन्धरायणोSनया संधिविग्रहचिन्तया' इति च्छाया. ५. 'अद्य खलु मया राजकुलात्प्रतिनिवर्तमानया चित्रशालिकाद्वारे वसन्तकस्य मुसंगतया सह आलाप: श्रुतः' इति च्छाया. ६. 'स्याधो नयति' कलिकातामुद्रितपुस्तके. ७. 'मधिकम्' कलिकाता- मुद्रितपुस्तके. ८. 'आश्चर्यम्। कौशाम्बीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोप आसीत्, यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति' इति चछाया. ९. 'अस्माकं जीवित- संशयः' इति च्छाया. १०. 'दिष््या अनेन विरचितभत्रिवेषेन केनापि अस्याश्चित्रशालि- काया निष्क्ामन्ती न लक्षितास्मि' इति च्छाया. ११. 'कथमेषा देवी वासवदत्ता उद्ध- 'व्यात्मानं व्यापादयति' इति च्छाया. १२. 'आर्यपुत्र, मुञ्च मुञ्च। पराधीनः खल्वयं जन: न पुनर्मर्तुमीद्ृशमवसरं प्राप्तोति' इति च्छाया.

Page 361

< अध्याय:] काव्यानुशासनम् । ३३३

'गर्भनिर्मिन्नबीजार्थों विलोभनकृतोऽपि वा। करोधव्यसनजो वापि स विमर्शः प्रकीर्तितः ।' 'समानयनमर्थानां मुखाद्यानां सबीजिनाम्। नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ।।' इति। उत्त, मुञ्च मुञ्च। पराहीणो क्खु अअं जणो ण पुण मरिदुं ईदिसं अवसरं पा- वेदि। (पुनः कण्ठे पाशं दातुमिच्छति ।) राजा-(निर्वर्ण्य सहर्षम् ।) कथ प्रिया मे सागरिका। अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम्। चलितमपि निरोड्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥' इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्यंशश्रात्रावश्यंभावी। अन्यथा हि संभावनात्मा प्राप्ति- संभव: कथं निश्चय एव हि स्यात्। विमर्शे त्वप्राप्तेरेव प्रधानाप्राप्यंशस्य च न्यूनतेति विशेषः । गर्भनिर्भिन्नेति। बीजशब्देन बीजफलम्। अर्थशब्देन निवृत्तिरुच्यते। तेन गर्भान्निभिन्नं प्रदर्शितमुखं वहिर्निःसरणोन्मुखं यद्वीजफलं तस्या योऽर्थो निवृत्तिः पुनस्त- त्रैव प्रवेश इव यत्र स विमर्शसंधिः । स इति। तच्छव्देन यत्रेत्याक्षिप्तम्। सा च निवृत्तिः क्रोधेन वा निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा। अपिशब्दाद्विन्ननि- मित्तान्तराणां प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽक्के क्ोधोवेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम्। तथा हि तत्र चतुर्थेऽक्के प्रवेशकः सागरिकाप्राप्तिसंदेहेन करुणरसात्मकः। अत्रैव सागरिकाप्राप्तिसंदेहं मन्यमान आह-'राजा-अम्भोजगर्भसुकुमारतनुस्तदासा कण्ठग्रहे प्रथमरागघने विलीय। सदः पतन्मदनमार्गणरन्ध्रमागमन्ये मम प्रियतमा हृदयं प्रविष्टा ।। योऽपि मे विश्वा- सस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याग्रतो वाष्पमोक्षं करिष्ये।' पुनरत्रैव 'अप्पिअं दे ण पारेमि आचक्खिदुम्' इति विदूषकोक्ते 'राजा-(समाश्वस्य।) प्राणाः परित्य- जत मां ननु सत्पथोऽयं हे दक्षिणा भवत मद्ूचनं कुरुध्वम्। शीघ्रं न यात यदि तन्मु- पिताः स्थ मूढा याता मुदूरमधुना गजगामिनी सा ।' इति राजः सागरिकाप्राप्तिनैराश्य- रूपैव "भो, मा अण्णहा संभावेहि। सा खु देवीए उज्जेणिं पेसिदा। अदो मए अप्पिअं ति भणिदम्' इति विदूपकोत्त्या संदेहमानीता। तथा हि। तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह-'अहह। कण्ठाश्लेपं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ।।' इतीन्द्रजालप्रयोग यावद्विन्ने वासवदत्ताक्रोधो निमित्तम्। एवं लो- भादाबुदाहार्यम्॥ समानयनमर्थानामिति। मुखाद्यानां चतुर्णा संधीनां येऽर्थाः प्रार- १. 'विकल्पन' भरतैकपुस्तके. १. 'क्रोधावेशेन' स्यान्. २. 'अप्रियं ते न पारयामि आख्यातुम्' इति च्छाया. 3. 'रे' कलिकातामुद्रितपुस्तके. ४. 'भोः, मान्यथा संभावय। सा खलु देव्योज्जयिनीं प्रेपिता। अतो मयाप्रियमिति भणितम्' इति च्छाया.

Page 362

३३४ काव्यमाला।

शब्दवैचित्र्यं यथा-असंक्षिप्ग्रन्थत्वम्, अविषमबन्धत्वम्, अनति- विस्तीर्णपरस्परनिवद्धसर्गादित्वम्, आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वम्,

म्भयत्नप्रत्याशानियताप्तिलक्षणास्तेपां सह वीजिभिवांजविकारैः क्रमेणावस्थाचतुष्टये भव- द्विरित्युद्धाटनोद्वेदलक्षणैर्वर्तमानाना ा्ा नानावि ै : सुखदुःखा्मके रतिहासशोकक्रो वादिभि- भीवैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयन्ति यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निवर्हणं फलयोगोऽवस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिभावबाहुल्यं धृतिहर्षगवौत्सुक्यमदादिव्यभिचा- रिभाववाहुल्यं च प्रारम्भादीनाम्, दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभाव- बाहुल्यम्। आलस्यौग्यव्यभिचारिभाववाहुल्यं च द्रष्टव्यम्। रत्नावल्यामैन्द्रजालिकप्रवेशा- त्प्रभृत्यासमाप्तेरेषामवस्थासंध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम्। न त्वेकमुखेनैवेति। असंक्षिप्तग्रन्थत्वमिति। अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति। अविषमबन्धत्वमिति। अनेन शव्दसंदर्भ- वेदिनां मनो मुदमादधाति।अनतिविस्तीर्णपरस्परनिबद्धसर्गादित्वमिति।अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति। सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति। आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वमिति। तत्र आशीर्यथा हरविलासे-'ओमित्येकाक्षरं ब्रह्म श्रुतीनां मुखमक्षरम्। प्रसीदतु सतां स्वान्ते- ष्वेकं त्रिपुरुषीमयम् ।I' नमस्कारो यथा रघुवंशे-'वागर्थाविव-इत्यादि। वस्तुनिर्देशो यथा हयग्रीववधे-'आसीद्दैत्यो हयग्रीवः' इत्यादि। वक्तव्यार्थेत्यादि । वक्तव्यार्थ- प्रतिज्ञानं यथा सेतुवन्धे-"तं तिअसवन्दिमोक्खं समत्तलोअस्स हिअअसल्लुद्धरणम्। सुणह अणुराहइण्हं सीयादुक्खक्खयं दसमुहस्स वहम् ।' प्रयोजनोपन्यासो यथा-'परिवद्ृइ विन्नाणं संभाविज्इ जसो विटप्पन्ति गुणा। अव्वइसुपरिसुचरिअं कितं जेण हरन्ति कव्वा- लावा ।।' कविप्रशंसा यथा रावणविनये-'संयलं चेव निवन्धं दोहिं पएहिं कलुसं पसण्ण- न्तविअं। जाणन्ति कईण कई सुद्ध सहोवेहिं लोअणेहिं व हिअअम् ।' सुजनदुर्जनस्वरूपं

१. 'तं त्रिदशवन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम्। शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम् । [इति च्छाया] २. 1 ॥।' [इति च्छाया ]

।।' [इति च्छाया ]

Page 363

< अध्याय:] काव्यानुशासनम्। ३३१

वाक्यत्वम्, दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायखवनामेष्टनाममङ्गलाङ्कितस- माप्तित्वम्, इति । अर्थवैचित्यं यथा-चतुर्वर्गफलोपायत्वम्, चतुरोदात्तनायकत्वम्, रसभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्रसंविधानकत्वम्, नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमयचन्द्रोदया- दिवर्णनम्, नायकनायिकाकुमारवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसंग्रामा-

यथा हरविलासे-'इतस्ततो भषन्भूरि न पतेत्पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥' दुष्करचित्रादिसर्गत्वमिति। आदिग्रहणेन यमकश्लेषादयो गृह्यन्ते। ते च किरातार्जुनीयादौ दृश्यन्त एव॥ स्वाभिप्रायेत्यादि। तेध्वभिप्रायाङ्कता यथा-धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति। सवनामाङ्कता यथा-राजशेख- रस्य हरविलासे। इष्टनामाङ्कता यथा-लक्ष्म्यङ्कता किराते भारवेः, श्र्यङ्कता शिशुपालवधे माघस्य। मङ्गलाङ्कता यथा-अभ्युदयः कृष्णचरिते, जय ऊषाहरणे, आनन्दः पञ्चशि- खशू द्रककथायाम् इति। चतुर्वर्गफलोपायत्वमिति। अनेन चत्वारो वर्गा धर्मार्थका- ममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्यं ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे। चतुरोदात्तनायकत्वमिति। अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थका- ममोक्षेपु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति। रसभावनिरन्तरत्व- मिति। अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्रसेभ्यो भावाभावेभ्यो रसा रसेभ्यश्च रसा इति नैरैन्त- यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति। विधिनिषेध- व्युत्पादकत्वमिति। अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोपवतश्रोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोपवतेति व्युत्पादयति। सुसूत्रसंविधानकत्वमिति।अनेन प्रोक्तलक्षणा: पदार्थास्तथा निवन्धनीया यथा प्रवन्धस्य शोभायै भवन्तीति कवीन् शिक्ष- यति। नगराश्रमेत्यादिना देशप्रशंसामुपदिशति। नगरवर्णन यथा हरिविजय-रावणविज- य-शिशुपालवध-कुमारसंभवादौ। आश्रमवर्णनं यथा रघुवंश-किरातार्जुनीयादौ। शैलवर्णनं किरातार्जुनीयादौ। सैन्यावासवर्णनं माघे। अर्णववर्णन सेतुवन्धादौ। ऋत्वित्यादिना काला- वस्थापवर्णनं लक्षयति । तत्र ऋतुवर्णने शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजय- रघुवंश-हरिवंशादी। रात्रिवर्णन किरातार्जुनीय-कुमारसंभव-शिशुपालवध-ह्यग्रीववधादौ। दिवसवर्णनं प्रभातपूर्वाह्लमध्याहापराह्वर्णनानि शिशुपालवध-किरातार्जुनीयादौ। अर्का- स्तसमयवर्णनं कुमारसंभव-हरिविजय-रावणविजय-सेतुबन्धादौ। चन्द्रोदयवर्णनं कुमारसंभव- किरातार्जुनीय-शिशुपालवध-सेतुवन्धादाविति। नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति। तत्र नायकवर्णनं हरिविजय-रावणविजय-जानकीहरण-रघुवंशादौ। नायिकावर्णन

Page 364

३३६ काव्यमाला।

भ्युदयादिवर्णनम्, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णन- म्, इति। उभयवैचित्यं यथा-रसानुरूपसंदर्भत्वम्, अर्थानुरूपच्छन्दस्त्वम्, कुवलयाश्वचरित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ। कुमारवर्णनं रघुवंशादौ। वाहनवर्णने हस्त्यश्वगरुत्मत्पुष्पकावर्णनानि हरिविजय-रावणविजयादौ। मन्त्रेत्यादिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेSपि भूयसार्थोपदेशकृन्महाकाव्यं भवतीत्यभिधत्ते। तत्र मन्र्र: पश्चाङ्गः प्रतिपादितः। सयथा-किरातार्जुनीय-शिशुपालवध-भट्विकाव्य-ह्यग्रीव- वधादौ। दूतस्त्रिधा-निसृष्टार्थः, परिमितार्थः, शासनहरश्र। निसृष्टार्थो यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वा सात्यकिः। परिमितार्थो यथा-रामायणेऽङ्गदः। शासनहरो यथा- कादम्वर्यो केयूरक इति। प्रयाण त्रिधा-खशत्त्यपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र स्वशत्त्यपचये यथा-रघुवंशे। परव्यसने यथा-जरासंधव्यसनिनः शिशुपालस्योच्छे- दाय वासुदेवस्य शिशुपालवधे। अभिमतार्थसिद्धये यथा-विष्णोः पारिजातहरणाय हरिविज- जये, यथा वा-दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीये इति। संग्रामस्त्रिधा-समः, विषमः, समविषम इति। तत्र समः-दन्द्वयुद्धे चतुरङ्गयुद्धे च। द्वन्द्वयुद्धं यथा-रामरावणयोः। चतुरङ्गयुद्धं कुरुपाण्डवानाम्। विषमो यथा-रामस्य खरदूषणत्रिशिरोभिः सह 'चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । हृतान्येकेन रामेण मानुषेण पदातिना ॥' इति। समवि- पमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये रघुमघोनोवी रघुवंश इति। अभ्युदयस्त्रिधा- अरिविजयः, स्त्रीलाभः,पुत्रोत्पत्तिः। तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च। स पूर्वो रावणवधादौ, द्वितीयो हरिविजयादौ। स्त्रीलाभो यथा-इन्दुमतीस्वयंवरे। पुत्रलाभो दि- लीपस्य रघुवंश इति। वनविहारेत्यादिना सोद्दीपनविभावस्य संभोगशङ्गारस्योपदेशात्। मन्र्रभूतप्रयाणसंग्रामाभ्युदयादिभिस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुप- योग: कर्तव्य इति शिक्षयति । तत्र वनविहारो द्विधा-मृगयादिः, पुष्पावचयादिश्च। तत्राद्यो यथा-दशरथस्य रघुवंशे। द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीय इति। जलक्रीडा द्विधा-एकस्य वा वह्वीभिः खयोपाभिर्वहूनां वा वह्वीभि- यथास्वमइनाभिः। तत्राद्या यथा-कार्तवीर्यस्य नर्मदायाम्, कुशस्य वा सरय्वाम्। द्वितीया यथा-अप्सरसां सिद्धसिन्धौ, यदूनां रैवतकहद इति। मधुपानं द्विा-गोष्टीगृहे, वासभवने च। तत्रादं हरिविजये शिशुपालवधे च। द्वितीयं किरातार्जुनीये कुमारसंभवे च।। मानापगमो द्विधा-प्रायत्निकः, नैमित्तिकश्च । प्रायत्निको हरिविजये सत्यभामायाः ।नैमि- त्तिको रामान्तिकान्निशाचरीणां सेतुवन्धे। रतोत्सवोऽपि द्विधा-सामान्यतः, विशेषतश्च। सामान्यतः किरातार्जुनीये शिशुपालवधे च। विशेषतः कुमारसंभवे जानकीहरणे च । रसा- नुरूपसंदर्भत्वमिति । अनेन रतिप्रकर्षे कोमलः, उत्साहप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकर्षे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्दसंदर्भो विरचनीय इति उपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' इति ख्यापयति। अर्थानुरूपच्छन्दस्त्वमिति। अनेन

Page 365

< अध्याय: ] काव्यानुशासनस्। ३३७

समस्तलोकरञ्जकत्वम्, सदलंकारवाक्यत्वम्, देशकालपात्रचेष्टाकथान्तरा- नुपञ्जनम्, मार्गद्वयानुवर्तनं च, इति । तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि। प्राकृतभापानिवद्धा- श्वासकबन्धं सेतुबन्धादि। अपभ्रंशभापानिबद्धसंधिवन्धमब्धिमथनादि। ग्राम्यापभ्रंशभाषानिवद्धावस्कन्धकबन्धं भीमकाव्यादि। प्रायोग्रहणात्संस्कृ- तभाषयाप्याश्वासकबन्धो हरिप्रबन्धादौ न दुध्यति। प्रायोग्रहणादेव राव- णविजय-हरिविजय-सेतुबन्धेप्वादितः समाप्तिपर्यन्तमेकमेव च्छन्दो भव- तीति। गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते।

शृङ्गारे द्रुतविलम्वितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे सत्ग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निबन्धनीया इत्युपदिशति। समस्तलोकरञ्जकत्वमिति। अनेनालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यमपाकरोति। सदलंकारवाक्यत्वमिति। अनेन यद्यप्युपात्तलक्षणानां गुणानामलंकाराणां च स्वरूप- सांकर्येणैव काव्यशोभाकरत्वम् तथाप्यलंकारवन्नैवैनं भारं भूयसा उद्वोढुमलमित्येतदुपर्युपदेशे- नोपपादयति। देशेत्यादिना परिपूर्णाङ्वेSपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति। तत्र देशान्तरानुपञ्ञनं यथा-'मुदे मुरारेरमरः सुमेरोरानीय यस्योपचितस्य शृङ्गः। भवन्ति नोद्दामगिरां कवीनामुच्छायसौन्दर्यगुणा मृपोद्याः ॥' कालान्तरानुघञ्नं यथा -'सपदि हरिसखैवधूनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः। युगपदनुगुणस्य संनिधानं वियति वने च यथायथं वितेने ।।' पात्रान्तरानुपञ्जनं यथा-'करिष्यसे यत्र सुदुष्कराणि प्रसत्तये गोत्रभिदस्तपांसि। शिलोच्चयं चारुशिलोच्चयं तमेप क्षणान्नेष्यति गुह्यकस्ताम् ।।' चेष्टान्तरा- नुपञ्जनं यथा-'मदश्ष्युतः श्यामितगण्डलेखाः क्रामन्तविक्रान्तनराधिरूढाः । सहिष्णवो वेह युधामभिज्ञा नागा नगोच्छ्ायमिवाक्षिपन्तः ॥' कथान्तरानुपजञनं यथा-'कुसुमायु- वपत्नि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणागतः सलभत्वं हरलोचनार्चि- पाम् ॥' मार्गद्वयानुवर्तनमिति। अनेन महाकवीनां समयमुपलक्षयति । तत्र 'गुणतः प्रागुपन्यस्य नायकं तेन विद्विपाम्। निराकरणमित्येप मार्ग: प्रकृतिमुन्दरः ॥ वंशवीर्यश्रुता- दीनि वर्णयित्वा रिपोरपि। तज्यान्नायकोत्कर्पकथनं च धिनाति नः ॥' इति। (अर्थाःका) एतानि नगरवर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि। समुच्चयप्रयोज्या- नीति चेत्, किरातार्जुनीयादो किरातार्णवार्कोद्यविवाहकुमाराभ्युदयादीनामभणनम्। १. 'धिनोति' म्यान्. २. प्रमादपनितं स्यान.

Page 366

३३८ काव्यमाला।

नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्रादि: सोच्छासा संस्कृता गद्ययुक्ताख्यायिका। धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्सयं स्वगुणोपवर्णनं न संभवती- त्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयवृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादि वा व्याख्यायते, अनाग- तार्थशंसीनि च वक्रापरवक्रार्यादीनि यत्र वध्यन्ते, यत्र चावान्तरप्रकर- णसमाप्तावुच्छासा बध्यन्ते, सा संस्कृतभाषानिबद्धा अपादः पदसंतानो गद्य तेन युक्ता। युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिवन्धेऽप्यदुष्टा आख्यायिका। यथा-हर्षचरितादि। धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा। आख्यायिकावन्न स्व्रचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः। तस्य तु वृत्तमन्येन कविना वा यत्र वर्ण्यते, सा च काचिद्द्यमयी। यथा- कादम्बरी। काचित्पद्यमयी। यथा-लीलावती। यावत्सर्वभाषा काचित्सं- स्कृतेन काचित्प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित्पैशाच्या काचिदपभ्रंशेन वध्यते सा कथा।

अर्थाविकल्पेन यथेष्टकल्पनाया मलत्वप्रसङ्गः । तत्र अङ्गकलज(?)स्योभयापीष्टत्वात्। यदा कथाशरीरस्य परिपूणीङ्गसंभवस्तदा समुच्चयेन। यदान्यथा तदा विकल्पेनेति। तत्रापि केषांचिदङ्गानां विकल्पोSपरेषां नियमेन प्रयोगः । यानि पुरुषार्थस्यार्थकामादे- रासन्नोपकारीणि तानि नियमतः प्रयुज्यन्ते। यथा मन्त्रदूतप्रयाणादिनायकाभ्युदयादयः । यथा च शैलर्तूद्यानगमनजलक्रीडाचन्द्रोदयमधुपानरतोत्सवादयः । तानि च यदि कथाश- रीरे न स्युस्तदा कथान्तरानुषञ्जनेनापि कर्तव्यानीति प्रचक्षते ॥ वृत्तमिति। वृत्तशब्दः सदाचार एव वर्तते। तदेव मनुराह-'न विद्यया केवलया तपसा वापि पात्रता। यस्य वृत्तमिवोवेते तद्धि पात्रं प्रकीर्तितम् ॥' इति। तदाह-वक्रेति। वक्रशव्देन वक्कप्रकरणं लक्ष्यते। तद्यथा-'अनुषृभि नाश्वाश्रातुर्याद्यो वक्रम्' इत्यादि। नजज्ञा अपर- वक्रम्। दृगोषष्ठो जोऽन्तो वा पूर्वऽर्धे परे पष्टो लायागाथेत्येवं छन्दोनुशासनलक्षितानि। वक्रं यथा हर्षचरिते-'निजवर्पाहितस्नेहा बहुभक्तजनान्विता। सुकाला इव जायन्ते प्रजा: पुण्येन भूभृतः ॥' अपरवक्रं यथा-'तरलयसि दृशं किमुत्सुकामकलुषमानसवा- सलालिते। अवतर कलहंसि वापिकां पुनरपि यास्यसि पड्चजालयम् ॥' आर्या यथा-

Page 367

< अध्याय:] काव्यानुशासनम्। ३३९

प्रबन्धमध्ये परप्रबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदैको ग्रन्थिकः कथयति तद्गोविन्दवदारूयानम्। तिरश्चामतिरश्रां वा चेष्टाभिर्यत्र कार्यमकार्य वा निश्चीयते तत्पश्चत- न्त्रादिवत् धूर्तविट कुट्टिनीमतमयूरमार्जारिकादिवच्च निदर्शनम्। प्रधानमधिकृत्य यत्र द्वयोविवादः सोऽर्धप्राकृतरचिता चेटकादिव- त्पवह्निका। प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानङ्गवत्यादिवन्मतल्लिका। यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मतल्लिका। यस्यां पूर्व वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिव- न्मणिकुल्या। एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्धकादिवत्परिकथा।

'सकलमहीभृत्कम्पकृदुत्पव्यत एक एव नृपवंशे। विपुलेSपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥' उपाख्यानमिति । यदाह-'नलसावित्रीपोडशराजोपख्यानवत्प्रधावन्तः । अन्यप्रबोधनार्थ यदुपख्यानं ह्यृपाख्यानम् ॥।' आख्यानमिति। तथा चाह-'आख्यान- कसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन्। ग्रन्थिक एक: कथयति गोविन्दयंदवहिते सदसि ॥' निदर्शनमिति। तथा च-'निश्चीयते तिरश्चामतिरक्षां वापि यत्र चेष्टाभिः । कार्यमकार्य वा तन्निदर्शनं पञ्चतत्वादि ॥ धूर्तविटकुट्टनीमतमयूरमार्जारिकादिकं लोके। कार्याकार्य निरूपणरूपमिह निदर्शनं तदपि ॥' प्रवह्निकेति । तथा च-'यत्र द्वयोर्वि- वादः प्रधानमधिकृत्य ज्ञायते सदसि । सार्धप्राकृतरचिता प्रवह्निका चेटकप्रभृति ।।' मन्थल्लिकेति। तथा च-'भुद्रकथा मन्थल्ली प्रेतमहाराष्ट्रभापया भवति। गोरोचनेव कार्या सानङ्गवतीव वार्कचटीभिः ॥' सापीति। तथा च-'यस्यामुपहासः स्यात्पुरोहि- तामात्यतापसादीनाम् । प्रारध्धानिर्वाहे सापि हि मैन्थल्लिका भवति ॥' मणिकुल्येति। तथा च-'मणिकुल्यायां जलमिव च लक्ष्यते यत्र पूर्वतो वस्तु। पश्चात्प्रकाशते सा मणि- कुल्यामिवादिः॥'परिकथेति। तथा च-'पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः। १. 'वद' स्यात. २. 'तन्त्रादि' मूले. ३-४-५. 'मत' स्यात्. ६. 'मत्स्यहसितादिः' मूलानुरोधातू.

Page 368

३४० काव्यमाला।

मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सेन्दु- मत्यादिवत्खण्डकथा। समस्तफलान्तेतिवृत्तवर्णना समरादित्यवत्सकलकथा। एकतरचरिताश्रयेण प्रसिद्धकथान्तरोपनिबन्ध उपकथा।

एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः । गद्यपद्यमयी साङ्का सोच्छासा चम्पूः। संस्कृताभ्यां गद्यपद्याभ्यां रचिता प्रायेण यान्यङ्कनानि स्वनाम्ना पर- नाम्ना वा कविः करोति तैर्युक्ता उच्छासनिबद्धा चम्पूः । यथा वासव- दत्ता दमयन्ती वा। अनिबद्धं मुक्तकादि।

पषां लक्षणमाह -- एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितक विशेषककलापकानि। एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकम्। यथा अमरुकस्य शृङ्गार- शते रसस्यन्दिनो मुक्तकाः । द्वाम्यां संदानितकम्। त्रिभिर्विशेषकम् । चतुर्भि: कलापकम् । एतानि च विशेषानभिधानात्सर्वभाषाभिर्भवन्ति । पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । छन्दोभिरिति वर्तते । मुक्तकानामेव प्रघट्टकोपनिबन्धः । अवान्तर- वाक्यसमाप्तावपि वसन्ताद्येकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः । पर्या- सा कोशेषु प्रचुरं दृश्यते। स्वपरकृतसूक्तिसमुच्चयः कोशः । यथा सप्तश-

श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु ॥' खण्डकथेति। तथा च-'ग्रन्थान्तरप्र- सिद्धं यस्यामितिवृत्तमुच्यते विवुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ।।' सकलकथेति। चरितमित्यर्थः ॥ उपकधेति। तथा च-'यत्राश्रित्य कथान्तरमति- प्रसिद्धं निवध्यते कविभिः। चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः ॥' वृहत्कथेति।

Page 369

< अध्याय:] काव्यानुशासनम्। २४१

तकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादि: संघातः । विप्रकीर्णवृत्तानामेकत्र संधानं यदुवंशदिलीपवंशादिवत्संहिता। एवमनन्तोऽनिवद्धगणः स आदिग्रहणेन गृह्यते। इह च सत्संधित्वं शब्दार्थवैचित्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि द्रष्टव्यः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंका रचूडामणि संज्ञस्वोपज्ञका व्या नुशासनवत्ता- वष्टमोऽध्यायः समाप्तः ।

तथा च-'लम्भाङ्गिताद्तार्थी पिशाचभाषामयी महाविषया। नरवाहनदत्तादेश्वरित- मिव वृहत्कथा भवति ॥' इत्याचार्यश्रीहेमचन्द्रविरचिते विवेकेऽष्टमोऽध्यायः ।

समाप्तोऽयं ग्रन्थः ।

Page 371

अकाराद्यनुक्रमेण सटीककाव्यानुशासनोदाहरणानुक्मणिका।

पृष्टाङ्ा: पृष्टाङा: अकलिततपस्ते ... .. १५२ अत्रोपचार (टी.) १३२ अकुण्ठोत्कुण्ठ ... २०२ अथ जयाय ... १८० अखण्डमण्डल (टी.) २३२ अथ पथि (टी.) ... १५ अगस्त्यचुल (टी.) १२७ अथ स ललि (टी.) ३३० अगा गां गाह् ... .. २१७ अदृश्यन्त पु २८४ .. ... अगूढ साहसस्फुट २८० अद्यैवावां रण (टी.) ३३१ ... ... अग्रादपि मध्या (टी.) १९८ अधरदलं ते ... २३३ अघौघ नो नृ ... 90९ अधरे बिन्दु (टी.) ७ अङ्काधिरोपि (टी.) १४ अधिकरतल १४३ अङ्गं चन्दन (टी.) ७ अधिकृतभा ... .. ३२४ अङ्गानि चन्दन (टी.) १९८ अनङ्ग: ... ९७ अङ्गानीत्येकमपि १०५ अनङ्गमङ्गल ... ... १६८ अङ्गुलीभिरिव ... १०२ अनङ्गलह्मल (टी.) ... ... २१७ अचिरभामिव .. २४८ अनणुरणन्म (टी.) ... ... १८५ अजित्वा साण ... ७८ अनध्ववसि (टी.) .. ... २६३ अज्ञानादयदि (टी.) .. ... १९७ अनाधिव्या ... ... .. २४२ अद्ट्हासच्छले (टी.) ... १२ अनुत्तमानुभा .. ... ... १८३ अण्णं लडहत्तय ... २६५ अनुरागवती ... ... २३२ अतथ्यान्यपि (टी.) ७ अनेकनर्तकी ... .. ३२८ अतन्द्रचन्द्रा · ४२ अन्तर्व्याजं (टी.) ... १३५ अतिक्रान्त (टी.) १३४ अन्नप्रोततृ ... १६९ ... अतिथि नाम १५६ अत्रैः कल्पित (टी.) ... ११९ अतिनवधूरोष (टी.) १३२ अन्यत्र यूयं ३७ अत्ता इत्थ ... ३० अन्यत्र व्रज ... ... ३०७ ...

अत्युच्चपदाध्या ... .. २५३ अन्यदा भूष ... ... ... ३१६ अत्रान्तरे किम ... .. ३११ अन्ययान्यव ... ... २७८ अन्रान्तरे रणि (टी.) ... ... १९९ अन्यास्ता गु .. . .. १४८ अत्रावदात (टी.) १३१ अपङ्गिलत (टी.) ... ... १३१

१. अस्यामनुक््मणिकायां यत्र यत्र पङ्कौ '(टी.)' एतच्चिद्मुपलभ्यते, तदुदाहरणं टीकायामन्वेषणीयम्. यत्र च पङ्गौ चिह्नं नास्ति, तदुदाहरणं मूले भृग्यम्

Page 372

पृष्ठाङ्: पृष्ठाङ: अयमहिमरु (टी.) २०१ अलिकुलकुन्त ... २५१ अपाङ्गतरले (टी.) २६५ अलिनीलाल (टी.) ... २१७ अपूर्वमधुरा १८८ अलिभिरअ्जल १४२ अप्यवस्तुनि ४० अलिवलयैर १४६

अप्यसजन २७० अलोलकमले २३४ अभिधाय अलौकिकमहा (टी.) २३२ ... १८३ अभिनवकु १३५ अवन्तिनाथो (टी.) १७६ अमरसदनानि (टी.) अवितथमनो (टी.) २४१ अमी ये दृश्य ... २५८ अविरलक .. २८९

अमुं कनक ५२ अविरकर (टी.) १०६ ... ... अमृतममृतं १४८ अवीनादौ (टी.) ... ८

अम्भोजगर्भ (टी.) ३३३ अशूच्यत (टी.) ... १३४ अयमेकपदे .. ५५ असतामहि (टी.) २१४ अयं पद्मास १६७ असंतोषदि २४८ अयं प्रसूनो (टी.) १३३ असंशयं क्षत्र ... ८७

अयं मार्तण्ड: ... २८० असावुद्यमा २३१ अयं स भुवः (टी.) १६ असिमात्रसहा ... २७७ अयं स रस १०५ असोढा तत्का (टी.) १०६ अयि जीवित ... ७६ असौ मरुन्रु ... १७५ अयि दीयर .. २६५ अस्त्युत्तरस्यां (टी.) १२९ अयि पश्य ... १४७ अस्म(ण्ण)त्थ ... ५४

अरण्ये नि (टी.) ९ अस्माकमद्य .. १६० अरातिविक्र .. २४५ अस्मान्साधु ९३ ... अरुचिर्निंश (टी.) २९३ अस्मिञ्जहीहि (टी.) ... २९४

अरे रामाह .. १९३ अस्मिन्नेव ल ... ७७

अर्थः स एव (टी.) ८ अहयं उज्जुअ ... १०७

अर्थित्वे प्रकटी .. १८५ अहमेव गुरु: .. १६८ अलसलुलित ९३ अहं त्वा यदि .. २६८ अलसविल (टी.) १३६ अहिणवमण ... १४१

अलंकारश २७२ ... २२७ अहो विशा .. ..

अलंकृत (टी.) ... १७ अहो संसार ... ... २५७

अलं स्थित्वा .. आकम्पितक्षि ... .. १२७

Page 373

पृष्टाङ्क: आकाशयान (टी.) १२३ आशुलम्बित १६४ आक्षिपन्त्य २९१ आश्रिष्टभूंमिं ... ९५ आख्यानक (टी.) ३३९ आश्लेपिताः १३२ आगच्छागच्छ (टी.) ९७ आश्लेपे .. १०० आगममणिसु (टी.) २३० आसाइयं ३० आच्छिय कुसु (टी.) ९ आसीदन्ति भ (टी.) १२ आज्ञा शक आसीददैत्यो हय (टी.) ... ... २० १५ आज्ञा जगन्मा (टी.) २२४ आसीदञ्जनम (टी.) ... २९३ आतन्वत्सरसां (टी) ६ आसीननाथपिता (टी.) ... २७६ आत्तमात्तमधि (टी.) आस्तीकोऽस्ति (टी.) १२३ आत्मनश्च परे २६० आस्थानकुट्विम (टी.) १२ आत्मानुभूत ३२४ आहतं कुचतटे (टी.) ... १९७ आदाय कर्ण .. २८२ आहूतस्याभि २९७ आदाय चापल (टी.) २३२ आहूतेषु वि १४२ .. आदाय वारिप ... २५८ इतस्ततो भपन् (टी.) ३३५ आदावञ्नपु (टी.) १३६ इतो वसति के ... २६३ .. आदित्योऽयं- ५१ इदं ते केनोक्तं ... १८९ आनन्दममन्द ... २७१ इदं भासं भ (टी.) १२९ आनन्दसंदोह (टी.) १० इन्द्रस्त्वं तव बा ... ... २५१ आपातमारत (टी.) १४ इयं गेहे लक्ष्मी .. ३०१ आपृष्टास्मि व्यथ १०१ इयं सा लोला (टी.) ११९ आमूलयष्टेः (टी.) १२७ ईदृशस्य भवतः (टी.) १९७ आयस्ता कलहं ... ३०४ ईपन्मीलित ... ३१३ आयाते दयिते .. ९१ इसाकलुस्स (टी.) १८ आरोग्यमाप्त (टी.) ६२ उच्चिणसु ३२ आर्द्राविले ब्रज (टी.) १२३ उत्कण्ठा परि २८४ आर्यस्यास्र (टी.) ७ उत्कम्पिनी ५२ आलिख्य पत्र ११ उत्कृत्योत्कृत्य ७९ आलिद्वितस्तत्र .. १६६ उत्कृत्योत्कृत्य ९२ आलोकमांग ९० उत्खातनिर्मल (टी.) .. ... १२ आलोलामल ३१५ उत्तानोच्छून ... .. ... १६२ आवर्जिता किंचि ... २४८ उत्तालताडको २९७ आवर्तशोभी (टी.) ... ७ उत्तिष्टन्त्या रता (टी.) ... १७६ ४४

Page 374

पृष्टाङ्क: पृष्ठाङ्का: उत्तिष्ठन्त्या रता ... ३१४ उपःसु वधुरा (टी.) ... १३१ उत्पक्ष्मणो ... ऊरुदून्दूं सरस (टी.) ... ९ उत्पत्तिर्जमद ... २९७ ऊरुदयं कद (टी.) ... उत्पादक: क (टी.) १० ऊर्ध्वाक्षिताप (टी.) ... १८१ उत्फुल्लकमल ... १५१ ऋजुतां नय २७५ उत्सिक्तस्य तप :... ८६ एकत्तो रुअइ (टी) ११९ उदयति वित २६६ एकत्रासनसंग .. ३०४ उदान्वच्छिन्ना . १५१ एकस्त्रिधा वससि (टी.) ... २९६ उदाररचना (टी.) २०९ एकस्मिऽशयने ७० उदितो रसा ३०२ एकस्यामेव तनौ. २६९ उदीच्यचण्डा (टी.) १३२ एकं ज्योति्दशौ (टी.) .. १२९ उद्दण्डोदर (टी.) 9१ एकं ध्याननि (टी.) ११९ उद्दामोत्कलिकां .. १९ एण्यःस्थलीषु (टी.) .. १३३ उद्देशोडयं ... ३६ एतत्सुन्दरि (टी.) ... ... १४

उद्धत पुरुषप्रा ३२१ एतास्ता मल (टी.) १३ उद्धृतैनिभृत ३० ३ एतां पश्य ... २९७ उद्धि ही च सं (टी.) ... ५ एतेनाक्ष्णा प्रवि (टी.) ... ११९ उद्भेदस्तस्य ३३५ एते लक्ष्मण ... ९०

उद्यता जयि १४५ एते वयममी दा (टी.) २०० उदयौ दीर्धिका ... १६४ एते वयममी दा (टी.) .. २९७ उद्यानानां (टी.) १३२ एद्दहमित्तत्थ ४०

उन्नतः प्रो ४२ एमे जाणाति (टी) १५०

उन्मजन्मकर १३७ एवमालि नि ८८

उपपन्नं ननु (टी.) १७७ एवं वादिनि ९० उपरि घनं (टी.) ... २५२ एप ब्रह्मा ७

उपपरिसरं एसो वि ण स २६६ ... १८९ उप्पह जायाए (टी.) .. २५९ एहि गच्छ ११६

उपशमफला (टी.) ४ एह्यहि वत्स (टी.) ९७

उपानयन्ती (टी.) १३१ ऐरावणं स्पृ .. २५७ .. उपोढरागेण ... २७४ औत्सुक्यगर्भा (टी.) २६० उभौ यदि व्यो ... २४७ औत्सुक्येन कृ ... ... ... १५१ उरसि निहित ३०८ क: कः कुत्र .. १४६ उर्वशीहाप्सराः (टी.) .. ५ कण्ठाक्लेषं .. (टी.) ३३३

Page 375

पृष्ठाङ्का: कथमवनिप (टी.) (टी.) .. पृष्ठाङ्का: २८ कम्माद्वारत १२४ कदा नौ संगमो ... ४० कम्मिन्कर्मणि ... १६६ कनककलश 6. ७६ कस्स व न होइ ... ३४ कपाटविस्तीण .. १८७ काङ्कन्पुलोमत (टी.) २१९ कपोले जानक्या (टी.) ... १३० काख्याः पूरो (टी.) १२९ कपोले जानक्या (टी.) ... २९७ कातर्यकेवला ... १७४ कपोलफलका ... २४८ कान्ते तल्प .. कमनेकतमादा (टी.) २२९ कामं भवन्तु (टी.) १३ कमलदलैरघरैः ... .. २४६ कामे कृतमदा (टी.) २२९ कमलिनी मिलि (टी.) .. २१४ कार्य खाइइ ... १४८

करकिशलयं का विसमा २८७ ... ३१४ ...

करभाः शरभा: (टी.) ... १३३ काइमीरीगा (टी.) १३० करिष्यसे यत्र (टी.) .. ३३७ काष्ठा निमेषो (टी.) १३० करिहस्तेन संवा ... १६१ काहमस्मि गुहा (टी.) २२७ करुणरसप्राय -': ३२२ किं करोमि क्क ९६ करेण ते रणे २१२ किं किं सिंह ९६ करोषि तास्त्व (टी.) २२४ किं गोरि मां २३४ कर्कन्धूनां ना (टी.) ... १३२ किंचिद्रूच्मि न २०८ कर्कन्धुफलमु ... २९० किं ददातु कि २७२ कर्कोट: कोटि (टी.) ... १२३ किं लोभेन वि (टी.) १८२ कर्णाभ्यर्ण (टी.) .. ७ किं वृत्तान्ते: २७६ कर्ता द्यूतच्छ (टी.) २९२ किमञ्जनेनाय (टी.) १८० कर्तुमक्षमया (टी.) ... १७८ किमपि किमिह (टो.) १० कर्पूर इव ... ... किमपि किमपि ... ... २७१ ७४ कर्पूर चूण (टी.) ... १३३ किमपेक्ष्य फलं ... १६५ कर्पूरधूलिध (टी.) 9१९ किमीहः किंका (टी.) कलिकलुप (टी.) किमुच्यतऽस्य १६५ कलुपं च तवा ... २८६ कियतापि यत्र (टी.) .. ८ कह्ोलवेलि १९३ कियन्मात्रं ज (टी.) १३८ कश्चित्कराभ्या .. .. ९१ किशलय मिव कश्चित्कराभ्या २१७ कीति स्वर्गफ (टी) ३ कश् वेधव्यथा ... १४५ कुन्दे मन्दस्त (टी.) १३५ ... कस्त्वं भो: कथ (टी.) ... .. २५९ / कुसुदकमल २५६

Page 376

पृष्ठाङ्का: पृष्ठाङ्का: कुमुदवनमप (टी.) १० क्षिति खनन्तो (टी.) १३१ कुरङ्गीवाङ्गानि .. २४९ क्षितिविजित (टी.) ... २१६ कुरु लालस भू ... २२८ क्षितिस्थिति (टी.) ... २१५ कुलबालिया ए ... ३०१ क्षिप्तो हस्ताव ११५ कुलममलिनं (टी.) २६ क्षीण: क्षीणोऽपि (टी.) ... २७७ कुललालिलाव (टी.) २२९ क्षुद्र: कथा मन्थ (टी.) .. ३३९ कुविन्दस्त्वं ता ... १६८ क्षुद्र: कोडयं तप (टी.) १९७ कुसुमसौरभ २८९ क्षेमः स्तोमो (टी.) १२ ... कुसुमायुधप (टी.) ३३७ स्वमिव जलं ... १५२ कृच्छ्रणो रुयु (टी.) १०४ खं येऽभ्युज्जल ... ४३ कृतककुपि (टी.) १७८ खं वस्ते कलवि (टी.) १३४ कृतवानसि खरेण खण्डिता ... ... ... १५२ ... २९६ कृतो दूरादेव खर्जूरजम्बू (टी) ... ... ३१५ १३३ कृष्णार्जुनरक्त २९० खाद्यो द्यत्नि (टी.) २१९ कृष्णेनाम्व ख्यातिकल्पन (टी.) .. २२३ ... ८०

केदार एव (टी.) ... १३१ गगनगमनलीला (टी.) १२ ... केनेमौ दुर्वि ... २२६ गङ्गातीरे हिम ... ८० ... केलिकन्दलि .. ६६ गजादीनां गति ... .. ३२७ कैलाशगौरं (टी.) १४ गजो नगः कुथा ... ... २५१ कोपात्कोमल २१ गन्तव्यं यदि ना (टी.) ... ... ९ कोपान्मानिनि (टी.) ९ गर्भग्रन्थिषु (टी.) १३४ ... कोऽयं द्वारि ह ... २३४ गर्भनिर्भिन्न .. ३३३ कोराविऊग १८६ गभ वलाकासु (टी.) १३० ... कोडलंकार: स ... २८७ गर्वमसंवाह्य २६८ कौटिल्यं कच ... २८७ गाढालिङ्गन ५१ क्रीडन्ति प्रसर .. गाढालिङ्गन १४० ... २३३ ...

करोधं प्रभो सं (टी.) १२५ गाढालिङ्गन .. ३०५ करौच्चाद्रिरुद्दाम .. २७० गाम्भीर्यमहिमा ... ... २४२ ... क्वचिदग्रे प्रसर .. ... १६७ गाहन्तां महिषा (टी.) ... .. २००

क्व सूर्यप्रभवो २५३ गिरिरयमपरे (टी.) ... .. २७९

कायं शशल ८६ गुगतः प्रागुपन्य (टी.) ... ... ३३७ . . . क्षणं कामज्व ... २४१ गुणानामेव दौ .. २५३ ... ... क्षणं स्थिता प (टी.) .. १९६। गुणानुरागमिश्रे (टी.) १२ ... ...

Page 377

गुरुगर्भभर पृष्टाङ्का: पृष्ठाङ्का: १०१ चम्पककलि २३३ गुरुवणपरवश .. ३७ चरां वाल्ये डि (टी.) ४ गुर्वर्थमर्थी (टी.) १७८ चलचटुल (टी.) १३० गूवाकानां ना (टी.) १३३ चलति कथं .. ९१ गृहाणि नाम ... ६९ चलापाङां ... १८ गृहीत येनाशी ... चापं पुष्प (टी.) .. १४ गेहाजिरेपु (टी.) १३१ चापाचार्य .. १६२ गेहे वाहीक (टी.) १३५ चारुता वपुरभूप ... १५२ गोत्राग्रहारं (टी.) १३ चित्तमेव हि सं (टी.) २३० गोमायवः श (टी.) १९५ चित्रं चित्रं वत ... २८५ गोरपि यद्वाह १८३ चिरकालपरि १८३ गोष्ठे यत्र ... ३२८ चुम्बलङ्का (टी.) १३३ ग्रन्थान्तरप्रसि (टी.) ३४० चूअङ्कुरावयसं ... ५० ग्रीवाभङ्गाभिरा .. चूडाप्रोतेन्दुमा (टी.) २१९ ग्रीष्मी चीरीना (टी.) १३४ चैत्रे चित्रौर (टी.) १३३ ग्रष्मिकसमय (टी.) १३४ चैत्रे मदर्धि: (टी.) १३२ घनाघ नायं न (टी.) ... २१४ च्युतसुमनसः (टी.) १९७ घोरघोरतरा (टी.) ६ च्युतामिन्दोर्ले (टी.). १९९

चकार काचित् ... ३१३ छन्नानुरागपू ... ३२७ चकास्ति वदन .. १९० छायामपास्य .. १६५ चकोर हषीं (टी.) १३० जगदेकगुरुर्यों (टी.) २१३

चक्ं दहतारं २११ ... १६२ चक्रं रथो मणि (टी.) १२७ जडचन्दनचार (टी.) १३४

चक्री चक्रारपहि ... १९० जनको जनको (टी.) १७७

चश्चद्धुजभ्रमि ७७ जनस्थाने भ्रान्तं ... १०६

चतसृष्वपि (टी.) १२९ जम्बूद्वीप :... ... १२६ चतुःसमुद्र (टी.) १२७ जयति क्षुण्ण ... १४३ चतुरसखीजन ... १६८ जयति सितवि (टी.) १० चन्दनासक्त (टी.) ४८ जयन्ति धवल (टी.) चन्द्रं गता पद्म ... १८६ जयन्ति नील (टी.) ... ८ चन्द्राहुधः समभव (टी.) ५ जयन्ति वाणासु (टी.) ... ... १५ चन्दम ऊ एहिं २५४ जय मदनगज ... २१५ चमहियमाण (टी.) ५० जयाशा यत्र (टी.) १७९

Page 378

V

पृष्ठाङ्का: पृष्ठाङ्वा: नलसमयजा (टी.) १३४ तह्नेहं नतभित्ति ... ५५ जस्स रणन्ते उरदा २५१ तद्ूकं यदि सु १५३ जस्सु पर यस्य (टी.) २३० १०१ जहि शत्रुकुलं तद्वकाभिमुखं १८५ तद्वक्ेन्दुविलो (टी.) .. १२१ जं जं करे सि जं तद्वषोSसदृशो ... ३११ .. १५६ जं भणह तं ... २८८ तनुलना इव (टी.) १२ जायेज्ज वणुडे (टी.) २१५ तन्वङ्गी यदि (टी.) जितानया यान (टी.) २१९ तपस्विभिर्या ... १६७ जितेन्द्रियत्वं १४४ तमालश्यामलं १८४ जीविताशा ३१ नमेनमवधी (टी.) १२७ जुगोपात्मान १७२ तरङ्गय दशो १५३ जो तीए अहर ... २८२ तरन्तीवाङ्गानि ३०२ ज्योतीरसाश्म .. १४६ तरलयसि दृशं (टी.) ... ३३८ ज्योत्नापूर (टी.) १२३ तल्पकल्पनविधे ... ३०७ ज्योत्स्ना मौक्ति २६८ तव कुसुमशर ... १५२ ज्योत्सां लिम्प १४७ तव नवनव (टी.) १३० ज्योत्स्नव नयना. २४२ तव प्रसादात्कु ... १८७

ज्वलतु गगने ... ३१५ तव शतपत्र (टी.) १०५

ढुण्डिल्लिन्तु २४२ तवाननमिवा २४७

णह मुह प .. ३३ तस्य च प्रव ... २८३ णोल्लेई अणो .. ३६ तस्याधिमात्रे ... १६० ततोSरुणपरि तस्यारिजातं ... २०६ .. २०९

तत्तावदेव शशि (टी.) ... तस्यास्तन्मुख ... ... २६८

तत्तावदेव शशि (टी.) ... तं कृपामृदु १७१ .. ..

तत्रागारं (टी.) १२९ तं ताण सिरि 1.0 ४७

तत्त्वं वीतावत २२३ तं तिअसवन्दि (टी.) ३३४

तत्संकेतगृहं (टी.) ३०८ तं शंभुरासुरसु (टी.) ... १५

तथाभूतां ताताजन्मव ... ३६ (टी.) १७९ तथाभूते त (टी.) तापापहारच (टी.) ... १२२ ... १३ तथाभूदस्मा ... ३०५ तापीनेयं ... .. ... ४७

तथा हि दर्शने ... ३१६ तामुत्तीर्य व्रज (टी.) ... १५ तदाननं निरजि (टी.) २०० ताम्बूलभृत ... १५८ तदिदमरण्यं य (टी.) ... २९४ ताम्यत्यामज्ज (टी.) २००

Page 379

पृष्टाङ्का: पृष्टाङ्का: तारे शरणमुच्य(टी.) २२३ त्वं विनिर्जितम (टी.) ... २९५ ताला जायन्ति ... १४४ त्वं समुद्रश् ... २९० तालैः सिञ्ज ... ५४ त्वं साज्ञासु ज (टी.) २२४ तासां तु पश्चात् ... २४७ दक्षिणो दक्षि (टी.) १२९ तासां माधव (टी.) १३० दद्टशाते जने (टी.) ११ तिष्ठन्त्या जनसं ... १५ दद्दशुद्वरिदेश (टी.) २०० तिष्ठेत्कोपवशा ८५ ददौ सरः पङ्कज ... १०१ तीक्ष्ण रविस्त (टी.) १३१ दन्तक्षतानि ११८ तीव्राभिपङ्ग ९३ दर्पणे च प तीर्थान्तरेपु ... १५९ दलत्कन्दल १४१ ... तीर्थे तदीये १४५ दलत्कुटज (टी.) १३० तीर्थे तोयव्य ९९ दशदिक्कट (टी.) १२९ ...

तुह वल्लहस्स ... 19 दशरश्मिशतो २०७

ते काकुत्स्थपृ (टी.) १९७ दातारो यदि २०४ ते गच्छन्ति महा २२७ दानं वित्ताद्रसं २८७ ते ताणह्यच्छाय १०० दानवाधिपते (टी.) १५ ते दृष्टिमात्र १०९ दारुणरणे रण ... २०२ तेनावरोधप्रम (टी.) १५५ दासविटश्रेष्ठि ३१९ तेऽन्यैर्वान्तं ... १६१ दिआ्यातङ्गघटा १४९ ते पाण्डवा (टी.) दिनमवसितं २७६ ते हिमालय ... १५० दिवमप्युपया ३६७ त्रासाकुल (टी.) ४८ दिवाकराद्रक्षति ... १६८ त्वत्कटाक्षा .. १०२ दिव्यपुरुषाश्रय ३२१ त्वत्संप्राप्ति (टी.) १२२ दिशः प्रसादयन् ... २७६ त्वदाज्ञया ज (टी.) २२४ दिशामलीकाल २७१ त्वदीयमुखमा ... १०२ दीर घीकुरवन् ११

त्वदुद्धतामयस्था ... २३० दुर्वारा: स्मरमा २८५ ... त्वद्विप्रयोगे कि (टी.) दूराकर्णमोह १०३ त्वन्मुखं त्वन्मुख २४७ दूराकृष्टशिली त्वमेव देव पा (टी.) १२६ दूराहवीयो ९१ त्वमेवं सौन्दर्या (टी.) ... ... १९९ दूरादुन्मुकमा ६७ त्वयि निबद्ध ... १३९ दूरोद्दण्डतडित् (टी.) १९५ त्वं वादे साधु (टी) ... २२२ दृढतरनिवद्ध .. १५४

Page 380

१०

पृष्ठाङ्का: पृष्ठाङ्का: दृष्टा यूयं नि (टी.) .. १२२ द्रविणमापदि ... ... १४३ दृष्टिर्नामृतवर्षि (टी.) .. १२२ द्ुमोद्भवानां (टी.) १३५ दृष्टिस्तृणीकृत १९७ द्रोणाश्वत्थाम २६९ दृष्टिः शैशवम ३०५ द्वय गतं संप्रति (टी.) १३८ दृष्टिः सालसतां ... ३१० द्वारोपान्त ३७ दृष्टि हे प्रति ३५ द्विगुरपि सद्व (टी.) ५ दृष्टे लोचन ८६ द्वित्रिमुचुकुन्द (टी.) १३१

दृष्टा प्रयुज्य १६४ द्वित्रैव्योंम्ि (टी.) १२९ दृष्टैकासन ७० द्विषतां मूल ... २१० ... दृशा दग्धं (टी.) १३९ द्वीपान्तराणां (टी.) .. १२८ दृशा दग्धं २७२ द्वीपान्यष्टाद (टी.) १२७ दे आ पसीय ३२ द्वौ वज्रवर्णौ (टी.) ... देधीड्वेवीड् १६९ धनुर्माला ... (टी.) १६ देयान्नश्चण्डधा (टी.) २२० धन्यस्यानन्य ... २४२ देव स्वस्ति वयं .. १५७ धम्मिहस्य ... १७० देवा दैवीं २ धर्मार्थकाममो ८२ देवानां नन्दनो (टी.) २१७ धवलोसि जई ... २७२

देवानां मानसी (टी.) ३१७ धातु: शिल्पा २८४

देवासुरवीजकृ ... ३२० धिझ्यां किं स .. ... ३०३

देवार्चनरतः ... ८२ वीरो विनीतो १४७

देवि त्वा ये (टी.) २१३ धूर्तविट कु (टी.) .. ३३२ देवीभावं गमि .. २५३ धूर्तविटसं .. ३२५ देवीस्ीकृत (टी.) १२२ धूलीकदम्ब (टी.) ... १३४ देवे वर्षत्य (टी.) ९७ घेहि वर्मधन .. २८७

देव्या खप्नोद्र (टी.) २२५ धैर्येण विश्वा १५० देश: सोडयमरा (टी.) ... १७७ न केवलं भाति ... २४०

देशः सोडयम ... २०३ नखदलित (टी.) ७ दैवायत्ते हि (टी.) ११ न खलु वय ३०३

दोर्मन्दीरितम (टी.) १४ न च दिव्यना ... ... ३२३ दोर्मूलावधि ... ... ३०२ न च मेऽवगच्छ ... ... ३०८

द्यामासौ ... (टी.) न तज्जलं यन्न २६६ ... ७ द्युवियद्गामि ... न त्वाश्रयस्थि (टी.) ... १२६ ... २८२ द्योतितान्तप्र (टी.) ११ नदीतूर्ण क (टी.) ... .. ... १३

Page 381

११

नद्यो वहन्ति (टी.) पृष्टाङ्माः पृश्द्धा: १३१ नितम्बगुर्वी ... २०७ ननोनुनन्रो ... २१६ नितम्बो मन्दत्वं ... ३०२ नभ इव विम ... .. २४६ निद्रानिमीलि ... 1 .. .. न भवति भवति .. २०८ निरवधि च (टी.) १२६ न मया गोरसा ... .. २२६ निर्घातोग्रैः कु ... ... १५४ नमस्त्रिभुवना (टी.) १२६ निर्घातोल्कापा .. .. ... ३२२ नयनानन्द ... निर्णेतुं शक्य: .. २९१ २८३ नवजलधर (टी.) ... १३९ निर्द्रव्यो हियमे ... २८८ नवनखपदम ... ३०६ निर्माल्य नयन ... १०३ न विद्यया के (टी.) ... ३३८ निर्वाणवर .. ... १६२ नवीनविभ्रमो .. १४७ निर्वाणवेर .. .. .. २३८ नवसावित्री (टी.) .. ... ३३९ निर्विभुज्यदश ... .. ३१२ न स शब्दो (टी.) .. ... ७ निवेदितं नि ४० न स संकुचि (टी.) निशितासि रतो (टी.) .. ६ .. .. २१८ नानाकारेण का (टी.) २०९ निश्चीयते (टी.) ... .. ३३९ नानावासश्षित्र (टी.) ... १२ निःशेपच्युत .. .. .. ३५ नानाविभूतिभि :... ३१८ निःश्वासावद .. ... ... ३९६ नानाव्याकुल ... निष्कन्दामर ... १२४ ... ... ... २६३ नानृषि: कविरि ... ... ३१६ निहुयरमणम्मि. ... ... ११२ नान्तर्वर्तयति ... १०२ नील।३मररिमि (टी.) .. १२ नाभिवादप्र नीलाश्मरश्मि (टी.) ... १५३ ... १७ ... नारीणामलसं (टी.) २१३ नी लेन्दीवर ... .. २८४ नालस्य प्रसरो ... २५८ नी विराग्रन्थ (टी.) .. ५ नालिद्वितः कुर (टी.) 1.0 २३३ नृसिंहशू कर ३२७ नाश्र्ये यदि (टी.) नेत्रैरिवोत्पलै: .. . २४१ ... नासतो वि (टी.) ६ नेयं विरौति ... २८१ नास्त्य चौरः कवि (टी) १० नोदात्तनायक . . . ३१९ नांष्र त्वाष्टारि (टी.) २२७ न्यकारो ह्ययमे (टी) ... ... १८१ निअदई न्यश्चत्कुश्चित ... ... ३१ ... ... २२ निग्गणुदुरारोहं ... न्यस्ताक्षरा (टी.) .. २९१ ... .. १३ निग्रहात्स्वमु (टी.) पङ्गो विशन्तु .. १७७ १०८ निन्नन्नाभिमु ... पच्यन्त इव (टी.) ... २३९ ... ... १३३ निजवर्षाहित (टी.) ... ३३८ पणयकुवियाण ... ... .. ७३

Page 382

१-२

पृष्ठाङ्का: पृष्राङ्का: पण्णवसि अध्ब (टीः) २८३ पातालमिव १६८ पतिते पतङ्न १६४ पातु वो भगवा ... २१२ पत्त नि अम्ब १४६ पादन्यासक्कणि (टी.) १५ पत्युः शिरश्रम्द्र .. ३१३ पानेऽम्भसो: सुर(टी.). १३२ पंददय कपा २१३ २२० पनसादि बहु (टीः) १३५ पिअमुहससंक (टी.) ९९ पन्थिय न- एत्य ..... ४१ पिनद्धमाहार (टी) १३३ पयस्विनीनां धे (टी.) २२७ पिनाकिने नमः (टी.) २१३ क्योधैरभरा २२५ पिहिते कारागा(टी) १२ पंयोधरारवा (टी.) २१३ पुत्रक्षयेन्ध ४९ परमो या तपो (टी.) २२२ पुन्नागरोध्र (टी.) ... ... १३१ पस्मा या समृ (टी.) २१३ पुराणि यस्यां ... २६६

परवचनमात्म ३२" परागेतरुराजी पुष्पक्रिया म (टी.) १३२

२१२ पुष्पं प्रवालो (टी.) १३ ...

परापकारनिपु १४९ पुंस: कालातिपा(टी.) परार्थे यः पीडा (टो.) २५७ पुंस्कोकिल: कू (टी.) १३३ परिणतशतकाण्ड (टी.) ... १९७ पुंस्त्वादपि प्रचि ... २५९ परिपंन्थिमनो .. २४४ पूर्णेन्दुकल्प २४३ पंरिभ्रमन्मूल (टी.) १३७ पृथुकार्तस्वर ... .. . १६७

परिवद्टइ विन्रा (टी.) ३३४ पृधु शास्त्र (टी.) ७

परिंस्फुरन्मीन ... .. ९५ पृथ्चि स्थिरी (टी.) .. १५१ परिहरति रति ११८ पृरेषु शङ्ध- (गी.) १९९

पर्याणस्खलिन ... .. २७' पेशलमपि सत्र (टी.) ... २६२ पर्याप्तपुष्पस्तव .. .. १०१ पोढमहिलाण २८७

पर्यायेण वहूनां (टी.) ३३९ पौरस्त्यस्तोय (टी.) १३१

पश्चात्पर्यस्य १८६ पौलस्यः सव (टी.) ...

२६६ प्रकरणनाटक ३२० पश्यांमि ता ९५ प्रख्यातवस्तु- ३१०

पश्याम्यनङ्ग' .: ११६ प्रख्यातवस्तु .. ३२२ पश्येत्कश्चित् (टो.) प्रज्ञा नव. .. १०६ .. ३ पाणौ कङ्कण ७५ प्रण य कुपितां r .. ७३ पाण्डोनन्दन (टी) १२३ प्रतिगृहमुपला (टी) .. ... ८

पातयाशु रथं २१० प्रतिग्रहीतुं: ..

Page 383

१३

उृष्राङा: पृष्ठाड1: प्रतीच्छत्याशो (टी) १९८ चालस्रीमूढ (टी) प्रतीयमानं (टी.) .. वाला कीडा ... ३२७

प्रत्यग्रमज्न ... .. १५६ वाले नाथ वि 9४९ प्रत्यग्रोन्मेष ... ९२ वाले मालेय ३०२ प्रयत्नपरिवो १९३ बिभ्राण: शक्ति(टी.) १८१ प्रवणः प्रणयो ... २१० बीजस्योद्वाटनं. ३३१ प्रवर्तते कोकिल (टी.) ... १२७ ब्रह्म चर्योपतप्तो (टी.) १९८ प्रवादिमतभेदे (टो.) २२३ ब्राह्मगातिकम ९२ प्रसरन्ति की (टी) १२ बरृत नूतनकूष्मा ... १९७ प्रसादे वर्तस्व ... ११२ २२८ प्रसाधितस्या भगत्तापसवि ... १८७ -३२४ प्रसीदत्यालोके ३०० भगवति सहि (टी.) ३३० प्रहसनमपि वि ३२४ भख्जन्भूर्जद्रुमा (टी.) १३२ प्रागप्राप्त ... .. १४७ भण तरुणि रम ... .१८४ प्राज्यप्रभावः भम धम्मिअ २६ ... .. २३१ प्राणा येन सम ... .. भवतु विदितं (टी.) ... २५८ प्राणा: परित्यज (टी) ... .. ३३३ भवतसंभावनो ... .२७२ प्राणेश्वरपरि ... भवानि ये निर ... ... .. १८८ -२१० प्राप्तश्रीरेष ३६ भजानि शं वि .२१२ ... प्राप्तावेकरथा (टी) १८० भस्ग व्म फ (टी.) १९५ .. .. प्राप्ताः थ्रियः स ... १८८ भस्मोददूलन (टी.) ... प्रावृष्यम्भोभ (टी.) १३१ भाति पतितो (टी.) ५९ प्रियङ्गुश्यामम (टी) ११ भासते प्रति (टी.) २२५ प्रियेण संग्रथ्य ... १९४ भूतियोजित ... .. २२५ प्रेक्षामृदद्ग (टी.) १९६ भूपतेरुपस ... १६१ प्रेयान्साय (टी.) २०० भूरिभिर्भरि (टी.) २१६ प्रोन्मादयन्ती (टी.) १३१ भूरेणुदिग्धा .. ११४ प्रोढोच्छेदानु (टी) २०५ भ्रमर द्ुमपु (टी.) ... २0९ फुलक्कर ... ... १५८ भ्रमिपरति .. .. १०७ वभूच भस्मैव १५० ब्रभक्वे सहसो .. १११

बहवश् तत्र ... ३२३ १६४ (टी) मणि कुल्यायां (टी.) ३३९ ... .. ६ ... वालमृगलोचना ... २७० मण्डलीकृल्य (टी.) ... .. ... १३

Page 384

१४

पृरका: मणडलेन तु य ... .. .. ३२८ माधयन्मतङ्ग: (टी) १३२ मभ्नाति कौरव .. १०८ माधवाय नम (टी.) २१३ मदमन्थर (टी) मा धाक्षीन्मा (टी.) .. १३८ .. मद्श्चतः श्या (टी.) २२१ ... ३३७ माननापरुपं (टी.) ... मदं नवैश्वर्य (टी.) ६ मानमस्या नि (टी.) ... २८६ मदान्धमातङ्ग (टी.) ... ५४ ... ३९४ मा पान्थं ... ... मदो जनयति ... २५५ मा भवन्तम (टी.) ... ... ४८ मधुसुरभिणि (टी.) २५० मा भवन्तम (टी.) ... १३८ ... .. मध्ये जम्बूद्री (टी) १२७ मा भै: शशाङ (टी.) ... ... .. ..

मनुष्यवृत्त्या ... मामभीदा शरण्या (टी) ... २२१ मनोऽधिकं चात्र १३३ मायावित्तं महा (टी) ... ... ... " मनोरोगस्तीत्रं .. ... ... ८९ मायेन्द्र जाल ३२२ .. मन्थायस्तार्णवा ... २०४ मारारिशक २२० ... .. . मन्दाकिनी सैकत ३१८ मालतीविमुख (टी) ... ११ मम दृष्टस्य राजेन्द्र (टी) मालायमान (टी.) १५ .. २०० .. मरकतसदृशं (टी.) ... .. १३ मासि मासि (टी.) .. .. मरुबकद्मन (टी.) ... मीनध्वजस्त (टी.) ... १३५ १४

मल्लिकामाल .. मुक्ता: केलिवि (टी.) २९३ ... २६५ महतां त्वं थ्रि (टी.) मुक्तालताश्च (टी.) ... १३३ .. १२४ महर्धिनि ... .. २७० मुक्तिभुक्तिकृ .. .. ४१ .. महानवम्यां (टी.) १३१ मुखं विकसित (टी.) १०७ ..

महाप्रलयमा .. १६३ मुदे मुरारेरम (टी.) १३७ .. महासुरसमाजे (टी.) ९५ मुमूर्षो: किं तवा (टी.) १०

महिलासहस्स ... 90८ मुह्यनमुहु १३६ महुएहिम् ... .. ३१ मूरझा जाम्बव ... २९६ महेश्वरो वा (टी) ... १९९ मूर्भामुद्धत्य ... .. २०३ मा गर्वमुद्ूह .. १०२ मूलैवयं यत्र (टी.) .. ... मा गा: पाताल (टी.) .. .. १२३ मृगरूपं परि (टी) ... ९७

म गा: पान्य (टी.) ... ९ मृगलोचनया २९३ मातङ्ाः किमु १६९ मृदुपवनविभि . .. १६० .. माता नतानां ... मृधे निदाघज्ञ २४३ .. १२० ... .. ... मात्सर्यमुत्सार्य ... ... १८६ मेघश्यामेन (टी.) १३ माद्द्दिग्गज (टी.) ... ... १८१ मेरूरुकेशर ... ... २९२ M

Page 385

११

पृश्ाझा: पृराङ्ा: मैनाकः किमयं ८७ यस्य प्रकोप ... य एते यज्वान: (टी.) ... ६ यस्याधोऽधः (टी) यश्चेष्टया तव (टी.) ... २२३ यस्या वीजमहं ... २५१ यतो याति ततो (टी.) ... २१४ य स्यामुपह्दास (टी.) ३१९ यत्कविरात्म .. ३१८ यस्यारातिनि (टी.) ८ यत्कायमानेपु (टी.) १३३ यस्यावमत्य गुरु ... 9७८ यत्कालागुरु (टी.) ४९ यस्यावर्जयतो .. २८७ यत्र द्रुमाविद्ठ (टी) १२७ यस्याहुरति (टी.) .. १९६ यत्र द्वयोर्विवा (टी.) ३३९ यस्योत्तमां (टी.) १२७ यत्र बीजसमु २३० यः सर्वे कषति (टी.) .. १८० ... यत्रानुल्लिखि .. .. १९२ यः स्थलीकृतः (टी.) १७७ यत्रानेक (टी.) ... या केलियात्रा (टी.) .. ७ ... १३३ यत्राश्रित्य कथा (टी.) ... या चन्द्रिकाचन्द्र (टी.) .. ३४० १३३ यत्पाणिरन निवा ... ... ... ३०४ याते गोत्रवि .. ... ८५ यत्प्राचि मासे (टी.) ... ... १३५ याते द्वारवतीं ... .. ... ७३ यथा यथा पुष्प (टी) ... १३१ यादमानवमान ... ... .. २१० यथा यथा साप (टी.) .. २०० यादांसि हे (टी.) ... .. १२९ यथायं दारुणा ... १५८ या निशा सर्वे .. ... ४३ यदनार्षमथाहार्य ... .. ३१८ यान्त्या मुहुर्च (टी.) ... १८० यदा लामह ... १६९ याम इव याति ... २४६ यदादित्यगतं (टी) २२२ यावदथ पदां ... १६५ यदिन्दोरन्वेति (टी.) १४ युविष्ठिरक्ो (टी.) १३० यद्यपि चन्दन (टी.) ११ येन ध्वस्तम (टी.) 1 .. १४ यद्यप्यनुपम (टी.) २७८ येन ध्वस्तम १५९ .. यदूच्चनाहित १४३ येन स्थलीक (टी.) .. .. १७६ यदवर्ज्याभिर्जगाहे (टी.) .. १९८ ये नाम केचिदि ... १७४ यद्विथ्रम्य विलो ... ६७ ये पूर्व यबसू (टो.) १९९ यद्यायोगे कार्य ... ३२२ ये यान्त्यभ्युद .. ... २५७ यन्नाटके मयो ३१९ येपां तास्त्रिद ... ११४ ... यशोऽधिगन्तुं .. १५० येषां मध्ये म (टी.) ... १३२ यस्मिन्कुला इजा ... ... १२९ ये संतोषसु (टी.) १९५ यस्य न सविधे ... .. ... २०८ यैर्दृष्टा सा न (टी.) .. ... २६ यस्य पश्चिम (टी.) ... १२९ येः शान्तराग ... .. ६९

Page 386

११

पृष्ठाङ्ा: पृष्ठाङ्का: योगिगम्यं गुणा (टी.) ... २१३ लयान्तरप्रयो ३२९ यो गोपीजनवल्ल (टी) .. २३२ ललनाः सरो २५१ यो बलौ व्याप्त :... २८३ ललितमङनपा (टी.) ११७ यो माधवीमुकु (टी.) ... १३३ लाक्षागृहान ... ९१ यो यः शत्रं (टी) २०५ लाक्षालक्ष ... ३०० योऽविकल्प (टी.) १८२ लावणो रसम (टी.) १२७ योषितामति १३६ लावण्यकान्ति (टी.) १०४

रइके लिहि ५६ लावण्यद्रविण (टी.) ... ... .. २६१ रक्तस्व ... २० लिखन्नस्ते .. . ५४ रक्ताशोककृशो १६९ लिम्पतीत्र तमो ... २९० रघुर्भृशं वक्षसि .. २७३ लीलातामरसा ... १६० रङत्तरङ्भ्रूभङ्गै (टी.) .. १५ लीलादाढ (टी.) .. ५२ रतिकीडादूते ... ... ... ३१२ लीलावधूत .. ... १८ रथस्थमालोक्य ... ... .. २७८ लीलाविलास (टी.) .. ... १९६ रम्याणि वीक्ष्य (टी.) ... .. ६३ लेख्यया चिम (टी.) ... .. १४ रविसंक्रान्त .. ४३ लोकोत्तराणि (टी.) १०४ रागस्यास्पदं (टी.) वक्तारवीति ... ११४ ... १७३ रागोपचारयु .. ३२० वक्ता हर्षभया ... १८९ राजीवमिव ते ... .. २४३ वक्राम्भोजे .. १९२ राज्षो मानधनं (टी.) ९७६ वक्ष्याम्यतः परं ... .. ३२३ राज्ये सारं वसु ... वच्च महं विय . ... २३ रात्रिर्विचित्र (टी.) वज्रेणान्तर्नु ... १३२ .. .. १९५ राम इव दशरथो ... २५५ वत्सस्याभय (टी.) ... ९७

राममन्मथ ११८ वदनं वरवर्णि ... रुदता कुत एव (टी.) ... १५१ वधू: श्वथः (टी.) १२३

रुधिरविसर वनानि नीली (टी.) .. १३० ... 1 .. ४२ .. रुणद्धि रोदसी (टी.) .. ६२६ बन्धा विश्वस (टी.) .. .. १४

रेणुरक्तविलि (टी.) १७९ वपुः प्रादुर्भाव (टी.) ... ... २९८ रोहितकात्र (टी.) ... १३३ वपुर्विरूपाक्ष .. .. १७१

लकुचादयन्त (टी.) १३५ वयं भ्रभङ्गास्ते. . . . ... ३०४

लगनं रागातृ ... १४१ वयमिह परितु ... ८७ ... लम्पाकीनां (टी.) ... १३२ वरं कृतध्वस्त ... १५२ .. .. लम्भाङ्गिता (टी.) ३४१ वल्मीकः किमु . .. १०४ ... ..

Page 387

१.७

पृष्टाङ्वा: वसन्ते शीत (टी.) ... १३ विलासभूमि (टी.) पृष्टाङ्का:

.. ... १२७ वस्त्रायन्ते, .. .. २०८ विवरीयरए (टी.) २८

वहलतमा ... ३० विविच्य वाधा (टी.) ... २०१ वाक्प्रपश्चेक १५६ विविधधव (टी.) २०९ ... ... ... ... वागर्थाविव (टी.) १० विवृद्वात्मा (टी.) ५८ ... वाच्या वैचित्र्य ... १७१ विषयस्य यत्र (टी.) वाणियय. ३८ विषं निजगले ... २३१ वाणियय ... .. २८८ विष्कम्भकः प्र ... ... ३१५ वाणीरकुड १०५ वीराण रमयी ... ... ४७ चाणीव विमलं ... ... १'५ वृद्धास्ते न विचा ... १८ वाण्यर्थाचिव (टी.) ... १० वेणीभूतप्र ... १०१

वाताहारतया ... ... १९ वेदापने स शु (टो.) .. ... २१८ वात्याचकक (टी.) ... १३४ वेश्याचेटनपुं ... ... .. ३२४ वामेक्षणे स्फुर (टी) ... वेधैरैनैशै (टी.) .. २७९ ... २१५ वारणागगभीरा ... .. २१७ व्यपोहितं लोच ... ३१४ वाराहवध्राणि (टी.) ९३१ व्यर्थ यत्र. .. विअसंतरअक्ख (टी.) .. २६० व्यायामस्तु ३२३ विकसद्रजःकलु (टी.) ... २६१ व्यालवन्तो (टी.) .. २७९ विकसित (टी.) व्यूतसुमनसः (टी.) .. १३४ .. १२३ विकाशकारी (टी.) १३३ व्योम तारतर (टी.) १३१ विचकिलकेशर (टी.) ... १३५ व्रजतः क तात ... १५४ ... विदलितशक ... २८६ शक्तिर्निस्तिंश ... १४४ विद्वान्दारस (टी.) १७६ शङ्गद्रावित (टी.) ... १२ विनेयानुन्मुखी ... ११३ शत्रुच्छेद .. २६४ .. विन्ध्यश्ष पारि (टी.) १२७ शब्द प्राधान्य ... ४

विपदोऽभिभव ... १५१ शब्दार्थोक्तिषु (टी.) ... ९०

विपुलेन सागर ... २७२ शंभो: केयं (टी) .. २०१

विप्रवणिक्सचि ... ३१९ शाय्या शाहल ... १७२ विभजन्ते न ये .... १६५ शरदिन्दुसुन्दर ... .. २२३ विमानपर्यङ् :. ११४ शरद्धवानामनु (टी.) ... १३४ ... .. विमुक्तवर्हा (टी.) १३२ शरीरमात्र (टी.) ... .. ६ वियति विसष ... शशिवदना ... ... ... २४८ .... ... २९१ चिलसदमरनारी शशी दिवस (टी.) ... ... २८२ ... ... २८'

Page 388

१८

पृष्टाङ्ा: पृष्ठाङ्का: शाखास्मेरं (टी.) १२९ सकलमहीभृत् (टी.) ... ३३९ शिखरिणी क्व (टी.) स किलेन्द्रप्रयु (टी.) ... १९९ ... ... ४६ शिञ्जानमज् ... २०२ स खञ्जरीटा (टी.) १३१ ... शिरामुखैः स्यन्द .. २९७ सग्ग अप्परिया ... ... २७ शिरीपादपि ... २७१ स गतः क्षिति ... ... ९८ शिशिरशनिश्च ... स च्छिन्नबन्ध (टी.) ९७ ... - ४२ ... शीतांशोरमृ १९१ सब्जेइ सुरहि (टी.) ४६. शीर्णघ्रागाङ्ग १७० सततमनङ्गो (टी.) १३८ .. ... शीर्णपर्णाम्वु .. २७७ स तत्वदर्शना ... ... ३१६ शून्यं वासगृहं .. सत्यं त्वमेव सर ... २६९ .. .. शुरास्तु वीररौ ... .. ३२६ सत्यं मनोरमाः ११३ .. ...

शूलं शलन्तु शं. ... २३३ सत्वं सम्यकस ... ... २३८ ... शृ ङार हास्य व जै ... ३२२ सत्वारम्भरतो .. ... ... २११

शृझारी गिरिजा ... .. सत्वारम्भरतो २१२ .. ११० ... ... शृ द्गोत्खातभुवः (टी.) ... १९८ सदक्षिणापाह .. २७५ ... शेतां हरिर्भवतु (टी.) ... १५ सदाप्नोति पति (टी.) ... .. २२२ शैलात्मजापि ... ... ७२ सदा मध्ये यासा ... १८४ शैलेन्द्रप्रतिपा ... ... २८१ सदाव्याजवशा (ट.) ... २२२ शैशवेऽभ्यस्त (टी.) ... संध्यां यत्प्रणि .. ७३ शोकेन (टी.) ... ५८ सपदि पक्कि 1 .. १६६ शोभान्धौ गन्ध (टी.) ... १३५ सपदि हरिसखै (टी.) ... ... ३३७

शयामास्ङ्ग ... २१ स पातु वो यस्य (टी) १०६ श्यामां श्यामलि ... १९३ स पातु वो यस्य (टी.) १२३ श्यामां स्मित (टी.) १७ सभायां तादृश्यां (टी.) .. २२ इयामेष्वद्ेपु (टी.) १२९ ... ३१३ .. सभ्रुभङ्गं कर ... ... थ्रियः पतिः (टी.) २७० .. १३३ समदमतङ्ग्ज ...

श्रीपरिचया १०७ समस्तगुणसंप (टी.) .. १०६ ... .. श्रुतिसमधिक समानयनमर्था ... ... १९० ३३३ ...

ध्रतेन बुद्धिव्य ... १८९ समुत्थिते धनु. ११३ ...

श्वासा बाष्पजल ... .. ३०६ सम्यग्ज्ञातम ... १५८

षोडशनायक सयणं चेवणि (टी.) ... ३२२ ... ३३४

स एकस्रीणि .... २७० स यस्य दशकन्ध ... ... .. २३८

सः एषभुवनत्र ... .. ... २०.७ स रणे सरणेन. २१४.

Page 389

१९

पृषाङ्वा: पृष्ठाङ्धा: सरले साहसरागं २३३ संरम्भ: करि १७३ सरसति पदं ... २१२ संवादिसारसंप (टी.) २२९

सरस्ति यथा ... २१३ संस्तम्भिनी (टी.) १२६ सरखत्यास्तत्त्वं (टी.) ... ६ संह्यवकाय ... १४०

सरांसीवामलं .. १५५ साकं कुरङ् (टी.) १०६

सरोजपत्रे परि .. २८० सा तत्र चामी (टी.) १२७

सवकार्यशरी १५९ सा दयितस्य (टी.) १७९ ... सर्वत्र ज्वलितेषु (टी.) ... १२२ साधनं सुमह १६०

सर्वप्राणप्रगुण (टी.) ... ... २०१ साधु चन्द्रमसि. १७४

सर्चः सलक्षणा ... सानुज्ञमागमि २८३ ... ... ३२५ सर्वाशारुधि द ... २०७ सा वाला वय ... २७१ .. ...

स वक्तुमखिला ... ५१ सा भाति पु (टी.) १३१ .. ... सविता विधवति २४५ साम्यं संप्रति (टी.) १३४ .. .. सव्रीडा दयितानने ... १११ सा रक्षतादप ... ... २११ सशमीधान्य (टी.) ... १३२ सालोए च्चिय ... ३०६

सशल्कीशात्म (टी.) १३० सावशेषपद .. ... ८९

सशोणितैः क्रव्य ११४ साहेन्ती सहि ... ३८ स संचरिष्णुर्भु (टी.) ६ सांयात्रिकैर (टी.) ... १३ स सत्वरतिदे नि (टी.). २१९ सिणियं वच्च ... ... .. ३२ ससार साकं (टी.) २१४ सितनृशिरः स्र .. ... .. २२६

सस्तुः पयः पपु :... १५० सिता संसत्सु २२४

सहकाररसार्चि (टी.) ... १३३ सिद्धार्थयष्टिपु (टी.) १३२

सह दिअसनिसा (टी.) २७३ सीतां ददाह ... .. २७०

सह दीर्घा मम ... २७३ सीतासमागम (टी.) .. .. १०

सहस्राक्षैर है १८३ सुधावद्धग्रासै ... .. २६४

सह्याद्रेरुत्तरे (टी.) १२९ सुब्बई समा ... ... ३७

सहंसा नलिनी ... २२५ सुमातरक्षया (टी.) ... ... २२३

संकेतकाल ... २८३ सुरदेशस्य ते (टी.) ... २२३

संक्षिपता (टी.) १३ सुरालयोलास ... .. १६७ .. संख्यासमक्षं .३२७ सुरामुरशिरो (टी.) .. २१३ ... .. ...

संचारिणी 90० सुवर्णपुष्पां .. ... ४५ 1 .. ... संप्रहारे प्रहर सूर्याचन्द्रमसौ (टी.) .. .. १११ १७७

संप्राप्तेऽवधि ... ९८ सूर्यायति सुधा ... ... २४४ संयतं याच .. .. २११ सृजति च जग ... ... ... २६९ ४६

Page 390

२०

सेना लीलाली (टी.) पृष्टाङ्का: पृष्ठाङ्ः ... २१९ स्वास्थ्यं प्रतिभा (टी.) ... .. १० सो नत्थि एत्थ ... २९० स्विद्यति कूणति ... २५६ सोऽपूर्वो रसना (टी.) .. २६० स्वेदाम्भ:कणि .. ३०२ सोडयं करैस्त (टी.) ... १३४ हंस प्रयच्छ (टी.) ... ६ सोह व्व लक्ख ... .. २४६ हंस प्रयच्छ .. ९६ सौधादुद्विजते (टी.) हंसाण सरोहिं .. ... १८२ .. २५५ सौन्दर्यस्य तरद्वि २५० हंसो ध्वाह्क ... २४३

स्तनकर्पर (टी.) १६ हंहो स्निग्धसखे (टी.) ... स्तनजघनाभिरा ... २२६ हन्त हन्तरराती (टी.) २०९ .. .. स्तनयुगमश्रु (टी.) ... १८० हन्तुमेव प्रत्ृ ... १८५

स्तेनतास्तेनता (टी.) हन्नयो रुप: क्ष (टी.) ... २२४ ... ... २१४ स्तुम: कं वामा ... १०३ हरहासहरावास (टी.) ... १२६ ... स्रियः प्रकृति (टी.) १३२ हरे: कुमारोऽपि (टी.) १९८ .. स्त्रीणां केतक (टी.) २०० हरे: सवसारे दे (टी.) ... २२२ .. ... स्त्रीप्राया चतुर ... ३२० हर्म्ये रम्यं (टी.) १३४ ... स्त्रीभेदनापह ३२१ हलमगुवल (टी.) १२६ .. ... स्थूलावश्याय (टी.) १३४ हा घिक्सा कि ... ... .. १६२ ... स्न्निग्धश्यामल ... ४४ हा नृप हा बुध ... .. .. १४८ .. स्त्निहि पिच्छ कण्ण .. ३१२ हास्यप्रायं प्रेरणं ३२८ ... ...

स्नेहं समादिश (टी.) हिअअह्विअ (टी.) .. ४८ .. १८१ ..

स्पन्दते दक्षिणं (टी.) २७९ हिमवन्ध्य (टी.) .. ... १२८

स्पृशति तिग्मरु ... १४२ हिरण्मयी सा .. .. ... २४८

स्फुरद्द्त हिरण्यकशिपु (टी.) ६ ... ... २८६ .. ... स्फूजदूज्रसहस्त्र ... २९६ हुमि अवह (टी.) ५२ ... ...

स्मरदवधुनिमि ३१२ हृदये चक्षुषि .. .. २६८

स्मरनवनदी ७२ हृदये वससीति ... ७१

स्मितं किंचित् ... हे नागराज (टी.) ... १५ .. ३१० स्मृत्या यन्निज (टी.) ... हे लङ्केश्वर ... .. १२२ ... १५३

स्त्नस्तसत्रग्दाम १८ हेलापि कस्य (टी.) ... .. ४९ .. . .. स्रस्तां नितम्वा ... . .. १७१ हे सततमपा (टी.) .. ... २१७

स्रोतस्यम्भांसि (टी.) १३३ हे हस्तदक्षिण (टी.) १७६

स्वश्चितपक्ष्म २१ हे हेलाजित (टी.) ... .. २८ ... ... खपिति याव होई न गुणाणु ... २५२ ... ... .. १८५ ... ...

स्वयं च पल्ल २३१ हविया सवस्या (टी.) ... ... ३३२ ... ..

Page 394

संस्कृतनूतनपुस्तकानि।

रेणुकासहलनाम। कवचसहितम्। मूल्यं १॥ आणकः, मार्गव्ययः ४। आणकः

कासादिक तथा कवचं च केवलं मन्न्नमयमस्ति। द्वयमप्येतन्महता प्रयासेन संपाद विद्वद्भिः परिशोधय्य मुद्रितम्। संस्कारकौस्तुभः। अनंतदेवभट्टविरचितः (पोथीसाईझ) मूल्यं २ रु., मार्गव्यय: ४ आणकाः श्रीमदापदेवतनुजन्मानोऽनन्तदेवशर्माणो महामीमांसका आसन्। यैः प्रणीतोयं कौस्तुभोऽपि सुप्रसिद्ध एव। अत्रासिलान्संस्कारान जननशान्तीः प्रकरणसंदर्भेणेत- रविधानानि चाग्रभाद्रन्धकारः प्रतिप्रयोगनिर्णयारम्भे तत्तन्निर्णयान्मीमांसया विशदी- कृत्याग्रेऽतीव ललितान्प्रयोगानरीरचत्। सर्वत्करिष्टोप्ययं ग्रन्थोऽवस्थितमुद्रणः सन् न्यूनाधिकाक्षरविपर्यासादिभिरत्यन्तं दुर्वेद्य आसीत्। अतोऽस्य नैकशः प्राचीनान्को शान्संपाद्य तैः संवाद्य तत्रोपलच्धान्विशेषप्रयोगांश यथास्थानं संयोज्य यावच्छक्यं सुन्यवस्थयास्माभिर्मुद्रितोऽस्ति। नैवातिशयोक्तिरियं। यदि विद्वांसः स्वसंगृहीत ग्रन्थमस्मन्मुद्रितेन संवाद्येयुनिश्चिनुयुस्तदा स्वयगेवास्मदुक्तर्याथार्थ्यमित्यलं विस्तरेण। निरुक्तलघुविवृतिः । (सप्तपादिका) मूल्यं १२ आणकाः, मार्गव्ययः २ आणकौ इयं यास्कनिरुत्तत्रन्थस्य प्रथमसप्तपादानां सर्वोत्कृष्टा वितृुतिः। दुर्गाचार्यप्रभृतिवि- वृतिकृदाशयानां तथा क्वचिदन्यगन्थेभ्यो मत्त्राणां मन्रगतशब्दानां च यथायोग्यदि वरणेन, रिप्पण्या परिष्कारैश्व मण्डितेयं विद्यार्थिनामाङ्गलेयपाठशालाध्येतृणां च वैदिकशव्दनिर्चचने सूपकारिणी भवेत्। तुकाराम जावजी, निर्णयसागरमुद्रणालयाधिपतिः

Page 399

BINDING SECT. OCT 4 19b8

PK 2916 Hemacandra, disciple of H46 Devacandra 1901 Kavyanusasanam c.1 ROBA

PLEASE DO NOT REMOVE

CARDS OR SLIPS FROM THIS POCKET

UNIVERSITY OF TORONTO LIBRARY

Page 400

UTL AT DOWNSVIEW D RANGE BAY SHLF POS ITEM C 39 13 15 06 01 027 9