Books / Kavya Anuasana Hemachandra Gloss Pandit Sivadatta Kasinath Pandurang Parab Wasudev Laxman Shastri Paniskar (Reprint NSP)

1. Kavya Anuasana Hemachandra Gloss Pandit Sivadatta Kasinath Pandurang Parab Wasudev Laxman Shastri Paniskar (Reprint NSP)

Page 1

श्रीहमचन्द्रविरचितं

काव्यानुशासनम्। सटीकन्।

Page 2

श्रीहेमचन्द्रविरचितं काव्यानुशासनम्। सटीकम्।

महामहोपाध्याय पण्डित शिवदत्तशर्मणा. मुम्बापुरवासिपरबोपाह्न- पाण्डुरङ्गात्मजकाशीनाथशर्मणा, पणशीकरेत्युपाह- लक्ष्मणात्मजवासुदेवशर्मणा च संशोधितम्।

Page 4

It is a reproduction of the earlier edition of Nirnaya Sagar Press, Bombay.

THE KĀVYĀNUŚĀSANA OF HEMACHANDRA With his own gloss.

EDITED BY MAHĀMAHOPĀDYĀYA PANDIT SIVADATTA AND KĀSĪNĀTH PĀŅDURANG PARAB. REVISED BY WĀSUDEV LAXMAŅ S'ĀSTRĪ PAŅS'ĪKAR

MEHARCHAND LACHHMANDAS PUBLICATIONS New Delhi 110 002 (India)

Page 5

PUBLISHED BY : MEHARCHAND LACHHMANDAS PUBLICATIONS 1 Ansari Road, Daryaganj, New Delhi 110002 (India)

(This publication has been brought out with the financial assistance from Ministry of Education and Culture, Govt. of India.)

( All rights reserved by the publishers) Reprint : 1986

Price Rs, 24 ATTAGA(Rupees Twenty Four)

PRINTED AT EFFICIENT OFFSET PRINTERS, DELHI.

(If any defect is found in this book please return the copy by V.P.P. to cover postage for exchange free of cost or postage)

Page 6

हेमचन्द्रः।

अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्त Dr.P. Peterson महाशयानां Fifth Report पुस्तके- 'तत्पट्टपूर्वाद्रिसहस्त्ररश्मिः सोमप्रभाचार्य इति प्रसिद्धः । श्रीहेमसूरेश्व कुमारपालदेवस्य चेदं न्यगदच्रित्रम् ।।' इति सोमप्रभाचार्यविरचितहे मकुमारचरित्रकाव्यतः, 'स्तुभस्त्रिसंध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम्। अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुर्व्यधित प्रबोधम्। सत्त्वानुकम्पा न महीभुजा स्यादित्येष कप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन श्लाध्यः स केषां न कुमारपाल: ॥। इति सोमप्रभकथिते कुमारनृप-हेमचन्द्रसंवादे। जिनधर्मप्रतिबोधे प्रस्तावः पश्चमः प्रोक्तः ॥' इति सोमप्रभविरचितकुमारपालप्रतिबोधकाव्यतः, 'श्िष्यो जम्बुमहामुने: प्रभव इत्यासीदमुष्यापि च श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रबाहुरिवे ... द्वौ तस्य शिष्योत्तमौ संभूतस्य च पादपद्ममधुलिद्श्रीस्थूलभद्राह्वयः॥ वंशकमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठान्तिषत्समजनिष्ट विशिष्टलब्धिः ॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्रा सुहस्तीत्यरुद् यत्पादाम्बुजसेवनात्समुदिते राज्ये प्रबोधर्धिकाः । चके संप्रति पार्थिवः प्रतिपुरग्रामाकर भारते- Sस्मिन्नर्षे जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि । अजनि सुंस्थित-सुप्रतिबुद्ध इत्यभिधयार्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरान्तिषद्धवमहातरुभज्ञनकुज्जर: । महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम्। १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु-'शशिजलधिसूर्यवर्षे शुच्ि- मासे रविदिने सिताष्टम्याम्। जिनधर्मप्रतिबोधः कप्तोडयं गुर्जरेन्द्रपुरे ।' इति बदता ग्रन्थकर्त्रैव १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्त :. २. 'इति च' इति भवेत् ३. सुस्थितः सुप्रतिबद्धः, इति मुनिद्वयम्.

Page 7

महान्गण: कोटिक इत्यभूत्ततो गज्जाप्रवाहो हिमवद्विरेरिव ।। तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी। उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः॥ दुर्मिक्षे समुपस्थिते प्रलयवद्भीमत्वभाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे। योऽभ्युद्धत्य कराम्बुजेन नभसा पुर्यामनैषीन्महा- पुर्यां मह सुभिक्षधामनि तपोधाम्रामसीम्रां निधि:॥ तस्माद्वज्राभिधा शाखाभूत्कोटिकगणदुमे। उच्चनागरिकामुख्यशाखात्रितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषद्पदः। पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ।। धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो भव्याम्भोरुह भास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशो- भद्र: सूरिरपूरि येन भुवनं शुद्दैर्यशोभिर्निजैः ॥ श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वादा प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक्।

न्नुचैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान्। श्रीमान्प्रदयुन्नसूरिः समजनि जनितानेकभव्यप्रबोध- स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धतैरर्थनीरै- रातत्य स्थानकानि श्रुतिविषयसुधासारसनयश्चि विष्वक्॥ सर्वग्रन्थरहस्यरत्नमुकुर: कल्याणवल्लीतरुः कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरि: क्ष्मां पावयन्धर्मराद सेनानीर्गुणसेनस् रिरभवच्छिष्य स्तदीयस्ततः। शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जङ्गमः स्याद्वादत्रिदशापगाहिमगिरिर्विश्वप्रबोधार्यमा। कृत्वा स्थानकत्ृत्तिशान्तिचरिते प्राप्तः प्रसिद्धिं पररां सूरिर्भूरितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत्।। आचार्यो हेमचन्द्रोऽभूत्तत्पादाम्भोजषद्पदः। तत्प्रसादादधिगतज्ञानसंपन्महोदयः॥

Page 8

जिष्णुश्ेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरू- न्सिन्धूनन्यतमांश्र दुर्गविषयान्दोर्वीर्यशत्तया हरिः । चौलक्यः परमार्हतो विनयवाञश्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा। पापर्द्विद्यूतमद्यप्रमृति किमपि यन्नारकायुर्निमित्तं तत्सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम्। स्वामिन्नुर्व्या निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाह- च्ैत्यरुत्तंसिता भूरभवमिति सभः संप्रतेः संप्रतीह॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्िस्पृशो याञ्या साञं व्याकरणं सवृत्ति सुगमं चककुर्भवन्तः पुरा। मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय- च्छन्दोलंकृतिनाम संभ्रहमुखान्यन्यानि शास्त्राण्यपि॥ लोकोपकारकरणे ख्यमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽद: मादग्जनस्य परिबोधकृते [शलाका] पुंसा प्रकाशयत वृत्तमिदं त्रिषषेः । तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिव्रत्तम्। धर्मोपदेशैकफलप्रधानं न्यवीविशच्चारु गिरां प्रपश्चे। जम्बूद्दीपारविन्दे कनकगिरिरसावश्वते कर्णिकात्वं यावद्यावच् घत्ते जलनिधिरवनेरन्तरीपत्वमुच्चैः । यावद्योमाध्वपान्थौ तरणिशशघरौ भ्राम्यतस्तावदेत- त्काव्यं नाम्रा शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम्।'

कुमारपालराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः, 'नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी। श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम्। ललाटपट्टान्तरकान्तराव्याक्षरावली येन मम व्यलोपि। बोधयित्वा महाराजं देवलोकं जगाम यः । पश्चात्कुमारपालोऽयं शोकं गत्वा मुमूर्च्छ सः ॥। तदनु धैर्यमवलम्ब्य धर्मध्यानं करोति।' इति हेमकुमारचरितकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेथ कुमारपालराज्यसमय एवाचार्यहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमित्यबग्धमवर्गतम्. विशेषकथा तु प्रबन्धकोश-प्रबन्धचिन्तामणिभ्या मवगन्तव्या.

Page 9

कुमारपालराज्यसमयस्तु- ओं नमः शिवाय। ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य बद्धाक्षर- रिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः। या व्यापारितसंहृतेः खसमये ब्रह्माण्डपिण्डैर्नवैः क्रीडन्ती मणिकन्दुकैरिव सदा स्वच्छन्दमाह्लादते॥। गीर्वाणैवीतगर्व दन्तुजपरिभवात्प्रार्थितत्त्रायकार्थ वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे। सदो वीरं चुलुक्याह्वयमसटजदिमं येन कीर्तिप्रवाहैः पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः॥ वंशः कोऽपि ततो बभूव विविधाश्चयैंकलीलास्पदं यस्माद्ूमिभृतोऽपि वीतगणिता(णना): प्रादुर्भवन्तन्वहम् । छायां यः प्रथितप्रतापमहतीं दध्रे विपन्नोऽपि स- न्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम्॥ वंशस्यास्य वशः प्रकाशनविधौ निर्मूल्यमुक्तामणिः क्षोणीसालकिरीटकल्पितपदः श्रीमूलराजोऽभवत्। यो मूलं कलिदावदग्धनिखिलन्याय दुमोत्पादने यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दबन्दीकृतां विद्वद्वान्धव विप्रबन्दिभृतकव्यूहोपभोग्यां व्यधात्। यत्खज्ञाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्र्कम- क्रीता: सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं मेजिरे॥ सूनुस्तस्य बभूव भूपतिलकश्च्ामुण्डराजाह्वयो यद्गन्धद्विपदान गन्धपवनाघ्राणेन दूरादपि। विभ्रश्यन्मदगन्धभन्नकरिभिः श्रीसिन्धुराजस्तथा नष्टः क्षोणिपतेरयथास्य यशर्सा गन्घोऽपि निर्णाशितः ॥ तस्माद्वल्लभराज इत्यभिधया क्ष्मापालचूडामणि- जज्े साहसकर्मनिर्मितचमतकारः क्षमामण्डले। यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुति- क्षुभ्यन्मालवभूप्रचक्रविकसन्मालिन्यधूमोद्रमः ॥ १. मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्- वि० सं० १०५३-१०६६.

Page 10

श्रीम हुर्लभ राजनामनृपतिभ्रातास्य राज्यं दघे शङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य कोधपरायणस्य किमपि भ्रूवल्लरी भङ्गरा सदो दर्शयति स्म लाटवसुधाभञ्जस्वरूपं फलम्॥। भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवा- न्क्षोणीभारमिदं(मं) बभार नृपतिः श्रीभीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभि: साधिता क्षिप्रं मालवचक्वर्तिनगरी धारेति को विस्मयः ॥ तस्माद्गूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर- त्कीर्ति प्रीणितविश्वकर्णविवरः श्रीकर्णदेवाह्यः। येन ज्याप्रथितखनं च्युतशर धर्म पुरस्कुर्वता न्यायज्ञेन न केवलं रिपुगण: कालोऽपि विद्ध: कलिः ॥ दृप्यन्मालव भूपबन्धन विधित्रस्ताखिलक्ष्मापति- र्भत्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सदः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थिति- जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजखतः॥ वश्या वेश्म रसातलं च विलसद्भोगि .. ...... .. भोक्तुम ...... क्षत्राणि रक्षांसि च। यः क्षोणीघरयागिनीं च सुमहाभोगां सिषेवे चिर हेलासिद्धरसाः सदा क्षितिभुज :.. .... .. रे।। संख्यातीत वितीर्णदाननिवहः संपन्नपुण्योच्चयः क्री डाकान्तदिगन्तराल.

·.. कुलभूप ....·· बलाम्ब ...... क्रीडाक्रोड इवोद्धार वसुधां देवाधिदेवाज्ञया। देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणि- र्यः खवर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ १. दुर्लेभराजराज्यम्-वि० सं० १०६६-१०७८.२. भीमदेवराज्यम्-वि० सं० १०७८-११२०. ३. कर्णदेवराज्यम्-वि० सं० ११२०-११५० ४. सिद्धराजापरपर्यायजयसिंह राज्यम्-वि० सं० ११५०-११९९.५. कुमारपाल राज्यम्-वि० सं० ११९९-१२३०

Page 11

अणोराजनराधिराजहृदये क्षिप्वैक(व)बाणव्रजं श््योतल्लोहित तर्पणादमदयच्चण्डीं भुजस्थायिनीम् द्वारालम्बितमालवेश्वरशिरःपद्मेन यश्ाहर- ल्लीलापङ्कजसंग्रहव्यसनिनीं चौलुक्यराजान्वयः ॥ शुद्धाचारनवावतारसरणिः सद्धर्मकर्मक्रम- प्रादुर्भूतविशारदो नयपथ प्रस्थानसार्थाघिपः। यः संप्रत्यवतारयन्कृतयुगं योगं कलेर्लेङ्य- न्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि।। प्रत्यू ...... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो नष्टोदीच्यनराधिपोज्झितसितच्छत्रैः प्रसूनोजवलः। छिन्न: प्राच्यनरेन्द्रमौलिकमलै: प्रौष्प(प्रोद्य)तफलद्योतित- रछायां दूरमवर्धयन्निजकुले यस्य प्रतापद्ठमः ॥ आचारः किल तस्य रक्षणविधेर्विम्नेशनिर्ना(णा)शित- प्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं ...... वः। देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः श्रीसोमेश्वरदत्तराज्य विभवस्याडम्बरं वाहिनी॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुर- द्रम्नद्योतितवारिराशिरशना शीताद्रिविन्ध्य स्नी। एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं.षता बिभ्राणा नगराह्नयं द्विजमहास्थानं सुकर्णोदयम् ॥

यूपैर्द त्तकराव लम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रेव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते तेनानन्दपुरेति यस्य विबुघैर्नाभान्तरं निर्मितम्॥ अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः शश्रदोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेव निकेतनध्व जशिखाघातैश् खजीकृतो यस्मिषद्य कलि: खकालविहितोत्साहोऽपि नोत्सर्पति॥ १. अयमणोराजश्र बीरधवलमहाराजपितामह इति कीर्तिकौमुदीकाव्यख नरेन्द्रवं- क्षवर्णनात्मके द्वितीयसगें व्याख्यात एव भवेव.

Page 12

9

सर्पद्वि प्रवधूजनस्य विविधालंकाररत्नांशुभि: स्मेरा: संततगीतमङ्गलरवैर्वाचालतां प्रापिताः। अस्ता(श्रा)न्तोत्सवलक्ष्यमाण विभवोत्कर्षप्रकाशस्थितौ मार्गा एव वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम्॥ अस्मिन्नागरवंशजद्विजजनस्राणं करोत्यध्वरे रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च। मा भूत्तस्य तथापि तीव्रतपसो बाधेति भत्त्या नृपो वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः ॥ अस्मिन्वप्रगुणेन तोयनिलयाः प्रीणन्ति लोकं जलै: कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम्। एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया चक्रे वप्रविभूषितं पुरमिदं चौलक्यचूडामणिः ॥ पादाकान्तरसातलो गिरिरिव श्लाध्यो महाभोगतः शङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विषां नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारय- न्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः। रत्नखर्णमहानिधि पुरमिव त्रातुं स शेषः स्थितः प्राकारः सुधया सितोपलशिरा: संलक्ष्यते वृत्तवान्। कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्च्छन्दखन तत्परैर्वि जकुलैर त्यन्तवाचालिताः। उत्सर्पद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनै- रत्रान्तश्व बहिश्च संप्रति भुवः शोभाद्भतं बिभ्रति ॥ लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम्। विभ्राजते नागरकाम्यवृष्टिर्वप्रश्च चौलुक्यनराधिपश्च।। यावत्पृथ्वी पृथुविरचिताशेषभूमृन्निवेशा यावत्कीर्तिः सगरन्ृपतेर्विद्यते सागरोऽयम्।

श्रीचौलुक्यक्षितिपतियशःकीर्तनं वप्र एषः ।। एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचकवर्ती प्रशस्तिमेतामकरोतप्रशस्ताग॥

Page 13

८ संवत् १२०८ वर्षे आश्विन शुदि २ गुरौ लिखितं नागरब्राह्मणपण्डितबालणेन।।' इति काव्यमालापुस्तकान्तर्गतप्राचीनलेखमालायां G. Buhler Ph. D.,L.L. D.,C. I. E. महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ (A.D. I151) रूप: स्फुटमेव प्रतीयते. एवं च द्वादशी खित्रस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते. अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव, परंतु तन्नि- र्मितग्रन्थेषु-अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममाला- व्याख्या), अलंकारचूडामणिः (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम्, छन्दोनुशासनम्, छन्दोनुशासनवृत्तिः, देशीनाममाला सरवृत्तिः, [द्याश्रयकाव्यं सवृत्ति,] धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेष:, [प्रमाणमीमांसा सवृत्तिः,] बलाबल- सूत्रबृहद्दत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम्, लिज्गा- नुशासनं सवृत्ति, शब्दानुशासनं सवृत्ति, शेषसंग्रहः, शेषसंग्रहसारोद्धारः, एते ग्रन्था: Catalogus Catalogorum प्रन्थे Dr. Theodor Aufre- cht महाशयैः प्रकाशिता :. एवमनेकलक्षात्मक ग्रन्थकर्तृश्वेताम्बर जैनाचार्यश्री हेमचन्द्रकृतं काव्यानुशासनं खोपज्ञमस्माभिर्मुद्रयितुं दत्तं तदेतस्य अन्थस्य मुद्रणाय शोधनसमये येषां सुहृ- दयहृदयानां पुस्तकानि प्राप्तानि, तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते- १ काव्यानुशासनम् पुण्यपत्तनपुस्त कालयतः. १ काव्यानुशासनविवेक: पं० ज्येष्ठाराममुकुन्दशर्मणाम्. १ अस्मद्गहस्थम्. तदेवमनेकपुस्तकाधारेण शोधितमुद्रिते सव्याख्ये काव्यानुशासनेऽस्मद्दोषाद- क्षरयोजकदोषाद्वा यत्र कुत्रचनाशुद्धि: स्थिता जाता वा तत्र सुहृदया: सौहार्देन शोधयिष्यन्ति। यत :- गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सजनाः॥ इति प्रार्थयत: पण्टिन-शिवदत्त-काशीनाथौ।

Page 14

काव्यानुशासनविषयानुक्रमणिका मूलयन्थश्च।

विषयः। मूलग्रन्थः । पृष्ठसंख्या। मङ्गलाचरणम्- १ अकृत्रिमखादुपदां परमार्थाभिधायिनीम्। सर्वभाषापरिणतां जैनीं वाचमुपासहे॥ १॥ प्रस्तावना- २ शब्दानुशासनेऽस्माभि: साध्व्यो वाचो विवेचिताः। तासामिदानीं काव्यत्वं य्थावदनुशिष्यते ॥ २ ॥ प्रयोजनम्- ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च। काव्यकारणम्- ५ प्रतिभासय हेतु: । प्रतिभामेदौ- ५ सावरणक्षयोपशममात्रात्सहजा। मत्रादेरौपाधिकी। प्रतिभासंस्कार :- ६ व्युत्पत्त्यभ्यासाभ्यां संस्कार्या। व्युत्पत्ति :- ६ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । अभ्यास :- काव्यविच्छिक्षया पुनःपुनः प्रवृत्तिरभ्यासः ।

Page 15

२ काव्यमाला।

विषयाः । मूलग्रन्थः । पृष्ठसंख्या।

शिक्षा- सतोऽप्यनिबन्धोSसतोऽपि निबन्धो नियमश्छायाद्युप- जीवनाद्यश्च शिक्षाः। काव्यखरूपम् -- १९ प्रदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्। गुणदोषलक्षणम्- १९ रसस्योत्कर्षापकर्षहेतू गुणदोषौ भक्त्या शब्दार्थयोः। अलंकारलक्षणम्- २० अङ्गाश्रिता अलंकाराः। रसोपकारप्रकार :- २० तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः । शब्दार्थखरूपम्- २६

शब्दाः। मुख्यार्थलक्षणम्- २७ साक्षात्संकेतविषयो मुख्यः । गौणार्थलक्षणम्- २८ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारो- पितो गौणः । लक्ष्यार्थलक्षणम्- २९ मुख्यार्थसंबद्धस्तच्वेन लक्ष्यमाणो लक्ष्यः।

Page 16

काव्यानुशासनविषयानुक्रमणिका । ३

विषयाः। मूलप्रन्थः । पृष्ठसंख्या। व्यज्यार्थलक्षणम्- ३० मुख्याव्यतिरिक्तः प्रतीयमानो व्यञ्चो ध्वनिः। व्यज््यार्थमेदा :- ४६ व्यङ्गथः शब्दार्थशक्तिमूलः । शब्दशक्तिमूल व्यन्नयार्थ :- ४६ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्र व्यक्षकत्वे शब्दशक्तिमूलः पदवाक्ययोः । अर्थशक्तिमूलव्य प्रयार्थ :- ५४

इति प्रथमोऽध्यायः ।

रसलक्षणम्- ६७ विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः। रसमेदा :- शुङ्गारहास्यकरुणा रौद्रवीरभयानका वीभत्सा्भुवशान्ता ८१

नव रसा:।

स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यांडयवर्जव्यभिचा- ८२

रिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः। हास्यरस :- विकृतवेपादिविभावो नासास्पन्दनाद्यनुभावो निद्रादि- ८९

व्यभिचारी हासो हास्य:।

Page 17

काव्यमाला।

विषय: । मूलग्रन्थः। पृष्टसंर्या।

करुणरस :- ९१ इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्य- भिचारी शोक: करुणः । शौद्ररस :- ९१ दारापहारादिविभावो नयनरागाद्यनुभाव औड्यादिव्य- भिचारी क्रोधो रौद्रः। वीररस :- ९३ नयादिविभाव: स्थैर्याद्यनुभावो धृत्यादिव्भिचार्युत्साहो धर्मदानयुद्धमेदो वीरः। भयानक :- ९३ विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादि- व्यभिचारि भयं भयानक: । बीभत्सरस :- ९५

मिचारिणी जुगुप्सा बीभत्सः । अद्भुतरस :- ९५ दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादि- व्यभिचारी विसयोऽद्धुतः । शान्तरस :- ९६ वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनु- भावो धृत्यादिव्यभिचारी शमः शान्तः ।

Page 18

काव्यानुशा सनविषयानुकमणिका । ५

विषयः । मूलग्रन्थः । पृष्ठसंख्या। स्थायिभावा :- १०० रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमा: स्था- यिनो भावा:। व्यभिचारिभावा :- १०२

मोन्मादमोहचिन्ता मर्षत्रासापसमारनिर्वेदावेगवितर्कासूयामृ-

रिणः । सात्त्विकभावा :- ११८

साच्विकाः । रसाभास :- १२० निरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ। इति द्वितीयोऽध्यायः ।

काव्यदोष :- १३१ रसादेः खशब्दोक्ति: क्वचित्संचारिवर्ज दोषः। रसदोषा :- १४२ विभावानुभावक्केशव्यक्ति: पुनःपुनर्दीस्याकाण्डप्रथाच्छे- दाङ्गाति विस्तराञ् ननुसंधानानङ्गाभिधानप्रकृतिव्यत्ययाश्च। - पददोषा :- निरर्थकासाधुत्वे पदस्य। १६३

2 का० शा०

Page 19

६ काव्यमाला।

विषयः । मूलग्रन्थ:। पृष्ठसंख्या। वाक्यदोषा :- १६४

क्यस्य। पदवाक्यदोषा :- १८८

अर्थदोषा :- कष्टापुष्टव्याहत ग्राम्याश्लीलसाकाङ्मसंदिग्धाक्रमपुनरुक्त- २२०

रिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य। इति तृतीयोऽध्यायः ।

गुणा :- माधुर्यौजःप्रसादास्त्रयो गुणाः। २३२

माधुर्यगुण :- द्रुतिहेतुर्माधुर्य शुङ्गारे। २४१

माधुर्यव्यञ्जका :- तत्र निज्ञान्त्याक्रान्ता अटवर्गा वर्गा हखान्तरितौ रणा- २४१

वसमासो मृदुरचना च। ओजोगुण :- २४२ दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम्।

Page 20

काव्यानुशासनविषयानुक्मणिका।

विषयः । मूलग्रन्थ: । पृष्ठसंख्या।

ओजोव्यञ्जका :- २४२ आद्यवृतीयाक्रान्तौ द्वितीयतुर्यौ युक्तो रेफस्तुल्यश्च टव- र्गशषा वृत्तिदैर्ध्यमुद्धतो गुम्फश्रात्र। प्रसादगुण :- २४३ विकासहेतु: प्रसाद: सर्वत्र। प्रसादव्यञ्जका :- २४३ इह श्रुतिमात्रेणार्थप्रत्यायका सर्ववृत्तिगुम्फाः। गुणान्यथात्वम्- २४४ वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि। इति चतुर्थोऽष्यायः।

शब्दालंकाराः ।

अनुप्रास :- २४७ व्यञ्जनस्यावृत्तिरनुप्रासः। लाटानुप्रास :- २४८ तात्पर्यमात्र मेदिनो नाम्न: पदस्य वा लाटानाम्। यमकम्- २४९ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिकमैक्ये यमकम्। यम कस्थानम्- २५१ तत्पादे भागे वा।9 चित्रकाव्यम्- २५७ सरव्यञ्ञनस्थानगत्याकारनियमच्युतगूढादि चित्रम्

Page 21

८ काव्यमाला।

विषयः । मूलग्रन्थ: । पृष्ठसंख्या। श्ेष :- २७२ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्ति: श्रेषः । वक्रोक्ति :- २८०

पुनरुक्ताभास :- २८६ भिन्नाकृतेः शब्दस्ैकार्थतेव पुनरुक्ताभासः । इति पश्चमोऽध्यायः ।

अर्थालंकाराः

उपमा- २८७ हृदं साधर्म्यमुपमा। उपमाकारणानि- सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये २८९

वृत्तौ च। उत्प्रेक्षा- २९७

रूपकम्- २९८ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम्। निदर्शनम्- ३०२ इष्टार्थसिध्धा दष्टान्तो निदर्शनम्। दीपकम्- ३०४ प्रकृताप्रकृतानां धर्मक्यं दीपकम्।

Page 22

काव्यानुशासनविषयानुक्रमणिका। ९

विषयः। मूलभ्रन्थः। पृष्ठसंख्या। अन्योक्ति :- ३०७ सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः । पर्यायोक्तम्- ३१६ व्यङ्गयस्योक्ति: पर्यायोक्तम्। अतिशयोक्ति :- ३१७ विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः। आक्षेप :- ३२१ विवक्षितस्य निषेध इवोपमानस्याक्षेपश्राक्षेप:। विरोध :- ३२२ अर्थानां विरोधाभासो विरोधः । सहोक्ति :- ३२७ सहार्थचलाद्धर्मस्यान्वयः सहोक्ति:। समासोक्ति :- ३२८ छ्रिष्टविशेषणैरुपमानधीः समासोक्तिः। जाति :- ३२९ स्वभावाख्यानं जाति । व्याजस्तुति :- ३३१ स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः। श्रेष :- ३३१ वाक्यार्थस्यानेकार्थता क्लेप:।

Page 23

प्राप काव्यमाला।

विषयः । मूलग्रन्थ:। पृष्ठसंरूया। व्यतिरेक :- ३३२ उत्कर्षापकर्षहेत्वोः साम्यसय चोक्तावनुक्तौ चोपमेयस्या- धिक्यं व्यतिरेकः। अर्थान्तरन्यास :- ३३४ विशेषस्य सामान्येन साधर्म्यवैधर्म्याम्यां समर्थनमर्था- न्तरन्यासः। ससंदेह :- ३३४ स्तुत्यै संशयोक्ति: ससंदेहः। अपहुति :- ३३७ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहुतिः । परावृत्ति :- पर्यायविनिमयौ परावृत्तिः । ३३८

अनुमानम्- हेतोः साध्यावगमोऽनुमानम्। ३३९

स्मृति :- सदशदर्शनात्सरणं स्मृतिः । ३४०

आ्रन्ति :- ३४१ विपर्ययो भ्रान्तिः । विषमम्- क्रियाफलाभावोऽनर्थश्र विषमम् ३४१

समम्- योग्यतया योग: समम्। ३४१

Page 24

काव्यानुशासनविषयानुक्मणिका । ११

विषयः । मूळग्रन्थ:। पृष्ठसंख्या। समुचय :- ३४२. हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्र समुचय:। परिसंख्या- ३४४ पृष्टेऽपृष्टे वान्यापोहपरोक्ति: परिसख्या। कारणमाला- ३४६ यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला । संकर :- ३४७ स्वातत्र्याङ्गत्वसंशयैकपदयैरेषामेकत्र स्थितिः संकरः। इति षष्ठोऽध्यायः ।

नायकादिलक्षणानि। नायक :- ३५५ समग्रगुण: कथाव्यापी नायक: । नायकगुणा :- ३५५ शोभाविलासमधुरललितमाधुर्यस्थैर्यमाम्भीयौदार्यतेजां- स्यष्टौ सत्वजासतद्गुणाः। नायकमेदा :- धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा ३५९

नायिकालक्षणम्- तहुणा खपरसामान्या नायिका त्रेधा। ३६१

स्त्रीणां खाभाविकालंकारा :- ३७० सच्वजा विंश्तिः स्रीणामलंकाराः। इति सप्तमोऽध्यायः ।

Page 25

१२ काव्यमाला।

विषयः । मूलग्रन्थः। पृष्ठसंख्या।

प्रबन्धात्मकाः काव्यभेदाः ३७९ काव्यं प्रेक्ष्यं श्रव्यं च। प्रेक्ष्यं विभजते- ३७९ प्रेक्ष्यं पाठ्यं गेयं च। पाठ्यं भिनत्ति- ३७९ पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायो- गोत्सष्टिकाङ्कप्रहसनभाणवीथीसटटकादि। गेयं विभजते- ३९१

ल्लीसकरासकगोष्ठीश्रीगदितरागकाव्यादि। प्रेक्ष्यमुक्त्वा श्रव्यमाह- ३९५ श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च। अ्रन्थसमाप्ति :- ४०८

इत्यष्टमोऽध्यायः ।

Page 26

काव्यमाला।

आचार्यहेमचन्द्रविरचितं काव्यानुशासनम् । खोपज्ञालंकारचूडामणिसंज्ञकवृत्तिसमेतम्।

प्रथमोऽध्यायः । प्रणम्य परमात्मानं निजं काव्यानुशासनम्। आचार्यहेमचन्द्रेण विद्वल्पीत्यै प्रतन्यते॥

प्रणिधत्ते- ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां

अकृत्रिमखवादुपदां परमार्थाभिधायिनीम्। सर्वभाषापरिणतां जैनीं वाचमुपास्महे॥ १ ॥ रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारण- शुद्दोपादेयतामाह। उच्यते इति वाक्, वर्णपदवाक्यादिभावेन भाषा द्रव्यपरिणतिस्तामुपास्महे । उपासनं योगप्रणिधानम्। अकृत्रिमखादू- न्यनाहार्यमाधुर्याणि पदानि नामिकादीनि यस्यां सा तथोक्ता। स्च्छ-

विवरीतुं क्वचिष्टब्धं नवं संदर्भितुं क्वचित्। काव्यानुशासनस्यायं विवेकः प्रवितन्यते॥ १. वृत्तिसमेतस्यैव मूलग्रन्थस्य नाम काव्यानुशासन मितीति प्रतीयते. काव्यानुशा- सनपदमेव वा स्वव्याख्यावाचकम्.

Page 27

२ काव्यमाला।

खादुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते। अथ वा अकृत्रिमा- ण्यसंस्कृतान्यत एव खादूनि मन्दधियामपि पेशलानि पदानि यस्या- मिति विग्रहः। उक्तं हि-'बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्कि· णाम्। अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥' तदेतद्गीता- दिसाधारणमिति विशिनष्टि-परमार्थो निःश्रेयसं तदभिधानशीलां परमार्थार्मिघायिनीम् । द्रव्याद्यनुयोगानामपि पारम्पर्येण निःश्रेयसप्र- योजनत्वात्। तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम्। एकरूपापि हि भगवतोऽर्घमाग- घीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति। यदाह- 'देवा दैवीं नरा नारीं शबराश्चापि शाबरीम्। तिर्यश्चोऽपि हि तैरश्रीं मेनिरे भगवद्गिरम् ॥।' न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपद- नेकसत्त्वोपकारः शक्य: कर्तुम् ॥ अथ प्रेक्षावत्प्वृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह- शब्दानुशासनेऽसाभि: साध्व्यो वाचो विवेचिताः। तासामिदानीं काव्यत्वं यथावदनुशिष्यते ॥ २ ॥ शब्दानुशासने 'सिद्धहेमचन्द्राभिधाने'। विवेचिता असाध्वीभ्यो वाग्भ्यः पृथक्कताः । इदानीं शब्दानुशासनादनन्तरं तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्त्विकेन रूपेणानुशिष्यते। वाचां हि

द्रव्यादनुयोगानामपीति। इहानुयोगश्चतुर्धा। आचरणकरणधर्मकथाग- णितद्रव्यभेदात्। तत्राद्यस्य सम्यग्ज्ञानदर्शनपवित्रिते नवकर्मानुपादानातीतकर्म- निर्जरारूपे संयमतपसी प्रतिपादये इति सर्वकर्मविमोक्षलक्षणमोक्षपरतात्परमार्था- भिधायित्वं प्रतीतमेव। शेषाणां तु पारम्पर्येण द्रव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात्पश्वानुपूर्व्यादावुपदेशः। तथा हि। नयप्रमाणबलेन दुर्णयतिरस्का-

Page 28

काव्यानुशासनम्। ३

साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासन-काव्या नुशासनयोरेककर्तृकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव नार- प्स्यते। शब्दानुशासनेनैव चरितार्थत्वात्। शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाह- काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय थ। लोकोत्तरं कविकर्म काव्यम्। यदाह- 'प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता। तदनुप्राणना जीवद्वर्णनानिपुणः कविः। तस्य कर्म स्मृतं काव्यम् ।I' इति। सद्ो रसाखवादजन्मा निरस्तवेद्यान्तरा ब्रह्माखवादसदृशी प्रीतिरा- नन्दः। इदं सर्वप्रयोजनोपनिषद्धूतं कविसहृदययोः काव्यप्रयोजनम्।

रात्स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्वं प्ररूप्यते। चेतनाचे- तनरूपसकलद्रव्याणां योनयश्चेति वस्तुतत्त्वनिरूपणेन द्रव्यस्य गणितबलेन सुरा- दीनां सर्वमानायूंषि चन्द्राद्युपरागादयश्च निश्चीयन्ते इत्यायुरादिज्ञानेन गणितस्य वैराग्योपजननमिति वृत्तं प्रश्रूयते। इत्यवदातकथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मक- थायाः परमपुरुषार्थाभिधायकत्वं परम्परयास्तीति ॥ सर्वप्रयोजनोपनिषन्धू- तमिति। यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते सर्वत्रानन्दस्यैव साध्यत्वातू। तथा हि। कवेस्तावत्कीर्त्यापि प्रीतिरेव संपाद्या। यदाह-'कीर्ति खर्गफलामाहुः' इत्यादि। श्रोतृणां व्युत्पत्तिर्यद्यप्यस्ति, तथापि त्र प्रीतिरेव प्रधानम्। अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्वेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति। चतुर्वर्गव्युत्पत्तिरपि चानन्द एव पार्यस्ति(न्ति)कं मुख्यफलमिति ॥ कविसहृदययोरिति। यः काव्यं कुरुते स कविः। यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्म- यीभवनायोग्यतासहृदयसंवादभाक् स सहृद्यः । काव्यकर्तृत्वलक्षणपूर्वावस्था- पेक्षया कविशब्दनिर्देशः। यतः-कवेरपि भावकावस्थायामेव रसास्ादः संपद्यते पृथगेव हि कविताद्धावकत्वम् । यदाह-'सरखत्यास्तत्वं कविसहृदयारूयं विज-

Page 29

8 काव्यमाला।

यशस्तु कवेरेव। यत इयति संसारे चिरातीता अप्यद्य यावत्कालि- दासादयः सहृदयैः स्तूयन्ते कवयः। प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योरऽर्थप्रधानेभ्यः पुराणप्रकरणादिभ्यश्च शब्दार्थयोर्गुणभावे च रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युप- दिशतीति सहृदयानां प्रयोजनम्। तथा चोक्तं हृदयदर्पणे-

'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ।।' इति।

यते' इति॥ यशस्त्विति। यदाह-'अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये। तदलममलं कर्तु काव्यं यतेत समा- हितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥' कवेरेवेति। न तु सहृदयस्य ॥ प्रभुतुल्येभ्य इति। कर्तव्यमिदमित्याज्ञामात्रपरमार्थेभ्यः ॥ मित्रसंमितेभ्य इति। अस्येदं वृत्तममुष्मात्कर्मण इत्येवं युक्तियुक्तकर्मफलसं- बन्धप्रकटनकारिभ्यः ॥ उपदिशतीति। अप्रयासेन शिक्षयति। व्युत्पत्ति करोतीति यावत्। अयमभिप्रायः-ये शास्त्रेतिहासे भ्योऽलब्धव्युत्पत्तयोऽथ वाव- श्यव्युत्पाद्याः प्रजार्थसंपादनयोग्यताक्ान्ता राजपुत्रप्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिणः काव्यात् [स]हृदयानुप्रवेशमुखेन चतुर्वर्गोपायव्युत्पत्तिराधेया। हृदयानुप्रवेशश्च रसाखादमय एवासवरसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभा- वादिसंयोगप्रसादोऽपनत इत्येवं रसोचित विभावाद्युपनिबन्धे रसास्वादवैवस्य(श्य)- मेव खरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु-'चरां बाल्येडिस्तां(?) तरुणिमनि यून: परिणतावपीप्सामो वृद्धान्परिणय- विधिस्तु स्थितिरियम्। त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रेषु त्रिः क्चिदपि सतीलाञ्छनमभूत् II' इत्यादिकाव्यमसदुपदेशकं दृश्यते। व्युत्प-

Page 30

काव्यानुशासनम् ।

धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारा- न्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् ।। प्रयोजनमुक्त्वा काव्यस्य कारणमाह- प्रतिभासय हेतु:। प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा। अस्य काव्यस्य। इदं प्रधानं कारणम्। व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते॥ सा च सहजौपाधिकी चेति द्विघा। तत्र सहजामाह- सावरणक्षयोपशममात्रात्सहजा।। सवितुरिव प्रकाशखभावस्यात्मनोSभ्रपटलमिव ज्ञानावरणीयाद्याचरणं तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्रतिभा। मात्रग्रहणं मब्रादिकारणनिषेधार्थम्। सहजप्रतिभाबलाद्धि गु- णभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म॥ द्वितीयामाह- मत्रादेरौपाधिकी।

त्तिरपि च तस्मात्तादृग्विषया संभाव्यते। ततश्च तदनुपदेश्यमित्यायातम्। सत्यम्। अस्त्ययमुपदेशः। किं तु निषेध्यत्वेन, न विधेयत्वेन । य एवंविधा विधयः पर- स्त्रीघु पुंसा संभवन्ति तानवबुध्य परिहरेदिति कवीनां भाव: ॥ एवमानन्दयश- श्वतुर्वगोपायव्युत्पत्तीनां काव्यप्रयोजनतामसाधारणीं प्रतिपाद्य यत् कैश्चित् 'श्री- हर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमित्यादेर्मयूरादीनामिवा- नर्थनिवारणं च' प्रयोजनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति-धनमनैकान्तिक- मिति।न हि काव्याद्धनं भवत्येवेत्यनैकान्तिकमित्यर्थः। तथा चाह-'उपशमफ लाद्विद्याबीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भताम्। न नि यतफला: कर्तुर्भावाः फलान्तरमीशते जनयति खलु व्रीहेबीजं न जातु यवाक्क- रम्।' इति॥ शास्त्रेभ्य इति । चाणक्यादिप्रणीतेभ्यः॥ प्रकारान्तरेणा-

Page 31

६ काव्यमाला। मन्न देवतानुग्रहादिप्रभवौपाधिकी प्रतिभा। इयमप्यावरणक्षयोपशम- निमित्तैव। दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते॥ सा चेयं द्विघापि प्रतिभा- व्युत्पत्यभ्यासाभ्यां संस्कार्या। व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ ताभ्यां संस्करणीया। अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रति- भाहीनस्य विफलौ व्युत्पत्त्यभ्यासौ।। व्युत्पत्तिं व्यनक्ति- लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । लोके स्थावरजङ्गमात्मके लोकवृत्ते च शास्त्रेषु शब्दच्छन्दोनुशास-

पीति। मन्त्रानुष्ठानादिना ॥ लोके इति। इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्यवहारश्वाभिधीयत इत्यर्थः । सच देशकालादिभेदादनेकप्रकार: प्रकृतिव्यत्ययाख्ये रसदोषे प्रपश्चयिष्यते ।। शब्देत्यादि। शब्दानु- शासनं व्याकरणं ततो हि शब्दशुद्धिः। तन्नैपुण्यं यथा-'द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः। तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥' छन्दोनुशासनं छन्दोविचितिः। काव्याभ्यासाद्टृत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एव निश्चयः। तन्नैपुण्यं यथा-'उद्भिही च संसतौ स्याद्धवरजोगुरुनो(?) भवे- यदि क्षितौ श्रीजिनेन्द्रशासनम्'॥ अभिधानकोशो नाममाला। ततो हि पदार्थनिश्रयः। अपूर्वाभिधानलाभार्थत्वं प्रयुक्तमभिधानकोशस्याप्रयुक्तस्याप्रयोज्य- त्वात्। यदि तर्हि प्रयुक्त प्रयुज्यते किमिति पदस्य संदिग्धार्थत्वमाशद्वितम्, तत्र सामान्येनार्थगतिः संभवति। यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्य- चिन्निश्चयः स्त्रियाः पुरुषस्य वेति संशयः। 'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपदिश्यते इति ॥ अपौरुषेयवचनं श्रुतिः । यथा-'उर्वशी हाप्सराः पुरूरवसमैडं चकमे।' तन्नैपुण्यं यथा-'चन्द्राह्ुधः समभवद्धगवान्नरेन्द्रमादयं पुरूरवसमैलमसावतस्त (सूत) । तं चाप्सराः

Page 32

काव्यानुशासनम्।

स्मरवती चकमे किमन्यदत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥।' श्रुत्यर्थस्मरणा- त्स्मृतिः। यथा-'बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना। संभावितैकदेशेन देयं यदभियुज्यते ।I' तन्नैपुण्यं यथा-'हंस प्रयच्छ मे कान्तां गतिस्तस्याश्च या हता। संभावितैकदेशेन देयं यदभियुज्यते ।।' वेदाख्यानोपनिबन्धनप्रायं पुराणम्। यथा-'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत। भयभ्रान्तैः सुरैश्वके त्रिसंध्यं त्रिर्दिशे नमः ॥' तन्नैपुण्यं यथा-'स संचरिष्णुर्भुवनत्रयेऽपि यां यदच्छयाशि- श्रियदाश्रयः श्रियाम्। अकारि तस्यै मुकुटोपलस्खलत्करैस्तिरिसंध्यं त्रिदशैर्दिशे (मः ॥' पुराणप्रतिमेद एवेतिहासः। यथा-'न स संकुचितः पन्था येन वाली हतो गतः। समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥' तन्नपुण्यं यथा- 'मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम्। जगज्जिघत्सातु- रकण्ठपद्धतिर्न बालिनैवाहिततृप्तिरेककः ॥' आप्तवचनमागमः। तत्र शैवागम- नैपुण्यं यथा-'घोरघोरतरातीतब्रह्मविद्याकलातिगः। परापदपदव्यापी पायाद्वः परमेश्वरः ॥' बौद्धागमनैपुण्यं यथा-'कलिकलुषकृतानि यानि लोके मयि निप- तन्तु विमुच्यतां स लोकः। मम हि सुचरितेन सर्वसत्त्वा: परमसुखेन सुखावनि प्रयान्तु II' एवमागमान्तरेष्वपि ॥ तर्कः षद्रप्रकारः। तत्रार्हतो यथा-शरीर- परिमाण आत्मा। अन्यथा शरीराफल्यमात्माफल्यं वा। तन्नैपुण्यं यथा-'शरी- रमात्रमात्मानं ये विदन्ति जयन्ति ते। तच्चुम्बनेऽपि यज्ातः सर्वाङ्गपुलकोऽस्य मे ।' बौद्धीयो यथा-विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः। तन्नैपुण्यं यथा-'भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां वलात्परिचुम्बति। न न ननम मामा मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥' लौकायतिको यथा-भूतेभ्यश्चैतन्यं मदशक्ति वत्। तन्नैपुण्यं यथा-'बहुविधमिह साक्षिचिन्तकाः प्रवदन्तन्यमितः कलेवरात्। अपि मदतिहिते च चिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥' सांख्यीयो यथा-'नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्व- नयोस्तत्त्वदर्शिभिः ॥' तन्नैपुण्यं यथा-'य एते यज्वानः प्रथितमहसो येऽप्य- वनिपा मृगाक्ष्यो याश्वैताः कृतमपरसंसारकथया। अमी ये दृश्यन्ते फल- कुसुमनम्राश्च तरवो जगत्येवंरूपा विलसति मृदेषा भगवती ।' न्यायवैशेषिकीयो

१. 'निहिते' इति भवेत्.

Page 33

काव्यमाला।

यथा-स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षे निरतिशयैश्वर्यस्य कर्तृत्वमिति सि- द्धान्त:। तन्नैपुण्यं यथा-'किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादानमिति च। अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुत- र्कोडयं कांश्चिन्मुखरयति मोहाय जगतः ॥' नाट्यशास्त्रनैपुण्यं यथा-'आत- न्वत्सरसां सरूपरचनामानन्दिबिन्दुद्वयं भावग्राहिशुभप्रवेशकगुणं गम्भीरगर्भ- स्थिति। उच्चर्वृत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिद्याद्वो भरतस्य भाषित- मिव ध्वान्तं पयो यामुनम् ।।' अर्थशास्त्रनैपुण्यं यथा मुद्राराक्षसनाटके। काम- शास्त्रनैपुण्यं यथा-'अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्ठुतकम्। तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ।।' योगशास्त्रनैपुण्यं यथा-'पृथुशास्त्रकथाकन्थारोभन्थेन वृथात्र किम्। अन्वेष्टव्यं प्रयत्नेन तत्त्व- ज्ञैर्ज्योतिरान्तरम् ।।' आदिग्रहणादायुर्वेदशास्त्रनैपुण्यं यथा-'अज्गे चन्दनपङ्ढपड्ठ- जबिसच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटः कंस्यः सेषीकस्य नः।श्वा- सासंवृतसारहाररुचयः संभिन्नपीनांशुकाजातः प्रागनिदानवेदनमहारम्भः स तस्या ज्वर: ॥l' ज्योतिःशास्त्रनैपुण्यं यथा-'दामासौकयतां कलाः कलयतां 6.सैमादिन्वतां क्ेशः केवलमङ्गलीर्गणयतां मौहूर्तिकानामयम्। धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञाचरणप्रियानयनयोः सीमानमेति प्रिया॥' गजलक्षणनैपुण्यं यथा-'कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवा- क्शङ्वच्छत्रविराजिराज्यविभवद्वेषी निलीनेक्षणः। स्मृत्वा राघवकुञ्जरः प्रियतमामे- काकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति॥'गशास्त्रनै- पुण्यं यथा-'आवर्तशोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः। गम्भीर- घोषोऽद्रिविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यताब्धिः ॥' रत्नपरीक्षानैपुण्यं यथा- द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टी न तु सार्वजन्यौ। यः स्याजपाविद्रुम- भग्गशोणो यो वा हरिद्वारससंनिकाशः ॥' धातुवादनैपुण्यं यथा-'नखदलितहरि- द्राप्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डभावः । बलवति सति यस्मिन्सार्धमावर्त्य हस्ता रजतमिव मृगाक्ष्याः कल्पितान्यन्गकानि ॥' द्यूतनैपुण्यं यथा-'यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चासते। इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह १. 'शशी कस्य' इति भवेत्. २. 'धामालोकयता' इति भवेत्, ३. 'समादित्सतां' इति भवेतू.

Page 34

काव्यानुशासनम्। ९

काव्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः लोकादि- निपुणता । संस्कृतप्रतिभा हि तदनतिक्रमेण काव्यमुपनिबध्नाति॥ भभ्यासं व्याचष्टे- काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः। काव्यं कर्तु जानन्ति विचारयन्ति वा ये ते काव्यविदः कविसह- दयाः। वेत्तेर्विन्तेश्वावृत्या रूपम्। तेषां शिक्षया वक्ष्यमाणलक्षणया काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः । अभ्याससंस्कृता हि प्रतिभा काव्या- मृतकामधेनुर्भवति। यदाहुः-'अभ्यासो हि कर्मसु कौशलमावहति। नहि सकृन्निपतितमात्रेणोदबिन्दुरपि आ्रवणि निम्नतामादघतीति शिक्ष- येत्युक्तम्' इति॥ शिक्षां लक्षयति- सतोऽप्यनिचन्धोऽसतोऽपि निबन्धो नियमश्छायादयुपजीव- नाद्यश्च शिक्षाः । सतोऽपि जाति द्रव्यगुणक्रियादेरनिबन्धनम्, असतोऽपि जात्यादेरेव बहुकल: क्रीडति प्राणिशारैः ॥' इन्द्रजालनैपुण्यं यथा-'एष ब्रह्मा सरोजे रज- निकरकलाशेखरः शंकरोऽयं दोभिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिहैश्चतुर्मिः। एषोऽप्यैरावणस्थविदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योम्नि चैताश्चलच- रणरणन्नूपुरा दिव्यनार्य: ॥' चित्रनैपुण्यं यथा-'अतथ्यान्यपि तथ्यानि दर्श- यन्ति विचक्षणाः । समनिम्नोन्नतानीव चित्रकर्मविदो जनाः ॥' धनुर्वेदनैपुण्यं यथा-'आर्याशास्त्रघनीघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रण- यिनी चित्रक्रियालंकृतिः। निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषंव दृष्टा स्थितिः ॥'एवमन्यदपि ॥ लोकादिनि- पुणता। संस्कृतप्रतिभा हीति। यदाह-'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला। जायते यन्न काव्यान्महाभारो गुरुः कवेः ॥' इति ॥

Page 35

१० काव्यमाला।

निबन्धनम्, नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम्, छायायाः प्रतिबिम्बकल्पतया आलेख्यप्रख्यतया तुल्यदेहितुल्यतया परपुरप्रवेश-

छायाया इति। छायाया अर्थादर्थस्य। तदुपजीवनं क्वचित्प्रतिबिम्बतुल्यतया। यथा-'ते पाण्डवाः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः। चन्द्रामृतांशुकणसेकसुखप्ररूढैयैंरङ्कुरैरिव विराजति कालकूटः ॥' यथा च-'ज. यन्ति नीलकण्ठस्य नीला: कण्ठे महाह्यः । गलद्रङ्गाम्बुसंसिक्तकालकूटाड्कुरा इव I' यदाह-'अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र। तदपरमार्थ- विमेदं काव्यं प्रतिबिम्बकल्पं स्यात् ।I' क्वचिदालेख्यप्रख्यतया । तत्रैवार्थे यथा-'जयन्ति धवलव्यालाः शंभोजूटावलम्बिनः । गलद्गग्गाम्बुसंसिक्तचन्द्रक- न्दाक़कुरा इव ।I' यदाह-'कियतापि वस्तुसंस्कारकर्मणा वस्तु भिन्नवद्भाति। तत्कथितमर्थचतुरैरालेख्यप्रर्यमिति काव्यम् ।।' क्वचित्तुल्यदेहितुल्यतया । यथा-'अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम्। अमीषां निर्माणं किमपि तदभूद्वद्धकरिणां वनं वा क्षोणीमृद्भव- नमथ वा येन शरणम् ।।' अत्रार्थे-'प्रतिगृहमुपलायामेक एव प्रकारो मुहुरुपक- रणत्वादर्थिता: पूजिताश्च। स्फुरति ह नु मणीनां किं तु तद्धाम येन क्षितिपति- भवने वा साकरे वा निवासः ॥' यदाह-'विषयस्य यत्र भेदेऽप्यभेदबुद्धिनि- तान्तसादृश्यात्। तत्तुल्यदेहितुल्यं काव्यं बध्नन्ति सुधियोऽपि ॥' क्वचि- स्परपुरप्रवेशप्रतिमतया। यथा-'यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्र्जितनिर्जिताम्बुधिरिव स्फाराभ्रवृन्दाकुलम्। उत्सष्टप्रसभाभि- षेणनभयस्पष्टप्रमोदाश्रुभि: किंचित्कुञ्चितलोचनाभिरसकृदघ्राताः कदम्बानिलाः॥' अत्रार्थे-'आच्छिद प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यत्राभङ्गविधायिनो जलमुर्चा कालस्य चिह्नं महत् । हे मातः परिचुम्बितं नयनयो्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम् ॥' यदाह-'मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकः। तत्परपुरप्रदेशप्रतिमं काव्यं सुकविभा- व्यम् ।।' यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम्। पदोपजीवनं यथा-'दूरा- कृष्टशिलीमुखव्यतिकरान्नो किं किरातानिमानाराध्यावृतपीनलोहितमुखान्कि वा पलाशानपि। पान्था: केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितांनि शरणं यात प्रियां देवताम् ॥' यथा च-'मा गाः पान्थ प्रियां १. 'कल्पतया' इति मूलपुस्तके उपलभ्यते.

Page 36

काव्यानुशासनम् । ११

प्रतिमतया चोपजीवनम्, आदिशब्दात्पदपादादीनां च काव्यान्तराध- मुक्त्वा दूराकृष्टशिलीमुखम्। स्थितं पन्थानमावृत्य किं किरातं न पश्यसि।' पादोपजीवनं यथा-'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त(त्व)रा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम्। संसारे घटिकाप्रवाहविग- [ल]द्धारासमे जीविते को जानाति पुनस्त्वया सह मम स्याद्ा न वा संगम: ॥' यथा च-'हंहो स्निग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैरमया गन्तव्यं कतिचिददिनानि भवता नास्मत्सकाशात्क्चित्। त्वत्सज्गेन करोमि जन्म- मरणोच्छेदं गरृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगम: ॥' पादद्वयोपजीवनं यथा-'तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति। अभ्युद्रते तुहिनधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेष: ॥' यथा च-'तत्तावदेव शशिनः स्फुरितं महीयो यावन्न किंचिदपि गौरितरं हसन्ति। ताभिः पुनर्वि- हसिताननपड्कजाभिरिन्दोः सिताभ्रशकलस्य च को विशेषः ।' पादत्रयोपजीवनं यथा-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे। न्यासापह्नवने चैव दिव्या संभवति क्रिया॥' यथा चोत्तरार्धे-'तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥' पादचतुष्टयोपजीवने तु परिपूर्ण चौर्यमेवेति न तन्निदिंश्यते॥ आदिग्रहणात्पदैकदेशोपजीवनम्। यथा-'नाश्चर्यं यदनार्याप्तावस्त- प्रीतिरयं मयि। मांसोपयोगं कुवीत कथ क्षुद्रं हितो जनः॥' यथा च-'कोपान्मा- निनि किं स्फुरत्यतितरां शोणाधरसेऽधरः किं वा चुम्बनकारणादयि तनोर्वायोर्वि- कारादयम्। तत्त्वं शुकसुगन्धिमाहितरसं स्न्िग्धं भजखादरानमुग्वे मांसरसं ब्रुवन्निति तया गाढं समालिङ्वितः ॥I' उत्तयुपजीवनं यथा-'ऊरुद्वन्द्वं सरसकद- लीकाण्डसब्रह्मचारि' इति। यथा च-'ऊरुद्वयं कदलकन्दलयोः सवंशश्रोणिः सि(शि)लाफलकसोदरसंनिवेशा। वक्षः स्नद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥' उक्तयोर्यथान्तरसंकान्ता न प्रत्यभिज्ञायते खदत्ते च(?)।। नन्विदमुपदेश्यमेव न भवति। यदित्थं कथयन्ति-'पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते। अपि पुत्रेषु पौत्रेषु वाक्चौर्य न विशीर्यते ॥' इत्याशड्क्याह- यथौचित्यमिति। अयमप्रसिद्धः प्रसिद्धिमानहम्, अयमप्रतिष्ठः प्रतिष्ठावानहम, अप्रकरान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गुडूचीवचनोऽयं मृद्वीकावच- नोऽहम्, अनादतभाषाविशेषोऽयम् आदृतभाषाविशेषोऽहम्, प्रशान्तज्ञातृकमिदं

Page 37

१२ काव्यमाला।

थौचित्यमुपजीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः। तत्र

देशान्तरकर्तृकमिदम्, उत्सन्नबन्धनमूलमिदं म्लेच्छितकोपानेबद्धमिदम्, इत्येव- मादिमिः कारणैः शब्दहरणार्थहरणे चाभिरमयत्यवन्तिसुन्दरी(?)। आहुश्- 'नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः। स नन्दति विना वाच्यं यो जानाति निगूहितुम्॥। उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः। आच्छादकस्तथा चान्य- स्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचन नूननम्। उल्लिखेत्किं- चन प्राच्यं दृश्यतां स महाकविः ॥' समस्यापूरणाद्या इति। तत्र पादस मस्या यथा-'मृगात्सिंहः पलायते' इति, 'समुद्राबूलिकच्छिते' इति चैतौ चतुर्थौं पादौ। यथाक्रममन्यत्पादत्रयं यथा-'मदमन्थरमातङ्गकुम्भपाटनलम्पटः। दैवे पराझुखे कष्ट मृगात्सिंहः पलायते॥' 'सीतासमागमोत्कण्ठाकर्णान्ताकृष्टध- न्वनः । राघवस्य शराज्ञारै: समुद्राद्धूलिकच्छिते ॥' पादद्वयसमस्या यथा- 'चव्यचित्रकनागरैः', 'लड्डायां रावणो हतः' इति द्वितीयचतुर्थौ पादौ। प्रथमतृ- तीयौ तु-'मुमूर्षो किं तवाद्यापि चव्यचित्रकनागरैः। स्मर नारायणं येन लङ्कायां रावणो हतः ॥I' 'किमपि किमिह दृष्ट स्थानमस्ति श्रुतं वा व्रजति दिनकरोडयं यत्र नासं कदाचित् । भ्रमति विहगसार्थानित्थमापृच्छयमानो रजनि- विरहभीतश्वक्रवाको वराकः ॥' यथा च-'जयति सितविलोलव्यालयज्ञोपवीती

तशितिकण्ठश्यामकण्ठः पिनाकी ॥' यथा च-'कुमुदवनमपश्रि श्रीमदम्भोज- खण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्वाकः । उदयमहिमरर्मिर्याति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥' इति वृत्तत्रयात्प्रथमद्वितीयचतुर्थपाद- त्रयसमस्यायास्तृतीयपादेन पूरणं यथा-'किमपि किमिह हष्ट स्थानमस्ति श्रुतं वा धनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः ॥ निवसति स पिनाकी यत्र यायात्तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥' आद्य- अ्रहणाद्वाक्यार्थशून्यवृत्ताभ्यासो यथा-'आनन्दसंदोहपदार विन्दकुन्देन्दुकन्दो- दितबिन्दुवृन्दम्। इन्दिन्दिरान्दोलितमन्दभन्दनिष्पन्दनन्दन्मकरन्दवृन्दम् ।' पुरातनवृत्तेषु पदपरावृत्त्याभ्यासो यथा-'वागर्थाविव संपृक्तो वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये। जगतो जनकौ वन्दे शर्वाणीशशिशेखरौ।।' एवं महाकाव्यार्थचर्वणपरकृतकाव्य-

Page 38

काव्यानुशासनम्। १३

सतोऽपि सामान्यस्यानिबन्धो यथा-मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, फलस्याशोकेषु। द्रव्यस्य यथा-कृष्णपक्षे सत्या अपि ज्योत्सायाः, शुक्कपक्षे त्वन्धकारस्य । गुणस्य यथा-कुन्दकुञ्लानां कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्र हरितत्वस्य, प्रियङ्रुपु- ष्पाणां तु पीतत्वस्य। क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, निशानिमित्तस्य शेफालिकाकुसुमानां विस्त्रंसस्य च ।।

पाठादयाः शिक्षा अप्यूह्याः । किं च-'स्ास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता। स्मृतिदार्द्यमनिर्वेदश्व मातरोऽष्टौ कवित्वस्य ।।' इति। मालत्या वसन्त इति। 'अनिबन्धः' इति पूर्वस्मात्प्रत्येकमभिसंबध्यते। मालत्या वस- न्तेऽनिबन्धो यथा-'मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम्। आश्चर्य जाति- हीनस्य कथं सुमनसः प्रियः(याः) ॥' पुष्पफलस्य चन्दनदुमेष्वनिबन्धो यथा- 'यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः। निजवपुषैव परेषां तथापि संतापमपनयति ।' फलस्याशोकेष्वनिबन्धो यथा-'दैवायत्ते हि फले किं क्रियतामेकमत्र तु वदामः। नाशोकस्य किसलयैर्व्रक्षान्तरपल्लवास्तुल्याः ॥' कृष्ण- पक्षे ज्योत्स्नाया अनिबन्धो यथा-'दद्दशाते जनैस्तत्र यात्रायां सकुतूहलैः। वलभद्रप्रलम्बन्नौ पक्षाविव सितासितौ ।' शुक्कपक्षेन्धकारस्यानिबन्धो यथा- 'मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुक्कयोः। तत्रैकः शुकतां यातो यशः पुण्यैरवाप्यते ।।' कुन्दकुङ्ालानां कामिदन्तानां च रक्तत्वस्यानिबन्धो यथा- 'दोतितान्तःप्रभैः कुन्दकुङ्मालाग्रदतः स्मितैः। स्त्नपितेवाभवत्तस्य शुद्धवर्णा सर- खती ।।' कमलमुकुलानां हरितत्वस्यानिबन्धो यथा-'उद्दण्डोदरपुण्डरीकमुकुल- भ्रान्तिस्पृशा दंष्र्रया मम्नां लावणसैन्धवेत(म्भ)सि महीमुद्यच्छतो हेलया। तत्का- लाकुलदेवदानवनुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ।।' प्रिय ङ्ुपुष्पाणां पीतत्वस्यानिबन्धो यथा-'प्रियङ्गुश्याममम्भोधि(?)रन्ध्रीणां स्तन- मण्डलम्। अलंकर्तुमिव स्वच्छाः स्तुते मौक्तिकसंपदः ॥' दिवा नीलोत्पलानां विकासस्यानिबन्धो यथा-'आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसमाजितचन्द्रविम्बे। जातः पुनर्विकसनावसरोऽयमस्येत्युक्ला सखी कुवलयं श्रवणे चकार II' निशानिमित्तस्य शेफालिकाकुसुमानां विस्त्रंसस्यानिबन्धो

Page 39

१४ काव्यमाला।

असतोSपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलानाम्, जलाशयमात्रेSपि हंसादीनाम्, यत्र तत्र पर्वते सुवर्णरलादीनामिति। द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य, सूचीभेद्यत्वस्य च। ज्योत्स्नायां च कुम्भोपवाद्यत्वादे: । गुणस्य यथा-यशोहासादौ शौक्कयस्य, अयशः-

यथा-'स्वद्विप्रयोगे किरणैस्थोप्रर्दग्धास्मि कृत्ननं दिवसं सवित्रा। इतीव दुःखं शशिने गढम्ती शेफालिका रोदिति पुष्पबाष्पैः ॥' नदीष्वित्यादि। 'निबन्धः' इति प्रत्येकमभिसंबध्यते। तत्र नदीषु पद्मनिबन्धो यथा-'दीर्घी- कुर्वम्बहु मदकळं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीक- षायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: सिप्रावातः प्रियतम इव प्रार्थनाचाटुकार: ।।' नीलोत्पलानि यथा-'गगनगमनलीलालम्भितान्खेदबिन्दू- न्मृदुमिरनिळचारै: खेचराणां हरन्तीम्। कुवलयवनकान्त्या जाह्वीं सोऽ्भ्यपश्य- हिनपतिसुतयेव व्यक्तदन्ताङ्कपालीम् ।।' एवं कुमुदाद्यपि। जलाशयमात्रे हंसादयो यथा-'आसीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशवव- रकरिष्यति पुनः श्रीमत्कुडज्वेश्वरम्। हेलान्दोलितहंससारसकुलक्ेक्कारसंमूर्च्छितैरि- त्याघोषयतीव तन्नवनदी यश्चेष्टितं वीचिभिः ॥' यत्र तत्र पर्वते सुवर्ण यथा- 'नागावासश्चित्रपोताभिराम: खवर्णस्फातिव्याप्तदिकक्ष(क्चक्र)वालः। साम्यात्सरूयं जग्मिवानम्बुराशेरेष रूयातस्तेन जीमूतभर्ता ।I' रत्नानि यथा-'नीलाशमरश्मि- पटलानि महेभमुक्तसूत्कारशीकर विसृज्ञि(जि)तटान्तरेषु। आलोकयन्ति सरली- कृतकण्ठनाला: सानन्दमम्बुदधियात्र मयूरनार्यः ॥'तमसो मुष्टिग्राह्यत्वं यथा- 'तनुलभ्ा इब ककुभ: क्ष्मावलयं चरणचारमात्रमिव। दिवमिव बालकदप्री मुष्टि- भ्रात्ं तभः कुरुते ॥' सूचीभेद्यत्वं यथा-'पिहिते कारागारे तमसि च सूचीमु- खात्रनिभेये। मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम्।' ज्योत्स्नायाः कुम्भोपवाह्यत्वादि यथा-'शङ्कद्रावितकेतकोदरदलस्नोतःश्रियं बिभ्रती येयं मौकि- कदामगुम्फनविधेर्योग्यच्छविः प्रागभूत। उत्सेव्या(क्या) कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥' यशसः शौकयं यथा-'क्षेमः स्तोकोऽपि नाजे श्वसितमविकलं चक्षुषां सैव वृत्तिर्मध्ये क्षीराब्धि-

Page 40

काव्यानुशासनम्। १५

पापादौ कार्ष्ण्यस्य, क्रोघानुरागयो रक्तत्वस्य। क्रियाया यथा- चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि मिन्नतटाश्रयणस्य।। जातेरनियमो यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि। द्रव्यस्य यथा-मलय एव चन्दनस्थानम्, हिमवानेव भूर्जोत्पत्तिपदम्। गुणस्य यथा-सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुककतैव,

मग्ना: स्फुटमथ च वयं कोऽयमीदक्प्रकारः। इत्थं दिग्भित्तिरोध:क्षतविसरतया मांसलैस्त्वद्यशोभि: स्तोकावस्थानदुःस्थैस्निजगति धवले विस्मयन्ते मृगाक्ष्यः ॥' हासस्य यथा-'अट्ट्हासच्छलेनास्याः पश्य फेनौघपाण्डराः। जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः ॥' अयशसः कार्ष्ण्य यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत्। कुवलयदलसंचलिता: प्रतिदिशमिव मालतीमालाः ॥'

सदःप्रकोपकृतके शववंशनाशसंकल्पसंजनितपापमलीमसेव ।।' क्रोधस्य रकतत्वं यथा-'आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण। भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलनोदरवर्तिनेव ।' अनुरागस्य यथा- 'गुणानुरागमिश्रेण यशसा तव सर्पता। दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्।।' चकोरेषु चन्द्रिकापानं यथा-'एतास्तो(स्ता) मलयोपकण्ठसरितामेणाक्षि रोधोभु- वश्चापाभ्यासनिकेतनं भगवतः प्रायो मनोजन्मनः। यामु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्रु विचलत्कठं चकोराङनाः ॥'चक्रवाक. मिथुनस्य निशि भिन्नतटाश्रयणं यथा-'संक्षिपता यावमतीस्तटिनीनां तनयताप- यःपूरान्। र(ल)घु चरणाह्वयवयसा(सौ) किं नोपकृतं निदाघेन ॥' समुद्रेष्वेत्र मकरा यथा-'गोत्राग्रहार(?) नयतो गृहत्वं खनाममुद्राद्वितमम्वुराशिम्। दाया- दवर्गेषु परिस्फुरत्मु दंश्र्रवलेपो मकरस्य वन्दः॥'ताम्रपर्ण्यामेव मौक्तिकानि यथा- 'कामं भवन्तु सरितो भुवि सुप्रतिश्ठः खादूनि सन्तु सलिलानि च शुक्यथ। एतां विहाय वरवर्णिनि ताम्रपर्णी नान्य(न्या)त्र संभवति माक्तिककामधेनुः ॥' मलय एव चन्दनस्थानं यथा-'तापापहारचनुगे नागावासः सुरप्रियः । ना- न्यत्र मलयादद्र्श्यते चन्दनद्रुमः॥' हिमवानेव भूर्जोत्पत्तिपदं यथा-'न्यस्ता- क्षरा धातुरसेन यत्र भूर्जत्वचः कुअ्रविन्दुशोणाः। त्रजन्ति विद्याधर सुन्दरीणा-

Page 41

१६ काव्यमाला।

मेघानां कृष्णतैव। क्रियाया यथा-ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव, मयूराणां वर्षाखवेव विरुतं नृत्यं चेति।। अथ वा नियम: समयः कवीनां यथा-कृष्णनीलयोः कृष्णहरि- तयोः कृष्णश्यामयोः पीतरक्तयोः शुक्कगौरयोः, चन्द्रे शशमृगयोः,

मनझलेखक्रिययोपयोगम् ।।' माणिक्यानां च शोणतैव यथा-'सांयात्रिकैरविरतो- पहतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि। रत्नानि ते दधति कच्िचिदिहा- यताक्षि मेघौघरोदितविनाधिपबिम्बशङ्काम् ।' पुष्पाणां शुक्कतैव यथा-'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं प्रस्फुटविद्ुमस्थम्। ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।' मेघानां कृष्णतैव यथा-'मेघश्यामेन रामेण पूतवेदिविमानराद। मध्ये महेन्द्रनीलेन रत्नराशिरिवाबभौ ॥' कोकिलरुतं वसन्त एव। यथा-'वसन्ते शीतभीतेन कोकिलेन वने रुतम्। अन्तर्जलगताः पद्मा: श्रोतुकामा इवोत्थिताः ॥' मयूरनृत्यगीते वर्षाखेव यथा-'मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥' कृष्ण- नीलयोरैक्यं यथा-'नदीं तूर्ण कर्णोऽप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समु० त्तीर्णो वर्णामुभयतटबला बद्धवानीरहारा। तटे सह्यस्योचैः खसलिलनिवहो भाति नील: स यस्या: प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः॥'कृष्ण- हरितयोरैक्यं यथा-'मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्रवम्। तदुभयमुदकं पुनातु वो हरिहरयोरिव संगतं वपुः ॥' कृष्णश्यामयोरैक्यं यथा- 'एतत्सुन्दरि नन्दनं शश्िमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति। यत्र श्यामनिशासु मुश्चति मिलन्मन्दप्रदोषानिलामुद्दामामरयो- षितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥' पीतर क्तयोरैक्यं यथा-'लेख्यया विमलवि- दमभासा संततं तिमिरमिन्दुरुदासे। दंश्र्या कनकभङ्गपिशङ्ग्या मण्डलं भुव इवा. दिवराहः ॥' शुक्लगौरयोरैक्यं यथा-'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपू- तपृष्ठम्। अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥'एवं वर्णा- न्तरेष्वपि। चन्द्रे शशमृगयोरैक्यं यथा-'मा भैः शशाङ्क मम सीधुनि शास्ति राहुः खे रोहिणी वसति कातर किं बिमेषि। प्रायो विदग्धवनिता नवसंगमेषु

१. 'रलानां' मूलपाठः समीचीनः, 'सामान्योपादाने' इत्युपक्रमात्.

Page 42

काव्यानुशासनम्। १७

कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानाम- प्यादित्यानाम्, नारायणदामोदरविष्णुमाधवकूर्मादेः, कमलासंपदोः, ना- गसपयोः, क्षीरक्षारसमुद्रयोः, सागरसमुद्रयोः, दैत्यदानवासुराणां चै-

पुंसां मनः प्रचलयन्ति किमत्र चित्रम् ॥' यथा च-'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्रुरक्षिप्तमृगपुङ्गो(यूथो) मृगाधिपः ॥' कामकेतने मकर- मत्स्ययोरैक्यं यथा-'चापं पुष्पमयं गृहाण मकरः केतुः समुत्थीयतां चैते लक्ष्य- भिदश्व पञ्च विशिखाः पाणौ पुनः सन्तु ते। दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गूहसे रूपं दर्शय नात्र शंकरभयं सर्वे वयं वैष्णवाः॥' यथा च-'मा (मी)नध्वत(ज)स्त्वमसि नो(?) नव(?)पुष्पधन्वा केलिप्रकाश तव मन्मथता त- थापि। इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिर प्रलापा:॥' यथा च-'आपातमारतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिह्रम्। उल्लङ्क्य यादवमहोदधिभीमवेलं द्रोणाचलं पवनसूनुरिवोद्धरामि ॥' अत्रिनेत्रस- मुद्रोत्पन्नयोश्वन्द्रयोरैक्यं यथा -- 'वन्धा विश्वसजो युगादिगुरवः खायंभुवाः सप्त ये तन्नात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽ्भवत्। एका यस्य शिखण्डमण्ड- नमणिर्देवस्य शंभोः कला शेषाभ्योमृतमाप्ुवन्ति च सदा खाहाखधाजीविनः।' यथा च-'यदिन्दोरन्वेति व्यसनमुदयं वारिधिरपामुपाधिस्तत्रायं जयति जनि- कर्तुः प्रकृतिता । अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥' द्वादशानामप्यादित्यानामैक्यं यथा-'यस्याधोऽघ- स्तथोपर्युपरि निरवधि भ्राम्यते विश्वमश्वैरावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्रः । सोऽव्यादुत्तप्तकार्तखरसरलशरस्पर्धिभिर्धामदण्डैरुहण्डै: प्रापयन्व: प्रचुरतरतभःस्तोमभस्तं समस्तम् ।' नारायणादेरैक्यं कमलासंपदोश्च यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गज्गां च दघेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्या- दष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥' यथा च-'दोर्मन्दीरितमन्दरेण जलधेरु- त्थापिता या खयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयन्। तां लक्ष्मीं पुरुषोत्तमः पुनरसौ लीलाश्चितभ्रलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ।'नागसर्पयोरैक्यं यथा-'हे नागराज बहुभस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः । सोढा विषह्य वृषवाहनयोगलीलापर्यङ्कबन्धनविधे- का० शा० २

Page 43

१८ काव्यमाला।

क्यम्। तथा चक्षुरादेरनेकवर्णोपवर्णनम्, बहुकालजन्मनोSपि शिवच- न्द्रमसो बालत्वम्, कामस्य मूर्तत्वममूर्तत्वं चेत्यादि।।

स्तव कोडतिभार: ॥l' क्षीरक्षारसमुद्रयोरैक्यं यथा-'शेतां हरिर्भवतु रत्नमनन्त- मन्तर्लक्ष्मीप्रसूतिरिति नो विवदामहेऽहो। हादूरदूरसपया(?)स्तृषितस्य जन्तोः किं त्वस्ति रिक्त्तपयसः स मरोर्जघन्यः ॥' सागरमहासमुद्रयोरैक्यं यथा- 'रजत्तरज्नभ्रूभङ्ञैस्तर्जयन्तीमिवापगाम्। स ददर्श पुरो गज्गां सप्तसागरवल्लभाम् ।' दैत्यदानवासुराणामिति। हिरण्याक्षहिरण्यकशिपुप्रह्लाद विरोच नबलिबाणा- दयो दैत्याः, विप्रचित्तिशंबरनमुचिपुलोमप्रभृतयो दानवाः, बलवृत्रचिक्षुर(स्त)- वृषपर्वादयोऽसुराः, तेषामैक्यं यथा-'जयन्ति बाणासुरमौलिलालिता दशास्य- चूडामणिचक्रचुम्बिनः। सुरासुराधीशशिखान्तशायिनो भवच्छिदर्रयम्बकपादपां- सवः॥।' यथा च-'तं शंभुरासुरसुराशनिशल्यसारकेयूररत्नकिरणारुणबाहुदण्डम्। पीतांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ॥' यथा च- 'आसीइत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः। प्रथयन्ति बलं बाह्रोः सितच्छ- त्रस्मिता: श्रियः ॥'यथा च हयग्रीवं प्रति-'दानवाधिपते भूयो भुजोऽयं किं न नीयते। सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥' यथा च-'महासुर समाजेऽस्मिन्न च कोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पेषनीराजितमुरःस्थ- लम् I।' एवमन्येऽपि मेदा अभ्यूह्याः ॥ चक्षुरादेरनेकवर्णोपवर्णनमिति। चक्षुषः शुककता यथा-'तिष्ठन्त्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेद्वति। हरीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुखे(खा) मुक्ताः कटाक्षच्छटाः ॥' श्यामता यथा-'अथ पथि गमयित्वा रम्यकप्तोपकार्ये कतिचिदवनिपालः शर्वरीः शर्व- कल्पः। पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरुद्रता- नाम् ।I' कृष्णता यथा-'पादन्यासक्कणितरशनासूतलीलावधूतै र्नच्छायाख- चितवलिभिश्वामरैः क्ान्तहस्ताः । वेश्यास्त्वन्नो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू- नामोक्षात्ते त्वयैव() मधुकर श्रेणिदीर्घान्कटाक्षान्।'मिश्रवर्णना यथा-'तामुत्तीर्य व्रजपरिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रभाणाम्। कुन्दे क्षेपानुगमधुकरश्रीमुखामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ।' शिवचन्द्रमसो बालत्वं यथा-'मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं

Page 44

काव्यानुशासनम्। १९

काव्यस्य हेतुमुक्त्वा स्वरूपमाह- अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम्। चकारो निरलंकारयोरपि शब्दार्थयोः कचित्काव्यत्वख्यापनार्थः । यथा- 'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिनैच्छ- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।I' गुणदोषयोः सामान्येन लक्षणमाह- रसस्योत्कर्षापकर्षहेतू गुणदोषौ भत्त्या शब्दार्थयोः। रसो वक्ष्यमाणसवरूपस्तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः। ते च रसस्यैव धर्मा उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते। रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात्। तथा हि यत्रैव दोषास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि

भवस्य। दाक्षायणीदर्पणविभ्रमश्रि बालेन्दुखण्डं भवतः पुनातु ॥' कामस्य मूर्तत्वं यथा-'अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरह- कातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताड- यञ्जयति जातहासः स्मरः ॥' अमूर्तत्वं यथा-'धनुर्मालामौवीं क्वणदलिकुलं लकष्यमबलामनो मेदं शब्दप्रभृतय इमे पञ्च विशिखाः। इयज्जेतुं यस्य त्रिभुव- नमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥' निरलंका- रयोरपीति। अनेन काव्ये गुणानामवश्यंभावमाह-तथा हि अनलंकृतमपि गुणबहवः (बहुलं) खदते । यथोदाहरिष्यमाणं 'शून्यं वासगृहम्-' इत्यादि। अलंकृतमपि निर्गुणं न खदते। यथा-'स्तनकर्परपृष्ठस्था वार्जिनी छदमण्डकाः । वियोगान्यूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥' इति। उपचारेणेति। यथा 'आकार एवास्य शूरः' इति शौर्यसुपचा[रादाका]रादभिव्यज्जके शरीरे

Page 45

२० काव्यमाला।

तयोः स्युस्तर्हि बीभत्सादौ कष्टत्वादयो गुणा न भवेयुर्हास्यादौ चाश्ली- लत्वादयः । अनित्याश्चैते दोषाः । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः॥ अलंकाराणां सामान्यलक्षणमाह- अङ्गाश्रिता अलंकारा:। रसस्याङ्गिनो यदङ्कं शब्दार्थो तदाश्रिता अलंकाराः। तेषां च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचक- वैचित्र्यमात्रपर्यवसिता भवन्ति ॥ तत्र रसोपकारप्रकारानाह- तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गल्वे रसोपकारिणः।

व्यवहियते। तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः ॥ अङ्गाश्रिता इति। ये त्वङ्गिनि रसे भवन्ति ते गुणाः। एष एव गुणालंकारविवेकः ॥ एतावता-'शौर्या- दिसदृशा गुणाः, केयूरादितुल्या अलंकाराः' इति विवेकमुक्त्वा 'संयोगसमवायाभ्यां शौर्यादीनामस्ति भेदः। इह तूभयेषां समवायेन स्थितिरित्यभिधाय 'तस्माद्वड्डरि- काप्रवाहेण गुणालंकारमेदः' इति भामहविवरणे यद्धद्ोन्भटोऽ्भ्यधात्, तन्निरस्तम्। तथा हि। कवितारः संदर्भेष्वलंकारान्व्यस्यन्ति न्यस्यन्ति चन गुणान्। न चालं- कृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति पुष्यति वा। तत्र शब्दालंकारापोद्धरणं यथा-'अलंकृतजटाचकं चारुचन्द्रमरीचिभिः। मृडानीदत्तदेहार्ध नमामः परमेश्व- रम्॥।' यथा च-'अलंकृतजटाचक्रं तरुणेन्दुमरीचिभिः' इति। अर्थालंकारापोद्धरणं यथा-'श्यामां स्मितासितसरोजदृशं कराग्रैरिन्दौ विभूषयति बालमृणालकल्पैः । आरेभिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥' यथा च-'श्यामां स्मितासितसरोजदृशं कराग्रैरिन्दौ विभूषयति केलिचकोरलेहीः' इति। अर्थालंकाराहरणं यथा-नीलाश्मरश्मीति। यथा च-'नीलाइमरश्मि- पटलानि महेभमुक्तफूत्कारसीकरविसृज्जि मृगाक्षि सानौ' इति। गुणानामपोद्धा- राहारौ तु न संभवत इति। तथा 'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशय-

Page 46

काव्यानुशासनम्। २१

अलंकारा इति वर्तते। तत्परत्वं रसोपकारकत्वेनालंकारस्य प्रवेशः, न बाधकत्वेन, नापि ताटस्थ्येन ।। यथा- 'चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव खनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वखमघरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ।।' अत्र भ्रमरसवभावोक्तिरलंकारो रसपरत्वेनोपनिबद्धो रसोपकारी।। बाधकत्वेन यथा- स्रस्त: सत्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरमिमौ कन्दतः पादलभौ।

हेतवस्त्वलंकाराः' इति वामनेन यो विवेकः कृतः सोऽपि व्यमिचारी। तथा हि-'गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादौ प्रसादश्लेषसमता- माधुर्यसौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहाराप्रवृत्तेः । अपि काचिच्छता वार्ता तस्यौन्निद्यविधायिनः । इतीव प्रष्टमायाते तस्या: कर्णान्तमी-

तस्माद्यथोक्त एव गुणालंकारविवेकः श्रयानिति। गुणाश्च त्रय एवेति गुणवर्णना- ध्याये विवेचयिष्यते॥ चलापाङ्गामिति।शकुन्तलावलोकने जनिताभिलाषस्य दुष्यन्तस्योक्तिरियम्। किमियमस्मजातीया न वा, खतन्ना परतन्ना वा, इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः। संप्रति मधुकर, लमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि । तथा हि। चलौ विलासवशात्तरलावपाज्गौ पर्यन्तरूपौ यस्यास्तां दृष्टिं त्वत्स्पर्शनसंत्रासविधुरितनिज- स्थितिमनवरतं कम्पवतीं तया मुग्धतया शोभातिशयशालिनीं प्रवातकम्पितनीलो- त्पलधिया स्पृशतीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरि- चुम्बनसमयनयनस्पर्शविधानमुचितमत्रभवतानुष्ठितमिति। कथमिव न सुकृती भवान्। तथा लोचनकुवलयस्पर्शपराझुखः खजातिस्रमुचितकमलकोशनिलयना-

Page 47

२२ काव्यमाला।

व्यस्त: कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः कीडन्त्याः पीडयेव स्तनभर विनमन्मध्यभज्ञानपेक्षम् ।I'

चितान् विभावानुभावान् संपादयन् बाघकत्वेन भातीति न प्रकृतरसो- पकारी ।। ताटस्थ्येन यथा- लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव।।' पुलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराज- स्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्रवेषानुगृहीतोपमालंकारप्राधान्येन प्रस्तुतो रैसो गुणीकृतोऽपरिजिघटिषया॥ अक्गत्वेऽपि कालेऽवसरे ग्रहणं यथा- 'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजम्भां क्षणा- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।

भ्यासवशवर्णकुहरानुप्रवेशाभिलाषेण तन्निकटवर्ती मृदु प्रियकारि मधुरं खनसि शिज्ञितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्बनाभिमुखीकृतकान्ताकर्णोपान्त- निविशिताननानां तदवसरोचिताभिमताभिप्रायनिवेदनपरतया रहोवृत्तान्ताख्या- नमुचितमनुष्ठितं भवतेति भवानेव सुककती। तथा नयनस्पर्शकर्णोपान्तखननव्या-

शनभयाद्विधूनितपाणिपल्लवायास्तद्वनापूर्वकमधरोपविष्टो रतिविषये सुरतोपभो- गस्याधररसाखादसारतया सर्वखमधररसपानमनुभवसीत्यस्मत्कृत्यसंपादनात्त्व- मेव सुकृती। किल रहोवृत्तान्तार्यानेनाज्गीकारितसुरतरसायाः प्रथममधरर- सामृतपानमस्मामिर्विधेयमिति॥ उद्दामोत्कलिकामिति। वासवदत्तापरिगृ- हीता नवमालिकालता संप्रति न प्रफुल्ला, माधवी लता तु मत्परिगृहीता प्रफुल्लेति 2. 'संभोग शृक्गाररूपः' इत्यर्थ :.

Page 48

काव्यानुशासमम्। २३

अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुंव पश्यन्कोऽपि विपाटलद्युति मुखं देव्या: करिष्याम्यहम्।।' अत्रोपमा तदनुग्राहकश्च श्रेष ईर्ष्याविप्रलम्भस्य भाविनश्चर्वणाभि- मुख्यं कुर्वन्नवसरे रैसस्य प्रेमुखीभावदशायामुपनिबद्ध उपकारी ।। न त्वेवम्। यथा- 'वाताहारतया जगद्विषघरैराश्वास्य निःशेषितं ते अ्स्ताः पुनर्रतोयकणिकातीव्व्रतैर्बर्हिभिः । तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्घकै- र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ।।' अत्र वाताहारत्वं "शाद्वाच्यमप्यादावुक्तमित्यतिशयोक्तिरनवसरे गृ- हीता। तथा हि प्रथमत एव प्रथमपादे हेतूतेक्षया यदतिशयोक्तेरुपा- दानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वे- दस्याङ्गतामेति। न हि वाताहारत्वादधिको दम्भ(!)स्तोयकणव्रतं नापि ततोऽधिकं दम्भनत्वं मृगाजिनवसनमिति॥

तद्दर्शनाद्वेषवशेन विपाटलद्युंति मुखमहं देव्याः करिष्यामीति वत्सराजोक्ति- रियम् । उद्दामा बह्य उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मिनेवावसरे प्रारब्धा लम्भाविकासो यया क्षेमा मन्मथकृतोऽवमर्द:। श्वसनोद्रमैर्वसन्तमारुतोल्लासैरात्मनो ...... लक्षणस्यायासमायासनमान्दोलना यत्र तमातन्वतीं निःश्वासपरम्पराभिश्वात्मन आयासं हृदयस्थितं संतापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदनार्येन वृक्षविशेषेण मदनेन कामेन चं । १. 'इर्ष्याविप्रलम्भरूपस्य' इत्यर्थः. २. 'प्रारम्भ' इत्यर्थ :. ३. 'नीतं क्षयमिति प्रत्यन्तरे' इत्यर्थ :.

१ .- २. 'जुम्भा' स्यात.

Page 49

२४ काव्यमाला।

गृहीतस्याध्यवसरे त्यागो यथा- 'रक्तस्त्वं नवपल्लवैरहमपि श्राध्यैः प्रियाया गुणे- स्त्वामायान्ति शिलीमुखाः स्रधनुर्मुक्ता: सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानोSपि विप्रलम्भोपकारी।। न त्वेवम्। यथा- 'आज्ञा शकशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी। उत्पत्तिर्द्रहिणान्वये च तदहो नेद्ग्वरो लभ्यते स्याच्चेदेष न रावण: क् नु पुनः सर्वत्र सर्वे गुणाः ।।' अत्र न रावण इत्यस्मादेव त्यागो युक्तः। तथा हि रावण इत्येत- ज्जगदाकन्दकारित्वाद्यर्थान्तरं प्रतिपादयञ्जनकस्य धर्मवीरं प्रत्यनुभावता प्रतिपाद्यते। ऐश्वर्यं पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येत- त्सर्वं लोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोरऽर्थस्य तिरस्कारकत्वेनैव रावणचेष्टितं निर्वाहणीयम्। यत्त्वन्यदुपात्तं क नु पुन- रिति तद्यदि ससंदेहत्वेन योज्यतेऽथाक्षेपत्वेनाथापि नेद्ग्वरो लभ्यते इत्यर्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिन्निर्वाहः ।

ध्रुवशब्दश्च भावीर्ष्यावकाशदःनजीवितमिति ॥रक्तस्त्वमिति। सातावियो- गोपनतविसंस्थलावस्थस्य दाशरथेरियमुक्तिः । रक्तो लोहितः । अहमपि रक्तः प्रबुद्धानुरागः। तत्र च प्रबोधको विभावः पल्लवराग इति मन्तव्यम्। एवं

Page 50

काव्यानुशासनम्। २५

नात्यन्तं निर्वाहो यथा- 'कोपात्कोमललोलबाहुलतिकापाशेन बड्धा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः। भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ।' अत्र रूपकमारब्धमनिर्व्यूढं च रसोपकाराय। न त्वेवं यथा- 'स्वञ्चितपक्ष्मकपाटं नयनद्वारं स्वरूपताडेन। उद्धाय्य मे प्रविष्टा देहगृहं सा हृदयचौरी।।' अत्र नयनद्वारमित्येतानदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम्। निर्वाहेऽप्यङ्गत्वं यथा- 'श्यामाखङ्कं चकितहरिणीप्रेक्षिते दृष्टिपाता- न्गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान्। उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ।'

प्रतिपादमाद्योऽर्थो विभावत्वेन व्याख्येयः ॥ सखीनां पुर इति। भवः त्योऽनवरतं ब्रुवते नायमेवं करोति तत्पश्यन्त्विदानीमिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः। कासौ गीरित्याह-भूयो नैवमित्येवंरूपा। एवमिति यदुक्तं तत्किमित्याह-दुश्वेष्टितं नखपदादि । संमु(सू)च्य अङ्गुल्या निर्देशेन। हन्यत एवेति। न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते। यतोऽसौ हननं निमित्तीकृत्य निह्ुतिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति।। अनिर्व्यूढं चेति। बाहुलतिकायाः पाशत्वेन यदि रूपणं निर्वाह्येद्दयिता व्याधवधूर्वासगृहं कारागारपज्जरादीति। तदा रसभङ्गः स्यादिति । श्यामा- स्विति। सुगन्धिप्रियङ्गुलतासु पाणिम्रा(?)तनिम्रा कण्टकितत्वेन च योगात्। शशिनीति। पाण्डरलात्। उत्पश्यामीति। यत्नेनोत्प्रेक्षे। जीवितसंधा- रणायेत्यर्थः । हन्तेति। कष्टमेकस्थसादृश्याभावे हि दोलायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकत्र धृति लमे इति भावः । भीर्विति। यो हि कातर-

Page 51

२६ काव्यमाला।

अत्र ह्ुत्पेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोप- क्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय।। न त्वेवं यथा- 'न्यश्चत्कुश्चितमुत्सुकं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्परं स्थिरम्। उच्डु आन्तमपाङ्कवृत्ति विकचं मज्जतरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ।' अत्र रावणस्य दग्विंशतौ वैचित्र्येण खभावोक्तिर्निर्वाहितापि रसस्या- द्त्वेन न योजितेति। शब्दार्थयोः स्रूपमाह-

शब्दा:। मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्गयार्थविषयो व्यञ्जकः शब्द:, विषयभेदाच्छब्दस्य भेदो न खाभा- विक इत्यर्थः ॥

हृदयो भवति, नासौ सर्वमेकस्थं धारयतीत्र्थः ॥ न योजितेति। रसवशा देकैकमन्यक्रियमिति ह्यतावन्मात्रेऽप्युक्ते तद्रसगतव्यभिचारिमेदोपनिपाताय यौग- पद्याशुभावित्वसंभावनाय च। किंचिद्विभाववैचित््यं वक्तव्यं यथा-'सभायां तादृश्यां नरपतिशतैरक्षकितवैः समभ्याकीर्णायामृजतु परितामेकवसना। यद- काक्षीहुःशासननरपशुः केशनिचयान कस्यासीत्तेन भ्ुकुटिविषमो बाष्पविसर:।' अत्र हि भ्रुकुटिः करोधस्यानुभावो बाष्पक्च शोकस्य शोकक्ोधयोश् यौगपद्यमाशु भावो वा विभावबलाहर्शितम्। सा हि तादसी शोकस्य विभावो दुःखानलक् तथानु- चितकारी कोघस्य तच्ब विभागद्वयं झटिति पुरः पतितमनुभाववैचित्र्यमाघत्ते इति

Page 52

काव्यानुशासनम्। २७

मुख्यमर्थ लक्षयति- साक्षात्संकेतविषयो मुख्यः । अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योS- र्थान्तरेभ्यः प्रथमं प्रतीयते इति मुख्यः, स च जातिगुणक्रियाद्रव्यरू- पस्तद्विषयः शब्दो मुख्यो वाचक इति चोच्यते। यथा-गौः, शुक्कः, चलति, देवदत्तः, इति। यदाह महाभाष्यकारः-'चतुष्टयी शब्दानां प्रवृत्तिः' इति। जात्यादिस्वरूपं च प्रकृतानुपयोगान्नेह विपञ्चयते।

इत्यादौ तु तरप्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृतमिति। चतुष्ट- यीति। जातिशब्दा गुणशब्दा: क्रियाशब्दा यदच्छाशव्दाश्च। तथा हि सर्वेषां शच्दानां खार्थाभिधानाय प्रवर्तमानानामुपाध्युपदर्शितविषयविवे[च]कत्वादुपा- धिनिबन्धना प्रवृत्तिः । उपाधिश्र द्विविधः । वस्तुकृतसंनिवेशितो वस्तुधर्मक्च। तत्र यो वक्ता(का) यदच्छया तत्तत्संज्ञिविषयशक्तिव्यक्तिद्वारेण तस्मिस्तस्मिन् संज्ञिनि निवेश्यते स वस्तुकृतसंनिवेशितः । यथा डित्थादीनां शब्दानामन्त्यबुद्धिनिर्ग्राहं संहृतक्रमं स्वरूपम्। तत्खलु तां तामभिधाशक्तिमभिव्यज्ञयता वक्रा यदच्छया तस्मिस्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते अतस्तन्निबन्धनाद्यदच्छाशब्दा डित्थादयः ॥ येषामपि च [ए]डकारादिवर्णव्यतिरिक्तसंहृतकरमखरूपाभावान्न डित्थादिशब्दसरूपं सहृतक्रमसंज्ञिष्वध्यस्यत इति तेषामपि वक्तृयदच्छाभिव्य ज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादे: शब्दस्य तत्संज्ञा- भिधानाय प्रवर्तनत्वात् यदच्छाशब्दत्वं डित्थादीनामुपपद्यत एव ।। वस्तुधर्मस्य च द्वैविध्यम्। सिद्धसाध्यतामेदाद। तत्र साध्योपाधिनिबन्धनाः क्रियाशब्दाः। यथा-पचतीति। सिद्धस्य तूपाघेर्द्वैविध्यम्। जातिगुणमेदात्। तत्र पदार्थ- प्राणप्रद उपाधिर्जातिः । न हि कश्चित्पदार्थो जातिसंबन्धमन्तरेण स्वरूपं प्रतिलमते। यदुक्क वाक्यपदीये-'गौः सवरूपेण न गौर्नाप्यगौर्गोत्वाभिसंबन्धान्तु गौः' इति॥ लब्धस्वरूपस्य च वस्तुनो विशेषाधानहेतुर्गुणः । न हि शुक्कादेर्गु- णस्य पटादिवस्तुसरूपप्रतिलम्भनिबन्धनत्वम् । जातिमहिम्रैव तस्य वस्तुनः १. 'चलः' इति स्यातू.

Page 53

२८ काव्यमाला।

जातिरेव संकेतविषय इत्येके। तद्वानित्यपरे। अपोह इत्यन्ये।। गौणं लक्षयति- मुख्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः। गौर्वाहीको गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्रादिमत्त्वादेः प्रत्यक्षा- दिना प्रमाणेन बाघे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने ताद्रूप्यप्र- तिपत्तिरूपे सत्यारोप्यारोपविषययोर्भेदेनाभेदेन च समारोपितोऽतथाभू-

प्रतिलब्धस्रूपत्वात्॥ जातिरेवेति । तथा हि-गुणशब्दानां तावच्छुक्का- दीनां पयःशङ्गबलाकाद्याश्रयसमवेता ये शुक्कादिलक्षणा गुणास्तत्सभवेतसामान्य- वाचिन:। एवं क्रियाशब्दानामपि गुडतिलतन्दुलादिद्रव्याश्रिता ये पाकादयोऽ- न्योन्यमन्यत्वेनावस्थिता: क्रियाविशेषास्तत्समवेतं सामान्यमेव वाच्यम्। यदच्छाशब्दानां तु डित्थादीनां शुकसारिकामनुष्याद्युदीरितेषु डित्थादिशब्देषु समवेतं डित्थत्वादिकं सामान्यमेव यथायोगं संज्ञिष्वध्यस्तमभिघेयम्। यदि वोपचयापचययोगितया डित्थादौ संज्ञिनि प्रतिकलं भिद्यमानेऽप्यभिद्यमानो यन्महिम्रा डित्थो डित्थ इत्यवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो बाधशून्यः संजायते तत्तथाभूतं डित्थादिशब्दावसेयवस्तुसमवेतमेव डित्थत्वादिसाम्यमत्रेष्ट- व्यम्। तच डित्थादिशब्दैरभिधीयते। इति गुणक्रियायदच्छाशब्दानामपि जातिशब्दत्वाजाति रेवैकः शब्दार्थ इति। तद्वानिति। जातेरर्थक्रियायामनु- पयोगाद्विफल: संकेतः । यदाह-जातिर्दाहपाकादावुपयुज्यत इति व्यक्तश्वार्थ- क्रिया कारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तु शक्यत इति जात्युपहिता व्यक्ति: शब्दार्थ इति। जातिव्यक्तितद्योगजातिमद्ठुद्धयाकारणाशब्दार्थत्वस्यानु- पपद्यमानत्वाद्गवादिशब्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बकं सर्वथा बाह्यार्थस्पर्शशून्यमन्यापोहशब्दवाच्यं शब्दार्थ इति। मुख्या इति। इदमैव हि शब्दानां मुख्यानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिंरेव कारणम्। ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तेत तदातिप्रसङ्गः

१. 'वाच्चिता' इति भवेत्.

Page 54

काव्यानुशासनम्। २९

तोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्गौणः, तद्विषयः शब्दो डपि गौणः, उपचरित इति चोच्यते। तत्र सादृश्ये निमित्ते भेदेना- रोपितो यथा-'गौर्वाहीकः'। इदं वक्ष्यमाणरूपकालंकारस्य बीजम्। अभेदेन यथा-'गौरेवायम्' इति। इदमतिशयोक्तिप्रथमभेदस्य । अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गो- शब्दस्य परार्थाभिघाने निमित्तत्वमुपयान्तीति केचित् ॥ स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परा- र्थोऽभिधीयत इत्यन्ये।। साधारणगुणाश्रयेण परार्थ एव लक्ष्यते इत्यपरे।। संबन्धे कार्यकारणभावे आयुर्धृतम्, आयुरेवेदम्। अत्रान्यवैलक्ष- ण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम्। तादर्थ्ये-इन्द्रार्था स्थूणा इन्द्रः । सवस्वामिभावे-राजकीयः पुरुषो राजा। ग्रामखामी ग्रामः । अवयवावयविभावे-अग्रहस्त इत्यग्रमात्रेवयवे हस्तः। मान- मेयभावे-आढको त्रीहिः। संयोगे-रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्कर्म्ये-अतक्षा तक्षा। वैपरीत्ये-अभद्रमुखे भद्रमुखः॥ लक्ष्यमर्थ लक्षयति- मुख्यार्थसंवद्धस्तच्वेन लक्ष्यमाणो लक्ष्यः। मुख्यार्थो गङ्गादिशव्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्त्वे- नाभेदेन लक्ष्यमाणो लक्ष्यः । तत्वेन लक्ष्यमाण इति वचनाद्वेदाभेदा- भ्यामारोपित इति न वर्तते, शेपं तु गौणलक्षणमनुवर्तत एव। तद्वि- षयः शब्दो लक्षकः । यथा-'गङ्गायां घोषः, कुन्ताः प्रविशन्ति'। अत्र गङ्ाया घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य वा संभवान्मुख्यार्थ-

१. 'वीजम्' इति शेप :.

Page 55

२० काव्यमाला।

बाघः, सामीप्यं साहचर्यं च निमित्तम्, गज्ञातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथा प्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथा प्रतिपादनं प्रयोजनम्। गौरंनुबन्ध्य इति तु नोदाहरणीयम्। अत्र हि श्रुतिनोदितमनुब- न्घनं जातौ न संभवतीति जात्यविनाभावाद्यक्तिराक्षिप्यते, न तु शब्दे- नोच्यते। 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे।' इति न्यायात्। न चात्र प्रयोजनमस्ति। अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः, कुरु इत्यत्र कर्मणः, प्रविश पिण्डीम् इत्यादौ गृहं, भक्षयेत्यादेश्च लक्ष्यत्वं स्यात्। 'पीनो देवदत्तो दिवा न भुङ्गे' इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यते, अपि तु अर्था- पत्त्या आक्षिप्यते इति ॥ इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौणोऽर्थः, यत्र न तथा स लक्ष्य इति विवेकः । कुशलद्विरेफद्विका- दयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति। न रूढिर्लक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ।। व्यङ्गयं लक्षयति- मुख्याव्यतिरिक्तः प्रतीयमानो व्यड्गो ध्वनिः।

स्यादिति॥ अस्माभिरिति। न तु भट्टमुकुलादिभिः । तैर्हि रूढिमपि प्रयो- जनतया उपन्यस्य लक्षणतया प्रवर्तिता। यदाहु :- 'रूढेः प्रयोजनाद्वापि

१. 'अनुसरणीयो हन्तव्यो वा' टिप्पणी. २. 'अत्र परै रूिरुक्ता सानेन प्रकारेण सूचिता' टिप्पणी.

Page 56

काव्यानुशासनम्।

मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः ।सच ध्वन्यते द्योत्यते इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः । अयं च वस्त्व- लंकाररसादिमेदात्रिधा। तथा ह्याद्यस्तावत्भेदो मुख्यादिभ्योऽत्यन्तं भिन्न: ।। स हि वाच्ये विधिरूपे प्रतिषेधरूपो यथा- 'भेम धम्मिअ वीसत्थो सो सुणओ अज्ज मारिओ तेण। गोलाणइकत्थकुडङ्गवासिणा दरिअसीहेण ॥' अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्जे सिंहस्तिष्ठति त्वं च शुनोऽपि विभेषि तस्मात्त्वयास्मिन्न गन्तव्यमिति निषेधः प्रतीयते॥

व्यवहारेऽवलोक्यते' इति॥ मुख्यगौणलक्ष्यार्थव्यतिरिक्त इति। अयं भाव :- यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम्। नीर्लामव पीताद्वाच्यादिव्यतिरिक्श्च व्यङ्गयोऽर्थोऽवभासत इति ॥ प्रतीतिविषय इति। अनेन खसंवेदनसिद्धतामाह। तथा च श्रीमदानन्दवर्धनः-'प्रतीयमानं पुन- रन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्। यत्तत्प्रसिद्धावयवातिरिक्त्तमाभाति लावण्यमिवाङ्गनासु ।।' वस्त्वलंकारेति । इह लौकिकालौकिकमेदेनार्थो द्विधा। लौकिकश्च शब्दाभिधाने योग्योऽविचित्रविचित्रात्मतया द्विधा। तत्राविचित्रो वस्तुमात्रम्, विचित्रस्त्वलंकारात्मा । यद्यपि चव्यक्षतायां(?) प्राधान्ये च विचित्रस्यालंकार्यत्वम्, तथापि ब्राह्मणश्रमणन्यायेन तस्यालंकार- व्यपदेशः । अनयोश्च वस्त्वलंकारयोर्व्यङ्चयतायां यद्यपि न वाच्यत्वम्, तथापि तयोर्विध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिकत्वम्। अलौकिकस्तु खप्रेऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति।। भम धम्मिपति। काचिदविनयवधूर्गोदा· वरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादिव्याजेन गृहान्नि- १. 'आदिशब्दाद्भावतदाभासा इत्यादयो गृह्यन्ते' टिप्पणी. २. 'भ्रम धार्मिक विस्रब्धः स शुनकोऽद मारितस्तेन। गोदानदीकच्छनिकुज्जवासिना दृ्तसिंहेन ॥' [गाथा० २।७५]

Page 57

३२ काव्यमाला।

र्गत्य सदा रममाणा धार्मिकं पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभावयन्ती विदग्धापि मुग्धेव वक्ति। यस्तवास्मद्गृहं प्रविशतो भयमकरोच् श्वा निर्विचारः। अस्मद्भाग्योदयेन तेन लोकप्रसिद्धेन वृत्तन कृपापात्रमपि श्वानमपश्यता सिंहेना- प्रतिकारयोग्येन मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः। चिन्त्येकवसतेरनौ- चित्यायोगात्। न चात्र सिंहस्ते भयकारणम्। यतो गोदावर्या नद्यां न तु सरख- त्यादिवत्तद्ुक्ते देशे यत्कूलं तत्र। न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति सततकृतास्पदस्तेन निर्भयमिदानीं भिक्षादर्थ[स]चरेति। एवमादौ च विषये यद्यपि रसादिरर्थो व्यङ्गयोऽस्ति तथापि महाराजशब्दव्यपदेश्यविवाहकरणप्रवृत्त- सचिवानुयायिराजवदप्रधानमेव गृह्णाति। लतागहनस्थयैवेदमभिधीयते इति व्याख्याने लाक्षणिकोऽयमर्थो भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यज्ञय इति न संबध्यमागच्छते। इह वासिनेति चाभिधेयः स्यात्। न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम्। तथाहि। अगरहीतसंकेतस्यार्थप्रतिप त्तेरकरणाद्गहीतसंकेत एव श- ब्दोरऽर्थप्रतिपादकः । संकेतश्वानन्त्याद्यभिचाराच वाक्यार्थ इव वाक्यस्य विशे- षरूपे पदार्थे पदस्य कर्तु न पार्यत इति सामान्य एवासौ आकाङ्कायोग्यतासं- निधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति। 'सामान्यान्यन्यथासिद्धे- र्विशेषं गमयन्ति हि' इति। विशेषरूप :- 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्वि- शेषणे' इत्यपदार्थोऽपि वाक्यार्थ उल्लसति। विशेषस्यैव यत्राशब्दार्थत्वं तत्र वस्त्वन्तररूपस्य निषेधस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे तावन्निर्वि- वादैव निषेधस्य व्यङ््यता। येऽप्याहु :- 'अनन्वितार्थ पदमप्रयोज्यम्' इति प्रयोगयोग्यं वाक्यमेव, तत्र च संकेतो ग्रृह्यत इत्यपरपदार्थान्वित एव पदार्थः संकेतभूः ॥ यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते। व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधाननये 'वाक्यार्थो न पदार्थः' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽ- संकेतितलादवाच्य एव। यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूतनिषेधचर्चा। अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्तु अन्विताभिधाने अन्वि- तविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः ॥ यदप्युच्यते- १. 'दस्ेन' भवेत्.

Page 58

काव्यानुशासनम् । ३३

'नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते' इति। तत्र निमित्तत्वं कारणत्वं ज्ञाप- कत्वं वा। शब्दस्य प्रकाशकलान कारकत्वं, ज्ञापकत्वं लज्ञातस्य कथम्। ज्ञानत्वं च संकेतेनैव, स चान्वितमात्रे । एवं च निमित्तस्य नियतनिमित्तत्वं यावन निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कन्प्यन्ते इत्यविचारिताभिधानम् ॥ ये त्वभिद्घति-'सोऽयमिषोरिव दीर्घ- दीर्घों व्यापारः' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेधाय वाच्य इति। एतदतात्पर्यज्ञत्वं तात्पर्यवाचोयुक्तेर्देवानांप्रियाणाम्। तथा हि। भूतभव्यसमुचा- रणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः क्रियापदार्थेनान्वीयमाना: प्रधा- नक्रिया निर्वर्तकस्वक्रियाभिसंबन्धात्साध्यायमानतां प्राप्नुवन्ति। ततश्रादग्धद- हनन्यायेन यावदप्राप्तं तावद्विघीयते । यथा 'रक्त पटं वयः' इत्यादावेकविधि- द्विविधिस्त्रिविधिवा। ततश्च यदेव विधेयं तत्रैव तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्यम्। न तु प्रतीतमात्रे। एवं हि 'पूर्वो धावति' इत्यादावपरार्थेऽपि क्कचि- त्तात्पर्य स्यात्॥ यन्त-'विषं भुड्क्ष्व, मा चास्य गृहे भुक्थाः' इत्यत्र एतद्रहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते। तत्र चकार एकवा- क्यतासूचनार्थः । न चाख्यातवाक्ययोर्द्वयोरज्ञाज्जिभाव इति विषभक्षणवाक्यस्य कृद्वाच्यत्वेनाज्ता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्गहे भोजनमिति सर्वथा मास्य गृहे भुक्थाः इत्युपात्तशब्दार्थ एव तात्पर्यम्॥ यदि च शब्दश्रुतेरनन्तरं या- वानर्थोऽवगम्यते तावति शब्दस्याभिधैव व्यापारः,तत्कथं 'ब्राह्मण, पुत्रस्ते जातो; ब्राह्मण, कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यलम्। कस्माच् ल- क्षणा। किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थान [स]माख्यानां पूर्वपूर्वबलीयस्त्वमि- त्यन्विताभिघानवादेऽपि निषेधैस्य सिद्धं व्यक्षयत्वम्। किं च कुरुरुचिमिति पदयो- वैपरीत्येका व्यान्तर्वर्तिनि कथं दुष्टत्वम्। न ह्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्य- नभिधेय एवेत्येवमादि अपरित्याज्यं स्यात्॥ यदि च वाच्यवाचकत्वव्यतिरेकेण व्यक्ञयव्यञ्ञकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं साधुत्वादीनामनि- त्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात्। न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात्। वाच्यवाचकभावव्यतिरेकेण, व्यक्षयव्यञ्ञकताश्रयेण तु व्यङ्ञयस्य

१. 'दीर्घदीर्घतरो' काव्यप्रकाशे. २. 'विधेरपि' काव्यप्रकाशे. ३. 'कष्टत्वादीना' काव्यप्रकाशे. का० शा० ३

Page 59

३४ क़ाव्यमाला।

बहुविधत्वात्कचिदेव कस्यचिदेवौचिलयेनोपपद्त एव विभागव्यवस्था। 'द्वय गर्त संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इत्यादौ पिनाक्यादिपदवैल- क्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम्॥ अपि च वाच्यार्थः सर्वान् प्रतिपत्तन प्रत्येकरूप एवेति नियतोऽसौ न हि 'गतोऽस्तमर्कः' इत्यादौ वाच्योऽ- र्थ: क्वचिदन्यथा भवति। प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्रादिविशेषसहाय- तया नानात्वं भजते। तथा च 'गतोऽस्तमर्कः' इत्यतः 'सपननं प्रत्यवस्कन्द- नावसरः' इति, अभिसरणमुपक्रम्यतामिति, प्राप्तस्ते प्रेयानिति, कर्मकरणान्नि- वर्तामहे इति, सांध्यो विधिरुपक्रम्यतामिति, दूर मागा इति, सुरभयो गृहं प्रवे- श्यन्ताम् इति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नाग- तोऽय प्रेयानित्यादिरनवधिर्व्यक्कयोऽर्थस्तत्र तत्र प्रतिभाति। वाच्यव्यक्ञयोः 'निः- शेष-' इत्यादौ निषेधविध्यात्मना, 'मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तश्ङ्गार्यन्यतरगतनिश्वयरूपेण, 'कथमवनिप दर्पो यत्निशातासिधारादलन- गलितमूर्धां विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किंन नीता त्रिदि- वमपगताज्वैर्वल्लभा कीर्तिरेभिः ॥' इत्यादौ निन्दास्तुतिवपुषा, 'हे हेलाजितबोधि- सत्त्व वचसां किं विस्तरस्तोयधे नास्ति स्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहा- यकं यन्मरोः ॥' इत्यादौ स्तुतिनिन्दारूपेण, सरूपस्यापूर्वपश्चाद्धावेन प्रतीतेः। कालस्य शब्दाश्रयत्वेन तदर्थकसद्वटनाश्रयत्वेन चाश्रयस्य शब्दार्थशासन- ज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्ध- मात्रविदग्धव्यपदेशयोः प्रतीतमात्रचमत्कृत्योश् करणकार्यस्य 'गतोऽस्तमर्कः' इत्यादौ प्रदर्शितनयेन संख्यायाः 'कस्स व-' इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्क्चिदपि नीलानीलादौ मेदो न स्याद्। उक हि-'अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः करणभेदश्वेति वाचकानाम- र्थापेक्षा, व्यज्ञकानां तु न तदपेक्ष्यत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम्। किंच। 'वाणीरकुडंग-' इत्यदौ प्रतीय मानमर्थमभिव्यज्य वाच्यं सरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रमेदे तात्पर्यभूतोऽप्यर्थः खशब्देनाभिघेयः । प्रतीतिपथम- वतरन्कस्य व्यापारस्य विषयतामवलम्बताम्। ननु 'रामोऽस्मि सर्व सहे' इति 'रामेण प्रियजीवितेन तु कृतं प्रेम्ण: प्रिये नोचितम्' इति। 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थों नानात्वं भजते

Page 60

काव्यानुशासनम्। ३५

विशेषव्यपदेशहेतुश्व भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिस्व्यपेक्षश्चेति कोडयं नूतनः प्रतीयमानो नाम । उच्यते-लक्षणीयस्यार्थस्य नानात्वेऽप्यने-

शक्यते, व्यङ्यस्तु प्रकरणादिविशेषबलेन नियतसंबन्धोSनियतसंबन्धः संबन्ध- संबन्धश्च दोत्यते। न च 'भम धम्मिय' इत्यादौ अर्थशक्तिमूले व्यक्चये मुख्यार्थ- बाधस्तत्कथमत्र लक्षणायामपि व्यञ्ञनमवश्यमाश्रयितव्यम् । यथा च समय- सव्यपेक्षाभिधा, तथा मुख्यार्थबाधादित्रयसमयसव्यपेक्षा लक्षणा। अत एव अभिधापुच्छभूता सा इत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात। न च तदनुगतमेव । अभिघालम्बनेनापि तस्य भावात्। न चोभ- यानुसार्येव 'अवाचकवर्णानुसारेणापि तस्य दृष्टेः। न च शब्दानुसार्येव अश- व्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः । इत्यभिधातात्पर्यल- क्षणात्मकव्यापारत्रयातिवर्ती अअ्जनव्यापारोऽनपह्ववीय एवेति सिद्धमेव निषेधस्य व्यङ्गयत्वम्। तत्र 'अत्ता एत्थ-' इत्यादौ नियतसंबद्धः । 'कस्स व ण होइ रोसो-' इत्यादावनियतसंबद्धः। 'विवेरीयरए लच्छी बम्भं दड्ूण णाहिकमल- स्थम् । हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ॥।' इत्यादौ संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते। तन्निमीलनेन सूर्यस्यास्तम- यस्तेन पद्मस्य संकोचः । ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेऽ्निय- त्रणं निधुवनविलसितम्। येऽप्याहु :- 'अखण्डबुद्धिनिर्ग्राह्यं वाक्यमेव च वाच- कम्। वाक्यार्थ एव वार्थ :- ' इति, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति। तत्पक्षेऽप्यवश्यभेव निषेधस्य व्यङ्ञयत्वम्। अन्ये तु-वाच्याद- संबद्धं तावन्न प्रतीयते । यतः कुतश्चिद्यस्य कस्यचिदर्थस्य प्रतीतेः प्रसग्गात्। एवं च संबन्धाद्यक्ग्यव्यञ्जकभावोऽवश्यमप्रतिबन्धेन भवतीति त्रिरूपाद्वेतोरेव नियतधर्मिनिष्ठत्वेन प्रतीतिः । तथा च भीरुत्रम[ण]स्य कारणं भयकारणाभा- वस्तद्विरुद्धं च भयकारणम् सिंहस्तदुपलब्घेर्लतागहनेऽभ्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंहसद्भावादि निषेधादेरनुमापकम्। व तु व्यजकमपि इति [ये] वदन्ति । तेऽपि न युक्तवादिनः । तथा हि। अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतुः । खाम्यादेशेनानुरागेण लोमेनान्येन वा केन-

१. 'विपरीतरते लक्ष्मीर्रह्माणं दृष्ट नाभिकमलस्थम्। हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥' [इति च्छाया]

Page 61

३६ काव्यमाला।

कचिन्निषेधे विधिर्यथा- 'अत्ता इत्थ नु मज्जइ एत्थ अहं दिअसयं पलोएइ। मा पहिय रत्तिअन्धय सिज्जाए महं नु मज्जिहिसि ॥' अत्रावयोः शय्यायां मा निषत्स्यतीति निषेधवाक्ये-इयं श्वश्रू- शय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधि: प्रतीयते। क्वचिद्विधौ विध्यन्तरं यथा- 'बेहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णम्। तह जैग्गिसज्जु सज्जिय न जहा अम्हे मुसिज्जामो ।।' अत्र यथा वयं न मुष्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रि- 1 रत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम्, अतस्त्वमभयो मत्पार्श्वमाग- च्छेति विध्यन्तरं प्रतीयते॥

चिदेवंविधेन हेतुना भीरोरपि भयकारणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः । शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिमेति। सिंहे तेजस्विनि तु पराक्रम इति विरुद्धश्च । तत्कथमनुमानम्। एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्ष्यत्वेन प्रकाशत इति ॥ व्यक्तिवादिनस्तु तददूषणम् ।। अत्तेति। श्वश्रूरसहिष्णुर्न तु माता। तेन गुप्तमभिलाषः पोषणीयः । न च सर्वदा भयदेत्याह-अत्रेति। दूरे। सा च शेते, न जागर्ति। अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या सांप्रतं विघ्नकारीति कुत्सितं दिवसम्, तस्मात्संप्रति विलोकय। एहि परस्पराव-

१. 'श्वश्रूरत्र नु मज्जति अत्राहं दिवसकं प्रलोकय। मा पथिक रात्र्यन्धक शय्यायामावयोर्नु मज्जिष्यसि ।' [गाथा० ७।६७] २. बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम्। तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥' [गाथा० ४।३५] ३. 'जग्गेसु सअज्जिअण' इति गाथासप्तशत्यां (४।३५) पाठ :.

Page 62

काव्यानुशासनम्। ३७

क्वचिन्निषेधे निषेधान्तरं यथा- आसाइयं अणाएण जेत्तीयं तत्तिएण बंधदिहिं। उरमसुवसहइन्हिं रक्खिज्जइ गहवइछित्तम् ।।' अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिवारणं निषे- धान्तरं प्रतीयते। क्वचिदविधिनिषेधे विधिर्यथा- 'मेहुएहिं किं च पन्थिय जइ हरसि नियंसणं नियम्बाओ। साहेमि कस्स रले गामो दूरे अहं एक्का ।।' इति। अत्र विधिनिषेधयोरनमिधाने अहमेकाकिनी आ्मो दूरे इति विविक्तोपदेशान्नितम्बवासोSपि मे हरेति विधि: प्रतीयते॥ क्वचिदविधिनिषेधे निषेधो यथा- 'जीविताशा बलवती धनाशा दुर्बला मम। गच्छ वा तिष्ठ वा पान्थ खावस्था तु निवेदिता ।।'

लोकनसुखमनुभवावः । पथिकेति। चेतितेऽपि(१) तव न दोषावहमिति न भेतव्यम्। रात्रावधिकमदनोद्रेकादन्ध शय्याविभागानभिज्ञ शय्यायां मा शगिष्ठाः, अपि तु मयि। मा आवयो:, अपि तु मंस्येव । मा शयिष्ठाः, अपि तु प्रहर- चतुष्टयमपि निधुवनेन क्रीड। महं इति निपातोSत्रानेकार्थवृत्तिः । न तु ममेति। एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छनाभ्युपगमो न स्यात्। विधि- रिति। कांचित्प्रोषितपतिकां तरुणीमवलोक्य प्रबुद्धमदनाङ्कुरः संपन्नः पान्थोऽ नेन निषेधद्वारेण तयाभ्युपगत इति निषेधाभावो विधिन तु निमन्र्रणरूपोSप्रवृ. १. .गृहृपतिक्षेत्रम् ॥' [इति च्छाया] २. 'मूखोंडसि किं च पथिक यदि हरसि नियत्रणं नितम्बस्य। ग्रामो दूरे अहमेकाकिनी ॥' [इति छाया] १. 'मज्जिष्यस्ैव' स्यात.

Page 63

३८ काव्यमाला।

अत्र गच्छ वा तिष्ठ वेति अविधिनिषेधे 'जीविताशा बलवती घनाशा दुर्बला मम' इति वचनात् त्वया विनाहं जीवितुं न शक्रोमी- त्युपक्षेपेण गमननिषेधः प्रतीयते॥ कचिद्विधिनिषेधयोरविध्यन्तरं यथा- 'निअदइअदंसणुखित्त पहिय अन्नेण वच्चसु पहेण। गहवइधूया दुल्लङ्खवाउरा इह हयग्गामे ।।' अत्रान्येन पथा व्रजेति विधिनिषेधयोरभिघाने हे खकान्ताभिरूपता- विकत्थनपान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति विध्यन्तरं प्रतीयते। कचिद्विधिनिषेधयोर्निषेघान्तरं यथा- 'डेच्चिणसु पडियं कुसुमं मा धुण सेहालियं हलियसुन्हे। एस अवसाणविरसो ससुरेण सुओ वलयसद्दो।।' अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषे- घयोरभिघाने सखि, चौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषे- धान्तरं प्रतीयते।। कचिद्विघावनुभयं यथा- 'सिणियं वच्च किसोयरि पएण यत्तेण ठविसु महिवट्ठे। भज्जिहि सिविच्छयच्छणि विहिणा दुक्खेण निम्मचिया॥'

१. 'निजदयितादर्शन ...... पथिकान्येन व्रज पथा। गृहपतिसुता दुलङ्यवागुरेह हतग्रामे ।।' [इति च्छाया] २. 'उच्चिनु पतितानि कुसुमानि मा धुनीहि शेफालिकां हालिकरनुषे। एषोऽवसानविरस: श्वशुरेण श्रुतो वलयशब्दः ॥' [इति च्छाया] ३. अह दे विसमविरावो' इति ध्वन्यालोके. ४. 'शनैवज कृशोदरि परेण यलन तिष्ठ महीपृष्ठे। सेवसन स्वेच्छयेष्ट विधिना दुःखाद्िनिर्मुक्ता।। [इति च्छाया]

Page 64

काव्यानुशासनम् । २९

अत्र शनैर्व्रजेति विध्यभिघाने न विधिर्नापि निषेधः, अपि तु वर्णनामात्रं प्रतीयते। क्कचिन्निषधेSनुभयं यथा- 'दे आ पसिय नियत्तसु मुहससिजोष्हाविलुत्ततमनिवहै। अहिसारियाणँ विग्घं करेसि अन्नाणँ वि हयासे ।।' अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दुकान्तिवर्णनमात्रं प्रतीयते।। क्कचिद्विधिनिषेधयोरनुभयं यथा- 'वेच्च महं विय एक्काए हुंतु निस्सासरोइयव्वाइं। मा तुज्झ वि त्तिइ विणा दक्खिन्नहयस्स जायंतु॥'

त्तप्रवर्तनाखभावः । सौभाग्याभिमानखण्डनाप्रवेशात् ॥ दे आ इति। काचि- दभिसर्तुं प्रस्ृता गृहागतं प्रियतममवलोक्य खयं निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते। दे इति निपातः प्रार्थनायाम्। आ इति तावच्छन्दार्थे। प्रार्थये प्रसीद तावननि- वर्तखव किमेतत्कदाचिद्भवति यदहं नागच्छामितस्मादृथायमुद्यमः। एतन्न जानासि यत्कृष्णपक्षे तदुचितवेषाप्यहं निजवक्रचन्द्रमसा शुकपक्ष करोमीति न केवलमात्मेना विघ्नं करोषि यावदन्यासामपि आस्ताम्। हंसीति। सकलदि- क्प्रकाशस्तया क्रियत इति परमभिलाषस्तद्रतो व्यज्यते इति॥ वच्चेति। कश्चिदनङ्गीकृतप्रार्थनो निःश्वसन् रुदन्निव कयाचिदेवमुच्यते । व्रज इह हि ते कण्टकानामुपरि स्थितिः । ममैव न तु तव तस्या वा एकस्या नान्या हि मत्समा

१. 'प्रार्थये तावत्प्रसीद निवर्तस्व मुखशशिज्योत्स्ाविलुप्ततमोनिवहे। अभिसारिकाणां विम्नं करोष्ययासामपि हताशे ॥' [इति च्छाया] २. 'व्रज ममवैकस्या भवन्तु निःश्वासरोदितव्यानि। मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ।' [इति च्छाया]

१. 'त्मनो' स्यात्. २. 'मुहससीति' स्यात.

Page 65

४० काव्यमाला।

अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलीकप्रियतमोपालम्भमात्रं प्रतीयते।। क्कचिदविधिनिषेधेऽनुभयं यथा- 'पहमुहपसाहियंगो निद्दाघुम्मंतलोयणो न तहा। जह निब्बणाहरोसा मलंग दूणेसि मह हिययम् ।।' विगतमत्सराया मम न तथा नखपदादिचिहनं भवदङ्कसङ्गिखेदावहं

कृतं वाच्योऽर्थः । तद्वलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मु- खचुम्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न जात इति केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचते इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यञ्ञयः ॥ क्कचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा- ककैस्स व न होइ रोसो दद्धू (ट्टू)ण पियाइ सव्वणं अहरम्। सभमरपउमग्घाइरि वारियवामे सहसु इन्हिम् ।।"

भवति। भवन्तु दुःसहान्यपि सन्तु। निःश्वासरोदितव्यानि न तु सुखानि। मा तवापि। दाक्षिण्यमात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि तद्योर्मा भूत क्लेशः। तया विना न तु मत्कोपात्। दाक्षिण्येन हृद- य शून्यरज्जनामात्रकरणेन हतस्य निर्जीवीकृतस्याजनिषतेति। कस्स वेति। कस्य वानीर्ष्यालोरपि। न भवति रोषो दृष्ट्रैवाकृत्वापि कुतश्चिदेवापूर्वतया प्रियाया: १. 'नखमुखप्रसारिताङ्को निद्रोन्मीलितलोचनो न तथा। यथा नि ........... "दूनयसि मम हृदयम् ॥' [इति च्छाया] २. 'कस्य वा न भवति रोषो दृष्षा प्रियायाः सत्रणमधरम्। सभ्रमरपझ्माघ्राणशीले वारितवामे सहस्वेदानीम् ।।' [इति च्छाया]

Page 66

काव्यानुशासनम्। ४१

अत्र वाच्यं सखीविषयम्, व्यङ्गयं तु तत्कान्तोपपत्त्यादिविषयम्।। एवमलंकारभेदा रसादिभेदाश्र व्यक्कया मुख्यादिभ्योऽतिरिक्त्ा ज्ञेयाः। तद्विषयो व्यञ्जकः शब्दः ॥ मुख्याद्यास्तच्छक्तयः। मुख्या गौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापाराः मुख्यादीनां शब्दानाम्। तत्र समयापेक्षवाच्यावगमनशक्तिर्मुख्याभिधा चोच्यते। मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिर्गौणी लक्षणा च।

अकत्वम्।। अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणारथोंऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ।। व करादिवैशिष्यादर्थस्यापि व्यञ्जकत्वम्।

सव्रणमधरं विलोक्य। सत्रमरपद्माघ्राणशीले शीलं हि कथचिदपि वारयितुं न शक्यम्। वारिते वारणायां हे वामे तदनङ्वीकारिणि, सहस्वेदानीमुपालम्भपर- म्परामित्यर्थः। एतत्कांचिदविनयरमणेन खण्डिताधरां विदितमिव प्रकाशयन्तीं तत्प्रत्यायनाय सखी वक्ति। सहस्वेदानीमिति वाच्यमविनयवतीविषयं व्यक्षयम्। भर्तृविषयं तु तस्य मुग्धत्वेऽपराधो नास्तीति। वैदगध्ये तु मयेत्थं संवृत्तमतः प्रियेयमिति कृत्वा सहस्वेति व्यज्रयम्। तस्यां प्रियेण गाढमुपालभ्यमानायां तद्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यज्नयम्। तत्सपतन्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयखूयापनं प्रियाया इति शब्दबलादिति सपल्नीविषयं व्यक्षयम् । सपलनीमध्ये इयती खलीकृता स्मीति लाधवमात्मनि प्रहीतुं न युक्त्म्। प्रत्युतायं बहुमानो यतो रोषे कुपिता पादपतनादि लभख इति। सहख शोभखेदानीमिति सखीविषयं सौभाग्यख्यापनं १. 'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तमनबलोकमा- नयेव कयाचिद्विदग्धासख्या तद्वाच्यतापरिहारायैवमुच्यते इति ध्वन्यालोकलोचने,

Page 67

४२ काव्यमाला

वशादर्थस्यापि मुख्यामुख्यव्य ड्गयात्मनो व्यञ्जकत्वम्। वक्तृविशेषादयथा- 'दाष्टें हे प्रतिवेशिनि क्षणमिहाप्यसमद्गहे दास्यसि प्रायो नास्य शिशोः पिताद्य विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्धा: पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ।' अत्र चौर्यरतगोपनं गम्यते। प्रतिपाद्यविशेषाद्यथा- 'निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽघरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।'

व्यक्षयम्। अद्येयं तव प्रच्छनानुरागिणी हृदयवल्लभा इत्थं रक्षिता। पुनः प्रकटदशनच्छददशनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यक्षयम्। इत्थं मयैतदपह्ुतमिति खववैदग्ध्याख्यापनं तटस्थविदग्धलोकविषयं व्यक्ञ्यमिति॥ ताविति। साच सच तौ। अत्रेति । शक्तिमध्येऽर्थमध्ये च॥ दृष्टिं हे प्रतिवेशिनीति। काचिद्युवतिः परपुरुषरसभोगानुभवेप्सया संकेतस्थानं व्रजन्ती स्वप्रवृत्तिप्रयोजनं विशिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मकं तथा सभोगचि- ह्वानि नखरदनक्षतानि गात्रसंलप्नतया शक्क्यमानाविर्भावानि यथाक्रमं भर्तृपिया- साक्षमनादेयसरसपानीयानयनेम चिरच्छिन्ननलग्रन्थिपुरुष जर्जरप्रान्तजनिष्यमा- णेन च गात्रगतविकारविशेषोद्गमेनापहुत्याभिघत्ते। तस्याश्वास्ाध्वीत्वेडवगते व्यञ्ञयप्रतीतिरिति ॥ निःशेषेति। च्युतं चन्दनं न तु क्षालितम्। संमृष्टो न तु किंचिन्मृष्टः। दूरमनञ्जने निकटे तु साजने। पुलकिता तन्वीति-

Page 68

काव्यानुशासनम्। ४३

अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते।। काकुर्ध्वनिविकारस्तद्विशेषाद्यथा- 'तथाभूतां दृष्ट्रा नृपसदसि पाञ्चालतनया वने व्याघैः सार्ध सुचिरमुषितं वल्कलघरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।।' अत्र मयि न योग्यः खेद: कुरुषु तु योग्य इति काका प्रकाश्यते॥ वाक्यविशेषाद्यथा- 'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- न्निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि। सेतुं बन्नाति भूयः किमिति च सकलद्वीपनाथानुयात- स्त्वय्यायाते वितर्कानिति दघत इवाभाति कम्पः पयोधेः ॥' अत्र नारायणरूपता गम्यते।। वाच्यविशेषादयथा- 'उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जत्कर्षाक्करितरमणीविभ्रमो नर्मदायाः । किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभू: ।।' अत्र रतार्थ प्रविशेति व्यज्यते॥

चोभयं विधेयमिति ॥ नारायणरूपतेति। ससंदेहोत्प्रेक्षायाः संकरे- जेलर्थः । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रपकस्याक्षेपो येन वाच्यालंकारोपस्का-

Page 69

8४ काव्यमाला।

अन्यासत्तेर्यथा- 'णोलेइ अणोल्लमणा अत्ता मं घरभरम्मि सयलम्मि। खणमित्तं जइ संझाइ होइ न व होइ वीसामो।।' अत्र संध्या संकेतकाल इति तटस्थं प्रति कयापि द्योत्यते।। प्रस्तावाद्यथा- 'सुब्बइ समागमिस्सइ तुज्झ पिओ अज्ज पहरमित्तेण। एमेय किंति चिट्ठसि ता सहि सज्जेसु करणिज्जम् ।।' अत्रोपपति प्रत्यमिसर्तु न युक्तमिति ध्वन्यते॥। देशविशेषाद्यथा- 'अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।।' अत्र 'विविक्तोऽयं देशः, प्रच्छन्नकामुकस्त्वया विसर्ज्यः' इति विश्वस्तां प्रति कयाचिन्निवेद्यते। कालविशेषाद्यथा -- 'गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अहयम् । अज्ज पवासं वच्चसि वच्च सयं जेव्व सुणसि करणिज्जम् ।।'

रकत्वं व्यङ्ञस्य भवेत्। यो योऽसंप्राप्तलक्ष्मीको निर्व्याजजिगीषाकरान्तःस स मां १. 'नुदत्यनार्द्रभना: श्वश्रर्मा गृहमरे सकले। क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥' [इति च्छाया] २. 'श्रयते समागमिष्यति तव प्रियोऽध प्रहरमात्रेण। एवमेव किमिति तिष्ठसि तत्सखि सज्जय करणीयम् ।।' [ इति च्छाया ] ३. 'गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम्। अद्य प्रवासं ्रजसि त्रज स्वयमेव श्रोष्यसि करणीयम् ॥ [इति च्छाया] १. 'यो यः संप्राप्त' ध्वन्यालोकलोचने.

Page 70

काव्यानुशासनम्। 8५

अद्य मघुसमये यदि व्रजसि तदहं तावन्न भवामि, तव तु न जानामि गतिमिति व्यज्यते।। चेष्टाया यथा- 'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम्। आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तच्च निवारितं प्रसरणं संकोचिते दोर्लते ॥' अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते॥ एवं वक्रादीनां द्विकादियोगेSपि व्यञ्जकत्वमवसेयम्। तत्र- वक्तृबोध्ययोगे यथा-'अत्ताइत्थ' इत्यादि। अत्र वक्तबोध्यप- र्यालोचनयाशेषेति विधिरूपव्यङ्ग्यार्थप्रतीतिः ।। एवं द्विकयोगान्तरे त्रिकादियोगान्तरे च स्यमप्यूह्यम्। एषु मुख्यार्थस्य व्यञ्जकत्वमुदाहृतम् ।। अमुख्यस्य यथा- 'साहेंती सहि सुहयं खणे खणे दूमियासि मज्झ कए। सज्झावनेहकरणिज्जसरसियं दाव विरइयं तुमए ।।' अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्। तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यन्नथम् ।।

मश्रीयादित्याद्यर्थसंभावनात्। न च पुनरपीति पूर्वामिति भूय इति च शव्दैरयमा- कृष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुद्रैक्यमात्रेणाप्युपपत्तेः। यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदभ्येनेति। पूर्वा च निद्रा राजपुत्राद्यवस्था-

१. 'साधयन्ति सखि सुभगं क्षणे क्षणे दूनासि मत्कृते। सद्भावसेहकरणीयसदृशं तावद्विरचितं त्वया ।' [इति चछाया]

Page 71

४६ काव्यमाला।

व्यङ्गयस्थ यथा- "वाणियय हत्थिदंता कुत्तो अम्हाण वग्घकित्तीओ। जावि लुलियालयमुही घरम्मि परिसुक्कए सुण्हा ।I' अत्र विलुलितालकमुखीत्वेनानवरतक्रीडासक्तिस्तथा च सततसंभो- गक्षामता ध्वन्यते ।। व्यङ्गयस्य भेदानाह- व्यङ्गयः शब्दार्थशक्तिमूलः। शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्ञयो द्विधा। उभयशक्तिमूल- स्तु शब्दशक्तिमूलान्नातिरिच्यते, शब्दस्थैव प्राधान्येन व्यञ्जकत्वात्।। तत्र शब्दशक्तिमूलमाह- नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्या- र्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्ज- कत्वे शब्दशक्तिमूलः पदवाक्ययोः । अनेकार्थस्य मुख्यस्य शब्दस्याभिघालक्षणे व्यापारे संसर्गादिभि- र्नियत्रितेऽमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाघनि- मित्तप्रयोजनैर्गौणीलक्षणारूपे व्यापारे नियत्रिते मुख्यस्य शब्दस्य वस्त्वलंकारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्ति- मूलो व्यङ्गयः । स च प्रत्येकं द्विधा। पदे वाक्ये च।। संसर्गादयश्रेमे भर्तृहरिणा प्रोक्ता :- 'संसर्गो विप्रयोगश्च साहचर्य विरोिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥

२. वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च। यावललुलितालकमुखी गृहे परिसर्पते स्नुषा ।।' [इति च्छाया]

Page 72

काव्यानुशासनम् । ४७

सामर्थ्यमौचिती देश: कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' यथा- 'वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः' इति। 'विना सीतां राम: प्रविशति महामोहसरणिम्' इति। संसर्गाद्विप्रयोगाच्च दाशरथौ। 'वुधो भौमश्च तस्योच्चैरनुकूलत्वमागतौ' इति साहचर्याद्गहविशेषे। 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' इति विरोधाद्भार्गवकार्त- वीर्ययोः । 'सैन्घवमानय, मृगयां चरिष्यामि' इत्यर्थात्प्रयोजनादश्वे। 'अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्' इति प्रकरणा- द्युष्मदर्थे। प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेदः । 'कोदण्डं यस्य गाण्डीवं स्पर्धते कस्तमर्जुनम्' इति लिङ्गाच्चि- हात्पार्थे। 'किं साक्षादुपदेशयष्टिरथ वा देवस्य शृङ्गारिणः' इति शब्दान्तर- संनिधानात्कामे। 'क्णति मधुना मत्तश्रेतोहरं प्रियकोकिलः' इति सामर्थ्याद्वसन्ते। 'तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय' इत्यौचित्यात्प्रसादसांमुख्यपालने। 'अहो महेश्वरस्यास्य कापि कान्तिः' इति राजधानीरूपाद्देशाद्राजनि। 'चित्रभानुर्विभात्यहि' इति कालविशेषाद्रवौ। 'मित्रं हन्तितरां तमःपरिकर धन्ये दृशौ मादृशाम्' इति व्यक्ति- विशेषात्सुहृदि च प्रतीतिः ।

Page 73

8८ काव्यमाला।

स्वरात्त्वर्थविशेषप्रतिपत्तिः काव्यमार्गेऽनुपयोगिनीति नोदाहियते। 'मशामि कौरवशतं समरे न कोपात्' इति काकुरूपात्सराद्ववत्य- र्थविशेषप्रतिपत्तिः । आदिग्रहणादभिनयोपदेशनिर्देशसंज्ञेद्गिताकारा गृह्यन्ते। अभिनयो यथा- 'एद्दहमित्तत्थणिया एद्दहमित्तेहि' अत्थिवत्तेहि। एयावत्थं पत्ता एत्तियमित्तेहि दिअहेहि ॥' अपदेशो यथा- 'इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्। विषवृक्षोऽपि संवर्ध्य सयं छेत्तुमसांप्रतम् ।।' निर्देशो यथा-'भर्तृदारिके, दिष्ा वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः ।' संज्ञा यथा- 'अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम्। वीक्षितेन परिगृद्य पार्वती मूर्धकम्पभयमुत्तरं ददौ ।।' इङ्गितं यथा- 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापझं न्यमीलयत् ।।' आकारो यथा- 'निवेदितं निःश्ववसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ।' १. 'एद्हमेत्तावस्था' इति काव्यप्रकाशे. 'एतावन्मात्रस्तनिका पतावन्मात्राभ्यामक्षिपत्राभ्याम्। मतावदवस्थां प्राप्ता एतावन्मात्रैदिवसैः ॥'

Page 74

काव्यानुशासनम्। ४९

तदेवं संसर्गादिभिर्नियमितायामभिघायां यार्थान्तरप्रतीतिः सा व्यञ्जनव्यापारादेव। अमुख्येऽपि शब्दे मुख्यार्थबाघादिनियमिते प्रयोजनप्रतिपत्तिर्व्यञ्जनव्यापारादेव। तथा हि तत्र संकेताभावान्नाभिघा नापि गौणी लक्षणा वा मुख्यार्थबाघादिलक्षणाभावात्। न हि लक्ष्यं मुख्यम्, नापि तस्य बाध:, न च किंचिन्निमित्तमस्ति, नापि तत्र शब्द: स्खलद्गतिः । न च किंचित्प्योजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाङ्डयते तर्हि तत्रापि प्रयोजनान्तराकाङ्कायामनवस्था स्यात्। तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम्। विषयप्रयोजनयोरत्यन्त- भेदात्। प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादि: प्रयोजनं त्वर्थाधिगतिः प्राकट्वं संवित्तिर्वा। तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयो- रविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः ॥

तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा- 'मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥।' काचित्सकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते। अत्रार्थयोवैसदृश्यान्नोपमा ।।

यामपीति सिद्धं रूपकध्वनिरेवायम्। स च वाक्यपर्यालोचनयावसीयत इति॥ अर्थाधिगतिरिति। नैयायिकादीनां प्राकट्यं भट्टमते, संवित्तिः प्राभाकरे॥

१. 'मिति' लोचने. का० शा० ४

Page 75

५० काव्यमाला।

वाक्ये यथा- पैन्थिय न. एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उन्नयपओहरं पिखिऊण जइ वससि ता वससु ॥' अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते। सर्वे ह्यत्राविदग्धाः । तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्खेति व्यज्यते। वाच्यबाघेन व्यङ्गयस्य स्थितत्वात्। तयोरनोपमानोपमेयभाव इति नालंकारो व्यङ्ञयः । यथा च- शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यसै त्वम्। यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्र ।I' अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः इति व्यत्ययेन ध्वन्यते ।। मुख्यशब्दशक्तिव्यन्नयोऽलंकार: पदे यथा- 1. 'रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभाति नृप भीमः ॥' अत्र भीषणीयस्य भीमसेन उपमानम्। वाक्ये यथा- 'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ।।'

मुक्तीति। मुक्तिरभेदव्यापारादपि। भुक्तिः कान्तोपभोगोऽपि। एकान्तः संके तस्थानमपीति। सतः सुन्दरस्यागमनम्, शोभन आगमक्च॥I उन्नतपयोधर- मिति। उन्नतं मेघं प्रेक्ष्येत्यर्थः ॥ अशनिर्वज्रमपि। अनुदारोऽनुगतदारोऽपि ।।

१. 'पथिक नात्र सत्रंस्तरमस्ति मनाक्प्रस्तरस्थले आामे। उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस ।।' [इति च्छाया ।]

Page 76

काव्यानुशासनम्। ५१

अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसाङ्कीदित्यप्राकरणिकप्राकरणिकयो- रुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यन्नयः ॥ यथा वा- 'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ।।' अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यन्नया। यद्यपि समुद्दीपि- तेति सानन्दमिति चार्थो व्यञ्जकस्तथापि न शब्दशक्ति विनार्थशक्ति- रुन्मीलति इति शब्दशक्तिरेव व्यञ्जिका।। यथा वा-'मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः ।' अत्र विरोघालंकारो व्यञ्रयः ॥ यथा वा- 'खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश् ये। ये मूर्घखवभासिन: क्षितिभृतां ये चामराणां शिरां- स्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः॥' अत्र व्यतिरेकः ॥ एवमलंकारान्तरेऽप्युदाहार्यम्॥।

प्रोल्सन् हारो यस्य, प्रोल्लसन्त्यक्ष धारा यस्य। तस्याः कामिन्याः, प्रावृषश्च। अंचन्द्रेति। चन्द्रः कर्पूरमपि। समुत्सहर्षा। तारकाभ्यां कनीनिकाभ्यामपि। श्यामा रात्रिः, कान्ता च। मातज्ो हस्ती चण्डालश् । गौर्यों गौराङ्गयोऽपि। विभवेरता विगतं भवे रतं यासां ताश्च। पद्मरागा मणिविशेषाः, पद्मवच्च रागो विद्यते यासाम्। द्विजा दन्ताः, विप्रा् ॥ नखैः करजैः, न गगने च। क्षितिभृतो राजानोऽपि। उभये रश्मिचरणरूपाः ॥ एवमिति। यथा-'सैरसं मउअसहावं १. 'अतन्द्रेति' स्यात्. २. अस्य संस्कृतच्छाया न बुद्धा.

1

Page 77

५२ काव्यमाला।

गौणशब्दशक्तिव्यक्यं वस्तु पदे यथा- 'रविसंक्रान्त सौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।' अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाश- क्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानु- पयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति। वाक्ये यथा- 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥' अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुप- देश्यं प्रत्युपदेशः सिध्यतीति बाधितसवार्थमेतद्वाक्यं संयमिनो लोको- त्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ तु पराड्ुखत्वं ध्वनतीति।।

विमलगुणाणं मित्तसंगमोल्लसिअम्। कमलं तद्वच्छायं कुणंतदोसायरनमोदे॥' एत- त्केनचिचन्द्रमेवोद्दिश्योच्यते। कमलप्रख्यस्य महापुरुषस्य श्रियं नाशितवन्तं कंचन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यङ्गयेति। निःश्वासान्ध इति। हेमन्तवर्णने पञ्च- वठ्यां रामस्योक्तिरियम् ॥। या निशेति। सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशा- नामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिः तस्यां संयमी जागर्ति कथ प्राप्येति। न तु विषयवर्जनमात्रादेव संयमीति यावत्। यदि वा सर्वभूतनिशायां मोहन्यां मिथ्यादृष्टौ जागर्ति कथमियं हेयेति। यस्यां तु मिथ्यादृष्टौ सर्वभूतानि जाप्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यै- वान्तर्बहिष्करणवृत्तिश्वरितार्था। अन्यस्तु न पश्यति न मन्यते इति तत्त्वदृष्टि-

Page 78

काव्यानुशासनम्। ५३

लक्षकशब्दशक्तिव्यङ्ग्यं वस्तु पदे यथा-

'स्न्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढ कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथ भविष्यति हहा हा देवि धीरा भव ।।' अत्र प्रकरणात्तृतीयत्रिकनिर्देशाच रामे प्रतिपन्ने रामपदमनुपयुज्य-

परेण भाव्यमिति तात्पर्यम्। स्न्निग्धेति। स्न्िग्धया जलसंबन्धसरसया श्याम- लया द्रविडवनितोचितासितवर्णया कान्त्या चाकचिक्येन लिप्तमाच्छुरितं विय- ननमो यैः। वेह्लन्त्यो जृम्भमाणास्तथा चलन्त्यः परभागवशात् प्रहर्षवशाच बला- का: सितपक्षिविशेषा येषु सत्सु ते एवंविधा मेघाः। एवं नभस्तावद्दुरालोकं वर्तते। दिशोऽपि दुःसहाः। यतः सूक्ष्मजलोद्गारिणो वाता इति मन्दमन्दत्वमेषामनिय- तदिगागमनं च बहुवचनेन सूचितम् । तर्हिं गुहासु क्वचित्प्रविश्यास्यताम्, अत आह-पयोदानां ये सुहृदस्तेषु च सत्सु शोभनहृदया भयूरास्ेषामानन्देन हर्षेण कला: षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः । ताश्च सर्व पयोदवृत्तान्तं स्मारयन्ति स्वयं च दुःसहा इति भावः । एवमुद्दीपनविभावोद्वोधितविप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः। विभावानां च साधारण्यमभिमन्यमान इत एव प्रभृति प्रियतमां हृदये निधायैव खात्मवृत्तान्तं तावदाह-कामं सन्त्विति । दृढ- मिति सातिशयम्। कठोरहृदय इति। रामशब्दार्थव्यक्चयविशेषावकाशदानाय कठोरहृदयपदम् । यथा-तद्रेहमित्युक्तेऽपि नतभित्तीति। अन्यथा रामपदं दश- रथकुलोद्धवकौश ल्यास्ने हपात्रत्व बाल्यच रित जानकीला भादि धर्मान्तरपरिणतमर्थ क - थं नाम ध्वनेत्। अस्मीति। स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासा- मान्यम्। तेन किं करिष्यतीत्यर्थः । अथ च भवनमेवास्या असंभाव्यमिति। उक्तप्रकारेण हृदयनिहितां प्रियां सजलजलधरादीनामुद्दीपनविभावानां साधारण- त्वावधारणादिना स्मरणेन वैदेहीति शब्देन कथं भविष्यतीति विकल्पपरम्परया च प्रत्यक्षीभावितां हृदयस्य स्फुटनोममुखीं ससत्रममाह-हहा हेति। देवीति

Page 79

५४ काव्यमाला। मानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरणसीतावियोगाद्यनेक- दुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति॥ वाक्ये यथा- 'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्र कृतविद्यश्च यश्च जानाति सेवितुम् ।।' इदं हि वाक्यमसंभवत्खार्थ सत्सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयञ्छूरकृतविद्यसेवकानां प्राशस्त्यं ध्वनति॥ अर्थशक्तिमूलं व्यङ्गयमाह-

वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्यञ्जकत्वेऽर्थशक्तिमूलः स

युक्तं तव वैर्यमित्यर्थः ॥ सुवर्णपुष्पामिति। सुवर्ण न तु ताम्रादि। पुष्पाणि प्रतिदिनं त्राह्याणि न तु दीनारादिवत् सकृद्राह्याणि। पृथिवीं न तु नगरादिमात्रं चचिन्वन्ति प्रत्यहं गरहीतसारां कुर्वते। पुरुषा इति। अन्ये त्वकार्यकराः । त्रय इति न तु चत्वारः। एवं शूरः पराक्रमेण दुर्घटकार्यकारी। कृता परं धाराधिरोहँ नीता विद्या तत्त्वावबोधहेतुर्येन। सेवक इति सेवाज्ञ इति वा वक्तव्ये ज्ञानस्या लौकिकत्वमनौचित्याद्यगणनादि च ध्वनितुं यस्ये(श्रे)त्यादि कृतम्। शुरकृतविद्य वत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्वकाराः खतः संभवन्तीति न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरो यावद्वहिरप्यौचितयेन संभाव्यमानसद्भाव इत्य- रथ:। यथा-'सिहिपिञ्छकण्णऊरा जाया वाहस्स गव्विरी भभइ। मुत्ताहलर- इअपसाहणाणँ मज्झो सवत्तीणम् ।।' शिखिमात्रमारणमेव तदासकस्य कृत्यम्। अन्यासु त्वासक्तो हस्तिनोऽप्यमारयत् इति बहुवचनेनोक्तमुत्तमं सौभाग्यम्। रचितानि विविधभज्गीभिः प्रसाधनानि इति तासां संभोगव्यग्रिमाभावात तद्विर- चनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इति दर्शितम्। गर्वश्च बाल्यावि- १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति। मुक्ताफलरचितप्रसाधनानां मध्ये सपलीनाम ।।' [इति च्छाया]

Page 80

काव्यानुशासनम्। ५५

च पदवाक्ययोः प्रबन्धे च । इह चार्थ: खतःसंभवी कविप्रौढोक्तिमात्र- निष्पन्नशरीरः, कविनिबद्धवक्तप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेद- कथनं न न्याय्यम्। प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः। प्रौढो.

वेकादिनापि भवतीति नात्र खोक्तिसद्भावः शक्क्यः। एष चार्थो यथा यथा वर्ण्यते तथा तथा सौभाग्यातिशयं व्याघवध्वा द्योतयति ॥ कविप्रौढोक्तिमात्रेति । कवेरेव या प्रौढा उक्तिस्तन्मान्रनिष्पन्नशरीर इत्यर्थः । यथा-'सजेइ सुरहि- मासो ने या पणामेइ जुअइजणलक्खमुहे। अहिणवस्हियारमुहे णवपल्लवपत्तले- अणज्ञस्स सरे ॥' अत्र वसन्तैश्वतनोऽनज्ञस्य सखा स जयति केवलं न तावदर्प- यति इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्या सहकारोद्भेदिनी वसन्त- दशा यत उक्ा अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तदर्पितेषु किय- द्विक(क)मिष्यते इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यन- क्ति। कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरो यथा-'शिखरिणि क्व नु नाम किय- चिरं किमभिघानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥' न हि निर्विघ्नोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विद- ध्युः। दिव्यकल्पसहस्त्रादिश्वात्र परिमितकालः। न चैवंविधोत्तमफलत्वेन चान्द्रा- यणप्रभृत्यपि तपः श्रुतम्। तवेति भिन्नं पदम्। समासेन विगलिततया सान प्रतीयते तव दशतीत्यभिप्रायेण। तेन वृत्तानुरोधात् त्वदधरपाटलम् इति न कृतमिति। तदसदेव। दशतीत्याखादयति। अविच्छिन्नप्रतिबन्धतया न त्वौदरि- कवत्परिभुंक्ते अपि तु रसज्ञोऽन्रेति तत्प्राप्तिवदेव । रसज्ञताप्यस्य तपःप्रभावादे- वेति। शुकशावक इति। तारुण्याद्युचितकाललाभोऽपि तपस एवेति। अनुरागि-

अत्र चाव्यवहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यअ्ञकत्वेन खदते। खभावेऽपि हि वर्ण्यमान: कविप्रौत्यैव खदते। एतच्च जात्यलंकारे विवेचयिष्यते। काव्यस्य च कविरेव कर्ता वक्ता च। तत्र कविनैव निबद्ध इति कवेरेव

१. 'सज्जयति सुरभिमासो न तावदपयति युवतिजनलक्ष्यमुखान्। अभिनवसहकारमुखान्नवपल्लवपत्रलाननङ्गस्य शरान् ।।' [इति च्छाया] २. 'ण दाव अप्पेड' धवन्यालोके. ३. 'न्तोचेतनो' ध्वन्यालोकलोचने.

Page 81

५६ काव्यमाला।

क्तिमन्तरेण खतः संभविनोऽप्यकिंचित्करत्वात्। कविप्रौढोक्तिरेव च कविनिबद्धवक्तृप्रौढोक्तिरिति किं प्रपश्चेन।। तत्र वस्तुनो वस्तुव्यञ्जकत्वं पदे यथा- "तं ताण सिरिसहोयररयणाहरणम्मि हिययमिक्करसम्। बिम्बाहरे पियाणं निवेसियं कुसुमबाणेन ।I' अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति॥ वाक्ये यथा- 'तापी नेयं नियतमथ वा तानि नैतानि नूनं तीराण्यस्याः सविधविचलद्वीचिवाचालितानि। अन्यो वाहं किमथ न हि तद्वारिवेल्द्वलाकं यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥' अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न खत इत्येतद्वस्तु व्यज्यते।।

तथाविधार्थों उल्लिखिता: इति खतःसंभवित्वम् । कविनिबद्धवक्तृप्रौढोकति मात्रशरीरत्वं चार्थस्य न वाच्यमित्यर्थः ॥ किं प्रपञ्चेनेति। एवं हि मेद- परिकल्पने शिष्यव्यामोह एव संपद्यत इत्यर्थः ॥ तं ताणेति । तेषा- मसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रविमर्दनादि किं किं न कृतम् तड्ृदयमिति येभ्यस्तेभ्योऽतिदुःखकरेभ्योऽप्यकम्पनीयव्यवसायम्। तच् श्रीसहो- दराणामत एवानिर्वार्यान्योत्कर्षाणामित्यर्थः। तेषां रत्नानामासमन्ताद्वरणे एकरसं तत्पर्र यड्धृदयं तत्कुसुमबाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां बिम्बाधरें निवेशितम्। तदवलोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगित्वेन कामदे- वेन कृतम् तेषां हृदयं यदत्यन्तविजिगीषाज्वलनजाउवल्यमानमभूदिति यावत्।। १. 'तत्तेषां श्रीसहोदररत्नहरणे हृदयमेकरसम्। बिम्बावरे प्रियाणां निवेशितं कुसुमवाणेन॥' [इति कछाया]

Page 82

काव्यानुशासनम्। ५७

वस्तुनोSलंकारव्यञ्जकत्वं पदे यथा- "वीराण रमइ घुसिणारुणम्मि न तहा पियाथणुत्थज्ने। दिट्टी रिउगयकुम्भत्थलम्मि जह बहलसिन्दूरे ॥' अत्र घी(वी)राणामिति पदार्थो वस्तुमात्ररूपः कुचयो: कुम्भस्थलस्य चोपमालंकारं ध्वनति॥

वस्तुनोऽलंकारव्यञ्जकत्वमिति। वस्तुना उपमादिरलंकारो व्यज्यत इत्यर्थः। तत्रोपमाध्वनिः 'वीराण-' इत्यादिना दर्शितः। अर्थान्तरन्यासध्वनिः पदे यथा -'हिअअट्वियमन्नं खुअ अणरुद्मुहं पि मं पसायन्त। अवरद्स्स वि गै हु दे बहुजाणय रुसिउं सक्कम् II' हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया। अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन्। हे बहुज्ञ, अपराद्धस्यापि तव खलु न रोषकरणं शक्यम्। अत्र बहुज्ञेत्यामन्न्रणार्थो विशिषे पर्यवसितः। अनन्तरं तु तदर्थपर्यालोचनबलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि। तैथा हि। खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यक्षेण दर्शयन्ती इत्थमाह। यः कश्चि- द्वहुज्ञो धूर्तः स एवं सापराधोऽपि सापराधावकाशमवच्छादयतीति मा त्वमा- त्मनि बहुमानं मिथ्या ग्रहीरिति। उत्प्रेक्षाध्वनिर्यथा-'चन्दनासक्तभुजगनिःश्वा- सानिलमूर्च्छितः । मूर्च्छयत्येष पथिकान्मधौ मलयमारुतः ॥' अत्र हि मधौ मल- यमारुतस्य पथिकमूर्च्छाकारणत्वं मन्मथोन्माथदायित्वेनैव। तत्तु चन्दनासक्तमु- जगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसा- मर्थ्यादवसीयते। न चैवंविधे विषये इवादिशब्दप्रयोगमन्तरेणासंबद्धतैवेति शक्यं

१. 'वीराणां रमते घुसृणारुणे न तथा प्रियास्तनोत्सड्गे। दृष्टी रिपुगजकुम्भस्थले यथा बह्दलसिन्दूरे ।।' [इति च्छाया] १. 'हृदयस्थापितमन्युमपरोषमुखीमपि मां प्रसादयन्। अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ।।' [इति च्छाया] २. 'हिअअट्ठाविअमण्णुं अवरुण्णमुहं' ध्वन्यालोके पाठ :. ३. 'णं' ध्वन्यालोके. ४. 'सामर्थ्य' लोचने. ५. 'सा हि' लोचने.

Page 83

५८ काव्यमाला।

व क्ुम्, गमकलात्। अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनातू। यथा-'ईसा- कलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायंदो। अज्ज सरिसत्तणं पाविऊण अङ्ञि व्विअ न माई ।।' ईर्ष्याकलुषितस्यापि ईषदरुणच्छायाकस्य। यदि तु प्रसननस्य मुखस्य सादृश्यमुद्धहेत्सर्वंदा तत्किं कुर्यात् त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अज्गे न खदेहे न माति दश दिशः पूरयति यतोऽदेयता कालेन एकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं खवरससिद्धमेवमुत्प्रेक्ष्यते। यदि च ननुशब्देन वितर्कमुत्प्रेक्षारूपमा- चक्षणेनासंबद्धता पराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा-'त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्विदपि धन्विभिरन्वबन्धि। तस्थौ तथापि न मृग: क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥' परितः सर्वतो निकेतान्परि- पतन्नक्रामन्न कैश्विदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थी त्रासचापलयोगात् खाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते। अङ्गनाभिराकर्णपूर्णैरने- त्रशरैर्हता ईक्षणश्रीः सर्वखभूता अस्य यतः अतो न तस्थौ। नन्वेतदप्यसंबद्ध- मस्तु।न। शब्दार्थव्यवहारे प्रसिद्धिरेव प्रमाणम् ।। दीपकध्वनिर्यथा-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्ष II' इति। अन्र मा बाधिष्ठेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदतप्रतिपत्या चारुतनिष्पत्तिः ॥ अप्रस्तुतप्रशंसाध्वनि- र्यथा-'ढुण्दुण्णन्तो मरिहिसि-' इति। प्रियतमेन साकमुद्याने विहरन्ती काचि- न्नायिका भ्रमरमेवमाहेति। भृङ्गस्याभिधायां प्रस्तुतत्वमेव। न चामन्तणादप्रस्तु- तत्वगतिः प्रत्युतामन्न्रणं तस्या मौगध्यविजृम्भितमित्यभिधया तावन्नात्राप्रस्तुत- प्रशंसा। समाप्तायां पुनरभिधायां वाच्यार्थसौन्दर्यबलादन्यापदेशता ध्वन्यते। यत्र खसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूर्नि- र्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्विशयानि शम्भलीकष्टकव्याप्तानि दूरा- मोदकेतकीवनस्थानीयानि वेश्याकुलानि इतश्वामुतश्च चश्चूर्यमाणं प्रियतममुपाल-

१० 'ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । अद्य मद्शत्वं प्राप्याङ्ग इव न माति ।।' [इति च्छाया] २. 'त्वप्रस' लोचने.

Page 84

काव्यानुशासनम्। ५९

वाक्ये यथा- 'पुत्रक्षयेन्धनघनप्रविजृम्भमाण-

प्रालेयशीतलममंस्त स बाद्यवहि- महाय देहमथ संविदधे सरित्सात्।। अत्र विशिष्टः पुत्रक्षयोपतप्तोऽमिं प्रविष्टो न तेन दग्ध इत्ययं वाक्यार्थो वस्तखभावः शोकस्य बाह्यवहेराधिक्यमिति व्यतिरेकालंकारं ध्वनति॥ कुचकुम्भभूरिसुभगाभोगे सुघाधामनि। विच्छेदानलदीपितोत्केचनिताचेतोधि- वासोद्धवं संतापं विनिनीषुरेष विततैरजैर्नताङ्ग: सरः ॥' अत्र चन्द्र- मण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छ- विमन्मथाकारतयापह्ववो ध्वन्यते। अत्रैव ससंदेहध्वनिः। यतः चन्द्रवर्तिनोS स्वस्य नामापि न गृहीतम् । अपि तु गौराज्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छित्त्यास्पदत्वेन यच्छाखामुत्कृष्टतामाचरतीति तन्न जानीमः किमेतद्वस्त्विति ससंदेहो ध्वन्यते ॥ पूर्वमनज्ञीकृतप्रणयामनुतप्तां प्रणयिविरहो- त्कण्ठिता वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधेयतया वासकसज्जीभूर्ता पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालागुरुपत्र- भग्रचना मन्थोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी च कुवलयदलश्या मला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि ॥ त्वदीयकुचकलशशोभा मृगा- इशोभा च सह मदनमुद्दीपयते इति सहोक्तिध्वनिरपि॥ 'त्वत्कुचसदृशश्रन्द्रश्न्द्र- समस्त्वत्कुचाभोगः' इति प्रतीतेरुपमाध्वनिरपि ॥ एवमन्येऽप्यत्र प्रभेदाः शक्यो- त्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुलात्। यतः-'हेलापि कस्यचिदचिन्त्य- फलप्रसत्त्यै कस्यापि नालमणवेऽपि फलाय यत्नः। दिग्दन्तिरोमचलनं धरणीं धुनोति खात्संपतन्नपि लतां चलयेन्न मृङ्ग: ।' व्यतिरेकध्वनिर्यथा-'जाएज १. 'वनिताचेतो' स्यातू. २. 'जायेय वनोददेशे कुब्ज इव पादपो घटितपत्रः । मानुषे लोके तापैकरसो दरिद्रश्र ।I'

Page 85

६० काव्यमाला।

अलंकारस्य वस्तुव्यज्नयत्वं पदे यथा- 'चूंअङ्कुरावयंसं छणपसरमहग्घमणहरसुरामोयम्। अपणामियं पि गहियं कुसमसरेण महुमासलच्छीए मुहम् ।।'

वणुद्देशे खुज्जो व्विअ पायवो घडिअवत्तो। मा माणुसम्मि लोए ताएक्रसो दरिद्दो अ ।' जायेय वनोद्देरे एव वनस्यैकान्ते गहने यत्र स्फुटबहुतरवृक्षसंपत्त्या प्रेक्षतेऽपि न कश्चित् कुब्ज इति। यो रूपघटनादावेवानुपयोगी। झटितपत्र इति छायामपि न करोति तस्य का पुष्पफलवार्तेति भावः । तादृशोऽपि कदाचि दाज्ञा- रिकस्योपयोगी स्यादुलूकादेर्निवासायेति भावः । मानुष इति। सुलभार्थिज न इति भावः । लोक इति। यत्र लोक्यते सोऽर्थिभि: तेन चार्थिजनो न किंचि च्छक्यते कर्तु तन्महद्वैशसमिति भावः । अत्र वाच्योलंकारो न कश्चित्। त्यागैकरसस्य दरिद्रस्य जन्मानभिनन्दनं त्रुटितपत्रकुब्जपादपजन्मामिनन्दनं च साक्षाच्छब्द- वाच्यम्। तथाविधादपि पादपात्तादृशश्च पुंसः शोच्यतायामाधिक्यं तात्पर्येण प्रका- शयति ॥ एवमन्येऽलंकारा व्यङ्ञयतया अभ्यूत्या इति ॥ अलंकारस्य वस्तुव्यञ्ञ- कत्वमिति। अलंकारेण उपमादिना वाच्येन वस्तु व्यज्यत इत्यर्थः। तत्र विरोधस्य वस्तुव्यज्जकत्वं चूअङ्कुरावयंसमित्यादिना प्रदर्शितम्॥ उपमाया यथा । शिखरि- णीति। अत्र तवाधरपाटलमिति पदे समासोपमयाभिलाषात्मकं वस्तु ध्वन्यते।। रूपकस्य यथा 'चमहियमाणसकश्चणपङ्कयनिम्महियपरिमला जस्स। अखुडियदा- णप्पसरा बाहुप्पलिहा व्विय गयन्दा II' अत्र बाह्नोः परिघरूपेणात्मना रूपका- लंकारेण भुजद्वयान्यद्वजाश्वादिसामत्री रूपं तस्यानुपादेयमिति वस्तु व्यज्यते। एवमन्येऽप्यलंकारा वस्तुनो व्यञ्जकत्वेनोदाहार्याः ।। छणेति। महार्घेनो(णो)- त्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोद्वमत्कारो यत्र। महार्धशब्दस्य १. 'व्यज्जकत्वं' स्यात् टीकानुरोधात. २. 'चूताङ्कुरावतंसं क्षणप्रसरमहार्घमनोहरसुरामोदम्। असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या सुखम् ।' ३. 'महं घणमद्ठुरामोअम्' ध्वन्या०.

अखण्डितदानप्रसरा बाहुपरिधा दव गजेन्द्राः ।।'

Page 86

काव्यानुशासनम्। ६१

अत्रापणामियमसमर्पितमपि विरोधालंकारेण वाच्येन मधुमासप्रौढि- मनि भाविनि किं भविष्यतीत्येवंभूतं वस्तु ध्वन्यते।। वाक्ये यथा- 'गाढालिङ्गणरहसुज्जयम्मि दइए लहु समोसरइ। माणंसिणीण माणो पीलणभीय व्व हिययाओ ।।' अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि। तत्र जुम्भत इति वस्तु व्यज्यते।। अलंकारेणालंकारः पदे यथा- 'तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो। इअ नववहुया सोउण कुणई वयणं महीसमुहम् ।।' अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेः त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते।। वाक्ये यथा- 'स वक्तुमखिलाञ्छक्तो हयग्रीवाश्रितान्गुणान्। योऽम्बुकुम्मैः परिच्छेदं शक्तः कर्तुं महोदघेः ॥' अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोSसाघा- रणतद्विशेषप्रकाशनपर आक्षेपो व्यज्यते॥ प्रबन्धेऽर्थशक्तिमूलो व्यङ्गयो यथा गृध्रगोमायुसंवादे-

परनिपातः। प्राकृते नियमाभावात्। असमर्पितमपि गृहीतं कुसुमशरेण मधु-

१. 'गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति। मनस्विन्या मान: पीडनाभीत इव हृदयात्।' २. 'तव वल्लभस्य प्रातरासीदघरो म्लानकमलदलम्। इति नववधू: श्रुत्वा करोति वदनं महीसंमुखम्।।'

Page 87

६२ काव्यमाला।

तथा च- 'अलं स्थित्वा शमशानेऽस्मिन्गृध्रगोमायुसंकुले। न चेह जीवितः कश्चित्कालधर्ममुपागतः ।I' इति दिवाप्रभवतो गृधस्य पुरुषविसर्जनपरमिदं वचनम्। 'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम्। बहुविन्नो मुहूर्तोडयं जीवेदपि कदाचन ।।' 'अमुं कनकवर्णामं बालमप्राप्तयौवनम्। गृधरवाक्यात्कथं बालास्त्यक्षध्वमविशङ्किताः ॥' इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठां चेति प्रबन्ध- प्रतिपाद्येनार्थेन गृधगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते ॥ एवं मधुमथन- विजये पाञ्चयज्ञोक्तिषु, विषमबाणलीलायां कामदेवस्य सहचरसमा- मासलक्ष्म्या मुखमारम्भो वक्रं च। तच्च सुरामोदयुक्तं भवति॥ पाञ्चजन्यो- क्िष्विति।"लीलादाढग्गुन्वूढ सयलमहिमण्डलस्स विअ अज्ज। कीस मुणाला- हरणं पितुम्भगरुआइ अङ्गंपि ।' पाश्चजन्योक्तयोरुक्मिणीविप्रलम्भवासुदेवाशय- प्रतिभेदनाभिप्रायमभिव्यञ्ञन्ति ॥ सहचरेति। कामदेवस्य सहचरा मधुयौव- नमलयानिलादयस्तेषां समागमे। तदुक्तिष्वित्यर्थः। यथा-'हुमिअवहच्छिअरेहो णिरङडुसो अहविवेअरहिओ वि । सिविणेवि उम्मसमये पत्तिअभत्ति न पप्फसि- मि ।' इत्यादयो यौवनोक्तयस्तं तं निजसभावं व्यञ्ञन्ति॥ रसभावेति। यद्यपि रसेनैव सर्वं काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारांत्मनोऽपि कुत- श्विदंशात्प्रयोजकीभूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रिक्ता वस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्माच्चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः। यदा तु विभावाभासाद्रत्याभासोदयस्तदा विभावानुभा- वाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि। एवं रसध्वनेरेवामी १. 'पाञ्चजन्योक्तिपु' विवेके. १. 'पाञ्चयश्ञोक्तिपु' मूल०. २, ३. अनयोश्छाया स्फुटा.

Page 88

काव्यानुशासनम्। ६३

गमेऽर्थव्यञ्जकत्वमुदाहार्यम् ।। एवं च वस्तुनोऽलंकारव्यञ्जकत्वे भेद- त्रयमुत्प्रेक्ष्यम् ।। रसादिश्व।

न्यर्थशक्तिमूलानि व्यङ्ग्यानि। चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगे रसादयो व्यङ्गया एव भवन्ति, न तु कदाचिद्वाच्यतामपि सहन्ते इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलंकारौ हि वाच्या- वपि भवतः ॥ तत्रार्थशक्तिमूलो व्यक्ञ्यो रसः पदे यथा- 'उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने परिभृशं कुपिते वहन्ती।

भावध्वनिप्रभृतयो निःस्पन्दाः। आखादे प्रधानं प्रयोजकमशं विभज्य व्यवस्था- प्यते। यथा-गम्नयुकिज्ञौ(?)रेकसंमूर्च्छितमोदोपभोगेऽपि सुपरिशुद्धमांस्यादिप्र- युक्तमिदं सौरभमिति। रसध्वनिस्तु स एव, यत्र मुख्यतया विभावानुभावव्यभि- चारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाखा- दप्रकर्ष इति। उदाहरणानि चैतल्लक्षणा प्रस्तावे दर्शयिष्यन्ते॥ उत्कम्पिनीति। अत्र हि ते इति पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम्। तथा हि- वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम्। तत्र च शोको नामेष्टजनविनाशप्रभव इति तस्यास्य जनस्य ये भ्रूक्षेपकटाक्षादय: पूर्व रति विभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरेपेक्षत्वभावप्रमाणं करुणमुद्दीपयन्तीति स्थिते। ते लोचने इति तच्छब्दस्तल्लोच- नगत ख संवेद्या व्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्तता प्राप्तः । तेन य्त्किचिच्चोदितं परिहृतं च तन्मिथ्यैव। तथा हि। चोदम्-प्रक्रा- न्तपरामर्षकस्य तच्छब्दस्य कथमियति व्यापारः। उत्तरम्-रसाविष्टोऽत्र परा- १. 'निरपेक्षभावत्वप्राणं' लोचने. २. 'स्थितम्' स्यात. ३. 'केनचित्' लोचने.

Page 89

६४ काव्यमाला।

तीक्ष्मेन दारुणतया सहसैव दग्घा धूमान्धितेन दहनेन न वीक्षितासि ।' अत्र ते इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयवित्रमाणां शोकव्यञ्जकत्वम् ।। त्याद्यन्ते यथा- 'मा पन्थं रुन्धीओ अवेहि बालय अहोसि अहिरीओ। अम्हे अणिरिक्काओ सुन्नघरं रक्खियव्वं णो।।' अन्रापेहीति त्याद्यन्तत्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि अस्ति तु संकेतस्थानं शून्यं गृहं तत्रैवागन्तव्यमिति ध्वनति॥

मृष्टेति। तदुभयमनुत्था[प]नोपहतम् । यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्य- धर्मयोगित्वं वस्तुनो यच्छन्देनाभिधाय तद्वुद्धिस्थधर्मान्तरसाहित्यं तच्छब्देन निर्वाह्यते तत्र पूर्वप्रक्ान्तपरामर्शकत्वं तच्छन्दस्य। यत्र तु निमित्तोपनत- स्मरणविशेषाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति ॥। उत्कम्पि- नीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकार मिति शोकावेगस्य विभावतेति सातिशयविभ्रमैकायतनरूपे अपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती क्व स्नाता क्वासी चार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम्। तीक्ष्णेनेति। तस्यायं स्वभाव एव किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टमसमर्थ इति, न तु सविवेकस्येद्टशानुचितकारित्वं संभा- व्यत इति स्मर्यमाणं तदीयं सौन्दर्यमिदानीं सातिशयशोकावेशविभावतां प्राप्त इति तेशब्दे सति सर्वोडयमर्थो निर्व्यूढः। यथा वा-'झगिति कनकचित्रे तत्र दृष्टे कुरे रभसविकसितास्ते दृष्टिपाताः प्रियायाः। पवनविलुलितानामुत्पलानां पलाशप्रकर- मिव किरन्तः स्मर्यमाणा दहन्ति ॥' इति॥ अणिरिक्काओ इति। परतत्रा इति॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः।

१. 'मा पन्थानं रुध अपेहि बालक अहो असि अहीकः। वयं परतन्राः शून्यगृहं रक्षणीयमस्माकम् ।'

Page 90

काव्यानुशासनम्। ६५

पदैकदेशोऽपि पदं यथा- 'तालैः शिञ्जद्वलयसुभगैनर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्धः ।' अत्र तालैरिति बहुवचनमनेकभङ्चिवैदग्ध्यं ख्यापयद्विपलम्भमुद्दीप यति- 'लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै- स्तवावस्था चेयं विसृज कठिने मानमधुना ।।' न लिखतीत्यपि तु प्रसादपर्यन्तमास्ते इति न त्वासित इति। भूमिमिति न तु भूमाविति। न हि बुद्धिपूर्वकं किंचिल्लिखतीति स्यादित्यादिविभक्तीनां व्यञ्जकत्वम्।। 'अेस्म(ण्ण)त्थ वच्च बालय अण्हा इति किसमलेहसि एअम्। हो जायाभीरुयाण तीत्थं विय न होई ।।' अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्ष्यातिशयः प्रच्छन्नकामिन्याभिव्यक्तः। जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये ह्वरसज्ञा धर्मपत्नीषु प्रेमपरतब्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः ॥ 'अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे। नववारिघरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥।' अत्र चकारौ निपातावेवमाहतुः। गण्डस्योपरि स्फोटवद्विप्रयोगश्च

१. 'अन्यत्र व्रज बालक प्रकर्षेणालोकयस्यंतत्। भो जायाभीरुकाणां तीर्थमेव न भवति॥' २. 'ये हि रसज्ञाः' ध्वन्यालोके. ३. 'स्फोट इतिवत्तद्वियोगवद्वर्षा' अ्वन्यालोके. का० शा० ५

Page 91

६६ काव्यमाला।

वर्षासमयश् समुपनतमेतह्ूयमलं प्राणहरणायेति। अत एव र्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम्।। 'प्रस्न्िग्धा: करचिदिङ्गुदीफलभिद: सूच्यन्त एवोपलाः' अत्र प्र इत्यु- वसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति॥ अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः सोऽपि रसव्य- क्त्यर्थः । यदाह-'अहो बतासि स्पृहणीयवीर्यः' अत्राहो बतेत्यनेन श्लाघातिशयो ध्वन्यते॥ 'मनुष्यवृत्त्या समुपाचरन्तं खबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरप्यसुबोधमीशं त्वां बोद्धुमिच्छन्त्यबुघाः खत्कैः ॥' अत्र सम्यग्भूतमुपांशु कृत्वा आसमन्ताच्चरन्तमित्यनेन लोकानुजिघृ- क्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते॥ 'रमणीयः क्षत्रियकुमार आसीत्' इति। अत्र शंकरधनुर्भङ्कश्रवणा- त्प्रकुपितस्य भार्गवस्योक्त्या आसीदित्यतीतकालनिर्देशाद्दाशरथेः कथा- शेषत्वं व्यज्यते। यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा- 'तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः। स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता- माश्चर्य दिवसैर्द्विजोऽयमियतीं भूमिं परां प्रापितः ।।' अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते। तदिति प्रकृत्यंशश्रात्र नतभित्तीत्येतत्प्रकृत्यंशसहायः समस्तामङ्गलभूतां मूषिका द्याकीर्णतां ध्वनति। एवं सा धेनुरित्यादावपि योज्यम्।

Page 92

२ अध्याय:] काव्यानुशासनम्। ६७

तथा- 'रेइकेलिहि अनिअसणकरकिसलयरुद्धनयणजुअलस्स। रुद्दस्य तइयनयणं पव्वइपरिचुम्बिअं जयइ ।।' अत्र जयतीति न तु शोभते इत्यादि। समानेऽपि हि स्थगन- व्यापारे लोकेSन्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते॥ भावादीनां पदप्रकाशत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते। वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षणे एवोदाहरिष्यते। प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्ति: प्रतीतैव। वर्णरचनयोस्तु साक्षा- न्माघुर्यादिगुणव्यञ्जकत्वमेव। तद्वारेण तु रसे उपयोग इति गुणप्रकरणे एव वक्ष्येते इतीह नोक्त। इत्याचार्यश्री हेमचन्द्र विरचितायामलंका रचूडामणि संज्ञखोपज्ञ- काव्यानुशासनवृत्तौ प्रथमोऽध्यायः।

द्वितीयोऽध्यायः। रसलक्षणमाह- विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः। वागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोद्दी- पनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामाजिकजनोऽनुभवन्ननुभाव्यते साक्षात्कार्यते यैसतैरनुभावैः कटाक्ष-

विभावैरिति। यदाह मुनिः-'बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः। अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥' अनुभावैरिति। 'वागङ्गसत्त्वाभि-

१. 'रतिकेलिहृ तनिव सनकरकिसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति॥'

Page 93

६८ काव्यमाला। भुजोत्क्षेपादिभिः, विविधमाभिमुर्येन चरणशीलैर्व्यभिचारिभिर्धृति- स्मृतिप्रभृतिभिः, स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारि- शब्दव्यपदेश्यैर्ममैवैते परस्यैवैते न ममैते न परस्यैते इति संबन्धि- विशेषसीकारपरिहारनियमानवसायात्साधारण्येन प्रतीतेर्राभव्यक्त: सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियत- प्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्व्यमाणतैकप्राणो विभावादिभावनावघिर- लौकिकचमत्कारकारितया परब्रह्माखादसोदरो निमीलितनयनैः कविस- हृदयै रस्यमानः खसंवेदनसिद्धो रसः ।।

नयैर्यस्मादर्थो विभाव्यते । वागज्ञोपान्संयुक्तस्त्वनुभाव इति स्मृतः ॥।' रस इति। तथा च भरतमुनि :- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति। तत्र भट्टलोललुट सावदेवं व्याचचक्षे-विभावादिभिः संयोगोऽर्थात्स्थायिन: ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तेः कारणम्। अनुभावाश्च न रसजन्या अत्र विवक्ष्यन्ते तेषां रसकारणत्वेन गणनानर्हत्वाद अपि तु भावानामेव। (ये'तु भावानामेव) येऽनुभावा व्यभिचारिणश्च [ते] चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः स्थायिना, तथापि वासनात्मतेह विवक्षिता। तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः। स्थायी त्वनुपचितः। स चोभयोरपि मुखयया वृत्त्या रामादावनुकार्येनुकर्तरि च नटे रामादिरूपतानु- संधानबलादिति ॥ तथा चाह दण्डी-'रतिः शक्गारतां याता रूपबाहुल्ययो- मतः। आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः॥I' अयं भावः-विभावैर्जनितो- डनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो मुख्यवृत्त्यानुकरणीये रामे तद्र- पतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति॥ एतन्नेति शङ्ककः । तथा हि-विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते अवगमकस्याभावात्। न हि। धूमं विना घराधरान्तःस्थो वह्िरवगम्यते। अपि च यथा खयमुत्पादिता विभावैः सूचिताश्चानुभावैः पोषमुपनीताश्च व्यभिचारिभिः संयोगाद्रसीभवन्ति स्थायिनः। १. इद प्रमादलिखितं भवेत्.

Page 94

२ अध्याय:। काव्यानुशासनम्। ६९

सदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं तन्ब कस्मान्न कृतम्। आदौ हि रसानामुद्देशलक्षणे अभिहिते कस्माच रसानां विभावानुभावांश्ोक्त्वा तानेव स्थायिनां पुनराह।। तथा हि रसान्प्रतिपदं लक्षयन्मुनिर्वक्ष्यति-'अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनयविनयबलपराक्र- मशच्िप्रताप प्रभावादिभिर्विभावैरुत्पद्यते' इति। पुनश्च स्थायिभावानुवादे तु- 'उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिसौन्दर्यादिभिर्विभावैरुःपद्यते' इति। एवमभिन्नार्था एवैते विभावा रसलक्षणे विस्तरत उक्ताः, भावानुवादे केशतः प्रदर्शिताः । न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्प- त्तिकारणमभिघातव्यम, वैयर्थ्यापत्तेः । किं च-अनुपचितावस्थः स्थायी भावः, उर्पचतावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमध्येत्या- दिविशेषापेक्षया आनन्त्यापत्तिः । एवं रसस्यापि तीव्रतीव्रतरतीव्रतमादिभिरसं- ख्यत्वं प्रपद्यते। अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि 'स्मितमवहसितं विहसि तमुपह सितं चापइसितमतिहसितम्' इति षोढात्वं हास्यरसस्य क्थ भवेत्। अन्यच्च उत्तरोत्तरप्रकर्षतारतम्यवशेन 'प्रथमे त्वमिलाषः स्याद्वितीये त्वर्थचिन्त- नम्। अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् । उद्देगः पथ्चमे ज्ञेयो विलापः षष्ठ उच्यते। उन्मादः सममे ज्ञेयो भवेद्याधिरथाष्टमे। नवमे जडता प्रोक्ता दशमे मरणं भवेत् ।।' इति दशावस्थः कामोऽभिहितः । तत्रापि प्रत्यवस्थमुत्त- रोत्तरप्रकर्षतारतम्यसंभवात्कामावस्थासु दशखसंख्याताः श््गाररतिभावादयः प्रसज्जेयुः। अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि विपर्ययो दृश्यते। यतः-इष्टजनवियोगाद्विभावादुत्पन्नो महान् शोकः क्रमेणोप- शाम्यति। न तु दार्द्यमुपैति। क्रोधोत्साहरतीनां च निजनिजकारणबलादुद्धूता- नामपि कालवशादमर्षस्थेयं सेवाविपर्ययेऽपचयोऽवलोक्यते। तस्मान्न भावपूर्व- कत्वं रसस्य। अपि तु तद्विपर्यय एव। उक्त हि मुनिना-'रसपूर्वकत्वं भावा- नामू, भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगे ह्यनुकर्तरि रसानास्ादय- तामनुकार्ये भावप्रतीतिरुत्पद्यते' इति। प्रथमपक्षस्योत्थानम्। लोके तु भावदर्श- नात्तरस्वरूपर सनिष्पत्तिरिति। तस्मादन्यथा व्याख्यायते हेतुभिर्विभावाख्यैः कार्ये- श्वानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमरपि तथानभिमन्यमानैः संयोगाद्गम्यगमकभावरूपादनुमीयमानोऽपि वस्तुसौन्दर्य- १. 'स्येव' भवेत्.

Page 95

७० काव्यमाला।

बलात्कषाय फलचर्वणपर पुरुषदर्शनप्रभवमुखप्रसेककलनाकल्पया रसनीय सवरूपत- यान्यानुमीयमानविलक्षण: स्थायित्वेन संभाव्यमानो रत्यादिर्भावो नटेऽत्यन्तावि- यमानोऽपि सामाजिकजनतास्वाद्यमानो मुख्यरामादिगतस्थाय्यनुकरणरूपोऽनु- करणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । 'सेयं ममाञ्ञेषु सुधारसच्छटा सुपूरकर्पूर शलाकिका दृशोः। मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचर गता ।' 'दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्र। अविरलविलोलजलद: काल: समुपागतश्चायम् ।I' इत्यादौ हि विभावाः काव्यबलादनुसंघेयाः, अनु. भावा: शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात्। स्थायी तु काव्य- बलादपि नानुसंधेयः ॥ 'रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकम- भिधेयीकुर्वन्त्यभिधानत्वेन, न तु वाचिकाभिनयरूपतयावगमयन्ति। न हि वागेव वाचिकमपि तु तया निर्वृत्तमज्वैरिवाज्ञिकम् । तेन-'विव्रद्धात्मा- व्यगाधोऽपि दुरन्तोऽपि महानपि। वाडवेनेव जलधिः शोकः क्रोधेन पीयते ।I' इति। तथा-'शोकेन कृतस्तथा स्थितो येन कन्दैः (१)। हृद- यस्फुटनभयातैरादित् मभ्यर्थ्यते सचिवैः ॥' इत्येवमादौ न शोकोऽभिनेयोऽपि त्वभिधेयः । 'भाति पतितो लिखन्त्यास्तस्या बाष्पाम्वुसीकरकणौघः। खंदोद्रम इव करतलसंस्पर्शादेष मे वपुषि ॥' इत्यनेन तु वाक्येन सार्थमभिदधता उदयनगतः सुखात्मा रतिस्थायिभावोऽभिनीयते न तूच्यते। अवगमनाशक्तिर्ह्यवगमनं वाच- कत्वादन्या। अत एव स्थायि (दिवेसं) (?) पदं सूत्रे भिन्नविभक्तिकमपि मुनिना नोपात्तम्। तेन रतिरनुक्रियमाण: शरङ्गार इति। अर्थक्रियापि मिथ्याज्ञानाष्ृ्टा। यथोच्यते-'मणिप्रदीप प्रभयोर्मणिबुद्धाभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥' इति। न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्यय- मेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति। किं तु सम्य्िथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुर- गादिन्यायेन यः सुखी रामः असावयमिति प्रतीतिरस्तीति । यदाह-'प्रति- भाति न संदेहो न तत्त्वं न विपर्ययः । धीरसावयमिर्त्या्त नासावेवायमित्यपि। विरुद्धबुद्धयसंभेदादविवेचित विष्नवः । युक्त्या पर्यनुयुज्यंत स्फुरत्रनुभवः कया॥' इति, तदिदमप्यन्तस्तत्त्वशून्यं विमर्दक्षममिति भटटतोतः । तथा हि- अंनुकरणरूपो रस इति यदुच्यते तत्कि सामाजिकप्रतीत्यभिप्रायेण, उत १. पूर्वाधें त्रुटितं प्रतीयते. २. प्रमादपतितं भवेत.

Page 96

२ अध्याय:] काव्यानुशासनम्। ७१

नटाभिप्रायेण, किं वा वस्तुवृत्तविवेकव्याख्यातृबुद्धिसंवलनेन। यथाहुर्ष्या- ख्यातारः खल्वेवं विवेचयन्तीति। अथ भरतमुनिवचनानुसारेण तत्रादः पक्षोऽ- संगतः । किंचिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम्। यथा- एवमसौ सुगं पिबतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति। इह च नटगतं किं तदुपलब्धं स इत्यनुकरणतया भातीति चिन्त्म्। तच्छरीर

न रतेश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित्प्रतिभाति। जडत्वेन भिन्नेन्द्रिय- ग्राह्यत्वेन भिन्नाधिकरणत्वेन ततोऽतिवैलक्षण्यात्। मुरयावलोकने च तदनुकर- णप्रतिभासो न च रामरतिमुपलब्धपूर्विणः केचित्॥ एतेन रामानुकारी नट इत्यपि निरस्तः प्रवादः ॥ अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकार: शरङ्गार इत्युच्यते। तत्रापि किमात्मकत्वेन सा प्रतीयते इति चिन्त्म्॥ ननु प्रमदादिभि: कारणैः कटाक्षादिभिः कार्यधृत्यादिभिश्व सहचारिभिलिंनभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्ततृत्ति: प्रतीतियोग्या तदात्म- कत्वेन सा नटचित्तवृत्तिः प्रतिभाति। तहिं रत्यादिकारणव सा प्रतिपन्नेति दूरे रत्यनुकरणनावाचोयुक्तिः ॥ ननु ते विभावादयोऽनुकार्ये पारमार्थिका इह लनु- कर्तरि न तथेति विशेषः। अस्त्वेवम्, किं तु ते विभावादयोऽनन्तकारणानन्त- कार्यानन्तसह चररूपा अपि काव्यशिक्षादिबलोपकल्पिताः कृत्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैर्गृह्यन्ते, न वा। यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः ॥ नन्वत एव प्रतीयमानं रत्यनुकरणं मुग्धबुद्धे: कारणान्तरप्रभवे हि कार्ये सुशि- क्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमानं तावदुक्म्। असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य यथा वृश्चिकविशेषाद्वोमयस्यैवानुमानं वृत्चिकस्यैव वा तत्परं मिथ्याज्ञानम्। प्रसिद्धा इति लक्षणात्कारणा इत्यनुकरणं नाम कारणान्तरं तत्प्र- भवाश्चेदनुभावाः स्युः। तथैव च विशेषभेदा यदि ज्ञायेरंस्तदा रत्यनुकरणलक्षणस्य वस्त्वन्तरस्यानुमानं समञ्सं स्यात्। न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति। यत्रापि लिज्ज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम्। न हि बाष्पधूमत्वेन ज्ञानाददयनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिज्वान्न तदनुकारानु- मानं युक्ततं, धूमानुकारत्वेन हि ज्ञायमानाचीहारान्नान्यनुकारजपापुञ्जप्रतीतिरईष्टा॥। १. 'सीर्पका' इत्यादर्श :. २. 'भासादनु' स्यात.

Page 97

७२ काव्यमाला।

नन्वकुद्धोऽपि नटः कुद्ध इव भाति। सत्यम्, कुद्धेन सदृशः, सादृश्यं च भ्रुक्क- ट्यादिभिगॉरिव गवयेन मुखादिभिरिति नैतावतानुकार: कश्चित्। न चापि सामा- जिकानां सादृश्यमतिरस्ति। सामाजिकानां च न भावशून्या नर्तके प्रतिपतिरित्यु- च्यते। अथ च तदनुकार प्रतिभास इति रिक्ता वाचोयुक्तिः। यच्चोक्तं रामोऽय- मित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्या- भावे कथं न तत्त्वज्ञानं स्यात्। बाधकसद्भावे वा कथ न मिथ्याज्ञानम्। वास्त- वेन च वृत्तेन बाधकानुदयेपि मिथ्याज्ञानमेव स्यात्। तेन विरुद्धबुद्संभेदादि- त्यसत्। नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति। ततश्व रामत्वं सामान्य- रूपमित्यायातम् ॥ यच्चोच्यते-विभावाः काव्यादनुमंधीयन्ते। तदपि न विद्यः। न हि ममेयं सीता काचिदिति खात्मीयत्वेन प्रतिपत्तिर्नटस्य॥ अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि स्थायिनि सुतरा- मनुसंधानं स्यात्। तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रतिपत्तिः॥ तस्मात्सामाजिकप्रतीत्यनुस।रेण स्थाय्यनुकरणं रस इत्यसत्। न चापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्ति वा अनुकरोमीति। सदृशकरणं हि तावदनुकरण- मनुपलब्धप्रकृतिना न शक्यं कर्तुम् ।। अथ पश्चात्करणमनुकरणम्, तल्लोकेऽ्प्य- नुकरणात्मतातिप्रसक्ता ॥ अथ न नियतस्य कस्यचिदनुकारोऽपि तच्च सप्रकृतेः शोकमनुकरोमीति। तत्रापि कस्योन्तमर्हि(?)केनेति चिन्तम्। न तावच्छोकेन, तस्य तदभावात्। न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्तम्। इयत्तु स्यात् उत्तमप्रकृतेयें शोकानुभावास्ताननुकरोमीति। तत्रापि कस्योत्तम- प्रकृतेः यम्य कस्यचिदिति चेत्, सोऽपि विशिष्टतां विना कर्थ बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, खात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽ- नुकार्यानुकर्तृभावः। किं च-नटः शिक्षावशात्खविभावस्मरणाचित्तवृत्तिसाथा- रणीभावेन हृदयसंवाशत्केवलाननुभावान्दर्शयन्काव्य मुचितकाकुप्रभृत्युपस्कारेण पठंश्रेष्टत इत्येतावन्मात्रस्य प्रतीतेने लनुकारं वेदयते। कान्तवेषानुकारवद्धि न रामचेष्टितस्यानुकारः । नापि वस्तुवत्तानुसारेण तदनुकारणतम् असंवेद्यमात्रस्य

इति॥ यच्चोच्यते-वर्णकहरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र यद्यभिव्यज्यमान डत्यर्थोऽभिप्रेतः । तदसत्। नहि सिन्दूरादिभि: पारमार्थिको

Page 98

२ अध्याय:] काव्यानुशासनम्। ७३

गौरभिव्यज्यते, प्रदीपादिभिरिव। किं तु तत्सदृशः समूहविशेषो निर्वर्त्यते। त एव हि सिन्दूरादयो गवावयवसंनिवेशसदृशेन संनिवेशविशेषेणावस्थिता गोसद- गिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशताप्रतिग्राह्यः। तस्मा- द्वावानुकरणं रस इत्यसत्।। येन त्वभ्यधायि सुखदुःखजननशक्तियुक्ता विषय- सामग्री बाह्यैव सांख्यदशा सुखदुःखखभावा रसः। तस्यां सामडयां दलस्था- नीया विभावा: संस्कारका अनुभावव्यभिचारिणः, स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखखभावा इति। तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादा- वुपचारमज्गीकुर्वता ग्रन्थविरोधं खयमेव बुध्यमानेन दूषणाविष्करणमौखर्यात्प्रा- माणिकजन: परिरक्षित इति किमस्योच्यते। यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम्।। भट्टनायकस्ताह-'रसो न प्रतीयते, नोत्पद्यते, नाभि- व्यज्यते। खगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात । न च सा प्रतीतिर्युक्ता सीतादेरविभावलात्। खकान्तास्मृत्यसंवेदनात्। देवतादौ साधा- रणीकरणायोग्यत्वात्। समुद्रोल्द्गनादेरसाधारण्यातू। नच तत्त्वतो रामस्य स्मृति- रनुपलब्घत्वात्। न च शब्दानुमानादिभ्यस्तत्प्रतीतौ ताटस्थ्यमेव भवेत्तत्प्रती- तिरनुभवस्मृत्यादिरूपा रसस्य युक्ता ।। उत्पत्तावपि तुल्यमेतत् दूषणम्। शक्ति- रूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । खगतपरगत- लादि च पूर्ववद्विकल्प्यम्। तस्मात्काव्ये दोषाभावगुणालंकारमयत्वलक्षणेन, नाट्य चतुर्विधाभिनयरूपेण निबिडनिजमोहसंकटतानिवारणकारणाविभावादिसा- धारणीकरणात्मनाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽ- नुनवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यबलात् हृदि विस्तरविकासात्मना सत्त्वोद्रे कप्रकाशानन्दमयनिजसंविद्विश्रान्तिविलक्षणेन परब्रह्माखादसविधेन भोगेन परं भुज्यते' इति॥ यत्स एवाह-'अभिधा भावना चान्या तद्भोगीकृतमेव च। अभिधाधामतां याते शब्दार्थालंकृती ततः ॥ भावनाभाव्य एषोऽपि शङ्गारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमान्नरः ॥' इति ॥ तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षादभ्युपगत इति। तहूषणमनुत्थानोपहतमेव। प्रतीत्यादिव्यतिरि- कश्च संसारे को भोग इति न विद्यः। रसेनेति चेत्। सापि प्रतिपत्तिरेव। केवलमुपायवैलक्षण्याच्ामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युपमिति प्रतिभानादि- नामान्तरवत्। निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च तिल्नो वा सद्वा रस इति १. 'मौषर्या' इत्यादर्श :.

Page 99

७४ काव्यमाला।

न तृतीया गतिः स्यात्। न चाप्रतीतं वस्त्वस्ति तव्यवहारयोग्यम् ॥ अथोच्यते- प्रतीतिरस्य भोगीकरणम्। तच्च रत्यादिस्वरूपं तदस्तु तथापि न तावन्मात्रम्। यावन्तो हि रसास्तावत्य एव रसात्मान: प्रतीतयो भोगीकरणस्वभावाः सत्त्वा- दिगुणानां चाज्गाद्वैचित्र्यमनन्तकल्प्यमिति का त्रित्वेनेयत्ता। 'भावनाभाव्य एषो- ऽपि शङ्गारादिगणो हि यत्।' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावादिजनितचर्वणात्मकाखादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्दा वनं तदभ्युपगम्यत एव ।। यत्तूक्तम्-'संसर्गादि यथा शास्त्र एकत्वात्तलयोगतः। वाक्यार्शस्तद्वदेवात्र शङ्गारादी रसो मतः ॥' इति, तदस्माकमभिमतमेव। तर्हि उच्यताम् परिशुद्धतत्त्व उक्तमेव मुनिना नत्वपूर्व किंचित्। तथा ह्याह-'काव्यार्था भावयन्तीति भावाः'। अस्यार्थ :- पदार्थवाक्यार्थौं रसेष्वेव पर्यवस्यत इत्यसाधा- रण्यात्प्राधान्याच्च काव्यस्यार्था रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः, न त्वर्थशब्दोड- भिधेयवाची। खशब्दानभिघेयत्वं हि रसादीनां दर्शितमेव। एवं काव्यार्था रसाः तान् कुर्वते ये स्थायिव्यभिचारिणस्ते भावाः स्थायिव्यभिचारिकलापेनैव व्याखा- दोऽलोकिकोऽर्थों निर्वर्त्यते। पूर्व हि स्थाय्यादिकमवगच्छति। ततः सर्वसाधारणतया आखादयति। तेन पूर्वागमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकाभागिन आखा- दस्य रसस्य भावको निष्पादक उच्यते। तस्मात्काव्यार्थों रस इति। तथा हि- 'आरोग्यमाप्तवान् शश्रत्स्तुत्वा देवमहर्पतिम्। स्यादर्थावगतिः पूर्वमित्यादिव चने यथा।। ततश्रोपात्तकालादिन्यक्कारेणोपजायते। प्रतिपत्तुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्कर स्तौति स सर्वोऽप्यगदो भवेत् । तस्मादहमपि स्तौमि रोगनिर्मुक्तये रविम् ।I' इति। एवं काव्यात्मकादपि शब्दात्सहृदयस्याधि- कासिति प्रतिपत्तिन संशयः । तस्य च 'ग्रीवाभज्ञाभिरामम्-' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपल्तेरनन्तर मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तका- लादिविभागा तावत्प्रतीतिरुपजायते। तस्यां च यो मृतपोतकादिर्भाति तस्थ विशेषरूपत्वाभावाद्धीत इति। त्रासकस्यापारमार्थिकत्वाद्धयमेव परं देशकाला- दयनालिज्चितं तत एव भीतोऽहम्। भीतोऽयं शत्रुर्वयस्यो मध्यस्थो वेत्यादिप्रत्य- येभ्यो दुःखसुखादिकृतहान्यादिबुद्धन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो विलक्ष- णनिर्विघ्नप्रतीतिग्राह्यं साक्षादिव हृदये निवेशमानं चक्षुषोरुपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मा तिरस्कृतो निर्विशेषत उलिखितः । एवं परोऽपि। तत एव च न परिमितमेव साधारण्यम्। अपि तु विततम्। व्याप्तिग्रह इव

Page 100

२ अध्याय: ] काव्यानुशासनम्। ७५!

धूमाश्युभयरूपयोरेव वा। तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसा मग्री। यस्यां वस्तुमतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनाम- न्योन्यसंबन्धबलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति। अत एव सामाजिकानामेकधनतैव प्रतिपत्तेः सुतरां रसपोषाय सर्वेषामनादिवासना- चित्रीकृतचेतसां वासनासंवादात्। सा चाविघ्ना संविच्चमत्कारस्तज्जोऽपि कम्पपु- लकोल्लुकसनादिर्विकारश्चमत्कारो यथा-'अज्ज विहरी चमक्कइ कहकह वि न मंद- रेण कलिआई। चंदकलाकंदलसच्छहाइं लच्छीइं अंगाइं ॥' अद्ुतभोगात्मस्पन्दावे- शरूपो हि चमत्कारः। स च साक्षात्कारखभावो मानसाध्यवसायो वा संकल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्त्यस्तु। यदाह-'रम्याणि वीक्ष्य मधुरांश्र निशम्य शब्दा- न्पर्युत्सुकी भवति यत्सु खितोऽपि जन्तुः। तच्चेतसा स्मरति नूनमबोधपूर्व भावस्थि- तानि जननान्तरसाहृदानि ॥'इत्यादिः । अत्र हि स्मरतीति या स्मृतिरुपदर्र्िता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थस्याननुभूतत्वात्। अपि तु प्रतिभानापरपर्याय साक्षात्कारस्भावेयमिति। सर्वस्य तावदेषास्ति प्रतीतिराखादात्मा यस्यां रति- रेव भाति तत एव विशेषान्तरानुपहितलात्सा रसनीया सती लौकिकी न मिथ्या नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा। एषैव चोपचयाव- स्थास्तु देशाद्यनियत्रणात्। अनुकारोऽप्यस्तनुगामितया करणात्। विषयसा- मध्यपि भवतु विज्ञानवादावलम्बनात्। सर्वथा रसनात्मकवीत विन्न प्रतीतिग्राह्यो भाव एव रसः। तत्र विघ्नापसारका विभावप्रभृतयः । तथा हि। लोके सक- लविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कारनिर्वेशरसनास्वादनभोगसमापत्तिलय विश्रा- न्त्यादिशब्दर मिधीयते। विन्नाश्चास्यां सप्त संभावनाविरहरूपा प्रतिपत्तावयोग्य- ता। स्वगतपरगतत्वनियमेन देशविशेषावेशो निजसुखादिविवशीभावः । प्रती- त्युपायवैकल्यस्फुटत्वाभावोऽप्रधानता। संशययोगश्च । तथा हि-संवेद्यम- संभावयमानः संवेदये संविदं निवेशयितुमेव न शक्तोऽसिति। का तत्र विश्रान्ति- रिति प्रथमो विन्नः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः। अलो- कसामान्येषु तु चेष्टितेषु अखण्डितप्रसिद्धिजनितगाढरूढ प्रत्यय प्रसरकारी प्रख्या- तरामादिनामधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादो प्रख्यातवस्तुविषयत्वादि नियमेन निरूप्यते। न तु प्रहसनादितिवत्। स्वैकगतानां च सुखदुःखसंविदामाखादे यथासंभवं तदपगमभीरुतया वा तत्प- १. 'स्थिर।णि' इति प्रसिद्धपाठः

Page 101

७६ काव्यमाला।

रिरक्षाव्यग्रतया वा तत्सदशो जिजीषया वा तज्जिहासया वा तत्प्रतिष्ठापयिषया वा तद्रोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्रम एव परमो विघ्नः। 'परगतत्वनियमभाषजा(?)मपि सुखदुःखानां संवेदने नियमेन खात्मनि सुखदुःख- मोहमाध्यस्थ्यादिसंविदन्तरोद्गमनसंभावनादवश्यभावी विघ्नः। तदपसारेण कार्यो नातिप्रसओोऽत्र पूर्वरञ्विधि प्रतीति पूर्वरज्गानिगूहनेन 'नटी विदूषको वापी'ति- लक्षितप्रस्तावनालोकनेन च यो नटरूपताधिगमस्तत्पुरःसरप्रतिशीर्षकादिना

कक्षापरिग्रहन।व्यधर्मासहितः । तस्मिन् हि सति अस्यवात्रैव एतर्ह्ैव च सुखं दुःखं वेति न भवति। प्रतीतिसरूपस्य निहवाद्रूपान्तरस्य चारोपितस्य प्रति- भासविश्रान्तिवैकल्येन सवरूपे विश्रान्त्यभावात्। सत्येतदीयरूपनिह्ववमात्र एव पर्यवसानात् इत्येष मुनिना साधारणीभावरसचर्वणोपयोगित्वेन परिकरबन्धः समाश्रितः । तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संमदं विश्रमयेदिति तत्प्रत्यहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारणो महिम्रा सकलभोग्यत्वसहिष्णुभिः शब्दादिविषयमयैरातोद्यगने विचित्रमण्डपविदग्धगणिकादिभिरुपरअ्जनं समाभि- तम्। येनाहृदयोऽपि हृदयवैमल्यप्राह्या सहृदयीक्रियते। कि च प्रतीत्युपाया नामभावे कथ प्रतीतिभावः । अस्फुटप्रतीतिकारिशब्दलक्षणसंभवेऽपि न प्रती- तिर्विश्राम्यति स्फुट प्रतीतिरूपः प्रत्यक्षोचित प्रत्ययसाकाक्कत्वात्। यथाहुः-'सर्वा वेयं प्रमिति: प्रत्यक्षपरा' इति। खसाक्षात्कृते आगमानुमानशतैरप्यनन्यथाभा- वस्य ससंवेदनात्। अलातचक्रादौ साक्षात्कारान्तरेणैव बलवंता तत्प्रनित्यप- सारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनयालोकध- र्मिवृत्तिप्रवृत्युपस्कृताः समभिषिच्यन्ते। अभिनयनं हि शब्दलक्षणलिङ्गव्यापा- रसदृशमेव प्रत्यक्षव्यापारकल्पमिति। अत्रधाने च वस्तुनि संवित्कस्य विश्राम्यति। तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्यनुधावतः खात्मन्यविश्रान्तत्वात्। अतोऽप्रधा- नत्वं जडे विभावानुभाववर्गे व्यभिचारिनिचये च संविदात्मकेऽपि नियमेन नान्यसुखप्रेक्षिणि संभवतीति तदतिरिकः स्थाय्येव चर्वणापात्रम। तत्र पुरुषार्थ- निष्ठाः काश्ित्संविद इति प्रधानम्। तद्यथा-रतिः कामतदनुषङ्गिधर्मार्थनिष्ठा, कोधस्तत्प्रधानेष्वर्थनिष्ठः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः १ 'भावजाना' म्यात. २. 'धर्म' स्यात्. ३. 'प्रत्यूह' स्यात. ४. 'घने' स्यात्. ५. 'रूपप्रत्य' स्याव.

Page 102

२ अध्याय: ] काव्यानुशासनम्। ७७

शमश्र मोक्षोपाय इति तावत्तेषां प्राधान्यम्। यद्यपि चैषामन्योन्यं गुणभावोऽसित तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते। अदूरभागामिनिविष्टदृशा त्वेकस्मिननपि रूपके पृथकप्रा धान्यम्। तत्र सर्वेऽमी सुखप्रधाना: खसंविच्चर्वणरूपस्य एकघनस्य प्रकाश- स्यानन्दसारत्वात्। तथा ह्येकघनशोकसंविच्चर्वणेऽपि लोके स्त्रीलोकस्य हृदय- विश्रान्तिरन्तरायशून्याविश्रान्तिशून्यत्वात्। शरीरत्वात् (?) अविश्रान्तिरूपतयैव च दुःखम् । तत एव कापिलैर्दुःखस्य चाश्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्धिरित्यानन्दरूपता सर्वरसानाम्, किंतूपरजजकविषयवशात्केषामपि कटु- पित्तास्पर्शोऽस्ति वीरस्येव। स हि क्लेशसहिष्णुतादि प्राण एव। एवं रत्यादीनां प्राधान्यम्। हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरज्जकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बहुला न हासादयो भवन्ति। पामरप्रायः सर्वोऽपि हसति शोचति बिमेति परनिन्दामाद्रियते। खल्पसुभाषितत्वेन च सर्वत्र विस्मयते। रत्याद्यज्वतया तु पुमर्थोपयोगित्वमपि स्यात् स्थायित्वं चैता- वतामेव। एवमप्रधानत्वनिरासः । स्थायिनिरूपणया स्थायिभावान् सत्त्वं नेष्यामः। इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च मुनिना कृतः । तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक् स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्वदर्शनात्। व्याघ्रादेश कोधभयादिहेतु- त्वात्। श्रमचिन्तादेरुत्साहभ याद्यनेकसह चरत्वावलोकनात्। सामग्री वा तु न व्यभिचारिणी। तथा हि। बन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिश्चा- नुभावश्विन्तादैन्यादिश्व व्यभिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्कात्म- कविघ्नशमनाय संयोग उपात्तः। तत्र लोकव्यवहारे कार्यकारणसहचारात्म- कलिङ्गदर्शनजस्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यास एष पाटवादधुना तैरेवो- द्यानकटाक्षधृत्यादिभिलौंकिकीं कारणत्वादिभुत्रमतिकान्तैर्विभवेनानुभवेनासमज- रजकत्वमात्रप्राणैरत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकरणादिरूपसं- स्कारोपजीवनाख्यापनाय विभावादिनामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामा- जिकधियि सम्यग्योगं संबन्धमैकाव्यं वासादितवद्धिरलौकिकनिर्विन्नसंवेद ना त्म - कचर्वणागोचरतां नीतोऽर्थश्वर्व्यमाणतैकसारो न तु सिद्धखभावस्तात्कालिक एव, न तु चर्वणातिरिक्तकालावलम्बी स्थायिविलक्षण एव रसः। नेनु यथा शङ्कका- १. 'नतु' स्यात.

Page 103

काव्यमाला।

दिमिरभ्यधीयत-स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते।। एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः कथ न भविष्यति। तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम्। तत्प्रत्युत शल्यभूतं स्यात्। केवलमौचित्या- देवमुच्यते-'स्थायी रसीभूतः' इति। औचित्यं तु तत्स्थायिगततवरेन कारणा- दितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वा(दि)लम्बनात्। तथा हि। लौकिकचितवृत्त्यनुमाने का रसता तेनालौकिकचमत्कारात्मा रसाखाद: स्मृत्यनुमानलौकिकसवसंवेदनविलक्षण एव। तथा हि। लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसंवादात्मकसहृदयत्व- बलात्पूर्णीभविष्यद्र साखवादाङ्करीभावेनानुमानस्मृत्यादिसोपानमनारुह्यैव तन्मयी- भावोचितचर्वणाप्राणतया। न च सा चर्वणा प्रा्यानान्तरात, येनाधुना स्मृतिः स्यात्। न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः किं त्वलौकिकविभावादिसंयो- गबलोपनतैवेयं चर्वणा। सा च प्रत्यक्षानुमानागमोपमानादिलोकिकप्रमाणजनि- तरत्याद्यबोधस्था योगिप्रत्यक्षजतटस्थपरसंवित्तिज्ञानात्सकलवंषयिकोपरागश- न्यथ्ष ह्यपरयोगिगतखानन्दैकघनानुभवाचच विशिष्यते। एतेषां यथायोगमर्ज- नादिविघ्नान्तरोदयेन ताटस्थ्यहेतुकास्फुटत्वेन विषयावेशवैवश्येन च सौन्दर्यवि- रहात्। अत्र तु खात्मैकगतत्वनियमासंभवान्न विषयावेशवैवश्यम्, खात्मानुप्र- वेशात्परगतत्वनियमाभावान्न ताटस्थ्यस्फुटत्वम् । तद्विभावादिसाधारण्यवश- संप्रबुद्धोचितनिजरत्यादिवासनावेशवशाच न विघ्नान्तरादीनां संभवः। अत एव विभावादयो न निष्पत्तिहेतवे रसस्य, तद्वोधापगमेऽपि रससंभवप्रपङ्गात्। नापि श्प्तिहेतवः, येन प्रमाणमध्ये पतेयुः। सिद्धस्य कस्यचित्प्रमेयभूनरसस्याभावात्। तहिं किमेतद्विभावादय इति। अळौकिक एवायं चर्वणोपयोगी विभावादिव्यव- हारः। कोऽन्यत्रेत्थं दृष्टमिति चेद्भूषणमस्माकमेतदलौकिकत्वसिद्धौ। पानकर- साखादोऽपि किं गुडमरिचादिषु दृष्ट इति समानमेतत् ॥। ने त्वेवं रसोऽप्रमेयः स्यात्। एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्वसौ न प्रमेयादिखभावः । तर्हि सूत्रे निष्पत्तिरिति कथं नायं रसः(?) स्यात्, अपि तु तद्विषयाया रसनायाः। तन्निष्पत्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते। तन्न कश्षिदत्र

१. 'कान्यत्रेत्थ' स्पात्. २. 'नन्वेवं' स्यात्. ३. 'नाम रसस्य स्यात्' स्यात्.

Page 104

२ अध्याय:] काव्यानुशासनम्। ७९

स च न विभावादेः कार्यः, तद्विनाशेऽपि रससंभवप्रसञ्जात्। नापि ज्ञाप्यः, सिद्धस्य तस्याभावात् ।। कारकज्ञापकाभ्यामन्यत् क् दष्टमिति चेत्, न क्चिद्ृष्टमित्यलौकिकत्वसिद्धेर्भूषणमेतन्न दूषणम्। विभा- वादीनां च समस्तानामभिव्यञ्जकत्वम्, न व्यस्तानां व्यभिचारात्। व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्राणाम्। अश्रुपाताद- योऽनुभावाः करुणस्येव शृङ्गारभयानकयोः । चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवीरभयानकानाम्।।

दोषः । सा च रसना न प्राणव्यापारो न कारकव्यापारः। स्यं तु नाप्रामाणिकी खयं वेदनसिद्धत्वात्। रसना च बोधरूपैव किं तु बोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात्। तेन विभावादिसंयोगाद्र- सनायत्तो निष्पद्यते। ततस्तथाविधरसनागोचरालौकिकोत्तरार्थो रस इति तात्पर्यम्। सूत्रस्यायमत्र संक्षेपः। मुकुटप्रतिशीर्षकादिना तावन्नटबुद्धिराच्छादयते। गाढ- प्राक्तनसंवित्संस्काराच्च काव्यबलानीयमानापि न तत्र रामधीर्विश्राम्यति। तत एवोभय देशकालत्यागः । रोमाश्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्राव- लोकिता: देशकालानियमेन रति गमयन्ति। यस्यां स्वात्मापि तद्वासनावत्त्वाद- नुप्रविष्टः । अत एव तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जना- भिष्वज्गादिसंभावना। न च नियतपरात्मैकगतया, येन दुःखद्वेषाद्युदयस्तेन साधारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शज्ञारः । साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः॥ एत. न्मतमेव वास्माभिरुपजीवितं वेदितव्यम् ।। तत्र विभावप्राधान्ये व्यभिचा- रिणां प्राधान्यं यथा-'आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ। अज्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् II' इत्यत्र सुकु- भारमुग्धप्रमदाजनभूषणभूतस्य वितर्कत्रासशङ्कादेः प्राधान्यम्। तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात्। आत्तमित्याद्यर्पितानुभाववर्गस्तु तदनुयायी। अनुभावप्राधान्ये च तेषां प्राधान्यं दूरादित्यादिना उदाहरिष्यते। अन्य-

१. 'ना यतो' स्यात्.

Page 105

८० काव्यमाला।

'केलीकन्दलितस्य विभ्रममधो घुर्य वपुस्ते हशौ भज्जीभङ्कुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः सत्यं सुन्दरि वेघसस्त्रिजगतीसारं त्वमेका कृतिः।।' अत्र विभावानाम्, 'यद्विश्रम्य विलोकितेषु बहुशो निःसथेमनी लोचन यद्गात्राणि दरिद्रति प्रतिदिनं दूनाज्नीनालवत्। दूर्वाकाण्डविडम्बकश्च निबिडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनिताखेषैव वेषस्थितिः ॥। अत्रानुभावानाम्, 'दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं संश्िष्यत्यरुणं गृहीतवसने किंचाश्चितभ्रूलतम्।

तमेति। विभावापेक्षयानुभावव्यभिचारिणाम्, अनुभावापेक्षया विभा- वव्यभिचारिणाम्, व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम्। तथा हि। केलीकन्दलितेत्यादौ विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रम- भङ्गरनर्मादिपदभहिम्रानुभाववर्गो भज्ञिक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभाति । यद्विश्रम्येत्यादौ विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रता नवता रसस्य पुलकवैवर्ण्यादेरनुभावस्यानुगतत्वेन विश्रम्येति बहुश इति प्रतिदि-

दिव्यभिचारिगण: । कृष्ण इत्यादिपदार्पितस्तु विभावः। दूरादुत्सुकमित्यादौ औत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन दूरादित्यादिपदार्पितः सहसा प्रसरणादिरूपो- डनुभाव: प्रेयसीति विभावश्च प्रकाशत इति। एवं द्वयप्राधान्ये चोदाहार्यम्, किंतु समप्राधान्य एव रसास्वादस्योत्कर्षः । त् प्रबन्ध एव भवति। वस्तुतस्तु दश-

Page 106

२ अध्याय:] काव्यानुशासनम्। ८१

मानिन्याश्वरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥' अत्रौस्सुक्यत्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम्, तत्राप्येते- षामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः।। रसमेदानाह- शुङ्गारहास्यकरुणा रौद्रवीरभयानका बीभत्सा्भतशान्ता नव रसा:। तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रति हृद्य- तेति पूर्व शृद्गारः। तदनुगामी च हास्यः। निरपेक्षकभावत्वात्तद्विपरीत- स्ततः करुणः। ततस्तन्निमित्तमर्थप्रधानो रौद्रः। ततः कामार्थयोर्घर्ममूल- त्वाद्धर्मप्रघानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीमत्सः । इतीयद्वीरेणाक्षिप्ते वीरस्य पर्यन्तेऽद्रुतः फलमित्यनन्तरं तदुपादानम्। ततस्त्रिवर्गात्मकप्रवृत्तिधर्म- विपरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः। एते नवैव परस्परासंकीर्णा रसाः ॥ तेनार्द्रतास्थायिक: स्नेहो रस इत्यसत्। तस्य रत्यादावन्तर्भावात्। तथा हि यूनो मित्रे सनेहो रतौ, लक्ष्मणादेर्भ्रातरि सनेहो धर्मवीरे, बालस्य

रूपक एव। यदाह वामन :- 'संदर्भेषु दशरूपकं श्रेयः'। 'तद्विचित्रं चित्रपटवद्वि- शेषसाकल्यात। तद्रूपसमर्पणया तु प्रबन्धे भाषादिप्रवृत्तौचित्यादिकल्पनात्। तद्रूपजीवनेन मुक्तके। तथा च तत्र सहृदया: पूर्वापरमुचितं परिकल्प 'ईदगत्र वक्तास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते। नवैवेति। पुमर्थो- पयोगित्वेन रज्जनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्न्रहस्य । स्ननेहो भक्तिर्वात्सल्यमिति हि रतेरेव विशेषाः । तुल्ययोर्या परस्परं रतिः स स्नेहः। अनुत्तमोत्तमे रतिः प्रसक्तिः । सैव भ्तिपदवाच्या। उत्तमस्यानु- १. 'कल्प्य' स्यात्. २. 'अनुत्तमस्योत्तमे' स्यात्. का० शा० ६

Page 107

१२ काव्यमाला।

मातापित्रादौ सनेहो भये, विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्ट- व्यम्॥ तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वान्यत्र वान्त- र्भावो वाच्यः। एवं भक्तावपि वाच्यम्।। तत्र शृङ्कारमाह- स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौधयवर्जव्यमिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः। स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुरहर्म्यनदीचन्द्रपवनो- द्यानदीर्घिकाजलक्रीडादयश्च श्रूयमाणा अनुभूयमाना वा आलम्बनोद्दीपन- रूपा विभावा यस्याः सा, जुगुप्सालस्यौयवर्जितव्यभिचारिका समग्र- विषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोर्यूनो: परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गतः शृङ्गारो रसः । देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव, न पुना रसः ।। देवविषया यथा- 'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ।।'

त्तमे रतिर्वात्सल्यम् । एवमादौ च विषये भावस्यैवास्ाद्यत्वमिति ॥ जुगु- प्सालस्यौग्यवर्जितव्यभिंचारिणीति। जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायिनामपि व्यभिचारित्वमनुज्ञापयति। आलस्यादिवे खविभाव- प्रमदादिविषयमेव निषिद्धम् । तेन 'च पुरलसद्वाहु लक्ष्म्या' इति, तथा-'कति- चिदहानि बभूव केवलमलसेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम्॥ प्रारम्भादीति । एतेन अभिलाषमात्रसारायाः कामावस्थानुवर्तिन्याः व्यभि- १. 'चारिका' इति मूले पाठ :. २. 'दि च' स्यात्. ३. 'वपुरलसद्वाहु' स्यातू,

Page 108

२ अध्याय:] काव्यानुशासनम्। ८३

मुनिविषया यथा- 'गृहाणि नाम तान्येव तपोराशिर्भवादृशः । संभावयति यान्येव पावनैः पादपांसुभिः ॥' अनुभावास्तु संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्ते इति इह नोक्ताः ॥ संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यस्य स तथा। तेन(?) शृङ्गारस्येमौ भेदौ गोत्वस्येव शावलेयबाहुलेयौ। अपि तु दशाद्वये Sप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः खाद्यमानं रूपं शृङ्गारः। संभोगविप्रलम्भयोस्तु शरृङ्गारशब्दो ग्रामकदेशे ग्रामशब्दवदु- पचारात्। तथाहि। विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निरा- शत्वे तु करुण एव स्यात्। संभोगेऽपि न चेद्विरहाशक्का तदा खाधी- नेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः । यदाह मुनिः- 'यद्वामाभिनिवेशित्वं यतश् विनिवार्यते। दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ।।' अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः । यथा- 'एकस्मिञ्छयने पराब्ुखतया वीतोत्तरं ताम्यतो- रन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम्। दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो- र्भझ्नो मानकलि: सहासरभसव्यावृत्तकण्ठग्रहम् ।।'

चारिरूपाया रतेर्विलक्षणत्वमाह।। वामाभिनिवेशित्वमिति। सुलभाव- मानी हि मदन इति तद्विदः। तथा ह्यमिलष्यमाणं वस्तु प्रोप्तं चेत्कोऽभिलाषः। तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेतयेवं परम्पराक्रमेण वर्धिष्णुरयं

Page 109

८8 काव्यमाला। सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते, मुक्तकेषु तु काल्पनिक्येव।। तत्र संभोगमाह- सुखमयधृत्यादिव्यभिचारी रोमाञ्चाद्यनुभाव: संभोगः। लज्जाद्यैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र 'संभुक्तः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाश्चखेदकम्पाश्रु-

डिवेशनविचित्रे क्षणचाटुप्रभृतिवाचिककायिकमानसिकव्यापारलक्षणानु- भावः परस्परावलोकनालिङ्गनचुम्बनाद्यनन्तमेदः । यथा- 'दष्ट्रैकासनसंगते प्रिमतमे पश्चादुपेत्यादरा- देकस्या नयने निमील्य विहितकीडानुबन्धच्छलः । ई षद्दक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसा- मन्तर्हासलसत्कपोलफलकां धूर्तोडपरां चुम्बति ॥' कामः परमां प्रीति तनोति। न ह्यन्र कण्डयायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वाद्रतिः काम इत्यर्थः ॥ सैषेति। स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेे रत्नावल्यादौ। ऋतुमाल्यादिर्हिं विभाव आलम्बनोद्दीपनतया उभयरूपोऽपि सामस्त्ेन शङ्गारस्य विभावत्वेन मन्त- व्यः। युक्तं चैतत्, अन्यथा अत्रैव रूपके उद्यानऋतुमाल्यादीनां सर्वेषां दर्शनानैको रसः स्यात् विभावभेदात्॥ काल्पनिकीति। विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः ॥ सुखमयेति। यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति, तथापि न तद्रतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवेत्यत्र सुखमयत्वम् ।। दृष्ट्रैकास- नेति। एका निजत्वेन स्थिता। अपरा तत्सखी प्रच्छन्ना। कथमन्यथा १. 'संभुङ्ग:' स्यात्.

Page 110

२ अध्याय:] काव्यानुशासनम्। ८५

विप्रलम्भमाह- शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलाषमानप्रवासरूपो विग्रलम्भः । संभोगसुखाखादलोमेन विशेषेण प्रलभ्यते आत्मात्रेति विप्रलम्भः ।

न्मादजडताव्याधिम्नापस्मारादिव्य भिचारी संतापजागरकार्श्यप्रलापक्षाम्- नेत्रवचोवकतादीनसंचरणानुकारकृति लेखलेखनवा च नखवभावनिह्न ववार्ता-

अभिलाषमानप्रवासभेदात् ।। करुणविप्रलम्भस्तु करुण एव।

यथा- 'हृदये वससीति मल्प्रियं यदवोचस्तदवैमि कैतवम्। उपचारपदं न चेदिदं त्वमनङ्ग: कथमक्षता रतिः ।।' इत्यादिरतिप्रलापेषु ॥

एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या। तथा हि प्रियतमे इति कथम्। क्रीडामनुबभ्नाति यन्नयननिमीलनं तदेवापरनायिकाचुम्बनार्थ विहितं छलं येन सः। चुम्बनार्थमीषद्वक्ितकंधरो मनाक्चलितग्रीवः। सपुलकः उत्प- न्नसात्त्विक: प्रेमोदोल्लसन्मानसादौ सपत्नीवञ्वनाभिमान एव हेतुः ॥ शङ्केति। दुःखप्रायव्यभिचारीत्यर्थः। मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शोकावस्थानमपि न लभते। यथा-'तीर्थे तोयव्यतिकर-' इत्यादौ। अत एव सुकविना वाक्यमेदेनापि मरणं नाखूयातम् । प्रतीति विश्रान्तिस्थानत्वपरिहा- राय तृतीयपादेन च विभेवानुसंधानं दर्शिम्। पुनर्रहणेन स एवार्थः सुतरां द्योतितः । अथ वा चैतन्यावस्थैव प्राणत्यागकर्तृतात्मिका पाशबन्धाद्यवसरगता

१. 'प्रेमोलस' स्यात्. २. 'विभावा' स्यात्.

Page 111

८६ काव्यमाला।

तत्राभिलाषविप्रलम्भमाह- दैवपारवश्याभ्यामाद्यो दवेधा। आद्योऽभिलाषविप्रलम्भः ॥ स दैवादयथा- 'शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थ समर्थ्य ललितं वपुरात्मनश्च। सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथंचित् ।।' पारवश्याधथा- 'स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि- र्यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः ।

मन्तव्या, न तु जीवित वियोग: सुलभोदाहरणं चैतदिति। उन्मादापस्मारव्या- धीनों या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कुत्सिता तु संभवेऽपि नेति वृद्धाः। वयं तु ब्रूमः-तादृश्यां दशायां जीवितनिन्दात्मि- कायां तद्देहोपभोगसाररत्यात्मकस्थो बन्घादिर्विद्यत एवेत्यसंभव एवेति ॥ स्मरे- ति। स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रबुद्धत्वात्। तेन ऊढा परस्परसांमुख्यमबुद्धिपूर्वमेव नीताः । अनन्तरं गुरव एव श्वश्रप्रभृतयः सेतवः इच्छाप्रसरनिरोधकत्वात्। अथ च गुरवोऽलङ्कयाः सेतवस्तैर्विधृताः प्रतिहतेच्छा अत एव पूर्णमनोरथास्तिष्ठन्ति, तथापि परस्परोन्मुखतालक्षणान्योन्यतादात्म्येन खदेहे सकलवृत्तिनिरोधाल्लिखित प्रायैरज्वैरनयनान्येव नलिनीनालानि तैरानीतं रसं पैरम्परालक्षणमाखादयति । परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि •, 'तिष्ठत्यपूर्णमनोरथा' इति वाग्भटकाव्यानुशासने. १. 'अपूर्ण' स्यात. २. 'परस्परालोकनलक्षण' स्यात्. ३. 'न्ति' स्यात्.

Page 112

२ अध्याय:] काव्यानुशासनम्। ८७

तदपि लिखितप्रख्यैरङ्ैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥' प्रतिज्ञाभङ्गभीत्यापि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन, सोडपि पारवश्यज एव ।। मानविप्रलम्भमाह- प्रणयेर्ष्याभ्यां मान: । प्रेमपूर्वको वशीकारः प्रणयः, तद्ङ्गे मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा। स्त्रियाः यथा- 'प्रणयकुपितां दृष्टा देवीं ससंभ्रमविस्मृत- स्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्। नमितशिरसो गङ्गालोके तया चरणाहता- ववतु भवतर्रयक्षस्यैतद्विलक्षमवस्थितम् ॥।' पुंसो यथा- 'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षण: सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते। आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकुञ्पलनिभो मुग्धः प्रणामाञ्जलिः ॥' उभयस्य यथा- 'पैणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताणम्। निचलनिरुद्धनीसासदिन्नकन्नाण को मल्लो ॥।'

१. 'प्रणयकुपितयोद्वयोरप्यलीकप्रसप्तयोर्मानवतोः । निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मलः ॥' [इति च्छाया ।]

Page 113

८८ काव्यमाला।

ईर्ष्यामान: स्त्रीणामेव यथा- 'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज शिरसा तच्चापि सोढं मया। श्रीर्जातामृतमन्थने यदि हरे: कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ।।' प्रवासविप्रलम्भमाह- कार्यशापसंभ्रमैः प्रवासः । प्रवासो भिन्नदेशत्वम्। तत्र कार्यहेतुकः प्रवासो यथा- 'याते द्वारवतीं तदा मधुरिपौ तद्दत्तझम्पानतां कालिन्दीतटरूढव •्जुललतामालिड्नय सोत्कण्ठया। तद्गीतं गुरुबाष्पगद्गदगलत्तारखरं राधया

शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् ॥ संभ्रमो दिव्यमानुषविद्वरादुत्पातवातादिविष्ठवात् परचक्रादिविप्ठ- वाद्वा व्याकुलत्वम्। यथा मकरन्दयुद्धसाहाय्यं कर्तु गतस्य माधवस्य- 'हा प्रिये, हा मालति, किमपि किमपि शङ्के मङ्गलेग्यो यदन्य- द्विरमतु परिहसश्चण्डि पर्युत्सुकोऽस्म।

१. र्याताम्बुधिमन्थने यदि हरिं' इति वाग्भटकाव्यानुशासनगतः पाठः साधु :.

Page 114

२ अध्याय:] काव्यानुशासनम् । ८९

कलयसि कलितोऽहं वल्लमे देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ।' हास्यमाह- विकृतवेषादिविभावो नामास्पन्दनाद्यनुभावो निद्रादिव्य- भिचारी हासो हास्य:। देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः, आदिश- ब्दान्नर्तनान्यगत्याद्यनुकरणासत्पलापभूषणादीनि विभावा यस्य सः, तथा

निद्रावहित्थत्रपालस्यादि व्यभिचारी हासः सथायी चर्वणीयत्वमागतो हास्य:। स चात्मस्थः परस्थश्च। तत्रात्मस्थमाह- उत्तममध्यमाधमेषु सिमितविहसितापहसितैः स आत्मस्थ- खेधा। स इति हासः। यद्भरत :- 'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां सितं भवेत्।। आकुश्चिताक्षिगण्डं यत्सखनं मधुरं तथा। कालागतं सास्यरागं तद्ै विहसितं भवेत। अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च। उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ।।'

१. भरतमुनिना वाग्भटेन च तन्द्राप्यमिहिता.

Page 115

९० काव्यमाला।

परस्थमाह- एतत्संक्रमजैरहसितोपहसितातिहसितैः परस्थोऽपि। एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु। यद्भरतः- 'उत्फुल्लानननेत्रं तु गण्डैर्विकसितैरथ। किंचिलक्षितदन्तं च हसितं तद्विघीयते। उत्फुल्लनासिकं यत्तु जिह्मदृष्टि निरीक्षितम्। निकुश्चितांसकशिरस्तच्चोपहसितं भवेत्॥ संरब्घसास्त्रनेत्रं च विकुष्टखवरमुद्धतम्। करोपगूढपार्श्व च तच्चातिहसितं भवेत् ।।' तत्रात्मस्थो हासो यथा- 'पाणौ कङ्कणमुत्फणः फणपतिनेत्रं ज्वलत्पावकं कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम्। गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे गण्डोल्लासविभावितः पशुपतेर्हास्योद्गमः पातु वः॥'

कालमतिवाहयेतीति॥ संक्रानत्येऽपि। परं हसन्तं दृष्ट्रा सयं विभावानप- श्यन्नपि हसंलोके दृष्टः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत एवेति। यथा अम्लदाडि- मादिरसाखादोऽन्यत्रापि दन्तोदकविकारानुरूपदर्शनात् संक्रमणखभावः, तथा हासोऽपि संक्रामति, नान्ये। यस्तु खामिशोकाद्धत्यस्य शोक: सोऽन्यः एव शोकवत्स्वामिविभावको विभावमेदात् । इह च तद्विभावक एव हास्यः संक्रा- मतीत्यर्थः । स्मितं हि यदुत्तमप्रकृतौ, तत्संक्रीतं हसितं संपद्यते। एवं विह- १. 'साश्रुने' भरत०. २. 'विक्रुष्ट' भरत०. १. 'नतीति' स्यात्. २. 'न्त्येति' स्यात्. ३. 'संक्रान्तं' स्यात्.

Page 116

२ अध्याय:] काव्यानुशासनम्। ९१

परस्थो यथा- 'कनककलशस्वच्छे साधापयोधरमण्डले नवजलधरश्यामामात्मद्युति प्रतिबिम्बिताम्। असितसिचयप्रान्तभ्रानत्या मुहुर्मुहुरुत्क्षिप- ञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥'

करुणमाह- इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभि- चारी शोंक: करुण: । इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषण-

ग्लानिचिन्तौत्सुक्यमोहश्रमत्रास विषाददैन्यव्याधिजडतोन्मादापस्मारालस्य- मरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायीभाव- श्वर्वणीयतां गतः करुणो रसः। यथा- 'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया पुरः । दद्दशे पुरुषाकृति क्षितौ हरकोपानळभस्म केवलम् ।' इत्यादि रतिप्रलापेषु । रौद्रमाह- दारापहारादिविभावो नयनरागाद्यनुभाव औग्रयादिव्यभि- चारी क्ोधो रौद्रः।

सितं मध्यमप्रकृतौ संक्रान्तमुपहसितम्। अपहसितमधमप्रकृती संक्रान्तमतिहसि- तमिति स्मितस्य ईषत्तायां व्यपगतायां हसितम्, ततो विशेषेण ततोऽपि

Page 117

१२ काव्यमाला।

सवाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तौष्ठपीडनग-

णच्छेदनाद्यनुभाव औउयावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोधः स्थायिभावश्चर्वणीयतां प्राप्तो रौद्रो रसः । यथा- 'चश्चद्ुजभ्रमितचण्डगदाभिघात- संचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्घनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥'

परस्परसमीपं गतम् अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थमेदः ॥ चश्च- द्धुजेति। चश्चन्द्यां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये' पच्च दारुणा गदा तया योऽभितः सर्वतः ऊर्ध्वाधस्तेन सम्यैग्घूर्णित पुनरनुत्थानोपहतं कृतमूरुयु- गलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनादृत्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया घन न तु रसमात्रख्भावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य। अत एव स भीमः कातरत्रासदायी। तवेति। यस्यास्तत्तदपमानज्ञातं कृतं देव्यनु- चितमपि, तस्यास्तव कचानुत्तंसयिष्यति उत्तसवतः करिष्यतीति वेणीत्वमपहरन् करविच्युतशोणित(शोणित)शकललोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा। तव देवीत्यनेन कुलकलत्रखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावत्वं कृत- मिति नात्र शरङ्गारशङ्का कर्तव्या। सुयोधनस्य चानादरणं द्वितीयगदाघातदा- नाधयनुद्यम:, स च संचूर्णितोरुत्वादेव। स्थानग्रहणेन द्रौपदीमन्युप्रक्षालने त्वरा १. 'निष्पेष' स्यात्. १. 'येयं चण्डा' स्यात. २. 'मिघातः' स्यात्. ३. 'म्यक्चू' स्यासू. ४. 'जातं' स्यात्. ५ 'सत्याना' स्यात्.

Page 118

२ अध्यांय:] काव्यानुशासनम् ।

वीरमाह- नयादिविभाव: स्ैर्याद्यनुभावो धृत्यादिव्यमिचार्युत्साहो धर्मदानयुद्धमेदो वीर: ।

माधिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्यादयनुभावो धृति- स्मृत्यौत्र्य गर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणी- यतां गतो धर्मदानयुद्धमेदात्रेधा वीरः । यथा- 'अजित्वा सार्णवामुर्वीमनिष्ट्रा विविधैर्मखैः । अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ।' तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य। दानवीरः परशुरामबलि- प्रभृतीनाम्। युद्धवीरो वीरचरिते रामस्य ।। इह चापत्पङ्कनिमग्नतां सवल्पसंतोषं मिथ्याज्ञानं चापस्य यस्तत्वनि- श्वयरूपोSसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः। रौद्रे तु ममताप्रा- धान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेकः । भयानकमाह- विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभि- चारि भयं भयानकः ।

सूचिता॥ नयेति। संध्यादिगुणानां सम्यग्प्रयोगो नयः। इन्द्रियजयो विनयः। असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्र्रदर्शिता। हस्यश्वरथपादातं बलम्। अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः। शत्रुविगयसंतापकारिणी प्रसिद्धि: प्रतापः। अभिजनधनमन्त्रिसंपत् प्रभावः। सामाद्युपयानामेकद्वित्रिचतु- रादि मेदैर्यथाविषयं नियोजनं वैशारद्यम् । धर्मेति। धर्मादित्रितयमनुभा-

Page 119

९४ काव्यमाला।

पिशाचादिविकृतखरश्रवणतदवलोकनखजन बन्धवधा दिदर्शनश्रवण- शून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टिनिरीक्षणहृदयपादस्पन्द- शुष्कौष्ठकण्ठत्वमुखवैवर्ण्यसवरमेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापलावे- गदैन्यमोहादिव्यभिचारी स्त्रीनीचप्रकृतीनां स्वाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्रर्वणीयत्वमागतं भयानको रसः ।

यथा- 'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्घेन प्रविष्टः शरपतनभयाद्द्रूयसा पूर्वकायम्। शष्पैरर्घावलीढैः श्रमविततमुख्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्या प्रयाति ॥'

ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून् करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं सर्वस्य हि कृतकत्वं संभवति, यथा वेश्या धनार्थिनी कृतकां रतिमादर्शयति ॥ उच्यते-भये हि प्रदर्शिते गुरुर्विनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति। कृतकरत्यादेश्चो- पदिष्टान्न काचित्पुरुषार्थसिद्धिः । यत्र तु राजानः परानुग्रहाय क्रोघ- विस्मयादि दर्शयन्ति, तत्र व्यभिचारितैव, न तेषां स्थायितेति।।

वात्मकं प्रतिनायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः। यदाह भरत :- 'दानवीरं धर्मवीर युद्धवीरं तथैव च। रसं वीरमपि प्राह ब्रह्मा त्रिवि- धमेव हि।' इति ॥ स्त्रीनीचप्रकृतीनामिति। नोत्तममध्यमप्रकृतीनाम्। कृतकमिति। उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञश् भयं दर्शयन्ति। एवं हि सुतरामुत्तमत्वं भवंति। प्रभुभक्तत्वं चामात्यानां यथा स्ेच्छाकारीत्यत

Page 120

काव्यानुशासनम्। ९५

बीभत्समाह-

चारिणी जुगुप्सा बीभत्सः । अह्ृद्यानामुद्धान्तत्रणपूतिकृमिकीटादीनां दर्शनश्रवणादि विभावा अङ्ग- संको चहल्लासनासामुखवि कूणनाच्छादन निष्ठीवनाद्यनुभावापस्मा रौग्यमोह- गदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता बीभत्सः। यथा- 'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा- न्यंसस्फिकपृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आत्तस्नाय्वब्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्र्व्यमव्यग्रमत्ति ।।' अद्भुतमाह- दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्य- भिचारी विस्मयोऽद्भुतः ।

नद्रजालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चा-

एवास्मीति॥ दिव्येति । दिव्या गन्धर्वादयस्तेषां दर्शनम्। शक्यप्राप्तिरर्थ ईप्सितः, शैक्यप्राप्तिस्तु मनोरथः, तयोः प्राप्तिः, उपवने देवकुलादौ च ममनमद्भुतविभावो येन तत्रत्यं सरः संनिवेशादि न क्वचिदृष्टम्।सभा गृह- विशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका। इन्द्रजलं मत्र्रदिव्यहस्त्ययुक्त्यादिनासंभवद्वस्तुप्रदर्शनम् । साध्वितिवदनं साघुर्वदः। १. 'अशक्य' स्यात्. २. 'जालं' स्यात्. ३. 'हस्त' स्यात्. ४. 'वादः' स्यान्.

Page 121

९६ काव्यमाला।

श्रुखेदसाधुवाददानहाहाकारचेला क्कुलिग्रमणाद्यनुभावो हर्षावेगजडतादि- व्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्रर्वणीयतां गतो- डद्भुतो रसः। यथा- 'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्धक्षिता खेच्छया, सत्यं कृष्ण, क एवमाह, मुसली, मिथ्याम्ब पश्याननम्। व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जग- दृष्ट यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥' शान्तमाह- वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्त: । वैराग्यसंसारभीरुतातत्त्वज्ञानवीत रागपरिशीलनपरमेश्वरानुग्रहादिवि- भावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्यादि- व्यभिचारी तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः।

दानं धनादेः। हाहाशब्दस्य करणं हाहाकारः। चेलस्य अङ्गुलेश्व भ्रमण- मिति ॥ यमेति। अहिंसासत्यास्तेय ब्रह्मचर्यापरि्रहा यमाः । शौचसंतोषतपः- खाध्यायेश्वरप्रणिधानानि नियमाः ॥ कृष्णाक्षय इति। कृष्णानां विषयाभिला- षाणां क्षये यत्रात्मखभावः स शमः । अयमर्थ :- कालुष्योपरागदायि भिर्भयरत्या- दिभिरनुपर कं यदात्म स्रूपं तदेव विरलोऽस्ति तरलान्तरालनिर्भासमानसिततरसू- त्रवदाभातसरूपं रत्यादिषूपरअकेषु तथाभाव्रेनापि सकृद्विभातोऽयमात्मेति न्यायेन

१. 'दानाहोकार' वाग्भटकाव्यानुशासने. २. 'विकासिते' स्यात्. ३. 'कृष्णा- क्षय! इति टीकायां व्याख्यातम्.

१. 'क्षयो यत्रात्मस्वभावे' स्यात. २. 'असितरला' स्यात,

Page 122

२ अध्याय: ] काव्यानुशासनम्। ९७

यथा- 'गङ्गातीरे हिमवति शिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य। किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥'

भासमानं परोन्मुखतात्मकसकलदुःखजालहीनं परमानन्दलाभसंविदेकधनं तथा- विधहृदय संवादवतो हृदयं विधत्ते॥ एतेन निर्वेदस्यामज्जलप्रायत्वेऽपि व्यभिचा- रिषु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायिताभिधानार्थमिति यदुक्तम्, तत्प्रति- क्षिप्तम्। तथाहि-कोऽयं निर्वेदो नाम, दारि्यादिप्रभवस्तत्त्वज्ञानप्रभवो वा। तत्राद्यस्य शोकप्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्वं वक्ष्यते। अथ तत्त्वज्ञानजो निर्वेद: स्थायी, तर्हि तत्त्वज्ञानमेवात्र विभावत्वेनोकं स्यात्। वैराग्यबीजादि(?)षुं कथं विभावः। तदुपायत्वादिति चेत्कारणकारणेऽयं विभा- वता व्यवहारः, स चातिप्रसज्गावहः । किं च निर्वेदो नाम सर्वत्रानुपादेयता- प्रत्ययो वैराग्यलक्षणः । स च तत्त्वज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पदते। तत्त्वज्ञानाद्धि मोक्षो, न तु तत्वं ज्ञात्वा निविद्यते॥ ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम्। भवत्येवं तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्थायीति॥ यत्तु व्यभिचारिव्यारयाना- वसरे 'वृथा दुग्घोऽनड्ान्' इत्यादौ चिरकालविभ्रम विप्रलब्धस्योपादेयत्वनितृत्तये सम्यग्ज्ञानं वक्ष्यते, तन्निर्वेदस्य खेदरूपस्य विभावत्वेनेति, तस्मात् शम एव स्थायी। न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम्। हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात्। यथा च कामा- दिषु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणाखा- दयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं श्ङ्गा- रादितया नीयते, तथा मोक्षाभिधानपरपुरुषार्थोपचितापि शमरूपा चित्तवृत्ती रसतां नीयत इति। तथा हि तत्त्वज्ञानखभावस्य शमस्य स्थायिनः समस्तोऽयं

१. 'तु' स्यात्. २. 'निर्विद्यते' स्यात. का० शा० ७

Page 123

९८ काव्यमाला। लौकिकालौकिकश्चित्तवृत्तिकलापो व्यभिचारितामभ्येति, तदनुभावा एव च यम- नियमाद्युपकृता अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रभृतयः, प्रक्षयोन्मु- साश्च रत्यादयोऽत्रास्वाद्यन्ते। केवलं यथा विप्रलम्मे औतसुक्यं संभोगेऽपि वा प्रेमासमाप्तोत्सवमिति। यथा च रौद्रे औध्यम्, यथा च करुणवीरभयान- काद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येन विभासन्ते, तथा शान्ते ुगुप्साद्याः सर्वथैव रागप्रतिपक्षत्वात् स्वात्मनि च कृतकृतस्य परार्थघटनाया- मेवोद्यम इत्युत्साहोऽस्य परोपकारविषयेच्छाप्रथत्नरूपो दयापरपर्यायोऽ्भ्यधि- कोऽन्तरङ्गः। अत एव केच्िह्यावीरत्वेन व्यपदिश्यन्त्यन्ये धर्मवीरत्वेन। ननूत्साहोऽहंकारप्राणः शान्तस्त्वहंकारशैथिल्यात्मकः । ननु किमतः (१) व्यभि- चारित्वं हि विरुद्धस्यापि नानुचितं रताविव निर्वेदादेः । 'शय्यां शाडलम्-' इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकर्षो लक्ष्यते, नैनूत्साहशून्या काचि- दप्यवस्था। इच्छाप्रयत्नव्यतिरेकेण पाषाणतापत्तेः । यत एव च परिदृष्टपरम्प- रत्वेन खात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते। अत एव शान्तहृदयानां परो- पकाराय शरीरसर्वखादिदानं न शास्त्रविरोधि। 'आत्मानं (यो) गोपायेत' इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्या- भावात्। तथा हि-'धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् II' इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहर- क्षायां निदानं दर्शितम्। कृतप्रत्यस्य 'जलधौ श्वभ्र वा पतेत्' इति संन्यासित्वेन श्रवणात्। तदथा कर्थचितत्याज्यं शरीरम्, यदि परमार्थमुत्पद्यते तत्किमिव न संपादितं भवति। जीमूतवाहनादीनां नयतत्त्वमिति चेतू, किं तेन। तत्त्वज्ञा- नित्वं तावदस्त्येव, अन्यथा परमार्थे त्यागस्यासंभाव्यत्वात्। युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः पैराजयोद्देशेनव प्रवृत्तेः । भृगुपतनादावपि शुभतम- देहान्तरसंपिपादयिषैवाभिविजृम्भते। तत्सार्थानुद्देशेन परार्थसंपत्त्यै यवच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसंभाव्यमेवेति। तेऽपि (?) तत्त्वज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति। स्मार्तश्रुतौ यथोक्तम्-'देवार्चन- रतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः। श्राद्धं कृत्वा ददद्रव्यं गृहस्थोऽपि हि मुच्यते ॥' इति केवलं परार्थाभिसंधिजाद्धर्मात्परोपकारफलत्वेनैवाभिसंह तात्पुनरपि देहस्य १. 'कृत्यस्य' स्यात्. २. 'न्तडन्ये' स्यान्. ३. 'नतू' स्यात्. ४. 'कृत्यस्य' स्यात्. ५. 'परविजयो' स्यात.

Page 124

२ अध्याय:] काव्यानुशासनम्। ९९

न चास्य विषयजुगुप्सारूपत्वात् बीभत्सेऽन्तर्भावो युक्तः। जुगुप्सा ह्यस्य व्यमिचारिणी भवति, न तु स्थायितामेति। पर्यन्तनिर्वाहे तस्या मूलत एवोच्छेदात्। न च धर्मवीरे, तस्याभिमानमयत्वेन व्यवस्थानात् अस्य चाहंकारप्रशमैकरूंपत्वात्। तथापि तयोरेकत्वपरिकल्पनेन वीर- रौद्रयोरपि तथा प्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकार- महंकाररहितत्वे शान्तरसप्रभेदत्वमितरथा तु वीररसप्रमेदत्वमिति व्यव- स्थाप्यमाने न कश्चिद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः ।

तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वानां तत्त्वज्ञानिनामपि। दृष्टश्राङ्गेष्वपि विश्रा- न्तिलाभः खभावाचित्यात् । यथा रामस्य वीराज्के पितुराज्ञां परिपालयतः। एवं श्रङ्गाराद्ङ्वेष्वपि मन्तव्यम्। अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम्। जीमूतवाहने त्रिवर्गसंपत्तौ क्षयरोगकृतिप्रधानयोः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽ्भ्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भव- न्तीति ॥ एवं यत्कैश्चिज्ीमूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव। न च तदीया पर्यन्तावस्था व्यावर्णनीया येन सर्वथेष्टोपरमादनुभावाभावेनाप्र- तीयमानता स्यात्। शङ्गारादेरपि फलभूमावव्यावर्णनीयतैव । पूर्वभूमौ तु 'प्रशान्तवाहितासंस्कारात्तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वय- नीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादिलक्षणा वा शान्त-

द्धावात्प्रतीयते एव (ने प्रतीयते)॥ ननु प्रतीयते सर्वस्य तुश्लाध्यास्पद न भवति। तर्हिं वीतरागाणां शृङ्गारोऽश्लध्य इति। सोऽपि रसताच््यवताम्। अयमर्थः-यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावता, साच लोकसामान्यमहानुभाव- चित्तवृत्तिविशेषवत्प्रतिक्षेत्रुं शक्या॥ ननु धर्म प्रधानोऽसौ वीर एव संभाव्यते इत्या- शङ्क्याह-अभिमानमयत्वेनेति। उत्साहो ह्यहमेवंविध इत्येवंप्राण इत्यर्थः ॥ अस्य चेति। शान्तस्य ॥ तथापीति। इह मेयत्वनिरीहत्वाभ्यामत्यन्तं विरु- द्धयोरपीत्यर्थः। वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्त- १. लेखकप्रक्षिप्तं भवेत्.

Page 125

१०० काव्यमाला।

एषां क्रमेण स्थायिभावान् संगृह्णाति- रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावा:। भावयन्ति चित्तवृत्तय एवालौकिका वाचिकाद्यभिनयप्रक्रियारूढ- तया खात्मानं लौकिकदशायामनास्वाद्यमप्याखाद्यं कुर्वन्ति। यद्वा भाव- यन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः स्थायिनो व्यभिचारि- णश्च । तत्र स्थायित्वमेतावतामेव । जात एव हि जन्तुरियतीभि: संविद्धि: परीतो भवति। तथा हि दुःखद्वेषी सुखाखादनलालसः सर्वो रिरंसया व्याप्तः सात्मन्युत्कर्षमानितया परमुपहसति । उत्कर्षापायश- क्कया शोचति। अपायं प्रति क्ुध्यति। अपायहेतुपरिहारे समुत्सहते। विनिपाताद्विमेति। किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते। ततश्च परकर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिज्जिहासुस्तत्र वैराग्यात्प्रशम भजते। न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति। केवलं कस्यचि- त्काचिदधिका भवति चित्तवृत्तिः, काचिदूना। कस्यचिदुचितविषयनि- यब्रिता, कस्यचिदन्यथा । तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या। तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः ॥ ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाज्जन्म- मध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तचेतोग्ला- न्यालस्यश्रमप्रभृतयो न भवन्त्येव। यस्यापि वा भवन्ति विभावबलात्त- स्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमुपबश्नन्ति। रत्यादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते।

विराधोऽपि नास्ति ॥ संगृह्लातीति । सैकलयति, न तु लक्षयति। श्ज्ञा- १. 'संकल' स्यातू.

Page 126

काव्यानुशासनम्। १०१

वस्त्वन्तरविषयस्य रत्यादेरखण्डनात्। यदाह पतिञ्जलिः-'न हि चैत्र एकस्यां स्त्रियां विरक्त इत्यन्यासु विरक्तः' इत्यादि। तस्मात्स्थायिरूप- चित्तवृत्तिसूत्रस्यूता एवामी खात्मानमुदयास्तमयवैचित्र्यशतसहस्त्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्ते इति व्यभिचारिण उच्यन्ते। तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्भेनास्थायितास्य सूच्यते। न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः। अत एव विभावास्तत्रोद्वोधकाः सन्तः सरूपोपरञ्जकत्वं विदधाना रत्युत्साहादे- रुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः। वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात्। व्यभिचारिणां तु खवि- भावाभावे नामापि नास्ति॥ तत्र परस्परास्थाबन्धात्मिका रतिः । चेतसो विकासो हासः । वैधुर्य शोकः । तैक्ष्ण्यप्रबोधः क्रोधः । संरम्भः स्थेयानुत्साहः। वै- क्रव्यं भयम् । संकोचो जुगुप्सा। विस्तारो विसयः । तृष्णाक्षयः शमः ॥ रसलक्षण एव स्थायिसरूपे निरूपिते पुननिर्देश: क्वचिदेषां व्यभि- चारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्वे एषां स्थायित्वम्, अ- ल्पविभावत्वे तु व्यभिचारित्वम्। यथा रावणादावन्योन्यानुरागाभावाद्र- तिर्व्यभिचारिणी। तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गा- रादौ रोषो व्यभिचार्येव। एवं भावान्तरेषु वाच्यम् । शमस्य तु यद्यपि क्वचिदप्राधान्यम्, तथापि न व्यभिचारित्वम्, प्रकृतित्वेन स्थायितमत्वात्।

रादिरसलक्षण एव स्थायिसवरूपस्य निरूपितत्वादिति भावः ॥ प्रकृतित्वेन स्थायितमत्वादिति । रत्यादयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमान- १. 'पतञ्जलिः' स्यात्.

Page 127

१०२ काव्यमाला।

व्यभिचारिणो ब्रूते-

मोहचिन्तामर्षत्रासापसमारनिर्वेदावेगवितर्कासूयामृतयः स्थित्यु-

तत्र धृतिः संतोषः । स्मृतिः स्मरणम्। मतिरर्थनिश्चयः । त्रीडा चित्तसंकोचः । जाड्यमर्थाप्रतिपत्तिः । विषादो मनःपीडा 1 मद आ- नन्दसंमोहसंमेदः । व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम्। सुपं निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम्। अवहित्थमाकार- गुप्तिः। शङ्कानिष्टोत्पेक्षा। चापलं चेतोऽनवस्थानम्। आलसं पुरु- षार्थेष्वनादरः । हर्षश्रेतःप्रसादः।गर्वः परावज्ञा। औग्यं चण्डत्वम्। प्रबोधो विनिद्रत्वम्। ग्लानिर्बलापचयः। दैन्यमनौजस्यम्। श्रमः खेदः। उन्मादश्चित्तविष्ठवः । मोहो मूढत्वम् । चिन्ता ध्यानम्। अमर्षः प्रतिचिकीर्षा। त्रासश्चित्तचमत्कारः । अपसमार आवेशः । निर्वेद: खावमाननम्। आवेगः संभ्रमः । वितर्कः संभावना। अ- सूया अक्षमा। मृतिर््रियमाणता। एते च स्थित्युदयप्रशमसंधिशवल- त्वधर्माणः । स्थितिर्यथा- 'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः ।

निरुध्यमानवृत्तय: किंचित्कालमापेक्षिकतया स्थायिरूपात्मवित्तिसंश्रयाश् स्थायिन इत्युच्यन्ते। तत्वज्ञानं तु सकलभावान्तरवित्तिस्थानीयं सर्वस्थायिभ्यः स्थायि- तमं सर्वा रत्यादिकाः स्थायिचित्तवृत्तीव्यभिचारिभावयन्निसर्गत एव सिद्ध-

Page 128

२ अध्याय:] काव्यानुशासनम्। १०३

तां हर्तु विबुधद्विषोपि न च मे शक्ता: पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽय विधि: ॥' अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आ- सादातिशयः । उदयो यथा- 'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम्। भूयस्तत्प्रकृतं कृतं च शिथिलक्षित्तैकदोर्लेखया तन्वङ्नया न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ।।' अत्र मानस्योदयः । प्रशमो यथा- 'दृष्टे लोचनवन्मनाख्युकुलितं पार्श्वस्थिते चक्व- न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति। नीवीबन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ॥' अत्र मानस्य प्रशमः । संधिर्यथा- 'उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्सङ्गप्रियता च वीररभसोत्फालश्र मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- न्नानन्दी हरिचन्दनेन्दुशिशिरः स्त्निग्धो रुणच्द्यन्यतः ॥।' अत्रावेगहर्षयोः संधिः ।

Page 129

१०४ काव्यमाला।

शबलत्वं यथा- 'काकार्य शशिलक्ष्मणः क च कुलं भूयांडपे दश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः खप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽघरं धास्यति ॥' अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम्। विविधमाभिमुर्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते। संख्यावचनं नियमार्थम्। तेनान्ये- षामत्रैवान्तर्भावः । तद्यथा-दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृ- ष्णादेर्ग्लानौ। एवमन्यदप्यूह्यम् ॥। अन्ये त्वाहु :- एतावत्खेव सहचा- रिषु अवस्थाविशेषेषु प्रयोगप्रदर्शितेषु स्थायी चर्वणायोग्यो भवति॥। एषां विभावानुभावानाह-

ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः सं- तोषः । सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन योऽव्यग्रो भोगसं करोति। तेनानुभावेन धृतिं वर्णयेदित्यर्थः । यथा- 'वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे नर्विशेषा विशेषाः।

स्थायिभावमिति ॥विभावानुभावानिति। न तु व्यभिचारिणः । एवं हि तदाखादे खं रसान्तरमपि स्यात्। यत्रापि च व्यभिचारिणि व्यभिचार्यन्तरं

१. 'शशलक्ष्मणः' इत्यन्यत्र. २. 'निविंशेषाः' स्यात्.

Page 130

२ अध्याय:। काव्यानुशासनम्। १०५

स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोरऽर्थवान्को दरिद्रः॥' सदशदर्शनादेः स्मृतिर्भ्रूक्षेपादिकृत्। सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिघानादिभ्यः सुखदुःखहेतूनां स्मरणं स्मृतिः । तां भ्रूक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादि- भिर्वर्णयेत्। यथा- 'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्गीतो महेन्द्रादपि। ता्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावण- मा ज्ञातं स जटायुरेष जरसा क्विष्टो वधं वाञ्छति ।।' शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत्। शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः । तां शिष्योपदेशा- र्थ विकल्पनसंशयच्छेदादिभिर्वर्णयेत्। यथा- 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत्। अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादेश्चेतःसंकोचो व्रीडा । तां वैवर्ण्याधोमुखविचिन्तन भ्रूविलेखनवस्राङ्गुलीय कर्णस्पर्शननखनिस्तो- दनादिभिर्वर्णयेत्।

संभाव्यते। तद्यथा पुरुषस्य उन्मादे वितर्कचिन्तादि। तत्रापि रतिस्थायिभावस्चैव व्यभिचार्यन्तरयोग: सर केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति।

Page 131

१०६ काव्यमाला।

यथा- 'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया।।' इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत्। इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तष्णीं- भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत्। यथा- 'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति। सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥' कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत्। उपायाभावनाशाभ्यां प्रारब्घस्य कार्यस्य भङ्गान्मनःपीडा विषादः । तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमा-

यथा- 'व्यर्थ यत्र कपीन्द्रसर्यमपि मे क्वेशः कपीनां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि। मार्ग यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ।।' मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत्। मद्यपानादानन्दसंमोहयोः संगमो मदः। तं सापस्मितगान किंचि- दाकुलबाष्पस्खलद्गतिमञ्जुभाषणरोमोद्गमादिभिरुत्तमानाम्, हास्यगीतस्र- स्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम्, अस्मरणघूर्णनस्ख- लद्गमनरुदितच्छर्दितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत्। तथा च-

Page 132

२ अध्याय:] काव्यानुशासनम् । १०७

'उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः । द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयक: ॥' यथा- सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु। गन्तुमुद्यतमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥' विरहादेर्मनस्तायो व्याधिर्मुखशोषादिकृत्। विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वाव्याधिः। तं मुखशोष- स्रस्ताङ्गतागात्रविक्षेपादिभिर्वर्णयेत्। यथा- 'मनोरोगस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव। हिनस्ति प्रत्यङ्गं ज्वर इव बलीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती।।' कमादेर्निद्रा जुम्भादिकृत। कमश्रममदालस्यचिन्तात्याहारखभावादिभ्यो मनःसंमीलनं निद्रा। तां जुम्भावदनगौरैव शिरोलालननेत्रघूर्णनगात्रमर्दोच्छ्वसितनिःश्वसितसन्न- गात्रताक्षिनिमीलनादिभिर्वर्णयेत्। यथा- 'निद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि। अद्यापि मे मृगद्दशो मधुराणि तस्या- स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥' १. 'गौरवशरीरालालन' इति भरतः.

Page 133

१०८ काव्यमाला।

निद्रोद्भवं सुप्तमुत्खभ्नायितादिकृत्। निद्रोद्धवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह। तदुत्ख- पायितोच्छृसितनिःश्वसितसंमोहनादिना वर्णयेत्। यथा- 'एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टृयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेष्यं शङ्कितया स वः सुखयतु खप्नायमानो हरिः ॥' इष्टानुसरणादेरौत्सुक्यं त्वरादिकृत्। इष्टानुस्मरणदर्शनादेर्विलम्बासहत्वमौत्सुक्यम्। तत्त्वरानिःश्वसितो- छ्ूसितकार्श्यमनःशून्यतादिगव लोकनरणरणकादिभिर्वर्णयेत्। यथा- 'आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बड्धुं न संभावित एव तावत्करेण रुद्धोऽपिहि केशपाशः ॥' लज्जादेरवहित्थमन्यथाकथनादिकृत्। लज्जाजैह्मयभयगौरवादिभ्यो भ्रविकारमुखरागादीनामाच्छादनकारिणी चित्तवृत्तिरवहित्थमवहित्था वा। न बहिःस्थं चित्तं येनेति। पृषो- दरादित्वात्। तदन्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत्। यथा- 'एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।।' चौर्यादेः खपरयोः शङ्का पार्श्वविलोकनादिकृत्। १. 'च' समुपलभ्यमानरवुवशे.

Page 134

२ अध्याय:] काव्यानुशासनम्। १०९

चौर्यपारदार्यादेर्विरुद्धाचरणादनिष्टोतप्रेक्षा शङ्का। सा च कदाचि- त्खस्मिन्, यदा समापराधयोरात्मपरयोः परो राजादिना दण्ड्यते। कदाचित्परस्मिन्, यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते। सा च पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पनखवरास्यवर्ण भेदावगु- ण्ठनादिभिर्वर्ण्यते। स्वस्मिन्यथा- 'दूराद्दवीयो धरणीघराभं यस्ताडकेयं तृणवद्यधूनोत्। हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाघते माम् ॥' परस्मिन्यथा-समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, दुर्योधनस्य वा भानुमत्याम्। रागादेश्वापलं वाक्पारुष्यादिकृत्। रागद्वेषमात्सर्यामर्षेर्ष्यादिभ्यश्चेतोनवस्थानं चापलम्। अविमृश्य कार्य- करणमिति यावत्। तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिर्वर्णयेत्। यथा- 'कश्चित्कराभ्यामुपगूढनालमालोलपत्रामिहृतद्विरेफम्। रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ।' श्रमादेरालस्यं निद्रादिकृत्। श्रमसौहित्यरोगगर्भखवभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच्च निद्रातन्द्रासवेंकर्मविद्वेषशयनासनादिना वर्णयेत्। यथा- 'चलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनाम्। आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥' प्रियागमादेरहर्षो रोमाश्चादिकृत्।

Page 135

११० काव्यमाला।

गमनोरथावाप्यादिभ्यश्चेतःप्रसादो हर्षः। तं च रोमाश्चाश्रुखेदनयनवद- नप्रसादप्रियभाषणादिभिर्वर्णयेत्। यथा- 'आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष दुर्लङ्वयतां गेहिन्या परितोषबाष्पसलिलामासज्य दृष्टिं मुखे। दत्त्वा पीलुशमीकरीरकवलान्खेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलसं रजः ।I' विद्यादेर्गर्वोऽसूयादिकृत्। विद्याबलकुलैश्वर्यवयोरूपघनादिभ्यः परावज्ञा गर्वः। तमसूयामर्ष-

णैर्वर्णयेत्। यथा- 'ब्राह्मणातिकमत्यागो भवतामेव भूतये। जामदस्यस्तथा मित्रमन्यथा दुर्मनायते॥' चौर्यादेरौड्यं वधादिकृत्।

नादि भिर्वर्णयेत्। यथा- 'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा- दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान्। पित्यं तद्रक्तपूर्णहदसवनमहानन्दमन्दायमान- क्रोधामेः कुर्वतो मे न खलु न विदितः सर्वभूतैः खवभावः ॥'

Page 136

२ अध्याय:] काव्यानुशासनम्। १११

शब्दादे: प्रबोधो जम्भादिकृद्।

द्रत्वं प्रबोधः। स च जम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटन शय्यात्याग-

यथा- 'प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणा- मात्मव्यापारगुर्वी जनितजललवाजुम्भणैः साङ्गभङ्गैः । नागाङ्कं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदेऽभिताम्रा चिरमवतु हरेदष्टिराकेकरा वः ॥' व्याध्यादेर्ग्लानिर्वैवर्ण्यादिकृत्।

पोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिः। तां वैवर्ण्यक्षामनेत्रकपो-

यथा- 'किसलयमिव मुग्धं बन्धनाद्वि पलून हृदयकुसुमशोषी दारुणो दीघशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भेपत्रम् ।' दौर्गत्यादेर्दैन्यममृजादिकृत्। दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम्। तन्मृजात्यागगुर्वङ्गताशिरः- प्रवणादिभिर्वर्णयेत्। यथा- 'अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन- स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्ति च ताम्। १. 'स्नहप्र'.

Page 137

११२ काव्यमाला।

सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या चे या भाग्याधीनमतः परं न खलु तत्स्न्रीबन्धुभिर्याच्यते।' व्यायामादेः श्रमोऽङ्गभङ्गादिकृत्। व्यायामाध्वगत्यादिभ्यो मनःशरीरखेदः श्रमः। सोऽ्ङ्रेभङ्गमर्दन- मन्दकमास्यविकूणनादिभिर्वर्णयेत्। यथा- 'अलसलुलित मुग्धान्यध्वसंतापखेदा- दशिथिलपरिरम्भैर्दत्तसंवाहनानि। मृदुमृदितमृगाली दुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ।।' इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत्।

प्रलापभस्मपांशू द्ूलननिर्माल्यचीवरघटचकशरावाभरणादिभिर्वर्णयेत्। यथा- 'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हता। संभावितैकदेशेन देयं यदभियुज्यते ।।' प्रहारादेमोहो भ्रमणादिकृत्। प्रहारमत्सरभयदैवोपघातपूर्ववै रस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं मो- हः। मोहस्य प्रागवस्थापि मोहशब्देनोच्यते। तं भ्रमणदेहघूर्णनपतन- सर्वेन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत्। १. 'त्वया'. २. 'भाग्यायत्त'. ३. 'तद्वाच्यं वघूबन्धूभिः'. ४. 'Sजमर्द' भरतः. ५. 'गतिरस्याः'.

Page 138

२ अध्याय:] काव्यानुशासनम्। १११

यथा- 'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मृहूर्त कृतोपकारेव रतिर्बभूव ।।' सुखजन्मापि मोहो भवति। यथा- 'कान्ते तल्पमुपागते विगलिता नीवी खयं बन्धना- चद्वासः शथमेखलागुणधृतं किंचिन्नितम्बे स्थितम्। एतावत्सखि वेद्यि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमिति खवल्पापि मे न स्मृतिः॥' दारिद्यादेश्चिन्ता संतापादिकृत्। दारिद्येष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता। सा च स्मृतेरन्या असनाददनवत्। खेलनाद्रमनवच्च। तां संतापशून्यचित्तत्वकारश्यश्वासा- घोमुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्काचतो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता। यथा- 'पश्यामि तामित इतः पुरतश्च पश्चा- दन्तर्बहिः परित एव विवर्तमानाम्।

मासज्य तिर्यगपवर्तितदृष्टि वक्रम् ।।' आक्षेपादेरमर्षः सवेदादिकृत्। विद्यैश्वर्यबलाधिककृतेभ्य आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽ- मर्षः । स च खेदध्यानोपायान्वेषणशिरःकम्पाधोमुखविचिन्तनादिभि- वर्ष्यते। का० श्रा० ८

Page 139

११४ काव्यमाला।

यथा- 'लाक्षागृहानलविषान्नसमाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य । आकृष्टपाण्डववधूपरिधानकेशाः स्स्था भवन्ति मयि जीवति धार्तराष्ट्राः ।।'

ष्ठादिभ्यश्चेतश्रमत्कृतिरूपस्त्रासो भयात्पूर्वापरविचारवतो भिन्न एव।

यथा- 'परिस्फुरन्मीन विघट्टितोरवः सुराञ्जनास्त्रासविलोलदष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्॥।' ग्रहादेरपस्मार: कम्पादिकृत् । ग्रह भूतदेवयक्षपिशाचब्रह्मराक्षसशू न्यारण्यश्मशानसेवनोच्छिष्टगमन- धातुवैषम्यादेरावेशरूपोऽपस्मारः। तं कम्पितस्फुरितस्विन्नधावितश्वसित- भूमिपतनारावमुखफेनादिभिर्वर्णयेत्। अयं च प्राय आभासेष्वेव शोभते। यथा-

फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ।' रोगादेर्निर्वेदो रुदितादिकृत्। रोगाधिक्षेपताडनदारिद्येष्टवियोगावमानतत्त्वज्ञानादिभ्यः खावमान- नारूपो निर्वेदः। स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यः । तश्वज्ञानादिभ्य इति। चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये यत्स-

Page 140

: अध्याय:] काव्यानुशासनम्। ११५

यथा- 'किं करोमि क गच्छामि कमुपैमि दुरात्मना। दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः ॥I' उत्पातादिभ्य आवेगो विस्मयादिकृत्। उत्पातवातवर्षा झिगर्जाप्रियाप्रियश्रवणव्यसनादिभ्यः संअ्रम आवेगः।

नादिभिर्यथासंर्यं वर्णयेत्। तत्रोत्पातावेगो यथा- किं किं सिंहस्ततः कि नरसदृशवपुर्देव चित्रं गृहीतो नैवेद्टक्कोऽपि जीवो द्रुतमुपनिपतन्पश्य संप्राप्त एव। शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखाना- मित्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥'

म्यग्ज्ञानं तन्निर्वेद जनयति, न त्वात्मखभावः, तस्य शान्तस्थायित्वेनोक्तलाद्। यथा-'वृथा दुग्धोऽनद्गान्स्नभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यरहितः । कृता वैडूर्याशा विकचकिरणे काचशकले नयामूढेन त्वां कृपण- मगुणज्ञं प्रणमता ।।'इति। अयं च निर्वेदः सयं पुरुषार्थसिद्धये वोत्साहरत्यादि वदत्यन्तानुरजनाय वा हासविस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्यभिचार्ये- वेति॥ उत्पातवातेति। आदिशब्दः प्रत्येकमभिसंबध्यते। ततश्ोत्पातादे्वा-

एवं विस्मयादिना अवगुणादिच्छन्नश्रवणादिना धूमान्यादिना त्वरितापसर्पणादिना पुलकादिना विलापादिना संहननादिना चानुभावेनेति प्रतिपत्तत्यम् । तत्र उत्पा- १ 'कुञ्जरोद्भ्रमण' इति भरतसंवादात् 'गजो(द्ध मण)' इति भवेत्. टीका्यां तु 'गजादेः' इत्थं व्याख्यातं तस्माद् 'गज' इत्येव स्यात्. २. 'छत्राश्रयण' इति भरते पाठात् 'छत्राश्रयण' इति भवेत्. १ 'अवगुण्ठनादिना छत्राश्रयणा' स्यात्.

Page 141

११६ काव्यमाला।

एवं वातावेगादिषूदाहार्यम्। संदेहादेर्वितर्क: शिर:कम्पादिकृत्। संदेह विमर्शविप्रतिपत्यादिभ्यः संभावनीयप्रत्ययो वितर्कः । स

यथा- 'अनङ्ग: पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ॥'

तावेगः 'किं किं सिंहः' इत्यादिना निदार्शैतः ॥ वातावेगो यथा-'वाताहतं वस- नमाकुलमुत्तरीयम्-' इत्यादि। वर्षावेगो यथा-'देवे वर्षत्यसनपचनव्यापृता वहिहेतौ गेहाद्रेहं फलकनिचितैः सेतुभिः पङ्कभीताः। नीव्रत्प्रान्तानविरलजला- न्पाणिभिस्ताडयिला सूर्यच्छायास्थगितशिरसो योषितः संचरन्ति ॥' अग्यावेगो यथा-'क्षिप्तो हस्तावलग्नः-' इत्यादि। गजावेगो यथा-'स च्छिन्नबन्धद्रुत- युग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन। रामापरित्राणविहस्तबोधं सेनानिवेश तुमुलं चकार ।I' प्रियदर्शनादावेगो यथा-'एह्येहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम्। आरोप्य वा हृदि दिशामि शमुद्वहामि वन्देऽथ वा चरणपुष्करकंद्यं ते ।।' अप्रियदर्शनश्रवणावेगो यथा उन्मत्तराघवे- 'चित्रमाय :- (ससंभ्रमम्।) भगवन् कुलपते रामभद्र, परित्रायतां परित्राय- ताम्। (इत्याकुलतां नाटयति।)' इत्यादि। पुनः 'चित्रमायः-मृगरूपं परि- त्यज्य विधाय विकट वपुः। नीयते रक्षसा तेन लक्ष्मणो युधि संक्षयम् । राम :- वत्सस्याभयवारिधे: प्रतिभयं मन्ये कथं राक्षसात्रस्तश्वैष मुनिर्विरौति मन- सश्चास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्न्रेहाद्गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥' व्यसनं राजविड्डेरादि, तद्धेतुरावेगो यथा-'आगच्छागच्छ शस्त्रं कुरु, वरतुरगं संनिधेहि दरुतं मे, खङ्गः क्वासौ, कृपाणीमुपनय, धनुषा किं किमन्ग प्रविष्टे। संरम्भोन्निद्रितानां क्षितिभृति गह- नेऽन्योन्यमेव प्रतीच्छन्नाद: खप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत्।' संदेहेति। संदेहः किस्विदित्युभयावलम्बी प्रत्ययः संशयरूपः । विमर्शो १ 'नीवृत्प्रा' स्यात, २. 'द्विड्ैरादि' स्यात्.

Page 142

२ अध्याय:] काव्यानुशासनम्। ११७

परोत्कर्षादेरसूयावज्ञादिकृत्।

दिभिर्वर्णयेत्। यथा- 'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते। यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः॥।' व्याध्यमिघाताभ्यां मृतिर्हिकाकार्श्यादिकृत। व्याधिर्ज्वरादिः प्रतीतः, सर्पविषगजादिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभवाभावात्। तंत्र व्याधिजां मृतिं हिक्काश्वासाङ्कभङ्गाक्षिनिमीलनादैः, अभिघातजां तु कार्श्यवेपथुदाहहि-

विशेष प्रतीत्याकाक्वात्मिका इच्छा । प्रमाणेन पक्षाभावप्रतीतिमात्रं विप्रतिपत्ति-

1 रित्याहुः। एभ्योऽन्तरं भवितव्यताप्रत्ययखभावः एकतरपक्षशैथिल्यदायी पक्षा- न्तरतुल्यकक्षभवोच्चावयतु(?)न्मन्नतामन्यस्य दर्शयंस्तर्कः । स च संशयात्पृ- थगेव। संदेहेन तत्त्वबुद्ाशादिरूपस्य विमर्शादेः सवीकारेऽपि कविशिक्षार्थ भज्गया निरूपणम्। अन्ये तु-धर्मिणि संदेहो धर्मे तु विमर्शों भ्रान्तिज्ञानं विप्रतिपत्तिरित्याहुः। प्रागवस्थेति। म्रियमाणावस्थैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्तिरूपा ।। काश्येति। अशौ हि विषवेगाः । यदाह भरत :- 'कारश्यं तु प्रथमे वेगे द्वितीये वेपेन तथा। दाहं तृतीये हिकां च चतुर्थे संप्रयोजयेत्॥ फेनं च पश्चमे कुर्यात्स्यात्वष्ठे स्कन्धभज्जनम्। जडता १. 'वेपथुस्तथा' भरतपुस्तके.

Page 143

११८ काव्यमाला। क

यथा- 'स गतः क्षितिमुष्णशोणितार्द्रां खुरदंष्टाग्रनिपातदारिताश्मा। असुभि: क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ।।' शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्व झटिति पुनर्योगो वा निब- ध्यते। अन्यत्र तु खेच्छा । यथा- 'संप्राप्तेSवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निःक्रियतया निश्चित्य किंचिच्चिरम्। संप्रत्येव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशो- र्माधव्या सहकारकेण करुण: पाणिग्रहो निर्मितः ॥।' तथा- 'तीर्थे तोयव्यतिकरभवे जहुकन्यासरयवो- र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगत: कान्तयासौ लीलागारेष्वरमत पुनर्न क्षमाभ्यन्तरेषु ।।' अथ सात्त्विकानाह-

सान्विकाः । सीदत्यस्मिन्मन इति न्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम्, तत्र भवाः सात्त्विकाः । भावा इति वर्तते ॥ ते च

सप्तमे कुर्यादष्टमे मरणं तथा ।।' आदिग्रहणात्सहसा भूमिपतनविकम्पनस्फुर- णादयो ज्ेयाः ॥ प्राणभूमीति । अयं भावः । रत्यादयश्वित्तवृत्तिविशेषा: १. लेखकप्रमादपतितो भवेत्.

Page 144

२ अध्याय:] काव्यानुशासनम्। ११९

प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविल- क्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्य- माना भावा भवन्ति। तथा हि। पृथ्वीभागप्रधाने प्राणे संक्रान्तचित्त- वृत्तिगण: स्तम्भोविष्टत्वं चेतनत्वम्। जलभागप्रघाने तु बाष्पः । तैज-

पूर्वसंविद्रूपाः समुल्लसन्ति। तत आभ्यन्तरं प्राणान्तसवरूपाध्यासेन कलुषयन्ति। न चैतदसंवेदयम्। तथा हि क्रोधावेशे अन्तरा ज्वलत्येव पूर्वमुन्मिषति ततः खेदः। अनेनैवाशयेन भट्टवाणेनोक्तम्-'पूर्व तपो गलति पश्चात्खेदसलिलम्' इति। तथा तदवस्थां प्राप्तोऽवहित्थादिना भावो बहिर्विकारपर्यन्ताप्राप्तेः परि- रक्ष्यमाणो दृष्टः । यथा-'पिअमुहससङ्कदंसणचलिअं रइसाअरं पिआहिअ- अम्। गुरुसंकमरुम्भियसेअपमुहपसरं पि हुण ठाइ ।' प्रियमुखदर्शनेन रति- विषये सादरं मत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति। निषिद्धखेदप्र- भृति बाह्यप्रसरमपि न विश्राम्यति। आन्तरखेदादि सात्विकक्षोभमयमेवेयर्थः । निदर्शनं चात्र प्रतीयमानम्। तथा हि। प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो रयी वेगवत्सागरो गुरुणा सेतुना रुद्धाः से कप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरज्गीभवति। सागर- शब्द उभयलिङ्गः । प्राकृते वा लिङ्गविपर्यासः। तदत्र रतिर्मनोरुपत्वाच्युता बाह्याभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता॥ रत्यादिगतेनैवेति। नेतु विभावान्तरेण, तेषां बाह्यविषय विशेषाभिमुख्यनि- रपेक्षलादित्यर्थः ॥ ग्लान्यालस्यश्रममूर्च्छादीनां तु यद्यप्यालम्बनविषयशून्यता, तथापि बाह्यहेतुका अतो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय इति सात्त्विकाः ॥ स्तम्भो विष्टम्भचेतनत्वमिति । मनसा हर्षादिवशे- नानिन्द्रियप्रदेशचारिणां विकल्पपर्यन्तागमनरहिताविकल्पकवृत्तिमात्रनिष्ठानामि- १. 'स्तम्भो विष्टम्भचेतनत्वम्' इति टीकायाम्. १. 'प्रिंयमुखशशाङ्कदर्शनचलितं रतिसादरं प्रियाहृदयम्। गुरुसंक्मरुद्धसेकप्रार- म्भप्रसरमपि खलु न तिष्ठति ॥' इति, '-रयिसागरोऽप्याहृदयम्। गुरुसंक्रमरुद्धसेक- प्रारम्भकप्रसरोऽपि खलु न तिष्ठति ।' इति च च्छाया. २. 'न तु' स्यात.

Page 145

१२० काव्यमाला।

सस्तु प्राणनैकट्यादुभयथा तीव्रातीवत्वेन प्राणानुग्रह इति द्विधा खेदो वैवर्ण्य च। तद्धेतुत्वात् च तथा व्यवहारः। आकाशानुग्रहे गतचेतनत्वं प्रळयः। वायुखातन्रये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाश्चवेपथु- स्रमेदभावेन स्थितिरिति भरतविदः॥ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान् सात्त्विकान् भावान् गमयन्तः परमा- र्थतो रैतिर्निर्वेदादिगमका इति स्थितम्॥ एवं च नव स्थायिनः, त्रय- स्त्रंशद्यभिचारिणः, अष्टौ सात्त्विकाः । इति पश्चाशद्धावाः ॥ रसभावानभिधाय तदाभासानाह- नेरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ। निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा- 'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्वालोष्ठमनोहराभ्यः ।

न्द्रियाणामनघिष्ठानादित्यर्थः । यथा-'तेताणह्यच्छायणिव्वललोअण सिहंपउच्छ- वाद्यम्। आलिरकपइवाणवणिपयपयइचडुलत्तणं पिवि अलिअम् ।।' एवं बाष्प- हेतुताद्वाष्पो यथा-'उत्पक्ष्मणोर्नयनयोरुपरुद्धवाष्पं वृद्धिं कुरु स्थिरतया विहि- तानुबन्धम्। अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमी- भवन्ति ॥' तीव्रातीव्त्वेनेति। तीव्रत्वेन प्राणानुप्रहखेदो यथा-'आश्लेषे प्रथमं क्रमादथ जिते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्ता पुनः पृच्छति। सा तूर्हासनिरुद्धसंभृतरसो द्वेदस्फुरदण्डया तूष्णीं शारविशारणाय निहितः सवेदाम्बुगर्भः करः ॥' अतीव्रत्वेन तु वैवर्ण्य यथा-'संचारिणी दीप- शिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट् इव प्रपेदे विवर्ण- भावं स स भूमिपाल: ॥' प्रलयन्ति प्रकर्षेण प्राणनिलीनेष्विन्द्रियेषु लयः प्रलयः । यथा-'तीव्राभिषङ्गप्रभवेण-' इति ॥ तस्येति। प्राणस्य ॥ मन्देति। १. 'रतिनिर्वेदा' स्यात्. २. 'निरिन्द्रि' स्यात्.

१. अस्य संस्कृतं न सर्यते.

Page 146

२ अध्याय:] काव्यानुशासनम्। १२१

विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा- 'वेणीभूतप्रतनुसलिला दाम्यती तस्य सिन्धुः पाण्डुच्छायातटरूहतरुअ्रंशिमिः शीर्णपर्णेः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कारश्य येन त्यजति विधिना स त्वयैवोपपाद्यः ।।' भावाभासो यथा- 'गुरुगर्भभरक्कान्ताः सनन्त्यो मेघपङ्कयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते॥' तिरश्रोः संभोगाभासो यथा- 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां सवामनुवर्तमानः । शृङ्गेण संस्पशेनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ।।' यथा च- 'ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः। अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ।।' विप्रलम्भाभासो यथा- 'आपृष्टासि व्यथयति मनो दुर्बला वासरश्री- रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि।

प्राणस्य मन्दावेशाद्रोमाश्चो यथा-(वैन्दावन्दाभिमुखम्।) 'तद्वकाभिमुखं मुखं विनमितं दृष्टिः कृंता पादयोस्तस्यालापकुतृहलाकुलतरे श्रोत्रे निरुद्धे मया। पाणिभ्यां च तिरस्कृतः सपुलकः सेदोद्मो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कश्रुके संधयः ॥' मिथ्यावेशाद्वेपथुर्यथा-'मा गर्वमुद्ृह कपोलतले चकासित १. 'तामतीतस्य(?)' स्यात्. १. लेखकप्रमादलिखितं भवेत्, २. 'मध्यावेशा' स्याद.

Page 147

१२२ काव्यमाला।

नान्यासक्तो न खल कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतत्रस्त्यजामि ॥' यथा वा- 'नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः। दानाखादनिषण्ण मूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ।' भावाभासो यथा- 'त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये। वनं प्रयात्यसौ व्रीडाजडदृष्टिर्मृगीजनः ॥।' आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात्संभोगाभासो यथा- 'अङ्गुलीभिरिव केशसंचयं संनिगृद्य तिमिरं मरीचिभिः । कुड्ललीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।!' चन्द्रे भावाभासो यथा- 'त्वदीयमुखमालोक्य लज्जमानो निशाकरः । मन्ये घनघटान्तर्घि समाश्रयति सत्वरः ॥' रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमा- श्लेषादयो जीवितम्।

कान्त खहस्तलिखिता मम मअरीति। अस्यापि किं सखि न भाजनमीद शानां वैरी न चेद्धवति वेपथुरन्तरायः ॥' उत्कृष्टावेशात्खरभेदो यथा- 'याते द्वारमनीम्-' इति ॥ एते च सात्त्विकाः प्रतिरसं संभवन्तीति राजा- जुगतविवाहप्रवृत्तभृत्यन्यायेनापि व्यभिचारिवन्न स्ातन्र्यगन्धमपि भजन्त इति सुलभोदाहरणलाच वृत्तावुदाहरणानि न प्रदर्शितानि॥ रसाभास हति।

Page 148

२ अध्याय:] काव्यानुशासनम्। १२१

अनौचित्याच। अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ। रसाभासो यथा- 'दूराकर्षणमोहमब्र इव मे तन्नाम्नि याते श्रुर्ति FIFE

चेतः कालकलामपि प्रसहते नावस्थिति तां विना। एतैराकुलितस्य विक्षतरतेरङ्वैरनङ्गातुरैः संपद्येत कथं तदाप्तिसुखमित्येतन्न वेझि स्फुटम् ।l' अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा- 'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेमे कः प्रणान्रणमखमुखे यं मृगयसे। सुलभे को जातः शशिमुखि यमालिङ्गसि बला- त्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ।।' अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापा- रोपादानं व्यनक्ति। भावाभासो यथा- 'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्र वाचः किल।

पेरस्परस्थानबन्धात्मिकाया हि रतेः शङ्गारत्वमुक्तम्। अत्र तु कामनाभिला- षमात्ररूपा रतिर्व्यभिचारिभावो न स्थायी। तस्य तु स्थायिकल्पत्वेनाभाति। अतश्च स्थाय्याभासत्वं रतेः। यतो रावणस्य सीताद्विष्टमप्युपेक्षिका हृदयं नैव स्पृशति। तत्स्पर्शे ह्वभिमानोऽस्य लीयेतैवामयीयं रसक्तेति तु निश्चयोऽप्यनु· पयोगी कामजमोहसारत्वात् शुक्तौ रूप्याभासवत्। तस्माद्विभावाद्याभासाद्रत्या- १. 'परस्परास्थानबन्धा' इति स्ाद्, २. 'लीयेतैव । मयीयं न सक्तति' स्याद.

Page 149

१२४ काव्यमाला।

विंशत्या रचिताञ्जलि: करतलैस्त्वां याचते रावण- स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु॥' अत्रौतसुक्यम्।। काव्यस्य लक्षणमुक्त्वा भेदानाह- व्यङ्गयस्य प्राधान्ये काव्यमुत्तमम्। वाच्यादर्थाव्यङ्गयस्य वस्त्वलंकाररसादिरूपस्य प्राधान्ये काव्यमुत्तमम्। यथा- 'वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता। सर्व साध्वथ वा रुणत्सि विरहक्षामस्य रामस्य चे-

अत्र दन्ताक्कितपदेन तदवजयस्तत्कक्षपरिग्रहस्तथैव चतुररर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते।। असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा। असति संदिग्धे तुल्ये च प्राधान्ये व्यञ्ञयस्य मध्यमं काव्यम्।

भासे प्रतीते चर्वणाभाससारः शङ्गाराभास इति ॥ एवं हास्याभासो यथा- 'लोकोत्तराणि चरितानि न लोक एष संमन्यते यम किमङ्ग वदाम नाम। यत्त्वत्र हासमुखरे त्वममुष्य तेन पार्श्वोपपीडमिह को न विजाहसीति ॥' अत्र यदभिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरत्वं स हास्याभासः। किंशब्दस्य वाच्यस्य तु हास्यत्वमेव। एवं रसान्तरेषूदाहार्यमिति॥ दन्ताङ्कितपदेनेति। वस्तुखभावेन। अभिमानदर्प इत्यादीति । वस्त्वित्यर्थः । एवमलंकारे रसादौ च प्राधान्येन व्यङ्गये काव्यस्योत्तमत्वं विज्ञेयम्। तद्यथा-'लावण्यकान्ति- परिपूरितदिड्ुखेSस्मिन्स्मेरेडधुना तव मुखे तरलायताक्षि। क्षोभं यदेति न मना- मपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः॥'अत्र रूपकालंकारो व्यङ्रयः।

Page 150

२ अध्याय:] काव्यानुशासनम्। १२५

तत्रासत्प्राधान्यं क्चिद्वाक्यादनुत्कर्षेण। यथा- 'वोणीरकुडङ्गुड्डीणसउणिकोलाहलं सुणन्तीए। घरकम्मवावडाए बहूए सीदन्ति अङ्गाइं ॥।' अत्र 'दत्तसंकेत: कश्चिल्लतागहनं प्रविष्टः' इति वाक्यात् 'सीदन्त्य- ञ्ानि' इति वाच्यमेव सातिशयम्।

तथा हि। लावण्यं संस्थानमुग्रिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संवि- मकानि हद्यानि संपादितानि दिझ्ुखानि येन । कोपकषायकालुष्यादनन्तरं प्रसादौन्मुर्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलन विकाससुन्दरे अक्षि- णी य स्यास्तस्या आमन्रणम्। अथ वा अधुना कोपादनन्तर प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत्। कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशश- धरमण्डलमेवेति भाव्यम्। क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सु- व्यकतमन्वर्थतयायं जलराशिर्जाड्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युक्त प्राकू। अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयता. मिधाया विश्रान्तत्वाद्रूपकं व्यक्क्यमेव। तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम्।। रसप्राधान्ये यथा-'कृच्छ्ेणोरुयुगं व्यतीत्य सुचिरत्रान्ता नितम्बस्थले मध्येSस्यास्त्रिवलीतरङ्गविषमे निःस्न्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह तुज्गौ स्तनौ साकाह्मं मुहुरीक्षते जललवप्रस्पन्दिनी लोचने॥'

राजस्य परस्परास्थावन्यरूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा इति () आरुह्य इति प्राधान्येनात्र रसो व्यक्ष्यः। एवं भावतदाभासादीनामुत्तम- काव्यप्रमेदतया उदाहरणानि ज्ञेयानीति॥ सातिशयमिति । तथा हि। १. 'वाच्यात्' इति भवेत. २. 'वानीरकुओजड्डीनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥' इति च्छाया. ३. 'व्यङयात्' इति काव्यप्रकाशोक्तमेव वरं प्रतीयते. १. 'मज्जिमा' स्यात्. २. 'कृच्छादूरु' इत्युपलभ्यते. ३. 'प्रस्यन्दिनी' स्यात. ४. 'स्याबन्धरूपो' स्याव,

Page 151

१२६ काव्यमाला।

क्वचित्पराज्त्वेन यथा- 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥' अत्र शृङ्गारः करुणस्याङ्गम्।

गृहकर्मव्यापृताया इत्यन्यपराया अपि। वप्वा इति स्रातिशयलब्धा (?) पारत- चयबद्धाया अपि। अज्ञानीत्येकमंपि तादृशमञं यद्राम्मीर्यावहित्थवशेन संव- रीतुं पारितम्। सीदन्तीत्यास्तां गृहकर्मसंपादनं स्वात्मानपि धतुं न प्रभवति। एृहकर्मयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरतन्रता- प्रतीतिरित्यर्थः । पराङ्गत्वेनेति। परस्परसमवेततदाभासरभाव प्रश् मभावोद्य भ्ा - ह वसंधिभावशबलतारूपस्य भावस्य वाक्यार्थीभूतस्य अज्ञं रसादिवस्त्वलंकाररूप व्यक्षयं तस्य भावस्तत्वम्। तेनेति रसेन। उत्कर्षीति। रसना मेखलां संभोगावसरे ऊर्ध्व कर्षतीति। शृङ्गार इति। समरभुवि पतितकरावलोकनेन प्राकन संभो- गवृत्तान्तः स्र्यमाण इदानीं विध्वस्तया यतः शोकविभावतां प्रतिपद्यते अतः करुणस्यान्नतां याति। यथा च-'तव शतपत्रमृदुताम्नतलक्षरणश्चलकलहंस- नूपुरकलध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभ निहितः कनकम- हामहीध्रगुरुतां कथमम्ब गतः ॥I' अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम्। यथा च-'समस्तगुणसंपदः सममलंक्रियाणां गणैर्भवन्ति यदि भूषणं तव तथापि नो शोभसे। शिवं हृदयवल्लभं यदि यथा तथा रजयेस्तावदेव ननु वाणि ते जगति सर्वलोकोत्तरम् II' अत्र शङ्गाराभासो भावस्यान्गम्। यथा च- 'स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाज्ञनरज्जितेषु। लावण्ययुक्तेष्वपि वित्रसन्ति दैव्या: सकान्तानयनोत्पलेषु ।' अत्र रौद्रप्रकृतीनामनुचितत्त्रासो भगवत्प्रताप- कारणकृत इति भावाभास इति। स च देवताविषयरतिभावस्याङ्गम्। यथा च-'अविरलकरवालकम्पनैर्ध्रुकुटीतर्जनगर्जनैर्मुहुः। दद्शे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ।I' अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽज्म्। 'साकं र्कुरङसदृशा मधुपानलीलां कर्तु स्मरद्धिरपि वैरिणि ते प्रवृत्ते। अन्या- १. 'मपि न ताट' स्यात्. २. 'स्तत्वं तेनेति । रसनोल्कषींति' स्थाद. ३. 'स्तदेव' स्यात. ४. 'कुरङकदृशा' काव्यप्रकाशे. ५. 'सुहृद्धिः' काव्यप्रकाशे.

Page 152

२ अध्याय:] काव्यानुशासनम्। १२७

यथा च- F 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता लंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्ं रामत्वं कुशलवसुता न त्वधिगता ।।' अत्र व्यक्षय उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्कतां नीतः । यथा च- 'भ्रमिमरतिमलसहृदयं प्रलयं मूर्च्छा तमः शरीरसादम्। मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।।' मत्र हालाहलं वस्तु व्यञ्ञयं भुजगरूपणलक्षणस्य वाच्यस्याङ्कम्।

भिधाय तव नाम विभोर्गहीतं केनापि तत्र विषमामकरोदवस्थाम् ।।' अत्र त्रासस्योदयः । 'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्त्रम्मेष्वथ च रसिकः शैलदुहितुः। प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदमियुक्त: स्मरहरः ॥' अत्रावेगधैर्ययोः संधिः । 'पश्येत्कश्चिचल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा नयुत्कम: क्वासि यासि। इत्थं पृथ्वीपरिषृढ भवद्विद्विषोऽरण्यवृत्ते: कन्या कंचित्पुलकिसलयान्याददानामिधत्ते ।' अत्र शङ्कास्तेयधृतिस्मृतिश्रमदैन्यविबोघौत्सुक्यानां शबलता। एते च रसव- दादलंकाराः । यद्यपि भावोदयसंधिशबलत्वानि नालंकारतयोक्तानि तथापि कच्चिद्रयादित्येवमुक्तम् । इदानीं वाच्यं प्रत्यलंकारस्य व्यक्चयस्याङ्गतामाह- यथा चेति। जनस्थाने इति। जनानां स्थानम्, दण्डकारण्यं च। कन- कमृगतृष्णा, भ्रान्तिश्च। वैदेही सीता, वै देहि इति पदद्वयं च। लड्डापुरस्य भर्तुः रावणस्य, अलमीषद्रूपत्वाकुत्सितस्य भर्तुश्च। वदनेषु दशयु मुखेषु। घटना शरयोजना, विचित्रोक्तिपरम्परासु च। कुशलवौ सुतौ यस्याः सा सीता, शुभध- नता च।। प्रलयेति। प्रलय इन्द्रियाणामल्पं सामर्थ्यम्। मूर्च्छा मनस इन्द्रि- १. 'धायि' काव्यप्रकाशे. २. 'विभो गृ' काव्यप्रकाशे. ३. 'व्युत्क्मः' काव्य- पका ४. '(फळकिस' काव्य प्रकाशे.

Page 153

१२८ काव्यमाला ।

क्वचिदस्फुटत्वेन यथा- "अहयं उज्जुअरूया तस्स वि उम्मन्थराई पिम्माइं। सहि आयणो अ निउणो अलाहि किं पायराएण ।।' अत्र स मां पुरुषायितेऽर्थयते, अहं च निषेद्धुं न शक्ता, तत्सख्य: पादमुद्रया तर्कयित्वा मामहासिपुरिति व्यज्थमस्फुटम्। क्कचिदतिस्फुटत्वेन यथा- 'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्घचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि॥' अन्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यक्चयमतिस्फुटत्वेन प्रतीयमा- नमसत्पाघान्यमेव कामिनीकुचकलशवद्गूढं चमत्करोति नातिगूढम्।

याणां च शक्तिनिरोधः । तमः सत्ये च (?)मनसि इन्द्रियाणामशक्तिः मरण मतिः प्राणत्यागकर्तृतात्मिका पूर्वक्रियैव च पाशबन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता। विषमिति जलं कालकूडं च।। गूढमिति। यथा-'मुखं विकसितस्मितं वसितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपा- स्तसंस्था मतिः। उरो मुकुलितस्तनं जघनमंसबन्धोद्ुरं बतेन्दुवदनातनौ तरुणिमोद्रमो मोदते ॥' अत्र विकसितशब्देन बाधितव्याकोशात्मकमुर्यार्थेन सच्छायत्वप्रसरणादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभित्वबहुमानास्पदत्वनि- त्यसुलभत्वादिधर्मसहस्त्रं ध्वन्यते। वसितशब्देन निश्चेतने वक्रिमणि असंभवत्पार- म्पर्यात्मकखार्थेन किंकरत्वतन्मुखप्रेक्षित्वादिसादृश्याद्वक्रिमाणं लक्षयता तापक- त्वात्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः खेच्छया यत्र कुत्नचिदविवरणमि-

कस्माडुत्कल्लोलीभवनसादृश्याद्विभ्रमं लक्षयता प्रौढ प्रौढतरत्ववद्वास्य सर्वजना- १. अस्य संस्कृतं बहूनां पदानामस्फुटत्वान्न लिखितम्. १. 'सत्त्वे' स्यात्. २. 'मरणं मृतिः' स्यात्.

Page 154

२ अध्याय:] काव्यानुशासनम्। १२९

संदिग्धप्राधान्येन यथा- 'मैहिलासहस्सभरिए तुह हियए सुदय सा अमायन्ती। अणुदिणमणण्णकम्मा अङ्गं तनुयं पि तणुएइ ।।' अत्र अङ्गं तनुकमपि तनूकरोतीति किं वाच्यम्, किं वा तनूभाव- प्रकर्षाधिरोहेण यावदत्याहितं नाम्नोति तावदुज्झित्वा दौर्जन्यं सानुनी- यतामिति व्यञ्ञयं प्रघानमिति संदिग्धम्। तुल्यप्राधान्ये यथा-'ब्राह्मणातिक्म-' इति । अत्र जामदम्यः सर्वेषां क्षत्राणामिव रक्षसां क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम्। यथा वा- 'पङ्गौ विशन्तु गणिताः प्रतिलोमवृत्त्या पूर्वे भवेयुरियताप्यथ वा त्रपेरन्। सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो- र्भासावृते नभसि शीतमयूखमुख्याः ।।' अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम्।

भिलषणीयत्वादि ध्वन्यते। अपास्तशब्देनामूर्च्छायां मत्याश्रितमर्यादायामसंभव- दपेक्षणात्मकखार्थेन सत्त्वनिर्वृत्तिसादृश्यात्संस्थानं लक्षयता पुनरखीकारानव- लोकनादि ध्वन्यते। मुकुलितशब्देनासंभवत्कोरकात्मखार्थेनाभिनवोद्धेदसा- दृश्यात्स्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयत्वरामणीयकस्यास्पदत्वमनोभ- वसमुद्दीपकत्वमिति ध्वन्यते। उद्धुरशब्देन बाधितधुरौन्मुख्यखार्थेनोच्चैस्त्व- सादृश्यासंबन्धवज्जघनं लक्षयतोपचितत्वस्पृहणीयत्वमनोभवकेतनत्वादि ध्वन्यते। इन्दुवदनेत्यत्र यद्युपचारस्तदा इन्दुशव्देन बाधितखार्थेन पारिमाण्डल्यादि- १. 'महिलासहस्त्रभरिते तव हृदये सुभग सा अमान्ती। अनुदिनमनन्यकर्माङ्गं तन्वपि तनयति ॥' इति च्छाया. का० शा० ९

Page 155

१३० काव्यमाला।

यथा वा- 'मश्नामि कौरवशतं समरे न कोपा- दुःशासनस्य रुघिरं न पिबाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ।।' अत्र मथ्ाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम्। इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ। अव्यज्ञयमवरम्। शब्दार्थवैचित्र्यमात्रं व्यङ्गयरहितमवरं काव्यम्। यथा- 'अघौघं नो नृसिंहस्य घनाघनघनध्वनिः । हताद्ुरुघुराघोषः सुदीर्घो घोरघर्घरः ॥' यथा वा- 'ते दृष्टिमात्रपतिता अपि नात्र कस्य क्षोभाय पक्ष्मलद्दशामलकाः खलाश्च।

सादृश्याद्वदनं लक्षयता जगज्ीवयितृत्वादि ध्वन्यते। उद्रमशब्देन बाधितो- दयात्मकसार्थेनाभिनवोद्भेदसादृश्यात्तरुणिमानं लक्षयता स्पृहणीयत्वादि ध्वन्यते। मोदतेशब्देन बाधितहर्षात्मकमुख्यार्थेनार्दवितर्दकत्वसादृश्यादुद्रमं लक्षयता उ- च्छृङ्कलस्पृहणीयादि ध्वन्यते ॥ न त्वष्टाविति। यथाह मम्मटः-'अगूढम- परस्याङ्गं वाच्यसिद्धन्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काक्काक्षिप्तमसुन्दरम्। व्यक्नयमेवंगुणीभूतव्यज्चयस्याष्टौ भिदाः स्मृताः ॥' इति ॥ ननु यत्र रसादी नामविषयः स काव्यप्रकारोऽपि न भवत्येव। यस्मादवस्तुसंस्पर्शिता काव्यस्य १. 'कस्य नात्र' काव्यप्रकाशे.

Page 156

३ अध्याय:] काव्यानुशासनम्। १३१

नीचाः सदैव सविलासमंलीकलमा ये कालतां कुटिलतामिव न त्यजन्ति ।।' यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम्, तथापि स्फुटस्य रसस्यानुपलम्भादव्यज्जयमेतत्काव्यमुक्तम् ।। इत्याचार्यश्री हेमचन्द्र विरचि ताया मलंकारचू डामणिसंज्ञखोपज्ञ काव्यानु- शासनवृत्ती रसभावतदाभासकाव्यमेदप्रतिपादनो द्वितीयोऽध्यायः ॥

तृतीयोऽध्यायः । 'अदोषौ शब्दार्थौ काव्यम्' इत्युक्तम्। तत्र दोषाणां रसापकर्षहे- तुत्वं सामान्यलक्षणमुक्तम्। विशेषलक्षणमाह- रसादेः खशब्दोक्ति: क्वचित्संचारिवर्ज दोषः। रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । संचारिणस्तु क्कचित्खशब्दाभिधानेऽपि न दोषः ।

तन्नोपपद्येत। वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्याञ्गं प्रतिप- द्यते । अनन्तरो विभावत्वेन चित्तत्ृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न किंचिच्चित्तवृत्तिविशेषमुपजनयति तदनुत्पादने वा कविविषयतैव तस्य

इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः।

वाच्यत्वमिति। वाच्यत्वं हि रसादीनां स्वशब्दनिवेदितत्वेन वा स्याद्वि- भावादिप्रतिपादनमुखेन वा। पूर्वस्मिन् पक्षे खशब्दनिवेदितलाभावे रसादी- नामप्रतीतिप्रसङ्गः।नच सर्वत्रैतेषां खशब्दनिवेद्यत्वं यथा-'यद्विश्रम्य-इति। १. 'यद्विश्रम्य विलोकितेषु बहुशो निःसथेमनी लोचने यद्गात्राणि दरिद्रति प्रति- दिनं लूनाब्जिनीनालवत्। दूर्वाकाण्डविडम्बकश्च निबिडो यश्पाण्डिमा गण्डयो: कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थिति: ii' इति संपूर्णश्रोको भेट्टन्दुराजस्य ध्वन्यालोचने उदाहृत :.

Page 157

१३२ काव्यमाला।

तत्र रसस्य सवशब्देन शृक्गारादिना वाभिधानं यथा- 'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्रे

रौद्रो दक्षविमर्दने च हसकृन्नमः प्रशान्तश्चिरा- दित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥' स्थायिभावानां यथा- 'संप्रहारे प्रहरणैः प्रहाराणां परस्परम् । छेणत्कारै: श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।।' अत्रोत्साहस्य स्थायिनः । यत्रापि खवशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रति- पादनमुखेनैव रसादीनां प्रतीतिः। खशब्देन सा केवलमनूदते। यथा-'याते द्वारवतीम्- इत्यादि। अत्र विभावानुभावबलादुत्कण्ठा

अन्नानुभावविभावबोधानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचित-

निद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावेऽपि स्फुरत्येव ॥l न च केवल- शङ्गारादिशब्दमान्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्व- पतीतिरस्ति। यथा-'शज्गारहास्यकरुणा-' इत्यादौ। तस्मादन्वयव्यतिरे- काभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम्। नत्वभिधेयत्वं कर्थचि- दिति। खवशब्दोक्तिदोष इत्यर्थः । द्वितीयश्च पक्षोऽस्माकमप्यभिमत एव। एते- न-'रसव दर्शितस्पष्टश्ङ्गारादिरसोदयम्। खशब्दस्थायिसंचारिविभावाभिन- यास्पदम् II' इत्येतद्याख्यानावसरे यद्भद्ोद्भटेन 'पञ्चरूपा रसाः' इत्युपक्रम्य 'खशब्दाः शज्गारादेवाचकाः शङ्गारादयः शब्दाः' इत्युक्तम्, तत्प्रतिक्षिप्तम् ॥ १. 'ठाण' 'झण' वा काव्यप्रकाशे. १. 'थों रसात्मा' लोचने. २. अस्य मूलप्रतीकं 'दोष इति।' इति त्रुटितं भवेत्.

Page 158

३ अध्याय:] काव्यानुशासनम्। १३३ प्रतीयत एव। सोत्कण्ठः शब्दः केवलं सिद्धं साधयति। उत्कमित्य- नेन तूक्तानुभावाकर्षणं कर्तुं सोत्कण्ठशब्दः प्रयुक्त इत्यनुवादोऽपि ना- नर्थकः । व्यभिचारिणां यथा- 'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेर्ष्या जहुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र त्रीडादीनाम्। 'कचित्संचारिवर्जम्' इति वचनात्कचिन्न दोषः । यथा- 'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः१। दृष्टाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्रिष्टा शिवायास्तु व: ॥' अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत्। अत इव 'दूरादुत्सुकम्-' इत्यादौ त्रीडाद्यनुभावानां विचलितत्वादीनामिवोत्सुक- त्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुक- मिति कृतम्।

तिकौल्यम्। अवाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिगा-

नानर्थक इति। शब्दोपासस्यैव हानुवादो अवति न प्रत्षीयमानसेलर्थः । १. 'प्रातिकृष्यं' स्याल

Page 159

१३४ काव्यमाला। अबाध्यत्वादिषु सत्सु विभावादिप्रातिकौल्यं रसादेर्दोषः । यथा- 'प्रसादे वर्तखव प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव मे सिश्चतु वचः । निजानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्घे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादि- वैराग्यकथाभि: प्रियानुनयनं निर्विस्येव कस्यचिदिति श्रृङ्गारप्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावप्रातिकौ- ल्यम्। तत्प्रकाशितो निर्वेदश्र खदते इति व्यभिचारिप्रातिकौल्योदा- हरणमप्येतत्। एवं शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम्। यथा च- 'निहुयरमणम्मि लोयणवहम्मि पडिए गुरूणमज्झम्मि। सयलपरिहारहियया वणगमणं वेव महइ वहू ।।' अत्र सकलपरिहारवनगमने शान्तानुभावौ। इन्धनाद्यानयनव्याजे- नोपभोगार्थ वनगमनं चेन्न दोषः । अबाध्यत्वे इति। अबाध्यत्वमशक्याभिभवत्वं तदभावेन केवलं न दोषो यावत्प्रकृतस्य रसस्य परिपोषः । यथा-'काकार्य शशलक्ष्मणः क्क च कुलम्' इत्यादि। अत्र वितर्कौत्सुक्ये मतिस्मरणे शक्कादैन्ये धृति- १- 'प्रातिकूल्यं' स्यात. २. 'निर्विण्ण' स्यात्. ३.४. 'प्रातिकूल्यं' स्यात्. ५. 'मिभृतरमणे लोचनपथे पतिते गुरुजनमध्ये। सकलपरिहारहृदया वनगमनमेवेच्छति वधू: ॥' इति च्छाया.

Page 160

३ अध्याय: ] काव्यानुशासनम्। १३५

चिन्तने परस्परबाध्यबाघकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती पर- माखवादस्थानम्। 'सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्कनापाङ्कभङ्गलोलं हि जीवितम् ।।' अत्र त्वाद्यमर्ध बाध्यत्वेनैवोक्त्तम्, द्वितीयं तु प्रेंसिद्धास्थिरत्वापाङ्ग- भङ्गोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद्वाधकत्वेनोपातं शान्तमेव पु- ष्णाति। न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु- 'विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव च। तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥' इति विरोधपरिहारमाह।। आश्रयैक्य इति। एकाश्रयत्वे दोषः । भिन्नायत्वे तु वीरभयान- कयोः परस्परं विरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोष: 1 यथा अर्जुनचरिते- 'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो महानुपप्टवोऽभवत्पुरे पुरंदरद्विषाम्। श्रवेण तस्य तु ध्वनेर्विलुप्तमूलबन्धन- मशेषदैत्ययोषितां श्रथीबभूव जीवितम् ।।' इत्यादि। १. 'परस्परं' लोचनें. २. 'द्न्द्वशो भवन्ती' लोचने. ३. 'रामाः' ध्वन्यालो- ककाव्यप्रकाशयोः. ४. 'प्रसिद्धास्थिरापाङ्ग:' स्यात्.

Page 161

१३६ काव्यमाला।

नैरन्वर्य इति। एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोर्नि- रन्तरत्वे दोषः, न तु रसान्तरान्तरितयोः । यथा नागानन्दे शान्तरसस्य-'अहो गीतमहो वादितम्' इत्य्द्ध- तमन्तरे निवेश्य जीमूतवाहनस्य मलयवतीं प्रति शृङ्कारो निबद्धः । न केवलं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानाद्विरोधो निवर्तते। यथा- 'भूरेणुदिग्घान्नवपारिजातमालारजोवासितबाहुमध्याः ।

सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान्। संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम्। निर्देश्यमानांल्ललनाङ्गुलीभिर्वीराः खदेहान्पतितानपश्यन् ।।' अत्र बीभत्सशृङ्कारयोरन्तरा वीररसनिवेशान्न विरोधः । वीराः खदे- हानित्यादिना उत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया

मेरणमिति। प्राणत्यागकर्तृतात्मिका पूर्वक्रियैव पात्रबन्धाद्यवसरगता मरण- शब्देनात्र विवक्षिता ॥ शान्तरसस्येति। 'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेति क्षितौ। इत्थं निन्दमपीदमिन्द्रियवशं प्रील्यै भवेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रू- षमाणस्य मे ।I' इत्यादिना उपक्षेपात्प्रभृतिपरार्थशरीर वितरणात्मकनिर्वहणपर्यन्तं

१. 'वादित्रम्' काव्यप्रकाशे.

१. अस्य मूलं त्रुटितं भवेत्, अत्र वास्म प्रमादपतितत्वं भवेत्. २. 'निन्ध' स्ात्.

Page 162

३ अध्याय:] काव्यानुशासनम् । १३७

प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवघायिकता। खदेहा- नित्यनेन चैकत्वाभिमानादाश्रयैक्यम्। अनङ्गत्वमिति । द्वयोर्विरुद्धयोरङ्गित्वे दोषः, नाङ्गभावप्राप्तौ। सा हि नैसर्गिकी, समारोपकृता वा। तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव। यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम्। ते हि निरपेक्षभावतया सापेक्षभावविरोधि- न्यपि करुणे सर्वथाङ्गत्वेन टैष्टा । यथा-'भ्रमिमरतिमलसहृदयताम्' इत्यादि। समारोपितायामप्यदोषो यथा-'कोपात्कोमललोलबाहुलतिका-' इत्यादि। अत्र बड्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपि- तानां तदनिर्वाहादेवाङ्गत्वम्। इयं चाङ्गभावप्राप्तिरन्या। यदाधिकारिकत्वात्प्रधाने एकस्मिन्काव्यार्थे रसयोर्भावयोर्वा परस्पर- विरोधिनोरङ्गभावस्तत्रापि न दोषः । यथा- 'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सं्रमेण। आलिङ्गन्योSवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शरामिः ॥।'

प्रतिपादितस्य ॥ एकत्वाभिमानादिति । अन्यथा विभिन्नविषयत्वात्को विरोध: स्यादित्यर्थः ॥ ननु वीर एवात्र रसो न शङ्गारो न बीभत्सः किं तु रतिजुगुप्से वीरं प्रति व्यभिचारीभूते। भवत्वेवम् । तथापि प्रकृतोदाहरणे १. 'यकता' इति ध्वन्यालोकल्ेचने पाठः. २. 'अनवत्वे चेति' स्पात्. ३. 'दष्ाः । यथा' स्याद,

Page 163

१३८ काव्यमाला।

अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्ग- मिति तयोर्न विरोधः ।

पराङ्गत्वेऽपि कथं विरोधिनोर्विरोधनिवृत्तिरिति चेत्, उच्यते। विधौ विरुद्धसमावेशस्य दुष्टत्वम्, नानुवादे। यथा- 'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिमिः ॥'

तावदुत्पन्नरतिजुगुप्सयोरपि न विरोधः ॥ करुण इवेति। तथा हि-हैस्ता- वलग्नस्य वहे: क्षेपो विधूननं भयहेतुकमिति करुणाज्ञेत्वे उपलालनाप्रवृत्तस्य तु वल्लभस्य करग्रहणासहनं क्षेपो नाविकारान्तरसंपर्कसमुत्थेर्ष्यकोपनिमित्तो विप्र- लम्भसंसूचकः । पटाश्चलावलझनस्य वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनित- मवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम्। करावधूननेन करग्रहणा- संपत्तावञ्चलावलम्बिनो वल्लभस्य प्रसभमभिहननमवदापनमस्या(?)वशावज्ञानि- मित्तं विप्रलम्भमपरिपोषक्म् । इतश्वेतश्र प्रवर्तमानस्य वहेः कबरीकलापासङ्गि- तश्वासहेतुकः ससंभ्रयकरयुगलजनितः प्रक्षेपोपासनमभिव्यञ्ञकमिह करुणस्य प्रपञ्चलवे ताण्डवपूर्वकत्वरितगतिनायिका वेणीलतावप्रहोपायहठंचुम्बनप्रवृत्तवल्- भस्यायासनमपक्षेपेणामयि निर्लज् तथा नाम व्यलीकशतानि कृत्वा संप्रतीत्थमाचर- तीत्येवंरूपोपालम्भवचनादिमयं कृतककोपवशमीर्ष्यारोषाभिव्यजकम्। केशावलसस्य वहे: सेन्घनस्य प्रक्षेपे च संभ्रमवशेनानालोचितदेशतया पादपतनमतज्वालितस्य वा सर्वतोदिक्कस्य पादाक्रमणमिति तथाभूतस्य संभ्रमवशेनानिरीक्षणमनालोचनम्। वेल्द्वेणीविलमननाय काव लोकन जनितरोषा वेषारुणित नयनस्फुरिताघरसंरब्धकान्ता- दर्शननिश्चितमानग्रहणः प्रणामान्ते मौन इति। वल्लभः पादपतितो न विगणित तदपराधोन्मुखीकरणविस्मृततदपराधया नायिकया वहयाकान्तपादतया पलाय-

१. इतः प्रभृति 'विरोधाभावात' इत्यन्तो ग्रन्थः पुस्तकान्तरालाभेन शुद्धथशु- द्विज्ञानाभावेन यथादर्शमस्फुटाथों विचार्य :. २. 'अत्वम्।' स्यातू

Page 164

३ अध्याय:] काव्यानुशासनम्। १३९

न ह्यत्र विधि: तदेव कुरु माकार्षीरिति वदेकदी प्राधान्यलक्षणः । अपित्वन्याङ्गतालक्षणोऽनुवादः । एहीति क्रीडन्ति गच्छेति क्रीडन्ति इति क्रीडाङ्कयोरागमनगमनयोर्न विरोधः । न च रसेषु विध्यनुवाद- व्यवहारो नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । नासमर्थत्रिपुरनारीसमाश्लेषकारी वहिरतितीव्रतरावेगावेशेन सर्वाङ्गे प्रकम्पनेना- वधूतः क्षिप्तो दुःसहदुःखावस्थाद्योतकः। पादपतनप्रसादितवल्लभो वल्लभालिज्ञन- प्रवृत्तः कान्तजनोऽसहनया दृढकोपनया ऋगिति प्रसादमव्रजं गर्वगरिममन्थरि- तयावधूतस्तदा मोटने न निवारित इति संस्कार इति शेषेर्ष्याविप्रलम्भसंसूच- नम्। अत एव परित्यक्तप्रायेर्ष्याकोपतया वह्लभकृतापराधानुस्मरणजनिताश्रुबा- धाविलीकृतकुवलयदलसदृशलोचनतया शङ्गारोद्दीपनम्। वह्निदाहजनितवल्लंभसु- तादि विनाशानुस्मरण हेतुकदुःखसंभारव शाद्गताश्रुप्रवाहविसंस्थुलीकृतसुन्दरतरनय- नतया शोकावेगपोषणम्। आर्द्रापराधः प्रत्ययप्रेमस्खलितादिप्रमादयुक्तः । अत- एवेर्ष्याकोपनिमित्तता। वह्ेरपि प्रत्यग्रापराधना दाहजनिता तया शोकावेगहेतु- दयानां परं चमत्कारमावहन्तीत्युच्यत इति ।। अयं भाव :- सामग्रीविशेषपरि. पतितत्वेन भावानां विरोधाविरोधौ न खभावमात्रनिबन्धनौ भिन्नदेशयोः शीतो- ष्णयोरपि विरोधाभावात्॥ ननु प्रधानतया यद्वाच्यं तत्र विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सैह्यत इत्याशक्क्यमानः परिहरति-न चेति। प्रैधानाप्रधानत्वकृतौ विध्यनुवादौ, तौ च व्यञ्ञ्यतायामपि भवत एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थानामर्थः। तेने यत्रामुख्य- तया सोऽर्थस्तत्रानूद्यमानत्वं रसस्यापि युक्तम्। यदि वानूद्यमानविभावादिसमा- १. 'विधिस्तदैव तदेव कुरु मा कार्षीरिति तावदे' इति पश्चात्कृतपाठः. २ 'दा' रहितोऽपि ध्वन्यालोचनस्थः पाठ :. १. 'झगिति' स्यात्. २. -अप्रधानत्वेन' ध्वन्यालोकलोचने. ३. 'वाच्यत्वं त्वयैव सोढमित्याशङ्कमान:' ध्वन्यालोकलोचने. ४. 'प्रधानाप्रधानमात्रकृतौ'ध्वन्यालोकलोचने. ५. 'तेन मुख्यतया यत्र सोऽर्थ:' ध्वन्यालोकलोचने. ६. 'यदिचा' स्ाद

Page 165

१४० काव्यमाला।

वौक्यार्थस्य च यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । अथ वा त्रिपुररिपुप्रभावातिसयस्य करुणोऽक्कम्, तस्य तु शृङ्गारः। तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव।

अथ वा प्राग्यथा कामुक आचरति स्म, तथा शराभिरिति स्मर्यमा- णशृङ्गारेणेदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते। यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थादिभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावे- गमुपजनयन्ति ।

यथा- 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।' इदं हि भूरिश्रवसः समरभुवि पतितं बाहुं दृष्ट्रा तत्कान्तानामनुशो- चनम्। तथात्रापि त्रिपुरयुवतीनां शांभवः शराभिरार्द्रापराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवावि- रोधित्वम् ।

क्षिप्तत्वाद्रसस्यानूद्यमानता। तदाह-वाक्यार्थस्य चेति। अस्त्येवाविरो- धित्वमिति। अत्रायं भाव :- पूर्व पक्षद्वये विप्रलम्भकरुणयोरन्यत्राञभावग- मनान्निर्विरोधित्वमुक्तम्। अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति। तथा हि-करग्रहणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्तया शोकविभावतां प्रकृष्टां प्रतिपद्यते इति वाक्यार्थीभूतस्य करु- णस्य विरोधिनापि शङ्गारेण परिपोष एव विधीयते॥ परतस्तु शरृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्वल्यते। उक्कं हि-'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथाभूय निवर्तते ।' इति।

१. 'वाक्यार्थस्य वाच्यस्य च' ध्वन्यालोके. १. 'साभाविभि: सर्थ' ध्वन्यालोके.

Page 166

३ अध्याय:] काव्यानुशासनम्। १४१

एवं च- 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्विन्नसान्द्रपुलके भवतः शरीरे। दन्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥' इत्यादावपि शृङ्गारः शान्तस्याङ्कम्। तथा हि-यथा कश्चिन्मनो- रथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसंपादनाय ख- शरीरदान इति शृङ्गारेण शान्त एव पोष्यते इति। यत्र तु न पोष्यते तत्रानङ्गत्वाद्दोष एव। यथा- 'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। गन्धवद्रुघिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।।' अत्र प्रकृतस्य करुणरसस्य विरुद्धशृङ्गारो न पोषकः ।

दन्तक्षतानीति। बाधिसत्त्वस्य सिंहीं खकिशोरभक्षणप्रवृत्तां प्रति निज शरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते। प्रोद्वेतः सान्द्रः पुलकः परार्थसंपैत्तिजना- नन्दकरेण यत्रे। रकते रुधिरे मनोभिलाषो यस्याः । अनुरकं च मनो यस्याः । पुररयश्चोद्वोधितः मदनावेशश्वेति विरोधः। जातस्पृहैरिति। वयमपि यदि कदा- चिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्य- युक्तैः॥ न पोषक इति। अपि त्वङ्चितयैव प्रतिभासते॥ ननु यत्रैकतात्पर्येणेतरेषां विरुद्धानामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र त्वङ्गत्वेनाविरोधः।यत्र तु सम- १. 'प्रोद्गूत' विवेके लोचने च. १. 'बोधिसत्त्वस्य' लोचने. २. 'प्रोद्भिन्न' मूले ध्वन्यालोके च. ३. 'संपत्तिजेना- नन्दभरेण' ध्वन्यालोकलोचने. ४. 'तादृशे भवतः शरीरे' इत्यपि पूरणीयम्. ५. 'मुन- यश्चोद्वोधितमदनावेशाश्चे' ध्वन्यालोकलोचने.

Page 167

१४२ काव्यमाला।

ङ्गाति विस्तराञ् ननुसंधानानङ्गाभिधानप्रकृतिव्यत्ययाश्र। एते चाष्टौ रसस्य दोषाः। तत्र विभावानुभावयो: क्लेशव्यक्तिर्यथा- 'परिहरति रतिं मति लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनी- रूपो विभाव: क्केशेन प्रतिपाद्यः । 'कर्पूरधूलिघवलद्युतिपूरधूत- दिख्बण्डले शिशिररोचिषि तस्य यूनः । प्रधानत्वेनानेकस्य भावस्योपनिबन्धन तत्र कथम्। यथा-'एकत्तो रुअइ पिअ अण्णत्तो समरुत्तरनिग्घोसो। नेहेण रैणसरसेण य भडस्स दोलाइयं हिअअम् ।' इत्यादौ रत्युत्साहयोः, 'मात्सर्यमुत्सार्य विचार्य कार्यम्-' इत्यादौ रतिशमयोः, 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा खसुरपकृतं येन मम तत्। इतस्तीवः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति पुनः ॥' इत्यादौ रतिक्रोधयोः, 'अन्नैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्त- रक्तोत्पलव्यक्तोत्तंसभृत: पिनह्य सरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुक्कुम- जुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥' इत्यादौ रतिजुगुप्सयोः, 'एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शङ्गारभारालसम्। अन्यहूरविकृष्टचापमदनंक्रोधानलोद्दीपितं शंभोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' इत्यादौ शमरतिकोधानाम्, 'ऐतेनाक्ष्णा प्रविततरुषा वीक्ष्यते व्योमसंस्थं भानोर्बिम्बं सजललुलितेनापरेणा- १. 'भृशं' काव्यप्रकाशे. २. 'धौत' काव्यप्रकाशे. १. 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्धोषः । लेहेन रणरसेन च मटस्य दोलायितं हृदयम् ।' इति च्छाया. २. 'तूर' स्यात. ३. 'रणरसेण' ध्वन्यालोके. ४. 'एकेना' स्यात्.

Page 168

३ अध्याय: ] काव्यानुशासनम् । १४३

लीलाशिरोंशुकनिवेशविशेषक्कप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।।' अत्रोद्दीपनालम्बनरूपा: शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिताः इति क्वेशव्यक्तिः।

त्मकान्तम्। अहश्छेदे दयितविरहाशङ्गिनी चक्रवाकी द्वौ संकीणौं रचयति रसौ नर्तकी च प्रगल्भा II' इत्यादौ रतिशोकक्रोधानां समप्राधान्येनानिबन्धस्तत्र कर्थ न विरोधः। अत्रोच्यते-अत्राप्येक एव स्थायी। तथा हि-'एकत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षण हेतुसंदेहकारणतया करु- णसंग्रामतूर्ययोरुपादानम् वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम्। न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते। किं च-उपक्रान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौ- दासीन्येन महदनौचित्यम्। अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमाकरुणो वीरमेव पुष्णाति। एवम्-'मात्सर्य-' इत्यादावपि चिरप्रवृत्ति- मत्या रतिवासनाया हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम्-' इत्य- नेन प्रकाशितम्। 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाव वितर्कहेतुतया रति- क्रोधयोरुपादानं रौद्रपरमेव। 'अन्त्नैः कल्पितमङ्गलप्रतिसराः-' इत्यादौ हास्यरसै- कपरतम्। 'एक ध्याननिमीलनान्मुकुलितम्-' इत्यादौ तु शंभोर्भावान्तरैरना- क्षिप्ततया समस्तस्यापि योग्यान्तरशमाद्वैलक्षण्य प्रतिपादनेन शमैकपरतैव 'सभा- घिसमये' इत्यनेन स्फुटीकृता ॥ 'एतेनाक्ष्णा-' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम्। तदेवमुक्तप्रकारेण रत्याद्यु- पनिबन्धे सर्वत्राविरोध इति॥ अनुभावापर्यवसायिन इति। शद्गारी चेद्युवा, संभवन्ति तथाविधानुभावाः । शान्तश्रेत्, न संभवति। तं प्रतिपन्नरू- पत्वात्तथाविधानां विभावानामिति शृङ्गारित्वनिश्वयाभावे सत्खपि तथाविधेषु

१. 'एकेना' स्यात्. २. 'शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्। स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।' इति ध्वन्यालोकसंवादात् 'त्कविः' स्याद.

Page 169

काव्यमाला।

पुनःपुनर्दीप्तिर्यथा कुमारसंभवे रतिप्रलापेषु। उपभुक्तो हि रसः ससामग्रीलब्धपरिपोषः पुनः पुनः परामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते इति। अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेडङ्के। दुर्योघनस्य धीरो- द्धतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने। अकाण्डच्छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेडड्के। रत्नावली- नामधेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने। यथा वा वीरचरिते द्वितीयेSङ्के। राघवभार्गवयोर्द्वराधिरूढवीररसे 'कङ्कणमोचनाय ग- च्छामि-' इति राघवस्योक्तौ। अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा-हयग्रीववधे हय- ग्रीवस्य। यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुक्रान्ते कवेर्यमकाद्यलंकारनिबन्धरसिकतया महाप्रबन्धेन समुद्रादेः । तथा हि हरिविजये ईर्ष्याकुपितसत्यभामानुनयनप्रवृत्तस्य हरे: पारिजातहरण- व्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गडुस्थानीयं विस्तृतम् । तथा कादम्बर्याम् 'रूपविलास-' इत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनी-

लीलादयोऽनुभावा: क्लेशेन व्यज्यन्ते इति॥ पुनःपुनः पैरामृश्यमान इति। तथा हि-विभावानुभावसामग्रीपरिघटितशैरस्यापि रसयितृरसनयोग्यरसस्य पुन- रान्दोलनं मालतीकुसुमपरिमर्दनवद्ननुगुणमेव। धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पीयस्येव। तथा च तस्यां दशायां महाकवीनामेको द्वित्रा १. 'शृङ्गारकथायामवतारवर्णने' ध्वन्यालोके. २. 'धाराधिरू' काव्यप्रका०. १. 'परामृष्यमाण:' मूले ध्वन्यालोके च. २. 'रसस्या' स्यात.

Page 170

३ अध्याय:] काव्यानुशासनम्। १४५

हर्षचरिते 'जयति ज्वलद्- इत्यादिना हर्षोत्कर्षवद्विजयबीजे बाणा- न्वयवर्णनम्, तत्रापि चानन्वितप्राय एव सारस्तोत्पत्तिपर्यन्तो महा- न्ग्रन्थसंदर्भः । शिशुपालवघादौ चादितः प्रकृतप्रतिबन्धिविजयबीजोप- क्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि तदसङ्गतशृङ्गाराङ्गभूततत्तदतूपवन- विहारपुष्पावचायमज्जनादिवर्णनाखत्यासक्तिः। तदित्थम्। अप्रस्तुतव- स्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भू- यसा दृश्यते इति तत्त्वं त एव विदन्ति। अङ्गिनः प्रधानस्याननुसंधानं यथा-रत्नावल्यां चतुर्थेडक्के बाम्र- व्यागमनेन सागरिकाया विस्मृतिः । अनुसंधिर्हि सर्वखं सहृदयतायाः। यथा तापसवत्सराजे षट्खप्यङ्केषु वासवदत्ताविषयः प्रेमसंबन्धः कथाव- शादाशङ््य मानविच्छेदोऽप्यनुसंहितः । अनङ्गस्य रसानुपकारकस्य वर्णनं यथा-कर्पूरमञ्जर्या नायिकया खात्मना च वसन्तवर्णनमनाद्ृत्य बन्दिवर्णितस्य वसन्तस्य राज्ञा प्रशं- सनम् ।

वा शोका निर्यान्ति। अत एव तापसवत्सराजे धाराप्राप्तकरुणरसः सर्वाल्पो द्वितीयोऽङ्कः कविना निबद्धः। षट्स्ङ्केष्विति। तथा हि प्रथमे तावदक्के- 'तद्वक्ेन्दुविलोकनेन दिवसो नीतः प्रदोषं तथा तद्गोष्ठयैव निशापि मन्मथकृतो- तसाहैस्तद ङ्वार्पणैः। तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथ वा प्रेमासमाप्तोत्सवम् ।I' इत्यनेन । द्वितीये-'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वकं ने किं नोर्ध्वार्द्र हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा। कस्मिल्लब्धपदेन ते कृतमिदं क्रूरेण प्रीताम्निना नूनं वज्रमयोऽन्य एव दहनस्तस्ये- दमाचेष्टितम् Ii' इत्यादिना। तृतीये-'सर्वत्र ज्वलितेषु वेश्मसु भयादाली- १. 'गमने सा' का०प्र०. २. 'प्रेमबन्धः' ध्वन्यालोकलोचने. १. 'नु' ध्वन्यालोकलोचने. का० शा० १०

Page 171

१४६ काव्यमाला।

प्रकृतिव्यत्यय इति। प्रकृतिर्दिव्या मानुषी दिव्यमानुषी पातालीया

जने विद्ठते श्वासोत्केस्य विहस्तया प्रतिपदं देव्या पतन्त्या तथा। हा नाथेति मुहुः प्रलापपरया दग्धं वराक्या तथा शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्या महे ।' इत्यादिना। चतुर्थे-'देवी स्वीकृतमानसस्य नियतं खप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम्। इत्थं यन्त्रणया कथं कथमपि क्षीणा कैथा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ॥' इत्यादिना। पञ्चमे समागमप्रत्याशया विप्रलम्भेऽक्कुरिते-'तथाभूते तस्मिन्मुनिवचसि जाता- गसि मयि प्रेयत्नान्तर्गूढा रुषमुपगता मे प्रियतमा। प्रसीदेति प्रोक्ता न खलु कुपिते- त्युक्तिमैधुरं समुद्धित्रा प्रीतैर्नयनसलिलै: स्थास्यति पुरः ॥' इत्यादिना। षष्ठे च- 'त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारितास्तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःल्नेहता। आसन्नोऽवसरस्तवानुगमने जाता धृतिः किं त्वयं खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुणे ।I' इत्यादिना च वासवदत्ताविषयो जीवितसर्व- खाभिमानात्मा प्रेमबन्धस्तत्र द्विभावीचित्यात्करुणविप्रलम्भादिभूमिकां गृह्नन् विच्छिन्नविच्छिन्नः समस्तेतिवृत्तव्यापितया दरशितः। राज्यप्रेत्यापत्त्या हि सचि- वनीतिम हिमोपनतया तदङ्भूतपझ्मावतीलाभानुगतयानुप्राण्यमानरूपी वासवदत्ता- विगतिरेव तत्र फलम्। निर्वहणे हि-'दृष्टा यूय निर्जिता विद्विषश्च प्राप्ता देवी भूतधात्री च भूयः। संबन्धोऽभूद्दर्शकेनापि सार्ध किं तवे दुःखं यत्नतः शान्तमद्य ।।' इति देवीलाभप्राधान्यं निर्वाहितम्। दिव्येति। दिव्यः खभाव इत्यर्थः। एवं मनुष्यादिष्वपि व्याख्येयम्। तत्र दिव्या यथा-'स्मृत्वा यन्निजवारवासगतया वीणा समं तुस्बरोरुद्रीतं नलकूबरस्य विरहादुत्कण्ठसंरम्भया। तेनैरावणकर्ण- चापलमुखः शकौऽपि निद्रां जहद्वूयः कारित एव हासिनि शचीवक्रे दशां संभ्र- मम्॥' मानुषी यथा-'वधू: श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिके १. 'त्कम्पवि' ध्वन्यालोकलोचने. २. 'दुग्धं' ध्वन्यालोकलोचने. ३. 'निशा' ध्वन्यालोकलोचने. ४. 'प्रयाणेडन्तर्गूढां' ध्वन्यालोकलोचने. ५. 'विधुरं समुद्धिन्ना पीतै' ध्वन्यालोकलोचने. ६. 'पुनः' ध्वन्यालोकलोचने. ७. 'मनसा', 'चलितैः' च ध्वन्यालोकलोचने. ८. 'स्तद्विभावौ' ध्व० लोचने. ९. 'प्रत्याहिवृत्त्या' ध्व० लोचने. १०. 'रूपा परमामभिलषणीयतमतां प्राप्ता वास' ध्व० लोचने. ११. 'ते' स्यान्.

Page 172

३.अध्याय:] काव्यानुशासनम्। १४७

मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातलीया चेति सप्तधा। वीर-

विनिहितपदार्थान्तरमिति। नदीस्त्नोतोन्यायादकलित विवेकक्रमघनं न च प्रत्या- वृत्ति: प्रवहति जगत्पूर्णमथ च ।।' दिव्यामानुषी तु चतुर्धा। दिव्यस्य मर्त्या- गमने मर्त्यस्य च खवर्गगमने इत्येको मेदः। दिव्यस्य मर्त्यभावे मर्त्यस्य च दिव्य- भाव इति द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः। प्रभावाविर्भूतदिव्यरू- पतया चतुर्थः । तत्र दिव्यस्य मर्त्यागमनं यथा-'श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्यनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनि हरि: ॥' मर्त्यस्य स्वर्गमनं यथा-'पाण्डोर्नन्दन नन्दनं वनमिदं संकल्पजैः साधुभि: कप्ता पानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम्। अप्यत्रेन्दुशिलाल- बालवलयं संतानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यनं विना पूर्यते ।' दिव्यस्य मर्त्यभावो यथा-'विकेसित ...... तस्मिन्नन्तराये यदूनां समजनि वसु- देवो देवकी यत्कलत्रम्। किमपर[थ]तस्मात्षोडशस्त्रीसहस्रप्रणिहितपरिरम्भः पद्मनाभो बभूव ।I' मर्त्यस्य दिव्यभावो यथा-'आकाशयानतटकोटिकृतैकपा- दास्तद्वेदमण्डयुगलान्यवलम्बहस्तैः। कोतूहलान्न च तरङ्गविघद्वितानि पश्यन्ति देव- मनुजा: खकलेवराणि ॥' दिव्येतिवृत्तपरिकल्पना यथा-'ज्योत्स्नापूर प्रसरविशदे सैकतेSस्मिन्सरय्वा वारद्यूतं चिरतरमभूत्सिद्धयूनो: कयोश्चित्। एको ब्रूते प्रथ- मनिहतं कैटभं कंसमन्यः सत्त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ।' प्रभावाविभूतदिव्यभावो यथा-'मा गाः पातालमुर्वि स्फुरसि किमपरं पाठ्यमान: कुदैत्यस्त्नलोक्यं पादपीतप्रथिमनहि बले पूरय स्फूतमङ्गेः । इत्युत्खप्नायमाने भुवनमृति दृशावङ्कसुप्ते यशोदा पायाचक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्भावः॥' पातालीया यथा-'कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सक्तः सेवाअ्जलिस्ते कपिलकुलिकयोः स्तौति वस्त्वस्तिकस्त्वाम् । पद्मः सद्मैष भक्तेर- वलगति पुनः कम्बलोऽयं बलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शेषेपाल: ॥' मर्लय: पातालीयो यथा-'आद्रावले त्रजत वेत्स्यप(?)कर्णकर्ण द्विः संदधाति निशिरं हरशिष्यशिष्यः। तत्सांप्रतं समिति यस्य कुतूहलेन १. 'विकसितरुचि', 'विकसति भुवि' वा स्यात्. २.'त्रन्ववाये' स्यात्. ३. 'तत्त्वं वत्वं क्थय भवता' स्यात्. ४. 'च सवस्तिक' वाग्भटकाव्यानुशासने. ५. 'शङ्गपालः' बा. का० . ६. 'न शरं' स्यात.

Page 173

१४८ काव्यमाला।

रौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितघीरप्रशान्ता उत्त- माधममध्यमा च। तत्र रतिहासशोकाद्भुतानि मानुषोत्तमप्रकृतिवद्दिव्यादिष्वपि।

मतयैः शरैरपि किरीटकिरीटमाद्यम् II' इहापि दिव्यमानुषवन्मिथो भेदानुगमः ॥ दिव्यपातालीया यथा-'स पातु वो यस्य शिखा स्म कार्णकं खवदेहनालं फण- पत्रसंचयम् । विभाति जिह्वायुगलोलकेसरं पिनाकिन: कर्णभुजङ्गपङ्कजम् ॥' दिव्यमर्त्यपातालीया यथा-'आस्तीकोऽस्ति मुनिः स विस्मयकृतः पारिक्षिती- यान्मखात्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शकरस्य च। उद्वेह्वन्मलयाद्रिच- न्दनलताखान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ।।' धीरोदान्तेति । धर्मयुद्धवीरप्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्रश्ङ्वारस्यान्तलक्षणो नियतरसः प्राधान्येऽपि अवश्यंभावित्ादुत्सा- हस्य वीररसप्राधान्यमपि प्रतिपत्तव्यम्। ततो वीररौद्रप्रधानो धीरोद्धतः। वीर- शृङ्गारप्रधानो धीरललितः। दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति। ननु यद्युत्साहादिभाववर्णने कर्थंचिद्दिव्यमानुषादौचित्यपरीक्षा क्रियते। रत्यादौ तु किं तया प्रयोजनम्। रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्ण- नीयेति स्थितिः । तथा चाहु :- 'कस्माद्भारतमिष्टं वर्षेष्वन्येषु देशविहितेषु। हृद्या सर्वा भूमि: शुभगन्धा काश्चनी यस्मात् ।। उपवनगमनक्रीडाविहारनारी- रतिप्रमोदा: स्युः। तेषु च वर्षेषु सदा न तत्र दुःखं न वा शोक: ॥' इत्याश- श्याह-मानुषोत्तमप्रकृतिवदिति। न वयं दिव्यमौचित्यं श्रङ्गारविषय- मन्यत्किंचिडूमः। किं तर्हि भारतवर्षेषु यथोत्तमनायकेषु राजादिषु श्रृङ्गारोप- निबन्धस्तथा दिव्याश्रयोऽपि शोभते। न च राजादिषु प्रसिद्धग्राम्यसंभोगोपवर्णन प्रसिद्धं नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम्। नाटकादेरभिनेयत्वादभिनयस्य संभोगशङ्गारविषयस्य सभ्यत्वात्तत्र परिहार इति चेत्। ननु यद्यभिनयस्यैवं विषयस्य सा केन वार्यते। तस्मादभिनेयार्थेऽनभिनेर्याथे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभि: सह ग्रम्यसंभोगवर्णनं तदसभ्यं तथैव दिव्यादिविषयम्। न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत्, अन्येऽपि परस्परप्रेमदर्श- नादयः प्रभेदा: संभवन्ति। त एव चोत्तमप्रकृतिविषये वर्णयितुमुचिताः। एवं

Page 174

३ अध्याय:] काव्यानुशासनम्। १४९

किं तु रतिः संभोगशृक्गाररूपा उत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्। यत्तु कुमारसंभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद्धूम्ना न दोषत्वेन प्रतिभासते। क्रोधोऽपि भ्रुकुट्यादिविकारवर्जितः सद्यःफलदो निबद्धव्यः । यथा- 'क्रोघं प्रभो संहर संहरेति यावद्विरः खे मरुतां चरन्ति। तावत्स वहिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार।।'

हासादिष्वप्यौचित्यं योज्यमिति। दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभिधाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तौ विशे- षमाह-किं त्विति। संभोग: परस्परावलोकनप्रणयकलहसंगतकादिः । स चासौ शरङ्गारश्च तद्रूपा। अनुचितमिति। आखादयितृणां हि यत्र चमत्का- राविघातः तदेव रससर्वस्म्। आसादयितृत्वात् उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लज्जातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ॥ शक्तितिरस्कृ- तत्वादिति। संभोगोऽपि ह्वसौ प्रतिभानवता कविना तथा वर्र्णितो यथा तत्रैव विश्रान्तं हृदयं पौवीपर्यपरामर्श कर्तु न ददाति। यथा निर्व्याजपराक्रमस्य पुरुषस्याविषयोऽपि बुध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथात्रापीति भावः। यदाह ध्वनिकारः-'अव्युत्पत्तिकृतो दोषः शक्त्या संत्रियते कवेः । यश्षे शक्तिकृतस्तस्य ऋगित्येवावभासते ॥। इति॥ अन्येष्विति। दिव्यादिषु । तथा च केवलमेनुष्यस्य राजादेवर्णने सप्तार्णव- लबुनादिलक्षणा व्यापारा उपनिबध्यमाना वर्णनामहिस्रा सौष्ठवभृतोऽपि नीरसा एव नियमेन भवन्ति॥ ननु नागलोकगमनादयः सातवाहनप्रभृतैयः श्रूयन्ते तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यम् सर्वोवीभरक्षमाणां भूभुजा-

१. 'रत्वशक्तिकृतो दोषः स झटित्यव' ध्वन्यालोके. २. 'मानुषस्य' ध्वन्यालोके. ३. 'भान्ति' ध्वन्यालो०. ४. 'वीनाम्' ध्वन्यालो०. ५ 'क्षमा' ध्वन्यालो०.

Page 175

१५० काव्यमाला। खःपातालगमनसमुद्रलङ्घनादावुत्साहस्तु मानुषेभ्योऽन्येषु। मानुषेषु तु यावदवदानं प्रसिद्धम् उचितं वा, तावदेव वर्णनीयम्। अधिकं तु बध्यमानमसत्यप्रतिभासेन 'नायकवद्वर्तितव्यं न प्रतिनायकवत्' इत्यु- पदेशे न पर्यवस्येत्। एवमुक्तानां प्रकृतीनामन्यथावर्णनं व्यत्ययः । तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम्, नाघमेन; मुनिप्रभृतौ, न राजादौ। भट्टारकेति न राजादौ। परमेश्वरेति न मुनिप्रभृतौ। प्रकृतिव्यत्ययापत्तेः । यदाह- 'तत्रभवन्भगवन्निति नार्हत्यघमो गरीयसो वक्तुम्। भट्टारकेति च पुनर्नैवैतानुत्तमप्रकृतिः ॥ तत्रभवन्भगवन्निति नैवार्हत्युत्तमोऽपि राजानम्। वकुं नापि कथंचन मुनिं च परमेश्वरेशेति ।'

मित्याशश्व्याह-मानुषेष्विति। न वयं ब्रूमः यत्प्रभावातिशयवर्णनं ने समु० चितं राज्ञाम्, किं तु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्या- दिकमौचित्यं न योजनीयम्। दिव्यमानुष्यादौतु तद्योजनमविरुद्धमेव। यथा पाण्डवकथायाम्। सातवाहनादिषु तु येषु ह्यैवदानं श्रूयते तावदेवोपनिबद्धव्य- मित्यर्थः ॥ अवदानमिति । सातिशयं कर्म ॥ अधिकं त्विति। अय- मर्थ :- यत्र च नेयानां प्रतीतिखण्डना न ज्ञायते तादग्वर्णनीयम्। तत्र केव- लमानुषस्य एकपदे सप्तार्णवलङ्गनसंभाव्यमानतया कृतमिति हृदये स्फुरदेषास्य चतुर्वर्गोपायस्याप्यलीकतां बुद्धो निवेशयति। रामादेस्ु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोचितसंप्रत्ययोपारूढं नासत्यतया चकार्ति। अत एव तस्यापि यदां प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति ॥ १. 'मनुचि' ध्वन्यालो०. २. 'मानुषा' ध्वन्यालो०. ३. 'षायां तु कथायामुभय- योजन' ध्वन्यालो०. ४. 'यावदपदानम्' ध्वन्यालो०.

Page 176

३ अध्याय:] काव्यानुशासनम्। १५१

एवं देशकालवयोजात्यादीनां वेषव्यवहारादिसमुचितमेवोपनिबद्धव्यम्।

देशकालवयोजात्यादीनामिति । तत्र जगदेकदेशाश्च देशः । द्यावा- पृथिव्यात्मकमेकं जगदित्येके । 'हलमगु बलस्यैकोऽनद्गान्हरस्य न लाङ्गलं क्रम- परिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम्। प्रभवति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदग्दष्टं दरिद्रकुटुम्बकम् ॥' दिवस्पृथिव्यौ द्वे जगती इत्य- परे। यथा-'रुणद्धि रोदसी वास्य यावत्कीर्तिरनश्वरी। तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ॥' स्वर्गमृत्युपातालभेदात्रीणि जगन्तीत्यपरे। यथा-'लमेव देव पातालमीशानां त्वं निबन्धनम् । त्वं चामरमरुद्मिरेको लोकत्रयात्मकः ॥' ८ .. न्येव भूर्भुवः सः इत्यन्ये। यथा-'नमस्रिभुवनाभोगधृतिखेदभरादिव। नाघनाघाङ्कपर्यङ्कशायिने शार्ङ्गधन्विने ॥I' महर्जनस्तपः सत्यमित्येतैः सह सप्ते- त्यपरे। यथा-'संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चल- केतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्किरियमुच्छिखरा विभाति॥' तानि सप्तभिर्वायुस्कन्घैः सह चतुर्दशेति केचित्। यथा-'निरवधि च निराश्रयं च यस्य स्थितमनुवतितकौतुकप्रपश्चम् । प्रथम इह भवान्सर्वमूर्तिर्जयति चतु- र्दशलोकवल्लिकन्दः ॥I' तानि सप्तभिः पातालैः सहैकविशतिरिति केचित्। यथा-'हरहासहरावासहरहारनिभप्रभाः। कीर्तयस्तव लिप्सन्तु भुवनान्येकविं- शति ।' सामान्यविवक्षा एकयति, विशेषविवक्षा त्वनेकयतीति सर्वमुपपन्नम्। तत्र भूर्लोकः पृथ्वी, तत्र चसप्त महाद्वीपाः 'जम्बूद्वीपः सर्वमध्ये ततश्व उक्षो नाम्रा शाल्मलोऽतः क्रमोऽतः । कौथः शाङ्कः पुष्करश्वेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः ॥' 'लावणो रसमयः सुरोदेयः सार्पिषो दधिजलः पयःपयाः । खादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥' एक एवायं लावण: समुद्र इत्येके । यथा-'द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्वि- स्तृतास्यीङ्गखण्डैरेकाम्भोधिर्दिगन्तप्रसमरसलिल: प्राज्यमेतत्सुराज्यम्। 'तस्मिन्न-

१. "मा' का० प्र०. २. 'यसे' का० प्र०. ३. 'नागनाथाङ्क' स्यात्. ४. 'नि' का० प्र०. ५. 'न्स कूम' का० प्र०. ६. 'लिम्पन्तु' वा० का०. ७. 'कृशो' स्यान. ८. 'शाकः' वा० का०. ९. 'दकः' वा० का०. १०. 'स्ा' वा० का०. ११. 'कस्मिन्नव्याज' वा०.' का०.

Page 177

१५२ काव्यमाला।

प्याजिकेलिव्यतिकरविजयोपाजिते वीरेवर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्चकोप II' त्रय इत्यन्ये। यथा-'आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य । वीर्येण संहतिभिदा विहितोन्नतेन कल्पान्त- कालविसृतः पवनोऽनुचके ।' चत्वार इत्यपरे। यथा-'चतुःसमुद्रवेलोमिर- चितैकावलीलतम्। मेरुमप्यद्रिमुल्लद्वय यस्य क्वापि गतं यशः ॥' सप्तेत्यन्ये। यथा-'अगस्त्यचुलकोत्क्षिप्तसप्तवारिधिवारिणि। मुहूर्त केशवेनापि तरता पूत- रायितम् ।।' (१) कविप्रसिद्धा वा विमृष्टपरमार्थ सर्वमुपपन्नम्। 'मध्ये जम्बू- द्वीपमाद्यो गिरीणां मेरुर्नाम्रा काश्चनः शैलराजः। यो मूर्तानामौषधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ।I' 'तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा। तिर्य- गूर्ध्वमधस्ताच्च विश्वस्य रचना कृता ॥I' मेरोश्वतुर्दिशमिलावृतं वर्षम्। तच्ोत्तरेण त्रयो वर्षगिरयः। नीलः श्वेतः शङ्गवांश्व। रम्यकं हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि। दक्षिणेनापि त्रय एव। निषधो हेमकूटो हिमवांश्च। हरिवर्ष किंपुरुषं तारतमिति त्रीणि वर्षाणि। तत्रेदं भारतवर्षमन्त्यम्। अस्य च नवमेदा :- इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गभस्तिमान् नगद्वीपः सौम्यो गैन्धवो वरुणः कुमारीद्वीपश्च। पञ्च शतानि जलं पञ्च स्थलमिति विभागेन प्रत्येकं योज- नसहस्त्रावधेयो दक्षिणात्समुद्राद्धिमवन्तं यावत्परस्परमगस्य स्थानान्येतानि योज- यति स सम्राडित्युच्यते। कुमारीपुरात्प्रभृति बिन्दुसरोवधि बीजनानां दशशती चक्रवर्तिक्षेत्रम्। तां विजयमानश्चकवर्ती भवति। चक्रवर्तिचिह्नानि तु-'चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा। प्रोकानि सप्त रत्नानि सर्वेषां चक्रवर्ति- नाम् II' कुमारीद्वीपाच्-'विन्ध्यक्ष पारियात्रश्च शुक्तिमानृक्षपर्वतः। महेन्द्रसह्य- मलयाः सप्तैते कुलपर्वताः ॥' तत्र विन्ध्यादयः प्रतीतस्रूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमो यथा-'आ मूलयष्टेः फणिवेष्टितानां सचचन्दनानां जनन- न्दनानाम्। कक्कोलकैलामरिचैर्वृतानां जातीतरूणां च स जन्मभूमिः ॥'द्वितीय :- 'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चति ताम्रपर्णी। रत्नेश्वरो रत्नमहानि- धानं कुम्भोद्भवसतं मलयं पुनाति II' 'यत्र दुमा विद्ठमनामधेया वंशेषु मुक्ताफ- लजन्म तत्र । मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्घनसारवृक्षाः ॥' तृतीय :- 'विलासभूमिः सकलामराणां पदं नृणां गोर्मुनिपुंगवस्य । तदा फलैः पुष्पलतावितानैराश्षर्यमूलं मलयः स तत्र ॥I'चतुर्थ :- 'सा तत्र चामीकररत्न- १. 'वीरचर्ये' वा० का. २. 'भारत' स्यात्. ३. 'गन्धवों' स्यातू.

Page 178

३ अध्याय:] काव्यानुशासनम्। १५३

चित्रैः प्रासादमालावलभीविटड्कैः। द्वारार्गलाबद्धसुरेश्वराड्डा लङ्केति या रावण- राजधानी ॥I' 'प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पश्चमजन्मदायी। तेभ्यश्च- तुर्भ्योऽपि वसन्तमित्रमुदब्ुखो दक्षिणमातरिश्वा ॥' पूर्वापरयोः समुद्रयोर्हिमव- न्ध्यद्वयोश्वान्तरमार्यावर्तः । तस्मिंश्चातुर्वर्ण्य चातुर।श्रम्यं च तन्मूलश् सदाचारः। तत्रत्यो व्यवहारः प्रायेण कवीनाम्। तत्र वाराणस्याः परतः पूर्वदेशः । यत्राज् कलिङ्गकोसलतोसलोकेलमगरमधक विदेहने पालपुण्ड प्राग्ज्योतिषतामलिप्तकमलैजद- मल्लवर्तकसुह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृहद्गेहलोहितगिरचकोरदर्दुरनेपालका- मरूपादयः पर्वताः । शोणलौहित्यौ नदौ। गङ्गाकरतोयार्केलपमाद्याश्च नययः। लवलीप्रन्थिपर्णिकागुरुद्राक्षाकस्तूरिकादी नामुत्पादः। महिष्मत्याः पुरतो दक्षिणा- पथः । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलक्रथ कैशिकस्तर्षारककाश्चिकीरे- लिका वेर मुरलवानवासकरणिसिंह लवोषेंदण्ड कपाण्ड्य पल्लव गाङ्गनासिक्यको ङ्कणगिरिवे- छ्वर प्रभृतयो जनपदाः। विन्ध्यदक्षिणपदे माहेन्द्रमलयमेकलपालमअरसह्यश्रीपर्व-

पर्णीपलावतीरावणगङ्गाद्या नद्यः। तदुत्पत्तिर्मलयोत्पत्तिव्याख्याता। वेसमायाः परतः पश्चाद्देशः । तत्र देशसभसुराष्ट्रदाशेरकत्रवणभृगुकच्छकच्छीयानर्तार्बुदब्राह्मण- वाहेजवनप्रभृतयो जनपदाः । गोवर्धनगिरिनगरदेवसभ्यमालशिशिरार्बुदादयः पर्वताः। सरखतीशुभ्रवतीवार्तन्नीमहीहिण्डिवाद्यानद्यः। करीरपीलुगुग्गलुखर्जूर- करभादीनामुत्पादः। पृथूदकात्परत उत्तरापथः । यत्र शककेकयावोक्काणहूणवना- युजकम्बोजवाल्ही कबहूब लँस्यात कुलूतकीर तङ्गणतुवारतुररेक्क वर्वर हरहूर हुहुकस रुडहं- समार्गरमठकरकण्ठैप्रभृतयो जनपदाः । हिमालय जालन्धर कलिन्द्रेन्द्रकीलचैण्डाच- लादयः पर्वताः। गज्गासिन्धुसरखतीशतद्ठचन्द्रभागायमुनैरावतीवित स्ताविपाशाकु.

१. 'मवद्विन्ध्ययो' वा० का०. २. 'लोत्कलमगधमुद्गर' वा० का०. ३. 'ताम्र' वा० का०. ४. 'लदलमल्लर्तकसुब्रह्म' ना० का० ; ५ 'कपिशादा' वा० का० ६. 'पर्णायु' वा०का०. ७. 'मा' वा० का०. ८. 'सूर्पा' वा०का०. ९. 'केरल' वा० का०. १०. 'चोड' वा० का०. ११. 'कोल' इति पाठोऽधिकः वा० का०. १२.भी' वा०का०. १३.'जम्बुरा' वा०का० १४. 'त्या' वा०का० १५. 'देवसभा' चा० का० १६. 'हययवन' वा० का०. १७. 'वहवलम्पाक' वा० का०. १८. 'तुरुष्क' वा० का०. १९. 'ण्ड' वा० का०. २०. 'चन्द्र' वा० का०,

Page 179

१५४ काव्यमाला।

ववैड्र्यतुरगाणामुत्पादः। तेषां मध्ये मध्यदेश इति व्यवहार इति। यदाहु :- 'हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥I' तत्र ये देशा: पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धमिति न निर्दिष्टम्। 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा। नातिप्रयोज्याः कवि- भिरिति गाढं न चिन्तिताः ॥' विनशनप्रयागयोर्गङ्ञायमुनयोश्वान्तरमन्तर्वेदी। तदपेक्षया दिशो विभजेतेति केचित्। तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत्। प्राच्यवाचीप्रतीच्युदीची चतस्रो दिश इत्येके । यथा-'चतसृष्वपि । दिक्षु राणद्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ।' ऐन्द्राग्रेयी याम्या नैर्ऋती वारुणी वायवी कौबेयैशानी चाष्टौ दिश इत्यन्ये। यथा-'एक ज्योतिर्दशौ द्वे त्रिजगति गदितान्यद्जास्यैश्चतुभिर्भूतानां पश्चमं यान्यलमृतुषु तथा षैण्मुनीनां विधानि। युष्माकं तानि सप्तत्रिदशमुनिनु- तान्यष्टदिग्भाजि भानोर्यान्ति प्राह्ले नवत्वं दश दधतु शिवं दीधितीनां शतानि॥' ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे । यथा-'दशदिकूटपर्यन्तसी- मसंकटभूमिके। विषमास्थूलनक्षस्य () ब्रह्माण्डग्रामके स्थितिः ॥' सर्वमस्तु वि- वक्षापरत्तरा हि दिशामियत्ता। तत्र चित्राखात्यन्तरे प्राची। तदनुसारेण प्रतीची। ध्रुवेण उदीची। तदनुसारेणापाची। अन्तरेषु विदिशः। ऊर्ध्व ब्राह्मी। अधस्ता. न्नागीया चेति। द्विधा च दिग्व्यवहारः कवीनां प्राक सिद्धो विशिष्टस्थानावधि- साध्यः। तत्र प्राक् सिद्धे प्राची-'द्वित्रैर्व्योम्ि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर्ज्योत्स्नापानभरालसेन वपुषा सुप्ताश्षकोराङनाः। यातोऽस्ताचलचूलमुद्दस- मधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पातं ककुप्।।' दक्षिणा-'दक्षिणो दक्षिणामाशां जिज्ञासन्सोऽधिकं बभौ। जिहासन्दक्षिणा- माशां भगवानिव भास्कर: I' पश्चिमा-'यस्य पश्चिमदिगन्तलम्बिना निर्मितं मितकषे विवखता। दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुबन्धनम् ।' उत्तरा-अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥I' विशिष्टस्थानावधौ तु दिग्वि- भागे पूर्वपश्चिमौ-'यादांसि हे चरत संगतगोत्रतन्नं पूर्वेण चन्दनगिरेरुत पश्चि- मेन। नो चेन्निरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति वा वियोगः ।'

१. 'राग' इति स्यात. २. 'पट्सु ननावि' वा० का०, ३. 'भाजि' वा० का०

Page 180

३ अध्याय:] काव्यानुशासनम्। १५५

दक्षिणोत्तरौ यथा-'काश्वयाः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः। कर्णान्तवक्रीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्ग: I' उत्तरादावप्युत्तरदिग- भिधानमनुत्तरादावप्युत्तरदिगभिधानं च। तयोः प्रथमम्-'तन्नागारं धनपति- गृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योद्याने कृतकत- नयः कान्तया वधिंतो मे हस्तप्राप्यस्तबकविनतो बालमन्दारवृक्षः ॥' द्विती- यम्-'सह्याद्रेरुतरे भागे यत्र गोदावरी नदी। पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरम: ॥' एवं दिगन्तरेष्वपि। तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्रीयात्। साधारणं तूभयत्र लोकप्रसिद्धितश्च। तद्वद्वर्णनियमः। तत्र प्राच्यानां श्यामो वर्ण :- 'श्यामेष्व्वेषु गौडीनां सूत्रहारैकहारिषु। वक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति ।I' दाक्षिणात्यानां कृष्णो यथा-'इदं भासां भर्तुर्द्रुतकनकगोलप्रतिकृतिक्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम्। अ- यैष प्राचीन: सरति मुरलीगण्डमलिनस्तरुच्छायाचक्रैः स्तबकित इव ध्वान्तवि- सरः ॥' पाश्चात्यानां पाण्डुर्यथा-'शाखास्मेर मधुकवलना केलिलोलेक्षणानां भृज्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। किं चेदानीं यवनतरुणीपाण्डुगण्डस्थ- लीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेषु ।I' उदीच्यां गौरो यथा- 'काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु। द्रावयित्वेव विन्यस्तं स्वर्ण षोडशव- र्िकम् ।!' मध्यदेश्यानां कृष्णः श्मामो गौरश्व । कृष्णो यथा-'युधिष्ठिरक्रोध- वहे: कुरुवंशैकदाहिनः । पाश्चालीं ददृदशुः सर्वे कृष्णां धूमशिखामिव ।।' एवं श्यामोऽपि । नवकविमार्गे कृष्णश्यामयोः पाण्डुगौरयोर्वा महान् विशेष इति। गौरो यथा-'तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्दुपुत्रि। अवगत- मलिके मृगाङ्कविश्वं मृगमदपत्रनिभेन लाञ्छनेन ।I' विशेषस्तु पूर्वदेशरा- जपुत्र्यादीनां गौरः पाण्डुर्वा वर्ण :- 'कपोले जानक्याः करिकलभदन्तद्युतिमु- खिस्मरस्मेरं गण्डोड्डमरपुलकं वक्रकमलम्। मुहुः पश्यञ्छृण्वन् जनकवरसेना- कलकलं जटाजूट ग्रन्थि द्रठयति रघूणां परित्रदः ॥' यथा च-'तासां माधव- पत्नीनां सर्वासां चन्द्रवर्चसाम्। शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी॥' एवमन्यदपि यथासंभवमूह्यम् ॥ काल: काष्ठादिभेदभिन्नः । तथा च-'काष्ठा निमेषो दश पञ्च चैव त्रिंशच्च काष्टाः कथिताः कलासु। त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्तिशता रात्र्यहनी समेते ॥' ते च चैत्राश्वयुजमासयोर्भवतः ।

१ 'गलल' वा० का.

Page 181

१५६ काव्यमाला।

चैत्रात्परं प्रतिमासं मौहूर्तिकी दिवसवृत्तिर्निशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशावृद्धिर्दिवसहानिश्व। आश्वयुजात्परतः प्रसरे तदेव विपरीतम् । राशितो राश्यन्तसंक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम्। शिशिरा- द्युत्तरायणम् । द्ययनः संवत्सरः इति सौरं मानम् । पञ्चदशाहोरात्रः पक्षः। दर्धमानसोमशुक्किमा शुक्कः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्यं मासमानम्। अधुना च वेदादितः कृत्स्नापि करिया कल्पः। पित्र्यमेव व्यत्ययितपक्षं चान्द्रम- सम्। इदमार्यावर्तवासिन: कवयश्च मानमाश्रिताः । एवं द्वौ पक्षौ मासः । द्वौ मासावृतुः । षण्णामृतूनां परिवर्तः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । आ्रावणादिरिति लोकयात्राविदः 1 तत्र नभानभस्यश्च वर्षाः। यथा-'गर्भ बला- कासु निवेशयन्तो वंशाक्कुरात्खैरनिनदैर्व्रजन्तः । रजोम्बुदाः प्रावृषि मुद्रयन्तो या- त्रोदमं भूमिभृतां हरन्ति ।।' 'सशल्कीशालशिलीन्ध्रयूथी प्रसूनदः पुष्पितलाङ्ग- लीकः। दग्घोर्वरासुन्दरगन्धबन्धुरर्थत्ययं वारिमुचामनेहा ।I' 'वनानि नीलीद- लमेचकानि धाराम्बुधाता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाङ्गलानि ॥' 'चकोरहषीं यतिचारचौरो वियोगिनीवीक्षित- नाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाम्नातनभाः पयोदैः॥' 'या केलियात्रा किल कामिनीभिर्या तुङ्गहर्म्याग्रविलासशयया। चतुःसमं यन्मृगना- भिगर्म सा वारिदर्तोः प्रथमातिथेयी ।।' 'चलचटुलचातकः कृतकुरङ्गरागो- दयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमुद्कङ्का- ह्वयो वियोगिषु घनागमः स्मरविषं विषं मुश्चति ।I' 'दलत्कुट जकुझ्ालः स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रथितमअ्जरीकं जनः । कदम्बक- लुषाम्बरः कलितकेतकीकोरकश्चलत्निचुलसंचयो हरति हन्त धर्मात्ययः ॥' तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति समयः । यथा-'प्रावृष्यम्भोभृताम्भोद- भरनिर्भरमम्बरम् । कदम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥' यथा च-'पौरस्त्यस्तोयदर्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । संध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दी- निनाद: सौरस्याग्रे सुखं वो वितरतु वनितानन्दनः स्यन्दनस्य ।I' इष और्षश्च शस्त्। यथा-'प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान्। शर- १. 'राश्यन्तरसं' स्यात्. २. 'ऊर्ज' स्यात्. ३. 'मयूराणां मदापनोदः' वाग्भट- काव्यानुशासनात; 'प्रोत्सारयन्ती' स्यात्.

Page 182

३ अध्याय:] काव्यानुशासनम्। १५७

त्समभ्येति विकाश्य पद्मानुन्मूलयन्ती कुमुदोत्पलानि ॥' 'सा भाति पुष्पाणि विशेषयन्ती बन्धूकबाणासनकुङ्कुमेषु। शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धि- कमालतीषु ।' 'सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति। कादम्बकारण्डवचक्रवाकससारसक्रौश्चकुलानुयाता ॥' 'उपानयन्ती कलहंसयूथ- मगस्तिदष्ट्या पुनती पयांसि। मुक्तासु शुभ्रं दधतीव गर्भ शरद्विचित्रैश्वरितैश्व- कास्ति ॥I' 'क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः। शरङ्गं त्यजन्तो रुरवश्च जीर्ण कुर्वन्ति लोकानवलोकनोत्कान् II' 'अत्रावदातद्युतिचन्द्रि- काम्बुनीलावभासं च नभः समन्तात्। सुरेभवीथीदिवसावतारा जीर्णाभ्रखण्डानि च पाण्डुराणि ।' 'महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम्। दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥' 'व्योम तारतरता- रकोत्करं स्यन्दनप्रवरणक्षमा मही। भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥''केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्थति पाक- नीलम्। एर्वारुकं स्फुटननिर्गतगर्भगन्धमम्लीभवन्ति च जरत्रपुसीफलानि ॥' 'गेहाजिरेषु नवशालिकणावपातगन्धानुभावसुभगेषु कृषीवलानाम्। आनन्द- यन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्याः ॥' 'तीक्ष्णं रविस्तपति नीच इवाचिराठ्य: श्ङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचित्तं कामी दरिद्र इव शोषमुपैति मेघः ॥' 'नद्यो वहन्ति कुटिलक्रमयुक्तशु- क्तिरेखाङ्कबालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारि- बकदन्तकरालफालाः II' 'अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुरर- कातरभ्रमददभ्रमीनभ्रमः। लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥' वायुश्चात्रानियतदिक्कः। यथा-'उषःसु वधुरा(१)कृष्टा जडावश्यायशीकराः । शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥' सह्यः सह- स्यश्च हेमन्तः। यथा-'द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु। पञ्चषफलिनीकुसुमो जयति हिमर्तुर्नवावतरः ॥' 'पुन्नागरोध्रैप्रसवावतंसा वाम- भ्रुवः कञ्चुककुञ्चिताज्गाः। वक्रोल्लसत्कुङ्गुमसिक्थकाढ्याः सगन्धतैलाः कबरीर्व हन्ति ॥' 'यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः। तथा तथा यावनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥' 'वराहवध्राणि नवोदनानि दधीनि संनद्धरसानि चात्र। सुकोमलाः सर्षपकन्दलीश्ष भुक्त्वा जनो निन्दति १. 'विकास्य पद्मान्यु' स्यात्. २. 'लोध्र' इति स्ात्.

Page 183

१५८ काव्यमाला।

वैद्यविद्याम् II' 'अत्रोपचारः सलिलैः कवोष्णैर्यत्किंच्िदत्र खदतेऽन्नपानम्। सुदु- र्भगामत्र निपीड्य शेते सस्त्यस्तु नितयं तु हिमर्तवेऽस्मै ॥' 'विमुक्तबर्हा विमदा मयूरा: प्ररूढगोधूमयवा च सीमा। व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥' 'सशमीधान्यपाकानि क्षेत्राण्यत्र हरन्ति च। त्रिशङ्कुतिलका रात्र्यः पच्यन्ते लवणानि च ।I' 'उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गत्ीणां मौन- मुद्रा मुखेषु। मन्दोद्योगा पक्षिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ।' 'कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति। कृष्णेक्षूणां पुण्ड- काणां च गर्भे माधुर्यश्रीर्जीयते चाप्यपूर्वा ।I' 'येषां मध्ये मन्दिरं तल्पसंपत्पार्श्वे दारा: स्फारतारुण्यसाराः। लीलावहिरनिह्ठुतोद्दामधूमस्ते हेमन्तं श्रीष्मशेषं विद- न्ति ॥' वायुरत्रोदीच्यः पाश्चात्यो वा। यथा-'लम्पाकीनां किरन्तश्चिकुरविर- चनां रल्लकांल्लासयन्तश्चुम्बन्तश्चन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः। एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकारा: परिचयितहिमं वायवो वान्त्युदीच्याः ॥' यथा च-'भञ्जन्भूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतत्वत्क- राला रेवाम्भ:स्थूलवीचीचयचकितचलचातकं व्याघुनानः । पाश्चात्यो वाति वेगाद्रुततुहिनशिलाशी करासारवर्ष मातज्ञक्षुण्णसान्द्रसुतसरलसरत्सारसारी समी- रः ।I' तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव। विशेषसु-'रात्रिर्विचि- त्रसुरतोचितयामदैर्ध्या चण्डो मरुद्वहृति कुङ्कुमपङ्कसाध्यः। तल्पस्थितिर्द्विगुणतूल- पटा किमन्यदर्थन्ति चात्र विततागुरुधूपधूमाः ॥' 'आश्लेषिताः पृथुरतक्कमपीत- शीतमायामिनीं घनमुदो रजनीं युवानः। उर्वोमुहुर्वलनबन्धनसंधिलोलपादान्त- संवलिततूलपटाः खपन्ति ॥' 'पानेऽम्भसोः सुरसनीरसयोन भाति स्पर्शक्रियासु तुहिनानलयोन वात्र। नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभा- स्करयोर्विशेष: ।I' 'पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि। सौभाग्यमेणतिलकाद्भजतेऽ्र्कबिम्बं काले तुषारिणि दहन्ति च चन्द- नानि ।' 'सिद्धार्थयष्टिषु यथोत्तरहीयमानसंतानभिन्नघनसूचिपरम्परासु। द्वित्रा- वशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥' 'उदीच्यचण्डा- निलताडितासु निलीनमीनासु जलस्य मूले। नालावशेषाब्जलताखिविदानीं विला- सवापीषु न याति दृष्टिः ॥।' 'मादन्मतङ्गः पृषतैकतोषी पुष्यद्वराहो धृतिमल्ल- लायाः । दरिद्रनिन्धः सधनैकेनिन्यः स एष कालः शिशिरः करालः ॥' 'अति- १. 'रनिन्द्य' स्यात्.

Page 184

३ अध्याय: ] काव्यानुशासनम्। १५९

नववधूरोषखादुः करीपतनूनपादसरलजनाश्रलेषक्रूरस्तुषारसमीरणः। गलितवि- भवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावकौपम्यं बिभति निशाकरः॥' 'प्रियः प्रकृतिपित्तला: कथितकुङ्कुमालेपनैर्नितम्बफलकस्तनस्थलभुजोरुमूलादिभिः । इहा- भिनवयौवनाः सकलरात्रिसंश्लेषितैर्हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीभपि॥' मधुर्माधवश्च वसन्तः। यथा-'चत्रे मदर्धिः शुकसारिकाणां हारीतदात्यूहम- धुव्रतानाम्। पुंस्कोकिलानां सहकारबन्धुर्मदस्य काल: पुनरेष एव ।।' 'मनोऽ- धिकं चात्र विलासलास्ये प्रेङ्मासु दोलासु च सुन्दरीणाम्। गीते च गौरीचरिता वसन्ते पूजाप्रपञ्च च मनोभवस्य ।I' 'पुंस्कोकिल: कूजति पश्चमेन बलाद्विलासा युवतेः स्फुरन्ति। स्मरो वसन्तेत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥' 'पिनद्धमाहारजतांशुकानां सीमन्तसिन्दूरजुषां वसन्ते। स्मरीकृते प्रेयसि भक्ति- भाजां विशेषवेषः खदते वधूनाम् ॥' 'अयं प्रसूनोद्ुरकर्णिकारः पुष्पप्रपञ्चाश्चि- तकाश्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धतसिन्धुवारः॥' 'रोही- तकाम्रातककिंकिराता मधूकमोचा सह माधवीभिः। जयन्ति शोभां जनकश्च शाखी सशेखरः पुष्पभरैर्वसन्ते ॥' 'यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकि- लाकलरुतेः कथने च लाभः । पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् II' 'नालिक्वितः कुरबकस्तिलको न दृष्टो नो ताडितश्व चरणैः सुदृशामशोकः । सिक्तो न वक्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥' 'चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्ततीयश्च पीतः। जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्वेतोयोनेर्भूर्भुवःखस्त्रयेऽपि ॥' 'गूवाकानां नालिकेरी- द्रुमाणां हिन्तालानां पाटलीकिंशुकानाम्। खर्जूरीणां तालताडीतरूणां पुष्पापीड- न्यासहेतुर्वसन्ते॥ वायुश्वात्र दक्षिणः । यथा-'चुम्बंलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनामान्ध्रीधम्मिल्लबन्धान्सपदि शिथिलयद्वेल्लयन्नागवलीः । उद्दामं दाक्षिणात्यो मलितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमय- सुहन्मानचौरः समीरः ॥' शुकः शुचिश्च ग्रीष्मः । यथा-'विकासकारी नवमा- लिकानां दलच्छिरीषप्रभवाभिरामः । पुष्पप्रदः काश्चनकेतकीनां श्रीष्मोऽयमु- ल्लास ... धातकीकः ॥' 'खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनारिकेलैः । द्वन्द्वानि खेदालसतामपास्य रतानुबन्धानमिहाद्रियन्ते ।I' 'स्रोतांस्यम्भांसि सकू- पकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रागेव सायं

१. 'स्यनम्भांसि' स्यात्.

Page 185

१६० काव्यमाला।

च वहन्ति मार्गाः ॥' 'यत्कायमानेषु दिनार्धनिद्रा यत्स्नानकेलिर्दिवसावसाने। यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ॥।' 'या चन्द्रिका चन्दनप- ड्हृद्या या जालमार्गानिलवीचिमाला। या तालवृन्तैरुदबिन्दुदृदष्टिर्जलाअ्लिं सा शुचये ददाति ॥' 'कर्पूरचूर्ण सहकारभङ्गस्ताम्बूलमार्द्रकमुकोपक्कप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ॥' 'मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसता जलार्द्राः । स्रजश् मौलौ स्मितचम्पकानां श्ष्मेऽपि सोडयं शिशिरावतारः II' अत्र हि-'पच्यन्त इव भूतानि ताप्यन्त इव पांसवः। केथ्यन्त इव तोयानि ध्मायन्त इव वाद्रयः ॥' 'एण्यः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः । ताम्यत्तिमीनिवे सरांसि जलस्य शोषाद्वद्वारघट्टघटिकावलयश्ष कूपाः ॥' 'करभाः शरभाः सरासभा मदमा- यान्ति भजन्ति विक्रियाम्। करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य रासते ॥।' 'सहकाररसार्चिता रसाला जलभक्तं फलपानकानिमन्थाः (१)। मृगलावरसात्रितं (१) ..· दुग्धं स्मरसंजीवनमौषधं निदाघे ॥।' 'जडचन्दनचारवस्तरुण्यः सजलार्द्राः सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे॥' "ग्रीष्मी चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सेरिताः (?) सेभकोलाः । लोल- जिह्वाः सर्वसारङ्गवर्गा मूलस्रस्तैः पक्षिणश्चांशदेशैः ॥' 'हर्म्य रम्यं चन्द्रिकाधौत- पृष्ठं कान्तोच्छिष्टा वारुणी वारिमित्रा। माला: कण्ठे पाटलामल्लिकानां सदो ग्रीष्मं हन्त हेमन्तयन्ति ॥' वायुश्वात्र नैकतोऽनियतदिको वा। यथा-'सोऽयं करस्तपति वह्िमयैरिवार्क: साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्व कार्शानवैरिव शरैर्मदनश्च हन्ति ॥' यथा च-'वात्याचकरकचु- म्बिताम्ब्ररभुवः स्थूला रजोदण्डकाः संग्रन्थन्ति भविष्यदभ्रपटलस्थूणावितर्क नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनीं संपदम् ॥' चतुरवस्थश्व ऋतुः । संधिः शैशवं प्रौढिरनुवृत्तिश्व। ऋतुद्वयमध्यं संधिः। स शिशिरवसन्तयोर्यथा-'युतसुमन- सः कुन्दाः पुष्पेष्वलसा दुमे मनसि च गिरं ग्रभ्न्ति मे कीरन्ति न कोकिला(?) । अथ च सवितुः शीतोल्लासं लुठन्ति मरीचयो नवजरठतामालम्वन्ते कमोदयदा यिनीम् ।।' वसन्तस्य शैशवं यथा-'गर्भग्रन्थिषु वीरुधां सुमनसो मध्येडक्कुरं १. 'कथ्यन्त' स्यात्. २, 'नि च' स्यात. ३. 'ग्रीष्मे' स्यात्. ४. अत्र श्रोके कीटकू पाठ इति न श्ञायते.

Page 186

३ अध्याय: ] काव्यानुशासनम्। १६१ पल्लवाः वाष्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पथ्चमः । किं च त्रीणि जगन्ति जिष्णुदिव सैद्विंत्रैर्मनोजन्मनो देवस्यापि चिरोज्जितं यदि भवेदभ्यासवश्यं धनुः॥' प्रौडिर्यथा-'साम्यं संप्रति सेवते विचकिलं षाण्मासिकैमौंकिकैः क्रान्ति कर्षति काथनारकुसुमं माजिष्ठधौतात्पटाद्। डूणीनां कुरुते मधूकमुकुलं लावण्यलुम्पाकतां लाटीनाभिनिमं चकारिति च पतद्दुन्ताअ्रतः केसरम् ॥' 'अतिकरान्तर्तुलिनं यत्क- सुमाद्यनुवर्तते । लिज्ानुवृत्ति तामाहुः सा झेया काव्यलोकतः ॥' वर्षासु श्रीष्मलि- शब्जविकासानुन्ृत्तिः । यथा-'खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम्। गन्धं चुम्बति सिक्तलाजसदशं वर्षेण दग्घा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः॥' किं च-'प्रै- ष्मिकसमयविकाशी कथितो धूलीकदम्ब इति लोके। जलघरसमयप्राप्तौ स एव धाराकदम्बः स्यात्।' यथा-"धूलीकदम्बपरिधूसरदिझ्मुखस्य रक्तच्छटासुरशरा सनमण्डनस्य। दीघ्ायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समदवारिधरागम- स्य ।।' 'जलसमयजायमानां जाति यां कर्दमेन जनयन्ति। सा शरदि महोत्सविनी गन्धान्वितषदपदा भवति ॥' यथा-'स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकत्र- न्थिभाजो जात्यं जालं लतानां जरठपरिमलल्लावितानां जजृम्मे। नानाहंसोपधानं सपदि जलनिधेश्चोत्ससर्पापरस्य ज्योत्त्नाशुक्कोपधानं शयनमिव शशी नागभोगा- कमम्भ: ॥I' स्तोकानुतृत्ति केतक्या अपि केचिदिच्छन्ति। यथा-'असूच्यत शरत्काल: केतकीधूलिधूसरैः । पद्माताम्रैर्नवायातचरणैरिव वासरैः ॥' 'शर- द्ववानामनुपृत्तिरत्र बाणासनानां सकुरण्टकानाम्। हेमन्तवक्रे यदि दृश्यतेऽपि न दृश्यते बन्धविधि: कवीनाम् ।।' हेमन्तशिशिरयोरैक्ये सर्वलिज्ञानुवृत्तिरेव। उफ च-द्वादशमासः संवत्सरः पश्चर्तवो हेमन्तविशिरयोः समासेन। 'मरुबकदमन- कपुन्नागपुष्पलि प्ानुव्ृत्तिभिः सुरमिः। रचनीयश्चित्रश्रीः किंचित्कुन्दानुवृ्त्त्या च॥' यथा-'गेहे वाहीकयूनां वहति दमनको मजरीकर्णपूरानुन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति। सदो गन्धानुसारस्तुतसुरभिशिराः शीकरः साह- कार: सर्पन्नम्भःशरावे रचयति च रसो रेचकीचक्रकाणि ॥' यथा-'कुन्दे मन्दस्तमाले मुकुलिनि विकल: कातरः किंकिराते रक्ताशोके सशोकश्विरमपि विकचे चम्पके कुश्चिताक्षः । पान्थः खेदालसोऽपि श्रवणकटुरटच्चक्र्मभ्येति

१. 'वाश्छायामात्र' वा० का० २. 'त्विरेप्सितं वा० का०' का० ज्ा. ११

Page 187

१६२ काव्यमाला।

यदुक्तम्- 'अनौचित्याहते नान्यद्रसभङ्गस्य कारणम्। प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।' इति।

धुन्वन्सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन ॥I' एवमन्याप्यनुवृत्तिः । 'विचेकलिकेसरपाटलि चम्पकपुष्पा वसन्तयो (१) ग्रीष्मे। तत्र च तुहिनर्तु- भवं मरुबकमपि केचिदिच्छन्ति॥' यथा-'अभिनवकुशसूचिस्पर्धि कर्णे शिरीषं मरुबकपरिवारं पाटलादामकण्ठे। स तु सरसजलार्द्रोन्मीलितः सुन्दरीणां दिन- परिणतिजन्मा कोऽपि वेषश्चकासिति ।I' एवमन्यदपि कविप्रसिद्याभ्यूह्यम्। 'शोभान्धौ गन्धरसौ फलार्चनाभ्यां च पुष्पमुपयोगि। षोढा दर्शितमेतत्सप्त- ममनुप ... योगि तथा ।' 'यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधे- यम्। तदग्रिमे प्रौढिधरं च कार्य तदग्रिमे पाकपरिष्कृतं च ।I' 'दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा । तेषां द्विमास्रावधिरेव कार्य: पुष्पे फले पाकविधौ च काल: ॥' 'अन्तर्व्याजं बहिर्व्याज बाह्यान्तर्व्याजमेव च ॥' 'सर्वव्याजं बहुव्याजं निव्याजं च तथा फलम् ।।' 'लकुचादयन्तर्व्याजं तथा बहि- र्व्याजमत्र मोचादि। आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ।' 'पनसादि बहुव्याजं नीलकपिच्छादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति मेद: ॥' तदेवं देशकालौ व्याख्यातौ ॥ वयः शैशवादिकम् ॥ जाति: स्त्रीपुंसादिका ब्राह्मणत्वादिका वा । आदिप्रहणाद्विद्यावित्तकुलपात्रादयो लभ्यन्ते। वेषः कृत्रिमं रूपम्। व्यवहारकेष्टा। आदिप्रहणादाकारवचना- दयो ज्ञेयाः। वेषव्यवहारादीति देशादिभिः प्रत्येकमभिसंबध्यते। तेन देशे वेषस्य व्यवहारस्य आकारस्य वचनस्य वा औचिलयेन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम्। यथा कान्यकुब्जाद्यार्यदेशे उद्धतो वेषः । दारुणो व्यवहारः । भर्यंकर आकारः। परुषं वचनमनुचितम् । म्लेच्छेषु त्वेतदेवोचितम्। तथा

१. 'औच्ित्योपनिबन्ध' का० प्र०. १. 'विचकिल' स्यात,

Page 188

३ अध्याय:] काव्यानुशासनम्। १६३

'भत्त्या शब्दार्थयोर्दोषा:' इत्युक्तम्। तत्र च शब्दस्य पदवा- क्यरूपत्वात्प्रथमं द्वौ पददोषावाह- निरर्थकासाधुत्वे पदस्य। दोष इति वर्तते। कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वम- साधुत्वं च पदस्य दोषौ। एवमुत्तरत्रापि योज्यम् । तत्र चादीनां पूर- णार्थत्वे निरर्थकत्वं यथा- 'मुहयन्मुहुर्मुहुरहं चपलाकुलाक्षः कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि। स्ामिन्भवच्चरणयोः शरणं प्रपन्नः संसारदारुणदरेण हि कांदिशीकः ॥' पदैकदेश: पदमेव, तन्निरर्थकत्वं यथा- 'आदावञ्जनपु्जलिप्तवपुषां श्वासानलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्रेक्षणा ।।'

एवोपादानात्॥ अत्र 'दशाम्' इति बहुवचनमनर्थकम्। कुरक्रेक्षणाया एकस्या

न च- 'अलसवलितैः प्रेमार्द्राद्रैर्मुहुर्मुकुलीकृतैः

हृदयनिहितं भावाकूतं वमद्िरिवेक्षणैः कथय सुकृती कोडयं मुग्घे त्वयाद्य विलोक्यते ।।' इत्यादिवद्यापारभेदाद्हुत्वम्। व्यापाराणामनुपात्तत्वात्। न च व्या- पारेडत्र दक्शब्दो वर्तते।

Page 189

१६४ काव्यमाला।

यमकादौ निरर्थकत्वं न दोष इति केचित्। यथा- 'योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम्।' 'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।'

'उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजन्ने विषमविलोचनस्य वक्षः ॥' अन्र हन्तेर्नाकर्मकत्वम्, न खाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आ- जन्ने'पदमसाधु ॥ 'न दोषोऽनुकरणे' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह-' इत्यत्र न दोषः । अथ त्रयोदशवाक्यदोषानाह-

विसर्गहतवृत्तसंकीर्णगर्भितभग्नप्रऋमानन्वितत्वानि वाक्यस्य। दोषा इति वर्तते। तत्र संधि: खराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकी- भावः, कवाटवत्खराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा। तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विसंधित्वम्। विश्लेषदयथा- 'कमले इव लोचने इमे अनुबभ्नाति विलासपद्धतिः।' 'लोलालकानुविद्धानि आननानि चकासति।' संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविघाने

Page 190

३ अध्याय:] काव्यानुशासनम्। १६५

त्वसकृत्। "संहितैकपदवत् पादे अर्धान्तवर्जम्' इति हि काव्य- समयः ।

'विरेचकमिदं नृत्यमाचार्याभासयोजितम्।' अत्र 'विरेचकम्' इति जुगुप्सा। 'याभ' इति वीडा। तथा- 'चकाशे पनसप्रायैः पुरी षण्ढमहाद्रुमैः।' अत्र 'शेप' इति 'पुरीषम्' इति 'महाद्रुम' इति च 'त्रीडाजुगुप्सा- मङ्गलार्थस्मारकत्वादश्लीलाः । कष्टत्वाद्यथा- 'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा इमा बमुः ।' वक्राद्यौचित्येति वक्ष्यमाणत्वाद्ठुर्वचकादौ न दोषः । यदाहु :- 'शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये। प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ॥।' अवश्यवाच्यस्यानभिधाने न्यूनपदत्वम्।

नागरेषु यदुचितं तदेव आ्रम्येष्वनुचितमिति । यथा-'परिभ्रमन्मूर्घजषदपदा- कुलैः स्मितोदयादर्शितदन्तकेसरैः । मुखैश्चलत्कुण्डलरश्मिरजितैर्नवातपामृष्टस- रोजचारुभिः॥' गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति। एवं काला- दावप्युन्नेयम् ॥ विरेचकमिति। विगतं श्रीवादीनां रेचकं भ्रमणं यत्र। अस- म्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च ॥ अवश्य- वाच्यस्येति। अवश्यंभावेनाभिघेयस्य अविनाभावेनौचितयेन वा प्रतीयमान-

१. 'नित्यं संहितकपदवत्पादेष्वर्धा- इति वामनकाव्यालंकारसूत्रम्.

Page 191

१६६ काव्यमाला।

यथा-'तथाभूतां दृष्ट्रा' इति। अत्रास्माभिरिति खिन्नमित्यस्मात्यू- र्वमित्थमिति च नोक्तमिति न्यूनत्वम्। तथा- 'त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराच्ुखचेतसः । किमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥'

स्याभिधानेऽपि न दोषः । यथा-'कियन्मान्नं जलं विप्र जानुदन्नं नराघिप। तथापीयमवस्था ते न सर्वत्र भवादशाः ॥' 'यत्र ह्यन्यत्क्रियापदं नास्ति तत्रा- स्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते' इति न्यायादरितिर्लभ्यते। तथा च-'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्ष II' अत्रौचित्याद्धाक्षीदित्यादिक्रिया गम्यते। तथा-'मा घाक्षीन्मा भाल्लीन्मा छैत्सीजातुचिद्वत भवन्तम्। सुकृतैरध्वन्यानां मार्गतरो खवस्ति तेऽखु सह लतया ।' अत्रानल इत्यादीनि कर्तृपदान्यौचित्या- त्प्रतीयन्ते ॥ एवं चानभिहितवाच्यत्वं पृथग्दोषत्वेन वाच्यम्। धर्मिधर्मोभ- यात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्पर्यायः सर्वनाम वावश्यं वाच्यमपि नोकं यत्र, तन्रापि न्यूनत्वमिति केचिद्वदन्ति। यथा-'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।' इति। अत्र हि कपालिशब्दो धर्मधर्मोभयवृत्तिः संज्ञिमात्रं वा प्रत्याययेत्। कपालसंबन्धकृतं वा गर्हितत्व- मुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिग्रहणम- परमपि कर्तव्यम्, येनास्य गर्हितत्वं प्रतीयेत। द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्रा वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षि- तार्थसिद्धावार्थों हेतुभावोऽवकल्प्येत। तत्र तेनैवोपादाने यथा-'सततमनङ्गोऽनञ्गो न वेत्ति परदेहदाहदुःखमहो। यदयमदहं दहति मामनलशरो ध्रुवमसौ न कुसु- मशरः ॥I' इति । पर्यायेण यथा-'कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के भम धन्विनोऽन्ये।' अत्र हि हरस्येति पर्यायशब्देनोपात्तस्यार्थस्य पिनाकपाणित्वं वैर्यच्युतेरशक्यकरणीयतायामार्थो हेतुः। अन्यथा हरग्रहणस्य पौनरुक्तं

१. 'नमिधाने' स्ाल्. २. 'पतवेन न वाच्यम्' स्यात्. ३. 'मदयं' स्ात.

Page 192

३ अध्याय:] काव्यानुशासनम्। १६७

अत्रापराधस्य लवमपीत्यर्थो वाच्यः । तथा- 'नवजलधरः संनद्धोऽयं न हप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्। अयमपि पटुर्घारासारो न बाणपरम्परा कनकनिकषस्त्रिग्धा विद्युत्पिया न ममोर्वशी ॥' अत्र भ्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव वि- द्युतोऽपीदमा परामर्शो वाच्यः ।

स्यादिति। यथा च-'एकः शङ्कामहिवररिपोरत्यजद्वैनतेयात्' इति। सर्वनाम्ना यथा-'दश्षा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ।I' अत्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरपि अभिन्नहेतुकत्वोपपत्तावार्थो हेतुः । इतरथा वामलोचनातस्य पुनरुपादानप्रसङ्गः । अत एव तृतीयः पक्षो न संभ- चत्येव। एकस्यैव शब्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसामर्थ्यासंभवात्। न चासावनिबन्धना शक्या कल्पयितुम् । न वैषामेकमप्यत्रोक्तमिति न्यूनपदल- मिति। वयं तु ब्रूम :- न हि शब्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नवार्थे उप- क्षीणत्वात्तस्याः शब्दान्तरमर्थान्तरार्थ प्रयुज्येत तदावृत्तिनिबन्धनं वा किंचि- त्परिकल्प्येत। किंतु वृत्त्यन्तरमपि सहृदयैकसंवेदयं व्यक्तिखभावमस्तेव। एवं च वृत्त्यन्तरोपकल्पनायामेकस्मादेव शब्दाद्वाच्येन सहैव व्यङ्ञयस्यापि प्रतीतिर- निवारितप्रसरैव। तथा हि-परमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्तं बीभत्सरसालम्बनविभावतां सूचयन् जुगुप्सास्पदत्वं ध्वनति। संप्रति द्वयं चेत्यतीव रमणीयम् । यत्किल पूर्वमेका सैव दुर्व्यसनदूषितित्वेन शोचनीया जाता। संप्रति पुनस्तया तस्यास्तथाविधदुरध्यवसायकमिवारब्धमि- त्युपहृस्यते। प्रार्थनाशब्दोऽप्यतितरां रमणीयः । यस्मात्काकतालीययोगेन तत्स- मागमः कदाचिन्न वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकौलीनकलङ्ककारिणी। साचत्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्थिलावण्यातिशय प्रतिपादनपरत्वे-

Page 193

१६८ काव्यमाला।

यथा वा उपमायाम्- 'संहयवक्कायजुया वियसिअं कमलामुणालसंछन्ना । वावीबहुत्वरोयण विलित्तथणया सुहावेई ॥।' अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्रोः केनापि पदेनानुपादानान्न्यून- पदत्वम्। क्वचिद्गुणः । यथा- 'गाढालिङ्ग नवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसाति रेकविगलच्छीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्।।" क्चिन्न गुणो न दोषः । यथा-'तिष्ठेत्कोपवशात्-' इति। अत्र पिहितेत्यतोऽनन्तरं 'नैतत् यतः' इति एतैर्न्यूनैः पदैर्विशेष- बुद्धेरकरणान्न गुणः । 'उत्तरा प्रतिपत्तिः पूर्वा प्रतिपर्त्ति बाधते' इति न दोषः । अधिकपदत्वं यथा- 'स्फटिकाकृतिनिर्मल: प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुंद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥' अत्र 'आकृति' शब्दोऽघिकः । तथा- 'ताडीजद्यो निजन्ने कृततदुपकृतियत्कृते गौतमेन।' अत्र 'तत्' शब्दः। १. 'वि' का० प्र०. २. 'नाडीजड्डो' स्याद,

Page 194

३ अध्याय: ] काव्यानुशासनम्। १६९

यथा- 'दलत्कंदलभाग्भूमिः सनवाम्बुदमम्बरम्। वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र मजि: सहशब्दो युजिश्चाघिकाः । तथा-'बिसकिसलयच्छेदपाथेयवन्तः' इति। 'त्वगुत्तरा सद्भवतीमघीतिनीम्' इति च मत्त्वर्थीयस्याघिक्यम्। बहु- ब्रीहिसमाश्रयेणैव तदर्थावगतिसिद्धेः। यदाहुः-'कर्मघारयमत्वर्थी- याभ्यां बहुव्रीहिर्लघुत्वात्मक्रमस्य'। तथा-'वासो जाम्बवपल्लवानि जघने गुन्जास्रजों भूषणम्' इति, 'तदीयमातङ्गघटाविघट्टितैः' इति, 'येनाकुम्भनिमन्नवन्यकरिणां यूथैः फ्य: पीयते' इत्यत्र तद्धितप्रत्ययस्याधिक्यम्। षष्ठीसमासाश्रयेणैव तदर्थावगतेः। यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिः न तत्र समासात्मतीतिरिति न तस्याधिक्यम्। यथा- 'अथ भूतानिवार्त्रप्नशरेभ्यस्तत्र तत्रसुः ।' इति। अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति। तथा- 'कि पुनरीदृशे दुर्जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य।' इत्यत्र क्रियाकरणयोः । यथा वा उपमायाम्- 'अहि णवमणहरविरइयवलयविहूसा विहाइ नववहुया।

Page 195

१७० काव्यमाला।

अत्रोपमेयस्य नीलरल्ादेरनिर्देशे भ्रमरगणपदमतिरिच्यते इत्यघिक- पदत्वम्। तथा-

न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव॥' अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्याधिक- पदत्वम्। यथा वा रूपके-'शोकानलधूमसंभारसंभूताम्भोदभरितमिव वर्षति नयनवारिधाराविसरं शरीरम्।' अत्र शोकस्य केनचित्साधर्म्येणानलत्वेन रूपणमस्तु धूमस्य पुनर्न किंचिद्रूप्यमस्तीति अधिकपदत्वम्। तथा-'निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिवि- ष्टपस्य।' अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिवशब्दस्याधिक्यम्। यथा वा समासोक्तौ- 'स्पृशति तिग्मरुचौ ककुमः करैर्दयितयेव विजम्भिततापया । अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥' अत्र तिग्मरुचे: ककुभां च यथासदृशविशेषणवशेन व्यक्तिविशेष- परिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्नियोऽपि प्रति नायि· कात्वेन भविष्यतीति दयितयेत्यधिकम्।

१. 'रगस्य' स्यात्. २. 'नायकतया नायिकाल्वेन च व्यक्तिः' का० प्र०.

Page 196

३ अध्याय:] काव्यानुशासनम्। १७१

यथा वान्योक्तौ- 'आहूतेषु विहंगमेषु मश्चको नायान्पुरो वार्यते मैध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम्। खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजखिनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्वान्तरम् ।' अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवे- त्यधिकम्। तथा- 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्थ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥'

क्कचिद्गुणः । यथा- 'यद्वञ्चनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किंतु कर्तु वृथा प्रणयमस्य न पारयन्ति ।।' अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम्। उक्तपदत्वं द्विःप्रयोगः । 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति हि समयः ।

१. 'मध्येवारिधि वावस' का० प्र०. २. 'रुचम्' का० प्र०. ३. 'सं' का० प्र०.

Page 197

१७२ काव्यमाला।

यथा- 'अधिकरतलतल्पं कल्पितश्वापलीला- परिमलननिमीळत्पाण्डिमा गण्डपाली। सुतनु कथय कस्य व्यञ्जयन्त्यअ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ।।' अत्र लीलेति। कचिद्रुणः । यथा लाटानुप्रासे- 'जयति क्षुण्णतिमिरस्तिमिरान्घैकवल्लमः । वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥' कचिच्छब्दशक्तिमूले ध्वनौ। यथा- 'ताला जायन्ति गुणा जाला ते सहिअएाहें घिप्पन्ति। रविकिरणाणुगहियाइं हुन्ति कमलाइं कमलाइं ।।' ववहितस्यानुवाद्यत्वे यथा- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।।'

नोपात्तम्। कलावतः कान्तिमतीति च मतुप्प्रत्ययेन द्वयोरपि प्रशस्यता प्रती- यते ॥ क्चिहुण इति । लाटानुप्रासव्यञ्ञयविहितानुवाद्यत्वेषु। तिमिरान्धाः घूकवर्जाः पक्षिणः ॥ तालेति तदा। जालेति यदा। 'डेडाहेडालाइया काले' १. 'स्वाप' का० प्र०. २. 'तदा जायन्ते गुणाः यदा ते सहृदयैर्गृद्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥' (इति च्छाया.) १. 'डेर्डा' स्यातू.

Page 198

३ अध्याय:] काव्यानुशासनम्। १७३

अस्थानस्थपदत्वं यथा- 'प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने। स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि।' अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम्। तथा- 'दयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी।' अत्र त्वंशब्दादनन्तरश्चकारो युक्तः । तथा- 'शक्तिर्निरस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री- र्वक्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खङ्गयष्टिः। आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्।।' अत्रेत्थं प्रोच्येवेति न्याय्यम्। तथा- 'लमं रागावृतान्कया सततमिह ययैवासियथ्यारिकण्ठे मातज्ञानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती।

इति यत्त्द्यां डेर्डालादेशः ॥ त्वंशब्दादिति । समुचचयद्योतको हि चकारः। समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनःशब्दोऽपि व्यतिरिच्यमानार्थानन्तर्येणैव प्रयोगमर्ति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थ-

/ १. 'सुदृढ' का० प्र०. १ 'डेर्डा' स्यातू.

Page 199

१७४ काव्यमाला।

तत्सक्तोऽयं न किंचिद्णयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥' अत्र 'इति श्रीनियोगाद्' इति वाच्यम्। तथा- 'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम्।' इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोडस्थान- स्थपदत्वं दोषः । तथा- 'कष्टा वेधव्यथा कष्टो नित्यश्च वहनक्रमः । श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ।।'

पदत्वं प्रयोजयति। यथा-'उद्ता जयिनि कामिनी मुखे तेन साहसमनुष्ठितं पुनः ।' अत्र हि पुनःशब्दस्तेनेत्यनन्तरं प्रयोज्यः ॥ श्रीनियोगादितीति। तथा चोक्तम्-'उक्तिस्वरूपावच्छेदफलो यत्रेतिरिष्यते। न तत्र तस्मात्प्राकिं- चिदुक्तेरन्यत्पदं वदेत् ।। उपाधिभावात्खां शक्ति स पूर्वत्रादधाति हि। न च स्वरूपावच्छेद: पदस्यान्यस्य संमतः ॥ इतिनैवेतरेषामप्यव्ययानां गतिः समा। ज्ञेयेत्थमेवमादीनां तज्जातीयार्थयोगिनाम् ।। यतस्ते चादय इव श्रूयन्ते यदन- न्तरम्। तदर्थमेवावच्छिन्दुरासमञ्जसमन्यथा ।' इति। एवं चाक्मत्वं पृथग्दो- षत्वेन न वाच्यम्। अस्थानस्थपद एवान्तर्भावात्॥ तदेति। तच्छब्दस्य हि प्रकान्तोऽर्थो विषय इष्टो न प्रक्रंस्यमान: स्मृतिपरामर्शरूपलात्। स्मृतेश्वानु- भूत एवार्थो विषयो नानुभविष्यमाणः । अत्र च प्रतीतिमात्रमनुभावोऽभिमतो नेन्द्रियविषयभावः। न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत। न वात्र प्रमा- दजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम्। तत्रापि प्रतीतगमनहेतोः शाब्दस्य तदीयतार्थाभिधानव्यवधाने सत्यन्यस्यास्थानस्थपदत्वदोषस्याविर्भावा- पत्तेः। तेन पादयोर्विपर्ययः शब्दस्य च, हेतोर्गज्ञाविशेषणमुखेनार्थत्वमित्युभय-

Page 200

३ अध्याय:] काव्यानुशासनम् । १७५

अत्र श्रवणानामिति पदं पूर्वार्धे निवेशयितुमुचितम् । 'नार्धे किंचिदसमासं वाक्यम्' इति हि कविसमयः । यथा वोत्प्रेक्षायाम्- 'पेत्तनिअम्बप्फंसा व्हाणुत्तिन्नाए सामलङ्गीए। चिहुरा रुयन्ति जलबिन्दुएहिं बन्घस्स व भएण ।' अत्र रोदनं बन्घनभयं चेत्युभयमुत्प्रेक्षितम्। तत्र प्राधान्याद्रोदनाभि- धायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम्। प्राधान्ये द्युत्प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति॥ यदाह- 'एकत्रोत्प्ेक्षितत्वेन यत्रार्था बहवो मताः । तत्रेवादि: प्रयोक्तव्यः प्रधानादेव नान्यथा ।।' इति। पतत्प्रकर्षत्वं यथा- 'कः कः कुत्र न घुर्धुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः।

विपर्ययोऽत्र श्रेयान् ॥ निवेशयितुमुचितमिति। तेनार्थान्तरैकवाचकत्वं पृथग्दोषत्वेन न वाच्यमित्यर्थः ॥ तदितरदिति। तस्मात्प्रधानादितरप्रधा-

चिः। वातायन स्थितवधूवदनेन्दुबिम्वसंदर्शनादनिशमुछसतीव यस्याम् ।।' अत्र

१. 'माप्तप्रायं' काव्यालंकारसूत्रे. २. 'प्राप्तनितम्वस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्याः। चिकुरा रुदन्ति जन्विन्दुभिर्वन्धस्येव भयेन ॥' [इति संस्कृतम् ।] ३. 'जलबिन्दुएहिं चिहुरा रुअन्ति' गाथासप्तशत्याम् ६।५५. ४. 'प्रधाने' स्यान्.

Page 201

१७६ काव्यमाला। के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्रेहविलासबद्धवसतिः पञ्चाननो विद्येते॥' अत्र क्रमात्क्ममनुप्रासो घनयितव्यः । पतन्निबन्धः कचिद्रुणः । यथा- 'प्रागप्राप्तनिशुम्भशांभवधनुर्द्वेघाविधाविर्भव- त्क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम्। उज्ज्वाल: परशुर्भवत्वशिथिलत्वत्कण्ठपीठातिथि- र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ।।' अत्र क्रोधाभावे पतत्पकर्षत्वं नास्ति। समाप्तपुनरात्तत्वं यथा- 'ज्योत्सां लिम्पति चन्दनेन स पुमान्सिश्चत्यसौ मालती- मालां गण्डजलैर्मधूनि कुरुते खादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणे- स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ।' अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्रायं पुन- रुपात्तं न चमत्करोति। क्वचिन्न गुणो न दोषः। यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणमपि तु वाक्यार्थान्तरमेव क्रियते। यथा-'प्रागप्राप्त-' इति ! रोलोंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम्। यथा- 'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । : यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभान्विताः ।' १. 'वर्तते' का० प्र०.

Page 202

३ अध्याय:] काव्यानुशासनम्। १७७

हतं लक्षणच्युतं यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यमप्राप्तगुरुभा- वान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतवृत्तत्वम्। यथा- 'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम्।' अत्र वैतालीय युम्मपादे लध्वक्षराणां षण्णां नैरन्तर्य निषिद्धमिति लक्षणच्युतम्। 'एतासां राजति सुमनसां दाम कण्ठावलम्बि।' 'कुरङ्गाक्षीणां गण्डतलफलके खेदविसरः।' इत्यनयोश्च्तुर्थे षष्ठे च यतिर्न कृतेति यतिभ्रष्टम्। एतदपवादस्तु सच्छन्दोऽनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते। 'अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्खादु स्यात्पियादशनच्छदात् ।।' अत्र 'यदिहान्यत्खादु' इत्यश्रव्यम्। 'अन्यास्ता गुणरत्नरोहणभुवैः कन्या मृदन्यैव सा संभारा: खैलु तेऽन्य एव विधिना यैरेष सृष्टो युवा। श्रीमत्कान्तियुँषां द्विषां करतलास्त्रीणां नितम्बस्थला- दृष्टे यत्र पतन्ति मूढमनसामस्राणि वस्त्राणि च।।' अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते। 'हा नृप हा बुध हा कविबन्धो विप्रसहस्त्रसमाश्रय देव। मुग्घ विदग्घसभान्तररत्न क्वासि गतः क वयं च तैथैते॥।' १. चतुर्थे एकारोत्तरं षष्ठे गण्डपदे 'गं' इत्युत्तरं यतिर्भवति. २. 'वो धन्या' का० प्र०. ३. 'किल' प्रकाशे. ४. 'जुषां' पकाशे. ५. 'वैते' का० प्र०. का० ग्रा० १२

Page 203

१७८ काव्यमाला।

हास्यरसव्यञ्जकमेतहृत्तं करुणरसाननुगुणम्। वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम्। यथा- 'कायं खाइइ च्छुहिओ कूरं धैत्तेइ निज्झरं रुद्धो। सुणयं गिन्हइ कण्ठे हक्केइ अ निअत्तयं थेरो ॥।' अत्र 'काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृहाति श्वानं भष- यति' इति बक्तुमुचितम्। एकवाक्यतायां क्विष्टमिति क्िष्टाद्वेदः। कचिदुक्तिप्रयुक्तौ गुणः । यथा- 'बाले नाथ विमुश्च मानिनि रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि। तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुदते, न त्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ।।' वाक्यमध्ये वाक्यान्तरप्रवेशो गर्मितत्वम्। यथा- 'परापकारनिरतैर्दुजेनैः सह संगतिः। वदामि भवतस्तत्त्वं न विधेया कदाचन ।I' अत्र तृतीयः पादो वाक्यान्तरं मध्ये प्रविष्टम्। कचिद्रुणः ।

१. 'काकं खादति क्षिपति कूरं भषयति निष्ठुरं रुष्टः। शुनकं गृह्णाति कण्ठे आकारयति च नप्तारं स्थविरः ॥' २. 'वुल्लेह निट्ठरं रुट्ठौं' वाम्भटकाव्यानुशासने. ३. 'अ निअत्तियं थेरो' वा० का०. FR OTU

Page 204

३ अध्याय:] काव्यानुशासनम् । १७९

यथा- ? 'दिब्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा सा च वदन्त एव हि वयं रोमाश्चिताः पश्यत। विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चारतं गतम् ।।'

प्रविष्टं गुणाय। अत्र वीराद्भुतरसवशाद् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये

प्रस्तुतभङ्गो भग्नप्रऋ्रमत्वम्। यथा- 'एवमुक्तो मब्रिमुर्यैः पार्थिवः प्रत्यभाषत ।' अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भभ्नप्रक्रमत्वम्। (यथा) 'प्रत्यवोचत' इति युक्तम्। यथा वा- 'ते हिमालयमामड्य पुनः प्रेष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥' अत्र 'अनेन विसृष्टाः' इति वाच्यम्। 'धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः । वीर्य च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥' अत्र स्यादे: प्रत्ययस्य। 'तीव्रेण विद्वेषिभुवागसा च' इति तु युक्तम्।

प्रधाने उल्लसने उत्प्रेक्षितेSप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव ।। प्रस्तुतभङ्ग इति। स हि यथा। प्रक्रममेकरसप्रसृतां प्रतिपत्तप्रतीति रुन्धान इव परिस्ख- लनखेददायी रसभज्जाय पर्यवस्यतीत्यर्थः ॥ प्रत्यवोचतेति युक्तमिति। एवंविधस्य प्रक्रममेदाख्यस्य शब्दौचित्यस्य विध्यनुवादभात्रप्रकारत्वोपगमात्। १. 'प्रेक्ष्य' का० प्र०.

Page 205

१८० काव्यमाला। 'बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखाश्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम्। 'ससुः पयः पपुरनेनिजुरम्बराणि जक्षुर्विसंघृतविकासिविसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्व- दोषप्रवादममृजन्वननिन्नगानाम् ।।' अत्र त्यादेः। 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम्। 'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥।' यथा 'ताला जायन्ति' इति। यथा वा-'ऐमे जाणातिस्सा देहकवोलोवमाइ- स्ससिविव्वम्। परमच्छविआरेउण चन्दो चन्दोच्चिअवेराठ II' अत्र ह्युत्कर्षा- पकर्षविवक्षया परिकल्पितमेदोऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणैकेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम्। केचन पर्यायप्रक्रमभेदनिवृत्तये चन्दणमिति पाठः परिणमयितव्यः । न चैवमुक्तपदत्वदो- षप्रसङ्गः। यथान्ये मन्यन्ते-'नैक पदं द्विः प्रयोज्यं प्रायेण' इति। उद्देश्य- प्रतिनिर्देश्यव्यतिरिक्तो हि विषय उक्तपदत्स्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्र- मस्येति भिन्नविषयत्वात् ॥I सस्त्ुरिति। अत्र स्तादौ यः कालविशेषः प्रक्रान्तः, स तेजनादावुपेक्षित इति कालस्याप्यत्र क्रमभेद इति केचिदाहुः।वयं तुब्रूमः- कालविशेषस्य विवक्षामात्रभावितयानवच्छिन्नत्वाद्दोषोऽयमनुद्भावनीय एव । यदाहुः 'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविव- क्षायां लिड भवत्येव'। 'अजयज्जर्तो (?) हूणाम्' इति। सतोऽपि वाविवक्षा भवति। १. मतस्य संस्कृतं न विज्ञायते. २. 'स्नानादौ' स्यात. ३. 'नेजना' स्यात्

Page 206

३ अध्याय:] काव्यानुशासनम्। १८१

अत्र कृतः । 'सुखमीहितुं च' इति तु युक्तम्। 'उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थ: पूषा गगनपरिमाणं कलयति। इति प्रायो भावा: स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेष: पुनरयमसीमा विजयते ॥' अत्र पर्यायस्य। 'मिता भू: पत्यापां स च निधिरपां योजनशतम्' इति तु युक्तम् । 'विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । लेघुता नियता निरायतेरगरीयान्न पदं नृपश्रियः ॥' अत्रोपसर्गस्य पर्यायस्य च। 'तदभिभवः कुरुते निरायतिम्, लघुतां भजते निरायतिः, लघुताभाङ़ पदं नृपश्रियः' इति तु युक्तम्। 'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन !।'

यथा-'अनुदरा कन्या' इति॥ सुखमीहितुं चेति तु युक्तमिति। एवं च तुल्यकक्ष्यत्वेन विकल्पार्थवृत्तर्वाश्ब्दस्य न विषयोऽयमित्यपि परिहृतं भवति। यथा च- 'रुदता कुत एव सा पुनर्भवता नानुमृतारवाप्यते। परलोकजुषां खकर्मभिर्गतयो भिन्नपथा हि देहिनाम् II' अत्र हि 'कुत एव तु सा नु रोद- नात' इति युक्तः पाठः । इह तु न दोष :- 'पृथ्ति स्थिरीभव भुजङ्गम धारयैनां ्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिककुज्जराः कुरुत तत्रितये दिधीषां देव: करोति हरकार्मुकमातनज्यम्।।' अत्र हि पृथिव्यादिविषयः प्रैषलक्षणोऽर्थः कविना बक्तुं प्रकान्तः तस्य प्रत्ययभेदेऽपि निर्व्यूढत्वात्प्रैषार्थानां पादानामुद्देश्यप्रतिनिर्देश्य-

१. 'नियता लघुता' किराते, का० प्रकाशे च. २. 'वान्न' का० प्र०. १. 'वेति' का० प्रकाशे. २. 'उप्यवाप्यते' स्यानू. ३. 'स्थिरा भव' इति तु सर्यते.

Page 207

१८२ काव्यमाला।

अत्रैकवचनेन भगवतीं संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनि- र्देशः स वचनस्य। 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम्। किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ।।' अत्र कारकस्य। 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम्। यथा च- 'चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥' अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः । कर्त्रन्तरं च यथोपक्रान्तं तथा न निर्व्यूढम्। 'तमपि वल्लभसङ्गः' इति युक्तम् । 'तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- द्वयमिदमयथार्थ दृश्यते मद्विधेषु। विसृजति हिमगर्भैर्व ह्विमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ।।' अत्र क्रमस्य। यथा वा- 'अकलिततपस्ते जोवीर्यप्रथिम्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिधावति।

भावेनोपादानं न कृतमिति नैतादृशः प्रत्ययक्रमभेददोषस्य विषयोऽवगन्तव्यः । 'मिताभू: पत्यापाम्-' इत्यपि। एवं च छिदिक्रियाकर्तुरुदन्वतो वक्ष्यमाणनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहृतो भवति। यथा च- 'वरें कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्ममणिः श्रेयाज्जालंकारच्यु- तोपलः ॥' एवम्-'खमिव जलं जलमिव खं हंस इव शत्री शशीव खलु हंसः। कमुदाक।रा स्ारा स्ताराकाराणि कुमुदानि ॥' इत्यादौ द्रष्टव्यम् ॥ अकलितेति।

Page 208

३ अध्याय:] काव्यानुशासनम्। १८३

अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ।I' यथा वा व्यतिरेकालंकारे- 'तरञ्चय दशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छद त्रजतु विद्रुमः श्वेतताम्। क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका- मुदश्चय मनाड्मुखं भवतु च द्विचन्द्रं नभः ।।' अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानामतिशयो

अत्र 'पादोपसंग्रहणाय' इति पूर्व वाच्यम् । एवमन्येऽपि भेदा अभ्यूह्याः। ननु कर्तृप्रक्रमभेदोऽपीह कस्मान्नोपदार्शैतः । असंभवादिति बूमः । यत्तु क्वचि- त्कविभिः प्रयुज्यमानो दृश्यते स कर्तृव्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं प्रकरमभेदभ्रमो भवताम् (?) । युष्मदर्थस्य यथा-'यथाहं सप्तमो वैकु- ण्ठावतारः' इति। अत्र हि यथा त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारु- त्वाय ततोऽन्यत्रारोप्यैवमुक्तम्। दाशरथिं रामं प्रति हि कस्यचित्समक्षमिय- मुक्तिः। अस्मदर्थस्य यथा 'नाभिवादप्रसादयो रेणुकापुत्रः। गरीयान् हि गुरुध- नुर्भज्गापराधः' इति। अत्रापि हि नाभिवादप्रसाद्योऽस्मीति वक्तव्ये पूर्ववच्चारु- त्वायैवमुक्तम्। एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः । यथा वा-'अयं जनः प्रष्टमनास्तपोधने न चेद्रहस्यं प्रतिगोपुमईसि।' इति। अत्रापि 'अहं प्रष्टमनाः' इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम्। द्विविधो ह्यन्यशब्दार्थः। तत्र चेतनेऽन्यत्रारोपो निदर्शित एव । अचेतने तु यथा 'चापाचार्य-' इति। अत्र हि 'त्वं रेणुकाकण्ठबाधां कृतवान्' इति। 'त्वया बद्धस्पर्धोऽहं लज्े' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारो- प्यैवमुक्तम्॥ यथा च-'हे लक्केश्वर दीयतां जनकजा रामः खयं याचते

१. 'भो' प्रसिद्धः पाठ:

Page 209

१८४ काव्यमाला।

वक्तुं प्रकरान्तः 'भवतु च द्विचन्द्रं नभः' इति सादृश्यमात्राभिधानेन निर्व्यूढ इति भग्नप्रक्मत्वम्। 'भवतु तद्वि चन्द्रं नभः' इति तु युक्तम्। तथा- 'तद्वकरं यदि मुद्रिता शशिकथा, तच्चेत्स्मतं का सुधा, सा चेत्कान्तिरतब्रमेव कनकं, ताश्चेद्विरो धिञ्मधु। सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेघसः ॥' अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वत्तुमिष्टं तस्यार्थान्तरन्या- सेन वस्तु सर्गपौनरुत्तयस्य सादृश्यपर्यवसानाङ्भमप्रक्रमत्वम्। वक्राद्यौचित्ये न दोषः । 'व्रजतः क तात वजसीति परिचयगतार्थमस्फुटं घैर्यम्। अभिनदुदितं शिशुना जननीनिर्भर्त्सनवृद्धमन्युना ।।' अत्र शिशुना व्रजतिरेव प्रयुक्तो न वजतिस्तत्रैव परिचयगतार्थास्फुट- त्वधैर्यभेदित्वसंभवात्। केवलं शक्तिवैकल्याद्रेफोऽनेन नोच्चारितः । पदार्थानां परस्परमसंबन्धोSनन्वितत्वम्। यथा- 'दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ।' अत्र यद्याकारः संनिवेशलक्षणो विवक्षितस्तदा परस्परपरिहारस्थि- तिमतोरर्थयोः सिद्ध एवेत्यनुपादेयः ।

कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्गतम् । नैवं चेत्खर दूषणत्रिशि- रसां कण्ठासृजा पड्किलः पत्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः ।' अत्राप्यहं न सहिष्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने पत्रिणि समारोप्यैवमुक्तम्।

Page 210

३ अध्याय: ] काव्यानुशासनम् । १८५

अक्षरविशेषलक्षणस्तु शब्दनियतत्वादर्थयोर्न संभवत्येवेत्यन- न्वितत्वम्। यथा वा- 'निर्घातोगैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान्। नूनं तेषामभ्यसूयापरोऽसौ वीर्योदग्रे राजशब्दे मृगाणाम् ।।' अत्र सिंहानां न तावद्राजशब्दः संभवति, तेषां तद्वाच्यत्वाभावा- त्तत्संबन्धाभावाच्च। तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत्, न। तस्य प्रकरान्तत्वाभावात्। मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्र। किं च मृगेषु राजत्वं भवति सिंहानाम्, न तु शब्द इति वीर्योदग्रत्वं तद्वि- शेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः। तेन सिंहानां मृगाणां वीर्योदग्रत्वस्य च न राजशब्देनान्वयः संगच्छते। तेन 'राजभावे' इति 'मृगेषु' इति वा पाठ: श्रेयान्। यथा वा- 'येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि- र्लींलापानभुवश्च नन्दनतरुच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ।।' 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वज्गानां यदर्थानामन्यो- न्यम्' इति नियमेन बहुभिर्यदथैनैक एवार्थो निर्दिश्यते इति यैरित्यत्र विशेषस्याप्रतीतिः । 'क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः ।

इति ॥ अर्थयोरिति। कृपणकृपाणशब्दवाच्ययोः ॥ न त्वङ्गानामिति। १. 'विशेष्यस्या' का० प्र०.

Page 211

१८६ काव्यमाला।

यथा वा उपमायाम्- 'वापीव विमलं व्योम हंसीव विमलः शशी। शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥' यथा- 'सरांसीवामलं व्योम काशा इव सितः शशी। शशीव धवला हंसा हंसीव विशदा दिशः ।।' अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसा- दृश्यादुपमानेन च संबध्यते इत्यनन्वितम् । यदि च लिङ्गवचसोर्विपरिणामादुपमानेनापि संबन्धः क्रियेत, तदा- भ्यासलक्षणो वाक्यभेदः स्यात्।

प्रधानानुयायित्वेन समत्वादित्यर्थः । युज्यत इति। यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पैच्यते तथात्र योऽपि यच्छब्दार्थः समशीर्गकया धात्वित्वा- (?) अज्जीभूतेन तैः क्षपाचारिभित्यनेन प्रतिखमाजस्यानेव संबन्धमनुभवतीत्यर्थः। यथा वा-'तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम्। आकाशगङ्गा- रतिरप्सरोभिर्व्ृतो मरुत्वाननुयातलीलः ॥l' अत्रानुयातिक्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः। न चासौ तत्संबन्धयोः साक्षादुक्तः सजल- लीला संबन्धमुखेन राजसंबन्धस्योक्तत्वात्। अतोऽत्र साक्षात्तत्संबन्धो वा वाच्यः। तदर्थमन्यत्क्रियान्तरं वा येन कर्तृकर्मत्वभावस्तयोर्घटनामियात्। न चोभयो- रेकमप्युक्तमित्यनुचितत्वम् । तेनै च रस(?)मयमत्र पाठ :- 'आकाशगङ्गारति- रप्सरोभिर्वृतोऽनुयातो मघवा विलासैः ।' इति ॥ अभ्यासलक्षण इति। पौन:र्पुण्यरूपः ॥ वाक्यभेद इति । द्वे वाक्ये स्यातामित्यर्थः ॥ असदृश १. 'पठ्यते' स्यात्. २. 'सामअ्स्येनैव' स्यात्. ३. 'तेंन वरमयमत्र पाठः' स्यात. ४. 'पुन्य' स्यातू,

Page 212

३ अध्याय:] काव्यानुशासनम्। १८७

एवं चाव्यवधानेन प्रकृतोऽर्थो न प्रतीयेत। विपरिणामश्च शास्त्रीयो न्याय: काव्येषु न युक्तः । यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूप- मैदं नापद्यते न तत्रैतदूषणम्। यथा- 'वाक्प्रपश्चैकसारेण निर्विशेषाल्पवृत्तिना। स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥' 'चन्द्रमिव सुन्दरं मुखं पश्यति।' 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ।।' इति। यत्रापि गम्यमानं साधारणधर्माभिधायि पदम्, तत्रापि न दोषः । यथा 'चन्द्रमिव मुखम्, कमलमिव पाणिः, बिम्बमिवाघरः' इत्यादि। कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्य- सावपि अनन्वितस्यैव विषयः । यथा- 'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।।' अत्र चेतना प्रसादमाप्नोति, न पुनरापेति कालभेदः। 'प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता। विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ।।'

इति। टेगन्तत्वादेकवचनम्। क्विबेन्तत्वाद्वहुवचनं च। मधुरतया भृतो घृतः। सां च बिभ्रति। दधते इति। 'दंध धारणे' इत्यस्य दधातेश्वात्मनेपदैकवच- १. 'कञन्त' पाणिनीयमते. २. 'किन्नन्त' पाणिनीयानाम्.

Page 213

१८८ काव्यमाला। अत्र लता विभ्राजते, न तु विभ्राजसे इति पुरुषमेदः । 'गञ्ञेव प्रवहतु ते सदैव कीर्तिः' इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इति अप्रवृत्तप्रेवृत्तात्मनो विधेः । एवंविघस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः । अथाष्टावुभयदोषानाह- अप्रयुक्ता श्ीलासमर्थानुचितार्थश्रुतिकटुक्विष्टाविमृष्टविधे-

उभयोरिति। पदस्य वाक्यस्य चेत्यर्थः । दोषा इति वर्तते। कविभिरनादृतत्वाद्प्रयुक्तलम्। तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्र-

आद्यं यथा- 'कष्ट कथं रोदिति थूत्कृतेयम्'। देश्यं चैतत्प्रायमेव। यदाह- 'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य। तन्मडहादि कथंचिन्न रूढिरिति संस्कृते रचयेत् ।।'

बनहुवचनाभ्याम्॥ लोकमात्रप्रसिद्धत्वादिति। एतेन प्राम्यमयुक्तत्वान्न भिद्यत इत्याह ।I शास्त्रमात्रप्रसिद्धत्वादिति। शास्राणि योगशात्त्रधा- तुपाठाभिधानकोशादीनि। तेनाप्रतीतासमर्थनिहतार्थलानि न पृथग्लक्षणीयानि अप्रयुक्तत्व एवान्तर्भावादिति ॥ एतत्प्रायमेवेति। लोकमात्रप्रसिद्धिप्रायम् । केवलं नियतदेशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम्। मडहादीति। मड- हलडहाहारणकान्दाट्टएल्लहुक्ककसुमालवाणबालादिकम्। यथाक्रमं सूक्ष्मश्रेष्ठव० स्त्रोत्पलदरिद्राञ्जलिचौरशकादिवाचकम्। रूढिरितीति। रूढिभ्रान्त्या कश्चिद्वि्द्व- १. 'विभ्राजसे इति संबोध्यमाननिष्ठस्य परभागस्यासंबोध्यमानविषयतया व्यत्या- सात् पुरुषभेदः' इत्येवं काच्यप्रकाशे पाठः. २. 'प्रवर्दनात्मनो' का० प्र०. १. 'अप्रयुक्त' स्यात्. २. 'विध्य' स्यात्.

Page 214

३ अध्याय:] काव्यानुशासनम्। १८९

कचिद्गुणो यथा- 'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसञ्ञपयसि सतनातुं समीहामहे। तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ।' अत्रामुग्धस्यापि मुग्घस्येव ब्राह्मणस्य वक्तृत्वे स्स्तीति गुणः । वाक्यस्य यथा- 'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा।।' कचिदुणाः। 'फुलुकरं कलमकूरसमं वहन्ति जे सिन्दुवारविडवा मह वल्लहा ते। जे गालिदस्स महिसीदहिणो सरिच्छा ते किं वि मुद्धवियइल्लपसूणपुआ ।I' अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेSपि विदूषकोक्त्तौ गुणत्वम्।

देशप्रसिद्धा 'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमांनः प्रयुजीत। व्युत्पत्तियेस्य नास्तीति वचनाच्च सव्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्त भवति-यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानटः, वृक्षे

१. 'पुष्पोत्करं कलमोदननिभं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते। ये गालितस्य महिषीदभ्नः सदशा- स्ते किं च मुग्धविच किलप्रसूनपुञ्जः ॥' [इति संस्कृतम् ।]

Page 215

१९० काव्यमाला।

शास्त्रमात्रप्रसिद्धिर्यथा- 'यथायं दारुणाचारः सर्वदैव विभाव्यते। तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥' अत्र दैवतशब्दः पुंलिङ्ने लिज्जानुशासने प्रसिद्धः । यथा वा- 'सम्यग् ज्ञानमहाज्योतिर्गलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्म बन्धकम् ॥।' अत्राशयशब्दो वासनापरपर्यायो योगशास्त्र एव प्रसिद्धः। यथा वा- 'तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतः । सुरस्रोतखिनीमेष हन्ति संप्रति सादरम् ।।' अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम्। यथा वा- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः।' अत्र गोशब्दस्याक्षिवाचकत्वमभिधानकोश एव प्रसिद्धम्। क्वचिद्रुणो यथा- 'सर्वकार्यशरीरेषु मुक्त्वाङ्कस्कन्धपञ्चकम्। सौगतानामिवात्मान्यो नास्ति म्रो महीभृताम् ।' अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विध्यसंवादादौ गुणत्वम्।

यशुभक्तः, चन्द्रामृतयोः समुद्रनवनीतम्, जले मेघक्षीरमित्यादि। अङ्गेति। कर्मणामारम्भोपायः, द्रव्यपुरुषसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिक्वेति प्चाङ्गानि॥ स्कन्धेति । 'विज्ञानं वेदना संज्ञा संस्कारो रूप-

Page 216

३ अध्याय:] काव्यानुशासनम्। १९१

श्लेषे तु गुणो न दोषः । यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुराऽस्त्रीकृतो यश्चोद्दृत्तभुजंगहारवलयोगङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाघवः ।।'

अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्चाप्रयुक्तः ।

वाक्यस्य यथा- 'तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमि: प्रियप्राप्तौ यत्नः सफलितः सखे ॥' अत्राधिमात्रोपायादयः शब्दा योगशास्त्रे प्रसिद्धाः ।

मेव च। भिक्षूणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः ॥' येन ध्वस्तेति। माधवपक्षे-येन ध्वंस्तं बालक्ीडायाम्। अनः शकटम्। अभवेन असंसारेण। वलिं जितवान्। यः कायः स पूर्वममृतहरणे स्त्रीत्वं नीतः। उददत्तं भुजंग कालियाख्यं पीडितवान्। रवे शब्दव्रह्मणि लयः समाप्तिर्यस्य। अगं गोवर्धन- गिरिं गां च योऽधारयत्। शशिनं मभ्राति यो राहुस्तस्य शिरोहरः । अन्धकार्नां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः । उमाधवपक्षे-बलिजि- त्कायो विष्णुदेहत्तिपुरवघेऽस्त्रीकृतः शरतां नीतः । भुजंगाः सर्पाः। शशियुकत शिरो यस्य तथाभूतो हरः। यदि वा शशियुक्तं शिर आहुर्नाम च हर इति। अन्धकाख्यो दैत्यः ॥ तस्याधिमात्रोपायस्येति। "तैथा हि नव योगिनो भवन्ति। मृदूपायो मध्योपायोऽधिमात्रोपाय इति। तत्र मृदूपायस्निविध :- मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति। एवमितरावपि। तत्राधिमात्रोपायानां

१. 'ते खलु नवयोगिनो मृदुमध्याधिमात्रोपाया भवन्ति' इति पातज्ञलभाष्ये पाठ :.

Page 217

१९२ काव्यमाला।

क्कचिद्गुणो यथा- 'अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः । अकितीव यजादीनां दुर्लभं संप्रसारणम् ।।' अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः ।

तत्र पदस्य यथा- 'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिन: कोऽन्यः सहेतारालितां भ्रुवम् ॥' 'ली लातामर साहतो Sन्यवनितानिःशङ्कदष्टाघरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुख्जलिताननेन ददती वायुं स्थिता तस्य सा आ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता ।I' 'मृदुपवनविभिन्नो मत्प्रियाया विनाशा- घनरुचिरकलापो निःसपलोरडस्य जातः । रति विलुलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बहीं॥' एषु साधनवायुविनाशशब्दा ब्रीडादिव्यञ्जकाः ।

"तीव्रेसंवेगानामासनः समाघिलाभः समाधिफलं च भवति॥" "संपिपादयि- कया चित्तवृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः "से दीर्घकालनैरन्तर्येण सत्का- १. 'डध' का० प्र०. - १. 'इदं सूत्रम् । शेषं भाष्यम्' इति वाचस्पत्यम्. २. इदं पातअलसूत्रं समा: घिपादे चतुर्दशम्। शेषं भाष्यम.

Page 218

३ अध्याय: ] काव्यानुशासनम्। १९३

वाक्यस्य यथा- 'भूपतेरुपसर्पन्ती कम्पना वामलोचना। तत्तत्प्रहणनोत्साहवती मोहनमादघौ ॥' कम्पना सेना, वामं शत्रुं प्रति विरुद्धं वल्गु च। अत्रोपसर्पणप्रह- णनमोहनशब्दा व्रीडादायित्वादश्लीलाः । 'तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते। इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ।।' अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । 'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम्॥' पावकेन पवित्रेणामिना च । अत्र पितुर्गृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम्। कचिद्गुणो यथा- सुरतगोश्ठ्यां 'द्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्र- स्थितिः । 'करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते। उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥' 'तर्जन्यनामिके छ्विष्टे मध्या पृष्ठस्थिता तयोः ।'

रासेवितो दृढभूमिः" । दीर्घकालेनासेवितो निश्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपादितः सत्कारवान्। दृढभूमिर्व्युत्थानसंस्कारेण द्रागित्येवान- १. 'मध्यमा पृष्ठतस्तयोः' इत्युदाहरणचन्द्रिक्रायां पाठ :. का० शा० १३

Page 219

१९४ काव्यमाला। करिहस्तः ............ । संबाधः संघट्टो वराङ्गं च । ध्वजः पता- कावच्चिहं पुंव्यञ्जनं च। साधनं सैन्यं स्त्रीव्यञ्जनं च। शमकथासु यथा- 'उत्तानोच्छूनमण्डूकपाटितोदरसंनिमे। क्वेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥' 'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्र सस्था भवन्तु कुरुसजसुताः समृत्याः ॥' अत्र भाव्यमङ्गलसूचनम् । रक्ताः सानुरागाः । प्रसाधिता अर्जिता भूर्यैः । रक्तेन मण्डिता भूश्र यैः। विग्रहो वैरं शरीरं च। स्वस्थाः कुशलिन: सवर्गस्थाश्च ॥। अवाचकत्वात्कल्पितार्थत्वात्संदिग्घत्वाच्च विवक्षितमर्थ वक्तुमशक्ति- रसमर्थत्वम्। पदस्य यथा- 'हा धिक्सा किल तामसी शशिमुखी दृष्टा मया यत्र सा, तद्विच्छेदरुजान्घकारितमिदं दग्धं दिनं कल्पितम्। किं कुर्मः, कुशले सदैव विधुरो धाता, न चेत्तत्कर्थ नाहग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ॥' भिभूतविषय इत्यर्थ: ॥ अवाचकत्वादित्यनेनावाचकत्वप्रसिद्धिद्ठुतत्वयोः, कल्पि- तार्थत्वादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादित्यनेन संदिग्धत्वस्यासमर्थत्वदोषेऽन्त- १. 'करिहस्त इति प्रोक्त: कामशास्त्रविशारदैः' इति परिभाषितेन' इत्युदाहरणच- न्द्िकायां पाठदर्शनादत्र कियान्पाठस्ुटित: प्रतीयते.

Page 220

३ अध्याय:] काव्यानुशासनम्। १९५

अत्र दिनमिति प्रकाशमयमित्यर्थेSवाचकम्। यथा वा- 'जङ्डाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्ग: । भर्तुर्नृत्तानुकारे जयति निजतनुखच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ।।' अत्र दधदित्यर्थे विदघदित्यवाचकम्। यथा वा- 'चापाचार्य स्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ।।' अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा च- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः। रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदघेरयमभूतपूर्वः पुरः ॥' अत्र रवो मण्डूकादिषु प्रसिद्धो, न तूक्तविशेषणे सिंहनादे इत्य- वाचकः । तथा च-

र्भावमाह-मण्ड्रकादिषु प्रसिद्ध इति। मण्डूकादीनां शब्दो रवोऽभिधी- यत इत्यर्थः । यथा च-'यमिन्द्रशब्दार्थनिसूदनं हरेहिरण्यपूर्व कशिपुं प्रचक्षते।' अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवाचकम्। यतोऽत्र हिरण्य शब्द: कशिपुशब्दश्वाभिधेयप्रधानौ वा स्याताम्, सरूपमात्रप्रधानौ वा। तत्र न तावदभिधेयप्रधानावनभ्युपगमात्। अर्थस्यासमुच्चयात्। नापि स्रूपप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानानुकारः प्रख्यानक्रियाकर्मभावेना- भिहितो भवति। द्विविधो हि शब्दानुकारः। शाब्दत्वार्थत्वमेदात्। तत्रेतिना

Page 221

१९६ काव्यमाला। 'मञ्जीरादिषु रणितप्रायं, पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रभृति॥ दृष्ट्रा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत। अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥' क्वचिद्गुणो यथा- 'आशुल म्बितवतीष्टकराग्रैर्नी विमर्धमुकुली कृतदृक्षा। रक्तवैणिकहताघरतनू(?)मण्डलक्कणितचारु चुकूजे ॥।' व्यवच्छेदे शाब्द: प्रसिद्ध एव । अर्थादवच्छेदावगतावार्थः । यथा-'महदपि परदुःखं शीतलं सम्यगाहुः ।' इह चायमर्थोडनुकार इति नानावच्छेदात्। केवलं यत्तस्याभिधानमनुकार्य तन्नानुकृतम्। यच्चानुकृतं तत्तस्याभिधानमेव न भवति। लोके हि हिरण्यकशिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्यावाचकम्॥ यथा वा-'क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपप- दास्तदेव।' इत्यत्र कल्पवृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम्। यतो विशेषणमिदमभिधानस्वरूपविषयमेवावकल्पते नाभिधेयविषयम्, सोपपदत्व- निरुपपदत्वयोरभिधानधर्मत्वात्। न चेतने विशेषितेन किंचित्प्रयोजनम्। अभिधानमात्रादनभिमतार्थसिद्धेः। अभिधेयविषयत्वे च तत्सिद्धिर्भवेत्, किंतु न तत्र यथोक्तविशेषणसंबन्धः संगच्छते। यत्र च संङ्ञच्छते न ततोऽभिमतार्थ- सिद्धिरिति अवाचकत्वादसमर्थमेवेति। तस्माद्वरमयमत्र पाठः श्रेष्ठः-'क्षुण्णं यदन्तःकरणेन नाम तदेव कल्मद्रुमकाः फलन्ति।' अस्मिंश्व पाठे क्षुण्णस्यार्थस्य कल्पद्रुमाणां वावगतौ गुणान्तरलाभः । एवम् 'दशपूर्वरथं यमाख्यया दशक- णठारिगुरुं प्रचक्षते।' इत्यादावपि द्रष्टव्यम् । म्जीरादीति। आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम्। प्रायग्रहणं सदशार्थत्ृत्तिकणिसिज्ञिगुजीत्याद्यर्थम्। प्रभृ- तिग्रहणं वश्येत्याद्यर्थम्। पुनरादिग्रहणं सिंह मृगाद्यर्थम्। प्रायग्रहणमपि ध्वनत्याद्य- र्थम्। एवंप्रायानिति। ये शास्त्रसामान्येन पैच्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः। तद्यथा-हेषतिरश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, वातिर्वायौ, १. 'शिञ्जि' स्यात्. २. 'तिरश्चां रुतवाशिते' इत्यभिधानात् 'वाशितादर्थम्' स्यात. ३. 'शास्त्रे' स्यात्. ४. 'पठ्यन्ते' स्यात्.

Page 222

३ अध्याय:] काव्यानुशासनम्। १९७

अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्- 'पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ। अथ नागयूथमलिनानि जगत्परितस्तमांसि परिंतस्तरिरे ।।' अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निःप्रतिपक्षतया खेच्छाविहा- रोपपत्तेः न तद्वन्मलिनानां तमसाम्, पतङ्गस्य मृगपतिरूपणावैयर्थ्यप्रस- झात्। न च तत्साम्यं सुन्दरहारिसदृशसुभगसंनिभादिशब्दा इव मलि- नादिशब्दाः शक्कुवन्ति वक्तुम् इत्यवाचकत्वम्। यथा वा उत्प्रेक्षायाम्- 'उदयौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम्। नारीलोचनचातुर्यशङ्कासंकुचितं यथा।।' अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहते इत्यवाचकः । यथा वार्थान्तरन्यासे- 'किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः । प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥' अत्र महीयस इत्येकवचनं न सामान्यमर्थरूपं व्यक्तमभिधातुं क्षमते इत्यवाचकत्वम्। बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभि- व्यक्तिक्षमत्वात्। यथा- 'यावदर्थपदां वाचमेवमाधाय माधवः । विरराम महीयांस: प्रकृत्या मितभाषिणः ॥' १. 'निष्प्रति' स्यात्.

Page 223

१९८ काव्यमाला। सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः । यथा- 'छायामपास्य महतीमपि वर्तमाना- मागामिनीं जगृहिरे जनतास्तरूणाम्। सर्वोडपि नोपनतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ।' वाक्यस्य यथा- 'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ।' अत्र विभजतिर्विभागार्थः सेवने, आलभतिर्विनाशार्थो लामे, आव- हतिः करोत्यर्थो धारणे, स्मरतिर्विस्मरणार्थः स्मरणेऽवाचकः । कल्पितार्थत्वादसमर्थम्। पदस्य यथा- 'किमुच्यतेऽस्य भूपाल मौलिमालामहामणेः । सुदुर्लभवचोबाणैस्तेजो यस्य विभाव्यते ॥।' अत्र वच:शब्देन गीःशब्दो लैक्षित इति कल्पितार्थत्वम्। अत्र न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते। जल- ध्यादौ तूत्तरपदमेव, वडवानलादौ तु पूर्वपदमेव। यथाहैं- 'निरूढा लक्षणा: काश्चित्सामर्थ्यादभिधानवत्। क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥' इति। १. 'दसमर्थ त्वम्' स्यात्. २. 'लक्ष्ते' का० प्र०. ३. 'अत्र खलु न' प्रकाशे, ४. कुमारिलभट्टः.

Page 224

३ अध्याय:] काव्यानुशासनम् । १९९

वाक्यस्य यथा- 'सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षिशितैः शरैः प्रवगसैन्यमुलूकजिता जितम् ॥' पङ्किरिति दशसंख्या लक्ष्यते। विहंगमोSत्र चक्रस्तन्नामभृतो रथाः। दश रथा यस्य, तत्तनयौ रामलक्ष्मणौ उलूकजिता इन्द्रजिता कौशिक- शब्देनेन्द्रोलूकयोरभिघानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः। संदिग्धत्वादसमर्थत्वम्। पदस्य यथा- 'आलिङ्गितस्तत्र भवान्संपराये जयश्रिया। आशी:परम्परां वन्दां कर्णे कृत्वा कृपां कुरु।।' अत्र वन्दां किं हठहृतमहेलायां किं नमस्यामिति संदेहः। यथा वा- 'कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह।।' अत्र 'भूतपूर्वे चरट' इति चरट्प्रत्यये किं पूर्व साधुः, उत साधुषु चरतीति संदेहः । क्वचिद्गुणो यथा- 'पश्याम्यनङ्गजातङ्कलद्वितां तामनिन्दिताम्। कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया।।' अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्दः उत मृत्युवाचीति संदेहकारीदं वचनं युवानमाकुलीकर्तुं प्रयुक्तमिति। वाक्यस्य यथा- 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भाखद्भतिरेष विलोक्यते॥' १. 'महिलायां' प्रकाशे.

Page 225

२०० काव्यमाला। अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः, उत मदिरादर्था इति संदेहः। क्वचिद्गुणो यथा- 'पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संग्रति सममावयोः सदनम् ॥' अत्र वाच्यमहिम्रा नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायि- त्वाद्गुणत्वम्। अनुचितार्थत्वं पदस्य यथा- 'तपस्विमिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या। प्रयान्ति तामाशु गतिं यशख्विनो रणाश्वमेधे पशुतामुपागताः ।' अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्। यथा वा उपमायाम्- 'क्चिदग्रे प्रसरता क्वचिदापत्य निन्नता। शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ।।' तथा- 'वहिस्फुलिङ्ग इव भानुरयं चकासिति।' 'अयं पद्मासनासीनश्चकवाको विराजते। युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ।।' लााते 'पातालमिव नाभिस्ते स्तनौ क्षतिघरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ: ॥I'

न त्वन्यत्र। न हि भवति पुरुषो वातीति। एवमन्यदपि बोद्धव्यम्। पृथुकार्त- खरेति। पृथुकानां बालानां ये आर्ताः खरास्तेषां पात्रम्, पृथूनि कार्तस्रस्य स्वर्णस्य भाजनानि च यत्र । भुवि उषितो भूषितः, अलंकृतश्व। विलसत्कैर्गर्त- १. 'क्षिति' प्रकाशोक्तं स्यात.

Page 226

३ अध्याय:] काव्यानुशासनम्। २०१

एषु श्वाद्युपमानानां जाति प्रमाणगता हीनताघिकता चेत्यनुचितार्थत्वम्। निन्दायां प्रोत्साहने च न दोषः। यथा- 'चतुरसखीजनवच नैरतिवाहितवासरां विनोदेन।

इति। निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ।।'

'विशन्त वष्णयः शीघ्रं रुद्रा इव महौजसः ।' इति च। यथा वा उत्प्रेक्षायाम्- 'दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ।।' अत्राचेतनस्य तमसस्तात्विकेन रूपेण दिवाकरात्रास एव न संभ- चति, कुत एव तत्प्रयोजितमद्रिपरित्राणम्। संभावितेन तु रूपेण प्रति- भासमानस्य न काचिदनुपपत्तिरवतरतीत्यनुचितैव तत्समर्थना। वाक्यस्य यथा- 'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो।

तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥।' अत्र कुविन्दादिशब्दास्तन्तुवायादिमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थम्। परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य यथा-

आलिङ्गितः स तन्वज्रया कार्तार्थ्य लभते कदा ।'

Page 227

२०२ काव्यमाला।

अत्र कार्तार्थ्यमिति। वाक्यस्य यथा- 'अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।' अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि। वक्रादयौचित्ये गुणो यथा- 'देधीड़ेवीङ्सम: कश्चिद्रुणवृद्योरभाजनम्। कित्प्रत्ययनिमः कश्चिद्यत्र संनिहिते न ते ।।' अत्र वैयाकरणो वक्ता। 'यदा त्वामहमद्राक्षं पदविद्याविशारदः। उपाध्यायं तदास्मार्ष समस्प्राक्षं च संमदम् ।।' अत्र वैयाकरण: प्रतिपाद्यः । 'मातङ्ञाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्का महिषा मदं त्रजत किं शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारे: शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्र्जितं गर्जितम् ॥।' अत्र सिंहे वाच्ये परुषाः शब्दाः । 'अन्र प्रोतबृहत्कपालनलकक्रूरक्कणत्कङ्कण-

पीतच्छर्दितरक्तकर्दमघनप्राघारघोरोल्लल- व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं घावति ।।'

संधिभिः पांसुभिर्गहनम्, विलसन्तीभिः करेणुमिः व्याप्ं च॥ प्राघारः सेकः ॥ १. 'दम्' प्रकाशे. २. 'पुरः' प्रकाशे. ३. 'प्राग्भारघोरोल्स-' प्रकाशे.

Page 228

३ अध्याय:] काव्यानुशासनम्। २०३

अत्र बीभत्से व्यज्नये। 'रक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्रपद घटासंघद्टदष्टच्छद- स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥' अत्र शिरोधूननेन कुपितस्य वचसि प्रक्रान्ते।। क्कचिन्नीरसे न गुणो न दोषः। यथा-

न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः । घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विन्नवृत्ते- र्दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥।' व्यवहितार्थप्रत्ययजनकत्वं क्विष्टत्वम्। पदस्य यथा- 'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्ाजुषां जललवास्तरलं पतन्ति।' दक्षात्मजास्तारास्तासां दयितश्रन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदिकानामिति। झगित्यर्थप्रतीतौ गुणः । यथा- 'काश्चीगुणस्थानमनिन्दितायाः'।

उल्लङ्गयेन् सास्थ्यं नयन्। दक्षात्मजेति। अत्रैकपदप्रत्याय्योऽप्यर्थश्चन्द्रकान्त- लक्षणो, दक्षात्मजेत्याद्यनेकपदप्रत्यायितार्थपर्यालोचनाव्यवहिततया क्विश्यमानो वाचकस्य क्विश्यतामावहति ॥ काञ्चीगुणस्थानमिति। अत्र रूढलादवान्तर- १. 'उल्लाघय' स्यात्. २. 'क्रिष्टता' स्यात.

Page 229

२०४ काव्यमाला।

वाक्यस्य यथा- 'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं करङ्गशावाक्ष्याः । 1 रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।।' अन्न धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति इति संबन्धे क्िष्टत्वम् । अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृ- ष्टविधेयांशत्वम्। पदस्य यथा- वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।।' अत्रालक्षितत्वं नानुवाद्यम्, अपि तु विधेयमिति 'अलक्षिता जनिः' इति वाच्यम्। यथा- 'स्नस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम्। न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।।' अत्र 'मौवीं द्वितीयामिव' इति द्वितीयात्वमात्रमुत्पेक्ष्यम्। यथा च- 'तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि। सवं च संहितममोघसायकं व्याजहार हरसूनुसंनिभः ॥।' अत्र सायकानुवादेनामोघत्वं विधेयम्। 'अमोघमाशुगम्' इति तु युक्त: पाठः । यथा च- 'मध्येव्योम त्रिशक्कोः शतमुखविमुखः सर्गसर्ग चकार।'

Page 230

३ अध्याय:] काव्यानुशासनम्। २0१

इत्यत्र हि व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् । तेन 'मध्ये व्योम्नः' इति युक्तम्। यथा वा- 'वाच्या वैचित्यरचनाचारुवाचस्पतेरपि। दुर्वचं वचनं तेन बहु तत्रास्म्यनुक्तवान् ।।' अत्र नोक्तवानिति निषेधो विधेयः । यथा- 'नवजलधरः संनद्ोऽयं न दप्तनिशाचरः' इत्यादौ। न चानुक्तवत्वानुवादेनान्यदत्र किंचिद्विहितम्। यथा- 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्रुराददे सोऽर्थानसक्तः सुखमन्वभूः ॥' अत्रात्रस्त इत्यनुवादेनात्मनो गोपनादि।

पदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैतक्किष्टम्॥ व्योमैव प्राधा- न्येनेति। अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः। स च तस्य निरुप- करणस्य सतः शून्यो व्योमनि स्वर्गसर्गसामर्थ्येनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् ॥ निषेधो विधेय इति। प्रसज्यविष- यत्वादित्यर्थः । यदुक्तम्-'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्य- प्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥'नञ्समासस्त्वनुपपन्नः । तस्य हि पर्यु- दास एव विषयस्तत्रैव विशेषणत्वान्नवस्याद्यान्तेनोत्तरपदेन संबन्धोपपत्तेः । यदाह-'प्रधानत्वं विधेर्यत्र प्रतिषेधे प्रधानता। पर्युदासः स विज्ञेयो यत्रोत्तर- पदेन नञ् ।' न च पर्युदासाश्रयणं युक्तम्, अर्थस्यासंगतिप्रसङ्गात्। उक्तवत्त्व- प्रतिषेधो ह्यत्राभिमतः, नानुक्तवत्त्वविधिः। तस्मादस्य नजो विधेयार्थनिष्ठतया प्राधान्यस्या नूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छब्देन सह सदाचार- निरतस्येव पतितेन वृत्तिर्नेष्यत एवेति स्थितम् । यदाह-'नवर्थस्य विधेयत्वे

१. 'मुक्ततानु' प्रकाशे.

१. 'शून्ये' स्यात्. २. 'ञः स्याद्यन्ते' स्यात्.

Page 231

२०६ काव्यमाला।

वाक्यस्य यथा- 'शय्या शाड्लमासनं शुचिशिला सद्म द्रुमाणामधः शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ।' अत्र शाडलानुवादेन शय्यादीनि विधेयानि। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य। एवं विध्यनुवादौ कर्तव्या- "वेक्तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च। निषेधस्य विपर्यये। समासो नेष्यतेऽ्र्स्य विपर्यासप्रसङ्गतः ॥' इति ॥ शय्या- दीनि विधेयानीति। यदाहु :- 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। न ह्यलब्वास्पदं किंचित्कुत्रचित्प्रतितिष्ठति ॥ विधेयोद्देश्यभावोऽयं रूप्यरूपकलाभावः। न तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ।।' ने तु 'शाङ्गलं शय्या शुचिशिला आस- नम्' इत्येवं विपर्ययेणात्र संबन्धः करिष्यते, तस्य पुरुषाधीनत्वात्। तथा च न यथोक्तदोषावकाशो भविष्यतीति। सत्यम्। स सर्वविषयोऽयं संबन्धस्य पुरुषा- धीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यो यत्र स्वसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाह-एँवं चेति। विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिबन्धनोरऽर्थप्रतीतिक्रम इति पदार्थपौर्वापर्यनि- यमोऽवगन्तव्य इत्यर्थः । ततश्च यदनूद्यते तस्यादावुपादानमनुपपन्नम्। यस्तु विधीयते तस्य पश्चात्। 'विलिखने विलेपो भवति' इत्यादौ च तथैव दृष्टम्। १. 'शाङ्कलाद्यनु' स्यात्. २. 'त्वक तारबी नि' इति पाठो भवेत् .. ३. छन्दोनु- रोधेन विधेयस्य गेहस्य प्राक्प्रयोगः प्रतिभाति. ४. कुम्भा इत्यर्थ :. १. 'कभावतः । न हि तत्र' स्यात्. २. 'ननु' स्यात्. ३. 'न' स्यात्. ४. 'एवं वीति' स्यात्.

Page 232

३ अध्याय: ] काव्यानुशासनम्। २०७

मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते॥' यथा वा- 'संरम्भ: करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेश: किल।

न्योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी ।।' अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्य- मात्रप्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि। यत्र यत्तदोरेकतर- निर्देशेनोपक्रमस्तत्र तत्प्रत्यवमार्शेना तदितरेणोपसंहारो न्याय्यः । तयो-

तथा 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम्-यदत्र मङ्गल- द्योतनार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम्। अन्यथा दैजनुवादेन वृद्धिसंज्ञा- विधानात्पश्वादभिधानं कार्य स्यात्, यथा 'अदेङ्गुणः' इत्येवमादौ ॥ 'प्रमाणम- विसंवादि ज्ञानम्' इत्यत्रापि 'यत्प्रमाणमिति लोके प्रसिद्धम्, तदविसंवादि ज्ञान- मेवेति विज्ञेयम्' इति तात्पर्यार्थः। काव्येऽपि एषैव शैली। यथा-'इयं गेहे लक्ष्मीः' इत्यादि ॥ संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनादरः । सर्वस्येति। अस्य कस्यचित्तुच्छ- प्रायस्येति अवहेला। जातेश्च मात्रशब्दविशिष्टत्वेनावलेपः हेलाशब्दाभिधाने- नाल्पताप्रतिपत्तिरित्येतत्साधनतया कविनोपनिबद्धम्। असंरब्धवानित्यत्र लवि- मृष्ठत्वविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम्। पुनरविमृष्टविधेयांशत्व- मेवाह-अत्र योऽसाविति। (एंतदेव द्रढयितुं निदर्शयति-त्वत्कारवी- १. 'एतदेकमाचार्यस्य मङ्गलार्थ मृष्यताम्' इति हि महाभाष्ये पाठ :. २. अयं धनुश्चिह्वान्तर्गतपाठः 'संरम्भ इति' इत्यादि ग्रन्थात्प्राक्तनो भवेत, ३. त्वक् तारवी नि' इति भवेत्.

Page 233

20८ काव्यमाला।

रप्यनुवादविघेयार्थ विषयत्वेनेष्टत्वात्, तयोश्र परस्परापेक्षया संबन्घस्य नित्यत्वात्। अत एवाहु :- 'यत्तदोर्नित्यमभिसंबन्धः' इति। स चायमनयोरुपक्रमो द्विविध :- शब्दश्चार्थश्रेति। तयोरुभयोरुपादाने सति शाब्दो यथा- 'यदुवाच न तन्मिथ्या यद्ददौ न जहार तत्।' तथा च- 'स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां शृणोति यः ।' इति। एकतरस्योपादाने सत्यार्थः, तदितरस्यार्थसामर्थ्येनाक्षेपात्। तत्र तदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः । तत्र प्रसिद्धार्थविषयो यथा-'द्यं गतम्-' इत्यादि। अनुभूतविषयो यथा-'ते लोचने प्रतिदिशं विधुरे क्षिपन्ती इति। प्रक्रान्तविषयो यथा- 'कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम्। अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥' यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्यार्थसंबन्धः संभवति, पूर्व- वाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात्। यथा- 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उद्ता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ।।' प्रागुपात्तस्य यच्छब्दस्य तच्छब्दोपादानं विना साकाङ्कतैव। यथा- त्रैव श्रोके आद्यपादयोर्विपर्यये।

Page 234

३ अध्याय:] काव्यानुशासनम्। २०९

क्कचिदनुपात्तमपि दवयं सामर्थ्याद्गम्यते। यथा- 'ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी।।' अत्र स कोऽप्युत्पत्स्यते यं प्रति यत्नो मे सफलो भविष्यतीत्युभ- योरपि अर्थादाक्षेपः॥ एवं च स्थिते तच्छव्दानुपादानेSत्र साकाद्कत्वम्।

निवसनमिति)॥ ये नाम केचिदिति। नामशब्दोऽक्षमायाम्। यदुक्तम्- 'नाम कुत्साप्रश्नविषादामर्षप्रीतिसंख्यानृतानयसंभावनासु।' ये केचिदिह प्रबन्धे देशकाले वास्माकमवज्ञां कुर्वन्ति, ते किमपि खल्पं किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नेष प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात्। लोकोत्तरं येज्जानन्तीति व्याख्यातं(?)तत्तेषामुपहासाय। कान्प्रति तहीत्याह-उत्पत्स्यते त्विति। सारेतरविभागज उत्पतस्यते कश्विदिति संभाव्यते॥ एवमिति। तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेष्याभिधायिपदोपर- चितशरीरत्वं नाम सामान्यं लक्षणमाचक्षते। इनरथा तेषां समर्थतानुपपत्तेः । स च विशेषणविशेष्यभावो द्विधेव संभवति-समानाधिकरणो व्यधिकरणश्चेति। तत्राद्यः कर्मधारयस्य विषयः। यत्र तु द्वे बहूनि वा पदान्यन्यस्य पदस्यार्थे विशे- षणभावं भजन्ति सा बहुत्रीहे: संरणिः। तत्रैव यदा संखयायाः प्रतिषेधस्य च विशेषणभावो भवेत्तदा द्विगोनञ्समासस्य च गोचरः । द्वितीयः प्रकारः कारकाणा संबन्धस्य च विशेषणत्वाद्वहुविधः स तत्पुरुषस्य पन्था। तत्रापि यदाव्ययार्थस्य विशेषणता स्यात्तदाव्ययीभावस्य परामर्शः। तदेवं समासानां विशेषणविशेष्यो- १. 'तेऽस्ति' इति मालतीमाधव-काव्यप्रकाशयोः.

१. 'ये जानन्ति' इति स्यात्. का० शा० १४

Page 235

२१० काव्यमाला।

न चासा वित्यस्य तच्छब्दार्थत्वं युक्तम्। यथा- 'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥' अत्र हि न तच्छब्दार्थे प्रतीतिः। प्रतीतौ वा- 'यस्य प्रकोपशिखिना परिदीपितोऽभू-

योऽसौ जगच्चयलयस्थितिसर्गहेतुः पायात्स वः शशिकलाकलितावतंसः ।।' अत्र स इति पौनरुक्त्यं स्यात्। भयांशसंस्पर्शत्वेऽपि यदा विशेषणांशः साश्रयोत्कर्षाधानमुखेन वाक्यार्थचम- त्कारकारणतया प्राधान्येन विवक्षितौ विधेयधुरामधिरोहेदितरस्त्वनूद्यमानकल्प- तया न्यग्भावमिव भजते तदासौ न वृत्तेविषयो भवितुमहति। तस्यां हि स प्रधानेतरभावस्तयोरस्तमियात्। तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोर्विशेषः कश्चित्। नन्वत्र विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विरवाक्षेतत्वा प्राधान्यं तत्कर्थं तयोर्भावाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येतान्यत्र च विकल्प्येत। नैष दोषः। विरो- धस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत् । न चेह वस्तुत्वमुभयोः संभवति। एकस्यैव वास्तवत्वादन्यस्य वैवक्षिकत्वेन विपर्ययात्। न च वस्तुवस्तुनोर्विरोधः। न हि सत्यहस्तिन: कल्पना केसरिणश्च कश्विदन्योन्यं विरोधमवगच्छति। फल- भेदस्त्वनयोर्निर्विवाद एव। एकस्य हि सकलजगद्गम्यं शाब्दिकैकविषयपदार्थ- संबन्धमात्रम्। अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति। अत्र क्रमेणोदाहरणानि। तत्र कर्मधारये यथा- 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विग- लितकबरीभारमंस वहन्त्ाः। भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः य्यामालिङ्कय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥' अत्र विगलितकब- १. 'योऽसौ कुत्र चम-' इत्युदाहृतक्ोक इति. २. 'ब्दार्थप्रतीतिः' प्रकाशे.

Page 236

३ अध्याय:] काव्यानुशासनम् । २११

रीभारत्वमलसलसद्वाहुत्वं चांसवपुषोर्विशेषणे रतेरुद्दीपनविभावतापादनेन वा- क्यार्थस्य काममपि कमनीयतामावहत इति प्राधान्येन विवक्षितत्वान्न ताभ्यां सह समासे कविना न्यग्भावं गमिते। यथा चात्रैव तत्कालकान्तिद्विगुणित- सुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शौरेरुचिता चरणलक्षणमतिशयमादधद्विघे- यतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमीलितम्। 'पदमेक- मनेकं वा यद्विधेयार्थतां गतम्। न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥' तत्रैकमुदाहृतमेव । अनेकं यथा-'अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्- नुघत्तमध्यः । आरोप्य चक्र्भ्रममुष्णतेजास्त्वष्टेव यत्ररोल्लिखितो विभाति ।' यथा च-'विद्वान्दारसखः परं परिणतो नीवारमुष्टिंपचः सत्यज्ञाननिधिरदध- त्प्रहरणं होमार्जनीहेतुतः। रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्र- वान्नीतः कीर्त्यवशेषतां तदिह ते धिक धिक् सहस्रं भुजाम् ॥I' यथा वा- 'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च। पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥' यथा च-'हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शुद्रमुनौ कृपाणम्। भो रामपाणिरसनिर्भरग- भखिन्नदेवीप्रवासनपटोः करुणा कुतस्ते ।I' एवम्-'अङ्गराजसेनापते राज- वल्लभ द्रोणापहासिन्, रक्ष भीमाद्दुःशासनम्' इत्यादौ द्रष्टव्यम्। विशेषणवि- शेष्यभावतुल्यफलो विध्यनुवादोऽपीति। तत्रापि तद्वदेव समासाभावोऽवग- न्तव्यः। यथा-'चापाचार्यस्त्रिपुरविजयी' इति। प्रत्युदाहरणं त्वेतेषामेव कृत- समासवै ...... कल्पनीयम् । बहुव्रीहौ यथा-'येन स्थलीकृतो विन्ध्यो येना- चान्तः पयोनिधिः । वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥' अत्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेषणतयोपात्तं तत्कर्तुर्मुनेरतिदुष्करका- रितया कमपि तपःप्रभावप्रकर्षमेव द्योतयति। विन्ध्यस्य प्रतिदिवसमुच्छरयाच्छा- दितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेरगाधत्वादपारत्वाच्च वातापेश्व मायापरिग्रहग्रस्तसमस्तलोकत्वात्ततस्तत्प्राधान्येन विवक्षितमिति न तैःसह समासे निर्जीवीकृतम् । प्रत्युदाहरणं यथा-'यः स्थलीकृतविन्ध्योऽद्रिराचान्तापारवा- रिथिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥' केचित्पुनरनयोरुदा- हरणप्रत्युदाहरणयोरर्थस्योत्कर्षापकर्षप्रतीतिभेदो न कश्चिदुपलभ्यत इति मन्यन्ते। ते इदं(एवं) प्रष्टव्या :- 'किं भोः, सर्वेष्वेव समासेषु इयं तदप्रतीतिरुत बहुत्री-

Page 237

२१२ काव्यमाला। हावेवायं शापः' इति। तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तर्हि सहृदयाः साक्षिणः पृच्छयन्ताम्। वयं तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुव्रीहा- वेवेत्युच्यते, तदयुक्तम्। न हि प्रतीतिमेदहेतौ प्रतीतसामर्थ्ये सत्यकस्मात्तद- संभवो भवितुं न्याय्यः । एवं हि क्षित्यादिसामडयामविकलायामङ्करादिकार्यो- त्पादाभावाभ्युपगमोऽपि प्रसज्यते। सर्वत्रैवायं प्रतीतिमेदोऽभ्युपगन्तव्यो नैव वा कुत्रचिन्न पुनरिदमर्धजरतीयं लभ्यते। इह प्रतीतिवैचित्र्यं स्पष्टमवधारयतु मतिमान्। यत्र विध्यनुवादभावाभिधित्सयैव पदार्थानामुपनिबन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिबन्धनौ समासस्य भावाभावावुपगतावेव। यथा- 'सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृतः पतिर्द्वाभ्यामुर्वश्यावनु- वाद्य यः II' अत्र हि त्रैलोक्यालंकारभूतौ चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामहपितामहभावो विहितस्तत्तस्य पुरूरवसस्तौ लोकोत्तरभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशे- षणविशेष्यभावाभिहितेनैव नयेनात्राप्यनूद्यमानगतोऽतिशयो विधीयमानाका- रसंक्रमणक्रमेण तत्संबन्धिनः पर्यवस्यति। तयोर्हि स्रूपमात्रं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्षलक्षणमेकमेवेति प्राधान्येन विवक्षितलान्न तौ ताभ्यां सह समासे म्लानिमानीता। इह च-'जनको जनको यस्या याता तस्योचिता वधू: । आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम् ।I' इति। द्विगौ यथा- 'उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे। दैवीनां मानुषीणां च प्रतिकर्ता त्वमा- पदाम् ।I' इत्यत्र संख्यायाः संख्येयेष्वङ्वेषु निरवशेषताप्रतिपत्तिफलमतिशयमा- द्धानायाः प्राधान्येन विवक्षा। तत एव हि तेषु द्विविधापतप्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः। यथा च- 'निग्रहात्खसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्धु।।' प्रत्युदाहरणमेतदेवोदाहरणम्, कृतसमासवैशसं(षम्यं) द्रष्टव्यम्। नञ्समास- विषयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्च । तत्पुरुषे कर्तुर्यथा-'देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिता: क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः। तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भाखन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष सैद्ररसपरिपोषपर्यवसायिनं सम- १. 'शस्त्रं' प्रकाशे. २. 'मे' प्रकाशे.

Page 238

३ अध्याय:] काव्यानुशासनम् । २१३

पयति। तस्व निरतिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैधृण्यनिन्नतया च प्रसिद्धेः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं कर्त्रादेः कार- कस्यानेकस्य समशीर्षकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्सरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चाभिधास्यत इति न तदु- दाहरणमिहोपदर्शितम्। नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभा- वतुल्यफलतया तत्समानवरत्तान्तत्वोपपादनात्। प्रत्युदाहरणं यथा-'यस्यावमत्य गुरुदत्तमिमं कुठारं डिम्भोऽपि राम इति नामपदस्य हन्ता' इति। कर्मणो यथा- 'कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितैर्वनभसि गता यस्य प्रीत्या मृतापि तथा खया। नवजलधरश्यामाः पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' अत्र वनमिति यद्गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषणं तत्तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमहेलादुर्लभं दुष्क- रकारित्वं नामोत्कर्षमर्पयति। वनवासदुःखस्यातिकष्टत्वात्। स चोत्कर्षो रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृ- तम्। यथा च-'गुर्वर्थमर्थी श्रुतपारदृश्वा रधोः सकाशादनवाप्य कामम्।' इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थक्रियामुखेन यद्विशेषणं तत्तस्य श्रलाध्यतातिशयाधान- द्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितलान्नार्थिना सह समासे सताममतामवमतां गमितम् । संवर्धितानां सुतनिर्विशेषमिति। प्रत्यु- दाहरणं यथा-'प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ।' इति। 'तमभ्य- नन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरे: ।' इति। 'यथाकामा- रचितार्थिनाम्' इति। 'यथाकालप्रबोधिनाम्' इति च। करणस्य यथा- 'आलोकमार्ग सहसा' इति। अत्र करणेति यत्केशहस्तकर्मकस्य संभाविता ... ... स्पारोधानस्य करणभावेन विशेषणं तत्तस्याः कस्याश्िद्रभसौतसुक्यप्रह- षंप्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयोरुपसंपदमसाधारणीमभिव्यनक्ि। यद- वलोकनाधानव्यवधानाधायिनीं तावतीमपि कालकलां विन्नायमानां मन्यमानया सततस्ाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्ध इत्यनेन समासेऽस्तमुपनीतम् । यथा च-'कर्तुमक्षमया मानं प्राणेशः प्रत्य- भेदि यत्। सोऽयं सखि खहस्तेन समाकृष्टस्त्वयानलः ।।' इति। प्रत्युदाहरणं यथा-'धात्रा खहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः।' इति । संप्रदानस्य यथा-'पौलस्त्यः खयमेव याचत इति श्रुला मनो मोदते देयो

Page 239

२१४ काव्यमाला।

नैष हरप्रसादपरशुसेनाधिकं ताम्यति। तद्वाच्यः स दशाननो मम गिरा दत्वा द्विजे- भ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोर्निजिंत्य किं दीयताम्॥' अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृकस्य महीदानस्य संप्रदानत्वेन यद्विशेषणं तन्मह्याः पात्र- सात्कर णेनोत्कर्षमादधद्भार्गव शौर्याति रेकाभिव्यञ्ञनेन दशाननस्य क्रोधोद्दीपनपर्य- वसायि भवतीति प्राधान्येन विव क्षितत्वान्न दत्तेत्यनेन सह समासे कविना विच्छायी- कृतम् । प्रत्युदाहरणमेतदेव पूर्ववद्रष्टव्यम् । अपादानस्य यथा-'ताताजन्म वपुर्विलङ्गितवियत्कौर्य कृतान्ताधिकं शक्तिः कृत्स्नसुरासुरोष्मशमनी नीता तथोच्चेः पदम्। सर्व वत्स भवातिशायि निधनं क्षुद्रात्रु यत्तापसात्तिनाहं त्रपया शुचा च विवशः कष्टां दशामागतः II' अत्र तातादिति क्षुद्रान्नु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य [पितामह]पितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्षापकर्ष- द्वारेण तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापकर्ष चादधाने भ्रातुर्द- शाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्राधान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते। प्रत्युदाहरणं यथा-अत्रैव 'कौर्य कृता- न्ताधिकम्' इति । यथा च 'आसमुद्रक्षितीशानाम्' इति। अधिकरणस्य यथा-'शशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्। वार्धके मुनिवृत्तीनां योगे- नान्ते तनुत्यजाम् II' अत्र शैशव इत्यादीनि यान्यभ्यस्तविद्यात्वादीनामधिकर- णभावेन विशेषणानि तानि तेषामितरान्वयवैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्यं नयविनयादिसंपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तः सह समासे समशीर्षिकां नीतानि। प्रत्युदाहरणं यथा-'रेणुरक्तविलिप्ताङ्गो विकृतो व्रणभूषितः । कदा दुःप्रत्यभिज्ञातो भवेयं रणभूषितः ॥' संबन्धस्य यथा-'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।।' इति। यत्समागमप्रार्थनायाः शोचनीयतां गतौ हेतुत्वेनोपात्तायाः संबन्धिद्वारेण विशे- षणं तत्तस्यास्तत्र यत्सामर्थ्य तत्सुतरामुपवृंहयति। तस्य सकलामङ्गलनिलयतया निन्दिताचारनिरततया च दर्शनस्पर्शनसंभाषणादीनामपि प्रतिषिद्धत्वात्। अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे प्रत्यरीकृतम्। यथा च 'स्कन्दस्य मातुः पयसां रसज्ञः' इति। 'कः क्षमेत तवानुजम्' इति। प्रत्यु- दाहरणं तु 'किं लोभेन विलङ्गितः-' इति दर्शितमेव। यथा च-'जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ।'

Page 240

३ अध्याय:] काव्यानुशासनम्। १५

इति। अत्र हि हरे: संबन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्य- विवक्षा न चक्रमात्रस्य। तच्च तस्य समासेSस्तमुनगतम् । विभक्तन्वयव्यति- रेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणान्तरसिद्धत्वोत्कर्षापकर्षाधायिनां शाब्दे गुणभावेऽप्यार्थ प्राधान्यम्। विशेष्याणां च शाब्दे प्राधान्येऽप्यार्थो गुणभावोऽप्यनूद्यमानत्वात्, समासे च विभक्तिलोपान्नोत्कर्षापकर्षावगतिरिति न तन्निबन्धना रसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधेयांशत्वं दोषतयोक्तमिति। अव्ययीभावे यथा-'सा दयि- तस्य समीपे नावस्थातुं न चलितुमुत्सहते। हीसाध्वसरसविवशा स्टृशति दशां कामपि नवोढा ।' इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषणं तत्तस्य सुकृतशतलभ्यतालक्षणमुत्कर्षमादधद्रतेरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षित- त्वान्नोपदयितमितिवत्समीपार्थेनाव्ययेन सह समासेऽवसादं गमितम्। प्रत्युदा- हरणं तु 'मध्ये व्योम-' इत्यादि प्रदर्शितमेव। अनेनैव न्यायेन कृत्तद्वितवृत्त्यो- रपि प्रतिषेधोऽवगन्तव्यः । तत्राप्युक्तकमेण प्राधान्येन रसभावविवक्षाविशेषात्। तयोरुदाहरणं यथा-'यः सर्वं कषति खलो बिभर्ति यः कुक्षिमेव सत्यतिथौ। यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि ते हंसी (?) ॥' इत्यत्र सर्वादीनां कषणा- दिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाभिधायितया प्राधान्येन विवक्षित- त्वान्न तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षाबद्धक- क्षाणां बोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात्। खलाः खलु दम्भादि- दोषारोपेण तदपि तेषां कषन्त्येव। कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनि- धानत्वाद्विनश्वरत्वाच। विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिष्वकार्यकारि- तयापराधाति रेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा शीर्षच्छेदस्य च शरी- रेषु निग्रहेषु तदतिरिक्तस्यान्यस्यासंभवात्। यथा च-'रामोऽसि्म सर्वं सहे' इति। उचितकारित्वं प्रति किमुच्यते। रामभद्रस्य दशरथप्रसूतिरसाविति च। प्रत्ययोत्पत्तिः पुनर्न्यग्भूतसर्वादिकर्मभावः कषणादिषु कत्रश एवोन्मन्नतया प्रकाशेत न कर्माशस्तत्रैव प्रत्ययोत्पत्तेः। वाक्ये तु यद्यपि शब्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीति: तथापि तत्रान्या विवक्षा कृता साधनानामपि सा प्रती यत एव। न चैकस्मिन्नेव वाक्ये द्वयोः साध्यसाधनयोर्युगपत्प्रधानभावोऽनुपपत्न इति शक्यं वक्तुम्। शब्दार्थसामर्थ्यविवक्षाकृतानां त्रयाणामप्येकस्यैव विवक्षा- कृतस्य प्राधान्यस्य बलीयस्तया तयो: समशीर्षिकाभवात्। तदिदमत्र तात्पर्यम्।

Page 241

२१६ काव्यमाला।

यत्कर्थंचिदपि प्रधानतया विवक्षितं न तन्नियमेनेतरेण सह समासमर्हतीति। इतरच् विशेष्यमन्यद्वास्तु न तत्र नियमः, तेन द्वन्द्वपदानां स्रूपाणां च पदा- नामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येकं क्रियासंबन्धोपगम- लक्षणं प्राधान्यं विवक्ष्यते तदा तेषामपि समास एकशेषश्च नेष्यत एव। यथा-'किमञ्जनेनायतलोचनाया हारेण कि पीनपयोधरायाः। पर्याप्तमेतन्ननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च ।।' अत्र रूपादीनां प्रत्येकं मण्डनक्रि- याभिसंबन्धकृतं प्राधान्यं रत्युद्दीपनपर्यवसायि विवक्षितमिति न तत्तषां समा- सेऽवसादितम्। यथा च-'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्र- निभं वहन्त्या। दिग्धामृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः II' इति। एकशेषे यथा-'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामित- स्ततः । कश्च कश्व स कर्णारिः स च क्रूरो वृकोदरः ॥' इति। प्रत्युदाहरणमेत- देव कृतैकशेषमवगन्तव्यम्।। अत्र पुनरेष प्रधानेतरभावो न विवक्षितः, खरूप- मात्रप्रतिपत्तिफलश्च विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा-'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकान्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुत्त्रीणाम् II' इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संबन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्षयोगः कश्चिद्विवक्षितः । अपि तु तत्संबन्धप्रतीतिमात्रं तच्च व्रतमिव भवदरिवधूस्तनद्वयमित्यतः समासा- दपि तुल्यमेव। यथा चात्रैव रिपुस्त्रीणामिति रिपुसंबन्धमात्रप्रतीतिः स्त्रीणा- मिति। 'विनोत्कर्षापकर्षाभ्यां खदन्तेऽर्ा न जातुचित्। तदर्थमेव कवयोऽलंकारं पर्युपासते॥ तौ विधेयानुवाद्यत्वविवक्षैकनिबन्धनौ। सा समासेऽस्तमायातीत्य- सकृत्प्रतिपादितम् ॥। अत एव हि वैदर्भी रीतिरेकैव शस्यते। यतः समाससंस्प- र्शस्तत्र नवोपपद्यते। संबन्धमात्रमर्थानां समासो ह्यवबोधयेत् ।।' नोत्कर्षापकर्ष वा। यथा-'ऊर्ध्वाक्षितापगलितेन्दुसुधालवत्के जीवत्कपालचयमुक्तमहादहासम्। संत्रस्त मुग्ध गिरिजावलिताङ्सज्गहृष्टं वपुरजयति हारि पिनाकपाणेः ॥' वाक्यात्त. भयमप्यदः। यथा-'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्य- त्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः। धिक् धिक् शकजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥' इति। तथा हि। मम अरय इति बहुवचनेन शत्रुशत्रुमद्भावो ममानुचित इति संब- न्धानौचित्यं क्रोधविभावो व्यज्यते। तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्ि-

Page 242

३ अध्याय:] काव्यानुशासनम्। २१७

अथ- 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥'शिका इत्यादौ इदमदःप्रभृतयः शब्दाः तच्छब्दार्थमभिदधतीत्युच्यते। तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते। अव्यवहितत्वे हि प्रत्युत तदितराकाड्का भवत्येव। यथा-

तेन मत्त्वर्थीयेनाभिव्यक्तम्। त्रापिशब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम्। मत्कर्तृका यदि जीवनक्रिया तावदनुचिता तस्यां च स कर्ता। अपिशब्देन मानुषमात्रकः। अन्रैवेति मदधि- प्ठितो देशोऽधिकरणम्। निःशेषेण हन्यमानतया राक्षसबलं च कर्मेति। तदिद- मसंभाव्यमुपनतमिति पुरुषकारासंपत्तिरध्वन्यते। रावण इति। येन इन्द्रपुरविम- र्दनादि किं किं न कृतमिति। धिग्धिगितिनिपातेन शकजितमित्युपपदसमासेन सह कृता च शकरं जितवानित्याख्यायिकेयमिति व्यज्यते। स्वर्गेत्यादिसमासस्य सपोर्षानुम्मरणं प्रति व्यक्षकत्वम्। ग्रमटिकेति सवार्थिकतद्धितप्रयोगेण स्त्रीप्र- त्ययसहितेनाबहुमानास्पदत्वं व्यज्यते। विलुण्ठनशब्दे विशब्दस्योपसर्गस्य निर्द- यावस्कन्दव्यज्जकत्वं वृथाशब्देन खात्मपोरुषनिन्दा व्यज्यते। भुजैरिति बहुवच- नेन प्रत्युत भारमात्रमेतदिति व्यज्यते इति। किं तु प्रवृत्तिरेतस्य रसाभिव्यत्तय- पेक्षया शान्तशद्गारकरुणानन्तरेण्प प्रशस्यते। 'यतः समासो वृत्तं च वृत्तयः काकवस्तथा। वाचिकाभिनयात्मत्वाद्रसाभिव्यक्तिहेतवः ॥ स चार्धान्तावधि: कार्यो नाधिको गद्यताप्तितः । गद्ये हि वृत्तवैकल्यान््यूना तद्यक्तिहेतुता ।।' यथा- नन्तरोक्ते उदाहरणे-'तस्याभिन्नः पदार्थानां संबन्धश्वेत्परस्परम्। न विच्छे दोऽन्तरा कार्यो रसभङकरो हि सः ॥' यथा-'माद्यदिग्गजगण्डभित्तिकषणर्म- अ्रस्न्नवच्चन्दनः' इति । अत्र हि 'क्षुण्णस्त्रवचन्दनः' इति युक्त: पाठः । विधेयत्वं चैतत्प्राधान्यापलक्षणमव्यभिचारात् । ततथ् प्रधानाविमर्शोऽपि दोषतयाव- गन्तव्यः। यथा-'स्रेहं समादिशति कज्लमादधाति सर्वान्गुणान्दहति पात्रमधः करोति। योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत्तमसो मह-

Page 243

२१८ काव्यमाला।

'यदेतच्चन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोक :- इत्यत्र।

इत्यादौ च। 'सोडयं वटः श्याम इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः ।'

अथ- 'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षतात्क्षताद्युष्मान्।' इत्यादावव्यवहितत्वेऽपि दृश्यते। तर्हि अत्रैव भिन्नविभक्तिकानां सो- डस्त्वित्यलम् । यथा वा- 'किं लोभेन विलङ्गितः स भरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ।।'

त्वम् ।I' अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासा सत्समशीर्षिकया निर्देशो दोष एव। स च तत्र शत्रादिभिरेव वक्तुं न्याय्यो नाख्यातेन । यथा-'बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौजित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रकान्तावभासम् । आधिक्यादन्धकारे रतिमतिश यिनीमावहन्वीक्षणानां बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥' इत्यादौ सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः। यथा- 'सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारान्नश्यति चित्रकेलिसदसो वेषं विषं मन्यते। आस्ते केवलमब्जिनीकिसलय प्रस्तारशय्यातले संकल्पोगनतत्वदा- कृतिरसायत्तेन चित्तेन सा ।' 'यत्रैककर्तृकानेका प्राधान्येतरभात्किया। तत्राख्या- तेन वाच्यादया शत्रायैरपरा पुनः ॥' इत्यन्तरश्लोकः । अयं च समासासमास- विषयः सूक्तरत्नपरीक्षाव्यसनैकरमिकतया पदवाक्यविवेकानवधारणेन प्रदर्शि

Page 244

३ अध्याय:] काव्यानुशासनम् । २१९

अत्रार्यस्येति तातस्येति च वाच्यम्। न त्वनयोः समासे गुणीभावः कार्यः। एवं समासान्तरेष्वप्युदाहार्यम् ॥ विरुद्धबुद्धिकृत्त्वं पदस्य यथा- 'गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ।!' अत्राम्बिकाया गौर्या रमण इति विवक्षितम्, मातृरमण इति वि- रुद्धां धियमुत्पादयति। यथा- 'सहस्राक्षैरङ्वैर्नमसितरि नीलोत्पलमयी- मिवात्मानं मालामुपनयति पत्यौ दिविषदाम्। जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै- र्हसन्वो भद्राणि द्रढयतु मृडानीपरिवृदः ।।' अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीर्ति करोति। 'चिर कालपरिप्राप्तिलोच नानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ।।' अत्र कण्ठग्रहमिति वाच्यम्। वाक्यस्य यथा- 'अनुत्तमानुभावस्य परैरपिहि तौजसः । अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ॥' अत्रापकृष्टश्छादितमकार्येषु मित्रम्। अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणो यथा- १. आर्यानुज इत्येतत्स्थाने 'आर्यस्यानुजः' इति, तातकलत्रमित्यस्य स्थाने 'तातस्य कलत्रम्' इति वाच्यमित्यर्थः.

Page 245

२२० काव्यमाला।

'अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ।।' अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना निर्भयचित्तश्र। माननामिति पूजां निबर्हणं च। अत्र विपरीतार्थकल्प- नाद्विरुद्धत्वेऽपि संध्यर्थविग्रहार्थयो: स्फुटभिन्नार्थेत्वेनाभिधानाद्गुणत्वम्। अथार्थदोषा :- कष्टापुष्टव्याहत ग्राम्याश्लीलसाकाङ्कसंदिग्धाक्रमपुनरुक्तभि-

नियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य। दोषा इति वर्तते। कष्टादगम्यत्वात्कष्टत्वमर्थस्य। यथा- 'सदामध्ये यासाममृतरसनिःस्यन्दसरसं सरखत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एता घेनपरिचयाः के न महतां महाकाव्यव्योम्नि स्फुरितरुचिरा यान्तु रुचयः ॥' यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमा- रविचित्रमध्यमात्मकत्रिमार्गा सरखती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योश्नि सर्गबन्धलक्षणे परिचयगताः कथम- भिनेयकाव्यवत्प्रसादं यान्तु। तथा यासामादित्य प्रभाणां मध्ये त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥

१. 'मियममृतनिष्यन्दसुरसा' प्रकाशे. २. 'घनपरिच्चिताः केन' प्रकाशे. ३. स्फुरितमधुरा' प्रकाशे.

Page 246

३ अध्याय:] काव्यानुशासनम् । २२१

प्रकृतानुपयोगोऽपुष्टार्थत्वम्। यथा- 'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्। फालेन लङ्डयामास हनूमानेष सागरम् ।।' अत्र तमालश्यामलादयोऽनुपादानेSपि प्रकृतमर्थ न बाधन्ते इत्य- पुष्टाः । यथा वानुप्रासे- 'भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि। यदि सल्लीलोल्लापिनि गच्छसि तत्क त्वदीयं मे ॥'

परिसरणमरुणचरणे रणरणकमकारणं कुरुते ।।'

र्थत्वम्।। अत्र वर्णसावर्ण्यमात्रं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्यपुष्टा-

पूर्वापरव्याघातो व्याहतत्वम्। यथा- 'जहि शत्रुकुलं कृत्सं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ।' अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः ॥ अवैदग्ध्यं ग्राम्यत्वम्। यथा- 'सपिति यावदयं निकटे जनः, खपिमि तावदहं, किमपैति ते। इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ।।'

'हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः ॥'

तोऽपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ स्वपितीति। निद्राति॥ १. 'sस्य' प्रकाशे.

Page 247

२२२ काव्यमाला।

एतद्वाक्यं खलेषु प्रयुज्यमानं शेफसि प्रती्ति जनयति। इहान्वय- व्यतिरेकाभ्यामर्थस्यैवाश्रीळत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥ साकाङ्कत्वम्। यथा- 'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः, प्रत्युत द्रुद्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्ष च परस्य, मानयशसोर्विस्त्रंसनं चात्मनः, स्त्रीरतनं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ।।' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्कति न हि परस्येत्यनेन संबन्धो योग्यः। यथा च- 'गृहीतं येनाशीः परिभवभयान्नोचितमपि, प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः खस्ति भवते ॥' यत इति तत इत्यत्रार्थे। अत्र शस्त्रमोचनं हेतुमाकाङ्कति। यत्र त्वाकाङ्का नास्ति तत्र न दोषः । यथा- 'चन्द्रं गता पद्मगुणान्न भुङ्गे, पद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।।' अत्र रात्रौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्र- सिद्धमिति 'न भुङ्के' इति हेतुं नापेक्षते।।

स्वपिमीति। कामये ॥ हेतुमाकाङ्गतीति। तेन निर्हेतुः पृथङ् वाच्यः

१. 'सीः' प्रकाशे.

Page 248

३ अध्याय:] काव्यानुशासनम्। २२३

संशयहेतुत्वं संदिग्धत्वम्। यथा- 'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्।' अत्र प्रकरणाद्यभावे संदेहः, (शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः) ॥ प्रधानस्यार्थस्य पूर्व निर्देश: क्रमस्तदभावोऽक्रमत्वम्। यथा- 'तुरगमथ वा मातङ्गं मे प्रयच्छ मदालसम्-' अत्र मातङ्गस्य प्राड़िर्देशो न्याय्यः । यदा तूदारसत्त्वो गुर्वादिर्ब- लाड्राह्यमाणस्तुरगमित्यादि च वक्ति तदा न दोषः । क्मानुष्ठानाभावो वाऽक्रमत्वम्। यथा- कोराविऊण खउरं गामउडो मज्जिऊण जिमिऊण। नक्खत्तं तिहिवारे जोइसिओ पुच्छिओ चलिओ॥।' क्वचिदतिशयोक्तौ गुणः । यथा- 'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम्। प्रागेव हरिणाक्षीणामुदीणों रागसागरः ।।' तत्र तद्देशिनामनुद्देशिनां च क्र्मभ्रंशोऽक्रमत्वम्। यथा- 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ।' इति। तत्र पदरचना विपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति।। द्विरभिधानं पुनरुक्तम् । यथा-

१. 'कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा भुक्त्वा च। नक्षत्रं तिथिवारौ ज्यौतिषिकं प्रष्टुं चलितः ॥' इति छाया. २. 'जेमिअ अ' प्रकाशे.

Page 249

२२४ काव्यमाला।

'प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । च पुष्पशेषेऽखिललोककान्ता सानन्यकाम्या हुरसीतरा नु ॥' इत्युक्त्वैकार्थमेवाह। 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य। आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥' यथा वा-'अश्वीयसंहृतिभिरुद्धतमुद्धुराभिः।' अश्वीयेति समूहा- र्थायाः प्रकृतेः संहतेश्र पौनरुक्त्यम्। यथा- 'छायामपास्य महतीं परिवर्तमाना- मागामिनीं जगृहिरे जनतास्तरूणाम्।' अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य च। तथा-'पायात्स शीतकिरणाभरणो भवो वः ।' अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य। यत्र तु विशेषणान्न विशेष्यमात्रस्य प्रतीतिरपि तु तद्विशेषस्य तत्र पौनरुत्त््यमेव नास्ति। यथा- 'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा। कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति किं मम धन्विनोऽन्ये ॥' अत्र हरशब्दस्य। यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्त- रेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति। नैवम्। सप्तम्युत्तमनिर्दे- शेनैवास्मदर्थस्य विशेषस्य प्रतिपादितत्वात्। एवं धनुर्ज्यादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुत्त्यम्। यदाह- 'धनुर्ज्याशब्दे धनुःश्रुतिरारूढे: प्रतिपत्यै' इत्यादि। यथा- 'घनुर्ज्याकिणचिहेन दोष्णा विस्फुरितं तव।'

Page 250

३ अध्याय:] काव्यानुशासनम्। २२५

अत्र धनुःशब्दादारूढे: प्रतिपत्तिः । 'दोलाविलासेषु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम्।' 'लीलाचलच्छूवणकुण्डलमापतन्ति।' 'अपूर्वमधुरामोद प्रमोदितदिशस्ततः । आययुर्भृङ्कमुखराः शिरःशेखरशालिनः ॥' एषु कर्णश्रवणशिरःशब्देभ्यः संनिधानस्य प्रतिपत्तिः ।

मुक्ताहारेण हैसता हसतीव स्तनद्वयम् ।।' अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः । 'प्रायशः पुष्पमालेव कन्यका कं न लोभयेत्।' अत्र पुष्पशब्दादु- त्कर्षप्रतीतिः । 'त्यज करिकलभ प्रेमबन्धं करिण्याः ।' अन्र करिश-

निष्पन्दभुजेन यस्य' इति, 'अदादिन्द्राय कुण्डले' इति, 'पाण्ड्योऽयमं- सार्पितलम्बहारः' इति, 'मालाकार इवारामः' इति, 'लब्धेषु वर्त्मसु सुखं कलभा: प्रयान्ति', इति च, तत्र केवला एव ज्यादिशब्दाः, न च

लाकाल्ला एवान्तर्भावादिति ॥धनुःशब्दादिति । अन्यथा ज्याकिणचिह्देन दोष्णेत्युक्तेऽनवरतदृढाकर्षणाहितकिणमण्डितत्वं दोष्णो न प्रतीयेत। वेध्यमानेऽ- प्यमानया ज्यया कृतकिणचिह्वस्य संभवात् ॥ कर्णेति। विलासनिर्वाहार्थ प्रतिनियतखदेशसंनिहितराभरणैः प्रयोजनमिति तदर्थ प्रयुक्तेम्य इत्यर्थः ॥ मुक्ताशब्दरादिति। उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवल- ताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्तालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्ात्। पुष्पशब्दादिति। विदग्धजनमनोविलोभनक्षमकन्यारल्नोपमानभावेन मालाया उपादानादुत्कृष्टपुष्प्रथितत्वागमनाय प्रयुक्तादित्यर्थः ॥ धांश इति। धैवतांश १. 'लसता' प्रकाशे. का० शा० १५

Page 251

२२६ काव्यमाला। नितम्बकाञ्च्योष्ठकरभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात्। संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चय इति। कचिद्गुणो यथा- 'प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम्। संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्॥' अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत रसपोषाय। यदाह- 'वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन्। यत्पदमसकृड्वूते तत्पुनरुक्त न दोषाय ।।' इति। उचितसहचारिमेदो भिन्नसहचरत्वम्। यथा- 'श्रुतेन बुद्धिर्व्यसनेन मूर्खता, मदेन नारी, सलिलेन निम्नगा। निशा शशाङ्ेन, धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता।।' अत्र श्ुतबुद्धादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोर्निकृष्टयोर्मिन्नत्वम्। विरुद्धं व्यङ्रयं यस्य तद्भावो विरुद्धव्यङ्गयत्वम्। यथा- 'इदं ते केनोक्त कथय कमलातङ्कवदने यदेतस्मिन्हेम्न: कटकमिति घत्से खलु धियम्। इदं तड्डुःसाधाक्रमणपरमासत्रं स्मृतिभुवा तव प्रीत्ा चक्रं करकमलमूले विनिहितम् ।।' अत्र कामस्य चक्रं लोकेSप्रसिद्धम्। 'लमं रागावृतान्क्या- इतिः। अत्र विदितं तेऽस्त्त्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते॥ १. 'संतर्पिताः' प्रकाशे.

Page 252

३ अध्याय: ] काव्यानुशासनम् । २२७

प्रसिद्धा विद्यामिश्र विरुद्धत्वम्, तत्र प्रसिद्धिविरुद्धत्वम्। यथा- 'उपपरिसरं गोदावर्या: परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्धिरवेक्ष्यताम्। इह हि विहितो रक्ताशोक: कयापि हताशया

अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाड्डरोद्रमः । यथा वानुप्रासे- 'चक्री चक्ारपड्किं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता- नृदं नक्षत्रनाथोSरुणमपि वरुणस्तुम्बराग्रं कुबेरः । रंहःसंघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोSन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॥' अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृतः न पुराणा- दिषु तथा प्रतीता। कदाचिच्चक्रिणश्चकारप्रियत्वं संभाव्येतापि तु उत्त- राणि तु न तथा संगच्छन्ते इति प्रसिद्धिविरोघः । यथा वोपमायाम्-'्रभ्नामि काव्यशशिनं विततार्थरश्मिम्।' अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साघर्म्य न प्रसिद्धम्। तथा- 'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः । उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा।।' अत्र मध्यगतचन्द्रिकयारविन्दस्योन्निद्रत्वमसंभवमिति प्रसिद्धिवि- रद्दत्वम्। कलाचतुर्वर्गशास्त्राणि विद्या। कलाश्च गीतनृत्यचित्रकर्मादिकाः । तत्र मीतनिरुद्धत्वम्। यथा-

Page 253

२२८ काव्यमाला। 'श्रुतिसमधिकमुच्चैः पश्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम्। प्रणिजगदुरकाकि श्रावकस्तिग्वकण्ठाः परिणतिमिति रात्रेर्मागघा माघवाय ।।' श्रुतिसमधिकमिति । श्रुत्या समधिकं पश्चश्रुतिकमित्यर्थः । पीडयन्त इति श्रुतिहासेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्य षड्ज- मिति। भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्रा- यात्। अत्र भिन्नषड्जेन माधवी (गधी)गीतिरुपनिबद्धा तस्यां च पश्च- मस्य ऋषभवदसंभव एव दूरे पुनः श्रुतिसमघिकत्वम्। यतो भिन्नषङ्- जस्येदं लक्षणम्-'घांशस्तु घवतन्यासः पञ्चमर्षभवर्ितः । षड्जोदी- च्यवती जातेर्भिन्नषड्ज उदाहृतः ॥I' एवं कलान्तरेष्वप्युदाहार्यम्। चतुर्वर्गे धर्मशास्त्रविरुद्धत्वं यथा- 'सततं स राजसूयैरीजे विप्रोऽश्वमेवैश्च।' अत्र विप्र इति। क्षत्रियस्य हि तत्राधिकारः । इत्यर्थ: । षड्जोदीच्यवती जातेरिति। जातयो ह्यष्टादश । तथा हि मुनिः-'षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी। षड्जोदीच्यवती चैव तथा स्यात्वड्जकैशिकी॥ स्यात्वइ्जमध्यमावेव षड्जप्रामसमाश्रयाः। अत ऊर्ध्व प्रवक्ष्यामि मध्यम्रामसंश्रयान्। गान्धारी मध्यमा चैव गान्धारोदीच्यकी तथा। पश्चमी रक्तगान्धारी तथा गान्धारपश्चमी । मध्यमोदीच्यका चैव नन्दयन्ती तथैव च । कार्मीरवी च विज्ञेया तथान्ध्री कैश्िकी मता ॥' इत्येतासां मध्या या षड्जोदीच्यवती जातिस्तस्याः सकाशादित्यर्थः ॥ कलान्तरेष्वप्यु- दाहार्यमिति । तन्र चित्रकलाविरोधो यथा-'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकश्रि। 'कालिङं पतिताप्रकण्टकम्' इति पत्रविदा- माम्रायः। एवं कलान्तरेष्वप्यूह्यम् ॥ क्षत्नियस्य हीति। तथा च स्मृति :-

Page 254

३ अध्याय:] काव्यानुशासनम्। २२९

अर्थशास्त्रविरुद्धत्वं यथा- 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया।' द्विषज्जयस्य हि नयमूलत्वं स्थितं दण्डनीतौ। कामशास्त्रविरुद्धत्वं यथा- 'तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते।' उत्तरोष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनस्थानानि इति हि कामशास्त्रे स्थितम्। मोक्षशास्त्रविरुद्धत्वं यथा- 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदः ।' एतस्यार्थस्य मोक्षशास्त्रेSस्थितत्वाद्विरुद्धत्वम् ॥ त्यक्तपुनरात्तत्वम्। यथा-'लसं रागावृतान्नया- इति। अत्र विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः। क्कचिद्रुण :- 'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संपुष्पत्यथ कालकूटपटलीसंवाससंदूषिताः । किं प्राणान्न हरन्त्यतिप्रियतमासंजल्पमात्राक्षरै- रक्ष्यन्ते किमु मोहमेमि हहहा नो वेद्यि का मे गतिः ॥' अत्र ससंदेहालंकारस्त्यक्त्वा त्यक्त्वा पुनरुपात्तो रसपरिपोषाय।। परिवृत्तौ विनियोजितौ नियमानियमौ सामान्यविशेषौ विध्यनु- वादौ च यत्र तद्भावस्तत्त्वम्।

'राजा राजसूयेन खाराज्यकामो यजेत। राजा सर्वतोऽविजिती अश्वमेधेन यनेत' इति। देवताभक्तित इति। 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽ- र्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ। तेषां ज्ञानि नित्ययुक्त एकभ-

Page 255

२३० काव्यमाला।

तत्र परिवृत्तो नियमोऽनियमेन। यथा- 'यत्रानुल्लिखिताक्षमेव निखिलं निर्माणमेतद्विघे- रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटि: परा। याताः प्राणभृतां मनोरथगतीरुल्लङ्दय यत्संपद- स्तस्याभासमणीकृताश्मसुमणेरश्मत्वमेवोचितम् ।।' अत्र 'च्छायामात्रमणीकृताशमसु मणेस्तस्याश्मतैवोचिता' इति नियमे वाच्ये तस्याभासेत्यनियम उक्तः । परिवृत्तौ नियमोऽनियमेन। यथा- वेक्राम्भोजे सरसत्यधिवसति सदा, शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्यस्मृतिकरणपदुर्दक्षिणसते समुद्रः। वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुश्चन्त्यमीक्ष्णं, स्च्छेन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥' अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः । परिवृत्तं सामान्यं विशेषेण। यथा- 'कल्लोलवेल्लित दृषत्परुषप्रहारे रत्नान्यमूनि मकराकर मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाथ याच्ाप्रसारितकरः पुरुषोत्तमोऽपि ॥'

क्तिविंशिष्यते ॥I' इत्युकनीत्या ज्ञानित्वेन एका भक्तिः। सा नात्र विवक्षिता। अपि त्वार्तत्वादिभिब्निरूपा ॥ अनुल्लिखिताक्षमिति। अनभिव्यक्ताकारम्। इति श्रीहेमचन्द्राचार्यविरचिते विवेके तृतीयोऽध्यायः। १. 'तार्थमे' प्रकाशे. २. 'वक्राम्भोज स' प्रकाशे. ३. 'मकरालय' प्रकाशे. ४. 'नाम' प्रकाशे. १. 'तार्थमे' प्रकाशे.

Page 256

३ अध्याय:] काव्यानुशासनम्। २३१

अत्र 'एकेन कि न विहितो भवतः स नाम' इति सामान्ये वाच्ये कौस्तुमेनेति विशेष उक्तः । परिवृत्तौ विशेष: सामान्येन। यथा- 'श्यामां श्यामलिमानमानयत मो: सान्द्रैर्मषीकूर्चकै- र्मञ्रं तत्रमथ प्रयुज्य हैरतश्रेतोत्पलानां स्मितम्। चन्द्रं चूर्णयत क्षणाच् कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमो दश दिशस्तद्वकरमुद्राङ्किताः ।।' अत्र ज्योत्सामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्त्म्। परिवृत्तौ विधिरनुवादेन । यथा- 'अरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन। सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्रथय कथय क्केन्दुवदना ।I' अत्र विधौ वाच्ये विरहिप्राणदमनेति अनुवाद उक्त: । परिवृत्तोऽनुवादो विधिना। यथा- 'प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- मकेशवमपाण्डवं भुवनमद्य निःसोमकम्। इयं परिसमाप्यते रणकथाद्य दोःशालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ।।' अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरुक्तः । प्रयलेन परिबोध्यसे इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधि- त्वमपि। अत्र चान्वर्थवलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् ।। १. 'हरत श्रवेतो' प्रकाशे.

Page 257

२३२ काव्यमाला।

अथापवादानाह- नानुकरणे। दोषा इत्यनुवर्तते। अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति। उदाहरणं प्रागेव प्रदर्शितम् ।। वक्राद्यौचित्ये च। वत्तप्रतिपाद्यव्यज्जयवाच्यप्रकरणादीनां महिम्रा न दोषो न गुणः । तथोदाहृतम् ।। क्चिद्ुणः । वक्रादयौचित्ये कचिद्रुण एव। तथैवोदाहृतम्।। इत्याचार्यश्री हेमचन्द्र विरचितायामलंकारचूडामणिसंज्ञखोपड़का- व्यानुशासनवृत्तौ दोषविवेचनो नाम तृतीयोऽथ्यायः।

सगुणौ शब्दार्थौ काव्यमित्युक्तम्। गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाह- माधुर्यौज:प्रसादास्त्रयो गुणाः। त्रयो न तु पेश्च दश वा, लक्षणस्य व्यभिचारादुच्यमानगुणेष्वेवा- न तु दश पञ्च वेति। अयं भाव :- माघुयौजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति। प्राक् सामान्यलक्षणे निर्णीतम्। ततथ्वैते शब्दार्थाश्रय- त्वेनान्ये च गुणायत्कैश्चन प्रतिपाद्यन्ते युक्तमिति। तथा हि-'ओजःप्रसा- दश्लेषसमताससमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणा दश' · १. टीकायां तु 'दश पञ्च वा' इत्युपलभ्यते, व्याख्यायते च तेनैव क्रमेण. तस्मात् 'पञ्च दश' इति पाठो लेखकप्रमादजो भवेत्. १. मूले तु 'पञ्च दश वा' इत्युपलभ्यते.

Page 258

४ अध्याय:] काव्यानुशासनम् २३३

न्तर्भावात्, दोषपरिहारेण सवीकृतत्वाच्च। गुणा इति रसस्य गुणा: शब्दार्थयोस्तु भक्त्या इत्युक्तमेव।

इति केचित्। तत्र 'अवगीतस्य हीनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं निषिश्चन्ति कवयस्तदोजः' इति भरतः । यथा-'गोमायवः शकुनयोऽत्र शुर्ना गणोSत्र लुम्पन्ति कीटकृमयः परितस्तथैते। त्वं संपदं सकलसत्त्वकृतोपकारं(?) नादृष्टवान्यदपि(?)तच्छव वश्चितोऽसि॥' अनवर्गतस्याहीनस्य वा वस्तुनः शब्दार्थ- योरर्थसंपदा यदनुदात्तत्वं निषिश्चन्ति कवयस्तर्हि तदनोजः स्यादिति मङ्गलः । यथा-'ये संतोषसुखप्रबद्धमनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसंकुल धियस्तेषां तु दूरे नृणाम्। धिक्तं कस्य कृते कृतः स विधिना ताडक्पदं संपदां खात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ।' कवीनामभिधेयं प्रति त्रयः पन्थानः । एते न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी। तस्मात्समासभूयस्त्वमोजः । तच्च गद्यविभूषणं प्रायेण, वृत्तवर्त्मन्यपि गौडास्दाद्रियन्ते। प्रथममाख्यायिकादिषूपलभ्यते ।

स्त्रसचिवज्याघोषघूत्कारिणाम्। यस्यैकस्य शतानि पञ्च धनुषां दैत्याह्वेषु व्यधु- र्लोलीभावगभीरघोरमखिलब्रह्माण्डकोलाहलम् ।I' रीतित्रयेऽप्योजसः साधारण- त्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्गलश्च ।' तस्माद्वाढत्वमोजैः । यथा-'भस्मवर्म फणिनः पतिर्गवामस्थिपङ्किरिति ते परिग्रहः । ईश इत्ययमन- न्यचुम्बितश्वन्द्रचूड तदपि त्वयि ध्वनिः ॥' एवं रीत्यन्तरेऽपि ॥ ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम्। तद्धि शुद्धमोजसः प्रत्युत हानिहेतुः। यथा-'वज्रेणान्तर्नु वज्रिन् जहि बहुविशतं(?)वासुके शेषघोणां दन्तैर्दिग्दन्ति-

१. भरते तु 'समासवद्भिरविविधैर्विच्चित्रैश्च पदैर्युतम्। मा(?)तु सरैरुदारैश्र तदोज: परिकीर्त्यते ।।' इत्युपलभ्यते. २. 'नो' इति भवेत, ३. 'गीत' इति भवेत्. ४. तथा च काव्याद्शें-'ओजः समासभूयस्त्वमेतद्गदयस्य जीवितम्। पद्येऽप्यदाक्षिणात्याना- मिदमेकं परायणम्॥ तद्ुरूणां लघूनां च बाहुल्यात्पत्वमिश्रणैः। उच्चावचप्रकारं तहृश्यमाख्यायिकादिषु ॥' इति. ५. तथा च वामनसूत्रम्-'गाढबन्धनतवमोजः' इति, ६. वामनेन तु 'न शुद्धः' इति सूत्रेण शुद्धस्य प्रसादस्य दोषखमज्गीकृतम्.

Page 259

२३४ काव्यमाला।

नोऽक्ष्णो विघटयत पुटानङ्ुलीर्हि त्रिशूलैः। दंध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्पयोवीं मैनाक क्षुध्ति(!)वक्षस्तटभटतु रणे कुम्भकर्णोऽस्तनिद्रः ।।' तस्मान्न गाढत्वमोजः । अर्थगुणस्तु 'अर्थस्य प्रौढिरोजः' इति वामनः। तत्र- *पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा। प्रौढिर्व्याससमासौ च साभिप्रायत्व- मस्य च ।।' इति या प्रौढिरोजस स्द्वैचित्र्यमात्रम्। साभिप्रायत्वरूपं चौजोऽपुष्टा- र्थंत्वदोषमात्रं न गुणः । किं च । भोः सहृदया अर्थो जडस्तस्याभिप्राय इति केषां भाषा। वक्तृश्रोत्रोः स इति चेत्तद्तोऽर्थस्य गुण इति कथम्। अथ वस्त्व- न्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते । तद्वस्त्वन्तरमाक्षेप्यं वक्रभिप्रायरूपमेव- माक्षेपकत्वमपि कविव्यापारबलादेव तथा विनिवेशनाप्रकारयोगे तथाभावाद। अत एव म्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थे काममुपचर्यतामित्यलं बहुना॥ विभक्तवाच्यवाचकायोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसाद इति भरतः। पदपूर्विका तदर्थावगतिरिति शब्दार्थयोर्ग्रहणम्। यथा-'यस्याहुरतिगम्भीरजल- दप्रतिमं गलम्। स वः करोतु निःसङ्गमुदयं प्रतिमङ्गलम् ।' सेयं विशेषणाधारा विशेष्याणामुक्तिरिति वामनीयाः । तस्मात् 'शैथिल्यं प्रसादः'। ओजोविपर्ययात्मा कर्थ गुण इति। गाढत्वसंपुतं शैथिल्यमेव गुण इति चेतू। परस्परविरोधिलाद्रा- ढत्वशैथिल्ययो: कथमेकन्न संनिवेश: संभवतीति। अनुभवादेव विरोधप्रतिषेध इति चेत्। यदाह-'करुणप्रेक्षणीयेषु संप्नवः सुखदुःखयोः। यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥' सेयं दृष्टान्तस्यैव तावदसिद्धिः । दृष्टान्तविघातश्च दार्ष्टान्तिकमपि प्रतिहन्ति। तथा हि-सामाजिकजनो नाट्यकर्मणि करुणरस- वासितचेताः प्रथमं दुःखातिमात्रप्रयोगवैशारद्येन च पश्चात्सुख्यति। ओजःप्रसा- दयोः पुनर्युगपदेवानुभवप्रतिज्ञा। यदि च तत्त्वं विवेच्यते तदा सर्वेषामपि रसानां प्रतीतिश्वमत्कारसारत्वात्सुखरूपैवेति दृष्टान्त एव न संगच्छते। तस्मा- द्विकाशहेतु: सर्वत्र प्रसाद इति । अर्थगुणसतु 'वैर्मल्यं प्रसादः' इति। प्रयो-

१. 'दोषनिराकरणमात्रम्' इति भवेत्. २. भरते तु 'अथानुक्तो बुधैर्यत्र शब्दादर्थः प्रतीयते। सुखशब्दार्थसंयोगात्प्रसाद: परिकीर्त्यते॥' इति. ३. अत्र 'चेत्' इति भवेत, ४. अत्र 'चेत्' इति न भवेत. ५. अत्र 'चेत्' इति भवेत्, ६. अत्र 'चेत्' इति न स्यानू, ७, 'दुख्यति, पात्रप्रयो' इति स्यात. ८. वामनसूत्रं तु 'अर्थवैमल्यं' इत्युपलभ्यते.

Page 260

४ अध्याय:] काव्यानुशासनम्। २३५

जकपेदपरि्रहो हि वैमल्यम् । तच्चाधिकपदत्वदोषनिराकरणात्सीकृतमेव ।।' 'सभावस्पष्टं विचारगहनं वचः श्िष्टम्' इति भरतः । 'क्षैणं स्थिताः पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । बलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः ॥I' सेयमभिधानाभिघेयव्यवहारे वैदग्घी, न पुनः संदर्भधर्मः । रचनारूपता हि गुणस्य स्वरूपमिति वामनीयाः। तसमात् 'मसणत्वं श्लेषः' । तदाह-यस्मिन् सति बहून्यपि पदानि ऐंकपदवद्धासन्ते स श्रेषः ॥ 'अस्त्युत्तरस्यां दिशि देवतात्मा' इति। मसृणमदन्तरायां(?)हि रीतिवैशसोपनि पातः। तं चान्यतररसनिर्वाहे निषेवन्ते। तस्मात् 'अशिथिलं श्लिष्टम्' इति देण्डी ।। यथा-'प्रेक्षामृदज्गनिनदानुपकर्ण्य तूर्णमम्भोदनादरभसान्न वृतं मयूरैः। यन्मन्दिरे सरलकण्ठमकण्ठकूजमुन्मण्डलीकृतशिखण्डमकाण्ड एव ।।' सोऽ- यमोज: प्रकार एव। अदृष्टगौडसंदर्भस्य वा दर्शनमित्युपेक्षणीयम्। गौडा हि शिथिलमाद्रियन्ते। यथा-'लीलाविलासललनाललितालकलासकाः। विलुप्तमाल- तीमाला जलकालानिला ववुः ॥'इति । अर्थगुणस्तु 'घटना श्लेषः' । क्रमकौटि ल्यानुल्बणत्वोपपत्तियोगो हि घटना। यथा-'दष्ट्रैकासन-' इति। संविधानकभवं वैचित्र्यमात्रमिदं न गुणः ॥ 'परस्परविभूषणो गुणालंकारग्रामः समम्' इवि भरतः । यथा-'सरनवनदी-' इति। भिन्नाधिकरणा हि गुणालंकारास्तत्कथ- मन्योन्यं भूषयेयुरिति दण्डी। श्ेषयमकचित्राणि हि प्रायेण गुणान्विगृह्य वर्तन्ते। अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तद्वदेव। तस्मार्द्वन्घेष्वविषमं समम् । ते च प्रौढो मृदुर्मध्यश्चेति त्रयः । प्रौडमृदुमध्यवर्णविन्यासयोनित्वात। प्रौढो यथा-'आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात। त्रुव्यतः प्रियतमोरसि हारातपुष्प वृष्टिरिव मौक्तिकतृष्टिः ॥' मृदुर्यथा-'ललितमङ्गमपाङ्गविलोकितं स्मितसुधाल- वपल्लवितोऽघरः । इति मनो जयतः प्रमदाजनं मनसिजस्य जयन्ति शिली- मुखाः ॥' मध्यो यथा-'ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु। १. 'मात्रपरि' इति वामनसूत्रवृत्तौ. २. भरते तु 'विचारगहनं यत्स्यात्सफुट चैव स्वभावतः । स्वतः सुप्रतिबद्धं च छिषटं तत्परिकीरतितम् ।।' इति. ३. 'स्थिता: क्षणं' इति कुमारसंभवे. ४. 'यन्नकपदवद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स क्रेषः परमो गुणः ॥' इति वामनसूत्रवृत्तौ. ५. काव्यादशे तु 'श्विष्टमरपृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम्' इति. ६. 'सभं बन्घेष्वविषमं ते मृदुस्फुट- मध्यमाः। बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥' इति काव्यादर्शवचनात.

Page 261

२३६ काव्यमाला।

क्षिप्तभायतमदर्शयदुर्व्यां काश्विदाम जघनस्य महत्त्वम् । तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः । तस्माद्यन रीतिविशेषेणोपक्रमस्तस्यापरित्याग आ समाप्तेरिति समताया रूपम्। तन्मुक्तके प्रबन्धे च। वैदर्भमार्गनिवाही यथा- 'किं व्यापारैः-' इति। गौडमार्गनिर्वाहो यथा-'क्षुद्रः कोडयं तपखी क्षव(?)- वदननवच्छेदनिष्ठयूतम जव्याजाज्यस्फार धाराहुति हुतहुतभुक्पच्यमानैः कपालैः। जातास्थिस्फोट मीतिप्रविघटि तव लद्वामपार्श्वप्रवेशक्राम्यत्सव्येतरार्घाकुलितहग्हठा- कृष्टखन्को दशास्यः ॥' पश्चालमार्गनिर्वाहो यथा-'ते काकुत्स्थपृषत्कजर्जरजर- त्तालदुमस्थाणवस्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टङ्काङ्किताः । ते लीलाशबरे- न्दुशेखरशरव्याक्षेपवीथीभुवो दुर्गाहा अपि गाहिता: शशिरुचा कीरतया वनान्ता- स्तव ।।' एवं प्रबन्घेऽपि॥ प्रयोगमार्ग प्रतिवेसन्तः प्रमाणम्। ते च न सर्वत्र समतां वैचित्र्याय संगिरन्ते। तथा हि-'अज्ञानाददि वाधिपत्यरभसादस्मत्प- रोक्षे हता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद। नो चेल्क्ष्मणमुक्त मार्गणगणाच्छादोच्छलच्छोणितच्छत्रच्छन्न दिगन्तमन्तकपुरं पुत्रैर्व्रतो यास्यसि ।' इत्यादौ मसृणमार्गत्यागो गुणः ॥ तस्मात्समता वक्तव्या। अर्थगुणस्तु 'अवैषम्यं 'ेथता'। प्रकरमाभेदो ह्यवैषम्यम्। यथा-'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा दुमा मनसि च गिरं ग्रैन्थन्ति मे किरन्ति न कोकिलाः।' प्रक्रमभेदो यथा-'च्युत- सुमनसः कुन्दाः ्पुष्पेष्व लसा हुमा मलयमरुतः सर्पन्ति मे वियोगवृतिच्छिदः।'इति। मधुग्रीष्मर्तुप्रतिपादनपरेSत्र द्वितीयपादे प्रक्रमभेदः। मलयमरुतामसाधारणत्वात्। ततश्चापदोषत्वमेतन्न गुण इति ॥ अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः । यथा-'परिणतशरकाण्डच्छायमच्छाच्छया यत्किसलयितमिवासीच्चारुलावण्य- लक्ष्म्या। तदनुदिवसमस्यास्तोय विच्छेदसी दन्नवकुवलयदामश्यामलं जातमङ्कम्।।' सोऽयमतिशयोक्तिविशेष इति वामनीयाः। तस्मात् 'आरोहावरोहक्रमः समाधिः ।' तत्रारोहपूर्वोऽवरोहो यथा-'शज्गोत्खातभुवः कृतान्तमहिषादत्रस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ठगर्जितमयं कुद्धोऽम्बिकाकेसरी। संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति ॥' १. 'च सन्तः' २. 'समता' वामनसूत्रे. ३. 'पुष्पोद्मे' वामनालंकारसूत्र- वृत्युपलब्धः साधीयान्. ४. 'बध्नन्तीमे' वामनसूत्रवृत्तौ. ५. पुष्पोद्गमे' स्यात्, ६. 'न्तीमे' स्यात्. ७. 'वियुक्त' सूत्रवृत्तौ वामन: ८. 'ऋतुसंधिप्र' सूत्रवृत्तिः

Page 262

४ अध्याय: ] काव्यानुशासनम्। २३७

अवरोहपूर्व आरोहो यथा-'यद्वर्ज्यामिर्जगाहे गुरुसकलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिदिशि दिशि सरितां दिग्जय प्रक्रमेषु। अम्भोगम्मीर ·..... कुह- रकवलनोन्मुक्तिपर्याय लोलत्कलोलाबद्धमुग्धध्वनिचकितकणत्कुङ्डमं कामिनीभिः॥ तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी । तस्मादन्यधर्मस्यान्यत्र समा- घानात्समाधिः । यथा-'प्रतीच्छत्याशोकिं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरहिताडीपरणतिम्। परिम्लानप्रायामनुवदति दृष्टिः कमलिनीमितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥I' सेयमुपचरिता वृत्तिरिति चेहुणः, योग्य- वृत्त्या किमपराद्धमिति ॥ अर्थगुणस्तु 'अर्थदृष्टिः समाधिः'। यथा-'अप्रादपि मध्यापदि मूलादपि सर्वतोऽथ शोकस्य। पिशुनस्थमिव रहस्यं यतस्ततो निर्गतं कुसुमम् ।I' अर्थस्य योनेरन्यच्छायायोनेवा यदि न भवति दर्शनं तत्कथ काव्यं स्यात् । ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः ॥ बहुशो यच्छ्ुतमभिहितं वक्यमनुद्वेजकं मनस्रस्तन्मुधुरमिति भरतः। दयितजनरूक्षाक्षराक्षेपवचनेऽपि तत्समानमिति वामनीयाः। तस्मात् 'पृथक्प- दत्वं माधुर्यम्'। तदिदमनुभवविरुद्धमिति दण्डी। समासेऽपि माधुर्यस्य दर्श- नातू। यथा-'अनवरतनयन जललव विपतनपरिमुषितपत्रलेखान्तम्। करतल- निषण्णमबले वदनमिदं किं न तापयति ॥' इति। तस्माद्रसवन्मधुरम्। रसस्तु द्विधा -·.......... ... । व्यङ्गयस्तु विषयत्वेन । तयो: श्रुतिवर्णानुप्रासाभ्यां वाग्रसः । अनुप्रासो ह्यलंकारः । कथं तस्य गुणत्वम् । अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थनिबन्धनं हि ्म्यता। मथा-'ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा बुभुक्षया। भद्रे भजख मां तूर्ण तव दास्याम्यहं पणम्।।' सोवेदो- माभावो न गुणः। एतेनोक्तिवैचित््वरूपं माधुर्य वामनोक्तोऽप्यर्थगुणो निरख एव। तस्मादाहादकत्वं माधुर्यमिति ॥I सुखशब्दार्थ सुकुमारमिति भरतः । यथा-'अज्ञानि चन्दनरःपरिधूसराणि ताम्बूलरागसुभगोऽघरपल्लवक्ष। अच्छा- जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवावशेष: ॥'सुखशब्द- १. 'ति तालीपरि-' स्यात्. २. 'तोऽप्यशो' स्यात्. ३. 'अर्थस्यायोने' स्यात. ४. 'बदुशो यच्छुतं काव्यमुक्तं वापि पुनः पुनः । नोद्वेजयति तस्माद्धि तन्माधुर्यमु- दाहृतम् ।I' इति भरतोत्तयनुसारेण 'वा काव्य' स्यात्. ५. 'सा वै दोषाभावः' इति स्यात्. ६. 'सुखप्रयोज्यैश्छन्दोभिर्युक्तं प्रष्िष्टसंधिभिः। सुकुमारार्थसंयुक्त सुकुमारं तदुच्यते ॥' इति भरतपाठ :.

Page 263

२३८ काव्यमाला।

मेव' इति वामनः। यथा-'हरेः कुमारोऽपि कुमारविक्रमः सुरद्विषास्फालन- कर्कशाङुलौ। भुजे शचीपत्रलताक्रियोचिते खनामचिहनं निचखान सायकम् ॥' सोडयं श्रुतिकटुत्वदोषाभावो न गुणः । माधुर्यप्रकार एवाऽयम्। अर्थगुणस्तु- 'अपारुष्यम् सौकुमार्यम्'। यथा-'स किलेन्द्रप्रयुक्तेन सौरिणा भूमिनन्दनः । चक्रघातोपदिग्धाध्वा नीतात्यन्तप्रवासताम् ।।' सोऽयममज्ञलरूपाश्लीलत्वदोषा* भावो न गुणः ॥l यदि वा उक्तिविशेष: पर्यायोक्ालंकारविषय एवासौ॥ बैहुभि: सूक्ष्मैश्र विशेषैः समेतमुदारमिति भरतः । यथा-'ये पूर्व यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छाया घाम(?)पुनमृणाललतिकालावण्यभाजोSत्र ये। ये धाराम्बु विडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशो: कराः ॥' उल्लेखवानयमर्थः कथं गुण इति वामनीयाः । तस्माद् सति नृत्यन्तीव पदानीति वर्णना भवति। यथा-'अत्रान्तरे रणितहारलतानितम्ब- संवाहनस्खलितवेगतरज्विताज्गी। देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुर गतवती सह सौविदलैः ॥' सोऽयमीषदमसृणोऽनुप्रासभावो न गुणः । ओजःप्र- कार एव वायम्। अर्थगुणस्तु-'अग्राम्यत्वमुदारता'। यथा-'त्वमेवंसौ- न्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथ। अयि द्वन्द्वं दिष्या तदिह सुभगे संवदति वामतः शेषं चेत्स्याजितमथ तदानी गुणितया ।' सोऽयं दोषाभावो न गुणः ॥ यस्मिन्न तथास्थितोऽपि तथास्थित एवार्थ: प्रतिभाति सोऽर्थव्यक्तिर्गुण इति भैरतः । यथा-'च्युतामिन्दोर्लेखां रतिकलहभमं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया। अवोचदं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥' सोडयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यत्र पुरस्तादिव वस्तुनोऽवगतिः पश्चादिव वाचां सार्थव्यक्तिः । यथा-'महेश्वरे वा जगता महेश्वरे जनार्दने १. 'अजरठत्वं सौकुमार्यम्' इत्येवं वामनसूत्रेषूपलभ्यते, तत्र जरठत्वं परुषत्वं श्रुतिकटत्वमिति यावत्. २. 'नीतो' स्यात्. ३. 'वासितम्' स्यात्. ४. 'दिव्यभावपरीतं यच्छङ्गाराद्ुतयोजितम्। अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ।।' इत्येवं भरते पाठ: ५. 'नाम' सात. ६. 'तदिति' वामनसूत्रवृत्तौ. ७. 'सुप्रसिद्धा धातुना तु लेककर्मव्यवस्थिता। या क्रिया क्रियते काव्ये सार्थव्यक्ति: प्रकीर्तयते ।' इत्येवं समुपलभ्यते.

Page 264

४ अध्याय:] काव्यानुशासनम् । २३९

वा जगदन्तरात्मनि। न वस्तुमेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे॥" सोडयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः। तत्र चास्तोकमुदाहरणम्। दोषाभावोडयं कथमिव गुणः । तथा चेद्वहुत्वाद्दोषार्णां शतं गुणा: स्युः । अर्थगुणस्तु 'वैस्तुनः स्फुटत्वमर्थव्यक्तिः' । यथा-'पृष्ठेषु शङ्कशकलच्छविषु च्छदानां राजीभिरद्वितमलक्तकलोहिनीभिः। गोरोचनाहरि- तबभ्रुब्नहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ।I' कविव चनवैशारद्यतो वस्तुन: स्फुटत्वमनिसर्गतः। तदुक्तम्-'निवेशयति हृदर्थान्न तथापि तथेति बा। महाकवीनां विकटा वाणी विजयतामसौ ॥' अपि च। जातिर्नामायमलं- कार इति॥ श्रोत्रमनःप्रह्लादजननं कान्तं भैरतः। यथा-'दद्दशुर्द्वारदेशस्थां सीतां वल्कलधारिणीम्। अज्गदाहादनङ्गस्य रति प्रव्रजितामिव ।I' तदिदं माधुर्य- स्राधारणमिति वामनीयाः । तस्मात्-'औज्वल्यं कान्तिः'। यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति। यथा-'स्त्रीणां केतकगर्भपाण्डुसुभगच्छन्दा वदातप्रमे मन्दं कुध्यलिता: कपोलफलके लावण्यनिष्पन्दिनि। अन्यां कामपि कामिनीयककलामातन्वते नूतनां शीतांशोर्विसकन्दकन्दलशिखामुग्धश्रियो रश्मयः ॥ ओजोऽप्यौज्वल्ययोगात्तहि कान्तिः । तस्माल्लोकसीमानतिक्रमः कान्तिरिति दण्डी । सा च द्विधा वार्तावर्णनयोः। तत्रोपचारवचनं वार्ता। प्रशंसावचनं वर्णना। वार्ता यथा-'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥' वर्णना यथा-'तदाननं निर्जित• चन्द्रकान्ति कन्दर्पदेवायतनं मनोजम् । प्रदक्षिणीकर्तुमिति प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥' लोकसीमानतिक्रमः पुनरकान्तिः । तत्र वार्ता यथा- 'मम दृष्टस्य राजेन्द्र तव दीर्घेण चक्षुषा। चरणद्वितयस्याग्रे नित्यं लठति चन्द्रमा: ॥' वर्णना यथा-'वदनस्य तवेणाक्षि लक्ष्यते पुरतः शशी। पिण्डी- कतेन बहुना कजजलेनेव निर्मितः ॥' सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तर- मिति। अर्थगुणस्तु 'दीप्तरसत्वं (पुनः) कान्तिः' इति वामनः। यथा-'प्रेया- म्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न १, 'वस्तुस्वभावस्फुटत्व' वामनसूत्रे. २. 'यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत्। लीलाधर्थोपपन्नां वा तां कान्ति कवयो विदुः ॥' इत्येवमुपलभ्यते. ३. 'च्छेदा' स्याल. ४. 'कामनीयक' स्यात्. ५. 'सीमातिक्रमः' स्यात्.

Page 265

२४० काव्यमाला। यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबेन्धं धृतो धावित्वैव कृतप्रणा- मकमहो प्रेम्णो विचित्रा गतिः ॥' रौद्रादयो दीप्ता रसास्ततोऽन्ये तु शङ्गारादय· स्तद्विपरीतास्तन्निबन्धनभकान्तिस्तरहिं स्यात्। अथ वा व्यक्नयं रसादि स्वरूपणेनैव कान्तिः खीकृतेति। ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पश्चेत्यपरे। तथा हि। यददर्शिविच्छेदं पठतामोजः, विच्छिद पदानि पठतां अ्साद: आरोहा- वरोहतरज्गिणि पाठे माधुर्यम्, ससौष्ठवमेव स्थानं पठतामौदार्यम्, अनुचचनीचं पठतां साम्यमिति ॥ तदिदमलीकं कल्पनातत्रम् यद्विषयविभागेन पाठनियम: स कथ गुणनिमित्तमिति छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित्। तथा हि।

यत्सेनोह्दामहेलाभरचलितम हाशैलकीलां बभार। कृच्छ्रात्पातालमूलाबिलबहल- निरालम्बजम्बालनिष्ठः पृष्ठाश्लीलप्रतिष्ठामवनिमवनमन्कपरः कूर्मराजः ॥' इन्द्र वज्रोपेन्द्रवज्रादिषु प्रसादो यथा-'यथा यथा सा पदमङ्गकेषु प्रमोदिलक्ष्म्या निदधे मदस्य। तथा तथा कार्मुकमाततज्यं प्रसूनधन्वा कलयांचकार II' मन्दा- क्रान्तादिषु माधुर्य यथा-'किं व्यापारै :- ' इति॥ शार्दूलादिषु समता यथा- 'गाहन्तां महिषा निपानसलिलं ज्तैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु। विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥' विषमवृत्तेष्वौदार्य यथा-'निरवधि निराश्रयं च-' इति। सोऽयमनवगाहितप्रयोगाणां विभागकमः । तथा हि। सलग्धरादिष्वनौजोऽपि यथा-'शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः। नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदिन्दुर्देव्या निहोतुमिच्छोरिति सुरस- रितं शाव्यमव्याद्विभोर्वः ॥' इन्द्रवज्रादिष्वप्रसादो यथा-'विविच्य बाधाः प्रभ- वन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति। संसारमोहस्त्वयमन्य एवं दिश्ोहवत्त- त्वधिया सहास्ते ।I' मन्दाकरान्तादिष्वमाधुर्य यथा-'सर्वप्राणप्रगुण मघवन्मुक्त- माहत्य वक्षस्तत्संघट्टाद्विघटित बृहत्खण्डमुच्चण्डरोचिः। एवं वेगाकुलितमकरोद्योम- विद्युत्सहस्तैर्भर्तुर्व ऋज्वलनकपिशास्ते च रोषाद्ृहासाः ॥' शार्दूलादिष्वसाम्यं यथा- 'अज्ञानादयदिवाधिपत्यरभसात्-' इति ॥ विषमवृत्तेष्वनौदार्यं यथा-'अयमहि- मरुचिर्भजन्प्रतीचीं कुपितबलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरीभिरीक्ष्यते १. 'नितम्बं' वामनसूत्रवृत्तौ २. 'कृच्छात्' स्याठ्. ३. 'नमत्कर्परः' स्यातू.

Page 266

४ अध्याय:] काव्यानुशासनम्। २४१

तत्र माधुर्यस्य लक्षणमाह- द्रुतिहेतुर्माधुर्य शुङ्गारे। द्रुतिरार्द्रता गलितत्वमिव चेतसः। शृङ्गारेऽर्थात्संभोगे। शृङ्गारस्य च ये हास्याद्भुतादयो रसा अज्कानि, तेषामपि माधुर्य गुणः । शान्तकरुणविप्रलम्भेषु सातिशयम्। सातिशयमिति अत्यन्तद्रुतिहेतुत्वाद्। एतद्यञ्जकानाह- तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा हख्ान्तरितौ रणाव- समासो मृदुरचना च। निजेन निजवर्गसंबन्धिना ........ डञणनमलक्षणेन शिरस्याक्रान्ता अटवर्गा टठडढरहिता वर्गाः, हृखान्तरितौ च रेफणकारौ। असमासः इति समासाभावोऽल्पसमासता वा, मृद्ढी च रचना। तत्र माधुर्ये माधु- र्यस्य व्यञ्जिकेत्यर्थः। यथा-

कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ।।'

द्राक् नवरुधिरारुणमांसपिण्डलोभात् ।I'तदेवं यथान्यैर्गुणानां लक्षणमभिहितं तथा न वाच्यम्। यथायोगं लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भावाद्दोषपरि- हारेण खीकृतत्वाच्चेति॥ द्रुतिरिति। द्रतिहेतुत्वं माधुर्यस्य लक्षणं न तु श्रव्य- त्वम्। ओजःप्रसादयोरपि श्रव्यत्वात्। तेन 'श्रव्यत्वं नातिसमस्तार्थशब्दं मधु- रमिष्यते' इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्न युक्तमित्यर्थः॥ अर्थादिति। यद्यपि संभोगविप्रलम्भोभयरूपः शरज्गारः तथापि गोबलीवर्दन्या- येनानन्तरविप्रलम्भप्रयोगसामर्थ्यात्। शज्गारः संभोग इत्युक्तः ॥ १. 'अन्त्येन' इति त्रुटितं भवेत, का० शा० १६

Page 267

२१२ काव्यमाला।

'दारुणरणे रणन्तं करिदारुणकारणं कृपाणं ते। रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ।' न पुनरेवं यथा- 'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकेण्ठि माम्। कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ।।' अत्र शृङ्गारप्रतिकूला वर्णाः । 'बाले मालेयमुच्चैरन भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि मुघा वक्रमश्रुप्रवाहैः।

दावायेर्व्योम्नि लमना मलिनयति दिशां मण्डलं धूमलेखा ।।' अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा। ओजसो लक्षणमाह- दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम्। दीप्तिरुज्वलिता। चित्तस्य विस्तार इति यावत्। क्रमेणेति वीरा- द्वीभत्से ततोऽपि रौद्रे। तेषामङ्गेऽद्भुते च सातिशयमोजः । एतद्यञ्जकानाह- आद्यतृतीयाक्रान्तौ द्वितीयतुर्यौ युक्तो रेफस्तुल्यश्च टवर्ग- शषा वत्तिदैर्ध्यमुद्धतो गुम्फश्रात्र।

अङ्गानीति । यद्यपि हास्याद्भुतयोर्विकासहेतुतया ओजोऽप्यस्ति। तथापि शृभ्गाराङ्गतया माधुर्यमेव प्रकृष्टं प्रतीयत इत्यर्थः ॥ न पुनरेवमिति। अयं भाव :- यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्य एतद्रुणविपर्य- येणैव सवीकृतत्वात्।। वर्णा इति। समासरचनयोरुपलक्षणमिदम्। माधुयौज :- १. 'दारण' इति भवेत्. २. 'कण्ठिनाम्'. इति वाग्भट्टकाव्यानुशासने. ३. 'रुज्व- लता' इति भवेत.

Page 268

४ अध्याय:] काव्यानुशासनम्। २४३

आद्येन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाघ उपरि उभ- यत्र वा येनकेनचित्संयुक्तो रेफस्तुल्यश्च वर्णो वर्णेन युक्तस्तथा टवर्गो- डर्थात् णकारवर्जः, शषौ च, दीर्घसमासः, कठोरा रचना च। अत्र ओजसि। ओजसो व्यञ्जिकेत्यर्थः । यथा-

कैलासोल्लासनेच्छाव्यतिकर पिशुनोत्सर्पिदर्पोद्भुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ।।' न पुनरेवं यथा- 'देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भाखन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' अत्र यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः। अथ प्रसादलक्षणमाह- विकासहेतु: प्रसाद: सर्वत्र। विकास: शुष्केन्घनामिवत्सच्छजलवच्च सहसैव चेतसो व्याप्तिः । सर्वत्रेति सर्वेषु रसेषु । एतद्यञ्जकानाह- इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः। श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे। प्रसादस्य व्यञ्जका इत्यर्थः । यथा-

प्रसादव्यअकेषु च वर्णादिष्वभिहितेषु वृत्तयो रीतयश्चाभिहिताः, एतदव्यतिरि-

Page 269

२४४ काव्यमाला। 'दातारो यदि कल्पशाखिभिरलं, यद्यार्थनः किं तृणैः, सन्तश्रेदमृतेन किं, यदि खलास्तत्कालकूटेन किम्। किं कर्पूरशलाकया यदि दृशो: पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥' माधुर्यौज:प्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिराचक्षते। वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये। यदाह-

ओज:प्रकाशकैस्तैस्तु परुषा, कोमला परैः। केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः॥' यद्यपि गुणेषु नियता वर्णादयस्तथापि- वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि। तत्र वाच्यप्रबन्धानपेक्षया वैक्रादौचित्यादेव वर्णादयो यथा- 'मन्थायस्तार्णवाम्भःप्रैतिकुहरचलन्मन्दरध्वानघीरः, कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टर्चण्डा। कृष्णाक्रोघाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः, के नास्मन्सिंहनाद प्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ।' कसरूपत्वात्तासाम्॥ अवेति। यदि हि क्रोधादिव्यज्जकं वाच्यं भवेत्तत उप० पद्येरननुद्धता रचनादयः । न चैतदभिनेयार्थ, येन खेच्छाप्यनुमन्येत रचनादी- १. 'कोच्यते' का० प्रका०. २. 'वक्रौच्चित्या' का० प्रका०. ३. 'प्रुतिकु' इत्या- धुनिककाव्यप्र०. ४. 'चण्डः' इति भवेत्. ५. 'स्मत्सिंह' इति प्रकाशे. १. 'अत्रेति' स्यात.

Page 270

४ अध्याय:] काव्यानुशासनम्। २४५

अत्र यद्यपि वक्तृवाच्यं क्रोघादिव्यञ्जकम्, काव्यं चाभिनेयार्थम्। तंथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः । क्कचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव। यथा- 'प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात- त्रासाकृष्टाश्च तिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्। कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्घरारन्ध्रभाजां भाक्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ।।' कचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव। यथा आख्यायिकायां शृङ्गारेऽपि न मैंसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः। एवमन्यदप्यौचित्यमनुसर्तव्यम्।। इत्याचार्यश्री हेमचन्द्रविरचितायामलंकार चूडामणिसंज्ञखोपज्ञकाव्यानुशासन- वृत्तो गुणविवेचनंश्चतुर्थोऽध्यायः।

नाम्। किं त्वभिनेयार्थमिदम्। न च तत्र रौद्रादावप्युद्धता रचनादय उपपन्नाः। अतो वक्राचित्यादेव रचनादीनामप्यन्यथात्वमत्रेत्यर्थः ॥ न मसृणा इति। गद्यस्य विकटनिबन्धाश्रयेण छायावत्त्वात्।। नाटकादौ रौद्रेऽपीति। न केवलं करुणविप्रलम्भयोः । रौद्रेऽपि न दीर्घसमासादयो निबन्धनीयाः ॥ कथ- मिति चेत्, उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतिपत्तौ व्यवघा- यिका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासः। समासानाम- मनेकप्रकारसंभावनया रसप्रतीति कदाचिद्यवदधातीति तस्मिन्नात्यन्तमभिनि- वेशः शोभते विशेषतोऽभिनेयार्थे काव्ये। तत्रापि करुणविप्रलम्भयोः । तयोर्हि सुकुमारत्वात खल्पायामप्यसच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति। रसा- न्तरे पुनः प्रतिपाद्यो रौद्रादौ मध्यमसमासोऽपि। कदाचिद्धीरोद्धतनायकसंबद्ध- व्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया १. 'हि' का० प्रका०. २. 'इति' का० प्रका०. ३. 'एव ते । तथाहि' का० प्रका०. ४. 'मसृणव' का० प्रका०.

Page 271

२४६ काव्यमाला।

पञ्चमोऽघ्यायः। 'शब्दार्थौ सालंकारौ काव्यम्' इत्युक्तम्। तत्रालंकाराणां 'अङ्गाश्रिता अलंकाराः' इति सामान्यलक्षणमुक्तम्। अथ विशेष- लक्षणस्यावसरः । तत्रापि शब्दालंकाराणां षण्णां तावदाह- न विगुणो भवतीति। सोऽपि नात्यन्तपरिहार्यः। सर्वत्र प्रसादाख्यो गुणो व्यापी। स हि सर्वरससाधारण इत्युक्तम् । प्रसादातिकरमे हि असमासोऽपि करुणविप्रलम्भश्ङ्गारी न व्यनक्ति। तदपरित्यागे मध्यमसमासोऽपि न प्रका- शयति। तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः। अत एव च-'यो यः शत्रं बिभर्ति खभुजगुरुमदात्पाण्डवीनां चमूनां यो यः पश्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं क्रोधान्धस्तस्य तस्य खयमिह जगतामन्तकस्यान्तकोऽहम् ॥' इत्यादौ प्रसादाख्य एव गुणो न माधुर्य नाप्योज: समासाभावात्। न चाचारुत्वमभिप्रेतरसप्रकाशनात्। एच- मन्यद्पीति। मुक्तकेषु रसबन्धाश्रयेण न दीर्घसमासरचना। अन्यथा तु कामचारः । संदानितकादिषु विकटनिबन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने। प्रबन्धाश्रितेषु तु मुक्तकादिषु यथोक्तप्रबन्धविशेषौचित्यमेवानुसर्तव्यम्। पर्यायबन्घेषु पुनरसमासामध्यमसमासे एव। कदाचिद्रौद्रादिविषये दीर्घसमासा- यामपि संघटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या। परिकथायां कामचारः। तत्रेतिवृत्तमात्रोपन्यासेनात्यन्तं रसबन्धा(?)भिनिवेशते। खण्डकथासकलकथयोस्तु प्राकृतसिद्धयोः कुलकादिनिबन्धनभूयस्त्वाद्दीर्घसमास .....· योरपि न विरोधः । वृत्तौचित्यं च यथारसमनुसर्तव्यम्। सर्गबन्धे तु रसतात्पर्ये यथारसमौचित्यम्। अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गबन्धविधायिनां दर्शनाद्रसतात्पर्य साधीय इति॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके चतुर्थोऽध्यायः ।

१. 'षट्' टीकासंमत :. १. 'निविशते' इति स्यातू.

Page 272

५ अध्याय:] काव्यानुशासनम्। २४७

व्यञ्जनस्येति जातावेकवचनम्। तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः। पुनःपुनर्निबन्धो रसाद्यनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किंचिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते। अने- कस्य तु सकृदसकृच्। तत्रैकस्यासकृदावृत्तिर्यथा-

कुर्वन्ति यूनां सहसा यथैताः खान्तानि शान्तापरचिन्तनानि ॥' अनेकस्य सकृदावृत्तिर्यथा- 'ततोSरुणपरिस्पन्दमन्दीकृतवपुः शशी। दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ।।' रुरिन्दन्दीत्यादेरनेकस्य सकृदावृत्तिः । यथा वा- 'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन। चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गममौ ।।' अत्र द्वयोर्द्वयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सक्ृदावृत्तिः । यथा वा-'धूसरितसरिति-' इति। अनेकस्यासकृदावृत्तिर्यथा- 'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धकुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि सवच्छन्दकुन्दद्रुहि। शुष्यत्स्नोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ त्रजज्जीवसि॥' अत्र रुधीत्यादेः ।

Page 273

२४८ काव्यमाला। तात्पर्यमात्रभेदिनो नाम्न: पदस्य वा लाटानाम्। शब्दार्थयोरमेदेऽपि अन्वयमात्रमेदिनो नाम्नः पदस्य वा एकस्या- नेकस्य वा सकृदसकृच्चावृत्तिर्लाटानां संबन्धिनी लाटजनवल्लभोऽनुप्रासः। तत्रैकस्य नाम्नः सकृदावृत्तिर्यथा- 'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियाया: करं करेण परिताडयञ्जयति जातहास: स्मरः ॥' अत्र करेति नाम्नः । असकृद्यथा- 'दशरश्मिशतोपमद्युति यशसा दिक्षु दशसपि श्रुतम्। दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुघाः ।।' अत्र दशेति नाम्नः । अनेकस्य सकृद्यथा-'जयति क्षुण्णतिमिरः- इति। असकृद्यथा- 'वस्त्रायन्ते नदीनां सितकुसुमधराः शकसंकाशकाशाः काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंसहंसाः । हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्रचन्द्र- श्रन्द्राङ्कः शारदसते जयकृदुपनतो विद्विषां कालकालः ॥।' पदस्यैकस्य सकृद्यथा- 'वदनं वरवर्णिन्यास्तस्याः सत्यं सुघाकरः । सुधार्कर: क नु पुनः कलङ्कविकलो भवेत् ॥' 'न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति। कोप: सत्पुरुषाणां तुल्यः सनेहेन नीचानाम् ॥'

Page 274

५ अध्याय:] काव्यानुशासनम्। २४९

अनेकस्य सकृद्यथा- 'यस्य न सविधे दयिता, दवदहनस्तुहिनदीघितिस्तस्य। यस्य च सविधे दयिता, दवदहनस्तुहिनधितिस्तस्य ।I' असकृद्यथा- 'किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदशं दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः । ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदशाः सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोक: कृतो वर्तते ॥' सत्यर्थेऽ्न्यार्थानां वर्णानां श्रुतिकमैक्ये यमकम्। आवृत्तिरिति वर्तते। सत्यथे भिन्नार्थानां वर्णानां खरसहितव्यञ्ज- नानामुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये कमैक्ये च यमौ द्वौ समजातौ तत्रतिकृतिर्यमकम्। तेनैकस्याक्षरस्य द्वयोर्बहूनां चाद्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलंकारः। 'मधुपरा- जिपराजितमानिनी-' इत्यादावुभयेषामनर्थकत्वे 'स्फुटपरागपरागतपङ्क- जम्-' इत्यादावेवैषामर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते

षडिति। अनुप्रासयमकचित्र श्ेषवक्रोक्तिपुनरुक्ताभासान् ॥ यस्य न स- विधे इति। अत्र पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाद्यम्। तदु- भयमप्युत्तरार्धे विपरीतं ज्ञेयमिति॥ किंचिद्च्मीति। भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषेदमादोषं विना सर्वस्ापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदशा: सन्ति। एतदेव सवितर्कमाह-ते किं सन्तीति। हृदयं हि सर्वस्य सर्वभूतमेवेति ॥ वर्णस्येति । वर्णस्य पादान्तरगतत्वेनावृत्तिन वैचित्र्यमादघातीति तरिमत्नेव पादे आवृत्त्यन्तरविचित्रायां नैरन्तर्येणावृत्तौ यम- कता ज्ेया। यथा-'नानाकारेण कान्तभ्रूराराधितमनोभुवा। विविक्ेन विला- सेन ततक्ष हृदयं नृणाम् ।।'मध्यान्तयोरपि-'उदाररचनारोचिर्भासुरा राजते

Page 275

२५० काव्यमाला। वक्तुमिति सत्यर्थ इत्युक्तम्। न च तदर्थस्यैव शब्दस्य पुनः शक्य- मुच्चारणम्, पौनरुत्त्यप्रसक्तेः इति सामर्थ्यलब्घेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिषितो भवति बन्धुबन्धुरत्वादिना च प्रयुक्त एव शब्द: पुनः प्रयुज्यते 'उदेति सविता ताम्रस्ताम्र एवा- स्तमेति च' इत्यादौ तत्र पौनरुत्तयदोषाभावात् यमकत्वं केन निवार्येते- त्यन्यार्थानामित्युपात्तम्। श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहा- र्थम्। तेन दन्त्यौध्यौध्यवकारबकारादिवर्णभेदे, लघुप्रयत्नतरालघुप्रयत्न- तरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोर्वास्तवे विशेषे यमकबन्धो न निरुध्यते। यथा- 'तस्यारिजातं नृपतेरपश्यद वलम्बनम्। ययौ निर्झरसंभोगैरपश्यदबलं वनम् ।।' अवलम्बनं पार्ष्णिग्रहाक्न्दासारादि। प्रपातपानीयाखवादैः पानीयानि तनूकुर्वत् अबलं सैन्यरहितम्। वनं काननम्। अत्रैकत्र-बवौ दन्त्यौ-

कथ।। अकलङ्कयश ...... मिन्दुमौले मति मम ॥' यथा वा-'विविधधववना नागगर्धर्धनानाविविततगगनानाममज्जज्जनाना शशरुरुललना नावबन्धुं धुनाना मम हि हिततनानाननखखनाना ॥I' विविधानि धववनानि यस्याम्। नागान् हस्तिनो गृध्यन्ति अभिलषन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैर्व्याप्ं गगनं यस्याम्। अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मज्न्तो जना यत्र। अनितीत्यना संस्फुरेति यावत्। स्त्रीरूपिणी वा। शशानां रुरूणां च ललनं यस्याम्। नौ आवयोः। अबन्धुं शत्रुं धुनाना। मम यस्माद्धितं तनोति। अमुख आत्मीयः खन एव आनः प्राणा यस्याः । सैवं समुद्रभूर्हरिणा हलधरं प्रत्यभिधीयत ।। वर्णयोर्यथा-भ्रमर द्रुमपुष्पाणि भ्रम प्रीत्यै पिबन्मधु। का कुन्दकुसुमे प्रीतिः काकुं हत्वा विरौषि यत् ।।' तस्मि- न्ेव पादे यथा-'हन्त हन्तररातीनां धीर धीरर्धिता तव। कामं कामन्दके-

Page 276

५ अध्याय:] काव्यानुशासनम्। २५१

ञ्यौध्यौ, अपरत्र-ओध््यदन्त्यौध्यौ। अपश्यदित्यत्रैकः शकारः, अप स्त्र द्वौ। तथा- 'भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमोमलालसा भवन्ति नैव ते क्वचित् ।' चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोSलघुप्रयत्नतरः। मलालसेत्यत्र लघुप्रयत्नतरः । तथा नकार-णकारयोरखरमकार-नकारयोर्विसर्जनीयस्य भावाभाव- योरपि न विरोध इति केचित्। यथा- 'वेगं हे तुरगाणां जयन्नसावेति भेङ्कं हेतुरगानाम्।' 'पातयाशु रथं धीर समीरसमरंहसम्। द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥' 'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्धचस्त्रस्यति कथं वृकयूथादजा यथा ।।' कमैक्यग्रहणात्सरो रस इत्यादौ 'प्रवण: प्रणवो यत्र प्रथमः प्रमथेषु यः । रणवान्वारणमुखः स वः पातु विनायकः ॥' इत्यादौ च यमकत्वं मा भूत्।। तत्पादे भागे वा। तद्यमकं पादे तस्य च भागे भवति। तत्र पादजं पश्चदशघा। तथा हि-प्रथमो द्वितीयादावावर्तते। द्वितीयस्तृतीयादौ। तृतीयश्चतुर्थ १. अत्र विसर्जनीयपदम् 'यमकश्रेषचित्रेषु बवयोर्डलयोर्न मिन्। नानुखारविसगौं च चित्रभङ्गाय संमतौ ॥' इति वाग्भटालंकारीयश्रोकोत्तरार्थस्थचित्रपदस्य यमकाबुप लक्षणत्वं सूचयन्ननुस्वारपदमप्यत्र स्मारयति. २. 'भङ्गहेतु' स्यात.

Page 277

२५२ काव्यमाला।

इति षट। प्रथमो द्वितीयतृतीययोः द्वितीयचतुर्थयोः, तृतीयचतुर्थयोः, द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः । प्रथमस्त्रिष्वपीत्येकः । प्रथमो द्वितीये। तृतीयश्चतुर्थे इति। प्रथमश्चतुर्थे द्वितीयस्तृतीय इति दौ। अर्धा वृत्ति: श्रोकावृत्तिश्च्वेति। द्वे इति। यथा- 'चक्रं दहतारं चक्न्द हतारम्। खड्गेन तवाजौ राजन्नरिनारी ।।' केश्िद्राजानमाह-समूहम्। न्रता। अरिसंबन्धि। रुरोद। भभ्ाशा अत्यर्थम्।। 'संयतं याचमानेन यस्याः प्रापि द्विषा वघः । संयतं या च मानेन युनक्ति प्रेणताञ्जनम् ।।' रणम्। देव्याः। जितेन्द्रियम् । पूजया ज्ञानेन वा ।। 'प्रभावतोऽनाम न वासवस्य प्रभावतो नाम नवासवस्य। प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य ।।' प्रभावात्। शकरस्य । तेजखिनः । नामः नमतेः कारकः । अनाम नमनरहितः । अतश्च विष्टपस्य प्रभौ सवामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छित्तिरासीत्। नवेत्येक एव निपातः प्रतिषे- धार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि॥ अर्धावृत्तिर्यथा- 'सा रक्षतादपारा ते रसकृद्गौर बाधिका। सारक्षतादपारातेरसकृद्गौरवाधिका ।।'

१. 'कश्षिन्नपमाह-हे राजन्, तव संबन्धिना खज्नेनाजौ रणे आरं रिपुसंबन्धि चक्रं समूहं अरं शीघ्रं दहता झता अरिनारी रिपुस्त्री हता भर्तृवधेन ताडिता सवी चक्रन्द करन्दितवतीत्यर्थः' इति रुद्रटालंक्ारव्याख्या. २. 'प्रणतं जनम्' स्यात.

Page 278

५ अध्याय:] काव्यानुशासनम्। २५३

सा देवी। त्रायताम्। अनन्ता। तव। रागकृदभिमतं वस्त्वत्यर्थः । वाश्रूपा। पालिनी। उत्कृष्टक्षतेः । अपगतविपक्षात्। अविरतम्। गौरवेणाधिका सर्वेषां गुरुरित्यर्थः ॥ ललोकावृत्तिर्यथा- 'स त्वारं भरतो वश्यमबलं विततारवम्। सर्वदा रणमानैषीदवानलसमस्थितः ।। सत्वारम्भरतोSवश्यमवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ।I' महापुरुषः पुनः । शत्रुसमूहम् । भरात् । वशे वर्तमानम्। बलर- हितम्। दीर्घाक्न्दम्। सर्वकालम्। संग्रामम्। प्रापयामास। अवान- लसम् अपि तु त्वरितं गच्छन्। अस्थीनि तस्यात्युपक्षिणोति। सत्त्वेन ये ते आरम्भास्तेषु रतः। सर्वथा आश्रितं तरुत्वग्वसनं येन शत्रुसमू- हेन। सर्वेषां दारणे यो मानस्तमिच्छति। दवाग्निना समं स्थितं यस्य।। तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्विती- यादिपादादिभागेपु, अन्तभागोऽन्तभागेप्वित्यष्टाविंशतिर्मेदाः। श्रोका- न्तरे हि न भागावृत्तिः संभवति। तद्यथा- 'सरस्वति पदं चित्तसरस्वति विधेहि मे। त्वां विना न हि शोभन्ते नराः काया इवासुभिः॥'

र्नीतिरस्या रस्या दिवानिशम् ।I' इति ॥ चित्तसरख्वतीति। चित्तसमुद्रे॥ १. रुद्रटालंकारव्याख्यायां तु-'अवान् अगच्छन्। कम्। अलसं निष्क्रियं जनम्' इत्येवनुपलभ्यवे.

Page 279

२५४ काव्यमाला।

'करेण ते रणेण्वन्तःकरेण द्विषतां हताः। करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ।।' 'परागतरुराजीव वातैर्ध्वस्ता भटैश्वमूः । परागतमिव क्वापि परागततमम्बरम् ॥' 'पातु वो भगवान्विष्णुः सदा नवघनद्युतिः । स दानवकुलध्वंसी सदानवरदन्तिहा ॥I' 'भवानि शं विधेहि मे भवानिशं कृपापरा। उपासनानि यज्जनोऽभवानि शंसति त्वयि ॥' 'पदद्वयं कपालिनः पुनातु लोकपालिनः । अलीयते नतो हरिः स यत्र पङ्कजप्रभे ।।' एवमन्यान्यप्युदाहार्याणि॥ त्रिधाविभक्ते द्वाचत्वारिंशत्। चतुर्धाविभक्त षटपश्चाशत्। प्रथम-

अन्तःकरेणेति। द्विषतामन्तविधायिना॥ परागतेति। परा प्रतिपक्षभूता पर्वते तरुपङ्किरिव। अत्र च व्यतिकारपरागेण रणरेणुना व्याप्तं गगनं परागत- मिव न जाने क गतमित्यर्थः ॥ सदेति। सर्वदा। स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता॥ भवानीति। हे गौरि, शं सुखम्। अनिशमनवरतम्। न विद्यते जन्म येभ्यस्तान्यभवानि॥ तत्र पादद्वयगतत्वेन 'सरखति-' इत्याद्युदाहरणमेकमेव प्रदर्शितम्। पादत्रयगतत्वेन च यमकं केर्षांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करेण-' इत्याद्युदाहरणचतुष्टयं दर्शितम्। एषु च प्रथमपादादिभागस्य द्वितीयपादादिभागेष्वावृत्तिर्दर्शिता। पादान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्ति प्रदर्शनार्थ तु पदद्वयमित्याद्युदाहृतम्। अन्यान्यपीति । तत्रोदाहृतशेषाण्याद्यभागजानि यथा-'सरखति यथा १. 'अन्तकरेण' इति स्यात्.

१. 'अन्तकरेणेति' स्यात्.

Page 280

५ अध्याय: ] काव्यानुशासनम्। २५५

पादादिगतान्त्यार्धादिभागे द्वितीयपादादिगताद्यार्घादिभागे यम्यन्त इत्या- द्यन्वर्थतानुस्मरणेनानेकभेदमन्तादिकम्। अन्तादिकमाद्यन्तकं तत्समु- च्चयः । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः ।

रत्नान्यनन्तानि स्फुरन्ति हि। सरखवति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥', 'परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता। तस्या हेतुं नमामीशं परमायाविना- शनम् II', 'योगिगम्यं गुणातीतं मधुकेतुं विभुं हरिम्। मधु केतुं नमाम्यादयं दप्तदैत्यविनाशनम् I' मधोः केतुरिव । मधु ब्रह्म केतुं ज्ञातुम्। कि 'कित ज्ञाने' इत्यस्य ।I 'प्रणमामि सुरारिम्नं शिवं सोमं भवान्तकम्। यो बिभर्ति विपन्नेषु शिवं सोमं च मूर्धनि ॥' सह उमया ॥ 'सुरासुरशिरोरत्नघृष्टपादनखांशवे। शंकराय नमस्तस्मै शंकराय जगत्रये ।' सुखकराय । 'पयोधरारवाः खराः पयोधरा जवान्विताः । पयोधरान्सरन्त्यतो पयोधरान्वियोगिनः ।।' जलधारी आरवो येषाम्। दुःसहाः मेघाः । कुचान्। असंजातस्तन्यात्। 'माधवाय नमस्तस्मै धेनुकान्तविधायिने। धेनुकान्तवृषस्थायोमाधवाय नमोऽस्तु ते ।' धेनुको नाम खररूपधारी विष्णुविघाताय कंसप्रयुक्तो दैत्यः । गोवल्लभवृषभासीनायै ॥ 'जगदेकगुरुयों हि जगदे कमलोद्भवा। भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः ॥' जगदेकगुरुरिति ब्रह्मणा यः कथितः। युष्मान्। संसारात् II 'देवि ला ये गिराजस्त्रं सत्यसंधेत्युपासते। देवि त्वा ये भजन्ते ते सत्यसंधेयसंपदाम् ।I' एतानि वृत्त्युदाहरणपञ्चकेन सहादयभागजानि चतुर्दश। एवमन्यभागजान्यप्युदाहरणीयानि। अन्तादिकमिति । दिख्ा- त्रम्। यथा-'नारीणामलसं नाभि लसन्नाभि कदम्बकम्। परमास्त्रमनङ्गस्य कस्य नो रमयेन्मनः ॥' अलसं क्रियासु सविलासम्। न अभि अपि लभयम् ॥ आदयन्तकं यथा-'पिनाकिने नमस्रातदैत्यभीवेपिनाकिने। नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥' भीवेपिनो भयकम्प्राः ॥ तत्समुच्चय इति। आद्य-

१. 'देवि' इत्यस्यामत्रितत्वेनाविद्यमानवत्वेन त्वादेशाप्राह्या 'त्वां' इति पाठेऽपि यमकनिर्वाहः, विसर्जनीयस्येवानुस्वारस्यापि यमकाविरोधित्वात्; यद्ा परसवर्णे कृते त्यक्षरमेव यमकं स्यात्.

Page 281

२५६ काव्यमाला।

तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थाने

न्तकान्तादिकयोर्योंगः । यथा-'ससार साकं दर्पेण कन्दर्पेण ससार सा। शर्रं नवाना बिभ्राणा नाविभ्राणा शरन्नवा ।' प्रवत्ृते। सार्धम्। दर्पेण कामेन च। लक्ष्मणाख्यपक्षियुक्ता। काण्डम् । नूतनशकटा। धारयन्ती। ...... .... ......... अपि तु पक्षिशब्दयुक्ता। ऋतुविशेषः । नूतना ॥ एवं मध्यादिक आदिमध्यः अन्तमध्यमध्यान्तकतत्समुच्चयतोऽत्रोदाहरणानि अभ्यूहयानि। मध्यादिकादयो भेदाः संभविनोऽपि न हृद्या इति नोदाहियन्ते इति केचित्। तस्मिन्नेव पादे इति। न तु पादान्तरे । तत्रादिभागस्य मध्यभागेनावृत्ति- र्यथा-'स रणे सरणेन नृपो बलितावलितारिजनः। पदमाप देमानमतेरुचितं रुचितं .. च निजम् ।।' सैमं ग्ामे। प्रयाणेन हेतुना। बलवत्वेन वेष्टितारिजनः । पदं राज्यलक्षणम्। उपशमाद्वेतोः । अनुरूपम भीष्टं च । आदिभाग स्यान्तभागेन यथा-'घनाघ नायं न नभा घनाघनानुदीरयन्नेति मनोऽनुदारयन्। सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥।' एतत्पथिकस्य प्रावृषि सुहृदो- च्यते-बहुपाप। श्रावणो मासो वार्षुकमेघान्विस्तारयन्न नायमेति। मनोऽर्या- द्विरहिणाम्। पश्चात् स्फोटयन्। तां कान्ताम्। निर्लील। उद्वेजयन्। सर्पवदा- चरसि। यद्वा कियत्तवैतद्वलीवर्दान्यूनो न भवति ।। मध्यस्यान्तेन यथा- 'असतामहितो महितो युधि सारतया रतया। स तयोरुरुचे रुरुचे परमेभवते भवते ।I' अननुकूलः । अत एव पूजितः । उत्कृष्टतया बलवत्तया वा। तदेक- सूक्तया स कश्िद्वीरः । प्रैसिद्धतया । विस्तीर्णकान्तये। प्रीतिमुत्पादितवान्। प्रकृष्टगजयुक्ताय । तुल्यम् ॥। आदेर्मध्यान्ताभ्यां यथा-'स्तेनतास्तेनतास्ते नता मानवामा नवा मानवाः । दानवादानवा दानवा वा नरावा नर वानराः ।।' चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीविनामात्मसमर्पणेन केनचिन्न- रपतिनापमानितस्य तमेव प्रतीयमुक्तिः-हे नरा नृपाश्च। प्रणताः । नूतनाः।

१. 'वीनां पक्षिणां भ्राणो विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राणा नैवं- विधा। इति रुद्रटालंकारटीकादर्शनेनात्र त्रुटिः प्रतीयते. २. 'दमात्' रुद्रटालंकारे. ३. 'सः । संग्रामे।' स्यात्. ४. 'प्रसिद्धया' रुद्रटव्याख्याने. ५. 'तुभ्यम्' स्यात्. ६. 'ते' स्यात्.

Page 282

५ अध्याय:] काव्यानुशासनम्। / २५७

आवृत्तिरिति प्रभूततमभेदं यमकम्।। एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वा- त्काव्यगड्डभूततेति भेदलक्षणं न कृतम्। काव्यं हि महाकवयः सुकुमार- मतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति। न च पृथग्यल्निर्वर्त्य यम- कादिनिरुद्धरसं तत्तथा सुखोपायः। सरित्पर्वतसागरादिवर्णनमपि वस्तु- वृत्त्या रसभङ्जहेतुरेव, किमङ्ग, न कष्टकाव्यम् ।। तथा च लोल्ट :- 'यस्तु सरिदद्रिसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिर्यातिफलो विततधियां नो मतः प्रबन्धेषु ॥

अभिमानमात्रमेतद्ड्डरिकादिप्रवाहो वा ॥' इति। स्रव्यञ्ञनस्थानगत्याकारनियमच्युतगूढादि चित्रम्। स्वरादीनां नियमश््युतगूढादिश्च चित्रं सादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम्।

पुरुषाः। स्तेनतया चौर्येण क्षिप्तस्वामिलक्ष्मीकाः। दर्पेण प्रतिकूलाः। दानकथा यामस्तुतिपराः दानवा एव नृपतयः । इत्यस्य(?) नरो न्यायस्तद्रहिता वानरा एवेति॥ अनियतस्थाने आवृत्तिर्यथा-'कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम्। तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्नि- शम् ।' पद्मिनीम् । भ्रमरी। न क्षमते। तां दृष्ट्रा तप्यत इत्यर्थः। सार्धम्। तं प्रियम्। इदानीम्॥ वसन्तेन । क्रीडाप्रधानम् ॥ प्रभूततमभेदमिति। म- हाकविभिरादृतस्यानियतदेशावयवस्य यमकस्यासंख्यत्वात् इत्यर्थः ॥ न च पृथ- ग्यन्ननिर्वरत्येति। यदाह ध्वनिकार :- 'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो १. 'भिदो हि र' रुद्रटव्याख्याने. २. 'अभिधान' रुद्रटव्याख्याने. १. 'पृथग्यत' इति मूले ध्यन्यालोके च. का० शा० १७

Page 283

२५८ काव्यमाला।

तत्र खरचित्रं यथा- 'जय मदनगजदमन वरकलभगतगमन।

ह्ृस्वैकखरम्॥। गतजननगदमरण भवभयगनरशरण ।।' एवं दीर्घैकख्वरद्वित्यादिखरनियमे उदाहार्यम् । व्यञ्जनचित्रं यथा- 'ने नोननुन्नो नुन्नोनो नाना नानानना ननु। नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ।।' भवेत्। अपृथग्यन्ननिर्वर्त्यः सोलंकारो ध्वनौ मतः ॥' इति ॥ दीघैकस्वरद्वि- त्र्यादिखरनियमे इति। दीर्घैंकखरनियमे यथा-'वैधैरैनैशैरैन्द्रैरैजैरैलै्जैनैः सैद्धैः। मैत्रेनैंकेवें धयेंः खै रौदैः खैधै दैवैस्तेसैः ॥' विधिर्विरथ्चिः । ईर्लक्ष्मी- स्तस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरि:। ईजः कन्दर्पः । इला भूः । जिनोऽर्हन् । सिद्धा देवविशेषाः । मित्रो रविः। रौदो धनदः । देवाः १. किरातार्जुनीयस्य पञ्चदशे सगें चतुर्दशस्यास्य क्रोकस्य व्याख्यानावसरे मल्िनाथस्तु-'नेति। पदच्छेदस्तावत्-न. ना. ऊननुन्नः नुन्नोन :. ना. अना. नानानना :. ननु। नुन्नः अनुन्नः ननुन्नेन: ना. अनेनाः, नुन्ननुन्ननुत। अथ योजना-हे नानानना नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुन्नो विद्ध ऊननुन्नो यः स ना न पुरुषो न। तथा नुन्न ऊनो येन स नुन्नोनो ना पुरुषोना नन्वपुरुष: खलु। ऊनान्भीतः पलायमानस्तु किं वक्तव्यमिति भावः । किंच नुन्न इनः स्वामी यस्य स नुन्नेनः स न भवतीति ननु- न्नेन:। नञर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः । स नुन्नो विद्धोऽप्यनुन्नोऽविद्ध एव। यूयमनुन्नस्वारमिकत्वादनुन्ना एवेति भावः। तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्तान्नुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोडनेना निर्दोषो न भव- तीति। किंतु सदोष एवेति। 'नार्त नातिपरिक्षतम्' इति निषेधादित्यर्थः। अयं तु नैतादृश इति न पलायितव्यमिति भावः । अयमेकव्यञ्ञनः । अन्त्यस्तकारस्तु न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात्।' इत्येवं स्फुट व्याख्यातवान्, १. 'पृथग्यत' इति मूले ध्वन्यालोके च. २. 'रैदैः' स्यात्. ३. 'रैदो' स्यातू.

Page 284

/ ५ अध्याय: ] काव्यानुशासनम्। २५९

रणपराड्मुखा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना न पुरुषो य ऊनेन हीनेन जितः विजित- हीनोऽपि पुरुषोऽपुरुषः । ननु संबोधने। जिनोप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, जितं योजितं नुदतीति॥ एकव्यञ्जनम् ॥ एवं द्वित्यादिव्यञ्जननियमे उदाहार्यम् । स्थानमुरःकण्ठादि। तच्चित्रं यथा- 'अगा गां गाङ्गकाकाकगाहकाघककाकहा। अहाहाङ्गखवगाङ्कागकङ्कागखगकाककः ।।' कश्चित्पुरुषः स्तूयते-हे गाञ्ककाकाकगाहक गङ्कासंबन्धीषज्जलकु- टिलगतिविलोडक, त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता। जिहीते: किपि हानं हाः । न हां गति जहाति यत्तथाविधमङ्गं यस्य स खगः सूर्यश्चिह्नं यस्य स गिरिरर्थान्मेरुस्तत्र कड्का्याः पर्वतपत्रिणः काककाः शब्दकारिणो यस्य स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्य-

सुराः। तेषां संबन्धिभिः तैसैः। अनेकैधैयैं: खैर्वित्तैश् वै स्फुटं सुष्ठु। समन्ता- देघे समृद्धो भवाम्यहम्॥ द्विखरनियमे यथा-'क्षितिस्थितिमितिक्षिप्तिविधि- विन्निधिसिद्धिलिद । मम त्र्यक्ष नमददक्षहरेः स्मरहर स्मर ॥' पृथिव्याः पालनप- रिच्छेद: प्रेरणसष्टीर्वेत्ति निधिसिद्धीरलेंठि चेति क्विपि संबोधने मां स्मरेति॥ त्रिखव- रनियमे यथा-'क्षितिविजितस्थितिविहितिव्रतरतयः परगतयः। उरु रुरुधुर्गुरु दुस्तुवु(१)युंधि कुरवः स्मे मरिकुलम् ।I' भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम्। रुद्धवन्तः । दुःसहम् । विक्षिप्तवन्तश्च। युधिष्ठिरा- दयः ॥ आदिग्रहणाचतुःखरादिनियमेऽप्यभ्यूह्यम् । द्वित्र्यादिव्यञ्जननियमे इति॥ द्विव्यज्ञननियमे यथा-'भूरिमिर्भरिभिर्भींरा भूभारैरभिरेभिरे। भेरीरे- १ .- २. विसर्जनीयो लेखकप्रमादजो भवेत्. ३. 'विजिति' स्यात्. ४. 'स्व' स्यात

Page 285

२६० काव्यमाला। मानकीर्तिर्गामगा: स्वर्ग गतोऽसीत्याशंसायां भूतवन्निर्देशः । कायति अर्थमभिघत्ते इति काक: शब्दः औणादिके। तं करोति इति णिचि तदन्तादके च काककः ॥! कण्ठस्थानम्। एवं द्वित्यादिस्थाननियमे उदाहार्यम्। गतिर्गतप्रत्यादिका। तच्चित्रं यथा- 'वारणागगभीरा सा साराभीगगणारवा। कारितारिवधा सेना नासेधा वरितारिका ।I' करिगिरिदुर्विगाहा। उत्कृष्टा। अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता। विहितशत्रुक्षया । खार्थे णिग्। अविद्यमान आसेधो यस्याः । मया सह युध्यध्वमिति वरिताः प्रार्थिता अरयो भिभिर भ्रामैरभीरुभिरभिरिभा: ॥' बहुभिः। कङ्कटपताकादिभारयुक्तैः। भय प्रदा: भुवो भारभूतैः । डुढौकिरे। संजग्मिरे इति यावत्। दुन्दुभिवन्नदनशीलैः। मेघश्यामैः। निर्भयर्गजैः । गजाः ॥ त्रिव्यज्ननियमे यथा-'देवानां नन्दनो देवो नोदनो देवनिन्दिनः। देवं दुदाव नादेन दाने दानवनन्दिनः ॥' देवो विष्णुः । स्वर्गमुपतापयामास किमित्युपजातशङ्कमकरोत्। नादेन वक्षोस्थिश- ब्देन। दाने विदारणे। दानवनन्दिनो हिरण्यकशिपोः ॥ आदिग्रहणाच्चतुर्व्यञ्ञ- नादिनियमेऽप्यभ्यूह्यम् ।। द्वित्यादिस्थाननियम इति। द्विस्थाननियमे मत ।।' कंचित्कामिनमन्यासैक्तनिजवधूनिमित्तं सानुनयं काचिदाह-हे सतत- मपाप, सतामानन्दकारिन्, प्रणताङ्गेष्वनुरागयुक्त सा सँल्लना कामाक्रमणविलग्ना- नेकपीडा वर्तते। तत्तां रक्षेत्यर्थः ॥ दन्तकण्ठलक्षणं स्थानद्वयमत्र ॥ त्रिस्थान- नियमे यथा-'अलिनीलालकलतं कं न हन्ति घनस्तनि। आननं नलिनच्छा- १. 'प्रत्यागता' स्यात्. १. 'रिमैरिभाः' स्यात्. २. 'दिवं' स्यात्. ३. 'सक्त' स्यात्. ४. 'सललना' स्य,त्.

Page 286

५ अध्याय:] काव्यानुशासनम्। २६१

यया सा यदूनां सेना। द्विषतां बलं प्रयातेति पूर्वेण संबन्धः । अत्रायु- क्पादयोर्गतिः युक्पादयोः प्रत्यागतिरित्यर्घे ते एवेति पादगतप्रत्यागतम्।

यनयनं शशिकान्ति ते ।।' अलिवन्नीला अलका एव चश्चलत्वादिना लता यत्र ॥ दन्ततालुकण्ठलक्षणं स्थानत्रयमत्र ॥ एवं चतुःस्थानादिनियमेऽप्युदाहार्यम्॥ अर्धगतप्रत्यागतं यथा-'वेदापन्ने स शक्के रचितनिजरुगुच्छेदयल्नेऽरमेरे देवा सक्तेऽमुदक्षो बलदमनयदस्तोददुर्गासवासे। सेवासर्गादुदस्तोऽदयनमदलवक्षोद- मुक्ते सवादे रेमे रत्नेऽयदच्छे गुरुजनितचिरक्केशसन्नेऽपदावे ॥' स कश्वित्करि्मिश्चि- दरन रत्नभूते पुरुषे रेमे निर्वृतोऽभवत्। वेदापन्ने। प्रियंवदे। कृतः सहजाया अवि- द्याखयरुज उच्छेदयत्नो येन। न रमन्ते सुजनेषु धर्मे चेत्यमरान् दुर्जनानीरयति यः। देवभक्ते। अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः। शक्त्यु- पशमनीतीनां दाता। व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने। राजप्रणतिकरणान्निवृत्तः । अदयया दर्पाशेन हिंसया च त्यक्ते। प्रमाणशास्त्रकुशले। अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान्व्यति छिनत्ति यः। यदि वा अयन् अयच्छन् अच्छा नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते। गुरुभि: शुश्रूष्यमाणैः जनितो यश्विरं क्लेशसेन श्रान्ते तत्र वा सक्ते। पदरहितानवति यः ॥ शरोकगतप्रत्यागतं यथा-'निश्चितासिर- तोऽभीको न्येजतेऽमरणा रुचा। सारतो न विरोधी ने खाभासो भरवानुत । तनुवारभसो भाखानधीरोऽविनतोरसा। चारुणा रमते जन्ये कोऽमीतो रसि- ताशिनि ॥' कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानरणाः । तीक्ष्णखङ्गप्रसक्तः । भीरहितः । बलात्। न न विरोधी। सुष्ठ आभासत इति खाभासो दर्शनीयः । धुर्यश्व। उत चार्ये। वर्मणा बभस्ति। तेजखी। रुचा तेजसा हेतुना न्येजते न कम्पते। निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भय- वान्। सिंहनादेनादशीले समरे कमनीयेनोन्नतवक्षसा। क्रीडतीति॥ सर्वतोभद्रं १. 'अच्छो' रुद्रटालंकारव्याख्याने. २. 'नोडसाकम्' इति व्याख्यानस्योपलम्भेन 'नः' इति सविसर्गपाठः किरातार्जुनीये. ३. 'मरणरहिताः' इति घण्टापथसंवादात् 'अविद्यमानमरणाः' स्यात, ४. 'नोडस्माकम्' घण्टापथे. ५. 'रसितेन शब्दितेनैवा- श्नाति ग्रसतीति रवेणैव विश्वप्राणहारिणीत्यर्थः' इति घण्टापथे.

Page 287

२६२ काव्यमाला।

गोमूत्रिकादीन्युदाहार्याणि।

यथा-'जितानया या नताजितारसाततसारता। न सावना नावसानयातनारि- रिना(?)तया ।।' जिता अनीतयोऽननुकूलदैवं वा यया। प्रणतानां रणान्तरे आतननमाततं सह तेनेति सविस्तरा दंढतया। बहुतरं दार्व्यमित्यर्थः । न न सरक्षणा। अर्थाद्भक्तानाम्। अन्तकालदुष्कर्मविपाकताडनायाः वैरिणि स्वामिनी- (१)तयेत्युक्तरणे संबन्धः ॥ अत्र न केवलमघोधःक्रमेण स्थितानां पादानां प्राति- लोम्येन स्थितिर्यावदर्धभ्रमस्यापि। तत्र हि प्रथमादिपादानां प्रथमेश्चतुर्थतृतीय- द्वितीयप्रथमपादानामष्टमैश्वाक्षरैः प्रथमपादः। एवं द्वितीयसप्तमैस्तृतीयषष्ठैश्चतुर्थ- पश्चमैश्च द्वितीय तृतीयचतुर्थपादाः। इह च सर्व तदेवोपलभ्यत इत्यर्धभ्रमस्याप्यव- स्थानात्सर्वतोभद्रम् । अर्घभ्रमं यथा-'ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि। त्वराधिककसन्नादे रमकत्वमकर्षति ॥' सपौरुषाणां रागप्रदे। सभयानां कोपाहा- रिणि। त्वरयाधिकप्रसरत्सिहनादे रणरसिकत्वमपनयति॥ तुरगपदागतं यथा- 'सेना लीलीलीना नाली लीनाना नानालीलीली। नालीनालीले नालीना लीलीली नानानानाली II' सेना अहं ना पुरुषो लडयोरेकत्वस्मरणमिति ईले स्तौमि। लीला विद्यन्ते येषां तान् लीलिन: ईले स्तौतीत्येवंशीलो यः स सामी यासाम्। शुद्धविषये सविलासान्नरानर्चयति यासां प्रभुरित्यर्थः । आलमनर्थो विद्यते यस्य स नाहम्। लीनानि अनांसि रथादौ यस्य सः। नानाप्रकारा या आल्यो व्यूह- रचनास्तासु या लीर्लयनं श्लेषस्तां लान्ति गृह्नन्ति ये ते विद्यन्ते यस्य। न आली- नामाश्रितानामली भृङ्गः उपजीवकः आलीनाः श्लिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नृपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो यस्य। आलवान् मूर्खः । न आली अनाली अमूर्खः॥ अनेन तुरगः खेल्यते। तथाहि- 'खाद्यो द्यगनिर्विधुशरः स्नाश्वः सागराष्टमः । त्रिषष्टोऽळ्ध्यम्बुधिस्यङ्गिः खाभि- १. 'दृढता' स्यात्. २. 'सेना:, लीलीलीनाः, न, आली, लीनानाः, नानाली- लोली, न, आलीनाली, ईले, ना, आलीना:, लीलीली, 'नानाना, अनाली' इत्येवं पदानां विभागो रुद्रटव्याख्याने दर्शित: ३. 'ईट्टे' स्यात्. ४. 'आलीनाना' रुद्रट- व्याख्याने. ५. 'लीलीली' स्वात्.

Page 288

५ अध्याय:] काव्यानुशासनम् । २६३

आकार: खङ्ग-मुरजबन्घाद्याकृतिः। तच्चित्रं यथा- 'मारारिशकरामेभमुखैरासाररंहसा। सारारब्घस्तवा नित्यं तदार्तिहरणक्षमा ।। माता नतानां संघट्टः श्रियां बाधितसंभ्रमा । मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ।' मारारिः शिवः । रामो मुसली। आसारवेगतुल्येन सर्वेषामाद्या॥ खङ्ग: ॥ तथा च- द्राढिकान्तरे साधारणो माशब्दः । तस्य दक्षिण- तोऽघः क्रमेण वर्णाश्रतुर्दश। शिखायां साशब्दः । ऊर्ध्वक्रमेण। वामतस्तावन्त एव यावन्माशब्दः साधारण: । एतत्फलम्। तस्यैव माशब्दस्य दक्षिणतो निःसरणक्मेण गण्डिकायां वर्णत्रयम्। उपरि

द्वींषुः खसप्तमः ॥ त्र्यन्तोऽब्धिषष्ठर्यम्भोधिस्तुर्याक्षिसनचन्द्रमाः । त्र्यग्निरब्धि- खमङ्यङ्गिः खाम्भोधिरवहिसायकः ॥ वेदाश्वो द्विवसुः खर्तुर्रयश्वः खान्तोऽङ्गिष- षठक्रः। तुर्येषुर्द्यब्धिरायब्गिरूयाद्योऽ््यननिर्ययोर्गम:॥' खादिभिरेकादीनि लक्ष्यन्ते। अत्र समासस्थं पूर्वपदं पङ्केरुत्तरपदं तु कोष्टकस्य ग्राहकम् । ययोरश्वस्य गमः संचारपदमिति यावत्। एवमेव च तुरगफलकस्यापारेर्धेर्घे खेलनीयाः ॥ गोमू- त्रिका यथा-'काङ्कन्पुलोमतनयास्तनताडनानि वक्षःस्थलोच्छितरयाश्चनपीड- नानि। पायादपायभवतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचां प्रसारी ।' पादे गोमूत्रिकेयम् ॥ अर्धगोमूत्रिका यथा-'चूडाप्रोतेन्दुभागद्युतिदलिततमः- कन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा। कीडाधूते- शभामा दयुसदनतनिमच्छेदनीव ध्रुवा णो देहे देवी दुरीरं दममर ... तनान- न्दिनो नान्यधामा ॥' शं सुखम् । असाधारणस्थानः । क्रीडया अपनीतः शिवक्रोधो यया। भ्रुवा भ्रृक्षेपेण अस्माकं शरीरो दुरपसार्यमुपशमं संततप्रणता

१. 'परे' स्यान्. २. 'अस्माकं' इति व्याख्याकरणात् 'नो' स्यान्. ३. 'नता नन्दिनानन्य' स्यात्. ४, 'शरीरे' स्यात्.

Page 289

२६४ काव्यमाला। माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्रत्वारो वर्णाः। एतच्च कुलकम्। ततस्तस्य माशब्दस्योपरि वर्णद्वयम्। एत- न्मस्तकम्। सामामाशब्दा द्विःपश्चकृत्वो द्विरावृत्ताः ॥ 'या दमानवमानन्दपदमाननमानदा। दानमानक्षमानित्यधनमानवमानिता।। या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शम- सुखलाभः। मुखस्य पूजां ददाति। निरपत्रंशभाषणाद्धि मुखं पूज्यं भवति। दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता। मानं ज्ञानम्। मुरजबन्धः ॥ तथा हि-पादचतुष्टयेन पङ्किचतुष्टये कृते प्रथमादि- पादेभ्यः प्रथमाद्यक्षराणि चत्वारि। चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथम: पादः । द्वितीयात्प्रथमं प्रथमाद्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात्तृतीयद्वितीये तृतीयात्पादात्प्रथममक्षरं गृहीत्वा द्वितीय: पादः । द्वितीयादष्टमं प्रथमात्सप्तमषष्ठे द्वितीयतृती-

प्रतीहारेण। उमा च अपूर्वद्युतिः।। श्रोके गोमूत्रिका यथा-'पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्योरुद्धाज्गभागः पुरदनुजदवः स्त्यानसंविन्नि- धानम्। कन्दर्पक्षोददक्ष: सरससुरवधूमण्डलीगीतगर्वो दैत्याधीशान्धकेनानतच- रणनखः शंकरो भव्यभाव्यः II' घनज्ञाननिधिः । भव्यैर्ध्येयः ॥ 'देयान्नश्चण्ड- धामा सलिलहरकरो रूढकन्दाभबिम्बो देहे रम्भज्गरागः सुरमनुजदमस्त्यागसंप- त्निधानम्। भंदं दिग्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो दैन्यैधी बन्धहा- नावततरसनयः शंपरो दिव्यसेव्यः ॥' तिग्मांशुः । रुजां विनाशे आसकः। भंद कल्याणम्। दिशां क्षोभदा श्रीर्यस्य। सत्योऽत एव निर्भया या वध्वसन्नि- र्भॅर्त्सनवचसामविषयः। न दैन्यमेधयत इत्येवंशीलः। कर्मबन्धपरित्यागे विस्तीर्णों नयो यस्य। शं पिपर्ति पूरयति॥ आदिप्रहणाद्गजपदरथपदादीनि ज्ञातव्यानि॥

Page 290

५ अध्याय: ] काव्यानुशासनम्। २६५

याभ्यां पञ्चमे चतुर्थात्वष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा चतुर्थः पादः। एवं मुसल-धनुः-बाण-चक्र्-पद्मादय उदाहार्याः।।

मुसलेत्यादि। मुसलधनुषी यथा-'मायावित्तं महाहावा रसायातं लसद्भुजा। जातलीलायथासारवाचं महिषमावधीः ॥' 'मामभीदा शरण्या मुत्सदैवारुक्प्रदा च घीः। धीरा पवित्रा संत्रासान्नासीष्ठा मातरारमः ॥I' संदानितकमिदम्। महान् हावश्वेष्टालंकारो यस्याः। वीररसेनागतम्। सारादेपानतं यथासारं यैथा- सारं वाग्यस्य। प्रतिज्ञाभ्रष्टमित्यर्थः । हे मातः, हतवती त्वम्। एवंभूता या सा त्वमारमः व्यापारान्तरान्निवर्तखव मां भयात्रासीष्ठाः रक्ष्याः । अभियं ददाति या मुत् हर्षरूपा। घी: संविद्रूपा ॥ मुसलस्य न्यासो यथा-'मा' इत्यतः प्रभृत्य- बोधः क्रमेण वर्णसप्तकम्। ततो वर्णदेशमात्रं दक्षिणपार्श्वे प्रसृत्याघोधः क्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम्। ततो वामपार्शे प्रसृत्य वर्णपञ्चकम्। ततो मध्ये 'जा'शब्दः साधारः। तदुपरि दक्षिणपार्श्वे प्रसृत्योर्ध्वकरमेण वर्णपञ्चकम्। तदु परि वामपार्वे प्रसृत्य साधारं वर्णत्रयम्। ततो दक्षिणपार्श्वे प्रसृत्य वर्णसप्तकम्।। धनुषो न्यासो यथा-'मा'शब्दः शिखा। ततो 'म'कारात् प्रभृत्याद्यमर्ध कुटि- लमधः क्रमेण विन्यास्यम्। ततो'घी'शब्दात्साधारात्प्रभृति 'त्रा'शब्दान्तमूर्ध- कमेण न्यासः । ततः 'सं'शब्दः । पार्श्वे ततः 'त्रा' इति साधारः। ततोऽपर- पार्श्वे 'सा' इति। ततः 'त्रा'शब्दः साधारः। ततोऽक्षरषटू मूर्ध्वक्मेण न्यास्यम्। ततो 'म'शब्दः साधारः ॥ बाणो यथा-'माननापरुष लोकदेवीं सद्रस संनम। मनस्रा सादर गत्वा सर्वदा दास्यमङ्ग ताम् ।I' पूजयापगतो रोषो यस्यास्ताम्। त्रिभुवनदेवीम्। हे शोभनभक्तिरस। सम्यक् प्रणम। मनसा दास्यं गत्वा। तां देवीम्। अङ्गेति प्रियाह्वाने॥I न्यासो यथा-अघोधः क्रमेण वर्णचतुर्दश- कम्। ततोऽक्षरद्वयं फलकार्ध साधारम्। तत ऊर्ध्वक्रमेणाक्षरचतुर्दशकम्॥ यथा वा-प्रथमपादेन ऊर्ध्वक्रमेण शरः। तत ऊर्ध्व फलस्यादौ 'दे'। तदूर्ध्व च वामभागे 'वीम्'। मध्ये 'सः'। दक्षिणतो 'द्रः'। ततो मध्यसकार एव द्विः। तदुपरि फलाग्रे 'नमौ'। अटनेर्वामत ऊर्ध्वक्रमेण 'मनौ'। मूले 'सा' साधारः। दक्षिणतोऽघःक्रमेण 'दरम्'। दक्षिणवाजे ऊर्ध्वक्रमेण 'गता सर्वे'। ततः शरे १. 'मायाविनं' रुद्रटे. २. 'दनपेतं' स्यात्. ३. 'न यथासारं' स्याठ.

Page 291

२६६ काव्यमाला।

'सामा'वर्णयोरन्तरे 'दा' साधारः। वामवाजेऽघः क्रमेण 'स्यमङ्गताम्'॥ चक्रं यथा-'त्वं वादे शास्त्रसज्ञिन्यां भासि वाचि दिवौकसः। तवादेशास्त्रसंस्कारा- जयन्ति वरदे द्विषः ।I' हे अभिलषितदायिनि, वादे खपक्षपरपक्षपरिग्रहे शास्त्रसक्कायां भारत्यां त्वम्। शोभसे। तथा देवा रिपून् अभिभवन्ति । कुतः तवाज्ैवास्त्रं विनाशायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः ॥ अत्र पञ्चाक्षरयमने- डप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् । 'सदाव्याजवशिध्याताः सदात्तजपशि- क्षिताः । ददास्यजस्नं शिवताः सूदत्तोजदिशि स्थिताः ॥' सर्वदा अव्याजं जिते- न्द्रियैर्याताः । शोभनं कृत्वा गृहीतमत्त्रवर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्टूर्जित विष्णुस्थानं परं ब्रह्म तत्र स्थिताः ॥ गोमूत्रिका धेनुरियं क्रमव्युत्कमाभ्यां चतुर्वि- शतिप्रकाराः। तथा हि-चतुर्ष्वपि पादेषु पङ्किशो लिखितेषु प्रथमद्वितीययोस्तृ- तीयचतुर्थयोश्ष क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः। एवं प्रथमतृतीययोः शिष्टयोश् प्रथमचतुर्थयोः शिष्टयोक्ष द्वितीयतृतीययोः शिष्टयोश्च द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयो: शिष्टयोश्च चत्वारश्चत्वार इति साकल्येन षट्चतुष्का इति ॥ 'हरेः खसारं देवित्वा जनताश्रित्य तत्त्वतः । वेत्ति खसारं देवि त्वां योगेन क्षपिता शुभा।।' हे देवि, भगवतीं गोविन्दस्य भगिनीमुपास्य जनसमूहो निजमुत्कर्ष परमा- र्थतो जानाति। कथम्। चित्तत्ृत्तिनिरोधेन व्यवहृत्य। कीदृग्जनता। विनाशितकि- ल्बिषा। तथा च मनुः-'प्राणायामैर्दहेद्दोषान्प्रत्याहारेण संगतिम्। ध्यानेनानी- श्वरान्भावान्धारणाभिश् किल्बिषम् II' अनियतावयवं यमकमेतत् ॥ 'सदाप्रोति पैतिर्ज्योतिस्वादशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥' शोभनम्। आदित्यस्य तुल्यः । मोहविनाशात् । एतेन ज्योति:स्वरूपा भगवतीति प्रतिपादितम्। यदुक्तम्-'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाऔ तत्तेजो विद्धि मामकम् ॥' मध्ययमकमन्तादिकमिदम् ॥ 'त्वं सद्गतिः सितापारा पैरविद्योत्तितीर्षतः । 'संसा ... दत्र चाम्ब त्वं [सत्वं पासि विपत्तितः]।' त्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्त्वज्ञानम्। अंत्र भवे। हे मातः । प्राणिनामापदः । गूढचतुर्थः ॥ 'परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियं शरणमाद्टताः ॥I'हे जनाः, अत्यर्थ सादराः सन्तः देव्यास्तां १. 'सूदात्ताज' इति देवीशतके. २. 'यति' इति देवीशतके. ३. 'परावि-' इति देवीशतके. ४. 'संसारा' इति देवीशतके, ५. 'प्राणिनम्। आ' स्यात्. ६. 'यां' इति देवीशतके.

Page 292

५ अध्याय:] काव्यानुशासनम्। २६७

स्मृति शरणमागच्छत। किंविधा। या स्मृतिः प्रकृष्टा तपोवृत्तिः। देवीस्मरणमेव परमं तप इत्यर्थः। अनियतावयवं यमकमिदम् ।। 'प्रवादिमतमेदेषु दृशास्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥' दर्शनानि महिम्रा- माश्रयः। यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्टय इति तात्पर्यम्। भवत्रिशूलस्य कोटीनां विषमधारा इव। अन्तयमकम्। 'यच्चेष्टया तव स्फीत- मुदारवसु धामतः। तच्चेतो यात्यवहितं मुदा रवसुधामतः ॥' यच्चेतस्तव श्रव- णचिन्तनाध्ययनादिव्यापारेण विकसितं सावधानं च। अत एव शाश्वतघनरू- पम्। तच्चेतो हर्षेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् खसुधां शब्दामृतं शब्द- ब्रह्मोदयं याति। गोमूत्रिकाबन्धो यमकं वा ।। 'सुरदेशस्य ते कीर्तिर्मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैभवती भुवि देवता ॥' खर्गस्य । ते पुमांसः। हे वरदे। धीरैरविकृतचित्तैः। तेषां कीर्तिः स्र्गं यातीति भावः। अनियताव- यवं यमकम् । पादपरावृत्त्या गोमूत्रिकापि ॥ 'तत्त्वं वीतावततनुत्तत्त्वं ततवती ततः। वित्तं चितं च वित्तत्वं वीतावीतवतां वत ।I' यतस्त्वं भवती तत्तत्वं परव्रह्मखरूपम्। वीतावततनुत् विगतविस्तीर्णव्यथम्। विस्तारितवती। सांख्यानां त्वमेव यस्मात्सर्वत्र प्रधानमित्यर्थः । ततोहे वित् विद्ये, वीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसैद्भावका दश हेतवस्तेद्वतां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम् । त्वं धनं प्रसिद्धमित्यर्थः । बतेत्याश्चये। द्यक्षरः ॥ 'तारे शरण- मुँच्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रखदोषा पासि नोदने ॥' हे ताराख्ये देवि विमले, वस्त्वं शरणं सती आश्रितत्राणायोत्तिष्ठमाना। शकस्य संग्रामम्। व्यापारैः । दोषक्षेपिणा निजबाहुना रक्षसि। प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः संपद्यन्त इति वाक्यार्थः । उद्यन्ती- त्यत्र मुन् चिन्त्यः। अनियतावयवं यमकम्। पादगोमूत्रिकापि। प्रागुक्तेन 'सुरदेशस्य ते कीर्तिः' इत्यनेन पादपरावृत्तिगोमूत्रिकाबन्धेन सह अमुना पाद- गोमूत्रिकाबन्धनतूणबन्घेयम्। तथा हि। प्राक्तनश्लोकस्य प्रथमतृतीयपादाक्षरैर- घोधः क्रमेण पङ्डिद्ये कृते गोमूत्रिकया नालिरुत्पद्यते। अनावृत्त्यान्त्यवर्णाभ्यां १. 'शस्ते' इति देवीशतके. २. 'वित्तव' इति देवीशतके. ३. 'वीतसंज्ञाअवीत- संज्ञा च सांख्यानाम्' इति देवीशतकव्याख्यायां कैयटः. ४. 'सद्भावावेदका देशहे-' इति देवीशतकव्याख्यायां कैयट: ५. 'तद्वतां' इति देवीशतकव्याख्यायां कैयटः, ६. 'मुदन्ती' इति देवीशतके. ७, 'नुम्' स्याद,

Page 293

२६८ काव्यमाला।

बुध्नम्। तदुपरिष्टाच्च 'तारे' इत्यादिश्रोकपादैरूर्ध्वक्रमेण पङ्िचतुष्टये कृते पाद- गोमूत्रिकया मुखम्। अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थ द्वारप्रादेशदर्श- नम्। इति ॥ 'सुमातरक्षयालोकरक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जन- नीतिगुणस्थिती: ॥' अक्षयज्ञानरक्षणेन। गृहीतं महन्मनो यया। धैर्योत्पादिका। अनियतावयवं मध्यादियमकम् । 'ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुषामितः । सदा सरक्षसां मुख्यदानवानामसुस्थितिः॥2 ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पनं छेदनमिति। अद्वितीया। त्रयाणां वेदानां परिपूर्णत्वभाजामपि। इतोऽ- स्मिल्लोके। अस्माजगतश्च। सरक्षणाभिमुख्यप्रदा। अकृतकानां वेदविशेषणमि- दम्। जीवितरूपा सती। सराक्षसानां प्रधानदैत्यानां दुःखासिका सत्यपि। रेफविवर्तिकोऽयम्। 'गर्य' इत्यत्र रेफ उपरिष्टादघक्च परितृत्तः ॥ 'सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेतिसूतिः सूतिसतोऽसि सा ॥' हे देवि, यतो निर्मला। सभासु। शोभनता। तिष्ठति। स्तवात्। तव। सदा। साधोः। तथा विस्तीर्णा। विद्यमानता। एति। दीर्घायुर्भवतीत्यर्थः । क्षिप्ता ईतिसूतिरुपद्रवप्रभवो यस्यामस्तितायाम्। ततो हेतोः शोभना ऊतिः सुरक्षा। सा प्रसिद्धा। भवसि त्वम्। द्यक्षरः ॥ 'त्वदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धमरिनुत्तितः ॥' हे मलनुत् आवरणनिवारिणि, त्वच्छा- सनेन त्रैलोक्यं वर्तते। यतो रिपुक्षेपणात्वया प्रकाशितम् । अर्थगोमूत्रिका- बन्धः ॥ 'यतो याति ततोऽत्येति यया तां तायतां यतेः । मातामितोत्तमतभा तमोतीतां मति मम ॥' यया मत्या यतो निवर्तते ततो विमुच्यते तां भम मति विगततमस्कां तायतां पालयताम्। भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी। अपरिच्छिन्ना। अत एव प्रकृष्टतमा। त्र्यक्षरः ॥ एते षोडश शरोका- श्वकरे रेमेरारभ्य नाभं यावत् अनुलोमतो लिखिता अन्ये षोडशाराः । अत एव च नाभेराराभ्य पुनरतुलोमतो लिखिता अन्ये षोडश । इत्थं द्वात्रिंशदराः ॥ 'महतों त्वं श्रिता दासजनं मोहच्छिदावस । यः शुद्धत्वं गतः पापमन्यस्य प्रसभं जयाँ ॥' माहात्म्यम्। हे मोहच्छिदज्ञाननाशिनि। आवस अधिष्ठाय।

१. 'तता'स्यात्. २. 'रव समिद्धम-' इति देवीशतके. ३. 'तैः' इति देवीशतके. ४. 'नेमे' स्यात्. ५. 'त्तां' इति देवीशतके. ६. 'यच्छुद्ध-' इति देवीशतके. ७.'य' इति देवीशतके. ८. 'अघितिष्ठ' इति देवीशतकव्याख्यायाम्.

Page 294

५ अध्याय:] काव्यानुशासनम्। २६९

च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा। तत्र मात्राच्युतकं यथा- 'भूतियोजितभर्तव्यः कृपाणाकान्तमण्डलः । महापदशुभावास त्वत्समः कुपतिः कुतः ॥'

इति द्विविधो हि जनः, अपापः सपापश्च ॥ 'त्वं साज्ञासु जगन्मातः स्पष्टेज्ञाता सुवर्त्मसु। प्रज्ञा मुख्या समुद्धासि तत्पृथुत्वं प्रदर्शय ।I' हे जगन्मातर्, विविक्तं विदिता सती त्वं शोभनवर्त्मसु सन्मार्गेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते। तस्याः प्रज्ञायाः पृथुत्वं समुद्ासनशीलं प्रकटीकुरु। अस्मादेव चेयमार्या प्रादुर्भवति। 'आज्ञासु जगन्मातः रपष्टज्ञाता सुवर्त्मसु प्रज्ञा। भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ।I' शोभनं वर्त्म येषां तद्विषयासु राजा सः। स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात्। शेषं तथैव ॥ 'हक्रयो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥' क्रोधस्य विनाशिन्यः एताः क्षमाः शोभना अविकाराश्व त्वमसि। अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुकूल: ॥ 'करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः। पदं यतिः सुत- पसा लभतेऽतः सशुक्किम ॥' हे उन्मूलिताज्ञान पदे यतस्ता मतीमैंत्री प्रमुदि- तादिकाः अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्किम्रा वर्तते यत्तत्पदम्। तमोमलहीनमित्यर्थः । चत्वार एते नेमिश्लोकाः । एभ्यक्ष प्रथमं प्रथमं त्रीणि त्रीण्यक्षराणि लिख्यन्ते। चतुर्थ चारश्ठोकप्रारम्भाक्षरं भवति। इत्थं नेम्यर्धनिमीलनम्। पुनरनुलोमलिखिताच्छ्रोकषोडशक।च्चैवमेवान्त्यमक्षरं त्रिषु लिखितेषु चतुर्थ भवतीति नेमेर्द्वितीयमर्ध मीलितं भवति। एवमेव चान्त- लिखितै स्तैरेव नेमिश्ठोकै्नाभिनिमीलनं भवति। अत एव चारद्वात्रिंशतो नेमि स्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वात्रिशतः श्ोकोऽयमुत्प- द्यते ॥ 'देव्या खप्रोद्गमादिष्टदेवीशतकसंज्ञया। देशितानुपमामाघादतो नोण- सुतो नुतिम् ।।' देव्या वागीश्वर्या खप्नाविर्भावे आदिष्टा या देवी शतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्र- १. 'हं ज्ञा' इति देवीशतके. २. 'षं' इति देवीशतके.

Page 295

२७० काव्यमाला।

अत्र कृपणेति। विभूतिर्भस्म च। महापदेति शुभावासेति संबोधने पदद्यम्। महापदोऽशुभस्यावासेति पदमेकं च।। अर्धमात्राच्युतं यथा- 'पयोधरभराक्रान्ते विद्युलेखाविराजिते। कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥' अत्र 'न्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् ।। बिन्दुच्युतं यथा- 'सहंसा नलिनी ताराशारिता गगनावनिः । 'शोभते भूमिपालानां सभा च विबुधाश्रिता ।।' सह हसेन विकाशेनेत्यपि।। वर्णच्युतं यथा- 'सितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वद्क्पृथुललाटतटे तिलकक्रिया च सा।

तया सर्वातिशायिनीं नोणसुतः श्रीमानानन्दवर्धननामा सुतिमिमामकार्षीदिति॥ पद्मं यथा-'भासते प्रतिभासार रसाभाताहताविमा। भावितात्मा शुभा वादे दे- वाभा वत ते सभा ॥' हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद्दीप्ता हता अशोभा यया। एकाग्रीकृतहृदया वादे एव । देवैर्विजिगीषुभिः पण्डितैराभा यस्याः । वतेत्याश्चर्ये निपातः । एषोऽष्टदलपद्मबन्धः । तथा हि-भाशब्दः क््णका- स्थाने। ततोऽक्षरद्वयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक- मेण। ततः स एव भाशब्दः। ततोऽक्षरद्रयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्दं यावत्। ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्दं यावत्। पुनर्भाशब्दो निर्गमेण च तदेवाक्षरमित्यादिना क्रमेण दलाष्टकमुत्पाद्य- मिति दिग्दलवर्णानां द्विर्भाशव्दस्य चाकृष्टत्व आवृत्तिः॥ आदिग्रहणात् हल-शक्ति-

Page 296

५ अध्याय:] काव्यानुशासनम्। २७१

स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च त- दभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्चयुक् ।' अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्ष- रसप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन। यदि वा आद्याक्षरस- पकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन।। गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्घा। क्रियागूढं यथा- 'स्तनजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ।।' 'हे युवानः, कथमिव यूयं न स्त' इति क्रियागूढम्॥ कारकगूढं यथा- 'केनेमौ दुर्विदग्धेन हृदये विनिवेशितौ। पिबतस्ते शरावेण वारि कह्लारशीतलम् ।।' अत्र 'शरौ' इति कर्मणो गूढत्वम्॥ संबन्धगूढं यथा- 'न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यति। अस्थानरुदितैरेभिरलमालोहितेक्षणे ।' अत्र 'मे चेतसागोरसाभिज्ञम्' इति संबन्धगूढम्॥ पादगूढं यथा- (२) (१) (8) (३) (६) (4) () (८) 'द्रुवियद्गामिनीतारसंराव विहृतश्रुतिः । हैमेपुमाला शुशुभे ..... ... अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वाद्ृढत्वम् ॥ १. 'मे, चेतः, आगोरसाभिज्ञम्' स्यात.

Page 297

२७२ काव्यमाला।

गूढादीत्यादिपदेन प्रश्नोत्तर-प्रहेलिका-दुर्वचकादिपरिग्रहः ॥ एतच्च कष्टकाव्यत्वात्कीडामात्रफलत्वाच्च न काव्यरूपतां दधातीति प्रतन्यते।। अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्ति: श्रेषः। 'अर्थमेदाच्छब्दमेदः' इति नयेन वाच्यभेदेन भिन्नानामपि शब्दानां तश्रेण युगपदुच्चारणं भिन्नखवरूपापह्वनं क्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययवचनविभक्तिरूपाणां श- ब्दानां भङ्गादभङ्गाच द्वेषा भवति। यथा- 'अलंकारः शङ्काकरनरकपालं, परिजनो विशीर्णाङ्गो भृङ्गी, वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विधौ वक्रे मूर्धि स्थितवति वयं के पुनरमी।।' अत्र विघुर्विधिश्चेत्युकारेकारयोर्वर्णयोर्भङ्गः।। 'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ।।'

शूल-खस्तिक-नागपाशादयो ज्ेयाः ॥ प्रश्नोत्तरेति। तथा चाह-'यसतु पर्य- नुयोगस्य निर्भेदः क्रियते बुधैः। विदग्धगोध्यां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥' यथा-'काहमस्मि गुहा वक्ति प्रश्नेमुष्मिन्किमुत्तरम्। कथमुक्ततं न जानासि कदर्थयसि यत्सखे ॥' अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीति उत्तरम्।

Page 298

५ अध्याय:] काव्यानुशासनम् । २७३

अत्र महतीमापदं महत्पदं वेत्यादि पदानां भङ्गः ।। 'भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्ृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमिनी नेत्रे तनुर्वा हरे: ॥' अत्र च 'नीता ईहितप्राप्तये' इति च स्त्रीनपुंसकलिङ्गयोः श्लेषः ॥ 'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने। हरिणारिसारदेहे वरे वरं हर उमे भावम् ।' कश्चिद्युयुत्सुर्ध्यानोनीनां भवानीं सकान्तां च संस्कृतप्राकृतया वाचा तुष्टुवे-हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि। अर्थान्मम । कीदृशे हरे। लालसमर्थान्मनस्तद्भवं कामं लेढि स्म यस्तत्र। महिग्नैव वितर्कहर्तरि। हरसंनिधौ हि सर्वज्ञानाभिभव इति श्रुतिः । तोहन्त्य- र्दयन्ति येऽरयस्तैर्विरहिते सिंहबलशरीरे परिणेतरि श्रेष्ठम्। उमाया एव इमानि संबोधनपदानि ।। प्राकृते तु-हे वरे कान्ते, ते तव संब-

ख्यापनफलत्वान्न प्रतन्यते।। प्रहेलिका यथा-'पयख्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम्। ताभ्योऽष्ादश विक्रीय गृहीत्वैकां गृहं गतः ॥'धेन्वा ऊनाम्॥ एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूह्याः ॥ तथा दुर्वचं दुःश्रवं दुर्बोधमपि कीडायां न विरुध्यते। यथा-'नांड्टा त्वाष्टारिराष्ट्रे न भाष्ट्रे नादंष्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्टिणः II' नांष्टराः राक्षसाः। त्वष्ठरपत्यमिति लाष्ट्रो १. 'शमनं' का० प्र०. २. 'ध्यानोन्नीता' स्यात्. ३. 'कुरु लालसभूलेहे महिमो- हहरे तुहारिविच्छिन्ने। हरिणारिसारदेहे वरे वरं हर उमे भावम्' इत्येवं संस्कृतपक्षे पदानि. ४. 'कुरु लालसभ्रूलेखे महीमोद्दगृहे ते हारिविच्छिन्ने। हरिनारीसारदेहे वरे वरं हरतु मे भावम् ।' इति प्राकृतपक्षे छाया. का० शा० १८

Page 299

२७४ काव्यमाला।

न्घिनि कुरुलालसभ्रूलेखे महीमोहगृहे हारिणि विच्छिन्ने च तनुमध्य- त्वात्। हरिप्रियाप्रधानवपुषि यद्वरं नयनाननस्तनजघनादि तन्मेऽभि- लाषं हरतु कामं पूरयतु।। एवं भाषान्तरभङ्केऽप्युदाहार्यम्।

वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे खर्गे । भाषान्तरभङ्गेडपीति। संस्कृतभाषायां मागध्या समावेशो यथा 'कुललालिलावलोले शलिले शे शालशालिलवशूले। कमलाशवलालिबले मालेदि शमन्तके विशमे ॥' कश्चिज्जातसंसारभयो वक्ति- कुललालिनो महापुरुषान् लुनातीति। कर्मण्यण् । स चासौ लम्पटश्च तस्मिन्। शलं वज्रं तदुपलक्षितः खड्गो येषां तान् लिशत्यल्पीकरोति यस्तस्मिन्। गृहशा- लिनां छेदनशूले। लक्ष्म्याः शवानि अस्तृष्टतया दरिद्रास्तल्लालनशीलं बलं यस्य। क्षेमारहिते। मलनं मालो धारणं क्षमेति यावत्। यमे एवंभूते सति ए विष्णौ दिशभविशम्। विष्णुविषयं मार्गमहमास्थित इत्यर्थः । अपरोरऽर्थो मागध्याम्। कुररपङ्किरवैर्लोलं व्याप्तम्। रवशब्दस्य प्राकृते दीर्घः। सलिलं तत्। सारस- श्रेणिकूजितेन शूरं विरहिणां मारणसमर्थत्वात्। कमलसाधुग्राहकैरलिभिः श्रेष्ठ- म्। मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम्। अनेकपक्षि- संकुलं सलिलं दृष्ट्रा मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः ॥ संस्कृतस्य पैशाच्या यथा-'केमनेकतमादानं सुरतनरजतुच्छलं तदासीनम्। अप्पति- मानं खमते सोगनिकानं नरञ्ञेतुम् ।।' कस्यचित्केनचित्पौरुषे स्तुतेन्योऽसहमान आह-हे सुरते प्रैधानपुरुष, न तु रणे। खमते शून्ययुँद्धे स त्वया वर्ण्यमानो राजादि: कं नरं जेतुमजतु गच्छतु। नास्त्येवासौ यं सोऽभिभवति। कीदृशं बहुतमोत्पत्तिस्थानम्। मायां प्रसिद्धामाश्रयमाणम् । अर्थान्तरवृत्तित्वेन सक- १. 'कुररालिरावलोलं सलिलं तत्सारसालिरवशूरम्। कमलासवलालिवरं मारयति शाम्यतो विषमम् ।।' इति मागधीच्छाया. २. 'यावत्' इत्युत्तरं योग्यम्. ३. 'पविष्टौ' क. ४. 'मधु' इति स्यादासवशब्दा- र्थत्वात्. ५. 'कम् अनेकतमादानम् सुरतनः अजतु छलं तदा आसीनम् अप्पतिमानं खमते सः अगनिकानं नरं जेतुम् ।।' इति संस्कृतपक्षे पदानि. ६ 'निधुवनपुरुष-' इति रुद्रटव्याख्यायाम्. ७. 'बु' इति रुद्रटव्याख्यायाम्.

Page 300

५. अध्याय:] काव्यानुशासनम्। २७५

'आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत्। भयकृद्ूपतेर्बाहुर्द्विषां च सुहृदां च ते ।।' अत्र नौतिनुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भेङ्गः॥ 'त्वदुद्धृ तामयस्थानरूढत्रणकिणाकृतिः। विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥'

र्मकता। यद्वा मूर्तच्छद्यरूपं लब्धरूपं च। अपां पत्युर्वरुणस्येव मानो यस्य। पर्वतस्येव निकान: कान्तिर्यस्य । 'कनी दीप्तिकान्तिगतिषु' इति हि पठ्यते। अथ वा न गच्छतीत्यगोऽनश्वरः । अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयत्विति वाक्यार्थः। अथ वा एवंविधा यदा न सन्ति सर्वं तेन जितमतः स कं नर जेतुमजत्वििति एवात्र। परार्थः पिशा- चभाषाया :- 'कामे कृतमदाः सुरत्नरजतोच्छलदासीः । अप्रतिमाः क्षमते स गणिका न रज्जयितुम् ।।'अत्र हि द्वितीयार्थे षष्ठी। केनचिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते॥ संस्कृतस्य सूरसेन्या यथा- 'संवादिसारसंपत्ती सदागोरिजयेसुदे । अवसत्तीरदे सत्ते संसारे सुसमानदे॥' हे देवि प्राणदायिनि, तव संबन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति द्वौ भावौ विद्यमानतोज््वलतालक्षणौ विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वर्तेते इत्यर्थः । अरिविजये जनस्य तव सांनिध्यमौज्वल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे शोभ- नपारप्रदे त्वयि सत्यां त्वत्प्रभावेण संसारसागरादुत्तीर्यत इत्यर्थः । तथा सुस- मामनपभ्रंशमानं शब्दं यदि वाब्रह्मस्तम्भपर्यन्तचतुर्दशभूतसर्गे नित्योदित- तया सुगमं साधारणत्वेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ। अपरोऽर्थः

१. 'शंवातिसारसंप्राप्तिः सदा गौरि जगत्सु ते। तपःशक्ती रते सत्त्वे संसारे सुशमानते ।।' इति सूरसेनीच्छाया. 'संवादिसारसंपत्ती सदागोरिजये असुदे तव सत्तीरदे सत्ते संसारे सुसमानदे' इति संस्कृतपक्षे पदानि. २. 'तव' इति देवीशतके; 'रव' ख. ३. 'सन्तु' इति देवीशतके.

Page 301

२७६ काव्यमाला। हरिणीभूतेति मृगीभूता, श्यामा संपन्नेति च। अत्र च्विडीप्रत्यय- योर्भङ्ग: ।। 'विषं निजगले येन बश्रे च भुजगप्रभुः । देहे येनाङ्गजो दध्रे जाया च स जयत्यजः ॥' अत्र गिलितं, निजे गले। दग्धो वपुषि चेति स्यादित्यादिविभ- कयोर्भङ्गः ।। 'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥।' सूरसेन्या :- हे गौरि, जगत्सु सर्वदा देवतपःशक्तिर्वज्रवदतिदृढधाचिचः। अन- पायिनी वर्तत इत्यर्थः । कीदृशि। रदे आसके। क। संसारे। सत्ते श्रेयःप्र- धाने सत्वे सुसमैश्चित्तोद्रेकजयिभिर्मुमुक्षुभिः प्रणते। चित्तजय एव हि मोक्षः । तथा च-'चित्तमेव हि संसारो रागादिक्लेशदूषितम्। तदेव तद्विनिर्मुक्ततं मोक्ष इत्यभिधीयते ।।' संस्कृतस्यापभ्रंशेन यथा-'आगमभणिसुदमहिमसमसं- मदकृदपरजस्सु। किर सविभयवदितोसमय उज्जलभावसहस्मु ॥'हे देवि, अप- रजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्ित्तोपशम एव निर्वापक- त्वात् हिमं तयो: संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तदर्थाद- ज्ञानम् इतः संसारातू किर क्षिप। सविभयवत् यज्विनां भयं यथा किरसि तद्व- दज्ञानं किरेत्यर्थः ॥ परोऽर्थ :- जस्सु पर यस्य केवलमागमाश्वेतसि तथाश्रुत- महिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददानाः कृताः। किल सापि भगवती तोषमयं निर्मलपदार्थसहसं सहस्रशब्दो बाहु- १. 'संप्राप्तिः' इति देवीशतकव्याख्यायाम्- २. 'सुशमै' स्यात्. ३. 'आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य । किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ।' इत्यपभ्रंशच्छाया. 'आगममणिसुदमहिमसमसंमदकृत् अपरजस्सु किर सविभयवत् इतः असमये उज्वलभावसहरसु' इति संस्कृतपक्षे पदानि.

Page 302

५ अध्याय:] काव्यानुशासनम्। २७७

अत्रैकवचनबहुवचनयोर्भङ्गः॥ एषामेव वर्णादीनामभङ्गाद्यथा- 'असावुदयमारूढः कान्तिमात्रक्तमण्डलः। राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥' उदय: शत्तयुपचयो गिरिविशेषश्र। रक्तमण्डलोऽनुरक्तप्रकृतिररुण- बिम्बश्च। राजा नृपतिश्चन्द्रश्च। मृदुभिरखेदावहैः करैर्दण्डादिभिः किर- णैश्रेत्यभङ्ग: शब्दश्रेषः ।। अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ ॥ न चायमर्थालं- कार इति वाच्यम्। अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमान- त्वात्। तथा हि-उदयादिशब्दप्रयोगेऽलंकारः, तदर्थशत्तयुपचयगि- र्यादिप्रयोगे तु नेति तद्भावतदभावानु विधायित्वात् शब्दालंकार एवायम्॥ 'सयं च पल्लवाताम्रभाखत्करविराजिनी। प्रभातसंध्येवाखापफललुब्घेहितप्रदा ।।' इत्यादौ तु संकरत्वमेव युक्तम्। अथ वा न्यायपरीक्षायामुपमात्वमेव। तथा हि-यथा गुणक्रियासाम्ये उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते- 'सकलकलं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव।'

ल्यार्थे। देवी प्रसादविलसितं तत्तस्येति वाक्यार्थः ॥ ननु खरितादिगुणमेदा- द्विन्नप्रयत्नोच्चार्याणां तदमेदादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्घेऽलंकारा न्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोरऽर्थश्रलेषश्वेति द्विविधोऽप्ययमर्थालंकारमध्ये गणि- तोऽन्यैरित्याशश्याह-न चायमर्थालंकार इति ॥ स्वयं चेति। गौरी- पक्षे-किसलयवद्दीप्यमानाभ्यां शोभते सुखेनामुं यन्र शक्यं फलं तत्र लुब्धा- नामीहितं प्रददाति । संध्यापक्षे-उज्वलस्या मरीचिभिः शोभिता खाप- १. 'कराभ्यां' त्रुटितं स्यात्. २. 'उज्वलसूर्यमरी' स्यात्.

Page 303

२७८ काव्यमाला। इत्यादौ। न च तत्र शब्दश्लेषत्वं युक्तम्। पूर्णोपमाया निर्विषयत्वा- पत्तेः। गुणक्रियासाम्ये सा भविष्यतीति चेत्, न1 अर्थल्लेषस्य नि- र्विषयत्वप्रसङ्गात्। अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उप- माविरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तदा द्वयोरप्यन्यत्र लब्ध- सत्ताकयोरेकत्र संनिपाते संकरतैव प्राम्नोति। गुणक्रियासाम्यमुपमा शब्दसाम्यं तु श्रेष इति विशेषस्यानभिधानात् शब्दसाम्यमुपमाया विषयः । श्लेषस्य तूपमया विरहित इति 'सयं च पल्लवा-' इत्यादौ उपमैव न्याय्या।। एवं च- 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका।' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्रेषः, अपि तु श्रेषप्रतिभोत्पत्ति- हेतुर्विरोध एव। अत्र हि श्लेषस्य प्रतिभामात्रं न पुनः प्ररोहः। न च विरोघाभास इव विरोध: श्लेषाभासः श्रेषः । तस्मादेवमादिषु श्लेषप्रति- भोत्पत्तिरलंकारान्तरमेव।।

फले विश्रान्तौ यो न लुब्धस्तद्विषये हितं प्रददाति॥ अलंकारान्तरमिति। समासोक्त्यादिरूपम्, न तु श्लेष इत्यर्थः । तथा च- 'अनुरागवती संध्या दिव- सस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥' इत्यत्र समासो- कित्वम्। तत्पुरःसर इति आगच्छन्त्या इव संध्यायाः कामुक इव दिवसः पुरः संमुखं सरतीति व्याख्येयम्। न तु पदातिन्यायेनाग्रे दिवसो गच्छति संध्या पश्चादिति। एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् ॥ 'नाल- स्यप्रसर :- ' इत्यादौ अन्योक्तित्वम् ॥ 'यो गोपीजनवल्लभः स्नतटव्यासङ्गल- ब्धास्पदश्छायावान्नवरक्तको बहुगणश्चित्रश्वतुर्हस्तकः । कृष्णः सोऽपि हताश- या व्यपहृतः कान्तः कयाप्यद्य मे किं राधे मधुसूदनो नहि नहि प्राणाधिक- थ्वोलकः ॥' इत्यत्र ससंदेहत्वम् । यदि वान्योक्ते: सारूप्यादिः, ससंदेहस्य च

Page 304

५ अध्याय:] काव्यानुशासनम्। २७९

अर्थैक्ये व्यादिभाषाणां च। द्वित्रि चतुःपञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिर्व्वादिभाषाश्लेष:। तत्र संस्कृतप्राकृतमागधपिशाचशूरसेनापभ्रंशभाषाणां द्वियोगे पञ्च- दश, त्रियोगे विंशतिः, चतुर्योगे पश्चदश, पञ्चयोगे षट्, षड्योगे एक: । सर्वमीलने भाषा ्लेषस्य सप्तपश्चाशद्धेदाः । एते च पूर्वोक्तभाषा- लेषे भिन्नार्थत्वेऽपि द्रष्टव्याः॥ संस्कृतप्राकृतयोर्योगो यथा- 'सरले साहसरागं परिहर रम्भोरु मुश्च संरम्भम् । विरसं विरहायासं वोढुं तव चित्तमसहं मे ।।' संस्कृतमागध्योर्यथा- 'शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' शलन्तु गच्छन्तु । अधिरोहन्त्वित्यर्थः । शं शुभं वा यान्तु। सं- कीर्णाः पापकारिण इति यावत् । विशक्काः सन्तो वशं बन्धनं वा

सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि श्लेषस्यान्योक्ि- ससंदेहानुग्राहकत्वेन प्रवृत्तत्वात्संकरत्वं भवतु शेषत्वमिति। अलौकिकमहालो- कप्रकाशितजगन्रय। स्तूयते देव सद्वंश मुक्तारत्नं न कैर्भवान् ।' 'आदाय चापमचलं कृत्वा हीनं गुणं विषमवृष्टिः । यश्चित्रमच्युतशरो लक्ष्यमभाष्टीन्नम- स्तस्मै ॥' अचलं पर्वतं निश्चलं च । अहीनां सर्पाणामिनं स्वामिनं हीनं च। विषमा त्रिरूपा अस्थिरा च । अच्युतः कृष्णः मतिशून्यक्ष ॥I 'अखण्डमण्डलः श्रीमान्यस्यैष पृथिवीपतिः । न निशाकरवज्जातु कलावैकल्यभागतः ॥' इतादौ च एकविषयरूपकविरोधव्यतिरेकानुग्राहकः श्लेष इति संकर एवायम्। एवम- १. 'दृष्टिः' स्यात, २. 'पश्यैष' का० प्र०.

Page 305

२८० काव्यमाला।

विशन्तु। यतोSविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अक- ल्याणं दिशन्त्येव। संस्कृतपैशाच्योर्यथा- 'चम्पककलिकाकोमलकान्तिकलापाथ दीपिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचनालपितुम् ।' संस्कृतशूरसेन्योर्यथा- 'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्। साधु पिबन्तु सुपीवरपेरिणाहपयोघरारम्मे ।।' सुपीवरेत्याद्यपि संबोधनपदम्। संस्कृतापभ्रंशयोर्यथा- 'क्ीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति। भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ।।' एवं द्वियोगान्तरे त्रिचतुर्णा च योगेषु चोदाहार्यम्। षड्योगो यथा- 'अलोलकमले चित्तललामकमलालये। पाहि चण्डि महामोह्भङ्गभीमबलामले ॥' हे चण्डि देवि, रक्ष। अचपललक्ष्मि, मनःप्रसादनपझमालये। महा- मोहस्य जन्मलक्षाभ्यस्ताया अविद्याया भञ्जने उग्रं यद्वलं तेन अकलक्के।।

अन्येन वक्रान्यथोक्तस्यान्येन प्रतिवक्ा श्रेषाद्भङ्गाभङ्गरूपादन्यथा- भिधानं वक्रोक्तिः ।

१. 'कपोला' रुद्रटे. २. 'परिणाहि' रुद्रटे.

Page 306

५ अध्याय:] काव्यानुशासनम्। २८१

भङ्गाद्यथा- 'किं गौरि मां प्रति रुषा, ननु गौरहं किं, कुप्यामि कां प्रति, मयीत्यनुमानतोऽहम्। जानाम्यतस्त्वमनुमानत एव सत्य- मित्थं गिरो गिरिभुवः कुटिला जयन्ति ।।' अभङ्गादथा- 'कोऽयं द्वारि, हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किं, कृष्णोडहं दयिते, बिभेमि सुतरां कृष्णादहं वानरात्,। कान्तेऽहं मधुसूदनो, व्रज लतां तामेव मध्वन्विता- मित्थं निर्वचनीकृतो दयितया हीतो हैर: पातु वः ॥' काकुवक्रोक्तिस्त्वलंकारत्वेन न वाच्या। पौठधर्मत्वात्। तथा च अभिप्रायवान् पौठघर्म: काकुः स कथमलंकारी स्यादिति यायावरीय:

न्यत्राप्यूह्यमिति ॥ अत इति । अस्मादनुमानात्। न उमा अनुमा अर्था- त्संध्या तस्या नत इत्यपि ॥I काकुवक्रोक्तिरिति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः। तत्र हि साकाङ्कनिराकाङ्कादिकरमेण पठ्यमानोऽसौ शब्द: प्रकृतार्थादतिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते। यदि वा ईषदर्थे कुश- ब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषद्धूमिः काकुः । काकुर्वा जिह्रा तद्यापारसंपाद्यत्वात्काकुः । तद्रूपा वक्रोक्ति: काकुवक्रोक्तिरिति । पाठधर्मत्वा-

१. 'हरिः' स्यात्. २. 'विस्पष्ट क्रियमाणादक्किष्टा स्वरविशेषतो भवति। अर्था- न्तरप्रतीतिर्यत्रासौ काकुवक्रोक्ति: ॥' इति रुद्रटे तल्क्षणं ज्ञेयम्. ३. 'पाठ्य' स्यात. ४. 'पाठ्य' स्यात.

१. 'अनुपमा' इत्येवं कैश्चित्पश्चाच्छोधितः पाठः. २. 'पाठ्य' इति स्यात्. अत एव 'पाठ्यगुणानिदानीं वक्ष्यामः' इत्युपक्रम्य 'तद्था-सप्त स्वराः तु' इत्याद्यभि- धानमुपलभ्यते.

Page 307

२८२ काव्यमाला। गुणीभूतव्यन्नयप्रभेद: एव चायम्, शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात्। यदाह ध्वनिकार :- 'अर्थान्तरगतिः काका या चैषा परिदृश्यते। सा व्यङ्ञयस्य गुणीभावे प्रकारमिममाश्रिता ।।' दिति। तथा च भरतः-'सप्त खरास्त्रीणि स्थानानि चत्वारो वर्णा द्विविधा काकु: षडलंकारा: षडङ्गानीति पाठ्यगुणाः । तत्र काकौ खरा एव वस्तुत उप- कारिणः । तत्परिकरभूतं तु स्थानादि। खरेषु प्रकृतिभूतेषु काकुरूपता जन्यते। तत्र स्थानशब्देनैषां स्रूपनिष्पत्तेराश्रयो दर्शितः। उदात्तानुदात्तखवरितकम्पित- रूपतया खराणां यद्रक्तप्रधानत्वमनुरणनमयं तत्त्यागेनोच्चनीचमध्यमस्थानस्प- शित्वमात्रं पाठ्योपयोगीति दर्शितम् । यदि हि खरमतारफ्िः पाठ्ये प्राधा- न्येनावलम्ब्यते तदा नागक्रियासी स्यात, न पाठः । अत एव गानवैलक्षण्ये संपन्ने वाद्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकु- रर्थरसमेदेनाभिधीयते। तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अभिनयत्वे मुख्यापयोगात्। तथा चोचदीप्तादयलंकारेव्वपि काकुशब्देनैव मुनिर्व्यवहरति। काकोरेव हि प्रकारसंपादकाः परिपूर्णताधायिनोऽलंकाराः। अलमिति पर्याध्यर्थ इह, न भूषणार्थः । अङ्गानि तु विच्छेदादीनि समर्थ शोभादिकं च पोषयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकुरेवेयं पैश्चमी रूपान्तरः पूर्णीक्रियते। काक्का च पठ्यमानस्य खवोचितचिज्डरूपार्थाभिमुख्यनयनेनाभिनयतादीयत इति काकुरेवात्र प्रधानमिति। तत्र च सप्तखरा :- षड्जऋषभगान्धारमध्यमधैवत- निषादवन्तः । एते रसेषूपपाद्याः-'हास्यश्ङ्गारयोः कार्यौ खरौ मध्यमपश्चमौ। षड्जर्षभौ तु कर्तव्यौ वीररौद्राद्ुतेष्वैथ ।। निर्षादवान् सगान्धारः करुणे संवि- धीयते। धैवेतश्वापि कर्तव्यो बीभत्से सभयानके ।I' त्रीणि स्थानानि-उरः कण्ठः शिर इति। अयमर्थ :- शारीर्यां वीणायां केवलमुरःशिरःकण्ठलक्षणेभ्यस्त्रिभ्य एव स्थानेभ्यो न तु षड्जष्टः(?), खरः परित्यक्तरञ्ञनात्मकगानोपयोगिखव्यापार: १. 'मुख्योप' क. २. 'रेवाप' क. ३. 'पञ्चभी' स्यात्. ४. 'पञ्चम'पद त्रुटितं भरते. ५. 'निषादाः । त एते' भरते. ६. 'यथा' इत्यपीतः प्राग्भरते. ७. 'षु च' भरते. ८. 'गान्धारश्च निषादश्च कर्तव्यः करुणे रसे' भरते. ९. 'धैवतश्शैव' भरते. १०. 'षडूभ्योऽष्टम्यः(!)' स्यात.

Page 308

५ अध्याय:] काव्यानुशासनम् । २८३

काकुभूत: संप्रवर्तते। बाह्यायां हि वीणायां प्रतिबिम्बात्मिकायां रञ्जनात्मकखव- रसरूपव्यतिरेकेण न काकुसंपत्तिः ॥ यदाह-'शीरार्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु। उरसः शिरसः कण्ठात्सरः काकुः प्रवर्तते ॥' तत्र उरोनि- व्पनेन तारेण दूरस्थानामाभाषणविधि: कार्यः । यद्वा मन्द्रखरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमामुयादित्यभिप्रायः ॥ उदात्तानुदात्तखवरितक- म्पिता वर्णाः । तत्र हास्यश्व्वारयोः खरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यम्। वीररौद्राद्भतेघूदात्तकम्पितैः । करुणबीभत्सभयानकेष्वनुदात्तकम्पितैरिति ॥ द्विवि- धा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते ।। 'उच्चो दीप्तश्व मन्द्रश्च नीचो द्वेत- विलम्बिता। पाठ्यास्यैते ह्लंकारों :- ' इति । उच्चो नाम शिरःस्थानगतसारः। स च दूरस्थाभाषणविस्मयोत्तरोत्तर संजल्पत्रा सनावादाद्ेषु ।। दीप्तो नाम शिर :- स्थानगतस्तारतरः । स चाक्षेप कलह विवादामर्षोत्कुष्टाघर्षण शौर्य दर्पतीक्ष्णरूक्षा- भिधाननिर्भत्सनाकन्दादिषु॥ मन्द्रो नामोरःस्थानस्थः निर्वेदग्लानचिन्तौत्सुक्य- दैन्यव्याधिगाढशस्त्रक्षतमूर्च्छामदादिषु ।। नीचो नामोरःस्थानस्थो मन्द्रतरः । स खभावाभाषणव्याधितपःश्रान्तन्नस्पतितमूर््छादिषु॥ द्ुतो नाम कण्ठगतस्त्व- रितलल्लमन्मनभयशीतज्वरा र्तत्रस्तायस्तात्ययिककार्यावेदनादिषु। लल्लं सविला- सम्। मन्मनमव्यक्तम्। अहमेव मनो मन्ता यत्रेत्यनेनाधूयमाणम्। लल्लम- न्मनौ नायिकागतावेव बालविनोदनसान्लनादी । मुख मुश्चेत्येवंप्रायपराभियो- गानज्ीकरणादौ वेति। आत्ययिकं शीघ्रसंपादं यत्कार्य तस्यावेदनम्। विलैं- म्थ्रिता नाम कण्ठस्थानस्थो मन्द्रः। शरङ्गारवितर्कविचारामर्षासूयिताव्यक्तार्थप्रवा- दलजाचिन्तातजिंत विस्मितदीर्घरोगनिपीडनादिषु। 'हास्यश्ज्गारकरुणेष्विष्टा काकु- र्विलम्मिता। वीररौद्राद्धुलेपूच्चा दीप्ता चापि प्रशस्यते ।। भयानके सबीभत्से द्रुता नीचा च कीर्तिता। एवं भावरसोपेता काकु: कार्या प्रयोक्तृभिः ॥' अज्गा- नि-विच्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनमिति ॥ तत्र विच्छेदो नाम विराभकृतः । अर्पणं नाम लीलायमानमघुरवल्गुखरेण पूरयतेव रङ्गं यत्पठ्यते। विसर्गो नाम बाक्यन्यासः। अनुबन्धो नाम पदान्तरेष्वविच्छेदोऽनुच्छसनम्। दीपनं नाम विस्थानशोभि वर्धमानस्वर च। प्रशमनं नाम तारगतामां खरा- १. 'बात्सल्य' भरते. २. 'हरस्व' भरते. ३. 'पाठ्यस्यैते' भरते. ४. 'लक्षणं च नियोषत' इत्यराते भरते. ५. 'श्रासनार्थ वाद्येषु' भरते. ६. 'हस्वो' भरते. ७. 'विलम्बितो' भरते. ८. 'त्रिखथान' भरते.

Page 309

२८४ काव्यमाला।

सा च काकुर्द्विधा-साकाङ्का निराकाड्ला च। वाक्यस्य साकाङ्कनि- राकाङ्ृत्वात् । यस्माद्वाक्यात् यादशः संकेतबलेनार्थः प्रतीयते, न तादृश एव, किं तु न्यूनाधिक: प्रमाणबलेन निर्णययोग्यस्तद्वाक्यं सा- काङ्कम्। तद्विपरीतं निराकाङ्कम्। वक्तृगता ह्याकाङ्का वाक्ये उपचर्यते। सा च प्रकरणबलान्निश्चीयते। विशिष्टविषयत्वं च तस्यास्तत एवावसीयते।। विषयोSपि त्रिविघ :- अर्थान्तरम्, तदर्थगत एव विशेषः, तदर्था- भावो वा। यथा- 'देश: सोऽयमरातिशोणितजलैर्-'

णामेवैश्वर्येणावतरणम् ॥ तत्र हास्यश्ङ्गारयोरर्पणविच्छेददीपन प्रशमनसंयुक्तम्। करुणे विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलम्। वीररौद्राद्भुतेषु विसर्गविच्छे- दार्पणयुक्तम् । बीभत्सभैयानकयोरिति। सर्वेषामप्येतेषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानस्थो भवति। तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति ।। मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति। तदेवं ध्वनिधर्मविशेषस्य काकोः पाठः । धर्मत्वमवस्थितम्॥ सा- काह्रमिति। मन्द्रादितारान्तमैपरिसमाप्तवर्णालंकारं कण्ठोरःस्थानगतं यथा भवति तथैतत्पठनीयम् ॥ तद्विपरीतमिति। यादृशो वाक्यात्संकेतबलेनार्थः प्रतीयते तादृश एव यत्रान्यूनाधिकः प्रमाणबलेन निर्णययोग्यस्तदति ॥ निरा• काङ्कमिति। मन्द्रादितारान्तं पैरिसमाप्तवर्णालंकारं शिरःस्थानगतं यथा भवति १. ......... ·....... यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविध: परिभवस्तातस्य केशग्रहात्। तान्येवाहित हेतिघस्मरगुरूण्यस्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः॥' इति शेषपूरणे संपूर्ण: श्रोको वेणीसंहारे. १."भयानकयोर्विसर्गविच्छेदाकाक्किण(?)प्रायम्' इति भरते उपलम्भादत्र पाठ- त्रुटितः प्रतीयते. २. 'पाठ्यधर्मत्व' स्यात्. ३. 'अनियुक्तार्धमनिर्यातितवणा' भरते. ४. 'तदिति .. ' स्यात, ५. 'नियुक्तार्थ निर्यातित' भरते.

Page 310

५ अध्याय:] काव्यानुशासनम्। २८५

इति। अत्र साकाङ्ककाकुप्रभावात् 'तैतोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः।। 'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्दः प्रहित एष सौमित्रिणा क्व स क्क स दशाननो ननु निवेद्यतां राक्षसाः ।I' अत्र 'तदात्मज इहाङ्गदः' इति साकाङ्मया काक्का खगता वालिपुत्रो- चिता विशेषा अर्प्यन्ते॥ 'निर्वाणवैरदहना :- ' इति। अत्र भैवन्तीति साकाङ्काकाकुर्भवनाभावमाह । मवन्तीति

तथेदं पठनीयमित्यर्थः ॥ काकुप्रभावादिति । उदात्तकम्पितवर्णस्योच्चदीप्ता- लंकारस्य वासमान्या या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्ग- काकूदाहरणद्वये व्याख्येयम्।। ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपाद- येत्। तत्रोक्तमन्यैः-'वस्तुखभावोऽत्र दृष्टव्यः, नहि दृष्टेऽनुपपन्न नाम' इति। वयं तु ब्रूम :- इह येयं प्रथमेन संवित्स्यन्देन प्राणोल्लासया वर्णादिरूपविशेषहीना वाग्ज- न्यते सा नादरूपा सती हर्षोत्कादिचित्तवृत्ति विधिनिषेधाद्यभिप्रायं वा तत्कार्य लिङ्गतया तादात्म्येन वा गमयतीति तावतिस्थितम्। तथा च प्राण्यन्तरस्य मृग- सारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्या- द्यवगमोऽनुमानं तावत्। ने त्वेते वर्णविशेषास्ते तन्नादरूपसामान्यात्मकवाक्त- न्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिक्तनिमित्तान्तरापेक्षास्तत एवान्यत्राप्यभि- १. 'ततोऽप्यधिकं' स्यात्. २. 'निर्वाणवैरिदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' इति संपूर्णश्ोको वेणीसंहारे द्रष्टव्य :. ३ .- ४. 'भवन्त्विति' स्यात, नाटके वा 'भवन्ति' इति स्यात्, विवेकसंवादात,

Page 311

२८६ काव्यमाला। वचनोचारणं त्वर्थेSसंभावनां विदघदभावस्य निषेघात्मनो विषयं भवनल- क्षणमर्पयति। न भवन्त्येवेत्यर्थः ॥ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः। भिन्नरूपाणां सार्थकानर्थकानां शब्दानामेकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः ।

यथा- 'सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ।।' हे देवि, विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे। अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती। अत्र 'भासि'-'विराजसे'- इत्यादिशब्दाः सार्थकाः । 'उदकम्'-'पयः'-शब्दौ निरर्थकौ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकार चूडामणिसंज्ञखवोपज्ञकाव्यानुशासनवृत्तौ शब्दालंकारवर्णनः पञ्चमोऽध्यायः।

प्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिंचाराः। नादस्तु झटित्यु- द्विन्नमुखरागपुलकस्थानीयो नान्यथाकर्तुं पार्यत इत्यन्यथासिद्धोऽन्यथासिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरर्नाम भयमिति। अन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते॥ वचनोच्चारणमिति। वचनस्य भव- न्तीति रूपस्य ।। इत्याचायश्रीहेमचन्द्रविरचिते विवेके पश्चमोऽध्यायः ।

१. 'इत्यनन्यथासिद्धो' स्यात्.

Page 312

६ अध्याय:] काव्यानुशासनम् । २८७

षष्ठोऽध्यायः। अथार्थालंकाराणामेकोनत्रिंशतमाह- हृदं साधार्म्यमुपमा। कार्यकारणयोरसंभवादुपमानोपमेययोरेव साधर्म्य भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा। हृद्यं सहृदयहृदयाह्लादकारि। तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधर्म्य नोपमा। तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ। हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलंकारमुपतिष्ठते। साधर्म्य च देशादिभिर्भिन्नानां गुणक्रियादिसाधारणधर्मवत्त्वम्। अमेदे ह्येकत्वमेव स्यात्। तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमनलक्षणे साम्ये नोपमा। यदा तु द्वितीयः पुरुषशब्द:

यथा- 'निन्नन्नभिमुखः शूरोऽनेकशो बहुशः परान्। संग्रामे विचरत्येष पुरुषः पुरुषो यथा ।।' एवं च यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेद: कल्प्यते, तत्रा- प्युपमा भवति। एकोनत्रिंशतमिति। उपमोत्प्रेक्षारूपकनिदर्शनदीपकान्योक्तिपर्यायोक्ता- तिशयोक्तयाक्षेप विरोधसहोक्तिसमासोक्तिजाति व्याजस्तुति श्लेष व्यतिरेकार्थान्तरन्या-

लासंकरान् ।। असाधारणताप्रतिपादनार्थमिति। एतत्सदृशमन्यं नास्ती- त्यसाधारणता तत्प्रतिपादनार्थमित्यर्थः । यथा 'उभौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यादौ कल्पितोपमायामन्यैरुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य धर्मस्य च साम्यसमन्वयसमुद्भवसातिशयत्व- विरहात्सर्वेषां पुराणानां पदार्थानां नूतनमसद्भूतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति तथानन्वयेऽपि

Page 313

२८८ काव्यमाला।

यथा- 'न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावद्विलासायुघलासवासास्ते तद्विलासा इव तद्विलासाः ॥' तत्र देशेनोपमानोपमेययोर्भेदो यथा-'मधुरेव पाटलिपुत्रमाढ्यजन- पदम्'। कालेन यथा-'वसन्त इव हेमन्तः कामिनीसुखहेतुः'। क्रियया यथा-'नृत्यमिव गमनमस्याः सविलासम्'। गुणेन यथा-'गौरीव श्यामा सुभगा'। जात्या यथा-'विप्र इव क्षत्रियः श्रोत्रियः' । द्रव्येण यथा-'तीर्थकर इव गणधरः पूज्यः'। समवायेन यथा-'विषाणित्वमिव दंष्टिरित्वं हिंस्म्'। अभावेन यथा-'मोक्ष इव समाधौ दुःखाभावः'। द्वित्वस्याविद्यमानत्वात् उभयनिष्ठत्वाच्चोपमानोपमेयभावव्यवस्थितेरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशड्क्याह-एकस्यापि भेद: कल्प्यत इति। अयमभिप्रायः-समारोपितरूपस्य द्वित्वस्याभ्युपगमादुपमानोपमेयभाव- संबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नान्वयः पृथगलंकारत्वेन वाच्य इति॥ विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतच्चोप- मानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते ॥ विषाणित्वमि- व दंष्टित्वमिति। अत्र 'समासकृत्तद्वितेषु संबन्धाभिधानम्' इति वचनात्संयो- गस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाङ्गव्ये शब्दनिवेशस्तद- भिधाने 'त्वतलौ' इति त्वप्रत्ययैन समवायस्याभिधानम्। तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेदकल्पनं न्याय्यम्। ततश्व विषाणोपाधिकः समवाय उप- मानं दंष्ट्रोपाघिकस्तूपमेय इति॥मोक्ष इवेति। मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इति भाव: ॥ [नित्यसमास इति। ये त्विवेन समासं नेच्छन्ति, १. 'नानन्वयः' स्यात्. २. 'इत्यर्थः' ख. ३. अयं कोष्टकान्तर्गतः पाठोऽत्र लेखकप्रमादात्पतितो भवेत्. अग्रे 'नेत्रैरिवो-' इत्येतच्छोकप्रकरणे 'इवेन नित्यस- मासः' इत्यस्य व्याख्यारूपो भवेत्.

Page 314

६ अध्याय:] काव्यानुशासनम्। २८९

वृत्तौ च। सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये

सेत्युपमा। प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धप्रसिद्धी च कविविवक्षावशादेव। धर्मो मनोज्ञत्वादिः । उपमावाचका इव-वा-यथा- शब्दाः सदृशसंनिभादयश्च। अमीषामुपादाने पूर्णा। सा च वाक्ये वृत्तौ च भवति। वाक्ये यथा- 'क्षणं कामज्वरोच्छित्त्यै भूय:संतापवृद्धये। वियोगिनामभूचान्द्री चन्द्रिका वदनं यथा ।।'

तन्मते वाक्योपमायामिदमुदाहरणम्। समासोपमायां तु-'अवितथमनोरथ- पथप्रथनेषु प्रगुणगरिमगीतश्रीः। सुरतरुसदृशः स भवानभिलषणीयः क्षिती- श्वर न कस्य II' इत्युदाहार्यम् ॥] प्रसिद्धमिति। इन्दुमुखी कन्या इत्यादौ प्रसिद्धं चन्द्रादि उपमानम्, प्रसिद्धं तु मुखाद्युपमेयम्। ननु 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।।' इत्यादौ कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्वोपमेयत्वमुपलभ्यते, तत्कथमुच्यते प्रसिद्ध- - हि स्रीमात्रस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगि- त्वाश्रयणे कामिनीशब्दात्प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्ड- श्रन्द्रादप्यधिकचमत्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धप्रसिद्धी अङ्गीक्रियेते। न सर्वलोकप्रसिध्धेत्यर्थः । यैरपि प्राकरणिकमुपमे- यमप्राकरणिकमुपमानमिति पक्षः समाश्रीयते, तैरपि कविप्रसिद्धिरवश्यमङ्गी- कर्तव्यैव। तथा हि चन्द्रकामिनीगण्डादिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकर- णिकं मुखचन्द्राद्यप्रसिद्धगुणमुपमीयते। उप समीपे नीयते क्षिप्यते खसादृश्य- परिप्रापणादुपमेयं येन तदुपमानम्। यत्तु तेन समीपे क्षिप्यते सौन्दर्यादिगुण-

१. 'यौगिकत्वा' स्यात्. का० शा० १९

Page 315

२९० काव्यमाला। परार्थाभिधानं वृत्तिः । सा च यद्यपि समासतद्धितनामधातुमेदेन त्रिविधा लुप्तायामुदाहरिष्यते, तथापीह समासतद्धितयोरेव संभवति। यथा- 'नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः । तरुण्य इव भान्ति स्म चक्रवाकैः सतनैरिव ॥' अत्रेवेन नित्यसमासः । 'गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत्। दुरालोकः स समरे निदाघाम्बररत्नवत् ।।' अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः। एकद्विद्विलोपे लुप्ता। उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तो- पमा। सा च वाक्ये वृत्तौ च। एकलोपे वाक्यगता यथा- 'अनाधिव्याधिसंबाधममन्दानन्द कारणम् । न किंचिदन्यदस्तीह समाधेः सदशं सखे ॥' अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपाद- नादुपमानत्वं बलादायातम्, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः । तथा- 'धन्यस्यानन्यसासान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ।।' अत्राह्राकत्वादिघर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति।

Page 316

६ अध्याय: ] काव्यानुशासनम् । २९१

द्विलोपे यथा- 'दुण्टिल्लिन्तु मरीहिसि कण्टयकलियाइं केयइवणाइं। मालइकुसुमेण समं भमर भमन्तो न पाविहिसि॥' अत्र धर्मोपमानयोर्लोपः । वृत्तौ एकलोपे यथा- 'अनाधिव्याधिसंबाधममन्दानन्दकारणम्। न किंचिदन्यदस्तीह समाधिसदशं सखे ।I' अत्र समासे उपमानस्यानिर्देशः । तथा- 'राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव। रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ।।' अन्रेवेन नित्यसमासे धर्मलोपः । तथा- 'शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे। दहति मनः कथमनिशं रम्भागर्भाभिरामोरुः ॥' अत्र बहुव्रीहौ उपमावाचकलोपः। तथा- 'मृघे निदाघघर्माशुदर्श पश्यन्ति ते परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः ।' अत्र नित्यसमासे 'कर्मकत्रोर्णमि' इव-लोपः।

१. 'ढुण्डुज्जन्त' का० प्र०. २. 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि। मालतीकुसुमेन समं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [इति च्छाया।]

Page 317

२९२ काव्यमाला।

तथा- 'हंसो ध्वाङ्कविरावी स्यादुष्टरकोशी च कोकिलः । खरनादी मयूरोऽपि त्वां चेद्वदसि वागिमनि ॥' अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । यथा वा- 'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता। चक्रदेशीयजघना सा खप्नेऽपि न दृश्यते॥।' अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्र कल्पवादिभिः साक्षादभि- हितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु पूर्णे- न्दुरेवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पबादीनां स्मरणात्। ईषदपरि- समाप्तः पूर्णन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते, तथापि प्रातीतिकेन रूपेणोपमैव । तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति। यथा वा- सूर्यीयति सुधारश्मिमनाथति मृतायते। मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥'

योगित्वेन तत्र प्राकरणिकेऽप्रसिद्धं वदनचन्द्रादि तदुपमेयम् ॥ वचनवृत्त्येति। सामानाधिकरण्यरूपया। ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णनदुजातिरुच्यते तदाधारो वा द्रव्यम्। तत्र जातिस्तावदेका निरवयवा चेति सर्वम्मिन्नाथ्रये समाप्ता। द्रव्यमपि यत्तया संबद्ध तत्सर्वतः पूर्णत्वात्समाप्तमेव। तम्मादसंभव एवास्याः । सामानाधिकरण्यमपि पूर्णेन्दुकल्पं वदनमिति वदन- शव्देन प्राप्नोति तस्यार्थान्तरवाचित्वान्नैष दोषः । इह शब्दादुच्चरितद्वयं प्रती- १. 'त्वं' स्यात.

Page 318

६ अध्याय: ] काव्यानुशासनम्। २९३

अत्र नामधातुवृत्तौ कर्माधारयोः क्यनि कर्तुः क्विपि क्यडि च इव- लोपः । द्विलोपे यथा- 'ढुण्डुलिन्तु मरीहिसि कण्टयकलियाइं केयइवणाइं। मालइकुसुमसरित्थं भमर भमन्तो न पाविहिसि ॥' अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथा- 'परिपन्थिमनोराज्यशतैरपि दुराक्रमः । संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः ।' अत्र समासे धर्मस्येवस्य च लोपः । यथा वा- 'अरातिविक्रमालोकविकस्वरविलोचनः । कृपणोदग्रदोर्दण्डः स सहस्रायुधीयति ।'

यते। शब्दार्थो जातिर्द्रव्यं वा। अभिधेयसंबन्धेन वा अशव्दार्थभूता अपि गुणाः । यत्र चतदुभयमस्ति तत्र परिसमाप्तिः। यत्र त्वन्यतरत्नास्ति तत्रेषद- परिसमाप्तिः । तत्रह पूर्णेन्दुशब्दः पूर्णेन्दुजातिहीने आह्रादनादिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते। ईषदपरिसमाप्तिः। सामानाधिकरण्यमुपपद्यत एव कथं। यदा तावत्पूर्णेन्दुजातिहीने केनचित्साधर्म्येण वदनशब्दाभिधेयेऽर्ये वर्तित्वात्पूर्णेन्दु- शब्द: कल्पप्प्रत्ययमुत्पादयति तदा वदनशब्देन सामानाधिकरण्यं भवति। उभयोरेकार्थवृम्त्वात्। यदा तु गुणहीने पूर्णेन्दुजातीय एव पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीक इति। सामानाधिकरण्यं तथा भवति। गुणहीनो हि पूर्णेन्दुः पूर्णेन्दुकल्पशब्देनोच्यते तेन च तुल्यं वदनमिति तदपि पूर्णन्दुकल्पशव्देनाभि- १. 'दुण्डुज्जन्त' का० प्र०. २. 'अन्वेपयन्मरिष्यसि कण्टककलितानि केनकीवनान। मालतीकुसुमसदृक्षं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [इति च्छाया ।]

Page 319

२९४ काव्यमाला।

अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा उपमेयः । स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः क्यप्प्रत्ययेन साक्षादभि- हितः । तथा- 'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥ अत्र नामधातुवृत्तौ धर्मस्योपमादाचकस्य च लोपः । त्रिलोपे यथा-मृगनयनेति। मृगस्य नयने इति प्रथमं तत्पुरुषः, ततो मृगनयने इव नयने यस्या इति उष्ट्रमुखादित्वाद्वहुव्रीहिः । अत्र गुणद्योतकोपमानशब्दानां लोपः। यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्योपमासमासस्येति नाखित स्थानमुपमायास्त्रिलोपिन्याः। केचित्तु-अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ कूराचारोपमेयतैक्ष्ण्यघर्मेवादीनां लोपे त्रिलोपिनीमुपमामुदा- हरन्ति, तन्न युक्तम्। ऋरस्याचारस्यार्थान्वेषणोपायादेरयःशूलतयाध्यव- सानादतिशयोक्तिरेवायम्। एवं दाण्डाजिनिक इत्यादिष्वपि द्रष्टव्यम्।

धायिष्यते॥ कूराचारोपमेयेति । तथा ह्यत्रायःशूलमुपमानम्, अर्थान्वे- षणोपायः कश्चिदुपमेयः, तीक्ष्णत्वादिः साधारणो धर्मः, उपमानोपमेयभाव- श्चेति चतुष्टयमवगम्यते तन्मध्याच् शब्दस्पष्टमुपमानमयःशूलेनेति शिष्टस्य तु त्रितयस्यार्थसामर्थ्यादवगतिरिति ।। दाण्डाजिनिक इत्यादिष्वपीति । तथा हि दम्भस्य दण्डाजिनतयाध्यवसितस्य जीवनक्रियाकरणत्वं दण्डाजिनेना- र्यानन्विच्छति दम्मेन जीवतीति दाण्डाजिनिकः । दाम्भिक इत्यर्थः । एवं पार्श्वेनार्थानन्विच्छति। अनृजूपायेन जीवतीति पार्श्वकः । कौसतिको जालिक

Page 320

६ अध्याय:] काव्यानुशासनम् । २९५

मालोपमादयस्तूपमाया नातिरिच्यन्ते इति न पृथग्लक्षिताः । तथा हि- सोह व लक्खणमुहं वणमाल व वियडं हरिवइस्स उरम्। कित्ति व पवणतणयं आण व बलाइं से वेलग्गए दिट्टी ।।' इयमभिन्ने साधारणे धर्मे 'ज्योत्सेव नयनानन्दः सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।।' इति भिन्ने वा तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा। तथा- 'याम इव याति दिवसो दिनमिव मासोऽथ मासवद्वर्षम्। वर्षमिव यौवनमिदं यौवनमिव जीवितं जगतः ॥' 'नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम्। शशिबिम्बमिव लसद्दयुति तरुणीवदनं शरत्कुरुते।।'

इत्यर्थः । तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्य- वसितयो: करणक्रियां प्रति विशेषणत्वं कर्मत्वं च। शीतं करोति शीतकोऽलसः। जड इत्यथे: ।. एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च 'श्वा मुमूर्षति', 'अश्मा लुलुिषते', 'कूलं पिपतिषति' इत्यादि ॥ भाष्यकारस्यापि चैवमादाव- तिशयोक्तिमेदत्वमेवेष्टम् । यदाह-'न तिडन्तेनोपमानमस्ति'। आख्यातं नोपमानं भवतीत्यर्थः। एवं वर्तमानसामीप्यादावतिशयोक्तिमेदत्वं यथाप्रतीति योज्यम्। तथा च-'सत्सामीप्ये सद्वद्वा' इति वर्तमानसमीपे भूते भविष्यति च वर्तमानवत्प्रत्यया भवन्ति। कदा देवदत्त आगतोऽसि। अयमागच्छामि। आगच्छन्तमेव मां विद्धि । अयमागमम् । एषोऽस्म्यागतः । कदा देवदत्त, १. 'शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीतिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ॥' [इति च्छाया ।] 1. 'विलग्गइ' सेतुबन्धे.

Page 321

२९६ काव्यमाला।

अत्र यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे रसनो- पमा ॥ 'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते। भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥' तथा- 'कमलदलैरघरैरिव दशनैरिव केसरैर्विराजन्ते। अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥' अत्रोपमानोपमेययोरवयविनोः समस्तविषया, अवयवानां चैकदेश- विषया। 'तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। निलीनां नलिनीखण्डे कथं तु त्वां लभेमहि ॥' अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा॥ 'त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वद्ृशाविव। त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥' अत्रैकस्येवोपमानोपमेयत्वेऽनन्वयः ॥ 'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।।'

'तासां तु पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे। बलाकिनीनीलपयोदराजिः पुरः परिक्षिप्तशतहदेव ।' अत्र यथेष्टं विशेषणैरुपमेयं परिकल्प्य ताद्शमेव सिद्धमुपमान- मुपात्तमिति कल्पितोपमेत्यादि। आसां हि पृथग्लक्षणकरणे एवंविध- वैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति॥

Page 322

६ अध्याय:] काव्यानुशासनम् । २९७

प्राकरणिकेऽर्थे ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां संभावनं तद्योगोत्प्रेक्षणमुत्ग्रेक्षा। सा चेव-मन्ये-शङ्के-ध्रुवं-प्रायो-नून- मित्यादिभि: शब्दैर्द्योत्यते। यथा- 'बलं जगध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि। इतीव संचिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ।' अत्र रोषलक्षणस्य गुणस्योत्परेक्षा।। 'असंतोषादिवाकृष्टकर्णयोः प्राप्तशासनः । स्वधाम कामिनीनेत्रे प्रसारयति मन्मथः ॥' अत्र संतोषगुणाभावस्य।। 'वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु। अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ।I' अत्र क्रियायाः ॥ 'कपोलफलकावस्याः कष्ट भूत्वा तथाविधौ। अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ।'

गमिष्यसि। एष गच्छामि। गच्छन्तमेव मां विद्धि। एष गमिष्यामि एष गन्तास्मि। एवमन्यदपि। हरिपतेः सुग्रीवस्य । से इति रामस्य ॥ तदभाव- लक्षणेति। गुणक्रियाभावलक्षणः । तद्योगोत्प्रेक्षणमिति। अन्यघर्माणां सधर्मीभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यत्त्यनुगुणतया वस्त्वन्तराध्य- स्तत्वेन लब्घप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुत्नत्तेलोंकातिक्रान्तगोचरत्व-

Page 323

२९८ काव्यमाला।

अत्र दर्शनक्रियाभावस्य ।। एवं च- 'हिरण्मयी सा ललनेव जङ्गमान्युता दिवः स्थासुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ।' तथा- 'अकालसंध्यामिव धांतुमत्ताम्'। तथा- 'आवर्जिता किंचिदिव स्तनाभ्यां, वासो वसाना तरुणार्करागम्। सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।।' तथा- 'अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम्। रैतिमिषमन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥' तथा- 'स्थितः पृथिव्या इव मानदण्डः ।' इत्यादावुत्प्रेक्षाबुद्धिर्न विधेया॥ यद्यप्येषु स्वरूपतो विशेषणतश्चोपमाद्यकल्पितम्, तथाप्युपमैव। उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां प्रतीयमानत्वात् ॥ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम्। मस्या अभ्यनुज्ञातमेव। तेन यत्र कुतश्चिन्निमित्ताल्वौकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा। न हि 'भारं वहतीव पुंगवः', 'पयो ददातीव स्त्रीगवी' इत्यु- त्प्रेक्षा प्रवर्तते, लोकातिकरान्तगोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात्।। १. 'रतिमिव मन्म०' स्यात्.

Page 324

६ अध्याय:] काव्यानुशासनम्। २९९

सादृश्ये निमित्ते सति भेदेन विषयविषयिणोनिर्देशेन आरोपोऽतथा- भूतेऽपि तथात्वेनाध्यवसायो रूपयत्येकतां नयतीति रूपकम्। आरोप्य- माणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात्। सादृश्यग्रहणं कार्य- कारणभावादिनिमित्तान्तरव्युदासार्थम्। तेन 'आयुर्घृतम्' इत्यादौ न रूपकम्। भेदग्रहणमभेदारोपनिरासार्थम्। तत्र द्यतिशयोक्तिर्वक्ष्यते। तच्च एकमनेकं चारोपस्य विषयो यत्र तत्तथा।।

तत्रैकविषयं यथा- 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य- त्ंसखी: कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्।

विषयविषयिणोरिति। अर्थादुपमानोपमेययोः ॥ तथात्व्रेनाध्यवसाय इति। 'मुखं चन्द्रः' इत्यादौ गौणीवृत्तिविषयतयेत्यर्थः । तथा हि उपमेयशब्दो धरिवाची। द्वितीयेनोपमानशब्देन तथाभूतेनानुपपद्यमानसामानाधिकरण्य- स्तस्यैवोपमानपदस्य साभिधेयाविनाभूतगुणवृत्तितां नियमयति। ततश्व सामा- नाधिकरण्यमप्युपपद्यते। अत एव च मेदेऽप्यभेदप्रतीतिरियं नापन्यायः। तथा ह्यज्ञाते भेदे किलामेदप्रतीतिरेव यत्र, तन्मिथ्याज्ञानम्। यथा शुक्तिकायां रज- तप्रतीतिः । तथा मेदे ज्ञातेऽपि यत्राभेदप्रतीतिरिव सोपमा। भेदे ज्ञातेऽप्या मुरुये किलामेदप्रतीता संजातायामपि पश्चादत्रैवंविधे विशिष्टे सादृश्ये विश्रान्ति स्तद्रूपकम्। अन्यथा मेदेऽप्यमेदप्रतीतावन्याय एव स्यात्। ततश्च मिथ्याज्ञा नसालंकाररूपवं कथमुच्यते। अत्र च केचिच्छव्दारोपपूर्वकमर्थारोपं त्रुवते। अपरे विपर्ययम्। अन्ये यौगपद्येनोभयम्। एष एव च युक्तः पक्ष इत्याहुः। तथा हि-'शब्दापचारात्ताद्रूप्यं रूपके कैथ्चिदुच्यते। ताद्रूप्यारोपतस्त्वन्यैः शब्दारोपोऽत्र कथ्यते ॥। उपमानगुणस्त्वन्यानुपमेयगुणान्गुणान् । पश्यतां युगपद्भाति तत्र तच्छब्दरूपता ॥I' तत्रेत्युपमेये। तच्छव्देति। उपमानशब्दा-

१. 'सखी' का० प्र०.

Page 325

३०० काव्यमाला।

विनिद्रं यच्चान्तः सपिति तदहो वेदयभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' यत्र चैकस्मिन्विषयेSनेकान्यारोप्याणि, तदप्येकविषयम्।

रोप उपमानरूपारोपश्च ।। प्रेमलतिकेति । प्रेमैव लतिकेति। मयूरव्यंसका- दित्वादेवशब्दलोपी समासः ॥ ननु व्याघ्रादिद्वारेण इवशब्दलोपी समासो लुप्तो- पमाया दृश्यते। ततश्वोभयप्राप्तेरवश्यंभाविनीत्ाद्वक्ष्यमाणसंदेहसंकरः प्राप्नोति। उच्यते-यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाणं तत्रैवोभयप्रसक्तिरनिवार्येति स एव संदेहसंकरोऽलंकारस्य विषयो वक्ष्यते। इह तु लतायाः सेवनमानुकूल्यादारोपितधर्म एवेति रूपक- परिग्रहे साधकमस्ति तत्संकरशङ्का न कार्या। एवं बाधकेनापि प्रमाणेन संदे- हांशापवर्तनादपरांशप्रतिषठायां निरवकाशतैव संदेहस्य। यथा-'मधुसुरभिणि षटपदेन पुष्पे मुख इव साललतावधूरिव । ......... ', .......... मुख इव पुष्पे मधुकरेण चुम्ब्यते स्म' इति विवक्षायामिवशब्दद्वयेन वाक्यार्थासंगति- र्बाधकं प्रमाणं समासे लुप्तोपमायाः, न तु 'साललतावधूगुणयोगिनी मुख इव षट्पदेन चुचुम्बे' इति रूपकस्य। तथा हि मुख इव पुष्प इत्यत्र एदशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता पुष्पाश्रिता पूर्वमेव प्रतीतौरस्यतयोपा- रोहति। तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति। सात्र लताभि- धीयते। तस्माह्वतैव वधूरित्याञ्सी रूपके प्रतिपत्तिः। उपमाप्रतिपत्तेस्त्वनाञ्नसत्वं मुखोपमिति सामर्थ्याक्षिप्पुष्पगतरूपविशेषा नुपयोगिलात्। तथा चात्रोपमेये पुष्प- विशेषे मुखोपमितिसामर्थ्याक्षिप्त चुम्बनाधारत्वादी न सालताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात्। तेन वधूरत्र प्रधानम्, तदुपयोगिनी तु साललता साललतैव वधूरित्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति। तस्माद्यन्न विशेषावसाये निमित्तमस्ति, तत्र रूपकं समासाभिहितोपमा वान्यत्र संकर इति॥

१. 'अनिद्रं' का० प्र०.

१. 'साललताया' स्यातू.

Page 326

६ अध्याय:] काव्यानुशासनम्। ३०१

यथा- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः Sef F ip

कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्गिरां विधेरनवधिप्रावीण्यसाक्षात्किया प्राणाः पञ्चशिलीमुखस्य ललानाचूडामणिः सा प्रिया ॥' यत्र चैकत्र विषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येक- विषयम्। यथा- 'जैस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलहम्। रससंमुही वि सहसा परम्मुही होइ रिउसेणा II' अत्र रणस्यान्तःपुरत्वारोपः श्रौतो मण्डलाग्रलताया नायिकात्वं रिपु- सेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते। अनेकविषयं यथा- 'यस्या बीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो नित्यत्वस्मृतिरङ्कुरः सुतसुहज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णालता लूयताम् ।' यथा वा- 'इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ। खङ्ग: कृतान्तरसना रेसना च सरखती राजन्।।'

सौन्दर्यस्येति। अन्न तरङ्िण्यादेरारोप्यस्य प्रियालक्षण एक एव विषयः । रह- १. 'यस्य रणान्तःपुरे करे कुर्वतो मण्डलागलताम्। रससंमुख्यपि सहसा पराझाखी भवति रिपुसेना ।।' [इति च्छाया ।] २. 'जिह्वा' रुद्रटे.

Page 327

३०२ काव्यमाला।

एवं च येजन्ये रूपकप्रभेदा वर्ण्यन्ते। यथा -- 'ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः। अधरैर्दलैश्र तासां नवबिसनालानि बाहुलताः ।।' इदं सहजावयवं रूपकम्। 'गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि। यन्ता सिंहोऽपि शोभन्ते भ्रमरा हरिणास्तथा ।' इदमाहार्यावयवं च। 'अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः राजन्ति हंसवसनाः संप्रति वापीविलासिन्यः ।।' इदमुभयावयवमित्यादि ॥ ते न लक्षिताः, उक्तग्रहणेनैव संगृहीत- त्वात्। एवंविधवैचित्र्यसहस्त्रसंभवाच्चातिप्रसङ्गः स्यात्। यदाह- 'न पर्यन्तो विकल्पानां रूपकोपम योरतः । दिञ्मात्रं दर्शितं धीररैनुक्तमनुमीयताम् ।।' इति। इष्टार्थसिच्ै दृष्टान्तो निदर्शनम्। इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिच्धै यो दृष्टान्तः स निर्दिश्यते प्राकरणिकोऽर्थोSत्रेति निदर्शनम्।

सामिति हास्यानाम् ॥ इष्टस्येति। उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्था- नतरन्यासत्वं वक्ष्यत इत्यत्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते। ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहिष्यते। किं तस्य पृथग्लक्षणकर- १. 'संग्रही' स्यात्.

Page 328

६ अध्याय:] काव्यानुशासनम्। . ३०३

यथा- "होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण। किरपण्हुवइ ससिमणी चन्दे पियामुहे दिट्ठे।' यथा वा- 'उपरि घनं घनपटलं दूरे दयिता तदेतदापतितम्। हिमवति दिव्यौषघयः कोपाविष्टः फणी शिरसि ॥' यथा वा- 'देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।।' यथा वा- 'क सूर्यप्रभवो वंशः क चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुड्डपेनास्मि सागरम् ॥'

णेनेत्याशक््याह-यो दृष्टान्त इति। दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः । निश्चयश्ष विशेषादेव संभवतीति विशेषरूप एवासौ। तेन 'यत्र सामान्यस्य विशे- षस्य वा विशेषेण समर्थनं तन्निदर्शनम्। यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उत्पद्यते ॥ होइ न गुणाणुराओ इति। अत्र सामान्यं विशेषेण साध्यते॥ उपरीति। अत्र विशेषो विशेषेण साध्यते॥ देवीभावमिति, क्व सूर्येति, अत्युच्चपदाध्यास इति। उदाहरणत्रयस्या- यमभिप्रायः। यथा कैश्षित्प्रतिवस्तूपमा, प्रकारद्वयेन निदर्शना च पृथक् लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणेनैव व्याप्तत्वात्। तथा हि 'देवीभावं-' इति 'क सूर्य-' इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते॥ ननु प्रतिवस्तूपमान्तर्भवतु निदर्शने। निदर्शनाविशेषस्तु कथमन्तर्भविष्यति। तस्य

१. 'भवति न गुणानुरागो जडानां केवलं प्रसिद्धिशरणानाम्। ........ शशिमणिश्चन्द्रे प्रियामुखे दृष्टे ।' [इति च्छाया]

Page 329

३०४ काव्यमाला।

यथा वा- 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत्। आपाण्डु पतति पत्रं तरोरिदं बन्घनग्रन्थेः ॥' एते साधर्म्येण निदर्शनप्रकाराः ॥ वैधर्म्येणापि यथा- 'गुणानामेव दौरात्म्याद्ुरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं जीवति गौर्गलि: ॥' 'तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीषतः । भटा: परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥' इति॥ प्रकृताप्रकृतानां धर्मैक्यं दीपकम्। बहुवचनं समस्तव्यस्तपरिग्रहार्थम्। तेन प्रकृताप्रकृतानां प्राकरणि- काप्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च केवलानां धर्म: क्रिियादिर्यदैक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपना- ददीपकम्। 'अभवद्वस्तुसंबन्ध उपमापरिकल्पकः' इत्येवंलक्षणत्वात्। अत्रोच्यते-क सूर्ये- त्यादौ दार्श्टान्तिके वस्तुसंबन्धस्य असंभवः, दृष्टान्ते वा, अल्पविषयमत्या सूर्यवं- शस्य वर्णनमसंभवदिति दार्ष्टान्तिके वस्तुसंबन्धस्यासंभव इति चेत्, न। यत्र वाक्येऽसंभवन्नेवार्थः प्रतिपद्यते, तत्र कथमभवद्वस्तुसंबन्धता। स्यादेवं यदि प्रति- पद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात्। तस्मान्न दार्ष्टान्तिके वस्तुसंबन्ध- स्यासंभवः दार्ष्टान्तिकप्रतिबिम्बरूपत्वाच्च दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः । 'उदयति विततोर्ध्वरश्मिरज्ौ-' इत्यादौ तु अतिशयोक्तिमेदत्वं वक्ष्यते। 'अत्यु- चपदाध्यासः' इत्यत्र तु सामान्यं दृष्टान्तेन समर्थ्यते। साक्षात्कियापि तदर्था- १. 'शर्मणः' का० प्र०. 'साहसकर्मणा शर्म सुख यस्येति विग्रहः' इत्युदाहरण- चन्द्रिका.

Page 330

६ अध्याय:] काव्यानुशासनम्। ३०५

रथा- 'चेन्दमऊएहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया। हंसेहिं सरयसोहा कबकहा सज्जणेहं कीरइ गरुई ।।' अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि। गुरुकीकरणमेका क्रिया।

न्वयरूयापनं कुर्वतीति न दृष्टान्तात्प्रच्यवत इति चन्दमऊपहिं इति। चन्द्रमयूसादीनामपि न निशादिना विना कोऽपि परभागलाभः। सज्नाना- मपि काव्यकथां विना कीदशी साधुजनता। चन्द्रमयूखैश् निशाया गुरुकी- करणं भाखरत्वसेव्यतादि यत्किरियते, कमलैनलिन्याः शोभा परिमललक्ष्म्यादि, कुसुमगुच्छैलताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुख- करत्वमनोहरत्वादि, तत्सर्व काव्यकथायाः सज्जनैरित्येतावानयमर्थो गुरुकीक्रियते इत्येतद्दीपकबलाचकासिति। कथाशब्द इदमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषा:, सज्जनैविना काव्यकथा काव्यमितयेष शब्दोऽपि विध्वंसते। तेषु तु सत्सु आस्तां सुभगं काव्यं काव्यशब्दस्य व्यपदेशभागपि शब्दसंद- र्भमात्रं तथा तथा तै क्रियते यथादरणीयतां प्रतिपद्यते॥ ननु यदि क्रिया- पदोपनिबन्धो दीपकम्, तर्हि न तदलंकारः । क्रियापदे हि सति वाक्यपरि- समाप्तिः प्रतीयते, न पुनरर्थातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नारिति यदवोचाम। 'सविशेषणमाख्यातं वाक्यम्' इति आख्यातशब्देन चात्राख्या- तान्ं पदमुच्यते, तस्यैव क्रियावाचकत्वात्। तेनात्र कुतः कस्यातिशयः, शास्त्रा- रम्भवैयर्थ्याच्च। तथा हि-अलंकारशून्यं काव्यं मा भूदिति कवीनामलंकारव्यु- त्पत्तिः क्रियते। क्रियापदस्य च दीपकत्वे सर्व काव्यं सालंकारमिति नार्थोऽनेन ग्रन्थेन। अलंकारमेदप्रज्ञापनार्थोऽयं ग्रन्थ इति चेत, तेनैव तावज्ज्ञापितेन कोऽर्थः सर्वथा सालंकारं काव्यं विधेयम्। तत्र यद्यलंकारान्तरं काकतालीयेन भवति तदा शोभनमेव, नो चेद्दीपकमवस्थितमेव। किं च संकरस्योच्छेदप्रसक्गान्न क्रियापदं दीपकालंकारः। पृथक् पृथक् लब्धात्मनामलंकाराणामेकवाक्यसंसरगे संकरः। न च क्रियापदस्य दीपकत्वे रूपकादयोऽलंकारा दीपकातपृथगात्मानं ल्धुमुत्सहन्ते। तस्मान्न क्रियापदं दीपकम्। सत्यम्। न क्रियापदमात्रमस्माकं दीपकम्। किं तु १. 'चन्द्रमयूखैनिशा नलिनी कमलै: कुसुमगुच्छैलता। हंसै: शारदशोभा काव्यकथा सज्जनैः क्रियते गुरुकी ॥।' [इति च्छामा] का. श्ा० २०

Page 331

३०६ काव्यमाला :

यथा वा- 'मदो जनयति प्रीतिं सानङ्कं मानभङ्गुरम्। स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' अत्र मदादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमा- नानि। न च क्रमैकत्वमुपमां रुणद्धीति वाच्यम्। 'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसददशः । अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ।।' इत्यादौ क्मैकत्वेSप्युपमादर्शनात्। प्रकृतानां धर्मैक्यं यथा- 'पाण्डुक्षामं वदनम्-' इति। यथा वा- "हंसाण सरेहिं सिरी सारिज्जइ अह सराण हंसेहिं। अण्णोण्णं विय एए अप्पाणं णवर गरुअन्ति ।।' बहुभिः समानजातीयैः कारकविशेषैरभिसंबध्यमानम्। तस्य चानेकेष्वर्थेष्वभिसं- बध्यमानस्यार्थादन्वयिरूपं यत्तत्साम्यमुच्यते। प्राकरणिकाप्राकरणिकत्वाभ्यां च तेषामर्थानामुपमानोपमेयभावो गम्यमानो न श्रौतः। अत एव दीपकमुपमातो भिद्यते। यत्रापि प्राकरणिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किंचित्साम्यं विज्ञेयमेव।। ननु रुद्रटप्रभृतिभिर्वा- स्तवमेदतयापि दीपकं प्रतिपादितम्, तत्र च कथमौपम्यं स्यादित्याशक्क् निद- र्शयति-मद इति। मदः सुरादिपानविकारविशेषः। मानभङ्गुरं मानभजनशी- लम्। यद्वा मानो भङ्गुरो यत्रेति समासः ॥ क्रियादेर्धर्मस्यैकस्यव वाक्यार्थेष्वनेके- ष्वपि साधार्णकयोपादीयमानत्वादत्रौपम्यं बलादापतति। तत्रापि यद्विवक्षितं तदुपमेयमितरस्तूपमानमिति। अत एव रुद्रटोक्त औपम्यसमुचयोऽपि दीपकमेव तुत्यखभावत्वादिति ॥ हंसाणेति। अत्र हंसानां श्रीः सरोभिः सरसां च हंसैः १. 'हंसानां सरोभि: श्रीः सार्यतेऽथ सरसां हंसैः। अन्योन्यमेवैते आत्मानं केवळं गुरूकुर्वन्ति ॥' [इति च्छाया ।]

Page 332

६ अध्याय:] काव्यानुशासनम् । ३०७

अप्रकृतानां यथा- 'कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्द्दशो: पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे त्वदाननस्य ।।' 'खिद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने॥' इत्यादौ जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते। सामान्यविशेषे कार्यें कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः । सामान्ये प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये

सार्यत इति साधारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संबन्ध इति अन्योन्यनामालंकारो न दीपकतामतिक्रामति॥ यथा वा-'कण्ठस्य तस्यास्तनु- बन्धुरस्य सुक्ताकलापस्य च निस्तलस्य। अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ॥' इति। अत्र कण्ठमुक्ताकलापयोः प्राकरणिकयोरन्योन्यं भूष्यभूषणभाव इति ॥ कुमुदेति । अत्र कुमुदादीनि अमृतादीनि चाप्राकरणि- कानि दृशोराननस्य च प्रकृतस्य वर्ण्यमानत्वात्। यथा वा-यैर्दृष्टा सा न वा दृष्टा मुषिताः सममेव ते। हृतं हृदयमेकेषामन्येषां जन्मनः फलम् ॥' अत्र प्रियतमां प्राकरणिकीं प्रति अवलोकयितृणामनवलोकयितृणां च प्राकरणिकानां मुषितत्वमेको धर्म इति। एवं च तुल्ययोगिता पृथक् न वाच्या इति। ननु कार- कदीपकमन्यैरुक्तं तत्क नोच्यते इत्याशक्व्याह-स्विद्यतीत्यादि॥ अप्रस्तु- तस्येति। उपवर्णनावसरादपेतत्वादप्राकरणिकस्येत्यर्थः। अभिधानमिति । स्तुतिनिन्दोभयानुभयरूपम् ।। ननु चाप्रस्तुतपदार्थखरूपोक्तावसंबद्धभाषिता नालंकारगन्धोऽपि। तथा हि। पर्वतोपवर्णनायां कः समुद्रस्रूपमुपवर्णयेत्। उपवर्णने वा श्िष्टविगर्हणमवश्यंभावी त्याशक््य, अन्योक्तिशब्दार्थ प्रकटीचिकीर्षुरा- १. 'तवा' का० प्र०.

Page 333

३०८ काव्यमाला। कारणस्य, कारणे कार्यस्य, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभि- धानमन्योक्तिः। अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः। यथा- 'ऐरावणं स्पृशति मन्रयते मरुद्भि- र्वज्रं परामृशति पश्यति योधसार्थान्। मेरोस्तटानि विषमीकुरुते महेन्द्र- स्त्वच्छङ्कया निशि न याति नरेन्द्र निद्राम्।।' अत्र त्वय्युद्युक्ते न कश्रित्सुखं शेते इति सामान्ये प्रस्तुते विशेष उक्तः । 'अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् । अहो निसर्गजिह्मस्य दुरन्ता गतयो विधे: ॥' अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवखात्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम्। 'ये यान्त्य्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । ते बान्घवासते सुहृदो लोकः स्वार्थपरोऽपरः ॥' अत्र जरासंधः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यक्तुं सुहृद्दान्धवरूपत्वमप्रस्तुतं कारणं वर्णयति। ह-अप्राकरणिकस्याभिधानेनेत्यादि। सान्तरेण शब्दव्यापारेण गोच- रीक्रियमाण: प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभावादौ संबन्धे सति सहृदयहृदयावर्जकमलंकाररूपत्वमेतस्या इत्यर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः। अन्योकी च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचि- द्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया। तत्र विवक्षितत्वं यथा- १. 'अप्रस्तुतप्रशंसायां' ध्वन्यालोके.

Page 334

६ अध्याय:] काव्यानुशासनम्। ३०९

'सग्गं अप्परियायं कुच्छुहलच्छिविरहियं महुमहणस्स उरम्। सुमरामि महणपुरओ अमुद्धयन्दं व हरजटापब्भारम् ।।' अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहारकौशलादौ मत्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्ष:स्मरणादिकमप्रस्तुतं कार्य वर्ण- यति। तुल्ये प्रस्तुते तुल्यस्याभिघाने द्वौ प्रकारौ। श्रिष्टविशेषणता, साद- श्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः । यथा- 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि- र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥' अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषणबलात्तुल्यः सत्पुरुष आक्षिप्यते।

'पराथें यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्य- भिमतः । न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुन- रगुणाया मरुभुवः ॥l' इक्षौ पीडनं पीडा, सत्पुरुषे तु पराथोदते तदर्थ क्लेशः। भज्गोऽपीक्षौ ग्रन्थित्रोटनम्, सत्पुरुषे तु धनाभावनिमित्तो विल्ववः । इक्षोर्माघुर्य- माखाद्यलक्षणो गुणः, सत्पुरुषे त्वनुल्बणत्वम्। इक्षोर्विकार: शर्करागुडखण्डादि, सत्पुरुषे तु चित्तविक्रिया। न हि सत्पुरुषा विकृत्यवस्थायाभप्यसेव्याः। उल्बण- त्वाभावात्। इक्षोरक्षेत्रमूषरम्, सत्पुरुषे निर्विवेकखवाम्यादिस्थानम्॥ यथा वा-'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां

१. 'स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः । स्मरामि मथनपुरतोडमुग्धचन्द्रं च हरजटाप्राग्भारम्।।'[इति च्छाया।] ९. 'अपारिजाभं कौत्थुह' सेतौ.

Page 335

३१० काव्यमाला।

'आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन। क्षारीकृतं च वडवावेदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।।' अत्रार्णवस्य गर्हणयान्यायोपार्जितधनतवादिप्रतीयमानसादृश्यः कश्ि- सुरुष आक्षिप्यते।। विशेष्यश्रिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या।

विषयताम्। निरालोके देशे कथमिदमहो चक्षुरधुना समं जातं सर्वैन सममथ वान्यैरवयवैः ॥' नन्विति। यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संबन्धः । आलोको विवे- कोऽपि। न सममिति। हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अक्यवैरिति। अतितुच्छ प्रायैरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुखवा- मिभिरितरजनसमसत्कारतया ततोऽपि चाप्रयोजनया न्यूनसत्कारतया खली- क्रियमाण: प्रस्तुतः ॥ यथा च-'प्राणा येन समर्पितास्तव बलादेन त्वमुत्था- पितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्या पुरः। तस्यास्य स्मित- मात्रकेण जनयञ्जीवापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे॥' अत्र यद्यपि सारूप्यवशेन कृतम्नः कश्विदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तु· तस्य वेतालवृत्तान्तस्यापि चमत्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोS यमर्थ इति। एषु वाच्यं विवक्षितसरूपमेव, न तु प्रस्तुतम्। आद्ययोई्योर्महा- गुणस्याविषयपतितत्वादप्राप्तपरभागस्य, तृतीये च कृतप्नस्य कस्यचित्सरूपं वर्ण. यितुं तात्पर्येण स्तुतमिति॥ अविवक्षितत्वं यथा-'कस्त्वं भोः कथयामि दैवह तकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते वामेनात्र वटस्तमध्वगजन: सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्ग स्थितस्यापि मे ॥I' कथयामात्याद प्रत्युक्तिः । अनेन पदेनेदमाह-'अकथनीय १. 'शतेभ्यः' प्रग्लिखितम्. २. 'दहने' का० प्र०. १. 'न सममित्यर्थः' ख.

Page 336

६ अध्याय:, काव्यानुशासनम्। ३११

यथा- 'पुंस्त्वादपि प्रविचलेद्यदि यद्यघोऽपि यायाद्यदि प्रणयनेन महानपि स्यात्। अभ्युद्धरेत्तदपि विश्वमितीद्शीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ।।' अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेSपि सत्पुरुषचरितस्य प्रस्तुत- त्वादभिधा एकत्र नियत्रितेति सत्पुरुष एव वाच्यो न विष्णुः, तच्चरि- तस्याप्रकृतत्वात्। तत्प्रतीतिस्तु शब्दशक्तिमूलात् ध्वनेरेव। यद्यपि च

मेतत्, श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यैद्यनुबन्धस्तत्कथयामि'। वैराग्यादिति। काक्का दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत्। साधु विदितमित्युत्तरम्। कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनि रवेदस्मरणोपकमं कथं कथमपि निरूपणीयतयोत्तरम् । वामेनेति। अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति। छायामात्रकरणादेव फेलदानशून्यादुदुर- कन्धर इत्यर्थः । छायापीति। शाखोटको हि श्मशानाभनिज्वालालीढलतापल्लवा- दिस्तरुविशेषः । न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभि- घेयेनैवानेन शोकेन समृद्धासत्पुरुषसमीपे वासिनो निर्धनस्य कस्यचिन्मनखिनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते॥ विवक्षिताविवक्षितत्वं यथा- 'उप्पहजायाए असोहिणीए फलकुसुमपत्तरहिआए। बोरीए वइ दन्तो पामर हो हो हसिज्जिहसि ॥' अत्र वाच्योऽर्थो नात्यन्तं संभवी ने वासंभवीति वा न वक्तुं १. 'लेदपि' का० प्र०.

१. 'यदि निर्बन्ध' ध्वन्यालोकलोचने. २. 'फलदानादिशून्या' ध्वन्यालोकलोचने. ३. 'उत्पथजाताया अशोभिन्याः फलकुसुमपत्ररहितायाः । बदर्यां वृत्ति ददत्पामर भो भो हसिष्यते ॥।' [इति च्छाया ।] ४. 'हो ओहसिज्जिहसि' ध्वन्यालोके. ५. 'वाच्य एव नियमो नास्तीति' ध्वन्या- येकलोचने.

Page 337

३१२ काव्यमाला।

सत्पुरुषस्य विष्णोरिव विश्वोद्धरणशक्तिर्नास्ति, तथापि गुणवृत्त्या संभ- वतीति न दोषः ।।

शक्यम्, व्यञ्ञ्यस्यापि भावात्। तथा हि-उत्पथजाताया इति न तथा कुलो- द्रतायाः । अशोभनाया इति लावण्यरहितायाः फलकुसुमपत्ररहिताया इति। एवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संबन्धिवर्गपोषिका वा परि- रक्ष्यते। बदर्या वृत्तिं ददत्पामर भो भो हसिष्यसे । सकललोकैरिति भावः ॥ यथा वा-'सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्वापलं दृष्टिः सा मदविस्मृत- खपरदिकि भूयसोकेन वा। सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसाव- न्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥' रसनाविपर्ययोऽसत्यभाषि- त्वमपि। चापसमश्रोतव्यश्रवणमपि। मदो गर्वोऽपि। शून्यकरत्वमपि। अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तमिति॥ ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठि- तानामनेकविधव्यापारोपवर्णने भूतकालसंबन्धिनी प्रस्तुते 'औतसुक्यगर्भा भ्रम- तीव दृष्टि: पर्याकुला क्वापि मतिः प्रयाति। निरत्ययप्रेमनिबन्धनं च वियोगकाले द्रवतीव चेतः ॥I' इत्यप्रस्तुतार्थाभिधायिनि श्रोकान्तरे । तथा समुद्रेण राम प्रति-'त्वयैव मह्यमियं स्थितिर्दत्ता । यामनुपालयता मया भवान्विष्णुरारोषितः' इति प्रस्तुत्योपन्यस्ते 'विअसन्तरअक्खउरं मअरन्दरसुद्गुमायमुहलमहुअरम् । उणा दुमाण दिर्ज्न्ति हीरइ न उेणा अप्पण चिअ कुसुमम् ।।' इत्यप्रस्तुतार्थप्र- तिपादके छन्दोन्तरे च अन्योक्तित्वप्रसङ्गः । अत्र हि तदये उपवर्ण्यमानेनाप्रस्तुते- नार्थेन वृत्तान्तरोपनिबद्ध: प्रस्तुतोऽर्थोऽनुसंबध्य मैवम्। यत्र हि तस्मिन्नेव वाक्ये- Sभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारूढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादि-

१. 'कुलोद्भूता' ध्वन्यालोकलोचने. २. विकसद्रज:कलुषं मकरन्दरसाध्मातमुखरमधुकरम्; ऋतुना द्रुमाणां दीयते हियते न पुन(स्तदा)रात्मनैब कुसुमम्॥' [इति च्छाया ।] (आाo ६ स्क० ११) सेतुटीकानुसारेण. ३. 'उदुणा' सेतौ. ४. 'दिज्जर' सेतौ. ५. 'उणो तमप्पण' सेतौ. ६. 'वृतद्रये' स्यात्, ७. 'बध्यमेवेति चेत। मैवम्' स्याद,

Page 338

६ अध्याय:] काव्यानुशासनम्। ३१३

अन्योक्तिश् क्वचित्स्तुतिरूपा। यथा-'नालस्य प्रसर-' इति। क्कचिन्निन्दारूपा। यथा-'आदाय वारि-' इति।

भिराक्षेप: सोऽन्योक्तेर्विषयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्वये वा समर्थ्यसम- र्थकतया बिम्बप्रतिबिम्बभावेन वा प्रस्तुताप्रस्तुतयोरभिधयैव संस्पर्शो वाक्यैक- वाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः। एवं च 'औत्सुक्यगर्भा-' इत्यादौ यद्यपि श्लोकान्तरे समर्थस्य वस्तुन उपक्ान्तत्वात् श्लोकान्तरेण तथाभूत- मप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिबध्यते, तथापि नान्योक्तिरिति वक्त- व्यम्। अपि त्वर्थान्तरन्यास एवासौ। अत्र हि वृत्तान्तरेणोपक्षिप्तो योडसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी विशेषभूतः स कालमात्रसंबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः ॥ यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायोऽत्रानुसर्तव्यः। यद्वा संकर एवास्तु, न तावदन्योक्तिरियम्। तथा 'वियसन्तरअरकेउरं' इत्यत्रापि वृत्तान्तरोपनिब- न्धनोपस्थितेऽर्ये रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुदुमव्यापारात्मनस्तत्प्रति- बिम्बस्य निदर्शितत्वान्निदर्शनालंकारतैव। 'विकसद्रजःकर्बुरं मकरन्दसाध्मातमु- खरमघुकरम्। ऋतुद्रुमाणां दीयते हियते न पुनरात्मनैव कुसुमम् ॥।' इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् ॥ अथात्र कोडलंकार :- 'लाव- ण्यद्रविणव्ययो न गणितः क्वेशो महान्स्ीकृतः सेच्छन्दस्य सुखं जनस्य वैसतश्चि- न्तानलो दीपितः। एषापि खयमेव तुल्यरमणाभावाद्वराकी हता कोरऽर्थश्वेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ।।' द्रविणशब्देन सर्वस्प्रायत्वमनेकखक्ृ- त्योपयोगित्वमुक्तम्। गणित इति । चिरेण हि यो व्ययः संपद्यते न तु विद्यु- दिव झटिति, तत्रावश्यं गणनया भवितम्। अनन्तकालनिर्माणकारिणोऽपि (तु) विधेर्न विवेकलेशोऽप्युदभूदिति परमस्याप्रेक्षावत्त्वम्। अत एवाह-केशो मह्दा- १. 'क्खउरं' सेतौ. २. 'न्दरसा' स्यात्. ३. 'ऋतुना' स्यात. ४. 'स्वच्छन्दं चरतो' ध्वन्यालोके. ५. 'सखीजनस्य' व्वन्यालोके. ६. 'हृदये चिन्ताज्वरो निर्मितः' ध्वन्यालोके. ७. 'योग्यो यः' ध्वन्यालोकलोचने. ८. 'मस्य प्रेक्षा', 'मस्योत्प्रेक्षा०' ध्वन्यालोकलोचने.

Page 339

३१४ काव्यमाला।

क्वचिदुभयरूपा। यथा- 'निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कशेरुस्थलीं जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्।

निति। अनेन प्रत्युतानर्थप्राप्तिरुक्ता। एवमपि यदि परस्योपकारः स्यात्तदा को दोष इत्याशड्याह-सच्छन्दस्येति। परार्थोऽपि न कश्वित्। यतो विश्ङ्खलस्य जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनमिति। चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्युपायान्वेषणपरः संजातः। न चाप्यस्या

वादसंप्राप्तसंभोगविफलमनोरथवश्चितैवेयं वराकीत्याह-एषापीति। यत्स्यं निर्मीयते तदेव च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम्। कोऽर्थ इति। न खात्मनो न लोकस्य ने निर्मितस्येत्यर्थः ॥ निन्दाद्वारिका स्तुतिरत्र प्रती- यत इति व्याजस्तुतिरिति केचित्। तच न चतुरस्रम्। यतोऽस्त्याभिधेयस्यैतद- लंकारसरूपमात्रपर्यवसायित्वेन सुश्लिष्टता। तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एषापि इत्येवंविधोत्त्यनुपपत्तेः । रागिणो हि वराकी हता इति कृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम्। तुल्यरमणाभावादिति खात्म- न्यत्यन्तमनुचितम्। आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रा- यत्वं स्यात्। नापि नीरागस्य तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात्। ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्टान्तप्रायस्य वा निर्ज्ञातजातिविशेषे कुन्तलादौ किमियं खसौ- भाग्याभिमानगर्भा तैत्स्तुतिगर्भा चोक्तिर्न भवति। वीतरागस्यापि वानादिकाला- भ्यस्तरागवासनादिवासिततयामध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमु- किरन संभाव्या। न हि वीतरागो शिपर्यस्ान् भावान् पश्यति। न ह्यस्य वीणा- क्वणितं काकरटितकल्पं भाति। तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपप- १. 'न' नास्ति लोचने. २. 'च' ध्वन्यालोके नास्ति. ३. 'शकुन्तलादौ' ध्वन्या. लोकलोचने. ४. 'उत स्तुतिगभोंक्ति' ध्वन्यालोकलोचने. ५. 'न' लोचने तु नास्ति. ६. 'प्रतिभाति' लोचने.

Page 340

६ अध्याय:] काव्यानुशासनम्। ३१५

दंष्र्रयां चतुरर्णवोर्मिपटलैराष्ठावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी।' अत्र पूर्वार्धे निन्दा, अपरार्धे तु स्तुतिः॥ क्कचिद नुभयरूपा। यथा- 'इतो वसति केशवः पुरमितस्तदीयद्विषा- मितोऽपि शरणागताः शिखरिपक्षिणः शेरते। इतोऽपि वडवानल: सह समस्तसंवर्तकै- रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ।।' अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा॥

दयते। अन्योक्तावपि ह्यप्रस्तुतः संभवन्नेवार्थो वक्तव्यः। न हि तेजसीत्थमन्योक्ति र्भवति-'अहो धिकू ते कार्ष्ण्यम्' इति। से परं प्रस्तुतपरतयेति नात्रासंभवः, किं तर्हि सुश्लिष्टतैवेति। सत्यमेतत्। किंतु न ह्ययं श्रोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगुणार्थतास्य परिकल्प्यते तस्मादन्योक्तिरेवेयम्। यस्मा- दनेन वाच्येन गुणीकृतात्मना निःसामान्यगुणावलेपाष्मातस्य निजमहिमोत्कर्ष- जनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न किंचिदेवापरं पश्यतः परिदेवितमे- तदिति प्रकाश्यते। निःसार्मान्येनेति निजमहिमेति विशेषज्ञमिति परिदेवितमिति अमीषां चतुर्णा वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्यतया प्रतीयमान- त्वात्। तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य शोक इति प्रसिद्धिः। एतदर्थसंसूचकश्चापरो हि स्फुट एव तस्य श्रोको विद्वद्भि: परिपठ्यते। यथा- अनध्यवसितावगाहनमनल्पधीशक्िनाप्यदृष्टपर मार्थतत्त्वमधिकाभियोगैरपि। मतं मम जगत्यलब्धसदृशप्रतिभ्राहकं प्रयास्यति पयोनिधे: पय इव स्देहे जराम् ।' अवगाहनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम् । परमं यदर्थंतत्त्वं १. 'अप्रस्तुतप्रशंसायामपि' लोचने. २. 'सा' लोचने. ३. 'दप्रखुतप्रशंसेय' ध्वन्यालोके. ४. 'न्येति' लोचने.

Page 341

३१६ काव्यमाला।

व्यङ्गयस्योक्ति: पर्यायोक्तम्। व्यज्कयस्य प्रतीयमानस्यार्थस्य अभिधानं यत्पर्यायेण भञ्ञयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य मेदः । न हि तत्र गम्यमानस्यार्थस्य भञ्जयन्तरेणाभिधानम्, अपि त्वप्रस्तुतद्वारेण तस्या- क्षेप इति। यथा- 'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ।।'

कौस्तुभादिभ्योऽप्युत्तभम्। अलब्घं प्रयन्नपरीक्षितमपि न प्राप्तम् सदशमस्य तथाभूतं प्रतिग्राहम् एकैको ग्राहो जलचरः प्राणी ऐरावणोच्चैःश्रवो धन्वन्तरि- प्रायो यत्र तदलब्धसदशप्रतिप्राहकम्। इयति चार्ये साम्यादुपमालंकारोऽनन्तर तु खात्मनि विस्मयधामतयाद्भुते विश्रान्तिः, परस्य च श्रोतृजनस्यात्यादरास्पद- तया प्रयत्नग्राह्यतया चोत्साहजननेनैवे भूतमत्यन्तोपादेयं सत्कतिपयससुचित- जनानुग्राहकं कृतमिति खात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीर- रसे विश्रान्तिरिति मन्तव्यम्। अन्यथा परिदेवितमात्रेण किं कृतं स्थात्। अँप्रे- क्षापूर्वकारित्वमात्मन्यावेदितं चेत्किं ततः खार्थपरार्थासंभवादिति। तदनेन निर्विवादतदीयश्छोकेनैव तदभिप्रायस्य परिदेवतविषयस्य संवेद्यमानत्वात्पूर्व- त्राप्यन्योक्तिरेव संभाव्यते। तत्रापि चाद्भुताखादपुरःसरा वीररसविश्रान्तिपर- तानुसंघेयेति। तर्हि यत्र प्रकरणमेव किंचिन्नास्ति तत्र कोऽलंकारः । यथा- 'निग्तण्ड? दुरारोहम्-' इति। उच्यते । तत्रोभयोरलंकारयोरन्यतरपरिप्रहेण दोषः, नापि साधकं प्रमाणम्, तत्र संकरालंकारो वक्ष्यते। अत्र च शठतरपो- टापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावानन ज्ञायते। किमियं समासोकिरता न्योक्तिरिति संकरालंकार एव। अन्ये त्वाहु :- यत एव प्रकरणापरिज्ञानमत १. 'अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम्' लोचने. २. 'नैवंभूत' लेचने. ३. 'उत्प्रेक्षा' लोचने.

Page 342

६ अध्याय:] काव्यानुशासनम्। ३१७

अत्र 'भीष्मेण भार्गवो जितः' इति व्यङ्जयस्य 'देशिता धर्मदेशना' इत्यना भज्नया भणनम् ।। विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः । प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोSभेदाभिधानं यत्त- दतिशयाभिधानादेकातिशयोक्तिः ।

यथा-

किरक्ज्योत्सामच्छां लवलिफलपाकप्रणयिनीम्। उपप्राकाराग्रं प्रहिणु नयने तर्कय मना- गनाकाशे कोऽयं गलितहरिणः शीतकिरण: ॥'

अत्र मुखचन्द्रयोर्भेदेऽप्यभेदः ॥

एवात्र प्राधान्येन पाटलोपवर्णने क इव । वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनि- वृत्ती प्रत्युपदेशाय शास्त्रमिव श्रोकाः कल्पन्त इति समासोक्तिपरिप्रहे कुतों दोषाभावः । तस्मादन्योक्तिरेवेयमिति ॥ व्यङ्गयस्येति । योग्यतयानिर्देशः । अनया भङ्गया भणनमिति। देश्विताधर्मदेशनेति भज्ञयन्तररचितश्दैरि- त्यर्थः। तेन यद्दक्कयन्तरेणोच्यते तद्वयञ्ञयम्। यथाप्येकघनरूपतात्मकप्रकारेण व्यङ्ञयं प्रतीयते, न तथा वक्तुं शक्यते। क्रमभाविविकल्पप्रभवानां शब्दानां तथाभिधानशक्तरभावात्। यथा गवि शुक्के चलति दृष्टे गौः शुकश्ल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम्। अशे- षविशेषावच्छिन्नखलक्षणाकारतयानुभवस्योत्पत्तेः । तथा अभिन्नासंसष्टत्वेन दृष्टं भेदसर्गाभ्यां विकल्पयति। निरंशस्य वस्तुनो मेदसंसर्गयोरभावात्। तौ हि विकल्पस्यैव व्यापारः। स ह्यभिन्जमपि वस्तु गौः शुकथल इत्येवं भिनत्ति। मिन्नमपि पदार्थजातमयं गौरित्ेवं संसृजति॥ अमेदाभिधानमिति। गौण्या

Page 343

३१८ काव्यमाला।

यथा वा- 'अयिं दियर किं न पेच्छसि आयासं किं मुहा पलोएसि ! जायाएँ बाहुमूलम्मि अद्धयन्दाण परिवाडिम् ॥' अत्र नखार्घचन्द्राणाम् ।। अमेदस्य व्यत्ययो मेदो द्वितीया। यथा- 'अण्णं लडहत्तणयं अण्ण च्चिय कावि वत्तणच्छाया। सामा सामण्णपैयावइस्स रेह च्चिय न होइ ।।' अत्र लटभत्वादेरभिन्नस्यैव मेदेनाभिधानम् ।। योगस्य संबन्घस्य व्यत्ययोऽसंबन्धस्तृतीया। यथा- 'मलििकामालभारिण्यः सवाङ्गोणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्सायामभिसारिकाः ॥' अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्साबाहुल्योत्कर्षविव- क्षया योग उक्तः। यथा वा- 'अपाङ्गतरले दशौ मधुरवक्वर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। १. 'अयि देवर किं न प्रेक्षसे आकाशं (आकासं बा) किं मुधा प्रलोकयसि। जायाया बाहुमूलेऽर्वचन्द्राणां परिपाटीम् ॥।' [इति संस्कृतम्।] २. 'अइ दिअर किं ण' गाथासप्तशत्याम्. ३. 'अन्यत्सौकुमार्यमन्यैव कापि वर्तनच्छाया। श्यामा सामान्यप्रजापते रेखैव न भवती ।।' [इति संस्कृतम् ।] ४. अण्णा' का० प्र०. ५. 'पआवशणो' का० प्र०.

Page 344

६ अध्याय:] काव्यानुशासनम्। ३१९

इति स्फुरितमक्के मृगद्दशां खतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र मदोदयस्य लक्षणेऽपि खाभाविकविभ्रमाणामुत्कर्षविवक्षया र्लक्षणस्यायोग उक्तः ॥ एवम्- 'ऐसो वि ण सच्चविओ जीसे पसरन्तपल्लवारुणराओ। मज्झणतम्बेसु भओ तह मदातम्बेसु लोयणेसु शमरिशो॥' इति। अयोगस्य व्यत्ययो योगश्चतुथा । यथा- पश्चात्पर्यस्य दिरणामुदीर्ण चन्द्रमण्डलम्। प्रायोऽत्र हरिणाक्षीणामुदीर्णो रागसागरः ॥' अत्रानुद्गते चन्द्रे रागसागरवृद्धेरयोगेऽपि चन्द्रस्योद्दीपनविभावनाति- शयप्रतिपादनार्थ योग उक्तः । यथा वा- 'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्कयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुघस्य ।।' तथा- 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्। न षट्रपदोडसौ कलगुञ्जितो न यो न गुज्जितं तन्न जहार यन्मनः॥'

वृत्त्येत्यर्थः ॥ एवमिति। मजनाताम्रयोलोंचनयोर्मदरागे मदाताम्रयोः कोपो- १. 'एषोऽपि न ..... यस्याः प्रसरत्पल्ठवारुणरागः । मज्जनताम्रेषु भवस्तथा मदाताम्रेषु लोचनेषु ...... ॥'[इति संस्कृतम्।] २. 'किरणानुदीर्ण' स्यात.

Page 345

३२० काव्यमाला।

अत्र वराज्कनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेर- योगेऽपि योग उक्तः । यथा वा- 'उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमघाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।I' अत्र वारणेन्द्रलीलां गिरिर्वहतीत्य मंबन्घेति संबन्धः । यद्वा गिरि- वारणेन्द्रगतयोर्लीलयोर्भेदेSप्यैक्यमध्यवसितम्। यथा वा- 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्धाः ॥' अत्र दिवंगतकविगुणानां रमणायोगेऽपि योग उक्तः । तथा- 'हृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति। वयमत्र निरवकाशा विरम कृतं पादपतनेन ।I' अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः ॥ एवंविधे च सर्वत्र विषयेSतिशयोक्तिरेव प्राणत्वेनावतिष्ठते। तां विना प्रायेणालं- करणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेषाद्यलंकारोप- न्यास: श्रेयान् ।।

परागे च लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ॥अलंकरणत्वथोगादिति।. तथा चाह-'सैषा सर्वेव वक्रोक्िरनयार्थो विभाव्यते। यत्नोऽस्यां कविना कार्यः कोऽलंकारोडनया विना ॥' इति ॥ सामान्येति। 'मल्लिका-' इत्यादौ सामा- न्यम्, 'अपाङ्गतरले' इति 'एत्तोवि' इत्यनयार्मीलितम्, 'पुराणि' इति 'न तज्ज- १. 'गिर: कथमिह' रुद्रटे. १. 'सर्वत्र' ध्वन्यालोके. 'यातिशयोक्तिर्लक्षिता सैव सर्वा' लोचने व्याख्योपल- म्भात 'सैव सर्वात्र' इति पाठो भवेत. २. 'एसो' मूले.

Page 346

६ अध्याय: ] काव्यानुशासनम्। ३२१

विवक्षितस्य निषेध इवोपमानस्याक्षेपश्राक्षेप:। विशेषविवक्षयेत्यनुवर्तते। वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याश- क्यवक्तव्यत्वमतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव। निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः । निषधो यथा- 'अहं त्वा यदि नेक्षेय क्षणमप्युत्सुका ततः । इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ।।' अयं वक्ष्यमाणप्रेकरणहृदयो निषेघात्माक्षेपः । उक्तविषयोऽपि यथा- 'ज्योत्सना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर- व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रमहे ।।'

लम्' इत्यनयोरेकावली, 'उदयति-' इत्यादौ निदर्शना, 'दिवमप्युपयातानाम्' इति 'हृदये चक्षुषी' इत्यनयोर्विशेषश्चालंकारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति॥ अशक्यवक्तव्यत्वमिति। वक्ष्यमाणविषयतामाह। अतिसिद्धत्व- मिति। अतिप्रसिद्धत्वम् । अनेन उक्तविषयतामाह। 'विमुक्तेनाप्रियेण ते' इति त्वददर्शनास्तास्ता अवस्था या वक्तुमपि न शक्यत इत्यस्यार्थस्य प्रतिपत्तये।। किमनेनेति। त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्यापारहेतवस्तस्या भवन्तीत्यति-

१. 'अतिप्रसिद्धत्वं' का० प्र०. २. 'मरण' स्यात्.

१. 'किमुक्ते' मूले. २. 'नात्तास्ता' स्यात्. का० शा० २१

Page 347

३२२ काव्यमाला।

उपमानाक्षेपी यथा- 'तस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दशौ च यदि ते किं नाम नीलोत्पलैः। 'किंवा कोमलकान्तिभि: किसलयैः सत्येव तत्राधरे ही धातु: पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' यथा वा- 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि कि भभे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः । यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेSस्मिन्वचनानि दुर्जनानाम् ।।' अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलंकारान्तरम् ।। अर्थानां विरोधाभासो विरोधः। जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्या विरोधेऽपि परस्परप्रतिबन्घलक्षणो व्याघातलक्षणो वाद्यो विरोधस्तद्वदाभासमानो विरोधः । प्रसिद्धोऽयमर्थः इत्यस्य प्रतिपादनाय ॥ व्याघात इति। एकतरप्रतिबन्धरूपः ॥ तद्वदाभासमान इति। अयं भाव :- विशेषविवक्षये त्यत्राप्यनुव्तमानत्वाद्, यत्र भावान्तरेभ्यो वैबिध््यं ख्यापयितुभामुखे विरोधप्रतीतिकारि न तु विरोध- पर्यवसायि वचस्तन्रायं विरोधालंकारः, यत्र पुनः परिहारासंभवस्तत्र व्याहत १. 'श्चे' वामनकाव्यालंकारे. २. 'चेत्' वामनालंकारवृत्तौ. ३. 'भद्रे' रुद्रटे.

Page 348

६ अध्याय:] काव्यानुशासनम्। १२३

तत्र जातेर्जात्या यथा- 'एकस्यामेव तनौ विभर्ति युगपन्नरत्वसिंहत्वे। मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ।।' गुणेन यथा- 'द्रोणाश्वत्थामयमेशु श्रुत्वा श्रुत्वा द्वयं स्थितम्। ब्राह्मण्यमथ शौर्य वा को न चित्रीयते पुमान् ।।' क्रियया यथा- 'सिंहोऽपि परिभूयते।' द्रव्येण यथा- 'सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम्। अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।' गुणस्य गुणेन यथा- 'सत्यं त्वमेव सरलो जगति जराजनितकुज्जभावोऽपि। ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ।।' क्रियया यथा- 'पेशलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम्। परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति।' द्रव्येण यथा- 'कौश्चाद्रिरुद्दामदषद्टढोऽसौ यन्मार्गणानर्गलशातपाते। अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥'

दोष इति॥ सत्यं त्वमेवेति। अन्र सरलविमलशब्दयोरेकार्थत्वात् छ्िष्टता न समस्तीति संकराशङ्का न कार्या। चेतसो हि सरलत्वाद्विमलत्वाच्च सोऽपि १. 'रामेषु स्यात्' २.'महदिद' का० प्र०. ३.'पेलव' का प्र०. ४. 'सतत्वक् खवशब्दौ पर्यायौ' का० प्र० टी०.

Page 349

३२४ काव्यमाला।

क्रियायाः क्रियया यथा- 'बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम्। जडयति संतापयति च दूरे हृदये च मे वसति।।' द्रव्येण यथा- 'सीतां ददाह नैवाभिर्हिमं दहति भूरुहः। ताप्यन्ते शशिना चित्रं विरहे कामिनो भृशम् ।।' द्रव्यस्य द्रव्येण यथा-

क्षितितिलक त्वयि जटजुषि शंकरजूटापगापि कालिन्दी ।I' एवं दश मेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा- 'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम्। अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ।।' अत्र क्षालनाभावे विशुद्धिर्व्याहन्यते। यथा वा- 'महर्धिनि कुले जन्म रूपं स्मरसुहृद्दयः । तथापि न सुखप्राप्तिः कस्य चित्रीयते न घीः ॥' तथा- 'स एकस्त्रीणि जयति जगन्ति कुसुमायुघः । हरतापि तनुं यस्य शंभुना न हृतं बलम् ।।'

सरलविमल: ॥ विभावनेति। 'अप्यसज्जनसांगत्ये' इत्यादौ विभावना, 'मह १. 'निरपन्द' का० प्र०.

Page 350

६ अध्याय:] काव्यानुशासनम्। ३२५

तथा- 'कर्पूर इत्र दग्घोSपि शक्तिमान्यो जने जने। नमोSस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने।।' एषु कारणसामग्र्ये फलाभावो व्याहन्यते। यथा वा- 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनं परिणाहिनं सतनभरं घत्ते सखेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ।।' अत्रान्यदेशस्थितेन कारणेनान्यदेशस्थकार्योत्पादो व्याहन्यते। यथा वा- 'दिशामली कालकभङ्गतां गतस्त्रयीवघूकर्णतमालपल्लवः । 'चकार यस्याध्वरधूमसंचयो मलीमसः शुक्कतरं निजं यशः ॥' अत्र मलीमसेन शुक्कतरीकरणं व्याहन्यते। तथा- 'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।।' अत्रानन्ददानं शरीरतापेन व्याहन्यते। "शिरीषादपि मृद्रक्वी केयमायतलोचना। अयं क च कुकूलाभिकॅर्कशो मदनानलः ।।'

र्धिनि' इति 'स एकः' इति 'कर्पूर इव' इति च त्रिषु विशेषोकिः, 'सा बाला' इत्यादावसंगतिः, 'दिशामलीकालक' इति 'शिरीषादपि' इति 'आनन्दममन्द- १. मकरकेतवे' का० प्र०. २. 'पीतोन्नतिमत्पयोधरयुगं' बामनवृत्तौ. ३. 'केय? का० प्र०. ४. 'दुःसहो मलयानिलः' का० प्र०.

Page 351

१२६ काव्यमाला।

अत्र मार्दवं कार्कश्येन व्याहन्यते। तथा- विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया हशा।।' अत्र हीनेन गुरुकार्यकरणं व्याहन्यते। 'किं ददातु किमश्नातु भर्तव्यभरणाकुलः । उदारमतिराप्तेऽपि जगत्रितयमात्रके।' अत्राधिकेन सल्पकार्याकरणं व्याहन्यते। यथा वा- 'अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते।।' अत्र मानाशक्यत्वेन मानं व्याहन्यते। तथा- 'भवत्संभावनोत्थाय परितोषाय मूर्च्छते। अपि व्याप्तदिगन्तानि नाञ्कानि प्रभवन्ति मे ।।' अत्राङ्कानामतिविपुलतया परितोषाभानं व्याहन्यते। यथा वा- 'दृशा दग्घं मनसिजं जीवयन्ति दशैव थाः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्र दशैव दाहो जीवनं च व्याहन्यते।

मिमम्' इति 'विपुलेन' इति 'कि ददातु' इति च पञ्चसु विषमम्, 'अहो विशा- लम्' इति 'भवत्संभावनोत्थाय' इति च द्वयोरधिकम्, 'दशा दग्धम्' इति व्याघातः, 'धवलोऽसि' इत्यत्रातद्रुणश्चेति पृथगलंकारा न वाच्या इति॥ रधु-

Page 352

६ अध्याय:] काव्यानुशासनम् । ३२७

यथा वा- 'धैवलोसि जइ वि सुन्दर तह वि तए मज्झ रज्जयं हिययम्। रायभरिए वि हियए सुहय निहित्तो न रत्तोसि ।।' अत्र धवलेन रञ्जनं रागभृतहृदयेनारञ्जनं च व्याहन्यते।। एवं च विभावनाविशेषोक्तयसंगतिविषमाधिकव्याघातातद्रुणाः पृथगलंकार- त्वेन न वाच्याः । विरोध एवान्तर्भावात्। उक्तिवैचित्र्यमात्रा्वेदे च लक्षणकरणेSलंकारानन्त्यप्रसङ्ग:॥ सहार्थबलाद्वर्मस्यान्वयः सहोक्तिः। धर्मस्य क्रियागुणलक्षणस्य सहार्थसामर्थ्याद्योऽन्वयः प्रतिपाद्यतेऽर्था- दनेकेषु वस्तुषु सा सहोक्ति:। क्रियालक्षणा यथा- 'रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुमिः । निमेषमात्रादवधूय तद्यथां सहोत्थितः सैनिकहर्षनिःखनैः ॥' गुणलक्षणा यथा- 'सह दीर्घा मम श्वासैरिमा: संप्रति रात्रयः । पाण्डुराश्र ममैवाङ्गैः सार्ध ताश्चन्द्रभूषणाः ।'

भृशमिति। अत्र रघुगता पतनक्रिया शाब्दी। अश्रुगता तु सहार्थसामर्थ्याद- वसीयते॥ एवं गुणोदाहरणेऽप्यूहम्। अत्राभिधाव्यापाराद्वर्मा नोभयान्वयिन: प्रतीयन्ते, प्राकरणिकत्वाप्राकरणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहो- केर्नोपमादावन्तर्भावः। तथा ह्युपमायामुभयोरुपमानोपमेययोरनुयायित्वं धर्मा- णामिव वत्याद्यभिधाव्यापारात्प्रतीयते, इह तु तादृशोऽभिधाव्यापारो नोपलभ्यते तेनात्रोपमात्वाभावः ।I कश्चित्तु-'समासोक्तिः सहोक्तिश् नालंकारतया मता।

१. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रजितं हृदयम्। रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि॥'[इति संस्कृतम्।]

Page 353

३२८ काव्यमाला।

छ्िष्टविशेषणैरुपमानघीः समासोक्तिः। शेषवद्भिरुपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षेपे- णार्थद्वयकथनात्समासोक्तिः। यथा- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्। .यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ।।'

अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥I' इति सहोक्तिरळंकारो न भवतीति प्रतिपादयति। तत्र शोभाशून्यत्वं हृद्यत्वं तत्र चोपमादयोऽप्यलंकारा न भवन्तीति सर्वसंमतमेव । अहृद्यत्वे च शिष्येण सहोपाध्यायः पठति, पुत्रेण सह पिता तिष्ठतीत्यादौ सहोक्तिर्मा भवतु। 'सह दिअसनिसाहिं दीहरा सासदण्डा सह मरिवलएहिं वाहधारा गलन्ति। तुह सुहअ विओए तीए खेम्बिरीए सहय तनुलदाए दुब्बला जीविदासा ।' इत्यादौ तु हृद्यत्वे किमिति नेष्यते। अथ तत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्धनमिति प्रतीयमानोपमास्वरूपं नातिव- र्तत इत्युपमैवेष्यते। हन्त तर्हि रूपकापहुत्यप्रस्तुत प्रशंसादयोऽपि पृथड्ड वक्तव्याः। तत्राप्युपमानोपमेयभाव प्रतीते रुपमैवैकालंकारो वाच्यो नालंकारान्तरम्। यदाह वामन :- 'प्रतिवस्तुप्रभृतिरुपमाप्रपश्चः' इति॥ अथ रूपकादिषु तत्त्वारोपादि- लक्षणं विशेषमङ्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते। तर्हि सहोतत्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयो विशेषः समस्तीति सहोत्त्यादिभिः किम- पराद्धमित्यलं बहुना॥ उपोढरागेणेति। उपोढो धृतो रागः सांध्योऽरुणिमा, प्रेम च येन। विलोलास्तारका ज्योतींषि, नेत्रविभागाश्र यत्र। तथेति झटिलेव, प्रेमरभसेन च। गृहीतमाभासितम्, परिचुम्बितुमाकान्तं च। निशाया मुखं प्रारम्भः, वदनकोकनदं च। यथेति। यथा झटितिप्रहणेन, प्रेमरभसेन च। १. 'सह दिवसनिशाभिदीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति। तव सुभग वियोगे तस्या उद्देगशीलायाः सह च तनुलतया दुर्बला जीविताशा।' [इति च्छाया]. २. 'तीअ उद्विग्गिरीए' का० प्र०.

Page 354

६ अध्याय:। काव्यानुशासनम्। ३२९

योरुपमानयो: प्रतीतिः ॥ खभावाख्यानं जाति:। अर्थस्य तादवस्थ्यं स्भावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः।

तिमिरं च अंशुकाश् सूक्ष्मा अंशवस्तिमिरांशुकं रश्मिशबलीकृतं तमःपटलम्, तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचित्ता । नतु तिमिरमेवांशुकमिति व्याख्येयम् । एकविषयरूपकत्वापत्तेः । रागाद्रक्तत्वात्संध्याकृतात्, तदनन्तरं प्रेमरूपाच्च हेतोः। पुरोऽपि पूर्वस्यां दिशि, अग्रे च गलितं प्रशान्तम्, पतितं च। तया रात्र्या करणभूतया। समस्तमिश्रितमुपलक्षणत्वेन वा। न लक्षितं रात्रिप्रारम्भोऽसौ इति न ज्ञातम् । तिमिरशबलतांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुटे आलोके। नायिकापक्षे तु तयेति कर्तृपदं रात्रिपक्षेS- पिशब्दो लक्षितमित्यस्यानन्तरम्। अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम्। यदि वा पुरोऽग्रे तथा गृहीतं नायकेन मुख- मिति संबन्धः । एतस्याश्ष समासोक्ेर्न श्लेषमन्तरेण विविक्तविषयता उपलभ्यते इति श्लेषेण सह संकराशङ्का न कार्या। येषां ह्यालंकाराणां विविक्तविषयतयाप्या- त्मलाभ: संभवति तेषामेव परस्परसंकीर्यमाणतायां संकरता युक्ता। यथा विरो- धव्यतिरेकयोः श्ेषस्य च। श्लेषाभावेऽपि हि 'एकस्यामेव तनौ-' इत्यादौ विरोधो 'यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्च दृश्यते। विरोधव्यतिरेका- भावे च 'असावुदयमारूढः' इत्यादौ श्लेषश्वेति। भवतु विरोधश्लेषयोः शेषव्यति- रेकयोश्व संकरत्वम्। समासोक्तिस्तु समानविशेषणाभिधायिभिः श्ेषपदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते। शेषापवादेनैवास्याः प्रवृत्ते- रिति। नायकयोरिति। नायकश्च नायिका चेत्येकशेषः ॥ तादवस्थ्यमिति। सा अनुभवैकगोचरा अवस्था यस्य स इत्यस्य भावस्तादवस्थ्यमिति। अय- मर्थः। कविप्रतिभया निर्विकल्पकप्रत्यक्षकल्पया विषयीकृता वस्तुखभावा यत्रो- पवर्ण्यन्ते स जातेर्विषयः । एवं च 'अलंकारकृतां येषां खभावोक्तिरलंकृतिः । १. 'लितांशु' इति स्यात; 'संवलितांशु' ध्वन्यालोकलोचने.

Page 355

३३० काव्यमाला।

तत्र संस्थानं यथा- 'पर्याणस्खलितस्फिजः करतलोत्क्षिप्तोत्तरीयों बला वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनयाद्दुःक्रिष्टसंपादितै- रनिर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥' स्थानकं यथा- 'स दक्षिणापाङ्गनिविष्टमुष्टिं नतां समाकुश्चितसव्यपादम्। ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।।2 व्यापारो यथा- 'ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह संमिता: कथा नयनोपान्तविलोकितं च तत् ।।'

अलंकार्यतया तेषां किमन्यदवशिष्यते ।' इति यत्कैश्चित्प्रतिपादितम्, तन्निरस्त- मेव। वस्तुनो हि सामान्यखभावो लौकिकोऽर्थोऽलंकार्यः । कविप्रतिभासंरम्भ- विशेषविषयस्तु लोकोत्तरार्थोंSलंकरणमिति ॥ तथा चाह-'उच्यते वस्तुनस्ताव- द्वैरूप्यमिह विद्यते। तत्रैकमन्यसामान्यं यद्विकल्पैकगोचरः ॥ स एव सर्वश- ब्दानां विषयः परिकीर्तितः । अत एवाभिधीयन्ते व्यामलं बोधयन्त्लम्। विशिष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः। स एव सत्कविगिरां गोचरः प्रतिभाभु- वाम् I।' यतः 'रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः। क्षणं स्वरूपस्पर्शोत्था प्रज्ञैव प्रतिभा कवेः ॥ सा हि चक्षुर्भगवतस्तृतीयमिति गीयते। येन साक्षात्क- रोत्येष भावांख्त्रैकाल्यवर्तिनः ॥ अस्य स्वभावस्योक्तिर्या सालंकारतया मता। यतः साक्षादिवाभान्ति तत्रार्थाः प्रतिभार्पिताः ॥' यथा । ऋजुतामित्यादि। 'सामान्यस्तु सवभावो यः सोऽन्यालंकारगोचरः । ्िष्टमर्थमलंकर्तुमन्यथा को हि शक्कुयात् ॥ वस्तुमात्रानुवादस्तु पूरणैकफलो हि यः । अर्थदोषः स दोषज्ञैर-

१. 'याञ्चल,' स्यात्. २. 'तनया दुः-' इति स्यात.

Page 356

६ अध्याय:] काव्यानुशासनम्। ३३१

स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । स्तुतेर्निन्दापरता निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिः व्याजस्तुतिः । यथा- 'दिनमवसितं विश्रान्ताः स्स्त्वया मरुकूप हे परमुपकृतं शेषं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा- नियमपि घनच्छाया भूयात्तवोपतटं शमी ।।' 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्ति:।' वाक्यस्यानेकार्थता श्रेषः। पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स क्षेषः ।

पुष्ट इति गीयते ॥' व्याजरूपेति। छद्मरूपा निन्दाद्वारिकेत्यर्थः। व्याजेनेति। परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकार्यां स्तुतौ केनचिदुदाहृतम्- 'आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं जाता संप्रति साम्बुराशिर- शना जाया कुलोद्ूतये। पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्रुषा युकत नाम समग्रनीतिविदुषां किं भूपतीनां कुले ।' इति, तदस्माकं आ्रम्यं प्रतिभाति। अत्यन्तासभ्यस्मृतिहेतुत्वात्। का चानेन स्तुतिः प्रकृता त्वं वंशक्रमेण राजेति हि कियदिदमित्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।। अने- कार्थतेति। विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्द: साधारणार्कभूपलक्षणार्थद्वय प्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपा- दका एव सन्तोऽनेकार्थाः । तथाहि-दिग्लक्षण एक एवार्थ एकत्र, ककुभोऽन्यत्र ततस्थाः प्रजाः। प्रसादनं प्रकाशनम्, हर्षाघानं च। तेजो ज्योतिः, प्रतापथ्ष।।

Page 357

३३२ काव्यमाला।

यथा- 'दिशः प्रसादयन्नेष तेजोमि: प्रसृतैः सदा। न कस्यानन्दमसमं विदघाति विभाकरः ।!' अत्राभिधाया अनियत्रणात् द्वावप्यर्कभूपौ वाच्यौ।। उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्या- धिक्यं व्यतिरेकः। उपमेयस्य माकरणिकस्य तदाधिक्यमर्थादुपमानात्स व्यतिरेकः। स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्ढोपादाने त्रिविधायामुक्तौ युगपदनुक्तौ चैकविधायां चतुर्विधः । पुनश्र साम्यवाचकस्योक्तावनुक्तौ वाष्टभेदः । यथा- 'यस्यावर्जयतो नित्यं रिपूनप्युज््वलैर्गुणैः । लक्ष्यते नेतरस्येव गाम्भीर्यैकनिधेः स्मयः ॥' अत्र गाम्भीर्यैकनि धित्वमुपमेयोत्कर्षहेतुरुक्तः । 'तुच्छस्यान्यजनस्येव न स्मयो हन्त लक्ष्यते।' इत्यत्रैव पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति।

अभिधाया अनियन्त्रणादिति। द्वयोरप्यर्थयोः प्राकरणितया विवक्षितत्वा- दिति भाव: ॥ उपमेयस्याधिक्यमिति। न तूपमानस्य॥ यत्तु-'क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।।' इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम्, तद्युक्तम्। यौवनगतास्थैर्यस्य हि अन्नाधिक्यं विवक्षितमिति यथोक्तमेव श्रेयः ॥ संकरालं १. 'नितराम्' का० प्र०; 'नित्यम्' सा० द०.

Page 358

६ अध्याय: ] काव्यानुशासनम्। ३३३

'असिमात्रसहायोऽयं प्रभूतारिपराभवे। नैवान्यतुच्छजनवत्सगर्वोऽयं धृतेर्निधि: ॥' अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ। 'शीर्णपर्णाम्बुवाताशा कष्टेऽपि तपसि स्थिता। समुद्वहन्ती नापूर्व गर्वमन्यतपख्विवत् ।।' अत्रोत्कर्षापकर्षहेत्वोर्द्वयोरप्यनुक्तिः। एवं साम्योक्तौ चत्वारो मेदाः। साम्यानुक्तौ यथा-

मुखेन स्मितमुग्घेन जयत्येषा सरोरुहम् ।।' अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव 'विडम्बयति वक्रेण निश्येव स्मितमम्बुजम्' इति पाठपरिणामे उपमानापकर्षः । 'आननेनाकलड्डेन जयतीन्दुं कलङ्कितम्' अत्र युगपदुत्कर्षापकर्षौ। 'अहो विडम्बयत्येषा वदनेन सरोरुहम्' अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते। श्लेष व्यतिरेकस्तु संकरालंकारविषय इति तत्रैवोदाहरिष्यते॥

कारविषयतीति। श्लेषव्यतिरेकयोरन्यत्रापि लब्घसत्ताकत्वादिति भावः। ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः। 'यद्यप्यनुपमचरितस्तथापि तव ना- च्युतस्तुलां लभते। स हरिर्नाम्रा देवः स हरिवीरस्तुरगनिवहेन ॥I' इत्यादयस्तु श्िष्टोक्तियोग्यस्य पृथगुपादाने ये भेदा: संभवति उक्तलक्षणेनैव संगृहीताः, तत्र १. 'महाघृतिः' का० प्र०. २. 'निन्दतीन्दुं कलङ्किनम्' का० प्र०. १. 'षय इतीति' स्यात्.

Page 359

३३४ काव्यमाला।

विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्त- रन्यास:। साधर्म्येण वैध्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोडर्था- न्तरस्येव न्यसनमर्थान्तरन्यासः। तत्र साधर्म्येण यथा- 'रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ। वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ।।' वैधर्म्येण यथा- अन्ययान्यवनितागताचेत्तं चित्तनाथमभिशङ्कितवत्या। पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥ स्तुत्यै संशयोक्ति: ससंदेहः।

हि एकस्य पदस्य द्विरुपादानान्न श्रेषः । उपमानानपमेयस्याधिक्यमस्तीति व्यति- रेको भवत्येव। अर्थान्तरस्येवेति। यत्र हेतोहेतुमता सह व्याप्तिर्गूढत्वात्क- थंचित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवास्रमानजातीयस्य वस्तुनो यच्त्यसनमसावर्थान्तरन्यासः न तु यद्यत्कृतकं तदनित्यमित्येवंप्रायमित्यर्थः । नन्व- न्योक्तिनिदर्शनाभ्यां नायं भिद्यते। तथाहि-'ऐरावण स्पृशति-'इत्यादावन्योकौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वद्युफेन कश्षित्सुखं शेते इति सामान्यं गम्य- मानं समर्थ्यते। तथा 'होइ न गुणाणुराओ' इत्यादौ निदर्शने दृष्टान्तेन दार्थान्तिकं समर्थ्यते, तेनास्य लक्षणस्यातिव्याप्तिः। सत्यम्। उभयत्रापि तत्र समर्थ्यसमर्थ- कभावो गम्यते किं तु यथार्थान्तरन्यासे न तथा तयोः। अर्थान्तरन्यासे हि सम- ·थ्यस्य स्कण्ठेनोपात्तस्य समर्थनम्। अन्योक्तौ तु न तत्तथा। निदर्शने च यद्यपि स्कण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेषं प्रति सामान्यस्य समर्थकभावः। अपि तु सामान्यविशेषौ प्रति विशेषस्य। यतो दृष्टान्तस्य विशेषरूपतयैव प्रतिबि-

Page 360

६ अध्याय:] काव्यानुशासनम्। ३१५

स्तुत्यै अलंकारान्तरगर्भीकारेण भस्तुतवस्तुवर्णनार्थ संशयस्योक्तिर्नि- र्णयान्ता अनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससंदेहः।

म्बभाव: संगच्छत इति पृथगवस्थित एवायम् ॥ स्तुत्यै इति। खुतये यत्संश- यवद्वच: प्रयुज्यते तत्र संदेहालंकारसंज्ञा। सह संदेहेन अनिश्चयेन वर्तत इति कृत्वा। त्रिधा खलु संदेहवद्वचो भवति। संदेहस्य प्रतिपादकत्वेन अलंकारान्तर- च्छायां गर्भीकृत्यासंदेहेऽपि संदेहस्येव जननेन चेति। संशयक्ष शुद्धसंकीर्णमूढ- मेदात्रेधा। तत्र शुद्धः प्रतिपाद्यो यथा-'वामेक्षणे स्फुरति घीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि। नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नाखि यद्विनिमयादशुभं शुभं वा ।' अत्र संदेहनिष्ठत्वमेवेति शुद्धः संदेहः । संकीर्णो यथा-'गिरिरयममरेन्द्रेणाद निर्मूलपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः। अपरमिह मनो मे यः पितुः प्राणभूतः किमुत बत स एष व्याततायुर्जटायुः ॥' अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्ण: संदेहः। यथा किमेष जटायुरिति। पूर्वत्र तु कष्टस्य भविष्यत््वेन भावाभावावुभा- वपि संदिग्धौ। कदाचन तृतीय स्याप्युपेक्षणीयन्यायेन मध्यरूपस्य प्रादुर्भावसंभा- वनमित्यनयोर्विवेकः। मूढो यथा-'सन्दते दक्षिणं चक्षुः फलकाहा न मे क्वचित्। न च मिथ्या मुनिवच: कथयिष्यति किं त्विदम् ।।' अत्र न संदेहनिष्ठता नापि विद्यामानस्य वस्तुनोऽशेन परामर्श इति मूढः संदेहः। यथा ह्यगृहीत संकेतस्या- पूर्वपदार्थादर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपाद्यः संदेहो निदर्शितः ॥ उत्पाद्यो यथा-'व्यालवन्तो दुरारोहा रत्न. वन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयभाशु प्रमादिनाम् ।' व्याला: सर्पा:, दुर्जनाश्च। दुरारोहा दुःखोत्कलनीयाः, चिरकालप्रत्यासत्तिलाभाश। रत्नान्युपलविशेषाः, गुणवन्तश्च । भूभृतः पर्वताः, राजानश्। इत्येतस्माद्वचस: प्रतिपत्तुः पर्वतराजविषयः संदेह उपजायते। अलंकारान्तरच्छायागर्भीकारेण जन्यस्तु 'सरोजपत्रे-' इत्यादिना उदाहृतः। एतेषु• संदेहवत्सु वचनेषु बहुधा पवृत्तेषु प्रथमस्य प्रतिपाद्यसंदेहपक्षस्य रसभावतदाभासालंकारेष्वन्तर्भावः। वित- र्कस्य हि व्यभिचारिणः सद्भावादवश्यं क्वचिद्रसेऽङ्गता भवत्यत एव रसादिस- द्धावेनान्तरीयकत्वेन तदाभासतापि भवतीति। द्वितीयस्य तु जन्यसंदेहपक्षस्य १. 'संदेहा' स्यात.

Page 361

३३६ काव्यमाला।

यथा- 'सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः खिदमू विलोचने। शिरोरुहाः स्युर्नतपक्ष्मसंततेर्द्वि रेफवृन्दं नु निशब्दनिश्चलम्॥ अगूढहासस्फुटदन्तकेसरं मुखं खिविदेतद्विकचं नु पङ्कजम्। इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥' अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः । यथा वा- 'अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया। अभिययौ स हिमाचलमुच्छिितं समुदितं नु विलङयितुं नभः ॥।' अत्रातिशयोक्तिगर्भीकारेणानिर्णयान्तः ।

प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधायिकेति संदेहो दोष एवेति दोषरूपतेति। तृतीयस्तु जन्यसंदेहाभासलक्षणः पक्षोऽस्य ससंदेहालंकारस्य विषयोऽवगन्तव्यः ॥ सरोजपत्रे इत्यादि । अत्र प्रकृतं विलोचनादि वक्रा निश्चितमेव यदि परं रूपकालंकारापादनमाहात्म्यात्संदेहस्ये- वशब्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादावेव विश्रान्तिः। संदेहवर्णनभङ्जया तु तस्यैवालंकारता ।। अथ जयायेति। प्रतिकोट्टन्यायेन मेरुजयसंभावना ॥ रसभयेति । त्वरितया। अन्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव। हिमाचलमिति। हिमाचलैकदेश- मिन्द्रप्रस्थाख्यं तपोर्थमिति तात्पर्यम्। समुदितमिति। पिण्डीभूतम्। अवा. (?) जयादिव्यापारकर्तृत्वं हिमाचलस्य व्याख्येयम् ।। अतिशयोक्तिगर्भीका- रेणेति। तथा हि योऽसौ पौरुषेयव्यापारतिरस्कारेण नुशब्दत्रितयावद्योत्य- मानतया कोटित्रयोल्लेखेनावास्तवः संशयः प्रतिपादितः स ससिद्धिनिर्वाहाय तथा- विधोत्कटोच्छाय शून्येपि पर्वते मेरुजयादिव्यापारत्रयसंपादनक्षमतयोच्छ्रायाति- १. 'रभयसयेति' स्यात् मूलानुरोधात्. २. 'अत्र जयादि' स्यात्.

Page 362

६ अध्याय:] काव्यानुशासनम्। ३३७

यथा वा- 'अयं मार्तण्डः किं स खलु तुरगैः सप्तमिरितः कृशानुः किं सर्वाः प्रसरति दिशो वैषे नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदघति विकल्पान्प्रतिभटाः ॥' अत्र रूपकगर्भीकारेण मेदेस्योक्तौ संशयः ॥ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहुतिः । प्रकृतेन प्रकृतस्यापलाप एका अपहुतिः । अप्रकृतेन प्रकृतस्याप- लापोऽन्या। तत्राद्या यथा- 'शैलेन्द्रप्रतिपाद्यमान गिरिजाहस्तोपगूढोल्लस- द्रोमाश्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैळान्तःपुरमातृमण्डलगणैर्दष्टोऽवताद्वः शिवः ।।'

शायमाक्षिपन्नसंबन्धेऽपि संबन्धात्मिकामतिशयोक्तिमवगमयति ॥ अयं मार्त- ण्डः किमिति। अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा पश्चाद्गेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पश्चाद्यतिरेकाकारता, तथापि नास्मिन्नलंकारद्वयवि- श्रान्तिः । अपि तु किमित्यादिशब्दोपादानात्संदेह एव वाक्यार्थंतया पर्यवस्यति। तस्य परिकरबन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशङ्का न कार्या ॥ भेदकस्योक्ताविति । पूर्वोदाहरणद्वये तु मेदकस्यानुक्तिरित्यर्थ: ।। अप्रकृतेन प्रकृतस्यापलापोऽन्येति। अत्र पारमार्थिकस्यासत्यकरणम- पारमार्थिकस्य सत्यतया स्थापनं स्थूलदष्या बोद्धव्यम्। तात्पर्यं तु वाक्यस्य सादश्ये एव। तथा ह्यत्र पदार्थसवरूपविपर्यासोऽभिधीयते। न च तत्र सेच्छया पुरुषाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयच- मत्कारिता भवति। सोऽयं वाक्यार्थापेक्षयापहुत्यलंकारो लाक्षणिकार्थपरिग्रहः । उपमेयस्यापह्वुतत्वात् न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशङ्का १. 'नैष' का० प्र०. २. 'भेदकस्योक्तौ' स्यात्. का० शा० २२

Page 363

३३८ काव्यमाला। अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतौ प्रकृते नैव तुहिनाचलशैत्येनापहुतौ। द्वितीया यथा- 'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥' यथा- 'विलसदमरनारीनेत्रनीलाब्ज खण्डा- न्यधिवसति सदा यः संयमाधःकृतानि। न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' यथा वा-'इदं ते केन- इति। एवमियं भञ्जयन्तरैरप्यूद्या।। पर्यायविनिमयौ परावृत्तिः । एकस्यानेकत्रानेकस्य चैकत्र क्रमेण वृत्तिः पर्यायः। समेन समस्यो- त्कृष्टेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परावृत्तिः। यथा- 'जो तीए अहरराओ रतिं उ्वासिओ पिययमेण। सो व्विय दीसइ गोसे सवत्तिनयणेसु संकन्तो ।।'

न कार्या।। व्यासङ्गो निरोधस्तस्मान्भक्गो भयम् ॥ नेयं विरौतीति। अत्र मद- मुखमधुकरावलीविरुतं विरहिणां हैदयं मेदित्वा विशेषेण कामकार्मुककेङ्कतेन समानमध्यवसाय तदैक्यारोपेण तेनैवापहूयत इति॥ जो तीर इति। अत्र १. 'यस्तस्या अधररागो रात्रावुद्भासितः प्रियतमेन। स एव दृश्यते प्रातः सपतीनयनेषु संक्रान्तः ॥' [इति संस्कृतम्.] १. 'हृदयमेदित्वाविशेषेण' स्यात्.

Page 364

६ अध्याय:] काव्यानुशासनम्। ३३९

अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्य- वसितत्वादेकत्वमविरुद्धम् ॥ 'तद्गेहं नतभित्ति-' इति। अत्रानेकं गृहाद्येकत्र द्विजे वर्तते। विनिमयः समेन समस्य यथा- 'आदाय कर्णकिसलयमियमस्मादत्र चरणमर्पयति। उभयोः सदृशविनिमयादन्योन्यमवश्चितं मन्ये ।।' 'यो बलौ व्याप्तभूसीन्नि मखेन द्यां जिगीषति। अभयं स्वर्गसझभ्यो दत्त्वा जग्राह खर्वताम् ।' अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य। 'तस्य च प्रवयसो जटायुष: स्वर्गिण: किमिव शोच्यतेऽधुना । येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥' अत्र निकृष्टेनोत्कृष्टस्य ।। हेतोः साध्यावगमोऽनुमानम्। अन्यथानुपपत्त्यैकलक्षणाद्वेतोः साध्यस्य जिज्ञासितार्थस्य प्रतीति- र्यत्र वर्ण्यते तदनुमानम्।

स एवेति ताम्वूलादिजनितरागकोपनिर्वृत्तरागयोरमेदोपचारः ॥ यथा वा-'ने त्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्टेऽधुना वससि वाचि पुनः खलानाम् ॥' खर्वता- मिति। वामनताम् ॥ स्वर्गिण इति । यशःशेषतां गतस्येत्यर्थः ॥ अर्थ- स्येति। भावरूपस्याभावरूपस्य वा। तत्र भावरूपसाध्यार्थप्रतीतिः 'सानुज्ञम्-' १. 'मस्मै चरणमरुणमर्पयति' वामनवृत्तौ.

१. 'नन्वा' का० प्र०.

Page 365

३४० काव्यमाला।

यथा- 'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः । कथमन्यथा ललाटे यावकरसतिलकपङ्किरियम् ।।' यथा वा- 'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथानुपपत्त्यैव पयोघरभरस्थितेः॥' यथा वा- 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। इसन्नेत्रार्पिताकूलं लीलापझं निमीलितम्।।" अत्र कैमलिनीमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम्॥। सदृशदर्शनात्सरणं स्मृतिः । पूर्वोपलब्धस्यार्थस्य तादृशदर्शनात्संस्कारोद्वोघे सति यत्स्मरणं सा स्मृतिः। यथा -- 'अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्कयः । अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥'

इत्यत्र निदर्शिता। अभावरूपसाध्यार्थप्रतीतिस्तु यथा-'पण्णवसि अव्वअ- च्छसि सव्वं विअ सो तएण सव्व विओ। णहु होन्ति तम्मि दिठ्ठे ...... सच्छा वच्छाई ।।' अत्रादर्शनं साध्यते ॥ निर्णेतुं शक्यमस्तीति। अत्र स्ननित- म्बयोर्मध्ये मध्यं नोपलभ्यते, सतनभरावस्थानं च दृश्यते, तत्रेयं पयोधरभ- रस्थितिः सान्यथानुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोघयति। उदाहर- णान्तरख चास्यायमभिप्रायः। यथा केनचिदर्थापत्तिलक्षणोSलंकारः पृथग्लक्षि- तस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति। अनुमानमेवेदमिति। १. 'कमलनिमीलनेन' इति स्यात्.

Page 366

६ अध्याय:] काव्यानुशासनम्। ३४१

विपर्ययो भ्रन्तिः । सदृशदर्शनाद्विपर्ययज्ञानं भ्रान्ति: । यथा- 'नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्याधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः । लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ।।' न चैतद्रूपकं प्रथमा वातिशयोक्तिः। तत्र वस्तुतो अ्रमस्याभावात्। क्रियाफलाभावोऽनर्थश्र विषमम्। न केवलं क्रियाफलाभावोरऽर्थात्कर्तुर्यावदनर्थश्र भवति यत्र तद्विषमम्। यथा- 'उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता। फलमिदमहो मयापं सुखाय मृगलोचनां दृष्टा ।।' अत्र मृगलोचनादर्शनेन न केवलं सुखं न प्राप्तम्, यावद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः । योग्यतया योग: समम् । उत्कृष्टमुत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः समम्। यथा- 'धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी देवो रूपेऽप्ययमनुपेमे दत्तपत्रः स्मरस्य। जातं दैवादुचितमनयोः संगत यत्र तस्मि- ञशृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ।।' १. 'रूपो देवो' का० प्र०. २. 'पमो' का० प्र०. ३. 'यत्तदेतच्छ' का० प्र०.

Page 367

३४२ काव्यमाला।

यथा वा- 'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विघाता। यन्निम्बानां परिणतफलस्फातिराखादनीया यच्चैतस्याः कवलनकलाकोविद: काकलोकः ।I' हेतौ कार्ये चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रियाश्र समु- चयः। कस्यचित्कार्यस्य एकस्मिन्हेतौ साधके सति हेत्वन्तराभिधानम्, कार्यें चैकस्मिन्प्रस्तुते कुतश्चिन्निमित्तात्कार्यान्तराभिधानं च समुच्चयः। युग- 1 पह्रुणौ च किये च गुणक्रिये च समुच्चयः। बहुवचनं व्यात्यर्थम्। हेतौ हेत्वन्तरं यथा- 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणाः कुलं निर्मलम्।

न तु सूक्ष्मम्, अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति भावः ॥ समुञ्चय इति। अतुल्यकक्ष्यतामनपेक्ष्यैव समुच्चयनं समुच्चय इति सामान्येन व्युत्पत्ति: कर- णीया। एवं हि 'समाधिः सुकरं कार्य कारणान्तरयोगतः' इत्येवं- लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति। अन्यथा 'मानमस्या निरा- कर्तुम्' इत्युदाहरिष्यमाणे तुल्यकक्ष्यत्वाभावान्न समुच्चयः स्यादिति। एष एव च समुचयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते। तथा हि-'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्। प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजंस्त एव तवाङ्कुशाः ॥' अन्र सतां योगः। 'दुर्वाराः' इत्यादौ त्वसतां योगः। नववयः प्रभृतिरहिं सत्यपि शोभनत्वे सर्वेषामप्यशोभनत्वकथनम्, अशोभनत्वे- नैव विरहिण्या भावितत्वात्। 'शशी दिवसधूसरो गलितयौवना कामिनी सरो १. 'श्रुति' का० प्र०.

Page 368

६ अध्याय:] काव्यानुशासनम् । ३२३

स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्काल: कृतान्तोऽक्षमी नो सख्यश्रतुराः कथ नु विरहः सोढव्य इत्थं मैया ।' अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति, तेषु सत्सु प्रियतमदूर- स्थित्याद्युपात्तम् । यथा वा- 'मानमस्या निराकर्तु पादयोर्मे पतिष्यतः । उपकाराय दिष्ठेदमुदीर्ण घनगर्जितम्।।' कार्ये कार्यान्तरं यथा- 'स्फुरद द्ुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्र।।' अत्र त्वां सृजतेत्येकस्मिन्कार्ये प्रस्तुते मनोभवादीनां कार्यान्तराणा- मुपनिबन्धः । युगपद्गुणौ यथा- 'विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ।।'

विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्नो नृपा. ङणगतः खलो मनसि सप्त शल्यानि मे ।I' अत्र शशिनि घूसरे शल्ये शल्या- न्तराणीति शोभनाशोभनयोगः। तथा हि-शशिनः शोभनत्वं प्रकृतिसौन्दर्यात्, अशोभनत्वं धूसरत्वोत्पादात्। एवं चास्य सदसदूपस्य ताद्ृशेनैवापरेण योगा- दिह सदसद्योगः । गुणक्रियाश्चेतत्र यथा रुद्रटेन 'व्यधिकरणे वा यस्मि- न्' (७२७) इत्यादिना व्यधिकरणे इति एकस्मिन्देश इति च प्रतिपादितम्, न तथा प्रतिपादनीयम् । 'धुनोति चासिं तनुते च कीर्तिम्' इत्यादेः 'कृपाण- पाणिश्च भवान्रणक्षितौ ससाधुवादाश्च सुराः सुरालये' इत्यादेश्वान्यथापि दर्श- १. 'क्षमो' का० प्र०. 'शठः' का० प्र०.

Page 369

३४४ काव्यमाला।

क्रिये यथा- 'प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च। संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ।।' गुणक्रिये यथा- 'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥' पृष्टेऽपृष्टे वान्यापोहपरोक्ति: परिसंख्या। पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्ति: सा परिसंख्यानात्परिसं- ख्या। उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता वेति चत्वारोऽस्या भेदाः। पृष्टे यथा- 'कोऽलंकारः सतां शीलं न तु काञ्चननिर्मितम्। किमादेयं प्रयलेन धर्मों न तु धनादिकम् ।।' 'का विसमा दिव्वगई किं लद्धं जं जणो गुणग्गाही। किं सोक्खं सुकलतं किं दुग्गे जं खलो लोओ।।' अत्र दैवगतिरेव विषमेत्यादिरन्यापोहः प्रतीयते। अपृष्टे यथा- 'घेहि धर्मे धनधियं मा धनेषु कदाचन। सेवख सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम ।' 'कौटिल्यं कचनिचये करचरणाघरदलेषु रागसते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥' १. 'का विषमा दैवगतिः किं लब्धं यज्जनो गुणग्राही। किं सौख्यं सुकलन्रं किं दुःखं यत्खलो लोकः ॥' [इति छाया.] २. 'दुक्खं' का० प्र०.

Page 370

६ अध्याय:] काव्यानुशासनम् । ३४५

यथा वा- 'राज्ये सारं वसुधा वसुंघरायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराज्जनानङ्गसर्वखम् ।।' 'दानं वित्ताद्रसं वाचः कीर्तिघर्मो तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ।।' 'पोढमहिलाण जं सुट्ठ सिक्खियं तं रएसु होवेइ। जं जं असिक्खियं नववहूण तं तं दिहिं देई ।।' एषु कौटिल्यं कचनिचये एवेत्यांदि, राज्ये सारं च वसुघैवेत्यादि, वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोह्यमानस्य प्रतीयमानत्वमन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किंचिदिति नोत्तरं पृथग्लक्षितम्।। उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव। यथा- 'वाणियय हत्थिदन्ता कुत्तो अम्हाण वग्घकित्तीआ। जाव लुलियालयमुही घरम्मि परिसप्पते सोण्हा ।।' अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम्।

नादिति॥ राज्ये सारमिति। अत्र सारालंकार: कैश्विदुक्तः, स चान्यापो- हमन्तरेण न चमत्कारकारीति परिसंरयैव युक्तोऽलंकारः॥ दानं वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालंकार उक्तस्तन्रापि अन्यापोहकृतं चारुत्व- मितीयमपि परिसंरयैव युक्तति ।। अनुमानमेवेति। न तु रुद्रटोक्त :- 'प्र-

१. 'प्रौढमहिलानां यत्सुष्ठ शिक्षितं तद्रतेषु भवति। यददशिक्षित नववधूनां तत्तत् ..... ददाति ।।' [इति छाया.] २. 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्ष। यावललितालकमुखी गृहे परिसर्पते रुपा ।।' [इति छाया.]

Page 371

३४६ काव्यमाला।

तथा- "जं भणहतं सहीओ आम करेहामि तं तहा सव्वम् । जइ सरहरुं संभिउं मे धीरं संमुहागए तम्मि ।।' तत्र भ्ुकुट्यादिभिर्मानं कुर्विति सख्याः पूर्ववाक्यमनुमीयते।। यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला। उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला। यथा- 'निर्द्रव्यो हियमेति ह्वीपरिगतः प्रभ्रश्यते तेजसो निस्तेजाः परिभूयते परिभवान्निर्वेदमायाति च। निर्विण्णः शुचमेति शोकविवशो बुद्धा परित्यज्यते निर्बुद्धि: क्षयमेत्यहो निघनता सर्वापदामास्पदम् ।।' कारणमात्रं तु न वैचित्र्यमिति न हेतुरलंकारान्तरम्।।

आादप्युत्तरं यत्र-' (७।९३) इत्युत्तरालंकारः ॥I एवं जं भणहेत्यत्रापि वाच्यम्। कारणमात्रं त्विति । अभ्नेर्धूम इत्येवंरूपमित्यर्थः ॥ नन्वीदृशस्य हेतोर्हृद्यत्वाभावादलंकारत्वं मा भवतु। यत्र तु-'वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान्। नमन्मुक्तः संप्रत्य- तनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराधद्वयमपि ।' इत्यादौ, 'भस्मोडूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुता-

१. एतस्य शुद्धेर्बुद्धावनारोह्ात्संस्कृतमसंदिग्धं न स्मर्यते, तथापि समन्वयवाक्या- नुसारेण तु- 'यद्दणिष्यत सख्यः सत्यं करिष्यामि तत्तथा सर्वम्। यदि ............... मे वैर्य संमुखागते तस्मिन् ।।' इति कल्प्यते. २. 'आम' इत्यभ्युपगमकाकु: साकाङ्कोपहासा' इति ध्वन्यालोकलोचनम्.

Page 372

६ अध्याय:] काव्यानुशासनम्। ३४७

स्वातत्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः। परस्परनिरपेक्षत्वं स्वातव्यम्। उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एक- स्मिन्पदेऽर्थाच्छब्दार्थालंकारयोः समावेश ऐकपद्यम्। एमिरेषां पूर्वो- क्तानामलंकाराणामेकत्र वाक्ये वाक्यार्थे वावस्थानं संकीर्यमाणखरूपत्वा- तसंकरः। स्वातत्रयेण शब्दालंकारयोः संकरो यथा-

वलितया विदधे कलमेखलाकलकलोSलकलोलदशान्यया ॥' अत्र यमकानुप्रासयोः ।

कान्तालयालंकृतिम्। अद्याराधनरोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छे- दिनि मोक्षनामनि महामोहे निधीयामहे ।' इत्यादौ च अपराधद्वये पूर्वापर- जन्मनोरनमनलक्षणो हेतुर्वाक्यार्थींभूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थींभूतो हृद्यतयावसीयते तत्र कथं सालंकारत्वमिति। सत्यमस्ति हृद्यता परं न हेतोः, किं तर्हि अलंकारान्तरस्य। तथा हि प्रथमे उदाहरणेऽनुमानस्य रामणीयकम्, द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्ना- लंकारः। तन्निराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति। एवं च 'हेतु- मता सह हेतोरभिधानमभेदैतो हेतुः।' इत्येवंरूपोऽपि हेतुर्न वाच्यः । 'आयुर्घृतं नदी पुण्यं भयं चौरः सुखं प्रिया। वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मण- भोजनम् I' इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्दति वैचित्र्याभावाद। गौणे हयुपचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति॥ 'अविरलकमलविकासः सकलालिमदश्व कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठार्भर: काल: ॥' इत्यत्र तु काव्यरूपतां कोमलानुप्रासमहित्रैव समा- १. 'तोषितेन' का० प्र०. २. '-दकृद्भवेद्यत्र । सोलंकारो हेतुः स्याद- न्येभ्य: पृथग्भूतः ॥' इत्येवं रुद्रटे समुपलभ्यते. ३. 'पूजनम्' रुद्रटव्याख्या. ४. 'करः' रुद्रटे.

Page 373

३४८ काव्यमाला।

अर्थालंकारयोर्यथा- 'लिम्पतीव तमोऽक्कानि वर्षतीवाञनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।।' अत्रोत्प्रेक्षोपमयोः । शब्दार्थालंकारयोर्यथा- "सो नत्थि एत्थ गामे जो एयं महमहन्तलावण्णम् । तरुणाण हिययलूडिं परिसक्कन्ति निवारेइ ।।' अत्रानुप्रासरूपकयोः । अङ्गत्वेन संकरो यथा- 'कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्या कुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते। कीर्त्या ते घवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ।' अत्रातिशयोक्तिमपेक्ष्य आ्रन्तिरुद्ता। तदाश्रयेण चातिशयोक्तिश्र-

'त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ। इयता युवयोर्भेद: स जडात्मा पटुर्भवान् ।।'

म्रासिषुः, न तु हेत्वलंकारकल्पनयेति।। यद्यप्यव्यभिचारितयैव विकासादीनां नरन्तर्येण जननमिहोपचारप्रयोजनं व्यङ्ञयम्, तदसुन्दरमपि काव्यस्य मध्यम- त्वनिबन्धनं भवति। तथाप्यलंकारचिन्तायाः प्रक्रान्तत्वादपहुत्यैव हेतोरलंका- रत्वं निराक्ियते॥ दुर्वाराविति। दुर्वारोऽव्याहतप्रसरः, दुष क्षारं वार्जलं च १. 'स नास्त्यत्र ग्मे य पतां स्फुरल्लावण्याम्। तरुणानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति ॥' [इति संस्कृतम्.] २. 'सप्पन्ति' का० प्र०. १. वार्वारशब्दयोरेकशेषस्तु दुःशक इति ध्येयम्.

Page 374

६ अध्याय:] काव्यानुशासनम्। ३४९

अत्र श्लेषो व्यतिरेकस्याङ्गम्। 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि ।।' अत्र श्रेषो विरोधस्याङ्गम्। 'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्। कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्।।'

संशयेन संकरो यथा- 'निगगण्डदुरारोहं मा पुत्तय पाडलं समारुहसु। आरूढनिवडिया के इमिए न कया इह ग्गामे।। अत्र शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान्न ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः। तथा- 'नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति। अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥' अत्र मुखेन सहाभेदारोपात्किमतिशयोक्ति:, किमेतदिति मुखं

यस्य दुर्वाः। सत्त्वं धैर्थम्, सत्त्वाश्च प्राणिनः । तेजः प्रभावः, वडवानलक्ष। जडात्मेति, उदकसवभावोऽपि ॥ कृष्णार्जुनेति । कृष्णा असिताः । अर्जुनाः शुकाः । अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंश्रिता। विरोधे तु कृष्णो हरि:, अर्जुनः पार्थः, तत्र सानुरागा सा कर्ण राधेयं कथमा- लम्बत इति। अनयेव च विरोधभक्जया अविश्वास्यत्वं निबद्धम् । कोशदण्ड- समग्राणामिति। कोशो भाण्डागारोऽपि। दण्डश्चतुर्थोपायोऽपि ॥ निर्ग- १. 'निर्गण्डदुरारोहं मा पुत्रक पाटलं समारोह। आरूढनिपतिताः केऽनेन न कृता इह आमे ।।' [इति संस्कृतम्.]

Page 375

३५० काव्यमाला।

निर्दिश्येन्दुसमारोपणाद्रूपकम्, किं मुखनैर्मल्यप्रस्तावेऽन्योक्तिः, अथै- तयोः समुच्चयविवक्षायां दीपकम्, किं प्रदोषवर्णने विशेषणसाम्यातस- मासोक्तिः, किं मदनोद्दीपकः कालो वर्तंते इति तात्पर्यात्पर्यायोक्तमि- त्यनेकालंकारसंशयः । तथा- 'शशिवदना सित सरसिजनयनासितकुन्ददशनपङ्किरियम्। गगनजलस्थलसंभवहृद्याकारा कृता विधिना ।' अत्र तु रूपकमुपमा वेति संशयः ॥ यत्र तु-'मोहमहाचलदलने सा सुनिशितवज्रकोटिरेकापि' इत्यादावारोपितकुलिशकोटिरूपाया भक्ते- र्मोहस्य महाचलेनोपमितमात्रस्य दलने कर्तृत्वं न हृदयावर्जकं स्यादिति रूपकस्य, 'ज्योत्सेव हासद्युतिराननेन्दो :- ' इत्यादौ मुख्यतयावगम्य माना हसितद्युतिर्वक्र एवानुकूल्यं भजत इत्युपमायाः साधकं प्रमाणमस्ति, 'स्मरन्ति ज्योत्सायाः शशिमुखि चकोरस्तव दशि' इत्यादौ तत्त्वारोपे 'स्मरणानुपपत्ते रूपकस्य, 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ सदशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति, न तत्र संशयः । ऐकपद्येन संकरो यथा- 'मेरूरुके सरमुदारदिगन्तपत्र- मामूललम्बिचलशेषशरीरनालम्।

ण्डेति। कठिनदुरारोहम॥ साभिप्रायविशेषणोक्तिरूप इति। तथा च 'विशेषणैर्यत्साकूतैरुक्ति: परिकरस्तु सः' इति। यथा-'कर्ता द्यूत- च्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटः पाण्डवा यस्य दासा: । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वासते

Page 376

६ अध्याय:] काव्यानुशासनम्। ३५१

येनोद्धृतं कुवलयं ललना सलील- मुत्तंसकार्थमिव पातु स वो वराहः ।I' अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ। यद्यप्यनेकविषयमिदं रूपकम- खिलप्राक्पथ्टापि (?), तथापि प्रतिपदं रूपकसंद्धावादेकपदानुप्रवेशो न विरुध्यते। इत्युक्ताः शब्दार्थालंकाराः ।

विशेषः । उच्यते-दोषगुणालंकाराणां शब्दार्थोभयगतत्वव्यवस्थायाम- न्वयव्यतिरेकावेव निमित्तम्। निमित्तान्तरस्याभावात्। ततश्च योडलं- कारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यते इति॥ यद्यपि पुनरुक्तवदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानु- विधायिनोऽपि दृश्यन्ते, तथापि तत्र शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमिति उभयालंकारत्वमनपेक्ष्यैव नाष्टालंकारत्वेन नार्थालंकारत्वेन चोक्ताः । इह वापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूपः परिकरो भग्नप्रक्रमतादोषाभावमात्रं यथासंख्यं दोषाविधानेनैव गतार्थम्। विनोक्तिस्तु तथाविघहृद्यत्वविरहात् ।। भाविकं तु भूतभाविपदार्थ-

दुर्योधनोऽसौ कथयत न रुषा द्रष्टमभ्यागतौ खः ।I' इति। अत्र हि द्यूतच्छ- लकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया साभिप्रायत्वमित्यपुष्टार्थत्व- दोषाभाव एवायम्। यथासंख्यमिति। तथा चाह-'यथासंख्यं क्रमे- णैव कसिकाणां समन्वयः' इति। यथा-'एकस्त्रिधा वससि चेतसि चित्रमेवे देव द्विषां च विदुषां च मृगीदृशां च। तापं च संमदरसं च रति च पुष्णञ्शौर्योष्मणा च विनयेन च लीलया च ।।' इति। अत्र न यथासंख्यकृतं किमपि वैचित्र्यं किंतु एकस्त्रिधा वससीति आमुखे विरोधप्रतीतिकृतमेवेति॥ विनोक्तिस्त्विति। तथा चाह-'विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतर:' इि । सन् शोभनः, इतरोऽशोभनः। यथा-'मृगलोचनया १. 'मत्र' का० प्र०.

Page 377

३५२ काव्यमाला।

प्रत्यक्षीकारात्मकमभिनेयप्रबन्ध एव भवति। यद्यपि मुक्तकादावपि दृश्यते, तथापि न तत्खदते। उदात्तं तु ऋद्धिमद्वस्तुलक्षणमतिशयो- क्तेर्जातेरवा न मिद्यते। महापुरुषवर्णनारूपं च यदि रसपर तदा ध्वने- र्विषयः ॥

विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्मः। अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नयेन्द्रसूनु: ॥', 'अरुचिर्निशया विना शशी शशिना सापि विना मह- त्तम: । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥' इति उदा- हरणद्वयेऽ्पि वदन्तु सहृदया :- यदि किमपि विनोक्तिकृतं वैचित्र्यमवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेरयुक्तमेव वैचित्र्यमिति। किंच- शब्दमात्रयोगेनालंकारत्वकल्पने हा धिगाद्युक्तावप्यलंकारत्वप्रसङ्ग: प्राप्रोतीति॥ भाविकमिति। भाव: कवेरभिप्रायः स यत्रास्ति तद्भाविकम्। भूतभावि- पदार्थ प्रत्यक्षीकारात्मकमिति । प्रध्वंसाभावप्रागभावकान्ता अपि भावाः खमहि म्रायेः प्रसादवशाच्च यत्पुरः स्फुरन्त इव दृश्यमाना बध्यन्त इत्यर्थः । भूत- भाविशन्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्वहेतुवर्णनमिति तु व्याख्याने खभावोक्तिन मिद्यते। अभिनेयप्रबन्ध एवेति। प्रवेशकविष्क- म्भकादिभिस्तत्रैव तत्र वर्ण्यमानत्वादिति भावः ॥ ननु-'आसीदअनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥' अत्राद्येऽर्घे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशड्कयाह-यद्यपीति॥ ऋद्धिमद्वस्तुलक्षणमिति। यदाह-'उदात्तं वस्तुनः संपत्' इति। यथा-'मुक्ता: केलिविसूत्रहार- गलिता: संमार्जनीमिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्गिलाक्षारुणाः। दूराइ।डिमबीजशङ्टितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्या- गलीलायितम् I।' न ह्यतिशयैश्वर्योऽपि मुक्तारत्नानामवकरप्रायत्वेन पुज्जीकरणं संभवति। उक्त च-'असंबन्धे संबन्धात्मिकामतिशयोक्तिमवगमयति'। तदाह- अतिशयोक्तिरिति। अतिशयोक्तेरलंकारान्न भिद्यत इत्यर्थः ॥ अथ यत्र १. 'चेतःप्रसाद' स्यात्. २. 'स्तद्दान' का० प्र०. ३. 'शयें' स्यात, ४. 'क्ेरिति' मूलानुसारी.

Page 378

६ अध्याय: ] काव्यानुशासनम् । ३५३ अथ तथा विधवर्णनीयवस्तुपरम्, तदा गुणीभूतव्यज्जयस्येति नालं- कारः॥ रसवत्प्रेयस्व्यूर्जस्विभावसमाहितानि गुणीभूतव्यज्ञयप्रकारा एव।। आशीस्तु प्रियोक्तिमात्रं भावज्ञापनेन गुणीभूतव्यन्नयस्य

ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशक्क्याह-खभावो- क्ेरवेति। किं च। यदि ऋद्धिमद्वस्तुवर्णनमलंकारस्दा ऋद्धिरहितवस्तुवर्णनम- प्यलंकारं कश्वित्प्रसजतीति। महापुरुषवर्णनारूपमिति। यदाह-'महतां चोपलक्षणम्' इति। यथा-'तदिदमरण्यं गस्मिन्दशरथवचनानुपलनव्यसनी। निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः ॥I' रामो हि पितृवचनमनुतिष्ठन्नयप- राक्रमादि धर्मयोगादुत्साहयोगाच् वीररसवानेवेति रसध्वनिरेवायम्॥ ननु उप- लक्षणमङ्गभावोऽर्यादुपलक्षणीयेऽर्थे। ततश्रोपलक्षणीभूतस्य रामचरितस्य वाक्या- र्थीभावाभावादङ्गत्वमेव। दण्डकारण्योत्कर्षप्रतिपत्तिहिं वाक्यार्थः सैव प्रधानं ततः कथ ध्वनिविषयतेत्याशड््याह-अथेति। गुणीभूतव्यङ्गयप्रकारा एवेति। मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः । आशीस्त्विति। आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथ वा आशास्यमानो योऽसावर्थोऽनर्थप्राप्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशी- र्विषयत्वादाशीरिति। तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसर- णार्थत्वेनाशीर्यदि प्रयुज्यते तदा 'गतोऽस्तमर्कः' इत्यादिवद्वार्तावर्णनमात्रत्वा- दूरापेतैवालंकारतेत्याह-प्रियोक्तिमात्रमिति। सहृदयानां किमप्येतदिति चमत्काराभावादित्यर्थः ॥ अथ स्नेहातिशयेनोच्यते, तदा ध्वनेर्विषयः । तदा हि कश्षि-कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्के तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारेण प्रतीयत इति भावध्वनिरेवायम्। यथा-'अस्मिञहीहि सुहृदि प्रणयाभ्यसूयामाश्िलिष्य गाढ- ममुनानतमादरेण। विन्ध्यं महानिव घनः समयेऽभिवर्षन्ञानन्दजैरनयनवारि- भिरुक्षतु त्वाम् ।' कयोश्चिन्मैत्रीसंबन्धे पिशुनजनानुप्रवेशनविच्छार्यः(?) कृते सति कस्यचिन्नायकस्य तत्स्नेहदार्ढ्यसंपादनायेयमुक्तिः । अत्र च सौहृदमप्यर्थ- प्राप्तिरूपं मेत्रीसंबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थना पञ्चम्यन्तौ। उक्षत्विति प्राप्तकालतायां पैश्चमी। तेनात्राशास्यमानस्य १. 'विच्छायीकृ' स्यान्. २ .- ३. लोटो लकारस्य पञ्चमीनामाभिधेयत्व स्यात. का० शा० २३

Page 379

३५४ काव्यमाला।

विषयः । प्रत्यनीक च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालंकारान्तर- तया वाच्यम्।। इत्याचार्य श्रीहेमचन्द्र विर चितायामलंकार चूडामणिसंज्ञखोपज्ञकाव्यानुशासन वृत्तौ शब्दार्थालंकारवर्णनः षष्ठोऽध्यायः ।

मैत्रीसंबन्धस्योपनिबन्धो न त्वप्राप्तप्राप्तीच्छात्मिका आशिषः । तथा-'मदान्ध- मातङ्गविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्घसमस्तलीला द्विषां पुरी: पश्यतु राजलोकः ॥' अत्र शत्रुनगरीविनाशोपनिबन्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोपनिबन्ध एव ।। नन्विदं भूयादित्येवमात्मिकायाः प्रयोक्तृधर्मतवेनावस्थिताया आश्विषोSत्रोपदर्शनम्। तथा ह्येवंविधा शत्रुनगरी राजलोको दृश्यादिति नायमत्रार्थः संपन्नत्वादेतस्यार्थस्य किंतु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतयाभ्यनुज्ञायते। अत्रापि शत्रुविनाशलक्ष- णविभावद्वारेण हर्षात्मनो भावस्योपनिबन्धात्पूर्ववद्धावध्वनिरेवेति। तदाह- भा:ज्ञापनेनेति। प्रत्यनीकमिति। अनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकम्। यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः। तथा चाह-'प्रतिपक्ष- मशक्तेन प्रतिकर्तु तिरस्क्रिया। या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते॥।' यथा-'त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुर- का। पश्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादेथ कामः ॥' ता त्वय्यनुरक्तां मनोभवशरैस्ताडयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य लद्रूपेण विनिर्जि- तत्वाद्योऽसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा। सा च प्रतीयमाना इवा- दिशन्दाप्रयोगात् ।। जातिगतिरीति वृत्तिच्छायामुद्रोक्तियुक्तिभ णिति गुम्फनाशय्या- पीति वाक्ये वाक्याध्येयाप्रेक्ष्यगेयाभिनेयानि शब्दालंकारा: संभवप्रत्यक्षागमो- पमानार्थापत्त्यभावलक्षणाश्चार्थालंकारा ये भोजराजेन प्रतिपादितास्त केनचि- दुक्तेष्वेवान्तर्भवन्ति। केचिच्च कंचनापि चमत्कारं नावहन्ति, केचिच्च ये काव्य शरीरखभावा एवेति न सूत्रिताः । इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ।

१. 'दिव कामः' का० प्र०. २. 'भवः' स्यात.

Page 380

७ अध्याय: ] काव्यानुशासनम्। ३५५

सप्तमोऽध्यायः। इह च काव्यं नायकादिप्रतिबद्धं भवतीति नायकादिलक्षण मुच्यते। तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिस्रः प्रकृतयो भवन्ति। तत्र केवलगुणमय्युत्तमा। स्वल्पदोषा बहुगुणा मध्यमा। दोषवत्यघमा। तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति। उच- ममध्यमप्रकृतियुक्तस्तु- समग्रगुण: कथाव्यापी नायकः । समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभान्वितश्च। तत्र नेतृत्वा- दिगुणबाहुल्यात् मध्यमप्रकृतावपि समग्रगुणता। नेतृगुणाश्चेमे- 'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोक: शुचिर्वागमी व्यूढवंशः स्थिरो युवा । बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्र तेजसी शास्त्र चक्षुश्च धार्मिकः ॥' कथाप्रबन्धस्तद्यापी। नयति व्याम्नोति इतिवृत्तं फलं चेति नायकः। तस्य सात्विकान्गुणानाह- शोभा विलासमधुरल लितमाधुर्यस्थैर्यगाम्भीरयोदा र्यतेजांस्यष्टी सच्व जास्तह्ुणाः । सत्त्वं देहविकारस्तस्माज्जाताः । क्रमेण लक्षयति- दाक्ष्यशौर्योत्साहनी चजुगुप्सोत्तमस्पर्धागमिका शोना। यतः शरीरविकाराद्दाक्ष्यादि गम्यते सा शोभेत्यर्थः ।

Page 381

३५६ काव्यमाला।

दाक्ष्यं यथा- 'स्कूर्जद्वज्रसहसत्रनिर्मितमिव प्रादुर्भवत्यग्रतो रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । शुण्डार: कलमेन यद्वदचले वत्सेन दोर्दण्डक- स्तस्मिन्नाहित एव गर्जितगुणं कृष्ट च भमं च तत् ।।' शौर्य यथा- 'खरेण खण्डिताशेषगात्रेण रणमूर्घनि। रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ।।' उत्साहो यथा- 'मूर्धा जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती- नाश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च। आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लड्वने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ।' नीचजुगप्सा यथा-

प्रयुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ।।' उत्तमस्पर्धा यथा- 'एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते- र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डनम्।।' धीरे गतिदष्टी सस्ितं वचो विलासः।

Page 382

७ अध्याय:। काव्यानुशासनम्। ३५७

यथा-

धीरोद्धता नमयतीव गतिर्घरित्रीम्। कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ।।' मृदुभृङ्गारचेष्टा ललितम्। यथा- 'कश्चित्कराभ्या मुपगूढनालमालोलपत्राभिहतद्विरेफम्। रजोभिरन्तःपरिवेषबन्धि लीलारविन्दं अ्रमयांचकार ।।' क्षोभेऽप्यनुल्वणं माधुर्यम्। मेहत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्बणत्वं मधुरा चेष्टा माधुर्यम्। यथा- 'कपोले जानक्याः करिकलभदन्तद्युतिमुनि स्मरस्मेरं गण्डोड्डुमरपुलकं वक्रकमलम्।

जटाजूटग्रन्थि द्रढयति रघूणां परिवृद्धः ।।' विभेऽव्यचलं स्थैर्यम्। सत्यपि विभ्न उद्यमादपअ्रंशः स्थैर्यम्। यथा- 'यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति। तथा तथाधिकोत्साहो धीराणां हृदि वर्घते ॥'

१. 'सत्यपि' स्यात.

Page 383

३५८ काव्यमाला'।

यस्य प्रभावाद्वहिर्हर्षक्रोधादीनां विकारा दृष्टिविकासरागादयो नोप- लभ्यन्ते तन्निस्तिमितदेहखवभावं गाम्भीर्यम्। यथा- 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य ख्ल्पोऽप्याकारविग्रम: ॥।' खपरेषु दानाम्युपपत्तिसंभाषणान्यौदार्यम्। अभ्युपपत्तिः परित्राणाद्यर्थिनोऽक्गीकरणम्। परजनविषयं दानादि चेष्टात्मकमेवौदार्यम्। स्वग्रहणं तु दृष्टान्तार्थम्। खेष्विव परेष्वपीत्यर्थः। दानं यथा- 'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृह्तिं न पश्यामि तवैव तावत्क भक्षणात्त्वं विरतो गरुत्मन् ।।' अभ्युपपत्तिर्यथा- 'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत केनात्र व: कार्यमनास्था बाह्यवस्तुषु ॥' संभाषणं यथा- 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु: शौर्य यत्तु न तद्विरां पथि ननु व्यक्तं यतः कर्मभिः। त्याग: सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधि: सत्यब्रह्मतपोनिधेर्भगवतः किं वान लोकोत्तरम् ।।' पराधिक्षेपाद्यसहनं तेजः। पराच्छत्रोर्न तु गुरोर्मित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः। यथा- 'ब्रत नूतनकूष्माण्डफलानां किं भवन्त्यमी। अङ्गुलीदशेनाद्येन न जीवन्ति मनान: ।।'

Page 384

७ अध्याय:] काव्यानुशासनम्। ३५९

नायकभेदानाह- धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा। स इति नायकः। धीरशब्दः प्रत्येकमभिसंबध्यते। तेन धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धत इति। दक्षिणधृष्टानुकूलशठभेदादेकैकश्रतुर्धा। एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडश भेदा नायकस्य। धीरोदात्तादींल्लक्षयति- गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासच्वो दृढ- व्रतो धीरोदात्त: । गूढ गर्वो विनयच्छन्नावलेपः। अविकत्थनोSनात्मश्लाघापरः। महा- सत्त्वः क्रोधाद्यनभिभूतान्तःसत्त्वः। दृढव्रतोऽङ्गीकृतनिर्वाहकः। यथा- रामादिः। कलासक्तः सुखी शृङ्गारी मृदुर निश्चिन्तो धीरललितः। कलासु गीताद्याखासक्तः । सुखी भोगप्रवणः । शृङ्गारप्रधानः सुकु- माराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः । यथा-वत्स- राजः । विनयोपशमवान् धीरशान्तः । यथा मालतीमाधव-मृच्छकटिकादौ-माधव-चारुद चादिः। शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोऽवलिप्ो धी- रोद्धतः । मत्सरी असहनः। मत्रादिबलेनाविद्यमानवस्तुप्रकाशको मायी। छद्म वञ्चनमात्रम्। रौद्रश्चण्डः । अवलिप्तः शौर्यादिमदवान्। यथा- जामद्झ्यरावणादिः।

Page 385

३६० काव्यमाला।

'देवा धीरोद्धता ज्ञेयाः स्युर्घीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ।। धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा। इति चत्वार एवेह नायकाः समुदाहताः ॥' इत्यन्तर श्लोकौ। अथ नायकस्य शृक्कारित्वेऽवस्थाभेदानाह- ज्येष्ठायामपि सहृदयो दक्षिणः । कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वाद्दक्षिणः।

देवा धीरोद्धता इति। अत्र हि 'धीरोदात्तं जयति चरितं रामनाम्रश्व विष्णोः' इत्यादेर्दर्शनाज्नकप्रमृतीनां रामादीनां च न धीरललितत्वानुचितत्व- मिति धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य। सेनापत्यमात्ययोर्धीरोदात्तत्व- मेव। देवानां धीरोद्धतलमेव। द्विजादीनां धीरप्रशान्तत्वमेवेत्येवं परं व्याख्ये- यम्। धीरोद्धतादिशब्दाक्ष यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषम- होक्षादिवन जात्या कश्विदवस्थितरूपो धीरोद्धतादिरस्ति। तत्त्वे हि महाकवि- प्रबन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात्। जातेरनपायित्वात्। तथा च भवभूतिना एक एव जाभदन्यः 'कैलासोद्धारसार-' इत्यादिमी रामादीन् प्रति प्रथमं धीरोद्धतत्वेन, पुनः 'ब्राह्मणातिक्रमत्यागो भवतामेव भूयते' इत्यादिना रावणं प्रति धीरोदात्तत्देन, 'पुण्या ब्राह्मणजाति :- ' इत्यादिभिश्च धीरशान्तत्वे- नोपवर्णितः । न चावस्थान्तराभिधानमनुचितम्। अङ्गभूतनायकानां नायका- न्तैरपेक्षया महासत्त्वादेरव्यवस्थितत्वात्। अत्विनस्तु रामादेरेकप्रबन्धोपात्तान्

मतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया खावस्थापरित्याग इति। वक्ष्य- माणानां च दक्षिणाद्यवस्थानां पूर्वा प्रत्यन्यया हृत इति नित्यसापेक्षत्वेनावि-

१. 'भूतये' का० प्र०. २. 'न्तरापेक्षया' स्मात्.

Page 386

७ अध्याय:] काव्यानुशासनम्। ३६१

यथा- 'प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविस्रम्भ: कश्चित्कथयति च किंचित्परिजनो न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ।।' व्यक्तापराधो धृष्टः । यथा- 'लाक्षालक्ष्म ललाटपट्टमभित: कयूरमुद्रा गले वक्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्रा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदशः श्वासाः समापतिं गताः ॥' एकभार्योडनुकूल:। यथा- 'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो- रसावस्या: स्पर्शो वपुषि बहलश्चन्दनरसः। अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराध: शठः। यथा-'एकत्रासनसंगते प्रियतम-' इति। नायकविजेयं प्रतिनायकमाह- व्यसनी पापकृळ्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायक: । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ। नायिकालक्षणमाह- तह्ुणा खपरसामान्या नायिका त्रेषा।

Page 387

३६२ काव्यमाला।

तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका। सा च सकीया, परकीया, सामान्या, चेति त्रेधा। खस्त्री लक्षणमाह- खयमूढा शीलादिमती खा। आदिग्रहणादार्जवलज्जागृहाचारनैपुण्यादिपरिग्रहः। शीलं यथा- 'कुलबालियाऍ पेच्छह जोघणलायण्णबिब्भमविलासा। पवसन्ति व पवसिए एन्ति व पिए घरम इन्ति ।।' वयःकौशलाभ्यां सुग्धा मध्या प्रौढेति सा त्रेधा। वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुण्यम्, ताभ्यां मुग्धा, एवं मध्या प्रौढा चेति। तत्र वयसा मुग्धा यथा- 'दोर्मूलावधिसूत्रितस्तनमुरः स्त्निह्यत्कटाक्षे दशौ किंचित्ताण्डवपण्डिते स्मितसुधासिक्तोक्तिषु भ्रूलते। चेतः कन्दलितं समरव्यतिकरैर्लावण्यमङ्गैर्धृतं तन्वञ्वयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा- 'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया । वपुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत् ।I'

काविति। अन्तरे मध्ये वक्तव्यशेषाभिधायकौ शरोकावन्तर लोकौ। वयसा मुग्धेति। वयसा संपूर्णेत्यर्थः । एवं कौशलेनापि।। १. 'कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रविशन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥' [ इति च्छाया ],

Page 388

७ अध्याय:] काव्यानुशासनम्। ३६३

वयसा मध्या यथा- 'तरन्तीवाङ्गानि स्खलदमललावण्यजलघौ प्रथिन्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भा: स्फुटमपवदन्ते सरलता- महो सारङ्काक्ष्यास्तरुणिमनि गाढ: परिचयः ॥' कौशलेन यथा- 'सवेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्मेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते। दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय- स्तन्वञ्नया हठकेशकर्षणघनक्लेषामृते लुब्धया ।।' वयसा प्रौढा यथा- 'नितम्बो मन्दत्वं जनयति गुरुत्वाङ्गुतगते- र्महत्त्वादुद्वत्त: स्तनकलशभारः शमयति। विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभममिसारे हि रिपवः ।।' कौशलेन यथा- 'उद्ध तैर्नि भृतमे कम ने कैश्छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाश्चीनूपुरध्वनिभिरक्षतमेव ।I' धीराधीराधीराधीरा मेदादन्त्ये त्रेधा। अन्त्ये मध्याप्रौढे। त्रेधा धीरामध्या, धीराधीरामध्या, अधीराम- ध्या। एवं प्रौढापि त्रेधा। षोढापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा। मध्याप्रौढयोः प्रत्येकं त्रिभेदत्वम।

वयसा सध्येति। किंचिदसंपूर्णेत्यर्थः । वयसा प्रौढेति। संपूर्णेत्यर्:

Page 389

४६४ काव्यमाला।

षड़िधापि ज्येष्ठाकनिष्ठामेदाद्वादशधा सवस्त्री भवति। तत्र प्रथम- मूढा ज्येष्ठा। पश्चादूढा कनिष्ठा। अथासां करोधचेष्टामाह- सोत्प्रासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोधिन्यो मध्याधीराद्याः। मध्याधीराद्यास्तिस्त्रोSपि यथासंग्व्यं सोत्ासवक्रोक्त्यादिमि: क्रोध कुर्वन्ति। तत्र सोत्पासवक्रोत्त्या धीरामध्या यथा- 'न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम्। व्रज विटपममुं ददख तस्यै भवतु यतः सद्ृशोश्चिराय योगः ।।' सबाष्पया सोत्पारावक्रोक्त्या धीराधीरा यथा-'बाले नाथ -- ' इति। वाक्पारुष्येणाधीरा यथा- 'घिच्बां किं समुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क ते वस्त्रान्तं शठ मुश्च मुश्च शपथैः किं घूर्त निर्बाघसे। खिन्नाहं तव रात्रिजागरतया तामेव याच प्रियां निर्माल्योज्झितपुष्पदाननिकरे का षटपदानां रतिः ।।' उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाता- भ्यां श्रौढाधीराद्याः। प्रौढाधीराद्यास्तिस्त्रोSपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रो- भिन्मो भवन्ति।

Page 390

७ अध्याय:] काव्यानुशासनम्। ३६५

तत्र धीरा प्रौढा सोपचारा यथा- 'एकत्रासनसंगतिः परिहृता प्रत्युद्गमाद्दूरत- स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविप्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरयो कोपः कृतार्थीकृतः ॥' सैव सावहित्था यथा- 'वरं भ्रूभज्गास्ते प्रकटितगुरुकरोधविभवा वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानो येन प्रसभजनितोऽनादरविधि- र्न गूढान्तःकोपा कठिनहृदये संवृतिरियम्।।' प्रौढा धीराधीरानुकूला यथा- 'यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्रन्थय- न्भ्रूमेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे। यन्निःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥' सैवोदासीना यथा- 'आयस्ता कलहं पुरेव कुरुते न सरंसते वाससो भभभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे। अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥' प्रौढाधीरा संतर्जनेन यथा- 'तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु तवं प्रेयानहमपि हताशा प्रियतमा । १. 'चतुरया' स्यात.

Page 391

३६६ काव्यमाला।

इदानीं त्वं नाथो वयमपि कलत्रं किमपर मयापं प्राणानां कुलिशकठिनानां फलमिदम् ।।' सैव साघाता यथा-'कोपात्कोमलबाहुलोल-' इति। परस्त्रीलक्षणमाह -- परोढा परस्त्री कन्या च। परेणोढा परस्य स्त्री परस्त्री। सा च नाङ्िनि रसे उपकारिणीति नास्याः प्रपश्चः कृतः । ऊढेत्युपलक्षणम्। अवरुद्धापि परस्त्रीत्युच्यते। परोढा यथा-'दृष्टिं हे प्रतिवेशिनि-' इति। कन्या तु पित्राद्यायत्तत्वादनूढापि परस्त्री। यथा- 'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुलयोः शोभां नवामीहते। नो घत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥' सामान्यां लक्षयति- गणिका सामान्या। कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका सामान्या सगु- णस्य निर्गुणस्य च साधारणी केवलधनलोभालम्बनेन कृत्रिमप्रेमत्वात्। यथा- 'गाढालिङ्गनपीडितस्तनतटं ख्विद्यत्कपोलस्थलं

चाटुप्रायवचोविचित्रभणितं घातै रुतैश्चाङ्कितं वेशानां धृतिधाम पुष्पधनुषः प्राम्नोति धन्यो रतम् ।' १. 'कुचयो:' स्योतू-

Page 392

७ अध्याय:] काव्यानुशासनम्। ३६७

खपरस्त्रीणामवस्था आह- साधीनपतिका प्रोषितभर्वका खण्डिता कलहान्तरिता वास- कसजा विरहोत्कण्ठिता विप्रलब्धा अभिसारिका चेति खवस्त्री- णामष्टावस्या:। रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्साधीन आयत्तः पतिर्यस्याः सा तथा। यथा- 'सालोए च्िय सूरे घरिणी घरसामियस्स घित्तूण । णेच्छन्तस्स ये चलणे धुयइ हसन्ती हसन्तस्स II' इति। कार्याय प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा। यथा- 'श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सर्येवं यदि नास्मि तेन कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलक्कमलिनास्तिष्ठन्तु वा यान्तु वा ।।' वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता। यथा- 'नवनखपदमङ्कं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम्। प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प- न्नवपरिमलगन्घः केन शक्यो वरीतुम् ।।' ईर्ष्याकलहेन निष्क्ान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त- रिता। यथा-

१. 'सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा। अनिच्छतश्च चरणे धावति इसन्ती हसतः ॥' [इति च्छाया-] २. 'वि पाए' इत पाठे 'अपि पादौ' इत्यर्थ :.

Page 393

१३८ काव्यमाला।

'निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिनं रुदते। अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ।।' 'परिपाट्यां फलार्थे वा नवे प्रसव एव वा। दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकाले तु वा बुघैः। द्वेष्याणामथ वेष्टानां कर्तव्यमुपसर्पणम् ।।' इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा। यथा- 'तल्पकल्पनविधेरनन्तरं भर्तृमार्गमवलोकते मुहुः । दर्पणेक्षणमुदीक्षते वपुर्हर्षभूषणमनिन्द्यभूषणा ।।'

परिपाट्यामिति। परिपाटिर्यथा कल्पितानुपू्वी। अस्या एकेन दिनेन वारः अस्या दवाभ्यामित्यादिः ॥ तदपवादमाह-फलार्थे इति। ऋताविति यावत् । नव इति। नवत्वे प्रसवे वृत्ते चिरविरहखिन्नां सुखयितुम्। दुःखे तदीयब- न्धुव्यापत्त्यादौ दुःखिता आश्वसनीयेति। प्रमोद इति। तदीय पुत्रोत्सवादौ। उत्सवो हि माननीय इत्युक्तम्। वासयन्ति तत्र स्थाने रात्रिमिति वासका रात्र्यु- चिताः कामोपचाराः। फलार्थ इत्यस्य हेतोः सत्त्वापवादकत्वं दर्शयितुं धर्मवृत्तिना राज्ञा परिपाट्या दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति। आर्तवकालो हि भूयानपि फलतः परिमितीभवति । यथोक्तम्-'ऋतुः षोडश तेऽत्राद्याश्चतस्रो दशमात्पराः । त्रयोदशी च निन्याः स्युरयुग्माः कन्यकोद्धवाः । षध्यष्टमी च दशमी द्वाभ्यां वर्णश् साधिका। युग्मा पुत्राय रात्रिः स्यात्' इति।

१. 'नक्तंदिवं' स्यातू,

Page 394

७ अध्याय:] काव्यानुशासनम् । ३६९

प्रियमन्या चिरयति भर्तरि विरहोत्कण्ठिता। यथा- 'अन्यत्र व्रजतीति का खलु कथा नाप्यस्य ताद्ृक्सुह- द्यो मां नेच्छति नागतश् स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितखान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाम्नोति निद्रां निशि ॥' दूतीमुखेन स्वयं वा संकेतं कृत्वा केनापि कारणेन वश्चिता वित्र- लब्धा। यथा- 'तत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूतीं खयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भम्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्रा्जनैरश्रुभि- र्भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥' अभिसरत्यभिसारयति वा कामातं कान्तमित्यभिसारिका। यथा- 'उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काश्ची पादौ रणन्मणिनूपुरौ। प्रियमभिसरस्येवं मुग्घे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्वान्ता दिशो मुहुरीक्षसे ॥' तथा- 'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मथि। निपुणमथैनमभिगम्य वदेरभिदूति कांचिदिति संदिदिशे।

तत्रापि नक्षत्रविशेषपरिवर्जनम्। पुत्रश्च राज्ञां मुख्यं फलम्। यथाह-'प्रजायै १. 'अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः। तस्यानुगमदुःखार्ता विरहोत्क- णठिता भवेत ।।' इति भरतसंवादात् 'कार्यासत्तया' इति भवेत, का० शा० २४

Page 395

३७० काव्यमाला।

अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम्। अन्त्यत्र्यवस्था परस्त्री । परस्त्रियौ तु कन्योढे। संकेतात्पूर्व विरहोत्कण्ठिते, पश्चाद्विदूषका- दिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि कारणात्संकेतस्थानमप्राप्ते नायके विप्रलब्घे इति व्यवस्थतैवानयोरिति। नायिकानां प्रतिनायिकामाह- ईर्ष्याहेतु: सपत्नी प्रतिनायिका। यथा-रुक्मिण्याः सत्यभामा। दूत्यश्च नायिकानां लोकसिद्धा एवेति नोक्ताः । अथ स्त्रीणामलंकारानाह- - सच्वजा विंशति: स्त्रीणामलंकाराः। संवेदनरूपात्प्रसृतं यत्ततोऽन्यद्देहधर्मत्वेनैव स्थितं सत्त्वम्। यदाह- 'देहात्मकं भवेत्सत्त्वम्' इति। ततो जाताः सत्त्वजाः राजसतामस- शरीरेष्वसंभवात्। चाण्डलीनामपि हि रूपलावण्यसंपदो दृश्यन्ते न तु चेष्टालंकारा इति। तासामपि वा भवन्तु । उत्तमतामेव सूचयन्ति। अलंकारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवने उद्रिक्ता दश्यन्ते। बाल्येऽनुद्भिन्ना वार्घके तिरोभूताः । यद्यपि च ते पुरुषस्यापि सन्ति, तथापि योषितां न एवालंकारा इति तद्गतत्वेनैव वर्णिताः । पुंसस्तूत्साहवृत्तान्त एव परोऽलंकारः । तथा च सर्वेष्वेव नायक- भेदेषु धीरत्वमेव विशेषणतयोक्तम्। तदाच्छादितास्तु शरृङ्गारादयो घीरललित इत्यादौ। अलंकाराश्च केचन क्रियात्मकाः केचिद्गुणखभावाः । क्रियात्मका अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोद्ुद्धेन देहमात्रे सति

Page 396

७ अध्याय:] काव्यानुशासनम् । ३७१ भवति ते अब्गजा इत्युच्यन्ते। अन्ये त्वद्यतनजन्मसमुचितविभावव- शस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते खाभाविकाः। सवस्मा- द्रतिभावात् हृदयगोचरीभूताद्गवन्तीति। तथाहि कस्याश्चिन्नायिकायाः कश्चिदेव सवभावबलाद्भवति अन्यस्या अन्यः कस्याश्चिद्ठौ त्रयः इत्याद्य- तोऽपि खाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वाखवेव सत्त्वाधिका- सूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः खाभाविकाः क्रियात्मानः । शोभादयस्तु गुणात्मानः । ते चायतजाः। यत्नाज्जाताः क्रियात्मकाः । इच्छातो यत्नतस्ततो देहे क्रियेति पदा- र्थविदः । ततोऽन्येऽयतजाः । तान्क्रमेण लक्षयन्ति- भावहावहेलास्त्रयोडङ्गजा अल्पभूयोविकारात्मकाः । यद्यपि 'देहात्मकं भवेत्पत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो हावाद्वेला समुत्थिता ।।' इति भरतवचनात्क्मेणैतेषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्व- स्याङ्गस्यैव करणत्वादङ्गजा इत्युक्ताः। एवं च परस्परसमुत्थितत्वेऽप्यमी- षामङ्गजत्वमेव। तथा हि-कुमारीशरीरे प्रौढतरकुमार्यन्तरगतहेलाव- लोकने हावोद्धवो भावश्रेदुल्लासितपूर्वः । अन्यथानुभावस्यैवोद्भवः । एवं भावेऽपि दृष्टे हावो हेला वा। यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला। एवं हावात् हावः, भावाद्भाव इत्यपि वाच्यम्। एवं परकीयभावादिस्मरणात्सरसकाव्यादेरपि हेलादीनां १. 'भवन्ति' स्यात्.

Page 397

३७२ काव्यमाला।

योगो भवतीति मन्तव्यम्। एतदन्योन्यसमुत्थितत्वं तत्राङ्कस्याल्पो चिकारोऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भाव:। यथा- 'दृष्टिः सालसतां बिभर्ति न शिशुक्रिडासु बद्धादरा श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्ताखपि। पुंसामेकमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥' बहुविकारात्मा भ्रूतारकचिबुकग्रीवादेर्धर्मः खचित्तवृत्ति परत्र जुहृतीं ददतीं कुमारीं हावयतीति हावः। सा चाद्यापि स्वयं रतेः प्रबोधं न मन्यते केवलं तत्संस्कारबलात्तथा विकारान्करोति यैर्द्ष्टा तथा कल्प- यति। यथा- 'स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्यन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भ: किसलयति लीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥' यदा तु रतिवासनाप्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुचि- तविभावोपग्रहविरहान्निर्विषयतया स्फुटीभावं न प्रपद्यते तदा तज्जनित- बहुतराङ्गविकारात्मा हेला हावस्य संवन्धिनी क्रिया प्रसरत्वावेगवाहि- त्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति। एवं चोद्धिदयोद्विद्य विश्राम्यन् हावः । स एव प्रसरणैकस्वभावो हेलेति । यथा- 'कुरङ्गीवाङ्गानि-' इति। अत्र ह्यन्तर्गतिरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम्। तदेतद्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसदपीठबन्धत्वेन योषितामा- मनन्ति।

Page 398

७ अध्याय: ] काव्यानुशासनम्। ३७३

लीलादयो दश खाभाविकाः । विशिष्टविभावलाभे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिविव्वोकविभ्रमकिलिकिंचितमोट्टायि- तकुट्टमितललितविहृतनामानः । एते च प्राप्तसंभोगेSप्राप्तसंभोगे च भवन्ति। शोभाद्यश्र सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव। लीलादोन् लक्षयति। वाग्वेषचेष्टितैः प्रियस्यानुकृतिलींला। प्रियगतानां वाग्वेषचेष्टानां प्रियबहुमानातिशयेन नत्वघट्ट करूपेणात्म- नियोजनमनुकृतिर्लीला। यथा- "जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि। तं तमणुसिस्किरीए दियहो दियहो न संवडइ ।।' स्थानादीनां वैशिष्यं विलास:। स्थानमूर्घता। आदिशब्दादुपवेशनगमनहस्तभ्रूनेत्रकर्मपरिग्रहः । तेषां वैशिष्टयं विलासः। यथा- 'अत्रान्तरे किमपि वाग्विभवातिवृत्तं वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।

माचार्यकं विजयि मान्मथमाविरासीत् ।।' गर्वादल्पाकल्पन्यास: शोभाकृद्विच्छित्तिः। सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषण विलेपनरूपस्याल्प- स्याकल्पस्य न्यास: सौभाग्यमहिम्रा शोभाहेतुर्विच्छित्तिः। यथा- १. 'यद्यत्करोषि यद्यच्च जल्पसे यथा त्वं नियमयसि। तत्तदनुस्वीकुवे दिवसो दिवसो न संवर्धते ॥' [इति च्छाया.]

Page 399

३७४ काव्यमाला।

'स्िहि पिच्छकण्णऊरा जाया वाहस्स गधिरी भमइ। मुत्ताहलरइयपसाहणाण मज्झे सवत्तीणम् ।।' इष्टेऽप्यवज्ञा विव्वोकः । सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विव्वोकः। यथा- 'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा। शैलराजतनया समीपगामाललाप विजयामहेतुकम् ।' वागङ्गभूषणानां व्यत्यासो विभ्रमः । वचनेऽन्यथावक्तव्येऽन्यथाभाषणं हेस्तेवादातव्ये पादेनादानं रस- नाया: कण्ठे न्यासः। यथा- 'चकार काचित्सितचन्दनाक्के काञ्चीकलापं स्तनभारपृष्ठे। प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम् ।।'

किंचितम्। सिमितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाषसंकर: किलि-

सौभाग्यगर्वात्स्मतादीनां संकर: किलिकिंचितम् । यथा- 'रतिकरीडाद्यूते कथमपि समासाद्य समयं मया लब्घे तस्याः क्वणितकलकण्ठार्घमधरे। कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित- स्मितक्रुद्धोद्भ्ान्तं पुरनपि विदध्यान्मयि सुखप् ।' प्रियकथादौ तद्धावभावनोत्था चेष्टा मोट्टायितम्। प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वं ततो योद्भूता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गपर्यन्ताङ्गमोटनान्मोट्टायितम्। यथा- १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति। मुक्ताफलरस्वितप्रसाधनानां मध्ये सपलीनाम् ।।' [इति च्छाया.] २. 'हस्तेना' स्वात्,

Page 400

७ अध्याय:] काव्यानुशासनम्। ३७५

'स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः सुभग तव कथायां प्रस्तुतायां सखीभिः । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा नतवलयितबाहुर्जृम्भितैः साङ्गभङ्गैः ॥' अधरादिग्रहादुःखेऽपि हर्षः कुट्टमितम्। अघरस्तनकेशादीनां ग्रहणात्। प्रियतमेनेति शेषः । दुःखेऽपि हर्ष: कुट्टमितम् । यथा- 'ई षन्मीलितलोललोचनयुगं व्यावर्तितभ्रूलतं संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम्। तन्वङ्ग्याः सुरतावसानसमये दृष्ट मया यन्मुखं खेदार्द्रीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते॥' मसृणोडङ्गन्यासो ललितम्। अञ्कानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललि- तम्। यथा- 'सभ्रूभङ्गं करकिसलयावर्जनैरालपन्ती सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन। विन्यस्यन्ती चरणकमले लीलया सवैरपातै- र्निःसंगीतं प्रथमवयसा नर्तिता पड्खजाक्षी ।। कर्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्रयं स विलासः। यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यबुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम्। अन्ये तु 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः।

गृहमेधिनाम्' इति ॥ अनेनेति। अलक्तकोपर क्स्य हि चन्द्रमसि परं भाग-

Page 401

३७६ काव्यमाला।

व्याजादेः प्राप्ताकालस्याप्यवचनं विहृतम्। व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौर्खवर्यलज्जादिपरि- ग्रहः । ततो भाषणावसरेऽप्यभाषणं विहृतम्। यथा- 'पत्युः शिरश्रन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम्। सा रक्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।।' केचिद्वाल्यकौमारयौवनसाधारणविहारविशेषं क्रीडितम्। क्रीडित- मेव च प्रियतमविषयं केलिं चालंकारावाहुः। यथा- 'मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च। रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये।।' 'व्यपोहितं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ।।' शोभादयः ससायतजाः। शोभाकान्तिदीप्तिमाघुर्यधैर्यौदार्यप्रागल्भ्यनामानः सप्तालंकारा अय- लजाः। क्रमेण लक्षयति- रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीव्राङ्गच्छाया शोभा कान्तिर्दीपिश्व। तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छायान्तरं श्रयन्तीति सा छाया मन्दमध्यतीव्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्ति- र्दीप्तिश्व भवति। शोभा यथा- 'करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति।

लाभः। अनवरतपादपतन प्रसादनैविना न पत्युरझटिति यथेष्टानुवर्तिन्या भाव्य-

Page 402

७ अध्याय:] काव्यानुशासनम् । ३७७

स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः।' कान्तिर्यथा- 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीकेशमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिज्नय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥' दीप्तिर्यथा- 'आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्बुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः॥' चेष्टामसणत्वं माधुर्यम्। ललितेषु ब्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधा- दिषु यत्तन्माघुर्यम्। यथा- 'कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमत्यानतिमतिः । न दृष्टे: शैथिल्यं मिलितमिति चेतो दहति मे निगूढान्तःकोपा कठिनहदये संवृतिरियम् ।।' अचापलाविकत्थनत्वे धैर्यम्। चापलानुपहतत्वमात्मगुणानाख्यानं च धैर्यम्। यथा- 'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति।

Page 403

३७८ काव्यमाला।

मम तु दयितः श्राध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।' प्रश्रय औदार्यम्। अमर्ष्येर्ष्या क्रोधाद्यवस्थाखपि प्रश्रय औदार्यम्। यथा- 'अ्रूमज्जे सहसोद्गतेऽपि वदनं नीतं परां नम्रता- मीषन्मां प्रतिभेदकारि हसितं नोक्तं वचो निष्ठुरम्। 'अन्तर्बाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं क्रोघश्र प्रकटीकृतो दयितया मुक्तश्र न प्रश्रयः ।' प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम्। प्रयोगे कामकलादौ। चातुःषष्टिके इत्यर्थः । यदाह- 'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रम: परिभवे वैयात्यं सुरतेष्विव ।।' मनःक्षोभपूर्वकोऽङ्सादः साध्वसं तदभावः प्रागल्भ्यम्। यथा-'आशु लङ्गितवतीष्टकराग्र-' इति। अत्र शोभाकान्तिदीप्यो बाह्यरूपादिगता एव विशेषा आवेगचापला- मर्षत्रासानां त्वभाव एव माधुर्याद्या धर्मा न चित्तवृत्तिखभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्यराहुलाद्यस्तु-मौग्ध्यमदभा- विकत्वपरितपनादीनप्यलंकारानाचक्षते । तेऽस्माभिर्भरतमतानुसारिभि- रुपेक्षिताः ।। इत्याचार्यश्रीहेमचन्द्रविरचितायाम लंकार चूडामणिसंज्ञखोपज्ञकाव्यानुशासन- वृत्तौ नायकवर्णनः सप्तमोध्यायः समाप्तः'

मिति चोपदेशः । शिरोविधृता च या चन्द्रकला तामपि परिभवेति सपन्नीलो- कविजय उक्क: ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके सप्तमोऽघ्यायः।

Page 404

८ अध्याय:] काव्यानुशासनम्। ३७९

अष्टमोऽध्यायः। अथ प्रबन्धात्मकान्काव्यमेदानाह- काव्यं प्रेक्ष्यं श्रव्यं च। नानृषि: कविः 'कवृ वर्णे' इति च दर्शनाद्वर्णनाच्च कविस्तस्य कर्म काव्यम्। एवं च दर्शने सत्यपि वर्णनाया अन्तर्भावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते। तथा चाह भट्टतोत :- 'नानृषिः कविरित्युक्तमृषिश्र किल दर्शनात्। विचित्रभावघर्मांशतत्त्वप्रख्या च दर्शनम् ॥ स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्च्छे नित्येऽप्यादिकवेर्मुनिः । नोदिता कविता लोके यावज्जाता न वर्णना ।।' इति प्रेक्ष्यममिनेयम् । प्रेक्ष्यं विभजते- प्रेक्ष्यं पाठ्यं गेयं च। तत्र पाठ्यं भिनत्ति- - पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिमव्यायोगो- त्सष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि। तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयस्वभावानि भरत- मुनिनोपदार्शतानि। सट्टकश्च कैश्चिद्यथा- 'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकम्। राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ।।

प्रख्यातेति। प्रख्यातमितिहासाख्यानादि वस्त विषयो यस्य। तत्र हि

Page 405

३८० काव्यमाला।

नानाविभूतिभिर्युतमृद्धिविलासा दिभिर्गुणैश्च्ापि। अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम II'

लोकस्य कथापरिचयादादरातिशयो भवति। यद्वा प्रकर्षेण ख्यातं वस्तु विष्टितं तथा विषयो मालवपश्चालादिर्यस्मिन्। चक्रवर्तिनोऽपि हि वत्सराजस्य कौशा- म्वीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति। वस्तुविषययोः प्ररयातिमुक्ला तृतीयां प्रर्यातिमाह-प्रख्यातोदा- नेति। उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीर प्रशान्तघीरोद्ध- तधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते। राजर्षिवंश्येत्यनेन प्रुयातमपि यद्वस्तु ऋषि- तुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावा दिबाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रति- षेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशसाधु चरितं यस्मि- न्निति बहुव्रीहिः। न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किंतु दिव्या- नामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽज्ञीकरणं यत्र। तथाहि नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जा- यते। निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति। तस्माहेवताराधन- पुरःसरमुपायानुष्ठानं कार्यमिति॥ ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्मान्न व्याखयायते। व्याख्यायेत यद्येवं लक्षणेन नाटकेन कश्िदर्यों व्युत्पाद्येत। न चैतदेवं दिव्यानां दिव्यप्रभावैश्वर्ययोगाहुरुपपादेष्वर्येष्विच्छामात्र- मेव प्रयत्नो नैव सिद्धौ व्याहन्यते। तस्माच्चरितं मतैंविधातुमशक्यमिति नैवोप- देशयोग्यम्। तथा ह्युकम्-'देवानां मानसी सिद्धि र्गहेषूण्वनेषु च । क्रियाय- लनाभिनिष्पन्राः सर्वे भावा हि मानुषाः । तस्मादेवकृतैर्भावैर्न विस्पर्धेत मानुषः ॥' इति। तस्मादिष्टानिष्टदैवमानुषकर्मोपपादितश्ुभाशुभफलभाजां मर्तयानामेव समु- पभोगविपत्प्रतिविधानमत्युत्पादकं चरितमाश्रित्य नाटकं निबन्धनीयमिति नृपतय एव नाटकेषु युज्यन्ते। नायिका तु दिव्याप्यविरोधिनी। यथोर्वशी। नायकचरितेनैव तद्ृतस्याक्षेपात् । प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यंत आह-नानाविभूतिभिर्युतमिति। धर्मार्थकाममोक्षविभावैः फलभूतैर्विचित्ररूपैर्युक्तम् । तन्राप्यर्थकामौ सर्वजनाभिलपणीयाविति तद्वा- हुल्यं दर्शनीयमिति। ऋद्धिविलासादिभिरिति। ऋद्धिरर्थस्म राज्यादेः

Page 406

८ अध्याय:] काव्यानुशासनम्। ३८१

'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव। औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्रुैर्ज्ञेयम्॥ यदनार्षमथाहार्य काव्यं प्रकरोत्यभूतगुणयुक्तम्। उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम्।।

संपत्तिः । विलासेन कामो लक्ष्यते। आदिशब्दः प्रधानवाची। तत्प्रधानाभिः फलसंपत्तिभिर्युक्तमित्यर्थः। तेन राज्ञा सर्व राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतमित्येवंप्रायं फर्ल नोपनिबद्धव्यम्। धर्ममोक्षबहुलमिति। दृष्टसुखार्थी हि बाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसी भवेत्। गुणैरिति। अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतागतान्यपनयप्रधानानि तैर्युक्तम्। तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहात् जनको- आ्ादिसंपत्तिर्शद्धिः। कौमुदीमहोत्सवादयो विलासाः। सँधिविभ्रहादयो गुणा इति चाणक्यपरिया(१)वेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितश- व्देन च सर्वस्याप्यर्थस्य राशेः संग्रहात्। अवान्तरवस्तुसमाप्तौ विश्रान्ताय ये विच्छेदा अङ्कासतैः पश्चावैर्दशाधरैः ये च निमित्तबलादप्रत्यक्षदष्टानां चेष्टिताना- मावेदकाः प्रवेशकास्तैश्वाव्यं तल्ाटकं नाम रूपकम्॥ आत्मशक्येति। इतिहासादिप्रसिद्धिं निरस्यति-वस्त्विति । साध्यं फलम्। शरीरमिति। तदुपायम्। नायकमिति। साधयितारम् । चकारः पूर्वसमुचये। द्विती- यस्त्वसमग्रसमुच्चये। एवकारः समुचयाभावे । उत्पत्तौ भवमौत्पत्तिकं निर्मि- तम्। तदयमर्थ :- त्रितयमपि यत्र विकृतं द्वयमेकं वा, अन्यत्तु पूर्वोपनिबद्धं तत्सर्वं प्रकरणम्। मेदसप्रकमयम्। वस्त्वादिकं काव्याभिधेयमात्मशत्त्या प्रकु- रुते यत्र काव्ये तत्प्रकरणमिति बुधै्ज्ञैयमिति संबन्धः॥ यत्र सर्वमुत्पादं भवति तत्र योऽनुत्पाद्योंऽश: स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति। पुराणादिव्यतिरिक्तवृहत्कथाद्युपनिबद्धं मूलदेवतच्चरितादि ॥ आहार्थमिति। पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्ततच्चेष्टितादि । ननु च तत्रांशे कविकृतत्वा- भावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्नेति । पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्बृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं १. 'कुरुते प्रभूत' भरते.

Page 407

३८२ काव्यमाला।

यन्नाटके मयोक्त वस्तु शरीरं च वृत्तिभेदाश्च। तत्प्रकरणेSपि योज्यं सलक्षणं सर्वसंधिषु तु।। विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्। चरितं यन्नैकविघं तज्ज्ञेयं प्रकरणं नाम।। नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम।।

प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम्। तेन बृहत्कथादिसिद्धस्य मूलदेवा- देरधिकावापं कविशक्तिर्यदा विधत्ते तदा प्रकरणम्। एवं पूर्वकविसमुत्प्रेक्षितस- मुद्रदत्तचेष्टितादिवर्णनेऽप्यघिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम्।। नन्वस्येतिवृत्तस्य कथं योजनेत्याशक्ष्य पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह- यन्नाटके इति। 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फल- चयमुक्तं तद्वस्तुशरीरमित्यङ्कप्रवेशकाद्यम् ॥ वृत्तिभेदाश्चेति। नानारसभाव- चेष्टितैबहुधा सुखदुःखोत्पत्तिकृतमिति ॥ सलक्षणमिति। लक्षणमङ्कपरिमा- णम्। अङ्कान्तरसंनिधानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्त 'दिवसावसानकार्य यद्यङ्वेनोपपद्यत' इत्यादि तत्सर्वं प्रकरणेऽपि योज्यम् ।। अतिदेशायातमतिप्रसङ्ग वारयत्यार्याद्वयेन-विप्रेत्यादि। अमात्योऽधिकृतः । सार्थवाहो दिगन्तरा- त्पण्यानामाहर्ता । तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव। नैकविधमिंत्यने- करसयुक्त इति। तदितिदेशमात्रमिति सूचि प्रख्यातोदात्तेत्यतिप्रसक्त निषेधति। तन्निषेधे चार्थाज्ञाटकवैपरीत्यमायातम्। नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत आह-न दिव्यचरितमिति। तथा दिव्याश्रयमिति यदतिदेशाहेवानामुपायत्वेन ग्रयोज्यत्वं प्रसक्तम्, तदप्यनेन निषिद्धम्। नाटके देवानामिवेहापि राज्ञः प्रवेश शङ्कमानो निराकरोति-न राजसंभोग इति । यदि वात्रोत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति। अत एव राजनि य उचितोऽन्तःपुरजनः कश्चकिप्रमृतिस्द्यतिरिक्तो बाह्यजनोऽत्र चेटदासादि: प्रवेशकादौ कार्य इत्यर्थः । १. कार्य केवलमुत्पाद्यवस्तु स्यात्' भरतैकपुस्तके. १. 'तदतिदेशमात्र' स्यात्. २. 'नोदात्तनायकेति' इति प्रतीकं त्रुटितं भवेत्.

Page 408

८ अध्याय:] काव्यानुशासनम्। ३८३

दासविटश्रेष्ठियुतं वेशरूयुपचारकारणोपेतम्। मन्दकुलस्त्रीचरितं काव्ये कार्यं प्रकरणे तु।।' 'प्रकरणनाटकमेदादुत्पाद्यं वस्तु नायकं नृपतिम्। अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या। स्त्रीप्राया चतुरक्का ललिताभिनयात्मिका सुविहिताङ्गी। बहुगीतनृत्यवाद्या रतिसंभोगात्मिका चैव ।। राजोपचारयुक्ता प्रसादनकोधदम्भसंयुक्ता। नायकदेवीदूतीसपरिजना नाटिका ज्ञेया।।' एतदेव दर्शयति-दासविटेति । कश्ुकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः। वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्ध: स कारणं यस्य श्ङ्गारस्य तेनोपेतम्। कुलस्त्रीविषयं चेष्टितम्। प्रक- रणेति। बहुषु प्रकरणमेदेषु नाटकमेदेषु च स्त्रीप्राप्तिफ लात्संभोगशङ्गारप्रा- यात् कैशिकी प्रधानाच्च प्रकरणमेदान्नाटकमेदाचच नाटिका ज्ञेयेति दूरेण संबन्ध: ॥ उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां वाधि- कृत्य प्राप्यत्वेनाभिसंघाय कर्तव्या च। तेन स्त्रीप्राप्तिः संभोगश्ङ्गारोऽभ्यन्तरः कैशिकी च वृत्ति: तथावस्थासंध्यक्गार्थ प्रकृतिपताकाप्रकरीपताकाप्थानाङ्कविष्क- म्भकप्रवेशकादीन्युभयमेदसाधारणानि नाटिकायां प्रयोज्यानि। यदपि किंचि- त्साधारणं तदपि योज्यते। अतश्च 'उत्पाद्यं वस्तु' इति प्रकरणधर्मः। 'नायकं नृपतिम्' इति नाटकधर्मः । 'अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्या- विप्रलम्भश्व नाटकधर्म एव। अथास्य विशेषलक्षणमाह-स्त्रीप्राये ते। व्रियः प्रायेण बाहुल्येन यत्र। चत्वारोऽङ्का यस्याम्। कस्याश्चिदवस्थायाः सरसेऽव- स्थान्तरे समावापः कर्तव्य इति यावत्। सुष्ठ पूर्णतया विहितानि चत्वार्यपि कैशिक्यज्जानि यत्र। एतेन स्त्रीप्रायेति ललितेति बहुनृत्येति च कैशिकीं वृर्त्ति बाहुल्येन दर्शयति। रतिपुरःसरः संभोगो राज्यप्राप्यादिलक्षण आत्मा प्रधान- भूतं फलं यस्याम् । अत एवाह-राजगतैरुपचारैर्व्यवहारैर्युक्ता। अन्यां चेदु- हिश्य तन्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवश्चनैरवश्यं भाव्यमिति दर्शयति-प्रसादनेति। आर्यानुरोधात्क्रोघस्य पश्चात्पाठः। ननु यस्याः क्रोधो भवति सान कदाचिदुक्तेत्याशश््याह-नायकेति। नायकस्य येयं देवी आद-

Page 409

३८४ काव्यमाला।

समवकारस्तु- 'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव। व्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्निशृंक्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ।I' इति। 'दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव।।

नायिका तथाभिलषितनायकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजन- समृद्धिर्यस्याम्।। देवासुरेति । देवासुरस्य यद्वीजं फलसंपादनोपायस्तेन कृतो विरचितः। देवासुरा अपि वा प्रख्याता बृहत्कथादौ श्रूयन्ते स्यं वा केनचिदूहन्त इति तन्निरासार्थ प्रर्यातपदम् । यद्यपि देवाः पुरुषापेक्षया दूतास्तथापि खापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापन्ना(?)- रूयड्क इत्युक्तम्। कपटो वञ्चना मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा-यत्रानपराद्ध एव वञ्चकेन वश्च्यते स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः। यत्र तु द्वयोरपि न कश्चिदभिसंधिदोषः काकतालीयेन तुल्यफलाभिसंधानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स देवकृतस्तृ- तीयः । चेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु यतो विद्रवन्ति जना: स विद्रव इति। तत्र चेतनं गजेन्द्रादि। अचेतनं जलवाद्यादि। उभयं नगरो- परोधादिति। तस्य युद्धामिदानादिसंपाद्यत्वात्। शङ्गारस्त्रिधा-धर्मार्थकाम- मेदात। धर्मो यत्र हेतुः साध्यो वा नायिकालामे स धर्मश्ङ्गारः। एवमर्थका- मयोर्वाच्यम्। अथ नायकयोगं कार्यनिष्पत्तिकालविभागं चाह-द्वादशेति। द्वादशनायकबहुलमिति प्रत्येकमिति केचित्। अन्ये तु प्रत्यक्कं नायकप्रतिनायकौ तत्सहायौ चेति। चतुर आह-समुदायापेक्षया हि द्वादशेति। बहुलग्रहणा- जयूनाधिकत्वेऽप्यदोषः । अष्टादशेति । अष्टादशनालिकमेव तत्र कार्य निब- न्धनीयमित्यर्थः ॥ दिव्येति। दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया १. 'प्रहितो' भरते. १. 'दीति' स्यात.

Page 410

८ अध्याय: ] काव्यानुशासनम्। ३८५

उद्धतपुरुषप्रायस्त्रीरोषग्रथितकाव्यबन्धश्च। संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव ।। स्त्री भेद नापहरणावमर्दनप्राप्तवस्तुशृङ्गारः। ईहामृगस्तु कार्यः सुंसमाहितकाव्यबन्घश्च ।। यद्यायोगे कार्य ये पुरुषावृत्तयो रसाश्चैव। ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योग: ॥।' 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव। षड्सलक्षणयुक्तश्रतुरक्को वै डिमः कार्य: ॥

तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र। दिव्यानुप्रवेशात्समवकारवदसं- बद्धार्थता मा प्रसाल्लीदित्याह-सुविहितेन संश्लिष्टेन वस्तुना निबद्धः। विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र। मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति-उद्धतेति। उद्धता उद्दताः पुरुषाः प्रायेण यत्र स्त्रीनिमित्तको रोषः। संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फोटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथेत्युक्तसादृश्यार्थः । चः समुच्चये। एवशब्दोऽवधारणे। एतल्लक्षण · युक्त एवेत्यर्थः । स्त्रीनिमितं भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्य- विषयाणि वा तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः शङ्गारो यस्मिन्। भेदसामदानादिना अवमर्दनं दण्डः । इहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र। सुसमाहितकाव्यबन्ध इत्यनेन वीथ्यङ्गानि अत्र योज्यानीति। अङ्कपरिमाणं नायकसंख्यं वृत्तिरसविभागं च व्यायोगातिदेशेनाह-यदिति। कार्यशब्दे- नाङ् उच्यते। तेन एक एवाङ्कः। नायकास्तु द्वादश सभवकारातिदेशेन व्यायो- गे तल्लाभात्। अत्र तु समवकारातिदेशेन सर्वासंपत्तेगौरवं स्यात्॥ प्रख्या- तेति। षड्सा यस्मिन तल्लक्षणं षड्सं तेन युक्तः। नाटकतुल्यं सर्वमन्यत्केवलं संधीनां रसानां च समग्रतात्र शङ्गारहास्यवर्ज षड्सत्वे उक्ते पर्यायेण शान्तस्

<. 'श्र तुरङ्कविभूषितश्चैव' भरतकपुस्तके. का० शा० २५

Page 411

३८१ काव्यमाला।

शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः। दीप्रसकाव्ययोनिर्नानाभावोपसंपन्नः ।।

युद्धनियुद्धाघर्षणसंस्फोटकृतश् विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्र । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ।। षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः कार्यो डिमः प्रयलान्नानाश्रयभावसंपन्नः II' वैयायामस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव।।

प्रयोग: स्यादित्याह-दीपरसेति। दीप्ता रसा वीररौद्रादयस्े काव्ययोनि- र्यत्र। नानाविधाभावा व्यभिचारिणः । आधर्षणं बलास्काररूपः पराभवः। माया शब्दरूपादीनामन्यथापादमेसतां वा प्रकाशनम्। पुस्तं लैप्यं किलिञ्च- र्मवस्रकाष्ठकृतानि रूपाणि। देवादयो बाहुल्येनात्र। बहुलग्रहणं व्यमिचारार्थम्। तेन न्यूनाधिका अपि नायकाः प्रयोज्याः। सात्वती चारभटी चेति 'द्वन्द्वेऽ- प्राणिपश्वादेः' इत्येकवद्भावो 'द्वन्द्वैकत्वाव्ययीभावी' इति नपुंसकलिक्वता च। वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः। तया संपन्नः। डिमो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः॥ नानाश्रयभावसंपन्न इति। नाने- त्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयो येषां ते नानाश्रया भावाखैः संपन्नः। बहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते। अत एवेति वृत्त- वैचित््यमत्रोपदिशन्ति। व्यायोगस्त्विति। व्यायोग: पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेर्न नायकता, अपि त्वमात्यसेनाप- तिप्रभृतेर्दीप्तरसस्य। अत एव प्रख्यातनायकेत्यत्र उदात्तग्रहणं न कृतम्। शरी- १. "व्यायोगस्तु' भरते विवेके च. १. 'नम्, असतां' स्यात.

Page 412

८ अध्याय: ] काव्यानुशासनम्। ३८७

बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाड्क एवायम्॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्र कर्तव्यः। एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनि: ।।' 'वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य। प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्त: शेषैरन्यैर्मवेत्पुंभि:॥

रमितित्ृत्तम्। प्रख्यातो नायकः शरीरं च यत्र स तथा। अल्पक्ष स्त्रीजनश् तेन युक्तः। चेट्यादिना न तु नायिकादूत्यादिभिः कौशिकीहीनत्वात्। एकाहै :- कृत इति। एकदिवसनिर्वत्य यत्कार्य तत्कृतम्। यथा समवकार इति। द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामिति देशात्प्रत्यासत्त्या वा प्रसक्तां वार- यितुमाह-एकाङ्क एवेति । एवकारेण एकाहचरितविषयत्वाच््यायप्राप्तमेवा त्रैकाङ्कत्वमित्याह-ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसक्ग शम- यति-न चेति। चो भिन्नकमः। दिव्यैर्देवैन्पैर्भषिभिश्व नायकैर्न निबद्धोऽयं भवतीत्यर्थः ॥ ननु कस्मादयं व्यायोग इत्याह-युद्धनियुद्धेति। व्यायोगे युद्धनियुद्धप्राये युज्यन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । संघर्ष: शौर्यविद्याकु- लधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम्, दीप्ता रसा वीररौद्राद्या:, तदुभयं योनि: कारणमस्य। प्रख्यातेति। प्रख्याते भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यातम्। श्रीपर्वतृत्तान्तवद्भवतु मा वा भूदित्य प्रख्यातग्रहणेनोक्तम्। तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिंचि- त्करत्वं नाशङ्कनीयम्। दिव्यपुरुषैर्वियुक्त इति। दुःखात्मकत्वात्। शेषै- रन्यैरिति। अर्थापत्तिफलम्। करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते। तत्र कृतः। निवृत्तयुद्धा उद्धतप्रहाराः पुरुषा यस्मिन्। परिदेवितं देवोपालम्भा १. सविसर्गपाठः प्रामादिक :. २. 'मतिदेशा' स्यात्.

Page 413

३८८ काव्यमाला।

करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्र। स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्रैव।। 1 नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनम्। कार्य: काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥' प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम्।। भगवत्तापसविग्रैरन्यैरपि हासवादसंबद्धम्। कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ।। अधिकृतभाषाचारं विशेषभावोपपन्नचरितमिदम्। नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु।। वेश्याचेटनपुंसकविटघूर्ता बन्धकी च यत्र स्युः । अनियतवेषपरिच्छद्चेष्टितकरणं च संकीर्णम् ।।'

त्मनिन्दादिरूपमनुशोचनं यत्र। निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादृंथि भाषितानि यत्र। व्याकुलाश्रेष्टा भूमिनिपातविवर्तितादयाः। सात्वत्यारभटि- कैशिकी हीनमिति। समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः। उत्कमे- गोन्मुखा टैष्टिजीवितं प्राणा यारसा ता उत्सृष्टिकाः शोचन्त्यः त्रियस्ताभिरङ्कित इति तथोक्तः ॥ प्रहसनमपीति। अपिश्दो भिन्नकमः । तथेति। सामा- न्ये लक्षणम्। तदयमर्थः । द्विविधमपि प्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम्। भगवत्तापसविप्रा यतिवान प्रस्थगहस्थाः। अन्यें शाक्तादयस्तैरुपलक्षितं हास्यप्रधानवचनसंबद्ध शीलादिना कुत्सितैः पुरुषैः अत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम्। तथापि च भाषाचारौ यत्र न विकृतावसत्याश्रठीलरूपौ तथा विशेषेण भावैर्व्यभिचारिभि रुपपन्नानि पदानि कथाखण्डानि यस्मिन्। नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीयल- क्षणोडर्यों यत्र तच्छुद्ध प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्या- १. 'सृष्टि' स्यात.

Page 414

८ अध्याय: ] काव्यानुशासनम्। ३८९

'आत्मानुभूतशंसी परसंशयवर्णनाप्रयुक्तश्र। विविघाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरत्रथितैः ।

धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव। एकाड्को बहुचेष्टः सततं कार्यो बुधैर्भाणः।।'

भाषणान्यत्र बाहुल्येन भवन्ति। तेन यत्रैकस्यैव कस्यचिच्चरितं दुष्टत्वात्प्राधा- न्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योंगोऽत्युल्बणं वा कल्पादि तदेकद्वारेणानेकवेश्यादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम्। आत्मानुभू- तशंसीति। एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थों यत्र से भाण: । एकमुखेनैव भण्यन्ते उच्तिमन्तः क्रियन्ते अप्रविष्ठा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मानुभूतं वा शंसति परगतं वा शंसति परगतं वा वर्णयति। तत्र च प्रयोगयुक्तिमाह-परवचनमिति। परसंबन्धि वचनं खयमङ्गविकारैरभिनयेत् । (आंहो)आकाशे यानि पुरुषक- थितानि दृष्टानि यत्र ह्यन्ये तं पश्यन्तयेकक्ष पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन् सामाजिकान्बोधयति। यथा रामाभ्युदये-'तापसः-(आकाशे।) भावाद्वलेत्कावकाशे(?)रामभद्रस्तिष्ठति। किं व्रवीषि। सोडस्या एव पथिक- जनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया लक्ष्मणेन सह न्यग्रोधच्छायायां सुखोपविष्टस्तिष्ठति।' इति। न केवलं परवचनमभिनयेत्। किं तु प्रतिवचनैः खोक्तैः सह। अत एवोत्तरोत्तरप्रथितैर्योजनाभिरुपलक्षितैः। ननु योऽसावेकोऽत्र प्रविशति स क इत्याह-धूरतेति। नानाप्रकारावस्थाविशेषा लोकोपयोगिव्य- चहारात्मका आत्मा वाच्यं यस्य। अत एव बहुचेष्टः सततं कार्य इति। सक- लसामान्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति। बाहुल्येन पृथग्जनव्युत्पत्त्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभ-

१. प्रमादपतितं भवेत, २. 'तस्या' स्यातू.

Page 415

२९० काव्यमाला।

'सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । वीथी स्यादेकाड्का तथैकहार्या द्विहार्या वा॥' 'विष्कम्भकप्रवेशकरहितो बस्त्वेकभाषया भवति । अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' इति। आदिशब्दात्कोलाहलादलक्षितास्तोट कादयो ग्रह्याः।

लावृत्तान्तो ज्ञेय एवावञ्चनार्थमिति स प्रयोज्य इत्यर्थः । सर्वरसेति। सवैं रसैः शङ्गारादिमिर्लक्षणैश्व विभूषणादिभिः षद्त्रिंशता तत्साहच्चर्याद्गुणालं- कारादिभिरपि सवैराठ्या। तदुपरि चाजैस्त्रयोदशभिर्युक्ता तथाशब्दादुक्तप्रका- रव्यतिरिक्तवक्रो त्तयन्तर महस्त्र संकुलापी त्यर्थः । एकाङ्केति। इतिवृत्त संक्षेपमस्या दर्शयति-एकहार्येति। आकाशपुरुषभाषितैरित्यर्थः । द्विहार्येति। उक्ति- प्रत्युक्तिवैच्वित्र्येणेत्यर्थः ॥ पुमर्थोपयोगश्चामीषां प्रदर्श्यते । तथा हि-नाटके धैर्मकामानामन्यतमस्य गुणीभूतेतरार्थद्वयवृत्तेराधनं राज्ञां वृतं नाट्ये साक्षादिव पश्यन्त उपादेयतया प्रतिपद्यन्ते। तत्रापि धर्माराधने दानतपोयोगरूपमनुष्ठानं यशस्कर दृष्टफलमामुष्मिकफलं च व्युत्पाद्यते। अर्थाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभपालनसमेधनफलविनियोगपर्यन्ता कपटातिसंधानबहुला संधि- विग्रहात्मिका राजवृत्तिव्युत्पाद्यते। कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृतशौचासु च साधीनपतिकादिषु अष्टासु परस्परावलोकनादि, दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राज्ञस्तासां च राजनि व्युत्पादयते। तथा राज्ञामभ्यन्तरोपभोगे महादेवी देवी खामिनी स्थापिता भोगिनी शिल्पकारिका नाटकीया नर्तकी अनुचारिकापचारिका प्रेषणकारिका महत्तरा प्रतीहारी कुमारी स्थविरा युक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथाखं राजनिवृत्तिः । तथा स्थापत्यकश्चुकिवर्षवरोपस्थायिकनिर्मुण्डादीनामन्त- र्भवनकक्षासंचारः। तथा युवराजसेनापतिम न्त्रिसचिव प्राद्विवाककुमाराधिकृतानां बाह्यसंचारिणां वृत्तम्। तथा विदूषकशकारचेटादिवृत्तं व्युत्पाद्यते। नायकप्रतिप- क्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते॥ प्रकरणे १ 'धर्मार्थकामाना' स्यात्, २. 'राराधनं' स्यातू,

Page 416

८ अध्याय: ] काव्यानुशासनम्। २९१

गेयं विभजते- गेयं डोम्बिकाभाण प्रस्थानशिङ्गभाणिकाप्रेरणरामाक्रीडहल्ली- सकरासकगोष्ठीश्रीगदितरागकाव्यादि। तु सचिवसार्थवाहादीनां पूर्ववत्सवाचिता त्रिवर्गप्राप्तिस्तदर्जनस्थैर्यधैर्यादि, व्यापत्ख मूढता, कुलस्तिरियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो विशिष्टनाय- कलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देशकालौ नायि- काया रागापरागलिङ्वानि नायकयोरपरागकारणानि नायका हृदयग्रहणमप्रयोगः । उत्तममध्यमाधमनायिकालक्षणयैव न लाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेददण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते।। नायिकायां तु विलासपराणां राज्ञां धर्मार्थाविरोधिरतिफलं वृत्तं नाटक इव व्युत्पादयते ॥I समवकारे च देवासुरनिमित्तो युद्धादिसंभवो विद्रवस्तथा कपटः संक्षिप्तश्च शङ्गारो हास्यादि सर्वमेव लौकिकीभिरुपपत्तिभिहींनं दिव्यप्रभावसाध्यं व्युत्पाद्यते । पूर्वापरानुसंधानशून्यधियां प्रहसनकपटविद्रवादिरुचीनां पुस्ताव- पतलङ्गनच्छेद्यमायेन्द्र जालचित्रयुद्धादि बहुलयारभस्या परितोष उत्पाद्यते। तथा चाह-'शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च। बाला मूर्खाः स्त्रियश्चैव हास्य- शोकभयादिषु ॥' तुष्यन्तीति गम्यते। इषं देवता कर्मप्रभावानुकीर्तनाच तद्भ- कानां प्रीतिः। यात्राजागरादिषु च प्रेक्षाप्रवर्तनं च ॥ ईहामृगडिमयोरप्ये- वमेव॥ व्यायोगे तु मन्तिरिसेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धाघर्ष गसंघर्ष बहुलं व्युत्पाद्यते ॥ उत्सृष्टिकाङ्के चोत्तमानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरि- देवितबहुलं वृत्तं प्रेक्षकाणां चित्तस्थेयं विधातुं व्युत्पाद्यते। एवंविधव्यसनपति- तानां चित्तस्थैर्यात्पुनरुत्पत्तिर्दश्यते इति तत्प्रयोगदर्शनात्प्रतिपद्यमाना व्यसनेऽपि न विषीदन्ति॥ प्रहसने तु स्त्रीबालमूर्खाणां हास्यप्रयोगदर्शनेन नाट्ये प्ररोचना क्रियते। ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते। प्रस- ज्तश्व भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृतं शुद्ध तथा वेश्या- चेटनपुंसकविट धूर्तवण्टकीप्रभृतीनां प्रवर्तकार्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्तादम्भधूर्तविवादबहुलं ल्याज्यतया व्युपादते॥ भाणे च धूर्तविटवेश्या- १ 'स्वोचिता' म्यात्.

Page 417

३९२ काव्यमाला।

पदार्थामिनयनस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनै- रुक्तानि। तद्यथा- 'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः। आचर्यते मनः सा तु मसृणा डोम्बिका मता ॥' 'नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाण: स्यादुद्धताङ्गः प्रवर्तितः ॥' 'गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा। अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ।।' 'सख्याः समक्षं पत्युर्यदुद्धृतं वृत्तमुच्यते। मसृणं च कचिद्धूर्तचरितं शिङ्गकस्तु सः ।।' 'बाला क्रीडानियुद्धादि तथा शूकरसिंहजा। धवलादिकृता क्रीडा यत्र सा भाणिका मता ।।'

शम्भलीनां परस्य वश्चनपरं प्रेक्षकाणामवञ्चनीयतमवबोधादापादयितुं वर्ण्यते।। वीथ्यां तु बहुविधा वकोक्तिविशेषा व्युत्पाद्यन्ते॥ सट्टके च नाटिकायामिव रति- फलं वृत्तं व्युत्पाद्यते। एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम्। तच्छरीर- भूत संधिसंध्यज्वाधिलक्षणम्। विस्तरतस्तु भरतादेवावसेयः॥मसृणेति। त्रिविधो हि गेयकाव्यस्य प्रयोगः । मसृण उद्धतो मिश्रश्च। तथा हि-डोम्बिकासु नरप- तिचाटुकप्राधान्येन प्रवृत्तासु सुकुमारमेव शुद्धं रूपम्।। भाणकेषु नृसिंहादिचरित- वर्णने उद्धतमेव। यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव। तत्राप्यल्पत्वबहु- त्वकृतो मेदः। पूर्वप्रस्थानप्रबन्धः। उत्तरः शिङ्टकभेदः। उद्धते तु मसृणानुप्र- वेशोद्धाणिकामेदः। अन्यदपि प्रेरणरामाक्रीडरासकहलीसकादिकमल्पत्वबहुत्व वैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ।। ननु डोम्बिकाशिङ्टकादौ अन्योन्यानु- चितत्वं वाक्यानां ततश्वानन्वये कथं रजजकत्वमिति चेतू, न । देवतासतुतेः स्त्रीपुंभावसमाश्रयस्य च श्क्गारस्य सर्वत्रानुगमात् । तथा चाह-'देवस्तुत्या- श्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति। तत एव चूडामणिडोम्बिकादौ तु काम- १ 'संध्यङ्गादिलक्षणविस्तरस्तु' स्ात.

Page 418

८ अध्याय: ] काव्यानुशासनम्। २९३

'हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम्।' 'ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥।' 'मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम्। एकस्तत्र तु नेता स्याद्रोपस्त्रीणां यथा हरि: ॥l'

स्यैव प्रच्छन्ानुरागपरमरहस्योपदेशात्। यद्रामाभिनिवेशित्वमित्यनेन मन्मथ- सारत्वेनाभिधानात्। सिंहशूकरधवलादिवर्णनेनापि भाणकप्रेरणभाणिकादावप्र- स्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यवोपदेशदर्शनात्। अथ पाठ्यस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते-पाठ्ये हि अञ्नं गीतं चेत्यु- भयमप्रतिष्ठितम्। तथा हि करकरणचारी मण्डलादि यत्तत्राज्वोपयोगि तत्ख- रूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात्। गेये तु गीतमङं च द्वयमपि खप्रतिष्ठम् । तथा हि-यस्य यादशं लक्षयति स्वरूपादिकं निरूपितं तन्न विपेर्ययेति मन्रादिवत्। यद्यपि क्वचिद्वर्णाङ्गप्राधान्यं यथा प्रस्थानादौ, क्वचिद्वादप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ, क्कचिद्रीयमानरूपकाभिधेयप्राधान्यं यथा शिङ्गटकादौ, क्वचिन्नृत्यप्राधान्यं यथा डाम्बिलिकादिप्रयोगानन्तरं हुडत्काराद्यवसरे। अत एव तत्र लोकभाषया वल्ि- मार्ग इति प्रसिद्धिः। तथापि गीताश्रयत्वेन वाद्यादे: प्रयोग इति गेयमिति निर्दि- ष्टम्॥। रागकाव्येषु च गीतेनैव निर्वाहः । तथा हि-राघवविजयस्य विचित्र- वर्णनीयत्वेऽपि ढक्करागेणैव निर्वाहः, मारीचवधस्य तु ककुभआ्रामरागेणैवेति॥ किं च पाठ्ये साक्षात्कारकल्पानुव्यवसायसंपत्त्युपयोगिन: पात्रं प्रति भाषानि- यमस्य नियतस्य छन्दोलंकारादेश्वाभिधानं दृश्यते। गीयमानं च नाभिधीयते असंगत्यापत्तेरपि तु यादृशा लयतालादिना याद्गर्थसूचनयोग्योऽभिनयः सात्वि- कादिः प्रैभानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन करियते। गेये च सतदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया कृता प्रतीति: साध्या। डोम्बिकादेर्न नैटस्येवालौकिकरूपप्रादुर्भावनया। तथा हि- डोम्निकादौ च वर्णच्छटा वर्णादिप्रयोगे तावदमिनयकथैव नारिति किं तत्र १. 'विपर्येति' स्यात्. २. 'प्रधान' स्यात्. ३. 'सूदादे' स्यातू. ४. 'नदस्ये वा' स्यातू.

Page 419

३९४ काव्यमाला।

'अनेकनर्तकीयोज्यं चित्रताललयान्वितम्। आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ।।' 'गोष्ठे यत्र विहरतश्चेष्टितमिह कैटभद्विषः किंचित्। रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥।' 'यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान्। उपालम्भं च कुरुते यत्र श्रीगदितं तु तत् ।।' 'लयान्तरप्रयोगेण रागैश्वापि विवेचितम्। नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् ।।'

विचार्यते केवलवृत्तखभावं हि तत्। तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयो- गावसरे 'पाआलूअलोससाहिणिहु जय जय लच्छिवच्छमतिआ' इत्यादि यद्गीयते तत्कस्योक्तिरूपम् । यदि तावन्नर्तितुमागताया लौकिक्या डोम्बिकाप्रभृतेर्नर्तक्या- स्तदा सैवेदानीमेवंभूतं वसुरूपं लौकिकं वचनमभिधत्ते। गायनादिसंक्रमितख- वास्तव्यतयेति कः साक्षात्कारकल्पत्वाध्यवसायगोचरीकार्यत्वे च पाठ्यस्य प्रधा- नोंडशः । तेन यथा लोके कश्चित्कंचिदन्योपदेशगानादिकमेण वस्तूद्वोधनकरण- द्वारेण वा छन्दोनुप्रवेशितया वाक्यस्य चिन्मनस्यावर्जनातिशयं विधत्ते नृत्यन्नपि गायन्नपि। तद्वदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् ।I 'हठे वि डोम्बी' इत्यादावपि वचसि सैव। डोम्बिका नयपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वाद्येन नृत्येन च राजानमनुरञ्यितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदी- दशी चौर्यकामुककेलिलालसमानसा, काचित्पुनरेवंविधा, कश्चिदेवंभूतश्चौर्यका- मुकः, कोऽप्येवंभूतस्तत्र काचिदेवं प्रौढदूतीत्येवमादिराजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादनेन धनादर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समु- दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्बिकाकृत्यमेवोपसंहरति। गुणमालागां 'जामि तारा अनुडिअपुणुणम्बीसमि' इत्यादौ। तत्र तु सा नृत्यन्ती डोम्बिका बहुतरोपरज्जकगीतादिपटुपेटकपरिव्ृता त्वां प्रत्येवमहमुपश्ठोकितवतीति तन्मध्य- वर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैच रूपेण तद्गीयमानरूपकगतलयताल- १. 'वा कस्यन्तरि' स्यात्.

Page 420

८ अध्याय: ] काव्यानुशासनम् । ३९५

आदिग्रहणात् शम्याच्छलितद्विपद्यादिपरिग्रहः । प्रपश्चस्तु ब्रह्मभरत- कोलाहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह- श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च। एतानि क्रमेण लक्षयति- पद्यं प्रायः संस्कृतप्राकृताप भ्रंशग्राम्यभाषानिबद्धभिन्नान्त्य- वृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधि शब्दार्थवैचित्र्योपेतं महाकाव्यम्। छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैर्भिन्नान्त्यवृत्तैर्यथा- संख्यं सर्गादिभिर्निर्मित सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दर शब्दार्थवैचित्योपेतं महाकाव्यम्। साम्येन तावनृत्यति। तद्रीयमानपदार्थस्य च सातिशयमावर्जनीये राजादौ हृद- यानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तस्तू(?) कर्मरोमाश्चाक्षिविकारतु- ल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति। एवं गीतेन रजनं प्राधान्येन विधाय तदुपयोगिनं चाङ्व्यापारं प्रदर्श्य नृत्येन पुनश्चित्तग्रहणं कुर्वती नृत्यं प्रधा- नभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गी- यमानाङ्गभावाक्षिप्ततत्समुचितभावमेवाङ्गविक्षेपं करोति लयपरिष्वष्कणादौ। तत्रे- यत्यंशे लौकिकमात्रस्वभाव एव रामनटादिव्यवहारवत्काप्रयोज्यप्रयोजकभावा- शङ्का। तदनन्तरं च यथैव सा गीतनृत्यादि प्रायुङ्क तथैव तत्सदश नर्तकी प्रयुङ्के। न तु डोम्बिकां साक्षात्कारकल्पेन दर्शयति तदीयाहार्यादिना खवात्म- रूपप्रच्छादनाद्यभावात्। तत एव न डोम्बिकां साक्षात्कारकल्पेन सा दर्शयति, अपि तु तदैव नृत्यं साभिनयं केवलं च प्रदर्शयतीति सा लौकिकरूपान्तरप्रा- दुर्भावेनेति। व्युत्पत्त्यभिसंधानं च गेये नासिति। पाठ्ये तु तदेव प्रधानं भरत- मुनिप्रभृतीनां तथैव मूलतः प्रवृत्तेरित्यलं बहुना अप्रस्तुतप्रपश्वेनेति॥ भिन्ना· न्त्यवृत्तैरिति। उपकान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य

Page 421

३९६ काव्यमाला।

मुखादयः संधयो भरतोक्ता इमे- 'यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा। काव्ये शरीरानुगता तन्मुखं परिचक्षते ।।'

इत्यर्थः । यथा कुमारसंभवे-'अथ स ललितयोषिडलता चारुम्हं रतिवलय- पदाङ्के चापमासज्य कण्ठे। सहचरमधुहस्तन्यस्तचूताङ्कुरात्त्रः शतमखमुपतस्थे पज्जलि: पुष्पधन्वा II' यथा वा हरिप्रबोधे आर्यागीतिच्छन्दोबद्धाश्वासकान्ते पुष्पिता्रा-'भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम्। गततमसतया विभावरीणां सघनमहः समतां विभावरीणाम्। संधिबन्धेषु च नाराचतोटकादी नि विचित्राणि छन्दांसि दृश्यन्ते।। यत्र बीजेति। बीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः। नानारूपोऽर्थः प्रयोजनं येषां ते नाना- र्थाः संभवन्तीति संभवः। नानार्थरसातां संभवो यस्याः सा तथा। काव्ये नाट- कादौ। तत्र च संधीनां युक्ततयावभासात्। अत एव तत्रैवोदाहरिष्यते-श- रीरानुगता इति। वृत्तानुगता इति वृत्तत्यापिनी। तन्मुखम्। यथा वेणी- संहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेव: कुद्धस्य भीमसेन स्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे-'निर्वाणवैरदहना प्रश- मादरीणाम्' इति। अत्र प्रशमोऽवसानमुदयनिरोधात्। यथा शान्तो वायुः शा- न्तोऽगनिरवसित इत्यर्थः। तदेवमरीणामवसानेन दाहयाभावान्निर्वाणवैराम्रयः पा- ण्डुतनया नन्दन्तु सह माधवेन। कुरुराजसुतास्तु समृत्या रुधिरप्रसाधितभुवः क्षतशरीरा: खर्गस्था भवन्त्विति शत्रुक्षयपूर्वस्थस्य पाण्डवानां समृद्धिरूपस्य फ- लस्य बीजं कविप्रयत्नादुत्पन्नम्। नानारससंभवा चास्योत्पत्तिः। नाटकानेकत्वेन पात्रानेकत्वविवक्षया नानार्थता रसानाम् । तथा हि-अन्र, 'एष कुरुसंधान- ममृष्यमाण: पृथुललाटतटघटितभीषणभ्रुकुटिरापिबत्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः कुद्धो भीम इत एवाभिवर्तते' इति पारिपार्श्वकवचनात्सूचित- क्रोधस्थायिभावानुभावः 'लाक्षागृहानलविषान्नसभाप्रवेशैः-' इत्यादिखवचनप्र- काशितखविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयोजनो बीजेन प्रकाशित- त्वाद्वीजोत्पत्तेरेव संभवत्निबद्धः । कुरूणां च कुलक्षयनिमित्तकः करुणः, पाण्ड- १. 'संधिविधेषु' ख. २. 'शरीरानुगता' स्याद.

Page 422

८ अध्याय: ] काव्यानुशासनम्। ३९७

'बी जस्योद्वाटनं यत्र दृष्टनष्टमिव कचित्। मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्पृतम्।।' 'उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥।'

वसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवन्निबद्धः। यथा दुर्योधनः शोचन्राह- 'अद्यैवावा रणमुपगतौ तातमम्बां च दृष्ट्रा घ्रातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च। तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ।I' तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफल- मित्युपादेयम्। दुर्योधनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्तर्नानार्थता पात्रानेकत्वाश्रया रसानाम्। नाटकानेकत्वा- दथा सागरिकाप्राप्यर्थो वत्सराजस्य शद्गारः बीजसमुत्पत्तिरिति। बीजं समु० त्पन्नमुक्तर्विशेषणैविशिष्टमिष्यते। तथा हि बीजमेव काव्यशरीरव्यापि यतो मुख- संधौ तस्योत्पत्तिः। प्रतिमुखे दृष्टनष्टमिव तस्योद्वाटनं गर्भे चोद्धेदस्तस्य अव- मर्शे च गर्भनिर्भेदः । निर्वहणे च समानयनमिति काव्यशरीरव्यापिता। बीजस्योद्धाटनमिति । अयमर्थ :- दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपाद- न्यस्मात्-' इत्यादिना न्यस्तं भूमाविव बीजम् अमात्येन सागरिकाचेष्टितं वस- न्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव, नहि तन्नष्टमेव । सागरिका चेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननश- त्युद्वोधकम्। तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्यते। एवं कुङ्कुमबीजस्य यदुद्वाटन तत्कल्पं यत्रोद्वाटनं सर्वत्रैव कथाभागसमूहे स प्रतिमुखम्। प्रतिराभिमुरुये। मुखस्याभिमुख्येन यतोऽत्र वृत्तिः। पराझुखता हि दृष्टनष्टकल्पता। तथा हि रत्नावल्याम्-'पेरपेसणकरिसिदं पि सरीरमेदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्' इत्यादिसागरिको केरनन्तरं सुसंगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसंधिरुद्धाटितत्वाद्वीजार्थस्य॥ उद्धेदस्तस्येति। प्राप्तिरप्रा- प्तिरन्वेषणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिर्युक्तो गर्भसंधिः । प्राप्ति- संभवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात्। तथा हि रत्नावल्यां द्विती- १. 'पर प्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद मे बहुमदं संपन्नम्' इति च्छाया.

Page 423

३९८ काव्यमाला।

याड्डे सुसंगता-'सहि, अदक्खिण्णासि तुभम्। दाणीं जा एवं भट्टिणा हत्थेण गहिदा वि कोवं न मुश्चेसि' इति प्राप्तरूप उद्भेदः । ततोऽत्र 'सागरिका- (सभ्रूभज्जम् ।) सुसंगदे, इआणि पि न विरमसि' इति कुमारीभावसमुचितकृ- तकोपेनापि परिपूर्णरतिप्रकाशनादन्वेषणम्। ततो 'भो, एसा खु अवरा देवी वासवदत्ता' इति विदूषकोक्ते राजनि सचकितं सागरिकां मुश्चति सागरिकासुसं- गतयोश्व निष्कमाद्वासवदत्ताप्रवेशाच्चारभ्य तृतीयाक्के प्रवेशके 'साहु रे वसन्तय, साहु। अदिसइदो ते अमचजोअन्धराअणो इमाए संधिविग्गहचिन्ताए' इंति काश्वनमालयोक्तं यावदप्राप्तिस्ततोऽस्या: 'अज क्खु मए राअउलाओ पडिणी- व्वत्तन्तीए चित्तसालिआदुआरे वसन्तअस्स सुसंगदाए सह आलावो सुदो' इत आरभ्य 'हिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्द्दट्ट्ालापं कवयति कथामात्मविषयाम्। सखीषु स्मेरस्ते प्रकटयति वैलक्ष्यमिति मे प्रिया प्राये- णास्ते हृदयनिहितातङ्कविधुरम् ॥ तद्वार्तान्वेषणाय गतश्चिरयति वसन्तकः' इति वल्सराजोकि यावदन्वेषणम्। ततश्व 'ही ही कोसन्बीरज्लम्मेणावि ण तादिसो पिअवस्सस्स परिदोसो आसि, जादिसो मम सआासादो पियवयणं सुणिअ भवि- स्सदि।' इत्यादिविदूषकोक्तेन प्राप्तिरसोऽस्यां समागमसंकेतस्थानप्राप्तिं यावदन्वे- षणम्। ततः 'प्रिये, पश्य पश्य। उदयोर्वीभृत एष त्वद्वदनापहृतकान्तिसर्वखः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्नित्रानाथः ॥' इति राजोक्तिपर्यन्तं परिपूर्णा प्राप्तिः। ततः 'दर्पः स्यादमृतेन चेदिह तदप्यस्तेव बिम्बाधरे' इति वासवदत्तामु- खोद्धाटनादनन्तरम् 'राजा-कथं देवी वासवदत्ता। वयस्य, किमेतत्। विदू १. 'सखि, अदक्षिणासि त्वम्। इदानीं या एवं भत्र्या हस्तेन गृहीतापि कोप न मुञ्चसि' इति च्छाया. २. 'सुसंगते, इदानीमपि न विरमसि' इति च्छाया. ३ 'भो:, रषा खलु अपरा देवी वासवदत्ता' इति च्छाया. ४. साधु रे वसन्तकं, साधु। अतिशयितस्त्वयामात्ययौगन्धरायणोऽनया संधिविग्रहचिन्तया' इति च्छाया. ५. 'अध खलु मया राजकुलात्प्रतिनिबर्तमानया चित्रशालिकाद्वारे वसन्तकस्य सुसंगतया सह आलापः श्रुतः' इति च्छाया. ६. 'स्याधो नयति' कलिकातामुद्रितपुस्तके. ७. 'मधि- कम्' कलिकातामुद्रित पुस्तके. ८. 'आश्चर्यम् । कौशाम्बीराज्यलामेनापि न तादृशः प्रियवयस्यस्य परितोष आसीत, यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति' इति च्छाया.

Page 424

८ अध्याय: ] काव्यानुशासनम्। ३९९

'गर्भनिर्मिन्नबीजार्थो विलोभनकृतोऽपि वा। क्रोघव्यसनजो वापि स विमर्श: प्रकीर्तितः ।।'

षक :- अम्हाणं जीविदसंसओ' इत्यादिना अप्राप्तिः। अस्ां च 'दिठ्ठिआ इमिणा विरहदभट्टिणीवेसेण केण वि इमादो चित्तसालादो णिक्कमन्ती ण लक्खिदम्हि' इति सागरिकोत्त्या अन्वेषणम्। ततश्च सागरिकाया लतापाशे कृते 'केहं एसा देवी वासवदत्ता उब्बन्घिय अप्पाणअं वावादेदि' इति विदूषकोके राजनि च समुपेव्य कण्ठपाशमपनयति, सागरिकया 'अज्जउत्त, मुख् मुख। पराहीणो क्खु अअं जणो ण पुण मरिदुं ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाश दातुमि- च्छृति ।) राजा-(निर्वर्ण्य सहर्षम्।) कथं प्रिया मे सागरिका। अलमलम- तिमात्रं साहसेनामुना ते त्वरितमयि विमुख त्वं लतापाशमेनम्। चलितमपि निरोद्ध जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥' इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्यंशक्वात्रावश्यंभावी । अन्यथा हि संभाव- नात्मा प्राप्तिसंभवः कथं निश्चय एव हि स्यात् । विमर्शे त्वप्राप्तेरेव प्रधानाप्रा- ्यंशस्य च न्यूनतेति विशेषः । गर्भनिर्भिन्नति। बीजशब्देन बीजफलम्। अर्थशब्देन निवृत्तिरच्यते। तेन गर्भानिमिन्नं प्रदर्शितमुखं बहिनिःसरणोन्मुखं यद्वीजफलं तस्या योरऽर्थो निवृत्तिः पुनस्तत्रैव प्रवेश इव यत्र स विमर्शसंधिः। सइति। तच्छ्देन यत्रेत्याक्षिप्तम्। सा च निवृत्तिः क्रोधेन वा निमित्तेन लोमेन वा व्यसनेन वा शापादिना वा। अपिशब्दाद्विघ्ननिमित्तान्तराणां प्रति- पदमशक्यनिर्देशानां संग्रहः। तत्र कोधाद्यथा रत्नावल्यां तृतीयेऽक्के कोधोवे- शेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम्। तथा हि तत्र चतुर्थेऽक़े प्रवेशक: सागरिकाप्राप्तिसंदेहेन करुणरसात्मकः। अत्रैव सागरिकाप्राप्तिसंदेहं १. 'विकल्पन' भरतैकपुस्तके. १. 'अस्माकं जीवित संशयः' इति च्छाया. २. 'दिष्या अनेन विरच्चितभत्रिवेषेण केनापि अस्याश्चित्रशालिकाया निष्क्रामन्ती न लक्षितास्मि' इति च्छाया. ३. 'कथमेषा देवी वासवदता उद्वध्यात्मानं व्यापादयति' इति च्छाया. ४. 'आयपुत्र, मुख्च मुझ। पराधीनः खल्वयं जनः न पुनर्मर्तुमीदृशमवसरं प्राप्नोति' इति च्छाया. ५. 'कोबावेशेन' स्यात्.

Page 425

800 काव्यमाला।

'समानयनमर्थानां मुखाद्यानां सबीजिनाम्। नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ।।' इति।

मन्यमान आह-'राजा-अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरा- गघने विलीय। सदः पतन्मदनमार्गणरन्ध्रमारगर्मन्ये भम प्रियतमा हृदयं प्रवि- ष्टा॥ योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याग्रतो बाष्पमोक्षं करिष्ये।' पुनरत्रैव 'अप्पिअं दे ण पारेमि आचक्खिदुम्' इति विदू- षकोक्ते 'राजा-(समाश्वस्य ।) प्राणाः परित्यजत मां ननु सत्पथोऽयं हे दक्षिणा भवत मद्चनं कुरुध्वम्। शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदू- रमधुना गजगामिनी सा ।' इति राज्ः सागरिकाप्राप्तिनैराश्यरूपैव 'भो, मा अण्णहा संभावेहि। सा खु देवीए उज्जेणि पेसिदा। अदो मए अप्पिअं ति भणिदम्' इति विदूषकोत्त्या संदेहमानीता । तथा हि। तद्विसष्टां रत्नमालां हृदये विन्यस्य पुनराह-'अहह। कण्ठाश्लेषं समासाद तस्याः प्रभ्रष्टयानया। तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥' इतीन्द्रजालप्रयोगं यावद्विघ्ने वास- वदत्ताक्रोधो निमित्तम्'। एवं लोभादावुदाहार्यम् ॥ समानयनमर्थाना मिति। मुखाद्यानां चतुर्णा संधीनां येडर्थाः प्रारम्भयत्नप्रत्याशानियताप्तिल- क्षणास्तेषां सह बीजिभिवीजविकारैः करमेणावस्थाचतुष्टये भवद्भिरित्युद्धाटनोद्भे दलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखात्मकै रतिहासशोककोधादिभिर्भावैरु- तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयन्ति यस्मित्नर्थराशौ समा- नीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निबर्हणं फलयोगोऽवस्थया व्याप्तम्। तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायि भावबाहुल्यं धृतिहर्षंगवौंतसुक्य- मदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम्, दुःखहानेस्तु फलत्वं क्रोधशोक- भयजुगुप्सास्थायिभावबाहुल्यं आलस्यौध्यव्यभिचारिभावबाहुल्यं च द्रष्टव्यम्। र- लावल्यामैन्द्र जालिकप्रवेशात्प्रभृ त्यासमाप्नेरेषाभवस्थासंध्यादीनां नायकप्रतिनायक-

१. 'अप्रियं ते न पारयामि आख्यातुम्' इति च्छाया. २. 'रे' कलिकातामुद्रित- पुस्तके. ३. 'भोः, मान्यथा संभावय। सा खलु देव्योज्जयिनीं प्रेषिता। अतो मया प्रियमिति भणितम्' इति च्छाया.

Page 426

८ अध्याय: ] काव्यानुशासनम् । ४०१

शब्दवैचित्र्यं यथा-असंक्षिप्तग्रन्थत्वम, अविषमबन्धत्वभ्, अन- तिविस्तीर्णपरस्परनिबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तुनिर्देशोपकम-

रूपवदादिवाक्यत्वम्, दुष्करचित्रादिसर्गत्वम्, खाभिप्रायखनामेष्टनाम-

तद्माव्यतत्पारवारनायिकादिमुखेनापि नियोजनम्। न त्वेकमुखेनैवेति। असंक्षिप्तग्रन्थत्वमिति। अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदश- ड्विनां मनांस्यावर्जयति। अविषमबन्धत्वमिति। अनेन शब्दसंदर्भवेदिनां मनो मुदमादधाति। अनतिविस्तीर्णपरस्परनिबद्धसर्गादित्वमिति। अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति। सर्गादीनां परस्परमेकवाक्यतया महा- वाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति-आशीर्नमस्कारवस्तुनि- देशोपकमत्वमिति। तत्र आशीर्यथा हरविलासे-'ओमित्येकाक्षरं ब्रह्म श्रु- तीनां मुखमक्षरम्। प्रसीदतु सतां खान्तेष्वेकं त्रिपुरुषीमयम्।' नमस्कारो यथा रघुवंशे-'वागर्थाविव-' इत्यादि। वस्तुनिर्देशो यथा हयग्रीववधे-'आसीदैत्यो हयग्रीवः' इत्यादि। वक्तव्याथत्यादि। वक्तव्यार्थप्रतिज्ञानं यथा सेतुबन्घे- 'तं' तिअसबन्दिमोक्ख समत्तलोअस्स हिअअसल्लुद्धरणम्। सुणह अणुराहइण्हं सीयादुक्खक्खयं दसमुहस्स वहम् ॥' प्रयोजनोपन्यासो यथा-'पेरिवट्टइ वि- भ्राणं संभाविज्इ जसो विटप्पन्ति गुणा। अव्वइसुपरिसुचरिअं कित्तं जेण हरन्ति कव्वालावा ।I' कविप्रशंसा यथा रावणविजये-'सयलं चेव निबन्धं दोहिं पएहिं कलुसं पसण्णन्तविअं। जाणन्ति कईण कई सुद्ध सहोवेहिं लोअणेहिं व हिअ- अम् ।' सुजनदुर्जनस्वरूपं यथा हरविलासे-'इतस्ततो भषन्भूरि न पतेत्पि- शुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥' दुष्करचित्रादि- सर्गत्वमिति। आदिग्रहणेन यमकश्लेषादयो गृह्यन्ते । ते च किरातार्जुनी- यादौ दृश्यन्त एव । स्वाभिप्रायेत्यादि। तेष्वभिप्रायाङ्कता यथा-धैर्य-

१ 'तं त्रिद शबन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम्। शृणुतानुरागच्िह्नं सीतादुःखक्षयं दशमुखस्य वधम् ॥' [इति च्छाया]

।।' [इति च्छाया] 6. ।' [इति च्छाया] का० शा० २६

Page 427

१०२ काव्यमाला।

अर्थवैचिच्यं यथा-चतुर्वर्गफलोपायत्वम् 'चतुरोदात्तनायकत्वम्, रसाभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्रसंविधानकत्वम्, नगराश्रमशैलसैन्यावासार्णवादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमयचन्द्रोद- यादिवर्णनम्, नायकनायिकाकुमारवाहनादिवर्णनम्, मन्रदूतप्रयाणसंग्रा-

मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति। खनामाङ्कता यथा-राजशेखरस्य हरविलासे। इष्टनामाङ्कता यथा-लक्ष्म्यङ्कता किराते भारवेः, शयङ्कता शिशुपालवधे माघस्य। मङ्गलाङ्कता यथा-अभ्युदयः कृष्ण- चरिते, जय उषाहरणे, आनन्दः पश्चशिखशूद्रककथायाम्। इति । चतुर्वग- फलोपायत्वमिति। अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्यं ज्ञापयन् मुक्तकादिभ्यो मेदमाचष्टे। चतुरोदाच्तनायकत्वमिति। अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थका- ममोक्षेषु वैचक्षण्यम मिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति । रसभावनि- रन्तरत्वमिति। अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिप्रहे पृथ- उ्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदघद्रसेभ्यो भावाभावेभ्यो रसा रसेभ्यक्ष रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्थेवैकरसस्य प्रबन्धस्यापि वैरस्यमपाकरोति। विधिनिषेधव्युत्पादकत्वमिति। अनेन गुणवतो नायकस्योस्कर्षप्रकाशनेन दोषवतश्वोच्छेदप्रदर्शनेन जिगीषुणा गुणव- तैव भाव्यं न दोषवतेति व्युत्पादयति। सुसूत्रसंविधानकत्वमिति। अनेन प्रोक्लक्षणा: पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति। नगराश्रमेत्यादिना देशप्रशंसामुपदिशति। नगरवर्णनं यथा हरिविजय-रावणविजय-शिशुपालवध-कुमार संभवादौ। आश्रमवर्णनं यथा रघुवंश-किरातार्जुनीयादौ। शैलवर्णनं किरातार्जुनीयादौ। सैन्यावासवर्णनं माघे। अर्णववर्णनं सेतुबन्धादौ। ऋत्वित्यादिना कालावस्थावर्णनं लक्ष- यति। तत्र ऋतुवर्णने शरद्वसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजय-रघु वंश-हरिवंशादौ। रात्रिवर्णनं किरातार्जुनीय-कुमारसंभव-शिशुपालवध-हयग्री- ववधादौ। दिवसवर्णनं प्रभातपूर्वाह्रमध्याह्वापराह्नवर्णनानि शिशुपालवध-किरा- तार्जुनीयादौ। अर्कास्तसमयवर्णनं कुमारसंभव-हरिविजय-रावणविजय-सेतुब- न्घादौ। चन्द्रोदयवर्णनं कुमारसंभव-किरातार्जुनीय-शिशुपालवध-सेतुबन्धादा- विति। नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति। तत्र नायकवर्णनं

Page 428

८ अध्याय:] काव्यानुशासनम्। ४०३

माभ्युदयादिवर्णनम्, वनविहारजलकीडामधुपानमानापगमरतोत्सवादिव- र्णनम्, इति। हरिविजय-रावणविजय-जानकीहरण-रघुवंशादौ। नायिकावर्णनं कुवलयाश्वच- रित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ। कुमारवर्णनं रघुवंशादौ। वाह- नवर्णने हस्त्यश्षगरुत्मत्पुष्पकवर्णनानि हरिविजय-रावणविजयादौ । मन्नेत्या- दिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृन्महाकाव्यं भवतीत्यभिधत्ते। तत्र मन्त्रः पश्चाङ्गः प्रतिपादितः । स यथा-किरातार्जुनीय- शिशुपालवध-भट्टिकाव्य-हयग्रीववधादौ । दूतस्तिधा-निसृष्टार्थः, परिमितार्थः, शासनहरश्व। निसष्टार्थो यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वा सात्य- किः । परिमितार्थो यथा-रामायणेSमदः । शासनहरो यथा-कादम्बर्या केयूरक इति। प्रयाणं त्रिधा-खशत्तयपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र खशत्त्यपचये यथा-रघुवंशे। परव्यसने यथा-जरासंघव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे। अभिमतार्थसिद्धये यथा- विष्णोः पारिजातहरणाय हरिविजये, यथा वा-दिव्यास्रलाभायार्जुनस्य किरा- तार्जुनीये इति। संग्रामस्त्रिधा-समः, विषमः, समविषम इति। तत्र सम :- द्वन्द्वयुद्धे चतुरजयुद्धे च । द्वन्द्वयुद्धं यथा-रामरावणयोः। चतुरतयुद्धं कुरु- पाण्डवानाम् । विषमो यथा-रामस्य खरदूषणत्रिशिरोभिः सह 'चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । हतान्येकेन रामेण मानुषेण पदातिना ॥I' इति। समविषमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये रघुमघोनोर्वा रघुवंश इति। अभ्युदयस्त्रिधा-अरिविजयः, स्त्रीलाभः, पुत्रोत्पत्तिः । तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च । स पूर्वे। रावणवधादौ द्वितीयो हरिविज- यादौ। स्त्रीलाभो यथा-इन्दुमतीख्यंवरे। पुत्रलाभो दिलीपस्य रघुवंश इति। वनविहारेत्यादिना सोहीपनविभावस्य संभोगश्कारस्योपदेशात्। मन्त्रभूत- प्रयाणसंग्रामाभ्युदयादिभिस्तानर्थानधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुप- योग: कर्तव्य इति शिक्षयति। तत्र वनविहारो द्विधा-मृगयादिः, पुष्पावचया- दिश्व। तत्राद्यो यथा-दशरथस्य रघुवंशे। द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरांतार्जुनीय इति। जलक्ीडा द्विधा-एकस्य वा बहीभिः खयो- षाभिर्बहूनां वा बह्वीभिर्यथासमन्ननाभिः। तत्राद्या यथा-कार्तवीर्यस्य नर्मदा-

Page 429

काव्यमाला।

उभयवैचित्रयं यथा-रसानुरूपसंदर्भत्वम्, अर्थानुरूपच्छन्दस्त्वम्, समस्तलोकरञ्जकत्वम्, सदलंकारवाक्यत्वम्, देशकालपात्नचेष्टाकथान्त- रानुषञ्जनम्, मार्गद्वयानुवर्तनं च, इति।

प्ाम्, कुशस्य वा सरय्वाम् । द्वितीया यथा-अप्सरसां सिद्धसिन्धौ, यदूनां र्वतकहद इति। मधुपानं द्विधा-गोष्ठीगृहे, वासभवने च। तत्रादं हरिविजये शिशुपालवधे च। द्वितीयं किराताजुनीये कुमारसंभवे च॥ मानापगमो द्विधा- प्रायत्निकः, नैमित्तिकश्च।। प्रायत्निको हरिविजये सत्यभामायाः । नैमित्तिको रामान्तिकान्निशाचरीणां सेतुबन्धे। रतोत्सवोऽपि द्विधा-सामान्यतः, विशेषतश्। सामान्यतः किरातार्जुनीये शिशुपालवधे च। विशेषतः कुमारसंभवे जानकीहरणे च। रसानुरूपसंदर्भत्वमिति। अनेन रतिप्रकर्षे कोमलः, उत्सा- हप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकरषे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्द- संदर्भो विरचनीय इति उपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' इति ख्यापयति। अर्थानुरूपच्छन्दस्त्वमिति। अनेन शङ्गारे द्रुतविलम्बितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे स्नग्धरादयः, सर्वत्र शार्दूलवि- कीडितादयो निबन्धनीया इत्युपदिशति। समस्तलोकरञ्जकत्वमिति।अने- नालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रबन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यम- पाकरोति। सदलंकारवाक्यत्वमिति। अनेन यद्यप्युपात्तलक्षणानां गुणाना- मलंकाराणां च स्वरूपसांकर्येणैव काव्यशोभाकरत्वम् तथाप्यलंकारवन्नैवैनं भारं भूयसा उद्ोदुमलमित्येतदुपर्युपदेशेनोपपादयति। देशेत्यादिना परिपूर्वाङ्गSपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति। तत्र देशान्तरानुषज्ञनं यथा-'मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः। भवन्ति नोद्दाम- गिरां कवीनामुच्छायसौन्दर्यगुणा मृषोद्याः ॥' कालान्तरानुषञ्ञनं यथा-'सपदि हरिसखैर्वधूनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः । युगपदनुगुणस्य संनिधानं वियति वनें च यथायथं वितेने ।I' पात्रान्तरानुषज्ञनं यथा-'करिष्यसे यत्र सुदुष्क- राणि प्रसत्तये गोत्रभिदस्तपांसि। शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ।I' चेष्टान्तरानुषञ्ञनं यथा-'मदक्ष्युतः श्यामितगण्डलेखाः क्राम- न्तविक्रान्तनराधिरूढाः । सहिष्णवो वेह युधाममिज्ञा नागा नगोच्छायमिवा- क्षिपन्तः I' कथान्तरानुषजनं यथा-'कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिरा- द्भविष्यति। शणु येन स कर्मणागतः सुलभत्वं हरलोचनार्चिषाम् ॥' मार्गद्व-

Page 430

८ अध्याय:] काव्यानुशासनम्। ४०५

तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि। प्राकृतभाषानिषद्धा- श्वांसकबन्धं सेतुबन्धादि। अपम्रंशभाषानिबद्धसंधिबन्धमब्घिमंथनादि। ग्राम्यापभ्रंशभाषानिबद्धावस्कन्घकबन्धं भीमकाव्यादि। प्रायोग्रहणात्स- स्कृतभाषयाप्याश्वासंकबन्धो हरिप्रबन्धादौ न दुष्यति। प्रायोग्रहणादेव- रावणविजय हरिविजय-सेतुबन्घेष्वादितः समाप्तिपर्यन्तमेकमेव च्छन्दो भवंतीति। गलितकानि तु नत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते ! नायकख्यातस्ववृत्ताभाव्यर्थशंसिवकरादि: सोच्छासा संस्कृता गद्ययुक्ताख्यायिका। यानुवर्तनमिति। अनेन महाकवीनां समयमुपलक्षयति। तत्र 'गुणतः प्रागु- पन्यस्य नायकं तेन विद्विषाम्। निराकरणमित्येष मार्ग: प्रकृतिसुन्दरः ॥ वंश- वीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षकथनं च धिनाति नः ॥ इति। (अर्था: का) एतानि नगरवर्णनादीनि समुच्चयप्रयोज्यानि, उंत विकल्प- प्रयोज्यानि। समुच्चयप्रयोज्यानीति चेतू, किरातार्जुनीयादौ किरातार्णवार्कोदय- विवाह कुमाराभ्युदयादीनामभणनम् । अर्थाविकल्पेन यथेष्टकल्पनाया मलत्वप्र सङ्गः । तत्र अङ्गकलज(?)स्योभत्रापीष्टत्वात्। यदा कथाशरीरस्य परिपूर्णाङ्गसं- भवस्तदा समुचयेन। यदान्यथा तदा विकल्पेनेति। तत्रापि केर्षांचिदज्ञानां विकल्पोऽपरेषां नियमेन प्रयोगः। यानि पुरुषार्थस्यार्थकामादेरासन्नोपकारीण तानि नियमतः प्रयुज्यन्ते । यथा मन्त्रदूतप्रयाणादिनायकाभ्युदयादयः । यथा च शैलर्तूदानगमनजलक्रीडाचन्द्रोदयमधुपानरतोत्सवादयः । तानि च यदि कथाशरीरे न स्युस्तदा कथान्तरानुषज्नेनापि कर्तव्यानीति प्रच- क्षते॥ वृत्तमिति। वृत्तशब्दः सदाचार एव वर्तते। तदेव मनुराह-'न विद्यया केवलया तपसा वापि पात्रता। यस्य वृत्तमिमे चोमे तद्धि पात्रं प्रकीर्ति- तम् ।।' इति। तदाह-वक्रेति। वकरशन्देन वक्रप्रकरणं लक्ष्यते। तद्यथा- 'अनुष्टुभि नाश्वाश्चातुर्याद्यो वक्रम्' इत्यादि। नजज्ञा अपरवक्रम्। दृगोषष्ठो जोन्तो वा पूर्वेडषें परे षष्ठो लार्यागाथेत्येवं छन्दोनुशासनलक्षितानि। वक्रं यथा १. 'विनोति' स्यात्. २. प्रमादपतितं स्यातू.

Page 431

४०६ काव्यमाला।

धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्सयं खवगुणोपवर्णनं न संभवती- त्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयवृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादि वा व्याख्यायते, अना- गतार्थशंसीनि च वक्रापरवक्रार्यादीनि यत्र बध्यते, यत्र चावान्तरप्रकर- णसमाप्तावुच्छ्वासा बध्यन्ते, सा संस्कृतभाषानिबद्धा अपाद: पदसंतानो गदयं तेन युक्ता। युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्घेऽप्यदुष्टा आख्यायिका। यथा-हर्षचरितादि। धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा। आख्यायिकावन्न खचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः । तस्य तु वृत्तमन्येन कविना वा यत्र वर्ण्यते, सा च काचिद्द्यमयी। यथा-कादम्बरी। काचित्पद्यमयी। यथा-लीळावती। यावत्सर्व- भाषा काचित्संस्कृतेन काचित्प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित्पैशाच्या काचिदपत्रंशेन बध्यते सा कथा। प्रबन्घमध्ये परप्रबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदैको अ्रन्थिकः कथयति तद्गोविन्दवदाख्यानम्। तिरश्चामतिरश्रां वा चेष्टाभिर्यत्र कार्यमकार्य वा निश्चीयते तत्पश्च- तब्रादिवत् धूर्तविटकुट्टिनीमतमयूरमार्जारिकादिवच्च निदर्शनम्।

हर्षचरिते-'निजवर्षाहितस्रेहा बहुभक्तजनान्विता। सुकाला इव जायन्ते प्रजाः पुण्येन भूभृतः ।' अपरवक्रं यथा-'तरलयसि हशं किमुत्सुकामकलुष- मानसवासलालिते। अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्डजालयम् ।' आर्या यथा-'सकलमहीमृत्कम्पकृदुत्पद्यत एक एव नृपवंशे। विपुलेऽपि पृथुप्र- तिमो दन्त इव गणाधिपस्य मुखे ॥' उपाख्यानमिति। यदाह-'नवसावि- त्रीषोडशराजोपख्यानवत्प्रधावन्तः। अन्यप्रबोधनार्थ यदुपरूयानं ह्युपाख्यानम्।' आख्यानमिति। तथा चाह-'आख्यानकसंज्ञां तल्लभते यद्यभिनयन् पठन् गायन्। अ्रन्थिक एक: कथयति गोविन्दयदवहिते सदसि ॥' निदर्श- १. 'वद स्यात.

Page 432

८ अध्याय:] काव्यामुशासनम्। ४०७

प्रधानमधिकृत्य यत्र द्वयोर्विवाद: सोऽर्घप्राकृतरचिता चैटकादिव-

प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानञ्जवत्यादिवन्मतल्लिका। यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मतल्लिका। यस्यां पूर्व वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिव- न्मणिकुल्या। एक धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्रयेणानन्तवृत्तान्तवर्णनप्रधाना शूद्धकादिवत्परिकथा। मध्यादुपान्ततो वा अ्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सेन्दुम- त्यादिवत्खण्डकथा। समस्तफलान्तेतिवृत्तवर्णना समरादित्यवत्सकलकथा। एकतरचरिताश्रयेण प्रसिद्धकथान्तरोपनिबन्ध उपकथा नमिति। तथा च-'निश्चीयते तिरश्चामतिरश्षां वापि यत्र चेष्टाभिः। कार्य- मकार्य वा तननिदर्शनं पञ्चतैत्त्वादि ।। धूर्तविट कुट्टनीमतमयूरमार्जारिकादिकं लोके। कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ।।' प्रवह्निकेति। तथा च-'यत्र द्वयोर्विवादः प्रधानमधिकृत्य ज्ञायते सदसि। सार्धप्राकृतरचिता प्रवह्निका चेटकप्रभृति ।I' मन्थल्लिकेति। तथा च-'धुद्रकथा मैन्थल्ली प्रेतमहाराष्ट्रभाषया भवति । गोरोचनेव कार्या सानज्ञवतीव वार्कचेटीमि: ॥' सापीति । तथा च-'यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीमाम्। प्रारब्घानिर्वाहे सापि हि मैन्थलिका भवति ॥' मणिकुल्येति। तथा च- 'मणिकुल्यायां जलमिव च लक्ष्यते यत्र पूर्वतो वस्तु। पश्चात्प्रकाशते सा मणि- कुल्यामिवादिः ॥' परिकथेति। तथा च-'पर्यायेण बहूनां यत्र प्रतियोगिनों कथा: कुशलैः । श्रूयन्ते शूद्कवज्जिगीषुभिः परिकथा सा तु ।।' खण्डकथे- ति। तथा च-'ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः। मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ॥' सकलकथेति। चरितमित्यर्थः॥ उपकथेति। तथा च-'यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः। चरितं विचित्र- १. 'तत्रादि' मूले, २-३-४. 'मत' स्यात, ५. 'मत्स्यहसितादिः' मूलानुरोधात्,

Page 433

काव्यमाला।

लम्भाङ्विताद्भुतार्था नरवाहनदत्तादिचरितवद्हत्कथा। एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः । गद्यपद्यमयी साङ्का सोच्छासा चम्पूः। संस्कृताभ्यां गद्यपद्याभ्यां रचिता प्रायेण यान्यक्कनानि खनान्ना पर- नाम्ना वा कवि: करोति तैर्युक्ता उच्छ्ासनिबद्धा चम्पूः। यथा वासव- दत्ता दमयन्ता वा। अनिबद्धं मुक्तकादि। मुक्तक तंदानितक विशेषक-कलापक-कुलक-पर्याकोश-प्रभृत्यनिबद्धम् एषां लक्षणमाह-

एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकम्। यथा अमरुकस्य शृङ्गां- रशते रसस्यन्दिनो मुक्तकाः। द्वाभ्यां संदानितकम्। त्रिभिर्विशेषकम्। चतुर्मिः कलापकम्। एतानि च विशेषानभिधानात्सर्वभाषाभिर्भवन्ति। पञ्चादिभिश्रतुर्दशान्तैः कुलकम्। छन्दोभिरिति वर्तंते। मुक्तकानामेव प्रघट्टकोपनिबन्धः । अवान्तरवा- क्यसमाप्तावपि वसन्ताद्येकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः । पर्यासा कोशेषु प्रचुरं दृश्यते । खपरकृतसूक्तिसमुच्चयः कोशः । यथा सप्तशत- कादिः। एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादि: संघातः । विभ्रकीर्णवृत्तानामेकत्र संधानं यदुवंशदिलीपवंशादिवत्संहिता । एवमनन्तोSनिबद्धगण: स आदिग्रहणेन गृह्यते। इह च सत्संधित्वं शब्दा- र्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि द्रष्टव्यः ॥ इत्याचार्यश्री हेम चन्द्र विरचिताया मलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ता- वष्टमोऽध्यायः समाप्तः । मन्यत्सोपकथा चित्रलेखादिः ॥' बृहत्कथेति। तथा च-'लम्भाद्विताद्भतार्था पिशाचभाषामयी महाविषया। नरवाहनदत्तादेश्वरितमिव बृहत्कथा भवति ॥' इत्याचार्यश्रीहेमचन्द्रविरचिते विवेकेऽष्टमोऽव्यायः । समाप्तोऽयं ग्रन्थः।

Page 434

अकारादयनुक्रमेण सटीककाव्यानुशासनो- दाहरणानुकमणिका।

पृष्टाङ्का: पृष्टाङ्का:

अकलिततपस्ते ... १८२ अतिक्रान्तर्तु (टी.) ... .. ... १६१ अकुण्ठोत्कुण्ठ ... ... २४९ अतिथि नाम ... १८७

अखण्डमण्डल. (टी.) २७९ अतिनवधूरोष (टी.) ... १५८ अगस्त्यचुलुके (टी.) ... १५२ अत्ता इत्थनु .. ... ३६ अगा गां गाङ्ग ... २५९ अत्युच्चपदाध्यासः .. ३०४

अगूढसाहसस्फुट ... ३३६ अन्रान्तरे किमपि ... ३७१ अग्रादपि मध्या (टी.) ... २३७ अत्रान्तरे रणित (टी.) २३८ अघौघं नो नृसिंहस्य ... १३० अत्रावदात (टी.) ... १५७ अङ्काधिरोपित(टी.) ... ... १७ अत्रोपचारः (टी.) ... १५८ अज्गं चन्दन (टी.) ८ अथ जयाय नु ... ३३६ अज्गानि चन्दन (टी.) २३७ अथ पथि (टी.) ... १८ अङ्कुलीभिरिव केश ... ... १२२ अथ स ललित (टी.) ... ३९६ अचिराभामिव ... .. २९८ अदृश्यन्त पुरस्ेन ... ३४० अजित्वा सार्णवां ... ९३ अद्यैवावां रण (टी.) ... ... १९७ अज्ज विहरी चम ७५ अधरदलं ते ... ... ... २८० अज्ञानादयदि वा (टी.) २३६ अधरे बिन्दुः (टी.) ... .. अट्टहासच्छले (टी.) ... १५ अधिकरतल .. ... ... १७२ अण्णं लडहत्तणयं ३१८ अधिकृतभाषाचारं .. ... ३८८

अण्णत्थ वच्च ६५ अनङ्गः पश्चभिः 1 .. .. ११६ अतथ्यान्यपि (टी.) ... अनङ्गमङ्गलगृहा .. ... २०१

अतन्द्रचन्द्रा ... ... ५१ .. ... २४७

१. अस्यामनुक्रमणिकायां यत्र यत्र पङ्कौ '(टी.) पतच्चिहमुपलभ्यते, तदुदाहरर्ण टीकाणामन्वेषणीयम्. यत्र च पङ्कौ चिहं नास्ति, तदुदाहरणं मूले मृग्यम्.

Page 435

पृष्ठाङ्का: पृष्ठाङ्का: अनङ्लङ्कल (टी.) ... ... २६० अम्भोजगर्म (टी.) ... ४०० अनणुरणन्म (टी.) ... ... २२१ अयमहिमरुचिः (टी.) ... २४० अनध्यवसिता (टी.) अयमेकपदे ... ३१५ ... ६५ अनवरतनयण (टी.) ... २३७ अयं पद्मासनासीन: .. २९० अयं प्रसूनो (टी.) ... २०० अनाधिव्याधि .. ... ... १५९ अनुत्तमानुभावस्य ... ... २१९ अयं मार्तण्डः किं ... ... ३३७ अनुरागवती ... २७८ अयं स भुवन (टी.) ... १९ अनेकनर्तकीयोज्यं अयं स रसनोत्कर्षी ... ३९४ १२६-१४० अन्तर्व्याजं (टी.) ... ... १६२ अयि जीवितनाथ ... ... अन्न्प्रोतबृहत् अयि दीयर ... अन्बरैः कल्पित (टी.) ... २०२ ... १४२ अयि पश्यसि सौध ... ३१८ १७७ अन्यत्र यूयं ... .. ४४ अरण्ये निजने (टी.) ... ११ अन्यत्र व्रजतीति .. . ३६९ अरातिविक्रमा ... 1 .. २९३ अन्यदा भूषणं .. ३७८ अरुचिर्निशया विना (टी.) ... 1 .. ३५१ अन्ययान्यव ... ... .. ३३४ अरे रामाहस्ता ... २३१ अन्यास्ता गुणरत्न ... ... १७७ अर्थः स एव (टी.) ... १० अपड्किलतटावरः (टी.) ... १५७ अर्थित्वे प्रकटी २२२ अपाङ्गतरले दृशौ (टी.) ... ३१८ अलसलुलित ... ११२ अपि काचिच्छ्रुता ... .. २१ अलमलप्रतिमात्रं ... ... ३९९ अपूर्वमधुरामोद ... २२५ अलसवलितः ... १६३ अप्यवस्तुनि ... ... ... ४८ अलंका्र शङ्का २७१ अप्यसज्जन .. ३२४ अलंकृत जरा (टी.) ... .. २० अभिधाय तदा ... .. २२० अलं स्थित्वा इमशाने ... ... ६२ अभिनवकुश ... ... १६२ अलिकुलकुन्त ३०२ अमरसदनादि(टी.) ... ४ अलिनीलाल (टी.) ... २६० अमी ये दृश्यन्ते .. S ... ३०९ अलिभिरजन ... ...

... २९६ अमृतममृतं . अलिवलयैर ... १७० अमुं कनकवर्णाभं ... ६२ ... ...

... १७७ अलोलकमले ... ... २८०

Page 436

पृष्ठाङ्का:

अलौकिकमहा (टी.) ... ... २७९ आकाशगज्जा (टी.) ... १८६ अवन्तिनाथो (टी.) ... ... २११ आकाशयान (टी.) ... ... १४७ अवितथमनो (टी.) ... २८९ आक्षिपन्त्यरविन्दानि ३४९

अविरलकरवाल ... ... १२६ आख्यानकसंज्ञं (टी.) .. ४०६

अविरलकमल ... ३४७ आगच्छागच्छ (टी.) ... ... ११६ ... अवीनादौ (टी.) १० आगममणिसुद (टी.) ... ... २७६

असूच्यत रणत्कार: (टी.) ... १६१ आच्छिय कुसु (टी.) ... १०

असतामहितो (टी.) ... ... २५६ आज्ञा शकरशिखा ... २४

असंतोषा दिवाकृष्ट ... .. २९७ आज्ञासु जगन्मातः (टी.) ... २६९

असंशयं क्षत्रपरि १०५ आतन्वत्सरसां (टी.) ... 6

असावुदयमामूढः आत्तमात्तमधि (टी.) ... ... २७७ ... ७९

असिमात्रसहायोयं ... आत्मनश्च परेषां च ... ... ३३३ २७५

असूच्यत शरत्काल :... ... १६१ आत्मानुभूतशंसी ... ३८९

असोढा तत्काले (टी.) ... १२७ आदाय कर्ण ... ३३९

असौ मरुचुम्बति ... ... २१० आदाय चापमचलं(टी.) २७९

अस्त्युत्तरस्यां (टी.) ... ... १५४ आदाय वारि परितः ... ... ३१०

अस्म(ण्ण)त्थ .. ६५ आदावजनपुज ... .. १६३

अस्माकमद्य ... ९२-१९२ आदित्योऽयं स्थितो ... .. ६२

अस्मान्साधु ... ... १११ आनन्दमभन्दामिमं ... ३२५

अस्मिअ्हीहि (टी.) ... ३५३ आनन्दसंदोह (टी.) ... ... १२

अस्मिन्नेव लता १७ ... ८७ आपातमारत (टी.) ...

अहयं उज्जुअ १२८ आपृष्टास्मि व्यथ .. ... १२१

अहमेव गुरुः ... ... ३२२ आमूलयष्टेः (टी.) ... ... १५२

अहं त्वा यदि ... ३२१ आयस्ता कलहं ... ३६५ ... अहिणवमण ... ... १६९ आयाते दयिते ... ... ११०

अहो विशालं ... .. ३२६ आयुर्धृतं नदी पुण्यं ... ... ३४७

अहो संसारनैर्धृण्य ... ३०८ आरोग्यमाप्त (टी.) ... ... ७४

आकम्पितक्षि (टी.) ... १५२ आर्द्राविले न्रज (टी.) ... १४७

Page 437

8

पृष्ठाङ्का: पृष्ठाङ्का: आर्यस्यास्त्रघनौघ (टी.) इयं गेहे लक्ष्मीः ... ३६१ आलिख्य पत्र ... १३ इयं सा लोलाक्षी (टी.) १४२ आलितितस्तत्र .. १९९ ईदृशस्य भवतः (टी.) आलोकमाग ... २३५ १०८ ईषन्मीलित .. .. ... ३७५ आलोलामल ... ३७७ ई साकलुस्स (टी.) ... आवर्जिता किंचिदिव ... आवर्तशोभी (टी.) २९८ उच्चिणसु पडियं ३८ 1 .. ८ उत्कण्ठा परितापो. ... ३४१ आशुलम्बित ... ... १९६ उत्कम्पिनी ... आश्लिष्ट्भूमि ... ६३ ... ११४ उत्कृत्योत्कृत्य ... .. ९५ आश्लेषिता: ... .. १५८ उत्कृत्योत्कृत्य ... ... ११० आळ्ेषे प्रथमं .. १२० उत्खातनिर्मल (टी.) ... १५ आसाइयं अणा ... उत्तमाधममध्येषु ... ३७ ... १०७ आसीदन्ति भ (टी.) ... .. १४ उत्तानोच्छून ... ... १९४ आसीहैययो हय (टी.) ... 1 .. १७ उत्तालताडकोत्पात .... आसीदज्नमत्रेति (टी.) ३५६ ३५२ उत्तिष्ठन्त्या रतान्ते(टी.) २१०-३७७ आसीन्नाथपिता (टी.) ... ३३१ उत्पक्ष्मणोर्नयन ... १२० आस्तीकोऽस्ति (टी.) ... ... ... १४८ उत्पत्तिर्जमदग्नितः ३५८ आस्थानकुट्टिम (टी.) .. १५ आहतं कुचतटे (टी.) उत्पादक: क (टी.) .. १२ २३५ उत्फुल्लकमल ... ... १८१ आहूतस्याभिषेकाय ३५८ उत्सिक्तस्य तप: ... १०३ आहूतेषु विहंगमेषु ... १७१ उदयति विततोर्ध्व .... औत्सुक्येन कृतत्वरा ... ३०४-३२० ... १३३ उदान्वच्छिन्ना १७१ इतः स दैत्यः प्राप्तश्रीः ४८ उदाररचना (टी.) .. .. २४९ इतस्ततो भषन् (टी.) ४०१ उदितो रसादमय ३६२ इतो वसति केशव: ... ३१३ उदीच्यचण्डा (टी.) ... ... १५८ इदं ते केनोकं .. २२६ १३ इद भासां भर्तु: (टी.) उद्दण्डोदरपुण्ड(टी.) ... १५५ उद्दामोत्कलिकां .. .. २२ इन्द्रस्त्वं तव बाहू ... ... ३०१ उद्देशोऽयं ... ४३

Page 438

:ष्ठाड्का: पृष्ठाङ्का:

उद्धतपुरुषप्रायः ... ... ३८५ एकस्यामेव तनौ ... ३२३ उद्धृतैर्निभृत ... ... ६-३६३ एकं ज्योतिईशौ (टी.) ... १५४ उद्धि ही च सं (टी.) उद्भेदस्तस्य बीजस्य ... ६ एकं ध्याननिमीलनात् (टी.) ... १४२

... ३९७ एण्यःस्थलीषु (टी.) ... १६० उद्यता जयिनि ... ... १७४ एतत्सुन्दरि (टी.) .. १६ उदययौ दीर्घिका ... ... १९७ एतास्ता मल (टी.) ... ... १५ उद्यानानां मूक (टी.) १५८ एतां पश्य पुरः ... ... ३५६ उन्नतः प्रोल्लसद्वार: ... ५० एतेनाक्ष्णा प्रवि (टी.) ... १४२ उन्मज्जन्मकर ... १६४ एते लक्ष्मण ... ... उपपन्नं ननु शिवं (टी.) २१२ एते वयभमी दा (टी.) ... २३९ उपरि घनं घन ... .. ३०३ एते वयममी दारा: (टी.) ... ३५८ उपपरिसरं ... ... २२७ एद्दहमित्तत्थणिया. ... 1 .. ४८ उपशमफला (टी.) ... ५ एमे जाणातिस्स (टी.) ... १८० उपानयन्ती (टी.) ... १५७ एवमालि निगृहीत ... १०६ उपोढरागेण ... ... ३२८ एवंवादिनि देवर्षौ ... १०८ उप्पह जायाए (टी.) ३११ एष ब्रह्मा सरोजे (टी.) ... उभौ यदि व्यो ... २९६ एसो विण सच्च ... ३१९ उरसि निहितस्तारो ... ३६९ एहि गच्छ पतोत्तिष्ठ ... १३८ उर्वशी हाप्सरा: (टी.) एत्येहि वत्स (टी.) .. ६ ११६ उषःसु वधुरा (टी.) ... १५७ ऐरावणं स्पृशति .. ३०८ ऊरुद्वन्द्वं सरस (टी.) ११ औत्सुक्यगर्भा (टी.) ... ... .. ३१२ ऊरुदूयं कदल (टी.) ... ... ११ औत्सुक्येन कृ ... .. १३३ ऊर्ध्वाक्षिताप (टी.) ... ... २१६ कः कः कुत्र ..... ... १७५ ऋजुतां नयतः ... ३३० कण्ठस्य तस्यास्तनु ३०७ एकत्तो रुअइ (टी.) ... ... १४२ कण्ठाश्लेषं समासादय (टी.) ... ४०० एकत्रासनसंगतिः .. ३६५ कथमवनिप (टी.) ... ३४ एकस्त्रिधा वससि (टी.) ... ३५०. कदा नौ संगमो- ... .... ४८ ए्कस्मिऊशयने ...... ८३ कनककलश ..... ... 1. ... ९१

Page 439

पृष्ठाङ्का: पृष्ठाङ्का:

कपाटविस्तीर्ण ... ... २२४ कश्चित्कराभ्या ... ३५७ कपोले जानक्या (टी). .. १५५ कष्टा वेधव्यथा १७४ कपोले जानक्या (टी). .. ३५७ कस्त्वं भो: कथयामि (टी.) ... ३१० कपोलफलकावसया: .. २९७ कस्माद्धारतमिष्टं (टी.) १४८ कमनेकतमादा (टी.) ... २७४ कस्मिन्कर्मणि ... .. ... १९९ कमलदलैरधरैरिव ... २९६ कस्स व न होइ ... ४० कमलिनीमिलिनी (टी.) .. २५७ काङ्कन्पुलोमत (टी.) ... २६३ कमले इव लोचने ... १६४ काश्याः पूरो (टी.) ... .. १५५ करकिसलयं ... ... ३७६ कातर्य केवला ... २०८ करभाः शरभा: (टी.) १६० कान्ते तल्पमुपा ... ... ११३ करिष्यसे यत्र (टी.) ... ४०४ १५ करिहस्तेन संबाधे ... कामं भवन्तु (टी.) ... १९३ कामे कृतमदा (टी.) ... ... २७५ करुणरसप्रायकृतो .. ३८८ कायं खाइइ ... करेण ते रणे ... ... १७८ ... .. २५४ का विसमा दिव्वगई करोषि तास्त्व (टी.) ... ... ३३४ .. २६९ १५५ कर्कन्धूनां ना (टी.) ... काश्मीरीगात्र (टी.) ... १५८ काष्ठानिमेषो (टी.) ... .. १५५ ३४८ काहमस्मि गुहा (टी.) .. २७२ कर्कोट: कोटि (टी.) ... कर्णाभ्यर्ण (टी.) १४७ किं करोमि क्व .. ११५ ... ८ किं किं सिंहस्ततः .. ११५ कर्ता द्यूतच्छलानां (टी). किं गौरि मां ... ... २८१ कर्तुमक्षमया टी. ३५० २१३ किंचिद्वच्मि न ... २४९ कर्पूर इव दग्धोपि .. .. ३२५ किं ददातु किंमश्नातु ... ... ३२६ कर्पूरचूर्ण सह (टी.) ... १६० किं लोभेन वि (टी.) ... २१८ कर्पूरधूलिधवल (टी.) ... १४२ किं वृत्तान्तैः परगृह ... ... ३३१ कलिकलुष (टी.) ... .. ७ किमञ्जनेनायत (टी.) ... ... २१६ कलुषं च तवाहिते .. ३४४ किमपि किमिह (टी.) ... १२ कल्लोलवेल्लित ... ... २३० किमपि किमपि ... ... कश्चित्कराभ्या ... १०९ किमपेक्ष्य फलं ... ... १९७

Page 440

पृष्ठाङ्का: पृष्ठाङ्का:

किमीहः किंकायः (टी.) ८ कोपात्कोमल ... ... ... २५

किमुच्यतेऽस्य १९८ कोपान्मानिनि (टी.) ... ... ११

कियतापि यत्र (टी.) ... १० कोडयं द्वारि हरिः २८१

कियन्मान्नं जलं (टी.) १६६ कोराविऊण ... ... २२३

किसलयमिव ... १११ कोडलंकारः सतां ... ३४४

कीर्ति खर्गफलां(टी.) ... ४ कौटिल्यं कचनिचये ... ... ३४४

कुन्दे मन्दस्तमा (टी.) १६१ क्रीडन्ति प्रसरन्ति ... २८०

कुमुदकमलनील ३०७ कोधं प्रभो संहर (टी.) ... ... १४९

कुमुदवनमप (टी.) १२ ... ३२३

कुरभ्ीवाङ्गानि ... ४-२९९ क्वचिदम्रे प्रसरता .. ... २००

कुरु लालस भू ... २७३ क्व सूर्यप्रभवो वंशः ... ३०३

कुर्या हरस्यापि १६६ क्वाकार्य शशलक्ष्मणः ... .. ... १०४

कुवबालिया ए ... ३६२ क्षणं कामज्वर ... २८९

कुलममलिनं (टी.) ... ३४२ क्षणं स्थिता पक्ष्मसु ... .. २३५

कुललालिलाव (टी.) ... ... २७४ क्षिति खनन्तो (टी.) १५७

कुविन्दस्त्वं तावत् ... २०१ क्षितिविजित (टी.) ... ... २५५

कुसुमसौरभ ... ... ... ३४७ क्षितिस्थिति (टी.) ... .. २५५

कुसुमायुधपस्त्ि (टी.) ... .. ४०४ क्षिप्तो हस्तावलग्नः .. १३७

कृच्छेणोरुयुगं (टी.) १२५ क्षीणः क्षीणोऽपि (टी.) ३३२

कृतककुपितैः (टी.) २१३ क्षुद्रकथा मन्थल्ली (टी.) .. ४०७

कृतवानसि ... ... १८२ क्षुद्रः कोऽयं तपखी (टी.) ... २३६

कृतो दूरादेव ... ... ३७७ क्षेमः स्तोकोऽपि (टी.) १४

कृष्णार्जुनानुरक्तापि ... ३४९ खमिव जलं ... ... १८२

कृष्णेनाम्ब गतेन ... ५१ ... ९६ खं येऽभ्युज्जलयन्ति ... ...

केदार एव कलमा: (टी.) ... १५७ खं वस्ते कलवि (टी.) १६१

केनेमौ दुर्विदग्धेन ... १७१ खरेण खण्डिता ... ... ३५६

केली कन्दलितस्य 1 .. ८० खर्जूरजम्बू (टी.) १५९ ... कैलासगौरं (टी.) १६ खाद्यो द्यत्निर्विधु (टी.) ... २६२

Page 441

पृष्ठाङ्का: पृष्ठाङ्गा:

ख्यातिकल्पन (टी.) ... २६८ गोत्राग्रहारं (टी.) ... .. १५ गगनगमनलीला (टी.) १४ गोमायवः श (टी.) ... २३३ गङ्गातीरे हिमवति 1.0 ९७ गोरपि यद्वाहन ... ... २१९ गजादीनां गतिं ... ... ३९२ गोष्ठे यत्र विहरतः ... ... ३९४ गतोऽस्तमर्को ... ... ... २१ ग्रन्थान्तरप्रसि(टी.) .. ४०७ गजो नगः कुथा ... ... ३०२ ग्रीवाभङ्गाभिरामं .. ९४ गन्तव्यं यदि ना (टी.) ... ११ ग्रीष्मी चीरीना(टी.) ... १६० गर्भग्रन्थिषु (टी.) ... ... १६० ग्रैष्मिकसमय (टी.) ... .. १६१ गर्भनिर्भिन्नबीजार्थों ... गभ वलाकासु (टी.) ३९९ घनाघ नायं न (टी.) ... २५६ १५६ घोरघोरतरा (टी.) .. ७ गर्वमसंवाह्यमिमं ... ३२२ चकार काचित् ... ३७४ गाढालिङ्गणरह ... ६ १ चकास्ति वदन ... चकोरहषीं (टी.) २२७ गाढालिङ्ग नपीडित: ... १६८ ... १५६ गाढालिङ्गनपीडितो ... ३६६ चक्रं दहतारं ... २५२ गाम्भीर्यमहिमा ... गाहन्तां महिषा (टी.) २९० चक्रं रथो मगि(टी.) ... १५२ ... २४० चक्री चकारपङ्किं ... २२७ गिरिरयममरेमने (टी.) ... ३३५ ९२ गुणतः प्रागुपन्य (टी.) चतसृष्वपि (टी.) ... ४०४ १५४ गुणानामेव दौ ... ३०४ चतुःसमुद्रवेलय (टी.) १५२ गुणानुराग मिश्रे (टी.) ... .. १५ चतुरसखीजन .. २०१ गुरुगभभरकान्ताः १६१ चतुर्दशसहस्राणि ... ४०३ गुरुयणपरवस ... ४४ चन्दनासक्तभुजग (टी.) ५७ गुर्वर्थमर्थी श्रुत (टी.) ... २१३ चन्दम ऊ एहिं .. ३०५ गूवाकानां ना (टी.) ... १५९ चन्द्रं गता पद्म २२२ गृहाणि नाम ... ... ... ८३ चन्द्राद्वुध: समभवत् (टी.) ६ गृहीतं येनाशीः २२२ चमहियमाण (टी.) ... ६० गेहाजिरेषु (टी.) ... १५७ चम्पककलि ... .. २८० गेहे वाहीक (टी.) ... १६१ चरां वाल्ये डि (टी.) ... .. छा ४

Page 442

पृष्ठाङ्का: पृष्ठाङ्का:

चलचटुलचातक (टी.) .. १५६ जयाशा यत्र (टी.) ... ... २१४

चलति कर्थंचित् जलसमयजा (टी.) ... ... ... १0९ ... १६9

चलापाज्ां दष्टि २१ जस्स रणन्ते उरए .. ... ... ३०१

चापं पुष्पमयं (टी.) ... १७ जस्सु पर यस्य (टी.) ... २७६

चापाचार्यस्त्रिपुर १९५ जहि शत्रुकुलं ... ... २२१

चारुता वपुरभूष १८२ जं जं करेसि जं ... ... ३७३

चित्तमेव हिसं (टी.) जं भणह तं सहीओ ... ... २७६ ... ३४६

चित्रं चित्रं बत- .. ... ३४२ जायेज वणुहेशे (टी.) .. ५९

चिरकालपरि. २१९ जितानया यान (टी.) .. २६२

चुम्बलड्कावना (टी.) ... १५९ जितेन्द्रियत्वं ... १७२

चूअङ्कुरावयंसं ... ... ६० जीविताशा बलवती ... .. ३७

चूडाप्रोतेन्दुमा (टी.) २६३ जुगोपात्मान ... ... २०५

चैत्रे चित्रौ रक्त (टी.) ... १५९ चैत्रे मदर्धि: (टी.) ... जो तीए अहर ... ३३८

१५९ ज्योतीरसाश्मभवना ... ... १७५ च्युतसुमनसः (टी.) ... १६०-२३६ १४७ च्युतामिन्दोर्लेखां (टी.) जयोत्स्नापूरप्रसर (टी.) २३८ ज्योत्स्ना मौक्तिकदाम ३२१ छन्नानुरागगर्भा ... ... ३९२ छायामपास्य ... ... १९८ ज्योत्स्नां लिम्पति ... ... १७६

नगदेकगुरुयों (टी.) ... २५५ ज्योत्स्नेव नयनानन्द :... .. २९५

१९५ ज्वलतु गगने ... ... ३७७

जडचन्दनचार (टी.) १६० झगिति कनकचित्रे ... ... ६४

जनको जनको (टी.) ... दुण्ढिल्लिन्तु मरीहिसि ... २९१ ... २१२ जनस्थाने भ्रान्तं ... १२७ णह मुह प .. ४०

जम्बूद्वीप: सर्वमध्ये ... १५१ ोलेई अणो ... .. ४४

अयति क्षुण्ण ... ... १७२ ततः कुमुदनाथेन .. २८९

जयति सितवि (टी.) ... १२ ...

जयान्ति घवल (टी.) ... ततोऽरुणपरि २४७

१० तत्तावदेव शशि (टी.) ... ११ 1 .. जयन्ति नील (टी.) ... १० तत्रभवन्भगवन्निति ... ... १५०

जयन्ति वाणासु (टी.) ... १८ तत्रागारं धनपति ... १५५

नय मदनगज ... ... २५८ तत्त्वं वीतावतत ... ... २६७

का० शा० २७

Page 443

१०

पृष्ठाङ्का: पष्ठाङ्का: तत्संकेतगृहं (टी.) .. ३६९ तस्यास्तन्मुख ... तथाभूतां दृष्ट्रा ४३ तं कृपामृदुरवेक्ष्य ... ३२२ ... ... २०४ तथाभूते त (टी.) ... १४६ तं ताण सिरि ... तथाभूदस्माकं ... ... ... ५६ ... ३६५ तं तिअसवन्दि (टी.) ... ... ४०१ तथा हि दर्शने तं शंभुरासुरसु (टी.) ... ... ३७९ ... १८ तदाननं निर्जित (टी.) ... २३९ ताताजन्म वपु (टी.) ... २१४ तदिदमरण्यं य (टी.) ... ३५३ तापापहारच (टी.) ... तद्रेहं नतभित्ति १५ ... ... ६६ तापीनेयं नियत .. ... ५६ तद्वकं यदि मुद्रिता .. १८४ तामुत्तीर्य व्रज (टी.) ... १८ तद्व काभिमुखं ... .. १२१ ताम्बूलभृतगल्लोयं ... .. १८९ तद्दकेन्दुविलोकनेन (टी.) .. १४५ ताम्यत्याभज्ज (टी.) ... ... २४० तद्वेषोSसदृशो ... ... १८७ तनुलभा इव (टी.) तारे शरणमुच्यन्ती (टी.) २६७

.. १४ ताला जायन्ति ... १७१ तन्वजी यदि (टी.) ... ११ ताले: सिञ्द्वलय ... तपस्विमिर्या .. ... ६५

.. .. २०० तासां तु पश्चात् २९६ तमालश्यामलं .... २२१ तासां माधव (टी.) ... ... १५५ तमेनमवधीकृत्य (टी.) १५२ तिष्ठन्त्या जनसंकुले ... ... १८ तरज्य दशोग्गणें .. १४३ तिष्ठेत्कोपवशा .. १०२

तरन्तीवाङ्गानि तीक्ष्णं रविस्त (टी.) ... १५७ ... .. तरलयसि दशं (टी.) ... ३६३ ४०६ तीर्थान्तरेषु ... ... १९० तल्पकल्पनविधे ३६८ तीर्थे तदीये ... ...

... १७४ तव कुसुमशर ... .. .. १८२ तीर्थे तोयव्यतिकर ... ११८ तव नवनवनीत (टी.) ... १५५ तीव्राभिषङ्ग .. ११३ तव प्रसादात्कुसुमा ... .. २२४ तुह वल्लह्स्स ... ... ६१ तव शंतपत्रमृदु (टी.) १२६ ते काकुत्स्थपृषत्क (टी.) ... २३६ तवाननमिवाम्भोजं ... २९६ ते गच्छन्ति महा ... ... २७२

तवाहवे साहस ३०४ ते ताणह्यच्छाय (टी.) ... ११० वस्य च प्रवयसो ३३९ ते दृष्टिमांत्रपतिता ... .... १३० तस्याधिमात्रो ... ... ... १९१ तेनावरोधप्रम (टी.) ... १८६ तस्यारिजावं ... ... २५० वेऽन्यैर्वान्तं ... .... १९३

Page 444

११

पृष्ठाङ्का: पृष्ठाड्डा:

ते पाण्डवाः पशु (टी.) १० दातारो यदि .... ... २४४

ते हिमालय ... दानवाधिपते (टी.) ... ... १७९ ...

तोताणहयच्छाय ... ... १२० दानं वित्ताद्रसं ... . ३४५

त्रासाकुल: परि (टी.) ... ५८ दारुणरणे रणन्तं ... २४२

लकारवी निवसनं २०६ दासविटश्रेष्ठियुतं ... ३८३

लत्कटाक्षावली .. ... १२२ दिञ्ातङ्गघटा ... ... १७९

लत्संप्राप्तिविलोभिते (टी.) ... १४६ दिनमवसितं ... .. ३३१

लदाजया ज (टी.) ... ... २६८ दिवमप्युपयातानां ... ३२०

लदीयमुखमालोक्य ... ... १२२ दिवाकराद्रक्षति .. ... २०१

लदुद्ृतामयस्था. ... २७५ खद्विप्रयोगे किरणैः (टी.) दिव्यपुरुषाश्रय ... ३८४

१४ दिशः प्रसादयन् ... ... ३३२

लन्मुखं त्वन्मुखमिव २९६ दिशामली कालक .... ३२५

लमेव देव पा (टी.) ... १५१ ... १४

लमेवं सौन्दर्या (टी.) दीर्घींकुर्वन् (टी.) ... २३८ दुर्वारा: स्मरमार्गणा :... ... ३४२

लयि निबद्धरते: ... १६६ दूराकर्षणमोह 1 .. ... १२३

त्वं वादे शास्त्र (टी.) .. २६६ दूराकृष्टशिली ... ... १०

त्वं विनिर्जितम (टी.) ३५४ त्वं सद्गतिः सिता दूरादुत्सुकमागते 60

... २६६ त्वं समुद्रश् दुर्वारौ ... दूराइवीयो धरणी ३४८ ... १०

स्वं साज्ञासु ज.(टी.) ... दूरोइण्डतंडित् (टी.) ... ... २३३ २६९ दृढतरनिबद्धमुष्टेः १८%

दक्षिणो दक्षिण (टी.) .. १५४ ...

ददृटशाते जने (टी.) ... दशा दग्धं मनसिजं (टी.) .. १६v

... १३ दद्दशुर्द्वारदेश (टी.) ... २३९ दशा दग्घं मनसिजं ... २६४-३२६

ददी सरःपड्कज दृष्टा यूयं निर्जिता (टी.) .. १२१ १४६ ... दन्तक्षतानि ... दृष्टिर्नामृतवर्षि (टी.) ... ... १४५ 1 .. १४१ दर्पणे च परिभोग १०६ दृष्टिस्तृणीकृत ... ३५७

दलत्कन्दल ... १६९ दृष्टिः शैशवमण्डना ३६६ ... ... दलत्कुटज (टी.) ... ... १५६ दृष्टिः सालसतां

दशदिकूट (टी.) .. १५४ दृष्टिं हे प्रति• ... ३७२ ... ४२

दशरश्मिशतो २४८ दष्टे लोचनवत् ... ... १०३

Page 445

१२

पृष्ठाङ्का: पृष्ठाङ्का: टष्टा प्रयुज्यमाना १९६ द्वारोपान्तनिरन्तरे ... ० ..

... ८४ द्विगुरपि सद्व (टी.) ... ६

दे आ पसीय ... ३९ द्वित्रिमुचुकुन्द (टी.) ... ... ... १५७

देघीबूवेवीङ् ... द्वित्रैव्योम्रि (टी.) .... ... .. १०२ ... १५४

देयानश्चण्डघा (टी.) द्विषतां मूल ... ... २५१ ... २६४ देव खस्ति वयं द्वीपान्तराणां (टी.) ... १५४ .. देवा दैवीं नरा .. १८९ २ द्वीपान्यष्टादशात्र (टी) १५१

देवानां नन्दनो (टी.) देवानां मानसी (टी.) २६० द्वौ चज्रवर्णो (टी.) ... ... ... धनुर्मालामौर्वी (टी.) .. ३८० ... १९

देवासुरबी जकृतः ३८४ धन्यस्यानन्य ... ... २९० ... ... ...

देवार्चनरतः ... .. ९८ धम्मिल्लस्य न कस्य ... २०४ ... देवि त्वा ये गिर (टी.) ... २५५ धर्मार्थकाममोक्षाणं ... ...

देवीभाव गमिता ... ... ३०३ धवलोसि जइवि ... ३१७

देवीखीकृतमान (टी.) १४६ धातुः शिल्पातिशय ... ... ३४१ ... देवे वर्षत्यसन (टी.) ११६ धिन्नां किं समुपेत्य ... ... १६४ ... देव्या खप्रोद्रमा (टी.) धीरो विनीतो ... २६९ ... १७६

देश: सोऽयमरा (टी.) धूर्तविट कुद्टती (टी.) ... ..

... २१२ .. ४०७

देश: सोऽयमराति ... धूर्तविट संप्रयोज्यो . .. ३८९

दैवादहमद्य तया . ... २४३ धूलीकदम्ब (टी.) .. .. १६१ ७० दैवायत्ते हि (टी.) घेहि धर्मे धनधियं .. ३४४ ... १३ घर्यण विश्वास ... .. १७९ दोर्मन्दीरितम (टी.) ... ... १७ दोमूलावधि सूत्रित ... न केवलं भाति ० .. २८८

... ३६२ द्यामासौकयतां (टी.) नखदलित (टी.) ... ८

८ न खलु वयममुख्य .. .. ३६४ द्युवियद्गामिनी .6. २७१ न च दिव्यनायक: .. ३८७ द्योतितान्तप्रभैः (टी.) ... १३ न च मेऽवगच्छति ... ... ३६5 द्रविणमापदि ... दुमोद्भवानां (पी.) ... १७१ न तज्जलं यन्न ... ३१९

... १६२ न त्वाश्रयस्थि (टी.) ... ... ३३९ द्रोणाश्वत्थाम ... .. ... ३२३ नदीतूर्ण क (टी.) ... ... १६ द्वयं गतं संप्रति (टी.) ३४-१६६ नद्यो वहन्ति (टी.) ... ... १५७

Page 446

१३

पृष्ठाङ्का: पृष्ठाड्डा: न नोननुन्नो ... ... २५८ निग्रहात्खसुरा (टी.) २१२ नभ इव विमलं ... २९५ निघ्नन्नाभिमुखः ... २८७ न भवति भवति ... ... २४८ निजवर्षाहितस्नेहा (टी.) ... ४०६ न मया गोरसाभिज्ञं ... ... २७१ नितम्बगुर्वी गुरुणा ... २४७ नमस्त्रिभुवनाभोग (टी.) ... १५१ नितम्बो मन्दत्वं ... ... ३६३ नयनानन्ददायीन्दोः ... ... ३४९ निद्रानिमीलित ... ... १०७

नवजलधरः (टी.) ... ... . १६७ निरवधि च निर (टी.) नवनखपदमर्ङ्क निर्घातोग्रेः कुञज ... १५१

... .. ३६७ ... ... १८५ न विद्यया के (टी.) निर्घातोल्कापा .... ४०५ ... ... ३८६ नवीनविभ्रमोद्भ्ेद ... ३३३ निर्णेतुं शक्यमस्तीति ... ... ३४०

नवसावित्री (टी.) ... ... ४०६ निर्दव्यो ह्ियमेति निर्माल्य नयन ... ३४६

न स शब्दो (टी.) ... ... ... ... १२३

न स संकुचि (टी.) ... निर्वाणवैरदहना: ...

नानाकारेण का (टी.) २४५ निर्वाणवैरदहना: ... १९४ V ... २८५-३९६ .. ...

नानावासश्षित्र (टी.) .. १४ निर्विभुज्यदशन ३७४

नानाविभूतिभिः निवेदितं नि ... ३८० ... ४८ .. नानाव्याकुल चेष्ट ... ... ३८८ निशितासिरतो (टी.) निश्चीयते तिरक्षा (टी.) २६१

नानृषि: कविरि ... ४०७' .. ... ३७९ नान्तर्वर्तयति ... ... ... १२२ निःशेषच्युत ... ... .४२'

नामिवादप्र (टी.) ... निःश्वासा बदनं ... ३६८' ... १८३ नारीणामलसं (टी.) ... निष्कन्दामर ... ... ... ३१४ ... २५५ निहुयरमणम्मि ... ... १३४ नालस्य प्रसरो ... ... ३०९ .. १४ नालिद्वितः कुर (टी.) नीलाश्मरश्मि (टी.) ... ... १५९ नीलाश्मरश्मि (टी.) ... ... २० नाश्चर्य यदि (टी.) ... ... ११ नीलेन्दीवरशङ्कया- ३४१ नासतो वि (टी.) ... ७ नीविराग्रन्भ (टी.) .. नास्त्यचौरः कवि (टी.) १२ नृसिंहशूकरादीनां .... ... ३९२ नांष्टा त्वाष्टारि (टी.) ... .. २७३ नेत्रैरिवोत्पलैः ... ... ... २९० निअदइअदंसणु ... ... ३८ नेयं विरौति ... ... ... ३३८ निग्गण्डदुरारोहं ... ३४९ नोदात्तनायक ...

Page 447

१४

पृष्ठाङ्का: पृष्ठाङ्का: व्यकारो हयायमेव (टी.) ... २१६ पर्याप्तपुष्पस्तव १२० २६ पर्यायेण बहूनां (टी.) .. ४०७

न्यस्ताक्षरा (टी.) १५ पश्चात्पर्यस्य ... ... ... २२३ पड्डौ विशन्तु ... .. १२९ पश्चात्पर्येस्य ... ... ... ३१९ पच्यन्त इव (टी.) १६० पश्यामि तामित ... ११३ पणयकुवियाण ८७ पश्याम्यनञ्ञ ... ... १९९ पण्णवसि अब्ब (टी.) ... ३४० पश्येत्कश्चित (टी.) ... ... १२७

पतिते पतन्ज मृश १९७ पाणौ कड्कण ... ९०

पत्त नि अम्ब : ... १७५ पाण्डोर्नन्दन (टी.) ...

... १४७

पत्युः शिरशन्द्र ... ३७६ पातयाशु रथं ... ... ... २५१

पददयं कपा ... पातालमिव नाभिस्ते ... ... ... १५४ ... २०० पनसादि बहु (टी.) ... ... १६२ पातु वो भगवानू ... ... २५४

पन्थिय न एत्थ . ... ५० पादन्यासक्कणि (टी.) ... पानेऽम्भसो: सुर (टी.) ... १८ पयखिनीनां घे (टी.) २७३ ... १५८ ... पयोंधरभराक्ान्ते २७० पायाद्वश्रन्द्रधारी (टी.) ... २६४ ... पयोधरारवा: (टी.) ... ११९ ... २५५ पिअमुहससंक (टी.) ... ...

परमा या तपो (टी.) २६६ पितृवसतिमहं

परमा या समृ (टी.) २५५ पिनद्धमाहार (टी.) ... ... ... १९३ ... ... १५९

परवचनमात्मसंस्थे: ... ३८९ पिनाकिने नमः (टी.) २५५ ... पिहिते कारागारे (टी.) २५४ ... १९ परागतरुराजी ... पुत्रक्षयेन्धन ... .. ... ५४ परापकारनिरतैः ... ... १७८ परार्ये यः पीडा (टी.) पुननागरोध्रप्रसवा (टी.) ... १५७ ... ३०९ परिणतशरकाण्ड (टी.) पुराणि यस्यां सवराज्त .... २३६ ... ३१९ ... १५८ परिपन्थिमनोराज्य ... पुष्पक्रिया मरुबके (टी.) .... २९२ पुष्पं प्रवालो (टी.) ... ... १६ परिभ्रमन्मूर्षज (टी.) ... ... १६५ पुंसः कालातिपा (टी.) ... ११ परिवट्टड विज्ञा (टी.) ... .. ४०१ पुंस्कोकिल: कू (टी.) ... १५९ परिस्फुरन्मीन. ... ११४ पुंस्त्वादपि प्रविचलेत् .. ३११ परिहरति र्ति o .. १४२ पूर्णेन्दुकल्पवदना ... ... २९० पर्याणस्खलित ०: ३३० पृथुकार्तखरपात्रं ... ... २०२

Page 448

१५

पृष्ाङ्का: पृष्ठाक्का: पृथुशास्त्रकथा (टी.) ... ... ८ प्रागप्राप्तनिशुंभ ... १७६ पृथ्वि स्थिरीभव (टी.) ... १८१ प्राज्य प्रभाव :... २७६ पृष्टेषु शङ्कशकल (टी.) २३९ प्राणायामैर्दहेत् 100

... ... २६६ पेशलमपि खल (टी.) .. ३२३ प्राणा येन समर्पिता ... 1 .. ३१० पोढमहिलाण ... ३४५ प्राणा: परित्यजत (टी.) ... ४०० पौरस्त्यस्तोय (टी.) ... ... १५६ प्राणेश्वरपरिष्वञ्ञ ... .. २२५ पौलस्त्य: खय (टी.) ... २१३ प्राप्तश्रीरेष ... ४३ प्रकरणनाटक ... ... ३८३ प्राप्तावेकरथारूढौ (टी.) ... २१६ प्रख्यातवस्तु ... ... ३७९ प्राप्ता: श्रिय: स ... २२६ प्रख्यातवस्तु ... ३८५ प्रातृष्यम्भोभृ (टी.) ... ... .. १५६ प्रज्ञा नवनवो ... ३ प्रियङ्ुश्यामम (टी.) ... .. ० १३ प्रणमामिसुरा ... प्रियेण संभ्रथ्य ... ... २५५ ... १७३

प्रणगकुपितां ... २३५ ... ८७ प्रेक्षामृदङ्गनिनदा (टी.) ... प्रतिगृहसुपला (टी.) ... प्रेयान्सायमपा (टी.) ... १० ... २३९

प्रतिभ्रहीतुं प्रण प्रोन्मादयन्ती (टी.) ... ... ३४४ ... १५६ प्रतिभाति न संदेहो ... प्रौढच्छेदानु ... 1 .. ७० ... ... २४५

प्रतीच्छत्याशो कि (टी.) ... २३७ फुल्क्क रं ... ... ... १८९ प्रतीयमानं दुन (टी.) ३१ बभूव भस्मैव ... ... ... १८० ... प्रत्यभ्रमज्जन ... १८७ बलं जगध्वंसन ... ... ... २९७

प्रत्यग्रोन्मेष ... १११ बहलतया हअराइ ... ... ... ३६

प्रभावतोनाम ... ... ... २५२ बहवश्च तत्र ... ... ३८७ अ्रयत्नपरिबोधित: ... ... २३१ बहवोर्था विभाव्यन्ते ... ... ६७ प्रवण: प्रणयो २५१ बहुविधसिह ... प्रवर्तते कोकिल (टी.) ... १५३ बहर्थेष्वभियुक्त (टी.) ... प्रवादिमतमेदे (टी.) ... २६७ बालमृगलोचना ... ... ३२४ अ्रसरन्ति की (टी.) ... ९५ बालत््रीमूढ (टी.) २

प्रसादे वर्तख ... ... ... १३४ बाला कीडानियुद्धादि ... ३९२ प्रसाधितस्याथ ० .. २२४ बाले नाथ विमु् ... १७८ प्रसीद त्यालोके ... ... ३६१ बाले मालेयमुच्चै: ... २४२ प्रहसनमपि विज्ञेयं ... ... ३८८ बिभ्राण: शक्ति (टी.) ... ... २१.८

Page 449

१६

पृष्ाङ्ा: पृष्ठाङ्का: बीजस्योद्वाटनं .. ३९७ मभामि कौरवशतं मदं नवैश्वर्य (टी.) ... १३० ब्रह्मचर्योप तप्तो(टी.) ... ... २३७ ... ब्राह्मणातिक्रम .. ... ११० मदमन्थर(टी.) ... १२. ब्रूत नूतनकूष्माण्ड ... ३५८ भच्तिप्रह्वविलोकन मदश्युतः श्या (टी.) .. ४०४ ... २७३ भगवत्तापसविश्रै मदान्धमातङ्ग (टी.) ... ३५४ ... भगवति सहि (टी.) ... ... ३८८ मदो जनयंति प्रीतिं ... ... ३०६ ... ३९६ भज्न्भूर्जदुमा (टी.) ... १५८ मधु द्विरेफ: ... . ... १२१

भण तरुणि रम मधुसुरभिणि (टी.) ... ... ३०० .. ... २२१ भम धम्मिअ ... मध्ये जम्बूद्वी (टी.) ... भवतु विदितं (टी.) ... ... ३१ १५२ मनुष्यवृत्त्या ... ... ६६ ... भवत्संभावनोत्थाय ... ... ३२६ मनोऽधिकं चात्र ... १५९

भवानि ये निरंतरं २५१ मनोरोगस्तीवं .... ... ... १०७

भवानि शं विधेहि २५४ मन्थायस्तार्णवाम्भ :... २४४

भस्म वर्म फ (टी.) ... ... भस्मोडूलन (टी.) ... २३३ मन्दाकिनीसैकत ३७६ ३४६ मम दष्टस्य राजेन्द्र (टी.) ... २३९. भाति पतितो (टी.) ... ... ७० मरकतसदशं (टी.) ... ... १६ भासते प्रतिभा (टी.) ... ... २७० भूतियोजित ... मरुबकदमन (टी.) .... ... १६१ ... २६९ भूपतेरुपसर्पन्ती मल्िकामालभारिण्यः ... ... ३१८ 6.0 ... भूरिमिर्भरि (टी.) १९३ भहतां त्वं श्रि (टी.) ... ... २६८ ... २५५ भूरेणुदिग्धान्नव १३६ महर्धिनि कुले ... ... ... ३२४ .. ... भ्रभर द्रुमयुष्पाणि (टी.) महानवम्या (टी.) २५० ... १५७

भ्रमिमरतिमलस १२७ महाप्रलयमारुत 100 ... .. १९५

अूभजे सहसोद्गवे. ३७८ महासुरसमाजे (टी.) ... १८

मजीरादिषु. रणित. ... १९६ महिलासइस्स ... १२९ मणिकुल्यायां (टी.) ... ४०७ महुएहिं किंच ... ३७ मणिप्रदीपप्रभया महेश्वरे वा. (टी.) ... ... ७० c .. २३८ मण्डलीकृत्य (टी.) ... १६ मा गर्वमुद्दहद ....... .... १२१ मण्डलेन तुय ... ३९३ /मा गा: पाताल (टी.) ... १४७

Page 450

१७

पृष्ठाश: पृष्ठाड्का: मा गा: पान्थ (टी.) ... .. १० मुहन्मुहुर्मुहुरहं ... ... १६३ मातज्ञा: किमु ... २०२ मूर्धा जाम्बवतो ... ३५६ माता नतानां ... ... २६३ ... मात्सर्यमुत्सार्य ... २४२ ... ... २२३ मूलैक्यं यत्र (टी.) ... .. मादहिग्गज (टी.) ... ... २१७ मृगरूपं परि (टी.) ... ११६ आध्यन्मतञ्ः (टी.) ... ... १५८ मृगलोचनया ... ... ३५० माधवाय नम (टी.) ... ... २५५ मृदुपवनविभिन्नो १९२ मा धाक्षीन्मा (टी.) ... ... १६६ मृधे निदाघज्ञ ... .. २५५ मेघश्यामेन (टी.) .. २९१ माननापरुषं (टी.) ... ... १६ मानमस्या नि (टी.) ... ... ३४३ मेरूरुकेसर ... ... ... ३५० मा पन्थं रंधियो ... ... ६४ मैनाक: किमयं .. ... १०५ मा भवन्तम (टी.) ... ५८ य एते यज्वान: (टी.) ... मा भवन्तमनळः (टी.) ... १६६ गश्चेष्टया तव (टी.) ... ... २६७ मा मैः शशाङ्क(टी.) ... १६ यतो याति ततो (टी.) ... २६८ मामभीदा शरण्या (टी.) २६५ यत्कविरात्मशत्त्या ... ... ३८१ मायावित्तं महा (टी.) ... २६५ यत्कायमानेषु (टी.) ... ... १६० मायेन्द्रजालबहुलो ... ... ३८६ यत्कालागुरु (टी.) ५८ मारारिशक ... २६३ यत्पाणिर्न निवारितो ... ... ३६५ मालतीविमुख (टी.) ... १३ यत्प्राचि मासे (टी.) ... ... १६२ मालायमाना (टी.) ... १८ मासि मासि (टी.) यत्र द्रुमा विद्रुम (टी.) ... १५२

... १३ यत्र द्वयोर्विवाद: (टी.) ... ४०७ मोनध्वजस्त्व (टी.) ... .. १७ यत्र बीजसमुत्पतति :... ... ३९६ मुक्ता: केलिविसूत्र ... ३५२ यत्रानुल्लिखिता ... २३० मुकालताक्ष (टी.) ... १६० यत्रानेक: क्वचिदपि (टी.) ४९ ४०७ मुखं विकसितस्मितं यत्राश्रित्य कथा (टी.) ... १२८ यथा यथा पुष्पति (टी.) ... १५७ मुदे मुरारेरम (टी.) ... ... ४०४ यथा यथा समारंभी ... .. ३५७ मुमूर्षो: किं तका (टी.) ... १२ यथा यथा साप (टी.) .. २४०

Page 451

१८

पृषाङ्का: पृष्ठाक्का: यथायं दारुणा ... ... ... १९० या केलियात्रा (टी.) ... .. १५६ यदनार्षमथाहार्य ... ३८१ या चन्द्रिकाचन्द्र (टी.) .. १६० बदा त्वामहमद्राक्षं २०२ याते गोत्रविपर्यये .. १०३ प्रदादित्यगतं (टी.) ... ... २६६ याते द्वारवर्ती ... ... 1 .. ८८ मदिन्दोरन्नेति (टी.) ... ... १७ या दमानवमान .... .. २६४ यद्यपि चन्दन (टी.) ... .. १३ यादांसि हे चरत ... १५४ यद्यप्यनुपम (टी.) ... ... ३३३ या निशा सर्व ... ५२ यद्वञ्चनाहित ... १७१ यान्त्या मुहुर्वलित (टी.) D .. २१६ य द्वर्ज्याभिर्जगाहे (टी.) ... २३७ याम इव याति २९५ यद्वामाभिनिवे ८३ यावदर्थपदां वाचं ... ... ... १९७

यद्विश्रम्य विलो ... ८0 युधिष्ठिरक्रोध (टी.) ... ... १५५ मद्यायोगे कार्य येन ध्वस्तमनो (टी.) ... ... ... १७ .. ३८५ यननाटके मयोकं ३८२ येन ध्वस्तमनो ३९१ ... ... यशोऽधिगन्तुं ... ... येन स्थलीकृतो (टी.) ... .. १८० २११

.. ३९४ ये नाम केचिदिह ... २०९ यस्य न सविधे ये पूर्व यवसूचि (टी.) ... ... २४९ ... २३८ यम्य पक्षिम (टी.) ... ... १५४ ये यान्त्यभ्युदये .. ३०८ यस्य प्रकोपशिखिना .. येषां ताब्रिदशेन्द्र ... यस्याधोऽघः (टी.) ... ... २१० १८५

.. १७ येषां मध्ये म (टी.) ... १५८ यस्या बीजमहंकृति ... ... ३०१ ये संतोषसु (टी.) .. .. २३३ यसामुपहासः (टी.) ... ... ४०७ यैर्दष्टा सा न (टी.) ... ३०७ यस्यारातिनि (टी.) ... 500 १० यैः शान्तराग ... ... ८२ यस्यावमत्य गुरु (टी.) ... २१३ योगिगम्यं गुणा (टी.) ... २५५ यस्यावर्जयतो नितयं ... यसपाहुरति (टी.) .. ३३२ यो गोपीजनवळ् (टी.) ... २७८ ... २३४ यो बलौ व्याप्तभू ... ... ३३९ यसयोत्तमां (टी.) ... १५२ यो माधवीमुकु (टी.) ... १५९ यः खर्व कषति (टी.) ... ... २१५ यो यः शख्त्रं (टी.) ... योऽविकल्पमिद् .. २४६ य: स्थलीकृत (टी.) ... ... २११ .... २१७

Page 452

१९

पृष्ठाङ्ड: पृष्ठाड्डा:

योषितामतितरां लम्भाड़डिता (टी.) ... ... १६४ ... . ४०८

रइकेलिहिक्षनि ६७ लयान्तरप्रयोगेण ... .. ३९४

रकस्त्वं नवपल्लवे ललना: सरोरुहिण्यः ... ... ... २४ ०. ३०२

रक्ताशोककशोदरी ललितमनमपान् (टी.) ... ... २०३ .. २३५ रघुर्मशं वक्षसि ... ३२७ लाक्षागृहानल .... ... ११४

रङ्गत्तरङ्भ्रूभजे (टी.) ... ... १८ लाक्षालक्ष्म ... ... ३६१

रतिक्रीडायूदे ... ... ३७४ लावणो रसमय: (टी.) .... ५५१

रतिः शज्गारतां याता ... ६८ लावण्यकान्ति (टी.) ... ... .. १२४

रथस्थमालोक्य. ३३४ लावण्यद्रविण (टी.) ... ३१३ ... रम्याणि वीक्ष्य (टी.) ... लिखन्नाखे भूर्मि. . ... ७५ ६५

रविसंकरान्तसौभाग्य .. ५२ लिम्पतीव तमो ३४८ ... रागस्यास्पदं (टी.) ... ... १३६ लीलातामरसा ... ... १९२

रागोपचारयु ... ३८३ लीलादाढ (टी.) ... ... ६२

राजीवमिव ते ... लीलावधूत .... ... २९१ २२

राजोपचारयुक्ता ३८३ लीलाविलाय (टी.) ... २३५ ... ... राज्ञो मानधनस्य (टी.) २११ लेख्यया विम (टी.) .... १६ ... ...

राज्ये सारं वघु लोकोत्तराणि (टी.) ... ... ३४५ ... १२४

रात्रिर्विचित्र (टी.) ... १५८ वका हर्षभया. २२६

राम इद दशरथोडभूत ३०६ चकाम्भोजे. ... २३०

राममन्मथशरेण .. ... १४१ वक्ष्याम्यतः परं .. ३८७

रुदता कुत एव (टी.) वच्च महं विय .... ... १८१ ... .. ३९

रुधिरविसर .. .. ५० वज्रेणान्तर्जु २३३ ... ...

रुणद्धि रोदसी (टी.) ... ... १५१ वत्सस्याभयवारिधे ... ... ११६

रेणुरक्तविलि (टी.) ... २१४ वदनस्य तवेणाक्षि ... २३९ ... रोड्दीतकाम्रात (टी) ... ... १५९ वदनं वरवर्णिन्या .. २४८

लकुचादन्त (टी.) ... १६२ वधू: श्वश्रूस्थाने ... ... १४६

कभं रागावृताक्ञ्या ... १७३ वनानि नीली (टी.) ... १५६

लम्पाकीना (टी.) ... १५८ वन्धा विश्वस (टी.) ... १७

Page 453

२०

पृष्ठाङ्का: बपुःआ्रदुर्भावात्. (टी.) पृष्ठाङ्का: ... ३४६ विकसित (टी.) ... १४७ बपुर्विरूपाक्ष ... ... ... २०४ विकासकारी (टी.) ... ... वयं भ्रूभ ज्ञासते ... १५९ .. ३९५ विचकिलकेशर (टी.) ... १६२ वयमिह परितुष्टा .. १०४ विदलितसकला ... .. ३४३ वरं कृतध्वस्त ... ... .. १८२ विद्वान्दारसख (टी.) ... ... २११ दराहवध्राणि ... ... .. १५७ विनेयानुन्मुखीकतु .. १३५ वल्मीकः किमुतो .. १२४ विन्ध्यक्ष पारियात्रश्च (टी.) ... बसन्ते शीत (टी.) १५२ १६ विपदोऽभिभव .. ... १८१ वस्नायन्ते नदीनां. .. १४८ वियुलेन सागर .. ३२६ बहळतमा ... ... .. ३६ विप्रवणिक्सचि वाक्प्रपचवैकसा रेण .. ३८२ .. १८७ विभजन्ते न ये ... १९८ वागजसलाभि विमानपर्यड्ट .. .. ६७ बागर्थाविव (टी.) ... १३६ .. ... १२ विमुक्तबर्हा (टी) .. ... १५८ वाच्या वैचित्र्य २०५ वियति विसपति .. १९७ वाणियय .. .. .. ४६ विलसदमरनारी ... ... ३३८ बाणियय ... .. ३४५ विलासभूमि (टी.), .. ... १५२ वाणीभूतप्रतनु १२१ विवरीतुं क्वचित् ... माणीरकुडडुड्डी ... १२५ विवरीयरए (टी.) ... ३४ वाणीव विमलं .. १८६ विविच्य वाधाः (टी.) ... .. २४० वाण्यर्थाविव (टी.) .. ... १२ विविधधव (टी.) २५० वाताहारतया ... २३ विशृद्धात्मा (टी.) .. ७० वात्याचकरक (टी.) ... १६० विषयस्य यत्र (टी.) ... बापीव विमलं व्योम ... .. १८६ विषं निजगले ... .. २७६ वामेक्षणे स्फुरति (टी.) ... ३३५ विष्कम्भकप्रवेशक ३९० वारणागगभीरा ... ... २६० वीराण रमइ ... ५७ वाराहवध्राणि (टी.) ... ... १५७ वृथा दुरधोऽनद्वान् .. ११५ विअ्संतरअक्ख (टी.) ... ३१२ वृद्धास्ते न विचा, ११७ विकसद्जः कर्बुर (टी.) ... ३१३ वेणीभूतप्र १२९

Page 454

२१।

पृष्ठाङ्का: पृष्ाङ्का: वेदापन्ने सशु (टी.) ... ... २६१ शीर्णघ्राणाङ्गि ... वेश्याचेटनपुं. ३८८ शीर्णपर्णाम्यु .. २०३

... ... .. .. ३३३ व्यपोहितं लोचनतो ... ... ३७६ शून्यं वासगृहं ... .. १९ व्यथ यत्र कपीन्द्र ... 1 .. १०६ शूरास्तु वीररौद्रेषु .. ... ३९१ व्यायामस्तु ... ... ... ३८६ शूलं शलन्तु शं ... .. २७९ व्यालवन्तो (टी.) .. ... ३३५ शृज्जारहास्य वर्ज ... ३८६ च्यूतसुमनसः (टी.) ... ... १६० शृभ्ारी गिरिजानने ... ... १३२ व्योम तारतर (टी.) ... ... १५७ शुभ्गोत्खातभुवः (टी.) ... २३६ मजतः क तात .. ... १८४ शेतां हरिर्भवतु (टी.) .. १८ शच्तिरनिख्िंश ... ... १७३ शैलात्मजापि ... ... ... ८६ शङ्कद्रावित (टी.) ... १४ शैलेन्द्र प्रतिपाद ... ... ३३७ श त्रुच्छेद दढे च्छस्य ... ... ३१६ शैशवेऽ्भ्यस्त (टी.) ... ... २१४ शनिरशनिश्च ... ... ... ५० शोकेन कृतस्तथा ... .. ७० शब्दप्राधान्य ... ... ... ५ शोभान्धौ गन्ध (टी.) शब्दार्थोक्तिषु (टी.) ... ... १२ श्यामां श्यामलि ... १६२

... २३१ शंभो केयं स्थिता (टी.) .. २४० श्यामाख्ज्ञं चकित ... ... २५ शध्या शाहल ... ... ... २०६ श्यामां स्मिता (टी.) ... २० शरदिन्दुसुन्दर ... २९१ श्यामेष्वप्ञेषु (टी.) ... ... १५५ शरद्भवानामनु (टी.) ... १६१ श्रियः पतिः श्रीमति (टी.) ... १४७ शरीरमात्र (टी.) ... ... ७ श्रीपरिचयाज्जडा ... ... १२८ शशिवदना .... ... ... ३५० श्रुतिसमधिक ... ... ... २२८ शसी दिवसधूसरो (टी.) ... ३४२ श्रुतेन बुद्धिर्व्य ... .. २२६ शाखास्मेरं (टी.) .. १५५ श्वासा बाषपजल ... ... ३६७ शिखरिणि क्व (टी.) ... ... ५५ बोडशनायक ... ... ... ३८६ शिज्ानमजु ... ... २४१ स एकस्त्रीणि जयति ... ३२४ शिरामुखैः स्यन्दत ३५८ स एष भुवनत्रय ... ... २४८ शिरीषादपि ... ... ३२५ सकलमहीभृत् (टी.) ... ... ४०६ शीतांशोरमृत ... ... २२९ स किलेन्द्रप्रयु (टी.) ... ... २३८

Page 455

२२

पृष्ठाङ्का: पृछाङ्का:

स खज्जरीटा (टी) १५७ समुत्थिते धनुर्ष्वनौ ... १३५ सख्या: समक्षं ... ३८२ सम्यग्ज्ञातमहा, ... १९० सग्गं अप्परियायं, ... ३०९ सयलं चेवणि (टी.) ... ... .. ४०१ स गतः क्षिति ... ... ११८ स यस्य दशकन्ध .. २८५ संचारिणी दीप १२० स रणे सरणेन, .. २५६ स च्छिन्नबन्ध (टी.) ... ११६ सरले साहसरागं ... ... २७९ सज्जेइ सुरहि (टी.) ... ... ५५ सरस्वति पदं ... ... ... २५३ सततमनजो (टी.) ... १६६ सरखति यथा ... २५४ स तत्वदर्शनादेव ... ... ३७९ सरखत्यास्तत्त्वं (टी.) ... ३ सत्यं त्वमेव सरलो ... ... ३२३ सरांसीवामलं ... ... ... १८६ सत्यं मनोरमा: .. १३५ सरोजपत्रे परि ... ... ३३६ सत्वं सम्यक्स सर्वकार्यशरीरेषु ... ... २८६ ... .. १९० स त्वारं भरतो .. ... २५३ सर्वत्र ज्वलितेषु (टी.) १४५ सत्वारम्भरतो ... २५३ सर्वप्राणप्रगुण (टी.) ... ... २४० सदक्षिणापाज् ... ३३० सर्वः सलक्षणा सर्वाशारुधि द ... .. ३९० सदाप्रोति पति (टी.) ... ... २६६ .. २४७ सदा मध्ये यासा ... ... २२० स वक्तुमखिला ... ६१ सदाव्याजवशा (टी.) ... ... २६६ सविता विधवति .. ... २९४ संध्यां यत्प्रणि ... ८८ सव्रीडा दयितानने ... १३३ सपदि पङ्किविहंगम ... १९९ १५८ सपदि हरिसखै (टी.) सशमीधान्य (टी.) ... ... .. ४०४ ... १५६ स पातु वो यस (टी.) सशललकीशात्म (टी) ... ... १२६ सशोणितैः क्रव्य ... १३६ स पातु वो यस्य (टी.) ... १४८ स संचरिष्णुर्भु (टी.) ... ७ सभायां तादश्यां (टी.) २६ स सत्वरतिदे नि (टी.) २६२

सभ्रूभञ्ं करकिसलय ... .. ३७५ ससार साकं (टी.) .... ... २५६

समदमतब्ज ....... ... ३२४ सस्नः पयः पपु: ... ... १८० समस्तगुणसंपद: (टी.) ... १२६ .. १६० समानयनमर्थानां सहकाररसार्चि (टी.) ... ... ४०० सह दिअसनिसा (टी.) .. ३२८

Page 456

२३

पृष्ठाक्का: पृष्ठाक्क: सह दीर्घा मर ... ३२७ सांयात्रिकेर (टी.) ... 1 .. १६ सहस्राक्षर ... ... सिहिपिच्छकण्ण (टी.) ... २१९ ... ५४ सत्याद्रेरुत्तरे (टी.) ... १५५ सिणियं वच्च ... ... ... ३८ सहंसा नलिनी सितनृशिरःस्रजा ... ... २७० ... २७० संकेतकालमनसं ... ३४० सिता संसत्सु ... .. ... २६८ ... संक्षिपता (टी.) सिद्धार्थयष्टिषु (टी.) ... ... १५ १५८ संचारिणी दीप ... १२० सीतां ददाह ... ... ... ३२४

संप्रहारे प्रहरणैः सीतासमागमो (टी.) १२ ... १३२ ...

संप्ाप्तेSवधिवासरे ... ११८ सुधाबद्धग्रासै ... ... ... ३१७

संयतं याचमानेन .. २५२ सुब्बई समा ... .. ४४

संरम्भ: करिकीट २०७ सुमातरक्षया (टी.) ... ... २६८

संवादिसारसंप (टी.) ... ... २७५ सुरदेशस्य ते (टी.) ... ... २६७

संसर्गो विप्रयोगश्च ... ४६ सुरालयोल्लास ... १९९ .. संस्तम्भिनी (टी.) ... सुरासुरशिरो (टी.) ... ... २५५ ... १५१ संहयवक्काय ... ५४ ... १६८ सुवर्णपुष्पां पृथिवी 1 .. ... साकं कुरनसदया (टी.) सूर्याचन्द्रमसौ (टी.) ... ... १२६ ... २१२

सा तत्र चामी (टी.) ... १५२ सूरयीयति सुधा ... २९२

सा दयितस्य (टी.) ... २१५ सृजति च जगदिद ... ... ३२३

साधनं सुमहद्यस्य ... सेना लीलाली (टी.) ... २६२ ... १९२ ..

७० साधु चन्द्रमसि सेयं ममाज्ञेषु ... .. ... २०८ सो नत्थि एत्थ ३४८ सानुज्मागमिष्यन् ... ३४० सोऽपूर्वो रसना (टी.) ... ३१२ सा बाला वय .. ... ३२५ सा भाति पुष्पाणि (टी.) सोऽयं करैस्त (टी.) ... १६० ... १५७ सोह ब्ब लक्खण ... ... २९५ साम्यं सप्रति (टी.) ... ... १६१ सौधादुद्विजते (टी.) ... ... २१८ सा रक्षतादपारा ... ... २५२ सौन्दर्यस्य तरज्ञिणी ... ... ३०१ सालोए चिय सूरे ... ३६७ स्तनकर्परपृष्ठस्था १९ सावशेषपद ... ... ... १०७ स्तनजघनाभिराम ... २७१ साहेन्ती सहि ४५ स्तनयुगमश्रुस्नातं (टी.) ... २१६

Page 457

२१

पृष्ाङ्का: पृष्टाङ्का: स्तेनतास्तेनता.(टी.) ... २५६ हंस प्रयच्छ .... ... .. ११२ स्तुम: कं वामाक्षि ... १२३ हंसाण सरोहिं ... ३०६ ्नियः प्रकृति (टी.) ... १५९ हंसो ध्वाकविराबी ... ... १९२ खीर्षा केतक (टी.) ... १३९ हंहो स्न्निग्ध सखे (टी.) ११

स्त्रीप्राया चतुरड्का .. ... ... ३८३ हन्तहन्तररातीनां (टी.) ... २५० स्त्रीमेदनापहरणा ३८५ हन्तुमेव प्रतृत्तस्य ... २२१ स्थूलावश्याय (टी.) ... ... १६१ हकयो रुष: क्ष(टी.) ... .. २६९ स्नग्धश्यामल ... ... १५१ स्रिहिपिच्छ कण्ण ... ५३ हरहासहरावास (टी.) ... ३७४ हरें: कुमारोऽपि (टी.) ... २३८ सेहं समादिशति (टी.) .... २१७ हरे: खसारं दे (टी.) २६६ स्पन्दते दक्षिणं (टी.) w ०. ३ ३५ हर्म्य रम्यं (टी.) ... १६०

स्पृशति तिग्मरु ... १७० हलमगु वल (टी.) ... ... १५१

स्फटिकाकृति ... १६८ हा धिक्सा किल १९४ र्फुरदद्भुतरूप ... ३४३ हा नृप हा बुध ... ... १७७ स्फूर्जद्वज्रसहस ३५६ हास्य प्रायं प्रेरणं .. ३९३ स्मरदवथुनिमित्तं .. ३७५ हिअअट्ठिअ (टी.) 1 .. ५७

स्मरनवनदी ... ... ८५ हिमवद्विन्व्ययोः (टी.) ... १५४ स्मितं किंचित् ... ... ३७२ हिरण्मयी सा ... २९८

स्मृत्वा यत्निजवार (टी.) १४६ हिरण्यकश्िपु (टी.) ... ...

सस्तस्ग्दाम ... २१ हुमिअवह (टी.) ... ... ६२

सनस्तां नितम्बा .. ... २०४ हृदये चक्षुषि वाचि ... ३२० स्रोतस्यम्भांसि (दी.) ... १५९ हृदये वससीति 100 ... ८५

खश्चितपक्ष्म ...... खपिति यावदयं २५ हे नागराज (टी.) .. १७

... २२१ हे लङ्केश्वर दीयतां ... ... १८३

स्वयं च पल्लवा ... २७७ हेलापि कस्य (टी.) ... ५९ .. ... सास्थ्यं प्रतिभा (टी.) १३ हे हस्तदक्षिण (टी.) ... २११ खिद्यति कूणाते ... ... ३०७ हे हेलाजित (टी) ... ... ... ३४

स्वेदांम्भ:कणिका ... ३६३ होई न गुणाणु ... ... ३०३ हंस प्रयच्छ (टी.) ... ७ हिया सर्वस्या (टी.) ... ... ३९८