1. Kavya Darsa Dandin BORI
Page 4
GOVERNMENT ORIENTAL SERIES
Class A, No. 4
Page 5
GOVERNMENT ORIENTAL SERIES
Class A, No. 4
PREPARED UNDER THE SUPERVISION OF
THE PUBLICATION DEPARTMENT OF
THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE,
POONA
IN TE POONA
FOUNDED 1917
मेजस्वि नावधी
Bhandarkar Oriental Research Institute
Page 6
Couerument Orieutal Series -- Class A, Do. 4
KAVYADARSA
OF
DANDIN
Edited with an Original Commentary
By
Vidyabhūsana Pandit Rangacharya Raddi Shastri.
Bhandarkar Oriental Research Institute.
Page 7
Copies can be had direct from the Bhandarkar Oriental Research Institute, Poona 4 ( India )
Price : Rs. 4 Annas 8 per copy, exclusive of postage.
Printed and published by Dr. V. S. Sukthankar M. A., Ph. D., at the Bhandarkar Institute Press, Bhandarkar Oriental Research Institute, Poona No. 4 ( India )
Page 8
राजकीया प्राच्यग्रन्थश्रेण :- अनुक्रमाङ्क: 'ए'४
कविप्रवरेणाचार्यदण्डिना विरचितः
काव्यादर्शः
विद्याभूषणेन वैराजक्षेत्रवासिना रड्डीकुलावतंसेन बालकृष्णाचार्यतनुजेन पण्डितरङ्गाचार्यशास्त्रिणा विरचितया प्रभाख्यया व्याख्यया समेतः
पुण्यपत्तनस्थ-
प्राच्यविद्यासंशोधनमन्दिराधिकृतैः
भाण्डारकरप्राच्यविद्यामन्दिरमुद्रणालये मुद्धयत्वा प्राकाश्यं नीतः
१८६० शकवत्सरा: १९३८ खिस्ताब्दाः
मूल्यं सार्धरूपकचतुष्टयम्
Page 10
किमपि प्रस्तुतं निवेदनीयमू। कतिपयसंवत्सरेभ्यः संस्थया पूर्व सुद्वितस्य भवदीयटीकासनाथस्याचार्यदण्डिन: काव्यादर्शस्य पुनर्मुद्ण- मपेक्ष्यते तन्रवद्भिष्टीकासनाथं तत्संशोध्य मुद्णाह विधाय च प्रेष्यतामिति समा- दिश्यत। एतदादेशानुरोधेन सटीकं काव्यादर्श संशोध्य प्राहिणवम्। ततः केनाप्य- निर्वचनीयेनान्तरायेणायं मुद्रणविचारो विरत इवासीत् । ततो गच्छति काले परमेशकृपया कार्यावेक्षकाणां च न्यायबुद्धच्या पूर्वनिदेशानुरोधेन तन्मुद्गणं समुप- क्रान्तं समाप्तं चासीदिति निवेद्यन्तः प्रमोदामहे। तत्र प्रथमावृत्तौ मूलेन्तरान्तरा टीकाविपरीता: पाठाः कथश्चन्निवेशिता आसन्। ते संशोध्य टीकानुकूलास्तन्न तत्र संयोजिताः। अन्ते मूलश्लोकार्धसूची तथा टीकास्थश्लोकसूची शुद्धिपत्रं च निवेशितम्। अन्यच्च काव्यादर्शस्य पुस्तक- पञ्चकं सङ्गृह्य तत्रत्या: पाठाः प्रतिपत्रमधस्तान्न्याविश्यन्त। पुस्तकपश्चकस्वरूपं त्वेवं वर्तते। १. तत्र तावत्प्रथमं ताडपत्रपुस्तकविषये किश्चिन्निवेद्यामः । इदं पुस्तकं ख््रिस्त १९२५।२६ संवत्सरे मद्रपुरविभागतः प्राच्यसंशोधनमन्दिरसंस्थयालम्भि। इदं मूलमात्रम। पत्रसंख्या चैकत्रिंशत्। पत्रस्य दैर्ध्य ११। अङ्गलपारीमेतम् । आयामश्र १। अङ्गलपरिमितः। प्रतिपत्रं त्रायो नव पङ्कयः । प्रतिपङ्गि प्रायः पश्चाशदक्षराणि। पत्रस्य पार्श्वद्वयेऽपि लेखनम्। लिपि: केरली टङ्गैरुत्कार्णा च। सर्व पुस्तकं शुद्धमन्रुटितं च । अन्र चत्वारः परिच्छेदाः।१. मार्गविभाग:, २. अर्था- लङ्कारविभाग:, ३. यमकप्रहेलिकाप्रकारः, ४ गुणदोषविभागश्र्वेति तेषामाभि- धानानि। पुस्तके लेखनसमयननिर्देशी नास्ति। अत्रत्यपाठान्तरसङ्ग्रहविषयेस्माकं केरलालेपिपरिचयाभावात्तन्निष्णाता व्याकरणे कृतपरिश्रमा: कृष्णमूतिशमाणस्त- त्कर्मणि नियोजिता: । तैश्र्व तत्सर्वे पारितम् । अत्रत्याः पाठभेदा 'अ' संज्ञया तत्र तत्र निवेशिता: सन्ति। २. द्वितीयं पुस्तकं खिस्त १८९० संवत्सरे 'ओ भाटलिंग' संज्ञकमहाशयेन शार्मण्यदेशे मुद्धितम्। स्वीयजर्मनभाषया विपरिणामितं च। एतत्पायः शुद्धं पारि- च्छेदत्रयात्मकं च। तत्र प्रथमे परिच्छेदे १०५ श्लोका: द्वितीये २६८ शरोकास्तृतीये १८७ श्रलोका वर्तन्ते। अत्रत्याः पाठभेदा 'ब' संज्ञया निर्दिष्टाः। मुद्नितपुस्तकविषये नाधिकतरं निवेदमपेक्ष्यते। ६ तृतीयं पुस्तकं मद्रपुरप्रधानपाठशालास्थाध्यापकैः 'एम् रङ्गाचायै 'ब्रह्म- वादिमुद्दणालये स्रिस्त १९१० संवत्सरे मुद्नितम्। एतत्पुस्तकं टीकाद्यपरिष्कृतम्। तत्र प्रथमा तरुणवाचस्पतिग्रथिता द्वितीयानिर्ज्ञातकर्तृका हृद्यङ्गमाभिधाना। यद्पि टीकाद्दयं प्राचीनं तथापि साहित्यशास्त्रप्रविविभूणां नातीवोपयुक्तं न वा शास्त्रार्थ- विवेचनप्रगल्भम्। एतत्पुस्तकपाठभेदाः 'क' संज्ञया सङ्गहीताः। ४ चतर्थ पुस्तकं प्रेमचन्द्रमहोद्यैः स्वोपज्ञमालिन्य्रोच्छनीटीकया सनाथं.
Page 11
(२ )
वङ्गप्रदेशे खिस्त १८६३ संवत्सरे सुद्वितम्। प्रेमचन्द्रमहाशयस्य टाका शास्त्रीय- विषयविवेचने प्रगल्भा काव्यादर्शमर्मजिज्ञासूनां विशेषहितकारिणी च। एभिर्महा- शयैः सहास्माकमन्तरान्तरा वैमत्येऽि मलावगमायेयं टीकातीवोपकत्रीति सामोदं निवेद्याम:। पाठभदनिर्देशे एतत्पुस्तकं 'ड' संज्ञया व्यवहतम्। ५ पश्चमं पुस्तकं श्रीजीवानन्दविद्यासागरभट्टाचायैः खिस्त १८९० तमे संवत्सरे कालिकतायां नारायणसंजकमुद्णालये मुद्वितमस्ति । अत्र श्रीजीवानन्द- महाद्यैः स्वरचितया टीकया समुद्ासितः काव्यादर्शो दृश्यत। इयं टीका पदार्था वबोधिनी बालानासुपयुक्ता वर्तते। एतत्पुस्तकं पाठभेदविषय 'प' सज्ञया निर्दिष्टठम्। एवं पुस्तकपश्चकं सङ्ग्ह्य परिश्रमेण पाठभेदान् विविच्य तत्र तत्र पत्रेधःप्रदेशे ते निवेशिताः। प्रथमावृत्तौ पाठभेदा अन्यैर्महोदयैविवेचिता आसन्। तेषां साधन- पुस्तकानामनभिज्ञानादयं विषयः सर्वो नूतन एवास्यां द्वितीयावृत्ती विहितोस्ति। टीकाविरचनसमये 'श्रुतानुपालिनी- मालिन्यप्रोञ्छनी- इत्याद्यो बहवष्टीकाः परिशीलिता आसदन्नतस्तेषां कर्तारः धन्यवाद्महन्तीति निवेदयन्तः प्रमादामहे। अन्तेच स्वादिष्टकर्तव्याचरणेन वाचकमनांसि समाकर्षामः। तत्खल्वते- त्कर्तव्यं यत् पाठभेदविवेचने 'एम्. ए.' उपधाधारिभिस्ताडपत्रीकरोपाह्वैः श्रीश्रीनि- वासरायैः सौहार्दपूर्वक सहाय्यमकारि। तथाचास्मज्ज्येष्टतनयनायुष्मता 'बी. ए. बी.टी.'इत्युपपद्धारिणा लक्ष्मीकान्तशर्मण शोध्यपत्रसंशोधनविषये परिश्रमाअङ्गी कृताः। 'सर परशुरामभाऊकॉलेजसंज्ञकपुण्यपत्तनीयप्रधाना डलपाठशालाप्रधाना- ध्यापकै: करमरकरोपाह्वैस्तथा फर्ग्युसनकालेजसंज्ञकप्रधानाङगलपाठशालास्थ- संस्कृतविषयप्राध्यापकैः 'परा्जपे' इत्युपाह्वैः समीक्षणाय विविधग्रन्थवितरणेन समु- पककृता: स्मः। प्राच्यविद्यासंशोधनमन्दिरकायावक्षकैः सुकथनकरमहोदयबहु- विधकार्यव्यत्ययसमये समुचितसौहार्दप्रकटनेनैतत्कार्यसम्पादनाय सज्जीकृता: स्मः अत एतेषां विश्वेषामुपकृतिं साहाय्यं वा महता सन्तोषेणाभिनन्दामः। एवं बहुविधसाहाय्यलाभेऽपि स्वयंकृतपरिश्रमेऽपि च यत्रकुत्रचिद्शुद्धिरव- शिष्ठा चेत्तन्निदानमिदानीमनुभूयमानं प्रबलं शरीरास्वास्थ्यं मानुषसुलभं वार्धक्यं च। तेन च दृष्टिदोषो मतिवैकल्यं स्वाभाविकनिति जानीतेति सप्रश्रयं साहित्यकोवि दान्निवेद दोषनिवेदनेनानुग्राह्योडयं जन इति प्रार्थमामः। अन्ते च सृषट्याय्ट- कतृकं चराचरनियामकं रमानायकं समणयं साक्षलिबन्धं प्रणम्य महीयतां साहित्यशास्त्रं प्रमोदन्तां साहित्यकोविदा विजयन्तामाचार्यदण्डिमहोदया इत्याशास्य सर्वेषां परं मङ्गलं सम्प्रार्थयते। वाई रङ्गाचार्यः। अधुना शरीरास्वास्थ्येन परमावश्यकमप्युपोद्धातं विलिखितुं न प्रभवाम: । तथापि शरीरस्वास्थ्यानन्तरमचिरादेव तं विरचयामः । तत्र कविकालविचार, साहहित्यशास्त्रेतिहासो ग्रन्थस्थविषयववेचनं भामहदण्डिनो: पौर्वापर्यविचार इत्या- दयो विषया विवेचनीया भवेयु:।
Page 12
विषयानुक्रमणिका
विषय: पत्राङ विषय· पत्राङ:
प्रथम: परिच्छेद: २४ प्रसाद: । ४६ २५ समता। ४९ १ २६ माधुर्यम्। ५६ २ प्रतिज्ञावाक्यम्। २ २७ श्रुतिसाम्थन माधुर्यम्। ५९ ३ संबन्धचतुष्टयम्। ३ २८ वर्णानुप्रास. । ६० ४ शब्दमाहात्म्यपूर्वककाव्य- २९ यमकम्। ६५ माहात्म्यम् । ४ ३० अग्राम्यतामहत्त्वम्। ६७ ५ दोषनिन्द्ा। ५ ३१ ग्राम्यता। ६९ ६ शास्त्रप्रयोजनम्। ६ ३२ ग्राम्यतापवाद: । ७१ -- ७ काव्यशब्दाभिधेयम्। ७ ३३ सुकुमारता। ७३ ८ काव्यशरीरविवेचनम्। ८ ९ काव्यस्य त्रैविध्यम्। ३४ अर्थव्यक्ति: । ७८ १३ ३५ उदारत्वम्। ८२ १० सर्गबन्धलक्षणम् । १५ ३६ ओज: । ८६ ११ सर्गबन्धे वर्ण्यविषयाः । १६ ३७ कान्ति: । ९१ १२ सर्गबन्धे वृत्तविचारः। २१ ३८ समाधि:। ९७ १३ सर्गबन्धे नायकप्रतिनायक- ३९ मार्गनिरूपणोपसंहारः। १०५ विचार: २४ ४० काव्यसंपद: कारणम्। १०५ १४ गद्यप्रभदी। २५ ४१ काव्याभ्यासमाहात्मयम्। १०७ १५ आख्यायिकाकथाभेद- द्वितीय: परिच्छेद: विचार:। २६ १६ कथाख्यायिक योरेक- १ अलंकारस्वरूपम्। १०९ जातित्वम्। २७ २ अलंकाराणां समुद्देशः । ११४ १७ वाङ्मयस्य संस्कृतादिभिश्वातु- ३ स्वभावोक्ति: । ११५ र्विध्यम्। ३२ ४ उपमासामान्यलक्षणम्। ११९ १८ महाराष्ट्रभाषाप्रशंसा। ३३ ५ धर्मोपमा। १२२ १९ प्रबन्धविशेषे भाषानियमः । ३५ ६ वस्तुपमा । १२४ २० प्रेक्ष्यश्रव्यादिविचारः । ३७ ७ विपर्यासोपमा। १२४ २१ वैदर्भगौडीयमार्गविचारः। ४१ ८ अन्योन्योपमा। १२५ २२ वैदर्भमार्गस्य दश गुणा: । ४१ ९ नियमोपमा। १२६ २३ शलेषः । ४२ १० अनियमोपमा। १२६ .
Page 13
४ विषयानुक्रमणिका
विषय: पत्राङ्क: विषय: पत्राङ्क
११ समुच्चयोपमा । १२६ ४५ अवयवरूपकम्। १६१ १२ अतिशयोपमा । १२७ ४६ अवयविरूपकम् । १६२ १३ उत्प्रेक्षितोपमा । १२७ ४७ एकाङ्गरूपकम् । १६४ १४ अद्भुतोपमा । १२७ ४८ युक्तरूपकम् । १६४ १५ मोहोपमा। १२८ ४९ विषमरूपकम्। १६५ १६ संशयोपमा । १३० ५० सविशेषणरूपकम्। १६५
१७ निर्णयोपमा। १३० ५१ विरुन्धरूपकम् । १६६ १८ श लेषोपमा। १३१ ५२ हेतुरूपकम् । १६६
१९ समानोपमा । १३१ ५३ श्लिष्टरूपकम्। १६७
२० निन्दोपमा। १३२ ५४ उपमारूपकम्। १६७ २१ प्रशंसापमा । १३२ ५५ व्यतिरकरूपकम् । १६८
२२ आचिख्यासोपमा। १३३ ५६ आक्षेपरूपकम्। १६८ २३ विरोधोपमा। १३२ ५७ समाधानरूपकम्। १६९
२४ प्रतिषेधोपमा। १३४ ५८ रूपकरूपकम् । १६९ २५ चटूपमा। १३४ ५९ तत्त्वापह्नवरूपकम् । १७०
२६ तत्त्वाख्यानोपमा। १३५ ६० दीपकलक्षणम्। १७४ २७ असाधारणोपमा। १३५ ६१ जातिदीपकम्। १७५ २८ अभूतोपमा । १३६ ६२ क्रियादीपकम्। १७५
२९ असंभावितापमा। १३६ ६३ गुणदीपकम् । १७५ ३० बहूपमा । १३७ ६४ दव्यदीपकम्। १७६ ३१ विक्रियोपमा। १३७ ६५ मध्यवाक्यगतजातिदीपकम्।१७६ ३२ मालोपमा। १३७ ६६ क्रियागतं मध्यदीपकम्। १७७ ३३ वाक्यार्थोपमा। १३८ ६७ अन्त्यवाक्यगतजातिदीपकमू।१७७ ३४ प्रतिवस्तूपमा । १३९ ६८ अन्त्यदीपकं क्रियागतम्। १७८ ३५ तुल्ययोगोपमा । १४१ ६९ मालादीपकम्। १७८ ३६ हेतूपमा । १४२ ७० विरुद्धार्थदीपकम्। १७९ ३७ उपमादोषापवादाः । १४२ ७१ एक्नर्थदीपकस्। १८० ३८ उपमादोषाणामुदाहरणानि। १४३ ७२ श्लिष्टार्थंदीपकम्। १८० ३९ उपमावाचकाः । १५१ ७३ दीपकोपसंहारः। ४० रूपकलक्षणम्। १८१ १५७ ४१ रूपकोदाहरणानि। ७४ आवृत्त्यलंकारः । १८२ १५७ ७५ अर्थावृत्त्याय्यलंकारा: । ४२ असमस्तरूपकस् । १८१ १६० ७६ पदावृत्ति: । ४३ समस्तव्यस्तरूपकमू। १८३ १६० ७७ उभयावृत्ति: । १८३ . ४४ सकलरूपकम्। १६१ ७८ आक्षपालंकार:। . १८४
Page 14
विषयानुक्रमणिका 4
विषय: पत्राङ्क विषय पत्राङ्क: ७९ वृत्ताक्षप:। १८४ ११३ व्यतिरेकालंकारः । २०४ ८० वर्तमानाक्षप: । १८५ ११४ एकव्यतिरेक:। २०५ ८१ भविष्याक्षेप: । १८६ ११५ उभयव्यतिरेक: । २०५ ८२ धर्माक्षेप:। १८६ ११६ सश्लेषव्यतिरेकः । २०६ ८३ धर्म्याक्षेप: । १८७ ११७ साक्षेपव्यतिरेक: । २०७ ८४ कारणाक्षेपः । १८७ ११८ सहेतुकव्यातेरक: । २०७ ८५ कार्याक्षप:। १८८ ११९ प्रतीयमानसादृशव्यतिरेक: । २०८ ८६ अनुज्ञाक्षेपः । १८९ १२० विरुद्धधर्मेण प्रतीयमान- ८७ प्रभुत्वाक्षेप: । १९० सादृश्यव्यारेकः । २०८ ८८ अनादराक्षप: । १९० १२१ शब्दोपात्तसादृश्यव्यतिरेक:। २०९ ८९ आशीर्वचनाक्षेप:। १९१ १२२ शब्दानुपात्तसादृश्यव्यतिरेक: २०९ ९० परुषाक्षेपः । १९१ १२३ सजातिव्यतिरेकः। २११ ९१ साचिव्याक्षेप: । १९२ १२४ विभावनालंकारः । २११ ९२ यत्नाक्षेप: । १९३ १२५ कारणान्तरविभावना। २१२ ९३ परवशाक्षेप: । १९३ १२६ स्वाभाविकविभावना। २१३ ९४ उपायाक्षेप: । १९४ १२७ शाब्दस्वाभाविकविभावना। २१३ ९५ रोषाक्षेप: । १९४ १२८ समासोक्त्यलंकारः । ... २१४ ९६ मच्छाक्षेप:। १९५ १२९ कार्यसाम्यघटित समासोक्ति:।२१७ ९७ सानुक्रोशाक्षेप: । १९६ १३० विशेषणसाम्यघटित- ९८ श्लिष्ठाक्षेपः । १९६ समासाकि:। २१७ ९९ अनुशयाक्षप:। १९७ १३१ तुल्यविशेषणा समासोक्ति: ।२१९ १०० संशयाक्षेप: । १९७ १३२ भिन्नाभिन्नविशेषणा- १०१ अर्थान्तराक्षेपः । १९८ समासोक्ति:। २१९ १०२ हेत्वाक्षेप: । १९८ १३३ अपूर्वसमासोक्ति: । २२० १०३ आक्षेपालंकारोपसंपहारः। १९९ १३४ अतिशयोक्ति: । २२१ १०४ अर्थान्तरन्यास:। १९९ १३५ निर्णयातिशयोक्ति: । २२३ १०५ विश्वव्याप्यादयो भेदाः ।' २०० १३६ उत्प्रेक्षालंकार:। २२५ १०६ विशेषस्थोर्थान्तरन्यासः । २०१ १३७ चेतनोत्परेक्षा। २२६ १०७ श्लेषाविद्धार्थन्तरन्यासः । २०१ १३८ अचेतनोत्प्रेक्षा। २२७ १०८ विरोधार्थान्तरन्यास:। २०२ १३९ लिम्पतीवेत्यत्रोत्प्रेक्षोपमा- १०९ अयुक्तकारी अर्थान्तरन्यास: २०२ विचार:। २२८ ११० युक्तात्मा अर्थान्तरन्यास: १४० उत्प्रेक्षावाचका: शब्दाः । २३६ १११ युक्तायुक्तार्थान्तरन्यास:। २०२ २०३ १४१ हेतुसूक्ष्मलेशालंकाराः । २३७ ११२ विपर्ययार्थान्तरन्यास:। २०३ १४२ प्रवृत्तिकारकहेत्वलंकारः। २३७
Page 15
६ विषयानुक्रमणिका
विषय: पत्राङ्क: विषयः पत्राङ: १४३ निवृत्तिकारकहेत्वलंकार:। २३९ १४४ कमार्थसंपादकहत्वलंकारः। २४० लंकार:। २७७ १४५ विकार्यहेत्वलंकार: । २४१ १७४ अपह्नुत्यलंकारः । २७८ १४६ प्राप्यहेत्वलंकारः। २४१ १७५ विषयापह्नुतिः। २७९ १४७ ज्ञापकहेत्वलंकारः । २४२ १७६ स्वरूपापह्नुतिः । २७९ १४८ पाग्भावहेत्वलंकारः। २४३ १७७ श्लेषालंकार: । २८१ १४९ प्रध्वंसाभावहेत्वलंकारः । २४३ १७८ अभिन्नपदश्लषः । २८३ १५० अन्योन्याभावहेत्वलंकारः। २४४ १७९ भिन्नपदश्लेषः । २८३ १५१ अत्यन्ताभावहेत्वलंकारः। २४४ १८० अभिन्नक्रियाश्लेषः । २८५ १५२ अभावप्रतियोगिक्क- १८१ अविरूद्धक्रियाश्लषः । २८५ हेत्वलंकार: । २४४ २८६ १५३ दूरकार्यहेत्वलंकारः । २४७ १८३ सनियमश्लेषः। २८६ १५४ सहजहेत्वलंकारः । २४७ १८४ नियमाक्षपरूपोक्तिश्लेष:। २०७ १५५ कार्यानन्तरजहत्वलंकारः । २४८ १८५ अविराधिश्लेषः । २८७ १५६ अयुक्तकार्यहेत्वलंकारः। २४८ १५७ युक्तकार्यहत्वलंकारः। १८६ विरोधिश्लष: २८७ २४८ १५८ सुक्ष्मालंकारलक्षणम्। २४९ १८७ विशेषोक्ति: । २८८
१५९ इङ्रितलक्ष्यार्थसूक्ष्मालंकार:।२४९ १८८ गुणवक्तल्यविशेषांक्ति: । १८९ जातिवैकल्यविशेषांक्ति: २८९ २९० १६० आकारलक्ष्यार्थसूक्ष्मालंकार: २५० १९० क्रियावकल्यविशेषाक्ति: । २९८ १६१ लेशालंकारलक्षणम्। १९१ द्रव्यवैकल्यविशेषोक्ति: । २९१ १६२ लज्जानिगहनात्मक- १९२ हेतुविशेषोक्ति:। २९१ लेशालंकार:। २५२ १९३ तुल्ययोगितालंकार:। २९२ १६३ स्तुतिव्याजेन निन्दारपलशा- १९४ स्तुतितुल्ययोगिता । २९३ लंकार: २५४ १९५ निन्दातुल्ययोगिता। २९४ १६४ निन्दाव्याजन स्तुतिरूप. १९६ विरोधालंकार: । २१५ लेशालंकार:। २५५ १९७ क्रियाविरोधालंकारः । २१५ १६५ यथासंख्यालंकार:। २५६ १९८ वस्तुगतगुणविरोधालंकारः । २९६ १६६ प्रेयोलंकार:। २५७ १९९ अदयवगतगुणविरांधालंकार:२९६ १६७ रसवद्लंकारः। २६३ २०० विषमिराधालंकार: । १६८ ऊर्जस्व्यलंकार: । २९७ २७१ २०१ असंगतिविरोध: । १६९ पर्यायोक्त्यलंकार:। २९७ २७३ २०२ श्रलेषमूलविरोध: १७० समाहहितालंकार: । २९७ २७४ २०३ अप्रस्तुतपशंसालंकार: । १७१ उदात्तालंकार: । २९८ २७६ २०४ व्याजस्तुत्यलंकार:। १७२ महाशयवर्णनरूपादात्ता- ३०० २०५ निदर्शनालंकार:। ३०२ लंकार:। २७७ २०६ सहोक्त्यलंकार:। ३०३
Page 16
विषयानुक्रमणिका ७
विषय: पत्राङ्क: विषय: पत्राङ़क: २०७ क्रियासहोक्तिः । ३०४ १६ अर्धभ्रम: । ३५३ २०८ परिवृत्त्यलंकारः। ३०५ १७ सर्वतोभद्रम् । ३५५ २०९ आशिरलंकार:। ३०६ /१८ स्वरनियमाः । ३५६ २१० संसृष्ट्यलंकारः । ३०९ १९ स्थाननियमा:। ३५७ २११ भाविकालंकार:। ३११२० वर्णनियमा: । ३५९ २१२ अलंकारोपसंहरणम्। ३१२ २१ प्रहेलिकाभेदाः । ३६२
तृतीयः परिच्छेद: २२ काव्यदाषाः । ३७४ २३ अपार्थदोषविवेचनम्। ३७६ १ यमकलक्षणम्। ३१४ २४ व्यर्थदोषविवेचनम्। ३७७ २ यमकभेदाः । ३१४ २५ एकार्थदोषविवेचनम्। ३७९ ३ प्रथमपाद्गतयमकभेदाः। ३१५ ४ द्वितीयपादगतयमकभेदाः । २६ संशयदोषविवेचनम्। ३८१ ३१६ ५ तृतीयपाद्गतयमकभेदाः । २७ अपक्रमदोषविवेचनम्। ३८२ २१६ २८ शब्दहीनदोषविवेचनम्। ३८४ ४ चतुर्थपादगतयमकेभदाः । ३१७ ५ द्विपादगताव्यपेतयमकभेदाः । ३१७ २९ यतिभङ्गदोषविवेचनम्। ३८७
६ त्रिपा दगताव्यपेतयमकभेदाः। ३१९ ३० वृत्तभङ्गदाषविवेचनम्। ३८९
७ सर्वपादृगताव्यपेतयमकभेदाः । ३२० ३१ विसंधिदोषविवेचनम्। ३९०
८ व्यपेतविजातीययमकभेदाः । ३२५ ३२ देशकालादिविरोधविवेचनम्। ३९१ ३३ देशविरोधोदाहरणम्। ३९२ ९ अव्यपेतव्यपेतयमकभेदाः । ३२८ ३४ कालविरोधोदाहरणम्। ३९३ १० चतुष्पाद्यमकभेदाः । ३२९ ३५ कलाविरोधोदाहरणम्। ३९४ ११ संदृष्टयमकप्रभेदाः । ३३७ १२ अर्धाभ्यासयमकप्रभेदाः । ३६ लोकविरोधोदाहरणम्। ३९५ ३३८ ३७ हेतुविद्याविरोधोदाहरणम्। ३९६ १३ शलोकाभ्यासयमकप्रभेदाः । ३४६ ३८ आगमविरोधोदाहरणम्। ३९६ १४ महायमकम्। ३४७ ३९ विरोधापवादाः। ३९७ १५ गोमत्रिकाबन्धः । ३५१ ४० उपसंहारः । ४००
Page 18
अथ श्रीमदाचार्यद्ण्डिनः कृतौ काव्यादर्शे
प्रथम: परिच्छेद:
चतुर्मुख मुखाम्भोजवनहंसवधूर्मम। मानसे रमतां नित्यं सर्वशुक्कां सरस्वती॥। १।। कदम्बतरुमण्डिते विहगवृन्द संसेविते कलिन्दतनयाश्रिते मुरलिकारवान्दोलिते। कदम्बितगवादते बुधनुत च वृन्दावने लसन्तमतुलधुतिं सुरवरं मुकुन्दं नुमः ॥१ ॥ श्रुतिगम्यां भावहृद्यां निरवद्यां रसात्मिकाम्। शुद्धानन्दां चित्स्वरूपां ब्राह्मीं देवीं स्तुमः सदा॥२॥ बिम्बग्राहितया स्तुवन्ति विबुधा आदर्शरत्नं यथा काव्यादर्शममुं तथा सहृदयाः काव्यार्थसंग्राहतः । तत्राद्यस्य हिताय कापि विमला वर्वर्ति भानो: प्रभा तद्वच्चास्य विकासनाय भवताट्टीका ममेयं प्रभा ॥ ३ ॥ इह खलु विविधशास्त्रप्रवाणः सहदयधुरीणः कविप्रवर आचार्यो दण्डी काव्यलक्षणात्मकमिमं प्रबन्धमारभमाणः - मङ्गलादीनि मङ्गलमध्यानि मक्ला- १५नतानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मतपुरुषाणि चाच्येतारश्च मङ्गलयुक्ता यथा स्युः- [म० भा० १. १. ३] इति शिष्टानुशिष्टं सदाचारमनु- संदधानो ग्रन्थारम्भे समुचितेष्टदेवतां सरस्वतीं प्रार्थयते-चतुर्मुखेति। सरस्वती १८सरः सर्वविषयेषु प्रसरणं गतिरस्या अस्तीति व्युत्पत्या सरस्वती वागधिष्ठात्री देवता। मम मानसे अन्तःकरणे सरोविशेषे च। नित्यं सर्वदा। रमतां विहर- ताम्। सर्वदा मम चेतसि आविर्भूय विलसत्वित्यर्थः । सरस्वत्या माहात्म्योद्भाव-
दीर्घ, कपा, चपा. २ सर्वशुभा, कपा.
Page 19
२ काव्यादर्शे प्रथम: परिच्छेद:
पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च। यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम्॥ २॥ २१नाय तां विशिनष्टि-चतुर्मुखेति। चत्वारि मुखानि यस्य स चतुर्मुखो ब्रह्मा तस्य मुखान्येवाम्भोजानि तेषां बनं समृहः तत्र।हंसवधूर्सीव। हंसी यथा कमलवने विहरति तथा चतुर्मुखमुखाम्भोजेषु सानन्दं विहरणशीला। अनेन सरस्वत्या २*वेदस्वरूपत्वं तेन च पावित्रयं सर्वार्थज्ञातृत्वं च सूचितम्। तस्याः स्वरूपावग- मायाह-सर्वेति। सर्वतः स्वरूपतोर्थतश्च शुक्का श्वेतवर्णा निर्दोषा च। पदपदांश- वाक्यार्थरसगतदोषरहितेत्यर्थः । तथा चास्याः श्वेतस्वरूपवर्णन ब्रह्मवैवर्ते- आविर्बभूव तत्पश्चान्मुखतः परमात्मनः । एका देवी शुक्लवर्णा वीणापुस्तकधारिणी॥ कोटिपूर्णेन्दुशोभाढ्या शरत्पङ्कजलोचना। इति। 3. केचित्तु सरस्वती मानसे रमतामित्यस्य वाक्यस्य मम सरस्वती शिष्याणां मानसे रमतामित्यध्याहारपूर्वकमर्थ निराङ्ठः पर तादृशाध्याहारस्थानुचितत्वाद तन्न रुचिरम्। सर्वशुक्केत्यत्न सति बाधके संकोचस्यादरणीयत्वेन सर्वशब्दस्य कर- ३३ चरणतलाधरनयनादिभिन्नाङ्गत्वपरत्वमुन्नेयमिति प्रेमचन्द्रतर्कवागाशाः । हंसी मानससरस कमलवने च रमत इति प्रथितमेव। काव्यलक्षणप्रपञ्चात्मकेस्मिन् ग्रन्थ आदावेव काव्यजीवातुभूतायाः सरस्वत्या आवाहनमतीव समुचितं मनोहरं ३६ चेति ज्ञेयम्। अन्र सरस्वत्यां हंसवधूत्वारोपं प्रति चतुर्ुखे अम्भोजवनत्वारोपो हेतुरिति परंपरितरूपकमिदम्। मुखमुखेति छेकानुप्रासश्च /-नीलोत्पलदलश्यामां विज्जिकां मामजानता। वृथैव दण्डिना प्रोक्तं सर्वशुक्का सरस्वती ॥ - एतद्विज्जि- ३९कापधममुं क्लोकं विचिन्त्यैंवेति स्पष्टम् ॥ ? ॥ पतिपाधविषयं विवक्षराह-पूर्वशास्त्राणीति। पूर्वेषां शिलालिभरुलप्रभूनीनां उ्यास्त्राणि नाट्यसूत्रादीनि। संहत्य समुच्चित्य संक्षिप्येति यावद। तानि सर्वाणि ३संग्रहोति भाव;। तथा प्रयोगान् व्यासवाल्मीकिप्रभृतिमह्याकविप्रबन्धेध् स्थितान्। हउपलक्ष्य, सूक्ष्मेक्षि कयानिरूप्य। अनेज न केवलोयं. प्रबन्ध: शास्त्रनियमानुसारी अपि. कु तत्प्रयोजनीभूत कविप्रयोगानु स्ारीति. सूचितम्, यथासामर्थ्य. स्वसामर्थ्या-
Page 20
संबन्धचतुष्टयम् ३
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा। वाचांमेव प्रसादेन लोकयात्रा प्रवर्तते ॥ ३॥ ६नुरूपम्। विनयोक्तिरेषां। अस्माभिर्मया दण्डिना। अस्मदो द्योश्ष इति बहुवच- नम्। काव्यलक्षणम् काव्यस्य लक्षणम्। लक्ष्यते ज्ञायते स्वरूंपमनेनेति लक्षणम्। इतरव्यवच्छेदकः काव्यपर्याप्तवृत्तिरसामान्यो धर्मविशेष इत्यर्थः । क्रियते-इष्टार्थ- १व्यवच्छिन्ना पदावलि :- [ १. १० ] इन्यादिना प्रतिपाद्यते। अनेनास्य अ्रन्थस्य प्रतिपाचं दर्शितम्। प्रयोजनं चाग्रे [१. ९ ] स्फुटीभविष्यति। प्रतिपाद्यप्रति- पादकयो: संबन्धस्तु ज्ञाप्यज्ञापकभावः। अधिकारी व्युत्पन्नः सहृदयः । एतेषां १२ह विषयादिचतुर्णा ग्रन्थारम्भे कथनमवश्यमपेक्ष्यते। यत :-- ज्ञातार्थ ज्ञातसंबन्धं श्रोतुं श्रोता प्रवर्तते। ग्रन्थादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ॥ इति ॥ · ५अग्रे निरूप्यमाणानां गुणदोषादीनां तु प्रसङ्गानुरोघेनाङ्गतया संग्रहान्न तदर्थ प्रतिज्ञापेक्ष्यते ॥ २ ॥' -
ग्रन्थस्य प्रतिपाद्यमुक्त्वा संप्रति व्यवहारसिद्धिरूपं तत्प्रयोजनमन्वयव्यति- रेकाभ्यां दर्शयति-इह शिष्टेति। इह विचित्रमनोहरेस्मिन् संसारे। शिष्टाः ३ शब्दशास्त्रप्रवीणा: तैः पाणिनिवररुचिपतञ्जलिप्रभृतिभिरनुशिष्टाः प्रकृतिप्रत्यय- विभागादिभिर्व्युत्पादिता: साध्वसाधुज्ञापनेन शासिता वा तासां संस्कृतप्राकृतानाम्। तथा शिष्टानाम् एतद्द्वयावशिष्टानां प्राकृतजनव्यवहारास्पदानां देशीनामित्यर्थः । ६इत्थं संस्कृतप्राकृतदेशीभेदेन त्रिविधानां वाचामेव प्रसादेनानुग्रहेण। सर्वथा सर्व- प्रकारेण। लोकयात्रा लोकानां देवादिपामरान्तानां प्राणिनां यात्रा व्यवहारः । प्रवर्तते प्रकर्षेण चलति। <तदुक्तं हरिणा- न सोस्ति प्रत्ययो लोके यः शब्दानुगमादते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।। (वाक्यपदीय १-१२४) तत्रोत्तमानां संस्कृतभाषया मध्यमानां पाकृतभाषया अवराणां च देशीभाषयेति ज्ञेयमू ॥ ३ ॥
Page 21
काव्यादर्शे प्रथम: परिच्छेद:
इदमन्धंतमः कृत्स्नं जायेत भुवनत्रयम्। यदि शब्दाह्यं ज्योतिरासंसाराननं दीप्यते।। ४ ॥ आदिराजयशोबिम्बमादर्श प्राप्य वाड्यम्। तेषामसंनिधानेपि न स्वयं पश्र्य नश्यति॥५॥ वाग्व्यवहारस्यान्वयमुखेन लोकयात्रासाधनतामुपपाद्येदानीं व्यतिरेकमुखेन तामेव द्रढयति-इदमन्धमिति। शब्द आह्वयोभिधानं यस्य तच्छब्दाख्यं ज्योति: :अर्थप्रकाशकत्वाज्ज्योतीरूपम्।-वाचेवायं ज्योतिषा आस्ते- इति श्रुतिः । (बृ. ६-३) आसंसारात् संसरत्यनेनेति संसारः सृष्टिः । सष्टिकालमारभ्य तदन्तपर्यन्त- मित्यर्थः । अभिव्यापकार्थकेनाडाव्ययीभावः । यदि न दप्यते न प्रकाशेत। तहि ६इदं भुवनत्रयं स्वर्गमृत्युपातालरूपं विश्वं लक्षणया तदन्तर्गतं प्राणिजातम्। कृत्स्नं निरवशेषम्। अन्धंतमो गाढान्वकारव्याप्तमिव जायेत। व्वान्ते गाढेन्धतमसम् इत्यमरेः । यथा हि सूर्यादिज्योतिषामभावे तमसावस्कन्दिताः पदार्था विलुप्ता इव भवन्ति तथा वाचामभावे सर्वेप्यैहिकपारलौकिका व्यवहारा विलुप्ता भवेयुरित्यर्थः । तदुक्तं सुबन्धुना :- करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ (वासवदत्ता १) ।। इति ॥४॥ इत्थं वाचां सामान्यतो व्यवहारोपयोगित्वं प्रदर्श्य तद्विशेषीभूतस्य गुणा- लंकारादिपरिष्कृतस्य काव्यसंज्ञकस्य वाङ्मयस्य माहात्म्यमिदानीं दर्शयति -- आदिराजेति। आदिभूता ये राजानो मनुपृथुप्रभृतयः । अथवा आदिराजाः प्राक्कालाना राजान इक्ष्वाकुमान्धातृदिलीपप्रभृतयः । तेषां यशोरूपं बिम्बं कर्तृ। वाङ्मयं सत्कविप्रतिभाप्रसूतं काव्यम्। तद्रूपमादर्श दर्पण प्राप्य तत्र प्रतिबिम्बितं ६भूत्वा। तेषामादिनृपाणाम्। असंनिधानेपि असंनिहितेष्वपि तेषु राजसु। स्वयं न नश्यति न विच्छिधते। पश्य आलोकयेति शिष्यं प्रति साश्चर्योक्तिः । अयं भावः।
- तमो मोहो महामोहस्तामिस्रो सन्धसंजञितः । अविद्या पश्चरूपैषा प्राट्टभूता महात्मनः ॥ पदि पराशरोक्तधा अन्घतमोरूपाविद्यागस्तमिलर्थः । १ आसंसारं, प. कपा.
Page 22
काव्यमाहात्म्यम् ५
गौगौः कामदुधा सम्यक् प्रयुक्ता स्मर्यंते बुधैः। दुष्प्रयुक्ता पुनर्गोत्वं प्रयाक्तुः सैव शंसति ॥ ६ ॥ राज्ञां यशस्तेषां स्थितिकाले वक्तृश्रोत्रादिपरंपरया तत्प्रजासु बहुलीभवदपि तच्छा- सनकालादूर्ध्व न केनापि प्रायशो गीयते। अत एव च यथा ते राजानस्तथा तद्यशोपि विस्मृतिपथं प्रयाति। यदि पुनस्तदेव यशः कविप्रतिभोपगृहीतं सद् काव्यविशेषे प्रतिबिम्बितं भवति तदा दिवं यातेष्वपि तेषु राजसु आश्रयविनाशा- १२नष्टुं योग्यमपि बिम्बस्थानीयं तदशः अविनश्यत् वाङ्मयादर्शे प्रतिबिम्बरूपेण चिरस्थायि भवति। लौकिकादर्शे तिम्बाभावे प्रतिबिम्बस्य स्थितिर्न दृश्यते। अत्र तु दृश्यत इति वाङ्मयादर्शस्य ततो विस्मापको विशेषः । एतेनातीतनृपाणां १५यश:खयापनं काव्यस्य प्रयोजनमित्युक्तं भवति। तेन चात्मनश्व च्छात्राणां च तच्चरितज्ञानमित्यपि फलान्तरं ज्ञेयम्। इदमुपलक्षणम्। काव्यनिर्मातुरन्यान्यपि १७ फलानि सन्ति। यथोक्तं प्रकाशकृता (१.२)- काव्यं यशसेर्थकृते व्यवहारविदे शिवेतरक्षतये। सदः परनिर्वृतये कान्तासमिततयोपदेशयुजे ॥ २०के बहुना- धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। प्रीतिं करोति कीर्ति च साघुकाव्यनिबन्धनम्।(१.२) ३इतिभामहोक्तदिशा सर्वेपि पुरुषार्थाः सत्काव्यस्य निबन्धनात् संभवन्ति। अत्रोपमान भूतलौकिका दर्शादुप मेयभूतवाड्मयादर्शस्याविक्यवर्णनादू व्यतिरेकालं- कारः॥ ५ ॥ एवं काव्यस्य प्रयोजनमुक्त्वेदानीं तस्य निर्दोषतायां यतनीयमिति कथ- यति-गौगौरिति। गौर्वाणी/ स्वर्गेषुपशुताग्वज्रदिड्नेत्रघृणिभूजले। लक्ष्यदृष्टया 3स्रियां पुंसि गौः इत्यमरः (३. २५)। सम्यक् प्रयुक्ता दोषशून्यतया गुणालं- कारपरिपूर्णतया चोपयुक्ता । बुघैः सूरिभिः । कामदुधा कामान् दुग्धे सा कामदुधा। इगुपधज्ञाप्रीकिर: कः (पा. ३. १. १३५) इति कः । पश्चाट्टाप् । कामपूरिकेत्यर्थः । एतादृशी गौः स्मर्यते कविभिर्जायते। तथा च श्रुतिः-एक: शब्द: सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवति (कैय्यट- प्रदीप. १. १०, वार्तिक ६ ) इति। दुष्प्रयोगे दोषमाह। सैव गौ: दुष्प्रयुक्ता
Page 23
६ काव्यादर्शे प्रथम: पररिच्छेद:
तदल्पमपि नोपेक्ष्यं काव्ये दुष्ट कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्॥७॥ गुणदोषानशास्त्रज्ञ: कथं विभजते जनः । किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिदु ॥ ८ ॥
कवेर्वक्तुर्वा। गोत्वं बलीवर्दत्वं मौरख्र्यमिति भावः । शंसति प्रथयति । उक्तं च पातञ्जलमहाभाष्ये-वाग्योगविद्दुष्यति चापशब्दैः (१. २ ) इति । अनेन दोषाः १परिहरणीया गुणालंकाराश्च समावर्जनीया इति स्पष्टं भवति ॥ ६ ॥ इदानीं काव्ये स्वल्पोपि दोष: परिहरणीय इति दृष्टान्तपूर्वकं निवेदयति- तदल्पमिति। तठ् तस्माद्दोषस्योपहासजनकत्वान्निषिद्धत्वाच्च। काव्येल्पमपि पद- पर्दाशगतमपि। दुष्ट दोषं भावे क्तः । कर्थचन कथमपि नोपेक्ष्यं न सोढव्यम्। सर्वथा तत्परिहरणे यतितव्यमिति भावः । ननु स्वल्पो दोषो गुणसंनिपाते निमज्जतीति न तत्परिहरणमत्यावश्यकमिति चेन्न। सुन्दरमपि निसर्गरमणीयं तथ ६महार्घाभरणवस्त्रादिना परिष्कृतमपि। वपुः शरीरम्। एकेन केवलेन अथवा एकावयवस्थितेन। श्वित्रेण श्वेतकुष्टेन। दुर्भगं सौभाग्यहीनं स्यात्। यथा हि सौन्दर्यसमृद्देपि वपुषि श्वित्रं नेत्रोद्वेगजनकं तथा गुणपरिपूर्णमपि दोषलवयुतं काव्यं सहृदयशिरःसंतापकरमेवेत्यर्थः । तदुक्त भामहेन :- सर्वथापदमप्येकं न निगाद्यमवद्यवत्। विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्धते । इति (१-११) अत्र उपमानोपमेयभूतयोः पूर्वोत्तरवाक्ययोः बिम्बप्रतिबिम्बभावेन मिन्नधर्मनिर्देशादू दृष्टान्तालंकारः ॥।७।। दोषपरित्यागेन गुपास्वीकारः सूचितो भवति। दोषाणां गुणानां च -- । स्वरूपज्ञानपूर्वकह्ेयोपादेयताज्ञापनार्थ शास्त्रप्रवृत्तिरित्याह-गुणदोषानिति । अ- शास्त्रज्ञः शासत्रं जानातीति शास्त्रज्ञस्तद्विपरीतः । साहित्यशास्त्रपरिचयशन्य इत्यर्थः । जनो व्युत्पित्सुः पुरुषः । गुणा उपादेयधर्माः श्रेषः प्रसाद: समता [१. ४१] इत्यादिनाग्रे प्रोक्ताः। अनुप्रासोपमादयोलंकारा अपि काव्यशोभाजनकत्वादुपादेया "६एव। अतो गुणशब्देन तेषामपि संग्रहः । दोषाः पुनर्ह्ेयधर्माः अपार्थ व्यर्थमेकार्थ
Page 24
शास्त्रस्यावश्यकत्वम्
अतः प्रजानां व्युन्पत्तिमभिसंधाय सूरयः। वाचां विचित्रमार्गाणां निबबन्धुः त्रिकयाविधिम्॥९॥ तैः शरीरं च काव्यानाम् [३.१२५ ] इत्यादिनाग्रे प्रपञ्चिताः। तान् गुणदोषान्। अशास्त्रज्ञः कथं विभजते इमे गुणा इमे दोषा इति कथं जानीयादिति भावः। काव्यतत्त्वानभिजः काव्यस्य ९शब्दार्थमात्रं कदाचिज्जानीयान्न तु काव्यमीमांसाकुशलवत् तद्गतगुणदोषरहस्यमव- गच्छेदित्यर्थ: । अमुमेवार्थ दृष्टान्तेन विशदयति-किमिति। अन्धस्य चक्षुर्विक- लस्य। रूपभेदोपलब्धिषु रूपं चक्षर्मात्रग्राह्यो द्रव्यवर्तिगुणविशेषस्तस्य भेदा: श्वेत- १२रक्तनीलादयस्तेषामुपलब्धयो ज्ञानानि तेषु। किमधिकारोस्ति योग्यता वर्तते। नैवे- त्यर्थः। एवमेव साहित्यशास्त्रानभिज्ञस्य गुणदोषविभजनेधिकारो नास्तीति भावः । अतस्तदधिकारसिद्धये साहित्यशास्त्रमवश्यमारम्भणीयमिति सिद्धम्। अत्रापि पूर्ववद् १५दृष्टान्तालंकारः ॥ ८।। साहित्यशास्त्रारम्भविचारमुपसंहरति-अत इति। अतः गुणदोषाकलन- पूर्वककाव्यरसास्ादस्य साहित्यशास्त्राधीनत्वात्। सूरयो भरतादयो विपश्चितः । 3प्रजानां काव्यरसिकानाम्। व्युत्पत्तिं काव्यरचनाकौशल्यम्। अथवा प्रजानां व्युत्पित्सूनां व्युत्पत्तिं वाग्व्यवहारनैपुण्यं च। अभिसंधायोद्दिश्य । एते वाग्व्यवहार- निपुणा भवेयुरिति तद्चत्पत्तिमभिसंधायेत्यर्थः । विचित्रमार्गाणां विचित्रा मनोहरा ६विविधा वा मार्गा: शब्दार्थालंकारमेदरूपा वैदर्भीगौडीयादिरीतिरूपा वा रचना- प्रकारा यासां तासाम्। वाचां काव्यवाणीनाम्। क्रियाविधिं क्रियायै काव्यरचनार्थ विधिं विधानं धर्मिधर्मादिविभागेन निरूपणम्। लक्ष्यलक्षणादिना कथनमित्यर्थः । ९निबबन्धुः शास्त्रपरिभाषया विरचयामासुः। कीदश काव्यनिर्माण कर्थ च तत्र यतितव्यमिति सर्व सम्यक् शास्त्रपरिभाषया निरूपयामासुरित्यर्थः । एतेन पूर्व- सूरीणामनुसरणशीलस्य मम प्रजाव्युत्पत्त्यर्थमेवायं प्रयत्न इति सूचितं भवति। १२तथा च ग्रन्थस्यास्येदमेव प्रयोजनम्। काव्यज्ञानस्य प्रयोजनं तु कविबोड्गतं यश:प्रभृति, पूर्ववर्णितमवगन्तव्यम्।। ९।। धर्मिणि ज्ञाते धर्माणां युक्तायुक्तताया आकलनं सुकर भवतीतिप्रथमं धर्मिस्वरूपं निर्णयति-तैः शरीरं च काव्यानामिति। अत्र चकारो भिन्नक्रमः ।
Page 25
काव्यादर्शे प्रथम: परिच्छेद:
अलंकाराश्चं दर्शिताः । शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली। १० ।। ३तैश्च पूर्वसूरिभि: काव्यानाम् इष्टार्थवाक्यानाम्। गद्यपद्यमिश्रादिभेदेन काव्याना- मिति बहुवचनम्। शरीरम् आत्मभूतेष्टार्थाश्रयो देहः । अलंकाराः शरीरशोभा- वहाः अनुप्रासोपमादयः शब्दार्थालंकाराश्च। दर्शिताः विवेचिताः । चकारोनुक्त- ६समुच्चयार्थः । तेन दोषाणामपि संग्रहः । तेषामपि ग्रन्थान्ते निरूपितत्वाद्। वैदर्भरीतेः प्राणत्वेनाग्रे [१. ४१ ] ग्रन्थकृतोक्तानां श्लेषप्रसादादीनां गुणानां तु शरीरशब्देनैव संग्रहः। यतः वैदर्भरीतिर्नाम पदावलीसंस्थानविशेषः। सैव पदावली शरीरम्। अतो गुणा न शरीरतो भिन्ना इति नोद्देशवाक्ये पृथकृत्वेन गणिताः । एतेन गुणदोषयोरग्रे निरूपणात् तेषामुद्देशवाक्ये परिगणनाभावान्न्यूनतेति शङ्का निरस्ता। काव्यशरीरं लक्षयति-शरीरं तावदिति। तावदिति वाक्यालंकारे। १२ इष्टार्थव्यवच्छिना इष्टाः सरसमनोहरतया वर्णयितुमभिलषिताः ये अर्थाः कविप्रति- भोल्लासविषयीभूता: सुन्दराः पदार्थाः । तैर्व्यवच्छिन्ना विशेषेण अवच्छिन्ना परिपूर्णा चमत्कृतिबहुलेत्यर्थः । पदावली पदसमूहः । शरीरं काव्यशरीरमिति मावः । अत्र १५ पदावली साकाङ्का एव ग्रह्या। तस्या एव इष्टार्थव्यवच्छिन्नतार्हत्वात्। इष्टत्वं च साहित्यशास्त्रे चमत्कारपूर्वकवर्णनाभिलाषः । चमत्कारश्च लोकोत्तराह्ादः । आह्लाद- गतलोकोत्तरत्वं च कविप्रतिभया अलौकिकसामग्रीविशेषण संपादितः सुखत्वव्याप्यः १अनुभवसाक्षिको जातिविशेषः । तेन पुत्रस्ते जातः शत्रवस्ते पराभूता इति वाक्यार्थजन्यज्ञानस्य न काव्यत्वम् । तस्य लोकोत्तराह्वादजनकत्वाभावात्। तादृशाह्वादं प्रति शब्दार्थानां कारणता च व्यङ्गयविशेषेण दोषाभावविशिष्टगुणा २१लंकारसमुद्ूनेन सौन्दर्येण च संभवति। अत एव च काव्यस्य भेदत्रयं भवति। तथाहि- यत्र वाच्यचमत्कृतेः व्यङ्गयचमत्कृतिः प्रधानतया प्रस्फुरति तत्र ध्वनि- काव्यव्यवहारः । यत्र व्यङ्गयचमत्कृतिरङ्गीभूता वाच्यचमत्कृतिकुक्षिनिलीना इव २*भासते तत्र गुणीभूतव्यङ्गथकाव्यमिति व्यवहारः । यत्र च व्यङ्गयशून्या केवलं वाच्यचमत्कृतिर्भवति तत्र चित्रकाव्यमिति व्यपदेशः । एवं सामान्यतः काव्यस्य त्रयो भेदा अवगन्तव्याः ।
१ अलंकारश्च अ. २ द र्शैतः अ. ३ पदावालः अ.
Page 26
काव्यशब्दाभिधेये पक्षद्वयम् ९
२७केचित्तुः- सुपा तिडां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम्। तदेतदाह्ुः सौशब्दं नार्थव्युत्पत्तिरीदृशी ॥ (भामह १. १४ ) इति व्यङ्गयचमत्कृतिनिरपेक्ष गुणालंकारोपस्कृतं शब्दमेव काव्यं वदन्ति। तन्मत- परिग्रहाय लक्षणे इष्टेति पदं विभज्य अर्थव्यवच्छिन्ना इति विशेषणविशिष्टेन पदा- वलीपदेन तद्विशेषणतया योजनीयम्। एवं सति रूपी घटोनित्यः इत्यत्र उभयो रूपघटयोरनित्यत्वसंबन्धवदत्र अर्थे पदे च इष्टेति विशेषणस्य संबन्धो भवति। तेन ३३इष्टार्थ तथा इष्टशब्दं च काव्यमिति उभयोरपि संग्रहः ॥ चित्रकाव्यं पुनः शब्द- चित्रमर्थचित्रमिति द्विविधम्। शब्दचित्रमनुप्रासयमक क्रेषादिकम् । अर्थचित्रं च उपमारूपकादिकम्। तत्र अर्थः वाच्यलक्ष्यव्यङ्गयभेदेन त्रिविधः । तत्र अभिधा- ३६ शक्त्या प्रतीतो वाच्यः । लक्षणयोपस्थाप्यो लक्ष्यः । व्यञ्जनया प्रतीतिपदवीमारूढो व्यङ्गयः । व्यङ्गयार्थोपि वस्त्वलंकाररत्यादिभेदात् त्रिविधः। वस्त्वलंकाररूपो व्यङ्गयः संलक्ष्यकमः । रत्यादिव्यङ्गयस्तु असंलक्ष्यक्रमः । विस्तरस्तु ध्वन्यालोक- ३९लोचने काव्यप्रकाशचतुर्थोल्लासादौ च द्रष्टव्यः । एवं च आचार्यदण्डिनो मते रमणीयार्थोपस्कृतं सुन्दरं वाक्यमेव काव्यमिति निष्पन्नम्। तत्र वाक्यं पदकदम्बः । पदानि च समासाङ्गसंबन्धशून्यानि सुपूतिङन्तानि ।। *२अत्रेदमवधेयम्। काव्यशब्दस्य वाच्यं शब्दार्थयुगलं वा रमणीयार्थप्रतिपादकः केवल: शब्दो वा इति पक्षद्वयम्। तत्राद्यः पक्षः शब्दार्थौ सहित काव्यं गद्यं पद्यं च तद्द्विधा इति भामहेन (१. १६ ) काव्यशब्दोयं गुणालंकारसंस्कृतयोः r५ शब्दार्थयोर्वर्तते इति वामनेन (का० वृ० १. १) शब्दार्थो काव्यम् इति रुद्रटेन (२. १ ) तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः कापि। इति मम्मटेन (१.४) अदोषौ सगुणौ सालंकारौ च शब्दार्थो काव्यम्। इति हेमचन्द्रेण rc(पृ. १६) शब्दार्थौ निर्दोषौ सगुणौ प्रायः सालंकारौ च काव्यम्। इति वाग्भटेन (पृ. १४) गुणालंकारसहितौ शब्दार्थो दोषवर्जितौ। इति प्रतापरुद्रे विद्यानाथेन (पृ. '४२) शब्दार्थों वपुरस्य तत्र विबुधैरात्माभ्यधायि ध्वनिः । इति एकावल्यां ५१ विद्याधरेण (१. १३) इत्येवमादिभिः साहित्यकोविदैरङ्गीकृतो वर्तते। एतेषा- मयमाशयः । काव्ये हृदाः अर्था रमणीयाः शब्दाश्चापेक्ष्यन्ते । तैरव शास्त्रविमु- खानां मृदुमतीनां राजपुत्रादीनां सन्मार्गोन्मुखीकरणं संभवति। अतः काव्यफल-
Page 27
१० काव्यादर्शे प्रथम: परिच्छेदः
५*निष्पत्तावुभयोः शब्दार्थयोः समप्राधान्याच्छ्दार्थयुगलमेव काव्यपदवाच्यं भवितु- मर्हति इति। परमेतत् काव्येतिपदस्य वाच्यार्थे शब्दस्य प्राधान्यं वदन्तो जग- न्नाथादयो न सहन्ते। ते इमं पक्षमेव दूषयन्ति। तथाहि- काव्यमुच्चैः पठ्यते ५७ काव्यादर्थोवगम्यते काव्यं श्रुतमर्थो न ज्ञातः इत्यादिविश्वजनीनव्यवहाराच्छब्दार्थ- युगलं काव्यशब्दवाच्यं भवितुं नार्हति। प्रत्युत वागत्यवहारे शब्दस्यैव प्राधान्या- दर्थोपस्कृतः शब्द एव काव्यशब्दाभिधेयो भवितुमर्हति । काव्यमुच्चैः पठ्यते ६० इत्यादिवाक्येषु लक्षणयोपपत्तिस्तु न युक्ता । शब्दार्थयुगले भवदभिप्रेतायाः काव्यपदशक्ते: स्वीकारे मानाभावात्। अर्थनिश्चयं विना लक्षणाया अप्रवृत्तेः । यतः मुख्यार्थहतिर्लक्षणाबीजम्। सा च वाच्यार्थनिश्चयं विना नोद्धवति। अतः ६3काव्यशब्दे पराभिमतवाच्यार्थस्यानिश्चयान्नात्र लक्षणा संभवति। किंच वेदपुराणा- दिसंज्ञाशब्देषु शब्दस्यैव प्राधान्यं दृश्यते। सैव सरणिरत्रापि अङ्गाकर्तव्या। अन्यच्च काव्यपदप्रवृत्तिनिित्तं शब्दार्थयोर्व्यासक्तं प्रत्येकं पर्याप्तं वा । नाघः । ६६एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । नापि द्वितीयः । एकस्मिन्नेव पद्ये काव्यद्वयव्यवहारापत्तेः । तस्मात् काव्यपदवाच्यं न शब्दार्थयुगलं तर्हि रमणीयार्थप्रतिपादकः शब्द एवेति ॥ अत्र प्रकाशानुसा- ६९रिमिरेवं समाधायि। काव्यं पठितं श्रुतं काव्यं बुद्धं काव्यमिति उभयविधव्यवहार- दर्शनात् काव्यपदप्रवृत्तिनिमित व्यासज्यवृत्ति (शब्दार्थोभयपर्याप्तवृत्ति) स्वीक्रियते। [काव्यशब्दवाच्यं शब्दार्थयुगळमिति भाव:] तत्न प्रयोगानुरोधेन कचिच्छन्दविशि- ७२ष्टोर्थः काव्यं क्वचिदर्थविशिष्टः शब्दः काव्यमिति विवेकः । तथा च रसार्थालंकार- प्रधानप्रबन्घस्य प्रथमपक्षेण काव्यत्वसिद्धिः । शब्दालंकारप्रधानप्रबन्धस्य च द्वितीयपक्षेण तत्त्वसिद्धिः। काव्यमुच्चैः पठ्यते इत्यादिप्रयोगेषु लक्षणया शब्दमात्रे ७५ काव्यपदप्रवृत्तिः । काव्यं बुद्धम् इत्यादिषु लक्षणया अर्थमात्रे काव्यशब्दप्रवृत्तिः । एवं लक्षणयान्यतरस्मिन्नपि तत्वादेको न द्वौ इतिवत् श्लोकवाक्यं न काव्यमिति व्यवहारस्य नापत्तिरिति ।। इदमत्र विमर्शनीयम्। वागव्यवहारे सामान्यतः ७eशब्दस्य अर्थापेक्षया अधिकदेशवृत्तित्वादुत्सर्गतः शब्दप्राधान्य एव काव्यशब्दप्र- वृत्तिर्युक्ता। तत्र समकक्षतया अर्थनिवेशनं शब्दविषयसंकोचकरं न युक्तम्। निवेसे तु वेदपुराणादिसंव्ञास्कपि विनिगमनाभावादर्थनिवेशोपरिह्यार्यः स्याद्। तेन
Page 28
काव्यलक्षणे दोषादीनामनिवेश: ११
८१च अर्थज्ञानं विनापि वेदः पठितः इत्यादिसार्वजनीनव्यवहारस्यानुपपात्तिः। यथा च वेदशब्दवाच्यं न शब्दार्थयुगलं किंतु शब्दविशेष एव तद्वदत्रापि काव्यशब्दवाच्यः अर्थोपस्कृतशब्दविशेष एव। काव्यं बुद्धम् इत्येवमादयः प्रयोगास्तु मधुरवर्णानु- e४प्रासजन्यश्रुतिचमत्कारानुभवेन सुस्था भवेयुः । को हि नाम रसिक :-
कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ १७ अथवा- मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया। मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ।। १० इत्येवमादिपु केवलकोमलानुप्रासमहिम्नैव साधारणीभूतमर्थमविगणय्य इदं काव्य- मिति न बुध्येत। अन्यच्च स्त्री ज्रूते। शुष्को वृक्षस्तिष्ठत्यग्रे। इत्येवमादि न काव्यम्। कामिनी व्याहरति। नीरसतरुरिह विलसति पुरतः । इत्येवमादीनि तदर्थकान्येव ९३वाक्यानि तु काव्यम् इति सर्वसहृदयानुभविद्धम्। तेन च काव्येतिपदस्याभिधेये शब्दस्यैव प्राधान्यमिति निष्पदयते। नार्थशब्दयुगलस्य न वा केवलार्थस्य। अत एव रमणीयार्थप्रतिपादकः शब्द एव काव्यपदवाच्यम्। एतदेव च आचार्यदण्डि- १६ नोभिप्रेतं काव्यलक्षणमिति प्राग्लक्षणविचारे दर्शितमेव ॥। एतावत्पर्यन्तं प्राचीनार्वाचीनानां काव्यलक्षणस्याद्देश्यविषये विचारः प्रदर्शितः। अतः परं पूर्वोक्तलक्षणस्योद्देश्यविशेषणविषये किंचिद्विमृशामः । तत् तावदुद्देश्यविशेष ९१णानि निर्दोषौ सगुणौ सालंकारौ चेति त्रणि सन्ति। तत्र निर्दोषौ इत्यनेन दोष- शून्यशब्दार्थयोः काव्यत्वस्वीकारे न्यक्कारो ह्ययमेव इत्यस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात्। परमयं श्लोक: लक्षणे अदोषौ इति विशेषणं निवेशयद्धि: १०२ प्रकाशकारादिभि: ध्वनित्वेनोत्तमकाव्यतयाङ्गीकृतो वर्तते। अतः निर्दोषौ इति विशे- षणनिवेशे अव्याप्तिदोषः। अन्यच्च अदोषौ इति विशेषणत्वे काव्यशब्दो विरल- विषयो निर्विषयो वा स्यात्। सर्वथा निर्दोषस्य काव्यास्याव्यन्तासंभवात्। दुषट १०५ काव्यम् इति व्यवहारस्य चानुपपततिः स्यात्॥ समुणौ इत्यपि विशेषणमयुक्तमेव। यतः तददोषौ शब्दार्थौ इति लक्षणं कुर्वद्धिः प्रकाशकारादिभिर्गुणानामात्मभूत रसैकधर्मत्वस्याङ्गीकारात्। शब्दार्थयोस्तत्संबधस्य वक्तुमशक्यत्वात्। नहि
Page 29
१२ काव्यादर्शे प्रथम: परिच्छेद:
१०८शौर्यादिवदात्मधर्माणां गुणानां शरीरघटकत्वमुपपद्यते। ननु सगुणौ इति विशेषणं गुणत्वान्यथानुपपत्या सरसौ इत्यर्थतात्पर्यकमिति चेत् तन्न समञ्जसम्। नहि प्राणिमन्तो देशा इति वक्तव्ये शौर्यादिमन्तो देशा इति कोपि ब्रूयात्। तथैव सरसौ १११इति वक्तव्ये सगुणौ इत्युक्तिरसमञ्जसैव। अपरं च उदितं मण्डलं विधोः इति काव्ये गतोस्तमर्कः इत्यादौ च गुणशून्यत्वेनाव्याप्तिः स्याद्। काव्यजीवितस्य चमत्कारस्य तु अत्र विद्यमानत्वान्नेदं काव्यमिति वक्तुं न शक्यते। अतः सगुणौ इति ११ विशेषणे अव्याप्तिदोषस्य प्रादुर्भावात् तन्न युक्तम्॥ सालंकारौ इतीदमपि विशेषण- मनुपपन्नम्। यतो हारादिवच्छरीरोपस्काराणामलंकाराणां तद्घटकत्वस्यायुक्तत्वात्। तथा च शब्दार्थौ इत्यस्य त्रीण्यपि विशेषणान्यनुपन्नान्ययुक्तानि चेति ज्ञेयम्। ११७आनन्दवर्धनेन काव्यस्यात्मा ध्वनिः इति ध्वनियुक्तौ शब्दार्थी काव्यस्वरूपेण वर्णितौ। तत्न ध्वनिशब्देन वत्स्वलंकाररसादिरूपेण त्रिविधो ध्वनिरपेक्ष्यते अथवा केवलं रसस्वरूपः अपेक्ष्यते। प्रथमार्थस्वीकारे प्रहेलिकादावतिव्याप्तिः । तत्र १२०ध्वनिनैव वस्तुनोवगमः । केवलरसस्वीकारेप्यापतन्तीमनुपपत्तिमग्रे दर्शयामः ॥ एतावत्पर्यन्तं शब्दार्थो काव्यम् इति लक्षणे शब्दार्थौ इत्यस्य विशेष्यस्य विशेषणविषये विचारः प्रदर्शितः । इदानीं विशिष्टः शब्दः काव्यम् इति पक्षे स्वीकृते शब्दस्य विशे- १२३ष्रणविषये विचारं कुर्मः। तत्र काव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत्। इति अलंकार- शेखरे माणिक्यचन्द्रेण (पृ.२) वाक्यं रसादिमत् काव्यम्। इति साहित्यदर्पणे विश्व- नाथेन (१.३) च वाक्यस्य रसादिमत् इति विशेषणं काव्यरूपावगमाय निवेशितम्। १२६परं तन्न विचारक्षमम्। यतो रसादिमद्वाक्यस्यैव काव्यत्वे वस्त्वलंकारप्रधानानां काव्यानामकाव्यत्वापत्तिः। महाकविभिस्तेषां काव्यत्वेन स्वीकारान्न तानि काव्या- नीव्यापादनं नोचितम्। तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्व- १२९र्णितानि कपिबालादिविलसितानि च काव्यरूपाण्येव। तत्र रसात्मकं वाक्यं काव्यम् इति लक्षणे काव्यशब्दस्याप्रवृत्त्याव्याप्तिदोषो दुर्वारः स्यात्। शब्दार्थयोः ध्वनिकारोक्तदिशा ध्वनिसहितौ इति विशेषणे इयमेवाव्याप्तिर्बोद्दव्या। ननु वसतव- १३२ लंकारप्रधानेपि तत्तत्प्रबन्धे यर्था कथचिदस्त्येव रसस्पर्श इति चेन्न। तादृशरस- स्पर्शस्य गौश्वलति मृगो धावति इत्यादौ अतिप्रसक्तत्वेनाप्रयोजकत्वं स्फुटमेव। यतः अर्थमात्रस्य विभाषानुभावव्यभिचार्यन्यतमत्वाद्रसस्पर्शो वर्तत एव। तस्माद् रसात्मक १३'मिति विशेषणं न युक्तम्। केवलं रमणीयार्थप्रतिपादकः शब्दः काव्यम् इत्येव
Page 30
काव्यशरीरस्य पद्यादित्रैविध्यम् १३
पैद्यं गद्यं च मिश्रं च तत् तिधेव व्यवस्थितम्। पद्यं चतुष्पदी तच्च वृतं जातिरिति द्विधा ॥ ११।। लक्षणं निर्दोष काव्यशब्दवाच्यसकलविषयसंग्राहकं चेति ज्ञेयम्। इदमेव च मतं दण्ड्यनुकूलं स्मृत्यनुगृह्ीत च । तदुक्तमाग्नेये-
36 संक्षपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली। काव्यं स्फुरदलंकारं गुणवद्दोषवर्जितम्॥ इति (३३७. ६-७) अत्र इष्टार्थव्यवच्छिन्ना पदावली काव्यम् इत्येव लक्षणम्। स्फुरदलंकारं गुणवद्दोष- ४१वर्जितम् इत्यादि प्राशस्त्यबोधकमिति ज्ञेयम्। विशेषविचारस्तु विश्वनाथजगन्नाथा- दिभि: स्वस्वग्रन्थे प्रदर्शितस्तत एवावगन्तव्य इत्यलं पल्लवितेन ॥ १० ॥
इदानीं पद्यगद्यमिश्रप्रकारेण शरीरस्य त्रैविध्यं दर्शयति-पद्यमिति। तत् काव्यशरीरम्। पदं चरणमर्हतीति पद्यं श्लोकबन्धः। छन्दोबद्धपदं पद्यम्। इति साहि- ३त्यदर्पणे (६. ३१४)। तच्च मालिनीहरिणीस्त्रग्धरादिविविधरूपम्। गद्यते छन्दसा विना केवलशब्दप्रबन्धैरेव विरच्यते तद्रद्यम्। तच्चतुर्विधं यथोक्तं दर्पणे :- वृत्तगन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च। ६ भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम्। (६.३३०) एतेषां लक्षणानि च- आद्यं समारसहितं वृत्तभागयुतं परम्। अन्यद्दीर्घसमासाढ्यं तुर्य चाल्पसमासकम्॥ इति। (६.३३१ ) मिश्रम् गद्यपद्योभयमयं चम्पूपश्चतन्त्रादिकम्। एवं त्रिप्रकारकमेव तद्व्यवस्थितम् प्राचीनसूरिभिर्निरूपितम्। एवकारो भेदान्तरव्यवच्छेदार्थः। तेषु पद्ं निर्वक्ति- १ पद्यं चतुष्पदीति। चतुर्णा पदानां समाहारश्चतुष्पदी। द्विगोरिति सूत्रेणादन्त- त्वात् डीपू। पादचतुष्टयात्मकं पद्यमित्यर्थ: द्वित्रिपादपरिमितानां छन्दसां वेदेष्वेव दर्शनाच्चतुष्पदीति कथनंलौकिकवृत्तानुरोधेनेति केचित्। अन्ये तु १५ चतुष्पदीत्युपलक्षणमेतत्। तेन पश्चषट्पादानां वृत्तानामपि संग्रहः । तच्च पद्ं
१-गययं पद्यं च. अ.
Page 31
१४ काव्यादर्शे प्रथम: परिच्छेदः
छन्दोविचित्यां सकलस्तप्रपश्चो निदर्शितः । सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ॥ १२ ॥ वृत्तं जातिरिति द्विधा द्विप्रकारकम्। तत्र अक्षरसंख्यातं वृत्त मात्रासंख्याता जातिः। तदुक्तं छन्दोमञ्जर्याम्- १८ पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा। वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्। इति। तत्र समार्धसमविषमानि वृत्तानि क्रमेण स्नग्धरापुष्पिताग्रावैतालीयादीनि। आर्या- २१गीतीत्यादयो जातयश्च ॥ ११ ॥ वृत्तभेदानां बाहुल्यान्नेह तन्निरूपणं क्रियते छन्दःशास्त्रादेव तदवगन्तव्य- मित्याह-छन्दोविचित्यामिति। छन्दांसि विचीयन्ते निरूप्यन्ते यत्र सा छन्दो- 3विचितिः पिङ्गलमुनिकृतं छन्दःशास्त्रम्। छन्दोविचितिर्नाम दण्ड्याचार्यकृत. इच्छन्दोग्रन्थविशेष इति केचित्। तस्यां सकलस्तयोर्वृत्तजात्योः प्रपञ्चः विस्तार: निदर्शितः। उक्था अत्युक्था इत्यादिप्रकारेण समार्धसम- ६ विषमभेदेन च विविधानि वृत्तानि तथा आर्यागीत्यादयो जातयश्च निरूपिता इत्यर्थः । अतशच्छन्दोज्ञानार्थ स एव ग्रन्थः परिशीलनीय इति भावः । काव्या- नुशीलनवतां छन्दोज्ञानस्यावश्यकतां विशेषतः दर्शयति-सा विद्येति। सा ९विद्या छन्दोविचित्यादिभ्यः संपादित छन्दोविज्ञानम्। गम्भीरम् दुरवगाह्यम्। तत्तत्प्र- सङ्गविशेषेषु तत्तच्छन्दांस्येव रसपरिपोषकानि नान्यानीति सहृदयैकज्ञेयत्वाद्दुरधि- गममितिभावः । काव्यसागरम् काव्यरूपमहोदधिम् । विविक्षूणां प्रवेष्टुमिच्छूनाम्। १२ नौः नौकास्थानीया भवति। यथा नानासाधनपरिपूर्णा नौः रत्नसमाहरणाय सागरं प्रविविक्षूणां पुरुषाणामिष्टार्थसंपादनाय साधनं भवति तथा शब्दार्थरत्नाहर- णाय काव्योदधि प्रविविक्वूणां छन्दोज्ञानं तल्लाभसौकर्याय भवतीत्यर्थः । साहि १५त्यशास्त्रे धृतरुचीनां छन्दोज्ञानं काव्यनिर्माणे प्रधानं साधनमित्यर्थः । प्रविविक्षूणा- मिति विशतेः सन्प्रत्ययः । तितीर्षूणामिति पाठे तरितुमिच्छूनां विवक्षूणामिति पाठे वोदुमिच्छ्ूनामिति चार्थ: कल्प्यः ॥ १२ ॥
१. विवक्षूणां क. तितीए णांव, कपा.
Page 32
महाकाव्यलक्षणम् १५
मुक्तकं कुलकं कोर्षः संघात इति तादश: सर्वबन्धांशरूपत्वादनुक्त: पद्यविस्तरः॥ १३।। सर्गवन्धो महाकाव्यमुच्यते तस्य लक्षणम्। एवं त्रिविधकाव्येषु पद्यमयकाव्यस्य मुक्तकादयोवान्तरभेदाः प्राचीनैर्वर्णिताः सन्ति। तेषां तु महाकाव्याङ्गरूपत्वान्न पृथक्तया वर्णनमवश्यम्। अतस्तदुपेक्ष्य ३प्रधानकाव्यमेवास्माभिर्निरूप्यत इति स्वाभिप्रायं प्रकटयन्नाह-मुक्तकमिति। इतिशब्द एवमर्थे। मुक्तकं कुलकं कोषः संघातः तथा तादृशः तत्सजातीयोन्यश्च पद्यविस्तरः काव्यात्मकपद्यसमूहः । सर्गबन्धांशरूपत्वात् सर्गबन्धो महाकाव्यमि- ६ तयाद्यनन्तर श्लोकलक्ष्यमाणमहाकाव्यावयवस्वरूपत्वात्। अनुक्त: तस्यानुपयुक्तत्वादू- ग्रन्थविस्तरभयाच्च न प्रदर्शितः । ग्रन्थान्तरेभ्योवगन्तव्य इत्यर्थः। तत्र मुक्तकलक्षण- मग्निपुराणे यथा-मुक्तकं श्लोक एवैकश्चमत्कारक्षमः सताम् ।[३३७-३६ ] कुलकलक्षणं साहित्यदर्पणे यथा- द्वाभ्यां तु युग्मकं संदानितकं त्रिभिरिष्यते। कलापकं चतुर्मिश्च पञ्चभि: कुलकं मतम् ॥ [६ ३१४-१५] १२कोषस्तु कोषः श्रोकसमूहस्तु स्यादन्योन्यानपेक्षकः इति लक्षणलक्षितः । संघा- तलक्षणं च यथा- यत्र कविरेकमर्थ वृत्तेनैकेन वर्णयति काव्ये। १५ संघातः स निगदितो वृन्दावनमेघदूतादिः ॥ इति। टीकान्तरे हरिनाथेन प्रदर्शितानि लक्षणानि यथा-अन्यानपेक्ष एकल्लोकनिबन्धो मुक्तकम्। अनेकपद्येनैकक्रियान्वितेनैकवक्यार्थकथनं कुलकम्। असंहतार्थानामे- १८ककवेरनेककवीनां वा निबन्धः कोशः । यथार्यासप्तशत्यादिः। कल्पितवस्तुक एकच्छन्दोनिर्व्यूढ: संघातः मेघदूतादिः। एवंविधलक्षणा एते पद्यप्रभेदा महा- काव्यांशभूता एव। तत्नाधौ साक्षादंशभूतावन्त्यौ तु तत्समावेशतस्तल्लक्षणेनैवान्नेय- २. स्वरूपावित्यर्थः । इति ॥ १३ ॥ मुक्तकादीनां सर्गबन्धांशरूपत्वं कथितम्। तत्र सर्गबन्धः कीदृशः इत्या- काङ्डामायाह-सर्गबन्ध इति। महाकाव्यं सर्गबन्धः। सर्गैरवान्तरार्थवर्णनप्रबन्धै- • १ कोश: ब क, २ ० बत्धाङ्ग.0 ब.
Page 33
१६ काव्यादर्शे प्रथम: परिच्छेद:
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १४ ॥ इतिहासकथोद्दूतमितरद्वा सदाश्रयम्। ३र्बन्धो रचना यस्य तत् काव्यं सर्गबन्धः । तस्य सर्गबन्धस्येदानी स्वरूपमुच्यते मया निरूप्यते जायते सदलंकृतात्यन्तेन [१. १९ ] ग्रन्थेन। तन्मुखम् तस्य सर्गबन्धस्य मुखम् प्रारम्भः । आशीः इष्टजनस्य शुभाशंसनम्। तथा च ६शब्द कल्पद्गुमे- वात्सल्याद्यत्र मान्येन कनिष्ठस्याभिधीयते। इष्टावधारकं वाक्यमाशीः सा परिकीर्तिता ॥। इति। नमस्क्रिया मत्तस्त्वमधिकस्त्वत्तोहं न्यून इति परोत्कर्षसूचनपूर्वकस्वापकर्षबोधना- नुकूलो व्यापारविशेषः । स च कायिकवाचिकमानसिकभेदेन त्रिविधोप्यत्र वाचिक एव आ्रह्यः। वस्तुनिर्देशः वसति प्रस्तुतवृत्तान्तोस्मिन्िति वस्तु कथानायकः । १२ लक्षणयापरोपि तत्संबन्धी प्रधानपुरुषः । तस्य निर्देशः नामोच्चारणपूर्वक उपन्यासः। अथवा वस्तु वर्ण्यकथाभागस्तस्य निर्देशः साक्षाद्व्यञ्जनया वा सूचनम्। एतत्त्र- याणां मध्ये केनाप्येकेन सर्गबन्धस्य प्रारम्भो विधीयत इत्यर्थः । तत्राशाीर्यथा १५ चन्द्रप्रभाकाव्ये- श्रियं क्रियाद्यस्य सुरागमे नट[म:]-
१८ सभा बभौ रत्नमयैर्महोत्पलैः कृतोपहारेव स वोग्रजो जिनः ।। नमस्कारो यथा रघुवंशे-
२१ वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ। वस्तुनिर्देशो यथा शिशुपालवधे- २४ श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि। वसन् ददर्शावतरन्तमम्बराद्विरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ एवं सर्गबन्धान्तरेष्वपि द्रष्टव्यम् ॥ १४ ॥ इतिहासेति। इतिहासो भारतम् उपलक्षणमेतद्। तेन रामायणादि-
Page 34
सर्गबन्धलक्षणम्
चतुर्वर्गफलायचं चतुरोदाचनायकम् ॥१५॥ काव्यानां पुराणानां च संग्रहः। तत्रत्या याः कथास्ताभ्य उद्धूतं निष्पन्नं तदा- धारतया निबद्धमित्यर्थः । इतरद्वा इतिहासादिष्वविद्यमानं कथानकमुपजीव्य निब- द्रम् । किंतु सदाश्रयम् सत् सत्यभूतो वृत्तान्त आश्रय आधारो यस्य तद्। अनेन कल्पितस्य वस्तुनो महाकाव्ये वर्णनीयतया स्वीकारे निषेधः सूचितः । अथवा सत् सत्पुरुष आश्रयो यस्य। तेन बुद्ध चरितादीनामश्वघोषादिभिः प्रणातानां संग्रह इति केचित्। चतुर्वर्गफलायत्तम् चतुर्णा धर्मार्थकाममोक्षाणां वर्गः समूह- श्चतुर्वर्गः तद्रूपस्य फलस्य आयत्तं स्वाधीनं तत्फलोत्पत्तिमुद्दिश्य प्रणीतम्। तथा चतुरो व्यवहारकुशलो वत्सराजादिवत् उदात्तो धीरोदात्तो रामचन्द्रधर्मराजादिवद् एतादृशो नायकः कथाप्रधानपुरुषो यत्र तत्। नायकलक्षणं च साहित्यदर्पणे यथा-
१३ त्यागी कृती कुलीन: सुश्रीको रूपयौवनोत्साही। दक्षोनुरक्तलोकस्तेजोवैदग्ध्यशीलवान् नेता॥ इति (३. ३०) तथैव च दशरूपके --
१५ नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः। रक्तलोक: शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ बुध्धुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः। १८ शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ इति। (२.१-२) अयं च नायको धीरोदात्तधीरोद्वतधीरललितधीरप्रशान्तादिभेदेन चतुर्विधः । तल्ल- क्षणप्रविभागादिकं साहित्यग्रन्थेभ्य एवावगन्तव्यम्। प्रकृते तु उदात्तपदेन सर्वे- २१षामप्येतेषां ग्रहणम् । नायकश्च क्वचिदेको देवः क्वचिदेक: सद्वंशजः क्षत्रियः क्कचिदेकवंशजा बहवः क्षत्रियाः । तत्र प्रथमप्रकारः शिशुपालवधे द्वितीयो नैषधे वृतीयो रघुवंशादिष्ववगन्तव्यः ॥१५॥
न केवलमितिहासादिवद्यथावृत्तवर्णनेनैवं काव्यं भवति किंतु तत्रान्तरान्तरा . प्रसङ्गानुरोधेन प्ररोचनार्थ तत्पदार्थानामुच्चावचवर्णनमप्यवश्यमपेक्ष्यत इति वर्ण्य-
१ फलोपेतं ब.
Page 35
१८ काव्यादर्शे प्रथम: परिच्छेद:
नगरार्णवशैलर्तु चन्द्रार्कोदयवर्णनैः। उद्यानसलिलक्रीडामधुपानरतोत्सवैः ॥ १६॥ ३विषयान् कांश्विद्दर्शयति -* नगरार्णवेति। नगरं पुरम् । तद्वूर्णनं यथा शिशु- पालवधे तृतीयसर्गे [३३-६४ ] अर्णवः समुद्रः। तद्वूर्णन यथा रघुवंशस्य त्रयोदशसर्गे [२ -. १६ ] माघस्य तृतीये [७० -- ८० ] च । शैलः पर्वतः। तद्वर्णनं धयथा कुमारस्य प्रथमसर्गे [ १- १६ ] माघस्य चतुर्थे [२ -- ६८] किरातस्य पञ्चमे [१-१५] च । ऋतवो वसन्तादयः । तद्वर्णनं यथा शिशुपालवधे षष्ठसर्गे किरातार्जुनीयस्य चतुर्थदशमसर्गयोः कुमारसंभवस्य तृतीयसर्गे रघुवशस्य चतुर्थ- नवमषोडशसर्गेषु च। चन्द्रार्कौ चन्द्रसूर्यौ तयोरुदयः इदमस्तस्याप्युपलक्षणम्। एत- योर्वर्णन किराते नवमसर्गे माधे नवमैकादशसर्गयोस्तथान्यत्रापि द्रष्टव्यम्। उद्यान- मुपवनम् सलिलं सलिलाधारः सरित्सरोवरादि: तत्न क्रीडा। तद्वर्णनं माघकिरात- ·३योरष्टमसर्गादिषु । मधुपानं मदिरासेवनम्। तद्वर्णन किरातार्जुनीये नवमसर्गे शिशुपालवधे च दशमसर्गे तथान्यत्रापि। रतं संभोगशङ्गारः तस्योत्सवो विलासः।
- वर्णनीयाना विशिष्यवर्णनप्रकार: कविसमयमद्गाः केचन निरूष्यन्तं-नृपे विद्या नयः शक्त- र्बलं तस्करताक्षमः । प्रजाशास्निः प्रजारागी धर्भकामार्थतुल्बता ॥ प्रयाणरणखडगादिशस्त्राण्य- 3रिपगाजयः । अरिनाशग्शिलादिवासाग्पिभुन्यता ॥ महःश्रीदानकी त्वाद्या गुणोघा रूपवर्णनम् महामात्य नयः शास्त्रं ध्य ब द्वेर्गमीरता॥ र्शाक्तः शखमलोभत्वं जनरागो विवेकिला। पुरोहितं स्मृतिर्वेदा निमित्तापत्प्तिक्रिया॥ दण्डनीतिज्ञत। शुद्धिधर्मंशीलकुलकमाः। देव्यां विज्ञानचातुरये त्रपा- 6शीलव्रतादयः ॥ रूपलावण्यसौभाग्यप्रेमशृङ्गरपन्मथाः । वेणीधममिल्लसीमन्तभालश्रवणनासिकाः ॥ कपोलाधग्नेत्रभ्रकटाक्षदृशनोक्तयः। कण्ठबाहुकरोगेजनाभ्यो मध्यं वलित्रयम् ॥ गेमालिश्राणि- जङ्घोरुगतिक्रमनख्वाः क्रमात्। कुमारे शस्त्रशास्त्रश्रीकलाचलगुणोच्छ्रयाः॥ चाहालीखुरली 9 राजभक्तिः शुभगताद्यः। सेनापती महोत्साहः स्व्रामिमक्तिरभीरता ॥ अभ्यासो वाहने शास्त्रे शस्त्रे च विजयो रणे। देश बहुखनिद्रव्यपण्वान्याकगेदवाः ॥ दुर्गग्रामजनाधिक्यनदीमातृ- कतादयः। ग्रामे धान्यलतावृक्षसरसीपशपुष्टयः॥ क्षत्राघटटकेदारय्ामेय।मुग्धविभ्रमाः। पुरट्वर्पारि- 12 खावप्रपतोली तोरणाद्यः॥पसादाध्वप्रपारामवाव्यो वेश्या सनीत्वरी। सरस्यम्भोलहर्यमभोगजाद्यम्बुज-
विष्णुकुल्यागमश्यन्द्रादबृद्धिरोरवोब्दपुरणम्। सरित्यम्बुधियायित्वं वीच्यो जलगजादयः ॥पद्मानि 15 षटूपदा हंसचकाया: कूलशाखिनः। उद्याने सरणिः सर्वफलपुष्पलताद्रुमाः ॥ पिंकालिके किह साद्याः कीडावाव्यध्वगस्थितिः। शैले मेघोषधीधातुवंशकिनरनिर्झरा: ॥ शृङ्गपादगुहारत्नवनजीवाधयुप- त्यकाः। अरण्येहिवराहेमयूथसिंहादयो दुमाः।। काकोलूककपोतादा मिलमल्लदवादयः। आश्रमे- 18तिथिपूजेणविश्वासो हिस्रशान्तता ॥ यज्ञधूमो मुनिसुता दसेको वल्कलटमाः। मन्त्रे पश्चाङ्गता.
Page 36
सर्गबन्धे वर्ण्यविषयाः १९
विप्रलम्भैर्विवाहैश्र कुमारोदयवर्णनैः। तद्वूर्णनं रघुमाघकिरातादिसर्वकाव्येषु। अयं संभोगशङ्गारो विप्रलम्भशङ्गारानन्तर- १५ मेव वर्णितः शोभातिशयं पुष्णाति। तदुक्तं सरस्वतीकण्ठाभरणे [५-५२]- न विना विप्रलम्भेन संभोग: पुष्टिमश्नुते इति। वृतीयान्तपदानामष्टादशश्लोक- गतेन अलंकृतम् इतिपदेन संबन्धः ॥ १६ ॥ विप्रलम्भैरिति। विग्रलम्भो विप्रलम्भशङ्गारः । तल्लक्षणं सरस्वतीकण्ठा- भरणे यथा- 3 भावो यदा रतिर्नाम प्रकर्षमधिगच्छति। नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते॥ इति । [५. ४५ ] शक्तिषाड्गण्यापायमिद्यः ॥ उदयाश्रियन्तनीयाश्र्व स्वैर्योन्नत्यािस्क्तयः । दूते म्वस्वामितेज; श्रीविक्रमान्न्त्यरुद्वचः ॥ शत्रुक्षोभकरी चेष्ट धाष्टर्य दाक्ष्यमभीरता ॥ युद्धे तु वर्मबलवीिरजांसि 21 तुर्यविश्वा सनाद्शरमण्डपरक्तनयः । छिन्नातपत्रग्थचामर केतुकुम्भिमुक्तासुरीवृतभटामरपुष्पवर्षाः। प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः । कग्मोक्षध्वजच्छत्रवणिक्छकवेशराः ॥मृगयायां श्वसंचारं। वागुरा नीलवेषता। भटढक्कामृगन्ासः सिहयुद्धं त्वरागतिः ॥ अश्वे खरखुरोखातरज :- 24 सल्क्षणस्थिातः । तेजो वेगित्वमान्नत्यं जातिर्धाराप्रपश्नम्॥ गजे सहस्रयोधित्वमुच्चत्वं कर्ण- चापलम्। अरिव्यूहविभेदित्वं कुम्भमुक्तामद लिनः॥ सुरभी दोलाकोकिलमारूतसूर्यगतितरुदलो- देदाः । जातीतरपुष्पचयाम्रमअ्जरीभ्रमरझङ्कारः। ग्रीष्मे पाटलमल्ीतापसरःपथिकशोषवाताल्यः। 27 सक्त प्रपापशास्त्रीमृगतृष्णाम्ादिफलपाकाः । वर्षासु घनशििस्मयहंसगमा: पङ्ककन्दलोद्रेदौं। जातीकदम्बकेतकझञ्झानिलनिम्नगा हलिप्रीतिः । शरदीन्दुरविपटुत्वं जलाच्छतागस्त्यहंसवृष_ दर्पाः। सप्च्छदपद्मसिताभ्रधान्यशििपक्षमदपाताः ॥ हेमन्ते दिनलघुना शीतयवस्तम्बमरुबक- 30 हिमानि। शिशिरे करीषधुमः कुमदाम्बुजदाहशिखिरतोत्कर्षाः ॥ सुर्येरुणता रविमणिचक्राम्बु- जपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधिधूकतमश्र्या।कुमुदकुलटार्तिः। चन्द्रे कुलटाचकाम्बुरु- हविर हित मोहानिरोज्ज्वल्यम्। जलधि जनिनेत्रकेरवच कोरचन्द्राश्मदम्पतिपीतिः॥ विवाहे स्नान 33शभ्राङ्गमषाललुत्रयीरवा। वेदीसीमन्ततारेक्षा लाजामङ्गलवर्तनन् ॥ विरहे तापनिःश्वासचिन्ता मोनं रुशाङ़ता। अन्जशय्या निशादेर्ध्य जागरः शिशिरोष्मता ॥ स्त्रयंवर शचीरक्षामश्मण्ड पसज्जता। राजपुत्री नृपाकारान्वयचेष्टाप्रकाशनम् ॥ सुरापाने विकलना रखलनं बचने गतौ। 36 उज्जा मानच्युतिः प्रेमाधिक्यं रक्तेक्षणभ्रमाः ॥ पुष्पावचये पुष्पावचयः पुष्पार्पणेर्थिता दयिते। मानायं गात्रस्खलनेर्ष्यावक्रोक्तिसंभ्रमाश्लयाः ॥ जलकेली सरःक्षोभचऋ्रहंसायसर्पणम् । पद्म ग्लानि: पयाक्षेपो द्गरागो भूषणच्युतिः ॥ सुरते मात्विका भावा: सीत्कार: कुड्मलाक्षता। 39 काश्वीकङ्कणमञ्जीररोधरनखक्षने॥ प्रातः कोकाम्बुजोत्कर्षो मध्याह्ने तापसंपुव्। सायं सूर्यातिलौहित्यं चक्रपद्मादिविपुवः। अन्धकारेतिसान्द्रत्वं विश्वलोपसमर्थता। आकस्मिकस- मारम्भो निःशङ्कमभिसारिकाः ॥ व्ष्येषु वर्ण्यभावानां दिङ्ूमात्रमिह दार्शेनम्। सधीभिश्रिवन्त्य 42मानानां भवत्येषामनन्तता । इति कविकल्पलतालंकारशेखरादिभ्योवगन्तव्याः ॥।
Page 37
२० काव्यादर्शे प्रथम: परिच्छेद:
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि॥ १७॥ अलंकृतमसंक्षिपं रसभावनिरन्तरम् । बहुवचनेन तस्य सरस्वतीकण्ठाभरणादिषूक्तं [५. ४५ ] पूर्वानुरोगो मानः ६प्रवास: करुणश्चेति चातुर्विध्यं स्वीकार्यम्। तत्रान्तिमप्रभेदोदाहरणं रघुवंशेज- विलापः। विवाहः पाणिग्रहणसंस्कारः । तद्वूर्णन रघुवंशस्य पष्ठसप्तमयोः कुमार- संभवस्य सप्तमे तथान्यत्न द्रष्टव्यम्। विवादैरिति पाठे विव्रादो मिथः संभाषणम् यथा रघुवंशे सिंहदिलीपयो: [२. ३४-५८] कुमारोदयः सुतोत्पत्तिः । तद्वूर्णनं यथा रघुवंशे तृतीयसर्गे। मन्त्र: प्रधानपुरुषैः सह रिपुजयार्थ गुप्तसंभाषा कार्या- कार्यविचारश्र। स पश्चाङ्गः । तदुक्तं- सहायाः साधनोपाया विभागो देशकालयोः। विपत्तेश्च प्रतीकार: सिद्धिः पञ्चाङ्गमिष्यते ॥ इति ॥ स च किरातप्रथमसर्गे माघद्वितीयसर्गे च द्रष्टव्यः । दूतः प्रेष्यः स च निसृष्टार्थ- *५मितार्थसंदेशहारकभेदेन त्रिविधः । तत्न निसृष्टार्थ उद्योगपर्वणि वासुदेवः । मितार्थो रामायणेङ्कदः । संदेशहारकः कादम्बर्या केयूरकः । प्रयाणं समराय नगराद्वदि- र्यानम्। तद्वूर्णन यथा शिशुपालवधे सप्तदशसर्गे रघुवंशे चतुर्थसर्गे च। आजि: समरम् । यथा किरातार्जुनीये (१५-१८) शिशुपालवधे (१९-२०) रघु- वंशादिषु च । नायकाभ्युदयः तस्य युद्धे विजयप्राप्तिर्यथा शिशुपालवधे श्रीकृष्ण- स्य। इदं मन्त्रादिपञ्चकं क्रमेणैव वर्णनीयम्। तथाहि। आदौ मन्त्रः अनन्तर ३शदूतप्रेषणम् ततो युद्धाय गमनम् ततः समरः पश्चाद्विजयलाभ इति। अपिना अनुक्तानामपि यज्ञमृगयातपोवनादीनां संग्रहः ॥१७॥ अलंकृतमिति। नगरेत्यारभ्याभ्युदयैरित्यन्तानां सर्वेषां तृतीयान्तानाम- लंकृतमित्यनेन संबन्धः । असंक्षिप्तम् अतिसंक्षित्रवर्णनं न रुचि जनयतीतत्यतः असंक्षिप्तम् संक्षेपरहितम् । संक्षिप्तं तु यथा- रामो दशरथाज्जातः प्राप्तविद्यश्च कौशिकात्। मिथिलायां धनुर्भड्क्त्वा मैथिलीं पारणांिवान् ॥ इत्यादि। ६रसा :- शृङ्गारहास्यकरुणा रौद्रर्वारभयानकाः । बीभत्सान्कुतसंज्ञाश्र ...
Page 38
सर्गबन्धे वृत्तादिरचना २१
सर्गैरनतिविस्तीणैः श्रव्यवृत्तैः सुसंधिभिः ॥१८॥ इत्यष्टविधत्वेन नाट्यशास्त्रे [६. १५ ] वर्णिताः । कचिच्च शान्तोपि नवमः स्मृतः इति रसानां नवविधत्वं प्रोक्तम्। भावा प्राधान्येनाभिव्यक्ता रसबीजभूता विभावादिभिरपरिपुष्टतया रसस्वरूपतामनापद्यमाना: स्थायिनः । यदुक्तम् साहित्य- १२दर्पणटीकायां [३. २६१]- न भावहीनोस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिरनयो रसभातयोः ॥ इति। १५देवमुनिगुरुनृपपुत्रादिविषया रतिर्भावः । कान्तादिविषया व्यक्ता रतिः शृङ्गारः । इति रसभावयो: स्वरूपविवेकः । विस्तरस्तु द्वितीयपरिच्छेदे रसवदलंकारविवेचने द्रष्टव्यः । रसैश्व भावैश्च निरन्तरं परिपूर्णम्। सर्गः प्रधानवृत्तान्ताङ्गभूतोवान्तर- १व्वृत्तान्तनिवेदकः प्रबन्धविशेषः । बहुवचनेन अष्टान्यूनतिशदनधिकत्वं सूचितं भवति। तदुक्तमीशानसंहितायाम्- अष्टसर्गान्न तु न्यूनं त्रिंशत्सर्गाच्च नाधिकम्। २१ महाकाव्यं प्रयोक्तव्यं महापुरुषकीर्तियुक्॥ इति। अनतिविस्तीर्णैः त्रिंशदन्यूनद्विशत्यनधिकपद्यात्मकैरित्यर्थः । वस्तुतस्त्वेतत् सर्व प्रायिकमेव। वैपरीत्येनापि महाकविसंप्रदायदर्शनात् । श्रव्यवृत्तैः यतिभङ्गहत- २ वृत्तादिदोषराहित्येन सुँवृत्ततिलकोक्तरचनाविशेषेण वा माधुर्यादिगुणसद्भावेन वा श्रुतिसुखदैवृत्तैरुपेतम्। तदुक्तम्- यस्मिन् श्रुते च चित्तस्य वैरस्यं न च हृद्यता । २७ तानि वर्ज्यानि पद्यानि प्रसिद्धिप्रच्युतानि च । इति।
१ श्राव्य अ. क.
- सवृत्तति कके द्वितीयविन्यासे वृत्तस्य श्रव्यत्वाश्रव्यत्वविषये कतिचन नियमाः पद- र्शितास्ते यथा-सम।सैलघुवृत्तानामसमार्सेमहीयमाम्। शोभा भवति भव्यानामुपयोगवशेन 3वा ॥ उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात् पूर्वपादाक्षरं लघु॥ गर्वक्षरेण संवृद्धं ग्रन्थियुक्तमिवाग्रतः । कगेति प्रथमं स्थूलं किंचित् कर्णकदर्थनाम् ॥ त्र्यक्षरै- स्यक्षरैरेव च्छेदैराभाति दोधकम्। अतोल्पैरधिके वपि यनि तालमिवोज्ति॥ शत्रन्ताक्ष र - 6 संयोगी: किंचित्कार्कश्यकारिभिः। अन्ते विसर्जनीयैश्र शालिनी याति दीप्ताम् ॥ विसर्गयुक्ते: पादान्तैर्विराजति रथोद्धता। कलापरिचयैर्याता लटमेव प्रगल्मताम् ॥ साकारायैर्विसर्गान्तिः
Page 39
२२ काव्यादर्शे प्रथम: परिच्छेद:
सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनंम्।
सुसंधिभि: सुल्लिष्टसंधानैः पूर्वसर्गान्तेन उत्तरसर्गोपक्षेपकैरित्यर्थः । यथोक्तं साहि- त्यदर्पणे (६. ३२१)-सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेदिति । ३० अथवा संधिपदेनात्र नाट्यशास्त्रोक्तानां [ १९. ३५ ] मुखप्रतिमुखगर्भविमर्श- निवर्हणानां ग्रहणम्। तेषां यथा नाटके तथा काव्येपि विधेयत्वाद्। तेषां सुश्लिष्टत्वं च साङ्गानां तेषां यथाक्रमं विनिवेशः । केचित् तु संधिपदमज्झलसंधि- ३३परं व्याख्यान्ति। तेन च- उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः । नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक्॥ ३ ६इत्यादिश्रुतिकटुसंधिपरिहारः क्रियते। सर्गैरित्यादितृतीयान्तानामग्रिम क्लोकस्थितेनो- पेतमितिपदेन संबन्धः ॥ १८ ।।
सर्वत्रेति। तथा च सर्वत्र अव्यभिचारेण। भिन्नवृत्तान्तैः भिन्नानि पूर्व- क्रमतः पृथग्भूतानि यानि वृत्तानि च्छन्दांसि तैरन्तः समाप्तिर्येषां तैस्तादशैः सगें-
१°सर्गन्तः अ. कपा. २ रअकम् ब. कपा,
सर्वपाद: सविश्रमा। स्वागता स्वागता भाति कविकर्मविलासिनी॥ दुतनाललयोव व्यकतं 9रूक्षाक्ष: परेः। प्रणर्नयति यच्चितं तत् तोटकममीप्मित् ॥ असनस्तपदेः पादसंधिवि- च्छेदसुन्दरम्। सर्वपादेर्विसर्गननेर्वशस्थं यात्यनघंताम्। प्रारम्भे द्रुतवन्यासं पर्यन्तेषु विल- म्वितम्। विच्छित्या सर्वपादानां भाति द्ुतविलम्बितम्। आकारमन्थरेः प्रायः पाद 12पादेक्षरेखत्रि भे:। शेषाक्षरेर्द्रनतरः प्रहषाय प्रहर्षिणी॥ वसन्ततिलकस्यान्रे साकारे प्रथमाक्षरे। ओजसा जायते कान्तिः सविकासविलासिनी। आकरेपि रूते पूर्व बन्धेल्पपदपेशलें। वसन्ततिलकं धत्ते निर्गन्थिरमणोयताम् ॥ विसर्गह नपर्यन्त्म मालिनी न विराजते। चमरी 15 छिन्पुच्छ वल्लीवालूनपल्लवा॥ द्वितीयाधें समस्ताभ्यां पादाभ्यां मालिनी वग। प्रथमार्धे समस्ताभ्यां पादाभ्यामवरा मता ॥ प्रथमं व्यक्षरेश्च्छंदेस्ततस्त्रिचतुरक्षरैः । पश्चाक्षरेश्र पर्यन्त नर्कुटं याति चारुताम् ॥ असमामि: पदैभाति पृथ्वी पृथ्वी पृथकस्थितैः। समासग्रन्थिमिः 18 सैव याति संकोचखर्वताम् ॥ पृथ्वी साकारगम्भरेरोजःसर्जिभिरक्षरेः। समासग्रन्थियुक्तापि याति प्रत्युत दीघताम् ॥ न्वरातरलविच्छेद्र्विभाति हरिणी पर्देः। मन्थरैर्प्रन्थिबद्वैव याति निष्पन्द- संगताम्। त्रिषु पादेषु विश्रान्तिविलासर्ललिता पदैः। अन्ते तरद्रगित गतिर्हरिणी हारणतिराम्। 21 शिखरिण्याः समारोहात् सहजैवोजसः स्थितिः। सैव लुप्तविसर्गान्तेः प्रयात्यत्यन्तमुन्नृतिम् ॥
Page 40
सर्गबन्धे अङ्गहीनत्वेप्यदोषता २३
काव्यं कल्पान्तरस्थायि जायते सदलंकृति॥ १९॥ न्यूनमप्यत्र यैः कैश्रिदङ्गैः काव्यं न दुष्यति। ३रुपेतम् । भिन्नसर्गान्तैरिति पाठे भिन्नः भिन्नवृत्तग्रथितः सर्गान्तो येषां तैरिति विग्रहेणायमेवार्थः । यथोक्तं दर्पणे [ ६. ३२० ]-एकवृत्तमयैः पद्यैरवसानेन्य- वृत्तकैः । इति। एकवृत्तमयत्वं चात्र प्रायिकम्। नानावृत्तमयत्वमपि सर्गस्य ६दृश्यते। यथा शिशुपालवधे चतुर्थः सर्ग: किरातार्जुनीये च पञ्चमः । सदलंकृति सत्य: शब्दार्थरामणीयकत्वेन रसोल्लासिका अलंकृतयः शब्दार्थालंकारा यस्मिस्तत्। इत्थं महाकाव्यलक्षणमुक्त्वा लोकरञ्जनं कल्पान्तरस्थायि इति विशेषणद्वयेन त् प्रशंसति। एवंगुणविशिष्टं काव्यं लोकरञ्जनम् सदस्यानां मनोविनोदास्पदं सत् कल्पान्तरस्थायि अन्यकल्पपर्यन्तं स्थितिमत् चिरस्थायीत्यर्थः । जायेत भवेद् ! अनेन चिरंतनकीर्तिप्रत्याशया कविभिरत्र प्रयतनीयमिति ध्वनितम् ॥ १९॥ महाकाव्यस्य लक्षणतयोक्तानां केषांचिद्धर्माणां खण्डकाव्येपि सत्वाद् तदतिव्याप्तिवारणाय सर्वेषामपि तेषां समुदितरूपावस्थानत्वेन महाकाव्यलक्षणे ३निवेश: कृतश्चेत कुत्रचित् तेषां न्यूनत्व आपतन्तीमव्याप्तिं परिहरन्नाह-न्यून- मिति। अथ पूर्वोक्तेष्वङ्गेषु कैश्चिदङ्गैर्न्यूनमपि विकलमपि। काव्यम्। महाकाव्यम् न दुष्यति अङ्गहीनत्वेन दूष्यं न भवति। यदि उपात्तेषु यथासामर्थ्य वर्णितेषु ६अङ्गेषु। संपत्ति: शब्दार्थालंकारगुणगारमा रसपरिपोषो वा । तद्विदः साहित्य- शास्त्रकोविदान्। आराधयति प्रमोदयति। यथोक्तं भोजराजेन [५. १३५ ] नावर्णन नगर्यादेर्दोषाय विदुषां मतम् । यदि शैलर्तुरात्र्यादेर्वर्णनेनैव तुष्यति॥ इति ।
शिखरिण्या: पदैच्छिन्नैंः स्वरूपं परिहीयते। मुक्तालनाचा निःसूत्रमुक्तर्मुक्तफलैरिव।। मन्थर।- क्रान्तविश्रब्धेश्र्तुभिः प्रथमाक्षरेः । मध्यषट्केतिचतुरे मन्दाक्रान्ता विराजने ॥ साकारादयक्षरेः 24पादपर्यन्तैः सविसर्गकैः। शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ॥ रिसर्जनीयस्योत्वेन पदैर्निम्नान्नतैरिव। शार्दूलक्रीडितं याति पाठे सायासतामिव ॥ विच्छिन्नपादं पूर्वार्धे द्वितीयार्धे समासवन्। शार्टूलक्रोडितं भाति विपरीतमतोधमम् । आदयन्तयोर्गुणोत्कर्षकान्त्या सर्वाति- 27शायिनो: शा्दूलक्रीडितं धत्ते मध्ये सद्रोरवोन्नतिम्॥ आद्यन्ताकारविरहात् पर्यन्ते चावि- सर्गतः । शार्दूलकीडितं स्वस्य रूपं नवोपलभ्यते॥ आकारगुरुयक्तादिपर्यन्तान्तविसर्गिणी। असंस्यूतविरामा च राजते स्रग्धरा तराम्। आध्यन्ताकार विरहाद्वन्धदोष: सफुटोपि यः। अविलत्तै- 30 विसगान्तिः स्रग्धरायां समीहते ॥ इति। एतेषां उदाहरणप्रत्युदाहरणानि मूल एव द्रष्ट्व्यानि। विस्तरभयान्नात्र निदिश्यन्ते।
Page 41
२४ काव्यादर्शे प्रथम: परिच्छेद:
यद्युपात्तेषु संपचिराराधयति तद्विदः ॥२०॥ गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्। निराकरणमित्येष मार्ग: प्रकृतिसुन्दरः ॥।२१।। वंशवीर्यश्रतादीनि वर्णयित्वा रिपोरपि। अयं भावः नगर्यादिवर्णनं रसपरिपोषाय। स चेत् परिपोषः शैलवर्णनेनैव स्यात तर्हि नगर्यादिवर्णनमकिंचित्करमिति। एतेन वर्णनचमत्कृतिविशेषै रसपरिपोष एव १२काव्यलक्षणमिति फलितम् । नगरादिवर्णन तु केवलं तत्परिचायकम्। खण्ड काव्यमहाकाव्ययोश्चमत्कारो भिन्न इति पूर्वोक्ता नाव्याप्त्यतिव्याप्तिशङ्कापीति ज्ञेयम् ॥ २०॥ काव्यं चतुरोदात्तनायकमिति [१. १५ ] कथितम्। नायकशब्देन तदुच्छेदः प्रतिनायकोप्युपलक्षितः। नायकप्रतिनायकयोरुत्कर्षापकर्षो काव्ये वर्ण- 3नीयौ। तत्र वर्णनप्रकारद्वयं निर्दिशति-गुणत इति । प्राक् प्रथमम् । गुणतः नेता विनीत इत्यादिपूर्वोक्त[ १. १५ ]गुणैः। नायकम् कथाप्रधानपुरुषम्। उपन्यस्य वर्णयित्वा। तेन नायकेन। विद्विषाम् तच्छत्रुभूतोद्धतप्रतिनायकानाम् । ६बहुवचनं नदनुसारिपुरुषानुरोधेन। निराकरणम् समुच्छेदः । इत्येष मार्ग: इयं पद्धतिः । प्रकृतिसुन्दरः स्वभावमनोहरा । तथाहि। काव्यस्य प्रधानोद्देश्यं सदु- पदेशः । स च सत्पुरुषाभ्युदयासपुरुषविनिपातवर्णनेन भवति। तदर्थ तावुभौ यथाक्रमं वर्णनीयौ। यथा रामायणे श्रीरामभद्रगुणवर्णनपुरःसरं दशाननदुर्विनय- वर्णनम्। एतादृशं काव्यं सकललोकानां शुश्रूषणीयम्। श्रुत च तच्छ्रोत्न् सन्मा- र्गप्रवणान् करोति । अतः प्रकृतिसुन्दरोयं मार्ग इति भाव: ॥। २१ ।। वर्णनस्य प्रकारान्तरं दर्शयति-वंशवीर्येति। रिपोः शत्रोः प्रतिनाय- कस्य। वंशः सत्कुलं वीर्य पराक्रमः श्रुतं विद्या एते आदयो येषां ते दाननीत्यु- ३त्साहादयः तान् । वर्णयित्वा काव्ये सम्यक्तया निबध्य। तान् समीचीनतया प्रति- पाधेत्यर्थः । तज्जयात् तादृशोत्कर्षशालिनः प्रतिनायकस्य तत्कर्मकाज्जयाद्। नायकस्योत्कर्षकथनम् विजयवर्णनम्। नः अस्मान् । घिनोति प्रीणाति। यथा ६किरातार्जुनीये दुर्योधननीतिवर्णनपुरःसरं पाण्डवानामुत्कर्षकथनम्। ननु लुब्धो
१ यद्युपात्तार्थसंपत्तिः बपा,
Page 42
गद्े प्राचीनोक्तं द्वैविध्यम् २५
तज्जयान्नायकोत्कर्षकेथनं च धिनोति नः ॥ २२॥ अपाद: पदसन्तानो गद्यमाख्यायिका कथा। इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ॥ २३ ॥ धीरोद्धतः स्तब्धः पापकृद्व्यसनी रिपुः [द. रू. २, ९ ] धीरोद्धतः पापकारी व्यसनी प्रतिनायक: [सा. द. ३. १३०] अन्यायवांस्तदुच्छेद उद्धतः प्रति- नायक इत्यादिना कथितस्य प्रतिनायकलक्षणस्य विरुद्धमेतदिति चेन्न। यदपि सद्गुणवतो धार्मिकस्य प्रतिनायकस्य पराजयेन नायकोत्कर्षासंभवः। प्रत्युत तस्य निन्दनीयत्वापत्तिस्तथापि परपीडादिदोषसामान्याधिकरण्येन केषांचित् कुलीनत्वा- २दिदैवागतगुणानां प्रतिनायके वर्णनं तन्निन्दादाढर्यार्थमेवेति मन्तव्यम्। धिनोति नः इत्यनेनात्र स्वरुचिः प्रदर्शिता। तद्वीजं त्वस्मिन् मार्गे वास्तवस्यानपलापो भवति। तथा प्रतिनायकवर्णनपूर्वकनायकोत्कर्षवर्णनेन कविप्रतिभाचमत्कारः स- १५विशेषं परिस्फुटो भवतीति च ज्ञेयम् ॥ २२ ।। उद्देशक्रमप्राप्तं गद्यं निरूपयति-अपाद इति। पादो गणमात्रानिबद्धो गद्यतुरीयांशः तच्छून्यः अपादः । गणमात्रानिर्बन्धशून्य इत्यर्थः । एतादृशः पद- ३संतान: सुप्तिङन्तपदचयो गद्यम्। अस्य च मुक्तकं वृत्तगन्धि चूर्णकमुत्कलिका- प्रायं चेति चत्वारः प्रभेदाः सन्ति। परं तेषां कथाख्यायिकादावन्तर्भावो भवतीति न तेत्र पृथक्तया दर्शिताः । तेषां लक्षणान्युदाहरणानि च साहित्यदर्पणादौ ६[६. ३३१ ] द्रष्टव्यानि । तस्य गद्यप्रबन्धस्य च पुनः आख्यायिका कथा चेति द्वौ प्रभेदौ स्तः। तत्र प्राचीनमतानुसारेणानयोर्लक्षणमनूद्य तत्र स्वारुचिं प्रकटयति किं हि न स्यात् कृतात्मनाम् [१. ३०] इत्यन्तेन ग्र््न्थसंदर्भेण। किलेति पूर्वा चार्याणां मतभेदप्रदर्शनार्थ स्वासमतिप्रकटनार्थ वा। तत्र प्राचीनमता- नुसारिणा भामहेनानयोर्लक्षणमुक्त यथा- प्रकृतानाकु=्नर श्रव्यशब्दार्थपदवृत्तिना। गद्येन युक्तोदात्तार्था सोच्छासाख्यायिका मता॥ वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम्। वक्त्रं चापरवक्त्रं च काले भाव्यर्थशंसि च।।
१वर्णनं ब, कपा. [काग्यादर्श] ४
Page 43
२६ काव्यादर्शे प्रथम: परिच्छेद:
नायकेनैव वाच्यान्या नायकेनेतरेण वा। स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः॥२४॥ अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्।
१५ कवेरभिप्रायकृतैरैङ्कनैः कैश्विदङ्किता। कन्याहरणसंग्रामविप्रलम्भोदयान्विता ॥ न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि। 1८ संस्कृतं संस्कृता चेष्टा कथापभ्नंशभाक् तथा ॥ अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते। स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः ॥ २१ अनिबन्धं पुनर्गाथाश्लोकमात्रादि तत् पुनः। युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ॥[१. २५-३०] इति। इत्थमेव चानयोर्लक्षणं साहित्यदर्पणकारादिभि: [६. ३३० इत्यादिषु ] स्वम्व- १४पन्थेषु संगृहीतम् ।।२३।। तत्र प्राचीनाचार्यैः कृतं कथाख्यायिकयोमेदमादौ दर्शयति-नायके- नैवेति। तयोः कथाख्यायिकयोर्मध्ये आख्यायिका नायकेनैव स्वमुखेन वाच्या। ३ एवकारोन्ययोगव्यवच्छेदार्थः । अन्या कथा नायकेन इतरेण वा अन्येन केनापि पुरुषेण च वाच्या । अत्र वाशब्दः समुच्चयार्थो न विकल्पार्थः । तथा च कथायां कश्चिदंशो नायकेन स्वमुखेन वाच्यः कश्चिच्चान्येनेति गम्यते। विकल्पार्थकवा- ६ शब्दस्वीकारे तु आख्यायिकायामपि कथालक्षणमतिव्याप्तं स्यात्। एतठ् कथाया उभयवाच्यत्वम् नायकेन तु नोच्यत इत्यादिभामहमतविरुद्धम्।स च स्वयमेव नायकेन निजवृत्तशंसनं आत्मविकत्थनादोषः स्यादिति स्वगुणाविष्कृति कुर्यादभि- जातः कथं जनः इत्यादिप्रबन्धेन निर्दिशति। तद्दोषसगणयन्नाह खवगुणेति।भूतार्थ शंसिन: यथार्थवादिनः नायकस्य स्वगुणाविष्क्रिया निजगुणप्रथनं दोषो न। न दाषाय भवतीत्यर्थः। अयं भावः। असति प्रसङ्गतिशयोक्तिपूर्वकं स्वगुणख्यापनं १३दाषाय न तु सति प्रसङ्गे वास्तवगुणवर्णनम् ॥ २४॥ अत्रार्थे किलशब्दोङ्भावितां स्वासंमति दर्शयति-अपि त्वनियम इति।
१ -नायकादितरण अ. २ -नेह अ.
Page 44
कथाख्यायिकयोरेकजातीयत्वम् २७
अन्यो वक्ता स्वयं वेति कीदग्वा भेदकारणम्॥ २५॥ वक्त्रं चापरवक्त्रं च सोच्छासत्वं च भेदकम्। चिह्ाभाख्यायिकायाश्रेत् प्रसङ्गेन कथास्वपि॥ २६॥ अपि तु किंतु तत्र आख्यायिकात्वेन प्रसिद्वेषु प्रबन्घेष्वन्यैरुदीरणं नायकमिन्नैरपि ३वृत्तकथनं क्चिद्दृश्यते। तस्मान्नायकेनैव वाच्येति नियमस्य व्यमिचरितत्वान्नेदं लक्षणं युक्तमिति भावः। ननु नायकभिन्नेनोदीरणात् तत्र कथात्वमेवास्तु मा भू- दाख्यायिकात्वमिति चेत्। अन्यो वक्ता स्वयं वेति एतावदेव भेदकारणम् कथा- इख्यायिकाभेदकारणम् कीदृक्। सर्वथाकिंचित्करं तद्। स्वरूपगतवैलक्षण्येनैव काव्यस्य भेदो युक्तो न तु वक्तृगतभेदेन। एवंविधाचमत्कृतभेदघटितकाव्यभेद- स्वीकारे काव्यप्रभेदानामानन्त्यापत्तेः। तस्माद्वक्तृभेदेन भेदकरणं प्राचां न युक्त- ९मिति भाव: ॥२५॥
इत्थं वक्तृवैलक्षण्येन काव्यभेदकरणं निरस्येदानीमपरमपि कथाख्यायि- कयोर्भेदकद्वयं निराकरोति- वक्त्रं चेति। वक्त्रलक्षणं वृत्तरत्नाकारे [२. २१ ] यथा-वक्त्ं नाद्यान्नसौ स्यातामब्धेर्योनुष्ठुभि ख्यातम्। इति। तदुदाहरणं च- नवधाराम्बुसंसिक्तं वसुधागन्धिनिःश्वासम्। किंचिदुन्नतघोणाग्रं मही कामयते वक्त्रम् ॥ इति। ६अपरवक्त्रलक्षणं वृत्तरत्नाकरे [२. ९ ] यथा-अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं तजौ जरौ। तदुदाहरणं तु- स्फुटसुमधुरवेणुगीतिभिस्तमपरवक्त्रमवेत्य माधवम्। मृगयुवतिगणैः समं स्थिता व्रजवनिता धृतचित्तविभ्रमाः ॥ इति। एवं वक्त्रापरवक्त्रे वृत्तविशेषौ-। तथा सोच्छासत्वम् उच्छासः प्रबन्धांशव्यवच्छेद- स्येयं संज्ञा तत्सहितत्वं च । भेदकं चिह्नम् । आख्यायिकायाः कथातो भेदसाध- १२ कम् । वक्त्रापरवक्त्रे आख्यायिकास्वेव न कथासु युज्येते तथोक्कासादिपरिगण- नमाख्यायिकापरिच्छेदानामेव न पुनः कथापरिच्छेदानां क्रियत इति चेतु तन्न विचारक्षमम्। तत्र तावद्वक्त्रापरवक्त्रकृतं भेदं दूषयति प्रसङ्गेनेत्यादिना श्लोक- १५तुरीयांशेन उत्तरक्लोकस्य पूर्वार्धान्वयिना ॥ २६ ॥
: -'लक्षणम् ब, कपा.
Page 45
२८ काव्यादर्शे प्रथम: परिच्छेद:
आर्यादिवत् प्रवेशः' किं न वक्त्रापरवक्त्रयोः। भेदश दृष्टो लैभ्भादिरुच्छ्ौसो वास्तु किं ततः ॥२७ ॥ तत् कथाख्यायिकेत्येका जाति: संज्ञाद्वयाङ्किता। आर्यादिवदिति। कथास्व्रपि प्रसङ्गेन आर्यादिवत् वक्त्रापरवक्त्रयोः प्रवेश: कि न स्याद्। अयं भावः । स्मृतस्य अनुपेक्षणं प्रसङ्गः । तेन कदा- 3 चिदार्यानिबन्धने प्रसक्त: कविर्वक्त्रापरवक्त्रस्मरणेन तन्निबन्धनं कुर्याच्चेत् तत् किं कथा दोषास्पदं भवेत् तेन च कथायाः कथात्वं कथ विघटेत। वक्त्रापरवक्त्रशून्यैव भवतीत्येतद्विषये नार्ष प्रमाणं क्वपि विद्यते न च तथा कविपरिपाटिरपि दृश्यते । ६अत एव साहित्यदर्पणे प्रोक्तम् [६. ३३५ ] आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित्। इति। इदानीं सोछासत्वस्य भेदकत्वं दूषयति -- भेदश्चेति। लम्भः कथापरिच्छेदस्येयं संज्ञा। आदिपदेन लम्बकोल्लासतरङ्गादीनां ग्रहणम्। वाशब्दः ९समुच्चयार्थे। लम्भादिः उच्छासश्च कथाख्यायिकयोर्भेदः व्यावर्तको विशेषः दृष्टः इति चेत् अस्तु किं ततः । परिच्छेदसंज्ञामात्रभेदो न काव्यभेदसाधको भवति । अयं भावः । कथायां परि्छेदस्य लम्भ इति संज्ञा विहिता आख्यायिकायामु- १शच्छास इति निश्चितेति चेत् भवतु नाम परिच्छेदानां लम्भोच्छासादिसंज्ञाभेदः । नहि तावता पदार्थमेदो भवति। नहि घटकलशेति संज्ञाद्येन पदार्थभेदो भवति। स्वरूपवैलक्षण्येनैव पदार्थमेदो घटते यथा घटपटयोः। एवं कथाख्यायिकयोरव- ५यवीभूतानां परिच्छेदानां नहि संज्ञामात्रभेदेन स्वरूपभेदः प्रतीयते। तेन च अवयविनो: कथाख्यायिकयोरपि न तावता स्वरूपभेदः वक्तुं पार्यते। केचित्तु श्लोकस्य उत्तरार्धमेवं विवृण्वन्ति-कथायां लम्भादि: लम्भादिसंज्ञकः भेदः कथां- १८ शविभाग: दृष्टः । स विभाग: उच्छाससंज्ञकः वा विकल्पेन कथायामस्तु भवतु नाम। किं ततः तेन का क्षतिः। नहि तावता कथाख्यायिकयोर्भेदो भवितुमर्हति। पदार्थस्याभिन्नत्वादिति । अस्यापि विवरणस्य तात्पर्य पूर्वोक्तमेव ॥२७॥ एवं प्राचीनकृतं कथाख्यायिकालक्षणं दूषायत्वा स्वमत निवेदयति- तदिति। तत् तस्मात् स्वरूपवैलक्षण्याभावात् कथा आख्यायिका इति च एका
१- प्रयोगः अ. २ - लम्बादिर ब. ३ - उच्छासो इत्यत्र अदष्ठा अ.
Page 46
कथाख्यायिकयारेकजातित्वम् २९
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥२८॥ कन्याहरणसंग्रामविप्रलम्भोदयादयः। ३ जाति: गद्यरूपैकधर्मत्वेन एक एव प्रकारः । सा च कथा च आख्यायिका चेति नामद्वयेन घटकलशौ इति वत् अङ्गिता चिहिता वर्तते इति भावः । एवं कथा- ख्यायिकयो: प्रधानं भेदं निरस्य अन्यैरुक्तानन्यानपि भेदान् भेदप्रयोजकधर्ममप- ६श्यन् दूषयति अत्रैवेति । अत्रैव कथाख्यायिकयोरन्यतमायामेव शेषाः उक्तादन्याः आख्यानजातयः पुंप्रधानवर्णनमाखयानं तज्जातयः प्रकाराः अग्निपुराणादिषु (३३७. १२ ) वर्णिताः खण्डकथादयः । अन्तर्भविष्यन्ति अत्रैव तेषां समावेशः ९स्यादिति न ते पृथड्निर्देशमर्हन्ति ॥ २८॥ कन्याहरण संग्रामविप्रलम्भोदयान्विता। (भा० १-२७) एवं प्राचीनैः कन्याहरणादीनि आख्यायिकायां वर्णनीयत्वेन निर्दिष्टानि न तु कथायामिति ३वर्णनीयभेदेन आख्यायिकायाः कथातो भेद इति चेत् तदपि न समञ्जसमिति दर्शयति-कन्याहरणेति। कन्यायाः अजातविवाहसंस्कारायाः पुरुषविशेषे प्रतिपादनाय कृतनिश्चयाया हरणं युद्धादिना हठाद्ग्रहणं राक्षसविवाह इत्यर्थः । ६तदुक्तं भगवता मनुना हत्वा छित्वा च भित्वा च क्रोशन्तीं रुदतीं हठात्। प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ (३. ३३ ) इति। संग्राम: समरकर्म । स त्रिधा समः विषमः समविषम इति। तत्र समः द्वन्द्वयुद्धे चतुरङ्गयुद्े च । द्वन्द्वयुद्धं यथा रामरावणयोः। चतुरङ्गयुद्धं कुरुपाण्डवानाम्। विषमो यथा रामस्य खरदूषणत्रिशिरोभिः सह। समत्रिषमो यथा महेश्वरार्जुनयोः *२ किरातार्जुनीये। रघुमघोनोर्वा रघुवंशे । विप्रलम्भ :- पूर्वानुरागमानात्मप्रवासकरुणात्मकः । विप्रलम्भश्चतुर्धा स्यात् पूर्वपूर्वो ह्ययं गुरुः ॥ (५. १७) इति १५वांग्भटालंकारोक्तः चतुर्विधः । अयं च संभोगस्याप्युपलक्षकः । तदनन्तरं संभोगवर्णनस्यावश्यकत्वात् । उदयः शशिदिवाकरयोरुदयः । अथवा नायकस्यो- त्कर्षः । आदिना पुरपर्वतकाननादिवर्णनं ग्रांह्यम्। एते गुणाः सर्गबन्धसमा १८एव महाकाव्यसदशा एव। अयं भावः । एते गुणाः पद्यप्रबन्धविशेषमहाकाव्य-
Page 47
३० काव्यादर्शे प्रथम: परिच्छेद:
सर्गवन्धसमा एव नैते' वैशेषिका गुणाः॥२९॥ कविभावकृतं चिह्नमन्यत्रापि न दुष्यति। मुखमिष्टार्थसंसिद्धौ१ कि हि न स्यात् कृतात्मनाम्॥ ३ मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः। समाना: किमुत तर्हि गद्यप्रबन्धातर्गतकथासमाना इति । अत एते गुणाः कथातः आख्यायिकायाः अवच्छेदकाः न भवन्तीत्यर्थः ॥२९॥ इदानीं कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्गिता। (भा. १-७) इति कवेरभि- प्रायकृतेन केनचिद्विशेषेण अङ्गनचिह्वेन कथा आख्यायिकातो भिन्ना स्यादिति प्राचां मतमप्यसमञ्जसमित्याह-कविभावेति। कविभावकृतम् कवेर्भावोभिप्रायः तेन कृतं चिहम् यथा शिशुपालवधे सर्गान्त श्लोकेषु श्रीशब्दनिवेशात् तच्छरयङ्कम् किरातार्जुनीये तथैव लक्ष्मीशब्दनिवेशात् तल्लक्ष्म्यङ्कम् । एवमेव विष्णुजयो विष्णवङ्कः सेतुबन्धः ६अनुरागाङ्क: सुमध्वविजय आनन्दाङ्कः इत्यादयूहनीयम् । एतदेव अङ्कनं कथायाः आख्यायिकातो भेदकारणं भवेत् इति चेन्न। तदेतच्चिह्वम् अन्यत्रापि आख्यायिकादौ कृतं चेन्न दुष्यति दुष्ट न भवति। तस्य कवेरभिप्रायाधीनत्वात्। कृतात्मनाम् ९सूरिणाम्। इष्टार्थसंसिद्धौ मङ्गलाद्यभिप्रेतार्थसंपादने। मुखम् उपाय आरम्भो वा। किं न स्यात्। स्वेच्छया किमपि स्यादिति भावः । सुखमितिपाठे सुखदम् अना- यासकरमिति भावः । कवीनां निरङ्कुशत्वेन ते स्वेच्छया अभिलषितं संपादये- १२युरिति रहस्यम् ॥ ३०॥ अथेदानीं क्रमप्राप्तं मिश्रकाव्यं निरूपयति-मिश्राणीति। नाटकादीनि दृश्यकाव्यानि मिश्राणि मिश्रसंज्ञकानि। आदिशब्देन प्रकरणादीनां संग्रहः। तदुक्तं ३दशरूपके -- नाटकं सप्रकरणं भाण: प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यङ्केहामृगा दश ॥(१. ८) इति* ।
२ - न ते, अ. कपा. २ अन्यद्वापि अ. 3 संसिद्ध्य ब.
- एतेषां लक्षणानि नाट्यशासत्रं यथा-प्रख्यातवस्तुविषयं नायकं चैव। राजर्भिवंशचरितं तथा च दिव्याश्रयोपेतम्॥ नानाविरभूतिसंयुतमृद्धिविला- प्रख्यातांदात्त-
Page 48
नाटकादिलक्षणम् ३१
गैद्यपद्यममी कोचिच्चम्पूरित्यभिधीयते ॥ ३१ ॥ ६तषां दृश्यकाव्यानां अन्यत्न नाट्यशास्त्रादौ विस्तरः प्रपञ्चोस्ति। अतस्तत एव तान्यवगन्तव्यानि इति भावः । श्रव्यमिश्राणि कथयति गद्यपद्येति । काचिद्गद्य- पद्यमयी गद्यपद्यप्रचुरा मिश्ररचना चम्पूरिति अभिधीयते कथ्यते। अत्र पद्यप्राचुर्य गद्यसमकक्षतया अपेक्ष्यते। अन्यथा आख्यायिकादावापि किंचित्पधसद्भावेन तस्या अपि मिश्रसंज्ञात्वं प्रसज्येत । काचिदित्युक्त्या सर्वो गद्यपद्यमयः प्रबन्धः चम्पूर्भवितुं नार्ति तादृशप्रबन्धस्य राजस्तुतौ बिरुदसंज्ञात्वात्। तदुक्त-गद्य- १२पद्यमयी राजस्तुतिर्बिरुदमुच्यते। इति। (साहित्यदर्पण ६-२७) अत्र मिश्रा- १ - पद्यगद्यमयी कपा, २ वाणी अ. कपा. ३ -अपि विद्यते कग.
3 सादिभिरगुणैश्वापि। अङ्कप्रवेशकाढयं भवति हि तन्न्राटकं नाम ॥ प्रकरणम्-यत्र कविरात्म- बुध्धा वस्तु शरीरं च नायकं चेतर। औत्पत्तिकं प्रकरुते प्रकरणमिति तद्बुधैज्र्यम्। यदनर्थ- मपाहार्य कार्य कुरुते प्रभूतगुणयुक्तम्। उत्पन्नबीजवस्तु प्रकरणमिति तद्पि विज्ञेयम्। 6यन्नाटके मयोक्तं वस्तु शगरं च वृत्तिमेदाश्र। तत् प्रकरणेपि योज्यं सलक्षणं सवसंिषु तु । विप्रवणिक्सचिवाना पुरोहित मात्यसार्थवाहानाम्। चरितं यत्रैकविधं जेयं तन् प्रकरणं नाम॥ नोदात्तनायककतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं ज्ञेयं तत् प्रकरणं 9नाम ॥ दासविट श्रेष्ठियुनं वेषसयुपचारकारणोपेनम्। मन्दस्त्रीकलचरिनं काव्यं कार्य प्रकरणे तु। भाण :- आत्मानुमतशंसी परसंश्रयवणनाविशेषेमु। द्विविधाश्रयो हि भाणो विज्ञेयस्त्वे- कहार्यश्य ॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तरोत्तरग्रथितेः। आकाशपुरुषकथितरङ्गविकारेर- 12भिनयेश्र्यापि । वर्तवितसंप्रयोज्यो नानावस्थान्तरात्मकश्व। एकाक्को बहुचेष्टः सततं कार्यो बुधर्माणः । प्रहसनम्-प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम्। वक्ष्यामि तयोर्युक्त्या पृथक पृथग्लक्षणविशेषम् ॥ भगवत्तापमविप्रेग्न्येरपि हासवादसबद्म्। कापुरुष- 15 संप्रयुक्त परिहासाभाषणपायम् ॥ अविकृतभाषाचारं विशेषभावोपपन्नरचचितपद्म्। नियतगति- वस्तुविषयं शुद्धं ज्ञेयं प्रहसनं त॥ वेश्या चेटनपुंसकविटधर्ता बन्धकी च यत्र स्युः । अनिभृत- वेषपरिच्छद्चष्टितकरणैस्तु संकीर्णम् ॥ डिम :- प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्वैव। 18षट्त्रिशल्क्षणयुक चतुरङ्को वे डिमः कार्यः ॥ शृङ्गरहास्यवर्ज शेषैरन्यै रसेः समायुक्तः । दीप्रसकाव्ययोनिर्नानाभावोपसंपन्नः । निर्धातोल्कापातैरुररागेणेन्दुसूर्ययार्युक्तः। युद्धनियुद्धा- घर्षणसंफेटरूतश्र कर्तव्यः ॥ मारयेन्द्रजालबहुलो बहुपुरुषोत्थानयुक्तश्। देवभुजगेन्द्रराक्षसयक्ष- 21 पिशाचावकीर्णश्र् । षोडशनायकबहुलः सात्त्वत्त्यारभटिवृत्तिसंपन्नः । कार्यो डिमः प्रयत्नान्ना- नाश्रयभावसंपन्नः ।। व्यायोग :- व्यायोगस्तु विधिज्ञः कार्यः प्रख्यातनायकशरीरः। अल्पस्त्री- जनयुक्तस्त्वंकाहरुतस्तथा चेव ।। बहवश्व तत्र पुरुषा व्यायच्छन्ते यथा समवकारे। न तु 24 तत्पमाणयुक्तः कार्यसतवेकाङ्क एवायम् ॥ न च दिव्यनायकरूतः कार्यो राजर्षिनायकनिबद्गः । यद्नियुद्धाघर्षणसंफेटरूतश्र कर्तव्यः । एवंविधस्त कार्यो व्यायोगो दीक्षकाव्यरसयोनिः॥ ममवकार :- देवासुरबीजकृतः प्रख्यातादात्तनायकश्रैव। अङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्
Page 49
३२ काव्यादर्शे प्रथम: परिच्छेद:
तदेतद्वाखयं भूय: संस्कृतं प्राकृतं तथा। अपभ्रंशश्च मिश्रं चेत्याहुरार्यश्चितुर्विधम् ॥ ३२॥ णीत्येतत् पदं संस्कृतप्राकृतभाषामिश्राणि नाटकादीनि गद्यपद्यिश्राणि चम्पादीनि च मिश्रसंज्ञकानि इति केचिदयोजयन्ति। परं पद्य गदं च मिश्रं च तत् त्रिधैव १५०्यवस्थितम् (१. ११) इति उद्देशवाक्यानुरोधात् तथा प्राकृतविवेचनस्य पूर्व- मकृतत्वाच्च एतद्विवेचनं न ग्रन्थकृदभिप्रायानुकूलम्। तदभिप्रायस्तु प्रथमवर्णित एवेति सुधीभिर्विचार्यम् ॥३१॥
एवं गद्यपद्यमिश्रत्वेन सारस्वतस्य त्रैविध्यमभिधाय पुनरपि भाषाभेदेन तस्य चातुर्विध्यं कथयति-तदेतदिति। तदेतत् प्रक्रान्तं वाङ्मयम् काव्य- ३सारस्वतम् । भूय: पुनरपि। संस्कृतम् संस्कृतभाषामयम्। तथा प्राकृतम् अपम्रंशः मिश्रम् संस्कृतादिविविधभाषासनाथं च। इति चतुर्विधम् चतुष्प्रकारम्। आर्या: काव्यशास्रनदीष्णाः । आहुः । यथाह भोजराजः सरखतीकण्ठाभरणे संस्कृतेनैव कोप्यर्थः प्राकृतेनैव चापरः । शक्यो योजयितु कश्विदपभ्रंशेन वा पुनः ॥ पैशाच्या शौरसेन्या च मागध्यान्यो निबध्यते। द्वित्राभि: कोपि भाषाभि: सर्वाभिरपि कक्षन ॥ (२.१०११) इत्यादि ॥ ३२ ॥
१ - आप्ताः कपा
27 त्रिश्रुङ्गगरः ॥ द्वाद्शनायकबहलो हष्टाद्शनाडिकापमणश्॥ चीथी-मर्वरसलक्षणाढ्या युक्ता हङ्गस्तथा त्रयोदश भेः। वीथी स्यादेकाङ्का तथेकहार्या द्विहार्या वा ॥ अङ्कः-वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्य। प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदािदेव स्यात्॥ दिव्यपुरुषै- 30 ववियुक्तः शेषैरन्यैभवेत् पुम्भिः। करुणर सपायकतो निवृत्तयुद्धोद्धतप्रहारश्र ॥ स्त्रीप रिदेविनबहुली निर्वेदितभाषितैश्रैव। नानाव्याकुलचेष्टः सात्वत्यारमटिकैशिकीहीनः ॥ कार्यः काव्यविधिज्ञेः सततं हु सृष्टिकाक्कस्तु ॥ इंहामृग :- दिव्यपुरुषाश्रयरतो दिव्यस्त्र कारणांपयनयुद्गः। सुविहित- 33 वस्तुनिबद्धो विप्रत्यय कारकश्रेव ।। उद्धतपुरुषप्रायः स्त्रीरोषग्रथेतकाव्यबन्धश्र। संक्षोभविद्रवरुतः संफेटरुतम्तथा चैव ।। स्त्री भेदनापहरणावमर्दनप्राप्तवस्तुशरृङ्गरः। ईहामृगस्तु कार्यश्र्नुरक्कबिभू- षितश्र्वैव । यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्यैव। ईह्ामृगेषि तत् स्यात् केवलमत्र 36स्िया योगः ।। (१८-१०६ ) इति। एतेषामुदाहरणानि नाव्यशास्त्रादिभ्योवगम्नव्यानि।
Page 50
वाड्यस्य भाषाकृतं चातुर्विध्यम् ३३
संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः। तैद्द्वस्तत्समो देशीत्यनेकः प्राकृतक्रमः ॥३३॥ महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विद्ठुः । भाषायाः संस्कृतादिविभागान् विशिनष्टि- संस्कृतमिति। दैवी देव- व्यवहार्या। महर्षिभिः यास्कपाणिन्यादिभिः । अन्वाख्याता प्रकृतिप्रत्ययादिभि- व्र्याख्याता। संस्कृतं नाम संस्कृतनाम्ना व्यवहता अस्तींति भावः । नामेति प्रसिद्धौ। व्याख्यातेत्यत्र उद्देश्यानुरोधेन स्त्रीत्वम्। प्राकृतं कथयति- तन्भ्व इति। प्राकृताः ग्राम्याः तैर्व्यवहृतम् तत्संबन्धात् प्राकृतम्। अवयवार्थबलादेव लक्षण- ६लाभः। प्रकृतेः संस्कृतादुत्पन्नं प्राकृतमिति कचित्। तस्य क्रमः अभ्यर्हितत्वा- नुरूपेणानुक्रमः विस्तारो वा। तद्भवः तत्समः देशी इति अनेकः बहुविधः। तद्धवो नाम संस्कृतोद्भवः । यथा हत्त कण्ण इत्यादिः। तत्समः संस्कृतसमः । यथा ९कीर: गौः इत्यादिः। देशी तत्तदेशरूढः। यथा चरि्सिस्सी (काञ्चनं ) दोग्घट (गजः) इत्यादिः । अन्ये तु संस्कृतोद्धवा महाराष्ट्रीभाषा तत्समा शौरसेन्या- दयो भाषाः अपराश्च तत्तदेशेषु विलसिताः देशीपदाभिधेयाः इति व्याख्यानं १ कुर्वन्ति। केचित् पुनः सर्वासामपि प्राकृतभाषाणां संस्कृतोद्भवत्वेन तद्धवत्वं क्रियाकारकादिविभागत्वेन संस्कृतसादृश्यात् तत्समत्वं महाराष्ट्रादितत्तददेशव्यव- हृतत्वाच्च देशीत्वमपि वर्तते इति कथयन्ति। परं नैतदाचार्यदण्डिनो मतम्। १५तेन तु तङ्भवतत्समदेशीतिविभागेन एकस्यामेव महाराष्ट्रयादिभाषायां त्रैविध्यं दर्शि- तम् । अत एव अनेकः प्राकृतक्रम इत्युपपननं भवति ॥ ३३ ॥
प्राकृतभाषासु उत्कृष्टापकृष्टत्वं वर्णयति-महाराष्ट्रेति। महाराष्ट्र नाम दक्षिणापथवर्ती देशविशेषः। लक्षणया तद्वर्तिनो जना ग्राह्याः। ते आश्रया आधारा ३यस्याः ताम् । तैः प्रथमं व्यवहृतामित्यर्थः । भाषां महाराष्ट्रीभाषाम् । प्रकृष्टं उत्तमम्। प्राकृतं विदुः विद्वांसो जानन्ति। सूक्तयः चमत्कारपरिपूर्णानि वचांसि तान्येव रत्नानि अनर्घमणयः तेषाम् । सागरः सागरखरूपः। सेतुबन्धः तन्नामकः ६प्रवरसेनकवेर्ग्रन्थविशेषः स आदिर्यस्मिन् तत्। सत्तसईइत्यादिकं काव्यमिति शेषः।
१ मनीषिभि: कपा, २ नद्भवं तत्समं. अ. [काव्यादर्श] ५
Page 51
३४ काव्यादर्शे प्रथम: परिच्छेद:
सागर: सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥३४॥ शौरसेनी च गौंडी च लाटी चान्या च तादृशी। याति प्राकृतमित्येवं व्यवहारेषु संनिधिम्ँ॥३५॥ यन्मयम् महाराष्ट्रीभाषामयम्। महाराष्ट्रीभाषया कविप्रवरा मनोहरान् प्रबन्धान् रच- यामासुरिति भावः । तथा च मनोरमग्रन्थसंपत्त्या अस्याः प्रकृष्टत्वं ज्ञेयम् ॥३४॥
अन्या अपि प्राकृतभाषा दर्शयति-शौरसेनीति। शूरसेनो मथुरा संनिहितो देशः। तदुक्तं भागवते -
३ शूरसेनो यदुपतिर्मथुरामावसन् पुरीम्। माथुराजशरसेनांश् विषयान् बुभुजे पुरा । इति । (१०.१.२७) गौडीम् गौडो वङ्गदेशसमीपवर्ती देशविशेषः । तदुक्तं शब्दकल्पद्रमे-
६ वङ्गदेशं समारभ्य भुवनेशान्तकं शिवे। गौडदेशः समाख्यातः सर्वविद्याविशारदः ॥ इति। लाट: कर्णाटकसमीपस्थो देशविशेषः। तथा च कथासरित्सागरे शशाङ्कवतलिम्बके-
९ ददौ तस्मै सपुत्राय प्रीत्या वीरवराय च। लाटदेशे ततो राज्यं स कर्णाटयुतो नृपः ॥ इति। (११.११९) एतद्देशत्रयव्यवहतपूर्वा भाषाः। तथा तादृशी तद्वत् तत्तदेशनाम्नोपलक्षिना अन्या २मागधी अवन्तिजा प्राच्या वा। तदुक्तं नाट्यशास्त्रे- मागध्यवन्तिजा प्राच्या शूरसेनार्धमागधी। बाह्लीका दाक्षिणात्या च सप्त भाषा: प्रकीर्तिताः ॥ इति। (१७.४८) १५एताः सर्वा अपि भाषाः प्राकृतमित्येव प्राकृतमिति नाम्नैव। व्यवहारेषु नाट्यशास्त्र- साहित्यशास्त्रव्यवहारेषु। संनिधिं याति सांनिध्यं प्राप्तुवन्ति। कविभि: प्राकृतमित्येव व्यवहि्यन्ते। देशनामोपलक्षिताः सर्वा भाषाः सामान्यतः प्राकृतसंज्ञयोच्यन्ते १८इति भाव: ॥३५॥
१ लाटी च गौडी च. कपा. २. इस्येव. क. -अ1 ३. संनिधि: अ.
Page 52
भाषानुसारेण पद्यप्रबन्धानां व्यवस्था ३५
आभीरादिगिर: काव्येष्वपभ्रंश इति स्सृताः। शास्त्रेपु संस्कृतादन्यदपश्रंशतयोदितम्॥३६॥ संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत्।
देशनाम्नोपलक्षितानां प्राकृतत्वमभिधायेदानीं जातिनामोपलक्षितानामप- भ्रंशत्वेन व्यवहारः इति निर्दिशति-आभीरेति। आमीराः गोपाः ते आदयो येषु ते शबरशकचाण्डाला: तेषां गिरः भाषाः आभीरीशाबरीचाण्डालीप्रभृतयः । काव्येषु काव्यनाटकादिषु। अपभ्रंश इति स्मृताः अपभ्रंशशब्देन ता व्यवहताः सन्तीति भावः । काव्यस्येत्यस्य व्यावर्त्य दर्शयति-शास्त्रेषु इति। शास्त्रेषु शब्द- ६शास्त्रादिषु। संस्कृतादन्यत् भिन्नम् सर्वो भाषाप्रपञ्चः। अपभ्रंशतया अपभ्रंशत्वेन। उदितम् उक्तः । शास्त्रे संस्कृतापत्रंशौ इत्येव द्वौ प्रभेदौ। सर्व संस्कृतभिन्नमप- भ्रंशशब्देनैव तत्र निर्दिष्टमिति भावः । यथा-ब्राह्मणेन न म्लेच्छितवै नापभा- षितवै। म्लेच्छो ह वा यदेष अपशब्दः। म्लेच्छा मा भूम इन्यध्येयं व्याकरणम्। (पातञ्जलमहाभाष्यम् १-१-१)॥ ३६॥
एवं भाषाविभागं दर्शयित्वा तत्तद्भाषानियमेन पद्यप्रबन्धानां लक्षणानि निरूपयति-संस्कृतमिति। सर्गबन्धादि महाकाव्यादिकम् आदिशब्देन खण्ड- 3काव्यानां संग्रहः । संस्कृतम् संस्कृतभाषामयमेव भवतीति भावः । तथा चोक्तम- ग्निपुराणे - सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत्। त्गवं न विशेत तत्र तत्समं नापि किंचन । इति।(३३७. २४) यथा रामायणादि । स्कन्धकादि स्कन्धकः छन्दोविशेषः तेन रचितं काव्य- मपि स्कन्धकम् । तत्तु प्राकृतम् प्राकृतेनैव प्रणेतव्यमित्यर्थः । अत्र आदिशब्देन १गलितकादिच्छन्दसां संग्रहः । तदुक्तं टीकान्तरे-छन्दसा स्कन्धकेनतद् कचि- द्गलितकैरपि। इति। अस्योदाहरणं सेतुबन्धादि। एतदुपरूपकान्तर्गतसद्टकस्यापि
१. अन्यडू इत्यत्र काव्ये. अ. २. भ्रंश इतीरिता :. अ. ९. स्कन्धकादिकम्. ब.
Page 53
३६ काव्यादर्शे प्रथम: परिच्छेद:
ओसरादिरपभ्नंशो नाटकादि तु मिश्रकम् ॥३७॥ उपलक्षणम्। तस्य प्राकृतमयत्वात्। तदुक्त दर्पणे-सट्टकं प्राकृताशेषपाठ्यं १२ स्यादप्रवेशकमिति। (६.२७६) ओसरः छन्दोविशेष एव तद्ग्रथित काव्यं अपभ्रंशमयमेव कर्तव्यम्। अस्मिन् काव्ये परिच्छेदस्य कडवकसंज्ञा। तदुक्तं टीकान्तरे-
१५ अपभ्रंशनिबन्धेस्मिन् सर्गा: कडवकाभिधाः । तथापभ्रंशयोग्यानि च्छन्दांसि विविधानि च ।। इति। एतदुदाहरणं कर्णपराक्रमादि इति प्रेमचन्द्रशर्माणः । नाटकादि तु मिश्रकम् १वनानाभाषाभिर्मिश्रितं भवति। अत्र तुशब्दः एवार्थे। तेन संस्कृतभाषया विविध- प्राकृतभाषामिश्रया नाटकं विधेयमिति भावः । अत्र आदिशब्देन प्रकरणादिदश- रूपकाणां नाटिकादषादशोपरूपकाणां च संग्रहः । तत्र नाटकादिरूपकाणां २१लक्षणानि पूर्वमुक्तानि । इदानीमुपरूपकप्रभेदान् दर्शयामः । तथा हि दर्पणे- नाटिका त्रोटकं गोष्टी सट्टकं नाटथरासकम्। प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा॥ २४ संलापकं श्रीगदितं शिल्पिकं च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भणिकति च। अष्टादश प्राहुरुपरूपकाणि मनीषिणः। इति। (६.४ इत्यादय:) २७एषां लक्षणानि उदाहरणानि च दशरूपकसाहित्यदर्पणादिभ्योवगन्तव्यानि। विस्तरभयात् तानि नात्र कथ्यन्ते। नाटकादिरूपकेषु पात्रविशेषेण भाषानियम: दर्पणे यथा
30 पुरुषाणामनीचानां संस्कृतं स्यात् कृतात्मनाम्। शौरसेनी च प्रोक्तव्या तादशीना च योषिताम्।। आसामेव तु गाथासु महाराष्ट्रीं प्रयोजयेत्। ३३ अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम्। चेटानां राजपुत्राणां श्रेष्ठिनां चार्धमागधी। प्राच्या विदूषकादीनां धूर्तानां स्यादवन्तिका॥
१. औरसादीनि. अ, आसारादीनि. ब, ओसरादीनि. कपा.
Page 54
भाषानुसारेण गद्यादिकानाँ व्यवस्था ३७
कर्था हि सर्वभाषाभि: संस्कृतेन च वैध्यते। भूतभाषामयीं प्राडुर्द्ुतार्थां बृहत्कथाम्॥३८।। लास्यच्छलितशम्पादि® प्रेक्षार्थम्
३६ योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम्। शबराणां शकादीनां शाबरीं संप्रयोजयेत्।। इत्यादि: ॥३७॥(६.१५८)
कथाख्ये गद्यप्रबन्धे भाषाविचारं निर्दिशति-कथा हीति। कथा पूर्वोक्तलक्षणा सर्वभाषाभिः निखिलप्राकृतभाषाभिः निबध्यते। हिशब्दस्त्वर्थे। चशब्दः समुचायकः । तथैव च संस्कृतेन संस्कृतभाषयापि निबध्यते। तेन कथायाः प्रकारद्वयं यया कयापि प्राकृतभाषया रचिता संस्कृतभाषया वा निबद्धा। संस्कृतभाषानिबद्धायाः कथाया उदाहरणं कादम्बर्यादि। प्राकृतभाषया ६रचितां कथां दर्शयति भूतभाषेति। भूतभाषामयीम् पैशाचीभाषानिबद्धाम्। बृह- त्कथां। प्राहुः कथयन्ति। तां प्रशंसति- अद्भतार्थामिति। बृहत्कथाया अनुवादाः बृहत्कथामञ्जराकिथासरित्सागरादयः सन्तीति प्रथितमेव ॥ ३८॥
दृश्यश्रव्यभेदेन प्रबन्धद्वैविध्यमाह-लास्येति। स्त्रीजनकृतं शङ्गाररस- प्रधानं नृत्यं लास्यम्। तदाह स्वटीकायां प्रेमचन्द्र :-
३ लास: स्त्रीपुंसयोर्भावस्तदह तत्र साधु वा। लास्यं मनसिजोल्लासकरं मृद्दङ्गहाववत्॥ देव्यै देवोपदिष्टत्वात् प्रायः स्त्रीभिः प्रयुज्यते। इति। ६ अन्यात्रापि- कोमलं मधुरं लास्यं शङ्गाररससंयुतम्। गौरीतोषकरं चापि स्त्रीनृत्यं तु तदुच्यते ॥ इति। ९हृदयंगमाख्याटीकायामपि-लास्यं शङ्गारभूयिष्ठ नृत्यमीश्वरभाषितम्। इति। तथैव
१. कथातु. अ. कथापि. ब. २. पठ्यते. अ. 3. शम्यादि. अ, क; शल्यादि. ब; साम्यादि. बपा. .प्रेक्ष्यार्थ. बपा, डपा.
Page 55
३८ काव्यादर्शे प्रथम: परिच्छेद:
नारदसंहितायाम्-पुंनृत्यं ताण्डवं प्राद्ठः स्त्रीनृत्यं लास्यमुच्यते। इति। छलितं पुंनृत्यम्। तदाह प्रेमचन्द्रः-पुंनृत्यं छलतं प्राहुरिति। केचित्तु छलिकमितिपाठमनु- १२सृत्य-छलिकं छद्मना वृत्तं सूरयस्तद्विदो विदुः । (ह० टीका) इति तल्लक्षणं निवेदयन्ति। शम्पा पूर्वरङ्गान्तर्गतः वाद्यप्रयोगविशेषः । तदुक्तं नाट्यशास्त्रे शम्पा तु द्विकला कार्या तालो द्विकल एव च। १५ पुनश्चैककला शम्पा संनिपातः कलात्रयम् ॥ इति। (५. ६२) शल्येतिपाठे शल्या-भाले हस्तं समावश्य नृत्यं शल्येति कीर्तितम्। इति टीका- न्तरे कृतलक्षणा। शम्येतिपाठे शम्येति सव्ययोः पातः सतालकरपादयोः । V
उभयो: करयोः पातः संनिपात इति स्मृतः ॥ इति टीकान्तरे। साम्येतिपाठे साम्यं गीतवाद्यसमयनृत्यं अन्यै रासकनाम्ना पठितम्। आदि- २१ शब्देन ताण्डवहल्लीसकरासानां ग्रहणम्। उक्तं च तल्लास्यं ताण्डवं चेति च्छलितं सम्पया सह। हल्लसिकं च रासं च षट्प्रकारं प्रचक्षते ॥ इति। (स० कण्ठा० २. १५५) ताण्डवं उद्धतपुंनृत्यम्। यदुक्तं प्रेमचन्द्रेण- वीररौद्ररसाधारमद्भुतं शंकरप्रियम्। २७ पुरुषेण समारब्धं नृत्यं ताण्डवमुच्यते।। अन्यच्च उद्धतं तु महेशस्य शासनाद् तण्डुनोदितम्। भरताय ततः ख्यातं लोके ताण्डवसंज्ञया॥ इति। हल्लीशं मण्डलाकारेण स्त्रीसमूहनृत्यम्। यथा मण्डलेन तु यत् स्त्रीणां नृत्यं हल्लीसकं तु तद्।
३३ तत्र नेता भवेदेको गोपस्त्रीणां यथा हरि: ॥ इति। (स० कण्ठा० २.१५६ ) हल्लीसमेव तालबन्धविशेषयुक्तं रासकमिति प्रेमचन्द्रशर्माणः । प्रेक्षार्थम्- प्रेक्षणमेव
Page 56
प्रबन्धानां दृश्यश्रव्यविभाग: ३९
इतरत् पुनः। अ्रव्यमेवेति सैषोषि दयी गतिरुदाहता॥ ३९ ॥ अस्त्यनेको गिरां मार्ग:
३३प्रयोजनं यस्य तथाविधम्। प्रेक्ष्यमित्यर्थः । प्रेक्ष्यार्थमितिपाठं स्वीकृत्य प्रेक्ष्यः सामाजिकैर्द्श्यः अर्थः नटैः रामाद्यवस्थानुकरणेन प्रकाशमानं काव्यप्रतिपादं यस्य तत् इति केचिद् विवृण्वन्ति। परं अग्रेस्थितश्रव्यपदानुरोधात् प्रेक्षार्थमित्येव पाठः ३६समीचीनः । श्रव्यं कथयति-इतरदिति। सर्गबन्धाधिकं श्रव्यम् श्रवणमात्र- लक्षणम्। उक्तं च भोजराजेन सरस्वतीकण्ठाभरणे श्रव्यं तत् काव्यमाहुर्यन्नेक्ष्यते नाभिनीयते। ३९ श्रोत्रयोरेव सुखदं भवेत् तदापे षड्विधम्।। इति। (२. १५२) नेक्ष्यते नाभिनीयते इत्यनेन नाटकादीनां न श्रव्यत्वप्रसक्तिः । इति एवम् एषापि दयी गतिः द्विप्रकारका पद्धतिः प्राचीनैः कथिता। अपिशब्दः पूर्वभेदसमुच्चयार्थः। ४२केचित्तु श्लोकमिमं नाटकाख्यस्य मिश्रप्रबन्धस्यैव दृश्यश्रव्येति द्विप्रकारताख्यापन- परत्वेन योजयन्ति। यद्यपि मिश्रप्रबन्घस्य वर्णनमत्रावसरप्राप्तमेव वर्तते तथापि व्याख्यानेस्मिन् निखिलवाङ्मयस्य दृश्यश्रव्यात्मकत्वेन प्राचीनैरुपवर्णितस्य द्वैवि- ५ध्यस्य परिव्यागः संकोचो वा स्वीकार्यो भवतीति सुधीभिर्विमर्शनीयम्॥३९॥
इत्थं सम्रपञ्चं सप्रभेदं च काव्यशरीरं विवृत्य ततस्तत्संपादकगुणविशेषान् निरूपयस्तदाश्रयभूतां वाचां विचित्रमार्गाणाम् (१. ९) इत्युल्लिखितां रीति 3निरूपयति-अस्तीति। गिराम् वाचाम्। परस्परं सूक्ष्मभेदः प्रणिधानगम्यो भेद्र: यस्य एवं मार्ग: रचनाप्रकारः । अनेकः बहुविधः। अस्ति। तथा च वामनः- रीतिरात्माकाव्यस्य। विशिष्टपदरचना रीतिः। सा च त्रिधा। वैदर्भी गौडी पाञ्चाली ६चेति। (१.२.६-७) विश्वनाथः रीतीनां चातुर्विध्यमाह। तथा हि- पदसंघटना रीतिः अङ्गसंस्थाविशेषवद्। उपकर्त्री रसादीनां सा पुनः स्याच्चतुर्विधा।। वैदर्भी चाथ गौडी च पाश्चाली लाटिका तथा।
- आव्यम्. अ. ३. संयषा.
Page 57
४० काव्यादर्शे प्रथम: परिच्छेद:
सूक्ष्मभेद: परस्परम्। माधुर्यव्यञ्जकैवर्णै रचना ललितात्मिका ॥ अल्पवृत्तिरवृत्तिर्वा वैदर्भीरीतिरिष्यते।
१२ ओज: प्रकाशकैवर्णैर्वन्ध आडम्बरः पुनः ॥ समासबहुला गौडी वर्णैः शेषैः पुनर्दये। समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ .
१५ लाटी तु रीतिर्वैदर्भीपाञ्चाल्योरन्तरे स्थिता। इति । [९.१-५] सरस्वतीकण्ठाभरणे रीतीनां षोढात्वं कथितम्। यथा- वैदर्भी साथ पाञ्चाली गौडीयावन्तिका तथा। १८ लाटीया मागधी चेति षोढा रीतिर्निगद्यते॥ इति ।[२.२९] तत्र आवन्तिकामागध्योर्लक्षणम् - अन्तराले तु पाञ्चालीवैदर्भ्योर्यावतिष्ठते। २१ सावन्तिका समस्तैः स्याद्द्वित्रैस्त्रिचतुरैः पदैः। पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी। इति। (२.३२, आसामुदाहरणानि तत्रैव प्रदर्शितानि। तत्र वैदर्भ्या उदाहरणम्-
२४ मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः । पाञ्चाली यथा-
२७ गात्राभिघातदलिताङ्गदजर्जराणां गण्डस्थलीलुलितकुण्डलताडितानाम्। क्षोभस्फुटन्मुकुटकोटिविघट्टितानां ३० नादोभवज्झणझणामुखरो मणीनाम्।। गौडीया यथा-
33
स्फूर्जत्संदोहसंदेहितविकटशिखामण्डलीरत्नखण्ड़ः ॥
Page 58
वैदर्भगौडीयौ मार्गों ४१
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ॥४० ॥ श्लेषः प्रसाद: समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोज:कान्तिसमाधयः ॥४१॥
३६ आवन्तिका यथा- एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः । ३९ एते च वर्त्मतरवः प्रथयन्ति ताप- मालम्बितोज्झितपरिग्लपितैः प्रवालैः ॥ लाटीया यथा- अयमुदयति मुद्राभञ्जनः पम्मिनीना- मुदयगिरिवनाली बाल मन्दारपुष्पम्। विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥ ४५ मागधी यथा- करिकवलनशिष्टैः शाखिशाखाग्रपत्रै- ४८ ररुणसरणयोमी सर्वतो भीषयन्ते। चलितशबर सेनादत्तगोशङ्गचण्ड- ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ५१ एतासु वैदर्भीगौडीये एव प्रस्फुटान्तरे। अन्यास्तु मिश्रिताः। तत्र पाञ्चाली वैदर्भी- गौड्यो: अन्तरालवर्तिनी। लाटी समस्तरीतिव्यामिश्रा। मागधी तु खण्डरीतिरेव। अतः किंचिद्वेदवतीनां तासां निर्वचनं न विशेषोपयुक्तमिति तद्विहाय प्रकृष्टभेदेन ५*वैदर्भीगौडीये रीती एव विशिनष्मि इत्याह -तत्रेति। तत्र विविधमार्गेषु वैदर्भगौडीयौ मार्गो प्रस्फुटान्तरौ सुकुमारविकटात्मकत्वेन अत्यन्तविसदशौ। वर्ण्येते लक्षणादिना विविच्येते। भेदभूयस्त्वात् तेषां विवेचनं युक्तमिति भावः ॥ ४० ॥
वैदर्भगौडीयौ वर्ण्येते इति सप्रतिज्ञानुराधेन क्रमेण तल्लक्षणं विधत्ते- श्लेष इति। श्रेषः अस्मिन्नेव परिच्छेदे ४३ श्लोकेन लक्षितः । प्रसाद: अत्रैव [काव्यादर्श ] ६
Page 59
४२ काव्यादर्शे ग्रथम: परिच्छेद
इति वैदर्भमार्गस्य प्राणा दश गुणा: स्मृताः। ३ ४५ ल्लोकेन वर्णितः । समता ४७ श्लोकेन विवेचिता। माधुर्यम् ५१ श्लोकेन निरूपितम्। सुकुमारता ६९ ल्लोकेन विशदीकृता। अर्थव्यक्ति: ७३ श्रोकेन व्यक्तीकृता। उदारत्वम् ७६ ्लोकेन स्पष्टीकृतम्। ओजः ८० श्लोकेन विव- ६रितम्। कान्तिः ८५ श्लोकेन अभिहिता। समाधि: ९३ श्लोकेन प्रदर्शिता । एवं दशगुणा उद्दिष्टा इति ज्ञेयम् ।। ४१ ॥
इतीति। इति पूर्व निर्दिष्टाः श्रेषादिसमाध्यन्ताः दश गुणा वैदर्भमार्गस्य प्राणाः प्राणवत् स्थितिहेतवः । स्मृताः भरतादिभि: कथिताः इत्यर्थः । तथा च 3भरत :- श्लेषः प्रसादः समता समाधिर्माधुर्यमोजः पदसौकुमार्यम्। अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यार्थगुणा दशैते॥ इति।
६ (२. ९२) अनेन दशसंख्याकगुणस्वीकारे नाट्यसूत्रकारस्य आनुकूल्यं प्रदर्शितम्। तेन च माधुर्यौजःप्रसादाख्यास्यस्ते न पुनर्दश इति अर्वाचीनानां (का० प्र० ८.६८) उद्घोष: प्रमाणविरुद्ध इति ज्ञेयम्। इत्थं च श्लेषादिगुणवती पदरचना वैदर्भी रीतिः इति लक्षणं निष्पन्नम्। भोजराज आह - तत्रासमासा निःशेष्लेषादिगुणगुम्फिता।
१२ विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ इति। (२. २९) नव्यास्तु रसधर्मानेव गुणान् मन्वानास्ते गुणाश्च माधुर्यौजःप्रसादाख्याः त्रय एव सन्तीति मन्यन्ते। शब्दार्थमात्रवृत्तीनां श्रेषादीनां च पृथग्गुणत्वं नाङ्गीकुर्वन्ति। १५ तांश्र उक्तगुणत्रयेन्तर्भावयन्ति। तदुक्तं प्रकाशे- ये रसस्याद्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितिहेतवः ॥
१८ माधुयौज:प्रसादाख्यास्रयस्ते न पुनर्दश ॥ इति । (८. ६६) परमेतत् सर्व भरतवचनविरुद्धत्वाच्चिन्त्यम्। एते गुणाः उपरिनिदिर्टेषु कस्मिन् गुणे तैरन्तर्भावितास्तत् तत्तद्गुणनिरूपणप्रसङ्गे दर्शयामः। एवं वैदभीं निरूप्य
Page 60
वैदर्भमार्गस्य दश गुणाः ४३
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ॥ ४२॥
२१गौडीं दर्शयति-एषामिति। गौडवर्त्मनि गौडमार्गे एषां गुणानां विपर्ययः व्यत्यासः । स च कुत्रचिदत्यन्ताभावरूपः कुत्रचिदंशतः संबन्धरूपश्चः प्रायः दृश्यते। प्रायः इत्यनेन क्वचिदुभयोः साम्यमपि अस्तीति सूच्यते। यथा ग्रम्य- २४त्वानेयत्वादिविषये उभयोरैकमत्यम्-एवमादि न शंसन्ति मार्गयोरुभयोरपि (१.६७) नेदृशं बहु मन्यन्ते मार्गयोरुभयोरपि (१. ७५) इत्यादिनोपवर्णितम्। अत एव असमस्तगुणा गौडी इति कैश्चित् प्रतिपादितम्। इत्थं च प्रायः वैदर्भी- २७ विरुद्धगुणवती पदरचना गौडी इति लक्षणं निष्पन्नम्। तादृशविरुद्धधर्मत्वं च दीर्घसमासपरुषाक्षरप्राचुर्यौद्धत्यरचनाविशेषशालित्वम् । तथा च भोजराजः समस्तात्युद्भटपदामोज:कान्तिगुणान्विताम्। गौडीयेति विजानन्ति रीति रीतिविचक्षणाः ॥ इति। (२.३१) पुरुषोत्तमोपि- बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया।
३३ रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च ।। इति। एषु गुणेषु श्लेषः समता सुकुमारता ओजः इति चत्वारः शब्दगुणाः । प्रसादः अर्थव्यक्तिः उदारता कान्तिः समाधिः एते पञ्च अर्थगुणाः । माधुर्य तु शब्दगुणः ३ ६ अर्थगुणश्चेति ग्रन्थकर्तुर्मतम्। वामनादयस्तु शब्दगुणा अर्थगुणाश्च प्रत्येकं दश संख्याकाः सन्तीति स्वीकुर्वन्ति। तत्तल्वक्षणानि विधाय च उदाहरणान्यपि दर्श- यन्ति । विस्तारभयान्नात्र सर्वो विषयः संग्रहीतुं शक्यते। स तु वामनादिग्रन्थेषु ३१द्रष्टव्यः ॥ ४२ ॥ . तत्रोद्देशक्रमातुरोधेन प्रथमं श्रलेषं लक्षयति-श्िष्टमिति। अस्पृष्टशैथिल्यम् अस्पृष्टं असंबद्ध शैथिल्यं असंयुक्ताल्पप्राणाक्षरबाहुल्येन शिथिलमिव भासमानत्वं यस्मिस्तत्। तच्च अन्तरान्तरा निवेशितैः महाप्राणाक्षरैः संयुक्तवर्णैश्च भवति। शैथि- 3 ल्यार्थविबोधाय तल्लक्षयति-अल्पप्राणाक्षरोत्तरमिति। अल्पः प्राणः उच्चारण-
१. लक्ष्यते. कपा. . २, अस्पष्ट इति रसगङ्गाधरे। (पृ. ५६)-
Page 61
४४ काव्यादर्शे प्रथम: परिच्छेद:
शिथिलं मालतीमाला लोलालिकलिला यथा॥४३॥ अनुप्रासधिया गौडैस्वदिष्ट बन्धगौरवात्। वैदर्भैरमालतीदाम लङ्गितं भ्रमरैरिति॥४४॥ प्रयत्नो येषामिति अल्पप्राणाः असंयुक्ताक्षराणि वर्गाणां प्रथमतृतीयपञ्चमा: यरलवाश्र ६ते उत्तरा: प्रधाना बहुला वा यत्र तत् शिथिलम्। एतदेव उदाहरणेन विशदयति- मालतीति। लोला: सौरभाहरणाय लोलुपाः अलयः भ्रमराः तैः कलिला व्याप्ता। मालतीमाला मालतीस्रक्। विलसतीति शेपः । अत्र असयुक्ताल्पप्राणवर्णबाहुल्या- ९च्छैथिल्यम् ।।४३।। एवंविशिष्टं शैथिल्यं वैदभैनाद्रियते चेत् केपां तत्स्वीकरणेभिनिवेशोस्तीति कथयति-अनुप्रासेति। गौडैः पौरसत्यैः । अनुप्रासः वर्णावृत्तिरनुप्रासः इत्य- ३चिरादेव लक्षिष्यमाणो वर्णानुप्रासः तस्मिन् या धीः अनुरागबुद्धिस्तया। अथवा अनुप्रासस्य या धी: रचनाबुद्धिः तया। तत् शिथिलम् मालतीमालेतिवत् शिथिलं काव्यम्। इष्टम् ईप्सितम् । सर्वथा अनुप्रासप्रिया गौडा इति भावः । ६अस्पृष्टशैथिल्यात्मकं प्रकृतं श्लेषोदाहरणं दर्शयति-मालतीदामेति। भ्रमरैः मालतीदाम लद्वितम् व्याप्तम् इति ईदशमेव श्रेषोदाहरणम् वैदर्भः बन्धगौरवात् बन्धस्य रच्यमानकाव्यस्य गौरवं निबिडत्वम् तस्मात्। अनुमतमिति भावः। अत्र संयुक्तमहाप्राणवर्णसद्भावात् शैथिल्यं नास्ति। ततश्रास्पृष्टशैथिल्यत्वादिदं श्लेषा- दाहरणं ज्ञेयम्। अपरमिदमुदाहरणम्- प्रेक्षामृदङ्ग निनदानुपकर्ण्य तूर्ण-
१२ मम्भोदनादरभसा ननृते मयूरैः। यन्मन्दिरे सरलकण्ठमकुण्ठकूज- मुन्मण्डलीकृतशिखण्डमकाण्ड एव ॥। इति। १५ अत्र कैश्चित् शिथिलशब्दस्य पुरतः अपिशब्दमध्याहृत्य अल्पप्राणाक्षरोत्तरं अतः शिथिलमपि अस्पृष्टशैथिल्यं रचनाविशेषेणास्फुटशैथिल्यं यत् तत् क्विंष्टम्। उदाहरणं च मालतीमालेति एवं व्याख्याय अयं श्लेषगुणः अनुप्रासधिया गौडा- १ नामपीष्ट इत्युपपाद्य अनन्तरं अनुप्रासरहितोपि वैदर्भसंमतः श्लेषो भवति तस्यो- दाहूरणं मालतीदामेति एवं व्याख्यायि। ततश्च वैदर्भगौडानामत्र ऐकमत्यमेवेति
Page 62
श्लेषः तद्विपर्यश्च ४५
प्रत्यपादि। परं तन्न् रुचिरम् । अपिशब्दस्याध्याहारस्तथा अस्पृष्टशब्द स्याप्रका- २'शितत्यर्थकरणं च क्विष्ट भवति। अतस्तद्व्याख्यानं न ग्रन्थकृदभिप्रेतमिति सुधीभिर्विचार्यम् ॥ अस्य गुणस्य निरूपणे साहित्यशास्त्रविदुषां विविधाः प्रकाराः सन्ति ताँल्ेशतो दर्शयामः । तत्र तावत् स्वभावस्पष्टं विचारगहनं वचः श्लेषः २४इति भरतः। उक्तं च तेन षोडशेध्याये- विचारगहनं यत् स्यात् स्फुटं चैव स्वभावतः । स्वतः सुप्रतिबद्धं च श्लिष्टं तत परिकीर्तितम् ॥ (१६. ९४) इति। २·अस्योदाहरणम् -- क्षणं स्थिताः पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः। वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नामिं प्रथमोदबिन्दवः ॥ इति। . अयं अभिधानाभिधेयपद्धतिविशेषा नायं संदर्भरचनाविशेष : इति अंतुष्टा रचनाविशेषमेव श्लेषगुणं मन्वते वामनीयाः । तदाह वामनः -- मसृणत्वं श्लेषः । (३.१.१०)- मसृणत्वं नाम यस्मिन् सति बहूनि पदानि एकवद्भासन्ते। ३३एतदेवोपसंहारकारिकायां स विशदयति- यत्रैकपदवद्धावः पदानां भूयसामपि। अनालक्षितसन्धीनां स श्लेषः परमो गुणः ॥ इति। ३६ एतदुदाहरणम्- अस्त्युत्तरस्यां दिशि देवतात्मा इत्यादिकम्। गुणः सुश्लिष्टपदता ल्लेष इत्यभिधीयते। इति भोज: (१. ६६ ) उदाहरति च उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम्। ३९ तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ इति। अत्र भिन्नानामापि पदानामेकपद्ताप्रतिभासहेतुत्वेन संदर्भस्य सुश्लिष्टत्वात् श्रेषो नाम गुण इति। प्रकाशकृदाह-बहूनामपि पदानामेकपदवत् भासनात्मा श्रेष *इति। (८. ७२ वृत्ति) गौडास्तु शिथिलमेव श्लेषत्वेनाद्रियन्ते यथा लीलाविला सवनिताललितालकलासकाः। विलुप्तमालतीमाला जलकालानिला ववुः ॥ इति। (भोज: १.३१) *५कविर्जगन्नाथो ब्रूते-शब्दानां भिन्नानामपि एकत्वप्रतिभानप्रयोजकः संहितयैक- जातीयवर्णविन्यासविशोषे गाढ़त्वपरपर्यायः श्लेषः । यथा-अनवरतविद्वद्द्गुम-
Page 63
४६ काव्यादर्शे प्रथम: परिच्छेद:
प्रसादवत् प्रसिद्धार्थमिन्दोरिन्दीवरद्युति। लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वच: ॥४५॥ द्रोहिदारिद्यमाद्यद्द्विपोद्दामदपौघ विद्रावणप्रौढपञ्चानन: इति। (५६ पत्रे) अयं 6श्लेषः ओजस्येवान्तर्भवतीति प्रकाशकारादयः अर्वाचीनाः मन्वते। तदुक्तं दर्पणे- श्लेष: समाधिरौदार्य प्रसाद इति ये पुनः । गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥ इति ।(८. ९-१०) ५१परमेतन्मतं पूर्वोक्तभरतवचनविरुद्धत्वादुपेक्ष्यमेव। इम श्लेषं संविधाने सुसूत्रता (१. ७८) इति लक्षणं विधाय भोज: अर्थगुणत्वेनापि स्वीकरोति। किंतु न स तथा वैशिष्टयावह इत्युपेक्षितोस्माभिः ॥४४ ॥ इदानीं क्रमप्राप्तं प्रसादं लक्षयति-प्रसादवदिति। प्रसिद्धार्थम् झटिति अर्थावबोधकम् । अत एव प्रतीतिसुभगम् प्रतीतिरर्थावगमः तत्र सुभगम् अनायास- ३करम्। वच: वाक्यम्। प्रसादवत् प्रसादगुणयुक्तम्। एवं च प्रसिद्धार्थपद- प्रयोगेणार्थप्रतीतौ चेतःसंतोषापादको गुणः प्रसादः इति लक्षणं निष्पन्नम्। उदाहरणमाह-इन्दोरिति। इन्दोश्चन्द्रस्य इन्दीवरं कमलं तद्वद्द्युतिर्यस्य तत् ६श्यामलम्। लक्ष्म कलङ्ग:। लक्ष्मीमू शोभाम्। तनोति विस्तारयति। अत्र इन्द्विन्दविरलक्ष्मादयः शब्दाः चन्द्रकमलचिह्वादिप्रसिद्धार्थेषु प्रयुक्ताः श्रुतिमात्रेणैव अर्थावबोधकाः सन्तीति एतद्वाक्यं प्रसादगुणवदिति बोध्यम्। अयं च प्रसाद: ९अर्थवैमल्यरूपार्थगुणः ओजोमिश्रितशैथिल्यरूपः शब्दगुणोपि वर्तते। स तु अग्रे स्फुटीभविष्यति। अत्रान्ये साहित्यनर्दा्णा एवं वदन्ति। तथा च भरत :- अथानुक्तो बुधैर्यत्र शब्दादर्थ: प्रतीयते। ,१२ सुखशब्दार्थसंयोगात् प्रसाद: परिकीर्त्यते ॥ (१६.९५) इति एतदुदाहरणम्- यस्याहुरतिगम्भीरजलदप्रतिमं गलम्। १५ स वः करोतु निःसङ्गमुदयं प्रति मङ्गलम् ॥ इति। वामनस्तु शैथिल्यं प्रसाद: इत्याह। इदं शैथिल्यं च ओजसा समिश्रं तेन प्रसादगुणत्वेन स्वीकृतम्- ऋथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते (३.१.६)
Page 64
प्रसादगुण: ४७
इत्यादिः। इति। ननु विरुद्धधर्मयोः क्रथौजसोः कथमेकत्रावस्थानमिति चेत्- करुणप्रेक्षणीयेषु संप्रवः सुखदुःखयोः । २१ यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥ इति। बहुविस्तारेण च तेन निरूपितं ल्लथौजसोर्मिश्रत्वम् । तत तद्ग्रन्थतोवबोद्धव्यम्। स तु प्रसादोदाहरणं वदति यथा- २ब कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ॥ (३.१.९) इत्यादि। भोजराज आह- २७ प्रसिद्धार्थपदत्वं यत् स प्रसादो निगद्यते। (१.६६) इति। उदाहरति च गाहन्तां महिषा इत्यादि। काव्यप्रकाशकारोपि- श्रुतिमात्रेण शब्दात् तु येनार्थप्रत्ययो भवेत्। ३0 साधारणः समग्राणां स प्रसादो गुणो मतः ॥ (८.७६) इति। उदाहरति च- परिम्लानं पीनस्तनजघनसङ्गादुभयत- 33 स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं ल्लथभुजलताक्षेपवलनैः कृशाङ्गया: संतापं वदति बिसनीपत्रशयनम् ॥। इति। ३ ६ वाग्भटोपि झटित्यर्थापकत्वं यत् प्रसक्तिः सोच्यते बुधैः (३.९)। इति लक्षणं कृत्वा कल्पद्रुम इवाभाति वाञ्छितार्थप्रदो जिनः। इति उदाजहार। काव्यानुशासन- कारो वाग्भटोपि झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः ३९(३१ पत्रे ) इति लक्षणं विधाय उदाहरति- पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः ।
४२ लतावधूभ्यस्तरवोष्यवापु- र्विनम्रशाखाभुजबन्धनानि ॥ इति। दर्पणकार :-
४५ चित्तं व्यामोति यत् क्षिप्रं शुष्केन्धनमिवानलः । स प्रसाद: समस्तेषु रसेषु रचनासु च।। (८.७.८)
Page 65
४८ काव्यादर्शे प्रथम: पारच्छेद:
व्युत्पन्नमिति गौडीयैर्नातिरूढमपीष्यते।
इति व्याख्यायोदाहरति -- सूचीमुखेन सकृदेव कृतत्रणस्त्वं मुक्ताकलाप लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तवर्मा ५१ स्वमेपि तां कथमहं न विलोकयामि ॥ इति। जगन्नाथस्तु गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः इति प्रसादं लक्षयित्वोदाहरति ५४ किं ब्रूमस्तव वीरतां वयममी यस्मिन् धराखण्डल- क्रीडाकुण्डलितभ्रुषोणनयने दोर्मण्डलं पश्यति।
५७ र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ इति। (५६ पत्रे) प्रागुपवार्णितः प्रसादाख्यो गुणः शब्दगुणः । अर्थगुणाप्ययम् अर्थवैमल्यलक्षणः कैश्रिदभ्युपगतः । यथाह भोजः -यत् तु प्राकट्यमर्थस्य प्रसादः सोभिधीयते। ६० इति। (१. ७९) उदाहरति च- अयमुदयति मुद्राभञ्जनः पद्मिनीना- मुदयागीरिव नालीबालमन्दारपुष्पम्। ६३ कुपितकपिकपोलक्रोडताम्रस्तमांसि॥ अत्र पग्मिनीविकासकरणे उदयशैलावतरणे कोकशोकहरणे तमोविदारणे चानु- ६६ क्तोपि सूर्यलक्षणोर्थ: प्रकटमुपलक्ष्यते। इति ॥ ४५ ॥ गौडास्तु अस्मिन् प्रसादे नात्यादरं दर्शयन्तीति सोदाहरणं दर्शयति- व्युत्पन्नमिति। गौडीयैः गौडदेशनिवासिभिः। नातिरूढमपि अनतिप्रसिद्धमपि। निहतार्थादिदोषयुतमपीति भावः । व्युत्पन्नम् व्युत्पत्तियुक्तम्। योगार्थघटितमिति हेतोः। इष्यते एतत् प्रसादशून्यमतो न काव्यमिति तैर्न मन्यते अपि तु काव्यत्वे- नाङ्गीक्रियते। तेषां प्रबन्धे गाढबन्धवैचित्र्यस्यैव प्राधान्यादिति भावः। उदाहरति 1 रूढमितीष्यते. अ.
Page 66
प्रसादविपर्ययः ४९
यथानंत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः ॥४६ ॥ समं बन्घेष्वविषमं ते मृदुस्फुटमध्यमाः। बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः॥।४७॥ इयथेति। अर्जुनं धवलं अत्यर्जुनम् अतिधवलं अनत्यर्जुनं नातिधवलं एतादृशं यदव्जन्म अद्भ्यो जन्म यस्य तत् कमलं तस्य सदृक्ष: सदृशः अङ्कः कलङ्ग: यस्य सः। वलक्षगुः वलक्षाः धवलाः गावः किरणानि यस्य सः चन्द्रः । अत्र ९अर्जुनः ब्दः कार्तवीर्यपाण्डवयोः विशेषप्रसिद्धः श्वेतवर्णे न तादृशः इति स निहतार्थदाषदुष्टः । अब्जन्मशब्दश्च कमले अप्रसिद्ध एव। सदक्षशब्दश्च उपमा- गर्भबहुत्रीहिणैव तदर्थबोधनाद् अधिकः इति अधिकपदतादोषदुष्टस्तथा श्रुतिकटु- १२रपि। वलक्षगुशब्दश्च अप्रयुक्तदोषकलङ्कितः । एवंविधबहुदोषकलुषितापि एषा रचना व्युप्तन्नेयमवयवार्थादिना अर्थावबोधिकेयमिति अनुप्रासप्रियाः गौडास्तां काव्यत्वेन स्वीकुर्वन्ति ॥४६ ॥।
क्रमप्राप्तां समतां लक्षयति-समं बन्धेष्विति। बन्धेषु रचनासु। अवि- षमाम् अविभिन्नां यावत्प्रबन्धमेकरूपामिति भावः । एतादृशी संघटना समम् सम- 3ताख्यागुणवत्। एवं च येन प्रकारेण कश्चिदर्थो वर्णयितुमुपक्रम्यते तेनैवोप- संहारः समता इति लक्षणं सिध्यति। एते बन्धाः कतिविधाः सन्तीत्याकाङ्काया- माह-ते मृद्विति। ते बन्धाः मृदुः कोमलः स्फुटः विकटः मध्यमः अनुभयात्मकः ६एवंरूपास्त्रिविधाः सन्ति। बन्धानां मृदुत्वादिकस्य कि प्रयोजकमित्याह-बन्धा इति। मृदुवर्णा: टवर्गरहिताः शिरसि निजपश्चमाक्रान्ता वर्ग्याः हस्वान्तरितौ रणौ च। तदुक्तमन्निपुराणे-
९ मधुरायाश्च वर्गान्तादधो वर्ग्या रणौ सवनौ। ह्ृस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ॥ इति। (३४३. ३) प्रकाशकारोपि-मूर्धि वर्गान्त्यगाः स्पर्शाः अटवर्गा रणौ लघू इति।(८.७३) १२ स्फुटा: विकटवर्णा: टवगीयाः प्रथमतृतीयसंयुक्तौ द्वितीयचतुर्थौ येनकेनापि रेफ- संयोगश्। उक्तं चाग्निपुराणे-
१ अनभ्यजुन. क. २- बन्धे. क. [काव्यादर्श ]
Page 67
५० काव्यादर्शे प्रथमः परिच्छेद:
अकारवर्ज्यमावृत्तिः स्वराणामतिभूयसी। १५ अनुस्वारविसगौं च पारुष्याय निरन्तरौ॥ शषसा रेफसंयुक्ताश्वाकाराश्चापि भूयसा। अन्तस्था भिन्नमाभ्यां च हः पारुष्याय संयुतः॥ इति।(३४१.७-८) १८प्रकाशेपि-योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः । टादिः शषौ इत्यादि। (८. ७५) उन्मिश्राः उभयजातीयवर्णमिश्राः । एतेषां विन्यासो निवेशो योनिः कारणं येषां ते तथा। एतादशाः बन्धाः मृदुस्फुटमध्यमाः भवन्ति । अत्र हि २१वर्णशब्दः असमासमध्यमसमासदीर्घसमासादीनामुपलक्षकः। तदुक्तं अवृर्तिमध्य- वृर्तिर्वा वृत्तिदैर्ध्य इति। अन्यत्रापि। असमस्तैकसमस्ता युक्ता दशभिर्गुणैश्व वैदर्भी।
२४ वर्गद्वितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया।। बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौडीया। रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च।। २ ७प्रतापरुद्रटीकायामपि-(६३ पत्रे) टवर्गवर्जिताः स्पर्श्याः स्वस्ववर्ग्यान्तशेखराः । लघुरेफणकारौ च कोमला: परिकीर्तिताः ॥।
३० रेफेण यस्य कस्यापि योग आद्यतृतीययोः । स्वोत्तराभ्यां तुल्ययोर्वा परुषाक्षरकौ शषौ ॥ इति। तत्न मृदुप्रबन्धोदाहरणम्-
३३ कङ्कणाङ्गभुजा भान्ति जितानङ्ग तवाङ्गनाः | इति। दारुणरणे रणन्तं करिदारणकारणं कृपाणं ते। ३६ रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥ इति च । एतद्विरुद्धं यथा- अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम्। कम्बुकण्ट्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर।। इति। स्फुटप्रबन्धोदाहरणं यथा-
Page 68
समतागुण: ५१
कोकिलालापवाचालो मामैति मलयानिलः। क्षुद्र: कोयं तपस्वी क्षणवदनवनच्छेदनिष्यूतमज्ज- कयाजाज्यस्फारधाराहुतिहुतहुतभुक्पच्यमानः कपालैः। जातास्थिस्फोटभीतिप्रविघटित वलद्वामपार्श्वप्रवेश- क्राम्यत्सव्येतरार्धाकुलितहरहठाकृष्टखङ्गो दशास्यः ॥ इति। ४५ अन्यच्न- दोर्दण्डाश्चित चन्द्रशेखरधनुर्दण्डावभङ्गोद्यत- ष्टङ्कारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः । ४८ द्राक्पर्यस्तकपालसंपुटमिलदब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डित चण्डिमा कथमहो नाद्यापि विश्राम्यति॥ इति। इयमेव गौडीरीतिः मिश्रवर्णयुता पाञ्चाली। तदुक्तं दर्पणे-वर्णैः शेषैः पुनर्द्योः। ५१समस्तपञ्चषपदो बन्धः पाञ्चालिका मता। इति। (९. ४) उदाहरति च-
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥ इति। ५·अन्यत्रापि- ललितमङ्गमपाङ्गविलोकितं स्मितसुधालवपल्लविताघरः। इति मनो जयतः प्रमदाजनं मनसिजस्य जयन्ति शिलीमुखाः॥इति। ५७इत्थं च वर्णानां समासानां च त्रैविध्येन प्रबन्धत्रैविध्यं मृदुस्फुटमध्यमाभिधम्।तत्र येन यत् काव्यमारब्धं तेनैव परिसमाप्तिः समम्। सोयं समताख्यो गुणः ग्रन्थकृता शब्दगुणत्वेन वर्णितः। अन्यैस्तु अर्थगुणत्वेनापि स्वीक्रियते। लक्ष्यते ६०च-प्रकरान्तप्रत्ययाविपर्यांसेन अर्थस्य विसंवादिताविरह: इति। तदुदाहरणं च- उदेति सविता ताम्रस्ताम्र एवास्तमेति च । इति प्रेमचन्द्रशर्माणः । परमयं प्रकरमभङ्गाख्यदोषाभावरूपः एवेति ज्ञेयम्। वामनस्तु-प्रक्रमाभेदरूपमवैषम्यं ६३समता इति अर्थसमतां लक्षयति। (३. २. ५) तथैव च भोज: - अवैषम्यं क्रमवतां समत्वमिति कीर्तितम् । इति (१. ७०)।। ४७।।
त्रिविधसमताया उदाहरणत्रयं दर्शयति सार्धश्लोकेन-कोकिलेति। कोकिलाया आलापो मञ्जुलध्वनिस्तेन वाचाल: सशब्दो मलयानिलो मलयवायुः मामेति
Page 69
५२ काव्यादर्शे प्रथम: परिच्छेद:
उच्छलेच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः।। १८।। चन्दनप्रणयोद्रन्धिर्मन्दो मलयमारुतः । ३ मामागच्छति शीतलयतीत्यर्थः । अत्र मृदुबन्धेन प्रारब्धस्य संदर्भस्य तगव समा- पनान्मृदुबन्धयुता समता । स्फुटबन्धमुदाहरति-उच्छलदिति। उच्छलन्तः उत्सर्पन्तः शीकरास्तुषारा यत्र तथा अच्छाच्छमतिनिर्मलं यन्निर्झराम्भः निझरोदकं ६ तस्य कणास्तैरुक्षितः सिक्तः । अतिशीतल इत्यर्थः । अत्रापि मलयानिलो मामेति इत्यनुषज्यते। अत्र स्फुटबन्धनैव उपक्रमोपसंहारौ इति स्फुटबन्धगना समता। अन्यत्रापि - आहतं कुचतटेन नरुण्याः साधु सोढममुनेति पपान। त्रुव्यनः प्रियतमोरसि हागत् पुष्पवृष्टिरित्र मौक्तिकवृष्टिः ॥ (हेमचन्द्र १९७ पत्र) १२इति उदाहृतम् ॥।४८ ॥।
मध्यमसमतां दर्शयति-चन्दनेति । चन्दनस्य चन्दनवनस्य प्रणयः संसर्गस्तेनोद्रन्धिः उत्कृष्टगन्धवान् । मन्दः मृदुः। मलयमारुतः मामेति इति योजनीयम्। उदाहरणान्तरं यथा- ईदृशस्य भवतः कथमेतल्लाघवं मुद्दुरतीव रतेषु। क्षितमायतमदर्शयदुव्या का्चिदाम जघनस्य महत्वम् ॥इति। ६ (हेम० १९७ सत्रे) एषु बन्धेषु मृदुस्फुटौ न वैदर्भाभिमतौ। तौ हि अनुप्रासप्रियानां गोडानामेव इष्टौ। केवलस्फुट प्रबन्धे सौकुमार्य नास्ति मृदुप्रबन्धे च शैथिल्यदोपो भत्रति । तदुक्तमग्रे बन्धशैथिल्यदोषो हि दर्शितः सर्वकोमले इति। (१. ६९ ) अतो नैवैतौ वैदर्भाभिमतौ। मध्यमस्तु मृदुस्फुटमिश्रतया वैदर्भप्रियो भवति ॥ केचित्तु कोकिलालापेति समतायाः प्रत्युदाहरणं मन्यन्ते। परं तन्न विचारास्पदम्। उदाह- १२ रणमन्तरा प्रत्युदारणस्यैव केवलस्य कथनं ग्रन्थकृद्रीतिविरुद्धम्। उदाहरणप्रदर्शना- भावेन च न्यूनतापत्तिः । एवं समतां प्रदर्श्य गौडानामत्रानादरः इति सोदाहरणं
- उच्चरत्, कपा. R मसवो०, अ,
Page 70
समताविपर्ययः ५३
स्पर्धते रुद्दमद्धैर्यो वररामामुखानिलैः॥४९॥ इत्यनालोच्य वैषम्यमर्थालंकारडम्बरौ। अवेक्षमाणा वैवृधे पौरस्त्या काव्यपद्धतिः॥५०॥
कथयति-स्पर्धत इति। रुद्धमद्धैर्यः रुद्धं स्तम्भितं मम धैर्य धृतिर्येन सः। एतादृशो १५मलयमारुतः । रामाणां पभमिनीलक्षणयुतानां कामिनीनां। मुखानामाननानाम- निलैर्निःश्वासैः। साकं स्पर्धते तत्तुल्यो मृदुसुरभिश्च वर्तते इति भावः ॥। ४९ ॥ इतीति। इति पूर्वोदाहरणदार्शेत वैषम्यमनालोच्य । तत्र हि स्पर्धते रुद्धमद्धैर्यः इत्यत्र स्फुटः वररामाननानिलै: इत्यत्र च मृदुः इति उभयो: स्फुटमृदु- ३नोः वैषम्यं विषमतामनालोच्य अवगणय्य। केवलमर्थाः अत्युक्तिरूपाः अलंकाराः वर्णानुप्रासप्रधाना: तेषां डम्बरौ उत्कर्षो। प्रतियोगिद्वित्वात् द्विवचनम्। अवेक्षमाणा तत्र बद्धादरा इति भावः । पौरस्त्या गौडीया। काव्यपद्धतिः पद्यरचनासरणिः । १ ववृधे वितस्तार । अयमाशयः । गौडाः केवलमनुप्रासाकुलधियः पूर्वोदाह्ृतपदे यथा मृदुस्फुटरचना विषमगुणा दृश्यते तथाविधरचनायां वद्धादराः सन्तः समता- मनालोच्य तं विषमप्रबन्धं काव्यत्वेन स्वीकुर्वन्ति। वैदर्भास्तु वर्णानुप्रासं काव्य- स्यासाधारणं लक्षणं न मन्वते यतस्ते व्याकुलीभवन्तमर्थ नापेक्षन्ते। अर्थानुरोधेन रचनाक्रमानुरोधेन च युक्तमनुप्रासमङ्गीकुर्वन्ति। न केवलं शैथिल्ये न वा विकटे न वा विषमे प्रबन्धे ते रुचिं बन्नन्ति । तेषां परुषकोमलवर्णमिश्रः प्रबन्धः १२मनोहरो भवति। इति गौडवैदर्भयोः काव्यप्रबन्धे विशेषोस्ति ॥ अत्र प्रेमचन्द्र- शर्मभिरेवं व्याख्यायि। गौडानामयमाशयः । अर्थानुसारिणो हि बन्धा। अर्थाश्च मृदुविकटमध्यमात्मकाः । तत्र यदि प्रथमं मृदुरर्थः अवसाने च विकटः तदा १५ मृदुबन्धेनोपकरान्तमपि विकटब्न्धेन समापनीयम्। बन्धनामर्थानुगतत्वनियमात्। अतः एवंविधस्थले समतापरित्यागो गुण एव। यथा
मातङ्गा: किमु वल्गितैः किमफलैराडम्बरर्जम्बुकाः सारङ्गा: महिषा मदं वजत कि शून्येषु शूरा न के।
१ रामानना०. क. २० डम्बरम्. क. . अवेक्ष्य°. अ, अपेक्षमाणा. ब, कपा, इपा. ४ वद्टते, अ, बपा, क,
Page 71
५४ काव्यादर्शे प्रथम: परिच्छेद:
कोपाटोपसमुद्गटोत्कट शटाकोटेरिभारे: शनैः सिधुध्वानिनि हुंकृते स्फुरति यत् तद्गर्जितं गर्जितम् ॥
२१ (का० प्र० ७, ५९)
इत्यादौ उत्तरार्धे कुपितसिंहरूपार्थस्य उद्धतत्वात् सुकुमारतात्यागो गुण एव इति। परं नैतद्ग्रन्थकर्तुराशयानुकूलम्। स्पर्धते रुद्धमद्वैर्यो वररामाननानिलैः। इत्यत्र २४एकस्मिन्नेव वाक्यार्थे समतायाः परित्यागस्य कवेरभिप्रेतत्वात्। अथ तत्रापि अवा- न्तरार्थभेदप्रकल्पनेन स्पर्धते रुद्दमद्वैर्यः इत्यत्र शृङ्गारिणोपि वक्तु: धैर्यरोधेन वायुं प्रति कुपितत्वात कुपितवाक्यस्य च औद्धत्योचितत्वाद्युज्यते विकटबन्धः। वररामा- २ननानिलै: इत्यत्र तु कोपाभावात् शुङ्गाराङ्गस्य वररामापदवाच्यनायिकार्थस्य मृद्- त्वाच्च युक्तो मृदुबन्धः । इति समतात्यागो गुण एवेति चेतु तदपि न क्षोदक्षमम्। यतः एवं कल्पितेपि वरमाननानिलै: इत्यस्मिन् मधुरार्थबोधके वाक्ये स्पर्धते १०इति विकटप्रयोगस्यानुचितत्वात्। तस्मान्नायं कवेरभिप्रायः। केवलं गौडानां दण्ड्याचार्यकटाक्षितदोषप्रमार्जनप्रयत्न एव। अर्थानुरोधेन समतात्यागस्य वैदर्भा- णामपि इष्टत्वात्। तदर्थ च अर्थालंकारडम्बरौ इत्यत्र अर्थशब्द: वक्त्राद्युपलक्षकः। १३तेन वक्त्राद्योचित्यवशादपि बन्धवैषम्यं युज्यते। यथा-
संचूर्णितोरुयुगुलस्य सुयोधनस्य। ९६ स्त्यानावनद्घन शोणित शोणपाणि- रुत्तसयिष्यति कचांस्तव देवि भीमः ॥ इति। अत्र प्रथमचरणत्रये विकटप्रबन्धः । चतुर्थे तु द्रौपदानायिकारूपसुकुमारार्थमुददिस्य ३९तत्र शब्दाडम्बरत्यागः वैदर्भानुमत एव। अपरं च वैदर्भाणामस्पृष्टशौथिल्यस्यापोक्षे- तत्वाद्। तेन च मधुरविकटप्रबन्धस्यैव तेषामिष्ठत्वान्नैवंविधमिश्रप्रबन्धे तेषामसूया- वसरः । अनुप्रासप्रवणानामगणितान्यसमतादिगुणानां गौडानामेवानुप्रासशून्ये २काव्ये असूयायाः संभवात्। एवं स्थिते यत् प्रेमचन्द्रशर्मभिः प्रतिपादितं वैद- र्भात गुणपक्षपातितया विसददंशार्थकेपि संदर्मे उपक्रान्तबन्धत्यागो दोष एवेति
Page 72
समताविपर्ययः ५५
मन्यन्ते इति तत् तेषां गौडपक्षपातनिवेशेनैव कथनमिति सुधीमिर्विचार्यम्। r५केचित्तु अर्थालंकारा उपमादयः डम्बरो विकटवर्णता च तौ अपेक्षमाणा इति विवृण्वते। परमार्थलंकारविषये गौडवैदर्भयोः समानरागत्वान्न तदेव विशिष्य गौडानां काव्यस्य लक्षणं भवेत्।। इदानी समताविषये साहित्यकोविदानामन्येषां *eलक्षणोदाहरणानि दर्शयामः। परस्परविभूषणो गुणालंकारग्रामः समम् इति भरतः । तदुक्तम्- नातिचूर्णपदैर्युक्ता न च व्यर्थाभिधायिभिः। न दुर्बोधा तैश्च कृता समत्वात् समता मता ॥ (१६.९६) इति। अस्योदाहरणम्- स्मरनवनदीपूरेणोढा मुहुर्गरुसेतुमि- ५४ र्यदपि विधृता दुःखं तिष्ठन्क्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रस प्रियाः ॥ इति। ५७्मार्गाभेद: समता इति वामनः (३. १. ९१ ) उदाहरति च अस्त्युत्तरस्याम् इति। यन्मृदुप्रस्फुटोन्मिश्रवर्णबन्धविधिं प्रति । अवैषम्येन भणनं समता साभिधीयते। ६० इति भोजराज: (१. ६७) अस्योदाहरणं च- यच्चन्द्रकोटिकर कोरकभारभाजि
६३ बभ्राम ब्नुणि जटापटले हरस्य। तद्वः पुनातु हिमशैलशिलानिकुञ्ज- झङ्कारडम्बरविरावि सुरापगाम्भः ॥ इति। ६& अविषमबन्धत्वं समता इति वाग्भट ( कव्यनुशासन , ३० पत्रे ) । तदुदा- हरणं च- मसृणचरणपातं गम्यतां भू: सदर्भा
Page 73
५६ काव्यादर्शे प्रथम: परिच्छेद:
मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः ।
६९ विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च ।। इति। ७२ जगनाथस्तु (५९ पत्रे) प्रक्रमभङ्गेन अर्थघटनात्मकमवैषम्यं समता इति समतां संलक्ष्य- हरिः पिता हरिर्मांता हरि्भ्राता हरिः सुहृत्। ७५ हरिं सर्वत्र पश्यामि हरेरन्यन्न भाति मे ॥। इत्युदाजहार। मम्मटस्तु समतां क्वचिद्दोषरूपां मन्यते। यथा मातङ्गा इत्यादौ (पूर्वस्मिन् ५६ पत्रे)। कचिच्च गुणस्वरूपाम्। गुणस्वरूपायाः अस्याः प्रबन्धा- नुरूपेण माधुर्यौजःप्रसादेषु यथायथमन्तर्भावः । दर्पणकारोपि प्रकाशकारमेवानु- सरति। तेनोक्तं यथा- क्वचिद्दोषस्तु समता मार्गभेदस्वरूपिणी। अन्यथोक्तगुणेष्वस्या अन्तःपातो यथायथम्। (८. १३) इति। हेमचन्द्राचार्योंपि समता न सर्वत्र गुणरूपा इति कविसंप्रदायानुमत्या निवेध समतोज्झितं काव्यमुदाहरति। यथा- 6४ अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षे हता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद। नो चेल्लक्ष्मणमुक्तमार्गणगणाच्छादोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि। (१९७पत्रे) इति। एवमन्यत्रापीति ज्ञेयम् ॥ ५० ॥ माधुर्य लक्षयति-मधुरमिति। रसवत्-सरसं वाक्यं मधुरम् माधुर्य- गुणवद्। ननु अनेन लक्षणेन माधुर्यमेव रसः इति पर्यायेण प्रतिपादितं भवति। ३ माधुर्य च गुणः। गुणानां हि साक्षादथवा शब्दार्थनिष्ठतया परंपरया रसोपकारक- त्वं सवैंः प्राचीनार्वाचीनैः साहित्यशास्त्रप्रवीणैरङ्गीकृतं वर्तते। न केनापि तस्य रसात्मकत्वमङ्गकृतमत आह-वाचि इति। वाचि वाक्यघटकततद्वूर्णसमास- ६निबद्धरीत्यादिषु। तथा वस्तुनि प्रतिपाद्यतत्तदर्थविशेषेषु च। अर्थाश्वात्र
Page 74
माधुर्यगुण: ५७
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥५१॥
तत्तद्रसीयविभावानुभावादयो ग्राह्याः। एषां रसव्यश्चकत्वमुक्तं प्रकाश -व्यक्तः स तैर्विभावाधैः स्थायिभावो रसः स्मृतः (४. २८) इति। रस :- शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सा्गुतसंज्ञाश्च शान्तोपि नवमो रसः ।। इत्येतेष्वन्यतमः । तथा रसनधर्मसंबन्धित्वात् भावतदाभासादयश्च रसशब्देन · २ग्राह्याः । तेषां स्थितिः व्यञ्जकतया संबन्धः रसस्थितिः । तेन च वाक्यस्य रसव्यञ्जकवर्णविशिष्टरचनात्वं रसव्यञ्जकार्थविशिष्टत्त्वं वा माधुर्यम् इति लक्षणं सिद्धम् । तत्र शृङ्गारकरुणशान्तानामसमासा अल्पसमासा वा मृदुवर्णा १५ वैदर्भी रीतिर्व्यञ्जिका। वीरबीभत्सरौद्राणां दीर्धसमासा विकटवर्णबहु च गौडीया रीतिः प्रकाशिका । हास्याद्भुतभयानकानां च मध्यमवर्णा मध्यमसमासा च पाञ्चाली रीतिः उद्वोधिका। तदुक्तं प्रकाशटीकायाम्- वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे भयानकाद्डुतयोः। लाटीं गौडीं रौद्रे कुर्याद्यथायथैवोचितं सुकविः ॥ इति। (५८७ पत्रे) सोयं रसः किंस्वरूपः तत् कथयति-येनेति। धीमन्तः सहृदयाः कुशलबुद्धयो ११वा। येन वस्तुना माधन्ति आनन्दातिशयेन हृष्टा भवन्ति स रसः । अस्य हर्षाति- शयस्य हेतुस्तावत् काव्यार्थानुशीलनोद्बुद्धचमत्कारापरपर्यायः लोकोत्तराह्लादः। स एव च रसः । आह्लादस्य स्वरूपमुपमया विशदयति -मधुनेति। मधुव्रताः १४ म्रमराः । मधुना यथा माध्यन्ति तथेत्यर्थः ॥ माधुर्यविषये अन्येषां लक्षणोदाहरणानि। तत्र प्रथमं तावदभरत :- बदुशो यच्छूतं काव्यमुक्तं वापि पुनः पुनः।
२७ नोद्वेजयति तस्माद्वि तन्माधुर्यमुदाहृतम् ।। इति। (१६. ९८) श्रव्यं नातिसमस्तार्थ काव्यं मधुरमिष्यते। (२. ३) इति भामहः। ओजःप्रसा- दयोरपि श्रव्यत्वान्नैतल्वक्षणं निर्दोषमिति प्रकाशकारादयः । वामनस्तु-पृथक् ३०पदत्वं माधुर्यमिति (३. १.२०) लक्षणं कृत्वा अस्त्युत्तरस्यामिति उदाहरद्। भोजोपि -या पृथक्पदता वाक्ये तन्माघुर्यमिति स्मृतम्। (१. ६८) इति शब्द- [काव्यादर्श] ८
Page 75
५८ काव्यादर्शे प्रथम: परिच्छेदः
गतमाधुर्यलक्षणं कृत्वा-स्थिताः क्षणं पक्ष्मसु ताडिताधराः इत्युदाजहार। परं ३3नैतत् क्षोदक्षमम्। समासेपि माधुर्यदर्शनाद्। यथा हेमचन्द्र :- अनवरतनयनजललवनिपतनपरिमुषितपत्रलेखान्तम्। करतलनिषण्णमबले वदनमिदं कि न तापयति॥ इति। (१९,८ पत्रे) ३६वाग्भटस्तु-(काव्यानुशासन, ३० पत्रे) यत्र आनन्दमन्दं मनो द्रवति तन्माधु- र्यम्। तच्च रसमेदेन विविधम्। तत्र शुङ्गारे यथा- प्रियतमावद नेन्दुविलोकितैरसुहितः कलकण्ठयुवा नवः । ३९ प्रतिमुद्दः प्रतिगत्य नभस्तलाद्वलति याति चलत्यथ यात्यथ।I शान्त यथा- यैः शान्तरागरुचिभि: परमाणुभिस्त्वं ४२ निर्मापितस्त्रिभुवनै कललामभूतः । तावन्त एव खलु तेप्यणवः पृथिव्यां यत् ते समानमपरं न हि रूपमस्ति ॥ ४५ करुणे यथा - गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हतम् ॥। इति। *Cप्रकाशकार आह- आह्लादकत्वं माधुर्य शङ्गारे द्रुतिकारणम्। करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । इति ॥ (८.५८) ५१ जगन्नाथस्तु (५९ पत्रे) एकस्या एवोक्तेर्भक्कयन्तरेण पुनः कथनात्मकयुक्तिवैचि- त्रयं माधुर्यमिति अर्थगतमाधुर्यस्य लक्षणं विधाय उदाहरति- विधत्तां निःशङ्कं निरवधिसमाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः। कृतं प्रायश्चित्तैरलमथ तपोदानयजनैः सवित्री कामानां यदि जगति जागर्ति भवती॥ इति। ५७दर्पणकारस्तु-चित्तद्रवीभावमयो ह्वादो माधुर्यमुध्यते। इति (८.२) लक्षणं विधाय-
Page 76
श्रुत्यनुप्रासलक्षणम्। ५९
यया कैयाचिच्छ्रृत्या यत् समानमनुभूयते। तद्रूपाँ हि पदासत्तिः सानुप्रासा रसावहा ॥५२॥ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः । जनयन्ति मुहुर्यूनामन्तः संतापसंततिम्॥ इत्युदाहरत्। एवमेवान्येपि विधयानाथादयः ॥५१॥ वाचि रसः स्थितः इत्यनेनोक्ताया वाक्यरसस्थितेर्व्यक्जकं विशिष्टवर्णवि- न्यासरूपं श्रुत्यनुप्रासं वैदर्भानुमतं वर्णयति-ययेति। यया कयापि कण्ठताल- 3व्याधन्यतरया श्रुत्या श्रूयतेनेनेति श्रुतिरुच्चारणम्। करणे किन्। अथवा श्रुतिः श्रवणम्। भावे क्तिन्। तया श्रुत्या समानम् पूर्वोच्चरितसदृशम्। अथवा पूर्वश्रुत- वर्णसदृशम् अर्थादेकस्थानत्वेन। यत् अनुभूयते तद्रूपा तादृशसादृश्यानुभवोत्पा- इदिका। पदासत्तिः अव्यवहितपदप्रयोगः । सानुप्रासा अनु समीपे प्रकृष्टः रसानु- कूलो न्यास: अनुप्रासः तया युक्ता। श्रुत्यनुप्रासवतीति बोद्धव्यम्। सा च रसा- वहा रसपोषिका अस्तीति शेषः । अयमाशयः। कण्ठतालव्यादनेकस्थानोच्चार्यतवेन ९व्यञ्जनानां सादृश्यं श्रुव्यनुप्रासः। अयं वैदर्भप्रियः । तदुक्तं भोजराजेन- आवृत्तिर्या तु वर्णानां नातिदूरान्तरस्थिता। अलंकारः स विद्वद्धिरनुप्रासः प्रदर्श्यते ॥ १२ लाटानामुक्तिमिश्चायं षट्प्रकार: प्रकाशते॥ प्रायेण श्रुत्यनुप्रासः तेष्वनुप्रासनायकः । १५ सनाथैव हि वैदर्भी भाति तेन विचित्रिता॥ इति। (२. ७०-७२ ) दर्पणकारोपि -- उच्चार्यत्वाद्यदेकत्र स्थाने तालुरदादिके। साधश्यं व्यञ्जनस्यैष श्रत्यनुप्रास उच्यते ।। (१०. ५) इति।
:. कयापि. अ. २: तद्रपादि°,अ,क. 3. पदासक्ति:क.
Page 77
काव्यादर्शे प्रथम: परिच्छेद:
एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः। तदा प्रभृति धर्मस्य लोकेस्मिन्नुत्सैवोभवत् ॥ ५३॥ इतीदं नाहतं गौडैरनुप्रासस्तु तत्प्रियः। अस्यानुप्रासस्य सौन्दर्य वर्णितं भोजराजेन- २१ यथा ज्योत्सा शरच्चन्द्रं यथा लावण्यमङ्गनाम्। अनुप्रासस्तथा काव्यमलंकर्तुमिह क्षमः ॥ (२. ७६ ) इति। अलंकारस्यास्य अलंकारनिरूपणप्रकरणे निरूपणीयत्वेपि अत्र वैदर्भगौडमार्गभेद- २नकथनप्रसङ्गतः निरूपणं कृतमिति बोद्धव्यम्। अतोग्रे वक्ष्यति-काश्चिन्मार्ग- विभागार्थमुक्ता: प्रागप्यलंक्रियाः । (२. ३) इति ॥ ५२ ॥ श्रत्यनुप्रासमुदाहरति -- एष इति। ब्राह्मणप्रियः ब्राह्मणाः प्रिया यस्य सः । अथवा ब्राह्मणानां प्रियः धर्मशीलत्वाद्। एतादृशः एष राजा यदा लक्ष्मीं ३ संपदं राज्यश्रियं वा प्राप्तवान् लब्धवान्। तदा प्रभृति तत्कालमारभ्य अस्मि- ल्लाके धर्मस्य सदाचरणस्य उत्सवः उत्कर्षः अभवत्। दानादिभिः धर्मकृत्यं विस्तारयामास। अथवा धर्मेण प्रजाः शशासेव्यर्थः । अत्र षकाररेफौ मूर्धन्यौ। ६जकारयकारौ तालव्यौ। दकारलकारौ दन्त्यौ। इति प्रथमपादे। तकारदकारौ दन्त्यौ। पकारभकारावोष्ठयौ। तकारधकारौ दन्त्यौ। इति तृतीयपादे च निरन्तरौ। द्वितीयपादे रेफणकारौ मूर्धन्यौ। चतुर्थे च लकारसकारौ दन्त्यौ। ९सान्तरौ। इति स्थानसाम्याच्छत्यनुप्रासः । स च धार्मिकराजर्षिविषयकरति- भावस्य पोषकः इति अस्ति माधुर्यम् ॥५३॥ गौडवैदर्भयोरन्तरं स्फुटं वर्णयति-इतीदमिति। इति एवं पूर्वदर्शित- रचनाप्रकारकमिदं श्त्यनुप्रासघटितं काव्यं गौडैः पौरस्त्यैः नादतम् माधुर्यगुण- ३ त्वेन नाङ्गीकृतम्। समानश्चुतिवर्णानां रसोपकारकचमत्कृतिशून्यत्वान्नायमलंकार इति तेषामभिप्रायः । अनुप्रासः वर्णावृत्तिरनुप्रासः इत्यग्रे (१. ५५) वर्णितो वर्णानु- प्रासः। तेषां गौडानां प्रियः । सदृशवर्णोच्चारणेन आविर्भूता चमत्कृतिः रसावह्दा
१. राज्यं. अ, कपा. २. ततः ब, कपा, ड, प. ३. उद्धवः कपा,
Page 78
गौडप्रियो वर्णानुप्रासः ६१
अनुप्रासादपि प्रायो वैदभैरिदमीप्सितम्ं।। ५४॥ वर्णावृत्तिरनुप्रासः पादेवु च पदेषु च। ६ इति तेषां हृदयम्। वैदर्भीयैस्तु अनुप्रासादपि वर्णानुप्रासादपि वर्णानुप्रासमपेक्ष्ये- त्यर्थः । ल्यब्लोपे पञ्चमी। इदम् श्रत्यनुप्राससनाथं काव्यमिति शेषः । इष्यते रसोपकारकत्वेन स्वीक्रियते। प्रायःपदेन शैथिल्यपारुष्यदोषवर्जिते वृत्यनुप्रासेपि तेषामादरास्तीति ध्वन्यते। तदुक्ततं प्रकाशे- माधुर्यव्यञ्जकैरवर्णैरूपनागरिकोच्यते। ओज:प्रकाशकैस्तैश्व परुषा कोमला परैः ॥ इति। (९. ८०) १२उपनागरिका वैदर्भी परुषा गौडी कोमला पाञ्चाली इति संज्ञान्तरं ज्ञेयम्। श्रुत्य- नुप्रासवृत्यनुप्रासयोः चमत्काराचमत्कारसाक्षात्कारे वैदर्भगौडा एव प्रमाणम्। न तत्र काचन युक्तिरित्यलं पल्लवितेन ॥ ५४॥
गौडप्रियमनुप्रासं लक्षयति-वर्णा इति। पादेष श्लोकतुरीयभागेषु पदेषु सुपतिडन्तरूपेषु। चद्वयमुभयप्राधान्यं सूचयति। तथा च पादगता पदगता वा ·वर्णावृत्ति: वर्णस्य वर्णयोर्वर्णानां वा आवृत्तिः पुनः पुनरुच्चारणं अनुप्रासः । पुनः पुनरुच्चारणेन साम्यप्रतीतिरनुप्रास इत्यर्थः । तदुक्तं प्रकाशे -वर्णसाम्य- मनुप्रासः। (९. ७२) इति । अत्र वर्णशब्देन व्यञ्जनं आ्ह्यम्। केवलस्वराणा- मावृत्तौ चमत्काराभावात्। पादेषु च पदेषु च इति बहुवचनेन नैकपादगतो- नैकपदगतो वा अनुप्रासो वैचित्र्यावहः इति सूचितम् । अत एव च पतत्प्रकर्ष- ताया दोषत्वं समताया गुणत्वं च संगच्छते। सादृश्यं भिन्नयोरेव भवति इति ; उच्चारणकालभेदेन एकस्यापि वर्णस्य भेदोवगन्तव्यः । अथवा वर्णावृत्तिरित्यस्य वर्णनामावृत्ति: आवृत्तिजन्या प्रत्यभिज्ञा इत्यर्थः स्वीकर्तव्यः । पुनः पुनः श्रवण- जन्यायाः प्रत्यभिज्ञाया अपि चमत्कारजनकत्वं सुकरम्। आवृत्तिश्च स्वरसहित- १ स्येति नाग्रहः । स्वरवैषम्येपि चमत्कारदर्शनात्। उक्तं हि दर्पणे -अनुप्रासः शब्दसाम्यं वैषम्येपि स्वरस्य यद् । (१०, ३) इति। सा वर्णावृत्तिः कीदृशी अपेक्ष्यते इति विशदयति-पूर्वेति। पूर्वोच्चारितवर्णस्य यः अनुभवः श्रावणप्रत्यक्ष
- इष्यने व, उ, प. आदतम. कपा.
Page 79
६२ काव्यादर्शे प्रथम: परिच्छेद:
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता॥ ५५॥ चन्द्रे शरत्निशोत्तंसे कुन्दस्तवकविभ्रमे। १५ तज्जनितो यः संस्कारः भावनाविशेषस्तस्य बोधिनी उद्वोधकत्रीं। एतादृशी यदि अदूरता द्वितीयवर्णादानां निकटस्थिति: स्यात् तदैवानुप्रास इति शेषः । अस्या- यमाशयः । सादृश्यप्रतीतेः प्रत्यभिज्ञाया वा चमत्कृतिजनिकायाः असंभवे नालं- १८कारः स्यात् । वैचित्र्यस्यैव अलंकारत्वेन शिष्टैः स्वीकृतत्वात्। तथा च सादृश्यो- द्वोधिका वर्णावृत्तिः अनुप्रासालंकार इत्यर्थ;। तच्च सादृश्योद्वोधनं आवृत्तौ द्वित्रवर्णव्यवधानं कथंचित् सहते न तु बहुवर्णव्यवधानम्। एतदग्रे प्रत्युदाहरणे २१सफुटीभविष्यति। अस्यानुप्रासस्य भोजराजप्रभृतिभिर्बहवः प्रकारा दर्शिताः। तान् सर्वान् विस्तारभिया वयमत्र प्रतिपादयितुं नेहामहे। जिज्ञासुभिस्ते सर्वे तत एव ज्ञातव्याः । कांश्चिदतिप्रसिद्धान् वयमत्र विवेचयामः । तथा च सोयमनुप्रासः ३ण्छेकवृत्तिलाटमेदेन त्रिविधः । तदुक्तं प्रकाशे -वर्णसाम्यमनुप्रासः छेकवृत्तिगतो द्विधा ।(९. ७९) इति । तथैव -शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः । (९. ८१ ) इति। एतेषां क्रमेणोदाहरणानि- २७ ततो रणपरिस्पन्दमन्दीकृतवपुः शशी। दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ इति। अत्र नकारदकारात्मकस्य तथा णकारडकारात्मकस्य अनेकव्यञ्जनस्य सकृतू ३० साम्यमिति छेकानुप्रासः । अपसारय घनसारं कुरु हारं दूर एव ककि कमलैः। अलमलमालि मृणालैरिति वदति दिवानिशं बाला॥ अत्र रेफस्य लकारस्य च असकृदावृत्या वृत्यनुप्रासः । यस्य न सविधे दयिता दवदहतस्तुहिनदीघितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीघितिस्तस्य ।। ३६अत्र तात्पर्यमेदेनार्थंभेदः इति लाटानुप्रासःः ॥५५॥ उद्देशानुराधेन पादगत वर्णानुप्रासमुदाहरति-चन्द्रे इति। कुन्दानां कुन्दकुसुमानां स्तबक: गुच्छः तद्वत् विभ्रमः शोभा यस्य तस्मिन्। शरनिशोत्तंसे ९. 'बोघनी यद्यदूरगा. अ. ३. संनिभे. कपा, प.
Page 80
गौडप्रिया वर्णातुप्रासः ६३
इन्द्रनीलनिभं लक्ष्म संदधात्यलिन: श्रियम् ॥५६ ॥ चारु चान्द्रमसं भीरु बिम्बं पश्यैतदम्बरे। मन्मनो मन्मथाक्ान्तं निर्दयं हैन्तुसुद्यतम्॥५७॥ ३शारदरात्रिभूषणायमाने चन्द्रे। इन्द्रनीलमणेः निभ सदृशं। लक्ष्म कलङ्कः । अलिनः भ्रमरस्य। श्रियं शोभां। संदधाति बिभर्ति। अत्र चतुर्षु पादेशु चन्द्र कुन्द इन्द्र सन्द इति क्रमेण नकारदकारौ अनुसृतौ भवतः । अथवा चन्द्र इन्द्र कुन्द सन्द ६इति नकारदकाररेफाणां नकारदकारयोश्च आवृत्तिः इति वृत्यनुप्रासः । एवंविधैः अलंकारैः उपस्कृतोयं श्रोकः स्ववर्ण्यशृङ्गारोद्दीपकविभावभूत रजनीकरमलंकुरुते तेन च शुङ्काररसः परिपुष्टो भवतीति शब्दनिष्ठमाधुर्य रसपरिपोषकं ज्ञेयम्। तथैव ९च रूपकोपमादर्थालंकारैरुपस्कृतो वाच्यार्थोपि तमेव रस परिपोषयति इत्यर्थनिष्ठ- मपि माधुर्य ज्ञेयम। केचित्तु अत्र प्रथमपादे शकारयोः द्वितीये बवयोरभेदात् ककारवकारयोस्तृतीये लकारनकारयोरनतिदूरस्थितयोरावृत्या वृत्यनुप्रासः । चतुर्थे १२तु संदधात्यलिनः इत्यत्र यकारवर्जिताः सर्वे दन्त्या इति श्रत्यनुप्रासः । इति योज- यन्ति। परं मूले लक्षणश्लोके पादेषु च पदेषु च इति स्थानद्वयस्य निर्देश: "कृतः । तदनुरोधेनैव उदाहरणोपपत्तिः कर्तव्या इति चिन्त्यमेतद् व्याख्यानमिति १५भाति ॥५६ ॥ इत्थं पादगतमनुप्रासं प्रदर्श्य संप्रति पदगतमनुप्रासं दर्शयति-चार्विति। हे भीरू संशयसंत्रस्ते कोमलाशये। चारु त्वच्चिन्तनेन मनोहरम्। मन्मथाक्रान्तं मदना- ३ भिभूतम्। मन्मनः मच्चित्तम्। निर्दयं यथा तथा। हन्तुं प्रहर्तुम्। उद्यत उद्युक्तम्। एतत् चान्द्रमसं इन्दुसंबन्धि। बिम्बं मण्डलम्। अम्बरे वियति। पश्य। कामुकस्य कुपितां नायिकां प्रत्युक्तिरियम् । अत्र प्रथमपादे चाकाररुकारयोरावृत्तेरवृत्यनुप्रासः। ६ द्वितीये मकारबकारयो: संयुक्तयोः सकृदावृत्तेः छेकानुप्रासः । अत्र पादद्वये भिन्नाः अनुप्रासाः केवलं पदेषु 'वर्तमाना: सन्तीति पदगता ज्ञेयाः । पूर्वत्र तु पादेपादे तेषामावृत्तिरिति पादगतता बोद्धव्या। केचित्तु अनुप्रासे स्वरावृत्तेः प्रयोजनं नास्ति। तथापि स्वरसहितव्यञ्चनावृत्तिः सविशेषां शोभां धत्ते इति प्रदर्शनाय एतदुदाह-
१. अनिलः. ब. . कर्तु. अ, कपा.
Page 81
काव्यादर्शे प्रथम: परिच्छेद:
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरक्षतिम्। न तु रामामुखाम्भोजसद्दशश्रन्द्रमा इति ॥५८ ॥ स्मरः खरः खलः कान्तः कायः कोपश्र नः कशः। रणमिति मन्यन्ते। चाकाररुकारयोरावृत्या च तद् समर्थयन्ते। परं तत्रारुचिबजिं पूर्व श्रोकव्याख्याने दर्शितमेव। अत्र पूर्ववदेव अनुप्रासालकारस्य पर्यायोक्तालंकारस्य १२च विप्रलम्भशङ्गारपरिपोषकत्वात् शब्दार्थनिष्ठं माधुर्य ज्ञेयम्। चारु चान्द्र मसमिति वाक्यस्य कोपं विहाय मां भजस्व इत्यर्थतात्पर्यकत्वेन पर्यायोक्त्यलंकारो ज्ञेय:॥५७॥
अनुप्रासलक्षणे निवेशितस्य अदूरता इति विशेषणस्य अन्वयव्यतिरेकेण प्रयोजनं दर्शयति-इत्येति । इति पूर्वक्लोकेषु दर्शिताम्। नातिदूरान्तरश्रुतिम् ३अतिदूरं अत्यन्तं दूरं अन्तरं व्यवधानं यस्याः सा अतिदूरान्तरा। तथाविधा श्रुति- र्यत्र सा अतिदूरान्तरश्रुतिः । तथा न भवतीति नातिदूरान्तरश्रुतिः ताम्। अत्र वर्णावृत्तिरिति पदमध्याहार्यम् ! अथवा नातिदूरान्तरश्रुतिम् इतिपदमनुप्रासं इल्य- ६स्यैव विशेषणम् । इच्छन्ति सहृदया इति शेषः । अदूरतायाः प्रत्युदाहरणं कथयति-नत्विति । रामाया मुखमेव अभ्भोजं तत्सदृशः चन्द्रमा इति। एवंविधविदूरावृत्तौ वृ्त्यनुप्रासो न भवति । अत्र रामा इति माकारस्य चन्द्रमा इत्यत्र आवृत्तिः । सा च दूरश्रुतिरिति पूर्वसंस्कारबोधिका न भवतीति नात्र माकारानुप्रासः। विभिन्नस्वरयोः मकारयोः प्रथमे पादे दकारयोश्च नातिदूरस्थयो- र्द्वितीये आवृत्तिर्वर्तते। अतः केवलवर्णावृत्तेः सत्वादत् वृत्त्यनुप्रासो वर्तते एव १२ तथा सदृशश्चन्द्रमा इत्यत्र श्रत्यनुप्रासोपि दृश्यते। उदाहृते अस्मिन् वृत्यनुप्रासे वैदर्भाणां न प्रतिकूलता इति-अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते इति उत्तर- श्लोकस्थविधानेन निष्पद्यते इति विचारणीयं विद्वद्भिः ॥५८॥
वैदर्भाप्रियं सदोषमनुप्रासं दर्शयति-स्मर इति। नायकेन उपेक्षिताया विरहिण्या उक्तिरियम्। स्मरः मदनः । खरः निष्ठुरः तीक्ष्णः अतिदुःसहः इत्यर्थः।
स्थितिम्. कपा.
Page 82
यमकभ् ६५
च्युतो मानोधिको रागो मोहो जातोसवो गताः ॥५९॥ इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति। अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ ६० ॥ आवृत्ति वर्णसंघातगोचरां यमकं विदुः। ३कान्तः प्रेयान्। खलः निष्ठुरः । नः अस्माकम्। कायः शरीरम्। कोपश्च कान्त- विषयकः क्रोधः। कृशः क्षीणः नष्टप्रायः । मानः स्वगौरवम्। च्युतः गलितम्। रागः संभोगाभिलाषः । अधिकः वृद्धिं प्राप्तः । मोहः चित्तवैक्चव्यम् । जातः उत्पन्नम्। ६असवः प्राणाः । गताः गतप्रायाः। अत्र प्रथमचरणे रेफखकारयोः द्वितीये ककाराणां च आवृत्त्या वृत्त्यनुप्रासः । तृतीयचतुर्थयोर्दन्तस्थानिनां निवेशात् श्रुत्यनुप्रासः । प्रथमार्घे विसर्गबाहुल्यात् पारुष्यम्। उत्तरार्धे संयुक्तवर्णाद्यभावाच्घ शैथिल्यम्। अत्र वृत्त्यनुप्रासश्चत्यनुप्रासयोः पारुष्यशैथिल्यदोषग्रस्तत्वान्नेमौ अलंकारौ भवतः । तेन च नैताभ्यां विप्रलम्भशृङ्गारस्य परिपोष इति नास्त्यत्र माधुर्यगुणसद्धावः ।५९।। उदाहृतानुप्रासस्य दोषं दर्शयति-इत्यादीति। एवमादिकं सानुप्रासमपि काव्यं बन्धपारुष्यम् विसर्गबाहुल्येन पूर्वार्धे। शैथिल्यम् संयुक्तव्यञ्जनविसर्गादीनाम- ३ भावाच्छिथिलताम् उत्तरार्धे च । नियच्छति अर्पयति। उक्तं हि विसर्गादीनां पारुष्यम्-अनुस्वारविसर्गौ तु पारुष्याय निरन्तरौ। इति। एवं दोषसनाथमनुप्रासम् वृत्तिश्रत्यनुप्रासम्। दाक्षिणात्याः वैदर्भाः । न प्रयुञ्जते न व्यवहरन्ति। अयमाशयः। ६ वैदर्भा: श्रत्यनुप्रासे आदरयुक्ताः वृत्त्यनुप्रासे च अमत्सरिणः । तथापि केवल- मनुप्रासलोभेन न सदोषयोस्तयोः स्वीकारं ते कुर्वन्ति। गौंडास्तु सदोषमपि तमनु- प्रासलोभेनाङ्गीकुर्वन्ति । अयमेव भावः नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते इति वाक्येन कविना स्पष्टीकृतः। अत्र गौडैः प्रेमचन्द्रशर्मभिर्यद्व्याख्यानं कृतं तन्न ग्रन्थकृदाशयानुकूलमिति सुधीभिर्विचारणीयम् ॥ ६०॥ ननु यदि वर्णावृत्तिः रसपोषकमाधुर्यगुणवती तर्हि यमकमपि वर्णसंधाता- वृत्तिरूंपं माधुर्यगुणशालि अस्तीति तस्याप्यत्र निरूपणं कुतो न कृतमिति कथ- ३ यति-आवृत्तिमिति। वर्णसंधातः पूर्वोक्तवर्णसमुदायः गोचरो विषयो यस्यास्ता-
१. रोगो. अ. २. निगच्छति. ब. ३. आवृत्तिमेव संघात०, बपा, क. [काव्यादर्श] ९
Page 83
६६ काव्यादर्शे प्रथम: परिच्छे
तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते ॥६१॥ मावृत्तिं पुनरुच्चारणम्। यमकम् यमकसंज्ञकशब्दालंकारम्। विदुः जार्नान्त। अलंकारिक। इति शेषः। अत्र आवृत्तिः यथानुपूर्विकाणां रवरसहितव्यञ्जनानाम। ६स्वररहित के वलव्यञ्जनावृत्तेरनुप्रासविषयत्वात्। सयमावृत्तिः सार्थपदस्यास्ति चेत् द्वितीयपदं भिन्नार्थमपेक्ष्यते। अन्यथा-यातु यातु किमनन तिष्ठना मुञ्च मुख् सखि सादरं वचः। इत्यादेकार्थपदावृत्तिस्थले यमकालंकारातिप्रसङ्गः स्याद्। परं नैतादृशे स्थले केनापि साहित्यकोविदेन यमकं स्वीक्रियते। ससुरभि सुरम सुमनोभरैः । इत्यादौ रभिंसु इति निरर्थकपदावृत्तौ यमकस्य सद्भावादुक्तं सार्थपद- स्यावृत्तौ इति। तथा चोक्तं दर्पणे-
१२ सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते॥ इति।(१०. ८) अनुप्रासे बहूनां क्वचिदेकस्वरसहितस्य व्यञ्जनस्य आवृत्तिः संभवति। यमके तु १५स्वरसहितव्यञ्जनानां पूर्वक्रमेणैवावृत्तिः इत्युभयोर्भेदः । स च यमकविपये तृतीय- परिच्छेदे तन्निरूपणप्रसङ्के विशेषं कथयामः । तत् तु तद्यमकं तु। नैकान्तमधुरम् न अनुप्रासवच्छब्दमाधुर्यगुणवत्। यतः स्वरसहितवर्णसंघातावृ्त्त्यपेक्षया वर्णावृत्ती १८ मध्ये मध्ये विभिन्नवर्णनिवेशात् सा अनुप्रासरचना विशेपशोभाशालिनी भवति। यथा मालायाः सजातीयपुष्पसंघातग्रथनापेक्षया प्रतिकुसुमं परस्तात् भिन्नभिन्न- कुसुमसंनिवेशे सति सा माला रमणीया भवति तथेयमनुप्रासरचना मनोहरा २१भवतीति भावः । अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । इत्यादि- वृत्त्य नुप्रासोदाहरणेषु अन्तरान्तरा एकवर्णावृ्त्या यादशी चारुता न तादृशी- नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्। २४ मृदुलतान्तलतान्तमलोकयत् ससुरभि सुरभि सुमनोभरैः॥
इत्यादौ स्वरव्यञ्जनसंघातावृत्तिरूपे यमके। अपरं च वर्णसंघातावृत्तौ अर्थावबोधः क्वेशेन भवति। न तथा अनुप्रासविशिष्टे काव्ये। तथा च यमके अर्थानुरांधानव्यग्र- २७ तया रसप्रतीतेरविल म्बेनोद्द्वाननेयं रचना रसोपकारिका। अनुप्रासस्तु अर्थानुसंघाने व्यग्रतामकुर्वन्नेव श्रुतिमात्रेण शब्दमलंकुर्वन् रसं पुष्णाति इति तत्न माधुर्यमस्तीति भावः। अथ यमकस्य रसानुपकारकत्वे कथमलंकारता स्यात्। रसोपकारकयोरेव
Page 84
अग्राम्यतायां माधुर्यम् ६७
कामं सर्वोप्यलंकारो रसमर्थे निपिश्चंति। तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ॥६२॥ ३० शब्दार्थान्यतरशोभाजनकयोरलंकारत्वनियमात् इति चेत् सत्यम्। तदर्थमेव हि नैकान्तमित्युक्तम्। यमके माधुर्य वर्तते एव। परं तनानुप्रासवत् विपुलमस्ति। अतस्तद् यमकनिरूपणं नात्र माधुर्यगुणविवेचने क्रियते। तद्विचारं शब्दालंकार- ३३प्रस्तावे करिष्याम इति भाव: ॥ ६१ ॥ उद्देशवाक्ये वस्तुन्यपि रसः स्थितः इति अर्थगतमाधुर्य निर्दिष्टमस्ति। तदिदानीं दर्शयति-काममिति। सर्वोपि शब्दगतः अर्थगतः उभयगतश्चानु- ३ प्रा सोपमापुनरुक्तादलंकारः। अर्थे वाच्यलक्ष्यव्यङ्गयस्वरूपे प्रस्तुतेर्थे। कामं पर्याप्तम्। रस निपिश्चति। उत्कर्षतया स्वाश्रयीभूतार्थस्थिताम् रसव्यञ्जकतामुत्कर्पयतीत्यर्थः । तथापि अलंकारस्य रसोत्कर्षाधायकत्वेपि। अग्राम्यता ग्राम्यः हालिकादिप्राकृत- ६जनव्यवहृतः तद्भिन्नः अग्राम्यः तस्य भावस्तत्ता। विदग्धजनव्यवहारः इति भावः । भूयसा अलंकाराद्यपेक्षयापि बाहुल्येन। एनं भारं रसनिषेकरूपम्। वहति। अलंकारा: यथाकर्थंचिद्रसं परिपोपयन्ति । अग्राम्यता तु तदेव बाहुल्येनानुतिष्ठति। दृश्यते हि निरलंकारयोरपि विशुद्धयोः शब्दार्थयोः रसपरिपोषकता। तथा च अग्राम्यतासनाथा एव अलंकारा रसोत्कर्षा इति सिद्धम्। ग्राम्यतापदं अश्लीलता- दीनामुपलक्षणम्। भूयसा इत्यनेन प्राकृतजनव्यवहारे ग्राम्यता न दोपाय इति १२ ध्वनितम्। तदुक्तं साहित्यदर्पणे विश्वनाथेन-सुरतारम्भगोष्ठयादावश्लीलत्वं गुणो भवेत्। इति। (७. १७) तत्र अवैदग्धग्राम्यत्वं यथा- स्वपिति यावदयं निकटे जनः स्वपिति तावदहं किमपैति ते। १५ इति निगद्य शनैरनुमेखलं मम करं स्वकरेण रुरोध सा ।। इति। असभ्यार्थनिबन्धनं वा ग्राम्यत्वम्ं। यथा- ब्रह्मचर्योपतप्तोहं त्वं च क्षीणा बुमुक्षया । १८ भद्रे भजरव मां तुर्ण तव दास्याम्यहं पणम् । इति।
हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
निपिश्चतु. क. २. एतं. ब.
Page 85
६८ काव्यादर्शे प्रथम: परिच्छेद:
कन्ये कामयमानं मां न त्वं कामयसे कथम्। इति ग्राम्योयमर्थात्मा वैरस्यायं प्रकल्पते ॥६३॥ कामं कन्दर्पचाण्डौलो मयि वामाक्षि निर्दयः।
२५ यथास्य जायते पातो न तथा पुनरुन्नतिः ॥ (भामह १. ५१) इत्यलं पल्लवितेन ॥ ६२ ॥ अग्राम्यतास्वरूपावबोधाय प्रथमं ग्राम्यं दर्शयति-कन्ये इति। कन्ये इति पदं पुत्र्या आह्वाने एव प्रयुज्यते। नायिकायास्तु प्रेयसिसुंदरिविलासिनीत्यादीनि पदानि प्रयुज्यन्ते। अतोत्र कन्ये इतिपदं वैरस्योत्पादकतवेनानुचितम्। अत एव ३प्राम्यता। तदुक्तम्-यद्यत्रानुचितं तद्धि तत्र ग्राम्यं स्मृत यथा । इति। अत्र वैरस्योत्पादकः कन्याशब्दार्थः एव। न तु अविदग्धजनव्यवहृतगल्लकट्यादि- शब्दवत् कन्याशब्दः। स च-कन्येयं कलधौतकोमलरुचिः इत्यादी सभ्यै- ६वर्यवहृतोस्ति । सभ्येतरव्यवहृतस्यैव गल्लादिशब्दस्य प्राचीनैर्ग्राम्यत्वमुक्तम्। काम- यमानम् कामाभिलाषुकम्। मां कथं न कामयसे उपभोक्तुं कथं न वाञ्छसि। सुरताभिलाषरूपो ह्यर्थो निगूहित: सन् भङ्गयन्तरेण सूचितः कामिनीकुचकलशवत् ९रसातिशयं प्राम्ोति। न तथा विस्पष्टमभिधीयमानः सभ्यानां लज्जामुत्पादयन् रसस्वादवैमुख्यजनकः । अतः ईदृश: ग्राम्योर्थः सर्वथा परिहरणीय एव। अत्र यद्यपि शुङ्गारानुकूलयोः ककारमकारयोरावृ्त्या वृत्त्त्यनुप्रासः वर्तत एव तथापि १२न सोनुप्रासः अन्यो वा यः कोपि शब्दार्थालंकारः वर्ण्यमपि ग्राम्यार्थेन निकृष्टी- कृतं पद्यस्थशृङ्गारं उपकर्तु प्रभवति। अतोत्र ग्र्ाम्यतादोषेण माधुर्यगुणाभावो बोद्व्यः । एतदेव कथयति। इति एवंप्रकारकः । ग्राम्यः ग्राम्यतादोषकवलितः । १५अर्थात्मा अर्थस्वरूपम्। वैरस्याय रसानुभवप्रतिबन्धेन अरुचये। प्रकल्पते प्रभवति ॥ ६३ ॥
तमेवार्थमग्राम्यस्वरूपं दर्शयतिकाममिति। वामे मनोहरे अक्षिणी यस्याः सा तत्संबुद्धि: हे वामाक्षि मनोहरलोचने। अनेन नायिकायाः सौन्दर्य- प्रशंसया अभिप्रेतसंपाद नानुकूलवचोवैदग्धिः चाटुकारस्य सूच्यते। अतो नास्ति- १. त्वं न. कपा. २. वैरस्यायैव कल्पते. क. ३. चण्डालो, अ, क.
Page 86
ग्राम्यता ६९
त्वयि निर्मत्सरो दिष्टयेत्यग्राम्योर्थों रसावहः ॥६४ ॥ शब्देपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात्। यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ ६५॥ पदसंधानवृत्या वा वाक्यार्थत्वेन वा पुनः। ग्राम्यता। कन्दर्पचाण्डाल: कन्दर्पे चाण्डालारोपेण तस्य प्रखरवेदनाप्रदत्वं तेन च स्वस्य दुःखातिरेकः सूच्यते। कामम् अत्यन्तम्। मयि निर्दयः। तेनाभिहतः ६कथमपि जीवितं धारयामीत्यर्थः । त्वयि निर्मत्सरः मत्सदृशदुःखाप्रदानेन अपगतमत्सरोस्तीति जानामि। दिष्टया एतन्मदायसौभाग्यमेव। इति अग्राम्यः शिष्टसंप्रदायानुसृतः । अर्थः रसावहः रसव्यञ्जकतया माधुर्यगुणवानित्यर्थः । अयं भावः । कन्दर्पचाण्डालो मयि निर्दयः त्वयि निर्मत्सरः इति वाक्याम्यां त्वयि अनुरक्तोहं त्वं च मां नानुकम्पसे इति पूर्वश्लोकोक्त एवार्थः मनोहरया भङ्गया सूचितोस्ति । अतः अग्राम्यः सन् वक्तृवैदग्ध्यसूचनेन चमत्कारभूमिरेषः । अनेन १२च विप्रलम्भशृङ्गारस्य परिपोषो भवति। अतोयमर्थो माधुर्य गुणमावहति ॥६४॥। माधुर्यप्रतिबन्धकमर्थगतं ग्राम्यत्वं निरूप्य शब्दगतं तन्निरूपयति - शब्देपीति। सा ग्राम्यता। सभ्येतरकीर्तनात् सभायामुच्चारणयोग्यत्वेन साधु ३ सम्यम् तस्मादितरदसभ्यम् ग्राम्यजनमान्रव्यवहृतं पदम् तस्य कीर्तनात् प्रयोगाद्। शब्देपि भवतीति शेषः । अत्र कीर्तनं विदग्धजनकर्तृकमेव। ग्रम्यकर्तृके तु दोषा- भावः। रत्युत्सवस्य संभोगशृङ्गारस्य निरूपणे वर्णनप्रसङ्गे। यकारादिपदं यकार: ६आदिर्यस्य तत् पदम्। यभ् मैथुने इति धातुनिष्पन्नं यभस्वेत्यादिपदम्। तत्पदप्रयोगश्च प्रयोक्तुर्राम्यतां व्यञ्जयन् श्रोतुर्लज्जामुद्धाधयन् रसाखादमाधुर्यमन्तरयति। अतः आस्वादव्यवधायकत्वान्नात्र माधुर्यगुण इति भावः । सुरतनिधुवनादिपदानां शिष्टा- दतत्वात् तत्प्रयोगे न शब्दग्राम्यता। यथा माधे-नवनिधुवनलीलाः कौतुकेनाभि- वीक्ष्य। इति। (११.१८)। उत्तिष्ठन्त्या रतान्ते इति च वेणीसंहारे (१.३)।।६५/। पर्व विशिष्टपदे ग्राम्यता दर्शिता। इदानीं सा पदानां सान्निध्यविशेषेण वाक्यार्थविशेषेण च आविर्भवन्ती रसास्वादवैमुख्यं जनयतीति न तत्र माधुर्यमिति सोदाहरणं प्रदर्शयति-पदसंधानेति। पदानां संधानं संधिः संहितेति यावत्।
१. पद्संघात°. बपा.
Page 87
७० काव्यादर्शे प्रथम: परिच्छेद:
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ॥६६॥ खरं ग्रहत्य विश्रान्तः पुरुषो वीर्यवानिति। तद्वृत्त्या तद्वत्वेन । विशिष्टपदसंहिताजन्या इति यावत्। तथा वाक्यार्थत्वेन आथ्र्या व्यञ्जनया वाक्यार्थगततवन वा। दुष्प्रतीतिकरं दुः दुष्टा त्रीडाजुगुप्सादमङ्गलार्थ- ६सूचकत्वेन निन्दिता या प्रतीतिः पदार्थानुभवः तत्करम्। वाक्यस्य वाक्यार्थस्य वा दुष्प्रतीतिकरत्वरूपाश्लीलत्वमिति भावः । ग्राम्यम् ग्राम्यतादोषवत् । तच्च माधुर्ये परित्याज्यम्। तत्र पदसंधानगतं त्रीडाव्यञ्जकत्वरूपमश्लीलं दर्शयति- यथेति। भवतस्तव। प्रिया प्रेयसी। इति असंहितायां प्रस्तुतार्थः । संहितायां तु याभो मैथुनम्। यभ् मैथुने इत्यस्मात् भावे घञ्र्। पश्चाडडमार्थे मतुप्। सततमैथुनानु- रक्तस्य तव प्रिया मैथुनसाधनेन प्रीणयित्री इति अश्लीलार्थद्योतनेन सभ्यानां ६२ वरीडाकरमेतद्वाक्यम्। अतो नात्र माधुर्यम्। ननु-यथा यकारादिपदम् इत्यनेनैव यभूधातुनिष्पन्ने ग्राम्यत्वमुक्तमस्ति । अत्रापि तद्धातुनिष्पन्न एव याभवान् शब्दः । तर्हि तेनैवास्य प्रयोगस्य सदोषत्वे सिद्धे पुनः किमर्थ पदसंधानवृत्या दुष्प्रतीति- १५ करस्य सदोषत्वेन कथनमिति चेन्न। अभिधावृत्त्या असभ्यार्थोपस्थापकस्य स्वतन्त्रपदस्यैव शब्दग्राम्यत्वम्। अत्र तु मुख्यार्थबोधानन्तरं संहितोच्चारण- कल्पनानुरोधेन व्यञ्जनया अश्लीलार्थभानम्। अतो न द्वयोः स्वरूपैक्यम्। १८पदसंधानवृत्या दुष्प्रतीतिकराणि-चलं डामरचेष्टितम् । तदत्रैव रुचिं कुरु। गौरी नारींग्लण्डदेशे विभाति। इत्यादीनि बहूनि सन्ति। अत्र संहितानिरपेक्षाणि पदानि अभिधावृत्त्या असभ्यार्थ दर्शयितुं लेशतोपि न प्रभवन्ति। संहितायां तु २१ असभ्यच्छाया वरीवर्ति। अतः पदपद संधानयोर्दोपयोर्भिन्नस्वरूपत्वेन भिन्नं लक्षणं युक्तमेव ॥ ६६ ॥ वाक्यार्थगत ग्राम्यमुदाहरति-खरमिति। वीर्यवान् पराक्रमशाली पुरुपः दाशरथी रामः। खरं तन्नामकं सक्षसम्। प्रहृत्य। विश्रान्तः विश्रान्ति लेभे। अथवा ३पुरुपः कोपि शूरः। खरं तीक्ष्णम्। ग्रहृत्य शत्रुमभिहत्य । विश्रान्तः विश्रान्ति लेभे। एवं प्राकरणिकोर्थः प्रथममाविर्भवति। पश्चात् वक्त्रादिवैलक्षण्येन वर्यिवान् शुक्र- वान्। पुरुपः कश्चित् कामुको युवा। खरं गाढम्। ग्रहृत्य मदनध्वजप्रहारं दत्त्वा ६विश्रान्तः ग्लानिं प्राप्तः इत्यर्थः आर्थ्या व्यञ्जनया प्रतीतिपदवीमारोहति।
१. वा. अपा.
Page 88
श्राम्यतायाः अपवाद: ७१
एवमादि न शंसन्ति मार्गयोरुभयोरपि ॥ ६७॥। भगिनीभगवत्यादि सर्वत्रैवानुमन्यते।
एवं वाक्यार्थगताल्लीलदोषेण दुष्टत्वान्नात्र माधुर्यम्। न चेदं वाक्यगतम्ल्लीलत्वम्। एकार्थमात्रसंकेतितानां खरमित्यादिवाक्यघटकपदानां शाव्दा व्यञ्जनाया अनाश्र यत्वेन असभ्यार्थोपस्थापकत्वाभावात। वाक्यार्थस्यैव वक्तृविशेपादिभिः आर्थ्या व्यञ्जनया द्वितीयार्थोपस्थापकत्वम्। एवं च शब्दपरिवृ्त्यसत्वसहत्वाभ्यां शब्दार्थ- गतत्वनिश्चयोवगन्तव्यः । तथा च यत्र शब्दपरिवृत्त्यसहमल्ीलं तद्वाक्यगतम्। यत्र १२च तत्सहं तदर्थगतम्। प्रकृतोदाहरणे खरादिपदानां गाढादिपदैः परिवर्तनेपि अ्लीलतायाः सद्भावात् शब्दपरिवृत्तिसहत्वेन अर्थगतत्वं ज्ञेयम्। एवं च यत्र एकार्थमात्रप्रतिपादकानां पदानां प्रकरणादिभिः प्रस्तुतेर्थे निश्चितेपि वक्त्रादि- १५वैशिष्टयसचिवया आर्थ्या व्यञ्जनया अपरार्थस्य भानम् तत्रार्थगतत्वम्। यत्र च अनेकार्थस्य शब्दस्य प्रकरणादिभिः प्रस्तुतार्थे निश्चिते शाब्दा व्यञ्जनया अप्रस्तुतार्थप्रतीतिस्तत्र शब्दगतत्वम्। यदुक्तं प्रकाशे- अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।
न चात्र वीर्यपदस्य शुक्रबलवाचकत्वेन द्यर्थता अस्तीति शाब्दी व्यञ्जना २१ शङ्गितव्या। बलस्य केवलवीर्यजन्यत्वेन एकत्वाङ्गीकारात्। वीर्यपदस्य परिवृत्ता- वपि अश्लीलार्थभानस्य अनपायाच्च। तथा च नेदं वाक्यगतमश्लीलत्वम्। अपि तु अर्थगतमेव। एवमादि निरुक्तग्राम्यतादि। आदिशब्देन नेयत्वादयो दोषा अग्रे २४वर्ण्यमाना ग्राह्याः । उभयोः गौडवैदर्भयोः मार्गयोः । न शंसन्ति न प्रशंसन्ति। तत्तन्मार्गानुयायिनः इति शेष: । एवं च अनुप्रासकृतवैलक्षण्येपि ग्रराम्यतादोष- विषये उभयोरैकमत्यमिति भावः ॥६७॥
पूर्वोक्तग्राम्यतायाः अपवादमाह-भगिनीति भगिनी भगवती आदि- शब्देन योनीलिङ्गादीनां संग्रहः । यथा शिवलिङ्गं विश्वयोनिरित्यादि। सर्वत्र 3व्यवहारे काव्येषु वैदर्भ्यादिरीतिषु च अनुमन्यते निर्दुष्टतया सर्वैः स्वीक्रियते। शिष्टपरिगृहीतानां शब्दानां प्रयोगे दोषानुसंधानायोगात्। श्रोतृणां वैरस्योत्पाद- नेन वैमुख्यजनकत्वाभावात् इति भावः। तदुक्तं भोजराजेन-
Page 89
७२ काव्यादर्शे प्रथम: परिच्छेद:
ग्राम्यं घृणावद ्लीलामङ्गलार्थ यदीरितम्। तत् संवीतेषु गुप्तेषु लक्षितेष न दुप्यति । इति । (१. १०५) संवीतेषु अपुष्टतयाङ्गीकृतेषु। स एव संवीतस्थादुष्टत्वं पुनर्दष्टान्तपूर्वकमाह- संवीतस्य हि लोकेस्मिन् न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्ववासना ॥ इनि। संवीतादीनामुदाहरणानि-
१२ तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने योजययितुं यतस्व। योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ इति। अत्र तद्वीर्यनिषेकभूमिः इति पदस्याश्ल्ीलत्वेपि संवीतत्वाद् गुणत्वम्। गुप्तत्वं नाम १५प्रसिद्धार्थेनाप्रसिद्धासभ्यार्थस्य गोपनम्। यथा- सुदुस्त्यजा यद्यपि जन्मभूमि: गजैरसंबाधमयांबभूवे। स तेनुनेयः सुभगोभिमानी भगिन्ययं नः प्रथमाभिसंधिः॥ १८इति । अत्र जन्मभूमिसंबाधसुभगभगिनीशब्दानां जन्मभूसंकटसुन्दरस्वस्त्राद्यर्थेपु प्रसिद्धानां योन्यादिरूपाश्लीलार्थान्तरत्वेपि प्रथमार्थप्रभावेन गुप्तत्वात् गुणत्वम् । तथा चोक्तम् तत्रैव-
२१ वस्तुमाहात्म्यगुप्तस्य पदार्थस्य विभावनात्। भगिनीभगवत्यादि नासभ्यत्वेन भाव्यते ॥ इति। लक्षितानि असभ्यार्थबोधकानि यथा-
२४ ब्रह्माण्डकारणं योप्सु निदधे बीजमात्मनः । उपस्थानं करोम्येष तस्मै शेषाहिशायिने ॥ इति। अत्र ब्रह्माण्डोपस्थानशब्दयोरसभ्यस्मृतिहेतुत्वेपि अन्यत्र लक्षितत्वाद्गुणत्वम्। २७ कचिदाश्रयसंबन्धाद ्लीलादीनां गुणत्वम्। तदुक्तं भोजराजेन- किंचिदाश्रयसंबन्धाद्धत्ते शोभामसाध्वपि। कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम् ।। इति । (१. १०६) ३० यथा-
Page 90
सुकुमारतागुण: ७३
विभक्तमिति माधुर्यमुच्यते सुकुमारता ॥ ६८ ॥ अनिष्ठुराक्षरप्रायं सुकुमारमिहेष्यते'।
३३ पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्ललद्- व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति। अत्राश्रयस्य पिशाचाङ्गनानां बीभत्सरसोचितत्वात् तद्वर्णनमदोषः । एवं शङ्गारे ३६शान्तरसे च न दोषः । तदुक्तं प्रकाशे-अश्लीलत्वं क्वचिद्गुणः । (७. ३०३) यथा सुरतारम्भगोष्ठयाम्-दयर्थैः पदैः पिशुनयेच्च रहस्यवस्तु । इति काम शास्त्रस्थितौ- करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते। उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते॥ इत्यत्र करिहस्तादयः शब्दा असभ्यार्थबोधकाः सुरतप्रसङ्गवर्णनोदयुक्तस्य कामिन ४२ उक्तित्वान्न दोषावहाः । अत्राप्रस्तुतसमरवृत्तान्तार्थस्तु स्फुट एव। पद्यार्थस्तु प्रकाशटीकायां द्रष्टव्यः । शान्तेपि रसे अक्लीलत्वं न दोषास्पदम् यथा-
४५ केदिनि स्त्रीव्रणे सक्तिरकृम: कस्य जायते॥ इति। एवमादयो आ्रम्यतादोषस्य बहवः अपवादाः सरस्वतीकण्ठाभरणादिपु द्रष्टव्याः। माधुर्यमुपसंहरति-विभक्तमिति। इति एवं पूर्वोक्तगौडवैदर्भमार्गयोः विभक्तम्। गौडा वृत्त्यनुप्रासप्रधानं प्रबन्धं मधुर मन्यन्ते वैदर्भास्तु श्रुव्यनुप्रासप्रधानम् इति विभागद्वयेन स्थितम् । माधुर्यम् माधुर्यगुणः । अस्तीति शेषः । विभक्तं रसघटि- तत्वात् विशेषेण दर्शितमिति केचित्। उच्यते सुकुमारता क्रमप्राप्तं सौकुमार्यम् ५१उच्यते ॥६८॥ सुकुमारं लक्षयति-अनिष्ठुरेति। निष्ठुराणि श्रुतिकटूनि तद्विपरीतानि अनिष्ठुराणि अपरुषाणि कोमलानीत्यर्थः । एतादृशानि यान्यक्षराणि तानि 3प्रायः बाहुल्येन यत्र तादृशं वाक्यं सुकुमारम् सौकुमार्यगुणयुक्तम्। इह साहित्यशास्त्रे। इष्यते कविभिरभिलष्यते। प्रायःशब्देन कोमलवर्णानां सामस्त्यं
१. इहोच्यते. क. [काव्यादर्श] १०
Page 91
७४ काव्यादर्शे प्रथम: परिच्छेद:
बन्धशैथिल्यदोषोपि' नापेक्ष्यते । तदेव सप्रयोजनं विशदयति-बन्धेति। सर्वकोमले कोमल- ६वर्णात्मके काव्ये। बन्धस्य शैथिल्यरूपो दोषो दर्शितः-अल्पप्राणाक्षरोत्तरम् शिथिलं मालतीमाला लोलालिकलिला यथा-इति पूर्वमेव कथितः।(१.४३) दोषोपि इत्यत्र दोषस्तु इति पाठे हेत्वर्थकः तुशब्दो ज्ञेयः । एवं च कोमला- क्षराणां मध्ये मध्ये च परुषाक्षरविन्यासेन मौक्तिकमालाया अन्तरान्तरा रत्न- विन्यासेनेव प्रबन्धस्य चारुत्वं सौकुमार्यम्। न चैवं सति श्लेपसौकुमार्ययोरभेदा- पत्तिः उभयोरपि लक्षणैक्यादिति वाव्यम्। श्लेस्य महाप्राणमिश्रिताल्पप्राणाक्षर- १२ विन्यासविशेषेण सौकुमार्यस्य चानिष्ठुराक्षरप्रायत्वेन च द्वयोः परस्परभिन्नत्वात्। नन्वल्पप्राणाक्षराण्येव सुकुमाराणीति चेन्न। अल्पप्राणान्यक्षराणि रचनाविशेषेण निष्ठुराणि महाप्राणान्यपि च कोमलानि भवन्ति। निष्ठुरत्वं नाम श्रुतिकटत्वम्। १५तच्चैकजातीयानां संयुक्तवर्णानाम् तथा क्षकारह्वाकारादीनामित्यनुभवसिद्धम्। यथा- व्यग्रैरग््याग्रहेन्दुग्रसनगुरुभरैर्नो समग्रैरुदग्रैः
१८ प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैगौरयन् गाम्।
मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ११यथा वा-क्षुत्क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताङ्गान्। इति। यथा वा अग्रे कविनानेनैव दर्शितम्-न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति । (१. ७२ ) अत्राल्पप्राणानामपि श्रुतिकटुत्वं वर्तते। महाप्राणानां रचनाविशेषेण २*श्रुतिमनोहरत्वं थथा -- मधुरया मधुबोधितमाधवी इति पूर्वोदाहृत पद्ये। (११ पत्रे) अत्र धकारस्य महाप्राणत्वेपि श्रतिमाधुर्य वरीवर्ति। नवीनास्तु इदं सौकुमार्य श्रुति- कटुत्वदोषाभावफलं मन्वाना श्रुतिकटुत्वदोषपरिहारेणैव तल्लाभान् तत् स्वतन्त्रतया २७ गुणत्वेन स्वीकुर्वन्ति ॥ सौकुमार्यस्यान्येषां लक्षणान्युदाहरणानि च । तत्रादी भरत :- सुखप्रयोज्यैर्यच्छन्दैर्युक्त सुश्लिष्टसंधिमि:।
30 सुकुमारार्थसंयुक्तं सुकुमारं तदिष्यते ॥ इति। (१६. १०० ) १. दोषो हि. अ, बपा. दोषस्तु. ब, कपा,
Page 92
सुकुमारताया उदाहरणम् ७५
दर्शिंतः सर्वकोमले ॥ ६९ ॥
उदाहरणम्- अङ्गानि चन्दनरजःपरिधूसराणि
33 ताम्बूलरागसुभगोधरपल्लवक्च। अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवावशेषः ॥ इति। ३६भोजराजस्तु आचार्यदण्डिन एव लक्षणोदाहरणानि स्वीकरोति। (१. ६८) वामनः अजरठत्वं सौकुमार्य अजरठत्वमपारुष्यम्। यथा-अस्त्युत्तरस्यां दिशि देवतात्मा इति। (३. १. २१ ) जगन्नाथ: अकाण्डे शोकदायित्वाभाव- ३९ रूपमपारुष्यं सुकुमारता। यथा-तवरया याति पान्थोयं प्रियाविरहकातरः । इति। (६० पत्रे) । अत्र प्रियामरणकातरः इति पाठे पारुष्यं तद्रहितत्वात् सुकुमारता इति भावः । आचार्यदण्डिना शब्दगुणत्वेन सौकुमार्य स्वीकृतम्। परे तु अपारुष्यं ४२सौकुमार्य तच्चार्थगुणत्वेन स्वीकुर्वन्ति। अपारुष्यं नाम परुषेप्यर्थे वक्तव्ये अपरुषरूपेणाभिधानम् । यथा मृत इति वक्तव्ये कीर्तिशेषं गतः इति । यथा वा- ४५ स किलेन्द्रप्रयुक्तेन शौरिणा भूमिनन्दनः । चक्राघातोपदिग्धाध्वा नीतोत्यन्तप्रवासिताम् ॥। इति। भोजोपि अर्थगुणं सौकुमार्यमाह-अनिष्ठुरत्वं यत् प्राद्ुः सौकुमार्य तदुच्यते eइंति। (१. ८०) उदाहरति च- सद्यः पुरीपरिसरेपि शिरीषमृद्दी सीता जवात् त्रिचतुराणि पदानि गत्वा। ५) गन्तव्यमस्ति कियदित्यसकृदूबुवाणा रामाश्रुणः कृतवती प्रथमावतारम् ॥। इति। अयं अमङ्गलदोषाभावः अतो न गुणः । तदुक्तं दर्पणे -ग्राम्यदुःश्रवतात्यागात् ५v कान्तिश्व सुकुमारता। (८. १२) गतार्थेति भावः ॥६९ ॥
१. ०कोमलैः. अ, कपा.
Page 93
७६ काव्यादर्शे प्रथम: परिच्छद:
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः। कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥७० ॥ इत्यनूर्जित एवार्थो नालंकारोपि तादृशः । सुकुमारतयैवैतदारोहति सतां मनेः ॥७१॥ सुकुमारतामुदाहरति-मण्डलीति। मधुराः गीतयः यत्र ताहशैः। कण्ठैः उपलक्षिता: केकारवं कुर्वन्त इत्यर्थः । कलापिनः मयूराः । जीमूताः मेघा: तेषां ३ माला: सन्ति यस्मिन् तादृशे वर्षाकाले। बर्हाणि पिच्छानि। मण्डलीकृत्य मण्डलाकारं विधाय। नृत्यन्ति । अत्र मयूरे नर्तकव्यवहारप्रतीतेः समासोक्तिः। नर्तका अपि गानपूर्वकं तृत्यन्ति । अत्र पूर्वोक्तनिष्ठुरवर्णरचनाभावात् सौकुमार्यम् ॥७०॥ भरतमुनिना स्वीकृतापि सुकुमारता कैश्चित प्राचीनाचार्यन गुणत्वेन परि- गणितास्ति। तद्नुरोधेनैवार्वाचीना अपि वर्णविशेषविन्यासात्मका हि सुकुमारता ३तस्या न गुणत्वं युक्तम्। अर्थस्यालंकारचमत्कृतेर्विना तस्याः स्वयं चमत्काराजनक- त्वादिति वदन्तः सा ग्राम्यदुःश्रवणादिदोषपरिहारेण गतार्था भवतीति मन्यन्ते। तन्मतं खण्डयति-इतीति। इति मण्डलीकृत्येति पद्येन वर्णितः अर्थः कलापि- नर्तनरूपः। अनूर्जित एव अतेजिष्ठ एव रससंपर्कशून्यत्वेनेति भा: तालं कारोपि समासोक्तिरूपः न तादशः न चमत्कारातिशयेन शृङ्गारं परिपोषयति। यथा पिबन् मधु (२. २०६) इत्यादिपदे। तथाप्येतत् पद्यं केवलं सुकुमारतयैव सौकुमार्यगुणसंबन्धेनैव। सतां सहृदयानां। मनः आरोहति। ते तत्रासक्ता भवन्ति इत्यर्थः । अयमत्नाशयः । यद्यप्यस्मिन् पद्येस्ति समासोक्तिः। तथापि न तया सविशेषा चमत्कृतिः रसशून्यत्वात्। अतः सौकुमार्यगुणप्राधान्येनैवैतत् पद्ं १२काव्यं भवति। ततश्च सौकुमार्य गुणत्वेन स्वीकार्यम्। गुणा एव अलंकारापेक्षया प्राधान्येन काव्यहेतवः । इममेवार्थमभिसंधाय प्राचीनैरुक्तम्- तया कवितया किं वा तया वनितया च किम्। १५ पदविन्यासमात्रेण यया नापहतं मनः ॥ इति। असति गुणवैचित्र्ये अर्थालंकारौ न शोभेते। तदुक्तं भोजराजेन
१. मुखम्. कपा.
Page 94
सुकुमारताविपर्ययः ७७
दीप्तमित्यपरैर्भूम्ना कृच्छ्ोद्यमपि वध्यते। न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति ॥ ७२॥ अलंकृतमपि श्रव्यं न काव्यं गुणवर्जितम्। इति। यदि भवति वचशच्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥ (१.५९.१५९) इति। ३ १ जगन्नाथेनापि रसात्मकं वाक्यं काव्यम् इत्यस्य खण्डनप्रसङ्गे काव्ये शब्दप्राधान्य- मुद्दिश्य यदुक्तं तदपि आचार्यदण्डिनोनुरोधेनैवेति ज्ञेयम्। तददोषौ शब्दार्थौ इति लक्षणं न विचारक्षममिति तु पूर्व (१३ पत्रे) प्रपश्चितमेव ॥ ७१ ॥ गौडास्त्वदं सौकुमार्य नापेक्षन्त इत्याह-दीप्नमिति। अपरैः गौडकविभिः। दीप्म् दीप्ति: औज्ज्वल्यं तद्युक्तं तद्व्यञ्जकं समुत्तेजकमिति यावत् । दीप्तमिति 3 हेतुना कृच्छ्ोदमपि कृच्छेण कष्टेन उद्य उच्चार्यमपि। पदं वाक्यं चेति शेषः । भूम्ना बाहुल्येन । बध्यते काव्ये प्रयुज्यते । ओजस्विरचनानुकूलतया परुषवर्ण- घटितमत एव कष्टोच्चार्यमपि तैः पदं वाक्यं वाङ्गीक्रियते। सर्वथा ओजोगुण- ६विशिष्टरचनाप्रिया गौडा रसादिकमननुरुध्यैव तां रीतिमाद्रियन्ते। एतदुदाहरणेन विशदयति-न्यक्षेणेति। निर्गते अक्षिणी यस्य सः न्यक्षः धृतराष्ट्रः तेन। क्षत्रियाणां पक्षः समूहः। अखिलक्षत्रियकुलमिति यावत्। क्षणात् क्षणमात्रादेव। १क्षपितः दुर्मन्त्रेण पुत्रादिभि: नाशितः। कुरुक्षेत्रे महासंग्रामे इत्यर्थः। अत्र धृतराष्ट्रस्य वर्णनप्रसङ्गे तस्यायुध्यमानत्वान्न वीररसप्रसङ्गः । अपि तु दुर्मन्त्रेण सकलक्षत्रियो. त्सादात् करुणरसस्यैव वर्णनं प्रस्तुतम्। तत्र चौजःप्रधानरचनाया अयुक्तत्वान्न १२केवलमुच्चारणेन अपि तु रसप्रसङ्गेनापि कृच्छोद्यमेतादृशं प्रबन्धं गौडा विरचयन्ति। तच्च रसापकर्षकत्वान्न वैदर्भैरङ्गाक्रियते। अत्र प्रेमचन्द्रशर्मभिः स्वटीकायां यदुक्तम्- गौडा हि यत्र वीररसादिरूपमोजस्वि व्यङ्गयं तत्र परुषवर्णैस्त्यञ्जनस्यावश्यकतया १५ सौकुमार्य नाद्रियन्ते। वैदर्भास्तु तत्रापि सौकुमार्य प्रवेशयन्ति। यथा- कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं
१. पक्ष: क्षपितः, अ, क्षयितः. ब, कपा, ड, प.
Page 95
७८ काव्यादर्शे प्रथम: परिच्छेद:
अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता। भूः खुरक्षुण्णनागासृगलोहितादुदघेरिति॥७३॥ १८ नरकरिपुणा सार्ध तेषां सभीमकिरीटिना- मयमह्मसृड्मेदोमांसैः करोमि दिशां बलिम् ।। इति। अत्र रौद्रेपि रसे नात्यन्तमुद्धता वर्णाः इति। तत् सर्व ग्रन्थकर्तुराशयविरुद्धम्। न श१हि ग्रन्थकर्त्रा वैदर्भाणां कुत्रचिदपि साक्षात् परंपरया वा निन्दा कृता दृश्यते यथा गौडानाम्। न वा वैदमैः कृतमनुमतमित्यादि पद्यमनुद्धतवर्णलवेन निर्दोषमिति प्रशंसितमस्ति । तथा चैतादशं किमपि पद्यं प्रदर्श्य वैदर्भाणामुपहासविधानं २गौडानामुपहासायैव भवतीत्याचार्यदण्डिन आशयं विजानन्तः पण्डिता अवगच्छेयुः। तथैव च गौडानां न्यक्षेणेत्यस्य परशुरामेणेत्यर्थकरणमपि कष्टसाध्यं केवलं गौड- दोषपरिहारार्थ वीररसवर्णनप्रसङ्गसंपादनायैवेति सुधियो विदांकुर्वन्त्वित्यलं परम- २७तसरोद्वाटनेन ॥ ७२ ॥ क्रमप्राप्तामर्थव्यक्तिमुदाहरति-अर्थेति। अर्थस्य वाक्यार्थाङ्गभूतस्य अने- यत्वम् अध्याहारादिकष्टकल्पनानैरपेक्ष्येण प्रयुक्तपदेभ्य एवोपस्थितिः । अर्थव्यक्तिः 3 एतत्संज्ञको गुणः । तथा च यावन्तोर्था अन्वयोपयोगितयापेक्ष्यन्ते तद्वोधनाय तावतां पदानां विन्यासोर्थव्यक्तिः । उदाहरति -हरिणेति। हरिणा वराहृरूपधारिणा विष्णुना । खुरक्षुण्णनागासृगलोहितात् खुरेण शफेन अर्थात् स्वस्यैव क्षुण्णा: ६ताडिता: ये नागा रसातलवर्तिनो भुजगाः तेषामसृग्मिर्लोहितात् आरक्ताद। उदधे: समुद्रात्। भू: पृथ्वी। उद्धता ऊर्ध्वमानीता । अत्राप्रसिद्धस्यादधेलौहित्यस्य वर्णने किमपि कारणमवश्यं निर्देष्टव्यम्। तच्च खुरक्षुण्णेतिविशेषणेन अत्र स्पष्टमेवो- पात्तम् । अतो नात्रोन्रयनपरिश्रमस्य प्रयोजनमस्ति । अतो यादवपेक्षितार्थस्य विन्यस्तपदेनैव भानादत्रार्थव्यक्तिः । अयं शब्दगुणः ॥ अथ भरतादीनां लक्षणो- दाहरणानि। तत्र भरत :-
१२ सुप्रसिद्धा धातुना तु लोककर्मव्यवस्थिता। या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥ इति। (१६. १०१) १५ विवृणोत्येतद्वेमचन्द्रः (१९९ पत्रे)-यस्मिन्नतथास्थितोपि तथास्थित एवार्थ: प्रतिभाति सोर्थव्यक्तिगुण इति। उदाहरति च-
Page 96
अर्थव्यक्तिगुणः ७९
च्युतामिन्दार्लेखां रतिकलहभग्रं च वलयं १८ दवयं चक्रीकृत्य प्रहसितमुखी शैलतनया। अवोचदं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ इति। २१सोयं प्रसादादभिन्न इति वामनादयः । यदुक्तं तेन-अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः । यत्र झटित्यर्थप्रतिपत्तिहेतुत्वं स गुणोर्थव्यक्तिः । यथा-अस्त्युत्तरस्याम् इत्यादों इति (३.१. २३)। वामनाभिप्रायमेवान्ये विवृण्वन्ति यथा-यत्र पुरस्तादिव २्वस्तुनोवगतिः पश्चादिव वाचां सार्थव्यक्तिः । उदाहरणं तु- महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदान्तरात्मनि। न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥ इति । २७अयं प्रसाद एवेति परे। भोजराज :- यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम्। इति लक्षयित्वा उदाहरति। यथा- वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ इति। (१. ६९) 30 वाग्भटस्तु-यत्र सुखेनार्थप्रतीतिः सार्थव्यक्तिः। यथा - बाले तिलकलेखेयं भाले भल्लीव राजते। 33 भूलताचापमाकृष्य न विझ्ः कं हनिष्यति ॥ इति। (३० पत्रे) अयमर्थगुणोपि। यत्र वस्तुखभावस्फुटीकरणरूपोर्थ: सोर्थगुणः । तदुक्तं वामनेन- वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः । वस्तूनां भावानां स्वभावस्य स्फुटत्वं यत् असा- ३६वर्थव्यक्तिः । यथा -- पृष्ठेषु शङ्गशकलच्छविषु च्छादानां राजीभिरङ्कितमलक्तकलोहिनीभिः । 3९ गोरोचनाहरित बभ्ुबहि:पलाश- मामोदते कुमुदमम्भसि पल्वलस्य ।। इति । (३. २. १३ ) अत्र कुमुदस्वरूपस्य साक्षादिव प्रतीयमानत्वेन यत् स्पष्टरूपाभिधानमसावर्थ- ४२व्यक्तिः इति स्ववृत्तौ भोज:। (१. ८१) जगन्नाथोपि झगिति प्रतीयमानार्था-
Page 97
८० काव्यादर्शे प्रथम: परिच्छेद:
मही महावराहेण लोहितादुदधृतोदधेः। इतीयत्येव निर्दिष्टे नेयत्वमुरगासृजः॥। ७४॥ न्वयकत्वमर्थव्यक्तिः इति शाब्दीमभिधाय वस्तुनो वर्णनयिस्यासाधारणक्रिया- रूपयोर्वर्णनमर्थव्यक्ति: इति आर्थीमाह। (६८ पत्रे) यथा- ४५ गुरुमध्ये कमलाक्षी कमलाक्षेण प्रहर्तुकामं माम् । रदयन्त्रितरसनाग्रं तरलितनयन निवारयाचक्रे॥ इति। (६० पत्र) इयं स्वभावोक्तावन्तर्भवतीति प्रकाशकारादयः। तदुक्तं -अभिधास्यमानस्वमावी eक्त्यलंकारेण वस्तुस्वभावस्फुटत्वरूपार्थव्यक्तिः स्व्रीकृता इति। (५८३ पत्रे) दर्पणकारः शब्दगुणामिमां प्रसादगुणे एव अन्तर्भावयति यथा- अर्थव्यक्तेः प्रसादाख्यगुणेनैव परिग्रहः । ५१ अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम्॥ इति ।८.११-१२) तथा च शाब्दी अर्थव्यक्तिः प्रसादगुणेन आर्थी स्वभावोक्त्यलंकारेण गतार्थी इति ज्ञेयम्। अत्र केचित् इमामर्थव्यक्तिं निर्हेतुदोपाभावरूपां परिकल्प्य यत्र तद्दांषा- ५ञ्वसरो नास्ति तत्र नेयत्वेपि अर्थव्यक्तिरस्तीति मन्यन्ते। तच्च यत्रातिप्रसिद्धितो नेयार्थो झटित्याविर्भवति तत्रैव संभवति। यथा-संप्रति संध्यासमयश्चकरद्वन्द्वानि विधटयति। इति। अत्र संध्यायां चक्रवाकविघटनस्य कविसमयप्रसििद्धतया ५७ तत्कारणप्रतिपादकशब्दाभावेप्यर्थव्यक्तिरस्ति । भोजराजेनापि उक्तम्- अध्याहारादिगम्यार्थ नेयार्थ प्रागुदाह्ृतम्। स गम्यते प्रसिद्धश्चेन्न तद्दोषवदिष्यते ॥ इति। (१. १३०) ६० उदाहरति च- मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा। वाहिनीजलभर: कुलिशं वा स्वस्ति तेस्तु लतया सह वृक्ष ।। ६३अत्र दहत्वित्यादीनामध्याहार्यतया नेयत्वेप्यतिप्रसिद्धया प्रतीयमानत्वात् गुणत्वभ्। इति ॥। ७३ ॥
अनेयार्थप्रतियोगिभूतं नेयार्थ दर्शयति-महीति। पूर्वार्धस्यार्थः प्रोक्त एव। इति इयत्येव एतावन्मात्रे एव खरक्षुण्णनागासृग् इति पदं परिद्वत्येत्यर्थः । ३निर्दिष्टे प्रयुक्ते सति। उरगासृजः नेयत्वम् अध्याहारेण कल्पनीयत्वमवश्यं स्याद्। अन्यथा उदधेलौंहित्यस्यासंभवात् लोहितादिति विशेपणं व्यर्थ स्याद्। तथा च
Page 98
अर्थव्यक्तिविपर्ययः ८१
लौहित्यसंपादनाय कश्चिदुपाधि: कथनीयः । तदुपाधिवाचकपदाभावे चावश्यमेवा- इध्याहार: करणीयः इति नास्त्यर्थव्यक्तिः। तदुक्तं भोजेन- वाक्यं भवति नेयार्थमर्थव्यक्तेर्विपर्ययात्।। मही महावराहेण लोहितादुद्टृतोदधेः । इतीयत्येव निर्दिष्टे नेया लौहित्यहेतवः ॥ इति। (१.३४) यत्र त्वन्वयबोधात् प्राकू बाधादिज्ञानेन लक्षणयार्थान्तरोपस्थितिस्तत्रार्थव्यक्ति- रस्त्येव न तत्र नेयत्वम् । अभिधाशक्त्येव लक्षणयाप्युपस्थाप्यार्थस्यान्वयबोध- १२ विषयतायामवैलक्षण्यात्। अन्वयबाधोत्तरमनुपपत्युदयेन कल्पनीयार्थस्य नेयत्वाद्। लक्षणायामपि यत्र रूढिप्रयोजनाभावेपि लक्षणास्वीकारस्तत्रार्थस्य नेयत्वमिति नार्थव्यक्तिः । एतादृशलाक्षणिकपदस्यैव नेयार्थत्वमुक्तं प्रकाशकारादिभिः । १५ एतादृशलक्षणाया निषेधोपि भट्टकुमारिलेन तन्त्रवार्तिकेमिहितः । तथा हि- निरूढा लक्षणा: काश्चित् सामर्थ्यादभिधानवद्। क्रियन्ते सांप्रतं काश्चित काश्चिनैव त्वशक्तितः ॥ इति। १८ (३. १८; ७०० पत्रे ) अस्यार्थ :-- अभिधानवत् अभिधाशक्तिवत् सामर्थ्यात् प्रसिद्धेः शब्दखभावाद्वा निरूढा: अनादिप्रसिद्धाः काश्चिल्लक्षणा भवन्तीति शेषः । यथा कर्मणि कुशलः । २१सांप्रतम् अधुना काश्चित् लक्षणाः क्रियन्ते प्रयोजनवशादिति शेषः । यथा गङ्गायां घोषः इत्यादौ। काश्चिल्लक्षणा अशक्तितः प्रत्यायन सामर्थ्याभावान्नैव क्रियन्ते। तत्र रूढिप्रयोजनान्यतरासंभवादिति शेषः। यथा रूपी घट इत्यादौ। २४इति । एवं रूढिप्रयोजनान्यतराभावाल्लक्षणा नैव कर्तव्या इत्यर्थः । कविरशक्त्या यत्रैवं लक्षणां करोति तत्नैव नेयत्वं यथा- शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्। करोति ते मुखं तन्वि चपेटापतनातिथिम् ।। इति। अत्र जितमित्यर्थे चपेटापतनातिथिम् इत्यस्य लक्षणा वर्तते। परं तत्न रूढि- प्रयोजनान्यतराभावाद् मुख्यार्थातिरिक्तार्थस्याप्रतीतेनैव लक्षणा भवितुमर्हतीत्यलं ३०प्रसक्तानुप्रसक्त्या ॥ ७४॥ [काव्यादर्श] ११
Page 99
८२ काव्यादर्शे प्रथम: परिच्छेद:
नेद्ृशं बडु मन्यन्ते मार्गयोरुभयोरपि। न हि प्रतीतिः सुभगा शब्दन्यायविलङ्गिनी ॥७५॥ उत्कृर्षवान् गुणः कश्रिद् यस्मिन्तुक्ते प्रतीयते । नेयत्वदोषे गौडवैदर्भयोरैकमत्यं कथयति-नेदृशमिति। ईदृशं नेयार्थक वाक्यभ्। उभयोरपि मार्गयोः गौडवैदर्मयोः। न बहु मन्यन्ते। आलंकारिका इति शेषः। ३अत्र हेतुं दर्शयति -न हीति। शब्दन्यायः शब्दजान्वयबोधपद्धतिः वृत्त्युपस्थाप्या- नामेवार्थानामन्वय इत्येवंरूपा तं विलद्दयति अतिक्रामतीति शब्दन्यायविलद्विनी। अध्याहारेण यथाकथंचिदर्थसंपन्नेत्यर्थः । प्रतीतिः अन्वितो वाक्यार्थः । न हि ६सुभगा न समीचीनः । अत्राहुः प्रेमचन्द्रशर्माणः-अर्थापत्त्याद्युपस्थापितार्थ- प्रतीतेस्तु न शाब्दबोधत्वं तदुत्तरमेव तस्याः सद्भावात्। एवं तात्पर्यपर्यालोचनया अर्थान्तरप्रतीतिरपि शाब्दबोधोत्तरकालीनैव। अतस्तादृशं वाक्यं नेयत्वदोषग्रस्त- ९मिति भाव: । यत्र तु द्वारं द्वारमित्यादौ त्वरादिना पिधेहीत्यादिसाकाड्क्षपदा- न्तरानुपादानेन शाब्दबोधासंभवात् तदर्थ श्ृतार्थापत्या तादशपदाध्याहारः तत्र अध्याहृतपदेपि शक्तिग्रहाभ्युपगमेन तदर्थस्य वृत्युपस्थाप्यत्वेन न तन्नियमाति- १२क्मः । एतच्च त्रिशिष्टशक्तिवादमभिप्रेत्योक्तम्। उपाधिशक्तिवादिभिस्तु आक्षेपगम्याया अपि व्यक्ते शाब्दबोधाभ्युपगमान्निरुक्तनियमो नाङ्गीक्रियते इति विभावनीयम् इति दिक् ॥ ७५॥ उदारं लक्षयति-उत्कर्षवानिति। यस्मिन् वाक्ये। उक्ते सति। उत्कर्ष- वान् वर्णनीयोत्कर्षप्रतिपादकः लोकोत्तरचमत्काराधायी। गुणः धर्मविशेषः। प्रतीयते ज्ञानविषयो भवति। तद्वाक्यमुदाराह्वयम् उदारसंज्ञकम। तेन औदार्यगुणेन काव्य- पद्धतिः गौडवैदर्भीया काव्यरीतिः। सनाथा प्रकृष्टाश्रया। औदार्याश्रयेण काव्यं सविशेषमुछ्लसतीत्यर्थः । अत्रोत्कर्षवान् इत्यनेन वर्ण्योत्कर्षजनकगुणोपेक्ष्यते नाप- इकर्षजनकः । तेन- हे हेलाजितबोधिसत्व वचसां कि विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतत्रतः।
१. उक्ते यस्मिन्. कपा.
Page 100
उदारत्वगुण: ८३
तदुदाराह्वयं तेन सनाथा काव्यपद्तिः ॥७६॥ तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो- भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरो: ॥ इत्यत्र नोदारतेति केचित्। परे तु उत्कर्षवान् वर्णनभङ्गिविशेषेण चमत्कारजनको : २गुण: उत्कर्षापकर्षस्वरूपो वर्ण्यस्य धर्मः औदार्यमिति स्वीकुर्वन्ति। हे हेलाजितेत्यत्र औदार्यगुणं च मन्वते। सर्वपद्धतिः इति पाठे सर्वा गौडवैदर्भीरूपा इति अय- मेवार्थः । औदार्ये गौडवैदर्भयोरैक्यमस्तीति भावः । गुणव्यञ्जकता वाक्यस्य १५वाक्यार्थद्वारा। तेनास्य गुणस्यार्थगतत्वम् । शब्दगतस्त्वयं विकटत्वस्वरूपः वामनादिभि: स्वीकृतो वर्तते। विकठत्वं च पदानां नृत्यत्प्रायत्वम्। उदाहरति च वामन :-
१८
झणिति रणितमासीत तत्र चित्रं कलं च। (३.१.२२) इति। न पुनः- २१ चरणकमललग्नैर्नपुरैर्नर्त कीनां झटिति रणितमासीन्मञ्जु चित्रं च तत्र। इति। अत्रेतरेषां लक्षणोदाहरणानि। तत्रादौ भरत :-
२४ दिव्यभावपरीत यच्छङ्गारा्ुतयोजितम्। अनेकभावसंयुक्तमुदारं तत् प्रकीर्तितम् ॥ (१६. १०२) अत्रोदाहरति हेमचन्द्र :- ये पूर्व यवसूचिसूत्रसुहदो ये केतकाग्रच्छद- च्छायाधाम पुनर्मुणाललतिकालावण्यभाजोत्र ये। ये धाराम्बुविडम्बिनः क्षणमधो ये तारहारश्रिय-
३० स्तेमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ इति। (१९९ पत्रे ) शब्दगुणमिममुदाहरति हेमचन्द्र :-
१ सर्व०. कपा.
Page 101
८४ काव्यादर्शे प्रथम: परिच्छेद:
33 अत्रान्तरे झणितहारलतानितम्ब-
देवी व्यपास्य शयनं धृतमानतन्तु- ३६ रन्तःपुरं गतवती सह सौविदह्ः ॥ इति (१९९ पत्रे) अर्थगुणं तु अग्राम्यत्वमुदारता इति लक्षयति वामनः । अस्य उदाहरणं च- त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
३९ कलानां सीमान्तं परमिह युवामेव भजथः । आय द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति मा- मतः शेषं चेत् स्यात् जितमिह तदानी गुणितया॥ इति। ४२ (३. २. १३ ) अत्र प्रथमं त्वं स चेति पृथक्तयोक्तेस्तदनन्तरं युवामिति सामान्यमिश्रकिरणादनन्तरं द्वन्दवमिति विशिष्टसंश्लेषदर्शनात् अन्ते ततः शेपमिति विवक्षितार्थव्यञ्जनमुखेन ४५ फलपर्यवसायित्वम् औचित्यशालिना क्रमेण कामन्दक्या मालतीमुद्दिश्योक्तम् इति उदारता इति कामधेनुकाराः । अस्य ग्रत्युदाहरणम्-स्वपिति यावदयमिति पूर्वोक्तः श्रोकः (६७ पत्रे)। भोजराजः शब्दौदार्यभ्-विकटाक्षरबन्धत्वमार्यै- veरौदार्यमुच्यते। इति लक्षयति उदाहरति च- आरोहत्यवनीरुहं प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेढि विचेष्टते क्षितितले कुञ्जोदरे लीयते।
५१ अन्तर्भ्राम्यति कोटरस्य विहरत्यालम्बते वीरुध: किं तद्न्न करोति मारुतवशं यातः कृशानुर्वने ॥ इति। (१. ७०) ५ अर्थगुणं तु भूत्युत्कर्षमुदारता इति संवर्ण्योदाहरति- प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काश्चनपभ्मरेणुकपिशे पुण्याभिषेकक्रिया। ५७ ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसंनिधौ संयमो यद्वाञ्छन्ति तपोभिरन्यमुनयः तस्मिस्तपस्यन्त्यमी। इति ॥(१.८१)
Page 102
उदारत्वगुण: ८५
अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सक्रत्। तदवस्था पुनर्देव नान्यस्य मुखमीक्षते।। ७७॥ इति त्यागस्य वाक्येस्मिन्नुत्कर्षः सारधु लक्ष्यते।
वाग्भटो हि विकटबन्धत्वमौदार्यम् इति निर्दिश्य उदाहरति -- ६० वाचाला कनकमयध्वजाग्रसङ्ङि-
चैत्याली जगति न कस्य राहडस्य
६३ प्रेङ्खन्ती भवति मनःप्रहर्षणीयम् ॥ (३० पत्रे) इति। जगनाथः शब्दगुणस्य-कठिणवर्णघटनारूपविकटत्वलक्षणोदारता इति लक्षणं प्रदर्श्य उदाहरति यथा-
६६ प्रमोदभरतुन्दिलप्रमथद त्ततालावली- विनोदिनि विनायके डमरुडिण्डिमध्वानिनि। ललाटत टविस्फुटन्रवकृपीटयोनिच्छटो
६९ हठोद्धतजटोद्गटो गतपटो नटो नृत्यति॥ (५७ पत्र) अर्थगुणं तु-चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये। इत्यग्राम्यार्थपरिहारमुदा- रता इति। सोयं शब्दगुणः ओजसि अन्तर्भवति अर्थगुणस्तु अग्राम्यतादोष- ७२परिहाररूपः इति वदन्त्यर्वाञ्चः दर्पणकारादयः ॥ ७६॥
उदारमुदाहरति-अर्थिनामिति। कस्यचिद्राज्ञः प्रशंसेयम्। हे देव महाराज। अर्थिनां याचकानाम् । कृपणा दीना। दृष्टिः त्वन्मुखे सकृतू एकवार- 3 मेव। पतिता सती। पुनः पश्चात्। तदवस्था दीना भूत्वा। अन्यस्य मुखं नेक्षते । त्वयैव परिपूरिताशानां नान्यत्र याञ्चार्थ गमनमिति भावः । एतेन राज्ञः ईदृशी दानशक्तिर्यद्याचकाः परिपूर्णमनोरथाः नान्यं दातारं पश्यन्ति इति भङ्गयन्तरेण ६दानमाहात्म्यवर्णनेन सहृदयानां चमत्कारविशेपो भवति। अतः उदारगुणमेतत् पद्यम्।। ७७।। उदाहरणं लक्षणेन संयोजयति-इतीति। इति पूर्वोक्तप्रकारेण दर्शि- १ खलु, बपा.
Page 103
८६ काव्यादर्शे प्रथम: परिच्छेद:
अनेनैव पथान्येच्च समानन्यायमूद्यताम् ॥७८॥ श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते।
ओज: समासभूयस्त्वमेतद्गद्यस्य जीवितम्। तस्यं वर्णनीयस्य राजो दानस्य उत्कर्षः चमत्कारविशेषेण परिपोषः । अस्मिन् 3 वाक्ये अर्थिनां कृपणेत्यादिवाक्ये। साधु सम्यक्। लक्ष्यते दृश्यते। खलु इति पाठे निश्येनेत्यर्थः । अनेनैव पथा ईदृशवर्णनप्रकारेण। अन्यत् वीर्यधैर्यादेरुत्कर्षापकर्षा- देवर्णनम्। समानन्यायं समान: सदशः न्यायो व्यवस्थितिः उत्कर्पेण वर्णनरूपा ६यस्य तत् तादृशमुदाहरणम्। ऊह्यतां विभाव्यताम्। अनेन गुणवर्णने एव उदारो भवतीति न। अपि तु दोषस्याप्युत्कर्षेण वर्णने स भवति। यथा हे हेलाजितेत्यादौ इति सूचितम् ॥ ७८॥
उत्तानपदतौदार्य युत श्लाध्यैर्विशेषणैः । इत्यग्निपुराणस्थम् (३४६.९) उदारतालक्षणं वर्णयति-श्लाव्यैर्विशेषणैरिति। श्लाध्यैः विशेष्यस्योत्कर्षाधाय- 3 कत्वेन मनोहरैः । विशेषणैर्युक्तम्। उदारम् उदारगुणवत्। इति कैश्चिदभियुक्तैः। इष्यते अङ्गीक्रियते। अत्र कैश्चिदित्यनेन साभिप्रायविशेषणत्वस्यापुष्टार्थत्वदोषाभाव- रूपत्वादन्यैः परिकरालंकारेणोक्तत्वाच्च न गुणत्वमुचितमित्यस्मिन् कल्पे स्वस्या- 5सरसः सूचितः इति यत् प्रेमचन्द्रमहाशयैरुक्तं तन्न मनोहरम्। प्रकृतकविना अर्थालंकारे परिकरस्यापरिगणितत्वात् दोषविचारेपि अपुष्टार्थत्वदोषस्यानुक्तत्वाच्चेति ज्ञेयम्। उदाहरति- यथेति। अत्र लिलशब्देन वर्णिकार सौर ् या ति शय : क्रीडाशब्देन कमलसारसविहारनौसनाथत्वम् हेमशब्देन च महार्घत्वं रत्नखचि- तत्वं च सूच्यते। एवं मणिनूपुरं रत्नकाश्ची कनककुण्डलम् इत्यादीन्युदाहरणानि ऊह्यानि॥ ७९॥
क्रमप्राप्तमोजो लक्षयति- ओज इति । समासभूयस्त्वम् समसनम् पदयोः पदानां वा एकीकरणं समासः । अथवा समस्यते एकीक्रियते अनेके पदं अयस्मिन् स समासः। अकर्तरि च कारके संज्ञायामिति घञ्। तेषां भूयस्त्वं
१. अन्यत्र. ब, ड, प,
Page 104
ओजोगुणः ८७
पद्येप्यदाक्षिणात्यानामिदमेकं परायणम्।। ८० ।।
बाहुल्यम्। बहुपदसमासः इत्यर्थः । ओजः ओजोगुणः । एतत् समासभूयस्त्व- रूपमोजः । गद्यस्य गद्यप्रबन्धस्य । जीवितं प्राणभूतम्। इदं चोभयोः मार्गयोः ६समानम्। अदाक्षिणात्यानां गौडानां पद्येपि अपिना गद्यसमुच्चयः । एकं परा- यणम् अद्वितीयावलम्बनम्। विकटबन्धप्रिया हि गौडाः तत्संपादकानुप्रासदीर्घ समासादिषु अत्यन्तादरशालिन इत्यर्थः । समासस्य शब्दमात्रगतत्वेन इदमोजः ९शब्दगुणः । वामनस्तु अर्थस्य प्रौढिरोजः (३.२२) इति अर्थगतमपि तं स्वीकरोति। सा च प्रौदिः पञ्चविधा। तथाहि- पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा।
१२ प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ।। इति। एकपदार्थस्य बहुभिः पदैरभिधानं पदार्थे वाक्यवचनम् । यथा चन्द्र इत्येक- पदार्थे वक्तव्ये-अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः। इति वाक्यवचनम्। १५बहूनां पदार्थानामेकपदेनाभिधानं वाक्यार्थे पदाभिधा यथा -- दिव्येयं न भवति किंतु मानुषी इति वक्त्व्ये निमिषति इति पदप्रयोगः । व्यासः विस्तारः एक- वाक्यार्थस्यानेकवाक्येन प्रतिपादनम्। यथा-
१८ अयं नानाकारो भवति सुखदुःखव्यतिकरः सुखं वा दुःखं वा न भवति भवत्येव च ततः । पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि तत् २१ पुनस्तस्मादूर्ध्व भवति न च दुःखं न च सुखम् ॥ इति। अयमविसंवादितयानुभूयमानः सुखदुःखव्यतिकरो नानाकारो विचित्ररूपो भव- तीति प्रतिपाद्यार्थः । तस्यैव सुखं वा दुःखं वा इत्यादिभिर्विस्तरः। अनेकवाक्यार्थ- ३* स्यैकवाक्येन प्रत्यायनं समासः यथा- ते हिमालयमामन्त्रय पुनः प्रेक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुदयुः ॥ इति। १७ते खमुदयुरित्येकेनैव वाक्येनामन्त्रणप्रेक्षणनिवेदनविसर्जनादर्थानां नानावाक्यार्थ- प्रतिपाधानां प्रतिपादनात् समासः। अस्य वाक्यार्थस्य साभिप्रायत्वं सहेतुकत्वम् । यथा-
Page 105
८८ काव्यादर्शे प्रथम: परिच्छेद:
३० सोयं संप्रति चन्द्रगुप्ततनयश्चन्द्रप्रकाशो युवा जातो भूपतिराश्रयः कृतधियां दिष्टया कृतार्थश्रमः ॥ इति। अत्राश्रयः कृतधियामित्यस्य वसुबन्धुसाचिव्योपक्षेपपरत्वात साभिप्रायत्वम्। अथवा ३ 3सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः । इत्यत्र सुधांशुकलितोत्तंसः इति विशे- षणस्य तापहरणरूपप्रकृतार्थोपयुक्तत्वात् साभिप्रायत्वमिति केचित्। तत्र चत्वारः प्रथमभेदाः उक्तिवैचित्र्यमात्ररूपाः न तु गुणरूपास्तेपामभावेपि यः कौमारहरः ३ ६इत्यादिप्रबन्धेषु काव्यव्यवहारात्। यश्च साभिप्रायत्वरूप ओजोगुणस्तस्यापुष्टार्थ- त्वदोषपरिहारस्वरूपेण गतार्थत्वान्न पृथक् परिगणनमावश्यकमिति प्रकाशकारादय:। (५८२ पत्रे) । अत्रान्येषां लक्षणोदाहरणानि। तत्र भरतः-
3९ सा तु( यत् तु)सरैरुदारेश्व तदोज: परिकार्तित ॥ (१६.९९) इति। अत्र हेमचन्द्र :- अवगीतस्य अहीनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं ४२निपिश्चन्ति कवयस्तदोज इति भरतः इति भरतमनूद्य उदाहरति - गोमायवः शकुनयोत्र शुनां गणोत्र लुम्पन्ति कीटकृमयः परितस्तथैते।
४५ त्वं संपद सकलसत्त्वकृतोपकारां न [नो] दृष्टवान् यदसि तच्छव वश्चितोसि॥ (१९५ पत्रे) इति। अयं कवेर्वर्णनप्रकारो न तु काव्यगुणः इति आचार्यदण्डिन आकूतमभिधाय *eसमासभूयस्त्वमोजः इति तल्लक्षणमिधत्ते। वामनस्तु-गाढबन्धत्वमोजः (३.१.५) इति शब्दगतौजसो लक्षणं विधाय विलुलितमकरन्दा मञ्जरीरनर्तयन्ति। इति उदाहरति। हेमचन्द्रस्तु वामनेन लक्षितस्यौजसः-
५१ भस्मवर्म फणिनः पतिर्गवा- मस्थिपड्क्तिरिति ते परिग्रह्ः। ईश इव्ययमनन्यचुम्बित ५४ श्रन्द्रचूड तदपि त्वयि ध्वनिः ॥ (१९५ पत्रे) इति। एतदुदाहरणं दर्शयति। भोजराजस्तु -- ओजः समासभयस्त्वम् इति शब्दगुणस्य लक्षणं विधाय-
Page 106
ओजि गौडवैदर्भाणां विषयविभाग: ८९
५७ जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु- स्त्रवद मृतनिवृत्तप्रेतभावैः कपालैः । विरचितनुतिबन्धो मूर्झि सदयः पुरारे: ६० परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥। (१.७४) इत्युदाहरति। अर्थगुणं तु-ओजः स्वाध्यवसायस्य विशेषोर्थेषु यो भवेत्। इति लक्षयत्वोदाहरति- ६३ तान्येव यदि भूतानि ता एव यदि शक्तयः । ततः परशुरामस्य न प्रतीमः पराभवम् ॥ (१'८२) इति। अत्र परशुरामो विजयते एव इत्यभिप्रेतार्थे स्वनिश्चयप्रतिपादनत्वेनौजः। प्रकाश- ६६कार: चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः इति (८'६९) लक्षयति। उदा- हरणं तु चञ्चद्दुजेत्यादि ऊहनीयम् । दीप्तिहेतुरोजः इति तु वाग्भटः । तच्च वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम् इत्यभिधायोदाहरति। तत्र वीरे - शैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनि- स्तम्बक्षोभितभैरवार्णवभवत्कल्पान्तकालभ्रमम् । कोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव द्रुतं ७२ ब्रूत ब्रूत भटाः क स क्क स नरः शम्बूकजीवाहरः ॥ (३० पत्रे ) इति। बीभत्से-उत्कृत्योत्कृत्य कृत्तिम् इत्यादिकम् रौद्रे- चञ्चद्ुजभ्रमितेत्यादिकं च ५अनुसर्तव्यम् । दर्पणकारस्य लक्षणं प्रकाशकारानुरोधि एव । कविराजस्तु संयोगपरहृस्वप्राचुर्यरूपं गाढत्वमोजः इति लक्षणं विधाय -- साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर- क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलै: सानन्दमालोकिता भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥ (रसगङ्गा.५८पते) ८१ इत्युदाहरति। पदार्थे वाक्यरचना इत्याद्यर्थगुणस्य पञ्चप्रकारत्वं प्रपञ्च्य विविधा- न्युदाहरणान्यपि ददाति। तेषां च निष्प्रयोजकत्वं काव्यप्रकाशकारानुरोधेनैव दर्शयति। परं विस्तारभयान्न तदनुवाद: क्रियतेस्माभिरित्यलम् ॥ ८० ॥ [काव्यादर्श ] १२
Page 107
९० काव्यादर्शे प्रथम: परिच्छेद:
तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः। उच्चावचप्रकारं तैद् दृश्यमाख्यायिकादिपृ॥। ८१ ॥ अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा। पीनस्तनस्थिताताम्रकम्रवस्त्रेव वारुणी ॥ ८२ ।। इति पद्येपि पौरस्त्या वन्नन्त्योजस्विनीर्गिर:। अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥ ८३॥ ओजोगुणस्य रचनाप्रकारं दर्शयति-तदिति। समासभूयस्त्वरूपमोजः गुरूणाम् पदघटकगुरुवर्णानाम्। लघूनां लघुवर्णानाम् । बाहुल्याल्पत्वमिश्रणैः ३ कचिद्गुरूणां बाहुल्यं लघूनामल्पत्वं क्वचिदेतद्विरुद्धं लघूनां बाहुल्यं गुरूणाम- ल्पत्वं क्वचिच्च उभयोरपि समानं यन्मिश्रणम् समेनम् तैः। उच्चावचप्रकारभ् अनेकविधम्। भवतीति शेषः । अत्र केचित् गुरूणां महाप्राणानां लबूनामल्प- प्राणानामिति व्याख्यां कुर्वन्ति। तदेतादवशं बहुपरकारमोआख्यायिकादिपु गद्यप्रबन्धविशेषेषु । दृश्यम् । आदिना चम्पूबिरुदादीनां संग्रहः ॥ ८१ ॥ ओज उदाहरति-अस्तेति। अस्तः अस्ताचलः तस्य मस्तकं शिखरं तत्र पर्यस्ताः प्रसृता ये समस्ताः सायंकाले तत्रैव सर्वेषाम् अवस्थानात संपूर्णा: अर्काशवः सूर्यकिरणा: तैः संस्तरः आच्छादनं यस्याः सा तादृशी। सूर्यकिरण- व्याप्तेत्यर्थः । वारुणी वरुणस्वामिका पश्चिमदिक् । पीनः पुष्टो यः स्तनः तस्मिन् स्थितम् आताम्रं किंचिल्लोहितं कम्रं मनोहरं च वस्त्रं यस्या: तादृशी। ६नायिका इव शोभते। अत्र पीनस्तनेव्यनेन सायंकालीनसूर्यमण्डलस्य वारुण्याः स्तनत्वेनारोपः सूचितः। एतदनुप्रासपरिपूर्णतया अनुप्रासाकुलधियां गौडानाम् ओजस उदाहरणं ज्ञेयम्। वैदर्भाणामग्रे (१·८४) वक्ष्यति ॥ ८२॥ पूर्वोदाहरणं गौडानामिति स्पष्टमभिधत्ते-इतीति। पौरस्त्याः गौडाः । इति पूर्वश्लोकोक्तप्रकारेण। पद्येपि। ओजस्विनी: समासबाहुल्येन ओजोगुणवतीः । ३गिरो बन्धन्ति रचयन्ति । वैदर्भाभिमतमोजो लक्षयति। अन्ये त्विति। अन्ये तु वैदर्भास्तु। गिरामनाकुलम् भावप्रधानो निर्देशः अनाकुलत्वमित्यर्थः । अथवा न
१ प्रकारेण. ब. २ सद्दृश्यं. बपा, कपा; *दृष्ट. बपा., 3 'वस्त्रेवाभाति. क. आतम्र० कपा. अन्येष्यनाकुलं, अ,क्.
Page 108
ओजस उदाहरणद्वयम् ९१
पयोधरतटोत्सङ्गलग्नसंध्यातपांशुका। कस्य कामातुरं चेतो वारुणी न करिष्यति॥८४॥ कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्माद्।
विद्यते आकुलं विषमोच्चारणं यस्य इत्यनाकुलम्। सुखोच्चारणमित्यर्थः । एतादशं ६हृदं पारुष्यशैथिल्यादिदोषपरिमार्जनेन मनोहारि। ओजः ओजोगुणम्। इच्छन्ति। अयमत्राशयः । ओजोगुणः उभयोः गौडवैदर्भयोः इष्टः। परं गौडा अनुप्रासलोभात् कष्टपदबहुलसमासविन्यासेन सहृदयानां बुद्धिं व्याकुलयन्ति। वैदर्भास्तु बन्ध- पारुष्यशैथिल्यादिदोषपरिहारेण प्रसन्नार्थानां पदानां समासेन बुद्धेरनाकुलत्वं साधयन्ति । तादृशसमासभूयस्त्वं च ओज इति मन्यन्ते। समासभूयस्त्वं उभयो- रपि अभिप्रेतम्। परं बुद्धेराकुलीकरणानाकुलीकरणविषये उभयोर्भेंदः । गौडा: १२अनुप्रासानुकूलतया क्विष्टत्वं न विचारयन्ति । वैदर्भास्तु तत्परिहरन्तीति भावः ॥ ८ ३ ॥
वैदर्भाभिमतम् ओज उदाहरति-पयोधरेति। पयोधरो मेघ एव पयो- धरः स्तनः तस्य तट प्रान्तप्रदेश: तस्य उत्सङ्गे मध्यप्रदेशे लग्नं संलग्नं संध्या- उतपः संध्याकालीनसौरकिरणा एव अंशुकं आरक्तवसनं यस्याः सा। एतादृशी वारुणी पश्चिमदिक। कस्य सहृदयस्य चेतः कामातुरं मदनव्यथितम्। न करोति। आरक्तवसनावगु्ठितस्तनमनोहराया नायिकायाः स्मरणेनेति भावः । अत्र ६पूर्वार्धे दीर्धसमासवद्वाक्यमपि अस्तमस्तकेतिवत् क्रिष्टपदशून्यत्वात् न वुद्धिमा- कुलयति। प्रत्युत प्रसन्नार्थतया उच्चारणसौकर्येण च चित्तश्रवणयोः सौरयमाद- धाति। अत्र तृतीयचरणे अल्पसमासः चतुर्थचरणे तु समासाभावः । तथापि ९रचनायाः गाढत्वेन लालित्येन च इदं पद्यं रसिकानां मन आकर्षति। अनेन कुत्रचिदंशे समासहानावपि न ओजोगुणहानिरिति मन्तव्यम् ॥ ८४॥
कान्तिं लक्षयति-कान्तमिति। लौकिकस्य लोकप्रसिद्धस्य अर्थस्य वस्तुनः अनतिक्रमात् अपरित्यागात्। लोकप्रसिद्धयनुरूपवस्तुवर्णनादित्यर्थः । ३सर्वजगत्कान्तम् सर्वजगतां विदग्धादिबालान्तानाम्। कान्त कमनीयम्। अर्थबोध-
१ गतिकमात्. अ.
Page 109
९२ काव्यादर्शे प्रथम: परिच्छेद:
तच्च वार्ताभिधानेषु वर्णनास्वपि दंश्यते॥। ८५। सौकर्येण चमत्कारजनकतया च सर्वमनोहरमिति भावः । ईदशं वाक्यं कान्तं कान्तिगुणविशिष्टम्। एवं च लोकप्रसिद्धयनुरोधेन वस्तुवर्णनं कान्तिरिति लक्षणं ६संपन्नम्। अयं च कान्तिगुणः आचार्यदण्डिनो मतेन अर्थगुणः । अर्थानुसंधा- नतः प्रागस्य अनुदयात्। कान्तेर्विषयं दर्शयति-तच्चेति। तत् कान्तिगुणयुत वाक्यम्। वार्ताभिधानेषु वार्तायाः लौकिकोषचारवचनस्य अभिधानानि कथनानि तेषु। तथा च वर्णनासु प्रशंसावचनेषु। दृश्यते। केचित्तु वार्ताभिधानेषु अनामय- प्रियालापप्रस्तावेषु। वर्णनासु वस्तुस्वरूपनिरूपणेषु। इत्येवमर्थ दर्शयन्ति। उभयत्रापि लौकिकसीमानतिक्रमस्यावश्यकत्वं वर्तते एव। अन्ये तु वार्ताभिधानेषु १२ इतिहासवर्णनेषु। इतिहासे यथावद्वर्णनस्याचित्यादित्याहुः। अनेन व्यञ्जकार्थस्य स्वतःसंभवित्वेन प्रौढोक्तिसिद्धत्वेन च प्रकाशकारादीनां काव्यभेदकरणं संगच्छते। तदुक्तं प्रकाशकारेण -
१५ अर्थशक्त्युद्धवोप्यथों व्यञ्जकः संभवी स्वतः । प्रौढोक्तिमात्रात् सिद्धो वा कवेस्तेनोम्भितस्य च।। (४.३९)इति। अत्रान्येषां लक्षणोदाहरणानि । तत्न भरतः- यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत्। लीलादर्थोपपन्नां वा तां कान्ति कवयो विदुः।। (१६-१०३) इति। २१अत्रोदाहरति हेमचन्द्र :- दद्दशुर्द्वारदेशस्थां सीतां वल्कलधारिणीम्। अङ्गदाहादनङ्गस्य रति प्रत्रजितामिव ॥ (२०० पत्रे) इति। श*स एवाग्रे कथयति-तदिदं माधुर्यसाधारणम् इति वामनीयाः इति। वामनस्तु औज्ज्वल्यं कान्तिः। (३.१.२५) औञ्ज्वल्यं नाम नवप्रतिभाप्रकर्षः । यदभावे पुराणी वन्धच्छायेयमिति व्यपदिशन्ति। इदमुदाहरति खटीकायां हेमचन्द्र :-
२७ स्त्रीणां केतकगर्भपाण्डुसुभगच्छेदावदातप्रभे मन्दं कुड्मलिता: कपोलफलके लावण्यनिष्यन्दिनि।
१ विद्यते, अ.
Page 110
कान्तिगुण: ९३
अन्यां कामपि कामनीयककलामातन्वते नूतनां 30 शीतांशोर्बिसकन्दकन्दलशिखामुग्धश्रियो रश्मयः ॥ (२०० पत्रे) इति । ओजोपि औज्ज्वल्ययोगात् कान्तिः स्यात्। तत्परिजिहीर्षया लोकसीमानतिक्रमात् इत्युक्तम् । अस्य गुणस्य वार्तावर्णनात्वेन द्विविधत्वं प्रोच्य उदाहरति हेमचन्द्रः । ३3तत्र वार्तायाम्- एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुपु ॥ (२०० पत्र) इति। ३६ वर्णनायां- तदाननं निर्जित चन्द्रकान्ति कन्दर्पदेवायतनं मनोज्ञम्। प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥ इति। ३१ लोकसीमातिक्रमणे न कान्तिः । तत्र वार्तायामतिक्रमणं यथा- मम दृष्टस्य राजेन्द्र तव दीर्घेण चक्षुषा। चरणद्वितयस्याग्रे नित्यं लुठति वासवः ॥ इति। २एवमेव वर्णनायां यथा- वदनस्य तवैणाक्षि लक्ष्यते पुरतः शशी। पिण्डीकृतेन बहुना कज्जलेनैव निर्मितः ॥ इति। r५वामनस्तु दीप्रसत्वं कान्तिः इति अर्थगतायाः कान्तेर्लक्षणं विधायोदाहरति- प्रेयान् सोयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः ।
४6 तावत् प्रच्युतपाणिसंपुटलसन्नीवीनितम्बं धृतो धावित्वैव कृतप्रणाममहहा प्रेम्णो विचित्रा गतिः ॥ इति। (३.२.१४) अत्र शृङ्गाररसस्य दीप्षत्वम्। एवमन्येषामपि रसानां कामधेनुव्याख्यायाम् उदा- ५५हरण़ानि द्रष्टव्यानि । भोजराजस्तु यदुज्ज्वलत्वं बन्वस्य काव्ये सा कान्तिरुच्यते। (१.६९) इति शब्दगुणं कान्तिमभिधाय उदाहरति- निरानन्दः कौन्दे मधुनि विधुरो बालबकुले ५४ न साले सालम्बो लवमपि लवङ्गे न रमते।
Page 111
९४ काव्यादर्शे प्रथम: परिच्छेद:
गृहाणि नाम तान्येव तपोराशिर्भवादृशः। प्रियङ्गौ नासङं रचयति न चूते विचरति स्मरँलक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ इति। ५७अर्थगुणं तु वामनवत् दीप्तरसत्वं स्वीकरोति उदाहरति च- मा गर्वमुद्धह कपोलतले चका्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । ६० अन्यापि कि न सखि भाजनमीदशीनां घैरी न चेद्धवति वेपथुरन्तरायः ॥ (१.८१) इति । वाग्भटस्तु आचार्यदण्डिमतानुरोधेन लीकिकार्थानतिक्रमणीज्ज्वल्यं कान्तिः इति ६३ लक्षणं विधाय उदाहरति-
परिगततटभूमि: स्नानमात्रोत्थिताभिः ।
६६ रुचिरकनककुम्भश्रीमदाभोगतुङ्ग- स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः ॥ (२९ पत्रे) इति । प्रकाशकारादयस्तु ग्राम्यपदाघटितत्वेनोज्ज्वलत्वरूपां कान्ति स्वीकृत्य तां ग्रम्य- ६९रूपदोपाभावे अन्तर्भीवयन्ति। जगन्नाथस्तु अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां परिहारेण प्रयुज्यमानेषु पदेपु लोकोत्तरशोभारूपमौज्ज्वल्यं कान्तिः इति लक्षणं विधायोदाहरति-
७२ नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ।। ( ५८ पत्रे ) इति। ७५ अर्थगुणस्य तु दीप्तरसत्वं कान्तिः (६२ पत्रे ) इत्येव लक्षणं विहितम्। उदा- हरणं च-नवोच्छलितयौव नस्फुर द खवर्वि गर्व ज्वरे इत्यादि । । ८ ५ ।।
तत्र वार्ताभिधाने कान्तिमुदाहरति-गृहाणीति। तान्येव गृहाणि गृह. पदवाच्यानि प्रशस्तानि गृहाणीत्यर्थः । नाम इति संभावनायां निपातः । भवादृशः श्युष्मत्सदृशः । तपोराशिः तपःसंघस्वरूपः । यानि गृहाणि। पावनैः पवित्रैः।
Page 112
कान्तरुदाहरणद्वयम् ९५
संभावयति 'यान्येव पावनैः पादपांसुभिः ॥८६॥ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः। अवकाशो न पर्याप्तस्तव बाहुलतान्तरे॥ ८७॥ इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम्। कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ।८८।। पादपांसुभि: चरणधूलिमिः । संभावयति। गौरवं प्रापयति। अत्र सत्पुरुषचरणसंप- र्केण गृहादीनां प्राशस्त्यवर्णन लोकव्यवहारप्रसिद्धमेवेति इयं वार्ताभिधानरूपा ६कान्तिः ॥। ८६ ।। वर्णनायां कान्तिमुदाहरति-अनयोरिति। हे अनवद्याङ्गि शोभनगात्रे। तव बाहुलतान्तरे हस्तद्वयस्य मध्ये वक्षसि। जम्भमाणयोः वर्धमानयोः । स्तनयोः 3 कुचकलशयोः। अवकाशः अवस्थिनये स्थानम्। न पर्याप्तः न अलम्। करिकुम्भ सदृशयोः पयोधरयोः तदपेक्षया हस्वस्वरूपे वक्षसि परस्परविमर्देन कथमपि स्थितिरस्तीति भावः । अत्र वर्णनायां पीनस्तनयोः वक्षसि ससंबाधावस्थानं ६लोकप्रसिद्धमेवं। अतो लौकिकार्थस्यानतिक्रमेण वर्णनादत् कान्तिगुणः ॥ ८७॥ उपरिनिर्दिष्टोदाहरणद्वये कान्तिलक्षणं संगमयति-इतीति। इति वार्ता- वर्णनाविषये। उदाहरणद्वयदार्शेतप्रकारमिदं संभाव्यमेव लोकप्रसिद्धतया संभवनी- ३्यमेव न तु प्रौढोक्त्या कल्पनीयम्। एवमेव एतत्। विशेषाख्यानसंस्कृतम् विशेषेण यथा स्यात तथा यदाख्यानं कथनं तेन संस्कृतं सुशोभितम्। कान्तम् कान्तिगुण- युतम् भवति। कस्य भवतत्याह-सर्वस्थेति। लोकयात्रानुवर्तिनः लोकव्यवहार- ६ निष्णातस्य। सर्वस्य जनस्य। वार्तावर्णनयोः केवलं सामान्यपदप्रयोगेण कथने न कान्तिगुणः अपि तु सहृदयहृदयहारिविशिष्टवर्णनप्रकारेणैव कान्तिगुणो भवतीति भावः । अन्यथा- गोरपत्यं वलीवर्दः घासमत्ति मुखेन सः। ९ मूत्रं मुश्चति शिश्रेन अपानेन तु गोमयम् ।। .
इत्यत्रापि कान्तिगुणसद्भावः स्यात्। अतश्चमत्कृतिसापेक्षोयं गुण इति ध्येयम्।८८
१ यान्येवं. क. २ लतान्तरं. अ, कपा. क पुस्तके एतत्पयं 'अल्पं निर्मितमाकाशं (९१) एतत्पदानन्तरं दृश्यते।
Page 113
९६ काव्यादर्शे प्रथम: परिच्छेद:
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः। योर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥८९ ॥ देवधिष्ण्यमिवाराध्यमद्यप्रभृति नो गृहम्।
कान्तिगुणविषये गौडानां विपर्ययं दर्शयति-लोकातीि इति। अत्र इवशब्द: प्रायोरथे। अत्यर्थम् अत्यन्तम्। लोकातीत इव लोकप्रसिद्धिमतिक्रान्त- ३ प्रायः यः अर्थः । अध्यारोप्य कल्पयित्वा स्वप्रतिभया संभाव्य इत्यर्थः । विवक्षितः वक्तुमिष्टः । तेन कल्पितार्थेन। विदग्धाः अत्युक्तिकुशला गौडाः इत्यर्थः । अग्रे गौडोपलालितमिति कथनादत्र विदग्धा गौडा एव। अतितुष्यन्ति नितरां प्रमो- ६दन्ते। इतरे लोकयात्रानुवर्तिनः वैदर्भाः न तुष्यन्ति ! अत्र केचित् इवशब्द: अप्यथे। तथा च लोकातीतोपि योर्थः अध्यारोप्य विवक्षितः इति योजयन्ति । तथैव च विदग्धा: गौडाः सोलुण्ठनोक्तिरियमिति कथयन्ति । अथवा विगतं दग्धं दाहः असंभव्यर्थानुभवकृतमनःक्ेशो येषां ते विदग्धा गौडा इत्यर्थमावि- ष्कुर्वन्ति। ननु आरोपितार्थस्यान्वयायोग्यत्वेन कथं शाब्दबोध इति वाच्यम्। शाब्दबोधे योग्यताया हेतुत्वेन सवैंः अभ्युपेतत्वात् इति चेत् सत्यम् । परं १२ रूपकालंकारादिवत् आहार्यारोपेण शाब्दबोधस्य सर्वैः आलंकारिकैः स्वीकृतत्वात् नात्र अनुपपत्तिः । अत एवोक्तम्-अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि। इति ॥ ८९॥
वार्ताभिधाने गौडाभिमतं कान्तेरुदाहरणं दर्शयति-देवेति। अद्यप्रभृति युष्मत्पादरजःपातधौतनिःशेषकिल्बिषम् भवतां पादरजः चरणघूलिः तस्याः पातः उपतनं तेन धौतं शोधित निःशेष किल्बिषं पातकं यस्य एतादृशम्। नो गृहम् अस्मदीयागारम्। देवधिष्ण्यमिव देवागारमिव । सर्वैः पूजनीयम् जातमिति शेषः। सत्पुरुषचरणधूलिसंपर्केण गृहस्य प्रशस्ततैव लोकप्रसिद्धा न तु देवागारमिव ६ आराध्यता। सा तु प्रौढोक््या तस्मिन्नारोपिता इति ज्ञेयम्। अत्र लौकिकार्थाति- क्रमान्नेयं वैदर्भाणां मते कान्तिः अपि तु गौडानामेव ॥ ९० ॥
१ यथा. कपा कल्मषम्. अ, क.
Page 114
कान्तिविपर्ययः ९७
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा। ईैदमेवंविधं भावि भवत्या: स्तनजम्भणम् ॥ ९१॥
प्रस्थानं प्राक्प्रणीतं तु सारमन्यस्य वर्त्मनः ॥ ९२॥ अन्यधर्मस्ततोन्यत्र लोकसीमानुरोधिना। वर्णनायां गौडाभिमतां कान्तिमुदाहरति-अल्पमिति। भवत्याः। इदम् पुरो दृश्यमानम्। स्तनजुम्भणम् कुचकलशविकासः। एवंविधम् निखिलाकाशव्यापकम्। ३भावि भविष्यति। इति अनालोच्यैव अविचार्यैव। वेधसा विधात्रा। आकाशम् । अल्पम् स्तनविस्तारापेक्षया अत्यल्पपरिमाणम्। निर्मितम्। अत्र आकाशस्याल्पत्व- वर्णनेन स्तनयोः पीनतुङ्गत्वप्रतिपादनमत्युक्तिविलास एव। तथा हि सर्वज्ञस्यापि ६विधातुरनालोचनपूर्विका सृष्टिः बिल्वफलसदृक्षयोः स्तनयोः मेरुमन्दरहिमालया- दिभिरपि साकल्येनाव्यात्ते आकाशे संबाधेन स्थितिरित्यादिवर्णनमतिशयोक्तिरूपम्। अतो न वैदर्भानुरोघेनेदं कान्तम्। गौडास्तु एतदेव कान्तत्वेन अङ्गीकुर्वते ॥९१॥ एवं गौडवैदर्भयोः कान्तिं प्रदर्श्य उपसंहरति-इदमिति। इदम् एवं- विधं काव्यम् । अत्युक्तिः अतिशयोक्तिरिति नाम्ना उक्तम्। आलंकारिकैरिति ३ शेषः । अत्राह भोजराज: - लौकिकार्थमतिक्रम्य प्रस्थानं यत्र वर्ण्यते। तदत्युक्तिरिति प्रोक्तं गौडानां मनसो मुदे ॥। इति। (१.१४४ ) ६एतत् अत्युक्तिवर्णनम्। गौडोपलालितम् गोडैः कान्तिगुणत्वेन अङ्गीकृतम् । प्राक्प्रणीतम्- कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात। इत्यादिना पूर्व सोदाहरणं प्रपश्चितम् । प्रस्थानम् मार्ग: सरणिरिति यावत्। अन्यस्य वर्त्मनः वैदर्भमार्गस्य। सारं हृद्यम। एवं गौडवैदर्भयोः कान्तिगुणविषये नैकमत्यमिति भावः ॥ ९२।। उद्देशवाक्यस्थमन्तिमं धर्म समाधि लक्षयति-अन्यधर्म इति। लोकसीमा- नुरोधिना लोकव्यवहारपरिपालनेन कविना। अन्यधर्मः अन्यस्याप्रस्तुतस्य धर्मो
१ इद्मीद्ग्विधं. अ. [काव्यादर्श] १३
Page 115
९८ काव्यादर्शे प्रथम: परिच्छेदः
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ ९३ ॥ ३गुणक्रियारूपः । ततः तस्मादप्रस्तुतात् । अन्यत्र प्रस्तुते। यत्र यस्मिन् वाक्यार्थे। सम्यगाधीयते साध्यवसानलक्षणया उपचर्यते । स वाक्यार्थः । समाधिः समाधि- गुणविशिष्टः । स्मृतः पूर्वाचार्यः कथितः । सम्यगाधीयते उपचर्यते स समाधिः इति ६अन्वर्थकी संज्ञा। उपचारश्वात्र आहार्याभेदप्रतीतिरूपः । स एव हि लक्षणायाः प्रयोजनभूतः । यतो लक्षणाजन्यसादृश्यप्रतीतेरनन्तरमेव तन्मूलव्यञ्जनया तस्य प्रतीतिसंभवात्। तदुक्तं प्रकाशकृता गौणलक्षणाप्रस्तावे-मेदेपि ताद्वृप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम्। (५९ पत्र) इति। लक्षणा चात्र साध्यवसान- रूपा। सा च विषयस्यानुपादाने एव संभवति। तेन च विषयोपादाने सारो- पगौण्यां न समाधे: संभवः । इत्थं च प्रस्तुतस्य धर्म निगीर्य तत्र सदृशतया १२अप्रस्तुतधर्मस्य तादात्म्याध्यवसानं समाधिरिति लक्षणम् इति प्रेमचन्द्रशर्माणः । धर्म इत्यनेन धर्मिणः समारोपे नायं गुणः । तत्रातिशयोक्तिरलंकार एव। यथा- लतामूले लानो हरिणपरिहीनो हिमकरः १५ स्फुरत्ताराकारा गलति जलधारा कुवलयात्। धुनीते बन्धूकं तिलकुसुमजन्मापि पवनो बहिर्द्वारे पुण्यं परिणमति कस्यापि कृतिनः ॥ इति। १८अत्र मुखादौ धार्मणि धर्मिणश्चन्द्रादेरव्यवसानादतिशयोक्तिरलंकारः । लोकसीमा- नुरोधिना इत्यनेन स्वेच्छया लोकसीमातिक्रमणेन अन्यधर्मारोपश्चेत् समाधिन। यथा बृंहन्ति मशका यत्र तत्र निद्रा सुदुर्लभा। इति। अत्र बृंहितं करिगार्जतम्। २१इति कोशात् करिधर्मस्य बृंहितस्य मशकरुतेरध्यवसानं लोकविरुद्धम्। यथेति पदस्य उत्तरश्लोकस्थेन उदाहरणवाक्येनान्वयः । अयमर्थगुणः अर्थे अर्थान्तरारो- पात्। वामनादिभिस्तु आरोहावरोहक्रमरूपः शब्दगुणः समाधिरुक्तः । स चानुपद २४एव स्फुटीक्रियते ।। अथान्यसाहित्यप्रबन्धेषु समाधेर्लक्षणोदाहरणानि । तत्र भरत :-
अभियुक्तैर्विशेषस्तु योर्थस्यैवोपलभ्यते। १७ तेन चार्थेन संपन्न: समाधि: परिकीर्त्यते ॥ इति। (१६.९७)
१ यत्तु. बपा. १ मतः. कपा.
Page 116
समाधिगुणः ९९
अर्थस्य गुणान्तरसमाधानात् समाधिरिति अस्य व्याख्यां विधायोदाहरति हेमचन्द्रः- परिणतशरकाण्डच्छायमच्छाच्छया यत् ३० किसलयितमिवासी च्चारुला वण्यलक्ष्म्या। तदनुदिवसमस्यास्तोयविच्छेदसीद- न्नवकुवलयदामश्यामलं जातमङ्गम् ।। इति। (४९७ पत्रे) ३ 3अयमतिशयोक्तिविशेष इति वामनीयाः । तथा च सूत्रयति वामनः- अर्थदृष्टिः समाधिः। अर्थो द्विविधः अयोनिरन्यच्छायायोनिश्व। तत्राद्यो यथा- आश्वपेहि मम सीधुभाजनाद्यावदग्रदशनैर्न दश्यसे। ३६ चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ॥ इति। द्वितीयो यथा -- मा ैः शशाङ्क मम सीधुनि नास्ति राड्ः ३९ खे रोहिणी वसति कातर किं बिभेपि। प्रायो विदग्धवनितानवसंगमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम् ॥ (३.२.६) इति। ४२अत्र गातिस्थाघुपाभूमी्यः (२.६·७७) इति पाठं स्वीकृत्य भै: इति लुडो रूपं ज्ञेयम्। भोजराज :-- समाधिः सोन्यवर्माणां यदन्यत्राधिरोपणम्। इति लक्षणं विधायोदाहरति --
४५ प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोल: पाण्डुत्वादवतरति तालीपरिणतिम्। परिम्लानप्रायामनुवदति दृष्टि: कमलिनी- ४6 मितीयं माधुर्य स्पृशति न तनुत्वं च भजते ॥ इति । (१.७२) अत्र प्रतीच्छति-अवतरति-अनुवदति-इत्यादिचेतनक्रियाधर्माणां अचेतनेष्वधरादिषु उपच्चारेणाध्यारोपणात् समाधिः । वाग्भटोपि अन्यस्य धर्मो यत्रान्यत्रारोप्यते स ५१समाधिरित्याह। उदाहरति च - रिपुषु सहजतेज:पुञ्जलीलायितैस्तै- रजनि जनितकम्पस्तत्सुतो भूमिभर्ता ।
Page 117
१०० काव्यादर्शे प्रथम: परिच्छेद:
4४ प्रतिनृपतिवधूनां पल्लविन्यश्रपूर- रधिवियदधिरूढा कीर्तिवल्लिर्यदीया ॥ (३० पत्रे) इति। जगन्नाथोपि-अवर्णित पूर्वोयमर्थः पूर्ववर्णितच्छायो वेति कवेरालोचनं समाधिः । इति ५७ लक्षणं विधाय अवर्णितपूर्वमुदाहरति। तनयमैनाकगवेषणलम्बीकृतजलधिजठर- प्रविष्टहिमगिरिभुजायमानाया भगवत्या भागीरथ्याः सखी इति। (६२ पत्रे) यमुनावर्णनमेतत्। इमं समाधिगुणं तु कविगतत्वेन काव्यमात्रस्य कारणं मत्वा ६० तस्य गुणत्वमग्रे निराकृतं तेनैव। (६३ पत्रे) ॥ अर्थगुणीभृतस्य समाधेरयं विस्तारः। शब्दगुणीभतस्तु वामनेन-आरोहावरोहक्रमः समाघिः । (३.१·१२ ) इति लक्षयित्वा तत्रागोहपूर्वकोवरोहो यथा-निरानन्दः कॉन्दे मधुनि परिभुक्तोज्झितरसे। ६३ इति। अवरोहपूर्वकस्त्वारोहो यथा -- नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः । इति चोदाहतः । उदाहरति चेमं हेमचन्द्र :- शुङ्गोत्खातमुव: कृतान्तमहिषातसंत्रस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ट गर्जितमयं क्रुद्धोम्बिकाकेसरी॥ संगीतागतकम्बलाश्चतरयोः प्रेक्षागृहद्वारि च। प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति॥ ६९ (१९८ पत्रे) इत्यादि । प्रकाशकारा अपि आरोहावरोहक्रमरूपं समाधिमङ्गीकृत्य तस्यौजस्यन्तर्भावं कुर्वन्ति। (८. ७२) एवमेव दर्पणकाराः । जगन्नाथोपि बन्धगाढत्वशिथिलत्वयोः क्रमेणा- ७१ वस्थापनं समाधि: इति शब्दगुणसमाधेर्लक्षणं विधायोदाहरति- स्वर्गनिर्गत निरर्गलगङ्गातुङ्गभङ्गुरतरङ्गसखानाम्। केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम्॥ इति। ७५अस्य च ओजस्येवान्तर्भावं कुरुते। अन्ये तु-आचार्यदण्डिनोक्ता समाविरुप- चरितवृत्तिस्वरूपा उपचरितवृत्तिर्गुणश्चेत् योगवृत्या किमपराद्म् इति तां नवाङ्गी- कुर्वन्ति। वामनोक्तामर्थगुणसमाधिमयोनिरन्यच्छायायोनिस्वरूपामपि न गणयन्ति। veसर्वेस्यापि कविकाव्यप्रपञ्चस्य अयोनिरन्यच्छायायोनिस्वरूपत्वात्। इत्यलं पल्- वितेन ॥ ९३ ॥
Page 118
समाधेरुदाहरणानि १०१
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च। इति नेत्रक्र्ियाध्यासाट्ब्या तद्वाचिनी श्रुतिः ॥९४॥ निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्। अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते॥९५॥ समाधिमुदाहरति-कुमुदानीति। कुमुदानि निमीलन्ति संकुचन्ति कमलानि उन्मिषन्ति विकसन्ति। अत्र निमीलोन्मेषौ नेत्रस्य धर्मो कुमुदकमलयोः ३संकोचविकासतादात्म्येन अध्यवसितौ सादृश्यातिशयमहिम्नेदमध्यवसानं लोकसिद्धम्। सादृश्यातिशयादेवानयोरेकशब्दप्रयोगप्रतिपाद्यत्वम्। यथा चक्षुरु- न्मिषति कमलमुन्मिषति तथा चक्षुर्निमीलति कमलं निमीलति इत्यादि। इति एवं- ६प्रकारेण। नेत्रक्रियाध्यासात् नेत्रक्रिया निमीलनोन्मीलनरूपा तया सह अध्यासात् तादात्म्यारोपा्। कुमुदकमलधर्माभ्यां संकोचविकासाभ्यां तद्वाचिनी तयोर्निमी- लनोन्मेषयोर्वाचिनी प्रतिपादिका। श्रुतिः निमीलन्तीत्यादयः शब्दाः । लब्धा अधि- गताः। पदार्थानामेकत्व्रे एकशब्दप्रतिपाद्यत्वं समुचितं यथा घटः घटः इति। विभिन्नत्वे तु भिन्नशब्दप्रतिपाद्यत्वं यथा घटः पटः इति ॥९४॥
कानिचित् पदानि काव्ये गौणवृत्या एव शोभामावहन्ति न तु मुख्य- वृत्त्या। तादृशपदप्रयोगे चायमेव गुणः इति तानि पदानि दर्शयति -- निष्ठयू- तेति। निष्ठयूतम् उद्गीर्णम् वान्तम् इत्यादिपदम्। गौणवृत्तिव्यपाश्रयम् गौणवृत्ति: गौणीलक्षणावृत्ति: सैव व्यपाश्रयः विशिष्टाश्रयो यस्य तत्। गौणलक्षणया मुख्या- र्थसदृशोर्थे प्रयुक्तमित्यर्थः । अतिसुन्दरम् सहृदयहारित्वेन मनोहरम्। तदैव ६समाधिगुणवदिति भावः । ननु वान्तादिपदमतिसुन्दरमित्यनेन अयं समाधिगुणः शब्दस्य दर्शितो भवति। स तुपुनः अर्थगुणः अर्थस्यैवारोपादिति चेत् अत्र शब्दगतत्वं परंपरयेति बोध्यम्। अन्यत्र मुख्यारयें। अभिधावृत्त्या प्रयुक्तं निष्ठयूता- ९दिपदम्। ग्राम्यकक्षाम् ग्राम्यतादोषकालुष्यम्। विगाहते लभते। अभिधावृत्त्या प्रयुक्तं निष्ठयूतादिपदं सदोषमपि गौणवृत्या गुणवद्धवति। तत्र हेतुस्तु लक्षणाफलभूत- तादात्म्यारोप इति विभावनीयम् ।९५।।
१,·व्यपाश्रयात्. अ. कृपा. २. अन्यत्त- अ. व
Page 119
१०२ काव्यादर्शे प्रथम: परिच्छेद:
पद्मान्यर्काशुनिष्ठयूताः पीत्वा पावकविप्रुपः । भूयो वसन्तीव मुखैरुद्रीर्णारुणरेणुभिः ॥९६॥ इति हृदमह्द्यं तु निष्ठीवति वधूरिति। उक्तार्थमुदाहरति-पद्मानीति । पम्मानि कमलानि। अकीशुनिष्ठ्यृताः अर्कस्य सूर्यस्य अंशवः किरणानि तः निष्ठयूताः वहिः क्षिप्ताः । पावकविप्रुपः ३वह्निस्फुलिङ्गान्। पी्वा। उद्गीर्णा बहिस्त्यक्ता अरुणरेणवः रक्तपरागाः यस्तैः मुखैः। उद्गीर्णरेणु वं पावकस्फुलिङ्गवमनोत्प्रेक्षायां कारणम्। भयः पुनः पुनः
६निष्ठयृतोद्गीर्णशब्दौ दैहिककफपित्तला ला दरिविशे नि्षेा क अपि ामान्यनिक्ष - पार्थे लक्षणया प्रयुक्तो सहृदयमनोहरतां प्राप्ता इति समाधिगुणः । लक्षणया सामान्यशब्दस्य विशेषार्थकस्य पदस्यापि सामान्यार्थपरत्वं सर्वसंमतमेव। सा च लक्षणात्र शक्यार्थलक्ष्यार्थयोः साहश्याद् गौणीति ज्ञेयम्। वमन्तीवेत्यत्र उत्प्रेक्षव। न लक्षणा। इवशब्दवैयर्थ्यापत्तेः । तथा च पूर्वश्लोके गाणवृत्तिपदं संभावनाया अपि उपलक्षकम् । आहार्यारोपवत् संभावनायामपि बाधोदयस्याकिंचित्करत्वेनान्वय- १२ बोधाप्रतिबन्धात्। लक्षणाफलीभूतताद्रप्यप्रतीतेरिव संभावनाया अपि चमत्कार- जनकत्वेन गुणत्वं युज्यते इति प्रेमचन्द्रशर्माणः । एवं च- आस्वाद्य निरवशेषं विरहिवधूनां मृददनि मांसानि। १५ करकामिषेण मन्ये निष्ठीवति नीरदोस्थीनि ॥ इत्यादिसापह्ववोत्प्रेक्षायां निष्ठीवतीत्यादिपदेपु न लक्षणा ॥ ९६ ॥ निष्ठीवनादिशब्दानां गौणवृत्या प्रयोगं प्रशस्य मुख्यवृत्या प्रयोगं सोदा- हरणं दूषयति-इतीति। इति पूर्व दर्शितं गौणवृत्या प्रयुक्त निष्ठयतादिपदं ३ हृद्यम् । गौणार्थप्रतिपादकत्वेन समाधिगुणवत्वात् सहृदयमनोहारि । अहृयं तु ग्राम्यतादोषेण रसिकमनोद्वेजकं तु। वधूः उह्यते पितृगेहाद्धर्तृगेहं सा वधु: नवोढा स्त्री। निष्ठीवति खाट् इति कृत्वा कफं निक्षिपति। इति। अत्र मुख्यार्थे ६प्रयुक्तेन ष्ठीविना जुगुप्सा प्रतीयते। वधूशब्दप्रयोगक्च वध्वाः शङ्गारस्य आलम्ब- नविभावत्वेनाङ्गत्वात् शुङ्गारे बीभत्साङ्गभूतं कफनिक्षेपवर्णनमत्यन्तमनुचितमिति सविशेषं आ्रम्यतां दर्शयति। एवं अन्यधर्मस्यान्यत्रारोपरूपं समाधि प्रदर्श्य अन्य-
Page 120
समाधेरुद/हरणानि १०३
युगपन्नैकधर्माणामध्यासश् स्मृतो यथा ॥९७।। गुरुगर्भभरक्ान्ताः स्तनन्त्यो मेघपङ्कयः। अचलाधित्यकोत्सङ्गमिमा: समधिशेरते ॥ ९८ ।। उत्सङ्गशयनं सख्याः स्तननं गौरवं कमः । धर्मस्ततोन्यत्र इति लक्षणवाक्ये सूत्रे लिङ्गवचनमतन्त्रम् इतिन्यायेन एकवचनं द्विवचनबहुवचनोपलक्षकमिति विशदयति-युगपदिति। नैकधर्माणाम् अन्य- दीयगुणक्रियादिरूपानेकधर्माणाम्। युगपद् एकस्मिन् समये एव। अध्यासः निग- १२रणेनाध्यवसानम्। स्मृतः समाधिगुणत्वेन प्राचीनैरनुमतः । तथा च बहूनामप्यन्य- धर्माणां युगपदन्यत्र समारोपः समाधिरिति निष्कर्षः ॥ ९७॥ बहुधमारोपरूपसमाधिमुदाहरति-गुरुगर्भेति। गुर्व्यः एकत्र जलेनान्यत्र गर्भविस्तारेण स्थूला: तथा गर्भभरेण गर्भस्य अन्तर्गतजलस्य भ्रणस्य च भरेण ३ क्रान्ता: मन्दाः इव । विशेषणोभयपदकर्मधारयः । अथवा गुरुरिति गर्भस्य विशे- षणम्। स्तनन्त्यः गर्जन्त्यः । अन्यत्र क्वान्तिसूचकं शब्दं कुर्वन्त्यः।एतादृशः इमा मेघपङ्कयः मेघावलयः। अचलाधित्यकोत्सङ्गम् अचलस्य पर्वतस्य अधित्यका उर्ध्व- ६ प्रदेशः तस्योत्सङ्गम् मध्यम् । अन्यत्र अधित्यकेति स्त्रीलिङ्गसाम्यात् सखी ग्राह्या तस्या उत्सङ्ग: क्रोड: तस्मिन् । समधिशेरते तं संश्रयन्ते इत्यर्थ। अत्र मेधपङ़गिषु तत्तद्धर्मनिगरणेन बहूनां गुर्वादीनां गर्भिणीधर्माणां युगपदध्यासात् समाधि- १गुणः ॥। ९८ ।। पूर्व श्रोकस्थानां बहूनां गर्भिणीधर्माणामध्यवसानं विशदयति-उत्सङ्गेति। अत् पूर्वश्लोके उत्सङ्गशयनं स्तननं गौरवं क्वमः इति इमे बहवः गर्मिणीधर्माः 3दर्शिताः आरोपेणेति भावः । एतेषां गर्मिणीधर्मत्वमाह वाग्भटः- क्षामता गरिमा कुक्षौ सूर्च्छा छर्दिररोचकम्। जूम्भाप्रसेकः । इत्यादि । (शारीरस्थान, १.५०-५१)
१ मतो. कपा. २. भराकन्त: कपा.
Page 121
१०४ काव्यादर्शे प्रथम: परिच्छेद:
इतीमे गर्भिर्णाधर्मा बहवोष्यत्र दर्शिताः ॥९९॥ तदेतत् काव्यसर्वस्वं समाधिर्नाम यो गुणः। कविसार्थः समग्रोपि तमेनैमनुगच्छति ॥ १०० ॥
६ननु स्तनितं मेधगर्जितम् इति कोशात् स्तनन्तीशब्देन मेघगर्जनमेवर लभ्यते। तद् कथं स्तननस्य गर्भिणीधर्मत्वमिति चेत् सत्यम्। स्तनितभणितादि सुरते मेघादिपु गर्जितप्रमुखम्। इति कोशान्तरेणास्य स्तनितशब्दस्य सुरतशब्दत्वाभिधानान्न केवलं मेघगर्जिते एव शक्तिः। तथा-आर्तस्तनितसंनादे रुधिराम्बुह्दाकुले। इति हरिवंशस्थप्रयोगेण (९९. ४८) तस्य सामान्यध्वनिपरत्वमपि ज्ञेयम् । एवं सामान्यध्वनिपरत्वेपि स्तननशब्दस्य गर्भिणीशब्दपरत्वं कथमिति चेत् गर्भिण्याः गर्भिणीशब्दविशेषवाचकत्वं ज्ञेयम्*।। ९९ ।।
समाधिं प्रशंसन्नुपसंहरति-तदेतदिति। तत् तस्मादुक्तप्रकारेण काव्यस्य चारुत्वातिशयाधानात। समाधिर्नाम यो गुणः । एतत् काव्यस्य सर्वस्वम् सारभूत 3हद्यम्। अवश्यमपेक्षणीयमित्यर्थः । समग्र: गौडवैदर्भः । कविसार्थ: कविसंघः । तम् तथाभूतमेनं समाधिगुणम् । अनुगच्छति एतत्परिशीलनेन काव्यं विरचयति। एतेषु दशसु गुणेषु मध्ये केचित् तत्तदोषाभावरूपतया केचिदलंकृतिरूपतया नव्य: ६प्रकाशकारादिभिरनादता: केवलं माधुर्योज:प्रसादाख्यास्त्रय एव गुणाः स्वीकृताः । तथैव वामनभोजादिभि: शब्दार्थरूपेण एते एव द्विविधा: स्थापिताः । अन्यैश्च तत्तद्गुणानां लक्षणोदाहरणानि च विभिन्नानि विहितानि। तदेतत् सर्व तत्तद्-
१. इहेमे. कपा. १. ०वो हत्र, अ; वोन्यत्र. कपा. ३ तमेकं. ब.
- सामान्यार्थानां शब्दानां कविसंप्रदायतो विशिष्टर्थपरत्वं भर्वाते यथा-आरवः पटहेतु कटत्कार: भङ्गेषु कूजितं विहगादिषु केकारवः कलापिषु क्वणितं वीणादिषु गुआ्कार: 3भृङ्गेवु घमघमाकारः घर्घरेषु घूत्कार: घकेषु घोषः नदीवीचिषु चटत्कारः अभिस्फुलिङ्रेषु झङ्कार: किङ्रिणीषु टक्कारः मौर्वीषु ढेत्कतं वृषभेषु ध्वनितं मृदङ्गगदिषु नाद: सिंहेषु फूत्कार: सर्पेषु वूत्कार: कपिषु बृंहितं वारणेषु भणितं सुरतादिषु भङ्कारः भेरिषु भात्कार: झल्रीषु रणितं 6वलयादिषु रवः मण्डूकेषु शिञ्जितं नूपुरादिषु सीत्कार: कामिनीयु सुत्कार: सायकेषु स्तनितं मेघसमुद्रादिषु द्रेषितं हयेषु इत्याधूहनीयम्।
Page 122
गुणनिरूपणस्योपसंहारः १०५ इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणाद् । तद्द्ेदास्तु न शक्यन्ते वक्तुं प्रतिकवि स्थिताः॥ १०१ ॥ इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्। तथापि न तदाख्यातुं सरस्वत्थापि शक्यते ॥ १०२॥ नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम्। गुणनिरूपणप्रसङ्के अस्माभिर्विशदीकृतमेव। आचार्यदण्डिना तु भरतमुनिमतमेव प्रायः स्वीकृतमिति सुधीभिर्विचारणयम् ॥१००॥ तत्र वैदर्भगौडीयौ वण्येते प्रस्फुटान्तरौ (१.४०) इति पूर्व प्रतिज्ञातं गैडवेदर्भमार्गवर्णनमुपसंहरति-इतीति। इति एतावत्पर्यन्त कथितेन प्रकारेण। ३ तयोः गौडवैदर्भयोः स्वरूपम् असाधारणधर्मः तस्य निरूपणात् -वैदर्भमार्गस्य प्राणा दशगुणा: स्मृताः । एषां विपर्यय प्रायो लक्ष्यते गौडवर्त्मनि। इत्यनेन (१. ४२) विभिन्नधर्मत्वेन प्रतिपादनात् । मार्गद्वयम् गौडवैदर्भमार्गद्वितयम्। मिन्नम् ६अत्यन्तविसदृशम्। वर्तते इति शेषः। तद्ेदाः गौडवैदर्भभेदाः। आवन्तिकीलाटीया- मागध्यादयः । प्रतिकवि स्थिताः तत्तदेशीयैः कविभिरादताः । वक्तुं न शक्यन्ते । एपां मिश्रणप्रकारः प्रागुपवर्णित एवास्माभिः । (४२-४३ पत्रयोः) केचित्तु तद्गेद- ९शब्देन रीतिभेदं पाञ्चाल्यादिरूपं स्वतन्त्रमेव स्वीकुर्वन्ति । तेपि तत्तदेशकविभिः कल्पितत्वादनन्ताः । अतस्ते परिगणितुं नैव शक्यन्ते इति भावः ॥ १०१ ॥
समग्रभेदस्य निरूपणाशक्यत्वं दृष्टान्तेन विशदयति-इक्षुक्षीरेति ।' इक्षुः पुण्डकादि: क्षीरं पयः गुडः इक्षविकारः आदिशब्देन शर्कराखर्जूरादयो ग्राह्याः। तेषां माधुर्यस्य मधुरतायाः। अन्तरं रुचिमेदः। महत् महानास्ति। तथापि विस्पष्टभेदेपि। तत् आख्यातुं तत्तदुचितज्ञापकसंज्ञाविशेषेण कथयितुम्। सरस्वत्यापि ६वागधिष्ठात्र्या देवतयापि न शक्यते। माधुर्यस्य विविधभेदस्य निर्वचनमशक्यमिति भावः । अतः प्रधानौ एव गौडवैदर्भभेदौ दर्शितौ इत्यमिप्रायः ॥१०२॥
एतावता काव्यसरूपमुक्त्वा इदानीं तत्कारणमाह-नैसर्गिकीति। नैसर्गिकी स्वाभाविकी पूर्वजन्मसंस्कारसंपन्ना। प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । 3यदुक्तम् - [काव्यादर्श] १४
Page 123
१०६ काव्यादर्शे प्रथम: परिच्छेद:
अमन्दशाभियोगोस्या: कारणं काव्यसंपदः ॥१०३।।
मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य। अक्विष्टानि पदानि च विभान्ति यस्यामसा शक्तिः ॥ (रुद्रट १.१५) इति । तथैव बहु विविधं पदवाक्यप्रमाणसाहित्यच्छन्दोलंकारश्रतिस्मृतिपुराणेतिहासागम- नाट्याभिधानकोशकामार्थयोगादिरूपम् वाग्भटप्रभृतिभिः परिगणितम् । निर्मलम् संशयादिदोषरहितम्। एतादृशं श्रुतम् शास्त्रम्। विविधशास्त्रनैपुण्यमित्यर्थः । एतल्लोकव्यवहारनैपुण्यस्यापि उपलक्षणम्। तदुक्तं प्रकाशकारेण-शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। (१.३) इति । तथा अमन्दः महान्। अभियोगः १२अभ्यासः। काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरित्यर्थः । यदाहुः-अभ्यासो हि कर्मसु कौशलमावहति। न हि सकृन्निपतितमात्रेणोदबिन्दुरपि ग्र्रावणि निम्नता- मादधतीति (हेम० ८ पत्रे) अभ्यसनप्रकारस्तु हेमचन्द्राचार्यैः महता प्रपञ्चेन १५वर्णितः स तद्ग्रन्थादेव ज्ञातव्यः । अभ्यसनसौकर्याय विशिष्टदेशकालादिसा- चिव्यमप्यपेक्ष्यत इति वामनः ।(१.३. १८-२०) एतत् त्रित्रयं अस्याः उक्तलक्षणायाः काव्यसंपदः कारणम्। काव्यप्रणयनावगमयोः कारणमित्यर्थः । १८उभयोरपि एतत्त्रितयजन्यत्वात्। प्रतिभाशून्येनापि पुरुषेण महता कालेन एक- द्विक्रोक करणेतिव्याप्तिपरिहाराय संपदिति। तदुक्तं काव्यमीमांसायाम् - मुक्तके कवयोनन्ताः संघाते कवयः शतम्। २१ महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः ॥ (५४ पत्रे) इति। अत्र कारणमित्येकवचनेन कारणता व्यासक्ता न तु प्रत्येकं पर्याप्ता। तदुक्तं प्रकाशकृता-शक्तिर्व्युत्पत्तिः पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिता न तु व्यस्ता: तस्य काव्यस्य निर्माणे समुल्लासे च हेतुर्न तु हेतवः इति। (१६ पत्रे) अन्ये हेमचन्द्रवाग्भटादयस्तु प्रतिभैव हेतुः शास्त्रव्युत्पत्त्यभ्यासौ तु प्रतिभायाः संस्कारकौ। तथा चोक्तम्-व्युत्पत्त्यभ्याससंस्कृता प्रतिभास्य हेतुः इति। २७( वाग्भट २ पत्रे) काव्यमीमांसायां तु - स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्ुलता। स्मृतिदार्व्यमनिर्वेदश्व मातरोष्टौ कविस्वस्य ।। (४९ पत्रे)
Page 124
काव्यसंपद: कारणम् १०७
न विद्यते यद्यपि पूर्ववासना- गुणानुबन्धि प्रतिभानमद्भुतम्। श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४॥ ३०इत्यष्टौ कारणानि समाख्यातानि। अत्र कानिचित् साधारणानि कानिचिदसाधा- रणानि कारणानीति ज्ञेयम्। आचार्यदण्डिना परिगणितेषु प्रतिभाश्रुताभियोगेषु प्रतिभा द्विविधा सहजा उत्पाद्या च। यदाह रुद्रट :- 33 प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च सा द्विधा भवति। पुंसा सह जातत्वादनयोस्तु ज्यायसी सहजा ॥ (१.१६) इति। तत्राद्या जन्मसिद्धा द्वितीया शास्त्राद्यभ्यासेन मणिमन्त्रौषधिना च संपद्यते ३६इत्याहुः । उभयरूपा चेयं घटं प्रति चक्रदण्डाविव काव्यं प्रति परस्परसहकार्य- तया कारणमिति केचित्। अपरे पुनः अनयोः प्रतिभयोर्मध्ये एकतरा कवित्व- संपादनाय प्रभवति अपरा तदुत्कर्षायैव इति। अस्मिन् व्याख्याने न विद्यते ३९इत्याद्यग्रिमश्लोकस्य अविरोधः संपद्यते इति विमर्शनीयम् ॥ १०३॥
यद्यपि सहजा प्रतिभा पुरुषप्रयत्नेन लब्धुमशक्या तथापि तदभावेपि कवित्वं न सर्वथा दुःसंपाद्यमिति प्रतिपादयति -- न विद्यते इति। अद्भुतम् : अलौकिककाव्यसंपादनेनाश्चर्यावह्म्। पूर्ववासनागुणानुबन्धि प्राक्तनसंस्कारगुण- संबद्धम् सहजमिति भावः । प्रतिभानम् प्रतिभाशक्तिः। यद्यपि न विद्यते प्राक्तन- प्रतिभाया अभावो यद्यप्यस्ति। तथापि यत्न: कर्तव्यः इति अध्याहृत्य वाक्य- ६मेतत् पूरणीयम्। किमर्थ प्रयतितव्यमिति चेत् कथयति-श्रुतेनेति। श्रुतेन काव्यादयनुर्शालनेन । यत्नेन काव्यकरणाभ्यासप्रयत्नेन । उपासिता आराधिता । वाक्। कमपि अनिर्वचनीयम्। अनुग्रद्दम् काव्यसंपादनसामर्थ्यरूपम्। करोत्येव। ध्रुवमित्यनेन व्यभिचारशङ्का निरस्ता। कालिदासादीनां प्राक्तनप्रतिभाया अभावेपि केवलं वाग्देव्याः आराधनेन यथा कवित्वलाभ आसीत् तथा अन्येषामपि पुरुषाणामुद्यमशीलानां भवेत्। पुरुषेण प्रयत्नतता भाव्यम् इत्यर्थः । एतेन-
१२ अयं भस्मनि होम: स्यात् इयं वृष्टिर्मरुस्थले। इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम्।। इति।
Page 125
१०८ काव्यादर्शे प्रथम: परिच्छेदः
तदस्ततन्द्रैरनिशं सरखती अ्रमादुपास्या खलु कीतिमीप्सुभिः। कृशे® कवित्वेपि जना: कृतश्रमा विद्ग्धगोष्ठाषु विहर्तुमीशते ॥ १०५॥ इत्याचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथम: परिच्छेद:। तथा-न हि यत्नशतेनापि शुकवत् पाठ्यते बकः। इत्यादि क्रियाशन्यानां देव- १५ वादतन्द्रिलानां यत्ननैष्फल्यप्रतिपादनपरं मतं निरस्तम् ॥ १०४॥ पुनरपि सविशेषं प्रयतितव्यं तेन मनोरथाः निश्चयेन फलन्तीति कथ- यति-तदिति। तत् तस्मात्। उपासिता वाक् ध्रवमनुग्रहं करोति इति हेतोः। ३अस्ततन्द्रैः परित्यक्तालसैः । अनिशम् सततम् । श्रमात् यत्नतः । कीर्तिमीप्मुभिः कवित्वादिकीर्त्यभिलाषुकैः। सरस्व्रती वाग्देवी। खल निश्चयेन। उपास्या। उपास- नाया अनैप्फल्यं दर्शयति- कृशे इति। कदाचित् कवित्वे काव्यनिर्माणे। कृशेपि स्वल्पेपि। विदग्धगोष्ठीषु सहृदयसमाजेपु। कृतश्रमाः काव्यशास्त्रे विहित व्यासङ्गाः । जना: पुरुपाः । विहर्तुम् काव्यरहस्थावगमसामर्थ्येन व्यवहर्तुम्। ईशते समर्था भवन्ति। एतेन काव्यकरणासमर्था अपि काव्यरहस्यबोद्धारः पुरुपाः कीर्ति विद्वत्समाजेपु समानं च लभन्ते। अतः सर्वथा सरस्वत्युपासितव्या तद्पासना निष्फला नैव संपद्यते इति आदिष्टं भवतीत्यवगन्तव्यम् ॥१०५॥
इति श्रीवैराजक्षेत्रवासिभी रड्डीकुलावतंसैर्बालकृष्णा चार्यतनुजै रङ्गाचार्यसूरिभि: विरचितायां काव्यादर्शव्याख्यायां प्रभाख्यायां प्रथमः परिच्छेद: ॥
१. ऋमात्. कपा. २. इच्छभि. कपा. ३. श्वते. कपा. ४ इत्यार्थ०. अ.
Page 126
अथ द्वितीय: परिच्छेद:
कार्व्यशोभाकारान् धर्मानलंकारान् प्रचक्षते।
प्रथमपरिच्छेदे वैदर्भगौडमार्गोपलक्षितं धर्मिभूत काव्यशरीरं प्रदर्श्य इदानीं तद्धर्मानलंकारान् दिदर्शयिपुः अलंकारसामान्यलक्षणमाह-काव्यशोभाकरा- ३निति। काव्यस्य इष्टार्थव्यवच्छिन्ना पदावलिः इत्युक्तस्वरूपस्य शोभा मनोहरता तस्याः कर्तारः तत्संपादकाः तान्। धर्मान् अनुप्रासोपमादीन्। अलंकारान् प्रचक्षते अलंकारनाम्ना व्यवहारन्ति । ग्राश्चः साहित्यकोविदा इति शेपः । यथा ६लावण्यमनोहरस्य शरीरस्य हारादयो अलंकाराः शोभातिशयं जनयन्ति तथा श्लेपप्रसादादिगुणोपस्कृतस्य इष्टार्थव्यवच्छिन्नपदावलिरूपस्य रमणीयार्थप्रतिपादकस्य काव्यस्य अनुप्रासोपमादयोलंकाराः शोभां परिवर्धयन्ति । अनेन एते अलंकाराः शब्दार्थगताः इति आचार्यदण्डिनो मतमवगन्तव्यम्। भरतेनापि -काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः । (१६.४१) इत्यनेन ते काव्यधर्मत्वेनैव स्वीकृताः सन्ति । भामहोपि-इति वाचामलंकाराः पञ्चैवान्यैरुदाहताः । (३.४) इत्युपक्रमे १२ -- गिरामलंकारविधिः सविस्तरं स्वयं विनिश्चित्य धिया मयोदितः । (३.५७) इति तृतीयपरिच्छेदोपसंहारे कथयन् शब्दार्थगतत्वमेव तेपां दर्शयति। वामनादयोपि इमामेव पद्धतिमनुसरन्ति। तदुक्तं वामनेन -काव्यशोभायाः १५कर्तारो धर्मा गुणाः । तदतिशयहेतवस्त्वलंकाराः । (३. १. १-२) इति । अत्र च प्रमाणत्वेन प्राचीनश्लोकावपि अवतारयति- युवतेरिव रूपमङ्ग काव्यं खदते शुद्धगुणं तदप्यतीव। १८ विहितप्रणयं निरन्तराभि: सदलंकारविकल्पकल्पनाभिः ॥ यदि भवति वचशच्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥ इति। अत्र पूर्वश्लोकेन अलंकाराणां सगुणकाव्यस्य शोभाकरत्वं दर्शितम्। द्विती- येन तु गुणाभावे अलंकाराणां वैयर्थ्य प्रोक्तम्। तत्र काव्यशोभासंपादने गुणा
१. काव्ये. अ.
Page 127
११० काव्यादर्शे द्वितीय: परिच्छेद:
ते चाद्यापि विकल्प्यन्ते कस्तान् कात्स्न्येन वक्ष्यति॥१॥ नित्याः अलंकारास्त्वनित्याः इति अग्रिमेण पूर्वे नित्या: (३. १. ३) इति २vसूत्रेण अभिहितम् । अयमेव च गुणालंकारयोः प्रभेदः । यद्गुणा नित्याः तैर्विना काव्यशोभानुपपत्तेः । आचार्यदण्डिना हि गुणा वैदर्भमार्गस्य प्राणत्वेन कथिताः । वामनेन ते नित्या इत्यनेन स एवार्थ: पर्यायेण अभिहितः । रीतिरात्मा काव्यस्य २७इति काव्ये रीतेः प्राधान्यस्वीकारेपि तस्या गुणसमुदायाभिन्नस्वरूपत्वात् गुणा- धीनत्वं स्पष्टमेव। एवं च प्राणा दशगुणाः स्मृताः इति आचार्यदण्डिनः सिद्धा- न्तस्य रीतिरात्मा काव्यस्य इति सूत्रयता वामनेन भङ्गयन्तरेण स्वीकारो दर्शितः। ३० एवं भरतभामहवामनप्रभृतीनां गृणालंकारविषये ऐकमत्यमेव दृश्यते। प्रकाशकारा- दयस्त्वर्वाचीना: माधुर्यौज:प्रसादाख्यान् गुणान् रसस्याङ्गभृतान् अलंकारांश्च शब्दार्थयारेङ्गभूतान् कल्पयन्ति। तदुक्त प्रकाशे- ३३ येरसस्याङिनो धर्माः शौर्यादय इबात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः।। उपकुर्वन्ति तं सन्न येङ्गद्वारेण जातुचित्। ३६ हारादिवदलंकारास्तेनुप्रासोपमादयः ॥ माधुर्यौज:प्रसादाख्यास्त्रयस्ते न पुनर्दश। (८.६६-६७) इति। प्रतिपादितं च माधुर्यौजःप्रसादाख्या रसस्य गुणाः । हारादिवत् वाच्यवाचक- ३९लक्षणाङ्गगता: स्वाश्रयशोभाजननद्वारा अङ्गिनो रसस्य शोभाजनका अलंकारा इति। आश्रयमेदाच्च गुणालंकारयोर्भेद: इति । ओजसी प्रबन्धः मधुरा वर्णाः इत्यादिव्यवहारस्तु आकारोस्य शूरः इतिवत् औपचारिकः ॥ तत्र तावद्विचार्यते। ४२मधुरो रसः इति सामानाधिकरण्यात् अनुभवसिद्धानां रसस्वरूपविशेपकाणां माधुर्यादीनां गुणत्वस्वीकारे यदिदं साहित्यग्रन्थकाराणां काव्ये तादृशगुणनिवेशा- वश्यकत्वकथनं तत् विफलं स्यात्। रसवत् काव्यमित्येतावतैव लक्षणेन रस- *५निवेशे रसस्वरूपविशेषाणां माधुर्यादीनां निवेशस्यापि नियतत्वाद्। यतः तन्मते माधुयौज़: प्रसादाख्या गुणा रसव्यभिचारिणः न कुत्रचिदुपलभ्यन्ते। अथ गुणा- भिव्यञ्जकशब्दार्थप्रयोगाय लक्षणे गुणग्रहणमिति चेत् तादृशव्यञ्जकतायाः एव
१. कालनेन डप.
Page 128
अलंकारस्वरूपम् १११
टगुणत्वमुचितम् । सौन्दर्यादेः आत्मोत्कर्षत्ववत् तस्या एव रसोत्कर्षत्वाद्। उत्कर्षकस्यैव गुणत्वात्। सा च व्यञ्जकता श्लेषादिधर्मस्वरूपा एव । अतः सिद्धं श्लेषादीनां गुणत्व शब्दार्थगतत्वं च । तथैव स्वाश्रयशोभाजननद्वारा रस- ५१ शोभाजननत्वमलंकाराणामित्यपि न विचारक्षमं तेषां वचः । यतो नरिसे सकला- लंकारिकै: काव्यतया स्वीकृते संलक्ष्यक्रमव्यङ्गयप्रभेदे चित्रे च उपमादीनामनलं- कारतापत्तेः । स्वीकृतं हि तत्र तैरुपमादीनामलंकारत्वम्। तथाहि- ५४ वस्तु वालंकृतिर्वेति षड्भेदोसौ व्यनक्ति यद्। वस्त्वलंकारमथवा तेनासौ [व्यञ्जकः] द्वादशात्मकः ॥ (का. प्र. ४. ४०) ५७तथा- शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम्। इव्यस्य व्याख्याने चित्रमिति गुणालंकारयुक्तम् इति। (१.५) अष्टमोल्लासेपि यत्र तु नास्ति रसः तत्रोक्ति- वैचित्र्यमात्रपर्यवसायनः इत्यादिना प्रबन्धेन तेनैव कथितमस्ति। ननु रसो- ६०पकारयोग्यत्वमलंकार इति तल्लक्षणमस्तु । तेन नीरसस्थले नाव्याप्तिः इति चेन्न। योग्यताया निर्वचनस्याशक्यत्वात् तादृशानुगमकधर्मेण लक्षणविधानस्या- युक्तत्वाद्। जगन्नाथेनापि गुणानां शब्दार्थरसरचनागतत्वं स्वीकृत्य केवलरसधर्मत्वं ६3खाण्डितम्। तदथा-येमी माधुर्यौजःप्रसादाः रसमात्रधर्मतया उक्ताः तेषां रसधर्मत्वे किं मानम्। प्रत्यक्षमेवेति चेन्न। दाहादे: कार्यात् अनलगतस्य उष्णस्पर्शस्य यथा भिन्नतयानुभवः तथा द्रुत्यादिचित्तवृत्तिभ्यः रसकार्येभ्यः ६६अन्येषां रसगतगुणानां अननुभवात्। तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वाद्। कारणतावच्छेदकतया गुणानामनुमानमिति चेत् प्रातिस्विकरूपेणैव रसानां कारण- तोपपत्तौ गुणकल्पने गौरवाद्। शङ्गारकरुणशान्तानां माधुर्यत्वेन द्रुतिकारणत्वं ६१ प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम्। परेण मधुरतरादिगुणानां पृथगद्गुततरादिकार्यतारतम्यप्रयोजकतयाभ्युपगमेन माधुर्यत्धेन कारणताया गड्डुभूतत्वात्। इत्थं च प्रातिस्विकरूपेणव कारणत्वे लाघवम् । किं ७२च आत्मनो निर्गुणतया आत्मरूपरसगुणत्वं माधुर्यादीनामनुपपन्नम्। एवं तदुपाधिरव्यादिगुणवत्त्वमपि। मानाभावात्। पररीव्या गुणे गुणान्तरस्यानौचित्याच्च। अथ शङ्गारो मधुरः इत्यादिव्यवहारः कथमिति चेत एवं तर्हि द्रुत्यादिचित्तवृत्ति-
Page 129
११२ काव्यादर्शे द्वितीय: परिच्छेद:
किंतु बजिं विकल्पानां पूवाचार्यैः प्रदर्शितम्। ७५प्रयोजकत्वं प्रयोजकतासंबन्धेन द्रुत्यादिकमेव वा माधुर्यमस्तु। व्यवहारस्तु वाजिगन्धोष्णेतिव्यवहारवत् अक्षतः । प्रयोजकत्वं च अदष्टादिविलक्षणं शब्दार्थ- रसरचनागतमेव ग्राह्यम् । अतो न व्यवहारातिप्रसक्तिः । तथा च शब्दार्थयोरपि ७८ माधुर्यादरेदिशश्य स्त्त्वादुपचारो नैव कल्प्यः इति तु मादृशाः इति ॥(५४-५५ पत्रयोः) रहस्यं तु एतदेव यद्गुणानां रसधर्मत्वं न विचारक्षमम्। ते शब्दार्थरस- रचनागता एवेति ज्ञेयम्। आचार्यदण्डिप्रभृतयः प्राचीनाः रसानां रसवदलंकारत्वेनैव ८१काव्यशोभाकरत्वं मन्यन्ते। तथा च गुणे गुणान्तरस्यानौचित्यान्न माधुर्यादयो गुणा रसानामिति तेपां राद्दान्तः । अस्त्वेपा सूक्ष्मविचारचर्चा । प्रकृतमनुसरामः । अलंकाराणां एवं काव्यशोभाकरधर्मरूपं सामान्यलक्षणममिधाय वक्तव्यानां ८४विशिष्टालंकाराणामानन्त्यं विचिन्त्य तद्विवेचने स्वस्यासामर्थ्य विनयेन प्रकटयि- ते चेति। ते अलंकाराः। अद्यापि विकल्प्यन्ते विविधकल्पनाभिः नवनवा उद्धा- व्यन्ते। कविभिरिति शेपः । अतः कः पण्डितः । तान् अलंकारान्। कास्ल्येन ८७साकल्येन । वक्ष्यति निरूपयिष्यति। न कोपि विवेक्तुं प्रभविष्यतीत्यर्थः । वक्ष्य- तीति भविष्यत्प्रयोगेण न पूर्व केनापि निरूपिताः नाधुनापि कश्षिन्निरूपयति न वाग्रे केपि निरूपयेयुः इति साकल्यन कालत्रयेपि ते निरूपयितुमशक्या इति ९० सूचितम् । मेधाविनां कल्पनायाः अविरामात् कल्पनोपजीविनालंकारस्याप्यविरामः। अत इयत्तया तेपां निरूपणं दुःशकमिति भावः ॥ १ ॥ अलंकाराणामानन्त्याद् भवता तदूर्णनं परित्याज्यमिति चेन्न। ते प्राचीन: बीजरूपेण निरूपिता एव स्फुटतया मया कथ्यन्ते इति निवेदयति-किंत्विति। 3 विकल्पानां अर्वाचीनैः कल्पितानां अलंकारविशेपाणाम्। पूर्वाचार्यैः भरतादिभिः । बीजं सामान्यतः सर्वत्र वर्तमानं मूलम्। प्रदर्शितम् कथितम्। यथा नवीनैः उद्धा- वितानां उपमाभेदानां बीज-उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया।(१६ ६ ४२) इत्येव केवलं उपमालक्षणं विदधता भरतेन कथितम्। अग्रे दर्शितास्तु वाक्यार्थोपमा सातिशयोपमा श्लेषोपमा निन्दोपमा अभूतोपमा विपर्ययोपमा संशयोपमा नियमोपमा मालोपमा विक्रियोपमा इत्यादयः प्रभेदाः अन्यैः कल्पिताः सन्ति। अत्र सर्वत्र बीजभूतमापम्यं वर्तत एव। अयमुपमालंकारप्रपञ्चो दर्शितः। १ प्रकल्पितम्. कपा.
Page 130
अस्य ग्रन्थस्य सांग्रदायिकत्वम् ११३
तदेव परिसंस्कर्तुमयमस्मत्परिश्रमः ॥२॥ एवं रूपकादिष्वपि प्रपञ्चो द्रष्टव्यः। एवमेव औपम्यमूलकोलंकारान्तरविस्तारोपि दृश्यते। तदुक्तं वामनेन -प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः इति। (४.३.१)तेनैव · २च विविधैः सत्रैः अग्रे प्रभृतिपदोपसंग्राह्या अलंकारा दर्शिताः । तट्टीकाकारेण च ते ल्लोकैरेवं निबद्धाः। यथा- प्रतिवस्तुप्रभृतय उद्दिश्यन्ते यथाक्रमम्। १५ प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम्।। अपह्ुती रूपकं च श्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहः सविरोधकः ॥ १८ विभावनानन्वयः स्यादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना॥ अर्थान्तरस्य न्यसनं व्यतिरेकस्ततः परम्। २१ विशेषोक्तिरथ व्याजस्तुतिर्व्याजोक्त्यलंकृतिः । स्यात् तुल्ययोगिताक्षेपः सहोक्तिश्व समासतः । अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा। २४ उत्प्रेक्षावयवश्चेति विज्ञेयोलंकृतिक्रमः ॥ इति।
भरतमुनिना तु - उपमा दीपकं चैव रूपक यमकं तथा।
२७ काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः ॥(१६.४१) इत्यलंकारचतुष्टयमेवोक्तम्। एतद्विस्तारो भामहादिभि: प्रदर्शितस्तत एव बोद्व्यः। प्रदर्शितमिति कथनं प्रायिकमिति बोध्यम्। यतो निश्चयोल्लेखादीनां नवीनतरैरु- ३०द्ावितानां केषांचिदलंकाराणां सामान्यलक्षणरूपबीजस्य प्राचीनैरकथनाद। तदेव पूर्वाचार्यैः दर्शितमेव विकल्पमूलभूतं बीजम्। परिसंस्कर्तु सम्यक्तया विशदी- कर्तुम्। अयं प्रक्रान्तग्रन्थरूपः । अस्मत्परिश्रमः मदीयो व्यवसायः। पूर्वाचार्य- ३:कथितबीजभूतानि अलंकारतत्त्वानि मया विविघैर्लक्षणैरुदाहरणैश्च विव्रियन्ते । अनया दिशा अन्ये विकल्पाः प्रतिभावद्भिः स्वयमूहनीया इति भावः ॥ २ ॥ काव्यादर्श] १५
Page 131
कव्यादश द्वितीय: परिच्छेद:
साधारणमलंकारजातमन्यत् प्रदर्श्यते॥ ३॥ स्वभावाख्यानमुपमा रूपकं दीपकावृती। आक्षेपोर्थान्तरन्यासो व्यतिरेको विभावना॥४॥ : समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः।
एवं सामान्यतः अलंकारनिरूपणे प्रतिज्ञाते प्रसङ्गतः पूर्व निर्णीतानामलं- काराणां पुनर्निरूपणं पिष्टपेषणवद्विफलं स्यादिति तान् परिह्ृत्यैव निरूपणं क्रियते 3इति कथयति-काश्चिदिति । काश्चित् श्रव्यनुप्रासवृत्त्त्यनुप्रासयमकादयः । अलंक्रियाः शब्दालंकाराः । मार्गविभागार्थम् गौडवैदर्भमार्गयोवैसा दृश्यद्योतनार्थम्। प्रागपि प्रथमपरिच्छेदे। उक्ताः । तत्र श्रुत्यनुप्रासः ५२ श्रोकेन वृत्त्यनुप्रासः ५५ ६लोकेन यमकं च सामान्यतः ६१ श्लोकेन निर्दिष्टम्। तत्प्रयोजनं तु श्रुत्यनुप्रासो वैदभरैङ्गकिृतः न गौडेरित्यादिना मार्गभेदकथनम् । अतः तेलं- कारा: न पुनर्निरूप्यन्ते इति भावः । अन्यत् पूर्वोक्तात् अन्यत्। साधारणं उभयमार्गसमानम्। गौडवैदर्भानुमतमित्यर्थः । अलंकारजातम् स्वभावाख्यानमुप- मेत्यादिना अग्रे निरूप्यमाणोलंकारसमूहः। प्रदर्श्यते विविन्यते। यमकम्य पूर्व सामान्यतः लक्षणमुक्तं तद्विशेषप्रकारनिरूपणं तु-तत् तु नैकान्तमधुरमतः ९२ पश्चाद्विघास्यते। (१. ६१ ) इति पूर्वप्रतिज्ञानुरोधेनैव तृतीयपरिच्छेदे सोदा- हरणं प्रपश्चितमस्तीति ज्ञेयम् ॥ ३ ॥ प्रतिज्ञातालंकारनिरूपणाय प्रथमं तानुद्दिशति-स्वभावाख्यानमिति । स्वभावाख्यानं स्वभावोक्तिः अस्यैव जातिरिति संज्ञान्तरम्। दीपकं च आवृतिश्व ३दीपकावृती । आङ्पूर्वकादू वृतेः इगुपधात् कित् इति औणादिः कित्प्रव्ययः । आवृत्तिरित्यर्थः । सोयं अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च (२. ११६ ) इति त्रिधा अग्रे निरूपितोस्ति। अन्यत् स्पष्टम् ॥। ४ ।
समासेति। समासः समासोक्तिः। अतिशयः अतिशयोक्तिः। लवः लेशः। तथा चाग्रे वक्ष्यति-हेतुश्र सूक्ष्मलेशौ च वाचामुत्तमभूषणम् (२.२३५)
- अद्य. अ. क.
Page 132
अलंकाराणां समुद्देश: ११५
प्रेयो रसवदूर्जस्वि पर्यायोक्त समाहितम् ॥५॥
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥६॥ सहोक्ति: परिवृत्याशीः संकीर्णमथ भाविकम्। इति वाचामलंकारा दर्शिता: पूर्वसूरिमिः॥७॥ नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। स्वभावोक्तिश जातिश्रेत्याद्या सालंकृतिर्यथा॥८॥ इति। क्रमः यथासंख्यम् । अस्यैव संख्यानमिति संज्ञान्तरम्। तदुक्तमग्रे -- यथासंख्यमिति प्रोक्तं संख्यान कम इत्यपि (२. २७३) इति। समाहितं अर्वाचीनैः समाधिनाम्ना व्यवहतोलंकारः ॥५॥ उदात्तेति । उदात्तश् अपह्नतिश्व श्रेषश्च विशेषश्चेति द्वन्द्वः । विशेषः विशेषोक्तिः । विरोधः अप्रस्तुतस्तोत्रं च विरोधाप्रस्तुतस्तोत्रे। अप्रस्तुतस्तोत्रं ३अप्रस्तुतप्रशंसा। व्याजस्तुतिश्च निदर्शन च व्याजस्तुतिनिदर्शने ॥ ६ ॥ सहोक्तिरिति । संकीर्ण संसृष्टिः । तदुक्तमग्रे-नानालंकारसंसृष्टेः संसृष्टिस्तु निगदयते। (२.३५९) इति। इति एवं नामनिर्देशपूर्वकम्। कथिताः 3पूर्वोक्ताः पञ्चत्रिंशत्संख्याकाः। वाचां वाक्यानाम् । अलंकाराः । पूर्वसूरिभिः दर्शिताः । यद्यपि एते अर्थालंकाराः तथापि शब्दार्थयोः वैयाकरणानुमतं तादात्म्य- मङ्गाकृत्योक्तं वाचामित्युक्तम्। पूर्वसूरिभि: इत्यनेन संप्रदायागतानेतानेव विवृणोमि न तु निश्चयोल्लेखादीनर्वाचीनकविकल्पितसदृशानन्यान् कानपि विशिनष्मि । तादृश- वैचित्र्यस्वकिरेण अलंकारान्तरकल्पने तेपामानन्त्यापत्तेरिति भावः ॥।७॥ तत्र उद्देशवाक्यानुसारेण अलंकारान् लक्षयति-नानावस्थमिति। सा अलंकारेषु ग्रथिता। आद्या उद्देशवाक्ये प्रथमा । अलंकृतिः स्वभावोक्तिः जाति: ३इति च नामद्ूयवती। वर्तते इति शेषः। तल्लक्षणं तु नानावस्थमित्यादि। पदार्थानां स्थावरजङ्गमानाम् । नानावस्थं जातिगुणक्रियाद्रव्यवशेन विविधप्रकारम्ं ।
१ पर्यायान्यत्. कपा. ३ संसष्टिरथ. अ. ३ स्मर्यन्ते. अ. क.
Page 133
११६ काव्यादर्शे द्वितीय: परिच्छेद:
तुण्डैराताम्रकुटिलै: पक्षैर्हरितकोमलैः। रूपं स्वरूपविशेषम् असाधारणधर्मम्। साक्षात् अव्याजेन। विवृण्वती दर्शयन्ती। ६ अथवा साक्षात् विवृण्वती सूक्ष्मत्वाद्दुर्लक्षमपि प्रत्यक्षमिव दर्शयन्ती। सा जाति- रिति संबन्धः। एवं च वस्तुनः यथावत स्वरूपस्फुटीकरणसमर्थमसाधारणधर्म- वर्णनं स्वभावोक्तिः इति लक्षणं संपन्नम्। अत्र सर्वत्र अलंकारेपु काव्यशोभा- १करत्वरूपं साधारणलक्षणप्राप्तं चमत्कृतिहेतुत्वमपेक्ष्यते एव। तेन च- दीर्घपुच्छश्चतुष्पाद: ककुद्मांल्लम्बकम्बलः । गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः ॥ १२इत्यादौ नायमलंकारः । अत्र केचित् नानावस्थमित्यनेन एकावस्थवस्तुरूपर्णने न वैचित्र्यातिशयः इति नालंकारता। यथा-अम्भोदमुदित दृष्टा मुदा नृत्यन्ति बर्हिणः । इत्यत्र नर्तनमात्रं वर्णितमिति नात्र स्वमावोक्तिरित्याहुः। प्रकाशकारस्तु १५स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम्। (१०.१११) इति लक्षणं विधाय रूपवत् क्रियावर्णनमपि स्वभावोक्तिमाह। भोजस्तु -- अर्थव्यक्तिः स्वरूपस्य साक्षात् कथनमुच्यते। (१. ८१) इति अर्थव्यक्तिम् अर्थगुणमाह। अनया १८सह स्वभावोक्तेः सांकर्यपरिहाराय सार्वकालिकस्य वस्तुस्वरूपस्य वर्णनम् अर्थ- व्यक्तिगुणः आगन्तुकस्य वस्तुस्वरूपस्य वर्णनं स्वभावोक्तिरलंकारः इति भेदं निरदिशत्। यथा-
२१ अर्थव्यक्तरियं भेदमियता प्रतिपद्यते। जायमानमियं वक्ति रूपं सा सार्वकालिकम् ॥ (३.५) इति। अन्यत्रापि-
२४ स्वभाव एव भावानां स्वरूपमभिधीयते निजमागन्तुकं चेति द्विविधं तदुदाहृतम्।। इति प्रपश्चितमस्ति। आचार्यो दण्डी तु-अर्थव्यक्तिरनेयत्वमर्थस्य इति तां शब्द- २ गुणत्वेनैव स्वीचकार। अतस्तन्मते उपर्युक्तं सार्वकालिकागन्तुकोभयरूपं पदार्थ- स्वरूपवर्णनं स्वभावोक्तेरेव विषयः इति ध्येयम् ॥ ८॥
ज़ात्यादिचतुष्टयरूपां स्वभावोकि क्रमेण उदाहरति-तुण्डैरिति।
Page 134
स्वभावोक्तरुदाहरणानि ११७
त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिर: शुकाः ॥९॥ कलक्कणितगर्भेण कण्ठेनाघूर्णितेक्षण. । पारावतः परिभ्रम्य रिरंसुश्चुम्वति प्रियाम् ॥१०॥ वन्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्धृतिम्। नेत्रे चार्मीलयन्नेष प्रियास्पर्शः प्रवर्तते ॥ ११॥
आताम्रकुटिलै: आताम्राणि ईषल्लोहितानि कुटिलानि वक्राणि च तैः। तुण्डैः मुखैः। ३उपलक्षिताः । इत्थंभूतलक्षणे इति तृतीया । एवमग्रेपि । हरितकोमलैः हरिताः पालाशवर्णाः कोमलाः सुकुमाराः तैः। पक्षैः गरुद्भिः। त्रिवर्णराजिभिः त्रयो वर्णा: नीलरक्तधूसरा: तेषां राजयः रेखाः यत्र तैः। कण्ठैः ग्रीवामिः। एते अग्रे वर्तमानाः। ६शुका: कीराः । मञ्जुगिरः मधुरप्रलापिनः । वर्तन्ते इति शेषः । अत्र तुण्डादीनां ताम्रत्वादिक: सर्वशुकजातेर्धर्मः तेन जात्युदाहरणमेतत् ॥ ९॥
क्रियास्वभावोक्तिमुदाहरति-कलेति। कलक्कणितगर्भेण कलम् अव्यक्त- मधुरं यत् क्वणितं मञ्जुलध्वनिः स गर्भे अन्तः यस्य तेन। कण्ठेन उपलक्षितः । 3आघूर्णितेक्षणः आघूर्णिते प्रेम्णा प्रियामुखमभितः संचालिते ईक्षणे नयने येन सः । रिरंसुः रन्तुमिच्छुः । पारावतः । कलरवः सन्। परिभ्रम्य परितश्चङक्रमणं कृत्वा । प्रियां कपोतीम् । चुम्बति तस्याः अधरपानं करोति । अत्र कलक्कणिता- ६दयः सर्वे धर्माः पारावतचुम्बनक्रियायाः इति क्रियास्वभावोक्तिरियम् ॥ १०॥ गुणगतां स्वभावोक्तिमुदाहरति-बध्नन्निति। एषः अनुभूयमानः । प्रिया- स्पर्श: दयितास्पर्शः । अङ्गेषु गात्रेषु। रोमाञ्चम् रोमहर्षणम् । बभ्नन् संपादयन्। 3 मनसि निर्वृतिं परमानन्दम्। कुर्वन् जनयन्। नेत्रे आमीलयन् सौख्यातिशयेन निमीलयन्। प्रवर्तते जयतीत्यर्थः । अत्र प्रियास्पर्श: इति स्पर्शस्य गुणत्वादू गुण- गतेयं स्वभावोक्तिः । भोजराजेन स्वभावोक्ते :- देशः कालश्च शक्तिश्च साध- ६नानि च हेतव: (३. ८) इति हेतून् कथयित्वा शक्तेरिदमुदाहरणं दर्शितम्। अत्र रोमाञ्चबन्धादिषु प्रियास्पर्शप्रवृत्तेर्निमित्तस्योक्तत्वादियं शक्तिहेतुर्नाम जातिः इति च तेन लक्षणसंगतिर्दर्शिता ॥ ११॥
१ परि्क्रिम्य. अ, कपा; परावृत्य, बपा.
Page 135
११८ काव्यादर्शे द्वितीय: परिच्छेद:
कण्ठेकाल: करस्थेन कपालेनेन्दुशेखरः। जटाभि: स्निग्धताम्राभिराविरासीद्वषध्वजः ॥१२॥
शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥१३॥ यथाकथंचित् सादृश्यं यत्रोद्भूतं प्रतीयते। द्रव्यगतजातिमुदाहरति-कण्ठेकाल इति । कण्ठेकाल: कण्ठे कण्ठ- प्रदेशे काल: कालकूटं तदुत्पन्नकालिमा वा यस्य स शिवः । अमूर्धमस्तकाव ३ खाङ्गादकामे इति अलुकसमासः । करस्थेन करस्थितेन। कपालेन शिरोस्थ्ना। तथा स्त्निग्धताम्रामिः स्तन्निग्धाः कोमलाः ताम्राः अरुणाः ताभिः। जटाभि: जटिल केशपाशैः। उपलक्षितः । एतादृक् वृपध्वजः वृषः वृषभः ध्वजः केतुचिह्नं यस्यः रूः। ६ आविरासीत् प्रादुरभूत् । अत्र कण्ठेकालत्वादयः सर्वेपि धर्माः शिवरूपद्रव्यगताः इति द्रव्यस्वभावोक्तिरियम्। वृषध्वजशब्दो यादृच्छिकः शिवसंज्ञायां संकेतितः । संज्ञासंज्ञिनोश्वाभेदाद्द्रव्यगतेयं स्वभावोक्तिः ॥१२॥
स्वभावोक्तिमुपसंहरति-जातीति। जातिश्व क्रिया च गुणश्च द्रव्यं च जातिक्रियागुणद्रव्याणि तेषां स्वभावः नैसर्गिकस्वरूपं तस्य आख्यानं मनोहर- 3तया कथनम्। ईदशम् अनया रीव्या स्वभावो वर्णितश्चेत्। स्वभावोक्तिरलंकारो भवति इति भावः । अत्र द्रव्यपदं वैयाकरणपरिभाषितैकव्यक्तिवाचकम् न तु नैयायिकपरिभाषितपृथिव्यादिवाचकम्। तेषां जातिपदेन संग्रहात्। अस्यैव स्वभा- वाख्यानस्यैव। शास्त्रेषु पदार्थस्वरूपनिरूपणप्रधानेषु न्यायव्याकरणवेदान्तादि- शास्त्रेषु। साम्राज्यम् प्राधान्यम्। सर्वाण्यपि शास्त्राणि पदार्थस्वभावनिर्णयायैव प्रवृत्तानि । अतः स्वभावाख्यानं सर्वत्र वरीवर्ति इति भावः । एवकारेण अलंकारा- न्तराणां न एतादक् शास्त्रेषु उपयोग: इति सूचितम्। काव्येष्वपि एतत् स्वभावा ख्यानम्। ईप्सितम् कविभि: अलंकारान्तरापेक्षया एतदेव सहृदयतया आदतम्। सर्वेषु अलंकारेषु एतदेव विराजते इति भाव: ॥ १३ ।।
क्रमप्राप्तामुपमां निरूपयति-यथेति। यत्र काव्ये। वृत्तित्वं सप्तम्यर्थः ।
१ द्रव्येः स्व°. बपा. २ शासत्रे चास्येव. अ
Page 136
उपमालक्षणम् ११९
उपमा नाम सा तस्या: प्रपश्चोयं प्रदर्श्यते ॥।१४॥
तेच्च वृत्तित्वं शक्तिलक्षणान्यतरसहकारेण बोधकत्वसंवन्धेन ज्ञेयम्। केचितु यत्र 3वैचित्र्ये इति विषयसप्तमी। विषयश्च प्रतिपाध्यरूपः इत्याहुः। यथाकर्थंचित् येनकेनचित् प्रकारेण। गुणक्रियाद्रव्यवशेनेति भावः। उदूतं प्राधान्येन स्फुटम् । सादश्यम् साम्यम् । प्रतीयते अभिधालक्षणव्यजनान्यतरवृत्त्या प्रतीतिविषयमेति। ६सा उपमा तत् सादृश्यमुपमालंकारः । विधेयगतलिङ्गत्वेन तच्छब्दस्य स्त्रीत्वम्। तथा च काव्यनिष्ठमलौकिकचमत्कारजनकं सादृश्यमुपमेति फलितम्। चमत्कारा- जनकं सादृश्यं नोपमालंकारः । यथा गौरिव गवयः । घट इव पटः पदार्थः । अथवा-अस्थिवद्दधिवच्चैव पिष्टवत कुष्टवत् तथा। राजन् तव यशो भाति इत्यादिषु। एतत् सर्वालंकारसमानम् । तेन गोसदृशो गवयः इति नोपमा । गौर्वाहीक: इति न रूपकम् । स्थाणुर्वा पुरुषो वा इति न संदेहः । इंदं रजतम् १२इति न भ्रान्तिमान् । नायं सर्पः इति नापहुतिः । पीनो देवदत्तो दिवा न भुङ्गे इति न पर्यायोक्तम्। पर्वतो वहिमान् इति नानुमानम् । सोयं देवदत्तः इति न स्मरणम्। तस्थस्थमिपां तातंतामः इति न यथासंख्यम्। पुत्रेण सह १५आगतः पिता इति न सहोक्तिः । तेन विना गतः इति न विनोक्तिः । श्वेतो धावति इति न श्लेषः । इत्याद्युहनीयम् इति चित्रमीमांसायां (६ पत्ने) अप्ययदीक्षिताः। उक्तं हि रसगङ्गाधरे - सादृश्यं सुन्दरं १वाक्यार्थोपस्कारकं उपमालंकृतिरिति। (१५७ पत्रे) व्याख्यातं च सुन्दरमिति सादृश्यविशेषणम् । सौन्दर्य च चमकृत्याधायकत्वम्। चमत्कृतिश्वानन्द- विशेषः इति । तस्याः प्रपञ्चो विस्तरः । अयं वक्ष्यमाणप्रकारकः । प्रदर्श्यते २१ निदर्श्यते। अस्योपमालंकारस्य चत्वार्यङ्गानि। उपमानम् उपमेयम् साधारणो धर्मः उपमावाचकश्चेति । तत्र सादृश्यप्रतियोगि उपमानम्। सादृश्यानुयोगि उपमे- यम्। उपमाने उपमेये चोभयत्र संगतो धर्मः साधारणो धर्मः । उपमावाचकश्च १४इवादिशब्दः। परे तु यस्य धर्मस्य संबन्धात् येन सह यदुपमीयते स साधारणो धर्मः । तदुपमानम् । तच्चोपमेयम् । इति साधारणधर्मोपमानोपमेयपदानि वित्रु- ण्वन्तिं। यथा कमलमिव मुखं मनोज्म् इत्यादौ मनोज्ञत्वधर्मसंबन्धेन तद्वत्तया १७प्रसिद्धेन कमलेन सह मुखमुपमीयते इति मनोज्ञत्वं साधारणो धर्मः
१ निदश्येते. ब, कपा; ड; प.
Page 137
१२० काव्यादर्शे द्वितीय: परिच्छेद:
कमलमुपमानं मुखमुपमेयम् इवशब्दश्च उपमावाचकः इत्युपमालंकारः । एते च उपमानादयः पदार्थाः क्वचित् सन्तः क्वचिदसन्तः क्वचिदुपात्ताः क्वचि- ३० दनुपात्ता अपि सामर्थ्यावसेया भवन्ति । अत एव त्वयि कोपोयमाभाति सुधांशा- विव पावकः। इत्यत्र सुधांशौ पावकस्यासतोपि उपमानत्वसिद्धिः। तत्र उपात्तानां गुणक्रियाद्रव्याणां सादृश्यात् क्रमेणोपमालंकारः। यथा हंसीव धवला कीर्तिः इत्यत्र ३३धवलत्वगुणेन सलीलमियमायाति वघूर्गजवधूरिव इत्यत्न गमनक्रियया आकाशः काशतेत्यर्थ शिववद्विधुभूषणः इत्यत्र विधुरूपद्रव्येण। अनुपात्तानां यथा- मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये। ३६ वाच: सुधा इवौष्ठरते बिम्बतुल्यो मनोश्मवत् ॥ इति। अत्र मुखेन्दुप्रभुतीनां प्रसिद्धसादृश्यानां मनोज्ञत्वादयो धर्मा नोपात्ताः। ते सामर्थ्या- देव ज्ञायन्ते। उद्भूतम् प्राधान्येन स्फुटम्। तेन यत्र वैचित्र्यान्तरनिर्गाण- ३९ सादृश्यवचित्रयं तत्र नोपमालंकारः । तथा च रूपकादिस्थले ताद्रूप्यादिप्रती- तिजन्यवैचित्र्यस्य चमत्कारातिशयजनकतया तत्कुक्षिनिलीनमिवोपमावैचित्र्यं न तादृशं चमत्कारं दर्शयति इति न तत्रोपमालंकारप्रसक्तिः । एवमेव व्यतिरेका- ४२ लंकारेपि। तत्र भेदप्रतीतिवैचित्र्येण सादृश्यप्रतीतिजन्यवैचित्र्यस्य तिराधानाद्। अङ्गाङ्ङगिभावसंकरे तु सादृश्यजन्यवैचित्रयं नान्येन तिरोधीयते। परं काव्यार्था- लोचनया प्रधाननिर्वाहकत्वेन तदङ्गत्वेन प्रतीयते । सादृश्यमतिरिक्तः पदार्थ: r५इति वैयाकरणमीमांसकादयः । साधर्म्यमिति नैयायिकादयः । साधर्म्यमुपमाभेदे इति प्रकाशकारः । साधर्म्य च उपमानोपमेययोरकधर्मसंबन्धः । समासोत्तरवर्ति- भाववाचितद्वितप्रत्ययस्य संबन्धाभिधायकत्वात्। तदुक्तं भर्तृहरिणा-कृत्तद्वित- reसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति । एकत्वं हि धर्माणां क्वचिद्वस्तुतः अभिन्नत्वं क्वचिदेकजातीयत्वं क्वचिदेकशब्दप्रतिपाद्यत्वं कचिदेकधर्मत्वं चेति चतुर्विधम्। तत्र गुणक्रियायदच्छानां साध्म्यत्वे प्रथमम्। तेषामभिन्नत्वस्य वैया- ५१ करणैरङ्गीकृतत्वात। द्रव्यसामान्यादीनां साधर्म्यत्वे द्वितीयम्। एकजातीयत्वं च एकजातित्वम्। एकशब्दप्रतिपाद्यत्वं क्रिष्टपदोपस्थाप्ये धर्मे ज्ञेयम्। तत्र शब्द- श्लेषे सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव इत्यादि। अत्र सकल- ५४कलम् इत्यस्य कलकलसहितं संपूर्णकलायुतं चेत्यर्थः । बिम्बानुबिम्बितायामेक- धर्मवस्वम्। यथा-
Page 138
उपमालक्षणम् १२१:
भल्लापवर्जितैस्तेषां शिरोभि: रमश्रुलैमहीम्। ५७ तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव । इति।
अत्र श्मश्रुलत्वसरघाव्याप्तत्वयोः धर्मयोः एककृष्णत्वादिगुणयोगादेकत्वम्। आचार्य- दण्डिनो मते एतत् सादृश्यं द्वयोरेवेति नाग्रहः। एकस्यैव उपमानोपमेयस्वरूपस्य ६०अनन्वयस्याप्यनेन उपमात्वस्वीकारात्। तथैव वाक्यद्वयगता उपमेयोपमा अपि एतन्मते उपमैव। अतस्तदर्थ सादृश्यस्य एकवाक्यगतत्वमिति विशेषणं नापे- क्ष्यते। तत्र इवादिपदप्रयोगे वाच्यं तदप्रयोगे क्वचिल्लक्ष्यं क्वचिद्वाक्येन ६३व्यङ्गयम् इति ज्ञेयम्। अत्र तावदुपमायाः वाक्यार्थबोधं संक्षेपतः दर्शयामः । चन्द्र इव मुखं आह्लादकम् इत्यत्र आह्वादकोपमानभूतचन्द्राभिन्नमाह्लादकमुपमेयं मुखमिति बोधः । अत एव इवादिसमभिव्याहारे उपमानोपमेययोः समानविभक्ति- ६६ कत्वनियमः । साधारणधर्मसंवन्धश्च क्विद्विशेषणतया यथा चन्द्र इव मुखमा- द्वादकम् इत्यादौ क्वचिद्विशेष्यतया यथा चन्द्र इव मुखमाह्वाहयति। अत्र उपमानचन्द्रकर्तृकाह्वादामिन्नः उपभेयमुखकर्तृकाह्लादः इति बोधः । अतोत्रापि ६१तयो: समानविभक्तिकतैव। हरीतकीं भुड्क्ष्व राजन् मातेव हितकारिणीम् । इत्यादि तु असाध्वेव। समानविभक्तिकत्वाभावात्। ये त्वत्र चन्द्रसादृश्यप्रयोजको मुखकर्तृक आह्लाद: इति बोधं वदन्ति तेषां मते उपमानोपमेययोः समानविभक्ति- ७२ कत्वनियमे मानं चिन्त्यम् । यत्तु वाचनिकी समानविभक्तिकतेति तन्न व्याकरण- शास्त्रे तादृशवचनानुपलम्भात्। एवं गजराज इव गच्छति देवदत्तः इत्यादौ बोध्यम्। वनं गज इव शूरः समरभूमि गच्छति इत्यादौ उपमानगजकर्तृकवन- ७५ कर्मकगमनाभिन्नमुपमेयशूर कर्तृकसमरकर्मकं गमनमिति बोधः । साधारणधर्मरूप- गमनस्य विधेयतया उपमाविधेयिकात्र घीः । व्याघ्र इव यः शूरः पुरुषः स' गच्छति इत्यादौ उपमानशूरव्याघ्राभिन्नपुरुषकर्तृकगमनमिति धीः । शरत्वादि- ७eसाधारणधर्मस्योद्देश्यतया उपमोद्देश्यिकात्र धीः । अत एव भेदाभेदप्रधाना उपमेति वृद्धाः । यद्यपि चन्द्रमुखयोस्तत्त्वेन भेद: तथापि साधारणधर्मवत्वेना- भेदान्वययोग्यता बोध्या इति मञ्जूषायां नागेशः। विस्तरस्तु रसगङ्गाधरे द्रष्टव्यः । उपमायाः विविधालंकारमूलत्वमाह उपमाप्रस्तावे अप्ययदीक्षितः चित्रमीमांसायाम्। यथा- [काव्यादर्श ] १६
Page 139
१२२ काव्यादशै द्वितीय: परिच्छेद:
अभ्भोरूहमिवाताम्र मुग्धे करतलं तव। उपमैका शैलूषी संप्राप्ता चित्र भूमिकाभेदान्। रञ्जयति काव्यरङ्गे तृत्यनती तद्विदां चेतः ॥ चन्द्र इव मुखमिति सादृ्यवर्णनं तावदुपमा सैव उक्तिभङ्गभेदेनानेकालंकारकतवं भजते। तथाहि चन्द्र इव मुखं मुखमिव चन्द्रः इत्युपमेयोपमा। मुखं मुखमिव ८७इत्यनन्वयः । मुखमिव चन्द्रः इति प्रतीपम्। चन्द्रं द्रष्टा मुख स्मरामि इति स्मरणम्। मुखमेव चन्द्रः इति रूपकम् । मुखचन्द्रेण तापः शाम्यति इति परिणामः । किमिदं मुखमुताहो चन्द्रः इति संदेहः । चन्द्र इति चकोरास्त्वन्मुख- ९०मनुधावन्ति इति भ्रान्तिमान् । चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे रज्यन्ति इत्युल्लेखः । चन्द्रोयं न मुखम् इत्यपह्ववः । नूनं चन्द्रः इत्युत्प्रेक्षा। चन्द्रोयम् इत्यतिशयोक्तिः । मुखेन चन्द्रकमले निर्जिते इति तुल्ययोगिता । ९निशि चन्द्रस्त्वन्मुखं च हृष्यति इति दीपकम्। त्वन्मुखे एवाहं रज्यामि चन्द्र एव चकोरा रज्यन्ते इति प्रतिवस्तूपमा । दिवि चन्द्रो भुवि त्वन्मखम् इति दृष्टान्तः । मुखं चन्द्रश्रियम् बिभर्ति इति निदर्शना। निष्कलङ्गं मुखं चन्द्रादति- ९६रिच्यते इति व्यतिरेकः । त्वन्मुखेन सम चन्द्रो निशासु हृष्यति इति सहोक्तिः। मुखं नेत्राङ्करुचिरं स्मितज्योत्स्नोपशोभितम् इति समासोक्तिः। अब्जेन सदशं वक्त्रं हरिणाहहितसक्तिना इति श्लेषः । मुखस्य पुरतश्चन्द्रो निष्प्रभः इत्यप्रस्तुतप्रशंसा । ९९एवमुक्तानेकालंकारविवर्तवतीयमुपमा। तदिदं चित्रं विश्वं ब्रह्मज्ञानादिवोपमाज्ञानात्। ज्ञातं भवतीत्यादौ निरूप्यते निखिलमेदसहिता सा।। इति। (५ पत्रे). १.२राजशेखरोपि- - अलंकारशिरोरत्नं सर्वस्वं काव्यसंपदाम्। उपमा कविवंशस्य मातेवेति मतिर्मम ॥ १०५इति तां प्रशंसति ॥ १४॥ प्रतिज्ञातमुपमाप्रपञ्चं दर्शयति-अम्भोरुहमिति। हे मुग्धे सुन्दरि। तव -- करतलं पाणितलम् । अम्भोरुहमिव कोकनदमिव। आताम्रं आलोहितम्। ३ अम्भोरुहमिवेति समस्तम्। इवेन नित्यसमासो विभक्त्यलोपश्चेति शासनाद्।
Page 140
धर्मोपमा १२३
इति धर्मोपमा साक्षात् तुल्यधर्मप्रेदर्शनात्॥१५॥ अम्भोरुहपदं च अम्भोरुहसदृशे लाक्षणिकम् । इवशब्दः सादृश्यद्यातकः । तथा च आताम्रोपमानभूताम्भारुहाभिन्नमाताम्रमुपमेयं करतलमिति बोधः । यत्तु- ६इवार्थ: सादृश्यम्। तत्र प्रतियोग्यनुयोगिभावेनैव अम्भोरुहकरतलयारेन्वयोपपत्तौ किं लक्षणया। तथा च अम्भोरुहप्रतियोगिकसादृश्यानुयोगि करतलमिति बोधः इति तन्न। इवशब्दस्य सादृश्यार्थवाचकत्वे तदर्थे सादृश्ये उपमानस्य भेदेनान्वये अम्भोरुहमिव मुखं पश्यामि अम्भोरुहमिव मुखं दृश्यते इत्यादौ अम्भोरुह- पदस्य सामानाधिकरण्याभावात् उक्तानुक्तत्वप्रयुक्तविभक्त्यनापत्तेः षष्ठया- पत्तेश्र । तथा अम्भोरुहेणेव करतलेन शोभसे इत्यादौ समानविभक्तित्वं १२न स्याद्। अभेदान्वयस्थले एव विशेषणविशेष्ययोः समानविभक्तित्वनियमाद्। ननु अभेदान्वयस्थलवदुपमानोपमेयभावस्थलपि समानविभक्तित्वस्यानुशासनमस्ति । तथा हि-विभक्तिः पुनरेका स्यादुपमानोपमेययोः । इति। इति चेन्नैतद्रुचिरम्। १५ एतच्छासनस्य मुनित्रयानुपदिष्टत्वात्। अत्र केचित् साधारणधर्मस्य आताम्रत्वस्य प्रथममुपमेयभूतकरतलेनैवान्वयः न तु उपमानभूतेनाम्भोरुहेण। तस्य समस्तैक- पददेशपदबोध्यत्वात्। तद्गतत्वेन प्रतीतिस्तु पर्यालोचनया अन्वयबोधोत्तरमेव । १८अत एव धर्मसाधारण्यप्रतीतिः तयैव च वैचित्र्यमिति साधारणधर्मसंबन्धे विषये आहुः। परं नैतद्रुचिरम्। पूर्वोक्तदोषपरिहाराय इवशब्दस्य द्योतकत्वाद्। तेनोपमानोपमेयगतं सादृश्यं सममेव स द्योनयति इति ज्ञेयम्। अपरं च २१यथेवादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणान्येवेत्यादि- प्रकाशकारोक्तिविरुद्धमेतव् इति सुधीभि: विचार्यमेतत् । प्रकृतमनुसरामः । इति एवं साधारणघर्मप्रयोगस्थले धर्मोपमा। धर्मस्य उपादानेन धर्मोपमा इत्यर्थः । अत्र २न्हेतुमाह-साक्षादिति। साक्षाच्छब्देन प्रतिपादितस्य तुल्यधर्मस्य आताम्रत्वस्य । प्रदर्शनात् कीर्तनात्। अत्र इवशब्दश्रवणमात्रेण सादृश्यरूपसंबन्धस्य प्रतीतेरियं श्रौती। उपमानोपमेयसाधारणधर्मसादृश्यवाचकानां चतुर्णामपि प्रयोगाच्च पूर्णेय- २७मुपमा। चतुर्षु अङ्गेषु कस्यचिदनुपादाने लुप्तोपमेति ज्ञेयम्। एतद्वेदकरणमर्वा- चीनानामेव। प्राचीनग्रन्थेष्वनुपलम्भात्। आचार्यदण्डी तु प्राचीनमतमेवानुसरति। धर्मवस्तूपमाविषये प्रमाणमाग्नेये यथा -
१ प्रदुर्शनम्. कपा,
Page 141
१२४ काव्यादर्शे द्वितीय: परिच्छेद:
राजीवमिव ते वक्त्रं नेत्रे नीलोत्पले इव। इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥१६॥ त्वेदाननमिवोन्निद्रमरविन्दमभूदिति। सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते॥१७॥
30 यत्र साधारणो धर्म: कथ्यते गम्यतेथवा। ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उमे ॥ (३४४.१०) इति। इत्यलं पल्लवितेन ॥ १५ ॥
वस्तूपमां दर्शयति-राजीवमिति। ते तव। वक्त्रं वदनं। राजीवमिव कमलसदृशम्। नेत्रे नयने। नीलोत्पले नीलकमले इव। इयं निर्दिष्टस्वरूपा ३उपमा। प्रतीयमानः शब्देनानुपादानाद् गम्यमानः । एव केवलः । अन्येषामुपमानो- पमेयोपमावाचकानां शब्दोपात्तत्वात् इति भावः । धर्मः साधारणो धर्मः मनोज- त्वसौरभत्वादिः। यत्र सा वस्तूपमा। वस्तुनो: उपमानोपमेययोरुपादानादियं वस्तू- ६पमा। प्रसिद्धतया अत्र साधारणधर्मस्य शब्दप्रयोगमन्तरेणापि औपम्यप्रतीति- र्भवतीति भाव: । केचित्तु प्रतीयमानैकधर्मेतिपदस्थैकशब्दस्य सामान्यः साधारणः इति अर्थ दर्शयन्ति । इदमेकधर्मत्वं यत्राप्रसिद्धं तत्र नेयं वस्तूपमा भवति । ९तथा च सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव। इत्यादौं न वस्तूपमा । अत्र सकलकलमिति समानधर्मस्यानुपादाने न हि पुरसुधांशुबिम्बयोः सादृश्यं प्रसिद्धया बुद्धयारूढं भवति। इयं च धर्मलुप्तोपमेति अप्पय्यदीक्षितैर्मन्यते ॥१६॥ विपर्यासोपमामाह-त्वदाननेति। त्वदाननमिव। उन्निद्रं प्रबुद्धम्। अर- विन्दं कमलम्। अभूत् आसीत्। इति प्रसिद्धेः विपर्यासात् वैपरीत्याद्। सा प्रसिद्धा । विपर्यासोपमा अत्नास्तीति शेषः । अयं भाः । प्रस्तुतत्वेन वर्णनीयानां मुखादीनामेवोपमेयत्वं तदुत्कर्षप्रतिपादनाय न्यस्तानां चन्द्रारविन्दानामुपमानत्वम् इति कविसंग्रदायसिद्धः पन्थाः । तस्य मार्गस्य उपमेयस्य उत्कर्षप्रतिपादनाय ६विपर्यासः उममेयोपमानभावविपर्ययः तस्माद्विपर्यासोपमा । प्रस्तुते उदाहरणे आननमुपमेयभूतमपि उपमानतया वर्णितम् । इवान्तस्य उपमानत्वनियमात्। तदजुरोधेन च यच्च उपमानभूतमरविन्दं तत् उपमयतया वर्णितम्। अतः १ इति. अ. २ तवाननम्, ब, कपा, ड, प.
Page 142
अन्योन्योपमा १२५
तवाननमिवाम्भोजमम्भोजामेव ते मुखम्। इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी॥१८।। विपर्यासोपमालंकारः। नव्यास्तु अमुं प्रतीपं कथयन्ति। तदुक्तं कुवलायानन्दे- प्रतीपमुपमान स्योपमेयत्वप्रकल्पनम्। त्वल्लोचनसमं पझम त्वद्वक्त्रसदशो विधुः ॥ (१४ पत्ने) इति। १३उदाहरति च जगन्नाथ: - किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति। तद्यदि पतति हुताशे तदा हताशे तवाङ्गवर्ण स्यात् ॥ (४९६ पत्रे) १५इति ॥ १७॥
अन्योन्योपमामाह तवाननमिति । अन्योन्यस्य आननेन उपमानेन अम्भोजस्य अम्भोजेन उपमानेन आननस्य इति परस्परस्य उत्कर्षः गुणमाहात्म्यं ३तत् शंसिनी कथयित्री सेयमन्योन्योपमा। इति इत्यनेन उदाहरणस्रूपं निर्दि- श्यते। तेन च यत्र पर्यायेण उपमानोपमेयभावस्तत्रैवेयमिति सिद्धम्। तेन च मुखमम्भोजं च तुल्यमित्यत्र तथा प्रतीतावपि नेयं भवति उपरिदर्शितवैचित्र्या- ६भावात्। अत्र पर्यायेणोपमानोपमेयकत्वकल्पनं तृतीयसदृशव्यवच्छेदार्थम्। तेन न्यूनगुणेनोपमेयेनोपमीयमानस्य गुणाघिकस्योपमानस्य कथमुत्कर्षः इति शङ्का परास्ता। अत्र द्वयोरेव मुखाम्भोजयोः प्रस्तुतत्वं बोध्यम्। अम्भोजस्य अप्रस्तुतत्वे ९तदुत्कर्षप्रतिपादनवैयर्थ्यात्। प्रस्तुतोत्कर्षप्रतिपादनायैव गुणालंकाराणां समुत्पत्तेः। अत एव हेमचन्द्रः इमामुपमेयोपमाभिधानेन इत्थमुदाजहार - तवाननमिवाम्भोजमम्भोजमिव ते मुखम्। १२ निलीनां नलिनीखण्डे कथ नु त्वां लभेमहि ॥(२४७पत्रे) इति । निलीनां गूढाम्। अप्पय्यदीक्षितोपि-धर्मोर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि। इत्युभयप्रस्तुतमेवादाहरत्। अर्वाचीनैस्तु इयमुपमेयोपमाशब्देन व्यवहियते। जग- १५ नाथादयस्तु केवलं तृतीयसददशव्यवच्छेदमेवास्याः फलं मन्वते । तथा प्रस्तुता- प्रस्तुतेपि इयं भवतीति-
१ स्वदाननम्. अ. २ शालिनी. बपा.
Page 143
१२६ काव्यादर्शे द्वितीय: परिच्छेद:
त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित्। इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ १९ ॥ पञनं तावत् तवान्वेति मुखमन्यच्च तादशम्। अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ॥२० ॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव। ह्वादनाख्येन चान्वेति 'कर्मणेन्दुमितीदृशी ॥ २१॥ कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी। अम्बुजेन तुलित विलोचनं लोचनेन च तवाम्बुजं समम् ॥ इत्यतदुदाहरणतः स्पष्टं भवति। अत्र आननं मुखमिति प्रक्रमभङ्गः प्राचां निर- ङ्कुशत्वात् सोढव्यः इति प्रेमचन्द्रशर्माणः । परे तु कविना एतदुदाहरणं केवल- २ मुपमाभदप्रदर्शनायोल्िखितं न तु काव्यत्वेनोपन्यस्तम्। अतस्तत्र प्रस्तुतमपहाय
नियमोपमामाह-त्वन्मुखमिति। कमलेनैवेति एवकारः अन्ययोगव्य- वच्छेदकः । तदेव शब्दतः कथयति नान्येनेति । अन्यसाम्यव्यावृत्तेरिति ३उपमानबाहुल्यमुपमेयस्यापकर्ष गमयति। तद्व्यावृत्या प्रकृष्टेनैकेन सा- म्यकथनम् उत्कर्षातिशयवैचित्र्यमावहतीति अस्याः अलंकारकत्वं ज्ञेयम् ॥१९॥ अनियमोपमां दर्शयति-पद्ममिति । पद्मम् कमलम्। तावत् इति वाक्या- लंकारे। तव मुखमन्वेति अनुकरोति। अन्यत् कमलादितरत्। तादृशं सुन्दरं वस्तु 3 चन्द्रादि। तत्कारि तव मुखानुकारि। अस्ति चेदस्तु । इति एवं नियमाभावरूपा अनियमोपमा। नास्ति नियम: उपमानविषये यत्र सा अनियमोपमेत्यर्थः ॥ २०॥ समुच्चयोपमां दर्शयति-समुच्चयेति। तव मुखं कान्त्यैव केवलकान्त्या एव। इन्दुं नान्वेति। ह्वादनाख्येन संतोषजननाख्येन। कर्मणा क्रियया। च चशब्दः समुच्चयद्योतकः । तेनापि इत्यर्थः। अन्वेति अनुकरोति। इतीदृशी एता- दृशवैचित्र्यविशिष्टा। समुच्चयोपमा अपि अस्ति । अत्र गुणक्रिययोः समुच्चयः । ईद्ृशात्यनेन केवलगुणकेवलक्रियासमुच्चये साधारणधर्मसमुच्चयेपि इयं ज्ञेया ॥।२१॥ धर्मेण. अ.
Page 144
१२७
त्वय्येव त्वन्मुखं दृष्ट दृश्यते दिवि चन्द्रमाः। इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥२२॥ मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकत्थनैः। पद्मेपि सा यदस्त्येवेत्यसावुन्प्रेक्षितोपमा ॥२३ ॥ यदि किंचिद्भ्वेत् पदमं सुध्ठु विभ्रान्तलोचनम्। अतिशयोपमां दर्शयति-त्वय्येवेति। त्वन्मुखं त्वयि एव दृष्टम् । दिवि आकाशे। चन्द्रमा दृश्यते। एवं मुखचन्द्रमसोर्भिन्नाश्रयत्वं प्रतिपादितम्। इयती ३एव भिदा एतावानेव भेदः। नान्या अन्यो भेदो न। गुणक्रियादिकं सकलं समम् इति भावः । इति एवं वैचित्र्यशालिनी अतिशयोपमा भवतीति शेषः । उपमानो- पमेययोः गुणक्रियादिभि: महत्यपि भेदे किचिद्भेदप्रदर्शनपुरःसरं नान्यो भेद: ६इति अभिन्नाध्यवसानेन उपमेयस्य गुणक्रियातिशयो वर्णितो भवति। अतः अति- शयोपमा। अत्र इवादिसाधर्म्यवाचकशब्दाप्रयोगात् साम्यं व्यञ्जनगम्यमेव। व्यञ्जना च वक्तवैशिष्ट्यसचिवया भेदाभेदप्रतीत्या प्राप्तप्रसरा वर्तते। नात्र रूपक- ध्वनिः। आश्रयभेदस्य स्पष्टप्रतिपादनेन अभेदप्रतीतेः अभावात्। नापि व्यतिरेकः। उपमानादुपमेयगताधिक्यस्य अनुद्भवात् । तस्मादुपमा एव इयम् ॥२२ ॥
उत्प्रेक्षितोपमां दर्शयति-मय्येवेति। अस्याः प्रकृतनायिकायाः। मुखश्रीः मुखलक्ष्मीः। मुखशोभासदृशशोभेति निदर्शनागर्भेयुमक्तिः । मय्येव इति एवंप्रकारैः। ३इन्दोः । विकत्थनैः ल्लाघावचनैः । अलम्। यत् यस्मात्। सा श्रीः। पक्रेपि। अस्त्येव वर्तते एव। इति एतादृशी वर्णना उत्प्रेक्षितोपमा ज्ञेया। अत्र चन्द्रमसा आत्मश्लाघायाः अतातत्विकत्वेन नायकस्य चाटूक्त्या संभावनयोत्प्रेक्षितत्वेन इयम् ६उत्प्रेक्षितोपमा। अ्र साम्यं व्यञ्जनागम्यम्। एवमेवाग्रेपि तत्र तत्र बोद्धव्यम् ।।२३। अन्दुतोपमामाह-यदीति। सुभ्रु हे सुन्दरि। यदि। पझन। किंचित् मनाक्। विभ्रान्तलोचनं घूर्णितनयनम्। भवेद् । तत् तर्हि। ते तव। मुखश्रियं धत्ताम् ३प्राप्तोतु। इति असौ अद्भुतोपमा । विभ्रान्तलोचनादयो धर्मा मुखस्यैव तेषां संभावनया पद्मस्थितिकल्पनेन मुखसादृश्यवर्णनं चमत्कारातिशयाय भवति इतीय-
१ अयं श्लोक: अ पुस्तके नास्ति।
Page 145
१२८ काव्यादर्शे द्वितीय: परिच्छेद:
तत् ते मुखश्रियं धत्तामित्यसादज्भुतोपमा ॥२४॥ शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया। इन्दुमप्यनुधावामीत्येषा मोहोपमा स्मृता ॥२५॥ मद्दुतोपमा । यदुक्तम्- यत्रोपमेयधर्माः स्यरुपमानेधिरोपिताः । चमत्कारविधानार्थ तामाहुरद्दुतोपमाम् ।। इति। प्रकाशकारादयस्तु एनामतिशयोक्तिमाहुः । तदुक्तं प्रकाशे - ९प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम्। उदाहृतं च- राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥ (७६२ पत्रे) इति। १२इदमत्रावधेयम्। यत्र संभावनयापि पर्यन्ते औपम्यस्य अनिष्पत्तिः कवेरभिप्रेता तत्र नोपमा किंतु अतिशयोक्तिः । यथा प्रस्तुतोदाहरणे सुधांशुवपुषो अकलङ्क- भवनमशक्यमतस्तेन मुखसाम्यप्रापणमपि अशक्यमेवेत्यत्न कवितात्पर्यमस्ति। अंतो १५ नेयमुपमा किंतु अतिशयोक्तिः । यथा वा- उभौ यदि व्योम्नि पृथक् प्रवाहौ आकाशगङ्गापयसः पतेताम्। तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥ १८इत्यादावपि अनयैव दिशा अतिशयोक्तिः । पुष्पं प्रवालोपह्दितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्।" ततोनुकुर्याद्विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य ॥, २१ इत्यादौ तु नातिशयोक्तिः । पुष्पस्य प्रवालोपहितत्वस्य संभवात्। नात्र कवेरौपम्या- भावप्रदर्शने यत्न:। केवलं चारुतातिप्रदर्शनायैव चेयं संभावना। अत इयं कविकल्पितोपमानतया उत्पाद्योपमेति प्राचीनैर्व्यवहृतास्ति। आचार्य- १४दण्डिमते तु उभयत्रापि अद्भुतोपमैवेति सुधीभिर्विचार्यम् ॥।२४॥ मोहोपमां दर्शयति-शशीति। हे तन्वङ्गि कृशाङ्गि। तव मुखं शशी इत्युत्प्रेक्ष्य सादश्यादभिन्नं परिकल्प्य भ्रान्तिविषयीकृत्येर्थः। अनन्तरं त्वद्विरहे ·शशिनं दृष्टा। त्वन्मुखाशया तव वदनस्पृहया। त्वन्मुखमिदमेवेति बुद्धघा। इन्दुमपि
Page 146
मोहोपमा १२९
अनुधावामि तद्दर्शनवद्धरतिर्भवामि। इत्येषा इय मोहोपमा स्मृना। कविभिरिति शेषः। मोहो भ्रान्तिः सादृश्येन इन्दौ मुखभ्रान्तिः तेन उपमा मोहोपमेति। ६तदुक्तमाग्रेये- प्रतियोगिनमारोप्य तदभेदेन कीर्तनम्। उपमेयस्य यन्मोहोपमासौ भ्रान्तिमदूचः ॥ इति। अत्र साम्य व्यङ्गयम्। शशी इन्दुरिति प्रक्रमभङ्गोपि पूर्ववन्न दोषायेति बोद्व्यम्। अर्वाचीमानां मते अत्र भ्रान्तिमानलंकारः । तदुक्तं अप्यय्यदीक्षितेन- कविसंमतसादृश्याद्विषये पिहितात्मनि। १२ आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥ (चि. मी. ६४-६५ पत्रयोः) इति। अत्राध्य्यदीक्षितोक्तानि उदाहरणानि मनोहराणीति प्रदश्यन्ते --
१५ कपाले मार्जारः पय इति करांल्लेढि शशिन- स्तरुच्छिद्रप्रोतान् विसमिति करी संकलयति। रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
16 प्रभामत्तश्चन्द्रो जगदिदमहो विष्ववयति॥ कचित भ्रान्तेरुत्तरोत्तरं पल्लवन चमत्कार :- बल्लालक्षोणिपाल त्वदहितनगरे संचरन्तां किराती
२१ कीर्णान्यादाय रत्नान्युरुतरखदिराङ्वारशङ्काकुलाङ्गी। कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुधावन्मधुकरनिकरैर्धूमशङ्कां तनोति॥ २४कचित् भिन्नकर्तृकोत्तरोत्तरभ्रान्तिनिबन्धनेन चमत्कारः । यथा -- शिञ्जानैर्मञ्जरीति स्तनकलशयुगं चु्बितं चञ्चरीकैं- स्तत्त्रासोल्लासलीला: किसलयमनसा पाणयः कीरदष्टाः ।
२७ तल्लोपायालपन्त्यः पिकनिनदधिया ताडिता: काकलोकै- रित्थ चौलेन्द्रसिंह सवदगिमृगद्दशां नाप्यरयं शग्ण्यम्।। इति ॥२५॥ [कव्यादर्श] १७
Page 147
१३० काव्यादर्शे द्वितीयः परिच्छद:
किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं सुखम्। मम दोलायते चित्तमितयिं संशयोपमा ॥२६ ॥
अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥२७॥ संशयोपमामाह-किमिति । अन्तः भ्रान्तां अली यस्य एताहशम्। किमेंतत् पद्मम्। अथवेदं ते तव। लोले चञ्चले ईक्षणे नयन यस्मिन् एतादृशं ३किं मुखम्। इत्येवं विरुद्धनानार्थावगाहि मम चेतः । दोलायते सशयं प्रामोति। इयं संशयोपमा। एकस्मिन् धर्मणणि विरुद्वनानार्थावमर्शः संशयः । अस्य च सादृश्यपर्यवसायित्वादुपमाभेद संग्रहः । अत्र भ्रान्तालित्वविलोलक्षणत्वयोः बिम्बा- ६नुबिम्बिता। तया च सादृश्यविकासः। अर्वाचीनास्तु इमां संदेहालंकारकारणमिति स्वीकुर्वन्ति। तदुक्तं कविराजेन-सादृश्यमूला मासमानविरांधका समबला नानाकोव्यवगाहिनी धी रमणीया। संदेहालंकृतिः इति। उदाहरति च .- अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य वान्घवानाम्। परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम।।(२५६पत्रे) इति ॥ २६ ॥ निर्णयोपमां वक्त्ति-न पद्मस्येति। इन्दुनिग्राह्यस्य चन्द्रनिगृहांतस्य। चन्द्राभिभाव्यस्य। पद्मस्य। इन्दुलज्जाकरी अपकर्षत्वेन संकाचमापादगित्री। द्युतिः 3कान्तिः । न। निगृहीतस्य निग्राहकत्वाभावादिनि भावः । अतः इदम् इन्टु- निग्रहाकत्वेन पुरोभासमानं वस्तु त्वन्मुखमेव। तस्यैव तत्सामर्थ्यात्। एवशव्देन न पक्ममिति पभ्मस्य व्युदासः । इत्यसौ निर्णयोपमा भवति। उपमेयस्य निर्णयभङ्गया सादृश्यप्रकाशनादिति भावः। संशयानन्तरमेव निर्णयस्योद्वात्। अत्रेदं पझ्म वा मुखं वा इति प्रथमं संशयः परिकल्पनीयः । संशयोत्तरस्यैव निर्णयस्य निर्णयालंकारत्वमुक्तमग्निपुराणे यथा -उपमेयस्य संशय्य निश्चयान् निश्चयोपमा। (३४४, १८) इति। निश्चयोपमा निर्णयोपमा इति पर्यायौं। उदाहरणान्तरं यथा- किं तावत् सरसि सरोजमेतदार- दाहोस्विन्मुख़मवाभासते तरु्याः ।
Page 148
ऋषोपमा १३१
शिशिरांशुप्रतिस्पर्धि श्रीमत् सुरभिगन्धि च। अम्भोजमिव ते वक्त्रमिति श्रेषोपमा स्मृता ॥२८॥ मरूपशब्दवाच्यत्वात् सा समानोपमा यथा। संशय्य क्षणमिति निश्चिकाय कश्चि- द्विब्वोकैर्वकसहवासिनां परोक्षैः ॥ इति। १५विश्वनाथादय एनां निश्चयालंकृतिमाहुः ॥२७॥ श्लेषोपमां दर्शयति-शिशिरांश्चिति। ते वक्त्रम् अम्भोजमिव शिशि- रांशुप्रतिस्पर्धि शिशिरांशुश्चन्द्रः तस्य प्रतिस्पर्धि प्रतिद्वन्द्ि! अम्भोजपक्षे अशिशिरांशुः प्रतिस्पर्धी यस्येति बहुव्रीहिः। श्रीमत् सुश्रीकम्। प्रशंसायां मतुप् । सुरभिगन्धि सुरभि: घ्राणतर्पकः गन्धः यस्य तत्। इति विशेषणत्रयं श्लेषेणो- भयत्र संबन्धं लभते। अतः इयं श्लेषोपमा स्मृता । केचित्तु वक्त्रपक्षे शिशिरांशु- ६प्रतिद्वन्द्विश्रीमत् इत्येकं पदं परिकल्प्य शिशुरांशुप्रतिद्वन्द्िनी या श्रीः तद्विशिष्टम् इत्यर्थ प्रकाशयन्ति। पूर्वपद्धत्या अमङ्गश्लेषो भवति। अनया तु समङ्गक्रेषो भवति इति ज्ञेयम्। श्लेषेण उपमा उपमानोपमेयगतसाधर्म्य द्योत्यते यत्र सा छ्ेषोपमेति निरुक्तिः। ्लेषक्षात्र अर्थक्लेषः । शब्दक्लेषस्य वक्ष्यमाणसमानोपमा- विषयत्वादिति अनुपदमेत्र स्फुटीभविष्यति। श्लेषस्य शब्दार्थवृत्तित्वं शब्द- परिवृत्यसहत्वसहत्वाभ्यां ज्ञेयम् । अत्र श्लेषस्य विद्यमानत्वेपि न श्लेषालंकारः । १२सादृश्यवैचित्रये श्लेषवैचित्र्यस्य निलीनत्वात्। यत्र यद्वैचित्र्यं प्रधानतयाविर्भवति तत्रैव तदलंकारव्यवहारः । एतेनात अलंकारान्तरस्य श्लेषस्य सद्भावेपि न तत्वेन व्यपदेशः। श्लेषवैचित्र्यस्य प्रधाने सादृश्यवैचित्र्ये निलीनतया व्यपदेशकत्वा १५भावात्। प्राधान्येन व्यपदेशा भवन्ति इत्युक्तेः । इति केषांचिदुक्तिरपि एतद- भिप्रायिकैवति बोद्धव्यम् । अत्र ल्ल्वेषानुप्राणिता उपमा ज्ञेया ॥ २८॥ समानोपमां निरूपयति-सरूपेति। सरूपं समानं भिन्नार्थमपि एक- वर्णत्वेन अभिन्नं रूपं यस्य तादृशशब्देन वाच्यत्वात् प्रतिपाद्यत्वात्। समान- ३धर्मस्येति शेषः । सा प्रसिद्धा । समानोपमा मता शिष्टानामिति शेषः । तथा च
१ प्रतिद्वन्दि क. २ सन्दानोपमा. अ; सरुपोपमा, बपा,
Page 149
१३२ काव्यादर्श द्वितीय: परिच्छेदः
बालेवोद्यानमालेयं सालकाननशोभिनी।२९॥ पझ्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दोपमा समृता॥३० ॥ ब्रह्मणोप्युद्भवः पद्मश्न्द्र: शंभुशिरोधृतः।
यत्र श्िष्टशब्देन साधारणधर्मोपस्थितिः सा समानोपमा। उदाहरति-बालेति। इयमुद्यानमाला वनपङ्गिः। बालेव वधरिव। सालकाननशोभिनी सालानां वृक्षाणां ६काननं वनं तेन शोभिनी। वधूपक्षे अलकैः चूर्णकुन्तलैः सहित सालकम् एवं यदाननं मुखं तेन शोभिनी। अन्र भिन्नयोरपि उपमानोपमेयधर्मयोः समान- शब्दवाच्यत्वात् साधारण्यम् । अत्र वृक्षकाननेति परिवृत्ती न श्रेषः अतः शब्द क्लेषेयमुपमा ॥ २ ९॥
निन्दोपमां लक्षयति- पद्ममिति। पभ्नं बहुरजः परागधुलिधूसरम्। चन्द्रश्च क्षयी क्षयिष्णुः । अर्थात् कृष्णपक्षे। तवाननं तु निर्मलत्वात् परागशून्यं 3 सदा शोभापरिपूर्णत्वाच्च न क्षयिष्णु। अतः ताम्यां पद्मचन्द्राभ्याप्। समानमपि तवाननं सोत्सेकं दोषशून्यत्वेन उत्कर्षशालि इति निन्दोपमा। उपमानस्य निन्दया साम्यस्य कीर्तनाव् निन्दोपमा। अत्र केचित् रजःक्षयशब्दाभ्यां रजोगुणक्षयरोग. ६रूपार्थान्तरं श्लेषेणाङ्गीकृत्य तदेव दोषत्वेन कल्पयन्ति । तथा ताभ्यामिति पञ्चम्यन्तं स्वीकृत्य तत् सोत्सेकमित्यनेन संबध्य सोत्सेकशब्दस्य अधिकम् इत्यर्थ दर्शयन्ति। अत्र साम्यमात्रपर्यवसायित्वात् तत्रैव कवेरभिनिवेशात् प्रतीय मानेपि भेदे तस्य प्राधान्याभावान्न व्यतिरेकः। प्राधान्येन भेदचमत्कृतौ एव तस्य निश्चितत्वात् ॥ ३० ॥
प्रशंसोपमां दशर्यति-ब्रह्मण इति । पद्मः कमलम्। वा पुंसि पकं नलिनम्। इत्यमरकोशात् पद्मशब्दस्य पुंस्त्वम्। पद्ममिति पाठे अप्रयुक्तत्वदोषोपि 3न । ब्रह्मणोपि जगत्व्नष्टुरपि। उद्धवः उत्पत्तिस्थानम्। तस्य अरविन्दनाभनाभ्य- रविन्दजातत्वादिति भावः । तथा चन्द्रः । शंभुशिरोधृतः शंकरस्य शशिखंड
१ मना. अ. २ पद्मं. ब.
Page 150
प्रशंसोपमा १३३
तौ तुल्यौ त्वंन्मुखेनेति सा प्रशंसोपमोच्येते॥३१॥ चन्द्रेण त्वन्मुखं तुल्यमित्याचिर्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विद्ुः ॥ ३२ ॥ शतपत्रं शरचन्द्रस्त्वदाननमिति त्रयम्। परस्परविरोधीति सा विरोधोपमाँ मता ॥ ३३॥ मौलित्वादिति भावः । एतादृशौ महामहिमशालनौ तौ। तवन्मुखेन, तुल्यौ इति ६ विपर्यासोपमया मुखस्य गुणातिशयवर्णनात् इयं प्रशंसोपमा इत्युच्यते। अयमाशयः । पम्मचन्द्रौ तावन्महामहिमगुणशालिभ्यां कमलासनशशिशेखराभ्याम् आश्रितौ इति अनुपमगुणशालिनौ। तो त्वन्मुखनापि तुल्यौ इति अहो तेषां गुणराशिसंपत्तिः इति तौ अधिकगुणेनोपमानभूतेन मुखेन प्रशंसितौ। तेन च मुखस्य गुणातिशयः व्यक्तो भवति। इयं विपर्यासोपमानुप्राणिता प्रशं- सोपमा जेया। अत्र प्रशंसायाः प्राधान्यात् तद्वैचित्र्यकुक्षिलीनं विपर्यासोपमा- १२वैचित्र्यम्। तेन न विपर्यासोपमेति ज्ञेयम् ॥ ३१॥
आचिख्यासोपमां व्याख्याति-चन्द्रेणेति। मे मनः चन्द्रेण त्वन्मुखं तुल्यम् इति आचिख्यासु विवक्षु वर्तते। स आख्यानाभिलाषः । गुणो वा दोषो या अस्तु। ३इत्याचिख्यासोपमां विदुः । पण्डिताः इति शेषः । अत्र गुणो वा दोषो वास्तु इत्यनेन आख्यनाभिलाषस्य समुद्रेक: दार्शेतो भवति। तेन च मुखस्य उपमेयस्य चारुतातिशयो व्याश्जतो भवति। अत आचिख्यासया उपमेयचारुत्वपोषणादियमा- ६चिग््यासोपमेति भावः । केचितु गुणो वा दोषो वास्तु इत्यनेन हृद्गतभावप्रकटनया सारल्यद्योतनाच्चारुत्वातिशयः इति मन्यन्ते ॥ ३२ ॥ विरोधोपमां दर्शयति -- शतपत्रमिति। शतपत्रं कुशेशयम्। शरच्चन्द्रः शारदीयशर्वरीशः। त्वदाननं भवदीयाननम्। च एतत् त्रयम्। परस्परविरोधि अन्योन्यस्पर्धि। शतपत्रस्य विकासे दिवा चन्द्रस्य मालिन्यम् चन्द्रोदये रात्रौ शतघत्रस्य संकोचः इति ते परस्परविरुद्धे। तयोरुमयोः तवाननेन सह विरुद्धत्वं
१ ते मुखेनोन. अ. २ ० पमेष्यने, आ. ३ विरोधोपमोदिता, अ,
Page 151
काव्यादर्शे द्वितीय: परिच्छेद:
न जातु शक्तिरिन्दोस्ते सुखेन प्रतिगर्जितुम्। कलङ्किनो जडस्येति प्रतिषेधोपमैव सा॥ ३४॥ मृगेक्षणाङ्कं ते वक्त्रं सृगेणैवाङ्कित: शशी। तथापि सम एवासौ नोत्कर्षीति चटपमा ॥ ३५॥
त्वन्मुखसै।रभ्याह्वाद्कत्वरादिगुणमत्सरित्वादिति ज्ञेयम्। अस्य विभेधस्य साम्य- ६ पर्यवसायित्वादियं विरोधोपमा ॥३३ ॥
प्रतिपेधोपमां निर्दिशति-न जात्विति। इन्दोः ने मुखेन सह। न जातु न कदाचिदपि। प्रतिगर्जितुं प्रतिस्पर्धितुम्। शक्तिः अस्तीति भावः। उक्तमर्थ 3 विशेषणाभ्यां संपादयति। कलङ्किनः कलङ्कदूषितस्य । तथा जडस्य शीतलस्य मूर्खस्येति च ध्वनिः। तथा च एतादृशस्य चन्द्रस्य निष्कलङ्किना अजडेन च ते मुखेन स्पर्धितु का शक्तिरस्ति। अत्र सादृश्यप्रतिषेधेन उपमेयगुणस्योत्कर्षो ६वर्णितो भवति इति प्रतिषेधोपमा। पूर्वोक्तनिन्दोपमायां प्रतिषेधो नास्ति इति तस्या भेदः। नाव परिकरशङ्का कर्तव्या। कविनानेन अगणितत्वात्। विशे- षणदूयानुपादाने इदं-मही महावराहेण लोहितादुद्कतोदधेः । इतिवन्नेयार्थदोष- अस्तं भवेत् । अतस्तद्दोषपरिहाराय विशेषणस्यावश्यकत्वं ्ेयम्। नीनमते तु अपुष्टतादोषपरिहारार्थ तयोरावश्यकत्वं ज्ञेयम्। अपि चात्र औपम्यवर्णनस्यैव प्राधान्यात् प्रीतेषधापेमव स्वीकार्या इत्यलम् ॥ ३४॥
चटूपमां वर्णयति -मृगेक्षणाङ्कमिति। मृगस्य ईक्षणेन सदशम् ईक्ष- णम् मृगेक्षणं तदेव अङ्कं चिह्नं यस्य तन्मृगेक्षणाङ्कम्। अथवा मृगस्य ईक्षणे ३नयने मृगेक्षणे ते अङ्कं चिह्नं यस्य तन्मृगेक्षणाङ्कम्। मृगनयनसदृशनयन- शोभितमित्यर्थः । शशी चन्द्रः । मृगेणैव अङ्कितः भूषितः । तथापि वक्त्रं मृगस्य कयाचिदपि एकावयवक्रियया अथवा एकेनावयवेन युक्तम्। शशी ताद्ृशावयव ६समुदायविशिष्टशरीरेण मृगेण युक्तः । अतस्तत्साधनसंपत्तिरधिका। एवं स्थितेपि। असौ शशी। सम एव वदनेन समान एव। एवशब्देनाधिक्यव्यवच्छेदः। नोत्कर्षीति एवकारव्यवच्छेद्यमेव स्फुटतयाभिहितम्। अयमाशयः। अधिकसाधनवता अधिको- त्कर्षेण भाव्यम्। परं तादृशविशेपसाधनसंपत्तिमानपि शशी न मुखतो विशेप-
Page 152
तत्त्वाख्यानोपमा १३५
न पदमं मुखमेवदं न भृङ्गों चक्षुपी इमे। इति विस्पष्टसादृश्यात् तत्च्वाख्यानोपमैव सा॥ ३६ ॥ चन्द्रारविन्दयोः कांन्तिमतिक्रम्य मुखं तव। आत्मनैवाभवत् तुल्यमित्यसाधारणोपमा ॥३७॥ शोभाशाली इति शशिनः समीकरणेन मुखस्य सौन्दर्यपरिपोषो दर्शितः। एतादृश वर्णनशैली सुमधुरा इति चटूपमा। चटुः प्रियोक्तिः तत्परा उपमा औपम्यवर्णनम्। १२अस्त्री चाटु चटु लाघा प्रेम्णा मिथ्या विकल्पनम्। इति कोशः। अत्रोत्कर्पकारण सत्यपि नोत्कर्ष: इति विशेपोक्तिः । तस्या लक्षणमग्रे :- गुणजातिक्रियादीनां यत् तु वैकल्यदर्शनमू। १५ विशेषदर्शनायैव सा विशेषोक्तिरिष्यते॥ (२.३२३) इति ग्रन्थकृतैव दर्शितम्। विशेषोक्तिमूला एवेयं चटूपमा। अन्यथा सर्वत्रोगमाया चटूक्तिसंभवात् सर्वत्रेयमेव स्यात् इति प्रेमचन्द्रशर्माणः ॥ ३५।। तत्त्वाख्यानोपमां दर्शयति-न पद्ममिति। इदं पझं न किंतु मुखमेव। इमौ भृङ्गौ न किंतु चक्षुषी एव। इत्येवं विधिनिषेधप्रकारेण। विस्पष्टसादश्याद ३ सादृश्यस्य स्पष्टीकरणात। सदृशे भ्रान्तिर्भवति। अत्र च भ्रान्तेरपनयनात् सा पूर्वमासीत् इति निष्पन्नम्। सा च सादृश्यमूला इति सादृश्यस्य प्रकटीकरणात् तत्त्वाख्यानोपमा इयं जेया। भ्रमनिरासाय म्रमविपयस्य तत्त्वस्य यथार्थस्वरूपा- विष्करणं तत्त्वाख्यानम्। तन्मूलमस्याः अतस्तत्वाख्यानोपमा। निर्णयोपमार्यां संशयपूर्वक तत्त्वाख्यानम् । अत्र तु भ्रान्तिपूर्वकमित्युभयोर्भेदः ॥ ३६ ॥ असाधारणोपमामाह-चन्द्रेति। तव मुखं चन्द्रारविन्दयोः कान्ति शोभाम्। अतिक्रम्य स्वकान्त्या विजित्य। आत्मनैव स्वेनैव तुल्यमभवत्। इति असाधारणो- ३पमा। चन्द्रपओे एव मुखस्योपमानतया प्रसिद्धे। तयोरतिक्रमे तु अन्योपमानस्य विरहात् स्वस्मिन्नेव उपमानोपमेयभावः विश्रान्तः। तन च औपम्यस्य असाधारणत्वं निष्पन्नम् । अत इयम् असाधारणोपमा। न च एकस्यैवोपमानोपेमयत्वं कथमिति ६ वाच्यम्। आहार्यभेदेन भिन्नत्वात्। आहार्यत्वं नाम बाधकालिकेच्छाजन्यं ज्ञानम्। अत्र बाधशब्देन बाधकं ज्ञानमपेक्ष्यते। तच्च मुखं चन्द्रः इत्यत्र मुखं चन्द्रो न
१ क३्या. 7.
Page 153
१३६ काव्यादर्शे द्वितीय: परिच्छेद:
सर्वपद्मप्रभासारः समाहते इव क्वचित्। त्वदांननं विभातीति तामभूतोपमां विदुः ॥ ३८ ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। परुषा वागितो वक्त्रादित्यसंभावितोपमा ॥ ३९ ॥ इति बाधज्ञानं तात्कालिकी या मुख चन्द्रत्वज्ञानं मे जायतामिति इच्छा तज्जन्यं ९यत् ज्ञानं मुखं चन्द्रः इति तदाहार्यम् ॥ ३७॥ अभूतोपमामाह-सर्वेति। क्रचिदेकत्रस्थाने । विधात्रा समाहृतः संगु- हीतः । सर्वपद्मप्रभासारः सर्वेपां पम्मानां प्रभायाः सारः कान्तिपुञ्जः। इव त्वदाननं 3विभाति। इति एवंप्रकारां तां प्रसिद्धाम्। अभृतोपमाम् उपमेयस्य वर्णनाय संभाव- नया कल्पितस्य उपमानस्य वस्तुतः अभूतत्वात् तादृशेन अभूतेन उपमानेन औपम्यस्य वर्णनमभूतोपमा इति समाख्यानिरूपणम्। नात्र इवशब्दः संभावनार्थकः। ६अपि तु साधर्म्यवाचकः । तेन समाहृत इत्यस्य संभावनया समाहरणेपि उत्प्रेक्षा- वाचकाभावात् केवलसंभावनाचमत्कृत्यपेक्षया तादृशसंभावनानिष्पन्नोपमानसादश्य- वर्णनचमत्कृतेः प्राधान्यादत् उपमैव ज्ञेया। केचित्तु इवशब्दं समाहृतशब्देन संयुज्य संभावनायाः प्राधान्यादत्रोत्प्रेक्षां वदन्ति । प्रस्तुत अप्रस्तुतस्य धर्मिणः यत्र संभावना तत्रोत्प्रेक्षा। अत्र तु प्रस्तुते अप्रस्तुतधर्मस्य संभावना। तथा च प्रस्तुताप्रस्तुतयोः प्रतीतिः न तत्रोपमा इति प्राचामाशयं विवृण्वन्ति। परं १२ पूर्वोक्तप्रक्रियया संभावनाया उत्थितिरेव नात्रेति सुधीभिर्विचारणीयम् । वस्तुतः अविद्यमानस्य केवलं कविप्रतिभया निष्पाद्यमानस्य धार्मणः यत्र वर्णनं तत्राभूतो- पमा। स्वयं विद्यमानस्य धर्र्मणः यत्रान्यधर्मिणां समेलनकल्पनया साम्यवैचित्रय १५वर्णनं तत्राद्भुतोपमा इत्युभयोर्भेदः ॥ ३८॥ असंभावितोपमामाह-चन्द्रबिम्बादिति। इतः एतस्माद्। वक्त्रात् वदनाद्। परुषा कठोरा। वाक्। चन्द्रबिम्बात् विषमिव। चन्दनात् पावक इव । ३निःसरेदिति शेषः। अत्र उपमानभूताभ्यां चन्द्रचन्दनाभ्यां विषपावकनिःसरणस्येव वदनात् परुषवाड्निःसरणस्य असंभावितत्वादसंभावितोपमा ॥३९॥
१ ०मारं. अ. २ हृतमिव. अ. ३ तचाननं. अ.
Page 154
बहूपमा १३७
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः। स्पर्शस्तवेत्यतिशुयं बोधयन्ती बहूपमा ॥ ४० ॥ चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्तम्। तव तन्वाङ्गि वदनमित्यसौ विक्रियोपमा॥ ४१ ॥ पूष्ण्यातप इवाह्वीव पूषा व्योम्नीव वासरः। बहूपमां दर्शयति-चन्दनेति। चन्दनोदकं मलयाङ्गरागः चन्द्रांशुः इन्दुकिरणं चन्द्रकान्तः मणिविशेषः एतदादयः मृणालकदलीपत्रमुक्ताहारादयः ३ते इव शीतल: सुखकरः । उपमानानि सामान्यवचनैः इति कर्मधारयः। तव प्रकृतनायिकायाः । स्पर्शः । अस्ति इति शेषः । इति अतिशयम् उपमानान्तरेषु प्रसिद्धशौत्यादिगुणेभ्यः प्रस्तुते विशेषम्। बोधयन्ती प्रकटीकुर्वती। बहूपमा ६एतन्राम्ना व्यवह्ता भवति। एकस्योपमेयस्य बहूपमाननिबन्धनेन साम्योत्कर्ष- विधायित्री इति बहुपमेत्यर्थः । यथा बहूनां मधुररसानां समेलने चारुत्वातिशयः तथा बहूपमानदर्शनेन उपमेयधर्मस्य चारुत्वातिशयः इति केवलोपमाया अस्या ९भेदः । अर्वाचीनास्तु एनां मालोपर्मामाङ्कः ॥४0॥ विक्रियोपमामाह-चन्द्रविम्बादिति। ह तेन्वङ्गि। तव वदनम्। चन्द्र- बिम्बादुत्कीर्णमिव उद्दङ्कितमिव। पद्मगर्भात् पद्ममध्यात्। उद्धृतमिव। इत्यसौ 3विक्रियोपमा। अत्रोपमानभूतौ इन्दुबिम्बपद्मगर्भौं प्रकृती वदनं विकृतिः । प्रकृति- विकृत्योः साम्यमस्ति इति विक्रियुया उपमानविकारभूतोपमेयवर्णनेन उपमाः। अतो विक्रियोपमा। तथा चोक्तम् अग्निपुराणे-उपमानविकारेण तुलना विक्रियोपमा। ६(३४४.१५) इति । अन्यत्रापि - उपमेयस्य यत्र स्योदुपमानविकारता। प्रकृतेर्विकृतेः साम्यात तामाडुर्विक्रियोपमाम् ॥ इति। अत्रापि पूर्ववंदुपमानवैचित्र्यविलीनमुत्प्रेक्षासाम्यमतो नोत्प्रेक्षा इति ज्ञेयम् ।। ४४।। मालोपमामाह-पूष्ण्यातप इति । आतप इव प्रकाशो यथा पूष्णि सूर्ये। पूषा यथा अहि दिवसे। वासरः दिवसः यथा व्योस्नि आकाशे। तथा विक्रमः
१ शीतांशु°. अ. [काव्यादर्श ] १८
Page 155
१३८ काव्यादर्शे द्वितीय: परिच्छेद:
विक्रमस्त्वय्यधाल्लक्ष्मीमिति मालोपमा मता ॥४२ ॥ वाक्यार्थेनैव वाक्यार्थः कोपि यद्युपमीयते। एकानेकेवशब्दत्वात सा वाक्यार्थोपमा दविधा॥४३॥
३पराक्रमः। त्वयि लक्ष्मीम्। अधात् निहितवान्। इति एवंप्रकारा। मालोपमा मालायां यथा ग्रथितस्य एकस्य कुसुमस्य अपरेण तस्यापि अपरेण इति परस्थितस्य कुसुमस्य
६निवेशनेन संबन्धात् इयं मालोपमा। मता आलंकारिकसंमता। अयभेव रचना- वैचित्र्यविशेष: बहूपमातः अस्या भेदकः। बहूपमायां केवलमुपमाबाहुल्यम्। अस्यां तु पूर्ववाक्यस्थपदस्य उत्तरत्र संबन्धः एवमुपमाबाहुल्यम्। नव्यास्तु प्रकारद्वयेपि मालोपमामेव मन्यन्ते। तत् रचनावैचित्रयविशेषाज्ञानविजुम्भितमिति प्रेमचन्द्र- शर्माणः ॥ ४२ ॥
वाक्यार्थोपमां लक्षयति-वाक्यार्थेनेति। वाक्यार्थेनैव वाक्यार्थो विशे- षणविशेष्यतामापन्न उद्देश्यविधेयभावप्रधान एकतिङ्घटितः पदसमूहः तेन। एव. ३ कारेण पदार्थोपमानिवृत्तिः । कोपि वाक्यार्थः तादृश एव कश्चित् प्रस्तुतवाक्यार्थः। यदि उपमीयते तर्हि सा वाक्यार्थोपमा भवति। वाक्यार्थयोः उपमानोपमेयभावेन साम्यस्य वर्णनात् सा वाक्यार्थोपमा इति व्यवहियते। सा च एकानेकेवशब्दत्वात् ६ एकानेकेवशब्दोपादानात्। द्विधा द्विप्रकारा। अयमाशयः । यदा वाक्यस्थितप्रति- पदार्थसाम्यावबोधनेच्छा तदा प्रत्युपमानं पुरतः इवशब्दप्रयोगस्य आवश्यकत्वात् अनेकेवशब्दप्रयोगः । यदा तु प्रधानपदार्थान्वयबोघोत्तरं पश्चात् पर्यालोचनया अवान्तरपदार्थानां साम्यं प्रतीतिपदवीिरोहति तदा प्रधानोपमानपुरतः एव इवशब्दप्रयोगेण एकेनैव सकलार्थसिद्धिरिति एकेवशब्दप्रयोगः । एतादृशसाङ्गो- पमायां प्रायः कवय इवशब्दं प्रयुञ्जते इति लक्षणे इवशब्दोपादानम्। अत्र १२ अप्रस्तुतेन अवयवविशिष्टावयविना प्रस्तुतस्य अवयवविशिष्टावयविनः साम्यवर्णन- मपेक्षितं भवति। अयमेव वाक्यार्थोपमायां वैचित्र्यातिशयः। अन्यथा-यथा व्योष्नि विधुर्भाति तथा भूम्यां मुखं तव। इत्यत्नापि वाक्यार्थोपमा स्ाद्। भवतु १५ नाम सा कि नश्छिलमिति चेन्न। पदार्थोपमाया अस्या वैचित्र्यविशेषाभावाद्। वैचित्र्यविशेषस्थैव अलंकारान्तरविधायकत्वाद् ।।४३।।
Page 156
वाक्यार्थोपमोदाहरणम् १३९
त्वदाननमधीराक्षमाविर्दशनदीघिति। भ्रमद्भङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ ४४ ॥ नलिन्या इव तन्वङ्गयास्तस्याः पद्मामेवाननम्। मया मधुव्रतेनेव पायं पायमरम्यत ॥४५॥ वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः।
एकेवशब्दघटितां वाक्यार्थोपमामुदाहरति-त्वदाननमिति । अधीरे चकितचञ्चले अक्षिणी नयने यस्मिन् तत् अघीराक्षम्। आविः आविर्भवन्त्यः ३दशनानां रदानां दीघितयः किरणानि यस्मिन् तत् आविर्दशनदीधिति। एतादृशं तवाननम् । भ्रमन्तौ संचरन्तौ भृङ्गौ यत्र तत् भ्रमद्भृङ्गम्। आ ईषत् लक्ष्याः केसराः किञ्जल्काः यत्र तादशम्। पङ्कजमिव। भाति। अत्र सावयवस्य आननस्य ६सावयवेन पद्मेन साम्यम् उपमानोपमेयात्मकवाक्यद्वयेन वर्णतम्। एवं वाक्यार्थ- गतत्वात् वाक्योपमेयम् । अत्र विशिष्टयोरेवोपमानोपमेयत्वप्रतीतिरिष्टा इति एकेव- शब्दप्रयोगः । विशिष्टयोः पद्ममुखयोः साम्यबोधानन्तरं पर्यालोचनया अवयवानां ९विशेषणानां साम्यप्रतीतिः बुद्धयारूढा भवति। अत्र उपमानोत्तरतः इव शब्द- प्रयोगविरहात् उपमानोत्तरत एव इवशब्द: प्रयोक्तव्य इति नियमं प्राचीना न मन्वते इति भाति ।। ४४।।
अनेकेवशब्दप्रयोगघटितां वाक्योपमां दर्शयति-नलिन्या इति। नलिन्याः नलिनानि कमलानि सन्ति अस्याः इति नलिनी पझ्मलता तस्या इव। तन्वङ्गयाः 3पद्ममिव आननम् । मधुव्रतेन भ्रमरेण इव। मया। पायं पायं पीत्वा पीत्वा। अरम्यत। भावे लङ्। मधुव्रतेनेव मया इति प्रधानोपमानोपमेयौ। नलिनीतन्वङ्गी- पद्ममुखादयः अङ्गभूताः । तत्र प्रत्युपमानम् इवशब्दप्रयोगः । तेन च अङ्गाङ्गिनोः ६साम्यं शाब्दबोधविषयीभवत् चमत्कारातिशयं जनयति । अत्र साम्यबोधः अङ्ग- वाक्यानां शाब्दः । पूर्वोदाहरणे तु अङ्गिनः शाब्द: इतरेषां तु उन्यनोद्गवः इति भेद: ॥। ४५ ॥
प्रतिवस्तूपमालक्षणं विधत्ते -वस्तु किंचिदिति। किंचिदपि किमपि। प्रकृतं वस्तु। उपन्यस्य प्रथमं प्रतिपाध। तर्स्धर्मणः तक्य प्रकृतस्य सधर्मणः
Page 157
१४० काव्यादर्शें द्वितीय: परिच्छेद:
साम्यप्रतातिरस्तीति प्रतिवस्तृपमा यथा ॥४६ ॥ नैकोपि त्वादृशोद्यापि जायमानेषु राजसु। ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥४७॥ ३समानधर्मस्य अप्रस्तुतस्य । न्यसनात् प्रस्तुतवस्तुसमर्थनाय वाक्यान्तरेण प्रति- पादनात्। साम्यप्रतीतिः इवादिशब्दप्रयोगाभावेपि व्यञ्जनया सादृश्यावबोधः । भवतीति प्रतिवस्तु प्रतिवाक्यार्थम् उपमा समानधर्मो यस्यां सा प्रतिवस्तूपमा ६भवति। सधर्मणः इतिपदेन अप्रस्तुतवाक्येपि धर्मोपादनमवश्यमिति सूचितम् । तदुक्तं काव्यप्रकाशे -- प्रतिवस्तूपमा तु सा। सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । (७६९ पत्रे) इति। वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता। इत्यप्पय्य- द्रीक्षितः। व्याख्याति च यत्रोपमानोपमेयवाक्ययोरेकःसमानो धर्म: पृथक् निर्दिश्यते सा प्रतिवस्तूपमा इति। पृथङ्निर्देशनं कथितपदस्य दुष्टत्वाभिधानात् भिन्नवाचकेन ज्ञेयम्। साम्यप्रतीतिरस्तीतीत्यनेन उपमाजीवातुसाम्यस्यात्र प्राधान्येन १२भानात् उपमाविशेषे एव अस्या अन्तर्भाव उचितः । वैचित्र्यान्तराभावात् नालं- कारान्तरं युक्तम् इति ध्वन्यते। अनेन प्रतिवस्तूपमायां अलंकारान्तरविधानम् न. क्षोदक्षममिति बोद्धव्यम् । यथा इत्युदाहरणोपन्यासाय ॥४६ ॥
प्रतिवस्तूपंमामुदाहरति-नैकोपीति। जायमानेषु उत्पाद्यमानेषु। इद- मुपलक्षणं जातेष्वपि। तेन अद्यापीतिवचनं सुसंगतं भवति । तथा च जातेषु ३जायमानेषु राजसु अद्यापि अद्ययावत्कालपर्यन्तम्। एकोपि त्वादृशो नास्ति। ननु इति निश्चये। पारिजातस्य राहो: शिर इतिवत् भेदविवक्षया षष्ठी। पारि- जातवृक्षस्य द्वितीयो नास्त्येव । एक एव समुछ्लसतीव्यर्थः । पारिजातस्य द्वितीयो ६पादपो नास्ति इति वान्वयः । अन्र सदृशो नास्ति द्वितीयो नास्ति इति एक एव समानो धर्म: शब्दान्तरेण वाक्यद्वये निर्दिष्ट इति प्रतिवस्तूपमा। साम्यं चात्र गम्यम्। इयं वैधर््येणापि भवति यथा- विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ।। इति। यथा वा- यदि सन्ति गुणाः पुंसां विकसन्त्येव ते खयमू।
Page 158
तुल्ययागोपमा १४१
अधिकेन समीकृत्य हीनमेकक्रियाविधौ। यद्न्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥४८ ॥ दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्। न हि कस्तूरिकामोदः शपथेन विभाव्यते॥ इति ॥४७॥
इदानीं तुल्ययोगोपमां लक्षयति-अधिकेनेति । एकक्रियाविधौ एक- जातीयक्रियाया अनुष्ठाने। हीनं न्यूनगुणं वस्तु । अधिकेन गुणाधिकवस्तुना । समीकृत्य समानं विधाय। यत् सप्तम्यर्थकमव्ययमेतत्। यत्र चमत्कृतौ। ब्रुवन्ति वैचित्र्येण कथयन्ति। सेयं तुल्ययोगोपमा। हीनािकयोः तुल्यत्वेन यो योगः संबन्धः तेन संबन्धेन औपम्यं यत्र सा तुल्ययोगोपमा इति स्मृता। तथा च एकजातीय- ६क्रियया प्रस्तुताप्रस्तुतयोः हीनाधिकयोः साम्यकीर्तनं तुल्ययोगोपमा इति फलितम्। प्रकृतानामप्रकृतानां वा एकधर्मसंबन्धरूपा अर्वाचीनैरुक्ता तुल्य- योगिता तु मिन्नैव सवरूपमेदात्। तथा अग्रे वक्ष्यमाणा- विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित्। कीर्तनं स्तुतिनिन्दार्थ सा मता तुल्ययोगिता। (२. २३०) इयमपि मिन्नैव। अस्यां तुल्ययोगितायां सर्वस्य समकक्षतया वर्णनस्यापेक्षित- ११तया न तत्रोपमानोपमेयभावस्यापेक्षा। तेन च न साम्यं वाच्यं व्यङ्यं वात्र समुद्भवति। पर्यालोचनया पर्यवसाने तत् यथाकथंचित् प्रतीतिपदवीमारोहति । तुल्ययोगोपमायां तु प्रकृताप्रकृतत्वेनोपमानोपमेयभावस्य विवक्षितत्वादत्रसाम्यं १५ वाच्यमर्यादया व्यङ्ग्यमर्यादया वा शब्दादेव प्रतीतं भवति इत्युभयोर्भेदः । तथैव च स्तुतिनिन्दार्थ तुल्ययोगिताप्रवृत्तिः केवलसमत्वापादनाय च तुल्ययोगोपमा प्रवृत्तिः इति प्रवृत्तिनिमित्तमेदेनापि उभयोर्भेद: इति बोद्धव्यम्। यथेत्युदाहरणो- १८पन्यासाय ।।४८॥ तुल्ययोगोपमामुदाहरति-दिवो जागर्तीति । पुलोमारिः इन्द्रः ।
१ समाहृत्य. अ. २ भवान् भुवः कप.
Page 159
१४२ काव्यादर्शे द्वितीय: परिच्छेद:
असुरास्तेन हन्यन्ते सावलेपास्त्वंया नृपाः ॥४९ ॥ कान्त्या चन्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम्। -- राजन्रनुकरोषीति सैषा हेतूपमा मताँ ॥ ५० ॥ न लिङ्गचचने मिन्ने न हीनाधिकतापि वा। इन्द्रेण श्वशुरः पुलोमा निहतः । तदुक्तं हरिवंशे-
३ कृत्वा संबन्धकं चापि विश्वसेच्छत्रुणा न हि। पुलोमानं जघानाजौ जामाता सञ् शतक्रतुः ॥ इति ॥ दिव: स्वर्गस्य। रक्षायै जागर्ति अवहितो भवति। भवान् भुवः रक्षायै जागर्ति। ६तेन पुलोमारिणा। असुरा हन्यन्ते। त्वया सावलेपाः उद्धताः । नृपाः हन्यन्ते। अत्र हीनस्य प्रस्तुतस्य राज्ञः गुणाविकेन महेन्द्रेण सह एकजातीयक्रियाविधानेन तुल्यताप्रतिपादनात् तुल्ययोगोपमा। अत्र साधर्म्य व्यड्ग्यम् ॥ ४९॥
ह्वेतूपमां उदाहरणेन दर्शयति-कान्त्येति। निगदेनेवार्थो भवति। अत्र चन्द्रादिभि: सम नृपगतसादृश्यस्य कान्त्यादयो हेतवो निर्दिष्टाः । अतो ३हेतूपमा ॥ ५०॥
एवं किविधभेदसहितामुपमां विस्तरतो निरूप्य प्रसङ्गतस्तद्रतान् दोषान् विवक्षुरादौ प्राचीनोक्तं निरपवादं दोषस्वरूपं खण्डयति-नेति। भामहो हि ३ उपमाया इत्थं दोषानाह। हीनतासंभवो लिङ्गवचोभेदो विपर्ययः । उपमानाधिकत्वं च तेनासदृशतापि च ।। त एते उपमादोषाः सप्त मेधाविनोदिताः । (२.३९-४०) इते। अत्न विपर्ययः असादृश्यम् असंभवश्चेति त्रयो दोषा: यथाकथंचित् सादृश्यं यत्रो- दूतं प्रतीयते इत्युपमालक्षणे सादृश्यस्य उद्धतविशेषणत्वेनैव निरस्ता भवन्तीति न विचारणीयाः। उर्वरितदोषचतुष्टयस्य उद्देगतानुद्वेगते विमृश्येते। यत्र धीमतां स- हृदयानाम्। उद्देगः प्रतीतिविघातजन्यसंत्रासः। न भवति। तादृशस्थले भिन्ने उपमानो-
१ नृपास्त्वया. अ. २ स्मृता. अ.
Page 160
उपमादोषविचार: १४३
उपमादूषणायालं यत्रोद्वेगो न धीमवान् ॥५१॥ स्त्रीव गच्छति षेण्ढोयं वक्त्येषा स्त्री पुमानिव! प्राणा इव प्रियोयं मे विद्या धनमिवार्जिता॥ ५२॥ भवानिव महीपाल देवराजो विराजते।
पमेयपदयोः पृथग्भूते। लिङ्गवचने। तथा हीनाधिकता उपमानस्य न्यूनत्वम् अधि- १२कत्वं च । उपमादूषणाय नालम् समर्थानि न भवन्ति। एवं च धीमतामुद्देग एव दोषस्य कारणम्। तदुक्तमाग्नेये-विभक्तिसंख्यालिङ्गानां यत्रोद्वेगो हि धीमताम्। (३४७.२९) इति। सचोद्वेगः विशेषणविशेष्यादिपदानां परस्परसंबन्ध- १५ केशरूपो विगीतवर्णने समुद्धवति। यदि केनापि विशेषकारणेन स न प्रादुर्भवेद् तर्हि तत्र नास्ति उपमादीनां दुष्टत्वम्। ग्रायः भिन्नलिङ्गवचनयोरुपमानोपमेयमो: एकतरलिङ्गवचनानुगतेन समानधर्मेण तदन्येन भिन्नलिङ्गवचनविशिष्टेन संबन्धो १८दुष्करो भवति। अत एतादशी उपमा उद्देगकरी। तथा उपमानस्य हीनतायां उपमेयस्यानुत्कर्षात् अधिकतायां च तत्सापेक्षतया उपमेयस्यात्यन्तनिकृष्टत्वेन वैरस्येनोद्वेगो भवति। एतच्चाग्रे उदाहरणे स्फुटीभविष्यति ॥ ५१॥
तत्र लिङ्गवचनमेदस्य निर्दोषत्वं दर्शयति-स्त्रीवेति। अत्र षण्ढः स्त्रीव गच्छति। एषा स्त्री पुमानिव वक्ति। इति वाक्यद्वये गमनवचनक्रियाया एव साधारण- ३ धर्मत्वात् तस्य च भिन्नलिङ्गयोरुपमानोपमेययोरक्लेशेनैवान्वयान्न भिन्नलिङ्गदोषः । अयं जनः । मे प्राणा इव प्रियः । तथा मया विद्या धनमिव अर्जिता संपादिता। इत्यत्र च प्राणशब्दः नित्यबहुवचनान्तः धनशब्दश्च नित्यनपुंसकः । नानयोः ६पर्यायशब्दाः प्रकृतोचितलिङ्गवचनाः । अतोगतिकगत्या यथा प्राणाः प्रियास्तथायं. मे प्रियः यथा च धनमर्जित तथा विद्या अर्जिता इति लिङ्गविपरिणामेन अन्वयः संपाद एव। अत्र च नोद्वेगः सहृदयानाम् अन्यगतेरभावात्। अतोत्र नोपमादोषः। ९अनयैव दिशा चन्द्र इव मुखम् सुधावदधरः इत्यादिस्थले प्रतीतिमान्थर्याभावान्नो- पमा दुष्टा इति ज्ञेयम् ॥ ५२॥ उपमानस्य हीनाधिकत्वयोनिर्दोषतां दर्शयति-भवानिति। हे महीपाल
1 षण्डोयं, डप. २ प्रियेयं. अ.
Page 161
१४४ काव्यादशें द्वितीयः परिच्छेद:
अलमंशुमत: कक्षामारोढुं तेजसा नृपः ॥५३॥ इत्येवमादौ सौभाग्यं न जहात्येव जातुचित्। अस्त्येव क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥५४ ॥ राजन्। भवान् इव। देवराजः महेन्द्रः । विराजते। अत्र नृपतेर्मर्त्यधर्मत्वात् प्रकृत- ३देवताखरूपाददेवराजादपकृष्टत्वं स्पष्टमेव। तथापि राज्ञां लोकपालांशसंभवत्वेन केषां- चिद्देवराजसदशपराक्रमशालित्वेन च नेदं वैरस्यमावहति। राजञां लोकपालांशत्वमाह मनु :- अष्टानां लोकपालानां वपुर्धारयते नृपः। (५.९६) इति। अन्यत्रापि- ६ इन्द्रा् प्रभुत्वं तपनात् प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम्। आह्लादकत्वं च निशाधिनाथादादाय राजः क्रियते शरीरम्॥ इति। इयं च विपर्यासोपमा। अस्यां च पर्यायेणोपमेयस्यैव वर्णनं भवति। तेन चात्र न ९पर्यवसाने हीनतादोषः समुद्भवतीति अरुचिं प्रदर्श्य केचित्- उत्सङ्गितकुरङ्गोयसक्षमण्डलमध्यगः। विघुर्व्याघ्र इवाभाति हन्तुं विरहदुर्बलान्। ११इति पद्यमुदाहरन्ति । अत्र श्लिष्टविशेषणाभ्यां प्रतीयमानं निकृष्टस्यापि व्याघ्र- स्योपमानत्वं न दोषाय भवति। प्रत्युत विरहिनिषूदनक्रौर्यसूचनाय तदतीवोप- युक्तमिति कथयन्ति । तेजसा नृपः अशुमतः सूर्यस्य। कक्षां साम्यम्।- १५ पापे कक्षा त्विभरज्जवां काञ्च्यां हेमप्रकोष्ठके। - भित्तौ साम्ये रथभागेन्तरीये पश्चिमाचले॥ इति हेमचन्द्रः । आरोढुं आक्रमितुम्। अलं पर्याप्तः । अत्र जात्याधिकोंशुमान् १८उपमानीकृतः। परं पूर्वोक्तदिशा नृपस्य तदंशत्वान्नोद्वेगकरं तत् इति ज्ञेयम् ।।५३।
दोषस्य दोषाभावप्रस्तावमुपसंहरति-इतीति। इत्येवमादौ एवत्प्रभृतौ। वर्णनं जातुचित् कदाचिदपि। सौभाग्यं अनुद्वेगेन वैचित्र्यसौन्दर्यम्। न जहाति उन त्यजति। तर्हि किं सर्वथा दोषा न सन्त्येव इति चेन्न। कवचित् प्रयोगे वाग्विदां सहृदयानाम्। उद्देगः प्रतीतिमान्थर्येण वैचित्र्यव्याघातेन वा संत्रासः। अस्त्येव। यथा इति उदाहरणप्रस्तावाय ॥ ५४॥
१ कक्ष्याम्. क. २ अस्ति च. क. ३ तद्विदां क
Page 162
उपमादाषा: १४५
हंसीव धवलश्चन्द्रः सरांसीवामलं नभः। भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥५५॥ ईद्ंशं वर्ज्यते सद्भिः कारणं तत्रं चिन्त्यताम्। गुणदोषैविचाराय स्वयमेव मनीषिभि: ॥५६॥ दुष्टोपमामुदाहरति-हंसीवेति। चन्द्रः हंसीव धवलः । नभः सरांसीव अमलम्। भटः वीरः । श्वा इव सारमेय इव । स्ामिभक्तः भर्तृभक्तः । खद्योतः भानुवत् भाति इति। अत्र प्रथमोपमायां हंसीव चन्द्र इति लिङ्गभेदः । तेन धवलशब्दस्योभयत्र संबन्धे लिङ्गविपरिणामादिक्लेशः । द्वितीयोपमायाम् सरांसीव नम इत्यत्न वचनभेदः । तेन अमलशब्दस्यान्वयानुपपत्तौ पूर्ववदेव वचनविप- ६रिणामः विधेयः । तृतीयोपमायां भटः श्वेव इत्यत्र शुनः अत्यन्तापकृष्टजाति त्वात् सहृदयानां तत्सादृश्येनोद्वेगो भवति इति जातिन्यूनता। चतुर्षोपमायां खद्योतो भानुवदित्यत्र खदोतसूर्ययोर्महृदन्तरेण तत्सादृश्यवर्णनं वैरस्याय भवति। इति अधिकतादोषः ॥५५॥
दोषविवेचनमुपसंहरति-ईदृशमिति। सद्धिः काव्यशास्त्रनिष्णातैः। ईदृशम् यज्यते। तत्र कारणं प्रतीतिमान्थर्यवैरस्योत्पादनादिकं चिन्त्यताम् स्वयमेवोह्यताम्। ३स्पष्टत्वात् ग्रन्थविस्तारमिया मया न सर्व तन्निरूप्यते। एतेन मया दोषनिरीक्षणस्य पद्धतिर्दर्शिता। अनयान्येपि दोषा विपश्चिद्िर्जेया इति सूचयन् स्वग्रन्थस्य न्यूनतां परिहरतीति ज्ञेयम् । अत्र सुद्रितपुस्तकेषु गुणदोषविचाराय स्वयमेव मनीषिभिः । इइत्यर्धमधिकं दृश्यते। अर्थस्तु स्पष्ट एव। प्राचीनपुस्तकेषु तददर्शनात् पुनरक्त- प्रायत्वाच्च वयं तत् प्रक्षिप्तमिति शङ्कामहे। अस्मिन् दोषविचारे भामहवामन- भोजराजानां लक्षणोदाहरणानि व्युत्पादकानीति दर्शयामः । तत्र व्रामनः-
तोपमानस्य हीनत्वम्। तत्र जातिन्यूनत्वरूपं हीनत्वं यथा -चाण्डालैरिव युष्माभि: साहसं परमं कृतम्। प्रमाणन्यूनत्वं यथा- वहिस्फुलिङ्ग इव भानुरयं १२चकास्ति। उपमेयादुपमानस्य धर्मन्यूनत्वं यथा-
१ ईदृशो. अ. २ त्वन्न. अ. ३ इदं श्लोकार्ध नास्ति अ पुस्तके. [काष्यादर्थ ] १९
Page 163
१४६ काव्यादर्शे द्वितीय: परिच्छेद:
स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्।
१५अत्र मौञ्जीप्रतिवस्तु तडिन्नास्ति इत्युपमानहीनत्वम् । तत्र जात्याधिक्यं यथा- विशन्तु विष्टयः शीघ्रं रुद्रा इव महोजसः इति । विष्टयः कर्मकराः। प्रमाणाधिक्यं यथा- पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ। १८ वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥ इति। - धर्माधिक्यं यथा-
२१ सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत । सवाडवाग्निः सावर्तः स्रोतसामिव नायकः ॥ ( ४.२.८ इत्यादि ) इति। २अत्र सवाडवागनिरित्यस्य प्रतिवस्तुनः उपमेये अभावाद्धर्माधिक्यमिति ज्ञेयम् इति। उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः। यथा-सैन्यानि नद्य इव जग्मुरनर्गलानि इति। अत्र अरुचिबीजं तु अस्माभि: पूर्व दर्शितमनुसंधेयम्। वचनभेदो यथा- २७ पश्यामि लोचने तस्याः पुष्पं मधुलिहो यथा। इति। अप्रतीतगुणसादृश्यमसादृश्यम्। यथा-प्रशनामि काव्यशशिनं विततार्थरश्मिम् । इति। काव्यस्य शशिना सह यत् सादृश्यं तदप्रतीतैरेव गुणैः प्रतीतैर्गुणैर्नास्ति तदिति भावः । अनुपपत्तिरसंभवः ३० यथा- चकास्ति वदनस्यान्तः स्मितच्छायाविकासिनः । उन्निद्रस्यारविन्दस्य मध्ये सुग्धेव चन्द्रिका॥ इति। १३ अत्र चन्द्रिकायामरविन्दस्योन्निद्रत्वं सृष्टिक्रमविरुद्धमित्यनुपपत्तिः । भोजराजस्तु उपमायाः मिन्नलिङ्गन्यूनाधिकत्वरूपदोपम् वाक्यदोषेपु परिगणयति। लक्षणपूर्वक- में परमुदाहरति च । यथा- यत्रोपमा मिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते। भवेत् तद्मिनत्वचनं यद्भिनवचनोपमम् । (१ २५ इत्यादि) इति।
Page 164
उपमादोषाः १४७
तत्न मिन्नलिङ्गस्योदाहरणं यथा-
३९ वापीव विमलं व्योम हंसीव धवलः शशी। शशिलेखेव हंसोयं हंसालिरिव ते यशः ॥ इति। भिन्नवचनस्य यथा-
४२ सरांसीवामलं व्योम काशा इव सितः शशी। शशीव धवला हंसा हंसीव धवला दिशः ॥ इति। न्यूनोपममिह न्यूनमुपमानविशेषणैः। यथा- ४५ संहतचक्रवाकयुगा विकसितकमला मृणालसंछन्ना। वापी वधूरिव रोचनाविलिप्तस्तनी सुखयति॥ इति। अत्र नेत्रबाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम्। अधिकं यत् reपुनस्तैः स्यात् तमाहुरधिकोपमम्। यथा- अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूः। कुन्दलतेव समुत्फुल्लगुच्छपरिणीयमानभ्रमरगणः ॥ इति। ५१अत् भ्रमरगणस्योपमानविशेषणस्याधिक्यादघिकोपमम्। वाक्यार्थदोषेपि पुनः- हीनोपमं भवेच्चान्यदधिकोपममेव च। असदृक्षोपमं चान्यदअ्रसिद्धोपमं तथा॥ (१. ५१ इत्यादि) ५५इति चतुर उपमादोषान् परिगणयति। उदाहरति च लक्षणपूर्वकम्। यथा-हीनं यत्रोपमानं स्यात् तत्तु हीनोपमं स्मृतम्। यथा- क्वचिदग्रे प्रसरता क्वचिदाप्लुत्य निन्नता।
५७ शुनेव सारङ्गकुलं त्वया भिन्नं द्विषत्कुलम् ।। इति । तदेव यस्मिन्नधिकं तद्भवेदघिकोपमम्। यथा- अयं पद्मासनासीनश्चक्रवाको विराजते।
६० युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ इति। यत्वतुल्योपमानं तद्वदन्त्यसद्ृशोपमम्। यथा-
Page 165
१४६ काव्यादर्शे द्वितीय: परिच्छे
स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागा्लिष्ट इवांशुमान्।। १५अत्र मौञ्जीप्रतिवस्तु तडिन्नास्ति इत्युपमानहीनत्वम् । तत्र जात्याधिक्य यथा- विशन्तु विष्टयः शीघ्रं रुद्रा इव महोजसः इति। विष्टयः कर्मकराः। ्रमाणाधिक्यं यथा-
१८ पाता लमिव नाभिस्ते स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥ इति। धर्माधिक्यं यथा-
२१ सरश्मि चञ्चलं चक्रं दधदेवो व्यराजत। सवाडवाग्निः सावर्तः स्त्रोतसामिव नायकः ॥ ( ४.२.८ इत्यादि ) इति। अत्र सवाडवागनिरित्यस्य प्रतिवस्तुनः उपमेये अभावाद्धर्माधिक्यमिति ज्ञेयम् इति। उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः। यथा-सैन्यानि नद्य इव जग्मुरनर्गलानि इति। अत्र अरुचिबीजं तु अस्माभि: पूर्व दर्शितमनुसंघेयम्। वचनभेदो यथा- २७ पश्यामि लोचने तस्याः पुष्पं मधुलिहो यथा। इति। अप्रतीतगुणसादृश्यमसादृश्यम्। यथा-प्रश्नामि काव्यशशिनं विततार्थरश्मिम्। इति। काव्यस्य शशिना सह यत् सादृश्यं तदप्रतीतैरेव गुणैः प्रतीतैर्गुणैर्नास्ति तदिति भावः । अनुपपत्तिरसंभवः ३० यथा- चकास्ति वदनस्यान्तः स्मितच्छायाविकासिनः । उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥ इति। ३३ अत्र चन्द्रिकायामरविन्दस्योन्निदत्वं सृष्टिक्रमविरुद्धमित्यनुपपत्तिः। भोजराजस्तु उपमायाः भिन्नलिङ्गन्यूनाधिकत्वरूपदोपम् वाक्यदोषेपु परिगणयति। लक्षणपूर्वक- मेवमुदाहरति च। यथा-
३६ यत्रोपमा भिन्नलिङ्गा भिन्नलिङ्गं तदुच्यते। भवेत् तद्भित्वचनं यद्िनवचनोपमम् ॥ (१ २५ इत्यादि) इति।
Page 166
उपमादोषाः १४७
तत्न मिन्नलिङ्गस्योदाहरणं यथा- वापीव विमलं व्योम हंसीव धवलः शशी। शशिलेखेव हंसोयं हंसालिरिव ते यशः ॥ इति। भिन्नवचनस्य यथा-
४२ सरांसीवामलं व्योम काशा इव सितः शशी। शशीव धवला हंसा हंसीव धवला दिशः ॥ इति। न्यूनोपममिह न्यूनमुपमानविशेषणैः। यथा- ४५ संहतचक्रवाकयुगा विकसितकमला मृणालसंछन्ना। वापी वधूरिव रोचनाविलिप्स्तनी सुखयति ॥ इति। अत्र नेत्रबाहूपमापदानां वधूविशेषणत्वेनानुक्तत्वादिदं न्यूनोपमम्। अधिकं यत् r पुनस्तैः स्यात् तमाहुरधिकोपमम्। यथा- अभिनवमनोहरविरचितवलयविभूषा विभाति नववधू: । कुन्दलतेव समुत्फुल्लगुच्छपरिणीयमानभ्रमरगणः । इति। ५१अत् भ्रमरगणस्योपमानविशेषणस्याधिक्यादधिकोपमम्। वाक्यार्थदोषेपि पुनः- हीनोपमं भवेच्चान्यदधिकोपममेव च। असदृक्षोपमं चान्यदप्रसिद्धोपमं तथा ॥ (१. ५१ इत्यादि ) ५४इति चतुर उपमादोषान् परिगणयति। उदाहरति च लक्षणपूर्वकम्। यथा-हीनं यत्रोपमानं स्यात् तत्तु हीनोपमं स्मृतम् । यथा- क्कचिदग्रे प्रसरता कचिदाप्लुत्य निघ्नता।
५७ शुनेव सारङ्गकुलं त्वया भिन्नं द्विषत्कुलम् ॥ इति। तदेव यस्मिन्नधिकं तद्भवेदघिकोपमम्। यथा- अयं पद्मासनासीनश्चकरवाको विराजते।
६० युगादौ भगवान् ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥ इति। यत्वतुल्योपमानं तद्वदन्त्यसद्ृशोपमम्। यथा-
Page 167
१४८ काव्यादर्शे द्वितीय: परिच्छेद:
नमत हरं रोषानलनिर्दग्धमुग्धमन्मथशररिम्।
६३ विस्तृतनितम्बनिर्गतगङ्गास्त्रोतसमित्र हिमवन्तम् । इति। अत्र कोपानलनिर्दग्धमुग्धमन्मथशरीरम्य हरस्य नितम्त्रनिर्गतस्रोतसा हिमवता सह असादृश्यादिदमसदृशोपमम्। अप्रसिद्धोपमानं यत् अप्रसिद्धोपमं हि तद। ६६यथा- कुमुदमिव मुखं तस्या गौरिव महिपः शशीब काव्यमिदम्। शरदिव विभाति तरुणी विकसितपुलकोत्करा सेयम् । इति। ६१अत्र कुमुदमुखयोर्गोमहिषयोः काव्यशशिनोः प्रतीयमाने शरत्तरुण्योश्व विधीयमाने सादृश्ये उपमानोपमेयस्याप्रसिद्धत्वादप्रमिद्धोपममिदम्। तत्र वाक्यगतोपमादोष- स्यापवादमाह- यद्धिन्नलिङ्गमित्युक्तं विभिन्नवचनं च यत्। उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥ (१. १२० इष्यादि) यथा-
४५ अन्यदा भूषणं पुंसः शमो लज्जेव योषिताम्। पराक्रम: परिभवे वैयात्यं सुरतेष्विव ।। अत्र पुंसो योषित इव शमो लज्जेव पराक्रमो वैयात्यमिव इति लिङ्गभेदः । ७परिभवे सुरतेष्विव इत्यत्न लिङ्गवचनमेदः । स चैषामेव परस्परमुपमानोपमेय- भावविवक्षायां पर्यायान्तराभावादन्यथाकर्तु न शक्यते इति सहृदयानुद्वेजकत्वान्न दुष्यति इति दोषस्यापि गुणत्वम्। तदिदं द्वयोरप्येकमुदाहरणम्। मिन्नलिङ्ग- "१स्यैव यथा- यस्य त्रिवर्गशन्यानि दिनान्यायान्ति यान्ति च । स लोहकारभस्त्नेव श्वसन्नपि न जीवति ॥ ४अत्र पूर्ववदेव पर्यायान्तराभावात् स लोहकारभस्त्रेव इति लिङ्गभेदस्य न दोष:। भिन्नवचनस्यैव यथा- प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः । मुक्तात्मानः शिवं नेमिरन्येपि ददतां जिनाः ॥
Page 168
उपमादोषाः १४९
अत्र नेमिरन्येपि इति वचनभेददोषेपि ददताम् इति क्रियापदादेर्वचनश्लेषमाहा- तम्याङ्गुणत्वम,। ९० यत्नोपमानधर्माः स्युनोपमेयेन मंमिताः । तद्रीनोपममित्याहुस्तत् प्रसिद्धौ न दुष्यति॥ यथा- स मारुताकम्पितपीतवासा विभ्रत् सलीलं शशिभासमब्जम्। यदुप्रवीरः प्रगृहीतशार्ङ्ग: सेन्द्रायुधो मेघ इवाबभासे ॥ अत्र सेन्द्रायुध इति कार्मुकस्योपादानं वासःशङ्कयोस्त्वनुपादानादूनोपमत्वम्। तन्रे- ५६न्दुविद्युतोरतिप्रसिद्धत्वाददोषत्वम्। यदाह- मर्व सर्वेण सारूप्यं नास्ति भावस्य कस्यचित्। यथोपपत्तिकृतिभिरुपमानं प्रयुज्यते ॥ अखण्डमण्डल: क्ेन्दुः क्व कान्ताननमद्युति। यत् किंचित् कान्तिसाम्यात् तु शशिनैवोपमीयते।। क्रमेणानेन कृतिभिरेष्टव्यमधिकोपमम् । विशेषस्तूपमेयाङ्गमनुमानात् प्रतीयते॥ इति। यथा- स पीतवासाः प्रगृहीतशार्ङ्गो मनोजभीमं वपुराप कृष्णः ।
१०५ शतहृदेन्द्रायुधवान् निशायां संसृज्यमानः शशिनेव मेघः ॥ अत्र शशिनो ग्रहणादधिकोपमन्वेपि शङ्गचक्रगदाघरो विष्णुः इति प्रसिद्धया उप- मेये शक्कोनुमेयो भवति। अतोत्र न दोष: । एवं वाक्यदोषापवादं उक्त्वा १०ववाक्यार्थदोषापवादमाह- यत्रोपमानमुत्कृष्टमुपमेयं निकृष्यते। ज्ञेयं तदधिकौपम्यमस्यापि क्वाप्यदोषता। ९९१यथा- कान्त्या चन्द्रमसं धाम्ना सूर्य धैर्येण चार्णवम्। राजन्ननुकरोषि त्वं सौभाग्येनापि मन्मथम् ॥ ११अत्र अधिकौपम्येपि राज्ञो लोकपालांशत्वेन शिष्टैरादतत्वाट्टणत्वम्।
Page 169
१५० काव्यादर्शे द्वितीय: परिच्छेद:
उपमानस्य वैषम्याद्धवेदसदृशोपमम् । तस्याभ्यनुज्ञामिच्छन्ति व्यतिरेकोपमादिषु। ११यथा- प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता । न परेषु महौजसशच्छलादपकुर्वन्ति मलिम्लुचा इव ॥ १२० मलिम्लुचा इति उपमानस्य असदृशत्वेपि व्यतिरेकोपपादकत्वा्रुणत्वम्। यस्योपमानं लोकेषु न प्रसिद्धं तदिष्यते। अप्रसिद्धोपमं नाम तत् क्वचिन्नैव दुष्यति ॥ १२३यथा- उद्गर्भहूणरमणीरमणोपमर्दभुग्नान्नतस्तननिवेशनिभं हिमांशो: बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णो: पदं प्रथममग्रकरैर्व्यनक्ति। १२६अस्यामप्रसिद्धोपमत्वेन दूषणत्वेपि द्वयोरपि प्रसिद्धाप्रसिद्धयोः शृङ्गाररसोदपिकत्व्र- साम्याद्रुणत्वम्। केचित्तु कालपुरुषलोडर्थादिभेदमपि दोपमाहुः । यथा- तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
१२९ त्यक्ष्यामि वैदेहसुतां पुरस्तात् समुद्रनेमिं पितुराजयेव ।। अत्र समुद्रनेमिमत्यजमित्यन्वैति न तु त्यक्ष्यामिति। पुरुषभेदो यथा- शरीरमात्रेण नरेन्द्र तिष्टन्नाभासि तीर्थप्रतिपादितर्द्धिः । १३२ आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ अत्र नीवार आभाति इत्यन्वेति न तु आभासीति। विध्यादिभेदो यथा- आशास्यमन्यत् पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते। १३५ पुत्रं लभखात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।। अत्र भवन्तमलभत इत्यन्वेति न तु लभखेति। इति चित्रमीमांसादिप्रबन्धेषु द्रष्ट- व्यम्* । ५६ ।।
*ंअत्र प्रसङ्गदलंकारशेखर त्रयोदशमरीचौ साधर्म्यस्य प्रतियोग्यनुयोगिनावुक्तौ। तदुपयुक्त- मिति संगृह्लीम :- चन्द्रकलाम्बुजदामशिरीपं विद्युत्तारा कनकलता च। दमनककाश्नयष्टी दीप: 3सवैंरेभिर्योषिद्र्ण्या ।I रोचना स्वर्णविद्युद्धिर्हरिद्राभिर्वराटकः। चम्पकैर्हेमकेतक्या वर्ण्यते तत्तनो- रदुतिः ।। (वराटकः पद्मबीजम्) तमः शैवालजीमूतबर्हध्मरचामरैः। यमनावीचिनलिश्ष्मनील
Page 170
उपमावाचकानि १५१
इववद्वायथाशब्दाः समाननिभसंनिभाः।
अभिधालक्षणाव्यञ्ञनामिरुपमाप्रतीतिर्भवति इति तस्या वाचकादीन् निर्दि- शति-इवेति। इवादयः शब्दाः सादृश्यवाचकाः सन्ति। तत्र इवोदाहरणम्- हंसीव कृष्ण ते कीर्तिः खर्गङ्गामवगाहते। ٤ वत् तत्र तस्येव इति सप्तम्यन्ताद्विहितः । तेन तुल्यं क्रिया चेद्वतिः इति तृतीयान्ता- द्विहितश्च तद्धितप्रत्ययो ग्राह्यः । उभयोः उदाहरणे यथा- ६ गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत्। दुरालोकः स समरे निदाघाम्बररत्नवद्।। वा यथा- आशीविषो वा संक्रुद्धः सूर्यो वाभ्रविनिर्गतः । भीमोन्तको वा समरे गदापाणिरदृश्यत।। यथा यथा --
१२ धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
ब्जाभ्रै: समः कचः॥ ललाटमधचन्द्रेण हेमपट्टिकया तथा। वल्लीस्मरधनुर्वीचिमङ्गालीपल्लवैर्भवौ। 6 चन्द्रादर्शौ कपोलस्य मुखस्येन्द्वब्जदर्पणाः । तिलप्रसूनं नासायाः कण्ठः कम्बोः समः स्मृतः ॥ मृगतन्नेत्र पाथोजतत्पतखख्ननैः। नेंो्ेि्मशुगैः॥ प्रवालबिम्ब- बन्धूकपल्लवैरधरोष्टकौ। वर्ण्यौ माधुर्यमाश्रित्य यावन्मधुरवस्तुभिः । मुक्तामाणिक्यनानङ्गदाडिमी- 9कुन्दकोरके: । ताराभिश्र रदा वाणी हंसालिशुककिनैः ॥ वेणुकोकिलवणिामिर्माधुर्य मधुरैः सह।। बाहुर्विसेन विद्युद्वल्लिमृणालेः करस्तु पद्मेन। पल्वविद्ठिमकाभ्यां चन्द्रकलाकुन्दकोरकैश् नखा: ॥। पूगाब्जतत्कोर कबिल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रेः। सौवीर जम्बीरकबीजपूर समुद्रछो- 12लङ्गफलैरुरोज:॥ नाभीरसातलावर्तहूदकूपनदादभः । वली तटिन्या तद्ूपैः पृष्ठ काश्नपट्टकेः॥ शूच्यग्रतलशून्याणुवेदीसिंहादिि: समः । मुष्टिम्राहो भवेन्मध्यो जघनं पुलिनोपमम् ॥ पीठप्रस्तर- भूचक्रैर्नितम्बः परिवर्ण्यते। करास्तु करिहस्तेन कदल्या करमेण च ।। चरणः पल्लवाम्भोजस्थल- 15पद्मप्रवालकेः । पूर्णेन्दुनाड्गुष्ठनसौ गमनं हंसहस्तिवत् ॥ कटाक्षो यमुनावीचिमृङ्गंवलिविषामृतैः। ज्योत्स्नेन्टुपुष्पपीयुषफेनकैरववद्सः ॥ दर्शनं वमदब्जादि: श्वासस्तु सुरभिः शनैः । हंससारस- शब्दाभ्यां वर्ण्यते नूपुरध्वनिः ॥ राजामत्यन्तपीनत्वमुच्चता दीर्घबाहुता। युगारगलभुजङ्गेन्द्रदण्ड- 18 स्तम्भेभहस्तकैः ॥ बाहुर्वक्ष: कपाटेन शिलापट्टेन वर्ण्यते। अंसे विपुलता मध्ये कार्श्यमुन्नतता पहें। स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि। कान्तिप्रयोजकं यावत् तावत् तद्दत् प्रवर्ण्यंते॥ प्रतापो्काभिवज्तराधैः कीर्तिश्र्यन्द्रादिशुभ्रकेः। करे पद्मोष्वरेखादि पढे छत्वजादिकम्। गमनं 21 हस्तिसिंहाभ्यां कार्कश्यं च भुजादिषु ॥ इति। विस्तरस्त कविकल्पलतादिषु द्रष्टव्यः।
Page 171
१५२ काव्यादर्शे द्विर्ताय: परिच्छेद:
तुल्यसंक्काशनीकाशप्रकाशप्रतिरूपकाः ॥५७॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः।
करणीयं वचश्चतः सत्यं तर।मृतं यथा ॥ समानं यथा-
१५ अभिनवौषसरागमृता बभै। जलधरेण समानमुमापतिः ।। समासे यथा-
1८ भुजे मुजङ्गेन्द्रसमानसारे भूयः स भूमेुरमाससक्ल। निभ: यथा- प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकभ्।
२१ दिवसं शारदमिव प्रारम्भसुखदर्शनम्।। संनिभ: यथा- भगवान् यज्ञपुरुष: जगर्जागेन्द्रसंनिभः । २ तरतुल्यं यथा- अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम्। संकाश: यथा-
१७ विमाने सूर्यसकाशे रघुराजो व्यराजत। नीकाशः यथा- आकाशनीकाशतटां तीरवानीरसंकुलाम्।
30 बभूव चरतां हर्ष: पुण्यतीर्था सरखतीम्।। प्रकाश: यथा- चन्द्रप्रकाशं बदनं कान्ताया भाति सुन्दरम्। ३ प्रतिरूपक: यथा - वाग्भिः सुधायाः प्रतिरूपकाभिस्तनोति मोदं हृदि मेनिशं या ॥५७॥
प्रतिपक्षेति। प्रतिपक्षप्रतिद्वन्द्वनी यथा-
Page 172
उपमावाचकानि १५३
सदक्सदृशसंवादिसजातीयानुवादिनः ॥५८ ॥ प्रतिबिम्बप्रतिच्छेन्दस रूपसमसंमिताः । सलक्षणसद्ृक्षाभसपक्षोपमितोपमाः ॥५९॥ पङ्केरुहश्रीप्रतिपक्षभूतनेत्रप्रभाभि: स्पृहणीयशोभम्। चन्द्रप्रतिद्वन्द्वि विभाति बालामुखं निशायां ललितोत्सवेषु । ٤
प्रत्यनीकविरोधिनौ यथा- कामस्य प्रत्यनीकोयं त्वं रतेश्व विरोधिनी।
६ इति तौ विरहे नूनं भृशं पीडयतो युवाम्॥ सद्दक यथा- न त्वया सदृगन्योस्ति त्रैलोक्येपि मनोरमः । ९सददशः यथा- सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृदशी च कीर्तिः । पयोधिकल्पा मतिरासफेन्दोर्महीतलेन्यस्य न हीति मन्ये ॥ १२ संवादी यथा -- विभाति बालावदने स्मितश्रीः संवादिनी शारदचन्द्रिकायाः । सजातीयानुवादिप्रतिबिम्बाः थथा-
१५ कृष्णागुरुसजातीयं पीयूषस्यानुवादिनम् । चन्द्रस्य प्रतिबिम्बं सत्सङ्गं संतापहं श्रये ॥५८ ॥
प्रतिविम्बेति । प्रतिबिम्बोदाहरणं तु पूर्वश्लोकटीकायां दर्शितमेव। प्रतिच्छन्दसरूपसंमिता: यथा-
३ जामदग्नप्रतिच्छन्दः सरूपो यः किरीटिनः । संमितो रघुनाथस्य शिवराजो विराजते ।। सम यथा- यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि। w तथा लतापल्लविनी सगर्वे शोणाधरायाः सदृशी तवापि।।
१ च्छन्न°. अ. २ सप्रभा: अ, { काव्यादर्स ] २०
Page 173
१५४ काव्यादर्शे द्वितीय: परिच्छेद:
कल्पदेशीयदेश्यादि: प्रख्यप्रतिनिधी अपि। सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ॥ ६० ॥
सलक्षणसदृक्षाभा: यथा- इन्दुसलक्षणवदनं सुधासदृक्षश्र मुखरसस्तस्याः । ज्योत्स्नाभा: स्मितमधुराः नर्मालापास्तु कस्य सदृशास्ते ॥ सपक्ष: यथा-
१२ दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः । उपमितापमे यथा- राक्षसोपमिता वाग्मि: खला दीनांस्तुदन्त्यलम् ।
१५ साधवस्तोषयन्त्येनांस्ताभिरेव सुरोपमाः ॥ उदाहरणान्तरं यथा- उभौ यदि व्योम्नि पृथक् प्रवाहौ आकाशगङ्गापयसः पतेताम् । १८ तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥५९॥
कल्पेति। कल्पदेशीयदेश्याः यथा- पूर्णेन्दुकल्पवदना मृणालीदेश्यदोर्लता। चक्रदेशीयजघना सा स्वप्नेपि न दृश्यते ।। m
प्रख्य: यथा- द्विपक्षगरुडप्रख्यैद्वीरैः सौधेश्च शोभितम्। गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ प्रतिनिधि: यथा- भयोत्सृष्टविभूषाणां तेन केरलयोषिताम्। अलकेषु चमूरेणुश्चूर्णप्रतिनिधि: कृतः ॥ सवर्ण: यथा- ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः ।
देश्यादि कप. २ च तुल्यार्थ°. अ. क
Page 174
उपमावाचकानि १५५
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु। स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ॥ ६१॥
१२ तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ।। तुलित: यथा -- मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम्। १५अन्यूनार्थवादिन: अहीनः अनूनः इत्यादयः । यथा- सुधान्यूनानि गङ्गाया जलानि श्रयतां जनाः ॥ ६० ॥
समासेति। समासश्च बहुव्रीहिः कर्मधारयोपि। तत्र बहुव्रीहिर्यथा- कमलकरा रम्भोरू कुवलयनयना मृगाङ्कवदना सा। कथमिव चम्पकगात्री मृणालबाहुः प्रिया तपति॥ कर्मधारयो यथा - शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे। ६ केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ स्पर्धते यथा - स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः। चन्दनप्रणयोद्वन्धिर्मन्दो मलयमारुतः ॥ जयतिर्यथा - स काश्च्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत। १२ जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥
राधामुखं द्वेष्टि सुधाकरस्तत्पापेन लोके दधते कलङ्कम्। १५ द्रुह्यन्ति तल्लोचनमम्बुजानि ततो निमीलन्ति निशासु तानि॥ प्रतिगर्जतिर्यथा- न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्। कलङ्किनो जडस्यास्ति निर्दोषेणाजडेन च ॥ ६१ ॥
Page 175
१५६ काव्यादर्शे द्वितीय: परिच्छेद:
आक्रोशत्यवजानाति कदर्थयति निन्दति। विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति ॥ ६२॥ तस्य मुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति। तेन सार्थ विगृह्णाति तुलां तेनाधिरोहति ॥ ६३ ॥ आक्रोशतीति। आक्रोशत्यवजानाति कदर्थयति निन्दति यथा -- आक्रोशत्यवजानाति कदर्थयति निन्दति। 3 अम्बुजं त्वन्मुखं बाले अहो जडसमागमः ॥ विडम्बयतिर्यथा- स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरः शरासनम् ।
६ अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ संधत्ते यथा- चन्दनः शीततां धत्ते सौरम्यं कमलं शशी। लावण्यं त्वन्मुखं बाले संधत्ते तत त्रयं कथम्।। हसतिर्येथा श्रिया हसद्भिः कमलानि सस्मितैरलंकृताम्बुप्रतिमागतैर्मुखैः । १२ कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप लक्ष्मीः । ईर्ष्यत्यसूयती यथा- ईर्ष्यति कपिचेष्टायै चपलमति्यों यदीयदुश्चरितम्। १५ नित्यमसूयति वानरवदनाय नमः खलाय शतशस्ते ॥६२॥ तस्येति। मुष्णात्यादीनां तस्य मुष्णाति सौभाग्यमित्यादीनि वाक्यान्येव मूले उदाहतानि। अतो नात्रोदाहरणापेक्षा। मुष्णात्यादीनां सादृश्यादयोर्थाः वाक्य- 3 मर्यादया यदा अभिप्रेतास्तदैव तेषां सादृश्यमर्थः नान्यथा। अत एव धनं मुष्णाति तस्कर: इत्यादौ न सादृश्यार्थता। तुलां तेनाधिरोहति। तुलां मानयन्त्रम्। स्वसमी- करणाय अधिरोहति। नात्रोपमार्थः । तथा सति तुल्यार्थैरतुलोपमाभ्यां तृतीया न्यतरस्याम्। इत्यतुलोपमाभ्यामिति पर्युदासात् षष्ठी स्यात्। अधिरोहृतीति पदस्वारस्यं च लोपमियात् ॥६३॥
१ संगन्धे, अ. बपा, क.
Page 176
उपभावाचकानि १५७
तत्पदव्यां पदं धत्ते तस्य कंक्षां विगाहते। तमन्वेत्यनुबन्नाति तच्छीलं तन्निषेधति ॥६४॥ तस्य चानुकरोतीति शब्दा: सादृश्यसूचकांः। उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥ ६५॥ ॥ ईत्युपमाचक्रम् ॥ उपमैद तिरोभूतमेदा रूपकसुच्येते। तत्पदव्यामिति। कक्षां सादृश्यम्। तच्छीलमनुबन्नाति इत्येकम्। तच्छीलमिति षष्ठीतत्पुरुषः । न तु तस्येव शीलं यस्येति बहुव्रीहिः। तथात्वे समा- सश्च बहुव्रीहिः इत्यनेनैव सिद्धे पुनरुपादानं व्यर्थ स्यात। तननिषेधति अपकृष्टत्वेन निन्दति। अथवा उत्कर्षान्निवारयति ॥ ६४ ॥ तस्येति। सादृश्यसूचकाः अभिधालक्षणाव्यञ्जनामर्यादया सादृश्यबोधकाः । तत्र इवादयो वाचकाः । तत्रापि यथेवादिशब्दप्रयोगे साधर्म्य वाच्यम्। तत्रैव तेषां शक्ते:। तुल्यसदृशादिपदानां प्रयोगे साधर्म्यमार्थम्। तेषां सादृ्यवति शक्तेरिति बोध्यम्। स्पर्धते इत्यादयो लक्षकाः । तेषां सादृश्ये शक्त्यभावात् । तस्य मुष्णाति सौभाग्यम् इत्यादीनि वाक्यानि तु व्यञ्जकानि। आदित्सति श्रियं तस्य मैत्री ६तस्यानुरुध्यति। इति क्वचिद् दृश्यते। उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः। इति मुद्रितपुस्तकेषु अर्धमधिकमस्ति। परं प्राचीनग्रन्थेषु अनुपलम्भात् तथा प्राचीन. टीकासु चानुल्लेखात् तत्प्रक्षिप्तमिति भाति। न च कोपि विशेषार्थस्तस्मात् प्रतीतो १भवति ॥ ६५ ॥ अथ रूपकं लक्षयति-उपमैवेति। तिरोभूतभेदा तिरोहितः निगूहितः विद्यमानोपि सादृश्यातिशयप्रदर्शनाय कविना निह्ुतः भेदः प्रस्तुताप्रस्तुतयोवैं- 3 धर्म्यं यत्र तादृशी। उपमैव साधर्म्यमेव। रूपकम् रूपयति उपमानोपमेययोरेकतां नयति इति रूपकम् तन्नामालंकारः । तथा च परस्परविरुद्धधर्मवत्वेन उपस्थित्या प्रकाशितभिन्नस्वरूपयोरपि उपमानोपमेययोः विशेषसाम्यप्रदर्शनाय भेदनिगूहनेन १ कक्ष्यां. क. २ सूचिन:, अ. 3 अ पुस्तके इदं श्लोकार्थ नास्ति। * नास्ति अब पुस्तकयोः । ५ इष्यते. अ.
Page 177
१५८ काव्यादर्शे द्वितीय: परिच्छेद: यथा बाहुलता पाणिपझं चरणर्पल्लवः ॥ ६६ ॥ ६अभेदप्रतिपत्तिः रूपकालंकारः। मुखं चन्द्रः इत्यादौ मुखत्वचन्द्रत्वरूपपरस्पर- विरुद्धधर्मवत्त्वेनोपस्थितयोरमुखचन्द्रयोः भेदनिगूहनेन अभेदप्रतिपत्तिः । इयं चाभेदप्रतिपत्तिः आहार्यरूपा । आहार्यत्वं च बाधकालिकेच्छाजन्यज्ञानत्वम्। ९अत्र बाधशब्देन बाधकज्ञानं विवक्षितम्। तथा च मुखं चन्द्र इत्यादौ बाधः सुखं चन्द्रो न इति ज्ञानम्। तत्काले एव या इच्छा मुखे चन्द्रज्ञानं मे जायताम् इत्यादिका तज्जन्यं यत् ज्ञानं मुखं चन्द्र इति तत् आहार्यम्। तथा च आहार्यत्वं १२नाम सत्यपि बाधे प्रमातुरिच्छाजन्यप्रयोज्यत्वम् इति निष्कर्षः । निगीर्याध्यवसान- रूपायामतिशयोक्तौ उपमेयस्य नोपमेयगतधर्मत्वेनोपस्थितिरिति न तत्रातिव्याप्तिः । अपहुतौ उपमेयगोपनेन भेदस्यापह्रवः । अत्र तथा न इति ततो भेदः। मुख- १५ पद्मम् इत्यादिसमासस्थले तु विशेषणस्य प्राधान्येनोपमानगतत्वे रूमकम् । यथा विकसितं मुखपभ्ममिति। अत्र विकासस्य पभ्नधर्मत्वेन तस्य प्राधान्येनोपमाने गतत्वेन मुखमेव पद्ममिति रूपकम्। तस्योपमेयगतत्वे उपमा। यथा सहास्यं मुख- १पत्तम्। अत्र हासस्य मुखधर्मत्वेन तद्विशेषणं मुखमिति उपमेयसंबद्दम्। अतः अत्र मुखं पद्ममिव इति उपमा। उपमानोपमेययोर्विशेषणस्य तुल्यत्वे संदेहसंकरः । यथा रमणीयं मुखपद्मम् इति। अन्र रमणीयविशेषणस्य उभयत्र समानमेव संबन्धः। २१इति रूपकोपमयोः संकर इति बोध्यम्। रूपकस्य लक्षणानि प्राचीनपण्डितरैवा- व्याप्त्यतिव्याप्तिदोषपरिहारपुरःसरं विविधानि प्रदर्शितानि। परं तेषु जगन्नाथस्य लक्षणं (२२४-५ पत्रयोः) प्रायः सर्वसंग्राहकमिति तत् सप्रपञ्चं संगृह्गीमः । २स च उपमेयतावच्छेदकपुरस्कारेणोपमेये शब्दानिनिश्चीयमानमुपमानतादात्म्यं रूपकम्
शयोक्तिनिदर्शनानिरासः। अपहुतौ स्वेच्छया निषिध्यमानत्वात् भ्रान्तिमति च २७तज्ज्नकदोषेणैव प्रतिबध्यमानत्वात अतिशयोक्तिनिदर्शनयोश्च साध्यवसानलक्षणा. मूलत्वादुपमेयतावच्छेदकस्य नास्ति पुरस्कारः । शब्दादितिविशेषणात् मुखमयं चन्द्रः इति प्रात्यक्षिकाहार्यनिश्चयगोचरचन्द्रतादात्म्यावच्छेदः । निश्चीयमानमिति- ३·विशेषणात् संभावनात्मनो नूनं मुखं चन्द्रः इत्याद्युत्प्रेक्षाया व्यावृत्तिः । उपमानो- पमेयविशेषणाभ्यां सादश्यलाभात् सुखं मनोरमा रामा इत्यादिशुद्धारोपतादात्म्य- १पल्लवम्. अक.
Page 178
रूपकलक्षणम् १५९
निरासः । सादृश्यमूलकमेव च तादात्म्यं रूपकमामनन्ति। इति व्याचख्यौ। ३3मुखं चन्द्रः इत्यत्र प्रथमं लक्षणया चन्द्रपदात् चन्द्रसादृश्योपस्थितिः । ततश्चन्द्र- सदृदशमुखमिति अन्वयबोधः । पश्चात् लक्षणाफलावगमायोदूतया व्यञ्जनया चन्द्रो मुखमित्यभिन्नतया चन्द्रमुखयोः प्रतीतिः । इदमेव लक्षणायाः फलम्। सा ३६ चाभेदप्रतीतिः प्राधान्येन वैचित्र्यमददिशस्थले प्राप्नोति। तेन सादृश्यप्रतीतिजन्य- मुपमावैचित्र्यं तत्कुक्षिनिलनिमिव भवति। अतोत्र नोपमा। प्रधानचमत्कृतेरेव अलंकारप्रयोजकत्वात्। तद्वैचित्रयोप स्थितस्यैवालंकारत्वम्। नान्तर्विलीनभूतवैचित्रयो- ३९पस्थितानामिति पूर्वोक्तमत्रानुसंघेयम् । उपमैव इति एवकारेण संबन्धान्तरनिरासः। सादृश्यसंबन्धमूलकलक्षणायामेव रूपक न जन्यजनकभावादिसंबन्धमूलकलक्षणाया- मिति भाव: । तेनायुर्घृतम् इत्यादौ न रूपकम्। अत्र प्रेमचन्द्राः-नवीनतरास्तु ४२ रूपकस्य सादृश्यप्रतीतिपूर्वकत्वमेव। तच्च सादृश्यं प्रत्यक्षादिप्रमाणान्तरगम्यं न तु गौणसारोपलक्षणया शब्दप्रमाणगम्यम्। तत्र सादृश्यस्य शब्दवेद्यत्वादुपमैव। अत एवाग्रेये - उपमानस्य तत्त्वं यदुपमेये तु रूप्यते। गुणानां समतां दृष्टा रूपकं नाम तद्विदुः॥ (३४४. २२ ) इत्यत्र दृष्टेत्युक्तम् । तस्मात् सादृश्यस्य प्रमाणान्तरवेद्यत्वे एव रूपकम्। लक्षणा- ४८स्थले तु लक्षणाफलत्वेनाभ्युपगतापि अभेदबुद्धिरुदीच्यबोधतया शाब्दबोधविषयतां गतस्य सादृश्यस्य तत्काल एव प्रवृत्तमुपमाव्यपदेशं न व्याहन्तुमीष्टे। प्रवृत्तत्वात् तस्य। न हि निर्बाधं लब्धसत्ताकं वस्तु कालान्तरीयेण प्रतिद्वन्द्विनान्यथाकर्तु ५१शक्यते इति वदन्ति इत्याहुः । आस्तामेतत् प्रकृतमनुसरामः । एवं रूपकस्य सामान्यलक्षणमभिधाय उदाहरति। यथेति। बाहुरेव लता। पाणिरेव पद्मम्। चरण एव पल्लव । इति उपमानप्रधानः मयूरव्यंसकादित्वात् समासः । अत्र समासेपि ५ञप्रथमं गौणलक्षणया लतादिपदात् तत्सादृश्यप्रतीतिः । तदनन्तरं तदनुरोधेन समुन्मिषन्त्या व्यञ्जनया ताद्रूप्यप्रतीति्जेया। अत्र केचित् बाहुर्लतेव इति उपमितं व्याघ्रादिभि: सामान्याप्रयोगे इति कर्मधारयं अङ्गीकुर्वन्ति। परं तन्न रुचिरम्। इवा- ५७दिशब्दवत् कर्मधारयस्यापि साम्यवाचकत्वेन उपमानोपमेययोः भदप्रदर्शनेन उपमाया: संभवात्। अत एव एवंविधस्थले साधकबाधकप्रमाणाभावे उपमा- रूपकयोः सांकर्यमिच्छन्ति। तनिरूपितमेव प्रागस्माभिः । प्रकृतोदाहरणेपि साधक-
Page 179
१६० काव्यादर्शे द्वितीय: परिच्छेद:
अङ्गल्यः पल्लवान्यासन् कुसुमानि नखाचिष:। बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ ६७ ॥ इत्येतदसमस्ताखयं समस्तं पूर्वरूपकम्। स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥६८ ॥ ६· बाधकप्रमाणाभावाद्रूपकोपमयोः सांकर्यमेव स्यात्। शुद्धोदाहरणं तु-तव बाहु- लता बाले कोमला भाति भूतले। इति ऊह्यम्। अत्र कोमलेति सामान्यधर्म- प्रयोगात् सामान्याप्रयोगे एव उपमितिसमासस्य विहितत्वात् बाहुरेव लता इति ६३समासः । अत्र कोमलेति विशेषणमुपमाया बाधकम् । एवमेव तव बाहुलता बाले पुष्पिता नखरश्रिया। इति उदाहरणं ज्ञेयम्। अत्र पुष्पितत्वमुपमानलताया एव धर्म इति रूपकस्य साधकम् ॥६६ ॥ पूर्व समस्तरूपकोदाहरणं प्रदर्शितम्। इदानीमसमस्तं दर्शयति- अङ्गल्य इति। त्वं नः अस्माकम्। प्रत्यक्षचारिणी प्रत्यक्षं चरितुं शीलमस्याः सा प्रत्यक्षचारिणी । दर्शनविषयीभूतेत्यर्थः । वसन्तश्रीः वसन्तलक्ष्मीः । वसन्तश्रियः सादृश्यदर्शनाय तदुभयवृत्तिवस्तूनां बिम्बप्रतिबिम्बतया विषयविषयिभावं दर्शयति अङ्गुल्य इति। अङ्गल्यः अङ्गष्ठादयः करशाखाः। पल्लवानि किसलयानि। ६उपमायामिव रूपके उपमानोपमेययोर्भिन्नलिङ्गत्वे न दोषः । अतोत्र वाक्यत्रये भिन्नल्ङ्गयोनिर्देशः । वचनभेदोपि रूपके क्वचिन्न दोषाय। यथा शास्त्राणि चक्षु- र्नवम् इत्यादि। अत्र शास्त्राणि इत्यनेन सकलशास्त्रप्रवीणत्वसूचनेन चमत्काराति- शयः । एवंविधस्थले न वचनमेदो दोषाय ॥ ६७ ॥
निर्दिष्टस्य द्विप्रकारस्य रूपकस्य संज्ञां निर्दिशति-इत्येतदिति। इत्ये- तत् अङ्गल्य पल्लवानीत्येतत्। असमस्ताख्यम् असमस्तसंज्ञकम्। पूर्वरूपकम् बाहुलता पाणिपझं चरणपल्लवः इत्यादिकम्। समस्तं समस्तसंज्ञकं रूपकम्। तत्रोपमानोपमेययोः समस्तत्वादिति भावः । समस्तव्यस्तरूपकं दर्शयति सित- मिति। मुखेन्दोः मुखमेव इन्दुः तस्य। स्मितं हास्यम्। ज्योत्स्ना। अत्र मुखेन्दो- ६रिति समस्तं स्मितं ज्योत्स्नेति व्यस्तम् । इति समस्तव्यस्तरूपकम् ॥ ६८॥
१ नसत्विष: अ, कपा.
Page 180
सकलरूपकम् १६१
ताम्राङ्कलिदलश्रेणि नखदीधितिकेसरम्। ध्रियते मूर्तनि भूपालैर्भवच्चरणपङ्कजम् ॥६९॥ अङ्गल्यादौ दलादित्वं पादे चारोप्य पद्मताम्। तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ॥ ७० ॥ अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम्। सकलरूपकं दर्शयति-ताम्राङ्गलिरिति। ताम्राङ्गल्य एव दल- श्रेणिः पत्रपङ़गिर्यत्र तत् । नखानां दीधितयः किरणानि एव केसराणि किञ्ज- शल्कानि यस्मिन्। एतादृशं भवच्चरणपङ्कजं त्वत्पदकमलम् । भूपालैः मूर्धि ध्रियते उह्यते ॥ ६९ ॥ उदाहरणस्थसकलरूपकत्वं विशदयति-अङ्गल्यादौ इति। अङ्ग- ल्यादौ आदिशब्देन नखग्रहणम्। दलादित्वम्। अत्रादिशब्देन केसरग्रहणम्। ३ पादे च पद्मताम् आरोप्य तद्योग्यस्थानविन्यासात तस्य पङ्कजस्य योग्यस्थानं मूर्धा तत्र विन्यासात् ध्रियते इति प्रतिपादनात्। एतत् सकलरूपकम् संपूर्ण- रूपकम्। दलकेसररूपसर्वायवनिरूपणात्। अयं भावः । चरणपङ्कजमित्यत्र ६उपमारूपकयोः संशयः । तत्र भूपालैरमूर्ि ध्रियते इति वर्णनेन मूर्नि धारणस्य पङ्कजस्यैव युक्तत्वात् तदुपमानप्राधान्ये सुसंगतं भत्रति । अतः मूर्धि धारणं रूपकसाधकम्। उपमेये चरणे तस्यासंभवादुपमाया बाधकम्। अतोत्र रूपकमेव ९नोपमा न वा संदेहसंकरः । इदमेव साङ्गं सावयवमिति अर्वाचीना व्यवहरन्ति । उक्तं च जगन्नाथेन - परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवम्। यथा-
१२ सुविमलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे। वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥ (२३१ पत्रे) इति। विस्तरस्तु तत्रैव द्रष्टव्यः । अङ्गल्यः पल्लवान्यासन् इति असमस्तरूपकोदाहरण- १५मपि सकलरूपकस्य भवतीति ज्ञेयम् ॥ ७०॥ अवयवरूपकोदाहरणं दर्शयति-अकस्मादिति । हे चण्डि कोपने। [काव्यादर्श ] २१
Page 181
१६२ काव्यादर्शे द्वितीय: परिच्छेद:
मुखं मुक्तारुचो धत्ते धर्माभ्भ:कणमञ्जरीः॥७१॥ मञ्जरीकृत्यघर्माम्भः पल्लवीकृत्य चाधरम्। नान्यथा कृतमत्रास्यमतोवयवरूपकम् ॥७२॥ वैल्गितभ्रु गलद्धर्मजलमालोहितेक्षणम्। अकस्मात् सहसैव। स्फुरिताधरपल्लवं स्फुरितः कोपेन कम्पितः अधरः एव पल्लवः ३यत्र तत्। ते मुखम् । मुक्ताः मौक्तिकाः तद्वत रुक् यासां ता मुक्ताकारा इव्यर्थः । धर्माम्भ:कणमञ्जरीः धर्माम्भसां स्वेदोदकानां ये कणाः बिन्दवः त एव मञ्जर्यः । अथवा घर्माम्भः एव कणमञ्जरीः कणवल्लरीः तुषारस्तबका इत्यर्थः । धत्ते ६दधते ॥ ७१॥ उदाहरणं विशदयति-मञ्जरीति । अत्र प्रस्तुतोदाहरणे। धर्माम्भः उपरिदर्शितप्रथमसमासे घर्माम्भःशब्देन धर्माम्भ:कणाः ग्राह्याः । द्वितीयसमास- 3स्वीकारे मञ्जरीशब्देन कर्णमञ्जरीः ग्राह्याः । अयमेव समासो युक्त इति भाति। अन्यथा कमले मञ्जरीवर्णनस्यानुपयुक्ततया मञ्जरीपदं व्यर्थमिव भवति। मञ्जरी- कृत्य मञ्जरीत्वेनारोप्य। अधरं अधरोष्ठम्। पल्लवीकृत्य पल्लवत्वेन आरोप्य। आस्यं ६मुखम्। अवयवि। नान्यथाकृतम् पद्माभिन्नत्वेन न वर्णितम्। अतोवयवमात्ररूपणात् अवयवरूपकमिदम्। मुखे पद्मत्वारोपस्तु अर्थवशादवसेयः । अर्वाचीनास्तु एत- देव एकदेशविवर्ति रूपकं मन्यन्ते। परं तत्र स्वल्पो विशेषः । अवयवरूपके अवयविनः आरोपविषयत्वं नास्तीति निश्चयः। एकदेशविवर्तिरूपके तु अवय- वानां अवयविनो वा यस्य कस्यापि रूपकैकदेशस्य रूपणाभावोभिप्रेतोस्ति। अतो जगन्नाथोदाहतैकदेशिविवर्तिरूपकोदाहरणे -- १२ रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा। मज्जन्ति यत्र सन्तः सेयं तरुणी तरङगिणी विषमा॥ इत्यत्र नावयवरूपकम्। तत्न अतयविन्यास्तरुण्यास्तरङ्गिणीत्वेनारोपाठ्। एक- १५देशविवर्ति तु भवति। रूपकस्यावयवभूतस्य चलनयनस्य विषयभूतस्य विर्षायणा मीनेनानारोपणात्। अत एव प्रकाशकारेण- श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत् । (७२३पत्रे) इति सामान्यं लक्षणं विहितम् ॥ ७२॥ अवयविरूपकमाह-वल्गितञ्रु इति। वल्गिते चलिते भ्रुवौ यस्मिंस्तत १ वलित°. क.
Page 182
अवयविरूपकम् १६३
विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥७३ ॥ अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम्। आसीद्रमितमत्रेदमतोवैयविरूपकम्। ७४ ॥ मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते। मुखेन मुग्धः सोप्येष जनो रागमयः कृतः ॥७५॥
चलितभ्रुकुटि। गलन्ति धर्मजलानि खेदजलानि यस्मात् तत्। आलोहिते 3आरक्ते ईक्षणे नयने यस्मिन् तत्। इदं पुरो दृश्यमानम्। वदनपङ्कजं वदनमेव पङ्कजं कमलम्। मदावस्थां मद्यसेवनजनितमदावस्थाम्। विवृणोति प्रकाशयति । यथाश्रुतपाठेत्र उपमैव साधीयसी न रूपकम्। उपमानपङ्कजमात्रान्वयिधर्माणामनु- ६ पादानात् उपमेयवदनस्यैवान्वयिनो भ्रूत्वादीनां चोपादनात्। सत्यम्। वदन- मम्बुजमिति पाठं स्वीकृत्य व्यस्तरूपकेण समाधेयम् ॥७३॥ उदाहरणं विवृणोति-अविकृत्येति। अस्मिन्नुदादरणे मुखाङ्गानि भ्रुकुटि- घर्मजलनयनादीनि। अविकृत्य पङ्कजाङ्गभूतैः अविकृत्य उपमानाङ्गभूतदलत्व- 3मकरन्दत्वपरागपिञ्जरभ्रमरत्वादिभिः अनारोप्य। अवयवि मुखमेव अरविन्दतां गमितमासीत् पङ्कजत्वेन आरोपितमासीत्। अतः अवयविनो मुखस्यैव पङ्कज त्वेनारोपणात् अवयविरूपकमिदम्। नव्यानां तु इदमेकदेशविवर्ति स्यात् इति ६भाति। नवीनमते इदं निरङ्गरूपकमिति केषांचिदुक्तिस्तु न क्षोदक्षमा। यतोत्रा- वयविनो मुखस्य अवयवा निर्दिष्टाः न तु आरोपावयविनो कमलस्य अवयवा निर्दिष्टाः । निरङ्गविषये तु अवयविनः आरोप्या अपि न निर्दिश्यन्ते। अत एव ९एकदेशवर्तिनो निरङ्गस्य भेद: इति सुधीभिर्विचारणीयम् ॥७४॥
अवयवरूपकभेदान् दिदर्शयिषुरेकाङ्गरूपकभेदमाह-मदेति । मदेन वारुणीमदेन पाटलौ श्वेतरक्तौ गण्डौ कपोलौ यत्र तेन। तथा रक्तं ताम्रं नेत्रमेव ३उत्पलं यत्र तेन। एतादृशेन ते मुखेन। एषः मल्लक्षणः। मुग्धः त्वत्सौन्दर्य- मोहितः । जनः रागमयः अनुरागपरिपूर्णः लोहितमयश्च कृतः ॥ ७५॥
१ अविवृत्य. कपा १ अवयव०. अ.
Page 183
१६४ काव्यादर्शे द्वितीय: परिच्छेद:
एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि। अङ्गानि रूपयन्त्यत्न योगायोगौ भिदाकरौ॥७६॥ स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गमिदं मुखम्। इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ॥ ७७॥ इदमार्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्। नाम निर्दिशति-एकाङ्गेति। अत्र उदाहरणे रक्तनेत्रोत्पलेन इति एकाङ्गमात्ररूपणात् मदपाटलगण्डेन इत्यस्य अरूपणाच्च एकाङ्गरूपकमिदम्। ३एवम् अनयैव दिशा। द्विप्रभृतीनि अपि द्विंत्रिचतुःप्रभृतीनि। अङ्गानि न तु अङ्गी। रूपयन्ति उपमानेन आरोपविषयीकुर्वन्ति। कवय इति शेषः। ततश्च द्वयङ्गरूपकं त्रयङ्गरूपकं चतुरङ्गरूपकमित्यादीनि बहूनि रूपकाणि भवन्ति । अङ्गस्य अङ्गयोः ६ अङ्गानां वा योग: आरोपणयोगः अयोगस्तद्भावः तौ। िदाकरौ भेदनिष्पादकौ। प्राचीनटीकाकारास्तु योगायौगौ भिदाकरौ एतावन्तं वाक्यांशमन्यथा विवृण्वन्ति । तथा हि तेषु एकाङ्गद्वयङ्गादिरूपकेषु योगायोगौ भिदाकरौ भेदकौ। तानि रूप- काणि योगायोगाभ्यां पुनः द्विप्रकाराणि भवन्ति इत्यर्थः। योगः आरोप्यमाणानां परस्परं युज्यमान: संबन्धः । अयोगस्तदभावः । एतच्च उदाहरणे स्पष्टी- भविष्यति ॥ ७६ ॥ तत्रादौ युक्तरूपकमुदाहरति -- स्मितेति। स्मितम्- ईषद्विकसितैर्गण्डै: कटाक्षैः सौष्ठवान्वितैः । ३ अलक्षित द्विजं धीरमुत्तमानां स्मितं भवेत् ॥ इत्युक्तलक्षणं तदेव पुष्पं तेन उज्जवलं कान्तिमत्। लोले चञ्चले नेत्रे एव भृङ्गौ यत्र तत्। इदं मुखं शोभते इति शेषः। इति एवम्। पुष्पद्विरेफाणां मुखावयवभूतयोः ६स्मितनेत्रयोः आरोपविषयीभूतानां तेषाम्। संगत्या परस्परसंबन्धसुसंगत्या। इदं युक्तरूपकम् । अत्र अवयवत्वं नाम आधेयत्वम्। तन्मुखनिरूपितं स्मिते वर्तते इति स्मितस्य मुखावयवत्वं बोध्यम्॥७७॥ अयुक्तरूपकमुदाहरति-इदमिति। आर्द्र प्रेमार्द्र स्मितमेव ज्योत्स्ना
१ लोलभृङ्गनेत्रम्, अ,
Page 184
अयुक्तरूपकम् १६५
इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥७८ ॥ रूपणादङ्गिनोङ्गानां रूपणारूपणाश्रयात्। रूपकं विषमं नाम ललितं जायते यथा ॥ ७९॥ मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना। नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ।। ८० ।। हरिपाद: शिरोलयजह्दकन्याजलांशुकः। जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ।।८१ ।। चन्द्रिका यस्मिन् तत्। स्निग्धे स्नेहपूर्णे नेत्रे एव उत्पले कमले यस्मिन् । ३ज्यातस्नोत्पलायोगात् आरोपविषयभूतयोः चन्द्रिकाकमलयोः अयोगाद् परस्पर- विरोधितया असंब्रन्धात् । इदम् अयुक्तरूपकम् ॥ ७८॥
विषमरूपकं लक्षयति-रूपणादिति। अङ्गिनः प्रधानस्य रूपणात्। तथा अङ्गानां अप्रधानानाम्। रूपणारूपणाश्रयात् । भावे घञ्र। आश्रयणादित्यर्थः । 3तथा च कस्यचिदङ्गस्य रूपणं कस्यचिदरूपणं तस्मात्। ललितं वैचित्र्येण मनोहरम्। विषमं रूपणारूपणवैषम्यात् विषमसंज्ञकम्। जायते। यथेति उदाहरण- प्रस्तावाय ॥ ७९ ॥
उदाहरति-मदरक्तेति। मदरक्तकपोलेन मदपाटलगण्डेन। नर्तितभूलतेन नर्तिते भ्रुवौ एव लते यत्र तादृशेन। मुखमेव इन्दुः तेन। भुवनत्रयं मर्दितुं जेतुम्। 3मन्मथः मदनः । अलं समर्थः । अत्र अङ्गिनि मुखे इन्दुत्वारोपः तथा तदङ्गभूतयोः भ्रुवोर्लतात्वारोपः कपोलयोस्तु न कस्यापि आरोपः इति वैषम्यम् ॥ ८०॥
सविशेषणरूपकमाह-हरिपाद इति । शिरोलग्रजहुकन्याजलांशुक: शिरः चरणाग्रप्रदेश: ध्वजाग्रप्रदेशश्च तत्र लग्ना आसक्ता या जहुकन्या भागीरथी 3तस्याः जलम् उदकमेव अंशुकं श्वेतपताका यस्य सः । असुरनिःशङ्कासुरानन्दो. तसवध्वजः असुरेभ्यः निःशङ्का निभोंकाः । बलिविजयादित्यर्थः । ये सुराः तेषा- मानन्दोत्सवस्य ध्वजः केतुरिव। हरे: वामनस्य। पादः। जयति सर्वोत्कर्षेण ६वर्तते ॥८१॥
Page 185
१६६ काव्यादर्शे द्वितीय: परिच्छेद:
विशेषणसमग्रस्य रूपं केतोर्यदीदृशम्। पादे तदर्पणादेतत् सविशेषणरूपकम् ॥८२॥ न मीलयति पद्मानि न नभोप्यवगाहते। त्वन्मुखेन्दुर्ममासूनां हरणायैव कैल्पते ।। ८३॥ अक्रिया चन्द्रकार्याणामन्यकार्यस्य च क्रिया। अत्र संदर्श्यते यस्माद्विरुद्धूं नाम रूपकम् ॥८४॥ गाम्भीर्येण समुद्रोसि गौरवेणासि पर्वतः॥
उदाहतालंकारं निर्देशपूर्वकं विशदयति -- विशेषणेति। विशेषणेन शिरोलग्रेतिविशेषणेन समग्रस्य युक्तस्य। केतोः असुरनिःशङ्कसुरानन्दोत्सवध्वजस्य। श्यत् ईदशं रूपं विशेषणविशिष्टस्वरूपं सपताकध्वजरूपमित्यर्थः । पादे। तस्य सपताकध्वजस्य। समर्पणात् विशेषणविशिष्टस्य पदार्थस्यारोपात्। सविशेषण- रूपकमेतत् ॥ ८२॥
विरूद्धरूपकमाह-न मीलयतीति। त्वन्मुखेन्दुः तव वदनचन्द्रमाः । पद्मानि न मीलयति न संकोचयति। नभोपि न अवगाहते नाक्रमति। केवलं उमम असूनां प्राणानाम्। हरणाय कल्पते प्रभवति। विप्रलम्भोद्दीपकत्वादिति भाव: ।। ८३ ।। उदाहरणं विशदयति-अक्रियेति । चन्द्रकार्याणां पद्मनिमीलननभो वगाहित्वादीनां चन्द्रव्यापाराणाम्। अक्रिया अविधानम् । अन्यस्य चन्द्रभिन्न- मृत्यो: कार्य प्राणहरणरूपं तस्य क्रिया अनुष्ठानम्। अत्र अस्मिन्नुदाहरणे। यस्मात् संदर्श्यते अतः विरुद्धं विरुद्धसंज्ञकं रूपकम्। रूपके उपमानाभिन्नतया रूपितस्योपमेयस्य तत्कार्यकरणमेवोचितम्। परमत्र तत् तेन न क्रियते प्रत्युत ६तद्विरुद्धशीलस्य कार्यकरणादिदं विरुद्धम् । विरोधश्चात्र अनौचित्यरूप इति बोध्यम्।। ८४/
हेतुरूपकमुदाहरति-गाम्भीर्येणेति। गाम्भीर्येण दुरवगाहाशयत्वेन।
१ निमीलयति क. २ यस्यति बपा, ३ संदृश्यते अ; संदिश्यते. क.
Page 186
हेतुरूपकन् १६७
कामदत्वाच्च लोकानामसि त्वं कल्पपादयः ॥८५॥ गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरि: कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ ८६ ॥ राजहंसोपभोगाहं भ्रमरप्रार्थ्यसौरभम्। सखि वक्त्राम्बुजमिदं तवेति® श्लिष्टरूपकम्॥ ८७॥ इष्ट साधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः। उपमाव्यतिरेकाखयं रूपकद्वितयं यथा ॥ ८८॥ समुद्रोसि। गौरवेण सारवत्तया। पर्वतः असि। लोकानां कामदत्वात् वाञ्छित- ३प्रदत्वात्। कल्पपादपः कल्पवृक्षः । त्वमसि । सर्वत्र हेतौ तृतीया ॥ ८५॥ उदाहरणं विवृणोति-गाम्भीर्येति। गाम्भीर्यप्रमुखैः गाम्भीर्यगौरव कामदत्वैः । प्रस्तुतनृपः सागरः गिरिः कल्पद्रुमश्च क्रियते एतेषां आरोपविषयी- ३क्रियते । गिरित्वादिभिः आरोप्यते इति भावः । अत्र गाम्भीर्यादिसाधारणधर्माणां हेतुत्वेन विन्यसनात् हेतुरूपकमिदम्। साहित्यदर्पणकारास्तु -एकस्यानेकधोल्लेखः यः स उल्लेख उच्यते। (१०. ३७) इति उल्लेखलक्षणं विधाय अत्र ६एकस्य प्रस्तुतस्य नृपस्य गाम्भीर्यादिविषयभेदेनानेकधोल्लेखादिममुल्लेखालंकारमाङ्गुः। परं हेतुशून्यस्थले विविधारोपे उल्लेखः हेतुपुरःसरे तु हेतुरूपकमिति उभयोर्भेंदे सति यत् तैरुल्ेख एव सामान्यतया सर्वत्र स्वीकृतः तच्चिन्त्यमिति भाति ॥८६॥ ्लिष्टरूपकं दर्शयति-राजेति। राजहंसोपभागार्हम् राजहंसो नृपश्रेष्ठः हंसविशेषश्र तेन उपभोगार्हं संभोगोचितम्। भ्रमरप्रार्थ्यसौरभम् भ्रमरैः कामुकैः ३भृङ्गैश्च प्रार्थ्य स्पृहणीयं सौरभं यस्य। सखि दयिते। तव वक्त्राम्बुज वक्त्रमेव अम्बुजं भातीति शेषः । श्विष्टरूपकम् साधारणधर्मस्य श्लेषनिष्पाद्यत्वादिति भावः। साधारणधर्मप्रयोगाच्च नोपमितिसमासः ॥८७॥ उपमारूपकं व्यतिरेकिरूपकं चेति रूपकद्वयं लक्षयति-इष्टमिति। गौणः गुणसंबन्धादारोप्यमाणः चन्द्रादिर्विषयो गौणः । मुख्यः वर्ण्यत्वेन प्रस्तुत- ३त्वात् प्रधानः मुखादिविषयः। तयोः गौणमुख्ययोः। साधर्म्यदर्शनादुपमारूपकं वैधर्म्यदर्शनात् व्यतिरेकरूपकम्। इष्टम् आलंकारिकैरिति शेषः ॥ ८८॥ १ भोगार्थ. ब. २ नदेतत्. कपा.
Page 187
१६८ काव्यादर्शें द्वितीय: परिच्छेद:
अयमालोहितच्छायो मदेन मुखचन्द्रमाः। संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥८९।। चन्द्रमा: पीयते देवैर्मया त्वन्मुखचन्द्रमाः। असमग्रोप्यसौ शश्वद्यमापूर्णमण्डलः।।९०।। मुखचन्द्रस्य चन्द्रत्वमित्थमन्योपतापिनः। उपमारूपकमुदाहरति-अयमिति। मदेन वारुणीमदेन। आलोहितच्छायः आरक्तकान्तिः । अयं मुखमेव चन्द्रमाः। संनद्धोदयरागस्य संनद्धः सर्वबिम्बव्यापनेन 3 प्रस्फुरन्नुदयरागः उदयकालीनलौहित्यं यस्य। तथाविधस्य। चन्द्रस्य। प्रतिगर्जति समानकान्तिमत्वात् स्पर्धते। चन्द्रस्येति कर्मणि पष्ठी। चन्द्रं स्पर्धते न तु तमनुकरोतीत्यर्थः । अन्यथा उपमाया एव प्रधानवाक्यस्थ्िततया प्राधान्यात् ६तत्कुक्षिनिलीनस्य मुखचन्द्रमा इतिरूपकस्य अलंकारव्यपदेशकत्वाभावेन इदं रूपकभेदोदाहरणमसंगतं स्यात्। तथैव रूपकेण चन्द्राभिन्नं मुखमिति अवगतस्य मुखस्य चन्द्रसदृशं मुखमिति प्रतीतेरसंगतत्वमपि स्यात्। एवं चात्र चन्द्राभिन्न- ९तया आरोपविषयीभूतस्य मुखस्य औपम्यसूचकप्रतिगर्जनारूपसाधर्म्यसंबन्धादु- पमारूपकमिदम्। अत्रासंतुष्टाः प्रेमचन्द्रशर्माणस्तु रक्तं तव मुखं चण्डि साक्षात् संध्येन्दुमण्डलम्। इत्येतदुदाहरणं पर्यवर्तयन्त ॥८९। व्यतिरेकरूपकं दर्शयति-चन्द्रमा इति। देवैः असमग्रोपि असंपूर्णोपि। असौ चन्द्रमाः। शश्रत् पीयते। अयं मत्पुरोवर्ती। आपूर्णमण्डलः संपूर्णबिम्बः । त्वन्मुखचन्द्रमाः त्वन्मुखमेव चन्द्रमाः । मया पीयते। अत्र मुख्यगौणचन्द्रमसोः असंपूर्णत्वसंपूर्णत्वरूपवैधर्म्ययोगात् व्यतिरेकरूपकमेतद् । अयं च व्यतिरेकः उपमानादुपमेयस्योत्कर्ष द्योतयति। नायं वक्ष्यमाणो व्यतिरेकालंकारः। तस्य सादृश्य- ६प्तीतिपूर्वकभेदपर्यवसानविषयत्वात्। अत्र रूपकत्वेनाभेदप्रतीतिः। तदुक्तं- शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । तत्र यद्धेदकथनं व्यतिरेकः स उच्यते ॥ इति ॥ ९०॥ आक्षेपरूपकं दर्शयति-मुखेति। हे सुन्दरि। इत्थं मया प्रत्यक्षीकृतम्।
१ मुखस्य, ड. प्रमादाद्यमपपाठः इति भाति। १ असमप्रो हसौ. अ.
Page 188
आक्षेपरूपकम् १६९
न ते सुन्दरि संवादीत्येतदाक्षेपरूपकम् ॥ ९१॥ मुखेन्दुरपि ते चण्डि मां निर्दहृति निर्दयम्। भाग्यदोषान्ममैवेति तत् समाधानरूपकम् ॥९२॥ मुखपङ्गजरङ्गेस्मिन् भ्रूलतानर्तकी तव। अतिप्रखरम्। अन्योपतापिनः अन्याः प्रतिनायिकाः तासां उपतापिनः संतापकस्य। ३सौन्दर्यातिशयेन तासां मात्सर्योदयात्। ते मुखचन्द्रस्य चन्द्रत्वं न संवादि नानु- गुणम्। यतः प्रसिद्धचन्द्रः सर्वेषामाह्लादकः तव मुखं तु प्रतिनायिकानां संताप- करम् अतो न संवादि। अथवा अन्योपतापिनः अन्यः त्वत्तो भिन्नः नायकोहं ६तस्य उपतापिनः प्रणयकलहे मधुरोक्तिशन्यतया। अन्यत् सर्व पूर्ववत्। अत्र अन्ये टीकाकारास्तु- इत्थमितिपदं वाक्यस्यास्य कमलसंकोचनकृतचन्द्रनिन्दा- बोधकवाक्यानन्तर्य सूचयति। इत्थं कमलसंकोचनेन अन्योपतापिनः परपीडयितु: । यद्वा इत्थम् एवम् अतिनिर्दयमित्यर्थः । अन्योपतापिनः मादृशविरहिजनसंतापकस्य चन्द्रस्य प्रसिद्धस्य चन्द्रत्वं तव मुखचन्द्रस्य न संवादि न युज्यते। सर्वेषा- माह्लादकत्वेन परपीडकधर्माध्यासायोगादिति भावः । इति विवृण्वन्ति। तत्र १२अन्योपतापिनः इति विशेषणामात्राद्विशेष्यस्य चन्द्रस्य प्रतीतिः स्वीकर्तव्या। तदुक्तं वामनेन-विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ इति। इत्येतत् आक्षप- रूपकम् आक्षेपः प्रतिषेधोक्तिः तदुपादाननियतत्वात् आक्षेपरूपकम्। अथवा १५आक्षेपः निन्दा तन्निवेशनादिदमाक्षेपरूपकम्। नायं व्यतिरेकः सादृश्यप्रतीतेर- भावात्। न वापहुतिः प्रस्तुतस्य निषेधायोगात्। अत्र निषेधश्चन्द्रत्वस्य स तु न प्रस्तुतः आरोपविषयत्वात् । ग्रथमार्थस्वीकारेपि प्रस्तुतमुखचन्द्रस्य निषेधेपि १८अन्यार्थस्य अनारोपान्न सा भवति। तत्र अन्यार्थारोपणस्य विहितत्वात्। तथा च वक्ष्यति-अपह्ुतिरपहुत्य किंचिदन्यार्थदर्शनिति ॥९१॥ समाधानरूपकं कथयति-मुखेन्दुरिति। हे चण्डि ते मुखेन्दुरपि मां निर्दयं दहति। अपिना दहनस्यान्त्यतायोग्यता सूचिता। तत्र सयं समाधत्ते ३ममैवेति। भाग्यदोषात् दैवदुर्विपाकात्। इति एवं स्वयं समाधानात् इदं समाधानरूपकम् ॥ ९२ ।।
रूपकरूपकमाह-मुखेति। मुखमेव पङ्ढजं तदेव रङ्गं नृत्यस्थानं तस्मिन्। [काव्यादर्श] २२
Page 189
१७० काव्यादर्शें द्वितीय: परिच्छेदः
लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥९३ ॥ नैतन्मुखमिदं पदमं न नेत्रे भ्रमराविमौ' एतानि केसराण्येव नैता दन्ताचिषस्तव ॥९४॥ मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात्। भ्रुवौ एव लता सा एव नर्तकी नटी। लीलानृत्यं विलासनर्तनम्। करोति इति एतत् ३ रम्यं मनोहरम्। रूपकरूपकम्। एकेन रूपितस्यान्येनरूपणात् तत्संज्ञकोलंकारः । तथा च मुखपङ्कजरङ्गे इत्यत्र प्रथमं मुखस्य पङ्कजेन रूपणं पश्चाच्च मुखपङ्कजस्य रङ्गेण रूपणम्। तथैव भरूलतानर्तकी इत्यत्र प्रथमं भ्रुवः लतात्वेन पश्चाद्भूलतायाः ६नर्तकीत्वेन रूपणम्। इदं च समासे एव संभवति। वाक्ये तु एकस्मिन् बहू- नामारोपे हेतूपादाने हेतुरूपकम् । यथा गाम्भीर्येण समुद्रोसि इत्यादि पूर्व निर्दिष्टम्। हेतोरनिर्देशे तु मालारूपकम् यथा प्रकाशे- सौन्दर्यस्य तरङगिणी तरुणिमोत्कर्षस्य हर्षोद्रमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरन वधिप्रावीण्यसाक्षात्क्रिया १२ बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया॥ (७२६ पत्रे) इति। अत्र रम्यमिति लक्षणघटकतयाङ्गीकृत्य यत्र रूपकरूपणे रम्यत्वं नास्ति १५ तत्र नायमलंकारः । यथा-नारीबाहुलताव्यालीपरिरब्धः कुतः सुखी। इति। अत्र बाहौ लतात्वारोपे न कापि रम्यता। अपकर्षप्रतिपादनस्यैव प्रस्तावात् इति प्रेमचन्द्रशर्माणः कथयन्ति । अस्मिन्नुदाहरणे चमत्कृतिरस्ति परं बाहौ लतान्वा- १८रोपे रम्यता नास्तीति तदभिप्रायः इति ध्येयम् ॥९३॥ तत्त्वापह्ववरूपकं दर्शयति-नैतदिति। एतन्मुखं न इदं पद्मम्। इमे नेत्रे न अपि तु भ्रमरौ। एता दन्तार्चिषः दन्तकान्तयः न किंतु केसराणि 3 किञ्जल्का एव। तवेति सर्वत्र उपमेयेन संबध्यते ॥९४॥ उक्तोदाहरणं व्याख्याति-मुखादित्वमिति। मुखादित्वम् मुखत्वादिकं
१३मे. क्.
Page 190
१७१
उद्धावितगुणोत्कर्ष तच्वापह्नवरूपकम् ॥९५।। न पर्यन्तो विकल्पानां रूपकोपमयोरतः।
मुखत्वनेत्रत्वदन्तार्चिष्टरूपमुपमेयम्। निवरत्यैव प्रतिषिध्यैव। पभ्मादित्वेन पन्मत्वा- दिना। पद्मत्वभ्रमरत्वकेसरत्वेन। रूपणाव् आरोपाठ्। उद्धावितगुणोष्कर्ष्रम् उद्भा- वितः रूपकान्तरेभ्यः प्रकटतां नीतः गुणानामुत्कर्षः तादात्म्यारोपहेतु प्रस्तुतगुणा- नाम् आधिक्यम् यत्र तत्। तत्त्वस्य यथार्थभूतस्य प्रस्तुतस्य मुखखरूपस्य अप- ६ हवेन अप्रस्तुतपद्मादिस्वरूपारोपेण वस्तुनिहवेन रुपकम् इति तत्त्वापह्ववरूपकम्। रूपकान्तरेषु केवलं सामानाधिकरण्येन उपमेयोपमानानामभेददर्शनेन यावान् गुणोत्कर्षः ततोपि अधिकोत्र प्रतिषेधपूर्वकारोपेण इति उद्भावितगुणोक्तर्षत्वमस्मिन् ९ रूपके सहृदयवेद्यमस्ति । केचित्त उद्धाविगुणोत्कर्षम् इत्यस्य उद्ावितः स्फुटं दर्शितः गुणोत्कर्षः प्रस्तुतस्य यत्रेति प्रस्तुतोपमेयस्य गुणवर्णनरूपं तत्त्वापह्रव- रूपकस्य विशेषं मन्यते। परं तदपेक्षया प्रथमदर्शिताशयः एव गरीयान् इति १२भाति । नेयमपहुतिः । तस्यां प्रस्तुतस्य धर्मनिषेधेन धर्मान्तरारोपः। यथा-न पश्चेषुः स्मरस्तस्य सहस्त्रं पत्रिणामिति । कुवलयानन्देपि -- शुद्धापह्नुतिरन्यस्यारो- पार्थो धर्मनिहवः । इति धर्मनिहवस्थले एव अपहुतोर्विषयो दर्शितः । अस्मिन्तु- १५दाहरणे प्रस्तुतस्य स्मरस्य पञ्चेषुत्वरूपं धर्म प्रतिषिध्य तस्मिन् सहस्त्रपत्रित्वारोपः। अत्र तु धर्मणं मुखादिकं प्रतिषिध्य धर्म्यन्तरस्य प्मादिकस्यारोपः इति उभयोर्भेंदः। केचित्तु सादृश्यप्रतीतिपूर्वकारोपो रूपकम्। अपह्गुतौ तु सादृश्यप्रतीतिर्नापेक्ष्यते। १८सादृश्यप्रतीतिभिन्नस्थलीयारोपे एव सा। तथा च प्रकृते निषेधेपि सादृश्यप्रतीति- रस्त्येव इति अत्र सादृश्यप्रतीतिजीवितस्य रूपकस्यैव साम्राज्यम्। दर्पणकारास्तु -प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्दुतिः । (१०. ३२) इति सामान्यतः १प्रतिषेधपूर्वकारोपे अपह्नुतिं कथयन्ति। तदपहुतिविषयपरिहारार्थ च रूपकलक्षणे रूपकं रोपितारोपो विषये निरपह्रवे। इति विषयस्य निरपह्ृवमिति विशेषण- मुपन्यस्यन्ति। तन्मतेत्रापह्ुतिरेव ॥ ९५।। रूपकमुपसंहरति-न पर्यन्त इति। रूपकस्य उपमायाश्च। विकल्पानां प्रकाराणाम्। पर्यन्तः परिसमाप्तिः। नास्ति। अतः दिख्मात्रम् उपमारूपकस्वरूपाव-
१ योरपि. अ.
Page 191
काव्यादशे द्वितीय: परिच्छद:
दिखात्रं दर्शित धीरैरनुक्तमनुमीयताम्॥ ९६॥ ॥ इति रूपकचक्रम् ॥ गमाय किंचिदिव। दर्शितं कथितम् । अनयैव दिशा धीरैः साहित्यशास्त्रप्रगल्भ- मतिभिः । अनुक्तमपि अकथितः उपमारूपकविभागः । अनुमीयताम् उन्नीयताम् । तथा च भेदद्वयविशिष्टं परंपरितमपि रूपकभेद एव । तदुक्तं प्रकाशकृता-
६ नियतारोपणोपायः यदारोपः परस्य यः । तत् परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ यथा- विद्वन्मानसहंस वैरिकमलासंकोचदीप्द्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं नरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥ (७२८-२९ पत्रयोः ) इति। अत्र मानसमेव मानसम् कमलायाः संकोच एव कमलानामसंकोचः दुर्गाणाम ५ ममार्गणमेव दुर्गायाः मार्गणम् समितां युद्धानां स्वीकारः एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीतिः विजयः परपराभवः एव विजयः अर्जुनः एवमारोपण- निमित्तो हंसादेरारोपः ॥ भेदभाजि यथा- आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधे: पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः। संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
११ राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ इति। अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपे भुजस्य आलानत्वाद्यारोपो युज्यते। अपय्यदीक्षितास्तु अश्लिष्टशब्दनिबन्धनं मालापरंपरितमपि दर्शयन्ति। यथा - पर्यङ्को राज्यलक्ष्या हरितमणिमयः पौरुषाब्घेस्तरङ्ग: संग्रामत्रासताम्यन्मुरलपतियशोहंसलीलाम्बुवाद्दः। भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्त्यानदानाम्बुपट्टः
१७ खङ्गक्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।। इति। (चि. मी. ५१ पत्रे)
Page 192
रूपकस्य प्रकारान्तराणि १७३
इदं चाधिकारारूढवैशिष्टयमपि भवति। यथा-इदं वक्त्रं साक्षाद्विरहितकलङ्क: ३०शशधरः । इति। वैयधिकरणेपि भवति। यथा-विदधे मधुपश्रेणीमिह भ्रूलतया विधिः । इति। क्वचिद्वैधर्म्येणापि। यथा-सौजन्याम्बुमरुस्थली सुजनता लेख्यद्यु- भित्तिर्गुणः । इत्यादि। काव्यानुशासने (२५१ पत्रे) अन्येपि भेदा हेमचन्द्रेण ३३दर्शिताः । तथाहि अनेकविषयं रूपकं यथा - यस्या बीजमहंकृतिर्गुरुतरो मूल ममेति ग्रहो नित्यत्वस्मृतिरङ्करः सुतसुहज्जात्यादयः पल्लवाः । ३६ स्कन्धोदारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वच्चरणार्हणापरशुना तृष्णा लता लूयताम्।। इदमेव अन्यैः उभयावयवत्वेन निर्दिश्यते ! उदाहरणान्तरं यथा- ३९ इन्द्रस्त्वं तव बाहू जयलक्ष्मीद्वारतोरणस्तम्भौ। खङ्ग: कृतान्तरसना रसना च सरस्वती राजन् ॥ इति। सहजावयवरूपकं यथा --
४२ गजो नगः कुथा मेघाः शृङ्लाः पन्नगा अपि। यन्ता सिंहोपि शोभन्ते भ्रमरा हरिणास्तथा । इति। यथा वा-
४५ उक्खण्डिदअण्ठाणालं पडिअं फुटदसणकेसरं मुहकमलं॥ अत्र ओष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविगलितोत्खण्डितस्फुट- cविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यते। उभयावयवं यथा-
५१ अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राज्ति हंसरसनाः संप्रति वापीविलासिन्यः ॥ इति। रशनारूपकं यथा-
५४ किसलयकरैर्लतानां करकमलैर्मृगदशां जगब्जयति।
Page 193
१७४ काव्यादर्शे द्वितीय: परिच्छेद:
जातिक्रियागुणद्रव्यवाचिनैकत् वर्तिना। सर्ववाक्योषकारश्रेत तैभाहुदीपकं यथा ॥९७॥
नलिनीनां कमलमुखैर्मुखन्दुभिर्योषितां मदनः ॥ इति। अत्र हि किसलयकरैः करकमलैः कमलमुखैः मुखेन्दुभिरिति रशनाक्रमेण शब्दानां ५७संदर्भ: उपलभ्यभानः तदर्थानां मनोभुवो जगद्विजये लतादिसंबन्धात् करणभाव- मनुमापयति। एवमन्येपि विविधाः कल्पिताः प्रभेदाः सन्ति। तेषु केचिदुक्तेषु अन्तर्भावनीयाः केचित्तु वर्णनानुरोधेन तत्तदनुरूपनामभिरूहनीयाः । विस्तरस्तु ६० सरस्वतीकण्ठाभरणे चतुर्थपरिच्छेदे द्रष्टव्यः ॥ ९६॥
क्रमप्राप्तं दीपकं लक्षयति-जातीति। एकत्र प्रबन्धान्तरगते कस्मिश्चि- दपि एकस्मिन् वाक्ये आदिमध्यावसानेषु एकस्मिन् स्थाने। वर्तिना विद्यमानेन। जातिक्रियागुणद्रव्यवाचिना जात्याद्यन्यतमवाचकेन पदेन। सर्ववाक्योपकारश्वेत् स्वार्थद्वारा वाक्यान्तरार्थान्वयोपपत्तिश्चेत्। तदा तं रचनाचमत्कारं दीपकं दीपक- संज्ञकालकारम्। आहुः कवय इति शेषः । दीप इव दीपकम्। संज्ञायां कन् इति इसूत्रेण इवार्थे कन्। दीपो यथा प्रासादार्थमारोपितः प्रासादमुपकृत्य रथ्यामपि उपकरोति तथा कस्मिश्चिदपि एकस्मिन् वाक्ये स्थितं जात्यादिपदं तद्वाक्योपस्कार- पूर्वकम् अन्यस्मिन् वाक्ये तदादिसर्वनाम्ना चकारादिना वा अनुषक्तं सत् तदर्थ संपादयति इति दीपसाम्यात् दीपकम्। एवं च एकवाक्योपात्तपदप्रतिपाद्यस्य जात्याद्यन्यतमस्य तत्रोपपन्नान्वयत्वेन निराकाङ्कस्यापि पुनः वाक्यान्तरान्वयोप- पादनायानुषङ्गादिना तत्रान्वयित्वं दीपकमिति निष्कर्षः । अत एव अस्य अर्था- १२ लंकारत्वम् । इदमेव दीपकलक्षणं भरतभामहादिभि: कटाक्षितं दृश्यते। सरस्वती कण्ठाभरणेपि इदमेव लक्षणं स्वीकृत्य विस्तरः प्रदर्शितः । प्रकाशकारादयः अर्वाचीनास्तु प्रस्तुताप्रस्तुतयोर्धर्मस्य सकृद्वत्तित्वं दीपकमाहुः। तदनेकवाक्यगतं १५ चेदेतन्मतेन दीपकं भवेत। एकवाक्यगतत्वे तु भिन्नं तदिति ध्येयम्। उपमा- रूपकयोः साधारणधर्मस्योभयान्वितत्वेपि अनुषङ्गादिना वाक्यान्तरार्थोपस्थापकत्वा- भावान्न तत्र दीपकातिव्याप्तिः ! सर्ववाक्योपकारः यत्र जात्यादिपदानामुपादानं
१ पचारश्र्ेत. कपा, उ,प. २ तदाहु: बक.
Page 194
दीपकोदाहरणम् १७५
पवनो दक्षिण: वर्ण जीर्ण हरति वीरुधाम्। से एवावनताङ्गीनां मानभङ्गाय कल्पते ॥। ९८ ॥। चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः। चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्र ते ।। ९९।। श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्किभिः। तद्वाक्यस्य तथा तद्भिन्नानां जात्यादिपदाकाङ्डिणां वाक्यान्तराणां च उपकारः अनेन एकवाक्ये दीपकं न भवतीति स्पष्टम् ॥९७।।
दीपकमुदाहरति-पवन इति। दक्षिणः पवनः मलयानिलः । वीरुधां जीर्ण पत्रं हरति। अनेन तस्य मान्दं सूचितम्। स एव अत्र तच्छब्दः पूर्ववाक्यस्थ- ३पवनशब्दपरामर्शकः । स एव पवनः । अवनताङ्गीनां विनम्रगात्रीणाम्। मानभङ्गाय कल्पते कामोद्दीपकत्वादिति भावः । अत्र पूर्ववाक्यस्थस्य पवन इति जातिवाचक- पदस्य उत्तरवाक्ये स इत्यनेन परामर्शादन्वयः सुघटितो भवति इति दीपका- ६लंकारः । शास्त्रे वायोः एकपश्चाशद्यक्तिकथनात् तत्सामान्यवाचकः पवनशब्दो जातिवाचकः । अत एतत् जातिदीपकम् ॥ ९८॥
क्रियादीपकमुदाहरति-चरन्तीति। कस्यचिच्चक्रवर्तिनः नृपस्य वर्णन- मेतत्। ते दन्तिनः चतुरम्भोधिवेलोद्यानेषु चरन्ति। अनेन सार्वभौमत्वं सूचितम्। ३ते गुणाश्च चक्रवालाद्रिकुञ्जेषु लोकालोकपर्वतकुञ्जेषु। कुन्दभासः कुन्दकुसुमस्येव भाः कान्तिः येषां ते। तादृशाः गुणाः चरन्ति। अनेन गुणानां विश्वव्यापित्वं सूचितम् । अत्र चकारेण परामृष्टायाः चरन्तीतिक्रियायाः पूर्ववाक्यवदुत्तरवाक्यो- ६पकारकत्वात् क्रियादीपकमेतत्। अत्र केचित् दन्तिनः इत्यस्य दिगृदन्तिनः इत्यर्थ स्वीकृत्य ते इति षष्ठ्यन्तपदस्य तत्संबन्धविरहेणैवार्थ प्रदर्शयन्ति। परं राजवर्णानुगुणः प्रथमनिर्दिष्ट एवार्थ: इति नो भाति ॥९९॥
गुणदीपकमुदाहरति-श्यामला इति। दिशः दश दिशः। प्रावृषेण्याभिः प्रावृट्कालसंभूताभिः । प्रावृष एण्य इति प्रावृट्शब्दाद भवार्थे एण्यप्रत्ययः ।
१ स एव नतगात्रीणाम्. कपा.
Page 195
१७६ काव्यादर्शे द्वितीय: परिच्छेद:
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ॥१००॥ विष्णुना विक्रमस्थेन दानवानां विभूतयः । क्कापि नीता: कुतोप्यासन्नानीता देवतर्द्यः॥१०१॥ इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि। वाक्ययोर्दर्शयिष्यामः कानिचित् तानि तद्यथा॥ १०२॥ नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः। बश्नन्ति च पयोदेषु दृशो हर्षाश्रगर्भिणीः॥१०३॥ ३ जीमूतपङ्किभि: मेधराजिभिः । श्यामलाः मलिनाः। भुवश्च सुकुमाराभिः नवशाद्वल- राजिभि: कोमलनूतनतृणहरितीकृतप्रदेशैः । श्यामलाः । अत्र श्यामलाः इति गुण- वाचकपदेन दिशः इति पदस्य तथा चकारेण भुवः इत्यस्य च संबन्धात् इदं ६गुणदीप कम्॥१००॥
द्रव्यदीपकमाह-विष्णुनेति। विक्रमस्थेन त्रिपादविक्रममाचरता त्रिवि- क्रमेण। विष्णुना दानवानां बलिप्रभृरतानाम्। विभूतयः संपदः। क्वापि नीताः लयं 3 प्रापिता इत्यर्थः । तथा दैवतर्द्धयः इन्द्रादानां श्रियः । कुतोपि आनीताः । अवि- तर्कितमेव संपादिता इत्यर्थः । आसन्निति शेषः । अत्र विष्णुशब्दस्य व्यक्तिवाचक- तया द्रव्यत्वम्। तच्च पूर्ववाक्यस्थित काकाक्षिन्यायेन अनुषङ्गेन वा अपरत्रान्वेति ६इति द्रव्यदीपकम् ॥ १०१॥
उक्तानि आदिदीपकानि मध्यान्तदीपकानि दर्शयामः इति प्रतिजानीते- इत्यादीति। इति पूर्वोक्तप्रकारेण आदिदीपकानि उक्तानि। वाक्यान्तरसंबध्य- मानजातिक्रियागुणद्रव्यवाचकानां पदानां अ्रथमवाक्ये निवेशितत्वात्। एवम् अनेनैव प्रकारेण अन्यत्र परामृश्यमानजात्यादिपदनिवेशेन मध्यान्तवाक्ययारपि कानिचित् तानि दीपकानि दर्शयिष्यामः । तद्यथा तानि यथा। एतद्वक्ष्यमाणो- ६दाहरणार्थम् ॥१०२॥
मध्यवाक्यगतं जातिदीपकमुदाहरति-नृत्यन्तीति। कलापिनः मयूराः। निचुलो वेतसवृक्षः तस्य उत्सङ्गे अधोभूमौ नृत्यान्ति। तथा गायन्ति केकाशब्दं कुर्वन्ति । तथा पयोदेषु सजलमेघेष्ठ। हर्षाश्रुगर्भिणीः आनन्दबाष्पपरिपूर्णाः। दशो
Page 196
दीपकोदाहरणम् १७७
मन्दो गन्धवहः क्षारो वह्विरिन्दुश्च जायते। चर्चाचन्दनपातश्च शस्त्रपातः अ्वासिनाम् ॥१०४॥ जलं जलधरोद्गीर्ण कुलं गृहशिखण्डिनाम्। चलं च तडितां दाम बलं कुसुमधन्वनः॥ १०५ ।। बश्नन्ति आसक्ताः कुर्वन्ति। अत्र वाक्यान्तरैरन्वितं कलापिन इति जातिवाचकपदँ मध्यवाक्यवर्ति इति मध्यगतं जातिदीपकम् ॥ १०३ ॥ क्रियागतं मध्यदीपकमुदाहरति-मन्दो गन्धवह इति। प्रवासिनां विरहि- पान्थानाम् । मन्दः मृदुः । गन्धवहः सुरभिवातः । क्षारः क्षतपतितक्षारक्त् ३क्रेशकरः। जायते। इन्दुश्च वहिः वहिरिव संतापकरः जायते। चर्चा अङ्गचर्चनं तदर्थो यश्चन्दनः शीतलचन्दनरस इत्यर्थः तस्य पातः संबन्धः । शस्त्रपातः शस्त्र- प्रहारः। जायते। अत्र सर्ववाक्यान्वयिनः जायते इति क्रियापदस्य मध्यवाक्यगतत्वाद ६मध्यवाक्यगतं क्रियादीपकमेतत्। कि च रूपकमपि। अत उभयोः संसृष्ठिसंकरः। मध्यगतं गुणद्रव्यदपिकं श्रीप्रेमचन्द्रशर्माण इत्थं दर्शयन्ति। यथा- तडिद्भिर्वारिवाहाणां योग: स्त्रीभिः प्रवासिनाम्।
९ लताभि: पादपानां च समायाते घनागमे ॥ इति। अत्र योग: संयोगः स च गुणः। मध्यवाक्यगतेन च सर्ववाक्यदीपनात् गुणगतं मध्यदीपकमिदम्। तथैव-
१२ मुहुर्विश्वं संसृजति बिभर्ति च मुद्ुर्हरिः । मुहुश्च नाशं नयति बालक्रीडनकौतुकी॥ इति। अत्र हरिर्द्रव्यम्। तच्च मध्यवाक्यगतमिति मध्यगतं द्रव्यदीपकम्। इति ॥१०४॥ अन्तवाक्यगतजातिदीपकमुदाहरति-जलमिति। जलघरैः मेधैः उद्वीर्ण वान्तम्। जलं वृष्टिजलम्। गृहशिखण्डिनां प्रासादस्थितमयूराणाम्। कुलं समूहः। चलं चञ्चलम् । तडितां विद्युताम्। दाम सन्दानम्। एतत् त्रयं कुसुमधन्वनः मदनस्य। बलं सैन्यम् । अत्र बलमिति जातिवाचकेन अन्त्यवाक्यस्थितेन पदेन वाक्यत्रये समन्वयात् एतत् अन्तगतं जातिदीपकम् ॥१०५॥
[काभ्यादुर्शं ] २१
Page 197
१७८ काव्यादर्शे द्वितीय: परिच्छेद:
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने। मयापि मरणे चेतस्त्रयमेतत् समं कृतम् ॥१०६॥ शुक्कः श्वेतार्चिषो वृद्धयै पक्षः पञ्चशरस्य सः। स च रागस्य रागोपि यूनां रत्युत्सवश्रियः ॥१०७। इत्यादिदीपकत्वेपि पूर्वपूर्वव्यपेक्षिणी। अन्तदीपकं क्रियागतमुदाहरति-त्वयेति। त्वया कर्णे नीलोत्पलम्। स्मरेण शरासने अस्त्रम्। मयापि मरणे चेतः चित्तम्। एतत् त्रयं समं युगपद्। ३कृतम्। मानिनीं प्रति नायकस्योक्तिरियम्। अत्र चरमवाक्यस्थेन कृतमिति क्रियावाचकेन इतरवाक्यसंबन्धात् क्रियागतमन्त्यदीपकमिदम्। गुणद्रव्यगतमन्त्य- वाक्यदीपकं श्रीप्रेमचन्द्रशर्माणः दर्शयन्ति। यथा- इदमुज्जुम्भते बिम्बं भानोस्तापयितुं जगत् । ममेव हृदयं चण्डि मुखं च तव लोहितम्।। ममेव हृदयं लोहितमित्यत्र लोहितं आरक्तं अनुरक्तमित्यर्थः । अत्रान्त्यवाक्यगतं लोहितमिति गुणपदं वाक्यद्वयं दीपयति। सत्यं विश्वं संतपति सत्यं कर्षति वै रसान्। तमांसि तु निहन्तीति प्रार्थनीयोदयो रविः ॥ १२अत्र रविरिति द्रव्यपदं सर्वाणि वाक्यानि दीपयति। इति द्रव्यगतमन्त्यवाक्य- दीपकम् ॥ १०६ ॥
मालादीपकमुदाहरति-शुक्क इति । शुक्कः पक्षः मासस्य प्रथमः पक्षः। श्वेतारचिषः चन्द्रस्य। वृद्धयै परिपोषाय। भवति। सः श्वेतार्चिः पश्चशरस्य मदनस्य। बृद्धयै भवति। स च पञ्चशरः रागस्य अनुरागस्य । वृद्धयै भवति। रागोपि यूनां तरुणानाम् । रत्युत्सवश्रियः विलासोत्सवलक्ष्म्याः । वृद्धयै भवति ॥१०७॥ उदाहरणं विशदयति-इतीति। इति एवम्। आदिदीपकत्वेपि वृद्धयै इति सर्ववाक्यानुषक्तपदस्य प्रथमवाक्यस्थितत्वेन आदिदीपकसद्भावेपि। पूर्वपूर्वव्यपे- 3क्षिणी स्वोपकारकत्वेन पूर्वपूर्ववाक्यमपेक्षमाणा। वाक्यमाला उत्तरीयो वाक्यसमूहदः। प्रयुक्ता ग्रथितः । इति एवं मालावैचित्र्यानुगतत्वादू इदं मालादीपकं मतम्।
Page 198
दीपकोदाहरणम् १७९
वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम् ॥१०८ ॥ अवलेपमनङ्गस्य वर्धयन्ति बलाहका:। कर्शयन्ति तु धर्मस्य मारुतोद्तशीकराः॥१०९॥ अवलेपपदेनात्र बलाहकपदेन च। क्रिये विरुद्धे संयुक्त तद्विरुद्धार्थदीपकम्॥ ११०॥ शिष्टानामिति भावः । तथा च पूर्ववाक्यसापेक्षोत्तरवाक्येषु जात्याद्यन्यतमपदा- नुषङ्गो मालादीपकम् इति फलितम्। इदं सर्ववाक्येष्वनुषज्यमानं सापेक्षवाक्यस्थ- मेवेति नाग्रहः । अत एव प्रकाशकारेण मालादीपकस्य- संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यदत् समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।। ११इति निरपेक्षवाक्यगतेनापि आसादितम् इति क्रियावाचकेन सर्वेषां वाक्यानां दीपनात् मालादीपकोदाहरणं दत्तम्। भोजस्तु अत्र भावलक्षणाक्षिप्स्य भाव- विशेषस्य द्वितीयपादे यत् संक्षेपेणाभिधानं तदेतत् चक्रवालाद्रिणेव मालादीपकेन १५ विस्तारवता वेष्टितमितीदं चक्रवालं नाम दीपकस्य भेद: इत्याह ॥ १०८ ॥ विरुद्धार्थदीपकमुदाहरति -- अवलेपेति। बलाहकाः मेघाः । अनङ्गस्य अवलेपं दर्पम्। वर्धयन्ति। मारुतोद्ूतशीकराः वायूत्क्षिप्तजलकणाः । बलाहक- ३विशेषणमेतत्। घर्मस्य ग्रीष्मस्य । अवलेपं कर्शयन्ति कृशं कुर्वन्ति। अत्र हेतु- र्मारुतोद्ूतशीकरा इति ॥ १०९॥ उदाहरणं व्याख्याति -- अवलेपेति। अत्र अस्मिनुदाहरणे अवलेपपदेन कर्मभूतेन बलाहकपदेन कर्तृभूतेन च विरुद्धक्रिये वर्धनकृशीकरणरूपे संयुक्ते 3 सामानाधिकरण्यं प्रापिते। एवं च विरुद्धक्रिययो्वर्धनकृशीकरणरूपयोरपि एक- स्मिन् कर्तरि कर्मणि च संबन्धेन वैचित्र्यविशेषात् विरुद्धदीपकमिदम्। एतञ्च आदिवाक्यस्थावलेपबलाहकपदाभ्याम् उत्तरवाक्यसमन्वयात् आदिदीपकम्।
१ स्मृतम्. अ; विङ्ुः, कपा. २ च. क.
Page 199
१८० काव्यादर्शे द्वितीय: परिच्छेद:
हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणभ्। आदत्ते चारदं मे प्राणानसौ जलधरावली'।। १११।। अनेकशब्दोपादानात् क्रियैकैवात्र दीप्यते। यतो जलधरावल्या तस्मादेकार्थदीपकम्॥११२॥ हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः । दिवि भ्रमन्ति जीभूता भुवि चैते मतङ्गजाः॥११३॥ इतथैव च अवलेपम् इति गुणवाचकं बलाहक इति जातिवाचकम् इति गुणजाति- गतयोस्तयोः संकरः ॥ ११०॥ एकार्थदीपकमुदाहरति-हरतीति । असौ जलधरावली मेघपङ्कि:। आशानां दिशाम्। आभोगं विस्तारम् । हरति। जयोतिर्षा नक्षत्राणाम्। गणं ३समूहम्। गृह्ाति स्वस्मिन् निगूहति। मे प्राणांश्च आदत्ते हरति ॥। १११ ॥ उदाहरणं विशदयति-अनेकेति। अत्र अस्मिन्नुदाहरणे। यतः जल- धरावल्या अन्तवाक्यगतेन तत्पदेन एकैव क्रिया अदर्शनरूपा। अनेकशब्दो- पादानात् अनेकाः बहवः ये शब्दाः हरणग्रहणादानरूपाः क्रियावाचकाः तेष उपादानात् स्वीकारात्। हेत्वर्थे पञ्चमी। दीप्यते निर्व्यूढान्वयेनोज्ज्वलीक्रियते। तस्माव्-अनेकपदप्रतिपाद्यस्य एकार्थस्य दीपनादेकार्थदीपकमिदम्। विभिन्नक्रिया- णामेककारकसंबन्धरूपं नवीनैरङ्गीकृतं कारकदीपकम् अस्माद्विन्मेव । एकार्थानेक क्रियाभावाद। कारकदीपकं प्रकाशे दर्शितं यथा- स्विदयति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक्। अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधू: शयने॥ (७७८ पत्रे) इति ॥ ११२।। श्लिष्टार्थदीपकमाह-हद्येति। हृदः निदाघसंतापदूरकिरणेन मनोरमः गन्धवहः वायुर्यत्र इति जीमूतपक्षे। हृद्यः घ्राणातर्पकः गन्धः दानोदकगन्धः तं श्वहृन्ति धारयन्ति इति हृद्यगन्धवहाः गजाः । तुङ्गा: उच्चाः । तमालानामिव श्यामला मलिना त्वट् येषां ते तमालश्यामलत्विषः। उभयत्र समानम्। एतादृशा
१ चास्य. अ. २ वलि: अ.
Page 200
दीपकोदाहरणम् १८१
अत्र धमैरभिन्नानामभ्राणां दन्तिनां तथा। भ्रमणेनैव संबन्ध इति श्लिष्टार्थेदीपकम् ॥११४ ॥ अनेनैव प्रकारेण शेषाणामपि दीपके। जीमूताः मेघाः । दिवि आकाशे। भ्रमन्ति पर्यटन्ति। भुवि च एते मतङ्गजाः दन्तिनः ॥११३॥
उदाहरणं विवृणुते-अत्रेति । धर्मैः हृद्यगन्धवहत्वादिधर्मैः अभिन्नानाम् एकशब्दप्रतिपाद्यत्वेन भेदशून्यानाम्। तत्र प्रथमविशेषणे एकशब्दप्रतिपाद्यत्वम् उत्तरत्र एकार्थत्वमिति ज्ञेयम्। अभ्राणां तथा दन्तिनां भ्रमणेनैव भ्रमन्ति इति क्रिययैव। संबन्धः वाक्यद्वये तस्या एव संबन्धात्। इति क्लिष्टशब्दप्रतिपाद्यसाधा- रणधर्मवतोर्जीमूतमतङ्गजयोः कर्त्रोरभ्रमन्तीति क्रियया दीननात् इदं ल्रिष्टार्थ- ६दीपकम्। तत्र हृदगन्धवहा इत्यत्र शब्दश्लेषः अपरत्रार्थलेपः ॥११४।
दीपकमुपसंहरति-अनेनेति। अनेनैव प्रकारेण एकत्रान्वितेन पदस्य वाक्यान्तरसमन्वयरूपवचित्र्यमुपजीव्य विविधदर्शितरचनावैचित्र्येण शेषाणामपि उक्तेष्वशिष्टानामपि। विकल्पानां प्रकाराणाम्। आवलिसंपुटप्रभृतीनाम्। अवगतिः यथायथं निवेशो। विधातव्या कर्तव्यः । तथा चोक्तं भोजराजेन- अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरावली । ६ संपुटं रसना माला चक्रवालं च तद्िदाः ॥इति। तत्र अर्थावृत्तिः पदावृत्तिरुभयावृत्तिः इत्येतानि आचार्यदण्डिना आवृत्यलंकारनान्ना अग्रे एव दर्शितानि। ततः आवली यथा- त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह- स्त्वमापसत्वं व्योम त्वमु धरणिरात्मा त्वमिति च। परिच्छिन्ामेवं त्वयि परिणतां विभ्रति गिरं
१२ न विद्स्तत् तत्त्वं वयमिह हि यत् त्वं न भवसि ॥ इति। संपुटं यथा- नवपल्लवेषु लोलति घूर्णति विटपेषु चलति शिखरेषु।
१ इस्तिनामपि. कपा,
Page 201
१८२ काव्यादर्शे द्वितीय: परिच्छेद: विकल्पानामवगतिर्विधातव्या विचक्षणैः॥११५॥ ।। इति दीपकचक्र्कम् ॥ अर्थावृत्ति: पदावृत्तिरुभयावृत्तिरेव च। दीपकस्थान एवेष्टमलंकारत्रयं यथा ॥ ११६ ॥
१५ स्थापयति स्तवकेषु चरणे वसन्तलक्ष्मरिशोकस्य ॥ इति। अत्र अशोकस्य नवपल्लवेषु वसन्तलक्ष्मीः लोलति। अशोकस्य विटपेषु वसन्तलक्ष्मीः घूर्णते। अशोकस्य शिखरेषु वसन्तलक्ष्मीः चलति। अशोकस्य स्तबकेषु वसन्तलक्ष्मीः १८चरणे स्थापयति। इति संपुटक्र्मेण मिथः वसन्तलक्ष्मीरशोकः इति पदे द्रव्यवाचिनी संबध्यमाने मिथः संबद्धे एव दीपयतः। तदेतत् संपुटं नाम दीपकम्। रसना- दीपकं मालादीपक प्रायः समानमेव। तच्च मूले दर्शितेन मालादीपकेन ज्ञातप्राय- २१मिति न पुनः उदाहरणेन दर्शयामः । चक्रवालमपि न तथा मनोहारी। तव्- स्वरूपं प्राक् दर्शितमेत्र । इति दीपकचक्रं दीपकसंघः ॥ ११५॥ दीपकनिरूपणानन्तरं तत्सजातीयमावृत्त्यलंकारं लक्षयति-अर्थावृत्ति- रिति। दीपकस्थाने दीपकप्रसङ्गे। अर्थावृत्तिः पदावृत्तिः उभयावृत्तिः इति एत- तसंज्ञकम् अलंकारत्रयम्। इष्टम्। कविभिरिति शेषः । यथेति उदाहरणप्रदर्शनाय। अर्थावृत्तिर्नाम एकस्य वाक्यार्थस्य पुनः वाक्यान्तरेणोपस्थापनम्। पदावृत्तिः एकस्मिन् वाक्ये स्थितानां पदानां पुनर्वाक्यान्तरे तेन रूपेणोत्थितिः । उभयावृत्तिः ६वाक्यार्थपदयोरेकतरस्मिन् वाक्ये निर्दिष्टयोः पुनरन्यत्रोभयोरुत्थितिः । दीपके वाक्यान्तरे अपेक्षितपदस्यानुपादानेन पूर्ववाक्यस्थपदस्यानुषङ्गणान्वयनिर्वाहः। अत्र तु तादृशवाक्ये तत्तत्पदस्यार्थस्य वा पुनरुपादाने आवृत्तिरलंकारः इति युक्तमेवोक्तं दीपकस्थानत्वम्। अस्य दीपकस्थाने एव इष्टमिति । एतेन पदावृत्ति- रूपस्यास्य अलंकारस्य यमकादौ अतिप्रसङ्ग: निराकृतः। यमके हि द्वितीयपदानु- पादाने अन्यवाक्यीयपदसंबन्धस्य अनुपपन्नत्वेन विवक्षितार्थानुपपत्तिः । यत्र १२ पूर्ववाक्यीयपदस्यानुषङ्ग: उपयुक्तः तत्र यमकालंकारबाधेन पदावृत्तेरेव प्रवृत्तिरिति प्रेमचन्द्रशर्माणः । भोजराजस्तु एते त्रयोपि अलंकाराः दीपकविशेषा एव इति मन्यते इत्यनुपदमेव दर्शितमस्माभिः ॥११६॥
१ अपि गतिः. अ; अनुगति: कपा. २ रित्यपि. कपा,
Page 202
आवृत्त्यरंकार: १८३
विकसन्ति कदम्बानि स्फुटन्ति कुँटजट्रुमाः। उन्मीलन्ति च कन्दल्यो दलन्ति कर्कुमानि च ॥ ११७ ॥ उत्कण्ठयति मेघानां माला वैन्दं कलापिनाम्। यूनां चोत्कण्ठयत्येषँ मानसं मकरध्वजः ॥११८॥ जित्वा विश्वं भवानत्रँ विरहत्यवरोधनैः । विरहत्यप्सरोभिस्ते रिपुवर्गो दिवं गत: ॥ ११९॥ । इत्यावृत्तिचक्रम्॥
अर्थावृत्तिमुदाहरति-विकसन्तीति। कदम्बानि कदम्तमुकुलानि। कुटजद्रुमाः स्फुटन्ति पुष्पविकासेनोद्भिना इव भवन्ति। कन्दल्यः उन्मीलन्ति ३ पुष्पोद्गमेन विकसिता भवन्ति। ककुभानि अर्जुनवृक्षसुमनानि। दलन्ति। प्रावृड्- वर्णनमिदम्। अत्र विकसन्तीत्यादिपदानि भिन्नरूपाण्यपि एकार्थानि इति अर्थस्यावृत्तेरर्थावृत्तिरलंकारः ॥ ११७ ॥ पदावृत्तिमुदाहरति-उत्कण्ठेति । मेघानां माला मेघपङ्गिः । कलापिनां मयूराणाम्। वृन्दं समूहम् । उत्कण्ठयति स्वदिदृक्षया उद्ग्रीवं करोति। एष मकर- ध्वजः कुसुमेषु यूनां तरुणानाम्। मानसम् उत्कण्ठयति विलासोत्सुकं विदधाति । मेघालोकस्योद्दीपकत्वादिति भावः । अत्र उत्कण्ठयतीतिपदस्य उभयत्र भिन्नार्थक- त्वेन केवलं पदावृत्ति: इति पदावृत्तिरलंकारः ॥ ११८। उभयावृत्तिं दर्शयति-जित्वेति। अत्र मर्त्यलोके। भवान् विश्वं भूमण्डलम्। जित्वा अवरोधनैः अन्तःयुरिकाभिः। विहरति। ते रिपुवर्गः दिवं गतः सन्। युद्धे 3 सन्मुखमरणादिति भावः । अप्सरोभि: विह्रति। अत्र विहरतीति पदस्य तदर्थस्य च आवृत्तिः । वाक्यद्वयेपि द्योरेकार्थकत्वात्। अतः उभयावृत्तिरलंकारः । ननु ईदशस्थले अनेनैव कविना अग्रे निर्दिष्टस्य (३. १३५) एकार्थरूपदोषस्यापात इति वाच्यमिति चेन्न। तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्। उद्देश्यप्रति- निर्दिश्यतायाम् एकप्रयोगस्यैव युक्तत्वम्। यथा-उदेति सविता ताम्रस्ताम्र
१ सरोजानि. कपा. २ स्फुरन्ति अ. ३ कुटजोद्वमा:, कपा. कुमुदानि, अ, कपा. ५ वर्गे. कपा. ६ यत्येव, व; 'यत्यद्य, कपा. ७ भवानद्य. कपा.
Page 203
१८४ काव्यादर्शे द्वितीय: परिच्छेद:
अथास्य पुनराक्षेप्यमेदानन्त्यादनन्तता ॥ १२० ॥ अनङ्ग: पश्चभि: पुष्पैरिश्वं वैयजयतेषुभिः। एवास्तमेति च । इत्यादौ। प्रकृते च राजोद्देशेन विधेयस्य विहरणस्य रिपुवर्गो- देशेनापि विधेयत्वमित्युद्देश्यप्रतिनिर्देश्यत्वम्। इति सर्व समुचितमिति सुधीभिरा- कलनीयम्॥ ११९॥ आक्षेपालंकारं लक्षयति-प्रतिषेधोक्तिरिति। प्रतिषेधस्य निषेधस्य अक्तिः कथनमात्रम्। न तु वास्तवः प्रतिषेधः। तात्त्विके प्रतिषेधे चमत्काराभावाद- लंकारत्वाभावप्रसङ्गः । तथा च प्रतिषेधाभासः आक्षेपः इत्यर्थः । इयं च प्रति- षेधोक्तिः अर्थविशेषाविष्करणायेति बोध्यम्। तत एव वैचित्र्यातिशयः । तथा चायं प्रतिषेध: इष्टार्थस्यैव। तत एव विशेषेण वैचित्र्यात्। उक्तं च अग्निपुराणे- शब्देनार्थेन यत्रार्थः कृत्वा खयमुपार्जनम्। प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ॥ तमाक्षेपं ब्रुवन्त्यत्र। (३४५. १५) इति। उक्तिरित्यस्य प्रतिपादनमिति सामान्यार्थः । न तु शब्देनैव प्रतिपादनमपेक्ष्यते। व्यङ्गयप्रतिषेधेपि आक्षेपालंकारस्येष्टत्वात्। अन्यस्य अध्यवसानाभावान्नात्रापहुते- राशङ्का ॥ अयमाक्षेपः त्रैकाल्यापेक्षया नाम त्रैकालिकवस्तुगतत्वेन त्रिविध: १२ वर्तमानाक्षेपः अतीताक्षेपः भविष्यदाक्षेपश्चेति। प्रकाशकारादयस्तु भूतभविष्य- तोरेव प्रतिषेधोक्तिराक्षेपः इति मन्वते। तदुक्तम्- निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया। १५ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥ इति। अस्य च त्रिविधस्याक्षेपस्य। आक्षेप्यमेदानन्त्यात् आक्षेप्याः निषेधनीयाः तेषां भेदाः धर्मधर्मिकार्यकारणादयः तेषाम् आनन्त्यात्। अनन्तता अपरिच्छिन्नता। ज्ञेया।१२० तत्र त्रिविधाक्षेपमध्ये आदौ वृत्ताक्षेपमुदाहरति-अनङ्ग इति । अनङ्ग: स्मरः । पश्चभिः पुष्पैः तत्सरूपैः इषुभिः । विश्वं व्यजयत ।
१ पौष्पेः क. २ विजयते°. अ.
Page 204
आक्षेगोदाहरणानि १८५
इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तय:॥१२१ ।। इत्यनङ्गजयायोगवुद्धिर्हेतुवलादिह। प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेप: से ईदशः ॥ १२२ ॥ कुतः कुवलयं कर्णे करोषि कलभाषिणि। किमपाङ्गमपर्याप्तमस्मिन् कर्मण मन्यसे ॥१२३॥ अनङ्गस्य- अरविन्दमशोक च चूतं च नवमालिका। नीलोत्पलं च पञ्चैते पञ्चवाणस्य सायकाः ॥ ६इति पञ्चकुसुमबाणत्वं प्रसिद्धमेव। इति पञ्चकुसुमेषुभिः विश्वविजयः अनुपपत्या असंभवनीय एव। तथा हि मदनः स्वयमनङ्ग: बाणाः पञ्चैव ते च पुष्पमयाः जेतव्यं च विश्व ब्रह्ेन्द्रादिधीरवीरैः परिपूर्णम् इति विजयः अश्रद्धेय एव इति विजयानुपपत्ति स्थिरीकृत्य निषेधति-अथवेति। अथवा वस्तूनां पदार्थानां शक्तयंः कार्यसंपादनसामर्थ्यानि। विचित्राः अचिन्त्यस्वरूपाणि। न ताः अन्ययव्यतिरेका- दिना तर्कयितुं शक्या इति भावः । ततश्च संभवत्येव पञ्चेषुभिर्विश्वविजयः ॥१२१॥ उदाहरणे आक्षेपलक्षणं संगमयति-इतीति। एवंप्रकारेण अनङ्गस्य जयः विश्वजयः तस्य अयोग: असँभवः तद्विषये बुद्धिः। हेतुबलात् अनङ्गपश्चेषु- ३ त्वादि हेतुसामर्थ्यात्। प्रवृत्ता एव उत्पन्ना एव। यत् आक्षिप्ता विचित्रा वस्तुशक्तयः इति वस्तुमाहात्म्योद्घोषेण प्रतिषिद्धा। स ईदृशः । वृत्ताक्षेपः वृत्तस्य अतीतस्य आक्षेपः वृत्ताक्षेपः इत्यर्थः । अत्र केचित् हेतुबलात् इति विचित्रा वस्तुशक्तिरिति ६हेतुसामर्थ्यात् आक्षिप्ता प्रतिषिद्धा इति हेतुबलादिति पदमाक्षेपे योजयन्ति। अत्र प्रतिषेधो वाचकशब्दायोगात् व्यङ्गय एव ।। १२२॥ वर्तमानाक्षेपमुदाहरति-कुत इति। हे कलभाषिणि मधुरालापे। कर्णें कुवलयं कुतः किमिति करोषि। मा कुरु इत्यर्थः। अस्मिन् कर्मणि कर्णशोभा- संपादनकर्मण अथवा उत्पलभूषाविन्यासेन नायकचेतोहरणकर्मणि। अपाङ्गं नेत्रप्रान्तम्। अपर्याप्तमसमर्थ मन्यसे किम्। अत्र कर्णे कुवलयधारणस्य कुत इत्यनेन कैमर्थ्येन प्रतिपेधो ज्ञेयः ॥१२३॥।
१ तदीदशम् अ. [काम्यादर्श] २४
Page 205
१८६ काव्यादर्शे द्वितीय: परिच्छेद:
स वर्तमानाक्षेपोयं कुर्वत्येवासितोत्पलम्। कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ १२४॥ सत्यं व्रवीमि न त्वं मां द्रषटुं वल्लभ लप्स्यसे। अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुषा ॥ १२५॥ सोयं भविष्यदाक्षेप: प्रागेवातिमनस्विनी। कदाचिदपराधोस्य भावीत्येवमरुन्द्व यत् ॥१२६। तव तन्वङ्गि मिथ्यैव रूढसङ्गेषु मार्दवम्। यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम् ॥१२७॥ वर्तमानाक्षपमुदाहरणे योजयति -- स इति। यतः काचित् नायिका। कर्णे असितोत्पलं कुर्वती एव न तु कृतवती करिष्यमाणा वा। चाटुकारेण मधुर- भाषिणा प्रियेण। एवम् कुतः इति वैफल्यप्रदर्शनेन। निषिद्धा। अतोत्र वर्तमान- कालीनस्यासितोत्पलधारणस्य निषेधात् वर्तमानाक्षेपोयं ज्ञेयः ॥ १२४ ॥ भविष्यदाक्षेपमाह-सत्यमिति। हे वल्लम अन्यचुम्बनसंक्रान्तलाक्षा- रक्तेन अन्यस्य नायिकान्तररूपजन्यस्य चुम्बनेन संक्रान्ता तदधरतः संप्राप्ता या लाक्षा तया रक्तेन लोहितीभूतेन। चक्षुषा त्वं मां द्रषटुं न लप्स्यसे मद्दर्शनं न प्रामोषीत्यर्थः । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् इति तुमुन्। एतत् सत्यं ब्रवीमि ॥ १२५॥ भविष्यदाक्षेपमुदाहरणेन संगमयति-सोयमिति। काचित् अतिमनस्विनी अत्यन्तमानिनी। नायिका। अस्य नायकस्य। कदाचित् अपराधो भावी इति ३तं नायकं यत् यस्मात्। एवम् अरुन्ध रुरोध। तस्मात सोयं भविष्यदाक्षेपः । अत्र सत्यं ब्रवीमीति वाक्येन नायकस्य भविष्यन्नायिकानुरागस्य प्रतिपेधादयं भविष्यदापेक्षः ॥ १२६ ॥ इत्थमाक्षेपस्य सामान्यभेदत्रयमुक्त्वा तस्य सूक्ष्मभेदानामानन्त्यात् संपूर्ण- तया निरूपणमशक्यमिति शिष्यशिक्षार्थ कांश्वित् प्रभेदान् दिदर्शयिषुः धर्मा- ३क्षेपमुदाहरति-तवेत्यादि। तन्वङ्गि तव अद्गेषु रूढं परिणतम्। अथवा सार्व- जनीनप्रवादगोचरम्। मार्दवं मिथ्यैव असत्यमेव। यदि सत्यं तर्हि तादृशानि तेङ्गानि मामकाण्डे सहसैव कि रुजन्ति व्यथयान्ति ॥ १२७॥
Page 206
आक्षेपोदाहरणानि १८७
धर्माक्षपोय माक्षिप्मङ्गनागावमार्दवम्। कामुकेन यदत्रैवं कर्मणा तहिरोधिना॥ १२८ ॥ सुन्दरी सा ने वेत्येष विवेक: केन जायते। प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः॥ १२९॥ धर्म्याक्षेपोयमाक्षिप्तो धर्मी धर्म प्रभाह्वयम्। अनुज्ञायैव यद्रूपमत्याश्चरयं विवक्षता ॥ १३०॥ चक्षुषी तव रज्येते स्फुरत्यधरपल्लवैः। भ्रुवौ च सुंग्े न तथाप्यदुष्टस्यास्ति मे भयम् ॥ १३१॥ उदाहरणं योजयति-धर्मा्षेप इति। यदत्र एवम् उक्तिनैपुण्येन । कामुकेन तद्विरोधिना मार्दवविरुद्देन व्यथाकरणरूपेण। कर्मणा अङ्गनायाः ३शुभाङ्गयाः। गात्राणां मार्दवम् आक्षितं निषिद्धम्। तस्मादयं मार्दवधर्मस्याक्षेपात् धर्माक्षेपः ॥ १२८॥ धर्म्याक्षपमुदाहरति-सुन्दरीति। सा प्रभाविशेषेण अनवगतस्वरूपा सुन्दरी नायिका। न वा विद्यते न वा इत्येष विवेक: निश्चयज्ञानम्। केन जायते 3कथं जायते। ननु प्रत्यक्षविषये कथं भ्रान्तोसीत्याह प्रभामात्रमिति। हि यतः । तरलं चञ्चलं सर्वतः दृष्टिविघातेन प्रसरत् । प्रभामात्रं केवलं प्रमैव दृश्यते। तस्याः प्रभायाः आश्रयः आधारो। नायिकाशरीरं न दृश्यते ॥ १२९॥ धर्मिण आक्षेपं दर्शयति-धर्म्याकक्षेपोयमिति। अत्याश्चर्य रूपं प्रभा- तिशयेन विस्मयावहं नायिकाया रूपम्। विवक्षता प्रतिपिपादयिषता नायकेन ३ प्रभाह्वयं प्रभासंज्ञकं धर्मम्। नायिकाधर्मम्। अनुज्ञायैव स्वीकृत्यैव। यत् यस्मात्। धर्मी नायिकारूपः । आक्षिप्तः निषिद्धः । तस्मात् धर्म्याक्षेपोयम् ॥ १३० ॥ कारणाक्षेपमुदाहरति-चक्षुषाति। तव चक्षुषी नेत्रकमले। रज्येते कोपादारक्ते भवतः । अधरपल्लवः स्फुरति रोषेण कम्पते। भ्रुवौ भ्रुकुट्यौ। भुझौ इक्रोधेन वक्रीभूतौ। तथापि एवंभूतेपि। अदुष्टस्य नायिकान्तरानुरागदोषशून्यस्य। मे भयं नास्ति ॥ १३१ ।। १ वा. अ. २ भवत्येवं. ब. सा सुन्दरीयमित्येष. ड [टीकायां ]. कस्य, कपा. - अनुज्ञायेव, कपा. ५ तद्रपम्. कपा, ६ ०पल्वम्. अ. ७ भुग्नौ. डप.
Page 207
१८८ काव्यादर्शे द्वितीय: परिच्छेद:
स एष कारणाक्षेपः प्रधानं कारणं भिये:। स्वापराधो निषिद्धोत्र यत् प्रियेण पटीयसा ॥१३२।। दूरे प्रियतनः सोयनागतो जलदागम:। दष्टाक्र फुल्ला निचुला न सृता चास्मि कि न्विदम्।॥१३३। उदाहरणं विशदयति-स एष इति। पटीयसा चतुरेण। प्रियेण नायकेन। भियः प्रधानं कारणं स्वापराधो यत् यस्मान्निषिद्धः अतः कारणाक्षे- ३पोयम्। तथा च प्रधानकारणनिषेधः कारणाक्षेपस्य विषयः। अप्रधानकारणा भावस्तु विभावनायाः इति आक्षेपविभावनयोर्भिन्नो विषयः कल्प्य इति केचित्। अन्ये तु चक्षुषी तव रज्येते इत्यादिकारणान्तरस्य शब्दतः प्रतिपाद्यत्वात् तस्य ६विभाव्यत्वं नास्ति । विभावनायां कारणान्तरस्य विभाव्यत्वमपक्ष्यते। तदुक्तम्- प्रसिद्धह्देतुव्यावृत्या यत्किंचित् कारणान्तरम्। यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥ इति। तथैवात्र नास्ति मे भयम् इत्यनेन भयरूपकार्यप्रतिषेधात् कार्याक्षेपोपि इत्यपि केचित्। परमत्र पूर्वाक्षेपेण कारणनिषेधे तत्फलकथनं नास्ति मे भयमिति अतो न प्राधान्येन एष आक्षेपः चमत्कारशाली इति कारणाक्षेप एवालंकार इति भाति। १२ शुद्धोदाहरणमाहु: श्रीप्रेमचन्द्रशर्माण :- अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः ।
१५ किंत्वन्येपि जना वदन्ति सुभगोप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ इति। अत्रोत्तरार्धव्यङ्गयस्य वशीभूतपतिकत्वरूपकार्यस्य वासोरुचिरत्वादिरूपकारणा- १८न्येवाक्षिप्तानीति ॥१३२।। कार्याक्षेपमाह-दूरे प्रियतम इति। प्रियतमः दूरे तिष्ठतीति शेषः । सोयं विरहिजनघातक इति प्रसिद्धः । जलदागमः वर्षाकालः । आगतः । फुल्लाः 3निचुला वेतसाः । दृष्टाः प्रत्यक्षीकृताः। एवं स्थितेपि न मृतास्मि मदनानलेन न १ एव. कपा. २ ह्रिय: अ.
Page 208
आक्षेपोदाहरणानि १८९
कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात्। तत्कारणसुपन्यस्य दारुणं जलदागमम् ॥ १३४।। न चिरं मम तापाय तव यात्रा भविष्यति। यदि यास्यसि यातव्यमलमाशङ्कयात्रे ते ।।१३५।। इत्यनुज्ञामुखेनैव कान्तस्याक्षिप्यते गतिः। दग्धास्मि। किंनु इदम् अवश्यंभाविनि कार्ये कथं वैधुर्यम्। अत्याश्चर्यावह मे- तत् ॥ १३३ ॥।
उदाहरणं विशदयति-कार्याक्षेप इति। तस्य मरणस्य कारणं प्रिय- तमदूरावस्थानादिकम्। अथवा तत् विरहिमारकत्वेन प्रसिद्धं कारणं कारणभूतम्। 3क्त्वाप्रत्ययान्तघटितवाक्यस्य प्रधानवाक्यात् पूर्वभावित्वेन तद्घटिततच्छब्देन मरणपरामर्शः कथं स्यादिति दोषोस्मिन् पक्षे अपहृतो भवति। तच्छब्दस्य बुद्धिपरामर्शकत्वेन सकलश्लोकार्थावलोचनया अत् मरणमेव तच्छब्देनाभिप्रेतमिति ६ स्फुटं तस्य कविबुद्धिस्थमरणावेद्यत्वात् प्रथमार्थेपि न क्षतिः इत्यन्ये। उपन्यस्य अ्रथमं निवेश्य। तत्कार्यस्य मरणस्य निवर्तनात् निषेधात्। सः पूर्वश्लोकोदाहृतः कार्याक्षेपः । कारणमित्यस्य प्रसिद्धकारणमित्यर्थस्वीकारे अप्रसिद्धकारणोपन्यासे कार्याभावो विशेषोक्तिः इति विशेषोक्तः विषयः स्वतन्त्रो दर्शितो भवति। अन्यथा उभयोर्विषयैक्यात् दुरवस्था स्यात् ॥ १३४ ॥ अनुज्ञाक्षेपमुदाहरति-न चिरमिति। देशान्तरं जिगमिषुं नायकं प्रति नायिका ब्रूते न चिरमिति। तव यात्रागमनं मम तापाय विरहवेदनायै। चिरं ३ बहुकालम्। न भविष्यति। अचिरादेव त्वद्विरहेण लोकयात्रायाः परिसमाप्तेः । यदि यास्यसि यातव्यम् अवश्यं गन्तव्यम्। अत्र मद्विषये शङ्कया विरहपीडितेयं कथं दुःखं सहिष्यते इति शङ्कया अलम् ॥१३५ ॥ उदाहरणं व्याख्याति-इतीति। इति अनुज्ञामुखेनैव गमनानुमत्यैव। एवकारेण निषेधार्थकशब्देन निषेधस्य व्यावृत्तिः सूच्यते। केचित्तु अनुज्ञामु- ३ खेनैव इति मरणं सूचयन्त्यैव इत्यनेन संयोजयन्ति। कान्तस्य गतिः आक्षिप्यते
१ याहि त्वं. बपा, २ °यापि. बपा.
Page 209
१९० काव्यादर्शे द्वितीय: परिच्छेद:
मरणं सूंचयन्त्यैव सोनुज्ञाक्षेप उच्यते ॥ १३६॥ धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि। न च मे प्राणसंदेहस्तथापि प्रिय ना स्म गा: ॥ १३७ ॥ इत्याचक्षाणया हेतून् प्रिययातार्नुबन्धिन:। प्रभुत्वेनैव रुद्स्तत् प्रभुत्वाक्षेप उच्यते ॥ १३८ ॥ जीविताशा बलवती धनाका दुर्बला मम। गच्छ वा तिष्ठ वा कान्त स्वावस्था तु निवेदिता ॥१३९। अतः सोयमनुज्ञाक्षेपः। मरणं संसूचयन्त्यैवेति गतेराक्षेपस्य हेतुः। अनिष्टस्य विधेयत्वासंभवेन प्रतिषेधपर्यवसानात्। दर्पणकारास्तु एतादृशस्थले विध्याभास- 3मलंकारमाहुः । तदुक्तम् -- अनिष्टस्य तथार्थस्य विध्याभासः परो मतः । इति ॥ १३६॥ प्रभुत्वाक्षपमाह-धनं चेति। अस्मिन् विदेशगमने ते धनं बहुलभ्यम्। व्यवहारनैपुण्यादिति भावः । चकारो भिन्नक्रमः । तथा च ते वर्त्मनि सुखं च 3क्षेमं च स्यात्। यात्रानुकूलसमयत्वात् सौराज्यत्वाच्चेति भावः । मे प्राणसंदेहोपि न त्वं सफलमनोरथोचिरादेव प्रत्यागमिष्यसीति मे दृढो विश्वासः । तथापि एवं सकलानुकूल्येपि। हे प्रिय मा स्म गाः प्रेमभावार्द्राहं न त्वां मुश्चामि। त्वं मा ६गच्छ ॥ १३७॥ उदाहरणं विशदयति-इत्याचक्षाणयेति। इति एवंप्रकारेण। प्रिययात्रा- नुबन्धिन: प्रिययात्रानुकूलान्। हेतून् धनलाभादीन्। आचक्षाणया कथयन्त्या। प्रभुत्वेनैव प्रेमभावस्वाधीनपतित्वरूपसामर्थ्येनैव। रुद्धः गमनान्निवारितः । प्रियः इति शेषः । तत् तस्मात्। प्रभुत्वाक्षेपः साधनानुकूल्येन अवश्यं करणीये गमने केवलं प्रभुत्वेनैव निषेधः प्रदर्शितः इति प्रभुत्वाक्षेपः ॥ १३८॥ अनादराक्षेपमाह-जीविताशेति। हे कान्त मम जीविताशा जीवनेच्छा। बलवती धनाशापेक्षया अधिकतरा। धनलाभापेक्षया त्वत्संनिधौ चिरं जिवितु- 3मिच्छामि। धनाहरणाय त्वयि विदेशं गते न जीविष्यामि इति ध्वनिः। धनाशा १ सुचयन्त्येति, अ. २ ईदृशः. कपा, ३ प्रत्याच०, बपा. ४ ·सरोधिन: अ, कपा. ·नुरोधिनः, कपा. ५ त, अ.
Page 210
आक्षेपोदाहरणानि १९१
असावनादराक्षेपो यदनादरवद्वच:। प्रियप्रयाणं रुन्धत्या प्रयुक्तनिह रक्तया ॥१४० ॥। गच्छ गच्छसि चेत् कान्त पन्थान: सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १४१॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना। स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ १४२॥ यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया। दुर्बला जीविताशापेक्षया। अतः एवं स्थिते त्वं गच्छ अथवा तिष्ठ। स्वावस्था मम भाविनी अवस्था। मरणरूपा इत्यर्थः । अथवा मम वर्तमाना मनोवृत्तिः । ६निवेदिता ॥ १३९ ॥। उदाहरणं समर्थयते-असाविति। इह उदाहरणे। प्रियप्रयाणं नायकस्य विदेशगमनम्। रुन्घत्या परिहरन्त्या। रक्तया अनुरागिण्या। यत् अनादरवत् गच्छ 3वा तिष्ठ वेति अनादरसूचकं वचः प्रयुक्तम्। अतः असौ अनादराक्षेपः ॥१४०।। आशीर्वचनाक्षेपमुदाहरति-गच्छेति। हे कान्त गच्छसि चेत यदि तत्र गमने निश्चयः तर्हि गच्छ। पन्थानः ते शिवा: कल्याणप्रदाः । सन्तु। यत्र ३भवान् गतः। भविष्यतीति शेषः । तत्रैव ममापि जन्म भूयात् भवतु। इति आशासे। त्वद्गमनानन्तरमचिरादेव त्वद्विरह्वेदनया मरिष्यामि मृतायाश्च-पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् इति क्रमेणावश्यं जनन ६भवेत्। तच्च यंत्र भवान् तिष्ठति तत्रैव भवतु। तथा सति पुनस्तत्र भवद्दर्शनं भविष्यतीति भाव: ॥ १४१ ॥ आशीर्वचनाक्षेपं विशदयति-इतीति। अत्र कान्तया आशीर्वादवर्त्मना आशी: आशंसा सा चात्र सततप्रियदर्शनरूपा तस्या वादः ममापि जन्म तत्रैव ३भूयाद्यत्र गतो भवान् इति प्रकारेण कथनम् तद्वर्त्मना तद्द्वारेणैव। स्वावस्थां विरहेण मरणरूपाम्। सूचयन्त्या तया कान्तस्य यात्रागमनं निषिध्यते। आशी- र्वचनस्य ममापि जन्म तत्र स्यादित्यस्य भाविमरणसूचनद्वारा कान्तयात्राया ६आक्षेपात आशीर्व चनाक्षेपोयम् । १४२।। परुषाक्षेपमुदाहरति-यदीति। यदि ते यात्रा सत्यैव तर्हि कापि अन्या
१ काव्यनुयाहतां. कपा.
Page 211
१९२ काव्यादशें द्वितीयः परिच्छेद
अहमदैव रुद्धास्मि रन्ध्रोपेक्षेण मृत्युना ॥१४३॥ इत्येप परुषाक्षेप: परुपाक्षरपूर्यकसू। कान्तस्वाक्षिप्यते यसात् प्रस्थानं प्रेमनिन्नया ॥ १४४॥ गन्ता चेद्च्छ तूर्ण ते कर्णो यान्ति पुरा रवा:। आर्तबन्धुमुखोद्वीर्णा: प्रयाणपरिपैन्थिनः ॥ १४५॥ साचिव्याक्षेप एवैष यदत्र प्रतिषिध्यते। प्रियप्रयाणं साचिव्यं कुर्वत्येवातिरक्तया ॥ १४६॥
त्वद्विरहेपि जीवितुं समर्था। त्वया मृग्यतां सुखोपभोगाय अन्विष्यताम्। ननु त्वयि शप्रेयस्यां सत्यां कोयमुपदेश इति चेत् कथयति। अहम् अद्यैव रन्ध्रापेक्षेण रन्ध्रस्य अपेक्षा यस्य तेन छिद्रान्वेषणतत्परेण मृत्युन। रुद्दास्मि आक्रान्तास्मि ॥ १४३॥ उदाहरणं विशदयति-इतीति। प्रेमनिन्नया प्रेमपराधीनया कान्तया। कान्तस्य यस्मात् परुषाक्षरपूर्वकम्-काप्यन्या मृग्यतां त्वया। अहमद्यैव रुद्धास्मि 3मृत्युना। इत्यादिकठोरार्थकवाक्यपुरःसरम्। प्रस्थानं देशान्तरप्रवासः। आक्षिप्यते निषिध्यते । तस्मात् अयं परुषाक्षेपः ॥ १४४ ॥ साचिव्याक्षपमाह-गन्ता चेदिति। भवान् गन्ता चेत् निश्चितभावि- गमनश्चेत । गन्तेति लुटः रूपम्। तूर्ण द्रुतम्। गच्छ । किमिति त्वरयसे मामिति चेत् कथयति। आर्तबन्धुमुखोद्गीर्णाः आर्ताः मद्विनाशेन दुःखिताः ये बन्धवः तैः सुखोद्गीर्णाः मुखोचारिताः। प्रयाणपरिपन्थिनः यात्राप्रतिबन्धकाः । रवाः मन्मरण- सूचका ध्वनयः। ते कर्णौ कर्णयुगुलम्। पुरा यान्ति यास्यन्ति। यावत्पुरानिपात- योर्लट् इति पुरा शब्दयोगे भविष्यति लट्। १४५।। उदाहरणं नामाक्षरेण योजयति-साचिव्याक्षेप इति। यदत्र यस्मात् अत्र एतादृशवर्णनायाम्। साचिव्यं कुर्वत्या इव तूर्ण गच्छ इति साहाथ्यम् आचरन्त्येव। 3अनुरक्तया प्रेमासक्तया। प्रियग्रयाणं नायकगमनम्। प्रतिषिध्यते स्वमरणसूचनेन निषिध्यते । तस्मादेष साचिव्याक्षेपः साहाय्यपूर्वकनिषेधादिति भाव: ॥१४६॥ १ रन्धान्वषेण. अ, कपा; ०न्वेषणमृ०, बपा. २ जनोद्रीणा :. अ. प्रतिपथिना अ, प्रतिबन्धिन कपा. ४ कुर्वत्यव, अ.
Page 212
आक्षेपोदाहरणानि १९३
गच्छेति वक्तुमिच्छामि सत्य्रिर्य त्वत्प्रियैषिणी। निर्गच्छति मुखाद्वाणी मा ना इति करोमि किम्॥१४७॥ यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि। = क्षैणं दर्शनविन्नाय पक्ष्मस्पन्दाय कुप्यतः। प्रेम्णः प्रयाणं तैवं ब्रूहि मया तस्येष्टमिष्यते ॥ १४९॥ यत्नाक्षेपमाह-गच्छेति। हे मत्प्रिय जीवितेश्वर। त्वत्प्रियैषिणी त्वत्प्रिया- नुसरणशीला। अहमस्मि। अतः गच्छ त्वं याहि इति वक्तुमिच्छामि। परं मुखा- द्वाणी मा गा इति निर्गच्छति। अन्तर्भावानुसारित्वात वाग्देव्या इति भावः किं करोमि नास्ति अत्र कोप्युपायः। गच्छेति वक्तुं कृतप्रयत्नापि विफलपरिश्रमा मवामीत्यर्थः । अत्र त्वत्प्रियं मत्प्रियैषिणी इत्यपि पाठः साधुः। अर्थस्तु स्पष्ट ६एव ॥ १४७ ।। नामार्थ उदाहरणेन संयोजयति-यत्नाक्षेपः इति। अनिष्टवस्तुनि गच्छेति गमनविधानरूपानिष्टकार्ये। कृतस्यापि यत्नस्य विपरीतफलोत्पत्तेः विपरीतं 3मा गा इति वचननिःसरणरूपं यत् फलं तस्य उत्पत्तेः हेतोः। आनर्थक्योपदर्श- नात् आनर्थक्यस्य गच्छेति वक्तुं कृतो यः प्रयत्नः तस्य विफलतायाः उपदर्शनात् मा गा इति विरुद्धवचननिःसरणेनावगमात्। यत्नाक्षेपः प्रियानुसरणकृतयत्नस्य ६आक्षेपः वैफल्येन निषेधः । इति यत्नाक्षेपालंकारः ॥ १४८॥ परवशाक्षेपमाह-क्षणेति। हे नाथ। क्षणं पलमात्रम्। त्वद्दर्शनस्य त्वन्निरी- क्षणस्य विन्नः व्यव्ययः यस्मात् तस्मै। पक्ष्मस्पन्दाय पक्ष्मणां नेत्रलोम्नां स्पन्दाय 3 निमेषोन्मेषरूपाय। कुप्यतः निमेषमप्यसहमानस्य। प्रेम्णः अनुरागं प्रति। कर्मण षष्ठी। प्रयाणं ब्रूहि निवेदय। ननु त्वामेव प्रार्थये किमिति प्रेमप्रार्थनामुपदिशसि चेत तत्राह। मया प्रेमाधीनयेति भावः । तस्य प्रेम्णः । इष्टम् अभिलषितम् । ६ इष्यते वाञ्छयते। प्रेमपराधानाया मम प्रार्थनयालम्। यदि तस्यानुमतिः तर्हि गच्छ। नाहं प्रतिकूला भवामि। परं त्वद्दर्शनस्य क्षणविच्छेदासहिष्णुः स प्रेमा कथमनुज्ञां दास्यति। इति त्वमेव विचारय। सर्वथा तन्नानुमंस्यते इति भाव: ॥ १४९॥
१ त्वत्प्रियं मत्पियै०, च,क,ड,प. २ सूचनात्, कपा. ३ क्षणदर्शन०. क. * ते. कं. [काव्यादर्श ] २५
Page 213
१९४ काव्यादर्शे द्वितीय: परिच्छेदः
सोयं परवशाक्षेपो यत् श्रेमपरतन्त्रया। तया निषिध्यते यात्रान्यस्यार्थस्योपसूचनात्॥ १५०॥ सहिष्ये विरहं नाथ देहद्ृश्याञ्जनं मम । यदक्तनेत्रां कन्दर्ष: प्रहर्ता माँ न पश्यति ॥१५१॥ दुष्करं जीवनोपायमुपन्यस्योपरुध्यते।
प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखात्। अयतापि त्वयेदानीं मन्दग्रेम्णा ममास्ति किम् ॥१५३॥ अलंकारसंज्ञार्थ योजयति-अयमिति। यत् यस्मात्। प्रेमापरतन्त्रया स्वस्य अत्यन्तं प्रेमपराधीनया। तया नायिकया। अन्यस्य स्वापेक्षया भिन्नस्य । प्रेमानुज्ञारूपस्य । अर्थस्य वस्तुनः । उपसूचनात् । कथनात् । यात्रा निषिध्यते । अतोयं परावशाक्षेपः ॥ १५० ॥ उपायाक्षेपमाह-सहिष्ये इति। हे नाथ विरहं त्वद्वियोगम्। सहिष्ये। किंतु तदर्थ अदृश्याञ्जनं अदर्शनसंपादकं कज्जलविशेषम्। देहि। किं तेनेति चेदाह। येन अञ्जनेन अक्ते म्रकक्षिते नेत्रे यस्याः सा ताम्। माम् प्रहर्ता प्रहार- शीलः । ताच्छील्ये तृन्। कन्दर्पः न पश्यति न पश्येत् । तेन च त्वद्विरहे स मां न पीडयेत् इति भावः । त्वयि प्रयाणाभिमुखे कन्दर्पबाधैव मां तरलीकरोति। ६तन्निवर्तनक्षमश्चेत् तवं सुखेन याहीत्यर्थः ॥१५१॥ दुष्करं दुर्घटम्। जीवनोपायं कामकर्तृकविलोकननिवारणाय अदर्शनसंपादक- सिद्धाञ्जनदानरूपम्। उपन्यस्य कथयिन्वा। पत्युः प्रस्थानं यात्रा। उपरुध्यने तादृशा- ३ञ्जनप्राप्तेरसंभवात् प्रतिषिध्यते। ईदृशम् एवंप्रकारकम्। उपायाक्षपम् उपायेन अ- शक्योपायेन आक्षेपः निषेधः तम्। उपायाक्षेपम्। कवयः आहुरिति शेषः ॥१५२ रोषाक्षेपमुदाहरति-प्रवृत्तैवेति। हे वल्लभ दयित। ते मुखात् प्रयामि गच्छामि। इति वाणी प्रवृत्तैव निःसृतैव । अत्र एवकारेण क्तप्रत्ययेन च अति- विस्मयो ध्वन्यते। मां प्राणेश्वरीति मन्यमानस्य तव वदनादीदृशं प्रयामीति वचनं १ अय. क. १ यात्रेत्यस्यार्थ, अ; यात्रेत्यन्यार्थस्योपदर्शनान्. च, ड,प, यात्रा तस्यार्थ०, क; झाभा तस्यार्थस्यैव सूच, धपा, तस्यार्थस्योपदर्शनात्. कपा. ३ यद्रक्तनेश्रां. अ. ४ प्रहर्तु. ब,ड,प.
Page 214
आक्षेपोदाहरणानि १९५
रोषाक्षेपोयमुद्रिक्तस्नेहनिर्यन्त्रितात्मना। संरब्धया प्रियारब्धं प्रयाणं यन्निषिध्यते ॥ १५४।। मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता। बुड्धवा वक्ति प्रियं दृष्टरा किं चिरेणागतो भवान्॥१५५।। इति तत्कालसंभूतमूर्छयाक्षिप्यते गतिः। कान्तस्य कातराक्ष्या यन्मूर्छाक्षेप: स ईदशः ॥१५६॥ प्राणवियोगवचनमिवातिदुःसहम्। तत्तु त्वयोच्चारितमेव। अतस्त्वया सर्वथा प्रेमबन्धः शिथिलीकृतः । तस्मात् इदानीं प्रयामीति उक्तेरनन्तरम्। मन्दप्रेम्णा त्वया। ६ अयतापि अगच्छतापि। मम किमस्ति कि प्रयोजनम्। त्वच्छिथिलप्रेम्णा सर्वथा दूये इति भाव: ॥ १५३ ।। संज्ञार्थ घटयति-रोषाक्षेपोयमिति। उद्रिक्तः अतिशयस्य परं काष्ठां गतः यः स्नेहः प्रेमा तेन निर्यन्त्रितः विह्ृलीकृतः आत्मा अन्तःकरणं यस्याः सा इतया। संरब्धया संदर्शितकोपावेशया। प्रियारब्धम् प्रियेण आरभ्यमाणम्। प्रयाणं गमनम् । यत् यस्मान्निषिध्यते तस्मात् अयं रोषाक्षेपः रोषेण आक्षेपः रोषाक्षेपः। अस्मिन्नुदाहरणे निषेधो व्यङ्गयः ॥| १५४।। मूर्छाक्षपमुदाहरति-मुग्धेति। मुग्धा सुन्दरी। कान्तस्य यात्रोक्तिश्रवणा- देव प्रयाणवचनश्रवणादेव न तु प्रयाणदर्शनात्। मूर्छिता मोहं प्राप्ता। बुद्दवा 3मूर्छापगमात संज्ञां लब्घ्वा। प्रियं च दृष्टा वक्ति किं चिरेण आगतो भवानिति। कथं चिरकालेन त्वमागतोसि इति पृच्छतीत्यर्थः ॥१५५॥ संज्ञार्थ योजयति-इतीति। इति एवंप्रकारेण। तत्कालसंभूतमूछया तत्काले प्रयाणकाले एव संभूता संजाता या मूर्छा मोहः तया। करणे तृतीया। 3कातराक्ष्या चकितनयनया। कान्तस्य गतिः आक्षिप्यते निषिध्यते। स कवि- प्रसिद्धः । मूछाक्षेपः मूछया आक्षेपः । ईदृशः अस्तीति शेषः । इदं श्लोकद्वयं प्राचीनेषु बहुषु पुस्तकेषु न दृश्यते। मुद्रितपुस्तकेषु तु वर्तते। न क्रमविसंगत ६चातो व्याख्यातमिति ज्ञेयम् ॥ १५६ ।। १ ·र्यन्त्रणा°. अ. २ निवार्यते, कपा. : प्रियाफ्िष्टा. कपा. ४ १५५-१५६ श्लोकौ अ पुस्तके न स्तः। तथा कपुस्तके १५२ श्लोकानन्तरं वर्तेते।
Page 215
१९६ काव्यादर्शे द्वितीय: परिच्छेद:
नाघ्ातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम्। तवद्द्विषां दीर्घिकास्वेव विशीर्ण नीलमुत्पलम्॥१५७॥ असावंतुकरोशाक्षेप: सानुक्रोशमिवोत्पले। व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदैर्शनात्॥१५८॥ अमृतात्मनि पद्मानां द्वेष्टरि स्त्निग्धतारके। मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना ॥ १५९ ॥
सानुक्रोशाक्षेपमाह-नाघ्रातमिति। त्वद्द्विषां त्वदरीणाभ्। स्त्रीभिः नील- मुत्पलं नाघ्रातम् नास्वादितम्। कर्णे भूषणार्थ न कृतम् । तथा मधुनि मद्ये। ३सुवासार्थ नार्पितम् । दीर्धिकासु वापीषु। तत् विशीर्णम् अनुपभोगेन कालपरि- णामेन क्षयं गतम्। त्वदरिनृपस्त्राणां विधवात्वात् वने गमनाद्वा इति भावः ।१५७
उदाहरणं विशदयति- असावनुक्रोशे इति। उत्पले सानुक्रोशमिव सदयमिव। तद्योग्यं कर्म स्त्रीजनकृतम् आघ्राणादिकम्। व्यावर्त्य प्रतिषिध्य। 3 शोच्यावस्थोपदर्शनात् शोच्यावस्था विशीर्णत्वरूपा तस्याः प्रकाशनात्। असौ अनुक्रोशाक्षेपः। अनुक्रोशपूर्वकं नाघ्रातमिन्यादिनिषेधदर्शनादसौ सानुक्रोशाक्षेपः । अपरे तु नीलोपलानुक्रोशेन त्वद्द्विषस्तत्र न सन्तीत्याक्षेपसूचनादनुक्रोशाक्षेपः । व्यपदेशकस्य व्यपदेश्यं प्रति साक्षात् परंपरया वा हेतुतासद्भावस्यौचित्यादिति व्याख्यान्ति ॥ १५८ ॥
श्िष्टाक्षेपमाह-अमृतात्मनीति। अमृतस्येव आत्मा स्वभावः स्वरूपं वा यस्य। तादृशे परमाह्नादके इत्यर्थः मुखपक्षे। चन्द्रपक्षे अमृतमेव आत्मा स्वरूपं यस्य । अमृतमये इत्यर्थः । पद्मानां द्वेष्टरि सौन्दर्यातिशयेनेति मुखपक्षे। चन्द्रपक्षे तत्संकोचनेन । स्त्निग्धे तारके अक्षिकनीनिके यस्मिन् इति प्रथमपक्षे। अन्यत्न स्निग्धाः अनुरक्ताः तारकाः अश्विन्यादयो यस्मिन्। भार्यात्वादिति भावः । एवं 6तव मुखेन्दौ सति अपरेण इन्दुना प्रसिद्धेन चन्द्रमसा। कि प्रयोजनम् न किम पीति भाव: ॥ १५९ ।।
१ तद्द्विषां. ब. २ सातुक्ोशोयमाक्षेप :. बपा. इत्यनुक्रोशाक्षेप: बपा. ३ ०पवर्णनात्. क.
Page 216
आक्षेपस्यादाहरणानि १९७
इति मुख्येन्दुराक्षित गुणान् गौणेन्दुवतिनः। तत्समान् दर्शयित्वेह फ्लष्टाक्षेपस्तथाविधः । १६०।। अर्थो न संभृतः कश्िन्न विद्या काचिदर्जिता। न तप: संचितं किंचिद्धत च सकलं वयः ॥ १६१॥ असावनुशयाक्षपो यस्मादनुशयोत्तरम्। अर्थार्जनादेर्व्यवृत्तिर्दशिंतेहैं गतायुषा ॥ १६२॥ किमयं शरदम्भोदः किं वा हंसकदम्बकम्। रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ १६३॥ इत्ययं संशयाक्षपः संशयो यन्निवै्त्यते। उदाहरणं विशदयति-इतीति। एवंप्रकारेण इह रचनायाम्। गौणेन्दु- वर्निनः अमुख्येन्दुवर्तिनः । गुणान् अमृतात्मत्वादीन्। तत्समान् मुख्येन्दुसमान्। 3इह दर्शयित्वा श्रिष्टविशेषणोपन्यासमहिम्रा प्रकल्प्य । मुख्येन्दुः उपमानभूतेन्दुः । आक्षिप्तः प्रतिषिद्धः । इति श्रिष्टपदविन्यासेन आक्षेपः श्लिष्टाक्षेपः ॥ १६० ।।
अनुशयाक्षेपमाह-अर्थो नेति। कश्चित् रत्नसुवर्णादिरूपः। अर्थः न संचितः । काचिदपि पदवाक्यप्रमाणादिरूपा। विद्या न संपादिता। किंचिदपि ३तपः सान्तपनादिकम् । न संभृतम् । सकलं वय' आयुः । गतम् ॥ १६१ ॥ संज्ञां विवृणोति-असाविति। यस्मात् अनुशयोत्तरम् अनुशयः पश्चात्तापः तस्मादनन्तरभ् । अर्थार्जनादेः व्यावृत्तिः विमुखता । दर्शिता । अतः ३असौ अनुशयाक्षेपः । अनुशयपूर्वकः आक्षेपः अनुशयाक्षेपः ॥ १६२ ॥
संशयाक्षेपमुदाहरति-किमयमिति। अयं वियति दृश्यमानः । शरद- म्भोद: शरत्कालीन: मेघः । किम्। अथवा हंसकदम्बकम् शरत्समये मानसादा- ३गच्छतां हंसानां समूहः। किम्। नूपुरं तुलाकोटि तस्य संवादि शिञ्चितसदृशम्। रुतं ध्वनिः । अ्रूयते । तत् तस्मात् । अयं तोयदः न ॥ १६३ ॥। अभिधां विशदयति-इतीति। अस्पृष्टघनजातिना अस्पृष्टा घनजातिर्येन
१विधिः. अ. २ दर्शितेयं, अ. ३ निवार्यते, अ,क.
Page 217
काव्यादर्शे द्वितीय: पलच्छिद:
वर्मेण हंससुलभेनाम्पृष्टधनजातिजा ॥१६४ । चित्रमाक्रान्तविश्वोषि विक्रमस्ते न तृप्यति। कदा वा दश्यते तृप्तिरुदीर्णत हविर्भुजः ॥१६५॥ अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवर्यते। विस्मयोर्थान्तरस्येह दर्शनात् तत्सधर्मणः ॥१६६ ॥ न स्तूयँसे नरेन्द्र त्वं ददासीति कदाचन। स्वमेव मत्वा गृहन्ति यतस्त्व्रद्धनमर्थिनः॥१७।
तेन। मेघेषु अनुपलभ्यमानेन। हंससुलभेन हंसेषु सुलभतयावगतेन। धर्मेण नूपुर- संवादिरुतरूपेण। यत् यस्मात्। संशयः प्रकृते मेघसंशयः । निवर्त्यते। अतोयं संशयाक्षेपः संशयस्य आक्षेपः संशयाक्षेपः ॥ १६४॥।
अर्थान्तराक्षेपमुपन्यस्यति-चित्रमिति। ते विक्रमः पराक्रमः । आक्रा- न्तविश्वोपि आक्रान्त व्याप्तं विश्वं येन तादृशोपि। न तृप्यति तृप्तो न भवति। इति आश्चर्यमेतद्। अर्थान्तरविन्यासेन परिहरति-कदा वेति। वा अथवा। उदीर्णस्य उद्दीप्तस्य। हविर्भुजः अग्नेः । तृप्तिः कदा दृश्यते न कदापि। हविषा कृष्णवर्त्मा हि भूय एवाभिवर्धते । इति भावः ॥ १६५ ।।
उदाहरणं विस्पष्टयति -- अयमिति। इह उदाहरणे। तत्सधर्मणः विक्रम- समानधर्मस्य। अर्थान्तरस्य उदीर्णस्य हविर्भुजस्तृप्त्यभावरूपस्य। दर्शनाव् ३णिजन्तमेतद्। प्रक्रान्तः प्रस्तुतः । विस्मयः यन्निवार्यते यस्मादपहहियते। अतोयम् अर्थान्तरेण आक्षेपः अर्थान्तराक्षेपः ॥ १६६ ॥
हेत्वाक्षेपमाद्-न स्तूयसे इति। हे नरेन्द्र त्वं ददासि इति कदाचन कदापि। न स्तूयसे। जनैरिति शेषः । यतः त्वद्धनं अर्थिनः याचकाः । स्वमेव ३मत्वा आत्मीयमिति ज्ञाल्वा। गृह्न्ति । अनेन राज्ञो लोकोत्तरो दानमहात्म्यातिशयो ध्वन्यते ॥ १६७ ॥
१ शाम्पति ब, उ, प. ३ निवर्त्यते. अ. 3 भरूयसे. अ.
Page 218
आक्षरोपसंहार: १९९
इत्येवमादिराक्षेरो हेत्वाक्षेप इतति न्मृतः अनयैव दिव्यान्येषि विकल्पा: शक्यमूहितुम् ॥ १६८॥। ।। इत्याक्षेपचक्र्म् ॥ ज्ञेयः सोर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन। आक्षेपालंकारमुपसंहगति -- इतीति । इत्येवमादिः एतत्प्रकारकः। आक्षेपः हेत्वाक्षेपः । प्रस्तुतस्य नरेन्द्रस्तवस्य स्वमेव मत्वा गृह्नन्ति इति हेतुमुपन्यस्य ·आक्षेपात् निषेधात् हेत्वाक्षेपः हेुना आक्षेपः हेत्वाक्षेपः। पूर्व दार्शेतः कारणा- क्षपस्तुः कारणस्य आक्षेपः न तु कारणेन इति उभयोर्भेदः । अनयैव दिशा पद्धत्या। अन्येपि विकल्पाः भेदाः। ऊहितुं कल्पितुम् । गक्यम्। प्रज्ञावद्धगिरिति १शेष: ॥ १६८ ।। अर्थान्तरन्यासं लक्षयति-ज्ञेय इति। किंचन किमपि। वस्तु प्रकृतम्। प्रस्तुत्य उपन्यस्य। तस्य प्रस्तुतस्य। अनुपपद्यमानतया संभाव्यस्य। साधन ३ सोपपत्तिकत्वेनोपपादनं तत्र समर्थस्य। अन्यस्य कस्यचिदप्रस्तुतस्येति सूचितम्। न्यास: निवेशः । सोयमर्थान्तरन्यासः अलंकारः । अत्र प्रस्तुत्येति क्त्वाप्रत्ययेन प्रथमतः प्रस्तुतस्योपन्यासः पश्चात्समर्थकस्याप्रस्तुतस्येति प्राप्तम्। परं प्रायिक- कमेतद्। वैपरीत्येनापि दर्शनाद्। यथा- प्रतिकूलतामुपगने हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बाय दिनभर्तुरभून्न पतिष्यतः करसहस्त्रमपि॥ अत्र सायंकालवर्णनस्य प्रस्तुतत्वात् अवलम्बनाय दिनभर्तुरित्युत्तरार्धवाक्यार्थः प्रस्तुतः समर्थ्यः पूर्वार्धवाक्यार्थः तत्समर्थकः। भोजराजस्तु अमुं विपरीतार्था- न्तरन्यासमाह॥ तथा च प्रस्तुतस्य पूर्वत्र परत्र वा यत्रकुत्रापि स्थितस्य अ- ११ प्रस्तुतेन समर्थनमर्थान्तरन्यासः इति फलितम् । अत्र समर्थ्यसमर्थकयोः सामान्य- विशेषभावः आदरणीयः इति प्रकाशकारादयः । कार्यकारणभावे तु तन्मते स काव्यलिङ्गस्य विषयः। दण्डिना तु काव्यलिङ्गो न स्वीकृतः । अतः स उभयत्रापि १५ अर्थान्तरन्यासं स्वीकरोति। स हि ज्ञापकः निष्पादकः समर्थश्रेति हेतुं त्रिधा वि- भजति। तत्र ज्ञापको अनुमानालंकारस्य विषयः। निष्पादकः काव्यलिङ्गालंकारम्य।
१ न्योऽ्कपि विकल्पः शक्य ऊहि० ब. क. ड. प.
Page 219
२०० काव्यादशें द्वितीय: परिच्केद:
तत्साधनसमर्थस्य न्यायो योन्यस्य वस्तुनः ॥१६९॥ विश्वव्यापी विशेषस्थ: श्रेपाविद्धो विरोधवान्। अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्यय: ॥ १७० ॥ इत्येवमादयो भेदा: अयोगेष्वसय लक्षिताः । उदाहरणमालैषां रूपव्यक्त्यै निदश्यते॥ १७१॥ समर्थकश्चार्थान्तरन्यासस्य। सामान्यविशेपभावोपि साधम्यवैधर्म्येण द्विधा भवति। १८ततश्च सामान्यं विशेषेण विशेषः सामान्येन स च साधर्म्येण वैधर्म्येण च इति चतुर्विधोर्थान्तरन्यासः प्रकाशे उक्तः । उदाहरणानि तत एव ज्ञेयानि । यस्मिन् वाक्यार्थे न विशेपसामान्यभावः न वा कार्यकारणभावः तत्न साधारणधर्मयोर- २१मिन्नत्वे प्रतिवस्तूपमा भिन्नयोस्तयोर्बिम्बानुबिम्बत्वे दृष्टान्तः । इमौं द्वावपि आचार्य- दण्डिना उपमायामेव अन्तर्भावितौ। एको हि दोषो गुणसनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः। इत्यादौ तु अर्थान्तरन्यासद्वयस्य ससृष्टिः आचार्यदण्डिनो मतेन रजेया। तेन यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः । इति दीक्षितादिभिर्ल- क्षितः विकस्वरालंकारः न पृथक् गणनामहतीति बोद्धव्यम्। उद्योतकारास्तु अनुपपद्यमानतया संभाव्यमानस्यार्थस्योपादानार्थ यत् अर्थान्तरं न्यस्यते सोर्था- २७न्तरन्यासः । दृष्टान्ते तु सामान्यं सामान्येन विशेषो विशेषण समर्थ्यते इति ततो मेदः। साक्षात् व्याप्त्यादेरनभिधानादनुमानतो भेदः । इत्याङ्र: ॥ १६९ ॥ कथितसामान्यलक्षणस्य अर्थान्तरन्यासस्य समर्थकार्थभेदेन संभवतो भेदान् निर्दिशति- विश्वव्यापीति। विश्वव्यापी सर्वव्यापकः सर्वत्र संभवा्हः । विशेषस्थः वस्तुविशेषे एव विद्यमानः । श्लेषाविद्धः समानवस्तूनामेव संश्लेषदर्श- नात् अत्र श्लेषशब्देन वस्तुसाम्यं ग्राह्यम्। तेन आविद्धः युक्तः। अविरुद्धार्थसमर्थ केन समार्थतः इत्यर्थः । विराधवान् प्रकृतविरोधी। अयुक्तकारी प्रकृत्यैवानुचित- करणशाली । युक्तात्मा औचित्ययुक्तः । युक्तायुक्तः युक्तोपि अयुक्तकारी। विपर्ययः एतद्विरुद्धः अयुक्तोपि युक्तकारी ॥ १७०॥ इत्येवमिति । अस्य अर्थान्तरन्यासस्य इत्येवमादयः एवं प्रकाराः । भेदाः समर्थकार्थविशेषाः। प्रयोगेषु कविप्रयोगेषु। लक्षिता: दृष्टाः। एषां रूपव्यक्त्ये 3 स्वरूपावगमाय। उदाहरणमाला निदर्श्यते ॥ १७१॥ ५ विकल्पेष. कपा. २ रूपव्यक्त्तौ क. ड.प. ३ निगद्यते. क.
Page 220
अर्थान्तरन्यासोदाहरणानि २०१
भगवन्तौ जगनेते सूर्याचन्द्रमसावपि। पश्य गच्छत एवास्तं नियतिः केन लङ्खयते ॥१७२॥ पयोमुच: परीतापं हरन्त्येव शरीरिणाम्। नन्वात्मलाभो महतां परदुःखोपशान्तये॥१७३॥ उत्पादयति लोकस्य प्रीति मलयमारुतः । ननु दाक्षिण्यसंपन्नः सर्वस्थ भँवति प्रियः ॥ १७४॥ क्रमेणोदाहरन्नादौ विश्वव्यापिनमुदाहरति -- भगवन्तौ इति। भगवन्तौ षंडश्वर्यसंपन्नौ। जगन्नेत्रे विश्वनयनभूतौ। सर्वपदार्थप्रकाशकत्वात्। सूर्यश्च चन्द्र- माश्च सूर्याचन्द्रमसौ। अपि शब्देन अस्तानर्हत्वं सूच्यते । अथवा एतादृशौ अस्तं गच्छतः अन्येषां का कथा इति सूच्यते। गच्छत एव इत्यनेन अयं क्रमः प्रचलित एव न विश्रान्तः इति ध्वन्यते। अस्यार्थस्य असंभवमाशङ्कय समर्थयति- ६नियतिरिति। नियतिः दैवम्। केन लङ्गयते न केनापि इत्यर्थः । अत्र समर्थ- कस्य चतुर्थपादवाक्यार्थस्य ब्रह्मादिपिपीलिकापर्यन्तानां सर्वेषां नियत्यधीनत्वात् विश्वव्यापित्वम्। तेन सामान्यार्थेन पादत्रयगतविशेषार्थः समार्थेतः। अतो विश्वव्यापी नामायमर्थान्तरन्यासः ॥१७२॥ विशेषस्थमर्थान्तरन्यासमुदाहरति-पयोमुच इति। पयोमुचः वारिदाः । शरीरिणां प्राणिनाम्। परीतापं निदाघार्कसंतापम्। हरन्ति एव। अमुमर्थ समर्थयते- ३महतामात्मलाभः जन्मग्रहणम्। परदुःखोपशान्तये परेषां दुःखस्य उपशान्तये शमनाय। अस्तीति शेषः । ननु इति निश्चये। अत्र च सर्वमह्द्वर्णनपरेणोत्तर- वाक्यार्थेन महद्विशेषाणां पयोमुचां वर्णनपरस्य पूर्ववाक्यार्थस्य समर्थनं तेनार्थान्तर- इन्यासालंकारः। तत्र समर्थकवाक्ये महतामेवैतादृशी रीतिर्न प्राणिमात्रस्य इति विशेषस्थता बोध्या ॥ १७३॥
ल्लेषाविद्धमुदाहरति-उत्पाद्यतीति। दाक्षिण्यसंपन्नः सारल्यादि- गुणान्वितः । दाक्षिण्येन दक्षिणदिक्संबन्धेन संपन्नश्च। सर्वस्य प्रियः भवति। अत्रापि समर्थ्यसमर्थकयोः सामान्यविशेषता। तत्र समर्थकस्य दाक्षिण्यसंपन्नः
१ हरम्त्येते. कपा. २ दृक्षिण०. अक, ३ आवहृति प्रियम्, कपा. [ काष्यादुर्श ] २६
Page 221
२०२ काव्यादर्शें द्वितीय: परिच्छेद:
जगदानन्द्यत्येष मलिनोपि निशाकरः। अनुगृह्णाति हि परान् सदोषोपि द्विजेश्वरः ॥ १७५ ॥ मधुपानकलात् कण्ठान्निर्गतोप्यलिनां ध्वनिः। कदर्भवति कर्णस्य कामिनां पापमीदृशम्॥ १७६ ॥ अयं मम दहत्यङ्गमम्भोजदलसंस्तरः। सर्वस्य प्रियः भवति इति वाक्यार्थस्य दाक्षिण्यसंपन्नस्य प्रियभवनं समुचितमेवेति
विरोधवन्तमुदाहरति-जगदानन्दयतीति। एष मलिनोपि कलङ्कितोपि। सदोषश्चेति ध्वनिः। निशाकरः जगदान्दयति आह्वादयति। ननु मलिनस्य कथमेतदिति सामान्येन समर्थयति-अनुगृह्णातीति। द्विजेश्वरः ब्राह्मणश्रेष्ठः। सदो- षोपि मलिनाचरणोपि। परान् अन्यान् । अनुगृुह्णाति। अत्र सदोषः दोषा रात्रि: तया सहितः सदोषः । द्विजेश्वरः चन्द्रः। चन्द्रोपि द्विजराजत्वेन प्रसिद्धः । तेन च इद्विजेश्वर इति सामान्यरूपेण निशाकर आह्वादयति इति विशेषार्थस्य समर्थनम्। मलिनत्वाह्ादनत्वयोर्विरुद्धधर्मत्वात्तयोरेकत्र संवेशः समर्थनीयः । स च सदोष- द्विजेश्वररूपसामान्येन समर्थितः । एवं विरुद्धार्थस्य समर्थनादयं विरोधवानर्थान्त- रन्यासः। समर्थ्यसमर्थकयोः सामान्यविशेषभावः । तत्र च समर्थकवाक्यार्थः सदोषत्वानुग्राहकत्वरूपविरुद्धधर्माभ्यामवस्कन्दितः । अतः विरोधवदर्थान्तरन्या- सोयम् ॥ १७५॥ अयुक्तकारिणमुदाहरति-मधुपानेति । मधुपानं मकरन्दास्वादः तेन कलाठ् मधुरात्। अलीनां भ्रमराणाम्। कण्ठात् निर्गतोपि ध्वनिः गुञ्जारवः । 3कामिनां विरहिकामुकानाम्। कर्णस्य कटुर्भवति कर्णारुंतुन्दो भवति। एतत् सामान्येन समर्थयति-पापमीद्दशमिति। ईदृशं सुखदवस्तुनोपि दुःखदत्वम्। अत्र कामिनां पापस्वरूपत्वं विषयासक्तत्वेन ज्ञेयम्। अत्र पापस्य दुःखकारित्वरूपसामा- ६न्येनार्थेन मधुरस्यापि भ्रमरध्वनेः दुःखदत्वरूपविशेषार्थस्य समर्थनादर्थान्तरन्यासः। तत्र च सामान्यपापरूपसमर्थकस्य मधुरध्वनेः कटुत्वसंपादनादयुक्तकारिता।१७६। युक्तातमानमुदाहरति-अयमिति। अयम् अम्भोजदलसंस्तरः कमलदलैः १ आह्लादयते. कपा.
Page 222
अर्थान्तरन्यासोदाहरणानि २०३
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते॥ १७७॥ क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम्। मलिनाचरितं कर्म सुरभेर्नन्वसांप्रतम् ॥१७८॥ कुमुदान्यपि दाहाय किमयं कमलाकरः।
कल्पिता शय्या। मम अङ्गं दहति। शीतलानां कमलदलानां कथमेतदिति अनु- 3पपत्ति परिहरति-हुताशनेति। यः ह्रुताशनस्य अग्नेः प्रतिनिधिः प्रतिकृतिः । अनेन उज्ज्वलारक्तकमलानां अग्निप्रतिनिधित्वं सूच्यते। स दाहात्मा दाहस्वरूपः। इति युज्यते। ननु इति निश्चये। अत्र द्रुताशनप्रतिनिधित्वरूपसामान्येन ६तत्प्रतिनिधिविशेषस्य अम्भोजदलसंस्तरस्य अङ्गदाहकसमर्थनात् सामान्येन विशेषस्य समर्थनम्। तत्र च समर्थके हुताशनप्रतिनिधौ दाहकत्वस्य समुचित- त्वात् युक्तात्मायमर्थान्तरन्यासः ॥ १७७॥
युक्तायुक्तमुदाहरति -- क्षिणोत्विति। शीतांशुः शीतकिरणो मृगाङ्क:। मां कामं पर्याप्तम्। क्षिणोतु हिनस्तु। परं वसन्तः माधवः। मां कि दुनोति कथं ३ पीडयति। नैतद्युक्तमिति सामान्येन दर्शयति । सुरभेः श्रेष्ठस्य। वसन्तस्यापि । मलिनाचरितं मलिनैः पापैराचरितम्। तथा मलिनेन कल्कितेन चन्द्रेणाचरितम्। कर्म परपीडकत्वम्। असांप्रतम् अयुक्तम् । अत्र सामान्येन विशेषस्य समर्थनम्। ६तत्रोत्कृष्टस्य सुरभेरपकृष्टकर्माचरणे युक्तेन अयुक्ताचरणम् इति युक्तायुक्तता तना- मार्थान्तरन्यासः ॥ १७८॥
विपर्ययं दर्शयति-कुमुदान्यपीति। विरहिण्या उक्तिरियम्। कुमुदा- न्यपि चन्द्रविकासीनि कमलान्यपि। दाहाय जायन्ते। अपिशब्देन शीतांशुरागिणां 3 तेषां दाहकत्वमत्याश्चर्यास्पदमिति ध्वनितम्। अयं कमलाकरः सूर्यविकासिकमल- समूहः। दाहाय भवेत् इति किं वक्तव्यम्। जगद्दाहकसर्यानुरक्तत्वेन तस्य विरहि- जनदाहकत्वं नाश्चर्यास्पदम्। उक्तार्थमेवार्थान्तरेण द्रढयति-नेति। इन्दुगृह्येषु इन्दु- ६पक्षीयेषु । उग्रेषु सत्सु । सूर्यगृह्य: सूर्यपक्षीयः। मृदुः न भवेत् । अत्र सामान्येन विशेषस्य समर्थनम्। तत्र समर्थ्यवाक्ये कुमुदे अयुक्तकारिता कमले युक्तकारिता
तापाय. अ. २ किमङ्ग. क.
Page 223
२०४ काव्यादर्शे द्वितीय: परिच्छेद:
न हीन्दुगृद्येषूग्रेषु सृर्यगृद्यो मृदुर्भवेत् ॥१७९॥ ॥। इत्यर्थान्तरन्यासचक्रम् ॥ शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोई्योः । इति अयुक्तयुक्तकारिता। तथा च अयुक्तं च युक्तं च अयुक्तयुक्त तस्य कारिता इति समासः। एतानि सवोण्यपि साधर्म्येणोदाहरणानि। वैवर्म्पेण यथा -- वक्षोजकुम्भनिवहाद्वनिताजनानां गीप्मर्तुना विनिहितं ग्रहराजपुत्री।
१२ तापं पितुः स्वमहरत् तरलोर्मिहस्तै- रन्यं न याति हि विभूतिरपत्यभाजाम् ॥ अत्र सामान्येन अपत्यभाजां विभूतिरन्यं न याति इति निषेधमुखेन ग्रहराजपुत्री १५ तापं पितुरहरत् इति विधिमुखस्य वाक्यार्थस्य समर्थनात् वैधर्म्येणायमर्थान्तर- न्यासः ॥१७९॥।
व्यतिरेकं लक्षयति-शब्दोपात्त इति। द्वयोर्वस्तुनो: अर्थात् उपमा- नोपमेययोः । सादृश्ये शब्दोपात्ते साधारणधर्मवाचकेवादिप्रयोगेण बोधिते । किंवा तुल्यसमादिशब्दप्रयोगे लक्षणया ज्ञाते। अथवा साधारणधर्मवाचकस्यानु- पादाने पूर्वापरविमर्शेनावगते सति। तत्र सादृश्ये। लक्षणया सादृश्यसंबन्धिनोः प्रतियोग्यनुयोगिभूतयोरुममानोपमेययोः। यद्धेदकथनं केनचिर्द्धमविशेषेण उपमाना- ६द्रुपमेयस्योत्कर्षाय भेदप्रतिपादनम् । स व्यतिरेकः । भवतीति शेषः । स च उपमे- योत्कर्षोपमानापकर्षोपादानाद् द्वयोरेकस्य वानुपादानाच्चतुर्विधः । उपमानोपमेय- योर्भेदकथनं च क्वचित् नञादिभि: क्वचिद् विरुद्धधर्मोपादनमात्रेण संभवति। कचिच्च तात्पर्यार्थपर्यालोचनया भवति । एतत् सर्वमुदाहरणेषु दर्शयामः । केचित्तु उपमानादुपमेयस्य भेदकथने उपमेयस्योत्कर्षकथनवदपकर्षकथनेनापि व्यतिरकं मन्यन्ते उदाहरन्ति च-
१२ क्षीणः क्षीणोपि शशी भूयो भूयोभिवर्धते नित्यम्। विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।
Page 224
व्यतिरेकालंकार: २०५
तत्र यद्भेदकथनं व्यतिरेकः स कंथ्यते॥ १८० ॥ धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः। गुणैस्तुल्योसि भेदस्तु वपुषैवेद्ृशेन ते ।। १८१॥ इत्येकव्यतिरेकोयं धर्मेणैकत्रवर्िना। प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ॥१८२।। अभिन्नवेलौ गम्भीरावम्तुराशिर्भवानपि।
अत्र उपमेययौवनस्योपमानचन्द्रापेक्षया अपकर्षः । परं नतदाचार्यदण्डिसंमतम्। १५उदाहरणेषु तादृशभेदोदाहरणस्यानुपलम्भात्। तथैव मम्मटजगन्नाथादयोपि उपमानादुपमेयस्य व्यतिरेकः आधिक्यं तेन भेदश्चेत् तर्हिं इममलंकारं स्वीकुर्वन्ति। अपकर्षे तु न। उक्तोदाहरणे व्यतिरेकविपये तु तेषामेवमाशयः । यदत्र उपमेये १८ यौवनस्थैर्याधिक्यमपेक्षितम् । अतः अस्त्येवोपमानादुपमेयस्याधिक्यम्। व्यतिरेके- स्मिन् भेदकथनं स्पष्टतया अपेक्ष्यते। तेन मुखमिव चन्द्रः इति प्रतीपे उपमानी- करणप्रयुक्तस्याधिक्यस्य मुखे गम्यत्वेपि विशेषतस्तद्वोधकशब्दाभावान्नातिव्याप्तिः २१इति ॥ १८०॥ व्यतिरेकसामान्यलक्षणमभिधाय तत्प्रमेदान् दर्शयति। तत्रादौ एकव्यति- रेकमाह-धैर्येति। धैर्य धृतिः अचाञ्चल्यं च। लावण्यं सौन्दर्य लवणमयत्वं च। ३ गाम्भीर्यम् गूढाशयत्वं गभीरत्वं च । एते प्रमुखा येषु तैः । गुणैः सरसत्वादिमिः। उदन्वतः महोदधेः। त्वं तुल्योसि। भेदस्तु वैधर्म्य तु। ते ईदृशेन अतिसुन्दरकर- चरणवदनवता वपुषा शरीरेणैवास्ति ॥। १८१।। इत्येकेति। एकत्र उपमेये एव। वर्तिना स्थितेन। धर्मेण सुन्दरवपुष्मत्व- रूपेण। उभयवर्तिनः उपमानोपमेयवर्तिनः । प्रतियोग्यनुयोगित्वेनेति भावः । भेदस्य 3 वैधर्म्यस्य। प्रतीतिविषयप्राप्तेः प्रतीयमानत्वात् हेतोरयं एकव्यतिरेकः । एकमात्र- गतधर्मस्य द्वयोवैधर्म्यबोधकत्वादिति भावः। अत्र विरुद्धधर्मोपादानेन भेद- प्रतीतिः ॥१८२ ।
उभयव्यतिरेकमाह-अभिन्नेति। अम्बुराशिः भवांश्च उभावपि अभि- १ उच्यते. कपा. २ °माहासम्य०. अ. ३ तुल्योपि. क. ४ प्रतीत°, अ.
Page 225
२०६ काव्यादर्शे द्वितीय: परिच्छेद:
असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ॥ १८३।। उभयव्यतिरेकोयमुभयोर्भेदकौ गुणौ। कार्ष्ण्यं पिशङ्गता चोभौ यत् प्रथग्दर्शिताविह॥१८४। त्वं समुद्रश्च दुर्वारौ महासच्चौ सतेजसौ। अयं तु युवयोर्भेद: स जडात्मा पडर्भवान् ॥१८५॥ स एष श्रेपरूपत्वात् सश्लेप इति गृह्यताम्। न्नवेली अपरित्यक्तमर्यादौ गम्भीरौ च । किंतु असौ अम्बुराशिः । अञ्जनसंकाशः कज्जलवन्मलिनाकारः । नीलजलत्वादिति भावः । त्वं तु चामीकरदयुतिः सुवर्ण- प्रभोसि॥१८३॥ उभयेति। अयं उयव्यतिरेकः । यत् यतः । उभयोः उपमानोपमेयभूतयोः समुद्रनृपयोः । भेदकौ भेदसाधनभूती। गुणौ का्ष्ण्यपिशङ्गतारूपौ। पृथक् दर्शितौ ३स्तः । अत्रापि विरुद्धधर्मोपादानेन भेदप्रतीतिः ॥ १८४॥ स्लेषव्यतिरेकमुदाहरति-त्वमिति। त्वं समुद्रश्च। दुर्वारौ त्वमनभिभव- नीयः स च अवार्यजलवेगः । त्वं महासत्त्वः महासामर्थ्यवान् स च महाजन्तु- 3विशिष्टः । त्वं सतेजसः द्युतिमान् स च वाडवाग्निविशिष्टः। अयं तु युवयोर्मध्ये भेद:। सः समुद्रः जडात्मा मूर्ख: डलयोरमेदात् जलस्वरूपः शीतलश्। भवान् पटुः चतुरः तीक्ष्णश्च ॥ १८५ ॥ स इति। स एष उपरि दार्शित: व्यतिरेकः । श्लेषरूपत्वाद जडात्मा पटुः इति श्िष्टपदेन वैधर्म्यदर्शनात् श्लेषस्वरूपत्वात्। सक्लेषः एतत्संज्ञकः । ३इति गृह्यतां जानीहि। अभ्यस्यमानं छात्रं प्रति उक्तिरियम् । न चात्र साधारण धर्मवाचकदुर्वारादिपदानामपि श्िष्टत्वात् तेनास्य सश्लेषता वाच्या। तैर्विशेषणैः सादृश्यबोधात् वैधर्म्यावबोधे तेषामसंबन्धात्। वैधर्म्यचमत्कृतिप्रधाने व्यतिरेके 1वैधर्म्यविशेषणे क्लिषे एव सक्लेषव्यतिरेकस्वीकारस्य युक्तत्वात्। अपरं च साधर्म्योपपादकविशेषणश्लेषस्वीकारे सर्वत्र व्यतिरेके ल्लेत्वापत्तिर्दुर्वारा भवेत्। १ 'चछविः. अ. २ पृथक्त्वेन दर्शिता. कपा. ३ इयता. कपा. तथापि भवतः कक्षां जडात्मा नायमर्हति. बपा. एव. अ.
Page 226
व्यतिरेकोदाहरयानि २०७
साक्षेपश्च सहेतुश्र दर्श्यते तदपि डूयस् ॥१८६॥ स्थितिमानपि धीरोपि रल्नानामाकरोपि सन्। तव कक्षां न यात्येव मलिनो मकरालयः ।।१८७॥ वहन्नपि महीं कृत्स्नां सशैलद्वीपसागराम्। भर्तृभावाञ्ुजंगानां शेषस्त्वत्तो निकृष्यते ॥१८८॥ शब्दोपादानसादृश्यव्यतिरेकोयमी दशः।
अत्र प्रस्तुताप्रस्तुतयोर्विशेषणद्वयस्य ल्लिष्टत्वम्। क्वचिदेकतरनिष्ठ्रिष्टविशेषणेपि अयं भवति। एवं श्लिष्ं सप्रपश्चमुपपाद् पुनर्भेदद्वयं दर्शयति-साक्षेप इति। आक्षेपः विरुद्धधर्मोपन्यासेन सादृश्यप्रतिषेधः। सहेतुः हेतुश्वात्र हेत्वर्थब्रोधक- पञ्चम्यन्तपदरूपः । तेन हेतुभूततिशेषणैः प्रतिषेधः साध्यते चेत् तत्र सहेतुव्य- ११ तिरेक: ॥ १८६ ॥
साक्षेपमुदाहरति-स्थितिमानिति । मकरालयः समुद्रः । स्थितिमानपि अनुज्झितमर्यादोपि। धीरोपि प्रशान्तोपि। रत्नानां महार्घमणीनां सद्ुणरत्नानां ३ च आकर उत्पत्तिस्थानमपि सन् । मलिन इति तव कक्षां साधर्म्यम्। न यात्येव। अत्रोपमानगतेन मालिन्यरूपधर्मेण नृपसादृश्याक्षेपः। तेन च नृपस्योत्कर्ष इति साक्षेपव्यतिरेकः । अत्राक्षेपो नञा वाच्यः ॥१८७॥
सहेतुव्यतिरेकमुदाहरति-वहन्निति। सशैलद्वीपसागरां कृत्स्ाम्। महीं वहन्नपि धारयन्नपि। भुजङ्गानां सर्पाणां जाराणां च । भर्तृभावात् स्वामीत्वात् हेतोः। 3शेषः अनन्तः । त्वत्तः त्वया। निकृष्यते निकृष्टीक्रियते। अत्र भुजङ्गपतित्व- रूपधर्मस्य उपमेयापेक्षया उपमानस्यापकर्षहेतुत्वात् अयं सहेतुव्यतिरेकः ॥१८८॥
एवं शब्दोपात्तसादृश्यव्यतिरेकमुपपाद्य प्रतीयमानसादृश्यव्यतिरेकं प्रति- पिपादयिषुराह-शब्देति। अयं ईदशः एतावत्पर्यन्तं विवेचितः । शब्दोपादन- ३ सादृश्यव्यतिरेकोस्ति। शव्दस्य साधारणधर्मवाचकस्य उपादानं यस्मिन् एताडशं यत् सादृश्यं तत्पूर्वकः व्यतिरेकः उपमेयगुणातिशयवर्णनं तत्स्वरूपोस्ति। अत्र
१ दृश्यते. अ, कपा, २ कक्ष्या. क.
Page 227
२०८ काव्यादर्शे द्वितीय: परिच्छेद:
प्रतीयमानसादृश्योप्यस्ति सोप्यभिधीयते ॥१८९॥ त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा। कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम्॥ १९० । अभ्रूविलासमस्पृष्टमदरागं मृगेक्षणम्। इदं तु नयनद्वन्द्वं तव तद्रुणभूषितम्॥ १९१॥ पूर्वस्मिन् भेदमात्रोक्तिरस्मिन्नाधिक्यदर्शनम्। केचित् शब्दोपादानेन यत्सादृश्यं तत्पूर्वको व्यतिरेक इति समासं दर्शयन्ति। ६परं प्रतीयमानसादृश्येत्युत्तरपदसमासैक्यसंपादनाय प्रथमार्थ एव ज्यायान्। प्रतीयमानं सादृश्यं यत्र तादृशः। व्यतिरेकः अस्ति । सोऽपि अभिधीयते मया निवेधते ॥ १८९॥
प्रतीयमानसादृश्यव्यतिरेकमुदाहरति-त्वन्मुखमिति। त्वन्मुख कमल च द्ूयोरपि अनयोः भिदा एवं भेदः । तं भेदमेव दर्शयति-कमलमिति। 3कमलं जलसंरोहि जलजमित्यर्थः । त्वन्मुखं त्वदुपाश्रयं त्वमेव उपाश्रयः आधारः यस्य तत्। अत्र विभिन्नाश्रयत्वेन कविप्रसिद्धं कमलमुखसादृश्यं प्रतिषिध्यते। समानधर्मस्यात्राकथनात् प्रतीयमानसादृश्यत्वं बोध्यम् ॥ १९०॥
विरुद्धधर्मेण प्रतीयमानसादृश्यव्यतिरेकं दर्शयति-अभ्रूविलासमिति। भृगेक्षणं हरिणनयनम्। अभ्रूविलासं भ्रूकुटिनर्तनलीलाशून्यम्। तथा अस्पृष्टमदरागं 3मदिरासेवनोद्कूतलोहित्यवार्जितम्। इदं तु तव नयनद्वन्द्वं तौ गुणौ भ्रूविलासम- दरागरूपौ ताम्यां भूषितम्। अत्रापि उपमेयगतगुणविशेषेण कविप्रसिद्धं मृगनयनसादृश्यं निषिध्यते ॥१९१॥ उदाहरणद्वयप्रयोजनं दर्शयति-पूर्वस्मिन्निति। पूर्वस्मिन् त्वन्मुखभि- त्युदाहरणे। भेदमात्रोक्तिः केवलं भेदस्य कथनम्। न तु उपमेयोत्कर्षस्योक्तिः। तत्र 3त्वद्पाश्रयमिव्यनेनोत्कर्षो व्यङ्गयः । तथा च तत्र भेदः कारणभेदाद्विज्ञेयः । ननु जलसंरोहि इव्यनेन जडसरोहि इति प्रतीतेः कमलस्य जडोपादनत्वम्। अजडो- पादनत्वं च मुखस्य। अत उत्कर्षः शाब्द एव इति चेन्न । तथाविधल्लेषे तात्पर्या- १ अनुविधीयते. कपा. अत्रामिधीयते. २ अस्पष्ष, अ.
Page 228
व्यतिरेकोदाहरणानि २०९
सदृशव्यतिरेकथ्च पुनरन्यः प्रदश्यते ॥१९२॥ त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी। भ्रमरद्भ्मरमम्भोजं लोलनेत्रं मुखं तु ते ॥ १९३॥ चन्द्रोयमम्वरोत्तंसो हंसोयं तोयभूषणम्। नभो नक्षत्रमालीदमुत्फुल्लकुमुदं पयः ॥ १९४॥ इभावात्। अस्मिन् अव्यवहितोदाहरणे आधिक्यदर्शनं तद्रुणभूषितम् इत्यनेन गुणाधिक्यस्य कथनं न तु साधारणविशेषणमहिन्ना केवलसादृश्यप्रतीतिः । भेदश्च विरुद्धधर्मवत्वेन प्रतीयते न तु शब्देनाभिहितोस्ति। पूर्वोदाहरणे कारण- भेदाद्ेदः अस्मिन्नदाहरणे विरुद्धधर्माध्यासेन स इति बोध्यम् ॥ एतावता विरुद्ध- धर्मोपादानेन नञादिना वा सादृश्यप्रतिषधेन परिस्फुटः भेदव्यतिरेको दर्शितः । इदानी सदशभेदकेन भेदव्यतिरेकं दर्शयति-सदृशेति। सदृशव्यतिरेकः सदशेन १२भेदकेनं व्यतिरेकः भेदः सदृशव्यतिरेकः इत्यर्थः ॥१९२॥ शब्दोपात्तसादृश्यं सदृश्यव्यतिरेकमुदाहरति -- त्वन्मुखमिति। त्वन्मुखं पुण्डरीकं कमल च। फुल्ले विकसिते। एकत्र स्मितलक्ष्म्या अन्यत्र दलविकासेन। 3तथा सुरभिः घ्राणतर्पकः गन्धः सुवासः ययोस्ते। फुल्लत्वसुरभिगन्धत्वयोः साधारण्यात् सादृश्यमत्र शब्दोपात्तम्। एवं सादृश्यं स्थिरीकृत्य सदृशभेदकेम व्यतिरेकं दर्शयति-भ्रमन्भमरेति। अम्भोजमू ्रमद्धमरं भ्र्मन्तः भ्रमरा यस्मिन् ६तत्। ते मुखं तु लोलनेत्रं लोले विलासचञ्चले नेत्रे यस्मिन् तत्। अत्र भ्रमर- नेत्रे भेदके। ते च अ्रमणचाञ्चल्यरूपधर्मेण समाने । इति सदृशाभ्यां ताभ्यां भेद: सदृशव्यतिरेक: ॥ १९३॥ शब्दानुपात्तसादृश्यं सदृशव्यतिरेकमुदाहरणद्वयेन उदाहरति-चन्द्र इति। अयं चन्द्रः अम्वरोत्तंसः वियूषणम्। हंसः तोयभूषणम् जलशोभा- 3 संपादकः ।तथैव इदं नभः नक्षत्रमालि तारामालाविभूषितम्। इदं पयः उत्फुल्ल- कुमुदं विकसितारविन्दम्। अत्र चन्द्रहंसयोः साद्यं श्वेतत्वादि अनुभूनतया स्फुट प्रतीत भवति। वियदम्भसोश्च शौक्ल्यादि वर्णनानुरोधेन यथाकथंचित् ६प्रतीयते। एवमुभयत्र शब्दानुपात्तस्य सादृश्यस्य अम्बरतोयाम्यां नक्षत्रकुमुदाभ्यां च भेदो दर्शितः । तौ च परस्परतुल्यौ इति सदृशव्यतिरेकिता ॥१९४॥ १ लोलदृष्टि. अ. [ काव्यादर्श ] २७ २ च. अ.३ इद्मुत्कुमुदं, अ.
Page 229
२१० काव्यादर्शे द्वितीय: परिच्छेद:
प्रतीयमानशौक्ल्यादिसाम्ययोवियदम्भसोः। कृतः प्रतीतशुध्द्योश् भेदोस्मिंश्रन्द्रहंसयोः ॥१९५॥ पूर्वत्र शब्दवत् साम्यसुभयत्रापि भेदकम्। भृङ्गनेत्रादि तुल्यं तत् सदृशव्यतिरेकता ॥ १९६ ॥ उक्तोदाहरणद्दयं विशदयति-प्रतीयमानेति । अस्मिन् पूर्वश्लोके। प्रतीयमानम् वाचकशव्दाभावात् वर्णनानुरोधेन यथाकर्थंचित् उन्नीयमानं ३ शौक्ल्यादि आदिशब्देन नैर्मल्यस्य संग्रहः । तेन साम्यं ययो: तादृशयोः। वियद- म्भसोः आकाशपयसोः । तथा प्रतीतशुद्धयोः सदानुभूततयावगतशुद्धयोः चन्द्र हंसयो: भेदः कृतः । प्रथमोदाहरणे अम्बरतोयाभ्यां द्वितीयोदाहरणे नक्षत्रकुमुदा- ६भ्याम् सादृश्यनिषेध: कृतः ! इमे च भेदके अम्बरतोये नीलत्वादिना नक्षत्रकुमुदे च मनोहराकारत्वेन परस्परसदृशे इति सदृशव्यतिरेकः । पूर्वोदाहरणे वियदम्भसोः शौक्ल्यादिसादृश्यं दुरूहतया प्रतीयमानम् उत्तरोदाहरणे शुद्धिस्तु सवानुभवसिद्धा १इति सा प्रतीता इत्यनयोर्भेदः । अत्र केचिदुपमानोपमेयभूतयोः चन्द्रहंसयोः प्रतीतशुद्धिरूपसमानधर्मयोः प्रतीयमानसौक्ष्म्यरूपसमानधर्माभ्यां वियदम्भोभ्याम् आधारतया चन्द्रहंसयोर्भेदः कृतः इति एकमेवोदाहरणं मन्यन्ते। तन्मते सदृश- १२ योर्व्यतिरेकः सदृशव्यतिरेकः इति समासः ॥१९५॥ पूर्वोदाहृतशब्दोपात्तसादश्यं सदृशव्यतिरेकोदाहरणं व्याचष्टे-पूर्वत्रेति। पूर्वत्र त्वन्मुखमित्युदाहरणे। शब्दवत् शब्दः समानधर्मवाचकः शब्दः सोस्मिन्नस्ति ३इति शब्दवत्। साम्यं फुल्लत्वादिकमस्ति। उभयत्नापि शब्दोपात्तप्रतीयमानसादृश्य- द्वयोदाहरणेपि। वैधर्म्यप्रतिपादकं भृङ्गनेत्नादि आदिशब्देन अम्बरतोयनक्षत्र- कुमुदानां संग्रहः । तुल्यम्। भ्रमल्लोलेति भिन्नशब्दाभ्यां प्रतिपादितस्यापि वस्तुतो- ६भिन्नस्य चाश्चल्यस्य उभयत्र विद्यमानत्वात् तयोस्तुल्यता। तथा अम्बरतोययोः शौक्ल्यादिना नक्षत्रकुमुदयोः मनोहराकारत्वेन च सादृश्यं ज्ञेयम्। तद् तस्मात् भेदकयोः सादश्यात् सदृशव्यतिरेकता बोद्धव्या ॥ १९६ ॥
१ सौक्ष्म्यादि°. क. २ वियदम्भसो: चन्द्रहंसयो: इत्येतयो: परस्परव्यत्यासः ब, ड, प, पुस्तकेष. ३इंसचन्द्रयो :. अ.
Page 230
व्यतिरेकोपसंहार: २११
अरत्नालोकसंहार्यमहार्य सूर्यरश्मिमिः। दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ १९७॥ संजातिव्यतिरेकोयं तमोजातेरिदं तमः । दृष्टिरोधितया तुल्यं भिन्नमन्यैरदर्शि यत् ॥१९८॥। ।। इति व्यतिरेकचक्रम् ॥
प्रसिद्धहेतुव्यावृत्या यत्किंचित् कारणान्तरम्।
सजातिव्यतिरेकमुदाहरति-अरत्नेति। रतालोकैः मणिकिरणैः संहार्य न भवतीति अरत्नालोकसंहार्यम् । सूर्यरश्मिभि: भानुगभस्तिभिः । अहार्यम् अनि- 3वार्यम्। यूनां तरुणानाम्। दृष्टिरोधकरं दर्शनसामर्थ्यनिरोधकम्। एनादशं यौवन- प्रभवं तारुण्यमदोत्पन्नं तमोस्ति । प्रसिद्धं तमस्तु रत्नज्योतिषा सूर्यप्रकाशेन च विनिवार्यमस्ति। तथा आबालस्थविराणां दृष्टिरोधकं भवति। अत्र दृष्टिशब्देन ६ज्ञानं तम:शब्देन मोहोपि सूच्यते। श्लेषवशादेव तमःशब्देन उपमानोपमेयभूत- तमोद्वयप्रतिपादनात् व्यतिरेकसामान्यलक्षणं संगत भवति। अत्र दृष्टिरोधकत्वेन साम्यम्। तच्च धर्मस्य शब्दप्रतिपाद्यत्वात् शाव्दम्। रत्नसूर्यादिभिरविनाश्यत्वं च असाधारणधर्मतया उपमेयमात्रवृत्ति। तदेव भेदकम्। उपमेयस्योत्कर्षाधायकं चेति ज्ञेयम् ॥। १९७ ।।
उदाहरणं व्याख्याय अलंकारं संगमयति-सजातीति। दृष्टिरोधितया दृष्टेरावरणतया। इदं यौवनप्रभवम् । तमः तमोजातेः तुल्यम्। तत् अन्यैः अरता- ३ लोकसंहार्यादिभि: असाधारणधर्मैः । भिन्नम्। यद् यस्मात् । अदर्शि अतः अयं सजातिव्यतिरेकः। अन्यैरिति बहुवचनेन दीपशिखादिभिरनपनेयत्वादयो साधारण- धर्मा: संग्राह्याः । तेन असाधारणधर्मद्वयस्यैवोपन्यासे कथं बहुवचनमिति शङ्का ६ परास्ता ॥ १९८ । अथ क्रमप्राप्तां विभावनामाह-प्रसिद्धेति। यत्र वैचित्र्ये। प्रसिद्धः लोक- प्रसिद्धः यो हेतुः कारणं तस्य व्यावृत्या अभावप्रदर्शनेन । यत्किंचित् किमपि
१ अवार्य. ब, ड, प. २ स्वजाति°. अ.
Page 231
२१२ काव्यादर्शे द्वितीय: परिच्छेद:
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥१९९॥
अप्रसादितशुद्धांम्ु जगदासीन्मनोहरम्॥। २०० ॥ 3अतिगूढं कविकल्पितं वा। कारणान्तरम् विभाव्यं फलोत्प्त्यनुपप्त्या सूक्ष्मेक्षिकया अनुसंधानीयम् वा। अथवा स्वाभाविकत्वं कृतपि विमर्शे कारणान्तराप्राप्तौ फलस्य वस्तुस्वभावेनैव संपद्यमानत्वम्। विभाव्यं चिन्तनीयम्। सा विभावना। एवं ६च प्रसिद्धहेतुव्यतिरेकसामानाधिकरण्येन अप्रसिद्धकारणस्वभावान्यतरप्रतीयमान- फलोत्पत्तिर्विभावनेति लक्षणं संपन्नम्। विभाव्यते फलोत्पत्त्यनुपपत्या विचार्यते कारणान्तरं फलोत्पत्तिस्वाभाविकत्वं वा यस्यां सा विभावना। प्रकाशकारादयस्तु- क्रियायाः प्रतिषेधेपि फलव्यक्तिर्विभावना । इति कारणाभावे फलोत्पत्तिवर्णनं विभावनामाह्डः । तत्र तु विभावनासंज्ञायाः अन्वर्थता न संभवति। कारणाभावश्च क्वचित् नजादिना साक्षात् क्वचिच्च कारणविरोधिन उक्त्या परंपरया प्रतिपादते। १२ विभावितं कारणान्तरं क्वचित् शाब्दं कचिदार्थ च भवति। एवमेव स्वाभाविकत्वस्य शाब्दार्थप्रमेदौ उदाहरणेषु तत्र तत्रानुसर्तव्यौ। ननु कारणाभावे कार्योत्पत्तौ स्फुरितस्य विरोधस्य प्रसिद्धातिरिक्तेन कारणेन परिहारात् विरोधाभास एवायमिति १५ चेन्। समबलयोः परस्परविरोधे तत्स्वीकारात्। इह हि कारणविरहेण कार्यमेव बाध्यत्वेन गम्यते न तु तेन कारणविरहः इति विशेषात् ॥ १९९॥
कारणान्तरविभावनामुदाहरति-अपीतेति । अपीताः मदिरापानम- कुर्वन्तोपि क्षीवाः मत्ताः कादम्बाः हंसविशेषाः यस्मिन् तत्। असंमृष्टमपि 3 अमार्जितमपि अमलं निर्मलम् अम्बरं यस्मिन्। अप्रसादितं कतकादिभिः अशो- धितमपि शुद्धं निर्मलम् अम्बु यस्मिन्। एतादशं मनोहरं जगदासीत् इत्यन्वयः । अत् क्षीबत्वामलत्वशुद्धत्वानां पानसंमार्जनप्रसादनादीनि प्रसिद्धानि कारणानि। ६तेषामभावेपि तादृशफलोत्पत्तिः वर्ण्यमाना प्रस्खलदूपतया कारणान्तरं अपेक्षमाणा शरत्कालरूपं कारणान्तरं विभावयति। तस्य चात्र शब्दाप्रतिपादत्वादार्थत्वं बोध्यम्। प्रसिद्धकारणाभावस्तु शाब्दः ॥ २०० ॥
१ असंसृष्टा. बपा. २ 'सूक्माम्बु. अ, कपा. ३ मनोरमम्, बपा.
Page 232
विभावनाया उदाहरणानि २१३
अनञ्चितासिता दृष्टिर्भ्रूरनावर्जिता नता। अरेज्ञितोरुणश्रायमधरस्तव सुन्दरि॥ २०१॥ यदेपीतादिजन्यं स्यात् क्षीवत्वाद्यन्यहेतुजम्। अहेतुकं च तस्येह विवक्षेत्यविरुद्धूता ॥ २०२॥ वक्तं निसर्गसुरि वपुरव्याँजसुन्दरम्। अकारणरिपुश्रन्द्रो निर्निमित्तासुहवँ स्मरः ॥ २०३॥
स्वाभाविकविभावनां निर्दिशति-अनज्जितेति। हे सुन्दरि तव दृष्टिः अञ्जनेन कज्जलेन अनञ्चिता अलिप्ापि। असिता नीला। भ्रूः अनावर्जिता अना- 3कृष्टापि। नता वक्रीकृता । अयमधरश्च अरञ्चितोपि लाक्षया अनक्तोपि। अरुण: रक्तच्छविः । अत्र असितनतारुणरूपाणि कार्याणि अञ्जनावर्जनरञ्जनस्वरूपैः प्रसिद्धैः कारणैरविना दर्शितानि। तानि च अनुपपद्यमानानि कारणान्तरमग्रति- ६पद्यमानानि स्वाभाविकत्वमेव विभावयन्ति । इति स्वाभाविकविभावनात्र ॥२०१॥।
उक्तोदाहरणद्वये विभावनालक्षणस्य संगति दर्शयति विरोधं च परिहरति- यदिति। प्रथमोदाहरणेन यत् वर्ण्यमानम्। मदिरापानादयजन्यम्। आदिना उत्तर- ३्लोकस्थानञ्जितादीनां संग्रहः। क्षीबत्वादि यत्। अत्र आदिशब्देन उत्तरश्लोक- स्थासितादयो ग्राह्याः । अन्यहेतुजं कारणान्तरजन्यम्। तञ्च कारणं शरदादिकम्। अहेतुकं च कारणं विना स्वतःसिद्धम्। स्यात् भवेद। इह उदाहरणद्ये। तस्य ६विवक्षा प्रतिपिणदयिषा। अस्तीति एवं प्रकारेण अविरुद्धता विरोधाभावः । अस्मिन्नलंकारे सर्वत्रापि कार्याशे अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणतया स्थिता। तस्मात् कारणाभावे कथं कार्योत्पत्तिः इति शङ्काया नोत्थितिः ॥२०२॥ शाब्दं स्वाभाविकत्वमुदाहरति-चक्त्रमिति । वदनं निसर्गसुरभि स्वभावसुगन्धि। न तु कर्पूरादिद्रव्यैरिति भावः । वपुः अव्याजेन अकृत्रिमतया 3सुन्दरं मनोहरम्। न तु भूषावस्त्रादिभिरिति भावः । अकारणरिपुः विरहिणां सहजशत्रुः । चन्द्रः । तथा निर्निमित्तासुहृत अकारणशत्रुः स्मरः मदनः ॥२०३॥
१ अर्जितारुण: अ. पत्यादि जन्म, अ, 3 •रत्यन्त°. अ. ४ सुहृत् स मे. अ.
Page 233
२१४ काव्यादर्शे द्वितीय: परिच्छेद:
निसर्गादिपदैरत्र हेतुः साक्षानन्निवर्तितः । उक्तं च सुरभित्वांदि फलं तत्ँ सा विभावना॥२०४।। । इति विभावनाचक्रम् ।। वस्तु किंचिद्भिप्रेत्य तत्तुल्यस्यान्यवस्तुनः । उदाहरणं विशदयति-निसर्गेति! अत्र सुरभ्यादयो धर्माः स्वाभाविका इति ते शाब्दाः। अतः शब्दस्वाभाविकेयं विभावना। लक्षणोक्तं प्रसिद्धहेतु- व्यावृत्तित्वमुदाहरणे दर्शयति-निसर्गादि इति । अत्र उदाहरणे। निसर्गादिपदैः निसर्गाव्याजाकारणनिर्निमित्तशब्दैः। हेतुः जान्यैकवचनम् । हेतवः । कर्पूरभूषण- मात्सर्यादयः । साक्षात् नञादिवाचकशब्दवत् स्वार्थेनैव। निवर्तितः अपसारितः । ६सुरभित्वादि सुरभिसौन्दर्यरिप्वसुह्ृदिति। फलं कार्यम्। उक्तं तैः निसर्गादिपदैः स्वाभाविकत्वेन कारथतम्। तत् तस्मात्। हेतुव्यावृत्तिपूर्वकस्वाभाविकत्वेन फलोत्पत्तेः प्रतितेः विभावना सुसंगतेति शेषः ॥ २०४॥
अथ क्रमप्राप्तां समासोक्तिं निर्वक्ति-वस्तु किंचिदिति। किंचित् किमपि। वस्तु प्रस्तुतं अप्रस्तुतं वा। अभिप्रेत्य चमत्कार सौभाग्यादिदिदर्शयिषया ३ व्यञ्जनया प्रतिपादयितुमभिलष्य। तत्तुल्यस्य वर्णनाभिप्रेतसदशस्य। वस्तुनः कस्य- चिद् अप्रस्तुतस्य प्रस्तुतस्य वा। उक्तिः कथनम्। समासोक्तिः। समासेन संक्षेपेण अर्थद्वयकथनात् उक्तिः समासोक्तिः। संक्षेपश्च एकस्य प्रयोगेणोभयार्थप्रतिपाद- ६नात् ज्ञेयः । तथाच प्रकृते प्रस्तुताप्रस्तुतयोरन्यतरस्य प्रयोगेण तदन्यस्य प्रतीतिः समासोक्तिः इति समासोकिलक्षणम्। एकस्य शब्देन प्रतिपादनेन्यस्य व्यञ्जनया बोधः चमत्कारविशेषमादधाति इति तदेवास्याः अलंकारबीजम्। यदुक्तं ध्वनि- कृता-वाच्यार्थो न तथा खदते ग्रतीयमानः स एव यथा। इति। भोजराजः उपमानाच्छाब्दादतिप्रसिद्धेरुपमेयस्य प्रतीति: इत्याह ॥ तथा च- यत्रोपमानादेवैतत् उपमेयं प्रतीयते।
१२ अतिप्रसिद्धेस्तामाड्डः समासोक्तिं मनीषिणः ॥ (४.४६.) इति। दण्डिनापि समासोक्तेः सर्वाण्यपि उदाहरणानि अप्रस्तुतवर्णनेन (उपमानवर्णनेन)
१ सुरभीत्यादि. अ. २ तस्मात्. बपा.
Page 234
समासोक्तिलक्षणम् २१५
उच्किः संक्षपरूपत्वात् सा सनासोक्तिरिण्यते॥२०५॥
प्रस्तुतार्थाववोधकान्येव दर्शितानि। तथापि उपमानवर्णनेनोपमेयार्थावगतौ यद्वै- १५ चित्रयं प्रतीयते न ततो न्यूनं उपमेयवर्णनेनोपमानार्थावगतौ वैचित्यं भवति इति वस्तुशव्देनास्माभि: द्वयो: संग्रहः कृतः। केचित्तु प्रस्तुतादप्रस्तुतावगता समासोक्तिः अप्रस्तुतात् प्रस्तुतावगतौ च अप्रस्तुतप्रशंसा इति एकस्यैव वैचि- १८त्र्यस्य उपन्यासप्रकारभेदेन अलंकारद्वयमाह्ुः । परं तन्न रुचिरम्। वैचित्र्य- विशेषाभावे ईदृशमेदकरणेलेकाराणामानन्त्यापत्तेः । नापि दण्डिना एवंविधा अप्रस्तुतप्रशंसा स्वीकृता। स तु ताम्-अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः। २१इति लक्षयति। न तत्राप्रस्तुतात् प्रस्तुतावगतेः कोपि संबन्धोस्ति। ततश्च एक- तरस्य वर्णने शब्दोपात्ते तदन्यप्रतीतिचमत्कारस्वरूपे प्रस्तुनेनाप्रस्तुतावगत्या अप्रस्तुतेन प्रस्तुतावगत्या वा दर्शिते तत्र सर्वत्र समासोक्तिरेव दण्ड्याचार्यस्य १ञअभिप्रेतास्तीति ज्ञेयम्। नैवं हि कल्पयितुं शक्यते यदुपमेयादुपमानप्रतीतौ न चारुतातिशयः इति । यत :- व्याधूय यद्वसनमम्बुजलोचनायाः वक्षोजयोः कनककुम्भविलासभाजोः । २७ आलिङ्गसि प्रसभमङ्गमशेषमस्माद्दन्यस्त्वमेव मलयाचलगन्धवाह ॥ इत्यादयुदाहरणेषु चमत्कृतेः स्पष्टत्वात्। काव्यप्रकाशकारादयस्तु प्रस्तुते वाच्ये अप्रस्तुतव्यवहारसमारोपः समासोक्तिः इति मन्यन्ते। अप्रस्तुतात् प्रस्तुतावगतौ ३० च अप्रस्तुतप्रशंसाम्। श्लेषालंकारे उपमाध्वनी च विशेषस्यापि उभयार्थवाचकता। अस्यास्तु केवलविशेषणानामेव तथात्वमिति ततो भेदः इति च तेषां विवेकः । एतदर्वाचीनसंमतसमासोक्तिवैचित्र्यविषये अप्पय्यदीक्षितैः सुगमपद्धत्या कुवलया- ३3नन्दे विवेचनं कृतमस्ति तदुपयुक्तमिति बुद्धया तदक्षरैरेवात्र निवेश्यते। अत्र (समासोक्तौ) प्रस्तुताप्रस्तुतसाधारणविशेषणबलात्सारूप्यवलाद्वा अप्रस्तुतस्य वृत्तान्तस्य प्रत्यायनं तत्प्रस्तुते विशेष्ये तत्समारोपार्थम्। सर्वथैव प्रस्तुतानन्वायनः ३६कविसरम्भगोचरत्वायोगात् । ततश्च समासोक्तौ अप्रस्तुतव्यवहारसमारोपश्चारुताहेतुः न तु रूपक इव प्रस्तुते अप्रस्तुतरूपसमारोपोस्ति । मुखं चन्द्र इत्यत्र मुखे चन्द्रत्वारोपहेतुचन्द्रपदसमभिव्याहारवत् रक्तश्रुम्बति चन्द्रमा इति समासोक्त्यु- ३९ दाहरणे चन्द्रादौ जारत्वाद्यारोपहेतोः तद्वाचकपदसमभिव्याहारस्य अभावाद्।
१ संक्षित्तं°. अक.
Page 235
२१६ काव्यादर्शे द्वितीय: परिच्छेद:
निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः । धारानिपातैः सह किं नु वान्तश्चन्द्रोयमित्यार्ततरं ररासे॥ इत्येकदेशविवर्तिरूपकोदाहरण इव प्रस्तुते अप्रस्तुतरूपसमारोपगमकस्याप्यभावात्। तत्र हि विद्युन्नयनैरित्यत्र निरीक्षणानुगुण्यात् उत्तरपदप्रधानमयूरव्यंसकादिसमास- व्यवस्थितात् उत्तरपदार्थभूतनयनान्वयानुरोधात् पयोदे अनुक्तमपि द्रष्टपुरुपरूपण r५गम्यमुपगम्यते। न चेह तथा निरीक्षणवत् त्वय्यागते किमपि वेपत एष सिन्धुः इति श्लोके सेतुकृत्वादिवच्च अप्रस्तुतासाधारणवृत्तान्तः उपात्तोस्ति। नापि क्रिष्ट- साधारणदिविशेषणसमर्पितयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः अप्रस्तुतवृत्तान्तस्य विद्यु- वन्नयनवत्प्राधान्यमस्ति । येन तदनुरोधात् त्वं सेतुमन्थनकृदित्यत्रेव प्रस्तुतनुक्तमपि अप्रस्तुतसमारोपमभ्युपगच्छेम। तस्माद्विशेषणसमर्पिताप्रस्तुतव्यवहारसमारोपमात्र- मिह चारुताहेतुः । यद्यपि प्रस्तुताप्रस्तुतवृत्तान्तयोरिह श्िष्टसाधारणविशषण- ५१समर्पितयोर्भिन्नपदोपात्तविशेषणयोरिव विशेष्येणेव साक्षादन्वयात् अस्ति सम- प्राधान्यम्। तथापि अप्रस्तुतवृत्तान्तान्वयानुरोधान्न प्रस्तुते अप्रस्तुतसमारोपोङ्गी- कार्यः । तथा हि यथा (अयमैन्द्रीमुखं पश्येत्यत्र) प्रस्तुतविशेष्ये अप्रस्तुतवृत्तान्त- ५ञस्यान्वययोग्यता। तथैव अप्रस्तुतेपि जारादौ नास्ति प्रस्तुतवृत्तान्तस्यान्वययोग्यता। एवं च समप्रधानयोः प्रस्तुताप्रस्तुतवृत्तान्तयोः अन्यतरस्यावश्यमारोपेभ्युपगन्तव्ये श्रुत एव प्रस्तुतेप्रस्तुतस्यारोपश्चारुताहेतुरिति युक्तम्। नन्वेवं सति- ५७ विशेषणानां साम्येन यत्र प्रस्तुतवर्तिनाम्। अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते॥ इत्यादीनि प्राचीनानां समासोक्तिलक्षणानि न संगच्छेरन्। प्रस्तुते ल्िष्टसाधारणा- ६० दिविशषणसमर्पितानुरागपूर्वकवद नचुम्बनाद्यप्रस्तुतवृत्तान्तसमारोपमात्रस्य चारुता- हेतुत्वाभ्युपगमेन विशेषणसाम्यकृतकामुकाद्यप्रस्तुतधर्मिव्यञ्जनानपेक्षणादिति चे- दुच्यते। स्वरूपतोप्रस्तुतवृत्तान्तस्यारोपो न चारुताहेतुः किंतु अप्रस्तुतकामुक- ६३त्वादिसंबन्धित्वेन अवगम्यमानस्य तस्यारोपः । तथाभृतस्यैव रसानुगुणत्वात्। न च तावदवगमने विशेषणपदानां सामर्थ्यमस्ति। अतः श्लेषादिमहिम्रा विशेषणपदैः स्वरूपतः समर्पितेन वदनचुम्बनादिना तत्संबन्धिनि कामुकादावभिव्यक्ते पुनस्त- ६६दीयत्वानुसंधानं तत्र भवति। यथा स्वरूपतो दृष्टेन राजाश्वादिना तत्संबन्धिनि राजादौ स्मारिते पुनरश्वादौ तदीयत्वानुसंधानमिति विशेषणसाम्येन वाच्योपस्का
Page 236
११७
पिवन् मधु यथाकार्म अ्रमर कुलाजे। अप्यसंनद्धसौरभ्यं पश्य कुस्बति छुड्मलम्॥ २०६॥ इति श्रौढाङ्गनावद्धरतिलीलस्य रागिण: । कस्यांचिदिह वालायामिच्छावृत्तिर्विभाव्यंत॥२०७॥ विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा।
रकस्य अप्रस्तुतव्यञ्जनस्यास्त्यपेक्षा। अत एव श्रिष्टविशेषणायामिव साधारण- ६९ विशेषणायामपि अप्रस्तुतव्यवहारसमारोपः इत्येव प्राचीनानां प्रवाद: । (व्यावता- :कुचभारमित्यादौ) कन्दुके व्यावल्गत्कुचभार त्वादिविशिष्टवनितासेव्यत्वस्य कामुक- संबन्धित्वेनैव समारोपणीयत्वात्। स्वरूपतः कन्दुकेपि तस्य सर्वेनासमारो- पणीयत्वात्। किं च सारूप्यनिबन्धनत्वेनोक्तायां समासोक्तौ अप्रस्तुतवृत्तान्त- स्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैव गम्यतया तेन रूपेण तत्र समारोपसिद्धेः अन्यत्रापि तथैव युक्तमिति युक्तमेव प्राचीनानां लक्षणमिति विभावनीयम्। ७५/ २०५॥
वाध्यात् व्यङ्गप्रतीतौ कार्यलिङ्गविशेषणानामन्यतमस्य साम्यं हेतुरिति प्रथमं कार्यसाम्यघटितां समासोक्तिमुदाहरति-पिबन्निति। भ्रमरः फुल्लपङ्कजे मधु पुष्परसम्। यथाकामं पर्याप्तम्। पिबन् असंनद्धसौरम्यं अपरिपक्कमधुसौगन्धम्। कुड्मलं कलिकाम् । चुम्बति पश्य ॥ २०६ ॥ इतीति। इति पूर्वोक्तवर्णितप्रकारेण। इह श्लोके। ग्रौढा यौवनसंपन्ना या अङ्गना तस्यां बद्धा ढढा रतिः अनुरागो येन तादृशस्य । रागिणः विलासेनु- ३रागिणः । कर्स्याचित् बालायाम् । इच्छावृत्तिः सुरताभिलाषप्रवृत्तिः । विभाव्यते व्यापारसाम्येन ध्वन्यते। अत्र अप्रस्तुतम्रमरव्यापारः फुल्लपङ्कजरसास्वादानन्तरं पङ्कजकोरकानुधावनं प्रौढाङ्गनाज्ञातास्वादस्य कामुकस्य अनुत्पन्नसंभोगाभिलाषायाः ६बालाया अनुसरणं ध्वनयति इति समासोकिः ॥२०७॥
विशेषणसाम्यघटितभेदां दर्शयति-विशेष्येति। विशेष्यमात्रं विशेष्य- पदमात्रं भिन्नं क्लेषाभावात् केवलमेकार्थबोधकं यत्र सा। तुल्यः समानः आकारः 3स्वरूपं येवां तानि तुल्याकाराणि क्लेपादिना प्रस्तुताप्रस्तुतार्थसंपादकानि विशे- [कज्यादर ] २८
Page 237
२१८ कव्दाइ्शे यः
अस्त्यसावपराप्या्ति भिन्नाभिन्नविशेषणा ॥ २०८॥ पणानि यत्यां सा रतादशी । असौ समासोकितरस्ति। अत्र श्लेषवशेन विशेष- धर्माणां साम्यम्। मिन्नामिन्नविगेषणा सिन्नानि एकमालानुसंवन्धीनि अभिन्नानि ६उभयानुसंबन्धीनि एवं विशेषणानि यस्यां सा। अपरा समासोक्तिरस्ति। अत्रापि विशेष्यमात्रभिन्नेत्यनुषज्यते। तच्च विशेष्यं प्रस्तुतमप्रस्तुतं वा भवेदिति पूर्व प्रपञ्चितमत्रानुसंधेयम्। विशेष्यपदस्य ल्लिष्टत्वे द्वयोः प्रस्तुतत्वे श्लेषालंकारः । द्वयोरेकतरस्य प्रस्तुतत्वे शब्दशक्तिमूलः उपमाध्वनिः इति ज्ञेयम्। भिन्नविशे षणानां व्यङ्गधर्मेण सह विम्बप्रतिबिम्वतया साम्यम्। श्लेषश्रात्न शब्दगतोर्थगत इति गृह्यते। तेन परैरङ्गीकृतं विशेषणसाधारण्यगर्भभेदान्तरं संगुहीतं भवति। २तत्र अर्थक्लेषावष्टब्धस्य विशेषणस्यैव साधारण्यात। यथा- विलखति कुचावुच्चैर्गाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसाम्। १५ क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हटानश्यन्तीनां तवारिमृगीदृशाम्।। इति। अत्र कुचविलेखनकचग्रहणादिविशेषणानामर्थक्लेषेण उभयार्थसाधारण्यात् सा- १८ धर्म्यम् । तेन च हठनायकप्रतीतिरस्तीति समासोक्तिः। तुल्याकारविशेषणत्वं औपम्यगर्भत्वे सारूप्ये च संभवति। अतस्तत्रापि समासोक्तिः। तत्रौपम्यगर्भत्वे यथा-
११ दन्तप्रभापुप्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देन सुवेशा हरिणेक्षणा॥ इति। अत्र प्रस्तुतार्थविशेषणे दन्तप्रभा पुष्पाणीव इत्यादय उपमितसमासाः। अप्रस्तु- २४तार्थे दन्तप्रभासदशैः पुष्पैः इत्यादयः समासाः । तेन च लतावृत्तान्तस्य परि- स्फूर्तेः समासोक्तिः । सारूप्ये यथा- पुरा यत्र स्रोतः पुलिनमधुना तत्न सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम्। बहोर्दष्टं कालादपरमिव मन्ये वनमिदं निवासः शैलानां तदिदमिति बुद्धिं द्रढर्यात।। इति।
Page 238
२१९
रूढसूला फलमरैः पुष्जधनिषमथिन:। तान्द्रच्छायो महावृक्ष: तोयमासादितो नया ॥२३९॥ अनल्पविटपाभोग: फलपुष्पससृद्धिमान। सोच्छाय: स्थैर्यवान् दैवादेष लब्धो मया द्रुमः ॥२१०॥ उभयत्र घुमान् कश्िद् दृक्षत्वेनोपवर्णितः। cअत्र वनसारूप्यात् कुटुम्बिषु धनसंतानादिसमृद्धयसमृद्धिविपर्यासं प्रप्तस्य ग्ररराम- नगरादेर्वृत्तान्तस्य प्रतीतेः समासोक्तिः ॥२०८॥
तुल्याकारविशेषणां समासोक्तिं दर्शयति-रूढमूल इति। रूढं प्रवृद्ध मूलं शिफा मूलधनं च यस्य सः। अनिशं अर्थिनः याचकान्। फलभरैः विविध- 3फलैः । तथा फलैः लामैः वाञ्छितार्थलामैः । पुष्णन्। सान्द्रा बहुला छाया अनातपः तथा वदनकान्तिर्यत्य सः । सोयं प्रसिद्धः । महावृक्षः मया आसादितः प्राप्तः। महावृक्ष इति विशेष्यपदं एकार्थमेव प्रस्तुतार्थानुसंबन्धि। अत्र सर्वाण्यपि ६ विशेषणानि तुल्याकाराणि। तेन चाप्रस्तुतस्य पुंस प्रतीतिः । इति समासोक्तिः । २०९ ॥
भिन्नाभिन्नविशेषणामेनामुदाहरति-अनल्पेति। अनल्पः बहुलः विट- पानां शाखानाम् आभोग: विस्तारो यस्य। फलानां पुष्पाणां च समृद्धिः वैपुल्यं अस्यास्तीति फलपुष्पसमृद्धिमान् । उच्छरायः उन्नतत्वं विभूतिमत्त्वं च तेन सहितः सोच्छायः । सुच्छाय इति पाठे सुष्टु शोभना छाया आतपाभावः प्रभा च यस्य सः इत्यर्थः । स्यैर्य दृढमूलत्वम् अन्यत्र निश्चयादचलनं तदस्यातीति स्थैर्यवान्। दैवात् भाग्यात्। एष द्रुमः मया लब्धः। अत्र स्थैर्यमूलादिधरमौं श्लेषभित्तिकया- भेदेनाध्यवसितौ इति समानौ । विटपफलादयश्च केवलं वृक्षमात्नानुगामिनोपि प्रतीयमानपुरुषगततत्सजातीय बहुपुत्रत्वधनधान्यसमृद्धित्वादिभिः बिम्बप्रतिबिम्ब- १भावेन एकार्थतामापन्नाः साधर्म्य भजन्ते । तथा च स्वैरपि विशेषणः अप्रस्तुतः पुरुषः प्रतीयते इति समासोक्तिः ॥ २१०॥ उभयत्र लक्षणं संगमयति-उभयत्रेति । उभयत्र पद्ययोः कश्चित्
: सुच्छाय: ब, क, ड, प.
Page 239
२२० काव्यादर्शे द्वितीय: परिच्छेद: सर्वे साधारणा धर्मा: पूर्वत्रान्यत्र तु दूयम् ॥ २११॥ निधृत्तव्यालसंसर्गो निसर्गमधुराशयः । अयमम्भोनिधि: कष्ट कालेन परिशुष्यति'॥२१२॥ इत्यपूर्वसमासोक्ति: पूर्वधर्मनिवर्तनात्। पुमान् वृक्षत्वेन वृक्षगतसाधारणविशेषणैः उत्थापितया व्यञ्जनया बोधितत्वात् 3 वृक्षोपमानतया वर्णितः । तत्र पूर्वश्लोके सर्वे धर्मा रूढमूलादयः विशेषणभूताः साधारणा श्रिष्टत्वेन एकरूपेणैव उभयान्वयिनः । अन्यत्र उत्तरश्लोके। तु दवयं विशेषणद्यमेव। सोच्छायत्वस्थैर्यवत्वरूपं साधारणम्। पूर्ववत् श्लिष्टत्वादभिन्नम् । ६ विटपादीनां साधारण्यं पुरुषगततत्सजातीयधमैर्बिम्बप्रतिबिम्बभावेन इति ज्ञेयम्। अन्यथा सादृश्याभावात् व्यञ्जनया अप्रस्तुतार्थानवगमने अपुष्टत्वदोषापत्तिः स्यात्। ततश्च समासोक्तिरपि सुसंगता न भवेत् ॥ २११ ॥ अपूर्वसमासोक्तिमुदाहरति-निवृत्त इति। निवृत्तः अपगतः व्यालानां एकत्र सर्पाणां अन्यत्र खलानां च संसर्ग: यस्मात्सः । निसर्गेण स्वभावतः एव ३ मधुराणां सुमिष्टानां जलानां आशयः आधारः अन्यत्र स्वभावतः एव मधुरः मनोहरः आशयः चित्तवृत्तिः यस्य सः । एतादृशः अयं अपूर्वः अम्भोनिधि: कालेन समयेन यमेन च। परिशुष्यति शोषं यास्यति विनाशं च गमिष्यति। कष्ट ६अतीव दुःखास्पदमेतत्। पूर्वोदाह्ृताभिन्नविशेषणसमासोक्तौ रूढमूलादीनि विशे- षणानि वास्तवानि । इह तु वास्तवगुणनिरोधपूर्वककल्पितानीति उभयो- र्भेंद: ॥ २१२ ॥ उदाहरणं विशदयति-इतीति। इति एतादृशी। अपूर्वसमासोकिः । कथमिति चेत् पूर्वधर्मनिवर्तनात् पूर्वो जगति समुद्रधर्मत्वेन प्रसिद्धौ धर्मौ व्याल संसर्गलवणजलरूपौ तयोः निवर्तनात् तद्विपरीतनिवृत्तव्यालसंसर्गत्वनिसर्गमधुरा- शयत्वरूपधर्मस्य वाच्ये अम्भोनिधौ निवेशनादिति भावः। तेन च प्रस्तुत- पुरुषस्य प्रतीति: इति समासोक्तिः । समासोक्तिहेतुं दर्शयति -समुद्रेणेति। समुद्रेण समानस्य निवृत्तव्याळत्वादिगुणैरिति भावः । पुंसः व्यापतिः नाशः तस्य सूचनात् इयमपूर्वसमासोक्तिः । अपूर्वाः पूर्वधर्मनिवर्तकाः कल्पिताः धर्माः १ परिशुष्यते. अ, ड, प.
Page 240
अतिभयोत्तिक्टणम् २२१
सम्ुद्रेण समानस्य पुंसो व्यापत्तिसू चनात् ॥२१३।।
। इति समासोक्तिचक्रम् ॥ विवक्षा या विशेषस्य लोकसीमातिवर्तिनी। असावतिशयोक्ति: स्यादलंकारेत्तमाँ यथा ॥ २१४ ॥ यस्यां सा अपूर्वसमासोक्तिः । एवं ग्रन्थकर्त्रा कार्यसाम्येन विशेषणसाम्येन समासोक्तिदर्शिता। लिङ्गसाम्योदाहरणं तुन प्रदर्शितम्। तत्तु निशामुखं चुम्बति चन्द्र एषः। इति । अत्र स्त्रीलिङ्गपु्लिङ्गाम्यां मुखचुम्बनरूपार्थसचिवाम्यां नायिकात्वं नायकत्वं च व्यज्यत एव। अन्यथा निशामुखं चुम्बति चन्द्रिकैषा। १२अथवा अहर्मुखं चुम्बति भानुबिम्बम्। इत्यनेनापि प्रस्तुतार्थप्रतीति: स्याद् । केवलं चुम्बतिपदोपादानेन समासोकिन संभवति। पुत्रादीनामपि चुम्बनसंभवातू। तस्मादत केवललिङ्गिनैव समासोक्तिः ॥२१३॥
अथ अतिशयोक्तिं लक्षयति-विवक्षेति। विशेषस्य प्रस्तुतवस्तुगतस्य। लोकसीमा लोकमर्यादा तां अतिवर्तते अलौकिकवर्णनेन अतिशेते सा। अत्यद्धुत- 3 वर्णनानुगा इत्यर्थः । या विवक्षा विवक्षया वर्णनम्। हेतुहेतुमतोरमेदबुद्धया प्रयोगः। असौ अतिशयोक्तिः । विवक्षायाः लोकसीमातिवर्तित्वं च परंपरया विशेष्यस्यैव। तद्वूर्णनेनैव चमत्कारस्यादयात्। एवं च प्रस्तुतस्य विशेषस्य अत्युत्कर्षस्य वर्णनं ६अतिशयोक्तिः । ननु एवं सति काव्यात्मभूतदशगुणान्तर्वर्तिकान्तिगुणस्य अस्यां असंभवः स्यात्। यतः स लौकिकार्थानतिक्रमत्वेन वर्णने एव भवति। तदुक्तं पूर्व-कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमाद्। इति। सत्यम्। तस्य वार्ताभिधानेष्वेव नियमेन सद्भावे नियमनात् अन्यत्र अतिशयोक्तौ तदभावेपि न दोषः । अपर च इयमतिशयोक्तिः विशेषः धर्मविशेषः तस्यैव आघिक्येन वर्णने भवति न तु धर्मिणः। कान्तिगुणस्तु लौकिकार्थानतिक्रमेण वर्णनं धर्मिण एवा- १२पेक्ष्यते इति उभयोर्विषयमेदः । अनयैव दिशा वक्ष्यमाणोदात्तालंकारस्यापि विषयभेदो बोद्धव्यः । अत्र प्रस्तुतोत्कर्षवर्णनं अग्रस्तुतेन अभेदाध्यवसानादिना ज्ञेयम्। असौ अतिशयोक्तिः अलंकारेषु उत्तमा । यतः अलंकारः वैचित्र्याधीनः ।
१ द्र तत्समा°. अ. २ वर्तिनः ब. ३ रोतमो. अ.
Page 241
२२२ काव्यादशें द्वितीय: परिच्छेद:
मल्िकामालभारिण्य: सर्वाङ्गीणार्द्रचन्दनाः। क्षौमवत्यो न लक्ष्यन्ते ज्योत्सायामभिसारिकाः ॥२१५॥
१५तच्च वैचित्रयं ग्रायः अतिशयवर्णनाधीनम्। अतः सर्वालंकारजीवितेश्वरी इयम् इति भावः । वामनः संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिरित्याह। उभौ यदि व्योषि इत्युदाहरति च । विस्तरस्तु तत एवाधिगन्तव्यः । प्रकाशकारस्तु- निगीर्याध्यवसानं तु प्रकृतस्य परेण यत्। प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् । कार्यकारणयोश्चैव पौर्वापर्यविपर्ययः।
२१ विज्ञेयातिशयोक्ति: सा इति चतुर्विधां भिन्नस्वरूपामेव अतिशयोकिं वर्णयति। अर्वाञ्चस्तु सर्वे तमेवातु- सरन्ति ॥ २१४॥
उदाहरणमाह-मल्लिकेति । मल्लिकानां माधवीपुष्पाणां माला ताः बिभ्रति तच्छीला: मल्लिकामालभारिण्यः । इष्टकेषिकामालानां चिततूलभारिषु इति ३मालाशब्दस्य हस्वः । सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्। तत्सर्वादेः पथ्यङ्गकर्म- पत्रपात्रं व्याप्रोति इति खः । सर्वाङ्गीणं आई चन्दनं यासां ताः । क्षौमवत्यः सितदुकूलधारिण्यः । अभिसारिकाः कान्ताभिसरणशीलाः। तदुक्ततं दशरूपके- ६ कामाताभिसरेत्कान्तं सारयेद्वाभिसारिका। इति। ज्योत्स्नायां न लक्ष्यन्ते स्फुटं न ज्ञायन्ते । अत्र प्रस्तुता ज्योत्स्ना तस्याः श्वेतत्वं मल्लिकादिश्वेताभिन्नतया वर्ण्यमानं समधिकं प्रतीयते। अथवा तादृशज्योत्स्ावत्यां रजन्यां तादृशनायि- कायाः अलक्ष्यत्वासंभवपि तत्कथनात् प्रस्तुतज्योत्स्नाया उत्कर्षः प्रतीयते इति अतिशयोक्तिः । अत्र प्रकाशकारादयः मीलिताभिधमलंकारं मन्यन्ते -- समेन लक्ष्मणा वस्तु वस्तुना यन्निगु्यते।
१२ निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ इति हि तल्लक्षणम् ॥ २१५॥
१ °कामाल्यधारिण्यः, अ; बपा, २ ङ्गेणार्द्र०. बपा.
Page 242
अतिशयोकत्युदाहरणानि २२३
चन्द्रातपस्य बाहुल्यतुत्तसुत्कवित्तया। संशयातिशयादीनां व्यवत्यै किंचिन्निदव्यते: २१६। स्तनयोर्जघनस्यापि मध्ये मध्यं त्रिये तव। अस्ति नास्तीति संदेहो न मेद्यापि निवर्तते ॥ २१७ ॥ निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथानुपपत्यैव पयोधरभरस्थितेः ॥ २८॥
उदाहरणे लक्षणं योजयति -- चन्द्रातपस्येति। पूर्वोदाहरणे चन्द्रातपस्य ज्योत्स्नायाः श्वेतिम्नः। बाहुल्यं वैपुल्यम्। उत्कर्षवत्तया मल्लिकादीनां श्वेतिम्नो 3भिन्नतया। उक्तम् । तेन सा अतिशायेक्तिरिति शेषः । भेदान्तरं दर्शयति- संशयेति। संशयेन अतिशयः संशयातिशयः । संशयेन प्रस्तुतोत्कर्षवर्णनमित्यर्थः। आदिना निर्णयादीनां संग्रहः। व्यक्त्ये स्पष्टीकरणाय। किचित्संक्षेपेण। निदश्यते ६उदाहियते ॥ २१६ ॥ उदाहरति-स्तनयोरिति । हे प्रिये तव स्तनयोः तुङ्गोन्नतकुचयोः । जघनस्य रथाङ्गसदृशविपुलस्य। मध्ये अन्तराले। मध्यं अवलग्नम्। अस्ति नास्तीति ३ मे संदेहः अद्यापि न निवर्तते। तस्यातिसूक्ष्मत्वादिति भावः । अत्र एतादृश- संशयस्य असंभवेपि तत्कल्पनात् मध्यकृशत्ववर्णनस्य अतिशयो भवति इति संशयातिशयोकिः ॥२१७॥
निर्णयातिशयोक्तिमुदाहरति-निर्णेतुमिति। हे नितम्बिनि प्रशस्त- नितम्बशालिनि। पयोधरभरस्य कुचविस्तारस्य स्थितिः अवस्थानं तस्याः । अन्यथा- नुपपत्त्यैव विनाश्रयं अवस्थानासंभवादेव। तव मध्यम् अवलग्नम्। अस्तीति निर्णेतु शक्यम्। अत्र विस्तृतपयोघराणां निरवलम्बनस्थित्यनुपपत्या मध्यकल्पनाया अ- संभवितत्वेन तत्कल्पना। तया च मध्यस्य कृशत्वं सविशेषं वर्णित भवति इति ६अतिशयोक्तिरियम् ।। २१८।।
१ व्यक्तौ. ड, प. २ मध्यमस्तीति शक्यं. अ, "था नोपपदेल, ब, क, ड, प. ४र सिथति. भ, कै, ड, प,
Page 243
२२४ काव्यादरो द्वितीय: परिच्छेद:
अहो विशालं भूपाल अुंवनत्रितयोदरस्। माति मातुमशक्योषि यशोराशिर्यदत्र ते ॥२१९॥ अलंकारान्तराणामप्ये्कमाहुः परायणम्। आश्रयाधिक्ये अतिशयोक्तिं दर्शयति-अहो इति। हे भूपाल भुवन- त्रितयोदरं भुवनत्रितयाभोगः । विशालं विस्तृतः । अहो इति आश्चर्ये। कुतः एवं 3विस्तृतमिति चत्तदर्शयति-मातीति। यद्यस्मात्। अत्र भुवनत्रितयोदरे। मातुं निवेशयितुम्। अशक्योपि ते यशोराशिः माति साकल्येन प्रविष्टो भवति। अत्र आश्रयीभूतस्य त्रिभुवनोदरस्य विशालताप्रतिपादनेन तत्स्थस्य यशोराशेर्राप ६ आधिक्यद्योतनादाधिक्यातिशयोक्तिरियम्। नव्यास्तु -- महतो यन्महीयांसावाश्रिताश्रययोः क्रमात्। आश्रयाश्रयिणौ स्यातां तनुत्वेप्यधिकं तु तत् ।। इत्यत्र अधिकालंकारं मन्यन्ते। विषयस्य निगरणपूर्वक विषयिणोध्यवसाना- च्चमत्कृतिविशेषेपि इमां अर्वाचीना: खीकुर्वन्ति। यथा- वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्या
१२ सोपानालीमधिगतवती काञ्चनीमैन्द्रनीलीं। अग्रे शैलौ सुकृतिसुगमौ चन्दनच्छन्नदेशै। तत्रत्यानां सुलभममृत संनिधानात् सुधांशोः ॥इि। १५ अत्र वाप्यादिशब्दैर्नाभिप्रभृतयो निगीर्णाः । विशेषप्रपश्चस्तु प्रकाशे कुवलया- नन्दे च द्रष्टव्यः । विस्तरभयादस्माभिर्विरम्यते ॥ २१९॥ अतिशयोक्तिं प्रशंसन्नुपसंहरति -- अलंकारान्तराणाममिति। वागीशः वाचस्पतिः तेन महितां पूजितां परमश्रेष्टामितिभावः । अतिशयाह्रयां अति- 3 शयोक्तिम्। इमां अलंकारान्तराणां न केवलं लोकसीमातिवर्तिनो विशेषस्य वर्णने एवेयम् मता। अपि तु विविधालंकाराणामपि। एकं परायणम् परमाश्रयम्। आहुः। तदुक्तं भामहेन -- इत्येवमादिरुदिता गुणातिशययोगतः । ६ सर्वेवातिशयोक्तिस्तु तर्कयेत् तां यथागमम्।।
१ भवन, अ. ३ मप्याहुरेकं. अ.
Page 244
उत्प्रक्षालक्षणस् २२५
॥। इत्यतिशयोक्तिचक्रस्॥ अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा। सैषा सर्वैव वक्रोक्तिरनयार्थों विभाव्यते। यत्नोस्यां कविना कार्यः कोलंकारोनया बिना ॥इति। अलंकारो नाम शब्दार्थयोवैचित्रयम्। तच्च अतिशयोक्त्यधीनम्। अनः सर्वालंकारेषु सामान्यतः अतिशयोक्तिर्वर्तत एव। परं तत्तद्वैचित्र्यवैशिष्टयेन तत्तदलंकारव्यप- १५देशः । यत्र व्यपदेशो नास्ति तत्र सामान्यवैचित्र्यस्य सद्भावादतिशयोक्त्य- लंकृतिरसयेव । एवं च अतिशयोक्किः सर्वालंकारवीजभूता इति सिद्धान्तः । तदुक्तम् -- कस्याप्यतिशयस्योक्तिरित्यन्वर्थवि चारणात्। प्रायेणामी अलंकारा भिन्ना नातिशयोक्तितः ॥ इति। अलंकारान्तराणामपि इत्यत्र अपिशब्देन अतिशयोक्युदाहरणेषु अलंकारान्तगणां २१समुच्यः सूचितः । तथा हि मल्लिका इत्यादौ समान्यं स्तनयोर्जघनस्यापि इत्यादौ संदेहः निर्णेतुं शक्यमित्यादौ निश्चयः अहो विशालमित्यादौ अधिकम् एते अलंकाराः अन्यैरुक्ता ज्ञातव्या इति प्रेमचन्द्रशर्माणः । परमत्र आचार्य- २४दण्डिना असंगृहीतानां सामान्यनिश्चयाधिकाद्यलंकाराणां संग्राहकः अपिशब्द: कथं स्यादिति न जानीमः । अतोयमपिशब्दः सामान्यतः अलंकारान्तरसूचकः इति भाति ।२२० ।।
अथ उत्प्रेक्षां लक्षयति-अन्यथैवेति । चेतनस्य अथवा इतरस्य अचे- तनस्य। प्रस्तुतस्य। अन्यथैव अन्येनैव प्रकारेण उत्प्रेक्ष्यमाणप्रकारादन्यप्रकारेण 3 स्वाभाविकत्वेन । स्थिता वृत्तिः विद्यमाना गुणक्रियास्व्रूपा वृत्तिः । यत्र वैचित्रये। अन्यथा अन्यस्रूपेण वास्तवरूपमपहाय अप्रस्तुनस्वरूपेण। उत्प्रेक्ष्यते संभाव्यते। तां उत्प्रेक्षां विदुः। उत्कटा प्रकृष्ठा प्रस्तुतस्य ईक्षा उत्प्रेक्षा इति योगाथ:। ६उक्तं हि प्रकाशे -संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् (१०. १३७)। इति। उत्कटैककोटिक: संशयः संभावनम्। अप्रस्तुतकोटेरुत्कटत्वं च प्रस्तुत- [काव्यादर्श] २९
Page 245
२२६ काव्यादश द्वितीय: पाच्छद:
अन्यथोत्प्रेक्ष्यते यत्र तासुत्प्रेक्षां विदुर्यथा॥२२॥ मध्यंदिनार्कसंतप्त: सरतीं गाहते गजः ।
काटिनिगरणेन। निगरणं ि कचित् प्रस्तुतस्यानुपादानेन क्वचिच्च तस्य तिर- स्करणेन / तदुक्तम्-
अधःकरणमात्रेण निगीर्णत्वं प्रचक्षते ॥। इति। ५२अत्र आहार्यसंभावनमपेक्ष्यते तेन- रामं म्विग्धघनश्यामं विलोक्य वनमण्डले। प्रायो धाराधरोयं स्यादिति नृत्यन्ति केकिनः । १५इत्यादौ नोतप्रेक्षा। रूपके निश्चयेनावधारणात् संभावना नास्ति। अतो न तत्रोपेक्षा। संदेहे समकोटिकः संशयः वर्तते। अत्र तु अप्रस्तुतकोटिकः इति ततो भेदः । अत्र अलंकारसामान्यं वैचित्र्यमपेक्ष्यते एव। तेन नूनं अनेन १८स्थाणुना भाव्यम् इत्यत्र नायमलंकारः । यत्र उत्प्रेक्षाकारणं न विन्यस्यते तत्र सत्यामपि संभावनायामुत्प्रेक्षां न मन्यन्ते। यथा-लोकोत्तरप्रभावं त्वां मन्ये नारायणं परम् । इति । अत्र लोकोत्तरप्रभावस्य नारायणत्वव्याप्यतायाः अ- २१संभवः । अनेन प्रायो नारायणेन भवितव्यम् इति केवलसंभावनायां नायमलं- कारो भवति। इयं च उत्प्रेक्षा मन्ये शङ्के इत्यादिबोधकपदानां सद्भावे वाच्या। अन्यथा व्यङ्गया इति बोध्यम्। इयं च अर्वाचीनैः बहुप्रकारत्वेन वर्णिता। परं २४गौरवभयादस्माभिस्ततो विरम्यते ॥२२१ ॥
सामान्यलक्षणे चेतनस्येतरस्य वा इत्युक्तम् । तत्र चेतनगतां उत्प्रेक्षा- मुदाहरति-मध्यंदिनेति। दिनस्य मध्यं मध्यंदिनं तत्संबन्धी योर्कः तेन संतप्तः 3मध्याह्हसूर्यकिरणसंत्रस्त इति यावद । गजः सरसीं गाहते अवतरति। सः मार्तण्डगृह्याणि सूर्यपक्षाश्रितानि। पदास्वैरिवाह्यापक्षेषु च इति ग्रहे: क्यप्। पद्मानि उद्धर्तु उन्मूलयितुम्। उद्तः संनद्धः । इति मन्ये शङ्के। अत्र सचेतनस्य इगजस्य स्नानपानादर्थ सरोवतरणं सूर्यवैरनिर्यातनार्थमिति कविना संभाव्यते।
१ यत्त. बपा.
Page 246
उत्प्रक्षोदाहरणनि २२७
मन्ये नातेण्डगयाि पद्मान्युंद्धदुदुयद्ष ॥२०२॥ स्नातुं पातुं विसान्यचुं करिनो जलनाहनम् तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥ २२३॥ कर्णस्य भूपणमिदं ममायतिविरोधिनः । इति कर्णोत्पलं प्रायस्तव दृष्टचा विलङ्ग्यते ॥२२४॥
अतः उत्प्रेक्षा। अत्र केचित् प्रत्यनीकालंकारमुद्भाव्य संकरं ब्रुते। प्रत्यनीका- लंकारलक्षणं तु- 5 प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि। तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः ॥ इति। परं नैतत् समञ्जसम्। आचार्यदण्डिना तस्यास्वीकाराद्। अपरं च अत्र कविना तत्पक्षोद्वरणस्य संभावनामात्रेण कल्पितत्वेन प्रतीकारस्य तात्विकवर्णनं कवे: नाभिप्रेतम्। यत्र तु तत्पक्षापकारः वास्तवः कवेरभिप्रेतः तत्रैव सोलंकारः इति विचार्यम् ॥ २२२॥
उदाहरणे उत्प्रेक्षां योजयति-सातुमिति। स्त्नातुं पातुं बिसानि अत्तुम्। सवत्र तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् इति तुमुन्। स्नानाय पानाय बिस- ३भक्षणाय करिणः जलगाहनं जलावगाहः । तस्य सूर्यस्य यद्वैरं तस्य निष्क्रियाय निर्यातनाय। कविना उत्प्रेक्ष्य संभाव्य। वर्ण्यते । अयमत्राशयः । अस्मिन् पद्े गजस्य स्नानपानादयर्थमवतरणं कविना सर्यपक्षीयपद्मोद्दरणाय संभावितम् । ६तत्कारणं मध्यंदिनार्कसंतापः सोपि उपन्यस्तः । उत्प्रेक्षावाचको मन्ये इति शब्द: प्रयुक्तः। उत्प्रेक्षाविषयश्च सरोवगाहनं तदपि वर्णितम्। इति संपूर्णा उत्प्रेक्षासामग्री वर्तते ॥ २२३॥
अचेतनगतामुत्प्रेक्षामुदाहरति-कर्णस्येति। इदं कर्णोत्पलं मम नेत्रस्य आयतिः विस्तारः तस्य विरोधिनः प्रतिरोधकस्य। कर्णस्य भूषणं इति हेतोः । 3 कर्णोत्पलं तव दृष्टया त्वन्नयनेन । विलङ्मयते स्वतेजसा अतिशय्यते। अत्र प्रायः-
१ मार्ताण्ड. अ, क्र. २. न्याहर्तुम्, अ. 3 उत्सुक: अ, कपा. · लिरोधिन: अ, क.
Page 247
२२८ काव्यादर्शे द्वितीय: परिच्छेद:
आपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम् । सैपृश्यते वा ने वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते ॥ २२५॥ लिम्पतीय तमोङ्गाननि वर्षतीवाञ्ञनं नभः । पदम् उत्प्रेक्षावाचकम्। आकर्णायतायाः दृष्टेः सौन्दर्यप्रभाभिः कमलव्यापन स्वविरोधिकर्णभूषणस्य उत्सारणे कल्पितमिति उत्प्रेक्षा। विरोधकारिण स्वायति- ६विरोधकारिणमिति ज्ञेयम् ॥२२४॥
उदाहरणं व्याख्याति-अपाङ्गेति । अपाङ्गभागपातिन्याः नेत्रप्रान्त- गामिन्याः । दृष्टे: चक्षुषः । अशुभिः नीलकिरणैः। उत्पलं कर्णनीलोत्पलम्। स्पृश्यते 3वा न वा स्पृष्ट भवेन्न वा। कर्णस्य विदूरत्वात् दृष्टेश्व नेत्रप्रान्तगामित्वादिति दृष्टिकिरणसंपर्क: असंभवी अपि कविना केवलं स्वकल्पनया तद्विषयत्वेन स्थिरीकृत्य चमत्कारप्रतिपिपादयिपया उत्प्रेक्षितः । पूर्वश्लोके चेतनस्य क्रिया उत्प्रेक्षाविषयीकृता अत्र तुअचेतनस्य गुणः उत्प्रेक्षाविषयीकृतः। प्रस्तुतस्वरूपस्य विषयत्वं यथा- बालेन्दुवक्राण्यविकासभावाद्वमुः पलाशान्यतिलोहितानि। सदो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ अत्र पलाशकुसुमानां वक्रलोहितत्वेन संबन्धेन निमित्तेन सदःकृतनखक्षततादात्म्य- संभावना उक्तविषया स्वरूपोत्प्रेक्षा। इवादीनामप्रयोगे गम्योत्प्रेक्षा यथा-त्वत् १३ कीर्तिर्भ्रमणश्रान्ता विवेश स्वर्गनिम्नगामिति । विस्तरस्तु दर्पणादौ द्रष्टव्यः । । २२५ ।
मन्ये शङ्के घरुवं प्रायः इत्यादयः शब्दा उत्प्रेक्षावाचकाः । इवशब्दः उप- माघाचकः । अतः तत्प्रयोगे सर्वत्र उपमैव। तथैत्र उपभेये एव उपमानस्य उत्कट- कोटिकसंशये उत्प्रेक्षा इत्युभयमपि पक्ष दुदूषयिषुराह-लिम्पतीति। वर्षा- कालीन कृष्णपक्षीयनिशामुखवर्णनमेतत्। तमः अङ्गानि लिम्पतीव । नभः अञ्ञनं कज्जलम्। वर्षतीव। इतीदमपि एतत् प्राचीनपद्यार्घम्। भूयिष्ठ वैपुल्येन। उत्प्रेक्षाया कक्षणेन अन्वितं युक्तम्। अत्र अचेतनस्य तमसः व्यापनरूपो धर्मः लेपनेन
१ स्पृश्येत, अ. ३ न वैवं तु. अ.
Page 248
२२९
सभावितः । तथा तस्यैव तमसः अधःप्रसरणरूपो वर्मः नभःकर्तृकाञ्जनवर्षण- रूपेण संभावितः । उभयत्रापि विषयस्य व्यापनाधःप्रसरणरूपम्य अनुदादानं समानम् । इयांस्तु भदः । प्रथमोदाहरण तमःकर्तृकाङ्गव्यापनं स्वतःसंभवि। द्वितीय नभ:कर्तृकाञ्जनकर्मकाधःप्रसरणं कविकल्पितम् । इवशब्दः-दूरे वसन देवदत्त इव भाति अयम् इत्यादो संभावनायां प्रसिद्धः । तथा च इयमुत्प्रेक्षैव १२ नोपमा। अत् प्राचीना :- लिम्पतिपदेन गौरयमितिवत् साध्यवसानलक्षणया उप- मेयभूत व्यापनं उपस्थितं भवति। एवं वर्षतिपदेन उपमेयभूताघःप्रसरणमिति। तच्च व्यापनमधःप्रसरण च मलिनीकरणादिसादृश्यनिमित्तेन लेपनवर्षणरूपेण संभा- १५वितम् इति उपात्तविषया क्रियास्वरूपोत्प्रेक्षा ॥ परे तु तमसः व्यापनरूपो विषयः लेपनत्वेन संभावितः अधःप्रसरणविषयश्च नभःकर्तृकवर्षणेन इति उभय- त्रापि विषयस्य अनुपादानमेव। तथा चेयं अनुपादानविषया स्व्रूपोत्प्रेक्षा । १eउभयमतेपि उपमानेन उपमेयस्य संभावनं उत्प्रेक्षा इति सादृश्यमूलिको प्रेक्षा इति निश्चयः । तथा च एते वदनकमलेन बाले स्मितसुषमालेशमावहसि यदा।
३१ जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥ इत्यत्र उत्प्रेक्षां न स्वीकुर्वन्ति। अत्र हि स्मितस्य संभावनोत्थापकत्वेपि जग- द्विजयरूपविषयविषयिसाधारणत्वाभावः । आचार्यदण्डिनस्तु औपम्यमूलिकेव २उत्प्रेक्षा इति न कथयन्ति न वा तद् सूचयन्ति इति तेषां मतेन उपरिदर्शितो- दाहरणे उत्प्रेक्षव। एवमेव- पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्। तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ इत्यत्र स्वरूपोत्प्रेक्षेव। तथाहि अत्र तरङ्गाग्रैः फेनचन्दनस्य संचारणं पेषणेन
इन: प्राकू- असत्युरुषसेवेव दृष्टिर्निष्फलनां गता ।। पिनष्टीव तरङ्गग्रेरुदिः फेनचन्दुनम् । तदादाय करैरिन्टुर्र्िम्पतीव दिगङ्गन्नाः ॥। इति सांर्धपद्य अ पुस्तके दृश्ष्यने।
Page 249
२३० काव्यादर्शे द्वितीय: पररिच्छेद:
नोपमानं तिडन्तेनेत्यतिक्रम्यापभाषितम् ॥ २२७॥ उत्प्रेक्षितम्। समुद्रोत्थितस्य चन्दनस्य समुद्रपूरे प्रसृतानां कराणां दिक्षु व्यापन ३० च समुद्रोपान्तफेनचन्दनकृतलेपनत्वेन उत्प्रेक्ष्यत। उभयत्र क्रमेण समुद्रोपान्तगत- फेनचन्दनपुञ्जीभवनं दिशां धवलीकरणं च निमित्तम् इति उत्प्रेक्षा। इत्यलं पल्लवितेन ॥ २२६ ॥।
इतःपरं अस्मिन् लोके उपमावादिन: खण्डनं सप्रपञ्चं निरूपयति- केषांचिदिति। केषांचित् इवशब्दः संभावनायामपि वर्तते तथा नोपमानं 3तिडन्तेन इति तिङन्तस्य उपमानत्वनिषेधोस्ति इति अजानताम् । अत्र लिम्पती- तिक्लोके। इवश्रुत्या इवशब्दश्रवणेन । उपमाभ्रान्तिः यथा कमलमिव मुखम इत्यादौ उपमा तद्वदत्रापि उपमा इति भ्रमः जायते। भ्रान्तिमुपापदयति नोपमान- मिति। तिडन्तेन तिडन्तशब्दप्रतिपाद्येन। न उपमानम् उपमानबोधो नास्ति। तिडन्तप्रतिपाद्यस्य साध्यत्वात् सिद्धस्यैव उपमानत्वादिति भावः। तदुक्त- सिद्धमेव समानार्थमुपमानं विधीयते। तिडन्तार्थस्तु साध्यत्वादुपमानं न जायते। इति। तिडन्तार्थस्य तु उपमेयत्वम् अस्त्येव क्वचित्। यथा-ब्राह्मणवदधीते क्षत्रियः इत्यादौ। तिडन्तसमभिव्याहृतस्य इवशब्दस्य संभावनाबोधकत्वमेव। रोदतीव १२ पठति नृत्यतीव गच्छति इत्यादौ नोपमा किंतु उत्प्रेक्षैव। आप्तभाषितम् आप्तः भगवान् पतञ्जलिः तस्य भाषितम् । तदुक्तं भगवता पतञ्जलिना धातोः कर्मणः इत्यादिसूत्रे (३.१.७) -- न तिडन्तेन उपमानमस्तीति। अत्र कैयटः-किंतु १५ तत्र संभावनार्थकः इवशब्दः इति। अयं भावः । यत्परा इवादिशब्दाः तदेव उपमानम् इति आलंकारिकसिद्वान्तादत्रोपमास्वीकारे लिम्पतिः वर्षतिश्च उपमाने स्यातां न तु तमो नभो वा। लिम्पतीत्यादेस्तिडन्तस्य तु उपमानत्वं भाष्यकारै- १८ निषिद्धम् । तच्च प्रमाणसिद्धमिव युक्तिसिद्धमपि। तथा हि-वाक्ये तिडन्तप्रति- पाधस्य साध्यत्वमिति सर्वसंमतम् । सिद्धस्यैव च उपमानत्वम् इत्यपि निर्वि- बादम्। अतः साध्यस्य उपमानत्वासंभवात् लिम्पतीत्यादीनि तिङन्तानि उपमानानि २१भवितुं नैवाईन्ति । तथा च तत्परः इवशब्द: नोपमावाचकः किंतु संभावना-
Page 250
लिम्पतीवल वदाह: अविवेचनन २३१
उपमानोपसयत्वं तुल्यधर्मव्यपेक्षया। लिम्पतेस्तमसथ्ासौ धर्मः कोत्रे समीक्ष्यते ॥२२८॥ यदि लेपनमवेष्ट लिम्पतिर्नाम कोपरः। वाचकः इति अत्रोत्प्रेक्षैव युक्ता। इति प्रमाणयुक्तिपरिगृद्दीतेयमुत्प्रेक्षा इति ज्यम् ।।२२७ ।
उपमानङ्गीकारे युक्त्यन्तरमपि भवतीति दर्शयति-उपमानोपमेय- त्वमिति। उपमानोपमेयत्वम् उपमानोपमेयभावः । तुल्यधर्मव्यपेक्षया समानधर्मा- ३पेक्षया। भवति। अयं भावः । उपमानोपमेयशब्दौ हि संबधिनौ। तौ हि समानधर्मसंबन्धमपेक्ष्यैव सत्तां प्राप्नुतः । तथा हि सादृश्यप्रतियोगि उपमानम् अनुयोगि उपमेयम्। एवं च उपमानोपमेयत्वं तुल्यधर्मसापेक्षम्। तुल्यधर्मस्य ६अप्रतीतौ तन्नैव संभवति। अत्र प्रस्तुतोदाहरणे। लिम्पतेः लिम्पतीति तिडन्तार्थस्य। तमसश्च धर्मः समानधर्मः । कः समीक्ष्यते ज्ञायते न कोपीत्यर्थः। उभयानुगत- घर्मस्याप्रतीतेरनात्रोपमालंकारः ॥ २२८॥ अन्यकल्पितं लेपनरूपं समानधर्म दूषयति-यदीति। यदि लेपन- मेवेष्टं तमोलिम्पत्यर्थयोः साधारणधर्मतया लेपनमेव इष्टम्। तमसः आवरकतया ३गौणलेपनत्वेपि धर्मयोः बिम्वप्रतिबिम्बभावेन ऐक्यात् साधारण्यं स्वीकृत्येति भावः । तर्हि लिम्पतिः लिम्पतिपदप्रतिपाद्यः उपमानरूपो धर्मी अर्थः कः । न कोपीत्यर्थः । वैयाकरणा हि भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि इति ६यास्कोक्त्या घात्वर्थक्रियायाः एव प्राधान्यं मन्यन्ते। तदुक्तम्- फलव्यापारयार्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिडर्थस्तु विशेषणम् ॥ इति। अस्यार्थः । देवदत्तो गच्छतीत्यादौ गमिघातोः फलम् उत्तरदेशसंयोगः। व्यापारस्तु तदनुकूलगमनात्मकः । एतदुभयार्थबोधकः गमिधातुः । अत्र स्मृतः इति वचन विपरिणामेन योज्यम्। आश्रये फलाश्रये कर्मणि व्यापाराश्रये कर्तरि च तिड्- १३ प्रत्ययाः स्मृताः । कर्मण प्रयोगे तिङप्रत्ययार्थः कर्म कर्तरि प्रयोगे च कर्ता। फले
१ को नु. अ. क.
Page 251
२३२ काव्यादर्शे द्वितीय: परिच्छेद:
स एव धर्मो धर्मी चेत्यर्तुन्मत्तो न भाषते ॥ २२९॥ कर्ता यद्युपमानं स्यान्न्यग्भूतोसौ क्रियापदे। प्रधानं व्यापारः फलनिरूपितप्राधान्यवान् व्यापारः इति भावः । तिडर्थः कर्तृ- कर्मरूपः विशेषणं व्यापारस्येति शेषः । तथा च अत्रार्थ :- तमःकर्तृकम् अङ्ग- १५ कर्मकं लेपनं व्यापारः । एवं चात्र लेपनव्यापारस्य प्राधान्यात् तस्यैव धर्मित्वम्। ननु यथा आत्मा आत्मानं जानाति इत्यादिस्थले एकस्यैव कर्तृत्वकर्मत्वे तथा अत्रापि एकस्यैव लेपनस्य धर्मत्वधर्मित्वे स्याताम्। तथा च उपमा संगच्छेत १८इति चेन्न । अनुन्मत्तः विचारवान्। एकपदप्रतिपाद्यः एक एव पदार्थः धर्मः धर्मी च इति न भाषते। आत्मा आत्मानं जानातीत्यादौ भिन्नपदोपस्थित्या कर्तृत्व- कर्मत्वे एकार्थस्य स्याताम्। अत्र तु एकेनैव लिम्पति पदार्थेन धर्मिधर्मार्थ- २१ कल्पनमनुचितमिति भावः । तथा च भाष्यम्-उच्चारित एव शब्दः अर्थस्य प्रापक: नानुच्चारितः इति। अतः ईद्शस्थले एकस्मिन्नेवार्थे धर्मिधर्मकल्पना न विद्वदनुसता। एवं चात्र साधारणधर्मस्याप्रतीतेः नोपमा शङ्कितव्या। देवदत्त श४इव यज्ञदत्तः पचति इत्यत्र तु उपमा भवत्येव। भिन्नपदोपात्तस्यार्थस्य एकव्यापा- राश्रयत्वेपि विशेषणत्वोपपत्तेरिति भावः ॥ २२९॥
अत्र औपम्यसिद्धये तिडर्थः कर्ता एवोपमानं तमः उपमेय लेपनं साधारणधर्मः अस्तु। तथा च निर्बाधा उपमाइति चेत् वत्राह-कर्तेति। कर्ता ३तिडन्तप्रतिपाद्यव्यापाराश्रयः । यदि उपमानं तमसः उपमानम् । स्याद् कल्पेत । तदपि न सम्यक्। यत् असौ व्यापाराश्रयः कर्ता क्रियापदेन लिम्पतिक्रियापदेन विशेष्यतया प्रतिपाद्े व्यापारे न्यग्भूतः विशेषणतयान्वितः । वर्तते। तिडर्थस्तु ६विशेषणम इति पूर्वोक्तसिद्धान्तात्। अयमत्राशयः । तमः अङ्गानि लिम्पति इत्यत्र लिम्पतिना साध्यवसानलक्षणया व्यापनमपि ग्राह्यम्। तस्य च कर्ता तमः । उपमानभूतञ्च लिम्पतिकर्ता। तथा च लिम्पतिकर्तृसदृशतमःकर्तृकं व्यापनम्। लेपनव्यापनयोश्ष बिम्बप्रतिबिम्बभावेन ऐक्यम्। अतः सुस्थेयमुपमा इति चन्न। लेपनव्यापारे विशेषणतया अन्वितस्य कर्तुः उपमानसंबन्धेन अन्य- त्रान्वयायोगात्। एकविशेषणं नापरत्र स्वार्थ प्रत्याययति इति न्यायात्। उक्तं
१ चेत्युन्मत्तोपि. ब, डप.
Page 252
लिम्पतीवेत्याद्युदाहरणविवेचनम् २३३
स्वक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् । २३०।! यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतेंः । ११च मञ्जूषार्यां नागेशभट्टैः-एकत्र विशेषणत्वेन गृहीतशक्तिकस्य ज्ञातस्य वा अपरत्र विशेषणत्वायोगः । अत एव राज्ञः पुरुषोश्वश्च इतिवत् राजपुरुषोश्वश्च इति न इति। एतदेव दर्शयति स्वक्रियासाधनव्यग्रः इति । स्वक्रिया स्वव्यापारः १५लेपनादिरूपः तस्य साधनं सिद्धिः विशेष्यतया बोधः तत्र व्यग्रः व्यापृतः उप- सर्जनतामापन्न इत्यर्थः । अन्यत् अपेक्षितुं पदार्थान्तरं स्वप्रकारकान्वयबोधे विशेष्यत्वेन आकाङ्कितुम्। पदार्थान्तरविशेष्यकबोधे पुनः प्रकारीभवितुमित्यर्थः । १८नालं न समर्थः । अयं भावः । एकपदस्य विशेषणतया अन्यत्रान्वितस्य ततो- न्यत्र उपमानतया अन्वयः देवदत्त इव यज्ञदत्तो हसति इत्यादिस्थले पदान्तरो- पस्थाप्यकर्तरि पदसंसर्गमर्यादया भवति। परं यत्र भिन्नशब्देन उपादानं नास्ति २१ कर्तु: तादृशतिङ्बोधितकर्तृस्थले एवमन्वयो भवितुं नाईति। तस्मान्नात्रोपमेति भाव: ॥२३०॥।
नैयायिकै: अनुसृते प्रथमान्तविशेष्यकशाब्दबोधेपि नोपमेति कथयति- यो लिम्पतीति। यो लिम्पति अमुना तेन लेपनकर्त्रा। तुल्यं तमः लेपनकर्तृ- ३सदशं तमः । इति शंसतः प्रथमान्तविशेष्यकशाब्दबोधेन एवमर्थ प्रदर्शयतः । मतेपीति अध्याहार्यम्। एवं शाब्दबोधं मन्वानस्य मतेपि अङ्गानीति पदं संबद्धं न भवति उपमेयगतलेपने अनुगतं न भवति। अतः उपमेये संबन्धाभावात् ६अङ्गकर्मकलेपनं समानधर्मो भवितुं नार्हति। तस्मात् प्रथमान्तविशेष्यकशाब्द- बोधेपि समः साधारणः । गुणः धर्मः । मृग्यः अन्वेषणीयः । सः अङ्गलेपनरूपः उपमेये प्रतीतो न भवति। तं विना च उपमा नोपपन्ना। अत्रायमाशयः । उपमास्वीकारे लिम्पतीव तमोङ्गानीव्यस्य नैयायिकमते अङ्गवृत्तिफलजनकलेपना- नुकूलकृतिमानिव तमः इति वाक्यार्थबोधः स्याद्। तथा च लेपनकर्तृतमसो- रुपमानोपमेयभावः । तत्र प्रथमान्तविशेष्यकशाब्दबोधे अङ्गानाति पदं व्यापार- १२ विशेषणद्वारा उपमानभूतकर्तरि संबद्धमपि उपमेयभूततमास तस्य संबन्धो दुर्घटः । एकविशेषणं नापरत्र स्वार्थ प्रत्याययति इति पूर्वोंक्तन्यायादिति भावः ।
१ शंसिनः कपा. [काव्यादर्भ ] ३०
Page 253
२३४ काव्यादर्शे द्वितीय: परिच्छेद:
अङ्गानीति न संबद्धं सोपि मृग्यः समो गुणः ॥ २३१॥ यथन्दुरिव ते वक्त्रमिति कान्तिः प्रतीयते। तथा च अङ्गानीति पदस्य समानधमीङ्गभतस्य उपमेये अनन्वयात् अङ्गलेपनं १५समानधर्मो न भवितुमर्हति । अतः क्रियाविशेष्यकशाब्दबोधवदत्रापि समानधर्मों मृग्यः । अपिशब्दः पूर्वोक्तसमानधर्माभावसमुचचायकः । अथवा मा वतु उपमेय- समानधर्मे अङ्गानीतिपदस्य संबन्धः । तद्विनैव अङ्गकर्मकलेपनकर्तेव तमोलेपनम् १८इति वोधेपि उपमायाः सुवचत्वात् इनि चेत् तदपि न समीचीनम्। यतः लेपन- स्यापि स्वोत्पादककर्तरि विशेषणत्वेन अन्वितत्वात् उपमेये तदन्वयस्य दुरुपपा- दत्वात्। तथा च यथा अङ्गानीति उपमेयांशे असंबद्धं तथा लेपनमपि असंबद्ध- २१मेव। एवं च तत् समानधर्मो भवितुं नार्हति। अतश्च अङ्गानीति संबद्धं न भवति। तदर्थ तच्छून्यं केवलं लेपनमेव समानधर्मत्वेनाङ्गीकृतं चेत तदपि उभयत्न संवद्धं न भवति। अतः समानधर्मोपि मृग्यः । अत्र अपिशब्दः अङ्गासंबन्ध- २*्दोषसंग्राहकः । अत्र साधारणा हि गुणक्रियादयो धर्माः प्रथममुपमेयगतत्वेनैव अन्वयबोधविषयतामापद्यन्ते पर्यालोचनया तु उपमानगतत्वेन प्रतीयन्ते इति तेषां साधारण्यम्। प्रकृते तु उपमानगतत्वेन लेपनस्य अन्वयबोधः इति उपमान- २७तावच्छेदकतया उपमानशरीरत्वमेव न तु उपमानोपमेययोः साधारणधर्मत्वमिति विवेचनीयम् इति अनुपमात्वं दर्शयन्ति केचित्। यो लिम्पत्यमुना तुल्यं तम इत्यपि संगतः । अङ्गानीति न संबन्धः सोपि मृग्यस्तमोगुणः । इति पाठेपि १.अङ्गानीति न संवन्धः उपमेयेन सह संगतो न अतः समानधर्माभावाद् सोपि समानधर्मोपि तमोगुणः तमसानुसंबद्धो धर्मः मृग्यः अन्वेषणीयः इति अन्वयः । एतदुपपादनं तु पूर्ववदेव। अत्र अपिशब्दः लिम्पतेस्तमसश्चासौ धर्मः कोत्र ३३ समीक्ष्यते । इति पूर्वोक्तदोषसंग्राहको ज्ञेय: ॥ २३१ ॥ साधारणधर्मस्य अप्रयोगेपि लुप्तोपमा भवति। तथा चात्र मा भवतु लेपनं साधारणो धर्मः । साधारणधर्मोंपादानं विनैव निष्पाद्यमानां लुप्तोपमामङ्गीकुर्मः । 3इति चेत् तदपि नात्र संभवतीति कथयति-यथेन्दुरिवेि। यथा इन्दुरिव ते वक्त्रम् इति उपमायां कान्तिः साधारणधर्मतया प्रतीयते वाचकाप्रयोगेपि प्रसिद्वेन्दोरुपमानत्वादेव गम्यते। तथा लिम्पतेः लिम्पतीति उपमानाद्। लेपात् १ संबद्ध:, अ; संबन्धः. कपा.
Page 254
लिम्पतीवेत्याद्युदाहरणविचारः २३५
न तथा लिम्पतेलेंपादन्यदत्र प्रतययिते ॥ २३२॥ तदुपश्रलपणार्थोयं लिम्पतिर्ध्वान्तकर्तृकः । अङ्गकर्मा च पुंसैवमुत्प्रेक्ष्यत इतीष्यताम् ॥ २३३।
६अन्यत् उपमितिनिष्पादकं साधारणधर्मान्तरम्। न प्रतीयते। लेपनं तु क्रिया- विशेष्यकशाब्दबोधे उपमानमेव । प्रथमान्तविशेप्यकशाब्दबोधे उपमानोपसर्जनी- भूतम् । अतः साधारणधर्मो भवितुं नार्हति इति प्रपञ्चितमेव। तथा च ईदृश- १स्थले साधारणधर्मः न शब्दोपात्तः न वा उपमानप्रसिद्धया गम्यः । एवं च साधारणधर्माप्रतीतेर्नात्र पूर्णोपमा लुप्तोपमा वा । लुप्तोपमायाः स एव विषयः यत्र उपमानोपमेयगतं सादृश्यं लोकप्रसिद्धतया स्फुंट प्रतीतिपदवीमारोहति। यथा १२इन्दुरिव ते वक्त्रमित्यादौ। यत्र तु न प्रतीतिपदवीमारोहति न तत्र सा। अत्र लेपनकर्तृतमसोर्न कोपि समानधर्मः प्रतीतिपदवीमारोहति। अतो नोपमा ॥२३२॥
सिद्धान्तकथनेन विषयमुपसंहरति-तदिति। तत् तस्मादुपमाया अत्र अभावात्। अङ्गकर्मा अङ्गकर्मकः । व्वान्तकर्तृकः उपश्लेषः लेपनं अर्थः यस्य सः ३एतादशः । लिम्पतिः लिपिधात्वर्थः । पुंसा कविनिबद्धवक्त्रा। एवं व्यापनरूपविषय- निगरणेन। उत्प्रेक्ष्यते संभाव्यते। इति ईक्ष्यतां सूक्ष्मया दृशा निरूप्यताम्। अत्र प्रेमचन्द्रशर्माणस्तु-लिम्पतिः लिम्पतिपदप्रतिपाद्या लेपनक्रिया पुंसा कविनिबद्ेन ६वक्त्रा उत्प्रेक्ष्यते संभाव्यते इति इष्यतां अकामेनापि अङ्गीक्रियतामित्यन्वयः । ननु विषयाभावे विषयीभूतायाः तथाविवविशिष्टलेपनक्रियायाः कथमुत्प्रेक्षणी- यत्वम्। संशयविशेषरूपाया उत्प्रेक्षायाः कोटिद्यविपयकत्वनियमात्। इति विषयं दर्शयन् विषयीभूतं लिम्पति विशिनष्टि उपश्लेषणार्थ इति। उपश्लेषणं तमःकर्तृ- कव्यापनम् अर्थः स्वविषयकोत्प्रेक्षायाः विषयो यस्य सः। अयमर्थः । प्रस्तुतोर्थ- स्तावद्विषयः । तत्र संभाव्यमानो अध्यवसीयमानो वा अप्रस्तुतोर्थो विषयी। १२प्रकृते तमःकर्तृकाङ्गव्यापनम् उत्प्रेक्षाविषयः । तादृशलेपनं विषयीति। ततश्रात्र प्रस्तुतं तमोव्यापनं तादशलपनत्वेनोस्प्रेक्ष्यते। न तूपमानेन तेन उपमीयते इति प्रत्यपादयन्। परमस्मिन् उपश्लेषणार्थविषये क्विष्टकल्पना दृश्यते। अपरं च १५अनुपादानविषया स्वरूपोत्प्रेक्षा इयमिति सर्वैरङ्गीकृतम्। ततश्च विषयिणः उपा-
१ लिम्प्ती, ब, क, ड, प.
Page 255
२३६ काव्यादर्शे द्वितीय: परिच्छेद:
मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः। उत्प्रेक्षा व्यज्यते शब्दैरिवशद्वोपि तादृशः॥२३४॥
दानेन अध्यवसानेन विषयस्य स्वरूपे ज्ञायमाने उत्प्रेक्षायाः सिद्धौ तद्विषय- दर्शनाय इयान् प्रयत्नः अनुपयुक्तः एव। एनावत्प्रबन्धेन आचार्यदण्डिनो मते १८अत्र समानधर्मस्य प्रतीतिर्नास्तीति नोपमा कितु प्रस्तुते अप्रस्तुतारोपरूपा उत्प्रेक्षा इति दर्शितम्। काव्यप्रकाशकारादयः संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् (७०७ पत्रे ) इति उत्प्रेक्षायाः लक्षणं विधाय समेन उपमानेन इति २१व्याख्यानं च कृत्वा साधर्म्यमूलामेव तां वर्णयन्ति। तत् आचार्यदण्डिनः सिद्धान्त- स्य विरुद्धम् इति बोध्यम् ॥२३३॥
इवशब्द: बाहुल्येन उपमावाचकः। संभावनावाचकस्तु दूरे वसन् देवदत्त इव भाति इत्यादिषु क्कचिदेवासौ दृष्टः। अतः तस्योत्प्रेक्षावाचकत्वम् उत्प्रेक्षावाचक- ३मध्ये परिगणनेन दर्शयति-मन्य इति। व्यज्यते बोध्यते। एषां प्रयोगे उत्प्रेक्षा वाच्या अन्यथा गम्या इति पूर्व कथितमेव। अत्र आदिशब्देन तर्कयामि संभावयामि जाने उत्प्रेक्षे इत्यादीनां संग्रहः। एतेषां कानिचदुदाहरणानि दर्श- धयाम :- यद्यनुष्णो भवेद्वह्विर्यद्यशीतं भवेज्जलम्। मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक्॥ सर्वातिशयसौनदर्य शङ्के सत्यवतो मुखम्। येन सा मृगशावाक्षी सावित्री तरलीकृता।। तब निर्वर्ण्य यद्वर्ण स्वर्ण वर्णाय तादृशे। त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम्। १२ त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः । कलङ्कपङ्काभावाय नूनं मज्जति सागरे॥ रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः । १५ भूमौ प्रतापयशसी सृष्टवान् सततोत्थिते।।
Page 256
हेतुसूक्ष्मलेशाः २३७
हतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम्। कारकज्ञापकौ हेतू तौ चानेकविधौ यथा॥ २३५ ॥ कस्तूरिकामृगाणामण्डाद्गुणगन्धमखिलमादाय। यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि।। इति ॥ २३४ ॥ अथ क्रमप्राप्तं हेत्वादयलंकारं प्रशंसापूर्वकं लक्षयति-हेतुश्चेति। हेतु- सूक्ष्मलेशाभिधानाः त्रयोलंकाराः । वाचाम् वागर्थस्य। उत्तमभूषणम् प्रधाना- ३लंकारः । भामहेन - हेतुश्र सूक्ष्मो लेशोथ नालंकारतया मतः । समुदायाभिधानस्य वक्रोक्त्यनभिधानतः ॥(२'८६) ६इति अलंकारत्रयं चमत्कृतिशून्यत्वेन प्रतिषिद्धमस्ति। समुदायाभिधानस्य वाक्यार्थस्य। वक्रोक्त्यनभिधानतः वक्रोक्तिः चमत्कृतिविशिष्टोक्तिः तस्य अनभिधानतः अनुल्लेखात् चमत्कृतिशून्यत्वादिन्यर्थः । एते त्रयोलंकारा न भवन्ति ९इति तदाशयः । आचार्यदण्डिनो मते अत्र चमत्कृतिर्वर्तते अतः विशेषममिधत्ते वाचामुत्तमभूषणमिति। लेश: उद्देशवाक्ये लवसंज्ञयामिहितः । तत्र उद्देशवाक्या- नुरोधेन प्रथमं हेतुप्रमेदान् दर्शयति। लक्षणं तु प्रसिद्धार्थानुयायि इति पुनः १२नोक्तम् । तच्च आग्नेये -सिषाधयिषितार्थस्य हेतुर्भवति साधक: (३४४'२९) इति निरूपितमस्ति। भोजराजनापि-क्रियायाः कारणं हेतुः (३.१२) इति दर्शितः । सोयं हेतुर्द्विविधः। कारकः ज्ञापकश्च इति! करोनि निष्पादयति भाव- १५मिति क्रियासंपादको हेतुः कारकः । ज्ञापयति बोधयति कारणान्तरनिष्पन्नं भावमिति च ज्ञापकः । अन्निः धूमस्य कारको हेतुः धूमश्चाग्नेः ज्ञापकः । अथवा मृदा घटं करोतीति कारकः । शास्त्रेण तत्त्त्वं जानातीति ज्ञापकः । उक्त हि १८ भोजराजेन - यः प्रवृत्ति निवृत्तिं च प्रयुक्तिं चान्तरा विशन्। उदासीनोपि वा कुर्यात् कारकं तत् प्रचक्षते ।। २१ द्वितीया च तृतीया च चतुर्थी सप्तमी च यम्। क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः ॥ (३·१३१) इति।
· च नेक°, अ.
Page 257
२३८ काव्यादर्शे द्वितीय: परिच्छेद:
अयमान्दोलितप्रौढचन्दनद्रुमपल्लवः। उत्पादयति सर्वस्ये प्रीति मलैयमारुतः ॥ २३६॥ श्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम्। अलंकारतयोदिष्टं निवृत्तावपि तत् समम्॥ २३६॥ तौ च कारकज्ञापकौ हेतू प्रवृत्तिनिवृत्त्यादिभेदेन तथा द्वितीयातृतीयादिविभक्ति- २नदर्शितमेदेन। अनेकविधौ अनेकप्रकारौ। इति तदर्थः । एपामुदाहरणानि सरस्वतीकण्ठाभरणे द्रष्टव्यानि। अस्मिन्नेव हेत्वलंकांर काव्यलिङ्गानुमानयो: तथा कार्यकारणमूलार्थान्तरन्यासस्य च संग्रहो भवति इति ते न पृथक्तया दर्शिता २७आचार्येण दण्डिना। अप्पय्यदीक्षितः- हेतोर्हेतुमता सार्ध वर्णनं हेतुरुच्यत। हेतुहेतुमतोरैक्यं हेतुं केचित् प्रचक्षते ।। इति। ३० द्विप्रकारको हेत्वलंकारो निर्दिष्टः । तत्र प्रथमः अतिशयोक्त्यलंकारे अन्तर्भवति। द्वितीयश्च न चमत्कारावहः इति तदुभयमपि अलंकारतया न मन्यन्ते अपरे ॥ २३५॥
तत्र कारकहेतुमुदाहरति-अयमिति। आन्दालिता: सलीलं व्याधूताः प्रौढानां चन्दनद्रुमाणां पल्लवाः येन सः । अनेन वायोः सौगन्व्यशैक्यादयो धर्माः 3दर्शिताः । एतादृशा यो मलयमारुतः स सर्वस्य प्रीतिमुत्पादयति । अत्र मलय- मारुतः प्रीत्युत्पादने कारकहेतुः । स च आन्दोलितप्रौढचन्दनद्रुमपल्लवः इति विशेषणेन सविशेषं चमत्कारमावहति। अतः एतादृशचमत्कृतिविशिष्टहेतूपादाने ६हेत्वलंकार: युक्त एव। यत्र च कारकं न चमत्कारावहं निर्दिष्टं तत्र नायमलंकारः । यथा गौश्चरतीति ॥ २३६॥
उदाहरणस्य अलंकारत्वं प्रतिपादयति-प्रीत्युत्पादनेति। अत्र अस्मिन् श्लोके। प्रीत्युत्पादनयोग्यस्य आह्लादप्रतीतिसमर्थस्य। रूपस्य वर्णनस्वरूपस्य । उपबृंहणं वैचित्र्यजनकत्वेनोपन्यासः । अलंकारतया उद्दिष्टं निर्दिष्टः । वैचित्रयंस्य प्रतीयमानत्वात् अत्रालंकारता इष्टैवेति भाव: । अयं हेतुः उत्पादनक्रियायां
१ लोकस्य. कपा: २ दक्षिण अक,
Page 258
हेतुप्रकारा: २३९
चन्दनारण्यमाधृय स्पृष्टा मलयनिर्झेरान्। पथिकानामभावाय पवनोयमुपस्थितः ॥ २३८॥। अभावसाधनायालमेवंभूतो हि मारुतः । विरहज्वरसंभूतमनोज्ञारोचके जने ॥ २३९॥ दर्शितः । निवृत्तौ अपि क्रियानिवृत्तावपि हेतुनिर्देशे। तत् समम् क्रियाप्रवृत्ति- ६वदत्रापि हेत्वलंकार इति भाव: ॥२३७॥
निवृत्तौ उदाहरति -- चन्दनेति। चन्दनारण्यम् चन्दनवनम्। आधूय मलयनिर्झरान् स्पृष्टा। वाक्यद्येन सौरभ्यशैत्यसंपत्तिरुपात्ता। अयं पवनः पथि- ३कानां पान्थानां वियोगिनामित्यर्थः । अभावाय विनाशाय। उपस्थितः । कामो- द्दीपकत्वात् तान् विशसितुं संप्राप्त इति भाव: ॥। २३८॥।
निवृत्तौ अलंकारत्वं संगमयति-अभावेति । एवंभूतः शैव्यसौरभ्यान्वितः । मारुतः विरहज्वरेण विरहसंतापेन। संभूत जातम् । मनोजे मनोहारिणि वस्तुनि ३अरोचकम् अरुचिर्यस्य तस्मिन् मनोज्ञवस्तुनि खिन्नस्येत्यर्थः । विरहज्वरसंभूत- मदनाग्न्यातुरे जने इति पाठे तु विरहेण कान्ताया विरहेण ज्वरः संतापः तेन संभूत: यो मदनागनिः मदनरूपः संतापातिशयविधायकोग्निः तेन आतुरे रुग्णे। इजने उपस्थितः सन् तेषाम् अभावसाधनाय सत्ताविरहसंपादनाय। अलं समर्थः । एवं भावविरहरूपेण क्रियानिवृत्तावपि हेतुः साघको भवति। यथा भावसंपादनाय हेतुः साधकः तथा अभावायेति भावः । तथा च उभयत्रापि अलंकारत्वं बोध्यम्। ९केचित्तु क्रियानिवृत्तौ- मुग्धे तव मुखामोदलोलुपो मधुरो भ्रमन्। कर्णिकाकमलं फुल्लमपि नाभिसरत्ययम् ।। ११इति उदाजहुः। तथा मूले तु प्रथमोदाहरणं क्रियासाधकस्य द्वितीयमभावसाधकस्य इति च भेदं दर्शयामासुः । परम् उपक्रमानुरोधेन क्रियायाः उत्पत्तिनिवृत्ति- प्रदर्शनायैव एतदुदाहरणयुगलमिति भाति ॥ २३९॥
१ संताप०. क. २ मद्नाग्न्यातुरे जने. ब, ड, प.
Page 259
२४० काव्यादर्शे द्वितीय: परिच्छेद:
निर्वर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया। प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैत्र हेतुता॥ २४० ॥ वाक्ये नावत् केचन हेतवः क्रियार्थसंपादकाः केचन कर्मार्थसंपादकाः । तत्र क्रियार्थसंपादकेषु कारकज्ञापकमिति भेददूयं परिकल्प्य कारकस्य उत्पत्ति- निवृत्तिप्रकारद्वयमभिधाय उदाहरणद्वयेन तद्दर्शितम्। इदानीं कर्मार्थसंपादकान् हेतून् प्रदर्शयितमाह-निर्वर्त्ये चेति। निर्वत्ये विकार्ये च कर्मणि इति शेषः । तदपेक्षया निर्वर्त्यविकार्यकर्मापेक्षया। हेतुत्वं भवति तत्संपादनाय हेतवः भवन्ति । इप्राप्ये कर्मणि तु प्रायः बाहुल्येन । क्रियापेक्षैव क्रियायाः एव अपेक्षा नान्यो हेतु- स्तत्रोपेक्षितो भवति। अतस्तत्र क्रियाया अपेक्षा एव हेतुता। क्रियैव हेतुर्भवती- त्यर्थः । अयमाशयः । प्राचीना वैयाकरणाः कर्मणः त्रैविध्यं दर्शयन्ति निर्वर्त्य विकार्य प्राप्यं चेति। तत्र निर्वत्य पूर्वमसतः करणरूपम् अथवा अलक्षितस्य प्रकाशानुरूपम् । यथा पटं करोति पुत्रं प्रसूते इत्यादि । विकार्य द्विविध प्रकृते- रुच्छेदकं प्रकृतेर्गुणान्तराधायकं च। यथा काष्ठं भस्म करोति सुवर्ण कुण्डलं ११करोति इति। यत्र क्रियाकृतः परिणामो न दृश्यते न वानुमीयते तत् प्राप्यम्। यथा सूर्य पश्यति ग्रामं गच्छति इति । अत्र सूर्यग्रामयोः क्रियाकृतविशेषो न दृश्यते। अर्वाचीनाः अनीप्सितमिति चतुर्थ भेदं कल्पयन्ति। यथा पापं त्यजति १५इति। तदेतदुक्तं वैयाकरणैः यथा- यदसज्जायते पूर्व जन्मना यत् प्रकाशते। तन्निवर्त्य विकार्य च कर्म द्वेधा व्यवस्थितम्।
1८ प्रकृत्युच्छेदसंभूतं किंचित् काष्ठादिभस्मवत् ।। किंचिद्गुणान्तरोत्पत्या सुवर्णादिविकारवद् ॥। क्रियाकृता विशेषाणां सिद्धि्यत्र न गम्यते। दर्शनादनुमानाद्वा तत् प्राप्यमिति कथ्यते ॥ इति। ११ तथा च निर्वर्त्यविकार्ययोः हेत्वोः पूर्वावस्थातो विशेषदर्शनात् तत्र अन्यहेतोरपेक्षा भवति। प्राप्ये तु पूर्वावस्थातः न कोपि विशेषो दृश्यते। अतः केवलक्रियापेक्षैव a.कर्मत्वसंपादिका भवति। सूर्य पश्यति ग्राम गच्छति इत्यादौ केवलक्रिययैव तेषां कर्मत्वसिद्धिः। कटं करोति इत्यादिष्ड तु भवति अन्यसाधनापेक्षा। अतः
Page 260
२४१
हेतुनिरवतनीयक्य दाणेव: नपयोईयो:। इत्ोदाहरणद्वन्द आजको नवयिष्यते॥ २४१ ॥ उत्प्रवालान्यरण्यानि वाप्य: संफुल्लपङ्कजाः । चन्द्रः पूर्णश्र कामेन पान्थदैष्टर्विष कृतम्॥ २४२॥ मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम्। वाला भभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ॥ २४३॥ निर्वत्ये च विकार्ये च तदपेक्षया तत्संपादनाय अन्यार्थस्य हेतुत्वं भवति तयो- २७र्जन्यत्वात्। प्राप्ये तु क्रियैवापेक्ष्यते नान्यत् किमपि तस्य जन्यत्वाभावाद्। अर्वाचीनैः स्वीकृते अनीप्सितेपि क्रियापेक्षव जेया। स च हेतुर्निवृत्ति- विषयः ॥ २४०॥ हेतुरिति। निर्वर्ननीयस्य कर्मणः हेतुः दर्शितः । अयमान्दोलितेत्युदाहरणे। तत्र प्रीतिरूपकर्मणः निर्वर्तनीयत्वात्। शेषयोद्वयोः विकार्यप्राप्ययोः उदाहरण- ३द्धद्वं दत्वा उदाहरणेन हेतुं विशदीकृत्य। पश्चात् ज्ञापको हेतुः वर्णयिष्यते वर्ष्यते ॥ २४१॥
विकार्यहेतुं दर्शयति-उत्प्रवालानीति। उद्गतानि प्रवालानि किसलय- पल्लषादीनि येषु तानि। अरण्यानि वनानि। संफुल्लानि विकसितानि पङ्कजानि 3यासु ताः । वाप्यः दीर्घिकाः । पूर्णः पूर्णमण्डलः । चन्द्रः । एतद् सर्व कामेन पान्थदृष्टेः वियोगिनः नयनस्य। विषं कृतम् विषरूपेण परिणामितम्। दाहकत्वेन विषभावमापादितमित्यर्थः । अत्र अरण्यादिषु विषरूपविकारत्वमारोपितमेव। तस्यैव ६चमत्कारित्वात्। अतः सुवर्ण कुण्डलं करोति इत्यादौ वास्तवविकारे नायमछं- कारः ॥ २४२॥
प्राप्यहेतुमुदाहरति -- मानयोग्यामिति। मानयोग्यां मानाभ्यासं मान- सूचकाङङगिकभावाभ्यासमिति भावः । करोमि इति अभिप्रेत्य। प्रियस्य स्थाने विषये ३स्थितां कल्पिताम्। सखीम्। बाला अनभ्यस्तमानशिक्षा अप्रगल्भा। भ्रुवोर्भङ्गेन जिहे वक्रे अक्षिणी यस्याः सा। स्फुरितः अधरः अधरोष्ठः यस्याः सा। एतादृशी भूत्वा
१ कालेन. अक. २ दष्टिविष. अ. 3 स्थान स्थितां. क. [काव्यादर्श ] ३१
Page 261
२४२ काव्यादर्शे द्वितीय: परिच्छेद:
गतोस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः । इतीद्मपि साध्वेव कालावस्थानिवेदने ॥२४४॥
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ॥२४५॥ इति लक्ष्या: प्रयोगेषु रम्यों ज्ञापकहेतवः। पश्यति। अत्र पश्यति क्रियया सखी न निष्पाद्यते न वा विक्रियते । अतः ६ एतत् प्राप्यं कर्म। तद्विषयकदर्शनक्रियापेक्षयैव बालाया हेतुत्वम्। तच्च तादृश- सकोपनिर्रीक्षणनादिभिरुपस्कृतं विशेषचमत्कारमावहति। अतः हेत्वलंकारः ॥ २४३ । एवं कारकहेतुं सप्रपञ्चं निरूप्येदानी ज्ञापकहेतुमुदाहरति-गतोस्त- मिति। अर्कः अस्तं गतः । इन्दुः भाति प्रकाशते। वासाय निवासस्थानाय उपक्षिणः यान्ति। कालावस्थाया कालविशेषस्य सायंकालस्येत्यर्थः । निवेदने ज्ञापने। साधु एव चमत्कारजनकतया अलंकारसंपादनाय पर्याप्तमेव। ज्ञाप्यं क्वचित् शब्दोपात्तं क्वचिच्च प्रतीयमानं भवति। अत्र प्रतयमानम्। साध्वेव ६इति एवकारेण प्रतीयमाने ज्ञापकस्यानुपादानात् हेतोः कथं ज्ञापकता इति शङ्कामनेन निवारयति इति ज्ञेयम् । संप्रति सन्ध्यासमयो वर्तते इति वाक्ये न वैचित्र्यम्। उक्तप्रकारेण कथने एव वैचित्र्यमिति अलंकारता ॥२४४॥
ज्ञाप्यस्य शब्दोपादाने ज्ञापकहेतुमुदाहरति-अवध्यैरिति। इन्दुपादानां चन्द्रकिरणानाम्। अवध्यैः अविनाश्यैः। चन्दनाम्भसां चन्दनोदकानां विलेपनाना- मित्यर्थः । असाध्यैः अप्रतिकार्यैः । देहोष्मभिः शरीरसंतापैः । हे सखि ते कामातुरं मदनपीडितम्। मनः सुबोधं सुखेन बोधो विकारबोधो यस्य तत्। एतादशमस्तीति शेषः । अत्र च ज्ञा्यं मनसः कामातुरत्वम् तच्छब्दोपात्तम्। ज्ञापकाश्च अप्रति- ६कार्या देहोष्माणः ॥ २४५ ।।
भावहेतुमुपसंहरति-इतीति । इति एवंप्रकारा। प्रयोगेषु कवीनां
१ इदमर्ध अ पुस्तके नास्ति। २ अवन्ध्यैः कप'. ३ मभसा, अ. ४ सम्यग्. कपा.
Page 262
हंतुप्रकार: २४३
अभावहेतवः केचिव्र्ाहियन्ते मनोहराः ॥ २४६ ॥ अनभ्यासेन विद्यानामसंसर्गेण धीमताम्। अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम् ॥२४७॥ गतः कामकथोन्मादो गलितो यौवनज्वरः। क्षतो मोहशच्युता तृष्णा कृतं पुण्याश्रमे मनः ॥ २४८॥ निबन्धेषु। रम्याः वैचित्रयेण मनोहराः । ज्ञापकहेतवः लक्ष्याः अवबोद्धव्याः । 3केचित् मनोहरा: अभावरूपा हेतवः व्याहियन्ते कथ्यन्ते। अभावश्च अनेन कविना चतुर्धा कल्पितः । प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः अन्योन्या- भावक्चेति ॥ २४६ ॥ अभावेषु प्रथमं प्रागभावमुदाहरति-अनभ्यासेनेति। विद्यानाम् आ- न्वीक्षिक्यादीनाम्। अनभ्यासेन अपरिशीलनेन। वीमतां विपश्चिताम्। अससर्गेण ३ परिचयाभावेन। अक्षाणां इन्द्रियाणाम्। अनिग्रहेण असंयमनेन । हेतुना। नृणां व्यसनं दुष्प्रवृत्तिः जायते। भगवता मनुना अष्टादशविधानि व्यसनान्युक्तानि। यथा- मृगयाक्षो दिवा स्वापः परीवाद: स्त्रियो मदः। तौर्यत्रिकं वृथाट्या च कामजो दशको गणः । पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वागूदण्डजं च पारुष्यं क्रोधजोपि गणोष्टक:। (७४८) इति अत्र यावत् विदयादीनामभावः तावत् व्यसनं भवत्येव इति विद्यादीनां प्रागभावस्य व्यसनं प्रति हेतुता ॥ २४७ ॥ प्रध्वंसाभावहेतुमुदाहरति-गत इति। कामकथाभिः य उन्मादः विषयधु सङ्गाभिनिवेशः । स गतः । यौवनज्वरः तारुण्योष्मा। गलितः क्षीणप्रायः । मोहः 3 ममत्वबुद्धिः । क्षतः नष्टः। तृष्णा विषयवासना। च्युता लुप्ता। अतः कारणांत् पुण्याश्रमे पवित्राश्रमे चतुर्थाश्रमे इत्यर्थः । मनः कृतम् निश्चयः कृतः। अत्र उन्मादादीनां प्रध्वंसाभावः एव चतुर्थाश्रमस्वीकाराय हेतुत्वेनोपात्तः । अतः
१ कियन्ते, क. २ हतः अ; गनः, बहुप,
Page 263
२४४ काव्याद्शे द्वितीय: परिच्छेद:
वनान्यमूनि न गृहाण्येता नद्यो न योषित: । मृगा इमे न दायादास्तन्मे नन्दति मानसम्॥ २४९॥ अत्यन्तमसदार्याणामनालोचितचेष्टितम्। अतस्तेषां विरवर्धन्ते सततं सर्वसंपदः ॥२५० ॥ उद्यानसहकाराणामनुद्धिन्ना न मञ्जरी। अन्योन्याभावहेतुमुदाहरति -- वनान्यमूनीति । अमूनि चित्तैकागव्य संपादकानि। वनानि आश्रमारण्यानि। गृहाणि ममत्वादिभिः नानादुःखास्पदानि 3आवसथानि न । एताः विमलवारिधाराभिर्मनोहराः नद्यः । योषितो मनश्वाञ्चल्यो- त्पादकाः प्रमदाः न । इमे मधुरस्वभावाः मृगाः । दायादाः मत्सराक्रान्ताः संबन्धि- जनाः न । तत् एतत् त्रयमपि मे मानसं नन्दति संतोषयति। अत्र वनादीना- ६मन्योन्याभावेन मनःसंतोषः संसाधितः । अतः अन्योन्याभावहेत्वलंकारः । अत्र सादृश्यातिशयहेतुकाभेदप्रतीतिपूर्वकभेदप्रतीपादनस्यैव चमत्कारजनकत्वात् वन- गृहादीनां सादृश्यमस्त्येव। परं तु तद्विवक्षणानात्र निर्णयोपमा इति प्रेम- ९चन्द्रशर्माणः ॥। २४९।।
अत्यन्ताभावहेतुमुदाहरति-अत्यन्तमिति। आर्याणां सत्पुरुषाणाम्। अनालोचितचेष्टितं अविमृश्यकारित्वम्। अव्यन्तम् असत् सर्वथा अविद्यमानम्। 3कदापि अविमृश्य न ते व्यवहरन्तीत्यर्थः । अतः अविमृश्यताया अत्यन्ताभावाद्। तेषां सर्वसंपद: ऐहिकामुष्मिकाः सर्वसमृद्धयः । सतत निरन्तरम्। विवर्धन्ते वृद्धिं प्राप्तवन्ति। अत्र अनालोचितचेष्टितस्य अत्यन्ताभावः संपदां विवृद्धये हेतुत्वे- ६नोपन्यस्तः इति अत्यन्ताभावहेत्वलंकारः ॥ २५० ॥ एतावता भावप्रतियोगिकानां प्रागभावादिचतुर्णामभावानामुदाहरणानि दर्शितानि। इदानीं तु अभावप्रतियोगिकाभावस्य हेतुरूपतां दर्शयति-उद्यानेति। ३उदयाने स्थिता ये सहकारा: आम्राः तेषाम्। मञ्जरी अनुद्धिन्ना विकासमप्राप्ता न । अपि तु विकासपरिपूर्णा इत्यर्थः । अतः तन्मञ्जर्या उर्द्दीपकत्वात्। पथिकनारीणां प्रोषितभर्तृकाणाम्। सतिल: सलिलाञ्जलि: नीवापाञ्जलिः। देयः। तासां मरणमुप-
१ विनर्तम्ते, कपा.
Page 264
हेतुप्रकारा: २४५
देयः पथिकनारीणां सतिल: सलिलाञलि: ॥२५१॥
६ स्थितमिति भावः । अत्र मञ्जरीणामनुद्वेदाभावः मरणस्य हेतुत्वेनोपन्यस्तः । अतः अभावाभावहेत्वलंकारः । अन्येषामभावाभावानां उदाहरणानि सरस्वतांकण्ठाभरणे तट्टीकायां च दर्शितानि। तेषु प्रव्वंसाभावाभावो यथा- पीनिश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं
- पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः । स्वावासानुपघातनिर्वृतमनास्तत्कालमीलद्दृश
१२ यस्मै सोच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति ॥ (३.१५) इति। अत्र नारायणनाभिपङ्गजरूपस्यावासस्य उपघाताभावः विधेर्मनोनिर्वाणकारणं भवति। अतः प्रध्वंसाभावाभावहेतुरयम्। अन्योन्याभावाभावो यथा-
१५ अवनिरुदकं तेजोवायुर्नभः शशिभास्करौ पुरुष: इति यत् केचिद्धिन्ना वदन्ति तनूस्तव । तदनघ वचोवैचित्रीमिर्निरावरणस्य ते विदधति पयःपूरोन्मीलन्मृषा मिहिरोपमाम् ॥ अत्र भिन्न इत्यन्योन्याभावमुपन्यस्य निरावरणस्य मृषेत्येताभ्यां निषेधः अन्योन्या- भावाभावः स च मिहिरोपमात्वसाधकः । अतः हेत्वलंकारः । अत्यन्ताभावाभावो- २१मया- न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम्। श्रुतेन यत्नेन च वागुपासिता २४ ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ (काव्यादर्श १-१०४) इति। अत्र न विद्यते इत्यत्यन्ताभावमुपन्यस्य कमपीति प्रतिभासत्ताभिधानेन प्रतिषेधः। २७स च श्रुतयत्नाभ्यां वागुपासितव्या इत्युन्नीतार्थस्य हेतुः इति अत्यन्ताभावाभाव- हेत्वलंकारः । अत्यन्तमसदार्याणामनालोचितचेष्टितम्। इत्येतदपि अत्यन्ताभावाभावो दाहरणं भर्वत ॥२५१।।
Page 265
२४६ काव्यादर्शे द्वितीय: परिच्छेद:
प्रागभावादिरूपस्य हेतुत्वमिह वस्तुनः । भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति ॥२५२॥ दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा। अयुक्तयुक्त कार्यो चेत्यसंख्याश्चित्रहेतवः॥२५३॥ तेमी प्रयागमा्गेषु गौणवृत्तिव्यपाश्रयाः। अत्यन्तसुन्दरा दृष्टास्तदुदाहृतयो यथा ॥२५४॥ अभावहे तुमुपसहरति-प्रागभावादीति। इह प्रागभावादिरूपस्य प्राग- भावप्रध्वंसाभावान्योन्याभावात्यन्ताभावस्वरूपस्य। वस्तुनः विषयस्य। हेतुत्वम् भावा- ३भावस्वरूपस्य कार्यस्य। तत्र भावरूपस्य अनभ्यासन विद्यानाम् इत्यादिक्लोक- त्नये अभावरूपकार्यस्य च उद्यानेति श्लोके। उत्पादनं प्रति निष्पत्तये। दर्शित- मिति शेष: । उक्तोदाहरणेषु कारकहेतुत्वं दर्शितम्। ज्ञापकहेतोरुदाहरणानि ६ ऊह्यानि ।। २५२।। कारकज्ञापकहेतू सप्रपञ्चं निरूप्य इदानीं चित्रहेतुप्रभेदान् दर्शयति- दूरकार्य इति। दूरं कार्य यस्य स दूरकार्यः । तेन कार्येण सह जायते स 3तत्सहजः । कार्यात् अनन्तरं जातः कार्यानन्तरजः । अयुक्तं स्वभावविरुद्ध युक्तं स्वभावानुरूपं कार्य ययोस्तौ च। इति एवंप्रकार: । असंख्याः संख्यातीताः । चित्रहेतवः भवन्तीति शेषः ॥२५३॥ कार्यात् विदूरस्य सहजस्य तदनन्तरजस्य वा कारणस्य कथं कारणत्व- मिति शङ्कां परिहरति-तेमीति। तेमी पूर्वोक्ताश्चित्रहेतवः । गौणवृत्तिव्यपाश्रयाः ३ सारोपगौणीलक्षणा व्यपाश्रयः अवलम्बनं येषां ते तादृशाः सन्तः । कारणतां प्राप्तुवन्ति इत्यर्थः । ते च प्रयोगमार्गेषु प्रबन्धरीतिषु। अत्यन्तसुन्दरा दृष्टाः । अतः तदुदाहृतयो दर्शयामः इत्यर्थः । यथेति अग्रिमोदाहरणप्रस्तावाय। अत्र गौण- ६वृत्तिव्यपाश्रयत्वं क्वचित् कार्यस्यापि। यथा पश्चात् पर्यस्य इतिवक्ष्यमाणोदाहरणे रागसागरः इत्यत्र। तत्र हेतोर्गोणवृत्तित्वं परंपरयेति बोध्यम्। क्वचित् कार्य- कारणयोरुभयोरपि गौणवृत्तिव्यपाश्रयत्वं भवति। यथा राज्ञां हस्तारविन्दानि इत्यत्र। १ °स्वभावस्य. अ. २ अयुक्तो युक्तकारी, कपा; युक्तकार्यः, कपा. ३ गौणमार्ग, अ; •उयपाभचात्. कपा,
Page 266
हेतुप्रकारा: २४७
त्वदपाङ्गाह्वयं जैत्रमनङ्गास्त्रं यदङ्गने। मुक्तं तदन्यतस्तेन सोप्यहं मनसि क्षतः ॥२५५॥ आविर्भवति नारीणां वयः पर्यस्तशैशवम्। सहैव विविधैः पुंसामङ्गजोन्मादविश्रमैः ॥२५६॥ ९एवं च गौणवृत्तिव्यपाश्रयात् इति पञ्चम्यन्तपाठः साधुः इति भाति। क्वचि साध्यवसानलक्षणायामपि हेतोश्वमत्कारिता। यथा आविर्भवति नारीणाम् इत्युदा- हरणे ॥ २५४ ॥ तत्र कार्यस्य हेतोर्दूरदेशस्थस्य उदाहरणं दर्शयति-त्वदिति। हे अङ्गने शोभनगात्रि। त्वदपाङ्गाह्वयं त्वदपाङ्गसंज्ञकम्। अनेन अत्र सारोपा गौणी लक्षणा 3दर्शिता। जैत्र जयशालि। अनङ्गास्त्रं अन्यतः मद्धिन्नपुरुषान्तरे। मुक्तं त्वयेति शेषः । तेन त्वदपाङ्गरूपमदनास्त्रेण सः लक्ष्यभूतः । अलक्ष्यभूतोहमपि च। मनसि हृदये। क्षतः विद्धः। अत्र अस्त्नस्य लक्ष्यवेधरूपकार्य सनिहितम् अलक्ष्य- ६वेधरूपं तु विदूरम् इति तादृशकार्यस्यात्र विदूरता। इति देशविदूरताया उदा- हरणम्। कालविदूरताया यथा- अनश्नुवानेन युगोपमानमलब्धमौर्वीकिणलाञ्छनेन। अस्पृष्टखङ्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमि: ॥ इति। अत्र यौवनकार्यस्य बाल्ये एव करणाद्वेतोर्दूरकार्यता। इति सरखती- कण्ठाभरणे (३.१७)।। २५५ ।। सहजहेतोरुदाहरणं दर्शयति-आविर्भवतीति। नारीणां पर्यस्तशैशवं निराकृतबाल्यम्। वयः यौवनमित्यर्थः । पुंसां कामिनाम्। विविधैः बहुप्रकारैः । अङ्ग- ३ जोन्मादविभ्रमैः अङ्गजः मनसिजः तेन कृतैः उन्मादविभ्रमैः मनोविकारविलासैः । सह एव आविर्भवति। अत्र मनोविभ्रमस्य यौवनं कारणं कार्यभूतेन तेन सहैव जायते इति कार्यस्य आश्ुभावप्रतिपादनाय वर्णितम्। तथा चात्र कार्यप्राकक्षण- वर्तित्वं विशेषविवक्षया कारणस्य अपहुतम्। तथा च अत् विभ्रमाणां पश्चादुत्पध- मानत्वं प्रागुत्पाद्यमानत्वेनाध्यवसितमिति अध्यवसायव्यपाश्रयोत्र हेतुश्चमत्कारा- तिशयजनको न तु गौणव्यपाश्रय इति बोध्यम् इति प्रेमचन्द्रशर्माणः ॥ २५६ ।।
१ ०मङ्गलाखं. अ. २ सोस्म्यहं. क.
Page 267
२४८ काव्यादर्शे द्वितीय: परिच्छेद:
पश्चात् पर्यस्य किरणानुदीणं चन्द्रमण्डलम्। प्रागेव हरिणिाक्षीणायुदीर्णो रागसागरः॥ २५७ ॥ राज्ञां हस्तारविन्दानि कुडमलीकुरुते कुतः। देव त्वच्चरणद्वन्दूरांगवालातप: स्पृशन् ॥२५८॥ पाणिपद्मानि भूपानां संकोचयितुमीशते। त्वत्पादनखचन्द्राणामर्चिष: कुन्दनिर्मलाः॥२५९॥
कार्यानन्तरजहेतुमुदाहरति -- पश्चादिति। किरणान् मरीचीः। पर्यस्य उ्क्षिप्य। चन्द्रमण्डलम् पश्चात् रागसागरोदीर्णानन्तरम्। उदीर्णमुदितम्। हरिणा- 3क्षीणां रागसागर: कामाभिलाषसमुद्रः। प्रागेव चन्द्रमण्डलोदयात् पूर्वमेव । उदीर्णः उच्छलितः स्फीत इति यावत्। अत्र चन्द्रोदयस्य रागोद्दीपकत्वात् कारणत्वम्। तच्ब कार्यभूतरागोदीर्णानन्तरं संभूतमिति कार्यानन्तरजत्वं हेतोर्बोध्यम्। एवं ६पौर्वापर्यव्यत्यासेन वर्णनं वैचित्र्यशालीति हेतुवैचित्रयं बोध्यम्। वस्तुतस्तु अत्र चन्द्रमण्डलोदयरूपकारणस्य क्षिप्रकार्यस्य पश्चाद्भाविता पूर्वभावित्वेनाध्यवसिता । तेनात्ाध्यवसायमूल एव चमत्कारातिशयः इति प्रेमचन्द्रशर्माणः ॥ २५७ ।।
अयुक्तकार्य हेतुमुदाहरति-राज्ञामिति। देव त्वच्चरणयुगुलस्य रागः रक्तिमा स एव बालातपः मृदुसूर्यरश्मिः । राज्ञां हस्ता एव अरविन्दानि तानि। स्पृशन् कुतः कुड्मलीकुरुते मुकुलीकरोति। बालातपस्पर्शन अरविन्दानां विकास एव भाव्य: न तु संकोचः । अतः अरविन्दसंकोचविधानम् बालातपस्य अयुक्त- मिति अयुक्तकार्योयं हेतुः । स च राजविषयकरतेः पोषकतया चमत्कारविषय- ६त्वान्मनोरम इति ध्येयम्। अत्र हस्तारविन्दानां कुड्मलीकरणं प्रणामाञ्जलिरूपतया ज्ञेयम् ।२५८। --
युक्तकार्यमुदाहरति -- पाणिपद्मानीति। त्वत्पादनखचन्द्राणां तव पद- नखान्येव चन्द्राः तेषाम्। कुन्दनिर्मलाः कुन्दकुसुमधवलाः । अर्चिषः कान्तयः । ३ भूपानां पाणिपद्मानि हस्तकमलानि। संकोचयितुं प्रणामाञ्जलिविधायकत्वेन मुक्कुलीकर्तुम्। ईशते समर्था भवन्ति। अत्र चन्द्रार्चिषां पद्मनिमालिनं युक्तमेव
१ रविबाला० ब, ड, प.
Page 268
सूक्ष्मलक्षणम् २४९
इति हेतुविकेल्पानां दर्शिता गतिरादशी। ॥। इति हेतुचक्रम् ॥ इङ्गिताकारलक्ष्योर्थः सौक्ष्म्यात् सूक्ष्म इति स्मृतः ॥२६०॥ कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम्। अवेत्ये कान्तमबला लीलापदं न्यमीलयत् ॥ २६१॥ इति युक्तकार्योयं हेतुः । स च राजविपयकरतिपोषकतया सविशेषचमत्कारका- ६रीति बोध्यम् ॥ २५९॥
हेतुमुपसंहरति-इतीति। हेतोर्विकल्पानां प्रभेदानाम्। इदृशी एवंप्रकारा। गतिः पद्धतिः । दर्शिता निरूपिता। अनेन प्रकारेण अन्येपि हेत्वलंकारभेदा ज्ञेयाः ३इति भावः । ते च अहेत्वादयो सरसतीकण्ठाभरणतो ज्ञातव्याः। अत्रास्माभि- र्विस्तरभिया न दर्शिताः । सूक्ष्मालंकारं निर्दिशति -- इङ्गितेति। इङ्गितं स्वाभि- प्रायसूचकः शरीरावयवव्यापारः । आकारः अन्तर्भावसूचको रूपादेरन्यथाभावः । ६ताभ्यां लक्ष्यः अनुमेय: अर्थः प्रतिपाद्यविषयः । स च क्वचित् अभिलाषा- द्यभ्यन्तरविषयः कचिच्च रहःक्रियमाणबहिर्विषयो वेति द्विधा। सौक्ष्म्यात् सूक्ष्म- मतिवेधत्वात् साधारणपुरुषदुर्जेयत्वाच्च। सूक्ष्मः सूक्ष्माभिधः । स्मृतः । तथा च इङ्गिताकाराभ्यां सूक्ष्ममतिज्ञेयं अर्थस्य वर्णनं सूक्ष्मालंकारः इति लक्षणं संपन्नम्। प्रकाशकारादयस्तु- कुतोपि लक्षितः सूक्ष्मोप्यर्थोन्यस्मै प्रकाश्यते।
१२ धर्मेण केनचिद्यत्र तत् सूक्ष्मं परिचक्षते ॥ (८६६ पत्रे) इत्याड्डुः । तथा च कुतोपि आकारादिङ्गिताद्वा लक्षितस्य सूक्ष्मार्थस्य तीक्ष्णमति- संवेद्यार्थस्य केनचिद्धङ्गयन्तरेण यत् सूचनं स सूक्ष्म: इति तदभिप्रायः ॥२६०॥
इङ्गितलक्ष्यार्थमुदाहरति-कदेति। कदा कास्मिन् समये। नौ आवयोः। संगम: समागमः । भावि भविष्यति। इति आकीर्णे जनसंकुले स्थाने। वकतु प्रष्टु- मिति भावः । अक्षमम् असमर्थम्। नायकेन वाचा अपृष्टमपि तदीयमुखच्छायया
१विकल्पस्य, अ. २ अवेक्ष्य. अ. [काक्यादर्श ] ३२
Page 269
२५० काव्यादर्शे द्वितीय: परिच्छेद:
पेझ्मसंमीलनादत्र सूचितो निशि संगमः । आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥२६२॥ मंदपिंतदृशस्तस्या गीतगोष्ठयामवर्धत। उद्दामरागतरला छाया काँपि मुखाम्बुजे ॥ २६३॥ इत्यॅनुद्धिन्नरूपत्वाद्रत्युत्सवमनोरथः । अनुल्लङ्दयैव सूक्ष्मत्वमभूदत व्यवस्थितः ॥ २६४॥ ॥ इति सूक्ष्मचक्रम् ॥ तं प्रश्नमनुमीयेत्यर्थः । एतादृशं कान्तं नायकम्। अवेक्ष्य अबला सा नायिका। लीलापन्ं क्रीडाधृतकमलम् । अमीलयत् संकोचयामास ॥ २६१ ॥ उदाहरणं विशदयति-पद्मेति। अत्र अस्मिन् पद्ये। अङ्गजपीडितं मदनपरि- तप्तम्। प्रियम् आश्वासयितुं समाधातुम्। इच्छन्त्या नायिकया। पद्मसंमीलनात्। निशि रात्रौ। भावीति शेषः । संगमः सूचितः लक्षितः । अत्र पद्मनिमीलनरूपेङ्गि- तेन निशि संगमः भावीति प्रियाय सृक्ष्मतया सूचितम् इति सूक्ष्मालंकारः । तच्च सूचनं सहृदयचमत्कारि। अतः अस्यालंकारत्वं निर्बाधमेव ॥ २६२॥ आकारलक्ष्यार्थमुदाहरति-मदर्पितेति। गीतगोष्ठयां संगीतशालायाम्। मदर्पितदृशः मयि बद्धदृष्टयाः । तस्याः नायिकायाः। मुखाम्बुजे उद्दामरागतरला 3उद्दाम: मर्यादातिक्रान्तः यः रागः अनुरागः तेन तरला तेजोभासुरा। पूर्णानुराग- सूचिकेत्यर्थः । कापि अनिर्वचनीया। छाया कान्तिः। अवर्धत । अत्र मुखच्छाया- वैलक्षण्यरूपाकारविशेषेण नायिकाया रत्युत्सवाभिळाषः सूक्ष्मतया दर्शितः । इति सूक्ष्मालंकारः ॥ २६३॥। उदाहरणे लक्षणं संगमयति-इति इति। इति एवं केवलं छाययैव सूक्ष्मरूपेण दर्शितत्वात्। अनुद्भिन्नरूपत्वात् स्फुटतया अप्रतीयमानत्वात्। सूक्ष्मत्वम् अनुलद्दयैव अपरित्यज्यैव। रत्युत्सवमनोरथः व्यवस्थितः वर्णितः । अभूत । अतः सूक्ष्मप्रकारेण मनोरथाविष्कारवर्णनात् सूक्ष्मालंकार इति भावः । अत्र केचिद्। उद्दामरागतरला मुखच्छाया तावत् रत्युत्सवमनोरथस्यैवानुभाव इति न नियमः । विषयान्तरमनोरथादिनापि तत्संभवादित्यनैकान्तिकत्वान्न स्फुटतरं तादृशमनोरथं
१ १दस्य मीलनात. कपा. २ त्दर्पित°. क. ३ काचित्, अ. इत्यसंभिन्न°. क.
Page 270
लेशालंकार: २५१
लेशो लेशेन निर्भिंननवस्तुरूपनिगहनय्। उदाहरण एर्वास् रूपनाविर्भविष्यति॥२६५ ।।
लक्षयति। लक्षयिता तु स्वीयविलक्षणसहृदयतासध्रीचीिया तया कथंचिल्लक्षय- तीति सूक्ष्मत्वमेव रत्युत्सवविषयस्येत्याङ्कः ॥ २६४॥
क्रमप्राप्तं लवापरपर्यायं लेशं निरूपयति -- लेश इति। लेशेन स्वल्प- तया। निर्भिन्नं प्रकटीभूतं यद्वस्तुनो गोप्यविषयस्य रूपं स्वरूपं तस्य निगूहनम् 3संवरणम्। लेशः लेशनामालंकारः। केचित्तु लेशन व्याजेन वस्तुरूपनिगूहनं लेशोलंकारः इति विवृण्वन्ति । तथा च कारणान्तरोत्पन्नस्य प्रकटीभूतस्य वस्तुनः कारणान्तरोत्पन्नत्वकथनेन तदाच्छादनं लेशः इति भावः । स च वस्तुरूपनिर्भेद: ६कचित् रोमादिगात्रविकारैः क्वचिद्वक्कुरनवधानतया संभवति। इमं नव्याः व्याजोक्तिं वदन्ति। तथा च प्रकाशकारः -- व्याजोक्तिश्वछभ्ननोद्भिन्नवस्तुरूपनिगू- हनम्। इति। अप्पय्यदीक्षितवर्णिता छेकापह्ुतिरपि अस्यैव प्रभेदः । तल्लक्षणो- ९दाहरणं तु -- छेकापह्ुतिरन्यस्य शङ्कातस्तथ्यनिह्रवे। प्रजल्पन् मत्पदे लग्नः कान्तः किं न हि नूपुरः ॥ इति। १: अन्यान्यपि उदाहरणानि- समये पयोधराणामपतितया नैव शक्यते स्थातुम । उत्कण्ठितासि बाळे नहि नहि सखि पिच्छिल: पन्थाः ॥
१५यथा वा- सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्। नागरिकः किं मिलितः नहि नहि सखि हैमनः पवनः ॥ इति। १८ ननु नास्त्यत्र लेशनिर्भिन्ननिगूहने कश्चिच्चमत्कार इति नायं अलंकारः । तदेतन्मतं निराकर्तुमाह-उदाहरणे इति। अस्य अलंकारस्य। उदाहरणे एव रूपं चमतकृतिस्वरूपम् । आविर्भविष्यति प्रकटीभविष्यति ॥ २६५ ॥
१ वाक्येस्य. अ.
Page 271
२५२ काव्यादर्शे द्वितीय: परिच्छेद:
राजकन्यानुरक्तं मां रोमोद्द्ेदेन रक्षकाः। अैवगच्छेयुरा ज्ञातमहो शीर्तानिलं वनम् ॥ २६२॥ आनन्दाश्रु प्रवृत्तं ने कर्थ दष्टैव कन्यकाम्। अक्षि मे पुष्परजसा वातोद्ूतेन दूषितम् ॥ २७। इत्येवैमादिस्थानेयमलंकारोतिशोभते। लेशमेके विदुर्निन्दां स्तुति वा लेशतः कृताम् ॥ २६८॥ उदाहरणं दर्शयति-राजेति। रक्षकाः राजान्तःपुराधिकृताः। रोमोद्वेदेन रोमहर्षेण। मां राजकन्यानुरक्तं नृपकन्यकाभिलाषुकम् । अवगच्छेयुः जानीयुः । ३ संभावनायां लिड्। आः ज्ञातम् । आः इति स्मरणे। निगूहनप्रकारः कल्पित इत्यर्थः । अहो इति विस्मये। वनं शीतानिलम् शीतः अनिलः वायुर्यत्र तत्। शीतानलसंपर्केण रोमोद्रम इति भावः । अत्र शीतानलसंपर्केण रोमोद्रमस्य व्यवस्थापनात् अनुरागनिगूहन संपादितम्। तच्च वैचित्रयातिशालि इति युक्त मस्यालंकारत्वम्। निर्भिन्नवस्तुनिगृहनम् अनिष्टसंभावनया लज्या वा भवति। अत्र अनिष्टसंभावनया । लज्जया तु अग्रिमोदाहरणे इति ज्ञेयम् ॥ २६६ ॥
लज्जया निगूहनात्मकं लेशमुदाहरति-आनन्देति। कन्यकां विवाह- मण्डपे आगतां कन्यकाम्। दृष्टैरव मे आनन्दाश्चु कथं प्रवृत्तम्। एवं कन्यकादर्शनेन आनन्दाश्रुप्रवृत्तिः चित्तचाञ्चल्यसूचिका इति आशङ्कय निगूहति। मे अक्षि नयनम्। वातोद्ूतेन पवनोत्क्षिसेन। पुष्परजसा कुसुमपरागेण। दूषितम् इति। अत्र आनन्दाश्रण: पुष्परजोदूषिताक्षिजत्वप्रतिपादनेन निगूहनात् लेशालंकारः॥२६७॥। उदाहरण एवास्य रूपमाविर्भविष्यति इति प्रतिज्ञानुरोधेन उदाहरणं प्रदर्श्य तत्र वैचित्र्यं दर्शयन् उपसहरति-इत्येवमिति। इत्येवमादिस्थाने एवंविध- स्थले। अयमलंकारः लेशः । अतिशोभते चमत्कृतिविशेषमावहति। अतः परोक्तं लेशस्य अनलंकारत्वं न स्वीकर्तव्यमिति भावः । लेशस्य अपरं प्रकारं दर्शयति लेशमिति । एके पण्डिताः । लेशतः कृतां स्तुति वा निन्दां वा लेशं विदुः जानन्ति। तथा च स्तुतिमिषेण कृता निन्दा निन्दामिषेण कृता स्तुतिर्वा लेश
१ प्राव°. बया १ शीतामिलम्बनं अ. ३ इत्येवमादौ. अ,
Page 272
लेशोदाहरगानि २५३
इत्यर्थः। यथा लेशेन निर्भिन्नवस्तुनिगूहनाल्लेशालंकार: तथा लेशेन स्तुतिनिन्दा- विधानेपि स एव अलंकारः उचितः । चमत्कृतौ लेशस्य प्राधान्यात्। एवं च
दोषस्य यो गुणीभावो दोषीभावो गुणस्य वा। स लेशः स्यात् ततो नान्या व्याजस्तुतिरपीष्यते । १२इति प्राश्चः । अप्पयदीक्षितास्तु-
अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु।
१५ शुक पञ्ञरबन्धस्ते मधुराणां गिरां फलम् ॥ इति लक्षणोदाहरणं प्रदर्श्य अग्रे आहुः। दण्डी त्वत्रोदाजहार- युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः ।
१८ रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि।। चपलो निर्दयश्चासौ जनः किं तेन मे सखि। आगः प्रमार्जनायैव चाटवो येन शिक्षिताः ॥ इति। २१अत्राद्य्लोके राज्ञो वीर्योत्कर्षस्तुतिः। कन्याया निरन्तरसंभोगनिर्विवर्तिषया दोष त्वेन प्रतिभासतामित्यभिप्रेत्य विदग्धया सख्या राजप्रकोपपरिजिहीर्षया स एव दोषो गुणत्वेन वर्णितः । उत्तरक्लाके सखीभिरुपदिष्टं मान कर्तुमशक्तयापि तद- २ञ अ्रतो मानपरिग्रहानुगुण्यं प्रतिज्ञाय तदनिर्वाहमाशङ्कमानया सखीनामुपहासे परिजिहीर्षन्त्या नायिकया नायकस्य चाटुकारितागुण एव दोषत्वेन वर्णितः । न चादश्लोके स्तुतिः निन्दापर्यवसायिनी द्वितीयश्लोके निन्दा स्तुतिपर्यवसायिनीति २७व्याजस्तुतिराशङ्कनीया। राजप्रकोपपरिहारार्थमिह निन्दास्तुत्योरन्याविदिततया लेशत एवोद्धाटनेन ततो विशेषादिति। वस्तुतस्तु इह व्याजस्तुतिसद्भावेपि न दोषः । नहि एतावता लेशमात्रस्य व्याजस्तुत्यन्तर्भावः प्रसज्जते। तदसंकीर्ण- ३० योरपि लेशोदाहरणयोर्दर्शितत्वात्। नापि व्याजस्तुतिमात्रस्य लेशे अन्तर्भावः प्रसज्जते। भिन्नविषयव्याजस्तुत्युदाहरणेषु- कसत्वं वानर रामचन्द्रभवने लेखार्थसंवाहको। यदूक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटून् मृषा।
Page 273
२५४ काव्यादर्शे द्वितीय: परिच्छेद:
युवैष गुणवान् राजा योग्यस्ते पतिरूर्जित: । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि॥ २६९॥ इत्यादिषु दोषगुणीकरणस्य गुणदोषीकरणस्य चाभावात्। तत्र अन्यगुणदोषाभ्यां अन्यत्र गुणदोषयो: प्रतीतेः । विषयैक्येपि-
३६ इन्दोर्लक्ष्म त्रिपुरजयिन: कण्ठमूलं मुरारि: दिङ्नागानां मदजलमषीभाञ्जि गण्डस्थलानि। अद्याप्युर्वीवलयतिलक श्यामलिम्नानुलिप्ता-
३९ न्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ इत्यादुदाहरणेषु लेशास्पर्शनात्। तत्र हीन्दुलक्ष्मादीनां धवलीकरणाभावदोष एव गुणत्वेन न पर्यवस्यति किंतु परिसंख्यारूपेण ततोन्यत् सर्व धवलितमित्यन्यो rगुणः प्रतीयते। क्वचिद् व्याजस्तुत्युदाहरणे गुणदोषीकरणसत्वेपि स्तुतेर्विषया- न्तरमपि दृश्यते। यथा- सर्वदा सर्वदोसीति मिथ्या संस्तूयसे बुघैः ।
४५ नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥
अत्र हि वाच्यया निन्दया परिसंख्यारूपेण ततोन्यत् सर्वमर्थिनामभिमतं दीना- रादि दीयते इति स्तुत्यन्तरमपि प्रतीयते। एवं च येषूदाहरणेषु -- कस्ते शौर्यमदो cयोङ्गुम् इत्यादिषु-गुणदोषादिषु गुणदोषीकरणादिकमेव व्याजस्तुतिरूपतया- वतिष्ठते तत्र लेशव्याजस्तुत्योः संकरोस्तु । इत्याहुः। जगन्नाथोपि-नचायम- लंकार: व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्कयम्। मुखप्रतिपादितार्थवैपरी- ५१त्येन अत्र सर्वत्र पर्यवसानाभावात् इत्यादि प्रबन्धेनामुमेव सिद्धान्तं दर्शयामास इत्यलं पल्लवितेन ॥ २६८ ।।
स्तुतिव्याजेन निन्दारूपं लेशमुदाहरति-युवैष इति। एषः राजा युवा गुणवान् ऊर्जित: तेजस्वी। ते योग्यः समुचितः। पतिः भवितुमर्हति। यस्य मनः कामोत्सवादपि रणोत्सवे संग्रामविहारे। सक्तम् । स्वयंवरप्रसक्तां राजकन्यां प्रति तत्सख्या उक्तिरियम् । तेन मुखतः अतिवीरोयं व्रियतामिति रणोत्सवे मनः सकतं यस्य कामोत्सवादपि इत्यनेन स्तुत्यवगतावपि पर्यवसाने सर्वथा रणव्यग्रोयं
Page 274
लशोदाहरणानि २५५
वीर्योत्कर्पस्तुतिनिन्दैवास्मिन् भारवनिष्टत्तये। कन्यायाः कल्पते भोगान् निविंविक्षोनिरन्तरम् ॥२७०।। चपलो निर्दयश्चासौ जनः किं तेन मे सखि। आगःप्रमार्जनायैव चाटवो येन शिक्षिताः।२७१।। दोषाभासो गुणः कोपि दर्शितश्राटुकारिता। मानं सखिजनोदिष्टं कर्तु रागादशक्त्तया ।। २७२।। । इति लेशचक्र्कम् ॥ इ नानेन ते पर्याप्तरतिसुखलाभः स्यादिति संभोगाभिलाषुकायाः निवेदनानिनिन्दाया एव अवबोधो भवति। अतः स्तुतिमिषेण निन्दाविधानात् लेशालंकारः ॥ २६९॥ उदाहरणं विशदयति-वीर्येति। अस्मिन् पद्ये। निरन्तरं भोगान् निर्विविक्षोः सततभोगाभिलाषुकायाः । कन्यायाः भावनिवृत्तये भावः मनोरागः ३वरणाभिप्रायो वा तन्निवृत्तये। राज्ञः वीर्योत्कषस्तुतिः निन्दैव कल्पते निन्दात्वेन परिणमति ॥२७०।। निन्दाव्याजेन स्तुतिमाह-चपल इति। मानपरिपालनमेव मनस्विन्या गौरवहेतुः । अतस्त्वया प्रेयसि स विधेय इति उपदिशन्त्याः सख्याः पुरतः ३प्रतिज्ञातमपि मानस्वीकारं तमनुष्ठातुमसमर्थाया स्वोपहासपरिजिहीर्षन्त्या नायिकाया उक्तिरियम् । हे सखि असौ मन्नायकरूपः जनः । चपलः चञ्चलस्वभावः । निर्दयश्च परपीडानभिज्ञतया दयाशून्यश्वास्ति। येन आगःप्रमार्जनायैव अपराध ६निराकरणायैव। चाटवः प्रियालापाः । शिक्षिताः । अतः तेन भवतीभिरुपदिष्टेन मानेन। किम्। न किमपि प्रयोजनमित्यर्थः । सः चाटुप्रयोगचतुरः धृतमपि मानं शिथिलयतीक्यर्थः ॥२७१॥ उदाहरणं विशदयति-दोषाभास इति। रागात प्रियस्नेहात्। सखी- जनोदिष्टं सखीजनापेक्षितम् । सखीजनोपदिष्ठमिति केचित्। मानं कर्तु अनुष्ठा- :तुम्। अशक्तया नायिकया चाटुकारतारूपः कोपि गुणः स्त्रीजनमनोहारी दोषा भांस: दोष इव आभासते स दोषाभासः । कृतः । दोषत्वेन निरूपित इत्यर्थः । अत्र निन्दाव्याजेन स्तुतिर्द्शिता इति लेशः ॥ २७२॥ १ °निवर्तने. अ. २ निरन्तरान्, क. ३ गुणायेव, कपा.
Page 275
२५६ काव्यादर्शे द्वितीय: परिच्छेद:
उददिष्टानां पदार्थानामनूद्देशो यथाक्रमम्। यथासंख्यमिति प्रोक्तं संख्यानं क्रम इत्यपि ॥ २७३॥ ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः। स्नातुमम्भ:प्रविष्टायाः कुमुदोत्पलपङ्कजैः॥२७४॥ ॥ इति क्रमः ॥ हेतुः सूक्ष्मो लवः क्रमः इति क्रमप्राप्तं क्रममुदाहरति-उद्दिष्टानामिति। उद्दिष्टानाम् प्रथमं कथितानाम्। पदार्थानां यथाक्रमम् उद्देशक्रमानुरूपमेव। अनूद्देशः 3पश्चादुक्तानां तत्संवन्धिनां कथनम् । यथासंख्यं तत्संज्ञकोलंकारः । पूर्वोक्तानां तद- नुरोधेन पश्चादुक्तैः पदार्थैः सहान्वयः यथासंख्यालंकार इति भावः । उद्देंश- वाक्यगतस्य क्रमपदस्य संगति दर्शयति- संख्यानं क्रम इत्यपीति। यथासंख्य ६ एव संग््यानक्रमपर्यायः इत्यर्थः । तदुक्तं भामहेन- यथासंख्यमथोत्प्रेक्षामलंकारद्वयं विदुः । संख्यानमिति मेधावी नोत्प्रेक्षाभिहिता क्वचित् ॥। (२.८८) इति। १अनेन मेधावी यथासंख्यं संख्यानमिति अभिधत्ते इति स्पष्टम्। भोजराजः यथासंख्यं क्रमशब्देन व्यवहरति ॥२७३ ॥
यथासंख्यमुदाहरति-ध्रुवं त इति। हे तन्वि स्नातुम् अम्भःप्रवि- षायाः जलगतायाः । ते स्मितेक्षणमुखद्युतिः कुमुदोत्पलपङ्कजैः ध्रुवं निश्चयेन। चोरिता अपहता। अत्र कुमुदानां श्वेतत्वं उत्पलानां नीलतवं पङ्कजानां च आरक्तत्वं ज्ञेयम्। तेन साम्यग्रतीतिः । तथा च कुमुदेन स्मितद्युति: उत्पलेन ईक्षणद्युतिः पङ्कजेन मुखद्युतिश्व चोरिता इति पूर्वक्रमानुरोधेन उत्तरत्र क्रमः इति ६यथासंख्यम्। अन्यदुदाहरणं यथा- एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च। तापं च संमदरसं च रति च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ।। इति ॥ २७४॥ १ निर्दिष्टानां. अ. २ अनुदेशो. क.
Page 276
प्रेयोलंकार: २५७
प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्। ऊर्जस्वि रूढाहंकारं युक्तात्कर्षं च तत्त्रयम्॥२७५।। व्यङ्गयस्य संलक्ष्यक्रमासंलक्ष्यक्रमौ इति द्वौ भेदौ प्रागस्मामिरनिरूपितौ। तत्र संलक्ष्यक्रमाणां वस्त्वलंकाररूपव्यङ्गयानां वाच्यार्थस्य शोभाजनकतया समा- सोक्तिरूप कादिनाम्नालङ्कारत्वमुक्तम्। असंलक्ष्यक्रमाणां रसादिवाब्मयानामपि वाच्योपस्कारेण अलंकारत्वमुचितमिति तदुपजीवि प्रेयोरसवदूर्ज्वि इत्यलंकारत्रयं दर्शयति -- प्रेय इति। त्रयाणामसंलक्ष्यक्रमत्वरूपैकधर्मत्वात् एकत्र निवेशः । ६तेषु प्रियतरं भावाभिव्यक्त्या बोद्धव्यस्य प्रीत्यतिशयकरं वक्तुर्वा प्रीत्याधिक्य- सूचकमाव्यान प्रेयः प्रेयोनामालंकारः । अतिशयेन प्रियत्वात् प्रेयः इत्यर्थः । भावाश्च देवतागुरुशिष्यद्विजपुत्नादावभिव्यज्यमाना रतिः तथा विभावानुभावाभ्यां व्यञ्जितः निर्वेदादित्रयस्त्रिंशद्भेदो भावः व्यभिचारिणो भावाश्च। उक्त च प्रकाशे- रतिर्देवादिविषया व्यभिचारी तथाञ्जचितः । भावः प्रोक्तः इति। देवादिविषयेत्य- प्राप्तरसावस्थोपलक्षणम्। तदुक्तं-
१२ रत्यादिश्वेन्निरङ्गः स्याद्देवादिविषयोथवा। अन्याङ्गभावभाग्वा स्यान तदा स्थायिशब्दभाक् ॥ इति। आचार्यदण्डिनस्तु देवादिविषयकरतिभावव्यञ्जकमाख्यानं प्रेयोलंकारस्य विषय- १५तयाभिप्रेतमिति उदाहरणानुरोधादवगम्यते। एवं च कथनचातुरीवशेन व्यज्य- माना देवादिविषयिका रतिर्यत्र वाच्योपस्कारिका तत्र प्रेयोलंकारः इति लक्षणं निष्पन्नम्। तथा च रसपेशलं रसेन रत्यादिस्थायिभावरूपेण पेशलं सहृदयानन्द- १८जननमाख्यानं रसवदलंकारः। तथा रूढः अभिव्यक्तः अहंकारो गर्वः यत्र तादृशमाख्यानम् ऊर्जखिि। आख्यानचातुर्येण प्रधानतयाभित्यज्यमानो गर्वाख्यो व्यमिचारिभावः ऊर्जस्विनामालंकार इत्यर्थः । गर्वलक्षणं हि-
२१ गर्वोभिज नलावण्यधनैश्च्वर्यादिभिर्मदः । सविलासाङ्गवीक्षाविनयावज्ञादिकृतु सः ॥ इति॥ युक्तोत्कर्ष चेति। युक्तः अलंकारव्यपदेशोपयुक्तः उत्कर्षः वाच्यशोभा यस्माद् २नतत्। तत्त्रयं तेषां प्रेयःप्रभृतीनां त्रयम् अलंकारव्यपदेशाई भवतीव्यर्थः । सादश्यादयो वाच्यार्थशोभाजनकत्वाद्यथा उपमालकारादयो भवन्ति तथा भावा- [काष्यादर्श ] ३3
Page 277
२५८ काव्याद्शे द्वितीय: परिच्छेद:
दयोपि तेनैव कारणेन अलंकारव्यवहार्या भवितुं युक्ता इत्यर्थः । अत्र प्रसङ्गतः २७रसभावानां किंचित् स्वरूपं दर्शयामः । तत्र विभावानुभावव्यभिचारिभिर्व्यञ्जितो रतिहासशोकादिश्चित्तवृत्तिविशेषो रसः । तदुक्तम्- विभावैरनुभावैश्व सात्त्विकैर्व्यभिचारिभिः ।
30 आनीयमान: स्वाद्यत्वं स्थार्यीमावो रसः स्मृतः ॥ इति। भरतोपि विभावानुभावव्यभिचारिसंयोगाद्रसनिप्पत्तिः । इत्याह। तत्र विभावाः वासनारूपतया अतिसूक्ष्मरूपेण अवस्थितान् रत्यादीन् स्थायिभावापरपर्यायान् ३३विभावयन्ति आस्वादयोग्यतां नयन्ति ते ललनानायकचन्द्रिकावसन्तादयो ्ञेयाः। तत्र ललनानायकौ आलम्बनविभावौ। चन्द्रिकावसन्तादयश्चोद्दीपनविभावाः इति विवेकः । अनुभावाश्च रत्यादीन् स्थायिनो येनुभावयन्ति अनुभवविषयाकुर्वन्ति ३६ते अनुभावाः कटाक्षमुजाक्षेपरोमाञ्चप्रभृतयः। अथवा अनु रसोद्वोधानन्तर- मुद्धवन्ति रसकार्यरूपा ते अनुभावा कटाक्षरोमाञ्चादयः । व्यभिचारिणस्तु विशेषेण अभितः सर्वाङ्गव्यापितया रत्यादीन् स्थायिनः काये चारयन्ति संचार- ३ यन्ति मुद्गुर्मुहुरभिव्यञ्जयन्ति ते निर्वेदग्लानिशङ्कादयः त्रयस्त्रिंशत् ज्ञेयाः । तत्र संयोगात् नाम विभावैरुत्पाद्योत्पादकरूपसंबन्धात् अनुभावैर्गम्यगमकभावरूप- संबन्धात् व्यभिचारिमिश्च पोष्यपोषकभावरूपसंबन्धाच्च रसनिष्पत्तिर्नाम विभा- ४२वरुत्पत्तिः अनुभावैरभिव्यक्तिः व्यमिचारिभिः पुष्टिश्च स्थायिनो भवन्त्रि इति भट्टलोल्लटः। विभावादिभि: संयोगात् गम्यगमकभावरूपाठ् अनुमाप्यानुमापक- भावरूपात् संबन्धात् रसस्य निष्पत्तिरिति श्रीशङ्कुकः । विभावादिभिः संयोगात् r५ भोज्यभोजकरूपसंबधात् रसस्य निष्पत्तिर्भुक्तिरिति भट्टनायकः । अभिनवगुप्त- पांदास्तु स्थायिनां विभावादिभिः सम संयोगात् व्यङ्गयव्यञ्जकभावरूपात् संबन्धात् विभावादीनां वा परस्परसंयोगात् मीलनात् रसस्य निष्पत्तिरभिव्याक्तिः इति सूत्रार्थ reविवृण्वन्ति। अयमेव चालंकारिकसंमतोर्थः । विस्तरस्तु काव्यप्रकाशे तट्टीकादौ च द्रष्टव्यः । रसविशेषाश्र- शृङ्गारह्दास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्दुतसंज्ञाश्चेव्यष्टौ नाट्ये रसाः स्मृताः ॥ इति भरतेनोपदिष्टाः । एषां स्थायिभावाश्च तेनैव कथिताः । यथा-
Page 278
रसादिविवेचनस् २५९-
रतिर्हासश्च शोकश्च क्रोधोत्साह। भयं तथा।
५४ जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ इति। स्थायित्वलक्षणं तु- विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । ५७ आनन्दाङ्कुरकन्दोसौ भावः स्थायिपदास्पदम् । इति । एवमेव पण्डितजगन्नाथोपि- सजातीय विजातीयैर तिरस्कृतमूर्तिमान्।
६० यावद्रसं वर्तमान: स्थायिभाव उदाहृतः ॥ (३१ पत्रे) इति लक्षणमाह। तत्न स्त्रीपुंसयोरन्योन्यालम्वनः प्रेमाख्यश्चित्तवृत्तिविशेषो रांते- स्थायिभावः । वागङ्गादिविकारदर्शनजन्मा चेतोविकासो हासः। पुत्रादिवियोग- ६३मरणादिजन्मा वैक्वव्याख्यश्चित्तवृत्तिविशेषः शोकः। गुरुबन्धुवधादि परमापराधजन्मा प्रज्वलनाख्यः क्रोधः । परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्यः उत्साहः । व्याघ्रदर्शनादिजन्मा परमानर्थविषयको वैक्लव्याख्यः चेतोविशेषः भयम्। कदर्य- ६ ६ वस्तुविलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा । अलौकिकवस्तु- दर्शनादिजन्मा आश्चर्याख्यो विस्मयः । अनुभावास्तु- अनुभावो विकारस्तु भावसंसूचनात्मकः ।
६९ स्तम्भप्रलयरोमाञ्च्चाः स्वेदो वैवर्ण्यवेपथू॥ अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः । ड्युक्तलक्षणाः । एषामुदाहरणानि विस्तरभयान्न प्रदर्श्यन्ते। रसगङ्गाधरादौ तानि ७द्रष्टव्यानि। तत्र शृङ्गारस्य द्वौ प्रभेदौ संभोगो विप्रलम्भश्व इति। रतेः संयोगकाला- वच्छिन्नत्वे प्रथमः । वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगवियोगौ च दम्पत्योः आवां संयुक्तवियुक्तौ इत्याकारिकौ अन्तःकरणवृत्तिविशेषौ ग्राह्यौ। तेन एकतल्प- ७५शयनेपि ईर्ष्यादिसद्भावे विप्रलम्भवर्णनमुचितम् इति ज्ञेयम्। व्यभिचारिणो भावास्तु- निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलर्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः।।
Page 279
६० काव्यादर्शे द्वितीय: परिच्छेद:
ब्रीडा चपलता हर्ष आवेगो जडता तथा। गर्वो विषाद औतसुक्यं निद्रा विस्मृतिरेव च।। ८१ त्रासश्चैव विर्तकश्च विज्ञेया व्यभिचारिणः । स्वप्नो विबोधोमर्षश्चाप्यवहित्थमथोग्रता ॥ मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च । त्रयस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ इति भरतेनोक्ताः । एनेषामपि लक्षणोदाहरणानि प्रकाशादौ द्रष्टव्यानि। प्रकाश- कारा :- निर्वेदस्थायिभावोस्ति शान्तोपि नवमो रसः । इति शान्तं रसं स्वी- ८७कुर्वन्ति। निर्वेदो नाम नित्यानित्यवस्तुविचारजन्मा विषयविरागः। रसभावविवे- चनविस्तारस्तु नाट्यशास्त्रे षष्ठसप्तमाव्याययो: ध्वन्यालौकादौ च द्रष्टव्यः । अन्रेदम- वघार्यम्। उपर्युक्तभावेषु देवादिविषयकरतिभावस्य प्रेयोनामालंकारत्वम्। गर्वाख्य- १.भावस्य च ऊर्जस्विनामालंकारत्वम्। अवशिष्टभावानां तथा रसाभासभावाभास भावशान्तिभावोदयभावसंधिभावशबलतानां च रसवदलंकारत्वं बोध्यम्। रस- पेशलम् इत्यत्र रसपदस्य रस्यमानपरत्वात् भावानामपि रसपदेनैव संग्रहो ज्ञेयः । ९३तथा चोक्तम्- रसभावौ तदाभासौ भावस्य प्रशमोदयौ। संधि: शबलता चेति सर्वेपि रसनाद्रसाः ॥ इति। ९.आचार्यदण्डिनो मते अङ्गित्वेनाङ्गत्वेन वाभिव्यज्यमाना रसादयः अलंकारतां प्राप्तुवन्ति। उभयोरपि काव्यशोभाजनकत्वाविशेषात्। ननु अङ्गिनो रसादेरलंकार्य- त्वात् कथमलंकारत्वम् । रसस्य प्राधान्येलंकार्यत्वम् तदन्यत्न चालंकारत्वमुक्त ९९ध्वन्यालोकलोचनकारैः यथा- प्रधानेन्यत्र वाक्यार्थे यत्राङ्कं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥ इति। १०२परं दण्डिनो मते शब्दार्थात्मकस्य काव्यस्यैवालंकार्यत्वेन तदुपस्कारकस्य व्यङ्गय- मात्रस्य काव्यशोभाकरत्वेन अलंकारव्यपदेशे बाधाभावात्। काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षत । इति अलंकारसामान्यलक्षणस्यात्रापि निर्बाधप्रवृत्तेः । १५यदुकं विश्वनाथेन ध्वन्यालोकानुसारिणा-
Page 280
रसादिविवचनम् २६१
रसभावौ तदाभासौ भावस्य प्रशमस्तथा। गुणीभूतत्वमायान्ति यदालंकृतयस्तदा । १७८ रसवत् प्रेय ऊर्जस्विर समाहितमिति क्रमात्। भावस्य चोदये संधौ मिश्रत्वे च तदाख्यकाः ॥ (१०,९५) इति। तत्र रसवत्प्रेयऊर्जस्विनां लक्षणं मूलकृतोक्तम्। प्रशाम्यदवस्था भावप्रशमः । सः १११यत्र परस्याङ्गं तत्र समाहितालंकारः । भावस्य उद्गमावस्था भावोदयः । तस्य परा ङगतवे भावोदयालंकारः । द्वयोर्विरुद्धयोर्भवयोः परस्परस्पर्धा भावसंधिः । तस्य पराङ्गत्वे भावसन्धिरलंकारः । बहूनां भावानां पूर्वपूर्वोपमर्ददेनोत्पत्तिर्भावमिश्रत्वम्। ११४तस्य पराङ्गत्वे भावमिश्रालंकारः । रसस्य अङ्गित्वे अलंकार्यत्वमङ्गत्वेलंकारत्वमिति। तदेतत्प्रकाशकारादीनां मतं दूषयन्त आहुः प्रेमचन्द्रशर्माणः । अत्र ते नव्याः प्रष्टव्याः । कि प्रधानतया प्रतीयमानस्य व्यङ्गयमात्रस्यैवालंकार्यत्वम् उत तथा- ११७भूतस्य रसादेरेवेति। तत्र न तावत् प्रथमः । समासोक्त्यप्रस्तुतप्रशंसापर्यायोक्तादौ प्रधानतयैवाभिव्यज्यमानानां वस्त्वलंकाराणां तैरप्यलंकारत्वाभ्युपगमाद्। न च तत्र वाच्यार्थस्यैव प्रधानत्वं प्रतीयमानानां वस्त्वलंकाराणां त्वप्रधानत्वम् । १२० अप्रधानानां त्वलंकारत्वमुचितमेवेति वाच्यम्। तत्र तत्र व्यङ्गयानामेव् प्राधान्य- स्यानुभवसिद्धतयानपलपनीयत्वात्। नापि द्वितीयः । सामान्येन. काव्यात्मकतया- भ्युपगतानां वत्स्वलंकाररसादिव्यङ्गयानां मध्ये वस्त्वलंकाराणामलंकारत्वम् रसादी- १२१नामेवालंकार्यत्वम् इति निर्वक्तुमयोग्यत्वात्। न च रसादिव्यङ्गयस्यैव प्रधानस्य काव्यात्मकत्वादलंकार्यत्वं न वस्त्वलंकारयोः इति विश्वनाथोक्तमादरणीयम् । यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयूखः ।
१२६ संध्याभ्रमं प्राप्तवतामकाण्डेप्यनङ्गनेपथ्यविधि व्यधत्त ।। इत्यादौ तेनापि अङ्गभूतेन शृङ्गारेणैव काव्यव्यवहाराभ्युपगमात्। संलक्ष्यक्रम- व्यङ्गयरूपध्वनिभेदस्य सर्वैः आलंकारिकैरभ्युपगतत्वेन रसादेरेव काव्यात्मत्वप्रति- १२९ पादनस्य बहुषो दूषितत्वाच्च। तस्मात् व्यङ्गयतया विशिष्टानां वस्त्वलंकाराणां रसादीनां काव्यशोभाजनकतयालंकारत्वं युक्त्यनुभवप्रतिपन्नमिति प्राचां सरणिरेव साधायसी इति आहुः। अत्र रसस्य अलंकार्यत्वम् पूर्व च रसवद्वाचि इत्या- १३२दिना गुणत्वमुक्तम् तत् कथमेकस्यैव गुणत्वमलंकारत्वं चेति शङ्कायाः समाधान- मग्रे मूले एव स्फुटीभविष्यति॥२७५ ॥
Page 281
२६२ काव्यादर्शे द्वितीय: परिच्छेद:
अद्य या मम गोविन्द जाता त्वयि गृहागते। कालेनैषा भवेत् प्रीतिस्तवैवागमनात् पुनः ॥ २७६ ॥ इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः। भक्तिमात्रसमाराध्यः सुप्रीतश्र ततो हरिः ॥ २७७॥ सोमः सूर्यो मरुड्कमिर्व्योम होतानलो जलम्। इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम्॥ २७८॥ प्रेय उदाहरति-अद्येति। गृहागत भगवन्तं प्रति विदुरोक्तिरियम्। हे गोविन्द त्वयि गृहागते सति मदीयभवनं संप्राप्ते सति। अद्य मम या प्रीतिर्जाता। कालेन कालान्तरेण! तवैवागमनात् पुनरपि त्वदागमनेनैव। एषा प्रीतिः अद्यतनी- सदृशी प्रीतिः । भवेत् भविष्यति। त्वयि गते त्वदितरसत्पुरुषागमनेन एवंविधा प्रीतिर्नैव भविष्यति इत्यर्थः । अत्र विदुरस्य भगवद्विषयकरतिभावः वाक्यभङ्गयाभि- व्यज्यमानः भगवतः प्रीत्यतिशयजनने वाच्यस्य शोभां पुष्णाति ॥ २७६ ॥ उदाहरणं संगमयति -- इत्याहेति। इति पूर्वोक्तप्रकारम्। विदुरः युक्तं तद्भक्तेरनुरूपम्। आह। यतस्तस्य अन्यतः भगवदितरस्मात्। तादृशी धृतिः संतोषः। नास्ति । अथवा अन्यतः विदुरेतरे पुंसि। तादृशी धृतिः धैर्यम्। नास्ति। भक्तिमात्रेण केवलभक्त्या। न तु तच्छून्यैरुपचारैः इत्यर्थः । समाराध्यः हरिः ततः तस्माद्विदुरवचनात् । सुप्रीतः संतुष्टः । अभूत् । अत्र वोद्धव्यस्य भगवतः प्रीति- इकरमेतदाख्यानमिति प्रेयोलंकारः । उद्योगपर्वस्थितस्य- या प्रीतिः पुण्डरीकाक्ष तवागमनकारणात्। सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनाम् ॥ इत्यस्य श्लोकस्य प्रतिरूपकोयं श्लोकः इति प्रेमचन्द्रशर्मादयः ॥ २७७॥ बोद्धुः प्रीतौ पूर्वमुदाहतम् इदानीं वक्तप्रीतावुदाहरति-सोम इति। हे देव सोम: चन्द्रः । सूर्यः । मरुत् वायुः । भूमिः। व्योम आकाशम्। होता यजमानः। अनलः अग्निः।जलम् च। इति रूपाणि एवंविधानि स्थूलानि अष्टौ रूपाणि। अति- क्रम्य विलद्दय। त्वां सच्चिदानन्दैकमयम्-अणोरणीयान् महतो महीयान् इत्यादि- श्रतिशतवर्णतं भगवन्तम्। दृष्टुं साक्षात्कर्तुम्। के वयम् पामराः। वयं त्वत्स्वरूपा- १ नैषा काले. बपा. २ वाक्यं. बपा.
Page 282
त्रेयउदाहरणानि २६३
इति साक्षात्कृते देवे राजों चद्रातवमण: । प्रीतिप्रकाशनं तच्व प्रेय इत्यँवगम्यताम् ॥ २७९ ॥ मृतेति प्रेत्य संगन्तुं यया मे मरणं मतम्। ६वलोकने आकलने वा न समर्थाः इत्यर्थः। एवं स्थिते यत्तव दर्शन तत्न तवा- नुग्रह एव हेतुरिति भावः । अत्र केचित्-इति रूपाणि सोमादिस्थूलरूपा अष्टौ मूर्तीरतिक्रम्य सूक्ष्मस्वरूपेण वर्तमानं सच्चिदानन्दं त्वां द्रष्टुम् इति अति- क्रमणक्रियां भगवत एव वर्णयन्ति ॥ २७८।।
उदाहरणं विशदयति-इतीति। देवे महेश्वरे। साक्षात्कृते तपोभिः प्रत्यक्षीकृते । रातवर्मणः तत्संज्ञकस्य। राजः नृपतेः। यत् प्रीतिप्रकाशन महेश्वर- ३विषयकरतिभावसूचनम् । तच्च तदपि। प्रेयः इति अवगम्यताम् ज्ञायताम् । अत्र केवलभक्तस्यैव प्रीत्यभिव्यक्तिर्वोद्दव्या। सोमादिभिन्नस्य प्राकृतरूपगुणशून्यस्य निष्कलस्य परब्रह्मणः जन्यप्रीतेरभावात् न आराध्यगता प्रीतिरत्रास्तीति भावः । ६रतिर्देवादिविषया इति भावलक्षणे आदिशब्देन मुनिनृपादीनां संग्रहः। तत्र देवविषयकरते रुदाहरणं ग्रन्थाकृता दर्शितम्। मुनिनृपादीनां यथा- हरव्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेपि योग्यताम्।। इयं हि नारदमुद्दिश्य भगवतः श्रीकृष्णस्योक्तिः। अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय-
१२ स्तानेतानपि विभ्रती किमपि न क्वान्तासि तुभ्यं नमः । आश्चर्येण मुड्डर्मुह्ुः स्तुतिमिमां प्रस्तौमि याव्भुव- स्तावद्विम्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ इति । १५अत्र पूर्वार्धे भूविषया उत्तरार्घे राजिषया रतिः। तत्र चाङ्गाङ्गिभावः ॥ २७९॥ रसवदलंकारं दिदर्शीयषुः रसेषु प्राथम्यात् सर्वजनाभिनन्दनीयत्वाच्च प्रथमं शृङ्गारमुदाहरति-मृतेति। वासवदच्ायाः दाहप्रवादेन परं दुःखितस्य
१ राज्ञोभद्. अ. २ राजवर्मण:, ब, ड, प. 3 इत्यनु०. अ ४ मृतेभिप्रेत्य संगंनु. बपा, ५ वृत्तं. अ.
Page 283
२६४ काव्यादर्शें द्वितीय: परिच्छेद:
सैवावन्ती मया लब्धा कथमत्रैव जन्मनि ॥ २८० ॥ प्राक् श्रीतिर्दशिंता सेयं रतिः श्ृङ्गारतां गता। ३पुनस्तां प्राप्य हर्षस्य परां कोटिमुपगतस्य वत्सराजस्योक्तिरियम्। मृता अभि- दाहात पञ्चत्वं गता इति हेतोः। यया वासवदत्तया सह। प्रेत्य परलोके संगन्तुम् संयोगं प्राप्तुम्। मे मया। मरणं मतं प्रार्थितम्। सा एव अवन्ती अवन्तिदेशोद्वा ६वासवदत्ता । कथम् अत्रैव जन्मनि मया लब्धा। अत्र संभोगशृङ्गारः। तदुक्तं प्रदीपे- अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ। दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥ अयं च विप्रलम्भानन्तरं वर्णितः पुष्टिमान्नोति इत्यत्र विप्रलम्भानन्तरं वर्णितः । तदुक्तं-
१२ न विना विप्रलम्भेन संभोग: पुष्टिमश्नुते। कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते ॥ इति। विप्रलम्भलक्षणम् प्रदीपे-
१५ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति। नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ॥। इति ॥ अयं च विप्रलम्भ: पूर्वरागमानप्रवासकरुणात्मकतया चतुर्विधः। तत्र करुणा- १८त्मको। यथा- यूनोरेकतरस्मिन् गतवति लोकान्तरे पुनर्लभ्ये। विमनायते यदेकस्तदा भवेत् करुणविप्रलम्भाख्यः ॥इति॥२८०॥ नायिकाविषयकप्रीतेरत्रापि प्रतीयमानत्वात् कुतो नायं प्रेयोलंकारः इत्याह-प्रागिति। प्राक् पूर्वोदाहृतप्रेयोलंकारोदाहरणद्ये। प्रीतिः दर्शिता। ३ संप्रयोगशून्या रतिः प्रीतिः। सा प्रेयोलंकारविषयाभूता इति तदलंकारे सा दर्शिता । तत्र हि भगवद्विषयका रतिः विभावादिभिरपरिपुष्टा अतः प्रीतिः । तदुक्तम-
१ सैषावन्ती. ब, क; सैषा तन्वी, बपा, ड, प.
Page 284
रसवदुदाहरणानि २६५
रूपवाहुल्ययोगेन तदिदं रसवह्च:॥ २८१॥।
६ मनोनुकूलेष्वर्थेषु सुखसंवेदनं वचः । असंप्रयोगविषया सैव प्रीतिर्निगद्यते ॥। इति। संप्रयोगो नाम विभावादिभिः परिपोषः । स तु पूर्वोदाहरणे नास्ति इति तत्र प्रीतिः । अत्र तु तादृशः परिपोषो वर्तते इति रतिः । तदाह-सेयं रतिरिति । सा तादृशी देवादिविषयकपूर्वदर्शितरतिसजातीया रतिः-रतिर्मनोनुकूलेर्थे मनसः प्रवणायितम्। इत्याद्युक्तलक्षणा। प्रकृते कान्ताविषयकानुराग इत्यर्थः । रूप- द२ बाहुल्ययोगेन रूपस्य स्वरूपस्य बाहुल्यं विभावानुभावव्यभिचारिभावादिभिः परिपोषः तस्य योगेन संबन्धेन। शृङ्गारतां गता अलौकिकानन्दसंपादकत्वेन शृङ्गाररसत्वं प्राप्ता । अतः इदं वचः रसवत् रसवदलंकारः इत्यर्थः । अत्र १५वासवदत्ता विभावः । तदुक्तमधुरवचनसुहास्यादयो अनुभावा उन्नेयाः । हर्ष- विस्मयादयश्च व्यभिचारिणः । एभिः परिपोष नीतो रत्याख्यः स्थायिभावः शृङ्गाररसतामापदते। शृङ्गारपदार्थस्तु- १८ शृङ्गं हि मन्मथोद्धदस्तदागमनहेतुकः । पुरुषप्रमदाभूमि: श्रृङ्गार इति गीयते ॥। इति ॥ रसोद्वोधे विभावदयस्त्रयः समुदिता हेतुत्वं भजन्ते। यत्र तु कस्यचित् न्यूनता २१तत्र तस्याक्षेपात् समुदितत्वं बोद्धव्यम् । तदुक्तम्-
झटित्यन्यतमाक्षेपे तदा दोषो न विद्यते ॥। इति। २्तथा च- वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितौदिशां श्रीः। धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद सुग्धे। २७इत्यत्र केवलं मुग्धदयितामेघादिरूपाणामालम्वनोद्दीपनविभावानामेव वर्णनं न तु अनुभावव्यभिचारिभावानाम्। तथापि आक्षेपेण तत्कल्पनया समुदितत्वम् बोध्यम्। यत्र तु आक्षेपे क्लेशः तत्र तु दोष एव। तदुक्तं प्रकाशे- परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ [कान्यादर्श ] ३४
Page 285
२६६ काव्यादर्शे द्वितीय: परिच्छेद:
निगृद्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम। सोयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ॥२८२॥ इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतों गतः। भीमस्य पश्यतः शत्रुमित्येतद्रसवद्वचः ॥ २८३॥ अजित्वा सार्णवामुर्वामनिष्टा विविधैर्मखैः। अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात् कामिनीरूपो विभावो ३३यत्रतः प्रतिपाद्यः इति ॥२८१ ॥ रौद्रमुदाहरति-निगृह्येति। येन दुःशासनेन । मम अग्रतः मामगण- यित्वेत्यर्थः । कृष्णा द्रौपदी । केशेषु निगृह्य गृहीत्वा। आकृष्टा सोयं पाप: 3दुःशासनः लब्धः मयेति शेपः। कि क्षणम् अत्यल्पकालमपि। जीवति नैव जीविष्यतीत्यर्थः ॥२८२॥ रौद्ररसत्वं विशद्यति-इतीति। इति उक्तप्रकारेण। परां कोटिमारुह्य विभावादिभि: परिपुष्टिं प्राप्य। क्रोधः स्थायिभावः स च-प्रतिकू्लेषु ा तैक््स्य , प्रबोध: क्रोधसंज्ञितः इत्युक्तलक्षणः । तैक्ष्ण्यस्य अपचिकीर्षायाः प्रबोधः उत्कटत्वं क्रोधः । तैक्ष्ण्यजनकचित्तवृत्तिविशेष इति यात्। रौद्रात्मतां रौद्ररसत्वम्। गतः प्राप्तः । अत्र दुःशासनः आलम्बनविभावः। कृष्णाकेशकषर्णादिस्मरण ६मुद्दीपनविभावः। पाप इत्यधिक्षपवचनमनुभावः। प्रतीयमानाश्च गर्वादयो व्यमि चारिणः । एतैः पुष्टि प्रापितः क्रोधस्थायिभावः रौद्ररसत्वमापन्नः। तद्वर्णन- परमेतद्वचः रसवदलंकारालंकृतम् ॥२८३ ॥ वीरमुदाहरति-अजित्वेति। सार्णवां अर्णवनेमिम्। उर्वीम् मेदिनीम्। अजित्वा शत्रुपराजयेन आत्मसादकृत्वा। विविधैः अश्वमेधप्रभृतिभिः मखैः। यज्ञैः। ३अनिष्टा यजनमविधाय । अर्थिम्यः याचकेभ्यः । अर्थ द्रविणम् । अदत्वा अन- वितीर्य। अहं पार्थिवः पृथिव्या ईश्वरः। कर्थ भवेयम्। एतत्त्रितयशून्यस्य पार्थिवत्वं विडम्बनैवेति भावः। अत्र क्त्वान्तवाक्यत्रयेण क्रमेण युद्धधर्मदानविषयक उत्साहः ६प्रकटितः । तेन च अस्य नृपस्य युद्धवीरत्वं धर्मवीरत्वं दानवीरत्वं च वर्णित भवति। दयावीरोदाहरणं यथा साहित्यदर्पणे-
१ दष्टः. क. २ रौद्रत्वमागतः. अ.
Page 286
रसवदुदाहरणानि २६७
अदत्वा चार्थमर्थिभ्यो भवेयं पार्थिक: कथसू ॥ २८४॥ इत्युत्साह: प्रकृष्टात्मा तिष्ठन् वीररसात्मना । रसवच्वं गिरामासां समर्थयितुमीश्वरः॥ २८५।। यस्या: कुसुमशय्यापि कोमलाङया रुजाकरी। साधिशेते कथं तैन्वी हुताशनवतीं चिताम्॥ २८६ ॥ इति कारुण्यमुद्रिक्तमलंकारतया स्मृतम्। शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति। तृप्तिं न पश्यामि तवापि तावत् किं भक्षणात् त्वं विरतो गरुत्मन्।। (१८१ पत्रे ) इनि। १२अत्र गरुडस्य तृप्तिमपश्यतः जीमूतवाहनस्योक्तिरियं दयाया उत्साहातिशयं दर्शयति इति दयावीरः । एवं च युद्धवीरा रामार्जुनप्रभृतयः धर्मवीरा युधिष्ठिर- प्रभृतयः दानवीराः परशुरामबलिप्रभृतयः दयावीराश्र वुद्धजीमूतवाहनप्रभृतयः १५इति बोद्धव्यम् ॥ २८४ ।।
वीररसत्वं विशदयति -- इतीति। इति पूर्ववर्णितप्रकारकः । उत्साहः । कार्यारम्भेषु संरम्भ: । इत्यादिना उक्तलक्षणः । प्रकृष्टात्मा विभवादिभि: परिपुष्ट- 3 स्वरूपः । तिष्ठन् वीररसात्मना वर्तमानः। आसां गिरां रसवत्वं रसवदलंकारत्वम्। समर्थयितुं संपादयितुम्। ईश्वरः समर्थः । अस्ति इति शेषः । अत्र युद्धे विजेतव्याः शत्रवः धर्मे यज्ञा: दाने याचकाः आलम्बनविभावाः । सहायान्वेषणादयः प्रतीय- ६माना अनुभावाः । हर्षधृतिस्मृत्यादयो व्यमिचारिणः । एतैरभिव्यक्तः उत्साह- रूपस्थायिभावः वीररसतां लभते ॥ २८५ ॥
करुणमुदाहरति-यस्या इति। यस्याः कोमलाङयाः कुसुमशय्यापि रुजाकरी पीडाकरी। भवतीति शेषः । सा तन्वी सुकुमारगात्री। हुताशनवतीं ३ज्वलनप्रदीप्ताम् । चितां कथं अधिशेते अध्यारोहति। अतिकष्टास्पदमेतदिति भावः ॥ २८६ ॥
करुणत्वं प्रकटयति-इतीति। इति एवं वर्णितम्। कारुण्यं करुणरस-
१ गिरा तासां. अ. २ समर्प०. ब. ३ देवी, अ, बपा.
Page 287
६८ काव्यादर्शे द्वितीय: परिच्छेदः
तथांपरेपि बीभत्सहास्याद्दुतभयानकाः॥ २८७। पायं पायं तवारीणां शोणितं पाणिसंपुटैः। कौणपा: सह नृत्यन्ति कबन्धैरन्त्रभूषणाः ॥ २८८ ।। इदमम्लानमानार्यां लयं स्तनतटे तव। स्थायिभावः शोक :- इष्टनाशादिभिश्वेतोवैक्रव्यं शोक: उच्यते । इत्युक्तलक्षणः । उउद्रिक्त विभावादिभिः परिपुष्ट सत् । अलंकारनया रसवदलंकारत्वेन स्मृतम्। पूर्वमहर्षिभिरिति शेषः । अत्र विगतजीविता तन्वी आलम्बनविभावः। कुसुमशय्या- दय उद्दीपनविभावाः । करुणवचनमनुभावः । कथमित्यनेन प्रतीयमानाश्चिन्तादयो ६व्यभिचारिणः । एतैः पुष्टिं नीतः शोकाख्यः स्थायिभावः करुणरसत्वं भजते। अथ अपरेपि पूर्वदर्शितशृङ्गारवीररौद्रकरुणरसवत् अन्येपि बीभत्सहास्याद्भुत- भयानका रसाः सन्ति। तेषामपि स्वरूपं दर्शयाम इत्यर्थः । प्रस्ताववाक्यमेतत् । २८७॥ बीभत्समुदाहरति-पायं पायमिति। अन्त्राणि पुरीततः भूषणानि येषां ते। कौणपाः राक्षसाः । कबन्धैः सह मृतानां शिरोविहीनक्रियायुतशरीरैः सह। तवारीणां शोणितं पाणिसंपुटैः हस्तपुटकैः। पायं पायं पीत्वा पीत्वा। नृत्यन्ति सप्रमोदं क्रीडन्ति । अत्र जुगप्सारूपस्थायिभावः । दोषेक्षणादिभिर्गर्हा जुगुप्सेति निगद्यते। इति तल्लक्षणम्। तस्याः कौणपा आलम्बनविभावः । प्रतीयमान- ६निष्टीवनच्छर्दनादयोनुभावाः । मोहापस्मारादयो व्यभिचारिणः। तैश्व परिपुष्ट सा बीभत्सरसत्वं भजते। बीभत्सश्वात्र राजविषयकरतौ गुणीभूतः । तादृश- रतिश्च वर्णनीयप्रीतिकरत्वात् प्रेयोलंकारः। इति प्रेयोरसवतोः संकरः ॥२८८॥ हास्यमुदाहरति-इदमिति। सखीनां पुरतो मानकथां कुर्वती रहसि च नायकेन सह कृतक्रीडां नायिकां प्रति तत्सख्या उपाहासोक्तिरियम्। 3अम्लान: म्लानिमप्राप्तः अस्मद्वचनैर्न न्यूनीभूत इत्यर्थः। तादृशः मानो यस्याः सा तस्याः । तव स्तनतटे स्तनप्रान्ते। लग्नं आसक्तम्। नवं न तु प्राचीनम्। नख पदं नखव्रणचिहम्। हे सखि उत्तरीयेण छाद्यतां आच्छाद्यताम्। मानिन्यास्ते ६नायकसंभोगसूचकं नखव्रणं झटिति आच्छादयताम्। अन्यथास्मत्पुरतो दर्शिता
१ अथापरे, क, २मालाया. अ, बपा.
Page 288
रसवदुदाहरजानि २६९
छाद्यतामुत्तरीयेण नवं नखपदं सखि॥ २८९ ॥ अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् ! शाखाश्र मन्दिराण्येषां चित्रं नन्दनशाखिनाम्॥ २९०॥ इदं मधोन: कुलिशं धारासंनिहितानलम्। स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २९१ ॥ मानकथा कथं यथार्था स्यात् इति परिहासोक्तिः । अत्र-वागादिविकृताच्चेतो- विकासो हास इष्यते। इत्युक्तलक्षणः हास: स्थायिभावः । तादृशी कपटमानवती नायिका आलम्बनविभावः । नखक्षतमुद्दीपनविभावः । तादृशसोलुण्ठवचनान्य- नुभावः । प्रतीयमाना अवहित्थादयो व्यभिचारिणः । एतैः परिपुष्टो हासस्थायि- भावो हास्यरसतां भजते। अम्लानमानाया इत्यत्र अम्लानमालाया इति पाठो २दृश्यते । स तु न सरसः ॥ २८९॥ अद्भुतमुदाहरति-अंशुकानीति। एषां नन्दनशाखिनां कल्पवृक्षाणाम्। प्रवालानि कोमलपत्राणि। अंशुकानि वसनानि। पुष्पं हारादिभूषणम्। शाखाश्च 3 मन्दिराणि गृहाणि। चित्रम् एतत् विस्मयास्पदम्। अत्र-विस्मयश्चित्तविस्तारो वस्तुमाहात्म्यदर्शनात्। इत्युक्तलक्षणस्य विस्मयस्थायिभावस्य दिव्यनन्दनशाखिनः आलम्बनविभावाः । तेषामंशुकादिमत्त्वगुणमाहिमा उद्दीपनविभावः । प्रतीयमानाः ६स्तम्भखेदादयोनुभावाः। तथैव वितर्कादियश्च व्यमिचारिणः। एभिः परिपुष्टो विस्मयेोद्दुतरसत्वं भजते ॥ २९० ।। भयानकं दर्शयति-इदमिति। मघोनः महेन्द्रस्य। इदं धारासंनिहिता- नलं धारासु निशितमुखेषु संनिहित: अनलः यस्य तत् । एतादशं कुलिशं वज्र- 3मस्तीति शेषः । यस्य स्मरणं दैत्यस्त्रीगर्भपाताय असुराङ्गनागर्भसत्रंसनाय। कल्पते प्रभवति। तत्स्मरणेन दैत्याङ्गनानां गर्भा: भयेन च्युता भवन्तीत्यर्थः । अत्र- रौद्रशक्त्या तु जनितं वैक्वव्यं मनसो भयम्। इत्युक्तलक्षणस्य भयस्थायिभावस्य ६मघवा आलम्बनविभावः । कुलिशमुद्दीपनविभावः। गर्भपातादयोनुभावाः । प्रंतीयमाना आवेगसंमोहादयश्च व्यभिचारिणः । एतैः परिपुष्टो भयस्थायिभावः भयानकरसत्वं भजते। अष्टौ नाट्ये रसाः स्मृताः इत्युक्त्यनुरोधेन एते अष्टौ ; रसाः प्रदर्शिताः । शान्ताख्यो नवमो रसः श्रव्यकाव्ये दृश्यते। तल्लक्षणं प्रकाशे-
1 द्रवं. अ.
Page 289
२७० काव्यादर्शे द्वितीय: परिच्छेद:
निर्वेदस्थायिभावोस्ति शान्तोपि नवमो रसः । इति। अन्यत्रापि- न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा। रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु शमप्रधानः ॥ इति। तदुदाहरणं -- अहौ वा हारे वा कुसुमशयने वा दृषदि वा
१५ मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा। तृणे वा सतैणे वा मम समदशो यान्ति दिवसाः । कदा पुण्येरण्ये शिव शिव शिवेति प्रलपतः ॥ इति। १८अत्र हि मिथ्यात्वेन परिभाव्यमानं निखिलं जगदालम्बनम्। तपोवनाद्युद्दीपनम्। अहिहारादयोः समदर्शनमनुभावः । मतिधृतिहर्षाः व्यभिचारिभावाः । एतैः निर्वेद- स्थायिभावः शमस्थायिभावो वा परिपोष गतः शान्तरसत्वेन पर्यवस्यति। केचित् २१पुनः भक्तिरसमन्यं स्वीकुर्वन्ति। जगन्नाथपण्डितराजस्तु (४५ पत्रे) कथमेते एव रसाः । भगवदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभि: परिपोषितस्य भागवतादिपुराणश्रवणसमये भगवद्भक्तेरनुभूयमानस्य भक्तिरसस्य रदुरपह्ववत्वाद्। भगवदनुरागरूपा भक्तिश्वात्र स्थायिभावः । न चासौ शान्तरसे अन्तर्भावमर्हृति। अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते। भक्तेर्देवादिविषय- रतित्वेन भावान्तर्गततया रसत्वानुपपत्तेः ।
२७ रतिर्देवादिविषया व्यभिचारी तथाञ्जितः । भावः प्रोक्तस्तदाभासा ह्वनौचित्यप्रवर्तिताः ॥ इति हि प्राचां सिद्धान्तात्। न च तर्हि कामिनीविषयाया अपि रतेर्भावत्वमस्तु ० रतित्वाविशेषात्। अस्तु वा भगवद्भक्तेरेव स्थायित्वम् कामिन्यादिरतीनां च भावत्वं विनिगमकाभावादिति वाच्यम्। भरतादिमुनिवचनानामेवात्र रसभावत्वादि- व्यवस्थास्थापकत्वेन स्वातन्त्र्यायोगात्। इति एवं केवलभरतवचनप्रामाण्येन भक्तिरसं भावत्वेन सामन्यत। परं शाण्डिल्यवर्त्मानुगा भक्तिरसं स्वीकुर्वन्त्येव ।
परत्नानासङ़गं जनयति रतिर्या नियमतः परस्मिन्नेवास्मिन् समरसतया पश्यत इमम्।
Page 290
रसव दुदाहरणानि २७१
वाक्यस्याग्राम्यतायोनिमाधुर्ये दशिंदा रसः। इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥ ३९२ ॥ । इति रसवच्चक्रम् ॥ अपकर्ताहमस्मीति हृदि ते मा स्म भूद्यम् । परप्रेमाढ्येयं भवति परमानन्दमधुरा परा भक्ति: प्रोक्ता रस इति रसास्वादनचणैः ॥ इति। ३९ तथा रसाभासभावाभासादयोपि रसनाद्रसाः । तेषां सद्भावे रसवदेवालकारः । तत् अनौचित्येन प्रवृत्तौ रसभावौ रसाभासभावाभासौ। भावोदयादीनां स्वरूपं पूर्वभेव कथितम् । तेषामुदाहरणान्यपि कुवलयानन्दादिषु द्रष्टव्यानि ॥२९१॥ प्रथमपरिच्छेदे गुणनिर्वचनप्रसङ्के मधुरं रसवद्वाचि इत्यनेन रसवत्त्वस्थ माधुर्यगुणत्वमुक्तम्। इह चालंकारत्वम्। तत्र क उभयोर्भेंद इति दर्शयति- ३वाक्यस्येति। माधुर्ये मधुरगुणे। वाक्यस्य अग्राम्यता ग्राम्यतादोषाभावसमानाधि- करणालंकारत्वमित्यर्थः । सैव योनिर्व्यञ्चिका यस्य सः दर्शित :- कामं सर्वोप्यलंकारः रसमर्थे निषिञ्चति। तथाप्यग्राम्यतैवेनं भारं वहति भूयसा । इति कथितः । इह रसवदलंकारे तु। गिरां वाचाम्। अष्टरसायत्ता शृङ्गाराधष्ट- रसाधीना। रसवत्ता रसवदलंकारवत्ता। स्मृता। अयं भाव :- ग्राम्यत्वाभावसमाना- धिकरणरसव्यञ्जकालंकारादिमत्वस्य माधुर्यगुणत्वं पूर्वमुक्तम्। इह तु केवलरसा- नामेवालंकारत्वमुक्तम्। अतो न माधुर्यरसवत्तयोरभेद: इति ज्ञेयम्। अत्र अष्टेत्य- नेन आचार्यदण्डिनः शान्तो रसो नाभिप्रेत इति सूच्यते ॥ २९२ ॥ ऊर्जस्विनं दर्शयति-अपकर्ताहमिति। समराङ्गणात् धावमानं प्रति कस्यचित् उक्तिरियम्। अहं ते अपकर्ता अस्मि अपकारम् आचरिष्यामि। इति शभयं ते हृदि मा स्म भूत् मा भवतु। मे खङ्ग: विमुखेषु जातु कदाचिदपि। प्रहर्तु न वाञ्छति। तद्ुक्तं मनुना - नायुधव्यसनप्राप्तं नात नातिपरिक्षतम्। न भीतं न परावृतं सतां धर्ममनुस्मरन् ।।(७.९३ ) इति।
१ वाच्यस्य. कपा. २ योने:, क. ३. माधुर्ये. क.
Page 291
२७२ काव्यादर्शे द्वितीय: परिच्छेद:
विमुखेषु न मे खद्ग: ग्रहर्तु जातु वाञ्छति ॥ २९३ ॥ इति मुक्तः परो युद्धे निरुद्धो दर्पशालिना। पुंसा केनापि तज्ज्ञेयमूर्जस्वीत्येवमादिकम् ॥२९४॥ ॥ इत्यूर्जस्वि॥ अत्र- गर्वो मदप्रभावश्रीविद्यासत्कुलजन्मभिः । अवज्ञा सविलासाङ्गदर्शनाविनयादिकृत्।। इत्युक्तलक्षणो गर्वरूपो व्यभिचारिभावः स्थायिभावमुत्साहमाच्छाद्य उद्रिकतया प्रकाशते इति ऊर्जस्विनामालंकारः । अयं च-व्यभिचारी तथाञ्चितः इति १२प्रकाशकृदुक्तर्भाव एव। ऊर्जः बलं तत्प्रकाशनादूर्जस्वि इति नाम्नात्र व्यवहियते। अत्राहुः प्रेमचन्द्रशर्माणः-यत्र त्वयमेव गर्वरूपव्यभिचारिभावः स्थायिनि उत्साहे निलीयते तत्र वीरो रसः ।स च पूर्वोक्तरसवन्नाम्ना व्यपदिश्यते। यथा-
१५ क्षुद्राः संत्रासमेते विजहत हरयः क्षुष्णशक्रेमकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनाद: किंचिद्भूमङ्गलीलानियमितजलधिं राममन्वेषयामि ॥ १८ अत्र पादत्रयेणोद्रिक्ततया व्यज्यमानोपि गर्वश्चतुर्थपादव्यङ्गस्थय रामजयोत्साहा ख्यस्थायिभावस्य कुक्षौ विलीयते। अत एवेदं प्रकाशकारेण वीररसोदाहरण- २१ तविनोपन्यस्तम्। तस्मादयं रसवदलंकार एव। नव्यास्तु रसाभासो भावाभासो वा रसान्तरादेरङ्गत्वमापन्नः सन् ऊर्जस्व्यलकारो भवतीत्याचक्षते। तन्न रुचिरम् । तथात्वे ऊर्जस्विसंज्ञाया अन्वर्थतानुपपत्तेः। अलंकारसंज्ञानां तथात्वस्यैव नियमात्। २४इति ॥ २९३ ॥ उदाहरणं विशदयति-इतीति। दर्पशालिना अहंकारवता। केनापि पुंसा वीरेण । एवमुक्त्वा युद्धे निरुद्धः पराजितः । परः शत्रुः । मुक्तः गन्तुमनुज्ञातः । :तत् तस्मात्। अयं ऊर्जरव्यलंकारो ज्ञेयः। एवमादिकम् यथा अत्र वीररसाव्यभि- चारी गर्वः ऊर्जस्वित्वेनोक्तः तथा अन्यरसाव्यभिचारी गर्वः ऊर्जस्वी भवति इत्यर्थ: ॥ २९४॥ १ एवमुक्त्वा, ब, क, ड, प,
Page 292
पर्यायोक्तम् २७३
अर्थमिष्टमनाख्याय साक्षात् तस्यैव सिड्धये। यत् प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते॥। २९५।। पर्यायोक्तं लक्षयति-अर्थमिति। इष्टं प्रतिपादनाभिलषितन्। अर्थे साक्षात् वाचकशब्देन। अनाख्याय अप्रतिपादय। तस्यैव इष्टार्थस्यैव। सिद्धये सचम- तकारप्रतिपत्तये। यत् प्रकारान्तराख्यानम् प्रकारान्तरेण चातुर्यद्ोतकभङ्गिविशेषेण आख्यानं व्यञ्जनया ोतनम्। तत् पर्यायोक्तम् पर्यायेण तदर्थकशब्दान्तरेण विव- क्षितार्थस्योक्तत्वात् पर्यायोक्तम्। कथ्यते इति शेषः । पर्यायता च शब्दानामेकार्थ- ६प्रंतिपादकता। सा च एकयैव वृत्येति न नियमः । वृत्त्यन्तरेणापि तदर्थप्रतिः पादकत्वे पर्यायतानपायात्। तथा च विवक्षितमर्थ साक्षाद् तद्वाचकपदेन अकथयित्वा वैचित्र्यविशषाय प्रकारान्तरेण तत्कथनं पर्यायोक्तम्। वाच्यार्थस्य व्यञ्जनया प्रतिपादनं पर्यायोक्तमित्यर्थः । अत्र व्यञ्जनया वाच्यार्थस्यैवाभिधानम्। व्वनौ तुन वाच्य एवार्थो विषयः इति ततो भेदः । अपरं च अत्र व्यङ्गयार्थः अतिस्फुटतया न तथा अतिशेते यथा उक्तिवैचित्र्यमिति नास्य ध्वनित्वं नापि १ गुणीभूतव्यङ्गयत्वं किंतु चित्रकाव्यमेवैतत्। प्रेमचन्द्रशर्माणस्तु-विवक्षितार्थक्ष क्वचित् वाच्यार्थनियतसंबन्धित्वात् वक्त्रादिवैशिष्ठप्रतीतिमन्तरेणापि झटिति प्रयुक्तशब्देन व्यज्यते क्वचिच्च वाच्य एव प्रकारान्तरेण व्यज्यते इत्यस्य द्वौ ेदौ। १५एवमस्य व्यङ्गयमूलकेभ्योलंकारेभ्यः मेदो बोद्धव्यः। तेषु निरुक्तरूपत्वाभावाद्। न च- गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।
1८ ममापि जन्म तत्रैव भूयाद्यत्र गतो मचान् । इत्य्रादौ वाच्यव्यङ्गययोर्गमनागमनयेनियतसंबन्धित्वाद् कथमाक्षेपादरय भेद इति वाच्यम्। वाच्यनियतसंवन्धिनोपि गमनाभावरूपव्यङ्गयस्य वक्तवैशिष्ठ २१ पर्यालोचनया त्वयि गतेहं मरिष्यामीति द्वितीयार्धव्यङ्गयपर्यालोचनया च प्रतीय- मानत्वेन झटिति व्यज्यमानत्वाभावात्। तत्र प्रथमस्योदाहरणं दशत्यस्षौ परभृतः इत्यादि ग्रन्थकृता दर्शयिष्यते। द्वितीयस्य यथा- यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्ज्ञिता। मदेनैरावणमुखे मानेन हृदये हरे: ॥ इति। अत्र शक्रैरावणौ मानमदमुक्तौ इति व्यङ्गयम्। तदेव च प्रकारान्तरेण वाच्य-
Page 293
२७४ काव्यादशैं द्वितीयं: परिच्छेद:
दशत्यसौ परभृत: सहकारस्य मज्जरीम्। तमहं वारयिष्यामि सुवाभ्यां स्वैरमास्यताम् ॥ २९६ ॥ संगमथ्य सखीं यूना संकेते तद्रतोत्सवम्। निर्वतयितुमिच्छन्त्या कयाप्यपसृतं ततः ॥ २९७ ।। ॥ इति पर्यायोक्तम् ॥ किंचिदारभमाणस्य कार्य दैववेशात् पुनः। ३७मिति। केचित्तु पर्यायोक्तेस्मिन् द्वयोरेव वाच्यव्यङ्गययोः प्रस्तुतत्वम्। समासोक्तौ वाच्यस्यैव प्रस्तुतत्वम्। अप्रस्तुतप्रशंसायां व्र्यङ्गयस्यैव प्रस्तुतत्वमित्येषां मिथो भेद इत्याहुः। तत्तु प्रसिद्धोदाहरणविरुद्धामित्युपेक्षितम् ॥ २९५॥ पर्यायोक्तमुदाहरति-दशतीति। असौ परभृतः कोकिलः । सहकारस्य आम्रस्य। मञ्जरीं दशति आखादनेन विनाशयति। अहं तं वारयिष्यामि निवार- यामि। युवाभ्यां स्वैरं स्वच्छन्दं सविश्रम्भमिति भावः । आस्यतां स्थीयताम्। अत्र अन्यजनसांनिध्यं सुरतोत्सवप्रतिबन्धकमिति नायिकानायकयोः संनिधानावं सख्या अपसरणमिष्टम्। तत् अहं गभिष्यामि इत्युक्तौ वक्त्या अवैदग्ध्यं दर्शयेत्। अतः परभृतवारणमिषेण तत् कृतमिति चमत्कारातिशयः। अतः पर्यायोक्तम्। कंचित्तु अत्र परमृतशब्देन नायकः मञ्जरीशब्देन नायिका तत्सभोगप्रतिबन्धिका च अहम् इति शब्देन सूच्यते अतः पर्यायोक्तमिति वर्णयन्ति। परं तन्न रुि- रम्। तथात्वरे वाच्यार्थस्य अप्रस्तुतत्वेन लक्षणासंगत्यापत्तेः। युवाभ्यां स्वैरमास्य- ताम् इत्यत्य सरसत्वाननकूलत्वाच्चेति ज्ञेयम् ॥ २९६ ।। प्राकरणिकार्थबोधं विना लक्षणसमन्वयोत्र दुर्घट इति तं दर्शयति- संगमय्येति। यूना नायकेन। सह सखीं नायिकाभूताम्। संकेते संकेतस्थाने। संगमय्य संयोज्य। तद्रतोत्सवं तदुभययोः रतोत्सवं सुखविलासम्। निर्वर्तयितुं स्वगमनेन सविश्रम्भं संपादयितुम । इच्छन्त्या कयापि चतुरया सख्या । ततः तस्मात् स्थानाद्पसृतम् ॥ २९७ ॥ समाहितं लक्षयति-किचिदिति। किचित् कार्यम् आरभमाणस्य ,१ प्रवर्त०. अ., ३ दैवयलात्. कपा,
Page 294
उमाहिताटंकार:
तत्साधनसमापत्तिर्या तदाहु: समाहितम् ॥ २९८।। मानमस्या निराकतु पादयोमें पतिप्यतः। समुचितकारणेन संपादयितुमुदतस्य। दैववरशात् अकरणादेव। तस्य कार्यत्य यत् ·साधनं संपादकसाधनान्तरं तस्य समापत्तिः संप्राप्तिः। तत् समाहिनमाहुः । दैव- वशेन कारणान्तरोदयेनारब्धकार्यस्य सौकर्येण समाधानं समाहितमित्यथः । अर्वाचीनास्तु अमुं समाधिमाहठः । भावशान्ति तु समाहितप्रित्याहुः । अत्र ६साधनपदं साधनान्तरपरं तत एव वैचित्रयोद्गवात्। तदाह प्रकाशकार :- समाधि: सुकरं कार्य कारणान्तरयोगतः । इति। दैववशादिति न नियमपरम् बुद्धिपूर्वककारणान्तरावलम्बनेन कार्यसंपत्तावपि अस्य सद्भावाद्। तदुकं i भोजराजेन- कार्यारम्भे सहायाप्तिदैवादैवकृतेह या। आकस्मिकी बुद्धिपूर्योभयी वा तत् समाहितम् ।। (३.३४) इति। १२उदाहतं च -- कल्पान्ते शमितत्रिविक्रममहाकक्कालदण्डरफुर- च्छेषस्यूतनृसिंह वक्रनखर प्रोतादिकोलामिषः ।
१५ विश्वैकार्णवताविशेषमुदितौ तौ मत्स्य कूर्माचुभौ कर्षन् धीवरतां गतः स्यतु जगन्मोहं महाभैरवः ॥ इति। अत्र प्रलयसमये महेश्वरेण समापयितुमुपक्रान्तानां त्रिविक्रमादीनां योयं तद्बुवा १बडिशादिना मत्स्यकूर्मयोराकर्षणप्रकारः स भगवरता भैरवैण बुद्धिपूर्वकमुपकल्प्य- मानो दैवात् तथामूतरेव तैः संपद्ते इति वुद्धिपूर्वेयं दैवकृता सहायाप्तिः इति। विस्तरस्तु जिज्ञासुभि: तत्रैव द्रष्टव्यः ॥ २९८॥ 1
समाहितमुदाहरति-मानमस्या इति। अस्या मानिन्याः। मानं निराकर्तु अपसारयितुम्। पादयोः पतिष्यतः नमस्यतः प्रणंस्यतः। मे मम। उपकारांय 3दिष्ट्या सुदैवेन। एतत् घनगर्जितम उदीर्णम् उद्धूतम्। अत्र माननिराकरणाय प्रणामतत्परस्य दैवादुदीर्णघनगजितेन तस्य अतीवोद्दपिकत्वात् माननिराकरण- संप्राप्तिः इति समाहितालंकारो विज्ञेयः। मानिन्याः माननिराकरणसाधनेपु ६ प्रणाम: एकतमोस्ति। तदुक्तम्-
Page 295
२७६ काव्यादर्शे द्वितीय: परिच्छेद:
उपकाराय दिष्टयैतदुदीर्णं घनगर्जितम्॥। २९९ । ।। इति समाहहितम्॥ आशयस्य विभूतेर्वा यन्महत्तमतुत्तमम्। उदात्तं नाम तं प्राहुरलंकारं मनीषिणः ।। ३००।। सामं भेदं च दानं च नत्युपेक्षे रसान्तरम्। तद्भङ्गाय पतिः कुर्यात् षद्डुपायानिति क्रमात् ॥ इति । १पर नतिनैव निश्चयेन कार्यसंपादिका। तया मानभङ्गाभावे उपेक्षादेः कर्तव्यत्वे- नोपदिष्ठलात्। घनगर्जितं तु एकान्तेन फलोपधायकं तस्यातीवोद्दीपकत्वात्। तथा चात्र संशयितोपायेन माननिरासाय प्रवृत्तस्य नायकस्य निश्चितोपायसंपत्या १२ कार्यस्य सौकर्येण लभः इति ज्ञेयम् ॥ २९९ ॥ उदात्तं लक्षयति-आशयस्येति । आशयस्य अभिप्रायस्य मनो- व्यापारविशेषस्येति यावत्। विभूतेः संपत्तेर्वा। अनुत्तमम् अलौकिकमित्यर्थः । यन्महत्वं आधिक्यम्। वर्ण्यते तं मनीषिणः उदात्तम् अलंकारम् आहुः इत्यन्वयः। तथा च प्रस्तुतस्य अलौकिकं महाशयत्वं विभूतिमतवं वा यत् वर्ण्यते स उदात्तो नामालंकार: इति भावः । परे तु प्रस्तुतस्याङ्गत्वेन वर्ण्यमानं महतां चरितमपि उदाचं मन्यन्ते। तंदुक्तम् प्रकाशकृता-महतां चोपलक्षणम् इति। उदाहरणं च- तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी। निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥ इति। अत्र प्रस्तुतस्य दण्डकारण्यस्य तदुत्क्षाय महतो रामस्य अङ्गत्वेन वर्णनं कृत- मित्युदाचालंकारः। यथा वा- नाभिप्रभिन्नाम्बुरुहासनेन संस्तुयमान: प्रथमेन धात्रा ।
१२ अमून् युगान्तोचितयोगनिद्रः संहृत्य लोकान् पुरुषोधिशेते।।इति। अत्र प्रस्तुतस्य समुद्रस्याङ्गत्वेन लोकसंहर्तुरभगवतः शयनं वर्णितमिति उदात्ता- लंकारः । एतच्च प्रस्तुतस्य माहात्म्यातिशयसंसूचकत्वात् लोकातिगामिविभूति- १ ५ वर्णनरूपमेवेति दण्डिना न अत्र पृथकृतया लक्षितम् इति ध्येयम् ॥ ३०० ॥
Page 296
उदाचालंकार: २७७
गुरो: शासनमत्येतुं न शशाक स राघवः।
रत्नभित्तिषु संक्रान्तैः प्रतिविम्बशतैर्वृतः। ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तच्वतः ॥ ३०२॥ पूर्वत्राशयमाहात्म्यमत्राभ्युदयगौरवम्। सुव्यज्जितमिति प्रोक्तमुदात्तद्वयॅमप्यदः ॥ ३०३।। । इत्युदात्तम् । महाशयत्ववर्णनरूपमुदात्तमुदाहरति-गुरोरिति। य: राघवः रावणस्य -त्रिभुवनैकवीरस्य राक्षसाधिपस्य शिरसामुच्छेदरूपं यत् कार्यम् तत्य भारः कार्य- गुरुता तस्मिन् अपि। अविक्लवः अव्याकुलः । स गुरोः पितुः । शासनं राज्यत्याग- पूर्वकवनगमनरूपामाज्ञाम्। अत्येतुं अतिक्रमितुम्।न शशाक। अत्र रावणवधरूप- महाकार्यकरणसमर्थोपि राघवः यत् राज्यम्रंशकरं गुरुनिदेशमत्येतुं न शशाक। हसेन अस्य लोकसीमातिवर्ति महाशयत्वं प्रतीयते इति उदात्तालंकारः ॥ ३०१॥
विभूतिमहृत्त्वरूपमुदात्तमुदाहरति-रत्नेति। आञ्जनेयेन अञ्जनासूनुना हनुमता। रत्नाभेत्तिषु रत्नखचितभित्तिषु। संक्रान्तैः प्रतिफलितैः । प्रतिबिम्बशतैः 3स्व्रीयप्रतिबिम्बानां शतैः। वृतः लङ्केश्वरः लङ्काधिपो रावणः। कृष्छ्ात् कष्टेन। ज्ञातः। प्रतिबिम्बशतवृतत्वं कृच्छूतया ज्ञानस्य हेतुः। अत्र प्रतिबिम्बग्राहिरत्नखचित- भिचिवर्णनेन राक्षसराजस्यालौकिकविभूतिम्त्वं प्रतीयते इत्युदात्तोळंकार:
उदात्तमुपसंहरति -- पूर्वत्रेति । पूर्वत्र गुरोः शासनम् इत्युदाहरणे। आशयस्य राममनोवृत्तेः माहात्म्यम् अलौकिकमहत्त्त्रम् । अन्र रत्नभित्तिषु इत्युदा- :हरणे। अम्युदयस्य संपदभ्युदयस्य गौरवं महत्त्वम्। सुव्यक्षितं स्पष्ट प्रकटीकृतम्। इति हेतोः । अदः एतत्। उदात्तदवयं प्रोक्तम् । अस्माभिरिति शेषः । अयं भाव:। विषयद्वैविध्येन वैचित्र्यस्य द्वैविध्यात् द्विप्रकारः स दर्शितः इति ॥३०३॥
१ स्तम्भयु. कपा. २ संक्रन्त०. अ, कपा. 3 व्यकम्. बपा, क. *द्वितयं पुनः कपा.
Page 297
काव्यादर्शे द्वितीय: परिच्छेद
अपहुतिरपहुत्य किंचिदन्यार्थदर्शनम्। न पञ्चेपुः स्मरस्तस् सहसरँ पत्रिणामिति॥ २०४ ॥ अपहुति संलक्ष्योदाहरति-अपह्वतिरिति। किंचित् किमपि प्रकृतस्य गुणक्रियादिरूपं धर्मम्। अपह्रुत्य अपलप्य असत्यातया निरूप्येत्यर्थः । अन्यार्थस्य 3 धर्मान्तर रूपारोष्यमाणार्थस्य। दर्शनं सत्यत्वेन कथनपू। अपहनतिः तनामालंकारः । नैतन्मुखमिदं पद्म न नेत्रे भ्रमराविमौ। एतानि केसराण्येव नैता दन्तार्चिषस्तव।। 6 इति तत्वापहवरूपकविपयपरिहारार्थ किंचिदित्यंस्य गुणक्रियादिरूपोर्थः स्वी- क्रियते। तथा च प्रकृतं धर्मिं निषिध्य धर्म्यन्तरारोपः तत्त्व्रापह्ववरूपकम् गुण- ·क्रियादिरूपं धर्ममपलप्य धर्मान्तरारोपे अपह्रतिरित्यनयोः भेदः । अन्ये तु तत्वा- पहवरूपकं नैव मन्यन्ते। तेपां मते किचिदपहुत्य कस्यचित् प्रदर्शनम् अपह्ुति- i रलंकारः । अपहुत्य इत्यनेन रूपकातिशयोक्त्योः व्युदासः। तत्र कस्यचिन्निषेधा- " भावाद्। किचिदपहुत्य इत्येतावन्मात्रोक्तौ आक्षेपालंकारेतिव्याप्तिः । तन्निरासाय १२अन्यत् साध्यत इति। संदेहे संशयः अत्र तु निश्चयः इति ततो भेद: । उत्प्रेक्षायां संभावना अत् तु आहार्यारोपः इत्युभयोर्भेदः । इयं च द्विविधा शाब्दी आर्थी चेति। यत्र नञादिशव्दैः प्रकृतनिषेधस्तत्र शाब्दी। कपटार्थकपरिणामा- १५ धैकशब्दोपादाने मयट्प्रत्ययान्तोपादाने चार्थी। आर्थ्याः अन्येपि विविधाः प्रकाराः सन्ति ते उदाहरणतः स्फुटीभविष्यन्ति। तत्न कपटार्थशब्दोपादाने यथा-उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमने नोद्क्ङगितं कालकूटम्। १. इति। एवं-धूमं दधत् प्रकटलाञ्छनकैतवेन। इति। मयटा यथा-तारामया- स्तत्रं च फेनभङ्गाः । इति । एवमेव-
अमुष्मिल्लावण्यामृतसरसि नुनं सृगदृशः स्मरः शर्वपुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥ इति। १अत्र वपुःशब्देन रोमावलिनिषेधः। आचार्यदण्डिनो. मते एतान्युदाहरणानि
Page 298
अपह्दुतिऊ मेडरः
चन्दनं चन्द्रिका मन्दो गन्घवाहय दक्षिणः! सेयमग्निमयी सृष्टिरमयि शीना परान् प्रतति॥ ३०५॥ शैशिर्यमभ्युपेत्यैव परेष्वान्मनि कामिना। औष्ण्यप्रकोशनात् तम्य सेयं' विषयनिह्वृतिः ॥ ३०६॥ अमृतस्यन्दिकिरणश्न्द्रमा नामतो मतः । तत्त्वापह्वरूपकस्य झ्ञयानि। धर्मिणि धम्यन्तरारोपाठ्। उदाहरणं दर्शयंति- न पश्चेति। स्मरः पञ्चेषुः पञ्चसंख्यापरिमितवाणो न । पञ्चेषुभिः सकलविश्व- :७स्येदृशपीडाजननासंभवाद। अतस्तस्य पत्रिणां वाणानां सहस्रं सहस्त्रसंख्यात्व- मस्तीति शेषः । अत्र स्मरस्य पञ्चेषुत्वधर्म प्रतिपिष्य सहस्त्रेषुरूपधर्मान्तरारोंपोव अपहुतिः ॥ ३०४ ॥ विषयापह्नुतिमुदाहरति-चन्दनमिति। चन्दनं कृष्णागरुः । चन्द्रिका ज्योत्सा। तथा मन्दः दक्षिणश्च गन्घवाइः मलयानिल इत्यर्थः। सेयं मयि विरहिणि। अन्निमर्यी सृष्टिः अग्निवन्मां संतापयतीत्यर्थः । अतोभ्निवन्मया प्रतीयते। परान् :प्रति मदन्यान् प्रति। शीता शीतला। किलति स्वासंमति द्योतनाथम् । । ३e ५' ।। उदाहरणं विशदयति-शैशिर्यमिति। अत्र कामिना परेपु स्वभिन्नु। चन्दनादीनां शैशिर्य शिशिरतां शैत्यमिति यावत्। अभ्युपेत्यैव अङ्गीकृत्यैव।तस्य :शैत्यस्य। आत्मनि औष्ण्यप्रकाशनात् संतापकतया दाहारोपणात्। सेयं विषया- पहुतिः । अयं भावः । अत्र चन्दनादीनां निपेध्यारोष्यधमयोः शैत्यतापकत्वरूपयोः व्यवस्थितविषयत्वप्रतिपादनादियं विषयापह्नुतिः। अत्र उष्णत्वर्णनेन शैव्यनिषेधो ६व्यङ्गय इति बोध्यम्॥ ३०६ ॥। स्वरूपापह्ुति दर्शयति-अमृतेति। चन्द्रमाः अमृतस्यन्दिनः किरणाः यस्य तादृशः सः। नामतः केवलं संज्ञात्वेन न तु अर्थवत्वन। मतः । अयं भावः । चन्द्रमा इत्यस्य योगार्थः चन्दयति अमृतस्यन्दिकिरणारह्वादयति इति चन्द्रः। स्फायिताश्वि इति चदिधातो रक्प्रत्ययः। चन्द्रः सन् मस्यति परिणमते इति
१ प्रदुर्शनात्. कपा. २ सैपा. २, ३ नाम नामतः अ क, नामबो मतः,चषा,
Page 299
२८० काव्यादशें द्वितीय: परिच्छेद:
अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः॥३०७॥ इति चन्द्रत्वमेवेन्दौ निवर्त्यार्थान्तरात्मतां। उक्ता स्मरार्तेनेत्येषों स्वरूपापह्ुतिर्मता॥ ३०८ ॥ उपमापह्वतिः पूर्वयुपमास्वेव दशिता। चन्द्रमाः । अथवा चन्द्रम् अमृतं तदिव मीयते असौ इति चन्द्रमाः । एवं च · चन्द्रमसशब्दस्य यौगिकार्थो आह्लादकरूपः । स तु प्रसिद्धचन्द्रमसि नास्ति । विरहिणो मम संतापकत्वात्। अतः विधौ चन्द्रमःशब्दः केवलरूढिबलात्, मण्डप- कुशलादिवत् बोद्धव्यः । न तु कुम्भकारादिवत् यौगिकः। एवं चन्द्रमसः अमृतस्यन्दिकिरणैराह्वादकत्वं निषिध्य आरोप्यार्थ दर्शयति-अन्य.इति। अयं चन्द्रमाः । अन्यः अर्थात्मा पदार्थस्वरूपः । आह्लादकभिन्नधर्मविशिष्टः इत्यर्थः । कि धर्मविशिष्टः इत्याह विषेति। विषनिष्यान्दिन्यः दीधितयः किरणाः यस्य १३ तादृशः ।एवं चात्र धर्मनिषेधपूर्वकधर्मान्तरारोपादपहुतिः ॥ ३०७॥ उदाहरणं विशदयति -- इतीति। केनचित् स्मरार्तेन मदनपीडितेन,1, इति एवंप्रकारेण। इन्दौ चन्द्रत्वं आह्लादकस्वरूपत्वम्। निवर्त्य निषिध्य। अर्थान्तरा- इस्मता विधनिष्यन्दिदीधितिस्वरूपवत्ता। उक्ता आरोपिता। अतः एषा स्वरूपा- पहुतिर्बोद्धव्या। स्वं रूप्यते अनेन इति स्वरूपं नैरार्गिकगुणत्रियादिघर्मः । तन्निषेधपूर्विकेयमिति स्वरूपापह्ुतिः ॥ ३०८॥
अपह्नुततिमुपसंहरति-उपमेति। उपमायाः सादृश्यस्य अपहुतिः उममा -पह्रुतिः ! सा पूर्वमुपमासु उपमालंकारभेदेषु दर्शिता। प्रतिषेधोपमाख्यया दर्शिता ३इत्यर्थः । तद्ुदाहरणं हि -- न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्। कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ।। इति। अत्र हि चन्द्रप्रतियोगकं सादृश्यं प्रतिषिध्य सादृश्यमूलगुणातिशयस्थापनमार्थम्। अतः इयमुपमापह्ुतिः । अत्र औपम्यमूलभूतगुणातिशयसंस्थापिकेयमपद्वतिः
निहुल्य, क. २ अर्थान्तरात्मना, अ, चपा; कपा .- ३ उकं. चपा; कपा. ४ 'ेत्यादि, अ.
Page 300
श्लेषलक्षणम् २८१
इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥ ३०९॥
।। इत्यपह्नुतिः ॥ क्िष्टमिष्टमनेकार्थमेकरूपान्वितं वच:। औपम्यचारुताया विकासयित्री इति तदङ्गभूता। औपम्यचारुता तु प्रधाना इति ९उपमाभेदे तस्याः परिगणनमिति ज्ञेयम्। तत्त्वापह्ववरूपकं तु अपहुतेर्भिन्न- विषयमिति पूर्व दार्शितमेव। अन्ये केचन उपमापहुतिः इत्यत्र उपमाशब्देन उपमारूपकयोः अनतिभेदात् रूपकं गृह्नन्ति। तथा च उपमारूपकं नाम १: तत्त्वापह्ववरूपकम्, उपमासु रूपकभेदेषु दर्शितमिति अर्थ दर्शयन्ति। तद्रहस्यं तु अपह्ुतौ आर्थः आरोपः न युक्तः शाब्दारोपे एव चमत्कृतेर्भानात् इति स्याद। परमस्मिन् पक्षेपि उपमाशब्दस्य रूपकार्थः न सरसः । इति उभयन्रापि किंचि- १५दवैकल्यं दृश्यते इति सुधीभिर्विचारणीयम् । इति अनया दिशा। अपह्ुतिभेदानां विस्तरो लक्ष्येषु उदाहरणविशेषेषु। लक्ष्यः स्वयमूहनीयः । उपमापहुतितत्त्वापहुति- वद् अलंकारान्तरोत्पत्तिहेतवः अपह्भुतिभेदा अवगन्तव्याः । तत्र उत्प्रेक्षापह्ठति- १वर्यथा- अश्रुच्छलेन सुदृदशो दुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानमङ्गे विगलति लावण्यपूर इव ॥। इति ॥ २१एवमन्येपि प्रकाराः बोध्याः इति प्रेमचन्द्रशर्माणः ॥ ३०९॥ इदानी क्रमप्राप्त श्लेषं लक्षयति-क्विष्टमिति। अनेकार्थम् अभिधा- वृत्त्या अनेकार्थप्रतिपादकम्। एकरूपान्वितम् एकेन अर्थभेदेपि अभिन्नप्रयत्नो- च्चार्येण रूपेण अन्वितं युक्तं समानवर्णरूपमित्यर्थः। वचः वाक्यम्। श्रिष् श्लेषा- लंकारयुक्तम्। इष्ट कविभिरिति शेषः । वक्रोक्तिरूपेषु प्रायः सर्वेष्वपि अलंकारेषु श्लेषः चारुतासंपादकतया कविभिरभिलषित इत्यर्थः । तदग्रे कथयिष्यति।
६ श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम्। मिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् ॥।(२'३६३) इति। श्लेषश्च एकतावभासहेतुः संबन्धविशेषः । स चात्र शद्ूयोरेकप्रयत्नोच्चार्यरूपः । अर्थयोस्तु अर्थनियामकानां प्रकरणादीनामभावात् एकप्रयत्नोच्चार्यशब्देन एककाल- [ काव्यादर्श ] ३६
Page 301
२८२ काव्यादर्शे द्वितीय: परिच्छेद:
तदभिन्नपदं भिन्नपद्प्रायमिति द्विधा ॥ ३१०॥ बोध्यत्वरूपः। अन्ये तु शद्वयोर्जतुकाष्ठन्यायेन अर्थयोस्तु एकवृन्तगतफलद्वयन्यायेन श्लेष इत्याहुः। ननु अर्थभेदेन शब्दभेदः इति नियमात् कथमेकस्यैव शद्वस्य अनेकार्थ- १२त्वमिति चेत् तथाविधाकारैरपरैः शब्दैः श्लिष्टतयेति निश्चितुमः । अयं च ल्लेषः शब्दपरिवृत्तिसहत्वासहत्वेन अर्थशब्दभेदेन द्विधेति अर्वाचीना मन्यन्ते। प्राचीनास्तु उभयत्रापि शब्दस्य अर्थद्वयप्रतीतिमाधायैव वैचित्र्यजनकतया प्रधानतः अर्थसापेक्ष- १५ तया अर्थशून्यकेवलशब्दवैचित्रये अलंकारत्वाभावादयमर्थालंकार एव इति जानन्ति। एतच्च अनेकार्थत्वम् अभिधावृत्त्या युगपदनेकार्थप्रतिपादकत्वम् । तच्च शक्ति- संकोचकानां संयोगादीनामभावे एव संभवति। यत्र तु संयोगादिभिरभिधायाः १८निश्चयः तत्र युगपदर्थद्वयप्रतीतेरभावान्न श्रषः । तत्राप्रकृतस्यार्थस्य ध्वनिरेव। संयोगादयश्रोक्ता हरिणा- संयोगो विप्रयोगश्च साहचर्य विरोधिता। २१ अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधि: ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । २* एते संयोगादयः नानार्थेषु शब्देषु शब्दार्थस्यानवच्छेदे संदेहे तदपकरणद्वारा विशेषार्थनिर्णायका इति संक्षिप्तार्थः । तत्र संयोगादीनामुदाहरणानि सवत्सा धेनुरानीयताम् इत्यादीनि परमलघुमञ्जूषातो ज्ञेयानि। विस्तरभयान्नात्र लिख्यन्ते। २७अर्थस्यानेकत्वं च क्वचिद्वस्तुतः क्वचिदेकरूपत्वेपि अनेकसंबन्धित्वाद्। तत्र आदे शब्दल्लेषः द्वितीयेर्थश्रेषः इति नव्याः । अर्थ्ललषो यथा -- स्तोकेनोन्नतिमायाति स्तोकेनायाव्यधोगतिम्। अहो सुसदशी वृत्तिस्तुलाकोटे: खलस्य च ॥। इति। अत्रोन्नतिरधोगतिश्वैकैव। परं तुसा संबन्धिभेदात् भिन्नतवेन प्रतीयते। अत्रापि संबन्धिभेदेनोन्न्त्यधोगत्योरने कत्वात् तद्वाचकपद्योरप्यनेकत्वमिति स्वमते लक्षण- ३३समन्वयः । इति प्रेमचन्द्रशर्माणः ॥ ल्लषस्य द्वैविध्यमाह-तदिति। शक्यताव- च्छेदकस्य विभिन्नत्वेपि एकप्रत्ययप्रकृतिसमासघटितत्वेन अभिन्नानि पदानि यस्मिन् तत् अभिन्नपदम्। तथा भिन्नानां प्रकृतिप्रत्ययादिभिर्भिन्नानां पदानां ६सुप्िडन्तानां प्रायो बाहुल्यं यत्र तत्। तथा च अभिन्नपदवाक्ये अभङ्गश्लेषः
Page 302
श्लेषोदाहरणानि २८३
असावुद्यमारूढः कान्तिमान् रक्तमण्डल:। राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ ३११ ॥ दोषाकरेण संबन्नन्नक्षत्रपथवर्तिना। राज्ञा प्रदोषो मामित्थमप्रियं किं न बाधते ॥३१२ ॥ प्रायः भिन्नपदवांक्ये च समङ्गश्लेषः । समङ्गश्लेषः एव समधिकचमत्कारकारी इति कविभि: विशेषतः प्रयुज्यते। अतः प्रायःपदोपादानम् इति केचित्। प्रकाश- ९कारादयः श्लेषविशेषं शब्दल्लेषं, वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा मन्यन्ते। तत्र वर्णल्लेषो यथा-विधौ शिरःस्थे कुटिले कुतः श्रीः। इति। अत्र विधुविधिशब्दयोरुकारेकारयोः श्लेषः। एवमादीनि प्रत्ययादिल्लेषो- दाहरणानि प्रकाशादिभ्यो ज्ञातव्यानि ॥ ३१०॥
तत्राभिन्नपद श्लेषमुदाहरति-असाविति। उदयं प्रतापोन्नतिम् उदयाचलं च। आरूढ: । कान्तिमान् कमनीयाकृतिः तेजस्वी च। रक्तमण्डलः अनुरक्त- 3प्रकृतिमण्डलः रक्तबिम्बश्च। राजा नृपः चन्द्रश्च। मृदुभिः अनुद्वेगकरैः शीतलैश्च। करैः राजग्राह्यभागैः किरणैश्च। लोकस्य हृदयं हरति चित्तमाकर्षति। अत्र प्रंक- रणादिनियामकाभावात् द्वावपि नृपचन्द्रौ वाच्यौ। उदयादिपदानि च प्रकृति- ६प्रत्ययभेदशून्यत्वादभिन्नानि इति अभङ्गक्लेषोयम् ॥ ३११॥।
मिन्नपद ल्लेषमुदाहरति-दोषाकरेणेति। प्रदोष: रजनीमुखम् अथवा प्रकृष्टाः दोषाः यस्मिन् स प्रदोष: मदनः प्रकृष्टक्रोधलोभमोहादिदोषवान् नृपक्च प्राकरणिकः । दोषाकरेण दोषायाः निशाया करः निशाकर इत्यर्थः पक्षे दोषा- णामाकरः खनिः तेन। तथा नक्षत्रपथवर्तिना नक्षत्रमार्गे आकाशे वर्तते इति तथोक्तेन। क्षत्रपथे क्षत्रोचितशौर्याद्याचारे न वर्तते तेन । राज्ञा चन्द्रमसा केन- ६चिन्नपविशेषेण च । संबन्नन् संबन्धं प्रापुवन् सन्। अप्रियं प्रियाविरहितं द्वेष्यं च । मामू इत्थं एवम् । किं न बाधते अपि तु बाधत एव। अत्र दोषाकरादि- पदानां प्रकृतिप्रत्ययभेदेन भिन्नार्थप्रतिपादकत्वात् समङ्गश्लेषोयम्। राज्ेत्यत्र तु अभङ्गः । अत्र सभङ्गश्लिष्टपदानां बाहुल्यात् सभङ्गश्लेषः । अत एव लक्षणे प्रायः
· सर्वस्य. अ.
Page 303
२८४ काव्यादर्शे द्वितीय: परिच्छेद:
उपमारूपकाक्षेपव्यतिरेकादिगोचरा: । प्रागेव दर्शिताः श्रेषा दर्श्यन्ते केचनापरे॥ ३१३॥ अस्त्यभिन्नक्रिय: कश्िदविरुद्धक्रियोपरः। विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि॥ ३१४॥ पदोपादानं सार्थकमिति ज्ञेयम्। अर्वाचीनास्तु समङ्गाभङ्गरूपं तृतीयभेदं परि- कल्प्य तस्येदमुदाहरणं मन्वते । तन्मते सभङ्गश्लेषोदाहरणं तु-
१२ पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ इति। अत्र श्लिष्टानि सर्वाण्यपि पदानि सभङ्गानि इति सभङ्गश्रषोयम् ॥ ३१२ ॥ प्रधानभूत शेषं सप्रकारं प्रदरश्य अलंकारान्तरस्याङ्गत्वेन तस्य चारुता- संपादकत्वं दिदर्शयिषुराह -- उपमेति। उपमारूपकाक्षेपव्यतिरेकाद्यलंकारेषु ३ गोचराः विषयीभूताः । श्लेषाः प्रागेव तत्तदलंकारोदाहरणेषु। दर्शिताः । इदानी केचन अपरे अन्यालंकाराङ्गभूताः । दर्श्यन्ते। तत्र- शिशिरांशुप्रतिद्वन्द्वि श्रीमत् सुरभिगन्धि च। ६ अम्भोजमिव ते वक्त्रमिति ललषोपमा स्मृता ॥ इति लषोपमादौ अर्थश्लेषः । बालेवोद्यानमालेयं सालकाननशोभिनि । इति समानोपमायां शब्दश्लेषः । एवम्- राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभम्। साख वक्त्राग्बुजमिदं तवेति श्रिष्टरूपकम् ॥ इति श्लिष्टरूपके शब्दश्लेषः । तथा- १.२ अमृतात्मनि पम्मानां द्वेष्टरि स्त्निग्धतारके। मुखेन्दौ तव सत्यस्मिन्नपरेण किमिन्दुना । इत्यापेक्षे द्विविध: श्लेषः। साधारणधर्मप्रयोगवति व्यतिरेकेपि एवमेव ल्लषो द्रष्टव्यः। १५ आदिना अर्थान्तरन्याससमासोक्त्यादीनां परिग्रहः ॥३१३॥ कथयितव्यान् भेदानुद्दिशति-अस्तीति । सुगमम् ॥ ३१४॥ १ विरुद्ध्धर्मा, कपा.
Page 304
श्लेषप्रभेदाः २८५
नियमाक्षेपरूपोक्तकिरविरोधी विरोध्यपि। तेषां निदर्शनेष्वेव रूपनाविर्भविष्यति॥३१५ ।। वक्रा: स्वभावमधुराः शंसन्त्यो रागमुल्बणम्। दशो दूत्यक्च कर्षन्ति कान्ताभि: प्रेषिताः प्रियान्॥३१६॥ मधुरा रागवर्धिन्यः कोमला: कोकिलागिरः। आकर्ण्यन्ते मदकलाः श्लिष्यन्ते चासितक्षणाः।३१७।। नियमेति। तेषां निर्दिष्टानामेषामित्यर्थः । निदर्शनेषु उदाहरणेषु। रूपं स्वरूपम् । आविर्भविष्यति प्रकटीभविष्यति ॥ ३१५ ।। अभिन्नक्रिया श्ल्लेषमुदाहरति-वक्रा इति। कान्ताभिः प्रियाभिः। प्रेषिताः क्षिप्ता: नायकानयनार्थ प्रेषिताश्च। वक्राः तिर्यकूप्रसारिण्यः वक्रोक्तिनिपुणाश्च। स्वभावमधुराः स्वाभाविकमनोहराः मधुरस्व्रभावाश्च। उल्बणम् अत्यन्तं प्ररूढम्। रागं लौहित्यम् अनुरागं च। शंसन्त्यः सूचयन्त्यः कथयन्त्यश्च। दृशः नयनानि दूत्यश्च। प्रियान् कर्षन्ति आवर्जयन्ति। अत्र वत्रादिविशेषणानां श्विष्टत्वं दृग्दू- तीनां च कर्षणरूपैकक्रियायामन्वयः। श्लषस्य एकक्रियत्वं च स्वाश्रयीभूत- विशेषणानां विशेष्ययोः दग्दूत्योरेककर्षणक्रियावत्त्वात् परंपरया बोध्यम्। अत्र- विवक्षितगुणोत्कृष्टैर्यत् समीकृत्य कस्यचित्। कर्तिनं स्तुतिनिन्दार्थ सा मता तुल्ययोगिता ।। ९ इति वक्ष्यमाणस्वरूपायाः तुल्ययोगिताया निर्वाहकत्वादयं श्लेषः तुल्ययोगिताङ्ग- भूतः। अपरे तु एकक्रियया वाक्यद्वयदीपनात् क्रियादीपकस्याङ्गभूतोयमित्याङ्ग: १२// ३१६।। अविरुद्धक्रियाश्लेषमुदाहरति-मधुरेति । कोकिलागिरः आकर्ण्यन्ते! असितेक्षणाश्च श्लिष्यन्ते। उमे अपि क्विष्टविशेषणैर्वर्णयति। मधुराः स्वरमाघुर्य- शालिन्यः माधुर्याख्यनायिकालंकारयुक्ताश्। माधुर्य च -- सर्वावस्थाविशेषेषु माधुर्य रमणीयता। इत्युक्तप्रकारकम्। रागवर्धिन्यः उद्दीपकत्वेन प्रणयाविष्कारेण च अनुरागं वर्धयन््यः। कोमलाः कर्णमधुराः मृदुगात्र्यश्च। मदकला वसन्त-
१ रूपन्यक्ति, कपा, २ यत्र. अ.
Page 305
२८६ काव्यादर्शे द्वितीय: परिच्छेद:
रागमादर्शयन्नेष वारुणीयोगवर्धितम्। 'तिरोभवति घर्माशुरङ्गजस्तुँ विजम्भते ॥ ३१८ ॥ निख्त्रंशत्वमसावेव धनुष्येवास्य वक्रता। शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ ३१९ ॥
६प्रारम्भे मदोन्मत्ताः सौभाग्याद्यवलेपविकारवत्यश्च। उक्तं च मदलक्षणं यथा- मदो विकारः सौभाग्ययौवनाद्यवलेपज़ः। इति। अत्राकर्णनाल्लेषणक्रिययोरेक- कालीनत्वसंभवेनाविरोधः। श्लेषस्य अविरुद्धक्रियासंबन्धश्च स्वाश्रयविशेषणविशे- ष्ययोः कोकिलालापासितेक्षणयोः कर्मत्वेन संबन्धात् तत्संबन्धेन परंपरया बोध्यः। अत्रापि ललषस्य तुल्ययोगिताङ्गत्वं ज्ञेयम् ॥ ३१७॥
विरुद्धक्रियं श्रलेषमुदाहरति-रागेति। एषः पुरो दृश्यमानः । घर्माश्ुः सूर्यः तिरोभवति अस्ताचलं गच्छति। अङ्गजस्तु मदनस्तु। विजम्भते उद्योतते। उभौ 3अपि क्लिष्टविशेषणेन वर्णयति-रागमिति। वारुणी पश्चिमदिक् तस्याः योगेन संबन्धेन वर्धित स्फीतम्। रागं लौहित्यम्। आदर्शयन्। पक्षे वारुणी मदिरा तस्याः योग: सेवनं तेन वर्धितम्। रागं अनुरागम्। आदर्शयन्। अत् तिरोभवनविजम्भ- इणक्रिये परस्परविरुद्धे। श्लषस्य तत्र संबन्धः पूर्ववत् परंपरया ज्ञेयः । अत्र तुल्ययोगितालंकारः प्रधानतया वर्तते ॥ ३१८॥
सनियम श्लेषमाह-निस्त्रिंशत्वमिति। अस्य नरेन्द्रस्य। असौ खड्गे एव नतु मनसि। निःस्त्रिंशत्वम् निर्गतः त्रिंशतः अङ्गुलिभ्यः इति निसितिंशः त्रिंशद- :ड्गुल्यधिकपरिमाणत्वम् निर्दयत्वम् च । धनुष्येव वक्रता आकर्षणेन असरलता प्रतिकूलता च। मार्गणत्वं शरत्वं याचकत्वं च। शरेषु एव न तु प्रजासु। वर्तते इति सर्वत्रान्वेतव्यम्। अत्र प्रतिवाक्यं एवकारेण द्वितीयार्थानां व्यवच्छिन्त्वात् अयं नियमवानर्थश्लेषः । अत्र-अनेन च परिसंख्यायाः परिपोषः । ग्रन्थकृता अस्वीकृतापि परिसंख्या स्फुटवैचित्र्यादङ्गीकार्येति टीकाकाराः। वयं तु नियम- श्लेषेणैव तस्याः सर्वस्य विषयस्याक्रमणात् कि परिसंख्येति नामान्तराश्रयणे प्रयोजनमस्तीति न जानीमः । दर्श्यन्ते केचनापरे इति अङ्गाङ्गिरूपस्य उभस-
, परामवति, अ, परापतति. कपा. २ जथ्र. बपा.
Page 306
श्लेषोदाहरणानि २८७
पद्मानामेव दण्डेवु कण्टकस्त्वय रक्षति। अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि॥ ३२० ॥ महीभृङ्करिकटकस्तेजस्वी नियतोदयः। दक्ष: प्रजापतिश्चासीत् स्वामी शक्तिधरश् सः ॥ ३२१॥ अच्युतोप्यवृषच्छेदी राजाप्यविदितक्षयः। स्यापि ल्लषस्य दर्शनं प्रतिज्ञातमवबोद्धव्यम्। तथा चात्र आचार्यमतेन अङ्गी ललेषः एव न परिसंख्याङ्गभूत इति विचारणयिम् ॥ ३१९॥
नियमाक्षेपरूपोक्ति श्रेषमुदाहरति-पद्मानामेवेति । त्वयि रक्षति सति। प्मानामेव दण्डेषु कण्टकः न तु प्रजासु। कण्टकः तीक्ष्णाग्रावयवविशेषः क्षुद्र- ३शत्रुश्च । नियमश्लेषमाक्षिपति-अथवेति । रागिमिथुनस्य अनुरक्तकामिनोः आलिङ्गनेषु अपि। कण्टकः रोमाञ्चः। दृश्यते। अत्र पम्मानामेव इति सनियमक्ले- षस्य अथवेत्यादिना आक्षेपः। अतः नियमाक्षेपरूपोकिश्लेषः। स च एकत्र निहि- ६तस्य कण्टकस्य वाक्यद्वयोद्दीपनात् प्रधानस्य दीपकस्याङ्गमिति ध्येयम् ॥३२०॥
अविरोधिक्रेषमुदाहरति-महीभृदिति। स नृपः । महीभृत् महीँ बिभ- रतीति महीभृत् पृथ्वीधारक: पर्वतश्च। भूरिकटकः बहुरकन्धावारः विशालनितम्बश्च 3अस्ति। तथा स तेजस्वी प्रतापवान् सूर्यश्च। नियतोदयः सततोन्नतिशाली नियतोद्रमश्च। तथा दक्षः निपुणः प्रजापतिविशेषश्च। प्रजापतिः प्रजापालकः सृष्टिकर्ता च । तथा स्वामी प्रभुः कार्तिकेयश्। शक्तिधरः प्रभावोत्साहमन्त्र- शक्तिसंपन्नः आयुधविशेषवांश्च। अस्ति। अत्र महीभृत् भूरिकटकः तेजस्वी नियतोदयः दक्षः प्रजापतिः स्वामी शक्तिधरः इति श्रिष्टपदयुगलानामविरोधि- त्वादविरोधिश्लेषः । स एव चात्र प्रधानः ॥ ३२१।।
विरोधिश्रेषमुदाहरति-अच्युतेति । अच्युतः सन्मार्गात् अभ्रष्टः विष्णुश्च। अपि अवृषच्छेदी वृषः धर्मः तन्नामासुरश्च तं न च्छिनच्तीति तथोक्तः । ३राजापि राजा नरपतिः चन्द्रश्च अपि। अविदितः अज्ञातः क्षयः संपत्क्षीणता राजयक्ष्मा च येन तादशः। देवः राजा सुरश्चापि। अविबुधः विबुधः विगत- पण्डितः देवश्च न भवतीति तथोक्तः । शंकरः कल्याणकरः हरश्वापि। अमुजङ्ग-
Page 307
२८८ काव्यादर्शे द्वितीय: परिच्छेद:
देवोष्यविवुधो जज्ञे शंकरोप्यसुजङ्गवान् ॥ ३२२ ।। ।। इति श्लेषचक्रम्-॥। गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम्। ६वान् भुजङ्ग: षिङ्गः सर्पश्च तद्वान् तद्विशिष्टः न भवतीति अभुजङ्गवान्। जज्ञे इति सर्वत्र वाक्येषु योजनीयम्। अत्राच्युतादिपदानां द्वितीयार्थे विष्ण्वादौ वृषो- च्छेद्यादिद्वितीयपदार्थस्याभावो विरुद्ध : इति विरोधि ्लव ोय म् ।् ् अयं विरोधा- भासस्याङ्गम्। सरखतीकण्ठाभरणे तु भिन्नाभिन्नकारकरूपेणास्य भेदौ प्रदर्शितौ। तत्र भिन्नकारको यथा- गतिर्वेणी च नागेन वपुरूरू च रम्भया।
"१२ औष्ठौ पाणी प्रवालैश्च तस्यास्तुल्यत्वमाययुः ॥ इति। तस्या नायिकायाः गतिः गमनं वेणी केशरचना च नागेन हस्तिना सर्पेण च समा। अत्र प्रथमार्थे नागशद्वेन धर्मधर्मिणोरभेदोपचारान्नागगतिर्गृह्यते। तस्या वपुः १५ शरीरम् ऊरुद्वयं च रम्भया अप्सरोविशेषया कदल्या च। तस्या औष्ठौ पाणी च प्रवालैः विद्रुमैः नवपल्लवैश्च। तुल्यत्वमाययुः । अत्र वर्णनीययोस्तुल्यत्वं श्लेष- प्रभावाल्लभ्यते। सोयमनेकक्तृत्वाद्धिन्नकारकः । अभिन्नकारकः ल्लेषो यथा- कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ इति ॥ हे कलभाषिणि मधुरवचने। तव दृष्टिः कस्य विश्वसनीयत्वं विश्वासार्हतां। याति। ११न कस्यापि इत्यर्थः । तदेवोपपादयति-कृष्णेति। कृष्णा श्यामा अर्जुना श्वेता अनुरक्ता प्रान्तलोहिता च। कर्णावलम्बिनी कर्णपर्यतगामिनी। पक्षे कृष्णे श्रीहरौ अर्जुने मध्यमपाण्डवे च अनुरक्ता अनुरागवती। कर्णपक्षपातिनी च । अतः २v विरुद्धपक्षद्वयाश्रितत्वात् कथ सा विश्वसनीया स्यात्। स चायमेककर्तृकत्वाद- भिन्नकारक: श्लेषो भवति। एवं प्रभेदविशेषा अन्येभ्य आकरग्रन्थेभ्यो बोद्धव्याः। विस्तारभियोपरम्यतेस्माभिः ॥३२२॥ क्रमप्राप्तां विशेषोक्तिं लक्षयति-गुणजातीति। विशेषः वर्णनीयत्वेन ./१ यत्र, घ, यत्तद्, अ.
Page 308
विशेषोक्तिलक्षणम् २८९
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ॥ ३२३ ॥ न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः । प्रस्तुतस्य व्र्िाद्यतिशयः तस्य। दर्शनाय अवगमाय । गुणजातिक्रियादीनां आदि- 3 शब्देन द्रव्याणां च। यत्तु वैकल्यदर्शनं कार्यसिद्धौ निष्फलत्वप्रतिपादनन्।सा विशेषोक्तिः इष्यते । विशेषाय गुणादिवैकल्योक्तित्वाद्विशषोक्तिरिति अवयवार्थः। स च न स्वरूपनिर्धारणाय अपि तु भेदावगमायेति ज्ञेयम्। पदार्थमात्रवैकल्ये अस्याः ६स्वरूपत्वात्। अतिशयोक्तौ प्रस्तुतस्य वीर्याद्यतिशयदर्शनसद्ध्ावेपि गुणादीनां वैकल्यं न प्रतिपादते इति ततोस्या मेदः। एवकारेण विशेषदर्शनाभावे नायमलंकारः इति सूच्यते। सरस्वतीकण्ठाभरणेपि एतदेव लक्षणं स्वीकृमम्। इदभेव लक्षणं ९ च-एकगुणहानकल्पनायां साम्यदाढ्य विशेषोक्तिः । (४·३·२३) इति वामनेन स्थिरीकृतम् । विशेषदर्शनायैवेत्यनेन विभावनातः मेदो दर्शितः। तत्र हि प्रधानतया कारणान्तरं स्वाभाव्यत्वं वा विभावनीयम् न प्रस्तुतस्यातिशयो वाच्यः । १२इह तु गुणादिप्रतिषेधेन प्रस्तुतस्यातिशयोपेक्षितः । नव्यास्तु-विशेषोक्तिर- खण्डेषु कारणेषु फलावचः । इति विशेषोक्तिमाहुः । अत्राहुः प्रेमचन्द्रशर्माण :- नव्यास्तु सत्यपि कारणे कार्याभावः विशेषोक्तिरित्याहुः । तत्रालंकारसंज्ञानामन्व १५र्थतयैव प्राचीनैः प्रयुक्तत्वेन हेतुसमानाधिकरणकार्याभाववर्णने विशेषप्रतीतेर- भावाद्विशेषोक्तिसंज्ञाभ्युपगमे हेतुः प्रष्टव्यः। न च विशेषो वैचित्र्यं तच्च सत्यपि कारणे कार्याभावोपनिबन्धे विद्यते एवेति विशेषोक्तिसंज्ञाया अन्वर्थतैवेति वाच्यम्। १८ अलंकारमात्रस्यैव वैचित्र्यात्मकत्वेनोपमादावपि विशेषोक्तिसंज्ञायाः प्रसङ्गात्। अथ सति हेतौ कार्याभावप्रतिपादनजन्यं स्फुटं प्रतीयमानमपि वैचित्र्यं त्वयापि कथं संज्ञान्तरेणालंकारतया न संगृहीतमिति चेन्मैवम्! तत्रास्माकमतिशयोक्ते-
तस्मात् गुणादिवैकल्यवर्णने वर्णनीयस्य विशेषकथनमेव विशेपोक्तिरिति युक्त- तरमिति ॥ ३२३ ।। तत्न गुणवैकल्यविशेषोक्त दर्शयति-न कठोरमिति। पुष्पधन्वनः मदनस्य। आयुधं अस्त्रम्। न कठोरं न वा तीक्षणं निशितम्।
३ अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥ [काव्यादर्श] ३७
Page 309
२९० काव्यादर्शें द्वितीय: परिच
तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३२४ ॥। न देवकन्यका नापि गन्धर्वकुलसंभवा। तथाप्येषा तपोभङ्गं विधातुं वेधसोप्यलम्॥ ३२५॥ न बड्ढा अ्रुकुटिर्नापि स्फुरितो दशनच्छदः । न च रक्ताभवद्दृष्टिर्जितं' चे द्विषतां कुलमँ।। ३२६ ।
इति पुष्पमयत्वादिति भावः । तथापि अमुना कामेन। भुवनत्रयं जितमेवासीद्। ६अत्र मदनस्य वीर्यातिशयप्रदर्शनाय तदस्त्रस्य काठिण्यादिगुणवैकल्योक्तिः इति विशेषोक्तिः । नात्र कारणान्तरविभावनायां स्वाभाविकत्वविभावनायां वा तात्पर्य- मतो न विभावनाप्रसक्तिः। एवं च विनोपकरणं क्रियानिष्पादकतया कर्तुरुत्कर्ष- प्रतिपादनं उपकरणगतकठोरतीक्ष्णगुणवैकल्येन प्रदर्शितमिति गुणवैकल्यविशेषो- क्तिरियम् ॥ ३२४ ॥
जातिवैकल्ये वरिशेषोक्ति दर्शयति-न देवेति। एषा देवकन्यका न। गन्धर्वकुलसंभवा गन्धर्ववंशजापि न। तथापि वेघसः ब्रह्मणोपि। तपोभङ्गं विधा- 3तुम् अलं समर्था। अत्र देवत्वगन्धर्वत्वजातिनैरपेक्ष्येण ब्रह्मणोपि तपोभङ्ग- सामर्थ्यवर्णनेन नायिकाया रूपातिशयः प्रतीयते। देव्यो गन्धर्व्यश्च तपोभङ्ग- विधानसमर्थाः इति पुराणप्रसिद्धिः। अत्र वर्णनीयाया जातिवैकल्येन विशेषो ६दर्शितः इति जातिवैकल्यविशेषोक्तिः ॥ ३२५।।
क्रियावैकल्यविशेषोक्तिं दर्शयति-न बद्देति। भ्रुकुटिः भ्रूभङ्गः । न बद्दा। दशनच्छदः अधरः । न स्फुरितः । दृष्टिरपि रक्ता ताम्रा। नाभवद्। तथापि ३हे वीर त्वया द्विषतां अरीणाम्। कुलं जितम्। बलमिति पाठे शत्रुसैन्यं जित- मित्यर्थः । अत्र बन्धनादयः क्रियाः । तद्वैकल्येन शत्रुजयो वर्णितः । तेन लीलया शत्रुजयो विहितः इति विशेष: स्फुटीभूतः । अतः क्रियावैकल्यविशेषोक्तिरियम्। ६अत्र केचित्-बन्धनं स्फुरणं च क्रिया रक्तत्वं तु गुणः । अतः क्रियागुण- वैकल्ययोरत्र संकरः । शुद्धक्रियावैकल्योदाहरणं तु-
१ ध्वस्तं, अ, कपा. तत्. अ. 3 बलम्. ब, डप.
Page 310
विशषोक्तरुदाहरणानि २९१
न रथा न च मातङ्गा न हया न च पत्तय:। स्त्रीणामपाङ्गदृष्टयैव जीयते जगतां त्रयम् ॥ ३२७ ।। एकचक्रो रथो यन्ता विकलो विषमा हयाः। आक्रामत्येव तेजस्वी तथाप्यंर्को नभस्तलम्॥ ३२८ ॥
नोपभोगो न वा दानं वन्धूनां भरणं न वा।
९ तथापि गुरुतां धत्ते नृणां संरक्षित धनम् । इति। अत्रोपभोगादिक्रियामात्रवैकल्यमिति वदन्ति ॥ ३२६ ॥
द्रव्यवैकल्यविशेषोक्ति दर्शयति-न रथा इति। न रथाः न च मातङ्गा: हस्तिनः । न हयाः अश्वाः ।न च पत्तयः पदातयः । एवम्-हस्त्यश्चरथ- ३ पादातं सेनाङ्गं स्याच्चतुर्विधम्। इति चतुरङ्गबलवियुक्तयापि त्त्रीणां अपाङ्गदृष्टयैव तिर्यकूकटाक्षेणैव। जगतां त्रयं जीयते। अत्र रथादिजयसाधनद्रव्याणामभावेपि जगत्त्रयविजयः केवलया दृशा विहितः । तेन च दशां मोहनसामर्थ्यविशेषः प्रती- ६यते इति द्रव्यवैकल्यविशषोक्तिः ॥ ३२७॥
हेतुविशेषोक्तिं दर्शयति-एकचक्र इति। रथः एकचक्रः यन्ता सारथिः। विकल: चरणवकलः । अश्वाः विषमाः सप्तसंख्याकाः इत्यर्थः। सप्ताश्वा नव दन्तिनः 3इति सप्ताश्चानां राजतन्त्रे निषेधः इति रत्नदर्पणव्याख्यायां रत्नेश्वरः । तथापि तेजस्वी अर्कः रविः। नभस्तलं विस्तीर्णमाकाशम्। आक्रामति। अत्र रथादिद्रव्या- णामङ्गवैकल्येन द्रव्यवैकल्यम्। तत्प्रतिपादनेन विकलसाघनोपि रविर्जगत्त्रयमा- क्रामतीति विशेषसामर्थ्यदर्शनात् विशेषोक्तिः । तत्र च तेजस्वीति हेतुबोधकपद- विन्यासेन न तेजस्व्रिनः अङ्गीकृतार्थसाधने उपकरणपरतन्त्रा भवन्तीति विशेषस्य परिपोषो भवति इति हेतुविशेषोक्तिरियम्। भोजराजस्तु न रथा न च मातङ्गा इति द्रव्यवैकल्यविशषोक्तिः एकचक्रो रथो यन्तेति वैकल्यवद्द्रव्यविशेषोक्तिरिति भेददयं कल्पयति। तथैव अवैकल्यदर्शनेनापि क्वचिदप्युपपद्यते इति जातिगुण- क्रियादीनामवैकल्येपि क्वचिदियं भवतीति मत्वा उदाहरति-
१ तथाव्येको. अ. २ जगत्त्रयम्. अ, कपा.
Page 311
२९२ काव्यादर्शे द्वितीय: परिच्छेद:
सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात्। अयमेव क्रमोन्येषां भेदानामपि कल्पने ॥ ३२९ ॥
। इति विशेषोक्तिचक्रम् ॥ विवक्षितगुणोत्कृष्टैरयत् समीकृत्य कस्यचित्।
१२ अयं तया रथक्षोभादंसेनांसो निपीडितः । एक: कृती शरीरेस्मिञ् शेषमङ्गं भुवो भरः ॥ अत्र तया स्पृष्टोसः पुण्यवान् तया चास्पृष्ट शेषमङ्गं मे निरर्थकम् इति योयम- १५ वैकल्यदर्शनेपि विशेषस्तनैषा हेतुमत्यपि हेतुमता विशेष्यमाणा यथोक्ता विशेषो- क्तिर्भवतत्यिाह॥ ३२८॥
उदाहरणं निरूपयति-सैषेति। तेजस्वीति विशेषणात् हेतुगर्भविशे- षणादिति भावः । एषा विशेषोक्ति: हेतुविशषोक्तिः । अन्येषामपि भेदानां 3 विशेषोक्तिप्रकाराणाम्। अयमेव क्रमः अयमेव मार्गः । तथा च यथात्र हेत्वलंकार- संबद्धा विशषोक्तिस्तथालंकारान्तरसंबद्धापि ऊहनीया। तथा च-भवन्ति यत्रौ- षधयो रजन्यामतैलपूराः सुरतप्रदीपाः । दयूतं हि नाम पुरुषस्यासिंहासनं राज्यम्। ६इयं ह्यकमला लक्ष्मीः । इत्यादयो रूपकसंबद्धा विशेषोक्तयो ज्ञेयाः ॥ ३२९ ॥
क्रमप्राप्तां तुल्ययोगितां लक्षयति-विवक्षितेति। विवाक्षताः प्रस्तुत- गतत्वेन वक्तुमिष्टाः ये गुणाः तैरुत्कृष्टाः अिकाः ये तैः सह । स्तुतिनिन्दार्थः 3स्तुत्यर्थ निन्दार्थ वा। कस्यचित् प्रस्तुतस्य स्तुत्यस्य वा तैर्गुणैः समीकृत्य यत् कीर्तनं कथनम्। सा तुल्ययोगिता मता इति अन्वयः । अत्र बहुवचनमविवक्षितम्। द्वाभ्यामेकेन वा समीकरणेपि अस्याः सद्ावाद्। तथा विवक्षितगुणोत्कृष्टैरप्रस्तुतैरे- ६वेति न नियम: । कटाक्षा मधुरालापा विलासास्ते च ते शुभे। जगज्जये प्रवृत्तस्य कन्दर्पस्य महदूलम् ॥
3 गुणोत्कषैर, बपा,
Page 312
तुल्ययोगिता २९३
कीर्तनं स्तुतिनिन्दार्थ सा मतां तुल्ययोगिता॥ ३३०॥ यम: कुवरो वरुण: सहस्राक्षो भवानपि।
इत्यत्र कटाक्षालापविलासादीनां प्रस्तुतत्वे तस्याः सद्ावात्। प्रस्तुतयोरेव अप्रस्तुतयोरेव वा एकधर्माभिसंबन्धे तुल्ययोगिता प्रस्तुताप्रस्तुतयोरेकधर्माभि- संबन्धे दीपकमिति अर्वाचीनमतं न दण्डिनोभिमतम्। धर्माभिसंबन्धरूपवैचि- १२5्यस्य सर्वत्र तुल्यत्वात्। एवं तर्हि दीपकं निर्विषयं स्यादिति चेन्न। अस्मन्मते वाक्यान्तरीयपदस्यानुषङ्गादिना स्वार्थद्वारा वाक्यान्तरार्थोद्दीपकत्वस्यैव दपका- लंकारत्वात्। तदुक्तम् -- १५ जातिक्रियागुणद्रव्यवाचिनैकत्रवर्तिना। सर्ववाक्योपकारश्चेत् तदाहुदीपक यथा ॥ (२'९७) इति। अनेनैव लक्षणेन दीपकसंज्ञाया अन्वर्थता भवति। वामनोपि-विशिष्टेन १८ साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता (४·३२६) इति सूत्रेणेदमेव लक्षणमङ्गी- करोति। भोजराजोपि तथैव। उपमायां वाच्यार्थस्य व्यङ्गयार्थस्य वा साम्यप्रतीतिः शाब्दी। इह तु सर्वेषां समकक्षतया शाब्दबोधविषयत्वात् पर्यवसाने सादृश्य-
दिवो जागर्ति रक्षायै पुलोमारिर्भुवो भवान्। असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ २·इत्यादितुल्ययोगोपमायामपि (२.४९) व्यञ्जनयोपस्थितस्यापि सादृश्यस्य वृत्ति- वेद्यत्वेन शाब्दबोधाभ्युपगमात्। व्यञ्जनाया वृत्तित्वं च सर्वालंकारिकसंमतम्। तुल्ययोगितायां तु साम्यं न वृत्तिवेधं किंतु पर्यवसानगम्यम्। तेन नोभयोः २७ संमर्द: । एवं च विवक्षितगुणशालित्वेन अप्रस्तुतैः सह प्रस्तुतस्य स्तुतिनिन्दार्थ तादृशगुणान्वयित्वकतर्िनेन या प्रशंसा निन्दा वा सा तुल्ययोगिता। केचित्तु तुल्ययोगितायां स्तुतिनिन्दयोः प्राधान्यम् सादृश्यं तु उपसर्जनीभूतम् तुल्ययोगो- ·३०पमायां तु सादृश्यं प्रधानम् इति ततोस्या भेद इति मन्यन्ते ॥ ३३०॥ तत्र स्तुतितुल्ययोगितामुदाहरति-यम इति । यमः कुबेरः वरुणः
१ स्मृता. अ.
Page 313
२९४ काव्यादर्शे द्वितीय: परिच्छेद:
विभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् ॥ ३३१ ॥ संगतानि मृगाक्षीणं तडिद्विलसिंतानि च। क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ ३३२॥ । इति तुल्ययोगिता ॥ सहस्राक्ष: इन्द्रः। तथा भवान्। अनन्यविषयां अनन्यगामिनीम्। लोकपाल :इत्याकाराम् । श्रुति ख्यातिम् । बिभ्रति धारयन्ति । अत्र लोकपालत्वरूपो गुणः प्रस्तुतनृपे विवक्षितः । तेन च गुणेनोत्कृष्टैर्यमादिभिः समानताख्यापनेन राजः स्तुतिः। अतः स्तुतिरूपा तुल्ययोगिता ॥ ३३१ ॥ निन्दातुल्ययोगितामुदाहरति-संगतानीति। मृगाक्षीणां संगतानि समागमाः । तथा तडिद्विलसितानि विद्यदुन्मेषितानि च । स्वयम् स्वस्यानुरागेण। ;ताभि: घनारब्धान्यपि घनं निबिडं निरन्तरभावः तेन आरब्धानि अनुष्ठितान्यपि। पक्षे घनैः मधैः स्वयम् आरब्धानि अपि। क्षणद्वयं क्षणादूर्ध्वमपरमपि क्षणम्। न तिष्ठन्ति कुतो दीर्धकालावस्थानमिति भावः । अत्र प्रसिद्धचपलस्वभावया विद्युता ६सह स्त्रीणां संगमस्य चपलता समकक्षीकृत्योच्यते। तेन च निन्दावगमः स्पष्टो भवति। अतः निन्दातुल्ययोगिता। सा चात्र घनारब्धानि इति श्लेषानुप्राणितया समधिकचमत्कार भजते। सरस्वतीकण्ठाभरणे- अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि। स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम् ।। (४५५) इति मतान्तरेण तुल्ययोगित। लक्षितास्ति। तत्र स्तुत्यर्थायाः उदाहरणं यथा- १२ आहूतस्याभिषेकाय विसृष्टस्य वनाय च। न मया लक्षितस्तस्य स्वल्पोष्याकारविभ्रमः ॥ अत्र रामस्य राज्याभिषेकवनगमनयोः पितुरादेशेन तुल्यरूपतया स्तुतिः प्रतीयते १५इति स्तुतिरूपा तुल्ययोगिता। निन्दार्था यथा- यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥
१ विभर्ति. अ. २ तान्यपि. अ.
Page 314
विराधस्य लक्षणादाहरणानि २९५
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनञ्। विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥ ३३३ ॥ कूजितं राजहंसानां वर्धते सदमञ्जुलम्।
१८अत्र यः परशुना छिनत्ति योमुं मधुसर्पिषा सिञ्चति यो वा गन्धमाल्याभ्यामचति तं प्रति तुल्यमेव निम्बस्य कटुत्वम् इति समासोक्त्या तदुपमेयस्य निन्दा प्रतीयते इति निन्दार्था तुल्ययोगितेयम् । विस्तरस्तु तत एव द्रष्टव्यः ॥ ३३२ ॥
अथ विरोधं लक्षयति-विरुद्धानामिति। विशेषस्य प्रस्तुनगतोत्कर्षस्य दर्शनाय प्रतिपादनायैव। विरुद्धानां परस्परैः सहानवस्थानवतां परस्परसामानाधि- करण्यशून्यानामित्यर्थः । पदार्थानां यत्र वैचित्रये संसगदर्शन सहावस्थानं सामा- धिकरण्यप्रतिपादनमित्यर्थः । सः विरोधमूलत्वाद्विरोधालंकारः स्मृतः । यथेति उदाहरणोपन्यासाय। तत्र प्ररूढविरोधो दोपाय अप्ररूढश्वालंकाराय। प्ररोहश्च ६ बाधबुद्धयानभिभूतत्वम् । बाधबुद्धयाभिभूतत्वं च अप्ररोहः । तथा च विरुद्धानां नाम वस्तुतः विरोधाभावेपि मुखतः विरुद्धत्ेन प्रतिभासमानानाम् इत्यर्थः । तदुक्तं प्रकाशकृता-विरोधः सोविरोधेपि विरुद्धत्वेन यद्वचः । इति। पदार्थानां जातिगुणक्रियाद्रव्याणाम्। तेषु जात्या जातिगुणक्रियाद्रव्यैः चतुर्मिर्विरोधः गुणस्य गुणक्रियाद्रव्यैः त्रिभिः क्रियायाः क्रियाद्रव्याभ्याम् द्रव्यस्य द्रव्येणेति प्रकाशोक्त- दशप्रकारो विरोधो ज्ञेयः। अयं शब्द श्लेपनिबन्धश्रेद्विरोधाभास उच्यते। इति प्रेम- १२ चन्द्रशर्माणः । वामनस्तु विरुद्धाभासत्वं विरोधः इति सूत्रयित्वा (४.३·१२)- पीतं पानमिदं त्वयाद्य दयिते मत्तं मभेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि।
१५ त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु- स्त्वन्मध्ये तनुता ममाधृतिरहो प्रेम्गो विचित्रा गतिः ॥ इत्युदाजहार। एष च अपिशब्दप्रयोगे वाच्योन्यथा व्यङ्गयः ॥ ३३३ ।।
तत्रादौ क्रियाविरोधमुदाहरति-कूजितमिति। राजहंसानां मदमञ्जुलं
१ विरोधसाधना°. कपा, अ; विरोधदर्श°. क.
Page 315
२९६ काव्यादर्शे द्वितीय: परिच्छेद:
क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम्॥ ३३४॥ प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते। रागेण पुनराक्रान्तं जायते जगतां मनः ॥ ३३५॥ तनुमध्यं पृथुश्रोणि रेक्तौष्ठमसितेक्षणम्। नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नवस्तनम्॥३३६॥
मदेन मनोरमम्। कूजितं वर्धते। मयूराणाम् उत्क्रान्तम् अपगतं सौष्ठवं मनोहारित्वं 3यस्मात् तत्। तादशं कूजितं क्षीयते ह्रासमेति। अत्रैकस्मिन् शब्दरूपे कर्तरि विरुद्धयोर्वृद्धिक्षयरूपक्रिययोः संबन्धप्रतिपादनेन विरोधः । संबन्धिमेदेन शब्दयो- र्भिन्नत्वेन तत्प्रशमः । तेन च एवंविधवृद्धिक्षयकारितया शरत्कालस्य माहात्म्यं ६ स्फुटं प्रतीयते इति अलंकारतास्य ॥ ३३४ ॥
वस्तुगतगुणविरोधं दर्शयति-प्रावृषेण्यैरिति । प्रावृषेण्यैः प्रावृषि भवैः जलधरैः। अम्बरं दुर्दिनायते श्यामलं भवतीत्यर्थः । जगतां जगति स्थितानां 3जनानाम्। मनः रागेण अनुरागेण लौहित्येन च। आक्रान्तं व्याप्तम् जायते। अत्रानुरागस्य लौहित्येनाध्यवसानात् श्यामत्वलौहित्यगुणयोरेकजलधरसंभवरूप- संसर्गकीर्तनं विरोधः । तस्य अनुरागरूपार्थान्तरेण परिहारः। तेन च वर्षासमयस्य ६ विशेषः प्रतीयते इति वस्तुगतगुणविरोधोयं ज्ञेयः ॥ ३३५॥
अवयवगतगुणविरोधं दर्शयति-तनुमध्यमिति। स्त्रीणां कामिनीनाम्। तनुमध्यं कृशावलग्नम्। पृथुश्रोणि विशालनितम्बम्। रक्तौष्ठम् असितेक्षणं कृष्ण- नयनम्। नतनाभि निम्ननामि। उन्नतस्तनं तुङ्गकुचम्। वपुः कं पुरुषं न हन्ति न पाडियति। सर्वमेव पीडयतीत्यर्थः । अत्र तनुत्वविशालत्वयोः रक्तत्वासितत्वयोः नतत्वोन्नतत्वयोः गुणयोर्विरोधः। आश्रयीभूतावयवभेदेन च परिहारः। तेन ६ वर्णनीयायाः नायिकायाः विशेषः प्रतीयते। अतः अवयवगतगुणविरोधोयम्। केचित्तु बहूनां गुणयुग्मानां विरोधोपन्यासे वैचित्र्यातिशयः इति ज्ञापनाय तादृश- गुणविरोधप्रदर्शनायैतदुहारणमिति मन्यन्ते ॥३३६॥
1 पुनरुत्सिक्तं. बपा. २ रक्तोष्ठम्. क.
Page 316
विरोधस्योदाहरणानि २९७
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम्। अपि ते रूपमस्माकं तन्वि तापाय कल्पते॥ ३३७॥
उदश्रयन्ति पान्थानामस्पृशन्तोपि लोचने॥ ३३८॥ कृष्णार्जुनानुरक्तापि दृष्टि: कर्णावलम्बिनी। याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥ ३३९॥
विषमविरोधमुदाहरति -- मृणालेति । हे तन्वि ते रूपम् मृणालमिव शीतले बाहू यस्य तत्। रम्भा कदली तत्सदशौ ऊरू यस्य तत्। पभ्ममिव उत्पले 3इव च मुखम् ईक्षणे च क्रमेण यस्य तत्। एतादृशशीतलवस्तुतुल्यमपि अस्माकं तापाय संतापाय। कल्पते । विरहिण उक्तिरियम् । अत्र कारणगुणाः कार्यगुण- नारभन्ते इति न्यायवित्समयानुरोधेन शीतलरूपात् कारणात् शीतलं कार्य ६भवितुमर्हति न तु संतापः इति विषमविरोधः । समवायिकारणे स नियमः न तु निमित्तकारणे इति परिहारः । अनेन च नायिकायाः सौन्दर्यातिशयो वर्णितो भवति इति विषमविरोधालंकारः ॥ ३३७॥
असंगतिविरोधमुदाहरति-उद्यानेति। उद्यानमारुतेनोडू ता :ः ाेा चू ानाम् आम्राणां चम्पकानां च रेणवः परागाः । पान्थानां पथिकानाम्। लोचने 3अस्पृशन्तोपि उदश्रयन्ति उद्गतब्राष्पे कुर्वन्ति । अत्र स्पर्शनाभावेपि बाष्पोद्रम इति परस्परमसंगतेरयमसंगतिर्नाम विरोधः । तत्प्रशमनं च स परागाणामुद्दीपकतयेति ज्ञेयम्। अनेन च नायकस्योत्कण्ठातिशयः सूच्यते ॥३३८॥
ऋलेषमूलं विरोधमुदाहरति-कृष्णार्जुनेति। हे कलभाषिणि मधुरवचने। ते दृष्टि: कृष्णार्जुनयोरनुरक्तापि कर्णावलम्बिनी राधेयानुसारिणी। कृष्णा असिता 3अर्जुना श्वेता अनुरक्ता प्रान्तप्रदेशे आरक्तापि कर्णावलम्बिनी कर्णप्रान्ताश्रयिणी। कस्य विश्वसनीयत्वं याति । विरुद्धपक्षद्वयाश्रयणादिति भावः । इति द्वितीयार्थः । अत् कृष्णार्जुनानुरक्तायाः कर्णावलम्बनं विरुद्धमिति क्रियाविरोधः । द्वितीयार्थेन
१ लोचनं. अ. I काव्यादर्श ] ३८
Page 317
२९८ काव्यादर्शे द्वितीय: परिच्छेद:
इत्यनेकप्रकारोयमलंकार: प्रतीयते ।
।। इति विरोधचक्रम् । अप्रस्तुतप्रशंसा स्यादेप्रक्रान्तेषु या स्तुतिः ॥३४०॥ ६तत्परिहारः । अय च विरोधः श्लषमूलकः इति ल्लेषविरोधः। तेन दृष्टे: सौन्दर्य प्रतीयते ॥ ३३९॥ विरोधमुपसंहरति -इत्यनेकेति । एवमयलंकारः अनेकविधः प्रतीति- विषयो भवति। तथा च भोजराजेन ग्रथितविरोधः उदाहृतोस्ति यथा- 3 दिग्वासा यदि तत् किमस्य धनुषा शस्त्रस्य कि भस्मना भस्मस्याथ किमङ्गना यदि च सा कामं परिद्वेष्टि किम्। इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो ६ भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेस्थिशेषं वपुः ॥ २९० पत्रे इति। अत्र दिग्वासस्त्वादीनामुत्तरोत्तरग्रथनादन्योन्यासंगतादयं अ्रथितनामा विरोधभेदः । अधिकविरोधो यथा --
९ एको दाशरथि: कामं यातुधाना: सहस्रशः । ते तु यावन्त एवाजौ तावद्वा दद्दशे स तैः ॥ इति। अत्रैकस्य दाशरथेरनेकसंख्यैर्यातुधानैर्यत् समरकर्म तत्र तैरस्य तावद्वा दृश्यमानत्वे- १२नैकसंख्याविरुद्धमाधिक्यं गम्यते। इत्ययमधिकाख्यो विरोधः इति। विस्तरस्तु भोजप्रणीते सरस्वतीकण्ठाभरणे द्रष्टव्यः ॥ उत्तरार्धेन अप्रस्तुतप्रशंसां लक्षयति- अप्रस्तुतेति। अप्रक्रान्तेषु षष्ठ्यर्थे सप्तमी। अप्रस्तुतानामित्यर्थः । या स्तुतिः १५प्रस्तुतस्य निन्दार्थमिति शेषः । सा अप्रस्तुतप्रशंसा। अप्रक्रान्तेषु इति बदु- वचनमविवक्षितम्। तेन द्वयोरेकस्य वा अप्रस्तुतस्य स्तुतावपि एषा भवति। अप्रक्रान्तेप्सितस्तुतिरिति पाठे अप्रस्तुतस्य ईप्सिता प्रस्तुतनिन्दार्थमभीष्टा स्तुति- १८रिति स एवार्थ: । नव्यास्तु अप्रस्तुतात् वाच्यात् प्रस्तुतप्रतीतौ अप्रस्तुतप्रशंसा प्रस्तुतात् वाच्यात् अप्रस्तुतप्रतीतौ समासोक्तिः इति विषयविभागेनालकारद्वयमाह्युः। अयमाचार्यदण्डी तु अप्रस्तुताद्वाच्यात् प्रस्तुतस्य प्रतीतौ समासोक्तिः अप्रस्तुत- १ अलंकारोतिशोभते. बपा. २ अप्रक्रान्तेप्सितस्तुति, बपा.
Page 318
अप्रस्तुतप्रशंसोदाहरणानि २९९
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः ।
सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते। राजानुवर्तनक्लेशनिरविण्णेन मनस्विना ॥। ३४२ ॥।
॥। इत्यप्रस्तुतप्रशंसा ।।
२१प्रशंसया प्रस्तुतस्य निन्दा अप्रस्तुतप्रशंसा इति विषयविभागेनालंकारद्वयं स्वी- करोति। आचार्यमते अप्रस्तुतप्रशंसेति संज्ञाया अन्वर्थता भवति। अन्ये तु समासोक्तौ वाच्यव्यङ्गययोरुपमानोपमेयभावः अप्रस्तुतप्रशंसायां तु व्यङ्गयार्थस्य रूनिन्दा इति भेदं दर्शयन्ति। तदपरे न सहन्ते। यतः सुखं जीवन्ति हरिणा इत्यु- दाहरणे वयमधन्या इति वैधर्म्येण औपम्यमस्तीति सोयं समासोक्तिविषयः स्याद्। सेयमप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते इति ग्रन्थकर्त्री कृतेनोदाहरणविवरणेन २७संज्ञाया अन्वर्थताङ्गीकारे ग्रन्थकर्तुः स्ारस्यं दृश्यते। तथा च अप्रस्तुतप्रशंसा- यामप्रस्तुतस्य प्रशंसैवापक्षिता भवति। न तु उक्तिमात्रे सा भवितुमर्दति इति निष्कर्षः ॥ ३४० ॥
अप्रस्तुतप्रशंसामुदाहरति-सुखमिति। अपरसेविनः परसेवाविमुखा ः। हरिणाः अयत्सुलमैः सुखसाध्यैः । तृणदर्भाङ्करादिभिः अन्नैः भोज्यैः। वनेषु सुखं 3 जीवन्ति । सेवानिर्विण्णस्योक्तिरियम्।। ३४१॥।
उदाहरणं संगमयति-सेयमिति। अत्र एतदुदाहरणे। राजानुवर्तनक्केश- निर्विण्णेन सेवायाः श्ववृत्तित्वादिति भावः । तदुक्तं मनुना-सेवा श्ववृत्तिराख्याता 3तस्मात् तां परिवर्जयेत्। इति। मनस्विना सेयम् अप्रस्तुतैव मृगवृत्तिः प्रश- स्यते । एवकारेण प्रस्तुताप्रस्तुतयोः प्रशंसायां नायमलंकारः इति गम्यते। तथाहि- याते मय्यचिरान्निदाघमिहिरज्वालाशतैः शुष्कतां गन्ता कं प्रति पान्थसंततिरसौ संतापमालाकुला।
१ अर्थैः. बपा; कपा. २ जलदरभा'. बपा.
Page 319
३०० काव्यादर्शे द्वितीय: परिच्छेद:
यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्मृता। दोषाभासा गुणा एव लभन्ते ह्वैत्र संनिधिम्॥३४३॥ तापसेनापि रामेण जितेयं भूतधारिणी।
इत्थं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग् वारिधीनां जनुः ॥ अत्राप्रस्तुतस्य मार्गसरसः प्रस्तुतस्य दातुश्च प्रशंसा इति नेयमप्रस्तुतप्रशंसा किंतु समासोक्तिरेव ॥ ३४२॥
व्याजस्तुति लक्षयति-यदीति। यदीति यदर्थेव्ययम्। निन्दन्निव यत् स्तौति असौ व्याजस्तुतिः स्मृत्ना। व्याजेन निन्दाछलेन व्यञ्जनया प्रतीय- माना स्तुति: व्याजस्तुतिः इति अवयवार्थः । अत्र इवशब्देन निन्दायाः वास्तवत्वं निराकृतम्। अत्र दोषाभासाः दोषा इव आभास्यमाना न तु स्वरूपतो दोषाः । एतादृशा गुणाः एव संनिधिं सांनिध्यं समुपवेशमित्यर्थः । लभन्ते प्राप्तुवन्ति । ६निन्दन्निव स्तौतीति स्तुवन्निव निन्दति इत्यस्याप्युपलक्षकम्। तथा च निन्दा- व्याजेन स्तुति: स्तुतिव्याजेन निन्दा च व्याजस्तुतिरिति पर्यवसितम्। उभयत्र वैचित्र्यस्य समानत्वात्। द्वितीयप्रभेदे व्याजरूपा स्तुतिः इति समासः। उक्त ९ च प्रकाशकारेण-व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा। इति। निन्दया स्तुतेरुदाहरणानि अग्रे मूले एव दर्शितानि। स्तुत्या निन्दायास्तु प्रकाशे- हे हेलाजितबोधिसत्त्र वचसां कि विस्तरैस्तोयधे १२ नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थपरोपकारघटनावैमुख्यलब्धायशो- भारप्रोद्वहने करोषि कृपया साहाय्यकं यन्मरोः ॥ १५इति । अत्र समुद्रस्य स्तुत्या निन्दाप्रतिपादनं चमत्कारं दर्शयति इति व्याज- स्तुतिः ॥ ३४३ ॥
व्याजस्तुतिमुदाहरति-तापसेनेति। तापसेन तपखिना चतुरङ्गसैन्य- शन्येनेति ध्वनिः। रामेण परशुरामेण। इयं भूतधारिणी पृथ्वी जिता। त्वय
१ मता, अ. २ तत्र. अ.
Page 320
व्याजस्तुते रुदाहरणानि ३०१
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ॥ ३४४॥ पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते। राजन्निक्ष्वार्कुवंश्यस्य किमिदं तव युज्यते॥ ३४५॥ भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी। अहंकार: परां कोटिमारोहति कुतस्तव ॥ ३४६ ॥ इति श्लेषानुविद्धानामन्येषां चोपलक्ष्यताम्। राज्ञापि चतुरङ्कसाधनसंपन्नेनापि। सैवेयं तावती एव न तु अधिका। जिता। अतः पृथ्वीजये तव मदः गर्वः । मा भूद मा भवतु। अत्र साधनशून्येन रामेण जितायाः भमेः साधनसंपन्नेन विहितो जयो न प्रस्तुतस्य राज्ः स्ुतय इति ६आपानतो निन्दा प्रतीयते। तथा च निन्दया भगवदवतारभूतेन महादेवाल्लब्ध- परशुना भार्गवेण या पृथ्वी जिता सा तावती एव त्वया मानवेन जिता इति महती स्तुतिः गम्यते इति व्याजस्तुतिः ॥ ३४४ ॥ अलंकारान्तरसंबद्धेयं चमत्कारातिशयाय भवतीति अर्थश्लषमूलां तामुदा- हरति-पुंस इति। हे राजन् त्वया पुराणात् आद्याद। जरठाच्चेति ध्वनिः। पुंसः ३ श्रीः लक्ष्मीः संपच्च । अच्छिद्य आकृष्य। परिभुज्यते। इक्ष्वाकुवंश्यस्य यत्र रामादयः परदारान् मातृवदपश्यन् तादृशवंश्यस्य तादृशवंशोत्पन्नस्येत्यर्थः । तव इदं श्रियो- पहरणम्। किं युज्यते। आदिपुरुषादाकृष्टायाः लक्ष्म्याः परिभोग इक्ष्वाकुवंश्यस्य ६ते न समुचितः इति मुखतः प्रतीतया निन्दया ग्रभूतास्ते संपदः इति स्तुतिः प्रतीयते इति व्याजस्तुतिः । अत्र पुराणपदे श्रीपदे च श्लेषः । स चार्यः पर्याय- सहत्वाठ् । अतः अर्थश्लेषमूलेयं व्याजस्तुतिः ॥ ३४५॥ शब्दल्लेषमूलामुदाहरति-भुजङ्गेति। तव कलत्रं भार्या। परिपाल्या च मेदिनी। भुजंगा: विटाः सर्पाश्च तेषां भोगाः उपभोगाः फटाश्च तत्र संसक्ता 3अनुरक्ता। पक्षे तैः संसक्ता आवृता । एवं स्थिते तव अहंकारः परां कोटिं कुतः आरोहति। अत्र निन्दया त्वं सार्वभौमोसीति प्रतीयते इति व्याजस्तुतिः। सा च भुजंगादिशब्दानामनेकार्थत्वात् शब्दश्लेषमूला ॥ ३४६॥ व्याजोक्तिमुपसंहरति-इतीति। इति एवंप्रकारेण ल्लेषानुविद्धानां श्रलेष
: वंशस्य. क, ड, प. २ संक्रान्ता. बपा. ३ 'नुबद्धानाम्. अ.
Page 321
३०२ काव्यादर्शे द्वितीय: परिच्छेद:
व्याजस्तुतिप्रकाराणामपर्यन्तस्तुं विस्तरः॥ ३४७॥ । इति व्याजस्तुतिः॥ अर्थान्तरप्रवृत्तेन किंचित् तत्सदृशं फलम्। सदसद्वा निदश्येत येदि तैत् स्यान्निदर्शनम्॥३४८॥ उैदयन्नेष सविता पद्मेष्वर्पयति श्रियम्। विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥३४९॥ याति चन्द्रांशुभि: स्पृष्टा ध्वान्तरांजी पराभवम् । संबद्धानाम्। तथा अन्येषां अन्यालंकारसंबद्धानाम्। व्याजस्तुतिप्रकाराणां व्याजस्तुतेः प्रकाराणां प्रभेदानाम्। विस्तरः अपर्यन्तः सीमाशून्यः । अतः सः स्वबुद्धयैवोप- लक्ष्यताम् अवगम्यताम्। न सर्वः कर्थयेतुं पार्यते इति भावः ॥३४७॥ निदर्शन लक्षयति-अर्थान्तरेति। निदर्शनीयादन्यस्मिन् कार्यान्तरे प्रवृत्तेन केनचित्। किंचित् किमपि। तस्य अर्थान्तरस्य सदृशम्। सत् उत्तमम्। 3असत् अपकृष्टं वा। फलं निदश्येत प्रदर्श्येत। यदि इति यदर्थे। तत् निदर्शनम् तन्नामकालंकारः । निदर्शना इति संज्ञायाः स्त्रीत्वं बदुभिरङ्गीकृतमस्ति। नव्यानां मतेन इयं संभवद्वस्तुसंबन्धनिबन्धना निदर्शना। असंभवन्नपि वस्तुसंबन्धो यत्र ६सादृश्यं दर्शयति तत्रापि असंभवद्वस्तुनिदर्शना। तथाचोक्तं प्रकाशे-अभवन्वस्तु- संबन्ध उपमापरिकल्पकः इति। परे तु अयं द्वितीयः प्रकारः उपमायामेवान्त- र्भवतीति न ग्रन्थकर्त्रा दर्शित इत्याङ्डः ॥ ३४८॥ सत्फलनिदर्शनं दर्शयति-उद्यन्निति। एष सविता उदयन् उद्गच्छन् उन्नति प्राप्नुवंश्च। ऋद्धीनां संपत्तीनाम् । फलं सुहृदनुग्रहं बन्धूपकरणम्। इति ३ विभावयितुं ज्ञापयितुम्। पद्मेषु श्रियम् अर्पयति। अत्र पद्मेषु श्रीप्रदानोन्मुखेन उदय- शालिना सवित्रा सुहृदनुग्रहरूपमुदयफलं निदश्यते। तच्च उत्कृष्टत्वात् सदूपमिति सत्फलनिदर्शनमिदम्॥।३४९॥ असत्फलं निदर्शनमुदाहरति -- यातीति। चन्द्रांशुभि: स्पृष्टा ध्वान्त-
१ न्तः प्रविस्तरः, क, २ यत् तु. ब. ३ सा स्यान्निदर्शना. अ, ब; स्यात्तन्नि. क. * एव. ब. ५ विभावयन् समृद्धीनां, बपा, कपा. ६राशिः अ.
Page 322
सहोक्त्लंकार: ३०३
सद्यो राजविरुद्धानां सूचयन्ती दुरन्तताम् ॥३५० ॥ ॥। इति निदर्शनम्॥ सहोक्ति: संहभावेन कथनं गुणकर्मणाम्। अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृतां ॥३५१॥ राजी तमःपङ्किः। राजविरुद्धानां नृपतिप्रतिकूलानां चन्द्रविरुद्धानां च। दुरन्ततां ३दुःखावसानम्। सूचयन्ती पराभवं विनाशम् याति। अत्र चन्द्रमरीचिभिः परिभूय- माना तमस्ततिः राजद्रोहिणि दुरन्ततारूपमपकृष्टं फलं निदर्शयति इति असत्फल- निदर्शनमिदम्। अभवन्वस्तुसंबन्धनिबन्धनायाः निदर्शनायाः उदाहरणानि ६प्रकाशादौ द्रष्टव्यानि ॥ ३५० ॥ सहोक्तिं लक्षयति-सहोक्तिरिति। गुणकर्मणाम् कर्मशब्दोत्र क्रिया- वाची। बहुवचनेन द्रव्यादीनां संग्रहः । तथा च गुणक्रियादीनां सहभावेन साहि- ३ त्येन । कथनं सहोक्तिः। संबन्धिभेदेन भिन्नयोरपि गुणयोः क्रिययोर्वा सहार्थस्य सामर्थ्येन एकेन वाचकेन यत् एककालीनतया प्रतिपादनं सा सहोक्तिरिति भाव: । तदुक्तं प्रकाशकृता-सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्। इति। ६अत्राप्यलंकारसामान्यलक्षणप्राप्तं हृद्यत्वमपेक्ष्यते एव। तच्व हद्यत्वमत्र अतिशयोक्ति मूलकत्वेनाभिप्रेतम्। तेन पुत्रेण सहागतः पिता इत्यत्र नालंकारः । अत्र धर्मिणां गुणक्रियादिभि: युगपदन्वयः तुल्ययोगितायां तु धर्मिभिः सह इति ततो मेदः । इदमत्रावधेयम्। यत्र सहयुक्तेप्रधाने इति सूत्रेण सहार्थयोगे अप्रधाने तृतीया तत्रैवायमलंकारः। गुणप्रधानभावावच्छिनयोः शब्दार्थमर्यादया एकधर्मसंबन्धस्य तत्रैवावस्थितेः । अतः शशिना च निशा निशया च शशी शशिना निशया च १२विभाति नभः । इत्यादौ नायमलंकारः । अत्र हेतौ इति सूत्रेण हेत्वर्थे तृतीया। तथा च हेतुभतेन शशिना निशा शोभते इति वाक्यार्थः । एवं पूर्वार्धेन सहोकि लक्षयित्वा उत्तरार्धेन परिवृत्यलंकारं लक्षयति-अर्थानामिति। अर्थानां वस्तूनाम्। १५यः विनिमयः प्रतिदानम् । सा परिवृत्तिः स्मृता। इयं हि परिवृत्तिः समेन समस्य अधिकेन न्यूनस्य न्यूनेन चाधिंकस्य इति त्रिप्रकारा भवति। अत्र विनिमयः कविप्रतिभाकल्पित एवापेक्ष्यते। तत्रैव चमत्कारात्। तेन कीणन्ति यत्र मुक्ता-
१ सहभावस्य. क. २ यथा. कपा.
Page 323
३०४ काव्यादर्शें द्वितीय: परिच्छेद:
सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः। पाण्डराश्र ममैवाङ्गे: सह ताश्रन्द्रभूषणाः॥३५२॥ वर्धते सह पान्थानां मूर्छया चृतमञ्जरी। १८भिर्बदराण्यपि बालिकाः । इत्यत्र नेयम्। विनिमयश्च केनचिद्दत्तेन स्वकीयेन वस्तुना परकीयस्य वस्तुनः आदानम्। तेन किमित्यपास्याभरणानि यौवने धृत त्वया वार्धकशोभि वल्कलम्। इत्यत्र नायमलंकारः । भोजराजस्तु नैतदनुमन्यते। २१स च व्यत्ययेपि परिवृत्ति स्वीकरोति। तदाह - व्यत्ययो वस्तुनोर्यस्तु यो वा विनिमयो मिथः । परिवृत्तिरिहोक्ता सा काव्यालंकारलक्षणे ।। (३.२९) इति। ४व्यत्ययो नाम एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिः । यथा- कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । २७ उदयमहिमरश्मिर्याति चास्तं हिमांशु- र्ईतविधिलसितानां ही विचित्रो विपाकः ॥ इति सरस्वतीकण्ठाभरणादौ द्रष्टव्यम् ॥ ३५१ ॥
प्रथमोदिष्टां सहोक्तिमुदाहरति-सहेति। संप्रति विरहावस्थायाम्। इमाः रात्रयः मम श्वासैः सह दीर्घाः । ताश्चन्द्रभूषणाः सज्योत्स्नाका इत्यर्थः । रात्रयः ममैवाङ्गै: सह पाण्डुराः । विरहिण्या उक्तिरियम्। अत्र दीर्धत्वं पाण्डुरत्वं च गुणौ तौ तु संबन्धिभेदात् भिन्नावपि सहार्थबलादेकेनैव पदेन कथितौ। तत्र च प्रथमान्तपदस्य साक्षादन्वयः तृतीयान्तपदस्य सहशब्दार्थान्वयबलादिति ज्ञेयम्। 6अत्र रात्रिश्वासाङ्गानां गुणसंबन्धे सहभावात् गुणसहोक्तिरियम्। सहभावसाधा- रण्येपि यत्र कार्यकारणभावस्य वैचित्रयं तत्र कार्यसहजचित्रहेतुरलंकारः । यत्र तु कार्यकारणभावं विना सहभावः तत्र सहोक्तिरित्युभयोः विषयभेदः । अत्र रात्रि- श्ासादीनां न कार्यकारणभावः। द्वयोरपि विरहजन्यत्वादिति दिक् ॥ ३५२ ॥ क्रियासहोकि दर्शयति-वर्धत इति। पान्थानां प्रवासिनाम्। विरहिणां
१ प्राणैः. कपा. २ पाण्डराश्र. अ,
Page 324
सहोक्त्यलंकार: ३०५
पैतन्ति च समं तेषामसुभिर्मलयानिलाः॥ ३५३॥ कोकिलालापसुभगा सुगन्धिवनवायवः। यान्ति सार्ध जनानन्दैर्वृद्धिं सुरभिवासराः॥ ३५४॥ इत्युदाहतयो दत्ता: सहोक्तेरत्र काश्चन। ॥ इति सहोक्ति: ॥
क्रियते परिवृत्तेश्र किंचिद्रपनिदर्शनम्॥३५५॥ मूर्छया सह चूतमञ्जरी वर्धते। तेषामसुभिः प्राणैः। सम मलयानिलाः दक्षिणवाताः। 3 पतन्ति। असुभिरित्यत्र अश्रुभिरिति पाठो दृश्यते। सोपि युक्त एव। अत्र वर्धनपतन- क्रिये सहभावेन मूर्छाचूतमञ्जरी्यां मलयानिलासुभ्यां च संबरद्धे चमत्कृतिविशेष- मावहत इति सहोक्तिरलंकारः। अन्वयप्रकारस्तु पूर्ववदेव। अत्र च यदि मूछी- ६वृद्धिचूतमञ्जरीवृद्धयो: असुपतनमलयानिलपतनयोश्च वसन्तजन्यत्वमभिप्रेतं तदा परस्परकार्यकारणभावसंबन्धाभावान्न चित्रहेतुना सांकर्यम्। यदि च चूतमञ्जरी- वृद्धया सूछीवृद्धिः मलयानिलपतनेन च असुपतनमिति अभिप्रेतं तदा चित्रहेतुना सहास्य सांकर्यम् इति प्रेमचन्द्रशर्माणः। अपरे तु तादृशकार्यकारणभानस्य नैवात्र वि्क्षा इति शुद्धोदाहरणमेवेत्याहुः। भोजराजस्तु इयं विवित्तक्रियासमा- वेशा वैसादृश्यवती सहोक्तिरित्याह॥ ३५३ ॥ कोकिलेति। सुरभिवासराः वसन्तदिवसाः । जनानन्दैः सार्ध जनप्रमोदैः सह। वृद्धिं यान्ति। तान् दिवसान् वर्णयति-कोकिलेति। कोकिलानाम् आलापः 3मधुरः येषु ते। सुगन्धयः शोभनगन्धवन्तो वनवायवः दक्षिणानिला यत्र ते। सहशब्दप्रयोगे एवायमलंकारः इति भ्रमनिरासाय सार्धपदोपादानेनेदमुदाहरण- मिति प्रेमचन्द्रादयः । वृद्धिरूपस्य गुणस्य व्याप्तिरूपस्य कर्मणश्च तुल्यतया वचनात् एपा गुणक्रियासहोकिरिति तरुणवाचस्पत्यादयः । भोजराजस्तु विविक्त- कर्तृक्रियासमावेशवैसादृश्यवती इयं सहोक्तिरिव्याह ॥। ३५४॥ सहोक्तिमुपसंहरन् परिवृत्युदाहरणं प्रस्तौति-इतीति । इति उक्तप्रकाराः। सहोक्तेः काश्चन उदाहृतयः दत्ताः । अन्याः स्वयमूहनीयाः । अस्या विस्तरः
१ वहन्ति. कपा. २ अश्रुमिः बपा. ३ निरुपणम्. क.
Page 325
३०६ काव्यादर्शे द्वितीय: परिच्छेद:
शस्त्रप्रहारं ददता भुजेन तव भूसुजाम्। चिरार्जितं हृतं तेषां यशः कुसुदपाण्डुरम् ॥ ३५६ ॥ ॥ इति परिवृत्तिः॥ आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा। कण्ठाभरणादिषु द्रष्टव्यः ॥ इदानीं परिवृत्तेश्च उदाहरणेन किंचित् स्वरूपदर्शन क्रियते ॥ ३५५ ॥
शस्त्रप्रहारमिति। भूभुजां नृपाणाम्। शस्त्रप्रह्ारं ददता तव भुजेन तेषां चिरार्जितं बहुकालसंवर्धितम्। कुमुदपाण्डुरं यशः हतम्। अत्र न्यूनेमाधिकस्य ३प्रहणरूपो विनिमयो ज्ञेयः । एवमेव- दत्वा कटाक्षमेणाक्षी जग्राह हृदयं मम। मया तु हृदयं दत्वा गृहीतो मदनज्वरः ॥ ६इत्यत्न पूर्वार्धे समेन समस्य उत्तरार्धे अधिकेन न्यूनस्य विनिमयः । व्यत्ययविनि- भयवती यथा - लोचनाधरकृताहतरागा वासिताननविशेषितगन्धा। वारुणी परगुणात् स्वगुणानां व्यत्ययं विनिमयं च वितेने ।। अत्र वारुण्या यदधराद्रागोपहृत्य चक्षुषोर्निक्षिप्तः तेनेयं व्यव्ययवती। यच्च मुखा- मोदवासितया स्वामोदेन मुखामोदो विशेषितस्तेन विनिमयवती। इति उभयवती १२ परिवृत्तिः । अस्या: विस्तरस्तु सरस्वतीकण्ठाभरणे द्रष्टव्यः ॥ ३५६ ॥ आशिषं लक्षयति-आशीर्नामेति। अभिलषिते इष्टे वस्तुनि। आशंसनम् अभिलाषप्रकाशनम् । अथवा अभिलषिते प्रिये। वस्तुनि सुहदादिजने। आशं- ३सनं शुभप्रार्थनम्। आशीर्नामालकारः । वैचित्र्याभावान्नायमलंकारः इति बहवो मन्यन्ते। भामहस्तु एतादृशाशंसने वैचित्र्यमङ्गीकृत्य इमामलंकारेषु गणयति। तथा चोक्तम् तेन -
६ आशीरपि च केषांचिदलंकारतया मता। सौहदस्याविरोधोक्तौ प्रयोगोस्याश्व तद्यथा।
Page 326
आशीः ३०७
पातु वैः परमं ज्योतिरवाअनसगोचरम्॥३५७॥ ॥ इत्याशी: ॥ अनन्वयससंदेहावुपमास्वेव दशितौ।
अस्मिञ्जहीहि सुह्ृदि प्रणयाभ्यसूया- माश्लिव्य गाढममुमानतमादरेण। विन्ध्यं महानिव घनः समयेभिवर्ष- न्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ।। १२ मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः । त्वत्तेजसा दग्धसमस्ततेजा द्विषां पुरः पश्यतु राजलोकः॥। (३.५४) इति। दर्पणकारादयस्तु नाट्ये एव अस्याश्वमत्कारित्वात् नाट्यालंकारे एनां गणयन्ति। १५यदुक्तम् -आशीराक्रन्दकपटाक्षमागर्वोधमाश्रयाः इत्यारभ्य इति नाट्यालंकृतयो नाट्यभूषणहेतवः । (६.१९५) इत्यन्तम् । तल्लक्षणं तु - आशीरिष्टजनाशंसा इति। उदाहरणम्- १८ ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव। पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्तुहि ॥ इति। परे तु प्रेयोलंकारविशेषमिमामाहुः। यथेति उदाहरणार्थम्। अवाञ्जनसगोचरं २१वास्मनोविषयातीिम्। तदुक्तं-यतो वाचो निवर्तन्ते अप्राप्य मनसा सह। इति। परमं ज्योतिः परेशः इत्यर्थः । वः युष्मान् । पातु रक्षतु। अवाञ्मनसेत्यत्न अचः तुरेति सूत्रेणाच् समासांतः ॥३५७॥ एतावता उद्देशानुरोधेन सर्वानलंकारान् सोदाहरणं व्याख्याय अन्याभि- मतानां केषांचिदलंकाराणां खोक्तेषु अन्तर्भाव दर्शयन् स्वपरिगणनस्य न्यूनरतां ३परिहरति-अनन्वयेति। तल्लक्षणमाह भामह :- यत्र तेनैव तस्य स्यादुपमानोपमेयता। असादृश्यविवक्षातस्तमित्याहुरनन्वयम्।। इति।
१ नः. क.
Page 327
३०८ काव्यादर्शे द्वितीय: परिच्छेद:
उपमारूपकं चापि रूपकेष्वव दैशितम्॥३५८॥
६उदाहरति च -- ताम्बूलरागवलयं स्फुरद्दशनदीधिति। इन्दीवराभनयनं तवेव वदनं तव ।। (३-४५, ४६) इति। <ससंदेहं लक्षयति ;- उपमानेन त्त्त्वं च भेदं च वदतः पुनः । ससंदेहं वचस्तुत्यै ससंदेहं विदुर्यथा । (३.४२) इति। १२उदाहरति च -- किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम्।
१५ इति विस्मयाद्विमृशतोपि मे मति- स्त्वयि वीक्षिते न लभतेर्थनिश्चयम् ॥ इति। उममारूपकं लक्षयति --
१८ उपमानेन तद्भावमुपमेयस्य साधयन्। यां वदन्त्युपमामेतदुपमारूपकं यथा। उदाहरति-
२१ समग्रगगनायाममानदण्डो रथाङ्गिणः । पादो जयति सिद्धस्त्रीमुखेन्दुनवदर्पणः ॥ (३.३४-३५) इति। तत्र एतेषु अलंकारेषु मध्ये अनन्वयस्य-
२४ चन्द्रारविन्दयोः कान्तिमतिकरम्य मुखं तब। आत्मनैवाभवत् तुल्यमित्यसाधारणोपमा ।। इत्यसाधारणोपमायामन्तर्भावः । ससंदेहस्य च-
२७ किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम्। मम दोलायते चित्तमितीयं संशयोपमा॥ १ कीर्तितम्. अ.
Page 328
संमृष्ट्यलंकार: ३०९
उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोपि च। नानालंकारसंसृष्टिः संसृष्टिस्तु निगद्यते॥३५९॥ अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता।
इति संशयोपमायामन्तर्भावः । उपमारूपकस्य-
30 उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ इति रूपकप्रभेदे एव अन्तर्भावः । तस्मादेतेषामनुक्त्या न न्यूनतास्माकमिति ३3भाव: ॥ ३५८ ।
उत्प्रेक्षेति। उत्प्रेक्षाचयवो नामालंकारः। तदाह भामह- श्लिष्टस्यार्थेन संयुक्त: किंचिदुत्प्रेक्षयान्वितः ।
३ रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥ तुल्योदयावसानत्वाद्गतेस्तं प्रति भास्वति । वासाय वासरः क्वान्तो विशतीव तमो गृहम् ॥ (३.४७,४८) इति। ६असौ उत्प्रेक्षाभेदः एव । ल्लेषरूपकादिसंकीर्णा उत्प्रक्षैव इति भावः । श्लेषोपमा- रूपकादिभि: प्राणितायाः उत्प्रेक्षाया प्रेमचन्द्रशर्मभिः प्रदत्तानि उदाहरणानि तत एव द्रष्टव्यानि। एवमेव दृष्टान्तस्योपमायाम् उल्लेखपरिणामयोः रूपके कारण- मालायाश्च हेतौ यथायथमन्तर्भावो ज्ञेयः ॥ संसृष्टिं लक्षयति -- नानेति। सजा- तीयविजातीयविविधानामलंकाराणां संसृष्टिः एकत्र संसर्गः । संसृष्टिः तदाख्यम- लंकारान्तरं निगद्यते संगमेन वैचित्र्यविशेषात् पृथक्त्वेन कथ्यते। यथा लौकिक- १२ हाराधलंकाराणां मिथः संसर्गेण पृथक चारुतातिशयजनकतया गुच्छगुच्छार्ध- गोस्तनादिसंज्ञया पृथगलंकारत्वव्यपदेशः तथा संकीर्णानां काव्यालंकाराणामपि पृथक् चारुताप्रत्यायकतया पृथगलंकारत्वेन संसृष्टिरिति संज्ञया व्यपदेशः इति १५ प्रेम चन्द्रशर्माणः ॥ ३५९।। संसृष्टेः भेदान् दर्शयति-अङ्गाङ्गिभावमिति। अङ्गाङ्गिभावेन गौण-
१ संकीण तु. ब, ड, प. २ भावसंस्थानं. अ, क. ३ कक्ष्यता, अ.
Page 329
३१० काव्यादर्शे द्वितीय: परिच्छेद:
इत्यलंकारसंसृष्टेर्लक्षणीया दवयी गतिः ॥ ३६० ॥ आक्षिपन्त्यरविन्दानि सुग्धे तव मुखश्रियम्ँ। कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ ३६१ ॥ लिम्पतीव तमोङ्गानि वर्षतवाञ्जनं नभः । असत्पुरुषसेवेव दष्टिर्निष्फलतां गता॥ ३६२ ॥
प्रधानभावेन अवस्थानम् अवस्थितिः । तथा सर्वेषां समकक्षता तुल्यबलता। ३अङ्गाङ्गिभावं बिना समप्राधान्येन अवस्थानम् इत्यपरा। इति एवंप्रकारा। अलं- कारसंसृष्टे: दवयी गतिः भेददवयं लक्षणीयं ज्ञेयम्। अत्र परे एकानुप्रवेशे संदिग्धतव अङ्गाङ्गित्वे च संसृष्टेः संकरसंज्ञा समकक्षायां तु संसृष्टिसंज्ञा इति आह:॥३६०॥
अङ्गाङ्गिभावसंसृष्टिमुदाहरति-आक्षिपन्तीति। हे मुग्धे तव मुखश्रियं वदन- लक्ष्मीम् । अरविन्दानि आक्षिपन्ति तिरस्कुर्वन्ति । आक्षिपधातुरत्रौपम्यद्योतकः। :तदुक्तं पूर्वम्-आक्रोशत्यवजानाति कदर्थयति निन्दति। उपमायामिमे प्रोक्ताः इति। तथा चात्रोपमालंकारः ! स च प्रधानः। कोषः धनराशिः कुञ्लश्च दण्डः सामादिषु चतुर्थोपायः नालश्च ताभ्यां समग्राणां पूर्णानाम्। एषां दुष्करं किम् ६अस्ति। अत्र श्ल्लेषानुप्राणितहेत्वलंकारः उपमया अङ्गमिति केचित्। श्रेषनु- प्राणितार्थान्तरन्यासः तदङ्गमिति अपरे। द्वितीयार्थे च चतुर्थचरणे न किंचिदिह दुष्करम इति पाठः समाचीनः । अन्यथा एषां कमलानां तत्कर्तृकमुखाक्षेपस्य समर्थन दुर्घट स्यात्। एकस्यैव समर्थ्यसमर्थकत्वायोगात्। तथाचात्र श्लेषानुविद्धो- र्थान्तरन्यासः उपमाया अङ्गम्। उपमा च प्रधाना इति अङ्गाङ्गिभावसंसृष्टिः॥३६१॥
समकक्षतासंसृष्टिमुदाहरति -- लिम्पतीति। कृष्णपक्षप्रदोषवर्णनमेतद्। तमः अङ्गानि लिम्पतीव। नभः अञ्जनं वर्षतीव। असत्पुरुषसेवेव नीचजनसेवेव। 3 दृष्टि: निष्फलतां वस्तुनिरीक्षणासामर्थ्य वैफल्यम्। प्राप्ता। अत्र पूर्वार्धे उत्प्रेक्षाद्वयम्। उत्तरार्धे उपमा। तासां परस्परनिरपेक्षतयावस्थानात् समकक्षसंसृष्ट्लंकारः। अयं विभिन्नाश्रयगतः । एकाश्रयगतो यथा -- कुरवका रवकारणतां ययुः । इति। अत्र ६रवकारवका इति वकारवकार इति च यमकयोः एवम्-संसारध्वान्तविंध्वसहंसः
१ श्रियः. अ. २ इदं ३६२ तमं पद्ं अकपुस्तकयोर्नीस्ति।
Page 330
भाविकलक्षणम् ३११
श्लेषः सर्वासु पुष्णाति प्राया वक्रांक्तिषु श्रियम्। भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाञ्यम् ॥३६३॥ । इति संसृष्टिः॥ तैद्भाविकमिति प्राहुः प्रबन्धविषयं गुणम्। भाव: कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः ॥ ३६४।। परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्।
कंसनिषूदनः । इत्यत्र रूपकानुप्रासयोश्च एकत्र समकक्षतयावस्थानम् । मुखचन्द्रः शोभते इत्यत्र साधकबाधकाभावादुपमारूपकयोः एकाश्रयगता संदेहसंसृष्टिः॥३६२ श्लेषस्य बह्वलंकारव्याप्तिं कथयति-क्लेष इति। श्लेषः प्रायः सर्वासु वक्रोक्तिषु भणतिभङ्गीरूपालंकारेषु। श्रियं शोभाम्। पुष्णाति। वक्रोक्तिषु इत्युक्त्या ३तत्समानकक्षां स्वभावोक्ति स्मृत्वा काव्यवाऊ्मयस्य द्वैविध्यं निर्दिशति-भिन्नमिति स्वभावोक्ति: वस्तुस्वरूपवर्णनम्। वक्रोक्तिश्च सालंकारवचनम्। इति वाड्ययं काव्यम्। द्विधा भिन्नम् ॥ ३६३ ॥
अथ सर्वालंकारसंग्राहकं भाविकं लक्षयति-तद्भाविकमिति। प्रबन्धा महाकाव्यनाटकाख्यायिकादयः तद्विषयं तद्रत गुणं चमत्काराधायकधर्मविशेषम्। ३ तत् प्रसिद्धम्। भाविकम् तन्नामालंकारः । इति प्राहुः। संज्ञार्थ विशदयति भावः इति। कवेरभिप्रायः भावः । स च भावः काव्येषु आसि्धि समाप्तिपर्यन्तम्। संस्थितः। तेन चास्यालंकारस्य न केवलं पदवाक्यगतत्वम् अपि तु प्रबन्ध- ६गतत्वमपीति बोध्यम्। प्रकाशकाराः-प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः। तद्भाविकम् । इति लक्षयामासुः । तन्न संज्ञार्थानुगामीति ज्ञेयम् ॥ ३६४॥ कवेरभिप्रायविषयाभूतान् कांश्चित् प्रवन्धधर्मान् कथयति-परस्परो- पकारित्वमिति। सर्वेषां वस्तुपर्वणाम् आधिकारिकेतिवृत्तानि वस्तूनि प्राकर- णिकेतिवृत्तानि पर्वाणि। तदाह धनंजय :- वस्तु द्विधा। तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः । इति। यथा रामायणे रामसीतावृत्तान्तः अधिकारि- १ भाविकं तमिति. क. २ काव्येष्वस्य व्यवस्थितिः. कं.
Page 331
३१२ काव्यादर्शें द्वितीय: परिच्छेद:
विशेषणानां व्यर्थानामक्किया स्थानवर्णना॥ ३६५।। व्यक्तिरुक्तिक्र्मबलाद्गम्भीरस्यापि वस्तुनः । भावायत्तामिदं सर्वमिति तद्भाविकं विदुः ॥३६६॥ ।। इति भाविकम्॥
व्यावार्णेतमिदं चेष्टमलंकारतयैव नः ॥ ३६७॥ कम्। सुग्रीवबिभीषणादिवृत्तान्तः प्रासङ्गिकम्। सर्वेषां तेषां परस्परोपकारित्वम्। ६कवेरभिप्रेतनगरसरित्समुद्रादिवर्णनम् अस्तोदयषड्ऋतुवर्णनं च परंपरया साक्षाद्वा प्रधानमुपकरोति इति ज्ञेयम्। तथा व्यर्थानां प्रकृतार्थापरिपोषकाणां विशेषणा- नाम्। अक्रिया अविधानम् अप्रयोग इत्यर्थः । अयं परिकरालंकारः इति प्रकाश- कारादयः। अपरे तु अपुष्टत्वदोषाभावोयम् नायमलंकारः इत्याङ्ठः। तथा स्था- नानां प्रकृतोपयुक्तानां विषयाणां वर्णना। इयमपि कवरेभिप्रायविषयः । एतेषां सर्वेषां तद्भाविकं विदुः इति अग्रिमश्लोकस्थपदेन अन्वयः ॥३६५॥ व्यक्तिरिति। उक्तिक्रमबलात् वचनोपन्यासानुक्रमसामर्थ्यात्। गम्भीर- स्यापि गूढस्यापि। वस्तुनः अर्थस्य। व्यक्तिः अभिव्यक्तिः । इदं सर्व भावायत्तं ३ कवेरभिप्रायविषयम् । इति भावायत्तत्वात् तद्धाविकं विदुः ॥ ३६६ ॥ यच्चेति। सन्धयः-मुखप्रतिमुखे गर्भः सावमर्शोथ संहृतिः । इति पञ्च । तेषामङ्गानि-उपक्षेपः परिकरः परिन्यासो विलोभनम्। इत्यादीनि चतुःषष्टि- 3संख्याकानि। वृत्तय :- शङ्गारे कैशिकी वीरे सात्वत्यारभटी पुनः । रसे रौद्रे च बभित्से वृत्तिः सर्वत्र भारती॥ ६ इति नियतस्थानाश्चतस्रः । तासामङ्गानि -- नर्मतत्स्फूर्जतत्स्फोटतद्र्मैश्वतुरङ्गिका। इत्यादीनि षोडश। लक्षणानि भूपणाक्षरसंघातादीनि पट्त्रिंशद्। आदिना नाटयालंकारादीनां ग्रहणम् । एतत् सर्वमागमान्तरे भरतमुनिप्रणीतनाटयशास्त्रे व्यावर्णितम् विस्तारेण कथितम्। तदिदं सर्व नः अलंकारतयैवेष्टम्। तत्र केषांचित् स्वभावा्यानादौ अन्तर्भावः केषांचित भाविके इति यथायथं विषया- तुरोधेन ज्ञातव्यम् ॥ ३६७॥
Page 332
अलंकारा -गरणम् पन्थाः स एष विदृतः पांर ३१३
संहृत्य विस्तरमनन्तमलंक्रिय: पत्त्या
वाचामतीत्य विषयं परिवर्तमाना- नभ्यास एव विवरीतुमलं विशेषान्॥ २
॥ इत्याचौर्यदण्डिनः कृतौ काव्यादर्शर्थालंकारवि षट्।
द्वितीय: परिच्छेद: ॥ सृतीयचतुर्थेषु एवं पादयमकस्य अलंकाराणां विस्तारं निवेदयन्नुपसंहरति-पन्था. प्रमेदान् प्रदर्श्य पादेपि क्रियाणां एतावत्पर्यन्त विवृतानां स्वभावाख्यानाद्यलंकाति। उपरिनिर्दिष्टाः पञ्चदश ३ शून्यम्। विस्तरं प्रभेदविस्तारम्। संहृत्य कार्त्स्न्येन वत्तुकत्वेन आदिमध्ययमकत्वेन भेद संगृह्य । परिमाणवृत्त्या परिमितत्वेन । स एष पक्रत्वेन च सप्तधा संभवन्ति। दर्शित इत्यर्थः । अनेन मार्गेण कृतः सतताभ्याुंनः अव्यपेतव्यपेतव्यपेताव्ये- दर्शयिष्यतीति कथयति-वाचामिति। वाचां विषति इति दिक्। प्रथमश्लोके वागगोचरत्वेन कथयितुमशक्यान् इत्यर्थः । एतादर निर्दिष्टम्। अत्र तद्विशेषो दान्। विवरीतुं विशदीकर्तुम्। अभ्यास एव काव्याम् ,पुनः पुनरालोचनेन ते ज्ञातव्या इत्यर्थः । इति शम् ॥ शमान्यतः प्रभेदबाङ्गुल्य नां प्रभेदानामित्यर्थः । इति श्रीवैराजक्षेत्रवासिभी रड्डीकुलावतसैर्वालकृष्णाचार्यतनुजैनि योनयः कारणानि विरचितायां काव्यादर्शव्याख्यायां प्रभाख्यायां द्वितीय: र्व:। अत्यन्तबहवः गः केचन दुष्क- क्षार्थ प्रदर्श्यन्ते
नेति।
१ एव. अ, ब. २ संक्षिप्य. क. ३ इत्याय०. अ. [काव्यादर्श ]४०
Page 333
अथ तृतीयः परिच्छेद:
अव्यपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः। यमकं तच्च पादानाभादिमध्यान्तगोचरम् ॥ १॥ ऐकद्वित्रिचतुष्पादयमकानां विकल्पनाः। द्वितीयपरिच्छेदारम्भे काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते (२.१) इति शब्दार्थोभयसाधारणमलंकारलक्षणं विधाय तत्र चमत्कृतिप्राधान्यात् प्रथमं 3अर्थालंकाराः प्रतिपातिताः । इदानीमाचार्यः प्रथमपरिच्छेदे माधुर्यगुणप्रस्तावे सामान्यतः शब्दालंकारनिरूपणे - आवृत्ति सेव संघातगोचरां यमकं विदुः ।
६ तत् तु नैकान्तमधुरमतः पश्चाद्विघास्यते ॥(१'६१) इति प्रतिज्ञातं यमकालंकारनिरूपणं सप्रपञ्चमारभते-अव्यपेतेति। अव्यपेतः अव्यवहित: व्यपेत. व्यवहितः आत्मा स्वरूपं यस्याः तादृशी। वर्णसंहतेः स्वरव्यञ्ञनसंघातस्त । व्यावृत्तिः विशेषेण आवृत्तिः पुनः पुनरुच्चारणम्। सा यमकम्। एवं न्व पूर्वोच्चाररितवर्णसंघातस्य क्वचिदव्यवधानेन क्वचिद् व्यवधा- नेनेति द्विविधं पुनरुच्चारणरूपं यमकस्य भेदद्वयं भवति। तन्च यमकं पादानां १२ लोकचरणानमं आदिमध्यान्तगोचरं भवति। पादस्य आदिगत मध्यगतं अन्त- गतं च भवति। एतदुपलक्षणम्। तेन पादखण्ड-पाद-पद्यार्ध-संपूर्णपद्यानां संग्रहः॥ १॥ तत्र तावदादिमध्यान्तगोचरत्वेन सामान्यतो निर्दिष्टस्य यमकस्य पाद- निस्थितिविकल्पनाभिः संभवतः प्रभेदान् दर्शयति-एकेति। एकद्वित्रिचतुष्पाद- 3यमकानां एकद्वित्रिचतुष्पादस्थितानां यमकानाम्। विकल्पनाः विविधप्रभेदाः । भवन्तत्यर्थः । ते च यथा-प्रथमपादे द्वितीयपादे वृतीयपादे चतुर्थपादे इति एकपादयमकभेदाश्चत्वारः । प्रथमद्वितीययोः प्रथमतृतीययोः प्रथमचतुर्थयोः
१ या वृत्ति: क.
Page 334
एकपादयमकभेदाः । ३१५
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥२। अत्यन्तबहवस्तेषां भेदा: संभेदयोनयः। सुकरा दुष्कराश्रैव देश्यन्ते तैत्र केचन ।। ३ ।। मानेन मानेन साख प्रणयोभूद प्रिये जने।
६द्वितीयतृतीययो: द्वितीयचतुर्थयोः तृतीयचतुर्थयोः इति द्विपादयमकभेदाः षट्। प्रथमद्वितीयतृतीयेषु प्रथमद्वितीयचतुर्थेषु प्रथमतृतीयचतुर्थेषु द्वितीयतृतीय चतुर्थेषु इति त्रिपादयमकभेदाश्चत्वारः। चतुष्पादयमकं तु एकमेव। एवं पादयमकस्य ९पश्चदश भेदाः संभवन्ति। एवं पादविकल्पनाभिः संभवतः प्रभेदान् प्रदर्श्य पादेपि आदिमध्यान्तादिभि: संभवतो भेदान् निर्दिशति-आदीति। उपरिनिर्दिष्टाः पञ्चदश प्रकारा: आदियमकत्वेन मध्ययमकत्वेन अन्तयमकत्वेन आदिमध्ययमकत्वेन १२ आद्यन्तयमकत्वेन मध्यान्तयमकत्वेन आदिमध्यान्तयमकत्वेन च सप्तधा संभवन्ति। अतः सर्वेषां मेलने पञ्चाधिकशतं भवति। तच्च पुनः अव्यपेतव्यपेतव्यपेताव्ये- पेतेति भेदत्रयेण पञ्चदशाधिकत्रिशतीपरिमितं भवति इति दिक्। प्रथमश्लोके १५ आदिमध्यान्तगोचरम् इति सामान्यतो भेददर्शनार्थ निर्दिष्टम्। अत्र तद्विशेषो दर्शितः इति न पौनरुक्त्यम् ॥ २ ॥ इदानीं सजातीयविजातीययमकसंमिश्रणेन सामान्यतः प्रभेदबाहुल्यं निवेद्योपसंहरति-अत्यन्त इति । तासां विकल्पनानां प्रभेदानामित्यर्थः । संमेदयोनयः संभेदाः सजातीयविजातीयथमकानां मिश्रणानि योनयः कारणानि येषां ते सजातीयविजातीययमकमिश्रणेन संभूता भेदा इत्यर्थः । अत्यन्तबहवः इयत्तया परिच्छेतुं दुर्घटाः सन्तीति भावः। तत्र केचन सुकराः केचन दुष्क- ६राश्च वर्तन्ते। तेषु केचन प्रकारा वर्ण्यन्ते अस्माभिः शिष्यशिक्षार्थ प्रदर्श्यन्ते इत्यर्थः ॥ ३॥
तत्रादौ प्रथमपादस्थमव्यवहितममिश्रमादियमकमुदाहरति-मानेनेति। हे साख प्रिये जने अनेन मानेन सह तव प्रणयः स्नेह:। मा भू् मा भवतु। ३ कोपकलुषिता प्रियपराड्मुखी मा भवेत्यर्थः । खण्डिता-
१ वर्णतः. अ. २ व्ण्यन्ते. अक. ३ तेडत्र. ब, उ, प.
Page 335
३१६ काव्यादर्रों तृतीय: परिच्छेद:
खण्डिता कण्ठमाश्लिष्य तमेव कुरु सत्रपम् ॥४॥ मेघनादेन हंसानां मदनो मदनोदिना। तुन्नमानं मनः स्त्रीणां सह रत्या विगाहते ॥५॥ राजन्वत्यः ग्रजा जाता भवन्तं आ्राप्य संप्रति। चतुरं चतुरम्भोधिरशनोर्वीकरग्रहे ॥ ६ ॥
पार्श्वमेति प्रियो यस्या अन्यसंभोगचिहितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता॥ इत्युक्तलक्षणा। तादृशी त्वं कण्ठमाश्लिष्य तमेव सत्रपं संजातलज्म्। कुरु। अप- कारिणि प्रणयदर्शनमेव तस्य सविशेषलज्जोत्पादकत्वाच्छासनमिति भावः । अन्ये तु-हे सखि अनेन मानेन मानिनीवृत्तिस्वीकारेण। प्रिये जने नायके। स्नेहो मा भूत् स्नहोत्पत्तिनासीत्। मानेङ्गीकृते सस्नेहो मामनुनेष्यति इति तवेच्छा सफला नाभूदित्यर्थः । अतः खण्डिता वश्चिता। त्वं कण्ठमाश्लिष्येति पूर्ववदेतत्पद्यं विवृण्वन्ति। अत्र मानेन मानेन इत्यव्यवहितमादिपादगतमादियमकम् ॥४॥
तदेव द्वितीयपादगतमुदाहरति-मेघेति। मदनः हंसानां मदनोदिना मदापहारिणा। वर्षासु हंसानां निर्मदत्वादिति भावः । मेघनादेन घनगर्जितेन । 3सुन्नः दूरीकृतः मान: यस्मात् तत्। उत्कण्ठातिशयाधानादिति भावः । एतादृशं स्रीणां मनः कर्म। रत्या अनुरक्त्या। खप्रेयस्या च सह विगाहते आलोडयति। घनगर्जितमाकर्ण्य सर्वासामबलानां चेतः विगतमानमनुरक्तं चाभूदित्यर्थः ॥५॥
तृतीयपादगतं तदेव यमकमुदाहरति-राजन्वत्य इति। कश्चिन्न्याया- नुवर्तिनं नृपं स्तौति। हे राजन् चत्वारः ये अम्भोधयः समुद्राः ते एव रशना 3मेखला यस्याः तादृश्याः उर्व्याः पृथ्व्याः करत्रहे राजग्राह्यभागग्रह्णे पाणि- ग्रहणे च। चतुरं कुशलम्। भवन्तं प्राप्य संप्रति प्रजा राजन्वत्यः जाताः । सुराजि देशे राजन्वान् स्यात् ततोन्यत्र राजवान्। (२.१३) इत्यमरः । राजन्वान् ६सौराज्ये इति निपातनात् साधुः ॥६॥
१ सत्पति. ब, ड, प. रसनोरबी०. उ, प. ३ परियहे कपा.
Page 336
द्विपादयमकप्रमेदाः ३१७
अरण्यं कैश्विदाक्रान्तमन्येः सझ दिवाँकसाम्। पदातिरथनागाश्वरहितैरहितैस्तव ॥। ७ ॥ मधुरं मधुरम्भोजवदने वद नेत्रयोः। विभ्रमं भ्रमरभ्रान्त्या विडम्बयति किं तुते ॥८॥ वारणो वा रणोद्दामो हयो वा स्मर दुर्घरः। न यतो नैयतोन्तं नस्तदहो विक्रमस्तव ।। ९ ।।
तदेव चतुर्थपादगतमुदाहरति-अरण्यमिति। पदातिः पत्तिः रथाः नागाः गजा: अश्वाश्च तैः रहितैः वियुक्तैः। तव कैश्चित् अहितैः शत्रुमिः । समरात् पलाय्य अरण्यम् आक्रान्तम् व्याप्तम् । तत्र निगूहिताः सन्तः स्थिता इतिभावः । तथा अन्यैः समरे संमुखीभूय मृतैरित्यर्थः । दिवौकसां देवानाम्। सभ् स्थानं स्वर्ग इत्यर्थः । आक्रान्तम् ॥। ७।।
अथेदानीं द्विपादगतान् अव्यपेतयमकप्रभेदान् यथाक्रमं दर्शयति- मधुरमिति। वसन्ते ग्रफुल्लकमले विलोलं भ्रमरं दृष्टा कश्चिच्चाुकारःप्रेयर्सी 3 पृच्छति। हे अम्भोजवदने मधुः वसन्तः। ते तव। नेत्रयोः मधुरं मनोहरम्। विभ्रमं भ्रमरभ्रान्त्या एतौ सलीलौ भ्रमरौ इति बुद्धया। विडम्बयति किम् विशेषयति किम्। नु इति वितर्के। वद त्वमेव तत्वं कथयेति भावः । अत्र मधुरम् 4मधुरम् इति प्रथमपादे तथा वदने वदने इति द्वितीयपादे च अव्यवहितमादि- भागयमकम् ॥८॥
प्रथमतृतीयपादगतं तदेवोदाहरति-वारण इति। कश्चिद्विरही मदन - मुपालभते। हे स्मर यतस्तव रणोद्दामः युद्धदुर्मदः । वारणः हस्ती। नास्ति । 3 तथा दुर्धरः रणदुर्धर्षः । हयो वा नास्ति। तत् तस्मात्। युद्धसाधनशून्यत्वेपि। नः अन्तं नाशम्। नयतः तव विक्रमः अहो आश्चर्यास्पदम्। दुर्धर इति विक्रमस्य विशेषणमिति केचिद् ॥ ९ ॥
- अन्यैरित्वत्र कैश्वित्. च, क, उ, प. २ कि न. बपा. ३ नयलोस्तं, अ, कफा,
Page 337
३१८ काव्यादर्शे तृतीय: परिच्छेद:
राजितैराजितक्ष्ण्येन जीयते त्वादशैर्नृपैः। नीयते च पुनस्तृसिं वसुधा वसुधारया॥१०॥ करोति सहकारस्य कलिकोत्कलिकोत्तरम्। मन्मनो मन्मनोप्येषे मत्तकोकिलनिखनः॥ ११॥ कथं त्वदुपलम्भाशाविहृताविह ताँदशी। अवस्था नालमारोदुमङ्गनामङ्गनाशिनी ॥ १२ ॥
तदेव प्रथमचतुर्थपादगतमुदाहरति-राजितैरिति । आजिः संग्रामः तत्र तैक्ष्ण्यं प्रचण्डत्वं तेन युद्धप्रखरेणेत्यर्थः । राजितैः शोभितैः । त्वादृशैः नृपैः वसुधा लक्षणया तत्स्थोरिजनः जीयते जयेन संतप्त इव क्रियते। पुनश्च सैव पृथ्वी वसुधारया दानद्रविणवृष्टया तृप्तिं नीयते ॥ १० ॥
तदेव द्वितीयतृतीयपादगतमुदाहरति-करोतीति। सहकारस्य आम्रस्य। कलिका मञ्जरी। मन्मनः मच्चित्तम् । उत्कलिकोत्तरं उत्कण्ठापूर्णम्। करोति। तस्योद्दीपकत्वादिति भाव:। तथा मन्मनः अव्यक्तमधुरः । मन्मनोव्यक्तमधुरो मन्मनो रतिभाषितम् । इति विश्वः । मत्तकोकिलनिस्वनः समदकोकिलकलरवः अपि । मदीयं चेतः उत्कलिकोत्तरं करोति। अत्र कलिकोत्कलिकोत्तरम् इत्यत्र तकारो ६यमकमध्ये पतितोपि स्वरशून्यत्वेन तद्दयवधानं न गण्यते। स्वरयुक्तस्यैव व्यवधायकत्वेनाभ्युपगमात्। अथवा कलिकोत् इत्येष एव वर्णसंघातोत्र द्विरावृत्त इति बोध्यम्॥ ११ ॥
तदेव द्वितीयचतुर्थपादगतमुदाहरति-कथमिति। नायकं प्रति दूत्यु- क्तिरियम् । इह वसन्तकाले। तव उपलम्भः समागमः तस्य समागमस्य आशायाः 3विहतौ विघात सति। तादृशी वर्णयितुमशक्या केवलानुभवगम्या। अङ्गनाशिनी गात्रक्षयकरी। अवस्था मदनपीडावस्थाविशेषः। अङ्गनां तां त्वत्प्रेयसीम्। आरोदुम् अभिभवितुम्। कथं नालं न समर्था। अपि तु समर्थैव। तव विरहेण सा मरणो- ६नमुखी जातेति भावः ॥। १२ ।।
१ 'तैक्ष्णेन. चपा, ड, प. २ सेष क, ३ताइशीम्. क.
Page 338
त्रिपादयमकप्रभेदाः ३१९
निगृद्य नेत्रे कर्षन्ति वालपल्लवशोभिना। तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः ॥ १३॥ विशदा विशदामत्तसारसे सारसे जले। कुरुते कुरुतेनेयं हंसी मामन्तकामिषम् ॥ १४॥ विषमं विषमन्वेति मदनं मदनन्दनः । सहेन्दुकलयापोढमलया मलयानिलः ॥ १५।
तदेव तृतीयचतुर्थपादगतमुदाहरति-निगृद्येति। वसन्तवर्णनामिदम्। नलिनोन्मुखा: कमललुब्धाः । अलिनः भ्रमराः । बालपल्लवैः कोमलपर्णैः शोमिना । ३ समीपस्थेन केनचित् तरुणा कृष्टान् स्वशोभावलोकनार्थ संनिधापितान् । तरुणान् नेत्रे चक्षुषी। निगृह्य गृहीत्वा। कर्षन्ति स्वसौन्दर्यदर्शनप्रवणान् विद्धति। वृक्षस्य बालपल्लवावलोकनादपि कमलमधुपानलोलुपानां भ्रमराणां दर्शनं तरुण- ६ सार्थस्य अतीव प्रमोदावहं समजनीत्यर्थः ॥१३॥
अव्यपेतस्य द्विपादप्रकारान् प्रदर्श्य संप्रति क्मप्राप्तं त्रिपादगतमादियमकं सप्रभेदं निरूपयन् प्रथमद्वितीयतृतीयपादगतमादौ दर्शयति-विशदेति । कश्चिद्विरही शरदमालोक्य कथयति। विशन्तः प्रविशन्तः आमत्ताश्च सारसाः पक्षिविशेषा: यस्मिन् तादशे। सारसे सरःसंबन्धिनि जले। वर्तमाना इयं विशदा निर्मला। हंसी मां विरहिणं कुरुतेन विरहिणो मे रुजाकरेण कुत्सितशब्देन। ६अन्तकामिषं यमस्य भोग्यम्। कुरुते मां हन्तु चेष्टते । आमिष पुन्नपुंसकम् । भोग्यवस्तुनि संभोगे-इति मेदिनी। अत्र विशदाविशदा सारसेसारसे कुरुतेकुरुते इति त्रिष्वपि पादेष्वव्यपेतमादियमकं वर्तते। चतुर्थचरणस्तु निर्यमकः ॥ १४॥ तदेव प्रथमद्वितीयचतुर्थपादगतमुदाहरति-विषममिति। कश्चिद् विरही ब्रूते। मदनन्दनः मम अनन्दनः असंतोषकः । विरहिणः संतापकत्वात्। मलयानिल: अपोढः परित्यक्तः मलः दुर्दिनमालिन्यादिरूपः यया सा तया। इन्दुकलया सह विषमं अप्रसहम्। विषं विषस्वरूपम्। मदनमन्वेति तद्वन्मां पीडयतीत्यर्थः । मदनो मलयानिलः इन्दुकला च मां विषवत् बाधन्ते इत्यर्थः ।
१ क्िश°. कपा.
Page 339
३२० काव्यादर्शे तृतीय: परिच्छेद:
मानिनी मा निनीपुस्ते निषङ्गत्वमनङ्ग मे। हारिणी हारिणी शर्म तनुतां तनुतां यतः ॥१६ ॥ जयता त्वन्मुखेनास्मानकर्थ न कथ जितम्। कमलं कमलंकुर्वदलिमद्दलि मत्प्रिये ॥ १७॥ रमणी रमणीया मे पाटलापाटलांशुका। वारुणीवारुणीभृतसौरभा सौरभास्पदम् ॥ १८ ।
६अथवा विषमं मदनं मोहकरं च विषं मलयानिलः अन्वेतीत्यन्वयः । ननु अत्र द्वितीयविषमपदे अनुस्वारन्यूनतेति चेन्न। नानुस्वारो विसर्गश्च चित्रभङ्गाय कल्पते। इति अनुस्वारन्यूनताया अलंकारिकैरभ्यनुज्ञातत्वात्॥ १५ ॥
प्रथमतृतीयचतुर्थपाद्गतं तदेवोदाहरति-मानिनीति। प्रणयकुपितां मानिनीं प्रसिषादयिषुर्नायको मदनं प्रार्थयते। हे अनङ्ग मदन । मा माम् । ते निषङ्गत्वं निरन्तरकटाक्षशरनिपतनेन तूणीरत्वम् । त्वन्मुक्तशराधारतामित्यर्थः । निनीषुः प्रापयितुमिच्छुः । मानिनीविशेषणमेतत्। हारिणी मुक्ताहारवती अत एव हारिणी मनोहारिणी। मानिनी तनुतां कृशताम्। यतः प्राप्ुवतः । मे शर्म सुखम्। ६ तनुतां विस्तारयत। यथेयं सुखभोग्या स्यातथा त्वया विधेयमित्यभ्यर्थना ॥१६॥ नदेव द्वितीयतृतीयचतुर्थपादगतमुदाहरति -- जयतेति। नायकस्य प्रेयसीं प्रति चाटूक्तिः । हे मत्प्रिये अस्मान् जयता स्ववशीकुर्वता। त्वन्मुखने :कम् उदकम् । अलंकुर्वत् भूषयत् । तथा अलयः भ्रमराः तद्वन्ति यानि दलानि पत्राणि तानि सन्ति अस्येति अलिमद्दलि। अथवा अलिमत् भ्रमरयुक्तं तथा दलि दलयुक्तं च । कमलम् अकथं कथाशन्यं निर्विवादम् कथनादिवाग्धर्मविहनिं ६वा। कथ न जितम् जितमेव। सचेतसि लब्धविजयानामचेतनविजये का शङ्केति भावः ॥।१७॥ सर्वत इव्यनेन प्रतिपादितं पादचतुष्टयगतमव्येपतमादिभागयमकमुदाहरति- रमणीति। पाटलावत् तत्संज्ञकतरुकुसुमवत् पाटलं श्वेतरक्तमंशुकं वस्त्रं यस्या: ३सा। तथा सौरभास्पदं शोभनगन्धिः। मे रमणी अरुणीभूता आरक्ता। सौरी सूर्यसंबन्धिनी भाः कान्तिर्यत्र तादृशी। वारुणी पश्चिमदिगिव। रमणीया मनोहरा।
Page 340
द्विपाद्यमकप्रभेदा: ३२१
इति पादादि यमकमव्यपेतं विकल्पितम्। व्यपेतस्यापि वर्ण्यन्ते विकल्पास्तिस्य केचन ॥ १९। मधुरेण दृदशां मानं मधुरेण सुगन्धिना। सहकारोद्रमेजैव शब्दशेषं करिष्यति ॥ २०॥ करोतिताम्रो रामाणां तन्त्रीताडनविभ्रमम् । करोति सेष्यं कान्ते चें श्रवणोत्पलताडनम्॥२१॥
शोभते इति शेषः । अत्र वारुणीशब्देन मदिराध्वनिः। सापि सौरभास्पदं वर्तते। ६ एवमादिमध्यान्तेत्यादिकारिकया प्रतिपादिता अव्यपेतादिभागयमकस्य दश प्रकारा उदाहताः ॥ १८ ।
अव्येपतादिभागयमकमुपसंहरति-इतीति। पादादि पादादिभागगतम्। अव्यपेतं अव्यवहितम् । यमकम् इति एवम् । विकल्पितम् सप्रभेदमुदाहृतम् । तस्य पूर्वोक्तस्य। व्यपेतस्य व्यवहितस्य यमकस्य। केचन विकल्पाः भेदाः । क्रमप्राप्ताः वर्ण्यन्ते ॥ १९ ॥ तत्र एकपादगतं व्यपेतं सुगममित्युपेक्ष्य प्रथमद्वितीयपादगतं व्यपेतमादि- भागयमकमुदाहरति-मधुरेणेति। मधुः वसन्तः । मधुरेण मनोहरेण मधुबिनद्धु- युतेन वा। मधुबिन्दून् क्षरतेत्यर्थः । सुगन्धिना सुरभिणा। सहकारोद्रमेन चूत- प्रसवेन एव। एणदृशां हरिणाक्षीणाम्। मान प्रणयेष्याकोपम्। शब्दशेषं नाममात्रा वशिष्टम्। करिष्यति। न तु अर्थतः अवशेषयिष्यतीत्यर्थः । अत्र मधुरेण मधु- रेणेति वर्णसंघावृत्तेः दृशां मानमिति वर्णचतुष्टयव्यवहितत्वादेतद् व्यपेतयमकम्। एवमग्रेपि बोद्धव्यम् ॥ २० ॥ एतदेवप्रथमतृतीयपादगतमुदाहरति-करोतीति। विलासिन्या विलास- वर्णनमिदम्। रामाणां रमणीनाम्। अतिताम्रः आरक्तः । करः तन्त्र्याः ताडन- 3 विधमं वीणावादनविलासम्। करोति। तथा कान्ते कृतापराधे नायके। सेर्ष्य यथास्यात्तथा श्रवणोत्पलेन ताडनं च करोतीति संबन्धः ॥ २१।।
१ तत्र. कपा. २ नारीणाम्, कपा, ३ सेर्ष्ये. ब. ४ वा. कपा. [ काव्यादर्श ] ४9
Page 341
३२२ काव्यादर्शे तृतीय: परिच्छेद:
सकलापोल्लसनया कलापिन्यानु नृत्यते। मेघाली नर्तिता वातैः सकलापो विमुश्चति ॥२२॥ स्वयमेव गलन्मानकलि कामिनि ते मनः । कलिकोमिह नीपस्य दृष्ट्ा का न स्पृशेद्दशाम् ॥ २३ ॥ आर्ह्याक्रीडशैलस्य चन्द्रकान्तस्थलीमिमाम्। नृत्यत्येष लसच्चारुचन्द्रकान्तः शिखावलः ॥२४॥
एतदेव प्रथमचतुर्थपादगतं दर्शयति-सकलेति। प्रावृड् वर्ण्यते। वातैः नर्तिता सकला मेघाली मेघमाला। अपः उदकानि । विमुश्चति वर्षति। अनु ३पश्चात्। कलापस्य बर्हस्य उल्लसनेन उन्नमनेन सह वर्तते इति सकलापोल्लसना तया। कलापिन्या मयूर्या। नृत्यते ॥ २२ ॥
तदेव द्वितीयतृतीयपादगतमुदाहरति-स्वयमेवेति। प्रावृडागमं विलाक्य . . काचित्सखी किंचिदवशिष्टमानां नायिकामाह। हे कामिनि ते मनः इदानी 3 स्वयमेव प्रियानुनयं विना। गलन् मानरूपः कलिः कलहः यस्मात् तादृशम्। संपन्नम्। तत् इह उपवने। नीपस्य कलिकां कोरकम्। दृष्ट्रा कां दशां न स्पृशेत्। सर्वा अपि मदनावस्थाः प्राप्नुयादित्यर्थः । तवातिकोमलमिदं चेतः विरहे कथं ६धारयिष्यसीति भाव: ॥।२३।। तदेव द्वितीय चतुर्थपादगतमुदाहरति -- आरुह्येति । एष शिखावलः मयूरः। आक्रीडः उद्यानम्। पुमानाक्रीड उद्यानम्। इत्यमरः । तत्र यः शैलः ३क्रीडापर्वतः तस्य। चन्द्रकान्तोपलसंबन्धिनीं स्थलीमारुह्य नृत्यति। कीदृशः लसन्तः विकसन्तः चारवः मनोज्ञाः ये चन्द्रकाः मेचकाः तेन अन्तः मनोहर- स्वरूपः। अन्तः प्रान्तेन्तिके नाशे स्वरूपेतिमनोहरे। इति विश्वः। अथवा चन्द्र- ६काणामन्ताः प्रान्तभागा यस्य इति व्याख्येयम् ॥। २४।।
१न्यानुनृत्यते. क. २ ०कामपि. कपा, ३ चलवारु०. क.
Page 342
त्रिपादयमकप्रभदाः ३२३
उद्धत्य राजकादुर्वी घ्रियतेद्य भुजेन ते। वराहेणोद्धता यासौ वराहेरुपरि स्थिता ॥ २५ ॥ करेण ते रणेष्वन्तकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥ २६ ॥ परागतरुराजीव वातैर्ध्वस्ता भटैश्वमूः। परागतमिव क्वापि परागततमम्बरम् ॥ २७ ॥
तदेव तृतीयचतुर्थपादगतमुदाहरति-उद्धत्येति। कश्चित् कवि: राजानं स्तौति। हे राजन् यासौ वराहेण वराहरूपेण। भगवता विष्णुना। उद्धता सागर- 3 जलादूर्ध्वमानीता। तथा वराहे: श्रेष्ठनागस्य शेषस्य। उपरि या स्थिता। सा उर्वी अद्य राजकात् राजसमूहात्। उद्धृत्य आच्छिद। ते भुजेन घ्रियते यथान्यायं पाल्यते। केचित्तु स्थिता इत्यत्र अन्तर्भावितण्यर्थमङ्गीकृत्य वराहेण स्थापितेति अर्थ ६कुर्वन्ति ॥ २५ ॥
तदेव प्रथमद्वितीयतृतीयपादगतमुदाहरति-करेणेति । कश्चित् कवि: पराक्रमशालिनं नृपति वर्णयति। रणेषु समरेषु। द्विषतां शत्रूणाम्। अन्तकरेण 3 विनाशकेन। ते करेण हताः ताडिताः । अत एव क्षरद्रक्ताः गलद्रुधिराः । करेणवः गजेन्द्राः । संव्याघना इव सायंकालीनारक्तमेघा इव । भान्ति शोभन्ते ॥ २६॥
तदेव प्रथमतृतीयचतुर्थपादगतमुदाहरति-परेति । राजप्रभावो वर्ण्यंते। हे राजन् तव भटैः । वातैः ध्वस्ता उत्पाटिता। परः प्रोत्तुङ्ग: अगः पर्वतः तत्- ३संबन्धिनो ये तरवः तेषां राजी पङ्कि: सेव। चमूः अरिचमूः। ध्वस्ता विनाशिता। अन्तर्भावितण्यर्थः । तदा परागैः युद्धसंमर्दोत्थितैः पांसुभि: ततं व्याप्तम्। अम्बरम्। क्कापि कल्पनातीते स्थाने। परागतमिव पलायितमिव। तदानीं धूलिमिरम्वरमल- ६क्षितमभूदित्यर्थः ॥२७॥
१ उद्धता, अ, क.
Page 343
३२४ काव्यादर्शे तृतीय: परिच्छेद:
पातु वो भगवान् विष्णुः सदा नवघनद्युतिः। स दानवकुलध्वंसी सदानवरदन्तिहा ॥ २८ ॥ कमले: समकेशं ते कमलेर्ष्याकरं सुखम्॥ कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु॥ २९॥ मुदा रमणमन्वीतमुदारमणिभूपणाः । मदभ्रमद्दृशः कर्तुमदभ्रजघना: क्षमाः ॥ ३० ॥ उदितैरन्यपुष्टानामा रुतैर्में हेतं मनः।
तदेव द्वितीयतृतीयचतुर्थपादगतमुदाहरति-पात्विति । नवघनद्युतिः नवजलदकान्तिः । दानवकुलध्वंसी दैव्यकुलविनाशकः। दानेन मदोदकेन सहितः सदान: स चासौ वरः श्रेष्ठः यः दन्ती कंसप्रयुक्तः कुवलयापीडाख्यः तस्य हन्ता। स भगवान् विष्णुः सदा वः युष्मान्। पातु ॥ २८॥ सर्वपादगतं तदेव दर्शयति-कमलेरिति। हे भामिनि ते कं मस्तकम्। अले: भ्रमरस्य। जातौ एकवचनम्। समकेशम् समानाः कृष्णमेचकाः केशा यस्य तत्। ते मुखं कमलस्य ईर्ष्याकरम् असूयाकारि। तत्सदृशमित्यर्थः । अतः त्वं कमलेव लक्ष्मीरिव। उन्मदिष्णिषु उन्मादवत्सु। कं पुरुषमलेख्यं करोषि अगणनीयं विदधासि।न कमपि। यथा लक्ष्मीः सर्वमुन्मत्तं विधत्ते तथा त्वमपीति ६भाव: ।। २९।।
इतः परं व्यपेतस्यैव सजातीयविजातीयघटितानि प्रकारान्तराणि दर्शयन् प्रथमद्वितीययोरेकप्रकारं तृतीय चतुर्थयोस्तदन्यप्रकार दर्शयति-मुदेति। उदाराः प्रशस्ता: ये मणयः तेषां भूषणानि यासां ताः। मदेन मदिरास्वादजनितेन उन्मा- देन भ्रमन्त्य: घूर्णन्त्यः दृशो यासां ताः । अदभ्रजघना विशालनितम्बाः। रमणं मुदा आनन्देन। अन्वीतं संयुक्तम् । कर्तु क्षमाः सन्ति ॥ ३० ॥
१ छविः. क. २ हृतम्. क.
Page 344
व्यपेतविजातीययमकप्रभेदाः ३२५
उदितैरपि ते दूति मारुतैरपि दक्षिणैः ॥ ३१ ॥ सुराजितव्हियो यूनां तनुमध्यासते स्त्रियः। तनुमध्याः क्षरत्स्वेदसुराजितमुखेन्दवः ॥ ३२ ॥ इति व्यपेतयमकर्प्रभेदोप्येष दशिंतः। अव्यपेतव्यपेतात्मा विकल्पोप्यस्ति तद्यथा॥ ३३ ॥ सालं सालम्वकलिकासालं सालं ने वीक्षितुम्।
प्रियाविरहसंतप्तो ब्रूते । आः इति खेदे। अन्यपुष्टानां कोकिलानाम्। उदितैः ,उद्गतैः । रुतैः मे मनः हृतम् हिंसितं व्यथितमिति भावः । न केवलं तैरेव हतं अपि तु हे दूति ते उदितैः संदेशवचनैरपि। तथा दक्षिणैः मारुतैः मलयानिलैः। अपि हतम् । ३१॥ एतदेव प्रथमचतुर्थयोर्द्वितीयतृतीययोरुदाहरति-सुराजितेति। मधु- पानगोष्टीवर्णनमेतत्। तनुमध्याः कृशोदर्यः । क्षरत्प्रस्रवन् यः स्वेदः तेन सुरा- ३जिताः सुशोभिता मुखेन्दवः मुखचन्द्रा यासां ताः। तथा सुरया मदिरासेवनेन जिता परास्ता ही लज्जा याभिस्ताः । स्त्रियः यूनां तरुणानाम्। तनुं शरीरमध्यासते आश्रयन्ति ॥ ३२ ॥
एतावत्पर्यन्तमव्यपेतव्यपेतयोः शुद्धस्वरूपयोराकारो दर्शितः। तमुपसंहरन् संमिश्रणात्मकं तयोः स्वरूपं दर्शयति-इतीति। इति एवमुक्तप्रकारेण। व्यपेतानां 3व्यवहितानां यमकानां प्रभेदा दर्शिताः । अपिना प्रागेव निर्दिष्टानामव्यपेतानां संग्रहः। अव्यपेतः अव्यवहितः व्यपेतः व्यवहितश्च आत्मा स्वरूपं यस्य तादृशः । विकल्पः भेदः । अस्ति । तद् यमकं यथा तथा दर्शयामीति शेषः ॥ ३३ ॥।
तत्र प्रथमद्वितीययोः तृतीयचतुर्थयोस्तदुदाहरति -- सालमिति। वसन्ते कस्याश्चित् दूती नायकं प्रति तदवस्थां वर्णयति। अत्र पदानि। सा अलम् 3सालम्बकलिकासालम् सालम् न वीक्षितुम् न अलीन् आलीनबकुलान् आली नालीकिनी: अपि इति। सा आली मत्सखी। आलग्बा लम्बमाना याः कलिकाः
वदा: अ. २ प्रपश्चीऽप्येष. अ. 3 निशीक्षितुम्, कपा,
Page 345
३२६ काव्यादर्शे तृतीय: परिच्छद
नालीनालीनबकुलानाली नालीकिनीरपि॥ ३४ ॥ कालं काल मनालक्ष्यतारतारकमीक्षितुम्। तारतारम्यरसित कालं कालमहाघनम् ॥ ३५ ॥
कोरकाः। मञ्जर्य इति भावः । ता एव आच्छादकत्वात् सालः प्राकारः । सालः ६प्राकारवृक्षयोः । इति अनेकार्थध्वनिमञ्जरी। तेन सहितम्। सालम् वृक्षम्। आम्रवृक्षमिति भावः । वीक्षितुं न अलम् । तस्य उद्दीपकत्वादिति भावः । तथा आलीयन्ते अत्र इति आलीनाः । अधिकरणे क्ः । तथा च आलीनाः आश्रयी- कृता बकुला यैस्तान् आलीनबकुलान्। अलीन् वीक्षितुं नालम्। तथा नालीकिनीः प्मिनीः । नालीकौ पद्मनाराचौ। इति त्रिकाण्डशेषः । अपि वीक्षितुं सा नालम्। अत्र केचित् सालम्बकलिकासालमित्यस्य सालम्बा लम्बमानत्वेन सह वर्तमाना १२याः कलिकाः ताः सलति गच्छति इति सालम्बकलिकासालः तम्। तथा नाली- किनीः मिथ्यावादिनीः झटिति तव प्रिय आगमिष्यति इति मिथ्या प्रियवादिनीः सखी: अपि वीक्षितुं नालमित्यर्थ प्रदर्शयन्ति। अपरे केचन सालम्बकलिका- १५सालम् इत्यत्र सालम् इत्यस्य रलयोरमेदत्वमाश्रित्य सारमिति पदं परिकल्प्य सालम्बकलिकाभिः सारं श्रेष्ठम् इति अर्थ दर्शयन्ति। अन्ये पुनः सालम्ब- कलिकासु साल: आलेन अलिकदम्बेन विषेण वा सहितः। अथवा सालम्बकलि- १८काभि: साल: सभूषणः यः सालवृक्षः तम् इति विवृण्वन्ति। अत्र प्रथमपादे सालं सालं इति अव्यपेतम्। तस्यैव द्वितीयपादे पुनरावृत्तिः इति व्यपेतं च। तथा उत्तरार्धे नाली नाली इत्यत्रापि अक्षरद्वयापेक्षया अव्यपेतम् चतुरक्षरापेक्षया २१व्यपेतम् इति रहस्यम् ॥ ३४ ॥
तदेव प्रथमचतुर्थयोर्द्वितीयतृतीययोश्चोदाहरति-कालमिति। प्रावृट्- समयमागतं वीक्ष्य नायिकया प्रेषिता दूती तं वदति। का विरहिणी। अनालक्ष्याः ३ मेघाच्छादितत्वात् अदृश्याः ताराः निर्मलमौक्तिकाः इव ताराः नक्षत्राणि यस्मिन् - तम्। तारो निर्मलमौक्तिके। इति हेमचन्द्रः । ताराः स्थूला उज्ज्वला वा इति केचित्। तारतया अत्युच्चस्वरतया अरम्यम् अमनोहरं रसितं गर्जितं यस्मिन् तम्। काला: कृष्णवर्णा महाघना यत्र तम्। कालं मृत्युस्वरूपम्। कालं प्रावृद्-
Page 346
अव्यपतव्यपतचतुष्पादयमकप्रभेदाः ३२७
याम यामत्रयाधीनायामया मरणं निशा। यामयाम धिया स्वत्या या मया मथितैव सा ॥३६॥ इति पादादियमकविकल्पस्येद्ृशी गतिः। एवमेव विकल्प्यानि यमकानतराण्यपि॥३७॥ कालं वीक्षितुमलं समर्था। न कापीत्यर्थः । अत्र यमके अनुस्वारन्यूनता न दोषायेति पूर्व ( ३.१५) कथितमनुसंधेयम् ॥ ३५॥
तदेव पादचतुष्टयगतमुदाहरति -- यामेति। कश्चिद्विरही स्वविरहेण मृतां भार्यामुपश्रुव्य मरणं प्रार्थयते। अत्र पदच्छेद :- याम यामत्रयाधीनायामया मरणम् निशा याम् अयाम घिया स्वर्त्या या मया मथिता एव सा। अथवो- त्तरार्धे-धिया अस्वर्त्यायामया इति पदच्छेदः। यां पूर्व वयम् अयाम अगच्छाम। तदनन्तरं मद्वियोगेन या स्वत्या सुद्ुःखितया। धिया बुद्धया। मद्विरहचिन्तया ६इत्यर्थः । उपलक्षिता। इत्थंभूतलक्षणे तृतीया । सा मया मथितैव विेशगम न मारितैव । अतः वयमपि याम: ग्रहरः तस्य त्रयं तस्य अधीनः आयत्तः आयामः विस्तारः यस्याः सा तया। निशा रात्र्या। त्रियामां रजनी प्राहुस्त्यक्त्वाद्यन्त- चतुष्टयम्। इति वचनादिति भावः। मरणं याम प्राप्तुयाम। ताद्विरहेण अचिरा- देव मृत्युर्भवत्विति प्रार्थना। केचन पुनः यां नायिकां घिया अयाम विदूर- स्थितत्वात् संकल्पेनैव अगच्छाम सा असूनां अति पीडाम् आ संमतात् अयते २ यच्छति तादृशः अस्वार्त्या यः आमयः मदनज्वरो यस्याः सा। यामत्रयाधीना- यामया निशा रात्र्या मथितैव । तस्या विरहिण्याः संतापकत्वात्। अतः वयमपि मरणं याम इत्यर्थ विशदयन्ति ॥ ३६ ॥
पादादियमकप्रभेदमुपसंहरति-इतीति। पादादियमकानां विकल्पस्य 'भेदस्य। ईदृशी दर्शितस्वरूपा। गतिः दिक्। इतराण्यपि मध्यान्तभागगतानि अव्य- 3 पेतव्यपेततन्मिश्ररूपाणि। एवमेव दर्शितप्रकारेणैव एकद्वित्रिचतुष्पादेति कारिकया कथतप्रकारणं। विकल्प्यानि परिकल्प्य ज्ञातव्यानि । खल्पाः प्रकारा मया उदा- हंता: तेनैव मार्गेण अन्ये ऊहनीया इति भावः ॥ ३७॥
१ छियास्वर्त्याया. ब, ड; धियास्वात्यायामया. क.
Page 347
३२८ काव्यादर्शे तृतीयः परिच्छेद:
न प्रपश्चभयाद्ेदाः कार्त्स्येनाख्यातुमीहिताः। दुष्कराभिमता ये तु वैर्ण्यन्ते तेते केचन ॥ ३८ ॥ स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान्। अमायतेयतेप्यभूत सुखाय तेयते क्षयम् ॥ ३९॥ सभासु राजन्सुराहतैर्मुखै- र्महीसुराणां वसुराजितैः स्तुताः। न भासुरा यान्ति सुरान्न ते गुणा: प्रजासु रागात्मसु राशितां गताः ।। ४० ।। स्वयं कुतो न दर्शिताः अन्ये प्रकारा इति तत्कारणं कथयति-नेति। प्रपश्चभयात् विस्तारभयात्। मेदा: शेषाः विकल्पाः । कारत्स्न्येन साकल्येन। ३आख्यातुं कथितुम्। न ईहिता: इच्छिताः। उर्वरितेषु ये प्रभेदाः। दुष्कराः विरचयितुं बोद्धुं वा ते केचन अत्र प्रबन्धे। मया वर्ण्यन्ते प्रदर्श्यन्ते ॥३८॥ तत्र अव्यपेतव्यपेतं सर्वपादगतं मध्ययमकमुदाहरति-स्थिरेति। कश्चित् जीवन्मुक्तं सत्युरुषं स्तौति । स्थिरा अनश्वरा आयतिः प्रभावः उत्तर- ३कालो वा यस्य तत्संबुद्धिः। यतानि संयतानि इन्द्रियाणि एकादशेन्द्रियाणि यस्य सः। भवान् यतेः योगिनः तपस्विनो वा। न हीयते न्यूनो न भवति। संयतेन्द्रियत्वादिधर्मवत्वात्। ते अमायता निष्कपटता ऋजुतेत्यर्थः । मायोपाि- राहित्यं वा। क्षयं विलयम्। अयते अप्राप्नुवते। शाश्वतायेत्यर्थः । इयते एतत्परि- मिताय अतिविस्तृताय । सुखाय आनन्दाय । अभूत् । ग्रमाणिका छन्दः । प्रमाणिका जरौ लगौ। इति तल्लक्षणम् ॥ ३९ ॥ तदेव चतुष्पादं मध्ययमकं केवलव्यपेतमुदाहरतिसभाखिति । कश्चित्कविः नृपं वर्णयति। हे राजन् असुरा दानवाः तैः अहतैः अताडितैः । ३त्वयि शासितरि दानवा महीसुरान् न पीडयामासुरिति भावः। अथवा सुरया मद्येन आहता म्रष्टा न भवन्तीति असुराहताः तैः । वसुभिः संपद्गिः राजितैः सु- शोमितैः। त्वद्वितीर्णधनलाभेन सदा सतेजस्कैरित्यर्थः । महीसुराणां ब्राह्मणानाम्। ६मुखैः श्ेष्ठैः। द्विजप्रमुखैरित्यर्थः । सभासु स्तुताः प्रशंसिताः । तथा रागात्मसु १ ईप्सिता :. क. २ मता एव. अ, क. ३ वक्ष्यन्ते, बपा. ४ तत्र. अ, बपा, कपा,
Page 348
चतुष्पादयमकप्रभेदाः ३२९
तव प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यमिहांशुमत्तया। रतोत्सवामोदेविशेषमत्तया प्रैयोजनं नास्ति हि कान्तिमत्तया ।। ४१ ।। भवाददशा नाथ न जानते नवे रसं विरुद्धे खलु सन्नतेनते।
त्वदाज्ञापालनेन त्वयि अनुरागस्वभावासु । प्रजासु राशितां गताः राशीभूताः । बहुलीभूता इत्यर्थः । तथा भासुराः उज्ज्वलाः । एतादृशाः ते गुणाः सुरान् न यान्तीति न । अपि तु यान्त्येव । देवास्त्वद्रुणान् स्तुवन्तीत्यर्थः । मुखैरित्यत्र मखैरिति पाठे असुरबाधारहितैयज्ञै: इत्यर्थः ॥४०॥ अथ व्यपेतं पादचतुष्टयगतमन्तयमकमुदाहरति-तवेति। अन्यासक- हृदयं भूषणार्पणेनानुनयन्तं नायकं प्रति कुपिताया वचनमिदम्। हे अप्रमत्त : कपटानुनये सावहित। तव या सच्चरिता साघुचरित्रा। सोलुण्ठवचनमेतद्। प्रिया प्रेयसी। तया इह उत्सवप्रसड्गे। अंशुमत् किरणोज्ज्वलम्। इदं भूषणं धार्यम्। कथंभूतया रते त्वया सह विलासे य उत्सवः तद्गवः यः आमोदविशेषः संतोषा- ६तिशयः तेन मत्तया उद्रिक्तया। त्वया किमिति न धार्यते इत्यत्र उत्तरयति- प्रयोजनमिति। मम कान्तिमत्तया विभूषणेन कान्तिसंपन्नतया प्रयोजनं नास्ति। यतोन्यासक्तो भवान् अतः कान्तिसंपन्नताया मम कि प्रयोजनम्। अथवा कान्ति- मदिदं भूषणं किमिति न धार्यते तत्रोत्तरयति-मे कान्तिमत्तया भूषणकान्तिविशेषेण प्रयोजनं नास्ति। अनुरागकाङ्किणी अहं न भूषणकान्तिमपेक्षे तदुक्तम्- कामिनीनां मंडनश्रीः । व्रजति हि सफलत्वं वल्लभालोकनेन । इति । मयि निरनु- १३रागस्य तव कान्तिमत् भूषणप्रदानं व्यर्थमेवेति भावः । अत्रान्यैः कृता अर्था: सदोषा इत्युपेक्षिताः॥४१॥ पादान्तेषु अव्यपेतमुदाहरति -- भवाद्शा इति। कश्चिन्मानधनः सेवकः प्रभुशक्तिसनाथं नृपं प्रशंसति। हे नाथ प्रभो । भवादृशाः वीर्यशालिनो नृपाः । १ चरित प्र°. अ, ब. २ वानन्द९. ब, ड, प. 3 न मे फलं किंचन कान्ति०. अ. बपा, [काव्यादर्थ ] न२
Page 349
३३० काव्यादर्शे तृतीय: परिच्छेदः य एव दीना: शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते ॥। ४२॥ लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन। व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ।।४३।। श्रीमानमानमरवर्त्मसमानमान- मात्मानमानतजगत्प्रथमानमानम्।
३नते नमनस्य। रसं आस्वादम्। न जानते। यतः सन्नतं सन्नतिः सुप्रणामः तथा इनता प्रभुता च सन्नतेनते । उभे विरुद्धे निसर्गतो भिन्नास्पदे खलु। ये जनाः। दीना दरिद्राः । त एव केवलं नतेन शिरसा चरन्ति सेवन्ते। तेन तादृशेन ६शिरोनमनरूपेण। दैन्यरसेन ते अलम्। तव संबन्धो माभूद् इति भाव: ॥।४२॥
चतुर्षु पादेषु मध्यान्तयोः व्यपेतयमकमुदाहरति-लीलेति। सा नायिका। शुिना विशदेन। लीलास्मितेन सविलासहासेन.। मृदुना कोमलेन। ३उदितेन वचसा। लघुना स्वल्पेन । असमग्रेणेत्यर्थः । व्यालोकितेन वीक्षणेन । गुरुणा सविलासमन्थरेण। गतेन गमनेन। व्याजम्भितेन जुम्भा च अनुराग- व्यञ्जिका तेन जम्भामिषेण सूचितानुरागेण। तथा दर्शितेन दर्शनविषयीकृतेन। ६जघनेन जघनप्रदेशेन । एभिः साधनैः । हन्ति व्यथयति। तेन हेतुना। मम जीवितेन गलितं विलीय व्युतमिव । भावे कः ॥ ४३ ॥ तदेवाव्यपेतव्यपेतमुदाहरति-श्रीमानिति । भगवतः त्रिविक्रमस्य परमात्मनो वर्णनमिदम्। तत्र पदानि। श्रीमान्। अमान्। अमरवर्त्मसमान- मानम् । आत्मानम् । आनतजगत्प्रथमानमानम् । भूमानम् । आनमत । यः । स्थितिमान्। अमाननामानम् । आनमतम्। अप्रतिमानमानम्। अन्वयः-यः श्रीमान् स्थितिमान् अमान् तम् अंमाननामानम् आनमतम् अप्रतिमानमानम् आनतजगत्प्रथमानमानम् भूमानम् अमरवर्त्मसमानमानम् आत्मानम् आनमत।
Page 350
चतुष्पादयमकप्रभेदा: ३३१
भूमानमानमत यः स्थितिमानमान- नामानमानमतमप्रतिमानमानम् ॥ ४४॥ सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरा तम्। सारवानुकृतसारसकाश्ची सा रसायनमसारमवैति।४५॥
यः त्रिविक्रमः । श्रीमान् लक्ष्मीवान् । स्थितिमान् मर्यादावान्। जगत्स्थितिकर्ते- त्यर्थः । अमान् न मातीत्यमान् । अपरिच्छिन्स्वरूपः सर्वव्यापित्वाद्। वर्तते इति शेषः । तम् अमाननामानम् अमानानि अपरिमितानि नामानि यस्य तम्। आनमतम् आ ईषत् अनन्ति जीवन्ति ते आनाः प्राणसंयमवन्तो योगिनः तैः मतं ज्ञातम्। अथवा तेषां मतम् इष्टम्। अप्रतिमानमानं प्रतिमीयते एमिरिति १२ प्रतिमानानि प्रमाणानि तैः मान ज्ञानं सस्य तथा न भवतीति अप्रतिमानमान: तम्। लौकिकप्रमाणैरगम्यम्। आनते उपासनार्थ शरणमागते जगति लक्षणया तत्स्थे जने प्रथमानः प्रख्यायमानः मानः पूजा यस्य तम्। भूमानं भूमापकम्। १५एकेन पदा भुवो व्यापनाद। तथा अमरवर्त्मसमानमानम् अमरवर्त्म आकाशः तेन समानं मानं यस्य। गगनव्यापिस्वरूपत्वादिति भावः । आत्मानम् अतति सातव्येन वर्तते इति आत्मा तम्। त्रिविक्रमरूपं श्रीहरिम्। आनमत प्रह्लीभूय १८शरणं गच्छत ।।४४ ।। पादचतुष्टयगतं व्यपेतमादिमध्ययमकं दर्शयति-सारेति । मिथुनयोः संभोगोत्र वर्ण्यते। सा नायिका। सारयन्तं संकेतस्थान आत्मानं प्रापयन्तम्। अत एव सारभूतं श्रेष्ठभूतम्। सर्वसुखसारभूतमित्यर्थः । तं नायकम् । उरसा रमयन्ती आलिङ्गनेन प्रमोदयन्ती। पुरुषायितरतेनेति केचित्। तथा सारवा सशब्दा अत एव अनुकृता: सारसाः यया एतादृशी काञ्ची मेखला यस्याः सा। सारसरवानु- कारिमेखलाधारिणीत्यर्थः । तथा उरु विपुलं सारं सौन्दर्यसारं तस्य धरा उरु सारधरा। अथवा उरुसारं सुवर्णभूषणं धारयन्ती एतादृशी। उरुसारं सुवर्ण
१ सारसानु°, ब, ड, प,
Page 351
३३२ काव्यादर्शे तृतीयः परिच्छेद: नयानयालोचनयानयानयाँ- नयानयान्धान् विनयानयायते। न यानयासीञिजिनयानया नयाँ- नयानयांस्ताञ्जनयानयाश्रितान् ॥ ४६ ॥
स्यात्। इति व्याडिः। रसायनम् अमृतमपि। असारं निःसारम् तुच्छमिति ,यावत्। अवैति जानाति । कान्तालिङ्गनसुखतः अमृत अतीव निकृष्टमिति मन्यत. इति भाव: ॥ ४५ ॥
इदानीमव्यपेतव्यपेतयमकं चतुर्ष्वपि पादेष्वाद्यन्तम् अथवा प्रथमतृतीय- पादयोराधन्तं द्वितीयचतुर्थयोश्चादिमध्यम् उदाहरति-नयेति। तत्र तावद् पदानि। नयानयालोचनया। अनया। अनयान् । अयानयान्धान्। विनय। अनयायते। न। यान्। अयासीत्। जिनयानयाः । नयान्। अयानयान् । तान्। जनय। अनयाश्रितान् । अन्वय :- हे अनयायते अनया नयानया- ६ लोचनया अनयान् अयानयान्धान् विनय। तथा अनयाश्रितान् तान् अया- नयान् नयान् जनय। यान् जिनयानयाः न अयासीत्। कश्चित्सचिवः नृप प्रजानुशासनमुपदिशति । हे अनयायते एति गच्छतीति अया विनाशशीला तादृशी न भवतीति अनया अनपायिनी आयतिः उत्तरकाल: यस्य तत्संबुद्धिः । अनया मयोपदिश्यमानया। नयानयालोचनया नयः नीतिः अनयः अनीतिः तयोः आलोचना विमर्शः तया। अनयान् नयविमुखान्। अत एव अयानयान्धान् अयः १: शुभावह्ो विधि: अनयः तद्विरुद्धः तयो: अन्धान् । शुभाशुभविवेकशून्यान् इत्यर्थः । विनय शिक्षय। शासनेन सन्मार्गानुयायिनः कुरु। [तथा] अनयाश्रितान् उन्मार्ग- गामिनः । तान् श्रुतिस्मृतिप्रसिद्धान् । अयानयान् अयं शुभमानयन्तीति अया- १५ नयान् । आङ्पूर्वकान्यतेः पचाद्याच द्वितीयाबहुवचनम् । शुभप्रापकान्। नयान् नीतीः। जनय उपदिश्य विस्तारयेत्यर्थः । यान् नयान् । जिनयानयाः जिनस्य बुद्धस्य यानं धर्ममार्ग: तं यातीति जिनयानयाः । जैनागमानुसारी नास्तिकः । १ नं अयासीत नानुसृतवान्। श्रुतिस्मृत्युदितान् नीतिमार्गान् उन्मार्गयायिजनेभ्य १ नया इत्यन्न "कति. अ, कती, क.२ ०सीर्जिन: ०. ब, कं, उ, प. ३ "नरा०, अ;क.
Page 352
चतुष्पादयमकप्रभेदाः ३३३
रवेण भौमो ध्वजवर्तिवीरवे- रवेजि संयत्यतुलास्त्रगौरवे। रवेरिवोग्रस्य पुरो हरेरवे- रवेत तुल्यं रिपुमस्य भैरवे ।। ४७।। मया मयालम्ब्यकलामयामया- मयामयातव्यविरामयामया।
उपदिशेत्यर्थः । अत्र बहुभि: टीकाकारैर्विविधा अर्थाः प्रदर्शििताः। परं तेषां सदसद्विचारचर्चा गौरवभयान्नात् वितन्यते ॥ ४६ ॥ पादचतुष्टयगतं व्यपेतमाद्यन्तयमकमुदाहरति-रवेति। भगवतः श्रीकृष्णस्य नरकासुरेण सह युद्धवर्णनमिदम् । अतुलानां अनुपमानानां अस्त्रणां 3 गौरवं वैपुल्यं यत्र तादृशि। तथा भैरवे बिर्भीषणे। संयति संग्रामे। ध्वजवर्ती यो वीरः शूरः विः गरुडः तस्य । रवेण सिंहनादेन। भौमः नरकासुरः । अवेजि अकम्पत । ध्वजवर्तिपक्षिणो रवेन यस्येदृशी अवस्था स हरे: पुरतः कथं ६कल्पनीय इत्याह-रवेरिति। रवेरिव सूर्यस्येव। उग्रस्य तेजसा तीक्ष्णस्य । अस्य प्रसिद्धविक्रमस्य। हरे: हरिः श्रीकृष्णः स एव हरिः सिंहः तस्य। पुरः अग्रभागे। रिपुं नरकासुरम्। अवेः मेषस्य । तुल्यं समानम्। अवेत जानीत । अत्र संय- च्छब्दस्य सामान्ये नपुंसकम इत्यनेन नपुंसकत्वं ज्ञेयम्। केचित्तु संयति भैरवे अतुलास्त्रगौरवे सति रवेण अवेजि इति योजयन्ति । तथैव वीरवेः इति हरेर्विशे- षणत्वेन कल्पयन्ति ॥ ४७॥ तदेवाव्यपेतव्यपेतं पादचतुष्टयगतमाध्यन्तमुदाहरति-मयेति। तत्र तावत्पदच्छेदः । मया मयालम्ब्यकलामयामयाम् इति प्रथमचरणे। अयाम् 3अयातव्यविरामयामया इति द्वितीये। मयामयार्ति निशया अमया अमया इति तृतीये। अमय अमय अमूं करुणामय अमया इति चतुर्थे। तत्रान्वयः- हे अमय करुणामय अयातव्यविरामयामया अमया अमया निशया मयामयार्तिम् अयाम् [अतः ] अमया मया मयालम्ब्यकलामयामयाम् अमूम् अमय ।
१ मयालङ्ध्य. क.
Page 353
३३४ काव्यादर्शे तृतीय: परिच्छद:
मयामयार्ति निशयामयामया- मयामयामूं करुणामयामया ।। ४८ । मता धुनानारमतामकामता- मतापलब्धाग्रिमतानुलोमता। मतावयत्युत्तमताविलामता- मताम्यतस्ते समता न वामता ॥ ४९ ॥
अस्यार्थ :- अमय नास्ति मा माया कपटं यस्य तत्संबुद्धिः। हे निष्कपट। करुणा- मय करुणापरिपूर्ण। सखे। अयातव्यः गमनानर्हः विरामः येषां ते अयातव्य- विरामाः। अतिदीर्घा इत्यर्थः । अयातव्यविरामा यामा यस्याः सा अयातव्यविराम- यामा तया। अतिदार्घयेत्यर्थः । अमया मा शोभा सा नास्ति यस्यां सा। तया अमया। निःश्रीकयेत्यर्थः । संतापजनकत्वेन निःशोभावहयेति यावद्। अत एव १२ अमया अमावास्यासदृशया। विरहान्धकारबहुलयेत्यर्थः । निशया रात्र्या । साधन- भतया। अहम् मयामयार्ति मयः क्षयः स एव आमयः रोगः तस्य आर्ति पीडाम्। विरहक्षीणतामिति भावः । अयाम् प्राप्तवान्। अतः अमया नास्ति मा परिमाण १५यस्य स अमः मदनः तं यातीति अमयाः तेन। मदनपरिपूर्णेनेत्यर्थः । मया मया सह। मयालम्ब्यकलामयामयाम् मयः क्षयः तेन आलम्ब्या आश्रणीयाः याः कलाः ताभि: परिपूर्णः मयालम्ब्यकलामयः चन्द्रमाः स एव आमयो यस्याः ताम्। चन्द्र- १दर्शनेन संजातपीडामित्यर्थः । अत्र मयालम्ब्य इतिचन्द्रकलाविशेषणं नायिका- संतापकत्वेन रोषसूचनायेति ज्ञेयम् । अमूं नायिकाम्। अमय संयोजय ।। ४८।। अथ व्यपेतमादिमध्यान्तयमकं पादचतुष्टयगतमुदाहरति-मतेति । कस्यचित्पुरुषविशेषस्य वर्णनमिदम् । अत्र पदच्छेद :- मता धुनाना आरमताम् 3अकामताम्। अतापलब्धाग्रिमतानुलोमता । मतौ अयती उत्तमताविलोमताम्। अताम्यतः ते समता न वामता। अन्वयः-अताम्यतः ते मतौ उत्तमताविलो- मताम् अयती अतापलब्धाग्रिमतानुलोमता आरमताम् अकामतां धुनाना मता ६समता न वामता। अस्यार्थ :- अताम्यतः कथमपि ग्लानिमगच्छतः । ते तव। मतौ बुद्धौ। उत्तमताविलोमताम् उत्तमतायाः विलोमतां प्रातिकूल्यं निकृष्टताम्। १ मतान्धुनाना, ब, क, ड, प. २ क्रमता ०, अ.
Page 354
चतुष्पादयमकप्रभेदाः ३३५
कालकालगलकालकालमुखकालकाल- कालकालपन कालकालघनेकालकाल - । कालकालसितकालका ललनिकालकाल- कालकालगंतु कालकाल कलिकालकाल ॥।५० ॥
अयती अगच्छन्ती। निकृष्टतामभजमाना इत्यर्थः । अतापलब्धाग्रिमतानुलोमता अतापेन अक्केशेन लब्धे अभ्रिमतानुलोमते श्रैष्ठ्यानुकूल्ये यया सा। तथा आर- मताम् आस्मारामाणाम्। व्याङ्परिभ्यो रमः इति परस्मैपदम्। अकामतां निरि- च्छताम् । धुनाना स्पृहामुत्पादयन्तीत्यर्थः । [ एतादृशी ] मता इष्टा। समता १२ सर्वभूतमैत्री । अस्तीत्यर्थः । तथा वामता वैषम्यम् । नास्तीत्यर्थः ॥ ४९॥
चतुर्षु पादेषु आदिमध्यान्तयमकमव्यपेतव्यपेतं दर्शयति-कालेति। तत्र पदच्छेद :- कालकालगलकालकालमुखकालकालकालकालपनकालकालघन- कालकालकालकालसितकालका ललनिका अलकालकालक आलगतु कालकाल कलिकालकाल। अन्वय :- हे अलकालकालक कालकाल कलिकालकाल कालकालगलकालकालमुखकालकाल कालकालपनकालकालघन कालकालकालकाल- ६सितकालका ललनिका [मयि ] आलगतु । अर्थ :- कश्चित् कामी त्वत्प्रसादेन प्रिया मामालिङ्गतु इति वर्षाकालं प्रार्थयते। हे अलकालकालक अलका यक्षपुरी तस्या अलकः भूषकः कुबेर: तद्वत् अलक पर्याप्तिकारक। यक्षेश्वरो यथा पर्यापं १धनं वितरति तथा पर्याप्तं जलं त्वं वितरसि इत्यर्थः । कालकाल कालेषु वसन्ता- दिषु काल श्रेष्ठ। देवदेववत् द्वितीयकालशब्दस्य श्रेष्टार्थता। वर्षाकालस्य इतरा- पेक्षया श्रेष्ठता जीवनप्रदत्वेन बोद्व्या। तथा कलिकालकाल कलिकाः कोरकान् १२ अलन्ति भूषयन्ति इति कलिकालकाः वसन्तादयः कालाः तेम्योपि अल समर्थ। एवंभूत हे वर्षाकाल। ललनिका प्रशस्तललना। प्रशंसायां कन्। आलगतु मामाश्लिष्यतु। ललनां विशनिष्टि कालेति। काल: यमः तस्यापि काल: महेशः। १५ सर्वसंहारकत्वादिति भावः । तस्य गल एव गलकः कालकालगलकः । अलीनां समूहः आलः। कालं मुखे यस्य स कालमुखः वानरविशेषः । कालः कालिः।
१ घन०. २ पन०, ब, ड,प. ३, ४, ५ लैनि •गैतु' ·कैलि इत्यत्र ·गेत० •केलि 'लैनि० इति क्मः अपुस्तके।
Page 355
३३६ काव्यादर्शे तृतीयः परिच्छेदः
स च कृष्णवर्णः । काल: यमः। सोपि कृष्णवर्ण एव। कालं कृष्णं कं शिरः येषां १ते कालकाः मयूराः तेषाम् आलपनस्य कालः रलयोरभेदात् कारः तत्संपादकः । तथा काला: कृष्णाः घनाः यत्र स चासौ काल: कालघनकालः कालकालपन- कालश्रासौ कालघनकालः इति कर्मधारयः पश्चात्सर्वेषां द्वन्द्वः । तेन हरगल- २१अलिसमूह-कलियुग-यम-घनसमयाः एते पञ्च पदार्थाः निष्पन्नाः । तैरिव कालकैः कृष्णैः अलकैः कुन्तलैः आलसितं भूषितं अत एव कालं कृष्णवर्ण कं शिरो यस्या इति काल ... कालका। परे त्वेतत्पद्यं कृष्णवर्णनपरं मन्यन्ते। ते च र*द्वितीयचरणे कालकालघनकालकालपनकालकाल इति पाठमङ्गी कुर्वन्ति । तेषामर्थपरिपाटी तावदियम्। पदच्छेदः । प्रथमपादे एकमेव पदम्। द्वितीये कालकालघन कालकालपनकाल काल इति द्वे पदे। तृतीयचतुर्थयोः कालकाल- २सितकालका ललनिका अलकालकालका आलगतु कालकाल कलिकालकाल इति । अर्थ :- काल: संहारकः । कलनात् सर्वभूतानां स काल: परिकीर्तितः । इति वचनात्। कालगल: नीलकण्ठः । उभयोः कर्मधारयः । कालकालगलः। ३·काल: यमः । कालमुखो वानरविशेषः । तेषां द्वन्द्वः कालकालगलकालकालमुखाः । तेषां कालकं कृष्णत्वम् आलाति आदत्ते इति तत्संबुद्धि:। कालकालगलकालकाल- मुखकालकाल। तथा कं जलम् आलाति गृह्लाति इति काल: सजलः । अत एव ३३काल: कृष्णवर्णो यो घनः तस्य काले समये। वर्षाकाले इत्यर्थः । कायन्ति शब्दा- यन्ते इति कालकालघनकालकाः । मयूरा इत्यर्थः। तेषाम् आलपनानि मुखानि तद्वत् कलते शब्दायते इति कालकालधनकालकालपनकाल। मयूरवन्मधुर- *६ भाषिन् इत्यर्थः । तथा कालस्य यमस्यापि काल कालकाल। मृत्युनिवारकेत्यर्थः | तथा कलिकालस्य काल विनाशक। कल्किरूपेण कलिनिवर्तकेत्यर्थः । एवंगुण- विशिष्ट हे काल कृष्णवर्ण कृष्ण। कालकेन कृष्णवर्णेन आलसितं भूषितं कं ३९मस्तकं यैः तादृशा: अलकाः कुन्तलाः यस्याः तादशी। अलकालकालका अलकान् कुन्तलान् अलते मुक्तादिभिर्भूषयतीति अलकाली। तथा कलमेव कालं मधुरं यथा तथा कायति शब्दायते इति कालका। मधुरभाषिणी। अलकाली चासौ १कालका च अलकालकालका । स्त्रियाः पुंवदिति पुंवद्भावः । ललनिका राधा। आलगतु त्वयि संसक्ता भवतु इति। अत्रापि विविधाः पदपदार्थास्तत्तट्टीकाकारै- दर्शिताः । विस्तरभयात्तान्सर्वान् दर्शयितुं न प्रभवामः ॥ ५०॥
Page 356
संदष्टयमकप्रभेदाः २३७
संदष्टयमकस्थानमन्तादी' पादयोई्वयोः। उक्तान्तर्गतमप्येतत् स्वातन्त्र्येणात कीर्त्यते ॥ ५१॥ उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता। न योजितात्मानमनङ्गतापिता- ङगवापि तापाय ममास नेयते ॥ ५२ ॥ स्वोक्तमेदेषु पादचतुष्टयगतव्यपेताद्यन्तयमके संभवदपि अन्यैः कंचिद्वि- शेषं भेदं परिकल्प्य संदष्टयमकमिति कल्पितं तन्निरूपयति-संदष्टमिति। 3द्धयो: पादयोः अन्तादी प्रथमस्य अन्तः द्वितीयस्य आदिः तौ अन्तादी। स्थानम् आश्रयः यस्य तत् अन्तादियमकमिति भावः । एतत् संदष्टयमकम्। उक्कान्त- र्गतमपि पूर्वोक्तप्रकारेषु पादचतुष्टयगतव्यपेतादयन्तयमकेन्तर्भूतमपि (रवेण भौम ६इत्युदाहरणे (३.४७) संभवदपि) स्वातन्त्र्येण कंचिद् विशेषं परिकल्प्य प्राचीनानुरोधेन स्वतन्त्रतया। अभिधीयते । विशेषस्तु उदाहरणे स्फुटीभवि- ष्यति।। ५१।। संदष्टमुदाहरति-उपोढेति । कश्चित् कामी स्वापराधेन कुपितां नायिकां स्वस्मिन् विमुखीं विज्ञाय स्वावस्थां सुहृदे कथयति। सा अवला। मदेन 3 तारुण्यमदेन। मदिरास्वादमदेन वा। उपोढरागापि प्रवृद्धरत्यभिलाषापि। मदेनसा मदीयापराधेन। गोत्रस्खलनरूपेण। कर्त्रा। मन्युरसेन क्रोघावेशेन। योजिता संयो- जिता। कोधपरवशीभूता इत्यर्थः । (अत एव) अनङ्गतापितां मदनसंतापविशिष्टाम्। ६अवस्थामिति शेषः । गतापि आप्तापि । मदनसंतप्तापीत्यर्थः । आत्मानं चेतः | न योजिता मयि न योजितवती। मयि मनोनुरागं न बबन्ध। (अतो) मम इयते एतावते महते। तापाय संतापाय। न आस न बभूव। अपि तु काक्का बभूवेति भाक:। अथवा इयते एतावते। स्वल्पपरिमिताय तायाय। न आस न बभूव। अपि तु महते संतापाय बभूवेत्यर्थः । आस इति तिडन्तप्रतिरूपकमव्ययम् इति शाकटायन: । अन्ये तु आस रराज इति अर्थ मत्वा अस् गतिदीप्त्यादानेष् इति १२ भौवादिकस्य लिटः रूपमाङ्गः ॥ ५२॥ १न्तादिपद्यो०. अ. २ णाय. अ, कपा, ३ तावाच ममाद्य नेयते, अ. [काव्यादर्श ] -३
Page 357
३३८ काव्यादर्शे तृतीय: परिच्छेद:
अर्धाभ्यास समुद्धः स्यादस्य भेदास्त्रयो मताः। पादाभ्यासोप्यनेकात्मा व्यज्यते स निदर्शनैः ॥५३॥ ना स्थेयःसच्चया वर्ज्यः परमायतमानया। नास्थेयः स त्वयावर्ज्यः परमायतमानया ॥५४॥
एतावत्पर्यन्तं पादभागयमकं सप्रपञ्चं निरूप्य ततः समस्तपादयमक- प्रमेदान् चिकथयिषुराह-अर्धाभ्यास इति। अर्धस्य श्रोकस्य पादद्वयस्य न १तु पूर्वार्धमात्रस्यैव। तथा सति अग्रे कितस्य भेदत्रयस्य अनुपपत्तिः स्याद्। अभ्यासः आवृत्तिः । समुद्गः स्यात्। यथा समुद्धः संपुटकः भागद्वयात्मकः तथायं पादद्वयात्मकः । अस्य त्रयो भेदा: मताः इष्टाः । ते यथा प्रथमतृतीयौ द्वितीय- चतुर्थौ पादौ समानौ इत्येकः । (३.५४ ) प्रथमद्वितीयौ तृतीयचतुर्थौ समानौ इति द्वितीयो भेदः । (३.५५) प्रथमचतुर्थौ द्वितीयतृतीयौ समानौ इति तृतीयः प्रकारः। (३.५६) पादाभ्यासः एकैकस्यैव पादस्यावृत्तिः। अनेकात्मा अनेक- विघः। स निदर्शनैः उदाहरणैः । व्यज्यते समुद्रोदाहरणानन्तरं दर्शितोदाहरणेषु स्फुटीक्रियते। दर्शितोदाहरणक्रमस्तु प्रथमो द्वितीये (२.५७) प्रथमस्तृतीये (३.५८) प्रथमश्चतुर्थे (३.५९ ) इति त्रयः प्रकाराः । द्वितीस्तृतीये (३.६०) १२ द्वितीयश्चतुर्थे (३.६१) इति द्वौ। तृतीयश्चतुर्थे (३.६२) इत्येकः । प्रथमो द्वितीये तृतीये च (३.६३)। प्रथमो द्वितीये चतुर्थे च अथवा पाठभेदेन प्रथमस्तृतीये चतुर्थे च (३.६४) । द्वितीयस्तृतीये चतुर्थे च (३·६५) इति १५ चत्वार: प्रकाराः । प्रथमो द्वितीये तृतीये चतुर्थे च इत्येक प्रकारः (३.६६)। सर्वे मिलित्वा एकादश प्रकारा ज्ञेयाः । तेष्वेकः प्रकारोनुदाहृतः कविना पाठ- भेदेन कल्पनीयः ॥५३॥ समुद्रस्य पूर्वकथितान् भेदान् क्रमेण दर्शयति-ना स्थेय इति। कुपितनायिकां प्रति नायकानुसरणाय तत्सख्या उक्तिरियम्। तत्र तावद् पदानि। ना स्थेयःसत्त्वया वर्ज्यः परमायतमानया । न आस्थेयः स त्वया आवर्ज्यः परम् आयतमानया इति । परमायतः अत्यन्तविस्तृतः मानः यस्याः सा तया। अतिमानशालिन्या। तथा स्थेयः स्थिरतरं सत्वममिप्रायः स्वभावो वा यस्याः सा तथा। निश्चलस्वभाविकया। त्वया स ना नायकः । न वर्ज्यः परित्याज्यः । · अत्राभ्यास: अ.
Page 358
समुद्धप्रभेदा: ३३९
नरा जिता माननयासमेत्य न राजिता माननया समेत्य। विनाशिता वैभवतॉपनेन विनाशिता वै भवतांपनेन ॥ ५५॥ कलापिनां चारुतेयोपयान्ति वृन्दानि लापोढघनागमानाम्।
किंतु आस्थेयः आदरणीयः । न केवलमादरणीय एव परम् आयतमानया प्रयत्नं कुर्वत्या। आवर्ज्यः आवर्जनीयः । अनुकूलाचरणेन स्ववशीकरणीयः । ९सर्वगुणसंपन्नोयं नायक: तस्मिन्ननादरं मा कुरु तं संमानय अनुकूलाचरणैश्ष स्ववशमानयेत्यर्थः ॥ ५४॥ समुद्वस्य द्वितीयं प्रभेद दर्शयति-नरेति। कश्चित्प्रनविष्णुं नृपं स्तौति। तत्र पदच्छेदः । नराः जिताः माननयासम् एत्य न राजिताः माननया सम इव्य विनाशिता वैभवतापनेन बिना अशिनाः वै भवता आपनेन इति। हे सम सश्रीक। मया श्रिया सहितः समः तत्संबुद्धिः । माननया समानेन। इत्य संगन्तुं योग्य। इणधातो: एतिस्तुशाखददजुषः क्यप् इति क्यप्। संमान्येत्यर्थः। एतादृश ६हे राजन् (त्वया) जिता नरा अरयः माननयासं मानश्च नयश्च मानयनौ असनम् आसः क्षेपः माननययोः आसः माननयासः तम्। माननययोः अपसरणम्। एत्य प्राप्य। न राजिताः न शोभिताः । नष्टप्रभा भवन्तीत्यर्थः । त्वत्तः पराजयं प्राप्य समराङगणात्पलायिताः विगतप्रभा भवन्तीव्यर्थः । आम्नोति इति आपनः सर्वव्यापक इत्यर्थः । तेन आपनेन सर्वव्यापकेन। भवता। वैभवेन विभुत्वेन। यत्तापनं शत्रूणां संतापनं तेन। विनाशिता हताः। वै अतः। विना गुध्रादिपक्षिणा १२अशिता: भक्षिताः । त्वया हता अरयः गुध्रादिभिर्भक्षिता इत्यर्थः ॥५५॥ तृतीयप्रभेदं दर्शयति-कलापिनामिति। वर्षाकालवर्णनमिदम्। तत्र पदानि-कलापिनाम् चारुतया उपयान्ति। वृन्दानि लापोढघनागमानाम्। वृन्दा- शनिलापोढघनागमानाम् । कलापिनाम् च आरुतयः अपयान्ति इति। लापः १ तायनेन. ब, ड, प. २ तमोप०, अ. ३ खापोढ०. अ.
Page 359
३४० काव्यादर्शे तृतीय: परिच्छेद:
वृन्दानिलापोढघनागमानां कलापिनां चारुतयोपयान्ति ॥५६॥ नमन्दयावर्जितमानसात्मया न मन्दयावर्जितमानसात्मया। उरस्युपास्तीर्णपयोधरद्वयं मया समालिङ्गयत जीवितेश्वरः ॥ ५७॥
केकाध्वनिः ऊढः प्राप्तः यस्मात् । आहिताग्न्यादित्वात् लापशब्दस्य पूर्वनिपातः। तादृशः घनानां मेघानाम् आगमः येषां ते तथा। अथवा लापेन ऊढः सूचितः ६धनागमो यैः ते तेषाम्। कलापिनां मयूराणाम्। वृन्दानि चारुतया सौन्दर्येण। उपयान्ति संगच्छन्ते। वर्षासु मयूराणां यौवनवत्वात्सौन्दर्यातिशय इति भावः । तथा के पानीये लपितुं आरवं कर्तु शीलं येषां ते कलापिनः हंसाः। अथवा १ कलं मधुरारावम् आपुवन्ति ते कलापिनः तेषां कलापिनां हंसानाम्। आरुतयः आरावाः । च अपयान्ति गच्छन्ति । वर्षासु तेषां मदशून्यत्वात्। हंसान् विशि- नष्टि वृन्देति । वृन्दानिला संघीभूता वायवः तैः अपोढः दूरीकृतः घनागमः १२ नृत्यविशेषागमो येषां तेषाम्। घनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । इति मेदिनी। मेघानिलै: परित्यक्तसविलासगमनाः इत्यर्थः ॥५६ ॥ अथानेकविधं पादाभ्यासमुदाजिहीर्षुः प्रथमं प्रथमद्वितीयपादगतमुदाहरति- नमन्द्येति । पदच्छेद :- नमन् दयावर्जितमानसात्मया न मन्दया अवर्जित- मानसात्मया उरसि उपास्तीर्णपयोधरद्वयम् मया समालिङ्गयत जीवितेश्वरः इति। प्रथममुपेक्षितवल्लभायाः पश्चात्सानुशयायाः नायिकाया वचनमिदम्। दयया वर्जितौ मानसम् अन्तःकरणम् आत्मा च स्वभावाश्च यस्याः सा तया। तथा ६अवर्जिते अपरित्यक्ते माने सात्मया सयत्नया। सप्रयतनं मान परिरक्षन्त्या इत्यर्थः। आत्मा पुंसि खभावेपि प्रयत्नमनसोरपि-इति मेदिनी। अत एव मन्दया मूढया। · मया जीवितेश्वरः प्राणनाथः । नमन् ग्रणतिपरोपि। उरसि जीवितेश्वरस्य वक्षसि। उपास्तीर्णम् आसञ्ञितं पयोधरद्वयं यथास्यात्तथा। न समालिङ्गयत नालि- द्वितः ॥ ५७ ॥ १ सार्थया. ब. २ सार्थया. ब.
Page 360
पादाभ्यासयमकप्रभेदाः ३४१
सभा सुराणामवला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः! स भासुराणामवला विभूषिता विहारयन्निर्विश संपद: पुराम्॥५८ ॥ कलं कमुक्तं तनुमध्यनामिका स्तनद्वयी च त्वटते न हन्त्यतः। न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ॥५९ ॥
प्रथमतृतीयपादगतमुदाहरति-सभेति। अबला बलसंज्ञकदैत्यशून्या। इन्द्रेण तस्य निषूदनादिति भावः । तेन च सभायाः निर्भयत्वम्। विभुना स्वामिना महेन्द्रेण उषिता अध्यासिता। एतादृशी सुराणां सभा सुवर्माख्या। तव मृणाल- निर्मलै: मृणालवत् स्वच्छैः शीतलैश्च तैः। गुणैः आरोहि अध्याक्रान्ता। देव- सभायामिन्द्रादयस्त्वद्रुणान् वर्णयन्तीत्यर्थः । स त्वं विभूषिताः अलंकृताः ।अबलाः ६विहारयन् रमयन्। भासुराणाम् उज्जवलानाम्। पुराम् संपद: निर्विश उपभुङ्क्ष्व। कस्यचित् राजः प्रशस्तिरियम ॥५८॥ तदेव प्रथमचतुर्थपादगतमुदाहरति-कलमिति । कश्चिज्जितेन्द्रियं पुरुषं स्तौति। तत्र पदच्छेद :- कलं कम् उक्तं तनुमध्यनामिका इति प्रथम- चरणे। कलङ्कमुक्तं तनुमत् हि अनामिका इति चतुर्थचरणे। अत्र स्त्रीणा- मित्यध्याहार्यम्। तथा च स्त्रीणां कलं मधुरम् उक्तं भाषितम्। तथा तनुः कृशः सूक्ष्मो वा यः मध्यः तस्य नामिका स्वभारेण: तं नमयन्ती एतादृशी स्तनद्वयी। विस्तृतं स्तनयुगलमित्यर्थः । त्वटते त्वां विना। कं न हन्ति। सर्वान् अपि पीड- यतीत्यर्थः । त्वं तु ललनावचोभिः सौन्दर्येण च मुग्धो न भवसीति भावः । अतः अतःकारणात्। भवान् एव मुखः प्रमुखः यत्र तादृशे समाजे गणने जितेन्द्रियाणां परिगणने । प्रस्तुते सति। अनामिका कनिष्ठिकासविधे वर्तमाना अड्गुलिः। कर्त्री कलङ्कमुक्तं दोषशन्यम्। जितेन्द्रियमिति भावः । तनुमत् सशरीरम्। भूतं जन्तुम्। न याति न प्रामोति। हीति निश्चये। जितेन्द्रियाणां गणनाप्रसज्गे प्रथम भवान
Page 361
३४२ काव्यादर्शे तृतीय: परिच्छेद:
यशश्र ते दिक्षु रजश्र सैनिका वितन्वतेजोपम दंशिता युधा। वितन्वतेजोपमदं शितायुधा द्विषां चे कुर्वन्ति कुलं तरस्विनः ॥ ६० ॥ बिभर्ति भूमेर्वलयं ुजेन ते भ्रुजंगमोमा स्मरतो मदश्चितम्। णूक्तमेकं स्वमवेत्य भूधुरं भ्रुजं गमो मा स्म रतो मदं चितम् ॥ ६१ ॥
१२कनिष्ठिकामारोहति । त्वत्तुल्यस्य पुरुषस्याभावाच्च अनामिकां न कोध्यन्यः प्रामोति । अनामिका सार्थवती बभ्वेत्यर्थः । त्वमनुपमोसीति भावः ॥ ५९॥ द्वितीयतृतीयपादगतं तद्दर्शयति-यश इति। कस्यापि विक्रमशालिनो नृपस्य स्तुतिरियम् । अत्रावृत्तपादयोः पदच्छेदः-वितन्वते अजोपम दंशिताः ३युधा। वितनु अतेजः अपमदं शितायुधाः इति। हे अजोपम विष्णुसदृश। ते दंशिताः कवचिनः । शितायुधाः तीक्ष्णायुधाः । तरस्विनः वेगवन्तश्च। सैनिकाः युधा युद्देन। दिक्षु रजः युद्धसंमर्दोत्थां धूलिम्। यशः जयाल्लब्धं यशश्च। वितन्वते ६विस्तारयन्ति । तथा द्विषां कुलं समूहम् । वितनु विनाशात्तनुशन्यम् । अतेजः तेज:शून्यम् । अपमदं गलितगर्वम्। च कुर्वन्ति ॥ ६० ॥ द्वितीयचतुर्थपादगतं तदुदाहरति-बिभतींति। अत्र द्वितीयचतुर्थयोः पदच्छेद :- भुजंगमः अमा स्मरतः मत् अश्वचितम्। भुजं गमः मा स्म रतः मदं ३चितम्। कश्विद्राजानं व्याजस्तुत्या प्रशंसति। हे राजन् ते भुजेन अमा सह। भुजंगम: शेष: । भूमेर्वलयं बिभर्ति । अतः स्मरतः एतत् सर्व ज्ञातवतः। मत् मत्तः अश्वितं सकलैः प्रशंसितम्। उक्तं वचनम् । शृणु। किं तत्तदाह-स्वं स्वीयम्। ६एकं असहायम्। भुजं भूधरं भूमिधारकम् । अवेत्य विज्ञाय। रतः संतुष्टः सन्। चितम् उपचितम स्फीतमित्यर्थः । मदं गर्वम्। मा स्म गमः मा याहि ॥ ६१ ॥
१ तु. अ.
Page 362
पादाभ्यासयमकप्रभेदा: ३४३
स्मरानलो मानविवर्धितो यः स निर्वृति ते किमपाकरोति। समन्ततस्तामरसेक्षणे न समं ततस्तामरसे क्षणेन ॥ ६२ ॥ प्रभावतोनाम न वासवस्य प्रभावतो नामन वा सवस्य। प्रभावतो नाम नवासवस्य विच्छित्तिरासीत् त्वयि विष्टपस् ।६३ ।। तृतीयचतुर्थपादगतं तदुदाहरति-स्मरेति। काचित् सखी प्रियानु- गमनाय नायिकां प्रार्थयते। हे तामरसेक्षणे आरक्तपङ्कजनयने। कोपादारकनयने 3इति भावः । अरसे अरसिके। उपालम्भोक्तिरियम्। यः मानविवर्धेतः मानेन वृद्धिं गमितः । तथा क्षणेन उत्सवेन । समं ततः परिपूर्णः । एतादृशः स स्मरानलः मदनामिः। समन्ततः सर्वभावेन। तां पूर्वानुभूताम्। ते निर्वृति परमानन्दम्। न ६अपाकरोति किम्। अपितु करोत्येव। अतः सुखविनाशकं कोपं त्यक्वा तं सेवस्वेत्यर्थः ॥ ६२॥ पादत्रयगतं यमकं दिदर्शयिषुरादौ प्रथमपादत्रयगतमुदाहरति-प्रभावत इति। तत्र तावत् पदानि। प्रभावतः अनाम न वासवस्य। प्रभावतः नामन ३वा सवस्य। प्रभौ अतः नाम नवासवस्य । विच्छित्तिः आसीत् त्वयि विष्टपस्य । कश्चित सन्नृपति स्तौति। हे प्रभावतः स्वप्रभावेन । अनाम नमनं नामः। न विद्यते नाम: यस्य स अनामः । तत्संबुद्धिः । कमपि नृपं शरणत्वेन अकृतप्रणाम इत्यर्थः। ६तथा नामन शत्रून् नमयतीति नामनः तत्संबुद्धिः । त्वयि विष्टपस्य सुवनस्य । प्रभौ स्वामिनि सति । वासवस्य इन्द्रदेवतासंबन्धिनः । प्रभावतः कान्तिमतः । सवस्य यज्ञस्य। विच्छित्तिः विच्छेदः । न आसीत्। ब्राह्मणाः इन्द्रदेवताकान् यज्ञान् वितेनुरिव्यर्थः । वा समुच्चयार्ये । तथैव नवासवस्य नूतनमधस्य। विच्छित्ति: विच्छेदः । पानेन विनाश इति यावत्। न आसीत्। अन्ये तु अयं श्रोक: कृष्ण- वर्णनपर इति मन्यन्ते। तधथा-हे प्रभावतः प्रभासंपननस्य। इन्द्रस्यापि नामन १२विनम्रकारक । यज्ञभङ्गपारिजातहरणादिना इन्द्रत्य गर्वहरणादिति भाव: । तथा
Page 363
३४४ काव्यादर्शे तृतीय: परि
परंपराया बलवारणानां परं पराया बलवारणानाम्। धूली: स्थली्व्योमि विधाय रुन्धन् परं पराया बलवा रणानाम्॥ ६४ ॥ न श्रद्दद्धे वाचमलज्ज मिथ्या- भवद्विधानामसमाहितानम्
नास्ति आमः रोगः यस्य तत्संबुद्धि: अनाम। त्वयि विपष्टस्य प्रभौ सति नवासवस्य नूतनसुरायाः । सवस्य यज्ञस्य च । विच्छेदो नासीत। यदूनां सुरापानोत्सवः १५ धार्मिकाणां च यज्ञक्रियाः सतत प्रावर्तन्त। यदूनां सुरापानोत्सुकत्वं पुराण- प्रसिद्धमेव ॥ ६३ ॥
प्रथमद्वितीयचतुर्थपादगतं तद्दर्शयति-परंपराया इति। पदच्छेदः। परं- परायाः बलवारणानाम्। परं परायाः बलवारणानाम्। धूलीः स्थलीः व्योम्नि ३विधाय रुन्न्। परं परायाः बलवाः रणानाम्। राजः प्रभाववर्णनमिदम्। बलस्य शत्रुसैन्यस्य वारणाणां निवारकाणाम्। बलवारणानाम् प्रबलगजानाम्। परायाः श्रेष्ठायाः । परंपराया पङ्केः। हेत्वर्थे पश्चमी। परंपरारूपहेतुना। रणानां स्थली: भूमीः । व्योम्नि वियति । धूली: धूलिरूपाः । विधाय बलवाः बलेन सामर्थ्येन शत्रून् वारयतीति बलवाः। त्वं परं श्रेष्ठम्। परं शत्रुम्। रुन्धन् व्यामुवन्। परायाः अगाः। परापूर्वकस्य यातेर्लडे रूपम्। शत्रुमाक्रान्तवानसीत्र्थः ॥६४॥
अत्र प्रथमतृतीयचतुर्थपादाभ्यासोदाहरणमावश्यकम्। परं तन्नोपलभ्यते। न च टीकाकारैरपि विवृतमस्तीति तद्वहोः कालादारभ्य विच्छिन्नमिति भाति। ३अतस्तद्विमर्शकैः मार्गणीयम् । इदानीं पुनः द्वितीयपादमारभ्य चतुर्थपादान्तानां पादत्रयगतं यमकमुदाहरति-न श्रद्दधे इति । पदच्छेद :- न श्रद्दधे वाचम् अलज्ज मिथ्याभवद्विधानां असमाहितानाम् भवद्विधानां असमाहितानाम् भवद्वि- ६धानाम् असमाहितानाम्। हे अलज्ज निर्लज्ज। भवद्विधानां भवत्सदशानाम्। वाचं उक्तिम्। न श्रद्दधे न विश्वसिमि। कथंभूतां वाचम्। मिथ्याभवद्विधानां मिथ्याभवत्
इ्येमि. ब, क, उ, प.
Page 364
पादाभ्यासयमकप्रभेदा ३४५
भवद्विधानामसमाहितानां भवद्विधानामसमाहितानाम् ॥ ६५॥ सन्नाहितोमानमराजसेन सन्नाहितोमानम राजसेन। सन्ना हितोमानमराजसेन सन्नाहितो मानम राजसे न ॥६६ ॥
असत्यं भवत् विधानम् प्रतिपादं यस्याः सा ताम्। तथा असमाहितानाम् ९असमः असरलः वक्र इति यावत्। यः अहिः सर्पः तद्वद् तानः विस्तारो यस्याः सा ताम्। अतिवक्रामित्यर्थः । तथा भवद्विधानां भवत् प्रतिक्षणं नवं नवं जाय- मानं विधानं विधिर्यस्यास्ताम्। अथवा भवे उच्चारणसमये एव द्विधा आनः १२प्राणः अर्थरूपो यस्यास्ताम् । किंभूतानां भवद्विधानाम्। असमाहितानाम् नास्ति समाहितं समाधानं येषां तथाविधानाम्। सदैव व्यग्रवृत्तीनामिव्यर्थः । तथैव असमाहितानां न समाः असमाः विषमाः ये अहिताः शत्रवः तेषां १५असमाहितानाम्। मम विषमशत्रुस्वरूपाणामित्यर्थः ॥ ६५॥
इदानीं पाद्चतुष्टयवृत्तिं त्रिरभ्यासमुदाहरतिसन्नाहितोमानेति । कश्चिद्राजानं स्तौति। तत्र तावत्पदच्छेद :- सन् आहितोमानमराजसेन। सनना- 3हित उमानम राजसेन। सन्ना हितः अमान् अमराजसेन । सन्नाहितः मा अनम राजसे न। अन्वयार्थ :- हे अनम नमतीति नमः न नमः अनमः तत्संबुद्धिः । कस्यापि पुरुषस्य अप्रणत इत्यर्थः । तथा आहितोमानमराजसेन न नमन्ति परं ६इति अनमाः द्विजा; तेषां राजा अनमराजः द्विजराजः । चन्द्रः इत्यर्थः । सोस्माकं ब्राह्मणानां राजा इति श्रतिः । उमा च अनमराजश्च उनानमराजौ तौ आहितौ स्वाक्के स्वशरसि च स्थापितौ येन स आहितोमानमराजः शंकरः । ९इनेन सह इति सेनः। सनाथः इति यावद् । आहितोमानमराजेन सेनः तत्सं- संबुद्धिः आहितोमानमराजसेन । शंकरखामिक इत्यर्थः । तथा सन्नाहित सन्नाः अवसन्नाः विनष्टाः इति यावत् । अहिताः शत्रवः यस्य तत्संबुद्धिः। विनष्टशत्रो।
१ सन्न्नाभितो. अ
Page 365
३४६ काव्यादर्शे तृतीय: परिच्छेद:
सकृद्द्विस्त्रिश्च योभ्यासः पादस्यैवं प्रदर्शितः । श्लोकद्वयं तुं युक्तार्थ श्लोकाभ्यासः स्मृतो यथा ॥६७ ॥ विनायकेन भवता वृत्तोपचितबाहुना। स्वमित्रोद्धारिणा भीता पृथ्वी यमतुलाश्रिता॥ ६८ ॥
१२तथा उमानम नमतीति नमः उमायाः नम उमानम। उमाभिवादक। तथा राज- सेन राजसाः रजोगुणप्रधानाः क्षत्रियाः तेषाम् इन स्वामिन्। क्षत्रियश्रेष्ठ। तथा अमराजसेन अमरान् अजति क्षिपतीति अमराजा एतादृशी सेना यस्य तत्संबुद्धि: १५ हे अमराजसेन। देवाभिभवकसैन्य। एतादृश हे नृप । त्वं सन्ना सत्पुरुषः । तथा हितः सर्वभूतहितः । अमान् मातीति मान् न मान् अमान् महानित्यर्थः । तथा सन्नाहितः कवचितश्च सन् न मा राजसे। अपितु राजसे एव। अत्रापि १तत्तट्टीकाकारैर्विविधा अर्था दर्शितास्तेः तत्रैव द्रष्टव्याः ॥ ६६ ॥
पादाभ्यासमुपसंहरन् श्रोकाभ्यास दर्शयति-सकृदिति। पादस्य ल्लोक- तुरीयभागस्य। सक्कृत् एकवारम्। द्विः द्विवारम्। त्रिः त्रिवारम् च। यः अभ्यासः आवृत्तिः । स प्रदर्शितः उदाहृतः । तत्र सकृदभ्यासः पादद्वयगतः द्विरभ्यासः पादत्रयगतः त्रिरभ्यासश्च पादचतुष्टयगत इति बोध्यम्। युक्तः एकवाक्यार्थतया परस्परसंबद्धः अर्थः अभिधेयः यस्मिन् तत युक्तार्थम्। एकवाक्यतया एकविशेष्य- कान्वयबोधकमित्यर्थः । श्रलोकद्वयम् समानानुपूर्विकं श्लोकाभ्यासयमकमित्यर्थः । स्मृतः । यथेति उदाहरणप्रस्तावाय ॥ ६७ ॥ प्रस्तुतं श्रोकाभ्यासयमकमुदाहरति-विनायकेनेति। कश्चित् विन- ष्टारिर्नृपः स्तूयते। तत्र प्रथमश्लोकस्थतृतीयान्तानि पदानि अरिविशेषणानि द्वितीयश्लोकस्थानि वर्णनीयनृपविशेषणानीति ज्ञेयम् । तथा च अयमर्थः । विनायकेन विगतः नायकः यस्य विनायकः तेन नियामकशन्येन। तथा वृत्तो- पचितबाहुना वृत्तौ संजातौ उपचित चितासमीपे बाहू यस्य तेन नष्टप्रायबाहुना ६इत्यर्थः । स्वमित्रोद्धा स्वमित्राणि स्वसुहृद:। अथवा स्वं वित्तं मित्राणि च उज्ज- हाति परित्यजति इति स्वमित्रोद्धा। उत्पूर्वकात् ओहाक् त्यागे इत्यस्मात् किपि तृतीयैकवचनम्। तथा भीता भियं इता गतेन। भयभीतेन। भवता सता। आरणा १ यमुक्तार्थ अ.
Page 366
श्लाकाभ्यास: ३४७
विनायकेन भवता वृत्तोपचितवाहुना। स्वमित्रोद्धारिणाभीता पृथ्वीयमतुलाश्रिता ॥ ६९॥ एकाकारचतुष्पादं तन्महायमकाह्वयम्। तैत्रापि दृश्यतेभ्यासः सा परा यमकक्रिया॥७॥ समानयासमानया समानयासमानया। स मा न यासमानया समानयासमानया॥ ७१॥ शत्रुणा। पृथ्वी दीर्घा। यमतुला रणपराड्मुखानां क्षत्रियाणां दण्डनार्थ तप्तायोनि- र्मिता लोकप्रसिद्धा तुला। आश्रिता आरूढा ॥ ६८ ॥ अस्यैव श्लोकस्य नृपपरत्वेन व्याख्या यथा-विनायकेनेति। इयम् एषा। पृथ्ती भूमिः। भवता त्वया। तु पुनः । आश्रिता अधिष्ठिता। अतुला अनुपमा । 3अभीता भयशून्या च। वर्तते इति शेषः । कथं भूतेन भवता । विनायकेन विशि- ष्टेन नायकेन । समाचीनविनेत्रा इत्यर्थः । वृत्तौ वर्तुलौ उपचितौ पुष्टै बाहू यस्य तेन । वर्तुलपीवरभुजनेत्यर्थः । तथा सुष्ठु यथा स्यात्तथा अमित्रान् शत्रून् उद्धर्तु ६शीलं यस्य तेन स्वमित्रोद्धारिणा। उत्खातशत्रुणेत्यर्थः ॥ ६९ ॥ पादचतुष्टयगतस्य अभ्यासस्य प्रतिपादमवान्तराभ्यासे रचनान्तरविशेषात् संज्ञान्तरमवश्यमिति तद्दर्शयति-एकाकारेति। एकाकारम् एकानुपूर्विकं चतु- ष्पादं महायमकसंज्ञकं भवति। संज्ञायाः बीजं दर्शयति। तत्रापि तत्र पाद मध्येपि अभ्यासः पादांशस्य आवृत्ति: दृश्यते। अत एव सेयं यमकक्रिया यमकव्यापारः । परा श्रेष्ठा । अत्यन्तप्रतिभाशालिसाध्यत्वात् इति भाव: ॥ ७०॥ महायमकमुदाहरति-समानयेति। कश्चित् प्रेयसीसमागमसंपादनाय सखायं प्रार्थयति। तत्र तावत् पदच्छेद :- समानया असमानया। समानयासमानया। सः मा न या असमानया। समानय असम अनया। अन्वयार्थः । हे असम निरुपम। मत्सखे। सः त्वम्। मा माम्। समानयासमानया समानं तुल्यं यासस्य आयासस्य मान परिमाणं यस्या सा तया। समदुःखयेत्यर्थः । तथा समानया मान- ६सहितया मानिन्या इत्यर्थ: । तथा असमानया निरुपमया। अनया नायिकया १ तस्यापि. ब.
Page 367
३४८ काव्यादर्शे तृतीयः परिच्छेद:
धराधराकारधरा धराभुजां भुजा महीं पातुमहीनविक्रमाः ॥ क्रमात् सहन्ते सहसा हतारयो रयोदरा मानधुरावलम्बिनः ॥ ७२॥ आवृत्ति: प्रातिलोम्येन पादार्धश्लोकगोचरा। समानय संयोजय। रोषाविष्टायास्तस्या अनुनयने अनुबन्धं त्यज इति वदसि चेत्तर्हि शुणु। या सा नायिका। असमानया मा लक्ष्मीः शोभा इति यावत्। तथा १नयः नीतिश्च मानयौ ताभ्यां सहिता तादृशी न भवतीति तया असमानया। सौन्दर्यनयाभ्यां शून्येत्यर्थः । न भवति नास्ति। सा सुन्दरी विदुषी च वर्तते। अतो नोपेक्ष्या इति भाव: ॥ ७१ ॥
अत्यन्तबहवस्तेषां भेदाः संमेदयोनयः। (३·३) इति प्रतिज्ञातबद्ठ- प्रभेदेषु सजातीयमिश्रणजनितमेदाः प्रदर्शिताः । इदानीं विजातीयमिश्रणभेदा अपि 3संभवन्तीत्युदाहरणेन दर्शयति-धराधरेति। नृपभुजवर्णनमेतत्। धराभुजां भूपतीनाम् । भुजाः बाहवः । कीदृशाः धराया धरः धारकः शेषः तस्य आका- रस्य धराः। तत्सदृशदीर्घाः समर्थाश्च इत्यर्थः । तथा अहीनविक्रमाः अहीनः ६अन्यूनः विक्रमो येषां ते अहीनविक्रमाः । महापराक्रमशालिनः इत्यर्थः । तथा सहसा सपदेव । हतारयः निषूदितशत्रवः । रयोद्ुराः रयेण वेगेन उद्धुराः उत्कटाः। मानधुरावलाम्बिनः मानस्य धूः मानधुरा तां अवलम्बन्ते इति मान- धुरावलम्बिनः। सन्मानाभिमानिनः इति यावत्। करमात् पूर्वजानुक्रमेण। महीं पृथ्वीम्। पातुं रक्षितुम्। सहन्ते समर्था भवन्ति। अत्र धराधराकारधरा धरा इत्य- व्यपेतव्यपेतयमकम्। भुजां भुजेति संदष्टयमकम्। महीं पातुमही इति सहन्ते १२सहसा इति च व्यपेतयमकम्। रयो रयो इति अव्यपेतयमकं संदष्टयमकं च। धुरा मानधुरा इति व्यपेतयमकम्। एवं बहुप्रकाराणां अत्र संसृष्टिः ॥ ७२॥ एतावत्पर्यन्तमनुलोमाभ्यासे यमकप्रभेदा दर्शिताः । इदानी तु प्रतिलोमा- भ्यासे यमकप्रमेदान् दर्शयति-आवृत्तिरिति । प्रातिलोम्येन विलोमतया।
१ °विक्रमात्. अ, क.
Page 368
महायमकस् ३४९
यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम् ॥ ७३ ॥ यामताश कतायासा सा याता कशता मया। रमणारकता तेस्तु स्तुतेताकरणामर ॥ ७४ ॥ नादिनोमदना घी: स्वा न से काचन कामिता।
3पाद: श्लोकचरणः अर्धम् श्लोकार्धम् तथा क्लोकः संपूर्णः श्रोकः ते गोचरा विषयाः यस्याः सा। पादगोचरा अर्धगोचरा श्लोकगोचरा इत्यर्थः । आवृत्ति: अभ्यासः । प्रतिलोमत्वात प्रतिलोमावृत्तेः। प्रतिलोमं यमकम्। इति स्मृतम्। एवं ६च पादार्धश्लोकगतत्वेन तस्य त्रयः प्रभेदा इति भावः। तथाच यत्र पूर्वपादस्य प्रतिलोमावृत्या उत्तरपादः तथा पूर्वार्धस्य प्रतिलोमावृत्या उत्तरार्ध: एवमेव पूर्व- छलोकप्रतिलोमावृत्त्या च उत्तरश्लोकः संपदते तत् प्रतिलोमयमकमित्यर्थः ॥७३॥
पादप्रतिलोममुदाहरति-यामतेति। अन्यत्रासक्तस्य वल्लभस्य नायि- काकृतं भर्त्सनमिदम्। हे अमताश अमते अनिष्टे गहिर्ते अन्यासङ्के आशा यस्य तत्संबुद्धिः । कृतायासा कृतः विहितः आयासः क्ेशः यया सा कृतायासा। एतादशी या कृशता त्वत्प्रतीक्षाक्वेशेन जनिता कृशता। सा मया याता प्राप्ता । त्वद्विरहेण यद्ुःखमनुभाव्यं तदनुभूतमेव। तस्मात हे स्तुतेत स्तुतात् स्तवनाद् ६इत भ्रष्ट। निंधाचरितेत्यर्थः। तथा अकरणामर अकरणे अनुचितानुष्ठाने अमर देववन्निष्प्रतिबन्ध । इन्द्रादयो देवा यथा अहिल्यासंभोगादिकमनुष्ठितवन्तः तद्वदप्रशस्ताचरणशील। अथवा नास्ति करणं क्रिया यस्य तत्संबुद्धिः । कर्तव्या- चरणशून्य । तथा आमं विरहरोगं राति ददाति इति आमर। एतादृश हे रमण नाथ। ते तव। आरकता इयर्तीति आरकः। ऋधातोः कर्तरि ण्वुल। तस्य भाव: आरकता गन्तृता । अस्तु । इतो याहीत्यर्थः ॥ ७४॥ श्लोकार्धप्रतिलोमयमकमुदाहरति-नादिन इति । कश्चित् योगी आत्मस्थिर्ति वर्णयति। नादः नादरूपं ब्रह्म तदस्यास्तीति नादी तस्य नादिनः 3 नादब्रह्मभ्यानानुरतस्य। मे मम । अमदना मदनविकारशून्या। स्वा स्वीया। घीः स्वाधीना स्वायत्तेन्द्रियतया आत्मवशा। अतः काचन कामिता विषयाभिलाषुकता।
यमकपति°. अ. २ लोभ्यमिद्ं, अ. 3 दुमना. कृ.
Page 369
३५० काव्यादर्शे तृतीय: परिच्छेद: तामिका न च कामेन स्वाधीना दमनोदिना॥ ७५॥ यानमानयमाराविकशोनानजनाशिना। यामुदारशताधीनामायामायमनादिसा॥ ७६॥ सा दिनामयमायामा नाधीता शरदामुया।
न नास्ति। तथा दमनोदिना दमं इन्द्रियनिग्रहं नोदितुमपनेतुं शौलमस्य तेन ६दमनोदिना। विषयेषु इन्द्रियप्रवर्तकेनेत्यर्थः । कामेन अभिलाषेण। हेतुना। तामिका ग्लानिः। रोगाख्यायां ण्वुल बहुलम् इति तमुधातोर्ण्वुल्। मम नास्ति। योगिनां नादोत्पत्तिश्च कथिता सुरेश्वराचार्यैः। यथा- सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाडीषु विशोधितासु। अनाहतादम्बुरुहादुदेति स्वात्मावगम्यः स्वयमेव नादः ।l इति। अत्र अनुलोमपाठे मदनाधीः स्वा इत्यत्र विसर्गो विद्यते प्रतिलोमे तु १२ स्वाधीना इत्यत्र नास्तीति सदोषता न कल्प्या। यतः- यमकल्लेषचित्रेषु बवयोर्डलयोर्न मिद्। नानुस्वारविसर्गौ च चित्रभङ्गाय संमतौ।। १५ इति सकलालंकारिकैरभ्यनुज्ञातत्वात्। परे तु मदनाधी इति प्रथमाद्विवचनपाठं कल्पयन्ति। मदनश्च तज्जन्या आधिश्च मदनाधी। मे न मम न स्तः इत्यर्थ दर्शयन्ति। अस्मिन् पक्षे विसर्गदोषस्य प्रसक्तिरेव न ॥ ७५॥
समस्तश्लोकगोचरं प्रतिलोममुदाहरति-यानेति सा दिनेति च श्रोक- द्येन। कश्चित् कामुको मित्रसविधे गणिकानायिकां स्तौति। तत्र तावत् ३पदच्छेद :- यानमानयमाराविकशा ऊनानजनाशना। याम् उदारशताधीनाम् आयाम् आयमनादिसा। सा दिनामयमा अयामा न अधीता शरदा अमुया। नाशनाजनना शोकविरामाय न मानया। अन्वयः-उदारशताधीनां याम् (अहम्) आयाम् (तथा या) अमुया शरदा अधीता सा यानमानयमाराविकशा ऊनानज- नाशना आयमनादिसा दिनायामा अयामा नाशनाजनना मानया शोकविरामाय न (इति) न । अपि तु स्यादेवेति शेषः । अर्थः-उदाराणां दातृमहाशयानां शतानि
१ मद्नोदिना, क. २ जनासना. ब, फ, उ, प.
Page 370
महायमकम् ३५१
नाशंनाजनना शोकविरामाय न नानया॥ ७७॥ ॥ इति यमकचक्रम् । वर्णानामेकरूपत्वं यच्वेकान्तरमर्धयोः । अधीनानि खाधीनानि यस्याः ताम् । अथवा उदारशतानां या आधयः मनोव्यथाः तेषां इना स्वामिनी। सौन्दर्यादिभि: स्वेच्छं तान् पीडयन्तीत्यर्थः । एतादृशी यां सौन्दर्यगुणशालिनीमहं आयाम् पूर्व संगतवान् अस्मि। आङ्पूर्वकस्य याधातो: १२लङ उत्तमपुरुषैकवचनम् । तथा या अमुया सद्योवर्तमानया। शरदा शरदतुना। अर्धाता आक्रान्ता। शरत्सौन्दर्येण सोत्सुका इत्यर्थः । सा नायिका। याने कामि- सार्थविजयप्रयाणे यः मानः अभिमानः तं यातीति यानमानयः । एतादृशः यो १५मार: मदनः स एव अविः मेषः तस्य कशा ताडिनी। कामिजनजयोत्सुकस्य मदनस्य स्वाधीनत्वविधायिकेत्यर्थः । तथा ऊनानजनाशना ऊनः न्यूनः अनः प्राणः । सामर्थ्यमिति यावत्। येषां ते ऊनाना: स्वल्पसामथ्यवन्तः। एतादृशाः ये १८जना: तान् अश्नाति सर्वस्वापहारेण उपभुङ्गे सा ऊनानजनाशना। अल्पसाम- थ्यानां सर्वतो विनाशिका। आयमनादिसा आयमनं आयमः इन्द्रियनिग्रहः । स आदिर्येषां तानि यमनियमादीनि समाधेरष्टाङ्गानि तानि स्यति नाशयति २१इति आयमनादिसा। षोन्तकर्मणि इत्यस्य पचाद्यचि टापि रूपम्। सौन्दर्येण योगिनामपि समाध्यादिसाधनविनाशिका। दिनामयमा दिनमामयं रोगमिव मिमीते जानातीति दिनामयमा । रात्रिविलासोत्सुकत्वाद्दिनं कष्टेन यापयतीत्यर्थः । २४अयामा अयं शुभावहविधिम् अमति गच्छतीति अयामा। सौभाग्यशालिनीत्यर्थः । नाशनं कामिजनानां विनाशमाजनयति इति नाशनाजनना । मानं सत्कारं यातीति मानया। एतादशी सा शोकविरामाय शोकोच्छित्तये। न इति न । अपि ३७तु स्यादेवेति भावः। तत्समागमेन शोको नश्यत्येवेति नात्पर्यम्। एतादृशी महामहिमशालिनी सा वर्तते। अत्रापि टीकाकारैः प्रदर्शिताः सन्ति विविधाः अर्थाः अस्मद्िन्नाः । तत्र युक्तायुक्तविचारे सहृदयाः प्रमाणमित्यलं प्रपञ्चि- ३०तेन ॥ ७६॥७७॥ एवं दुष्करान् यमकालंकारान् निरूप्य दुष्करान् चित्रालंकारान् विवूर्षु: प्रथमं अर्धगोमूत्रिकाबन्धं लक्षयति-वर्णानामिति। अर्धयोः पूर्वार्धोत्तरार्धयोः
१ नासना. ब, क, ड, प. २ यचेका०. अ, क.
Page 371
३५२ काव्यादर्शे तृतीय: परिच्छेद:
गोमृत्रिकेति तत प्राहुर्दुष्करं तद्विदो यथा॥ ७८ ॥ मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम्। ३ ऊर्ध्वाधः क्रमेण लिखितयोः। वर्णानाम् अक्षराणाम्। एकान्तरम्। एकवर्णव्यवहितम्। यत् एकरूपत्वम समानाक्षरत्वेनाभिन्नत्वम्। तत् तादृशवर्णरचनम्। तद्विदः चित्रा- लंकारज्ञाः। गोमूत्रिका इति प्राहुः गोमूत्रिका इति संज्ञया व्याजहुः इत्यर्थः । ६चलतः गोर्मूत्रस्य धारा भूमौ ऊर्ध्वाधः क्रमेण बहुकोणयुता यादृशी दृश्यते तादृशी लेखाकृतिर्विरचिता चेत् तत्र पूर्वोत्तरार्धयोः समानाक्षरणां स्थितिः प्रति- कोणं दश्यते। अतः गोमूत्रिकेति संज्ञया व्यवहारः । अत्र तुशब्दः पूर्वप्रक्रान्त- यमकालंकारभेदप्रदर्शनाय। दुष्करं साधारणकविना निबद्धमशक्यम्। गोमूत्रि- कायास्त्रैविध्यं वर्तते। पादगोमूत्रिका अर्धगोमूत्िका श्लोकगोमूत्रिका चेति। तत्रेदं लक्षणमर्धगोमूत्रिकाया इति बोद्धव्यम्। यत्र तु चतुःपडगिषु चतुःपादान् १२विलिख्य अर्धगोमूत्निकाप्रकारेणैव एकान्तरितं समानाक्षरत्वं पादद्वयस्य तत्र पाद- गोमूत्रिका। यत्र तु श्लोकद्वयेनैवंरीत्या पूर्वोत्तरश्रोकयोः एकान्तरिताक्षरसाम्यं तत्र श्लोकगोमूत्रिका इति ज्ञेयम्॥ ७८॥
अर्धगोमूत्रिकामुदाहरति-मदनो इति । अयं मदनः मदिराक्षीणां मदिरेव उन्मादजनके आरक्ते वा अक्षिणी यासां ताः तासाम्। अपाङ्ग: नेत्र- प्रान्तः । नेत्रप्रान्तेन विलोकनमित्यर्थः । स एव अस्त्रं यस्य एतादृशः सन्। यदि जयेत् मामात्मवशं कुर्यात्। तत् तदा। मदेनः मम पातकम्। क्षीणं इति कल्पये। मदिराक्षीविलोकनेन मम पातकं नष्टं इति मन्ये इत्यर्थः । अतः अनङ्गाय ६अञ्जलिं नमस्कारञ्जलिं ददे। प्रणमामीत्यर्थः । विलासिनीभि: कटाक्षेणामिहृत- श्वेदहं कृतार्थो भवामीत्यर्थः । अत्र पूर्वार्धोत्तरार्धविषमवर्णानामेकरूपत्वम् । तत्र पठनप्रकारस्तु श्रोकोत्तरार्धस्थप्रथमाक्षरमारभ्य पूर्वार्धस्थद्वितीयाक्षरमुत्तरार्धस्थ- तृतीयाक्षरं पुनः पूर्वार्धस्थचतुर्थाक्षरम् एवमूर्ध्वाधःस्थकोणस्थिताक्षरे पठनेन पूर्वार्धसिद्धिः । तथैव पूर्वार्धप्रथमाक्षरमारम्य पूर्वोक्तक्रमेणैव पठने उत्तरार्धसिद्धिः। अत्र विषमवर्णानामेकरूपत्वम्। यत्र तु समवर्णानामेकरूपत्वं तत्र पूर्वार्धप्रथमा- १२क्षरमार्यैव पूर्वक्रमेण पठने पूर्वार्धसिद्धिः । उत्तरार्धप्रथमाक्षरमारभ्य पूर्ववत् पाठे उत्तरार्धसिद्धिः । यथा- तमू, बपा. २ पाङ्ाख्रं. क.
Page 372
म नो व त बा नी क म
नो द या य न मा नि नी
भ या द मे या मा मा वा यम। दे।।
व मे नो या न त द 4 म
ये त या नो मे य व
वा मा मा या मे द या
नी नि मा न या न
कं नी वा त
॥ अर्घभ्रमः ॥ व नो
#691 = पा ङगा स्त्रो ज न डगा यात्र ज लि द
सा मा या मा मा या मा 4 ण म गोमृत्रिका ।
मा रा ना या या ना रा मा 11 क्षी णा म
या ना वा रा रा ना 1 तत् क्षी
मा या रा मा मा रा या दि दि श
मा या रा मा मा रा या मा म य
या ना वा रा रा वा ना या नो नो
मा रा ना या या ना रा मा द दे
सा मा या मा मा या मा सा म म
॥ सर्वता भद्रम् ॥ । ८२।
Page 373
रा गी वि शु ब चि अ चा
र ल नो भा लि ना ज म
क च भु ड़ नि सा का ज
टीका प्रृ.३५३ ..-.
कां ता न्यु पी म न स्त
त या न डि नि क्ष लो
स्थ र
पा य य चे शी या पा भ तो प्र
मा व म्बु सा म रय वा
टीका प्रृ.३५३
री क सु शि ली पा र पा द्वू न्द्र
धा स ल शे या ₹ं दा वि
-दा टे ण्ड मा लि ह क रू क र
द ज न वि धा दे •्या ददा भा पु व
नु द स्त्या स त्रि नम् हे रु ग र
मं धा गम ज प सू ग रा म
र सु व म ली त क र्प द क्षः
पड क्षो द स र गी ग द स धृ
म दिक श्रीः दु द व ख ना र स्यो म न्या न च रव क भा शा ण 4 A e' मं
न्य दै घी नध ना त र न शा रो
टि से / ग हा / व त
टीका पृ ३५३
Page 374
अर्धभ्रमम् ३५३
मदेनो यदि तत्क्षीणमनङ्गायाञ्जालं दंदे।।७९॥ प्राहुरर्धभ्रमं नाम श्रोकार्धभ्रमणं यदि।
अजरामशुभाचार बलिशीलविनोचिता।
१५ भुजङ्गमनिभासारकलिकालजनोचिता ॥ इति। अत्र द्वितीयादिसमवर्णानामेकरूपत्वम्। इयमर्धगोमूत्रिका। पादगोमत्रिका यथा- काङ्कन् पुलोमतनयास्तनताडितानि
पायादपायभयतो नमुचिप्रहारी ११ मायामपास्य भवतोम्बुमुचां प्रसारी॥ इति। अत्र पङ्किचतुष्टयेन श्रोको लेख्यः । तत्र प्रथमद्वितीयपादयोः अर्धगोमूत्रि- कावदक्षरपाठे द्वितीयप्रथमपादसिद्धिः । एवमेव उत्तरार्घेपि। श्रोकगोमूत्रिका शन्यथा- पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्याः रुद्धाङ्गभागः पुरदनुजदवस्त्यानसंविन्निधानम्। कन्दर्पक्षोददक्षः सरससुरवधूमण्डलीगतिगर्वो दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यमा्यः ॥ इति प्रथमश्लोकः । द्वितीयो यथा --
३० देयान्नश्चण्डधामा सलिलहरकरो रूढकन्दारविन्दो देहे रुग्भङ्गरागः सुरमनुजदमं त्यागसंपन्निधानम्। भन्दं दिक्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो- ३३ दैत्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः । इति। अस्या बदुविधः प्रपश्चः सरस्वतीकण्ठाभरणादिष्ु द्रष्टव्यः । ७९॥ अथ अर्धभ्रमं सर्वतोभद्रं च निरूपयति-प्राहुरिति। यदि श्रोकार्ध- भ्रमणं श्लोकस्य श्रोकपादानामिति भावः । अर्धभ्रमणं अर्घेण मार्गेण। अनुलोमे-
१ च क्षीणम्. अ. २ दृघे. अ, क. ३ आहुर. अ, क्. [कान्पादर्श ] ४५
Page 375
३५४ काव्यादर्शे तृतीय: परिच्छेद:
तदिष्ट सर्वतोभद्रं भ्रमणं यदि सर्वतः ॥। ८० ।। मैनोभव तवानीकं नोदयाय न मानिनी। भयादमेयामा मा वा वयमेनोमया नत ॥ ८१ ॥
3नेति भावः । भ्रमणं भ्रमणेन पादोपस्थितिस्तदा अर्धभ्रमं नाम चित्रम् आङ्ः । कवय इति शेषः । यदि सर्वतः अनुलोमप्रतिलोमाम्यां श्रलोकपादानां ्रमणं तदा तत् सर्वतोभद्रमिष्टम् अङ्गीकृतमित्यर्थः । अर्थात् कविभिः । अत्र विन्यास- ६प्रकारः प्रेमचन्द्रादिभिर्दर्शितः स्फुट इति स एव निदर्श्यते। ते चाहुः-बन्ध- द्वयमिदं प्रायेण अष्टाक्षरवृत्तविशेषविषयम्। तत्र संनिवेशप्रकारः। चतुष्षष्टि- कोष्टात्मकेस्मिन् बन्धे क्रमेणाध्यपङ्ङगिचतुष्टये पादचतुष्टयं लेख्यम्। अनन्तरं ९चाध:स्थपङङगिचतुष्टये चतुर्थतृतीयद्वितीयप्रथमपादा लेख्याः । तत्नार्धभ्रमे अघःस्थ- पङ्किचतुष्टये परावृत्त्या सर्वतोभद्रे परावृत्या समावृत्त्या वा चतुर्थादिपादलिखन- मिति विशेषः । तत्रोद्धारक्रमस्तु अर्धभ्रमे ऊर्ध्वपङ्गौ वामाद्दक्षिणतः । अधःपङ्गौ १२दक्षिणाद्वामतः। एवं वामस्थोर्ध्वकोष्ठादधःक्र्मेण दक्षिणस्थाधःकोष्टादूर्ध्वक्रमेण च अनुलोमोच्चारणेन प्रथमादिपादोत्थानम्। सर्वतोभद्रे तु वामादक्षिणतः दक्षिणाद्वामतः ऊर्ध्वादधस्तः अधस्तादूर्ध्वतश्चानुलोमविलोमाभ्यां सर्वतः आवर्तनेन १५ पादानामुस्थानमिति ।। ८०।। अर्धभ्रममुदाहरति-मनोभवेति। हे नत कामिजननमस्कृत। मनोभव मदन। तव अनीकं सैन्यभूता। मानिनी नायिका। उदयाय अभ्युदयाय। न इति न । अपि तु उदयायैव अस्तीति भावः । ननु विजयिनः सैन्यं सापराधस्य दण्ड- विधायकं कि त्वं सापराधोसि इति प्रश्नमुन्नीयाह-भयादिति। वयं एनोमया पापिनः । कृतापराधा इत्यर्थः । मा वा मैव। अत्र वा एवार्थे। वा समुच्चय एवार्ये उपमानविकल्पयोः। इति हेमचन्द्रः । वयं नैवापराधिनः। परं तु भयात् मानिनी सेनाभयात्। अमेयामाः अमेयः अपरिमितः आमः पीडा येषाम्। तथा स्म इति भाव: । इमां तव सेनाभूतां मानिनीं। मद्वशां कुरु। ततो निर्भकोहं सुखेन स्थास्यामीति प्रार्थना ।।८१।
१ मानामव, ब.
Page 376
सर्वताभद्रम् ३५५
सामायामा माया मासा मारानायायाना रामा। यानावारारावानाया मायारामा मारायामा ॥। ८२ ॥ यः स्वरस्थानवर्णानां नियमो दुष्करेष्वसौ। इष्टश्रतुःप्रभृत्येषं दैश्यते सुकरः परः॥ ८३ ॥ सर्वतोभद्रमुदाहरति-सामायेति। कश्चिद्विरही स्विषमामवस्थां वर्णयति। अत्र पदच्छदः । सा आमायामा मायाः मासा । मारानायायाना रामा। यानावारा- ३रावानाया। मायारामा माराय अमा। अन्वयार्थ :- आमायामा आमयस्य विरह- ज्वरस्य आयाम: दैर्ध्य यस्या सा आमायामा । प्रभूतविरहज्वरेण संतापिकेत्यर्थः । मायाः लक्ष्म्याः पञ्चम्यन्तमेतत्। रामा मनोहरा। मारानायायाना मारं मदन- कमानयति उत्पादयति इति मारानायं मदनोत्पादकम् आयानमागमनं यस्याः सा मारानायायाना। स्वागमनेन मदनवृद्धिकारिणी। यानावारारावानाया यात्यनेनेति यानं पाद: तं आवृणोति वेष्टयति इति यानावारः नूपूरः तस्य आरावः मञ्जुलध्वनिः ९एव आनायः कामिजनबन्धकं जालकं यस्याः सा यानावारारावानाया। माया- रामा शाम्बरीवनिता। माया स्याच्छाम्बरीधियोः । इति विश्वः। अतिविचित्र- मनोहररूपेत्यर्थः । एतादृशी सा रमणी मासा चन्द्रेण। मास्तु मासे निशाकरे। १२इति हेमचन्द्रः । अमा सह। माराय मे विनाशाय। अस्ति इति शेषः । एवं खङ्ग- पद्ममुरजमुसलबन्धादयोः शब्दालंकारा मनोहराः सन्ति। परं ते नैतावन्तः क्विष्टाः अतोत्र न निर्दिष्टाः । ते तु प्रबन्धान्तरतो ज्ञेयाः ॥ ८२॥ अथ स्वरस्थानवर्णनियमेन वैचित्र्यमावहतः शब्दालंकारान् दिदर्शयिषु- राह-यः खरस्थानेति। स्वराः अकारादयः स्थानानि कण्ठादीनि लक्षणया उतद्धवा वर्णा ग्राह्याः । वर्णाश्च व्यञ्जनानि तेषाम् स्वरस्थानवर्णानाम्। यः नियमः अन्यनिवर्तनेनोपात्तानाम्। चतुर्भिरेव स्वरादिभिः ग्रथनमितिभावः । असौ एतत्स्व- रूप: अलंकारः। दुष्करेषु दुर्घटेषु मध्ये। इष्टः प्राचीनानामभिमतः । चित्रालंकारेषु ६प्राचीनैः स्वीकृत इत्यर्थः । एषः चतुःप्रभृति चतुरादि। अत्र प्रभृति शब्दः न्यूनसंख्योन्मुख इति ज्ञेयम् । तेन चतुः स्वरः त्रिस्वरः द्विस्वरः एकस्वरः तथा १ प्रभृत्यंषु. क. ३ दृश्यते. अ.
Page 377
३५६ काव्यादर्शे तृतीयः परिच्छेद: आम्रायानामाहान्त्या वाग्गीतीरीती: प्रीतीभांतीः। भोगो रोगो मोदो मोहो ध्येये वेच्छेद्देशे क्षेमे।। ८४॥ क्षितिविजितिस्थितिविहितिव्रतरतयः परमतयः। उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम्॥ ८५॥ चतुःस्थानः त्रिस्थानः द्विस्थानः एकस्थानः तथा चतुर्वर्ण: त्रिवर्णः द्विवर्णः एकवर्णः sइति प्रभेदा: ग्राह्याः । एतादृशः दर्श्यते उदाहरणेन स्पष्टीक्रियते। परः पञ्च- षडादिनियमस्तु। सुकरः सुलभः । अतस्तर्द्दशनाय नैव प्रयस्यते इति भावः ॥८३ तत्र चतुःस्वरनियममुदाहरति-आम्नायानेति। कश्चित् तत्त्वज्ञः शिष्याननुशास्ति। आम्नायानां अन्त्या शिरस्कभूता। वाग् उपनिषद्रूपा वाणी। उगीतीः गानानि। ईतीः-अतिवृष्टिरनावृष्टिः-इत्यादिरूपान् उपपरुवान्। आह। मोक्षमार्गे गीतानि ईतिवत् परिहार्याणि इति भावः । अथवा मोहकत्वात् ईति- वत् मोक्षफलविधातकानि तानीत्यर्थः । प्रीतीः पुत्रदारगृहादिषु प्रीतीः प्रेमाणि। इभीतीः भयस्वरूपाः । यथा क्षेत्रे सस्यानां वराहादयः श्वापदाः भीतिस्वरूपाः तथात्र मोक्षफले प्रीतिः भीतिस्वरूपा। संसारप्रीतेर्मोक्षो नश्यतीति भावः । भोग: विषयोपभोगाः । रोगः मोक्षफलस्य रोगः । विषयिणो मोक्षो दुर्घटः इति भावः । अत्र इतिशब्दोध्याहार्यः । सा च इत्याह इति योजना। मोदो विषयानन्दः । मोहः मोक्षफलभ्रंशकचित्तवैक्व्यम्। तस्मात् क्षेमे समाध्यनुकूले निरुपद्रवे। देशे पुण्यभूमौ। ध्येये ध्यातुं योग्ये श्रीहरिचरणे। इच्छेत् अभिलषेत्। एकान्तें १२ पुण्यप्रदेशे अरविन्दनाभपादारविन्दयुगलं चिन्तयेदित्यर्थः । वाशब्दो एवार्ये। अथवा ध्येये ध्यातुं योग्ये परमेश्वरे परमेश्वरविषये इत्यर्थः । इच्छेत् इच्छां कुर्याद्। परमेश्वरं चिन्तयेदित्यर्थः ॥ अत्र आ-ई-ओ-ए इति चत्वार एव १५स्वरा निबद्धाः । वृत्तं विद्युन्माला ॥। ८४॥ त्रिस्वरनियममुदाहरति-क्षितीति । क्षितेर्विजितिः विजयः स्थितेः धर्ममर्यादायाः विहिति: विधानम् एतदुभयरूपं यत् व्रतम् नियमानुष्ठेयं कृत्यं ३तत्र, रतिः प्रेमा येषां ते क्षितिविजितिस्थितिविहितिव्रतरतयः । अत एव परा उत्कृष्टा मतिर्येषां ते, परमतयः । परगतयः इति पाठे परा गतिः ज्ञानं येषां ते।' १ वगे. क. २ ्येष्छे देशे. ब, उ, प., धेच्छे, चपा, वेच्छे देशे. क. ३. °गतपः ब, उ, प.
Page 378
स्वरनियमा: ३५७
श्रीदीप्ती ड्रीकीर्ती धीनीती गी:प्रीती। एधेते द्वे द्वे ते ये नेमे देवेशे॥ ८६ ॥ सामायामा माया मासा मारानायायाना रामा। यानावारारावानाया मायारामा मारायामा॥८७॥ नयनानन्दजनने नक्षत्रगेणशालिनि। अघने गगने दृष्टिरङ्गने दीयतां सकृत्॥ ८८॥ एतादृशाः। कुरवः पाण्डवाः। युधि समरे। उरु विशालम्। स्वं स्वीयम्। अिकुलं ६दुर्योधनप्रभृतिरिपुकुलम्। रुरुधुः सर्वतो निरोधयामासुः । तथा गुरु यथा स्यात् तथा। सातिशयमित्यर्थः । दुधुदुः कम्पयामासुः । अत्र इ-अ-उ-इति त्रयः स्वरा निबद्धाः । त्वरितगतिर्वृत्तम् ॥८५॥ द्विस्वरं दर्शयति-श्रीदीप्ी इति। कश्चित् सत्पुरुषः स्तूयते। ये द्वे द्वे इमे श्रीदीप्त्यादी। देवेशे महन्द्रे। अपि न विद्येते ते त्वयि एधेते वृद्धिं :प्राप्तुतः । के ते श्रीः लक्ष्मीः दीप्तिः शोभा । ही: लज्जा शालीनतेति यावद्। कीर्तिः यशः । धी: बुद्धि: नीतिः नयः । गीः वाणी। वाग्मित्वमिति भावः । प्रीतिः संतोषश्च । अत्र इ-ए-सवरौ निबद्धौ। वृत्तं वाणी ॥ ८६ ॥। एकस्वरमुदाहरति-सामायेति । अयं ल्लोक: सर्वतोभद्रोदाहरणत्वेन पूर्वत्ैव व्याख्यातः । अत्र आ-इति एक एव स्वरो निवद्धः ॥८७॥ अथ स्थाननियमे चतुःस्थानमुदाहरति-नयनानन्देति। अङ्गने सुन्दरि। नयनयो: आनन्दं जनयति तस्मिन् नयनानन्दजनने। दृष्टिमोहके इत्यर्थः। 3नक्षत्राणां गणैः सङ्वैः शलते शोभते तस्मिन् नक्षत्रगणशालिनि। अघने घनशून्ये। गगने वियति। सकृत् एकवारम्। दृष्टिः दीयताम् अवलोकयेत्यर्थः । अनया प्रार्थनया एतादृशगगनविलोकनेन सोत्सुका गलितमाना मामियमासेविष्यते इति नायकाभिप्रायः सूच्यते ! अत्रौष्ठयभिन्नस्थानीयाः सर्वे वर्णाः निवेशिता इति चतुःस्थाननियमितमिदं पद्यम्।। ८८।। १एवैते. अ. २ चन्द्रनक्षत्रमाायनि. अ.
Page 379
३५८ काव्यादर्शे तृतीय: परिच्छेद:
अलिनीलालकलतं कं न हन्ति घनस्तनि। आननं नलिनच्छायनयनं शशिकान्ति ते ॥। ८९ ॥
सदानघ सदानन्द नताङ्गासङ्गसैङ्गत ॥ ९० ॥ अगा गाङ्गाङ्गकाकाकगाहकाघककाकहा।
त्रिस्थानमाह-अलिनीिति । हे घनस्तनि कठिनकुचे। अलिवत् भ्रमरवत् नीला: ये अलका ते एव लता सर्वतो व्यापनेन लतासदृशा यत्र त्। नलिनानि कमलानि तेषां छायेव च्छाया शोभा ययो: एतादृशे नयने यस्मिन् तद्। शशिवत् कान्तिः यस्य तत्। ते तव। आननं कं न हन्ति मदनपीडया व्याकुलयति । सर्वमपि पाडयतीत्यर्थः । अत्र कण्ठ्यदन्त्यतालव्यैर्निबन्धनम्॥८९
द्विस्थानमुदाहरति-अनङ्गेति। काचित् दूती नायकं प्रियासंगमाय प्रार्थयते। हे सदा अनघ निर्दोष। सदाचरणशील इत्यर्थः । तथा सदानन्द सतां ३आनन्दो यस्मात् तादृश। हे सत्प्रियेत्यर्थः । नतानि प्रश्रयेण नम्राणि अङ्गानि यस्य तत्संबुद्धि: नताङ्ग। असङ्गाः विषयेष्वनासक्ता ये सत्पुरुषाः तेषु सङ्गत संसक्त । (सा) सदङना सती चासौ अङ्गना च सुस्वरूपा सदाचरणशीला वा ६तव नायिका। अनङ्गस्य मदनस्य लङ्गनम् अतिक्रमणम् । अनुपसेवनमित्यर्थः । तेन लग्नाः संसक्ता नाना विविधा आतक्का पीडा यस्याः सा। विविधमदनयातना अनुभवन्तीत्यर्थः । अस्ति | अतस्तया संगत्य तत्पीडामपनयेत्यर्थः । अत्र कण्ट्य- दन्त्यवणैरेव प्रबन्धनमस्ति ॥ ९०॥
एकस्थानमुदाहरति -- अगा इति। अत्र पदच्छेद :- अगा: गाम् गाङ्ग- काकाकगाहक अघककाकहा। अहाहाङ्क (ङ्) खगाङ्कागकङ्क अगखगकाकक
३े अन्वयार्थ :- हे गाङ्गकाकाकगाहक। गङ्गाया इदं गाङ्गं गाङ्कं च तत् कं जलं गाङ्गकम् । आकायति शब्दं करोतीत्याकाः । कै गै शद्वे इत्यस्मात् आङ्पूर्वकात् कर्तरि क्किप् । तथा अकति कुटिलं गच्छतीति अकः । पचादच् । आकश्चासौ अकश्च आकाकः। सशब्दतिर्यग्गामी। गाङ्गकस्य गङ्गाजलप्रवाहस्य आकाक:
१ *युतं. कपा. २ °नन्दिन्तताङ्ग, अ. ३ 'संगतः, ब, ड, पः
Page 380
स्थाननियमा: ३५२
अहाहाङ्क खगाङ्कंगकङ्कागखगकांकक ।। ९१ ।।
सशब्दतिर्यकप्रवाहः गाङ्गकाकाकः तस्य गाहक गङ्गाप्रवाहस्तायिन्नित्यर्थः । तत्संबोधनं गाङ्गकाकाकगाहक। तथा अहाहाङ्क हा हा इति दुःखसूचकः शब्द: अङ्कः चिहं यस्य स हाहाङ्कः । संसारतापत्नस्तः इत्यर्थः । तथा न भवति इति अहाहाङ्कः । तत्संबुद्धिः अहाहाङ्क। संसारतापशून्य। अहाहाङ्ग इति पाठे हानं हा: किप्। न हाः विनाशः अहाः। तं अविनाशं जिहीते गच्छति इति १२अहाहा अविनश्ररमित्यर्थः । तादृशमङ्गं यस्य तत्संबुद्धिः अहाहाङ्ग। अवि- नाशिस्वरूप इत्यर्थः । खे गच्छति इति खगः सूर्यः । स अङ्कः चिह्नं यस्य स खगाङ्कः । खगाङ्कश्वासौ अगः पर्वतः मेरुपर्वतः उदयाचलो वा। तत्र कङ्कति १५गच्छति इति खगाङ्कागकङ्कः। मेरुपर्वते उदयाचले वा गमनसमर्थ। ककि बकि श्वकि इत्यादयो गत्यर्थाः तस्मात् पचादच। पुनः अगखगकाकक अगन्ति कुटिलं गच्छन्तीति अगानि तानि च खानि इन्द्रियाणि। अक १८अग कुटिलायां गतौ-इत्यस्मात् पचाघच्। तानि गच्छन्ति इति अगखगाः कुटिलेंद्रियपरवशाः । कुत्सिता: अगखगाः अगखगकाः । कुत्सार्थे कन्। कको लोलः। कक लौल्ये इत्यस्मात् अच्। न कक: अककः अलोल इत्यर्थः ! अग- २१ खगकेषु अककः अगखगकाककः तत्संबुद्धिः अगखगकाकक। कुत्सितेन्द्रियपर- वशाननुरक्त। त्वं अधककाकहा कुत्सितं अघं अघकं तदेव काक: तं जहातीति अघककाकहा। एतादृशः सन् गां स्वर्गम् अगाः गमिष्यसि। इणो लुडि रूपम्। १ञइणो गा लुडि इति गादेशः । आशंसायां भूतवच्च इति भविष्यति लुड्। अत्र कण्ठ्बैरेव वर्णैर्बन्धरचना ॥ ९१ ॥ अथ वर्णनियमे चतुर्वर्ण दर्शयति-रे रे इति। तत्र तावत् पदच्छेद :- रे रे रोरुरुरूरोरुगागोगः अगाङ्गगागगुः । कि केकाकाकुकः काकः मा मां आम अममामम। अन्वयार्थ :- कश्विद्वयाधं निन्दन् तत्संसर्ग परिहरति। रे रे इत्यनादरे। रोषावेशात् दविरुक्तिः । अममामम नास्ति मम ममत्वं येषां ते अममाः । मम इति भावप्रधानो निर्देशः । ममत्वशून्याः सर्वत्र समबुद्धयः साधव इत्यर्थः । अहाहाङ्ग ब, क, उ, प. २ 'काङ्का ग°. कपा. 3 काककः क, 'काकुकः कपा. ४ गोगगु: ब, क, उ,प.
Page 381
३६० काव्यादर्शे तृतीय: परिच्छेद:
किं केकाकाकुकः काको माँ मामामाममामम ॥९२॥ देवानां नन्दनो देवो नोदनो वेदनिन्दिनोम्। दिवं दुदावँ नादेन दाने दानवदन्तिनेंः ।। ९३। ६ तेषां आमं निर्धृणाचरणेन खेदं मयते प्रणिददाति इति तत्संबुद्धिः अममामम । निर्धृणाचरणेन सत्पुरुषदुःखद । मेड् प्रणिदाने इत्यस्मात् आतोनुपसर्गे क: इति कः। रोरूरुरूरोरुगागोगः रोरूयते इति रोरू: यडन्तात् किप्। रोरू- श्वासौ रुरुश्च चित्रमृगः रोरूरुरुः पुनः पुनः शब्दकारी चित्रमृगः तस्य उरसः वक्षसः रुकू पीडा। शरवेधजनितेत्यर्थः । सा एव आगः अपराधः तं गच्छतीति रोखुरुरूरोरुगागोगः । मृगहृत्याविधायक इत्यर्थः । अगाङ्गगागगुः अगस्य १२पर्वतस्य अङ्गं अधित्यकां गच्छन्ति इति अगाङ्गगाः। पर्वतोपरि वर्तमाना इत्यर्थः । ते च ते अगाः वृक्षाः अगाङ्गगागाः तेषु गावो यस्य स अगाङ्गगागगुः । पर्वतो- परिप्रदेशस्थवृक्षाधःस्थितधेनुक इत्यर्थः । अगाङ्गगोगगुः इति पाठे पदद्वयं १५अगाङ्गगः अगगुः इति । अगा वृक्षाः तस्य अङ्गानि अवयवा त्वकपुष्पफलादयः तानि गच्छति सेवनार्थमिति अगाङ्गगः वृक्षत्वक्पुष्पफलोपभोगीव्यर्थः। तथा अगगुः अगे पर्वते गौः दृष्टिः यस्य सः। मृगयार्थ नगासक्तदृष्टिरित्यर्थः । ईदशस्त्वं १८मां मा आम मा आगच्छ। त्वत्संपर्क मा विधेहि इत्यर्थः । दृष्टान्तेनामुमर्थ विशदयति। किमिति प्रश्ने। काकः वायसः । केकाकाकुकः केका मयूरवाणी काकु: मदसूचकध्वनिविशेषः यस्य सः केकाकाकुकः । शेषाद्विभाषा इति २१कपू । भवतीति शेषः । यथा काक: मदेन आरावं कुर्वन्नपि केकासौभाग्यं न लभते तथा भवान् महता परिश्रमेणापि अस्माकं सङ्गं न लभते इति भावः । अत्रापि विविधा अर्थाः टीकाकृद्भिः प्रदर्शिताः ते तत एव द्रष्टव्याः। चतुर्भिः २नर-ग-क-म इति वर्णैः निबन्धनाच्चतुर्वर्णनियमितचित्रम्। वर्णपदं च वृत्तपूरक- वर्णपरम्। तेन अङ्गेत्यत्र डकाराधिक्येपि न दोषः। तस्य वृत्तपूरकत्वाभावात् ९२ त्रिवर्णमुदाहरति-देवानामिति। भगवतो नरसिंहस्य स्तुतिरियम्। देवानां इन्द्रादिदेवानां नन्दनः आह्लादकः। तथा वेदनिन्दिनाम् वेदान् निन्दन्ति ३कुतकैर्दूषयन्ति ते वेदनिन्दिनः असुरादयः तेषाम्। नोदनः निवारकः । देवो १ मा मा मामम मामम. ब, ड, प. २ देवनिन्दिनाम् कपा. ३ दानव अ. ४ नन्दिनः ब, क, उ, प.
Page 382
वर्णनियमाः ३६१
सूरि: सुरासुरासारिसार: सारससारसाः। ससार सरसीः सीरी ससूरू स सुरारसी।।९४।। नूनं नुन्नानि नानेन नाननेनाननानि नः । नानेना नतु नानूनेनैनेनानीनिनो निनीः॥९५॥ ।। इति चित्रचक्रम् ॥ नरसिंहः । दानवः हिरण्यकशिपुः स एव दन्ती गजः तस्य। नन्दिनः इति पाठे दानवान् नन्दति आनन्दयतीति दानवनन्दी हिरण्यकशिपुः । तस्य दाने ६अवखण्डने। नादेन सिंहनादेन। दिवं आकाशम् । दुदाव तापयति स्म। टुद्ड उपतापे इत्यस्य लिटो रूपम्। अत्र द-व-न इति त्रिभिर्वर्णैरुपनिबन्धनम् इति त्रिवर्णता ॥ ९३ ॥ द्विवर्णमुदाहरति-सूरिरिति। बलदेवस्य सरोवगाहनवर्णनमिदम्। सः त्रिभुवनप्रथितः । सीरी बलदेवः । सूरि: पण्डितः । तथा सुरेषु असुरेषु च आसारी प्रसरणशीलं सारः बलं यस्य सः । देवदानवेषु अप्रतिहतप्रभाव इत्यर्थः । सुष्ठु उरू यस्याः सा सूरू: रेवती तया सहितः ससूरूः । तथा सुरारसी सुरायां मदे रसः प्रीतिरस्यास्तीति सुरारसी। सारससारसाः आरसेन शब्देन सहिता: सारसाः ६सशब्दाः सारसाः जलपक्षिणः यत्र ताः सारससारसाः। सरसीः ससार विहाराय जगाम। अत्र सकाररेफाभ्यां द्वाभ्यां वर्णाभ्यां निवन्धनमिति द्विवर्णता॥९४॥ एकवर्णमुदाहरति-नूनमिति । तत्र तावत् पदानि-नूनं नुननानि न अनेन न अननेन अननानि नः । न अनेनाः ननु ना अनूनेन एनेन अनान् इन: निनीः ॥ अन्वयार्थ :- कश्चित् शरः प्रतिभटैः स्तूयते। अनेन प्रत्यक्षी- भूतानुपमशौर्येण एतेन वीरेण कर्त्रा। अननेन स्वसामर्थ्येन हेतुभूतेन। नः अन- नानि सामर्थ्यानि। न नुन्नानि परिक्षिप्तानि। इति न। तर्दि नूनं नुनान्येव। अनेन ६वयं सर्वे सामर्थ्यशून्या विहिता इति भावः । अतः अनूनेन अधिकबलवता। एनेन वीरेण। अनान् बलवतः स्वीयपुरुषान् । निनीः नेतुमिच्छुः। सन्नन्तात् किप्। इनः स्वामी। ना पुरुषः । अस्माकं प्रभुः इत्यर्थः । अनेनाः निष्पापः निरपराधो। वा न । अपि तु सापराध एव। एतादशवीरस्य पुरतः केवळं १ सारास°. क.२ सीरो. अ, ब. ३ नाननिनां. अ,क. [काष्यादर्श ] ४६
Page 383
३६२ काव्यादर्शे तृतीय: परिच्छेद:
इति दुष्करमार्गेपि कश्चिदादर्शितः क्रमः । प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ९६ ।। क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे। परव्यामोहने चापि सोपयोगा: प्रहेलिकाः॥ ९७॥ आहुः समागतां जाम गूढार्था पदसंधिना। खविनाशायैव पुरुषान् ्रणिणीषुः सापराध एवेति भावः । ननु इति निश्चये। अत्र केवलनकारेणैव रचना इति एकवर्णनियमः ॥ ९५॥ इदानीं दुष्करक्रममुपसंहरन् प्रहेलिकां प्रस्तौति-इतीति। इति एवं- प्रकारेण। दुष्करमार्गे स्वरस्थानवर्णनियमरूपे। कश्चित् स्वल्पः । क्रमः प्रकारः । आदर्शितः । अन्ये क्रमस्थसर्वव्यञ्जनं छन्दोक्षरव्यञ्जनं मुरजाक्षरव्यञ्ञनं दीर्घै- 'कस्वरम् इत्यादयः तथा पद्ममुसलबन्धादयश्च रचनाविशेषा विस्तरभिया कविना नोल्लिखिताः सरस्वतीकण्ठाभरणादिग्रन्थेभ्योवगन्तव्याः । प्रहेलिकायाः ये प्रकाराः ६ तेषाम् । गतिः लक्षणम्। उद्दिश्यते उद्देशपूर्वकं निवेधते/ प्रहेलिका तु सा झ्ेया वच: संवुतिकारि यत् । इति ्रहेलिकासामान्यलक्षणम्। अस्या विशेषप्रभेदानां लक्षणानि अग्रे स्फुटीकृतानि ग्रन्थकृता ॥९६ ॥
रसस्य परिपन्थित्वान्नालंकारः प्रहेलिका । इति रसपरिपन्थिभूतत्वात प्रहेलिकाया नालंकारत्वं तर्हि तन्निरूपणं किमर्थमिति चेद् तस्याः उपयोग दशयति-क्रीडेति । क्रीडार्थ या गोष्ठी सभा तत्र ये विनोदाः विचित्र- वाग्यवहारैः प्रमोदाः तेषु । तथा तज्ज्ञैः प्रहेलिकामिजैः। आकीर्णे व्याप्ते समाजे 'यन्मन्त्रणं गुप्तभाषणं तस्मिन् । तथा'परस्य बोद्धव्यपुरुषभिन्नस्य व्यामोहने अभि- प्रेतार्थानवगमे च। प्रहेलिकाः सोपयोगाः उपयुक्ताः । सन्तीति भावः ।' यद्यपि शब्दालंकारादिरूपेणेयं न काव्योपयुक्ता तथापि विदुषां क्रीडागोष्टीविनोदादि- सूंपयुक्तेति भाव:ा ९७। अंस्या: प्रभेदानुद्दिशति- आहुरिति । पदसंधिना पदानां, संधिः अलिशयसंनिधि: तन्निमित्ते कार्येण पदसंधिना हेतुना। गूढार्था दुर्बोधार्था १मार्गस्य. अ. २ समाहिताम्, क.
Page 384
प्रहेलिकाप्रभेदाः ३६३
वश्चितान्यत्र रूढेन यत्र शब्देन वश्चनां ॥ ९८ ।। व्युत्क्ान्तातिव्यव हितप्रयोगान्मोहकारिणी। सा स्यात प्रमुषिता यस्यां दुर्वोधार्था पदावली॥ ९९॥ समानरूपां गौणार्थारोपितैर्ग्रथितां पदैः। परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः ॥ १०० ॥ संख्याता नाम संख्यानं यत्र व्यामोहकारणम्। अन्यथा भासते यत्र वाक्यार्थः सा प्रकल्पिता ॥ १०१॥
३समागतां समागतसंज्ञकप्रहेलिकाम्। आहुः कथयन्ति । नामेति प्रसिद्धौ। तथा अन्यन्न विवक्षितार्थादन्यत्न। रूढेन प्रसिद्वेन। शब्देन यत्र वञ्चना प्रतारणा। सा वश्चिताख्या प्रहेलिका । यत्र योगेन प्रकृतार्थोपस्थितिः परं रूढार्थेन वञ्चना इयोगार्थनिगूहनेन अन्यार्थावभासः सा वश्चितेत्यर्थः ॥ ९८॥ व्युत्क्ान्तेति। अति अत्यन्तं व्यवहितानाम् असंवन्धिपदैर्व्यवहितानां संबन्धिपदानां प्रयोगात् मोहकारिणी अर्थावबोधक्लेशकारिणी। या सा व्युत्क्रान्ता प्रहेलिका। यस्यां पदावली दुर्बोधार्था प्रसिद्धिराहित्येन केवलयोगिकार्थवलेन अर्थस्योन्नयनात दुर्बोधा दुःखेन बोध्या अर्था यस्याः सा। एतादृशी सा प्रमुषिता नाम प्रहेलिका। बुद्धेः प्रकर्षेण मोषणात् प्रमुषिता। वश्चितायांमेकं पदं दुर्बो- धम् अत्र तु पदावलि: तथा। वश्चतायां नानार्थकपदस्य अप्रसिद्धर्ये प्रयोगः अत्र तु एकार्थान्येकाप्रसिद्धानि पदानि इत्युभयो: प्रमेदः ॥ ९९ ॥ समानरूपेति। गौणार्थैः आरोपितैः उपचारितैः । पदैः अ्रथिता गुम्फिता। समानरूपा सादृश्यनिवन्धनत्वादिति भावः । लक्षणस्य शास्त्रर्य अस्ति्त्वमात्रेण केवलशास्त्रसिद्धत्वेनेव्यर्थः । तत्रार्थे रूढिरस्ति वा नवेत्यविचार्य केवलशास्त्र- मर्यादया अयमर्थो निष्पन्नो भवतीति कृत्वा व्युत्पाढ़िता श्रुतिः शब्दो यत्र। तादशी वांकू परुषा प्रहेलिका। पारुष्येणावबोधकत्वादिति भाव: ।।१०० ॥। संख्यातेति। यत्र संख्यान वर्णगणना संख्यावाचकः शब्दो वा। व्यामोह- कारणं अर्थबोधविषये विशेषमोहकारणम्। तत् संख्याता नाम प्रहेलिका। यत्र
१ वृ्चनम्, अ. २,-वलि ::- अ .- ३ समानरूप °, क. मथितैः, अ.
Page 385
३६४ काव्यादर्शे तृतीय: परिच्छेद:
सा नामान्तरिता यस्यां नाम्नि नानार्थकल्पना। निभृता निभृतान्यार्था तुल्यधर्मस्पृशा गिरा ॥ १०२ ॥ समानशब्दोपन्यस्तशब्दपर्यायसाधिता। संमूढा नाम या साक्षान्निर्दिष्टार्थापि सूढये। १०३ ॥ योगमालात्मिकां नाम या स्यात् सा परिहारिकां। एकच्छन्नाश्रितं व्यक्तं यस्यामाश्रयगोपनम्॥ १०४ ॥ ३्वाक्यार्थ: अन्यथा भासते आपाततः प्रतीयमानादर्थादन्यरूपः पर्यवसाने प्रती यते। सी प्रकल्पिता प्रहेलिका ॥ १०१ ॥ सेति। यस्यां प्रहेलिकायाम्। नाम्ि संज्ञायाम्। नानार्थकल्पना नानार्थानां कल्पना विकल्पनम्। शब्दस्यानेकार्थत्वादिति भावः । सा नामान्तरेण अन्तरि- 3तार्थत्वान्नामान्तरिताख्या। तुल्यः समानः धर्मः तं स्पृशतीति तुल्यधर्मस्पृक् तया तुल्यधर्मस्पृशा। गिरा प्रकृताप्रकृतयोः साधारणधर्मप्रतिपादकया गिरेत्यर्थः । निभृतः निहुतः अन्यार्थः प्रकृतार्थः यया सा। निभृताख्या ॥१०२॥ समानेति। उपन्यस्तानां श्लरोके प्रयुक्तानां शब्दानां पर्यायः योजना- विशेष: तेन साधिता निष्पन्ना। समानशब्दा प्रहेलिका। तैरेव शब्दैः योजना- विशेषण अर्थाविर्भावात् सा समानशब्दाख्या प्रहेलिकेत्यर्थः । साक्षात् वाचक- शब्देन निर्दिष्टार्थापि उक्तार्थापि। या सूढये आपाततो मोहाय। भवति सा संमू- ढाख्या प्रहेलिका॥। १०३ ॥। योगेति। योगानां यौगिकशब्दानां या माला परंपरा सैव आत्मा स्रूपं यस्याः सा। यौगिकशब्दपरंपराभिः एकैकरूढशब्दार्थप्रतिपादिका इत्यर्थः। एतादशी या रचना सा परिहारिका प्रहेलिका। हारो मुक्तामाला तां परिगता यौगिकपरंपरया इति परिहारिका। अथवा झटिति प्रकृतार्थबोधं परिहरति निवारयति इति परिहारिका। तथा यस्यां आश्रितं आधेयम् । एव व्यक्तम् । आश्रयस्य च गोपनम्। सा एकच्छन्ा एक: आश्रयः छन्तः गुप्तः यस्याम् इति एकच्छनाख्या प्रहेलिका ॥ १०४॥ मूठयो :. अ. २ मालात्मकं. अ. बपा. ३ था स्पात् इत्यत्र यस्याः, बपा. "हारिणी, अ; 'हारिकी, कपा.
Page 386
प्हेलिकाप्रभेदा: ३६५
सा भवेदुभयच्छन्ना यस्यामुभयगोपनम्। संकीर्णा नाम सा यस्यां नानालक्षणसंकरः ॥ १०५॥। एता: षोडश निर्दिष्टाः पूर्वाचायैंः प्रहेलिकाः । दुष्टप्रहेलिकाश्चान्यास्तैरधीताश्चतुर्दश ॥ १०६॥ दोषानपरिसंख्येयान् मन्यमाना वय पुनः। साध्वीरेवाभिधास्यामस्ता दुष्टा यास्त्वलक्षणाः।। १०७।। न मयागोरसाभिजं चेतः कस्मात् प्रकुप्यसि।
सा भवेदिति। यस्यां उभयगोपनम् आश्रिताश्रययोः गोपनं निगूहनम्। भवेत्। सा उभयच्छन्ना उभययोः आश्रिताश्रययोरगोपनं यत्रेति व्युत्पत्या उभय- च्छन्नसंज्ञकेत्यर्थः । यस्यां नानालक्षणानां समागतादिपञ्चदशप्रभेदानां संकरः साहित्येनावस्थानं सा संकीरणा ज्ञेया ॥ १०५॥
एता इति। एताः पूर्वोक्ताः । पूर्वाचार्यैः पोडश प्रहेलिकाः निर्दिष्टाः । शुद्धसंकीर्णभेदेन बोडशत्वं बोध्यम्। शुद्धानां पञ्चदशत्वात्। तैरेव आचार्यैः अन्याः एताभ्यः शुद्धाम्यः भिन्नाः। चतुर्दश दुष्टाः संदोषाः । व्युताक्षरादयः अधीताः कथिताः ॥ १०६ ॥
दोषान् इति। वयं दोषान् अत्यन्तशाब्दबोधप्रतिबन्धकरूपान् प्रहे- :लिकादोषान्। असंख्येयान् संख्यातुमशक्यान्। मन्यमानाः न तान् दर्शयामः । 3केवलं साध्वीरेव दोषबाहुल्याभावेन चमत्कृतिपोषकत्वेन चालकारतामापनाः । प्रहेलिकाः समागताद्याः षोडश । अभिधास्यामः उदाहरिष्यामः । तर्हि दुष्टाः कथं छात्रा जानीयुरिति चेत् तेषां सामान्यलक्षणमाह। यास्त्वलक्षणाः समा- ६गतादि षोडशप्रहेलिकालक्षणशून्याः । ताः दुषाः बोद्दव्याः ॥१०७॥
समागतामुदाहरति-न मयेति। अन्यत्र स्त्रिग्धमात्मानं मत्वा रुदतीं गोपीं जनसमाजे कृष्णः सान्त्वयति । मया कृष्णेन गोरसाभिजञं गोरसः पयः तत्र अभिजं ज्ञातास्वादम्। पयः अपहृत्य तत्पानाभिज्ञमित्यर्थः । चेतः न । कृतमिति 'उत्तानार्थयोजनार्थमध्याहार्यम्। तथा च त्वं कस्मात् प्रकुप्यसि। हे आलोहितेक्षणे कोपारक्तनयने। एमिः अस्थानरुदितैः अकारणरादनैः । अलम्।
Page 387
३६६ काव्यादर्शें तृतीय: परिच्छेद:
अस्थानरुदितैरेभिरलमालोहितेक्षणे॥ १०८ ॥ कुब्जामासेवमानस्य यथा ते वर्धते रतिः। नैवं निर्विशतो नारीरमरस्त्रीविडम्बिनीः॥। १०९ ।। दण्डे चुम्बति पझ्मिन्या हंस: कर्कशकण्टके। मुखं वल्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् ॥ ११०॥ खातयः कनि काले ते स्फातयः स्फार्हवल्गवः। ६मया पयोपहारः कृतः इति कल्पयित्वा मा रुदिहीत्यर्थः । इति आपाततोर्थः । अमुमेवार्थ स्वीकृत्योदासीनाः कृष्णेन दुग्धस्तेयं कृतं तदर्थ चैषा रोदिति इति मन्यन्तामिति प्रकृतार्थस्य संवरणकारिता। प्रकृतार्थस्तु मे मम। आगः अपराधः परवनितासंगरूपः तस्य रसे आस्वादे अभिजञं मार्मिकं एतादृशं चेतः । न नास्ति। मां अन्यत्रबद्धरति मत्वा मां कोपकलुषिता भवेत्यर्थः । अत्र मे आगोरसामिज्ञम् इति पदच्छेदः । अत्र संधिकार्येणायादेशन मयागोरसेति प्रयोगो निष्पन्नः । १३तेनैव च प्रकृतार्थस्य संवरणम् इति समागता प्रहेलिकेयम् ॥ १०८॥ वश्चितामुदाहरति-कुब्जामिति। कुब्जां भग्नपृष्ठां नारीम्। आसेवमानस्य उपभुञ्जानस्य। यथा ते रतिः अनुरागः। वर्धते एवं अमरस्त्रीविडम्बिनीः सुराङगना- 3सदृशीः । नारीः निर्विशतः आसादयतः । न रतिः रतिर्न वर्धते। इति आपात- तोर्थः। संवृत्तार्थस्तु कुब्जां कान्यकुब्जानगरी तत्रस्थनारी वा इति। अत्र कुब्जाशब्दः भग्नपृष्ठनार्यामेव रूढः विवक्षितायां नगर्या तत्रत्यनार्या वा न तथा ६उपक्रमं विना प्रतीतिकरः इति प्रकृतार्थस्य निपुणमतिबोध्यतया अत्र संवरणम्। इति वश्चिता प्रहेलिका ॥ १०९॥ व्युत्क्रान्तामुदाहरति-दण्डे इति। कर्कशकण्टके तीक्ष्णकण्टकावृते। दण्डे पंगिन्या नाले। अङ्गानि घट्टयन् घर्षयन्। वल्गुरवं मधुररवम्। कुर्बन् हंस: तुण्डेन स्वमुखेन । पग्रिन्याः मुखं कमलरूपम्। चुम्बति। अत्रान्वयबोधकारणस्य नामासत्तेः विशेषेण अतिक्रान्तत्वात् व्युत्क्रान्ता ॥ ११० ॥ प्रमुषितां दर्शयति-खातय इति। हे कनि कुमारि। कन्या कनी रुरपितेत अ. :. ३-"क्षणैः. अ.'
Page 388
प्रहेलिकाप्रभेदाः ३६७
चन्द्रे साक्षाद्द्वन्त्यत्र वायवो मम धारिणः ।। १११।। अत्रोद्याने मया दृष्टा वैह्लरी पञ्चपल्लवा। पल्लवे पल्लवे ताम्रां यसां कुसुममञ्जरी॥ ११२॥ सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा। कुमारी च इति। हेमचन्द्रः । ते तव। काल्यते क्षिप्यते यः सः कालः पाद: तस्मिन्। 3कल विक्षेपे इति चौसादिकात् कर्मणि घञ्। स्फातयः । स्फायनं स्फाः वृद्धिः । तस्याः अतिः गमनं यत्र ते। स्फीता इत्यर्थः । प्रभूता इति यावत्। एतादृशाः खातयः खं आकाशम्। तस्यायं खः शब्दः । तस्येदम् इत्यण । अतनं अतिः । ६भावे क्तिन्। खस्य अतिः गमनं येषु ते । शब्दकारिनपुराद्यलकारा इत्यर्थः । क्षुद्र- घण्टिका इत्यन्ये। ते अलंकारा: स्फार्हवल्गवः स्फां स्फातताम् अर्दन्ति ते स्फार्हा: प्रभूताः । वल्गनात् चलनात् जाताः वल्गवः ध्वनयः । स्फार्हाः प्रभूताः १वल्गवः चलनध्वनयः येषां ते स्फार्हवल्गवः । साक्षात्। भवन्ति इति शेषः । श्रोत्रेण प्रत्यक्षीक्रियन्ते इति भावः। क्रीदृशे तव पादे। चन्दति आह्लादयति इति चन्द्रः तस्मिन् चन्द्रे आह्वादके। ततश्च मम वायवः प्राणाः । धारिणः रुद्द- १२चेष्टाः । धृङ् अवस्थाने तुदादिः तस्मात् णिनिः। भवन्ति। केचित्तु धृड् अन- वस्थाने इति धातुपाठं मन्वानाः धारिणः अनवस्थायिनः इत्यर्थ दर्शयन्ति। अत्र अप्रसिद्धपदैः प्रकृतार्थस्य संवरणात् प्रमुषिता ॥ १११॥ समानरूपां दर्शयति-अत्रेति। अत्र उद्याने मया पञ्चपल्लवा वल्लरी लता। दृष्टा। यस्यां वल्लर्याम्। पल्लवे पल्लचे ताम्रा कुसुमम्जरी दृष्टा। अत्र नायि- ३कायां उद्यानस्य बाह: वल्लर्याः अङ्गुलिषु पल्लवानां नखेषु कुसुममन्जरीणां चारोपः। तेन समानरूपेयं प्रहेलिकेति ज्ञेयम् ॥ ११२॥ परुषामुदाहरति-सुरा इति। सुराः शौण्डिकाः । सुरां मच्चं कुर्वन्ति ते सुराः। सुराशब्दात् तत् करोति इति णिचि पश्चात् पचाघच्। अथवा सुस अस्ति एषां इति सुराः। अर्शआदित्वादच्। दशनार्चिषा विकटहास्येन प्रकटितदशनकान्त्या। उपलक्षिता: इत्यर्थः। सौरे सुराया इदं सौरं तस्मिन्। सुरा- मये इत्यर्थः । सरसि सरोवरे। मज्जन्त इव निमज्जन्त इव। मचाः प्रमत्ाः सन्तः। १ तायवो. अ, क. २ मज्जरी. क. ३ चाद्रा अ, क; सान्द्रा, कपा, ४ यस्या:, अ, क.
Page 389
३६८ काव्यादर्शे तृतीय: परिच्छेद:
मज्जन्त इव मत्तास्ते सौरे सरसि सं्रति ॥११३॥ नासिक्यमध्या परितश्चतुर्वर्णविभूषिता। अस्ति काचित् पुरी यस्यामष्टवर्णाह्वया नृपाः ॥ ११४ ॥ गिरा स्खलन्त्या नग्रेण शिरसा दीनया दशा। सुरालये गञ्जायाम्। स्वैरं अ्रमन्ति। अत्र सुरा इति शब्द: देवतासमूहें एव प्रसिद्धः। योगेन तु शौण्डिकेपि विद्यते। तथापि सुरशब्दो देवतार्थमेव प्रथमतः प्रकटयति । तेन देवाः स्वर्गे मत्ता हृष्टाः सन्तः सौरे सरसि मानससरोवरे मज्जन्ति भ्रमन्ति इति अर्थस्य प्रथमतो भानम्। तेन चोपरिनिर्दिष्टस्य प्रकृतार्थस्य निगूहनम्। प्रकृतार्थस्तु रूढ्या संप्रदायेन वा अप्रतीतमपि केवलं अनुशासन- प्रमाणेनैव परिकल्प्य दर्शितः इति प्रयोक्तुः पारुष्यप्रकाशनाव् परुषा॥११३॥ संख्यातामुदाहरति -- नासिक्यमध्येति। नासिकायां भवः नासिक्यः कारः सः मध्ये नामाक्षरमध्ये यस्याः सा। तथा परितः जकारं अभितः । चतुर्मि: वर्णैः अक्षरैः विभूषिता । चत्वारो वर्णास्तु क-आ-च-ई-इति बोद्धव्याः। एतादृशाक्षरभिधाना काचित् पुरी काञ्ची इति नगरी। अस्ति। यस्यां नगर्याम्। अष्टौ वर्णा यत्र तादृशः आह्यः संज्ञा येषां ते। नृपाः पल्लवाः नाम ६राजानः सन्ति । पल्लवाः इत्यत्न पकारअकारलकारद्वयअकारवकारआकारविस- र्गश्वेति अष्टौ वर्णाः सन्ति। सर्वे प्राचीनटीकाकाराः अष्टवर्णाह्रयनृपत्वेन पल्ल- वान् एव स्वीकुर्वन्ति। अर्वाचीनास्तु पुण्डकान् कल्पयन्ति। अपरे पुनः शूद्र- १कान्। तत्र पल्लवाः इत्यत्र वर्णगणनायां विसर्जनीयस्यायोगवाहत्वेन गणनम- नुचितमिति तेषामभिप्रायः स्यात्। परमत्र वस्तुस्थितिरेव निर्णयप्रमाणिका इति जोषंभावमाश्रयामः । अत्र चतुरष्टेति वर्णसंख्यानेन प्रकृतार्थगूहनादियं १२ संख्याता॥ ११४ । प्रकल्पितामुदाहरति-गिरेति। हे वृद्धे जरठे। सखलन्द्या स्खलनशीलया। गिस वाचा। तथा नम्रेण उन्नयनसामर्थ्याभावेन अधोभूतेन। शिरसा। तथा दीनयां हदशा। उपलक्षिता त्वं सोत्कम्पं समयम्। तिष्ठन्तं त्वां प्रतीक्षमाणम्। मां नानु- कम्पसे मयि अनुग्रहं न करोषि। जरठाकामुकस्योक्तिरियम्। अयमापाततोर्थः । १ चातुर्वषर्य०. अ, क.
Page 390
प्रहेलिकाप्रभेदा: ३६९
तिष्ठन्तमपि सोत्कम्पं दृद्धे मां नानुकम्पस ॥ ११५।। आदौ राजेत्यधीराक्षि पार्थिवः कोपि गीयते। सनातनश्च नैवासौ राजा नापि सनातनः ॥ ११६ ॥। अभिप्रेतार्थस्तु हे वृद्धे हे लक्ष्मीः । वृद्धिशब्दस्य संवोधनैकवचनम्। अत्र ६समृद्धयर्थकवृद्धिशब्देन लक्षणया लक्ष्मीः स्व्रीक्रियते। प्रेमचन्द्रमहाशयैस्तु योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्वेरप्याह्नया इमे। इति अमरमुदाहृत्य ऋद्विशब्दो लक्ष्मीवाचक इति स्थिरीकृतम्। परं स शब्द ओषधिविशेषताचकः वनौषधि- 5वर्गस्थितत्वात् पूर्वप्रक्रमानुरोधाच्चेति तैः कथं नालोचितमिति न जानीमः । दारिव्वेण हेतुना स्खलद्गीर्धर्मादिभिरुपलक्षितं मां कथ नानुकम्पसे इति प्रकृतार्थः। अत्र प्रथमं प्रतीयमानादर्थात् परार्थकल्पना इति प्रकल्पिता ॥ ११५ ॥। नामान्तरितामुदाहरति-आदाविति। हे अधीराक्षि चञ्चलनयने । कोपि पार्थिवः पृथिव्यां विदितः । तत्र विदित इति च इत्यनेन अण। आदौ प्रथमम्। 3राजा इति गीयते। ततः सनातन इत्यपि गीयते। इति अप्रस्तुतार्थः । तन्निवारणेन प्रस्तुतार्थोद्भावनाय आह-असौ राजा भूपतिः । नैव। नापि सनातनः । अनेन निषेधेन तर्हि कोसौ कथ्यतामिति प्रश्नः गम्यो भवति। तदुत्तरं तु पार्थिवः ६ परृथिव्यां भवः उत्पन्नः कोपि वृक्षः । स च आदौ पूर्वार्धे। राजा इति गीयते तन्नाम्न: पूर्वभागः राजा इत्यस्ति। तथा स सनातनश्चास्ति। सनातनो नाम नातनशब्देन सहितः । न तनः अतनः न अतनः नातनः । द्वौ नञर्थौ प्रकृ- तार्थ गमयतः इति नातनशब्देन तनशब्द एव संपन्नः। तेन सहितः सना- तनः। तनशब्दान्तः इत्यर्थः । अथवा स नातनः तनशब्दशून्यो न। अन्यत्पूर्व- वद् । तथा च राजाशब्दपूर्वस्तनशब्दान्तश्र शब्दः राजातनः वृक्ष इति १२ निष्पन्नम्। स च प्रियालवृक्षः इति प्रेमचन्द्रशर्माणः । अपरे तु प्रियालवृक्ष- पर्याये राजादनशब्दोस्ति न तु राजातन इति। परं उभावपि एकार्थों एव इति शब्दमालातोवगम्यते। स च वृक्षः न राजा न वा सनातनः इति प्रकृतोर्थः । १५स च नाम्ि नानार्थकल्पनया निगूहितः । अतः इयं नामान्तरिता ज्ञेया। अत्राहुः प्रेमचन्द्रशर्माणः। लक्षणे नामपदं च वस्तुपरं न तु संज्ञामात्नपरं बो- ध्यम्। तेन- १ सोत्कण्ठं, अ. [काव्यादर्श ] ४७
Page 391
३७० काव्यादर्शे तृतीयः परिच्छेद:
हृतद्रव्यं नरं त्यक्ता धनवन्तं व्रजन्ति काः। नानाभङ्गिसमाकृष्टलोका वेश्या न दुर्धराः ॥११७॥
१८ तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां संनिधानेपि क: कूजति मुड्ुर्मुहुः ॥ अत्र सजलकलशरूपवस्तुनि वक्तव्ये प्रथमं नानार्थकल्पनान्नामान्तरिता। एवं-
२१ य एवादौ स एवान्ते मध्ये भवति मध्यमः । अस्यार्थ यो न जानाति तन्मुखे तं ददाम्यहम् ॥ इत्यादावपि। अत्र यवसः प्रतिपाद्य इति ॥ ११६ ॥ निभृतामुदाहरति-हृतद्रव्येति। नाना विविधा या: भङ्गयः शङ्गार- चेष्टाप्रकाराः ताभिः समाकृष्टः वशीकृतः लोक: याभि: ताः। तथा दुःखेन भध्रियमाणा: दुर्घराः । काः हृतद्रव्यं अपहृतधनं नरम्। परित्यज्य धनवन्तं व्रजन्ति। अस्य प्रश्नस्य उत्तरं वर्णनमहिम्रा वेश्या भवेयुः। अतस्तां निषेधति। वेश्याः गणिकाः । न । ता उद्दिश्य नायं मम प्रश्न इत्यर्थः । अतस्तद्गिनाः का इति ६उच्यतामुत्तरम्। अत्रोत्तरत्वनाभिप्रेतः संवृतार्थस्तु नानाभङ्गा: तरङ्गाः सन्ति यस्मिन् तत् नानाभङ्गि नदीजलं तेन समाकृष्टाः स्नानावतीर्णाः लोकाः याभि: ताः। नदीनां जलवीचिमिः जनानां प्रवाहे आकर्षणं सुप्रसिद्धमेव। दुर्घराः धरात् ९पर्वतात् दुर्गताः कष्टप्रदगमनाः। इति प्रेमचन्द्रादयः । दुःखेन धर्तु निरोड्ध योग्याः । वेगवत्तरप्रवाहेण निरोङ्गमशक्या इत्यर्थः । इति परे। हतानि द्रव्याणि द्रुविकारभूतानि पत्रपुष्पादीनि यस्य तम्। अथवा द्रव्याणि पर्वते विद्यमानानि १२ गैरिका दिधातुविशेषभूतानि यस्य तम्। नरं नरसदृशं आश्रयीभूतं पर्वतम्। त्यक्ता - धनवन्तं रत्नाकरम्। व्रजन्ति । एतादृश्यो नद्यः इति उत्तरम्। केचित तु अस्यो- त्तरं श्रियः इति ददति। तच्व संपत् संपदमनुबभ्नाति इति नियमानुरोधेन १५ हतद्रव्यं परित्यज्य धनवन्तं व्रजन्ति इति श्रियो वर्णनं संभवति। अतस्तदपि उपपन्नमेव। अत्र विशेषणानां साधारण्यात् एकतरार्थप्रतिषेधेन्यार्थप्रतातिर्युज्यते। -एवं तत्प्रतीतौ च वाचकशब्दानुपात्तत्वान्निभृतत्वम्। अतो निमृता प्रहेलि- १केयम् ।। ११७ ।। १ हित्वा. कपा. २ शताकुष्ट, अ, बपा.
Page 392
प्रहेलिकाप्रभेद।: ३७१
जितप्रकृष्टकेशा्यो यस्तवांभूमिसाह्वयः। स मामद्य प्रभूतोत्कं करोति कलभाषिणि ॥ ११८॥ शयनीये परावृत्य शयितौ कामिनौ क्रुधां। तथैव शयितौ रागात् स्वैरं सुखमचुम्बताम्॥ ११९ ॥ विजितात्मभवद्वेषिगुरुपादहतो जनः। समानशब्दामुदाहरति-जित इति । हे कलभाषिणि मञ्जुवचने। प्रकृष्टकेशस्य आख्या नाम यस्य स प्रकष्टकेशाख्यः प्रवालः । प्रकृष्टः वालः 1 3केशः प्रवालः इति प्रकृष्टकेशाख्यः प्रवालः । जिता प्रकृष्टकेशाख्या येन सः जितप्रकृष्टकेशाख्यः । तथा अभूमिसाह्यः नास्ति भूमि: धरा यत्र स अभूमि: अधरः तया साह्ृयः सनामा। तव त्वदीयः। ईदृशः यः स मां अद्य प्रभूतोत्कं ६ अत्युत्सुकम्। करोति। प्रवालतुल्यस्तेधरो मां पानेच्छया व्याकुलयतीत्यर्थः । अत्र प्रकृष्टकेशाख्याभूमिसाह्वयशब्दौ लक्षितलक्षणया प्रवालरत्नाधरोष्ठवाचकौ इति प्रकृतस्य समानशब्देनोपस्थापनात् लक्षणया लक्षितेन सदृशशब्देन प्रकृतार्थस्यो- ९पस्थिते: समानशब्दा ॥ ११८॥ समूढामुदाहरति-शयनीय इति। शयनीये शय्यायाम्। कामिनौ क्रुधा परावृत्य पराङ्मुखीभूय। शयितौ । रागात् तथैव शयितौ सन्तौ। स्वैरं यथेच्छम् । :मुखं अचुम्बताम्। पराङ्मुखीभूय शयितयोरेतद्दुर्घटं इति आपाततो मोहः। पर्य- वसितार्थस्तु आदौ क्रुधा परावृत्य पराङ्मुखीभूय शयितौ। पश्चाद्रागात् तथैव परावृत्य पुनः परावृत्य नाम सन्मुखीभूय शयितौ इति। शयने संमुखीभूय ६शयनस्योपपन्नत्वान्न मुखचुम्बनानुपपत्तिः। आपाततः मोहजननात् श्रोतृणां इयं संमूढा प्रहेलिका ॥ ११९ ॥ परिहारिकामुदाहरति-विजितेति । विना पक्षिणा गरुडेन जितः अमृतहरणे विजितः इन्द्रः तस्यात्मभवः पुत्रः अर्जुनः तस्य द्वेषी द्वेष्ा कर्णः ३तस्य गुरुः पिता सूर्य: तस्य पादैः किरणैः हतः संतप्तः। जनः हिमं शीतं
१ गस्तेऽभूमिसमाह्य: क. सुभूतोत्कं, अ, क. 3 रुषा. अ, क, * विजितान्न. क.
Page 393
३७२ काव्यादर्शे तृतीय: परिच्छेद:
हिमापहामित्रधरैर्व्यांपं व्योमाभिनन्दति ॥ २२० ॥ न स्पृशत्यायुधं जातु न स्त्रीणां स्वनमण्डलम्। अमनुष्यस्य कस्यापि हस्तोयं न किलाफलः ॥ १२१ ॥ केन क: सह संभूय सर्वकार्येषु संनिधिम्। लब्ध्वी भोजनकाले तु यदि दृष्टो निरस्यते॥ १२२ ॥ अपहन्ति इति हिमापहः अग्निः तस्य अमित्रः शत्रुः जलं तस्य धराः जलघराः । मेघा इत्यर्थः तैः। व्याप्ं आच्छनम्। व्योम आकाशम्। अभिनन्दति प्रशंसति। ६अत्र यौगिकशब्दपरंपरया प्रकृतार्थस्योद्धवनात् योगमालात्मिका प्रहेलिका ॥१२०॥ एकच्छन्ामुदाहरति-न स्पृशतीति। कस्यापि अमनुष्यस्य मनुष्यत्वा- नर्हस्य। हस्तः जातु कदाचिदपि। आयुधं न स्पृशति। तथा स्त्रीणां युवतीनाम्। ३स्तनमण्डलं च न स्पृशति। तथापि अयं हस्तः अफलः फलशून्यः । न । कि- लेति निश्चये। अयं अर्थः आपाततः प्रतीयते। विचारे तु आयुधस्य कुच- मण्डलस्य च स्पर्शाभावेन नास्मिन् पौरुषत्वं रसिकत्वं वा तत् कथमस्य हस्तः ६सफल: स्वक्रियाकरणासमर्थत्वात् इति विरोधः । तत्परिहाराय अमनुष्यशब्देन गन्धर्वशब्दो लक्ष्यते। तथा च अमनुष्यस्य गन्धर्वस्य हस्तः गन्धर्वहस्तः एरण्ड- वृक्षः। तथाच हारावली-अमण्डपञ्चागुलवर्धमाना गन्धर्वहस्तस्त्रिपुटीफलश्र १इति। स च आयुधं न स्पृशति। तत्खण्डने आयुधस्य मालिन्यं जायते। तथा स्त्रीस्तनमण्डलं न स्पृशति। तस्य कण्डूकरत्वात्। स च अफलो न भवति फलवत्त्वात्। अत्र च आश्रितं फलं व्यक्तं न तु आश्रयो वृक्षः व्यक्तः इति १२ एकच्छन्ना प्रहेलिकेयम् ॥। १२१ ।। उभयच्छन्नामुदाहरति-केनेति। कः पदार्थः । केन पदार्थेन। सह संभूय समुत्पद्य। सर्वकार्येषु संनिधिं सांनिध्यम्। लब्ध्ा च भोजनकाले यदि दृष्टः स्यात् 3 तर्हि निरस्यते दूरीक्रियते। इति प्रश्नः । उत्तरं तु कः कस्य मस्तकस्य अयं कः केशः । इदमर्थेण। केन सह मस्तकेन सह। संभूय समुत्पद्। सर्वकार्येषु चूडामणिमालाविधारणकार्येषु। संनिधि लब्ध्ा भोजनकाले दृष्टः । पात्रे इति ६शेषः । निरस्यते अश्ुचित्वाद्दुरीक्रियते । अत्र आश्रयाश्रयिणोर्मस्तककेशयोः उभयो: छत्नत्वादुभयच्छन्ना इयं प्रहेलिका ॥ १२२ ॥ १ लब्धा, अ. २ वेलायां, अ.
Page 394
प्रहेलिकाप्रभेदाः ३७३
सहया सगजा सेना सभटेयं न चेजजिता। अमातृकोयं मूढः स्यादक्षरज्ञश्र नः सुतः ॥१२३ ॥ सा नामान्तरितामिश्रा वश्चितारूपयोगिनी। एवमेवेतरासामप्युन्नेयः संकरक्रमः ॥ १२४ ॥ ।। इति प्रहेलिकाचक्रम्।। संकीर्णामुदाहरति-सहयेति। सहया हयैरश्वैः सहिता सहया। तथा सगजा गजैः करिभिः सहिता सगजा। तथा सभटा भटैः योधैः सहिता सभटा। 3एतादृशी सेना न चेजिता न पराभूता चेत्। अयं नः अस्माकम् । सुतः अक्षरज्ञः परमार्थतत्त्वविदपि । अमातृकः माति परापरसामर्थ्य परिमाति इति माता न माता अमाता परापरबलानवच्छेत्ता। पश्चात् स्वार्थे कः । एतादृशः मूढः एव स्याद्। ६इति उत्तानार्थ: । गूढार्थस्तु सहया हकारेण यकारेण च सहिता सहया। अत्र हकारेण सर्वे उष्माणः शषसहाः गृह्यन्ते यकारेण च अन्तस्था यरलवाः। तथा सगजा गकारेण जकारेण च सहिता। अत्र गकारेण सर्वः कवर्गः जका- १रेण चवर्गश्च ज्ञेयः । तथैव सभटा पवर्गटवर्गसहिता। तथा सेना इकारण नका- रेण च सहिता। इकारेण अचां नकारेण तवर्गस्य च संग्रहः । एवं भूता अक्ष- राणां पङ्किरिति शेषः । न जिता चेत् सम्यगुच्चारणेन लेखनेन वा स्वायत्ती १२न कृता चेत्। अयं नः सुतः अक्षरज्ञः न क्षरन्ति इति अक्षराः वेदाः तद्विदपि। अमातृकः मातृकाः वर्णाः न सन्ति सम्यक् लेखनेनोच्चारणेन वा यस्य सः । वर्णलेखनोच्चारणानभिज्ञ: मूढ: स्यात्। वर्णव्यवहारानभिज्त्वात। अमात्रिकः इति १५पाठे प्रथमार्थे मात्रा विषयाः ते न सन्ति यस्य विषयपराङ्मुख इत्यर्थः। द्वितीयार्थे मात्रा हस्वदीर्घप्लुतोच्चारकालविशेषः स नास्ति यस्य तत्रानभिज्ञ इत्यर्थ:॥१२३। अन्र संकीर्णतां विशदयति-सेति। सा अधुना दर्शितेयम्। संकीर्णा। यतः नामान्तरितामिश्रा हयादिशब्दानां विविधार्थकल्पनान्नामान्तरिताख्यया प्रहेलिकया मिश्रा जेया। तथा वश्चितारूपयोगिनी वश्चिताख्या या प्रहेलिका तद्रूपेण योग:
१ अमात्रिक: ब, ड, प. २ अस्माच्छोकादनन्तरं अ पुस्तके अधिकं -- इति प्रहेलिकामार्गो दुष्करात्मा प्रदरशितः ।
Page 395
३७४. काव्यादर्शे तृतीय: परिच्छेद:
अपार्थ व्यर्थमेकार्थ ससंशयमपक्रमम्। शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसंधिकम् ॥ १२५ ॥ देशकालकलालोकन्यायागमविरोधि च। इति दोषा दशैवैते वर्ज्याः काव्येपु सूरिभिः ॥ १२६॥ संबन्धः अस्ति अस्या एतादृशी अपि अस्ति। सेनाशब्दस्य प्रसिद्धस्य अत्र अविवक्षितत्वाद् वञ्चिताख्या प्रहेलिकापि विद्यते इति भावः । एवमेव इतरासां ६प्रहेलिकानां अपि संकरक्रमः उन्नेयः ज्ञेयः । अत्र द्वयोः सांकर्य दर्शितम्। अनयैव दिशा त्रिचतुःप्रभृतीनां सांकर्यमुन्नेयमिति भावः ॥ १२४ ॥ एतावत्पर्यन्तं द्वितीयपरिच्छेदारम्भे-काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते (२.१) इति उद्दिष्टान् काव्यशोभाकरत्वेनोपादेयवर्मान् अर्थालंकारान् ३शब्दालंकारांश्च निरूप्य-तदल्पमपि नोपेक्ष्यं काव्ये दुष्ट कथंचन (१.१) इति हेयधर्मान् दोषान् व्याचिख्यासुः भरतादिभि: संगृहीतानां दशसंख्याका- नामेव विवरणं संप्रदायानुगृहीतं नथा अन्यैः अधिकतया संगृहीतानां केषांचित् तेष्वन्तर्भावं केषांचिदनुपयुक्ततां मन्यमानः श्रोकद्वयेन तानुद्दिशति-अपार्थ- मिति देशकालेति च । दोषाणां पूर्व सामान्यलक्षणं विधेयमनन्तरं मेदाः इत्ययं शास्त्रीय: पन्थाः । तदनुरोधेन दोषसामान्यलक्षणं व्ज्या इति ज्ञेयम्। तथा च काव्येषु सूरिि: ये अभिमतप्रतातिव्यवधायकतया विन्नभूताः सन्तः
विद्वत्प्रयोगको श्ञेयो न हि प्रश्नोत्तराश्रयः ॥ इत्याचार्यंदण्डिनः रुतो यमकप्रहेलिकाप्रकारो नाम तृतीयः परिच्छेद:॥ काव्ये दोषगुणाश्रैव विज्ञातव्या विचक्षणेः । दोषा विपत्तयस्तस्य ('ये तत्र क) गुणाः संपत्तय (ये य' क)स्तथा। तथा क पुस्तकेपि अधिकं- इति प्रहेलिकामार्गो दुष्करात्मापि दर्शितः । विद्वस्प्रयोगतो ज्ञेया मार्गा: प्रश्नोत्तराद्यः ॥ १२५॥ । इति प्रहेलिकाचक्रम्॥ विशद्बुद्धिरनेन सुवर्त्मना सुकरदुष्करमार्गमवैति हि। न हि तदन्यनयेऽपि कतश्रमः प्रभुरिमं नयमेतुमिदं बिना ॥ १२६ ॥ इत्याचार्यदण्डिन: रुतौ काव्यादर्शे सुकरदुष्करो नाम तृतीय परिच्छेदः॥ पुष्पिकानन्तरं 'काव्ये दोषगुणा' इत्यादिश्लोकः अपुस्तकस्थः अन्रापि दृश्यते।
Page 396
काव्यदाषा: ३७५
विचार: कर्कशः प्रायस्तेनालीठेन किं फलम् ॥ १२७।। शश्चत् काव्यस्य हेयतामानादयन्ति इति वर्जिताः ते दोपाः इति दोपसामान्य- लक्षणं ज्ञेयम्। वामनो गुणविवर्ययात्मनो दोपा: इत्याह। प्रकाशकृत्-मुख्यार्थ- १हतिर्दोषः इति । केचित्तु दुप्यति काव्यं अनेनेति करणे घञा दोषशब्दं निष्पाद्य तदेव लक्षणमाहुः। सर्वेषां संग्रहः उपर्युक्तलक्षणे भव्रतीति सुधी- भिराकलनीयम्। यस्य विशेषाः। अपार्थ अर्थशून्यन्। व्यर्थ विरुद्धार्थम्। एकार्थ १५अभिन्नार्थम्। ससंशयं संदिग्धम्। अपक्रमं क्रमविरहितम् । शब्दहीनं अपेक्षित- शब्दन्यूनम्। यतिभ्रष्टं विश्रान्तिविच्छेदशन्यम्। भिन्नवृत्तम् वृत्तनियमच्युतम्। विसंधिकं संधिशून्यम्। देशकालकलालोकन्यायागमानां विरोधि विरुद्धार्थ च १८काव्यं दुष्टमिति शेषः । इति एते सूरिभिः काव्येषु वर्ज्या दोपा दश सन्तीति शेषः। उक्तं हि भरतेन- गुढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिष्ठुतार्थम्। १८ न्यायादपेतं विषमं विसंधि शब्दच्युतं वै दश काव्यदोपाः । (१६'८४) इति। प्रकाशकारै :- रसश्च मुख्यस्तदाश्रयाद्वाच्यः (७'१) इत्यादि प्रबन्धेन रसप्राधान्यतया यद् रस-अर्थ-शब्दगत्वेन दोपाणां त्रैविध्यं परिकल्पितं तन्नेषं २१आचार्यदण्डिनः । यतः-शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली (१'१०) इत्येतावदेव काव्यलक्षणं तस्याभिप्रेतम्। तदतुरोधेनैव अत्र शब्दार्थानां दोषाणां परिगणनं तेन कृतमिति बोद्धव्यम् ॥ १२५-१२६॥ इदानीं भामहेन-प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च नेष्यते इति आधिक्यन गणितान् दोषान् निराकरिष्णुराह -- प्रतिज्ञेति। तत्र साध्यनिर्देशः प्रतिज्ञा। साध्यसाधनं हेतुः । प्रसिद्धोदाहरणोपन्यासः दृष्टान्तः । एषां हानिः वैकल्यम्। दोषः अभिमतप्रतीतिव्याघातकतया वर्ज्यत्वेन दोषः। न वेति असौ पर्यनुयुज्य- मानो विचारः एकतरावधारणेन निश्चयः । प्रायः कर्कशः केवलशास्त्रीयसरण्य- ६वगाहित्वाव रूक्षः । अतः सरसेस्मिन् साहित्यप्रवन्धे आलीढेन आस्वादितेन ज्ञातेनेव्यर्थः। तेन दोषादोषत्वविचारेण। किं फलम् न कोप्युपयोगोस्ति। यथा शास्त्रीया अपि अभिघालक्षणाव्यञ्जनादयः पदार्था उपयुक्ता इति तचदालंकारे १ वेत्ययं अ.२ कर्केशप्रायस्. अ, क.
Page 397
३७६ काव्याद्शें तृतीयः परिच्छेदः समुदायार्थशून्यं यत् तदपार्थमितीष्यते। डेन्मत्तमत्तवालानामुक्तेरन्यत् दुष्यति॥ १२८॥ समुद्रः पयिते देवैरैहमस्मिँ जरातुरः। अमी गर्जन्ति जीमूता हरेरैरावणँः प्रियः ॥ १२९ ॥ ९विवेचिताः यथा वा शास्त्रीयः उद्देशविधेयभावविचारः उत्प्रेक्षालंकारे सप्रपञ्चं निरूपितः न तथायं विषयः इति न तद्विचारः क्रियते। तथा अभिमतप्रतीति- व्याघातकरं दुष्ट तच्च न सर्वत्र प्रतिज्ञादिह्यनौ वर्तते। अप्रतिज्ञातानां प्रासाङ्गिक- १२साध्यानामपि कविभि: वर्णितत्वात्। निर्हेतुता च प्रसिद्धसाध्ये नैव वैरस्यमा- वहति। दृष्टान्तोपन्यासस्त्वलंकार एव। तद्धानिरपि नात्यन्तवैरस्यजनिका। अलं- कारशून्यत्वेपि काव्यत्वानपायात्। तस्मान्न केवलं प्रतिज्ञादिहानिः दोषस्वरूपा १५ किंतु यत्र सा अभिमतप्रतीतिव्याघातकारिणी तत्र दोषो नान्यत्र इति अनित्य- दोषविचारो नायमस्माभिर्वितन्यते इति भावः ॥ १२७ ॥ उद्देशकरमानुरोधेनादावपार्थ लक्षयति-समुदायेति। समुदायस्य वाक्य- घटकपदसमूहस्य महावाक्यघटकवाक्यसमूहस्य वा यः अर्थः विशेषणविशेष्य- 3भावेन संबद्धतया एकतया प्रतीयमानः प्रतिपाद्यः तेन शन्यम्। यद्वाक्यं महावाक्यं वा। तत् अपार्थम् अपार्थसंज्ञकदोषदुष्टम्। इष्यते कविभिरिति शेषः । यत्र योग्यताकाङ्कासत्यभावेन न पदानां वाक्यानां वार्थावगतिर्भवति तत् अपार्थम् इति ६भावः । तच्च अपार्थ वाक्यं उन्मत्ता उन्मादरोगाभिभूताः मत्ता मदादिना मूढाः बाला: शिशवः तेषां उन्मत्तमत्तबालानाम्। उक्ते: भाषणात्। अन्यत्र दुष्यति। अनुन्मत्तादीनामुक्तौ तद्वाक्यं दुष्टम्। उन्मत्तोक्तौ न दुष्टम्। इति ज्ञेयमिति भावः ॥ १२८॥ अपार्थमुदाहरति-समुद्रः पीयते इति। देवैः समुद्रः पीयते। अत्र योग्यतायाः अभावात् पदसमुदायार्थशून्यत्वम्। अहं जरातुरोस्मि। अमी ·जीमूता: मेघाः । गर्जन्ति । हरे: इन्द्रस्य । ऐरावणः ऐैरावतः । प्रियः । इति त्रीणि वाक्यानि स्वार्थबोधसमर्थान्यपि परस्परानाकाङ्कत्वात् तेषामङ्गाङ्गित्वविरहेण १ 'रथकमिष्यते. अ, व्मिहृष्यते. कपा. २ तन्मत्तोन्मत्तवाला°. अ, क; प्रमत्तो- : न्मंत्वाला ° बंपा. • उक्तैरन्यत्र. अ. * देवैः इत्यत्र सोडयं. अ,'बपा; मेदे कपा. ५ अस्मि इत्यत्र अध. अ. ६ एरावतः. अ.
Page 398
काव्यदोपा: ३७७
इतरत्र कवि: को वा प्रयुजीनैवनादिकम् ॥ १३० ॥ एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम्। विरुद्धार्थतया व्वर्थमिति दोषेपु पठ्यते ॥ १३१ ॥ एकवाक्यत्वाभावः । ततश्च न समुदायार्थप्रतीतिः। न वा केवलं स्वार्थसंपादनेन ६विश्रान्तौ विशेषार्थावगतिः । अतः अपार्थमतत्। महावाक्ये अवान्तरवाक्या- नामङ्गाद्गित्वेनैवार्थबोधो भवति। तथाचोक्तम्- स्वार्थबोधसमर्थानामङ्गाङ्गित्वव्यपक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ।। इति ॥ १२९ ॥ अपार्थदोषस्य गुरुत्वमपवादपरिहारपूर्वकं कथयि-इदमिति। अस्वस्थ- चित्तानां उन्मादादिभिरभिभूतमनसाम्। इदं पूर्वदशितम्। अभिधानं कथनम्। 3अनिन्दित निर्दोषम्। स्यात्। प्रयोक्तुरनवधानतया शिष्टास्तद्वाक्यं सदोषं नैव जानीयुरिति भावः । इतरत्र उन्मत्तादिभिन्नप्रयोक्तृषु मध्ये। को वा कविः पण्डितः । एवमादिकं योग्यताकाङ्ादिभिविरहितं वाक्यम्। प्रयुञ्जीत न कोपि प्रयुञ्जीत ६इत्यर्थ: ॥ १३० ॥ व्यर्थ लक्षयति-एकेति। एकवाक्ये एकस्मिन् वाक्ये। तथा प्रबन्धे वाक्यसंघाते वा। पूर्वापरपराहतं पूर्वापरविरुद्धार्थम्। वस्तु अस्ति चेत् तद् व्यर्थ- ३ तया विरुद्धार्थतया व्यर्थम्। इति व्यर्थसंज्ञकदोषेषु पठ्यते गण्यते। अनेन व्यर्थ- मित्यन्र विरिति उपसर्ग: विरुद्धार्थकः न तु अभावार्थकः इति सूचितम्। अर्थविरोधश्चात्र शाब्दवोधानन्तरं पर्यालोचनया प्रतीयते। अपार्थे तु आकाङ्का- ६दिविरहाद शाब्दबोध एव न भवति। एकवाक्ये प्रबन्धे च इत्यनेन वाक्य- प्रबन्धपर्यालोचनया विरोधप्रतिभानं अस्या विषयः प्रकरणादिपर्यालोचनया विरोधप्रतिभासस्तु वक्ष्यमाणदेशकालादिविरोधविषयः इति विवेक:। अस्मिन् एव दोषे अन्यैरुक्ता विरुद्धमतिकारित्व-प्रकाशितविरुद्धत्व-अमतपरार्थत्व-परिपन्थि- रसाङ्गपरिग्रहादयो दोषा अन्तर्मचन्तीति ज्ञेयम् ॥ १३१ ॥ [काव्यादर्श] *८
Page 399
काव्यादर्शे तृतीयः परिच्छेद:
जहि शत्रुबलं कृत्सं जयँ विश्वंभरामिमाम्ँ। तर्वें नैकोपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥ १३२ ॥ अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः । यस्यां भवेदभिमता विरुद्धार्थापि भारती॥ १३३ ॥ परदाराभिलाषो मे कथमार्यस्य युज्यते। पिवामि तरलं तस्याः कदा तु दशनच्छद्म् ॥ १३४ ॥ प्रबन्धगतव्यर्थत्वमुदाहरति-जहीति। कृत्सं शत्रुबलं जहि विना- शय। इमां विश्वंभरां जय स्वायत्तां कुरु। सर्वभूतानुकम्पिनः प्राणिमात्रेषु दयां कुर्वतः। तव एकोपि विद्वेष्टा शत्रुर्नास्ति। अत्र शत्रुशून्यस्य सकलशत्रुबलहननं तथा सर्वभूतानुकम्पिनः पृथ्वीजयश्च पर्यालोचनया नोपपद्यते ॥ १३२ ॥
विरुद्धार्थता क्कचिद् गुणो भवतीति कथयति -- अस्तीति। साभिषङ्गस्य दुःखादिना अभिभूतस्य। अभिषङ्गः पुल्िङ्गः पराभवाकोशशपथेषु। इति मेदिनी । चेतसः काचित् सा अवस्था विवेकशून्या स्थितिः । अस्ति । यस्यां अवस्थायाम्। वक्तु: विरुद्धार्थापि भारती अभिमता भवेत् शिष्टैः न केवलं निर्दोष- ल्वेन अनुमता किंतु गुणवत्तया अङ्गीकृता भवेत् ॥ १३३ ॥ व्यर्थस्य गुणत्वमुदाहरति -- परेति। आर्यस्य अभिजनवतः । मे परदारा- भिलाषः पराङ्गनाभिरतिः । कथं युज्यते । तस्याः पराङ्गनायाः तरलं लज्जाभय- ३जनितसंघमाठ चञ्चलम्। दशनच्छदं अधरोष्ठम्। कदा नु पिबामि। अत्र पूर्वार्धो- कस्य आर्यस्य परदाराविमुखत्वस्य तस्या रदनच्छदं पिबामि इति उत्तरा- र्धोकं विरुद्धम्। तच्च कामाभिभूतस्य न दोषावहं प्रत्युत गुणावहम्। तथाच kनेदं वाक्यं व्यर्थदोषवत्। अत्राहुः प्रेमचन्द्रशर्माणः । अत्र पूर्वार्धे व्यङ्गयस्य शान्तव्यभिचारिणो रत्याख्यभावस्य उत्तरार्धव्यङ्गयेन शृङ्गारव्यभिचारिणौत्सुक्येन सह सन्नपि विरोध: प्रयोक्तु: वियोगाभिभूतत्वव्यञ्जकतया शृङ्गारपोषकत्वात् कमपि चमत्कारमावहतीति गुण एव। अत्र द्वयोर्विरोधः । एवं एकत्र बहूनां विरोधे चमत्कारविशेषः । यथा-
१.०कुलम्. अ, कपा. २ भर. अ. 3 अमम्, कपा, * न हि ते कोपि, कृपा; न च ते कोपि, अ, बपा. ५ साभिलापस्य, बपा.
Page 400
काव्यदोपाः ३७९
अविशेषेण पूर्वोक्तं यदि भूयोपि कीन्यते : अर्थतः शब्दतो वाषि तदेकार्थ मत यधा॥ १३५॥ उत्कामुन्मनयन्त्येते वालां तदलकत्विष:। ककाकार्य शशलक्ष्मणः क च कुलं भूयोपि दृश्येत सा १२ दोषाणां प्रशमाय मे श्रुतमहो कोपेपि कान्तं मुखम्। किं वक्ष्यन्व्यपकल्मषाः कृतधियः स्वमनेपि सा दुर्लभा चेतः स्वास्थमुपैहि कः खलु युवा धन्योधरः पास्यति॥ १५इति। अत्र शान्ताङ्गानां वितर्कमतिशङ्काधृतीनां विप्रलम्भाङ्गैरौत्सुक्यस्मृति- दैन्यचिन्ताभिः सह सन्नपि विरोधः प्रयोक्तुर्विरहाभिभूतत्वव्यञ्जनात् शृङ्गारप्रकर्ष- माविर्भावयति। नव्यास्त्वेवंविधस्थले विरुद्धानां वाध्यत्वेनोक्तत्वाद् गुणत्वमित्याङ्क:। १वयथा-संचार्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः । इति ॥ १३४ ॥ क्रमप्राप्तं एकार्थ लक्षयति-अविशेषेणेति। यदि पूर्वोंक्त वचः । अर्थतः शब्दतो वा अविशेषेण विशेषशून्येन अभिन्नेनेत्यर्थः । भूयोपि पुनरपि। कीर्त्यते उतत् एकार्थ मतम्। अत्र अविशेषेणेत्यनेन विशेषविवक्षयोक्तार्थस्य पुनःकीर्तनं न दोषाय इति बोद्धव्यम्। एतदेव अनुकम्पाद्यतिशयः (३'१३७) इत्यनेन ग्रन्थकर्त्रा स्फुटीक्रियते । केचित्तु अविशेषेण एकरूपेण इत्यर्थ दर्शयन्ति। ६अयं च दोष: एकार्थः एकार्थगतः एकाकारशब्दगतश्चेति ज्ञेयम्। तेन च भिन्नार्थक एकाकारशब्दप्रयोगे नायं दोषः। अन्यथा सर्वस्यापि यमकस्यैकार्थ- दोषग्रस्तत्वापत्तिः। अत एव शब्दपौनरुक्त्येर्थस्यापि अङ्गत्वादेकार्थ इति संज्ञा समुपपन्ना। अन्यथा गुणदोषालंकारसंज्ञानां प्रायः योगबलादेव प्रवृत्तिः इति सर्वालंकारिकसंमतत्वात् मिन्नार्थकैकाकारशब्दावृत्तौ एकार्थ इति संज्ञा अनुपपन्ना स्याद्। एवं च-सुरा विप्रैः सुरा नीचैः सेव्यन्ते भक्तिभावतः । इति देवमद्य- १२ वाच्यैकाकारस्य सुराशब्दस्यावृत्तौ नायं दोषः । यत्र शब्दभेदः तत्र केवलं अर्थस्य पौनरुक्त्यम्। यत्र तु शब्दाभेद: तत्र शब्दाथर्योः पौनरुक्त्यमिति ज्ञेयम्। अर्थतः शब्दतो वा इत्यनेन अर्वाचीनैरुक्तस्य पौनरुक्ताख्यार्थदोषस्य कथितपद- १५त्वाख्यशब्ददोषस्य चोभयोरत्र संग्रहः इति सूचितम् ॥ १३५ ॥ अर्थगतमेकार्थमुदाहरति-उत्कामिति। तस्याः बालायाः अलकानां इव
Page 401
३८० काव्यादर्शे तृतीय: परिच्छेद:
अम्भोधरास्तडित्वन्तो गम्भीरास्तनयित्नवः ॥ १३६ ॥ अनुकम्पाद्यतिशयो यदि कश्चिद्विवक्ष्यते। त्विट् येषां ते तदलकत्विषः । स्तनयित्वः गर्जनशीलाः । तडित्वन्तः विद्युद्युक्ताः । ३गम्भीरा अम्भोधराः उत्कां उत्कण्ठिताम्। बालां उन्मनयन्ति सोत्सुकां कुर्वन्ति। अत्र गम्भीरा: स्तनयित्रवः इति तथा उत्कां उन्मनयन्ति इति शब्दा एकार्था एव इति पौनरुक्त्यम्। पर्यायान्तरानुपादाने प्रकारान्तरेण पूर्वोक्तार्थस्य पुनः ६प्रतीतावप्यस्य सद्धावो ज्ञेयः । यथा- सहसा विदधीत न क्रिया- मविवेक: परमापदां पदम्। वृणते हि विमृश्यकारिणं गुणलुब्धाः खयमेव संपदः ॥ इति। अत्रोत्तरार्धेन व्यतिरेकेण द्वितीयपादार्थ: अिहितः इति पौनरुक्त्यम्। १३ यत्रावयवार्थापेक्षया संज्ञाशब्दानामुपादानं न तत्रायं दोषः। यथा -- सा त्रियामा तदार्तस्य चन्द्रमण्डलमण्डिता। राजो विलपमानस्य न व्यभासत शर्वरी ॥ १५ अत्र त्रियामाशर्वरीशब्दयोरेकार्थत्वेपि त्रियामाशब्दः अवयवार्थमादाय शर्वरीविशे- षणत्वेन प्रयुक्तः। अतो नात्र एकार्थतादोषः । तथैवोक्तोदाहरणे तडित्वन्तः इति शब्दस्य न पौनरुक्त्यमिति बोध्यम्। मूले अर्थतः पौनरुक्त्यं दर्शितम्। शब्दतः १८ पौनरुक्त्यं तु प्रकाशे दर्शितम्। यथा- अधिकरतलतल्पं कल्पितस्वापलीला परिमिलननिमीलत्पाण्डिमा गण्डपाली। सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायै।वराज्याभिषेकम् ॥। (पृ० ३४२) इति । अत्र लीलाशब्द: पुनरुक्तः ॥ १३६ ॥ अस्य प्रतिप्रसवमाह-अनुकम्पेति । यदि कश्चित् अनुकम्पादीनां अतिशय :- प्रकृतस्येति भाव: विवक्ष्यते वक्कुमिष्यते। तदा पुनरुक्तोपि अर्थः । न
Page 402
३८१
न दोष: पुनरुक्तोपि अन्युतेयमकंभिय: । १३७।। हन्यते सा वरारोहा स्मरणाकाण्डचैरिणा। हन्यते चारुसवीङ्गी हन्यते मञ्जुभाषिणी ॥ ३८ ।। निर्णयार्थ प्रयुक्कानि संक्ञयं जनयन्ति चतूँ। वचांसि दोष एवासौं ससशय इति स्मृतः ॥ १३९ । ३दोष: दोषवान्। प्रत्युत इयं अलंक्रिया काव्यशोभाधायकत्वेन स अलंकारो भर्वाति। तदुक्तं भामहेन -- कथमाक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते।
६ भयशोकाभ्यसूयासु हर्षविस्मययोरपि। यथाह गच्छ गच्छेति पुनरुकतं न तद्विदुः ॥ (४'१३) इति।
इत्यादौ विशेषार्थविवक्षया न पौनरुक्तदोष इति तु वामनादयः मन्यन्ते ॥१३७॥
अनुकम्पायां पौनरुक्ते निर्दोषत्वमुदाहरति-हन्यत इति। सा वरारोहा सुन्दरी। अकाण्डवैरिणा निष्कारणरिपुणा । स्मरेण हन्यते पीड्यंत। चारूणि ३मनोहराणि सर्वाणि अङ्गानि यस्याः सा चारुसर्वाङ्गी हन्यते। मञ्जुभाषिणी मधुरवचना हन्यते। अत्र हन्यते इतिपदस्य पौनरुक्त्यं नायिकायाः प्रस्तुताया अनुकम्पनीयत्वं सविशेषं द्योतयन् कमपि चमत्कारमावहन् काव्यमुपस्कुरुते ६इति नात्र एकार्थत्वदोषः। एवं विधेयानुवादादावपि। यथा-उदेति सविता ताम्रस्ताम्र एवास्तमेति च । इत्यत्र नायं दोषः इति अर्वाचीनाः ॥ १३८॥ ससंशयं लक्षयति-निर्णयार्थमिति। निर्णयार्थ निश्चयार्थम्। प्रयुक्तानि वचांसि चेत् यदि संशयं जनयन्ति संदेहमुत्पादयन्ति । तर्ह्यसावेव दोषः ससंशयः एतत्संज्ञकः स्मृतः। एतेन संशयार्थ प्रयुक्तस्य वाक्यस्य संशयजनकत्वे न दोषः । एतच्चाग्रे स्फुटीभविष्यति। अयं च दोषः शब्दगतोर्थगतश्च बोद्धव्यः । यत्र संशयेन निश्चितान्वयबोधानुपपत्या निश्चितार्थानुपपत्तिः तत्र शाब्दः। यत्र ६तु अर्थबोधानन्तरं वक्त्राध्यनिश्चयस्तत्रार्थगतः। यथा काव्यप्रकाशे-
१ °रुतिः. अ, कपा. २ यत्. बपा.
Page 403
३८२ काव्यादर्शे तृतीयः परिच्छेद:
मनोरथप्रियालोकरसलोलंक्षणे सखि। आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदशम्॥ १४० ॥ ईदृशं संशयायैवं यदि जातु प्रयुज्यते। स्यादलंकार एवासौ न दोषस्तत्र तद्यथा॥ १४१ ॥ पश्याम्यनङ्गजातङ्कलङ्गितां तामनिन्दिताम्।
मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ (पृ० २९१) अत्र प्रकरणाद्यभावे संदेहः इति ॥ १३९॥ शब्दगत संशयमुदाहरति- मनोरथेति। जारं प्रति सानुरागं पश्यन्तीं नायिकां प्रति तन्मातुस्तदाचरणपरिज्ञानशङ्कया सख्या उक्तिरियम् । 3मनोरथप्रियः वाञ्छितप्रेयान् तस्य आलोकने यः रसः प्रेमावेशः तेन लोले तरले ईक्षणे यस्याः सा तत्संबुद्धिः । सखि असौ तव माता आराद्वृत्तिः समीप- वर्तिनी। अत ईदृशं तव दुराचारम्। द्रष्टुं सा न क्षमा न सहिष्यते। तन्निवर्त- ६ स्वेति भावः । अथवा आरात् दूरवर्तिनी सा तव ईदृशं सतृष्णजारप्रेक्षणम्। द्रष्टं न क्षमा न समर्था। अतः पर्याप्त विहर। अत्र प्रथमार्थे त्वं विहरणान्निवर्तख द्वितीये च यथेच्छं प्रवर्तस्व इत्युभयोर्विरुद्धयोरर्थयोरेकतरस्य वक्तुरभिप्रेतस्या- १निश्चयात् संशयः । अयं आरात इति नानार्थशब्दोपनिबद्धः इति शब्दगतः।१४०।
अस्य कुत्रचिद्रुणत्वं दर्शयति-ईदृदशमिति ! यदि जातु यदि नाम कदापि। ईदृशं संदेह्युक्तं वाक्यम्। संशयायैव संशयमुद्दिश्यैव। प्रयुज्यते 3 उपयुज्यते। तदा असौ संशयालंकार एव स्यात्। तत्र दोषो न। तथा च संशयः विवक्षितश्चेत् तदासौ गुणः यदा त्वविवक्षितस्तदा दोषः ॥ १४१ ॥ संशयगुणमुदाहरति-पश््यामीति। अनिन्दितां तां त्वत्प्रेयसीम्। अनङ्ग: मदनः तस्मात् संजातेन आतङ्केन व्याधिना लद्वितां आक्रान्ताम्। कठोरेण कालेन मृत्युना। ग्रस्तां पश्यामि। नः तदाशया कि तत्संबन्धिजीवनाशया कि प्रयो- जनम् । साचिरादेव नामशेषा भविष्यति इत्यर्थः । इत्येकोर्थः । किंवा अङ्गज: क्षणं. अ. २ यादेव, अ. ३ वा तु. वपा
Page 404
कान्यदोष:
कालेनैव कठोरेण ग्रस्तों कि नस्तदाक्षर्या : १४२ ।। कामार्ता घमेतप्ता वेत्यनिश्चयकरं वचः । युवानमाकुलीकर्तुमिति दूत्याह नमेणा ॥ १४३ ॥ उद्देशानुगुणोर्थानामनूद्देशो न चेन् कृतः । अपक्रमाभिधानं ते दोषमाचक्षते दुर्धोः॥।१४४॥ स्थितिनिर्माणसंहारहेतवो जगताममी। मदनः तस्य आतङ्क: संतापः स न भवति इति अनङ्गजातङ्गः। मदनसंताप- भिन्नग्रीष्मकालसंतापेन आक्रान्तां अत एव कठोरेण कालेन संतापजनकग्रीप्मा- दिना अस्तां अभिभूतां पश्यामि। अतस्तदाशया नः किमिति पूर्ववद्। अत्र नायकमाकुलीकर्तु सखीवृत्तान्तं नायकाय निवेदयन्ती दासी बुद्धिपुरःसरमेव एवं ससंशयं प्राह इति गुण एवासौ न दोषः । अत्र किं नस्त्वदाशया इति पाठं स्वीकृत्य बहुभिस्तव नायकस्य आशया इति व्याख्यातं परं तन्न रुचिर- मित्युपेक्षितम् ॥ १४२ ॥ उक्तोदाहरणे संशयस्य प्रस्तुतत्वं दर्शयति-कामार्तेति। युवानं नायकम्। आकुलीकर्तु संशयेन नायिकासमीपगमनायोत्सुकं कर्तुम्। दूती वचनकौशलेन 3कामार्ता धर्मतप्ता वा इति अनिश्चयकरं संशयोत्पादकम्। वचः आह। मदन- व्यथां वा ग्रीष्मव्यथां वा ज्ञात्वा व्याकुलीभूयायं द्रुतं गच्छतु इत्यभिप्रेत्य एवं दूती जगादेति ज्ञेयम् ॥ १४३ ॥ क्रमप्राप्तमपक्रमं लक्षयति-उद्देशेति। अर्थानां उद्देशानुगुणः उद्देशः प्रथमोपन्यासः तदनुगुणः तदनुकूलः । अनुद्देशः पश्चात् संवधिनां पदानां उप- न्यासः । न कृतश्चेत तं दोषं अपक्रमाभिधानं अपक्रमसंज्ञकम् बुधाः आचक्षते कंथयन्ति। क्रमालंकारविपक्षीभूतोयं दोष इति ज्ञेयम्। तथा च यथाक्रमोप- न्यासे क्रमालंकारः अनुपन्यासे च दोषः । क्मिकाणां क्रमेणैवान्वयः सुलभतया बुद्धयारूढो भवति । विपर्यये तु वाक्यार्थबोधमान्थर्यमित्यस्य सदोषत्वम् ।१४४। अपकरममुदाहरति -- स्थितीति । जगतां स्थितिः पालनं निर्माणं १ किं नुत°. बपा, २ स्त्वदाशया. क. 3 तद्दो१०, अ. ४ यथा. अ. ५ तामजाः अ, जगतां मताः, कपा.
Page 405
३८४ काव्यादर्शे तृतीय: परिच्छेद:
शंभुनारायणाम्भोजयोनयः पालयन्तु वः ॥ १४५ ।। यत्न: संबन्धविज्ञानहेतुकोपि कृतो यदि। क्रमलङ्गनमप्याह्ठः सूरयो नैव दूषणम् ॥ १४६ ॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु। आद्यन्तावायतक्ेशौ मध्यम: क्षणिकज्वरः ॥ १४७ ॥ शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धतिः। उत्पत्तिः संहारो विनाशः एतेपां हेतवः कारणानि। शंभुनारायणाम्भोजयोनयः ३ अम्भोजयोनिः ब्रह्मा। ते वः पालयन्तु इत्यन्वयः। अत्रोद्देशानुरोधेन नारायणा- म्भोजयोनिशंभवः इति अनूद्देशः युक्तः । तस्य अतिक्रमात् अपक्रमदोषोयम्। ननु अल्पाच्तरम् इत्यनेन शंभुशब्दस्य पूर्वनिपातः इति वाच्यम्। विष्णुर्ब्रह्म- ६महेशास्ते सतत पालयन्तु वः। इति रचनाया औचित्यात् न तादृशी रचना निर्देषिति दिक्॥ १४५ ॥ क्कचिदयं न दोषो भवति इति दर्शयति-यत्न इति। संबन्धः अन्वय- संबन्धः तस्य विज्ञानहेतुः विशेषावबोधहेतुः । एतादृशः कोपि यत्ः यदि कृतः ३अक्रमेणानूद्िष्टानां अपेक्षितपदे संबन्धावगमाय कविना यतनो विहितश्चेत् इत्यर्थः। तादृशं क्रमलङ्घनं सूरयो विद्वांसः । दूषणं दोषावहम्। न प्राङगः ॥ १४६ ॥ निर्दुष्टमपक्रममुदाहरति -- बन्धुत्याग इति। बन्धुत्यागादित्रिषु पदार्थेषु। आद्यन्तौ बन्धुत्यागदेशत्यागौ। आयतक्केशौ दीर्घक्वेशविधायकौ। मध्यमः तनुत्यागः। 3क्षणिकज्वरः अल्पकालसंतापकः । तनुत्यागः श्रेयान् न बन्धुदेशत्यागौ इत्यर्थः । अत्र आद्यन्तौ इत्यनेन च मध्यमः इत्यनेन च अन्वयस्य स्पष्टावबोधनात् अक्रमिकयोरपि तयोरन दुष्टता। यदि अत्र-द्वावेवात्यायतक्लेशौ तृतीयः क्षणिक- ६ज्वरः । इति पाठः कल्पितः तर्हि तद्पक्रमदुष्टं भवेत्। परं कविना तदन्वय- क्केशपरिहारायैव आद्यन्तौ इति मध्यम इति च निर्दिष्टमतो नात्र दोष:। अत्र प्रेमचन्द्रादिभिर्निरूपितं क्विष्टमिव भाति ॥ १४७॥।
शब्दहीनं लक्षयति-शब्दहीनमिति। लक्ष्यं शब्द: लक्षणं अनु
१ यत्र, अ. २ ज्ञाने, कपा; हेतुः को०. अ, कपा. 3 अदोषं सुरयो यथा. अ.
Page 406
काव्यदोपा: ३८५
पदप्रयोगोशिष्टेष्टः शिष्टेष्टस्तु न दुन्वति ॥ १४८ ॥ अवते भवते वाहुमहीमर्णवशक्करीमू। शासनं तस्य पद्धतिः मार्गः । अनेन लक्षणेन इदं लक्ष्यं सिद्ध अस्य लक्ष्यस्य ३संपादकमिदमेव लक्षणम् इत्यादिक्रमः । अनालक्ष्या अदृ्या लक्ष्यलक्षणपद्धतिः यत्र तादृशः । पदवाक्यादिप्रयोगः शब्दहीनः शब्दो हीनः अपकृष्टः असाधुतया निकृष्टः यत्र इति अन्वर्थशब्दहीनाख्यदोषवान्। तदुक्तमाग्नेये-शब्दशास्त्रविरुद्ध- ६त्वमसाधुत्वं विदुर्बुधाः । इति। तथा आलक्ष्यलक्ष्यलक्षणपद्धतिरपि अशिष्टेष्टश्चेद शिष्टानामनभिमतश्चेत्। सोपि प्रयोग: शब्दहीनदोषवान्। तथाहि-तथा मन्ये दैवतोस्य पिशाचो राक्षसोथ वा। इति। अत्र पुल्लिंगे प्रयुक्तो दैवतशब्द :- पुंसि वा देवता स्त्रियाम्-इति कोशकारैरनुमतोपि शिष्टैः नपुंसक एव प्रयुज्यते। अतोयं लक्षणानुगतोपि शिष्टेष्टो न। तथा-सुरस्त्रोतखिनीं हन्त हन्ति संप्रति सादरम्। इत्यत्र गमनार्थे हन्धातुः प्रयुक्तः । स तु हन् हिंसागत्योः इति १२धातुपाठे गमनार्थे पठितोपि शिष्टास्तस्मिन्नर्थे न तं उपयुञ्जते। अयमपि प्रयोग: शब्दहीनो बोद्धव्यः । एवं द्विविधं शब्दहीनदोषं लक्षयित्वा तदपवादं दर्शयति- शिष्टेष्टस्तु न दुष्यति इति। अनालक्ष्यलक्ष्यलक्षणोपि शिष्टैः इष्टः अङ्गीकृतश्रेत्। १५स न दुष्यति। यथा- आक्षिपन्त्यरविन्दानि भुग्धे तव मुखच्छविम्। कोशदण्डसमग्राणां किमेषां खलु दुष्करम् ॥ (२.३६१) १८ अत्र नलोकाव्ययनिष्ठाखलर्थतृणाम् (पा० सू० २/३।६९) इति सूत्रेण षष्ठी- निषेधेपि शिष्टैः एषां इति प्रयोगस्याङ्गीकरणात् न दुष्टता। संबन्धसामान्यविव- क्षयोपपत्तिस्तु शिष्टाङ्गीकरणादेवेति बोद्धव्यम्। एतेन अप्रयुक्तासमर्थदौषौ शब्द- २१हीने एवान्तर्भूतौ ज्ञेयौ। शिष्टेष्टस्तु इत्यनेन तद्पवादोपि संगृहीतः इति बोद्ध- व्यम् ॥ १४८॥
शब्दहीनमुदाहरति-अवत इति। हे महाराजन् भवते वाहु: तव भुजः। अर्णवाः शकरी मेखला यस्या तां सार्णवामित्यर्थः । शक्करी मेखलानदोः इति 3विश्वः । महीं अवते रक्षति। न जिज्ञासा एतत् मया प्रत्यक्षीकृतत्वात् तद्विषये
१०योग: शिष्टे०. अ. २ य शिष्टेष्टं हि, अ. [काव्यादश] ४९
Page 407
.३८६ काव्यादर्शे तृतीय: परिच्छेदः
महाराजन्न जिज्ञासा नास्तीत्यासां गिरां रसः ।१४९॥। दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान्। कुरुते ललिताधूतप्रवालाङ्कुरशोभिनः॥। १५० ॥ इत्यादिशास्त्रमाहात्म्यदर्शनालसचेतसाम्। अपभाषणवद्भाति न चे सौभाग्यमुज्झति ॥१५१ ॥ जिज्ञासा नास्ति। इत्यासां एवंप्रकाराणाम्। गिरां वाचाम्। रसः चेतःसंतोषा- वहः धर्मः । नास्ति। अपप्रयोगेण चेतसो निर्वेदत्वा् सदर्थमपि वाक्यं नीरसं ६भवति। अत्र अपप्रयोगाः । अवते इत्यत्र आत्मनेपदम् । भवते इत्यत्र षष्ठास्थाने चतुर्थी। अर्णवशक्करीम् इत्यत्र नद्यतश्ष (पा० सू० ५४।१५३) इत्यनेन भाव्यमानस्य कपोभावः। महाराजन् इत्यत्र राजाहःसखि्यष्टच् (पा० सू० १ ५।४।९१ ) इति टजूभावक्च ॥ १४९ ॥। शिष्टेष्टस्तु न दुष्यति इति प्रतिप्रसूतं अदुष्टं शब्दहीनमुदाहरति -- दक्षिणाद्रेरिति । दक्षिणाद्रेः उपसरन् मलयपर्वत गच्छन्। मारुतः वायुः। चूत- ३पादपान् आम्रान्। ललित मन्दं यथा तथा आधूता कम्पिताः ये ग्रवालाडकुराः तैः शोभिनः शोभावतः कुरुते ॥ १५० ॥
उदाहरणं विशदयति-इत्यादीति। इत्यादि दक्षिणाद्रेरुपसरन् इत्यादिपदं शास्त्रमाहात्म्यं शास्त्रे व्याकरणशास्त्रे साधुशब्दप्रयोगे फललेन कथितं यन्माहात्म्यम्- यस्तु प्रयुङ्गे कुशलो विशेषे शब्दान् यथावद्दयवहारकाले। सोनन्तमाप्नोति जयं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥ ६इत्यादिभि: (व्या. म. भा. १.२. १९.) प्रपश्चितं माहात्म्यमित्यर्थः । तस्य दर्शने अलसं मन्दाभियोगं चेतः येषां तेषाम्। पूर्वोक्त वचः अपभाषणवत् भाति। परं सौभाग्यं न उज्झति। शिष्टैर्व्यवहृतत्वात् सौष्टवं न जहाति। अत्र दक्षि- णाद्रेः उपसरणक्रियायाः कर्मत्वात् कर्मणि द्वितीया (पा० सू० २।३।२) इत्यनेन तत्न द्वितीयया भाव्यम्। षष्ठी तु दृश्यते। परं सा न दुषा। ईदृश-
१ शास्त्रयाथाथ्य९. अ.२ स. अ.
Page 408
कावयदोषा: ३८७
श्लोकेपु नियतस्थानं पदच्छेदं यति विदुः। तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यथा ॥ १५२ ।। स्त्रीणां संगी। तविधिमयमा । दित्यवंशो नरेन्द्र, । पश्यत्यक्कि। ष्टरसमिह शि। ट्टैरमेत्यादि दुष्टम्। कार्याकार्या। ण्ययमविकला। न्यागमेनैव पश्यन् वश््यामुर्वी वहति नृप इत्यस्ति चैवं प्रयोग: ॥ १५३ ॥ स्थले शिष्टैः संबन्धसामान्यविवक्षया षष्ठयाः अङ्गीकरणात्। अपरे तु दक्षिणाद्रे- १: इति पञ्चम्यन्तमेव मन्वते । दक्षिणाद्रेः उपसरन् आगच्छन् इति तेषामभिप्रायः । तदा नायं दोषः। परं तु उपसरन् इत्यत्र सर्तेर्धावादेशविधानादुपधावन् इति भाव्यम्। परं शिष्टाः शीघ्रगमने तमादेशं मन्यन्ते। अत्र ललिताधूतत्वेन मन्द- १५ गमनार्थे सृधातुरिति नोपसरन्निति वैरस्यं जनयति । तथात्र प्रवालाङ्कुरशोभो: त्पादनं परार्थमेव इति कुरुते इत्यत्र परस्मैपदेन भाव्यन्। परं स निमयश्चेतन- विषयः । अत्र वायुस्तु अचेतनः इति न आत्मनेपदप्रयोगे दोषः इत्याङ्कः ॥१५१॥ यतिनिरूपणपूर्वकं यतिदोषमाह-श्रोकेष्विति। श्रोकेषु नियतं छन्दः शास्त्रविधायकैः निश्चितं स्थानं यस्य सः तम्। पदच्छेदं पदस्य सुप्तिडन्तरूपस्य 3छेदः विराम: तं यतिमाहुः । तदुक्तं छन्दोमञ्जर्याम्-यतिर्जिह्वेष्टविश्रामस्थानं कवि- भिरुच्यते । इति । तदपेतं तद्यतिशून्यं पदस्य मध्ये एव जिह्वाविश्रामयुतं इत्यर्थः। तदू यतिभ्रष्टदोषवदू। ज्ञेयम। दोषत्वे कारणं दर्शयति-श्रवणोद्वेजनम् इति। ६तदाह वामन :- विरसविरामं यतिभ्रष्टम्। (२।२।३) इति॥१५२॥
यतिभ्रष्टमपवादसहितमुदाहरति- स्त्रीणामिति। अयं आदित्यवंश्यः सूर्य- वंशोद्धवः । नरेन्द्रः शिष्टैः अमा सह । स्त्रीणां विलासीनीनाम्। अक्विष्टाः विपुला ३रसा यत्र तादृशम्। संगीतस्य नृत्यवाद्यगीतस्य। विधि विधानम्। पश्यति। इत्यादि' पद्यविधानं दुष्टम् यतिभङ्गात्। तथाहि इदं मन्दाक्रान्तावृत्तम्। तत्र च मन्दाक्रान्ता म्भौ न्तौत्गौग्समुद्रर्तुस्वराः। इति पिङ्गलेन चतुर्थेक्षरे ततः षष्ठे ततः सप्मे च ६यतिरुपदिष्टा । चतुर्धाक्षरे ततः षष्ठेक्षरे च पठनानुकूलतया यतिः शास्त्रोप- दिष्टा। सा चात्र चतुर्थदशमाक्षरयोः न कृता। तेन च श्रवणोद्वेजनं भवति
१ वंश्याम् चगा.
Page 409
३८८ काव्यादर्शे तृतीयः परिच्छेद: लुसे पदान्ते शिष्टस्य पदत्वं निश्चितं यथा। तथा संधिविकारान्तपदमेवेति वर्ण्यते ॥ १५४॥ तथापि कटु कर्णानां कवयो न प्रयुञ्जते। ध्वजिनी तस्य राज्ञ: के। तूदस्तजलदेत्यदः ॥ १५५॥ इति यतिभ्रष्टमेतत्। क्वचित् संधिविकारेण श्िष्टपदमध्ये यतिश्वेत् सा न श्रव- णोद्वेजनी भवति इति न तत्र दोष इति दर्शयति-कार्याणीति। अयं नृपः अविकलानि संपूर्णानि। कार्याकार्याणि आगमेनैव शास्त्रेणैव। पश्यन् वश्यां स्वायत्तां अनुरक्तां च । उर्वी वहति वारयति। इत्येवं एतादृशः प्रयोगः अस्ति । १३ यतिम्रष्टदोषशून्यत्वेनाभिमतः इति भावः ॥१५३॥ पूर्वदर्शितसदोषनिर्दोषयतिभ्रंशमुपपादयति-लुप् इति। पदान्ते पदान्ता- वयवस्य लोपे सति। शिष्टस्य अवशिष्टभागस्य। पदत्वं निश्चितम्। यथा-रम्या रामा मधुरवचना हृद्यवेशा जयन्ति। इत्यादिस्थले पदान्तावयवीभूतविसर्गस्य लोपे सति अवशिष्टस्य पदत्वं न व्याहतं भवति। न यतिभ्रंशश्च कल्प्यते। तथा तद्वद् । संधिः स्वरद्यस्य वर्णद्वयस्य वा विशेषसंक्लेषः तदर्थ ये विकाराः ६आदेशागमलोपरूपाः ते अन्ते पुरोभागे यस्य तादृशं पदावयवं पदम्। एवं इति। वर्ण्यते छन्दःशास्त्रज्ञैरङ्गीक्रियते। केचित्तु लुप्ते पदान्ते इत्यस्य विभक्त्यादिलोपे सति अवशिष्टं राजा वारि कुरु पच इत्यादिकं पदं शास्त्रकारैरनिश्चितमस्ति । तथा संधिविकारे परतः पूर्व अवशिष्टं पदं मन्वते इत्याहुः । तादृशपदे च यतिः स्याच्चेन्न न तत्र यतिभ्रंशदोषः । तथा च कार्याकार्येत्यादौ संधिविकारान्तत्वान्न पदत्वहानिः न च यतिभ्रंशो दोषः । स्त्रीणां संगीतेत्यादौ न तथाविधपदत्वम्। १२ अतः यतिभ्रंशदोषस्य अवकाशोस्ति ॥ १५४ ॥ स्वरसंधिकृतप्रतिप्रसवं संकोचयति-तथापीति। तथापि पूर्वदर्शित- प्रकारेण संधिविकारे पूर्वावशिष्टस्य पदत्वस्वीकारेपि। तस्य राजः ध्वजिनी सेना। केतुभि: रथध्वजैः । उदस्ता उत्क्षिप्ता जलदा यथा तथाविधा। अत्युच्चकेतुमिः जल- दोत्क्षेपविधायिनी सेना वर्तते इति शेषः । इत्यदः एतादृशं संधिविकारान्तपदम्। कर्णानां कट्ठु श्रवणवैरस्यावहम्। अतः कवय एतादृशयतिभ्रंशं न निर्दोषं मत्वा १ 'रान्तं पद्म्, अ, ब, क. १ ०वर्णानाम्, कपा; कटुकरण तद्. बपा.
Page 410
काव्यदापा: ३८९ वर्णानां न्यूनताधिक्य गुरुलध्वपथान्थिति:। तंत्र तद्भ्ित्नव्टत्तं स्यादेय दंप: सुानेन्दित: ५६ इन्दुपादाः शिशिराः स्पृशन्तीत्यूनवर्णदा। सहकारस्य किस[ल]यान्यार्द्राणीत्यधिकाक्षरम् ॥ १५७।। कामेन वाणा निर्व्ाता विमुक्ता मृगेक्षणास्वित्ययथागुरुत्वम्। मदनबाणा निशिता: पतन्ति वामेक्षणास्वित्ययथालघुत्वम्।। १५८ ।। ६प्रयुञ्जते। ईदृशं यतिभ्रंशं दोषतया परिहरन्तीत्यर्थः । एवं च संधिविकारान्तं पदं श्रवणकटु भवति वा न वेति विचार्य तदनुरोधेन सदोपनिर्दोषत्वं ज्ञेयम् ॥१५५॥ भिन्नवृत्तं लक्षयति-वर्णानामिति। यत्र वृत्ते। वर्णानां वृत्तनियमिता- क्षराणां मध्ये। निर्धारणे षष्ठी। न्यूनताधिक्ये वृत्तनियतसंख्यापेक्षया न्यूनाधिकत्वम्। :तथा गुरुलधूनां नियतगुरुलघुक्रमस्य अयथास्थितिः विपर्ययेणावस्थानम्। तत्र पद्ये। तद् तादशं दुष्टम्। भिन्नवृत्तं स्यात् भिन्नवृत्तदोषो भवेत् । अथवा तद् वाक्यम्। भिन्नवृत्तं मिन्नवृत्तदोषवत्। स्यात्। अयं दोषः सुनिन्दितः विशेषनिन्दितः । ६छन्दोनभिज्ञाने सर्वे उपहसन्ति । अतोयं दोषो विशेषतः परिहरणीयः ॥१५६॥ तत्र न्यूनाधिकाक्षरं उदाहरति-इन्दुपादा इति । शिशिराः शीतलाः । इन्दुपादाः चन्द्रकिरणानि। स्पृशन्ति । अत्र ऊनवर्णता प्रथमचरणे सप्ताक्षरत्वात्। ३अनुष्टुभस्त्वष्टाक्षरनियमात्। सहकारस्य आम्रस्य। किसलयानि पल्लवाः । आर्द्राणि स्न्निग्धानि। सन्तीति शेषः। इति अधिकाक्षरम्। नवाक्षरत्वादेको वर्णोधिक: ।१५७।
गुरुलघुक्रमभङ्गमुदाहरति-कामनेति। कामेन मृगेक्षणासु निशाता बाणा विमुक्ता इत्यन्वयः । इति अयथागुरुत्वं छन्दःशास्त्रनियमविरुद्धं गुरुत्वम्। तथाहि अ्र प्रथमचतुर्यचरणौ इन्द्रवज्रालक्षणोपतौ। द्वितीयतृतायौ च उपेन्द्र- वज्रालक्षणोपेतौ। अतश्च उपजातिवृत्तमेतत्। तत्रैवं सति प्रथमपादे सप्तमाक्षरं गुरु विद्यते तच्च लक्षणे न घटते। यतः स्यादिन्द्रवज्रा ततजास्ततो गौ इति इन्द्र- वज्रालक्षणातसप्तमाक्षरस्य लघुत्वमपेक्ष्ते। अयथालघुत्वं दर्शयति-मदनेति। १ यत्र, अ, क. २ निशिता, अ, ब. ३ स्मरस्थ, ब; स्मरेण, बपा. ₹ सृगेक्षणा°. अ.
Page 411
३९० काव्यादर्शे तृतीय: परिच्छेद:
न संहितां विवक्षामीत्यसंधानं पदेषु यत्। तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम्॥१५९ ॥ मन्दानिलेन चलैता अङ्गनागण्डमण्डले। मदनस्य बाणाः निशिता: वामेक्षणासु पतन्ति इति अयथालघुत्वम्। यतः उपेन्द्रवज्रा जतजास्ततो गौ इति उपेन्द्रवज्रालक्षणप्राप्तः पादादौ जगण: द्विती- १याक्षरलघुत्वे न संभवतीत्यर्थः ॥ १५८॥ विसंधिकं लक्षयति-न संहितामिति। संहितां वर्णानामतिशयित- संनिधिम्। न विवक्षामि- संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥। इति वैयाकरणनियमानुसारेण वाक्ये संहितायाः विवक्षाधीनत्वान्नाहं तस्य- ६विवक्षां करोमि इति संकल्प्य। पदेषु पदावयववर्णेषु। यत् असंधानं तत्तन्नियमानु- राधिन आदिशादिकं विधायासंयोजनम्। तद् वाक्यम् । विसंधि विगतः संधि: यस्मात् एतादृशम्। बोद्धव्यम्। अयं भावः। वाक्ये संहितायाः पुरुषाधीन- ९त्वेन वैकल्पिकत्वं स्वीकार्यम्। तथा च वाक्ये संधिकार्याकरणं यद्यपि व्याकरण- शास्त्रे न दुष्टतया परिगणितं तथापि साहित्यशास्त्रे विसंधिवाक्यस्य पद्ये विशेषतः वैरस्योत्पादकतया सदोषत्वं स्वीकार्यमेव। गद्ये तुन तादृशो नियमः। तत्र १२वक्तुर्यत्र विश्रान्तिरपेक्ष्यते तत्न सन्धेरविवक्षा एव युक्ता। यथा हे सखे एहि अनुगृहाणेमं जनम् इत्यादौ। पद्येपि विसंधेः कुत्रचिदनुमति दर्शयति-न प्रगृह्यादि हतुकम् इति। प्लुतप्रगृह्या अचि नित्यम् (पा० सू० ६।१।१२५) १५इत्यनेन यत्र संध्यभावः तत्पदयोः विसंधि पद्येवस्थानं न दोषावहम्। अयं च दोषाभावः सकृत्प्रयोगे। असकृत्प्रयोगे तु दोषावह एव श्रवणोद्वेजकत्वाद्। यथा-कमले इव लोचने इमे अनुबभ्नाति विलासपद्धतिः । इति। साहित्यशास्त्रेपि १८श्लोकार्धान्ते संहिताविरामः सर्वसंमतः । विसंिपदेन अर्वाचीना अ्लीलत्वं कष्टत्वं चेति दोषद्वयं स्वीकुर्वन्ति। तदुदाहरणानि काव्यप्रकाशादावनुसंधेयानि ॥१५९॥ विसंधिमुदाहरति-मन्दानिलेनेति। नभसि वियति। चलता मन्दानिलेन
१ चरता. अ; अमुना, क.
Page 412
काव्यदोषाः ३९१
उप्मुद्देदि घर्माम्भो नभस्यस्मंद्वपुष्यपि॥ १६० ॥ मानेर्ष्ये इहँ शीर्येते त्त्रीणां हिमऋता प्रिये। आसु रात्रिष्विति प्राज्ञैरास्नातं व्यस्तमीदृशम्॥ १६१ ॥। देशोद्रिवनराष्ट्रादि: कालो रात्रिंदिवर्तवः। नृत्यगीतप्रभृतयः कला: कामार्थसंश्रयाः ॥ १६२॥ अङ्गनाया: गण्डमण्डले कपोलतले । उद्धेदि समुत्पन्नम् । धर्माम्भः स्वेदोदकम्। लुप्तम्। तथा अस्मद्वपुषि अपि उद्भिनं धर्माम्भः लुप्तम् । अत्र प्रथमपादान्ताकारस्य द्वितीयपादाद्यकारेण संधिर्न कृतः । संधौ वर्णन्यूनतापत्तेः । अतः एतत् विसं- विदोषग्रस्तम् ॥१६० ।। प्रगृह्यादिना अनुमतं संधिविश्लेषं दर्शयति-मानर्ष्ये इहेति । हे प्रिये इह हिमऋतौ अस्मिन् हेमन्ते। आसु रात्रिषु अतीवशीतलदीर्घासु रजनीषु। स्त्रीणां 3मानेर्ष्ये मान: प्रणयकोपः ईर्ष्या नायकापराधजनितकोपः तौ उभावपि। शीर्येते क्षयं गच्छतः । मानेर्ष्ये परित्यज्य नार्यः प्रियतममालिङ्गन्तीत्यर्थः । ईदशं व्यस्तं विसंधि। प्राजैः साहित्यकोविदैः। आम्नातम् विहितम्। मानेर्ष्ये इह इत्यत्र ईदूदेद्- द्विवचनं प्रगुह्यम् (पा० सू० १।१।१११) इत्यनेन प्रगृह्यसंज्ञायां प्रुतप्रगृह्या अचि नित्यम् (पा० सू० ६।१।१२५) इति प्रकृतिभावः। तथा हिमऋतौ इत्यन्रापि ऋत्यक: (पा० सू० ६।१।१२८) इति प्रगृह्यसंज्ञा ॥ १६१॥ देशकालकलालोकन्यायागमविरोधि च । इति (३.१२६ ) पूर्वसुद्दि- ष्टानां पदार्थानां निरूपणपुरःसरं तद्विरोधं दर्शयति-देशोद्रिवनेति। अद्ि- ३वनराष्ट्रादि: देशः । आदिशब्देन समुद्रपत्तनग्रामादीनां संग्रहः । रात्रिंदिवर्तवः बहुवचनेन माससंवत्सरादिसंग्रहः । कामार्थयोः संश्रयाः आश्रयभूताः । कलाभिः कामार्थलाभाः भवन्ति अतस्तदाश्रया इति भावः । कलाः चतुःषष्टिसंख्याका ६नृत्यगीतप्रभृतयः ॥ १६२ ॥ १ द्वेदघ, अ. २ स्यस्ममनस्यपि. अ, बपा, क. 3 ईदृशी स्त्रीणां नास्ताम् हिम°. बपा. - अमू आदिष्विति, बपा. ५ आज्ञातम्, अ, क; ज्ञातव्यं, कपा. ६ नाङ्गनमी. अ. ७ अस्माच्छोकात्परतः कपुस्तके अधिकं- आधिध्याधिपरीताय अद्य श्वो वा विनाशिने। को हि नाम शरीराय धर्मापेतं समाचरेत्॥ ३९॥ ८ देशो हि वन. अ. ९ नक्तंदिव°, अ. कपा. १० नृत्त°. अ.
Page 413
३९२ काव्यादर्शे तृतीय: परिच्छेद:
चराचराणां भूतानां प्रवृत्तिलोंकसंज्ञिता। हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥ १६३ ॥ तेषु तेष्वयथारूढं यदि किंचित् प्रवर्तते। कवे: प्रमादाद्देशादिविरोधीत्येतदुच्यते ॥। १६४ ।। कर्पूरपादपामर्शसुरभिर्मलयानिलः। कलिङ्गवनसंभूता मृगप्राया मतङ्गजाः ॥ १६५ ॥
चराचराणामिति। चराचराणां स्थावरजंगमानाम्। भूतानां प्रवृतति: व्यव- हारः। लोकसंझिता लोक इति संज्ञया व्यवहतास्तीति भावः । हेतुः इष्टार्थसाघने ३पुरस्कृता युक्तिः । विद्या विदन्ति अनया इति विद्या शास्त्रं हेतुमूलिका विद्य हेतुविद्या दर्शनशास्त्रमिति भावः । तत्र आगमं बिना केवलं हेतुपुरस्कारेणैव पदार्थानां निरूपितत्वाद्। तदात्मकः तद्रूपः । न्यायः बुद्धार्हतादीनां प्रबन्धाः ६इत्यर्थः । स्मृतिसहिता श्रुतिः । आगमः शैवाद्यागमः ॥ १६३ ॥ तेष्विति। तेषु देशकालादिषु। अयथारूढं प्रसिद्धिविरुद्धम् वस्तुस्थितिशून्य- मित्यर्थः । यदि किमपि कवेः। प्रमादात् अनवधानात्। प्रवर्तते कविभिर्वर्ण्यते। ३तदा एवंग्रकारकं वाक्यमेतत् देशविरोधि कालविरोधि इति उच्यते। तदुक्तं वामनेन-देशकलास्वभावविरुद्धार्थानि लोकविरुद्धानि (२.२.२३,२४) । कला- चतुर्वर्गशास्त्रविरुद्धार्थानि विद्याविरुद्धानि इति ॥ १६४ ॥ देशविरोधमुदाहरति-कर्पूरेति। कर्पूरपादपानां आमर्शः संसर्ग: तेन सुरभिः। मलयानिलः मलयपर्वतसंबन्धी वायुः। कर्पूरपादपा न मलयपर्वते ३वर्तन्ते। स कृष्णागरूत्पत्तिस्थानतया प्रसिद्धः। कर्पूरपादपास्तु चीनदेशे। इति मलयाद्रिरूपदेशविरोधोदाहरणम्। कलिङ्गवनसंभूताः कलिङ्गोत्पन्ना इत्यर्थः । मतङ्गजा मृगप्रायाः अतिहस्वाकाराः । मतङ्गजाः कलिङ्गवने न संभ- ६वन्ति। तेषामुत्पत्तिस्थानं सिंहलद्वीपादि । इति कलिङ्गवनरूपदेशविरोध: १६५ राष्ट्ररूपदेशविरोधं दर्शयति-चोला इति। चोला: द्रविडदेशनिकट- १ लोकानां. अ. २ यथा भूनम्, कपा. ३ कालाा. अ, ४ गरु०, क. ५ श्यामा :. बपा. ६ न मेरुवनसंछन्न्ा: इति पूर्वार्धे बपा, केरला: कुक्कमारुणाः, इति उत्तरार्षे बपा
Page 414
काध्यदोषा: ३९३
इति देशविरोधिन्या वाच: प्रस्थानमीदशम्॥ १६६ ॥। पश्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्वती। मधुरुत्फुल्लनिचुलो निदाघो मेघदुर्दिनः॥ १६७ ॥ श्रव्यहंसगिरो वर्षाः शरैदो मत्तवर्हिणः। हेमन्तो निर्मलादित्यः शिशिर: श्राध्यचन्दनः ॥ १६८ ॥। वर्तिनः प्रदेशाः। कालागुरुः कृष्णागुरुः तेन श्यामाः असिताः कावेरीतीरभूमयः श्येषां तादृशाः। कावेरीतीरेषु न कृष्णागुरुचन्दनाः जायन्ते इति राष्ट्ररूपदेश- विरोधः इति प्रेमचन्द्रशर्माणः। वयं तु न चौलेषु कावेरी प्रवहति इत्यपि देश- विरोध: इति मन्यामहे। देशविरोधमुपसंहरति-इतीति। इति एवम्। देशविरोधिन्याः ६वाच: प्रस्थानं स्थितिः । ईदशं अस्ति । तत् कविना परिहार्यमिति भाव: ॥१६६। कालविरोधं दर्शयति-पिनीति। नक्तं रात्रौ। प्मिनी उन्निद्रा प्रफुल्ला। अहि दिवा। कुमुद्वती स्फुटति विकसति। मधुः वसन्तः । उत्फुल्लः प्रफुल्लः निचुल: वेतसविशेष: यत्र तादृशः । निदाघः उष्णकालः । मेघेन दुर्दिनानि अभ्राच्छादितदिनानि यस्मिन् एतादृशः ॥ १६७ ॥
श्रव्येति । वर्षाः प्रावृद्। श्रव्याः हंसानां गिरः यासु एतादृश्यः । शरदः मत्ता बहिर्णो यासु ताः। हेमन्तः निर्मलादित्यः हिमाच्छादनविरहेण सुग्रकाशः ३आदित्यः यस्मिन् एतादृशः । शिशिरः श्रलाध्यः सेवनाय प्रशस्यः चन्दनो यत्र एतादशः । अत्र पग्निन्या दिवा एव विकासः इति रात्रिविकासवर्णनं रात्रि- रूपकालविरुद्धम्। कुमदत्या रात्रौ एव विकासः इति दिवाविकासवर्णनं दिवस- ६ रुपकालविरुद्धम्। निचुलमञ्जर्याः विकासः प्रावृषि तन्मधौ वर्णनं मधुऋतुरूप- कालविरुद्धम्। निदाध मेघस्य असंभवात् वर्षास्वेव तेषां विद्यमानत्वात् इदं निदाघरूपऋतुकालविरुद्धम्। हंसगिरः श्रव्यत्वं शरत्सु एव न तु वर्षासु। तासु तेषां नष्टमदत्वात्। अतः एतद् वर्षाऋतुकालविरुद्धम्। मयूराणां मत्तता वर्षासु एव न तु शरदि इति पूर्ववत् शरदतुकालविरोधः। हेमन्ते सूर्यमण्डलं हिमावृतं इति तदभाववर्णनं हेमन्तऋतुकालविरुद्धम्। शिशिरे शीतताया वैपुल्याद्
१ हिमजाड्यकृत्, चपा. २ श्राव्य०. अ. ३ शरदामत्तचहिणी. अ.४ नन्दनः. अ.
Page 415
३९४ काव्यादर्शे तृतीय: परिच्छेद:
इति कालविरोधस्य दर्शिता गतिरीदृशी। मार्ग: कलाविरोधस्य मनागुद्दिश्यते यथा ॥ १६९॥ वीरशृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ। पूर्णसप्तस्वरः सोयं भिन्नमार्गः प्रवर्तते॥ १७० ॥ १२ चन्दनचर्चावर्णनं विरुद्धम् इति शिशिरऋतुकालविरुद्धम्। एवमत्र ्लोकद्येन कालविरोधा दर्शिता इति ज्ञेयम् ॥ १६८ ॥ कालविरोधमुपसंहरन् कलाविरोधं प्रस्तौति -- इतीति । इति काल- विरोधस्य गतिः पद्धतिः। ईदृशी एवम् । दर्शिता। इति शब्दः समाप्तिसूचकः । 3 कलाविरोधस्य मार्ग: मनाकू स्वल्पम्। उद्दिश्यते दर्श्यते। चतुःषष्टिकलानां विरोध- दर्शने ग्रन्थविस्तारः स्यादतः स्वरूपावगमाय मनाक् उदाहियते इति भावः ।१६९/ कलासु नाट्यस्य प्राधान्यात् तद्रतरसविरोधं दर्शयति-वीरेति । · वीरशृङ्गारयोः वीररसशृङ्गारसयोः। स्थायिनौ चित्तवृत्तिविशेषवासनारूपौ। स्थायि- ३ भावसामान्यलक्षणं तु- विरुद्धा अविरुद्धा वा यं तिरोधातुमक्षमाः । आनन्दाङ्कुरकन्दोसौ भावः स्थायीति संज्ञितः ॥ (सा. द. ३।१७४) ६इति। तथा च रसस्य आप्रादुर्भावतिरोभावं स्थिरतया वर्तमानः चित्तवृत्तिविशेष- वासनारूपः भावः स्थायिपदवाच्यः । स च रतिहासादिस्वरूपेण नाट्ये अष्टविधः परिगृह्यीतोिति। शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्सा्वुतसंज्ञकानां अष्टानां रसानां रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयाख्याः यथाक्रमं स्थायिभावाः भरतादिभिर्निश्चिताः । एतन्नियमविरोधेन वर्णनं स्याच्चेत तर्हि तत् कलाविरुद्धम्। अत्र तु वीरशृङ्गारयोः क्रोधविस्मयौ स्थायिनौ उक्तौ। भरतादिनाट्यशास्त्रकारमतेन १:तु तयोः स्थायिनौ उत्साहरत्याख्यौ। क्रोधविस्मयौ तु रौद्राद्गुतयोः इति। तथा चात्र नाट्यकलाविरुद्धत्वेन वर्णितत्वात् कलाविरोधोयम्। गीतरूपायां कलायां विरोधं दर्शयति-पूर्णसप्तस्वर इति । पूर्णाः साकल्येन प्रयुक्ताः सप्तस्वराः निषा- ५ दर्षभगान्धारषड्जमध्यमघैवताः पञ्चमश्च इति संगीतशास्त्रप्रसिद्धाः यत्र सः। एता- दृश: सोयं भिन्नमार्ग: मिन्नः तत्तत्कालनिषिद्धस्वरान्तरासंकीर्ण: मार्ग: तत्तत्काल- काल०, अ. २ पूर्णः, अ.
Page 416
काव्यदाषाः ३९५
इत्थं कलाचतुःषष्टिविरोधः साधु नीयतास्। तस्या: कलापरिच्छेदे रूपमाविर्भविष्यति ॥ १७१।। आधूतकेसरो हस्ती तीक्ष्णभृङ्गस्तुरङ्गमः । गुरुसारोयमेरण्डो निःसार: खदिरद्रुमः ॥ १७२॥ इति लौकिक एवायं विरोधः सर्वगर्हितः। विरोधो हेतुविद्यासु न्यायाख्यासु निदश्यते॥ १७३॥
विहित स्वरविशेषप्रयोगः । प्रवर्तते। तथा च असंकीर्णस्वरप्रयोगस्य पूर्णसप्तस्वरत्वं १८विरुद्धम् । अतः नाट्यशास्त्रस्थगीतकलानियमविरुद्धत्वात् कलाविरुद्धमेतत्।।१७०।। कलाविरोधमुपसंहरति-इत्थमिति। इत्थं अनेनैव प्रकारेण। कलाचतु :- षष्टिविरोधः चतुःषष्टिकलासु विरोधः शास्त्रविरुद्धवर्णनम्। साधु सम्यक्। नीयताम् स्वयम् ऊह्यताम्। कास्ताः चतुःषष्टिकला इति चेत् तस्याः चतुःषष्टिप्रकारायाः कलायाः। कलापरिच्छेदे एतन्नामकग्रन्थविशेषे। रूपं आविर्भविष्यति स्पष्टं भवि- ष्यति। स ग्रन्थः कलारूपावगमायैव प्रवृत्तः । अतस्तदध्ययने सर्वासां चतुःषष्टि- ६कलानां स्वरूपावगमः साकल्येन भवेदित्यर्थः । अनेनायं कलापरिच्छेदो दण्डि- विरचित इति कैश्चिदूद्यते ॥ १७१ ॥ लोकविरोधमुदाहरति-आधृतेति । आधूताः केसराः ग्रीवासटाः येन तादश: हस्ती। तथा तीक्ष्णं शृङ्गं यस्य स तुरंगमः । तथा गुरुः महान् सारः सामर्थ्यं यस्य एतादृशः एरण्डः । खदिरद्रुमश्च अयं निःसारः। इत्यत्र लोकविरोधः प्रसिद्धः स्पष्टः एव। तत्र पूर्वार्धे जङ्गमवस्तुविषयकः उत्तरार्धे स्थावरविषयक इति भेदः ॥ १७२ ॥
लौकिकविरोधमुपसंहरन् हेतुविद्याविरोधं प्रस्तौति-इतीति। इति एवं उक्रः । लौकिक: एव विरोधः सर्वथा गर्हितः सर्वगर्हितः अस्ति । अयं वर्ण- 3यितुंरवैदग्ध्यं नितान्तं दर्शयति इति तत्परिहारे कविना सावहितेन भाव्यम्। न्यायाख्यासु पूर्वसुद्दिष्टासु न्यायसंज्ञकासु। हेतुविद्यासु बुद्धादिदर्शनेषु। विरोधः निदर्श्यते उदाहरणेन स्पष्टीक्रियते ॥ १७३ ॥
१ 'षट्टै. अ, कपा. २ काले. अ, : उरु° कपा
Page 417
३९६ काव्यादर्शे तृतीयः परिच्छेद:
सत्यमेवाह सुगतः संस्कारानविनश्वरान्। तर्थाहि सा चकोराक्षी स्थितैवाद्यापि मे हृदि ॥ १७४ ॥ कापिलैरसदुद्भतिः स्थान एवोपवेर्ण्यते। असतामेव दृश्यन्ते यस्मादस्माभिरुद्ध्वाँः ॥१७५॥ गतिर्न्यायविरोधस्य सैषा सर्वत्र दृश्यते। अथागमविरोधस्य प्रस्थानमुपदिशयते ॥ १७६॥ सौगतदर्शनरूपन्यायविरोधमाह-सत्यमवेति। सुगतः गौतमः । संस्का- रान् वस्तुनः प्रत्यक्षे सति अन्तःकरणे समुत्पद्यमानान् भावनाख्यान् धर्मान्। 3अविनश्वरान् नाशप्रतियोगिताशून्यान् नित्यान्। यदाह तत् साधु। उक्तार्थ स्वा- नुभवेन द्रढयति। सा पूर्वमुपभुक्ता। चकोराक्षी अद्यापि बहुतरकालापगमेपि। मे हृदि स्थितैव सततस्मरणप्रवाहेन विषयीभवतीत्यर्थः । स्मृतिर्हि संस्कारजन्या। ६तथा च संस्कारस्य अनश्वरत्वात् स्मृतिरपि अनश्वरा इति युक्तमेव तस्या हृदि स्थितिः । सौगतानां हि सर्व क्षणिकम् इति राद्वान्तः । तथा च वासनानामपि तेषां मते क्षणिकत्वम्। तद्विरुद्धत्वात् सौगतन्यायविरुद्धमेतव ॥ १७४ ॥ सांख्यदर्शन रूपन्यायविरोधमुदाहरति-कापिलैरिति। कापिलै: सांख्यैः। असदुद्तिः असतः शून्यात् उद्ूतिः प्रपश्चोद्धवः । तथा असतां दुराचारिणां उद्धूतिः उत्पत्तिः । उपवर्ण्यते कथ्यते। तत् स्थाने एव युक्तमेव । यस्मात् यतः । अस्माभि: असतामेव दुर्जनानामेव । उद्वाः उत्पत्तयः । दृश्यन्ते जगति अवलो- क्यन्ते। अत्र असच्छब्दस्य श्लिष्टत्वेन पूर्वापरवाक्यार्थयोर्हेतुहेतुमद्भावः। तत्र सांख्यानां सतः सदेव जायते इति राद्वान्तः । बौद्धस्तु असतः सज्जायते इति मन्यते । अतः सांख्यसिद्धान्तविरुद्धत्वादयं सांख्यदर्शनरूपन्यायविरोधः॥१७५॥ न्यायविरोधमुपसंहरति-गतिरिति। न्यायविरोधस्य सैषा गतिः सौगतसांख्ययो: प्रदर्शिता रीतिः। सर्वत्र वैशेषिकादिषु अपि दृश्यते साहित्योदधे: सूक्ष्मेक्षिकया आलोचने कृते उपलभ्यते। सैषान्यत्रापि दृश्यते इति पाठस्तु
१ तथव. अ. २ वर्णिता. अ. 3 अस्मिच्छोके पूर्वोत्तराधयोर्न्यत्यास:, तत्र च उभयोर्मष्ये 'तद्रूषं तत्रधीमद्विर्विस्तरेणावगम्यताम्।' इत्यर्धमधिक अ पुस्तके दृश्यते। * नीतिः. अ, रीतिः. कपा, ५ सैषाध्यल्यत्र दृश्यताम्. बपा. ६ दर्सयिष्यते. अ.
Page 418
हेतुविद्याविरांध: ३९७
अनाहिताग्रयोप्येते जातपुत्रा वितन्वंत। विप्रा वैश्वानरीमिष्टिमक्किष्टाचारभूषणाः ॥ १७॥ असावतुपनीतोपि वेदानधिजगे गुरो: । स्वभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ १७८ ॥ विरोध: सकलोप्येष कदाचित् कविकौशलात्। उत्क्रम्य दोषगणनां गुणवीथीं विगाहते ॥ १७९॥ समीचीनः स्यात्। आगमः सस्मृतिः श्रुतिः तस्य विरोधस्य। प्रस्थानं पद्धतिः । उपदिश्यते प्रदर्श्यते ॥ १७६ ॥ तत्र श्रुतिविरोधमुदाहरति-अनाहितेति। अनाहिताग्नयः अकृताग्न्या धाना अपि। तथा जातपुत्राः पुत्रिणः । अक्िष्टाचारः सदाचारः भूषणं येषामेता- दृशाः । विप्राः वैश्वानरीं विश्वानरो भूतसमष्टयात्मको विराट्पुरुषः तत्संवन्धिनीम्। इष्टिं यागम्। वितन्वते आचरन्ति। अत्र कृताग्न्याधानानामेव वैश्वानरयागाधिकारा- दनाहिताग्रीनां तद्वर्णनं श्रुतिविरुद्धमिति प्रेमचन्द्राः । परे तु अजञातपुत्रा इति ६पदच्छेदं कृत्वा वैश्वानरं द्वादशकपालं निर्वपेत् पुत्ने जाते। (जैमिनिन्याय- माला ४-३-३९) इति पुत्नोत्पत्यनन्तरं वैश्वानरीष्टेः अधिकारादपुत्नकेण तद्विधानं श्रतिविरुद्धमिति मन्वते ॥ १७७ ॥ स्मृतितिरोधं दर्शयति-असाविति। असौ कुमारः अनुपनीतोपि उप- नयनसंस्कारशन्योपि। वेदान् अधिजगे अधीतवान् । उक्तार्थ दृष्टान्तेन द्रढयति। स्वभावशुद्धः प्रकृतिनिर्मलः। स्फटिकः संस्कार शुद्धिसंस्कारम्। न अपेक्षते। अत्रानुपनीतस्य वेदाध्ययनं स्मृतिविरुद्धम् । तथाच मनु :- अकृत्रतबन्धे तु गुरावुपरते सति। नाभिव्याहारयेद्रह्म स्वधानिनयनाहते। शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥। (म. अ. २-१७२) इति॥ १७८॥ एतावदुक्तविरोधः कचिद्रुणो भवतीत्याह-विरोध इति। सकलः देश- कालकलालोकन्यायागमात्मकः । एष विरोधः कदाचित् कविकौशलात कवि- प्रतिभामाहात्म्येन । विरुद्धार्थस्यापि वर्णनेन वैचित्र्योद्भावनाद्। दोषगणनां दोषेषु 1 राजपुवा. अ.
Page 419
३९ काव्यादर्शे तृतीय: परिच्छेद:
तैस्य राजः प्रभावेण तदुदानानि जज्ञिर। आर्द्राशुक प्रवालानामास्पदं सुरशाखिनाम्॥ १८० ॥ राज्ञां विनाशपिशुनश्रचार खरमारुतः । धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गर्मीन्॥ १८१ ॥ गणनां संख्यानम्। उत्क्रम्य परित्यज्य। गुणवीथीं गुणस्य सरणीम्। विगाहते गुणत्वं भजते इत्यर्थ: ॥ १७९ ॥ देशविरोधस्य गुणत्वं प्रकटयति -- तस्येति। तस्य कस्यापि वर्णनी- यस्य। राज्ञः प्रभावेन तदुदानानि तानि प्रसिद्धानि उद्यानानि। आर्द्राशुकान्येव जलक्चिन्नसूक्ष्मवस्त्राण्येव प्रवाला: पल्लवाः येषां तादृशानाम्। सुरशाखिनां कल्प- वृक्षाणाम्। आस्पदं स्थानम् । जज्ञिरे जातानि । अत्रोद्देशानुरोधेन बहुवचनम् । तदुदाने विलासिन्यः जलक्रीडाविश्रान्ताः जलार्द्राणि स्वांशुकानि जलशोषणार्थ ६कल्पशाखिशाखायां विस्तारयामासुः इति भावः । अत्र स्वर्द्गुमानां भूलोकोद्याने- ष्ववस्थितिर्वर्णिता। इति देशविरोधः । परं तादृशेन वर्णनकौशलेन प्रस्तुतस्य नृपस्य विभूतिमाहात्म्यं सविशेषं बुद्धयारूढं भवति। तेन च उदात्तालंकारस्य ९सिद्धिः । इति नात्रायं देशविरोधः दोषाय ॥ १८० ॥ कालविरोधस्य गुणत्वं दर्शयति-राज्ञामिति। राज्ञां प्रतिपक्षीभूत- नृपाणाम्। विनाशपिशुनः भाविविनाशसूचकः । खरमारुतः ग्रतीपश्चण्डो वातः । 3 कदम्बरजसा कदम्बकुसुमरेणुभिः। सह सप्तच्छदोद्गमान् सप्तच्छदपुष्पाणि। धुन्वन् आकम्पयन्। चचार ववौ। विजिगीषोर्यात्रासमयोद्दूतस्य वायोः वर्णनमिदम्। स च वायुः शत्रोः प्रतिकूलः संमुखत्वात्। प्रस्तुतस्य राज्ञस्तु अनुकूलः पृष्ठानु- गामित्वात् इति ऊह्यम्। तत्र यात्राकालः शरददतुः तत्र सप्तच्छदोद्गमः उपपन्नः तस्मिन् समये एव तस्य कुसुमोद्गमात्। परं कदम्बरजसा सूचितः तन्मुकुलो- द्रमस्तु विरुद्धः तेषां वर्षास्वेवोद्गमः प्रसिद्धः । इति कालविरोधः । स च खर- मारुतवत् लोकविनाशसूचकः। तदुक्तं विष्णुधर्मोत्तरे यथा-अकाले फल- पुष्पाणि देशविद्रवकारणम्। इति। तथा च प्रतिपक्षस्य अवश्यंभाविविनाश- सूचनेन प्रस्तुतस्योत्कर्षातिशयद्योतनादयं कालविरोधो गुण एव। एतादशव्यङ्रय- १२ प्रतिपादनेन कवेः कौशल्यं स्फुट भवति ॥ १८१ ॥ १ सस्य नभावेण तदा क.२ आर्दाक्कुर, क. ३ धून्वन्अः 'द्रमम्, अ,
Page 420
विगेवापवादा: ३४९
कामिनां लयवैपम्यं गेयं रागमवधयत् ॥। १८२ ।। ऐन्दवादचिंषः कामी शिशिरं हव्यवाहनम्। अवलाविरहक्लेशविह्वलो गणयत्ययम्॥ १८३॥। प्रमयोष्यप्रमेयोसि सफलोप्यसि निष्फलः । एकस्त्वमप्यनेकोसि नमस्ते विश्वमूर्तये॥ १८४॥ कलाविरोधस्य गुणत्वमुदाहरति-दोलेति। दोलायाः प्रेङ्डायाः अभि- प्रेरणं इतस्ततः संचरणं तेन त्रस्तो यो वधूजनः तस्य मुखादुद्वतं तेनोद्गीतम्। यत् ३ गेयं दोलागीतम्। तत लयस्य गीतादिसाम्यस्य। वैषम्यं भिन्नकालत्वेन विषमता यत्र एतादशमपि। कामिनां तत्र संगतानां विलासिनाम्। रागं अनुरागम्। अवधयद्। लयशुद्धमेव गानं रसिकानां रागवर्धकं भवतीति संगीतशास्त्रस्थितिः । प्रकृते तु ६तद्विरुद्धमिति कलाविरोधः । स च त्रिलासिनीषु कामिनां सविशेषरागानुसूचक- त्वाद्गुण एव ॥ १८२ ॥ लोकविरोधस्य गुणत्वं दर्शयति-ऐन्दवादिति। अयं अवलायाः विरहस्य क्ेशेन विह्वल: व्याकुलः । कामी मदनातुरः । ऐन्दवात् इन्दुसंतन्धिनः । अर्चिषः :मयूखाद। हव्यवाहनं कृशानुम्। शिशिरं शीतलम्। गणयति मन्यते। अत्र ऐन्दवा- दर्चिषः हव्यवाहनः शिशिर इति लोकविरोधः । विरहिणां चन्द्रकिरणस्य उद्दीप- कत्वेन संतापकत्वात् तादृशवर्णनं गुण एव इति लोकविरोधस्यात्र गुणत्वम्।१८३।
न्यायविरोधस्य गुणत्वं दर्शयति-प्रमेय इति। प्रमेय श्रुतिप्रमाणवेद्यः । अप्रमेयः अनन्तगुणशक्तित्वादपरिच्छेद्यस्वरूपः । सफलः व्यष्टिरूपेण सांशः । ३ निष्फलः समष्टिरूपेण निरंशः । एकः अद्वितीयः । अनेकः इन्द्रो मायाभिः पुरु- रूप ईयते इत्यादिश्रुतिभिः प्रपश्चात्मकेन विश्वरूपः इत्यर्थः। एतादृशे विश्वमूतये सर्वव्यापकत्वेन विश्वाकाराय। ते तुभ्यम्। नमः। अत्र विरुद्धधर्माणां प्रतिपाद्यमानं ६सामानाधिकरण्यं न कुत्रापि दर्शने दृष्टम् इति न्यायविरोधः ।स च परमेश्वरस्य लोकातीतमाहात्म्यमुद्गावयतीति प्रकृते गुणः ।। १८४ ।। १ डोलातिप्रेरणात्रस्त°. अ. २ वेपम्याद्ेयम्. अ, क. ३ न्यलम्. अ, क. *सकलोप्यसि निष्कल: अ, क.
Page 421
४०० काव्यादर्शे तृतीय: परिच्छेद:
पञ्चानां पाण्डुपुत्राणां पत्नी पाश्चालपुत्निकां। सतीनामग्रणीश्रासीद्ैवो हि विधिरीदशः।।१८५।। शब्दार्थालंक्रियाश्चित्रमार्गा: सुकरदुष्कराः। गुणा दोषाश्च काव्यानामिहँ संक्षिप्य दर्शिताः ॥१८६ ॥ व्युत्पन्नबुद्धिरमृना विधिदर्शितेन। मार्गेण दोषगुणयोर्वशवर्तिनीभिः॥ आगमविरोधस्य गुणत्वं दर्शयति-पञ्चानामिति। पञ्चानां पाण्डु- पुत्राणां पाञ्चालपुत्रिका द्रौपदी। पत्नी अभूत्। पुनश्च सतीनां साध्वीनाम् । अग्रणी: श्रेष्ठा। आसीत्। दैवः देवतासंबन्धी। विधि: व्यवहारः । ईदृशः स्वतन्त्र: नागम- परतन्त्र इति भावः । अत्र युधिष्ठिरादीनां धर्माद्यंशतया द्रौपद्याश्च पृथिव्यधिष्ठातृ- रूपतया देवत्वान्नागमापरतन्त्रता इति भावः । अत्र-यथैकस्मै यूपाय बह्वयो ६रशना नैकस्यै रशनायै बहवो यूपास्तथैकस्मै पत्ये बह्वयो जाया नैकस्यै जायायै बहवः सहपतयः-इति श्रुव्या एकस्या बहुपतित्वनिषेधादागमविरोधः । स च द्रौपद्या देवतात्वेन आगमानपेक्षतां व्यञ्जयन् तस्या माहात्म्यमुद्धावयति इति गुणः ॥ १८५। एतावत्पर्यन्तं निरूपितान् पदार्थान् संकीर्त्य ग्रन्थमिममुपसंहरति- शब्दार्थेति। काव्यानां शब्दार्थालंक्रियाः शब्दालंकाराः दीपकावृत्तिक्रम- ३लेषा: चत्वारः अर्थालंकाराश्च स्वभाख्यानादयः । तथा सुकराः दुष्कराः चित्र- मार्गाः । तत्र केचित् सुकराः पादादियमकादयः । केचित् दुष्कराश्च महायमक- स्वरस्थानवर्णनियमादयः । तथा गुणाः श्लेषप्रसादादयः । दोषाः अपार्थव्यर्थादयः। ६चकारेण काव्यलक्षणं तद्गेदौ च वैदर्भगौडरूपौ। एते संक्षिप्य दर्शिताः विस्ता रभिया संक्षेपेणैवोक्ताः । अत्र यावन्तः पदार्था निरूपिताः तेषां परिगणनं कृतं न तु तत पूर्वक्रमानुरोधेनेति ज्ञेयम् ॥ १८६ ॥ अन्ते फटसंकीर्तनपूर्व ग्रन्थमुपसंहरति-व्युत्पन्नेति। अमुना पूर्वोक्ते- नानेन । विधिदर्शितेन विधि: भरतादिमुनीनामादेशः तदनुरोधेन दर्शितेन निरू-
१ कन्यका. अ. कपा. २ शब्दार्थानां क्रियामार्गा: सुकराश्रैव दुष्कराः, अ. ३ काव्यानामिति. अ, क.
Page 422
ग्रन्थमुपसंहरणम् ४०१
वाग्भिः कृंताभिसरणो मदिरेक्षणाभि- र्धन्यो युवेव रमते लभते च कीर्तिम्॥ १८७॥
। इत्याचार्यदण्डिन: कृतौ काव्यादर्शे शब्दालंकार-दोष- विभागो नाम तृतीय: परिच्छेदः॥
पितेन। एतेन स्वनिरूपितेन । दोषगुणयोः हेयोपादेयधमयोः । मार्गेण व्यवस्थिति- प्रकारण विवेचनपद्धत्या वा। व्युत्पन्नबुद्धि: साहित्यशास्त्रे संस्कृतवुद्धिः। काव्यतत्व- विदिति भावः । अत एव वशवर्तिनीभिः तदधीनाभिः वाग्भिः । कृताभिसरणः ६स्वयंकृताभिगमनः । अत एव धन्यः मदिरेक्षणाभिः कृताभिसरणः युवा यथा तथा रमते तद्विलासे रमते। कीर्ति च लभते जगति विश्वुतकीर्तिश्र भवति॥१८७॥
विचिन्त्य साहित्यविदां निबन्धान् विलोक्य तत्तत्सुकविप्रबन्धान्। आचार्यदण्डिग्रथतस्य काव्या- दर्शस्य वृत्तिर्विहिता प्रभाख्या॥१॥ गृहन्ति मोदाद्गुणलेशबिन्दून् नयन्ति शोषं परदोषसिन्धून्। पश्यन्तु ते मत्कृतिमादरेण धन्या जनिस्तेन न चापरेण ।। २ ।। विद्वत्त्वदर्पान्न कृतिर्ममैषा तथोपहासाय न वा परेषाम्। साहित्यशास्त्रेषु दृढानुरागात्
१२ चापल्यमेतद्विदुषां पुरस्ताद् ॥ ३ ।।
कृतानु.क. २ इत्यार्थ०, अ. ३ गुजदोपविभा० अ. चतुर्थ :. अ, क ५ पुष्पिकायाः परतः अ पुस्तके अधिकम्- ॥ दण्डयलंकार: समाप्तः । श्रीपार्वत्ये श्रिवाय नमः ॥ [काव्यादर्श ] ५१
Page 423
४०२ काव्यादर्शे तृतीयः परिच्छेदः
स्वर्गे सुधास्वादनलोलुपास्ते सुराः प्रनृत्यन्तु सुराङ्गनाभि:।
१५ वयं तु काव्यामृतपानतृप्ता विद्ग्धगोष्ठयां विहराम मोदान् ॥ ४ ॥ शाब्दाम्भोनिधिमन्थने विमलधीर्येषां परो मन्दरो ख्याता ये च विराजनाम्नि नगरे श्रीबालकृष्णाभिधाः । गौरीवद्रहमङ्गला समभवल्लक्ष्मीश्व यद्रेहिनी ताभ्यां लब्धजनिर्व्यधाच्छिशुहितां वृत्ति च रङ्गाभिधः ॥५॥ श्रीमुक्ुन्दपदाम्भोजे द्वयमर्पितमस्तु मे। काव्यादर्शस्य टीकेयं प्रेमार्द्र हृदयं तथा॥ ६ ॥
इति श्रीवैराजक्षेत्रवासिमी रड्डीकुलावतंसैर्बालकृष्णाचार्यतनुजै रङ्गाचार्यसूरिभिः विरचितायां काव्यादर्शव्याख्यायां प्रभाख्यायां तृतीयः परिच्छेद: ॥
॥ समाप्तश्चायं ग्रन्थ: ।।
Page 424
अथ काव्यादर्शस्थश्लोक्ाधं-
प्रतीकसचि:
अ अंशुकानि प्रवालानि अथागमविरोधस्य ili. 176 cd i1. 290 ab अकस्मादेव ते चण्डि अथास्य पुनराक्षेष्य ii. 120 cd i. 71 ab अकारणरिपुश्रन्द्रो अदृख्वा चार्थमथिभ्यो ii. 284 cd ii. 203 cd अक्रिया चन्द्रकार्याणां ii. 84 ah अद्य या मम गोविन्द ii. 276 ab
अक्षि मे पुष्परजसा अधिकेन समीरूत्य ii. 4S ab i1. 267 cd अगा गाङ्गङ्गकाकाक iii. 91 ab अनङ्ग: पश्मि: पौष्पैः ii. 121 ab अनङ्गलङघनालग्न अघने गगने दृष्टिः iii. 90 ab ii. 88 cd अङ्गकमा च पुंसैवं अनज्ञितासिता दृष्ि: ii. 20: ab ii. 233 cd ii 201 cd i1. $60 ab अनभ्यासेन विद्यानां ii. 247 ab अङ्गगनि रुपयन्त्यत्र ii. 76i cd अनयैव दिशान्येपि ii. 168 cd अङ्गगनीति न संबद्ध ii. 231 cd अनयोरनवद्याङ्गि i. 87 ab अङ्रगुल्य: पल्लवान्यासन् ii. 67 ab अनल्पविटपाभोगः ii. 210 ab अड्गुल्यादा दलादित्वं ii. 70 ab अनन्वयससदेहा ii. 358 ab अचलाधित्यकोत्सङ्गं i. 98 cd iii. 177 ab ii. 322 ab अनिग्रहण चाक्षाणां ii. 247 cd अजित्वा सार्णवामुर्वी ii. 284 ab i 69 ab अतः प्रजानां व्युत्पत्तिं i. 9 ab अनुकम्पाद्यतिशचो iii. 137 ab अतस्तेषां विवर्धन्त ii. 250 cd अनुगृह्लाति हि परान् ii. 175 cd अतस्त्वन्मुखमेवेदं ii. 27 cd अनुज्ञय तबूपं ii. 130 cd अति सुन्दरमन्यत्र i. 95 cd अनुपासधिया गौडैः i. 44 ab अतो नैवमनुपासं i. 60 cd अनुप्रासादपि प्रायः i. 54 cd अत्यन्तबहवस्तेषां 3 ab अनुल्लङ्ष्येव सूक्ष्मत्वं ii. 264 cd अत्यन्तमसदार्याणां ii. 250 ab अनेकशब्दोपादानात ii. 112 ab अत्यन्तसुन्दरा हष्टाः ii. 254 cd अनेनव पथान्यच्च i. 78 cd अत्र धमैरभिन्नानां ii. 114 ab अनेनेव प्रकारेण ii. 115 ab अत्र संदृश्यते यस्मात् ii. 84 cd अन्नेरयत्नसुलभै ii. 341 cd अत्रैवान्तर्भविष्यन्ति i. 28 cd अन्य एवायमर्थात्मा ii. 307 cत अत्रोदाने मया दष्टा iii. 112 ab अन्यचुम्बनसंक्रान्त ii. 125 cd अथवा दृश्यते रागि ii. 320 cu अन्यथानुपपतत्येव ii. 218 od
Page 425
४0४ काव्यादर्शस्थश्लोकार्धप्रतीकसूचि:
अन्यथा भासते यत्र iii. 101 ed| अम्भाधरास्तडित्वन्तो iii. 136 cd अन्यथैव स्थिता वृत्ति: ii. 221 al ii. 15 ab अन्यथोत्प्रेक्ष्यते यत्र ii. 221 cd अयतापि त्वयेदानी ii. 153 cd अन्यधर्मस्ततान्यत्र i. 93 ab अयं तु युवयोर्भेद: ii. 185 cd अन्ये त्वनाकुलं हृयं i. 83 cd अयमम्भोनिधि: कष्ट ii. 212 cd अन्यो वक्ता स्वयं वेति i. 25 cd अयमर्थान्तराक्षेप: ii. 166 ab अपक्तांहमस्मीति ii. 293 ab अयमान्दोलित प्रोढ ii. 236 ab अपक्रमाभिधानं तं iii. 144 cd अयमालोहितच्छायो ii. 89 ab अपभाषणवद्राति iii. 151 cd अयमेव क्रमोन्येषां ii. 329 cd अपभ्रंशश्ष् मिश्रं च i. 32 cdl अपहूनुतिरप ह्नुत्य ii. 304 ab अयं परवशाक्षेपो ii. 150 ab अयं मम दहत्यङ्ग: ii. 177 ab अपाङ्गभागपातिन्या ii. 225 ab अपाद: पद्संतानो i. 23 ab अयुक्तकारी युक्तात्मा ii. 170 cd
अपार्थ व्यर्थमेकार्थ iii. 125 ab अयुक्तयुक्तकार्यों च ii. 253 cd
अपि ते रूपमस्माकं ii 337 cd ii. 201 cd
अपि त्वनियमो हष्टः i. 25 ah अरण्यं कैश्िविदाकान्तं iii. 7 ab
ii. 200 ab अरत्नालोकसंहार्ये ii. 197 ab
अपेक्षमाणा ववृधे i. 50 ed अर्थतः शब्दतो वापि iii. 135 cd
अप्यसंनद्धसौरमयं ii. 206 cd अर्थमिष्टमनाख्याय ii. 295 ab
अन्सादितशुद्धाम्बु ii. 200 ed अर्थव्यक्तिरनेयत्वं i. 73 ah
अप्रस्तुतप्रशंसा स्ात् ii. 340 ed अर्थव्यक्तिरुदारत्वं i. 41 cd
अबलाविरहक़ुश iii. 183 ed अर्थानां यो विनिमयः ii. 351 cd
अबाध्यैरिन्दुपादानां ii. 245 ab अर्थान्तरप्रवृत्तेन ii. 348 ab
अभावसाधनायालम् i1. 239 ah ii. 162 cd
अभावहेतवः केचित् ii. 246 cd अर्थावृत्ति: पदावृत्ति: ii. 116 ab
अभिन्नवेलौ गम्भीरा ii. 183 ab अर्थिनां रुपणा दृष्टिः i. 77 ab
अभ्नविलासमस्पृष्ट ii. 191 ab अथैरयत्नसुलभै: ii. 341 cd
अभ्यास एव विवरीनु ii. 368 ed अर्थों न संभृत: कश्ित् ii. 161 ab
अमनुष्यस्य कस्यापि iii 121 cd अर्धाभ्यास: समुद्धः स्यात् iii. 53 ab अमन्दश्याभियोगोस्या: i. 103 cd अलंकारतयोदिएं ii. 237 cd अमातृकोयं मूढ: स्यात् iii. 123 cd अलंकारान्तराणाम ii. 220 ab अमायतेयतेष्यभूत् iii. 39 cd अलंकृतमसंक्षिप्तं i. 18 ab अमी गर्जेन्ति जीमूता: iii. 129 cd अलमंशुमतः कक्षां ii. 53 cd अमृतस्यन्दिकिरणः ii. 307 ab अलिनीलालकलतं iii. 89 ab अमृतात्मनि पद्मानां ii. 159 ab अल्पं निर्मितमाकाशं i. 91 ab अम्भोजभिव ते वक्त्रं ii. 28 cd अवकाशो न पर्याप्तः i. 87 cd
Page 426
अवगच्छेयुरा: ज्ञानं ii. 266 c अहेतुऊं च तम्येद अवते भवने बाहुः iii. 14! ab) अहो विशालं भपाल अवध्यरिन्दुपादानां i1. 245 ab आ अवलेपपदेनात्र 11. 110 ah आकण्यन्ते मद्कला: अवलेपमनङ्गस्य ii, 109 au it. 328 ( अवस्था नालमारोहुं 1i1. 12 ed आक्रामत्येव तेजस्व्री आकोशत्यवज्ञानाति 21. 62 a" अविशेषेण पूर्वोक्तं iii. 135 ab अविकृत्य मुखाङ्गानि ii. 74 ab आक्षिपन्त्यरविन्दानि i1 361 2b आक्षेपार्थान्तरन्यासो ii. अवेक्षमाणा ववृधे i. 50 cd आगःप्रमार्जनायेव iL 271 64 अवेत्य कान्तमबला il. 261 cd आत्मनैवाभवत तुल्यं अव्यपेतव्यपेतात्मा त्यावृत्ति: iii. 1 ab ii. 0f ed
iii. 33 cd आदत्ते चाद मे प्ाणान् ii. 111 ed अव्यपेतव्यपेतात्मा विकल्पो असमतामेव दृश्यन्ते iii. 175 ed आदिमध्यान्तमध्यान्न iii. eed
ii 362 ed आदिराजयशोबिम्बं i. 5 ab असत्पुरुषसेवेव असमग्रोष्यसौ शश्वत् ii. 90 cd आदो राजेत्यधीराक्षि iii. 116 ab
ii. 183 ed आद्यन्तावायनकेशों iii. 147 cd असावअनसकाश: आधूनकेसरो हस्ती ii. 172 ab असावतिशयोक्ति: स्यात् 11 214 cd आननं नलिनच्छाय iii. 8y cd असावनादराक्षेपो ii. 140 ab आनन्दाश्र प्रवृत्तं मे ii. 267 ah असावनुपनीतोपि iii. 178 ab आभीरादिगिर: काव्ये i. 36 ah असावनुशयाक्षेपो ii. 162 ab आम्नायानामाहान्त्या वाकू iji. 84 ab
असावुद्यमारूढ: ii. 311 ab आराद्वृत्तिग्सी माता ili. 140 cd असुरास्तेन हन्यन्ते ii. 49 ed आरुह्याकीडशलस्ष्य iii. 24 ab अस्तमस्तकपर्येस्त ii. 145 ed अस्ति काचित् पुरी यस्यां iii. 114 cd आद्राशुकप्रवालानां iii. 180 ed
अस्ति काचिदवस्था सा iii. 133 ab आयादिवत् प्रवेशः कि i. 27 ab अस्ति चेदस्तु तत्कारी ii 20 cd आविर्भवति नारीणां ii. 256 ab अस्ति नास्तीति संदेहो ii. 217 cd आवृत्ति: प्रातिलोम्येन iii. 73 ab अस्त्यनेको गिरां मार्ग: i. 40 ab' आवृत्तिवणसंघात i. 61 ab अस्त्यभिन्नक्रिय: कश्ित् ii. 314 ab ; आशयस्य विभूतेर्वा ii. 300 ab ii. 208 cd आश्वासयितुमिच्ळ्या ii. 262 ed
अस्त्येव क्वचिदुद्देगः ii. 54 cd आशीर्नमस्क्रिया वस्त i. 14 cd
अस्थानरुदितरेमि: iii 108 cd आशीनामाभिलपिते ii. 357 ab अहंकारः परां कोटिं ii. 346 cd आसीद्रमित मत्रेदं ii. T$ ed
अहमद्येव रुद्धास्मि ii. 143 cd ।आसु रात्रिष्विति प्राज्ञै: ili. 161 cd
अहाहाड़क खगाङ्काग iii. 91 cd | आहुः समागनां नाम ni. 98 ab
Page 427
४०६ काव्यादर्शस्थक्लोकार्धप्रतीकसूचिः
इ इति हृद्महृदं तु i. 97 ab इक्षुक्षार गुडादीनां i. 102 ah इङ्गिताकारलक्ष्योर्थः ii. 260 cd इति हेतुविकल्पानां ii. 260 ab इतीदं नाइतं गौडैः इतरत्र कवि: को वा इति कर्णोत्पलं प्रायः ii1. 130 ed i 54 ab
ii. 22-4 cxl इतीद्मपि भयिष्ठ ii. 226 cd
इति कारुण्यमुद्रिक्तं ii. 287 ab इतीदमपि साध्वेव 1i. 2444 cd
इति कालविरोधस्य ini. 169 ab इतीयत्येव निर्दिष्टे i. 744 cd
इति ग्रम्योयमर्थात्मा i. 63 ed इतीह गर्भिणीधर्मा: i. 99 cd
इनि चन्द्रत्वमवेन्दोः ii. 308 ab इस्थं कलाचतुःषष्टि iii. 171 ab
इति ज्योत्स्नोत्पलायोगात् ii. 78 cd इत्यनङ्गजयायोग ii. 122 ah
इति तत्कालसंभृत ii. 156 ah इत्यनालोच्य वैषम्यं i. 50 ab
इति तस्य प्रमेदौ द्वौ i. 23 cd इत्यनुज्ञामुखनेव ii. 136 ab
इति त्यागस्य वाक्येस्मिन् i. 78 ah ii. 264 al
इति दुष्करमार्गेपि iii. 96 ab i. 58 ah
इति देशविरोधिन्या iii. 166 cd इत्यनूर्जित एवार्थो i. 71 ab
इति दोषा दशैवैते iii. 126 cd इत्यनेकप्रकारोयं ii. 340 ab
इति धर्मापमा साक्षात् ii. 15 cd इत्यन्यसाम्यव्यावृत्ते: ii. 19 cd इति नेत्रक्रियाम्यासात् i. 94 cd इत्यन्योन्योपमा सेयं ij. 18 cd इति पद्येपि पौरस्त्या i. 83 ab इत्यपठनुतिभदानां ii. 309 cd इति पादादियमकं iii. 19 ab इत्यपवसमासोक्ति: ii. 213 ab इति पादादियमकविकल्प iii. 37 ab इत्ययं संशपाक्षप: ii. 164 ah इति पुष्पद्विरेफाणां ii. 77 cd इत्यलंकारसंसृष्टेः ii. 360 cd इति प्रौदाङ्गनाबद् ii. 207 ab इत्यसंभाव्यमथवा ii. 121 cd इति मार्गद्वयं भिन्नं i. 101 ab iL 138 ab इति मुख्येन्दुराक्षिप्तो इत्याचक्षाणया हेतून् ii. 160 ab इत्यादिदीपकत्वेपि i1. 108 ab इति मुक्तः परो युद्धे ii. 294 ab इत्यादिदपकान्युक्ता iL 102 ab इति रूपाण्यतिक्रम्य ii. 278 cd इत्यादि बन्धपारुगयं i. 60 ab इनि लक्ष्या: प्रयोगेषु ii. 246 ab इत्यादि शास्त्रमाहात्म्य iii. 151 ab इति लौकिक एवायं iii. 173 ab इत्यारुह्य परां कोटिं ii. 283 ab इति वाचामलंकारा: ii. 7 cd इत्याशीर्वचनाक्षेपो ii. 142 ab इति विस्पष्टसादृश्यात ii. 36 cd इति वैदर्भमार्गस्य इत्याह युक्तं विदुरो ii. 277 ab i. 42 ab इत्युत्साइ: प्ररुष्टात्मा ii 285 ah इति व्यपनयमक iii. 33 ab इत्युदाहुनयो दत्ता: ii. 355 ab इति श्लेषानुविद्वानां ii. 347 ab इत्येकव्यतिरकायं ii. 182 ab इति संभाव्यमेवैतत् i. 88 ab इत्येतद्समस्तारन्यं ii. 68 ab इति साक्षास्कते देवे ii. 279 ab इन्येवमाद्यो भेदा: ii. 171 ab इतिहासक थोदूतं i 15 ab हत्येवमादिराक्षेपो . ii. 168 ab
Page 428
काव्यादर्शस्थक्लो कार्वप्रतीकमूचि: ४०७
इत्येवमादो सौभाग्यं ii. 3+al ' टन्पाद्यनि लोकस्य इत्येवमादिस्थानेयं 1. 26 2 उम्द्यति सर्वस्य इत्येष परुषाक्षेप: h. 242 al इदं तु नयनद्वन्द्वं ii. 191 cl उत्प्रेक्षाभेद एवासा ii. 35. ub i. 92 ab उत्प्रेक्षा व्यज्यते शब्दै: a. 231 cd इद्मन्धंतम: रुत्स्नं i. lal: उत्सङ्गशयनं सगव्या: इद्मम्लानमानाया ii.289 al) उदयन्नव सविता ii. 349 ab इदमस्वस्थचित्तानां iii. 130 ah उद्श्रयन्ति पान्थानां ii. 338 ed इदमार्द्रस्मितज्योत्स्नं il. 78 ah उद्दात्तं नाम तत् प्राहुः ii. 300 ed इद्मेवंविधं भावि i. 91 cd उदात्तापहूतुतिश्लेप ii. o ab इदं मघोनः कुलिशं n1, 291 al) : उदाहरण एवास्य i1. 265 ed इन्दुपाद्ा: शिशिरा: ii. 157 ah उदाहरणमालपां ii. 171 ed इन्दुमप्यनुधावामी it. 25 cl' उदितेरन्यपुष्टानां ili 31 ab इन्द्रनीलनिमं लक्ष्म i. 56 cdl ' उदितरपि ते दूति ii. 31 cd इयत्येव भिदा नान्ये ii. 22 cd उद्दामरागतरला i1. 263 cd इयं प्रतीयमानिक ii. 16 cd उद्दिष्टानां पदार्थानां i :. 273 ab i1. 57 ab उद्देशानुगुणोर्थानां iii 144 ab इष्टं साधर्म्यवैधर्म्य i1. 88 ab उद्धत्य राजकादुबी iii. 25 ab इ ष्टश्ष्य तुःप्रभृत्येष iii. 83 cd उद्धासितगुणोत्कर्ष इह त्वष्टरसायत्ता iL 292 cd ii. 95 cd
इह शिष्टानुशिष्टानां i1. 338 ah i. 3 ab उद्यानसलिलकीडा i. 16 cd
ईदृश वज्यते सद्ि: ii. 56 ab उद्यानसहकाराणां ii. 251 ab
ईदृशं संशयायैव in. 141 ab उन्मत्तमत्तवालानां iii. 128 ed उन्मीलन्ति च कन्दल्य: ii. 117 ed उ उक्त च सुरभित्वादि ii. 204 cd उपकाराय दिष्ठ्येतत् ii. 299 cd
उक्तान्तर्गतमप्येतव् ili. 51 cd उपमादूषणायालं ii 51 ed
उक्त्ता स्मरातेनत्येषा ii. 308 cd उपमा नाम सा तस्या: ii, 14 cd उपमानोपमेयत्वं उच्ति: संक्षपरूपत्वात् ii. 205 ed ii. 228 ab उपमापहूनुति: पूर्वं ii. 309 ab उच्चावचप्रकारं सत् i 81 cd उपमायामिमे प्रोक्ता: उच्छउच्छी करा च्छाच्छ i. 48 cd ii. 65 ed ii. 358 cd उत्कण्ठयति मेघानां ii. 118 cd उपमारूपकं चापि उपमारूपकाक्षप ii. 313 ab उत्कर्षवान् गुणः कश्यत् i. 76 ab उपमाव्यतिरेकासयं ii. 88 cd उत्कामुन्मनयन्त्येते iii. 136 ab : उपमैव तिराभूत ii. 66 ab उत्क्रम्य दोषगणनां iii. 179 ed उपोढरागाप्यबला iii. 52 ab
Page 429
४०८ काव्यादर्शस्थश्लोकार्धप्रतीकसचिः
उभयत्र पुमान् कश्यत् ii. 211 al कदा वा दृश्यते तृप्ति: ii. 165 cd उभयव्यतिरेकोयं ii. 181 ab कन्यायाः कल्पते भोगान् i1. 270 cd उग्स्युपास्तीर्णपयोधरद्वयं in. 57 cd कन्याहरणसंग्राम i. 29 ab उरु रुरुधुगुरु दुधुवुः il. 85.cd कन्ये कामयमानं मां i. 63 ab ऊ ऊर्जस्वि रूढाहंकारं कमलं कमलंकुरवत् iii. 17 cd ii. 275 cd कमलं जलसंरोहि ii. 190 cd ए एकचक्रो रथो यन्ता ii. 328 ab कमलेख्यं करोषि त्वं iii. 29 cd
एकच्छन्नाश्रितं व्यक्तं ii. 104 ed कमले: समकेशं ते iii. 69 ab
in. 2 al करेण ते रणेष्वन्त iii. 26 ah
एकवाक्ये प्रबन्धे वा ii. 131 ab करेणवः क्षरद्रक्ता iii. 26 cd
एकस्त्वमप्यनेकोसि ii. 184 cd करोतितात्रो रामाणां iii. 21 ab
एकाकारचतुष्पादं ini. 70 ab करोति सहकारस्य in 11 ab
एकाङ्गरूपकं चतत् i, 76 ab करोति सेष्य कान्ते च jni. 21 cd
एकाने के वशब्दत्वात् ii. 43 ed कर्णस्य भूषणमिदं ii 221 ab
एतानि केसराण्येव i. 91cd कर्णे काचित् प्रियेणेवं ii. 124 ed
एता: षोडश निर्दिष्टः ii. 106 ab कर्ना यदुपमानं स्यात् i1. 230 ab
एधेते द्वे द्वे ते ili. 86 cd करपूरपादपामर्श iii. 165 ab
एवमादि न शंसन्ति i. 67 cd कर्षयन्ति तु घर्मस्य ii. 109 cd
एवमेव विकल्प्यानि ili. 37 cd कलं कमुक्तं तनुमध्यनामिका iii. 59 ab
एव मे वेतरासाम iii, 124 cd कलङ्विनो जडस्येति ii. 34 cd
एष राजा यदा लक्ष्मीं i. 53 ab कलक्कणितगर्भेण ii. 10 ab
एषां विपर्यय: प्रायः i. 42 ed कलापिनः प्रनृत्यन्ति i. 70 cd ऐ कलापिनां चारुतयोपयान्ति iii 56 ab ऐन्दवादचिषः कामी in. 183 ab ओ कलिकामिह नीपस्य il. 23 cd
ओज: समासभयस्त्वं i. 80 ab कलिङ्गव न संभूता ili. 165 cd
ओसरादिरपभ्रंशो i. 37 cd कल्पदेशीयदेश्यादे ii. 60 ab
औ कल्पद्गुमश्र् क्रियते ii. 86 cd
औष्ण्य प्रदर्शनात् तस्य ii. 306 cd कविभावरुतं चिह्नं i. 30 ab
क कविसार्थः समग्रोपि i. 100 cd कटुर्भवति कण्ठस्य ii. 176 cd कवे: प्रमादाद्देशादि iii. 164 cd कण्ठे काल: करस्थेन ii. 12 ab कस्य कामातुरं चेतः i. 84 cd कथं त्वदुपलम्भाशा ili. 12 ab कस्यांचिदिह बालायां ii. 207 cd कथा हि सर्वभाषाभि: i 38 ab कान्तं सर्वजगत्कान्तं i. 85 ab कदाचिदपराधोस्य ii. 126 cd कान्तं भवति सर्वस्य i. 88 cd कदा नौ संगमो भावी ii. 261 ab कान्तस्य कातराक्ष्या यन् ii. 156 cd
Page 430
काव्यादशस्थक्लोकार्धप्रतीकसूचिः ४०९
कान्तस्याक्षिप्यते यस्मान् ii. 14i cd कुरुने कुरुनेनेयन ili. 14 cå कान्त्या चन्द्रमसं धाम्ना ii. 50 ab कुरुने ललिनाधत iii 150 cd कापिलरसदुद्गतिः iii. 175 ab कृजितं गजहंसानाम् ii. $34 ab कामदत्वाच्च लोकानाम् ii. 85 ed रुश कवित्वेपि जना: i. 105 cd कामाता धर्मतता वे० iii. 143 ab रुष्णाजुनानुरक्तापि ii. 339 ab कामिनां लयवेषम्यम् iii. 182 ed रुतः ननीतशुष्धोश्र्य ii. 195 cd कामुकेन यद्त्रवम् ii. 128 cd केन क: सह संभय iii. 122 ab कामेन बाणा निशाता विमुक्ता iii. 158 ab केर्पाचिदुपमाभ्रान्तिः ii. 227 ab कामं कन्दर्प चाण्डाल: i. 64 ab कोकिलालापवाचाल: i 48 ab कामं सर्वोध्यलंकार: i. 62 ab कोकिलालापसभग: ii. 354 ab कार्याकार्याण्ययमविकला iii. 153 cd कोशदण्डसमग्राणाम् ii. 361 cd कार्याक्षेपः स कार्यस्य ii. 134 ab कोणपाः सह नृत्यन्नि ii. 288 cd कारकज्ञापकौ हेतू ii. 235 ed क्रमलड्घनमप्याहुः iii. 146 cd कालकालगलकाल iii. 50 ab : कमात्सहन्ते सहसा iii 72 cd कालकालसिन कालका iii. 50 cd कियते परिवृत्तेश्र ii. 355 cd कालेनेव कठोरेण iii. 142 cd किये विरुद्धे संयुक्ते ii. 110 cd कालेनषा भवेत् प्रीतिः ii. 276 cd । क्रीडागोष्ठीविनोदेपु iii. 97 ab कालं कालमनालक्ष्य iii. 35 ab क्वापि नीता: कृतोप्यासन् ii. 101 cd काव्यशोभाकरान् धर्मान् ii. 1 ab क्षणं दर्शनविप्नाय ii. 149 ab काव्यं कल्पान्तरस्थायि i. 19 cd क्षणद्वयं न तिष्ठन्ति iL 332 cd ii. 3 ab कार्ष्ण्य पिशङ्गता चोभौ क्षतो मोहश्च्युता तृष्णा ii. 184 cd । क्षिणोतु कामं शीतांशुः ii. 248 cd ii. 178 ab किं केकाकाकुल: काको iii. 92 cd किंचिदारम्भमाणस्य ii. 298 ab क्षितिविजितिस्थितिविहिति iii. 85 ab क्षीयते च मयूराणाम् ii. 334 cd किं तु बीजं विकलानां ii. 2 ab क्षौमवत्यो न लक्ष्यन्ते ii. 215 cd किमन्धस्याधिकारोस्ति i. 8 cd ii. 123 cd ख
किमयं शरदम्भोद: ii 163 ab खण्डिता कण्ठमाश्लिष्य iii. 4 cd कि पद्यमन्तर्भ्रान्तालि ii. 26 ab खरं प्रहृत्य विश्रान्तः i. 67 ab कीर्तनं स्तुतिनिन्दार्थम् ii 330 cd खातयः कनि काले ते iii. 111 ab कटुभवति कर्णस्य ii. 176 cd ग कुतः कवलयं कर्णे ii. 123 ab ! कब्जामासेवमानस्य iii. 109 ab : गच्छ गच्छासी चेन् कान्त ii. 141 ab कुमुदानि निमीलन्नि i. 94 ab गच्छ वा तिष्ठ वा कान्त ii. 139 cd कमुदान्यपि दाहाय ii. 179 ab गच्छेति वक्तुमिच्छामि ii. 147 ab
43
Page 431
४१० काव्यादर्शस्थश्लोकार्धप्रतीकसूचिः
गतः कामकथोन्माद: ii. 248 ab चन्द्रारविन्दयो: कक्षाम् ii. 37 ab गतिर्न्यायविरोधस्य jii. 176 ab ii. 244 ab चन्द्रेण त्वन्मुखं तुल्यम् ii. 32 ab गतोस्तमर्को भातीन्दु: i. 56 ah गन्ता चेद्रच्छ तूर्ण ते ii. 145 ab चन्द्रे शरन्न्िशोत्तंसे चन्द्रे साक्षाद्रवन्त्यत्र iii. 3 cd गाम्भीय प्रमुखरत्र ii. 86 ab ii. 194 ab गाम्भीर्येण समुद्रोसि ii. 85 ab चपलो निर्द्यश्व्ासौ ii. 271 ab गिरास्खलन्त्या नम्रेण iii. 115 ab चरन्ति चतुरम्भोवि ii. 99 ab गुणजातिक्रियादीनाम् ii. 323 ab चराचराणां भूतानाम् iii. 163 ab गुणतः प्रागुपन्यस्य i. 21 ab चर्चाचन्दनपातश्र ii. 104 cd गुणदोषाश्र काव्यानाम् jii. 186 ed चलं च तडितां दाम गुणदोषविचाराय ji. 56 cd ii. 105 cd i. 57 ah गुणदोषानशास्त्रज्ञ: i. 8 ab चारु चन्द्रमसं भीरु
गुणैस्तुल्योसि भेदस्तु ii. 181 cd चित्रमाक्क्कान्तविश्वोपि ii. 165 ab
गुरुगभंभराकुान्ताः i. 98 ab चिह्नमाख्यायिकायाश्चेति i. 26 cd
गुरुसारोयमेरण्ड: ii. 172 cd चिरार्जित हृतं तेषाम् ii. 356 cd
गुरोः शासनमत्येतुम् ii. 301 ab चोला: कालागुरुश्याम iii. 166 ab
गृहाणि नाम तान्येव i. 86 ab च्युतो मानोधिको राग: i. 59 cd
गोमूत्रकेति तत्प्राहुः iii. 78 cd छ गोगो: कामदुघा सम्यकू i. 6 ab गद्यपद्यमयी काचित् i. 31 cd छन्दोविचित्यां सकल: i. 12 ab छाद्यतामुत्तरीयेण ii. 289 cd
च ज
ii. 99 cd जगदानन्दाद्यत्येष: ii. 175 abr चक्षुषी तव रज्येते ii. 131 ab जटाभि: स्निग्धताम्राभि: ii. 12 cd चतमखमुखाम्भोज i. 1 ab जयता त्वन्मुखनास्मान् iii. 17 ab चतुर्वगफलायत्तम् i. 15 cd जयत्यसुरनिशङ्क: ii. 81 cd चतुरं चतुरम्भोधि iii. 6 cd जलं जलोधरोद्रीर्णम् ii. 105 ab चन्दनप्रणयोद्गन्धि i. 49 ab जहि शत्रुबलं कत्स्नम् iii. 132 ab चन्द्नारण्यमाधूय ii. 238 ab जातिक्रियागुणद्रव्यस्वभाव ii. 13 ab चन्दनोदकचन्द्रांशु ii. 40 ab जातिक्रियागुणद्रव्यवाचिनकत्र ii. 97 al चन्दनं चन्द्रिकामनः ii. 305 ab जितप्ररुष्टकेशाख्य: iii. 118 ab चन्द्रः पूणश्र् कामेन ii. 242 cd जित्वा विश्वं भवानत्र ii. 119 ab चन्द्रबिम्बादिव विषम् ii. 39 ab जीविताशा बलवनी ii. 139 ab चन्द्रातपस्य बाहुल्यम् ii. 216 ab ii. 302 cd पनद्रमा पीयते देवेः .90 g ज्ञातो लक्केश्वरः रच्छात् ज्य: सोर्थान्तरन्यास: ii. 169 ab
Page 432
काव्यादर्शस्थश्लोकार्वप्रतकिसाचि: ४११
नदेव ननिमें्कर्नम् ii. 2e0 तश्व वारतांभिधानेपु i. 85 cil नद् गुरुगा त्घूरना च i. 81th
नज्जयान्नायकोत्कर्ष i. 22 cd ' तत्पद्ध्यां पदं धर्ते ii. 04 ah
तत्कथाख्यायिकेत्येका i. 12 ab नन्द्रवस्तत्समो देशी i 33 cd
तत्कारणमुपन्यस्य ii. 134 cd तद्वदास्त न शक्यन्ते i. 101 cd
तत्तु नेकान्नमधुरम् i. 61 cd तद्योग्यस्थानविन्यासान् iL 70 ca
तत्ते मुखश्रियं धत्ताम् ii. 24 cd तद्रूपा हि पदानत्ति: i. 52 ed
तत्र तद्विन्नवृत्तं स्यात् iii. 156 ed तद्विसंधीति निर्दिष्टम् iii. 159 cd
तत्र यद्वेदकथनम् ii. 180 cd तद्वरनिष्कियाचति ii. 223 cd
तत्र वेदुर्भगौडीयौ i. 40 ed ननुमध्या: क्षरत्स्वेद० iii. 32 cd
तत्रापि दृश्यते भासः iii. 70 ed तनुमव्यं पृथुश्रोणि ii. 336 ab
तत्समान्दशयित्वेति ii. 160 cd नमन्वेत्यनुबध्नाति ii 64 cd
तत्साधनसमर्थस्य ii. 169 cd नमहं वारयिष्यामि ii. 296 cd
तत्साधनसमापत्ति: ii 298 ed तया निपिध्यन यात्रा ii. 150 cd
नथापरेपि बीभत्स° ii. 287 cd नरुणा तरुणान्रुष्टान् ii1. 13 cd
नथापि कटुवर्णानाम् iii. 155 ab तव कक्षा न यात्येव ii. 187 ed
तथापि जितमेवासीत् ii. 324 ed नव तन्वद्धि मिथ्यव ii. 127 ab
तथापि न नदाख्यातुम् i. 102 ed नव तन्वङ्गि वदनम ii. 41 ed
नथा संधिविकारान्त० iii. 154 cd तव नकोपि विद्वेष्टा iii. 132 cd
नथापि सम एवासौ ii. 35 ed तव प्रिया सचचरिता प्रमत्त या iii. 41 ab i. 62 eत नवाननमिवाम्भोजम् ii. 18 ab
तथाप्येषा तपोभङ्गम् ii. 325 cd तस्य चानुकरोतीति ii. 65 ab
तथाहि स चकोराक्षि iii 174 cd तस्य मुष्णाति सौभाग्यम् ii. 63 ab
तथैव शयितौ रागात् iii. 120 ed तस्य राज: प्रभावेण ii. 180 ab तद्पेतं यतिभ्रष्टम् iii. 152 cd तस्याः कलापरिच्छेदे iii. 171 cd तद्भिन्नपदं भिन्न० ii. 310 cd तापसेनापि रामेग ii. 344 ab तद्ल्पमपि नोपेक्ष्यम् i. 7 ab तामका न च कामेन iii. 75 cd तदवस्था पुनर्देव i. 77 cd ताम्राङगुलिदलश्राणि ii. 69 ab तदस्ततन्द्रेरनिशम् i. 105 ab तारतारम्यरसितम् iii. 35 cd तदा प्रभृति धर्मस्य i 53 cd तिरोभवति घर्माशु: ii. 318 cd तदिष्टं सर्वतो भट्गम् iii. 80 cd तिष्ठन्तमपि सात्कम्पम् iii. 115 cd तदुदाराहयं तेन i 76 cd तुण्डराताम्रकुटिलै: ii. 9 ab तदुपश्लेषणार्थोर्यम् ii. 233 ab तुल्यसंकाशनीकाश® ii 37 cd तदेतत्काव्यसवस्वम् i. 100 ab ते चाद्यापि विकल्प्यन्ते ii. 1 ed सदेतद्वाच्यं भूय: i. 32 ab तेजस्व रूढाहंकारम् ii. 275 cd
Page 433
४१२
तेन सार्ध विगृह्ृति ii. 63 cd i. 72 ab तेमी प्रयोगमार्गेषु ii. 254 ah दुष्पराभिमता ये तु iii. 38 cd नेषां निदर्शनेष्वेव ii. 315 ed दुप्करं जीवनोपायम् ii. 152 ab तेषामसन्निधानेपि i. 5 cd दुषटप्रहेलिका चान्या iii. 106 ed तेषु तेष्वयथारूढम् iii. 164 ab तैः शरीरं च काव्यानाम् दुष्प्रतीतिकरं ग्राम्यम् i. 66 cd i. 10 ab तौ तुल्यौ त्वन्मुखेनेति दुष्प्रयुक्ता पुनर्गोत्वम् i. 6 cd ii. 31 ed त्रिवर्णराजिभि: कण्ठैः दूरकार्यस्तसहजः ii. 263 ab ii. 9 cd दूरे प्रियतम: सोयम् ii. 133 ah त्वत्पाद्नखचन्द्राणाम् ii. 259 cd त्वद्पाङ्गाह्वयं जेत्रम् ii. 255 ab दृशो दूत्यश्ष कर्षन्ति ii. 316 cd
त्वदर्पितदृदशस्तस्याः ii. 263 ab दष्टाश् फुल्ला निचुला ii. 133 cd
त्वदाननमधीराक्षि ii, 44 ab दृष्टिरोधितया तुल्यम् ii. 198 cd
ii. 17 ab दृष्टिरोधकरं यूनाम् ii. 197 cd
त्वदाननं विभातीति ii. 38 cd देयः पथिकनारीणाम् ii. 251 cd
त्वद्विषां दीर्घिकास्वेव ii. 157 cd देवधिष्ण्यामिताराध्यम् i. 90 ab
त्वन्मुखं कमलेनव ii. 19 ab देवानां नन्दने देवः iji. 93 ab
त्वन्मुखं कमलं चेति ii. 190 ab देवोप्यविबुधो जज्ञे ii. 322 cd
व्वन्मुखं पुण्डरकं च ii. 193 ab देव त्वच्चरणद्वन्द्वम् ii. 258 cd
त्वन्मुखेन्दुममासूनाम् ii. 83 cd देशकालकलालोक iii. 126 ab
त्वया नीलोत्पलं कर्णे देशोद्रिवनराष्ट्रदिः ii. 106 ab iii. 162 ab द्होष्मभिः सुबोधं ते त्वया राजापि सवयेम् ii. 245 ed ii. 344 cd त्वाय निमत्सरो दिष्टया i. 64 cd दोलाभिप्रेरणत्रस्त ili. 182 ah
त्वय्यैव त्वन्मुखम् हष्टं ii 22 ab दोषाकरेण संबध्नन ii. 312 ab
त्वं समुद्रश्व दुर्वारौ दोषानपरिसंख्येयान् ii. 185 ab iü. 107 ah दोषाभासो गुणः कोपि ii. 272 ab दोषाभासा गुणा एव ii. 343 cd
दृक्ष: प्रजापतिश्वासीत् ii. 321 cd घ
दृक्षिणाद्रिरुपसरन् iii. 150 ab धनं च बहुलभ्यं ते ii. 137 ab दुण्डे चुम्बति पद्मिन्या iii. 110 ab धराधराकारघरा ili. 72 ab दृत्त्वोदाहरण द्वन्द्वम् ii. 241 ab धर्मक्षपोयमाक्षिप्तम् ii 128 ab दशत्यसौ परभृत: ii. 296 ab धर्मेण हंस सुलभे दिइमात्रदर्शितं धीरैः ii. 164 cd ii. 96 cd धम्याक्षपायमाक्षिप्तः दिवि भ्रमन्ति जीमूताः ii. 130 ab ii. 113 cd धुन्वन्कद्म्बरजसा दिवो जागर्ति रक्षाये iii. 181 cd ii. 49 ab धली: स्थलीर्व्योम्नि ili. 64 cd दिवं दुदाव नादेन iii. 93 cd ii. 151 ab दीपकस्थान एवेष्टम् ii. 116 cd धियते मूर्धि भूपालैः ii. 69 cd
Page 434
काव्यादर्शस्थश्लोकार्वपतीकसचिः ४१३
धुवं ते चोरिना तन्त्र ii.274 ab न योजितान्मानक् ध्वजिनी तस्य राजः के iii 155 cते न ग्था न च मानङ्ग i 327 ab
न नग जिता माननया Ei. 55 ab
न कठोरं न वा नीक्ष्णम् ii. 324 ab नर्तिनमूलतनालम् ii. soe
नगरार्णवशलर्तु० i. 16 ab न लिङ्गवचने भिन्ने ii. 51 ah
न च मे प्राणसंदेहः ii. 137 cd : निन्या इव तम्वङ््य।: ii. 45 ab
न च रक्ता भवद्दृष्टिः ii. 326 cd न विद्यते यद्यपि i. 104 ah
न चिरं मम तापाय ii. 135 ab न श्रद्दधे वाचम् iii. 65 ab
न जातु शक्तिरिन्दोस्ते ii. 34 ab न संहितां विवक्षामि iii. 159 ab
न तथा लिम्पतेर्लेपात् ii. 232 cd न स्तूयसे नरेन्द्र त्वम ii. 167 ab
नतनाभि वपः स्त्रीणाम् ii. $36 cd न स्पृशत्यायुधम् iii. 121 ab
न तपः संचिनं किश्वित् ii. 161 cd न हि प्रतीति: सुभग i. 75 cd
न तु रामामुखाम्भोज i. 58 cd : नहीन्दुगृहये षूभेप ii. 179 cd
न ते सुन्दरि संवादि ii. 91 cd i नाघ्नातं न रूनं कर्णे ii. 157 ab
न देवकन्यका नापि ii. 325 ab नादिना मदना धी: स्वा ii. 75 ab
न दोष: पुनरुक्तोपि iii. 137 cd नानाभङ्गितमारुष्ट° iii. 117 cd
ननु दाक्षिण्यसंपन्नः ii. 174 ah नानालङ्कारसंसृष्टिः ii. 359 cd
ननु द्वितीयो नास्त्येव ii. 47 cd नानावस्थं पदार्थानाम् ii. 8 ab
नन्वात्मलाभो महताम् ii. 173 cd नानेना ननु नानूने० iii. 95 cd
न पश्चेषु: स्मरस्तस्य ii. 304 cd नान्यथा कतमत्रास्यम् ii. 72 cd
न पद्मस्येन्दुनिर्गराहय ii. 27 ab नायकनव वाचान्या i. 24 ab
न पद्मं मुखमेवेदम् ii. 36 ab नालीना लीनबकुला ili. 34 cd
न पर्यन्तो विकल्पानाम् ii. 96 ab नाशनाजनना शोक० iii 77 cd
न प्रपश्वभयाद्ेदाः iii. 38 ab नासिक्यमध्या परितः iii. 104 ab
न बद्दा भ्रुकुटिर्नापि ii. 326 ab ना स्थेय:सत्त्वया वर्ज्यः iii. 54 ab
न भासुरा यान्ति iii. 40 cd ना स्थेयः स त्वया वर्ज्यः iii 54 cd
नमो नक्षत्रमालीदुम् ii. 194 cd निर्गच्छत मुखाद्वाणी ii. 147 cd
न मन्दयावर्जित० iii. 57 ab निगृह केशेष्वाकुष्ट: ii. 282 ab
न मया गोरसाभिज्ञम् iii. 108 ab निगृह नेत्रे कर्पन्ति iii. 13 ab
न मीलयन्ति पद्मानि ii. 83 ab निर्णेतुं शक्यमस्तीति ii. 218 ab
न यतो नयतोन्तं नः iii. 9 cd निभृता निभृतान्यार्था ili. 102 cd
नयनानन्दजनने iii. 88 ab नियमाक्षेपरूपोक्ति: ii. 315 ab
न याति भूतं गणने iii. 59 cd निवृत्तव्याससंसर्ग: ii. 212 ab
नयानयासीज्जिनया नया iii 46 cd निराकरणमित्येष: i. 21 cd
नयनयालोचनया iii. 46 ab निर्णयार्थ प्रयुक्तानि iii. 109 ab
Page 435
४१४ काव्यादर्शस्थश्लोकार्धप्रतीकसचिः
निर्वनयितृमि व्छन्त्य। ii. 297 ed पद्म बहुरजश्र्न्द्र: ii. 30 ab निर्वर्त्ये च विकार्ये च ii. 240 ab पद्यं गदं च मिश्रं च i. 11 ab i. 95 ah पद्यं चतुष्पदी तच्च i. 11 cd निस्त्रिंशत्वमसावेव ii. 319 ab ii. 368 ab निसर्गादिपदैरत्र पन्धा स एष विवृन: ii. 204 ab i. 84 ab नीयते च पुनस्तृप्तिम् पयोधग्तटोत्सङ्ग: iii. 10 cd ii. 173 ab नुन्नमानं मनः स्त्रीणाम् iii. 5 cd पयोमुच: परीतापम् iii. 134 ab नूनं नुन्नानि नानेन परदारामिलाषो मे iii. 95 ab परव्यामोहने चापि iii. 97 cd नृत्यगीतप्रभृतय: iii. 162 cd नृत्यत्येष लसच्चारु iii. 24 cd परस्परविरोधीति ii. 33 cd
नृत्यन्ति निचुलोत्सङ्गे ii. 103 ab परस्परोपकारित्वम् ii. 365 ah
नेत्रे चामीलयन्नेष: ii. 11 cd परागतमिव क्वापि iii. 27 cd
नदृशं बहु मन्यन्ते i. 75 ab परागतरुराजीव iii. 27 ah
नैकोपि त्वादृशोद्ापि ii. 47 ab परुषा लक्षणास्तित्वम् iii. 100 cd
नैतन्मुखमिदं पद्मम् ii. 94 ab परुषा वागिता वक्त्रात् ü. 39 cd
नैवं निविशता iii. 109 cd परम्पराया बलवारणानाम् ili. 64 ab
नैसर्गिकी च प्रतिभा ii. 103 ab पल्लवे पल्लवे ताम्रा iii. 112 ed
नोपमानं तिडन्तेन ii. 227 cd पवनो दक्षिण: पर्णम् ii 98 ab
न्यक्षेण क्षपितः पक्ष: i. 72 ed पश्चात् पर्यस््य किरणान् ii. 257 ab
न्यूनमप्यत्र येः केश्वत् i. 20 ab पश्य गच्छत एवास्तम् ii. 172 cd
पश्याम्यनङ्गनजातङ्क iii. 142 ab प पाणिपद्मानि भूपानाम् ii. 259 ah पश्चानां पाण्डपुत्राणाम् iii. 185 alı पाण्डुराश्र् ममैवाङ्ग: ii. 352 cd पनन्ति च समं तेषाम् ii. 353 cd पातु वः परमं ज्योति: ii. 357 cd
पत्युः प्रस्थानमित्याहु: ii. 152 cd पातु वो भगवान् विष्ण: iii. 28 ah पथिकानामभावाय ii. 238 cd पादाभ्यासोप्यनेकात्मा iii 53 cd पद्प्रयोग: शिष्टेष्टः iii 148 cd पादे तदर्पणादेतत् ii. 82 cd पद्संधानवृत्या वा i. 66 ab पायं पायं तवारीणाम् ii. 288 ab पदातिरथनागाश्व iii. 7 cd पारावतः परिक्षिप्य ii. 10 cd पद्यसंमीलनादत्र ii. 262 ab पिबन् मधु यथाकामम् ii. 206 ab पद्मानामेव दण्डेषु ii. 320 ab पिबामि तरलं तस्या: iii. 134 cd पद्मान्यकाशुनिष्ठयूताः i. 96 ab पीनस्तनस्थिताताम्र i. 85 cd पद्मिनी नक्तमुन्निद्रा iii. 167 ab पुंसा केनापि तब्ज्ञेयम् ii. 284 cd पद्मेपि सा यद्यस्त्येव ii. 23 ab पुंसः पुराणादा्छिद्य ii. 345 ab पद्येप्यदाक्षिणात्यानाम् i. 80 cd पूर्णसप्तस्वरः सोयम् iij. 170 cd पद्मं तावत्तवान्वति ii. 20 ab | पूर्वत्र शब्दवत्साम्यम् ii. 196 ab
Page 436
काव्यादर्शस्थ क्रोकार्धप्रतीकसूचि:
पूर्वत्राशयमाहात्म्यम् ii. 303 ab नत्यिन्शद्नयोग्वस्य पूर्वस्मिन्भेदमात्रोक्ति: ii. 192 ab प्रन्गः प्रयागं ते बि 1 237 an
पूर्वानुभवसंस्कार° i. 55 cd प्रेयः मियतराख्यानम् i. 149 (
पूर्वशास्त्राणि संहृत्य i. 2 ab प्रेथो रसवदृर्जस्वि ii. 275 ab
पूण्यातप इवाह्वीव i. 42 ab ii. 5ed
प्रतिज्ञा हेतुदृष्टान्त° ili. 127 ab व
प्रतिपक्षप्रतिद्वन्द्वि ii. 58 ab बध्रन्ति च पयोदेपु प्रतिबिम्ब प्रतिच्छन्द ii. 59 ab वध्नन्नङ्गेपु रोमाश्वान् ii. 108
प्रतिषेधोक्तिराक्षेप: i. 11 ab ii. 120 ab बन्धशैथिल्यद्ोपोपि प्रतीतिविषयप्राप्ते ii. 182 cd बन्धा मृदुस्फुटोन्मिश्र: i. 69 cd i. 47 cd प्रतीयमानशक्ल्यादि ii. 195 ab बन्धुत्यागस्तनुत्यागः iii. 147 ab प्रतीयमानसादृश्यः ii 189 cd प्रत्याचक्षाणया हेतून ii. 138 ab ii. 243 cd बालेवाद्यानमालेयम् प्रभावतोनाम न iii. 63 ab ii. 29 cd
प्रभावत नाम न° ini. 63 cd बाहू लते वमन्तश्रीः ii. 67 cd
प्रभामात्रं हि तरलम् ii. 129 cd विभर्नि भमेर्वलयम् iii. 61 ab
प्रभुत्वनव रुद्धस्तत् ii 138 cd बिभ्रत्यनन्यवपयाम् ii. 331 cd
प्रमेयोष्यप्रमेयोसि iji. 184 ab बुद्द्वा वक्ति प्रियं टृष्टा ii. 155 ed
प्रवृत्तेव यदाक्षिप्ता ii. 122 cd ब्रह्मणोप्युद्रवः पद्म: ii. 31 ab
प्रवृत्तेव प्रयामीति ii. 153 ab भ प्रसाद्वत्प्रसिद्धार्थम् i. 45 ab प्रसिद्धहतुव्यावृत्त्या ii. 199 ab भक्तिमात्रसमाराध्य: ii. 277 ed
प्रस्थानं प्राक्प्रणीतं तु i. 92 cd भगिनीभगव त्यादि i. 68 ab
प्रहेलिकाप्रकाराणाम् iii. 96 cd भगवन्तौ जगन्नेत्रे ii. 172 ab
प्राकू प्रीतिर्दशिता सयम् ii. 281 ab अयादमेयामा मा वा iii. 81 ed
प्राग्भावादिरूपस्य ii. 252 ab भतृभक्तो भटः श्वेव ii. 55 cd
प्रागेव दर्शिता: श्लेपाः ii. 313 cd भतृभावादुजङ्गन्नाम् ii. 188 cd
प्रागेव हरिणाक्षीणाम् ii. 257 cd भवद्विधानामसमाहितानाम् iii. 65 cd
प्राणा इव प्रियोयं मे ii. 53 cd भवादशा नाथ न iii. 42 ab
प्राप्ये तु कर्मणि प्रायः ii. 240 ab भवानिव महीपाल: ii .: 53 ab प्रावृषेण्येजलधरैः ii. 335 ab भाग्यदोपान्ममैवेति ii. 92 cd
प्राहुरधभ्रमं नाम iii. 80 ab भावाभावस्वरूपस्थ ii. 252 cd
प्रियप्रयाणं साचिव्यम् ii. 146 cत भाविकत्वमिति प्राहः ii. 364 ab प्रियप्रयाणं रुन्धत्या ii. 140 ed भावः कवेरभिगाय: ii. 364 cd प्रीतिमकाशमं तष्च ii. 279 ed ! भावायतमिदं सर्वन्र ii. 366 cd
Page 437
४१६ काव्यादर्शस्थश्लोकाधप्रतीकसूचिः
भिन्नं द्विधा स्वभावोक्ति: ii. 363 cd मनोरथियालोक iii. 140 ab भीमस्य पश्यतः शत्रुम् ii. 283 cd मन्त्रदूत प्रयाणाणि i. 17 cd भुजङ्गभोजससक्ता ii. 346 cd मन्दानिलेन चलता iii. 160 ab भुवश्व मुकुमारामि: ii. 100 cd मन्दो गन्धवहः क्षारः ii. 104 ab भूतभाषामयी त्राहुः i. 38 cd मध्यंदिनार्केसंतप्तः ii. 222 ab भूमानमानयत य: iii. 44 cd मन्मना मन्मथाक्रान्तम् i. 57 cd भूयो वमन्तीव मुखैः i. 96 cd मन्मनो मन्मनोप्येष: iii. 11 cd भृङ्गन्नेत्रादि तुल्यं तडू ii. 196 cd मन्ये मार्तेण्डगृह्माणि ii. 222 cd भेदृश्व दृष्टो लम्भादि i. 27 cd मन्ये शङ्के ध्रुवं प्रायो ii. 25.4 ab भोगो रोगो मोदो मोहो iii. 84 cd ममापि जन्म तत्रव ii. 141 ed
भः खरक्षुण्णनागासक् i. 73 cd मयापि मरणे चेत: ii. 106 cd
भ्रमणेनैव संबन्ध० ii. 114 cd मया मधुच्रतेनैव ii. 45 cd
ii. 193 cd मया मयालम्ब्यकला मयामयार्ति निशया iii. 48 ah
ii. 44 cd ini. 48 cd
भ्रवो च भुग्ने न तथा ii. 131 cd मय्येवास्या मुखश्रीरि० ii. 23 ab मरणं स्चयन्त्यव ii. 146 cd म मलिनाचरितं कर्म ii. 178 cd
iii. 113 cd मल्लिकामालभारिण्य: मज्जन्त इव मत्तास्ते ii. 215 ab
मख्जरारत्य घर्माम्भ: ii. 72 ab महाराजन्न्न जिज्ञासा iii. 149 cd
मण्डलीकृत्य बहाणि i. 70 ab महाराष्ट्रश्रयां भाषाम् i. 34 ab
मता धुनानारमता iii. 49 ab महीभृद्गरिकटह: ii. 321 ab मही महावराहेण मतावयत्युत्तमता iii. 49 cd i. 74 ab
मदनो मदिराक्षीणाम् iii. 79 ab माति मातुमशक्योपि ii. 219 cd मानमस्या निराकर्तुम् मदनबाणा निशिता: iii. 158 cd ii. 299 ab
मदपाटलगण्डेन ii. 75 ab मानयोग्यां करोमीति ii 253 ab
मद्भ्रमद्दशः कर्तुम् iii. 30 cd मानसे रमतां दीर्घम् i. 1 cd मांनिनी मा निनीषुस्ते मदरक्तकपोलेन ii. 80 ab iii. 16 ab मानेन मानेन सखि मम दोलायते चित्तम् ii. 26 cd iii. 4 ah मार्ग: कलाविरोधस्य मदनो यदि तर्क्षीणम् iii. 79 cd iii. 169 cd मानर्ष्ये इह शीयते iii. 161 ab मधुपानकलाकण्ठात् ii. 176 ab मानं सखिजनोद्दिष्टम् ii. 272 cd मधुरा रागवधिन्यः ii. 317 ab मिश्राणि नाटकादानि i. 31 ab मधुरुत्फुल्लानचुला iii. 167 cd मुक्तकं कुलकं कोश: i. 13 ab मधुरं मधुरम्भोज iii. 8 ab मुखमिष्टार्थसंसिद्धौ i. 30 cd मधुरं रसवद्धाचि i 51 ab मुग्धा कान्तस्य यात्रोक्ति: ii. 155 ab मनोभव तवानीकम् iii. 81 ab मुदा रमणमन्वीत iii. 30 ab
Page 438
काव्यादर्शस्थक्लोकार्धप्रतीकसूचि: ४१७
मधुरेण दशां मानम् iii. 20 ah यदि निन्दृन्निव स्नीति ii. 348 ab मुक्तं तद्न्यतस्तेन ii. 255 cd यदि वास्यमि यातव्यम् 5. 135 cd मुखपङ्कजरङ्गस्मिन् i. 93 ai, यदि लेपनमेवेष्टम् ii. 229 ab मुख चन्द्रस्य चन्द्रत्वम् ii. 91 ah चदि शब्दाह्वयं ज्योति: मुखादित्वं निवत्यैव ii. 95 ab यदि मत्येव चावा ते i. 143 ab मुखेन्दुरपि ते चण्डि ii 92 ab यदि सन्यं मृदून्येव ii. 127 ed मुखेन्दौ तव सत्यस्मिन् ii. 159 cil यद्ब्रवन्ति स्मृता सेयम् ii. 48 cd मुखेन मुग्धे: सोप्येष: ii. 75 cd यदुपात्तपु संपत्ति: i. 20 cd मुखं मुक्तारुचो धत्ते ii 71 ed यम: कुचेरो वरुणः ii. 331 ah मुखं वल्गुरवं कुर्बन् iii 110 ca यमक तच्च पाढानाम् iii. 1 cd मृगा इमे न दायादा ii. 249 cd यमकं प्रतिलोमत्वात् ili. 73 cd मृगेक्षणाङ्कं ते वक्त्रम् i. 35 ab यया कयाचिच्छ्रत्या यन् i. 52 ab मृणालबाढ रम्भोरु ii. 337 ab मृतोत प्रेत्य संगन्नुम् ii. 280 ah यशश्र् ते दिक्ष रजश्व सैनिक: iii. 60 al
मेघनादेन हंसानाम् iii. 5 ah यस्यां भवद्भिमता iii. 133 cd
मेघाली नर्तिता वातैः iii. 22 ed यस्या: कुसुमशय्यापि ii. 286 ab यः स्वरस्थानवगानाम् iii. 83 ab य याति चन्द्राशुभि: स्पृष्टा ii. 350 ab
य एव दीना: शिरसा iii. 42 cd याति प्राकृतमित्येवम् i. 35 cd
यच्च संव्यङ्गवृत्यङ्ग ii. 367 ab याति विश्वसनीयत्वम् ii 339 cd
यतो जलाधरावल्या ii. 112 cd यानमानयमारावि iii. 76 ab
यत्नाक्षपः स यत्नस्य ii. 148 ab यानावारारावानाया iii. 82 cd
यत्नसंबन्धविज्ञान iii. 146 ab यानावारारावानाया iii. 87 cd
यत्पकारान्तराख्यानम् ii. 295 cd । यान्ति सार्ध जनानन्देः ii. 354 cd
यत्र स्वाभाविकत्वं वा ii. 199 cd : यामताश कतायासा iii. 74 ab
यथा कथंचित्सादृश्यम् ii. 14 ab याम यामत्रयाधीना iii. 36 ab
यथानत्यजुनाब्जन्म i. 46 cd यामयाम धिया स्वत्या iii. 36 cd
यथा बाहुलता पाणि ii. 66 cd यामुदारशताधीनाम् iii. 76 cd
यथा यकारादिपदम् i. 65 ab : युगपन्नेकधर्माणाम् i. 97 cd
यथा लीलाम्बुजकीडा i. 79 cत : युवानमाकुलीकतुम् iii 143 cd
यथासामर्थ्यमस्माभि: i 2 cd युवेष गुणवान् राजा ii. 269 ab
यथासंख्यमिति प्रोक्तम् ii 273 cil युष्मत्यादुरजःपात i. 90 cd
यथेन्दुरिव ते वक्त्रम् ii. 232 ah यूनां चोत्कण्ठयत्येष: ii. 118 cd
यद्कनेत्रां कन्दर्प: ii. 151 ci : येन मादन्ति धीमन्त: i. 51 cd
यद्पीतादिजन्यं स्यात् ii. 202 ab ! योगमालात्मिका नाम ii, 104 ab
य्रदि किंचिद्धवत्पय्यम् ii. 24 ah यो रावणशरश्च्छेद ii. 301 cd
५३
Page 439
४१८ काव्यादर्शस्थश्लोकार्धप्रतीकसूचिः
यथस्तनाति तुष्यन्ति i. 89 cd लाम्यच्छलितशम्पादि i. 39 ab यो लिम्पत्यमुना तुल्यम् ii. 231 ah | लिम्पतीव तमोङ्गानि ii. 226 ab लिम्पतीव तमोङ्गगानि ii. 362 al र लिम्पते तमसश्र्यासो ii. 228 ed रणोत्सवे मनः सक्तम् ji. 269 cd लीलानृत्त्यं करोतीति ii. 93 cd रतोत्सवामोद्विशेषमत्तया iii. 41 ed लीलास्मितेन शुचिना iii. 43 ab रत्नभित्तिषु संक्रान्तैः ii. 302 al लुप्तमुद्रेदि घर्माम्भ: iii. 160 cd रमणारकता तेस्तु iii. 74 cd लप्ते पदान्ते शिष्टस्य iiL 154 ab रमणी रमणीया मे ii. 18 ab लेशमेके विदुर्निन्दाम् ii. 268 cd रवेरिवोअरस्य पुरो हररेवे ii1. 47 cd लेशो लेशेन निर्मिन्न ji. 265 ab रसवत्वं गिरामासाम् i1. 285 cd लोकातीत इवात्यर्थम i. 89 ah रागमादर्शयन्न्रेषः ii. 318 ab व रागेण पुनराक्रान्तम् ii. 335 ed वक्त्रं चापरवक्त्रं च i. 26 ah राजकन्यानुरक्त माम् ii. 266 ab वक्त्रं निसर्गसुरभि ii. 203 ah राजाननुकरोषीति ii. 50 ed वक्राः स्वभावमधुराः ii. 316 ab राजन्निस्वाकवंश्यस्य ii. 345 cd वचांसि दोष एवासौ iii. 139 cd राजन्वत्यः प्रजा जाता: iii. 6 ab वश्वितान्यत्र रूढेन iii. 98 cd राजहंसोपभोगार्हम् ii. 87 ab वनान्यमनि न गृहा ii. 249 ab राजानुवर्तनक्कश ii. 342 cd ii. 311 cd वराहेणोद्गता यासौ iii. 25 cd राजा हरति लोकस्य वर्धते सह पन्थानाम् ii. 353 ab राजिनैराजितक्ष्ण्येन iii. 10 ab वर्णानामेकरूपत्वम् iii. 78 ab राजीवमिव ते वक्त्रम् ii. 16 ab राज्षा प्रदोषो मामित्थम् ii. 312 cd वर्णानां न्यूनताधिक्ये iii. 156 ab वर्णावृत्तिरनुप्रासः राजां विनाशपिशुन: iii. 181 ab i 55 ab
राजां हस्तारविन्दानि ii. 258 ab वल्गितम्रु गलद्घर्म ii. 73 ah i. 22 ab रुतं नूपुरसंवादि वंशवीर्यश्रतादीनि ii. 163 cd रूढमूल: फलभरे: ii. 209 ab वस्तु किंचिद्भिप्रेत्य ii. 205 ab
रूपकं विषमं नाम ii. 79 cd वस्तु किंचिदुपन्यस्य ii. 46 ah
ii. 79 ab वहन्नपि मही रुरस्राम् ii. 188 ab
ii. 281 cd वाक्यमालाप्रयुक्तेति ii. 108 cd रूपबाहुल्ययोगेन रे रे रोरुकरूरोरु वाक्ययोर्दर्शयिष्यामः ii. 102 cd iii. 92 ab रोषाक्षेपोय मुद्रिक्त वाक्यस्याग्राम्यता योनि: ii. 292 ab ii. 154 ab वाक्यार्थेनेव वाक्यार्थः ii. 43 ab
ल वागीशमहितामुक्तिम् ii. 220 cd वाग्भि: रुताभिरसणो iii. 187 cd लक्ष्म लक्ष्मा तनोतीति i. 45 ed वाचां विचित्रमार्गाणाम् i. 9 cd लब्ध्वा मोजनकाले तु iii. 122 cd वाचामतीत्य विषयम् ii. 368 cd
Page 440
काव्यादर्शस्थ ल्लोकार्धप्रती कसूचिः
चाचामेव प्रसादेन i. 3ed विशेष्यमात्रनिन्नपि ii. 20N ac वारणो वा रणोद्दाम: iu. 9 ab विश्वव्यापी विशेषस्थः ii. 170 ah वारुणी वारुणीभत iu. 18 cdl विपमं विषमन्वेति iii. 15 ab विकल्पानामवगतिः ii. 115 ed विष्णुना विकरमस्थेन ii. 101 ab विकसन्ति कदुम्बानि ii. 117 ab विस्मयोर्थान्तवस्येह ii. 166 ed ii 42 ed चिहग्त्यप्सरोभिस्तें ii. 119 cd विचार: ककशप्रायः ii. 127 cil दीरशङ्गाग्योभावो iii. 170 ab iii. 120 ab वीर्योत्कर्पस्तुतिनिन्द्ा ii 270 ab विडम्बयति संधत्ते iii. 56 ed वितन्वतेजोपमद्म् iii. 60 cd वेद्भमालनीदाम i. 44 cd विनायकेन भवता ii1. 68 ab व्यक्तिरुक्ति क्रमवलातु ii. 366 ab विनायकन भवता iii. 69 ab व्यपतस्यापि वर्ण्यन्ते iii. 19 cd विनाशिता वैभवतापनेन iii 55 ed व्याजस्तुतिप्रकाराणाम् ii. 347 cd
विपगीतफलोत्पत्तेः ii. 148 ed व्याजृम्भितेन जघनेन च ini. 43 cd
विप्रलम्मैर्विवाहश् i. 17 ah व्यावर्णितमिदं चेष्टम् ii. 367 cd
विप्रा वैश्वानरीमिष्टिम् iii. 177 cd व्यावत्यं कर्म तद्योग्यम् ii, 158 cd
विभक्तमिति माधुर्यम् i. 68 cd व्युत्क्रान्तातिव्यवहित ii. 99 ab
विभावयितुमृद्गीनाम् ii. 349 cd ii. 187 ab
विभ्रमं भ्रमरभ्रान्त्या iii. 8 cd व्युत्पन्नमिति गोडोयैः i. 46 ab
विमुखेषु न मे खङ्ग: ii. 293 cd श
विरहज्वरसंभूत ii. 239 cd शतपत्रं शरचन्द्र: ii. 33 ab विरुद्धकर्मा चास्त्यन्यः ii. 314 cd शब्द्हीनमनालक्ष्य iii. 148 ab विरुद्वानां पदार्थानाम् ii. 333 ab शब्दहीनं यतिभ्रष्टम् ii. 125 ed विरुद्धार्थतया व्यर्थम् iii. 131 cd शब्दाथालंक्रियाश्वित्म् iii 186 ab
विरोधाप्रस्तुतस्तोत्रे ii. 6 cd शब्देपि आ्म्यतास्त्येव i. 65 ab
विरोधो हेतुविद्यास iii. 173 cd शब्दोपाते प्रतीते वा ii 180 ab
विरोध: सकलोप्येष: iii. 179 ał शब्दोपादानसादश्य ii. 189 ab
विवक्षा या विशेषस्य ii. 214 ab शम्भुनारायणाम्भोज iii. 145 ed ii. 330 ab शयनीये परावृत्य iii. 109 ab
विवृणोति मदावस्थाम् ii. 73 cd शगरं तावििष्टार्थ i. 10 ed
विशदा विशदामत्त iii. 14 ab शरेष्वेव नरेन्द्रस्य ii. 319 cd
विशेषणसमगरस्य ii. 82 ab : शशीत्युत्प्रेक्ष्य तन्व्गि ii. 25 ab
विशेषणानां व्यर्थानाम् ii. 365 cd | शखप्हारं ददता ii. 356 ab
विशेपदर्शनायैव ii. 323 cd : शाखाश्र मन्दिराण्येपाम् ii. 290 cd
विशेपदर्शनायेव ii. 333 cd शास्त्रे तु संस्कृताद्न्यत् i. 36 cd
Page 441
४२० काव्याद शंस्थश्लोकार्धप्रतीकसूचिः
शिथिलं मालतीमाला i. 43 cil मदानघ सदानन्द iii. 90 ed शिशिरांशुप्रतिस्पर्धि ii. 28 ab स दानवकुलध्वंसी ili. 28 cd शुक: श्वेतार्चिषो वृद्धे ii. 107 ab सृक्सदृशसंवादि ii 58 ed शृणक्तमेकं स्वमवेत्य iiı. 61 ed सदृशव्यतिरेकश्ष ii 192 cd शैशिर्यमभ्युपेत्यैव ii. 306 ab सदो राजविरुद्धानाम् ii. 350 cd शोरसेनी च गौडी च i. 35 ab मनातनश् नेवासौ iii 116 cd श्यामला: प्रावृषेण्याभिः ii. 100 ab ili. 51 ab
श्रव्यभेवेति सषापि i. 39 cd सन्न्राहिता मानमराजसेन iii. 66 ab श्रव्यहंसगिरो वर्षा: iii. 168 al सन्ना हितोमानमराजसेन ili. 66 cd श्रीदीप्ी ह्वीकीर्ति iii. 86 ab सभास राजन्नसुराहतेमुखैः iii. 40 ah श्रीमानमानमरवर्त्मसमानमान iii. 44 al सभा सुराणामबला विभूषिता iii 58 ah श्रुतेन यत्नेन च वागुपासिता i 104 cd स भासुराणामबला विभूषिता iii. 58 cd i. 79 ab समन्ततस्तामरसक्षणे न iii. 62 ed श्लिष्टमस्पृष्टशेथिल्यम् i. 43 ab समं बन्धेष्वविषमम् i. 47 ab ii. 310 ab समानमपि सोत्सेकम् ii $0 cd श्लेषः प्रसाद: समता i 41 ab समानयासमानया iii. 71 ab श्लेष: सर्वासु पृष्णाति ii. 363 ab स मा न यासमानया श्लोकट्ूयं तु युक्तार्थम् iii. 67 cd iii. 71 ed
श्लोकेषु नियतस्थानम् iii. 152 ab समानरूपा गोणार्था iii. _00 ab समानशब्दाप्यन्यस्त iii. 103 ab
स स मामद्य प्रभूतात्कम् ii. 118 cd समासश् बहुवीहि: ii. 61 ab स एवाधनताङ्गीनाम् ii. 98 ab समासातिशयोत्प्रेक्षा iï. 5 ab स एव धर्मो धर्मी चेत् ii. 229 cd समुच्योपमाप्यस्ति ii. 21 ab स एष कारणाक्षेपः ii. 132 ab समुदायाथशून्यं यत् iii. 128 ab स एष श्लपरूपत्वात् ii. 186 ab समुद्रेण समानस्य ii. 213 cd सकलापाल्लसनया iii. 22 ab समुद्रः पयिते देव: सरुद्विखितिरिश्ष योभ्यासः iii. 67 ab ii. 129 ab सम्यगाधीयते यत्र i. 93 cd स गुणो वास्तु दोषो वा ii. 32 cd साख वक्त्राम्बुजमिदम् ii. 87 cd सरूपशब्दवाच्यत्वात् ii. 29 ab सर्गबन्घसमा एव i 29 cd स च रागस्य रागोपि ii. 107 cd सर्गवन्धांशरूपत्वात् i. 13 cd सजातिव्यतिरेकायम् ii. 198 ab सर्गबन्धो महाकाव्यम् 14 ab ٣٠
सतीनामग्रणीश्र्यासत iii. 185 cd स्गेरनतिविस्तीण: i. 18 cd सत्यं श्रवीमि न त्वं माम् ii. 125 ab सर्वत्र भिन्नवृत्तान्तैः i 19 ab सत्यमेवाह सुगतः iii. 174 ab सलक्षणसदक्षाभ ii. 59 cd सद्सद्ा निदश्येत ii. 348 cd | सवर्ण तुलितौ शब्दौ ii. 60 cd
Page 442
४२१
स वर्नमानाक्षेपोयम ii. 12tal सुकुमाग्तयवंतत् मर्वपद्मप्रभासार: ii. 38 ah. मुखं जीर्वन्नि हरिणाः सर्ववाक्योपकारश्रेत् ii. 97 e मुन्दर्गी सा नवेत्येय: b. 129 80 सर्वे साधारणा धर्मा: ii. 211 cl सुराजितहियो चूनाम् i. 32 ab मसार सरसी: सीरी iii. 94 c1 मुराः सुरालये स्वेरम ili. 113 ah महकारस्य किसलयानि iii. 157 ed सृग्ः मुरासुगसारि ii1. 94 an सहकारोद्रमेनेव iii. 20 c1 मुव्यज्जिनमिति नोक्तम ii. 308 cd सह दीर्घा मम श्वासै: ii. 352 ab सेयमप्रस्तुतवात्र ii. 342 ah सहया सगजा सेना iii. 123 ab सेयमननिमयी मृष्टिः i. 305 cd सहिष्ये विरहं नाथ ii. 151 ab सैवावन्ती मया लब्घा ii. 280 cd सहेन्दुकलयापाढ iii. 15 ed, सपा हेतुविशेषोक्ति: ii. 329 ab सहेव विविधैः पुंसाम् ii 256 cJ i सोच्छायः स्थेर्यवान्देवात् ii. 210 cd सहोकि: परिवृत्त्याशी: ii. 7 ab ; सोमः सृर्यो मरुद्भूमि: ii. 278 ab सहोकि: सहभावन ii. 351 ab सोयं दुःशामनः पाप: ii. 282 cd साक्षेपश् सहेतुश्र् ii. 186 cd सोवं भविष्यदाक्षेप: ii. 126 ab
सागर: सुक्तिरत्नानाम् i. 34 cd संकीर्णा नाम सा यस्णाम् ili. 105 cd
साचिव्याक्षेप एवेष: ii. 146 ab मंख्याता नाम संख्यानम् iii 101 ah
सा दिनामयमायामा iii. 77 ab संगतानि मृगाक्षीणाम् ii. 332 ab
साधारणमलंकार ii. 3 cd संगमय्य सखी यूना ii. 297 ab
साधिशेषे कथं देवि ii. 286 cd संनद्धोद्यरागस्य ii. 89 cd
साष्वीरेवाभिधास्याम: iii. 107 cd संभावयति यान्येव i. 86 cd
सा नामान्तरितामिश्रा iii. 124 ab संमूढा नाम या साक्षात् iii. 103 cd
सा नामान्तरिता यस्याम् iii. 102 ab संर्घया त्रियारब्धम् ii. 154 cd
सा भवेदुभयच्छन्ना iii. 105 ab संशयातिश्ञयादानाम् ii. 216 cd
ii. 209 cd संस्कृतं नाम दैवी वाकू i. 33 ab सान्द्रच्छायो महावृक्ष: सा प्रसिद्धिविपर्यासात् ii. 17 cd संस्कृतं सर्गबन्धादि i 37 ab स्तनयोजघनस्यापि ii. 217 ab सामायामा माया मासा ili. 82 ab स्थितिनिर्माणसंहार सामायामा माया मासा iii. 87 ab iii. 145 ab स्थितिमानपि धीरोपि ii. 187 ab साम्यप्रतीतिरस्तीति ii. 46 cd स्थिरायते यतेन्द्रियः iii. 39 ab सारयन्तमुरसा रमयन्ती iii. 45 ab स्न्नातुं पातुं बिसान्यत्तुम् ii. 223 ab सारवानुरुतसार सकाञ्ची iii. 45 cd स्नातुमम्भः प्रविषयाः ii. 274 cd सालं सालम्चकलिका iii. 45 cd स्पर्धते जयानि द्वेष्टि ii. 61 cd सा विद्या नौर्विविक्षणाम् i. 12 cd । स्पर्धते रुद्धमद्यः i. 49 cd सा स्यात्प्रमुषिता यस्याम् iii. 99 cd स्पर्शस्तवेत्यतिशयम् ii. 40 cd सुकरा दुष्कराश्चैव iii. 3 cd स्पृश्यते वा न वत्येवम् ii. 225 cd
Page 443
४२२
स्मरणं यस्य दैत्यस्त्री ii. 291 cd iii. 69 cd स्मरानलो मानविवर्धितो य: iii. 62 ab स्वावस्थां सूचयन्तैव ii. 142 cd स्मरः खरः खलः कान्तः i. 59 ab ह स्मितपुष्पाज्ज्वलं लोल ii. 77 ab स्मितं मुखेन्दोर्ज्योत्स्नेति ii. 68 cd इन्यत चारु सर्वाङ्गनी iii. 138 cd
स्त्रीणामपाङ्गदृष्टयैव ii. 327 cd हन्यते सा वरारोहा ili. 138 ab
स्त्रीणां संगीतविधि iii. 153 ab हरत्याभोगमाशानाम् ii. 111 ab
स्त्रीव गच्छति षण्ढोयम् ii. 52 ab हरिपाद: शिरोलग्न ii. 81 ab
स्याद्लंकार एवासौ iii. 141 cd हारिणी हारिणी शर्म iii. 16 cd
स्याद्वपुः सुन्दरमपि i. 7 cd हिमापहामित्रधरे: iii. 121 cd
ii. 230 cd हुताशनप्रतिनिधि: ii. 177 ed
स्वगुणाविष्किरियादोषः i 24 cd हृतद्रव्यं नरं त्यक्त्वा iii. 117 ab
स्वभावशुद्धः स्फटिकः iii. 178 cd ii. 113 ab
स्वभावाख्यानमुपमा ii. 4 ab हेतुनिर्वर्तनीयस्य ii. 241 ab
स्वभावोक्तिश् जातिश्र् ii. 8 cd हतुविद्यात्मको न्यायः ili. 163 cd
स्वमव मत्वा गृह्न्ति ii. 167 cd हेतुश्र सूक्ष्मलेशौ च ii. 235 ah स्वयमेव गलन्मान iii. 23 ab हेमन्तो निर्मलादित्यः iii. 168 ah म्वापराधो निषिद्धोत्र ii. 132 cd हंसीव धवलश्न्द्रः ii. 55 ab स्वामित्रोद्धारिणा भीता iii. 68 cd ह्रादनाख्येन चान्वेि ii. 21 cd
Page 444
अथ काव्यादर्शटीकास्थश्लोकप्रतीकमूचिः।
पत्रम् पङ्गि: पत्रमू पङ्कि:
अ ३६ १५
अकारवर्ज्यमावृत्ति: ५० १४ अपमारय घनसाग्म्
अकुण्ठोत्कण्ठया पूर्णम् ५० अपहूननी रूपकं च 9१३ १६
अरतव्रतबन्धे तु अभिनवमनोहरविग्चित १४७ ४९
अङ्कस्तथा त्रिकपटः 3९ २६ अभियुक्ते विशेपस्तु ९८ २६
अखण्डमण्डल: क्कन्दु: १४९ १९ १७८ २०
अखिलेु विहङ्गषु २५३ १४ अमृतान्मनि पद्मानाम् २८४ ९२
अङ्गगनि चन्दनरज:परघूसराणि ७५ ३२ अयमुद्यति मुद्राभज्जनः ४१ ४२
अजरामशुभाचार १४ अयमुद्यनि मुद्राभञ्जन: ४८
अज्ञानाददि वाधिपत्यरभसान् ५६ ८४ अयं तया रथक्षाभात् २१२ १२
अत्युच्चाः परितः स्फुरन्ति गिरय:२६३ ११ अयं नानाकारो भवति अत्रान्तरे झणितहारलतानितम्ब ८४ ३३ अयं पद्मासनासीन: ५९
अथ संसृष्टिमेदो द्वो ११३ २३ अयं भस्मनि होम: स्यात् १०७ १२ अथानुक्तो बुधर्यंत्र ११ अरविन्दमशोकं च १८५
अधिकरतलतल्पम् ३८० १९ 'अरविन्दमशाकं च २८९ 3
अधिरोप्य हरस्य हन्त चापम् १३० अर्थव्यक्तरियं भेदम् ११६ २१
अध्याहारादिगम्यार्थम् ८० अर्थव्यक्ते: प्रसादाख्य ८० ५०
अनङ्गनमङ्ग-लभुवः ५९ ५९ अर्थशक्त्युद्रवोऽप्यर्थ:
अनवरतनयनजललव ५८ ४ अथान्तरस्य न्यसनम् 793 २०
अनश्नुवानेन युगोपमानमू २४७ अर्थावृति: पदावृत्तिः ५ V
अनुभावो विकारस्तु २५९ ६८। अलिकुलकुन्तलभारा: 9७३ ५१
अनिर्बन्घं पुनर्गाथा २३ २१ / अलंकारशिरोरत्नम् १२२ १०३
अनुकूलौ निनेवेते २६४ ८ ल्पवृत्तिरवृत्तिवं ११
अनेकार्थस्य शब्दस्य ७१ १८ अवेहि मां किकरमष्टमूर्ते: १५२ २५
अन्तराले तु पाश्वाली ४० २० अवनिरुदकं तेजोवायुः २४५ १५
अन्यदा भूषणं पुंसाम् १४८ ७५ अविकृृतभाषाचारम् १५
अन्ये सुखनिमित्ते च अश्रुच्छलेन सुदृशः २८१
अन्येः स्वचरितं तस्यामू २६ १९ अश्र वस्वर्यमित्यण्न २५९
Page 445
४२४ काव्यादर्शटीकास्थश्लोकप्रतीकसूचिः
पत्रम् पङ्कि: पत्रम् पड़ि:
अष्ट सगान्न तु न्यूनम् २१ २० इन्दुसलक्षणवद्नम् १५४
अष्टाद्श प्राहरूप ३६ २६ इन्दोर्लेक्ष्म त्रिपुरर्जायन: २५४ ३६
असमस्तैकसमस्ता २३ इन्द्रस्त्वं तव बाहू १७३ ३९
अस्माकं साख वाससी १८८ १३ इन्द्रात्प्रभुत्वं तपनात्प्रतापम् १४४
अस्मिअ्जहीहि सहृदि प्रणयाभ्य- इषट साधम्यवैध्मरयंदर्शनात् ३०९
सूयाम ३०७ V अहौ वा हारे वा १४ ईदृशस्य भवतः कथमेतत् ५२ ४
आ ईषद्विकसितेर्गण्डे: १६४ २
१४ आकाशनीकाशतटाम् ईष्यंति कपिचेष्टायै १५२ १५६
आक्रोशत्यवजानाति १५६ उ
आक्षिपन्त्यरविन्दानि ३८५ १६ उच्चार्यत्वाद्यदेकत्र ५९ आद्यं समासरहितम् १३ उत्तानोच्छूनमण्ड़क ७३़ ४४
आन्त्रप्रोत बृहत्कपाल ७२ ३ उत्सङ्गितकुरङ्गनयम् १४४ ५०
आत्मानुभूतशंसी 39 उद्धतपुरुष: प्रायः 3' आरोहत्यवनीरुहम् ८४ उद्धवं तु महेशस्य 36 २९ आलानं जयकुज्जरस्य १७२ १८ उद्रभंहूणरमणी १५० १२४ आविर्बभव तापश्यात् उपकर्वन्ति तं सन्तम् ३५ आवृत्तिमेव संघात ५ उपमादीपकं चैव ११३ २६ आवृत्तिर्या तु वर्णानां ५९ १० उपमानस्य तत्त्वं यत् १५९ ४५ आशास्यमन्यत्पुनरुक्तभूतम् १५० १,४ उपमानस्य वेषम्यात् १५० ११५ सषाशीररष च केषांचित् ३०६ ६ उपमानेन तत्त्वं च १० आशीविषो वा संक्रुङ्ग: १५१ ९ उपमानेन तद्भावम् ३0८ १८ आश्वपेहि मम सीधुभाजनात् ३५ उपमैका शलूषी संग्नाप्ता १२२ ८३ आसामेव तु गाथासु . ६ उपमेयस्य यत्र स्यात् १३७ आस्वाद्य निरवशेषम् १०२ १४ उभौ यदि व्योम्नि पृथक् प्रवाहौ ४५ ३८ आहतं कुचतटेन तरुण्या: ५२ उभो यदि व्योम्नि पृथक् प्रवाहौ १२८ १६ आहूतस्याभिषेकाय १९४ १२ उभौ यदि व्याम्नि पृथक् प्रवाहौ 1५४ १७ आह्लाद्कत्वं माधुयम् ५८ उर्व्यसावत्र तवाली २२ ३४
इ ए
इतीयत्येव निर्दिष्ट १. एर्कास्त्रधा वसास चेतसि चित्रमत्र २५६ ७ इत्येवमादिरुदिता १२४ ६ एको दाशराथः कामम् २१८ इद्मुरजुम्भते बिम्बम् एतानि निःसहतनोरसमज्जसानि ४१ इदं व्यस्तन्यासम् ٣٧ एते वयममी दारा; 63 ३४
Page 446
काव्यादर्शटीकास्थश्लोकप्रतीकसूचि: ४२५
पत्रमू पङ़ि: पत्रमू पङ्गि: एवंविधस्तु कार्यो २५ कुनुदवनमपश्रि ३०४ २५
क कुसुमशयनं न प्रत्यप्रम् ४७. २४ कृतमनुमतं दृष्टं वा यैः १६ कटाक्षा मधुरालापा: २९२ कथमाक्षिप्तचित्तः सन् रुत्वा संबन्धकं चापि १४२ ३ ५ कृष्णागुरुसजातिम् कद्म्चत रुमण्डिते १५३ १५ १ कपाले मार्जारः पय इति १ कृष्णाजनानुरक्तापि २८८ १८ १२९ १५ कोटिपूर्णेन्दुशोभाढया २ २९ कमलकरा रम्भारु: १५५ १८ कोमलं मधुरं लास्यम् ३७ - ७ करबदर सटृशमखिलम् ४ ११ करिकवलनशिष्ट: कौमुदीव भवती विभाति मे -१२६ ४७ करिहस्तेन संधाधे क्मेणानेन रुतिभि: १४९ १०१ ७३ ३९ कियाकता विशेषाणाम् २४० २० करुणप्रेक्षणीयेषु ४७ २० क्वचिद्ये प्रसरता १४७ ५६ कविसंमतसादृश्यात् १२९ ११ क्वचिद्दोषस्तु समता ८0 कवेरभिप्रायकत: २६ १५ ३७९ ११ कस्त्वं वानर रामचन्द्रभवने क्वाकार्य शशलक्ष्मणः २५३ क्षणं स्थिता: पक्ष्मसु ताडिताधरा: ४७ 26 कस्तुरिकामृगाणाम् २५२ १७ क्षामता गरिमा कुक्षो ४ २२५ १८ क्षीण: क्षीणोपि शशी २०४ १२ कल्पान्ते शमितत्रिविक्रममहा २७५ १३ क्षुद्रः कोडयं तपस्वी ५१ काड्क्षन्पुलोमतनयास्तनताडनानि ३५३ १८ २७२ १५ कान्त्या चन्द्रमसं धाम्ना भुद्रा: संत्रासमेते १४९ ११२ कामं सर्वोऽप्यलंकार: २७१ ५ ग
कामस्य प्रत्यनीकोयम् १५३ ५ गच्छ गच्छसि चेत्कान्त २७३ १७ कार्यकारणयोश्रैव २२२ २० गजो नगः कुथा मेघा: १७३ ४२ कार्यारम्भे सहायापिः २७५ १० गतिर्वेणी च नागेन २८८ ११ कार्य: काव्यविधिज्ञैः ३२ ३१ गरवाभजनलावण्य २५७ २१ काव्यं यशसेऽ्थकते १८ गर्वो मदप्रभावश्री २७२ ८
किंचिदाश्रयसंबन्धात् ७२ गात्राभिघातद्लिताङ्गद् ४० २७
किं जल्पसि मुग्धतया १२५ गाम्भर्यिगरिमा तस्य १५१ ६ किं बूमस्तव वरिताम् ४८ गुणाजातिक्रियादनिम् १३५ १४ किमयं शशी न स दिवा विराजते३c८ १३ गुरुमध्ये कमलाक्षी किं तावत्सरसि सरोजमेतत् १३० ११ गूढार्थमर्थान्तरमर्थहीनम् ३७५ २० कि पद्ममन्तर्भरान्ताललि ३०८ २७ गृहिणी सचिवः सखी ५८ ४६ किसलयकरैलेतानाम् १७३ ५४ गृहन्ति मोदात् गुणलेशबिन्दून् ४०१
कृतोऽपि लक्षित: सूक्ष्म: २४९ ११ गोभायवः शकुनयोत्र कुमुदमिव मुखं तस्या: १४८ ६७ गोरपत्यं बलीवर्द: १५
५४
Page 447
४२६ काव्यादर्शटीकास्थश्लोकप्रतीकसूचिः
पत्रम् पाङ़: पत्रम् पाड़ी:
ग्रथितमौलिरसौ वनमालया १५४ ११ तमाक्षेपं ब्रुवन्तयत्र १८४ V
ग्राम्यं घृणावदश्लील ७२ तया कवितया कि वा ७६ १४ ग्राम्यदुःश्रावतात्यागात् ७५ तरुण्यालिङ्गितः कण्ठे 3७० १८
च तल्लास्यं ताण्डवं चेति २२ तव निर्वर्ण्य यद्वर्णम् २३६ चकास्ति वदनास्यान्त: १४६ ३१ तवाननमिवाम्भोजम् १२५ ११ ५४ तस्मै हिमाद्रि: प्रयताम् ७२ १२ चन्दन: शीततां धत्ते १५६ 6 तस्यापनोदाय फलप्रवृत्तौ १५० १२८ चन्द्रप्रकाशं वद्नम् १५२ तान्येव यदि भूतानि ८९ ६3 चन्द्रारविन्दयो: कान्ति 306 २४ चपलो निर्दयश्ासौ ताम्बूलरागवलयम् २५३ १९ तुल्योदयावसानत्वात् २०९ ४ चरणकमललभे: ८३ २१ ते हिमालयमामन्व्र्य ८७ २५ चित्तं व्याप्नोति यत्क्षिप्रम् ४७ ४५ त्यागी कती कुलनः १२ चेटानां राजपुत्राणाम् ३६ त्रासश्ैव वितर्कश्र २;0 ८ च्युतामिन्दोर्लेखाम् ७९ १७ त्वदाननेन सादृश्यम् २३६ 9३
छ त्वमकस्त्वं सोम: ९
छेकापहूनुतिरन्यस्य त्वमेवं सौन्दर्या ८४ ३८ २५१ १०
ज द
जामद्ग्न्य प्रतिच्छन्द: १५३ दत्वा कटाक्षमेणाक्षी ३०६ ४ m जयतति भुजगरज्ज ८९ ५७ ददृशुद्वांरदेशस्थाम् ९२
जातिक्रियागुणद्रव्य २९३ १५ ददो तस्मै सपुत्राय ३४ ९
ज्ञातार्थ ज्ञातसंबन्धम् ३ १३ दन्तप्रभापुष्पचिता २१८ २१ दलद्राक्षानिर्यत् १५४ १२ ट दारुणरणे रणन्तम् ५० ३५ टवर्गवर्जिता: स्पर्शा: ५० २८ दासविटश्रेष्वियुतम् ३१ दिग्वासा यदि तत्किमस्य त २९८ दिवो जागर्ति रक्षायै २९३ २२ त एते उपमा दोषाः १४२ ६ दिव्यपुरुषाश्रयकृतः ३२ ३२ तदाननं निर्जितचन्द्र ९३ ३७ दिव्यपुरुषैवियुक्त: ३२ २९: तदिदमरण्यं य्मिन् २७६ दिव्यं भावपरोत यत् ८३ २४ तदिदं चित्रं विश्वम् १२२ १०० ११६ १० तडिद्विर्वारिवाहानाम् १७७ 6 ३५३ 30 ततोरणपरिस्पन्द ६२ २७ देवासुरबजिरुतः ३१ २६ तत्रासमासा निःशेष ४२ ११ दिव्यै देवोषदिष्टत्वातू ३७ ५
Page 448
काव्यादर्शटीकास्थश्लोकप्रतीकसूचिः ४२७
पत्रम् पड़ि: पत्रम् पक़्ि: दोर्दण्डाचित चन्द्रशेखर ५१ ४६ नितरां परुपा सरोजमाला ९४ ७२ दोपस्य यो गुणीभाव: २५३ नियनारोपणोपायः १७२
द्वादशनायकबहुलः ३२ निरानन्द: कोन्दे ९३ ५३ द्वाभ्यां तु युग्मकं संदा निरा्ष्य विद्युन्नयनैः द्वितीया च तृतीया च २३७ निरूढा लक्षणा: काश्ियित् ८१ १६ द्विपक्षगरुडमख्य: १५४ निर्घातोल्कापातेः 39 १९
ध निर्वेदग्लानिशङ्काख्या: २७९
निषेधो वक्तुमिष्टस्य १८४ १४
धन्यस्यानन्यसामान्य १५१ नेता विनीतो मधुरः १७ १५ धमार्थकाममोक्षेपु २ १ नैतन्मुखमिदं पद्मम् धूर्नविट संप्रोज्य: नोदात्तनायककतम् ८
नोपभोगो न वा दानम् न २९१
प न च दिष्यनायककतः न जातु शक्तिरिन्दोस्ते १५५ १७: पद्संघटना रीति: ३९
न जातु शक्तिरिन्दोस्ते पदार्थ वाक्यवचनम् ११ ४
न त्वया सदगन्यस्ति १५३ पङ्करुहश्री प्रतिपक्षमृत १५ 6
न भावहीनोस्ति रस: २१ पद्यं चतुष्पदी तच् १४ १८
नमत हरं रोषानल १४८ ६२ पप्फुरिअ ओहदलअं १७३ ४५
न यत्र दुःखं न सुखं २७० परत्रानासङ्ग जनयति २७० ३५
२६ १७ परवचनमात्मसंस्थम् ३१
नवधाराम्बुसंसिक्तम् २७ परिणतशरकाण्डच्छायम् २९ ४
नव पलाशपलाशवनम् ٤٤ परिम्लानं पनि ४७ 3२
नव पल्लवेषु लालति १८१ १४ परिहरत रति २६५ 30
न विद्यते यद्यपि पूर्व २४५ २२ पयक्को राजलक्ष्म्याः १७३ २४
न विना विपलम्भेन २६४ १२ प्याप्तपुष्पस्तबक ४०
न सोस्ति प्रत्ययो लोके 3 ९० पातालमिव नाभिस्ते १४६ १८
माटकं सप्रकरणभ् 30 ४ पापे कक्षात्विभरज्ज्वाम् १४४ १५
नाटिका त्रोटकं गोष्टी 3E २२ पायादश्न्द्रधारी ३५3 २५
नातिचूणपदर्युक्ता ५५ ५० पाश्वमेति मियो यस्या: ३१६
नानाविभूतिसंयुंतमृद्धि 30 पिनष्टीव तरङ्गनम: २२९ २६
२७६ ११: पतिं पानमिदं त्वया २९५ १३
नायुधव्यसनपाप्तम् २७१ ५ पनिश्राणि गभीरनामि २४५
नावर्णनं नगर्याँदे: २३ 6 पुरा यत्र स्रोत: २१८ २६
निगीर्या्यवसानं तु २२३ १८ पुरुषाणामनीचानाम् 30
Page 449
४२८ काव्यादर्शटीकास्थ्लोकप्रतीकसूचिः
पत्रम् पङ़्ि: पत्रम् पाङ़:
पुष्पं प्रवालोपहितम् १२८ १९ ब
पूर्णेन्दुकल्पवदना १५४ २० बल्लाल क्षोणिपाल १२९ २० पूर्वरी तेरनिर्वाहे ४० २२ बहवश् तत्र पुरुषा: 39 २३ पूर्वानुरागमानात्म २९ १३ बहुतरसमासयुक्ता ४३ ३२ पृथुकातस्वरपात्रम् २८४ १२ बहुतरसमासयुक्ता ५० २५ पृष्ठेषु शङ्गशकल ५७ २६ पैशाच्या शौरसेन्या च बहुशो यच्छ्रतं काव्यम् ३२ U ७९ ३२ पैशुन्यं साहसं द्रोह: बाले तिलकलेखेयम् २४३ ७ बालेन्दुवक्राण्यिकास २२८ 6 प्रकतानुकुलश्रव्य २५ ११ -2 बिम्बग्राहितया प्रकृत्युच्छेदसंभृतम् २४० १८ बुद्दयुत्साइस्मृतिप्रज्ञा १७ १७ प्रख्यातवस्तुविषयं १ ब्रह्मचर्योरपतप्तोहम् ६७ १७ पख्यातवस्तुविषय: 39 ब्रह्माण्डकारणं योप्सु ७२ २४ प्रतिकूलतामुपगते १९९ ७
प्रतिभेत्यपरैरुदिता १०७ 3३ भ
प्रतियोगिनमारोप्य १२९ भगवत्तापसवित्रः $9 १४
प्रतिवस्तुप्रभृतयः 9१३ १४ भगवान् यज्ञपुरुष: १५२ २३
पतीच्छत्याशोकीम् ४५ भस्मवर्म फणिनः ८८ ५१
प्रतीपमुपमानस्य १२५ १८ भयोत्सृष्टविभूषणाम् १५४ प्रत्यनीकमशक्तेन २२७ 5 भल्लापवर्जितस्तेषाम् १२१ ५६ प्रधानेन्यत्र वाक्यार्थे २६० १८० भाले हस्तं समावेश्य 60 १७
अबुद्धपुण्ड रीकाक्षम् १५२ २० भावो यदा रतिनोम १९ ३ प्रमोदभरतुन्दिल ६६ भावो यदा रतिनाम २६४ १५
भुजे भुजंगेन्द्रसमान १५२ १८
प्रसिद्धार्थपदत्वं यव ४७ २७
प्रहसनमपि विज्ञेयम् ३१ म
प्रहितः प्रधनाय १५० ११८ मण्डलेन तु यत्त्तीणाम् ३२
प्राज्यप्रभाव: प्रभवः १४८ ८६ मतिर्व्याधिस्तर्थान्माद: २६०
प्राणानामनिलेन ८४ ५५ मदान्धमातङ्गविभिन्न 306 १२
प्रायेण श्रुत्यनुप्रासः ५९ १४ मधुरया मधुबोधित ११ ८८
प्रियतमावद्नेन्दु ५८ ३८ मधुरया मधुबोधित ५१ ५२ प्रेक्षामृदङ्गनिनदान् ४४ ११ मधुराय।श्र् वर्गान्तात् ९
प्रेयान्सोयमपाकतः ९३ ४्६ मनसि सदा सुसमाधिनि १०६ ४
फ· मनीषिताः सन्ति गृहेषु देवता २४
फलव्यापरियोधांतुः २३१ मनोनुकुलेप्यर्थेषु २६५ ६ 9
Page 450
काव्यादर्शटीकास्थश्लोकप्रतीकसूचिः ४२९
पत्रम् पड़ि: पत्रम् पङ़ि:
मम दृष्टस्य राजेन्द्र ९३ ४० यत्रोपमेयधर्मा: स्वुः १२८ मसणचरणपातम् ५५ ६८ यथा ज्यात््ा शरचन्द्रम् ६० २१ महतो यन्महीयांसा २२४ ७| चथा लताया: स्तबको :५३ महेश्वरे वा जगताम् २५ यथासंख्यमथोल्मेक्षा ७ मागध्यवन्तिजा प्राच्या मा गर्वमुद्दह कपोलतले यथाह गच्छ गच्छेति १४ ५८ यद्नर्थमपाहार्यम् ३१ ४ मागङ्गन: किमु वल्गितैः ५३ १७ यद्यायोगे कार्यम् ३५ मात्सर्यमुत्सार्य विचार्य ३८२ यदसज्जायते पूर्वम् २४० १६ माधुर्यव्यञ्ञकैर्वणेः ४० यदि भवति वचश्चुतम् १०९ १९ माधुर्यव्य ज्जकेवणैः यदि सन्ति गुणा: पुंसाम् १४० १२ माधुयोज:प्रसादाख्या: ४२ १८ साधुयौज:प्रसादाख्या: यद्यनुष्णो भवेट्ठूह्नि: २३६ ११० यन्न्नाटके मयोक्तम् 39 मा भवन्तमनलः पवनः ८० ६१ १४८ मा भैः शशाङ्क मम ९९ ३८ यन्मनःश्रत्रविपयम् ९२ मायेन्द्रजालबहुलः २० यन्मृदुप्रस्फुटान्मिश्र ५५ ५९ मुक्तके कवयोनन्ताः १०६ २० ३५० १: मुखमिन्दुर्यथा पाणि: यमकश्लेमचित्रेपु १२० ३५ १८ मुखं श्लेष्मागारम् ययातेरिव शर्मिष्टा १५५ १४ मुग्धे तव मुखामोद यश्ष् निम्बं परशुना २९४ १६ २३९ १० ३८६ ४ मुहुर्विश्वं संसृजति यस्तु प्रमुङ्के कुशलो १७७ १२ १९ मृगयाक्षो दिवा स्वाप: यः प्रवृत्ति निवृत्ति च २३७ २४३ ४ यस्य त्रिवर्गशून्यानि १४८ ८२
य यस्य न सविधे दयिता ६२ ३४
य एवादौ स एवान्ते ३७० २१ यस्या बीजमहकुनि: १७३ 3४
५५ ६२ यस्यावस्कन्दलीला ४. ३२
यत्र कविरात्मबुध्धा ३१ यस्याहुरतिगम्भीर ४६ १४ m यत्र कविरेकमर्थम् १५ १४ यस्मिन् श्रुते च चित्रस्य २१ २६
यंत्र तेनैव तस्य स्यात् ३०७ ४ यस्योपमानं लोकेपु १५० १२१
यत्र साधारणो धर्म: १२४ ३० याते मय्यचिरात २९९ ६
यत्रैकपद्वद्धावः ४५ या प्रीति: पुण्डराकाक्ष २९२ ७ m यत्रोन्मदानां प्रमदा २६१ १२५ युवतरिवरूपमङ्ग १०९
यत्रोपमानधर्मा: स्यु: १४९ ९० युवैष गुणवान्राजा २५: १७
१४९ १०९ यूनोरेकतरस्मिन् २६४ १९
यत्रोपमा भिन्नलिङ्ग १४६ २६ ये पूर्व यवस्चि- २७
यत्रोपमानादेवैतव् २१४ ११ ये रसस्याज्ञिननो धर्मा: ४२ १६
Page 451
४३०
पत्रम् पाङ्की: पत्रम् पङ़कि:
ये रसस्याङ्गिननो धर्मा: ११० 33 वक्षोजकुम्भनिवहात् २०४ १०
यैः शान्तरागरुचिभि: ५८ ४१ वङ्गदेशं समारभ्य 3४ ६ योधनागरिकादीनाम् ३७ ३६ वदनकमलेन बाले २२९
यं प्रेक्ष्य चिररूढापि २७३ २४ वद्नस्य तवेणाक्षि ९३
र वस्तुमाहात्म्यगप्तस्य ७२ वस्तुवालंकतिर्वेति १११ ५४ रतिर्देवादिविषया २७० २७ वाक्यं भवति नेयार्थम् ८१ ७ रतिहासश्र शोकश्र २५९ ५३ वागर्थाविव संपृक्तौ १६ २१ रत्यादिश्र्वेन्निरङ्ग: स्यात् २५७ १२ वागर्थाविव संपृक्तौ ७९ २९ रसभावौ तदाभासौ २६० ९४ वाग्भि: सुधायाः १५२ ३४ रसभावौ तदाभासौ २६१ १०६ वाचाला कनकमय ८५ ६० रसवत्प्रय ऊर्जस्वि २६१ १०८ वात्सल्याद्यत्र मान्येन १६ 9 राकायामकलङ्क चेतु १२८ वापी कापी स्फुरति १२४ ११ राक्षसोपमिता वाग्भिः १५४ १४ राजहंसोपभोगार्हम् वापीव विमलं व्योम 3९ २८४ २५ रात्रौ रवेर्दिवा चेन्दो: विचारगहनं यत्स्यात् २३६ १५ विचिन्त्य साहित्यविदाम् ४०१ राधामुखं द्वेष्ट १५५ १४ रामो दशरथाज्जातः ४०१ २० ४ विद्वन्मानसहंस १७२ ९ रामं स्निग्धघनश्यामम् २२६ विद्वानेव हि जानाति १४० रिपुषु सहजतेज: ९९ ५२ विधत्तां निःशङ्कम, ५८ 4३ रूपजला चलनयना १६२ १२ विप्रवणिक्सचिवानाम् ३१ रेकेण यस्य कस्यापि ५० ३० विभाति बालावदने १५३ 93
ल विभावनानन्वयः स्यात् ११३ १८
लतामूले लीनो विभावैरनुभावैश्र्य २५८ २९ १४ विमाने सुर्यसंकाशे १५२ २७ ललितमङ्गनमपाङ्ग ५१ ५५ लाटी तु रीतिवैद भी वियद लिमलिनाम्बु २६५ २५ ४० १५ लास: स्त्रीपुंसयोर्भावः विरुद्धा अविरुद्धा वा २५९ ५६ ३७ ३ विरुद्धा अविरुद्धा वा ४ लीला विलासवनिता ४५ विलिखति कुचावुच्च: १३ लेश: स्याद्दोषगुणयो: २५३ 9३ ९ लोचनाधरकता विवक्षितगुणोत्कष्टैः १४१ ३०६ ८ लौकिकार्थमतिकम्य विवक्षितगुणोत्कष्टैः २८५ ९७ विशेषणानां साम्येन २१६ ५७ व विषयस्यानुपादाने २२६ वक्ष्याम्यतः परमहम् २८ वीररौद्ररसाधारम १६
Page 452
काव्यादर्शटीकास्थक्लोकप्रतीकसूचिः ४३१
पत्रम् पाड़: पत्रम् पङ्गि: वृत्तगन्धोज्झिनं गद्यम् 9३ ८९ ६९ वृत्तमाख्यायते तस्याम् २५ शोणाधरांशुसंभिन्नाः १५५ ५ वेश्याचेटनपुंसक १६ श्रव्यं तत्काव्यनाहु: वैदर्भी चाथ गौडीच ३९ . शिया हसद्रि: कमलानि १५६ ११ वैदर्भीपाश्वाल्यौ ५७ १८ श्रियं क्ियाद्यस्य १६ १६ वैदर्भी साथ पाश्वाली १७ श्रियः पतिः श्रीमति १६ २४ व्रणमुखच्युतश्ञणित १५२ १५ 2: ब्रीडा चपलता हर्ष १६० श्रतिगम्यां भावहृय्याम् १ ५
७४ १७ ५९ १२ व्यत्ययो वस्तुनार्यस्तु ३०४ २२ 'श्रुतिमात्रेणशब्दात्तु २९ व्यायोगस्तु विधिज्ञै: ३१ २२ श्लथत्वमोजसा मिश्रम् ४६ १८ श श्लिष्टस्यार्थेन संयुक्त: २ शब्देनार्थेन यत्रार्थः १८४ ६श्लेपः प्रसाद: नमता ४२ ४ शब्दोपात्ते प्रतीते वा १६८ श्लेप: समाधिराह्विार्यम ४९ 6 शम्पा तु द्विकला कार्या १४ श्लेष: सवासु पुष्णाति २८१ ६ शम्पेति सव्ययोः पातः ३८ १८ ष शरत्काल समुल्ासि २६। पोडशनायकबहुल: 59 २१ श्रीरमात्रेण नरेन्द्र १५० स शपसा रफसंयुक्ता ५० १६ शाब्दाम्भोनिधिमन्थने स एवमुकत्वा मघवन्तम् ५ ४०२ १७ शिञ्जानमञजुमजजीरा स काश्ने यत्र मुने: १५५ ११ ११ ८५ ४५ शिज्ञानमञ्जुमखीर स किलेन्द्रप्रयुक्तेन ५० 33 शिज्जानैर्मअ्जरीति १३ १3 १२९ १५ १४ ६४ शिरामुखैः स्यन्दत एव सजलनिविडवस्त्र २६७ ९ सजातीयविजातीयः २५९ ५९ शिशिरांशु प्रतिद्वद्वि २८४ सत्यर्थे पृथगर्धायाः ६६ १२ LC शूरसेनो यदुपतिः 3४ 3 सत्यं विश्वं संतपति १७ १० शूद्रेण हि समस्ताव ३९७ २६५ २२ शृङ्गगारहास्यकरुणा २० सदः पुर्रीपरिसरेऽपि ७५ शुङ्गारह्नास्यकरूण ५७ स पीतवासा: प्रगृहीन १४१ १०४ शृङ्गगरहास्यकरुण २५८ ५० समग्रगगनायाम २१ शृङ्गगारहास्यवर्जम् १८ समये पयाधराणाम् २५१ १३ W शृङ्गारे केशिकी वीरे ३१२ ४ समस्तपशर्शपद: ९४ शृङ्गोत्खातभुवः ६५ समस्तात्युद्भटपदा ४3 २९ शृङ्गं हि मन्मथोन्जेद: २६५ १८ स मारुता कम्पितपीत १४९
Page 453
४३२
पत्रम् पङ़ि: पत्रम् पङ़ि:
समासबहुला गौडी ४० संलापकं श्रीगदितम् 3६ .२४ समासवाद्िर्विविधैः ८८ संवीतस्य हि लोकेऽस्मिन् ७२ 3 ९ स मुनिर्लाञ्छितो मोञ्जा १४६ 9३ संस्कृतेनैव कोप्यर्थ: ३२ ६ समेन लक्ष्मणा वस्तु २२२ ११ संहतचक्रवाकयुगां १४७ ४५ स रश्मि चश्वलं चक्रम् १४६ २१ संहितैकपदे नित्या ३९० 3 सरांसीवामलं व्योम ५४७ ४२ २७ सरेचपूरैर निलस्य कुम्भे: स्त्रीणां केतकगभ ९२ ३५० ९ स्त्रीपरिदेवित बहुल: ३२ 30 सर्गबन्धो महाकाव्यम् ३५ ५ ३४ सर्वथा पद्मप्येकम् स्त्री भेदनापहरणा ६ स्तोकेनोन्नतिमायाति २८२ सर्वदा सर्वदोडसीति २५४ ४४ सर्वरसलक्षणाढ्या १५५ V ३२ २७ सर्वातिशयसान्दर्यम् स्फुटमुमधुरवेणुगीतिभिस्तम् २७ २३२ सर्व सर्वेण सारूव्यम् स्मरनवनदीपूरेणोढा ५५ ५३ १४९ १७ सहसा विद्घीत न क्रियाम् स्यात्तुल्ययोगिताक्षेप: ११३ २२ ३८0 सहाया: साधनोपायाः १२ स्वचरणविनिविष्टैंः ८3
सा त्रियामा तदर्तस्य स्वपिति यावदयं निकटे 360 9३ ६७ १४
सामर्भ्यमौचिती देशः २८२ ३२ स्वभाव एव भावानाम् 998 २४
सामं भेदं च दानं च २७६ स्वर्गनिर्गत निरगल ७३
साहंकारसुरासुरावलि ८९ स्वर्गे सुधास्वादनलोलुपास्ते १०२ 93
V सिद्धमेव समर्थानाम् २३० स्वार्थबोधसमर्थानाम् ३७७
सीत्कारं शिक्षयति २५१ १६ स्वास्थ्यं प्रतिभाभ्यासः १०६ २८
सुखप्रयोज्यैर्यच्छन्देः ७४ २९ स्विद्यति कूणति वेलति १८० 6
सुदुस्त्यजा यद्यपि जन्मभूमि: ७२ १६ स्तोकेनोन्नतिमायाति २९ सुधान्यूनानि गङ्गया: १५५ १६ ह सुधेव वाणी वसुधेव १५३ हन्तुमव प्रवृत्तस्य ६७ २०, सुपां तिडं च व्युत्पत्तिम् २७ हत्वा च्छित्वा च भित्वा च २९ ७ सुप्रसिद्धा धातुना तु ७6 १२ हंसीव रुष्ण ते कीर्ति १५१ m 3 सुविमलमौक्तिकतारे १६१ १२ हरत्यघं संप्रति हेतु: २६३ सूचीमुखेन सकदेव ४6 हरिः पिता हरिर्माता ५६ ७४ सोयं सम्पति चन्द्रगुप्ततनयः 30 हीनतासंभवो लिङ्ग १४२ ४ सैषा सर्वैव वकोक्ति: २२५ ११ हीनोपमं भवेच्चान्यन् १४७ ५२ सौन्दर्यस्य तरङ्गिणी १७० ९ हेतुश्य सूक्ष्मो लेशोऽथ २३७ ~.
हेतोहेतुर्मता सार्धम् २३८ संग्रामाङ्गणमागतेन १७९ 6 हे हेलाजितबाधिसत्व ८२ संयोगो विप्रयोगश् २८२ २० हे हेलाजितबोधिसत्व ३०० ११
Page 454
शुद्धिपत्रम्
पत्रम् श्लोक: पड़डि: शुद्धम्
१७६ १०२ मध्यान्तयोरपि १७६ १०२ मध्यान्तवाक्ययोरपि IC १७७ १०४ इत्यर्थ: १७७ १०५ अन्त्यवाक्य १७७ १०५ अन्त्यगत १८० ११२ (६४१ पत्रे) १८१ ११५ उक्नेष्ववशटानां १८३ ११९ विहरत्व १९० १३: सौराज्यात् १९२ १४६ अतिरक्तया १९४ १५२ दुष्करमिति १९९ १६९ ८ अवलम्बनाय २०५ १८: १८ यौवनास्थैयं
२१५ २०५ ३० विशेष्यस्याि
२१९ २०९ ६ वदान्यस्य प्रतीनिः २२१ २१४ ४ विशेषस्यव
२२४ २१९ २ ऐन्द्रनीलीम् २२४ २२० ७ सवैवाति २२९ २२६ २३ मूलिकेव २४२ २४३ ७ परीक्षण।दिभि :- २४८ २५७ 5 कारणात् २७८ ३०४ २ असत्यतया २७९ ३०७ किरणराल्हाद्यति २८० ३०७ ११ निष्यन्दिन्य: २८३ ३१२ २ दोषवान्कश्वित्पुरुषश्र २८९ ३२३ ५ पदाथमात्रगतवैक ल्यस्यव ३१२ ३६८ ५ सतताभ्यास एव ३२७ ३५ ७ समर्था का ३२८ ४० चतुष्पादृगतं ३५५ निवर्तनेनोपादानं ३६७ १११ ७ स्फीनतां ३७१ ११९ १ समढा ३८७ १५१ १५ शोमा
Page 455
शुद्दिपत्रम्
पत्रम् शोक: पङ्कि: शुद्धम्
२ २२ तत्र हंसवधू
४ ७ व्याप्तमव
५ १७ प्रकाशकृता :-
५ १९ युजे ॥ १२
८ १० १३ पदार्था: तैर्व्यवच्छिना
१५ १३ सर्गबन्धांश 0
२३ २० २ व्याप्तिवारणाय यथा
२२ २० ३ परिहरणाय च
२६ २२ १८ संस्कृतासंस्कृता २७ २६ चिह्नमाख्यायिकाया
३१ ३१ ९ आख्यायिकादावपि
४५ ४४ ४५ विशेषो
५४ ५० २९ वररामामुखानिलै:
५४ ५० ३२ वक्त्राद्योचित्य
६७ ६२ १४ स्वपिमि ६७ ९ इत्यर्थः
८९ ८० ७४ इत्यादिकं रौट्रे
९१ ८५ ३ बालान्तानां कान्तं
९४ ८५ ६५ तटभाम: ९५ ८ भुजद्दयस्य ११७ ९ धर्मः 9m ११८ १२ ३ श्रवेत्स्वभावोक्ति: १२३ १९ १५ द्योतकत्वं स्वीक्रियते १२७ २२ ७ व्यअनागम्य १२७ २४ ३ मुखस्यैव १३४ ३४ ११ प्रतिषधोपमैव १३५ ३६ २ इत्येवं निषेध १३७ ४0 तानि इव १५२ ५७ १३ तस्यामृतं १६२ ७१ ३ यासां ता: १७३ ९६ ३६ स्कन्धोदार १७३ ९६ ३७ तुष्णालता १७५ .. ९७ १५ उपकार: