Books / Kavya Mimamsa Rajashekara (1 & 5 Chapter) Chandrika Tika Narayana Shastri Vol 1 Chowkambha

1. Kavya Mimamsa Rajashekara (1 & 5 Chapter) Chandrika Tika Narayana Shastri Vol 1 Chowkambha

Page 1

Barcode : 99999990065477 Title - Kavyamimansa Author - Narayan Shastri Language - sanskrit Pages - 78 Publication Year - 1930 Barcode EAN.UCC-13

9 999999 006547

Page 3

काशीसंस्कृतसीरिज़पुस्त कमालाया:

८६

काव्यविभागे (१३) त्रयोदशं पुरस।

राजशेखरविरचिता काव्यमीमांसा (प्रथमाध्यायमारभ्य पञ्चमाध्यायपर्यन्ता)

काशीस्थराजकीय सरस्वतीमवनोपाध्यक्ष साहित्याचार्य पण्डित श्रीनारायणशास्त्रि खिस्ते-कृत काव्य मीमांसा-चन्द्रिकाटीका सहिता। टीकाकत्रैव सम्पादिता च

तस्या (प्रथमो भाग:)

प्रकाशक- जयकृष्णदास हरिदास गुप :- चौसस्वा संस्कृत सीरिज़ आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उस्तर फाटक, बनारस सिट्ी।

१९८७ अस्य सर्वेडयिकारा प्रकाशन स्वायसीकृता ।

Page 4

इस कार्यालय द्वारा "काशीसंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "चौखम्मासस्कृतसीरिज" "बनारससस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्थ- मालायें निकलती है तथा इन सीरिजों के पश्चात और भी विविध शास्त्र की पुस्तकें प्रकाशित की गई हैं तथा अन्य सव स्थानों के छपे हुए सस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक मंगवाकर देखें, इसके अलावा हमारे यहा सर्व प्रकार की संस्कृत, हिन्दी, अङ्गेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है।

पत्रादि प्रेषणस्थानम्- जयकृष्णदास-हरिदास गुप्त :- "चौखम्बा संस्कृतसीरिज़" आफ़िस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी।

Page 5

भूमिका।

यथेयमुपकम्पते काव्यमीमांसा-चन्द्रिका आदित पक्षमाध्ययपर्यन्त मुद्रयित्वा प्रकाशयितुम्। काशीस्थराजकीयसस्टृ तपरी क्षाधिकारिमिर्नवप्रवर्त्तितायां साहित्यमध्यमपरीक्षार्या काव्यमीमांसाया आदिमा पञ्चाध्याया सन्निवेशिता । तत्र काव्यमीमासाया दुरवगाहता तत्र प्राचीनव्याख्यानाभाव तन्मूलक च परी- द्यच्छात्राणणा क्लेश च विचिन्त्य वहुभिरामश्छात्रे प्रार्थित काशीस्थचौखम्त्र- सस्कृत ग्रन्थ मालाद्यनेकग्रन्थमालाप्रवर्त्तक वाबृजयक्ष्णदामहरिदासगुप्तमहोदयैश्र मानुरोधं समुदोजितश्च प्रावर्तिपि व्याख्यालिखन। नेय व्याख्या S5पध्यामाध्याय- मवमिता प्रथमभागत्वेन सहदयाना पाठकाना करकमलेपूपायनीक्रियते। राजशेग्वरवचसा विपुलार्थवत्वात्तत्र नत्र स्थलविशेष सविशेष व्याख्यानमपे- चतमासीत, तथाऽपि परीक्ष्यच्छात्रसाहाय्यमेव मुग््य प्रयोजनमस्या निश्चिन्वता नया तदनुरोधेन यथामति सड्च्षेप एव प्रयतितम। विशेषजिज्ञासुमिराकरग्रन्था- तुशीलने प्रयतितव्यम्। मलग्रन्थे च क्रचिन् कचिदर्थानुरोधेन मया स्वाभिमत पाठमेदोऽपि कल्पित । प्रथमाध्याये च 'इय सा काव्यमीमांसा मीमासा यत्र बाग्लव ' इत्यत्र "मीमास्यो यत्र वाग्लव" इति पाठभेद्श्रास्मत्सुहदा पसिडतप्रवरासा श्रीगुरुप्रसादव्याकरणा- चार्याणामनुमत्या स्थापित । इत्थमेव प्रकृतग्रन्थे बहव पाठभेदा श्रीगुरुप्रसाद- परिडते कल्पिताः मन्ति, ते च तै स्वकृतटीकासहिते अ्रनुपदमेव मुद्रयिष्यमाणे काव्यमीमामासस्करणे प्रदर्शयिप्यन्त इति तेषामंव मुखान्छुतमस्ति। पूर्वोक्तप्रथ- मा्यायीयपाठभेदप्रदर्शननिमित्तं शतशो धन्यतादैरभिनन्दाम्यहं तान। यब् मधु मूदनीवृत्तिरित्याख्या काऽवि पश्चाध्यायीवृत्तिर्मुदिता पुरस्तिष्ठति। साच चतुर्था- भ्यायपर्यन्त प्रकृतचन्द्रिकाटीकामुद्रो डवसिते दृष्टिगोचरीभूता इत्यत पञ्चमा- ध्यायचन्द्रिकायामेव स्थले २ मधुमूदनी सुपर्गीक्िताऽररिंत। ्रथ मूलग्रन्थकर्तु श्रीमतो राजशेखरस्य विषये सद्टिनप्तमितिवृत्त निरुप्यते- राजशेखर स्वात्मान 'यायावरोय' इत्युपपढेनैव सर्वत्र स्मरति। तत्र यायाव- 'रकुत्ोत्पन्न इत्येवार्थ। अन्ये प्राचीना धनपालादयो ग्रन्थक्रतम्तु राजशेम्वरं 'याथा-

Page 6

भूमिका।

वर' पदेन स्मरन्ति। राजेशेखरे ब्राह्मण. कषत्रियो वाडडसीदित्यपि सन्दिग्घमेव। यतो महेन्द्रपालराजोपाध्यायत्वं तस्य त्राह्मरयं गमयति, चौहानवंशराजकुमार्या पाणिप्रहणं च तस्य च्ंत्रियत्व व्वनयति। राजशेखरेण काव्यमीमामायां प्रायस्त्र- वारं सव्प्रियाया अरवन्तिसुन्दर्या मतापन्यास: कृतः, तेन साऽपि ग्रन्थकर्धी विदुषी चासीदित्यनुमीयते। विविधे· प्रमाणैरितिहासविवेच का राजशेखरम्य ८८०-९२० खित्निस्तान्दपर्यन्त स्थितिकाल कल्पयन्ति। काव्यमीमांसायां राजशेखरेण द्शितासु कवेर्दशस्ववस्थासु कविराजावस्था हि सर्वोत्कृष्टा परमदुर्लभा च। राजशेखरस्त्वा त्मान कविराजमेव कथयति न तु महाकविम्। वालरामायणं, बालभारत, विद्धशाल- भज्जिका च राजशेखरस्य शैशवकालिका ग्रन्था । हरविलासाख्यो महाप्रबन्ध्च कविराजावस्थापन्नस्य राजशेखरस्य कृतिरित्यनुमीयत्ते। 'भुवनकोश' इत्यास्योऽपि अ्रन्थोऽस्यैव कृतिरित्या्यनुमीयते। अयमुपलभ्यमान: काव्यमीमांसाया भाग काव्यमीमांसाग्रन्थस्य प्रथमभा ग एव। 1

यदि पश्चाध्यायीटीकेय छात्राणामुपकारिसी भवेत् सहदयाश्र् विनैव नासा- चिसक्कोचं तामभिनन्देयुस्वर्हि पष्ठाद्यवशिष्टाध्यायव्याख्यानेऽपि प्रयतिष्यते। अस्मिन् कायें ये कैरपि येन केनाऽप्यध्वना साहाय्यमाचरितं, तान् सर्वान् धन्यवादैरभिनन्द् स्मृत्वा च परदेवतागुरुचरखान् विरमामि मुधा विस्तरादिति शम्।

सरस्वनीमवनम् तरिदुषां विधेयो काशी। महाशिवरात्रिः। नारायण शास्त्री खिस्ने संजन १९८७

Page 7

राजशेखरविरचिता काव्यमीमांसा। कविर हस्यम्।

प्रथमोऽध्यायः शाखसङ्गरः। अयातः काव्यं मीर्मासिप्यामे ययोपठिदेश श्रीकएठ: परमेष्ठि-

· थीः॥ काव्यमीमांसाचन्द्रिका बन्दे भीगणनायकमखिविलसुरेप्वप्रपूजिनं सततम्। गिग्विरतनयास्तन्यास्वादनस ्प्राप्त सर्वमा मर थर्यम् ।। १ ॥ कामेशकल्पपादपमारूढा पुण्डूदण्डमवलम्च्य। काचन कविता लतिका ललिताकृतिरन्तरल्सतु ॥ २॥ प्रणम्य वाणी पितरौ गुरूनपि दयानिधीन्। रुचिरा काव्यमीमांसाचन्द्रिकेय वितन्यते ॥ ३ ॥ परीक्ष्यच्छात्रवृन्दस्योपकारायैष उद्यमः । सदयाः सन्तु सन्तोऽत्र साहित्याणवपारगाः ॥।४॥ राजशेखरव चोगभीगता कुत्र, मन्दसतिता च कुत्र मे। केवलं गुरुपदाब्जसंस्मृतिर्दुष्करे डत्र विषये डस्ति मे गतिः ।। ५॥ अथ तत्र भवान् कबिकुलसार्वर्मोमो राजशेखरो नाम महाकवि: शिष्य- बनावबोघसौकर्याय विच्छिन्नपायं सुकनिसम्प्रदायं प्राचीनाकरग्रन्धेभ्य सद्गु- सम्प्रदायाच्च यथायथ सद्गृद्य निबन्नाति-अथात इति। 'क्राव्य वीभतिष्यामहे' इति प्रतिज्ञा। तस्याः स्वकपोलकल्पितत्वनिरासायाद- ययीपदिदेश श्रीकण्ठ' इत्यादि। यथा मगवता शिवेन अम्ति-

Page 8

चन्द्रिकासहित काव्यममिांसायां-

वैकुएठादिभ्यश्चतुःषष्टये शिष्येभ्यः । सोऽपि भगवान्खयम्भूरिच्छाज- न्मभ्यः स्वान्तेवासिभ्यः । तेषु सारस्ववेयो वृन्दीयसामपि वन्धः का- व्यपुरुष आसीत्। वं च सर्वेसमयविदं दिव्येन चक्षुषा भविष्यदर्थद- र्शिनं भूर्सुवःस्वस्त्रितयवीत्तिनीषु प्रजासु हितकाम्यया मजापति: काव्य विद्यापवर्त्तनायै प्रायुङ्क। सोऽषादशाधिकरणीं दिव्येभ्यः काव्यविद्या- स्नातकेभ्यः समपश्चं प्रोवाच। तत्र कविरहस्यं सहस्राक्ष: समान्नासीत। औक्तिकमुक्तिगर्भः । रीतिनिर्ययं सुवर्णनाभः । आतुपासिक भचेताः । -येमो यमकानि। चिन्रं चित्राङ्दः।शब्दश्लेषं शेषः। वास्तवं पुलस्त्यः। औपम्यमौपकायनः। अतिशयं पाराशरः। अर्थश्लेषमुतथ्यः। उभयार्ल- झारिकं कुबरेः। वैनोदिकं कामदेवः ।रूपकनिरूपणीयं भरतः । रसाधि- कारिक नन्दिकेश्वरः।दोषाधिकरणं घिषणः। गुणौपादानिकसुपमन्यु:। औपनिषदिकं कुचमार: । इति। ततस्ते पृथक पृथक् स्वशास्त्राणि विर-

षण्वादिभ्यः शिष्येभ्यः समुपदिष्टम्, तदेवाऽत्र मयाऽनूदते, न किश्चित् स्वबुच्ा कल्प्यते इति भावः । सम्प्रदायक्रमं दर्रयति-सोऽपीति। शिवोपदिष्टो व्रह्मा स्वीयमानसपुत्रानुपदिदेश। तेषु सारस्वतेयः काव्यपुरुषो विद्यातपोऽभ्यर्हितः सर्वेषामपि वन्दनीय आसीत। प्रनापतिश्व तं त्रिकालजं विचिन्त्य त्रिलोक्यां काव्यविद्यापवर्तनाथ समादिदेश। स च काव्यपुरुषः अष्टादशाघिकरणी=अष्टादश अधिकरणानि यस्यास्तादशी काव्यविर्द्या दिव्ये- म्यः काव्यविद्यास्ातकेभ्यः स्वान्तेवासिभ्यः सविस्तरं प्रोवाच। इत्थमुपदिष्टेषु शिष्येषु केन कस्याधिकरणस्य प्रचार: कृत इति निर्दिशन्राह-तन्र क- विरहस्यं सहस्राक्ष: साम्नासीत। इत्यादि। औक्तिक- मिति। उकिचमत्कारमित्यर्थः । वास्तवमिति। भूतर्थवर्णनमित्यर्थः । स्वभावोक्तिमिति यावत् । अतिशयमिति। अतिशयोक्तिरूपालङ्गारमि त्यर्थः । सहस्राक्षादिभि: शिष्येक्च स्वस्वाधिकरणानि पृथक् पृथक् तत्तच्छा- स्रूपेण बहुलं प्रपश्वितानीति निर्दिशन्राह-ततस्ते पृथक् पृथकू स्वशास्त्राणि विरचयाश्चकुरिति। इत्थं विस्तीणोडसौ काव्यविर्द्या- १ आनुप्रासिकं प्रचेतायनः । यमकानि चित्रं चित्राङ्ृदः।इति पूर्वसुद्वितपाठ:।

Page 9

मथमोऽध्यायः ।

पयाअकुः। इत्यक्रत मकीर्णलात् सा कििदुनिच्छिदे। इतीय मयोजकाकषती सक्िप्य सर्वपर्यमम्पग्रन्येन अष्टादशाधिकरणी मणीता। सस्या अयं प्रकरणाधिकरणसमुदेशः। शासत्रसन्गरः, शासतरनिर्देशः, का- व्यपुरुषोत्पत्तिः, पदवाक्यविवेक:, पाउमतिष्ठा, अर्थानुशासनं, वाकय- विषय:, कविविशेष:, कविचर्या, राजचर्या, काकुप्रकारा:, शब्दार्था- • हरणोपाया:, कविसमय:, देशकाळविभागः, श्ुवनकोश, इति कविर- इस्यं पथममधिकरणमित्यादि। इति सुत्राययैतेषां उ्पाख्या भाष्यं भविष्यति। समासव्यासविन्यासः सैप शिष्याहैताय न: । चित्रोदाहरणैर्गुर्वी अ्रन्येन तु लघीयसी। इयं नः काव्यमीमांसा काव्यव्युत्पचतिकारणम्। इयं सा काव्यमीमांसा मीमांस्यो यत्र वाग्लनः ।।

सम्प्रदाय: काळपभावेण किशिदुच्छिमोऽमूत्। अ्रन्थप्रणयनप्रयोजनमाह- इतीयमिति । सम्प्रदायस्य किशिदुच्छिन्नत्वादेव देतोस्वस्य सरक्षणाय सर्वमर्थजात सङ्विप्य इयमष्टादशाधिकरणी काव्यमीमासा प्रणीतेति भावः। अस्या: काव्यमीमासायाः प्रभमाधिकरणमात्रमेव अन्थोडयम्। अन्र निरूप- णीयान् विषयान् नामआहमाह-शास्त्रसङ्ग्रह इत्यादिना-इत्ये- सेरषां सूत्राणों भाष्यं प्रन्थकत्रेव पुरः करणीयतवेन प्रतिज्ञातमिति नेह तद्विषये किमपि वक्तुमुचितम्। यभावसरं सर्व स्पष्टीभविष्यति। शास्त्रसड्प्रहं प्रतिज्ञामुखेन सार्वश्लोकत्रयेणाइ-समासव्यासविन्यास इति। समास: सद्वेपः । व्यासो विस्तरः । तयोर्विन्यासो निवेशनम्। केपाचिद्विष- थार्णा सङ्गेपेण वर्णनम्, केर्षाचिद्विस्तरेण। यद्वा एकम्यैव पदार्थस्य स्ेप- विस्तराम्या निरूपणम्। तदेतत्सकलं शिष्यहितोद्देशेन कृवमिति भावः । प्रकृतम्रन्थस्योपादेयतामाह-चित्रोदाहरणैरिति। लघुनाऽपि प्रमेयेण सदितेय चित्रे रुदाहरणैर्गरुभूतेत्यर्थः! इयं नः काव्यमीमांसेति। न := अस्मत्कर्तृका इयं काव्यमीमासा। काव्यस्य दृश्यश्रत्र्यात्मकस्य। द्विविघस्या- १ 'मीमांसा यत्र वाग्लव: इति पूर्वमुद्ितपुस्तकपाठः।

Page 10

चान्द्रिकासहित काव्यमीमांसायां-

चाग्ळवं न स जानाति न विजानाति यस्त्विमामू। यायावरीयः सक्ित्य मुनीनां मतविस्तरम्। व्याकरोत्काव्यमीमासां कविभ्यो राजरोखरः। इति राजशेखरकृतौ काव्यमीमांसार्या कविरहस्ये प्रथमेऽघिकरणे प्रथमोऽध्यायः शास्त्रसङ्गहः ।

द्वितीयोऽध्यायः शास्त्रनिर्देशः। इह हि वाङ्मयमुभयथा शासत्रं काव्यं च। शास्त्रपूर्वकत्वात् का-

पि काव्यस्य व्युत्पत्ते :- रससाक्षात्कारौपयकज्ञानविशेषस्य कारणं हेतुरिति । किश्च, इयं काव्यमीमांसा, सा=तथाविघमहिमशालिनी, यत्र=यस्यामित्यर्थः । वाचो विविघविभेदाया लवः काव्यात्मको मीमास्यः विचारणीयः । एनामन- धत्य काव्यात्मकस्य वाग्लवस्य ज्ञानमसुकरमित्याह-वाग्लवं.न स जानाति न विजानाति यस्त्विमाम् । इति। आत्मनामनिर्देशपु- रःसरं प्रकृतग्रन्थपठनाविकारिणोऽपि निर्दिशन्नाह-याघावरीय इति। यायावरीयः राजशेखरः मुनीनां मतविस्तरं साङ्गिप्य काव्यमीमांसां व्याकरोद्। किमर्थम् ? कविभ्यः । कवीनां कृते इत्यर्थः । इत्थं च प्रकृतग्रन्थपठनाि- कारिण: कवय एव नाऽन्ये इति फलितम्। तथा च, अष्टादशाधिकरणी काव्यविद्या विषयः, काव्यव्युत्पततिः प्रयोजनम्, प्रतिपाद्पतिपादकभावः -सम्बन्धः । कवयश्चाषिकारिण इत्यनुबन्घचतुष्टयमपि दर्शितम्।

काव्यमीमांसा-चन्द्रिकार्या शास्त्रसङ्ग्रहो नाम प्रथमोऽध्यायः ॥१॥

मूलमूतं वाङ्मयं द्विघा विभजते-इह हीति। वाङ्मयम्-वाकू प्रपश्ः, वाग्जालमिति यावत्। उभयथा=द्विप्रकारमित्यर्थः । प्रकारद्वयमाह- शास्त्रं काव्यं चेति। मनषीतशास्त्राणां काव्यव्युत्पत्तेरसम्भवादाह शास्त्रपूर्वकत्वादिति। काव्येषु व्युत्पत्त्याघानाय शास्त्रेषु पूर्वमामिनि.

Page 11

द्वितीयोऽध्यायः । व्यानां पूर्वै शास्ेष्वमिनिविशेत। नक्षमवर्तितमदीपास्ते तत्वार्थसार्थ- मध्यक्षयन्ति। तथ द्विषा अपौरुषेयं पौरुपेयं च। अपौरुषेयं अ्रुतिः । सा च मन्त्रबाहये। वित्ृितक्रियातन्त्रा मन्त्राः। मन्त्राणां स्तुतिनिन्दा- व्याख्यानविनियोगग्रन्थो ब्राह्मणम्। ऋग्यजुःसामवेदास्रयी आथर्वण- व तुरीयः । तत्रार्थव्यवस्थितपादा ऋचः। ताः सगीतयः सामानि । अच्छन्दांस्पगीतानि यजूंषि । ऋचो यजूपि (सामानि) चायर्वणं त इमे चत्वारो वेदाः। इतिहासवेद्धनुर्वेदौ गान्ध्वायुर्वेदावापि चोपवेदाः।

वेष्टव्यम्। द्ष्टान्तमाह-न हीनि। अप्रवर्तितप्रदीपास्तमसि वस्तुजातं प्रत्यक्षीकरतु यथा न शकनुवन्ति तथेवानघीतशास्त्राः काव्यमर्माण्यप बोद्धु न पारयन्तीति भावः। वाङ्मयस्याऽपि द्वैविध्यमाह-तच्चेति। तब द्विप्रकारकम्। प्रकारद्वयमाह-अपौरुषेयं पौरुषेयं चेति। तन्राS- पौरुषेयं विवृण्ववाह-अपोरुषेयं श्रुतिरिति। श्रुते: स्वरूपमाह- सा चेति। मन्त्रतासाणयोः अतिरिति संज्ञति भावः। मन्त्रस्वरूपमाह- विवृतक्रियातन्त्रा मन्त्रा इति। विवृत-सम्यङ्निरूपितं क्रियातन्त्र कर्मकाण्डकलापो यैस्ते तथाविधा इत्यर्थ.। ब्राह्मणस्वरूपमाह-मन्त्रा णामिति। मन्त्राणा तत्तत्मसङ्जसअ्त्यादिपूर्वापरपर्यालोचनमुखेन स्तुति- निन्दाव्य।ख्यानविनियोगादिपर्यव सायित्वप्रतिपादकः सामान्यतो मन्त्रभागस्य माष्यात्मको अन्थो ब्राह्मणमिति भावः । ब्राक्मण त्रिविधम्। विधिरूप, अर्थ वादरूप, तदुभयविलक्षण चेत्यन्यत्र विस्तरः। श्रुति चतुर्द्धा विभजते-ऋग्य- जुः सामवेदास्त्रयी। अथर्वणश्च तुरीय इति।प्रत्येकं विवृण्वन्नाह- अर्थव्यवस्थितपादा ऋच इति। यत्र प्रतिपादमर्थो व्यवस्थितोऽस्ति ता ऋच इति। अर्थसमाप्त्यर्धीनैव यत्र पादसमाप्तिरिति भाव. । पादबद्धगा- यत्यादिछठन्दोविशिष्टा ऋच इत्यन्यत्र। गीतिसहितास्ता एव सामानि। गी- तिरहितानि छन्दोरहितानि च तान्येव यजूंषि। इत्थमिमे ऋग्यजुःसामा- थर्वाख्याश्वत्वारो वेदाः । उपवेदानाह-इतिहासेति । इतिहासवेद: (इतिहास: पुराणं च पश्मो वेद उच्यते) इत्यमियुक्तोकेः। धनुर्वेद:, गा- न्वर्षवेद:, आयुर्वेदश्वेति चत्वार उपवेदाः। तथा च प्रस्थानभेदे मधुसृद नसरस्वतीस्वामिपादा :- 'आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्यशासतरं चेति

Page 12

चन्द्रिकासहित काव्यमीमांसारयां- "वेदोपवेदात्मा सार्ववार्णेकः पश्चमो गेयवेदः" इति द्रौह्िणिः। "शि- क्षा, कल्पो, व्याकरसं, निरुक्तं, छन्दोविचितिः, ज्योतिषं च षडङ्गा- नि" इत्याचार्याः। "उपकारकत्वादळङ्वारः सप्तममङ्गम्" इति याया- वरीयः। ऋते च तत्स्वरूपपरिज्ञानाद्वेदार्थानवगातिः। यथा- द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्ृत्ति अनश्नन्नन्यो अभिचाकशीति।। 3

चत्वार उपवेदाः' इत्याहुः। गान्घर्वस्य वेदतवे प्राचीनाचार्यसम्मतिमाह-वेदो- पवेदात्मोति। वेदोपवेदात्मा-वेदःउपवेदश् आत्मा स्वरूपं यस्येत्यर्थः । साम वेदस्य गीतात्म कत्वात् वे दात्मत्वं तु गेयवेदस्य सिद्धमेव। लौकिकाSवैदिकगीतादि

र्णिक इति। वेदस्य तु 'अघीयीरस्त्रयो वर्णाः' इति नियमेन त्रैवेर्णिकेतरानु आ्चार्यत्वेन न सार्ववर्णिकत्वम्। अस्य गेयवेदस्य तु तथाविधनियन्त्रणाभावेन सर्ववर्णोच्चार्यत्वमिति। तन्र वेदात्मनो गेयवेदस्य न सार्ववर्णिकत्वम्, उपवे दात्मन एव तस्य तत्त्वमिति ध्येयम्। वेदस्य षडज्ञान्याह -शिक्षेत्या दिना-शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं चेति षडङ्गानि, इत्याचार्याणां मतम्। यायावरीयत्वेन प्रच्छन्नस्य स्वस्य मत माह-उपकारकत्वादिति। षट्तस्वङ्गेष्वपरिगणनेऽपि व्युत्पत्त्याघा यकत्वेनोपकारकत्वादलक्कारोऽपि सप्तममङ्गमिति । तदस्वीकारे वेदार्थानवग तिरूपामनुपपत्तिमुदाहरणद्वारा दर्शयति यथा-द्वासुपर्णेति। द्ा= द्ौ, सुपर्णा-सुपर्णौ पक्षिणावित्यर्थः । सयुजा=सयुजौ सहचरावित्यर्थः । सखाया=सखायौ। समानमेकम्। वृक्ष परिषस्वजाते आलिक्वत इत्यर्थः । तयोः पक्षिणोर्मध्ये अन्य := अन्यतर इत्यर्थः । स्वादु=मधुरम्। पिप्पलम्= इदं फलोपलक्षणम्। फलसामान्यमित्यर्थः । अत्ति=मक्षयति। अन्य := पूर्वो- कादन्य इत्यर्थः । अनश्नन्=मधुरफलान्यभक्षयन् सन् अभिचाकशीति=म- भित := समन्ततः चाकशीति=प्रकाशते इत्यर्थः। अयं भावः-इमौ जीवशिवौ एकमेवावलम्बमालम्ब्य स्थितौ। तत्र जीवस्तु शब्दादीन् विषयान् तज्जन्य: सुखानुभवपूर्वकं भुड्के। अन्यः शिवस्तु तादशभोगपराङ्मुख एव सांक्षि

Page 13

9

सेयं शाख्रोकिः। प्रत्यधिकरणं च ऋवं यजु: सामाथर्वसं ब्रा- झएं चोदाहृत्य भाषामुदाइरिण्यामः । तन्र वर्णानां स्थानकरणपय- त्ादिभि: निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका। नानाशाखा- धीतानां मन्त्राणं विनियोजऊं सूत्रं कल्पः। सा च यजुविद्या। श व्दानामन्वारूयान व्याकरणम्। निवचन निरुक्तम्। छन्दसा प्रति- पादयित्री छन्दोविचितिः । ग्रहगणिंतं ज्योतिषम्। अलङ्गारव्याख्यानं तु पुरस्तात्। पौरुषेयं तु पुरासम्, आन्नीक्षिकी, मीमांसा, स्मृतित- रूपेण सर्वत्र प्रतिभासते इति। इयं शासत्रोक्तिरालककातिकविषया रूपका- लक्टारमुखेन प्रदर्शिता, अनर्घीतालक्ारदर्शनास्तु तत्र रूपकाद्यलङ्कारचमत्कार- मनुमितुं न पारयन्तीति सप्तमाऊत्वेनालक्वारस्व्रीकारोऽपि समुचित इति स्व- परिगृहीतक्रममाह-प्रत्यधिकरणं चेति। पूर्वोक्ाना शिक्षाकलपादिवेदष- डज्ानां प्रत्येकं क्रमशो निर्वक्ति-तन्र वर्णानामिति। कस्य वर्णस्य कि- सुत्पचिस्थानम्, केन करणेन कीदशप्रयत्नेन च कस्य वर्णस्योच्चारणं भवती- त्यादि यत्र निर्णीयते सा शिक्षेत्यर्थः । शिक्षाया उदात्तानुदाचस्वरितहस्वदीर्घप्लु- तादिविशिष्टस्वरव्यञ्ञनात्मकवर्णोच्चारणविशेषज्ञान प्रयोजनम्। आपिशली- यादिका। आदिपदात्. पाणिनीयाज्ञवल्क्यादिसंग्रहः । कल्पमाह-नाना- शाखाघीतानामिति। कलपसूत्रे हि कस्य मन्त्रस्य कुत्र विनियोग इत्या- दि निरूपितमिति भावः । तादृशविनियोगसम्पादिका विधैव यजुर्विद्या। व्या करणमाह-शब्दानामिति। स्वतः सिद्धानामेव शब्दानाम्। अनु=प- श्रात् मार्यानं साघनप्रयास इत्यर्थः । तदेव व्याकरणम्। व्याक्रियन्ते श- ब्दा अनेनेति व्युत्पचे. । तथाचो क्मभिधानचिन्तामणिटीकायाम्-प्रकृतिपत्य- थोपाधिनिपातादिविभागशः। पदान्वाख्यानकरणं शाखं व्याकरण विद्ुः । इति। निरुकतमाह-निर्वचनमिति। स्पष्टम्। छन्दोविचितिमाह्- छन्दसामिति। इदमपि स्पष्टम्। ज्योतिषमाह-ग्रहगणितमिति। सप्माअ्ञत्वेन स्वपरिमृदीवस्यालक्कारस्यापि क्रमप्राप्तत्वान्निर्वचनसुचितमपि तत्र

एतावत्पर्यन्तम्पोक्ृषेयस्य वाङ्मयस्य विचारः कृतः । अथ क्रमप्राप्तं पौरु- वेयं वाक्मयं वर्णयन्राह-पौरुषेयं तु पुराणमिति। १ पुराणम्

Page 14

चद्रिकासाहत काव्यमीमांसायां-

न्त्रमति चत्वारि शासत्राणि। तत्र वेदांख्यानोपनिबन्धनप्रायं पुराण- मष्टादशा। यदाङु :- सर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधि:। जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति।। 6 "पुराणपविभेद एवेतिहासः" इत्येके। स च द्विधा परिक्रियापु- राकल्पाभ्याम्। यदाहु :- परिक्रिया पुराकल्प इतिहासगतिर्द्विधा। स्यादेकनायका पूर्वा द्वितीया बहुनायका।। तन्र रामायगं भारतं चोदाहरणे। आन्वीक्षिकीं तु विद्यावसरे व-

२ आन्वीक्षिकी ३ मीमांसा ४ स्ृतितन्त्रमिति सामान्यतश्चत्वारि पौरुषे- याणि। तत्र प्रथमतः पुराणं निर्वक्ति-तत्रेति। तत्र=पौरुषेयवाङ्मय- मध्ये। वेदेषु बीजरूपेणापन्यस्तानामाख्यानाना यत्र सम्यगुपनिबन्धनं भवति तत्पुराणमित्यर्थः । कचित् वेदाऽनिर्दिष्टकथासन्दर्भोऽपि दश्यते इति पायग्र- हणम्। तच्च पुराणमष्टादशधा। प्राचीनोक्तं पुराणस्वरूपमाह-सर्ग इति। यत्र जगतः सर्गः प्रतिसंहार: कल्पो मन्वन्तराणि वंशातुक्रमश्च निबद्धस्तत् पु. राणं विज्ञेयमित्यर्थः । इतिहासस्याऽपि पौरुषेयत्वात पौरुषेयवाङ्गये स कथ न परिगणित इत्याह-पुराणप्रविभेद एवेतिहास इत्येके इति। इतिहासो न वस्त्वन्तरम्, अषि तु पुराणान्तर्गतवंशानुक्रम एव स इति न तत्पृथग्गणनोचितत्येके वदन्ति । इतिहास विभजते -- स च द्विधेति। स च इतिहासो द्विविध:। परिक्रयात्मकः पुराकलपात्मकश्चेति। इदमेव भेदद्वयं सलक्षणं दर्शयन्नाइ-परिक्रियत। यत्रैकनायकसम्बद्धा कथा व र्णिता स्यात , स परिक्रियात्मक इतिहासः । यत्र च बहुनायकसम्बद्धा कथा वर्णिता स पुराकलपात्मक इतिहासप्रभेद इति। उभयोरपि प्रभेदयोरुदाहरण- माह-तन्रेति। तत्र रामायणं परिक्रियात्मकेतिहासोदाहरणम्। तत्र मुख्यस्य नायकस्य रामस्यव कथा निबद्धाऽस्ति, अन्येषां नायकानां सम्बन्धि- नी कथा वर्णिताऽपि मुख्यनायककथासापेक्षैवेति तदङ्गभूतैव। पुराकलपा- त्मकेतिहासादाहरणम्-महाभारतम्। अत्र कौरवाः पाण्डवा अन्येडपि बहवों

Page 15

द्विवी योऽधयायः।

कष्यामः। निगमवाक्यानां न्यायैः सहसेय विवेकी मीमांसा। सा च द्विविधा विधििवेचनी ब्रह्मनिदर्शनी च। अष्टादरैत्र अ्रुत्यर्थस्मरणा- त्स्यृतय:। "तानीमानि चतुर्दश विद्यास्यानने, यदुत वेदाश्चतारः, पडक्गानि, चत्वारि शाखाणि" इत्याचार्याः। तान्येतानि कृत्स्नामपि भूर्युवःस्वस्त्रयां व्यासज्य वर्त्तन्ते। तदाङ्गु :- विद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्र्पाणां योजप साग्रं सहस्रम्। नायका निबद्धाः, तत्सम्बन्धिन्यः कथा अपे नान्योन्यसापेक्षा इति। आन्वी- क्षि्कास्वरूप तु विद्यानिरूपणावसरे वक्ष्यते इति न निबद्धम्। मीर्मांसां निर्वक्ति-निगमवाक्यानामिति। सइस्णेत्युपलक्षणम्। असळ्कथैित्यमं:। न्यायैनियमः । निगमवाक्याना विवेक्त्री=विवेचिका मीमसेत्यर्थः । शास्त्री- य्यनियमद्वारा श्रुतिवाक्यविचारशासत्र मीमासेति यावत्। तां विभजते-सा चेति। सा मीमासा द्विविधा । विधिविवेचनी=विधे := ज्योतिष्टोमेन यजे तेत्यादेर्विधिवाक्यस्य विवेचनं=विचारो यस्या सेति कर्ममीमसित्यर्थः। ब्रद्म-

कथंचित् प्रतिपादनं यत्र क्रियते सेति ब्रह्ममीमासोचरमीमांसेत्यर्थः। ब्रझ्मणः स्वरूपतोऽनवगमात्तद्विवेचनस्याऽपि दुःशकतया दष्टान्तादिद्वागैव तद्विचारः क्रियत इति विवेचनीत्यनुक्त्वा निदर्शना्युक्तम्। स्मृति निर्वक्ति=अष्टा दशैवेति। श्रुत्यर्थस्य स्मरणोत्तरं यत्रोपनिबन्ध: क्रियते सा स्मृतिरित्यर्थः । न्यूनाघिकसङ्कयाव्यवच्छेदायाष्टादशवत्येवकारः । एतेनाष्टादशैव, स्मृतयः प्रामाणिकाः, इतोऽधिकाना प्रामाण्यं चिन्त्यमिति राजशेखराशयः प्रतिभाति। उक्तेडर्ये डभियुक्तोकि प्रमाणयति-तानीमानीति। सकलनया बतुर्दश- विद्यास्थानानि भवन्ति। यथा-चत्वारो वेदा ऋगादयः । शिक्षाकरपादीनि तेषां षडझ्ानि। पुराणादीनि चत्वारि शास्नाणि। मिलित्वा चतुर्दश भवन्ती त्याचार्या:। एतानि पूर्वोदितानि विद्यास्थानानि सम्पूर्ण भुवनत्रयं व्या- प्य समवतिष्ठन्ते । विद्यास्थानप्रशंसायामभियु क्कोक्तिमपन्यस्यति-वि. यास्धानानामिति । यः पुरुषो वर्षाणा साम सहस्त्रमपि जीवेत्,

Page 16

१० चन्द्रिकासहित काव्यमीमांसायां-

व्यास: संत्यक्तो ग्रन्थभीरुमियार्थम्।। "सकलविद्यास्थानैकायतनं पश्चदशं काव्यं विद्यास्थानम्" इति यायावरीयः। गद्यपद्यमयत्वात् कविघर्मत्नात् हितोपदेशकत्वाच्। तद्धि शास्त्राएयनुधावति। "वार्त्ता कामसूत्रं शिल्पशासत्रं दएडनीति- सोऽपि विद्यास्थानानामन्त गन्तुं न शक्त: । तस्मात्-विद्यास्थानानां पारद- रशनस्य दुःशकत्वात्। सङ्केपादयमर्थसन्दोह उक्तः । विस्तारः किमिति न कृत

शीलास्ते तथाविधं विस्तीण विद्यास्थाननिरूपण बोद्धुं न पारायेष्य न्वीति तेषा प्रियार्थ व्यासो विस्तर: संत्यक्तः परिहृत इत्यर्थः । विद्यास्था- नानि चतुर्दशति पूर्वमुक्तम्, इदानीं काव्यमपि पञ्नदशं विद्यास्थानमस्तीति यायावरीयोपपदस्य स्वस्याभिमतमाह-सकलविद्यास्थानैकायतन- मिति। सकलाना विद्यास्थानानामेकमद्वितीयमायतनं स्थानम्। चतुर्षु, षट- त्सु तदङ्ेषु चतुर्षु शास्त्रेष्वपि व्युत्पत्त्याध्यायकस्य काव्यस्य परमावश्यकत्वात् वस्य सकलविद्यास्थानैकायतनत्वं सिद्धति। पश्चद्शम्=पूर्वोक्तचतुर्दशा- तिरिक्तम्। काव्यं पञ्चदशं विद्यास्थानमित्यर्थः। उक्तार्थमेव समर्थयति- गद्यपद्यमयत्वादित्यादिना। कान्यस्य गद्यपद्योभयात्मकत्वात् गद्य-

कविधर्भत्वादिति। कविप्राढोक्तिसिद्धलवात्, कविनिबद्धवक्तृप्रौढोक्ति सिद्धत्व/च्चेत्यर्थः । हितोपदेशकत्वाच्ेति। कृत्याकृत्यप्रवृत्तिनिवृत्युपदे- शस्य कान्तासम्मितविधया सम्पादनेनाऽव्यभिचारितफलत्वदिति भावः । शाखत्रैः सह काव्यस्य सम्बन्धमाह-तद्दि शास्त्राण्यनुधावतीति। वद्धि=काव्यम् शास्त्राण्यनुधावति, अनुगच्छतीत्यर्थः । "शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वमिनिविशेत" इति स्वयमेव पूर्व कथनात् शास्त्रका- न्ययोरनुगम्यानुगन्तृभावः स्पष्टं प्रतीयते । पराभिमतं विद्यास्थानानामषाद शत्वमाह-वार्तेति। वार्ता, कामसूत्रम्, शिल्पशास्त्रम्, दण्डनीति- श्वति 'पूर्वो क्ैश्रवुर्दशविद्यास्थानै मिलित्वा Sषटादशविद्यास्थानानि भवन्तीत्यपरेषां

Page 17

द्वितीयोऽध्यायः। ११

रिति पुर्वै: सहाष्टादश विद्यास्थानानि" इत्यपरे। आन्वीक्षिकी त्रयी वार्जा दएडनीतिश्रेति विद्याः । "दएडनीतिरेवेका विद्या" इत्यौशन- साः। दएडमयाद्धि कृत्स्नो लोक: स्वेषु स्वेषु कर्मस्ववतिष्ठते। "वा- चा दएटनीतिर्द्वे विद्ये" इति वाईस्पत्याः। चिर्विनयग्रदणं च स्थि- विहेतुलोंकयात्रायाः। "अरयीवार्चादएडनी तयस्तिस्त्रो विद्याः" इति मा-

मतम्। वार्तादीना स्वरूपमग्रे वक्ष्यते। चतल एव विद्या इति पक्षान्तर- माह-आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्या:। इति। औशनसानां मतमाह-दण्डनीतिरेयैका विधेति। सर्वा अपि विद्यास्तदधीना इति तात्पर्यम्। अवधारणस्य हेतुमाह-दण्डभयादिति। क्रृत्न := सकलः। स्वस्थकर्मपरित्यागे दण्डो भवेदिति भीत्यैव सर्वोऽपि लोक: स्वस्वकर्मतत्परो भवति। इति सर्वासामयि विद्यानामुनत्ये प्रसाराय च दण्ड एव प्रभवतीत्युक्तं दण्डनीतिरेवेका विद्येति। नाईस्पत्याना मतमाह-वार्ता- दण्डनीतिर्द्दे विद्ये इति। कषिपाशुपाल्यवणिज्यात्मिका वाता बिना वि- चलाभस्याऽसम्भवात् वित्ताधीनैव लोकयत्रेति हेतोवीर्ता दण्डनीतिश्चेति द्वे विद्ये इति वार्हुस्पत्या भाहुः। तदेव विशदयसाह-पृत्तिर्विनयग्र- हणं चेति। वृतिः=जीवननिर्वाहौपयिकी वेतनादिलब्धि। विनयग्रह म्-शिक्षाअद्दणम्, गुर्वादिससुचिताचारव्यवहारज्ञानमित्यर्थः तदेतद्द्वय- पि लोकयात्रायाः स्थितिहेतुः। अनेन विना लोकयात्रा न सम्यक् चल- सीत्यर्थः। मानवाना मतमाह-ञ्रयीत्यादिना-त्रयी=ऋग्यजुःसा- माख्यवेढत्रयी। अङ्सहितेति फलितम्। 'ब्रा्णन निष्कारण षडड्ने बदो- 'डध्येयो ज्ञेयञ्चे' त्युक्तेस्त्रय्या अध्यथनन्तु फलानुसन्धानमन्तरैव कर्तव्यमा- पतति। वार्तता दण्डनीतिन्वाऽपि लोकयात्रार्थ परमावश्यके इति तिस्रो विद्या इति मानवा: सभञिरन्ते। त्रय्या: प्राधान्यमाह-त्रयी हीति। वार्ता दण्डनीतिश्र कि स्वरूपा किं भेवेत्याद्युपदेशकरणसामर्थर्यमहिम्ना त्रय्याः प्राधान्य सुसूप- धमेव। कौटिल्यस्य मतमाह-आन्वीक्षिकीत्यादिना-आन्वीक्षि की तयी वार्ता दण्डनीतिश्वेति चतसो विद्या इति कौटिल्यस्य मतम्। तत्र

Page 18

चान्द्रकासहित काव्यमीमांसायां- दएडनीतयश्चतस्त्रो विद्या:" इति कौटिन्य:।आन्वीक्षिक्या हि विवेचिता त्रयी वार्त्तादएडनीत्योः प्रभवति। "पश्चमी साहित्यविद्या" इति "त्रयीविशेषो ह्यान्वीक्षिकीति,। संवरणमात्रं हि त्रयी लोकयात्राविद इति। साङ्गय योगो लोकायतं चेत्यान्वीक्षिकी। धर्माघर्मौ त्रय्याम्। अर्थानथौं वार्ता- याम्। नयानयौ दण्डनीत्यामू। बलाबले चैतासां हेतुभिरन्वी्षिमाण लोक स्योपकरोति। व्यसनेऽभ्युदये च बुद्धिमवस्थापयति। प्रज्ञावाक्यक्रियावैशा- रद्यं च करोति। प्रदीप: सवैविद्यानासुपायः सर्वकर्मणाम्।' आश्रयः सर्वधर्माणां शश्वदांन्वीक्षिकी मता" ॥ इति कौटिलीयेऽर्थशासरे। पूर्वोक्तस्वरूपयाSSन्वीक्षिक्या विवचिता त्रथी वार्तादण्डनीत्योः प्रयोगे साहाय्यं सम्पादयतीत्याह-आन्वीक्षिक्या हि विवेचिता त्रयीत्यादिना-" अथाडयमत्र सङ्गहः कामन्दकीयनीति सारे- आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः॥ त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या हि मानवाः । त्रय्या एव विभागोऽय येयमान्वीक्षिकी मता'॥ वार्ता च दण्डनीतिश्ध द्वे विद्ये इत्यवस्थिता: । लोकस्यार्थप्रधानत्वाच्छिष्या: सुरपुरोघसः ॥ एकैव दण्डनीतिस्तु विद्येत्यौशनसा! स्थिताः। तस्या हि सर्वविद्यानामारम्भाः सम्प्रतिष्ठिताः ॥ विद्याश्चतस्र एवैता इति नो गुरुदर्शनम्। पृथक्पृथक् प्रसिद्धयर्थ यासु लोको व्यवस्थितः ॥ आन्वीक्षिक्यात्मविज्ञानं धर्माध्मौ त्रयीस्थितौ। अर्थानर्थौ तु चार्तायां दण्डनीत्यां तथतराः ॥ आन्वीक्षिका त्रयी वार्ता सतीर्वैद्याः प्रचक्षते। चतस्रो विद्या इति कौटिल्यसिद्धान्तेऽघिकं योजयन्नाह-पश्चमी साहित्यविद्येति । सा हीतति सासाहित्यविद्या हि चतसृरणामपि आ-

Page 19

१३

।वरीयः। सा हि चतसृखामपि विद्यानां निष्यन्दः। आभिर्द्धमार्यौ य- द्वधात्तदविधानां विद्यात्वम्। तत्र त्री व्याख्याता। द्विया चान्वीक्षि- क पूर्वो त्तरपक्षाभ्याम्। अर्दन्द्रदन्तदर्शने लोकायतं च पूर्व: पक्ष: साङ्गथं न्यायवैशेषिकौ चोचरः। त इमे षद् तर्काः। तत्र च तिस्ुः कथा भव- न्त वादो, जन्पो, चितएडा च । मध्यस्थयोस्तत्वावबोघाय वस्तुत-

न्वीक्षिकात्रंयीवार्तादण्डनीतीना विद्याना निष्यन्द :- अन्तःसाररूपः प्रपा- गकर सन्यायेन चर्व्यमाणस्वभावो रसविशेषः, अत एव रसिकरविरतमास्वाद्यमा- नत्वेनापरोक्षत्वादुपादेयैव। विद्याना विद्यातं परिष्कुर्वन्नाह-आभिरिति। आ- भिः पूर्वोक्ताभिरविद्याभि: करणुभृताभिः प्रमाणभूताभिर्वा धर्मार्थौं ज्ञायेते इति वेदनक्रियावत्वाताः सकला अपि विद्या एव। धर्मार्थवित्तिप्रयोजकत्व विद्या त्वमिति फलितम्। तथा व न्यायम्जयी खयन्त :- वेदन विद्या, तच 'न घटपटादिवेदनमपि तु पुरुषार्थसाघनवेदनम्। तत्र=वासु विद्यासु। त्रयी= ऋग्यजुःसामात्मकवेदत्रयी। व्याख्याता=पूर्वमेव स्वरूपतो लक्षितेति भावः। आन्वीक्षिकी विभजते-द्विधोति। पूर्वपरक्षानवीक्षिकी, उत्तरपक्षात्वीक्षिकीति वि- घाद्वेयेनेति भाव.। प्रत्यक्षागमाभ्या मीक्षितस्यान्वीक्षणमन्वीक्षाऽनुमानमित्यर्थः। तनयुत्पादकं शास्त्रमान्वीक्षिकमिति आन्वीक्षिक्याः स्वरूपम् । तत्रपूर्वपक्षमाह- अर्हद्दन्तदर्शने इति। अर्दददर्शनं भदन्तदर्शनम्=जैनदर्शनं, चौद्धदर्श- न चेत्यर्थः। लोकायतम्=चार्वाकदर्शनम्। लोके आयतं विस्तृत रमणीयत्वादिति तत्। इत्थमुक्कदर्शनत्रयमवैदिकमनीश्वरमिति स एष पूर्वः पक्षः। उत्तरपक्षमाह- साह्यमिति। प्रघानपुरुषवादात्मक-कापिल दुर्शनमित्यर्थः। न्यायो= गौतमप्रणीत तर्कशास्त्रम्। वैशेषिक= विशषपदार्थाभ्युपगन्तुः कणादस्य द- शैनमित्यर्थः । इत्थमिदं दर्शनत्रयमशतो वेदानुसारि सेश्वरमित्युत्तरः पक्षः। पूर्वोत्तर पक्षौ मिलितावेव त इमे षट् तर्का := विचारशास्त्राणि भवन्ति। सन्दि- ग्घेडर्थेऽन्यतरपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः । इति तर्कसामान्यलक्षणम्। विचारशास्त्रे च तिसः कथा भवन्ति, वादो जल्पो वितण्डा च। तत्र वादमाह-मध्यस्थयोरिति। मध्यस्थयोः=अन- धिगततत्त्वयोरित्यर्थः । तत्त्वावबोषाय=यथार्थवस्तस्वरूपावगतये। वस्त- २ का० मी०

Page 20

१४ चन्द्रिकासहित काव्यमीमांसायां-

न्वपसामशों वाद: । विजिगीपोः स्वपक्षसिद्धये छलजातिनिग्रहादिप- रिग्रिंहो जन्पः। स्व्रपक्षस्यापरिग्रहित्री परपक्षस्य दूषयित्री वितएहा। कृषिंपाचुपाल्ये वणिज्या च वा्ता। आन्वीक्षिकीत्रयीवार्त्तानां योग- क्षेमसाधनो दएडस्तस्य नीतिर्दएडनीतिः। तस्यामायत्ता लोकयात्रेति शास्त्राणि। सामान्यलक्षणं चैषाम्- सरितामिव पवाहास्तुच्छा: पथमं यथोत्तरं विपुलाः। ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्धाः॥

तत्त्वस्य परामर्शो विचार एव वाद इत्यर्थः। वीतरागवस्तुनिर्णयफलो वाद इत्यन्यत्र। जल्पमाह-विजिगीषोरिति। वादकाले स्वपक्षस्य विजयि- च्छता पुरुषेण छलस्य जातेर्निग्रहस्य, आदिपदादुपायान्तरस्यापि परिग्रष्ः स्वीकारो जल्प इत्यर्थ. । विजिगीषुकथा पुरुषशक्तिपरीक्षाफला जलप इत्य- -न्यत्र। तद्विशषो वितण्डा इत्यपि तत्रैव। स्वमतेन वितण्डामाह-स्वपक्ष- स्थेति। यदा वक्ता स्वपक्षं दुर्बलं मत्वा तत्परित्रहे मन्दादर: सन्नेव परपक्ष- मात्रं दूषयितुमुपक्रमते तदा सा वितण्डा भवतीत्यर्थः । तत्र अर्थविकर्पैर्व- चनविधातश्छलम्। हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थान जातिरित्यादिलक्षणानि -ग्रन्थान्तरादवसेयानि । वार्तामाह-कृषीति। कृषिः पाधुपारयं वणिक्कर्म च वार्तेत्यर्थः ।

  • पूर्वों क्तलक्षणानामान्वीक्षिकी त्रयीवार्त्तानां निर्बाधप्रचारस्य साघनं दण्ड एव तद्यवस्थापिका राज्ञो नीतिरेव दण्डनीतिः। राजदण्डमयादेव सर्वस्य -लोकस्य सुव्यवस्थितत्वात् सुव्यवस्थितलोकाघीनत्वाच्वैव शास्त्राध्ययनस्य लोकयात्रा शास्त्राणि च दण्डनीत्यधीनानीति सिद्धम । तथा च 'दण्डनीतिरे- वैका विद्ये' त्यौशनसानां मतं समर्थितं मवति। एषा=शास्त्राणाम्। सामान्यल- क्षणं=सवरूपपरिचयमाह-सरितामिवेति। यथा सरिता नदीनां प्रवाहाः ओघा: प्रथमं पूर्वमुद्धमकाले इत्यर्थः । तुच्छाः अलपाः भवन्ति। अथ यथो- तरं=उत्तरोत्तरं नदन्तरसम्भेदादिना विपुला महान्तो भवन्ति, एवमेव ये शास्त्रसमारम्भाः पूर्वमल्पस्वरूपाः क्रमशो महिमानं प्रकटमन्ति, त एव लो-

Page 21

द्विती योऽध्याय: १५

सूत्रादिभिश्रैषां प्रणयनम्। तत्र सूत्रणात् सूत्म ष, विदा- "अन्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् अस्तोभमनवद्यश्च सूत्रं सूत्रकृतो विदु:।।" 1 सूत्राणां सकलसारविवरणं वृत्तिः। सूतत्तिविवेचनं पद्धतिः। आक्षिप्य भाषणान्दाष्यम्। अन्तर्भाष्यं समीक्षा । अवान्तराथविच्छे-

कस्य वन्धा आदरणीया भवन्ति। गोमुखानि शास्त्राणि लोकप्रियाणि भव- न्ति नतु व्याघ्रसुखानीति ताहपर्यम्। शास्त्रप्रणयनप्रकारमाह-सूत्रादि भिरिति। एरषां शास्त्राणा सूत्रादिभि, आदिपदात् श्लोकसहितादिभिरपी- त्यर्थः। प्रणयनं निमार्णम्। सूत्रमाह-तन्रेति। सूत्रणात् सूत्रम्। सूत्र यति=वक्तव्यार्थ बीजरूपेण सूचयतीति तदित्यर्थः। सूत्रलक्षणमाह-अल्पा- क्षरमिति। सुत्रकृतो महर्षय इत्थम्भूतं सूत्रं विदुरि्यन्वयः। तदेव विशि- नष्टि-अल्पाक्षरमित्यादिना। यत्, अल्पाक्षरं, अल्पैर्मितरक्षर अ्रंथितम्, इत्थमपि सन्देहरहितम्, अल्पाक्षग्वत्त्वे सन्देहस्यावसरादिति भावः । सारव त= अर्थगाम्मीर्यात्मकसारसाहतम्। विश्वतोमुखम्=चतुरसमित्यर्थः। सर्वत्र सुळमान्वयमिति तात्पर्यम्। स्तम्भनं स्तोभ: तद्रहितम्। अर्थप्रतीतिप्रतिब न्घात्मकस्तम्भनरहितमित्यर्थः । अथवा निरर्थकपदरहितमित्यर्थः । अनवद्य मू=च्युतसस्कृति लोकशास्त्र विरुद्धत्वा दिस कलदोष रूपा Sव द्यवर्जित मत्यर्थः । एव लक्षण सूत्र सूत्रकृदभिमतमिति तात्पर्यम्। अथ वृत्तिमाह-सन्नाणा मिति। सूत्राणामिति सम्बन्धे षष्ठी। तथा च सूत्रसम्बन्धिसकलसाराशस्य यत्र विवरण व्याख्यान वर्तते सा वृत्तिरित्यर्थः । पद्धतिमाह-सत्रेति। सूत्रस्य वृत्तेश्च तात्पर्य विचार्य इतिकर्तव्यताप्रकारो यत्र निबध्यते सा पद्धतिरित्यर्थ: । आक्षिप्येति। सूत्रार्थ प्रतियोगिविधयाSSक्षिप्य=पूर्वप. क्षत्वेन सन्दृष्य, भाषणं=उत्तरपक्षत्वेन सिद्धान्तप्रवचन यत्र क्रियते तद्भाष्य- मित्यर्थ। समीक्षामाह-अन्तरिति। भाष्यस्य अन्तः, अन्तर्भाष्यम्, भाष्य मध्ये इत्यर्थ:। या समीक्षा=विचारः सैव समीक्षेत्यर्थ। तस्या एव रूपा- न्तरमाइ-अवान्तरेत्यादिना। अवान्तरस्य=प्रकरणमध्यवर्तिनोऽर्थस्य वक्तव्यांशस्य विच्छेद: पृथक्वरणमपि सा=समीक्षेत्यर्थः। टीकामाह-

Page 22

१६ चान्द्रिकासहित काव्यमीमांसायां-

दश सा। यथासम्भवमर्थस्य टीकनंटीका । विषमपदभज्जिका पञ्ञि- का। अर्थप्रदर्शनकारिका कारिका। उक्तानुक्तदुरुक्तचिन्ता वाा्ति- कमिति शास्त्रभेदाः। भवति प्रथयनर्थ लीनं समभिप्लुतं स्फुटीकुवन्। अल्पमनल्पं रचयन्ननल्पमल्पं च शास्त्रकवि:।। शास्त्रकदेशस्य प्रक्रिया मकरणम्। अध्यायादयस्त्ववान्तरविच्छे- दा: । कृतिभि: स्वतन्त्रतया मणीता इत्यपरिसङ्चया अनारयेयाथ्।

यथासस्मवमिति। यथासम्भवम्=सम्भावनामनतिक्रम्येत्यर्थः। अर्थस्य= शब्दार्थस्य टीकनं=प्रकाशन टीकति तात्पर्यम्। यावतां शब्दाना सम्भवतोS र्थंस्य प्रकाशनं टीकेति निष्कर्षः । पाञ्चिकामाह-विषमेति। विषमाणं= दुरूहाणां पदाना भज्जिका अर्थप्रकाशनेन पार्थक्यप्रदर्शिका पञ्जिकेत्यर्थः। कारिकामाह-अर्थेति । सूत्रगतार्थप्रदर्शनकारिका छन्दोबद्धा वाक् कारिके- त्यर्थ: । वार्तिकमाह-उक्तानुक्ेति। सूत्रकृता भ्रमप्रमादादिवशात् येड- र्था उक्ता, अनुक्ता, दुरुक्ाश्च, तेषा चिन्ता विचारो यत्र तद्वार्तिकमित्यर्थः। इत्थमेते शास्त्राणा तदवान्तरांशाना च मेदा: प्रकाटिताः । शास्त्रकवे: प्रभावं प्रदर्शयति-भवतीति। यः लोकोत्तरवुद्धिशाली कविः लीनं-गुप्तमभिप्रेतमर्थ वाच्यं प्रथयन् भवति=प्रथयति, प्रकटयती- त्यर्थः। एवं समिप्लुत=समन्तात् अभिप्लुतं वाच्यान्तरसम्त्रन्घेन सन्दि- ग्घार्थ स्फुटीकुर्वन् भवति स्पष्टीकुरुते इत्यर्थः । किश्व अल्पं=साङ्गिस, अ- नल्पं विस्तृतं रचयन्, अनल्पं=विरतृत, अल्पं सद्िसं रचयन् समासव्या- सरचनाकुशल इत्यर्थः। गुप्तममिप्रायं प्रकटयति, सन्दिग्धार्थ च स्पष्टीकु- रुते। समासव्यासरचनयोश्च पाटवं प्रकटयति यः स शास्त्रकविरिति तात्पर्यम्। अथ प्रकरणमाह-शास्त्रैकदेशस्थेति। अनेकप्रकरणयुक्तस्य शा सस्य य एकदेशस्तस्य या प्रक्रिया प्रकारस्तदेव प्रकुरणमित्यर्थः। अवान्तरवि- च्छेदानाह-अध्यायाद्य इत्यादिना। मध्ये मध्ये प्रयोजनवशा द्विहिता अवान्तरविच्छेदा एवाऽध्यायादयः । ते च परिच्छेदोच्छवाससमु- क्वासादिभिर्नामभिरनेकैर्मन्थकारैरनेकधा परिकलल्पिताः। अत एव वे अपरि

Page 23

द्वितीयोऽध्यायः । १७

शब्दार्थयोर्यथावत्सइभावेन विद्या साहित्यविद्या। उपविद्यास्तु चतः :- पष्िः। ताश्च कला इति विदग्घवाद: । स आजीवः काव्यस्य। तमौ- पनिषदिके बल्ष्याम: । इत्यनन्तोऽभियुक्तानामत्र सरम्भविस्तर:। त्यक्तो निपुणधीगम्यो ग्रन्थगौरवकारखाद्।। 0

इति राजशेखरकृती काव्यमीमासाया कविरहस्ये प्रथमेऽधिकरणे द्वितीयोऽध्यायः शास्त्रनिर्देशः।

सक्क्येयाः। प्रयोजनान्तराभावादनाख्येयाश्। अथ साहित्यविर्द्या लक्षयत्रा- ह -- शब्दार्थयोरिति। शब्दार्थयोर्वाच्यवाचकयोर्यथासहभावेन साहचर्ये णोपलक्षिना विदा साहित्यविद्येत्यक्षरार्थः। शब्दार्थो सहितौ काव्यमित्या- दमियुक्तोक्त: सहितयोर्भावः साहित्यमिति समार्याबलाख् साहित्यविद्ैव काव्यशास्त्रमिति फुलितम् । इयं खल मुख्यविदा। उपविद्या माह -- उप- विद्यास्त्वति। मुख्यविद्यामुपजीव्य प्रवृत्ता उपविधाः। परिगणनमाह- चतुःषष्टिरिति । चतुःषष्टिसङ्गयाका इत्यर्थः। चतु षष्टिकला इति या- वत्। तदेव रपष्टीकुर्वन्नाह-ताश्चेति। ताश्र=चतुःषष्टिरुपविद्याः, क- लाशब्दवाच्या इति विद्ग्धाना रसिकाना वाद उककिरित्यर्थ । सः=विदग्- वादः । काव्यस्य=शब्दार्थात्मकस्य आजीवो जीवनोपायभूतः । काव्यस्य वैदग्ध्यमूलत्वात। तदेतदखिलमौपनिषदिकेऽघ्याये वक्ष्यते। उपसहरति -- इत्यनन्त इति। अभियुक्तानां पण्डिताना, अत्र शास्त्रे, संरम्भविस्तर := संरभे प्रकरणाध्यायपर्यालोचनादौ यो विस्तरः सः निपुणा घीर्बुद्धियेषां तेषां गम्यः सुज्ञेयः, अतः त्यक्त := परिहृतः, न विशेषेण विवेचित इत्यर्थः । कुतः? अ्रन्थस्य यद्गौरव गुरुत्व तदेव कारण तस्मात् अ्रन्थगौरव मा भूदिति हेतोरियर्थः । इति श्रीमखिस्तेवशसम्भूत भैरवनायकतनुजनि-नारायणशास्त्रिप्रणीतायां काव्यमीमांसा-चन्द्रिकाया शास्त्रनिर्देशो नाम द्वितीयोऽध्यायः॥ २॥

Page 24

१८ चन्द्रिकासहित काव्यमीमांसारयां-

तृतीयोऽध्यायः काव्यपुरुषोत्पत्तिः । एवं गुरुभ्यो गिर: पुएया: पुराणी: शणुमः स्प, यत्किल धिषणं शिष्या: कथापसङ्गे पमच्छुः, कीटशः पुनरसौ सारस्वतेयः काव्यपुरुषो वो गुरु: १ इति। स तान् बृहताम्पतिरूचे। पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास। प्रीतेन मन- सा तां चिरिश्चः मोवाच-पुत्र ते सनामि। अथषा काव्यपुरुषं सुषुवे। सोऽ्युत्थाय सपादोपग्रहं छन्दस्वतीं वाचमुदचीचरत्- यदेवद्वाऊयं विश्वमर्थमूर्च्या विवर्त्तते। सोडस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ।।

अस्मिन्नध्याये काव्यपुरुषस्योत्पत्तिः, तस्य साहित्यविद्यावधूपातिः, दम्पत्योर्दिग्विजयप्रयाणम्, विविधवृत्तिप्रवृत्तीनां प्रसरणम्, देशभाषावेषभेदा- दीनां कथन च समासेन भविष्यति। तन्न काव्यपुरुषोत्पत्तिमुपक्रममाणो ग्रन्थकृत् काव्यपुरुषान्तेवासिनो घिषणस्य मुखात्तदुपक्रमं चिकीर्षन्नाह- एचमिति। यद्वयं वक्ष्यामो, न तत्स्वकपोलकल्पितम्, अपि तु सद्गुरु- सम्प्रदायागतमिति सुतरां विश्वासार्हमिति बोधयन्नाह-गुरुंभ्य इत्या- दि। विषणम्=बृहस्पतिम्। सारस्वतेय := सरस्वतापुत्रः। बृहता- म्पतिः-बृहस्पतिः । पुत्रीयन्तीति। पुत्र कामयमानेत्यर्थः । तुषार गिरौ=हिमवत्पर्वते। सपादोग्रहमिति। पादावुपगृह्येत्यर्थः। नमस्कार पूर्वकमिति यावत्। छन्दस्वतीमिति । छन्दोबद्धामित्यर्थः । उदची- चरत्=उच्चारितवान्। तामेव वाचमाह-यदेतदित्ति। हे अम्ब ! मातः ! सरस्वति ! अहं काव्यपुमान्-काव्यपुरुषः, तावकौ=त्वत्सम्बन्धिनौ, त्वदीयावित्यर्थ। पादौ=चरणौ, वन्देय=नमस्कुर्याम्। पू्वार्द्धेन काव्यपु: रुष विशिनष्टि-शब्दार्थो मिलित्वैव काव्यमिति प्राचामाचार्याणा सिद्धा न्त.। तदनुसारेणैव प्रकृतऽपि, यदेतत्-पुरो दृश्यमानं विश्वं, प्रथमतो वाष्मयं= शब्दात्मकं, पश्चात् अर्थमूर्त्या=अर्थरूपेण विवर्तते=विवर्तरू पेण प्रकटीभवति। अस्मीति विभक्तिप्रतिरूपकमव्ययम्, अह्दमित्यर्थः । एतेन शब्दार्थात्मना वाड्मयेन स्वस्याभद: साधितः। शब्दार्थामिन्नवाब्य

Page 25

वृतीयोऽव्यायः । १६

तामाम्नायदष्टचरीसुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससम्म- दमङ्कपर्यङ्कनादाय तमुदळापयत्। "वत्स सच्छन्दस्काया गिरः भगे- तर्वाऊ्यमातरमपि मातरं माँ विजयसे। प्रशस्यतमं चेदमुदाहरन्ति यदुत 'पुत्रात्पगजयो द्वितीयं पुत्रजन्म' इति। त्वत्तः पूर्वे हि चिद्वांसो गद्यं दद्दशुर्न पद्यम्। त्वदुपज्ञमथातः छन्दस्वद्च: मवत्स्यति। अहो श्रलाघनीयोऽसि। शब्दार्थौं ते शरीरं, संस्कृतं सुखं, भाकतं वाहु, जघनमपभ्रंशः, पैशाचं पादौ, उरो मिश्रम्। समः पसन्नो मधुर उदार ओजस्वी चासि। उत्तिचरं च ते वचो, रस आत्मा, रोमा छन्दां- सि, प्रश्नोत्तरमवहिकादिकं च वाक्केलि:, अनुमासोपमादयश्च त्वामलङ्ग-

याभिन्नः काव्यपुरुषोऽहमिति फलितम्। आम्नायदष्टचरीमिति । आम्नाथेषु, वेदेषु द्ष्टचरीम्=पूर्व दष्टाम्। वेदेप्वेव प्रयुक्तामित्यर्थः । भूतपूर्वे चरट्। भाषाविषये इति। वेदातिरिक्तलौकिकभाषास्वित्यर्थः । छन्दो- मुद्रामिति। प्रकृते डनुष्टपूछन्दोनिबन्घनमिति भाव: । देवी=सरस्वती। ससम्मदम्=सहर्षमित्यर्थ.। अङ्कपर्यङ्कनादाय=उत्सक्गात्मके तल्पे सस्थाप्ये त्यर्थः। तम्=काव्यपुरुषम्, स्वपुत्रम्। उदलापयत्=पुशशंस्षेतिभावः । उल्लापनमाह-वत्संति। सच्छन्दस्काया इति। छन्दोवद्धाया इत्यर्थः। वाव्ययमातरम्=वाक्यस्य, सकलस्य वाकप्रपश्चस्य मातर जन- नीमपि तव काव्यपुरुषस्य मातरं जननी मा विजयस, मया जननुभूतपूर्वा छन्दस्वतीं गिर प्रकाश्य मा पराभवसीत्यर्थः । भाषाविषये छन्दोमुद्रायाः पूर्वमभावं दर्शयति-त्वत्त इति । त्वत=भवतः, पूर्वे=माचीनाः । त्व दुपज्ञमिति। व्त्पथमारम्भमित्यर्थः । छन्दर्वद्दच :- छन्दोबद्धं वच- नमित्यर्थः । साश्चर्य काव्यपुरुषावयवसस्थानमाह-अहो श्राघनीयो- इसीत्यादिना। ते=तव, शब्दार्थी शरीरम्। शब्दार्थातमकमेव तव काव्यपुरुषस्थ वपुरित्यर्थः । संस्कृतं सुखमित्यादिना च तत्तदवयवसस्थानं प्रदर्शितम् । सिश्रमिति । प्राकृतावान्तरभाषामिश्रणात्मकमित्यर्थः । सम :- समृताख्यप्राचीनाभिमतगुणविशिष्ट इत्यर्थः । एवं प्रसाद्गुणविशिष्टः प्रसन्न इत्याद्यवसेयम्। प्रइनोत्तरमति। प्रश्नश्ववोत्तर च तत् , प्रश्नोत्तरा

Page 26

२० चद्रिकासाहत काव्यमीमांसायां- र्वन्ति। भविष्यंतोरऽर्यस्याभिघात्री श्रुतिरपि भवन्तमभिष्टौति- चत्वारि शृङ्गास्रयोडस्य पादा द्वे शीर्षे सपहस्वासोऽस्य। त्रिधा बद्धो वृषभो रोरीति महो देवो मर्त्या(तॅरया)माविवेश। "तथापि सवणु पगल्मस्य पुंसः कर्म, बालोचितं चेष्टस्व" इति निगद्य निवेश्य चैनमनोकहाश्रयिणि गएडशैलतलतल्पे स्नातुमभ्रगर्ङ्गा जगाम। ताबच कुशान् समिघश्च समाहर्ते निःसतो महासुनिरुशनाः परिषत्ते पूषएयुष्मोपप्ठुतं तमद्राक्षीत्। कस्यायमनाथो वाल इि चि- न्तयन्स्वमाश्रमपदमनैषीत्। क्षणादाश्वस्तश्र स सारस्वतेयस्तस्मै छन्द-

त्मकं काव्यमित्यर्थः । यद्वा य एव प्रश्नः स एव पदच्छेदवैशिष्टयादुत्तरं यत्र तत। पचक्निकादिकमिति। महेलिकादिकमित्यर्थः । एतत्सर्व तब काव्यपुरुषस्य वाक्कीडनसिति यावत्। भविष्यत इति। कालान्तरे समु- त्पत्स्यमानस्येत्यर्थ,। अर्थस्य=वस्तुनः । अभिधात्री=पतिपादिका। इत्थंभूता, श्रुतिरपौरुषेयी वागपि त्वा स्तौति। ता श्रुतिमाह-चत्वारीति। ऋग्वेदसंहितार्या तृतीयाष्टकेऽष्माध्याये दशममण्डले तृतीय सूक्तमिदम्। अस्यार्थश्र सायणभाष्ये, निरुक्ते, महा- भाष्ये पस्पशान्हिके च तत्तत्प्रकरणानुरोधेन मिथो विलक्षण एव कृतः। अस्मिन् अ्न्थे राजशेखरेण च काव्यपुरुषपरतयैव व्याख्यातः । भरतेन च स्वकीये नाट्यशास्त्रे काव्यविषये यथोक्तं, तदनुरोधनैवासौ ऋक् कान्यपु- रुषपरतया व्याख्यायते। यथा-शृङ्गस्थानीयाश्चत्वारे वर्णाः। पादस्थानीयानि त्रीणि स्थानानि । शीर्षस्थानीयो द्विविध: काकुरिति। हस्तस्थानीयाः सक्ष- स्वराः। ईंदशोऽसौ वृषभः काव्युपुरुषः त्रिषा=त्रिप्रकारैः, मन्दमध्योचैः स्वरैः बद्ध := उच्चारितः सन् रोखीति शब्दायते। एवंभूतो महानसौ देवो मर्त्यान् आविवेश। मुर्त्येषु प्रविष्ट इत्यर्थः । इत्थं स्तुत्वा लोकव्यवहारसि- च्धर्थ लोकानुसारि वर्तनमावश्यकमिति तमाह-तथाSपीति। संवृणु=गो- पायित्यर्थः । परिवृत्ते पूषणीति। मध्यान्होत्तरं सूर्यपरावर्चने सतीत्यर्थः। छन्दस्वतीं वाचं समचारयदिति। छन्दोबद्धा वाच तस्मिन् सश्चा- रितवानिति भावः।तादशवाक्सश्चारणेन स्वयं विस्मितः परानपि विस्माप-

Page 27

तृतीयोऽध्यायः। २१

स्वतीं वाचं समचारयत्। अकस्माद्विस्मापयन्स चाभ्युवाच- या दुग्धाऽपि न दुग्धेव कविदोग्धृभिरन्त्हम्। हृदि नः सन्निषत्तां सा सुक्तिधेतु: सरस्वती।। इति। ,3 तत्पूर्वकमध्येतृणां च सुमेघस्त्वमादिदेश । ततः पमृति तमुशनसं सन्तः कविरित्याचक्षते । तदुपचारच्च कवयः कवय इति लोक- यात्रा। कविशब्दथ् कट वर्ण इत्यस्य घातो: काव्यकर्मणो रूपम्। का- व्यैकरूपत्वाच्च सारस्वतेयेऽपि काव्यपुरुष इति भत्तया मयुञ्जते। ततश् विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द्र । पसङ्गागतश्च वा्ल्पीकिर्मुनिव्टषा समश्रयं तमुदन्तमुदाहृत्य भगवत्य भृगुमूतेराश्रमप-

यन् स उशना अपि तत. परसुवाच। यदुवाचोशनास्तदाह-घा दुग्घेति। या सरस्वती कवय एव दोग्धारो दोहकाम्तैरन्वह प्रतिदिन दुग्धाऽपि कृत. दोहनाऽपि शब्दार्थाहरणैः कृत्तोपयोगाऽपीइयर्थः। न दुग्घेव अकृतदोहनेव शब्दाथसामग्रीपरिपूर्णेवास्ते । यस्थाः शब्दार्थनविरक्षय इति भावः। सा= इत्थंभूता सूक्तीनां सदुक्ीनां घेनु: कामगवीस्वरूपा सरस्वती न :- मस्माकं हृदि सन्निघता=सान्निध्य कल्पयतु। सर्वदाऽत्मद्हृदये स्फुरत्वित्यर्थः । एतन्मन्त्रस्य फल प्रदर्शयन्नाह-तत्पूर्वकमिति। या दुग्धेत्यादिश्रोक- मन्त्रपूर्वकमित्यर्थः । अध्येनृणां=विद्याभ्यासं कुर्वताम्। सुमेधस्त्वम्=

विरित्याख्यया लोका ऊचरे। तथा च सुख्यया वृत्या कविशब्दस्य भार्गव एव प्रयोगः । केथ तहींतरे कवय इति चेदाह-तदुपचाराव्ेति। भार्ग- वादन्यत्र कविशब्द उपचारादर्थाल्लक्षणयैव प्रयुज्यते। तथा च छन्दोम्यी गिरं प्रयुआ्जाना: सर्वेऽपि कवय इति लोकव्यवहारः। कविशब्दन्युत्पतिमाह- कविशव्दश्ेति। फवृवर्णे इत्यस्माद्धातो. कविरिति शब्दो निष्पन्नः । काव्यकर्मण इति। धातोरित्यस्य विशेषणमिदम्। काव्य.कर्म यस्येति तस्माद्धातोरित्यर्थ.। सारस्वतेये पुरुषे काव्यशव्दप्रवृत्तिनिमित्तमाह -काव्यै- करूपत्वाच्ेति। काव्येन सह तादात्म्यापन्नत्वात् सारस्वतेये पुरुषे काव्यपुरुष इत्यौपचारिक: प्रयोग इत्यर्थ। मध्ये विच्छिन्नं कथासन्दर्म भूयः संयोजयन्नाह= ततश्चेति। विनिवृत्तेलि। अन्रगझ्लास्नानादिति शेषः ।.

Page 28

२२ चन्द्रिकासहित काव्यमीमांसायां- दमदर्शयत्। सापि प्रस्तुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि : चुम्बन्ती स्वस्तिमता चेतसा म्राचेतसायाऽपि महर्षये निभृत सच्छन्दा सि वचासि प्ायच्छत्। अनुमेषितश्र स तया निषादनिहतसहचरीव क्रौश्चयुवानं करुणक्रेद्वारया गिरा, क्रन्दन्तमुर्दीक्ष्य शोकवान् श्लो कसुज्जगाद। मा निषाद पतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रोश्चमिथुनादेकमवधीः काममोहितम्॥। ततो दिव्यद्ाष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यद नधीयानो यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इि। स तु महासुनिः पवटत्तवचनो रामायणमितिहासं समभत्, द्वैपायनस्तु श्लोकपथमाध्यायी तत्मभावेन शतसाइस्त्रीं संहितां भारतम्। एकदा तु ब्रह्मर्पिदृन्दारकयो: श्रुतिविवादे दाक्षिएयवान्देवः स्वयम्भूस्तामिमा निर्णेत्रीमुददिदेश। उपश्रुतवृत्तान्तश्र मातरं व्रजन्तीं सोनुवब्राज। वत्स परमेष्ठिनाSननुमतस्य ते न ब्रह्मलोकयात्रा निशश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु पवत्ृते । ततः स काव्यपुरुषो रुषा निश्च-

सुनिश्रेष्ठ इत्यर्थः। उदन्तमिति। वृत्तान्तमित्यर्थः। भृगुसतेरिति। भा- र्गवस्य शुक्रस्येत्यर्थः । अङ्गपालीं ददानेति। उत्सङ्कमारोपयन्तीत्यर्थः । स्वस्तिमता चेतसेति। निश्चिन्तेन चित्ेनत्यर्थः । प्राचेतसाया डपि महर्षथे इति। महर्षये वाल्मीकिये इत्यर्थः । सा निषादेति। हे निषाद 1 हे व्याघ ! त्वं शाश्वतीः समा := चिरकालमित्यर्थः । प्रतिष्ठां मा अगम := स्थिति न लभस्व । चिरायुर्न भव । शीघ्रं म्रियस्वेत्यर्थः । शापस्य हेतुमाह-यदिति। यत् यस्मात्कारणात् ववं क्रौश्चमिथुनात् क्रौश्ची च क्रौश्चश्वेति तयोरमिथुनात्। तयो दन्द्वादित्यर्थ, । काममोहितं मदनबाण- पीडितं एक क्रौध्च अवधीः हववानित्यर्थः । तत इति। पूर्वोक्तक्कोकश्र- वणानन्तरमित्यर्थः । प्रवृत्तवचन इति। प्रवृत्त समुत्पन्नं वचनं क्रोक- निर्माणात्मकं यस्येत्यर्थः । सददृभदिति । व्यरचयदित्यर्थः । श्रुतिषि बादे इति। श्रुतर्वेदस्य विषये बिवादे संशये समुत्पन्ने सतीत्यर्थ। आ

Page 29

तृतीयोऽध्यायः। २३

क्राम। पियं मित्रमस्य च कुमार: साक्रन्दं रुदन्नभ्यधीयत गौर्या तात तृष्णीमारस्व साऽइमेषा निषेधामीति निगदन्ती समचिन्तयत् । पायः माणमृर्तां परेमाणमन्तरेण नान्यद्वन्धनमस्ति, तदेतस्य वशीकरणं काम- पि स्तियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूमुदपादयदादिश- चैनामेप ते रुषा धर्मपतिः पुरः प्रतिप्ठुते तदतुवर्तस्वैनं निवर्तय च। •भवन्तोऽपि इन्त मुनयः काव्यविद्यास्नातकाश्चरिनमेतयोः स्तुध्वमेतद्धि वः काव्यसर्वस्वं भविष्यतीत्यभिघाय भगवती भवानी जोषमासिष्ट। तेऽपि तथा कर्तुमवतस्थिरे। अथ सर्वे प्रथमं मारची दिशं शिश्रियुर्यत्राङव्रसुलव्रसमपुएड्राय्या जनपदाः। तत्राऽभियु्जाना तर्मौमेयी यं वेष यथेष्टमसेविष्ट, स तत्रत्या- भिःस्रीभिरन्वक्रियत।सा पत्तरौड्रमागधी। ता ते सुनयोडभितुष्टुबु :- त्मना तु प्रववृते इति । स्वय जगामेत्यर्थः । कुमार इति। कार्तिकेय इत्यर्थः । जोषमासिष्ठेति। तृष्णी बभ्वेत्यर्थः । औमेयी- ति। उमाया अपत्यं स्त्री साहित्यनिद्यावघूरित्यर्थ.। यं वेषं यथेष्टम सेविष्टेति याहशं नेपथ्य प्रसाधन च स्व्रीचकरेत्यर्थः ।सा प्रवृत्ती रौद्रमागधी इति नाम्ना मौडमागरधी इति नाम्ना वा प्रसिद्धेत्यर्थः । अयमेनार्थ: स्पष्ट प्रपश्चितो भरतनाव्यशास्त्रे त्रयोदशाध्याये- चतुर्विधा प्रवृत्तिश्व प्रोक्ता नाट्यप्रयोक्तृमिः । आवन्ती दाक्षिणात्या च पाश्चाली चौडूमागधी। अत्राह-प्रवृत्तिरिति कस्मात्। उच्यते-पृथिव्यां नाट्यदेशवेषभाषाचार- वार्ताः खयापयतीति प्रवृत्तिः, प्रवृत्तिश्च् निवेदनैः । अत्राह-यदा पृथिव्यां नानादेशा: सन्ति, कथमारसा चतुर्विधत्वमुत्पन्नम्, समासलक्षणश्चासा प्रयोग उच्यते। एवमेष समानलक्षणप्रयोगः । किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा लोकानुमते वृत्तिसंश्रितमस्य मया चतुर्विधत्वममिहितं भारत्यार- भटी सास्विकी कैशिकी चेति। वृत्तिमंश्रितैश्च ग्रयोगैरभिहिता देशाः, यतः प्रवृत्तिचतुष्टयममिनिवृत्त प्रयोगश्र्ोत्पादितः । तत्र दाक्षिणात्या भवेत्, बहु- गीतनृत्यवाद्या कैशिकात्राया चतुरमधुरललिताइ्भिनया यथा।

Page 30

२४ चान्द्रकासहित काव्यमीमांसायां-

"आद्रार्द्रचन्दनकुचार्पितसूत्रहारः सीमन्तचुम्विसिचयः स्फुटबाहुमूळः। दूर्वाप्रकाएडरुचिरास्वगुरूपभोगाद्वौडाङ्गनासु चिरमेष चकास्तु वेष: ।" महेन्द्रो मलयः सह्ो मेलकः पलपिज्जरः । एतेषु संश्रिता देशा: स ज्ञेयो दक्षिणापथः । कोशलास्तोशलाश्चैव कलिङ्गा एव मोशलाः । द्रॅविडान्ध्रमहाराष्ट्रा वैण्या वै वानवासजाः ॥ दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे। ये देशास्तेषु युज्जीत दाक्षिणात्यां तु नित्यशः।। आवन्तिका वैदिशिका: सौराष्ट्रा मालवास्तथा। सैन्घवास्त्वथ सौवीराः आनर्तास्सार्वुदेयकाः॥ दाशार्णास्त्रैपुराश्चैव तथा वै मार्तिका मताः । कुर्वन्त्यावन्तिकीमेते प्रयुति नित्यमेव दु। सात्वती कैशिकी चैव वृत्तिमेषां समाश्रितः । भवेत्प्रयोगो नान्यत्र सर्वः कार्यः प्रयोक्तृमिः॥ अङ्गा वङ्गा: कलिद्राश्च वत्साश्च्ैवैड्रमागधाः ।

तत्र वङ्गसमा ज्ञेया मलदा मल्लवर्तकाः। ब्रह्मोत्तरपभृनयो भार्गवा मार्गवास्तथा ॥ प्राग्ज्योतिंषाः पुलिन्दाश्च वैदेहास्ताम्रलिपकाः । प्रागाः प्रावृतयश्चैव युञ्जन्ति ह्यौड्रमागघीस् ।। अन्येऽपि देशा एभ्यो ये पुराण सम्प्रकीर्तिताः। तेषु प्रयुज्यते ह्वेषा प्रवृत्तिस्त्वौडमागघी।। पाश्चालमध्यमायां तु. सात्वत्यारमटी स्मृता। प्रयोगस्त्वलपगीतार्थ आविद्धगतिविभ्रमः ।। पाश्चालाश्शौरसेनाश्र् काश्मीया हस्तिनापुराः। वाहीकाः शाकलाश्रैव मद्रकौसीनरास्तथा॥ हिमवतसंश्निता येच गङ्गायाश्चोत्तया दिशम्। ये श्रिता वैजनपदा स्तेषु पाश्चालमध्यमा ॥

Page 31

तृतीयोऽध्यायः । २५:

यदच्छयाञ्पि यादङूनेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा वभूवु:। सापि सैव पृत्तिः। यदपरं नृत्तवाद्यादिकमेपा चक्रे सा भारती वृत्ति:। तां ते सुनय इति समानं पूर्वेण। तथाविधाकन्पयापि तया यदवशर्वदाकृतः समासवदनुमासवद्योगवत्तिपरम्परागर्भ जगाद सा गौडीया रीति:। तां ते सुनय इति समानं पूर्वेण। वृत्तिरीतिस्वरूपं

श्वितम । अथ पुनः क्रमेण रौद्रमागधी प्रवृत्तिं मुनिजनस्तुतामाह-आ. द्रार्द्रेति। गौडान्गनासु एष वेष: चिरं चकास्तु इति सभ्वन्धः । गौडाञ्गना- ना विशेषणमाह-दुर्वाप्रकाण्डरुचिरासु-दुर्वाप्रकाण्ड :- दूर्वास्तम्वः, तद्व- द्रुचिरासु तन्वीषु इत्यर्थः । तत्र हेतुमाह-मगुरूपभोगात्-अगुरोश्च- न्दूजस्थोपभोगाल्लेपनादिना सन्तवमुपयोगकरणात्। दूर्बा अपि चन्दनलिसे देवताशिरसि तिष्ठन्तीति अगुरूपभोगस्तत्राऽपि वर्तते इति तत्मादृश्य वर्णि तम्। यदा दूर्वाप्रकाण्ड: गुरोः शिवस्योपमोग्यो न भवति किन्तु पुत्रस्य ग- णेशस्येति। गौडाअनापक्षे अगुरुरनुद्दामः य उपभोगस्तस्मात् हेतोः दूर्बा प्रकाण्डवद्रुचिरासु तन्वीपु कशाङ्गीपु। उद्दामोपभोगासमर्थास्वित्यर्थः ।आ द्रार्द् मूत्यन्तमार्द चन्दन येपु ताद्दशेषु कुचेपु स्तुनेषु अर्पितः सूत्रयुक्तो हारो यस्मिन् सः। सीमन्तचुम्वि शिरSयमगस्पर्शि सिचयं वख यस्मिन् सः । स्फुट स्पूष्ट दृश्यमान वाहुमूल भुजमूलभागो यस्मिन् सः । एवभूतो गौडाङनावेष: चिरं चकास्तु शोअतामित्यर्थः । इत्थं च वर्णितोऽय वेषः स्त्रीणामासीत। अथ पुरुषा अपि तत्र कि वेषा आसनित्याह-यहचछ- येति। सः सारस्वतेयः काव्यपुरुषो य वेष स्वेच्छया स्वीचकार, तत्रत्यैः पुरुषर पि स एव वेषोऽनुकृतः । पुरुषाणा वेषे सैवरौद्रमागघी प्रवृतिः । अथ वृतिमाह-यदपरमिति। एषा=साहित्यविद्यावधूः। तत्र येन प्रकारेण नृत्यगीतवाद्यादिकं चक्रे सा भृरती वृत्तिरिति प्रथिता बभूवेत्यथेः । समानं पूर्वेणेति। अभिदुष्टवुरिति सम्बन्धः । तथाविधाकल्प- याऽपीति। आद्रार्द्रचन्दने त्यादिपूर्वोक्तगौडाङ्ग नावेषयाडपि तया साहित्य ' विद्यावध्वा वेषप्रदर्शनमात्रेण यदा स काव्यपुरुषो वशीकर्तु न पारितः, तदा ३ का० मी०

Page 32

:२६ चन्द्रिकासाहित काव्यमीमांसायां-

न्यथावसरं वक्ष्यामः। ततश्र स पश्चालान्प्रत्युच्चचाल यत्र पश्चालसुरस नहस्तिनापुर काश्मीरवाही कवाही कवाहवेयादयो जनपदाः। तत्राSभिर ज्ञाना तमौमेयीति समानं पूर्वेस। सा पश्चालमध्यमा पवृत्तिः । ता सुनयोऽभितुष्टवु :- ताटङ्वल्गनतरङ्ग्रितग एडलेख-

आश्रोणिगुल्फपरिमएडलितोत्तरीयं वेषं नमस्यत महोद्यसुन्दरीणाम्।। किञ्चिदार्द्रितमना यन्नेपथ्यः स सारस्वतेय आसीदिति समा पूर्वेया। साडपि यदीषन्तृत्तगीतवाद्यचिला सादिकं दर्शयांचभूव सा सा -रता वृत्ति: । आविद्वगतिमन्वात्सा चारभटी। तां ते सुनय इति समा नं पूर्वेण। तथाविधाकन्पयापि तथा यदीषद्वशम्बदीकृत ईषदसमा्र ईषदतुपासमुपचारगर्भञ्च जगाद सा पाञ्चाली रीतिः। तां ते सुनर इति समानं पूर्वेस। ततः सोऽवन्तीन्पत्युच्चचाल यत्रा वन्तीवैदिशसुराष्ट

सा समासयुक्तं अनुप्रासयुक्तं योगार्थयुक्त च यज्जगाद, सा गौडीया रीति रिति प्रथिता बभूव। वृत्तिरीतिस्वरूपं अ्रन्थकृतैव यथावसरं निरुपयि ष्यत इति तत्रैव तव्याख्यास्यते । ततः स काव्यपुरुषः पञ्चालान् नाम दे. शान् प्रातिष्ठत। पश्चालान् वर्णयति-यत्रेति। यत्र=पश्चालेषु। पाश्चा लादि वाहवेयान्ता जनपदा यत्र सन्ति ते पश्चाला देशा इत्यर्थः। पाञ्चालम ध्यर्मा प्रवृत्तिमाह-तादङ्केति। ताटद्वानां कर्णभूषणारना वलगनेन दोला यितेन तरङ्विता तरलिता गण्डलेखा=कपोलमागो यस्मिन् सः तम्। ईदश पञ्चालदेशवासिमहाजनसुन्दरीणां वेषं नमस्यतेत्यर्थः । ईदशनेपथ्यदर्शनस्य प्रभावमाह-किश्चिदार्दरितमना इति । पूर्व सर्वथाऽवशम्वदोऽपि का व्यपुरुष इदानीं किश्चिदनुकूलमावं दघावित्यर्थः साऽपीति। साहित्यवि य्ावधूरित्यर्थः। पाश्ाली रीतिमाह-इषदसमासमिति। किश्चित्सम- स्त चेत्यर्थः । ईषद्नुपासयुक्तंच वचो यत्र सा पाश्चाली रीतिरिति. भावः। पा च्वालान् विहायाओे प्रस्थानं वर्णयन्राह-ततः सोऽवन्तीनिति। सः=

Page 33

तृतीयोऽध्यायः ।

मालवार्बुद भृगुकच्छादयो जनपदाः।तत्राऽभियुञ्जना तमौमेयीति समा- नं पूर्वेण। सा प्रवृत्तिरावन्ती। पाश्चालमध्यमादाक्षिणात्ययोरन्तरचा- रिणी हि सा। अत एव सान्वतीकैशिक्यौ तत्र हत्ती। तां ते सुनयोऽ भितुष्टुवु :- पाञ्चाळनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः। ७ यज्जन्पितं यच्चरितादिकं तदन्योन्यसभिन्नमवन्तिदेशे। ततश्च स दक्षियां दिशमाससाद यत्र मळयमेकलकुन्तलकेरलकाल- त्रमहाराष्ट्रवङ्गकलिङ्गादयो जनपदाः। तत्राऽभियुज्जाना तमौमेयीति नमानं पूर्वेख। सो दाक्षिणात्या पवृत्तिः। ता ते सुनयोऽभितृष्टुवु :-

कक्षानिवेशनिविडीकृतनीविरेष वेषशचिरं जयति केरलकामिनीनाम्।।

काव्यपुरुषः । अवन्तीन नाम देशानुचचाल। यत्र=अवन्तिदेशे। अव- न्त्यादयो भूगुकच्छान्ता यत्र जनपदाः सन्ति सोवन्तिदेश.इत्यर्थः । तन्र काव्यपुरुषमनुसरन्ती साहित्यविद्यावधूर्याद्ृशं नेपथ्यादिक विदधे सा आवन्ती प्रवृत्तिरित्यर्थः । तस्याः स्वरूपमाह-पाश्चालमध्यमेति । पाश्चालम- ध्युमाया दाक्षिणात्याया वृत्तेश्र मध्यगता सेत्यर्थः । अत एव=ताद्दशबृ- चिद्धयमध्यगतत्वादेव हेतोः । सात्की कैशिकी च वृत्तिस्तत्र भवति । तत्रा- वन्त्या प्रवृत्तौ कस्मिन्रशे पाश्चालमध्यमा, कस्मिन्नशे च दाक्षिणात्येति र्प- ष्टीकुर्वन्राह-पाश्चालनेपथ्यविधिरिति। अवन्तिदेशे नराणं=पुरु- षाणा पाश्बालः पाश्वालदेशानुसारी नेपथ्यविधिर्वेषव्यापारोऽस्ति, स्त्रीणा नेपथ्यविधिस्तु दाक्षिणात्यो दाक्षिणात्यानुसारी नन्दतु शोभताम्। यज्ज- रिपतं=भाषणादिकमित्यर्थः । यच्चरितादिकं=आचारादिक चेत्यर्थः । तत्सर्व अन्योन्यसम्भिन्नं=मिथो मिश्चितमेव। अर्थात् भाषिते चरिते च पाश्चालदा- क्षिणात्यरत्योमिश्रणमस्वनियिर्थः । दक्षिणा दिश वर्णयति-ततश्रेति। सः=काव्यपुरुषः । दाक्षिणात्यसुन्दरीवेष वर्णयति-आमूलत इति।' अूप्रभागात पृष्ठभागादुभयतन् दढाकर्षणपूर्वकं बन्घनेन वलिताना परावर्तति- वाला वलिपासाना वा कुन्तलानां केशाना चार्वी चूडा यस्मिन् सः । चूर्णा-

Page 34

२८ चान्द्रिकासहित काव्यमीमांसायां-

तामनुरक्तमना: स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण। सापि यद्वधिचित्रनृत्तगीतवाद्यचिलासादिक माविर्भावयामास सा कैशिकीवत्तिस्तां ते सुनय इति समानं पूर्वेण। यदत्यर्थ च स तया वशम्बदीकृतः स्थानातुमासवदसमासं योगवृत्तिगर्भ च जगाद सा वैदर्भी रीतिः। तां ते सुनय इति समानं पूर्वेण। तत्र वेषविन्यासक्रमः पट्टत्तिः, विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः। "चतु- प्टयी गतिव्वेत्तीनां पत्तीनां च, देशानां पुनरानन्त्यं तत्कथमिव का- त्हर्न्येन परिग्रहः" इत्याचार्याः। अनन्तानपि हि देशांश्रतुर्षैवाकल्प्य

लकाना चूर्णकुन्तलाना प्रचयेन गुच्छेन लाज्छितोक्कितो भालभाग: लूला टस्थलं यत्र सः। कक्षानिवेशेन=अञ्चलस्य कक्षाप्रान्तसंयमनेन निविडीकृत. निबिडं बद्धो नीविर्वस्त्रग्रन्थिर्यत्र सः। इत्थभूतः केरलदेशवासिकामिनीनां -वेषः चिरं जयति सर्वापेक्षयाऽघिकं शोभते। इत्थं दाक्षिणात्यवेषा साहित्यविद्यावधू दृष्टा काव्यपुरुषः पूर्वापेक्षयाS 'धिकमावर्जितस्वान्तः सन् तस्यामनुरक्तो बभूवेति वर्णयन्नाह-तामनुर- क्तमना इति। साहित्यविद्यावध्वा तत्र यद्विचित्रगीतनृत्यवाद्यादिकं चक्रे सैव कैशिकी वृत्तिरिति प्रथिता बभूवेत्याह-सा कैशिकीवृत्तिस्तामि- त्यादि। वैदर्भीरीति निरुपयन्नाह-यदत्यर्थमित्यादि। तया=सा- हित्यविद्यावध्वा अत्यन्तं वशीकत: सन् काव्यपुरुषः स्वय योग्स्थानकृता- नुप्रासं समासरहित योगार्थसहितं शक्तिलक्षणादिवृत्तियुक्तं च यज्जगाद सैव वैदर्भीरीतिरिति प्रथिता वभूवेत्यर्थः। वृत्तिप्रवृत्तिरीतीनां मिथो भेदमाह- तन्रेति। तत्र=वृत्तिप्रवृत्तिरीतिषु । वेषविन्यासस्य नेपथ्यसाघनस्य यः कमः स प्रवृत्तिरित्युच्यते। विलासानाम्=आङ्विकभावाभिनयानां विन्यासस्य यः क्रमः स वृत्तिरित्युच्यते। वचनानां=वाग््यापाराणा चिन्यासस्य यः क्रमः स रीतिरित्युच्यते। आचार्याणामाशङ्कामाह-चतुष्टयीति । वृत्तय प्रवृत्तयश्ष चतस्र एव पूर्वोक्तस्वरूपाः । देशा: पुनरनन्ताः, तत्सर्वेषु देशेषु चतुःसङ्गयाकानामेव वृत्तिप्रवृत्तीना कथं समन्वय इत्याशङ्का। समाघत्ते- अनन्तानपीति । चतुर्षु विभागेपु अनन्तानपि देशान् विभज्य वृत्तिप्र-

Page 35

द्विती योऽध्याय: । २९

कल्पयति "चक्रव्तिक्षेत्रं सामान्येन, तदवान्तरविशेषा: पुनरनन्ता एव" इति यायावरीयः । दक्षिणात्समुद्रादुदीचीं दिशं मति योजनसहसर चक्रवर्तिक्षेत्रं, तत्रैष नेपथ्यावीधः। ततः परं दिव्यादया अपि यं देशम- िवसेयुस्तददेश्यं वेषमाश्रयन्तो निबन्धनीयाः । स्वधूमौ तु कामचार:। द्वीपान्तरभवानां तदनुसारेख वृत्तिमृत्ती। रीतयस्तु तिस्रस्तास्तु पुर- स्तात्। तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेपु वत्सगुल्मं नाम नगरम्। तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय। तत- स्तद्वधूवरं विनिवृत्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम, यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः। तौ च कृतवन्दनौ दम्पती दत्त्वाशिषं पभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः। तयोश्र कविलोकस्वर्गसर्ग तमकल्पतां, यत्र काव्यमयेन शर्रीरेण मर्त्य- मधिवसन्तो दिव्येन देहेन कवय आकन्पं मोदन्ते। इत्येष काव्यपुरुष: पुरा सर्ष्टः स्व्रयमभुवा । एवं विभज्य जानानः प्रेत्य चेह च नन्दति॥ ॥ इति राजशेखरकृतौ काव्यमीमांसाया कविरहस्ये प्रथमेऽघिकरणे तृतीयोऽध्यायः कान्यपुरुषोत्पत्तिः ।।

वृत्तिचतुष्ट्य तत्र योजनीयमित्युत्तरम् । इदमेव कथयन्नाह-अनन्तान· पीति। यायावरीयमतमाह-चक्रवर्त्तिक्षेत्रमिति। सामान्येन=स! धारणभावेन सर्वदेशसमष्ट्यात्मकमिद चक्रवर्ततिक्षेत्रमस्ति। अवान्तरविशेषाण पृथक्करपन अनन्ता: प्रभेदा भवेयुरित्यर्थः । चक्रवर्तिक्षेत्र लक्षयति-द- क्षिणादिति। स्पष्टम्। प्रभावमयेन वपुषेति। कालपनिकशरीरे- पेत्यर्थः । अध्यायमुपसदृरति-इत्येष इति। पूर्वोक्तकथानायकः कान्य पुरुष: स्वयंभुवा ब्रह्मणा सृष्टो निर्मितः । इदमित्थ कथासन्दर्भ जानन् पुरुषः इह लोकान्तरे च सुख प्राप्नोति॥ इति श्रीमत् खिस्तेकुलालककरण मैरवनायकतनूजनि खिस्ते-इत्युपाख्य नारा- यणशास्त्रिप्रणीताया काव्यमीमासाचन्द्रिकाया तृत्ीयोऽध्यायः ॥ ३॥।

Page 36

३० चन्द्रिकासहित काव्यमीमांसायां-

चतुर्थोऽध्यायः पद्वाक्यविवेक:। द्विविरधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिय्। यस्य निस- रगतः शास्त्रमनुधावति बुद्धिः सबुद्धिमान्। यस्य च शास्त्राभ्यास: संस्कुरुते बुद्धिमसावाहार्यवुद्धिः। त्रिया च सा, स्पृतिर्मतिः प्रज्ञेति। अतिक्रान्तस्यार्थस्य स्मर्त्री स्मृतिः। वर्त्तमानस्य मन्त्री मतिः। अना- गतस्य प्रज्ञानी पज्ञेति। सा त्रिप्रकाराऽपि कचीनामुपकरत्ी। तयोर्घुद्धि-

अन्नाध्याये शिष्यभेदं प्रदर्श्य तत्प्रयोजकबुद्धिभदप्रदर्शनम्, कवित्वभा- 4 वकत्वविचार:, तत्प्रभेदप्रपञ्चनम्, प्रतिभायाः कारायत्री भावयित्रीति भेदद्व- न्यप्रदर्शन च करिष्यते। अथ शिष्यमेदं प्रदर्शयति-द्विविधममिति। १ बुद्धिमान्, २ आहार्यबुद्धि: इति भेददयेन शिष्यो द्विविघोडस्ति। प्रथ- मस्तु नैसर्गिकबुद्धिमानिति विवृण्वन्नाह-यस्येति। यस्य बुद्धिमतः शि ध्यस्य बुद्धिः निसर्गतः=स्वभावतः प्रयत्नं विना शास्तरमनुधावति शास्त्राथाव गाहिनी तत्प्रणयिनी च भवति स बुद्धिमानित्यर्थः। अपरस्तु यतोत्पाद्यवुद्धि- रिति विवृण्वन्ाह-यस्थचेति। शास्त्राभ्यास :- पौनःपुन्येनानेकेषा श्ञा. स्त्राणा सम्यक् परिशीलनम्। संस्कारमहिमा यस्य घारणात्मिकां विवेचूना- त्मिकां वा बुद्धिसुत्पादयति स आहार्यबुद्धिरित्यर्थः। कौटिलीयेऽर्थ शास्त्रे तु "बुद्धिमानाहार्यबुद्धिदुंबुद्धिरिति पुत्रविशेषाः । शिष्यमाणो ध- मार्थावुपलभते चानुतिष्ठति च बुद्धिमान्, उपलभमानो नानुतिष्ठत्याहार्यु द्विः। अपायनित्यो धर्मार्थद्वेषी चेति र्दुर्बुद्धिः"। इति त्रयो मेदा उक्ता लक्षिताश्च। बुद्धिं विभजते-त्रिधा च सेति। सा=वुद्धि: त्रिधा= त्रिप्रकारा। १ स्मृति: २ मतिः, ३ प्रज्ञा इति त्रयः प्रकारास्तस्या इत्यर्थेः । स्मृतिमाह-अतिक्रान्तस्येति। अतिक्रान्तस्यारतीतस्य अर्थस्य=विष- यस्य स्मत्री=संस्कारदाव्य महिम्ना स्मरणात्मकज्ञानरूपिणी। मतिमाह- वर्त्तमानस्येति। वर्तमानस्य=प्रस्तुतस्य अर्थस्य मन्त्री=मननात्मकज्ञान- रूपिणी। प्रज्ञामाह-अनागतस्येति। अनागतस्य=भविष्यतोडर्थ- स्य प्रज्ञान्री कल्पनात्मकज्ञान रूपिणी चित्यर्थः । त्रिविधाप्येषा काव्यकर्मणि कषीनामपैक्षितैवेत्याह-सा त्रिप्रकाराऽपीति। पुर्वोक्तगुणयो: शिष्य

Page 37

चतुर्थोऽध्यायः । १

मान् शुश्रूपते शृणोति गृह्लीते धारयति विजानात्यूहतेपोहति तत्वं चाभिनिविशते। आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्शास्तारमपे- क्षन्ते। अहरहः सुगुरूपासना तयो: प्रकृष्टो गुणः सा हि बुद्धिविकाश- कामघेनुः। तदादु :-: पथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे

योर्गुणतारतम्य पुनरप्याह-तयोरिति । बुद्धिमदाहार्यबुद्या: शिष्ययो र्मृध्ये इत्यर्थः । तत्र बुद्धिमान् शिष्यस्तु शुभूषते-गुरोः सकाशात्स्वाभावि- कपरणयैव शास्त्राणि श्रोतुमिच्छति। गृणोति-गुरूकं सावधानमनाः -सन् आकर्णयुति। ग्ृहीते-गुरूपदेश श्रुत्बा तं यथावदवगच्छति। धारय- ति=शुतस्य ज्ञातस्य चार्थस्य संस्कारात्मना चिंत् सर्वदा धारणं करोति। विजानाति=श्रुतस्य ज्ञातस्य धारितस्य चार्थस्य पुनः पुनः पर्या- लोचनाद्विशेषज्ञानवान् भवति । ऊहते=विशेषज्ञानमहिम्नैव तत्र विवि- धान् विकल्पान् वितर्कयाते। अपोहति=ताश्च बिकल्पानु कचिदतुपयु कानू तदंशान् वा परित्यजति। तत्वं चाऽभिनिविशते=इत्थ कश्चिदर्य श्रुत्वा, ज्ञात्वा, घारायेत्वा, पुनः पुनः पर्यालोच्य, बहुविषं वितर्क्य, दुष्टा झच परित्यज्य वस्तुयाथार्थ्यमवगम्य तात्रऽमिनिविष्टो भूवतीत्यर्थः। बुद्धिमतः शिष्यस्यैते गुणा: स्वाभाविकाः सन्ति। अथाहार्यबुद्धिगुणमाह-आहार्य., बुद्धेरिति। पूर्वोंक्ता एव गुणा आहार्यचुद्धेरपि भवन्ति, किन्तु ते न स्वा- भाविका., अपि तु-प्रशास्तारमपेक्षनते=परशास्तुर्गुरोर्बलसापेक्षा इश्य- र्थः । द्विविधयोरपि शिष्ययो: सुगुरूपासना कर्तव्यैवत्याह-अहरह इति। अहंरह := प्रतिदिनम् । प्रकृष्टो गुण :- गुणप्रकर्षापादिकेति भावः । सद्गुरूपासनाया गुणप्रकर्षजनकत्वेऽपि गुणप्रकर्षात्मकत्वकथन कार्यकारणयो- रभेदेनोपचरितम्। सद्गुरूपासनाया गुणप्रकर्षजननेऽव्यिचारिताऽस्ति, इति भावः। सुगुरूपासनामाहात्म्यमाह-सा हीति। सा=सुगुरूपासना।

गय कामघेनु .- कामगवीस्वरूपा । सद्गुरूयासनया यथेच्छ बुद्धिविकासो भवतीत्यर्यः। तदेवाह-प्रथयतीति । विद्यावृद्धै=वयसा नवीनैरपि ज्ञान

Page 38

३२ चद्रिकासहित काव्यमीमांसायां-

तदनु जनयत्यूहापोहक्रियाविशदं मनः। अभिनिविशते तस्मात्तत्वं तदेकमुखोदयं 9 सह परचयो विद्यावृद्वैः क्रमादमृतायते।। ताभ्यामन्यथाबुद्धिर्दुबुद्धिः । तत्र बुद्धिमतः प्रतिपत्तिः । स खलु सकृदभिधानप्रतिपननार्थः कविमार्ग मृगयितुं गुरुकुलमुपासीत। आ- हार्यबुद्धेस्तु द्वयमपतिपत्ति: सन्देहश्। स खल्वमतिपन्नमर्थ प्रतिपतुं

वृद्धैरत्यर्थः । तैः सह परिचय := सहवासपूर्वको वा व्यवहार हत्यर्थः । पुरः=पूर्वम्। प्रज्ञारूपं बुद्यात्मकं ज्योति :- तेजः । प्रथयति-परकाशयतीत्यर्थः। सदनु=ततः परम्। यथार्थपरित्रहे=वस्तुतत्त्वज्ञानाय। मनः=चित्तम्। ऊह- ्रापाहश् तयो:क्रियायां व्यापारे विशदम्। विकल्पकुशंलं त्याज्यांशपरिहार- कुशलं चेत्यर्थः। जनयति=सम्पादयति तस्मात=तदनन्तरमित्यर्थः।तदेक- मुखोदयम्=सएव एकमुख :- प्रमुखः उदयउत्पत्तिर्यस्य तत्। तदेकप्रघानमि त्यर्थः। तत्त्वम् वस्तुयाथार्थ्यम्। अभिनिविशते=भवगाह्ते प्राप्नोतीत्यर्थः । एवं क्रमेण विद्यावृद्धैः सह परिचयः क्रमात् अमृतायते=अमृतवदुपकारको भव- तीत्यर्थः । तृतीय शिष्यभेदमाह-ताभ्यामिति। ताभ्या=बुद्धिमदाहार्य- बुद्धिभ्याम्। अन्यथावृत्ति :- विपरीतव्यापारः । वैपरत्यिं च निसर्गतः प्रयत्ने- नाऽपि शास्त्रपराङ्गुखत्वम्। एताहशः शिष्यो दुर्बुद्धिरित्याख्यात स्तृतीय: प्रक्का- रः। अथ शिष्यभेदानुक्त्वा तेषां प्रत्येकं कर्तव्यमाह-तत्रेति । तेषु वि- विधेषु शिष्येष्वित्यर्थः । बुद्धिमतः=पथमप्रकारस्य प्रतिपन्तिर्विनियोग: कर्त- व्यमिति यावत्। तदेवाह-स खल्विति। सःबुंद्धिमान् शिप्यः । स कृत्=एकवारमेव, अभिधानन-उपदेशेन प्रतिपन्नः ज्ञातःअर्थो=वस्तुतत्वं येन सः। कविमार्ग=कवीनां मार्ग पन्थानं सम्प्रदायक्रममित्यर्थः । मृगयतुं= अन्वेष्टुं प्राप्तुमित्वर्थः। गुरुकुलम्-गुरूणां साहित्य वघ्ाधूर्घराणा महाकवी- - नामू कुल-सुद्ं सम्प्रदायविशेषं वा उपासीत=शुश्रूषासेवादिना निरन्तरसुपग- चछेत्। द्वितीयप्रकारस्य शिष्यस्य स्वरूपं कर्तव्यं चाह -- आहार्यवुद्धे- स्त्विति। आहार्यबुद्धे: शिष्यस्य अप्रतिपत्तिः=भज्ञानं, सन्देहोऽनिश्चयश्चेति- द्वयं भवति। सः=आहार्यबुद्धिः, अप्रतिपन्नं-अज्ञातमर्थ विषयं प्रतिपततुं-ज्ञांतु

Page 39

चतुर्थोऽध्यायः। ३३-

सन्देहं च निराकर्तमाचार्यानुपतिष्ठते। दुर्युद्धेस्तु सर्वत्र मतिविपर्यास -एव। स 'हि नीलीमेचकितसिचय कल्पोऽनाधेयगुरन्तरत्वातं यदि सारस्वतोऽनुभावः पसादयति तमौपनिषदिके वक्ष्पामः। "काव्यकर्मणि कवे: समाधि: परं व्यापियते" इति श्यामदेवः। मनस एकाग्रता समाधि:। समाहितं चित्तमर्थान्पश्यति। उक्तश्र-

सन्देह मनिश्चयात्मक च निराकर्तु-गुरुवचनावश्वासबलाद् दूराकर्तु आचार्या- न्=शास्त्राध्यापकान पाठशालीयान् पण्डितान्, न तु महाकवीन्, तत्र गमने आहार्यवुद्धेरनषिकृत वात्। उपतिष्ठेत=नित्य नियमपालनपुरःसरं यथासमयं पाठशालागमनादिना सेवेत। तृतीयस्य स्वरूप कर्तव्यंचाह-दुर्वुद्वेस्तव- ति। तृतीयप्रकारस्य दुर्बुद्धेः शिष्यस्य सर्वत्र=सर्वेषु लौकिकेषु शास्त्रीयषु वा विषयेषु, मतिविपर्यास एव=मतेबुद्धेर्विपर्यासो विपरीतमागगमनमेव सवति। डुरबुद्धि. स्ववुद्धेर्दौरात्म्यमहिस्ा सन्तमप्यर्थमसन्तमवगच्छतीत्यर्थः । प्रय- त्नः किमिति न क्रियत इत्याह-रहीति। सः=दुर्बुद्धिः शिष्यो हि प्रय- त्नेनापि गुणाघानपात्र न भवति। यतः स नालीमेचकितसिचयकरप := नाल्या= अभङ्ुरेण नीलीवर्णेन, मेचकित नीलीकृत यत् सिचय वसतं तत्कल्पस्त- रसदशः। अतएवाह-अनाधेयगुणान्तरत्वादति। अन्यो गुणो गुणान्तरम्, अनाघियं आधातुमशक्यं गुणान्तरं यस्मिन्, तस्य भावस्तत्वात्। नीलीमेचकित सिचये यथा ऽन्ये रक्तपातादयो गुणा आघातु न शक्यन्ते एवमेव डुर्बुद्धो शिष्ये उपाध्यायप्रयत्नेनापि शास्त्रप्रवणतादयो गुणा आघातुं न श- क्यन्ते। तस्याप्युपायमाह-तं यदीति। तं-दुर्वुद्धिं सारस्वतोऽनुभाव .= सरस्वती मन्त्राराधनादिजन्यमदष्टम्, सारस्वतमन्त्रसिद्धमहापुरुषकृताशरःस्पर्श प्रभावो वा यदि प्रसादयति=प्रसादपात्रीकरोति तम्प्रकारं औपनिषदकेऽविकर- णे वक्ष्यामः । अथ काव्यनिर्माण सुख्य साघन विचारयन् प्रथमतः इयाम- देव मतमाह-काव्यकर्मणीति। काव्यकर्मणि=काव्यनिर्माणे, कवेः= काव्यनिर्मातु:, समाधि पर=मुख्यतया, व्याप्रियते=साघनीमवति। समा धिपदार्थमाह-मनसइति। मनसश्वित्तस्य एकाअ्रता=विचारणीयैक- विषयालम्वनत्वमेव समाधिरित्यर्थः । एवं कृते कि भवतत्याह-समाहित-

Page 40

:. चैन्द्रिकासहित काव्यमीमांसायां- सारस्वतं किमाप तत्सुमहारहस्यं यद्रोचरे च विदुर्षा निपुणैकसेव्यम् तत्सिद्धये परमयं परमोऽभ्युपायो यच्चेतसो विदितवेद्यविधे: समाधि:॥ "अभ्यासः" इति मङ्गलः । अविच्छेदेन शीलनमभ्यासः। स हि सर्वगामी सर्वत्र निरतिशयं कौशळमाघत्ते। समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः । तावुभावपि शक्तिमुद्भासयतः । "सा केवलं काव्ये

मिति। समाहितं-एकाअ्ताभ्यासमहिम्ना विषयान्तःप्रवेशपूर्वकं तदी- ययाथार्थ्यानुसन्धानचतुरं, चित्तमर्थान्-ज्ञातव्यविषयान् पश्यति=याथा- थर्येनावगच्छति। तथाचोक्तमभियुक्ः-"चित्तकाश्यमवधानम्, भवहितं हि- चित्तमर्थान् पश्यति" इति। समाघे: काव्यकर्मण सुख्यसाधनत्वममियुक्तो- वत्या समर्थयति-उक्त चेति। सारस्वतमिति। तत्=अनिर्वचनीय- म्, सारस्वतं=सरस्वतीसम्बन्धि, किमपि=लक्षायतुमशक्यं, सुमहारस्यं= परैरविदिततमं गोपनीयं तत्त्वमस्ति। यत तत्त्व विदुषां=पण्डिताना विषये निपुणैकसव्य=निपुणतया अवश्यं सव्यम-स्व। अर्थात् पण्डितैस्तदवश्यमेव निपुणं सेव्यम्। तत्सिद्धये=ताहशमहारहस्यप्राप्तये, अयं परम := श्रेष्ठः अ- भ्युपाय := उपायोऽस्ति. यत् विदितवेद्यविधे := विदितो-ज्ञातः वेद्याना= पदार्थानां विधिः प्रकारो येन तादृशस्य चेतसः समाधि :- एकाग्रतैव चित्तै- काम््यमेव काव्यस्फूर्तर्मुख्य साधनमित्यर्यः । मङ्गलस्य मतमाह-अभ्यास इति। अभ्यासमाह-अविच्छेदेनेति। अविच्छेंदेन=सातत्येन नैरन्त येणेत्यर्थः । शीलन-अन्थानुशीलनम्। अभ्यासस्य माहात्म्यमाह-स हीति। सः=अभ्यासो हि सर्बगामी=सर्वेषु विषयेषु सम्भवतीत्यर्थः । सर्वत्र सर्वेषु अभ्यस्तेषु विषयेषु। निरतिशय=अभ्यासातिशयमहिस्ा प्रकृष्टतमम्। कौशलं= चातुर्यम्। आघत्त=उत्पादयतीत्यर्थः। समाध्यभ्यासयोर्भेदमाह-समा- धिरिति। अन्तरिन्द्रियस्य मूनस एकामुतापादनात्मकत्वात्समाधिरान्तरः, प्रयत्न:। ग्रन्थस्यावर्तनपरिशीलनादौ मुखनेत्रादिवाह्यप्रयत्नसापेक्षत्वाद- भ्यासो बाहयः प्रयत्न इत्यर्थः । उभयोरपि सार्थक्यमाह-तावुभावपी ति। तावुभौ=समाध्यभ्यासौ। शक्तिं=कोव्यस्फूर्तिजनिकाम्। उद्धासयत := जनयत इत्यर्थः । समाधिना=अभ्यासेन च काव्यशक्तिरुत्पद्यते हत्यर्थः। स्वम-

Page 41

चतुर्थोऽध्यायः। हेतुः" इति यायावरीयः। विमसतिश्र सा प्रतिभाव्युत्पत्तिभ्याम्। झ क्तिकर्तृके हि प्रतिभाव्युत्पत्तिकर्मणी। शक्तस्य प्रतिभाति शक्तश्र व्यु- त्पद्यते। या शब्दग्राममर्थसार्थमलङ्वारतन्त्रमुक्तिमार्गमन्यदपि तथाविधम- धिहृदयं प्रतिभासयति सा प्रतिभा। अमतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव। यतो मेधाविरुद्रकुमार-

तेन शक्ते: कार्यमाह-सा केवलमिति। सा=काव्योद्भासिनी शक्तिः । केवलम्=इतरानपेक्षतया, प्राघान्येनेत्यर्थः। काव्ये=काव्यनिर्माण। हेतु := कारणम्। प्रतिभाव्युत्पत्तिभ्या तस्या मेदमाह-विप्रसततिश्चेति। सा= श्ति, प्रतिभाव्युत्पत्तिभ्या विप्रसृति :- दूरवर्तिनीत्यर्थः। तन्र हेतुमाह- शक्तिकर्तृके इति। प्रतिभा च व्युत्पत्तिश् तयो: कर्मणी कार्ये शक्तिकर्तृ के=शक्तिजन्ये इत्यर्थः । यदि शक्तिरन स्याचर्हि प्रतिभाव्युत्पत्त्योः कार्ये अपि न संभवतः । प्रतिभाव्युत्पत्तिकर्मणोः शक्तये कोधिष्ठानत्वािति भावः। तदेवाह- शक्तस्येति। शक्तस्य=काव्यकारणी भूतशक्तियुक्तस्य पुरुषस्य, प्रतिभाति= प्रतिभात्मकबुच्या नवनवार्थप्रतिमानं भवति। एवं शक्त पुरुष एव व्युत्पद्यते= व्युह्पत्तिमान् भवति । प्रतिभा न्युत्पत्येर्भेदस्त्वनुपदमेव दर्शष्यते। प्रतिभामाह- येति। या=प्रतिभात्मिका विशिष्वुद्धि: शब्दगरामं=काव्यानुकूलशव्दसमुदा- यम्, अर्थसार्थ=सहृदयहदयङ्गम शब्दार्थराशि च, अलक्कारतन्त्र=शब्दार्थोम- यालक्कारप्रपश्चम्, उक्तिमार्ग=कविसमयानुकूलमु्त्तिचमत्कारम्, अन्यदपि तथाविधमघिहृदय=हृदयाम्यन्तरे, प्रतिभासयति=झटिति समुल्लासयति=सा प्रतिभा नामेत्यर्थः । प्रतिभाया फल मन्वय व्यतिरेकाभ्यामाह-अप्रतिभ· स्थेति। प्रतिभार्यवुद्धिविशेषरहितस्य पुरुषस्थ पदार्थसार्थ .- श्दार्थौ घ. परोक्ष इवइन्द्रियागोचर इव ज्ञानविषयो न भवति। अपश्यतोऽपि= इन्द्रियार्थसन्निकर्षविधया बहिरिन्द्रियव्यापारमकुर्वतोऽपि प्रतिभावतः पुरुष- स्य सर्वोपि=पदार्थसार्थः प्रत्यक्ष इवइन्द्रियगोचर इव झटिति ज्ञान- विषयो भवति । इत्थ चान्वयव्यतिरकाभ्या पदार्थसार्थज्ञाने प्रतिभैव कारण- मिति सिद्धम्। अन्वयोदाहरणमाह-यत इति। यत := प्रतिभायाः पदार्थ- सार्थकारणत्वादेव मेघाविरुद्रः, कुमारदास:, आदिपदान्मूकमहाकविप्रभृत-

Page 42

३६ चान्द्रकासहित काव्यमीमांसायां-

दासादयो जात्यन्घाः कवयः श्रूयन्ते। किञ्चन महाकवयोऽपि देशद्वी- पान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निवघ्नन्ति स्म। तत्र देशान्तरव्ययहार :- माणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काश्चनपद्मरेणुकपिशे पुएयाभिषेकक्रिया। ३ ध्यानं रन्नशिलागृद्देषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्गन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी॥

यश्च जात्यन्घा := जन्मान्घा: श्रयन्ते। इत्थमपि तैः सकलानां जागतपदार्थाना वर्णन कृतमस्ति। तन्र प्रतिभैव हेतुः। मेधाविरुद्र, इति कुवेर्नाम। नामिसाधु- कृतांया रुद्रटालक्कारटीकाया "ननु दण्डिमेघाविरुद्रभामहादिकृतानि सन्त्ये-

श्रूयते च जन्मान्घानामपि महाकवीना भारतमार्तण्डग ट्टूलालमहोदयाना शीघ्र- कवित्वमद्ुतं वर्णनकौशलच। अन्यदप्याह-किश्चनेति । महाकवयः स्वदेशसस्थिता अपि प्रतिभामहिम्ना देशान्तरद्वीपान्तरस्थ कथापुरुषान् प्रत्यक्ष पश्यन्त इव तेषा व्यवहारं वर्णयनति। तत्राऽपि प्रतिभैव हेतु। तत्र देशान्तर व्यवहारनिबन्धनमुदाहरति-प्राणानामिति। अभिज्ञानशाकुन्तले सप्माक्के पद्यमिदम्-स्वर्गलोके निवसता मुनीनामाश्रमवर्णनमिदम्। अनिलेन वायु- ना प्राणाना वृत्तिधारणम्। वायुभक्षणमात्रेण प्राणघारणमत्र क्रियतइत्यर्थः। कुत्रेत्याह-सत्कल्पवृक्षे वने इति। यत्र वने काङ्डितार्थप्रदावारः करपवृक्षा: प्राचुर्येंण सन्ति तत्र वने भुनयो वायुभक्षणमात्रेण प्राणधारण कुर्वन्ती- त्यर्थः । काश्चनपझ्माना सुवर्णकमलाना रेणुभि। पासुभि: कपिशे पीताभे तोये दीर्घिकाजले पुण्याभिषेकस्य त्रैकालिकनियमस्ानस्य क्रिया व्यापारो भवति। रत्नशिलाभिर्गारत्मतादिरतैर्निर्मितेषु भवनेषु ध्यानं समाधिकार्य क्रियते। विवुधस्त्रीणा, देवाङ्कनाना सन्निधौ सामीप्ये सत्यपि सयम: इन्द्रियाणामविच लितत्व भवति। अन्ये सुनयस्तु यस्या द्वारा यानि फलानि काद्वन्ति तेषु स्वय सुपस्थितेष्वपि एते स्वरगाया सुनयस्तपस्यन्ति निःस्पृहा भवन्तीत्यर्थः । एवं स्वर्गलोकव्यवहारो मर्त्यलोकनिवासिनाऽपि कालिदासेन स्वुपनियावलातपनि

Page 43

चतुर्थोऽध्यायः। ३७.

द्वी पान्तरव्यवहार :- अनेन सार्द्ध विहराम्वुराशस्तरिंषु ताडीवनमर्मरेषु। द्ी पान्तरानीतलवङ्गपुष्पैर पाकृतस्वेद्ळवा मरुद्दिः।। कथापुरुषव्यवहार :- हरोऽपि तावत्परिवृत्घैर्यश्चन्द्रोदयारम्भ इवाम्वुराशि। उमामुखे बिम्बफलाधरौष्ठे व्यापारयामास विलोचनानि। आदिग्रहणात्- तथागतायां परिहासपुर्व सख्यां सखी वेत्रभृदाबभाषे। बाले व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श॥ बद्धः । द्वीपान्तरव्यवहारनिबन्धनमुदाहरति-अनेनेति। रघुवशे इन्दुमती- स्वयंवरे पद्यमिदम्। अनेन पुरःस्थितेन राज्ञा सह तालीवनैर्ममरेषु मर्मरशब्द- वह्सु अम्बुराशेः समुद्रस्य तीरेधु द्वीपान्तरात् अन्यस्मातसमीपुवर्तिनो दीपात् आनीवानि समाहृतानि लवङ्गपुष्पाणि यस्तैः। अत्र लवङ्गपुष्पानयन तदीय- सौरमानयनोपलक्षकम् । एवमूतैर्मरुद्विर्वायुभिः अपाकृतो निवारितः स्वेद- लवो धर्मकणिका यस्यास्तादशीं सती विहरेति सुनन्दाया इन्दुमतीं प्रत्युक्तिः । अत्र द्वीपान्तरमवाना लवङ्गपुष्पाणा संयोगन पवनस्य सौरभवर्णन कविना प्र० तिभाबलादेवोपनिबद्धम्। कथापुरुष्यवहारमुदाहरति-हरोऽपीति । कुमारसम्भवे वसन्तोदये पार्वतीसन्निधाने हरस्य चित्तविकारवर्णनपरं पद्य मिदम्। चन्द्रोदयारम्भे अम्बुराशि: समुद्रइव पार्वतीसन्निघानवशात् परिवृत्त- धैर्यः किश्चिच्छिथिलीमूतवैर्यः हरोपि विम्बफलोपमाधरौष्ठशालिनि उमा- या मुखे चुम्बनेच्छया त्रीण्यपि नेत्राणि व्यापारयामास। अत्र प्रसिद्धस्य कथा- पुरुषस्य शिवस्य रहसि हिमवच्छृद्गे पार्वत्या सह व्यवहार: कविना स्वप्रतिभाव- लादेवोपनिवद्धः। आदिगहणात्पराक्षस्य यत्किश्चिद्यवहारस्यापि प्रत्यक्ष- वन्निबन्घनम्। यथा-तथागतायामिति। इदमपि रघुवशे इन्दुमतीस्व- यंवरे पद्यम्। पुरोवर्तिनि राज्ि सानुरागा ततोऽन्यत्र गन्तुमनिच्छुकामिन्दु- मरतीं दृष्टा परिहासपूर्व सुनन्दाथा उचतिः। सख्या इन्दुमत्या तथागताया पुरोवर्तिनि भूपे बद्धानुरागाया सत्या, वेत्रभृत् बेन्नधारिणी सखी सुनन्दा आब- भाषे-हे वाले ! अन्यतो ब्रजाम: अथ वधूरिन्दुमती एना सुनन्दा असूयया- ४ का० मी०

Page 44

३८ चन्द्रिकासहित काव्यमीमांसायां- सा च द्विधा कारयित्रा भावयित्री च। कवेरुपकुर्वाणा कारयि- त्री। साऽपि त्रिविधा सहजाऽडहार्यौपदेशिकी च। जन्मान्तरसंस्कारा- पेक्षिणी सहजा। जन्मसंस्कारघोनिराहार्या। मन्त्रतन्त्राघ्युपदेशमभवा औपदेशिकी। ऐहिकेन कियतापि संस्कारेण प्रथमां ता सहजेति व्यप- दिशन्ति। महता पुनराहार्या। औपदेशिक्याः पुनरैहिक एव उपदेश- काला, एैडिक एव संस्कारकालः । त इमे त्रयोऽपि कवयः सारस्वत,

कुटिलं यथास्यातथा ददर्श। अत्र सुनन्देन्दुमत्योर्मिथो व्यवहार: परोक्षो- डपि कविना स्वप्रतिभावलात्प्रत्यक्षवद्गुपनिबद्धः। एवं प्रतिभा निरूप्य विभ- जते-साचेति। सा=प्रतिभा। द्विघा द्विप्रकारा। प्रकारदयमाह- कारयित्री भावयित्री चेति। तन्राद्यामाह-कवेरिति। कवेः का- व्यकरतुः उपकुर्वाणा उपकारिका सा कारयित्री नाम प्रृतिमेत्यर्थ: । तामपि विभजते-साऽपीति। सहजा, आहार्या, औपदेशिकीति मेदैः सा त्रिविधे- त्यर्थः । तत्र सहजा लक्षयति-जन्मान्तरेति । पूर्वजन्मजातसंस्कार- सापेक्षा या सैवेह जन्मनि सहजा=स्वाभाविकीत्युच्यते। माहार्या लक्षयति- जन्मसंस्कारेति। जन्मन := इहजन्मसम्बन्धी यः संस्कारस्तदपेक्षिणी आ- हार्येत्युच्यते। औपदेशिकीं लक्षयति-मन्त्रतन्त्रादीति। मन्त्रतन्त्रा- देरुपदेशात प्रभव उत्पत्तिर्यस्याः सा औपदेशिकात्युच्यते। आदिपदात् सार- स्वतमन्त्रसिद्धमहापुरुषकृतशिरःस्पर्शस्याऽपि सङ्गहः। तेनाऽपि कवितो- पचे: श्रुतत्वात्। जन्मान्तरसंस्काराणामज्ञातत्वात पूर्वोक्तानां प्रतिभाविशेषाणां ज्ञान मेव दुःशकमिति शङ्कायामाह-ऐहिकेनेति। ऐहिकेनारप्रेतैव संस्का रेण समुद्दबुद्धा प्रतिभा सहजेति व्यपदिश्यत इत्यर्थः। महता सस्कारेणैहि -केन पुनराहार्यां समुत्पद्यत इत्यनयोर्भेंदः। मपदेशिक्यां विशेषमाह- औपदेशिक्या इति। औपदेशिक्यां संस्कारोपदेशाविहजन्मन्येव भवतः। तत्र जन्मान्तरीयं न किश्चिदपेक्षित भवतीति भावः। अथ पूर्वोक्तान् प्रतिभाप्रभेदान् तत्तत्कविषु सङ्गमयन्नाह-तइमे इति। सारस्वत आभ्या- सिक औपदोशिक इति ते त्रयः कवयः । वान्प्रत्येकं पूर्वोक्तप्रतिभाभेदैः सङ्न-

Page 45

चतुर्योऽध्यायः । ३९.

आभ्यासिक, औपदेशिकथ। जन्मान्वरसंस्कारपवृत्तसरस्वतीको बुदध्धि- मान्सारस्वतः। इहजन्माभ्यासोन्ासितभारतीक आहर्यबुद्धिराभ्या- सिकः। उपदेशितदशितवाग्त्रिभवो दुर्बुद्धिरौपदेशिकः । तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम्। "नदि प्कृतिमधुरा द्राक्षा फाणितसंस्कारमपेक्ष- ते" इत्याचार्याः। "न" इति यायावरीयः। एकार्थ हि क्रियाद्वयं हैगुयाय सम्पद्यते। "तेषां पूर्वः पूर्वः श्रेयान्" इति श्यामदेवः। यतः-

मयति-जन्मान्तरति। जन्मान्तरंजन्यसंस्कारेणैव प्रवृत्ता समुद्बुद्धा सरस्वती कविताशक्तिर्यस्यासौ। अतएव लोके बुद्धिमानिति कथितो यः स सारस्वतः कविरित्यर्थ.। आभ्यासिकमाह-इहेति। इदजन्मकृताभ्यासेन उद्धासिता प्रकटिता भारती कविताशक्तिर्यस्य तथाविष आहार्या उत्पाद्या बु द्विर्यस्य स चासौ आभ्यासिक. कविरित्यर्थः। औपदेशिकमाह-उपदे- शितेति। उपदेशितः= मन्त्रतन्त्रादयुपदेशेन जनितः, दर्शितः उदाहरणादि- द्वारा प्रदर्शित: वाग्विभवः कविताशक्त्यात्मकं वाक्सामर्थ्य यस्य सः । किश्च स्वभावतः स दुर्दुद्धिर्दुर्मेधा औपदेशिक: कविरितयर्थः । तस्मादिति। इतरौ=सारस्वता भ्यासिकौ यथाक्रमं बहल्पाभ्यासवन्तौ वाग्वैभवशालिनौ तस्मात्-तृतीयादौपदेशिकात् दुर्वुद्धेरपेक्षया इतरौ तन्त्रशेषं=मत्रतन्त्रादु- पदेशात्मक नानुतिष्ठताम्-नापेक्षेते। अत्रार्थे प्राचीनाचार्यसम्मतिमाह-न- हीति। खवुमावतो भधुराया द्राक्षाया माधुरयवर्द्धनाय फाणितस्य इक्षुरसविका- रात्मकस्य दोहदस्य सस्कारो नापेक्ष्यत। फाणितलक्षण तु यथाऽडहुरगद- कारा :- स् एवेक्षुविकारेषु ख्यातः फाणितसज्ञया। इक्षो रसस्तु यः पक्क: किश्चिद्वाो बहुद्रवः। इति। स्वमतमाह-नेति यायावरीय इति।तदेव समर्थयति-एकार्थ हीति। एकप्रेयोजनसम्पादक कक्रियादय फल द्विगुण- यतीत्यर्थः । तथाच सारस्वताभ्यासिकावपि यदि मन्त्रतन्त्रादयुपायमनुतिष्ठता तहि तयोर्यथायोग मृदुबहुतराभ्याससम्भवात्कविताशक्तिर्ध्ुवं प्रगुणा भवेदि- ति यायावरीयश्य अन्थकर्तू राजशेखरस्याशयः। अर्थैतेषाँ तारतम्यमितरस- ममत्या विचारयति-तेषामिति। तेषा पूर्वोक्तानां त्रिविधाना कवीना म- ध्ये औपदेशिकादाभ्यासिकस्तस्मात्सारस्वत इति पूर्वपूर्वः श्रेयान इति

Page 46

चान्द्रिकासहित काव्यमीमांसायां-

सारस्वतः स्वतन्त्र स्यान्भवेदाभ्यासिको मितः। औपदेशकविस्त्वत्र वल्गु फल्गु च जल्पति ।। "उत्कर्ष: श्रैयान्" इति यायावरीयः। स चानेकगुणसन्निपाते भवति। किश्च- बुद्धिमत्वं च काव्याङ्गविद्यास्वभ्पासकर्म च। कवेश्रोपनिषच्छक्तिस्त्रयमेकत्र दुर्लभम्।। काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः मन्त्रातुष्ठाननिष्ठस्य नेदिष्ठा कविराजता॥।

इयामदेवस्य मतम्। इत्थविघात्कर्षतारतम्ये हेतुमुपन्यस्यति-सारस्वत- इति। जन्मान्तरीयसंस्कारसहकृतैहिकसंस्कारपरिमार्जितबुद्धि :- सारस्वतः कविर्निर्माणे स्वतन्त्रो भवति। सर्वत्राप्रतिहतसञ्चारा तस्य बुद्धि: कुत्राऽपि कुण्ठिता न भवति-इत्यत उक्तं सारत्वतः स्वतन्त्रः स्यादिति। द्वितीय आभ्या- सिकस्त्वह जन्मकृताभ्यासोद्बुद्धवाग्वैभवतया परिमितमेव कवयितुं शक्नोति। इत्यत उक्त भवेदाभ्यासिको मित इति। मन्त्रतन्त्राद्युपदेशप्रभावससुद्बुद्धक- वित्वशक्तिरौपशिककविस्तु कदाचिद्वलगु सुन्दरञ्जल्पति, कदाचित्फल्गु निररर्थकं जल्पतीत्यनवस्थिता तस्य शक्तिरिति हेतोरेतेषु पूर्वपूर्व एव श्रयानिति श्याम- देवोक्ति: समर्थिता भवति। स्वमतमाह-उत्कर्षः श्रयानिति। उत्कर्ष- एव श्यस्त्वप्रयोजकः, सारस्वताभ्यासिकौपदोशिकेषु यत्र स भवेत स एव श्रेया- न्नित्यर्थः । उत्कर्षहेतुमाह -सचेति। सचोत्कर्ष : अ ेरषां गुणानां सन् पार्ते भवति। यत्रानेके गुणाः स्युस्तत्रोत्कर्षो भवेदिति तात्पर्यम्। उत्कर्षप्रयोज- कानू गुणानाह-वुद्धिमत्त्वश्चेत्यादिना। काव्यस्याङ्गभूवासु-विद्यासु बु- द्विमत्त्वं नैपुण्यपूर्वक ज्ञातृत्वम्, अभ्यासकर्म=काव्यकरणाभ्यासः, कवेरि- ति जात्येकवचनम्, तथाच कवीनामुपनिषद्रदस्यज्ञानपूर्विका कवित्वशक्ति स्वेति त्रयमेकन्न पुरुषे दुर्लभम्। एते एवोत्कर्षप्रयोजका अनेके गुणाः। का- व्ये, तदङ्जम्तासु छन्दःकोशादिविद्यासु कृताभ्यासस्य, अथ च सारस्वतम- न्त्रानुष्ठानतत्परस्य, बुद्धिमतः सारस्वतकवेरभ्यासप्रकर्षमन्त्रानुष्ठानात्मकगु- णसन्निपातानुभावात् कविराजता=महाकविपदप्राप्तिः नेदिष्ठा=करतलगतेव.'

Page 47

चतुर्योऽध्यायः । ४१

कवीनां तारतम्यतश्रैष प्रायोवाद:। एकस्य तिष्ठति कवेर्गृह एव काव्य- मन्यस्य गच्छति सहन्दवनानि यावत्। न्यस्या(स्थ१) विदग्घवदनेषु पदानि शश्व त्कस्यापि सश्चरति विश्वकुतूहलीव।। सेयं कारयित्री। भावकस्योपकुर्वाणा भावायत्री। सा हि कवे :-

समीपर:वर्तत इत्यर्थः।कवीनामिति। कवीनामुत्कर्षांपकर्षतारतम्यादेष प्रवाद इत्यर्थः । प्रवादमाह-एकस्थेति। एकस्यापकष्टस्य दुर्बद्वेरापदोश- कस्य वा काव्यं गृहएव तिष्ठतिः, भित्तिचतुष्टयान्तराल एव वर्तते, न केनाप्या- द्वियते। अन्यस्य मध्यमस्यान्पुसिकस्य वा कान्यं तृदीयमित्रगृहूपर्यन्त- मेव गच्छति। मित्रमात्रानन्ददायि भवति। तन्र रमणीयत्वाभावान्न सर्वसाधार- णस्यास्वाद्य भवतीत्यर्थः । अथ कस्याऽपि अनेकगुणसन्निपातप्रयोज्यप्रकर्षा- तिशयशालिनः कविराजस्य काव्यन्तु श्रुतिसुखाक्षरविन्यासवत्तया सरस -- तथा च हलधरादिबुघावधि सकललोकसन्तोषकमिति अविदग्धानां आ्राक्वाना- मपि बदनेषु श्रुतिसुखानि स्वपदानि न्यस्य विदग्घाविदग्ैः सादरत्जीयमानं सत् विश्वस्य जगतोऽवलोकने सकौतुकमिव शश्वत्सर्वदा सश्चरति, शब्दसौध्ठवमा- त्रेण प्राकृतान्, अर्थरसाद्यनुसन्घानेन सहृदयानानन्दयत् मुखान्मुखान्तरम्प- रिभ्रमतीत्यर्थः । तथा च यस्य कवेः काव्यमित्यंकारमशेषजनमनोमो द ्नं र वेत् सएव कविः श्रेयानिति भावः। ईदशं च काव्यमनेकगुणशालिनो य- स्य कस्याऽपि भवितुमहति। इत्थ प्रस्तुतं विषयं सोदाहरणं प्रतिपाद्य समुप- संहरन्नाह-सेयमिति। पूर्वोक्तेषु कवि प्रभेदेषु प्रदर्शिता सेय प्रतिभा कारयित्री- ति प्रसिद्धत्यर्थः । अथाSपरा भावयित्रीमाह-भावकस्येति। भावयति= कान्यार्थ सहृदयतयाSऽस्वादयतीति. भावकः काव्यार्थभावनापरिपकधीः सहृद्य:, तस्योपकारिका या सा भावयित्री नाम प्रतिभेत्यर्थः । तस्याः प्रयोजन- माह-साहीति। सा=भावयित्री प्रतिभा कवे: काव्यनिर्मातुः श्रमं का- व्यानुकुलशब्दार्थान्वेषणात्मकं प्रयासं, अभिप्रायं मनोगतं भावं च भावयति बोद्धुं प्रभवति। भावयि्याः प्रतिभाया एव बलाचादशश्दार्थभावा

Page 48

-४२ चन्द्रिकासहित काव्यमीमांसारयां-

श्रममभिमार्य च भावयति। तया खलु फलितः कवेर्व्यापारतरुरन्यथा सोऽवकेशी स्थात्। "कः पुनरनयोर्भेंदो यत्कविर्भावयति भावकश् "कविः" इत्याचार्याः । तदाहु :- प्रतिभातारतम्येन प्रतिष्ठा भुवि भूरिधा। भावकस्तु कविः प्रायो न भजत्यधमाँ दशाम् ॥। "न" इति कालिदासः। पृथगव हिकचित्वाद्भ्ावकत्वं, भावकत्वा- व्व कवित्वं। स्वरूपभेदाद्विषयभेदाच्च। यदाङ्ु :-

वगमः सहृदयस्य भवतीत्यर्थः । पूर्वोक्तार्यमव विशदयन् पुनराह-तयेति। -तया=भावयित्र्या प्रतिभया कवेः काव्यकरणात्मको व्यापारतरुः फलितः फू. वानू भवति। अन्यथा=भावयित्रयाः प्रतिभाया अभावे सः कविव्यापारतरुः अवकेशी अफलः स्यात। यदि भावकाः कवेः काव्यं भावयन्तो तत्रत्यरस मास्वाद नानन्दतुन्दिला: स्युस्तर्हि कचे: काव्यकरणश्रमो व्यर्थ एव स्यात् इति भावः। इत्थं कारयित्री भावयत्रीं च प्रतिभां प्रतिपाद्य तत्तादशप्रति भाश्रययो: कारकभावकयोभेंदं दर्शयन् आचार्याणा मतमाह-कः पुनरिति। अनयोः कारकृभावकयोः क:पुनर्भेदः न कोऽपि भेदोऽस्तीत्यर्थः।यतः कविरेव भावयति, भावकोऽपि कवयति। इत्याचार्यमतसमर्थक्रमभियुक्तवचनमाह- प्रतिभातारतम्येनेति। सुवि प्रतिभायास्तारतम्येन उत्कर्षापकर्षविशेषेण प्रतिष्ठा सम्मान आस्पद वा भूरिघा डनेकप्रकारा भवति। तत्र भावको भाव- नाशीलो यः कविः सोऽधमान्दशा कुकवियोग्यां दुर्दशा न भजति न प्राप्नो- ति। भावकत्वविशिष्टं कवित्वं प्रशस्यमित्यर्थः । पूर्वोक्तमतपरिपन्थि मतान्त- रमाह-नेति। आचार्यमते मावकत्वकवित्वयोर्मेंदो नास्तीति यदुक्कं तन्न युक्तम्। अपि तु तयोमेंदोऽस्त्येवेति कालिदासःकथयतीत्यर्थः। तमेव भेदं वि- विशदयति-पृथगेवहीति। यः काव्यं कुरुते स.कविः, यश्ष काव्यार्थ भावनापरिपक्कबुद्धि: सत्त्वोद्रेकान्निर्मलचता वर्णनीयेन तन्मयीभावं भजति स भावक इति कविभावकयोः स्वरूपभेदः। किश्च कवेः काव्यनिर्माणाय शब्दा- र्थालम्वनर्पूकं वर्णनीया घटपटादयो विषयाः, भावकस्य तु रसमात्रास्वादयि- वुस्तदास्वादनमात्रं विषयः। इत्थं कविभावकयोरविषय मदात्त्वरूपमेदाच्च पृथगेव-

!

Page 49

चतुर्थोऽध्यायः। ४३

कश्चिद्वाचं रचयितुमलं श्रोतुमेवाSपरस्ता कन्याणी ते मतिरुभयथा विस्मयं नस्तनोति। नह्योकस्मिन्नतिशयवरतां सन्निपातो गुणाना- मेकः मृते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ।। ते च द्विपाऽरोचकिन:, सतृणाभ्यवहारिणश्च" इति मङलः । "कवयोऽपि भवन्ति" इति वामनीयाः। "चतुर्द्धा" इति यायावरीयः। मत्सरणस्तत्वाभिनिवेशिनश्च। "तत्र विवेकिनः पूर्वे तद्विपरीतास्तु

हि कवित्वाद्गावकत्व, भावकत्वाच्च कवित्वमिति कालिदासाशयः । पूर्वोक्तं क विभावकयोर्भेदमभियुक्तोक्त्तया प्रमाणयति-कश्िदिति। कश्चित्=कार- यित्र्यात्मकप्नतिभयैव युक्त: कविः वाचं रचयितुमलम्-काव्यं निर्मातुमेव प्रभवति। अपरो भावयित्रयात्मकप्रतिभयैव युक्त: कविस्ता वाचं श्तुमेव भाव यितुमेवाडलम्। एव स्थितेऽपि महाकवेस्तव कल्याणी उभयथा मतिः कार- यित्र्यात्मकमावयित्र्यात्मक प्रतिभादयविशिष्टा बुद्धिः नः विस्मयं तनोति। विस्मयदेतुमाह-न ह्ेकस्मिन्निति। एकस्मिन् पुरुषे अतिशयवर्ता प्रकृध्टना गुणानां सन्निपातः सङ्गातो न दशयते। कुत इति चेदाह-एकइति। एक: उपलः स्पर्शमाणीरत्यर्थः । कनकं सुवर्ण सूते उत्पादयति । अन्यः निकषोपलः तस्य कनकस्य परीक्षाया तारतम्यविचारे क्षमः समर्थो भवति। अन्र क्रमेण विशेषसामान्यविशेषनिवेशनाद्विकस्वरालक्वारः । अथ भावकान्- विभजने-ते चेति। ते च भावकाः द्विषा । तत्र केचित् अरोचकिनः, केचित्सतृणाभ्यवहारिणश्च भवन्ति इति मञ्लस्याशयः। न रोचयतीत्यरोचकः सोऽस्यास्तीत्यराचकी। अरोचको नाम रोग विशेषः, यस्मिन् सति सुस्वाद- युक्तेऽप्यन्ने प्रीतिर्न भवति। तथके कवयोऽप्यरोचकिनः, ये सरसेऽपि काव्ये नासाक्षिसकोच कुर्वान्त। तृणमप्यपरित्यज्येति सतृणम्। सतृणमभ्यवहरन्ति भुञ्जते इति सतृणाभ्यवहारिणः । यथा बुसुक्षिता पात्रे परिवोषतान्नव्य्ष- नादिकमशेषमदन्ति तथा तद्विधा: कवयश्छन्दोमुद्राहितं यत्किश्चिदपि का- व्यात्मना रसयन्ति ते सतृणाभ्यवह्दारिणोऽविवेकिन इति यावत। कवयोऽपि अरोचकिन: सतृणाभ्यवहाररिणश्च भवन्तीति वामनमतानुयायिना मतम् ।

Page 50

चद्रिकासहित काव्यमीमांसायां- 88

ततोऽनन्तरा:"इति वामनीयाः। "अरोचकिता हि तेषां नैसर्गिकी ज्ञानयोनिर्वा। नैसर्गिकी हि संस्कारशतेनाऽपि वङ्गामव कालिका ते न जहति। ज्ञानयोनौं तु तस्यां विशिष्टज्ञेयवति वचासे रोचाकिता वृत्तिरेव" इति यायावरीय:। किश्च सतृणाभ्यवहारिता सर्वसाधारणी। तथा हि व्युत्पित्सो: कौतुकिन: सर्वस्य सर्वत्र प्रथम सा। प्रतिभाविवेकवि कलता हि न गुणागुणयोर्विभागसूत्रं पातयति। ततो बहु त्यजति बहु च गृह्लादि। विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते। परिणामे तु यथार्थदर्शी स्पात्। विभ्रमभ्रंशश्च निःश्रेयसं सन्निधचे। मत्स- णस्तु भतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वाद्।

अथाऽन्र विषये स्वमतमाह-अरोचकिता हीति। तेषां भावकानामरो- चकिता हि नैसर्गिकी सहजा ज्ञानयोनिर्वुद्धिपूर्विका वा भवति। नैसर्गिकी चेत संस्कारशतेनाऽपि दूरीकर्तु न शक्यते। तादशाराचकिना निसर्गसुन्दरं सरस- मपि काव्यं न मोदं जनयति। अत्र दष्टान्तमाह-वङ्गमिच कालिका- मिति। वङ्को धावुविशेषः शोघनभावनादिसस्कारसहक्ृतोऽपि स्वा- भाविकी कालिकां नीलिमान यथा न त्यजति तथेत्यर्थः । सैवारोचकिता ज्ञानयोनिश्चेत सविशेषरसध्वन्यात्मके वचस तेषां रोचकिता वृतिरेव सादरो- व्यवहार एव भवृतीत्यर्थः । इति यायावर्रीयस्य राजशेखरस्याशयः। सतृ- गेति। सतृणाभ्यवहारितात्मिका वृत्तिः सर्वजनसाधारणी, तदेव दर्शयति- तथा हीति। काव्यनिर्माणे प्रवृत्तस्य सर्वस्यैव व्युत्पित्सो: प्रथमं सतृणा- भ्यवहारिता वृत्तिर्भवत्यव। प्रतिमाया विवेकस्य च विकलता विरहो गुणदो- षयोरविभाजकं सूत्रं न पातयति, गुणागुणविवेकं कर्तु न शक्नोतीत्यर्थः । तत := प्रतिभाविवेकवैकल्याद्वेतोः । विभ्रमेति । वित्रमस्य व्यामोहस्य विभ्रंशो राहित्यं निःश्रेयसं कल्याणं सन्निघत्ते समीपयतीत्यर्थः। मत्सरिण- इत्ति। मत्सरिणोऽन्यशुभद्वेषिणोऽसूयालो: पुरुषस्य तुप्तिभातमपि बुद्धा- रूढमपि न प्रतिभातमिव। तत्र हेतुमाह-परगुणेष्विति। परगुणश्ला- घाप्रसङ्के मौनस्वीकारस्य वत्त्वभावत्वादित्यर्थः । खलाः खल्ल परेषां सरसं काव्यमवलोक्य तत्रत्यं रसमास्वादयन्तोऽपि कवेः प्रतिष्ठा मा भूदिति हेतो:

Page 51

चतुर्थोऽध्यायः।

स पुनरमत्सरी ज्ञाता च विरल:। तदुक्तम्- कइत्वं भो: कविरस्मि काप्यभिनवा सूक्ति: सखे पठ्यता त्यक्ता काव्यकयैव सम्मति मया कस्मादिदं श्रूयताम्। यः सम्यग्विविनक्ति दोषगुणयोः सारं स्वयं सत्कवि: सोडस्मिन्भावक एव नास्त्यय भवेहैवान् निर्म्मन्सर:।। तच्वाभिनिवेशी तु मध्येसहस्त्रं यद्येकस्तदुक्तम्- शब्दानां विविनक्ति गुम्फनविधीनामोदते सुक्तिभि: सान्द्रं लेदि गसामृतं विचितुते तात्पर्यमुद्रां च य:। पुएयैः सङ्गटते विवेकठविरहादन्तर्मुखं ताम्यता केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः।। सनासाक्षिभ्रूसक्कोचं तत्काव्यं परित्यज्य तत्र मौन भजन्त इति बहुशो दृष्ट दृश्यते चाहरहः। सइति। स. भावकः पुनर्विरलो यो Sमत्सरी च ज्ञाता च भवेदित्यर्थः। उक्तारयें प्राचीनपद्य प्रदर्शयति-तदुक्तं-कस्त्वमिति। कस्याऽपि कंचित् प्रश्नस्तदुत्तर च । भो: ! कस्त्वम् 1 इति प्रश्नः । कविर- स्मि-इत्युत्तरम्। हेसखे ! यदि त्वं कविरसि तह काडपि अमिनवा नवीना सू्तिः पठ्यताम्, इति पुनः प्रश्नः, मया सम्पति काव्यकयेव त्यक्ता-इति पुनरुतरम्। कस्मादिदं-इति पुनः प्रश्नः। शयताम्-इत्युत्तरम्-यः दोष- गुणयो: सम्यक् सार विविनक्ति-दोषगुणविवेचनसमर्थो अवति, अथ च स्वयमवि सत्कषिः, ईदशो भावक एव दुर्लभः, यदि काऽपि दैवात् लभ्यते तर्हि स निर्मत्सरो न भवतीति हेतोर्मया काव्यकथैव त्यक्कति पूर्वेण सम्बन्धः । तत्वेति। तत्वे वस्तुयाथार्थ्ये अभिनिषशो यस्य तथाविधो विचारकस्तु यदि सहस्राणां मध्य कश्चिद्भबेत् तहि एक एवi तदेव दर्शयति-शब्दा- नगमीत। यः शन्दारनां गुम्फनविधीन् विविनक्ति, अस्मिन पसक्ने एता- हशशब्दनिवे शेने हशश् मरकारो जायते, एवादशशब्दपरिदारेणायं विशेषो भवे- दित्यादि शब्दविन्यासप्रकार यः सम्यव्विचारयतीत्यथः। यश् सूर्कि दष्टा इन्तरातमना प्रहृष्यति। यश् रसरूपममृतं सान्द्र यथा स्यात्तमा लेढि=आ- -स्वादयति। यश्च तात्पर्यमुद्धा विचिनुते, कबिना कुत्र किन्तात्पर्येण किपदं

Page 52

४६ चन्द्रिकासहित काव्यमीमांसायां-

स्वामी मित्रं च मन्त्री च शिष्यश्राचार्य एव च। कवेर्भवति ही चित्रं कि हि तद्यन्न भावकः ॥I काव्येन कि कवेस्तस्य तन्मनोमात्रृत्तिना। c नीयन्ते भावकैर्यस्य न निवन्धा दिशो दश॥ सन्ति पुस्तकविन्यस्ताः काव्यवन्धा गृंह गृहे। द्वितरास्तु भावकमन:शिलापट्टनिकुट्टिताः ॥ सत्काव्ये चिक्रिया: काश्िविन्दावकस्योल्लसन्ति ताः। सर्वाभिनयनिर्णीतौ दृष्टा नाव्यसजा नयाः।

विन्यस्तमित्यादि कवितातपर्यं विचारयितुं यः प्रभवति। विवेक्तृविरह्दात् वि- वेचकाभावात् अन्तर्मुख मुखस्यान्तरेव श्रोत्रभावात्सूक्तीरवस्थाप्य ताम्यता क्लेशमनुभवर्ता केर्षाचिदेव कदाचिदेव पुण्यैरनतु पुण्येन काव्यश्रमज्ञः काव्य- निर्माणपरिश्रमाभिज्ञो जनः सङ्गटते लब्घो भवुतीत्यर्थः । स्वामीति। भावक: काव्यार्थभावनापरिपक्कबुद्धि: सज्जन: कवे: कृते स्वामी, दोषाच्छादना- दिना रक्षकत्वात्पालकः, मित्रं, सुकविसमाजे कविगुणप्रख्यापनादुपकर्ता सुह- द्, मन्त्री, सद्विचारस्फुरणसाहाय्यकरणात्सचिवः, शिष्यः, कविसूकीनां सादरं निषेवणादन्तेवासी, आचार्य:, गुणोपादानदोषहानादयुपदेशकत्वा- द् गुरु:, इत्थं भावक: कवे: कृते कि न भवति सर्वएव सः ही इत्याश्चये। काव्येनेति। तन्मनोमान्नवृत्तिना कवेर्मनस्येव कृतनिवासेन तस्य कवे: काव्येन किम्। न किमपि प्रयोजनं तादशकाव्येनेति भावः। भावकैर्यस्य निबन्धा दश दिशो न नीयन्ते=भावकद्वारा यस्य काव्यं सर्वत्र न श्लाध्यते तस्य कवे: काव्यं व्यर्थमवत्याशयः। सन्तीति। पुस्तकविन्यस्ताः पुस्तकेषु लिखिता: काव्यबन्घा गृहे गृहे प्रतिगृहं भूयस्त्वनत्यर्थः । सन्ति, तैन प्रयो- जनम्। भावकाना मनएव शिलापट्टं निकषेोपलस्तत्र निकुट्टिता: परीक्षि वास्तु छ्वित्रा एव विरला एवेत्यर्थः। रुत्काव्यइति। सत्काव्येऽपि भाव- कस्य=भावकहृदये इत्यर्थः । काश्चविदनिर्वाच्या विकिया विकारा उल्लसन्ति स्फुरन्ति, या नाट्यसजा ब्रह्मणा नाट्याचार्येण भूरतेनाऽपि,वा, अत्र अपि- रध्याहार्य: । सर्वविधाङ्गिकाभिनयनिर्णयविधौ न दष्टा न लक्षिताः ।

Page 53

चतुर्थोऽध्यायः। ४७

वाग्भावको भवेत्कश्चित्कश्चदृहृदयभावक: । सा्विकैराङ्िकैः कश्विदतुभावैश्च भावक: ॥ गुणादानपरः कश्चिद्दोषादानपरोऽपरः। गुणदोषाहृतित्यागपरः कश्चन भावकः ।।१४ अभियोगे समानेऽपि विचित्रो यदयं क्रमः । तेन विद्ः पसादोऽ नृां हेतुरमानुष: 11 20 न निसर्गकविः शास्त्रे न स्षुएणः कवते च यः । विडम्वयति सात्मानमाग्रहग्रहिल: किल।। २9 कवित्वं न स्थितं यस्य काव्ये च कृतकौतुकः । तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रपयोगतः 122 अथ भावकाना वैचित्र्यं दर्शयति-वागिति । गुणेति। कश्चित वाग्मावकएव, कवेः सौशन्द्यमेव पर्यालोचयितुं प्रभवति, कश्चित् हृदय- भावक एव, कवेः सूक्तिमाकर्ण्य 'मत्रेद कविहृतयम्' इत्येव विचार यितु प्रभवति। कश्चिद्भावको वचसा न किमपि प्रकाशयति, किन्तु आ्ि- कसात्विकानुभावानेव प्रदर्श्य किसूक्त्तिश्रवणजन्यमुल्लास प्रकटयति कश्चित् भावको गुणमात्रमुपादते। कश्चिद्भावको गुणेषु निरपेक्ष: केवलं दोषानेव पश्यतति- से पुरोभागी शूकरोपमो भावकः। कश्च्िद्धावको गुणान् गृह्याति, दोषांश्र ख्ज़- ति। भावकवैचित्रये हेतुमुपन्यस्यति-अभियोगे इनि। अभियोगे समानेपि, काव्ये भावकमेदाद्विविधा भावना: ससुल्लमन्ति, तेन हेतुना वयमित्थं विझो जानी मः, यत प्रसादे नृणा हेतुरमानुष: मानुषवुद्धेरगम्यः। कश्चित् गुणैः प्रसीदति, कश्चित् दोषान् दृष्टा समुच्छलति, कस्यचिद्रसेष्वेवानुग्रहः, कश्च्िदलक्कारा- नेव बहु मन्यते इत्यादि। एतावता भावकानां मनःप्रसादकारणमिदमेवेति- परिच्छेत्तुमशक्यमिति आवः। ननिसर्गेति। यः शास्त्े न क्षुण्णोऽपि च कवते स आग्रहग्रहिलः सन् आत्मानं विडम्बयते प्रतारयति। कवित्वप्राप्तये सत्सम्प्रदायशुद्धं शास्त्रं नैसर्गिकी च प्रतिभावश्यकीति भावः । कवित्वप्रा- प्त्युपायमाह-कवित्वमिति । य: काव्येषु कुतूहली काव्य ज्ञातुं जनयितुं नचेच्छति नैसर्गिकम,तिभाभावात्कविता च यस्य न स्फुरति, तस्य सारस्वत-

Page 54

चन्द्रिकासहित काव्यमीमांसायां-

पदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः। तदा स सिद्धो मन्तव्य: कुकविः कविरेव वा। 23

अथातः कथयिष्यामो व्युत्पात्तिं काव्यमातरम् ॥

। इति राजशेखरकृतौ काव्यमीमांसाया कविरहस्ये प्रथमेऽधिकरणे चतुर्थोऽध्यायः पदवाक्यविवेकः । काव्यविशेषेषु कारयित्री नाम समीक्षा ।I

मन्त्राराधन, ब्राश्मीवचादिचूर्णसेवनादयुपायै: कवित्वरूपा सिद्धिर्भवतीत्यर्थः। पदेति। सुघी: पण्डितो यदा स्ववाक्यपरवाक्ययोरन्तरं भेदं वेचि, तदा स सिद्ध: पद्परिपाकसिद्धो मन्तव्यः । अन्यथा स्व्वच:परवचोऽन्तरज्ञाना भावे कुकविः अथवा कविशब्दोऽपि तन्र नोपयुक्त, स कपिरेव मर्कटएव। मर्कटो यथा रत्नकाचयोरमेंदमजानन् रत्नं चूर्णीकृत्य काच शलाघते तथाऽयम पीति भावः । अध्यायार्थमुपसंहरति-कारयत्रीति। इमे पूर्वोक्तपकारे कारयित्रीभावीयत्र्यो तदार्ये प्रतिभाया भिदे मेदौ सोदाहरणं पपश्चिते । अथाऽतः परं काव्यस्य मुख्यकारणस्वरूपामत एव मातरं व्युत्परच कथाये- ष्याम: पश्चमाध्याये इति शेषः ।

इति श्रीमत खिस्ते-इत्युपनामकभैरवनायकतनूजनि साहित्या- चार्य श्रीनारायणशास्त्रिप्रणीताया काव्यमीमांसा- चन्द्रिकाया चतुर्थोऽध्यायः ।

Page 55

पञ्चमोऽध्यायः। ४९

पञ्चमोऽध्याय: काव्यपाककल्पः । -

"बहुजता व्युत्पत्तिः" इत्याचार्याः । सर्वतोदिका हि कविवाच:। तदुक्तम्-प्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य। इदमेव तत्कावित्वं यद्वाचः सर्वतोदिकाः॥ "उचितानुचितविवेको व्युत्पत्तिः" इति यायावरीयः ।

चतुर्थाध्यायमुपसंहरन् अ्रन्थकारः "अथातः कथयिष्यामो व्युत्पात्तिं काव्यमातरम्" इति प्रतिज्ञातवान्। सैव व्युत्पतिरस्मिन्नध्याये सप्रभेदा सल. क्षणा सोदाहरणां च निरूपयष्यते। प्रसञ्जाद्युत्पत्तितारतम्यसम्भवाः याकप्रमेदा अपि दर्शयिष्यन्ते। अथ प्रतिज्ञाता व्युत्पातें दर्शयति-बहुज्ञतेति। अनेकविषयावगाहि- ख्वमेव सेत्यर्थ। वर्णनीयपदार्थसार्थसमर्थनसमर्थसर्वविषयविचारचातुरीचण- त्वं व्युत्पत्तिरिति भावः। इदमाचार्याणामभिमतम्। अमुमेवार्थ विवृणो- ति-सर्वतोदिकका हीति। हि=यस्मात्कारणात् कवीनां=काव्यार्थभाव- नापरिपक्वबुद्धीनां परिणतवचसा महाकवीना वाच उक्तयः सवांसु दिक्षु ग- च्छन्तीति तथाविघाः। यस्य भावकस्य यावती वुद्धि स्तावदर्थस्म्पादनसम- र्था इत्यर्थः । कामदुघा इति यावत्। उक्तार्थ समर्थयति-तदुक्तम्-प्रसर- तीति। अभ्यस्ते-पुनः पुनरतुशीलनादिना संस्कारदार्ढ्यमापादिते गोचरे= विषये कस्यचन=कस्यापि पुरुषस्य, सर्वस्यैवत्यर्थः । कथश्वन=येन केनाप्युपा- येन वचः न प्रसरति किमिति काकुः। प्रसरत्येवेत्यर्थः। दढसस्कारमापन्नं विष- ययमधिकृत्य येन केनाऽपि यत्किमपि वक्तुं शक्यत एव, न तावता किमपि वैशि- ष्टथम्भवतीति भावः । तत्= प्रसिद्धं कवित्वमिदमेव। अयमेव गुणः कवि- जत्वव्यपदेशप्रयोजकः यत् वाचः उक्तयः सर्वतोदिक्काः स्यु.। अनभ्यस्तेपि सद्योवर्णनसामर्थ्य चेत्तदैव कवित्वव्यपदेशाईतेत्यर्थः । ईदशसामर्थ्ये बहुज्ञ- वात्मकव्युत्पत्त्यघीनमिति बहुज्ञ तैव व्युत्पत्तिरित्याचार्या: प्राद्डः। बहुज्ञताफला- त्मना स्वमतेन व्युत्पति लक्षयति-उचितेति। उचितानुचितयोयोग्यायो- व्ययोरविवेको विचारपुर.सरमादानपरित्यागावेव व्युत्पतिरिति यायावरीयस्य रा- जशेखरस्य अ्न्थकर्तुर्मतम्। बहुज्ञता व्युत्पत्तिरित्याचार्योक्तसुचिति मे व । तत्रा ५ का० मी०

Page 56

५० चन्द्रिकासाहित, काव्यमीमांसायां-

"प्रतिभाव्यृत्पन्यो: प्रतिभा श्रेयसी" इत्यानन्दः।सा िकवेरव्युत्प/त्त- कृतं दोषमशेषमाच्छादयति। तदाह- अव्युत्पत्तिकृतो दोष: शक्त्या संत्रियते कके:। २ यस्त्वशक्तिकृतस्तस्य भागित्येवावभासते॥ शक्तिशब्दश्चायमुपचरितः पतिभाने वत्तते। एतत्कि शिरास स्थितं मम पितु: खएडं सुधाजन्मनो लालाटं किमिदं विलोचनामेदं हस्तेऽस्य कि पन्नगाः । इत्थं क्रौश्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्या: स्पितं पातु व:।

नेकविषयपरिज्ञानवशादेव योग्यस्थाने तत्स्थानोचितशब्दार्थालक्काररसादिनि- बन्घनं तत्परिपन्थिना च निराकरणं यया विधीयते सैव व्युत्पत्तिरित्यर्थः । प्र-

स्पत्योर्मध्ये प्रतिभव प्रशस्यतरा-इति आनन्दवर्द्धनाचार्या वदन्तीत्यर्थ।तत्र हेतुमाह साहीति। हि=यतः सा प्रतिभा कवेः काव्यकर्तुरव्युत्पतिकृतं व्युत्पत्यभावसम्भवमशेषं कृत्स्नं दोष रसास्वादप्रतिनन्धात्मकमाच्छादयतति तिरोधत्ते दूरीकरोतीत्यर्थः । ऊकतार्थ समर्थयन्राह-अनर्युत्पत्तिकृनइति। कवेरव्युत्पत्तिकृतो व्युत्पत्यभावसम्भवो.दोषः शक्त्या प्रतिभया संत्रियत आ- च्छादते। यो दोषस्त्वशक्तिकृतः प्रतिभाया अभावादुत्पन्नः स झटिति तरक्षण झगिति वा अवभासते स्फुरति। प्रतिभाप्रस्तावे शक्तिरियं कुतः समापतितेति

शब्द: प्रतिभासयशक्त्यभिप्रायेण प्रयुक्त इत्यर्थः। प्रतिभाशक्तिवशादव्युत्पत्ति कृत दोषनिवारणस्योदाहरणमाह-एतत्किमिति। तातं शिवं निरीक्ष्य तदङ- वर्ततिभूषणादिविषये बालकस्य कुतूहलिन: कुमारकार्तिकेयस्य पार्वती प्रति- प्रश्नास्तदुत्तराणि चात्र वर्तन्ते। कुमारः पार्वतीं पृच्छति हे मातः! मम पितुः शिरसि स्थितमेतात्किम्? पार्वत्या उत्तरम्-एतत् सुधाजन्मनः सुधासूतेश्चन्द्रस्य खण्डं कलेत्यर्थः-। पुनः प्रश्न :- लालाट=ललाटवर्र््ति इदं किम् : पुनरुतरम्-इंदे विलोचनम्-

Page 57

पञ्चमोऽध्याय:ः- । ५१

"व्युत्पत्तिः श्रेयसी" इति मक्लः ॥ सा हि कवेरश्तिकतं दोषमाच्छादयति। तथा हि-

वैदग्धीचितचिचानां हेया शब्दार्थगुम्फना।।

तृततीयनेत्रमित्यर्थः । पुनः प्रश्नः-अस्य मम पितु: हस्ते किम् ? पुनरुतरम्- पन्नगाः- सर्पभूषणानीत्यर्थ: । इत्थमेवंप्रकारेण क्रौश्चरिपो :- कुमारस्य दिग्वास- सो दिगम्बरस्य शूलिनो विषये प्रश्ने उपस्थिते सति वामकरेण यः उपरोध: स्व- मुखाच्छादनं तेन सुभग सुन्दरं यथा स्यात्था देव्याः पार्वत्या. स्मित वः पातु रक्षत्वित्यर्थः । अत्र केचित् वामकरोपरोघसुभगमिति क्रौश्रिपुमुखस्या- च्छादनं शूलिना कृतमिति व्याचक्षते, तदस्मभ्यं न रोचते। तत्र कतरव्या खयान समीचीनमिति सहृदया: स्वयमेव विभावयन्तु। अत्र हास्यरसपरि पोषमिच्छता कविना तथाविघ: सन्दर्म: प्रकार्टतोऽपि शब्दे्न स्फुट प्रतीयत इत्यत्र कवेरव्युत्पत्तिरेव कारणम्। तथाऽपि 'वामकरोपरोधसुभग देव्याः स्मित' मित्युक्त्यर्थसौन्दर्यविच्छितिविशेषमाहम्ना साऽव्युस्पततिस्तिरोघीयत इति। पूर्वमानन्दवर्द्धनाचार्येण प्रतिभाव्युत्पत्योः प्रतिमायाः प्रशस्यतरत्वमुक्तम्, इदानी तद्विपरीतं मञलाचार्यमतमाह-व्युत्पत्ति: श्ेयसीति। प्रति- भापेक्षया व्युत्पत्तिरेव प्रशस्यतरेति मझलाचार्याणामाशय. । पूर्वोक्तार्थममर्थने हेतुभाह-साहीति। सावयुत्पचिर्हि कवेरश्तिकृत प्रतिभाविरहजन्यं अशेषं सम्पूर्ण दोषमाच्छादयति तिरोधते इत्यर्थः । तदेवाह-कवेरिति। काव्यवर्त्मनि=काव्यमार्गे कवरशाक्तिः प्रतिभाराहित्यं व्युत्पत्त्या सत्रियते तिरो- धीयते। वैदग्ध्या=काव्यार्थभावनाजन्यपरिपाकवशेषण सहदयवारुयेन चित व्याप्त चिचतं थेषा तेषाम्। तैरित्युर्थः । शब्दार्थगुम्फना=शब्दार्थालङ्कारसं य्योजनम्। हेया Sनादरणीयैवेत्युर्थः। ये खळ् विदग्धा रसमनुभवन्ति तेषा यम- कानुपासोपमारूपकादिशब्दार्थालक्वारनबन्धने न भूयानादर इत्यर्थः । अन्र के- चित् 'शब्दार्थगुम्फना' इत्यत्र 'शन्दस्य गुम्फना' इति पाठ कल्पयित्वा ईषन्नि- मीळितळोचनानां सुधिया विवचनमभ्यर्थयन्ते, तन्निरीक्ष्य विस्मयविस्फारिता- -क्षा वयं 'मदो वैदग्व्यम्' इति भणन्तो मौनमालम्बामहे। अशक्तिकृतदोषति-

Page 58

चान्द्रिकासहित, काव्यमीमांसायां-

व्युत्पत्तिर्यथा-कतः कएठे निष्को नहि किमुत तन्वी मणिलता ५ू कृशं लीलापत्रं श्रवासे निहितं कुएडलमुचि॥ न कौशेयं चित्रं वसनमचदातं तु वसितं समासन्नीभूते निधुवनचिलासे वनितया॥ "प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ" इति यायावरीयः। न खलु लावएयलाभाहते रूपसम्पदते रूपसम्पदो वा लावएयलब्धिर्मइते

रोधायिकाया व्युत्पत्तेरुदाहरणमाह-व्युत्पत्तिर्यथा-कृतः कण्ठे इति। चिरकालप्रवासात् प्रियस्य प्रत्यागमनमाकर्ण्य तत्स्वागतोतसुकाया वासकस- ज्जाया नाथिकाया वर्णनमिदम्। निधुवनविलासे=सुरतोत्सवे समासन्नीभृते= समीपमागतेसति। वनितया=शरियस मागमोत्कण्ठितया नायक़या कण्ठे नि- एक := सौभाग्यसूचकः सुवर्णाभरणविशेषोऽपि न कृतो न धारितः । तन्वी सू, क्ष्मा मणिलता मणिमयो हारो न धृत, इति कि वक्तव्यस्। निष्कमणिलतादीना- माइलेषादौ प्रतिबन्धकत्वाचद्धारणं न कृतमिति तात्पर्यम् । कुण्डलमुचि=प्र- थमत एव कुण्डलरहिते कर्णे कृशं सूक्ष्ममपि लीलापत्रं न निहितं न स्थापि- तम्। अन्र श्रवसीत्येकवचनमविवक्षितम्, कर्णयोरित्यर्थः । एवमेव चित्र- मने कवर्ण काशेयं कृमिकोशजन्यं चिक्कणं पट्टाम्बर न वसितम्, अपि तु शुम्रवर्ण वसनं कार्पासतन्तुजमंशुकं परिहतम्। अत्रेद तत्त्वम्-वासकसज्जानायिकायाः प्रसाधनवर्णनपरे Sस्मिन् पद्ये सम्भोगशृङ्कारस्य व्यञ्ञयतया तदभिव्यञ्जका कोमला वर्णा एव प्रयोक्तुसुचिताः, किन्तु कबिना Sशक्तिवशाचत्परयोगो न कृंतः प्रत्युते शृङ्गारपरिपन्थिनः 'ण्ठे' 'रकः' 'सन्नी' 'कु' 'त्रं' इत्यादयों दुःश्रत्रा एव वर्णाः प्रयुक्ताः, तथा चैतैर्वणे शङ्ारस्य परिपोषो न भवतीति प्रतिभाभावज- न्या कवेरशाकिः प्रकटीभवन्त्यपि सम्भोगशङ्गारानुकूलप्रसाधननेपथ्यवर्णना- त्मिकया कवन्युरतपत्त्या तिरोधीयते इति। अथात्र विषये स्वमत प्रकाशयति- प्रतिभाव्युत्पत्ती-इति। प्रतिभा च व्युत्पत्तिश्र ते मिथोऽन्योन्यं समवेते सङ्गते एव श्रेयस्यौ प्रशस्यतरे भवत इति राजशेखरमतम् 1 न केवलमेकल या प्रतिभया न्युत्पत्त्या वा काव्यस्य प्रशस्यत्व सम्पाद्यते, अपि तु प्रतिभाव्यु सपत्योरुभयोरपि सङ्गमेनेति भावः। लौकिकदष्टान्तेनोक्तार्थ समथैयति-नख

Page 59

पञ्चमोऽ्ध्यायः ।

सौन्द्रर्याय। उभययोगो यथा- जड्गाकाएडोरुनालो नखकिरणळसत्केस रालीकराळ: ! भ्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावएयवापी- सम्भूताम्भोजशोभां विदधदभिनयादएडपादो भवान्या: ।।

ल्विति। जगति सुन्दर इति व्यवहार: खलु रूपसम्पदं लावण्यं चापेक्ष्यैव भवति। तत्र यथा केवलया रूपसम्पदा, केवलेन लावण्येन वा. सुन्दरत्वं न सम्पद्यते, मपि तु लावण्यरूपसम्पदोरुमयोयोगेनैव सौन्द्य सम्पधते, तथैव प्रकृते प्रतिभाव्युत्पत्त्योरुमयोर्योंग एव काव्यस्य प्रशस्यत्वं सम्पादयति। इह लावण्यरूपमौन्दर्यशब्दा: सामान्यतो लोके समानार्थका इति यद्यपि प्रयुज्य- न्ते, तथाडपि सूक्ष्मेक्षिकया विचारे क्रियमाणे तेषु प्रत्येकं प्रवृतिनिमित्तमेदा- दविन्नत्वमेव । तूरलतेजोविशेषो लावण्यम्। 'किमिव हि मधुरार्णा मण्डनं ना- कृतीनाम्' इति कालिदासोक्त्यनुसारेण प्रसाधननेपश््यादिनिरपेक्षमेव यन्नय- नमोहनं भवेतद्रूपम् । निरवदं संश्लष्टमवयवसस्थानमेव .. सौन्दर्यमिति तेषां प्रत्येक मेदाः। प्रतिभाव्युत्पत्योरुमयोर्योगमुदाहरति-जङ्गेति। महाकवि- ना भदवाणेन रचिते चण्डीशतके चण्डीचरणवर्णनपरं पद्याेदम्। प्रदोषे शिवस्य नृत्यं प्रसिद्धमेव, इत्थं नृत्यन्तं शिवं दृष्ट्रा भवान्या अपि तदतुकर- पेच्छा प्रादुरभूता-इत्यत माह-भर्तुर्वृत्यानुकारे इति। मर्तुर्नदरा- अस्य भवस्य नृत्यस्य पदार्थाभिनयात्मनोऽ5्विक्षेपस्य अनुकारेऽनुकरणे प्र- वृत्तो मवान्या दण्डपाद ऊध्वीकृतश्वरणो जयतीति सम्बन्धः । तमेव विशिन- नष्टि-निजतन्विति। निजा=भवानीसम्बन्धिनी या तनुः शरीर सैव स्व- च्छा=निर्मला लावण्यवापी तस्यां सम्भूतं यदनमोज कमलं तस्य शोभां श्रियं विद्धदित्यर्थः । अत्र तनौ वापत्व लावण्ये जलतं चरणेडम्मोजत्वं च परस्परसापेक्षम। अम्भोजत्वसाघकविशेषणानि जङ्गाकाण्डेत्यादीनि। जद्वं- काण्डमेव ऊरु महत् नाल नालदण्डो यस्मिन्, नखानां किरणा एव लसन्ति केसराणि तेषामाल्या पङ्गया करालो व्यापो निम्नोन्नतो वा। अत्यम्रस्य नर्वस्य तत्काललिप्स्य अलक्तकस्य यावकस्य आभाया. कान्ते:

Page 60

चन्द्रिकासहित काव्यमामासायां-

मतिभाव्युत्पत्तिमांश्र कवि: कविरित्युच्यते । स च त्रिधा। शास्र- कवि: काव्यकविरुभयकविश्र। "तेषामुचरोत्तरीयो गरीयान्" इति श्यामदेवः। "न" इति यायावरीयः । यथा स्वविषय सर्वो गरीयान्। न हि राजहंसश्रन्द्रिकापानाय मभवति, नापि चकोरोजद्रयः क्षीरोद्धर- प्रसरा एव किसलयानि पूत्राणि यस्य। मञन्जुः सुन्दरो मज्जीर: पादभूष्णमेव भृद्गो त्रुमरो यस्मिन्। एवंविधो भवान्या दण्डपादो जयति सर्वोत्कर्षेण वर्तें- ते इत्यर्थः। अत्र भवान्या दण्डपादे निजतनुस्वच्छलावण्यवापीसम्मूताम्भो जायोपस्य 'सम्मूताम्भोजशोभां विदघत्' इत्युक्रुपमानारोपस्वरूपत्वाभा- वान्तिदर्शना। नत्साघकानि नङ्गाकाण्डत्यादि चत्वारि रूपकाणि। इदमत्र त- त्वम्-निपूर्वकस्थ घाघातोः करणार्थकत्वाद्विदघदित्यस्य धारणार्थेडवाचकतवं दोष:। एवमेव निजतनुस्वच्छलावण्यवापीत्पादौ च तनुपदार्थस्य भवान्या- योगोडभिप्रेतः, किन्तु स तथा न घटने, निजपदार्थस्य प्रधानक्रियान्वयिका- रकपदार्थान्वितत्वात् दण्डपादस्य निजपदार्थेनान्वयः प्रतीयत इत्यभवन्मत- योगो नाम दोषः । अत्रेहशदोषसद्भावेऽपि कबिप्रतिभाव्युत्पत्तिवशोन्मीलितनि- दर्शनारूपकालड्कृतिचमत्कृतिः प्रघानतः प्रतीयमाना स्वातुभावेन दोषमा- च्छादयतीति उमययोगोदाहरणमिदम्। कविशञदप्रयोगे योग्यतामाह-प्रति भेनि। न केवलं छन्दःपूरणमात्रेण कविर्भवति, अपि तु प्रतिभाव्युत्पत्ति- भ्यां युक्तः कविरेव कविव्यपदेशारह इत्यर्थः। कर्विं विभजते-सचति। सः कविस्त्रिधा त्रिप्रकार इत्यर्थः। १ शास्त्रकृविः २ काव्यकविः ३ शास्तर- काव्योभयकविरिति तस्य त्रयः प्रभेदा इत्यर्थः । तेषां मध्ये यथोत्तरं प्रश- स्यत्वमिति इयामदेवमतम्। ईदशं तारतम्यं न समज्जस्मिति स्वमतम्। स्वमतं समर्थयितुमाह-यथेति। स्वाभ्यस्ते विषये सर्वएव परांपक्षया प्रकर्षवान् भवतीति श्यामदेवोक्तं तारतम्यं न युक्तमित्यर्थः । दृष्टान्तसुखेन तदेवाह-नहीति। नीरक्षीरवि्ेककुशलोऽपि राजहंसश्रन्द्रिका पातुं न प्रभवति, एवं चन्द्रिकाचमनचतुरोऽपि चकारो नीरात् क्षीरमुद्धर्तुं न शक्रो- ति। नैतावता हंसचकोरयो: कश्चिदुत्कृष्टः परोऽपकृष्ट इति गदितुं शा क्यम्। स्वस्वविषये तयोर्निपुणत्वात् इत्यर्थः । अथ स्वमतेन तेषां त्रयार्ण

Page 61

पञ्चमोऽध्यायः।

साय। यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनात्ति। यत्काव्यकवि: शास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति। उभयकविस्तूभयोरि वरीयान्यद्युभयत्र परं प्रवीणः स्यात्। तस्मान्तुल्यमभावावेव शास्त्रकाव्य- कवी। उपकार्योपकारकभावं तु मिथः शास्त्रकाव्यकव्यारेनुमन्यामहे। यच्छास्त्र संस्कार: काव्यमनुगृद्णाति शास्त्रकमवणता तु निगृह्णाति। काव्यसंस्कारोऽपि शास्त्रवाक्यपाकमनुरुणद्धि काव्यैकमवणता तु विरु- णद्धि। तत्र त्रिधा शास्त्रकविः। यः शास्त्रं विधत्ते, यश् शास्त्रे काव्यं

कविभेदाना मिथो भेदकं दर्शयन्नाह-यच्छास्रकविरिति। यत्=य स्मातकारणात् शास्त्रकवि .- शासतरेषु सविशेषं कृतश्रमोऽपि काव्येषु लव्सा- धारणपवशः कविः स्वोकतिषु रससम्पदं विच्छिनत्ति=रसाभिव्यञ्ञ नसमर्श न्दार्थसन्निवेश कर्तु न पारयति, एवमेव यस्मात्कारणात् काव्यकवि =का- व्येषु लब्घसविशषव्युत्पत्तिरपि शास्त्रंषु नाघिगताधिकव्युस्पत्तिः कविः, तर्क- कर्शमध्यर्थमुक्तिवैचित्येण इलथयति=शास्त्रीयान पदार्थान तत्तच्छास्त्रीयपा- रिमाषिकशव्दैर्वणयितुं न प्रभवति, तक्ष्मात्तावुभावप्यन्योन्यसापेक्षाविति.स मानावेव । उभयकवि =शासत्रेषु काव्येषु च लब्घोत्कृष्टप्रबोधः कवि., शास्त्रकविकाव्यकव्योरपेक्षया स एव श्रष्ठः यदि स वस्तुतः शास्त्रकाव्ययोः समानभावेन प्रवीण: स्यात्। इत्थमुपदर्शितरीत्या शास्त्रकाव्यकवी समानान्रेव। तयो. परस्परोपकारकत्व परस्परोपकार्यतवं च वक्तु शक्यम्। यतः शास्त्रस्य सस्कार: साधारणः प्रवेश एव काव्यरचनाया वैचित्र्यमुत्पादयति, सर्वदा शास्त्रैकमअत्वन्तु सुकवितासम्पादनौपयिकशब्दार्थस्फूर्ति प्रतिबघ्नाति। एवमेव काव्येषु सस्कार :- काव्यार्थभावनाभावितत्वं शास्त्रीयकर्कशपदार्थाना- मपि कान्तासम्मितविधया सरसभावेन वर्णने साहाययं कुरुते, सर्वदा काव्यै- कमत्वं तु बुद्धिं कोमला कुरुते, यथा सा समधिकविचारसाप्रेक्षान् शास्त्री- यान् पदार्थान् अद्दीतु न प्रभवेत्। अथ त्रिधा भिन्नान् कबीन् प्रत्येक वि- भजते-तन्नेति। तत्र=तेषु कविषु शास्त्रकविः त्रिधा=त्रिप्रमेद इत्यर्थः। तत्र यः शास्त्र विधत्ते=शास्त्रीयानु अन्धान् विघचे=निर्माति, स_एकप्रकारः । यश् शासे कान्यं विधते=शास्त्रीयपदार्थान् काव्यरूपेण प्रथ्नाति स द्वितय:

Page 62

५६ चद्रिकासहित काव्यमीमांसार्यां-

संविधत्ते, ये।ऽपि काव्ये शास्त्रार्थ निधचे। काव्यकविः पुनरष्टया। वद्यथा रचनाकवि:, शब्दकवि:, अर्थकविः, अलङ्ारकविः, उतकतिकवि:, रसकविः, मार्गकविः, शास्त्रार्थकविरिति। तत्र रचनाकवि :-

गोलाङ्गलैनदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु। खएडेषूदएडपिएडीतगरतरलका: मापिरे येन वेला- मालङुचोत्तालतल्वस्फुटित पुटकिनीवन्धवो गन्धवाहा:॥ त्रिधा च शब्दकविर्नामाख्यातार्थभेदेन। तत्र नामकविः-

प्रकारः। यश्च काव्येऽपि शास्त्रार्थ निधते=काव्यपदार्थानू शास्त्रीयपरिभाषया- निवध्नाति-स्र तृतीयः प्रकरः। इत्थमिमे शास्त्रकवेस्त्रयो भेदा व्याख्याताः । अथ काव्यकवि विमजते-काव्यकविरिति। १ रचनाकविः २ शब्दक- विः ३ अर्थकविः ४ अलङ्कारकविः ५ उक्तिकविः ६ रसकविः ७ मार्ग- कविः ८ शास्त्रार्थकविरित्यष्टभेदैर्भिन्नः काव्यकविरित्यर्थः । तत्र रचनाकविनाम श्रुतिसुखा प्रगाढप्र।ढपदबन्धा रचना कतुं यः प्रभवति सः। रचनाकवविकाव्य- सुदाहरति-लोलदिति। येन राजा बेला मर्यादां समुद्रतारमर्यादामि- त्यर्थः। आलङ्य=आसमन्तात लङ्गयित्वा षण्डेु=पझ्मसमूहदेषु गन्घवाहा वायव: प्रापिरे निषेविताः। कीदृशेषु षण्डेष्वित्याह-लोलत् चच्चलं यल्लाङगूलं पु- चछ तदेव वल्ली लता तया वलयिंतो मण्डलितो बकुलानोकहानां बकु लद्ुमाणा स्कन्धगोलः शाखासमूहो यैस्तैः । निनदद्भिः शब्दं कु र्बाणै र गोलाडगूलै: कृष्णमुखैवांनरै: कर्तृभिः प्रतिरितेन प्रतिघ्बनिना जर- न्त्यो जीर्णा: कन्दरा एव मन्दिराणि येषु तेषु। कीदशा वायव इत्याह-उद्द- डानामुन्नतदण्डानां पिण्डीतगराणां पिण्डखर्जूराणां तरलनाश्चान्चलय सम्पादका: कम्पयतार इत्यर्थः । किञ्च, उत्ताला उन्नता गभीरा वा ये तल्ाः सरांसि तेषु स्फुटितानां विकसितानां पुटकिनीनां पद्मनीना बन्घवस्तद्रत- सौरभयुक्ता इत्यर्थः । अस्मिन् पद्ये प्राढा प्रगाढा श्रुतिसुखा च रचना व्तने इति रचनाकविकाव्योदाहरणमिदम्। अथ शब्दकवि-विभजते-त्रिधेति। श्ब्दस्य नामाख्यातमेदभिन्नत्वात् १ नामकविः २ आख्यात कविः

Page 63

-पश्मोऽध्यायः। विधेव पुंसो भहिमेव राज: प्रज्ञेव वैद्यस्य दयेव साधोः॥ लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नुपस्य सैव ।। आख्यातकविर्यया- एब्ैस्तरां जइसुराजहपुर्जगर्जु- राजघ्निरे भुजतटीनिकरै: स्फुरद्दिः। सन्तुष्टुवुमुमुदिरे बडु मेनिरे च वाचं गुरोरमृत्सम्भवलाभगर्भाम्।। नामाख्यातकवि :- इतत्विषोञ्धाः शिथिलांसवाइबः श्रियो विषादेन, विचेतना इव। न चुक्कुशुरनो रुरुदुर्न सस्बनुर्न चेलुरामु्लिखिता इव क्षरम्।। ३ नामाख्यातकविरिति तस्ष न्रयः प्रभेदा इत्यर्थः।तत्र नामात्मकशब्द प्रधानरचनाशीलो नामकविरितियर्थः। नामकविकाव्यमुदाहरति-विद्येवेति। पुंसो विद्या यथा भूषणम्, राज्ञो महिमा यथा, वैदयस्य प्रज्ञा यथा, साधरदया- यथा, शूरस्य लज्जा यथा, यूनो मृजा (शुद्धिरौज्वल्यम्) यथा भूषणम्, तथा तस्य नृपस्य सैव भूषणमित्युर्थः । अत्र विद्यादयः सर्वेऽपि. नामशब्दा एव प्रयुक्ता नत्वेकोडप्याख्यातशब्द: प्रयुक्त इति नामकीवकाव्यादहारण- मिदम। यः कविराख्यातशब्दानेव बहुश प्रयुङ्गेस आख्यातकविः। आख्यातकविकाव्योदाहरणमाह-उचचैस्तरामिति। क्षीरसुमद्रादमृते मथ्यमाने सति तदमृतं सवैरेव देवैर्लप्स्यते इति बृहस्पतवींचमाकर्ण्य देवानां प्रहर्षस्य वर्णनम्। अमृतस्य सुधायाः सम्मवउत्पतिस्तस्य लाभो गर्मे यस्यास्तादशी गुरोर्बृहस्पतेर्वाचः श्रत्वेत्यध्याहार्यम्। ते देवा उच्चैस्तरां जहसुः। माजहषुः । स्फुरद्वि करैमुँजतटानि आजध्निरे। सन्तुप्टुबु। मुसुदिरे। गुरोरवाच बह्ु मेनिरे च। अत्र प्रायः सर्वें जाख्यातशबैंदा एवं प्रयुक्ता इत्याख्यातकविकाव्योदाइरणमिदम्। य:कविश्च नामशव्दान् आख्यात- शन्दाश्च समानतया प्रयुङ्गे स नामाख्यातकृचिः। नामाख्यातकविकाव्यमुदा- हरति-हतेति। प्रत्यअ्रजातपतिनिघनशोकाना विघवाना दुरवस्थाया वर्णन- मिद्मू। पत्युमरणेन सौभाग्यापगमात् इतत्त्रिषोऽपगतप्रभा अतएवान्घा: किऋकर्तव्यविमुढ़ाः, शिथिलासौ बाहू यासां तथाविधाः विषादेन खेदेन विचेतना 'इब ता:स्त्रियो न चुकुशु नों रुरुदु ने सस्वनु, किन्तु लिखिता इव न चेलुः।

Page 64

चन्द्रिकासहित काव्यमीमांसायां-

अर्थकवि :- देवी पुत्रमसूत नृत्यत गणा: ।किं तिष्ठुतेत्युद्धुजे

पायाद्टो जितदेवदुन्दुभिघनध्वानप्वृत्तिस्तयो

द्विघाSलेङ्कारकवि: शब्दार्थभेदेन। तथो: शब्दाऽलद्कार :- न पाप्त विषमरसं पाप्त पांपन कर्मणा विषमरणं च। ११ न मृतो भागीरथ्यां मृतोऽहसुपगूह्य मन्दभागी रथ्याम्।।

अत्र पूर्वार्धे नामप्रधाना, उत्तगद्धें चाख्यातप्रधाना रचनेति नामाखुपातकवि- काव्योदाहरणमिदम्। यश्चालद्वाररस मावादिनिर पेक्षमर्थमात्रमेव वर्णयति सोड र्थकवि.। अर्थकविकाव्योदाहरणमाह-देवीति। पार्वत्याः पुत्रोर्ंसवप्रसके शिवगणाना हर्षस्य वर्णनमिदम्। देवी पार्वती पुत्रमसून, हे गणा: 1 नृत्यव, किं तिष्ठत १ इति हर्षात् प्रमदात् उद्भुज उन्नमितभुजाये उदाहृतगिरा कृत- हषसूचकशव्दया चामुण्डया तन्नामकस्त्रीगणविशेषण आलिङ्गिते भृक्किरिटौ तन्नामके गणे सति जिता देवदुन्दुभेर्घनध्वानस्य प्रवृत्तिर्येन सा, अन्योन्यस्य परस्परस्य अङ्क निपातेन जर्जर भग्नप्रायं जरत् जीण यत स्थूलास्थि तस्माव- जन्म उत्पत्तियस्य सः तादशो रवो महान् तुमुलः शब्दो वे। युष्मान् पायाः दित्याशीः । अन्र कविना गणानां हर्षः कदशो जात इत्यर्थ एव बाढं वर्णितः, तन्र रसभावालक्कारादिसन्निवेशे न किश्विदपि प्रयतितमित्यर्थकविकाव्योदाहरण मिद्म्। अथालक्कारकविं विभजते-द्विधेति। अलद्काराणां शब्दार्थान्वयव्य तिरेकानुविधायित्वेन द्विविधत्वात्तत्र तत्र साभिनिवेशप्रवृति: कविरपि द्विविध: शब्दालङ्कारकविरर्थालद्वारकविश्चेत्यर्थः। तथोः। शब्दार्थालङ्कारयोः शब्दस्य प्रथमोपस्थितत्वात् ग्रथम शब्दालङ्कारमुदाहरति-न प्राप्तमिति। अनुतप्तस्य कस्याप्युक्तिरियम्। विषम कठिनं दुर्गमं वा यद्रणं युद्धं तन्न पा- सम, अपि तु पापेन कर्मुणा हेतुभूतेन विषद्धारा मरणं पप्तम्। एवमेव भागीरथ्या गङ्माया गुङ्गातीरे इत्यर्थ:, न मृतः, किन्तु मन्दभागी अरपभाग्यो दुर्भाग्यो वा सथ्यां मार्गमुपगूहृथ मार्गएवेत्यर्थः, महं मृत इति श्लोकार्थः ।अत्र

Page 65

५ह

अर्थाऽ्लद्कार :- भ्रान्तजिहापताकस्य फणच्छत्रस्य वासुकेः। दंष्टाशलाकादारिद्यूं कर्त्तु योग्योऽस्ति मे भुजः ॥ उक्तिकवि :- उदरमिदमनिन्धं मानिनीश्वासलाव्यं स्तनतटपरिखाहो दोर्लता ळेहासीमा। स्फुरति च वदनेन्दुईक्पसालीनिपेय- स्तदिड सुदृशि कुल्या: केलयो यौवनस्य।।

पद्ये 'विषमरणं' 'भागीरंथ्या इत्यंशयो. पादान्तयमक, शब्दशक्तमूलको- विरोधाभासश्रेति शब्दालद्कारप्राधान्याच्छळदालक्कारोदाहरणमिदम्। अर्था- लक्कारमुदाहरति-भ्रान्तेति। वीरस्य दर्पोकिरियम्-आ्रान्ताऽनवस्थिता जि. हारूपा पताका यस्य। मुहुरमुद्दुर्जिहाचालनपुरःसरं वायुभक्षणस्य सर्पस्वभाव खात्। फणएव छत्रं यस्य तस्य वासुके नागराजस्य दंष्ट्रारूपा या शलाका छत्रपताकावलम्बमूतो दण्डविशेषस्तस्य दारयं दुर्गुतिमभावं कर्तु दृष्टामुत्याः टयितुमित्यर्थः । मम मुजो बाहुर्योग्यः समर्थोडस्ति। अत्र जिह्ायां पता- कायाः फणे छत्रस्य दष्ट्राया शलाकाया स्तन्मूलक वासुकौ राजत्वस्य चारो- पादूपकालक्वार. तत्कृतैवात्र काव्ये चमत्कृतिरिति अर्थालक्कारोदाहरणमिदम्। सामान्यतो यद्वक्तव्य तद्यदि सहृदयहदयाह्वाटकेन भज्जन्तरेण पर्यायोक्तवि- घया डभिघायते तदेवोक्तिवैचितयं नाम। तादृशरचनाचतुरः कविरुक्तिकवि- रमिधीयते। उक्तिकविकाव्यमुदाहरति-उदरमिदमिति। फांचन लोको- चररूपसम्पद सुन्दरी दृक्टा कश्ित् सहृदय: स्वमित्र वदति। पूर्वदष्टस्य स- म्प्रतति परोक्षस्याऽपि तदुदरस्य वर्णनप्रसङ्ने मानसप्रत्यक्षवशादिदमा निर्देशः। इद=पुरो दश्यमान अनिन्दं सर्वथा निर्दोषं मानिन्यास्तस्या: स्वकीयेन इवो सेन निःश्वासवायुनाऽपि लाव्यं भङ्गुरं कृशतममिति यावत्। एतादशमार्द- वशारिन्यास्वस्या निःश्वासोऽपि परापेक्षया सूक्ष्म एव भवेत, तथा च तादश- सूक्ष्मनिःश्वासवायुनाऽपि यद्गह्गर तस्य कृशत्व सूक्ष्मत्वं' च कि वक्तव्य -मिति भाव:। 'सदसतसंशयगोचरोदरी' इत्यादिमहाक्कविवर्णनात् स्त्रीणामुं-

Page 66

६० चन्द्रिकासहित काव्यमीमांसायां-

यथा वा- मतीच्छत्याशोकीं किसलयपरावृत्तिमघर: १४ कपोल: पाएडुत्वादवतरति ताडीपरिखतिम्। परिम्लानपायामनुवदति दृाष्टिः कमलिनी मितीयं माधुर्ये स्पृशति च तनुत्वं च भजते ।।

दरकाश्यंमेव प्रशस्तमिति प्रसिद्धेः। दोरेव लता तस्या लेह्यस्यास्वाद्यस्य सी- मा मर्यादास्वरूप: स्तनतटस्य परिणाहो विशालताऽस्ति। यथा काऽपि लता स्व. भावतः कच्चित् हढ वृक्षमाश्ित्यैव शोभते वर्द्धते च, तथैव वर्णनीयनायिकाया- भुजरूपा लता विशाल स्तनतटमाश्रित्यैव राजते इत्यर्थः ।लेह्यसीमेत्युक्ते: स्व- नृतटस्य यावान् परिणाहोऽस्ति तावतपर्यन्तं दोर्लता प्रसरतीति कथितं भवतीति स्तनयोः पीनत्वं पृथुत्वं च व्यक्तं भवति। दगेव प्रणाली जलवहनमार्गस्तया निःशेषं पातुं योग्यो वदनमेव इन्दुश्चन्द्रः स्फुरति प्रकाशते । यथा जलपूर्णाद्वि- शालात् पात्रात् प्रणालिकाद्वारा तत्रत्यं सकलमपि जलं पातुं शक्यते, एवमेव लावण्याम्वुभरितस्य तद्वदनस्य लावण्यं नेत्रप्रणालिकाद्वारा साकल्येनानुभ- वितुं शक्यसित्यर्थः । तत तस्मात कारणात् इह सुदृदशि अस्यां सुनयनायां नायिकाया यावनस्य तारुण्यस्य याः केलयः क्रीडास्ताः कुल्याः अल्पाः स रित एवेति.मन्ये। अन्र 'कल्या' इत्यपपाठः। 'कुल्या' इत्येव पाठः समी- चीन: प्रतिभाति। यत्तु केचित् "तत्तस्मात् इहास्मिन सुदृश सुनयनार्या यावनस्य कल्या मादका. केलय: स्फुरन्ति" इति व्याचख्युः, तत्र 'इद-अस्मिन्' इत्यंशः कुत्नान्वेतीति न विद्ः। अन्यतारतम्यं सहृदया: स्वयमेव विचार यन्तु । स्पष्टार्थमुक्तिकविकाव्यस्योदाहरणान्तरमाह-प्रतीच्छनीति । अत्रापि कस्यान्चित्सुन्दर्या रूपसम्पदं निरीक्ष्य माद्यतो रसिकस्य सखायं अ्रत्युक्तिः। अधरः आशोकीम्, अशोकवृक्षसम्बन्धिनी किसलयपरावृत्ति नव- पल्लवविनिमयं प्रतीच्छति वाल्छति। एवं कपोलः प्रियविरहजन्यात् पाण्ड- त्वात् ताडीपरिणर्ति परिणततालशोभां अवतरति घारयति। दृष्टिः कमलिनीं परिम्लानप्रार्या प्रायशो म्लानामेव अनुवदति व्यञ्जयति। इति हेतोरिमं सुन्दरी माधुर्य मधुरिमाणं स्पृशति धारयति तनुत्व कृशत्वं च भजते वहति॥

Page 67

पञ्चमोऽध्यायः। ६१

रसकवि :- +/ एतां चिलोकय तनूदरि ताम्रपर्णो- मम्भोनिषौ विद्ृतशुक्तिपुटोद्भतानि। यस्या: पयासि परिखाहिपु हारमू्च्या

मार्गकि :- वामम्रुवां परिसमान्ति पयोधरेषु ॥

मूलं बालकवारुधां सुरभयो जातीतरूणां त्वच: सारथन्दनशाखिनां किसलयान्यार्द्राएयशोकस्य च। इत्यर्थः । अन्राघरः किसलयतुल्यः, कपोलः परिणततालपत्रसदशः, दृष्टिः कमलिन्यधिकशोभायुक्ता, इत्याद्यनुवत्वा उक्तक्रमेण वर्णनात भक्रथन्तरेणIS मिधानं भवतीति तदेव सहृदयहृदयाह्वादकमिति उक्तिकविकाव्यस्य स्पष्टार्थ- मुदाहरणान्तरामेदम्। अथ रसकविकाव्यमुदाहरति-एतामिति। स्व- काव्ये रसमेव मुख्यतया यो निबन्नाति स रसकविः। अत्रोदाहरणे ताम्रप- थ्यास्याया सरिति विहारकाले नायकस्य सन्निहिता नायिरका प्रत्युक्तिः । हे तनुदरि ! कृशमध्ये ! सुन्दरि ! एता ताम्रपर्णी विलोकय। अम्मोनिधौ समुद्रे विवृतेभ्यो विकसिताननेभ्यः शुक्तिपुटेभ्य उद्दृतानि सश्चितानि सम्पा- दिगनीति वा यस्यास्ताम्रपर्ण्याः सरितः पयासि जलान्येव परिणाहिपु उत्तुने- व्वित्यर्थः । वामभ्रवा सुन्दर्राणा पयोधरेषु स्तनेषु हारमूर्त्या हारस्वरूपेण परि- णमन्ति परिणाम भजन्ते। ताम्रपर्णीजलान्येव शुक्तिषु स्थितानि समुद्रे- मौक्तिकात्मना परिणमन्तीत्यर्थः । अत्र पर्यास्येव पयोधरेषु हारमूर्त्या परिण- मन्तीत्युक्त: काऽपि विच्छित्ति: प्रतीयतइति स्तनकुचादिशब्दाननुक्त्वा 'प- योधरेपु' इत्युक्त्म्। अत्र हे तनुदरि ! इति नायककृतनायिकासम्बोघनेन- वस्य तस्यामनुरागः प्रतीयते। तथा च तनूदरी नाययिका SSलम्बनम्। तस्या उत्तङ्गपयोधरदर्शनमुद्दीपनम्। वर्णनमनुभावः। एर्ता विलोकयेत्युक्ते नायक- गृतमौत्सुक्य व्यभिचारी चेति विभावानुभावव्यभिचारिसयोगान्नायकात्मसम- वेता नायिकाविषयिणी रतिः सम्मोगशृभ्रारात्मना Sडस्वादयोग्यतां गाहते इति रसप्राधान्याद्रसकविकाव्यमिदम्। अथ मार्गकविकाव्यमुदाहरति- मूलमिति। मागों नाम रीतिस्तत्पधानं काव्य यो निबन्नाति स मार्गकविः । नालकाश्च ता वोरुषश्र वासा कोमललतानामित्यर्थः । मूल कन्दम् । सुरभयः ६ का० मी०

Page 68

६२ चन्द्रिकासहित काव्यमीमांसायां- शैरीषी कुसुमोदगतिः परिणमन्मोचं च सोडयं गणो ग्राष्मेणोष्महर: पुरा किल ददे दग्धाय पश्चेषवे। शास्त्राथँकवि :- आत्मारामा विहितरतयो निर्विकल्पे समाधौ १७ ज्ञानोद्रेकाद्विवाटिततमोग्रन्थयः सत्वनिष्ठाः। यं वीक्षन्ते कमप तमसां ज्योतिषां वा परस्ता- तं मोहान्ध: कथमयममुं वेत्तु देवं पुराणम्।। एषां द्विन्रगुणै: कनीयान्, पश्चकैर्मध्यमः, सर्वगुणयोगी महाकाविः। सुगन्धयुता जाततिरूणां त्वचः, चन्दनशाखिनां चन्दनवृक्षाणां सारो मुख्यों शः, अशोकस्य आर्द्राणि क्विज्ञानि किसलयानि पल्लवा, शैरीषी शिरीषसम्ब न्घिनी कुसुमोद्ृतिः पुष्पाविर्भावः शिरीषपुष्पाणात्यर्थः । परिणमत् पाकोन्मुखं मोचं कदली चेति सोडयं पूर्वोक्त: शीतलपदार्थाना गणः ऊष्महर इति स न्तापहर इति हेता: पुरा शिवनेत्राग्निना दग्घाय पश्चेषवे कामाय ग्रष्मेण दचः । ऊष्महरा एते पदार्थां ग्रष्म एव भवन्तीति आवः। अन्न पद्ये कोमलवर्णसत्चात्समासाभावाच्च वैदर्भी रीतिरिति रीतिकविकाव्योदाहग्णमिदम्। अथ शास्त्रार्थकविकाव्यमुदाहरति-आत्मारामा इति। य: शास्त्रीयमर्थ काव्ये निवघ्नाति स शास्त्रार्थकविः। वेणीसहारनाटके कृष्णबन्धनोद्यद्यतं दुर्योघन शुत्वा भीमसेनस्य सहदेवं प्रत्युाक्तिः । आत्मन्येव आसमन्ताद्रमन्ते इति तथाविधा आत्मक्रीडाः, निर्विकलपे निरालम्बने मसम्प्रज्ञाते समाधौ विहितरतयः सर्वदा तदेकसक्ताः, ज्ञानोद्रेकात विशु द्वज्ञानोदयाघिक्यात् विघटितो दूरीभूत स्तमोग्रन्थिर्येषा ते, सत्त्वनिष्ठाः सात्त्विका सुन्यः तमसा ज्योतिषा च परस्ताद् विद्याविद्ययोरतीतं यं देवं कमपि अनिर्वचनीयस्वरूप परमात्मानं वीक्षन्ते मनोगेोचरीकुर्वन्ति, त तादशं देवं मोहान्घोड ज्ञानसमूढो डय दुर्योघनः कथं वेतु इत्यर्थः । अत्र निर्विकल्पसमाधि, सत्त्वोद्रेक, तमोग्रन्थि, ज्योतिरात्मादि- शब्दास्तदर्थाश्च योगदर्शनगता इति तेषा काव्यात्मना निबन्धनात शास्त्रा- र्थकविकाव्योदाहरणमिदम्। अथ पूर्वोक्तकविप्रभेदगुणैर्मिथां मिलितैः कवीनां तरतमभोवं कथयन्नाह-एषामिति। एपां पूर्वोक्तकविप्रभेदानां मध्ये द्वाभ्यां त्रिभिर्वा गुणैः शब्दार्थालङ्काररचनात्मकैर्युक्तः कविः कनीयान् अघ-

Page 69

पञ्चमोऽध्यायः। ६३

दश च कवेरवस्था भवन्ति। तत्र च बुद्धिमदाहार्यवुद्धयोः सप्, तिसूश्च औपदेशिकस्य। तद्यथा काव्यविद्यास्नातको, हृदयकवि:, अन्यापदेशी, सेविता, वटमानो, महाकविः, कविराज, आवेशिक:, अविच्छेदी, सङक्रामय्रिता च। यः कवित्वकामः काव्यविद्योपविद्याग्र हणाय गुरुकु- लान्युपास्ते स विद्यास्नातकः । यो हृदय एव कवते निह्ुते च स हृदयकविः । यः स्वमपि काव्यं दोषभयादन्यस्पेत्यपदिश्य पठति सो- जन्यापदेशी । यः प्रवृत्तवचनः पौरस्त्यानामन्यतपच्छायामभ्यस्यति स सेविता। योऽनवदं कवते न तु प्रवध्नाति स घटमानः । योऽन्यतरम- बन्घे प्रवीण: स महाकविः । यस्तु तत्र तत्र भापाविशेषे तेषु प्बन्धेपु तस्मिस्तस्मिंश्व रसे स्वतन्त्रः स कविराजः। ते यदि जगत्यपि कतिपये। यो मन्त्रादुपदेशवशाब्वब्धसिद्धिरावेशसमकालं कवते स आवोशिकः । यो यदैवेच्छति तदैवाविच्छिन्नवचनः सोऽविच्छेदी। यः कन्याकुमारा- मश्रेणिगत इत्यर्थः । पश्चमिः षड्मिवा गुर्णैयुक्त कविर्मध्यमः । पूर्वोकतैः सवैरेव गुणैयुंक्तश्रत् स महाकविव्यपदेशाहो भवततियर्थः॥ अथ कवेरवस्था आह-दश चेति। कवेः काव्यनिर्मातुर्दशसंख्याका अवस्था भवन्ति । तत्र यो बुर्द्धिमान् आहार्यवुद्धिश्र तयोः सारस्वताभ्यासिकयोः सप्तावस्था भवन्ति। औपदेशिकस्य दुर्वुद्वस्तिस्त्रो डवस्थाः सम्मवन्ति। अथावसरप्राप्ता अवस्था निरूपयितुकामम्ताद्दश्ानवस्थाविशिष्टानेव निरूप्य तद्द्वारा मवस्था अपि प्रकटयन्नाह-तद्यथेति। १ काव्यविद्यास्नातकः २ हृदयकवि: ३ .न्यापदेशी ४ सेविता ५ घटमान: ६ महाकविः ७ कविराज: ८ आवेशि- क: ९ अविच्छेदी १० सक्कामयिता चेत्येषु प्रत्येकं लक्षयति क्रमशः । तत्र प्रथमतः काव्यविद्यास्नातकमाह-यइति।कवित्व काभयमानो यः पुरुषः काव्योपयुक्ता आन्वीक्षिक्यादिविद्या कलादा उपविधास् अ्हीतु काव्यविद्या- धूर्धराणा महाकवीनां गुरूणां कुलानि सेवते सकाव्यविद्यास्नातकः । वेदमघीत्य स्नायादिति वत् काव्यविद्यागुरुभ्यो महाकविभ्यः काव्यविद्यां साकल्येनाधिगम्य यः स्नाति स इत्यर्थः । यश्च लज्जया दोषप्रकाशभिया वा स्वहृदयएव कवते स्वकाव्यमन्येभ्यो न दर्शयति स हृदयकविः । यः स्वनर्मितमपि काव्यं दोषभिया समामध्ये ऽन्यस्येत्युक्त्वा पठति सोऽन्यापदेशी।(यः प्रवृत्तवचनः

Page 70

६४ चन्द्रिकासहित काव्यमीमांसायां- दिपु सिद्धमन्त्र: सरस्वतीं सङ्कामयति स सङ्क्रामयिता। सततमभ्यास- वशतः सुकवेः वाक्यं पाकमायाि। "कः पुनरयं पाक: ?" इत्याचा- र्या:। "परिणामः" इति मङगलः। "कः पुनरयं परिणामः ?" इत्या- चार्याः। "सुपां तिडां च श्रवःमिया व्युत्पत्तिः" इति मङ्गलः । सौशब्धमतत्। "पदनिवेशनिष्कम्पता पाकः" इत्याचार्याः। तदाहुः- छन्दःपूरणाभ्यासवशात्प्रचलित कित/प्रवृ्त्तिः पुरुषः प्राचीनानां कवीना मध्ये कस्याऽपि भावमादाय स्ववचनैर्निबघ्नाति स सेविता ै यः अनवद्य निर्दोष रसभावपूर्णमपि रचयति. किन्तु तथाविध कमपि प्रबन्धं रचयितुं न शक्नो- ति। अर्थाद्यस्य रसभावपूर्णा रचनाशक्तिः सुदूरं नानुवर्त्तते मध्य एव त्रुख्य- ति से घटमान:। यो गद्यपद्यान्यतरप्रबन्धरचने प्रवीणः स महाकृविः।यश्च मागधाश।रेसन्यािप्राकृतसंस्कृतापभ्रंशादिमाषासु गद्यपद्ययोस्तत्तदलक्काररसवि- शेषे च यथेच्छं रचयितु समर्थः स कविरानः। कविराजास्तु प्रायशो नैव भवन्ति, ते ययदि जगति सम्मवन्ति तर्हि कतिपये एव। यो रूमन्त्रप्रभावात्, आदिपदात्सारस्वत चूर्णसेवन, मन्त्रसिद्धपुरुषकृतशिरःस्पर्श. देवतावरदानादि- तोऽपि लब्घकवित्वसिद्धिरावेशकालएब कवते स आवेशिकः/। य इच्छामा- त्रेण काव्यं कर्तुं शक्नोति, न तस्य किमपि प्रतिबन्धकं सोऽविच्छेदी ।य:, सिद्धमन्त्रः पुरुषः स्वशक्ति कन्याकुमारादिषु शिरःस्पर्शादिद्वारा संक्रामयति जनयति स संक्रामयिता। यत्तु केचित् 'संक्रामयति स्वस्मिन् स्थापयति स संक्रामयिता' इत्याहुस्तदपेशलम्। एवं कवीना भेदप्रमेदान्निरुप्य तदीयक- वितारना तारतम्यप्रयोजकं पाक व्याचिख्यासुराह-सततमिति। सुक- वे := सत्सम्प्रदायाधिगतकाव्यविद्यस्य रसभावघटनानिपुणस्य, न तु छन्दोमात्र पूरायितुः। निरन्तरं कविताभ्यासवशात् वाक्यानि पाकमनुभवन्ति। तन्रा-। चार्याणां शङ्का-कः पुनरयं पाक इति । तत्र मङ्गलाचार्यस्योत्तरम्-परि- णाम: पाक इति। कोडसौ परिणाम इत्याचार्यप्रश्ने पुनमर्लोत्तरम्-सुबन्त- तिङन्तपदानां श्रुतिमनोहरः सन्निवेश एव स इति। नेदमभिमतमाचार्या- णाम्। यदुक्त मङ्गलेन न, स पाक:, किन्तु सौशब्दयमात्रम्। पदाना सु- वतिङन्तादीनां निवेशने निष्कम्पता स्थिरतैव किल पाक इत्याचार्या. प्राह्ुः। तदेतदाचार्योकतं समर्थयति-आवापोद्दरणे इति। आवापः काव्यानु

Page 71

पश्चमोऽध्यायः । ६५

आवापोद्धरणे तावद्यावद्दोलायते मनः । पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ।। "आग्रइपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवै- मुख्यं पाक:" इति वामनायाः॥ तदाहु :- यत्पदानि त्यजन्त्येव परिवृत्तिसाहष्णुताम्। १ै तं शब्दन्यासानष्णाताः शब्दपाकं पचक्षते ।। "इयमशक्तिर्न पुनः पाकः" इत्यवन्तिसुन्दरी। यदेकस्मिन्वस्तुनि महाकवीनामनेकोऽपि पाठ: परिपाकवान्भवति, तस्माद्रसोचितशब्दा- र्थ मूक्तिनिवन्धनः पाकः। यदाह-

स्वढते सुधियां येन वाक्यपाक: स मां प्रति।। कूलपदनिवेशनं, उद्धरणं प्रतिकूलपदपरित्यागः, एतद्दूय तावदेव भवति, या- मन्मनः दोलायते विकल्पारूढ भवति। पदानां ्स्थैर्ये स्थापिते सति, पदृप- रिवर्तने Sनावश्यके सति सरस्वती सिद्धा हन्त इवि हर्षे। एतावता पदानां परिवर्चनानईत्वं पाक इति पूर्वमते फलितम् । अथात्र विषये वामनाचार्यमतमाह-आग्रहेति। आग्रहः पृदस- न्निवेशः, परिग्रहस्त्यागः। पदानां स्थैर्ये परिवर्तनासहत्वे पर्यवसायः पर्युव- सानस्। पदानां परिवृत्त्यसहत्वं पाक इति वामनमते फलितम्। उक्तार्थसु- पोद्धलयन्नाह-यत्पदानाति। यत्पवन्घघटकानि पदानि परिवृत्तिसह- त्वं त्यजन्त्येव, परिवृत्ति नैव सहन्ते, पदपरिवत्तने कृत सति सभीहितार्थ नोपस्थापयन्ति। शब्दाना न्यासे सन्निवेशने निष्णाता निपुणा. कवय. तं शब्दपाकमिति प्रचक्षते कथयन्तीत्यर्थः। उपरि दर्शितवामनमतप्रतिकूला राज- शेखरदयिताया वाग्देव्यवतारभूताया अवन्तिसुन्दर्या उक्तिमाह-इयमिति। यन: वामनमते शब्दाना परिवृत्त्यसहत्वं पाक इत्युक्तम्, नासौ पाक: किन्त्वेषा कवेरशक्तिरसामर्थ्यमेव। तत्र हेतुमाह-यदेकस्मित्निति। यत् यस्मात्का- रणात एकास्मिन्नपि वर्णनीये वस्तुनि महाकवीनामनेकोऽपि विविधोऽपि पाठ: परिपाकवान् भवति। तस्मात्पदानां परिवृत्यसहत्वं पाक इति वामनकथनं न सम- झसमित्यर्थः। स्वामिमते पाकलक्षणेन्येपा सम्मतिमाह-गुणेति। गुणानाम्-

Page 72

६६ चन्द्रिकासहित काव्यमीमासायां- तदुक्तम्न सति वक्तरि सत्यर्थे शब्दे सति रसे सति। २9 अस्ति, तन्न विना येन परिभूवति वोङ्मधु॥। "कार्यानुमेयतया यत्तच्छव्दनिवेद्य: परं, पाकोडभिघाविषयस्तत्स हृदयपसिद्धिसिद्ध एव व्यवहाराङ्गमसौ" इति यायावरीयः।स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति। तत्राद्यन्तयारेंस्वादु पिचु मन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वाद् परिणामे स्वादु मूद्ीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्ताकपा कम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु स इकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदाबुत्तममन्ते लक्काराणा रीतीनामुक्त्ीना शब्दानामर्थानां च ग्रथनस्य क्रमः येन हेतुना स्व- दते आस्वादयोग्यो भवति, स मा प्रति मन्मते वाक्यपाक इत्यर्थः । पाकमेव स्तुवन्नाह-सतीति। वक्तरि, शब्दे, अथे, रसे च सति, अर्थात् मुह- नीये वक्तीर सति श्रवणमनोहरे तदीये शब्दे च सति अनुच्छिष्टे तदर्थे च सवि, विगलितवेद्यान्तरानन्दोद्वोघसमर्थे रसे चाभिव्यक्ते सति येन पाकेन विना वाक् मधु न स्रवति स पाकोऽवशयमभ्युपेय इत्यर्थः। तमेव पाकं स्वमतेनाह-कार्यानुमेयतयेति।कार्येण सहृदयहृदयाह्ादकत्वलक्ष- णेन पाकस्य अनुमेयतया येन विना नाह्ादः स पाक इति विधया यत्तच्छ- रदनिवेद्यः पाकोऽभिधाविषयो वाच्यवृत्तिविषयः, किश्च सहृदयमण्डले तदनु- भवसिद्ध इत्यसौ व्यवहारस्याङ्गमेवेति राजशेखरमतम्। ईदशोऽसौ पाक: मुहुर्मुहुः काव्यमनुशीलयता कवीना नवप्रकारो भवति। तानू नवप्रकारन सलक्षणान् नामग्राहमाह-तन्रेति। तत्र तेषु नवसु पाकेषु मध्ये आदा- वन्ते चास्वादु काव्यं पिचुमन्दपाकम्। पिचुमन्दो निम्बः । तस्य सर्वावस्थासु कटुत्वात्। आदावस्वादु परिणामे मध्यम वदरपाक नाम काव्यम् । बदर- स्याऽपि तथाभूतत्वात्। आदावस्वादु परिणामे स्वादु मृद्धीकापाकं कान्यम् । मृद्ीका द्राक्षा तस्या आदावस्वादुत्वेऽपि परिणामे स्वादुतमत्वाद्। आदौ मध्यममन्से चास्वादु वार्ताकपाकं काव्यम्। वृन्ताकस्य तथात्वात्। भदाव- नते च भध्यमं तिन्तिड़ीकपाकं काव्यम्। तिन्तिडीकं चिथ्वा। तस्या आ-

Page 73

पञ्चमोऽध्यायः । ६७

मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकरपाकमिति। तेषां त्रि- घ्वपि त्रिकेंषु पाका: पथमे त्याज्याः । वरमकविर्न पुनः कुकवः स्यात्। कुकचिता ही सोच्छ्वासं मरणम्। मध्यमाः संस्कार्याः। संस्कारो हि सर्वस्थ गुणमुत्क्षति। द्वादशवर्णमपि सुवर्णे पांचकपाकेन हेमीभवति। शेषा ग्राह्याः। स्वभावशुद्ध हि न संस्कारमपक्षते। न सुक्तामणेः शा- णस्तारतायै प्रभवति। अनवस्थितपाकं पुनः कपित्थपाकमामनन्ति तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः ।

म्लैकरसत्वा। आदौ मध्यममन्ते च स्वांदुं सहकारपाक काव्यम। सहकार- आम्र: । तस्य परिणामे सरसत्वान्मधुरत्वाच्च। आदौ र्वादु परिणामे चा- स्वादु क्रमुकपाक काव्यम्। क्रमुकः पूगः। तस्यादौ सरसत्वेन स्वादुत्वात्। आदावुत्तममन्ते मध्यम त्रपुसपाक काव्यम्। त्रपुसं कर्कटी। तस्यास्तथात्वा- त्। आदावन्ते च स्वादु नालिकेरपाकं काव्यम्। नालिकेरस्य सर्वांवस्थासु वाडुत्वात्। अथोक्ताना पाकाना मध्ये तातरतम्यं कथयति- तेषामिति। तेषा नवविधपाकाना मध्ये त्रिष्वपि त्रिकेपु प्रथमे पाकाः पिचुमन्दवार्ताकक्र- मुक्पाकास्त्याज्याः। अस्वादुत्वादनादेया, इत्यर्थः । तत्र हेचुमाह-वर- मिति। अकविः कवित्वशक्तिरहितो वरम्, न पुनः कुकविः स्याद्। कुतः । कुकविता हि सोच्छवासं सजीवन मरणम्। यत्र प्राणा अपि न निर्गच्छन्ति व्याधिरपि न शाम्यति तथाविध जवन्मरणमित्यर्थः । मध्यमा बदरतिन्तिडाकत्रपुसपाका: संस्कारवशतो आ्ह्या सवन्ति। यतः संस्कारो हि सर्वस्य अघमस्यापि गुणमुत्कर्षयति वर्द्धयते। द्वादशवर्णमधममपि सुवणमग्नि- तापनेन विशुद्ध हेम भवतीति द्ष्टन्तः । शेषाः मृद्धीकासहकारनालिकेरपाका- स्तु यथेच्छ ग्राद्याः । तत्र सस्कारो नापेक्षित इत्याह-स्व्रभावशुद्ध- मिति। यत् स्वभावत, एव शुद्ध निर्दोष तत् सस्कार नापेक्षते। अत्र द- ध्टन्तः । सुवर्णस्योत्कर्षाधायकोऽपि शाणो सुक्तामणेस्तारतायै न भवति। अनवस्थित. स्पष्टमप्रतिपद्यमान: पाको यस्मिन् ईदश काव्यं कृपित्थपाकमि- त्युच्यते। यथा पलालस्य सस्यत्वचो घूननेन ईषदन्नकणलामो भवति, एव तथाविधकाव्यानुशीलनेन महता प्रयत्नेनेषतसुभाषितलाभो भवति। उपसह-

Page 74

६८ चद्रिकासहित काव्यमीमांसायां-

सम्यगभ्यस्यतः काव्यं नवधा परिपच्यंत। हानोपादानसूत्रेण विभजेचद्धि बुद्धिमान् ।। अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधि:। किन्तु विविधमप्येतत्त्रिजगत्यस्य वर्चते॥ ।। इति राजशेखरकृतौ काव्यमीमासाया कविरहस्ये प्रथमेऽधिकरणे शिष्यविशेषषु.काव्यपाककल्पः पश्चमोऽध्यायः॥ रति-सम्यगिति। काव्यं सर्वदा अनुशीलयतः कवेः काव्यं नवम्रकारै: पच्यते परिणमति। तन्र बुद्धिमान् पुरुषः हानोपादानयोस्त्यागग्रहणयोः सूत्रेण तद्विभजत्। अम्वादुप्रधानान् पाकान् परित्यजन् स्वादुमधानाश्चाद- दीत। शिष्याणा विनेयाना कृते अत्र अन्थे अयं त्रिविधपाकादानात्मको विधि: दर्शितः । किन्तु अस्य विविधा विचारा जगति वर्तन्ते सड्क्षेपादे- वात्र कथितमिति भावः । आादितः पञ्चमाध्यायपर्यन्तं यत्नतो मया। व्याख्याता काव्यमीमांसा राजशेखरनिर्मिति: ॥१॥ परीक्ष्यच्छात्रवृन्दस्य साहाय्यं कर्तुमिच्छता । राजशेखरवाग्याख्यासाहसं दुष्करं कृतम् ।। २ । गुणगृद्याः सहृदया अनसूयालुचेतसः । निरीक्षन्तामिमा व्याख्यां करुणाद्वैर्विलोचनैः ॥ ३॥ एता श्रीकाव्यमीमासा-चन्द्रिकासुज्ज्वलप्रमाम् । आचामन्तु चिरं छात्रचकोरा: स्दैरमुत्सुकाः ॥४ ॥ श्रीगङ्गाधरसद्गुरुप्रतिफ लत्सारस्वतज्योतिषः श्रीरामाद्विनिषवणापसुमतेः सन्तीर्णशास्त्राम्बुघेः। श्रीमद्देरवनायकात्मजनुषः सद्धर्मलक्ष्मीजुषः श्रीनारायणशर्मणः कृतिरियं विद्वन्मुदे जायताम् ॥५॥ इति श्रीमत् खिस्ते-इत्युपनामकभैरवनायकतनुजनि साहित्याचार्य श्रीनारायण शास्त्रिकृताया काव्यमीमासाचन्द्रिकाया पश्चमोऽध्यायः। समाप्तोऽयं प्रथमो भाग: ।

Page 75

TBE KASHI-SANSKRIT-SERIES M HARIDAS SANSKRIT GRANTHAVĀT AY N0. 86 ( Karya Section, No 13)

TAE

KĀVYAMĪMĀMSA

RAJASEXHARA

Edited Mith Ts eun THE KĀVYAMIMAMSÃ CHANDRĪKĀ COMKENTARY By SÂHITYÁCHÁRYA Pandit Sri Jareyana S'estm Rhisto L1est. Libsarian Goernment Sansrit College, Sas asteatr Bhawan Iabrary, Benares

( PART I ADHYAYAS I-Y )

PRINTED, PUBLISHED & SOLD BY JAI KRISHNADÂS-HIARIDÂS GUETA, The Chowkhamba Sanukrit Series Office, Vidya Vilan Prem, North of Gopalmandis, Benares City.

1931 [ Regrstered According to Act XXV of 1867. All Rights Reserved by the Publraher ]

Page 76

Printed-Published & sold by JAI KRISHNADAS HARIDAS GUPTA, , The Chowkhamba Sanskit Series Office, VIDYA VILAS PRESS, North of Gopal Mandır, BENARES CITY.