1. Kavya Anuasana Vagbhatta Pandit Sivadatta Kasinath Pandurang Parab Nirnaya Sagar Press KM 43
Page 1
Vagbhatta Kavyanuśasanam
Pk 2916 V3 1915
Page 3
-43 काव्यमाला ४३.
श्रीमद्दाग्भटविरचितं।
काव्यानुशासनम् ।
तनैव कविना विनिमितया व्याख्यया समलंकृतम्।
मूल्यं ७ आणकाः ।
Page 7
KÂVYAMÂLÂ. 43.
THE
KÂVYÂNUS'ÂSANA
OF
VÂGBHATTA
WITH HIS OWN GLOSS.
EDITED BY
PANDIT S'IVADATTA
Head Professor and Superintendent, Sanskrit Department, Oriental College, Lahore,
AND KÂS'ÎNÂTH PÂNDURANG PARAB.
PUBLISHED BY
TUKÂRÂM JÂVAJÎ,
PROPRIETOR OF THE " NIRNAYA-SÂGAR " PRESS.
Bombay:
Price 7 Annas.
Page 8
( All rights reserved by the publisher. )
Publisher :- Tukaram Javaji, the Nirnaya-sagar Press, Printer :- Ramchandra Yesu Shedge, J 23, Kolbhat Lane, Bombay.
LIBRARY PK 2916 DEC 1 3 1966 V3 RSITY OF TOFONTO 1915
1150670
Page 9
काव्यमाला. ४३.
श्रीमद्दाग्भटविरचितं Kavyanusasanam काव्यानुशासनम्।
तेनैव कविना विनिर्मितया व्याख्यया समलंकृतम्।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मजनुषा वासुदेवशर्मणा च संशोधितम्।
(द्वितीयावृत्ति: )
तच्च
मुम्बय्यां निर्णयसागराख्ययब्रालये तदधिपतिना मुद्राक्षरैरककयित्वा प्राकाश्यं नीतम् ।
१९१५
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयत्रालयाधिपते- रेवाधिकारः ।)
मूल्यं ७ आणकाः ।
Page 11
काव्यमाला।
श्रीमद्वाग्भटविरचितं
काव्यानुशासनम्। तेनैव कविना विनिर्मितयालंकारतिलकवृत्तिरित्याख्यया व्याख्यया समलंकृतम्।
प्रथमोऽव्यायः।
प्रणिपत्य प्रभुं नाभिसंभवं भक्तिनिर्भरः । विव्ृणोमि स्वयमहं निजं काव्यानुशासनम्॥ ग्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेय संबन्ध प्रयोजनप्रतिपादनाय च कौन्तेयकुलक मलविकासनैकभास्करस्य दुस्तरतरसमस्तशास्त्रापारपारावारगहनमध्यावगाहनामन्दमन्द- रस्य विलसत्कलिकालकेलिकम लिनीकुलमूलोन्मूलनम त्तमतङ्गजस्य सकललिपिभाषाविशे- षसंमुखीनशेमुषी त्ुतिमुखरमुखी (मूकी)कृताशेषविशेषज्ञस्य निखिलकविकुलामानसन्मान- दानसमुपार्जितोज्झित वितत कीर्ति लता व्याप्ताखण्डव्रह्माण्डमण्डपस्य दुष्टकर्माष्टकगाढकरहां- टविट पिप्रोत्पाटनपटिष्ठपरमे ष्ठिपृष्ठशीमदरिष्टने मिचरणकमलमधुकरस्य दुर्धरतरधर्मधुराधर णैकबन्धुरधुरंधुरवरस्यागण्य पुण्यलावण्यपण्यापणिक निपुणगणिकागणेक्षणप्रतिक्षणनिपीय- मानसर्वाङ्गसौभाग्याप्रतिम रूपसंपत्पराजितरतिपतिप्रतिपन्न सेवासर्व स्व स्यं सिद्ध कार्मणक मातिपरवशरमणीयरमणीगणस्य सकलजनचेतक्षमत्कारितमेदपाट विषयप्रतिष्ठितश्रीम- त्पार्श्वजिनयात्रामहोत्सव समुद्धताद्भुतयशःप्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरि- स्पार्धिश्रीराहडपुर प्रतिष्ठापितसुप्रतिष्ठहिमगिरिशिखरानुका रिरमणीयशुभ्ाभ्रंलिहिश्रीमन्ने-
क्षितवक्ष:स्थलस्य निजभुजयुगलोपार्जितार्जित वित्तजातजनितनलोटकपुरप्रतिष्ठितत्रिभु- वनाद्भुतश्रीनाभि संभवजिनसदन प्राग्भागनिर्मापितद्वाविशति देवगृहिकामण्डलस्य निजाप्रंज- वरश्रीरा हडपादपङ्कजाविचलभक्तिगुणावगणित लक्ष्मणस्य सकलसीमन्तिनीसीमन्तरत्ना- यमान सुगृहीतनाम धेयश्रीमन्महा देवीकुक्षिशुक्तिशौक्तिकेयस्य श्रीम क्कलपाभिधान प्रधा- नदुग्धोदधिसमुद्धूताद्भुतनित्योदितनिस्तन्द्रचन्द्रस्य वसुंधरावधूहृदयहारस्य श्रीमन्नेमिकु-
Page 12
२ काव्यमाला।
कन्दलितसकलकलाकलापसंपदुद्गटो महाकविः श्रीवाग्भटोऽभीष्टदेवतानमस्कारपूर्वमुप- क्रमते। यथा- सर्वार्धमागधीं सर्वभाषासु परिणामिनीम्। सर्वपां सर्वतो वाचं सार्वज्ञीं प्रणिदध्महे॥ १ ॥ विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः । विदुषां हर्षपोषाय वच्मि काव्यानुशासनम्॥२॥ तद्यथा-काव्यम्। प्रमोदायानर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्ग- फललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च। चतुरचेतश्वमत्कारकारि कवेः कर्म काव्यम् । तच्च कवेः श्रोतुश् सुधानिस्पन्दसु- नदरं प्रमोदमुत्पादयति, बाणमयूरादीनामिव रोगाद्यनर्थ निहन्ति, हेयोपादेयविवेचनाद्यव हारकौशल्यं जनयति, तत्त्वावबोधद्वारेण नृपादिपरितोषणेन श्रङ्गाररसप्राधान्येन च पुरुषार्थ- त्रयफलमाकलयति, कान्तेव सरसतापादनेन संमुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणा- दिवत्' इत्युपदिशति। अयं खलु समयो महाकवीनाम् ॥ वयं तु कीर्तिमेवैकां काव्यहेतु- तया मन्यामहे। यतः-तावत्प्रमोदः सुलभो लाभादिनापि, अनर्थपरिहारः प्रकारान्तरे- णापि, व्यवहारज्ञानं चाणिक्यादिनीतिशास्त्रेभ्योऽपि, देवगुरुचरणपरिचरणतपक्षरणक रणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्व त्रिवर्गफलसिद्धिः, कान्तातुल्यतयो- पदेशश्च कादाचित्कः स्यात्। अतः कीर्तिरेवैका काव्यहेतुः। अन्यथा कथमनेककाला- तिकान्ता: क्षितिपतयः प्रत्यक्षा इव शास्त्रेषु प्रपश्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति किं तैः किमप्यमरसदनादिकं कृतं न स्यात्। यदाह-'अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संपुष्टापि प्रण- श्यति तत्क्षये। तदलममलं काव्यं कर्तु यतेत समाहितो जगति सकले व्यासादीनां विलो- क्य परं यशः ॥' व्युत्पत्त्यभ्याससंस्कृता प्रतिभास्य हेतु: । प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा। सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणध- रादीनामिव सहजा, देवतापरितोषौषधादिहेतुका कालिदासादीनामिवौपाधिकी। एता- मपि वयं कर्मक्षयहेतुकामेव मन्यामहे।स्रतिभैव च कवीनां काव्यकरणकारणम्। व्युत्प- त्यभ्यासौ तस्या एव संस्कारकारकौ न तु काव्यहेतू। दृश्येते हि प्रतिभाहीनस्य वि- फलौ व्युत्पत्त्यभ्यासौ। व्युत्पत्ति व्याचष्टे- लोके स्थावरजङ्जमरूपे तत्खरूपे च लक्षणप्रमाणसाहित्यच्छन्दोडलं.
Page 13
१ अध्याय: ] काव्यानुशासनम् । ३
च निपुणता व्युत्पत्तिः ।
कधा भवति। तत्र चैकं यथा-'यदाज्ञया रखलितमिदं न लङ्गते निज निजं जगदवधि क- दाचन। तयो: समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधमैराजयोः ॥'द्वे यथा-'रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी। तावत्किलायमध्यास्त सुन्तती वैबुधं पदम् ॥'त्रीणि यथा -'स वः पातु जिनः कृत्स्मीक्षते यः प्रतिक्षणम्। रूपैरनन्तैरेकैकजन्तोर्व्यांप्तं जगत्रयम्।' सप्त यथा-'संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचा चलकेतुहस्तैः। हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्गिरियमुच्छिखरा विभाति॥'चतुर्दश यथा-'न्याध्यस्- भावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा-श्रीराहडस्य भुवनानि च- तुर्दशापि संरोहति स्म वितता खलु कीर्तिवल्िः ॥' एकविशतिरित्यपरे-'हरहासहरावा- सहरहारनिभप्रभाः । कीर्तयस्तव लिम्पन्तु भुवनान्येकविशतिम्॥' तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः। तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असंख्याता द्वीपसमुद्राः। कविसमयश्चायम्-'जम्बूद्वीपः सर्वमध्ये ततश्व पक्षो नाम्रा शाल्मलोऽन्तःक्र- मोऽन्तः। कौथ्ः शाकः पुष्करश्वेत्यथैषां वाह्यावाह्या संस्थितिर्मण्डलीभिः॥"लावणो रसमयः सुरोदकः सा्पिषो दधिजल: पयःपयाः। सादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्य- वस्थिताः ॥' तत्र चैक एव समुद्र इति केचित्-'द्वीपान्यष्टादशानि क्षितिरपि नवभिर्वि- स्तृता स्वाङ्गखण्डैरेकाम्भोधिर्दिगन्तप्रसमरसलिल: प्राज्यमेतत्सुराज्यम्। कस्मिन्नव्याजके लिव्यतिकर विजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यश्षुकोप॥' त्रय इत्यन्ये-'कान्तिश्रीहीधृतिमतिमुखा योषितोऽनेन तावत्पार्श्वे न्यस्ताः किमु तदधुना दुर्भगाहं करोमि। कौन्तेयेन्दोस्तदिति सुचिरं चिन्तयित्वेव सेर्ष्या प्रोल्लङ्मयाब्धित्रित- यमगमत्कीर्तिकान्ता परस्तात् ।'चत्वार इत्यपरे-'भ्रान्तं चतुर्जलधिसीम्नि मया पृथिव्या- मीहृम देवभवनं न च मण्डपश्रीः। अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिर्महाभ्युदयिनी
र्पर कूर्मकम्पविलसद्रह्माण्डभाण्डस्थिति। पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे व- न्दितनीलकण्ठपरिषद्वयक्तार्द्धि वः क्रीडितम् ॥' 'त्रिमेखलः स्वर्णमयो विशालस्थालवर्तुलः। जम्बूद्वीपस्य मध्येऽस्ति मेरुराद्यो महीभृताम् ॥' तदपेक्षया दक्षिणतो भारतं वर्षमिदम्। अस्य नव खण्डानीत्येके-'मृदित्वा दो:कण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे दधुः कति न नवखण्डां वसुमतीम्। यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगी- शानां पिबसि नृप तत्कस्य सदशम्। षट् खण्डानीत्यपरे-'षट्खण्डखण्डा जगतीमण्डला- खण्डलोऽभवत्। भूभर्ता भरतो नाम नाभिनन्दननन्दनः ॥' तस्मिश् भरतक्षेत्रे-'वि- न्ध्यक्ष पारियात्रश शक्तिमानृक्षपर्वतः । माहेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥'तत्र विन्ध्यादयः प्रसिद्धवृत्तान्ता एव। मलयास्तु चत्वारः। तत्र प्रथमो यथा-'एलालवङ्-
Page 14
काव्यमाला।
लवलीकक्कोलं जातिमरिचजन्मपदम् । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ।' द्वितीयो यथा-'तस्मिन्विद्ुमभूरुहः प्रतिपदं वेशेषु मुक्ताफलं रत्नानां खनयः पुनाति च मुनिः शङ्गाणि कुम्भोद्भवः । कार्पूरास्तरवः स्फुटन्ति विकटैः कण्ठीरवाणां रवैर्यस्या- भांति तटेषु मौक्तिकनिधि: सा ताम्रपर्णी सरित्।'तृतीयो यथा-विलासभूमिर्देवानां नृणां रोगास्पदं मुनेः। सदा पुष्पफलारामरम्यसानुः स पर्वतः ॥' चतुर्थो यथा-'सा तत्र चा- मीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः। द्वारार्गलाबद्धसुरेश्वराङ्ा लङ्केति या रावण- राजधानी॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पश्चमजन्मदायी। तेभ्यश्चतुर्भ्योऽपि वसन्त- मित्रमुदखुखो दक्षिणमातरिश्वा ॥' पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्षान्तरमार्यावर्तः। तस्मिंश्चातुर्वर्ण्ये चातुराश्रम्यं च तन्मूलश्च सदाचारः। तत्रत्यो व्यवहारः प्रायेण कवीनाम्। तत्र वाराणस्याः पुरतः पूर्वदेशः। यत्राङ्गकलिङ्गकोसलतोसलोत्कलमगधमुद्गरकविदेहने-
हद्धृहलोहितागिरिचकोरदर्दुरनेपालकामरूपादयः पर्वताः शोणलोहितौ नदौ। गङ्गाकर- तोयाकपिशाद्याश्च नद्यः। लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः। माहिष्म- त्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाशमकवैदर्भकुन्तलक्रथकैशिकसूर्पा- रककाश्चिकेरलकाबेरमुरलवानवासकसिंह लचोडदण्डपाण्ड्य पल्लवगाङ्गनासिक्य कौङ्कणकोह- गिरिवेल्लरप्रभृतयो जनपदाः। विन्ध्यदक्षिणपादमाहेन्द्रमलयमेकलपालामज्जरश्रीसह्यपर्व-
पलावतीरावणगङ्गाद्या नद्यः।तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता। देवसभायाः परतः पक्चाह्दे-
तयो जनपदाः। गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्वुदोज्जयन्तशत्रुंजयादयः पर्वताः। सरसतीश्वभ्रवतीवार्तघ्नीमही हिण्डवाद्या नद्यः। करीरपीलगुग्गुलुखर्जूरकरभादीनामुत्पादः। पृथूदकात्परत उत्तरापथः। यत्र शककेकयक्काणहूणवनायुजकम्बोजबाह्लीकवल्हवलम्पाककु- लूतकीर तंगणतुवारतुरुष्कबर्बरहरहूरकुहकस हुडहंस मार्गरमठकर कण्डप्रभृतयो जनपदाः।हि- मालयजालंधर कलिन्देन्द्रकी लचन्द्रा चलादय: पर्वताः। गङ्गासिन्धुसरखतीशतद्रुचन्द्रभागा यमुनैरावतीवितस्ताविपाशाकुहूदेविकाद्या नद्यः। सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसौ- वीरस्रोतोऽजनसैन्धववैड्र्यतुरङ्गमाणामुत्पादः। तेषां मध्ये मध्यदेश इति व्यवहारः । य- दाह-'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च प्रध्यदेशः स की- र्तितः ॥' तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च। तत्प्रसिद्धिसिद्धमिति न नि० र्दिष्टम्। 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा। नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः। विशसनप्रयागयोर्गङ्गायमुनयोश्वान्तरमन्तर्वेदिः। तदपेक्षया दिशो विभजे- तेति केचित्। वयं तु ब्रूमस्तन्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत। ताक्ष च- तस्र इत्येके। यथा-'पुत्रो रघुस्तस्य पदं प्रशास्ति महाकतोर्विश्वजितः प्रयोक्ता। चतु- र्दिगावर्जनसंभृतां यो मृत्पात्रशेषामकरोद्विभृतिम् ॥' अष्टावित्यन्ये। यथा-'एक ज्योति-
Page 15
१ अध्याय: ] काव्यानुशासनम् । ५
ईशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर्भूतानां पश्चमं यान्यलमृतुषु तथा षट्सु ना- नाविधानि। युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भांजि भानोर्यान्ति प्राह्ले नवत्वं दश ददतु शिवं दीधितीनां शतानि॥'दशेत्यपरे-'दशरश्मिशतोपमद्युति यशसा दिक्षु दशख- पिश्रुतम्। दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विदुर्वुधाः ॥'अत्र हि देशपर्वतसरिद्दिशां यः क्रमस्तं तथैव बध्रीयात्। नान्यथा। तत्र प्राच्यानां श्यामो वर्णः प्रायेण। यथा-'गण्ड- भित्तिषु गौडीनां तमालदलकान्तिषु। विभ्राजन्ते स्म कार्पूर्यः पत्रवल्लयो विशेषतः ॥' दाक्षिणात्यानां कृष्णः। यथा-'इदं भासां भर्तुर्द्रुतकनकगोलः प्रतिकृतिक्रमान्मन्दज्योर्ति- र्गलति नभसो विम्बवलयम् । अथैष प्राचीनः सरति मुरलीगल्लमलिनस्तरुच्छायाचकैः स्तबकित इव ध्वान्तविसरः॥' पाश्चात्यानां पाण्डुवर्णः। यथा-'शाखास्मेरं मधुकवलनाके- लिलोलेक्षणानां भृङ्गत्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। किं चेदानी यवनतरुणीपाण्ड- गण्डस्थ लीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलेषु ॥'उदीच्यां गौरः। यथा-'कृत्वा नू पुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दामध्व निपण्डितान्परिजने किंचिच्च निद्रायति।गौरी कुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्यु- द्रतः ॥' मध्यदेशानां कृष्णः श्यामो गौरोवेति लोकखरूपमुक्तम्। अथातः शास्त्रनैपुण्य मुदाहियते। तत्र लक्षणे नैपुणं यथा-'कण्ठलम्नाः सदा स्त्रीणां खेलन्ति इह खद्रिकाः। बिरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥' तर्कः षट्प्रकार :- 'जिनं सांख्यं शिवं भावं बौद्धं लौकायतं तथा। षडेता दृष्टयः प्रोक्ताः शेषा: पाषण्डवृत्तयः ॥' जैनं यथा-'न या- स्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्या: प्रणता हितैषिणः ॥' सांख्यीयो यथा-'उदासितारं निगृहीतमानसैर्गहीत- मध्यात्मदृशा कथंचन। बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥' शैषो यथा-'किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सजति कि- मुपादान इति च। अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुख- रयति मोहाय जगतः ॥'भट्टानां यथा-'वैसवर्गकामः क्मतः कतूनां तदगनिहोत्रं जुहुया- द्विजन्मा। इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम् I'बौद्धीयो यथा- 'नात्मा कश्िदिहास्तीह प्रत्यक्षानुपलब्धितः । विज्ञानमात्रमेवैतज्जगतक्षणविनश्वरम् ॥' लौकायतीयो यथा-'पिष्टोदकगुडादिभ्यो मदशक्तिरिव खयम्। वह्युर्वीवायुवारिभ्यो भू- तानां तनुचेतना ॥' साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्शः। छन्दो- नैपुणं यथा-'सद्यतिसे वितपादं वरगणधरमूर्जितप्रवरवृत्तम्। श्रीवर्धमानमादौ जयदेवं भ- क्तितो वन्दे॥' अलंकारनैपुणं यथा-'प्रसन्नाः कान्तिहारिण्यो नानाश्ेषविचक्षणाः। भ- वन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥' अपौरुषेयं वचः श्रुतिः। तन्नैपुणं यथा- 'निवेशयामासिथ हेलयोद्धतं फणाभृतां छादनमेकमोकसः । जगत्रयै कस्थपतिस्त्वमुच्चकैर- हीश्वरस्तम्भशिरःसु भूतलम् ।।' श्रुत्यर्थस्मरणात्स्मृतिः-'भव्याभव्यविलोकिलोचनयुग चेतः स्मृते: पारगं धम्मिल्ले शिरसि स्थिते वरतनोर्मुख्या द्विजाः साक्षिणः। स्तेयं नो का. २
Page 16
६ काव्यमाला।
मम कालिकेति कुचयोर्द्न्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये।।' यथा च-'एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्रौ कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति। सौवरणे रजतस्य गोलकममुं धत्तः खाभाग्योदयात्सूर्याचन्द्रमसो- र्मिषेण युगपत्प्रातः सयं शुद्धये ।।' वेदाख्यानोपनिबन्धनं पुराणम्-'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं धृतः कि नैवं कस्कोत्र जीवो द्रुतमुपनय रे देवसंप्राप्त एव। चापं चापं न खङ्ग: किमिति हहहहा कर्कशत्वं नखानामित्थं दैत्याधिनारथं खरनखकु लिशैर्जप्निवान्यः स वोऽव्यात् ॥' पुराणप्रतिभेद एव इतिहासः। तन्नैपुणं यथा-'मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम् । जगज्जिघत्सातुरकण्डपद्धतिन वालिनैवाहिततृप्तिरन्तकः ॥' आगम आप्तवचनं यथा-'प्रजापतिर्यः प्रतिमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः प्रबुद्धतत्त्वःपुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः॥' नाट्यनैपुणं यथा-'कार्योपक्षेपमादौ तनुरपि रचयंस्तस्य विस्तारमिच्छन्बीजानां गर्ितानां फलमतिगहनं मूढमुद्गेदयँश्च। कुर्वन्वुद्धा विमर्श प्रसृतमपि पुनः संहरन्कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ।' अभिधानकोशो नाममाला। ततो हि शब्दनिश्चयः ॥ ननु प्रयुक्त्तमेव प्रयुज्यते, अन्यथाप्रयुक्तत्वदोषावकाशः तत्किं नाममालया। मैवम्। सामान्येन प्रयुक्क्ादर्थावगतिर्भवति। यथा-नीवीशब्देन जघनव स्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः, 'स्त्रियः पुरुषस्य वा' इति संशये 'नीविरात्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालापदावलोकनादेव निणयो भवति। कामशास्त्रे नैपुणं यथा-'सीत्कृतानि मणितं करुणोक्तिः स्त्िग्धमुग्धमलमर्थवचांसि। हारभूषणर- वाश्च रमण्या: कामसूत्रपदतामुपजग्मुः ॥' अर्थशास्त्रनैपुणं यथा-'मत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तरैरुद्युक्ताः खनियोगसाधनविघौ सिद्धार्थकाद्याश्चराः । कृत्वा संप्रति कैतवेन कलहं मौर्येन्दुना राक्षसा्भेत्स्यामि खववनेन भेदकुशलेनैष प्रतीपं द्विषः॥' योगशास्त्रनैपुणं यथा-'मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रणाशमिह लब्धसवीज- योगाः। ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धुम्।।' आदिशब्दाज्ज्योतिःशास्त्रनैपुणं यथा-'करूरग्रहः स केतुश्चन्द्रमसं पूर्णमण्डलमिदानीम्। अ- भिभवितुमिच्छति बलाद्रक्षत्येनं तु बुधयोग:॥' गजलक्षणनैपुणं यथा-'भद्रात्मनोर्दुरधिरो- हतनोर्विशालवशोन्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्ठतगतेः परवारणस्य दानांबुसे- कसुभग: सततं करोऽभूत् ॥I'अश्वलक्षणनैपुणं यथा-'निर्मासं मुखमण्डले परिमितं मध्ये लघुं कर्णयो: स्कन्धे बन्धुरमप्रमाणसुरभि स्न्िग्धंच रोमोद्रमे। पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुहोह सकलैर्युक्तं प्रशस्तैर्गुणैः॥'रत्नपरीक्षानैपुण यथा- 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितत्तनिलोकचि- न्तामणिर्नेमिः ॥' द्ूतशास्त्रनैपुणं यथा-'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्ये- कस्तदनु बहवस्तन्र नैकोऽपि चान्ते। इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह बहुकल: कीडति प्राणिशारैः॥' धनुर्वेदनैपुणं यथा-'स दक्षिणापाङ्गनिविष्ठमुष्टिं
Page 17
१ अध्याय: ] काव्यानुशासनम् । 9
नतांसमाकुश्चितसव्यपादम्। ददर्श वक्रीकृतचारुचाप प्रहर्तुमभ्युद्यतमात्मयोनिम्॥' एव- मन्यदपि। काव्यज्ञशिक्षया परिशीलनमभ्यासः । काव्यं कर्तु विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः । शिक्षामाचक्षते- तत्र कविसमये सतामपि भावानां केषांचिदनिबन्धः । तद्यथा-मालत्या वसन्ते। यथा-'मालतीविमुखक्षैत्रो विकासी पुष्पसंपदाम्। आ- श्वर्य जातिहीनस्य क्थ सुमनसः प्रियाः ॥'
अनिबन्ध इति वर्तते। यथा-'सा छाया स च सुन्दरः परिमलस्ते कोमलाः पल्लवा भ्रातश्न्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । दृप्य द्रुष्टभुजङ्गसंगतिवशादापादमूलागतै- रानीतं फलमन्यतोऽपि पथिकैः साशङ्कमाखाद्यते ॥' फलस्याशोकेषु। अनिबन्ध इति वर्तते। एवमन्यत्रापि। 'किं ते नम्रतया किमुन्नततयां कि वा घन- च्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया। यत्त्वन्मूलनिषण्णखिन्नपथि- कस्तोमः स्तुवन्नन्वहं न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥' कृष्णपक्षे ज्योत्स्नायाः । शुक्कपक्षे त्वन्धकारस्य। यथा-'परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः। एको हि सितः पक्षः कौ- मुद्या तुल्ययापि कृष्णोऽन्यः ॥' कुन्दकु डमलानां कामिदन्तानां रक्तत्वस्य। यथा-'व्याकोशकुन्दकुङ्लविमलदतीं यो विहाय राजिमतीम्। मुक्त्यङ्ञनानुरक्तो बभूव नेमिः स वः पायात् ॥' कमलमुकुलानां हरितत्वस्य। यथा-'उद्ण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्र्रया मग्नां लावणसैन्धवेSम्भसि मही- मुदच्छतो हेलया। तत्कालाकुलदैत्यदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवता दभ्रंलिहाप्रं वपुः ॥' प्रियङ्गुपुष्पाणां पीतत्वस्य । यंथा-'प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः। जपार्तिहरणायास्तु स.संज्ञानो जिनः सताम् ॥' दिवा नीलोत्पलादीनां विकासस्य।
Page 18
V काव्यमाला।
यथा-'कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मदमुलूकः प्रीतिमाँश्चक्वाकः। उ- दयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः ॥' दिवा शेफालिकाकुसुमानां विस्त्रंसस्य । यथा-'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा। इतीव दुःखं रशिने गदन्ती शेफालिका रोदिति पुष्पबा6पैः ॥' क्कचिदसतामपि भावानां निबन्धः। तद्यथा-नदीषु नीलोत्पलादीनाम्। यथा-'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः । सैन्याः
जलाशयमात्रे हंसानाम्। यथा-'अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभू- द्रोदावरीरोधसि। आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकु- छलनिभो मुग्धः प्रणामाञ्जलिः ।' पर्वतमात्रे स्वर्णरत्नगजानां निबन्धः । यथा-'क्रान्तं रुचा काश्चनवप्रभाचा नवप्रभाजालभृतां मणीनाम्। श्रितं शिलाश्याम- लताभिरामं लताभिरामन्त्रितषट्पदाभिः॥'यथा च-'नीलाश्मरश्मिपटलानि महेभमुक्त- सूत्कारसीकर विसृज्जि तटान्तरेषु। आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधि- यात्र मयूरनार्यः ॥' तमसो मुष्टिग्राह्यत्वस्य । यथा-'गच्छन्तीनां रमणवसति योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेदै- स्तमोभिः। सौदामिन्या कनकनिकषस्न्िग्धया दर्शयोवीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्ृवास्ताः ॥' ज्योत्सायाः कुम्भोपवाह्यत्वादेः। यथा-'शङ्द्रावितकेत कोदरदलस्नोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्य- च्छवि: प्रागभूत्। उत्सेक्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाञ्चलैः पातव्या च शशिन्य- मुग्धविभवे सा वर्तते चन्द्रिका ॥' शिवचन्द्रमसो बालत्वस्य। यथा-'कपालनेत्रान्तरलब्धमार्गैरज्योतिःप्ररोहैरुदितैः शिरस्तः। दिवापि निष्ठ्यूतमरी- चिभारां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ।' यशोहास्ययोः शौक्कयस्य। यथा-'कर्पूर द्रुमगर्भधूलिधवलं यत्केतकानां त्विषः श्वेतिम्रा परिभूय चन्द्रमहसा सार्धे प्रतिस्पर्धते। तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशः प्रालेयाचलचूलिकासु भव-
Page 19
१ अध्याय: ] काव्यानुशासनम् ।
तो गायन्ति सिद्धाङ्गनाः ॥' यथा च-'गत्वा चोर्ध्वे दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथिः स्याः । शङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं राशीभूत: प्रतिदिशमिव त्र्यम्बकस्याद्टह्रासः ॥' अयशःपापयोः कार्ष्ण्यस्य। यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत्। कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥' यथा च-'तमश्चये महति निमज्तः सतो जनस्य सत्पथ- गतिदर्शनं दिशत्। दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥' क्रोधानुरागयो रक्तत्वस्य। यथा-'शितितारकानुमितिताम्रनयनमरुणीकृतं कुधा। बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ।I' यथा-'गायन्निवालिविरुतैर्नृत्यन्निव चलैर्दलैः। त्वद्गुणैरिव रक्तोऽसौ मोदतेऽशोकपादपः ॥' चक्रवाकानां निशि भिन्नतटाश्रयणस्य। यथा-'इह हि कुमुदकोशे पीतमम्भः सुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम्। इति रटति निशायां पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ।' केषांचिन्नैयत्यम् । यथा-समुद्रेष्वेव मकराः । यथा-'रत्नानां निधिरित्यपां निलय इत्यत्युष्णतृष्णाज्वरैरस्माभिः श्रित एष केलिस- दनं लक्ष्मीप्रियस्येति च। को जानाति यदस्य यास्यति करक्रोडान्तरस्थं पयस्ताम्यन्मीन- मधीरलोलमकरं वातापितापी मुनिः ॥' ताम्रपर्ण्यामेव मौक्तिकानि। यथा-'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामश्चति ताम्रपर्णी। रत्नेश्वरो रत्नमहा- निधानं कुम्भोद्भवस्तं मलयं पुनाति ।।' मलयगिरावेव चन्दनोत्पत्तिः । यथा-'ये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिनां जल- निधे रत्नार्जने नोदमः । काश्मीरप्रतिवासिनां भुवि नृणां नात्यादरः कुङ्गुमे दूरस्थस्य महार्घता परिभवः संवासतो जायते ॥' हिमगिरावेव भूर्जजन्म । यथा-'तत्सैनिकाः समासाद् भूर्जश्रस्तरितां भुवम्। तुषाराद्रिविटद्वेषु मुमुचुर्दि- ग्जयश्रमम् ।।' वसन्त एव कोकिलरुतम्।
Page 20
काव्यमाला।
यथा-'माणं मुश्ध देह वल्लहजणे दिह्विं तरद्घुत्तरं तारुण्णं दिअहाणि पञ्च दह वा पीणत्थणत्थम्भणम्। इत्थं कोइलमन्जुसिञ्जणमिसा देवस्स पश्चेसुणो दिण्णा चित्तमहूसवेण सहसा (भुवणे ) आण्णव्व सव्वंकसा ॥' वर्षासेव मयूरस्य नृत्यं रुतं च। यथा-'ज्योतिर्लीलावलयि गलितं यस्य बहे भवानी पुत्रप्रेम्णा कुवलयदलत्रापि कर्णे करोति। धौतापाङ्ं हरशशिरुचा पावकेस्तं मयूरं पक्चादद्रिग्रहणगुरुभिर्गर्जितै- नर्तयेथाः ।।' अविशेषोक्तौ माणिक्यानां शोणतैव। यथा-'विभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः। कृतालक्तकपोतश्रीविभ्रमा- सन्नवारिदाः ॥' पुष्पाणां शुककतैव । यथा-'फलेषु सुखादुतरेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलग्नम्। जाने तदानीं स्मि- तपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी ॥' मेघानां कृष्णतैव। यथा-'लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्वुमानसौ नीरदनीलभासः। लतावधूसंप्र- युजोऽधिवेलं बहूकृतान्खानिव पश्यति स्म ॥' कृष्णनीलहरितश्यामानाम् । ऐक्यमिति (वक्ष्यमाणेन) संबन्धः । एवमग्रेऽपि। यथा-'सजलजलदनीला भाति यस्मिन्वनाली मरकतमणिकृष्णो यत्र नेमिर्जिनेन्द्रः। विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न काँस्कांस्ततपुरं राहडस्य ।।' पीतरक्तयोः । यथा-'नवकनकपिशङ्ग वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां विता- नम्। जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥' शुक्कगौरयोः । यथा-'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्तेः कुम्भोदर नाम निकुम्भमित्रम् ॥' रक्तगौरयोः ।
१. कर्पूरमज्जर्यो प्रथमजवनिकान्तरे श्लोकोऽयम्. 'मानं मुञ्चत ददत वह्लभजने दृष्टिं तुरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम्। इत्थं कोकिलमजु- शिजनवशाददेवस्य पश्चेषोर्दत्ता चित्तमहोत्सवेन सहसा (भुवने) आजैव सर्वेकषा ।।' इति छाया.
Page 21
१ अध्याय: ] काव्यानुशासनम् । ११
यथा-'पयसि सलिलराशेर्नक्तमन्तर्निमननं स्फुटमनिशमतापि ज्वालया वाडवानेः। यदय मिदमिदानीमङ्मुद्यद्दधाति ज्वलितखदिरकाष्टाङ्वारगौरं विवखान्।।' चन्द्रे शशमृगयोः । यथा-'लक्ष्मीकीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पश्यामालतायास्त्रिभु- वनजयिनो मन्मथस्यातपत्रम्। पिण्डीभूतं हरस्य स्मितममृतसरितपुण्डरीकं शशाङ्को ज्यो- तस्नापीयूषवापी जयति सितत्ृषस्तारकागोकुलस्य ॥' यथा वा-'कि कारणं तु कविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । एके मृगाङ्कमृगमादिवराहमन्ये देव त्वदस्त्रचकिता: श्रयितुं खजातिम् ।' कामकेतने मकरमत्स्ययोः । यथा-'बाणाहवव्याहृतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य। शरीरिणा जैत्रशरेण यत्र निःशङ्कमूषे मकरध्वजेन । यथा वा-'त्रीमुद्रां झषकेतनस्य महती सर्वार्थसंप- त्करीं ये मूढा: प्रविहाय यान्ति कुधियो मिथ्या फलान्वेषिणः। ते तेनैव निहत्य निर्दय- तरं मुण्डीकृता लुश्चिता: केचित्पश्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥' समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः । यथा-'उत्पत्तिर्जलधौ तुषारशिशिरा कान्तिः कमच्छेदिनी वासो जह्गुसुताङ्गसङ्गशु- चिनि स्थाणोर्जटाजूटके। एतस्मिँस्तिितये तथापि न गतः संपूर्णतां चन्द्रमाः पुंसां सत्य- मिदं न जन्म न गुणा नोपाश्रयः संपदे ॥' यथा च-'अत्निजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्व सावैरात्रिजातस्य तमसो दुर्जनस्य च ॥' द्वादशानामप्यादित्यानाम्। यथा-'साद्रियूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राग्दृशोर्यः सादृश्यं दृश्यते नो स दशशतदृशि त्रैदशेयस्य देशो (१)। दीप्तांगुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा संशास्त्यश्वाँथ यस्याशयविदतिशयाद्दंदशूकाशनाद्याः ॥' क्षीरक्षारसमुद्रयोः । यथा-'ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाल- लतिकाः शैवालमम्भः सुधा। तीरे तल्पमहीरुहः किमपरं नाम्रैव रत्नाकरो दूरे कर्णरसा- यनं निकटतस्तृष्णापि नो शाम्यति ।।' देत्यदानवासुराणाम्। तत्र हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिबाणादयो दैत्याः । विप्रचितिसंवरनमु- चिपुलोमप्रभृतयो दानवाः । बलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः । तेषामैक्यम् । यथा-'करोति कंसादिमहीभृतां वधाजनो मृगाणामिव यत्तव स्तवम्। हरे हिरण्याक्षपुरः- सरासुरद्विपद्विषः प्रत्युत सा तिरस्किया ॥' यथा च-'तं संबरासुरशरासनशल्यसारके-
Page 22
१२ काव्यमाला।
यूररत्न किरणारुणबाहुदण्डम्। पीनांसलप्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं ज- येत्कः ।।' कामस्य मूर्तत्वामूर्तत्वयोः । तन्र मूर्तत्वस्य यथा-'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना वि- रहकातरः कामिनीम्। अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडय- जयति जातहासः स्मरः ॥' अमूर्तत्वस्य यथा-'तव सौरूप्यमालोक्य जगज्जनविलक्ष- णम्। लज्जयेव जगस्वामिन्ननङ्गोऽनङ्गतां गतः ॥' चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम्। तत्र शुकता यथा-'जं मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिङ्गाथिट्विअ- केअअग्गिमदलद्दोणीसरिच्छच्छई। तं कप्पूररसेण णं धवलिदो जोण्हाअ णं व्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो ह्मि एत्थंतरे॥' श्यामलता यथा-'तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्ृतशरेण विशीर्णपङ्गि। श्यामीचकार वनमाकुलदृष्टिपातैर्वातेरितोत्पलद- लप्रकरैरिवाम्भ: ॥' कृष्णता यथा-'पादन्यासक्कणितरसनास्तत्र लीलावधूतै रत्नच्छाया- खचितवलिभिश्वामरैः क्वान्तहस्ता। वश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामो- क्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥I' रक्तता यथा-'वक्रं चन्द्रो नयनयुगली- पाटलाम्भोजयुग्मं नासानालं दशनवसनं फुल्लबन्धूकपुष्पम्। कण्ठः कम्बुः कुचयुगमथो हेमकुम्भौ नितम्बौ गङ्गारोधश्वरणयुगलं वारिजद्वन्द्वमस्याः ॥' अनेकवर्णता यथा-'ता- मुत्तीर्य व्रजपरिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम्। कुन्द- क्षेपानुगमधुकरश्रीमुखामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्र कौतूहलानाम् ।।' क्कचित्प्रतिबिम्बतया क्वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायो- पजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थ- शून्याभासादयश्च शिक्षा। तत्र यथा(त्रा)र्थः स एव, वाक्यान्तरविरचना त्वन्या। तत्प्रति- बिम्बतुल्यम्।
१. 'पौष्प्याः पञ्च शराः शरासनमपि ज्याशून्यमिक्षोर्लता जेतव्यं जगतां त्रयं स च पुनर्जेताप्यनङ्ग: किल। इत्याश्षर्यपरम्पराघटनया चेतश्वमत्कारयन्व्यापार: सुतरां वि- चारपदवीवन्ध्यो विधिर्वन्दताम् ॥' इत्यपि प्रत्यन्तरे. २. कर्पूरमञजर्यो प्रथमजवनिकायां श्लोकोडयं वर्तते. 'यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षच्छटा शृङ्गाधि- छ्ठित केत का ग्रिमदलद्रोणीसदृक्षच्छविः। तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो मुक्तानां घनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे ।' इति च्छाया.
Page 23
१ अध्याय: ] काव्यानुशासनम्। १३
यथा-'तेजः पुष्णातु पार्श्वो दुरितविजयिनः शाश्वतानन्दबीजं संक्रान्तः सप्तरत्नयां भुजगपतिफणाचक्रपर्यक्कभाजि। कर्माण्यष्टौ समन्तात्रिभुवनभवनोत्सङ्गितानां जनानां य- शछेत्तुं तुल्यकालं वहति निजतनुं क्रृप्तसप्तान्यरूपाम् ।I' अत्रार्थे-'पार्श्वप्रभुः फणिफणा- मणिसप्तकान्तः संक्ान्तकान्तवपुरस्तु स वः शिवाय। कर्माष्टकं सपदि हन्तुमिवानतानां यः कप्तसप्तविततान्यवपुर्विभर्ति ॥' कियतापि भेदेनैतस्माद्यद्धिन्नमिव प्रतिभासते। तदालेखव्यप्रख्यम् । यथा-'जयति फणीन्द्रफणामणिसंक्ान्तवपुर्जिनः पार्श्वः । सर्वमनेकान्तमिदं वस्तिव- ह कथयन्निवेति भव्यानाम् ॥' यत्र विषयभेदेऽपि नितान्तसादृश्यादभेद प्रतीतिस्त त्ुल्यदेहितुल्यम्। यथा-'प्रतिदिशमिह दोलान्दोलनव्यापृतानां कुवलयनयनानामाननैरुह्सद्भिः। वि-
श्रीराहडेनाधिकं दौस्तरुणतरणिमालामालिनीव व्यधायि।' यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यस्तत्परपुरप्रवेश- तुल्यम्। यथा-'अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको ब- हुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोविधौ वक्र मूर्धि स्थितवति वयं के पु- नरमी॥' यथा च-'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्ब- नाय दिनभर्तुरभून्न पतिष्यतः करसहस्त्रमपि ॥' पदोपजीवनं यथा-'दूराकृष्टशिलीमुख- व्यतिकरान्नो किं किरातानिमानाराद्यावृतपीतलोहितमुखान्किं वा पलाशानपि। पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देव- ताम्।' यथा च-'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम्। स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥' पादोपजीवनं यथा-'जातो मार्गे सुरभिकुसुमः सत्फलो नम्र- शाख्र: स्फीताभोगो बहुलविटपः खादुतोयोपगूढः । नैवात्मार्थ वहति महतीं पादपेन्द्रः श्रियं तामापन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥' यथा च-'तं चेद्वायौ वहति सर- लस्कन्धसंघटजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवागनिः। अर्हस्येनं शमयितुमलं वा- रिधारासहस्त्रैरापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ।' आदिशब्दात्पादत्रयोपजीवनम- पि युज्यते परं तत्प्रकट चौर्यमिति नोपदिष्टम्। उक्त्युपजीवनं यथा-'कैवर्तकर्कशकरग्रहण- च्युतोऽपि काले पुनर्निपतितः शफरो वराकः। जालातपुनर्निगलितो गलितो बकेन वामे विधौ बत कुतो व्यसनान्निवृत्तिः ॥'यथा च-'छित्त्वा पाशमपात्य कूटरचनां भड्क्त्वा वलाद्वागुरां प्रान्तेपु ज्वलदमनिजालजटिलाननिर्गत्य दूरं वनात्। व्याधानां शरगोचरादतिजवे नोत्ुत्य धावन्मृग: कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम् ॥'समस्यापूरणं का. ३
Page 24
१४ काव्यमाला ।
त्वनेकधा भवति। पादसमस्या यथा-'समुद्राड्ूलिरुत्थिता' इति चतुर्थः पादः। अन्न कर- मशस्त्रयः पादाः।यथा-'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भसः। अधःफणीन्द्रफूत्कारैः समुद्राडूलिरुत्थिता ।' पादद्वयसमस्या यथा-'स्तनावालोक्य तन्वङ्गयाः शिरः कम्पयते युवा।' इति पूर्वार्धम्। 'तयोरन्तर्विनिर्ममां दृष्टिमुत्पाटयन्निव ॥' इत्युत्तरार्धम्। पादत्र- यसमस्या यथा-'गत्वा चोर्ध्वे दशमुखभुजोच्छ्ासितप्रस्थसंधेः सदःकृत्तद्विरददशनच्छेद- गौरस्य तस्य। कैलासस्यादिमजिनपर्ति प्रार्थयेऽस्त्रं विमुक्तै याच्जा मोघा वरमधिगुणे नाधमे लब्धकामा ।' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन संकलितम्। यथा च- 'छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । योडयं नेमेः सदनमचलः प्रीतये यत्र ते स्याच्छीतो वायुः परिणमयिता काननोदुम्बरा- णाम् ।' पदपरिवृत्तिर्यथा-'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' तथा-'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये। जगतो मातरौ (?) वन्दे शर्वाणीशशिशेखरौ॥' अर्थशून्यपदाभ्यासो यथा-'आनन्दसंदोहपदारविन्दकुन्दे- न्दुकुन्दोदित बिन्दुव्ृन्दम्। इन्दिन्दिरान्दोलितमन्दमन्दनिष्यन्दनिन्दन्मकरन्दवन्यम् ।।' बवयोर्डलयोरैक्यम्। यथा-'पृथुकार्तस्रपात्रं भूषितनिःशेषपरिजनं देवम्। विलसत्करेणुगहनं संप्रति सम- मावयो: सदनम् ॥' यथा च-'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचिर्दण्डे क कशता मुखे च मृदुता मित्रे महान्प्रश्रयः। आमूलं किल संग्रहव्यसनिता द्वेषश्च दो- षाकरे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तन्र श्रियः ॥' नानुखारविसर्गौ चित्रभङ्गाय। यथा-'चन्द्रेडितं चटुलितस्वरधीशसाररत्नासनं रभसकल्पितशोकजातम्। पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ।I' पापतिमिरक्षयकारकायं प- इ्यामि। इति हारबन्धचित्रम्॥ कथंभूतम्। चन्द्रेडितं चन्द्रस्तुतम्। पुनः कथंभूत- म्। चटुलित स्वरधीशसाररत्नासनं कम्पितशक्ोत्कृष्टसिंहासनम्। रभसकल्पितशोकजातं निराकृतशोकसमूहम्। पुनः कथंभूतम्। अल्पेतरामलतपःकचलोपलोचं केशापनोद- दर्शकम् ॥ विसर्गो यथा-'नित्यं कुन्थ्वा(म्भ्या?)दिसत्त्वेष्वहिंस्ः कुंथ्वितिसंज्ञकः । करि- राजकराकारकरो मामवताज्जिनः ॥' त्रिशूलबन्धचित्रं सुबोधम्। शब्दार्थो निर्दोषौ सगुणौ प्रायः सालंकारौ काव्यम्। दोषगुणालंकाराणामग्रे प्रपञ्च्यमानत्वान्नात्र विस्तरः । प्रायः सालंकाराविति निरलंका- रयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थम्। यथा-शून्यं वासगृहं विलोक्य शयनादु- त्थाय किंचिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता वाला चिरं चुम्विता ॥'
१. परसवर्णाभावमपेक्ष्येदम्.
Page 25
१ अध्याय: ] काव्यानुशासनम् । १५
तच्च पद्यगद्यमिश्रभेदैख्त्रिधा। तत्र पद्यं छन्दोबन्धः । स च महाकाव्यादिः ।
सकसंध्यवस्कन्धकबन्धम्, मुखप्रतिमुखगर्भविमर्षनिर्वहणरूपसंधिपञ्चकोपे- तम्, असंक्षिप्तग्रन्थम्, अविषमबन्धम्, अनतिविस्तीर्णपरस्परसंबद्धसर्गम्, आशीर्नमस्क्रिया वस्तुनिर्देशोपक्रमयुतम्, वक्तव्यवस्तुप्रतिज्ञातत्प्रयोजनोपन्या- सकविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम्, दुष्करचित्राद्येकसर्गाङ्कितम्, स्वाभिप्रेतवस्त्वङ्कितसर्गान्तम्, चतुर्वर्गफलोपेतम्, चतुरोदात्तनायकम्, प्र- सिद्धनायकचरितम्, नगनागरसागरर्तुचन्द्रार्कोदयास्तसमग्रोद्यानजलकेलिम-
द्यादिवर्णनोपेतं महाकाव्यम्। तत्र संस्कृतभाषानिवद्धसर्गबन्धं रघुवंशादि। प्राकृतभाषानिबद्धाश्वासकबन्धं सेतु- बन्धादि। अपभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि। ग्राम्यभाषानिबद्धावस्कन्ध- बन्धं भीमकाव्यादि। प्रायोग्रहणात्संस्कृतभाषायामपि क्वचिदाश्वासकबन्धो न दुष्यति, तथा आदितः समाप्तिपर्यन्तं कुत्राप्येकमेव छन्दो न दुष्यति। मुखसं- धिर्यथा-'यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा। काव्यशरीरानुगतं तन्मुखं परिचक्षते॥' प्रतिमुखं यथा-'बीजस्योद्वाटनं यत्र दृष्टनष्टमिव क्वचित्। मुखन्यस्तस्य सर्वत्र तद्वै प्र- तिमुखं स्मृतम्॥' गर्भो यथा-'उद्भेदस्तस्य वीजस्य प्राप्तिरप्राप्तिरेव वा। पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥' विमर्षो यथा-गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा। कोवव्यसनजो वापि स विमर्ष: प्रकीर्तितः ॥' निर्वहणं यथा-'समानयनमर्थानां मुखा- द्यानां सवीजिनाम्। नानाभावोत्तराणं यद्भवेन्निर्वहण तुतत् ॥'आशीर्नमस्क्रियावस्तु- निर्देशोपक्रमयुतमिति। तत्राशीर्यथा चन्द्रप्रभकाव्ये-'श्रियं क्रियादयस्य सुरागमे नट- त्सुरेन्द्रनेत्र प्रतिबिम्बलाञ्छिता। सभा बभौ रत्नमयी महोत्पलैः कृतोपहारेव स वोऽग्रजो जिनः ॥' नमस्कारो यथा रघुवंशे-'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पि- तरौ वन्दे पार्वतीपरमेश्वरौ॥' वस्तुनिदशो यथा-'श्रियः पतिः श्रीमति शासितुं जगज्ज- गन्निवासो वसुदेवसद्यनि । वसन्ददर्शावतरन्तमम्बराद्विरण्यगर्भाङ्गभुवं मुनि हरिः ॥' वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप(न्यास) इति। यथा सवोपज्ञऋषभदेवचरितमहाकाव्ये- 'यतपुष्पदन्तमुनिसेनमुनीन्द्रमुख्यैः पूर्वैः कृतं सुकविभिस्तदहं विधित्सुः । हास्याय कस्य
१. 'काव्ये शरीरानुगता' इति नाट्यशास्रस्थपाठः. २. 'गर्भान्निर्भिन्न' इति नाट्य- शास्त्रे. ३. 'श इति स्मृतः' नाट्य०.
Page 26
१६ काव्यमाला।
ननु नास्ति तथापि सन्तः भृण्वन्तु कंचन ममापि सुयुक्तिसूक्तम् ।' कविप्रशंसा चात्रैव। यथा-'नव्यनव्यकमासाद्यानुक्षणं यस्य सूक्तयः। प्रभवन्ति प्रमोदाय कालिदासः स स- त्कविः ॥' सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणे-'गुणप्रतीतिः सुजनाज्जनस्य दोषेष्ववज्ञा खलजल्पितेषु । अतः सतो नाप्यसतो निवृत्तिर्विशेषशाली भवति प्रयत्नः ॥' दुष्करस- र्गा (चित्रा)दयङ्कितैकसर्गत्वमिति। यथा-शिशुपालवधे एकोनविंशतितमः सर्गः। सवाभि- प्रेतवस्त्वङ्कितसर्गान्तमिति। यथा-शिशुपालवधः श्यङ्कः, विष्णुजयो विष्ण्वङ्कः, किरा- तार्जुनीयं लक्ष्म्यङ्कम्। चतुर्वर्गफलोपेतमिति। चत्वारो वर्गा धर्मार्थकामलक्षणव्यस्ताः स- मस्ता वा तत्फलसंयुक्तम्। चतुरोदात्तनायकमिति। यथा शिशुपालवधे विष्णुः । नेमि- निर्वाणे नेमिः। प्रसिद्धनायकचरितमिति। अनेन प्रकरणादिवत्खकल्पितकथावस्तुनिषेधः। नगनगरेत्यादि। तत्र नगवर्णनं किरातार्जुनीयकुमारसंभवादौ। नगरवर्णनं शिशु- पालवधनेमिनिर्वाणादौ। अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ। ऋतुवर्णनं रघुवंशहरिवंश- शिशुपालवधादौ। चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ। उद्यानजल- केलिमधुपानवर्णनं नेमिनिर्वाणराजीमतीपरित्यागादौ। मन्त्दूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादौ। नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ। विवाहव- र्णनं कुमारसंभवादौ। विप्रलम्भवर्णनं राजीमतीपरित्यागादौ। आश्रमवर्णनं रघुवंशादौ। नदीवर्णनं मेघदूतादौ। तत्रैकेन छन्दसा मुक्तकम्। द्वाभ्यां युग्मं संदानितकं च । त्रिभि- र्विशेषकम्। चतुर्भि: कलापकम्। द्वादशान्तैः कुलकम्। सुबोधम्। गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः । तत्र नायिकाख्यातस्वृत्तान्ताभाव्यर्थशंसिनी सोच्छासा कन्यकापहा- रसमागमाभ्युदयभूषिता मित्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलप- द्यबन्धा आख्यायिका। तत्रेति। गद्ये। आख्यायिका हर्षचरितादिः। शेषं सुबोधम्। गद्यपद्यमयं मिश्रम् ।
वीथीरूपाण्यभिनेयानि। तत्रेति। मिश्रे। नाटकादीनि दशरूपकाणि। अभिनेयानि। तेषां च भैरतमुनिनोपदर्शि- तलक्षणमुपदिश्यते। यथा-'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव। राजर्षिवंश्यच-
Page 27
१ अध्याय: ] काव्यानुशासनम्। १७
रितं तथा च दिव्याश्रयोपेतम् ।। नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्वापि। अङ्कप्रवेशकाढ्यं भवति च तन्नाटकं नाम ।I' (प्रकरणं तु-) 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव। औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्वुधैज्ञेयम् ॥ येदनार्षमनाहार्ये काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् । यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाक्ष । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ।। विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम्। चरितं यन्नैककृतं यतप्रज्ञेयं प्रकरणं नाम ।। नोदात्तनायककृतं न दिव्यचरितं न राजसंभो- गः। बाह्यजनसंयुतं तत्प्रज्ञेयं प्रकरणं नाम ॥ दासविटश्रेष्ठियुतं वेशस्र्युपचारंकारणोपेतम्। मन्दस्त्रीकुलचरितं काव्यं कार्य प्रकरणे तु।' (भाणस्तु-) 'आत्मानुभूतशंसी परशंसन- वर्णनाप्रैयुक्तश्। विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यक्ष॥ परवचनमात्मसंस्थैः प्रतिव- चनैरुत्तरोत्तर ग्रथितैः॥ आकाशपुरुषकथितरङ्गविकारैरभिनयेच्च॥ धूर्तविटसंप्रयोज्यो नाना- वस्थान्तरात्मकैश्वैव। एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः॥' (प्रहसनं तु-) 'प्रहस- नमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षण- विशेषम्॥ भगवत्तापसविप्रैरन्यैरपि हासवादसंवद्धम्। कापुरुषसंप्रयुक्तं परिहासाभाषण- प्रायम्।। अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदैम्॥ नियतगतिवस्तुविषयं शुद्ध ज्ञेयं प्रहसनं तु॥ वेश्या चेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः। अनिभृतवेषपरिच्छदचेष्टि- तकरणं च संकीर्णम् ॥' (डिमस्तु-) 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव। षंड्रस लक्षणयुर्तश्रतुरङ्को वै डिमः कार्यः ॥ शङ्गारहास्यवर्ज्ये शेषैरन्यै रसैः समायुक्तः ।दी- मरसकाव्ययोनिर्नानाभावोपसंपन्नः ॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः। युद्धनियु- द्वाधर्षणसंस्फोटकृतश् विज्ञयः ॥ मायेन्द्रजालबहुलो बहुसुप्तोत्थानयोगयुक्तश्र। देवभुज- गेन्द्रराक्षसयक्षपिशाचावकीर्णश्च। षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपूर्णः॥ कार्यो
यकश्चैव। त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशङ्गारः॥ द्वादशनायकबहुलो ह्यष्टादशनायि- काप्रमाणश्च ।' इति। (ईहामृगस्तु-) 'दिव्यपुरुषाश्रयकृतो दिव्यत्त्रीकारणोपगतयुद्धः। सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्रैव । उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्ष। संक्षोभविद्रवकृत: संस्फोटकृतस्तथा चैव। स्त्रीभेदनोपहरणावमर्दनप्राप्तवस्तुश्ङ्गारः। ईहा- मृगस्तु कार्य: सुसमाहितकाव्यबन्धथ्च। यधायोगे कार्ये ये पुरुषा वृत्तयो रसाश्चैव। ईहा- मृगेऽपि यत्स्यात्केवलमत्र स्रियो योगः ॥' (उत्सृष्टिकाङ्कस्तु-) 'वक्ष्याम्यतःपरमहं लक्षणमुत्सष्टिकाङ्कस्य। प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ॥ दिव्य पुरुषैर्वि-
१. 'यदनर्थमपाहार्ये' 'यदनायकहार्यकार्यम्' इति वा नाव्यशास्त्रे. २. 'कुरुते प्रभूत' नाट्य०. ३. 'प्रयोगे' नाट्य०. ४. विशेषेषु' नाव्य०. ५. 'द्विविधा' नाट्य०. ६. 'संस्थं' नाट्य०. ७. 'पदम्'नाट्य०.८. 'पद्डिंशल्लक्षणयुक्त'नाव्य०.९. 'कर्तव्यः'नाव्य०. १०. 'बहु- पुरुषोत्थानयुक्तश्र' नाट्य०. ११. 'संपन्नः' नाव्य०. १२. 'श्रतुरङ्कविभूषितश्चैव' नाट्य०
Page 28
१८ काव्यमाला ।
युक्त: शेपैरन्यैर्भवेत्पुंभिः। करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ॥ स्त्रीपरिदेवितब हुलो निर्देवितभाषितश्चैव। नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनः ॥ कार्यः काव्यवि- धिज्ञैः सततं ह्युत्सष्टिकाङ्कस्तु॥' (व्यायोगस्तु-) 'व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातना- यकशरीरः। अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव॥ बहवक्ष तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः। युद्धनियुद्धाघर्षणसंघर्षकृतश्व कर्तव्यः ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः ॥'(वीथीतु-)सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः। वीथी स्यादेकांक्का तथैकहाया द्विहार्या वा॥' नाटकभेदान्नाटिका। यदाह-'प्रकरणनाट- कभेदादुत्पाद्यं वस्तु नायकं नृपतिम्। अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या॥ स्त्री- प्राया चतुरङ्गा ललिताभिनयात्मका सुविहिताङ्गी। बहुनृत्यगीतवाद्या रतिसंभोगात्मिका चैव।राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता। नायकदेवीदूतीसपरिजना नाटिका झया।।' एवं प्रकरणभेदात्प्रकरणिकापि विज्ञेया। सट्कोऽपि कैश्चिदुक्तः। तद्था-'विष्कम्भकस्त्वे- करहितो यस्त्वेकभाषया भवति। अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' गेयं विभजते-
रासकगोष्ठीप्रभृतीनि गेयानि । पदार्थाभिनयखभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनैरुक्तानि। तथथा- "छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः। आवर्ज्यंते मनः सातु मसणा डोम्बिका मता॥ नृसिंहशूकर।दीनां वर्णनं जल्पयेद्यतः। नर्तकी तेन भाणः स्यादुद्धताङ्गप्रवर्तितः॥। गजादीनां गतिं तुल्यां कृत्वा प्रसवनं तथा। अल्पविद्धं सुमसणं तत्प्रस्थानं प्रचक्षते॥ वालक्री- डानियुद्धादि तथा शूकरसिंहजा। धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥ हा- स्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् । सख्याः समक्षं पत्युर्यदुद्धतं नृत्तमुच्यते।। मस्णं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः। ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते।। मण्डलेन तु यनृतं हल्लीसकमिति स्मृतम्। एकसूत्रं तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥ यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान्। उपालम्भं च कुरुते गेये श्रीग- दितं तुतत्। अनेकनर्तकीयोज्यं चित्रताललयान्वितम्। आचतुःषष्टियुगलाद्रासकं मसृणोद्धते॥ गोष्ठे यत्र विहरतश्वेष्टितमिह कैटभद्विषः किंचित्। रिष्टासुरप्रमथनप्रभृति त- दिच्छन्ति गोष्ठीति ॥' धीरप्रशान्तनायकोपेता गद्येन पद्येन वा सर्वभाषानुविद्धा कथा। आख्यायिकावन्न स्वचरितव्यावर्णकोऽपितु धीरशान्तो नायकः। तस्य तु वृत्तमन्येन क- विना यत्र वर्ण्यते सा काचिद्रय्यमयी कादम्बरीवत्। काचित्पद्यमयी लीलावतीवत्। स- र्वभाषानुविद्धा संस्कृतप्राकृतेन मागध्या सौरसैन्या शच्या अपभ्रंशेन वा रचिता कथा॥
Page 29
२ अध्याय: ] काव्यानुशासनम् । १९
गद्यपद्यमयी साक्का सोच्छासा चम्पूः । यान्यङ्वानि खनाम्ना परनाम्रा वा करोति कविः तैर्युक्ता उच्छासनिबद्धा चम्पूः। यथा वासवदत्ता दमयन्ती वा॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञ- काव्यानुशासनवृत्तौ प्रथमोऽध्यायः।
द्वितीयोऽध्यायः । 'निर्दोषौ शब्दार्थो काव्यम्' इत्युक्तम्। तत्र शब्ददोषानाह-
दोषा: पदे वाक्ये च भवन्ति। तत्र- प्रकृतानुपयोगि निरर्थकम् । पदे यथा-'उत्फुल्लकमलकेसरपरागगौरदुते मम हि गौरि। अभिवाञ्छितं प्रसि- द्धतु भगवति युष्मत्प्रसादेन ।I' अत्र हिशव्दो निरर्थकः । पादैकदेशोऽपि पदमेव। तन्निरर्थकत्वमुदाहियते। यथा-'आदावजनपुज्जलिप्रवपुपां श्वासानिलोल्लासितप्रोत्सर्प- द्विरहानलेन च ततः संतापितानां दृशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्ेक्षणा ॥' अत्र कुरङ्वेक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम्। वाक्ये यथा-'बल्यरिकत्वरी पातां साम्बुव्यम्बुघनोपमौ। सदशौ काकबकाभ्यां च वै हि तु च वै हि तु॥' तच्च मत्तोन्मत्तवालाद्युक्तौ विशेषतो रम्यम् । तत्र चैश्वर्यबलरूपतपोवयःश्रुतादिभेदैमदोऽनेकधा भवति। तत्रैश्वर्यमदो यथा-'एहि गच्छ बतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धविनोडर्थभिः ॥' एवमन्यदप्युदाहार्यम् ॥ शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम्। शब्दानुशासनरहितं पदे यथा माघस्य-'संमूर्च्छदुच्छृङ्कलशङ्वनिःखनःखनुप्रयाते पट- हस्य शार्ङ्गिणि। सत्वानि निन्ये नितरां महान्त्यंपि व्यथां द्वयेषामंपि मेदिनीमृताम् ॥' अत्र 'द्वयेषाम्' इति न प्राप्नोति। द्यानामिति भवति। कालिदासस्य यथा-'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि। तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥'अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोपे पाण्डव इति प्राप्नोति। तथा-'तेनाभिघातरभसस्य विकृष्य पश्नी वन्दस्य नेत्रविवरे महिषस्य मुक्तः। निर्भिन्नविग्रहमशोणितलिप्तगान्नस्तं पातयां प्रथममास पपात पश्चात् ।I' अत्र पातयामासेति अव्यवधानेन प्रयोगः प्राप्नोति। भारवेर्यथा-'उन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः। गाण्डीवी
Page 30
२० काव्यमाला।
कनकशिलानिभं भुजाभ्यामाजन्ने विषमविलोचनस्य वक्षः ॥' अत्र आजन्ने इति आत्मने- पदं न प्राप्नोति। हन्तेः खाङ्गकर्मकत्वाभावात्। त्रिविक्रमस्य यथा-'सरित इव गावः पीवरोधसः' । अत्र पीवरोध्ट्य इति प्राप्नोति। शीताया यथा-'मा भैः शशाङ्क मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बभाषे। प्रायो विदग्ध- वनिता नवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥' अत्र मा भैषीरिति प्राप्नोति। वाक्ये यथा-'प्रदत्तं नैव यैः स्वीयविभवस्फीतमानतः। तपो न तपितं किंचित्तेषां जन्मस्य किं फलम्॥' अन्र प्रदत्तस्थाने प्रत्तमिति, सवीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति। छन्दो- डनुशासनलक्षणरहितं पदे यथा-'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः' इति शिखरिणीछन्दसि षष्ठे यतिर्यां नियता सा नास्ति। वाक्ये यथा-'अपि पश्यसि सौधमा- श्रितामविरलसुमनोमालभारिणीम्'। अत्र वैतालीयसमपादे षड्लघवो निरन्तरा न स्युः अयं च सर्वः प्रपश्चः श्रीवाग्भटाभिधानखोपज्ञच्छन्दोनुशासने प्रपश्चित इति नात्रोच्यते॥ अनुकरणे न दोषः । 'नृपाभिषेके मदविह्वलाया हस्ताच्च्युतो हेमघटोऽबलायाः। सोपानपङ्गयां पंतितः करोति ठ ठं ठ ठं ठं ठ ठ ठं ठ ठं ठ: ।।' त्रीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्साव्यञ्जकं चेति त्रिधाश्लीलम्। तत्र त्रीण्यनुक्रमेण पदे यथा-'मनीषिताः सन्ति गृहेऽपि देवतास्तपः क वत्से क्व च तावकंवपुः। पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥''दग्धोत्तीर्णसुवर्ण- वर्णरुचिरच्छायं वसानोऽम्बरं भाखत्कौस्तुभकान्तिकर्बुरतरभ्राजिष्णु वक्षःस्थलम्। शह्गं चक्रमसिं गदामविरतं बिभ्रच्चतुर्भिः करैरारूढो गरुडं नवीनजलदश्यामो हरिः पातुवः ॥' 'प्रासादानामुपरि वलभीजालवातायनेषु भ्रान्त्यावृत्तः परिणतसुरागन्धसंभारगर्भः । माल्यामोदी मुहुरुपचितः स्फारकर्पूरवासो वायुर्यूनामभिमतवधूसंनिधानं व्यनक्ति ॥' अत्र पेलवदग्धवायुशब्दा: क्रमेण व्रीडामङ्गलजुगुप्साव्यञ्जकाः। त्रीण्यप्यनुक्रमेण वाक्ये यथा- 'भूपतेरुपसर्पन्ती कम्पना वामलोचना। तत्तत्प्रहणनोत्साहवती मोहनमादधौ ।' 'पितृ- वसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। भवति सपदि पावकान्वये हृदयमशेषि- तशोकशल्यकम् ॥' 'ये विमुच्यापि वाञ्छन्ति भोगाजैनव्रतस्थिताः । छर्दितं ते सम- श्नन्ति विष्ठामपि कुवुद्धयः ॥' अन्नोपसर्पणप्रहणनमोहनशब्दास्तथा पितृवसतिपावकाशे- षितशल्यशब्द।इछर्दित विष्ठादिशब्दाक्ष व्रीडामङ्गलजुगुप्साव्यजकाः॥ शान्तविदूषकाद्युक्तो न दोषः । शान्तोक्तौ यथा-'उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे। क्लेदिनि स्त्रीव्रणे सक्ति- रकृमे: कस्य जायते ॥' एवमन्यदपि॥
यथा-'शीते चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीर्णा पर्णकुटी न तन्दु-
Page 31
२ अध्याय: ] काव्यानुशासनम् । २१
लपुटी भूमौ च घृष्टा कटी। वृत्तिर्नारभटी प्रिया न गुमुटी सौख्यं न चैका घटी भूयाद्भप तव प्रसादकरटी भङ्गं ममापत्तटी II' अत्र गुमुटीति देश्यत्वादप्रयुक्तम्। यदाह-'प्र- कृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य। तन्मडहादिकथंचिन्न रूढिरिति संस्कृते रचयेत् ।I' वाक्ये यथा-'धत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगुः'। अत्र दैवतशब्दः पुंलिक्ने कथितोऽप्यप्रयुक्तः। सहस्रगुरित्यादित्य इत्यपि अप्रयुक्तम् ॥ देश्यानां प्राकृताद्युक्तौ मुग्धोक्तौ च न दोषः। तत्र प्राकृते यथा-'जुन्हा ऊरियको सकंति धवले सव्वंगगंधुकडे णिव्विग्घं घरदीहि- यासु सरसं बेंबंत ओमासलम्। आसाए इसुमंजुगुंजियरवो तिंगिंछिपाणासवं उम्मिल्लन्तद- लावलीपरिगऊ चंदुज्जए छप्पउ ।' अन्र तिंगिंछि मकरन्द इति देश्यः। मुग्धोक्तौ यथा-'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे। तद्याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं संयच्छसव यशः सितासि- तपयोभेदाद्विवेकोऽस्तु नः ॥' अत्र स्वस्तीति मुग्धस्यैव ब्राह्मणस्योक्तौ न दोषः ॥ शलेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः । यथा-'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोतृत्तभुजंगहारवलयो- गङ्गां च योऽधारयत्। यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादि- ष्टभुजंगहारवलयसत्वां सर्वदो माधवः ।' तदर्थप्रतिपादनाक्षममसमर्थम्। तत्पदे यथा-'राजेन्द्र भवतः कीर्तिश्वतुरो हन्ति वारिधीन्'। अत्र हन्तीति पदं ग- मनार्थे पठितमपि प्रतिपादनायासमर्थम्। वाक्ये यथा-'नद्यां हत्वा वस्ं धावतीति'। अन्न हन्तिशब्दो व्याख्यातः । धावतीति शुद्धर्थे पठितमपि तत्प्रतिपादनायासमर्थम्॥ अनौचित्येन प्रयुक्तमनुचितार्थम्। पदे यथा-'यः प्राप निर्वृति क्वेशाननुभूय भवार्णवे। तस्मै विश्वैकमित्राय त्रिधा ना- भिभुवे नमः ॥' अत्र क्वेशाननुभूयेति जिनपति प्रत्यनुचितम्। वाक्ये यथा-'सा जयइ कूडवरडो सिद्धनरिंदो धराइसयला। इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ।I' तच्च निन्दायां प्रोत्साहने च न दुष्टम्। यथा-'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन। निशि चण्डाल इवायं मार- यति वियोगिनीश्चन्द्रः ॥' प्रोत्साहने यथा-'विशन्तु वृष्णयः सर्वे रुद्रा इव महौजसः ॥' पुरुषवणै (यथा) श्रुतिकटु। पदे यथा-'नियतिकृतनियमरहितां ह्वादैकमयीमनन्यपरतत्राम्। नवरसरुचिरां नि- र्वृतिमादधती भारती कवेरजयति ॥' अत्र ह्रादेति श्रुतिकट। वाक्ये यथा-'व्यग्रै- रम्यग्रहेन्दुग्रसनगुरुभरैर्नो समग्रैरुदग्रैः प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैगौरयन्गाम्। का. ४
Page 32
२२ काव्यमाला।
उद्गाढार्चिर्विलीनामरनगरनगं प्रावगर्भामिंवाह्वामग्रेऽग्रे यो विधत्ते गलपयतु गहनं स ग्रहग्रामणीर्वः ॥' वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेषतो गुणः । तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये। सिंहादिवर्णने यथा-'मातङ्गा: किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारंगा महिषा मदं त्यजत रे शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारे: शनैः सिंहध्वानिनि हुंकृते स्फुरति यत्तदवर्जितं गर्जितम् ।।' व्यवहितार्थप्रत्ययजनकं क्विष्टम्। पदे यथा-'मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काश्चनवप्रभासा। तुरङ्गकान्तामु- खहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥I' वाक्ये यथा-'मानसौकःपतद्यानदेवासन- विलोचनः । तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः ॥' झगित्यर्थार्पकत्वे गुणः । [यथा-] 'एतावता नन्वनुमेयशोभि काश्वीगुणस्थानमनिन्दितायाः। आरोपितं य- द्विरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ।।' अत्र काश्चीगुणस्थानं जघनमिति प्रसिद्धम्॥ यत्र विधातुमहौंऽशो न प्राधान्येन परामृष्टस्तदविमृष्टविधेयांशम्। तत्पदे यथा-'स्स्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाश्चीम्। न्यासी- कृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।।' अत्र मौर्वी द्वितीयामिवेति यु- कम्। वाक्ये यथा-'शय्या शाद्लमानसं शुचि शिला सझं द्रुमाणामधः शीतं निर्झर- वारि पानमशनं कन्दाः सहाया मृगाः। इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापारथिनि यत्परार्थघटनावच्ैर्त्रथा स्थीयते ।।' अत्र शाद्वलं शय्येति विध्यनुवादौ। विधेयौ यथा-'त्वक तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाक्ष। मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते॥' विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत्। यथा-'चतुर्मुख मुखाम्भोजवनहंसवधूर्मम। मानसे रमतां नित्यं सर्वशक्का सरखती॥, अन्न मम वधूरिति विरुद्धां बुद्धिं जनयति। वाक्ये यथा-'अनुत्तमानुभावस्य परैरपि- हितौजसः । अकार्यसुहृदोऽस्माकमपूर्वाश्चित्तवृत्तयः ॥' अन्नापकृष्टच्छादितमकार्येषु मित्र- पूर्वो यासां ता अकीर्तय इति विरुद्धां बुद्धिमुत्पादयति॥ लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम्। पदे यथा-'नवकुमुदवनश्रीहासके लिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा। अ- यमपरदिशोडक्के मुश्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुर्म्लानमात्मानमिन्दुः ॥' अत्र ह- स्तशब्देन करा लक्ष्यन्ते। तेन चः किरणा इति नेयार्थत्वम्। वाक्ये यथा-'सपदि पङ्गि- विहंगमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवर्षिशितैः शरैः एवगसैन्यमुलूकजि-
Page 33
२ अध्याय: ] काव्यानुशासनम्। २३
ताजितम् ।।' अत्र पङ्गिविहंगमनामभृद्दशरथः । उलूकः कौशिकस्तेन चेन्द्रशब्दो ल- क्ष्यते। इन्द्रजितेत्यर्थः ॥ उभयार्थवाचकमप्यप्रसिद्धेऽर्े प्रयुक्तं निहतार्थम्। पदे यथा-'यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन। मुग्धा साध्वसतरला वि. लोक्य परिरभ्य चुम्बिता सहसा ॥I' अत्र शोणितशब्दो रुधिरे प्रसिद्धः। वाक्ये यथा- सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपतेः। अव्जरुचिभास्वरस्ते भातितरामव- निप श्लोकः ॥' सायकशब्दः खङ्गपर्यायः शरे प्रसिद्धः। मकरध्वजशब्दो जलधिपर्यायः कन्दर्पे प्रसिद्धः । क्षमाशब्दो भूपर्यायः क्षान्तौ प्रसिद्धः। अव्जशब्दश्वन्द्रपर्यायः पद्मे प्रसिद्धः। शलोकशब्दः कीर्तिपर्यायोऽनुष्रुभि प्रसिद्धः ॥ अप्रतीतमागमादेव प्रसिद्धम्। पदे यथा-'भान्ति धर्मगजालानस्तम्भविभ्रमकारिणः । चतसृष्वपि काष्ठासु मान- स्तम्भा महोच्छूयाः ॥' अन्र मानस्तम्भशव्दो जैनागमे प्रसिद्धः। वाक्ये यथा-'पञ्चा- णुव्रतानि गुणात्त्रयः शिक्षाव्रतानि च। चत्वारि स्युर्गृहस्थानां शुद्धसंपत्कयोगतः ॥' अ- त्राणुव्रतादीनि जैनागमे प्रसिद्धानि। असौ तु खदर्शनोक्तौ विशेषतो गुणः । ग्राम्यमविदग्घजनोक्तिः । पदे यथा-'राकाविभावरीकान्तसंकान्तद्युति ते मुखम्। तपनीयशिलाशोभा कटिश्च हरते मनः ॥' अत्र कटिरिति ग्राम्यम्। वाक्ये यथा-'ताम्बूलभृतगल्लोऽयं भल्लं ज- ल्पति मानवः । करोति खादनं पानं सदैव तु यथा तथा ।' तच्च विदूषकमुग्धादिजल्पिते विशेषतो रम्यम्। यथा-'फुलुकरं कलमकूरसमं वहंति जे सिंदुवारविडवा मह वल्लहा दे। ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥' अन्यार्थप्रतिभासुनेन [यत् ] संशयकृ त्तत्संदिग्धम् । पदे यथा-'न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्ं सुतजन्महर्षितः। ऋणाभिधाना- त्सयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् I' अन्र 'संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः' इति संदिग्धम्। वाक्ये यथा-'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गण प्रवणो भाखद्भतिरेष विलोक्यताम् ।।' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः संदि- ग्धाः। वक्रोक्तौ गुणः । यथा-'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः। भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥'अत्रानुशयः कोपः, पश्चात्तापक्ष।
१. कर्पूरमञ्जर्यामेकोनविंशस्यास्य च्छाया यथा-'पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते। ये गालितस्य महिषीदभ्रः सदृक्षास्ते किं च मुग्धविच- किलप्रसूनपुञ्ाः ॥'
Page 34
२४ काव्यमाला।
अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो मानना- मिति च॥ इष्टार्थप्रतिपादनाक्षममवाचकम्। पदे यथा-'जङ्गाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्र- सरकिसलयो मन्नुमजजीरहंसः। भर्तुरनृत्यानुकारे जयति निजतनुस्च्छलावण्यवापीसं- भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥'अत्र दधदित्यर्थे विदधदित्यवाच- कम्। विपूर्वो हि दधातिः करोत्यर्थे वर्तते। यदाह-'उपसर्गेण धात्वर्थो बलादन्यन्न नीयते'। यथा च-'उद्गर्जज्जलकुअरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदर- भुवः कुर्वन्प्रतिध्वानिनीः । उच्चैरुच्चरतिध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रेङ्र- दसंख्यशङ्वधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु ग- र्जितमेव। यदाह-'ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणितं वीणादिषु, शिञ्जितं नूपुरादिषु, मणितं सुरतादिषु, कूजितं विहंगादिषु, वृंहितं वारणेषु, हेषितं हयेषु, आरव: पटहेषु, ढेत्कृतं वृषभेषु, रवो मण्डूकेषु, नाद: सिंहेषु, फूत्कारः स- र्पेषु, वूत्कारः कपिषु, घूत्कारो घूकेषु, चटत्कारोSननिस्फुलिङ्गेषु, कटत्कारो भङ्गेषु, सू- त्कार: सायकेषु, गुज्जाकारो भृङ्गेषु, घमघमारवो घर्घरेषु, भाङ्कारो भेरीषु, केकारवः क- लापिषु, सीत्कार: कामिनीषु, झङ्कारः किड्किणीषु, टङ्कारो मौर्वीषु, भात्कारो झह्लरीषु, घोषो नदीवीचिषु, प्रसिद्धो नान्यत्र। तद्यथा प्रसिद्धं तत्तथैव बध्रीयात्। अन्यथा त्ववाच- कत्वदोषः। वाक्ये यथा-'विभजन्ते न ये भूपमालभन्ते न ते श्रियम्। आवहन्ते न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विपूर्वो भजिर्विभागे, न सेवने। आङ्पूर्वो लभिर्विनाशे, न प्रापणे। आङ्पूर्वो वहिः करोत्यर्थे, न धारणे। प्रपूर्वः स्मरतिर्विस्मर- णेडर्ये, न तु स्मरणे इति॥ न्यूनपदाधिक पदोक्तपदास्थानस्थपद पतत्प्रकर्षसमाप्तपुनरात्ताविसर्गसंकी- र्णगर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः। तत्र- विश्लेषेऽश्लीलत्वे कष्टत्वे च संधिवैरूप्यं विसंधिः । विश्लेषे यथा-'राजन् विभान्ति भवतश्वरितानि तानि इन्दोर्दुंति दधति यानि रसा- तलान्तः । धीदोबले अतितते उचितार्थवृत्ती आतन्वती विजयसंपदमत्र भातः ॥' अश्ली- लत्वे यथा-'विरेचकमिदं नृत्तमाचार्याभासयोजितम्। चकाशे पनसप्रायैः पुरी षण्डम- हाद्रुमै: ॥' अत्र विरेचकशेपपुरीषशब्दा अश्लीलाः । कष्टत्वे यथा-'उर्व्यसावत्र तर्वा- लीमर्वन्ते चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्॥' १. 'विसंधि' इति पाठ आदौ त्रुटितो भवेत्.
Page 35
२ अध्याय: ] काव्यानुशासनम्। २५
अवश्यवाच्यस्यानभिघाने न्यूनपदम्। यथा-'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि। सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्या तव कथंचिदपह्ुतिर्भूत्।।' विश्वस्य धात- रीत्यत्र चशब्दो युज्यते। स नास्तीति न्यूनपदत्वम्। 'परमेश्वरे च' इति तु पाठे युक्तम्। तथात्रैव 'मा लज्या तव कथंचिदपह्वुतिर्भूत्' इत्यत्र खाभिप्रायस्येति न्यूनम् ॥ विक्कवाद्युक्तौ न दोषः ।
न्नितम्बाम्बरा। मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीनाथवा ।'
'दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम्। वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजिः सशब्दो युजिश्वाधिकः । एतद्विनाप्यर्थावगतेः । यथा च-'बिस- किसलयच्छेदपाथेयवन्तः'। अत्र 'मत्वर्थीयाद्वरं बहुव्रीहिः' इति मत्वर्थीयोऽधिकः। पाधेया इति तु युक्तम्॥ एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपद्म्। 'नैकं पदं द्विः प्रयुजीत' इति कविसमयः । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम्। उद्गर्जद्विकटाटवीगजघटापीठै- कसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्र्रिणः ॥' अत्रैकशब्दः ॥ लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः । तत्र लाटानुप्रासे यथा-'चोलः कोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाटः पट्टबन्धं भजति न भजते गुर्जरो निर्भराणि। चेदि्लीलायतेSसौ क्षितिपतितिलक: कान्यकुब्जः सकुब्जो भोज त्वत्तत्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥' गृहीतमुक्तके यथा-'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभः । वल्लवी(भी)कृतपूर्वाशः पूर्वाशातिलको रवि: ॥' विहितानुवादे यथा-'निर्द्रव्यो ह्ियमेति हीपरिगतः प्रभ्रश्यते तेजसा निस्तेज़ाः परिभूयते परिभवान्निर्वेदमागच्छति। निर्विण्णः शुचमेति शोकविकलो बुद्धा परित्रश्यते निर्वुद्धि: क्षयमेत्यहो विधनता सर्वापदामास्पदम् ।।'
यथा-'मा भाङ्कीर्विभ्रमं भ्रूरधरविधुरता केयमस्यास्य रागं प्राणे प्राण्येव नायं कल- यसि कलहं श्रद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो वो मूर्पि मुख्यान्मरुदसुहृदसून्संहरत्नङ्गिरंहः ॥' अत्र 'वः' इति पदं 'मूर्ति' इतिपद्सां- १. तिमिरेऽन्धका अन्धास्तेषां वल्लभः.
Page 36
२६ काव्यमाला।
निध्यादस्थाने पतितम्। यथा च-'सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः। वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्ष- णेन ।I' अन्र 'वसनम्' इति पदं पूर्वार्धमतिकम्यास्थाने पतितम् । 'नार्धे किंचिदसमा- प्रम्' इति कविसमयः । तथा 'अपि निशान्ते' इत्यन्नापि 'निशान्तेऽपि' इति युक्त्तम्॥ आनुपूर्व्या हीयमानप्रकर्ष पतत्प्रकर्षम्। यथा-'अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। उद्भिन्ननवश्मश्रुश्रेणि- रिव गणाधिपो जयति ॥' समाप्य पुनर्गृहीतं समाप्तपुनरात्तम् । यथा-'गाहाण रसा महिलाण बिब्भमा कइप (व)राण वयणाइं। कस्स न हरन्ति हिअअं बालाण य मम्मणुल्लावा ॥'अन्र 'बालाण य मम्मणुल्लावा' इति पदं संधितपु- च्छप्रायं न खदते॥ विसर्गस्याभावोऽविसर्गत्वम्। यथा-'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः। यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रदायिनः ॥' अन्रोत्वेन लोपेन च विसर्गाभावः ॥ वाक्यान्तरपदैरनुविद्धं संकीर्णम्। यथा-'कायं खायइ छुहिउ क्ूरं व्वल्लोइ निट्ठुरं रुट्ठो। सुणयं गिण्हइ कण्ठे हक्केइ अनत्ति यंथेरो ।I' अत्र 'काक क्षिपति, कूरं खादति, श्वानं भेषयति, नप्तारं कण्ठे गृह्णाति' इति वक्तुमुचितम् ॥। उक्तिप्रत्युक्तौ गुणः । यथा-'कोडयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये हुंहुं तर्हि विमुश्च कातर- मते शौर्यावलेपक्रियाम्। मोहोऽनेन विनिर्जितः प्रभुरसौ तत्किंकराः के वयं(?) इत्येवं रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥' वाक्यान्तरानुप्रवेशो गर्मितम्। यथा-'मार्गे कर्दमदुस्तरे जलभृते गर्ता(?)शतैराकुले खिन्ने शाकटिके भरेऽतिनिमृते दूरोद्ुरे रोधसि। शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को भरम् ॥' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते॥ प्रक्रमभङ्गो भग्नप्रक्रमत्वम्।
१. 'गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि। कस्य न हरन्ति हृदयं बालानां च मन्मनोल्लापाः ॥' इति च्छाया. २. 'बुद्धिप्रभान्विताः' इति काव्यप्रदीपे. ३. 'काकं खादति क्षिपति कूरं भाषयति निष्ठरं रुष्टः। शुनकं गृह्नाति कण्ठे आकारयति .................. ॥।' इति च्छाया.
Page 37
२ अध्याय: ] काव्यानुशासनम् । २७
यथा-'बभूव भस्मैव कृताङ्गरागः कपालमेवामलशेखरश्रीः। उपान्तभागेषु च रोच- नाङ: सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचमैंव दुकूलमस्य' इति युक्तम्। यथा- 'ते हिमालयमामन्न्य पुनः प्राप्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थे तद्विसृष्टाः खमु- द्ययुः ॥' अत्र 'अनेन विसृष्टाः' इति युक्तम्। यथा च-'पाश्चात्यभागमिह सानुषु सं- निषण्णा: पश्यन्ति शान्तमलसान्द्रतरांशुजालम्। संपूर्णलब्धललनाललनोपमानमुत्सङ्गस- ड्विहरिणस्य मृगाङ्कमूर्ते: ॥' अत्र 'उत्सङ्गसंगतमृगस्य मृगाङ्कमूर्तेः' इति युक्तम्॥ अघटमानसंबन्घोऽनन्वितम्। यथा-'प्रज्ञापुजमयाज्ञानं राधा वेधस्य कारणम्। धाराया विपरीतस्य नूनं न क्षमते प्रभु: ॥' अन्र वैपरीत्यं शब्दकृतम्, उतार्थकृतमित्यनन्वयः ॥ द्वयोरपि वाक्ययोः संबद्धमर्थान्तरैकवाचकम्। यथा-'उदयमहिमरश्मिर्याति शीतांशुरस्तम्।'अन्न'याति'इतिपदमुभयत्रापि संबध्यते॥ यत्र नेष्टसंबन्धप्रतिपत्तिस्तदभवन्मतयोगम्। यथा-'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः। अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्ते चन्द्रहासः ॥' अत्र भार्गवस्य निन्दा तात्पर्यम्। कृतवतेति परशौ प्रतीयते। कृतवत इति तु युक्कम्॥
तत्र- दुरवबोध: कष्टः । यथा-'शूलं तूलं तु गाढं प्रहर हर हृषीकेश केशोऽपि वकश्चक्ेणाकारि किं ते पवि- रवति न हि त्वाष्ट्रशत्रोद्युराष्ट्रम्। पाकाकेशोऽव्जनालान्यनल न लभसे भातुमित्यात्तद्पो जल्पन्देवान्दिवौको रिपुरवधि यया सासु शान्त्ै शिवा वः ॥' प्रकृतानुपयोग्यपुष्टः । यथा-'अनणुरणन्मणिमेखलमविरतशिज्ञानमजुमञ्जीरम्। परिसरणमरुणचरणे रण- रणकमकारणं कुरुते ॥।' अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीत्- पुष्टार्थम् ॥ पूर्वापरप्रतिबन्धोव्याहतत्वम् । यथा-'जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिसुभगाः सन्तेवान्ये मनो १. "अन्न 'अस्मै' इतीदमा प्रक्रमात् 'तद्विसष्टाः' इत्यन्नापि 'अनेन विसृष्टाः इत्येव वाच्यम्" इति काव्यप्रदीपे.
Page 38
२८ काव्यमाला।
मदयन्ति ये। मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥' अत्र नवेन्दुकलादयो भावा यं प्रति न किंचिदिव, स एवोत्कर्षार्थ चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥। अविद्ग्धजनोचितं ग्राम्यम्। यथा-'छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम्।'
यथा-'तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवरोमराजिः। नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥' अत्र मध्यमणिशब्देनाशीलं व्यज्यते॥ अवश्यवाच्यार्थहीनः साकाङ्ः। यथा-'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रह्यन्दाशरथिर्विरुद्धच- रितो युद्धस्तया कन्यया। उत्कर्ष च परस्य मानयशसोर्विस्त्रंसनं चात्मनः स्त्रीरत्नं च जग- त्पतिर्दशमुखो देवः कथं मृष्यते ॥' अन्न स्त्रीरत्नं परस्येत्याकाङ्कयते॥ उभयार्थप्रतिपत्तिकृत्संदिग्घम्। यथा-'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु। सेव्या नितम्बाः किल भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥I' अत्र कारणाद्यभावे संदेहः॥ क्मपरिहाराद्यक्रमः । तुरङ्गं मातङ्गंवा मे प्रयच्छ। रूपकं विशोपकं वा गृहाण। भुक्त्वा स्नात्वा च देवान- ञ्चति। साहित्यं लक्षणं चाधीते। शतेनाधिका विंशतिः। सचाप बाणमादत्ते। वैश्या- दयो वर्णाः ॥ कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम्। यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः। दिलीप इति राजेन्दुरिन्दुः क्षीरनि- धाविव ।।' अत्रेन्दुरिति पुनरुक्तम्॥ कारणोक्तौ तु गुणः । यथा-'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।I' अत्र-'अहं कुसुमायुधः, हरस्तु पिनाक- पाणिः, तथापि धैर्यच्युति करिष्यामि' इति विशेषोक्तौ गुणः ॥
१. "अत्र 'खीरत्नम्' इत्यर्थः 'उपेक्षितुम्' इत्यस्यार्थमाकाह्कति। अन्यथा 'कथं मृ- ष्यते' इत्यनेनामर्षार्थकेनान्वयाप्रसङ्गः। नहि स्त्रीरत्नमेवामर्षः, किंतु तदुपेक्षायाम्। नच परस्य' इत्येतदन्तर्भाव्य तदन्वयोऽस्तिति वाच्यम् । तस्य जनितान्वयबोधत्वेन निरा- काह्ृत्वात्" इत्यादि काव्यप्रदीपे. २. 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्ग- णप्रवणो भाखद्भतिरेष विलोक्यताम् ।' इति काव्यप्रदीपोदाहरणमेव युक्कतं प्रतिभाति.
Page 39
२ अध्याय: ] काव्यानुशासनम्। २९
उचितसहचारिभेदो भिन्नसहचरत्वम् । यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता प्रियेण नारी सलिलेन निम्नगा। निशा शशा- ङ्रेन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतबुद्यादिभिरुत्कृष्टैः सह
विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्गचम्। यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमख- मुखे यं मृगयसे। सुलने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मद- ननगरि ध्यायसि तु यम् ।' अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते॥ अन्यथा वर्णनात्प्रसिद्धिविरुद्धम् । यथा-'येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्क- धवला पद्मोदरे शारदी। भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोडयं भृङ्गयुवा करीरविटपे बभ्नाति तुष्टिं कुतः ॥' अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः ॥ शास्त्रोक्तविपर्यासे विद्याविरुद्धः । यथा-'मृगीदृशः पल्ववरागकोमलो विभाति दन्तव्रणमुत्तराधरे।' अन्र व्रणमधरा- धर एव कामशास्त्रे विहितं नोत्तराधरे॥ अहेतूक्तौ निर्हेतुः। यथा-'चक्री चक्ारपङ्टि हरिरपि च हरीन्धूर्जटिरधूर्ध्वजान्तानक्षं नक्षत्रनाथोSरुण- मपि वरुण: कूबराग्रं कुबेरः । रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥' अत्र किमर्थ चक्री चक्रारपङ्गिमेव स्तवीतीति हेतुनोक्त: ।। लोकप्रसिद्धौ तु न दोषः । यथा-'चन्द्रं गता पद्मगुणान्न भुङ्गे पद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥' अत्र रात्रौ पद्मस्य संकोचः। दिवा चन्द्रमसो निष्प्रभत्वं च लोके प्रसिद्धम् इति हेतुं नापेक्षते। परिवृत्तनियमानियमसामान्य- विशेषविध्यनुवादादयः काव्यप्रकाशादावुक्ता अपि पूर्वोक्तेष्वेवान्तर्भवन्तीत्यस्माभिनोंकाः॥ दोषानभिधाय गुणानाह- कान्ति सौकुमार्य ल्लेषार्थव्यक्तिसमाधिसम तौदार्यमाधुर्यौजःप्रसादा दश गुणाः । तत्र- लौकिकार्थानतिक्रमेणौज्जवल्यं कान्तिः ।
१. 'मदेन' इति काव्यप्रदीपे. का. ५
Page 40
३० काव्यमाला।
रुचिर कनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहित हस्तखस्तिकाभिर्वधूभिः ॥' अकाठिन्यं सौकुमार्यम् । यथा-'जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैर्गीतैः समाहृतमा- नसा। इह हि हरिणी मन्दं मन्दं प्रयाति नभःपथे समजनि मृगीनेत्रा रात्रिस्ततोऽति- गरीयसी ।' यत्र पदानि परस्परस्फूर्तानीव, स क्लेषः । यथा-'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधी शशिखान्तशायिनो भवच्छिदरूयम्बकपादपांसवः ।।' यत्र सुखेनार्थप्रतीतिः सार्थव्यक्तिः । यथा-'बाले तिलकलेखेयं भाले भल्लीव राजते। भ्रूलताचापमाकृष्य न विद्यः कं हनिष्यति॥' अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः। यथा-'रिपुषु सहजतेजःपुञलीलायितैस्तैरजनि जनितकम्पस्तत्सुतो भूमिभर्ता। प्रतिनृपतिवधूनां पल्लविन्यश्रुपूरैरधिवियदधिरूढा कीर्तिवल्लिर्यदीया ॥' अविषमबन्धत्वं समता। यथा-'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्धि घर्मः कठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभि: शिक्षिता वीक्षिता च॥' विकटबन्धत्वमौदार्यम्। यथा-'वाचाला कनकमयध्वजाग्रसङ्गिव्यालोलस्फुरदुरुकिङ्गिणीनिनादैः। चैत्याली जगति न कस्य राहडस्य प्रेङ्वन्ती भवति मनःप्रहर्षणीयम् ॥' यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम्। शृङ्गारशान्तकरुणेषु क्रमे- णाधिक्य(क)म् । शृङ्गारे यथा-'प्रियतमावदनेन्दुविलोकितैरसुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तलाद्वलति याति चलत्यथ यात्यथ ।I' शान्ते यथा-'यैः शान्तरागरु- चिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ।I' करुणे यथा-'गृहिणीसचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वं वद किं न मे हृतम् ॥।' दीप्तिहेतुरोजः । वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम् । तत्र वीरे यथा-'शैलो तुङ्गतरङ्वेगगमनप्रोत्कम्पमानाव निस्तम्बक्षोभितभैरवार्णवभ- वत्कल्पान्तकालभ्रमम्। क्रोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव इतं त्रूत ब्रूत भटा:
Page 41
२ अध्याय: ] काव्यानुशासनम् । ३१
क्व सक स नरः शम्बूकजीवाहरः ॥' बीभत्से यथा-'उत्कृत्योत्कृत्य कृत्ति प्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फिकपृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा। आत्तक्षा- य्वन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करक्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र- मत्ति ॥' रौद्रे यथा-'चश्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य। स्त्यानावब्रद्धघनशोणितशोणशोचिरुत्तंस यिष्यसि कचांस्तव देवि भीमः ॥।' झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः । यधा-'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः। लतावधूभ्यस्तर- बोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥' इति। इति दण्डिवामनवाग्भटादिप्रणीता दश काव्यगुणाः। वयं तु माधुयौंजःप्रसादलक्षणास्त्रीनेव गुणान्मन्यामहे। शेषास्तेष्वेवान्तर्भ- वन्ति। तधथा-माधुर्ये कान्तिः सौकुमार्ये च, ओजसि श्लेषः समाधिरुदारता च, प्र- सादेऽर्थव्यक्तिः समता चान्तर्भवति। यदाह-'माधुर्यौजःप्रसादाख्यात्त्रयस्ते न पुनर्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश॥' माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽस- मासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ हृस्वान्तरितौ च प्रयोज्यौ। तत्र कोमलबन्धो यथा-'अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन। यो हेमकुम्भस्तननिःसतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥' असमासो यथा-'अमीभिः संसकतैस्तव किमु फलं वारिद घटेद्यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं न तु सुखयितुं चातकपशुर्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान्।।' निज- पश्चमाक्रान्ता वर्गा यथा-'शिञ्ञानमञुमज्जीराश्चारुकाश्चनकाञ्चयः । कङ्कणाङ्कभुजा भा- न्ति जितानङ्ग तवाङ्गनाः ॥' ह्रस्वान्तरितौ रणौ यथा-'दारुणरणे रणन्तं करिदारणका- रणं कृपाणं ते। रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः ॥' 'टवर्गरहिताः' इति वचनाट्टवर्गो न कार्यः । यथा-'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम्। कम्बुकण्ठ्या: क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥' ओजोगुणयुक्ता गौडीया रीतिः। अस्यां च बन्घौद्धत्यं समासदैर्ध्य संयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थौ युक्तौ रेफश्च कार्यः । यथा-'दंष्र्राल: स्फुटकुन्दकुद्लशतैर्जिह्वाल उल्लासिभिः किं किल्लिदुमपल्लवैः शित- मुखैः प्रेद्वन्नखः किंशुकैः। वल्लीजालविशालबालधिरसावत्रोज्जयन्ताचलो बन्धूकोद्धतलो- चनः प्रकुरुते शार्दूलविक्रीडितम् ॥' यथा च-'मूर्धामुद्दृत्तकृत्ताविरलगलगलद्रक्तसंसक्त- धाराधौतेशाङ्गिप्रसादोपनतजय जगज्जातमिथ्यामहिम्राम्। कैलासोललासनेच्छाव्यतिकरपि- शुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः।।' प्रसाद्गुणयुक्ता पाश्चाली। अत्र सुश्रिष्टो बन्धः प्रसिद्धानि च पदानि।
Page 42
३२ काव्यमाला।
'निजकरनिकरसमृच्या धवलय भुवनानि पार्वणशशाङ्क। सुचिरं हन्त न सहते हतवि- धिरिह सुस्थिरं किमपि ॥' एताश्चोपनागरिका परुषा कोमलेति केचिदाहुः। यदाह- 'माधुर्यव्यञ्जकैः शब्दैरुपनागरिकेष्यते। ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः ॥ केषां- चिदेता वैदर्भीप्रमुखा रीतयो मताः ॥' इति महाकविश्रीवाग्भटविरचिताया मलंकारति लकाभिधान खोपज्ञ काव्यानुशासनवृत्तौ दोषगुणविवेचनो नाम द्वितीयोऽध्यायः ।
तृतीयोऽ्घ्यायः । अलंकाराः खलु द्विविधाः। शब्दालंकारा अर्थालंकाराश्च। तत्र तावदर्थमधिकृत्य शब्द: प्रवर्ततेऽतः प्रथममर्थालंकारा एवोदाहि-
न्यमीलित विशेषपूर्वहेतुसारसूक्ष्मलेश प्रतीपपिहितव्याघातासंगतिहेतु श्लेषम-
आशीःप्रभृतयोऽर्थालंकाराः । तद्यथा(तत्र)- यथास्थितवस्तुसरूपवर्णनमग्राम्यं जातिः । सा च त्रस्तार्भकदीनतिर्य- ग्युवतिप्रभृतिषु विशेषतों रम्या। तत्र त्रस्तस्रूपं यथा-'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्घेन प्रविष्टः शरपतनभयाड्गयसा पूर्वकायम्। द्भैरर्धावलीढैः श्रमविततमुखभ्रंशिभिः कीर्ण- वर्त्मा पश्योदग्रपठुतत्वाद्वियति बहुतरं स्तोकमुव्या प्रयाति ॥' अर्भकस्वरूपं यथा-'उदय- शिखरिशङ्गप्राङ्गणेष्वेव रिङ्वन्सकमलमुखहासं वीक्षितः पद्मिनीभिः । प्रसतमृदुकराग्रः शब्दयन्त्या वयोभि: परिपतति दिवोऽक्के हेलया बालसूर्यः ॥'दीनसरूपं यथा-'बर्हावली- बहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः। गुज्ाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः॥' तिर्यक्सरूपं यथा-'मेदखिविनः सरभसापगता- नभीकान्भड्क्त्वा पराननडुहो मुहुराहवेण। ऊर्जखलेन सुरभीमनुनिःसपल्नं जग्मे जयो- डुरविशालविषाणमुक्ष्णा ॥' योषित्सवरूपं यथा-'उत्तालतालविचलद्वलयावलीकं सदः सखीजनविनिर्मितमण्डलीकम्। गायन्ति रासकविधाविह मेदपाटनार्योऽधुनापि तव नेमिकुमार कीर्तिम् ।।'
Page 43
३ अध्याय: ] काव्यानुशासनम्। ३३
चमत्कारि साम्यमुपमा। सा प्रत्ययाव्ययतुल्यार्थसमाप्तैश्चतुर्धा। चमत्कारि सहृदयहृदयहारि उपमानोपमेययो: साम्यमुपमा। यथा-'गत्या विभ्रम- मन्दया प्रतिपदं या राजहंसीयते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम्। यस्या- क्षानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाग्रदतीं त्यजजिनपती राजीमर्ती पातु वः ॥' चमत्कारीति वचनात् 'कुकुम्भ इव मुखम्' इत्यादौ सादृश्येषूपमां न कार्या। सा प्रत्ययाव्ययतुल्यार्थसमासमेदैश्वतुर्धा भवति॥ तत्रापि वत्कल्पदेश्यदेशीयप्रभृतयः प्रत्ययाः । अव्ययानि इव वायथाप्रभृतीनि। 'तुल्यार्थास्तुल्य संकाशाः(श) प्रकाशप्रतिरूपकाः। नीकाशसदृक्सदृशसदृक्षनिभसंनिभा: ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । हार्यनुकारीसंवादिसजातीयानुवादिनः ॥ प्रति- विम्बप्रतिच्छन्दस्वरूपसमसप्रभाः । सलक्षणसमानसाभाः सपक्षोपमितोपमाः ॥ स- वर्णतुलितौ शब्दौ प्रख्यौ प्रतिनिधी अपि। स्पर्घते जयति द्वेष्टि द्ृप्यति प्रति- गर्जति॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीर्ष्यत्य- सूयति ॥ तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति। तेन सार्ध विगृह्णाति तस्य कक्षां विगाहते॥ तत्पदव्यां पदं धत्ते तुलां तेनाधिरोहति। तमन्वेत्यनुबभ्नाति तच्छीलं तन्निषेधति । तस्य चानुकरोतीति शब्दाः सादृश्यवस्तुनि ॥' समासो बहुव्रीहिप्रभृतिः । यथा-चन्द्रवदने त्यादि।सा च धर्मवस्तु विपर्यासान्योन्यनियमानियमसमुच्चयातिशयोत्प्रेक्षाद्ध- तमोह संशय निर्णय श्रेषसमानप्रशंसाचिख्यासाविरोध प्रतिषेधचटुतत्वाख्यानसाधारणभूता संभावित बहुविक्रियामालावाक्यार्थप्रतिव स्तुतुल्ययोगहेतुरसनोपमादिभेदैरनेकधा भवति। तत्प्रबन्धस्तु दण्डिनो द्रष्टव्यः । इह तु ग्रन्थगौरवभयात्प्रकृतानुपयोगाच्च नोच्यते॥
१. 'अम्भोरुहमिवाताम्रं मुग्धे करतलं तव। इति धर्मोपमा साक्षात्तु्यधर्मप्रदर्श- नात्। राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव। इति प्रतीपमानैकधर्मा वस्तूपमैव सा। तवाननमिवोन्निद्रमरविन्दमभूदिति। सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते। त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम्। इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी॥ त्वन्मुखं कमलेनैव तुल्यं नान्येव केनचित्। इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा॥ पझ्मं तावत्तवान्वेति मुखमन्यच्च तादृशम्। अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव। ह्रादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी॥। त्वय्येव त्वन्मुखं दृष्ट दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा॥ मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः। पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा।। यदि किंचिद्भवेत्पझ्ं सुभ्रु विभ्रान्तलोचनम्। तत्ते मुखश्रियं धत्तामित्यसावद्भुतोपमा॥ शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया। इन्दुमप्यनुधावामीत्येषा मोहोपमा मता ॥ कि पद्ममन्तर्भ्रान्तेति किं ते नीलेक्षणं मुखम्। मम दोलायते चित्तमितीयं सं- शयोपमा॥ न पद्मस्येन्दुनिग्राह्यस्यन्दुलज्ाकरी द्ुतिः। अतस्त्वन्मुखमेवेन्दुमित्यस्रौ
Page 44
३४ काव्यमाला।
लिङ्गवचनवैषम्यं हीनाधिक्यं चोपमादोषः । तत्र लिङ्गवचनवैषम्यं यथा-'परमातेव निःस्नेहाः परकार्याणीव शीतलाः। सक्तवो भक्षिता राजन् शुद्धा: कुलवधूरिव ।' हीनाधिक्यं यथा-'शुनीयं गृहदेवीव प्रत्यक्षा प्र० तिभासते। खद्योत इव सर्वत्र प्रतापश्च विराजते ॥' अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा। तां चेवमन्येशक्केध्रु- वमित्यादिभिर्द्योतयेत। इव यथा-'दिशतु विरतिलाभानन्तरं पार्श्वसर्पन(?)मिविनमिकृपाणोत्सङ्गदश्याङ्ग- लक्ष्मीः । त्रिजगदपगता यत्कर्तुमातान्यरूप(?)द्वय इव भगवान् वः संपद नाभिसूनुः॥' मन्ये यथा-'नाभेयचैत्यसदने दिशि दक्षिणस्यां द्वाविशति विदधता जिनमन्दिराणि। मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः ॥' शङ्के यथा-'विर निर्णयोपमा॥ शिशिरांशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च। अम्भोजमिव ते वक्रमिति श्लेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा। बालेवोद्यानमालेयं सालकाननशोभिनी॥ पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम्। समानमपि सोत्सेक- मिति निन्दोपमा मता॥ ब्रह्मणोऽप्युद्धवः पद्मश्चन्द्रः शंभुशिरोधृत :। तौ तुल्यौ त्वन्मु- खेनेति सा प्रशंसोपमेष्यते।। चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः ॥ शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम्। परस्परविरोधीति सा विरोधोपमा मता॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिग- जिंतुम्। कलडिनो जडस्येति प्रतिषेधोपमैव सा ॥ मृगेक्षणाङं ते वक्रं मृगेणैवाङ्कितः शशी। तथापि सम एवासौ नोत्कर्षीति चटूपमा॥ न पदमं मुखमेवेदं भृङ्गौ तु चक्षुषी इमे। इति विस्पष्टसादृश्यात्ततत्वाख्यानोपमैव सा ॥ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव। आत्मनैवाभवत्तुत्यमित्यसाधारणोपमा॥सर्वपद्मप्रभासारः समाहृत इव क्वचित्। त्वदाननं विना भाति तामभूतोपमां विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। परुषा वागितो वक्रादित्यसंभावितोपमा ॥ चन्दनोदकचन्द्रांशुचन्द्रकान्तादि- शीतलः। स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा ॥ चन्द्रबिम्बादिवोत्कीर्ण पद्मगर्भादि- वोद्धृतम्। तव तन्वङ्गि वदनमित्यसौ विक्रियोपमा॥ पूष्ण्यातप इवाह्वीव पूषा व्यो- त्रीव वासरः । विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमाक्रमा॥ वाक्यार्थेनैव वाक्यार्थ: कोऽपि यद्युपमीयते। एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा॥ वस्तु किंचिदुप- न्यस्य व्यसनात्तत्सधर्मणः। साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा॥ अधिकेन समा- हृत्य हीनमेकक्रियाविधौ। यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा॥ कान्त्या च- न्द्रमसं धाम्रा सूर्ये धैर्येण चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ॥' इत्यादिरीत्या दण्डिग्रन्थे विस्तरः. १. 'न लिङ्गवचने मिन्ने न न्यूनाधिकतापि वा। उपमा दूषणायालं यत्रोद्वेगो न धीमताम् ।।' इति दण्डी.
Page 45
३ अध्याय: ] काव्यानुशासनम् । ३५
कसंध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्रतो मां भरतः ससैन्यः ॥' ध्रुवं यथा-'कमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं वि- गाह्यते। ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदुप्रकृत्या च सुरार(१)मेव च ।' नूनं यथा- 'यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः। आराधितोद्धामनुरप्सरोभिश्वक्रे प्रजा: खाः सनिमेषचिह्वाः ।' सादृश्याद्वेदेनारोपो रूपकम् । सादृश्याद्धेतोर्भेदेन विषयविषयिणोर्निर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यव- सायो रूपकम्। सादृश्यादिति वचनादायुर्धृतमित्यादौ कार्यकारणभावादारोपे न रूपकम्। भेदग्रहणादभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम्। तच्चकानेकमालासमस्तव्यस्तख- ण्डाखण्डयुक्तायुक्तविषम विशेष हेतु श्रेषोपमाव्यति रेकाक्षपसमाधानरूपकत्वापह्ववरसनापर- म्परितादिभेदैरनेकधा। तत्रैकविषयं यथा-विश्वेभ्यो भूर्भुवः खः शतमख्रमुकुटश्लिष्टमुक्ता- मयूखस्नाताः श्रीनाभिसूनोः क्मनखमणयो मङ्गलानि क्रियासुः । येषामुत्सङ्गविद्यां शुचि- रुचिलह रीताण्डवाडम्बरायां संक्ामन्दुग्धसिन्धोः स्मरसि मुहुरसौ यामिनीकामिनीशः॥' अनेकविषयम्-'कामं संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमक- लशे तत्कायदेवालये। तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे नेमुरनर्ति- घुर्जगुरगुर्वैतालिकत्वं पुरः ॥' एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूत्यम्॥ आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसंगति- स्तद्दीपकम्। जात्या यथा-'उत्साह संपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञं व्यसनेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः सयं मार्गति वासहेतोः ॥I' क्रियया यथा-'शा्येन मित्रं कपटेन धर्मे परोपतापेन समृद्धिभावम्। सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डि- तास्ते ॥' गुणेन यथा-'जवो हि सप्तेः प्रथमं विभूषणं त्रपाङ्गनायाः कृशता तपखिनः । विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रम: शस्त्रबलोपजीविनाम् I' द्रव्येण यथा-'विष्णुना विक्रमस्थेन दानवानां विभूतयः । क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥' अस्य च कारणमालैकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति। तत्र कारकदीपकं यथा-'एते मेलककन्यकाप्रणयिन: पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः । हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरितत्यक्तखवीकृतनिह्वतप्रक- ढित प्रोद्ततीरदमा: ॥' इत्युत्तरार्धे कारकदीपकं यथा। एवमन्यदवि॥ उपमेयस्यैवोक्तावन्यप्रतीतिरन्योक्तिः । यथा-'न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते बीजान्यङ्कुरगोचराणि क- तिचित्सिद्न्ति तस्मिन्नपि। एकस्तेष्वपि कश्चिदङ्गुरवरो बध्नाति तामुन्नर्ति यामध्वन्य- जनः खमातरमिव क्वान्तिच्छिदे धावति ॥'सा क्वचिन्निन्दारूपा यथा-'यत्तद्वर्जितमू-
Page 46
३६ काव्यमाला।
जिंतं यदपि च प्रोद्दामसौदामनीदामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः। तेषां पर्य- वसानमीदृशमिदं जातं यदम्भोधर द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः॥।' क्क- चित्स्तुतिरूपा यथा-'क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नो- डपि विपन्नदीधितिरपि प्राणेषु गच्छत्खपि। मत्तेभेन्द्रविशालकुम्भदलनव्यापारवद्धस्पृहः किं जीण तृणमत्ति मानमहतामग्रेसरः केसरी ॥' उभयरूपा यथा-'निष्कन्दामरवि- न्दिनीं स्थपुटितोद्देशां कशेरुस्थलीम्। जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान्। दंष्रायां चतुरर्णवोर्मिपटलैराल्ठावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी ।।' उपमेयश्र्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः । यथा-'उपोढरागेण विलोलतारकं तथागहीतं शशिना निशामुखम्। यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्वलितं न लक्षितम् ।' उपमेयस्य किंचिदुक्तावप्रस्तुतप्रशंसा । "यथा-'लावण्यसिन्धुरपरैव हि केयमत्र यत्रापरे कदलिकाण्डमृणालदण्डाः । यत्रोत्प- लानि शशिना सह संष्वन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र ।' ध्वनिताभिधानं पर्यायोक्तिः । वाच्यादिव्यतिरिक्तस्यार्थस्य प्रतीतिर्ध्वनितम्। तस्याभिधानं पर्यायेण समीहितार्थोकति: पर्यायोकिः। सा च वाच्ये विधिरूपे क्वचिन्निषेधरूपा यथा-'भैम धम्मिअ वीसत्थो सो सुणहो अज्ज मारिओ देण। गोलाणइकच्छकुडङ्गवासिणा दरिअसींहेण ॥' अन्न विश्रब्धो भ्रमेति विधिवाक्ये सांप्रतं तत्र संकेतस्थाननिकुञे सिंहः समायातोऽस्तीति लया तत्र न गन्तव्यमिति निषेधः प्रतीयते ॥ क्वचिन्निषेधे विधिर्यथा-एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश् गतो विदेशम्। किं याचसे तदिह वासमियं वराकी श्वश्रू- र्ममान्धबधिरा ननु मूढ पान्थ ।I'अत्र वासं किं याचसे समीहितकीडादिकमपि कुरुष्वेति विधिः प्रतीयते। क्वचिद्विधौ विध्यन्तरं यथा-'मध्याह्वेऽतिखरे निदाघसमये तापं रवौ मु्चति शीते कुब्जवटे सुपत्रनिचये हे पान्थ विश्राम्यताम्। एकाकी च भवानहं च त- रुणी शून्या प्रपा वर्तते लज्ा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ।।' अन्न विश्राम्यतामिति विधौ मामुपभुड्क्ष्वेति विध्यन्तरं प्रतीयते॥ क्वचिन्निषेधे निषेधान्तरंयथा- 'वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थिति- रियम्। त्वयारब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छ- नमभूत् ।।' अत्र नास्मत्कुले सतीकलङ्कोऽभूदिति निषेधे नैकभर्तृतत्परतया त्वयापि स्था- तव्यमिति निषेधः प्रतीयते ॥ क्वचिदविधिनिषेधे विधिर्यथा-'शुभे वृद्धः कोऽयं गृहपरि- १. 'भ्रम धार्मिक विश्रब्धः स शुनकोऽद मारितस्तेन। गोदानदीकच्छनिकुवासिना इस्तसिंहेन ॥!' इति च्छाया.
Page 47
३ अध्याय: ] काव्यानुशासनम् । ३७
वृढ्धः किं तव पिता न मे भर्ता रात्रावपगतद्दगन्यच्च बधिरः। हुहुंहुं श्रान्तोऽहं शिशयि- घुरिहैवापवरके क्व यामिन्यां यामि खपिमि ननु निर्देशमशके।' अत्राहं लदर्थी अत्रैव स्थास्यामीति विधि: प्रतीयते॥ कचिदप्यविधिनिषेधे निषेधो यथा-'चंकेभणियाइं कत्तो कत्तो अद्धछिपि छियव्वाइं। उससि यंपि मुणिज्इ छइल्लपुरे हयग्गामे ।।' अत्रास्मिन्वि- दग्धजनमये ग्रामे प्रच्छन्नकामुकं प्रति त्वया रतिन कर्तव्येति कयाचित्कां प्रति निषेधः क्रियते ॥ क्वचिद्विधिनिषधेयोर्विध्यन्तरं यथा-आसन्नकुडंगेजन्रदेउलेब हुन्नदेउलेज- याणसंकिण्णे। थेरुत्तिपइ मा रुअसु पुत्ति दिण्णासि सुग्गामे ।I' अत्र मा रोदीः, सुग्रामे दत्तासीति विधिनिषेधयोस्त्वया सवैरं वर्तितव्यमिति विध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनि- षधयोरनिषेधान्तरम्। यथा-'उचिणसु पडिअ कुसुमं मा धुन सेहालिअं हलिअसुन्हे। एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥I' अत्र पतितं कुसुममुच्चिनु मा शेफालिकां धुनीहीति विधिनिषेधयोरभिधाने सखि, चौर्यरते प्रसक्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते॥ क्वचिद्विवावनुभयं यथा-'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासकं समासादितम्। आनीतं पुरतः शिरोऽशु- कमधःकृप्ते चले लोचने वाचां तच्(त्र) निवारितं विव(प्रस)रणं संकोचिते दोर्लते ।' अत्र तयैतत्कृतमिति विधौ सानुरागिणीवेति न प्रतीयते। क्वचिन्निषेधेऽनुभयं यथा- 'निःशेषच्युतचन्दनं स्तनतटं प्रोन्मुक्तरागोऽधरो नेत्रे दूरमनजने पुलकिता तन्वी तथेयं तनुः। मिथ्यावादिनि दृति बान्धवजनस्याज्ञातपीडागमा वापीं स्नातुमितो गतासि न पुन- स्तस्याधमस्यान्तिकम् II' अत्र त्वं तस्यान्तिकं न गतासीति निषेधे प्रतीयमानेऽपि स त्वया मत्प्रियः कामित इति व्यज्यते। क्वचिद्विधिनिषेधयोरनुभयं यथा-'चैन्द तुम न गणिजसि जाव इमो वहलपत्तलछाओ। गामस्स तिलअभूओ सहइ वडो किण्हपरकुव्व ॥' चन्द्र त्वं न गण्यसे यावदेष वटः शोभते इति विधिनिषेधयोरुक्तवनेनापि वटेन चौर्यरता- दिगोपनं भवतीति व्यज्यते॥ क्वचिदविधिनिषेधे तूभयं यथा-'अत्युच्चाः परितः स्फु- रन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्ान्तासि तुभ्यं नमः। आश्वर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्वित्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' एवमादिभेदैर्ध्वनितोक्तिर्भवति। परं ग्रन्थगौरवभयादस्माभिनोदाहियते। स प्रप्चस्त्वानन्दवर्धनादवगन्तव्यः ॥
अत्युक्तिरतिशयोक्तिः ।
यथा-'त्वद्दारितारितरुणीश्वसितानलेन संमूर्च्छितोर्मिषु महोदधिषु क्षितीशाः। अन्त- १,२. अनयोश्छाया न स्फुटा. ३. 'उच्चिनुष्व पतितानि कुसुमानि मा धुनु शेफालिकां हलिकस्नुषे। एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥'इति च्छाया. ४. 'चन्द्र त्वं न गण्यसे यावदेष बहलपत्रच्छायः । ग्रामस्य तिलकभूतः शोभते वटः ......... ॥, इति च्छाया. का. ६
Page 48
३८ काव्यमाला।
र्लुलद्विरिपरस्परश्ङ्गसङ्गघोरारवैर्मुररिपोरपयाति निद्रा।।' यथा च-'उभौ यदि व्योम्नि पृथ- क्प्रवाहावाकाशगङ्गापयसः पतेताम्। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः।' सहभावकथनं सहोक्तिः । यथा-'सेह दिअसनिसाइँ दीहरा सासदण्डा सह मणिवलएहिं बाहधारा गलन्ति। तुह सुहअ विओए तीइ उव्विग्गरीए सह अ तणुलदाए दुव्वला जीविदासा ॥' प्रतिषेधपुरःसरोक्तिराक्षेपः। यत्रोक्तौ कस्यचिदुपमानादेर्वस्तुनः प्रतिषेधः प्रतीयते स आक्षेपः। यथा-'तद्वकं य- दि मुद्रिता शशिकला तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्विरो धि- ख्धु। सा चेत्कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सृष्टि- क्मो वेधसः ॥' यथा च-'ऐ एहि किं पि कीएवि कए णिक्किव भणामि अलमहवा। अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम् ॥' अयं च भूतभविष्य द्वर्तमानधर्मका- रणकार्यानुज्ञाप्रभुत्वानादराशीर्वचन परुषसाचिव्यपर वशोपाय रोषानुशयार्थान्तरप्रतिषेधादि- भेदैरनेकधा भवति। तस्य च नात्र विस्तरः ॥ अविरोघेऽपि विरोधप्रतीतिर्विरोधः । साक्षाद्विरोधे तु काव्यत्वास- भवात्। यथा-'दिशामलीकालकभङ्ग्ता गतस्त्रयीवधूकर्णतमालपल्लवः। चकार यस्याध्वरधू- मसंचयो मलीमसः शुकतरं निजं यशः॥' यथा च-'ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयु- कोऽपि प्रायशो विप्रयुक्तः। सद्वेषोऽपि द्वेषनिर्मुक्त्तचित्तः को वा तादृग्दृश्यते श्रू- यते वा ।' विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः । साधर्म्येण वैधर्म्येण च। तत्र साधर्म्येण यथा-'अधिकुचतटं पौष्पं दाम श्रुती किसलार्चिते बिसवलयितौ पाणी श्रोणीलता रसनाश्चिता। तदपि च तनोर्लक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पात्रे वेषो य एव स एव वा।' वैधर्म्येण यथा-'अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेद्ृशम्। त एव धन्याः सुहृदां पराभवं जगत्यद्दष्ट्वैव हि ये क्षयं गताः ॥'
तत्र श्लेषाविद्धो यथा-'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैःशिरसां सतीव ।I'
१. 'सह दिवसनिशादीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति। तव सुभग वियोगे तस्या उद्देगशीलायाः सह च तनुलताया दुर्बला जीविताशा ॥' इति च्छाया. २. 'अये एहि किमपि कस्या अपि कृते निष्कृप भणाम्यलमथवा। अविचारितकार्या- रम्भकारिणी म्रियतां न भणिष्ये ।।' इति च्छाया.
Page 49
३ अध्याय: ] काव्यानुशासनम्। ३९
स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याजस्तुतिः। स्तुतौ निन्दा यथा-'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्व- ससदश: परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभा- रप्रोद्वहने करोषि कृपया साहायकं यन्मरो:॥' निन्दायां स्तुतिर्यथा-'कीर्तिस्तव काल- पात्मजेन्दो भ्रमतितरां मुवनं समग्रमेतत्। अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः ॥'यथा च-'अस्माकं परमन्दिरस्य चरितं वक्तुं न युक्त भवेत्खामी त्वं कथ- यामि तेन भवतः किंचित्प्रियादूषणम्। स्ामिन् राम कृतस्त्वया रणगृहे पाणिप्रहः सादरं यस्याः सासिलता परत्य हृदये दृष्टा लुठन्ती मया ॥' साम्यस्य भेदकारणस्य चोक्तौ यद्दयोभेंदकारणं स व्यतिरेकः । यत्र साम्यस्य सादृश्यस्योक्तावनुक्तौ वा भेदकारणस्य च धर्मस्योक्तावनुक्तौ वा यद्कयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः। तत्र सादृश्यभेदयोरुक्तौ यथा-'रक्स्त्वं नवपल्लवैरहमपि श्रलाध्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मा- मपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोक: कृतः ॥' स च सदृशखजाति एकानेकश्लेषाक्षेपहेतुभेदैरनेकधा भवति। तत्र सदृशव्यतिरेको यथा-'त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी। भ्रमन्ग्रमर- मम्भोजं लोलदृष्टिमुखं तुते ।' 'विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा संगी- ताय प्रहतमुरजाः स्न्निग्धगम्भीरघोषम्। अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादा स्तवां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥' सजातिव्यतिरेको यथा-'असंमृतं मण्डनमङ्गयष्टे- रनासवाख्यं करणं मदस्य। कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे॥' सादृश्यात्प्रतिपत्तुः संशयः ससंदेहः। स च केवलो निर्णयान्तश्च। तन्न केवलो यथा-'अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शङ्गारैक- रसः स्वयं तु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' निर्णयगर्भो यथा-'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विद्धति विकल्पान्प्रति- भटाः ॥' निर्णयान्तो द्विधा-हेतोरुक्तावनुक्तौ च। तत्र हेतोरुक्तौ यथा-'किं नन्दी किं मुरारि: किमु रतिरमणः किं हरः किं कुबेरः किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुमारः। नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष कीडां कर्तु प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेवः ॥' प्रकृतस्य सदृशेनापलापोऽपह्ुतिः । यथा-'बाले नैते पयोदाः सुरपतिकरिणो नावकाः (?) कर्णपूराः, सौदामन्योऽपि
Page 50
४0 काव्यमाला।
नैताः कनकमयमिदं भूषणं वारणानाम्। नैतत्तोयं नभस्तः पतति मदजलं वारिधाराव- धूतं तत्किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः ॥' समेनासमेन वा व्यत्ययः परिवृत्तिः । निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृत्तिः । यथा-'लतानामेतासामु- दितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम्। लतास्त्वध्वन्याना- महह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ।' हेतोरर्थप्रतिपत्तिरनुमानम्। यथा-'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः। कथमन्यथा ललाटे यावक- रसतिलकपङ्किरियम् ।' सदृशदर्शनात्पूर्वार्थस्मरणं स्मृतिः । यथा-'तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्ष- णीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥' यथा च-'अपि तुरगसमीपादुत्पतन्तं मयूर न स रुचिरकलापं बाणलक्ष्यी- चकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥' मिथ्याज्ञानं भ्रान्तिः । यथा-'वृक्षश्रेणीछन्नसमस्तान्तरमार्गे रम्योद्याने कालपसूनो भवदीये। मेघभ्रान्त्या- भानुकरौघादर्शिनो(?)मी केकायन्ते मत्तमयूरास्ततबहाः ॥' यथा वा-'पन्थानमाशु वि- जहीहि पुरा स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः। स्तम्बेरमः परिणिनं सुरसा- वुपैति शङ्गैरगद्यत ससंभ्रममेवमेका ॥' असंभावितसंबन्धः कार्याभावेऽनर्थश्च विषमम्। यत्रासंभावितस्याघटमानस्यार्थस्य संबन्धः क्रियते, तद्विषमम्। यथा-'क चायं भूभागः क्व च गगनमेतद्यवहितं तथाप्यम्भोराशिर्विकसति सितांशोः समुदये। वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं यदत्यन्तं भावान्घटयति विदूरानपि मिथः ॥' यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम्। यथा-'प्रणयकुपितां दृष्ट्रा देवीं ससंभ्रमविस्मितस्त्रिभुवनगुरुर्भीत्या सदः प्रणाम- परो भवान्। नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतर्यक्षस्यैतद्विलक्षम- वस्थितम् ॥।' औचित्येनोत्कृष्टापकृष्टयोर्योगः समम् । उत्कृष्टयोर्यथा-'शशिनमुपगतेयं कौमुदी मेधमुक्तं जलनिधिमनुरूपं जहुकन्यावतीर्णा। इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विव्रः ॥' निकृष्टयोर्य-
Page 51
३ अध्याय: ] काव्यानुशासनम् । ४१
था-'न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम्। त्रजवि- टपममुं ददख्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥' हेतोर्हेत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः । यथा-'पेउरजुवाणो गामो महुमासो जोव्वणे पइ देरो। साहीणा जुण्णसुरा असही मा होउ किं मरउ ॥' यथा च-'स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससजे नवो मनोभूर्भुवि सत्यं सविता वृहस्पतिश्व ॥' अनेकेषामेकत्र निबन्धस्त्वन्यः । यथा-'माहिषं दधि सशर्करं पयः कालिदासकविता नवं वयः। शारदेन्दुरबला च् कोमला स्वर्गशेषमुपभुजते जनाः ।' गुणक्रियायां युगपदभिधानमपरः ।
मशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ।।' पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसंख्या। यथा-'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले तर- लत्वं नयनयोर्वसति ॥' पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला । यथा-'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनो डनुरज्यते जनानुरागप्रभवा हि संपदः ।।' प्रस्तुतार्थ प्रसिच्धै निदर्शनं दृष्टान्तः । साधर्म्येण वैधर्म्येण च। यथा-'महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्। अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमालाः सविशेषसङ्गाः ॥' यथा च-'नवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीषतः । भटाः परेषां विशरारुतामगुर्दघत्यवाते स्थिरतां हि पांसवः॥' पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली। यथा-'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपतिरस्कृताङ्गयः। रूप समुन्मीलित- सद्विलासमस्त्रं विलासा: कुसुमायुधस्य।।'यथाच-'न तज्जलं यन्न सुचारुपङ्कजंन पङ्कजं तद्यदलीनपट्पदम्। न पट्पदोडसौ कलगुज्ितो न यो न गुजितं तन्न जहार यन्मनः ॥' उद्देशक्रमेणार्थानां प्रतिनिर्देशो यथासंख्यम् । यथा-'मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्। लुब्धकधीवरपिशुना निः- कारणवैरिणो जगति॥' १. 'प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः। खाधीना जीर्णसुरा असती मा भवतु किं म्रियताम् ।।' इति च्छाया.
Page 52
४२ काव्यमाला।
साभिप्रायविशेषणैर्भक्ति: परिकरः । यथा-'वल्मीकः किमुतोद्धतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता। सर्वे साध्वथ [सं] रुणद्धि विरहक्षामस्य रामस्य चेत्त्वद्दन्ताङ्कि-
वस्तुसंपत्त्या महदुपलक्षणेन च वर्णनमुदात्तम्। यथा-'उच्चीयन्तेऽस्य वेश्मन्यवि ... रहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि
दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः ॥' यथा च-'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्ताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङ्गिलाक्षारुणाः । दूराद्दाडिमबीजश- ङ्वितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम् ।I' महदुप- लक्षणं यथा-'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी। निवसन्बाहुसहायश्ष- कार रक्ष:क्षयं रामः' कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम्। यथा-'मनखिविनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम्। तावन्नवाम्भोधर- धीरनादप्रबोधितः सौधशिखी चुकूज ॥' कारणाभावेऽपि कार्योपक्षेपो विभावना। यथा-'अनाहूतसहायस्त्वं त्वमकारणवत्सलः। अनभ्यर्थितसाधुस्त्वं त्वमसंबन्धबा- न्धवः ॥I' यथा च-'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषकभासः। भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥' यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम्। यथा-'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य। अन्योन्यशो भाजननाद्वभूव साधारणो भूषणभूष्यभावः ।।' नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम्। नित्येन यथा-'तिर्यक्प्रेक्षिततरले सुस्निग्धे च स्वभावतस्तस्याः। अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत II' आगन्तुकेन यथा-'मदिरामदभरपाटलकपोलतललोचनेषु वद- नेषु। कोपो मनख्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥' प्रसिद्धाधारं विनाप्याधेयावस्थानं विशेषः । यथा-'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्धाः ॥'
१. 'रुक्तिः' इति काव्यप्रदीपे.
Page 53
३ अध्याय: ] काव्यानुशासनम्। ४३
अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम्। येथा-'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन। चरमं रमणीवल्लम लोच- नविषयं त्वया भजता ।I' कार्यकारणयोरभेदो हेतुः । यथा-'अविरलकमलविकासः सकलालिमदश्व कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकर: कालः ॥' समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम् । यथा-'संसारे मानुष्यं सारं मानुष्यके च कौलीन्यम्। कौलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम् ।।' इक्रिताकारलक्ष्येऽर्थे सूक्ष्मम्। यथा-'अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या। जीवेति मङ्कलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ।।' कार्यतो गुणदोषविपर्ययो लेशः । तत्र गुणस्य दोषीभावो यथा-'द्वित्नैः पाणिसरोरहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकमालिकास्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भारपरम्परामिति जवा- त्वदर्शनोत्कण्ठिता तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥' दोषस्य गुणीभावो यथा-'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्नणाः सर्वत्रैव परापवादचकितास्तिष्ठ न्त्यहो दुष्करम्। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेक- शून्यहृदयो धन्यो जनः प्राकृतः ॥' निन्दासमता वोपमानेनोपमेयस्य भज्जचा स्तुतिर्वा प्रतीपम्। निन्दा यथा-'वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत्। मलिन- यति यत्कपोलौ लोचनसलिलं हि कज्जलवत् II' समता यथा-'गर्वमसंवाह्यमिमं लो- चनयुगलेन वहसि किं भद्रे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तत्पिहितम्। यथा-'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्। एकोऽपि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' १. काव्यप्रदीपे तु कार्यकारणयोः पौर्वापर्यविवर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम्. २. "नन्वेवमत्र कार्यकारणभावालंकृति प्रपश्चनप्रसञ्गेन हेत्वलंकारोऽपि लक्षणाहः। उक्तश्वायं भटोद्भट्टेन-'हेतुमता सह हेतोरभिधानमभेदतो हेतुः' इति। तत्कि न लक्षितः-इति चेतू 'आयुर्धृतम्' इत्यादिरूपस्यास्य वैचित्र्याभावेनालंकारत्वस्यैवाभावात्।" इत्यादि कार णमा लालंकारप्रकरणे काव्यप्रदीपे द्रष्टव्यम्.
Page 54
४४ काव्यमाला।
एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते-स व्याघातः। ' यथा-'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे चामलोचनाः ।' यत्र कार्यकारणयोर्युगपद्धिन्नदेशतयोंपलम्भः सा असंगतिः । यथा-'अनया जघनापायभयमन्थरया तया। अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ।।' विकारहेतावप्यविकृतिरहेतुः । यथा-'निद्रानिवृत्तावुदिते दयुरत्ने सखीजने द्वारपदं पराप्ते। शलथी कृताश्लेषरसे भुजंगे चचाल नालिङ्गनतो नताङ्गी ॥' विशेषोक्तिरिति काव्यप्रकाशः । एकस्मिन्वाक्येऽनेकार्थता श्रेषः । यथा-'उदयमयते दिड्यालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति श्रियम्। रचयतितरां खैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुओ विभाति विभाकरः ॥' अत्रैकस्मिन्पक्षे विभाकरो नाम राजा। प्रकृतमुत्क्षिप्य वक्ता यदन्यथा मन्यते तन्मतम् । • यथा-'यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भ्ेदं किंचित्पुलकमिदमाहुः किल जनाः। मतिस्त्वेषास्माकं कुचयुगतटीचुम्बकशिलासमावेशाकृष्टस्मरशरशलाकोत्कर इव ।।' उत्तरवचनश्रवणात्प्रश्नोन्नयनमुत्तरोत्तरम् । यथा-'गतं तिरश्षीनमनूरुसारथेः अ्सिद्धमूर्ध्वज्वलनं हविर्भुजः । पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥' सामान्यं सामान्येन यत्समर्थ्यते स उभयन्यासः । यथा-'आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे। विन्ध्याटवीषु विरला: खलु पादपास्ते ये दन्तिदन्तमुशलोहिखितं सहन्ते ॥' यत्र प्रतीयमानोऽर्थो वाच्योपयोगी स भावः । यथा-'ग्रामतरुणं तरुण्या नववञ्ञलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ।' एकमनेकस्मिन्क्रमेण भवति स पर्यायः । यथा-'तेनामरवधूहस्तसदयालूनपल्लवाः। अभिझाछेदयातानां क्रियन्ते नन्दनद्रुमाः॥' उद्भूतवस्तुनश्छद्मना निगूहनं व्याजोक्ति:।
यामभङ्गाकुलः। हा शैतं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्ड- लगणैर्द्ष्टोऽवताद्वः शिवः।'
Page 55
३ अध्याय: ] काव्यानुशासनम् । ४५
तत्राधारादाधेयस्याधिक्यं यथा-'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सवि- काशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥'आधेयादाधा- रस्याधिक्यं यथा-'नवेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन। रघोः कुलं कु- कलपुष्करेण तोयेन चाप्रौढ़नरेन्द्रमासीत् ।।' प्रतिपक्षबाधाशक्तौ तदीयतिरस्कारे प्रत्यनीकम्। यथा-'चक्रेण विष्णोः कृतशीर्पशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः। राहुः समानाख्य- तयैव वध्यान् तमोमिषः सन् भजति स्म चक्ान् ॥' एकस्यैवोपमानोपमेयत्वेऽनन्वयः । यथा-'गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव ॥' यत्र वस्तु खवगुणमुत्सृज्यान्यगुणयोगात्तद्रुणतामेति स तद्गुणः । यथा-'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्ता। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥' तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्रुणः । यथा-'सज्जणसङ्गेण विदुज्जणस्स कसुसिमानओसरइं। ससिमण्डलमब्भपरिहिउहि किस णुव्विय कुरंगो ।।' संशयेनैकपद्येन वा अलंकाराणामेकत्रावस्थानं संकरः । तन्र परस्परनिरापेक्ष्यं स्वातन्त्रयं यथा-'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेवि- तमेधया। मधुकराङनया मुहुरुद्धतध्वनिभृता निभृताक्षरमुजगे ॥' अत्र यमकानुप्रा- सयो: शब्दालंकारयोः संकरः । 'लिम्पतीव तमोSङ्गानि वर्षतीवाञ्ञनं नभः । असत्पुरुषसे- वेव दृष्टिर्निष्फलतां गता ॥'अत्रोत्प्रेक्षोपमयोः ॥ यथा-'हुतहुताशनमर्मरचूर्णतां दघुरि- वाम्रवणस्य रजःकणाः । निपतिताः परितः पथिकत्रजानुपरि ते परिते पुरतो भृशम् ॥'अत्र यमकोत्प्रेक्षयोः शब्दा(था)लंकारयोः। उपकारकत्वमङ्गत्वम्। यथा-'हरिरिव बलिबन्व- करस्त्रिशक्तियुक्तः पिनाकपाणिरिव। कमलाश्रयक्ष विधिरिव जयति श्रीमूलराजनृपः ॥'अत्र श्लेष उपमाया अङ्गम् संशय एकतरस्यानिर्णयः। यथा-'नयनानन्ददायीन्दोबिम्बमेतत्प सीदति। अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥' अत्र मुखेन सहाभेदारोपात्किमति- शयोक्तिः। किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम् । किं मुखनैर्मल्यप्र- स्तावेऽन्योक्तिः। अथैतयोः समुचयविवक्षायां दीपकम्। कि प्रदोषवर्णने विशेषणसाम्या- तसमासोक्तिः। किं मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालंकारसंशयः । एक- स्मिन्पदेऽर्थशब्दालंकारयोरनुप्रवेश एकपद्यम्। यथा-'प्रथममरुणच्छायस्तावत्ततः कन- का. ७
Page 56
४६ काव्यमाला।
कप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदा- मुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥' अत्र जात्यनुप्रासयोः ॥ इष्टार्थस्याशंसनमाशीः । यथा-'अजस्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्त्निग्धां जननिच- यरोचि: कचचयः। प्रशस्तिप्रागल्भ्यं वहति मदमोहारिविजये श्रियं वः स श्रीमान् प्रथम- जिननाथः प्रथयतु ॥'
वृत्तौ अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः । अर्थालंकारानुक्त्वा शब्दालंकारानाह- चित्रश्लेषानुप्रासवक्रोक्तियुक्तियमकपुनरुक्तवदाभासाः षट् शब्दालं काराः। क्रमेण लक्षयति- आकारगतिसरव्यञ्जनस्थाननियमच्युतगुप्तादिभेदैरनेकधा चित्रम्। ब- न्धस् खङ्धनुर्बाणमुसलशूलशक्तिहच्छत्र पझमुरजचस्तिकाद्याकार- सादृश्यादाकारचित्रम्। तत्र खङ्गबन्धो यथा-'भव्यानां परमानन्दकन्दोद्भेदघनाघनः। नतामरशिरोरत्नवि- वर्धितनखप्रभा ।' 'भवाब्धिपरपारान्तप्रापणा पोतसंनिभा। भर्ता विमलतीर्थेश कुरु मे निर्मलं मनः॥' धनुर्बन्धो यथा-'अनन्तज्ञानसंताननिध्यातभुवनन्रयः। यतीन्द्रसेव्यचरणः श्रियेऽनन्तजिनोऽस्तु वः ॥' बाणबन्धो यथा-'मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः सुरलोकनतः श्रियम् ॥' मुसलबन्धो यथा-'सदाशान्तिर्जगन्नाथः श्रियं शान्ति तनोतु नः। नतशान्तशचीनाथः कृतशान्त्यर्चनो हि सः।।' शूलबन्धो यथा- 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्त्ः कुन्थ्वितिसंज्ञकः । करिराजकराकारकरो मामवताज्जनः ॥' शक्तिबन्धो यथा-'पदं श्रियामराभिख्यो भित्कर्मारेर्जिनः परः। रदनच्छेदधामोमो मो- दायास्तु शिवप्रदः ॥' अस्य व्याख्या-अराभिख्योऽराभिधानो जिनो मोदायास्तु। क- थंभूतः । भित्कर्मारेर्भिनत्तीति भित् भेदकः। कस्य। कर्मारेः कर्मरूपशत्रोः। पुनः कर्थंभूतः। रदनच्छेदधामोमः रदनच्छेदधामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्येस्य स तादृशः। शेषं संबोधनम्। हलबन्धो यथा-'श्रियं वितनुतां मल्लिसखा जिनमतल्लिका। कामं कु- न्दविभोदाररदांशुहततामसः ॥' जिनमतल्लिका जिनप्रधानं तमसां समूहस्तामसम्॥ छ- त्रबन्धो यथा-'श्रिये श्रीसुव्रतो देवः श्रितो मुनिभिरस्तु वः। नरामरनमन्मौलिलिह्यमा- नक्रमो जिनः ॥I' पद्मबन्धो यथा-'एनश्छिनत्त न इनः सुनयेन पुनः पुनः। ध्यानज्ञान-
Page 57
४ अध्याय: ] काव्यानुशासनम् । ४७
धनस्थान: खनमिर्ध्वनदनः खनः ॥' तिष्ठन्त्यस्मिन्निति स्थानः। अधिकरणेSत्रानप्रत्ययः। ध्यानज्ञानधनस्थानः शब्दायमानशकटखनः । अत्र कविनात्मशक्त्यतिशयात् गोमूत्रिका- चित्रमप्यन्तर्भावितम् ॥ मुरजबन्धो यथा-'नेमिनाथ जिनाविन्नं शमिनां तनु नाविभ। भविना नुत नागश्रीस्त्वां विनाथ घनागसाम् ॥' व्याख्या-हे नेमिनाथ जिन शमिना- मविघ्नं विन्नाभावं तनु। कथंभूत। नाविभ न निःप्रभ अपि तु सप्रभ। तथा भविना संसारिणा नुत। भविनेति जातावेकवचनम्। तथा त्वां विना घनागसां घनपापानां पु- रुपाणां न अगश्रीरभवति। न गच्छतीति अगा अविनश्वरेत्यर्थः । अयमभिप्रायः-स• पापा अपि पुरुषास्त्वां सेवमानाः पापमुक्केरगश्रियं लभन्ते। कविनामाङ्कितो य उरश्वक्रबन्धो यथा-'सर्वे कृन्ततु कल्मषं स भवतो वाग्भर्त्सितासौहृदः सद्रीतिश्रितवि- श्वपार्श्वभवहृत्कूटस्थिरोऽमर्महा। निर्मारः परवारिदप्रभतनुर्यस्य स्फुटा हारभाभात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥' व्याख्या-भवं हरन्तीति भवहृज्विनः। पार्श्वाभि- धानो। भवहृत् पार्श्वजिन इत्यर्थः । सति शोभना रीतिर्यस्य स सद्रीतिः। श्रितं विश्वं जग- द्यस्य स श्रितविश्वः । सद्रीतिश्वसौ श्रितविश्वश्च सद्रीतिश्रितविश्वः । स चासौ पार्श्वभवहृच्च सद्रीतिश्रितपार्श्वभवहृत् भवतः सर्वे कल्मषं कृन्ततु छिनत्तु। कथंभूतः । कूटस्थिरः । कूटं गिरिश्ङ्गं तद्वत्स्थिरो निश्चलः । पुनः कथंभूतः । अमर्महा। न मर्माणि हन्तीति अमर्महा। निर्मारो निष्कंदर्पः । परवारिदप्रभा श्यामवर्णा तनुर्यस्य। पुनः कथंभूतः । वाग्भरत्सितासौहृदः। वाचा वचनेनापि भर्त्सितं निराकृतमसौहृदमवात्सल्यं येन। यस्य पार्श्वजिनस्य स्फुटा प्रकटा हारप्रभा कीर्तिरभात्। कथंभूता सकलेऽवनितले दत्तेशहा- सप्रभा ईशस्य हासप्रभा धवलितेत्यर्थः । सा दत्ता यया सा तथोक्ता। खस्तिकबन्धो यथा-'प्रसीद स सदा वीर प्रभो धीर रजोम्बुद। प्रति मां ददख श्रेयः प्रधानायय स- द्यशः ॥' हे वीर स प्रसिद्ध। सेति वीरस्य विशेषणम्। प्रसीद। कथंभूत। रजोम्बुद। तथा मां प्रति श्रेयो ददख। प्रधान उत्तम। तथा सदश आयय प्रापय। 'अय गतौ'। अयमानं प्रयुङ्के आययति। आदिशब्दादष्टारद्वादशारचक्रसप्तचक्रिक गोमूत्रिकानन्यावर्त भृङ्गारचामरघण्टाप्रमृतीनि तत्सदृशनामान्यूह्यानि॥
दिभेदैरनेकधा भवति । तत्र सर्वतोभदं यथा-'देवाकानिनि कावादे वाहिकाखस्वकाहि वा। काकारेभभरे काका निस्वभव्यव्यभखनि ॥,'वारणागगभीरा सा साराभीगगणारवा। कारितारिवधा सेना नासेधा वरितारिका ॥' एवमन्यदपि॥ हृस्वादिस्रनियमो खरचित्रम् ।
१. किरातार्जुनीये पञ्चदशसर्गे पञ्चविशोऽयं श्लोकः. २, शिशुपालवधैकोनविंशसर्ग- चतुश्चत्वारिंशोऽयं शोक :.
Page 58
४८ काव्यमाला।
यथा-'जैय मदनगजनमन वरकमलभगतमन। गतजनन मदमरण भव भयग- नरशरण ।I' अन्न सर्वत्र ह्रस्वोऽकारः । एवं हसेनेकारादिना दीर्घेणाकारादिना द्वित्य।- दिस्वरैश्वोदाहार्यम् ॥ एकद्वित्यादिव्यञ्जननियमो व्यञ्जनचित्रम्। रजना एकव्यअ्जनं यथा-'किकांकुकुं ककेकाड्क केकिकौकैककः ककः । ककुकौ कः कका काकः कक्काकुकुक कां ककुः ॥' द्विव्यअनचित्रं यथा-'दूरादारदरोदार दूरोदरदुरादुरः। दरदी दंदुरदरा दारं दारं दरैरदान् ।' एवं त्र्यादिव्यज्जनचित्रं उदाहार्यम्॥ कण्ठतालुमूर्धदन्तौष्ठादिस्थाननियमः स्थानचित्रम् । यथा-'सूनुसूनूदितिसूनुं निन्युर्युद्धूमिमुब्भितुम्। स्थितिमूत्वुः श्रुतिर्नीतिस्मृती इषु रुजीदृशी ।I' अकण्ठ्योऽयम् । 'आसाद्य सात्वतो वाणं प्राणर्ति कृष्णसर्पवत्। तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः ॥' अतालव्योऽयम्। 'भौमसूनुं समायान्तं समायान्तं महाभुजः । अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा ॥' अमूर्धन्यः । 'उभयोः शररा- जीभिरराजीभिश्वमूकयोः । अर्कोशुश्रीः पराभाजि पराभाजि च खाजिरे ॥' अदन्त्यः । 'नाचालीत्सात्यकिः शौर्यात्स तेन निहृतस्तथा। गिरिः कररदाघातैः करिणा कीर्तयेSत्र किम् ॥' निरौष्ठयः ॥
- तत्र मात्राच्युतकं यथा-भूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः। महापद- शुभावास तत्समः कुपतिः कुतः ॥' अत्र कृषणेति आकारस्य च्युतिः। बिन्दुच्युतकं यथा-'सहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विवुधाश्रिता ।' सह हंसेन वर्तते सहंसा। वर्णच्युतकं यथा-'परहिततत्परो दुरित- वारहरो भगवान्भयनाशको जगति वीर, इति सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्वो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्र० थितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः ॥'अत्र सिद्धिछन्दसि नेमिनाथस्तुतिः । अन्र चान्तरवृत्तम्-'परहिततत्परो दुरितवारहरो भ- गवान्भवभयनाशको जगति वीर इति। सुरवन्दितः प्रथितंशान्तिरलं मदनापहः शिव- सुखं तनुताम् ॥' अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः । 'दुरितवारहरो भगवा जिशवो जगति वीर इति प्रभवः श्रियाः। प्रथितशान्तिरलं वृषभो जयी शिवसुखं तनुतां भवतां मुहुः ॥'अत्र द्रुतविलम्बितछन्दसि वृषभनाथस्तुतिः ॥ गुप्तकं क्रियाकारकसंबन्धविषयत्वेन चतुर्धा। तत्र क्रियागुप्तकम्-'प्रत्यक्षेपि परोक्षेपि येन वीर्ये महीभृताम् । तस्य देवतुरुष्कस्य के गुणग्रहणे वयम् ।' अत्र प्रत्यक्षेपीति करिया। कारकगुप्तकं यथा-'केनेमौ दुर्विदग्धेन १-५.श्लोका अनवगतार्थाः. ६. एतदुदाहरणपद्यानि दुर्बोध्यानि.
Page 59
४ अध्याय: ] काव्यानुशासनम् । ४९
हृदये विनिवेशितौ। पिबतस्ते शरावेण वारि कह्ारशीतलम् ।I' अत्र शराविति कर्मणो गुप्तत्वम्। संबन्धगुप्तकं यथा-'न मया गोरसाभिजञं चेतः कस्मात्प्रकुप्यसि। अस्थान- रुदितैरेभी रत्नमालोहितेक्षणे ।' अत्र न मे अगोरसाभिज्मिति संबन्धगुप्तकम्। पादंगु- पकं यथा-'द्ुवियद्रामिनी तारसंरावविहृतश्रुतिः । हेमेषु माला शुशुभे।' अत्र 'वि- द्युतामिव संहृति:' इति चतुर्थपादस्य गुप्तत्वम्। आदिशव्दात्प्रश्नोत्तरप्रहेलिकादुवचका- दयोऽपि भवन्ति। पर्र कष्टकाव्यत्वात्कीडामान्नफलत्वान्नान्न प्रपश्चिताः॥ परोक्तस्य क्लेषेण काक्ा वान्यथोक्तिर्वक्रोक्तिः । तत्र शेषवक्रोक्तिद्विंधा भङ्गश्लेपेणाभङ्गश्लेषेण च। तत्र भङ्गश्लेषेण यथा-'सेद्ाः प्रेयसि दीयतां प्रियतम द्वारं किम(मु)च्छाद्यते सत्कें सुन्दरि याचितं कथय मे कि कस्य सत्कं प्रिय। श्रीनाभेयजिनस्य मज्जनजलं कस्त्वं जनः किं जलं दम्पत्ैरिति जल्पित जिनपतेः स्नानोत्सवे पातु वः ॥'अभङ्गश्लेषे यथा-'कोऽयं द्वारि, हरिः, प्रयाह्युपवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, विभेमि नितरां कृष्णादहं वानरात्। कान्तेऽहं मधु- सूदनो, ब्रज लतां तामेव मध्वन्वितामित्थं निर्विषयीकृतो दयितया हीतो हरि: पातु वः ॥' यथा च-'भर्तुः पार्वति नाम कीर्तय न चेत्त्वां ताडयिष्याम्यहं क्रीडाव्जेन शि- वेति सत्यमनधे किं ते शृगालः पतिः। नो स्थाणुः किमु कीलको नहि पशुखामी तु गोप्ता गवां दोलाखेलनकर्मणीति विजयागौर्योर्गिरः पान्तु वः ॥' भिन्नकण्ठो ध्वनिः काकुः । तद्वकोक्तिर्यथा-'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य। आकृष्य पाण्डववधूपरिधानकेशान्खस्था अवन्ति मयि जीवति धार्तराष्ट्राः ॥'यथा च- 'अपि चण्डानिलोद्धूततरङ्गस्य महोदधेः। शक्येत प्रसरो रोद्धुं नानुरक्त्तस्य चेतसः ॥'
आधृतिः पुनः पुनर्निबन्धः । अर्थादूर्णानां पदानां वा। सररसाद्यनुगतः प्रकृष्टो, न्यासोऽनुप्रासः॥ स च त्रिधा भवतीत्याह- सकृद्वर्णावृत्तिश्छेकानुप्रासः वर्णावृत्तिरिति समस्तं पदम् । यत्रैकस्य यथा-'ततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी। दधरे कामपरिक्षामकामिनीगल्लपाण्डुताम् ॥' अनेकवर्णानां यथा-'निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते। प्रियङ्गोर्नों सङ्कं रचयति न चूते विचरति स्मरँललक्ष्मीलीलाकमलमधुपानं मधुकरः ॥' १. व्यञ्ञनपरस्यैकस्यानेकस्य वा समानव्यअ्ञनस्योच्चारणे श्रवणयोर्विशेषाभावस्य 'दीझे युडचि-' इति सूत्रभाष्यसंमतत्वेन जलद्वारार्थकता. २. 'सुखशीषजलेषु कम्' इति मेदिनीतो जलार्थकशव्दस्य सुखार्थत्वमपि. ३. स्नानजलमित्यभिप्रायवतो मज्जन- जलशब्दस्य 'मम जनस्य ज़लम्' इत्यभिप्रायेण प्रश्नः.
Page 60
५० काव्यमाला।
असकृद्वत्त्यनुप्रासः । वर्णावृत्तिरित्यनुवर्तते। यथा वर्णस्य 'वाचाटाकटपूतनाचटुपट्ः कापट्यकोटी पुटी विस्पष्टा नृतनाटिकानटभटी लाम्पट्यसाटाटवी। व्याचष्टे प्रकट जनाश्रुतिपुटी तट्टीकते वो मुचा साटोपे भुवि नाभिभावकभटे मत्यत्र वर्तिन्यपि ।' अनेकस्य यथा-'स्वच्छ
भिद्यादुययदुदारदर्दुरदरी दीर्घादरिद्रद्रमद्रोहोद्रेकमयोरमिमेदुरमदा मन्दाकिनी मन्दताम् ॥' सकृदसकृद्वा पदावृत्तिर्लाटानाम्। अन्नापि पदावृत्तिरिति समस्तं पदम्। तेन पदस्य पदानां वा सकृत् असकृद्वा आवृ- सतिर्लाटानां प्रियत्वाल्लाटानुप्रासः।पदस्य यथा-'निशाकरकरस्मेरैर्गुणर्गुणवतां मतैः। जने जनयति प्रीति प्रीत्यानतनृपो नृपः ॥'असकृद्यथा-'सम्यङ् निषेध्य चतुरक्षतुरोऽप्युपाया- ज्ञित्वोपभुज्य च भुवं चतुरन्धिकाश्चीम्। विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये यः ॥' अनेकस्यासकृद्यथा-'वस्त्रायन्ते नदीनां सितकुसुमधराः शक्सं- काश काशा: काशाभा भान्ति तासां नवपुलिनतटे स्त्रीनदीहंसहंसाः । हंसाभाम्भोद मुक्त: स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां काल- काल: ॥' पदात्मकत्वाद्वाक्यस्य तस्याव्या(प्या)वृत्तिर्यथा-'त्वमेकश्वेतसि न चेत्तपो- भिस्तदलं नृणाम् ॥' एकेनानेकस्यार्थस्य युगपदुक्ति: श्रेषो भङ्गाभङ्गाभ्यां द्विधा। एकेन पदेन वाक्येन वा अनेकस्य द्वयोख्यादीनां वा अर्थानामभिधानं श्िष्यन्ति शब्दा अत्रेति श्लेषः । हरिप्रभृतयः शब्दा अनेकार्थाभिधायिनः सन्तीत्याह-युगपदे- कस्मिन्प्रयोगे। सच भङ्गाभङ्गाभ्यां द्विधा। भङ्गश्लेषोऽभङ्गश्लेषश्र। तत्र खण्डनाद्गङ्गश्लेषः। स वर्णलिङ्गवचनविभक्तिप्रत्ययपदभाषाभेदैरनेकधा भवति। तत्र वर्णश्लेषो यथा-'प्रति- कूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुरभूत्न पतिष्यतः करसहस्रमपि ।' अत्र विधिर्विधुश्चेति इकारोकारयोर्वर्णयोः श्लेषः। लिङ्गश्लेषो यथा- 'भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैनीते हितप्रा- सये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्ृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरे: ॥' वचनश्लेषो यथा-'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः। ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः'। अत्रैकपक्षे एकवचनम्। द्वितीयपक्षे बहुवचनम्। स्यादीनां त्यादीनां च भङ्गाद्विभक्तिश्लेषो यथा-'विषं निजगले येन चक्रे च भुजगप्रभुः । देहे येनाङ्गजो दग्धो(?) जाया च स जयत्यजः ॥' प्रकृतिश्लेषो यथा-'विहितापर(चि)ति- १. 'लिङ्गवचनयो: श्लेषो यथा-' इति काव्यप्रदीपे. २. 'प्राज्यप्रभाः, वः, निर्वृतात्मा नः' इत्यपि पदच्छेदः. ३. 'चक्रे' इति कृञ्धातोर्लिटि, चकशब्दात्सप्तम्यां च समानम्, ४. 'देहे' इति दहधातोर्लिटि, देहशब्दस्य सप्तम्यां च.
Page 61
४ अध्याय: ] काव्यानुशासनम् । ५१
र्महीयसां द्विषतामाहितसाध्वसो बलैः। भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृ- ताम् ।I' अन्नापचितिरिति चायेश्चिनोतेश् रूपम्। प्रत्ययश्लेषो यथा-'येन ध्वस्तमनो- भवेन बलिजित्कायः पुरास्त्रीकृतः' । अत्र अस्त्रीकृतः त्रीकृतश्चेति चिडीप्रत्यये श्लेषः । पदश्लेषो यथा-'जननीतिमुदितमनसा नित्यं सुख्ामिना कृतानन्दा। सा नगरी. नग- तनया गौरीव मनोहरा भाति ।' संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां संकरे भाषाश्लेषः । तत्र संस्कृतप्राकृतयोर्यथा-'सरले साहसरागं परिहर रम्भोरु मुश्च सरम्भम्। विरहं विरहायासं सोढुं तव चित्तमसहं मे ॥' संस्कृतमागधयोर्यथा-'शूलं शलन्तुशं वा विशन्तु शबला वशं विशङ्का वा। अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ।I' संस्कृतपैशाचिकयोर्यथा-'चम्पककलिकाकोमलकान्तिकपोलाथ दी- पिकानङ्गी। इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' संस्कृतसूरसेन्योर्यथा -'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम्। साधु पिबन्तु सुपीवरपरिणा- हिपयोधरारम्भे ॥' संस्कृतापभ्रंशयोर्यथा-'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिह- न्ति। भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥' षण्णामपि भाषाणां योगो यथा- 'आलोलकमले चित्ते ललाम कमलालये। पाहि चण्डि माहामोहभङ्गभीमबलामले ॥' अखण्डितभेदैरभङ्गश्लेषः । यथा-'किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां कि वा तत्र तथा पयोध- रपरिष्वङ्गोऽपि नाह्रादकः । यन्मामत्र विहाय निर्वृतिमना नाथोज्जयन्तं गतः पायाद्वो- डभिहितः स भोजसुतया देवः शिवानन्दनः ॥' तुल्यं श्रुतिकरमा क्षरावृत्तिर्यमकम्। तच् श्लोकश्लोकार्धपादभागमेदैरनेकधा। तत्र श्रलोकयमकं महायमकं यथा-'सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम्। सर्व- दारणमानैषी दावानलसमस्थितः ॥' असावेव पृथगर्थतया द्विःपरावर्तनीयः । अर्धात्ृ- त्या अर्धयमकं समुद्रकं यथा-'ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्'। इदमर्ध पृथगर्थतया द्विः पैरावर्तनीयम्॥ पादयमकं मुखं संदंश आवृत्तिगर्भसंदष्टकपुच्छपङ्गिपरिवृत्तियुग्मकभे- दैर्नवघा। तत्र प्रथमद्वितीययोः पादयोरावृत्त्या मुखयमकं यथा-'चक्रं दहतारं चक्न्द ह तारम्। खङ्गेन तवाजौ राजन्नरिनारी ॥' प्रथमतृतीययोरावृत्त्या संदंशः ।
१. दमयन्तीकथास्थोऽयं श्रोकः. २. 'स त्वारं भरतोऽवश्यमवलं विततारवम्। स- वैदा रणमानैषीदावानलसमस्थितः ॥' इति काव्यप्रदीपे रुद्रटालंकारे च स्फुट :. ३. 'न नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम्'इति रुद्रटालंकारे,
Page 62
५२ काव्यमाला। अनुप्रास यथा-'सारंगवयसांनिध्यराजत्काननमग्रतः।सारङ्गवयसांनिध्यदारुणं शिखरे गिरेः॥' प्रथमचतुर्थयोरावृत्त्या संदंशः । यथा आवृत्ति :- 'आसन्नदेवा नरराजराजिरुच्चैस्तटानामियमत्र नाद्रौ। क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥' द्वितीयतृतीययोरावृत्त्या गर्भः । यथा-'यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव। समुद्रतारं भरतः स दैवप्रमाणमारभ्य पयस्युदास्ते ॥' द्वितीय चतुर्थयोरावृत्त्या संदष्टकम्। यथा-'अमरनगरस्मेराक्षीणां प्रपश्चयति स्फुरत्सुरतरुचये कुर्वाणानां बलक्षमरंहसाम्। इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षमरंहसाम् ॥' तृतीयचतुर्थयोरावृत्त्या पुच्छम्। यथा-'उत्तुङ्गमातङ्गकुलाकुलो यो व्यजेष्ट शत्रून्समरे सदैव। स सारमानीय महारि- चक्रं ससार मानी यमहारिचक्रम् ॥' चतुर्णामपि परस्परावृत्त्या पङ्कि:। यथा-'रैम्भारामा कुरु बककमलारम्भारामाकुरुबककमला। रम्भारामाकुरुबकक- मला रम्भारामाकुरुबककमला ॥' प्रथमचतुर्थयोर्द्वितीयतृतीययोरावृत्त्या परिवृत्तिः । । यथा-'मुदा खासौ रमणी यता यां स्मरस्यदोऽलं कुरुतेन वोढा। स्मरस्यदोऽलं कुरुतेSनवोढ मुदारतासौ रमणीयतायाम्_।।' प्रथमद्वितीययोस्तृतीय चतुर्थयोरावृत्तिर्युग्मकम्। यथा-'विभाति रामापरमारणस्य विभाSतिरामा परमा रणस्य। सदवतेजोर्जित- राजमाना सदैव तेजोऽर्जितराजमाना ॥' पादभागयमकानि अनयैव रीत्यानेकधा भव- न्ति। तानि च काव्यहृदयशङ्कत्वान्नोक्तानि॥ भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः । यथा-'स वं सम्यक् समुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥' इति श्रीवाग्भट विरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासनवृत्तौ शब्दालंकारविवेचनश्चतुर्थोऽध्यायः ।
१. 'स्मेराक्षीणां' इति शोभनम्. २-३. 'मासीय' इति पाठ आसीत्. तथापि रूद्र- टालंकारस्थोऽयं पाठः साधीयान्धृतः. ४. अस्य श्लोकस्यार्थोऽनवगतः. ५. रुद्रटालंकार- स्थोऽयं श्लोक :. ६. सप्तम्यन्तत्वेन दोषाभावः. ७. अरीणामिति सेनाविशेषणम्.
Page 63
५ अध्याय: ] काव्यानुशासनम् । ५३
पञ्चमोऽध्यायः । दोषमुक्तं गुणयुक्तमलंकारभूषितं शब्दार्थरूपमुक्त काव्यशरीरम्। परं तत्त्वप्राणिशरीर- मिव निरात्मकं न प्रतिभासते। अतः काव्यस्य प्राणभूतान्रसानाह। यदाह-'यामिनी- वेन्दुना मुक्ता नारीव रमणं विना। लक्ष्मीरिव ऋते त्यागान्न वाणी भाति नीरसा ॥' यथा च-'साधुपाकेऽप्यनासादं भोज्यं निर्लवणं यथा। तथैव नीरसं काव्यमिति ब्रूमो रसान् (खल) क्रमात् ।।' तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रतिहासशोकक्रोधोत्साह- भयजुगुप्साविस्मयशमाः स्थायिनो भावाः, क्रमेण शृङ्गारहास्यकरुणरौद्र वीरभयानकवीभत्साद्ुतशान्ता नव रसा भवन्ति । परस्परमास्थाबन्धात्मिका रतिः । हासश्चेतोविकाशः। वैधुर्ये शोकः। तीक्ष्णत्वं क्रोधः। संरम्भो वैक्व्यम्। भयं संकोचः । जुगुप्सा चित्तविस्तारः। [आश्चर्ये] विस्मयः । तृष्णा- क्षयः शमः ॥ अथ क्रमेण रसांलक्षयति- स्त्रीपुंसयोः परस्परावलोकनमाल्यर्तुहर्म्यपुरशैलनदीचन्द्रोपवनोद्यानदी- र्िकाजलक्रीडाविलेपनादिविभावा जुगुप्साल स्यौग्रयवर्जसर्वव्यभिचारिभावा रतिः । स्थायीभावश्चर्वणीयतां गतः शृङ्गारः । 'स्त्रीपुंसयोः' इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयोः संप्रयोगसुखैषिणो- यूनो: त्रीपुरुषयोर्या परस्परं रतिः स एव शङ्गारः। देवगुरुमुनिपुत्रादिविषया तु रतिरनु- भाव एव, न पुनः श्रङ्गारः । तत्र देवविषया यथा-'नो मुत्त्यै स्पृहयामि नाथ विभवैः कार्ये न सांसारिकैः किं त्वायोज्य करौ पुनः पुनरिदं त्वामीशमभ्यर्थये। खन्ने जाग- रणे स्थितौ विचलने दुःखे सुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥' एवमन्यदपि। ये चास्यानुगताः कटाक्षभुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रप- ऋ््यमानत्वान्नात्र विस्तरः ॥ स च संभोगविप्रलम्भाभ्यां द्विधा। तत्र संभोगमाह- एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाश्चखेदकम्पाश्रुमोचनमेखलास्ख- लनध्वसितसाध्वसके शबन्धवस्त्र संयम नाभरणादिमाल्यादिसम्यग्निवेशनविचि- त्रेक्षण चाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोक- नाद्यनन्तभेदः संयुक्तयोः संभोगः । यथा-'वक्रेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रियं बाहू कण्टककोरकाण्यब्रिभृतां का. ८
Page 64
५४ काव्यमाला।
प्राप्तं गिरो गौरवम्। किं नौङ्गानि तवातिथेयमसृजन्ससवापतो याचितं संप्राप्ते मयि नै- तदुज्झति कुचद्वन्दवं पुनः स्पर्धताम् ।' अथ विप्रलम्भमाह-
ताव्याधिस्प्नापस्मारादिव्यभिचारी संतापजागरकार्श्यप्रलापक्षामनेत्रवचोव- कतादीन संचरणानुकारलेखलेखनवाचन स्भावनिह्वववार्ता प्रश्नस्ेह निवेदन- सात्विकानुभवनशीतप्रयोगसेवनमरणोद्यमसंदेशदानाद्यनुभावो वियुक्तयोर्वि- प्रलम्भः । स चाभिलाषमानप्रवासभेदाद्विधा। दैवात्(पितृमातृस्वामि)पारवश्यादभिलाषविप्रलम्भो द्विधा । तत्र दैवादथा-'नगरपरिघदीरघौं बाहुदण्डौ ममैतौ विजितकनककुम्भा सा च तस्याः कुचश्रीः । तव शिशिरसमीरश्चैष नीहारसारस्त्रितयमपि समेतं दुर्लभं रावणेन ।I' पितृ- मातृपारवश्याद्यथा-'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परे विधास्यति। मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ।।' स्वामिपारवश्याद्यथा-'स्मरनवनदी पूरेणोढा मुहु- र्गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथा। तदपि लिखितप्रख्यैरज्वैर्मुहुर्मुहुरुन्मुखा नयननलिनी-लानीतं पिबन्ति रसं प्रियाः ॥' मान: प्रणयभङ्गर्ष्याभ्यां द्विधा । तत्र प्रणयभङ्गाद्यथा-'गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रा- वशमुपगतो घूर्णित इव। प्रणामान्तः कोपस्तदपि न जहासि क्रुधमहो स्तनप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ।' ईर्ष्यया यथा-'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ- लिर्याचसे धत्ते यच्च नदीं विलज्जशिरसा तच्चापि सोढं मया। श्रीर्याताम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहतो गौर्या हरः पातु वः ॥' कार्याच्छापाद्दैवात्पारवश्याच्च प्रवासः । कार्याद्यथा-'याते द्वारवतीं तदा मधुरिपौ तदत्तस(झ)म्पानतां कालिन्दीतटरूढवजुल- लतामालिङ्गय सोत्कण्ठया। तद्गीतं गुरुबाष्पगद्वदगलत्तारखरं राधया येनान्तर्जलचारि- भिर्जलचरैरप्युक्तमुत्कूजितम् ।' शापाद्यथा-'शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणो शेषान्मासान्गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगणितं तं तमात्मा- भिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु॥' दैवाद्यथा-'आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपयरजनीमेकिका चक्रवाकि। नान्यासक्तो न खलु कु- पितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमख्तत्रस्त्यजामि ॥' पारवश्याद्यथा- १. 'नागानि' इति पाठः. २. 'त्रिधा' इति तूचितम्.
Page 65
५ अध्याय: ] काव्यानुशासनम् । ५५
'उद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्यां स्कन्धावारं जिगमिषुरयं मत्प्रियो मां विहाय। सेयं जाता जगति सकले सुप्रसिद्धा जनोक्तिरग्रग्रासग्रसनसमये मक्षिकासंनिपातः ॥' अथ हास्यरसमाह- विकृतवेषादिविभावो नासौष्ठकपोलस्यन्दनद्ृष्टिव्याकोशनापकुञ्चनस्वेदा- स्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थतन्द्रात्रपालस्यादिव्यभिचारी हासा- भिधानस्थायीभावश्चर्वणीयतां गतो हास्यरसतां याति। स चोत्तमानां स्मि- तरूपः, मध्यमानां विहसितरूपः, अघमानामपहसितरूपो भवति । तत्र स्मितमीषद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति। विहसितं पुनराकुश्चिताक्षिकपोलमीषदुद्भतमुखरागं भवति। अपहसितं त्वस्थानहसितं साश्रुकणाक्रान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति। तत्र सामान्यहासोदाहरणम्-'त्रस्तः समस्तजनहासकरं करेणोस्तावत्खरः प्रखरमुल्ल- मयांचकार (?) । यावच्चलांसनविलोल नितम्ब बिम्ब विस्र स्तव त्रमवरोधवधू: पपात ।।' अथ करुणमाह- इष्टवियोगानिष्टसं[प्र]योगविभावो दैवोपालम्भनिःश्वासतानवमुख ्लेष- ख्वरभेदाश्रुत पातवैवर्ण्यप्रलयस्तम्भ [वै]कम्पभूलुठनविलापगात्रांशाद्श्रुभाव-
लस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायि- भावश्चर्वणीयतां गतः करुणरसतां याति । यथा-'हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो घिक् प्राणान् पति- तोऽशनिर्हुतवहस्त्वेङ्गेषु दग्धे दृशौ। इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्र- स्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अथ रौद्रमाह-' हारापहारदेशजात्यभि जनविद्याकर्म निन्दासत्यव चन स्भृत्याविक्षेपोपहास- वाक्याभाष्यद्रोहमात्सर्यादिविभावो नयनरागभृकूटीकरुण(र्ण)दन्तौष्ठपीडन- गण्डस्फुरण हस्तापनिःशेषताडनपाट नपीडनप्रहरणाहरणशस्त्रसंपातरुधिराक- र्षणच्छेदनाद्यनुभाव औग्रयावेगोत्साहविबोधानर्थ चापलादिव्यभिचारी क्रोधा- भिधान: स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामामोति। १. काव्य प्रकाशे तु 'स्तेङ्ेषु' इत्युपलभ्यते.
Page 66
५६ काव्यमाला।
यथा-'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषात्कामं त्रिःसप्तकृत्वो जगति विशसतः सर्वतो राजवंशान्। पिङ्जय (?) तद्रक्तपूर्णहदसवनमहानन्दमन्दायमा- नक्रोधान्नेः सर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' अथ वीरमाह- प्रतिनाय कवर्तिनम विनय संमोहाध्यवसायबलशक्तिप्रताप प्रभावविक्रमाधि- क्षेपादिविभावः स्थैरयौदार्यधैर्यगाम्भीर्यशौर्यविशारदाद्यनुभावो धृतिस्मृत्यौग्र्य- गर्वामर्षामर्त्यावेगहर्षादिव्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति। स च त्रिधा। दानवीरो धर्मवीरो युद्धवीरश्च। तत्र दानवीरा बलिजीमूतवाहनादयः। तद्यथा-'खस्ति सागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम वि- क्रमत्रयमिदं दत्तं गृहीतं मया। मा देहीत्युशनाह किं हरिरयं पात्रं किमस्मात्परमि- त्येवं बलिनार्चितो मखमुखे पायात्स वो वामनः ॥' यथा च-'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृप्तिं न पश्यामि तवैव तावता किं भक्षणात्त्वं विरतो गरुत्मन् ॥' धर्मवीराः श्रीपार्श्वमहावीरप्रभृतयः । 'दन्तक्षतानि करजैश्व विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिर- प्यवलोकितानि ॥' यथा च-'शठकमठविमुक्ताग्रावसंघातघातव्यथितमपि मनो न ध्यानतो यस्य नेतुः। अचलदचलतुल्यं विश्वविश्वैकधीरः स दिशतु शिवमीशः पार्श्वनाथो जिनो वः ॥' युद्धवीरा रामादयो मन्तव्याः ॥ अथ भयानकमाह- पिशाचादि विकृत स्वरश्रवणतदवलोकनखवजनवघबन्धादि दर्शनशून्यगृहा- रण्यतमआदिविभावः करकम्पचलदृष्टिनिरीक्षणकरस्पन्दशुष्कौष्ठकण्ठमुखवै- वर्ण्यस्वरभेदाद्यनुभावः शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी त्तीनीचानां स्वाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको रसः । यथा-'जाताकस्मिकविस्मयैः किमिदमित्याकर्ण्यमानः सुरैः सद्यःस्तम्भितकर्णतालच- लनाहिग्दन्तिनः कम्पयन्। जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूदेनेदं स्फुटतीव निर्भरभृतं व्रह्माण्डभाण्डोदरम् ।।' ·) अथ बीभत्समाह- अहृद्यानामुद्धान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावोऽङ्गसंको- चहल्लासनासामुख विकूणनाच्छादननिष्ठीव नाद्यनुभावोऽपस्माररौद्मोहगदा-
Page 67
५ अध्याय: ] काव्यानुशासनम्। ५७
दिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामाम्नोति।
रम्। पीतच्छर्दितर क्तकर्दमघनप्राग्भारघोरोल्लसद्वयालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति।।' तथाद्भुतमाह- दिव्य दर्शनेप्सित मनोरथावात्युपधूत देव कुलादिगमनसभाविमानमायेन्द्र- जालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमेषप्रेक्षणरोमाश्चाश्रुखेद- साधुवाददानाहोकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षवेगजडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्गुतरसतामाप्नोति।
स्यनिर्यद्धहत्। निःश्वासोच्छलिताब्धिवारिलहरीविभ्रष्टतारावलिः पायाद्वो जिनवीरशैशवव- योव्यापारलीलारसः ॥' यथा च-'यत्राभ्रंलिहभूरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवो- डपि द्युमणिः प्रयाति महता कष्टेन ताराध्वना। बाढं शैशवमक्षिमीलनकलामात्रेण संलङ्गय- तां यात्रा कालपनन्दनेन विदधे श्रीपार्श्वनाथप्रभोः ॥' अथ शान्त :-
भावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृति(निश्चेष्ट)मत्यादि- व्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसतां याति। यथा-'अहौ वा हारे वा कुसुमशयने वा दृपदि वा मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः कदा पुण्येऽरण्ये जिन जिन जिनेति प्रलपतः ॥' विभावैरनुभावैर्व्यभिचारिभिश्वाभिव्यक्ता इत्युक्तम्। तत्र व्यभिचारिणो ब्रूते- धृतिस्मृतिमतिब्रीडाजाड्य विषादमदव्याधिनिद्रासुप्तौतसुक्यावहित्थाश क्का- चापलालस्य हर्षगर वौद्य प्रबोधग्लानिदैन्यश्रमोन्म।दमोह चिन्तामर्षत्रासापस्मार- निर्वेदावेगवितर्कासूयामृतयः शान्तिस्थित्युदयप्रशमशबलत्वधर्माणस्रयसित्रिंश- द्यभिचारिणः । तत्र धृतिः संतोषः स्मृतिः स्मरणम्। मतिरर्थनिश्चयः। व्रीडा चित्तसंकोचः । जा- ड्यमर्थाप्रतीतिः । विषादो मनःपीडा। मद आनन्दसंमोहसंभेदः। व्याधिर्मनस्तापः । निद्रा मनःसंमीलनम्। सुप्तं निद्राया गाढावस्था। औत्सुक्यं कालाक्षमत्वम्। अवहित्था-
१. चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्णीतत्वादत्रास्य पाठः प्रक्षिप्तः प्रतीयते.
Page 68
५८ काव्यमाला।
कारगुप्तिः। शङ्कानिष्टोत्प्रेक्षा। चापलं चेतोऽनवस्थानम्। आलस्यं पुरुपार्थेष्वनादरः । हर्षश्चेतःप्रसादः। गर्वः परावज्ञा। अत्युग्रता चण्डता। प्रबोधो विनिद्रत्वम्। ग्लानिर्बला- पचयः । दैन्यमनौजस्यम्। श्रमः खेदः । उन्मादश्षित्तस्य विप्ववः। मोहो मूढत्वम्। चिन्ता ध्यानम् । अमर्षः प्रतिचिकीरषा। त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । नि- र्वेद: खवावमाननम्। आवेगः संभ्रमः । वितर्कः संभावना। असूया अक्षमा । मृतिर्म्रिय- माणता। एते च शान्तिस्थित्युदयप्रशमशबलत्वधर्माणः । तत्र निद्रायाः स्थिति(शान्ति)यथा-'प्रत्यग्रोन्मेषजिह्वाक्षणमनभिमुखी रत्नदीपप्रभा- णामात्मव्यापारगुर्वीजनितजललवाक्षम्भणैः खाङ्गभङ्गैः। नागाकं(इं) मोक्तुमिच्छोः शयनगु- रुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेईष्टिराकेकरा वः ॥' स्थिति- र्यथा-'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्त- निखातेव च। सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनि- बिडस्यूतेव लग्ना प्रिया ॥' अत्र वितर्कस्य स्थितिः । उदयो यथा-'कृतगुरुतरहारच्छे दमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छयमाने। विगलितनवमुक्तास्थूलवाष्पाम्बु- बिन्दुस्तनयुगमबलायास्तत्क्षणाद्रोदितीव ।।' अत्र विषादस्योदयः संधिर्यथा-'एकेना- क्षणा प्रविततरुषा पाटलेनास्तसंस्थं पश्यत्यक्ष्णा खजललुलितेनापरेण स्वकान्तम्। अह्- इछेदे दयितविरहाशङ्गिनी चक्रवाकी द्वौ संकीणों रचयति रसौ नर्तकीव प्रगल्भा ॥' अत्र रोषदैन्ययोः संधिः। शबलता यथा-'कवैाकार्ये शशलक्ष्मणः क्व च कुलं भूयोऽपि द्ट- श्येत सा दोषाणां प्रशमाय नः ्रुतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः सप्नेऽपि सा दुर्लभा चेतः स्ास्थ्यमुपैहि कः खलु जनो धन्यो धुरं धास्यति ॥' अत्र वितर्कौंत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम्। एवमन्येष्वपि व्यभि- चारिषूदाहार्यम् ॥ अथ सात्विकानाह- स्तम्भखेदोऽथ रोमाश्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्याश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः ॥ यथा-'वारंवारं तिरयति सुधावुद्गतो बाष्पपूरस्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम्। सद्ः खिद्यन्नयनविरतोत्कम्पलोलाङ्गुलीकः पाणिरलेखाविधिषु नितरां वर्तते किं करोमि ॥' अन्नाश्रुस्तम्भखेदवेपथुरूपाश्चत्वारः सात्त्विकभावाः । 'सर्वाङ्गीणविसारिभूरिपु- लकोद्वेदत्रुटत्कश्नुकाः स्वाकूतं गुरुबाष्पगद्गदगिरा सख्यै गिरन्त्यो मुहुः। प्राप्तव्यः क थमेष वल्लभ इति म्लायन्मुखास्त्वाममू: श्रीमद्वाग्भट दीक्ष्य चित्रलिखितप्रख्या मृगाक्ष्यो- १. अत्र 'क्वाकार्यम्' इति वितर्कः, 'भूयोऽपि' इत्यौतसुक्यम्, 'दोषाणाम्' इति मतिः, 'कोपेऽपि' इति स्मृतिः, 'किं वक्ष्यति' इति शङ्का, 'खप्नेऽपि' इति दैन्यम्, 'चेतः स्वास्थ्यम्' इति धृतिः, 'कः खलु' इति चिन्ता, स्फुटं पूर्वपूर्वोपमर्देन प्रतीयमाना शबलता चम- त्कारभूमि:' इति काव्यप्रदीपे स्पष्टमुक्तम्.
Page 69
५ अध्याय:] काव्यानुशासनम्। ५९
डभवन् II' अत्र रोमाश्चसवरभेदवैवर्ण्यप्रलापाश्चत्वारः सात्त्विकभावाः । एवं च नव स्था- यिनस्त्रयस्त्रिंशद्यभिचारिणोऽष्टौ सात्त्विका इति पश्चाशद्भावा बभूवुः ॥ अथैतानभिधाय तदाभासानाह- तत्र वृक्षादिष्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः । यथा-'मधुर्द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शङ्गेण संस्पर्शनिमी- लिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥'अनौचित्येन यथा-'तद्वकं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेद्विरो धिल्धु। सा चेत्कान्तिरत- त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गकमो वेघसः ॥' अत्रानु- रागविमुखायां सीतायां रावणस्योक्तिः। आदिशब्दाच्चन्द्रादीनां यथा-'अङ्गुलीभिरिव केशसंचयं संनिरुध्य तिमिरं मरीचिभिः । कुछ्लीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' अस्मिन्नुदाहरणद्वये संभोगशङ्गाररसाभासः । एवमन्येऽपि रसाभासा भावाभासा- श्वोदाहर्तव्याः ॥ अथ रसानभिधाय दोषानाह- सशब्दोक्तिविभावादि प्रातिकूल्यप्रकृतिव्यत्यय विभावानुभा वक्केशव्यक्तिपु- नःपुनर्दीप्यकाण्ड प्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्गचन नुसंधानानङ्गाभिधाना दश रसदोषाः। रसस्थायिव्यभिचारिणां स्वशव्देन वाच्यत्वं खवश- व्दोक्तिः । तत्र रसानां खशब्दोपादानं यथा-'ङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्याद्भुतस्तुङ्गया। रौद्रो दक्षविमर्दने च हसकृन्नम्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पश्चुपतिर्भूयात्सतां भूतये ॥I' स्थायिनां यथा-'रूपनि- र्जिंतकन्दर्पे नयनानन्ददायिनि। अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि ॥' अत्र रतिशब्दाः। व्यभिचारिणां यथा-'सत्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेष्या जहुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र त्रीडादयः । क्कचित्संचारिणां न दोषः । यथा-'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनै- नीताभिमुख्यं पुनः। दष्ट्रागे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्िष्टा शिवायास्तु वः ॥' अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रती- तिकृत् ॥। यत्र विभावानुभावादयः प्रतिकूला(स्तः)द्विभावादिप्रातिकूल्यम् । यथा-'त्यजत मानवलंबत विग्रहैन पुनरेति गतं चतुरं वयः । परभृताभिरितीवमु-
Page 70
६० काव्यमाला।
दीरिते स्मरमते रमते स्म वधूजनः ॥'अन्न 'न पुनरेति चतुरं वयः' इति पदमनित्यतां प्रकाशयन् शान्तस्य विभावतां याति शङ्गारस्य नोपयोगि। यथा-'प्रच्छन्नकामुकं दृष्ट्ा गुरूणां मध्यतो वधूः । विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्पृहाम् ॥' अत्र सकलव्यासङ्ग- विमोचनवनस्पृहे शान्तस्यानुभावौ॥ परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोषः । तत्र परस्परबाध्यत्वं यथा-'स्त्िग्धश्यामलकान्तिलिप्तवियतो वेल्द्वलाका घना वाताः सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वे सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।' अत्र धैर्यापस्मारौ परस्पर- बाध्यबाधकभावेनोपनिबद्धौ विप्रलम्भरसोपकाराय। 'स्नायुव्यासनिबद्धकीकसतनुं नृत्य- न्तमालोक्य मां चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे। ह्रीमुद्रामपनुद्य यद्विहसितं चित्रं समं शंभुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥'अन्र बीभत्सहा- स्यरसयोर्भिन्नाश्रयत्वेन निबद्धयोर्न दोषः। अन्यरसैर(न)न्तरितत्वे यथा-'भूरेणुदिग्वान्न- वपारिजातमालारजोवासितबाहुमध्याः। गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्िलिष्टभुजा- न्तराला: ॥ सशोणितैः कव्यभुजां स्फुरद्भि: पक्षैः खगानामुपवीज्यमानान्। संवीजिता- श्चन्दनवारिसेकसुगन्धिभि: कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णा: कुतूहलाविष्टतया तदानीम्। निर्दिश्यमाना ललनाङ्डुलीभिवींराः सदेहान्पतितानपश्यन् ॥' अत्र बीभ- त्सश्ङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान्न दोषः । अङ्गत्वे च यथा-'कोपा- त्कंचिदुपागतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्धा दृढम्। भूयो यास्यसि तद्गहानिति मुहुः कण्ठार्धरुद्धाक्षरं जल्पन्त्यश्रुवणोल्लखेन(?)सुकृती कश्चिद्रहस्ताड्यते॥' अत्र केशाकर्षणबन्धनताडनादयो रौद्रानुभावा अपि रूपकबलादारो- पिताः शङ्गारस्याङ्गत्वं भजन्ति॥ प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निबन्धनं प्रकृतिव्य- त्ययः। तत्र प्रकृतयोऽनेकधा भवन्ति-तदथा। तत्र दिव्या मर्त्याः पाता- लीयाः। तथा दिव्यमर्त्या दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपाता- लीया च। दिव्या यथा-'स्मृत्वायं निजवारवासगतया वीणासमं तुम्बरोरुद्रीतं नलकूबरस्य विरहादुत्कञ्चुलं रम्भया। तेनैरावणकर्णचापलमुषा शकोऽपि निद्रां जहद्वूयः कारित एव हासिनि शचीवक्े दृशां विभ्रमम् ॥' मर्त्या यथा-'निक्षिप्योत्क्षिप्य यत्नाद्विणमिह मुहुर्मा स्म संक्लेशयस्त्वं पृथ्वी सं च प्रकामं श्ृणुत हितमिदं सावधानं धनेशाः। नैवेयं शाश्वती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस्य प्रसभमभिनवां त्याग- धर्मादिलीलाम् ।' पातालीया यथा-'कर्कोटं कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि
Page 71
५ अध्याय:] काव्यानुशासनम् । ६१
चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलकयोः स्तौति च सवस्तिकस्त्वाम्। पद्मः सद्मैष भक्ते- रवलगति पुनः कम्बलोऽयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्कपालः॥' दिव्यमर्त्या यथा-'वर्हिर्ध्वजेऽपि सति सत्यपि दन्तवक्रे प्रेमोपधानमवधूय पिनाक- पाणिः । हस्तेन नित्यधृतवासुकिकंकणेन प्राज्ञः प्रियः स्पृशति भार्गवमेव पृष्ठे ॥' दिव्य- पातालीया यथा-'भस्माङ्गरागधवलीकृतसर्वगात्रौ यः कण्ठदेशे वरपन्नगाव्ृतः (?)। च- न्द्रेण भासुरजटामुकुट स्थितेन शंभुर्ददातु नियतं तव सुप्रभातम् ॥।'मर्त्यपातालीया यथा- 'आस्तां खस्तिकलक्ष्म वक्षसि तनौ नो लक्षितः कञ्नुको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुखात्। तिस्रस्तीव्रविषान्निधूमपटलव्याजिह्मरत्नद्विषो नैता दुःसहशोकसूत्कृ- तमरुत्स्फीता: फणाः पश्यसि ॥' दिव्यमत्यपातालीया यथा-'आस्तीकोऽस्ति मुनिः सविस्मयकृत: पारिक्षितीयान्मुखानूत्रावा(?)लक्षकलक्ष्मणः फणभृतां वंशस्य शकरस्य च। उद्वेल्लन्मलयाद्रिचन्दनलताखान्दोलन प्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूत्ृन्दैर्यशो गीयते॥' तथा धीरोदात्तधीरोद्धतधीरललितिधीरप्रशान्ता वीररौद्रशृक्काररसप्र- घानाश्चत्वारो नायकाः । तत्र धीरोदात्ता रामादयः । धीरोद्धता भीमसे- नादयः । घीरललिता नलादयः । धीरप्रशान्ता जीमूतवाहनादयः । तत्र घीरललितश्चतुर्घा भवति। अनुकूलः शठो धृष्टो दक्षिणश्च। तत्र स्थिरप्रेमा एकस्यां रतोऽनुकूलः । यथा-'अस्माकं सखि वाससी न रुचिरे ग्रैवेयक नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः। किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥' प्रियमाचक्षाणोडपि विप्रियं यः कुरुते स शठः । यथा-'दष्टैकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्ीडा- नुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥' कृतदोषोऽपि निःशङ्को धृष्टः । यथा-'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रागतं वके कज्जलकालिमा नयनयोस्ता म्बूलरागोऽपरः। दृष्ट्रा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसे लीलातामरसोदरे मृगदृशः श्वासः समाप्ति गतः ॥' अन्यचित्तोऽपि यः पूर्वस्यां सौर्यभयप्रेमादि न त्यजति स दक्षिणः। यथा-'सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम्। कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाविलं किं स्यादित्थमह- र्निशं सखि मनो दोलायते चिन्तया ॥!' का. १
Page 72
६२ काव्यमाला।
रागित्ववाग्ग्मित्वमहावंशजत्वतेजखिवित्व दृढत्वतत्त्वशास्त्रज्ञत्वाग्राम्यत्वशृङ्गारि- त्वसुभगत्वादयो नायकगुणाः । व्यसनी पापकृदन्यायी लुब्धः स्तब्धः क्रोधी धीरोद्धतक्ष प्रतिनायकः । यथा रामस्य रावणः । युधिष्ठिरस्य दुर्योधनः । त्रिपृष्ठस्य हयग्रीवः । विष्णोर्जरासंधः । नायकस्य च नर्मसचिवपीठमर्दविटविदूषका अनुचराः । तत्र कुपित- स्त्रीप्रसादको नर्मसचिवः। नायकगुणयुक्तस्तदनुचरः पीठमर्दः। एकविद्यो विटः । क्रीडनकप्रायो विदूषकः । नायिका त्रिधा-खकीया परकीया सामान्या च। तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा-मध्या- प्रौढाभेदेन त्रिधा सवकीया। तत्र मुग्धा यथा-'अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम्। वदति च यदलक्ष्यं किंचिदुक्तापि भयो रमयति सुतरां सा चित्तमन्तर्नवोढा ॥' उद्धिद्यमाननवयौवना मध्या । यथा-'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्र- यति च। दशोर्लीलारम्भा: स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढं परिचयः ॥' वयःकलाकौशल्यपरिपूर्णा प्रौढा। यथा-'नितम्बो मन्दत्वं जनयति गुरुत्वाह्गुतगतौ महत्त्वादुद्दत्तः स्तनकलशभारः श्रमयति। विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥' एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र ग्रन्थगौरवभयान्नो- ध्यन्ते (यथा)॥ परकीया परस्त्री कन्या च। परस्त्री यथा-'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्ग हे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति। एकाकिन्यपि यामि तैद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्या यथा-'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते। नो धत्ते गुरुतां तथाप्युपचिता ... नितम्बस्थलं तन्व्याः खीकृतमन्मथं विजयते नेत्रैकपेयं वयः ॥' १. 'सत्वर' इति. २. 'तनुमा' इति साहित्यदर्पणे.
Page 73
५ अध्याय: ] काव्यानुशासनम् । ६३
कलाकलापकुशला वैशिकाचारचतुरा धूर्ता चित्तैकबद्धचित्ता सगुण- निर्गुणयोः साधारणी गणिका सामान्या। यथा-'गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्भ्रा- न्तोरुगल्लस्थलम्। चाटुप्रायवचो विचित्रमणितं घातै रुतैश्वाड्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ।' एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः । सर्वासामपि योषितां प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति। स्वाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्क- णठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः । यस्याः सौभाग्यबद्धः पतिः पार्श्व न मुश्चति सा खाधीनपतिका । यथा-'लिखति कुचयोः पत्रं कण्ठे नियोजयति स्नजं तिलकमलके कुर्वन्गण्डादुद- स्यति कुन्तलान्। इति चटुशतैर्वारंवारं वपुः परितः स्पृशन्विरहविधुरो नास्याः पार्श्वे विमुञ्चति वछभः ॥' केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा प्रोषितभर्तृका। यथा-'श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं केनेदं न कृतं प्रियस्य वि- रहे कस्यासत्रो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ।।' मानकलहेन निर्गते भर्तरि तत्संगमसुखेनान्तरिता कलहान्तरिता। यथा-'उच्छासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुखं नक्तंदिनं रुद्ते। अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथा(थो)पेक्षितः सख्यः कं गुणमा- कलय्य दयिते मानं वयं कारिताः ।' उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा। यथा-'कस्तूरीं परिमर्दय प्रियससि्र श्रीखण्डमत्रानय मालां गुम्फ विधेहि केलिशयनं सज्जं प्रदीप कुरु। संप्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्रं यतः प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः ॥' चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता। यथा-'किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः कि वा कारणगौरवं कि- मपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्था्य वक्राम्बुजं दीर्घ निःश्व- सितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्जः ॥' १. 'विन्यस्य' इति साहित्यदर्पणे.
Page 74
६४ काव्यमाला।
केनापि कारणेन संकेतमनागतेन प्रियेण वश्चिता विप्रलब्धा। यथा-'यत्संकेतगृहं प्रियेण कथितं संप्रेक्ष्य दूती स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया। स्थानोपासनसूचनाय विगलत्सान्द्राअ्नैरश्रुभिर्भूमावक्षरमालिकेव रचिता दीर्घे रुदन्त्या शनैः ॥' या स्मरार्ता कान्तं स्वयमभिसरति तमभिसारयति वा साभिसारिका। यथा-'निशा वा वृष्टिर्या तिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिन- वसरितां श्रेणिरथ वा। यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीप: स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥' अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डिता। यदाह-'निद्राकषायमुकुली- कृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृह- मेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥' यथा-'नवनख्पदमङ्ग गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम्। प्रति- दिशमपरत्तरीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥' ईर्ष्याया: प्रति कारणं सपल्नी नायिका। यथा रुक्मिण्या सत्यभामा, वासवदत्तायाः सागरिका, गौर्या गङ्गा च। योषिद्रुणानां च लीलादीनां ग्रन्थगौरवभयान्नात्र विस्तरः ॥ अथ दश कामावस्था आह- अभिलाषचिन्तास्मृतिगुण कीर्तनोद्वेगप्रलापोन्मादव्याधिजडतामरणाख्या दशावस्थाः । स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति। अथ कालादयौचित्यमाह- तत्रानादयन्तः सुषमदुःषमादिद्वादशारचऋ्रपरिवर्तनेन कालो मन्तव्यः । स च काष्ठादिभेदभिन्नः । तद्यथा-पञ्चदश निमेषाः काष्ठा। त्रिंश- त्काष्ठाः कला। पञ्चदश कलाः घटिका । द्विघटिको मुहर्तः । त्रिंशन्मु- हूर्तोडहोरात्रः । तत्र चैत्राश्वयुजोर्मेषतुलासंक्रान्तौ समरात्रिंदिवम्। चैत्रा- त्परं मौहूर्तिकी दिनवृद्धिर्निशाहानिश्च। मासः परावधिः । ततः परं मौहूर्तिकीदिवसहानिर्निशावृद्धिः । अश्वयुजः परतः पुनस्तदेव विपरीतम्। १. तथा चोक्तं हेमाचार्येणाभिधानचिन्तामणौ-'अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥' इति. २. बहुवचनान्तमिदम्. तेन मासत्रयमित्यर्थः
Page 75
५ अध्याय: ] काव्यानुशासनम्। ६५
पञ्चदशाहोरात्रः पक्षः । कृष्णशुक्कपक्षद्वयरूपो मासः । द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः । षड्भिर्मासैरयनम् । तच्च वर्षादि दक्षिणायनम्। शिशि- रादं तूत्तरायणम्। द्ययनः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरिति लोकयात्राविदः । तत्र श्रावणो भाद्रपदश्व वर्षाः । अत्र च शल्कीशालशिलिन्ध्रयूथीलाङ्गलीकुटजदम्ब- सर्जार्जुनकेतकीप्रभृतीनां पुष्पोद्गमः । इन्द्रगोपचकोरचातककुरङ्गदर्दुरोरगशिखण्डिमङ्ठ- कङ्कप्रभृतीनां मदः । तथा बलाकासु गर्भाधानम्। वंशाङ्कुराणामवृद्धिः । रजःप्रशमः । नृपयात्रानिवृत्तिः । नीलीदलश्यामला वनभूमिः। वारासारक्षालनतो गिरीणां रम्यत्वम्। नदीनां जलपूरै रोधोभेदः। यतिचारनिवृत्तिः । कामिनीजनावलोकितकान्तमार्गलं ख- स्थानं प्रति चलितपान्थसार्थत्वम्। जलदनिकुरुंवान्धकारितनभस्तलत्वम्। विद्युदुद्यो- ताद्योतमानदिझ्ुखत्वम्। घनगर्जिताद्वैडर्यमूभिषु रत्नकन्दलोद्भेदः। कामिनीभिः सहोद्यान- यात्रा हर्म्यशिखराग्रशय्या। मृगनाभिगर्भचतुःसमविलेपनम्। कृषीवलकुटुम्बिनीनिकुरम्ब- रासकाडम्बरो दूर्वाष्टमी पर्वोत्सवश्च वर्णनीयः। तथा दग्धोर्वरागन्धवन्धुर्घनतुषारकणवाद्दी कदम्बकुसुमामोदमांसल: पाश्चात्यपौरस्त्य उत्तरो वायुः। आश्विनश्र कार्तिकश्च शरत्। अत्र च कुररद्विरेफकारण्डवकादम्बकखज्जरीटचक्र- वाकसारसक्रौञ्चवृषभकुम्भिकमठबकोटशफरप्रभृतीनां मदोद्ेदः । पद्मकुमुदोत्पलकह्वार- बन्धूकबाणासनकुङ्कमशेफालिकासप्तच्छद काशभाण्डीरसौगन्धिकमालतीनां कुसुमोद्गेदः । तथा मयूराणां मदापनोद: हंसयूथागमनम्। अगस्त्योदयात्ययः । प्रसादः। मुक्ताशुक्ति- गर्भाधानम्। तरुश्ृङ्गत्यागो नभःप्रसत्तिः । सुरवीथीदर्शनम् । शुभ्राभ्रखण्डमण्डितमख- (नभश्च)रमण्डलं धवलतमचन्द्रिकावभासमाननिशामुखत्वम्। महानवम्यां निखिलास्रपू जोत्सवः । वाजिभटद्विपानां नीराजनविधिः । नृपाणां यात्रोद्यमः । मार्गेषु पङ्कशोषः। भास्करकराणां दुःसहत्वम्। माधवप्रबोधः । केदारेघु शालिपाको गोपीगीतयक्ष। परि- पाकापन्नैर्वारुकगन्धोद्गमः। जरत्रपुसीफलसौन्दर्य कृषीवलगेहाजिरेषु चलद्वलयावलीवा. चालभुजलतोल्लासित मुशलोच्छ लित कलमशा लिणि (नि)ण(?)कगन्धबन्धुरत्वं नदीपूर प्राचु- र्यापगमश्च वर्णनीयः । वायुश्वात्रानियतदिकः । मार्गशीर्ष: पौषश्च हेमन्तः । अत्र च कुन्दमचकुन्दलवलीफलिनीरोध्रपुंनागानां पुष्पो- द्रमः । ्रमरसर्पमयूरादिजीवानां मदापनोदः । कामिनीनां कुङ्कुमसित्थुकगन्धतैलाद्युप- चारः। सर्घपकन्दलवराह्वन्ध्रप्रभृतिशाकप्राचुर्यम् । दध्नां संनद्धरसता। कामिनीकुचानां कवोष्णता। कोष्णाम्भसा स्नानविधिः। दुर्भगाणामपि गाढतराङ्गपरिष्वङ्गः। व्याघ्रीणां प्रसूतिः । नदीपुलिनेषु गोधूमयवादिधान्योद्गमः । सरःकूपपयसां कवोष्णता। धान्यप- रिपाकपेशला वहिर्भूमयः। लवणानां पाकः। पत्रीप्रभृतिजन्तुयात्रोद्यमहानिर्वैश्वानरप्रिय- त्वम्। कर्कन्धूनागरङ्गफलानां पाकोद्रेकः। पुण्डैस्षुखण्डानां रसपरिपूति(?) ्मन्दिरगर्भ-
Page 76
६६ काव्यमाला।
शय्या। उत्तुङ्गतरपीवरपयोधरबन्धुरमधुरसुन्दरीभुजपञ्जरान्तरसेवनं च वर्णनीयम्। वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः । माघ: फाल्गुनश्च शिशिरः। अत्र सर्वे हेमन्तवद्वर्णनीयम्। विशेषतश्च मातङ्गहरिण- वराहमहिषाणामुत्कर्षः कुङ्गुमगन्धतैलादिसाध्यः प्रचण्डो मरुत्। विचित्रसुरतोपभोगयो- ग्याश्च यामिन्यः। दन्दह्यमानकालागरुधूपधूमस्तोमेषु स्पृहा। सुरतसंमर्दनिपीतशीतानां पादप्रान्तपुजीकृततलपटानां यूनां शयनावस्थानम्। चन्दनेष्वरुचिः पयसामतिशायि शै- त्यम्। तुहिनानलयोर्दाहात्मकत्वेनाभेदः। दुर्भगासुभगयोरालिङनेन विशेषः । शशिभा- स्करयोः शैत्येन समता। मरुबककुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपे- शलत्वम्। औदीच्यपवमानस्त्यानीभूतपानीयपटलान्तरनिलीनदी नमीनासु नालावशेषन- लिनीवनो दीनमधुरकरझङ्करासंकारमुखरितदिख्ण्डलासु वापीष्वनादरः। करीषाग्निसमीप- शयितदयितकुटुम्बकत्वं च वर्णनीयम्। चैत्रवैशाखौ वसन्तः। अत्र च शुकसारिकाहारीतमधुव्रतदात्यू हपुंस्कोकिलादीनां मदः। सह कार कर्णिकार काञ्चनार कोविदार सिन्दुवाररोहीतककेत ककिरातमधुकमोचामाधवी दम न -र काञ्जनकुरबकतिलकाशोकबकुलगुवाकविच किल नालिकेर हिन्तालपाटली किंशुकखर्जूरताड- ताडीप्रभृतिद्रुमाणामुद्ेदः। तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपानं स्मरपू- जाप्रक्रमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रत्यमरमन्दिरं यात्रोत्सवो (व्यात्यु)चारु- चन्दनाङ्गरागो धौतधवलवसनसेवनं जगज्जनजिगीषुमकरध्वजमहाराजविजययात्राडिण्डि- मायमानकोकिलकुलकलकलकलोद्यानरामणीयकं वर्णनीयम्। वायुश्चात्र करिकलभदश-
मानतुङ्गमतङ्गजः पश्चमप्रपञ्चविपश्चनाचतुरो दाक्षिणात्यः। ज्येष्ठाषाढौ श्रीष्मः । अत्र हि नवमालिकाकाशिकाशिरीषकाश्चनकेतकीधातकीख- जूररजम्बुपनसप्रियालपूगीफलनारिकेलप्रभृतीनां पुष्पफलोद्द्ेदः। करभसरभरासभप्रभ- तीनां मदोद्ेदः। नदीसरःकूपादिषु निरम्भस्त्वम्। सक्तुधानैर्वारुषु पानकेषु रतिः । पान्थपूर्णाः प्रपाः। प्रातः सायं च वहमानमार्गत्वम्। कायमानेषु माध्याहिकी निद्रा। दिवसावसाने स्न्नानविधिः । रात्रिशेषे सुरतक्ीडा। चन्दनादिशीतलद्रव्यसेवा। निशासु चन्द्रकरनिषेवणम्। उत्तुङ्गसौधशृङ्गाग्रविनिर्मिते विशालवायनविवरविहरमाणजगत्प्रा- णनिर्वाप्यमाणघर्मत्वम्। सहकारभङ्गास्ादः। तालवृन्दजनितोद विन्दुवृष्टिसरःस्थलस्थायि- स्थूलमुक्तफलहार प्रायाभरणत्वम्। जलार्द्रोपवनजलकीडापाटलापरिमलवह लितशीतलज- लोपभोगो विविधविचकिलस्ज एकदेशोपविष्टवैणिकविपञ्च्यमानवसन्तध्वनिश्रवणं सश-
धीयमानधूतघनधर्मत्वं वर्णनीयम्। तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि तप्यन्त इव पांसवः, आध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टिकाकीर्णा वनभूमिः, सर्वतोवहदरघट्ट- घटीयन्र्रचीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः। चीरी
Page 77
५ अध्याय: ] काव्यानुशासनम् । ६७
नादवन्तो वनान्ताः । दाधिकाभ्यवहारः । पङ्कान्तर्लुठनाव्यग्रं कोलकुलम्। रोमन्थम- न्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम्। लोलज्जह्नाः समग्रश्चापदसंदोहाः । पक्षि- णामंसदेशप्रकर्षो वर्णनीयः । वायुश्वात्र तरुणतरतरणिकिरणसंपर्ककर्कशः शर्कराकणवाही अङ्गारप्रकरं किरन्निव कुतूहलकणान् वर्षन्ति वातिसारितजगज्जन्तुजातदाहहडम्बरो नैर्तर- तोऽनियतादिक्षिपो वा(?) वर्णनीयः । वसुरवस्थक्ष॥ ऋतोः संधिः। शैशवं प्रौढिरनुवृत्तिश्च। तत्र शिशिरवसन्तयोः संधिर्यथा-'बिंबुद्वे मयण नदिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अंगमि कुप्पासयं। जंबाला मुहु कुंकुमं मिवयणे विद्वंति डिल्लायरा संमत्ते शिशिरं विणिज्जिय बला पत्तो वसंतस्य उ॥' वसन्तस्य शैशवं तथा-'ग- र्भग्रन्थिषु वीरुधां सुमनसो मध्येङ्कुरं पल्लवाश्छायामात्रपरिग्रहः पिकवधूकण्ठोदरे पश्चमः। किं च त्रीणि जगन्ति जिष्णुदिव सैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यास- वश्यं धनुः ॥' प्रौढिर्यथा-'संपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान्संनद्धं परितो निरन्तरदलद्रोणीनिवेशैस्त्रिभिः । प्रीतभ्रान्तमधुव्रती चलपितंस्तं च स्तिभीसंकटे गन्ध- ग्राह्यमबाह्यवृत्ति वलति क्रीडावने केतकम् ।' वर्षासु ग्रीष्मलिङ्गानुवृत्तिर्यथा-'खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चो पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् । गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहा- सेन भासां पतिः ॥' इदमन्यच् यद्यथोक्तं कविसमयप्रसिद्धं तत्तथव निबभ्नीयात्। अ- न्यथा तु प्रकृतिव्यत्ययो नाम दोषः । विभावानुभावयोः क्ेशेन यत्र व्यक्तिर्भवति सा विभादानुभावक्कशव्यक्तिः। यथा-'परिहरति रति मति लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावा- दीनां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नप्रतिपाद्यः । यथा च -'कर्पूरधूलि- धवलद्युतिदूरधौतदिख्ण्डले शिशिररोचिषि तस्य यूनः। लीलाशिरोंशुकनिवेशविशेषक्क- प्तिर्व्य क्तस्तनोन्नतिरभून्नयनावनौ सा ।।' अत्रोद्दीपनालम्बनरूपाः शङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना। अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः । यथा बालरामायणे उन्मत्तदशाननेऽके(?) पुनः पुनश्चर्व्यमाणो विप्रलम्भो रस उपभु- कमाल्यवच्च वैरस्यमाकलयति। अकाण्डे विस्तरोऽकाण्डप्रथनम्। यथा कर्पूरमज्जर्यो दरमदोहददानादिव्यावर्णनम्॥ असमयत्यागोऽकाण्डच्छेदः ।
Page 78
६८ काव्यमाला।
यथा वीरचरिते द्वितीयाक्के राघवभार्गवयोः परमकाष्ठाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः ॥ अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः । यथा कादम्बर्यो रूपविलासे त्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अ-
वधे उत्क्षिप्तप्रतिद्वन्द्विविजयबीजेन वीररसानुबन्धेऽपि प्रंवर्तमाने,तदन्यशङ्गाराङभूतर्तुवन- विहार पुष्पावचय जल के लिमधुपानसुरतचन्द्रोदयादिप्रभातादिवर्णनायासत्यासक्तिः ॥
यथा रत्नावल्यां चतुर्थेऽक्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः ॥ अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम्। यथा कर्पूरमञ्जर्यो नायिकया स्वामिना च वसन्तवर्णनमादृत्य वन्दिवर्णने तस्य राजञः प्रशंसनम् ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानो(?)लंकारः ॥ नव्यानेकमहाप्रबन्धरचनाचातुर्यविस्फूर्जित- स्फारोदारयशःप्रचारसततव्याकीर्णविश्वन्रयः । श्रीमन्नेमिकुमारसूनुरखिलप्रज्ञालुचूडामणिः काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः ॥
Page 82
संस्कृतनूतनपुस्तकानि न्यायलीलावती। श्रीमद्वल्लभाचार्यविरचिता। वैशेषिकसिद्धान्तसारभूतोऽयमपूर्वो न्यायलीलावतीग्रन्थः । अत्र वैशेषिकसिद्धान्ता मण्डनं क्वचिन्मतान्तरखण्डनं च संक्षिप्ताभिर्युक्तिभिः कृतमस्ति। अस्य निबन्ध गभीरार्थत्वेन दुर्ज्ेयत्वादेतदुपरि महानैयायिकैः पृथग्व्याख्यात्रयं कृतं श्रुतप्रायं नैतदर ध्यस्माभिरुपलब्धम्। यदि तत्संग्राहका महाशया लोकोपकारप्रवणा वितरेयुर्मुद्रयामस्त पुनर्मुद्रणावसरे। मूल्यं १२ आ., मार्ग. २ अ काव्यालंकारसंग्रहः।
श्रीमत्प्रतीहारेन्दुराजविरचितया काव्यालंकारसारलघुवृत्त्या समेतः अयं ग्रन्थोऽतीतसहस्त्रसंवत्सरोऽतिप्राचीनः वर्ग( प्रकरण)षट्टयुत आलंकारिकाण मतीव मनोविनोदास्पदो वरीवर्ति। अत्र प्रतिपादिताः सर्वे विषयाः सप्रमाणा ललि तराक्ष सन्तीत्यस्माभिः संमुद्य प्रकाशितः । मूल्यं १० आ., मार्ग. २ अ तत्त्वप्रदीपिका-चित्सुखी। श्रीमच्चित्सुखाचार्यमुनिविरचिता। परमहंसप्रत्यग्रूपभगवत्प्रणीतय नयनप्रसादिनीसमाख्यया व्याख्यया सहिता। श्रीमद्भगवत्पादैरद्वैतवेदान्तसिद्धान्तपूर्ण शारीरकमीमांसाभाष्यमभाषि। तदाक्षि द्विरर्वाचीनैरुत्थापितकुतर्कन्धकारनिरसनक्षमं खण्डनं श्रीहर्षमिश्रैरकारि। तदप्यपर्य प्रतिवादिखण्डनायेत्यखिलवादिविप्रतिपत्ति परिजिहीर्षता चित्सुखमुनिना सवोशपूर्णो: तत्त्वप्रकाशिकानामा संदर्भोऽग्रन्थि। अत्र चतुर्भिः परिच्छेदैः सर्वे विषयाः सु शदं निरूपिताः । मूल्यं ३ रु., मार्ग. ६३ निर्णयसागरयन्नालयाधिपतिः तुकाराम जावजी, काळबादेवीरोड, मुं
Page 83
PK Vagbhatta 2916 Kavyanušasanam V3 1915
PLEASE DO NOT REMOVE
CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY