Books / Kavya Prakasa Balabodhini Vamancharya Jhalkikar Raghunath Damodar Karmarkar BORI 1950

1. Kavya Prakasa Balabodhini Vamancharya Jhalkikar Raghunath Damodar Karmarkar BORI 1950

Page 2

คอม จด

Shandarkar Oriental Bescarch Justitute, Loona

KAVYAPRAKASA

OF

MAMMATA

WITH

THE BĀLABODHINI

OF

THE LATE VAMANACHARYA JHALAKIKAR

Price Rs. 12

Page 4

Chandarkar Orientat Besearch Unstitute, Loona

KAVYAPRAKĀSA

OF

MAMMATA

With the Sanskrit Commentary Balabodhini

BY THE LATE VAMANACHARYA RAMABHATTA JHALAKIKAR

Reprinted from the Fifth Editionanode (B. S. S., Out of Series )

EDITED BY RAGHUNATH DAMODAR KARMARKAR, E. D., M. A. Head of the Department of Sanskrit, Bhandarkar Oriental Research Institute, Poona

Sixth Edition

All rights reserved

1950

Price Rs. 12

Page 5

ABAXAHTATVAX

ATAMMAM

AAAIHAJAUU ATTAHOAM

Contents pp. 1-16, Introduction pp. 1-38 and Text pp. 1-256 printed by Dr. R. N. Dandekar at the Bhandarkar Institute Press, Bhandarkar Oriental Research Institute, Poona 4, - and Text pp. 257-798 printed by K. G. Sharangapani at the Aryabhushan Press, Poona 4. Published by Dr. R. N. Dandekar, M.A., Ph.D., at the Bhandarkar Oriental Research Institute, Poona 4.

Page 6

॥। श्रीः ।।

मम्मटाचार्यविरचितः

काव्यप्रकाशः

झळकीकरोपनाम्ना रामभट्टात्मजेन

हक भट्टवामनाचार्येण

विरचितया वालबोधिन्याख्यटीकया समन्वितः

स च

करमरकरोपाह्वेन दामोदरात्मजेन रघुनाथेन पञ्चमावृत्तितः संशोघितः ।

षष्ठीयमङ्कनावृत्तिः।

शकाब्दा: १८७२। सिरिस्ताब्दा १९५०।

मुल्यं द्वादश रूपका:

Page 7

भाडाकाय्गक

अस्य ग्न्थस्य अनुक्रमणिकायाः पृ० १-१६, प्रस्तावनायाः पृ० १-३८, मूलग्रन्थस्य पृ० १-२५६ पुण्यपत्तने भाण्डारकर इन्स्टिट्च्ूटाख्ययन्त्रालये भाण्डार करप्राच्य विद्या संशोधनमन्दिरमन्त्रिणा, रामचन्द्र नारायण दांडेकर' इत्यनेन मुद्रितानि। मूलग्रन्थस्य पृ० २५७-७९८ पुण्यपत्तने आर्यभूषणाख्ययन्त्रालये के. ग. शारंगनाणी इत्यनेन मुद्रितानि। अयं ग्रन्थः पुण्यपत्तने भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरे रामचन्द्र नारायण दांडेकर इत्यनेन प्राकाश्यं नीतः।

अस्य च ग्रन्थस्य स्वामित्वं सप्तषष््युत्तराष्टा- दशशतेशसंवत्सरस्य पश्चविंशं नियम- इ मनुसृत्य संगृहीतम्।

Page 8

CONTENTS

Pages

İ Alphabetical Index of Subjects treated 7-12 .... ....

2 Extra Alamkāras not recognised by Mammața .... I3

3 Preface .... .... 14-16

4 Introduction .... 1-38 ...

5 Ullāsa I I-24 ... ....

II ... .... 25-71

III 72-81 .... ...

IV 82-189 ... ...

V 190-256 .... ...

VI 257-262 ....

VII 263-461 .... ....

VIII 462-490 ...

IX ... 491-539 ....

X .... .... S40-790

6 Verse Index .... 791-798

Page 9

ग्रन्थोपन्यास:।

विषयानुक्रमणिका ७-१२ असंगृहीतानामलंकाराणां नामानुक्रमः ... १३ टीकाकृतो मङ्गलाचरणम् १४-१६ ....

प्रस्तावना १-३८ काव्यप्रकाशे-प्रथमोल्लासः १-२४ द्वितीयोल्लासः २५-७१ " तृतीयोल्लासः ७२-८१ " चतुर्थोल्लासः ८२-१८९ पञ्चमोलास १९०-२५६ २५७-२६२ " षष्ठोल्लास: सप्तमोल्लासः २६३-४६१ "

"' अष्टमोल्लासः ४६२-४९० .:..

" नवमोल्लास: ४९१-५३९ ५४०-७९० " दशमोल्लासः काव्यप्रकाशोदाहतपद्यानां सूची ७९१-७९८

Page 10

वकणिसवन्द्राड

अत्र काव्यप्रकाशे टीकायां च प्रतिपादितानां विषयाणां वर्णानुसारिणी अनुक्रमणिका।

(*एतादृशचिह्नाङ्गितो विषयष्टीकास्थो ज्ञेय:)

विषयः उल्लास पष्ठे विषयः उल्लासे पृछ्ठ

अकाण्डे छेद: (दोष:) ... ७ ७ ४०० ... ४४० अपद्युक्तता (दो०) ...

अकाण्ढे प्रथनं (दो०) ७ ४४० अपद्स्थपद्ता (दो० ) ७ ३५९

अक्रमम् (दो०) ७ अपदस्थसमासता (दो०) ७ ३६१ ... 344

अगढव्यङ्गयम् ... ... १९१ अपदस्थसमसता क्विद्गुणः ... ७ ४३१ ... ५

अगूढव्यङ्गया लक्षणा २ अपराङ्गव्यङ्गयम् ... ५७ ५ १९४

अङ्गस्यातिविस्तृतिः (दो० ) ... ७ ४४१ अपस्मारः ४ ११४

अङ्गगङ्गिभावः संकरः (अलंकारः) १० ७५४ . अपह्नतिः (अ०) ... १० ६०६

अङ्रिनोऽननुसंधानम् (दो०) ७ ४४१ अपुष्टार्थता (दो०) ... ... ७ ... ३७९

• अतद्गग: (अ० ) ... १० ४४७ अप्रतीतत्वं (दो०) ... ७ २८१

· अतिशयोक्तिः (अ० ) १० ६२८ अप्रर्तातत्वं क्वचिद्गुण: ७ ... ४२३

अत्यन्ततिरस्कृतवाच्यध्वनिः ४ अप्रयुक्तता (दो०) ... ७ ... २७०

अद्भतरसः ... ... ४ ९८ अप्रयुक्तता क्वचित् न दोष: ७ ४१९

अधमकाव्यम् ७ ... ... १ २२ अप्रयुक्ततादानां पृथगुक्तिचीजम् ३२६

अधिकम् (अ०) ... १० ... १० ७२३ अप्रस्तुतप्रशंसा (अ०) ... ६१८

अधिकपदम् (दो०) ... ७ ... ... ३०४ अप्रस्तुतप्रशंसाभेदाः ... ... १० ६१८

अधिकपदता क्वचित् गुण: ७ ४४८ अप्रस्तुतप्रशंसाया दोष: तस्योक्तेS-

अनङ्गस्याभिधानं (दो०) ७ ४४५ न्तर्भावश्र १० ७८७

• अनन्बयः (अ० ) १० ५८१ अभवन्मतयोग: (दो०) ७ ३४६

अनर्भिितवाच्यम् (दो०) ७ ३५६ अभिधामला व्यञ्जना २ ६3

अनवीकृतम् (दो०) ७ अभिधाविचारः २ ३९ ... ३९३ *ंअनित्यदोष लक्षणम् ७ २६५ अभिनयः २ ६७

अनियमपरिवृत्तम् (दो०) ७ ... ३९५ अमतपरार्थता (दो०) ७ ३७७

अनुकरणे सर्वेषामदोषता ७ ४१२ अमर्ष: ४ ११४

अनुचितार्थम् (दो०) अयुक्तविधि: (दो० ) ७ ४०२ ७ ... २७३

अनुपलब्धि: १० ७५० अयुक्तानुवादता (दो०) ७ ४०४ ... · अनुप्रासः (अ० ) ४८४ अर्थगुणास्वीकार: ... ४८३

७३९ अर्थचित्रस्वरूपम् ... ६ २५७ अनुप्रासदोषा: तेषामुक्तेष्वन्तर्भावश्र्य १० ...

८६ २६१ • अनुभाव: ... ४ अर्थचित्रस्य बहुभेदता ६ ...

अनुभावस्य कष्टकल्पना (दो०) ७ ४३७ अर्थचित्रोदाहरणम् :. ६ २६०

१० ६९६ अर्थदोषा: ... ७ ३७८ अनुमानम् (अ० ) ४०४ *अर्थदोषाणां नित्यानित्यत्वविवेक: ७ ३७९ अनुवादायुक्तता (दो०) ७ ... अन्यशब्दसंनिधि: २ ६३ अर्थभेदा: २ ... ... २५

· अन्योन्यम् (अ०) ... ... १० ७०७ अर्थव्यक्ति: (अर्थगुण:) ८ ... ४८२

Page 11

अनुकरमणिका।

विषयः उल्लासे पष्ठे विषयः उल्लासे प्ने अर्थव्यक्ति: (शब्द्गुणः) ४७९ • उत्प्रेक्षा (अ०) ... १० ... ५७६ अर्थव्यञ्जकता २ २८ उत्प्रेक्षादोषः तस्योक्तेSन्तर्भावश्रय १० ... ७८४

अर्थव्यञ्जकतायां शब्दस्य साहाय्यम् २ ... ७० उदात्तम् (अ०) ... १० ... ६८३ अर्थशक्त्युत्थध्वनिविभागः ४ १३५ उदात्तम् अन्यविधम् (अ० ) १० ... ६८५

अर्थशक्त्युत्थव्वनिप्रभेदानामुदाहरणानि ४ ... १३५ उदारता (अर्थगुण:) ... ४७९

अर्थशक्त्युत्थध्वाप्रभेदानां प्रबन्ध उदारता (शब्दगुण:) ४७९

गतत्वम् ४ १६६ उद्देश्यप्रतिनिर्देश्यस्थले कथितपदस्या

• अर्थान्तरन्यासः (अ० ) १० ६६१ ०दुष्टता. ७ ... ३६७

अर्थाम्तरन्यासदोषः १० ७८५ उपनागरिका (रीतिः) ९ ... ४९७

४ ८२ •उपमा (अ०) ... १० ... ५४७

. अर्थापत्तिः १० • उपमा आर्धी (अ० ) १० ... ५५२

. अर्थालंकारा: १० ५४० उपमादोषा: तेषामुक्तेष्वन्तर्भावश्च १० ... ७७२ ... अर्था्तिरैकवाचकता (दो०) ७ ३४५ उपमादोषौ अपरौ तयोरुक्त्तेऽन्तर्भा-

अलक्ष्यक्रमव्यङ्गयध्विः ४ ८४ वश्च ... १० ... ७६३

अलंकारदोषाणामुक्तेष्वन्तर्भावः १० ७६९ उपमानस्य आधिक्ये न व्यतिरेक: १० . ... ६४५

•अलंकारलक्षणम् ८ ४६५ उपमा पूर्णा १० ... ५४७

अलंकाराणां शब्दार्थगतत्वे नियामकम् ९ ५१: उपमायां कालादिभेददोषः १० ... ७७८

१० ७६७ उपमार्यां कालादिभेदस्य क्वचित् आवाचकता (दो०.) ... " " ७ २७४ अदोषता १० ... ७८१

अविमृष्टविधेयांशत्वम् (दो०) ७ २७८ उपमायां लिङ्गवचनमेददोष: १० ७७४

अविवक्षितवाच्यध्वनिः ४ ८२ उपमायां लिङ्गवचनभेदस्य अदोषता १० ... ६७७

अविशेषपरिवृत्तः ७ ३९७ उपमाया: पञविंशतिवविधत्वम् ... १० ५७९

अश्लीलार्थता (दो०) ७ ३०५ उपमा लुप्ता १० ... ५४७

असगतिः (अ०) .. १० उपमाविचार: १० ... ५६१

असंगतेर्विरोधाद्वेद: ... १० ... ७१६ उपमा श्रौती न १० ... ५४९

असमर्थता (दो०) ... उपमेयोपमा (अ०) ७ २७१ १० ... ५८४

असुन्दरव्यङ्गयं मव्यमकाव्यम् ५ २११ उपहतविसर्गता (दो०.) ७ ... 330

अस्थानस्थपदता (दो०) उपादानलक्षणा २ ४३ ... ७ ३५९ अस्थानस्थसमासता (दो० ) ७ ३६१ एकदेशिवर्तिरूपक्म् (अ० ) १० ... ५९७

अस्थानस्थसमासता क्वचित् गुण: ७ ४३१ -एकावली (अ० ) ... १० ७२९

अस्फुटव्यङ्गयम् २०८ एक।श्रयानुप्रवेशः संकरः १० ७६५

आक्षेप: (अ० ) ओजोगुण: (अर्थगत:) १० ६५४ ८ ४८१

अक्षिपार्थापत्तिस्थले न लक्षण। ओजोगुणः (रसगतः) ८ ४७५ ... ४४ ओजोगुणस्य व्यञ्ञका: ८ ४८५ *आख्यायिकालक्षणम् ८ आर्थी उपमा (अ० ) ओजोगुणस्य लक्षणम् ४७५ १० ५५२ *कथारलक्षणम् ... ४९० आर्थी व्यञ्ञना ३ ७२ कथितपदत्वम् (दो०) ... ७ ... ३४२ उत्तमकाव्यम् १ १९ कथतपदत्वस्य अदाषिता ... ७ ३६७ उत्तरम् (अ० ) ... १० ७०८ कथितपदत्वस्य गुणता ... ७ ... ७२९ उत्तरस्य नान्यस्मिन्नन्तर्भावः ... १० ७१० कर्णावतंसादिपदे न पौनरुक्त्यदोष: 9 ... ४०६

Page 12

प्रस्तावना । रिति पक्षमेव युक्तिप्रयुक्तिमिः संस्थाप्य जातिरेवेति मीमांसकसंमत पक्षं मम्मटः स्वयमेव निराकृत- वानिति तत्कृतं ग्रन्थान्तरमपि तस्य वैयाकरणत्वं स्पष्टमवगमयति। तथा (२८४ पृष्ठे) 'अत्रिलोचन- संभूतज्योतिरुद्रमभासिमिः' इति क्विष्टपदोदाहरणमपि मम्मटस्य वैयाकरणत्वमेवावेदयति। अन्यथा "सुप्तिडन्तं पदम्" (१।४।१४) इति पाणिनिमुनिप्रणीत पदलक्षणमनादृत्य 'शक्तं पदम्' इति पदलक्षणं कुर्वतां समासे शक्त्यभावं च वदतां नैयायिकादीनां मते 'अविलोचन' इत्यादौ समस्ते शक्त्य- भावात्पदत्वाभावेन तस्य पदोदाहरणत्वमनुपपन्नमेव स्यात्। एवं (६७९ पृष्ठे) 'भस्मोद्ूलन०' इत्यु- दाहरणे 'सुखालोकोच्छेदिनि' इत्यस्य समस्तत्वेन एकपदत्वात सुखालेकोच्छेदित्वस्यैकपदार्थत्वमुक्तम् तदपि मन्मटस्य वैयाकरणत्वमेव बोधयति। वैयाकरणत्वादेव च मम्मटेनात्र काव्यप्रकाशे बहुषु स्थलेषु वैयाकरणानां पारिभाषिकशब्दैर्व्यवहारः कृतः । यथा असंगत्यलंकारे (७१६ पृष्ठे) "अपवादविषय- परिहारेणोत्सर्गस्य व्यवस्थितेः" इति। अत एव च "क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना" इति सूत्रव्याख्यानावसरे (६५६ पृष्ठे) प्रदीपकारैरुक्तम् "वैयाकरणमते क्रियैव हेतुरिति क्रियेत्युक्तम् वस्तुतस्तु कारणप्रतिषेधेऽपि विभावना" इति। अत एव च मम्मटेन दशमोल्लासे उपमायाः पूर्णालुप्तावि- भागो वैयाकरणमतमवलम्व्य वाक्यसमासकिपक्यच्क्यड्णमुलादिप्रत्ययविशेषविषयतया पञ्चविशति- विधो व्युत्पादितः । अत एव च तत्रैव (५७९ पृष्ठे) नागोजीभट्टाः "वस्तुतोऽयं पूर्णालुप्ताविभागो वाक्यसमासक्यच्क्यडादिप्रत्ययविशेषगेचरतया श्दशास्त्रव्युत्पत्तिकौशलप्रदर्शनपरत्वादत्र शासते न व्युत्पाद्यतामर्हति" इति प्राहुः। एवं चायं मम्मटो वैयाकरणसिद्धान्तानुसार्येव। एवं भट्टोद्भटप्रभृतयोऽ- लंकारशास्त्रनिर्मातारः। प्राञ्चोऽपि वैयाकरणसिद्धान्तानुसारिण एवेति प्रपञ्चयिष्यतेSस्माभिर्नवमे प्रघट्टे इति तत एव द्रष्टव्यम्। किं बहुना यदेव वैयाकरणानां मत तदेवालंकारिकाणां मतम्। अत एव परिसं- र्यालंकारे (७०३ पृष्ठे) नागोजीभट्टैरुक्तम् "नियमोऽप्यत्र दर्शने (अस्मिन्नलंकारशास्त्रे) उक्तलक्ष- णाक्रान्तत्वात्परिसंख्यैव" इति। उक्तं च 'शरत्कालसमुल्लासि०' इत्युदाहारणीयवृत्तिग्रन्थव्याख्यानाव सरे (२८४ पृष्ठे) तैरेव नागोजीभट्टैः "वैयाकरणनये इवालंकारिकैरपि वृत्तावेकार्थीभावाङ्गीकारात्" इति। उक्तं च कुतलयानन्दटीकायामलंकारचन्द्रिकायां तुल्ययोगितालंकारै वैद्यनाथेनापि "एवमप्य- भावस्य कर्थ गुणबहिर्भावः जातिक्रियाद्रव्यातिरिक्तस्यैव 'चतुष्टयी शब्दानां प्रवृत्तिः' इति वदद्भिः वैयाकरणैस्तदनुसारिमिश्वालंकारिकैर्गुणत्वाङ्गीकारात्" इति। उक्तं च प्रथमोल्लासे ( १९ पृष्ठे) मम्म- टभट्टैरेव "बुधैरवैयाकरणैः ००० शब्दस्य ध्वनिरिति व्यवहारः कृतः ततस्तन्मतानुसारिभिरन्यैरपि (अलंकारिकैरपि ) " इति। किंच (५८७ पृष्ठे) 'लिम्पतीव०' इत्युदाहरणे "व्यापनादि लेपना- दिरूपतया संभावितम् " इति ग्रन्थेन क्रियास्वरूपोत्प्रेक्षास्थापनपूर्वकं लेपनकर्तृतादात्म्योत्प्रेक्षायाः वर्षणकर्तृतादात्म्योत्प्रेक्षायाश्च निरसनं कृतम् तदपि वैयाकरणानां नये इवालंकारिकाणां नयेऽपि क्रिया- मुख्यविशेष्यकबोधमेव व्यनक्ति न तु नैयायिकनये इव कर्तृमुख्यविशेष्यकबोधम्। अत एव काव्या- दर्शे दण्डिनापि तस्मिन्नेवोदाहरणे "कर्ता यद्युपमानं स्यात्००" इति ग्रन्थेन कर्तुरुपमायामुपमानतया अन्वयं निराकृत्योपमाया निराकरणं कृतम्। तदेतदप्यस्माभिः 'लिप्पतीव०' इत्युदाहरणे प्रदर्शितमिति तत्नैव द्रष्टव्यम्। अपि चोपमाप्रकरणे (५४२ पृष्ठे) प्रदर्शितः "अलंकारिकाणामपि सादृश्यं पदार्था- न्तरम् न तु साधारणधर्मरूपम्" इति रसगङ्गाधरग्रन्थः "अपिना वैयाकरणादिसमुच्चयः" इति तडी-

१ अत्र दर्शने इति। 'वैयाकरणदर्शने इव' इति शेषः ॥ प्रस्तावना २

Page 13

१० काव्यप्रकाशः ।

काग्रन्थोऽपि यदेव वैयाकरणमतं तदेवालंकारिकाणां मतमिति सूचयति। एवं 'भद्रात्मनः०' इत्यु- दाहरणे ( ६८ पृष्ठे ) संदर्शितः "मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्टयज्ञानप्रतिभाधुद्बुद्धः संस्कारविशेषो व्यञ्जना। अत एव 'च वा ' इत्यादिनिपातानां द्योतकत्वं स्फोटस्य व्यङ्गयता च [ भर्तृ ] हर्यादिभिरुक्ता । द्योतकत्वं च क्वचित्समभिव्याहृतपदीयशक्तिव्यञ्जकत्वमिति वैयोकरणानामप्येतत्स्वीकार आवश्यकः" इति आका- द्ावादोक्तवैयाकरणसिद्धान्तमञ्जूषाग्रन्थोऽपि वैयाकरणानामलंकारिकाणां च मतस्यैक्यमेव द्योतयति। तदेतत्सर्वमभिप्रेत्यैवाभिज्ञाः 'इदमलंकारशास्त्रं व्याकरणशास्त्रस्यैव परिशिष्टो भागः' इति 'व्याकरण- शास्त्रस्यैव पुच्छभूतमिदं शास्त्रम्' इति च वदन्ति । युक्तं चैतत् । अत एव व्याकरणशास्त्रेण साधुत्वे- नान्वाख्यातानामपि शब्दानां प्रयोगनियमः प्रयोगनिषेधश्चानेन शास्त्रेण विधीयते। तत्र प्रयोगनियमो यथा 'अनङ्गमङ्गल०' इत्युदाहरणे (२६७ पृष्ठे) कार्तार्थ्यमिति श्रुतिकटुः शब्दः सहृदयैः रौद्रादिरसे एव प्रयोक्तव्यः न तु शृङ्गारादौ रसे इति। एवं रणितक्कणितशिञ्चितगुञ्जितादिशब्दाः (३६४ पृष्ठे ) यथाक्रमं मञ्जीररशनाघण्टाभ्रमरादिध्वनिष्वेव प्रयोज्याः नान्यत्र । तथा रवादिशब्दाः (३६५ पृष्ठे) मण्डूकादिशब्देष्वेव प्रयोक्तव्याः न तु सिंहनादादाविति। तथा अ्लीलादिशब्दाः (४२१ पृष्ठे) सुर- तारम्भगोष्ठयादावेव प्रयोक्तव्याः नान्यत्रेति । यथा ग्राम्यादयोऽपि (४२६ पृष्ठ) विदूषकाद्युक्तावे- वानुगुगा नान्यत्रेति यथायर्थ प्रयोगनियमो बोध्यः । प्रयोगनिषेधो यथा 'यथायं दारुणाचारः' इत्यु- दाहरणे (२७१ पृष्ठे) दैवतशब्दः पुंस्याम्नातोऽपि विदग्धैर्न प्रयोज्य इति। एवं कर्णावतंसादि- शब्दानां (४०६ पृष्ठे) जघनकाञ्च्यादिशब्दानां (४०९ पृष्ठे) च तुल्येऽपि पौनरुक्त्ये कर्णावत- सादय: पण्डितैः प्रयोक्तुं योग्याः न तु जघनकाञ्च्यादय इति यथायथं प्रयोगनिषेधोऽवगन्तव्यः। अत एव च वैयाकरणगिरोमणिना भट्टिकविना तृतीयं प्रसन्नकाण्डं स्वकृतभट्टिकाव्ये प्रवेशितम्। तथाहि। भष्टिकाव्यस्य द्वाविंशतिः सर्गाः । ते प्रकीर्णाधिकारप्रसन्नतिडन्तकाण्डैश्चतुर्धा विभक्ताः । तत्र प्रथमे प्रकीर्णकाण्डे व्याकरणशास्त्रानुसारेण सामान्यविशेषकार्याण्युदाहरणद्वारा प्रदर्शितानि । द्वितीयेऽधि- कारकाण्डे पाणिनीयाष्टकान्तर्गताधिकारानुसारेण कार्याण्युदाहृतानि। तृतीये प्रसन्नकाण्डे साहित्यशा- स्त्नानुसारतः अनुप्रासयमकादिशब्दालंकारा उपमाद्यर्थालंकारा माधुर्यादिगुणाश्च संदर्शिताः । चतुर्थे तिडन्तकाण्डे सर्वेषु लकारेषु नियतान्यपोदितानि च धातुरूपाणि संकलितानि। यदीदमलंकारशास्त्रं व्याकरणशास्त्रान्तःपाति न भवेत्तदा व्याकरणार्थनिरूपणैकतात्पर्येऽस्मिन्काव्ये व्याकरणशास्त्रानुसार्युदा- हरणप्रपश्चप्रदर्शनप्रसङ्गऽनुप्रासादीनामलंकाराणां माधुर्यादीनां गुणानां च प्रदर्शनं किंप्रसङ्गकं स्याद्। उक्तं च भट्टिकाव्यटीकार्यां जयमङ्गलाख्याय।ं प्रसन्नकाण्डारम्भे जयमङ्गलेनापि "शब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थ प्रसन्नकाण्डमुच्यते काव्यस्य प्रसन्नत्वात्" इति । किमत्र बहुना कथनेन यदयं भट्टिकवि: स्वयमेव द्वाविंशे सर्गे "दीपेतुल्यः प्रबन्धोडयं शब्दलक्षणचक्षुषाम्। हस्तामर्श इवान्धानां

१ उक्तेति । वाक्यपदीयादाविति भावः ॥ २ वैयाकरणानामपीति । अपिना अलंकारिकारणां समुच्चयः॥ एतत्स्वीकार: व्यञ्ञनास्वीकारः ॥अत एव चेति। अस्य शास्त्रस्य व्याकरणपरिशेष्टत्वादेव चेत्यर्थः ॥५ व्याकरणार्थेत्यादि। तदुक्तं प्रसङ्गवशात्काव्यप्रकाशटीकार्यां विद्यासागरभट्टाचायेः "भहिकाव्यस्य व्याकरणार्थ- निरूपणैकतात्पर्यस्य " इति तदप्यस्मत्कृतटीकार्या (२९८ पृष्ठे) प्रदर्शितमिति तत्रैव द्रष्टव्यम्॥ ६ अयं अबन्धो महाकाव्यसंज्ञकः । प्रबध्यते विरच्यते इति कत्वा। शब्दलक्षणमेव चक्षुर्येषां तेा दीपतुल्यः। अत एवै- तत्काव्याधिगमात्स्वातन्त्रयेणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात्। व्याकरणादते विना हस्तामर्श इवान्धानां हस्तामर्शं इवावबोधः। यथा अन्धानां हस्तेन घटपटादिवत् स्वपरामृश्यसंस्थानमात्रपरिज्ञानं न यथावस्थितस्वरूपप-

Page 14

प्रस्तावना । ११ भवेद्याकरणादटते ॥।" इति ३३ श्लोकेन स्वकाव्यस्य साहित्यशास्त्रानुसार्यलंकारादिदर्शकस्यापि व्याक- रणविदेकादरणीयत्वं दर्शितवान्। किं चोक्तश्लोकस्य जयमङ्गलेन "य एव व्याकरणमधीतवान् तस्यैवात्र (काव्ये ) आदरो युक्त इति दर्शयन्नाह दीपतुल्य इत्यादि" इत्यवतरणवाक्यमपि दर्शितम्। तस्मादिदं शास्त्रं व्याकरणस्यैव पुच्छभूतम् न तु न्यायादेमीमांसादेवा शास्त्रस्य। अन्यथा न्यायादि- शास्त्रे कण्ठरवेणैव निरासितायाः मीमांसादिशास्त्रे नामतोऽप्यश्रूयमाणायाः व्यञ्जनायाः खपुष्पायमाण- तया व्यञ्जकशब्दस्य व्यङ्गयार्थस्य चाभावेनात्र 'वाचको लाक्षणिको व्यञ्जकश्च' इति त्रिविधस्य शब्दस्य 'वाच्यो लक्ष्यो व्यङ्गयक्ष' इति त्रिविधस्यार्थस्य 'अभिधा लक्षणा व्यञ्जना च' इति त्रिवि- धायाः वृत्तेन प्रतिपादनं कथं संभवेदिति विदांकुर्वन्तु विद्वांसः । काव्यप्रकाशस्य त्रयोंडशा: कारिका वृत्तिरुदाहरणं चेति। कारिकैव सूत्रनाम्ना व्यपदिश्यते अत एव परिसंख्यालंकारे (७०३ पृष्ठे ३० पङ्मौ) महेश्वरभट्टाचार्यकृते काव्यप्रकाशादर्शे "उदा- हरणेषु दृष्टत्वात्सूत्रानुक्तमपि प्रभेदद्वयमाह" इति उत्तरालंकारे (७०९ पृष्ठे १६ पङ्मौ) भीमसेन- कृते सुधासागरे "सूत्रे प्रश्नोत्तरपदं पूर्वापरवाक्योपलक्षकम् " इति एकावल्यलंकारे (७३० पृष्ठे २५ पङ्गौ) वैद्यनाथकृतायां प्रभायां "सूत्राक्षराननुसाराच्चोपेक्ष्यम्" इति संदेहसंकरालंकारे वैदयनाथ- कृतायां कुवलयानन्दचन्द्रिकायां "स्फुटमेकत्रविषये शब्दार्थालंकृतिद्वयम् इति सूत्रेणेत्यर्थः " ईति विषमालंकारे (७२२ पृष्ठे ७ पङ्मौ) गोविंदठक्कुरकृते काव्यप्रदीपे "सूत्रे विभागः उपलक्षणपरः" इति तत्रैव नागोजीभट्टकृते उद्दयोते "एवामन्यालंकारसूत्रेष्वपि विभागः उपलक्षणमिति ध्वनितम्" इति प्रतीपालंकारे (७३८ पृष्ठे १० पङ्कौ) काव्यप्रदीपे "सूत्र चोपलक्षणपरतया योज्यम्" इति अतद्गुणालंकारे (७४८ पृष्ठे ९ पङ्मौ) काव्यप्रदीपे "अत् सूत्रे प्रकृतमिवाप्रकृतमुच्यते" इति चोक्तमिति दिक्। एतासां कारिकाणां सूत्रत्वेन व्यवहारादेव तद्याख्यानभूताया मम्मटोक्त- फैकिकायाः वृत्तिरिति नाम संगच्छते सूत्रव्याख्याया एव प्रायशो वृत्तिरिति शिष्टव्यवहारदर्शनात्। यथा पाणिनिसूत्रव्याख्यायाः काशिका वृत्तिरिति । यथा वा वामनसूत्रवृत्तिरिति । अत एव संसुष्टयलंकारे (७५४ पृष्ठे ६ पङ्मौ) 'एकत्र शब्दभागे एव' इत्यस्याः सूत्रव्याख्यानरूपफाक्किकाया वृत्तिग्रन्थ इति व्यवहारश्वक्वर्तिभट्टाचार्याणामिति बोध्यम्।। ताश्च कारिका: १४२ संख्याङ्काः सूत्राणि च २१२ संख्याकानि। तत्रें सर्वासामपि कारिकाणां परिकरालंकारपर्यन्तायाः वृत्तेः तत्पर्यन्तस्योदाहरणोपन्यासस्य च कर्ता मम्मट एव। परं तु उदा- हरणानि प्रायोऽन्यदीयान्येव गृहीतानि न तु स्वकृतानि॥ अत्र विवरणकारा अपि "काव्यप्रकाशस्य द्वावंशौ कारिका वृत्तिश्चेति । 'भरतमुनिप्रणाता या कारिका सा अलंकारसूत्रनाम्ना व्यवहियते मम्मटप्रणीता तु वृत्तिः सैव काव्यप्रकाशनामभाक्' इति वङ्गीयानां प्रवादः । स चाविचारविजुम्भित एव । यदि कारिकाकृत् भरतमुनिः स्यात्तदा चतुर्थोल्लासे रिज्ञानं एवमनधीिव्याकरणानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश् तत्स्वरूपापरिज्ञानात् कुतोऽ्य- न्यशन्द्रप्रयोग इति। १ अन्यथा कर्थ प्रतिपादनं संभवेदित्यन्वयो बोध्यः ॥२ इदं तु कुवलयानन्दचन्द्रिकायामेव द्रष्टव्यम्॥ 3 फक्किका च विवरणात्मको गद्यमयः शब्दसंदोहो वाक्यसमूहो वा ॥ "काव्यालंकारसूत्राणां स्वार्था वृत्तिर्विधीयते" इति वामन॥ ५ तत्रेति । कारिकावृत्त्युदाहरणेषु मध्ये इत्यर्थः ॥

Page 15

२ काव्यप्रकाश:।

(८७ पृष्ठे) कारिकया उक्तस्यार्थस्य प्रमाणतया 'उक्तं हि भरतेन' इत्यादिना भरतोक्तिरुद्भता न स्यात्। कः खल्वनुन्मत्तस्तदुक्तावेव तदुक्ति प्रमाणतया उपन्यस्यति। अपि च नाट्यसूत्रकृदेव भरतः प्रसङ्गात् रसादिविषयकाण्यपि सूत्राण्येव प्रणिनाय न त्वलंकारसूत्राण्यपि। अत एव नाट्याचार्यतयैव तस्य प्रेसिद्धिः । अलंकारसूत्रतया प्रसिद्धं द्वयमेवाधिगतमस्माभिः एकं शौद्धोदनिकृतम् अपरं वामन- कृतम्। किं तु शौद्धोदनिसूत्रोक्तकाव्यकक्षणविलक्षणं काव्यलर्क्षेणमाविष्कुर्वन् वामनसूत्रं च (४७१ पृष्ठे) दूषयन् मम्मटो नानयोः प्रामाण्यमङ्गीचकार। ततश्च 'वृत्तिकृन्मम्मट एव कारिकामपि प्रणि- नाय' इति पाश्चात्यानां प्रवाद एव साधीयान् । कारिकयानुक्ताया अपि वृत्युपदर्शितमालोपमायाः दृष्टान्ततामुद्धावयन्ती 'माला तु पूर्ववत्' (५९९ पृष्ठे) कारिकैवास्य प्रवादस्य प्रामाण्यं व्यवस्था पयति। एषा हि 'पूर्ववत्' इत्यनेन मालोपमायाः पूर्वोक्ततां व्यनक्ति। न च मालोपमा कारिकया पूर्वमुक्ता किंतु वृत्त्यैवेति। अत्रानुकूलानि बहूनि ग्रन्थकृल्लिखनानि सन्ति। तथाहि। यत्तु 'येनास्य- भ्युदितेन ००' इत्यत्र (६२३ पृष्ठे) समासोक्तिरनुग्राहिकेति मम्मटभट्टैरुक्तम् तत्र विचार्यते। अत्र विशेषणमहिस्ना प्रतीयमानः कापुरुषवृत्तान्तः कि प्रस्तुतः आहोखिदप्रस्तुतः । आदे समासोक्ते- विषय एव नास्ति 'परोक्तिर्मेदकैः कविष्टैः समासोक्तिः' (६११ पृष्ठे) इति समासोक्तेर्लक्षणस्य तैरेवोक्तत्वात् इति रसगङ्गाघरः। 'प्रथमं कारणं विवक्षः सावतरणिकां कारिकामाह अस्य कारण- माह शक्तिर्निपुणता इति' इति निदर्शनम्। 'दुरितशान्तये ग्रन्थकृत् संस्तौति नियतिकृतेति' इति काव्यप्रदीपव्याख्यानावसरे 'ग्रन्थकृन्मम्मटः' इत्युद्द्योतः । 'तच्च तददोषौ शब्दार्थौ ००० इति प्रकाशकारेणोक्तम्' इति रसप्रदीपः" इत्याह्ुः । कि च "अथ मम्मटाचार्यः स्वकृतकाव्यरूप- सूत्रारम्भरचितं स्वस्वरूपसूचकं मङ्गलं स्वीयमनुस्मरन्नाह ग्रन्थारम्भे इति। अत्र सूत्रकारो वृत्तिकारश्वैक एवति तत्त्त्रम्। उक्तं च प्रागस्माभिर्ग्रन्थकारवर्णनायाम् । कि च नायमाचार्यो मानुषः किं तु वाग्देवतैव प्रमाणं तु ग्रन्थस्यालौकिकत्वम्" इति भीमसेनकृतसुधासागरोऽप्यत्रानुकूल इति दिक्। एतेन 'नियतिकृतनियमरहिताम् ०००' इत्यादिकारिकाः व्याचिख्यासुना विद्याभूषणेन साहित्य- कौमुद्याख्यग्रन्थारम्भे 'सूत्राणां भरतमुनीशवर्णितानां वृत्तीनां मितवपुषां कृतौ ममास्याम्। लक्ष्याणां हरिगुणशालिनां च सत्त्वात्कुर्वन्तु प्रगुणधियो वतावधानम्।।' इति ल्लोके काव्यप्रकाशसूत्राणां भरतमुनिप्रणीतत्वं यद्वर्णितम् तत्तु दूरत एवापास्तमिति प्रमाणविदो बहुश्रुता विभावयन्तु ।।

सत्यं मम्मट एव कारिकाकृत किं तु नासौ सर्वा अभिनवाः कारिकाश्चकार क्वचिदविकला क्वचिच्च अंशतो विकलां कृत्वान्यकृतिमपि (तत्तत्कृतीनां नामान्यनुल्लिर्यैव) स्वकृतावन्तर्भावयामास। तथाहि। "शृङ्गारहास्यकरुण " (९८ पृष्ठे) इत्यादिकम् "रतिर्हासश्व शोकश्र"(१११ पृष्ठे) इत्यादिकं च भरतमुनिप्रणीतं संगीतनाट्यशास्त्रश्लोकम् "कर्णावतंसादिपदे" (४०६ पृष्ठे) इत्यादिकं वामनसूत्रवृत्तिस्थं श्लोकं च अविकलमेव स्वकृतेः कारिकाया अन्तश्चिक्षेप। व्यभिचारिभावविभाज-

१ 'यं नाट्यवेदं वेदेभ्यः सारमादाय ब्रह्मा रुतवान् यत्तंचद्धमभिनयं भरतश्र्यकार' इति दशरूपकम् ॥ २ '००० भरतमध्यादिरतिनं नाट्याचार्य नमस्कुर्मः' इति नाट्यप्रकाशः ॥ ३ अलंकारविद्यायाः सूत्रकारो भगवान् शौद्धोदनिः काव्यस्य स्वरूपमाह काव्यं रसादिमद्वक्यम्' इत्यलंकारशेखरः ॥४ '००० काव्यालंकार- सूत्राणां स्वार्था वृत्तिर्विधीयते'इति वामनसूत्रवृत्तिः ॥ ५ अवतरणिका तु वृत्तिरूपा तथा च येनैव वृत्तिरकारि तेनैव क रिकेत्यायाति वृत्तिरुत्तु मम्मट एवेति सर्वमिदं विवरणकारैरेव स्पष्टीरुतम् ॥ ६ 'अत्र विवरणकारा अपि इत्याहु:' इति संबन्ध: ॥

Page 16

पस्तावना। १३ कानि निर्वेदग्लानिशङ्काख्याः " (११२ पृष्ठे) इत्यादीनि भरतसूत्राण्यपि 'प्रयान्ति रसरूपताम्' इत्यन्त्यमंशं 'समाख्यातास्तु नामतः' इत्यन्यथा कृत्वा स्वसूत्रत्वेन जग्राहेति इति बोध्यम्॥ ८. काव्यप्रकाशस्योल्लासाभिधेयाः दश विभागाः । ते च "तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि " (१३ पृष्ठे) इति काव्यलक्षणं विधाय तदनुरोधेनैव प्रणीताः । तथाहि। प्रथमे उल्लासे मङ्गलाचरणानन्तरं क्रमेण काव्यस्य फलं कारणं "तददोषौ शब्दाथौं " इत्यादिना स्वरूपं च निरू- पितम्। अनन्तरं काव्यभेदस्य जिज्ञासितत्वात् उत्तममध्यमाधमरूपत्रिविधभेदोऽपि न्यरूपि। ततः "शब्दार्थौ काव्यम्" इत्युक्तत्वात् शब्दार्थभागादेरपि जिज्ञासितत्वेन द्वितीये उल्लासे शब्दार्थविभागः आर्थी व्यञ्जना वाचकशब्दः मतभेदेन संकेतितार्थः अभिधा लक्षणा लक्षणामूला व्यञ्जना अभिधामूला व्यञ्जना च न्यरूपि। ततोऽर्थस्य व्यञ्जकता कथमित्याकाङ्कायां तृतीये उल्लासेऽर्थस्य व्यञ्जकता न्यरूपि। ततः उत्तमकाव्यप्रभेदानां जिज्ञासितत्वात् चतुर्थे उल्लासे १०४५५ संख्याकाः ध्वनिकाव्य- प्रभेदा: रसभावादयश्च निरूपिताः । ततो मध्यमकाव्यप्रभेदानां जिज्ञासितत्वात् पञ्चमे उल्लासे ४५१५८४ संख्याकाः गुणीभूतव्यङ्गयकाव्यप्रभेदाः प्रसङ्गात् व्यक्षनावृत्तिसंस्थापनयुक्तयश्च निरूपिताः। ततोऽधमकाव्यप्रमेदजिज्ञासायां षष्ठे उल्लासे चित्रकाव्यप्रभेदयोः स्वरूपं निरूपितम् । ततः काव्यलक्षणे दोषाणां प्रागुपादानात् सप्तमे उल्लासे सप्ततिसंख्याकाः (१६ पददोषाः २१ वाक्यदोषा: २३ अर्थदोषा: १० रसदोषाः) दोषाः निरूपिताः । कुत्रचित्तेषामदोषतापि निरू- पिता। ततः 'सगुणौ' इति विशेषणाद्गुणनिरूपणस्याकाङ्किततया अष्टमे उल्लासे गुणलक्षणम् 'गुणा- लंकारयोर्नास्ति भेद:' इति वदतां केषांचिन्मतं निराकर्तुम् अलंकारलक्षणम् माधुर्यौजःप्रसादाख्या- स्त्रयो गुणाः वामनोक्तदशविधगुणानां स्वोक्तगुणेष्वन्तर्भावश्चेत्येतानि निरूपितानि। ततः काव्य- लक्षणे 'अनलंकृती' इति विशेषणात् अलंकाराणां जिज्ञासितत्वात् तत्रापि शब्दस्य प्राथम्यात् काव्यलक्षणे प्रागुपादानाच्च नवमे उल्लासे वक्रोक्त्यादयो रीतिसहिता: षट् शब्दालंकाराः निरूपिताः । ततोऽर्थालंकाराणामुपस्थितत्वात् दशमे उल्लासे उपमादयः एकषष्टिसंख्याकाः अर्थालंकाराः निरू- पिताः वामनादयुक्तानामलंकारदोषाणां स्वोक्तेषु दोषेष्वन्तर्भावश्च निरूपित इति । तदेतदाहुर्विस्तरेण सुधासागरे ग्रन्थसमात्तौ भीमसेना अपि। तथाहि। "त्रिभिर्विशेषणैः काव्यं शब्दार्थयुगलं स्मृतम्। षैट्फलोत्पादकं चास्यं कारणं त्रिविधं मतम् ॥ १ ॥ स्वैयं चापि त्रिधा प्रोक्तं प्रभेदा बहवो मताः । शब्दोऽर्थश्व त्रिधा प्रोक्तो वृर्त्त्याँ साँपि त्रिधा मता ॥ २ ॥ शक्तिरिच्छेश्वरीया सुप्रसिद्धा लक्षणापि च। व्यञ्जना तु विदग्धैकवेद्यात्र प्रतिपादिता ॥ ३ ।। षड़िधा लक्षणा चात्र व्यञ्जना बहुधोदिता। स्वतः शब्दश्चतुर्धा स्याज्जात्यादिः सर्वसंमतः ॥४॥ १ एतेपु ध्वनिकाव्यप्रभेदेषु मध्ये ये शुद्धभेदास्तेऽत्रैव प्रघट्टेऽधस्तात् प्रदर्शयिण्यन्त इति तत एव द्रष्टव्याः ॥ २ अदोषौ सगुणौ सालंकाराविति त्रिमिर्विशेषणैरित्यर्थः ॥ ३ "काव्यं यशसेऽर्थकते" (६ पृष्ठे ) इत्यादिना दर्शि- तानि षठू फलानि ॥। काव्यस्य ।। ५ काव्यम् ॥ ६ वृत्त्या उपाधित्वेन हेतुमतया त्रिधा प्रोक्त इत्यन्वयः ॥ ७ वृत्तिरपि ।।

Page 17

१४ काव्यप्रकाशः ।

प्रभुसंमित इत्यादिशब्दोऽत्र कथितस्त्रिधा। नागरादिपदं चात्र त्रिधात्रैव प्रदर्शितम् ॥ ५॥ परिवृत्तिसहः शब्द: परिवृत्त्यसहस्तथा। विभावो द्विविधश्चात्रानुभावा बहुधा मताः ॥ ६ ॥ संचारिणस्त्रयस्त्रिंशद्रसस्तु नवधा स्मृतः । रत्यादयः स्थायिभावास्तावन्तोऽष्टौ तु सात्विकाः ॥७॥ भावोडथ भावाभासश्च बहुधा समुदाहृतः । भावस्य शान्तिरुदय: संधिः शबलता तथा ॥ ८ ॥ श्रतिकटादयो दोषा: पदस्योक्ता हि षोडश । क्विष्टादि त्रितयं तत्र समस्तस्यैव नान्यथा । ९ ।। अपास्य च्युतसंस्कारमसमर्थ निरर्थकम्। वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ १० ॥ प्रतिकूलवर्णमुख्या वाक्य एवैकविंशतिः । अर्थदोषा ह्यपुष्टाद्यास्त्रयोविंशतिसंख्यकाः ॥ ११ ॥ रसदोषा दश प्रोक्ताः सर्वे दोषास्तु सप्ततिः । माधुर्यौजःप्रसादाख्यास्रय एव गुणा मताः ॥१२॥ दिव्यादिभेदात्प्रकृति: षड़िंशद्वा प्रकीर्तिता। वैदर्भीप्रमुखा रीतिस्त्रिघात्रापि प्रदर्शिता ॥ १३ ॥ शब्दालंकृतयः षट् च वक्रोक्त्याद्या उदाहताः । अर्थालंकृतयस्त्वेकषष्टिसंख्याः प्रकीर्तिताः ॥ १४ ॥" इति ॥

चतुर्थोल्लासे निरूपितानां ध्वनिकाव्यप्रभेदानां ये शुद्धमेदास्ते एवम्। ध्वनेर्लक्षणाभिधामूलत्वेन अविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ। अविवक्षितवाच्यस्य अर्थान्तरसंक्रमिता- त्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम्। विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्गयासंलक्ष्यक्रमव्यङ्गयतया द्वौ भेदौ। संलक्ष्यक्रमव्यङ्गये शब्दशक्तिमूले वस्त्वलंकाररूप- तया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम्। अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्गये अर्थस्य स्वतःसंभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धवक्तृप्रौढोक्तिसिद्धत्वेन च त्रैविध्यम्। त्रिविधस्यापि वस्त्वलंकाररू- पतया द्वैविध्ये षडि्धत्वम्। षडिधस्यापि व्यङ्गयव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम्। द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन त्रैविध्ये षट्टिंशत्प्रकारोऽर्थशक्तिमूलोऽनुरणनध्वनिः। उभयश- क्तिमूलो वाक्यगतत्वेनैकविध एव। एवं संलक्ष्यक्रमव्यङ्गयध्वनेरेकचत्वारिंशद्वेदाः। असंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षडिधः। एवं विवक्षितान्यपरवाच्यध्वनेः ध्वनेः सप्तचत्वारिंशद्धेदाः । अविवक्षितवाच्यभेदैश्वतुर्मिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद्द्ेदाः । एतेषां शुद्धानामेकपञ्चाशद्धेदानां नामधेयानि तु "पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः १। वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः २। पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ३। वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ४। पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ५।पद-

Page 18

प्रेस्तावना। १५

वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ८। पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ९। पदगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः १०। पदगतस्वतःसिद्धार्थशक्तिमूलोडलंकारेणा- लंकारध्वनिः ११। पदगतस्वतःसिद्धार्थशक्तिमूलोडलंकारेण वस्तुध्वनिः १२। वाक्यगतस्वतःसिद्धार्थ- शक्तिमूलो वस्तुना वस्तुध्वनिः १३। वाक्यगतस्वतःसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः १४ । रेण वस्तुध्वनि: १६। प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः। १७। प्रबन्धगतस्वतः- सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः १८ । प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः १९। प्रबन्धगतस्वतःसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः २०। पदगतकविप्रौढोक्तिसिद्धार्थशक्ति- मूलो वस्तुना वस्तुध्वनिः २१ । पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः २२ पद- लंकारेण वस्तुध्वनिः २४ । वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः २५। वाक्य- गतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः २६ । वाक्यगतकविप्रौढोक्तिसिद्धार्थशाक्ति- मूलोऽलंकारेणालंकारध्वनिः २७। वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः २८। प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वरतुना वस्तुध्वनिः २९। प्रबन्धगतकविप्रौढोक्तिसिद्धार्थ- शक्तिमूलो वस्तुनालंकारध्वनिः ३० । प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोSलंकारेणालंकारध्वनिः ३१ । प्रबनधगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ३२ । पदगतकविनिबद्धोक्ति- सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ३३। पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकार- ध्वनिः ३४। पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ३५ । पदगतकविनिब- द्वोक्तिसिद्धार्थशक्तिमूलोSलंकारेण वस्तुध्वनिः ३६ । वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ३७ । वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ३८ । वाक्यगत- मूलोऽलंकारेण वस्तुध्वनिः ४० । प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ४१। प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ४२ । प्रबन्धगतकविनिबद्धो- क्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ४२। प्रबन्धगतकविनि बद्धोक्तिसिद्धार्थशक्तिमूलोS- लंकारेण वस्तुध्वनिः ४४ । प्रबन्धगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ४५। वाक्यगतासंलक्ष्यक्रम- व्यङ्गयो रसादिध्वनिः ४६ । पदगतासंलक्ष्यक्रमव्यङ्गयो रसादिध्वनिः ४७ । पदैकदेशगतासंलक्ष्य क्रमव्यङ्गयो रसादिध्वनिः ४८। रचनागतासंलक्ष्यक्रमव्यङ्गो रसादिध्वनिः ४९। वर्णगतासंलक्ष्य- क्रमव्यङ्गयो रसादिध्वनिः ५० । वाक्यगतोभयशक्तिमूलो ध्बनिः ।" इति बोध्यानि ॥

या च द्वितीयोल्लासे निरूपिता पञ्चमोल्लासे संस्थापिता व्यञ्जनाख्या वृत्तिः सा श्रमिदानन्दवर्धना- चार्यस्यैवोपज्ञाविषया प्राचीनेषु दण्डिभामहभद्वोद्भटवामनादिनिबन्धेष्वस्यास्तथानुपलम्भात् आनन्द- १ अस्यास्तथानुपलम्भादिति। उक्त हि अलंकारसर्वस्वे रुय्यक्रेण "इह हि तावत् भामहोद्गटप्रभृतयश्िरंतना- लंकारकारा: प्रतीयमानमर्थ वाच्योपस्कारतयालंकारपक्षनिक्षित मन्यन्ते । ०००" इति। "प्रभृतिना दण्डयादयः" इति अलंकारसर्वस्वटीका्यां जयरथः । यद्यपि काव्यादर्शे प्रथमपरिच्छेदे "मधुरं रसवद् वाचि वस्तुव्यपि रस-

Page 19

१६ काव्यप्रकाशः।

वर्धनकृतग्रन्थे एवोपलम्भाच्च। आनन्दवर्धनेन हि व्यञ्जनामुद्धावयितुमेव ध्वन्याख्यं कारिकाग्रन्थं विधाय आलोकाख्या तद्व्याख्यापि व्यधायि। तदुपरि अभिनवगुप्ताचार्येण लोचनाख्या टीकाप्यकारि। स एव विशिष्टो निबन्धो ध्वन्यालोकलोचननामा सर्वत्र सुप्रसिद्धः। अनन्तरं च गतवति कियति काले नैयायिकमताभिमानी महिमभट्टस्तामेवानन्दवर्धनोद्धावितां व्यञ्जनामनुमानेऽन्तर्भावयन् व्यक्तिविवे काख्यं ग्रन्थं कृतवान्। तदुक्तं सरस्वतीतीर्थप्रभृतिकृतासु काव्यप्रकाशटीकासु पञ्चमोल्लासे (२५३ पृष्ठे) " तथा चाह व्यक्तिविवेककारो महिमभट्टः 'अनुमानेऽनतर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम्। व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ।' इति।" ततस्तामेव व्यञ्जनां पृथकस्थापयितुं तदेतन्महिमभट्टमतं खण्डयन् मम्मटः प्रसङ्गात् भट्टलोल्लटादिमीमांसकमतमपि खण्डयत्वा पञ्चमोल्लासे व्यञ्जनां युक्तिप्रयुक्तिभिः स्थापयामास । अत एव बहवो हि टीकाकाराः 'तथा निःशेषच्युतेत्यादौ गमकतया०००' इति मम्मटोक्तग्रन्थस्प (२५६ पृष्ठे) "ध्वनिकारोक्तोदाहरणेऽनुमानं निरस्य स्वोक्तोदाहरणेऽपि तन्निराकुर्वन् स्वोक्तं ध्वनिलक्ष्यं समर्थयति" इत्यवतरणिकामाहः। अत एव चोक्त- ग्रन्थव्याख्यानावसरे एव चक्रवर्तिभट्टाचार्यैर्व्याख्यातम् "गमकतया संभोगज्ञापकतया। तदाह व्यति- विवेककारो महिमभट्टः 'जात्यन्तराभिव्यक्तौ या सामग्री सन्निबन्धनम्। सैवानुभितिपक्षे नो गमकत्वेन संमता ॥' इति"। उक्तं च पञ्चमोल्लाससमाप्तौ काव्यप्रकाशदर्पणे विश्वनाथेनापि "इति काव्यपुरुषावतारस्य निखिलशास्त्रतत्ववेदिनः श्रीमदानन्दवर्धनाचार्यस्य पृथग्व्यञ्जनाव्यापारस्थापन- मिति सर्वमवदातम्" इति। तदेतत्सर्वमस्माभिः स्पष्टीकृतं टीकायां २५२ पृष्ठे २२ पङ्किमारभ्य पञ्चमोल्लाससमाप्तिपर्यन्ते ग्रन्थे इति तत एव द्रष्टव्यम्। किं चालंकारसर्वस्वे राजानकरुय्यकेणापि महिम• मट्टमतनूद खण्डितम् "यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमाना- न्तर्भावमाख्यत् तत् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्पत्त्यभावादविचारिताभिधानम् " इति॥

९ अलंकारनिबन्धकर्तारो बहवो जाताः । ते च यथायर्थं क्रमेण यथा देण्डिभोमहर्भट्टोद्रट-

द्वोदनिवाभे टेवोमेमटरुथैकमोर्जराजमम्मटहे मचन्द्रके शैमिश्रपीर्यूष वर्षविद्यानायविर्श्वनाथगोविन्दठककुरवि-

तत्र दण्डिकवि: कस्मिन् देशे कत्मिन् काले वा जात इति निश्चेतुं न शक्यते कि तु तत्कृतकाव्या- दर्शाख्यालंकारप्रबन्धे वैदर्भमार्गस्य नितरां प्रशंसनेन तन्मार्गानुसारिगुणालंकारोदाहरणप्रदर्शनेन च दाक्षिणात्यो विदेर्भदेशजोऽयमिति संभाव्यते। 'जाते जगति वाल्मीकौ कविरित्यभिधाभवत्। कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥' इति प्राचीनपद्येन प्राचीनतरः कविवरश्चायमिति नात्र संदेहः । परं तु शूद्रककविकृते मृच्छकटिकनाम्नि नाटके विद्यमानस्य 'लिम्पतीव तमोड़ङ्गानि०' (५८७ पृष्ठे) इति पद्यस्य यत् प्रथमार्ध तस्य स्वकृतकाव्यादर्शे उपादानात् शूद्रककवेरर्वाचीन इत्येव निश्चीते। अयं च काव्यादर्शदशकुमारचरितछन्दोविचितिकलापरिच्छेदप्रभृतिग्रन्थकर्ता। अस्य दण्डिनो

स्थितिः' इत्यादिना द्वितीयपरिच्छेदे "इह त्वष्टरसायत्ता रसवच्ता स्मृता गिराम्" इत्यादिना च दण्ड्याचायेः रसो. दङ्कनं रुतम् तेन च व्यअ्जनापि तत्र व्यक्तैव तथापि आनन्दवर्धनाचार्योपदर्शितरीत्या नोद्रावितेत्यवधेयम्।। १ अनुमानेऽन्तर्भावितामेव ॥ २ विदर्भो वहाड इति प्रसिद्ध: ॥

Page 20

अथ प्रस्तावना ।

१. काव्यप्रकाशोऽयमलंकारशास्त्रग्रन्थेष्वेकतमो निबन्धः । यस्मिन् खल्ववगते काव्यस्य निर्माणे स्वरूपदोषगुणालंकारादीनामवधारणे च शक्तिरुन्मिषति तद्लंकारशास्त्रम्। यथा च व्याकरणं भाषायां व्युत्पत्यै अपेक्ष्यते तथा अलंकारशास्त्रमपि काव्ये नैपुण्यायापेक्ष्यते। न केवलमलंकारशास्त्रं बिना काव्ये नैपुण्यमेव न भवति अपि तु वाक्यदोषदृष्टिरपि न जायते। यो हि अलंकारशास्त्रं न जानाति केवलं व्याकरणादिकमेव जानाति स कथं जानीयात् 'चिन्तारत्नमिव च्युतोऽसि' (७७६ पृष्ठे) इति 'गुणैरनध्यैः प्रथितो रत्नैरिव महार्णवः' (७७७ पृष्ठे) इति चानयोस्तुल्येऽपि उपमानोपमेययो- ्लिङ्गमेदे पूर्व दुष्ट न परमिति। एवं जघनकाञ्च्यादिपदकर्णावतंसादिपदयोः (४०६ पृष्ठे ४०९ पृष्ठे च ) अविशिष्टेऽपि पौनरुक्त्ये पूर्व दुषटं परमदुष्टमिति । तस्मादेतदपि शास्त्रं व्याकरणादिवदव-

२. अलंकारशास्त्रं कदा केन प्रथममाविष्कृतमिति निर्णेतुं न शक्यमस्माभिः । परं तु प्रसिद्धेषु सर्वेषु अलंकारनिबन्धेषु कालिदासकृतेरुद्वरणात्कालिदासादुत्तरकालमेवास्य बाहुल्येन चर्चाजनीति संभाव्यते इति विवरणकाराः ॥ वयं तु इत्थं संभावयामः । दण्डिना भामहेन वेदं शास्त्रं प्रथममाविष्कृतमिति। ताभ्यां प्राक्तनस्या- लंकारशास्त्रनिर्मातुरनुपलम्भात्। तयोर्यथा परमप्राचीनत्वं तथास्यामेव प्रस्तावनायां नवमे प्रघट्टे स्फुटी- करिष्यते। किं चाग्निपुराणे भगवता वेदव्यासेन व्यासेन सर्वस्यापि काव्यप्रपञ्चस्य प्रायशः कथनात्का- लिदासात्पूर्वकालेऽव्यस्य चर्चा आसीदिति। तथाहि। अग्निपुराणे ३४३ अध्याये ३४४ अध्याये च "स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः " इत्यादिना अनुप्रांसादयः शब्दालंकाराः "अलंकर- णमर्थानामर्थालंकार इष्यते। तं बिना शब्दसौन्दर्यमपि नास्ति मनोहरम् । अर्थालंकाररहिता विध- वेव सरस्वती। " इत्युपक्रम्य "उपमा नाम सा यस्यामुपमानोपमेययोः । सत्ता चान्तरसामान्ययोगि- त्वेऽपि विवक्षितम् । किंचिदादाय सारूप्यं लोकयात्रा प्रवर्तते।" इत्यादिना उपमादयोऽर्थालंकाराश्च लक्षिताः। तथा ३३७ अध्याये "संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली। काव्यं स्फुरदलंकारं गुणवद्दोषवर्जितम् ।।" इत्यादिना काव्यस्यापि लक्षणमुक्तम् । कि बहुना "रत्यादिभाववर्गोडयं यमाजीव्योपजायते। आलम्बनविभावोऽसौ नायकादिभवस्तथा। " इत्यादिना "विभाव्यते हि रत्या- दिर्यत्र येन विभाव्यते। विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥" इत्यादिना च विभावस्तद्वे- दोडपि (३३९ अध्याये ) लक्षितः । किंच "वाग्विद्यासंप्रतिज्ञाने रीतिः सापि चतुर्विधा॥ पाञ्चाली गौडदेशी च वैदर्भी लाटजा तथा ।। " इत्यादिना (३४० अध्याये ) चतुर्धा रीतिरप्युक्ता। एवं चास्यालंकारशास्त्रस्याग्निपुराणं मूलमिति।। ३. सत्यप्यस्मिन् दोषगुणादीनामपि निरूपणीयत्वेऽस्यालंकारनाम्नैव व्यपदेशस्य बीजं वयं तत्त्वती १ आदिपदेन "अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पनम्। तत्तत्प्रसिद्वस्तूनां बन्ध इत्यभिधीयते" इत्यादि- नोक्ताश्वित्रालंकारादयो ग्राहया: ॥ २ आदिपदेनालंकाररसादयो ग्राह्ाः ॥ ३ व्यपदेशस्य व्यवहारस्य ॥ प्र० १

Page 21

२ काव्यप्रकाशः।

न विद्यः । परं तु अलंक्रियतेऽनेनेति करणव्युत्पत्तिनिष्पन्नो यमकोपमादिबोधको नायमलंकारशब्द: किं तु 'अलंकृतिकंकारः' इति भावव्युत्पन्नो दोषापगमगुणालंकारसंवलनकृतसौनदर्यपरः तत्प्रतिपादक- त्वादेवास्यालंकारनाम्ना व्यपदेश इत्युद्धावयामः । अत्र साधकं च वामनसंदर्भमुदाहरामः " काव्यं ग्राह्यमलंकारात्।१।०००००। सौन्दर्यमलंकारः ।२। अलंकृतिरलंकारः । करणव्युत्पत्या पुनरलंकार- शब्दो यमकोपमादिषु वर्तते। स दोषगुणालंकारहोनोपादानाभ्याम्। ३। स खलु अलंकारो दोष- हानात् गुणालंकारयोरादानाच्च संपाद्यः कवे: " इति। इति विवरणकाराः ॥ वयं त्वेवमपि तर्कयामः। यथा "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज लपवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानरूपाणां षोडशपदार्थानां प्रतिपादकमपि गोतमशास्त्रं पदार्था- नुमानपर्यायस्य न्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया च तत्र शास्त्रे प्रधानत्वेन न्यायशास्त्रमिति व्यपदिश्यते "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायात तद्वत् दोषगुणादीनां प्रतिपादकमपि इदं शास्त्रं यमकोपमादीनामलंकाराणां भूयोविषयकतया काव्यव्यवहारप्रयोजकतया चात्र शास्त्रे प्रधानत्वेन तत्प्रतिपादकत्वादेवालंकारशास्त्रमिति व्यपदिश्यते। अलंकाराणां काव्यव्यवहा- रप्रयोजकत्वं च "काव्यवृत्तेस्तदाश्रयात्" इति ग्रन्थेन ध्वनिकारोक्तं एञ्चमोल्लासे (२१३ पृष्ठे) मम्म- टभट्टैरेव प्रतिपादितम् । व्याख्यातं च तत्रैवोद्दयोतकारैः "काव्यवृत्तेरिति । काव्यपदवृत्तेरित्यर्थः । सालंकारत्वस्य काव्यलक्षणघटकत्वादिति भावः। यद्वा काव्यवृत्तेः काव्यनिष्पत्तेरित्यर्थः । अलंकारकृत- चारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः " इति । एवमेव चक्रवर्तिभट्टाचार्यप्रभृतिभिरपि व्याख्यातमिति तत्रैव द्रष्टव्यम्। कि चाष्टमोल्लासे (४७२ पृष्ठे) मम्मटभट्टैः स्वयमप्युक्तम् "स्वर्गप्रा- प्तिरनेनैव देहेन वरवर्णिनी। अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥। इत्यादौ विशेषोक्तिव्यति- रेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ" इति । अपि च दशमोल्लासेऽपि ( ७०६ पृष्ठे) भामहोक्तं स्वयमुपपादितम् "अविरलकमलविकासः इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समा- म्रासिषुर्न पुनर्हेत्वलंकारकल्पनया " इति । इति ॥ वस्तुतस्तु अलंकारशास्त्रमिति व्यपदेशे बीजं वयं तत्वत इत्थं विद्यः। तथाहि। ये दण्डिभामह- भट्टोन्भटरुद्रटवामनान्ताः प्राञ्चोऽलंकारशास्त्रप्रणेतारो बभूवुस्तैर्ध्वन्यमानमर्थ वाच्योपकारकतयालंकार- पक्षनिक्षिप्ं मन्यमानैः 'अलंकारा एव काव्ये प्रधानम्' इति सिद्धान्तितम्। अतस्तदानी "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायेन तच्छास्त्रस्यालंकारशास्त्रमिति व्यपदेशः सप्रमाण एवासीद्। ततस्तेभ्यो- डर्वाचीनैर्गूढविचारशालिमिरानन्दवर्धनाचार्यैधर्वन्यालोकाख्यस्वप्रणीतप्रबन्धे ध्वन्यमानस्यैवार्थस्य गुणा- लंकारोपस्कर्तव्यत्वेन प्राधान्ये संस्थापिते अलंकाराणां प्राधान्याभावेऽपि तत्प्रबन्धस्य प्राचीनव्यपदेश- प्रणाल्यनुसारेणालंकारनाम्नैव व्यपदेशः प्रचरति स्म। ततो मम्मटोपाध्यायेनात्र शास्त्रे अष्टमोल्लासे (४६२ पृष्ठे) "ये रसस्याङ्गिनो धर्माः" इत्यादिना 'शब्दार्थौ काव्यस्य शरीरम् गुणाः रसस्य साक्षा- दुत्कर्षकाः अलंकारास्तु शब्दार्थरूपकाव्यशरीरोत्कर्षद्वारा रसस्यैवोत्कर्षकाः रसश्चात्मस्थानीयः' इति सिद्धान्तिततया रसः शरीरेष्वात्मवत्काव्ये प्राधान्येन स्थित इति प्रागुक्तन्यायेनास्य शास्त्रस्येदानीं यद्यपि रसशास्त्रमिति व्यपदेशो युक्तः तथापि स एव प्राकप्रचारमुपगतो व्यपदेशोऽद्यावधि तथैव प्रचरतीति। १ हानं त्यागः उपादानम् आदानम् ग्रहण मेति यावत् ॥२ भयोविषय कतयेति। भूयांसो विषयाः काव्यरूप- स्थलानि येषां ते भूयोविषयका: (पश्चमहाकाव्यादिषु अलंकारघटितकाव्यानां बाहुल्यादिति भावः) तेषां भावः भूयोविषयकता तयेत्यर्थः॥

Page 22

प्रस्तावना।

तदेतत्प्राचीनानामलंकाराचार्याणां मतमलंकारसर्वस्वे राजानकरुय्यकेण प्रदर्शितम् "इह हि ताव- द्वामहोद्धटप्रभृतयाश्वरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतयालंकारपक्षनिक्षिपं मन्यन्ते ।

वाच्योपस्कारकत्वेन 'स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्' इति यथायोगं द्विविधया भङ्गया प्रति- पादितं तैः । रुद्रटेन तु भावालंकारो द्विधैवोक्तः। रूपकदीपकापहुतितुल्ययोगितादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः। उत्प्रेक्षा तु स्वयमेत्र प्रतीयमाना कथिता। रसवत्प्रेयःप्रभृतौ तु रसभावादि- र्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलंकारतया ख्यापितमेव । वामनेन तु सादृश्यनिबन्धन, या लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्ध्वनिभेदोSलंकारतयैवोक्तः। केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता। उद्धटादिभिस्तु गुणालंकाराणां प्रायशः साम्य- मेव सूचितम् विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मतवेन चेष्टेः। तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम्। वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्ति- मेव प्राधान्यात्काव्यजीवितमुक्तवान्। व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे। अभिधानप्रकारविशेषा एव चालंकाराः । सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसरम्भगोचरः । उपचार वक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः । केवलमुक्तिवैचित्र्यजीवितं काव्यम् न व्यङ्गयार्थजीवित- मिति तदीयं दर्शनं व्यवस्थितम्। भट्टनायकेन तु व्यङ्गयव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम्। तत्राप्यभिधाभावकत्वलक्षणव्यापार- द्वयोत्तीर्णों रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । ध्वनिकारः पुनरमिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्या- वश्याभ्युपगम्यत्वाद्यापारस्य च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्गयरूपस्य गुणालंकारोपस्कर्तव्य- त्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान्। व्यापारस्य विषयमुखेन स्वरूपप्रतिलम्भात्तत्प्रा· धान्येन प्राधान्यात्स्वरूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्गय- नामा जीवितत्वेन वक्तव्यः यस्य गुणालंकारकृतचारुत्वपरिग्रहसाम्राज्यम्। रसादयस्तु जीवितभूता नालंकारत्वेन वाच्या: अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात्। तस्माद्यङ्गय एवं वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जक: व्यञ्जनव्यापारस्य सर्वै- रनपहुतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात्। यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्यञ्जनस्यानुमानान्तभववमाख्यत् तत् वाच्यस्य प्रतीयमानेन सह तादात्म्यतदुत्प्त्त्यभावाद विचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहनमिति नेह प्रतन्यते" इति ॥ ४. अत्र हि काव्यप्रकाशे (८७ पृष्ठे) भट्टलोल्लटः (९० पृष्ठ) श्रीशङ्ककः (९० पृष्ठे) भट्टनायक: (९५ पृष्ठे) अभिनवगुप्ताचार्य: (२१३ पृष्ठे २१४ पृष्ठे ४४५ पृष्ठे च) ध्वनिकार: (आनन्दवर्धन:) (४४८ पृष्ठे) वामनः (५२१ पृष्ठे) रुद्रटः (५९१ पृष्ठे) भट्टोद्धटः इति ग्रन्थकाराणां नामान्युपलभ्यन्ते। किं च (२३० पृष्ठे) "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां सम० १ प्रभृतिना दण्डयाद्य इति तट्ीकायां विमर्शिन्याख्यार्या जयरथः॥ २ गम्यमानमिति। धवन्यमानमित्यर्थी व्यङ्ग्यमिति यावत् । 3 आवर्जरः अनुरञ्जकः ॥ महिमभट्टमतं खण्डयितुमुपन्यस्यति यत्त्वित्यादि। ध्वनिकारान न्तरभावी व्यक्तिविवेककार इति तम्मतमिह पश्रान्निरददिष्टम्। यद्यपि वक्रोकतिजीवितहृद्यदर्पणकारावपि ध्वनिकीरानन्तर- भाविनावेव तथापि तौ चिरंतनमतानुयायिनावेवेति तत्मतं पूर्वमेवोद्दिष्ठम् इति विमर्शिन्यां (१२ पृष्ठे २६ पङ्कौ) जयरथ: ॥

Page 23

काव्यप्रकाशः। वाये पारदौर्बल्यमर्थविप्रकर्षात्" इति जैमिनिसूत्रम् (अंशपरिवृत्तिसहितम्) (२७० पृष्ठे) "आशिषि नाथः " इति कात्यायनमुनिप्रणीतं वार्तिकम् (३६ पृष्ठे) "गौः शुकश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः " इति पतञ्जलिप्रणीतं महाभाष्यम् (८७ पृष्ठे) "विभावानुभावव्यभिचारिसंयो- गाद्रसनिष्पत्तिः"इति (११२ पृष्ठे) "निर्वेदग्लानिशङ्काख्याः" इत्यादि च भरतमुनिप्रणीतं साहित्य- सूत्रम् (९८ पृष्ठे) "शृङ्गारहास्यकरुण" इत्यादि (१११ पृष्ठे) "रतिर्हासश्च शोकश्च" इत्यादि च भरतमुनिप्रणीतं संगीतनाट्यशास्त्रम् (२५८ पृष्ठे) "रूपकादिरलंकारः " इत्यादिः (७४४ पृष्ठे) "सैषा सर्वत्र वक्रोक्तिः" इत्यादिश्च भामहप्रणीतिग्रन्थः (३३ पृष्ठे) "नहि गौः स्वरूपेण गौ०" इत्यादि (६३ पृष्ठे) "संयोगो विप्रयोगश्च" इत्यादि च भर्तृहरिप्रणीतं वाक्यपदीयम् (५० पृष्ठे) "अभिधेयाविनाभूतप्रतीति:० " इत्यादि (२८३ पृष्ठे) "निरूढा लक्षणाः काश्चित्" इत्यादि च कुमारिलभ्टप्रणीत तन्त्रवार्तिकम् (२७१ पृष्ठे) "दैवतानि पुंसि वा" इति अमरप्रणीतो नामलि- ङ्ञानुशासनाख्य: कोशः (४०६ पृष्ठे) "कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः" इत्यादिर्वामनसू- त्रवृत्तिस्थ: श्लोक: (६८४ पृष्ठे) "यद्विद्वद्वनेषु भोजनृपतेस्तत्यागलीलायितम्" इति सरस्वतीकण्ठा- भरणाद्यनेकग्रन्यकृद्धोजराजवर्णनपरं वाक्यं चोपलभ्यते। अपि चात्र काव्यप्रकाशे प्रायः प्राचीनकवि- कृतान्येव पद्यानि उदाहरणत्वेनोपन्यस्तानि न तु रसगङ्गाधरकारवत् स्वकृतानि। तेषां हि प्राचीन- कवीनां नामानि तु अग्रे सप्तमे प्रघट्टे प्रदर्शयिष्यन्ते इति तत्रैव द्रष्टव्यानि॥ ५. मम्मटेन कदा काव्यप्रकाशो निरमायि इति प्रश्नस्योत्तरतया खुस्त १३३५ मित,व्दात्पूर्वमेव निरमायीत्येतावन्मात्नमवधृत्योच्यते यतः १३३५ मिताब्दकारलानिन माधवाचार्येण सर्वदर्शनसंग्रहे पातञ्जलदर्शनप्रस्तावे 'तदुक्तं काव्यप्रकाशे' इत्यादिना काव्यप्रकाशोऽधारि इति इति विवरणकाराः ॥ वयं तु खुस्ताव्दानामेकादशशतकस्य (सन्न ११००) चरमभागे मम्मटेन काव्यप्रकाशो निरमा- थीति निश्चिनुम: यतोऽयं मम्मटः मालवाधीशात् सिन्धुराजपुत्रात्सरस्वतीकण्ठाभरणाद्यनेकग्रन्थकर्तु- भोजराजादर्वाक्तन: काव्यप्रकाशटीकाकर्तुर्माणिक्यचन्द्रात्प्राक्तनश्चेति । मम्मटेनैव दशमोल्लासे (६८४ पृष्ठे) उदात्तालंकारोदाहरणतयोपन्यस्तः 'भोजनृपतेस्तत्यागलीलायितम्' इति पद्यांश एव मम्मठस्य भोजराजादर्वाक्तनत्वं स्पष्ट व्यनक्ति । उक्तभोजराजस्य स्थितिकालस्तु खृस्त ९९६ वत्सरा दारभ्य १०५१ वत्सरपर्यन्त इति सकलविद्वज्जनप्रसिद्धमेव। तथा काश्मीरिककह्वणकविकृतायां काश्मी- रतिहासराजतरङगिण्यां सप्तमे तरङे विद्यमानः 'से च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ। सूरी तस्मिन् क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥' इति २५९ ल्लोकोऽपि १०२९ मिते खुस्ताब्दे काश्मीरदेशे राज्य- पदाधिष्ठितस्य अनन्तराजस्य मालवाधीशस्य भोजराजस्य च समकालकत्वं दानशूरत्वं विद्वत्वं च प्रति- पादयन् भोजराजस्य पूर्वोक्तमेव स्थितिकालं प्रत्याययति। एवं भोजराजीयहस्ताक्षरसहितं खुस्त १०२२ मिते वत्सरे भट्टगोविन्दसुताय धनपतिभट्टाय ब्राह्मणाय दत्तं दानपत्रमपि भोजराजस्य पूर्वो- क्तमेव स्थितिकालं स्पष्ट कथयति। तच्च दानपत्रं पण्डितदुर्गाप्रसादेन प्राचीनलेखमालायामङ्कयित्वा प्रसिद्धिं प्रापितमस्माभिरस्मित्नेव प्रघट्टेऽघस्तात्प्रदर्श्यते इति तत्रैव द्रष्टव्यम्। मम्मटस्य माणिक्यचन्द्रा स्प्राक्तनत्वं तु स्फुटमेव यतो माणिक्यचन्द्रेण खुस्त ११६० वर्षे संकेताख्या काव्यप्रकाशटीकाकारि। स्फुटाकरिष्यते चेदमपि १२ प्रघट्टे माणिक्यचन्द्रप्रस्तावनायामिति तन एव द्रष्टव्यम् ॥ १ स चेति। अनन्तरजश्वेत्यर्थः ।।

Page 24

प्रस्तावना। ५

किंच ग्रन्थकारोक्तयोऽपि मम्मटस्य भोजराजादर्वाक्तनत्वं स्पर्ष्ट द्यातयन्ति। तथाहि। दशमो- ल्लाससमाप्तौ काव्यप्रकाशटीकारयां संकेतामिधायां "श्रीभोजेन जैमिन्युक्तषट्प्रमाणानि संभवाश्चालं- कारतयोक्तानि केर्षांचिदुक्तेष्वन्तर्भावात् केर्षाचिदचमत्कारित्वात् केषांचित्काव्यशरीरत्वाच्च तानि नात्र (काव्यप्रकाशे) काव्यालंकारतया प्रतिपादितानि" इति माणिक्यचन्द्रोक्तिः । पञ्चमोल्लासे (१९६ पृष्ठे) उदाहृतस्य 'अत्युच्चाः' इति पद्यस्य व्याख्यानावसरे " पञ्चाक्षरी नामा कविरनेन श्लोकेन भोजराजं स्तुतवान्" इति दीपिकाख्यकाव्यप्रकाशटीकारयां जयन्तभद्टोक्तिः । प्रथमोल्लासे (८ पृष्ठे ४ पङ्गौ) 'श्रीहर्षादेर्धावकादीनामिव धनम्' इति प्रतीके "आदिपदात् भोजप्रबन्धकारिभि- र्भोजात् बहुतरं धनं प्राप्तमित्याद्यूह्यम् " इति सुधासागरे भीमसेनोक्तिश्चेति दिक्॥ धारानगराधिपतेः सुप्रसिद्धस्य भोजनरेन्द्रस्य दानपत्रम्। "जयति व्योमकेशोऽसौ य. सर्गाय बिभर्ति ताम् । ऐदन्वीं शिरसा लेखां जगद्वीजाङ्कुराकृतिम्। तन्वन्तु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पान्तसमयोद्दामतडिद्लयपिङ्गलाः ॥ रश्रीवाकपतिराजदेवपादानुध्यातपर मभट्टारकमहाराजाधिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपर- मभद्वारकमहारा जाधिराजपरमेश्वरश्रीभोजदेवः कुशली नागव्हदपश्चिमपथकान्त पातिवीराणके समुपग- तान् राजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिपट्टकिलजनपदादींश्च समादिशति। अस्तु व. संविदितम् यथा अतीताष्टसप्तत्यधिकसाहस्त्रिकसंवत्सरे माघासिततृतीयायां रवावुदगयनपर्वणि कल्पितहलाना लेख्ये श्रीमेद्धारायामवस्थितैरस्माभिः स्नात्वा चराचरगुरुं भगवन्तं मवानीपर्ति समभ्यर्च्य संसारस्या- सारतां दृष्टा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने ।। भ्रम:संसार चक्राग्रधाराधारामिमा श्रियम्। प्राध्य ये न ददुस्तेषां पश्चात्ताप: परं फलम् ।। ' इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः स्वसीमातृणागोचरयूतिपर्यन्तः सहिरण्यभाग- भोगः सोपरिकर: सर्वादायसमेतः ब्राह्मणधनपतिभट्टाय भट्टगोविन्दसुताय बहचाश्वलायनशाखाय त्रिप्र. वराय वेल्लवल्लप्रतिबद्धश्रीवादाविनिर्गतराघसुरसङ्गकर्णाठाय मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये अद- ष्टफलमङ्गीकृत्य आचन्द्रार्कार्णवक्षितिसमकालं यावत् परया भक्त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा यथादीयमानभागभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्वमस्मै समुपनेतव्यम्। सामान्यं चैतत्पुण्यफलं बुद्धास्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमम्तव्यः पालनीयश्च। उक्तं १ प्रत्यक्षानुपित्युपमितिशब्दा अर्थापत्तिनुपलब्धिश्र्ेति॥ २ अधुना काशीदेशभाषायां येमां 'पटैल इति महाराष्ट्रदशभाषायां 'पाटील' इति च नाम्ना व्यवहारः ॥ धारानगर्याम् ॥

Page 25

काव्यप्रकाशः ।

airs । अीp 'बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।। यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि। निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयम्। (श लक्ष्म्यास्तडित्सलिलबुद्बुदचञ्चलाया दानं फलं परयश परिपालनं च।। सर्वानेतान्भाविनः पार्थिवेन्द्रान्भूयो भूयो याचते रामभद्रः । सामान्योडयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ॥ इति कमलदलाम्बुबिन्दुलोलां श्रियमनुिन्त्य मनुष्यजीवितं च। सकलमिदमुदाहतं च बुद्धा न हि पुरुषैः परकीर्तयो विलोप्याः ॥' इति ॥। संवत् १०७८ चैत्रसुदि १४ स्वयमाज्ञा मङ्गलं महाश्रीः । स्वहस्तोडयं श्रीभोजदेवस्य ॥" ६. काव्यप्रकाशकृतो मम्मटस्येतिवृत्तं न सकलमासादितमस्माभि: केवलं " ........ इति शिवागम- प्रसिद्धया षटूतरिंशत्तत्वदीक्षाक्षपितसकलमलपटलः प्रकटितसत्स्वरूपचिदानन्दघनः राजानककुलको मम्मटनामा दैशिकवरः" इति निदर्शनाख्यकाव्यप्रकाशटीकाग्रन्थदेतदवगम्यते यत् शैवागमानुयायी शैवोऽयमासीदिति। कि चायं शब्दव्यापारविचाराख्यग्रन्थस्य कर्तेति ज्ञायते यतः स ग्रन्थः पुण्य- पत्तनस्थराजकीयप्रधानपाठशालायां (दक्षिणकॉलेजसांजिकायां) दृष्टिविषयतामद्यापि प्रतिपाद्यते। मम्मटः कं जनपदं जन्मनालंचकारेति निर्णयप्रवृत्ता वयं 'काश्मीरं जनपदम्' इति निश्चिनुमः यदस्य मम्मटेति नाम देशान्तरासुलमानां जैयटकैयटवज्रटउवटऔवट उद्भटरुद्रटधम्मटकल्लटभलटलोल्लट- अल्लटइत्यादिनाम्ना सादृश्यमनुभवति। किं चास्य काश्मीरदेशीयत्वादेव काव्यप्रकाशदर्पणे पञ्चमोल्लासे (२३८ पृष्ठे) चिङ्कुपदव्याख्यानावसरे विश्वनाथेनोक्तम् "चिङ्कपदं काश्मीरादिभाषायामश्लीलार्थबो- धकम् " इति॥ सुधासागराख्यकाव्यप्रकाशटीकार्यां भमिसेनेन तु 'अयं मम्मटः काश्मरिदेशीयः जैयटपुत्रः वाराण सीभागत्याधीतशास्त्रः अस्य च मम्मटस्य पतञ्जलिप्रणीतव्याकरणमहाभाष्यटीकाकर्ता कैयटः वेदचतु- ष्टयभाष्यकर्ता उवटापरनामा औवटश्चेति द्वावपि कनिष्ठौ भ्रातरौ' इति वर्णितम्। तथाहि। "शब्दब्रह्म सनातनं न विदितं शास्त्रै क्वचित्केनचि- त्द्देवी हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान्। श्रीमज्जैपटगेहिनीसुजठराज्जन्माप्य युग्मानुजः श्रीमन्मम्मटसंज्ञयाश्रिततनुं सारस्वतीं सूचयन् । ४।। १ श्रीभोजदेवस्येति। एवमेवास्यैव धारानगराधिपसुप्रसिद्धभोजमहीपतेः पितामहत्य वाक्पतिराजस्य दानपत्रम् तस्यैव प्रसिद्धभोजमहीपतेवश्यस्यार्जुनदेवस्य दानपत्रं च प्राचीनलेखमालायमङ्कयित्वा प्र्िद्धिं आपितम् परं तु अ्रन्थ- गौरवभिया नात्रास्मामि: प्रदर्शितमिति बोध्यम्॥ २ जैयटः कैयटस्य पिता। तदुक्त महाभाष्यप्रदीपे कैयटेनैव "कैयटो जैयटात्मज:" इति। कैयटो महाभाष्यपद्पिकरता। वज्रटस्तु उवटस्य पिता इति अत्रैव प्रघट्टे स्फुटीक- रिण्यते। उङ्धटरुद्रटौ तु ९ प्रघट्टे दर्शयिण्येते। धम्मटस्तु काश्मीरेतिहासराजतरङ्गिण्यां सप्तमतरङ्ग १०१७ श्लोकमारभ्य १०४८ श्लोकेषु वर्णितः। कलटस्तु भट्टपुकुलस्य पिता स्पन्दकारिकाकता च। भल्लटस्तु भल्लटशतकाख्यकाव्यकर्ता। लोल्टस्तु प्रघट्टे दर्शितः । अल्लटस्तु अत्रैव प्रघट्टे दर्शयिष्यते। एते सर्वेडपि काश्मीरिका एव ॥३ प्राप्य ।

Page 26

प्रस्तावना।

मर्यादां किल पालयन् शिवपुरीं गत्वा प्रपठ्यादरात् शास्त्रं सर्वजनोपकाररसिक: साहित्यसूत्रं व्यधात् । तद्दृत्तिं च विरच्य गूढमकरोत्काव्यप्रकाशं स्फुट वैदैग्ध्यैकनिदानमार्थषु चतुर्वर्गप्रदं सेवनात् ॥ ५ ॥ कस्तस्य स्तुतिमाचरेत्कविरहो को वा गुणान्वेदितुं शक्त: स्यात्किल मम्मटस्य भुवने वाग्देवतारूपिणः । श्रीमान्कैयट औवटो ह्यवरजो येच्छात्रतामागतो भाष्याब्धिं निगमं यथाक्रममनुव्याख्याय सिद्धिं गतः ॥ ६॥ काव्यं वर्णद्वयं यद्विवृतिमुपगतं सर्वशास्त्रार्थसारो- द्वारं कुर्वर्द्रसेन श्रुतिगतमपि दुर्जेयमाचं व्यनक्ति। सा देवी मम्मटाख्या निजविर्कटकृतिव्याकृतिव्याकुलं मां मज्जन्तं मोहसिन्धौ परमकरुणया प्राप्तपारं करोतु ॥ ७॥ व्याख्यातं हि पुरात्र यै: सुकवयः सर्वे मह्दापण्डिता- स्ते वन्दाः सुतरां न तेषु मम कोऽप्यस्त्याग्रहः स्पर्धितुम्। किं तु ग्रन्थसहस्त्रसारमपि यद्व्त्या विरुद्धं वच: तत्क्षन्तुं न समुत्सहे न च पुनर्भीतिः सुरेज्यादपि ॥ ८॥" इति ॥ इदं हि भमसेनोक्तं न सवांशे प्रमाणत्वेन संभावयितुं शक्यते 'मम्मटस्य भ्राता औवटः' इत्यादंशे संशयोदयात्। तथाहि। औवटकृतस्य वाजसनेयसंहिताभाष्यस्य पुस्तके "ऋष्यादींश्व पुरस्कृत्य अवन्त्यामुवटो वसन् मन्त्रभाष्यमिदं चक्रे भोजे राष्ट्र प्रशासति ।।" इति पद्यमुपलभ्यते। तथा तस्यैव भाष्यस्य पुस्तकान्तरे "आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना। मन्त्रभाष्यमिदं क्लृप्तं भोजे पृथ्वी प्रशासति ॥।" इति पद्यमुपलम्यते। तेन च पद्यद्वयेन औवटस्य वज्रटपुत्रत्वं भोजसमकालकत्वं च प्रतिपादते। यद- यमौवटः भीमसेनोक्तरत्या मम्मटस्य भ्राता स्यात्तदा मम्मटस्य जैयटपुत्रत्ववर्णनान्मम्मटभ्रातुरौवटस्य जैयटपुत्रत्वमेव स्यात्। तथा च जैयटपुत्रस्योवटस्य वज्रटपुत्रत्वं भोजसमकालकत्वं च कथ संगच्छेत इति यद्यपि काश्मीरदेशीयस्य जैयटगोत्रस्य व्रज्रटाख्यस्य दत्तकपुत्रोऽयमिति कल्पनार्यां जैयटपुत्रस्यापि औवटस्य वज्रदपुत्रत्वमुपपद्यते तथापि भोजनसमकालकत्वमनुपपन्नमेव यतो ज्येष्ठभ्रातुर्मम्मटस्य भोज- राजादर्वाक्तनत्वे स्थिते तत्कनिष्ठम्रातुरुवटस्य सुतरां भोजराजादर्वाक्तनत्वमिति विद्वद्धिर्विभावनीयम्।। मम्मटेनायं काव्यप्रकाशः परिकरालंकारपर्यन्त एव कृतः शेषांशस्तु अल्लटसूरिणा पूरितः। तदुक्त १ लोकमर्यादामित्यर्थः ॥ २ वाराणसीम् ॥ ३ काव्यप्रकाशसूत्रम् ॥ वैदग्ध्यं नैपुण्यम् ॥ ५ यस्य मम्मटस्य छात्रतां शिष्यताम् ॥ ६ भाष्याबिंध समुद्रसदशं व्याकरणमहाभाष्यम्। ७ निगमं वेदम्॥ निजा स्वीया विकटा भयं- करा या कृति: काव्यप्रकाशरूपा तस्याः व्यातौ व्याख्यानविषये व्याकुलं भीतं मां भीमसेनाख्यम् ॥ ९ अवन्त्याम् उज्जयिन्याम् ॥। १० आनन्दपुरं गुर्जरदेशे प्रसिद्धम् ।।

Page 27

८ काव्यप्रकाशः। निदर्शनाख्यायां काव्यप्रकाशव्याख्यायां परिकरालंकारे ( ७०० पृष्ठे ) आनन्दकविना "कृतः श्रीमम्मटाचार्यवर्येः परिकरावधिः। प्रबन्धः पूरितः शेषो विधायाल्लैटसूरिणा" इति। उक्तं च तस्या- मेव व्याख्यायां दशमोल्लासे 'इत्येष मार्गो विदुषाम्० ' इति श्लोकव्याख्यानावसरे (७८९ पृष्ठे) "काव्यप्रेंकाश इह कोऽपि निबन्धकृद्यां द्वाभ्यां कृतेऽपि कृतिनां रसतत्वलाभः। लोकेऽस्ति विश्रुत- मिदं नितरां रसालं बैन्धप्रकाररचितस्य तरो: फलं यत् ॥।"इति। उक्तं चैवमेवान्यैरपि माणिक्य- चन्द्रसरस्वतीतीर्थप्रभृतिभिर्बद्ुभिष्टीकाकारैः। तदेतत्सर्व प्रदार्शितमस्माभिः 'इत्येष मार्गो विदुषाम्' इति श्लोकव्याख्यानावसरे इति तत एव द्रष्टव्यम् । अयमल्लटोऽपि राजानकजयानकसूनुः रत्नाकर- कविप्रणीतस्य हरविजयाख्यकाव्यस्य यत् विषमपदोद्दयोताभिधं टिप्पणं तत्कतेति ज्ञायते।। अयं हि मम्मटोऽनुपमः पण्डितः अत एवानेन प्रणीतोऽयं काव्यप्रकाशग्रन्थः आकर इति व्यव- हियते टीकाकारैः। अत एव च वैयाकरणसिद्धान्तमञ्जूषादौ 'तदुक्तं काव्यप्रकाशे' इत्यादिना ग्रन्थेन काव्यप्रकाशमतं स्वकल्पितेऽर्ये प्रमाणत्वेनोपन्यस्तवन्तो नागोजीभट्टादयः। कि चायं मम्मटो भमिसेनेन सुधासागरे वाग्देवतावतारत्वेन वर्णितः । अपि च तत्रैव सुधासागरे काव्यप्रकाशस्य शैथिल्यमापादयन्तं गोविन्दठक्कुरकृतं काव्यप्रदीपं युक्तिप्रयुक्तिभि: खण्डयत्वा स्वमतरीत्या काव्यप्रकाशस्य निष्कलङ्कत्वं संस्थाप्योक्तं भीमसेनेन "तस्माद्गोविन्दमहामहोपाध्यायानामीर्ष्यामात्रमवाशिष्यते न हि गीर्वाणगुरवोऽपि श्रीवाग्देवतावतारोक्तिम् (मम्मटोक्तिम् ) आक्षेप्तुं प्रभवन्ति कि पुनर्मानुषा मशकाः। सुष्ठक्तं देवनाथतर्कपञ्चाननैः 'य एषें कुरुते मनो विपदि गौरवीणां गिरां स वामन इवाम्बरे हरिणलाञ्छनं वाञ्छति। लिलङ्िषत्ति सिंहिकारमणकेसरं फेरुवत् पतङ्ग इव पावकं नृहरिमावकं धावति ॥' इति" इति सप्तमोल्लासे 'उपपरिसरं गोदावर्याः' इत्युदाहरणे (३८८ पृष्ठे) 'चरणत्रपरित्राण०' इत्युदा- हरणे (४१० पृष्ठे ) चेति दिक्॥ अयं खलु मम्मटोऽवगतसर्वशास्त्रहृदैयोऽपि मुख्यतया वैयाकरणः। अत एव प्रथमोल्लासे (१९ पृष्ठे) "बुधैर्वैयाकरणैः" इत्युक्तं मम्मटेनैव। अत एव च द्वितीयोल्लासे "संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा " इति १० सूत्रे तद्दृत्तौ च वैयाकरणसंमतो जात्यादिरिति पक्षः स्वाभिमतत्वात्प्रथमत एवोपन्यस्तः । किं च दशमोल्लासे (६६४ पृष्ठे ) विद्यमानं विरोधालंकारविभाजकं "जातिश्चतुर्मिर्जात्यादैः०००" इति सूत्रमपि जात्यादिरिति पक्ष एव मूलकृन्मम्मटाभिप्रेत इत्यत्रानुकूल्यं भजते। यद्ययं मम्मटो वैया- करणमतानुयायी न स्यात् किं तु मीमांसकमतानुयायी नैयायिकमतानुयायी वा स्यात्तदा मीमांसकादि- मते पदार्थचतुष्टयाभावेन दशानां विभागानामनुपपत्तौ "ते दश" इति दशत्वसंख्याकथनपूर्वकं तत्सूत्र- मेवासंगत स्यात् । अपि च शब्दव्यापारविचाराख्ये स्वकृतग्रन्थान्तरेऽपि वैयाकरणसंमत जात्यादि- १ अल्लटसूरिणेति। अलकसूरिणति क्वचित्पाठः ॥ २ काव्यप्रकाश इह कोडपीति। 'काव्यप्रकाशदशकेऽपि' इति क्वचित्पाठः ॥३ बन्धप्रकारेति। बन्धप्रकारेण रचितस्य निर्नितस्येत्यर्थः। 'कलमी' इति देशभाषायां प्रसिद्ध- स्येति भाव: ॥ "खनिः स्त्रियामाकरः स्यात्" इत्यमरः ॥५ य एष इति। देवनाथभट्टाचार्यकृतायां काव्य- कौमुद्याख्यायां काव्यप्रकाशटीकार्या विद्यमानं मम्मटप्रशंसापरं पद्यमिदम्। यः एषः लौकिकः पुरुषः गौरवीणां गुरु- संचन्धिनीनाम् मम्मटोपाव्यायसंबन्धिनीनामिति यावत् गिरां काव्यप्रकाशरूपवाचां विपदि विपत्तौ अनुपपत्ताविति यावत् मनः चित्तं कुरुते करोति सः वामन इव खर्ववत् अम्बरे आकाशे विद्यमानं हरिणलाञ्छनं चन्द्रं वाञ्छति करे- णादातुमिच्छति। तथा पतङ्ग: कीटविशेष इव पावकम् अमिं धावति। तथा आवकम् अविसमूह इव नृहरिं नरसिंह धावतत्यिर्थः ॥ ६ हृदयमत्र तत्त्वम् ॥

Page 28

अनुकमणिका।

विषयः उल्लासे पष्ठे विषयः उल्लासे पष्ठे

कर्णावतंसाद्यन्यस्थले पौनरुक्त्यदोष: ७ ... ४०९ चयुतसंस्कार: (दो० ) ७ २६८

*कविसमयः ... ७ ३८९ · छेकानुप्रासः (अ० ) ९ ४९६

कष्टार्थता (दो०) १० ... ... 360 · तद्गुणः (अ०) ... ७९५

कष्टार्थताया गुणता ... ७ ४१३ तात्पर्यार्थः ... २ २६

कष्टार्थता क्वचित् न गुणो न दोष: ७ ४१७ तुल्यप्राधान्यव्यङ्ग्यम् ... २१०

५ २१० तुल्ययोगिता (अ०) ६४२

कान्तिः (शब्द्गुणः) ८ ४७९ त्यक्तपुनःस्वीकतता (दो० ) ७ ४०५

कारणमाला (अ०) १० ... ७०५ दीपकम् (अ०) ... .... १० ६३९

• काव्यलिङ्गम् (अ०) दुष्कमस्वम् (दो०) ... १० ६७७ ७ ३८४

काव्यस्य कारणम् ... ... १ दृष्टान्तः (अ० ) ... ... १० ... ६३६

काव्यस्य प्रयोजनम् १ ६ दोषगुणालंकाराणां शब्दार्थगतत्वे नियाम- ...

काव्यस्य स्वरूपम् ... १ १३ कम् ... ५१८

*ंकाव्याकाव्यसाधारणा: पद्दोष: ७ ३२६ दोषलक्षणम् ७ २६३

*ं काव्याकाव्यसाधारणा: वाक्यदोषा: ७ ३७८ दोषाणां क्वचित् अदोषना गुणता वा ४१२

कोमला (रीतिः) ९ ४९७ ध्वनिकाव्यम् ९ १९

क्िप्टता (दो०) ... ७ ध्वनिगुणाभतव्यङ्गन्ययोः संकर: ५ ... २८४ २१४

खङ्ग बन्धः (अ० ) ... ५३० १८७ ... ध्वनेः भेदसमाष्टिः .. ४

गर्मितत्वम् (दो०) ... ७ 383 ध्वने: शुद्धभेदसंकलनम् ४ १८५

गर्भितत्वं क्वचिद्रणः ७ ४३२ ध्वनेः संसृष्टिसंकगे १८५ UC

गुणलक्षणम् १८६ ८ ध्वने: संसृष्टिसंकराधीना संख्या ४ ... ... ४६२

गुणविभागः ८ ४७३ ध्वनेस्रैविध्यम् ... ५ २१६

गुणानां रसधमंत्वम् ... ८ ४६३ *ंनाटकादिदश रूपकाणि ८ ४९० ... ४४२ गुणालंकाशयोर्भेद: ८ ४७० *ंनायकभेदा:

गुगीभूतव्यङ्गयकाव्यम् १ २१ * नायकलक्षणम् ७ ४४१

गुणीभूतव्यङ्गयकाव्यप्रभेदा: ५ १९० *नित्यदोषलक्षणम् ... ७ २६५

गुणीभूतव्यङ्गयस्य ध्वनिवत् प्रभेद: २१२ निदर्शना (अ०) ... १०

२ ५६ ६१७ गढव्यङ्ग्धम् निदर्शना अन्यविधा (अ०) १०

गौडी (रीति:) ९ r९८ निरङ्गरूपकम् (अ०) ६० ५९८ ... गौणी लक्षणा २ ... ४८ निरर्थकत्वं (दो०) ... ७ २७३

गौर्वाहीक इत्यत्र लक्ष्यार्थनिर्णयः २ ४९ निर्हेतुता (दो० ) ... ७

४ ११ *प्रन्थलक्षणम् १ १ निर्हेतुता क्वचित् न दोष: ...

निहतार्थता (दो०) ७ २७२ ग्राम्यत्वं (दो०) ७ २८२ ...

४२५ ७ ग्राम्यत्वं क्वचिद्गुण: निहतार्थता क्वचित् न दोषः ... ४१९

ग्राम्या (रीतिः) ९ ४९७ नेयार्थता (दो०) ... ... ७ २८३

ग्राम्यार्थता (दो०) ... ७ ३८५ न्यू नपदत्वं (दो०) ... ७ ३३९

५२९ न्यूनपद्त्वं क्वचित् गुण: ७ ४२६ चित्रम् (अ०) ... ... ९ ...

चित्रकाव्यम् ... १ ... २२ न्यूनपदत्वं क्वचित् गुणो नापि च दोष: ७

चित्रकाव्यस्य बहुभदता ६ २६१ पतत्प्रकर्ष: (दो०) ... ३४३

Page 29

१० अनुक्रमणिका।

विषयः उल्लासे पृष्ठ विषयः उल्लासे पृष्ठे

पतत्प्रकर्ष: क्वचित् गुणः ३८९ ... 5 ४३१ प्रसिद्धिविरोधस्य क्वचित् अदोषता ७

पददोषविभाग: .. ७ २६६ प्रसिद्धिहनत््रम् (दो०) ... ३६४

पद्दोषाणां केचित् वाक्यपदांशगताः ७ ... २९६ भग्नप्कमता (दो०) ७ ३६५

*पद्वाक्यपदैकदेशसाराणां दोषाणां भाव: ११८

नित्यानित्यत्वविचार: ७ ४२२ भावस्य उद्य: ४ १२४

पदांश गतदोषाणामुदाहरणानि ७ ३१९ भावस्य शबलता ४ १२४

पद्मबन्धः (अ०) ... ९ ५३२ भावस्य शान्ति: ४ १२४

· परंपरितरूपकम् (अ० ) १० ... ६०० भावस्य शान्त्यादीनां क्वित् प्राधान्यम् ४ १२७

· परिकर: (अ० ) १० ६९८ भावस्य संधि: ... ४ १२४

· परिवृत्ति: (अ० ) १० ६७४ भावाभास: ४ ... १२३

· परिसंख्या (अ०) १० ७०३ भाविकम् (अ० ) ... १० ६७६

परुषा (रीतिः) भ्रान्तिमान् (अ० ) ... ... ४९७ १० ७३३

· पर्यायः (अ०) ... १० ६९२ मङ्गलाचरणम् ... ... १ ... 2

पर्यायः अन्यविधः (अ०) १० ६९४ मध्यमकाव्यम् ... ... २ २१

· पर्यायोक्तम् (अ०) १० ६८० माधुर्यगुणः (अर्थगतः) ... ४८१

*ंपर्युदास: ७ २९० माधुर्यगुणः (रसगत:) ८ r७४

पाश्चाली (रीतिः) ... ९ ५९८ माधुर्यगुणः (शब्दगतः) ४७९ ...

पुनःपुनर्दीप्तिः ७ ४४० माधुर्यगुणस्य लक्षणम् ... ... ८ ... ४७r

• पुनरुक्तवदाभास: (अ०) ... ५३४ माधुर्यगुणस्य व्यञ्ञका: ... ८ ४८४

पूर्णोपमा (अ० ) ... १० ५४७ मालादीपकम् (अ०) १० ६४१

पौनरुक्त्यम् (अ०) ... ३८३ मालानिदर्शना (अ०) १० ... ६१६

पौनरुक्त्यं क्वचित् न दोष: ७ ४१० मालारूपकम् (अ०) १० ... ५९९

प्रकारान्तरेण ध्वनेस्त्ैविध्यम् मालोपमा (अ०) ... १० ... २१६ ... ५७९

प्रकाशितविरुद्धता (दो०) ७ .... ४० १ मीलिनम् (अ०) ... ... १० ७२७

प्रकृतिविपर्ययः (दो०) ७ ४४१ मुरजबन्धः (अ०) ... ... ... ५३१

प्रकरमभङ्ग :: (भग्नप्रक्रमता ) (दो० ) ७ .... ३७२ यत्ततद्यो: साकाङ्क्षनिराकाङक्षता-

प्रतिकूलवर्णता (दो०) ७ ३२७ विचार: ७ ३०९

प्रतिकूलविभावादिपरिग्रहः (दो०) ७ ४३९ यथासंख्यम् १० ६६०

-प्रतिवस्तपमा (अ० ) १० ६३३ · यमकम् (अ०) ... ९ ५०१

.प्रतीपम् (अ० ) १० ७३५ यमकदोषः तस्योक्तेमतर्भावश्र्य १० ७७२

प्रत्यनीकम् (अ० ) १० ... ७२५ रचनाया: क्वचिद्वपर्रात्यम् ४८७

*प्रसज्य प्रतिषेधः ७ २९० रशनारूपकम् (अ० ) १० ६०५

प्रसादगुण: (अर्थगत:) ८ ... ४८१ रशनोपमा (अ० ) ... १० ५८० ... प्रसाद्गुणः (रस्नगतः) ... ८ ४७६ · रसस्वरूपम् ... ४ ८६

प्रसाद्गुण: (शब्द्गतः) ८ ... ४७८ रसदोषविभाग: ७ ४३४ ... ...

प्रसाद्गुणस्य लक्षणम् ९८ ... ८ ४७६ . रसविभाग: ४ ... ...

प्रसाद्गुणस्य व्यञ्ञका: ८ ७ ... ४८६ रसस्य स्वशब्दवाध्यता (दो०) ... ४३५

प्रसिद्धिविरोध: (दो० ) ७ ३८७ रसादे: पदैकदेशरचनावर्णगतत्वम् ४ ... १६८

Page 30

अनुक्रमणिका। ११

विषय: उल्लासे पृष्ठे विषयः उल्लासे पृष्ठे

रसादे: प्रबन्धगतत््रम् ... ४ १८५ विधेयाविमर्शः (दो०) ... ७ ... २८५

रसाभास: ४ ... १२१ विध्ययुक्तता (दो०) ... ७ ४०२

र सोदाहरणारम्भ: ४ ... १०० विनोक्ति: (अ०) ... १० ६७३

· रूपकम् (अ०) ... १० ... ५९३ विप्रलम्भविभाग: ... ४ १०१

लक्षणलक्षणा ... ... २ ४३ विप्रलम्भशृङ्गगार: ४ १००

लक्षणा २ ४० • विभाव: ४ ८६

लक्षणामूलव्यअ्जनाव्यवस्थापनम् २ ५८ • विभावना (अ०) १० ६५६

लक्षणायां प्रयोजनप्रतीति: २ ४३ विभावस्य कष्टाकल्पना (दो०) ७

लक्षणायाः षडडिघत्त्रम् ... २ ५४ विरुद्धमतिकारिता (दो०) ७ २९२ २ ५७ विरुद्वयोरपि रसयोः क्वचित् अविरोधः ७ ४५३ लक्ष्यकरमव्यङ्ग्यव्वनिः ४ ८४ विरुद्धयोरपि रसयोरेकत्र समावेशप्रकार: ७ ४५०

लाक्षणिकशब्द: २ ५७ विरुद्वरससंचारिभावादीनां बाध्यत्वेनो- लाटानुप्रासः (अ० ) ९ ४९८ क्तिर्गुणः ७ ४४७

लुप्तोपमा (अ० ) ... १० ५४७ . विरोध: [विरोधाभास: ] (अ०) १० ६६3 ुपोपमा (इवादिलोपे) १० ५६८ विरोधविभाग: १० ६६४ लुप्तोपमा (उपमानलोपे) १० ५६६ विरोधादसंगतेर्भेद: १० ७१६ लुप्तोपमा (उपमेयेवादिलोपे) १० ५७५ ४ लुप्तीपमा ( धर्मलोपे) विवक्षितान्यपरवाच्य्वनिः १७ ५६४ लुप्तोपना (धर्मेवादिलोपे) विशेष: (अ०) ... १० ७४१ १० ५७३ विशेषपरिवृत्तः (दो०) ७ ३९६ लुप्तोपमा (धर्मोपमानलोपे) ६० ५७४ १० लप्तोपमा (धर्मोपमानेवादिलोपे) विशेषोक्तिः (अ०) ... ६५७ १० ५७६ विषमः (अ०) १० ७१९ वक्त्रादीनां वैशिष्ट्ये व्यञ्जनोबाहरणन् ३ ७२ ७ · वकोक्ति: (अ० ) विसंधि: (दो०) 339 ९ ४९१

वस्तुव्यङ्ग्यालंकारस्थ न गुणीभूत- वृत्तिः ९ ४९५

· वृत्त्यनुप्रासः (अ०) ... ९ ४९६

व्यब्गयता ५ २१३ वैदर्भी रीतिः ९ ४९८

वाक्यदोषा: ७ ३२७ व्यञ्ञकशब्दः ... २ ७० *वाक्यदोषाणां केषांचित्काव्याकाव्य- व्यञ्जनावृत्तिसंस्थापनम् २१६

साधारणत्वविचार :... ७ 3७८ व्यतिरके: (अ०) १० ६४५

वाक्यनिष्ठपद्दोषाणामुदाहरणानि ७ २९७ व्यतिरेक्तकविभाग: १० ६४६ *वाक्यमात्रगाभिदोषाणां नित्यानित्यत्व- व्यभिचारिणः स्वशब्दवाच्यत्वम् (दो०) ७ ४३४ विचार: ३२७ व्यभिचारिणः स्वशब्दवाच्यत्वं क्वचिन्न वाचकशब्दः २ दोष :... ... ७ ४४५

वाच्यसिद्धयङ्गव्यङ्गम् ... ७ २०५ व्यभिचारिभावा: ... ४ ८६ वाच्यार्थनिर्णयः २ ३२ व्यभिचारभावविभागः ... ४ ११२

वामनादयुक्तगुणालंकारलक्षण खण्डनम् ८ ४७१ व्याघातः (अ०) ... ... १० ७४6

८ ४७८ व्याजस्तुतिः (अ०) १० ६७०

वामनादयुक्तदशविधार्थगुणास्वीार: व्याजोक्ति: (अ०) ... १० ७००

विद्याविराध: (दो०) ... ७ ३९० व्याहतार्थता (दो०) ... ७ ... ३८२ ...

Page 31

१२ अनुक्रमणिका।

विषयः उल्लासे पृष्ठ विषयः उल्लासे पृष्ठे

शब्दचित्रस्य बहवो भेदा: ६ २६१ संसृष्टिः (अ०) ... १० ... ७५१

शब्दचित्रस्वरूपम् ६ २५७ सनियमपरिवृत्तः (दा०) ... ७ ३९४

शब्दचित्रोदाहरणम् ... ६ २६० समता (अर्थगुणः) ४८३

शब्दमेदा: २ २५ समता (शब्द्गुणः) ... ८ ... ४७९

शब्दशक्त्युत्थालंकारध्वनिः ४ १२८ समम् (अ०) ७१७

शब्दशक्त्युत्थवस्तुध्वनेरुदाहरणम्- ४ 93३ समस्तवस्तुविषयरूपकम् (अ०) १० ... ५९४ शब्दशक्त्युत्थार्थशक्त्युत्थध्वनीनां समाधि: (अ०) ... १० ७१६

पद्गतत्वम् ४ १४९ समाधिः (अर्थगुण:) 6 ... ४८३

समाधि: (शब्द्गुणः) ... ८ ४७८

गतत्वम् ४ १४८ समाप्तपुनराच्ता (दो०) ७ ३४४

शब्दशक्त्युत्थालंकारध्वनरुदाहरणम् ४ १२९ समाप्तपुनरात्तता क्वचिन्न दोषो न गुणः ७ ... ४३१

शब्दस्य व्यञ्जकतायामर्थस्य साहाय्यम् २ ७० समासोक्तिः (अ०) १० ... ६११

शब्दार्थोभयशक्त्युत्थव्वानी: ४ १४६ समासोक्तिदोश्: तस्योक्तेऽन्तर्भावश्र् १० ... ७८६

शान्तरसः ४ ११७ समुच्चय: (अ०) ... १० ... ६८६

शुद्धा लक्षणा २ ४३ समुच्चयः अन्यविधः (अ०) १० ६८९

श्रुतिकटुत्वम् (दो०) ८ २६७ सर्वतोभद्रम् (अ०) ९ ५३३

श्रौती उपमा (अ०) १० ५४९ ससंदेह: (अ०) १०

श्लषः अर्थगतः (अ०) ... १० ... ६०९ सहचरभिन्नता (दो०) ७ ... ४०१

श्लेषः शब्दगतः (अ०) ... ... ... ५०९ सहोक्तिः (अ०) १० ... ६७२

श्लेषगुणः (अर्थगतः) ... ४८२ साकाङ्क्षना (दो०) ७ V ... ३९6

श्लेषगुणः ( शब्दगतः) ... ... ४७८ साङ्गरूपकम् (अ०) १० ... ५९८

श्लेषविचार: ९ ५१६-२० साध्यवसाना लक्षणा २ ... ४6

श्लेषस्य नवमो भेद: ९ ५१५ सामान्यम् (अ०) १० ७३८ संकर: (अ०) १० ७५४

संकीर्णता (दो०) सारः (अ०) १० ७ ३६२ सारोपा लक्षणा २ ४७ संदिग्धत्वम् (दो०) ... ७ २८०

संदिग्धत्वं क्वचिद्गुण: ... सूक्ष्मम् (अ०) १० ७११

... ७ ... सौकुमार्यम् (अर्थगुण: ) 6 ४८१

संदिग्ध प्राधान्यव्यङ्गयम् ... २०९ सौकुमार्यम् शब्दगुणः ८ ४७९ संदिग्धार्थता (दो०) ७ ३८५

संदेहसंकरः (अ० ) ... १० स्थायिन: स्वशब्दवाच्यत्वम् (दो०) ७ ४३६ ७५९

संधावश्लीलता (दो०) ४ ... ... ३३४ स्थायिभावा: १११ 6

संभोगशङ्गार: .. ... ४ ... १०० स्मरणम् (अ०) १० ... ७३१

संयोगादिनैकार्थनियमनम् २ स्वभावोक्ति: (अ०) १० ... ६६९ ... ... ६३

... ८४ हतवृत्तता (दो०) ७ ... 33४ ... oC

Page 32

अथान्यत्र (ग्रन्थान्तरे) अलंकारतयोक्तानामत्र (काव्यप्रकाशे) उक्तेष्वन्तर्भावितानां खण्डितानां चालंकाराणां नामानुक्रमणिका लिखयते।

अलंकारनाम पृष्त ड्डो अलंकारनाम पष्ठे

अत्युक्तिरलंकार: ६८४ ... ८५ ... 3

अनुगुणनामालंकार: प्रेयोडलंकार: ८५ ... २९

अनुज्ञालंकार: ७४१ २७ १९७ ... २१

अनुपलब्धिरलंकार: ७५० 30 प्रौढोक्तिरलंकार: ७०३ १०

अनुमानमलंकार: ७५० ९ भात्रालंकार: ७१३ ... १६

अर्थापत्तिरलंकार: ६९८ २० मिथ्याध्यवसितिरलंकार: ७० ३ ... १२

७५० २७ मुद्रानापालंकार: ७४१ ... ३१

अल्पमलंकार: ७२५ १३ युक्तिरलंकार: ७०३ ...

अवज्ञालंकार: ७२३ १६ रत्नावलीनामालंकार: ७४० ३२

असंभवालंकार: ६६८ २९ ८५ ... 3

५८३ १५ रसवदलंकार: ८५ ... २९

असमालंकार: ५६७ २३ १९६ ... १३

५६७ ३० १९६ 33

उदाहरणमलंकार: ६६३ ललितालंकार: ६१५ १२ २० उन्मीलितमलंकार: ७२८ १२ ६१५

उपमानमलंकार: ७५० १४ लेशनामालंकार: ७४१ 30

७१७ ... १५ लोकोक्तिरलंकार: ७०२ २६ उल्लासोडलंकार: ७२३ १३ वर्धमानालंकार: ६९३ १९

उल्लेखालंकार: ६३१ १४ १ ७१३ ... २६

6५ 3 ९ ऊर्जस्विना मालंकार: ८५ ... ३० वाक्यार्थरूपकम् ६१५ ...

१९८ विकल्पालंकार: ५९२ ... ३२

ऐतिहमलंकार: ७५० २२ विकस्वरालंकार: ६६३ ... २३

गढोक्तिरलंकार: ७०२ २३ विचित्रालंकार: ७२३ ... १९

छेकोक्तिरलंकार: ७०३ वितर्कालंकार: ५९२ ... २१

जात्यलंकार: ६६९ १८ विध्यलंकारः v४९ ... २८ ...

निरुक्तिरलंकार: ७४९ २७ विवृतोक्तिरलंकार: ७०२ ... २५

६९९ १४ विशेषालंकार: ७४.१ १२ परिकराङ्करोडलंकार: ६९९ १५ विषादनामालकार: ७२३ ... १४

७५० परिणामालंकार: ५९४ ... १२ शब्दाख्योऽलंकार: १९

६०६ १४ संभवालकार: ७५१

पिहितालंकार: ७१३ १६ संभावनमलंकार: ७०३ १०

पूर्वरूपमलंकार: ७१७ ... १७ ७४६ 3 39 ८५ ... समाहितालंकार: ८५ ३0

प्रत्यक्षमलंकार: ७५० ... ८१९९ १९

प्रस्तुताङ्करनामालंकार: ६२८ ११ ६३० ७१७ हेत्वलंकार: ... १

प्रह्षणमलंकार: १४

Page 33

॥ श्रीपाण्डुरङ्गो जयतितराम् ।। धिष्ण्यं यस्य जगद्रण: सुरवरा ब्रह्मेशशक्रादयो दासा यस्य रमा च लोकजननी यस्यास्ति सा गेहिनी। यस्याम्नायवचांसि निर्मलगुणान् शंसन्ति सोडयं सुखं भक्तानां विदधातु पण्ढरिपुरे तिष्ठन् सदा विठेलः ॥ १ ॥। पितरं रामचन्द्रं च मातरं च सरस्वतीम्। नमस्कृत्य गुरूंश्वापि मया वामनशर्मणा ॥ २ ॥ प्राचीनासु टीकासु दुरूहासु विमुह्यताम्। नानाविधासु विद्यासु सदा व्यापृनचेतसाम् । ३॥। इदानींतनबालानां सुखबोधाय यत्नतः । टीका काव्यप्रकाशस्य रच्यते बालबोधिनी ॥ ४ ॥ क्काहं मन्दमतिः क्व चातिगहनः काव्यप्रकाशाभिधो ग्रन्थो यत्र धियोऽपि निर्मलधियामाकुण्ठिता वै पुनः । सर्वं सत्यमिदं तथापि सुधियां प्राचां कवीनां बचो- राशे: कल्पतरोः सुसंनिधिवशाच्छङ्के न किंचित्कचित् ॥ ५ ॥ तथाहि। टीका: काव्यप्रकाशस्य बहवः सन्ति यद्यपि। उपलब्धासु टीकासु लभ्यन्ते नामतो यथा ॥ ६ ॥ श्रीधरेण कृता टीका [ १ ] पुरातनंतरा तथा। चण्डीदासेन रचिता [२ ] देवनाथेन निर्मिता [३]।।७।। भास्करेण कृता टीका नाम्रा साहित्यदीपिका [४ ] कृता [५ ] सुबुद्धिमिश्रेण पद्मनाभेन निर्मिता [६]।।८।। १ आम्नायो वेदः आम्नायसमाम्नायशब्दयोर्वेदे एव प्रसिद्धेः "श्रुतिः स्त्री वेद आम्नायः" इत्यमराश्चेति बोध्यम् ॥ १ विठ्ठलशब्दे मध्यमे संयुक्ताक्षरे टवर्गस्य प्रथमद्वितीययोर्वर्णयोः संयोगः न तु टवर्गस्य द्वितीययोरेव वर्णयोः संयोगः कक्षणाभावात् । "कालादञ्" (४३।११) इति पाणिनिसूत्रेऽप्येवमेवाह प्रक्रियाकौमुदीटीकाकारः। "विदा ज्ञानेन ठान् शन्यान् लाति गृह्लाति विट्ठलः । तेनायं विट्ठलः प्रोक्तः" इति विट्ठलपदनिरुक्तेरिति बोध्यम् । "ततो निवृत्त आयातः पश्यन् भीमरथीतटे। द्विभुजं विट्ठलं विष्णुं भुक्तिमुक्तिप्रदायकम् ॥" इति पद्मपुराणे उत्तरखण्डे गीतामाहात्म्ये षष्ठेडष्याये विट्ठलशब्दप्रयोग: ॥ " तत्र श्रीविट्ठलं देवं प्रियाभ्यां सहशोभितम्" इति करवीरक्षेत्रमाहात्म्येऽपि विठ्ठल- शब्दप्रयोग इति दिक्॥ ३ बालोऽत्र अधीतकाव्यव्याकरणोऽनधीतालंकारशास्त्रः। यद्वा ग्रहणधारणपटुर्बालो न तु स्तनंधयः ॥ अपिर्भिन्नकमः निर्मलधियामपीत्यन्वयः ॥ ५ पुरातनतरत्वं तु विश्वनाथकतटीकार्यां स्पष्टम्॥ ६ अनेन चण्डीदासेन काव्यमपि कतम्। तदुक्तं विश्वनाथेन "वादिनं श्रीधरसांधिविग्रहकमधिक्षिपन्तश्रण्डीदासपादाः यदात्मनो विरचितं 'कण्ठे लुठत्काश्नयज्ञसूत्रं संवश्यमाणः श्रितरामधैर्यः। श्यामोपभासे तडितोपगूढलसद्वलाकः किमु वारिवाहः॥, इति श्लोकं दर्शयन्ति" इति॥

Page 34

ग्रन्थकारप्रशस्ति: ! १५

अच्युतेन कृता टीका [ ७ ] मिथिलेशस्य मन्त्रिणा । तथा तदात्मजेनापि सुधिया रत्नपाणिना ।। ९।। भट्टाचार्येण रचिता काव्यदर्पणसंज्ञिका [८]। तत्पुत्रेणापि रविणा कृता मधुमती [९ ] तथा ॥१०॥ कृता केनापि विदुषा नाम्ना वै तत्त्वबोधिनी [१०]। कौमुदाख्या हि टीका [ ११ ] च केनचित्परिकल्पिता ॥ ११ ।। आलोकाखया [१२ ] च टीकान्या पुनः केनापि निर्मिता। रुचैकेन कृता टीका संकेताख्या [१३ ] तथापरा ॥ १२ ॥ जयरामकृता टीका प्रकाशतिलकाभिधा [१४ ]। यशोधरकृता टीका [ १५ ] विद्यासागरनिर्मिता [१६]।।१३।। कृता मुरारिमिश्रेण [ १७ ] मणिसारकृता [ १८ ] तथा। कृता पक्षधराखयेन टीका [ १९ ] काचिच्च सूरिणा॥ १४ ॥ या रहस्यप्रकाशाख्या [२०] रामनाथेन निर्मिता। या रहस्यप्रकाशाख्या [२१ ] जगदीशकृतापरा ॥ १५॥ गदाधेरेण च कृता टीका [ २२ ] काचन धीमता। या रहस्यनिबन्धाख्या [२३ ] भास्करेण विनिर्मिता ॥ १६ ।। काव्यप्रकाशभावार्थो [२४ ] रामकृष्णेन निर्मिता। वाचस्पत्याख्यमिश्रेण सुधिया निर्मिता [२५ ] तथा॥१७ ॥ कृता प्रदीपकारेणाप्युदाहरणदीपिका [ २६]। अवचूरिरिति ख्याता [२७ ] कृता जैनेन सूरिणा ॥ १८ ॥ एवमाद्या हि लभ्यन्ते नामतस्तत्न तत्र च। तथापि

माणिक्यचन्द्ररचितां टीकां [२८ ] संकेतनामिकाम् ॥ १९ ।। सरस्वतातीर्थकृतां बालचित्तानुरञ्जनीम् !२९ ]। जयन्तेन कृतां व्याख्यां दीपिकारयां [३०] पुरोधसा ॥ २० ॥ १ अयं खलु रुय्यकापरनामा राजानकरुचकः उद्धटविवेकार्यग्रन्थप्रणेतृराजानकतिलकसूनु: कश्मीरदेशे खिस्ताब्दी- यद्वादशशतकपूर्वार्ध असीत्। अयमेव मङ्गकविना श्रीकण्ठचरितकाव्यस्यान्तिमे सर्गे स्वगुरुत्वेन वर्णितः। अद्यावध ज्ञाता एतत्प्रणीता। ग्रन्थास्त्वेते अलंकारसर्वस्वम् (१) अलंकारानुसाररिणीाम्न्री जह्लणकविप्रणीतसोमपालविलास- काव्यस्य टीका (२) काव्यप्रकाशसंकेत: (३) श्रीकण्ठस्तवः (४) सहृद्यलीला (५) साहित्यमीमांसा (६) हर्षचरितवार्तिकम् (७) इति संप्तति काव्यमालापुस्तके स्पष्टम् ॥ २ अयमपि जयरामभट्टाचार्यो महानैयायिक इति ज्ञायते। 3 अयं हि पक्षधरमिश्री महानैयायिकः अत एव तत्कता शिरोमणिग्रन्थटीकाद्यापि जागर्ति। अयमेव जयदेवनाम्ना पीयूषवर्षनाम्ना च प्रसिद्धश्यन्द्रालोकाख्यालंकारग्रन्थकर्ता चेि बोध्यम् ॥ जगदीशभट्टाचार्यो जगदी- शाख्यग्रन्थकर्ता।। ५ गदाधरभट्टाचार्यो गादाधर्यादनिां व्युत्पत्तिवादादीनां च बहुगन्थानां कर्ता ।। ६ अयं हि वाचस्पतिमिश्रः सर्वतन्त्रझ्ः । अत एवोक्तं विश्वनाथभीमसेनादिभिष्टीकाकारैः "सर्वशास्त्रविदो वाचस्पतिमिश्राः" इति॥ ७अवचरिरिति लघुटीकायाः नामेति जैनजनेषु सुप्रसिद्धम् ।।

Page 35

१६ काव्यप्रकाशः।

काव्यादर्शाभिधां टीकां [३१] कृतां सोमेश्वरेण च। साहित्यदर्पणकृता विश्वनाथेन धीमता ॥। २१॥ कृतां काव्यप्रकाशस्य टीकां दर्पणसंज्ञिकाम् [३२]। टीकां विस्तारिकानाम्नीं [३३ ] चक्रवर्तीत्युपाधिना ॥। २२ ॥ परमानन्दसंज्ञेन भट्टाचार्येण निर्मिताम्। निदर्शनाख्यां व्याख्यां [३४ ] चाप्यार्नेन्दकविकल्पिताम् ॥। २३ ।। श्रीवत्सलाञ्छनकृतामाख्यया सारबोधिनीम् [३५]। महेश्वरकृतां टीकामादर्शाख्यां [३६ ] सुदुर्घटाम् ॥ २४ ॥ टीकामन्यां विस्तृतां च कमलाकरनिर्मिताम् [३७]। नरसिंहमनीषाख्यां नरसिंहकृतां [३८ ] तथा॥२५॥ भीमसेनकृतां टीकां सुधासागरसंज्ञिकाम् [३९]। महेशचन्द्ररचितां तात्पर्यविवृति [४० ] तथा ॥ २६ ॥ छायाव्याख्यां प्रदीपाख्यां [४१ ] गोविन्देन विनिर्मिताम्। कृतां नागेशभट्टेन लध्वीं [४२ ] च बृहतीमपि [४३]॥ २७॥ उद्दयोताख्यां प्रदीपस्य व्याख्यां गूढार्थबोधिनीम्। अन्यां व्यारूयां प्रभाख्यां [४४ ] च वैधनाथेन निर्मिताम् ॥ २८। तथा तेनैव रचितामुदाहरणचन्द्रिकाम् [४५]। अवचूरिरिति ख्यातां राघवेन विनिर्मिताम् [४६]।। २९।। प्रयत्नेन च संगृह्य समालोच्य च तत्त्वतः । सारं ताभ्यः समुद्ृत्य टीकेयं क्रियते मया ॥ ३०॥ दोषा भवेयुर्बहव: कृतौ मे तथप्युपेक्षा न बुघैर्विधेया। न केतकी किं बहुकण्टकापि संधार्यते मूर्ध्नि नितम्बिनीभि:॥३१ ॥

ए (३)

१ अयमानन्दकविरेव श्रीकण्ठनाम्ना दक्षिणमहापाठशालास्थइस्तालखितपुस्तकानुकमाणकायां व्यवहृतः ॥२ लघूद्योतापेक्षया बृहदुद्दयोते क्वचित्कचित् किंचिदेवाधिक्यम्। प्रायशस्तदेव तात्पर्य भिन्नानुपूर्व्या शब्दभेदेन च क चत्क्कचित् प्रतिपादितम्। यथा लघुशब्देन्दुशेखरापेक्षया बहच्छ्द्न्दुशेखरे यथा च लघुमन्जूषापेक्षया बहन्मञ्ज- षायां तदूदिति ज्ञेषम्। ३ प्रदीपस्येति शेष:।

Page 36

प्रस्तावना। १७ भामहभट्टोद्भट रु द्रटभट्टनायकवामनआनन्द वर्धनमहिमभट्टवक्रोक्तिकारहृदयदर्पणकाराणां च मतप्रकारो राजानकरुय्यकप्रदार्शतोऽस्माभिस्तृतीये प्रघट्टे निदर्शित इति तत्रैव द्रष्टव्यः ॥ १॥। भामहस्तु काश्मीरदेशीयः । तथा च यस्य ग्रन्थस्य विवरणं भट्टोद्गटेन कृतं तस्य कर्ता। तदुक्त- मुद्धटालंकारसारसंग्रहलघुवृत्तौ प्रथमे वर्गे प्रतीहारेन्दुराजेन "स्पष्टमिदं भामहविवरणे भैद्टोद्भटेन" इति। अयं हि भामहः प्राचीनतरः । अत एवोक्तं प्रतापरुद्रयशोभूषणे विद्यानाथेन "पूर्वेभ्यो भामहादिभ्यः सादर विहिताञ्जलिः । वक्ष्ये सम्यगलंकारशास्त्रसर्वस्वसंग्रहम् ।।" इति। उक्त चालं- कारसर्वस्वे रुय्यकेणापि "भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः " इति। किंच ध्वन्यालोकलोचने द्वितीयोद्योते 'ध्वन्यात्मभूते शङ्गारे' इति २१ कारिकाया वृत्तिव्याख्यानावसरे 'उक्त.' इति प्रती- कमुपादायाभिनवगुप्ताचार्यैरभिहितम् "भामहादिभिरलंकारलक्षणकारैः " इति । अपि च (७०७ पृष्ठे) काव्यप्रकाशवृत्तिग्रन्थस्थे 'समाम्नासिषुः' इति पदे "प्राञ्चो भामहादय इति शेषः " इत्युक्तं काव्यप्रकाशटीकाकारैः । भामहस्य प्राचीनतरत्वादेव च मम्मटेनापि स्वोक्तेडर्ये संमति दर्शयितुं (२५८ पृष्ठे) "रूपकादिरलंकारः" इत्यादिः (७४४ पृष्ठे) "सैषा सर्वत्र वक्रोकिः " इत्यादिश्व भामहग्रन्थ उपन्यस्त इति दिक् ॥ २ ॥ भट्टोद्द्रटस्तु काश्मीरिको जयापीडस्य राज्ञः सभापतिरासीदिति ज्ञायते।' भट्टोडम्दुद्धटस्तस्य भूमिभर्तुः सभापतिः' इति राजतरङ्गिण्यां चतुर्थे तरङे ४९५ श्लोके कल्हणोक्तेः । अयं चालंकार- सारसंग्रहाख्यमलंकारनिबन्धं चकारेत्यपि ज्ञायते यतः प्रतीहारेन्दुराजविरचिता तद्दृत्तिरद्याप्युपलभ्यते। कि चायं कुमारसंभवाख्यकाव्यप्रबन्धस्य कर्ता। तदुक्तमुद्धटालंकारसारसंग्रहलघुवृत्तौ प्रतीह्ारेन्दुराजेन ( ११ पत्रे) "अनेन ग्रन्थकृता (भट्टोद्टेन) स्वोपरचितकुमार संभवैकदेशोऽत् (अलंकारसारसंग्रहे) उदाहरणत्वेनोपन्यस्तः"इति। दर्शितश्वास्माभिर्दशमोल्लासे व्यतिरेकालंकारे (६५३ पृष्ठे) माणिक्य- चन्द्रसरस्वतीतीर्थादिकृतटीकासूदाहृतः 'या शैशिरी श्रीस्तपसा' इति तत्काव्यगतश्लोकोऽपि। प्रागुक्तस्य काश्मीरदेशीयस्य जयापीडाख्यस्य राज्ञो राज्यकाल: खिरिस्त ७७९ वत्सरमारभ्य ८१३ वत्सरपर्यन्त इति तत्कालभवत्वं तत्सभापतेरस्य भ्ोद्भटस्येति राजतरङ्गिणीतो निश्चीयते। अयं च भट्टोन्भटोऽवगतानेकशास्त्रतत्त्वोऽपि मुख्यतया वैयाकरणः । अत एवानेन "क्रियायाः प्रतिषेधेऽपि यत् फलस्य विभावनम्। ज्ञेया विभावना" इति विभावनालंकारलक्षणे 'कारणस्य निषेधेऽपि' इति प्रयोक्तव्ये कारणपदस्थाने क्रियापदं प्रयुक्तम्। तदुक्तमलंकारसर्वस्वे राजानकरुय्यकेण तट्टीकाया- मलंकारविमार्शन्याख्यायां जयरथेनापि "भटटोद्धटादिभि: कारणपदस्थाने क्रियाग्रहणं कृतम् वैयाकरणैः क्रियाफलमेव कार्यमित्यभ्युपगमात्" इति। एष एव हि भट्टोद्टः काव्यप्रकाशटीकाकारैरुद्ट इति उद्धटभट्ट इति उ्धटाचार्य इति च व्यवहियते ॥ ३ ॥* रुद्रटस्तु रुद्रटालंकार (काव्यालंकार) त्वेन प्रसिद्धो यो निबन्धस्तत्कर्ता। वाभटोऽपि वाभटालंकार- त्वेन प्रसिद्धो यो निबन्धस्तत्कर्ता। स च ग्रन्थोऽङ्गनेन प्रसिद्धिमुपगतः सर्वत्र वर्तते। वाभटमेव वाग्भट १ भटटोद्रटेनेदं भामहविवरणे स्प्षट कतमित्यर्थः ॥ t* द्वितीया ङ्कनावृत्ते: सर्वमेव टीकासंस्करणं विधायैतावन्तमेव प्रस्तावनाग्रन्थं सम्यकू पत्रार्पित कत्वा टीकाकारो भट्वामनाचार्यो दैवदुर्विपाकाद्विकलाङ्गकरणो जातः अनोऽवशिष्टो ग्रन्थस्तेनैवेषत्संस्कृतः प्रथमावृत्तिस्थप्रस्तावनात एवोद्धृत्यात्र दीयते।। प्रस्तावना ३

Page 37

१८ काव्यप्रकाशः । इति नाम्ना केचित्कचिद्यवहरन्ति। वस्तुतस्तु द्वौ भिन्नावेव वाग्भटस्य काव्यानुशासनाख्यग्रन्थकर्तृ- त्वात्। वामनस्तु काव्यालंकारसूत्रतद्वत्त्योश्च कर्ता। तस्यां हि वामनसूत्रवृत्तौ तृतीयाधिकरणे द्वितीया- ध्याये मृच्छकटिककर्तुः शूद्रकस्य कवेर्नाम समुपलभ्यते दृश्यते च "दृष्टैकासनसंगते प्रियतमे" इत्याद्यमरुशतकपद्यम्। एवं चायं वामनो नवीन एव यतः शारररिकभाष्यादिकर्ता पञ्चचत्वारिंशदधि- काष्टशतीमिते (८४५) विक्रमार्कसंवति काल्पीनामकग्रामे ('जिल्हा' कडपा) द्रविडकुले शिवगुरुशर्मणो भार्यायां लब्धजन्मा शंकराचार्यः परकायप्रवेशविद्यया कस्यचिन्मृतस्यामरुनाम्नो राजः शरीरं प्रविश्य अमरुशतकं काव्यं चकारेति जनप्रसिद्धम् । उक्तं चामरुशतकटीकां कुर्वता गुर्जरदेशीयेन रानेरपुर- वासिना (रांधेरग्रामवासिना) पुरोहितोपनाम्ना देवशंकरेणापि "क्व मे मन्दा बुद्धिः क्व च रसमयं शंकर- वचस्तथापि व्याख्यातुं तरलमनसः शंकरकृतिम् " इति । शौद्धोदनिस्तु जैनोऽलंकारसूत्रकर्ता। शौद्धोदनिकृतान्येवालंकारसूत्राणि केशवमिश्रेणालंकारशेखराख्ये स्वग्रन्थे मूलत्वेनोपसंगुहीतानि। इदं चानुपदमेव स्फुटीभविष्यति। मुकुलस्तु कल्लटपुत्रः अभिधावृत्तिमातृकास्यग्रन्थकर्ता प्रताहारेन्दु- राजस्य गुरुः। तदुक्तमुद्टालंकारसारसंग्रहलघुवृत्तौ प्रारम्भे प्रतीहारेन्दुराजेन " विद्वदग्रयान्मुकुलका- दधिगम्य विविच्यते। प्रतीहारेन्दराजेन काव्यालंकारसंग्रहः ॥" इति। उक्तं च स्वकृताभिधावृत्तिमातृ- काख्यग्रन्थसमाप्तौ मुकुलेनैव "भट्टकल्लटपुत्रेण मुकुलेन निरूपिता। सूरिप्रबोधनायेयमभिधावृत्ति- मातृका ॥ " इति । इयं हि प्रतीहारेन्दुराजकृता ळघुवृत्तिः षड़र्गात्मिकास्माभिः सर्वाशेन दृष्टा। अत्र च दण्डिवामनादीनां नामानि अमरुशतकपद्यानि च दृश्यन्ते। इमौ मुकुलप्रतीहारेन्दुराजौ काश्मीरिकौ। मीमांसोसारमेघात् पदजलधिविधोस्तर्कमाणिक्यकोशात साहित्यश्रीमुरारेर्बुधकुसुममधोः सौरिपादाब्ज- भृङ्गात् । श्रत्वा सौजन्यसिन्धोर्द्विजवरमुकुलात् कीर्तिवल्लयालवालात् काव्यालंकारसारे लघुविवृति- मधात्कौङ्कणः श्रीन्दुराजः ॥ " इति। ये प्रागुक्ता भट्टलोल्लटश्राशिङ्ककभट्टनायकास्त्रयस्ते तु भरत- मुनिप्रणीतनाट्यसूत्रस्य (क्रमेण मीमांसान्यायसांख्यरीत्या) व्याख्यातार इति प्राचीनटीकास्थमस्माभि- श्वतुर्थोल्लासे (८७ पृष्ठे) निरूपितमेव। तत्र श्रीशङ्ककस्तु 'दुर्वाराः स्मरमार्गणाः' (६८६ पृष्ठे) इति पद्यस्य कर्ता सूर्यशतककर्तुर्मयूरकवेः पुत्र इति केचित्कल्पयन्ति। आनन्दवर्धनस्तु ध्वनिग्रन्थस्य आलोकाख्यतद्ृत्तेश्व कर्ता। अभिनवगुप्तस्तु भरतमुनिप्रणीतसूत्रस्य अभिनवभारताख्यव्याख्यायाः आनन्दवर्धनकृतध्वन्यालोकस्य लोचनाख्यव्याख्यायाश्च नाट्यलोचनस्य च शैवशास्त्रस्य च कर्ता। अस्येतिवृत्तं यथोपलब्धं चतुर्थोल्लासे (९५ पृष्ठे) अस्माभिर्दर्शितम् । भोजराजस्तु सरस्वतीकण्ठा- भरणरामायणचम्पूशृङ्गारप्रकाशादिकर्ता मालवदेशे धारानगरीमधिवसति स्म । महिमभटटस्तु व्यक्ति- विवेककर्तेति स्पष्टीकृतमेव (२५३।५४ पृष्ठे)। रुय्यकस्तु अलंकारसर्वस्वाख्यनिबन्धकर्ता। स च निबन्धः जैयरथकृतया विमर्शिन्याख्यया व्याख्यया समेतोऽद्यापि पुण्यपत्तनस्थदक्षिणकालेजाख्य- विद्यामन्दिरमलंकरोति। रुय्यकस्यालंकारसर्वस्वाख्यनिबन्धकर्तृत्वादेव रसगङ्गाधरे विषमालंकारे जगन्नाथेन "अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः" इति अलंकारसर्वस्वे रुय्यकोदाहृतं पद्य- मुपक्रम्य "इत्यलंकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् " इति ग्रन्थेन रुय्यकोदाहुरणं खण्डितम् । एवमुद्दयोतकारेणापि खण्डितं ६८३ पृष्ठे २३ पङ्मौ द्रष्टव्यम् । एवमयं रुय्यको मम्मटापेक्षयापि १ इदं यज्ञेश्वरपण्डितरतादार्यविद्यासुधाकराल्लभ्यते॥ २ सारशब्दो जलवाची। "सारो बले स्थिरांशे च मज्जिन पुंसि जले धने " इति मेदिनीकोशात् ॥ ३ मधुर्वसन्तः । अत्र सर्वत्र श्लिष्टं मालारूपं परंपरेतं रूपकमलंकारः ॥ * द्रष्टव्यमिदं प्रकतटीकायां ३३९ पृष्ठे ॥ ५ अयं च काश्मीरिको राजराजनृपमन्त्रिप्रवरस्य शुङ्गारकवेरात्मजः ॥

Page 38

प्रस्तावना । किंचित्प्राचीनः । अत एव 'राजति तटीयम्' (७५८ पृष्ठे) इति ल्लोके मम्मटेन रुय्यकमत खण्डि- तम्। अत एव च व्यतिरेकालंकारस्य द्वितीयं लक्षणं तदुदाहरणं च रुय्यकोपन्यस्तं मम्मटेन खण्डि- तम्। किं च 'योऽलंकारो यदाश्रितः' (७६८ पृष्ठे) इत्यपि ग्रन्थेन रुय्यकस्यैव खण्डनं कृतमिति बोध्यम् । अत एव च "ननु स्वरितादिगुणभेदात्" इत्यादिकं "कथमयं शब्दालंकारः" इत्यन्तं (५१६ पृष्ठस्थं) काव्यप्रकाशग्रन्थम् अलंकारसर्वस्वग्रन्थखण्डनपरतयैव योजयन्ति (५१८ पृष्ठे ६ पङ्कौ) काव्यप्रदपिकारा अपि। पीयूषवर्षस्तु पक्षधरनाम्ना जयदेवनाम्रा च प्रसिद्धः चन्द्रालोकाख्या- लंकारग्रन्थस्य काव्यप्रकाशटीकायाः शिरोमणिग्रन्थटीकायाश्च कर्तेति ज्ञेयम्। अप्पय्यदीक्षितस्तु चित्रमीमांसाकुवलयानन्दवृत्तिवार्तिकानामलंकारग्रन्थानां विधिरसायनमिति पूर्वमीमांसाग्रन्थस्य रत्न. त्रयपरीक्षादीनामद्वैतग्रन्थानां च कर्ता शिवकाञ्चीवास्तव्यो द्रविडकुलोद्दवः । अनेन हि अप्पदीक्षितेन स्वकृतसिद्धान्तलेशाख्यग्रन्थसमाप्तावेवं लिखितम् "विद्वद्गुरो[ रखिल ]विश्वजिदध्वरस्य श्रीसर्वतोमुख- महाजितयाजिसूनोः । श्रीरङ्गराजमखिनः श्रितचन्द्रमौलिरस्त्यप्पदीक्षित इति प्रथितस्तनूजः ॥ तन्त्रा- ण्यधीत्य सकलानि सदावदातव्याख्यानकौशलकलाविशदीकृतानि। आस्थाय मूलमनुरुध्य च संग्रदायं सिद्धानतभेदलवसंग्रहमित्यकार्षीत् ।।" इति । विश्वनाथस्येतिवृत्तं तु १६ प्रघट्टे स्फुटीभविष्यति। गोविन्दठकुरस्यापि २० प्रघट्टे स्फुटीभविष्यति। जगन्नाथस्तु तैलङ्गजनपदीयराजमहेन्द्रप्रान्ताभि- जनो वाराणसीवास्तव्यो लक्ष्मीगर्भजः पितुःपेरुभट्टाज्ज्ञानेन्द्रभिक्ष्वादिभ्यश्वाधिगतनानाविधविद्याप्रपञ्चः। तदुक्तं रसगङ्गाधरस्य प्रारम्भे स्वेनैव "पाषाणादपि पीयूषं स्यन्दते यस्य लीलया। तं वन्दे पेरुभट्टाख्य लक्ष्मीकान्तं महागुरुम्। श्रीमज्ज्ञानेन्द्रमिक्षोरधिगतसकलब्रह्ाविद्याप्रपश्चः काणादराक्षपीरपि गहन- गिरो यो महेन्द्रादवेदीत्। देवादेवाध्यगीष्ट स्मरहरनगरे शासनं जौमनीयं शेषाङ्कप्राप्तशेषामलभणिति- र भूत्सर्वविद्याधरो यः॥" इति। किं चायं जगन्नाथः रसगर्ङ्गाधरकुचमर्दनपीयूषलहरी (गङ्गालहरी) सुधा- लहरीअमृतलहरीकरुणालहरी लक्ष्मीलहरीयमुनावर्णन चम्पूर तिमन्मथनाटकवसुमतीपरिणयनाटकअश्वधी टीकाव्यप्राणाभरणकाव्यजगदाभरणकाव्यआसफविलासभामिनीविलासादीनां ग्रन्थानां कर्ता कदा- चिन्मथुरायां निवसन् कदाचित् हस्तिनापुर्यामपि (दिल्लयामपि) निवसन् पण्डितराजपदाभिधेयत्वं कविराजपदाभिधेयत्वं चानुभवन् संवत् १६७६-१७१६ (सित्िस्त १६२०-१६६०) पर्यन्ते काले आसीदित्यादि विस्तरेण भामिनीविलासठिप्पनकर्त्रा स्पष्टीकृतमिति तत एव द्रष्टव्यम्। केशवमिश्रस्तु उत्तरदेशीयो माणिक्यचन्द्रनृपकारितस्यालंकारशेखराख्यग्रन्थस्य कर्ता। अयं केशवमिश्रः अलंकार- सूत्रकारशौद्धोदनिकृतानि कारिकारूपाणि सूत्राणि खग्रन्थे मूलत्वेनोपसंगृह्य तेषामुपरि वृत्तिं निबबन्ध। तदुक्तमलंकारशेखरे केशवमिश्रेण ग्रन्थारम्भे "अलंकारविद्यासूत्रकारो भगवाञशौद्धोदनिः परमकारु· णिकः स्वशास्त्रे प्रवर्तयिष्यन्प्रथमं काव्यस्वरूपमाह 'काव्यं रसादिमद्वाक्यं श्रुत सुखविशेषकृत्' इति"। विद्यानाथस्तु तैलङ्गदेशीयः प्रतापरुद्रयशोभूषणस्य कर्ता। हेमचन्द्रस्तु जैनो गुर्जरदेशस्थोंS- लंकार चूडामणिसंज्ञकवृत्तिसमेत काव्यानुशासनशब्दानुशासनयोगशासनद्याश्रयमहाकाव्यदेशीनाममाला- दिबहुग्रन्थानां कर्ता। स च कुमारपालनृपसमकालिकः इति तत्तद्ग्रन्थावलोकनेनावधार्यते इत्यल- मधिकप्रसङ्गेन ।। १ श्रीमज्ज्ञानेन्द्रेति। ज्ञानेन्द्राख्ययतेः सकाशादित्यर्थः। देवादेव। एवः प्रसिद्धौ। खण्डदेवादेवेत्यर्थः पूर्व० मीमांस्ताकौस्तुभकारादेवति यावत्। स्मरहरनगरे काश्याम्। शेष इत्यङ्क उपनाम यस्य तस्माद्वरेश्वरपण्डिताह्प्राप्ता शेषस्य पतञ्ञलेरमला भितिर्महाभाण्यरूपा येन तादशः इति रसगङ्गाधरटीकार्या मर्मप्रकाशाख्यार्याँ नागोजीभट्टाः।। मन्निकटे वर्तते ॥ १ कुचमर्दनस्तु भटटोजीदीक्षितरुतपरौढमनोरमानामकव्याकरणग्रन्थस्य खण्डनरूपः । स च कारकपकरणान्तोऽद्यापि

Page 39

२0 काव्यप्रकाश: । १०. अलंकारनिबन्धानां रचनाप्रणाल्योऽपि विविंधाः। वामनसूत्रादौ दोषगुणालंकाराः क्रमेणे निरूपिताः । काव्यादर्शादौ प्रथमं गुणाः ततोऽलंकाराः ततश्व दोषा इति। किं तु सर्वत्रैव प्रथमं काव्यलक्षणममिहितम् ।। एवं काव्यलक्षणेऽपि परस्परं मतभेदो विद्यते। गुणालंकारयुक्तौ शब्दार्थौ काव्यमिति वामन- मतम्। अदोषावित्यधिकविशेषणयुक्तौ तौ काव्यमिति मम्मटमतम्। एवमेत्र प्रभाकरमतम्। निर्दोषं गुणालंकाररसवत् वाक्यं काव्यमिति भोजमतम्। गुणालंकाररीतिरसोपेतः साधुशब्दार्थसंदर्भ: काव्यमिति वाभटमतम्। निर्दोषं गुणालंकारलक्षणरीतिवृत्तिमत् वाक्यं काव्यमिति पीयूषवर्षमतम्। रसादिमद्वाक्यं काव्यमिति शौद्धोदनिमतम्। एवमेव विश्वनाथादिमतम्। इष्टार्थोपेता पदावली काव्यमिति दण्डिमतम्। रमणीयार्थप्रतिपादकः शब्दः काव्यमिति जगन्नाथमतम्। ध्वन्यात्मकं वाक्यं काव्यमिति महिमभट्टमतम्। रसालंकारयुक्तं सुखविशेषसाधनं वा काव्यमिति केशवमिश्र मतम्। एवमन्यमतेऽप्यन्यविधमिति विवरणकारैः स्पष्टीकृतम् ॥ ११. प्राचीनानां वामनवाभटदण्डिभोजदेवादीनां निबन्धा: अतीव प्रसन्नाः प्रायः सूक्ष्मविचार विहीनाश्व स्थूलतः प्रकृतविषयप्रतिपादनार्थमेव हि ते प्रवृत्ता इति तेषां निर्विवाद एवोत्कर्षः । जगन्नाथस्य नवीनोऽपि रसगङ्गाधरः उत्कृष्टः । तत्र नैकोऽपि विषयः प्रायो निर्युक्तिकः उक्तः प्रत्युत सर्व एव ते अतीबसूक्ष्मानुसंधानेन निर्णाताः। नापि च रचनायाः काठिन्यम्। यच्च क्कापि क्ापि काठिन्यं दृश्यते तत् प्रतिपाद्यविषयाणां दोषः न ग्रन्थकर्तुः । इत्येव बहवो गुणाः विद्यन्ते। केवलमेको दोषः यदनेकत्र नैयायिकसमयानुसारितर्केण दूषणभूषणादिकरणमिति। अयं हि युक्त्या स्वोक्तिमुपपादयतां सूक्ष्मं च विषयमाविष्कुर्वता मम्मटोपाध्यायानां काव्यप्रकाशाख्यो निबन्धः सर्वांशे नितरामुत्कर्षमाश्रयते। परं त्वत्नायमेको महान् दोषः यत् कस्यचित्कस्यचिदंशस्य अभिप्रायो दुरधिगम इति यं कृतधियोऽपि कृतिनस्तत्वतोऽिगन्तुं न शक्नुवन्ति। किं पुनरधिकम् एकेन यदंशस्ये योऽभिप्रायोऽवाधारि अन्येन तदंशस्यैव तद्विपरीत इति। अत एवास्य टीकाः बह्यः संवृत्ताः । उक्तं च महेश्वरभट्टाचार्येण "काव्यप्रकाशस्य कृता गृहे गृंहे टीकास्तथाप्येष तथैव दुर्गमः" इति। उक्तं साहित्यदीपिकाख्यायां काव्यप्रकाशटीकार्या भास्करसूरिणा "टीकाः काव्य- प्रकाशस्य कामं सन्तु परःशताः" इति। उक्तं च कंमलाकरभट्ैरपि "काव्यप्रकाशे टिप्पन्यः सहस्रे सन्ति यद्यपि" इति। नरसिंहठक्कुरेणाप्युक्तम् "नानाविधं बदुविधैर्विबुधैनिबद्धं व्याख्यानमत्र न तथा मुदमातनोति" इति। भीमसेनेनाप्युक्तम् "·याख्यातं हि पुरात्र यैः सुकवयः सर्वे महापण्डितास्ते वन्धाः सुतरां न तेषु मम कोऽप्यस्त्याग्रहः स्पर्धितुम्" इति । अत एवास्मदवलो- कितासु काव्यप्रकाशटीकासु बहूनि काव्यप्रकाशटीकानामान्युपलम्यन्ते तान्यपि सर्वाणि अस्माभि: पद्यैरनिबद्धन्येवेति तत एव द्रष्टव्यानि।। १२. अस्मदुपलब्धाः काव्यप्रकाशटीकाः कृतवतामयं कालक्रम इति संभाव्यते। प्रथमतो माणिक्य चन्द्रः ततः सरस्वतीतीर्थः ततो जयन्तभट्टः ततः सोमेश्वरः ततो विश्वनाथः ततश्वक्रवर्ती ततः आनन्दकवि: ततः श्रीवत्सलाञ्छनः ततः प्रदीपकारः ततः कमलाकरभट्टः ततो महेश्वरः ततो नरसिंहठक्कुरः ततो वैद्यनाथः ततो भीमसेनः ततो नागोजीभढ्टः ततो महेशचन्द्र इति। तथाहि। तत्र माणिक्य चन्द्रकृतायाँ संकेताख्यटीकायां : न कस्याश्चिदपि टीकायाः टीकाकारस्य वा नाम १'अनयोलश्यस्य लक्षकस्य च' (४६ पृष्ठे ) इत्यादेः॥ २ ्लेपविचारादे: (५२० पृष्ठे )॥

Page 40

प्रस्तावना।

समुपलभ्यते किं तु अभिधापृत्तिमातृकाकर्तुर्मुकुलस्य सरस्वतीकण्ठाभरणकर्तुर्भोजराजस्यैव च नाम "तदुक्तं मुकुलेन" इत्यादिना "तदुक्तं श्रीभोजराजेन" इत्यादिना च दृश्यते अत एवास्माभि- र्निश्चीयते 'अयं माणिक्यचन्द्रः अस्मदुपलब्धकाव्यप्रकाशटीकाकारेषु प्रथमः' इति। अयं हि जैनो गुर्जरदेशीयः विक्रमार्कसमयात् षोडशाधिकद्वादशशतीमिते (१२२६) [खिस्त ११६० ] संवत्सरे आसीत्। तदेतत्सर्वमुक्तं माणिक्य चन्द्रेणैव स्वकृतटीकायाः समाततौ। तथाहि। "इत्याचार्यमाणिक्य- चन्द्रविरचिते काव्यप्रकाशसंकेते काव्यप्रकाशदशमोल्लाससंकेतः समाप्तः। गुणानपेक्षिणी यस्मिन्नर्थालंकारतत्परा। प्रौढापि जायते बुद्धिः संकेतः सोऽयमद्गतः ॥ १ ॥ नानाग्रन्थसमुद्गृतैरसकलैरप्येष संसूचितः संकेतोऽर्थलवैर्लविष्यति नृर्णा शङ्के विशङ्कं तमः । निष्पन्ना ननु जीर्णशीर्णवसनैनीरन्ध्रविच्छित्तिभिः प्रालेयप्रथितां न मन्थति कथं कन्थाव्यथां सर्वथा॥ २ ॥ श्रीशीलभद्रसूरीणां पट्टे माणिक्यसंनिभाः । परमज्योतिषो जाता भरतेश्वरसूरयः ॥ ३ ॥ भरतेन परित्यक्तोऽस्मीति कोपं वहन्तित्र। शान्तो रसस्तदधिकं भेजे श्रीभरतेश्वरम् ॥। ४ ॥ पदं तदन्वलंचक्रे वेरस्वामिमुनीश्वरः । अनुप्रद्योतनोद्दयोतं दिवमिन्दुमरीचिवत् ॥ ५॥ वाच्छन् सिद्धितधूं हसन् सितरुचिं कीर्त्या रति रोदयन्

-fhie पञ्चेषोर्मथनात् दहन् भववनं क्रामन् केषायद्विषः । त्रस्यन् रागमलङ्गनादनशकृद्स्त्नास्त्यजन् योषितो बिभ्राण: शममद्भुतं नवरसीं यस्तुल्यमस्फोरयत् ॥। ६॥ षट्तकीललनाविलासवसति: स्फूर्जत्तपोहर्पति- स्तत्पद्टोद्यचन्द्रमाः समजनि श्रीनेमिचन्द्रप्रभुः । निःसामान्यगुणैर्भुवि प्रसुमरैः प्रालेयशैलोउजवलै- र्यश्षक्रे कणभोजिनो मुनिपतेर्व्यर्थ मतं सर्वतः ॥ ७॥ यत्र प्रातिभशालिनामपि नृर्णां संचारमातन्वता संदेहैः प्रतिभाकिरीटपटली सदः समुत्तार्यते । नीरन्ध्रं विषमप्रमेयविटपिव्रातावकीर्णे सदा तस्मिस्तर्कपथे यथेष्टगमना जज्ञे यदीया मतिः ॥८॥ 1011 यस्मात्प्राप्य पृथु प्रसादविशदां विद्योपदेशात्मिका पत्रीं मुक्तिकरीमतीव जडतावस्त्वन्विता मन्मतिः । १ भरताचार्येण नाट्यशास्त्रक्त्रेति यावत् ॥ २ पापरूपशञून् ।

Page 41

काव्यप्रकाशः।

विक्षिप्य भ्रमशौल्किकात् कलयतो लब्धाश्रयं मानसे मेध्ये वाड्मयपत्तनं प्रविशति द्वारि स्थिता तत्क्षणात् । ९ ॥ मदमदनतुषारक्षेपपूषा विभूषा जिनवदनसरोजावासिवागीश्वरीया।

तदनु समजनि श्रीसागरेन्दुर्मुनीन्द्रः ॥ १० ।। माणिक्यचन्द्राचार्येण तदङ्घ्रिकमलालिना। काव्यप्रकाशसंकेतः स्वान्योपकृतये कृतः ॥११॥ रसवक्त्रग्रहाधीरवत्सरे (१२१६) मासि माधवे। काव्ये काव्यप्रकाशस्य संकेतोऽयं समार्थेतः ॥ १२॥" इति ॥ यत्तक्तमार्यविद्यासुधाकरे (२२६ पृष्ठे ) यज्ञेश्वरपण्डितेन "विक्रमार्कसमयात् पञ्चाशदधिकै- कादशशतीमिते संवत्सरे (११५०) गुर्जराधिपो जयसिंहनामा बभूव तदानीं श्रीपत्तनेऽधिवसतो देवसूरिनामकजैनाचार्यस्य शिष्यो माणिक्यनामा कश्चित् पण्डितः आसीदिति मेरुतुङ्गाचार्यकृत- प्रबन्धचिन्तामणिग्रन्थाल्लभ्यते। स च माणिक्यपण्डितः स्वकृतायां काव्यप्रकाशग्रन्थस्य संकेताभिध- टीकार्या द्वितीयोल्लासे लक्षणावृत्तिनिरूपणप्रसङ्गे "यदाह कुमारिलः 'निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत्।' इत्यादिना कुमारिलभट्वाचार्यस्य मतं स्वख्यातेऽर्ये प्रमाणत्वेनोपम्यस्तवान्" इति तत्तु चिन्त्यमेव प्रागुक्तमाणिक्यचन्द्रोक्तिविरोधात्। प्रबन्धचिन्तामणिग्रन्थधृतो माणिक्यचन्द्र- स्त्वन्य एवेति कल्पनेन प्रबन्धचिन्तामणिप्रन्थविरोधाभावाच्चेति विद्वद्धिराकलनीयम् ॥ १३. एवं सरस्वतीतीर्थकृतायां बालचित्तानुरञ्जन्याख्यटीकायामपि न कस्यचिट्टीकाकारस्य मते दूषणाय भूषणाय वा समुपन्यस्तम् कि तु अष्टमोल्लासे (४८४ पृष्ठे) "राजा भोजो गुणानाह विशतिं चतुरश्च यान्। वामनो दश तान् वाग्मी भट्टस्त्रीनेव भामहः ॥" इत्युक्तम् । अतोऽयं सरखती- तीर्थोऽपि प्राचीन एव। अस्य देशकालादिकं सर्व स्वकृतटीकायामादौ स्वेनैव वर्णितम्। तथाहि। "दुण्ढिसंज्ञमभिनौमि सिद्धिदं ००००॥।१॥२॥।३।।४।। विधातुकाम: सुकृत गरीयः क्षमातलं स्वर्ग इवावतीर्णः । आलम्बनं सर्वविशेषणानां जयत्यखण्डस्थितिरान्ध्रदेशः ॥ ५॥ फलमिव सुकृतानां लोकधात्र्या समग्रं विगलितमिव भूमौ नाकलोकस्य खण्डम्। नगरमतिगरीयः सर्वसंसारसारः त्रिभुवनगिरिनाम्ना तत्र विरवयातमास्ते ॥ ६ ॥ तत्राभवत्सकलशास्त्रविचारपात्रं श्रीवत्सगोत्रसुरकाननपारिजातः । अन्यद्विधातुरवलम्बनमाप्तवाचां रामेश्वरः कलिकलङ्ककथान्तरायः ॥७॥।

१ वत्सरे इति। विक्रमस्येति शेषः । जैनानामुत्तरदेशीयानां च विक्रमसंवत्सरलेखनस्यैव सुप्रसिद्धत्वात् ।। १ त्रिभुवनगिरिनामकं नगरं कल्पीग्रामगास्ते ( कडपाजिल्हाख्ये) अस्तीति भ्रयते।

Page 42

प्रस्तावना । २३

ब्रह्मामृतग्रहणनाटितलोभवृत्तिस्तस्यात्मजो निपुणधीर्नरसिंहभद्टः ॥८॥ तस्मादचिन्त्यमहिमा महनीयकीर्तिः श्रीरमेल्लिनाथ इति मान्यगुणो बभूव। यः सोमयागविधिना कलिखण्डनाभिरद्वैतसिद्धमिव सत्ययुगं चकार ॥ ९ ॥ लक्ष्मीरिव मुरारातेः पुरारातेरिवाम्बिका । तस्य धर्मवधूरासाननागम्मेति गुणोज्ज्वला ॥ १० ॥ ज्येष्ठस्तदीयतनयो विनयोदितश्रीर्नारायणोऽभवदशेषनरेन्द्रमान्यः । वाग्देवताकमलयोरपि यस्य गात्रे सीमाविवादकलहो न कदापि शान्तः ॥ ११ ॥ विरिञ्चेः पर्यायो भुवि सदवतारः फणिपतेः त्रिदोषो दोषाणां सकलगुणमाणिक्यजलधिः । अवाचां प्राचां वा सकलविदुषां मौलिकुसुमं कनीर्यांस्तत्सूनुर्जयति नयशाली नरहरिः ॥ १२ ॥ सवसुग्रहहस्तेन ब्रह्मणां समलकृते (१२९८) [ खिस्त १२४२ ]। कै।ले नरहरेर्जन्म कस्य नासीन्मनोरमम् ॥ १३ ॥ तैत्काले सह मङ्गलेन गुरुणा मित्रेण लेभे वाण- ग्राशिस्तु प्रमदाश्रयेण समभूदुचैः सकाव्यो बुधः । सत्केतुः शुभहेतवे द्विजपतिर्जातः कुलीरागतो मैत्र: शान्तिमयं दधार कलशं जन्मोत्सवाडम्बरे ॥ १४ ॥ विचार्य सर्व सुखमेवं दुःखं सुधामये ब्रह्मणि लोलुपस्य। संन्यस्यतस्तस्य बभूत्र सार्था सरस्वतीतीर्थ इति प्रसिद्धिः ॥ १५॥ १ अत्र प्रमाणेत्यनेन नैयायिकत्वम् पदेत्यनेन वैयाकरणत्वम् वाक्येत्यनेन मीमांसकत्वं च ध्वनितम् ॥ २ अयं मलिनाथो रघुकाव्यादिटक्किकन्मल्लिनाथ एवेति न भ्रमितव्यम् यतः स काश्यपगोत्रज इति तद्वंशजा: कर्णाटके जनपदे गजेन्द्रगडाख्यनगरीमद्याव्यधिवसन्ति इति च किंवदन्ती कर्णात्कर्णमधिरोहति। यत्तु शिशुपालवध(माघ)- काव्यपुस्तके उपोद्घाते दुर्गाप्रसादेन क्तम् "अयमेव मल्लिनाथो रघुकाव्यादीनां टीकायाः कर्ता" इति तत्तु न युक्तिसहम् तस्य च काश्यपगोत्रजत्वेन भिन्नगोत्रत्वात् कोलाचलोपनामकत्वाच्च। यद्यं मलिन्नाथः तदुपनामकः स्यात्तदा रघुटीकादौ स्वपित्रोल्लिखितं स्वकीयमुपनाम सरस्वतीतीर्थेनाप स्वरूतायां काव्यप्रकाशटीकारयां स्वरूते स्मृतिदर्पणाख्यधर्मशास्त्रग्रन्थे चावश्यमुल्लिखितं स्यात् । किं च सरस्वतीतीर्थेन स्वपतुः सोमयागकर्तृत्वमिव रघुवंशा- दिमहाकाव्यटीका कर्तृत्वमपि वर्णितं स्यात्। अपि च सोमयागकरणे व्यापृतोडयं मलिनाथः रघुकुमारकिरातशिशुपाल- वधादीनां काव्यानां टीकायाः करणे कथं लब्धावसरः स्यात्। तस्मादुभौ मलिनाथौ भिन्नावेवेति विद्वद्विविर्वचनी- यम् ॥ ३ फणिपतेः शेषस्य शेषावतारस्य महाभाष्यकर्तुः पतअ्जलेरिति यावत् ॥ ब्रह्मेत्येकसख्यायाः संज्ञा "एकमेवाद्वितीयं ब्रह्म" इति श्रतेः ॥ काले इति। विक्रमस्येति भावः वाराणस्यामद्यापि विक्रमसंवत्सरलेखनस्यैव प्रसिद्धत्वात् ॥ ६ तत्काले इति । गुरुणा बृहस्पतिना । मित्रेण रविणा । वणिग्राशिः तुलाराशिः। प्रमदाश्रयेण कन्याश्रयेण। सकाव्यः सशुक्रः । सत्केतुः विद्यमानकेतुः। द्विजपतिः चन्द्रः । कुलीरागतः कर्कराशिगतः। मैत्रः मित्रस्य सूर्यस्यापत्यं पुमान् शनिः । कलशं कुम्भराशिम्। नन्वत्र स्वजन्मकालस्थग्रहाणां स्थानप्रदर्शनप्रसङ्ग राहो: स्थानप्रदर्शन कुतो न कृतमिति चेत् शणु । केतोः स्थानप्रदर्शने राहोस्तत्सप्तमराशिनियतस्थितिकत्वेन मकररूप- स्थानस्य प्रदर्शितप्रायत्वात्। तथा चोक्तं मुहूर्तमालायाम् "तमः शिखी द्वौ तु सदैव वक्रिणौ तथा मिथः सप्तम• राशिचारिणौ' इति॥

Page 43

२४ काव्यप्रकाश:। तर्के कर्कशकेलिना बलवतां वेदान्तविद्यारसे मीमांसागुणमांसलेन परितः सांख्येऽप्यसंख्योक्तिना। साहित्यामृतसागरेण फणिनो व्याख्यासु विख्यावता काश्यां तेन महाशयेन किमपि ब्रह्मामृतं पीयते ॥ १६ ॥ काश्यां सरस्वतीतीर्थयतिना तेन रच्यते। टीका काव्यप्रकाशस्य बालचित्तानुरञ्जनी ॥ १७ ॥" इति। वर्णित च सरस्वतीतीर्थेनैव स्वकृतटीकायाः समाप्तावपि। तथाहि। " पश्च क्वेशानजैषुर्जगति सुकृतिनो दुश्वरैर्ये तपोभि- र्येषां चेतोऽरविन्दे स किल पुरहरो वासमङ्गीचकार। येषां पादारविन्दे स्मृतिरपि जडताहारिणी देहभाजां तैष्टीकेयं सरस्वत्युपपदविलसत्तीर्थसंज्ञैरकारि ॥ १॥ साहि त्यकुमुदकानननिद्राविद्राणयामिनीनाथाः । काव्यप्रकाशटीकां व्यरीरचंस्ते सरस्वतीतीर्थाः ॥ २ ॥ एवं सरस्वतीतीर्थयतिना तेन निर्मिता। टीका काव्यप्रकाशस्य मुदे स्याद्विदुषां चिरम् ।। ३ ।। इति श्रीसरस्वतीतीर्थविरचितायां काव्यप्रकाशटीकायां दशमोऽर्थालंकारनिर्णय उल्लासः" इति ॥ अनेन हि सरस्वतीतीर्थन स्मुतिदर्पणाख्यो धर्मशास्त्रग्रन्थोऽपि विरचितः यतोऽत्रत्यानि इमानि पद्यानि प्रायः स्मृतिदर्पणेऽपि दृश्यन्ते। एवमनेन तर्करत्नाख्यो मूलग्रन्थः तर्करत्नदीपिकाख्य- स्तट्टीकाग्रन्थश्च निर्मितः । अत एव पञ्चमोल्लासे श्रुतिलिङ्गवाक्येति काव्यप्रकाशीयग्रन्थव्याख्याना- वसरे स्वेनैवोक्तम् "श्रुतिलिङ्गादीनां लक्षणानि अस्माभिस्तर्करत्नप्रकरणे प्रदर्शितानि एतेषा- मुदाहरणानि तर्करत्नदीपिकायां प्रदर्शितानि" इति ॥ १४. तथा जयन्तभट्टकृतायां दीपिकाख्यटीकायामपि क्वचितक्कचिन्मुकुलस्यैव नाम दृश्यते नान्यस्य अस्य जयन्तभट्टस्योदन्तस्तु स्वकृतदीपिकाख्यटीकाया अवसाने स्वयमेव लिखितः। तथाहि। "संवत् १३५० वर्षे ज्येष्ठवदि ३ रवौ अद्येह आशापल्लीसमावासितश्रीमद्विजयकटके सकला- राति भूपाल मौलिमुकुटालंकार भूषितपादपङ्कजमहाराजाधिराजश्रीसारङ्गदेवकल्याणविजयराज्ये साहित्य विद्याबिसिनीविकासनैकभास्करस्य सकलालंकारविवेकचतुरमानसमानसराजहंसस्य षड्दर्शनपारा- वारपोतायमानावान्तरप्रतिभानिमज्जनैकमहापोतस्य निखिलपुराणपुराणीकृतमार्गेतरविद्वज्जनमनोज्ञान- महान्धकारसहारसंहस्त्रकरस्य श्रतिस्मृतिमहार्थनिर्भ्रान्तविभ्रा तविद्वज्जनमनोज्ञानतिमिरपरिहारचन्द्रोद- यस्य श्रीमद्गुर्जरमण्डलेशमुकुटालंकारप्रभापरिचुम्बनबहुलीकृतचरणनखकिरणस्य महामात्यपुरोहितश्री- मद्द्ूरद्वाजस्याङ्गभुवा पुरोहितश्रीजयन्तभट्टेन सकलसुधीजनमनोज्ञानतिमिरविनाशकारणं विरचितेयं काव्यप्रकाशदीपिका । श्रीमिद्गरद्वाजपदाम्बुजीयप्रसादतो ग्रन्थरहस्यमेतत्। विज्ञाय किंचित् कृतवान् जयन्तस्तत्र प्रमाणं सुधियां वितर्कः ॥ १ ॥ काव्यप्रकाशदीपिका समाप्ता। " इति ॥ १ पश्च केशा लक्षणकोशे द्रष्टव्याः ॥

Page 44

प्रस्तावना। २५

१५. तथैव सोमेश्वरकृतायां संकेतापरना्ति काव्यादर्शाभिधटीकायामपि न कस्यचचिदपि काव्य- प्रकाशटीकाकारस्य नामोपलभ्यते अपि तु भट्टनायक: भट्टतौतः भट्टमुकुलः भाभहः रुद्रटः इत्या- दीनि प्राचीनमूलग्रन्थकाराणामेव नामानि दृश्यन्ते । अस्य च सोमेश्वरस्येतिवृत्तं न किंचिदपि आसादितमस्माभिः किं तु अयं सोमेश्वरः कान्यकुब्जदेशीय इत्येव तर्कयामः यतः सोमेश्वरेण स्वकृतटीकयां सप्तमोल्लासे 'वेषव्यवहारादिकम्' (४४४ पृष्ठे) इति प्रतीके कान्यकुब्जदेशो निर्दिष्ट इति। तथाहि "वेषव्यवहारादीति देशादिभिः प्रत्येकं संबध्यते तेन देशवेषव्यवहाराकारवचना- नामौचित्यान्निबन्धः कार्य इत्यर्थः यथा कान्यकुब्जदेशे उद्धतो वेषो दारुणो व्यवहारो भयंकर आकार: परुष वचनमनुचितम् म्लेच्छेषु तदेवोचितम्" इति। नन्वेतावतैवायं सोमेश्वरः कान्यकुब्ज देशीय एवेति निर्णेतुं न शक्यम् कान्यकुब्जदेशस्य सौष्ठतादिवर्णनार्थमेव तथोक्तेरित्यपि कल्पयितुं शक्यत्वादिति चेत् मैवम्। स्वदेशतदीयपदार्थानामेव पुरस्करणे ग्रन्थकारशैलीसिद्धख्ात्। अन एव नागोजीभट्टाः 'भूयो भूयः सविधनगरीरथ्यया' (१८० पृष्ठे) इति पद्यव्याख्यानावसरे "वलभी छज्जा इति प्रप्तिद्धम् " इति उत्तरहिंदुस्थानभाषया व्याचख्युः । कि च 'स्तोकेनोन्नतिमायाति ' (५२० पृष्ठ) इत्युदाहरणे तुलापदव्याख्यानावसरे 'कांटा' इति प्रसिद्धमित्याहुर्नागोजीभट्टा एव। अत एव चामरकोशटीकाकारो महेश्वरः पर्कटीशब्दव्याख्यानावसरे "अयं गोमन्तकभाषया केळा इति ख्यातस्य" इति व्याख्यातवान्। न चायमपि गोमान्तकदेशीय इत्यत्र न दृढ़तरं प्रमाणमिति शङ्कयम् "गोमान्तकप्रान्तजुषा श्रीमहेश्वरशर्मणा" इति तेनैवोपोद्दाते वर्णितत्वात्। अनेन हि सोमेश्वरेण स्वकृतटीकायाः समाप्तावपि नाधिकं किंचिल्लिखितम् किं तु

सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥ १॥ संपूर्णश्च काव्यादर्शो नाम काव्यप्रकाशसंकेत इति शुभम् " इत्येव लिखितम्॥ १६. विश्वनाथकृते काव्यप्रकाशदर्पणे तु चण्डीिासः वाचस्पतिमिश्र. श्रीधिरसांधिविग्रहकः इत्या दीनि काव्यप्रकाशटीकाकाराणां नामान्युपलभ्यन्ते। अयं हि विश्वनाथः साहित्यदर्पणकर्तैव अत एवोक्तं तेनैव स्वकृतटीकायां द्वितीयोल्लासे लक्षणानिरूपणप्रसङ्गे "एषां च षोडशानां लक्षणाभेदानामिह दर्शितान्युदाहरणांनि मम साहित्यदर्पणेऽवगन्तव्यानि" इति । उक्तं च दशमोल्लासेऽनुमानालंकारेऽपि "तदुक्तं मत्कृते साहित्यदर्पणे" इति । अयं हि चन्द्रशेखरकवेः पुत्रः अत एव साहित्यदर्पणे उक्तम् "श्रीचन्द्रशेखरमहाकविचनद्रसूनुश्रीविश्वनाथकविराजकृतं प्रबन्धम्। साहित्यदर्पणममुं सुधियो विलोक्य " इति। अयं हि नारायणदासस्य पौत्रः तदप्युक्तं स्वेनैव रसप्रकरणे "बदाहुः श्रकिलिङ्ग- भूमण्डलाखण्डलमहाराजाधिराजश्रीनरसिंहदेवसभायां धर्मदत्तं स्थगयन्तः सकलसहृदयगोष्ठीगरिष्ठक- विपण्डितास्मत्पितामहश्रमिन्नारायणदासपादाः " इति। अयं हि काव्यप्रकाशटीिाकर्तुश्चण्डीदासस्या नुबन्धी। तदप्युक्तं रसप्रकरणे तेनैव "इहास्मत्पितामहानुजकविपण्डितमुख्यचण्डीदासपादैरुक्तम्" इति। अयं हि उत्कलब्राह्मणः अत एवोक्तं पञ्चमोल्लासे 'कुरुरुचिमिति पदयोवैपरी्ये' इति प्रतीके (२३८ पृष्ठे) "वैपरीत्यं रुचिङ्कर्विति पाठः अत्र चिङ्कपदं काश्मीरादिभाषायामश्लीलार्थबोधकम् उत्कलादिभाषायां 'धृतवांडकद्रव' इत्यादि" इति। अयं च रसगङ्गाधरादिकृज्जगन्नाथरायापेक्षया प्राचीन: अत एव "यत्तु रसवदेव काव्यमिति साहित्यदर्पणे निर्णीतम् तन्न" इति रसगङ्गाघरे (१२ प्रस्तावना ४

Page 45

२६ काव्यप्रकाश:। पृष्ठे) उक्तम्। अनेन हि विश्वनाथेन नरसिंहविजयाख्यं काव्यमपि कृतम् तदुक्तं तेनैव पञ्चमोल्लासे 'कष्टत्वादीनामनित्यदोषत्वम्' इति प्रतीके (२३८ पृष्ठे) "यथा मम नरसिंहविजये 'स्फुटविकट- चपेटापातनेनायमष्टौ सपदि कुलगिरीन्वा खण्डशश्चूर्णयामि । प्रलयमरुदुदारस्फीत०००० ' इत्यादि " इति । अनेन हि चन्द्रकलाख्या नाटिकाप्यकारीति तदप्युक्तं तेनैवाष्टमोल्लासे "तत्र मसृणनिर्वाहो यथा मम चन्द्रकलायां नाटिकायाम् " इति । अनेन विश्वनाथेन स्ववृत्तं स्वकृत- टीकायामारम्भे स्वल्पमेव लिखितम्। तथाहि। "प्रमातृप्रमाणप्रमेयप्रपञ्चप्रसूति प्रमिण्त्न्ति यां योगिवर्याः। गिरां देवतां दैवतं देवतानां प्रबोधं प्रदेयादियं मत्प्रबन्धे । १ ।। टीका काव्यप्रकाशस्य दुर्बोधानुप्रबोधिनी। क्रियते कविराजेन विश्वनाथेन धीमता ॥ २ ॥ इह सर्वग्रहग्रस्ताः कुर्वन्ति कुधियो मुदा। न दोष: किं तु तत्नापि विचिन्वन्तु गति चिरात् ।। ३ ।।" इति। स्त्रवृतटीकायाः समाप्ता तु "लक्ष्मीर्वक्षो मुरारेस्विति कवयगतेर्भोगमालाङ्गमौने मौनिं सिन्धुः स्वराणामधिवसति विधेर्भाविता यावदस्य। तावत्काव्यप्रकाशा त्ववधिगमान्वारभासार्ककोटि- व्याख्या विख्यातिमेषा कविमुकुटमणेर्विश्चनाथस्य यायात् ।। १॥ इति श्रीमन्नारायणचरणारविन्दमधुकरालंकारिक चक्रवर्तिध्वनिप्रस्थानपरमाचार्याष्टादशभाषाविलासि- श्वनाथकविराजकृतौ काव्यप्रकाशदर्पणेऽर्थालंकारनिर्णयो नाम दशम उल्लासः " इति लिखितम् ॥ १७. परमानन्द चक्रवर्तिभट्टाचार्यकृतायां विस्तारिकाख्यटीकायां तु 'इति मिश्राः' इति दीपिका कृत:''यच्चोक्तं विश्वनाथेन' इत्यादिना सुबुद्धिमिश्रदीपिकाकृज्जयन्तभट्टकाव्यप्रकाशदर्पणसाहित्य दर्पणकृद्विश्वनायादीनां नामान्युपलभ्यन्ते। अत्र दापिकापदेन जयन्तभट्टकृतदीपिकैव ज्ञेया न तु प्रदीप- कारकृतोदाहरणदीपिका प्रदीपकारस्य चक्रवर्त्यपेक्षया नवीनत्वात्। अयं हि चक्रवर्ती प्रतापरुद्रयशो- भूषणाख्यालकारग्रन्थकर्तुर्विद्यानाथादर्वाचीन एव यतोडनेन चक्रवर्तिना स्वकृतविस्तारिकाख्यटीकार्या दशमोल्लासे ल्लेषालंकारे 'उदयमयते' (६१० पृष्ठे) इत्युदाहरणव्याखयानावसरे "विभाकरः सूर्यः राज्याभिषेकसमये पुरोहितादिमिस्तत्तुल्यत्व्रेन प्रतापरुद्रदिवत् संकेतितो नृपतिविशेषश्च" इत्यादिना ग्रन्थेन प्रतापरुद्रस्य नामानुकीर्तनात्। अयं चक्रवर्त्युपाख्यः परमानन्दो वङ्गदेशीय एव । कि बहुना ये ये भट्टाचार्यपदादिरूढास्ते सर्वेऽपि वङ्गदेशीया एव वङ्गजनपदे एव पण्डितानां भट्टाचार्यपदाभि- घेयस्य सुप्रसिद्धत्वात्। श्रयते ह्यत्र किंवदन्ती 'वङ्गजनपदे नद्याशान्तिनामकराजधान्यां पण्डितसमाजे दत्तसम्यड्न्यायशास्त्रपरीक्षाः काव्यप्रकाशटीकाकर्तारो भट्टाचार्यपदं लेभिरे' इति । अयं च चक्रवर्ती महानैयायिकः अत एव गङ्गेशोपाध्यायकृतचिन्तामणिग्रन्थस्योपरि एतत्कृतं लक्षणं चक्रवर्तिलक्षण १ अन्तिमपत्रमतिशिथिलमशुद्धं चासीदिति यथोपलब्धं तथैवात्र सर्वत्र लिखितम् ॥ २ नड़िया इति प्रसिङ्कायाम्॥

Page 46

प्रस्तावना। २७

मिति नाम्ना गादाधर्यां चतुर्दशलक्षण्यामुपलभ्यते। अत एव च स्वेनाप्युक्तं सप्तमोल्लासारम्भे "अन्धा दोषान्धकारेषु के वा न स्युर्विपश्चितः । नाहं तु दृष्टिविकलो धृतचिन्तामणिः सदा ॥" इति। परं अयं चक्रवर्ती केवलनैयायिक एव न तु वैयाकरणोऽपि । अत एवानेन "सप्तम्युपमानपूर्वपदस्य ०००" (५७७ पृष्ठे १७ पङ्मी ) इति कात्यायनकृतवा्तिकस्य पाणिनिसूत्रत्वेन व्यवहारः कृत इत्यलम् ॥ १८. आनन्दकविकृतायां सारसमुच्चयापरनान्नि निदर्शनाख्यटीकायां तु दशमोल्लासे 'मालाप्रति- वस्तूपमावत् मालाव्यतिरेकोऽपि संभवति' इति प्रतीके (६५१ पृष्ठे ) "विस्तारिकाकृता विव्ृतम्" इत्यादिग्रन्थेन चक्रवर्तिभट्टाचार्यस्यैव नामोपलभ्यते। अयं हि आनन्दकविः काश्मीरदेशीयः शैवक्षेति तद्ग्रन्थावलोकनेन संभाव्यते। अत एवानेन स्वकृतटीकाया आरम्भे "प्रणम्य शारदां काव्यप्रकाशो बोधसिद्धये। पदार्थविव्ृतिद्वारा स्वशिष्येभ्यः प्रदर्श्यते ॥" इति प्रतिज्ञाय "०००००इति शिवागम- प्रसिद्धया षर्टटिशत्तत्वदीक्षाक्षपितमलपटल: प्रकटितसत्स्वरूपाश्चिदानन्दघनः राजानककुलतिलको मम्मटनामा दैशिकवरोSलौकिककाव्यस्य प्रकाशने प्रवृत्तोऽपि 'आत्मतत्त्वं ततस्त्यक्त्वा विद्यातत्वे नियोजयेत् । ०००००परस्मिस्तेजसि व्यक्ते तत्नस्थः शिवतां व्रजेत्' इत्यादिस्वच्छन्दशास्त्रोक्तशा- नवच्छिन्नपरिस्फुरितस्वच्छस्वच्छन्दप्रकाशादिकमपरित्यजन् संवित्स्वरूपस्याभ्यन्तरस्य काव्यस्य शिव- त्त्वस्य प्रकाशिकामभेदप्रथोत्थापिकां शुद्धविद्यां प्रथममवतार्य शिष्येषु अनुग्रहाय दर्शयति ग्रन्थारम्भे इति" इति ग्रन्थेन शिवागमप्रसिद्धाम् षट्टिंशत्तत्वरूपान् पदार्थान् प्रदर्श्य काव्यप्रकाशो व्याख्यातः॥। १९. श्रीवत्सलाञ्छनभट्टाचार्यकृतायां सारबोधिन्याख्यटीकार्या तु मिश्रः विद्यासागरः भास्वरः जयराम: विश्वनाथः (प्रतापरुद्रयशोभूषणकारः ) इति पञ्चैव टीकाकाराणां नामानि उपलभ्यन्ते। कि च 'अधिकं तत्त्वबोधिन्यां द्रष्टव्यम्' इति ग्रन्थेन तत्त्वबोधिनीकारस्यापि नाम निर्दिश्यते। नवीनोऽप्ययं श्रीवत्सलाञ्छनः तत्र तत्र "इति केचित् " "इत्यन्ये" इत्येव लिखितवान्। अयं च रसगङ्गाधरादिकृ- ज्जगन्नाथपण्डितराजत्प्राचीनः। अत एव रसगङ्गाघरे "इति श्रीवत्सलाञ्छनोक्तमुदाहरणं परास्तम्" इत्युक्तम्। एष श्रीवत्सलाञ्छनभट्टाचार्योऽपि केवलनैयायिक एव न तु वैयाकरणोऽपि। अत एवं "इवेन नित्यसमास:० " इति कात्यायनकृतवार्तिकस्य (५५७ पृष्ठे १ पङ्कौ) 'अनेन सूत्रेण' इति व्याख्यानं कृतवानिति बोध्यम्। अयं हि चक्रवर्तिकृतां विस्तारिकामेव क्वचित्कचित् संक्षिष्य विस्तृत्य च सारबोधिनीं रचयामासेति स्पष्टं तदुभयदृष्टरणा कुशाप्रधिषणानामित्यलमधिकलेखनेन ।। २०. गोविन्दठक्कुरकृतारयां काव्यप्रदीपाख्यच्छायाव्याख्यायां तु भास्करभट्टाचार्यचण्डीदासभट्टाचा- र्ययोरेव नाम्नोपादानमुपलभ्यते । अयं गोविन्दः ठक्कुरोपनामकः केशवात्मजः रुचिकरकवेः सापतन- भ्रातु: कनीयान् श्रीहर्षाख्यकवेज्येष्ठो भ्रातेति ज्ञायते। अयं हि उदाहरणदीपिकाख्यमुदाहृतश्लोक- व्याख्यानग्रन्थम् काव्यादिग्रन्थं च चकारेति निश्चीयते। तदेततसर्वमभिहित तेनैव काव्यप्रदीपारम्भे तत्समाप्तौ च। तत्रारम्भे यथा "सोमोदेव्या: प्रथमतनयः केशवस्यात्मजम्मा श्रीगोविन्दो रुचिकरकवेः स्नेहपातं कनीयान्।

१ 'स्वशिष्येभ्यः प्रदर्श्यते' इत्यत्र 'शितिकण्ठस्य दर्श्यंते' इति पाठो विवरणकारैरङ्गीकृतः । अस्मदुपलब्ध- पुस्तके तु 'स्वशिष्येभ्यः प्रदर्श्यते' इत्येव पीठ उपलभ्यते। स एव समीचीन इति भाति ॥ २ सोनोदैव्या इति। रुचि- करकविः सापन्नम्रातेति ज्ञेयम्। अध्यथा प्रथमतनयः कनार्यानिति व न संगच्छते तस्माद्द्वैमात्रेयो रुचिकरकविः । अयं श्रीगोविन्दुस्तु स्वमातुर्ज्येष्ठ एवेति ज्ञेयमिति प्रभार्यां स्पष्टम् ॥

Page 47

काव्यप्रकाश:। श्रीमन्नारायणचरणयोः सम्यगाधाय चित्तं नत्वा सारस्वतमपि महः काव्यत्त्वं व्यनक्ति ॥ १ ॥" इति । समाप्तौ यथा "ज्येष्ठे सर्वगुणैः कनीयसि वयोमात्रेण पात्रे घियां गात्रेण स्मरगर्वखर्वन(ण)परे निष्ठाप्रतिष्ठाश्रये। श्रीहर्षे त्रिदिवं गते मयि मनोहीने च कः शोधये- दत्राशुद्धमहो महत्सु विधिना भारोऽयमारोपितः । १॥ परिशीलयन्तु सन्तो मनसा सन्तोषशीलेन। इममद्तं प्रदीप प्रकाशमपि यः प्रकाशयति ॥ २ ॥ दीपिकाद्वितयं कन्ये प्रदीपद्वितयं सुतौ स्वमतौ सम्यगुत्पाद्य गोविन्दः शर्म विन्दुते ॥" इति । किं च प्रथमोल्लासे "शब्दचित्रं वाच्यचित्रम् " इति सूत्रे (२२ पृष्ठे) 'मदीयं पद्यमुदाहरणीयम् यथा मध्ये व्योम स्फुरति००००' इति सप्तमोल्लासे "स्थितेष्व्रेतत्समर्थनम् " इति सूत्रे (४०९ पृष्ठे) 'तस्मान्मदीयं पद्यमुदाहरणीयम् यथा निर्वातपद्मोदरसोदराम्यां८००' इति च प्रदीपोऽपि प्रमाण- कोटिं प्रवेष्टमीष्टे इति लिपिभूयस्त्वादुपरभ्यते। अयं हि प्रदीपोऽतीव समीचीनः अत एवैतदुपरि वैद- नाथेन प्रभा नागोजीभद्टेनोद्दयोतोऽप्यकारि। अयं हि गोविदठक्कुरोडर्वारचनि एव अत एव सुधासागरे चतुर्थोल्लासे भीमसेनेनोक्तम् "इति सर्वतन्त्रविदो वाचस्पतिमिश्राः आधुनिककाव्यप्रदीपकारादयस्तु" इति। अस्य च प्रदीपकारस्व मुख्यं शास्त्रं तर्कशास्त्रमेव न तु व्याकरणम् अत एव प्रदीपे "मुख्यार्थ बाधे तद्योगे" इति सूत्रे (४० पृष्ठे) "शक्यसंबन्धो लक्षणा" इति "यदिति गुणीभूतक्रियाविशेष- णम् " इति च नैयायिकरीत्यैव व्याख्यातम् न तु 'शक्यतावच्छेदकारोपो लक्षणा' इति 'यदिति प्रधानाभूतक्रियाविशेषणम्' इति च वैयाकरणरीत्या । अत एवोद्योते गुणीभूतेति प्रतीकमुपादाय नागोजीभट्ठाः प्राहुः "कारकविशेष्यकबोधनये इदम् क्रियाविशेष्यकबोधनये तु न कश्चिददोषः" इति। अत एव च नागोजीभिट्टैरुद्दयोते कचित्कचिदुक्तम् "अत्रत्यप्रदीपस्तु मतान्तरपरतया कर्थं चिन्नेयः"इति । कि च सप्तमोल्लासे न्यूनपदोदाहरणे "अन्यारादितरर्ते दिक्शब्द०" इति पाणिनि- सूत्रानुरोधेन 'खिन्ने इत्यस्मात्पूर्वम्' इति प्रयोक्तव्ये 'खिन्ने इत्यस्य पूर्तम्' इति प्रदीपकार प्रयोगोऽपि प्रदीपकारस्यावैयाकरणत्वं सूचयति। अपि च सप्तमोल्लासे च्युतसंस्कृत्युदाहरणे (२७० पृष्ठे ) "आशिषि नाथः " इति वार्तिकेनेति वक्तव्ये "आशिषि नाथः " इति सूत्रेणेति प्रदीपाक्षराण्यपि प्रदीपकारस्य वैयाकरणत्वं परिजिहीर्षन्तीत्यलं महतां दोषोद्वाटनेन ।। अस्थ च प्रदीपकारस्य कनिष्ठम्रात्रा श्रीहर्षेणापि किमपि कार्व्य निर्मितमिति गम्यते यतः प्रदीपे विरोधालंकारे 'पेशलमपि खलवचनं०' इति ४८७ उदाहरणानन्तरं "यथा मद्भ्रातुः श्रीहर्षस्य 'सर्वतः पुरत एव दृश्यते पात्रतां न पुनरेति चक्षुषोः । हृद्गतोऽपि भुजयोर्न भाजनं कोऽयमालि वन- मालिन: क्रमः ॥" इत्युदाहृतमिति। न चायं श्रहर्षो नैषधकाव्यकर्तेति भ्रमितव्यम् प्रदीपे विशेषो- कत्यलंकारे "इति नैषधदर्शनात्" इति व्यवहृतत्वात् । अन्यथा 'मद्भातुः काव्यदर्शनात्' इत्येव १ काव्यप्रकाशमपीतत्यर्थः ।

Page 48

प्रस्तविना। २९

व्यवहतं स्यात् । किं चार्यं श्रीहर्षः प्रदीपकारसहोदरत्वात्केशवात्मजः नैषधकाव्यकृत् श्रीहर्षस्तु हीरात्मज इत्यप्यनयोर्भेद: सुवचः यतो नैषधे एव "श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्" इत्युल्लिखितमित्यलमधिकप्रसङ्गेन।। तदेतत्सर्व महामहोपाध्यायगोविन्दठक्करस्य यथोपलब्धो वृत्तान्तो वंशवृक्षश्व प्रकटतां प्रापितः काव्यमालाकर्त्रा दुर्गाप्रसादेन। तथाहि। "अयं ठक्कुरोपनामको विद्वद्वरश्रीगोविन्दो मिथिलायां श्रीरवि- करवंशे जन्म लेमे इति तद्देशप्रसिद्धपञ्जीकारपुस्तकेषु समुपलभ्यते। अधुनापि गोविन्दवंशोद्भवा मिथिलान्तर्गत 'भटसीमरि' ग्रामे निवसन्तीत्यपि तत्युस्तकेम्य एव ज्ञायते। समयस्त्वनिश्चित एव। केवलमेतदजुमीयते यत्काव्यप्रकाशव्याख्या नरसिंहमनीषाभिधा ताराभक्तिसुधार्णवश्चेति ग्रन्थद्वयं नरसिंहठक्कुरप्रणीतमुपलम्यते । स नरसिंहठक्ुर: १६६८ मिते विकरमाब्दे निर्णयसिन्धुनिर्मातुः काव्यप्रकाशटीकाकर्तुश्च कमलाकरभट्टादर्वाचीनः इति तद्ग्रन्थपर्यालोचनया प्रतीयते। एतेन नर- सिंह: स्त्रिस्ताब्दीयषोडशशतकोत्तरभागसमुद्धतः स्यादित्यनुमीयते। स च नरसिंहो गोविन्दात्पञ्चम इति गोविन्दोऽपि सि्रिस्तान्दीयपञ्चदशशतकोत्तरभागासन्नकाले विद्यमान आसीदिति वक्तुं युज्यते । अथ च कमलाकरभट्टप्रणीतकाव्यप्रकाशटीकायां प्रदीपकारस्य नाम समुपलम्यते। कमलाकरश्ष १६१२ मिते खितिस्ताब्दे निर्णयसिन्धुं जग्रन्थेति खि्निस्ताब्दीयषोडशशतकान्तिमभागतः कथमपि नार्वाचीनः प्रदौपकारो गोविन्द इति सुव्यक्तमेव ।! प्रथमा पत्नी=रविकरठक्कुर := द्वितीया पत्नी

बुद्धिकरठक्कुरः रविकान्तठक्कुर :-

प्रथमा पत्नी (सोनोदेवी)=केशवठक्कुर := द्वितीया पानी कीरतिकरठक्कुर:

दूबनठक्कुर: गोविन्दठक्कुरः । गोनूठक्कुर: । हर्षठक्कुरः । रुचिकरठक्कुरः । महाईठक्कुर : थघठक्कर: ठकरूठक्कुरः। विद्यापतिठक्कुरः। दामोदरठक्कुरः (इत्यादि पुत्राष्टकं गोविन्दठक्कुरस्य) कृष्णठक्कुरः

गदाधरठक्कुर:

नरसिंहठक्करः २१. महेश्वरभट्टाचार्यकृतायानादर्शाख्यटीकार्या तु परमानन्दचक्रवर्तिभट्टाचार्यस्यैव नामोपलम्यते नान्यस्य। इयं हि आदर्शाख्यटीका नातीव समीचीना। "इवेन नित्यसमासः" इति कात्यायनकृत- वार्तिकस्य (५५७ पृष्ठे ८ पङ्कौ) "इदं पाणिनिसूत्रम्" इत्युक्तवतोडस्य महेश्वरभट्टाचार्यस्य स्वोक्तिरेव स्वस्यावैयाकरणत्वं व्यनक्तीत्यलम्। यद्यप्यस्य महेश्वरभट्टाचार्यस्य वङ्गदेशीयस्येतिवृतं न किंचिद- व्यासादितमस्मामि: यतो महेश्वरेण स्वकृतटीकायाः समात्तौ स्वल्पमेव लिखितम्। तथाहि।

Page 49

३० काव्यप्रकाशः ।

"काव्यप्रकाशस्य कृता गृहे गृहे टीका तथाप्येष तथैव दुर्गमः । 5.F सुखेन विज्ञातुमिमं य ईहते धीरः स एतीं विपुलं विलोकताम्" ॥ इति। तथापि तात्पर्यविवरणकृन्महेशचन्द्रदेवप्रेषितपत्रमुखेनेत्थं श्रयते। तथाहि। "स्वस्ति श्रीयुतेभ्यो निखिल- गुणनिधिभ्यः पडितप्रवरेभ्यो महेशानुगृहीतेभ्योऽपि महेशानुग्राहकेभ्यो झळकीकरोपनामकवामना- चार्यमहाशयेभ्यः सविनयं नमस्कारा: सन्तु । अथोदन्तः । काव्यप्रकाशटीकादर्शकृन्महेश्वरः संवद भिधानायाः षोडशशताब्द्याश्चरमसंधौ सप्तदशशताब्धां वा जन्मना वङ्ग जनपदमलंचकारेति अस्माकमभिमतम् । तस्य हि महेश्वरेति नाम न्यायालंकारेत्युपाधिः वङ्गजनपदप्रचलितदायभागटीका- कर्तृत्वम् साहित्यदर्पणकृद्विश्वनाथापेक्षया नवीनत्वम् (अनन्तरोक्तयुक्त्या प्रतिपादितं) वैदनाथापेक्षया प्राचीनत्वं च उक्तमर्थ द्रढयति। उदाहरणचन्द्रिकाकारवैद्यनाथापेक्षया काव्यप्रकाशटीकाद र्शकृन्महे- श्वरः प्राचीन इत्ययमर्थः उदाहरणचन्द्रिकाग्रन्थादेवास्माभिरवाधारि । वैद्यनाथः खलु उदाहरणचन्द्रि- कायां महेशनाम्रा महेश्वरमुल्लिख्य महेश्वरकृनमादर्श क्वचिदविकलं क्वचिच अंशतो विकलं कृत्वा। बहुश उद्धृत्य निराचकार। तदुदाहरणं च भवद्धिरेव उदलेखि। दृश्यतां च पुनः 'चापाचार्यस्त्रिपुर- विजयी' इत्यस्य (३२३ पृष्ठे) 'किमुच्यतेऽस्य भूपाल०' इत्यस्य (३२६ पृष्ठे) 'जा ठेरं व हसन्ती' इत्यस्य (१४२ पृष्ठे) च पद्यस्य वैद्यनाथकृतं व्याख्यानम्। कलिकातासंस्कृतकालेज। भवदीय :- २ रा डिसेम्बर १८८२। श्रीमहेशचन्द्रदेवशर्मा" इति॥ २२. कमलाकरभट्टकृतायां काव्यप्रकाशटीकायां तु चण्डीदासः मधुमतीकारः (रविभट्टाचार्यः) सरस्वतीतीर्थः पद्मनाभः सोमेश्वरः परमानन्दचक्रवर्ती देवनाथः श्रीवत्सलाञ्छनः प्रदीपकारः इत्यादीनि बहून्येव काव्यप्रकाशटीकाकाराणां नामान्युपलभ्यन्ते मूलग्रन्थकारयोस्तु भोजराजाप्पय्य- दीक्षितयोरेव। अयं हि कमलाकरः भट्ोपनामको वाराणसीस्थोऽस्मद्याकरणशास्त्रगुरूणां सखाराम- भट्टानां वृद्धपितामहः आश्वलायनो विश्वामित्रगोत्रो महाराष्ट्रब्राह्मणो महामीमांसकः । अनेन च निर्णय- सिन्धुशूद्रकमलाकरतत्वकमलाकरदान कमलाकरपूर्तकमलाकरमीमांसाकमला कर शानन्तिरत्न प्रायश्चित्तरत्न आहिकप्रयोगषोडश संस्कार प्रयोगाहिरण्य केशीय ज्योतिष्टोमप्रयोगगात्रप्रवरदर्पणविवाद ताण्डवपूर्वमीमांसा धार्तिकवेदान्तकुतूहलादयो बहवो ग्रन्था निर्मिताः । तदेतत्सर्व स्वयमेव स्वकृतटीकायाः समाप्ता वुक्तम्। तथाहि। "गुणिनोऽनन्तपुत्रस्य विनोदाय सर्तां मुदे। कमलाकरसंज्ञेन श्रम एष विनिर्मितः ॥ १ ॥ तर्केन्दुस्तर्कमेधः फेणिपतिभणितिः पाणिनीये प्रपञ्चे न्याये प्रायः प्रगरभ: प्रकटितपठिमा भद्ृशास्त्रप्रघट्वे। प्रायः प्राभाकरीये पधि मथितदुरूहान्तवेदान्तसि-घुः श्रौते साहित्यकाव्ये प्रखरतरगतिर्धर्मशास्त्रेषु यश्च ॥। २ ॥ 6 १ काव्यप्रकाशः ॥२ काव्यप्रकाशम्॥ 3 स्वकतटीकाम ॥ वृद्धपितामह इति। तथाहि। कमलाकरभट्वस्य पुत्रः श्यामभट्टः तरय पुत्रो गोविन्दभट्टः तस्य पुत्रो दिवाकरभहः तस्य पुत्रो बार्लभट्टः तस्य पुत्रः सखारामभट्टः इति॥ ५ फणिपतिः शेषः (पतञ्लिः ) तस्येव भणितिर्यस्य तादृश इत्यर्थः। अथ वा 'फणिपतिभणितौ' हत्येव सुवचः पाठ: ।।

Page 50

प्रस्तावना । ३१

येनाकारि प्रोद्धटा वार्तिकस्य टीका चान्या विंशतिर्ग्रन्थमाला। श्रीरामाङ्घ्रयोरर्पिता निर्णयेषु सिन्धुः शास्त्रे तत्त्वकौतूहले च ॥ ३ ॥ श्रीमन्नारार्येणाख्यात् समजनि विबुधो रामकृष्णाभिधान- स्तत्सूनुः सर्वविद्याम्बुधिनिजचुलुकीकारतः कुम्भजन्मा । टीका काव्यप्रकाशे कमलपदपरस्त्वाकरोऽरीरचद्यः श्रीपित्रोः पादपद्मे रघुपतिपदयोः स्वं श्रमं प्रार्पयच्च ॥ ४॥" इति । अनेन कमलाकरभट्टेन स्वस्य स्थितिकालोऽपि स्वकृतनिर्णयसिन्ध्वाख्यग्रन्थान्ते लिखितः। तथाहि। "वसुऋतुऋतुभूमिते ( १६६८) गतेऽब्द्े नरपतिविक्रमतोऽय याति रौद्रे। तैपसि शिवतिथौ समापितोऽयं रघुपतिपादसरोरुहेऽर्पितश्च ॥ १ ॥ " इति ॥ २३. नरसिंहठक्कुरकृतायां नरसिंहमनीषाख्यटीकायां तु चण्डीदासः लाटभास्करमिश्रः सुबुद्धि- मिश्रः मधुमतीकारः (रविभट्टाचार्यः) कौमुदीकृत् आलोककृत् यशोधरोपाध्यायः मणिसारः रुचिमिश्रः (रुचिकरमिश्रः) परमानन्दचक्रवर्ती प्रदीपकारः इत्यादीनि काव्यप्रकाशटीकाकाराणां नामान्युप- लभ्यन्ते। अयं हि नरसिंहः प्रदीपकारकुलज एवेति वयं तर्कयाम: अत एवोभयोः ठकुरोपनामक- त्वम्। अत एव चानेन नरसिंहेन स्वकृतटीकार्या तत्र तत्न सुबुद्धिमिश्रमतं परमानन्दचक्रवर्तिमतं च "इति सुबुद्धेः कौबुद्धयमपास्तम् " इत्यादिना "इति परमानन्दप्रलपितमपास्तम्" इत्यादिना च ग्रन्थेन यथा तुच्छताबोधकशब्दैः खण्डितम् तथा स्वमतविरुद्धमपि काव्यप्रदपिमतं न कुत्रचिदपि खण्डितम्। किं तु यत्र स्वमतविरुद्धः प्रदीपस्तत्र "इति प्रदीपकाराः वदन्ति वयं तु वदामः" इत्या- दिना मतद्वयमात्रं प्रदार्शितम् । यत्र तु स्वमतानुकूलः प्रदीपस्तत्र "इति प्रदीपकृत्पवित्रीकृतः पन्थाः" इत्यादिना पक्षपात एव प्रत्युत प्रदर्शित इति प्रत्येतव्यम् । अयं नरसिंहः कमलाकरभट्टसमनन्तर- कालिक एवेति संभाव्यते 'अभेदावगमश्च प्रयोजनम्' इति प्रतीके (५२ पृष्ठे) 'सारोपायां धर्मयोः साध्यवसानायां धर्मिणोर्धर्मयोश्चाभेदप्रतीति: प्रयोजनम्' इति स्वमतप्रदर्शनपरस्य कमलाकरग्रन्थस्य अनेन नरसिंहेन "इति नवीनाः" इत्यादिनोपपादितत्वात्। अनेन नरसिंहगहामहोपाध्यायेन किमपि काव्यमपि विरचितम् अत एव "निर्वेदग्लानिशङ्काख्याः' इतिसूत्रव्याख्यानावसरे (११२ पृष्ठे) "भूषणानां स्थानविपर्यासो विभ्रमः यथा मम" इत्यादिना स्वकीयं पद्यमुदाहृतम् । स्पष्टोकृत- मिदं प्रदीपकारप्रस्तावनायां २० प्रघट्टे इति अधिकं तत्रैव द्रष्टव्यम् । अयमसाधारणो नैयायिक: अत एव सुधासागरे भमिसेनेनोक्तम् "न्यायविद्यावागीशनरसिंहठक्कुराः" इति। सूचितश्च स्वपाण्डित्य- गर्वः सप्तमोल्लासारम्भे स्वेनापि 'दोषप्रदानपटवो बहवोऽपि धूर्ता मूका भवन्ति कठिने सरले प्रगल्भाः । मातर्भवानि करवाणि ततोडत्र काकुं मा कुण्ठितोऽस्तु मयि ते करुणाकटाक्षः ॥"इति। कि च स्पष्टमेव तन्नैयायिकत्वं तट्टीकालेखनपद्धति पश्यतां विदुषाम्। परं त्वेतेषां सारबोधिनीकारनरसिंहठक्कुरादीनां "शाब्दव्यिञ्जनायाः " इति प्रयोगस्तु केवलनैयायिकत्वमेव प्रकाशयन् वैयाकरणत्वं व्यवच्छिनत्तीति मन्तव्यम् । कि च दशमोल्लासे उपमालंकारे (५५७ पृष्ठे) "इवेन समासो विभक्त्यलोप०००0"

तिथौ त्रयोदश्याग्॥। १ कुमारिलभट्टरुतस्य पूर्वमीमांतवार्तिकस्य ॥ नारायणभट्यादियन्थकर्तुः ॥ ३ तपसि माघमासे। शिव-

Page 51

३२ काव्यप्रकाश:। इति वा्तिकस्य सूत्रत्वेन व्यवहारोडपि श्रवित्सलाञ्छनभट्टाचार्यस्य केवलनैयायिकत्वमभिव्यनक्ति। इयं हि नरसिंहमनीषा सप्तमोल्लासपददोषपर्यन्तैवास्माभिरुपलब्धेत्यलम्।। २४. वैदयनाथकृतायामुदाहरणचन्द्रिकायां तु चण्डदिासः सुबुद्धिमिश्रः दीपिकाकृत् चक्रवर्ती महेशः इत्यादीनि नामान्युपलभ्यन्ते। अत् दीपिकाकृदित्यत्र दीपिकापदवाच्या गोविन्दठक्ुरकृतोदाहर- णदीपिकैव न तु जयन्तभट्टकृतदीपिकेति मन्तव्यम् अत्रोपपादितस्य दीपिकाकृन्मतस्य जयन्तमट्टकृत- दीपिकायामनुपलम्भातु उदाहृनश्लोकव्याख्यानार्थमेवोदाहरणदीपिकोदाहरणचन्द्रिकयोः प्रवृत्तत्वेनोदाह- रणचन्द्रिकायां दूषणाय भूषणाय वोदाहरणदीपिकाया एवानुवादस्यौचित्याच्चेति बोध्यम्। कि चास्या- मुदाहरण चन्द्रिकायां यत्र यत्र 'महेशः' इति नाम लभ्यते तत्र तब महेशपदेन कव्यप्रकाशा- दर्शकृम्महेश्वर एव ग्राह्यः 'इति महेशः' इत्यादिनानूदितस्थ ग्रन्थस्य महेश्वरकृतादर्शाख्यटीकायामर्थत उपलम्भात्। तदेतत्सर्व महेश्वरभट्टाचार्योदन्तकथनप्रस्तावे प्रपञ्चितमेवेत्यलं मुहुः कथनेन ॥ अनेन हिं वैद्यनाथेन काव्यप्रदीपटीका प्रभा कुवलयानन्दटीका चन्द्रिका च कृता। उक्तं च वैद्यनाथेनैब प्रथमोल्लासे "तददोषौ शब्दार्थौ " इति सूत्रे प्रभायाम् "उदाहरणल्लोकार्थस्तु विस्तरेणा- स्मत्कृतोदाहरणचन्द्रिकायां द्रष्टव्यः" इति । अयमपि नैयायिकः अत एव "तिष्ठेत्कोपवशात्" इति ३११ उदाहरणे 'स्वर्गायेति' कर्मण चतुर्थी "क्रियार्थोप०" इति सूत्रादिति वक्तव्ये "तुमर्थाच्च०" इति सूत्रेण चतुर्थीत्युक्तमुदाहरणचन्द्रिकायाम्। अतश्च सकृतप्रभायां तत्र तत्र मूलप्रदीपानुरोधेन नैयायिकमतेनैव व्याख्यातवान् न तद्योतकारवत् वैयाकरणरीत्या। एवं स्पष्टमिदं सर्व तत्तद् ग्रन्थाद्द्रष्टणां सूक्ष्मद्ृशामिति ग्रन्थगौरवभिया विरम्यते। अनेन च स्वकालादिकमपि स्वकृतोदाहरण- चन्द्रिकायाः समात्तौ लिखितम्। तथाहि। "अनल्पकविकल्पिताखिलसदर्थमञ्जूषिकां सदग्वयविबोधिकां विबुधसंशयोच्छेदिकाम्। उदाहरणयोजनाजननसज्जनाह्वादिकाम् उदादूरणचन्द्रिकां भजत वैद्यनाथोदिताम् ॥ १॥ वियद्वे द मुनिक्ष्माभिर्मिते(१७४०)डब्दे कार्तिके सिते। बुधाष्टम्यामिमं ग्रन्थं वैद्यनाथोऽभ्यपूरयत् ॥ २ ॥ इतिश्रीमत्पदवाक्यप्रमाण भिज्धर्मशास्त्रपारावारपारीणतत्सत्विठ्ठलभट्टात्मजश्रीरामभट्टपूरिसूनुना वैद्य- नाथेन रचितायां काव्यप्रकाशोदाहरणविव्ृतावुदाहरणचन्द्रिकारयां दशम उल्लासः संपूर्णः " इति । उक्त च स्वकृतप्रभायाः समाप्तावपि "इति श्रीमत्सकळशास्त्रधुरंघरतत्सदुपाख्य श्रीरामभट्टसूनुवैद्यनाथ- कृतायों काव्यप्रदीपव्याख्यायां प्रभाख्यायां दशम उल्लासः " इति। एवमेव कुबलयानन्दस्य चन्द्रिका- यामप्युक्तमिति बोध्यम्। अयं हि वैद्यनाथः प्रतापरुद्रयशोभूषणकृद्विद्यानाथादर्वाचीन एव। अत एवानेन वैद्यनाथेन स्वकृतकुवलयानन्दचन्द्रिकायां संकरालकारे 'तदुक्तं विद्यानाथेन' इत्युक्त्वा तत्कृतप्रतापरुद्रग्रन्थोऽप्यनूदित इति दिक्॥ २५. दीक्षितभीमसेनकृतायां सुधासागराख्यटीकार्या तु चण्डीदासभट्टाचार्याः भास्करभट्टाचार्याः देवनाथतर्कपञ्चानना: मिथिलेशसचिवाच्युतभट्टाचार्याः तत्पुत्ररत्नपाणिभट्टाचार्याः तत्पुत्रविभट्टाचार्याः १ अब्दे इति। विक्रमस्येति भाव: ।।

Page 52

प्रस्तावना। ३३

जयरामपञ्चाननाः सर्वतन्त्रविदो वाचस्पतिमिश्राः सुबुद्धिमिश्राः मुरारिमिश्राः रुचिमिश्राः पक्षधरो- पाध्यायाः चक्रवर्तिभट्टाचार्याः श्रवत्सलाञ्छनभट्टाचार्याः काव्यप्रदीपोदाहरणदीपिकाकृद्गोविन्दठक्कुराः न्यायविद्यावागीशनरसिंहठक्कुराः महेशाः ( महेश्वरपदाभिधेयाः ) उदाहरणचन्द्रिकाकारवैद्यनाथाः इत्यादीनि टीकाकाराणां नामानि लभ्यन्ते । अनेन हि भमिसनेन स्वदेशकालादिकं सर्वमपि स्वकृतटीकारम्भे तत्समात्तौ च स्वयमेव लिखितम्। तत्रारम्भे यथा

श्रीमच्छाण्डिल्यवंशे कृतविविधमखः कीर्तिमान् दीक्षितोऽभू द्रङ्गादासः प्रसिद्धः सुरगुरुसदृशः कान्यकुब्जाग्रगण्यः । तस्माद्वीरेश्वराख्यस्तनय इह महाभाग्यवान् विष्णुभक्तो जातः संकीर्तनीयः सकलबुधजनैर्भूपतीनां सभासु ॥ २ ॥ तस्माच्छीमुरलीधरो हि कवितापाण्डित्यपुण्यावधि- र्जातस्तस्य सुतौ त्रिलोचनशिवानन्दौ गुणैस्तत्समौ। शैवे वा पथि वैष्णवे समरसः श्रीमच्छिवानन्दतः संजातः किल भीमसेन इति सद्विद्याविनोदी कविः ॥ ३ ॥ शब्दब्रह्म सनातनं न विदितं०००००।।४॥५॥६।।७।८।। क्काहं म.दमतिः क चातिगहनः काव्यप्रकाशामिधो ग्रन्थः कुत्र सहायता कलियुगे कुत्रास्ति शिष्टादरः । युक्तो नैव महाप्रबन्धरचने यत्नस्तथापि ध्रुवं श्रीकृष्णाङ्घ्रिसरोजसेवनपरः शङ्के न किंचित् क्वचित् ॥ ९ ॥ वन्देऽहं गजवक्त्रमिन्दु००००॥१०॥११॥१२॥१३।। शक्य: पण्डितमानिनां न विजयः साक्षात्कथंचित्सुरा- चार्येणापि पुनः सतामनुचितः प्रौढा च वाग्देवता। इत्यालोच्य विवादबुद्धिविधुरो गर्विष्ठगर्वापह- ग्रन्थं विद्वदमन्दसंमदपदं कुर्वे सुधासागरम् ॥ १४ । यच्छास्त्रेषु परिश्रमोडस्ति मम यद्धक्त्या च देवार्चनं यत्पुण्यं च तपश्च काव्यमपि यदद्वंशशुद्धि: परा। यद्गोविन्दपदारविन्दभजनानैर्मल्यमन्तः स्थितं सतः साधु परीक्षयन्तु कृपया सर्व तदत्र स्फुटम् ॥ १५ ॥ नो किंचित्पठितं स्मरामि न च मे शक्ति: पुनस्तादृशी नो वा कोऽपि सहायतामुपगतो नाप्यस्ति किंचिद्वलम् । सङ्गी चोरिरोमैणेः प्रतिदिनं गृह्णाम्यनर्ध्यान् गुणान् सर्वस्यापि परं तु मां द्विषति यस्तस्याशु नाक्री गतिः ॥ १६ ॥ १ एते चतुर्थपश्चमषष्ठसप्तमाष्टमश्लोकाः प्राक् ६ प्रघट्टे लिखिताः ॥ २ एते दशमैकादशद्वादशत्रयोदशश्लोकाः गजवद्नादिस्तुतिपराः ॥ ३ श्रीकृष्णस्य ।। प्रस्तावना ५

Page 53

३४ काव्यप्रकाशः।

व्याख्यातं हि पुरात्र यैः सुकवयः सर्वे महापण्डिताः 101057 ते वन्धाः सुतरां न तेषु मम कोडप्यस्त्याग्रहः स्पर्धितुम्। किं तु ग्रन्थसहस्त्रसारमपि यद्वत्या विरुद्ध वचे: तरक्षन्तुं न समुत्सहे न च पुनर्भीतिः सुरेज्यादपि ॥ १७॥ अभ्यासः पञ्चमाब्दात्सकलसुखपरित्यागपूर्व कृतो यो नानाशास्त्रेषु नित्यं निशिततरधियात्यन्तरागानुवृत्त्या। तस्येदानी फलं मे मवतु सहृदयस्वान्तसंतोषकारि श्रीमत्काव्यप्रकाशोज्ज्वलविवृतिमयं श्रीसुधासागराख्यम् ।। १८ ।।" इति।

समाप्ती यथा "संवद्ग्रहाश्वमुनिभूज्ञाते (१७७९) मासे मध्रौ सुदि। त्रयोदश्यां सोमवारे समाप्तोऽयं सुधोदधिः ॥ १ ॥ इति पदवाक्यपारावारपारणिदीक्षितभमिसेनकृते सुधासागरे दशम उल्लासः ।" इति। अस्य च भमिसेनस्य मुख्यं शास्त्रं व्याकरणम् अत एवानेन चतुर्थोल्लासे 'पथि पथि शुकचञ्चू' इत्याद्युदाहरणव्याख्यानावसरे (१७२।१७३ पृष्ठे) "अत्र तार्किकाः" इत्यादिना तार्किकमतमनूद्य "अत्र वदामः" इत्यादिना तन्मतं खण्डितम् । अत एव चानेन बहुषु स्थलेषु व्याकरणविषयः विनैव स्खलनं स्फुटतया उपपादितः । अत एव च पञ्चमोल्लासे "अन्योन्ययोगादेवं स्यात् " इति सूत्ने 'मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः' इति प्रतीके (२१८ पृष्ठे ) अनेन भमिसेनेनोक्तम् "हेतुत्रय- मपेक्ष्य लक्षणा भवतीति नियमात्तदन्तरेण भवन्ती वृत्तिस्तदन्यैव व्यञ्जना नाम मात्सर्यमात्रात्तु तर्ककर्कशैर्लक्षणेत्युच्यते" इति। अत एव चानेन "मुख्यार्थबाधे तद्योगे " इति सूत्र (४० पृष्ठे) "इति जरन्नैयायिकाः " "इति नवीनतार्किकाः " इति ग्रन्थेन मतमनूद्य खण्डितम् ॥

अनेन हि भमिसेनेन अलंकारसारोद्वाराख्यो ग्रन्थोऽपि निर्मितः अत एव दशमोल्लासे उपमालंकारे उक्तम् "अलंकारसारोद्वारेSस्माभिर्जयदेवाद्युक्तलक्षणस्थं लक्ष्मीपदं खण्डितम्" इति । कि चानेन कुवलयानन्दखण्डनाख्यो ग्रन्थोऽपि निर्मितः । तदप्युक्तं तत्रैव तेनैव "उपमा यत्र सादृश्यलक्ष्मी- रुल्लसति दवयो: इत्यप्पय्यदीक्षितानामुपमालक्षणं कुवलयानन्दखण्डने खण्डितमस्माभिः" इति॥ अनेन हि भीमसेनेन स्वकृतटीकायां काव्यप्रकाशप्रतीकमुपादाय प्रायः काव्यप्रदीप एव लिखितः क्कचित्क्वचित्तु श्रीवत्सलाञछनभट्टाचार्यकृता सारबोधिन्येव चक्रवर्तिभट्टाचार्यकृता विस्तारिकैव च लिखिता। परं तु यत्र काव्यप्रकाशविरुद्धः काव्यप्रदीपस्तत्र काव्यप्रकाशं युक्तिप्रयुक्तिभिः स्वमतरी्या संस्थाप्य काव्यप्रदीपः खण्डित इति बोध्यम् ।।

२६. नागोजीभट्टकृतायामुद्दयोताख्यायां काव्यप्रदपिव्याख्यायां तु चण्डीदासः दीपिकाकृत् (उदाहरणदीपिकाकारः) परमानन्दचक्रवर्ती इति त्रीण्येव नामानि लभ्यन्ते अन्येषां नामानि तु "इति केचित् इत्यन्ये इति परे इति कश्चित्" इत्येवं प्रकारेणैव लिखितानि । क्वचित्तु 'इति कुवलयानन्दकृतः' इत्यादिना 'इति दाक्षिणात्याः' इत्यादिना च कुवलयानन्दकारस्याप्पयदीक्षितस्य १ यद्वृत्त्या मम्मटकुतसूत्रवृत्त्या ॥ २ विरुद्धूं वच इति। काव्यप्रदीपवच इति भावः ॥

Page 54

प्रस्तावना । ३५

नाम निर्दिष्टम्। अयं हि नागोजभिट्टः शिवभट्टसुतः सतीगर्भजः आश्वलायनशाखाध्यायी उपाध्यायोप- नामकः काळे इत्युपनामकश्च वाराणसीवास्तव्यः महारार्ष्ट्रेब्राह्मणः महावैयाकरणः वैयाकरणसिद्धान्त- कौमुदीकृद्धद्टोजीदीक्षितपौत्रस्य हरिदीक्षितस्य शिष्यः पायगुण्डोपाख्यस्य परिभाषेन्दुशेखरलघुश्देन्दु शेखरद घुभञ्जूषाख्यग्रन्थत्रयस्य टीकायाः कर्तुर्बाळंभट्टापरपर्यायस्य वैद्यनाथस्य गुरुः शृङ्गवेरपुराधीशस्य रामसिंहनामकराजस्याश्रितः । तदुक्तं प्रायः तेनैव स्वकृते शब्देन्दुशेखरे वैयाकरणसिद्धान्तमञ्जूषादौ च। तथाहि। "शिवभट्टसुतो धीमान् सतीदेव्यास्तु गर्भजः । याचकानां कल्पतरोरैरिकक्षहुताशनात् ॥ शृङ्गवेरपुराधीशाद्रामतो लब्धजीविकः । नत्वा फैणीशं नागेशः कुरुतेऽर्थप्रकाशम् ।।" इति। उक्तं च तेनैव काव्यप्रदीपिटीकायामुद्दयोताख्यायामादावन्ते च। तत्रादौ यथा "याचकानां कल्पतरोररिकक्षहुताशनात्। शृङ्गवेरपुराधीशाद्रामतो लब्धजीविक: ॥ नागेशभट्टः कुरुते प्रणम्य शिवया शिवम्। काव्यप्रदीपकोद्दयोतमतिगूढार्थसंविदे ।।" इति। समाप्तौ यथा "शङ्गवेरपुराधीशरामप्रेरणया दृढम्। सदुक्तिमुक्तासंद मैर्विद्व च्छूतिमनोहरैः ॥ सेतौ नागेशबद्धेऽस्मिन्नलंकारमहोदधेः । सतां मतिः संचरतां यावच्चन्द्रदिवाकरौ ॥ काव्यप्रदीपकोदचोतः शिवयोरर्पितो मया। यन्निर्मितौ सहायो मे जाता सा प्रतिभा सखी ॥ इति श्रीमदुपाध्यायोपनामकशिवभट्टसुतसतीगर्भजनागोजिट्टकृते लघुप्रदीपोद्दयोते दशम उल्लासः ॥" इति। एवमेव रसगङ्गाधरटीकायां मर्मप्रकाशाख्यायाम् अन्येषु च स्वकृतबहुग्रन्थेष्वपि लिखितम्। वाराणसीवास्तव्यत्वादेवानेन 'भूयो भूयः सविधनगरीसथ्यया' (१८० पृष्ठे) इत्युदाहरणव्याख्याना- वसरे उद्योते "वलभी छज्जेति प्रसिद्धम्" इत्युक्तम्। कि च 'स्तोकेन' इत्युदाहरणे (५२० पूष्ठे) 'तुला कांठा' इत्युक्तम् । अन्यथा (महाराष्ट्रदेशवास्तव्यत्वे तु) 'सज्जा' इति 'तराजु' 'ताजवा' वेति च यथाक्रमं वदेदिति दिक्॥ अयं हि नागोजीभट्टः पण्डितेष्त्रग्रगण्यः अत एवानेन बहवो ग्रन्था विरचिताः । ते च बुहन्म- अजूषा लघुमञ्जूषा परमलघुमञ्जूषा बुहच्छन्देन्दुशेखरः लघुशव्देन्दुशेखरः परिभाषेन्दुशेखरः लघु- १ सई इति तम्मातुः संज्ञा ॥ २ महाराष्ट्रबाह्मण इति। देशस्थो न तु कोङ्कणस्थ इति बोध्यम्॥ ३ शूङ्गचेरपुरं तु प्रयागत उत्तरे क्रोशे संप्रति 'शिंगरौर' इति प्रसिद्धम् ॥४ अरय एव कक्षः शुष्ककानमं तत्र हुताशनोSभिरि- त्यर्थः ॥ ५ फणीशं शेषम् शेषावतारं पतञ्जलिमिति यावत् ॥ ६ लघुशब्दरत्ने यद्यपि "इति दीक्षितभट्टोजीपौत्रदीक्षित- हरिकते लघुशब्दरत्ने मनोरमाव्याख्यानेSमुकं प्रकरणम" इति लिखितम् तथापि नागोजीभट्टेनैव लघुशब्दरत्न कत्वा तत्र स्वगुरोर्हरिदीक्षितस्य नाम लिखितमिति सकलविदवज्जनप्रसिद्धमेव। बृहच्छब्दरत्नं तु हरिदीक्षितरूतमेवेति तदादि मश्लेकद्रपूणां स्पर्ष्टमेव।।

Page 55

३६ काव्यप्रकाश:। शब्दरत्नम् भट्टोजीदीक्षितकृतस्य कौस्तुभस्य विषमीनाम्नी टीका कैयटकृतायाः प्रदीपाख्यायाः व्याक- रणमहाभाष्यव्याख्याया उद्दयोताख्या व्याख्या ज्ञापकसंग्रहः प्रत्याख्यानसंग्रहः एकश्रुतिवादश्चेत्येव- मादयो व्याकरणशास्त्रग्रन्थाः प्राय्वित्तेन्दुशेखरः आचारेन्दुशेखरः तीर्थेन्दुशेखरः श्राद्धेन्दुशेखरः कालेन्दुशेखरः इत्यादयो द्वादशशेखराः अशौचनिर्णयः सापिडयप्रदीपश्चेत्येवमादयो धर्मशास्त्रग्रन्थाः योगवृत्त्याख्यो योगशास्त्रग्रन्थः बूहदुद्दयोतो लघूद्दयोतश्चेति काव्यप्रदीपव्याख्याद्वैयम् मर्मप्रकाशाख्या रसगङ्गाघरव्याख्या रसमञ्जरीटीका गीतगोविन्दटीका कुवलयानन्दटीका पण्डितराजजगन्नाथकृत- सुधालहर्याष्टीका च्ेत्येवमादयः साहित्यशास्त्रग्रन्थाः वाल्मीकिरामायणटीका अध्यात्मरामायणटीका मार्कण्डेयपुराणान्तर्गतसप्तशतीटीका चेत्येवमादयः शास्त्रान्तरग्रन्थाश्चेति बोध्यम्।। इयं हि उद्दयोताख्या काव्यप्रदीपव्याख्यातीव समाचीना यतोत्र काव्यप्रदीपाशयोऽत्यन्तसमीची- नतयोपपादितः । उदाहरण ल्लोकव्याख्यानावसरे यद्यपि वैद्यनाथकृतादाहरणचान्द्रिकैव क्वचित्कचिदुप चित्य क्वचित्क्चिदपचित्य क्वचित्कचिदन्यथा कृत्वा च लिखिता तथापि वैद्यनाथकृतं प्रभाख्यं व्याख्यानं यत्र यत्र स्वस्मै न रोचते यत्र यत्र च तन्नास्त्येव तत्र स्वाभिमतमभिनवं च व्याख्यानं कृतम्।। विद्वदग्रेसरस्य सकलशास्त्रपारावारपारीणस्य व्याकरणाब्धितरणिकर्णधारस्य नागेशोपाध्यायस्य विषये एषा हि किंवदन्ती "यदयं महाराष्ट्रब्राह्मणजातीयेषु प्रशस्ततमे काळे इत्युपाख्ये महति कुले लब्धजनिः पित्रा तैस्तैः संस्कारैः संस्कृतो निपुणमतिरपि यथायथमकृतविद्याभ्यासोऽसभ्यैः सह सदा गोष्ठीसुखमनुभवन् यथेच्छाचारी यथाजातः आषोडशाद्वर्षात्काशीमधिवसति स्म। एकदा च कुलक्रमा- गतां पौरोहिती वृत्तिमनुसृत्योपजीवन् देशान्तरागतस्वयजमानगृहे समुपस्थितायां सभायां धाष्टर्या न्महापण्डितप्ररोहक्षमे महत्यासने उपविष्टः केनचिद्विदुषा निर्भत्सितो महती ग्कानि प्राप्तुवन् विद्यया विहीनस्य मरणं वरमिति निश्चित्य वाग्देवीप्रसादाद्विद्यां लभेय तस्या बलितां वेति संकल्प्य वागीश्वरी- सदने केनचिद्विदुषोपदिष्टं मन्त्रं जपन् कृतदेहत्यागसंकल्पतयानश्नन कतिपयानहोरात्रानतिवाहयां- चक्रे। ततश्वोदितदयाया वागीश्चर्या लब्धसाक्षादर्शनस्तत्कृपाकटाक्षामृतस्त्रातो लब्धमनोरथो भट्टोजी- दीक्षितपौत्रपण्डितप्रवरहरिदीक्षितादघातविद्यो विविधशास्त्रीयग्रन्थान्विरच्य महती प्रतिष्ठामवाप" इति॥ २७. राघवकृतेऽवचूर्याख्यटिप्पणे तु न कस्यापि नामोपलभ्यते नापि च किंचिदपि स्वकीयं वृत्तम् ।कं तु पञ्चमोल्लाससमाप्तौ "इति पञ्चमोल्लासो राघवेनावचूरितः" इत्येतावन्मात्रम्। साप्यव- चूरिरन संपूर्णा अपि तु सप्तमोल्लासार्धपर्यन्तैवेति बोध्यम् ।। २८. महेशचन्द्रकृते तात्पर्यविवरणाख्यटिप्पणे तु निदर्शनकृत् जयरामः चन्द्रिकाकारः उद्दयोत- कृत् इत्यादीनि नामानि सन्ति। अयं हि महेशचन्द्रो वङ्गजनपदे कालिकाक्षेत्रे (कलकत्तानगर्याम्) अद्यापि गुरुपदाघिष्ठितो विद्यालयमलंकरोतीति (१८८२ स्त्रिस्ताब्दे) शिवम् ।। २९. मत्कृतबालबोधिन्याख्यटीकार्या तु माणिक्य चन्द्रप्रभृतिकृतासु एकोनविंशतिसंख्यासु टाकिासु विद्यमानमवश्योपयोगि तात्पर्य संगृहीतम् । तेषामेकोनविंशतिसंख्याकानां टीकाग्रन्थानां नामानि त्वग्रेऽनुपदमेव पद्यैः परिगणिष्य ते। यानि च चण्डीदासादिभिः कृतानां टीकाग्रन्थानो नामानि १ लघूद्योतापक्षया बृहदुद्दयोते क्वचित्क्वचित्किंचिल्किंचिदेवाधिकं लिखितम् ॥ २ कुवलयानन्दटीेति। तदुक्तं नागोजीभट्टेन मर्मप्रकाशाख्यायाम् रसगङ्गाधरव्याख्यायां तुल्ययोगितालंकारे "निरूपितं चैतत् कुवलयानन्दव्याख्यार्या मञ्जूषार्यां च" इति ॥३ अध्यात्मरामायणटीकायां यद्यपि "इति रामवर्मकताध्यात्मरामायणटीका" इति लिखिनम् तथापि नागोजीभट्टेनैष ता टौको कृत्वा स्वजीविकादायिनो रामवर्मणो नाम विध्यस्तमिति प्रसिद्धमेव ।।

Page 56

प्रस्तावना । ३७

परिगणिष्यन्ते तानि तु अस्मदुपलब्धासु प्राचीनटीकासु प्रायः उपलभ्यन्ते एव। कानि कानि च नामानि कस्यां कस्यां टीकायामुपलभ्यन्ते इति शङ्का तु तर्तटीकाकाराणामितिवृत्तप्रपञ्चनप्रसङ्गेऽ- स्माभि: समाहितैव। यद्यपि रामनाथादिकृतरहस्यप्रकाशादिटीकाग्रन्थानां नामान्यस्मदुपलब्धग्रन्थेषु नोपलभ्यन्ते तथापि राजेन्द्रलालप्रभृतिकृतासु पुस्तकानामनुक्रमाणिकासु समुपलभ्यन्त एवेति बोध्यम्।। अस्यां हि बालबोधिन्यामस्माभि: क्वचित्कचित् पूर्वेषां व्याख्याकृतां संदर्भा अविकला एवोद्धताः क्कचित्कचित् शब्दान्तरैस्तेषामभिप्राया अनूदिताः । यत्र तु तेषां व्याख्यानं नासीत् तत्र मया स्वयं व्याख्याप्यकारि । यत्र च पूर्वेषां व्याख्याकृतां संदर्भा अविकला एवोद्धताः तत्र प्रायस्तन्नामैव लिखितम् क्वचित्तु तस्यैव संदर्भस्य आद्याक्षरद्वयमन्त्याक्षरदवयं च तट्टीकायाः तत्कतुर्वा नाम च लिखित्वा अधस्तादृिप्पणं दत्तम् । प्रायः पूर्वेषां व्याख्याः न्यायादिकठिनभाषया लिखिताः संकुचि- ताक्षेति उद्दयोताख्या व्याख्या तु प्रदाोपर्येव न प्रकाशोपरीति महेशचन्द्रदेवकृतं तात्पर्यविवरणाखयं टिप्पणं त्वतिस्वल्पमिति चापरितुष्यतां विद्यार्थिबालकानां परितोषायैव मयायं विशेषो यत्नोऽकारि। यद्यप्यस्यां टीकायां मया क्वचित्कचित् कठिनस्थले उपपादितोऽपि वाक्यार्थो भावार्थादिरूपेण पुनरुप- पादितः तथापि तत्र शास्त्रपरिशीलनशालिमिः पिष्टपेषणन्यायापत्तिश्वर्वितचर्वणन्यायापत्तिर्वा न विधेया यतो भिन्नानुपूर्व्या भङ्गयन्तरेण पुनरुपपादने अध्येतृबालकानां दुरूहोऽपि विषयः सुगमो भवति। किं चेयं टीका पृथुलतां प्रापितेत्यापि दोषो न देयः यतोऽस्मिन् काव्यप्रकाशे उदाहृताना ल्लोकानां भिन्नभिन्नकविनिर्मितप्रबन्धघटकत्वेनाननुसंहितप्रकरणकतया तदर्थोडपि दुर्धट इति तेषां व्याख्यानस्यावश्यकतया अनेकप्राचीनाचार्याणां मतभेदस्य संगृहीततया च टीकायाः पृथुलत्वस्य नाप्राप्तत्वादित्यनुभववद्धिविद्वद्भिः परीक्ष्यम् ।। ३०. अस्या: बालबोधिन्याख्यटीकायाः सदसद्विवेचने संशोधने चास्मदलंकारशास्त्रगुरुमिर्देवो- पारूयैर्बालशास्त्रिभि: कृतं बहूपकारभारं धारयामि। झळकीकरोपनामा वामनाचार्यशर्मा।

३१. किं चास्य काव्यप्रकाशग्रन्थस्यातिदुरवगाहविषयतया यत्र यत्र संशयस्तत्र तत्र मया सांनिध्याद्वहुषु स्थलेषु 'सी, आय्. ई' पदभूषितैः भाण्डारकरोपाख्यैः रामकृष्णपण्डितैः क्वचित्कचित महामहोपाध्यायपद भूषितैर्न्यायकोशकृद्भिरस्मउ्ज्येष्ठभ्रातृभिर्मीमाचार्यैः क्वचित्कचित्पत्रमुखेन कालिका- क्षेत्रस्थैर्महेशच-द्रदवपण्डितैः क्वचित्कचिदन्यैः पण्डितैश्च सह विचार्यैव यदपि लिखितम् तथापि कुत्रचिन्मम प्रमादाङ्ग्मश्चेत्संशोधयन्तु विद्वांसः इत्याशास्ते॥ वामनाचार्यशर्मा।

Page 57

३८

द्वितीयं संस्करणम्। द्वितीयाङ्कनावृत्तेः सर्वमेत्र टीकासंस्करणं विधाय नवमप्रघद्टस्य तृतीयाङ्कसमाप्तिपर्यन्तं प्रस्तावना- ग्रन्थं सम्यक् पत्रार्पितं कृत्वा टीकाकारो भट्टवामनाचार्यो दैवदुर्विपाकाद्विकलाङ्गकरणो जातः अतोऽवशिष्टो ग्रन्थस्तेनैवेषत्संस्कृतः प्रथमावृत्तिप्रस्तावनात एवोद्दृत्यात्र दीयते । द्विनेत्रवसुभूशाके शार्वर्यब्दे भृगौ शुभे। माधवे सितपञ्चम्यां पुनर्वसुयुते विधौ॥ १ ॥ प्रार्थितो वामनार्येण मन्दो दशरथात्मजः नारायणो मुदा शेषं संस्कारं समपूरयत् ।। २ ।।

अथ तृतीयं संस्करणम्। भक्त्या रमापतिं नत्वा प्रार्थितः सद्भिरादराद्। नारायण: प्रववृत्ते संस्कारेऽत्र तृतीयके ।। १ ॥ दुरुक्तानुक्तविशद द्विरुक्तार्थविचारणाम्। अधिकारिनिदेशेन प्रायो मुक्त्वा यथास्थितः ॥ २ ॥ शाकेऽङ्कवह्निवसुभूमितेडब्दे तेन पिङ्गले। पूर्णिमायां माधवेऽथ ग्रन्थः संशोधितो घिया॥ ३ ॥

अथ चतुर्थ संस्करणम्। इदं खलु वस्तुतस्तृतीयसंस्करणस्य पुनर्मुद्रणमेव । तृतीयसंस्करणे विद्यमाना मुद्रणदोषा अत्र दूरीकृताः। भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरसंमतनियमानुसारेणावश्यकं संशोधनमपि विहितम्। अन्यत्सर्वं यथापूर्वमेव। शाके १८४३ अब्दे करमरकरोपाह्व: दामोदरसूनुः रघुनाथशर्मा भाद्रपदमासे

अथ पञ्चमं संस्करणम्। इद चतुर्थसंस्करणस्य पुनर्मुद्रणमेव। शाके १८५५ अब्दे आश्विनमासे करमरकरोपाह्वः दामोदरसूनु: रघुनाथशर्मा

अथ षष्ठं संस्करणम्। इद पञ्चमसंस्करणस्य पुनर्मुद्रणमेव। शाके १८७२ अब्दे करमरकरोपाह्वः दामोदरसूनु: रघुनाथशर्मा भाद्रपदमासे

Page 60

। काव्यप्रकाशः ॥

। अथ प्रथम उल्लास: ॥ ग्रन्थारभ्भे विन्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति स्वेकृतकारिका व्याचिख्यासुर्मम्मटोपाध्यायो मङ्गलाचरणरूपस्याद्य श्लोकस्या वतारिकामाह ग्रन्थेति। पञ्चाङ्गकं वाक्यं ग्रन्थः । तदुक्तम् "विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रे Sधिकरणं स्मृतम् ।।" इति। विषयः प्रतिपाद्यः। विशयः संशयः। महाभारतादौ पञ्चाङ्गानां कृष्णार्जुनसंवादादौ सत्त्वान्नाव्याप्तिः। यत्रापि कानिचिदेवाङ्गानि तिष्ठन्ति तत्रान्यान्यपि कल्पनीयानि। तथा च वैज्ञानिकसंबन्धेन तत्र तद्वत्त्वम्। यद्वां संबन्धप्रयोजनज्ञानाहितशुश्रेषाजन्यश्चतिविषयशब्द- संदर्भो ग्रन्थः। संबन्धो वाच्यवाचकत्वरूपः । "सिद्धार्थ सिद्धसंबन्धं श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ।" इति वचनात्। ग्रन्थश्रवणे तथाविधशश्रूषायाः कारणत्वात्। यत्र क्वापि 'घटमानय ' इत्यादिवाक्ये तादृशशुश्रषायाः सत्त्वेऽपि तस्या न कारणत्वम् अनेवंविधस्थलीयैवंविधवाक्यश्रतिसामान्यसामग््या तस्या अन्यथासिद्वत्वादिति सारबोधिन्यां रुपष्टम्। केचित्तु आम्नास्यमानविषयं महावाक्यं ग्रन्थः । आम्नास्यमानोऽभ्यस्यमानः । विषयो ज्ञाप्यः । वाक्यान्तरनिराकाङ्कमाकाङ्कादिमद्वाक्यकदम्बकं महावाक्यम्। तेन ग्रन्थावयवमहावाक्ये नातिप्रसङ्गः । तस्य वाक्यान्तरसाकाङ्कतवात् इत्याहुः । तन्न। 'अयं घटः ' इत्यादिवाक्येऽतिव्याप्तेः। तदर्थ- स्याप्यभ्यस्यमानत्वात्। अनभ्यस्तार्थके ग्रन्थेऽव्याप्तेश्वेति विस्तारिकायां स्पष्टम्। आरम्भे इति। आरम्भशब्दोऽत्र लक्षणया तत्प्राक्कालवचनः । आद्यकृतिरूपस्य मुख्यार्यस्य बाघितत्वात्। झटिति विघ्नविघातसामर्थ्यप्रतिपत्तिश्च लक्षणायाः प्रयोजनम्। केचित्तु आरम्भशब्दः आरभ्यतेऽ- स्मिन्निति व्युत्पत्या तत्प्राक्कालपरः इत्याहुः। तन्न। "तावताप्यारम्भकालस्यैव लाभेन पूर्वकाला- संस्पर्शात्। सप्तमी चेयमधिकरणे" इति नरसिंहमनीषायां स्पष्टम्। यत्तु "आरम्भशब्दो यथाश्रु- तार्थक एव 'चर्मण द्वीपिनं हन्ति' इतिवत् निमित्तसप्तमीयम् " इति चत्रवर्तिकृतं कमलाकरकृतं च व्याख्यानं तत्तु न युक्तम् 'निमित्तात्कर्मयोगे' इति काव्यायनकृतवार्तिकस्य (निमित्तं क्रिया- फलम्। योगः संयोगसमवायात्मकः संबन्धः। निमित्तवाचकात् सप्तमी भत्रति तस्य निमित्तस्य प्रत्या- सत्या स्वान्वयिक्रियाकर्मणा योगे सतीत्यर्थकस्य) अत्राप्रवृत्तेः । विध्नविघातायेत्यनेन विध्नविघातस्यैव कियाफलत्वेन बोधिततया ग्रन्थारम्भस्य क्रियाफलत्वाभावात् ग्रन्थारम्भस्य देवतारूपकर्मणा योगाभा- वाच्चेति दिक् विभ्नविघातायेति। इयं तादर्थ्ये चतुर्थी 'मुक्तये हरिं भजति' इतिवत्। विघ्नः १ स्वरूतत्वं दशमोलासे मालारूपके "माला तु पूर्ववत्" इति १४४ सूत्रे प्रस्तावनायां सप्तमे प्रघट्टे च स्फुटीभविष्यति ॥ २ श्रोतुमिच्छा शुश्रषा। "शुश्रषा श्रोतुमिच्छार्यां परिचर्याप्दानयोः" इति विश्वः॥ ३ संदर्भो र चनं समूहः । "चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्। केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥" इति भाष्यम्। "सीमाण्डकोशः पुष्कलको गन्धमृगः" इति सिद्धान्तकौमुदां कारकप्रकरणे भट्टोजीदीक्षिताः ॥५ चक्रवतिशब्देन सर्वत्र परमानन्दुचकवर्तिभट्टाचार्यो ज्ञेयः॥ ६ प्रत्यासत्या सामीव्यरूपसंचन्धेन ॥ ७ स्वान्वयिनी या करिया तस्या: कर्मणेत्यर्थः ॥

Page 61

२ काव्यप्रकाश: सटीकः । नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्। नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ १॥ प्रतिबन्धकमदृष्टं तस्य विघातो विशिष्टो ध्वंसः तस्मै इत्यर्थः । शिष्यशिक्षायै वक्तृश्रोतृणामनुष- डगतो मङ्गलाय चेत्यपि बोध्यम्। तथा चाह ( १ अध्याये १ पादे १ आहिके) भगवान्महा- भाष्यकारः "मङ्गलादीनि हि शास्त्राणि प्रथन्ते वरिपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च अध्येतारश्च सिद्धार्था यथा स्युः"। समुचितां योग्यां प्रतिपाद्यविषयानुरूपाम्। इष्टां आराध्यां ग्रन्थकृन्मनोऽनुकूलाम्। देवतां भारतीरूपाम् । ग्रन्थकृत् मम्मटः । परामृशति पर्यालोचयति स्मरति ध्यायति अभिनन्दति स्तौतीति यावत् कारिकास्थजयतीतिपदखारस्यात्। एवं च ग्रन्थार- म्भप्राक्कालिको विघ्नविधातादिफलकः समुचितेष्टदेवताकर्मको ग्रन्थकृन्मम्मठकर्तृकः परामर्शनानुकूलो व्यापार इति शाब्दबोधरूपो वाक्यार्थः ॥ "मद्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाण्यायुष्मत्पुरुषाणि च भवन्ति अध्येतारश्च प्रवक्तारो भवन्ति "इति भूवादिसत्रस्थां महाभाष्यकारोक्तिं मनसि विधाय ग्रन्थकृत् ग्रन्थादौ कविभारतीस्तवनरूपं मङ्गलमाचरन् ब्रह्मनिर्माणापेक्षया कविवाड्निर्माणस्योत्क- र्षहेतूनाह नियतिकृतेति। नियम्यन्ते सौरभादयो धर्मा अनयेति व्युत्पत्या नियतिरसाधारणो धर्मः पद्मत्वादिरूपस्तत्कृतो नियमश्च यत्र पद्मत्वं तत्र सौरभविशेष इति व्याप्तिस्तद्रहिताम्। कान्तामुखेऽपि कविप्रतिभानिर्मितसौरभविशेषादेः सत्त्वादिति भावः । यद्वा नियतिर्दैवापरपर्यायमदृष्टम् आमुष्मिकस्वर्गादिजनकम् ("दैवं दिष्टं भागधयं भाग्यं स्त्री नियतिर्विधिः" इत्यमरः ) तत्कृतो नियमश्च स्वर्गादियोग्यशरीरान्तरोत्पादनद्वारैव स्वर्गोपधायकत्वरूपस्तद्रहिताम्। "स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि " इत्यादि (३४६ उदाहरणरूप) कविनिर्मितावनेनैव देहेन स्वर्गप्राप्तेः सत्त्वादिति भावः । तदुक्तम् "अपारे काव्यसंसारे कविरेकेः प्रजापतिः। यथास्मै रोचते विश्वं तथैवें परि- वर्तते ॥ शैडगारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥।" इति। ह्लादैकमयीं ह्राद: सुखम्। एकशब्दः संख्येयवाचकः "संख्याः संख्येये ह्यादश त्रिषु" इत्यमरोक्तेः । 'आदशभ्यः संख्या संख्येये' वर्तन्ते इति "तदस्य परिमाणम्" इति पाणिनिसूत्रे महाभाष्ये कैयटोक्तेश्र। "तत्प्रकृतवचने मयट् " (५/४।२१) इति सूत्रेण मयट् प्रत्ययः । तथा चैकं ( वस्तु ) प्राचुर्येण प्रस्तुतं यस्यां सा एकमयी। प्राचुर्यमात्रापरिच्छिन्नत्वरूपम् । ह्वादेनैकमयीति सुप्सुपेति समासः । ह्वादेनेति 'धॉन्येन धनमयो ग्रामः' इतिवत् अभेदे तृतीया "प्रकृत्यादिभ्य उपसंख्यानम् " इति वार्तिकात्। ह्लादैकशब्दयोः कर्मधारयस्तु न। "विशेषणं विशेष्येण बहुलम् " (२।१।२७) इति सूत्रस्यापवादकेन "पूर्वकालैक० " (२।१।४९) इति पाणिनिसूत्रेण कर्मधारयस्मासे एकशब्दस्य एकह्वादेति पूर्वनिपातापत्तेः। एवं च ह्वादमात्रप्रचुरा- १ अन्यार्थ प्रति प्रवृत्तस्य नान्तरीयकफलजनकोऽनुषङ्ग ॥ २ अपारे इति। अनादनन्ते इत्यर्थः ॥ 3 कवि- रेक इति। 'कविरेव' इत्यपि पाठः ॥ तथैवेति। 'तथेदम् 'इत्यपि पाठः ॥ ५ यथ।रुचि परिवर्तनमाह शङ्गा- रीति । शृङ्गारोक्तविभावानुभवव्यभिचारिचर्वणारूपप्रतीतिमयः शङ्गाररसानुगुणकाव्यनिर्माणकुशलो न तु स्त्रीव्यस- नीति मन्तव्यम्। अत एव भरतमुनिः 'कवेरन्तर्गतं भावं' 'काव्यार्थान् भावयति' इत्यादिषु कविशब्दमेव मूर्धा- भिषिक्ततया प्रयुङ्गे ॥ ६ सूत्रेणेति। प्राचुर्येण प्रस्तुतं प्ररुतम्। तक्य वचनं प्रतिपादनम्। भावेऽधिकरणे वा ल्युट् । तथा च तदिति प्रथमान्तात्मरूतवचने इत्यर्थे मयट् भवतीति सूत्रार्थः ॥ ७ धान्याभिन्नं यक्् धनं तन्मय इत्यर्थः ॥

Page 62

प्रथम उल्लास:। ३

मिति पैर्यवसितोऽर्थः । एकपदेन दुःखपदयोर्व्यवच्छेदः। प्रदीपप्रभयोस्तु एकशब्दो मात्रार्थे। स्वार्थे मयट्। ह्वादेनैकमयीं एकस्वभावामित्यर्थः ह्वादमात्रस्वभावामिति यावत्। मात्रपदेन दुःखमोहयोर्व्य- वच्छेदः । इदं च "सुखदुःखमोहस्वभावा " इति व्यतिरेकप्रदर्शकसांख्यसिद्धान्तानुसारिवृत्ति- अ्रन्थानुरोधात्कार्यकारणयोरभेदमाश्रित्योक्तम् इति व्याख्यातम् । अस्मिन्व्याख्याने स्वार्थ मयट्प्रत्य- यस्तु चिदेव 'चिन्मयम्' इतिवदुपपादनीयः । तथा चोक्तम् "प्रत्यये भाषायां नित्यम्" इति वार्तिके शब्देन्दुशेखरे 'चिन्मयमिति स्वार्थिकः' 'तत्प्रकृतवचने०' इति मयट्। तत्र तदिति वाक्य भेदेन क्चित्प्राचुर्यरूपप्रकृतवचनाभावेऽपि मेयडर्थम्। अत एव 'चिन्मयं ब्रह्म' इति सामानाधि करण्यम्" इति। ननु ह्वादैकमयीति कथम्। शत्रुकृतपद्येन दुःखजननात् करुणादिरसे च दुःखस्य स्फुट त्वात् अर्थावगमाभावेन क्वचिन्मोहजननाच्चेति चेन्न। शत्रुपद्यश्रवणानन्तरं सुखस्यैवानुभवात। तदीयत्वप्रतिसंघाने च दुःखजनने तस्यैव तत्त्वं न काव्यस्य। रतिकाले नखक्षतमुष्टिताडनादेरि करुणादेरपि काव्याभिनयाभ्यामास्वाद्यमानतादशायां ह्ृद्यत्वस्यैवानुभवसाक्षिकत्वात्। विभावादीनां विशेषणानां तत्त्वेऽपि विशेष्यांशस्य स्थायिनोSखण्डानन्दरूपत्वाच्च। अन्यथा तल प्रेक्षावत्प्रवृत्त्त्ययोगात्। व्युत्पन्नबुद्धयविषयीभूतार्थस्य च दुष्टत्वेनाकाव्यत्वात्। अध्युत्पन्नबुद्धयविषयार्थत्वे च किमपराद्वं काव्येनेति नरसिंहमनीषायां स्पष्टम्। स्फुटीभविष्यति चेदं ४४ सूत्रस्य ४५ सूत्रस्य च व्याख्याना- वसरे इति बोध्यम्। अनन्यपरतन्त्राम् अन्यस्य भारतीभिन्नस्य (समवाय्यसमवायिनिमित्तरूपकार- णस्य) परतन्त्रा अधीना न भवति ताम् । परतन्त्रशब्दः 'त्वत्परतन्त्रो मत्परतन्त्रः' इति प्रयोग- दर्शनादधीने रूढः। तेनान्यपरपदार्थयोर्न पौनरुक्त्यमिति सरस्वतीतीर्थादयः। प्रदीपकारास्तु "परतन्त्र: पराधीनः " इत्यमरकोशात्परतन्त्रशब्दः पराधीनवचन एव न त्वधीनवचन इति प्रकृतेऽन्यपरशब्दयोः पौनरुक्त्यापत्तिरिति मत्वा तत्परिहर्तुकामाः 'कवेस्तत्प्रतिभायाश्चान्यो य आत्मनः (भारत्याः) परस्तदायत्तत्वरहिताम्' इति व्याचर्युः। तत्र पूर्वोक्तव्याख्यानमेव वरम्। वृत्ती परतन्त्रशब्दस्याधीनार्थकस्यैवोपादानेन पूर्वोक्तव्याख्यानस्य वृत्त्त्यनुगुणत्वात् प्रदीपकारोक्तव्याख्यानस्य क्विष्ठत्वाच्च। ननु पूर्वोक्तव्याख्याने "परतन्त्रः पराधीनः परवान्नाथवानपि। अधीनो निन्न आयत्तो- स्वच्छन्दो गृह्यकोऽप्यसौ ॥ " इत्यमरविरोधः। पूर्वाधोक्तानां चतुर्णा शब्दानां पराधीनार्थकत्वम्। उत्तरारधोक्तानां पञ्चानामधीनार्थकत्वमिति अमरव्याख्यायां व्याख्यातत्वादिति चेन्न। अमरव्याख्यायां नवानामपि शब्दानामेकार्थकत्वम् (अधीनार्थकत्वम्) इति मतान्तरस्यापि दार्शितत्वादिति बोध्यम्। नवरसरुचिरां नव नवसंख्याका: रसाः शङ्गारादयो यस्यां सा नवरसा सा चासौ अत एव रुचिरा मनोहरा च ताम्। 'शीतोष्णं जलम्' इत्यादिवत् विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया "विशेषणं विशेष्येण बहुलम्" (२।१।२७) इति पाणिनिसूत्रेण कर्मधारयः समासः। नवानां रसाना समाहार इति समाहाररतु न। "अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः " इति महाभाष्यकारेष्ठया 'त्रिलोकी' 'पञ्चमूली' इतिवत् नवरसीत्यापत्तेः । अथवा नवरसेन रुचिरामिति तृतीयातत्पुरुषः । नवरसत्यत्र नव अवयवा यस्य स नवावयवः स चासौ रसश्च नवरस इति शाकपारथिवादित्वात् मध्यम- पदलोपी कर्मधारयः 'त्रिगुणसचिवः' इत्यत्र त्र्यवयवको गुणस्त्रिगुण इतिवत्। 'त्रिलोकनाथेन सता १ पर्यवसितः फलितः ॥ २ तथा च "अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति" इति न्यायेन मयटः स्वार्थिकत्व सिद्धमि.ते भावः । स्वार्थे इति। स्वीयप्ररुत्यर्थे इत्यर्थः ॥३ नवरसेनेति। हेतौ तृत्तीयेयम् ॥ तृतयितत्पुरुष इति "आत्मना पश्चमः" इत्यादाविव तृतीयेति योगविभागाकिति भाक॥

Page 63

काव्यप्रकाशः सटीकः । मखद्विषः' इति रघुवंशप्रयोगे (३ सर्गे ४५ श्लोके) 'त्रिलोकरक्षी महिमा हि वज्रिणः' इति विक्रमोर्वशीयनाटकप्रयोगे ( १ अङ्के ५ श्लोके) च त्र्यवयवको लोकस्त्रिलोक इतिवच्चेति बोध्यम्। एतेन 'नवरसी' इति रूपं कुतो नेति शङ्का परास्ता द्विगुत्वाभावात्। नन्वस्मिन्व्याख्याने शङ्गारा- दीनां नवानां रसावयवत्वं वक्तव्यम्। तच्च न संभवति तेषां रसविशेषत्वात्। न हि ब्राह्मणादीनां मनुष्यविशेषाणां मनुष्यावयवत्वम् इति चेन्न। रसपदेन रससमुदायस्य विवक्षितत्वात्। स च समु- दायो 'घटपटौ' इतीतरेतरद्वन्द्ववदुद्धतावयवभेदक एव विवक्षितः । अन्यथा 'घटपटम्' इति समा- हारद्वन्दववत् तिरोहितावयवभेदकत्वे रसस्य नवावयवत्वकथनं विरुद्धं स्यादिति बोध्यम्। तदेतत्पक्ष- द्वयमपि प्रदीपोद्दयोतप्रभासु प्रतिपादितम् । तथा हि नवरसरुचिरामिति कर्मधारयः । वृत्तौ 'षड्सा न च हृद्ैव तैः' इति व्यतिरेकद्वयदर्शनात्। न चैवं 'हृदैव तैः' इति हेतूपदर्शनवैयर्थ्यम्। तैस्ति- क्तादिसाधारणैः षड्सैरुपलक्षिता यतोडतो न च हदैवेति तदर्थत्वात्। अस्तु वा तृतीयाततपुरुष एव। न चैवं नवरसीति रूपप्रसङ्ग: 'त्रिगुणसचिवः इत्यादिवदुपपत्तेः। न च वृत्तिविरोधः। नवरसरुचि- रत्वरूपविशिष्टधर्मव्यतिरेकस्तत्रत्यरसेषु नवत्वाभावेनायोगव्य वच्छेदिहृद्यत्वप्रयोजकत्वविरहेण चेति वृत्तिप्रतिपाद्यत्वात् " इति प्रदीपः । (कर्मधारय इति। नवरसरुचिरशब्दयोर्बहुव्रीहिगर्भः कर्म- धारय इत्यर्थः । तदर्थत्वादिति। एवं चार्थहेतुत्वस्य श्रोकोक्तस्य व्यतिरेकप्रदर्शनमिति भावः । तृतीयेति। द्विगुपूर्वपदक इत्यर्थः । न चैवमिति । अकारान्तोत्तरपदद्विगो: स्त्रीत्वाद्दि ति भा व : । इत्यादिवदिति। त्र्यवययो गुण इतिवन्नवावयवको रस इति मध्यमपदलोपी समासः। रसपदेनो- द्वूतावयवभेदतत्समुदायो विवक्षित इति भावः) इत्युद्द्योतः । (कर्मधारय इति। नव रसा यस्यां सा नवरसा सा चासौ रुचिरा चेत्येवं बहुव्रीहिगर्भ इत्यर्थः। नवरसैः रुचिरेति तृतीयातत्पुरुषत्यागे- नोक्तकर्मधारयाङ्गीकारे बीजमाह वृत्ताविति। न चेति चकारेण व्यतिरेकद्वित्वावगतेरित्यर्थः । न चैवमिति। नियतहृद्यत्वमात्रव्यतिरेककथने तैरिति व्यर्थम् । प्रत्युत विशिष्टव्यतिरेकबोधकतया विरुद्धार्थकमेवेत्यर्थः । तैरिति न करणे तृतीया किंतूपलक्षणे। अतो न विशिष्टव्यतिरेके तात्पर्यमिति नोक्तदोष इत्याह तैरिति। इतीति षष्ठयन्तम् इत्यस्य तदर्थत्वादित्यर्थः। एवमपि तैरित्यस्य हेतु- गर्भत्वादनुपयोग इत्यखरसादाह अस्तु वेति। एवं द्विगुत्वे सति त्रिगुणेति त्रिशब्दस्य त्र्यवयवक- परत्वेन द्विगुत्वाभावाद्यथारूपप्रसङ्गो नेत्यर्थः । कथं तत्राह नवेति। विशेषणविशेष्ययोर्व्यति- रेकद्वयस्य प्रदर्शनं विशिष्टव्यतिरेके द्वयोरपि प्रयोजकत्वमस्तीति प्रदर्शयितुमित्यर्थः ) इति प्रभा । ह्वादैकेत्यने नालंकाराधीनाह्वादजनकत्वमुक्तमिति नैतस्य विशेषणस्य पौनरुक्त्यम्। एवंविधां निर्मिति निर्माणम् आदधती प्रकाशयन्ती कवेः काव्यकर्तुः भारती काव्यम् 'मृदबवीत्' 'आपोड- ब्रुवन्' इत्यादिवत् अधिष्ठात्रधिष्ठेययोरमेदाध्यवसायेन काव्याधिष्ठातृदेवता च जयति सर्वोत्कर्षेण वर्तते इत्यर्थः । 'जि जये' इति म्वादिगणे धातुः। जय उत्कर्षप्राप्तिः। अकर्मकोऽयम्। काव्यपक्षे कवे- रिति जन्यजनकभावे षष्ठी देवतापक्षे तु आराध्याराधकभावे षष्ठी अनेकसंबन्धविशेषेषु षष्ठीविधानात्। उक्त च 'षष्ठी स्थानेयोगा' (१।१।४९) इति सूत्रे महाभाष्ये "एकशतं षष्ठयर्थाः" इति। गीतिश्छन्दः "आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीति गतिवान् भुजङ्गेशः ॥I" इति लक्षणात्। आर्यालक्षणं तु कालिदासकृते श्रतबोधे यथा "यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि। अष्टादश द्वितीये पञ्चदश चतुर्थके सारया ।।" इति इयमेव गाथेत्युच्यते १ नवरसरुचिरशब्दयोः कर्मधारयस्तृतीयातत्पुरुषो वेति पक्षद्वयमित्यर्थः ॥

Page 64

प्रथम उल्लास:। ६

नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारि- प्राकृते। यथाह पिङ्गलनागः "पढमं बारह मत्ता बीए अठ्ठारहेहि संजुत्ता। जह पढमं तह तीअं पञ्चदहविहूसिआ गाहा ॥" इति ॥ कविनिर्मितेरुत्कर्षस्य प्रतियोग्यपेक्षायां ब्रह्मसृष्टिस्वरूपं व्यतिरेकमुखेने विवृण्वन् कारिकां व्याचष्टे नियतिशक्त्येति। यद्वा अस्याः कविवाङ्निर्मितेः सर्वोतकृष्टत्वं प्रतिपादयितुमेतत्प्रतियोगिभूतायाः ब्रह्म- सृष्टेः स्वरूपं प्रदर्शयति नियतिशक्त्येति। नियतेरदृष्टरूपायाः शक्त्या स्वभावेन नियतं रूप यस्या- स्तादृशी। सुखदुःखमोहस्वभावा। मोहो भ्रमः सुखदुःखमोहाः स्वभावाः यस्यास्तादृशी। "एकस्या एव कामिन्याः कंचित्प्रति सुखात्मकसत्त्वसमुद्दूतत्वम् सपत्नीं प्रति दुःखात्मकरजःसमुद्धतत्वम् स्वाम- लभमानं प्रति तमोरूपमोहसमुद्भूतत्वमिति रीत्या सर्वपदार्थानां सुखदुःखमोहात्मकत्वमिति सांख्यमता- नुसारेणेदम्" इति प्रभायां स्पष्टम्। यद्वा सुखदुःखमोहानां स्वस्मिन् भाव उत्पत्तिर्यस्यां तादृशी। परमा- ण्वादीति। अत्र कारणशब्दः प्रत्येकमन्वेति द्वन्द्वात्परत्र श्रतत्वात्। "द्वन्द्वान्ते श्रयमाणं पदं प्रत्येक- मभिसंबध्यते" इति न्यायात्। "जालसूर्यमरीचिस्थं सूक्ष्मं यद्दृश्यते रजः। तस्य षष्ठतमो भागः परमाणुः स उच्यते।।" इत्युक्तलक्षणः परमाणुः। आदिपदेन द्वयणुकादिपरिग्रहः । कर्म क्रिया सा च उत्क्षे- पणापक्षेपणाकुञ्चनप्रसारणगमनरूपत्वेन पञ्चधा। यद्वा स्पन्दरूपा एकविधैव उत्क्षेपणादीनां तत्रैवान्त- र्भावात्। कर्मेत्युपलक्षणम् गुणस्यापि। आदिपदेन निमित्तसंग्रहः। तथा च परामाण्वादि यत् उपादान- कारणं समवायिकारणम् तथा कर्म क्रियारूपमसमवायिकारणम् आदिपदग्राह्यं दण्डचक्रादिरूपमीश्व- रंच्छादिक्कालादिरूपं च निमित्तकारणम् एतदुभयरूपं असमवायिकारणनिमित्तकारणरूपं यत् सहका- रिकारणम् अप्रधानकारणं तत्परतन्त्रा तदधीनेत्यर्थ इति केचिद्याचख्युः। सिद्धान्ते तु प्रदीपोद्दयोतयो- व्र्याख्यातम्। "परमाण्वादि यत् समवायिकरणं तदीयश्च यः स्पन्दस्तत्प्रभृतिसहकारिपरतन्त्रा-" इति १ पढममिति। यस्याः प्रथमे चरणे द्वादश मात्रा भवन्ति द्वितीये अष्टाद्शभिमांत्राभिः संयुक्ता भवति यथा प्रथम चरणं तथा तृतीयम्। यस्यास्तृतीयं चरणं द्वादशमात्रमेव भवतीत्यर्थः। या च चतुर्थे चरणे पश्चद्शमात्राभि- विभूषिता भवति सा गाथेत्यर्थः ॥ २ अत्र व्यतिरेकमुखेणेति णत्वेन भाव्यम् "कुमति च" (८।४।१३) इति सूत्रेण नित्यं णत्वप्राप्तेः। 'कर्मयोगेन योगिनाम्' ( ३ अध्या० ३ श्लो० ) इति श्रीमद्गगवद्रीताप्रयोगे तु आर्ष- स्वाण्णत्वं नेति कल्प्यमित्येके। उभयत्रापि "क्षुश्नादिषु च" (८।४३९) इति सूत्रेण क्षुश्नादेरारृतिगणत्वाण्णत्व- निषेध इत्यपरे॥ ३ समवायिकारणमित्यादि। अत्रेद्मवधेयम्। कारणं त्रिविधं रूमवाय्यसमवायिनिमित्तभेदात् । तत्र यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्। यथा घटं प्रति मृत्परमाणवः समवायिकारणम्। मृतरमाणुषु समवायसंबन्धेन घटाख्यकार्यस्योत्पत्तेः । यथा वा पटं प्रति तन्तवः समवयिकारणम्। तन्तुषु समवायसंबन्धेन पटाख्यकार्यस्योत्पत्तेः। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति (समवायसंबन्धेन विद्यमानत्वे सति) कारणम् असमवायिकारणम्। अत्र कारणेनेतिपदं प्रकतकार्यसमवायिकारणनत्यर्थकम्। तत्र कार्येण सह। यथा घट प्रति मृत्परमाणुक्रिया (स्पन्दरूपा) असमवायिकारणम्। घटाख्यकार्येण सहै कस्मिन्मृत्परमाण्वाख्येडर्थे मृत्परमा- णुक्रियायाः (स्पन्दरूपायाः) समवेतत्वात् (समवायसंबन्धेन विद्यमानत्वात्) कारणत्वाच। यथा वा पटं प्रति तन्तुसंयोग: असमवायिकारणम्। पटाख्यकार्येण सहैकस्मिन् तन्त्वाख्येऽर्थे तन्तुसंयोगस्य समवेतत्वात् कारण वाच्च। कारणेन सह । यथा घटरूपं प्रति मृत्परमाणुरुपम् असमवायिकारणम्। घटगतरूपं प्रति यत् घटाख्यं कारणं (समवाधिकारणं) तेन सहैकस्मिन्मृत्परमाण्वाख्येडर्थे मृत्परमाणुरूपस्य समवेतत्वात् कारणत्वाच्च। यथा वा पटरूपं प्रति तन्तुरूपम् असमवायिकारणम्। पटगतरूप प्रति यत् पटाख्यं कारणं (समवायिकारणं) तेन सहैक० स्मिन् तन्त्वार्येडर्थे तन्तुरूपस्य समवेतत्वात् कारणत्वाच्च। समवाय्यसमवाय्युभयमिन्नं कारणं निमित्तकारणम्। यथा घटं प्रति दण्डचऋचीवरकुलालादिकमीश्वरेच्छादिक्कालादिकं च निमित्तकारणम्। यथा वा पट प्रति तुरीवेम- कुविम्दादिकमीश्र्वरेच्छादिक्कालादिकं च निमित्तकारणमिति॥

Page 65

६ काव्यप्रकाशः सटीक: । कारणपरतन्त्रा षड्सा न च हृदैव तैः तादृशी ब्रह्मणो निर्मितिर्निर्माणम्। एतद्विलक्षणा तु कविवाङ्निर्मितिः। अत एव जयति। जयत्यर्थेन च नमस्कार आ्षिप्यते इति तां प्रत्यस्मि प्रणत इति लभ्यते।। इहाभिधेयं सप्रयोजनमित्याह काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ २ ॥ प्रदीपः।"तत्प्रभृतीति निमित्तसंग्रहः। समवायिकारणेऽपि सहकारित्वम् " इत्युद्दयोतः। एवं चैतन्मते विधातुरत्र प्रधानकारणत्वं विवक्षितम्। षड्सा मधुराम्ललवणकटुकषायतिक्ताख्याः षट् रसा यस्यां तादृशी। न च हृधैव तैरिति। तैः मधुरादिषड्सैः न ह्वद्यैव न मनोरमैवेत्यर्थः कट्वादीनां प्रायेणाह्- दत्वात्। शुङ्गारादीनामलौकिकसुखजनकत्वेनैकरूपतया सर्वान् प्रतिपत्तन् प्रति हृद्यत्वमेव। मधुरादीनां तु परस्परवैलक्षण्येन कंचित्प्रति कचित् कस्यचिदेव हृद्यत्वमिति भाव इति सुधासागरे स्पष्टम्। ब्रह्मण: विधातुः। निर्मितिरूपक्रियायां नियतीत्यादिविशेषणासंभवान्मूलस्थं निर्मितिपदं व्याचष्टे निर्मितिरि- त्यादिना। निर्मितिरिति कर्मणि क्तिन्। निर्माणमिति। निर्मीयते इति निर्माणं जगत् घटादिरूप- मित्यर्थः । कर्मणि ल्युट्। विलक्षणा विसदशी। यद्ा विशिष्टलक्षणा चारुस्वरूपा। कविवाङ्नि- मिति: मुखाद्यात्मकचन्द्रादिरूपा। जयति उत्कर्षाश्रयो भवति। जयत्यर्थेन उत्कर्षेण। नमस्कार इति। नमःशब्दार्थश्च सुबर्थवादे मञ्जूषायामुक्तः "अपकृष्टत्वज्ञानबोधनानुकूलो व्यापारः स्वरादिपठित- नमःशब्दार्थः । तत्रापकर्षः प्रयोक्तपुरुषविशेषनिष्ठो नमस्कार्यावधिक एव प्रतीयते। व्यापारश्च प्रयोक्तृनिष्ठः प्रतीयते शब्दशक्तिस्वाभाव्यात् । अन्योच्चारितेन नमःपदमात्रेणान्यदीयनत्यवबोधनात्। स च व्यापारः करशिरःसंयोगादिरीदृदशशब्दप्रयोगश्च " इति । आक्षिप्यते व्यज्यते । अयं भावः। जयत्यर्थ उत्कर्षः स च विशेषानुपादानात्सर्वप्रतियोगिको लभ्यत इति भारत्यां सर्वोत्कृष्टत्वज्ञाने तुल्य वित्तिवेद्यत्वन्यायेन प्रकारान्तरेण वा भारत्यपेक्षया सर्वस्यापकृष्टत्वज्ञाने सर्वान्तःपातिनि स्वस्मिन्न- प्याराध्यापेक्षयापकृष्टत्वज्ञानं व्यञ्जनया वृत्तमेवेति। वक्तृवैशिष्टयं (वक्तृसंबन्धः) स्वापेक्षयापि भारत्युत्कृ- ष्टत्वज्ञाने उपयुक्तमिति बोध्यम्। ननु सर्वः प्रणत इति लाभेऽप्यहं प्रणत इति न लब्धम्। तथा प्रणतिरेव च स्वैर्निबध्यते इत्यत आह इतीति। इति व्यञ्जनयैवेत्यर्थः । प्रणत इति कर्तरि क्तदर्शनेन धातो- रकर्मकत्वात्तामिति प्रतियोगे द्वितीयेत्याशयेनाह तां प्रतीति। लभ्यत इति। सर्वान्तर्गतोऽदमप्यपकृष्ट इत्यपि व्यञ्जनयैव लभ्यते इत्यर्थः । अत्र पद्ये ब्रह्मनिर्मितरूपादुपमानादुपमेयरूपायाः कविवाडूनि- र्मितेराधिक्यमिति व्यतिरेकालंकारो व्यङ्गय इति अलंकारव्वनिरिति केचित्। अत्र निर्माणव्यतिरेक- मुखेन (निर्मित्याधिक्यद्वारा) चतुर्मुखात्कविभारत्याः [आधिक्यमिति ] व्यतिरेकालंकारो व्यङ्गयः शिल्पोत्कषें शिल्प्यत्कर्षस्यार्थसिद्धत्वादिति प्रदीपप्रभयोः स्पष्टम्। आन्तरालिकव्यङ्गयमादायेदम्। तेन पार्यन्तिकदेवताविषयकभावेनापि ध्वनित्वे न क्षतिरित्युद्दयोते स्पष्टम् ।। ननु प्रयोजनाप्रतिपादने इष्टसाधनताज्ञानाभावात् प्रेक्षावत्प्रवृत्तिर्न स्यात् "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते"इति न्यायादित्यत आह इहेति। अस्मिन् ग्रन्थे इत्यर्थः। अभिधेयं "तददोषौ १ "अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि" इतिवार्तिकेनेति भावः ॥

Page 66

प्रथम उल्लास: । ७

कालिदासादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनम् राजादिगतोचिताचार-

शब्दार्थौ " इत्यारभ्य वक्ष्यमाणमित्युद्दयोते स्पष्टम्। उक्तं च प्रभायामपि "अभिधेयं 'शक्तिर्निपु- णता' इत्यादिवक्ष्यमाणग्रन्थरूपम्। तथा चार्ङ्गस्य स्वतन्त्रफलाभावात्प्रधोनफलकथनमङ्गभूतग्र- न्थस्य फलवत्त्वबोधनार्थमेवेति न निष्फलत्वं ग्रन्थस्य न वा काव्यफलकथनस्येति भावः। यथाश्रुतेऽ भिधेयस्य प्रयोजनमाहेति वाच्ये सप्रयोजनमित्याहेति इतिशब्दानर्थक्यमपि घोध्यम्" इति। सारबो- धिनीकारास्तु "अथाङगिनः काव्यस्य फलेनाडं परीक्षणरूपं ग्रन्थप्रतिपादं फलवदिति हृदि कृत्वाह इहेति। वक्ष्यमाणकारिकायामित्यर्थः । अभिधेयं काव्यम्। परीक्षणीयतयेति शेषः। तेन काव्यफल- प्रदर्शनं नानुपयुक्तमिति " इत्याहुः। सप्रयोजनं यशःप्रभृतिफलसहितम्। आहेति। अत्र 'ग्रन्थ- कृत्' इत्यनुषञ्जनीयम् । एवं सर्वत्र बोध्यम्। काव्यमिति। यशसे इत्यादयस्तादर्थ्थचतुर्थ्यन्ताः । कृत्-विद्-युज-शब्दाः संपदादित्वात् स्त्रियां भावे क्विप्प्रत्ययान्ताः। यशसे कीर्तये । अर्थकृते धनकरणाय। व्यवहारविदे आचार- वेदनाय। शिवेतरक्षतये शिवात्कल्याणादितरत् अशिवम् अमङ्गलम् तस्य क्षतये नाशाय। सद्यः श्रवणसमनन्तरमेव परनिर्वृतये परमानन्दाय। "सुखनाशौ च निर्वृती" इति कोशः । कान्तेत्यादि। कान्तायाः रमण्याः समितं तुल्यं भावस्तत्ता तयेत्यर्थः। उपदेशयुजे उपदेशयो- गाय। "कृदभिहितो भावो द्रव्यवत् प्रकाशते " इति न्यायेन युक्तोपदेशायेत्यर्थः । काव्यं भवती- त्यन्वयः । गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४) पृष्ठ । काव्यात् यशःप्रभृतीनि प्रयोजनानि लभ्यन्ते इत्येतत् दृष्टान्तेनोपपादयन् आदौ यशसे इति व्याकरोति कालिदासादीनामित्यादिना। कालिदासः तन्नामकः कविः (रघुवंशकुमारसंभवादि- काव्यकर्ता) प्रसिद्ध एव। कार्ल्योंः दासः इति विग्रहे "ड्यापोः संज्ञाछन्दसोर्बहुलम्" (६।३।६३) इति पाणिनिसूत्रेण 'रेवतिपुत्रः' इतिवत्संज्ञात्वात् हस्वः । आदिपदादण्डिभारविबाणगोवर्धनादयो ग्राह्याः। यश इत्यादिकर्मणां करोतीत्यनेनाग्रिमेणान्वयः । यद्यपि कालिदासादीनामपि धनं धाव- कादीनामपि यशस्तथापि प्राधान्यादेतदुक्तम् न तु प्रयोजनानन्तरव्यवच्छेदपरतयेत्यवगन्तव्यम् ।। अत्र सुधासागरकाराः "न खलु कालिदासस्य पित्रादि कुलं वा कश्चिज्जानाति न वा दाना- दिकं किंचित्प्रसिद्धम् येन तादृशं यशः स्यात् किंतु काव्यमेव तत्कारणम्। ननु वाल्मीकिव्यासा- दीनामिवेति वक्तव्ये कि कालिदासादीनामित्युक्तमिति चेत् सत्यम्। किंत्वदिव्यप्रकृत्यपेक्षयेदमु- क्तम् । दिव्यादिव्यप्रकृतिवाल्मीक्यादीनां तु न काव्यमात्रं यशःकारणामित्यवेहि" इत्याहुः ॥ अर्थकृते इति व्याकरोति श्रीहर्षादेरिति। अपादाने पञ्चमीयम् । धावकः तन्नामा कविः। स हि श्रीहर्षनृपनाम्ना रत्नावलीनाम्नीं नाटिकां कृत्वा बहु धनं लब्धवानिति प्रसिद्धिरित्युद्द्योतादौ स्पष्टम् । धावकनामा कश्चित्पण्डितः प्राक् परमदरिद्रश्चिन्तामणिनामकमहामन्त्रविशेषोपासनप्रसादेन विचित्रवि- द्याशाल्यपि निर्धनत्वेन बहु क्विश्यमानः सन् नैषधीयचरिताख्यं शतसर्गात्मक विचित्रं महाकाव्यं विरच्य १ अप्रधानस्येत्यर्थः । काध्यप्रकाशरूपग्रन्थस्येति यावत् ।। २ प्रधानमत्र काव्यम् ॥ 3 "स्त्रियां क्तिन्" (३।३।९४) इति सूत्रस्थेन "संपदादिभ्यः किपू" इति कात्यायनकतवार्तिकेनेति भावः। संपदादिगणस्तु आकृ- तिगण इति वर्धमानसूरिकतगणरत्नमहोद्धौ अष्टमेऽध्याये स्पष्टम् ॥ पार्वत्याः। "उमा कात्यायनी गौरी काली हैमवतीश्वरी" इत्यमरः ॥ ५ ताश् प्रकृतयः सप्तमोल्लासे रसदोषप्रकरणे प्ररुतिविपर्ययरूपदोषस्थले निरूपयिष्यन्ते॥

Page 67

काव्यप्रकाशः सटीक: । परिज्ञानम् आदित्यादेर्मयूरादीनामिवानर्थनिवारणम् सकलप्रयोजनमौलिभूतं सम- गुणज्ञशिरोमाणें श्रीहर्षनामानं राजानं प्रदर्श्य तेनातितुष्टात्ततः प्रतिवर्ष शतसहस्त्रात्मकरूप्यमुद्रो- त्पत्तियोग्यां भूमिं प्रतिगृह्य तत्काव्ये प्रतिसर्गान्तिमल्लोके तत्पित्रानामभ्यां सहितं तत्कर्तृत्वेन तन्नाम ग्रथितवानिति वृद्धैरुपाख्यायते इत्यच्युतरायकृतसाहित्यसारटीकायामुक्तम् । आदिपदात् भोजप्रब- न्धकारिमिर्भोजात् माघ( शिशुपालवध)कारिभिर्माघाख्यवैश्याद्वहुतरं धनं प्राप्तमित्याद्यूह्यमिति सुधा- सागरे स्पष्टम् ।। व्यवहारविदे इति व्याकरोति राजेत्यादि। राजि आदिना सचिवगुरुमुन्यादौ च गतो य उचित आचारः पृथ्वीपालनादिरूपो व्यवहारस्तत्परिज्ञानमित्यर्थः। अनुचिताचारव्यावर्तनाय उचितेति। पुराणे वालि- वधादावनुचितप्रकारेणाचारनिबन्धनात् महावीरचरितादौ च तस्यैवौचित्येन निबन्धनादिति भावः ॥ शिवेतरक्षतये इति व्याकरोति आदित्यादेरित्यादिना। पञ्चम्यन्तमिदम्। आदित्यः सूर्यः । अनर्थः पापं तत्फलं च। मयूरनामा कविः श्लोकशतेनादित्यमुपश्लोक्य कुष्ठरोगान्निस्तीर्ण इति जनश्रुतिरिति नरसिंहमनीषायां स्पष्टम्। उक्त च सुधासागरकारैरपि "पुरा किल मयूरशर्मा कुष्ठी कवि: क्लेशमसहष्णुः [सूर्यप्रसादेन कुष्ठान्निस्तरामि प्राणान्वा त्यजामीति निश्चित्य हरिद्वारं गत्वा गङ्गातटे ] अत्युच्चतरुशाखावलम्बि शतरज्जुशिक्यम् अधिरूढ: सूर्यमस्तौषीत् अकरोच्चैकैकप- द्यान्ते एकैकरज्जुविच्छेदम्। एवं क्रियमाणकाव्यपरितुष्टो रविः सद एव नीरोगां रमणीयां च तत्तनु- मकार्षीत्। प्रसिद्धं च तन्मयूरशतकम् (सूर्यशतकापरपर्यायम्)" इति॥ मयूरकवेः कुष्ठरोगप्राप्तौ कारणं तु भ्टयज्ञेश्वरकृतायां सूर्यशतकटीकायामभिहितम्।तथा हि "पुरा किल श्रीविक्रमार्कसमयादष्टसप्तत्युत्तरसहस्त्रसम्मितेषु १०७८ संवत्सरेषु (१०२२ खिस्ताब्देषु)व्यती- तेषु संप्राप्तोदयस्य श्रीमद्धोजराजस्य सभासदरत्नदीपो महाकविर्मयूरो धारानगरीमधिवसति स्म। तस्य च भागनीपतिःकादम्बरीगद्यप्रबन्धनिर्माता बाणकविः परममित्रमासीत्। अथ कदाचिन्मयूरकविर्निशः प्रान्ते संप्राप्तप्रबोध: कतिचित्पद्यानि कवयांचक्रे। तानि चातीव सरसरमणीयान्याकलय्य तदानीमेवोत्कटसमु त्कण्ठावशान्न्रिजसुहृदे बाणकवये निवेदितुमनास्तदावासभवनमभिजगाम। तत्र च बाणकविर्निजवल्लमां मयूरस्वसारं मानकलुषितां प्रसादयंस्ततकालकल्पितं 'गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोडयं निद्रावशमुपगतो घूर्णित इव। प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो इति पादोनं पद्ं पठित्वा चर- मचरणसंगति कल्प्यंस्तावदेव पाप्यांचक्रे। अत्रावसरे घनस्तनितस्येव गम्भीरस्य बाणकविभाषणस्य श्रवणेन विवशान्तःकरणो मयूरकविः स्वप्रतिभाप्रवाहं निरोद्धुमक्षमस्तत्पद्येऽपेक्षितं सुसंगतं चतुर्थचरणं 'कुचप्रत्यासत्या हृदयमपि ते चण्डि कठिनम्' इत्येवंरूपं केकानिनादमिव मन्द्रमधुरखरेणोदरियामास। तच्छत्वा सज्जधनुषस्वूर्ण बाणो लक्ष्यमिवायमपि बाणकविर्निजनाम्रोऽनवर्थतासमर्थनाय [इव] लीलासभनो झटिति विनिर्गत्य प्राणाधिकप्रियं सुहृद्वरं मयूरकविं समाजगाम। ततोडस्या बाणवनिताया रसभङ्गजनित- मनःक्षोभवत्याः पातिव्रत्यप्रभावेणाचिरादेव शापतःस मयूरकविः कुष्ठरोगकवलितसर्वाङ्गः संवृत्तः। अथास्य पापरोगस्य समूलमुन्मूलनाय शतसंख्याकहृद्यतमपद्यघटितकाव्यबन्धेन भगवन्त भास्करदेवं स्तुत्वा तत्प्र- १ औचित्येनेति। स्फुटीकरिष्यते चेद्मौचित्यं सप्तमोल्ासे प्रकतिविपर्ययरूपदोषे 'अधिकं तु निबध्यमानम ' इति वृत्तिग्रन्थव्य।ख्यानावसरे॥ 3 शिक्यं च दधिभाण्डादिलम्बनार्थ रज्जुसमूहरुत आश्रयविशेषः॥ ३ कादम्बरीगये- त्युपलक्षणं हर्षचरितचण्डीशतकपार्वतीपरिणयनाटकानामपि।।

Page 68

प्रथम उल्लासः ।

नन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधान-

महिम्ना प्रेनष्टपापरोगः कनकरुचिरगात्रोऽयं मयूरकविः संबभूवेत्येवंतात्पर्यक इतिहासो मेरुतुङ्गाचार्य- कृतप्रबन्धचिन्तामण्यादिग्रन्थे स्थितः " इति ॥ सद्य:परनिर्वृतये इति व्याकुर्वन् परपदार्थमाह सकलेत्यादिना। सकलेषु यशःप्रभृतिषु प्रयोजनेषु फलेषु मौलिभृतं प्रधानभूतमित्यर्थः । सदःपदार्थमाह समनन्तरमेवेति। काव्यश्रवणानन्तरमेवेत्यर्थः । न तु यागादिवद्देहान्तरोत्पादनेन। न वा आम्रादिवृक्षारोपणादिवत्कालविलम्बेनेति भावः। तत्र हेतुमाह रसास्वादनेत्यादिना। रस्यते आस्वाद्यते इति व्युत्पत्या रसपदं रत्यादिस्थायिभावपरम्। तथा च रसस्य स्थायिभावस्य आस्वादेन विभावानुभावव्यभिचारिभिः संयोजनेन समुद्ूतं निष्पन्नमित्यर्थः । तावन्मा- त्रापेक्षित्वादेव चाविलम्ब इति भाव इत्युद्दयोतादौ स्पष्टम्। "रसः आस्वाद्यते प्रकाश्यतेऽनेनेति रसास्वा- दनं विभावादिसंयोजनं तेन समुद्ूतं प्रादुर्भूतम्" इति सारबोधिनी । "रस्यते इति रसः निरुपाधीच्छा- विषयः । आस्वादनमास्वाद: सुखस्वरूपम्। समुद्धतः स्वप्रकाशः ज्ञानरूप इति रसास्वादनसमुद्धूत- पदानां कर्मधारयः" इति नरसिंहठक्कुराः। शब्दार्थविषयव्यासङ्गाद्विलम्बः स्यादत आह विगलितेति। विगलितम् अस्तमितं वेद्यान्तरं स्वातिरिक्तविषयान्तरं यत्रेत्यर्थः । ज्ञानान्तरे घटादिकं विषयः ज्ञानं च विषयी। अत्र च ज्ञानात्मकः आनन्द एव विषयो विषयी चेति भाव इति नरसिंहठक्कुराः। स्वविषयाति- रिक्तवेद्यान्तरसंपर्कशून्यमिति प्रदीपोद्दयोतयोः स्पष्टम्। काव्यश्रवणस्यैवायं महिमा। तदा किमपि वेद्या- न्तरं न भासते इति निर्वृतिपदार्थमाह आनन्दमिति। मोक्षकालिकब्रह्मानन्दमित्यर्थः ॥ उपदेशार्थ नीतिशास्त्राणि सन्त्येव किं काव्येनेति शङ्कानिरासार्थमुपात्तं "कान्तासंमिततया" इत्यादि वाक्यं व्याचक्षाणस्तावत् कान्तासंमितत्वं विवेचयतुमाह प्रभुसंमितेति। प्रभुसंमितानि प्रभुतुल्यानि शब्दप्रधानानि यानि वेदादि शास्त्राणि तेभ्य इत्यर्थः । विलक्षणमित्यग्रिमेणान्वयः। आदिना स्मृतेर्ग्रहणम्। अयं भावः। शब्दस्तावत् त्रिविधः। प्रभुसंमितः सुहृत्संमितः कान्तासंमितश्चेति। तत्राद्यः शब्दप्रधानो वेदादिः। शब्दप्रधानत्वं च प्रवर्तनारूपशासनाप्रधानत्वम् । तथा च यथा प्रभुरिष्टसाधनेSनिष्टसाधने निष्फले च नियोजयति। एवं वेदोऽपि इष्टसाधने ज्योतिष्टोमादौ अनिष्टसाधने श्यनयागादौ निष्फले (अकरणप्रयुक्तप्रत्यवायपरिहारातिरिक्तफलरहिते) संध्यावन्दनादौ च नियोजयतीति प्रभुसंमितत्वं वेदादि- शास्त्रस्येति बोध्यमिति प्रदीपनरसिंहमनीषादौ स्पष्टम्। उद्दयोतकारास्तु शब्दप्रधानत्वं च समीहितार्थ- १ लाभायात्यज्यमानमुख्यार्थकत्वम्। उपदेशकविधेयांशस्य लक्षणादिनान्यथानयनाभावादित्याह्ः । सुह- त्संमितेति। सुहत्समिताः मित्रतुल्या अर्थतात्पर्यवन्तो ये पुराणादयः ये च इतिहासाः प्राचीनवृत्त- वर्णनानि तेभ्य इत्यर्थः । विलक्षणमित्यग्रिमेणान्वयः । इतिहासलक्षणमग्रे (१२ पृष्ठे) वक्ष्यते। आदिना आख्यानादेर्ग्रहणम्। अयं भावः। द्वितीयस्तु अर्थतात्पर्यवान् अष्टादशपुराणेतिहासादिः। अर्थतात्पर्य- वत्त्वं च इष्टानिष्टार्थबोधमात्रपरत्वम्। तथा च यथा सुहृत् 'एवं कृते एवं भवति' इति वस्तुतत्त्वमात्रं बोध.

१ प्रनष्टेति। "उपसर्गाद्समासेऽपि०" (८l४।१४) इति पाणिनिसूत्रेण णत्वं तुन। "नशेः षान्तस्य" (८lr३६) इति सूत्रेण तन्निषेधात् ॥ २ वस्तुतस्तु बाणमयूरौ श्रीहर्षसमकालिकौ। श्रीहर्षदेवश्रय ६०६-६४७ स्िस्ताव्देषु महीं शशाप्तेति प्राच्यभाषापण्डितैनिर्णीतम्। ३ "ज्योनिष्टोमेन स्वर्गकामो यजेत " "श्येनेनाभिचरन् यजेत" "अहरहः संध्यामुपासति " इत्यादिरूपो वेदोऽपीत्प्रर्थः ॥ काव्यप्रकाश २

Page 69

१० काव्यप्रकाशः सटीकः । वेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्र शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्न यतनीयम्। यति एवं पुराणेतिहासादिरपि 'एवं कृते इदमिष्टं भवति एवं च कृते इदमनिष्टं भवति' इत्येतावन्मात्रं बोधयति न तु नियोजयतीति सुहृत्संमितत्वं पुराणेतिहासादेरिति। अन्ये तु शब्दप्रधानतवं नाम शब्दपरिवृत्त्यसहत्वम् । यथा 'देवदत्तः समरसिंहतया व्यवहिय- ताम्' इति प्रभोरादेशे संग्रामकेसरीति शब्दपरिवृत्त्या न व्यवहारःकिंतु समरसिंहतयैवति शब्दप्रधानता प्रभोरादेशस्य। एवं वेदस्यापि। नहि "अग्निमीळे पुरोहितम्" इत्यादौ "वहिमीडे ईडेडग्रिम्" इति वोक्त फलसाधकं भवति। वेदादीत्यादिपदेनाष्टादशपुराणानां संग्रहः। तेषामपि शब्दपरिवृत्त्यसहत्वात्। अर्थतात्पर्यवत्त्व नाम अर्थप्रधानत्वम् तच्च शब्दपरिवृत्तिसहत्वम्। पुराणेतिहासेभ्य इत्यत्र पुराणानाम- ष्टादशपुराणसंबन्धिनो ये इतिहासाः। अनेन धूर्तकल्पितेतिहासानां निरासः। यद्वा पुराणस्य पुरातनस्य इतिहासाः पुरावृत्तानि पञ्चोपाख्यानहितापदेशादीनि तेभ्य इत्यर्थ इति व्याचख्युः । वेदादिशास्त्रेम्यः पुराणेतिहासेभ्यश्च काव्यस्य वैलक्षण्ये हेतुमाह शब्दार्थयोर्गुणभावनेति। शब्दो वाचकः अर्थो वाच्यस्तयोर्गुणभावेनाप्रधानतयेत्यर्थः। तयोर्गुणभावे हेतुमाह रसाङ्गेति। रसस्य शङ्गारा- देरङ्गभूतः उपायभूतो यो व्यापारो विभावादिसंयोजनं (विभावानुभावव्यभिचारिभावानां मेलनं) व्य- ञ्जना वा तत्प्रवणतया तत्परतयेत्यर्थः। एवं च काव्ये तादृशव्यापारनिष्पाद्यरसस्यैव प्राधान्यमिति भावः । विलक्षणं विसदृशम् वैधर्म्याश्रय इति यावत्। एवं च गुणीभूतशब्दार्थोभयकत्वमेव काव्ये वैलक्षण्य- मिति भावः । काव्यमिति। कवेः कर्म काव्यम्। कविशब्दात् "गुणवचनब्राह्मणादिभ्यः कर्मणि च" (५११२४) इति पाणिनिसूत्रेण ब्राह्मणादित्वात्कर्मरूपेडर्ये व्यञ्प्रत्ययः। तमेव काव्यशब्दार्थमाह लोकोत्तरेत्यादि। लोकोत्तरा चमत्कारिबोधजनिका या वर्णना मुखादे: कमलत्वादिरूपेण कथनादि तत्र निपुणस्य कवेरसाधारणतादृग्वर्णनात्मकं कर्मेत्यर्थ इति प्रदीपोद्दयोतयोः स्पष्टम्। "लोकोत्तरवर्णनारूपं निपुणं कविकर्मेत्यर्थः । कर्म योजनम् न तूचारणमपि मौनिपद्यासंग्रहात्" इति नरसिंहठक्कुराः । तत् काव्यम्। इदं कर्तृपदं करोतीत्यत्रान्वेति। कान्तेव कामिनीव । सरसतापादनेन रससहि- तत्वापादनेन। अभिमुखीकृत्येति। संमुखीकृत्येत्यर्थः। स्वप्रतिपाद्यार्थबोधानुकूलय त्ना श्र्र्र्य कृत्येति यावत्। सरसतेत्यादिना कान्तासादश्यं दर्शितम्। उपदेशस्त्ररूपमाह रामादिवदित्यादि। हितर्कतव्य- त्वाहिताकर्तव्यत्वपरमेतत्। तेन रामकृतवालितधसदशस्याव्यकर्तव्यत्वं रावणकृतहरपूजादेश्च कर्तव्यत्वं बाध्यमित्युद्दयोते स्पष्टम्। उपदेशं चेति। तथा च कान्ता यथा दयितं गुरुमित्राद्यधीनमपि इतरजन- वैलक्षण्येन कटाक्षभुजक्षेपादिना सरसतामापाद् स्वाभिमुखीकृत्य स्वस्मिन् प्रवर्तयति एवं काव्यमपि सुकु- मारमतीन् सुखिस्वभावान् नीतिशास्त्रपराड्मुखान् राजकुमारादीन् ललितपदकदम्ब कोपदर्शितशङ्गारा- दिरसेन मधुरपानादिना कटुकषायौषधपानपराङ्मुखान् बालकानिव सद्ुपदेशस्वरूपस्वार्थे प्रवर्तयतीति भावः । यदाहुः "स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते। प्रथमालीढमधवः पिबन्ति कटु भेषजम्॥" इति। चकारः पूर्वोक्तप्रयोजनसमुच्चायकः। यथायोगमिति। यथायोग्यमित्यर्थः । यशोरऽर्यावनर्थनिवृ- १ कर्म करिया॥

Page 70

प्रथम उल्लास:। २१

एवमस्य प्रयोजनमुक्त्वा कारणमाह शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्धवे । ३ ॥ शक्तिः कवित्ववीअरूपः संस्कारविशेषः। यां बिना काव्यं न प्रसरेत् प्रसृतं वा उपहस- त्तिश्च कवेरेव। व्यवहारज्ञानोपदेशयोगौ सहृद्यस्यैव। कवेस्तयोः सिद्धत्वात्। परनिर्वृतिरपि सहृदयस्यैव। रसास्वादनकाले कवेरपि सहृदयान्तःपातित्वात्। तदुक्तं प्रदीपे "काव्यास्वादनकाले कवेरपि सहृदयान्तः- पातितया रसास्वादः" इति। कवेः काव्यकर्तुः। सहृदयस्य चेति। काव्यवासनापरिपक्कबुद्धेश्वेत्यर्थः। तथा च परोपकारोडव्यननेति भावः। अत एवाह इति सर्वथेति। तत्र काव्ये। यतनीयामिति। उत्पा- दनायास्वादनाय च यत्न: कर्तव्य इत्यर्थः । अत एव साहित्यदर्पणे विश्वनाथेन काव्याच्चतुर्वर्गफलप्राप्ति: प्रतिपादिता। किंच। "धमार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्ति प्रीति च साधुकाव्यनिषे- वणम्।।" इति वृद्धसंमतिरपि तद्विषये तेनैव दर्शिता। अपि च "नरत्वं दुर्लभं लोके विद्या तत्र सुदु- रलभा। कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा॥ "इति "काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च। शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ॥" इति चाग्नेयपुराणवचनेन "त्रिवर्गसाधनं नाट्यम्" इति विष्णुपुराणवचनेन च काव्यस्योपादेयत्वमप्युपपादितं तेनैवेति बाध्यम्। न चेदं सर्व "काव्यालापांश्व वर्जयेत्" इत्यादिस्मृतिशास्त्रविरुद्धमिति वाच्यम्। तस्य स्मृतिशास्त्रस्य भगवत्तद्धक्तभिन्नवर्णनविष्यक- त्वात्। अत एव श्रीमद्धागवते १ स्कन्धे ५ अध्याये "न यद्वचश्चित्रपदं हरेर्यशः" इति "स वाग्वि- सर्गो जनताघविप्लवः" इति च भगवद्गुणवर्णनविधानं कृतम्। अत एव शाकुन्तलनाटके कालिदसेन दुष्यन्तस्य नैषधीयचरिते श्रीहर्षेण नलस्य किरातार्जुनीये भारविणा अर्जुनस्य दमयन्तीकथाचम्पूप्रबन्धे त्रिविक्रमेण दमयन्त्यादेश्च [भगवद्भक्तस्य ] वर्णनं कृतम्। यत्तु भामिनीविलासे शृङ्गारोल्लासे "गुरुमध्य- गता मया नताङ्गी निहता नीरजकोरकेण मन्दम्। दरकुण्डलताण्डवं नतमूलतिकं मामवलोक्य घूर्णि- तासीत् ।" इत्यादिना जगन्नाथपण्डितैः स्वप्रेयसविर्णनं कृतं तत्तु तेषां श्रीगङ्गाप्रसादादेव शोभते- तरामिति साहित्यसारटीकायां स्पष्टम् ।। नन्वेवंविधस्य काव्यस्योत्पत्तिरेव न संभवति। उपायाभावादित्याशङ्कारया तदुपायप्रतिपादकमुत्तरें पद्यमित्याह एवमस्येत्यांदि। यद्वा। ननु यतनीयमित्युक्तम्। यत्नस्तु कारणमेव। तर्हि तद्वक्तव्यमिति तत्प्रदर्शयतीत्याह एवमस्येत्यादि। अस्य काव्यस्य। निर्माणे समुल्लासे चेति शेष:। प्रयोजन फले (यश:प्रभृतिरूपम्)। कारणं हेतुम्। साधनमिति यावत्। "हेतुर्ना कारणं बीजम् " इत्यमरः । शक्तिर्निपुणतेति। शक्ति: लोकशास्त्रकाव्याद्यवेक्षणात् निपुणता काव्यज्ञाशिक्षयाभ्यासः इति एतत्त्रितयं तस्य काव्यस्योदद्वे समुल्लासे च हेतुरित्यर्थः । श्रोकशछन्दः । "श्लोके षष्ठ गुरु ज्ञेयं सर्वेत्र लघु पञ्चमम्। द्विचतुष्पादयोरहस्वं सप्तमं दीर्धमन्ययोः ॥" इति लक्षणात् ॥ लोक व्याकुर्वन् शक्तिपदार्थमाह शक्तिरित्यादिना। शक्रोति पुमान् काव्यनिर्माणायास्वादानुभवाय चानयेति शक्तिः। कवित्ववीजरूप इति। कवित्वं काव्यं सहृदयत्वं संख्यावस्वं पाण्डित्यं च "संख्या- १ किरातार्जुनीयकाव्यप्रथमश्लोकावतरणिकायां मल्लिनाथेनाप्युक्तम् "अथ तत्रभवान् भारविनामा कविः'कार््यं यशसेडर्थरुते' इत्यादयलंकारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयःसाधनतां 'काव्यालापांश्य वर्जयेत्' इति निषेधशा खस्यासत्काव्यविषयता च पश्यन् किरातार्जनीयार्यं महाकाव्यं चिकीर्षुःकथामुपक्षिपति" इति॥

Page 71

१२ काव्यप्रकाशः सटीक: । नीयं स्यात्। लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य। शास्त्राणां छन्दोव्याकरणाभिधान- कोशकलाचतुर्वर्गगजतुरगखङ्गादिलक्षणग्रन्थानाम्। काव्यानां च महाकविसंबन्धिनाम्। आदिग्रहणाितिहासादानां च विमर्शनाव्द्युत्पत्तिः। काव्यं कर्तुं विचारयितुं च ये जानन्ति वान् पण्डितः कवि: " इत्यमरानुशासनात्। संस्कारविशेषः देवताराधनादिजन्यं विलक्षणादृष्टं प्रतिभापदव्यपदश्यं तत्तद्रसादिवासना वा। ननु तथाविधायाः शक्तेः कारणतायां कि मानमित्याश- ङ्थार्थापत्तिं प्रमाणयति यां विनेति। शक्ति विनेत्यर्थः। न प्रसरेत्। न सारं प्रामुयादित्येके। "न प्रसरेत् न जायेत" इति चक्रवर्तिनः। प्रसृतं वेति। वाशब्दोऽत्रानास्थायाम्। "किं तेन वा सुतेनास्य यो न चक्रे पितृक्रियाम्" इत्यत्रेव। उपहसनीयमिति। दोषवैशिष्टयादिनेति भावः। ननु[ "तददोषौ शब्दार्थो" इति ] वक्ष्यमाणलक्षणानुसारात्तस्य (उपहसनीयस्य ) काव्यत्वमेव नेति चेन्न। "तद- दोषौ" इत्यस्य लक्ष्यतावच्छेदकमप्येतदेवेत्यदोषादित्युद्दयोते स्पष्टम्। एतदेवेत्यस्यानुपहसनीयत्ववरीष्ट काव्यत्वमेवेत्यर्थः । लोकशब्दार्थमाह स्थावरेन्यादि। स्वाधीनक्रियाशून्यः स्थावरः। तदितरो जङ्गमः । स्वरूपसल्लोकावेक्षणस्य नोपयोगो व्युत्पत्त्यनाधायकत्वादित्यतोन्यथा व्याचष्टे लोकवृत्तस्येति। वृत्तमा- चरणम्। तथा चोपादानलक्षणया लोक्यते इति लोकः इति व्युत्पत्या वा लोकपदं लोकवृत्तपरमिति भावः। वृत्तानन्त्येन वर्णनानन्त्यं लक्षणाफलम्। काव्यकरणोपयुक्तानि शास्त्राणि दर्शयति शास्त्राणामिति। काव्यवर्णादिनियमबोधकं शास्त्रं छन्दःशास्त्रं पिङ्गलादिमुनिप्रणातिम्। प्रकृतिप्रत्ययविभागव्यवच्छेदपूर्वक- शब्दव्युत्पत्याधायकं शास्त्रं व्याकरणं पाणिनिमुनिप्रभृतिप्रणीतम्। अभिधानानां नाम्नां कोश: संग्रहोऽ- मरसिंहादिप्रणीतः । कला नृत्यगीतादयश्चतुःषष्टिकलास्तद्ग्रन्थश्च ब्रह्मभरतकोहलविशाखिलादिमुनि- प्रणीतः। कलादेः "लक्षणग्रन्थानाम् " इत्यत्रान्वयः । चतुर्वर्गो धर्मार्थकाममोक्षाः (वर्गचतुष्टयम्)। तत्न धर्मशास्त्रं पूर्वमीमांसारूपं जैमिनिप्रणीतं मनुयाज्ञवल्क्यादिप्रणींतं स्मृतिशास्त्रं च। अर्थशास्त्रं गर्गभार्गवा- दिप्रणीतो नीतिग्रन्थः। कामशास्त्रं च वात्स्यायनादिमुनिप्रणीतम्। मोक्षशास्त्रं व्यासकपिलकणादाक्ष- पादर्पेतञ्जलिप्रणीतं वेदान्तसांख्यतर्कन्याययोगाख्यम् । एवं च चतुर्वर्गेत्यनेन "गौतमस्य कणादस्य कपिलस्य पतञ्जलेः । व्यासस्य जैमिनेश्वापि दर्शनानि षडेव हि" इति "काणादं गौतमं चैव मीमांसाद्वरयेमेव च । आहुः सांख्यं च योग च षट् शास्त्राणि मनीषिणः ॥" इति चोक्तानां पारि- भाषिकषट्शास्त्राणामपि संग्रहः । गजतुरगादिग्रन्थश्च शालिहोत्रादिः। खड्गः करवालः। आदिपदात् धनुर्बाणादिप्रतिपादकशास्त्रस्य स्त्रीपुरुषलक्षणादिप्रतिपादकसामुद्रकादेरायुर्वेदज्योतिःशास्त्रादेश्व संग्रहः । लक्षणेति। एते लक्ष्यन्ते ज्ञाप्यन्ते एमिरिति करणे ल्युद्। स्वकृतकाव्यावेक्षणेडन्योन्याश्रयप्रसङ्ग इति व्याचष्टे महाकवीति। वाल्मीक्यादयः कालिदासादयश्च महाकवयः। संबन्धिनामिति। रामायणानां रघुवंशादीनां चेत्यर्थः। काव्यादीव्यादिशब्दार्थमाह आदीति। इतिहासानां महा- भारतादीनाम्। इतिहासलक्षणं तु "धर्मार्थकाममोक्षाणामुपदेशसमन्वितम् । पूर्ववृत्तकथायुक्तमिति· हासं प्रचक्षते ॥।" इत्युक्तम्। अवेक्षणपदार्थमाह विमर्शनादिति। मुद्ुर्मुहुस्तत्तत्पदार्थरसादिगो- चरानुसंधानादित्यर्थः । निपुणतापदार्थमाह व्युत्पत्तिरिति । तत्तदर्थरसादिगोचरो दृढतरसंस्कार १. "प्रज्ञा नवनवोम्मेषशालिनी प्रतिभाध्यते" इति रुद्रकोशोक्ता प्रतिभा॥२ तदुक्तम् "इन्द्रश्चन्द्रः काशकत्स्न्ना- पिशली शाकटायनः । पाणिम्यमरजैनेन्द्राः शब्दशासत्रप्रवर्तकाः ॥" इति। शब्दशास्त्रपरवर्तका इत्यत्र "जयम्त्य- (थै च ) शदिशाब्दिका:" इत्यपि पाठः ॥ ३ अक्षपादो गौतमः ॥ पतञ्ञलिर्व्याकरणमहामाण्यादिकर्ता ॥ ५ जैमिनिरुता द्वादशाध्यायीरूपा पूर्वमीमांसा व्यासकुता चतुरध्यायीरूपोत्तरमीमांसा चेति दूयम् ॥

Page 72

प्रथम उल्लास: । १३

तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः नतु व्यस्तास्तस काव्यस्योद्वे निर्माणे समुल्लासे च हेतुर्न तु हेतवः॥ एवमस्य कारणमुक्त्वा स्वरूपमाह। (सू० १) तद्दोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि।छF इत्यर्थ:। "सकलपदार्थपौर्वापर्यालोचनकौशलमित्यर्थः" इति केचित। काव्यज्ञेति व्याचष्टे काव्यं कर्तु- मिति। कर्तु निर्मातुं। विचारयितुं सदसद्वेति विवेचयितुम्। शिक्षापदार्थमाह उपदेशेनेति। करणे निष्पादने। योजने पदानामावापोद्वापे। "करणं निर्वाहणम् योजनं झटित्यास्वादोद्वोधकः प्रबन्धावय- वविन्यासः" इति केचित्। "करणे विशकलितरूपे योजने प्रबन्धादीनां गुम्फे " इति माणिक्यचन्द्रः। "करणे उक्तरूपतया निष्पादने योजने प्रबन्धरूपतया संघटने" इति जयन्तभट्टः। अभ्यासपदें व्याचष्टे पौनःपुन्येन प्रवृत्तिरिति। पूर्वपूर्वकृतिध्वंससहकृतोत्तरोत्तरा कृतिरित्यर्थः । इतीति। मूलस्थं व्याख्येयं पदमिदम्। इति पदार्थमाह त्रय। समुदिता इति। त्रयः शक्तिनिपुणताभ्यासाः। समु- दिता: मिलिताः । तदुद्गवे इति व्याकरोति तस्येति। निर्माणे रचनायाम्। समुल्लासे उत्कृष्टत्वे। व्याख्यातमिदं चक्रवर्त्यादिभिः। "समुदिताः दण्डचक्रादिन्यायेन परस्परसापेक्षाः।व्यस्ताः तृणारण- मणिन्यायेन प्रत्यकं कार्यजनकाः। कुत एतदित्याह हेतुरिति। हेतुरित्येकवचनोपादाननैतल्लम्यते इति भाव:। गौतमसूत्रे (द्वितीयेऽध्याये द्वितीये आहिके ६८ सूत्रे) 'जात्याकृतिव्यक्तयः पदार्थः' इत्यत्रैक- वचनेन त्रिष्वेव यथा पदशक्यत्वं न तु प्रत्येकमिति " इति। व्याख्यातमिदं प्रदीपोद्दयोतप्रभासु च। "इतिशब्दो मिलितापस्थापनाय। अन्यथा तद्वैयर्थ्यमेव स्यात्। तथा च काव्यस्योद्द्व उत्कृष्टोत्पत्तिः। तया कार्येण मिलितानामुपधानम्। दण्डचक्रादीनामिव घटेन। न तु मिलितत्वेन कारणतैवेति भ्रमः कार्यः" इति प्रदीप:। (मिलितोपेति। पूर्वोक्तसमुदायपरामर्शकत्वेनेति भावः। अन्योन्यापेक्षत्वेन मिलितत्वम्। उत्कृष्टोत्पत्तिः उपहासाकारणभूतकाव्यस्यात्पत्तिः। उपधानं कारणतवेन ज्ञानम्। मिलितस्य दण्ड- चक्रादीनामिव कारणत्वं न तु तृणारणिमणीनामिवेति ध्वनयितुमेव हेतुरित्येकवचनम् । कारणतैवेति। कारणतैव मिलितत्वेनेति। न भ्रमः मिलितत्वं कारणतावच्छेदकमिति न भ्रमः । कार्य इति। किंतु मिलितानां परस्परसहकृतानां फलोपधायकत्वमित्येवेति बाध्यम्) इत्युद्दयोतः। (मिलितेति। शक्त्या- दिसमुदितेत्यर्थः । वैयर्थ्थमुपलक्षणं हेतुरित्येकवचनानुपपत्तेः । तथा च समुदायाभिप्रायमेकवचनम् । हेतुत्वं च फलोपधायकत्वरूपं त्रिष्वेकरूपमित्यभिप्रायः इत्याह तथेत्यादि। उपधानं प्रयोजकत्वरूपः संबन्धः। दण्डेत्यादिदृष्टान्तेन तृणारण्यादिवद्वैकल्पिकहेतुत्वनिरासः। तेषामन्योन्यनिरपेक्षतया कार्योत्प- त्तिप्रयोजकत्वेन समुदायस्य तथात्वविरहादिति। कारणतैव स्वरूपयोग्यतैव। मानाभावाददण्डादिष्वपि तथात्वापत्तेश्रेति भाव: ) इति प्रभा ।। एवम् उक्तप्रकारेण। अस्य काव्यस्य। स्वरूपमिति। स्वं लक्ष्यपदार्थो रूप्यते लक्ष्यते (इतरव्था- वृत्ततया ज्ञायते) अनेनेति व्युत्पर्या स्वरूपं लक्षणमित्यर्थः। इतरभेदकमिति यावत् ॥ - तद्दोषाविति। शब्दार्थौ तत् इत्यन्वयः। अत्र तच्छब्देन काव्यपरामर्शः। काव्यस्यैव प्रकृतत्वात्। तेन शब्दार्थों काव्यमित्यर्थः । शब्दार्थयुगलं काव्यमित्युच्यते इति यावत। आस्वादव्यञ्जकत्वस्योभयत्रा- प्यविशेषात्। प्रागुक्त (१२ पृष्ठे) लक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च। 'काव्यं पठितं श्रुतं गीतं रचितं'

Page 73

१४ काव्यप्रकाश: सटीक: ।

'काव्यं बुद्धम्' इत्युभयविधव्यवहारदर्शनाच्चेति भाव इत्युद्द्योते स्पष्टम्। शब्दार्थावित्यत्रार्थाश्रयत्वाच्छ- ब्दस्य प्रागुक्तिः। अत एव "नामरूपे व्याकरवाणि" इति वैदिके प्रयोगे "वागर्थाविव संपृक्तौ" इति लौकिके प्रयोगेऽपि शब्दस्य प्राथम्यम् । यत्तु रसगङ्गाधरकारैः 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इति काव्यलक्षणं कृत्वा उक्तम् "यत्तु प्राञ्चः (काव्यप्रकाशकृदादयः) शब्दार्थौ काव्यमित्याहुस्तत्र विचार्यते। ० ० ० अपि च काव्यपद- प्रवृत्तिनिमित्तं शब्दार्थयोर्व्यासक्तं (व्यासज्यवृत्ति) प्रत्येकपर्याप्ं वा। नाद्यः। एको न द्वाविति व्यव- हारस्येव श्लोकवाक्यं न काव्यमितिव्यवहारस्यापत्तेः। न द्वितीयः । एकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तेः। तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता" इति तत्तु आग्रहमूलकमेव। अत एव तट्टीकायां मर्मप्रकाशाख्यायाम् 'उचिता' इति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः। "आस्वाद- काव्यलक्षणस्य प्रकाशादुक्तलक्ष्यतावच्छेदकस्योभयवृत्तित्वाच्च काव्यं पठितं श्रुतं काव्यं बुद्ध काव्य- मित्युभयविधव्यवहारदर्शनाच्च काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति। अत एव वेदत्वादेरुभयवृत्तित्वप्र- तिपादकः "तदधीते तद्वेद" (४।२।५९) इति सूत्रस्थो ( इति पाणिनिसूत्रस्थो) भगवान् पतञ्जलिः (पतञ्जलिकृतं महाभाष्यं) संगच्छते। लक्षणयान्यतरस्मिन्नपि तत्त्वात् 'एको न द्वौ' इतिवत् न तदा- पत्तिः। तेनानुपहसनीयकाव्यलक्षणं प्रकाशोक्तं (काव्यप्रकाशोक्तं) निर्बाधम्" इति। अत्र केचित् कविकर्म काव्यमिति सैमाख्यानुरोधाच्छब्दे एव काव्यत्वं न त्वर्थे। तस्य तत्कृत्यसाध्य- खात्। तस्मात् आस्वादजीवातुः पदसंदर्भ: काव्यलक्षणं वदन्ति। तन्न। तथाहि। आस्वादोद्वोधकत्वमेव काव्यत्वप्रयोजकरूपम्। तच्च शब्देऽर्ये चाविशिष्टम्। तत्रापि रसोद्वोधकत्वाङ्गीकृतेरिति अर्थेऽपि दृश्य- काव्ये इव काव्यत्वम्। कविकर्मत्वव्यवह्यारस्तु तत्प्रकाश्यत्वाद्भाक्त एव। शेब्दनित्यत्ववादिमते शब्दरूपेड पि काव्ये कविकर्मत्वव्यवहारस्य भाक्तत्वात्। एवमर्थेऽपि काव्यत्वे सिद्धे काव्यं पठति काव्यं रचयति काव्यं शृणोति इत्यादिव्यवहारस्तु काव्यपदस्य शब्दमात्रपरत्वादिति सारबोधिन्यामपि स्पष्टम्। सदोषेऽतिव्याप्तिवारणाय विशिनष्टि अदोषाविति। काव्यत्वविघटका ये च्युतसंस्कारादयः प्रबल- दोषास्तद्रहितावित्यर्थविवरणकाराः। नरसिंहठक्कुरास्तु "ननु दोषसामान्याभावस्य लक्षणप्रवेशे निःशेषे- त्यादावुत्तमत्त्वेनोदाहतेSविमृष्टविधेयांशेऽव्याप्तिः। न च तदकाव्यमेवेति वाच्य काव्यपदस्य निर्विषयता- याः प्रविरलविषयताया वा आपातात्। उदाहरणत्वविरोधाच्च।विशेषाभावघटितत्वेSसाधवप्यतिव्याप्ति: तत्रापि कस्यचिद्दोषाभावादिति चेन्न। दोषसामान्याभावस्यैव लक्षणे प्रवेशात्। प्रविरलविषयत्वं चेष्टमेव। पदमात्रस्यापि तथा संभवेन निर्विषयताया अभावात्। निःशेषत्यादावुत्तमत्वप्रयोजकोपाधेरेवो- १ व्यासज्यवृत्तित्वं नाम पर्याप्तयाख्यविलक्षणसंबन्धेन वृत्तित्वम् ॥ २ शब्देऽर्थे च ।। ३ महाभाष्यमिति। तथाहि तद्धीते तद्वेद। "किमर्थमिमावुभावष्यर्थौं निर्दिश्येते न योऽधीते वेत्यप्यसौ। यश्व वेदाधीतेडव्यसौ। नैतयोरा वश्यकः समावेशः। भवति हि कश्र्वित्संपाठं पठति न वेत्ति। तथा कश्विद्वेत्ति न संपाठं पठति"इति भाष्यम्। अत्र कैयटः। "न य इति। यो हि यं ग्रन्थमधीते स तं स्वरूपतोऽवश्यं वेत्ति। यश् स्वरूपतो वेत्ति सोऽवश्यमधीते इति भावः। नैतयोरिति। अर्थावोधो वेद्नमभिप्रेतं न तु स्वरूपमात्रवेदनम्। तत्र परस्परव्यभिचारदर्शनादुभयोषादानमि- त्यर्थः । संपाठमिति । अर्थनिरपेक्षं स्वाध्यायं पठतीत्यर्थः " इति ॥ समाख्या योगबलमिति पश्चमोल्ासे ध्यञ्ञनास्थापनप्रकरणे "श्रुतिलिङ्गवाक्य०" इति जैमिनिसूत्रव्याख्बानाघसरे स्फुटीभविष्यति ॥ ५ वैयाकरणमते॥

Page 74

प्रथम उल्लास:।गक १५

दाहतत्वान तद्विरोधः। 'निःशेषच्युतचन्दनं स्तनतटम्' इत्याद्यविमृष्टविधेयांशभागं परिहृत्य भागान्तरो- दाहरणे एव तात्पर्यमित्यपि केचित्"इत्याहुः। अर्वाचानाः साहित्यदर्पणकारादयस्तु "यथोक्तस्य काव्यलक्षणत्वे काव्यपदं निर्विषयं प्रविरलविषयं वा स्यात् दोषाणां दुर्वारत्वात्। तस्मात् 'वाक्यं रसात्मकं काव्यम्' इति काव्यलक्षणम्। तथा च दुष्टेऽपि रसान्वये काव्यत्वमस्त्येव । परं त्वपकर्षमात्रम्। तदु- क्तम् 'कीटानुविद्धरत्नादिसाधारण्येन काव्यता। दुष्टेष्वपि मता यत्र रसादयनुगम: स्फुटः ॥' इति। एवं चालंकारादिसत्त्वे उत्कर्षमात्रम्। नीरसे तु चित्रादौ काव्यव्यवहारो गौणः " इत्याहुः । तत्र'रसा- त्मकं काव्यम्'इति लक्षणं न युक्तम् । तस्य रसाभासाद्यात्मककाव्ये वस्त्वलंकारप्रधानेषु काव्येषु चाव्याप्तेः।न चेष्टापत्तिः। महाकविसंप्रदायभङ्गात्। लक्ष्यानुसारेण हि लक्षणव्यवस्था न तु वैपरीत्येन। वर्णितानि च महाकविभिर्जलप्रवाहवेगादीनि कपिबालादिचरितानि च। तेष्वपि रसाभावादुक्तलक्ष- णैस्याव्याप्तेः । न च तत्रापि यथाकर्थचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम्। ईदृशरसस्पर्शस्य 'गौश्वलति' 'मृगो धावति' इत्यादावतिप्रसक्तत्वेनाप्रयोजकत्वात् । यत्तु दोषरहितं कार्व्यं दुर्लभमिति 'न्यक्वारो ह्ययम्' इत्यादौ (१८३ उदाहरणे) 'तथाभूतां दृष्टा' इत्यादौ (२२० उदाहरणे) च काव्यत्वं सर्वानुभवसिद्ध नोपपद्यते इति। तत्रोच्यते। दोषत्वम् उद्देश्य- प्रतीतिप्रतिबन्धकत्वम् । तच्चानुभवबलात्तत्तद्यङ्गयवाच्यवैचित्र्यप्रतीतिविरहविशिष्टदोषस्य तद्धानस्य चेति 'न्यक्कारः' इत्यादौ विशिष्टाभावासंभवान्न काव्यत्वक्षतिः । यस्य च व्यङ्गयवैचित्र्यप्रतीतिस्तं प्रति दुष्टत्वाभिप्रायेण तदुदाहरणम्। अत एव "वक्त्राधौचित्यवशाद्दोषोऽपि गुणः क्वचित्" इति ८१ सूत्रं लक्ष्यते। तथा अप्रतीतत्वं तच्छास्त्रज्ञं प्रत्यदोषः । अन्यं प्रति तु दोष इति 'कीटानुविद्ध' इत्यस्यापि रसादिवैचित्रये दुष्टस्यापि काव्यत्वम्। विशिष्टदोषविरहादिति तात्पर्यमिति प्रदीपप्रभादिषु स्पष्टम् ।। निर्गुणेडतिव्याप्तिवारणाय विशिनष्टि सगुणाविति। माधुर्यौजःप्रसादाख्या ये गुणास्तत्सहितावि- त्यर्थः। गुणानां रसैकनिष्ठत्वेऽपि परंपरया तदभिव्यञ्ञकशब्दार्थनिष्ठत्वमिति भावः । अत एवाष्टमोल्लासे ९५ सूत्रं वक्ष्यति "गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता" इति। अत्रोक्तं प्रदीपप्रभोद्योतेषु "गुणस्य रसनिष्ठत्वेऽपि तद्यञ्जकपरं गुणपदम् " इति प्रदीपः। (गुणस्येति। जातावेकवचनमू। 'ये रसस्याद्गिनो धर्मा:' इति (८७ सूत्रेण) अष्टमे रसनिष्ठत्वं गुणानां वक्ष्ये) इति प्रभा। (तद्वयञ्जकेति। 'मूर्ति वर्गान्त्यगा:' इत्यादिना (९९ सूत्रेण) वक्ष्यमाणवर्णघटनादत्यर्थः। तेन नीरसेऽव्याप्तिरपि नेति बोध्यम्) इत्युद्दयोतः ।। निरलंकारेSतिव्याप्तिवारणाय विशिनष्टि अनलंकृती इत्यादि। "इदं न लक्षणघटकं किंतु सालंकारा- विति विशेषणं ग्राहयति। एतच्च 'अनलंकृती' इति नञोऽस्फुटतारूपेषदर्थताबललभ्यमिति " इति विवरणकाराः। अयं भावः । अनलंकृती इत्यत्न ईषदर्थे नञ। 'अलवणा यवागूः' 'अनुदरा कन्या' इत्यादिवत्। तदुक्तमभियुक्तैः। "तत्सादृश्यं तदन्यत्वं तदल्पत्वंविरोधिता। अप्राशस्त्यमभावश्च नञर्थाः १ अव्याप्तेरिति। मलोक्तलक्षणे तु नेषु रसाभावेऽपि स्वभावोक्त्यलंकारसत्त्वात्काव्यत्वमुपपद्यते इति भावः ॥२ तत्सादृश्यं यथा। अबराह्मणः ब्ाह्मणसदृश इत्यर्थः। न हि 'अबराह्मणमानय' इत्युक्तौ लोष्टादिरानीयते। यथा वा "मृगं न भीमम् " इति श्रुतिः। मृगमिव भीममित्यर्थः। तद्न्यत्वं यथा। अघटः पटः। घटादृन्य इत्यर्थः । तद्ल्पत्वं यथा। अनुदरा कन्या अल्पोदरीत्यर्थः। कशोदरीति यावत्। यथा वा अलवणा यवागः। अल्पलवणेत्यर्थः । विरोधित्वं यथा। असुराः सुरविरोधिनो दैत्या इत्यर्थः। यथा वा अधर्मः धर्मविरोधि पापमित्यर्थः । अप्राशस्त्यं यथा अकाला- ध्यायी अप्रशस्तकालाध्यायीत्यर्थः । निषिद्धकालाध्यायति यावत्। अभावो यथा। घटो नास्ति। अत्र नत्रोऽ़त्यन्ताभा-

Page 75

१६ काव्यप्रकाशः सटीक:।

षटू प्रकीर्तिता: ।" इति। ईषत्वं चात्र सदः सहृदयसंवेदनाविषयत्वरूपस्फुटत्वमेव अन्यस्य निर्वक्तु- मशक्यत्वात्। क्वापीत्यपिनानुक्तसमुच्चयार्थकेन स्फुटालंकृती इत्येव समुचीयते। तथा चास्फुटालं- कृतित्वरूपविशेषाम्यां सामान्यमाक्षिप्यते। तेन सालंकारौ शब्दार्थी तदित्येव पर्यवसितोऽर्थ इति नर- सिंहमनीषादौ स्पष्टम् ।। अन्रोक्तं प्रदीपोद्दयोतयोः। "नन्वनलंकारेSतिव्याप्तिः सालंकारत्वविशेषणानुपादानादिति न वाच्यम्। यतः 'क्वापि'इत्यनेनैतदुक्तम्। यत्सर्वत्र सालंकारौ शब्दार्थौ काव्यम्। क्वचित स्फुटालंकारविरहेऽपि न काव्यत्वहानिः। नञोडल्पार्थकत्वात्। अल्पत्वस्य चात्रास्फुटत्वे एव विश्रामात्। नीरसेडप्यस्फुटालंकारे काव्यत्वमिष्टमेवेति ऋजुः पन्थाः । वयं तु पश्यामः। नीरिसे स्फुटालंकारविरहिणि न काव्यत्वम्। यतो रसादिरलंकारश्च दवयं चमत्कारहेतुः। तथा च यत्र रसादीनामवस्थानं न तत्र स्फुटालंकारापेक्षा। अत एव ध्वनिकारेणोक्तम् 'स्वत एव रसानुगुणार्थविशेषनिबन्धनमलंकारविरहेऽपि च्छायातिशयं पुष्णाति। यथा 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके दैष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।' इत्यादौ । अत्र ह्यद्दुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति' इति। नीरसे तु यदि न स्फुटोऽलंकार: स्यात्। तत्किंकृतश्चमत्कारः स्यात्। चमत्कारसारं च काव्यमित्यवश्यं स्फुटालंका- रापेक्षा। 'अनलंकृती पुनः क्वापि' इत्यनेनाप्यस्फुटालंकारस्य क्वचिदेव काव्यत्वम्। यत्र रसादि: स्फुट: न तु सर्वत्रेत्येतदेव प्रतिपादते। तस्मात्सालंकारत्वमात्रं न विशेषणं किंतु स्फुटालंकाररसान्यतरत्वम्। न चैवमपि रसवत्यनलंकारे काव्यत्वप्रसङ्गो दोषाय। इष्टापत्तेः। यथोदाहृते 'मुनिर्जयति' इत्यादौ। यदि तु श्रद्धाजाड्येन तत्रापि न काव्यत्वक्षमा तदा सालंकारत्वे सतीत्यपि पूरणीयमिति " इति प्रदीपः ॥ (ऋजुः पन्था इति। एवं हि सालंकारावित्येव वदेदित्यरुचिः । अरुच्यन्तरमप्याह वयं त्विति। चमत्कारहेतुरिति। चमत्कारनिदानस्यैव काव्यत्वादिति भावः । स्वत एवेति। अलंकारनिरपेक्षमि- त्यर्थः। 'छायातिशयं पुष्णाति' इत्यनेनान्वेति। अलंकारविरहेऽपीत्यस्यैवार्थकथनम्। क्वचित्तु 'अत एव' बोऽर्थः॥ अत्रेदमवधेयम् । एतेऽर्था न शाब्दाः। किंतु प्रयोगोप,धयो भासनते। आरोपितत्वेनैव चैतेषामनुगमः। यथा 'अब्राह्मणः' इत्यादिनञ्समासे आरोपितत्वं नञ्रर्थः । आरोपितो ब्राह्मण इति बोधः। आरोपितबाह्मणत्ववानिति तदर्थ: एवम 'असर्वः' इत्यत्रापि आरोपितः सर्व इति बोधः। आरोपितसर्वत्ववानिति तदर्थः। अत एवास्य तत्पुरुषस्योत्तरप- दार्थप्राधान्यं निर्बाधम्। अभावार्थकत्वे तु 'घटो नास्ति' इत्यादौ तस्य विशेष्यतादर्शनात्पूर्वपदार्थप्राधान्यापत्तिः। आरोपितत्वम् आरोपविषयत्वम्। तत्रारोपमाञं नञ्रर्थो विषयत्वं संसर्गः। तदेतदुक्तं "सर्वादीनि सर्वनामानि" (१।१।२७) इति पाणिनिसूत्रे शब्दकौस्तुभे भट्टोजीदीक्षितैः । "नञ्तमासे उत्तरपदार्थप्राधान्यमेव। नञ्सूत्रे भाष्यकारेण तथैव सिद्धान्तितत्वात्। आरोपितत्वं नञर्थः । तथा च मायामनुण्यमायामृगव्याजनिशाकरकपटब्राह्मणादिशब्देभ्य इवारोपितो मिथ्याभूतोऽयं ब्राह्मण इत्येवं शाब्द्बोधपर्यवसाने बाह्मणभिन्न इत्यादिकमार्थिकार्थविवरणं न तु शाब्दो- डयमर्थः" इति। असमस्तनत्रोऽत्यन्ताभावोऽर्थः। तस्य क्रियायामेवान्वयः। 'न त्वं पचसि' इत्यादौ त्वदभिन्ना- श्रयकपाकानुकूलव्यापाराभाव इति बोधः । 'घटो नास्ति' इत्यादौ घटाभिन्नाश्रयकास्तित्वाभाव इति बोधः। क्वचित्तु 'असूर्यपश्या राजदारा:' इत्यादौ समस्तनत्रोऽ्यत्यन्ताभावोऽर्थः। नैयायिकास्तु सर्वत्रात्यन्ताभाव एव नञ्वाच्यः। 'भूतले घटो नास्ति' इत्यादौ भूतले घटप्रतियोगिकाभावो घटे भूतलनिरूपितसप्तम्यर्थवृत्तित्वाभावो ा भासते। घटाभावो भृतलवृत्तिरिति। भूतलवृत्तित्वाभाववान् घट इति वा बोधः। अभेदस्य प्रकारतामते 'नीली न घटः' इत्यादौ स्वरूपसंबन्धेन नीलाद्यभेदाभाववान् घट इति बोधः। संसर्गतामतेडमेद्संबन्धेन नीलाभाववान् घठः इति। 'अनीलं घटमानय' इत्यादौ घटपद्सामानाधिकरण्यानुराधेन नत्रो भेदवति लक्षणेति वदन्ति॥ १ आदिपदेन भावादीनामलक्ष्यक्रमाणां लक्ष्यकमाणां च संग्रहः ॥ २ कुम्भसंभवो मुनिः अगस्यः ॥३ एक स्मिन् चुलके प्रसृतिजले अर्धाञ्जलिजले इत्यर्थः ॥ दृष्टाविति। समुद्रपानसमये इति भावः ॥

Page 76

प्रथम उल्लास:। १७

दोषगुणालंकाराः वक्ष्यन्ते। क्वापीत्यनेनैतदाह यत् सर्वत्र सालंकारौ क्वचित्तु स्फुटा- लंकारविरहेऽपि न काव्यत्वहानिः। यथा यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-

पश स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः। सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ 13

रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥ १ ॥ इति पाठः। 'मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति' इत्यन्तो ध्वनिग्रन्थः। छाया चमत्कारः। रसान्य- तरत्वमिति। रसान्यतरशब्दः अर्शआद्यजन्तः। रसपदं च भावादीनामप्युपलक्षणम्। क्वचित्तु 'रसान्य- तरवत्त्वम्' इत्येव पाठः। यथोदाहते इति। न चात्र जयहेतोर्योगीन्द्रत्वादेरेकत्र चुलके मत्स्यकच्छप- दर्शनहे तोर्माहात्म्यादेरुपादानात्काव्यलिङ्गमस्तीति वाच्यम्। तस्याद्दुतरसविरोधित्वात् । एकचुलके म- तस्यकच्छपयोरविरोधाभासस्तु सन्नपि न स्फुट इत्याहुः। यदि त्विति। अत एव वृत्तौ 'क्वचित्स्फुटालंकार- विरहेऽपि न काव्यत्वहानिः' इत्यत्र स्फुटेत्युक्तम्। अलंकारत्वं च चमत्कारिबोधजनकत्वगर्भमेवेति 'अद्रा- वत्र प्रज्वलत्यग्निरुच्ैः प्राज्यः प्रोद्यनुल्लसत्येष धूमः ' इत्यादौ (३४५ उदाहरणे ) न काव्यत्वं सत्य- प्यनुमानेSलंकारपठिते इत्याहुः ) इत्युद्द्योतः ॥ इदमत्र निष्पन्नम्। १ सरसं स्फुटालंकारसहितम्। २ सरसं अस्फुटालंकारसहितम् ।३ सरसं अलंकारशून्यम्। ४ नीरसं स्फुटालंकारसहितम्। ५ नीरसं अस्फुटालंकारसहितम्। ६ नीरसं अलंकारशून्यम्। एते षड् भेदाः काव्यस्य। अत्र मम्मटमते प्रथमद्वितीयचतुर्थपञ्चमानां काव्यत्वम्। प्रदीपमते आदितश्चतुर्णा काव्यत्वम्। यदि त्वित्यादिमते प्रयमद्वितीयचतुर्थानामेव काव्यत्वमिति ॥ अदोषत्वादिज्ञानं दोषादिज्ञानाधीनमिति के ते दोषादय इत्यत आह दोषगुणालंकारा इति। वक्ष्यन्ते इति। सप्तमे उल्लासे दोषाः अष्टमे गुणाः नवमे दशमे च अलंकाराः निरूपायष्यन्ते इत्यर्थः । अनलंकृती पुनः कापीत्येतद्वयाकरोति क्वापीत्यनेनेत्यादिना ॥ स्फुटालंकारविशिष्टं काव्यमुदाहरति यः कौमारेति। स्वाधीनपतिकायाः असकृदुपभुक्तेष्वपि वरो- पकरणादिषु उत्कण्ठोत्पत्या तेषामत्यन्तोपादेयतां सूचयन्त्याः सखीं प्रत्युक्तिरियम्। शिलाभट्टारिकायाः पद्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। अत्र तच्छब्दा उपभुक्तत्वार्थकाः। हिशब्दो यद्यप्यर्थकः । अव्यया- नामनेकार्थकत्वात्। स च सर्वत्रान्वेति आस्तिक्रियाध्याहारश्च। यः कौमारहरः वरः यद्यपि स एवास्ति चैत्रक्षपा: यद्यपि ता एव सन्तीत्यादिक्रमेणान्वयः । कौमारं बाल्यम् असंभुक्तत्वावस्थां (परमरसिकतया तत्रापि संभोगेच्छोत्पादनेन) हतवान् चोरितवानिति कौमारहरः। त्रियते प्रियत्वेन स्वयमङ्गीक्रियते इति वरः । एतेनोभयानुरागो व्यज्यते। स एव उपभुक्त एव नानुपभुक्त इत्यर्थः । चैत्रक्षपाः चैत्ररात्रयः यद्यपि ता एव उपभुक्ता एव सन्ति। उन्मीलिता विकसिता या मालती वासन्तिकलता (न तुजातिः चैत्रे तस्या असंभवात्) तया सुरभयः शोभनगन्धाः प्रौढाः रत्युद्दीपनादिप्रागलम्यशालिनः कदम्बस्य धूलिकदम्बा- ख्यस्य पुष्पविशेषस्य संबन्धिन: अनिलाः वायवः। चोऽवधारणे। ते एवेत्यर्थः। यद्यपि सन्तीति संबन्धः। सा चैवास्मीति। चकारोऽप्यर्थकोऽस्मीत्यनन्तरं योज्यः । अस्मीत्यहमर्थकं विभक्तिप्रतिरूपकमव्ययम्। १ शिलानान्त्री भट्टारिका स्वामिनी तस्या इत्यर्थः । कश्मीरिदेशस्था शिलाख्या गौरीविकटनितम्चासूरीका- विज्जिकादिवत् काचन कवयित्री तस्या इति यावत् । काव्यप्रकाश ३

Page 77

१८ काव्यप्रकाशः सटीक: ।

अत्र स्फुटो न कशिदलंकारः।रसस्य च प्राधान्यान्नालंकारता तद्द्ेदान् क्रमेणाह 'अन्यत्र यूयं' इति (२० उदाहरणे) 'अस्मि करोमि' इतिवत्। अस्मीत्यस्य तिडन्तत्वे तु सैवेत्यस्य शाब्दो- द्देश्यलाभो न स्यात्। तथा चाहमपि सैव । उत्कण्ठाहेत्ववस्थान्तरं न प्राप्तैवेत्यर्थः । तथापि तत्तदुप- भुक्तसकलसामग्रीसत्त्वेडपि। तत्रेति उपभुक्ते इत्यर्थकं सुरतेत्यादिसप्तम्यन्तत्रयेऽप्यन्वेति। तेन सर्वेषामुपभु- क्तत्वलाभः । तेन सुरतलीलाविधिरपि नान्यादृशो येन क्रीडास्थानैक्येडपि उत्कण्ठा स्यादिति व्यज्यते। रेवायाः नर्मदायाः रोधसि तीरे वेतसी वेतसलता (विशालतया लतान्तराश्रयत्वेन च) सैव तरुः तद्वे- ष्टितो वान्यस्तरुस्तस्य तलमधःप्रदेशस्तस्मिन् सुरतहेतुर्यो व्यापारो गमनादिस्तत्संबन्धिनी लीला वेष- विन्यासादिस्तस्याः विधौ संपादने चेतः अन्तःकरणं समुत्कण्ठते उत्सुकं भवतीत्यर्थ इति चन्द्रिको- द्दयोतयोः स्पष्टम्। शार्दूलविक्रीडितं छन्दः । "सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्" इति लक्षणात्।। अत्र स्फुटो न कश्चिदिति।स्फुटत्वं च झटिति प्रतीयमानत्वम् । अत्र हि 'हरो वरः' इत्याद्यनु- प्रासस्य स्फुटस्यापि प्रकृतशृङ्गाररसप्रतिकूलवर्णघटितत्वेन नालंकारता । यद्यपि विभावनाविशेषोक्ती तावत् संभवतः (तथाहि। कारणाभावेऽपि कार्योत्पत्तिकथनं विभावना। अत्र च वरोपकरणादानिामनु- पभुक्तत्वस्य कारणस्याभावेऽपि उत्कण्ठारूपस्य कार्योत्पत्तिकथनाद्विभावना। एवं कारणसत्त्वेऽपि कार्या- भावकथनं विशषोक्तिः । अत्र चोपभुक्तत्वरूपकारणसत्त्वेऽपि अनुत्कण्ठारूपस्य तत्कार्यस्याभावकथना- द्विशेषोक्ति:) तथापि न ते स्फुटे कारणकार्ययोरभावकथनस्य आर्थिकस्य स्त्वेऽपि तद्वाचकनञादिनानु- पात्तत्वात। यदि चेतोऽनुत्कण्ठितं नेत्यभिधीयेत तदा विशेषोक्ते: स्फुटत्वं भवेदिति बोध्यम्। अनयो- रस्फुटत्वेन एतन्मूलकसंदेहसंकरोडप्यस्फुट इति निर्विवादम्। न चास्मीति क्रियाया विभाक्तिविपरिणा- मेन सर्वत्र वरादावन्वयेन क्रियादीपकमेव स्फुटमिति वाच्यम्। अस्मीत्यस्याहमर्थकाव्ययत्वात्। क्रिया- पदत्वेऽपि व दीपकतवम्। तदन्वयनां सर्वेषामेव प्राकरणिकत्वात्। दीपकस्य तु प्राकरणिकाप्राकरणि- कविषयत्वात्। विभक्तिविपरिणामकल्पनाया एवास्फुटात्मकत्वाच्च। एवकारस्याभेदपरत्वेनेतरनिषेधपर- त्वायोगाच्च न परिसंख्या। वरादीनां गुणक्रियायौगपद्याभावान्न समुच्चयः । वरादीनामुपमानोपमेय- भावाभावान्न तुल्ययोगिता। सदृशदर्शनाप्रयोज्यत्वाच्। 'स एव हि' इत्यादेः प्रत्यभिज्ञाशररित्वाच्च न स्मरणालंकारः। यतः सुरभयोऽतः प्रौढाः स्वकार्यसमर्था इति काव्यालङ्गमप्यस्फुटम्। अशब्दत्वा- दिति प्रदीपोद्दयोतादिषु स्पष्टम्। ननु विप्रलम्भशृङ्गाररसस्य स्फुटत्वाद्रसवदलंकार: स्फुट इति रस- वद्लंकारोऽस्तु इत्यत आह रसस्येति। रसस्यात्र प्राधान्यान्नालंकारत्वम्। अप्राधान्ये (इतररसोपपाद- कत्वे अन्योत्कर्षकत्वे) एव तस्यालंकारत्वोपगमादिति भावः । यथा पञ्चमोल्लासे 'अयं स रशनोत्कर्षी' इत्यादौ (११६ उदाहरणे)। वस्त्वलंकाररसरूपस्य त्रिविधस्यापि व्यङ्गयस्य वाच्योपकारकतयालंकारत्व- मेवेति भामहभद्ोद्टप्रभृतिचिरंतनालंकारिकमतेनेयं शङ्का समाधानं चेति बोध्यम्। स्वमते तु रसवदा- दीनामलंकारत्वमेव नेत्यग्रे १२३ उदाहरणानन्तरं "एते च रसवदाद्यलंकाराः" इत्यादिवृत्तौ स्फुटी- भविष्यति ।। तद्द्ेदानिति। सामान्ये ज्ञाते विशेषजिज्ञासोदयादिति भावः। अत्र तत्पद काव्यपरामर्शकम्। भेद- पदं भावकरणव्युत्पत्तिम्यां विभागविशेषलक्षणपरम्। तथाहि। भेदनं भेदो विभागः । भिद्यतेऽनेनेति भेदो विशेषलक्षणम्। तथा चोत्तमत्वादिना तत्समनियतध्वनित्वादिना च विभागः। शेषं विशेषलक्षण-

Page 78

प्रथम उल्लास:। १९

(सू० २) इदमुत्तममतिशयिनि व्यङ्गन्चे वाच्याद्ध्वनिर्वुधैः कथितः ॥४॥ इदमिति काव्यम्। बुधैवैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्गयव्य- ञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा मिति मन्तव्यमिति प्रभोद्दयोतादिषु स्पष्टम्। क्रमेणाहेति। "इदमुत्तमम् " इत्यादिना "अतादृशि" इत्यादिना "शब्दचित्रम्" इत्यादिना चेति भावः । शिष्याणां प्रथमतः उत्तमकाव्य एव जिज्ञासेत्यतस्तल्लक्षणमेव प्रथमं प्राह इदमुत्तममिति। इर्द काव्यं वाच्यात् अभिधावृत्तिप्रतिपाद्यादर्थात् व्यङ्गये व्यञ्जनावृत्तिप्रतिपाद्येऽर्थे अतिशयिनि अधिकचमत्कारजनके सति उत्तमम् । तदेव बुधैः ध्वनिपण्डितैः ध्वनिः कथितः ध्वनिरित्युच्यते । अत्रोद्दयोतकाराः "ननु निःशेषेत्यादौ वक्ष्यमाणे दूतीसंभोगरूपव्यङ्गयस्य पार्यन्तिकविप्रलम्भरूपव्य- ङ्गयापेक्षया गुणीभावादाह वाच्यादिति। शक्तिलक्षणाभ्यां बोधविषयादित्यर्थः । वाच्यार्थरसयोरान्तरा- लिकव्यङ्गयोत्कर्षानुत्कर्षाभ्यां ध्वनिगुणीभूतव्यङ्गयत्वव्यवस्थेति भाव: " इति प्राहुः । नन्विदमित्यस्य प्रक्रंस्यमानध्वनिपरत्वे ध्वित्वविध्यनुपपत्तिः नपुंसकत्वानुपपत्तिश्चेत्यत आह इद- मितीति। ध्वनिव्यवहारस्य समूलतामाह बुधैरिति। इदं वैयाकरणैरित्यनेनानयैरित्यनेन चान्वितम्। अन्यैरपीत्यत्रापिशब्दबलादिति चक्रवर्तिकृतविस्तारिकादौ स्पष्टम्। नरसिंहठक्कुरादयस्तु "बुधैरिति अग्रे- तनेनान्यैरित्यनेनान्वितम् न त्वासन्नेन वैयाकरणैरित्यनेन । इतरभेदद्वयानन्वयापत्तेः। वैयाकरणैरित्यादि तु ध्वनित्व संज्ञायोमसांदृष्टिकत्वशङ्कामात्रनिराकरणाय" इत्याहः। वैयाकरणैरिति। महाभाष्यादिकृद्धि: पतञ्जलिप्रभृतिभिरित्यर्थः। प्रधानेति। प्रधानभूतो यः स्फोटस्तद्रूपं यत् व्यङ्गर्य तद्वयञ्जकस्येत्यर्थः । पटादिभिर्वर्णसमुदायरूपैः क्षणिकैः पदैः स्फोटरूपो नित्यःशब्दो व्यज्यते। तेन चाभिव्यक्तेनार्थः प्रती- यत इति तादशस्य प्रधानीभूतस्फोटव्यञ्जकस्य वर्णसमुदायस्वरूपस्य पटादिशब्दस्य ध्वनिरिति संज्ञति वैयाकरणनिर्यास इति विवरणम्। प्रधानेति। अर्थप्रत्ययरूपफलोत्पादकत्वात्प्राधान्यम्। स्फुटयति प्रकाशयत्यर्थमिति स्फोटः । अयमर्थः । शब्दात्कथं पदार्थवाक्यार्थधीः आशुविनाशिनां क्रमिकाणां र्णानां मेलकाभावादानुपूर्व्याः ज्ञातुमशक्यत्वात् । तस्मात् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितान्तिम- वर्णानुभवेन स्फोटो व्यज्यते। स च ध्वन्यात्मकः (व्यङ्गयात्मकः) शब्दो नित्यो ब्रह्मस्वरूपः सकलप्रत्येय- प्रत्यायनक्षमोऽङ्गीक्रियते तद्वयञ्जकश्च वर्णात्मकः शब्दः । वृत्तिस्तु व्यञ्जनैव संकेताद्यभावात्। तद्वयञ्ञ- कश्च शब्दो ध्वनित्वेन व्यवह्ियत इति वैयाकरणानां मतमिति सारबोधिनी । ध्वनिरिति। ध्वनति स्फोट व्यनक्तीति ध्वनिः। व्यवहारः कृत इति। "अथ शब्दानुशासनम् ० ० अथ गौरित्यत्र क: शब्दः। कि यत्तत्सास्त्रालाङ्गूलककुद खुरविषाण्यर्थरूपं स शब्दः। नेत्याह। द्रव्य नाम तत् ०० कस्तहि शब्दः। येनोचारितेन सास्ालाङ्गूलककुदखुरविषाणिनां संप्रत्ययो भवति स शब्दः। अथवा प्रतीतपदा- र्थको लोके ध्वनिः शब्द इत्युच्यते। तदथा। शब्दं कुरु मा शब्दं कार्षीः शब्दकार्ययं माणवक इति १ इतरमेद्दूयेति। इतरत् अन्यत् यत् भेद्दूयं गुणीभृतव्यङ्गयमिति चित्रमिति च वक्ष्यमाणं काव्यभेदद्रूयं तत्र 'बुधैः कथितः (तं)' इत्यस्यान्वयापत्तेरित्यर्थः ॥ १ ॥ असांदृष्टिकत्वेत्यादि । इयं सम्यक् न दृष्टेत्येवमाकारिका या शङ्का तम्मात्रनिराकरणायेत्यर्थः। "सांदृष्टिकं फलं सदः" इति त्वमरः ॥

Page 79

२० काव्यप्रकाशः सटीकः । निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गताससि न पुनस्तस्याधमस्यान्तिकम् ॥ २ ।। अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते।। ध्वनिं कुर्वन्नेवमुच्यते। तस्मात् ध्वनिः शब्दः" इति (१ अ० १ पा० १ आहि०) महाभाष्यादि- ग्रन्थे इति शेषः । ततः यतस्तैर्व्यवहारः कृतस्तस्मात् । तन्मतेति। वैयाकरणमतेत्यर्थः । अन्यैरपि। आनन्दवर्धनाचार्यप्रभुतिभिरलंकारिकैरपि। 'ध्वन्यालोकप्रभतिषु ग्रन्थेषु' इति शेषः। न्यग्भावितेति। न्यग्भावितं उपसर्जनीकृतं अप्रधानीकृतम् वाच्यं मुख्योऽर्थो येन तादृशस्य व्यङ्गयस्य व्यञ्जने ध्वनने क्षमस्य समर्थस्येत्यर्थः । शब्दार्थयुगलस्येति। तद्रूपस्योत्तमकाव्यस्येत्यर्थः । 'ध्वनिरिति व्यवहारः कृतः' इत्यनुषङ्ग:।। उत्तमकाव्यं (ध्वनिकाव्यं) उदाहरति निःशेषेति। नायकानयनाय प्रेषितां तं संभुज्य समागतां दूतीं प्रति स्नानकार्यप्रकाशनमुखेन संभोगं प्रकाशयन्त्याः विदग्धोत्तमनायिकाया उक्तिरियम् । अयि मिथ्यावादिनि (तदन्तिकमगत्वैव 'मया गत्वा बहुधा प्रसादितोऽपि नागतः' इति) मिथ्याभाषणशीले। बान्धवजनस्य मद्रूपस्य सुहृज्जनस्य। बध्नाति स्नेहेनेति बन्धुः। बन्धुरेव बान्धवः प्रज्ञादित्वात्स्वार्थेडण्प्र- व्ययः। "बान्धवो बन्धुमित्रयोः" इति हैमः । अज्ञातः (स्वार्थपरायणतया) अनाकलितः पीडायाः दुःखस्य आगमः आगमनं (प्राप्तिः) यथा तथाविधे अज्ञातबान्धवजनपीडागमे इत्यर्थः। हे दूति संदेशहरे न तु साख मत्प्रतारणादिकर्तृत्वात्। दूतीत्यनेन मिथ्याभाषणशीलत्वयोग्यता व्यज्यते। त्वम् इतः मत्स- काशात् वापीं दीर्घिकां स्नानार्थ (जलावगाहनं कर्तुं) गतासि। तस्य बहुधा कृतापराधस्य अत एव अधमस्य दुःखप्रयोजककर्मशास्य नायकस्य अन्तिक समीपम्। न पुनरिति नैवार्थे। गतासीत्यनुषज्यते। नैव गतासीत्यर्थः । वापीस्नानोपपादकान्याह निःशेषेत्यादि । तवेत्यस्य स्तनतटादिभिः सर्वैरन्वयः । यतस्तव स्तनयोः कुचयोः तटं प्रान्तसमदेशः निःशेषं यथा स्यात्तथा च्युत स्खलितं चन्दनं यस्मात्तथा- भूतम्। न तु उरःस्थलं नापि संध्यादिरूपनिम्नोन्नतभागोऽपि। वापीगतबहलयुवजनत्रपापारवश्याद- सद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुहुर्मुहुः परामर्शात् । अत एव च्युतमि- स्युक्तम्। न तु च्यावितं क्षालितं वेति। युवजनसंमर्देन तत्राप्यनवकाशात्। व्यङ्गयपक्षे तु तटे एव मर्दनाधिक्यात् संध्यादौ नायककरपरामर्शायोगाच्च तटमेव तथाभूतमिति स्पष्टमेव। एवम् अधरः अध- रोष्ठः निःशेषं यथा स्यात्तथा मृष्टो (न तु ईषन्मृष्ट) रागः ताम्बूलरक्तिमा यस्य तथाभूतः। उत्तानत्वेन बहलजलसंबन्धात्। न तूत्तरोष्ठः :युब्जतया तदसंबन्धात्। व्यङ्गयपक्षे तु अधरोष्ठे एव कामशास्त्रे चुम्बनविधे: उत्तरोष्ठे चुम्बननषेधाच्च तत्रैव तत्कृतं तथात्वम्। किंच। नेत्रे चक्षुषी दूर प्रान्तभागे एव अनञ्जने कब्जलरहिते। स्नानकाले नयनयोर्मुद्रणान्मध्ये जलसंबन्धाभावात्। व्यङ्गयपक्षे तु प्रान्ते एव कामशास्त्रे चुम्बनविधेर्मध्ये तन्निषेधाच्च तत्रैवानञ्जनत्वम्। तथा इयं दृश्यमाना तव तनुः शरीरं तन्वी कृशा स्नानजन्यशीतवशात्। अत एव पुलकिता । पुलका रोमोद्गमाः संजाता अस्यास्तथाभूता । व्यङ्गयपक्षे तु कार्श्य सुरतश्रमात्। पुलकश्च तत्रानुभूताद्भतरसस्मरणात् । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे)।। अत्राधमपदस्य प्राधान्येन व्यञ्जकत्वमित्याह अत्रेत्यादि। प्राधान्येनेति। विशिष्टमित्यव्याहारः

Page 80

प्रथम उल्लास:। २१

(सू० ३) अताद्ृशि गुणीभूतव्ङ्गयं व्यङ्गन्चे तु मध्यमम्। (४ ०ह) VR I अतादृशि वाच्यादनतिशायिनि। यथा ग्रामततरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम्। पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ ३ ॥ अत्र वञ्जुललतागृहे दत्तसंकेता नागतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्य- स्यैव चमत्कारित्वात्।।

प्राधान्यं चेतरनायिकासंभोगस्य विप्रलम्भोद्दीपकत्वेन वाच्यापेक्षयातिशयितत्वात्। अधमपदेनेति। अय भावः। विदग्धाया गूढतात्पर्ययानया वाचोयुक्त्या स्नानसाधारण्येनैतेष्वर्थेष्तवगतेषु वक्तृबोद्धव्यादि- वैशिष्टयबलात् दुःखप्रयोजककर्मशीलत्वरूपाधमपदार्थघटककर्मपदार्थो वाच्यतादशायां कर्मान्तरसाधा- रण्येनावस्थितोSपि व्यञ्जनया दूतीसंभोगरूपतादृशकर्माकारेण पर्यवस्यतीति। इदमेवाधमपदस्य अध- मपदेनेत्युक्तिध्वनितं प्राधान्यम्। झटिति इतरानपेक्षतया व्यङ्गयबोधकत्वाच्च। चन्दनच्यवनादीनां तु स्नानकार्यतया निबद्धानां योग्यतया संभोगाङ्गभूताक्लेषचुम्बनादिकार्यत्वस्यापि प्रतिसंधाने सति तद्वय- उजनद्वारा तत्साहित्येनैव संभोगगमकत्वमिति विशेषः। एतेन नीचकर्मकारित्वस्याधमपदवाच्यस्य साधकं व्यङ्गयमित्यपास्तम्। प्रेषणसापेक्षतवेन विस्मृतप्रेमतयापि तत्संभवादित्युद्दयोते स्पष्टम् ।। मध्यमकाव्यस्य लक्षणमाह अतादृशीति। तुर्भिन्नक्रमः। तेन व्यङ्गये व्यङ्गयार्थे अतादृशि वाच्यादन- तिशायिनि (वाच्यापेक्षयातिशयितचमत्कारानाधयके) तु मध्यमं काव्यम्। तदेव गुणीभूतव्यङ्गयमिति 'बुधैः कथितम्' इति लिङ्गव्यत्ययेनानुषज्यते॥ व्यङ्गयस्य वाच्यादनतिशयश्च न्यूनतवेन तुल्यत्वेन चेति द्विविधः। तत्राद्यमुदाहरति ग्रामेति। रुद्र- टालंकारे उदाहृतं पद्यमिदम् । स्वयमेव संकेत कृत्वा गृहकार्यव्यासङ्गवशेन संकेतस्थानमनागतायाः संकेतस्थानगमनं ज्ञापयितुं तत्रत्यवञ्जुलमञ्जरीमादायोपगतमुपनायकं दृष्ट्रा विषण्णायाः कस्याश्चिदु- पनायिकाया विप्रलम्भाभासवर्णनमिदम्। ग्रामतरुणं मुहुः पश्यन्त्याः तरुण्याः मुखच्छाया नितरां मलिना भवतीत्यन्वयः। ग्रामे एकस्तरुणस्तम् । तेन ग्ररामस्थसकलयुवतिजनप्रार्थ्यमानतया दुर्लभत्वं व्यज्यते। मुहुः वारंवारम् जनताभयेन दर्शने सातत्यविरहात्। तरुणं तरुण्या इति द्वयोस्तरुणत्वेन परस्परानुरागोतकर्षो व्यज्यते। मुखच्छाया मुखकान्तिः। नितराम् अतिशयेन। पश्यन्त्याः भवतीति वर्त- माननिर्देशाम्यां दर्शनमलिनीभावयोरविरामः सूच्यते। जनकीभूतदर्शनसमकालतया कार्यस्य मुख- च्छायामालिन्यस्य कथनात् कारणकार्ययोः पौर्वापर्यविपर्ययलक्षणोडतिशयोक्तिरलंकारः। केचित्तु मुहुरि- स्यस्य मलिना भवतीत्यनेनान्वयः । तेन यदा यदा तदनुसंधानं तदा तदानुतापोत्कर्षान्मुखमालिन्य प्रकर्ष इति स्वरस इत्याहुः। नवेत्यादि मलिनीभावोपपादकं तरुणविशेषणम्। नवा नूतना वञ्जुल- स्याशोकस्य मञ्जरी तया सनाथो युक्तः करो यस्य तथाभूतम्। नवेत्यनेन नूतनवस्तुनः करग्रहण- स्यौचित्येनावितर्कणीयता सूच्यते। सनाथेत्यनेनातिशोभाशालितया नायिकया दर्शनेऽपि अवितर्कणी- यता। "बकुलो वञ्जुलोऽशोके" इत्यमरः। "वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि" इति कोशा- न्तरं च। आर्या छन्दः लक्षणमुक्तं प्राक् (४ पृष्ठे)। अत्र गुणीभूतं व्यङ्गयं दर्शयति अत्रेति। दत्तसंकेतेति। स्वयमेव संकेत कृत्वा विफलीकृत इत्य- १ वाचोयुक्त्येति। अलुक्समासोडयम्। "वाग्दिक्पश्यद्गयो युक्तिदण्डहरेषु" इति काल्यायनरतवार्तिकात्॥

Page 81

२२ काव्यप्रकाश: सटीक: । (सू० ४ ) शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम् ॥। ५॥ चित्रमिति गुणालंकारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम्। अवरम् अधमम्। यथा स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा- मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्वाय व: । नुतापातिशयो मालिन्यकारणम्। गुणीभूतत्वे हेतुमाह तदपेक्षयेति। उक्तव्यङ्गयापेक्षयेत्यर्थः । वाच्य- स्य मुखच्छायामालिन्यातिशयस्य। चमत्कारः आस्वादः । अत्र व्यङ्गयेन संकेतभङ्गेन वाच्यमुखमा- लिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभासपोषणम्। न केवलेन संकेतभङ्गस्याकर्तव्यत्वबुद्धयापि संभवादिति तदनतिशयित्वं व्यङ्गयस्येति भावः। निःशेषेत्यत्र तु बोध्यदूतीवैशिष्टयेनाधमपदेन च व्यक्तसंभोगेनैव निर्वेदद्वारा विप्रलम्भपोषकत्वमिति बोध्यम्। पर्यन्तव्यङ्गयविप्रलम्भाभासेन तु अस्यापि ध्वनित्वमेवेत्युद्दयोते स्पष्टम् ।। द्वितीयं (व्यङ्गयस्य वाच्यादनतिशयश्च तुल्यत्वेनेत्युक्तं) यथा 'ब्राह्मणातिक्रमत्याग:००' इति पञ्चमोल्लासे वक्ष्यमाणं १३० उदाहरणम्। अत्र 'परशुरामः क्षत्रियाणामिव रक्षसां क्षयं क्षणेन करि- व्यति' इति व्यङ्गयं वाच्यतुल्यचमत्कारम्। विग्रहवत्संधेरपि विवक्षितत्वेन 'दुर्मनायते' इति गभारो- क्व्या वाच्यस्यापि चमत्कारित्वादिति तत्रैवोदाहरणे द्रष्टव्यम् ।। अधमकाव्यस्य लक्षणमाह शब्दचित्रमिति। अत्र चित्रमित्यध्याहार्यम्। अन्यथा पूर्वयोरिवास्य संज्ञान्तराकरणाच्यूनता स्यादित्युद्द्योते स्पष्टम्। तथा चाव्यङ्गयं काव्यं अवरम् अधमं स्मृतम्। तदेव बुधैश्चित्रमिति कथितम् । तच्च चित्रं द्विविधम्। शब्दचित्रं वाच्यचित्रं चेत्यर्थ: ॥ चित्रपदार्थमाह गुणालंकारेति। यत्र तयोरेव प्राधान्येन चमत्कारकारित्वमित्यर्थ इति सारबो- धिन्यां स्पष्टम्। अत्र गुणपदं तद्यञ्जकपरम्। अन्यथा तस्य रसधर्मतया तन्निबन्धनचमकारित्वे चित्रत्वा- नुपपत्तेः । यथाकर्थंचित्सर्वत्र व्यङ्गयस्य सत्वेनासंभवमाशङ्कयाह स्फुटप्रतीयमानार्थरहितमिति। प्रतीयमानो व्यङ्गयः । प्रदीपोद्दयोतयोस्तु इत्थं व्याख्यातम्। "अव्यङ्गयम्। अस्फुटतरातिरिक्तव्यङ्गय- रहितम्। तादशं चास्फुटतरव्यङ्गयसद्धावे व्यङ्गयमात्राभावे वा' इति प्रदीपः। (ननु व्यङ्गयरहितं काव्यमप्रसिद्धम्। पार्यन्तिकरसादिव्यङ्गयशून्यस्य प्रहेलिकोत्वादत आह अस्फुटतरेति। ईषत्वस्य नवर्थत्वात् अव्यङ्गयम् अस्फुटतरव्यङ्गयमित्यर्थ इत्येके ) इत्युद्दयोतः ॥ शब्दचित्रमुदाहरति स्वच्छन्देति। मन्दाकिनी गङ्गा वः युष्माकं मन्दताम् अज्ञानं पापं वा अह्ाय झटिति भिद्यात् अपनयतात्। भिन्द्यादिति पाठे अपनयत्वित्यर्थः। कीदशी मन्दाकिनीत्याशङ्कय तीर्था- न्तराव्यतिरेकं दर्शयितुं विशिनष्टि स्वच्छन्देति। स्वच्छन्दं स्ववशं न तु वात्यादिपरतन्त्रं यथा स्यात्तथा उच्छलत् उद्गच्छत् ( इदमम्बुविशेषणम्। उत्पूर्वात् 'शल गतौ' इति धातोः शतृप्रत्ययः तेनाम्बुबाहु- १ संधिः संधानम्। मैत्रीत्वर्थः ॥ २ दुर्विज्ञानार्थकप्रश्नकं वाक्यं प्रहेलिका। तदुकं विदग्धमुखमण्डने। "व्यक्तीरूत्य कमप्यर्थ स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तरावर्थो कथ्येते सा प्रहेलिका ।। " इति। यथा 'तरु· ण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां संनिधानेऽपि कः कूजति मुहुर्मुहुः॥' इति। अन्रोत्तरम्। ईषदूनजलपूर्णकुम्भ इति केचित्। वीणाख्यः पदार्थं इत्यन्ये॥ ३ "तत्सादृश्यं तद्न्यत्वं तदल्पत्वं०" इति प्राक्र (१५ पृष्ठे) उक्तवचनादिति भाव:।।

Page 82

प्रथम उल्लास:। २३

भिद्यादुदयदुदारदर्दुरदरी दीर्घादरिद्रद्रुम- द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्॥४॥ विनिर्गतं मानदमात्ममन्दिराद्द्वत्युपश्चत्य यदच्छयापि यम्। iससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥ ५।। इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः॥ १।। ल्याद्राम्भीर्यलाभ:) अच्छं निर्मलं कच्छस्य जलप्रायदेशस्य तटप्रदेशस्य कुहरे तरङ्गकृतबिले छातं दुर्बलं तदितरत् (वेगातिशयेन) बलवत् यत् अम्बु जलं तस्य छटा परंपरा तया मूर्छन् विनश्यन् मोहोऽज्ञानं येषां तैर्महर्षिमिर्हर्षेण विहिते कृते स्नानं चाहिकं च स्नानाहनिके यस्यां तादृशी। स्नानस्य आहिकत्वेन लाभेऽपि प्राधान्यात्पृथगुपन्यासः। एवं महर्षिसेव्यत्वन तीर्थान्तराद्वयतिरेक प्रदर्श्य नद्यन्तराद्वयतिरेकं स्वाभाविक दर्शयितुं पुनर्विशिनष्टि उद्यदित्यादि। उदन्तः प्रकाशमाना: उदाराः महान्तो दर्दुराः मेका यासु एवंविधा दर्य: कन्दरा यस्यां तथाभूता। तथा दीर्घाः आयताः अदरिद्राः शाखादिबाहुल्येनाकृशाः ये द्रुमास्तेषां (मदन्योऽपि दीर्घ इति द्वेषात्) द्रोहः पातनं तेन उद्रेकः ऊर्ध्वप्रसरणं येषाम् एवंविधाः ये महोर्मयः महातरङ्गास्तैः मेदिरो निबिडः पुष्टो वा मदो गर्वः (प्रवाहचापल्यं) यस्यास्तथाभूतेत्यर्थः। "जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः" इति "अमांसो दुर्बलशछातः" इति "सान्द्रः स्त्निग्धस्तु मेदुरः " इति चामरः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८) पृष्ठे॥ अत्र छकारस्य महर्षिहर्षेत्यस्य आहिकाह्वायेत्यस्य दकारस्य मन्दमन्देत्यस्य चानुप्रासः शब्दालं- कारः। यदपि मन्दाकिनीविषयो रत्याख्यो भावस्तीर्थान्तरादाधिक्यवर्णनाद्वयतिरेकालंकारश्व व्यङ्गयोडस्ति तथापि अनुप्रासे कवेस्तात्पर्यात्स तिरोधयिते इत्यव्यङ्गयमिदं काव्यम्। केचित्तु दर्दुरदरीत्याद्यपुष्टार्थ- विशेषणवशेन दीर्घसमासेन च सोऽस्फुटीकृत इत्यव्यङ्गयमित्याहुः ॥ अत्रोक्तं प्रदीपोद्द्योतयोः। "वृत्यनुप्रासोऽत्र शब्दालंकारः। ननु कथमेतदव्यङ्गयमुच्यते। मम्दाकिनी- विषयायाः प्रीतेरभिव्यक्तेः। किंच। नास्त्येव स काव्यार्थो यस्य न व्यञ्जकत्वम्। अन्ततो विभावत्वेनापीति चेत् सत्यम्। किंतु तदव्यङ्गयमस्फुटतरम्। यद्वा तत्र न कवेस्तात्पर्यम्। अनुप्रासमात्र एव तस्य सरभ्भात् (उदमात्)। तात्पर्यविषयीभूतव्यङ्गयविरहत्वमेव ह्यव्यङ्गयपदेन विवक्षितम्। यदुक्तं ध्वैनिकृता 'रसभो वादिविषयविवक्षाविरहे सति। अलंकारनिबन्धो यः स चित्रविषयो मतः ॥' इति। अत्र पक्षे मध्यमका- व्यलक्षणे व्यङ्गयपदं विवक्षितव्यङ्गयपरम्" इति प्रदीपः । (प्रीतेरभिव्यक्ेरिति। अत्र मन्दाकिनी आलम्बनम्। तद्गुणा उद्दीपनम्।स्तवोऽनुभावः। स्मृत्यौत्सुक्यादयः संचारिणः। इदमुपलक्षणम्। मह- र्षिसेवादिना तीर्थान्तराद्यतिरेको व्यङ्गयो बाध्यः । विभावत्वेनापीति। उद्दीपनविभावत्वेनापत्यिर्थः । अस्फुटतरमिति। उद्धटालंकारकृतोत्कर्षेण चित्तापकर्षात्तत्प्रतीतिव्यवहितप्रतीतिकत्वादिति भावः । तटभङ्गादिगम्यगङ्गानिष्ठौजःप्रकाशतया श्रुतिकटपुष्टार्थपदघटित विकटवर्णदीर्धसमासादर्गुणत्वेन तदनु- प्रासस्यापि विभावानुगुणत्वं बोध्यम्) इत्युद्द्योतः ।। अर्थचित्रमुदाहरति विनिर्गतममिति। 'हयग्रीवनामा दैत्यो विष्णुना हतः' इति पुराणकथाश्रिते १ ध्वनिरुतेति। आनन्दवर्धनेनेत्यर्थः ॥ २ रसभावादिति। ध्वन्यालोके तृतीयोद्दयोते पद्यमिदं दृश्यते ॥ ३ अलंकाराणां शब्दार्थोभयरूपाणां निबन्ध इत्यर्थः ॥

Page 83

२४ काव्यप्रकाश: सटीकः ।

काश्मीरिकमेण्ठकविप्रणीते हयग्रीववधाख्ये नाटके हयग्रीववर्णनप्रस्तावे पद्यमिदमिति चन्द्रिकादौ स्पष्टम् । यं प्रकृतं हयग्रीवं (शत्रूणां) मानं द्यति खण्डयति (मित्राणां) मानं ददातीति मानदस्तथा- भूतम् आत्मनो मन्दिरात् गृहात् न तु नगरात् यदृच्छया स्वेच्छयापि न तु युयुत्सया यद्वा अमरा- वतीजयाविषयिण्यापि यया कयाचिदिच्छया विनिर्गतं निःसृतं न तु प्रस्थितं नाव्यमरावत्यां प्रविष्टम् उपश्रुत्य कर्णोपकर्णिकया श्रत्वा न तु दूतमुखेन ससंभ्रमेण सभयेन त्वरायुक्तेन वा इन्द्रेण अव्याहतै- श्वर्येणापि स्वयमेव दौवारिकाह्वाने विलम्बासहत्वात् द्रुतं शीघ्रं पातिता यथाकथंचिनिनिक्षिप्ता न तु विस्रब्धं निहिता अर्गला न तु कपाटफलकद्वयमेव यस्याः सा तथाविधा अमरावती इन्द्रनगरी भिया भयेन निमालिते संकुचिते अक्षिणी यया सा तथाभूनेव भवतीत्यर्थः। द्वारस्य नेत्रस्थानापन्नत्वादिति भावः। संप्राप्ते भये नेत्रनिमालनमिति स्त्रीणां स्वभावः। अर्गला च निर्गमद्वारि तिर्यगाहितो निर्गम- रोधकः (कपाटफलकावष्टम्भकः) मुसलाकारः स्थूलः काष्ठविशेषः। उपश्रुत्येति पातनक्रियया समान- कर्तृकम्। "संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि" इति मेदिनी। वंशस्थं वृत्तम्। "जतौ तु वंशस्थ- मुदीरितं जरौ" इति लक्षणात्। इदमेव शुद्धविराठ् छन्द इत्युच्यते। "जतौ जरौ शुद्धविराडिदं मतम् " इति लक्षणात्॥। अत्र निमीलिताक्षीवेत्युत्प्रेक्षार्थालंकारः। उत्प्रेक्षायां कवेस्तात्पर्यात्सन्तोऽपि वीररसादयों व्यङ्गयास्ति- रोधीयन्ते इत्यव्यङ्गयमिदं काव्यम् । यद्यप्यत्र हयग्रीवस्य वीररसः प्रतीयते (तत्र स एवालम्बनम् । प्रतिपक्षेन्द्रगतभयमुद्दीपनम्। मानखण्डनमनुभावः। यदच्छासंचरणगम्या धृतिर्व्यभिचारिभावः) तथाप्यु- त्प्रेक्षाहितचमत्कारेण तस्य व्यवधानमिति चित्रत्वमिति सारबोधिनीकाराः। द्वारपिधानेन नयननिमी- लनमुत्प्रेक्षितम् । तस्याश्वोत्प्रेक्षायाः सहृदयहृदयिश्रामहेतुरुद्टचमत्कारकारकता । हयग्रीवसंबन्धिनः पूर्णधनानन्दस्य वीरस्य सहृदयाननुभवे उत्प्रेक्षोत्थाप्यस्फुटतरश्वमत्कारो व्यवधिः। नायकेन्द्रभयप्रदर्शन- प्रभूतममरावतीस्रीभयमपि वीररसपरिपोषकृदित्युत्प्रेक्षाया अलंकारत्वमिति चक्रवर्तिनः । "अत्र निमी- लिताक्षीवेत्युस्प्रेक्षानामकोऽर्थालंकारश्चमत्कारीति वाच्यचित्रता। न च हयग्रविस्यालम्बनस्य प्रतिपक्षेन्द्र- भयस्योद्दीपनस्य शत्रुमानखण्डनस्यानुभावस्य यदृच्छाचरणव्यङ्गयाया धृतेःसंचारिण्याश्च सत्त्वेन हयग्री- वस्य वीररस एव हृयग्रविविषयकभावो वा व्यङ्गय इति कथमव्यङ्गयोदाहरणमिति वाच्यम्। वध्यत्वेनोप- निबध्यमाने तदुभयानवभासात्। अलंकारमात्रपरामर्शाधीनचमत्कारेण हीनोदाहरणतासंभवाच्च" इति नरसिंहठक्कुराः। एषु त्रिविधेषु व्याख्यानेषु नरसिंहठक्कुरकृतं व्याख्यानमेवातिरुचिरम्। अत एव सप्तमो- ल्लासे ६२ कारिकाया व्याख्यानावसरे मूलकारक एव वक्ष्यति "अनङ्गस्य (अप्रधानस्य) अति- विस्तरेण वर्णनं (दोषः) यथा हृयग्रीववंधे हयग्रीवस्य" इति। विस्तरस्तु तत्रत्यटकिातोऽनुसंधेयः ॥ इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां बालबोधिन्यां काव्यस्वरूपनिर्णयो नाम प्रथम उल्लासः ॥ १ ॥

१ मेण्ठेति । भर्तृमेण्ठ इत्यपि व्यवहारः ॥ २ या च सा इच्छा चेति मयूरव्यंसकादित्वात् कर्मधास्यसमासे मयूरव्यंसकादेरारुततिगणत्वेन तत्र निपातनाददच्छाशब्दः साध्यः॥

Page 84

। अथ द्वितीय उल्लासः॥

क्मेण शब्दार्थयो: स्वरूपमाह। (सू० ५) स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा। अत्रेति काव्ये। एषां स्वरूपं वक्ष्यते।। (सू०६) वाच्यादयस्तदर्थाः स्युः वाच्यलक्ष्यव्यङ्गयाः ॥

प्रथममोल्लासे शब्दार्थौ काव्यमित्युक्तम्। तत्र कतिविधः शब्द: कतिविधोऽर्थ इत्याकाङ्कायां तद्वि- भागप्रतिपादन परत्वेनोत्तरसूत्रद्वयमवतारयति क्रमेणेति। लक्षणे प्रथमं शब्दस्योपादानादादौ शब्दस्य ततोऽर्थस्येति क्रमेणेत्यर्थः । स्वरूपं विभागम्। तदुक्तं प्रदीपोद्दयोतयोः। "अथ काव्यलक्षणस्थपदार्थेषु स्वरूपलक्षणादिभिर्विवेक्तव्येषु शब्दार्थयोः प्राधान्यात्प्रथमं तयोः स्वरूप निरूपयिष्यन् विभागमाह'- इति प्रदीप: । (स्वरूपलक्षणादिभभरिति। यथा 'योऽभिधत्ते स वाचकः' इति [९ सूत्रेण दर्शयिष्य' माणं] स्वरूपं तथाभिधातृत्वं च लक्षणम्। एवमन्यत्राप्यूह्यम्। आदिना विभाग: ॥[ प्राधान्यात् विशे- व्यत्वरूपात् ]। स्वरूपमिति। विभागानन्तरं तन्निरूपणस्य सांप्रदायिकत्वादिति भावः । सामान्य- लक्षणं तु शब्दत्वजातिम्त्वं शब्दस्य। तद्भिधेयत्वं चार्थस्य प्रसिद्धमेव। एकवचनं सामान्याभिप्रा- येण) इत्युद्योतः । स्यादिति। अत्र काव्ये वाचको लाक्षणिको व्यञ्जकश्वेति त्रिधा त्रिप्रकारः शब्द: स्यादित्यर्थः । अत्र लाक्षणिकव्यञ्जकयोर्वाचक उपजीव्यः। व्यञ्जकस्य वाचकलाक्षणिकावुपजीव्याविति क्रमेणोप- न्यासः। विभागादेव त्रित्वे सिद्धेऽपि न्यूनाधिकसंख्याव्यवच्छेदाय त्रिधेत्युक्तम्। एतेन गौणी लक्षणा भिन्नेति गौणशब्दस्यात्रासंग्रहाद्विभागस्य न्यनता व्यञ्जनायां च प्रमाणाभावेन व्यञ्जकशब्दस्याभावाद्विभाग- स्याधिक्यं चेति परविप्रतिपत्तिर्निरस्ता। १६ सूत्रे गौण्याः लक्षणायामन्तर्भावयिष्यमाणतया गौणशब्दस्य लाक्षणिकेऽन्तर्भावात्। व्यञ्जनायाश्व पञ्चमोल्लासे स्थापयिष्यमाणतया काव्ये व्यञ्जकश्दस्यावश्यं- भावादिति बोध्यम् । अत्राहुः सारबोधिनीकाराः। "त्रिधेति। अत्ोपाधीनामेव त्रित्वं न तूपाधेयानाम्। नहि काश्चेद्वाचक एव कश्षिल्लाक्षणिक एव कश्चिद्यञ्जक एवेत्यस्ति नियमः" इति। अत एव 'गङ्गायां घोषः' इत्यादावेकस्यापि गङ्गादिशब्दस्य वाचकत्वं लाक्षणिकत्वं व्यञ्जकत्वं चोपपद्ते। ननु वैशेषिकशास्त्रादौ व्यञ्जकशब्दस्य नामापि न श्रयते। अतः कथ त्रैविध्यमित्यत आह क्राव्ये इति। चमत्कारविशेषस्यान्यथानुपपत्तेरिति भावः। विभागानन्तरं लक्षणस्य जिज्ञासाविषयत्वेनाभिधातु- मुचितत्वात्तदभिधानं समर्थयति एषामिति। वाचक लाक्षणिकव्यञ्जकानामित्यर्थः । स्वरूपं लक्षणम्। वक्ष्यते इति। "साक्षात्संकेतितं योऽर्थममिधत्ते" इति ९ सूत्रेण "तदूर्लाक्षणिकः " इति २९ सूत्रेण "तद्ुक्तो व्यञ्जकः शब्दः " इति ३३ सूत्रेण चेति भावः ॥ अर्थान्विभजते वाच्यादय इति। वाच्यलक्ष्यव्यङ्गयाः (क्रमेण) तेषां वाचकलाक्षाणकव्यञ्ज- कानां शब्दानामर्थाः स्युरित्यर्थः ॥ काव्यप्रकाश*

Page 85

२६ काव्यप्रकाशः सटीक:। (सू ० ७) तात्पर्यार्थोऽपि केषुचित् ॥ ६ ॥ आकाङ्कायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहितान्त्रयवादिनां मतम् ।। ननु पदार्थवद्वाक्यार्थस्यापि व्यञ्जनार्वृत्त्याश्रयतया भाट्टमीमांसकमतसिद्धतात्पर्याख्यवृत्तिप्रतिपादय- तया च तद्विभागोऽपि कर्तुमुचित इति तदकरणान्न्यूनतेत्यत आह तात्पर्यार्थाऽपीति। तात्पर्या- ख्यवृत्तिप्रतिपाद्योऽर्य इत्यर्थः । समुल्लसतीत्यध्याहारः। केषुचिदिति। षष्यर्थे सप्तमीयम्। अभिहिता- न्वयवादिनामित्यर्थः । मते इति शेषः। "अभिहितान्वयवादिनां मतम्" इति वृत्त्यनुरोधादिति बोध्यमु। अयं भावः । वृत्ति विनार्थबोधनेऽतिप्रसङ्ग इति अन्वये (वाक्यार्थरूपे संसर्गे) शब्दस्य तात्पर्याख्या वृत्तिरभ्युपगन्तव्या। तत्प्रतिपाद्योडर्थस्तात्पर्यार्थ इति चक्रवर्तिकमलाकरभट्टनरसिंहठक्करकृतटीकास्वं- शतः स्पष्टम् । एतमेव स्पष्टयति आकाङक्षेत्यादिना। प्रतीत्यपर्यवसानमाकाङ्का। बाधविरहो योग्यता। संनिधिरास- त्तिरिति चक्रवर्तिनः। आकाड्डा प्रतिपतुर्जिज्ञासा। योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः। संनि- धिराकाङ्वितानां पदार्थानामेकबुद्धयुपारूढत्वमिति बहवः। आनुपूर्वीविशेषकारणत्वज्ञानरूपा आकाङ्। एकपदार्थेऽपरपदार्थस्य प्रकृतसंसर्गवत्त्वं योग्यता। अव्यवधानेनान्वयप्रतियोग्युपस्थितिश्व संनिधिरित्यु- द्योतकाराः। उक्तं च तर्कसंग्रहादौ। शक्तं पदम्। पदसमूहो वाक्यम्। आकाङ्का योग्यता संनिधिश्च वाक्यार्थज्ञाने हेतुः। पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावक वमाकाङ्का। अर्थाबाधो योग्यता। पदानामविलम्बेनोच्चारणं सनिधिः। आकाङ्कादिरहितं वाक्यमप्रमाणम्। यथा 'गैरश्वः पुरुषो हस्ती' इति। 'घटः कर्मत्वम्' इति च न प्रमाणम्। आकाङ्डाविरहात् । अग्निना सिञ्चति' इति न प्रमा- णम्। योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणम्। सांनिध्याभावा- दिति। वशात् एतद्रूपात्प्रयोजकातू। अस्य 'समन्वये' इत्यत्रान्वयः । वक्ष्यमाणेति। "जात्यादिर्जाति- रेव वा" इति १० सूत्रेणेति भावः। पदार्थानां पदवृत्तिपिषयाणामर्थानाम्। समन्वये परस्परसंबन्धे बुभुत्सिते। तात्पर्यार्थः तात्पर्याख्यवृत्तिप्रतिपाद्यः। अपदार्थत्वे हेतुमाह विशेषवपुरिति। वाच्याद्यर्थवि- लक्षणशरीर इत्यर्थः। वाच्याद्यर्थविलक्षणं संसर्गतारूपं शरीरं यस्य स इति भाव प्रदीपप्रभयोः स्पष्टम्। "विशेषवपुः विशेषाकारः। तस्यैव प्रवर्तकत्वात्। घटमानयेत्यादौ घटकर्मकानयनादौ भासमाने तात्प- ्यबलाद्यत्किंचिद्धटानयनादिरूपः" इति तु चक्रवत्यादयः। अपदार्थः प्रत्येकपदवृत्त्यविषयः। वाक्यार्थः पदसमूहगम्यः। समुल्लसति अनुभवविषयो भवति। अभिहितान्वयवादिनामिति। अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इति वादिनां भाद्टमीमांसकानामित्यर्थः। उक्तं च प्रदीपादावपि। "लाधवात्पदानां पदार्थमात्रे शक्तिर्न त्वन्वयांशेऽपि। गौरवादन्यलभ्यत्वाच्च।तदंशो हि तात्पर्गाथों वाच्या- दर्थविलक्षणशरीर आकाङ्कादिवशादपदार्थोडपि प्रतीयते। न चापदार्थप्रतीतावतिप्रसङ्गः। स्वरूपसतः शक्यान्वयत्वस्य नियामकत्वादित्यमिहितान्वयवादिनां मतम् " इति प्रदीपः। (अतिप्रसङ्ग इति। अश- क्यान्वयभानरूप इत्यर्थः ) इत्युद्द्योतः। (अतिप्रसङ्ग इति। पदवृत्त्यविषयस्यापि शाब्दबोधविषयत्वे क्थंचिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरित्यर्थः । शक्यान्वयत्वस्य वृत्तिविषयान्वयत्वस्य। १ वृत्तिर्व्यापारः। व्यञ्जनारूपव्यापाराश्रयत्वेनेत्यर्थः ॥ २ वह्निकरणकसेचनमयोग्यम् । द्रवद्द्रव्यकरणकयत्किं- चिद्वृत्तिसंयोगानुकूलव्यापारस्य सेचनपदार्थत्वात्। यथा 'पयसा वृक्षं सिश्रति' इत्यादौ॥

Page 86

द्वितीय उल्लास:। २७

वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः॥

नियामकत्वात् वृत्त्यविषयस्य शाब्दबोधविषयतायामप्रयोजकत्वात्। तथा चाकाशादेरतथात्वान्न शाब्दधीविषयत्वमित्यर्थः ) इति प्रभा ।

एतेषामभिहितान्वयवादिनामयमाशयः। घट करोतीत्यत्र घटवृत्तिकर्मत्वानुकूला कृतिरित्यर्थो बोध्यते। तत्र च घटशब्दस्य घटोऽर्थः। अम्प्रत्ययस्य च कर्मता। वृत्तिता तु न कस्यापीत्यपदार्थोऽपि वृत्तिता तात्पर्यवशात् अनयोः संसर्गविधया भासते इतीति विवरणे स्पष्टम्। अभिहितान्वयवादिनामिति बहु- वचनेनायमेव पक्षः प्रामाणिकः ( ग्रन्थकृत्संमत) [ न त्वन्विताभिधानवादिपक्षः ] इति सूचितमिति सरस्वतीतीर्थकृतटीकायां स्पष्टम्। अत एव मूलकारोऽस्मिन्नेवोल्लासे ३१ सूत्रवृत्तौ पञ्चमोल्लासे व्यञ्ज- नास्थापनावसरे च यथाक्रमं वक्ष्यति। "ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः "इति। "अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोऽनपह्ववनीय एव" इति च । बहुवचननिर्देशस्य स्वसंमतत्वप्रदर्शनपरत्वादेव चतुर्थोल्लासे ४३ सूत्रवृत्तौ "इति श्रीमदभिनवगुप्ता- चार्यपादा: " इत्यन्तग्रन्थेनोपपादितस्याभिवनगुप्ताचार्यसंमतपक्षस्य 'बहुवचनश्रीमत्पदाचार्यपदैः स्व- समतत्वमुक्तम्' इति टीकाकारैः सवैरुक्तमिति दिक्।

अभिहितान्वयवादिनां मतमित्यनेन सूचितं गुरुसमतं पक्षान्तरमाह वाच्य एवेति। पूर्वमते यो वाक्यार्थः स वाच्यान्तर्गतपदार्थ एवेत्यर्थः। वादिन इत्यत्र मतमित्यनुषञ्जनीयम्। वदन्तत्यध्याहारा- पेक्षया शीघ्रोपस्थितिकत्वात्। तेनैकव चनेनागौरवं द्योत्यते इति नरसिंहमनीषायां स्पष्टम्। "अन्विता- भिधानवादिन इति षष्ठयन्तम्। मतमित्यनुषज्यते" इति सारबोधिन्यामपि स्पष्टम्। "पदानि अन्वितानि भूत्वा पश्चाद्विशिष्टमर्थ कथयन्तीति यो वदति सोऽन्विताभिधानवादी तस्य मतमित्यनुषज्यते" इति सरस्वततिार्थिकृतटीकायामपि स्पष्टम्। "अन्वर्याशेऽप्यभिधां मन्यमानानां गुरूणां मतमाह वाच्य एवेत्यादि। एवकारेण तात्पर्याख्यवृ्त्त्यन्तरव्युदासः । वाच्योऽभिधेयः। तथाहि। देवदत्त गामानयेत्यु- त्तमवृद्धप्रयोगात्सास्नादिमतीं व्यक्तिं मध्यमवृद्धे संचारयति तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनु- मायानन्तरं 'गां नयाश्वमानय' इति प्रयोगे गवापसरणमश्वाहरणं च दृष्ट्रान्वयव्यतिरेकाभ्यां क्रियाप- दार्थान्विते कारके कारकपदस्य कारकपदार्थान्वितक्रियायां च क्रियापदस्य शक्ति बालोऽवधारयति। ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिजायते। न च गौरवेणान्वयांशपरिहारः । प्रथमगृहीता- न्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात्। तेनाभिधयैवान्वयब्रोधोपपत्तौ कि [तात्पर्यरूप-] वृत्यन्तरेणेति अन्वितमेवाभिधत्ते इति वादिनः प्रभाकरगुरोर्मतमित्यर्थः" इति चक्रवर्तिकृतविस्तारिकायामपि स्पष्टम्। "अन्वितानामेवाभिधानं शब्दबोध्यत्वम्। तद्वादिनो मीमांसकाः। तेषां मतेऽन्वितघटादावेव घटादिप- दानां शक्तिः। शाब्दबोधे तु आकाङ्कादिवशात् वृत्तितादि विशेषरूपमेव भासते इति नापदार्थो वाक्यार्थः" इति विवरणम्। "अन्वितमेवाभिधत्ते इति वादिन इत्यर्थः । अत्रारुचिबीजं तु अन्वितत्वेन शक्तावपि अन्वयविशेषभानायाकाङ्डादिकमवश्यं कारणं वाच्यम्। एवं च विशेषरूपेणाशक्यस्यैव भानमिति त्वयाप्यवश्यं वाच्यमिति " इत्युद्दयोतः। "गुरुमतमाह वाच्य एवेति। गामानयेति वाक्यात्प्रवर्तमान प्रयोज्यं दृष्ट्ा नूनमनेनास्मादयमर्थो ज्ञात इति व्युत्पित्सुः कल्पयति। न च शक्तिं विना वाक्यात्संसर्गधीर्यु- ज्यते। लक्षणादस्तत्पूर्वकतवात्। न च संसर्गमर्यादया तद्वीः। तस्याः शब्दवृत्तित्वाभावात्। शक्तिल- क्षणयोरेव तत्त्वात्। न च शब्दतात्पर्यगोचरत्वं शाब्दत्वम्। तदभावे शुकबालादयुदीरितेऽबोधकत्वापत्तेः ।

Page 87

२८ काव्यप्रकाशः सेटीक: ।

(स० ८) सर्वेषां प्रायशोऽर्थानां व्यञ्ञकत्वमपीष्यते। तत्र वाच्यस्य यथा माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए। ता भण किं करणिज्जं एमेअ ण वासरो ठाई ॥ ६ ॥

न च गां नयाश्वमानयेति व्यभिचारात्संसर्गे न शक्तिरिति वाच्यम्। वाक्यस्यैव प्रयोगार्हत्वेन पूर्वगृहीत- संसर्गशक्त्यबाधेनेतरान्विते स्वार्थे पदानां शक्तिग्रहादित्यन्वितस्य संसर्गविशिष्टस्याभिधानमिति वादिनो मतमित्यनुषङ्गः । एकवचनेन तुच्छत्वमुक्तम् । तथाहि। न संसर्गविशेषेषु शक्तिः। गां नय गां बधाने- त्यादौ तेषामानन्त्येन गोपदस्य नानार्थत्वापत्तेः। न च संसर्गसामान्ये सा। विशेषस्यासंकेतविषयत्वेऽ- शाब्दत्वापत्तेः । आकाङ्कादिसहकारिवशात्पदादेव तद्वीस्तर्हि तस्मादेव सामान्येऽपि तथास्तु धीः किं शक्त्या। इतरान्वितयोर्द्वित्वेन गामानयेत्यत्र वाक्यार्थद्वयधीः स्यात् । संसर्गसामान्ये शक्तौ च सर्ववा- क्यानां पर्यायत्वापत्तिः । विशेषस्य संबन्धिविशेषादेव सिद्धेर्न वाच्यत्वम् । तत्वे उक्तदोषाच्च " इति कमलाकरभट्टाः ।। व्यञ्जकत्वं न केवलं शब्दस्य किंतु तदर्थस्यापि। तत्रापि नैकतरस्य किंतु वाच्यलक्ष्यव्यङ्गयरूपस्य सर्वस्यापीत्यभिधादिवैधर्म्यसिद्धये प्रतिपादयति सर्वेषामिति। सर्वेषां वाच्यलक्ष्यङ्गयानामर्थानामपि व्यक्षकत्वमिष्यते इत्यर्थः। वक्त्रादिवैशिष्ट्यानवतारेऽर्थान्तरव्यञ्जना न संभवतीति प्रायश इत्यु- क्तम्। यद्वा प्रधानस्य रसादेरव्यञ्जकत्वमिति प्रायश इत्युक्तम्। अर्थानामपतत्यपिशब्देन शब्दानां समुच्चय इति प्रदीपाभिप्रायः । उद्दयोतकारास्तु व्यञ्ञजकत्वमपीत्यपिशब्देन व्यञ्जकतादशायामपि वाचकत्वाद्यप्रच्यव: सूचित इत्याहुः ॥ तत्रे त्यादि। तत्र वाच्यलक्ष्यव्यङ्गयेषु मध्ये वक्तृवैशिष्टर्यात् वाच्यार्थस्य व्यञ्जकत्वमुदाहरतीत्यर्थः । यद्यप्यर्थव्यञ्जकत्वं शब्दव्यञ्जकतोदाहरणानन्तरं तृतीयोल्लासे सविस्तरमुदाहरिष्यते तथाप्यत्रा- संभावनापरिहाराय संक्षेपत उदाहरणम्। यदाहुः। "संक्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः" इति। यद्वा। शब्दव्यञ्जनायाः सकलसंततत्वेनार्थव्यञ्जनायामसांदृष्टिकत्वशङ्कावारणाय शब्दव्यञ्जनामनुदा- हृत्यैव तां प्रथमत उदाहरतीति द्रष्टव्यमिति प्रभोद्दयोतयोः स्पष्टम् । माए इति। कस्याश्चिदुपनायकसंगमार्थिन्या अन्नेन्धनाद्यनयनव्याजेन बर्हिर्गन्तुं मातरं प्रत्युक्ति- रियम्। "मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया। तद्धण कि करणीयमेवमेव न वासरः स्थायी।" इति संस्कृतम्। भो मातः गृहस्य संबन्धि उपकरणम्। उपक्रियतेऽनेनेत्युपकरणम्। अन्नेन्ध- नशाकादिसामग्री अद्य खलु निश्चितं यथा स्यात्तथा नास्तीति त्वया साधितं प्रतिपादितम्। तत् तस्मात् भण वद अन्नेन्धनादिसंपादनार्थ बहिर्गमनमाज्ञापयेति यावत्।कि करणीयम्। किंशब्दः क्षेपे। न किंचि- स्कर्तव्यमित्यर्थः। किंच। वासरो दिवसः एवमेव अधुना दृश्यमानावस्थ एव स्थायी स्थिरो नेत्यर्थः । यत्तु चन्द्रिकायां व्याख्यातं "तत् तस्मात् कि करणीयं कर्तव्यं भण" इति तत्तु भावानवबोधात्। एवं हि सति यत्किंचित्कार्यमाज्ञापयेति प्रतीयेत न तु बर्हिर्गमनमिति सुधासागरे स्पष्टम्। अत्र मातरित्यनेनादेश- योग्यत्वमलङ्घनीयाज्ञत्वं च ध्वन्यते। गृहे इत्यनेनावश्यकता। उपकरणमित्यनेनान्यथासिद्धिपरि- हारः । एकैकस्येन्धनादेरस्त्वे तु प्रतिवेशिनीसकाशाद् ग्रहणसंभवः । अद्येत्यनेनाधैव संपाद्यत्वम्। १ वक्तृबोद्व्यादिसंबन्धाभावे। वक्तृबोद्धव्याद्यश् ३७ सूत्रे वक्ष्यन्ते ॥ २ वैशिष्ट्यात् संवन्धात्॥ ३ प्रतिवे- शिनी समीपसदनस्था। 'पडोशी' इति गुर्जरभाषारयां 'शेजारीग' इति च महाराष्ट्रमाषायां प्रसिद्धा।

Page 88

द्वितीय उल्लासः। २९

अत्र स्वैरविहारार्थिनीति व्यज्यते। लक्ष्यस्य यथा साहेन्ती सहि सुहअं खणे खणे दूम्मिआसि मज्झकए। सब्भावणेहकरणिञ्जसरिसअं दाव विरइअं तुमए ।।७॥ अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्। तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम्। साधितमित्यनेन सत्त्वशङ्काराहित्यम्। त्वयेत्यनेन स्वकल्पनाराहित्यम्। तदित्यनेन हेत्वर्थकेनावश्य- वक्तव्यत्वम्। भणेत्यनेन स्वप्रेरणम्। एवमेवेत्यनेन दिवसावसाने त्वत्प्रेरणायामपि कुलाङ्गनया मया न गन्तव्यमिति द्योत्यते। अत्र 'तद्गण कि करणीयम्' इत्युत्तरवाक्येन 'मा गच्छेदानी किंचित्कर्त- व्यमस्ति तदुत्तरं प्रेषयिष्यामि' इति मात्रुक्तस्य पूर्ववाक्यस्योन्नयनादुत्तरालंकारः । गाथा छन्दः। लक्षण- मुक्तं प्राक् (५) पृष्ठे ॥ वाच्यस्य (वाक्यार्थरूपस्य) व्यञ्ञजकत्वं दर्शयति अत्रेत्यादि। अत्र वाच्येनैवार्थेन (यथाश्रुतवाक्या- थैनैव) कामिनीरूपवक्तृवैशिष्टयात् (व्यभिचारिणीरूपवक्तृसंबन्धात्) स्वैरविहारार्थिनी एषेति सामा- जिकैर्व्यञ्जनया बुध्यते इत्यर्थः । स्वैरविहारेति। उपपतिसमागमोऽत्र स्वैरविहारः। व्यज्यते इति। स्वैरविहारेच्छायां वाक्यार्थग्रहोत्तरं प्रतीयमानायां शब्दस्य न व्यापारो विरतत्वात्। अर्थस्य च व्यापारान्त- रासंभवाद्यञ्जकत्वसिद्धिरित्युद्दयोतसारबोधिन्यादौ स्पष्टम्। न च स्वैरविहारार्थित्वस्य वाक्यार्थव्यङ्गयत्वेन वाच्यव्यङ्गयोदाहरणत्वासंगतिरिति वाच्यम्। अन्वितामिधानपक्षे वाक्यार्थस्यापि वाच्यत्वात्। अभिहि- तान्वयपक्षेऽपि पदार्थसंसर्गरूपवाक्यार्थस्य व्यञ्जकत्वे संबन्धिनः पदार्थस्यापि व्यञ्जकत्वात्। संबन्धि- नोडमाने संबन्धाभानादिति नरसिंहमनीषायां स्पष्टम् ।। लक्ष्यस्य यथेति। बोद्धव्यवैशिष्टयाल्लक्ष्यार्थस्य व्यञ्षकत्वमुदाहरतीत्यर्थः। साहेन्तीति। प्रियानु नयार्थ प्रेषितां तमुपभुज्यागतां दूतीं प्रति नायिकाया उक्तिरियम्। "साधयन्ती साख सुभगं क्षणे क्षणे दूनासि मत्कृते। सद्धावस्नेहकरणीयसदृशकं तावद्विरचितं त्वया ॥" इति संस्कृतम्। हे सखि मत्कृते मदर्थ सुभग सुन्दरं (तं नायकं) साधयन्ती अनुनयन्ती ववं क्षणे क्षणे प्रतिक्षणं दूना खिन्नासि। त्वया तावत् सद्भावः साधुत्वं स्नेहो वात्सल्यं तयोः करणीय कार्य सदृशमुचितं विरचित कृतम्। तथा च सद्धावस्य यत् कार्य स्नेहस्य च यदुचितं तद्विरचितमित्यर्थः। केचित्तु सद्भावस्नेहाभ्यां यत् करणीयं तेन सदृशं कार्य विरचितमिति योजयन्ति। कृते इत्यव्ययं तादर्थ्ये। "अर्थे कृतेऽव्ययं तावत् ताद्थ्ये वर्तते द्वयम्" इति कोशसारः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४) पृष्ठे ।। अत्र लक्ष्यं कि व्यङ्गयं च किमित्याकाङ्कायां तद्विभागमाह अ्रेत्यादि। अत्र प्रत्यक्षवीक्षितक्षामतादि- चिह्नानुमितनिज प्रियोपभोगत्वान्मित्रत्वरूपस्य मुख्यार्थस्य बाधप्रतिसंधानात्सदशपदेन विसदशं लक्ष्यते। तच्च मत्प्रियरमणेन शत्रुत्वाचरणरूपम्। मत्कृते इत्यस्य लक्षणया स्वकृते इति। दूनासीत्यस्य हृष्टासीत्यर्थः। अत्र मुख्यार्थलक्ष्यार्थयोर्मित्रत्वशत्रुत्वयोवैपरीत्यं संबन्धः । तदुक्तं प्रदीपोद्दयोतयोः । "अत्रापकारिण्या बाधावतारात् मुख्यार्थः श्रोत्रा प्रत्येतुं न शक्यत इति सद्धावस्नेहकरणीयविसदृशं मत्प्रियरमणेन शत्रुत्वा चरणरूपं विरचितमिति मुख्यविपरीतं लक्ष्यते। तेन च कामुकविषयसापराधत्वप्रकाशनं व्यङ्गयम्"इति १ अत एव "वक्तृबोद्व्यकाकूनाम्" इत्यादिना ३७ सूत्रेण वक्तृवैशिष्ट्यादिरर्थान्तरव्यञ्जकतार्या सहकारि- कारणत्वं वक्ष्यति ॥

Page 89

३० काव्यप्रकाशः सटीक: ।

व्यङ्गयस्य यथा उअ णिच्चलणिप्पंदा भिसिणीपत्तम्मि रेहइ बलाआ। णिम्मलमरगअभाअणपरिट्िआ संखसुत्ति व्व।। ८।। अत्र निष्पन्दत्वेन आश्वस्तत्वम्। तेन च जनरहितत्वम्। अतः संकेतस्थानमेततदिति कयाचित् कंचित्प्रत्युच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते॥ प्रदीप:। (अपकारिण्यामिति। ज्ञातापकारिण्यामित्यर्थः। मत्प्रियरमणेनेति। इद न लक्ष्यान्तर्गतम्। किंतु प्रतिपाद्यसखीवैशिष्टयबोधनद्वारा व्यङ्गयप्रकटनायोक्तम्। ज्ञाप्यत्वं तृतीयार्थः । तेन चेति। लक्ष्य- वाक्यार्थेनेत्यर्थः। लक्ष्यघटितवाक्यार्थो लक्ष्य एवेति भावः।[ कामुकेति। अत्र कामुकी च कामुकश्चेये- कशेष: ]। प्रकाशनं व्यङ्गयमिति। कामुकविषयसापराधत्वमेषा प्रकाशयतीति सहृदयैर्व्यञ्जनया गम्यत इति भावः ) इत्युद्योतः । व्यङ्गयस्य यथेति। व्यङ्गयार्थस्य व्यञ्जकत्वमुदाहरतीत्यर्थः । उअेति। उपनायक प्रति कस्याश्चि- दुक्तिरियम्। हालकविकृतायां शालिवाहनसप्तशत्यां गाथासप्तशतीत्याख्यायां (गाथाकोशे) प्रथमशतके चतुर्थपद्यमिदम्। "पश्य निश्चलनिष्पन्दा विसिनीपत्रे राजते बलाका। निर्मलमरकतभाजनपरिस्थिता शङ्शुक्तिरिव॥" इति संस्कृतम्। उअ इति पश्येत्यर्थे देशी इति नरसिंहठक्कुराः । उअ इति पश्ये- त्यर्थेव्ययमिति नागोजीभट्टाः। बिसिनी कमलिनी लता तस्याः पत्रे पर्णे बलाका पक्षिविशेषो बक- पङ्चिर्वा राजते शोभते । त्वं पश्येति वाक्यार्थस्य कर्मत्वेनान्वयः। समीहितसूचनाय विशिनष्टि निश्च लेत्यादि। निश्चला चासौ निष्पन्दा चेति विशेषणोभयकर्मधारयः। शीतोष्णं जलमितिवत्। "पुंव- त्कर्मधारयजातीयदेशीयेषु " (पा० ६/३।४२) इति सूत्रेण पुंवद्धावः । चलनं शरीरक्रिया स्थाना- न्तरप्रापिका। स्पन्दस्त्ववयवक्रिया स्थानान्तराप्रापिका। "स्पदि किंचिच्चलने" इति धात्वनुसारात्। एवं च न पौनरुक्त्यम्। केचित्तु निश्चलजनशङ्कया विहारव्यापारनिरुद्योगेति कामुकसंबोधनमि- त्याहुः। तन्न रुचिरम्। संकेतस्थानरूपव्यङ्गयस्य वाच्यसिद्धयङ्गतापत्तेः । एतत् संकेतस्थानं त्वया नानुसंधितं (नानुसंधानविषयीकृतं) किंतु मयैवोन्नीतमिति ज्ञाननैव निरुद्योगत्वसिद्धेरिति चन्द्रिकायां स्पष्टम्। केव राजते इत्याशङ्कायामाह निर्मलेत्यादि। निर्मलं स्वच्छं यत् मरकतस्य नीलमणेः भाजनं पात्रं तत्न परिस्थिता विद्यमाना शङ्गशुक्तिरिव। शङ्शुक्तिश्व शङ्गघटितं शुक्त्याकारं चन्दनादिनिधा नपात्रम्। न तु मुक्ताशुक्तिः । तस्या वलाकावर्णत्वाभावात्। शङ्शुक्तिपदस्य तत्नासामर्थ्याच्च।अत्ा- चेतनोपमया लेशतोऽपि क्षोभाभावः । तेन निर्जनत्वं गम्यते। "वलाका बकपङ्गिः स्याद्वलाका बिस- कण्ठिका। बलाका कामुकी प्रोक्ता बलाकस्तु बको मतः " इति कोशः । गाथा छन्दः। लक्षण- मुक्तं प्राक् (५) पृष्ठे॥ पूर्व तावत् प्रथमं व्यङ्गयं दर्शयति अत्नेत्यादि। अत्र अस्मिन् काव्ये। निष्पन्दत्वेन वाच्येन। आश्वस्तत्वं विस्त्रब्धत्वम् अभीतत्वं वा। व्यङ्गयमिति शेषः । व्यङ्गस्य व्यञ्जकत्वं दर्शयति तेन चेति। उक्तव्यङ्गयेन चेत्यर्थः । जनरहितत्वं निर्जनत्वम्। व्यङगयमिति शेषः । फलितमाह अत इति। कंचि- त्प्रति संकेतस्थानाभिलाषिणं प्रति। उच्यते इति। व्यञ्जनया प्रतिपाद्यते इत्यर्थः । संभोगाद्विप्रलम्भस्य मधुरत्वेन तत्र योजयति अथवेत्यादि। अत्र संकेतस्थाने। व्याख्यातमिदं प्रदीपे। "अथवा निष्पन्दत्वे- 6 १ इदं प्राक् ३ पृष्ठे प्रतिपादितम् ॥ २ नानुसंहितमिति तु निर्विवादं पठनीयम् ॥ ३ मधुर वनोति। मधुरत्वं तु ९१ सूत्रे स्फुटीभविष्यति॥।

Page 90

द्वितीय उल्लासः । ३१

वाचकादीनां क्रमेण स्वरूपमाह। (सू० ९) साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ॥ ७॥ इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दोर्ऽर्थविशेषं प्रति- पादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः।

नाश्वस्तत्वम्। तेन च जनागमनाभावः । अतो न त्वमत्रागत इति मिथ्या वदसीति कयाचित् 'दत्त- संकेता त्वं नागता अहं त्वागतः' वादिनं प्रति व्यज्यते" इति ॥ वाचकादीनामिति । ( एवमर्थ विभज्य) वाचकादीनां वाचकलाक्षणिकव्यञ्जकानां शब्दानां क्रमेण उद्देशक्रमेण स्वरूपमाहेत्यर्थः । ९ सूत्रेण २१ सूत्रेण २३ सूत्रेण चेति शेषः । स्वं लक्ष्यपदार्थो रूप्यते लक्ष्यते ( इतरव्यावृत्त्या ज्ञायते) अनेनेति व्युत्पत्या स्वरूपं लक्षणम्। इतरभेदकमिति यावत्। साक्षादिति । अत्र "स्याद्वाचको लाक्षणिकः शब्दोन्र " इति ५ सूत्रान्मण्डूकप्लुतिन्याये- नानुवृत्तं शब्द इति विशेष्य संबध्यते। तथा च। यः शब्दः साक्षात्संकेतितम् अव्यवधानेन गृहीतसंकेतम् अर्थ जात्यादिरूपम् अभिधत्ते सः शच्द: वाचक इत्युच्यते इत्यर्थः । अभिधत्ते प्रतिपादयतीत्यर्थः । न त्वभिधया प्रतिपादयतीति। वाचकशब्दव्यापारस्याभिधात्वेनान्योन्याश्रयात्। साक्षात्संकेतितमित्यस्य वैयर्थ्याच्च। संकेतितमित्यत्र संकेतपदेन च शक्तिग्राहकः समयः ।स च 'अस्मादयमर्थो बोद्धव्यः' इत्याकारः। अस्यायं वाच्योऽस्यायं वाचकोऽयमयमित्यादिशब्दप्रयोगरूप इत्युद्दयोतादौ स्पष्टम्। श्रोक- श्छन्दः। लक्षणमुक्तं प्राक् (११) पृष्ठे । सूत्रं व्याकरोति इहेत्यादि। इह लोकव्यवहारे। ननु संकेतज्ञानस्यार्थप्रतीतिहेतुत्वे मानाभाव इत्यत आह अगृहीत संकेतस्येति। तथा चान्धयव्यतिरेकाभ्यामेव संकेतज्ञानस्यार्थप्रतीतिजनकत्वमिति भाव:। संकेतसहाय एवेति संकेतग्रहाय एवेत्यर्थः । अर्थविशेषमिति। अगृहीतसंकेतस्पाप्यर्थसामान्य- प्रतिपादकत्वमस्तीति तन्निवृत्तये विशेषग्रहणम् । यस्य शब्दस्य यत्र यस्मिन्नर्थे संकेतः संकेतग्रहः गृह्यते ग्रहणे उपयुज्यते सः शब्दः तस्य अर्थस्य वाचकः वाचक इत्युच्यते इत्यर्थः ॥ चेष्टोयां साक्षादर्थप्रतिपादिकायामतिव्यप्तिवारणाय यः शब्द इति। माधुर्यादिव्यञ्जकस्परशादिवर्णे अतिव्याप्तिवारणाय संकेतितमिति। न च संकेतविशेषणं साक्षादित्यधिकमिति वाच्यम्। वटादिनामा प्रधानवृक्षो यत्र स ग्रामोऽपि तन्नामा यथा 'वैठो ग्रामः' इत्यादि। तत्र वटादिनामकवटादियोगिनि ग्रामे प्रतिपाधे वटादिपदे लाक्षणिकेऽतिव्याप्तिवारकत्वात्। तत्र (वटादियोगिनि ग्रामे) शक्यसंकेतव्यव- हितसंकेतसत्त्वात्। व्यवहितत्वं च शक्यसंकेतग्रहप्रयोज्यग्रहविषयत्वम् । स चेत्थम् । वृक्षविशेषो वटपदाद्वोद्दव्यः। तद्योगी ग्रामश्च तत्पदाद्वोद्वव्य इति। न च तत्र शक्तिरेव। वटादिपदाद्ग्रामविशेषत्वेन प्रतीतेः । अन्यथा तद्ृक्षनाशे तत्प्रतीत्यनापत्तेरिति वाच्यम्। वटादियोगिनि ग्रामे वटपदप्रयोगस्य लक्षण- यैवोपपत्तेः। तद्टक्षनाशेऽपि "सांप्रतिकाभावे भूतपूर्वगतिः" इति न्यायेन भूतपूर्वशक्यसंबन्धेनापि तत्प्रती- त्युपपत्तेर्न शक्तिकल्पनेति भावः। तदुक्तम्। "तद्ृक्षच्छेदेऽपि यथाकर्थंचिच्छक्यसंबन्धोऽस्त्येव । ताद- १ अस्मच्छब्दाद्यमर्थ इत्यर्थः ॥ २ 'एद्दहमेतत्थणिआ' इति ११ उदाहरणे वक्ष्यमाणायामित्यर्थः। 3 कादयो मावसाना: स्पर्शा इत्युक्तम्। "मूर्ध्नि वर्गान्त्यगाः स्पर्शः" इत्यादिना ९९ सूत्रेण वर्णविशेषाणां माधुर्यादिगुणव्यञ्ज- कत्वस्य वक्ष्यमाणत्वािति भावः। संकेतितमित्यस्याभावे माधुर्यादिनिरूपितवाचकत्वापत्तिरिति भावः॥'वडगांव' इति पुण्यनगरप्रान्ते प्रसिद्धः ॥

Page 91

३२ काव्यप्रकाशः सटीक:। (सू० १०) संकेतितश्रतुर्भेदो जात्यादिर्जातिरेव वा। यद्यप्यर्थक्रियाकारितया परवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यानन्त्याद्वयभिचाराच्च शस्यैव लक्षणाप्रयोजकत्वादिति भावः" इति। न च 'साक्षात्संकेतितवान् वाचकः' इत्येतावतैत सुस्थत्वे 'अभिधत्ते' इत्यस्य वैयर्थ्यमिति वाच्यम्। वक्ष्यमाणे 'भद्रात्मनः' इत्यादौ १२ उदाहरणेऽभिधामूलव्यञ्जके संयोगादिना (प्रकरणादिना) अभिधायां नियमितायां द्वितीयवाच्यार्थव्यञ्ज कतादशायामतिव्याप्तेर्वारणी- यत्वात्। न च तथापि तत्रातिव्याप्तिरेवेति वाच्यम् । यथाश्रुतलक्षणस्त्वे 'यस्य शब्दस्य यदा (यस्मि- न्काले) अव्यवहितसंकेतग्रहो यदर्थग्रहे उपयुज्यते तदा ( तस्मिन्काले ) स तदर्थवाचकः' इति हि लक्षणार्थः संपद्यते इत्यतिव्याप्तेरमवात्। इदं च "यत्राव्यवधानेन संकेतो गृह्यते" इत्यादिवृत्तिदर्शनात् संकेतविशेषणतया साक्षात्पदं व्याख्यातम्। वस्तुतस्तु संयोगादिना (प्रकरणेन) अभिधायां नियमितायां यत्र शक्यान्तरध्वननं तत्र (भद्रात्मन इत्यादौ) वाचकत्वं मा प्रसाङ्क्षीदिति अभिधानक्रियाविशेषणं साक्षादिति। तत्र तु वाक्यार्थप्रतीतिव्यवधानेन तत्प्रतीतिरित्यप्रसङ्गः । संकेतितमिति तु साक्षादेव माधुर्यादिव्यञ्जके स्पर्शादिवर्णेऽतिव्याप्तिवारणायेत्युक्तमेव। संकेतितमित्यनेनैव वटादियोगिग्रामबोधक- वटादिपदे नातिव्याप्तिरिति प्रदीपोद्दयोतप्रभासु स्पष्टम्।। शब्दस्य संकेतितार्थाभिधायकत्वं सकलसंकेतितार्थज्ञानमन्तरेण न संभवतीति संकेतितमर्थ सवि- भागं दर्शयति संकेतितश्चतुर्भेद इति। संकेतितः संकेतग्रहविषयोऽर्थः चतुर्भेदश्वतुर्विधो भवति । तदेवाह जात्यादिरिति । आदिना गुणक्रियायदच्छानां ग्रहणम्। महाभाष्यकारमतमिदम्। मीमा- सकमतमाह जातिरेव वेति। वाशब्दः अथवेत्यर्थे। अथवा संकेतितोऽर्यः जातिरेवेत्यर्थः। एवकारेण गुणक्रियायदृच्छानां व्यवच्छेदः। नन्वानयनादिव्यवहारः शक्तिप्राहकः। सच व्यक्तावेवेति तत्र शक्तिर्युक्ता न तु जात्यादावित्याशङ्कते यद्यपीति। उक्तं च प्रदीपे। "नन्वयं विभागोऽनुपपन्नः जात्यादेरसंकेतितत्वात्। आद्यसंकेतग्रहस्य व्यवहारमात्राधीनतया प्रवृत्तिनिवृत्तियोग्यायां व्यक्तावेव तदौचित्यात्" इति। अर्थेति। अर्थो दुग्धा- दिरूपयोजनं तस्मै या क्रिया गोरानयनादिरूपा तत्कारितया तन्निर्ाहकत्वेनेत्यर्थः । उक्तं चान्यत्रापि। अर्थस्य क्रिया अर्थक्रिया तां करोत्येवं शीलमस्याः सा अर्थक्रियाकारिणी तस्याः भावोऽर्थक्रियाकारिता तयेत्यर्थः । यथा घटो जलस्याहरणरूपां क्रियां करोतीति घटस्यार्थक्रियाकारित्वमिति। अर्थक्रियेत्युपपदे करोतेर्णिनिप्रत्ययः। प्रवृत्तिनिवृत्तीति। प्रवृतिनिवृत्त्योर्योग्या विषयीभूता व्यक्तिरेव जात्याद्याश्रय एव । न तु जात्यादिरित्यर्थः । 'इति तत्रैव (व्यक्तावेव) संकेतो युक्तः' इति शेषः । समाधत्ते तथापीति। किं हि सर्वासु गोव्यक्तिषु संकेतग्रहो व्यवहाराङ्गं (गोपदजन्यशाब्दबोधकारणम्) उत कस्यांचित एकव्यक्तौ इति विकल्प्प तत्राद्यपक्षे दूषणमाह आनन्त्यादिति। अनन्तानां गोव्यक्तीना- मेकदोपस्थित्यसंभवेन तत्र संकेतो ग्रहीतुं न शक्यत इत्यर्थः । द्वितीयपक्षे दूषणमाह व्यभिचारा- दिति। "यस्यां गोव्यक्तौ संकेतग्रहः स्वीकृतस्तदतिरिक्तायाः गोव्यक्तेगोशब्दाद्धानं न स्यादिति -१ आदिपदेन ११ सूत्रस्थायाः "स इति साक्षात्संकेतितः" इति वृत्तेर्मरहणम् ॥२ ननु लक्षणास्थले ( वटो ग्राम इत्यादौ) तत्तत्पदात्तत्तलक्ष्यार्थो बोद्धव्यः इत्यादिसंकेत एव नास्नि। शक्यसंचन्धेनैव तद्वोधान्। एवं च तदयावृत्त्यर्थ संकेतविशेषणं साक्षात्पदं व्यर्थमित्यरुचेराह वस्तुतस्त्विति॥ ३ यदच्छा संज्ञा ॥

Page 92

द्वितीय उल्लास:। ३३

तत्र संकेतः कर्तु न युज्यते इति गौः शुकश्वलो डित्थ इत्यादीनां विषयविभागो न प्राम्ोतीति च तदुपाधावेव संकेतः । उपाधिश्व द्विविधः। वस्तुधर्मों वक्तृयहच्छासंनिवेशितश्च।वस्तुधर्मोऽपि द्विविधः। सिद्धः साध्यश्र। सिद्धोऽपि द्विविधः । पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च। तत्राद्यो जातिः। उक्तं हि वाक्यपदीये "न हिगौः स्वरूपेण गौर्नाप्यगौः गोत्वाभिसंबन्धात्तु गौः" इति। व्यमिचारः " इति वित्ररणकाराः । "शक्तिग्रहाविषयीभूतस्यापि शाब्दबोधविषयत्वे व्यमिचारेण शक्तिग्रहस्य कारणतानुपपत्तेरित्यर्थः । यद्वा। व्यमिचारात् व्यभिचारप्रसङ्गात्। संकेतग्रहाविषयत्वावि- शेषेऽश्वादेरपि भानप्रसङ्गादित्यर्थः" इति नरसिंहठक्कुराः। "संकेतितस्यैव शाब्दबोध इति नियमाभाव- प्रसङ्गादित्यर्थः " इति प्रभाकृतः । तत्र व्यक्तौ। संकेतः संकेतग्रहः ।न युज्यते न शक्यते (न पार्यते)। इति हेतोः। अस्य 'तदुपाधावेव संकेतः' इत्यग्रिमेणान्वयः। उभयपक्षेऽपि दोषमाह गौ: शुक इति। विषयविभागो न प्राम्नोतीति। विषयः पदार्थः। प्रवृत्तिनिमित्तमिति यावत्। तस्य विभागो भेदः न प्राप्नोति न स्यादित्यर्थः। तथाहि। गोत्वरूपजातिमान् शुकत्वरूपगुणवान् चलनरूपक्रियावान् डित्थनामायमिति तात्पर्येण 'गौः शुककः चलो डित्थः' इति प्रयोगे गवादिभिश्चतुर्मिरपि शब्दैरेका सैव गोव्यक्तिरुच्यते इति प्रवृत्तिनिमित्तस्य भेदो न स्यात्। व्यक्तितादिमते व्यक्तेरेव प्रवृत्तिनिमित्त- त्वात्। तस्याश्च व्यक्ते: प्रकृते एकत्वादिति। तथा च विषयविभागाभावे गवादिशब्दानां 'घटः कलशः' इत्यादीनामिवैकार्थवाचकत्वेन पर्यायतया सहप्रयोगो न स्यात्। उपाधिवादिमते तु जातिगुण- क्रियायदच्छानां प्रवृत्तिनिमित्तानां भेदेन गवादिशब्दानां पर्यायत्वाभावात् भवति सहप्रयोग इति भावः। आम्नोतेः सकर्मकत्वेऽ्यत्र अर्थान्तरवृत्तित्वादकर्मकत्वं "धातोरर्थान्तरे वृत्तेः" इति वचनादिति बोध्यम्। चकार उक्तदोषसमुच्चायकः । उक्तार्थमुपसंहरति तदुपाधावेवेति । तस्याः व्यक्तेरुपाधौ धर्मे व्यवच्छेदके जात्यादावेवेत्यर्थः । एवकारेण व्यक्तिरूपधर्मिव्यवच्छेदः । व्यक्तिबोधस्य तु आक्षेपेणैव निर्वाह इति भावः । संकेत इति । कर्तु युज्यते इति शेषः ॥ जात्यादीनां भेदं वक्तुमुपाधिं विभजते उपाधिश्रेति। वस्तुधर्म इति। वस्तुनि व्यक्तौ समवेतो धर्मः। जातिगुणक्रियारूप इत्यर्थः । वक्त्रिति। वक्त्रा या इच्छा (यदृच्छेति मयूरव्यंसकादिगणे निपा- त्यते। स्वेच्छेत्यर्थः ) तया संनिवेशितः संकेतसंबन्धेन तत्तद्वर्मणि स्थापित इत्यर्थः। डित्यडवित्थ चैत्र- मैत्रदेवदत्तयज्ञद त्तादिनामरूप इति यावत्। संज्ञाशब्दादेव च प्रागुक्तरत्या संज्ञाविविष्टधर्मिबोध इति बोध्यम्। साध्यः साध्यत्वेन विवक्षितः । कृदाख्यातप्रकृत्यर्थ इत्यर्थः । पदार्थस्य पदोद्देशस्य (गवादेः)। प्राणप्रद इति। प्राणनं प्राणो व्यवहारयोग्यता तत्प्रदस्तन्निर्वाहक इत्यर्थः। सर्वगोव्यक्तिवृ- त्तिर्जातिरिति यावत्। व्याख्यातं चैवमेव रसगङ्गाधरे। "अयं च जातिरूपः शब्दार्थः प्राणप्रद इत्युच्यते। प्राणं व्यवहारयोग्यतां प्रददाति संपादयतीति व्युत्पत्तेः" इति। प्राणप्रदत्वं यावद्वस्तुस्थितिसंबन्धित्वमिति १ "धातोरर्थातरे वृत्तर्धात्विर्थेनोपसंग्रहात्। प्रसिद्वेरविवक्षातः कर्मणोऽकर्मिका किया ॥" इति। धातोरथन्तिरे वृत्तेर्यथा। वहति भारम्। नदी वहति । स्यन्दते इत्यर्थः । धात्वर्थेनोपसंग्रहादथा। जीवति प्राणधारणं करोतीत्यर्थः । नृत्यति नर्तनं करोतीत्र्थः। प्रसिद्धेर्यथा मेघो वर्षति। अत्र जलमिति कर्म प्रसिद्धम्। कर्मणोSविवक्षातो यथा 'हितान्न यः संशणुते स किंप्रभुः'। अत्र हितमिति कर्म अविवक्षितमिति बोध्यम्॥ २ आक्षेपपदार्थस्तु अनुमानमिति। १० कारिकावृत्तौ स्फुटमिविष्यति॥३ 'आक्षेपेणैव निर्वाहः' इत्यत्रैवो र्युक्तरीत्येत्यथ्षः ॥ काव्यप्रकाश ५

Page 93

३४ काव्यप्रकाशः सटीकः । द्वितीयो गुणः । शुक्कादिना हि लब्धसत्ताकं वस्तु विशिष्यते। नरसिंहठकुरादयः । विशेषेति। सजातीयेभ्यो व्यावर्तनं विशेषः। 'शिष असर्वोपयोगे' इति धात्वनु- सारात्। तस्य आधानं प्रत्ययस्तस्य हेतुरित्यर्थः । आद्यः पदार्थस्य प्राणप्रदः। जातेः प्राणप्रदत्वे वृद्धसं- मतिमाह उक्तं हीति। वाक्यपदीयं नाम भर्तृहरिकृतो महाभाष्यव्याख्यानरूपो व्याकरणग्रन्थः । गौः गोपदोद्देश्यो धर्मी। स्वरूपेणेति। 'जातिरहितव्यक्तिमात्रेणेत्यर्थः' इति टीकाकाराः। 'अज्ञातगोत्वकेन धर्मिस्वरूपमात्रणेत्यर्थः' इत्युद्दयोतकाराः । न गौः न गौरिति व्यवहारविषयः । अन्यथा घटोऽपि गौः स्यातवरूपाविशेषादिति भावः। नाप्यगौः नाप्यगौरितिव्यवहारविषयः। तथा सति गौरप्यगौः स्यादिति भावः। अगौरित्यत्र "गोरतद्धितलुकि" (५४।९२) इति पाणिनिसूत्रविहितः टच्प्रत्ययस्तु न। "नञस्तत्पुरुषात्" (५४।७१) इति सूत्रेण तन्निषेधात्। गोत्वाभिसंबन्धादिति। गोत्वान्वयज्ञाना- दित्यर्थः। 'गोत्वसमवायादित्यर्थः' इति नरसिंहठक्कुराः। एवं च यावद्रोव्यवहारं तत्र गोपिण्डे गोत्वस्य सत्वात्प्राणप्रदत्वमिति भावः। गौः गौगिति व्यवहारविषयः। व्याख्यातमिदमेवमेव रसगङ्गाधरकारैरपि। "गौ: सास्नादिमान् धर्मी स्वरूपेण अज्ञातगोत्वकेन धर्मिस्वरूपमात्रेण न गौः न गोव्यवहारनिर्वाहकः। नाप्यगौः नापि गोभिन्न इति व्यवहारस्य निर्वाहकः। तथा सति दूरादनभिव्यक्तसंस्थानतया गोत्वाग्रह- दशायां गवि गौरिति गोभिन्न इति व्यवहारः स्यात्। स्वरूपस्याविशेषाद्घटे गौरिति गवि चागौरिति वा व्यवहारः स्यादिति भावः। गोत्वाभिसंबन्धात् गोत्ववत्तया ज्ञानात् गौर्गोशब्दव्यवहार्यः" इति। एवं च "नित्यमेकमनेकानुगतं सामान्यम्" इति जातिलक्षणं फलितम् । अधिकं तु १६७ सूत्रे द्रष्टव्यम् ॥ द्वितीय: विशेषाधानहेतुः। शुक्कादेर्गुणस्य विशेषाधानहेतुत्वं कथयति शुक्कादिना हीति। अस्य 'विशिष्यते' इत्यनेनान्वयः। लब्धसत्ताकं जात्या प्राप्तव्यवहारयोग्यताकम्। वस्तु व्यक्तिः । विशिष्यते सजातीयेभ्यो व्यावर्त्यते। अत्र लब्धेत्यतीतनिर्देशेनोत्पन्नस्य द्रव्यस्य पश्चाद्गुणेन योग इति दर्शितम्। एवं चोत्पन्नस्य द्रव्यस्य क्षणमेकं निर्गुणत्वम्। जातियुक्तद्रव्यस्यैवोत्पत्तिः 'जन्मना जायते जातिः' इत्यभियुक्तोक्तेः । अतो जातिगुणयोर्महान् भेद इति टीकाकाराः। प्रदीपकारास्तु "यद्यपि शुक्ादिगुणस्य नित्यत्वाभ्युपगमे गोत्वादिना समकालमेव संबन्धित्वम्। तथापि शुक्कादिगुणस्य संबन्धः कदाचित् अपैत्यपि न तु गोत्वादेरिति जातिगुणयोर्भेदः" इत्याहुः । अत एव "वोतो गुणवचनात्" (४।१।४४) इति सूत्रे महाभाष्ये गुणलक्षणमुक्तम् "सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । १ अनेकानुगतम् अनेकसमवतम् ॥२ सामान्यं जतिः। "जतिर्जातं च सामान्यम्" इत्यमरः ॥ ३ पाका- वस्थायां रञ्जनावस्थायां च पाकेन रञ्ञनेन च वर्णान्तरकरणे इत्यर्थः ॥अपैति अपगच्छति॥ ५ सत्वे इति। सत्वं द्रव्यम्। सत्त्चे एव निविशते इति सावधारणं व्याख्येयम्। सत्तमेवाश्रयते इत्यर्थः। एतेन जातिर्व्यावर्त्यते। सा हि न केवलं द्रव्ये वर्तते। किंतु द्रव्यगुणकर्मसु। ननु द्रव्ये एव द्रव्यत्वं वर्तते इति तत्रातिव्याप्तिरत आह अपैतीति । अपगच्छतीत्यर्थः। अर्थात्सत्त्वादेव । यथा पीितायां जातायां फलादेरनीलता नैवं द्रव्यत्वं द्रव्यादपौति। एवमपि गोत्वं गोषु वर्ततेऽश्वादेश्वापैति तत्रातिव्यप्तिरत अह पृथग्जातिषु दृश्यते इति। भिन्नजातिषु द्रव्येषु दृश्यते इत्यर्थः। गोत्वं हि द्रव्यत्वावान्तरनानाजातिषु न दृश्यते। गुणस्तु दृश्यते। यथा अभ्रे दृष्टा नीलता तृणादिष्वपि दृश्यते। एतेन पूर्वा- र्धेन सकलजातेर्व्यवच्छेदः । एवं तहिं करिया द्रव्ये वर्तते ततोौते पृथग्जातिषु दृश्यने चेति तत्रातिव्याप्तिरत आह आधेचश्राक्रियाजश्र्ेति। आधेयः उत्पाद्यः । यथा घटादेः पाकजो रुपादिः। अक्रियाजः अनुत्पादयः। यथा आकाशा- देर्महत्त्वादिः। करिकिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्य: द्वैविध्याभावाद्गुणत्वाभावः। एवमपि द्रव्यस्य गुणत्वं प्राप्तो- ति। अवयविद्रव्यं हि अवयवद्रव्येषु निविशते। असमवायिकारणसंयोगनिवृत्तौ विनाशात्ततोऽपैति। भिन्नजातीयेषु च हस्तपादादिषु दृश्यते। द्विविधं च भवति नित्यानित्यभदेने। निश्वयवस्य द्रव्यस्यात्मपरमाण्वादेर्नित्यत्वाद्वयविद्रव्यस्य

Page 94

द्वितीय उल्लासः । ३५

साध्य: पूर्वापरीभूतावयः क्रियारूफ । डित्थादिशब्दानामन्त्यवुद्धिनिग्राहं संहृतक्रमं स्वरूपं वक्त्रा यदच्छया डित्थादि- ष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोडयं संज्ञारूपो यदच्छात्मक इति। आधेयश्वाक्रियाजश्च सोऽस्त्वप्रकृतिर्गुणः ॥" इति। अत्रेदमवगन्तव्यम् "चतुष्टयी शब्दानां प्रवृत्तिः" इति वक्ष्यमाणमहाभाष्योक्तेर्जातिक्रियाद्रव्यातिरिक्तं धर्ममात्रं गुण इति पर्यवस्यति। तेनाभावादेरपि गुणत्वमित्यग्रे १६७ सूत्रे ४८२ उदाहरणे च स्फुटीभविष्यति। एवमेवोक्तम् "वोतो गुणवचनात्" इति सूत्रे तत्त्वबोधिन्यामपि "संज्ञाजातिक्रियाशब्दान् हित्वान्ये गुणवाचिनः। चतुष्टयी शब्दाना प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेष निर्णयः" इति । साध्यस्य लक्षणमाह साध्य इत्यादिना। क्रियात्वं च साध्यत्वेन प्रतीयमानत्वम्। साध्यत्वं चोत्पा- द्यमानत्वमिति भूवादिसत्रे शब्दरत्ने उक्तम् । साध्यत्वमेव दर्शयति पूर्वापरीभूतेति। पूर्वापरीभूताः क्रमिका अवयवा एकदेशाः (अधिश्रयणादयोऽवतारणान्ताः) यस्य तथाभूत इत्यर्थः । बौद्धोऽधि- श्रयणाद्यवतारणान्तव्यापारसमूहो हि पाकक्रिया। विक्कित्यनुकूलत्वेन तेषामनुगमान्न नानार्थता । तत्र सर्वप्रागभावे भविष्यत्वम्। सर्वध्वंसे भूतत्वम्। कस्यचिद्वर्तमानत्वे वर्तमानत्वम्। एवं च भासमानपौ- र्वापर्षकावयवकत्वसमानाधिकरणो धर्मविशेषः साध्यत्व्रमिति फलितम् । क्रियारूप इति। धातुवाच्य इति यावत्। तथा च पचादीनां धातूनां क्रि्यानां शक्तिः। यदुक्तं वाक्यपदीये भर्तृहरिणा "यावत्सिद्ध- मसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ इति। अस्यार्थः । सिद्धं भूतं (विद्यमानध्वरंसप्रतियोगि) यथा अपाक्षीदित्यादौ। असिद्व भतभिन्नं (वर्तमानतादृशप्रागभावप्रति- योगि) च। यथा पचति पक्ष्यतीत्यादौ। यावत् सर्व व्यापारवृन्दं साध्यत्वेन तत्प्रकारेणाभिधीयते सा अभिधीयमाना क्रियेत्यमिधयिते क्रियेति कथ्यते इत्यन्घयः । सिद्धमसिद्धं वेत्यत्र हेतुः आश्रितेति । आश्रितं क्रमरूपं येन त्त्वादित्यर्थः। यद्वा। आश्रितेति योगप्रदर्शनं कृतम्। अवयवानां क्र्मेणोत्पत्त्येति। अत्र केचित् "साध्य इत्युपलक्षणं सिद्धस्यापि। अत एव 'एवमेव पाकत्वादि' इति (३७ पृष्ठे) वृत्तौ वक्ष्यमाणं संगच्छते। उक्तं च क्रियाया द्वैविध्यं वैयाकरणभूष्रणे 'साध्यत्वेन क्रिया तत्र धातु- रूपनिब्रन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥' इति। तथा च क्रियान्तराकाङ्का- नुत्थापकतावच्छेदकरूपवत्त्वं कारकान्वयितावच्छेदकरूपव्त्ं वा साध्यत्वम्। यथा पचति पक्ष्यति अपाक्षीदित्यादौ। एतदेव चासत्वभूतत्वम् । अत एव 'असत्त्वभतो भावश्च तिङ्पदैरभिधायते' इति भर्तृहरिणाप्युक्तम्। क्रियान्तराकाङ्कोत्थापकतावच्छेदकरूपवत्त्वरं कारकानन्वयितावच्छे- करूपवत्त्वं वा सिद्धत्वम् । यथा पाकः पक्तिः पचनमित्यादौ । अत एव च सत्त्वभूनत्वम्" इत्याहुः ॥ वक्तृयद्टच्छेत्यादिनोक्तं चतुर्थमुपाधिं विशदयति डित्थादीति। डित्थादिशब्दानां डित्थडवित्थ- चैत्रमैत्रदेवदत्तयज्ञदत्तादिसंज्ञाशब्दानां (प्रथमादिवर्णबुद्धया क्रमशः अल्पावयवावच्छेदेन चक्षुःसंनि- तु घटादेरनित्यत्वादत आह असत्व्प्ररुतिरिति। अद्रव्यस्त्रभाव इत्यर्थः । अत्र पृष्थजातिण्वित्यसमासः। समासे हि "जात्यन्ताचछ बन्धुनि " (५l४९) इत छः प्रमज्येत। तत्र व्यक्तिषु जात्याधारेषु ( पदार्थषु) दृश्यमानो जातिषु दृश्यते इत्युच्यते इति तत्त्वचोधिन्यां कैयटे च स्पष्म् ॥ १ द्रव्यं संज्ञा सैव यदृच्छेत्युक्तं प्राक्।।ार चि (PEIPIA

Page 95

३६ काव्यप्रकाशः सटीकः । "गौःशुकथलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः"इति महाभाष्यकारः । परमा- कर्षे पटर्येव किंचित्किंचिदभिव्यक्तम्) अन्त्यो यो वर्णस्तद्वुद्धया निर्ग्राह्यं निःशेषतो ग्राह्यमित्यर्थः । पूर्वपूर्ववर्णानुभवजनितसंस्कार सहकृतयान्त्यवर्णबुद्धया (सर्वावयवावच्छेदेन चक्षुःसंनिकर्षे संपूर्णपट- स्येव) स्फुठतरमभिव्यक्तमिति यावत्। संहृतक्रममिति। संहृतः शून्यः क्रमो वर्णक्रमो यस्य तत्। वर्ण- क्रमशून्यमित्यर्थः । यथा पटप्रत्यक्षे न तन्तुक्रमभानं तद्वत् वर्णक्रमग्रहशून्यमिति यावत्। स्वरूप- मिति। स्फोटाख्यशब्दस्वरूपमित्यर्थः । एकः पट इतिवदेकं पदमिति व्यवहारात्स्फोटाख्य: शब्द: स्वीक्रियते इति भावः । वक्त्रा पालकादिना । यदच्छयेति। या इच्छा यदृच्छेति मयूरव्यंसकादि- त्वात्कर्मधारयसमासे मयूरव्यंसकादेराकृतिगणत्वेन तत्र निपातनात्साधु। डित्थादिपदं डित्थादिनाम- विशिष्टतत्तदर्थबोधकं भवत्वित्याकारया स्वेच्छयेत्यर्थः । उपाधित्वेन विशेषणतया नामतया वा। संनिवेश्यते स्थाप्यते कल्प्यते वेत्यर्थः । इतिशब्दो हेतौ । द्वितीय इतिशब्दस्तु जात्यादिविभागपरि- समाप्तिद्योतकः । यद्टच्छाकल्पितत्वात् यदृच्छाशब्द इति व्यवहारस्तदाह यदृच्छात्मक इति। यह- च्छया स्वेच्छया (पुंसः स्वतन्त्रेच्छया) आत्मा स्वरूपं यस्य ताद्वश इत्यर्थः । अयमेव संज्ञाशब्दो द्रव्य- शब्द इति च व्यवहियते। श्रावणज्ञानस्य शाब्दबोधे हेतुत्वाङ्गीकाराच्च नात्माश्रयदोष इति बोध्य- मित्युद्दयोते स्पष्टम् ।। चण्डीदासास्तु "अन्त्यं व्यवच्छेदम्। तच्च स्त्रलक्षणं धर्मित्वरूपं बुद्धया तद्द्वारा निर्ग्राह्यं निःशेषतो ग्राह्यं यस्य (शब्दरूपस्य) तादृशम्। शब्दज्ञानेन धर्मिप्रत्यायनादिति भावः। संहृतक्रमं जातिप्रतीत्यन- न्तरं आक्षेपादिना व्यक्तिप्रतीतिरिति गवादिपदे यः क्रमः तच्छून्यम्। आहत्यैव धर्मिप्रत्यायनादिति भावः। डित्थादिशब्दाना डित्थादीनां शब्दानां स्वरूपम् आनुपूर्वी इत्यन्वयः। ननु गवादिपदे जात्यादिवत् इह संज्ञाया एवोपाधित्वात्कथमेतदत आह उपाधित्वेनेति। पदार्थोपस्थित्यनुकूलत्वेने- त्यर्थः। संनिव्रेश्यते संकेत्यते। केवले धर्मिण्येवेति शेषः। उपाध्यन्तरं तेषां नास्ति। किंतु धर्मिमात्रं ततः प्रतीयते। पदान्निर्विकल्पकं तु आकाशपदादाविष्टमेव। अत एवास्य द्रव्यशब्दत्वेन व्यवहारः इति वृत्त्यर्थः" इत्याहुः। तच् महाभाष्यविरुद्धम्। महाभाष्ये शब्दस्यैव्रोपाधित्वेन व्यवस्थापनात्। डित्थादिशब्दात् डित्यादिनामायमिति प्रतीतेश्व । कि चात्र पक्षेऽनत्येत्यादि व्यर्थम्। सर्वेषामेत्र शब्दानां स्वज्ञानद्वारार्थज्ञानजनकत्वात्। अन्त्यशब्दस्य प्रागुक्तेऽर्ये शक्त्यभावाच्च। अपि च। बह्ु- त्रीहौ बुद्धिनिर्ग्राह्यान्त्यकमिति स्यात्। विशेषणत्वात्। किंचोपाधित्वेनेत्यसमञ्जसम्। सर्वेषामेव शब्दान। तथात्वेनास्य वैलक्ष्यण्यानापत्तेर्लक्षणापत्तेश्वेति प्रदीपोद्दयोतयोः स्पष्टम्। तदेव प्राणप्रदो जातिः। विशेषाधानहेतुर्गुणः । साध्यः क्रिया। यद्च्छाशब्दो डित्थादिरिति चतुर्धा उपाधिरुक्तः । तत्र संमतिमाह गौः शुक्ल इति। चतुष्टयीति। शब्दानामर्थे या प्रवृत्तिः सा प्रवृत्तिनिमित्तमेदात्प्रकारचतुष्टयवतीत्यर्थः । यद्वा । प्रवृत्तिरित्यस्य "नामैकदेशे नामग्रहणम्" इति न्यायेन प्रवृत्तिनिमित्तमित्यर्थः । प्रवृत्तिनिमित्तत्वं च यज्ज्ञानाच्छब्दप्रवृत्तिस्त्त्त्वम् । तथा च शब्दानां प्रवृत्तिनिमित्तं चतुर्विधमित्यर्थः । एवं च उपाधेः (विशेषणस्य जात्यादेः) चातुर्विध्यात् शब्दस्यापि जातिशब्दो गुणशब्दः क्रियाशब्दो यदृच्छाशब्द इति चातुर्विध्यमिति भावः । प्रवृत्तिरितीत्यस्य "ऋतक्" सूत्रे उवाचेति शेषः । महाभाष्यकारः पतञ्जलिः । ननूक्तरीत्या परमाणुत्वस्य प्राणपद- १ "सप्तमीविशेषणे बहुवीहौ" ( २।२।३५) इति पाणिन्यनुशासनेन विशेषणस्य पूर्वनिपातविधानादिति भावः ॥

Page 96

द्वितीय उल्लास:। ३७

ण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम्। गुणक्रियायदच्छानां वस्तुत एकरूपा- णामप्याश्रयभेदाद्व्ेद इव लक्ष्यते। यथैकस्य मुखस्य खङ्गमुकुरतैलाद्यालम्बनभेदाव्। हिमपय:शङ्गाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्कादिषु यद्वशेन शुक्क: शुक्क इत्याद्यभिन्नाधा- नप्रत्ययोत्पत्तिस्तत् शुककत्वादि सामान्यम्। गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि।बा- लवृद्धशुकाद्युदीरितेषु डित्थादिशन्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्य- त्वेन जातितया परमाण्वादिशब्दानामपि जातिशब्दतया कर्थ वैशेषिकशास्त्रादौ गुणशब्दत्वेन व्यवहार इत्यत आह परमाण्वादीनामिति। परमाणुलक्षणमुक्तं प्राक् (५ पृष्ठे) । आदिना परममहच्छब्द- संग्रहः । पारिभाषिकं परिभाषया प्राप्तम्। जातिशब्दा एव ते। वैशेषिकनयानुसारेण तु गुणशब्द- व्यवहारः । स च भाक्त इति भावः । एवं चास्मदुक्तजातित्वस्य वैशेषिकाभिमतगुणत्वेन न विरोध इति तत्वम्। ननु शङ्पयःपटादिनिष्ठानां शुककत्वादिगुणानां गुडतण्डुलादिनिष्ठानां पाकादिक्रियाणां च प्रतिधर्मिवैधर्म्यदर्शनात् नानात्वेन तत्र शक्तौ स्वीकृतायां व्यक्तिपक्षवदानन्व्यव्यभिचारयोर्दोषयो- रापात इत्यत आह गुणक्रियेति। वस्तुतः स्वरूपतः । भेद इवेति। स एवायमिति प्रत्यमिज्ञया शुक्कादीनामैक्यसिद्धौ भेदप्रतीतिराश्चयभेदौपाधिकी। तत्संबन्धस्यैव च नाशोत्पादाविति भावः। एकस्यो- पाधिवशादनेकत्वप्रतीतौ दृष्टान्तमाह यथैकस्येति। मुकुरो दर्पणः। आलम्बनं प्रतिबिम्बाश्रयः । भेदादिति। 'भेद इव लक्ष्यते' इत्यनुषज्यते। यया हि कृपाणमुकुरतैलादीनां प्रतिबिम्बाश्रयाणां भेदादेकमेत्र मुखं खङ्गे दीर्ध मुकुरे अणुमहद्रूपं तैले स्न्निग्धमिति एवंरीत्या नानाकारत्वेन भासते तथैव शुक्कत्वादिरेक एव शङ्गाद्याश्रयवान्नानात्वेन स्फुरतीत्यर्थः ॥ एवं "जात्यादिर्जातिरेव वा" इति सत्रोक्तं जात्यादिरिति पक्ष (महाभाष्यकारसंमतं) व्याख्याय इदानीं "जातिरेव वा" इति (पूर्वमीमांसकसंमतं) पक्षं व्याचष्टे हिमेति। हिमपयःशङ्गादय आश्रयाः येषामिति बहुव्रीहिः । हिमो 'बर्फ' इति लौकिकभाषायां प्रसिद्धः । पयो दुग्घम्। शङ्खः कम्बुः । आदिशब्देन जलादिपरिग्रहः। परमार्थतः वस्तुतः। भिन्नेष्विति। इदं शुक्कं शुकनरं शुक्कतममित्यादि- प्रतीतेः। पाकाच्छुककं रूपं नष्टं श्याममुत्पन्नमिति अब्राधिततारतम्यप्रतीतेश्वेति भावः । न चे्य भ्रान्तिः । बाधाभावादित्याशयः। शुक्लादिषु गुणेषु। अभिन्नेति। अभिधानं शा्दव्यवहारः । प्रत्ययो ज्ञानम्। अभिन्नौ एकाकारौ यौ अभिधानप्रत्ययौ तयोरुत्पत्तिरित्यर्थः । केचित्तु अभिन्नमेकं यत् अभिधानं शब्दस्तेन या ज्ञानोत्पत्तिरित्याहुः। सामान्यमिति। जातिरित्यर्थः। "जातिर्जातं च सामान्यम्" इत्य- मरः । अस्तीत्यग्रिमेणान्वयः । अतस्तत्रैव संकेतः इति शेषः । एवमेवेति । क्रियाशब्देष्वपि गुडतण्डुलादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेन स्थिताः क्रियाविशेषास्तत्समवरेतं सामान्यमस्ति तद्वशेनायं पाकोऽयं पाक इत्यभिन्नाभिधानप्रत्ययोत्पत्तिरित्यर्थः । पाकत्वादीति। सामान्यमिति शेषः । अस्तीत्यग्रिमेणान्वयः । डित्थत्वादिजातेरनेकव्यक्त्यनुगतत्वोधपत्तये तारत्वमन्द्रत्वादिना शब्दे नानात्वं प्रदर्शयितुमाह बालेत्यादि। शुकः कीरः । आदिशब्देन सारिकायाः संग्रहः। डित्थादिश्देषु यदच्छाशब्देषु। चकारः पूर्वोक्तसमुच्चायकः । एवं शब्दगता जातिरिति मते शब्दे नानात्वं प्रदर्श्य अर्थगता जातिरिति मैते अर्थे नानात्वं प्रदर्शयितुमाह प्रतिक्षणं भिद्यमानेष्त्रिति। प्रतिक्षणं भिन्नेषु १ गुडतण्डलादिनिष्ठाना मति। तन्निष्ठाविक्कित्तीनां भेदे तद्नुकलव्यापाराणामपि भेद इति भावः। कारणभेदस्य कार्यभेदनियामकत्वादित्याशयः ॥ २ वैधर्म्यदर्शनात् भेददर्शनात्॥ ३ बाधशिरस्कस्यैव भ्रमत्वाङ्गीकारादिति बोध्यम्॥ ४ प्रथममते ॥ ५ द्वितीयमते। चण्डीदासास्तु इत्यादिना ( ३६ पृष्ठे) उक्ते इत्यर्थः॥

Page 97

३८ काव्यप्रकाश: सटीकः । स्तीति सर्वेषां शब्दानां जातिरव प्रवृत्तिनिमित्तमित्यन्ये। तद्वान् अपोहो वा शब्दार्थः कैशिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्।। पिण्डेषु स्वाभाविकं डित्थत्व्ादि सामान्यमस्तीत्यर्थः । अत्र पक्षे क्षणरूपविशेषभेदा्द्वेदः । यद्वा। क्षणोSत्र बाल्ययौवनाद्यवस्थाकालः। तत्र वृद्धिह्वासदर्शनेन धर्मिभेदस्वीकारात्। वस्तुतस्तु क्षणपद लव- मुहूर्तादिपरम्। कालमेदे स्थौल्यकृशत्वाद्युपलब्धेर्भेदसिद्धिरिति बोध्यम्। डित्थत्वादिजातेरनेकव्यक्ति- वृत्तित्वोपपादनाथ व्यक्तिभेदप्रदर्शनम्। वाशब्दः शब्दार्थगतजात्योर्वादिभेदेन विकल्पार्थः । केचित्तु वाशब्द इवार्थे ("वा स्याद्विकल्पोपमयोः" इति विश्वकोशात्) शब्देष्वित्यनन्तरं योज्यः। शब्देष्त्रिव भिद्यमानेष्वर्थेष्वित्यन्वयः इत्याहुः। जातिरेवेति पक्षमुपसंहरति इतीति। सर्वेषां 'गौः शुकश्चलो डित्थः' इत्यादीनाम्। प्रृवृत्तिनिमित्तं संकेतविषयः । अन्ये पूर्वमीमांसकाः । ननु महाभाष्यकारमते उपाधावेव शक्तिः । मीमांसकमते जातावेव शक्तिस्तदा क्थ व्यक्तिभानमिति चेन्न। १३ सूत्रे "व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते" इति वृत्तिग्रन्थेन तद्धानस्य वक्ष्यमाणत्वात्। ननु मतान्तराणामपि स्त्त्वात्तानि कुतो नोपन्यस्तानीत्यत आह तद्वानिव्यादि। व्यक्तिवि शेषमनुपादाय तद्वान् सामान्यतो जातिमान् शब्दार्थ इति नैयायिकमतम्। एतच्च प्रदीपे तट्टीकायां च विस्तरेण प्रतिपादितम् । तथाहि। "न व्यक्तिमात्रं शक्यं न वा जातिमात्रम्। आद्े आनन्त्याद्यभिचाराच्च। अन्त्ये व्यक्तिप्रतीत्यभावप्रसङ्गात् । न चाक्षेपाद्यक्तिप्रतीतिरिति वाच्यम्। तथा सति वृत्त्यनुप- स्थितत्वेन शाब्दबोधविषयत्वानुपपत्तिः । तस्माज्जातिविशिष्टे एव संकेतः" इति। अपोह इति। गोशब्दश्रवणात्सर्वासां गोव्यक्तीनामुपस्थितेरतस्मादधवादितो व्यावृत्तिदर्शनाच्च अतद्वयावृत्तिरूपोडपोहो वाच्य इति बौद्धमतम्। व्याख्यातमिदं प्रदीपादौ। "व्यक्तावानन्त्यादिदोषाद्गावस्य च देशकालानुगमा भावात्तदनुगतायामतद्यावृत्तौ संकेत इति सौगताः" इति प्रदीपः । (भावस्य जात्यादिरूपस्य । देशेति। भावमात्रस्य क्षणिकत्वादिति भावः । अतद्व्यावृत्तौ अघटकव्यावृत्तौ) इति प्रभा। (अनु- गमाभावादिति। क्षणभङ्गवादिनः स्थिरसामान्याभावादित्यर्थः) इत्युद्योतः । "अतद्यावृत्तिरपोहः पदार्थ इति क्षणभङ्गवादिनः। तन्मते स्थिरस्य सामान्यस्याभावात् अपोहमात्रेणानुगतव्यवहार इति तत्रैव शक्तिः" इति चक्रवर्तिभट्टाचार्यकृतविस्तारिकायामपि स्पष्टम्। "जातेरदृष्टत्वेन विचारासहत्वात् व्यक्तेश्व क्षणिकत्वादुभयत्रापि संकेतस्य कर्तुमशक्यत्वात् गवादिशब्दानामगवादिव्यावृत्तिरू गेSपोहो- 5र्थः" इति वैनाशिकमतमित्यन्यत्रापि व्याख्यातम्। ननु गोज्ञानात् गवि प्रवृतिवत् अश्वेऽपि निवृत्ते- रानुभाविकत्वात्स कथ नोक्त इत्यत आह ग्रन्थेत्यादि। गौरवं बाहुल्यम्। ननु प्रयोजनसद्धावे गौरवमप्यङ्गीकार्यमित्यत आह प्रकृतेति। मतद्वयोपन्यासेनैव संकरेतितसाकल्यप्रतीतेर्मतान्तरोपन्यासो व्यर्थ इत्यर्थ इति प्रभायां स्पष्टम्। उद्दयोतसारबोधिनीकारादयस्तु तर्हि जात्यादयोऽपि न वक्तव्या इत्यत आह प्रकृतेति। उपाधिशक्तितादे उपाधेयस्य व्यङ्गयत्वसंभवात्तन्मतानुवाद: प्रकृतोपयोगी। उपहितशक्तिवादस्तु प्रतिकूलप्राय इति न तदनुाद इति भाव इत्याहुः। तत्र 'व्यङ्गयत्वसंभवात्' इति न रुचिरम्। १३ सूत्रवृत्तौ "वयक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्पते (अनुमीयते)" इति ग्रन्थेनोपधियस्यानुमानविषयताया एत्र मूलकृता वक्ष्यमाणत्वात्। न दर्शितमिति। न साधकबाधक- १ उपाधेयस्येति। विशेष्यस्येत्यर्थः। व्यक्तेरिति यावत् ॥

Page 98

द्विरताय उल्लास:। ३९

(सू० ११) स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ॥८ ॥

दर्शनेन दर्शितमित्यर्थः। "अत्र 'इति महाभाष्यकारः' 'इत्यन्ये" इति कैश्चित् ' इत्यादिभिः पदैः सर्व- स्मिन्नपि पक्षेऽस्वरसोद्धावनम्। तद्वीजं तु भट्टमते च जातेरेव शक्यत्वे गोपदात् गोव्यक्तिभानानुप- पत्तिः। व्यक्तिजात्योः सामानाधिकरण्याभावाद्याप्तेरभावेनाक्षेपासंभवात्। तादात्म्यसंबन्धेन व्याप्तेर- भ्युपगमेऽपि व्यक्तेरपदार्थत्वे विभक्त्यर्थसंख्याकर्मत्वादेर्व्यक्तावनन्त्यः । सुब्धिमक्तीनां प्रकृत्यर्थान्वि- तस्वार्थबोधकत्वव्युत्पत्तेः । प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तौ लक्षणाद्युच्छेदः। शक्तिग्राहकानयना- दिव्यवहारस्य जातिविषयत्वाभावश्च। गुरुमतेऽपि व्यक्ति बिना जातेरग्रहेण व्यक्तेरपि शक्तिग्रहविषय- तया तद्विषयत्वाविशेषाज्जातिमात्रविषयत्वस्य कारणतावच्छेदकत्वे विनिगमनािरहः। न्यायादिमतेऽपि जात्यादेः शक्तिविषयत्वे गौरवम्। तस्माद्वयक्तिपक्ष एव क्षोदैक्षमः" इति नरसिंहठक्कुराः। वयं तु इत्थं प्रतीमः। महाभाष्यकारोक्तपक्ष एव ग्रन्थकृदभिप्रेतः। अत एव प्रथमोल्लासे १९ पृष्ठे "बुधै्वैयाकरणैः" इत्यादिना "ततस्तन्मतानुसारिभिन्यैरपि" इत्यन्तेन ग्रन्थेन वैयाकरणमतानुसारित्वमलंकारिकाणां ग्रन्थ- कृता प्रतिपादितम्। अत एव च दशमोल्लासे "जातिश्वतुर्मिर्जात्यादयैर्विरुद्धा स्याद्गुणस्त्रिमिः । क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश ॥" इति १६७ सूत्रेण प्रतिपादिता विरोधालंकारस्य दश विभागा: संगच्छन्ते। अन्यथा पदार्थचतुष्टयाभावेन तदसंगतिः स्पष्टैव स्यात्। अत एव च मम्मटः शब्दव्यापार- विचाराख्ये स्वकृतग्रन्थान्तरेऽपि जात्यादिरिति वैयाकरणपक्षमेव युक्तिप्रयुक्तिभिः संस्थाप्य जातिरेवेति मीमांसकपक्षमाशङ्कय खण्डितवानिति ॥ ननु वाच्यलक्ष्यव्यङ्गयाः पदार्था इति विभागोऽनुपपन्नः । मुख्यत्वेन प्रसिद्धस्य तुरीयस्यापि सत्त्वादि- त्यत आह स मुख्योऽर्थ इति। स इत्यवधारणगर्भ पदम्। स साक्षात्संकेतित एवार्थो मुख्यः मुख्यत्वेन प्रसिद्ध इत्यर्थः। प्रथमं प्रतीयमानत वेनैवार्थस्य मुख्यत्वोपपत्तिः। तथाहि। शब्दव्यापारात योऽर्थोडव्य- वधानेन गम्यते सोऽर्थो मुख्यः। स हि यथा सर्वेभ्यो हस्तादिम्योऽयवेभ्यः पूर्व मुखमवलोक्यते तथा सर्वेभ्यः (लक्ष्यव्यङ्गयतात्पर्यरूपेभ्यः) प्रतीयमानेभ्योऽर्थेम्यः पूर्वमगवम्यते। तस्मान्मुखमिव मुख्य इति "शाखादिम्यो यः" (५/३।१०३) इति पाणिनिसूत्रेण यप्रत्यय इति। एवं मुख्यार्थविषयः शब्दोऽपि मुख्यः। अत एवाग्रे १३ सूत्रे "मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः" इति वृततिग्रन्थ उपपद्यते इति बोध्यम्। यत्तु "मुख्यार्थबाधे तद्योगे" इत्याद्युत्तरसूत्रोपयुक्ततया वाच्यस्य संज्ञान्तरं करोति स मुख्यार्थ इतीति सूत्रावतरणम् तदयुक्तम्। "वाच्यार्थबाधे तद्योगे" इत्यवमेव तत्रोपपत्तौ तदर्थ संज्ञान्तरकरणस्य गौरवेणानौचित्यात्। अभिधाव्यवहारस्य "नाभिधा समयाभावात्" इति २४ सत्रादौ दर्शनात्तामभिधां लक्षयति तत्र मुख्य इत्यादिना। तत्रेति विषयसप्तमी। तत्र साक्षातसंकेतितेऽर्ये (साक्षात्संकेतितार्थविषयकः साक्षातसंकेति- तार्थबोधकः ) यः अस्य शब्दस्य (न तु व्याप्तिज्ञानादेः) मुख्यः बाधाद्यनुपजीवकः वृत्त्यन्तरानुपजी- वको वा व्यापारो वृत्तिः सोऽभिधेत्युच्यते इत्यर्थः । एवं च शक्त्यपरपर्यायः संकेतितार्थबोधजनको व्यापारोडभिधा। संकेतश्च शक्तिग्राहकः समयः।स चास्मादयमर्थो बोद्धव्य इत्याकार इति प्राक् (९सूत्रे ३१ पृष्ठे) प्रतिपादितमिति द्वयोर्भेदः । अत एव "नाभिधा समयाभावात्" इति २४ सूत्रे तयोर्भेदेन १ एकतरपक्षपातिनी युक्तिविनिगमन। तस्याः विरहोऽभाव इत्यर्थः ॥ २ क्षोदक्षमः विचारसहः ॥

Page 99

४0 काव्यप्रकाश: सटीक: ।

स इति साक्षात्संकेतितः । अस्येति शब्दस्य ।। (मू० १२) मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्। अन्योरऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ९॥ निर्देश: । "व्यापारस्य मुख्यत्वोत्कीर्तनं वक्ष्यमाणस्य लक्षणायास्तद्बाधपुरःसरत्वस्योपपत्तये" इति प्रदीपः । (तद्बाधेति। "मुख्यासंभवरे हि तदन्याङ्गीकारः" इति न्यायादिति भावः) इति प्रभा।(तद्बा- धेति। अस्य मुख्यत्वे एतदभावेऽन्याश्रयणमित्यर्थाल्लम्यते। लोकेऽपि ग्रामे कस्यचिन्मुख्यत्वे तदभावे गौण आयाति) इति उद्दयोतः । चक्रवर्त्यादयस्तु नानार्थव्यञ्जनावारणाय मुख्य इति। मुखे आदौ साधुर्मुख्यः प्रथमप्रत्यायकः।सा च (नानार्धव्यञ्जना च) न तथा अभिधेयार्थप्रतीत्या व्यवधानात्। अपभ्रंश- वारणाय तत्रेति। तत्र (अपभ्रंशे) साक्षात्संकेताभावस्य दर्शितत्वात्। यत्तु मुख्य इति अभिधेति च नामद्वयमिति केनचिदुक्तम् तन्न। शाब्दव्यञ्जनायां प्रसङ्गस्य दर्शितत्वादित्याह्कः। सूत्रस्थस्य स इत्य- स्यार्थमाह स इतीति। मुख्यार्थपरामर्शभ्रमं वारयितुमस्येत्यस्यार्थमाह अस्येतीति ॥ उद्देशक्रमानुरोधाद्वाचकशब्दनिरूपणानन्तरं लाक्षणिकशब्दो निरूपणीयः । तन्निरूपणं लक्षणाणि- रूपणाधीनमिति लक्षणां लक्षयति मुख्यार्थेति। "पुंयोगादाख्यायाम्" (४।१।४८) इतिसूत्रमहा- भाष्योक्ते 'गङ्गायां घोषः'। 'कूरे गर्गकुलम्ँ' इत्याद्युदाहरणे (प्रत्यक्षादिप्रमाणेन) मुख्यार्थस्य वाच्यार्थस्य (प्रवाहादिरूपशक्यार्थस्य ) बाधे घोषाद्यधिकरणत्वाद्यसंभवरूपे बाधे सति। यद्ा। अनुपपत्तिरुपे बाधे सति। वस्तुतस्तु बाधे तद्रूपेण वक्तृतात्पर्याविषयत्वे सतीत्यर्थः । तद्योगे तस्य (प्र:यक्षादिप्र- माणेन बाधितस्य) मुख्यार्थस्य योगे संबन्धे। साक्षात्संबन्धे इत्यर्थः । अमुख्येन लक्षणीयेन तटादि- नार्थेन सह सामीप्यादिरूपसाक्षात्संबन्धे सतीति यावत्। रूढितः प्रसिद्धेः। प्रयोगप्रवाहादित्यर्थः । अथेति विकल्पे। अथवेत्यर्थः । "अथाथो संशये स्यातामधिकारे च मङगले। विकल्पानन्तरप्रश्नका- तसन्यरिम्भसमुचये ।।" इति मेदिनी। प्रयोजनात् शैत्यपावनत्वादिप्रतीतिरूपफलात्। (प्रवाहादि- रूपमुख्यार्थगतस्य शैत्यपावनत्वादिरूपधर्मस्य तटादिरूपलक्ष्यार्थे या प्रतीतिर्ज्ञानं तद्रपात्फलादिति यावत्)। शब्देन कर्त्रा इति शेषः। यदिति ययेत्यर्थे लुप्तकरणतृतीयान्तमव्ययम्। यया ( वृत्त्या ) अन्योडर्थ: अर्थान्तरं (मुख्यभिन्नः) तटादिरूप इति यावत् । लक्ष्यते प्रतिपाद्यते सा (वृत्तिः) लक्षणेत्युच्यते इत्यर्थः। यद्वा यदिति लक्षणक्रियाविशेषणम् । अन्योऽर्यों यत् लक्ष्यते यत् प्रतिपा- दते सा लक्षणेत्यन्वयः । लक्ष्यते इति णिजन्तादाख्यातम् । णिजर्थो हेतुव्यापारः । हेतुश्व शब्द इति अन्यार्थप्रतिपत्तिहेतुः शब्दव्यापारो लक्षणेत्यर्थः । सा च लक्षणा शक्यतावच्छेदकारोपरूपा शक्यसंबन्धरूपा वा वक्तृतात्पर्यरूपा वेत्यन्यदेतत् । आरोपितेति क्रियेति च न लक्षणघटकम्। किंतु लक्षणास्वरूपकथनपरम्। सा हि आरोपिता मुख्यार्थव्यवहितलक्ष्यार्थविषयकत्वात् शब्दे कल्पि- ता। साक्षात्संबन्धेन मुख्यार्थनिष्ठा परंपरासंबन्धेन तु शब्दनिष्ठेत्यर्थः । क्रिया व्यापाररूपा चेति सूत्रार्थः। यत्त्वत्र यदिति क्रियाविशेषणम्। तथा च यत् लक्ष्यते यत् प्रतिपाद्यते सा प्रतिपत्तिरेव (ज्ञानमेव) लक्ष- णेति कैश्चिद्याख्यातम् तदज्ञानविजम्भितम्। लक्षणाया अभिधाव्यञ्जनयोरिव वृत्तिरूपतया वृत्तिजन्या- याः प्रतिपत्तेर्लक्षणात्वासंभवात्। नहि वृत्तेर्व्यापारत्वे कश्चिद्विवादः । अस्मात्पदादयमर्थो बोद्धव्य इत्या- १ गर्गकुलं गर्गगृहम्। गर्गस्तन्न्ामाचार्यः ॥ २ " यत्सोऽर्थान्तरयुक्तथा" इति ३४ सूत्रस्थयच्छब्द्वत्। "उप- मानाद्यदन्यस्य व्यतिरेकः स एव सः" इति १६० सूत्रस्थयच्छन्दवच्चेति बोध्यम्। अत एव विश्वनाथनरसिंहठक्कुर- प्रभृति भिष्टीकाकरव्याख्यातम् 'यदिति ययेत्यर्थेऽव्ययम् इति॥3 वृत्या व्यापरेण ॥

Page 100

द्विताय उल्लासः। ४१

कारिकेश्वरेच्छापि प्रेरणागर्भत्वेन साध्यरूपैवेति प्रतिभावद्धिः सूक्ष्मदृशावधातव्यम्। न च "प्रतीतिर्ल- क्षणोच्यते" इत्यग्रिमग्रन्थविरोध इति वाच्यम्। तस्यैकदेशिमतोद्टङ्कनमात्रपरत्वात्। प्रतीतिपदस्य केरणव्युत्पन्नत्वाद्वेति दिक्।। अत्र सूत्रे "अन्योऽर्थो लक्ष्यते यत्सा लक्षणा" इति लक्षणम्। मुख्यार्थबाधः मुख्यार्थयोगः रूढिप्र- योजनान्यतरच्चेति त्रयं लक्षणाया हेतुः। अत एव "हेत्वभावान्न लक्षणा" इति २५ सूत्रे वक्ष्यमाणो 'मुख्यार्थबाधादित्रयं हेतुः' इति वृत्तिग्रन्थः संगच्छत इति बोध्यम्। प्रयोजनादिति ल्यबूलोपे पञ्चमी। "ल्यब्लोपे कर्मण्यधिकरणे च " इति वार्तिकात्। प्रयोजनमुदिश्येत्यर्थ इति बहवष्टीकाकाराः । उद्यो- तकारास्तु प्रयोजनाभिसंधेरित्यर्थः। प्रयोजनाभिसंधिपूर्वक लाक्षणिकशब्दप्रयोगे वक्तु: प्रवृत्तिर्भवतीति प्रयोजनस्य लक्षणाप्रयोजकत्वमित्याहुः । अत्र सत्रे रूढिलक्षणा प्रयोजनलक्षणा चेति लक्षणाय विभा- गद्वयमिति नरसिंहठक्कुरादीनां मतम्। प्रदीपकारसिद्धान्ते तु नात्र विभागः । किंतु "व्यङ्गेन रहिता रूढ़ौ सहिता तु प्रयोजने " इति १८ सूत्रे एवेति "लक्षणा तेन षडिधा" इति १७ सूत्रे स्फुटी- भविष्यति॥ लक्ष्यते इत्यस्य प्रतिपाद्यते इत्यर्थकत्वान्नात्माश्रयदोषः । 'भद्रात्मनः' इत्यादिशाब्दव्यञ्जनावारणाय मुख्यार्थबाधे इति। असंबन्धे लक्षणायां गङ्गापदाद्यमुनातटस्याप्युपस्थित्यापत्त्यातिप्रसङ्ग इति तद्वार णाय तद्योगे इति। चक्रवर्त्यादयस्तु योगपदं प्रमाणान्तरानुत्थापकयोगपरम्। तेन धूमपदात् व्याप्यव्या- पकभावसंबन्धेन वहिज्ञाने तदप्रसङ्गः । तस्यानुमानोत्थापकत्वादित्याहुः। प्रदीपकारास्तु व्यञ्जनायां (व्यञ्जनाजन्यबोधे) शक्तिस्मृतौ चातिव्याप्तिवारणाय 'तद्योगे' इति लक्षणेSपि प्रवेशनीयम्। योगस्य च हेतुत्वं विवक्षितम्। अतो न मुख्यार्थसंबन्धिव्यञ्जनायां शक्तिस्मृतौ चातिव्याप्तिः। मुख्यस्याप्यभिधारू- पमुख्यार्थसंबन्धेन प्रतिपादनं संभवतीति तद्वारणायान्य इत्युक्तमित्याहुः। रूढिप्रयोजनान्यतरशून्यत्वेऽपि यदि लक्षणा स्यात्तदा रूपवान् घट इत्यर्थे 'रूपो घटः' इति प्रयोगापत्तिः। अतस्तद्वारणाय रूढितोऽथ प्रयोजनादिति। अत एव सप्तमोल्लासे १५७ उदाहरणे चपेटापातनातिथिपदे नेयार्थत्वं दोष इति मूलकृद्वक्ष्यति । बाधे इत्यस्य 'तद्रूपेण वक्तृतात्पर्याविषयत्वे सति' इत्यर्थकत्वादेव "मुख्यार्थबाधश्च शक्यतावच्छेदकरूपेण तात्पर्यविषयान्वयबाधः" इति प्रभायां व्याख्यातम्। अत एव च कमलाकरभट्टा- दयः मुख्यार्थस्यान्यपदार्थासंसर्ग एव बाधः । शुद्धमुख्यार्थस्य क्वापि बाधायोगात्। यद्पि 'काकेम्यो दधि रक्ष्यताम्' 'छत्रिणो यान्ति' इत्यादौ न मुख्यार्थस्य बाधः तथापि वक्तृतात्पर्यविषयवाक्यार्थबो- धाभावोडभिप्रेतः। आदे उपघातकत्वेनैव मुख्यार्थस्यान्वयो न तु काकत्वेन। अन्त्ये चैकसार्थप्रवृत्तत्वेनैव मुख्यार्थस्यान्वयो न तु छत्रित्वेनेति नाव्याप्तिः । यत्र तु काकमात्रे तात्पर्य तत्र नैव लक्षणा। एतेन तात्पर्यानुपपत्तिरेव लक्षणाबीजम्। नत्वन्वयानुपपत्तिरिति सूचितम्। यद्यपि 'यष्टीः प्रवेशय''गङ्गायां घोष:' इत्यादौ उभयापेक्षादर्शनात् वि्निगमनाविरहः तथापि 'गङ्गायां घोषः' इत्यत्र वक्तृतात्पर्या- भावे घोषपदे एव मीने लक्षणा कि न स्यात्। कुतश्व गङ्गापदेऽपि स्वार्थसंबन्धिनौकादौ न लक्षणा। तावताप्यन्वयानुपपत्तिशान्तेः । अतस्तात्पर्यानुपपत्तिरेव लक्षणाबीजमित्याहुः। उक्तं च परमलघुमञ्जू- षायां नैयायिकमतानुवादावसरे नागोजीभट्टैः। "शक्यसंबन्धो लक्षणा। अन्वयाद्यनुपपत्तिप्रतिसंधानं १ " भेदाविमौ च" इत्यादि १६ सूत्रस्थवृत्तिग्रन्थविरोध इत्यर्थः ॥२ प्रतीयतेऽर्थोडनयेति प्रतीतिरिति करणव्यु- त्पत्तिः ॥ तस्या: लक्षणाया अप्रसङ्गः ॥ एकतरपक्षपातिनी युक्तिर्विनिगमना तस्या; विरहोऽभावः ॥ काव्यप्रकाश ६

Page 101

४२ काव्यप्रकाशः सटीक: । 'कर्मणि कुशलः' इत्यादौ दर्भग्रहणाद्ययोगात् 'गङ्गायां घोषः' इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे च लक्षणाबीजम्। वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसंधानमेव लक्षणाबीजम् । अन्यथा 'गङ्गायां घोषः' इत्यत्र घोषपदे एव मकरादिलक्षणापत्तिः। तावताप्यन्वयानुपपत्तिपरिहारात्। 'गङ्गायां पापी गच्छति' इत्यादौ गङ्गादिपदस्य नरके लक्षणापत्तेश्च। अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान्न दोषः। 'नक्षत्रं दृष्ट्ा वाचं विसृजेत्' इति विधावन्वयसंभवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वकिारात्। एकानु- गमस्वीकारेण निर्वाहेडनेकानुगमस्वीकारे गौरवाच्च" इति। तथैवोक्तं प्रौढमनोरमायामपि "नक्षत्रं दृष्टा वाचं विसृजेत्" इति विधौ नक्षत्रदर्शनस्य कालविशेषोपलक्षकत्वात् सत्यपि दिता नक्षत्रदर्शने वाक् न विसृज्यते। उपलक्षितस्य कालविशेषस्याभावात्। रात्रावसत्यपि नक्षत्रदर्शने वाक् विसृज्यते। तस्य सत्त्वादिति। रूढिहेतुकाया: प्रयोजनहेतुकायाश्च लक्षणाया उदाहरणद्वयमेकदैव दर्शयन् सूत्रं व्याचष्टे कर्म- णीति। चित्रकर्मणीत्यर्थः । कुशल इति। कुशान् दर्भान् लाति आदत्ते (गृह्णाति) इति व्युत्पत्त्या कुशलपदं कुशग्राहिणि शक्तम्। दक्षे (चतुरे) तु रूढया लाक्षणिकमिति भावः। न च मुख्यार्थबाधा- प्रतिसंधानेऽपि झटिति दक्षबोधाच्छक्तिरेव । अन्यथा मण्डपादिपदस्यापि गृहादौ शक्त्यभावप्रसङ्ग इति वाच्यम्। क्लृप्तावयवशक्तिकर्स्यान्यत्र लक्षणयैवोपपत्तावतिरिक्तशक्तिकल्पनाया अन्याय्यत्वात्। मण्ड- पादिपदस्यापि गृहादौ निरूढलक्षणाङ्गीकारात्। न चैवं पङ्कजादिष्वप्येवमापत्तौ योगरूढिविलोपापत्ति- रिति वाच्यम्। तत्र योगार्थविशिष्टरूढयर्थस्यैव नियमत उपस्थित्या रूढिकल्पनेन वैषम्यात्। मुख्यार्थ- बाधप्रतिसंधानमपि व्युत्पन्नानामस्त्येव्। कदाचिच्छक्तिम्रमाद्वोधे तदभावेऽपि न क्षतिरिति प्रभायां स्पष्टम्। ये तु कर्मणि कुशल :- लावण्यम्-मण्डपः- कुण्डलमित्यादौ दक्षत्वादेः प्रवृत्तिनिमित्तत्वात् व्युत्प- त्तिनिमित्तस्य च झटित्यप्रतीतेर्बाधप्रतिसंधानं विनापि तत्प्रतीतेश्व कुशेः कलच्प्रत्यये कुशलपदस्य वैयाकरणैः साधनाच्च रूढिशक्तिरेवात्रेति वदन्ति। तन्मते तैलपदमुदाहरणमिति बोध्यम्। तैलपदस्य तिलविकारद्रवे शक्तस्य सार्षपे निरूढलक्षणेत्युद्दयोते स्पष्टम्। अधिकं त्वग्रे (४५ पृष्ठे) स्फुटी- भविष्यति। रूढ़िहेतुकायां मुख्यार्थबाधं दर्शयति दर्भग्रहणाद्ययोगादिति। दर्भग्रहणाद्ययोग्यत्वा- दित्यर्थः। प्रयोजनहे तुकामुदाहरन् तत्न मुख्यार्थबाधमुपदर्शयति गङ्गायां घोष इत्यादाविति। "पुंयो- गादाख्यायाम्" इतिसूत्रस्थमहाभाष्योक्ते इत्यर्थः । आदिशब्देन 'कूपे गर्गकुलम्' इत्यस्य संग्रहः । घोषो गोपालग्राम: तद्गृहं वा। "घोष आभीरपैल्लिः स्यात्" इत्यमरात्। मुख्यार्थस्य दर्भग्राहकत्वादि- रूपस्य प्रवाहादिरूपस्य च । बाधे बाधे सति। कुशग्राहकदक्षयोः मुख्यार्थलक्ष्यार्थयोः संबन्धमाह विवेचकत्वादाविति। विवेचकत्वं च सतो ग्रहणमसतः परित्यागरूपम्। तच्च कुशग्राहिणि दक्षे च वर्तते इति भावः । गङ्गातटयोर्मुख्यार्थलक्ष्यार्थयोः संबन्धमाह सामीप्ये चेति। सामीप्यरूपे चेत्यर्थः । संबन्धे संबन्धे सति। कुशलपद्लक्षणायां रूढिं दर्शयन्नाह रूढित इति। रूढित इत्यस्यार्थमाह १ 'घोषाद्यधिकरणत्वासंभवात्' इति क्वचित्पाठः ॥ २ शक्तमिति। शक्तिग्राहकशिरोमणेर्व्याकरणादिति भावः । तदुकम्। 'शक्तिगरहं व्याकरगोपमानकोशाप्तवक्यद्वयवहारतश्रव। वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः॥" इति ॥ मण्डं यषं पिचतीति मण्डप इति व्यत्पतेरिति भावः ॥ ४ अन्यस्मिन् अर्थे दक्षादिरूपे॥ ५ रूढि- शक्तिकल्पनेन ॥६ 'कुटीकुयामयोः पल्िः" इति शाश्वतकोशः ॥

Page 102

द्वितीय उल्लासः । ४१

रूढितः प्रसिद्धेः तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्ति: तेषां पावन- त्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योऽर्थों लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा। (सू० १३) स्वसिद्धये पराक्षेप: परार्थं स्वसमर्पणम्। उपादानं लक्षणं चत्युक्ता शुद्दैव सा द्विधा॥ १० ॥ 'कुन्ताः प्रविशन्ति' 'यष्टयः प्रविशन्ति' इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्धयर्थ स्वसंयोगिन: पुरुषा आक्षिप्यन्ते। तत उपादानेनेयं लक्षणा। प्रसिद्धेरिति। प्रयोगप्रवाहादित्यर्थः । गङ्गापदलक्षणायां प्रयोजनमाह। तथा गङ्गातटे इति। तथा- शब्दोऽत्र समुच्यार्थकः। येषां पावनत्वादीनाम्। तथेति। विशेषतस्तीरगतत्वेनेत्यर्थः । गङ्गायामि वेति केचित्। अतिशयेनेत्यन्ये । प्रतिपत्तिः प्रतीतिः। तथाप्रतिपादनात्मन इति। तथाप्रति- पादनरूपादित्यर्थः । "अन्यात्रान्यशब्दप्रयोगस्तद्धर्मप्राप्त्यर्थः" इति न्यायादिति शेषः । मुख्येनेति। इत्थंभूतलक्षणे तृतीयेयम् । तेन मुख्येनोपलक्षितोऽमुख्योऽर्थों लक्ष्यते प्रतिपाद्यते इत्यर्थः । आरोपिते त्यस्य व्याख्यानमाह आरोपित इति। शब्दे कल्पित इत्यर्थः। क्रियेत्यस्य व्याख्यानमाह शब्दव्यापार इति। व्यापारो वृत्तिः । आरोपे हेतुमाह सान्तरार्थनिष्ठ इति। इदं व्यापारविशेषणम्। अन्तरं व्यवधानं तेन सह वर्तत इति सान्तरः (मुख्यार्थबाधाद्युपस्थित्या) व्यवहितो योऽर्थः लक्ष्यरूपः तन्निष्ठः तद्विषयक: (तद्वोधकः) इत्यर्थः । "सर्व वाक्यं कार्यनिष्ठम्" इति गुरूक्तिवदिति बोध्यम्। यद्यपि 'गङ्गायां घोषः' इत्यत्र गङ्गाशब्देन प्रत्यायितं स्रोतः तीरं लक्षयतीत्यर्थव्यापारो लक्षणा न तु शब्दव्यापारः तथापि वाच्यघर्मो वाचके शब्दे आरोष्यते। अतः शब्दोऽपि लाक्षणिक इति भाव: ।। अर्थान्तरसंक्रमितवाच्यध्वन्यादिव्यवस्थायै लक्षणां कारिकात्रयेण षड्विधतया विभजते स्वसिद्धये इति। ( 'कुन्ताः प्रविशन्ति' इत्यादौ) स्वस्य शक्यार्थस्य (कुन्तादेः) सिद्धये अन्वयसिद्ये (सम- भिव्याह्वतपदार्थान्वयबोधविषयत्वसिद्धये) पराक्षेपः परस्य अशक्यार्थस्य (कुन्त्यादेः) आक्षेपः लक्ष- णम् उपादानम् उपादानलक्षणेत्युच्यते। ( 'गङ्गायां घोषः' इत्यादौ) परार्थ परस्य अशक्यस्य (ती- रादे:) अन्वयबोधार्थ स्वसमर्पणं स्वस्य शक्यार्थस्य (प्रताहादेः) समर्पणं त्यागः लक्षणं लक्षणलक्षणे- त्युच्यते। यद्वा स्वसमर्पणं स्वार्थीकरणम्। प्रवाहं स्वार्थ परित्यज्य गङ्गात्वादिना तीरादिबोधनादिति परमार्थः। एवं च स्वार्थापरित्यागेन परमार्थोपस्थापनमुपादानम्। स्वार्थपरित्यागेन परमार्थोपस्थापर्न लक्षणमिति भावः। एते एवान्यत्राजहत्स्वार्थाजहत्स्वार्थे इत्युच्यते। इत्थमुभाभ्यामुपादानलक्षणरूपाम्या- मुपाधिभ्यां द्विधा द्विविधा सा लक्षणा शुद्ैव उक्ता न तु वक्ष्यमाणा गौण्यपि असंभवात् इति कारिकार्थ: ॥ उपादानलक्षणामुदाहरति कुन्ता इति। कुम्तादीनामचेतनत्वातप्रवेशनक्रियायाम्वयासंभव इति मुख्यार्थबाधः। इत्यादाविति। आदिशब्देन 'कुन्तान् प्रवेशय' 'यष्टीः प्रवेशय' इत्यस्य पुंयोगा . १ अन्यंत्रेति। शाखाम्तरे इत्यर्थः ॥ २ जहत् स्वार्थो यां वृत्ति सा जहत्स्वार्था। द्वितीयाम्तान्यपदार्थो बहुवीहि मदन्या अजहत्स्वार्था ॥ ३ असंभवस्तु "लक्षणा तेन षड्डिंधा" इति १७ सूत्रे स्फुटीभविण्यति॥

Page 103

४४ काव्यप्रकाशः सटीक:। "गौरनुबन्ध्यः" इत्यादौ श्रुतिचोदितमनुबन्धनं क्थं मे स्यादिति जात्या व्यक्ति राक्षिप्यते न तु शब्देनोच्यते "विशेष्यं नाभिधा गच्छेत् क्षणिशक्तिर्विशेषणे" इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या। न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम्। दितिसूत्रमहाभाष्योक्तस्य परिग्रहः। एवं 'कुन्तान् भोजय' इत्यपि बोध्यम्। स्वसंयोगिनः कुन्त्या- दयः । अनेन मुख्यार्थयोगो दार्शितः । आक्षिप्यन्ते लक्ष्यन्ते (लक्षणया बोध्यन्ते)। ततः हेतोः। उपादानेन स्वार्थापरित्यागपूर्वकपरार्थग्रहणेन। लक्षणेति । उपादानलक्षणेत्यर्थः । अत्र कुन्तगत- तैक्ष्ण्यस्य कुन्तगतबाहुलास्य वा पुरुषेषु प्रतीतिः प्रयोजनम्। 'काकेभ्यो दधि रक्ष्यताम्' इत्यपि उपादानलक्षणाया एवोदाहरणमिति प्रदीपे स्पष्टम् । काकपदेन दध्युपघातकं लक्ष्यते इति भावः । एवं 'छत्रिणो यान्ति' इत्यपि उदाहरणम्। अलैकस्मिन् छत्रिणि बहुवचनप्रयोगस्यानुपपन्नत्वान्मुख्यार्थ- बाधे सति गमनरूपक्रियायां छत्रिणा प्रधानभूतेन साहचर्याच्छत्रिशब्देन छत्रशून्या अपि लक्षणया- वगम्यन्ते। लक्षणायाः प्रयोजनं तु छत्रशून्यानां सर्वात्मना छत्रोपेतस्वाम्यनुयायितया प्रतिपादनमिति बोध्यम्। मण्डनमिश्रास्तु 'गौरतुबन्ध्यः' इत्यादिकमुपादानलक्षणाया उदाहरणमाह्डः। तत्मत दूषयतुमनुवदति गौरित्यादिना न्यायादित्यन्तेन। अनुबन्ध्यः आलम्म्यः । ह-तव्य इति यावत्। इत्यादाबिति। "गौरनुबन्ध्योऽजोSग्रीषोमीयः " इत्यादिश्चुतावित्यर्थः । श्रुतेः प्रभुसंमिततयानुबन्धनस्यावश्यकर्तव्यत्व दर्शयति श्रुतीति। श्रुतिविहितानुबन्धनक्रिया मे मम (गोपदार्थस्य जातेः) कथं स्यादिति मुख्यार्थ- बाध इति हेतोः जात्या गोत्वरूपया व्यक्तिराक्षिप्यते लक्ष्यते ( लक्षणया बोध्यते) इत्यर्थः ।न चेयं लक्षणलक्षणा। जातेः प्रकारत्वात। कि तूपादानरूपैवेति भावः। उच्यते अभिधया बोध्यते। ननु शक्तिः कुतो न तत्राह विशेष्यमिति। अभिधा शक्तिः विशेष्यं व्यक्तिरूपं धार्मणं न गच्छेत् न यायात् न रपृशेदित्यर्थः । तत्र हेतुमाह क्षणिशक्तिरित्यादि। (यतो) विशेषणे जातिरूपे उपाधौ (धर्मे) क्षीणशक्तिः विरतव्यापारा। "नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते " इति न्यायेन विशेषणं प्रत्याय्य विरामादित्यर्थः । एवं च "अनन्यलभ्यः शब्दार्थः" इति न्यायेन जातिरेव शब्दार्थः व्यक्तेराक्षेपलभ्यत्वादिति भावः। एवं मण्डनमिश्रमतमनूद्य तदसङ्गतमिति दूषयति इत्युपादानलक्षणा त्विति। नोदाहर्तव्या न कथनाया। तत्र हेतुमाह न हीति। अत्रेति। गौरनुबन्ध्य इत्यादौ गवादि- शब्दस्य व्यक्तौ लक्षणायामित्यर्थः । प्रयोजनमस्तीति। 'कुन्ताः प्रविशन्ति' इत्यत्र बाहुल्यादिप्रती- तिवत् अत्र न किंचित् प्रयोजनमस्तीत्यर्थः । ननु प्रयोजनाभावेडपि रूढिः कुतो न स्यात्। तत्ाह न वेति। "रूढित्वं तु अनादित्वम्। सास्रादिषु तदभावात्। प्रवाहानादिता तु नोपलक्षणं विनेति न लक्षणा" इति कमलाकरभङ्टः। वस्तुतस्तु लक्ष्यार्थेन विनाकृते शक्यार्थे प्रयोगो यस्य तादृशे पदे १ अचेतनायामपि जातौ ग्रन्थरुद्वैदग्व्योक्त्या चेतनत्वव्यवहारमारोपितवानिति बोध्यम् ॥ २ उद्धते तथैव काशी मुद्रिते च कमलाकरसंदर्भे कुत्रा त् काचित् अशुद्विरस्तीति संभव्यते। तथापि यथास्थितस्यास्य संदर्भस्य यथाकर्थ चित्तात्पर्य वर्ण्यते। गोव्यक्तीनां सास्त्राद्यवयवघटिततया प्रत्यकं जन्यत्वात् अनादित्वरूप रूढित्वं नैकस्यामपि व्यक्तौ संभवति। यदि च व्यक्तिविशेषस्य सादित्वेऽपि व्यक्तिप्रवाहस्यानादित्वमस्ति इति प्रवाहानादित्वमेव रूढि वमित्युच्यते तदा रूढिपदस्य प्रवाहानादित्वरूपः अर्थः उपलक्षणम् (अर्थान् लक्षणां) विना न संमवति। जातिशक्तिवादिन। केषांचिन्मते जातौ शक्तेरिव लक्षणाया अपि जातवेव युक्तेस्तौल्यात् गङ्गातीरत्वादौ अनादित्वरूपं (अनादिप्रयोग-

Page 104

द्वितीय उल्लास:। ४५ व्यक्त्यविनाभावित्वानु जात्या व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्ता। कुर्वि- त्यत्र कर्म। प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च। 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेर- र्थापत्तेर्वा तस्य विषयत्वात्। यललक्ष्यार्थबोधकप्रयोगबाहुल्यं सा रैढिः। यथा तिलविकारद्रवमात्रे प्रयुक्तस्य तैलपदस्य सार्षपे इति प्रतिपादितं प्राक् (४२, पृष्ठे)। गवादिपदस्य तु व्यक्तिं विना न क्वापि प्रयोग इति रूढ्यभावेन न लक्षणेति भावः। यद्येवं कथ तर्हि व्यक्तिप्रतीतिः। अत आह व्यक्तीति। अविनाभावित्वात् व्यक्ति विना जातेरभावात्। आक्षिप्यते अनुमीयते। जातिर्व्यक्त्याश्रिता जातित्वात्। यद्वा। इयं गौर्गोत्वा- दित्यनुमानान्न लक्षणेत्यर्थः । न चानुमितायाः व्यक्तेरशाब्दत्वात्कर्थं शाब्देन संख्याकर्मत्वादिना- न्वयः "शाब्दी ह्याकाङ्का शब्देनैव पूर्यते" इति न्यायादिति वाच्यम् । अनुमानस्य शब्दसहकारि- त्वात्। तथा चानुमानसहकारेण शब्देन जातिविशिष्टधीरित्यर्थः । न च वृत्या पदजन्यधीविषयत्वं शाब्दतवे तन्त्रमिति वाच्यम्। लाघवेन पद्जन्यत्वस्यैव तत्त्वादिति भावः इति कमलाकरभट्टादयः । अत्राहुरुद्दयोतकारा अपि। "आक्षिप्यते इति। आक्षेपोऽत्रानुमानम् । व्यक्तिं विनेत्यनेन व्याप्तिर्द- र्शिता। वृत्तिप्रयोज्योपस्थितिश्व शब्दादौ कारणम्ँ" इति। अविनाभावेनाक्षेपे दृष्टान्तमाह यथेति। क्रियतामिति। कृतिः साश्रया गुणत्वादित्यनुमानेन कर्तुर्लाभ इति भावः। कर्ता संमुखीनः । कुर्विति। कृतिः सविषया कृतित्वादित्यनुमानेन कर्मणो लाभ इति भावः । कर्म कटादि। उक्तरीत्या गुरुमते अर्थाक्षेपे दृष्टान्तमुक्वा भट्टमते शब्दाक्षेपे दृष्टान्तमाह प्रविशेति । अयमेत्र " इग्यणः संप्रसारणम् " (१।१।४५) इतिसूत्रे महाभाष्ये वाक्यैकरेशप्रयोग इत्युच्यते। प्रविशेत्यत्र गृहमिति कर्मपदं यथाक्षिप्यते पिण्डीमित्यत्र भक्षयेति क्रियापदं यथाक्षिप्यते इति क्रमेणान्वयः । एवं जात्या व्यक्तिराक्षिप्यते इति दृष्टान्तार्थः। पिण्डी च गुडः पिण्याकं वा ग्रासो वा। केचित्तु 'पीनो देवदत्तो दिवा न भुड्क्ते' इति वाक्ये रात्रिभोजनवानिति लक्ष्यते। भोजनाभाव- समानाधिकरणपीनत्वयुक्तोत्कर्षस्य प्रतीनेः प्रयोजनस्य सरवात्। सेयं लक्षणा 'दिवा न भुडक्ते' इति मुख्यार्थमादायैव भवतीत्युपादानरूपा। अर्थवादे प्राशस्त्यलक्षणाव्द्वाक्येऽपि लक्षणा साध्वी। पीन- स्वेनैव सामानाधिकरण्यात् रात्रिभोजनं वा लक्ष्यते इत्याहुस्तन्मतं पूर्वमीमांसकमतानुसारेण दूषयति पीन इति। न लक्ष्यते न लक्षणया बोध्यते। कुतो न लक्षणेत्याशङ्कय भट्टमते दिवाभोजनाभाववतः पीनत्वं रात्रिभोजनं विनानुपपन्नमित्यनुपपत्या रात्रौ भुङ्क्ते इति शब्द: कल्प्यते। गुरुमते तु तदर्थ- मात्रं कल्प्यते इत्याह अ्तार्थापत्तेरित्यादिना। श्रुताच्छब्दादर्थस्यापत्तिरापतनं श्रतार्थापत्तिः । अर्था- दर्थस्यापत्तिरापतनमर्थापत्तिरिति संकेते सोमेश्वरः । श्रुतं शब्दः तत्कल्पकार्थापत्तेरित्यर्थ इत्युद्दयोत- काराः। यत्रानुपपद्यमानः शब्दः शब्दान्तरं कल्पयति सा श्रुतार्थापत्तिः । यथा द्वारमिति शब्द: पिधे- हीति क्रियापदम् । इयमेव पदाध्याहारः ( शब्दाध्याहारः )। यत्र च दृष्टः श्रुतो वार्थोऽनुपपन्नोड- रूपं वा (रूढित्वं नासंभवि। ततश् लक्षणा तत्र तत्र संभवत्येव। वस्तुतः यथास्थितः कमलाकरसंदर्भों न विशदार्थः नापि चास्माकं रुचिर इति मत्वा वस्तुतस्त्विति॥ .. १ लक्ष्यार्थेन रूढिः । उद्यो० ॥ २ वृत्तिप्रयोज्या चासावुपस्थितिश्र्वेत्यर्थः । प्रयोज्यत्वं च जन्यजन्यत्वम् ॥। ३ कारणमिति। 'व्यञ्जना वाक्षेपः' इत्यधिको ग्रन्थ उद्योतपुस्तकान्तरे।

Page 105

४६ काव्यप्रकाश: सटीकः। 'गङ्गायां घोषः' इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्द: स्वार्थमर्पयति इत्ये- वमादौ लक्षणेनैषा लक्षणा। उभयरूपा चेयं शुद्धा। उपचारेणामिश्रितत्वाद्। अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम्। तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपिपादिषितप्रयोजनसंप्रत्ययः । गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेद:॥ र्थान्तरं कल्पयति सा अर्थापत्तिः। यथा तत्रैव द्वारमित्यर्थोऽनुपपन्नः पिधेहीति क्रियां कल्पयति। इय- मेवार्थाध्याहार इति मतभेदेनोभयम् इति भावः । केित्तु आक्षिप्यते इति यथेति च पदयोः सर्व- त्रानुषङ्गणैव योज्यम्। यथा क्रियतामित्यत्र कर्ता आक्षिप्यते (न लक्ष्यते) यथा प्रविशेत्यादौ गृह- मित्याद्याक्षिप्यते (न लक्ष्यते) यथा पीन इत्यत्र रात्रिभोजनमाक्षिप्यते (न लक्ष्यते) तथा जात्या व्यक्तिराक्षिप्यते (न लक्ष्यते) इति अन्वयमाहुः। तस्य रात्रिभोजनस्य। उपादानलक्षणां निरूष्य लक्षणलक्षणामुदाहरति गङ्गायामिति। सूत्रस्थं परार्थमित्येतव्याकरोति तटस्येति। घोषाधिकरणत्वसिद्धये घोषाधिकरणत्वान्वयसिद्धये। स्वसमर्पणमित्येतव्याकरोति गङ्गा· शब्द इति। स्वार्थ स्वशक्यम्। प्रवाहरूपमर्थम्। अर्पयति त्यजति। यद्वा। स्वार्थमिति भावपरम्। तेन स्वार्थत्वं तटे करोति इत्यर्थः । गङ्गात्वेन तीरबोधनादिति भावः। उपादानलक्षणायां शक्यस्या- पीतरपदार्थान्वयः । इह तु लक्ष्यस्यैवेति भेदः। लक्षणेन स्वार्थसमर्पणेन (उपलक्षिता) एषा लक्षणा लक्षणलक्षणेत्यर्थः । शुद्धैवेत्येतव्याकरोति उभयरूपेति। उक्ता इयं द्विरूपा शुद्धैव न गौणीत्यर्थः । शुद्धात्वे हेतुमाह उपचारेणेति। सादृश्याख्यसंबन्धेन प्रवृत्तिरुपचारः तेनामिश्रितत्वात् असंबन्धात्। एवं चोपचारामिश्रिता शुद्धा। उपचारमिश्रिता गौणी। सा च गौणी 'गौर्वाहीकः' इति 'गौरयम्' इति च वक्ष्यते । तत्र लक्ष्यो वाहीकः। लक्षको गौरिति बोध्यम्। "अत्यन्तं विशर्कलितयोः सादृश्या- तिशयमहिम्रा भेदप्रतीतिस्थगनमुपचारः " इति काव्यप्रकाशदर्पणे विश्वनाथः ॥ मुकुलभेद्ठास्तु 'गौर्वाहीकः' इत्यादिगौण्यां शक्यार्थलक्ष्यार्थयोः सादृश्याख्यसंन्बन्धेनाभेदः प्रतीयते। शुद्धायां तु वाक्यार्थलक्ष्यार्थयोर्भेद: प्रतीयते। तदेव च औदासीन्यापरपर्यायं भेदप्रतीतिरूप ताटस्थ्यं नाम। इदमेव च शुद्धायाः गौणीतो भेदकम्। न तूपचारामिश्रणमित्याह्कः। तन्मतं निराकरोति अनयो- रिति। भेदयोरिति शेषः । इदं सप्तम्यन्तम्। उक्तयोरुपादानलक्षणालक्षणलक्षणारूपयोः शुद्धायाः भेदयोरित्यर्थः। लक्ष्यस्य तीरादेः लक्षकस्य गङ्गादेश्व भेदरूपं भेदप्रतीतिरूपं ताटस्थ्यमौदासीन्यं न अस्ति इति शेष:। किंतु अभेदप्रतीतिरवेत्यर्थः । यद्वा। लक्ष्यस्य लक्षकस्य च भेदप्रतीतिरूपं ताटस्थ्यं न भेदरूप भेदो रूप्यतेSनेनेति भेदरूपं न भेदकमित्यर्थः । गौणीतः शुद्धायाः न भेदकमिति यावत्। अभेदबुद्धिं बिना प्रयोजनप्रतिपत्तेरभावादिति भावः। एतदेव विशदयति तटादीनामिति। लक्ष्यार्था- नामित्यर्थः । गङ्गदिशब्दैः गङ्गदिबोधकशब्दैः। प्रतिपादने बोधने सति। तच्वप्रतिपत्तौ हीति। तत्त्वं गङ्गादित्वम् । यद्वा । हिशब्दः एवार्थे। शक्यलक्ष्ययोर्गङ्गातीरयोरभेदप्रतिपत्तौ सत्यामेवेत्यर्थः । प्रतिपिपादयिषितेति। प्रतिपादयितुमिष्टस्य प्रयोजनस्य गङ्गागतशैत्यपावनत्वादेः संप्रत्ययः प्रतीतिः। तीरादाविति शेष:। न तु भेदप्रतीतौ । अभेदबुद्धिं बिना प्रयोजनाप्रतीतेः । अतो न ताटस्थ्यं भेदक- १ पृथम्भतयोः ॥२ 'न भे दरूपं ताटस्थ्यम्' इति वचवेन भट्मुकुलमतं दूषितमिति विश्वनाथरुते काव्यप्रकाश- दर्पणे स्पष्टम् ॥।

Page 106

द्वितीय उल्लास:। ४७

(सू० १४) सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ॥ आरोप्यमाणः आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा।। मित्यर्थः । पावनत्वादीनां प्रयोजनज्ञानविषयत्वेन प्रयोजनत्वव्यपदेशः प्रत्यक्षविषयतया विषयस्य प्रत्यक्षव्यपदेश इव । अयं भावः। "अन्यत्रान्यशब्दप्रयोगस्तद्धर्मप्राप्तयर्थः" इति न्यायेन तीरे गङ्गा- शब्दप्रयोगो गङ्गागतशैत्यपावनत्वादिप्रतीत्यर्थः। शैत्यादिप्रतीतिस्तु गङ्गात्वेन तटस्य प्रतीतावेव जायते। न तु गङ्गासंबन्धमात्रप्रतीतौ। न वा तीरमात्रप्रतीतौ। तथा सति 'गङ्गातटे घोषः' इत्यत्रापि संब- न्धप्रतीतेः शक्यलक्ष्यप्रतीत्योः फलभेदो न स्यात्। तदेवाह गङ्गासंबन्धेत्यादिना को भेद इत्यन्तेन। मात्रशब्देनाभेदप्रततिर्व्यवच्छेदः । मुख्यशब्दाभिधानादिति। मुख्यशब्दप्रयोगापेक्षयेत्यर्यः । को भेद इति। को विशेष इत्यर्थः । कः फलातिशय इति यावत् । तथा सति 'गङ्गातीरे घोषः' इति वाचकं शब्दं स्वायत्तं विहाय 'गङ्गायां धोषः' इत्यवाचकशब्दप्रयोगानुपपत्तिरेव स्यात्। "स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे" इति न्यायात्। अतः शुद्धायामप्यभेदप्रतीतेर्न ताटस्थ्यं भेदकं किंतूपचारामिश्रणमेव भेदकमिति भावः ।। ननु गौणी नामान्या वृत्तिरस्ति। अत एवोक्तं सरस्वतीकण्ठाभरणे पञ्चमपरिच्छेदे भोजराजेन। "शब्दो हि मुख्यागौणलिक्षणाभिर्वृत्तिभिरर्थविशेषप्रतिपत्तिनिमित्तं भवति। तदथा। गौरित्ययं शब्दो मुख्यया वृत्या सास्नादिमन्तमर्थ प्रतिपाद्यति। स एव तिष्ठन्मूत्रत्वादिगुणसंपदमपेक्ष्य वाहीकादौ प्रयुज्यमानो गौणीं वृत्तिमनुभवति। यदा तु मुख्यया गौण्या वा उपात्तक्रियासिद्धौ साधनभावं गन्तु- मसमर्थस्तदा लक्षणया स्वार्थाविनाभूतम् (स्वार्थसंचद्धम्) अर्थान्तरं लक्षयति। यथा 'गङ्गायां घोषः प्रतिवसति' इति गङ्गाशब्दो विशिष्टोदकप्रवाहे निरूढाभिधानशक्तिरघोषकर्तृकायाः प्रतिवसनक्रियाया अधिकरणभावं गन्तुमसमर्थः स्वार्थाविनाभूतं तटं लक्षयति" इति। तथा च कथं शब्दार्थयोस्त्रैविध्य- मिति हृदि कृत्वा गौणीं लक्षणायामन्तर्भावयन् लक्षगायाः भेदान्तरमाह। सारोपेत्यादिना सूत्रत्रथेण। तुशब्देन पूर्वद्वर्याव्यवच्छेदः। पूर्वद्वयी शुद्धैवेत्युक्तम्। विषयी आरोप्यमाणः (गवादिः)। विषयः (आरोपस्य) आश्रयः वाहीकादिश्च। यत्र यादृशलक्षणास्थले। तथा तेनैव रूपेण। स्वस्वधर्मप्रकारेणे- त्यर्थः। गोत्ववाहीकत्वादिरूपधर्मप्रकारेणेति यावत्। उक्तौ सामानाधिकरण्येन शब्दप्रतिपादौ। भवतः इति शेषः । सा अन्या शुद्धा गौणी च सारोपा सारोपलक्षणेत्युच्यते इति सूत्रार्थः। प्रदीपकारास्तु "अन्या अर्थात् (पूर्व शुद्धाभिधानसामर्थ्यात्) गौणी। आरोपाध्यवसानाम्यां भिद्यते। न तूपादान- लक्षणाभ्यामिति तुशब्दार्थः" इति प्राहुः ॥ विषयीत्यस्यार्थमाह आरोप्यमाण इति। गवादिरित्यर्थः । विषय इत्यस्यार्थमाह आरोपविषय इति। आरोपाधिकरणमित्यर्थः । वाहीकादिरिति यावत् । यत्र यादृशलक्षणास्थले। तथेत्यस्यार्थमाह अनपह्नुतभेदाविति। भेदो वैधर्म्यम्। तच्च गोत्ववाहीकत्वादि । प्रकाशितवैधर्म्यावित्यर्थः । अनेन सारोपसाध्यवसानयोर्भेदो दर्शितः । उक्तौ भवतः इत्यस्यार्थमाह सामानाधिकरण्येन निर्दिश्येते इति। समानविभक्तिकपदाभ्यामुपस्थाप्येते इत्यर्थः । सप्रयोजनम् इति शेषः । सारोपेति। आरो- पेण सह वर्तत इति सारोपेत्यर्थः। "विषगविषयिणोर्भेदेनोपन्यासोSत्रारोपपदार्थः" इति प्रदीपकाराः।

Page 107

४८ काव्यप्रकाश: सटीकः । (सू० १५) विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥११॥ विषयिणारोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात् । (सू० १६) भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ इमावारोपाध्यवसानरूपौ सादृश्यहतू मेदौ 'गौर्वाहीकः' इत्यत्र 'गौरयम्' इत्यत्र च। "आरोपो नामानिगीर्णस्वरूपस्यान्यतादात्म्यप्रतीतिरिति" तु काव्यप्रकाशदर्पणे विश्वनाथः । विरुद्ध- धर्मरूपेण प्रतीतयोरपि सामानाधिकरण्येन सप्रयोजनो निर्देश आरोपः" इति विवरणकाराः। उदाहरणं तु 'गौर्वाहीकः' इत्यग्रे स्फुटीभविष्यति ॥ भेदान्तरमाह विषय्यन्तःकृत इति। अन्यस्मिन् आरोपविषये (आरोपाश्रये वाहीकादौ) विष- य्यन्तःकृते विषयिणा आरोप्यमाणेन (गवािना) अन्तःकृते निगीर्णे सति सा साध्यवसानिका साध्यवसानलक्षणा स्यादिति सूत्रार्थः। सूत्रं व्याचष्टे विषयिणेत्यादि। निगीर्णे इति। विषयवाचक- वाहीकादिपदेनानुक्ते इत्यर्थ इति केचित्। विषयनिष्ठासाधारणग्रहं बिना विषयिणा स्वतादात्म्येन प्रत्यायिते इत्यर्थ इत्यन्ये। साध्यवसानेति । विषयनिगरणेन विषयिणोऽभेदप्रतिपत्तिरध्यवसानम्। तेन सह वर्तत इति साध्यवसानेत्यर्थः । विषयिमात्रं यत्र निर्दिश्यते न तु विषयोऽपि सा साध्यवसा- नेति यावत्। "विषयिणा विषयतिरोभावोSत्राध्यवसानपदार्थः" इति प्रदीपकाराः। "विषयिवाचक- पदेनैव विषयप्रतिपादनमध्यवसानम्" इति केचित् । उदाहरणं तु 'गौरयम्' इति वक्ष्यते । तत्र विषयिणा गवा विषयो वाहीको निगीर्ण इति साध्यवसानलक्षणेति बोध्यम्। इदमत्र बोद्धव्यम्। यत्र विषयनिष्ठासाधारणधर्मप्रतिपत्तिसहकृतान्यस्यान्यतादातम्यप्रतीतिः सा सारोपा। यत्र विषयनिष्ठासाधा- रणधर्मप्रतिपत्त्यसहकृतान्यस्यान्यतादात्म्यप्रतीतिः सा साध्यवसानेति सारबोधिन्यां स्पष्टम्। एवं च लक्ष्यवाचकपदसत्त्वासत्त्त्वमात्रेणारोपाध्यवसानव्यवहार इति निष्कर्षः ॥ सारोपसाध्यवसानरूपयोर्लक्षणयोरेव गौणशुद्धभेदाभ्यां प्रत्येकं द्वैविध्यं सूचयन् गौणीशुद्धयोर्लक्षण- माह भेदाविमाविति। इमौ सारोपसाध्यवसानरूपौ मेदौ विशेषौ सादृश्यात् सादृश्याख्यसंबन्धात् गौणौ गौणशब्दवाच्यौ। तथा संबन्धान्तरतः सादृश्येतरसंबन्धात् (कार्यकारणभावादिरूपात्) शुद्धौ च विज्ञेयावित्यर्थः । गौणावित्यत्न गुणेभ्यः ( जाड्यमान्द्योदिरूपेभ्यः ) आगतौ (प्राप्तौ) इति विग्रहः । "तत आगतः " (४।३।६४) इति पाणिनिसूत्रेणाणप्रत्ययः । तथा च मुख्यार्थबाधा- दित्रयहेतुसत्त्वात् गौण्याः लक्षणायामन्तर्भाव इति भावः । मुख्यार्थलक्ष्यार्थयोः संबन्धस्तु सजाती- यगुणवत्त्वम् ।। सूत्रव्याख्यया सह सारोपसाध्यवसानौ गौणीेदावुदाहरति इमावित्यादिना। आरोपाध्यवसा- नरूपाविति। सारोपसाध्यवसानरूपावित्यर्थः। सादृश्यहेतू सादृश्याख्यसंबन्धहेतुकौ। गौणसारोपाया उदाहरणमाह गौरवाहीक इति। उक्तामेदमुदाहरणं "पुंयोगादाख्यायाम्" (४।१।४८) इति पाणिनिसूते कैयटेडपि 'सिंहो माणवकः' 'गौर्वाहकिः' इति। एवम् "आदित्यो यूपः" इति वैदिकमप्युदाहरणमूह्यम्। वाहीको नाम देशविशेषः ( पञ्जाब इति प्रसिद्धः)। तत्रत्यः पुरुषो वाहीक इति केचित् । अन्ये तु ।.१ भेुसहिण्णुरभेदस्तादात्म्यम्। अथवा ताद्रूप्यमत्र तादात्म्यम् ॥ २ आदिना तिष्ठन्मूत्रत्वादिपरिग्रहः ।

Page 108

द्वितीय उल्लास:। ४९ अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्ति इति केचित्। स्वार्थसहचारिगुणाभेदेन पदार्थ: गता गुणा एव लक्ष्यन्ते न परार्थोभिधीयते इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते इत्यपरे। बहिर्भवो वाहीक इति व्युत्प्त्या शास्त्रीयाचाराद्वह्िर्भूत इत्यर्थः । "बहिषष्टिलोपो यञ्च" " ईककू च " इति वार्तिकदयेन बहिःशब्दस्य टिलोपे ईकक्प्रत्यये च कृते बवयोरभेदात् वाहीक इति रूपमित्याङ्कः। गवाभिन्नो वाहीक इति बोधः। विस्तरस्तु प्रयोजनकथनप्रस्तावे (५२ पृष्ठे) स्फुटीभविष्यति। गौण- साध्यवसानाया उदाहरणमाह गौरयमिति। अत्र इदंशब्देन पुरोवर्तित्वरूपेणैव वाहीकादेरुपस्थितिः । न तु वाहीकत्वरूपणेति न विषयवाचकपदसत्त्वशङ्का। एवं 'गौः पठति''गां पाठय' इत्याद्यप्युदाहर- णमूह्यम्। शुद्धसारोपाया उदाहरणम् 'आयुर्धृतम्' इति। शुद्धसाध्यवसानायास्तु 'आयुरेवेदम्' इति चानुपदमेव स्फुटीभविष्यति।। 'गौर्वाहीकः' इत्यादौ वाहीकादौ गवादिशब्दप्रवृत्तिनिमित्तानां विप्रतिपतिं दर्शयति अत्र हीति। यद्वा। गौण्या: स्वरूपे मतभेदानाह अत्र हीति। वस्तुतस्तु वादिभेदेन लक्ष्यविकल्पमाह अत्र हीति। अत्र 'गौर्वाहीक' इत्यादौ। स्वार्थेति। स्वस्य गोशब्दस्यार्थो गोत्वं जातावेव शक्तेः। तस्य सहचारिणः समानाधिकरणा इत्यर्थः । जाड्यमान्द्यादय इति। आदिना तिष्ठन्मूत्रत्वादिपरिग्रहः। जाड्यमान्या- दिगुणानां गोपदाशक्यत्वादाह लक्ष्यमाणा इति। (गोशब्देन) लक्षणया बोध्यमाना इत्यर्थः । नन्वेवं वाहीकेन सह कथमन्वय इत्यत आह परार्थाभिधाने इति। परार्थो वाहीकस्तस्याभिधाने अभिधया बोधने इत्यर्थः । प्रवृतिनिमित्तत्वं शक्यतावच्छेदकत्वम्। उपयान्ति प्राप्नुवन्ति। गोशन्दाव लक्षणया प्रथमं जाड्यादयुपस्थितिः। ततः अभिधया वाहीकस्य बोध इति भावः। गोशब्दो हि भिन्नार्थ- कत्वात् वाहीकेन सहानुपपद्यमानसामानाधिकरण्यत्वेन बाधितमुख्थार्थः सन् स्वार्थसहचारित्वसंबन्धेन जाडयादिगुणान् लक्षयित्वा तानेव प्रवृत्तिनिमित्तीकृत्य (शक्यतावच्छेदकीकृत्य) वाहीकमभिधया बोधयतीति निष्कर्षः । तथा च जाड्यमान्द्यादिवदभिन्नो वाहीक इति शक्तिलक्षणाभ्यां बेोधः । तदेतत्स्वं काव्यप्रदीपे शब्दान्तरैर्व्याख्यातम्। तथाहि। "गोशब्दस्य शक्त्या गोत्वं प्रवृत्तिनिमित्तम् । लक्षणया तु गोशब्दार्थगतं जाड्यमान्द्यादि प्रवृतिनिमित्तं भवतीति गोशब्देन जडत्वेन रूपेण वाहीक: शक्त्या बोध्यते " इति। केचिदित्यस्वरसोद्धावनम्। तद्वीजं तु गोपदस्य वाहीके संकेताभावेनाभिधा भावरूपम्। जाडयादिगुणानां लक्ष्यत्वात् अशक्यतया प्रवृत्तिनिमित्तत्वासंभवश्च। गोवृत्तिजाडयादिगुणाना वाहीकवृत्तित्वरूपं चेति बोध्यम्। मतान्तरमाह स्वार्थेति। अभेदेन साजात्येन। गुणा एवेति। न तु गुणात्यर्थः । तस्याक्षेपेण वाहीकशब्दादेव लाभादिति भावः। तेनान्यलम्यरवेन नामिधा तदाह न त्विति। न तु (गोशब्देन) परार्थो वाहीकोऽभिधीयते अभिधया प्रतिपाद्यते इत्यर्थः । तथा च गोगतजाडयसजातीयजाडयवान् वाहीक इति बोधः । अन्ये इति। अन्ये इत्यस्मिन्नपि पक्षे अस्वरसो- द्वावनम् । तद्वीजं तु एकधर्मिबोधकत्वाभावात् गौर्वाहीक इति सामानाधिकरण्यानुपपत्तिः । न च जातिशक्ताविवानुमानसहकृनपदेन व्यक्तिबोधान्नानुपपत्तिरिति वाच्यम्। अन्वयानुपपत्या प्रसरन्त्याः लक्षणायाः साक्षादन्वययोग्यार्थबोधकतैवोचितेत्यभिप्रायादिति प्रदीपोद्दयोतयोः स्पष्टम्। नरसिंह ठक्कुरास्तु १ उपयन्तीति पाठान्तरम् ॥ २ विप्रतिपत्तिं विवादं, विरुद्धज्ञानं वा ॥ काव्यप्रकाश ७

Page 109

५० काव्यप्रकाश: सटीकः । उक्तं चान्यत्र "अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद्टत्ते- रिष्टा तु गौणता" इति। अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरीयकत्वम् । तच्वे हि 'मश्चाः क्रोशन्ति' इत्यादौ न लक्षणा स्यात्। अविनामावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम्। "अन्ये इत्यस्वरसोद्धावनम्। तद्वीजं च अनन्यलभ्यतया धर्मिणोSलक्ष्यत्वे तीरादेरपि गङ्गापदलक्ष्यताना- पत्तिः" इत्याहुः। स्वमतमाह साधारणेति। साधारणाः सजातीयाः गुणाः जाडयमान्द्यादयस्तदाश्रयत्वेने- त्यर्थ:। गोवृत्तिजाडयादिगुणसमानजाडयादिगुणाश्रयत्वरूपसंबन्धेनेति यावत्। परार्थ एव। वाहीक एव। लक्ष्यते लक्षणया बोध्यते। गोशब्देनेति शेषः । एवकारेण तद्रतगुणरूपान्ययोगव्यवच्छेदः । तथा चात्र मते जाड्यादिगुणविशिष्टे एव लक्षणा। अतो न सामानाधिकरण्यानुपपत्तिरिति भावः । अपरे इति। न परे अपरे स्वीया इत्यर्थः । इत्यस्मन्मतमिति भावः ॥ 'साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते' इति स्वोक्तेऽर्ये पूर्वमीमांसकसंमतिमाह उक्तं चेति। अन्यत्रेति। भैद्टवार्तिके इत्यर्थः । वार्तिकमेव दर्शयति अभिधेयाविनेति। अस्य "मानान्तरविरुद्धे तु मुख्यार्थस्य परिग्रहे " इत्यादिः। मुख्यार्थस्य प्रवाहादिरूपार्थस्य परित्रहे स्वीकारे मानान्तरेण प्रत्यक्षादिना विरुद्धे सति या अभिधेयेन वाच्येन (प्रवाहादिरूपार्थेन) अविनाभूतं सबद्धं (तटादि) तस्य प्रतीतिः प्रतीतिकरणभूतो व्यापारः (प्रतीयतेऽर्थोऽनयेति प्रतीतिरिति करणे क्तिन्प्रत्ययः) लक्षणोच्यते लक्षणेत्युच्यते इत्यर्थः । यथा 'गङ्गायां घोषः' इत्यादौ मुख्यार्थः प्रवाहो घोषाधिकरण- त्वासंभवात्प्रत्यक्षविरुद्ध इति बोध्यम्। उपचारमिश्रां गौणीमाह लक्ष्यमाणेति। लक्ष्यमाणाः 'जाड्या- दिगुणविशिष्टे एव लक्षणा' इत्युक्तरीत्या लक्ष्यार्थविशेषणतया लाक्षणिकबोधविषयाः ये गुणाः जाडया- दयः तैर्योगात् संबन्धात् या वृत्तिः गोशब्दस्य वाहीकार्थोपस्थापकता तस्याः गौणतेष्टेत्यर्थ इति मन्म- तम्। "योगादिति ल्यबलोपे पञ्चमी। लक्ष्यमाणाः साधारण्येन दृश्यमानाः । यद्वा। लक्ष्यमाणस्य प्रतीयमानस्य गोपदार्थस्य गुणाः जाडयादयस्तैर्योंगं लक्ष्यतावच्छेदकमवाप्य वृत्तेर्गोणतेष्टेत्यर्थः "इति कमलाकरमतम्। "लक्ष्यमाणाः लक्ष्यतावच्छेदकाः ये गुणा जाडयादयस्तैरव यदि योगः तद्द्वारको यदि योग: शक्यसंबन्धस्तदा गौणी वृत्तिरित्यर्थः । गुणलक्ष्यतावच्छेदिका लक्षणा गौणीति भावः' इति प्रदीपकारमतम्। "लक्ष्यमाणगुणैरित्यस्य ज्ञायमानगुणैरित्यर्थः । यद्गुणज्ञानपूर्वक वाहीके गोशब्द- प्रयोगस्तद्गुणरूपात्संबन्धादिति यावत्" इति उद्दयोतकारमतम्। ननु अविनाभावो व्याप्तिः। सा चानुमानोत्थापकत्वान्न लक्षणाहेतुरत आह अविनाभाव इति। अत्र भट्टवार्तिके। नान्तरीयकत्वमिति। येन विना यन्न भवति तन्नान्तरीयकम्। अन्तरा विना भवोऽन्त- रीयः। गहादित्वा/च्छप्रत्ययः । ततः स्वार्थे कप्रत्ययः। 'नैकधा' 'नारायणः' इत्यादिवत् नशब्देन सह "सह सुपा" इति समासश्च। नान्तरीयकस्य भावो नान्तरीयकत्वम्। व्याप्तिरित्यर्थः । तत्सत्तानियतस- त्ताकत्वमिति यावत्। यथा जातिव्यक्त्योर्नान्तरीयकत्वं तथा वाच्यार्थलक्ष्यार्थयोर्न नान्तरीयकत्वं किंतु १ 'तथाले हि' इति पाठान्तरम् ॥ नान्तरीयकले हीति तदर्यः ॥ २ भट्टोऽत्र कुमारिलः। जैमिनिसूत्रोपरि वार्तिककार: ॥ ३ 'मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे' इति पाठान्तरपक्षे मानान्तरविरोधे इति निमित्त सप्तमी राहूपरागे स्नायादितिवत्। तथा च मानान्तरविरोधनिमित्तके मुख्यार्थस्य प्रवाहादिरूपस्यापरिम्रहे त्यागे सतीति फलितोऽर्थः ॥

Page 110

द्विर्ताय उल्लास:। ५१ 'आयुर्घृतम्' 'आयुरेवेदम्' इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि संबन्धा- न्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने। संबन्धमात्रमभिप्रेतमिति भावः। नान्तरीयकत्वाङ्गीकारे (व्याप्तिरूपार्थस्वीकारे ) दोषमाह तच्वे हीति। नान्तरीयकत्वे हीत्यर्थः । इत्यादाविति। आदिशब्देन पुंयोगादितिसूत्रमहाभाष्योक्तस्य 'मञ्चा हसन्ति' 'गिरिर्दह्यते' इत्यादेः संग्रहः। न लक्षणा स्यादिति। मश्चाः क्रोशन्तीत्यादौ मञ्चानामचे- तनत्वेन क्रोशनस्यासंभवे तत्सिद्धयर्थ मञ्चपदस्य मञ्चस्थबालके लक्षणा ईष्यते। सा न स्यादित्यर्थः । मञ्चस्य भूतलवृत्तितया मञ्चस्थस्य मञ्चवृत्तितया दैशिकव्याप्तेरभावात्। मञ्चस्थ विनापि मञ्चप्रतीतेः कालिकव्याप्तेरप्यसंभवादिति भावः। ननु क्रोशनकाले व्याप्तिरस्त्येवेत्यतो दूषणान्तरमाह अविनाभावे चेति। व्याप्तौ सत्यां तु इत्यर्थः। आक्षेपेण अनुमानादिना। तथा च 'गङ्गायां घोषः' इत्यादौ शब्द- सहकृतानुमानेनोपस्थिते तटादौ घोषाधिकरणत्वान्वय इति भावः। इत्युक्तमिति। "स्वसिद्धये परा क्षेपः" इति १३ सूत्रे "गौरनुबन्ध्यः" इत्यत्र (४४ पृष्ठे) उक्तमित्यर्थः ॥ एवं सादृश्यसंबन्धमूलकयोर्गोणयोः सारोपसाध्यव सानयोर्लक्षणाभेदयोरुदाहरणमभिधाय संप्रति संब- न्धान्तरमूलकयोः शुद्धयोः सारोपसाध्यवसानयोर्लक्षणाभेदयोरुदाहरणं दर्शयन् सूत्रस्थं 'संबन्धान्तरतः' इत्येतद्याकरोति आयुर्घ्ृतमित्यादिना। इदं शुद्धसारोपाया उदाहरणं "द्विर्वचनेSचि" (१।१/५९) इति सूत्रे महाभाष्ये स्पष्टम्। "आयुर्धृतं यशस्त्यागो भयं चोरः सुखं प्रिया। वैरं द्यूत गुरु्ज्ञानं श्रेय- स्तार्थनिषेवणम्।।" इति माणिक्य चन्द्रकृतसंकेते स्पष्टम्। "आयुर्वै घृतम् " इति वेदेऽपि च दृश्यते। आयुर्दीर्घकालजीवनम्। घृतं जनकम्। आयुर्जन्यम्। जन्यजनकभावः संबन्धः। तयोश्च लक्षणयामेदः। आयुर्जनकत्वात् घृतमायुःशब्देन लक्ष्यते इत्यर्थः । तेनायुरभिन्नं घृतमिति बोधः। विस्तरस्तु प्रयोजन- कथनप्रस्तावे (५२ पृष्ठे ) स्फुटभिविष्यति। शुद्धसाध्यवसानाया उदाहरणमाह आयुरेवेदमिति। अत्रेदंशब्देन पुरोवर्तित्वरूपेणैव घृतादेरुपस्थितिः । न तु घृतत्वादिरूपेणेति न विषयवाचकपदस्त्व- शङ्का। एवम् 'आयुः पीयते' इत्याद्यप्युदाहरणमूह्यम्। इत्यादाविति। आदिशब्दात् 'इन्द्रार्था स्थूणा इन्द्रः' इत्यादिवक्ष्यमाणपरिग्रहः। कार्यकारणभावादीति। आदिशब्दात् वक्ष्पमाणतादर्थ्यादिपरि- ग्रहः । संबन्धान्तरमिति। वर्तत इति शेषः। ननु संबन्धान्तरस्य विद्यमानतामात्रं न शुद्धात्वप्रयो- जकम्। 'गौर्वाहीकः' इत्यत्नाप्येकबुद्धिविषयत्वादेः संबन्धान्तरस्य स्त्वेन शुद्धात्वापत्तेः। 'आयुर्घृतम्' इन्यत्रापि प्रमेयत्वादिना सादृश्यसत्वेन गौणीत्वापत्तेः। अपि तु तत्तत्संबन्धपूर्वकत्वं तथात्वप्रयोजकम्। तत्कथं सादृश्यान्यसंबन्धसत्तामात्रेणेदं शुद्धसारोपसाध्यवसानोदाहरणमित्यत आह एवमादाविति। कार्यकारणेति। कार्यकारणभावादि लक्षणं स्वरूपं यस्य सः कार्यकारणभावादिलक्षणः सादृश्यातिरिक्तः संबन्ध इत्यर्थः । स एव पूर्वो हेतुभूतः ययो: (आरोपाध्यवसानयोः) ते तत्पूर्वे इत्यर्थः। पूर्ववर्तित्वेन हेतुता। तथा चात्र न तादृशसंबन्धस्य सत्तामात्रम्। अपि तु तत्पूर्वकत्वमपीति नोदाहरणतार्क्षातरिति भाव:। अन्यथा 'सादृश्यादन्यत्' इति पूर्वफक्किकयाँ समम् 'एवमादौ' इति फक्किकायाः पौनरुक्त्या- १ इण्यते इति। तातस्थयरूपात्संबन्वादिति भावः । लक्षणायाः प्रयोजनं तु मश्गतस्य बाहुल्यस्य बालकेषु प्रतीतिरिति बोध्यम्॥ २ पूर्वशब्दस्य हेतुत्वेन व्याख्यानं प्रसिद्धमेव। अत एव रघुवंशकाव्ये द्वितीयसर्गे मल्लिनाथेन व्याख्यातम्। यथा। संबन्धमाभाषगपूर्वमाहुः। संचन्धः सख्यमाभाषणमालापः पूर्व कारणं यस्य तमाहुरित्यर्थ इति॥ ३ फक्किका च यत्किंचिदर्थपतिपादनाय प्रयुक्त छन्दोडलंकारविरहितं वाक्यम्।।

Page 111

५२ काव्यप्रकाशः सटीकः । अत्र गौणभेदयोर्भेदेऽपि ताद्रप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम्। शुद्धभेदयो- स्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि। पात इति बोध्यम्। कार्यकारणभावादिलक्षणपूर्वमिति पाठे तु कार्यकारणभावादिलक्षणः पूर्वो हेतु भूतः यत्र (आरोपाध्यवसानक्रियायाम्) इति क्रियाविशेषणम्। आरोपाध्यवसाने इति। भवतः इति शेषः ॥ उक्तेषु चतुर्षु गौणीशुद्धोदाहरणेषु रूढ्यभावात्प्रयोजनविवेकं क्रमेणाह अत्रेति। 'गौर्वाहीकः' इत्यादिचतुर्षूदाहरणेषु मध्ये इत्यर्थः । गौणभेदयोरिति। सप्तम्यन्तमिदम्। 'गौर्वाहीकः' गौरयम्' इत्यनयोरित्यर्थः । आदौ 'गौर्वाहीकः' इत्यत्न प्रयोजनं दर्शयति भेदेपि ताद्रूप्यप्रतीतिरिति। भेदेऽपि (वाहीकादिपदप्रयोगात्) वैधर्म्ये भासमानेऽपि यत् ताद्रूप्यं तादात्म्यं तस्य प्रतीतिरित्यर्थः । गोत्वबाही- कत्वरूपभिन्नधर्मप्रकारकोपस्थितावपि सादृश्यातिशयमहिम्रा ताद्रूव्यप्रत्यय इति भावः। प्रयोजनमित्य- प्रिमेण संबन्धः। गौरयमित्यत्र प्रयोजनं दर्शयति सर्वथैवेति। गोत्ववाहीकत्वयोर्भेदप्रतीति विनैवेत्यर्थः। वाहीकपदानुपादानेन वाच्यार्थबोधवेलायामपि शब्दजभेदकधर्मानुपस्थितेरिति भावः । अभेदावगमः अभेदप्रतीतिः प्रयोजनं फलम्। व्यङ्गयं भवति इति शेषः । शुद्धसारोपशुद्धसाध्यवसानयोः प्रयोजनं दर्शयति शुद्धभदयोस्त्विति। इदमपि सप्तम्यन्तम्। आयुर्घृतमि यत्र अन्यवैलक्षण्येन जनकान्तरवैलक्ष- ण्येन (क्षीरादिवैसादृश्येन) कार्यकारित्वम्। आयुरेवेदमित्यत्र घृतं क्षीादिवत् आयुष्यं प्रति न व्यमि- चरतीति अव्यभिचारेण नियमेन कार्यकारित्वम् । प्रयोजनमित्यनुषङ्ग: । अत्राहुरुद्दयोतकारा: । "परे तु शक्यतावच्छेदकारोपेण शक्यतावच्छेदप्रकारक एव तीरादिबोधो लक्षणायामिति गौतमसूत्रे पुंयोगादिति पाणिनिसूत्रे महाभाष्ये च स्पष्टमिति निरूपितं मञ्जूायाम्। न च गङ्गात्वादिनैव तीरबोधः। न चारोपितगङ्गात्वेन बोधेपि तस्य ज्ञानस्य भ्रमत्वात् शास्त्रज्ञानवतां सर्वधा तत्वेन ग्रहाच्च तदुत्तरं गङ्गागतशैत्यपावनत्वप्रतीतिरूपं प्रयोजनं च सिध्येत्। अत एव शुक्तिरजतज्ञाने भ्रमत्व्रग्रहे तत्र न प्रबर्तते इति वाच्यम्। मध्ये व्यञ्जनया मुख्यगङ्गापदार्थाभेदस्य प्रतीतेः।व्यञ्जनाजन्य- ज्ञाने च बाधज्ञानेन नाप्रामाण्यग्रह इति न दोषः । तदुक्तम् (४६ पृष्ठे) 'तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः' इति। तत्त्व्रेत्यस्य मुख्यगङ्गाभेदे- त्यर्थः । न च लक्षणामूलतया गङ्गासंबन्धप्रती्या तत्सिद्धिः। गङ्गातटे घोष इत्यतोऽपि तत्प्रतीत्यापत्तेः। तदुक्तम् (३६ पृष्ठे) 'गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाल्लक्षणायाः को भेद:' इति। 'कुन्ताः प्रविशन्ति' इत्यादावपि कुन्तत्वादिना कुन्तयुक्तपुरुषप्रतीतिः। अत एवात्र न मतुप्। तेषु च मुख्यकुन्ताभेदप्रतीत्या कुन्तगततैक्ष्ण्यादिप्रतीतिरूपप्रयोजनसिद्धिः । तदुक्तम् (४३ पृष्ठे) 'कुन्तादिभिरात्मनः प्रवेशान्वयसिद्धयर्थ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते' इति । आक्षिप्यन्ते इत्यस्य स्वगतकुन्ताद्याश्रयत्वेन बोध्यन्ते इत्यर्थः। गौर्वाहीक इत्यत्र साधारणगुणरूपसादृश्याश्रयणेन वाहीकस्यै- वारोपितगोत्वेन बोधः । ततो व्यञ्जनया मुख्यगवाभेदप्रतीतिः प्रयोजनम् । तत एव चमत्कारः । आद्यबोधेन तु न चमत्कारः। तस्मिन् भ्रमत्वज्ञानात्। अत एव 'गौर्वाहीको जडः' इत्यादौ न पौनरु- कत्यम्। आयुर्धृतमित्यादौ कार्यकारणभावसंबन्धादायुष्टेन घृतबोधः। ततो व्यञ्जनयान्यवैलक्षण्येना- युष्कारित्वरूपप्रयोजनप्रतीतिः । तदुक्तम् 'साधारणगुणाश्रयणेन परार्थो लक्ष्यते इत्यपरे''लक्ष्य- १ भेदसहिष्णुरभेदस्तादात्म्यम्।

Page 112

द्वितय उल्लास:। ५३

क्वचित तादर्थ्यादुपचारः। यथा इन्द्रार्था स्थूणा इन्द्रः। कचित् स्वस्वामिभावात्। यथा राजकीयः पुरुषो राजा। क्रचित् अवयवावयविभावात्। यथा अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । क्वचित् तात्कर्म्यात्। यथा अतक्षा तक्षा ।। माणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता''गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः प्रयोजनम्। शुद्धभेदयोस्त्वन्य- वैलक्षण्येन कार्यकारित्वादिप्रतीतिः' इति। लक्ष्यमाणगुणैरित्यस्य ज्ञायमानगुणैरित्यर्थः। यद्रुणज्ञानपूर्वक वाहीके गोशब्दप्रयोगस्तद्रुणरूपात्संबन्धादिति यावत्। साधारणगुणाश्रयणेनेत्यस्य तद्रूपसंबन्धेनेत्यर्थः । अत्रत्यप्रदीपस्तु मतान्तरपरतया कर्थचिन्नेयः। लक्ष्यमाणगुणैरित्यत्रप्रकृत्यादित्वात्तृतीया। अनया रीत्यान्यो- डपि प्रकाशग्रन्थो योज्यः। एतेन रूपके न लक्षणा। समानविभक्तिकत्वेन नामार्थयोरभेदान्वयोपपत्या लक्षणाफलाभावादित्यादि दीक्षितादिनव्योक्तं परास्तम्। 'गौर्न वाहीकः' इत्यादिबाधज्ञानेन तद्वोधेSप्रा- माण्यग्रहजननात्ततक्षमत्कारानापत्तेः। मम तु तस्य बोधस्य लक्षणामूलव्यञ्जनाजन्यत्वेन तत्र बाधज्ञानेना- प्रामाण्यग्रहाजननान्न दोष इति वदन्ति। इदमेव युक्तम् । अन्यथा गङ्गादिपदजन्यतटादिशाब्दबोधस्यैव प्रयोजनप्रतीतिनियामकत्वेन गङ्गातटे इत्यादितस्तदभावोपपत्तौ मध्येडमेदप्रतीतिः प्रकाशादयुक्तासंगता स्यात्। मम तु यथा तदुपयोगस्तदुक्तम् । तद्वोधे भ्रमत्वग्रहादिति दिक्" इति। कार्यकारणभावादीव्यादिपदग्राह्यान् संबन्धान् आह क्वचिदित्यादिना तक्षा इत्यन्येन । ता- दर्थ्यादिति। तस्मै इदं तदर्थम्। तदर्थस्य भावस्तादर्थ्य तस्मात्। तादर्थ्यरूपसंबन्धादित्यर्थः। उपकार्यो- पकारकभावरूपसंबन्धादिति यावत्। उपचारः लक्षणेति कमलाकरभट्टाः। उपचारो लक्षणया सामाना- धिकरण्येन प्रयोग इति प्रभाकृतः । तदुदाहरति यथेति । इन्द्रार्थेति । इन्द्रपूजाप्रयोजनिकेत्यर्थः । इन्द्रार्थेति संबन्धप्रकटनार्थम्। न तु लक्षणाकारे प्रदर्शनपरम्। 'स्थूणा इन्द्रः' इत्येतावतैव तत्प्रदर्शन- संभवात्। स्थूणा स्तम्भः । अन्येडप्याहुः । " स्थूणा स्तम्भेऽपि वेश्मनः " इत्यमरोक्तेः स्तम्भविशेषः स्थूणाशब्दवाच्यः । सा च क्वचिद्यज्ञादिकर्मविशेषे इन्द्रार्था इन्द्राय निवेदिता भवतीति तर ामिन्द्र इति पदप्रयोगो लाक्षणिक एवेति तत्र तादर्थ्यरूपात्संबन्धादेव सेत्यर्थ इति। अत्रेष्टप्रदत्वं प्रयोजनं व्यङ्गयम्। स्वस्वामिभावात् तद्रूपात्संबन्धात्। उपचार इत्यनुषङ्गः । राजकीयः अमात्यादिः। राजेति। "पुंयो- गादाख्यायाम्" (४।१।४८) इति सूत्रे महाभाष्यकैयटयोः स्पष्टमिदम्। अत्रालङ्दनीयाज्ञत्वं प्रयोजनं व्यङ्गयम्। एवमेव 'राजा राष्ट्रमभवत्' इति प्रयोगोऽपि बोध्यः । अग्रहस्त इति। अग्रं च तत् हस्तश्चेति कर्मधारयसमासेऽवयवावयविभावसंबन्धेनाग्रमात्रे हस्तशब्दस्य लक्षणेत्यर्थः । अत् हस्तावयवेन हस्त- व्यापारं करोतीति बलाधिक्यं प्रयोजनं व्यङ्गयम्। अग्रमात्रे इति। अवयवपुञ्ज एवावयवीति मतेऽ- वयवान्तरव्युदासाय मात्रपदम्। केचित्तु अग्रहस्त इत्वखण्ड एवायं शब्दो हस्ताग्रवाचक इति वदन्ति। अन्ये तु हस्तस्याग्रमित्येव विगृह्याग्रशब्दस्याहिताग्न्यादिपाठात्पूर्वनिपातं राजदन्तादित्वाद्धस्तशब्दस्य परनिपातं वा वदन्ति। तन्मते 'पीता कार्पटिकैर्गङ्गा' इत्युदाहार्यम्। अत्र गङ्गावयवे गङ्गापदं लाक्षणि- कमिति ज्ञेयम् । तात्कर्म्यात् तत्कर्मकारित्वात्। तद्रूपात्संबन्धादित्यर्थः । अतक्षा गोपालादिः । अभ्य- स्तगृहनिर्माणः । तक्षेति। इदं जातिविशेषावच्छिन्ने रूढम्। वर्धकिरित्यर्थः। अत्र तत्कर्मनिपुणत्वादिकं प्रयोजनं व्यङ्गयम्। तदेतदुक्तं परमलघुमञ्जूषायां नागोजीभट्टैरपि। "शक्यसंबन्धो लक्षणा। सा च लक्षणा १ दीक्षितोऽत्र कुवलयानन्दादिकर्ता अप्पय्यदीक्षितः ॥ २ संचन्धाश्व बहवः । तदुकत "षष्ठी स्थानेयोगा" (११।४९) इति सूत्रे महाभाष्ये "एकशतं षष्टचर्थाः" इति ॥ ३ सा लक्षणा ॥४ कर्पटं जीर्णवस्त्रखण्डः ।

Page 113

५४ काव्यप्रकाशः सटीक: ।

(सृ० १७) लक्षणा तेन षड्विधा ॥ १२ ॥ आद्यभेदाभ्यां सह॥ तात्स्थ्यादिनिमित्तिका। तदाह। 'तात्स्थ्यात्तथैव ताद्धर्म्यात्तत्सामीप्यात्तथैव च। तत्साहचर्यात्तादर्थ्याज्ज्ञेया वै लक्षणा बुधैः ॥' इति। तात्स्थ्यादयथा। मञ्चा हसन्ति। ग्रामः पलायितः। गिरिर्दह्यते। ताद्धर्म्याद्यथा। सिंहो माणवकः । आदित्यो यूपः । तत्सामीप्यादयथा। गङ्गायां घोषः। तत्साहचर्यादयथा। यष्टीः प्रवेशय। तादर्थ्याद्यथा। इन्द्रार्था स्थूणा इन्द्रः" इति ॥ लक्षणामुपसंहरति लक्षणेति। तेन उक्तप्रकारेण। षड्िधेति। शुद्धागौणीसारोपासाध्यवसानोपादा- नलक्षणैः षड्मेदेत्यर्थः । ननु "सारोपान्या तु" इत्यादिना प्रभेदचतुष्टयमेवोक्तमतः कथ षडिधेत्यत आह आद्यमेदाभ्यां सहेति। उपादानलक्षणालक्षणलक्षणाभ्यां सहेत्यर्थः। लक्षणा प्रथमतो द्विविधा। शुद्धा गौणी च। शुद्धापि पुनश्चतुर्धा । उपादानलक्षणा लक्षणलक्षणा सारोपा साध्यवसाना चेति। गौण्यपि सारोपा साध्यवसाना चेति द्विविधेति षड़िधेति भावः । वस्तुतस्तु लक्षणा तावत् द्विविधा। शुद्धा गौणी च। तत्राद्या द्विविधा। उपादानलक्षणा लक्षणलक्षणा चेति। उपादानलक्षणालक्षणलक्षणे अपि प्रत्येकं सारोपा साध्यवसाना चेति द्विविधे इति शुद्धायाः भेदाश्चत्वारः । गौणी तु द्वेधा। सारोपा साध्यवसाना चेति। तत्रोपादानसारोपा यथा 'कुन्ताः पुरुषाः प्रविशन्ति' इति। उपादानसाध्यवसाना यथा 'कुन्ताः प्रविशन्ति' इति। लक्षणसारोपा यथा 'आयुर्धृतम्' इति। लक्षणसाध्यवसाना यथा 'आयुरेवेदम्' इति 'गङ्गायां घोषः' इति च। गौणसारोपा यथा 'गौर्वाहीकः' इति। गौणसाध्यव- साना यथा 'गौरयम्' इतीति प्रदीपोद्दयोतयोः स्पष्टम्। ननु शुद्धात्वादिभिः षड्भिरुपाधिभिर्लक्षणायाः षड्धत्वोपवर्णनमयुक्तं निरूढात्वप्रयोजनवत्त्वमादायाष्टविधत्वस्यापि संभवादिति चेत् शणु। निरूढाप्र- योजनवती चेति प्रथमतो लक्षणाया विभागः । ततः प्रयोजनवत्याः शुद्धात्वाद्युपाधिभिः षोढा विभाग इति विभक्तविभागोऽयमिति नानुपपत्तिः। "लक्षणा तेन षड़िचा" इत्यत्र लक्षणापदं प्रयोजनवती या लक्षणा तत्परमिति नरसिंहठक्कुरादिमतम्। वस्तुतस्तु रूढिप्रयोजनाभ्यां भेदाधिक्यं तु नास्त्येव तत्कृतभे- दस्येहानुक्तेः। "व्यङ्गयेन रहिता रूढौ" इत्यादिना १८ सूत्रेणाग्रे एव वक्ष्यमाणत्वात्। यद्यपि "रूढि- तोऽथ प्रयोजनात्" इत्यनेन रूढिप्रयोजने उक्ते तथापि न ते विभाजकत्वेनोक्ते किंतु हेतुत्वेन। अन्यथा पुनरुक्तिप्रसङ्ग: स्यादिति प्रदीपप्रभयोः स्पष्टम् ॥ अत्र केचित् षडि्धत्वमनुपपननं गौण्यामप्युपादानलक्षणरूपभेदद्वयसंभवात्। गोवाहीकसाधारण्येन गाव एते समानीयन्ताम् गावः समानीयन्तामित्युपादानसारोपसाध्यवसानयोरुदाहरणद्वयसंभवात्। तस्मात् षड्भिरुपाधिभि: कल्पिता विधाः प्रकारा यस्यामिति षडिधेति तदर्थ इत्यामनन्ति तन्न। शुद्धै- वेत्यत्र (१३ सूत्रे) एवशब्दस्य सारोपान्या तु इत्यत्र (१४ सूत्रे) तुशब्दस्यानालोचनात्तयोक्तेः। किं च स्वसादृश्यस्य स्वावृत्तित्वेन तत्रोपादानाद्यसंभवात । संबन्धान्तरेण च गौणत्वायोगात्।। अत्र यद्यपि लक्षणामात्रप्रदर्शनेनापि लाक्षणिकशब्दनिरूपणं संभवत्येव तथापि षड्धभेदप्रदर्शनं १ प्रागुक्तरीत्या लक्षणायाः भेदे शुद्धायाश्र्तुर्षु भेदेषु परस्परं सांकर्यापत्तिः। तथाहि। उपादानलक्षगरूपयोर्भेदयोः सारोपत्वस्य साध्यवसानत्वस्य च सत्त्वेन सारोपसाध्यवसानरूपयोर्लक्षणत्वस्योपादनत्वस्त्र च सत्त्वेन सांक- र्यमित्यत आह वस्तुतसत्विति ॥ २ एवतशब्दाभ्यां गौण्या उपादानलक्षणरूपभेदद्वयाभावबोधनेन विरोधस्य स्पष्ट- त्वादिति भाव:।।

Page 114

द्वितीय उल्लास:।

साच (सू० १८) वयङ्गचेन रहिता रूढौ सहिता तु प्रयोजने। प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव।। (सू० १९) तच्च गूढमगूढं वा। काव्यभेदोपयोगित्वमेतेषां प्रदर्शायतुम्। तथाहि। उपादानलक्षणा अर्थान्तरसंक्रमितवाच्यध्वन्युपयोगिनी। लक्षणलक्षणा च अत्यन्ततिरस्कृतवाच्यध्वन्युपयोगिनी। गौणसारोपा रूपकालंकारोपयोगिनी । गौणसाध्य- वसाना च प्रथमातिशयोक्तिप्रयोजिका। शुद्धसारोपा तु चतुर्थातिशयोक्तिलक्षिका। शुद्धसाध्यवसाना च सहकारिव्युदासेन कार्यकारित्वरूपसामर्थ्यातिशयरूपव्यङ्गयोपदर्शिकेति ज्ञेयममिति नरसिंहमनीषायां स्पष्टम्। यत्तु "शुद्धसारोपशुद्धसाध्यवसाने तु हेत्वलंकारप्रयोजके भवतः" इति सारबोधिनीकारादय आहुस्तच्चिन्त्यम् । कारणमालालंकारे हेत्वलंकारस्य ग्रन्थकृता स्वयमेव खण्डितत्वात् । एवमुक्तोपाधिकृतं भेदषटूं प्रतिपाद्य व्यञ्जनेकृतं भेदत्रयमाह सा चेत्यादिना तच्च गूढमगूढं वा इत्यन्तेन। सा चेति। लक्षणा चेत्यर्थः । व्यङ्गयेनेति। रूढौ प्रसिद्धौ सत्यां व्यङ्गयेन व्यङ्गयार्थेन रहिता भवति। प्रयोजने सति तु व्यङ्गयेन सहिता भवतीत्यर्थः। एवं चाव्यङ्गया सव्यङ्गया चेति द्विविधा लक्षणेति भावः । अव्यङ्गया रूढिलक्षणा। सव्यङ्ग्या च प्रयोजनवती। सहिता तु इत्यत्र सहिता चेति क्कचित्पाठः। ननु प्रयोजनवत्यां कथं व्यङ्गयनियम इत्यत आह प्रयोजनं हीति। व्यञ्ञनव्यापारेति। व्यञ्जनरूपो यो व्यापारस्तद्रम्यमेवेत्यर्थः । तथा च प्रयोजनव्यङ्गययोरेकार्थत्वात्तथात्वमित्यर्थः । एवकारे- णान्यगम्यत्वव्यवच्छेदः । स चात्रैवोल्लासे पञ्चमोल्लासे च सविस्तरं स्फुटीभविष्यति ॥ सव्यङ्गयायामपि व्यङ्गयभेदेन द्वैविध्यमाह तच्च गूढमिति। लक्षणभेदप्रयोजकोक्तोपाधिर्यथा भिद्यते तथा तत्प्रयोजकं व्यङ्गयमपीति चशब्दार्थः। एवं चात्र चशब्दोड्यर्थे इति भावः। वाशब्दः समुच्चये। "वा स्याद्विकल्पोपमयोरेवार्थे च समुच्ये" इति विश्वः। सहृदयमात्रवेधं गूढम्। सहृदयेतरैरपि वेद्यमगूढम्। सहृदयश्च काव्यवासनापरिपक्कबुद्धि: पण्डित इति यावत्। हृदयं च प्रतिभा। सा च "प्रज्ञा नवनवोन्मे- षशालिनी प्रतिभोच्यते" इति रुद्रकोशे उक्ता। तथा च लक्षणा पूर्वोक्तोपाधिकृतं भेदमादाय षड़िधा। व्यञ्जनकृतं भेदमादाय (अव्यङ्गया गूढव्यङ्गया अगूढव्यङ्गया चेति) त्रिविधा वेति बोध्यमिति प्रदीपे स्पष्टम्। एवं च प्रदीपकारसिद्धान्ते रूढिलक्षणायाः शुद्धायां लक्षणसाध्यवसानायामन्तर्भावः। नरसिंहठकु- रास्तु "निरूढाया लक्षणमाह व्यङ्गयेनेति। तथा च व्यङ्गयोपस्थित्यप्रयोजकलक्षणत्वं निरूढात्वमित्यर्थः । प्रयोजनवत्या लक्षणमाह सहिता त्विति। तथा च व्यङ्गयोपस्थितिप्रयोजकलक्षणत्वं तल्लक्षणमिति भावः। ननु व्यङ्गयोपस्थितिजनकत्वमेव कुतो न प्रयोजनवतीलक्षणमित्यत आह प्रयोजनं हीति। न लक्षणागम्यमित्येवकारार्थः। तथा सति जनकत्वगर्भलक्षणेऽसंभव इति भावः। व्यङ्गयस्य गूढागूढत्वेन पूर्वोक्तषड्भेदस्य द्वैगुण्यात् प्रयोजनवती द्वादशविधेत्याह तच्च गूढमिति। तथा च व्यङ्गयरहिता रूढि- लक्षणा एकविधा। उक्तषड़िधा प्रयोजनलक्षणा गूढव्यङ्गयागूढव्यङ्गयत्वेन द्विविधा। मिलित्वा लक्षणा त्रयोदशविधा बोध्या" इत्याहुः ॥ १ उक्तोपाधिकृतामिति । प्रकाशमते शुद्धात्वाद्युपाधिरतम्। प्रदीपमते आरोपाद्युपाधिकृतमित्यर्थः २ व्यञ्ज. नरूतमिति। व्यङ्गधराहित्येऽपि प्रतियोगिनिरुष्यतया व्यञ्जनप्रयुक्तत्वं बोध्यमिति प्रभार्या स्पष्टम् ॥

Page 115

५६ काव्यप्रकाश: सटीकः । तच्चेति व्यङ्गचम्। गूढं यथा F 1D मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः। उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्रमो मोदते ॥ ९ ॥ गूढव्यङ्गयमुदाहरति गूढ यथेत्यादिना। कश्चित् युवा कांचित् युवतिमालोक्याह मुखमिति। इदं लक्षणामूलध्वनेरुदाहरणम्। इन्दुवदनायाः तनौ शरीरे तरुणिम्नः तारुण्यस्य उद्रम आविर्भावो मोदते स्फीतो भवतीत्यर्थः। उत्कृष्टवस्तुसंबन्धात्स्वयमप्युत्कर्ष प्राप्त इति भावः । प्रकृत्यैवेयमिन्दुवदना तत्राप्येवंविधनवयौवनविजुम्भणमित्यतिकष्टमापतितं विदग्धयुवजनस्येत्येवं खेदे बतेति। अहो रमणी- यतातिशय इति विस्मये वा। अहो भाग्येन परमोत्सवस्थानमुपसंपन्नं युवजननयनानामिति हर्षे वा। "बतामन्त्रणसंतोषखेदानुक्रोशविस्मये" इति नानार्थकोशात्। स्फीतताचिह्रमनेकस्थानेSनेकविधकार्यज- ननरूपं दर्शयति मुखमिति। मुख वक्त्रं विकसितस्मितं विकसितं प्रसृतं स्मितं "ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम्" इत्युक्तलक्षणं हास्यविशेषरूपं यत्र तथाभूतम्। एवम् प्रेक्षितं प्रेक्षणम् अवथे- कनमित्यर्थः । भावे क्तः । वशितः वशीकृतः (स्वाधीनीकृतः) वक्रिमा वक्रत्वं (तिर्यग्गामित्वं) येन तथाभूतम् । तथा गतिः गमनम्। समुच्छलिताः निरन्तरमतिशयेन प्रादुर्भताः विभ्रमाः हावभेदाः यस्यां तथाभूता। तथा मतिर्बुद्धिः अपास्ता त्यक्ता संस्था परिमितविषयकत्वं यथा तथाभूता। अनेकविषयसं- चारिणीति यावत्। तथा उरः वक्ष:स्थलं मुकुलितौ मुकुलाकारौ (ईषदुन्नतौ) स्तनौ यत्र तादृशम्। जघनम् ऊरुमूलभाग: असंबन्धेनावयवानां दृढबन्धेन उद्धुरं विलक्षणरतियोग्यम्। यद्वा। अंसबन्धो रतिबन्धविशेषस्तत्र योग्यमित्यर्थः । तथा च साधारणस्मिताद्युन्मेषः स्फुटमेव यौवनोद्गममवगमयतीति भावः । पृथ्वी छन्दः । "जसौ जसयला वसुग्रह्यतिश्च पृथ्वी गुरुः " इति लक्षणात् ॥ अत्र विकासस्य पुष्पधर्मस्य स्मिते वशीकरणस्य चेतनधर्मस्य प्रेक्षिते ऊर्ध्वगतिविशेषरूपसमुच्छ- लनस्य मूर्तद्रवधर्मस्य विभ्रमे संस्थाया मर्यादायास्त्यागस्य चेतनधर्मस्य मतौ मुकुलितत्वस्य पुष्पधर्मस्य स्तनयोः उद्धुरत्वस्योत्कृष्टधुरावत्त्वरूपस्य चेतनधर्मस्य जघने मोदस्य चेतनधर्मस्य यौवनोद्रमे बाधितत्वाद्विकसितादिपदैरुपदर्शितपदार्था लक्ष्यन्ते (लक्षणया बोध्यन्ते) ॥ तत्र विकासेनासंकुचितत्वसंबन्धेन सातिशयत्वं लक्ष्यते। सौरभादि व्यङ्गयम्। वशीकरणेन स्वाधीनत्वं लक्ष्यते। अभिमतविशेषप्रवृत्तिः संबन्धः। युक्तानुरागित्वं व्यङ्गम्। समुच्छलनेन बाहुल्यं लक्ष्यते। प्रयो- ज्यप्रयोजकभावः संबन्धः। (बहुलं हि समुच्छलति)। सकलमनोहारित्वं व्यङ्गयम्। संस्थापासनेनाधी- रत्वं लक्ष्यते। हेतुहेतुमद्धावः संबन्धः। पूर्व मुग्धतया गुरुजनसंनिधौ प्रियतमेऽ्यङ्गीकृतमर्यादा मतिरा- सीत। इदानी तु मौग्ध्यव्यागात् न तथेत्यनुरागातिशयो व्यङ्गयः। मुकुलितत्वेन काठिन्यं लक्ष्यते। निब्रि- डावयवत्वं संबन्धः । (कठिनं हि तद्धवति)। यद्वा उद्भिन्नत्वं लक्ष्यम् । आलिङ्गनयोग्यत्वं व्यङ्गयम्। उद्धुरत्वेन विलक्षणरतियोग्यत्वं लक्ष्यते। भारसहनक्षमत्वं संबन्धः । रमणीयत्वं व्यङ्गयम्। मोदेनोत्कर्षो लक्ष्यते। जन्यजनकभावः संबन्धः । स्पृहणीयत्वं व्यङ्गयमित्युद्दयोतादौ स्पष्टम्। अत्रैतानि व्यङ्गयानि काव्यवासनापरिपकबुद्धेः सहृदयस्यैव प्रकाशन्ते इति गूढानि। अतो गूढव्यङ्गयमिदं काव्यम्। १ मुख्यार्थस्य बाधितत्वाल्लक्ष्यार्थमुखेन व्याचष्टे प्रसृतमित्यादि ॥ २ शल गताविति धातो रुपमिद्म् ॥

Page 116

द्वितीय उल्लास:। ५७

अगूढं यथा श्रीपरिचयाञ्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १० ॥ अत्रोपदिशतीति॥ (सू० २०) तदेषा कथिता त्रिधा॥ १३ ॥ अव्यङ्ग्या गूढव्यङ्गया अगूढव्यङ्गया च।। (सू० २१ ) तद्भूर्लाक्षणिक: । शब्द इति संबध्यते। तद्भूस्तदाश्रयः ॥ अगूढव्यङ्गयमुदाहरति अगूढं यथेत्यादिना। श्रीपरिचयादिति । जडा अनभिज्ञा अपि जनाः श्रियो लक्ष्म्याः परिचयः प्रथमसंबन्धस्तस्मादेव विदग्धानां चतुराणां यानि चरितानि चरित्राणि तेषां (इय कर्मणि षष्ठी) अभिज्ञाः ज्ञातारो भवन्तीत्यन्वयः । तत्रार्थान्तरं न्यस्यति उपदिशतीति। यौवनस्य मदो हर्षः । भर इति यावत्। "मदो रेतसि कस्तूर्या गर्वे हर्षेमदानयोः" इति विश्वः । स एव कामि- नीनां स्त्रीणाम्। यद्वा चतुर्थ्यर्थे षष्ठी। कामिनभ्य इत्यर्थः । ललितानि उपदिशति आविष्करोतीत्यर्थः। ललितं च "सुकुमारतयाङ्गानां विन्यासो ललितं भवेत्" इत्युक्तलक्षणलक्षितम्। "अनाचार्योपदिष्टं स्याल्ललितं रतिचेष्टितम् " इत्युक्तलक्षणं वा। बहुवचनमाद्यर्थकम् । तेन विब्बोकविलासादिसर्वहावसं- ग्रहः। आर्या छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे)। यत्तु सारबोधिनीकारकृतं ललितानीत्यस्य विभ्र- मान् इति व्याख्यानम् । तत्र च "स्त्रीणां विलासविब्बोकविभ्रमा ललितं तथा। हेला लीलेत्यमी हावाः क्रिया: शङ्गारभावजाः" इत्यमर इति प्रमाणोपन्यसनं च तदज्ञानविलसितम् । कोशस्य 'स्त्रीणां शृद्गार- भावजाः शृङ्गारसमुड्धताः क्रियाश्चेष्टाः हावा इत्युच्यन्ते । ते च विलासः विब्बोकः विभ्रमः ललितं हेला तथा लीलेत्यमी' इत्यर्थकत्वेन विभ्रमश्य ललितपर्यायत्वाभावादित्युद्दयोतादौ स्पष्टम्। उपदिशतीति। पदम् अगूढव्यङ्गयमिति शेषः । अत्र ज्ञानानुकूलशब्दप्रयोगरूपोपदेशकर्तृकत्वस्य चेतनधर्मस्याचेतने यौवनमदे बाधात् सामान्यविशेषभावसंबन्धेने अविष्कारमात्रं लक्ष्यम्। अनायासेन ललितज्ञानं व्यङ्गम्। इदं सहृदयेतरैरपि अभिधेयवत् वेद्यमिति अगूढम् । अतो लक्षणामूलागूढा- ख्यगुणीभूतव्यङ्गयमिदम् । नरसिंहठक्कुरास्तु शब्देनाज्ञातज्ञापनमुपदेशः । स च मदे बाधित इति विशेषेणाज्ञातज्ञापनं सामान्यं लक्ष्यते। सामान्यविशेषभावः संबन्धः। नटीनामयत्नेनैव शिक्षाया आदानं निर्वहतीति स्फुटतरं व्यङ्गयं प्रतीयते इत्याहुः ॥ उक्तं लक्षणायास्त्रैविध्यमुपसंहरति तदेषेति। तत् तस्मात्कारणात् । अव्यङ्गयत्वगूढव्यङ्गयत्वा- गूढव्यङ्गयत्वरूपभेदकथनादित्यर्थः । कथिता उक्ता एषा लक्षणा त्रिधा (रूढौ व्यङ्गयरहितत्वेन प्रयोजने गूढव्यङ्गयत्वेनागूढव्यङ्गयत्वेन च) त्रिप्रकारेत्यर्थः । तव्याकरोति अव्यङ्गयेत्यादिना। एवं प्रसङ्गतः सावान्तरभेदां लक्षणां निरूप्य तद्द्वारापूर्वोपदिष्ट लाक्षणिकं शब्दं लक्षयति तद्भूरिति। "स्याद्वाचको लाक्षणिकः " इति ५ सूत्रस्थं दूरव्यवहित विशेष्यत्वेनानुस्मारयति शब्द इति। १ 'अत्र अनायासेन शिक्षादानम् अभिधेयवत् स्फुट प्रतीयते' इति क्वचित् पाठः ॥ २ उपदेशो विशेषः। आविष्कारः सामान्यः ॥ काव्यप्रकाश ८

Page 117

५८ काव्यप्रकाशः सटीक: ।

(सू० २२) तत्र व्यापारो व्यञ्ञनात्मकः । कुत इत्याह (सू० २३) यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ १४॥ फले शब्दैकगम्येSत्र व्यञ्ञजनान्नापरा क्रिया। ततो भवति इति भ्रमनिरासाय व्याचष्टे तदाश्रय इति। तस्या लक्षणाया आश्रय इत्यर्थः । प्रवाह- रूपार्थस्य लक्षणाश्रयत्वेनोपचारत्तद्वाचकोडयं शब्दोऽपि लक्षणारूपव्यापाराश्रय इति भावः। "अत्र च यः शब्दो यदर्थविष्रयकलक्षणाश्रयः स तल्लाक्षणिक इति प्रत्येकमेव लक्षणम् । अन्यथा वाचकादावति- व्याप्तिरिति बोध्यम्" इति नरसिंहठक्कुराः। लाक्षणिकशब्दप्रतिपाद्यत्वं च लक्ष्यस्यार्थस्य लक्षणमप्यर्थत उक्तमेवेति बोधम्॥ वाचकलाक्षणिकौ शब्दौ लक्षयित्वा व्यञ्जनामुखेन व्यञ्ञकं शब्दं लक्षयितुं व्यञ्जनास्वरूपमाह तत्रे- त्यादिना। यद्वा। व्यञ्जकं लक्षयितुं तदुपाधौ व्यञ्जनायां वादिविप्रतिपैत्तिनिरासायाह तत्रेत्यादि। तत्र पावनत्वादिप्रयोजने विषये व्यापारः शब्दस्य वृत्तिः व्यञ्जनात्मकः व्यञ्जनस्वरूप इति टीकाकाराः। "अथ व्यञ्जकशब्दलक्षणाय व्यञ्ञना निरूपणाया। सा च द्वेधा। शब्दनिष्ठार्थनिष्ठा च। तत्रान्त्या शब्दलक्षणेऽनुपयुक्तेत्यग्रे (तृतीयोल्लासे) विवेचनीया। आद्या तु द्वेधा। अभिधामूला लक्षणामूला च। तत्र यद्यप्यभिधायाः प्राथम्यादुपजीव्यत्वाच् तन्मूला प्रथमं निरूपयितुमुचिता तथापि सुप्रसिद्धत्वीत् लक्षणाया: प्रकृतत्वाच्च तन्मूलामेव प्रथम निरूपयति तत्रेत्यादिना। तत्न लाक्षणिके शब्दे व्यापारो व्यङ्ग्यप्रकाशानुकूल: "इति प्रदीपकाराः। अनयोर्व्याख्यानयोः प्रदीपोक्तव्याख्यानं साधीयः । "एवं लक्षणामूलव्यञ्जक:वमुक्तम्। अभिधामूलं त्वाह" इति ३२ सूत्रस्थावतरणवाक्यानुगुणत्वात् । उक्तेऽर्ये प्रमाणाभावं शङ्कते कुत इति। "नहि प्रतिज्ञामात्निणार्थसिद्धिः "इति न्यायादिति मावः । इत्याहेति । इत्यत आहेत्यर्थः। यस्येत्यादिनार्थापत्तिरूपप्रमाणं प्रदर्शितम् । अत्र लक्षणेति पदं लक्षणया लाक्षणिकशब्दपरम्। 'लक्षणया शब्दप्रयोगः' इति वृत्तिग्रन्थस्वरसात्। तथा च यस्य शैत्य- पावनत्वादिरूपफलस्य प्रतीतिम् अनुभवरूपाम् आधातुं जनयितुं लक्षणा लाक्षणिक: शब्द: समुपास्यते आश्रीयते। सत्यपि वाचकशब्दे तं विहायाद्रियते इत्यर्थः । शब्दैकगम्ये लाक्षणिकशब्दमात्रगम्ये (न त्वनुमानादिगम्ये ) अत्र तर्स्मिन् फले ( शैत्यपावनत्वादिप्रयोजनविषये) व्यञ्जनात् व्यञ्जनं विहाय (व्यजनां विना ) अपरा क्रिया अन्यो व्यापारो नेत्यर्थः । किंतु व्यञ्जनात्मक एव व्यापार इति भावः। अत्र शब्दैकेत्येकपदेनानुमानादिव्युदासः। "शब्दस्य संभृतसामग्रीकत्वादनुमानस्य व्याप्तयादिप्रतिसंधा- नादिविलम्बेन विलम्बितत्वान्नानुमानगम्यं प्रयोजनम् । किंच तथा सति गङ्गादयर्थ एव लिद्गं सत् शैत्यादिकमनुमापयतीति स्वरीकार्यम्। न च तटे गङ्गात्वं सिद्धम्। तत्पदप्रयोगविषयत्वे च न व्याप्ति- ग्राहकं प्रमाणमस्ति। तत्कथमस्य लिङ्गता। कर्थ वा गङ्गाधर्मस्य शैत्यादेस्तटे बाधावधारणात्साध्यता कथं वा शैत्यादावेकस्यावच्छेदकस्याभावात्साध्यतावच्छेदकैक्यम्। तावतां विशेषाणामेकदानुपसस्थितेर्न समू- १ विवादो विरुद्धज्ञानं वा विप्रत्तिपत्तिः ॥ २ लक्षणाप्रयोजननिर्वाहकतया सुबोधत्वादित्यर्थः॥ यद्वा। लक्षणाया व्यङ्गयार्थफलकत्वादिति भावः ॥ ३ 'गङ्गातटे घोषः' इति ॥ इदंशब्दस्य वाक्यान्तरगतस्य तच्छ्दार्थकत्वं मूले एव ३५२ उदाहरणे स्फुटीभविष्यति॥

Page 118

द्वितीय उल्लास:। ५९

प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात्। न चात्र व्यञ्जनादतेऽन्यो व्यापारः ॥। तथाहि (सू० २४) नाभिधा समयाभावात्। गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दा: संकेतिताः॥ (सू० २५) हेत्वभावान्न लक्षणा ।। १५ ।। मुख्यार्थवाधादित्रयं हेतु:॥ हालम्बनानुमितिः। व्यञ्जनायां च बाधादेरप्रतिबन्धकत्वात् 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायात् व्यङ्गयतावच्छेदकानुपस्थितावपि पानकरसन्यायेन व्यङ्गयबोधकत्वाच्च न काप्यनु- पपत्तिः। किंच व्याप्त्यादिप्रतिसंधानस्यानियतत्वात् शैत्यादिबोधस्य च नियतत्वान्नानुमित्या व्यञ्जनान्य- थासिद्धिरिति भावः " इति नरसिंहमनीषा। विस्तरस्तु पञ्चमोल्लासे द्रष्टव्यः ॥ अत्र आधातुमिति तुमुना इच्छा उच्यते। तेन 'यस्य प्रतीतिमाधातुम्' इत्यस्य यत्प्रतिपिपादयि- षयेत्यर्थः । तदेवाह प्रयोजनप्रतिपिपादयिषयेति। अन्यथा "सायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे" इति न्यायविरुद्धो लाक्षणिकशब्दप्रयोगो व्यर्थ एव स्यादिति भावः। यत्र यस्मिन् वाक्ये। गङ्गायां घोष इत्यादावित्यर्थः । तत्र तस्मिन् वाक्ये। नान्यतः न प्रमाणान्तरात्। तत्प्रतीतिः प्रयोजनप्रतीतिः । अपि तु किंतु। तस्मादेव लाक्षणिकादेव। अत्र प्रयोजनविषये। अपरा क्रियेति व्याचष्टे अन्यो व्यापार इति।। ननु प्रयोजनप्रतिपादने अभिधादिरेव कल्पितो व्यापारोऽस्तु किं व्यञ्जनयेत्यत आह नाभिधेति। न शक्तिरित्यर्थः । पावनत्वादिप्रतिपादने इति शेषः । समयाभावादिति । सकेताभावादित्यर्थः । गङ्गादिपदस्य शैत्यपावनत्वादौ संकेताभावादिति यावत्। "शक्तिरतिरिक्तः पदार्थः । तद्ग्राहकः संकेत इति न साध्याविशेषो हेतोरिति बोध्यम् " इत्युद्दयोते स्पष्टम्। उक्तमिदं "सः मुख्योऽर्थः " इति ११ सूत्रे (३९ पृष्ठे)।" हेतुसाध्ययोः सामनाधिकरण्याभावादनुमित्यनुपपततिरतो व्याचष्टे गङ्गाया- मित्यादि। तथा च पावनत्वादिकं प्रयोजनं न गङ्गापदाभिधाप्रतिपादं गङ्गापदनिष्ठसंकेताविषयत्वा दित्येवानुमानमिति भाव: " इति नरसंहमनीषारयां स्पष्टम्। तत्र पावनत्वादौ ।। ननु 'गङ्गायां घोषः' इत्यादौ गङ्गादिशब्दस्य तीरादौ लक्षणायां सत्यां पुनर्गङ्गादिशब्दस्य शैत्य- पावनत्वाद्यर्थेडपि लक्षणैवास्तु। किं प्रयोजनं व्यञ्जनयेति वादिमत मनसि आशङ्कय 'पुनर्लक्षणा नैव भवति 'इति सिद्धान्तयति हेत्वभावादिति। न लक्षणेति । पावनत्वादाविति शेषः । "अत्रापि पावनत्वादिकं न गङ्गापदलक्षणाप्रतिपादं प्रकृतपदलक्षणाजन्यज्ञानसामग्रीरहितत्वादिति प्रयोगे तात्प- र्यम्। एवं तात्पर्यार्यवृत्तिनिषेधस्योपसंहारात् पावनत्वादिकं न तात्पयार्ख्य वृत्तिप्रतिपादं गङ्गादिपदार्थ- संसर्गभिन्नत्वादित्यपि बोध्यम्" इति नरसिंहठक्कुराः । हेतुपदं व्याचष्टे मुख्यार्थेति । त्रयमिति। मुख्यार्थबाघ: मुख्यार्थयोगः रूढिप्रयोजनान्यतरचैकमिति त्रयमित्यर्थः । हेतुरिति। हेतुरिति फलो- पहितपरमेकवचनम् । स्वरूपयोग्यता तु प्रत्येकमेवेति बोध्यम् ॥ 11

Page 119

६० काव्यप्रकाश: सटीक:।

तथा च (सू० २६) लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो। न प्रयोजनमेतस्मिन् न च शब्द: स्खलद्गतिः ॥१६।। यथा गङ्गाशब्दः स्रोतसि सबाध इति ता लक्षयति तद्वत् यदि तटेऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत् । न च तटं मुख्योऽर्थः। नाप्यत्र बाधः ।न च गङ्गा- शब्दार्थस्य तटस्य पावनत्वादैर्लक्षणीयैः संबन्धः । नापि प्रयोजने लक्ष्ये किंचित् प्रयोजनम्। नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥ (सू० २७) एवमप्यनवस्था स्याद् या मूलक्षयकारिणी। हेत्वभावमेवोपपादयति तथा चेति। चो हयर्थे तथाहीत्यर्थः। लक्ष्यमिति लक्ष्यं तीरादि न मुख्यं (गङ्गादिशब्दस्य) न शक्यम्। ननु ज्ञाप्यार्थबाध एव लक्षणाबीजं स्यादत आह नाप्यत्रेति। अत्र लक्ष्ये (तीरादौ) बाधः घोषाधिकरणत्वासंभवरूपो बाधोऽपि न । एतेन प्रथमो हेतुर्निरस्तः । ननु 'काकेभ्यो दधि रक्ष्यताम्' इत्यादावित तात्पयार्थबाध एव लक्षणाबीजमत आह योग इति। फलेन प्रयोजनेन (पावनत्वादिना) योग: (तीरस्य) साक्षात्संबन्धो न फलस्य प्रवाहसमवेतत्वादित्यर्थः। साक्षात्संबन्ध एव लक्षणाप्रयोजकमिति भावः । अनेन द्वितीयो हेतुर्निरस्तः। युक्त्यन्तरमाह न प्रयो- जनमिति। एतस्मिन् प्रयोजने । लक्षयितव्ये इति शेषः। प्रयोजनम् अन्यत्प्रयोजनं नेत्यर्थः। प्रयो- जनेऽपि प्रयोजनान्तरमित्यनवस्थापत्तिरिति भावः। एतेन तृतीयो हेतुर्निरस्तः। ननु मुख्यार्थबाधादित्रयं विनैवास्तु लक्षणेत्यत आह न च शब्द इति। शब्द: लाक्षणिकशब्दः रखलन्ती प्रच्युता भवन्ती गतिः बोधकतारूपसामर्थ्य यस्य तादृशो नेत्यर्थः । प्रयोजने इति शेषः । गङ्गादिशब्दः प्रयोजनप्रति- पादनविषये प्रच्युतसामर्थ्यो न। अपि तु तस्मादेव शब्दात्प्रयोजनं लभ्यते। अयं भावः।गङ्गाशब्दात्पावन- त्वादिप्रयोजनं न प्रतीयते इति न । किंतु प्रतीयत एव। तथा चाभिधालक्षणाभ्यामनिर्वाहे व्यञ्जनारूपं वृत्यन्तरमेव स्वकिार्यमिति पर्यवस्यतीति। 'न च शब्द: स्खलद्रतिः' इत्यत्र बहव आख्यानभेदाः प्राचीनटीकासु स्पष्टाः । ते च जिज्ञासुभिस्तत एव द्रष्टव्याः । ग्रन्थगौरवभिया नात्र दर्शिताः ॥ लक्ष्यं न मुख्यमिति व्याचष्टे यथेत्यादिना न च तटं मुख्योऽर्थ इत्यन्तेन। नाप्यत्र बाध इति व्याचष्टे नाप्यत्र बाध इति। योग: फलेन नो इति व्याचष्टे न च गङ्गाशब्दार्थस्येति। पावनत्वा- घैरिति। प्रतिपिपादयिषितैः पावनत्वादयैरित्यर्थः । संबन्ध इति। साक्षात्संबन्ध इत्यर्थः । न प्रयोज- नमेतस्मिन्निति व्याचष्टे नापि प्रयोजने इति।न च शब्द: रखलद्रतिरिति व्याचष्टे नापि गङ्गाशब्द इति। मुख्यार्थबाधादिकं विनेति शेषः । यथा गङ्गाशब्दो मुख्यार्थबाधादिकं बिना तटं प्रतिपादययितु- मसमर्थः तथा प्रयोजनं प्रतिपादयितुसमर्थो नेति व्यतिरेकदृष्टान्तः । कचित्तु समर्थः इति पाठः । तदा मुख्यार्थबाधादिकमपेक्ष्यैवेति शेषः । यथा गङ्गाशब्दो मुख्यार्थबाधादिकमपेक्ष्यैव तटं प्रतिपादयितुं समर्थस्तथा प्रयोजनं प्रतिपादयितुं समर्थो नेति व्यतिरेकदृष्टान्त एवेति बोध्यम्॥ पूर्व प्रयोजनस्य लक्ष्यत्वमेव नास्तीत्युक्तम्। इदानीं लक्ष्यत्वेऽपि दूषणमाह एवमप्यनवस्थेति। यद्ा। नन्वस्ति प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरम् । तच्च तीरनिष्ठशैत्यपावनत्वे लक्ष्ये घोषनिष्ठं पावन- स्वादि व्यङ्गयमिति वितण्डातो ब्रूयात्तत्राह एवमप्यनवस्थेति। अनवस्था अनवस्थितिः । बीजाङ्कर-

Page 120

द्वितीय उल्लासः। ६१

एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृता- प्रतीतिकृत् अनवस्था भवेत् ।। ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते। 'गङ्गायास्तटे घोषः' इत्यतोऽधिकस्या- र्थस्य प्रतीतिश्र प्रयोजनमिति विशिष्टे लक्षणा तर्त्कि व्यञ्जनयेत्याह। (सू० २८) प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ १७ ॥ कुत इत्याह (सू० २९) ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम्। प्रत्यक्षादेनीलादिर्विषयः फलं तु प्रकटता संवित्तिर्वा॥ न्यायेनानवस्था न दोषायेत्याशङ्कयाह या मूलक्षयकारिणीति। या मूलक्षतिकारिणी इत्यपि क्कचित्पाठः ।। सूत्रं व्याकुर्वन् एवमपीति प्रतीकमुपादत्ते एवमपीति। एवमपीति व्याचष्टे प्रयोजनं चेल्लक्ष्यते इति।तत् प्रयोजनम्। प्रयोजनान्तरेणेति। तदपि प्रयोजनान्तरसहितमपि। प्रयोजनान्तरेणेति। प्रयोजनान्तररूपेण हेतुनेत्यर्थः। लक्ष्यते इत्यनुषङ्गः। मूलक्षयकारिणात्येतव्याचष्टे प्रकृतेति। प्रयोजन- परंपरायां लक्षणास्वीकारे प्रयोजनान्वेषणस्यापर्यवसानेन प्रस्तुतस्य पावनत्वादेः तीरादेर्वा बोधानुदय- प्रसङ्ग इति भावः। तदुक्तमुद्दयोते। "प्रयोजनपरंपरायां लक्षणास्वीकारे यल्लक्षणाप्रयोजने विषयान्तर- संचारादिना लक्षणानिवृत्तिस्तस्याग्रिमलक्षणानिवृत्तौ मूलभूतलक्षणाप्रयोजनप्रतीतिरपि न स्यादिति भाव:। एतेन बीजाङ्करवदनवस्था न दूषणमित्यपास्तम्। 'मूलक्षतिकरीं चाहुरनवस्थां च दूषणम्' इत्युक्ते:" इति। नरसिंहठक्कुरास्तु मूलक्षतीति व्याचष्टे प्रकृतेति [प्रकृता या लक्षणा (गङ्गाशब्दस्य तटे लक्षणा) तस्या अप्रतीतिकृत् अप्रतीतिकारिणी अनवस्था अनवस्थितिर्भवेदित्यर्थः । ] इदमुपलक्षणम्। प्रयोजनेऽपि प्रयोजनप्रतीतावेकत्रैव पुरुषायुषपर्यवसानादप्रकृताप्रतीतिकृदियमनवस्थेत्यपि बोध्यमि, त्याहुः ॥ ननु न केवलं प्रयोजनं लक्ष्यते किंतु प्रयोजनसहितं तटादीव्यतो नोक्तदोषप्रसङ्ग इत्येतच्छङ्कानि- राकरणपरत्वेनोत्तर सूत्रमवतारयति नन्विति। ननु पावनत्वादिविशिष्टस्य तटस्य लक्ष्यत्वे प्रयोजनविरह- एव दूषणमत आह गङ्गायास्तटे घोष इत्यत इति। 'गङ्गायास्तटे घोषः' इति प्रयोगापेक्षयेत्यर्थः । अधिकस्यार्थस्येति। पावनत्वादिवैशिष्टयरूपस्येत्यर्थः। प्रयोजनं फलम्। विशिष्टे पावनत्वादि- युक्ते तटे।। प्रयोजनेनेति। लक्षणीयं लक्षणाजन्यज्ञानविषय: (तटं) प्रयोजनेन प्रयोजनीभूतज्ञानविषयेण (पावनत्वादिना) सहित न युज्यते इत्यन्वयः ॥ तथा सति लक्षणाजन्यज्ञानस्यैव फलज्ञानात्मकत्वात् तज्ज्ञानस्य लक्षणाजन्यज्ञानफलत्वं न स्या- दिव्याह ज्ञानस्येति । अत्र हिशब्दः प्रसिद्धयर्थकतया दृष्टान्तार्थकः। अन्यशब्दो ज्ञानादन्य इत्य- र्थकः। एवमन्यदित्यपि। ज्ञानादन्यदित्यर्थकम्। तथा च यथा ज्ञानस्य विषयः ज्ञानात् अन्यः तथा ज्ञानस्य फलमपि ज्ञानादन्यत्। फलफलिनोः समसमयसमुत्पादासंभवादिति सूत्रार्थः । तत्र दृष्टान्तमाह प्रत्यक्षादेरिति। अक्षमिन्द्रियं प्रति यदुत्पद्यते ज्ञानं तत् प्रत्यक्षम्। इन्द्रियार्थसंनिकर्षजन्यं ज्ञान- मित्यर्थः। आदिपदेनानुमानादर्ग्रहणम्। अध्वरमीमांसकमतेनाह प्रकटतेति। घटज्ञानानन्तरं 'ज्ञातो घटः' इति प्रत्ययात् तज्ज्ञानेन तस्मिन् घटे ज्ञाततापरनाम्नी प्रकटता जायते इति अध्वरमीमांसकमीमांसा।

Page 121

काव्यप्रकाशः सटीकः। (सू० ३०) विशिष्टे लक्षणा नैवं व्यार्ख्यातम् ।। (सू० ३१ ) विशेषा: स्युस्तु लक्षिते ॥ १८ । एवं च ज्ञेयधर्म: प्रकटता पूर्वमीमांसकैः प्रत्यक्षादिज्ञानस्य फलमित्युच्यत इति भावः । तार्किकमतेनाह संवित्तिरिति। सति च घटज्ञाने 'घटमहं जानामि' इति प्रत्ययरूपा अनुव्यवसायापरपर्याया संवि- त्तिर्धटज्ञानात् जायते इति तार्किकतर्कः। एवं च ज्ञातृधर्मः संवित्तिस्तार्किकैः प्रत्यक्षादिज्ञानस्य फल- मित्युच्यत इति भावः । तथा एतयोः (प्रत्यक्षस्य) विषयफलयोः प्रत्यक्षाद्भिन्नत्वं यथा सुव्यक्तं तथा लक्षणजन्यज्ञानात् तत्फलस्य पावनत्वादिज्ञानस्यान्यत्वमवश्यमेषितव्यमिति भावः । व्याख्यात- मिदं सारबोधिन्यादावपि। "यथा कारणत्वेन ज्ञानाद्विषयो मिद्यते तथा कार्यत्वेन फलमपीत्यर्थः । अन्यथा तीरत्वपावनत्वज्ञानयोरभेदे जन्यजनकभावानुपपत्तिरिति भावः" इति । एवं च लक्षणाजन्य- ज्ञानविषयत्वेन तत्फलस्य शैत्यपावनत्वादेर्लक्षणाविषयत्वं न युक्तमिति फलितोडर्थः ॥ एवं सति 'विषयफलयोर्भेदः' इति यथाश्रुतसूत्रार्थस्त्वयुक्त एव। विशिष्टलक्षणापक्षे यथाश्रुतसूत्रार्थस्थ फलत्वव्याघातकत्वाभावात्। तथाहि। फलत्वं हि जन्यत्वं वा जन्यप्रतीतिविषयत्वं वा। फलत्वं जन्यत्वं चेत्तर्हि विशिष्टलक्षणापक्षे पावनत्वादिज्ञानस्य लक्षणाजन्यज्ञानत्वात् विषयभेदस्त्त्वाच्च फलत्वमव्याह- तमेवेति पावनत्वादौ सूत्रार्थौचित्याभावः । अप्रयोजकत्वात्। प्रकृते फलत्वव्याघातकतयैव सूत्रार्थस्य योग्यतेति यथाश्रुतसूत्रार्थोडयुक्तः। तथा मृत घटोपादानमितीश्वरगतोपादानप्रत्यक्षफले घटादौ तद्विषय- भेदासत्त्वाद्व्यभिचरितश्व यथाश्रुतसूत्रार्थः । फलत्वं जन्यप्रतीतिविषयत्वमिति चरमपक्षे "प्रत्यक्षादेनीला- दिर्विषयः । फलं तु प्रकटता संवित्तिर्वा" इति वृत्तिविरोधः। प्रकटताज्ञानस्य संवित्तिज्ञानस्य च प्रत्यक्ष- जन्यत्वाभावात्। तथा स्वजन्यप्रतीतिविषयरूपे फले स्वविषयाद्वेद इत्यत्र नियमे विशिष्टज्ञानविषये तज्जनकविशेषणज्ञानविषयभेदासर्वेन व्यभिचारश्च। तस्माज्जन्यज्ञानेऽप्यसाधारणमेकं साध्यत्वं नास्तीति यथाश्रुतसूत्रार्थस्त्वयुक्त एवेति प्रदीपसुधासागरोद्दयोतादिषु स्पष्टम् ।। उक्तं विशिष्टस्य लक्ष्यत्वाभावमुपसंहरति विशिष्टे इति। एवम् उक्तयुक्त्या। वरिशिष्टे लक्षणा नैवमित्येतव्याकर्तव्यमित्याशङ्कयाह व्याख्यातमिति। व्याख्यातप्रायमित्यर्थः ॥ ननु पावनत्वादयो यदि न लक्ष्यास्तर्हि कथं ज्ञायन्ते इत्याशङ्कयाह विशेष इति। लक्षिते लक्षणया १ निगदेनैव व्याख्यातमिति पाठाम्तरम्। निगदेनैवेत्यस्य पाठमात्रेणैवेत्वर्थः ॥ २ मृदिति। मृत् मृत्तिका घटस्योपादानमुपादानकारणमित्यर्थः । इति शब्दो ज्ञानाकारप्रदर्शकः । ईश्वरगतेति। ईश्वरगतं यत् उपादानस्य प्रत्यक्षं प्रत्यक्षज्ञानं तस्य फले फलरूपे घटादावित्यर्थः । नतु घटादौ प्रत्यक्षफलत्वं कथम् इति तु न शङ्क नीयम्। ईश्वरज्ञानस्य सर्वे प्रति कारणत्वादुत्पत्स्यमानस्यापि घठादेरीश्वरजन्यज्ञानजन्यत्वेन जन्यत्वरूपस्य फल- त्वस्य घटादौ सत्त्वादिति बोध्यम्॥ तदुक्तं तर्कसंग्रहटीकार्या वाक्यवृत्तावन्यत्र च। "साधारणकारणान्यथटौ। ईश्वरस्तज्ज्ञानेच्छाकतयः प्रागभावो दिक्कालोऽदृष्टमिति। असाधारणकारणं च कार्यभेदेन बहुविधम्" इति। तद्वि- षयेति। प्रत्यक्षविषयेत्यर्थः । तथा चेश्वरज्ञानस्य सर्व प्रति कारणत्वादीश्वरप्रत्यक्षफलस्य तत्प्रत्यक्षविषयान्तःपाति- त्वात्प्रत्यक्षविषयभेदासत्वाव्यभिचरितश्र यथाश्रुतसूत्रार्थ इति भावः ॥ 3 किंतु प्रत्यक्षजन्यप्रतीतिविषयत्वमेव/- स्तीति भावः ॥यथा 'दण्डी पुरुषः' इत्यत्र विशिष्टज्ञानं दण्डीति। तज्जनकं यत् विशेषणज्ञानं दण्डज्ञानम्। तस्य विषयो दण्डः । तस्य विशिष्टज्ञानान्तःपतितत्वाद्विंशिष्टज्ञानविषयस्वमिति यथाश्रतसूत्रार्थस्य व्यभिचार- श्रेति भाव: ।।

Page 122

द्वितीय उल्लास:। ६३

तटादौ ये विशेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्या।। तच्च व्यञ्ञनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम्।। एवं लक्षणामूलं व्यञ्जकत्वमुक्तम्। अभिधामूलं त्वाह। (सू० ३२) अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्यापृतिरञ्नम् ॥१९। "संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः॥ बोधिते। लक्षिते इत्यस्य विवरणं तटादाविति। विशेषा इत्यस्य विवरणं पावनत्वादय इति। प्रतीयन्ते इति शेषः । स्युरित्यस्य व्यापारान्तरेण गम्याः इत्यनेनान्वयः । कीद्ृशं तब व्यापारान्तर- मित्याशङ्कयाह तच्चेति। व्यापारान्तरं चेत्यर्थः। द्योतनादतियादिशब्देन अञ्जनप्रकाशनप्रत्यायनावग- मनबोधनसूचनादिपरिग्रहः । एवं च शक्तिलक्षणाद्यजन्यप्रतीतिजनकः पदादिगतो व्यापारो व्यञ्जनेति लक्षणं बोध्यम् ।। 'लाक्षणिकस्यैव व्यञ्जकत्वम्' इति भ्रमनिरासायाह एवमिति। लक्षणामूलं तदन्वयव्यतिरेकानु- विधायि। एवमभिधामूलमित्यपि। अभिधामूलमिति । व्यञ्जकत्वमित्यनुषज्जते। व्यञ्जकत्वं च व्यञ्जना। अस्यां व्यङ्गयार्थविशिष्टोपस्थितिः शङ्कास्पदमपि नेति भावः ॥ अनेकेति। अनेके अर्थाः (वाच्यत्वेन ) यस्य तस्यानेकार्थस्य अनेकत्र गृहतिशक्तिकस्य शब्दस्य वाचकत्वे अभिधायां संयोगादैः अनुपदमेव वक्ष्यमाणैः संयोगादिभिः (प्रकरणादिभिः) नियन्त्रिते प्रति- बद्धे सति एकत्र नियमिते सतीत्यर्थः। अवाच्यार्थः तदाभिधया प्रतिपादयितुमशक्यः। तद्धीकृत् तत्प्रती- तिहेतु: या व्यापृतिः व्यापारः सा अञ्जनं व्यञ्जनमेवेत्यर्थः। "अयं भावः। एकस्य वर्णसमूहात्मनः पद- स्यानेकत्रानेकैव शक्तिः। शक्यतावच्छेदकभेदेन तद्गेदात्। ततश्च यस्मिन्नर्थे तात्पर्यग्राहकं प्रकरणादि- कमवतरति उद्बुद्धया तद्गोचरशक्त्या तदर्योपस्थानम्। अन्यस्याश्च तिरोधानम्। तया निरुद्धयाभिधया बोधयितुमशक्यार्थस्य बोधने प्रभवन्ती वृत्तिर्व्यञ्जना नाम" इति सारबोधिनी। इयं हि अभिधामूला शाब्दी व्यञ्जनेत्युच्गते इति बोध्यम्। "नन्वभिधानिरोधे कथ तद्विषयार्थप्रतीतिरिति चेदनुभवं पृच्छ नास्मान्" इत्यपि सारवोधिनी। ननु श्लेषवदभिधात एव द्वितीयार्थग्रहः स्यादितिशङ्कावारणायोक्तं वाचकत्वे इति। "न च संयोगादिनाभिधावत् व्यञ्जनापि नियन्त्र्यतामिति वाच्यम्। संयोगादिकमति- क्रम्य बोधकत्वेनैव तत्सिद्वेः। अन्यथा सुगन्धिमांसभोजनप्रकरणे 'सुरभिमांस भवान् भुङ्गे' इत्यभिधाने गोमांसानुपस्थितौ विदग्धस्य भोक्तुर्जुगुप्सानापत्तेः" इत्युद्दयोते स्पष्टम् । उदाहरणं तु 'भद्रात्मनः' इत्यादि अग्रे स्फुटीभविष्यति। संयोगाधैरित्याद्यपद संग्राह्यान् प्रदर्शयन् संयोगादीनां वाचकत्वनियामकत्वे भर्तृहरिसंमतिमाह संयोग इत्यादिना। संयोगः सम्यक् योगः प्रसिद्धसंबन्धः। विप्रयोग: प्रसिद्धसंबन्धध्वंसः विभागो वा। १ लक्षणान्वयव्यतिरकानुसारीत्यर्थः। यत्सत्त्वे यत्सत्वमन्वयः । यद्मावे यद्भावो व्यतिरेकः । यथा धूमसत्त्वे वह्निसत्त्वमन्वयः । वह्लयभावे धूमाभावो व्यतिरेक इति बोध्यम् ॥ १ "सुरमिर्हेन्निन चम्पके। जातीफले मात्रभेदे रम्ये चैत्रवसन्तयोः । सुगन्धौ गवि शलक्याम्" इति हेमचन्द्रः ॥ ३ इति शालकोक्तौ।।

Page 123

६४ काव्यप्रकाशः सटीकः । सामर्थ्यमौचिती देशः कालो व्यक्ति: स्वरादयः। शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥" सशङ्खचक्रो हरिः अशङ्गचक्रो हरिरित्युच्यते। रामलक्ष्मणाविति दाशरथौ । रामार्जुन- इत्युक्तदिशा

साहचर्यम् एककालदेशावस्थायित्वम्। एकस्मिन् कार्ये परस्परसापेक्षत्वं वा। उद्दयोतकारास्तु साहचर्य सादृश्यम्। सदृशयोरेव प्रायेण सहचरणदर्शनात्। शब्दयोरपि सदृशार्थयोरेव सहप्रयोग इत्युत्सर्गा- च्चेत्याहुः। विरोधिता वध्यघातकत्वं सहानवस्थानं च। अर्थः प्रयोजनापरपर्यायमनन्यथासाध्यं फलम्। प्रकरणं वक्तृश्रोत्बुद्धिस्थता। लिङ्ग संयोगातिरिक्तसंत्रन्धेन परपक्षव्यावृत्तो धर्म इति प्रदीपकारः । नरसिंहठक्कुरास्तु संयोगातिरिक्तसंबन्धेन परपक्षव्यावर्तको धर्मः नत्वसाधारणो धर्मः। सशङ्गचक्र इत्य- त्रातिव्याप्ेः। कुपितो मकरध्वज इत्यत्राव्याप्तेश्वेत्याहुः। शब्दस्यान्यस्य संनिधिः समासादनधीनसमा- नार्थताकशब्दान्तरसमभिव्याहारः। "समासाद्यनधनित्वाविशेषणात् 'सशङ्खचक्रः' इत्यत्रातिव्याप्तिः । समानार्थताकेति विशेषणात् 'स्थाणुं भज भवच्छिदे' इत्यत्रातिव्याप्तिश्च निरस्ता" इति नरसिंहठक्कुराः। सामर्थ्य कारणता। औचिती योग्यता। देशकालौ तद्विशेषौ। व्यक्ति: लिङ्गम्। स्त्रीपुंसत्वादि। स्वराः उदात्तादिः। "उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः" इति पाणिनिशिक्षोक्तेः। एते शब्दार्थस्य शब्दवाच्यार्थस्यानवच्छेदेऽनिश्चये सति (कतमोडर्थोडत् विवक्षित इति संदहे सति) तदपाकरणद्वारेण विशेषस्मृतिहेतवः विशेषस्य विवक्षितार्थस्य या स्मृतिर्ज्ञानं तद्ेतवः तज्जनका भवन्तीत्यर्थः ॥ उक्तकारिकाद्वये सूत्रत्वभ्रमं निराकरोति इत्युक्तदिशेति । इति भर्तृहरिप्रोक्तमार्गेणेत्यर्थः । अस्यान्तयस्तु अच्युते इत्यादिसप्तम्यन्तोत्तरं नियम्यते इत्यध्य हृतक्रियायां बोध्यः । संयोगादीनां वाचकत्वनियामकतायां क्रमेणोदाहरणानि प्रदर्शयन्नादौ संयोगस्य नियामकत्वमुदाह. रति सशङ्खचक्र इति। हरिपदमच्युते नियम्यते इति शेषः । एवमग्रेऽपि सप्तम्यन्तानि योज्यानि। अत्र "यमानिलेन्द्र चन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु" इत्यमरकोशादने- कार्थकस्य हरिशब्दस्य वाचकत्वं शङ्गादिसंयोगेन अच्युते विष्णौ नियम्यते। विप्रयोगस्य नियामक- त्वमुदाहरति अशङ्गेति। संयोगपूर्वकत्वात् ध्वंसस्य विष्णोरन्यत्र शङ्गादिध्वंसाभावात् अनेकार्थस्य हरिशब्दस्य वाचकत्वमच्युते नियम्यते। एवम् 'सवत्सा धेनुरानीयताम्' इति 'अवत्सा धेनुरानीयताम्' इति च यथाक्रमं संयोगविप्रयोगयोरुदाहरणम्। वत्सो गोबालकः "वत्सौ तर्णकवर्षौ द्वौ" इत्यमरात्। अन्यत्र प्रयोगस्तु औपचारिकः। धेनुशब्दो नवप्रसूतगोमहिषीस्त्रयादिवाचकः 'धेनुर्गोमात्रके दोग्ध्रयाम्' इति हैमात्। तथा चानेकार्थकस्य धेनुशब्दस्य वाचकत्वं वत्ससंयोगविप्रयोगाभ्या गवि नियम्यते इति बोध्यम्। साहचर्यस्य नियामकत्वमुदाहरति रामलक्ष्मणाविति। "रामः पशुविशेषे स्याज्जामदग्न्ये हला- युधे। राघवे चासिते श्वेते मनोज्ञेऽपि च वाच्यवत्॥" इति विश्वकोशाद्रामशब्दोऽनेकार्थकः। एवं सारस- १ अत्र संयोगांतिरिक्तेति 'सशङ्गचक्रः' इत्यत्र शङ्गचक्रव्यावृत्त्यर्थम्। न च तत्रार्थन्तरव्यावृत्तत्वाभव न्रा- तिव्या प्तरिति वाच्यम्। कोपस्यापि समुद्रे सच्वेन प्रतिद्ध्यैव कामलिङ्गताय। आश्रयगयतोन शङ्गचक्रयोरपि तत्म- सक्तेरित्याशयात्। चकशङ्गादेरर्थाताव्य वृत्तत्वपक्षे तु न क्विद्दोष इति प्रभायां स्पष्टम् ॥ २ अत एवं "अनुना- सिका परोडनुस्वारः" इति पाणिनिक्षूत्रे प्रौढमनोरमायामुक्तम्" संसर्गवद्विपरयोगस्यापि विशेष,वगतिहेतुत्वादवत्सा धे- नुरानीयतामि:्यत्रेव संभाविनानुनासिक्यगुणक एवोपस्थितत्वादाकङ्क्षिन:वाच्चावधि वेन संभध्यते" इति। धेनुशब्द- स्यानकार्थकत्व देव पर्यायालंकारोदाहारणे 'धेनुर्दोग्धी' इत्येव व्याख्यातं नागोजीभहैः। अत एव "पोटायुवति.,."

Page 124

द्वितीय उल्लास:। ६५ गतिस्तयोरिति भार्गवकार्तवीर्ययोः। स्थाणुं भज भवच्छिदे इति हरे। सर्व जानाति देव इति युष्मदर्थे। कुपितो मकरध्वज इति कामे। देवस्य पुरारातेरिति शंभौ। मधुना मत्तः दुर्योधनपुत्नादौ प्रसिद्धत्वाल्लक्ष्मणशब्दोऽप्यनेकार्थकः। तथा चात्र लक्ष्मणसाहचर्यादामो न भार्गवादि: । रामसाहचर्याच् लक्ष्मणो न सारसादिः । किंतूभयोः शब्दयोर्वाचकत्वं साहचर्येण दाशरथौ निय- म्यते। वध्यघातकभावरूपस्य विरोधस्य नियामकत्वमुदाहरति रामार्जुनेति। अर्जुनविरोधित्वात् रामो भार्गव एव न तु दाशरथ्यादिः । तद्वध्यत्वाच्चार्जुनः कार्तवीर्य एव न पाण्डवादि: । तद्वत् तयोर्योध्द्रोर्गतिः प्रकारो दशा वा। "गतिः स्त्री मार्गदशयोः" इति मेदिनी। विरोधिनो: कयोश्चित विरोधित्वेनोपमायां विवक्षितायामिदमुदाहरणमिति प्रदीपादौ स्पष्टम्। एतेन द्वयोरपि नानार्थकत्वात् परस्पराश्रयग्रस्तमिदमुदाहरणमित्यपास्तम्। प्रकरणसहकारेण रामार्जुनपदयोईयोरपि परस्पर- विरोधिद्ये युगपदेव तात्पर्यग्रहात् । असंकीर्णोदाहरणं तु 'रामरावणौ' इतीति उदयोते स्पष्टम्। सहानवस्थानलक्षणविरोधे तु 'छायातपौ' इत्युदाहार्यम् । अत् "छाया सूर्यप्रिया कान्तिः प्रति. बिम्बमनातप:" इत्यमरकोशादनेकार्थस्य छायाशब्दस्य वाचकत्वमातपविरोधेनानातपे निय- म्यते। अर्थस्य नियामकत्वमुदाहरति स्थाणुमिति। भवच्छिदे संसारच्छेदाय। संपदादित्वाद्धावे किप्। "स्वाणुर्वा ना ध्रुवः शङ्कुः "इति " स्थाणू रुद्र उमापतिः" इति चामरकोशादने- कार्थकस्य स्थाणुशब्दस्य वाचकत्वं वृक्षखण्डाद्यसाध्येन भवच्छेदनरूपेण फलेन हरे शिवे नियम्यते। प्रकरणस्य नियामकत्वमुदाहरति सर्वमिति। "अमरा निर्जरा देवाः" इति "राजा भट्टारको देवः"इति चामरकोशात् "देवो मेघे सुरे राजि" इति विश्वकोशाच् राजामरादिरूपानेकार्थकस्य देवशब्दस्य वाच- कत्वं प्रकरणेन प्रकृते राजनि नियम्यते। राजैवात्र युष्मदर्थः बुद्धिस्थत्वात् । अत्र राजसंबोध्यकदूतकथा- रूपं प्रकरणम्। प्रकरणमशब्दम् अर्थस्तु शब्दवानित्यनयोर्भेदः। लिङ्गस्य नियामकत्वमुदाहरति कुपित इति। मकरो नक्रस्तदाकार: स एव वा ध्वजो यस्येति विग्रहेSनेकार्थकस्य मकरध्वजशब्दस्य वाचकत्वं मकराकारध्वजसमुद्राभ्यां व्यावृत्तेन समवायसंबन्धवता कोपरूपलिङ्गेन कामे मन्मथे नियम्पते इति प्रदीपकारः। वस्तुतस्तु स्थाणुरपश्यदित्यादि लिङ्गोदाहरणं बोध्यम्। मकरव्वजशब्दस्य कामे प्रसिद्धयैव नियमनात्। अत एव मकरध्वजनियमितेत्यत्र १७२ उदाहरणे निहतार्थत्वं वक्ष्यतीति नरसिंहमनीषायां स्पष्टम् । चक्रवर्त्यादयस्तु लिङ्गमसाधारणो धर्मः । मकरः ध्वजश्चिह्नं केतुर्वा यस्येति समुद्रे राजि वा विरहिकोपस्य बाधात् कामपरं मकरध्वजपदमित्याहुः। कमलाकराद्यस्तु कुपितपदात्सर्वकोपवतां प्राप्तौ मकरध्वजेन चिह्ेन कुपितपदं कामपरम्। मकरध्वजपदस्य समुद्रे क्ाप्यप्रयोगादित्याह्कः। अन्यशब्दसं- निधेर्नियामकत्वमुदाहरति देवस्येति। राजादर्थकत्वान्नानार्थकस्य देवपदस्य वाचकत्वं शंभुभिन्नस्य देवपदार्थस्य पुरारातित्वासंभवात् पुरारातिशब्दसमभिव्याहारेण शंभौ शिवे नियम्यते। केचित्तु पुरस्यासुर- भेदस्य नगरस्य चारातेरित्यर्थमेदेन पुरारातिशब्दस्य नानार्थकतया देवरूपशब्दान्तरसांनिध्यादसुरवि- शेषशत्रौ शिवे नियमनमित्याहडः। सामर्थ्यक्ष्य नियामकत्वमुदाहरति मधुनेति। "मधु पुष्परसे क्षैद्रे मद्ये ना तु मधुद्रुमे। वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति ।।" इति मेदिनीकोशादनेकार्थकस्य इति पाणिनिसूत्रस्थं धेनुग्रहणं सार्थकम्। 'गोधेनुः' इत्युदाहरणे "विशेषणं विशेष्येण बहुलम्" इति सूत्रेण समासे सिद्धे जातिवाचकस्य (गोशन्दस्य) पूर्वनिपातार्थ हि तद्ग्रहणं कतम्। धेनुश्स्यानेकार्थकत्वाभावे तभयोर्घंटः कलश इत्यादिवत्पर्यायत्वेन विशेष्य विशेषणभावाभावात्समासस्यैवाप्राप्तौ तट्टैयथर्थ स्पष्टमेव स्यात्। "प्राजापत्यक्रिया- शक्तौ धेनुं दद्यात् पयस्विनीम्" इत्यादौ तु धेनुशळ्दस्य गोपरत्वमेव। "प्राजापत्ये तु गामेकामरच्छे दूय स्मृतम्" इत्यादिवच नान्तरानुरोधाविति दिकू।। काव्यप्रकाश ९·

Page 125

६६ काव्यप्रकाश: सटीक:। कोकिल इति वसन्ते। पातु वो दयितामुखमिति सांमुख्ये। भात्यत्र परमेश्वर इति राज- धानीरूपात् देशाद्राजनि। चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ। मित्रं भातीति सुहृदि। मित्रो भातीति खवौ। इन्द्रशत्रुरित्यादौ वेदे एव न काव्ये स्वरो विशेषप्रतीतिकृत्। मधुशब्दस्य वाचकत्वं सामर्थ्येन वसन्ते नियम्यते। वसन्तादन्यस्य मधुशब्दार्थस्य कोकिलमादनसमर्थत्वे- नाप्रसिद्धलवात्। औचित्याः नियामकत्वमुदाहरति पात्विति। "मुखं निःसरणे वक्ते प्रारभ्भोपाययो- रपि। संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् ॥" इति मेदिनीकोशात् वदनसांमुख्योपायादौ शक्तत्वान्नानार्थकस्य मुखशब्दस्य वाचकत्वम् उत्कण्ठितमनोरथसाधनौचित्येन सांमुख्ये (आनुकूल्ये) नियम्यते। न च मुखशब्दस्य वदनवाचकत्वमस्तु। चुम्बनादिना वदनस्यापि कामत्राणजनकत्वौचित्या- दिति वाच्यम्। असंमुखीनदयितावदनस्य वैरस्याधायकत्वेन कामत्नाणजनकत्वौचित्याभावात्। नरसिंह- सोमेश्वरौ तु पाधात्वर्थो रक्षणम्। तच्चेष्टप्राप्त्यनिष्टनिवृत्त्यादिरूपेणानेकविधम् । तथा चानेकार्थकस्य पात्वित्यस्य वाचकत्वम् औचित्येन सांमुख्ये नियम्यते। तेन दयितामुखं पातु संमुखीभवत्वित्यर्थ इत्यू- चतुः। परे तु औचित्या उदाहरणं यथा 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्ध- माल्याभ्यां सर्वस्य कटुरेव सः॥' इति। अत्र परशुनेत्यस्य परशुकरणकच्छेदनपरत्वम्। मधुसर्पिःशब्दस्य तत्करणकसेचनपरत्वम् । गन्धमाल्याभ्यामित्यस्य तत्करणकपूजार्थकत्वमित्याह्कः। यद्यप्यत्रापि सामर्थ्य- मसयेव तथापि मधुनेत्यत्र तृतीयाया इव तद्वोधकस्याभावादौचित्योदाहरणता। देशस्य नियामकत्वमु- दाहरति भातीति। विष्णुशिवादौ शक्तत्वेनानेकार्थकस्य परमेश्वरशब्दस्य वाचकत्वम् अत्रेति राजधानी- रूपदेशेन राजनि नियम्यते। विष्णोः शिवस्य वा भानं वैकुण्ठे कैलासे वा। राजधान्यां तु राज्ञ एवेति मनीषायां स्पष्टम्। कमलाकरस्तु अत्र राजधानीदेशे परमेश्वरो राजा न तु विष्णुः । तस्य सर्वगतत्वाद- त्रेत्यस्य वैयर्थ्यादिति व्याचक्रे। कालस्य नियामकत्वमुदाहरति चित्रभानुरिति। चित्रा भानवः किरणा यस्येति विग्रहेSनेकार्थकस्य चित्रभानुपदस्य वाचकत्वं दिने प्रयोगे सति सूर्ये नियम्यते। रात्रौ प्रयोगे सति वह्ावग्नौ नियम्यते। तयोस्तत्रैव दीप्तयाधिक्यात्। व्यक्तेर्नियामकत्वमुदाहरति मित्रमिति।"मित्रं सुहृदि मित्रोडर्क: " इतिकोशादनेकार्थकस्य मित्रशब्दस्य वाचकत्वं नपुंसकलिङ्गरूपव्यक्त्या सुहृदि पुंलिङ्गरूपव्यक्त्या रवौ नियम्यते। भातीतिपदाच्च लिद्गनिर्णयः। अन्यथा द्वितीयैकवचने पुंस्त्वेऽपि मित्र- मिति प्रयोगसंभवः। स्वरस्य नियामकत्वमुदाहरति इन्द्रेति। इन्द्रशत्रुरिति पदे "इन्द्रः शत्रुः शातयिता (मारयिता) यस्येति बहुव्रीहौ आद्यपदोदात्तत्वम्ं। तेन च इन्द्रस्य शातनकर्तृत्वं बोध्यते। इन्द्रस्य शत्रु- रिति षष्ठीतत्पुरुषपक्षे अन्त्यपदोदात्तत्वम्ँ। तेन इन्द्रस्य शातनकर्मतयावगमः" इति विवरणकाराः। वेदे एवेति। तदेतदुक्तं पाणिनीयशिक्षायाम्। "मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः खरतोऽपराधात्" इति। न काव्ये इति। काव्येषूदात्तादीनां नार्थविशेषनियामकतेत्यर्थः । तथात्वेऽनुरूपस्वरेणार्थविशेषावगतौ समासविषये श्लेषभङ्ग एव स्यादिति भावः। लोके ऐकश्षत्येनैवें प्रयोगाच्चेत्यपि बोध्यम्। अत एव नवमोल्लासे ११९ सूत्रवृत्तौ शब्दश्लेषप्रस्तावे वक्ष्यति "काव्यमार्गे स्वरो न गण्यते" इति। ननु काव्येडपि स्वरो विशेषप्रतीतिकृदस्त्येव। यथ १ 'वेदे इव का्ये न स्वरः' इति पाठान्तरं तु अङ्कितटिष्पणपुस्तके एव ॥ २॥ "बहुव्ीहौ प्ररुत्या पूर्वपदम्" इति सूत्रेण पूर्वपदप्ररुतिस्वरे "अनुदात्तं पद्मेकवर्जम्" इति सूत्रेण शेषनिपाते आद्योदात्तत्वमिति भाव: ॥ ३"समासस्य" इति सूत्रणोति भावः ॥ ४ एकश्रुतिश्र् उदात्तादीनां स्वराणामविभागेनावस्थानम् ॥

Page 126

द्वितीय उल्लास: ।

आदिग्रहणात् एद्दहमेत्तत्थणिआ एद्दहमेत्तेहिँ अच्छिवत्तेहिं। एद्दहमेत्तावत्था एद्दहमेत्तेहिँ दिअएहिं॥ ११ ॥ इत्यादावभिनयादय:। इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्था- 'मशामि कौरवशतम्' इत्यादौ १३१ उदाहरणे काकुस्वरादिनापि विशेषार्थावगतेरिष्टत्वात्। अतः कर्थ न काव्ये इत्युक्तमिति चेन्न । स्वरशब्देनोदात्तादेरेव विवक्षितत्वात् । यद्वा अभिधानियामकस्वरो वेदे एव अनुशासनात्। न तु काव्ये। 'मशामि' इत्यादौ तु काक्कादिसहकृतादर्थाद्यञ्जनया विशेषार्था- वगतिर्नाभिधयेति सिद्धान्तादिति दिक्॥ "कालो व्यक्तिः स्वरादयः" इति मूलस्थादिपदग्राह्यस्याभिनयस्य नियामकत्वमुदाहरति एद्दहेति। " एतावन्मात्रस्तनिका एतावन्मात्राम्यामक्षिपत्राभ्याम्। एतावन्मात्ावस्था एतावन्मात्रैर्दिवसैः " इति संस्कृतम्। सौन्दर्यातिशयशालिन्या नयनगोचरमगतायाः गुणश्रवणमात्रजनितानुरागेण नायकेनावस्थायां पृष्टायां दूत्या उक्तिरियमिति चन्द्रिकाकाराः। उद्दयोतकारास्तु चिरप्रवासिनि नायके नायिकावस्था बोधयन्त्याः कस्याश्चिदुक्तिरियमित्याहुः । एद्दहेत्यत्र "इदंकिमश्च डेत्तिअडेत्तिलडेदहाः"।(८२। ५७) इति हेमचन्द्रकृतप्राकृतव्याकरणसूत्रेणैतच्छब्दात्परस्य परिमाणार्थकस्य वतोः प्रत्ययस्य स्थाने डेद्दहादेशः। एतच्छब्दस्य लुक् च। एतत् आमलकादिरूपं परिमाणं ययोस्तौ एतावन्तौ। "यत्तदेतेभ्यः परिमाणे वतुप् " (५।२/३९) इति पाणिनिसूत्रेण परिमाणे वतुप्प्रत्ययः । एतावन्तावेवैतावन्मात्नौ "वत्वन्तात्खार्थे द्वयसज्मात्नचौ" इति वार्तिकेन खार्थे मात्रच्प्रत्ययः। यद्वा। मात्रशब्दोऽवधारणार्थकः। एतावन्तावेव एतावन्मात्राविति मथूरव्यंसकादित्वात्समासः। चिदेव चिन्मात्रमितिवत्। "मात्रं कार्त्सन्येS- वधारणे" इत्यमरे मात्रमिति नपुंसकत्वं तु प्रायिकम्। पुंस्त्वस्यापि दृष्टत्वात् । यथा 'स विद्धमात्र: किल नागरूपम्' इति (५ सर्गे ५१ श्लोके) रघुवंशकाव्यप्रयोगः । 'उच्चैःश्रवा जलनिधेरिव जातमांत्रः' इति (५ सर्गे ५७ श्रोके ) माघकाव्यप्रयोगश्चेति दिक् । एवमग्रेऽपि सर्वत्र बोध्यम्। एतावन्मात्नौ स्तनौ यस्यास्तथाभूता। एवम् एतत् विवक्षितकमलादिरूपं परिमाणं ययोस्ते एतावन्मात्रे ताभ्याम् अक्षिपत्राभ्यां नयनदलाभ्याम्। उपलक्षितेत्यर्थः। 'छत्रेण राजानमद्राक्षीत्' इत्यत्र छत्रोपलक्षितं राजान- मितिवदुपलक्षणे तृतीया। "इत्थंभूतलक्षणे" (२।३।२१) इति पाणिन्यनुशासनात्। तथा एतत् विवक्षित परिमाणम् उच्चतादि यस्याः सा एतावन्मात्रा। तथाभूतावस्था स्वरूपं यस्याः सा। एवम् एतत् बुद्धिस्थं परिमाणं संख्या येषां तथाविधैर्दिवसैः (लक्षणया) वर्षैः उपलाक्षिता परिच्छिन्नेति यावत्। वर्षकथनस्यैव प्रायशो लोकव्यवहारासद्धत्वात्। दिवसैरिति करणे वा तृतीया। गाथा छन्दः। लक्षणमुक्त प्राक् (५ पृष्ठे) ।। अत्र बुद्धिस्थतत्तदर्थशक्ततया नानार्थानामेतच्छब्दानां वाचकत्वममिनयेन स्तनादिगतपरिमाणविशेष- रूपेडर्थे नियम्यते। अभिनयोऽत्र स्तनप्रदर्शने आमलकमुकुलाद्याकारः। अक्षिप्रदर्शने पभ्मपलाशाधाकारः। अवस्थाप्रदर्शने उच्चतापुष्टयादिप्रदर्शकः। दिवसप्रदर्शनेडङ्गुल्यग्रधारणादिः। तदेवाह इत्यादावभि- नयाद्य इति। विशेषस्मृतिहेतवो भवन्तीति शेषः। हस्तादिक्रियया नायिकाद्यवस्थानुकरणमभिनयः। यद्वा। आकारादिप्रदर्शिका हस्तादिचेष्टा अभिनयः । अभिनयाद्यः इत्यादिपदेन अपदेशो ग्राह्यः। अप-

Page 127

काव्यप्रकाशः सटीक: । न्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः । न च लक्षणा मुख्यार्थवाघाद्यभावात्। अपि त्वञ्जनं व्यञ्जनमेव व्यापार:। यथा भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य। यस्यानुपप्ुतगतेः परवारणस्य दानाम्बुसेकसुभगः सतत करोडभूत् ॥ १२ ।। देशो नाम हृदयनिहितह स्तादिनाभिमतनिर्देशः । तस्याभिधानियामकत्वं यथा "इतः स दैत्यः प्राप्त- श्रीर्नेत एवार्हति क्षयम्। विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ।।" इति कुमारसंभवे द्वितीयसर्गे ५५ पद्यम्। अत्र बुद्धिस्थपरामर्शकत्वेन नानार्थकस्य इतः इति शब्दस्य वाचकत्वं हृदयनिहितहस्तरू- पेणापदेशेन वक्तरि नियम्यते। नायमभिनयोऽनुकरणाभावात् । उक्तानुवादपूर्वकम् अनेकार्थस्येति सूत्रं संगमयति इत्थमिति। निवारितेऽपीति। अर्थान्तरं निवार्य। प्रकृतार्थबोधनेऽपीत्यर्थः। क्विदिति। श्रोतृतात्पर्यग्राहकसूक्ष्मेक्षिकादिसाहचर्यसूचनमिति परमानन्दः। वक्तृवैशिष्ट्यादिसाहाय्यवतत्यिर्थ इत्युद्द्योतकाराः । एवमेव्राकाङ्क्षावादे मञ्जूषायामपि। "क्चित्प्राकरणिकार्थबोधोत्तरं वक्तृबोद्धव्यवैशिष्ट्यप्रतिभादिसहकारेण द्वितीयार्थबोधोऽपि। यथा शाल- कादिप्रयुक्तात् 'सुरभिमांसं भवान् भुडक्ते' इत्यादेद्विर्तायाश्लीलार्थबोधः" इति। एवमेव चतुर्थोल्ला से 'पन्थिअण' इति ५८ उदाहरणे उद्दयोतेऽपि। "अर्थव्यञ्जकतायां वक्त्रादिवैशिष्टयस्यावश्यकत्वमात्रम्। न तु शब्दव्यञ्जनायां सर्वथानुपयोगः। अत एव गुर्वादिप्रयुक्तात् 'सुरभिमांस भुङ्क्ते ' इत्यादितो न द्वितीयार्थप्रतीतिः। अस्ति हि शब्दव्यञ्जना क्वचित् (भद्रात्मन इत्यादौ ) तत्साहाय्येन विनापत्यिन्य- देतद्" इति । मम तु क्वचिदित्यस्य श्लिष्टशब्दविन्यासरूपकविकौशल्यवति भद्रात्मन इत्यादौ इत्यंर्थ इति भाति। प्रतिपादनं बोधनम् । तस्याः अभिधायाः । नियमनात्। संयोगादिभिरिति शेषः । मुख्यार्थबाधाद्यभावादिति। न च तात्पर्यानुपपत्यैव लक्षणास्विति वाच्यम्। द्वितीयार्थस्य तात्पर्यवि- षयस्यापि तात्पर्यग्राहकप्रकरणाद्यभावादिति भावः ॥ यथेति। अभिधामूलां शाब्दी व्यञ्जनामुदाहरतीत्यर्थः । भद्रेति। कस्यचिद्राज्ञो वर्णनमिदम्। अत्र यच्छब्दः प्राकरणिकराजपरः। तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिः सततं निरन्तर दानस्य वितरणस्य संबन्धि यदम्बु जलं तस्य सेकेन सेचनेन सुभग: शोभनोडभूदित्यन्वयः। कीदशस्य यस्य। भद्रःशोभनः आत्मा स्वरूपम् अन्तःकरणं वा यस्य तथाभूतस्य। तथा दुरधिरोहा (परैः) अनभिभवनीया तनुः शरीर यस्य तथाभूतस्य। तथा विशाले महति बंशे कुले उन्नतिराधिक्यं महत्त्वं वा ख्यातिर्वा यस्य तथावि- धस्य। विशालस्य वंशस्योन्नतिर्यस्मादिति वा। तथा कृतः शिलीमुखानां बाणानां संग्रहोऽभ्यासदाढर्य येन तस्य। तथा अनुपप्लुता अबाधिता गतिर्ज्ञानं यस्य तादृशस्य। अनुपप्लुतानाम् अदुष्टानां गतिर्हितकर्ता तस्येति वा। तथा परान् शत्रून् वारयतीति परवारणः तस्य। शत्रुनिवारकस्येत्यर्थः । अप्राकरणिकग- जपक्षे तु यस्य परस्योत्कृष्टस्य वारणस्य गजस्य करः शुण्डादण्डः सतत दानाम्बुसेकसुभगः मदजलसेक- सुन्दरः अभूदित्यन्वयः । कीदृशस्य यस्य। भद्रात्मनः भद्रजातीयस्य। "भद्रो मन्दो मृगश्च " इत्यु- क्त्वा "एतेऽष्टौ गजयोनयः " इत्युक्तेः। दुरधिरोहतनोः अत्युच्चत्वात् दुःखािरोह्यशरीरस्य। विशाल- वंशवत् दीर्धवेणुवत् उन्नतिः उचचता। यद्वा। विशाला वंशस्य पृष्ठदण्डस्योन्नतिर्यस्य। "वंशः संधेऽन्वये वेणौ पृष्ठाधवयवरेऽपि च" इति हैमः। कृतशिलीमुख संग्रहस्य कृतम्रमरसंग्रहस्य। अनुपप्लु 1गतेः अनुद्ध- तधीरगमनस्येत्यर्थः। वसन्ततिलका छन्दः। "उक्ता वसन्ततिलका तभजा जगौ गः" इति लक्षणात् ॥

Page 128

द्वितीय उल्लास:।

अत्र राजा वाच्यो हस्ती प्रतीयमानः । अत्रानेकार्थकानां भद्रात्मनः इत्यादिशब्दानाम् अभिधायाः राजि तदन्वययोग्ये चार्थे प्रकरणेन नियन्त्रणेऽपि सहृदयानां वासनाबलात् (प्रतिभासामर्थ्यात्) गजस्य तदन्वययोग्गस्य चार्थस्य या प्रतीतिः सा व्यञ्जनयैवेति भावः। द्वितीयार्थस्य तात्पर्यविषयस्यापि तात्पर्यग्राहकप्रकरणाद्यभावात् व्यङ्गयबोधविषयत्वमेवेति बोध्यम्। अत्रोक्तविशेषणविशिष्टहस्तिप्रतीतौ नृपगजयोद्वयोरप्यर्थयोर्मिथः संबन्धे उपमानोपमेयभावोऽपि व्यङ्गय एव। अन्यथा मिथोSसंबद्धार्थद्वयबो- धकत्वेन वाक्यभेदापत्तेः। उपमाकृताखादानुभवाच्च। अत्रेदमवधानीयम्। नानार्थेषु यत्रानेकत्र वक्तृता- त्पर्यग्राहकं प्रकरणादिकं युगपदवतरति नावतरति वा तत्र श्लेषः । यत्र तु क्रमेण तत्नावृत्तिः यथा अक्षा भज्यन्तां भुज्यन्तां दीव्यन्तामित्यत्र। यत्र त्वेकत्रैव तत्र व्यञ्जनेति सिद्धान्तरहस्यम्। यत्र द्वयोरप्यर्थयोः परस्परान्वयं विना इतरान्वयानुपपत्तिर्विशेष्यमश्लिष्टं च तत्रैव श्लिष्टरूपकम्। यथा 'विद्वन्मानसहंस' इत्यत्र ४२५ उदाहरणे। अतो नात्र ( भद्रात्मन इत्यत्र ) तदित्युद्द्योते स्पष्टम्। काव्यप्रकाशदर्पणे विश्वनाथपण्डितास्तु "इह हि येयं द्वितीयार्थप्रतीतिस्तताभिधायाः प्रकृतार्थबोधनविरामात् लक्षणायाश्च मुख्यार्थबाधादिहेतुकत्वात् तात्पर्यस्य चामिहितलक्षितसंसर्गमात्रबोधननैयत्यात् व्यञ्जनाख्या तुरीया वृत्तिरुपास्यैव। ननु 'अर्थभेदेन शब्दभेदः' इति दर्शनादत्र शब्ददवयमस्ति। तच्च साजात्यादैक्यभ्रमहेतुः। ततश्व प्रथमं परवारणादिशब्देन राजार्थबोधनाद्विरतायां प्रथमाभिधायां द्वितीयः शब्दस्तन्निष्ठाभिधाश- क्त्या द्वितीयार्थ बोधयतु। किं वृत्यन्तरकल्पनेनेति चेन्न। अत्र हि शब्दद्वयकल्पने कथ प्रकृतार्थस्य प्रथमं प्रतीतिः। द्वयोरभिधेयत्वेन पूर्वपश्चाद्धावनैयत्यासंभवात्। किंच। द्वितीयार्थबोधने 'धर्मिकल्पनातो वरं धर्मकल्पनम्' इति भिन्नशब्दकल्पनात् भिन्नैव व्यञ्जनाख्या वृत्तिरङ्गीकर्तुमुचिता" इत्याहुः ॥

अत्रेदं फलितमवगन्तव्यम्। वृत्ति विना शब्दादर्थबोधाङ्गीकारेSतिप्रसङ्ग इति शब्दे वृत्तिरवश्यमङ्गी- कार्या। वृत्तिर्नाम शब्दस्य व्यापारः। सा च वृत्तिस्त्रिधा अभिधा लक्षणा व्यञ्जना चेति। तत्र संकेति- तार्थबोधजनको व्यापारोडभिधा। सैव शक्तिरित्युच्यते इत्युक्तं प्राक् (३९ पृष्ठे) । मुख्यार्थबाधादि- सहकार्यपेक्षया मुख्यार्थसंबद्धार्थबोधजनकः आरोपितः शब्दव्यापारो लक्षणा। सा च शक्यतावच्छेदका- रोपरूपा। यथा 'गङ्गायां घोषः' इत्यत्र तीरवृत्तिघोषाधारत्वस्य प्रवाहे आरोपः। यथा वा 'सिंहो माणवकः ' इत्यत्र सिंहपदशक्यतावच्छेदकसिंहत्वस्य माणवके आरोपः। व्यञ्जना च शक्तिलक्षणाद्य- जन्यप्रतीतिजनकः पदादिगतो व्यापारः । स च ध्वननद्योतनाञ्जनव्यञ्जनावगमनप्रत्यायनप्रकाशनादि- पदव्यपदेश्यः। उक्तं चाकाङ्क्षावादे मञ्जूषायाम्। "मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धा- संबद्धसाधारण: प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्टयज्ञानप्रतिमादुद्वुद्वः संस्कारविशेषो व्यञ्जना। अत एव 'च वा' इत्यादिनिपातानां द्योतकत्वं स्फोटस्य व्यङ्गयता च [भर्तृ] हर्यादिभिरुक्ता। द्योतकत्वं च क्रचित्समभिव्याहृतपदीयशक्तिव्यञ्जकत्वमिति वैयाकरणानामप्येतत्स्वीकार आवश्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र वर्तते। तथैवानुभवात्। वक्त्रादिवैशिष्ट्यज्ञानं च व्यङ्गयविशेषबोधे सहकारीति न सर्वत्र तदपेक्षा " इति। उक्तं चैवमेवोद्दयोते चतुर्थाल्लासे 'पंथिअ ण०' इति (५८ उदाहरणे) अन्यत्र च। "अर्थव्यञ्जकतायां वक्तृतैशिष्टयादीनामावश्यकत्वमात्रम्।न तु शब्दव्यञ्जनायां सर्वथानुपयोगः । अत एव शालकादिप्रयुक्तात् 'सुरभिमांस भवान् भुङ्के' इत्यादितो द्वितीयाश्ल्लीलार्थप्रतीतिः। न तु गुर्वादिप्रयुक्तात। अस्ति हि शब्दव्यञ्जना कचित् (भद्रात्मन इत्यादौ) तत्सा- हाय्येन (वक्तृवैशिष्टयादिसाहाय्येन) विनापीत्यन्यदेतत" इति। "वयञ्जना च देधा। शब्दनिष्ठार्थनिष्ठा

Page 129

७8 काव्यप्रकाश: सटीके:। (सू० ३३) तद्युक्तो व्यञ्जकः शब्द: तद्युक्तो व्यञ्जनयुक्त:।। (सू० ३४) यत्सोऽर्थान्तरयुक् तथा। अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ २० ॥ तथेति व्यञ्जक: म इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नामे द्वितीय उल्लासः ॥ २ ॥ चेति। तत्राद्यापि द्वेधा। अभिधामूला लक्षणामूला चेति" इति काव्यप्रदीपे। "तत्र व्यापारो व्यञ्जना- त्मक:" इति २२ सूत्रे उक्तम्। तत्र शब्दनिष्ठार्थनिष्ठा चेत्यस्य शाब्दी आर्थी चेत्यर्थः । अभिधावत् लक्षणापि शब्दस्यैव व्यापार इति शब्दाश्रिता। ततश्च तन्मूला व्यञ्जनापि शब्दाश्रितैव भवितुं युक्ता। इदमेव लक्षणामूलव्यञ्जनायाः शाब्दत्वे बीजमिति काव्यप्रदीपाशयः । तत्राभिधामूला यथा 'भद्रात्मनः' इत्यादिः। लक्षणामूला यथा 'गङ्गायां घोषः' इत्यादिः । आर्थ्या उदाहरणानि तु तृतीयोल्लासे वक्ष्यमाणानि सर्वाण्यपीति बोध्यम्। उद्दयोतकारास्तु 'नियन्त्रितार्थधीजनकत्वं शब्दव्यञ्जनायाः स्वरूपम्। अर्थव्यञ्जनायाः स्वरूपं तु वक्त्रादिवैलक्षण्यहेतुका या प्रतिभाशालिनामन्यार्थर्धीस्तद्धेतुव्यापारत्वम्" इति तृतीयोल्लासारम्भे आहुः। "शब्दस्य पर्यायपरिवृत्त्यसहत्वाच्च शब्दमूलत्वेन व्यपदेशः" इति च द्विती- योल्लाससमाप्तावाहुः। एवमेव सुधासागरे भीमसेना अप्याहुः। तत्र शब्दव्यञ्जनायाः स्वरूपमित्यस्यामि- धामलायाः शब्दव्यञ्जनाया: स्वरूपं लक्षणमित्यर्थः । भद्रात्मन इत्यादौ नियन्त्रितार्थधीजनकत्वं स्पष्टमेव। एवं भद्रादिशब्दस्थाने कल्याणादिपर्यायशब्दप्रयोगे व्यङ्गयार्थाप्रतीतेः पर्यायपरिवृत्त्यसहत्वमपि स्पष्टमेव। परंतु एतन्मते 'गङ्गायां घोषः' इत्यादौ लक्षणामूलशब्दव्यञ्जनायां पर्यायपरिवृत्त्यसहत्वं कथमिति वयं तत्वतो न विद्यः। गङ्गादिशब्दस्थाने भागीरथ्यादिपर्यायशब्दप्रयोगेऽपि व्यङ्गयार्थप्रतीतेः पर्यायपरिवृत्ति- सहत्वात्। तथापि उद्दयोताशयमित्थं यथामति संभावयामः । अभिधामूलव्यञ्जनावत् लक्षणामूलव्यञ्जनापि शब्दपरिवृत्त्यसहा। गङ्गादिशब्दपरिवृत्तिसहत्वेऽपि लाक्षणिकगङ्गादिशब्दपरिवृत्त्यसहत्वात्।'गङ्गायां घोष:' इत्यस्मादेव तीरे शैत्यपावनत्वादिकं प्रतीयते। न तु 'गङ्गातीरे घोषः' इत्यादिवाचकशब्दघटित- वाक्यात् । एतदेवोक्तं मूले "गङ्गातटे घोष इत्यादेः प्रयोगात् " इत्यादि (४३ पृष्ठे १ प०) "गङ्गासंबन्धमात्रप्रतीतौ" इत्यादि च ( ४६ पृष्ठे ४ प०) इति ॥ एवं व्यञ्जनां निरूप्य तद्द्वारा व्यञ्जकशब्दं लक्षयति तद्युक्त इति। तद्युक्तः शब्दो व्यञ्जक इति कथ्यते इति सूत्रार्थः। "अत्राञ्जनमिति प्रस्तुतेऽपि अर्थगत्या अञ्जनशब्देन व्यञ्जनं परामृश्यते। तेन व्यञ्जनयुक्तो व्यञ्जक इति संपद्यते। अन्यया अञ्जनयुक्तोऽञ्जक इति स्यात्" इति प्रदीपः । तदेवाह तद्युक्तो व्यञ्जनयुक्त इति।। ननु 'भद्रात्मनः' इत्यादौ शब्दमात्रस्य व्यञ्जकत्वे शब्दार्थोभयरूपस्य काव्यस्य व्यञ्जकत्वाभावात्कर्थ ध्वनित्वमित्याशङ्कयार्थस्य सहकारितया व्यञ्नजकत्वमस्तीत्याह यत्स इति। यत् यस्मास्कारणात् स १ 'व्यञ्जनाग्यापारयुक्त:' इति पाठस्तु उद्दयोतादिविरुद्ध इति बोध्यम् ॥ २ यद्यपि शब्दनिर्णयो नामेति पाठो बहुषु पुस्तकषु दृश्यते तथापि कमलाकरानुरोधेन तथा लिखितम्। तदनुरोधस्यैवोचितत्वाद्॥

Page 130

द्वितीय उल्लास:। ७१

शब्द: अर्थान्तरयुक् अर्थस्य स्वशक्यप्रकृतार्थस्यान्तरं व्यवधानं तेन युक् युक्तः सन् तथा व्यञ्जको भवति। अतः तत्र काव्ये अर्थोऽपि स्वशक्यप्रकृतार्थोऽपि सहकारितया विशेषणीभावेन (अप्रधानतयेति यावत्) व्यञ्जको मतः संमत इत्यर्थः। "स्वशक्यप्रकृतार्थबोधानन्तरमेव व्यङ्गयार्थबोधादर्थस्य सहका- रित्वमिति भावः । शब्दस्य परिवृत्त्यसहत्वाच्च शब्दमूलकत्वेन व्यपदेशः" इत्युद्दयोतः । अर्थोऽपीत्य- पिशब्देन शब्दस्य समुच्चयः । सूत्रस्थं तथेतिपदं व्याचष्टे तथेतीति॥ इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकार्यां बालबोधिन्यां शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ॥ २ ॥

Page 131

4

कक)ी॥। अथ तृतीय उल्लासः॥

(सू० ३५) अर्थाः प्रोक्ता: पुरा तेषाम् अर्थाः वाच्यलक्ष्यव्यङ्गयाः। तेषां वाचकलाक्षणिकव्यञ्जकानाम्।। (सू० ३६) अर्थव्यञ्जकतोच्यते। कीदृशीत्याह (सू० ३७) वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः॥ २१॥ प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम्। योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ।। २२।। शब्दव्यञ्जनां प्रतिपाद्योल्लाससंगतिप्रतिपादनपूर्वकमर्थव्यञ्जनां प्रतिपादयितुं पूर्वोक्तं स्मारयति अर्था इति। पुरा "वाच्यादयस्तदर्थाः स्युः" इत्यत्र (२५ पृष्ठे) तेषां वाचकादिशब्दानाम् अर्था वाच्यादयः प्रोक्ता: कथिता इत्यर्थः । अर्थस्य संनिकृष्टतरत्वात् तेषामित्यस्यार्थपरत्वे अर्थव्यञ्जकतेत्यग्रिमग्रन्थानन्वय इत्यतो व्याचष्टे वाचकेत्यादि।। इदानीं किं निरूपणीयमित्याह अर्थव्यञ्जकतेति। सापि प्राक् (२८ पृष्ठे) उक्तैव "सर्वेषां प्रायशो- डर्थानाम्" इत्यनेनेत्यत्राह कीदृशी। कीदृशी किखरूपा। नियन्त्रितार्थधीजनरकत्वं शब्दव्यञ्ञनायाः स्वरूपमिवास्याः किं स्वरूपमित्यर्थः । वक्त्रिति। यः परप्रतिपत्तये वाक्यमुच्चारयति स वक्ता। स च कविस्तन्निबद्धो नायकादिश्च। बोधनीयः पुरुषो बोद्धव्यः। कायत्यर्थान्तरमिति काकुः।'कै शब्दे' इति धातुः । अथवा काकुर्जिह्वा। तद्यापारविशेषसंपाद्यत्वात् शोकभीत्यादिभिर्ध्वनेर्विकार : काकुः | उचार - यितुः शोकाद्यनुमापको जातिविशेष इत्यर्थः । तदुक्तं "मिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते" इति। उक्तं चामरेणापि "काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः" इति। तासाम्। तथा साकाङ्काणां पदानां समूहो वाक्यम्। शक्योऽर्ो वाच्यः । अन्यस्य वक्तृबोद्धव्यभिन्नस्य संनिधिः सामीप्यम्। वाक्यवाच्याभ्यां सहितोऽन्यसंनिधिरिति समासः। तेनेतरेतरद्वन्द्वे बहुवचनम्।समाहारे तु नपुंसकत्वं स्या- दिति निरस्तम्। तथा च वाक्यवाध्यान्यसंनिधीनामित्यर्थः। तथा प्रस्तावः प्रकरणम्। देशो विजनादिः। कालो वसन्तादिः। आदिशब्दग्राह्यश्चेष्टादिः तेषां वैशिष्ट्यात् संबन्धात् वैलक्षण्याद्वा। वैशिष्टयादित्यस्य वक्तृबोद्धव्याद्यैः प्रत्येकमन्वितस्य अन्वार्थघीहेतुः इत्यत्रान्वयः। प्रतिभाजुषां प्रतिभा वासना। नवनवोमे- षशालिनी प्रज्ञेति यावत्। तद्वताम् काव्यवासनापरिपक्कबुद्धानामित्यर्थः। सहृदयानामिति यावत्। यान्यार्थ- धी:अन्यो वाच्यलक्ष्यव्यतिरिक्तो योऽर्थः व्यङ्गयरूपस्तद्धीस्तत्प्रतीतिःतद्धेतुर्योऽर्थस्य वाच्यलक्ष्यव्यङ्गय- रूपस्य त्रिविधस्यार्थस्य व्यापारःव्यक्तिरेव व्यज्यतेऽनया व्यक्तिरिति करणव्युत्पत्या व्यञ्जनैवेति सूत्रार्थः। अत्र वैशिष्ट्यादिति पञ्चम्यर्थः सहकारित्वरूपं हेतुत्वम्। तच्च तदभावे व्यञ्जनानुदयाद्वोध्यम्। एवं च १ इदं तु समर्थितमस्मामि; (७० पृष्ठे १२ पड्कौ) ॥।

Page 132

तृतीय उल्लास:। ७३

बोद्धव्यः प्रतिपाद्यः। काकुर्ध्वनेर्विकारः। प्रस्तावः प्रकरणम्। अर्थस्य वाच्यलक्ष्य- व्यङ्गयात्मनः । क्रमेणोदाहरणानि। अइपिहुलं जलकुंभं घेत्तूण समागदहि सहि तुरिअम्। समसेअसलिलणीसासणीसहा वीसमामि खणम् ॥ १३ ॥ अत्र चौर्यरतगोपनं गभ्यते। ओण्णिददं दोब्बलं चिंता अलसत्तणं सणीससिअम्। वक्त्रादिवैलक्षण्यहेतुका या प्रतिभाशालिनामन्यार्थधीस्तद्वेतुव्यापारत्वमस्याः स्वरूपमिति बोध्यमित्यु- द्दयोते स्पष्टम्। प्रतिभाजुषामित्यनेन जडादीनां व्युदासः। तथा चोक्तं "सवासनानां नाट्यादौ रसस्यानु- भवो भवेत्। निर्वासनास्तु रङ्गान्तर्वेश्मकुड्याश्मसंनिभाः " इति । अर्थस्येत्यनेन शब्दव्यञ्जनानिरासः। एवकारेणाभिधालक्षणादीनां निरासः । संकेताद्यभावेन नाभिधादिरित्युक्तं प्राक् (५९ पृष्ठे)। अनु- मानादिकं त्वग्रे निरसिष्यते। वक्त्रादीनां च संकरे यस्योद्भटता (प्राधान्यं ) तन्मूलको व्यवहारः ॥ सूत्रस्थानि कठिनपदानि व्याचष्टे बोद्व्य इत्यादिना। बोद्धव्य इत्यस्य बोद्धुं योग्यो बोद्धव्य इति विग्रहेडपि बोधयितुं योग्य इत्यर्थः । शंभुरितिवत् अन्तर्भावितण्यर्थकत्वात्। अतो न वाच्येन सहाभेदः। तदेवाह प्रतिपाद्य इति। यं बोधयितुं शब्द उच्चार्यते स प्रतिपाद्य इत्यर्थः ॥ वक्ष्यमाणोदाहरणेषु वैशिष्टयविशेषोऽविदग्धानां दुर्जेय इति तत्सूचयन् वृत्तिकृदाह क्रमेणेति। सौत्रेण वक्त्रादिवैशिष्ट्यक्रमेणेत्यर्थः। वक्तृवैशिष्टयात् वाच्यस्य व्यञ्जकत्वमुदाहरति अइपिहुलमिति। जलाहरणवर्त्मनि नदीगहने उपनायकोपभुक्तायाः धर्मजलनिःश्वासाद्युपभोगचिन्हेनोपभोगं संभावयन्तीं सखीं संबोध्य कस्याश्विदुक्तिरियम्। "अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि साख त्वरितम्। श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ।।" इति संस्कृतम्। 'अइविउलम्' इति पाठे 'अतिविपुलम्' इति संस्कृतम्। सखीत्यनेनाप्रतार्यत्वम्। अतिशयेन पृथुलं महान्तं जलकुम्भं जलपूर्ण कुम्भमित्यनेन दुर्वहत्वम् गृहीत्वा समागता तदपि त्वरितं न तु शनैः तेन मध्ये विश्रामाद्यभावः अस्मि अहं (अतिशयितसुकुमारतनुः) आभ्यां खेदातिशययोग्यता श्रमात् यौ स्वेदसलिलनिःश्वासौ ताभ्यां निःसहा निर्बला चलितुमक्षमेति यावत् । सलिलत्वोक्त्या स्वेदबाहुल्यं व्यजते। अतः क्षणं विश्रा- म्यामि विश्रामं करोमीत्यर्थः । अत्रेदृशजलकुम्भवहनजन्य एवायं श्रमो नान्यथाशङ्किष्ठा इति भावः । गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे)। अत्र व्यङ्गयं किमित्याशङ्कयाह अत्र चौर्येति। अत्र प्रमाणान्तरेणासतीत्वेऽवगते सति व्यभि चारिणी वदतीति वक्तृवैशिष्टयात् वाच्यघटितवाक्यार्थस्य चौर्येण कृतं रतं गोपयतीति सामाजिकान् प्रतिभाशा- लिन: प्रति व्यङ्गयमिति भावः। व्याख्यातमिदं प्रदीपे। "अत्र वक्त्री कामिनी। तस्या दुःशीलत्वरूप- वैशिष्टयं विजानतां चौर्यरतगोपनं व्यक्तीभवति " इति । अत्र शब्दपरिवृत्तिसहत्वादर्थस्यैवेयं वृत्तिरिति बोध्यम्। एवमग्रेपि सर्वत्र ॥ बोद्धव्यवैशिष्टयाद्वाच्यस्य व्यञ्ञकत्वमुदाहरति ओण्णिद्दमिति।कृतस्वकामुकसंभोगां दूतीं प्रत्युपभोग- १ शं सुखं भवतीति (भावयतीनि) शंभुः। अन्तर्भावितण्यर्थोडत्र भवतिरिति "विप्रसभ्यो डुसंज्ञायाम्" इति पाणिनिसूत्रे वैयाकरणसिद्धान्तकौमुद्यां स्पष्टम् ॥ २ "वाक्यवाच्यान्यसंनिधेः" इत्यत्रत्येन वाच्येनेत्वर्थः ॥ 3 अस्मीत्यहमर्थकमव्ययमिति २० उदाहरणे स्फृटीभविष्यति ।PP1133113 P 1लM काव्यप्रकाश १०

Page 133

७४ काव्यप्रकाशः सटीकः।

मह मंदभाइणीए केरं सहि तुह वि अहह परिहवई़। १४। सज अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते। तथाभूतां दृष्ट्रा नृपसदसि पाश्चालतनयां वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ १५ ॥ चिन्हैस्तं संभोगं ज्ञातवत्या नायिकाया उक्तिरियम्। "औन्निदं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम्। मम मन्दभागिन्याः कृते सखि त्वामपि अहह परिभवति ॥" इति संस्कृतम् । तुहेति द्वितीयान्तम्। तत्रापि तथानुशासनात् । केचित्तु शेषष्ष्ठयन्तमाहुः । तदा छाया तवेति। हे साख सनिःश्वसितं निःश्वाससहितं औन्निद्ं गतनिद्रत्वादि (कर्तृ)। मन्दः अल्पः भागो भागधेयं विद्यते यस्याः सा मन्दभा- गिनी तस्याः। "भागो रूपार्धके प्रोक्तो भागधेयैकदेशयोः" इति विश्वः। मम कृते मदर्य त्वामपि परि- भवति पीडयतीत्यन्वयः । विरहोत्कण्ठितां मां तावत् परिभवत्येव मत्कार्यार्थ गमनागमनादिना कामुक- प्रसादने नत्यादिव्यापारेण त्वामपत्यपेरर्थः। यद्वा। मम मदीयं औन्निद्ादिकं मम कृते अर्थात् मत्स्नेहव- शात् त्वामपि परिभवतीत्यर्थः । अत्र पक्षे ममेति पद मध्यमणिन्यायेनोभयत्नापि संबध्यते। अत एव स- खीति संबोधनम्। एतेन स्वीयस्यौनिद्यादेरन्यपरिभावकत्वायोगात्स्वीयसजातीये लक्षणेत्यपास्तम्।एकेनो- भयपरिभवाभावे अपिशब्दार्थस्य समुच्चयस्यानुपपत्तेश्च। कृते इति अव्ययं तादथ्ये। "अर्थे कृतेऽव्ययं तावत् तादर्थ्ये वर्तते द्वयम् " इति कोशसारः । गीतिः छन्दः। लक्षणमुक्त प्राक् (४ पृष्ठे) । व्यङ्गयमाह अत्र दूत्या इति। अत्र दूती बोद्धव्या। तस्या अन्यदापि दृष्टदुष्टचेष्टाया वैशि- ष्टयात् वाच्यघटितवाक्यार्थस्य तस्याः स्व्रकामुकोपभोक्तृत्वमेषा प्रकाशयतीति सामाजिकान् प्रति व्यङ्ग्यमिति भाव: । काकुवैशिष्ट्याद्वाच्यस्य व्यञ्जकत्वमुदाहरति तथाभूतामिति। वेणीसंहारे प्रथमाङ्के कुरुनिग्रहाद्यनु- द्यमेन युधिष्ठिरमुपलभमानं भीमं प्रति सहदेवस्य "आर्य कदाचित् खिद्यते गुरु: " इत्युपालम्भनिषेधपर- वाक्यस्योत्तरे "गुरुः किं खेदमपि जानाति" इत्युपक्रम्य भमिसेनोक्तिरियम्। खिन्ने इत्यस्येत्थमित्यादिः गुरु: साक्षादनभियोज्यो युधिष्ठिरः इत्थम् अमुना कारणेन खिन्ने म्लाने मयि खिद्यतेऽनेनेति खेदो मात्स- र्यम् (अप्रियत्वेन ज्ञानं) तं भजति कुरुषु कुर्वपत्येषु (अस्य सामान्यशब्दस्यापि विशेषसंनिधानात् विशेषान्तरपरता। तेन दुर्योवनादिलाभः ।) अद्यापि एवंविधदुरवस्थायामपि यद्वा अज्ञातवासनिस्तारात् प्रत्यपकारक्षमकालेऽपि न भजतीति सोपहासः काक्का वाक्यार्थः । खेदकारणमाह तथाभूतामित्यादिना। तथाभूतां स्त्रीधर्मिणीम् (रजस्वलाम्) दुःशासनाकृष्टवसनकचपाशाम्। विशिष्य भवत्संनिधावप्यकथ- नीयदुरवस्थाम् (नग्नीक्रियमाणाम्) नृपसदसि राजसभायां न तु यत्र कुत्रचित् पाश्चालस्य द्रुपदराजस्य तनयां न तु यस्य कस्यचित् तेन जन्मप्रभृत्यतः पूर्वमपरिभूतत्वम् अस्मत्संबन्धेनैव तथात्वमिति भावः। तादशीं दृष्टा उषित स्थितमिति च भावे क्प्रत्ययसिद्धं द्वितीयान्तं दृष्ट्रेत्यस्य कर्म। तथा च वल्कलधरै- रस्माभिर्वने द्वैतवने व्याधैः वनेचरैः सार्ध न तु वानप्रस्थादिऋषिभिः यत् सुचिरं बहुकालम् उषितं तत् विराटस्य राज: आवासे गृहे अनुचितस्य सूदादिकर्मण आरम्भेण उद्योगेन निभृतं गुप्तं यथा स्यात्तथा स्थितं च दृष्ट्रेत्यर्थः। दृष्ट्रेति खिन्नत्वक्रियया भजनक्रियया च समानकर्तृकम्। केचित्तु दष्ट्रेत्येतदुषितमित्य-

Page 134

तृतीय उल्लास:। ७५

अत्र मये न योग्यः खेद: कुरुषु तु योग्य इति काक्का प्रकाश्यते। न च वाच्यसिद्धयङ्गमत्र काकुरिति गुणीभूतव्यङ्गयत्वं शङ्कयम्। प्रश्नमात्रेणापि काकोर्विश्रान्तेः। उा ।हाफल तइआ मह गंडत्थलणिमिअं दिह्विं ण णेसि अण्णत्तो। एण्हिं सच्चेअ अहं ते अ कवाला ण सा दिद्ठी ॥ १६ ।। नेन समानकर्तृकं संनिधानात्। तेन पञ्चानामपि (युधिष्ठिरादीनामपि) तद्दर्शनं गम्यते इत्याहुः। शिख- रिणी छन्दः। "रसै रुद्रैर्छिन्ा यमनसभला गः शिखरिणी" इति तलक्षणात्॥ अत्र नजि काकुः । तद्वैशिष्टयात् 'मयि न योग्यं मात्सर्य कुरुषु तु योग्यम्' इति व्यज्यते। तदेवाह अत्रेत्यादिना। खेदो मात्सर्यम् । काक्केति नञकाक्केत्यर्थः। प्रकाश्यते व्यज्यते। ननु पात्रापात्रवैपरी- त्येन खेदस्य करणाकरणरूपवाक्यार्थस्य अयुक्ततयापर्यवसन्नस्य पर्यवसानरूपसिद्धयै व्यङ्गयोपस्था पनद्वारा काकुरेव प्रभवतीति काकोर्वाच्यसिद्धयङ्गत्वे तद्द्वारीभूतस्य व्यङ्गयस्यापि तथात्वेन गुणीभूत- तया 'मशामि कौरवशतं समरे न कोपात्' इति १३१ उदाहरणवत् गुणीभूतव्यङ्गयमिदमुदाहरणं न तु ध्वनिरित्याशङ्कय निराकरोति न च वाच्यसिद्धयङ्गमित्यादिना। न चेत्यस्य शङ्कयमित्यनेनान्वयः। वाच्यस्य वाक्यार्थस्य। भ्रातरि खेदभजनरूपस्य कुरुषु तदभजनरूपस्य चेत्यर्थः । सिद्धिः पर्यवसानं तदङ्गं तत्कारकमित्यर्थः । यद्यपि गुणीभूतव्यङ्गयत्वेपि काकुवैशिष्टयोदाहरणताया न क्षतिः तथापि सुहृद्धावेन वस्तुस्थितिकथनायैतच्छङ्कोत्थापनं बोध्यमिति प्रभायां स्पष्टम्। प्रश्नमात्रेणापीति। मात्रपदेन व्यङ्गया- र्थाक्षेपव्यवच्छेदः । काकोरिति । व्यङ्गयव्यञ्जकभावे षष्ठी। काकुव्यङ्गयेन प्रश्नमात्रेणापीत्यन्वयः । विश्रान्तेरिति। पर्यवसानादित्यर्थः । वाच्यार्थस्येति शेषः ॥ अयमत्राभिसंधिः । अत्र काकोर्वाच्यसिद्धयङ्गत्वं न व्यङ्गयार्थाक्षेपद्वारा। अपि तु न भजति इति प्रश्न- मात्रोपस्थापनद्वारैव। तेन हि वाच्यार्थे पर्यवसन्ने सति व्यङ्गयप्रतीतिरिति कुतो गुणीभूतव्यङ्गयत्वशङ्का। 'मशामि कौरवंशतम्' इत्यत्र तु प्रतिज्ञातकुरुकुलक्षयस्य भीमस्य 'न म्नामि' इत्युक्तेर्बाधितत्वादपर्य- वसन्स्य वाक्यार्थस्य पर्यवसानरूपसिद्धयै मश्नाम्येवेति व्यङ्गयोपस्थापनद्वारा काकुरेव प्रभवतीति काको- र्वाच्यसिद्धयङ्गतवे तद्द्वारीभूतस्य व्यङ्गयस्यापि तथात्वेन गुणीभूततया गुणीभूतव्यङ्गयत्वमेवेति ॥ वाक्यवैशिष्याद्वाच्यस्य व्यञ्जकत्व्मुदाहरति तइआ इति। नायिकाभयेन निकटवर्तिनीमन्यां प्रिय- तमां साक्षादपहाय नायिकाकपोलगतं तत्प्रतिबिम्बं नायिकामुखावलोकनमिषेण सादर दृष्टा तत्प्रति- बिम्बापगमे तादृशनिरीक्षणनिवृत्तं नायकं प्रति दृष्टिविकारेण ज्ञातरहस्याया नायिकाया उक्तिरियम्। "तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरन्यत्र। इदानीं सैवाहं तौ च कपोलौ न च सा दृष्टिः ॥" इति संस्कृतम्। 'गंडत्थलमिलिअम्' इति पाठे 'गण्डस्थलमिलिताम्' इति संस्कृतम्। तदा यदा सा कामिनी मत्सनिधावासीदित्यर्थः। निमग्नाम् अनिमेषतया तथाभतामिव न तु पतिताम्। इदानीं तस्या गमनकाले। सैव तदवस्थैव। सा स्त्िग्धा अनिमेषा च। "तथा च सखीसांनिध्यातिरिक्तसकलसत्त्वे तादशदृष्टिविर- हस्तदेदानीपदात्मकवाक्यगम्यः सखीसांनिध्याभावस्य खप्रयोजकत्वमवगमयतीति बोध्यम् " इत्यु- इयोतः । गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे) । १ न 'नयस्यन्यत' दति पाठान्तरम्।

Page 135

७६ काव्यप्रकाश: सटीक: । अत्र मत्सखीं कपोलप्रतिविम्बितां पशयतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते इति व्यज्यते। उद्देशोडयं सरसकदलीश्रेणिशोभातिशारया कुञ्जोत्कर्षाङकुरितरमणीविभ्रमो नर्मदायाः । किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥१७॥ व्यङ्गयमाह अत्रेति। तदेदानींरूपपदद्वयात्मकवाक्यवौरीष्ट्यादिति शेषः । अन्यैवाभूदिति । निर्निमेषा स्निग्धा चाभूदित्यर्थः । अन्यैव सनिमेषा विषण्णा च। इयत्कालं गोपनं कृतमित्याश्चर्ये अहो इति। ते इति व्यज्यते इति। ते नवेत्युपालम्भप्रकाशनं सामाजिकान् प्रति व्यङ्गयमित्यवधेयम्। "अत्र वाक्यपदेन 'तइआ एण्हिं' इति विच्छिन्नवाक्यमुच्ते । अन्यथातिप्रसक्तेः । सर्वत्रैव वाक्य- वैशिष्टयसत्त्वात् " इति सारबोधिनीकाराः । व्यज्यते इति। विलक्षणैतद्वाक्यसहकृतेन वाक्यार्थेनेति शेषः। उपनायिकासत्त्वासत्त्त्वयोझटिति व्यञ्षकाम्यां तदेदानींपदाभ्यां विशिष्टत्वाद्वाक्यस्यात्र वैलक्षण्य- मिति महेश्वरः ॥ वाच्यवैशिष्टयाद्वाच्यस्य व्यञ्जकत्वम् (प्रकर्षेण विशेषणवत्वं वाच्यस्य वैशिष्टयं वैलक्षण्यम्। तथा च स्वस्य वैलक्षण्यात् स्वस्य व्यञ्जकत्वम्) उदाहरति उद्देशोऽयमिति। नायिकां प्रति रत्यर्थिनः कामुक- स्योक्तिरियं दूत्या वा। हे तन्वि हे कृशतायोगिनि अयं नर्मदायास्तन्नामकनदाः उद्देशः ऊर्ध्वदेशः उच्चतीरभप्रदेश इत्यर्थः । तिष्ठतीत्यन्वयः । कीदृशस्तत्राह सरसेत्यादि। सरसानां स्न्निग्धानां कदलीना श्रेण्या: पड्क्तेः या शोभा तया अतिशायी अतिशयितः। तथा कुञ्जानां लतागृहाणामुत्कर्षेण गुञ्जन्मधुकर- करम्बितकुसुमसमृद्धयादिरूपेण अड्कुरितः असन्नेवोत्पादितः रमणीनां विभ्रमः "चित्तवृ्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः "इत्युक्तलक्षणो हावभेदो यत्र तादृशः। किंच अपि च एतस्मिन् प्रदेशे ते मानिनी- मानभञ्जनेSतिनिपुणत्वेन प्रसिद्धाः सुरतस्य सुहृदः (सुरतसुहृत्त्त्वं रतिश्रमजन्यखेदहरणेन पुनः पुनः प्रवर्तनया बोध्यम्) वाताः वान्ति। तच्छब्दार्थमाह येषामिति। येषामिति येषां वातानामग्रे पुरःमनोभू: काम: कलितः धृतः अकाण्डे अनवसरे (निमित्ताभावेऽपि) कोपो येन तादृशः सन् सरति चलतीत्यर्थः। यत्त विभ्रमो विलास इति व्याख्यानं तदज्ञानविलसितम् । विभ्रमविलासयोर्भेदात्। "विलासोडड्गे विशेषो यः प्रियाप्तावासनादिषु" इत्युक्तलक्षणो विलासः। विभ्रमस्तूक्त एव (अत्ैव पृष्ठे)। एवमम- रोऽपि "स्त्रीणां विलासविब्बोकविभ्रमा ललितं तथा" इत्यादिना हावभेदेषु भेदेन तावुपनिबद्धवान्। मन्दाक्रान्ता छन्दः। "मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति तल्क्षणात् । अत्र तन्वत्यनेन कन्दर्पवेदनावत्वम्। श्रमापनायकसत्वादत्रैव रतौचित्यं च व्यज्यते। नर्मदेत्यनेन नर्म क्रीडां ददातीति नर्मदा न तु नदीमात्रमिति। उद्देश इत्यनेन दूरादेतैर्व्यञ्जनरुददिश्यते न स्वत्र गम्यते इति निर्जनत्वम्। ऊर्ध्वदेशत्वेनाधः संचरतां स्खलनभियानवलोकनीयत्वं च। सरसेत्यनेन शुष्कद- लराहित्यात्कटुशब्दराहित्यम्। श्रेणीत्यनेन वेष्टनम्। तथा च तत्पत्रावरणात् संचरतामनवलोकनीयता छाया च सूच्यते। श्रेणिशोभेत्यनेन स्थानान्तरादतिशयितशोभा । कुञ्जोक्कर्षाङकुरितेत्यादिना यासामपि न स्मरोद्रेदस्तासामप्यसौ वहतीति भवत्याः कामवैमुख्ये उरुतरं व्यसनं स्यादिति व्यज्यते। किंचेत्यनेन न केवलमेतावदेव वैमुर्ये बाघकम् अपि अन्यदप्यस्तीति सूचितम्। वान्तीति वाता इति व्युत्पन्नेन

Page 136

तृतीय उल्लास:। मत्र रतार्थ प्रविशेति व्यङ्ग्यम्। णोल्लेइ अणोल्लमणा अत्ता मं घरभरम्मि सअलम्मि। खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो॥ १८॥ अत्र संध्या संकेतकाल इति तटस्थं प्रति कयाचिद्दयोत्यते। सु्वइ समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण। एमे अ कित्ति चिद्वस ता सहि सज्जेसु करणिज्म् ॥ १९॥ वाता इत्यनेनैव गमनशालित्वे लब्धे पुनर्वान्तीत्यनेन मन्दत्वप्रत्यायनम्। नर्मदाकुञ्जोत्कर्षसंबन्धात् शैत्यसौगन्ध्ये उक्ते एव। येषामग्रे सरतीत्यादिना वायुसंबन्धतुल्यकालं कामिनीजनस्य कामपीडोदयेन कामस्याग्रेसरत्वमुत्प्रेक्षितम्। अनेनैवंविधसभेदे सुरतवैमुख्यादतिकुपितो मकरध्वजः किं वा विधास्य- तीति न ज्ञायते इति ध्वन्यते। मनोभूरित्यनेन सचेतसां दुष्परिहरत्वं व्यज्यते इति दिक्॥ अत्र नर्मदोद्देशरूपस्य तद्विशेषणीभूतवातकुञ्जादिरूपस्य च वाच्यस्य यथोक्तविशेषणस्ये वैशि. ष्टयात् सुरतार्थ प्रविशेति व्यज्यते इति प्रदीपः । सुरतार्थ प्रविशेति यन्नायिकायाः प्रेरणं तत्सामाजिकान् प्रति व्यज्यते इत्युद्द्योतः । तदेवाह अत्र रतार्थमित्यादि। उक्तं च महेश्वरेण "वाच्यवैलक्षण्यमत्रो- क्तोद्दीपकविशेषणैः" इति॥ अन्यसंनिधिवैशिष्टयाद्वाच्यस्य व्यञ्जकत्वमुदाहरति णोलेइ इति । गुरुजनसांनिध्येन विशिष्य वक्तुमशकनुवन्ती काचित् तटस्थतयेव संनिहितमुपनायकं प्रति संकेतकालसूचनाय प्रतिवेशिनी संबोध्य श्वश्रूपालम्भमाह। "नुदत्यनार्द्रमनाः श्वश्र्मा गृहभरे सकले। क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः" इति संस्कृतम्। 'अणण्णमणा' इति पाठे तु 'अनन्यमना' इति संस्कृतम्। अनार्द्रम् अकरुणं मनो यस्याः सा अनार्द्रमनाः। अनेन श्रमादिव्याजालम्बनेनापि नावकाश इति ध्वन्यते। श्वश्रूरित्यनेनानतिक्रमणीयाज्ञता। सकले समग्रे गृहभरे गृहकार्यनिर्वाहे। सकले इत्यनेन सार्वकालिकी व्यग्रता। मां नुदति प्रेरयति। यदि क्षणमात्रं विश्रामो विश्रान्तिः भवति तर्हि संध्यायां संध्याकाले तत्रैवावसरप्राप्तेरिति भावः। अथवा न भवत्येवेति योजना। गाथा छन्दः। लक्षणमुक्तं प्राक् (५पृष्ठे)॥ व्यङ्गयमाह अत्र संध्येति। तटस्थं संबोध्यादिभिन्नमुदासीनमुपनायकम्। द्योत्यते इति। सुरत- संकेतामिलाषिणस्तटस्थस्यान्यस्य संनिधेवैशिष्टयात् संनिहितं प्रति यत् संकेतसमयबोधनं तत् सामा- जिकेषु व्यज्यते इत्यर्थ: ॥ प्रकरणरूपप्रस्ताववैशिष््याद्वाच्यस्य व्यञ्जकत्वमुदाहरति सुच्इ इति। उपपति प्रत्यभिसर्तु प्रस्थिता मायिका प्रति तत्पत्यागमनवार्ता श्रुतवत्यास्तत्सख्या जनान्तरसंनिधानेSभिसारनिवारणोक्तिरियम्। "श्रूयते समागमिष्यति तव प्रियोऽद प्रहरमात्रेण। एवमेव किमिति तिष्ठसि तत् सखि सज्य करणी- यम्" इति संस्कृतम् । अदयैव प्रहरमात्रेण। तव प्रियः समागमिष्यति इति श्रयते। तत् तस्मात्कारणात् हे साख एवमेव तदीयभोजनाद्युपयोगिव्यापारराहित्येनैव किमिति किमर्थ तिष्ठसि। करणीयं रन्धना- १ एवंविधाना संभेदे मिलने इत्यथ: ॥२ यथोक्तविशेषणस्येति बहुव्रीहिः। उद्देशविशेषणानि सरसेत्यादीनि। वातविशेषणं सुरतसुह्ृत्त्वम् कुञ्जविशेषणं गुञ्जन्मधुकरकरम्बितकुसुमसमृद्धयादिरूप उत्कर्ष इति बोध्यम्॥ वैशि- ष्टयात् तद्विषयकज्ञानादित्यर्थः ॥

Page 137

काव्यप्रकाश: संटीकः। अत्रोपपति प्रत्यभिसर्तु प्रस्तुता न युक्तमिति कयाचिन्निवार्यते। अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्य:। नाहं हि दूरं भ्रमितुं समर्था प्रसदितायं रचितोऽञ्जलिर्वः ॥ २०॥ अत्र विविक्तोडयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति आश्वस्तां प्रति कयाचिन्निवेद्यते। दिकं सज्जय साधयेत्यन्वयः । अत्राद्यैवेत्यनेन न तु कालान्तरे इति व्यज्यते। तत्रापि प्रहरमात्रेण न तु त्रिलम्बेनेति। समागमिष्यतीत्यनेन सम्यक्पूर्णकामो बहुतरलब्धधन आगमिष्यतीत्यर्थकेनागमनोत्तरं झटिति पुनरागमनम् । श्रूयते इति वर्तमाननिर्देशेन न तु यदा कदाचित् श्रुतमिति। गाथा छन्दः । लक्षणमुक्त प्राक् (५) पृष्ठे । व्यङ्गयमाह अत्रेत्यादिना। उपपर्ति जारम्। अत्रोपपति प्रत्यभिसरणप्रस्ताववैशिष्टयम्। निवार्यते इति। विदितरहस्या सखी अभिसरणोपयोगिवेषविन्यासादिप्रकरणे पत्यागमनकथनेनाभिसरणनिषेधं करोतीति सामाजिकानां प्रकरणं जानतां व्यङ्गयमित्यर्थः ॥ देशवैशिष्ट्याद्वाच्यस्य व्यञ्ञकत्वमुदाहरति अन्यत्रेति । सखीवेषधारिणा स्वोपनायकेन सहागतां प्रियसखीं दृष्टा सखीः प्रति नायिकाया उक्तिरियम्। (यत्तु "पुष्पावचायं नाटयन्ती सखीं प्रति मालती कथयतीत्यत्रत्यव्याख्यानम् । प्रच्छन्नकामुको माधवः आश्वस्तां विश्वासवतीं कामन्दकीं प्रति मालत्या व्यज्यते " इत्यग्रिमव्याख्यानं च सरस्वतीतीर्थकृतं तत्तु चिन्त्यमेव। मालतीमाधवप्रकरणेडस्य पद्यस्यानु- पलम्भात्)। भोः सख्यः अपरिहार्यप्रणयाः यूय कुसुमानां पुष्पाणामवचाय हस्तेनादानं ("हस्तादाने चेरस्तेये" (३।३।४०) इति पाणिनिसूत्रेण घञ्प्रत्ययः) अन्यत्र इतो दूरे कुरुध्वम्। अत्र अस्मिन् प्रदेशे। अस्मि (अस्मीत्यहमर्थकं विभक्तिप्रतिरूपकमव्ययम्।'अस्तिक्षीरा गौः' इतिवत्) अहं करोमीत्यर्थः। कुसुमावचायमिति संबध्यते । अस्माभिः सहैवागच्छेति नियोगवारणार्थमगमने हेतुमाह नाहमिति। हि यस्मात् अहं दूरं भ्रमितुं संचरितु न समर्था न शक्ता । अयम् अञ्जलिः प्रणामाञ्जलिर्वः युष्मम्यं रचितः कृतः। प्रसीदत प्रसन्नाः भवतेत्यर्थः । अत्र कुसुमावचायमित्यनेन यावद्वस्तप्राप्यकुसुमलाभस्ता- वत् दूरं गच्छतेति सर्वथा निकटेSसंचरणं तासां ध्वन्यते। यूयमिति बहुत्वादन्यत्र गमनेऽपि ससहायतया भयाद्यभावः । अत एवाहमित्येकवचनम् । अत्रेत्यनेन श्रूयमाणमानवशब्दे कुञ्जादिमति चेत्यर्थकेन भयाद्यभावो विजनता च। अञ्जलिर्व इत्यनेन सर्वाभ्य एकोऽञ्जलिरित्यर्थकेनासामर्थ्यमेव व्यज्यते। उपजातिश्छन्दः। "अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः" इति लक्षणात्। अनन्त- रोदीरितयो: इन्द्रवज्रोपेन्द्रवज्रयो: लक्ष्मणी ॥ 1173 अत्र व्यङ्गयमाह अत्र विविक्तेत्यादिना। सखयोन्यत्र सन्ति तेन विविक्तो विजनोडयं देशस्तस्मात् प्रच्छनः सख्यादिवेषधारी कामुक उपपतिः त्वयाभिसार्यतां प्रेर्यतामिति आश्वस्तां विश्वासवती प्रिय- सखीं प्रति देशवैशिष्टयाद्वयज्यते इत्यर्थः । अत्र वाच्योऽर्थः सामान्यसखीविषयः । व्यङ्गयस्तु प्रिय- सखीविषय इति बोध्यम्। अत्र कुसुमावचायमुद्दिश्यान्यदेशाधिकरणकत्वस्य विधेयत्वेन प्राधान्याद्देश- वैलक्षण्यादेव व्यञ्जकत्वम्। 'उद्देशोऽयम्' इत्युदाहरणे तु देशस्य विशेषणत्वेनाप्राधान्यात्प्रधानी- भूतवाच्यस्यैव वैलक्षण्याद्यञ्जकत्वमिति भेद: ॥

Page 138

तृतीय उल्लास:। ७९

गुरुअणपरवस पिअ किं भणामि तुइ मंदभाइणी अहकम्। ज माय अज्ज पवासं वच्चा वच्च सअं जेव्व सुणसि करणिज्जम् ॥ २१ ॥ अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न भवामि तव तु न जानामि गति- मिति व्यज्यते। आदिग्रहणाच्चेष्टादेः। तत्र चेष्टाया यथा द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसाराश्रया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्। आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते ॥ २२ ॥

कालवैशिष्टयाद्वाच्यस्य व्यञ्चकत्वमुदाहरति गुरुअणेति। प्रवासं गन्तुमिच्छन्तं नायकं प्रति नायि- काया उक्तिरियम्। "गुरुजनपरवश प्रिय कि भणामि तव मन्दभागिनी अहम् । अद प्रवासं व्रजसि व्रज़ खयमेव श्रोष्यसि करणीयम्" इति संस्कृतम्। तुहेति द्वितीयान्तं संबन्धसामान्यषष्ठयन्तं वा। हे गुरुजनपरवश गुरुजनो मान्यजन एव गुरुर्जड: जनः अविदग्धः वसन्ते प्रवासप्रेरणात् स एव परः शत्रुस्तद्वश तदायत्त। तेनानिवार्यत्वं व्यज्यते। हे प्रियेत्यनेन गमने दुःखौत्कट्यम्। तव किं भणामि किं वदामि। परायत्ते निरर्थकत्वादिति भावः । अत एवाहं मन्दभागिनी अल्पभाग्या उपायाभावादिति भावः । किं मया क्रियते तत्नाह अद्येत्यादि । अद्य वसन्ते यत्र प्रवासिनोऽपि गृहमायान्ति । प्रवास परदेशं व्रजसि गच्छसि व्रज। व्रजेति सदैन्यरोषोक्तिः । स्वयमेव करणीय श्रोष्यसि। करणीयमित्यस्य मयेत्यादिः । मया करणीयं कर्तुमरह (मरग) त्वमेवं श्रोष्यसीत्यर्थः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ( ४ पृष्ठे) ।। व्यङ्गयमाह अत्राद्येत्यादिना। न भवामीति। अहं (त्वदेकशरणत्वात्) न जीवामीत्यर्थः। व्यज्यते इति। अद्यपदोक्तवसन्तकालवैशिष्टयात्प्रियं प्रत्यनुरक्तया तया बोध्यते इति सहृदयेषु व्यज्यते इत्यर्थः ॥ सूत्रस्थमादिपदं व्याचष्टे आदिग्रहणादिति । चेष्टादेरिति । ग्रहणमिति शेषः । आदिपदेन लीलादिपरिग्रहः। चेष्टावैशिष्ट्याद्वाच्यस्य व्यञ्जकत्वमुदाहरति द्वारोपान्तेति। स्वगोचर चेष्टाविशेषेण नायिकायाः स्वविषयकभावमवधारितवतो नायकस्य सखायं प्रत्युक्तिरियम्। मयि द्वारोपान्तस्य द्वारसमीपदेशस्य निरन्तरे संनिहिते सति सौन्दर्येण सारा श्रेष्ठा। यद्वा। सौन्दर्यसारात् प्रधान- सौन्दर्यात् श्रीः शोभा यस्यास्तादृश्या तया कमनीयतरकान्तया ऊरुयुगं सक्थियुग्मं प्रोल्लास्य प्रसार्य परस्परसमासक्तम् अन्योन्यसंलग्नं समासादितं कृतम्। यद्वा। भावे क्तः। संबन्धं प्रापितमित्यर्थः। आसा- दयतेः प्राप्त्यर्थकतया तदुत्तरणजन्तरोपगमेन प्रापणार्थलाभः । स्वयमेव विपरीतसुरतप्रदानमस्य व्यङ्गयम्। तदेव स्पृष्टकपदेनोच्यते इत्युद्दयोतकाराः । यत् दूरस्थस्यैव प्रियस्य दूरात्स्वाङ्गैः स्वाङ्गान्येव मेलयत्वा स्पृष्टकं नामालिङ्गनं क्रियते तदनेन सूचितमिति केचित्। स्पृष्टकालिङ्गनखवरूपं तु असमाग- तयोः प्रीतिलिङ्गद्योतनार्थमालिङ्गनचतुष्टयम्। स्पृष्टकं विद्धकमुद्ष्टकं पीडितकमित्युपक्रम्य "समुखागता- यां प्रयोज्यायामन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं स्पृष्टकम् " इति वात्स्यायनसूत्रे दार्शितमिति

१ सुगसीति प्रारुतस्य श्रोष्यसीति परिहृत्य जानासीति संस्कृतं लिखिनं श्रीवत्सलाञ्छनप्रभृतिभिर्बहमिः। तत्र बजिं न विद्यः॥

Page 139

८० काव्यप्रकाशः सटीक:। अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते। निराकाङ्कप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाहियते। वक्त्रादीनां मिथःसंयोगे द्विकादिभेदेन। अनेन क्र्मेण लक्ष्यव्यङ्गययोश् व्यञ्जकत्वमुदाहार्यम्॥ चन्द्रिकाकाराः । तथा शिरोंऽशुकं शिरःसंबन्धि वस्त्रं पुरतोऽग्रत आनीतम्। अनेन गूढमागच्छेति व्यञ्जितम्। तदनन्तरम् चले चञ्चले लोचने चक्षुषी अधः क्षिप्ते संचारिते। अनेन सूर्यास्तमयः संकेतकाल इति ध्वनितम् । तत्र तस्मिन् काले वाचः वचनस्य प्रसरणं तारत्वं सखीषु प्रवर्तनं वा निवारितं मुखमुद्रणेनेत्यर्थः। अनेन कोलाहलरहिते काले कोलाहलरहितं यथा स्यात्तथा आगन्तव्यमिति द्योतितम्। ततः दोर्लते भुजलते संकोचिते संकुच्य मिथः संयोजिते। अनेनागमनपारितोषिकमा- लिङ्गनं करोमीति ध्वनितम्। शार्डूवलविक्रांडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) ।। व्यङ्गयमाह अत्रेत्यादिना। प्रच्छन्नेति। भावपरीक्षार्थ द्वारि वेषान्तरेण स्थितेत्यर्थः । आकृतवि शेष: अयं मदनुरागं प्रत्येत्वित्यभिप्रायात्मकः संभोगसंचारिलज्जालक्षणो वा इत्युद्दयोतकाराः। आकूत- विशेष: स्वाभिप्रायविशेषः स चात्र आलिङ्गनादिविषयक एवेति विवरणकारादयः । ध्वन्यत इति। ननु 'अइ पिहुलम्' इत्यत्र पृथुलरूपवाच्यवक्तृबोद्धव्यानां 'गुरुअणपरास' इत्यत्र अद्येतिकाकु- वक्तृबोद्धव्यकालगुर्वित्यलङ्खनीयाज्ञत्वरूपवाच्यानां संकरेण वैशिष्टये द्वित्रोदाहरणेनैव निर्वाहो भवति किमेतावद्धिरित्यत आह निराकाङ्केत्यादि। प्रत्येक किमुदाहरणमिति शिष्यजिज्ञासानिवृत्तये इत्यर्थः । सा च जिज्ञासा तत्तदुदाहरणे तत्तत्प्राधान्यान्निवर्तते इति भावः । अत एवाहुः प्राञ्चः। निराकाद्घत्व- प्रतिपत्तये मिलितेषु कस्य व्यञ्जकत्वमिति संदेहे यत्र यस्य प्राधान्यं तत्र तस्य व्यञ्जकत्वमन्येषा- मानुगुण्यमात्रमिति व्युत्पत्तये इति । अनवसरे संकोचोऽपि युज्यते सोऽपि नास्तीत्याह प्राप्ताव- सरतयेति । एवं च वाच्यस्य वक्त्राद्येकैकवैशिष्टयेन व्यञ्ञकत्वमुदाहृतम् । वाच्यस्य वक्तृबोद्ध- व्याद्युभयादिवैशिष्टयेनापि व्यञ्जकत्वम्। लक्ष्यव्यङ्गययोरेकादिवैशिष्टयेन व्यञ्जकत्वं चोदाहार्य- मित्याह वक्त्रादीनामित्यादिना। वक्त्रादीना वक्तृवोद्धव्यादीनाम्। मिथःसंयोगे परस्परसंबन्धे सति। द्विकादिभेदेनेति। दवौ परिमाणमस्येति द्विकम्। द्विकत्रिकादिमेदेनेत्यर्थः । अस्य व्यञ्ज- कत्वमित्यनेनान्वयः । वक्तृबोद्धव्यादीनां मिथो द्वयोः संयोगे द्विकवैशिष्ट्यम्। त्रयाणां संयोगे त्रिक- वैशिष्टयमिति ज्ञेयम्। अनेनेति । यथा वक्तृवैशिष्टयादिना वाच्यार्थस्य व्यञ्जकत्वमुदाहृतं तथेत्यर्थः । उदाहार्यमिति। उदाहरणान्तरमन्विष्य ज्ञेयमित्यर्थः ॥ द्विकादिभेदेषु वक्तृबोद्धव्यरूपद्विकवैशिष्ट्याद्वाच्यस्य व्यञ्जकत्वं यथा "अत्ता एत्थ णिमज्जइ एत्थ अहं दिअहए पलोएहि। मा पहिअ रत्तिअंधअ सेज्जाए मह णिमज्जहिसि ॥ इति। वसति प्रार्थयमानं संजातकामं पथिकं प्रति प्रोषितभर्तृकाया व्यभिचारिण्याः स्वयंदूत्या उक्तिरियम्। हालकविकृतायां गाथासप्तशत्यां सप्तमशतके ६७ पद्यमिदम् । "श्वश्ूरत्र निमज्जति अत्राहं दिवसके १ इदं पद्यं "द्विकादिमेदे वक्तृबोद्व्पगेदे यथा" इत्यवनरणसहितं केषुचित्पुस्तकेषु "लक्ष्यव्यङ्गययोश्र व्यञ्जकत्वमुदाहार्यम्" इति ग्रन्थानन्तरं मूले एव दृश्यते॥

Page 140

तृतीय उल्लास:। ८१

(सू० ३८) शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः। अर्थस्य व्यञ्ञकत्वे तत् शब्दस्य सहकारिता ॥ २३॥ शब्देति। नहि प्रमाणान्तरवेद्योरऽर्थो व्यञ्जकः ॥ इति श्रीकाव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः॥ ३॥मिगिए

प्रलोकय। मा पथिक रात्रयन्ध [क ] शय्यायामावयोर्निमङ्मयसि" इति संस्कृतम्। 'एत्थ अंहं एत्थ परिअणो सअलो ' इति द्वितीयचरणपाठे 'अत्राहमत्र परिजनः सकलः ' इति संस्कृतम्। अत्र बहवः पाठभेदाः सन्ति।ते च प्रकृताजुपयुक्तत्वान्न प्रदर्शिताः। निमज्जति जरत्तरत्वेन निष्पन्दा शेते। तेन शङ्काराहित्यं व्यज्यते। अत्र ततो भिन्नस्थले अहं अहमेव। अत्र स्वापबोधकपदानुक्त्या मन्मथपडिया स्वस्याः निद्राराहित्यम्। कुत्सितो दिवसो दिवसकस्तस्मिन् दिवसके (अत्र कुत्सायां कन्प्रत्ययः । कुत्सा चावयोः श्रेयःप्रतिकूत्वात्-)। प्रलोकय सम्यगवलोकय। हे पथिक हे रात्र्यन्धेति च रहस्यगोपनाय। पाथकत्वेन श्रमाद्विस्मरणयोग्यता। रात्र्यन्धतवेन शय्यायां पतनप्रसक्तिद्योतना । अन्यथा 'आवयोः शय्यायां मा निमङ्यसि' इति अप्रसक्तनिषेधे रहस्यभङ्गापत्तेः । अत एव निमङ्ङयसीत्युक्तिः। 'मह' इत्यावयोरित्यर्थे निपातः न तु ममेत्यर्थे। अन्यथा स्वमात्रोद्टङ्कने रहस्यप्रकाशापत्तेः। गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे)। अत्र गृहे श्वश्ररहं च श्वश्रूश्च जरत्तरत्वेन बधिरा निष्पन्दा च जना- न्तरसंचारस्तु नास्त्येव अतो यथेष्टं मम शय्यायामेव स्वपिहीति व्यङ्गयं व्यभिचारिणोर्वक्तृबोद्धव्ययो- वैंशिष्टयात् प्रतिभाजुषां प्रतीयते। एवं त्रिकादिभेदाः स्वयमवगन्तव्याः ॥ ननु "अर्थव्यञ्जकतोच्यते " इति सूत्रेणार्थमात्रस्य व्यञ्जकत्वे शब्दार्थोभयरूपस्य काव्यस्य व्यञ्जकत्वाभावात्क्थं ध्वनित्वमित्याशङ्कय शब्दस्यापि सहकारितया व्यञ्जकत्वं दर्शयति शब्दप्रमा- णेति। यतः यस्मात्कारणात् शब्दरूपप्रमाणेन वेद्यः प्रतिपादितोऽर्ः वाच्यलक्ष्यव्यङ्गयरूपः अर्थान्तरं व्यङ्गयलक्षणं व्यनक्ति प्रकाशयति तत् तस्मात्कारणात् अर्थस्य व्यञ्जकत्वे (अर्थशक्तिमूले ध्वनौ) शब्दस्य सहकारिता विशेषणीभाव इति सूत्रार्थः ॥ अर्थस्य प्राधान्येन व्यञ्जकत्वेSपि व्यञ्जकोरडर्थः स्वयं शब्दप्रमाणवेद् एव न तु प्रमाणान्तरगम्य इत्याह शब्देत्यादि। प्रत्यक्षदृष्टे कामिमिथुने तच्चेष्टयानुमितरत्यादौ चास्वादानुदयेन शब्दान्वयव्य- तिरेकानुविधायित्वाच्छब्दोऽपि व्यञ्जकत्वे निमित्तम् । किंतु पर्यायान्तरेणापि तदुपस्थितौ व्यङ्गयप्रतीतेः शब्दस्याप्रधानतार्थस्य च प्राधान्यमिति तन्मुखेन व्यपदेशः। "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायादिति भावः । एतेनार्थसहकारेणापि मनसो व्यङ्गयप्रमापकत्वे तस्यापि प्रमाणान्तरत्वं स्यादित्यपा- स्तम्। तथा च अर्थो व्यञ्जने शब्दसाहाय्यमपेक्षते एवं शब्दोऽप्यर्थमपेक्षते इति शब्दार्थयुगलरूप- काव्यस्य व्यञ्जकत्वं निर्बाधमिति भाव इत्युद्दयोतसुधासागरयोः स्पष्टम् ॥ इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटकियां बालबोधिन्यां अर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ॥ ३॥

१ अन्वयव्यतिरेकौ ६३ पृष्ठे टिप्पणे व्याख्यातौ॥। काव्यप्रकाश ११

Page 141

।। अथ चतुर्थ उल्लासः॥

यद्यपि शब्दार्थयोनिर्णये कृते दोषगुणालंकाराणां स्वरूपमभिधानीयम् तथापि धरमिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह। (सू० ३९) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ। अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम्॥ २४॥ लक्षणामूलगूढव्यङ्गयप्राधान्ये सत्येव अविवक्षितं वाच्यं यत्र स ' ध्वनौ' इत्यनुवादात् ध्वनिरिति ज्ञेयः । तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्। यथा । यद्यपि शब्दार्थयोर्निरूपणे कृते अदोषत्वादिधर्मातिरिक्ते आकाङ्कैत नोदेति तथापि सामस्त्येन- काव्यरूपधर्मिप्रदर्शनं विना आकाङ्व न भवतीति शङ्कोत्तराभ्यामाह यद्यपीति । धर्मिणि काव्ये। प्रंदार्शते प्रकर्षेण सावान्तरभेदं निर्दिष्टे। धर्माणां दोषगुणालंकाराणाम्। यद्यपि दोषस्य न काव्यधर्मत्वं किं तु तदभावस्य तथापि परंपरासबन्धेनोपचारेण चैतदुक्तमित्याहुः। वस्तुतः 'निर्णये कृते दोष०' इत्यत्र नञ्प्रश्लेषः। तेनादोषगुणालंकाराणामित्यस्य दोषाभावगुणालंकाराणामित्यर्थे सति न कोंऽपि दोष इति नरसिंहमनीषायों स्पष्टम्। हेयोपादेयता दोषाणां हेयता गुणालंकाराणां चोपादेयता। ज्ञायतः इति। केषांचिद्धर्माणां विशेषनिष्ठत्वादिति शेषः। तथाहि। शृङ्गारध्वनौ श्रुतिकटुःवं दोषः । माधुर्य गुण :- । न तु सौद्रध्वनी। चित्रभेदे तु यमकादिरलंकारः। न तु रसध्वन्यादौ। ग्रथमं दोषादिनिरूपणा- त्पूर्वम्। काव्यभेदान् उक्तध्वन्यादिरूपकाव्यत्रयभेदान्।। ध्वनिरूप काव्यं द्विविधं लक्षणामूलकमभिधामूलकं च। तत्राद्यम् अविवक्षितवाच्यम् अन्त्यं विव क्षितान्यपरवाच्यमित्युच्यते। तत्र प्रागुक्तत्वादल्पविषयत्वाच्च प्रथम लक्षणामूलकं लक्षयित्वा विभजते अविवक्षितेति। अविवक्षितम् अनुपयुक्तम् अन्वयायोग्यं वा वाच्यं वाच्योऽर्थो यत्र ताद्ृशो यो ध्वनिः तत तस्मिन् ध्वनौ (उत्तमे काव्ये) वाच्यं वाच्योडर्यः अर्थान्तरे वाच्यलक्ष्यसाधारणेडर्थे संक्रमितं परिणमितम् अत्यन्तं तिरस्कृतम् व्यक्तं वा भवेदिति कारिकार्थः ॥ अविवक्षितवाच्य इति पदस्योपविवरणमाह लक्षणामूलेति। लक्षणामूलं यत् गूढव्यङ्गयं तस्य प्राधान्ये इत्यर्थः। लक्षणामूलेत्यनेन लक्षणान्वयव्यतिरेकानुविधायीत्यर्थकेन निरूढलक्षणावत्पदघटितकाव्यीयध्व. नेरस्फुटसंदिग्ध प्राधान्यतुल्यप्राधान्यासुन्दराणां गुणाभूतव्यङ्गयानां च निरासः। तेषु व्यङ्गयोददेशेन लक्ष- णाया अप्रवृत्तेः। काकाक्षिप्ेऽपि न लक्षणा अनुपपत्यभावात्। गूढत्वेनागूढव्युदासः। प्राधान्ये इत्यनेना- पराङ्गवाच्यसिद्धयङ्गयोर्व्युदास इत्युद्द्योते स्पष्टम्। ध्वनावित्यनुवादात् इति। 'यः' इति यच्छब्दसा- काङ्कस्य 'तत्र' इति तच्छब्दस्य विशेषणतया कथनादित्यर्थः। तत्र अविवक्षितवाच्ये ्वनौ। अनुपयुज्य- मानत्वात् यद्रूपेण वाच्यं तद्रूपेण प्रकृतान्वयेऽनभिप्रेतत्वात्। अर्थान्तर अन्यप्रकारेण वाच्यलक्ष्यसा- धारणेडर्यें परिणमितमिति। परिणमितमिवेत्यर्थः । तादृशार्थस्य लक्षकमिति यावत्। यत्र वाच्योऽपि प्रकारान्तरेण लक्ष्य इति तु समुदितार्थः । यथा 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ वाच्योऽपि काकः दध्यु वघातकरूपेण लक्ष्यः । अयं च उपादानलक्षणास्थले एव संभवतीति विवरणे स्पष्टम् ।।

Page 142

चतुर्थ उल्लासः ।

त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति। आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् । २३ ॥ (१४ ०ु) अत्र वचनादि उपदेशादिरूपतया परिणमति। क्वचिदनुपपद्यमानतया अत्यन्त तिरस्कृतम्। यथा उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्। विदधदीद्टशमेव सदा सखे सुखितमास्ख ततः शरदां शतम् ॥२४॥) एतद् अपकारिणं प्रति विपरीतलक्षणया काश्वेद्वक्ति। (सू० ४०) विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । अर्थान्तरसंक्रमितवाच्यं ध्वनिमुदाहरति त्वामस्मीति। विद्वत्सभां गच्छन्तं प्रति कस्यचिदाप्तस्यों- क्तिरियम्। अस्मीत्यहमर्थे अव्ययम्। यत् इत्यध्याहार्यम्। यतोऽत्र विदुषाम् असाधारणेज्ञानवतां समवाय एकवाक्यतापन्नः समुदायस्तिष्ठति तत् तस्मात् आत्मीयां स्वकीयां मतिम् आस्थाय अवलम्ब्य अत्र स्थितिं सावधानस्थितिं विधेहि कुरु इति त्वामुपदेशार्हमहमाप्तः वच्मि उपदिशामीत्यर्थः ॥ अत्र लक्ष्यं दर्शयति अत्रेत्यादिना। संबोध्यमुद्दिश्य वक्तव्यविषयकथनेनैव सिद्धे पुनः 'त्वामस्मि वच्मि' इति कथनमनुपयुक्तमिति त्वाम् उपदेश्यं त्वाम् अस्मि आप्तोऽहम् वच्मि उपदिशामि इति लक्ष्यम्। तेन च हितसाधनत्वं व्यङ्गयम्। एवं विद्वत्प्रत्यक्षेऽपि 'विदुषाम्' इति आत्ममतेः सार्वकालिकत्वेऽपि 'आत्मीयाम्' इति च यथाक्रमं सर्वशास्त्रविशारदरूपेण प्रमाणपेरतन्त्रपंरतया च परिणतम्। तेन च अन्यथाचरणे उपहसनीयत्वं व्यङ्गयमिति भाव इति विवरणे स्पष्टम्॥ कि - 'अत्यन्तं वा तिरस्कृतम्' इति लक्षणं व्याचष्टे क्वचिदिति। तिरस्कृतमिति। पूर्वोक्तरीत्याषि प्रकृतान्वयानुपयोगितया इतरार्थमात्रलक्षकमित्यर्थः । वाध्यमिति शेषः । यथा गङ्गार्थः तीरे।अयं च उपादानलक्षणातिरिक्तलक्षणास्थले एव संभवति ॥ अत्यन्ततिरस्कृतवाच्यं ध्वनिमुदाहरति उपकृतमिति । बहुभिरपकारैस्तप्यमानस्य कस्यचिदुक्ति- रियमिति शब्दव्यापारविचारनाम्नि ग्रन्थे मम्मटः। तवया यत् बहु उपकृतं तत्र विषये किमुच्यते किं वाष्यम् बहुत्वाद्वक्तुं न शक्यते इत्यर्थः। 'उपकृतं बहु नाम' इति कचित्पाठः। भवता परं केवलं सुजनता प्रथिता प्रकटिता। तथा च सौजन्यप्रयुक्त एवैतावानुपकारो नतु प्रत्युपकारलोभप्रयुक्त इति भावः1 हे सखेःततः यस्मात्सुजनता प्रथिता तस्मात् ईद्टशमेव सदा विदधत् कुर्वन् शरदां वर्षाणां शतं व्याप्य सुखितं सुख- युक्तं यथा स्यात्तथा आस्स तिष्ठेति मुख्योऽर्थः । स च प्रकरणादिना बुद्धापकारिभावं प्रति बाघितः सन् विपरीतं लक्षयति। तदथा। उपकृतम् अपकृतम् सुजनता दुर्जनता सखे शत्रो सुखितं दुःखितमिति। उक्तं च शब्दव्यापारविचाराभिधे ग्रन्थे मम्मटेनैव "अतो वक्तृमहिम्रा 'मूर्खे बृहस्पतिशब्देन मूर्खत्वमिव' अपकारिदुर्जनत्वादि अत्र लक्ष्यते" इति। अपकाराद्यतिशयो व्यङ्गयः । द्रुतविलम्बितं वृत्तम् । "द्रुतविलम्बितमाह नभौ भरौ" इति लक्षणात् ।। अभिधामूलकं ध्वनिं लक्षयति विवक्षित चेति। यत्र, यस्मिन् ध्वनौ वाच्यं वाच्योऽर्थः विवक्षितं वाच्यतावच्छेदकरूपेणान्वयबोधविषयः अन्यपरं व्यङ्गयोपसर्जनीभूतं च सः अपरः विवक्षितान्यपरवा-

Page 143

८४ काव्यप्रकाशः सटीक: । अन्यपरं व्यङ्गचनिष्ठम् ॥ एष च फोशल (सू० ४१) कोऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः पर: ॥२५॥ अलक्ष्येति । न खलु विभावानुभावव्यभिचारिण एव रसः । अपि तु रसस्तैः इत्यस्ति क्रमः । स तु लाघवान्न लक्ष्यते ॥ तत्र (सू० ४२) रसभावतदाभासभावशान्त्यादिरक्र म ः । भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥ २६ ॥ ध्यध्वनिरित्युच्यते इत्यर्थः। एष चाभिधामूलगूढव्यङ्गयप्राधान्ये सति भवति। अत्रान्यपरमित्यनेनार्थचित्रे गुणीभूतव्यङ्गये चातिव्याप्तिर्वारिता। व्यङ्ग्यनिष्ठमिति। व्यङ्गयापेक्षकत्वे व्यङ्गये विश्रान्तमित्यर्थः ॥ विवक्षितान्यपरवाच्यध्वनिं बिभजते एष चेति। विवक्षितान्यपरवाच्यध्वनिश्वेत्यर्थः। कोऽपि अनि- र्वचनीयचमत्कारकारी एक: अलक्ष्यक्रमव्यङ्गयः अलक्ष्यः अज्ञेयः क्रमः पौर्वापर्यम् (अर्थाद्व्यञ्जकेन वाच्येन विभावानुभावाद्यर्थेन सह) यस्यैवंभूतं व्यङ्गयं यस्मिन् तादृशः। वाच्यव्यङ्गययोः क्रमोSसंलक्ष्यो यत्र तादृश इति यावत्। अपरस्तु लक्ष्यव्यङ्गयक्रमः लक्ष्यक्रमव्यङ्गय इत्यर्थः। अत्र सूचीकटाहन्यायमा- श्रित्यालक्ष्यक्रमव्यङ्गयस्य पूर्वमुद्देशः । तस्यैकत्वात्। लक्ष्यक्रमव्यङ्गयस्य तु पञ्चदशभेदत्वात्। तथाहि। लक्ष्यक्रमव्यङ्गयः प्रथमतः शब्दार्थोभयशक्तिमूलत्कत्वेन त्रिविधः। तत्र शब्दशक्तिमूलकस्य द्वौ भेदौ वस्तु अलंकृतिरिति। अर्थशक्तिमूलकस्य द्वादश भेदा: वक्ष्यन्ते। उभयशक्तिमूलक एक इति पञ्चदशेति बोध्यम्। पदैकदेशादिकृतभेदास्तु सर्वेषां सनाना इति न गण्यन्ते इति प्रदीपोद्दयोतयोः स्पष्टम्। सुधासागरकारास्तु "सूचीकटाहन्यायमाश्रित्येत्यादि प्रदीपे उक्तम्। तन्न रमणयिम्। उभयोस्तुल्यक- क्षत्वे खल्वयं न्यायः प्रवर्तते। अत्र तु भावाभावयोः पौर्वापर्यनियमालक्ष्यकरमस्यैत प्राङ्किरूपणं प्राम्नोतीति। वयं तु प्रतीमः । सर्वमेव व्यङ्गयं यद्यपि सुखदं तथापि रसस्य निरतिशयानन्दत्वेन प्राधान्यमावि- ष्कर्तुमलक्ष्यक्रमस्य प्रागुपादानमिति " इत्याह्ुः ॥ नन्वक्रम इत्येवोच्यतां नत्वलक्ष्यक्रम इति शङ्कां निराकुर्वन् वृत्तिकृदलक्ष्येति प्रतीकमादायाह न खल्वित्यादि। तथा सति श्रोत्रियादीिामपि काव्यादिजन्यविभावादिप्रतीतिसत्वेन रसिकत्वापत्तिरिति भावः । अपि तु किंतु। रसस्तैरिति। अभिव्यज्यते इति शेषः। तथा च तैरित्पनेन हेतुत्वकथनात् व्यङ्गयव्यञ्जकयोः रसविभावाद्योः पौर्वापर्यक्रमोडस्ति। स तु न लक्ष्यते। रसोद्वोधेन झटिति चित्तापकर्ष- पेन सूक्ष्मकालघटितस्य तस्य शतपत्रपत्रशतभेदनन्यायेनानाकलनादित्यलक्ष्यक्रम इत्युक्तं न त्वक्रम इति। रसोद्वोध एव चित्तापकर्षको न वस्त्वलंकारयोरित्यत्र सहृदयहृदयमेव साक्षीति वस्त्वलंकारध्वनि- विषये लक्ष्यत्वं क्रमस्य बोध्यम्। तत्र च वाच्यार्थबोधव्यङ्गयार्थबोधयोः क्रमः स्फुट एवेति दिक्। न लक्ष्यते न ज्ञायते ।। तत्र अलक्ष्यक्रमव्यङ्गयलक्ष्यक्रमव्यङ्गययोर्मध्ये। अलक्ष्यक्रमं विभजते रसेति। रसाः शृङ्गारादयः । भावा: "रतिर्देवादिविषया" इति ४८ सूत्रेण वक्ष्यमाणा रत्यादयः । तदाभासाः "तदाभासाः" इति ४९ सूत्रेण वक्ष्यमाणा: रसाभासा; भावाभासाश्च। भावस्य व्यभिचारिभावस्य शान्तिश्वादिः प्रभृतिर्यस्य

Page 144

चतुर्थ उल्लास:। आदिग्रहणाद्भ्ावोदयभावसंधिभावशवलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रा- लंकार्य: यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्य- ङये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलंकाराः । ते च गुणीभूतव्यङ्गयाभिधाने उदाहरिष्यन्ते।। तत्र रसस्वरूपमाह (सू० ४३) कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥२७॥ (समुदायस्य ) सः अक्रमः ( मध्यमपदलोपिसमासेन ) अलक्ष्यक्रम इत्यर्थः । स च रसादलंकारात् रसवदाद्यलंकारात भिन्नः । भिन्नत्वे हेतुमाह अलंकार्यतयेति। प्रधानतयेत्यर्थः । स्थित इति । यत्र स्थितः स इति शेषः। एवं च ईदृशो रसादिर्यत्र ध्वनौ स्थितः सोऽलक्ष्यक्रमव्यङ्गयो ध्वनिरिति भावः । ' अयं स रसनोत्कर्षी' इत्यादौ (११६ उदाहरणे ) गुणीभूतव्यङ्गयेऽतिप्रसङ्गवारणाय भिन्न इत्या- द्युक्तम्। अत्र रसभावतदाभासशान्त्यादिरिति वक्तव्ये भावग्रहणं रसशान्त्यादिप्रतिषेधार्थ व्यभिचारिपरं च। तथाहि। रसस्य विभावादिजीवितावधित्वेन तदपगम एव शान्तिर्वक्तव्या। न च तदनुपकृतो व्यञ्ज· नया प्रतिपादयते। न चाव्यक्तश्चमत्कुरुते इति रसशान्ति्नोक्ता। रसोदयस्तु रसाभिव्यक्तिपर्यवसन्न एव। तस्य नित्यत्वात्। रससंधिशबलते अप्यसंभवदुक्तिके रसानां विगलितवेद्यान्तरत्वात्। नापि स्थायिनां विभावाद्यसंवलने रसः । तथा तेषामनभिव्यक्तेः। तत्संवलने रसतापर्यवसानेन विगलितवेद्यान्तरत्वाद्। अत एवोक्तं सारबोधिनीकारैः। अत्र भावशब्देन व्यभिचारिभाव एवोक्त इति बोध्यम्। रत्याख्यभावर्य शान्त्यादेरचर्वणीयत्वादिति। व्याख्यातं चैतदेवाभिप्रेत्य प्रदीपोद्दयोतकारादिभिः। आदिशब्दाद्भावोदय- भावसंधिभावशबलत्वानि । न चाभासवद्रसस्य शान्त्यादयः कि नोक्ताः निरन्तरगृह्यमाणविभावाद्यव- यवकस्य देशतः कालतश्चापरिच्छिन्नस्य निरतिशयस्य वेद्यान्तरसंपर्कशून्यस्य तदभावात्। आभासत्वं तु तिर्यगाद्यधिकरणतयाविरुद्धमिति ।। तदेतत्सर्वमभिप्रेत्य आदिशब्दार्थमाह भावोदयेत्यादिना। अलंकार्यतयेति व्याचष्टे प्रधानतयेति। यत्रेति। असलक्ष्यकमव्यङ्गयविष्ये शून्यं वासगृहमित्यादौ ३० उदाहरणे इत्यर्थः । तत्र असंलक्ष्य- क्रमव्यङ्गयविषये। यथोदाहरिष्यते इति। शून्यं वासगृहमित्यादिनेत्यर्थः । अन्यत्र त्विति। इदं 'गुणीभूतव्यङ्गये' इत्यस्य बिशेषणम्। प्रधाने रसान्तरेऽङ्गिनि। वाक्यार्थे वाक्योद्देश्ये। अङ्गभूतः उत्कर्षकः । गुणीभूतव्यङ्गये अयं स रसनोत्कर्षीत्यादौ। तत्र हि प्रधाने करुणादौ वाक्योद्देश्येऽङ्गं स्मर्यमाण: शृङ्गारादिरिति तत्र रसवदादयोऽलंकारा इति भावः । तदुक्त " प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तत्मिन्नलंकारो रसादिरिति मे मतिः" इति। तदेवाह रसवदित्यादिना। अलंकार्यरससंबन्धान्मतुपूप्रत्ययः । यद्वा । अङ्गरसस्य परिपोषभावाद्रसतुल्यता। तुल्यार्थे वतिः। मूल- स्थरसादिरित्यादिपदार्थमाह प्रेय इति। रसस्याङ्गत्वे रसवदलंकारः। भावस्याङ्गत्वे प्रेयोऽलंकारः। रसाभा - सस्य भावाभासस्य वाङ्गत्वे ऊर्जस्विनामालंकारः। भावशान्तेरङ्गतवे समाहितः। अत्रादिपदात् भावो- दयादेरङत्वेलंकारान्तराणि ज्ञेयानि। लक्ष्यदर्शनाकाङ्डायामाह ते चेति। गुणाभूतव्यङ्ग्याभिधाने इति। पञ्चमोल्लासे इत्यर्थः । उदाहरिष्यन्ते इति। 'अयं स रसनोत्कर्षी' इत्यादिभिरित्यर्थः ॥ तत्र रसभावादिमध्ये। रसस्वरूपं रसलक्षणम्। कारणान्यथेति। अथशब्दश्चार्थे। समुचये इति

Page 145

"८६ काव्यप्रकाशः सटीक: । विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिण: । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ २८ ॥

यावत्। स्थायिलक्षणं ४५ सूत्रे (३० कारिकायां) स्फुटीभविष्यति। स्थायिनः अविच्छिन्नप्रवाहस्य रत्यादे: ललनादिविषयकप्रीत्यादेः (चित्तवृत्तिविशेषस्येत्यर्थः ) लोके व्यवहारे यानि कारणानि यान्यालम्ब्य रत्यादिराविर्भवति तानि ललनादिरूपाणि आलम्बनपदाभिधेयानि जनककारणानि प्रादुर्भूते च तस्मिन् रत्यादौ यानि तस्य पुष्टिरूपोद्दीपनकारीणि चन्द्रोदयादीनि उद्दीपनपदव्यपदेश्यानि परिपोषककारणानि। अथ कार्याणि रत्यादिजन्यानि कायिकवाचिकमानसिकमेदेन नानाविधानि कटा- क्षभुजोत्क्षेपकाकूक्तिप्रभृतीनि। सहकारीणि रत्यादेरुल्लिखितकार्यस्य जनने झटिति प्रतीतौ वा सहाय- भूतानि वक्ष्यमाणानि निर्वेदादीनि तानि नाट्यकाव्ययो: अभिनयात्मक काव्यं नाट्य काव्यं श्रव्यकाव्यम् नाट्यस्य पृथगुपादानात तयोः चेतु यदा निबध्यन्ते इति वर्ण्यन्ते इति वा शेषः तत् तदा (क्रमेण) विभावा अनुभावा व्यमिचारिण: कथ्यन्ते इत्यन्वयः । कारणानि विभावा इति कार्याणि अनुभावा इति सहकारीणि व्यभिचारिणः इति कथ्यन्ते इत्यर्थः । रसज्ञैरिति शेषः । विभावादिनामभिर्व्यवाहियन्ते इति यावत् । विभावादिसंज्ञा च विभावनादिव्यापारयोगाद्। तदथा। वासनारूपतयातिसूक्ष्मरूपेणावस्थितान् रत्यादीन् स्थायिनः विभावयन्ति आस्वादयोग्यतां नयन्तीति विभावाः। रत्यादीन् स्थायिनः अनुभावयन्ति अनुभवविषयीकुर्वन्तीति अनुभावाः । विशेषणाभितः (सर्वाङ्गव्यापितया ) रत्यादीन् स्थायिन: काये चारयन्ति संचारयन्ति मुहुर्मुहुरभिव्यञ्जयन्तीति वा व्यभिचारिणः । यद्वा । विशेषेणामितः (आभिमुखयेन कार्यजनने आनुकूल्येन) चरन्तीति व्यभिचारिणः । तदुक्तम् " विशेषादाभिमुख्येन चरन्तो व्यमिचारिणः । स्थायिन्युन्मग्ननिर्मग्ना: कल्लोला इव बारिधौ ॥ "इति । अत एवानियतत्वादपि व्यमिचारिण इति ज्ञेयम् । अत एवो- क्तम् " ये तूपकर्तुमायान्ति स्थायिनं रसमुत्तमम् । उपकृत्य च गच्छन्ति ते मता व्यभिचा- रिणः ॥ " इतीति प्रदीपप्रभयोः स्पष्टम् । तैर्विरभावादयैर्व्यक्तः व्यञ्ञजनाख्यवृत्त्या प्रतिपादितः स प्रक्रंस्यमान: स्थायी अविच्छिन्नप्रवाहो भावः चित्तवृत्तिविशेषः रसः स्मृत रस इति ध्वनिकारादि- भिराम्नांत इति कारिकार्थः। चित्तवृत्तिरूपस्यास्याशुविनाशित्वेऽपि वासनात्मतया सूक्ष्मरूपेणावस्थाना- संस्थायित्वं बोध्यम्। स इत्येव सिद्धे स्थायीत्युक्तिः संचारिणो निरासाय। रतिहासक्रोधादीनां हि करुण- शङ्गारवीरादिषु संचारित्वमेव न तु स्थायित्वम् । अत्र व्याचख्युः सारबोधिनीकाराः। "व्यक्तः स इति। व्यञ्जितः स्थायी रस इत्यर्थः । तैरित्यनेनैव सिद्वौ पुनर्विभावादैरिति ग्रहण विभावादीनां संभूय रसव्य- ञ्जकत्वप्रतिपादनाय" इति। वस्तुतस्तु प्रदीपोद्दयोतादिषु व्याख्यातम् । तथाहि "तैर्विभावादैः व्यक्तः व्यक्तिश्चर्वणेति पर्यायः । सा च विशेषणं न तूपलक्षणम्। तथा च व्यक्तिविशिष्ट एव स्थायी रसः" इति प्रदीपः। (व्यक्तिविशिष्ट एवेति। विभावादिवैशिष्टयेन चर्वणाविषय इत्यर्थः । सूत्रे तैरित्यनेनैव विभावादिप्रतीतौ विभावाधैरिति सहार्थे तृतीया। तेन विभावादैः सह तैर्व्यक्त इत्यर्थाद्रसस्य समूहा लम्बनरूपतालाभः) इत्युद्दयोतः ।"तैरिति सहार्थे तुतीया । विभावादिभिर्व्यक्तः तैर्विभावादिभिः सहेति समूहालम्बनरूपता" इति परमानन्दचक्रवर्तिभट्टाचार्यकृता विस्तारिकापि। रसस्य समूहालम्ब-

१ स्थायिनि समुद्रपाये उन्ममाः उद्ताः निर्ममाः विलीनाः ॥ २ आनन्दवर्धनप्रभृतिमिः ॥

Page 146

चंतुर्थ उल्लासः।

उक्तं हि भरतेन "विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः" इति। एत द्विवृण्वते। "विभावैर्ललनोद्यानादिभिरालम्बनोद्दीिनकारणैः रत्यादिको भावो जनितः अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतातियोग्यः कृतः व्यभिचारिभिर्निर्वेदा- दिि: सहकारिभिरुपचितो मुख्यया वृत्या रामादावनुकारये तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः" इति भट्टलोल्लउप्रभृतयः।

नरूपतास्मिन्नेवोल्लासेडय्रे प्रदीप कारैरप्यङ्गीकृता। तथाहि। "नन्वेवं स्थायिविभावादिसम्हालम्बना- त्मिका रसस्य प्रतीतिरिति पर्यवसन्नम्। तच्च न युक्तम्। विभावादीनां पार्थक्येन प्रतीतिप्रसङ्गात्। घटपटाविति समूहालम्बनवदिति चेन्न। पानकरसन्यायेन चर्वणात्। यथा पानके कर्पूराधंशो न पार्थक्येनानुभूयते तथात्रापि विभावाद्ंशः" इति ॥ उक्तेऽर्ये मुनिसंमतिमाह उक्तं हीति। भरतेन तन्नामकेन नाट्यशास्त्रकारेण मुनिना। विभा- वेति। विभावानुभावव्यभिचारिण: प्राक् ४३ सूत्रे ८६ पृष्ठे व्याख्याताः । तैः संयोगात् संबन्धात् रसस्प निष्पततिः प्रकाशो भवतीति सामान्यः सूत्रार्थः । विशेषार्थस्तु मतभेदेनानुपदमेव स्फुटीभविष्यति। इदं हि भरतसूत्रं तट्टीकाकृद्धिर्भट्टलोल्लटश्रीशङ्कुक्र्क्भट्टनायकअभिनवगुप्तपादैश्वतुर्मिः क्रमेण ममिासान्याय- सांख्यअलंकारमतरीव्या चतुर्धा व्याख्यातम्। तन्मध्ये "स्थायिनां विभावैः ललनादिरूपैरालम्बन- कारणैः उद्यानादिरूपैरुद्दीपनकारणैः अनुभावैः कटाक्षभुजोत्क्षेपप्रभृतिभिः कार्यः व्यभिचारिभिः निर्वे- दादिरूपैः सहकारिभिश्व संयोगात् क्रमेणोत्पाद्योत्पादकभावरूपात् गम्यगमकभावरूपात् पोष्यपोषक- भावरूपाच्च संबन्धात् रसस्य निष्पत्तिः क्रमेणोत्पत्तिरमिव्यक्तिः पुष्टिश्च भवतीति सूत्रार्थः" इति भट्टलो- छटप्रभुतिसंमतं प्रथम व्याख्यानम्। तदाह एतद्विवृण्वते इति। अस्य भट्टलोल्लटप्रभतयः इत्यनेनान्वयः। ललनोद्यानादिभिरिति। ललनादिकान्यालम्बनकारणानि उद्यानादिकान्युद्दीपनकारणानि तैरिव्यर्थ: । तथा च ललनादिभिरालम्बनविभावैः स्थायी रत्यादिको जनितः। उद्यानादिभिरुद्दीपनविभावैरुद्दीपित इत्यर्थो ज्ञेयः । उक्तं च विभावद्वैविध्यमग्निपुराणे। "विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते। विभावो नाम स द्वेधालम्बनोद्दीपनात्मक:" इति। एवं च यमालम्ब्य लौकिकरस आविर्भवति स आलम्बन- विभाव इति फलितम्। व्याख्यातं चेदं प्राक् (८६ पृष्ठ)। तेन नायकनिष्ठे लौकिकरसे नायिकालम्बन- विभावः। नायिकानिष्ठे च तस्मिन् नायक इति ज्ञेयम् । उद्यानादिभिरित्यादिपदेन भरताक्तविशेष- रूपाणां सर्वेषां ग्रहणम् । तथा च भरतः। "ऋतुमाल्यालंकारैः प्रियजनगान्धर्वकाव्यसेवाभिः। उप वनगमनविहारैः शुङ्गाररसः समुद्धवति ॥" इति। इदं चोपलक्षणम्। चन्द्रीदयादयोडप्यूहनीयाः। एवमग्रेऽपि । तया " विपरीतालंकारैर्विकृताचाराभिधानवेषैश्च । विकृतैरर्थविशेषैहसतीति रसः स्मृतो, हास: ॥ इष्टजनस्य विनाशात् शापाक्रोशाच् बन्धनाद्यसनात् । एतैरर्थविशेषैः करुणाख्यरसः समु- द्वति ॥ आयुधखङ्गाभिभवाद्वैकृतभेदांत विदारणाच्चैव । संग्रामसंभवादर्थादिभ्यः संजायते रौद्रः ॥ उत्साहाध्यवसायादविषादित्वादविस्मयान्मोहात्। विविधादर्थविशेषाद्वीररसो नाम संभवति ॥ विकृन- तरसत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात्। गुरुनृपयोरपराधात्कृतकः स भयानको ज्ञेयः ॥ अनभिम- तदर्शनेन च गन्धरसस्पर्शदोषैश्च। उद्वेजकैश्च बहुमिर्बीभत्सरसः समुद्रवति ॥ यत्त्वतिशथार्थयुक्तं वाक्यं शिल्पं च कर्म रूपं च । तत्संबद्धैरर्यै रसोद्धुतो नाम संभवति ॥" इति नरसिंहमनीषायां स्पष्टम्।

१ वैरुतं विकारस्नस्य भेदात् विशेषात् ।

Page 147

८८ काव्यप्रकाश: सटीक:। राम एवायम् अयमेव राम इति 'न रामोडयम्' इत्यौत्तरकालिके बाधे रामोडयमिति राम: स्याद्वा न वायमिति रामसदृशोऽयमिति च सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽ्यमिति प्रतिपत्या ग्राह्ये नटे कटाक्षभुजाक्षेपप्रभृतिभिरिति। प्रभृतिपदात् "स्तम्भः खेदश्व रोमान्चः स्वरमङ्गोडथ वेपथुः । वैव- पर्यमश्रुप्रलय इत्यष्टौ सात्विका मताः"इति भरतोक्ता अपि संग्रहीताः। उपचितः पुष्टीकृतः।मुख्यया वृश््या साक्षात्संबन्धेन। अनुकार्ये नाट्येनाभिनेये नायके। स्थितोऽपीति शेषः । एतच्च नाट्याभिप्रायण। तद्रूपतानुसंधानात् रामस्येव वेषविशेषवाग्विधायिनि नर्तके तत्कालं रामत्वाभिमानादिति विवरण- काराः। रामत्वारोपादिति सारबोधिनीकारोद्दयोतकारादयः । नर्तके इत्युपलक्षणम्। काव्यपाठकेडपि। प्रतायमानः आरोप्यमाणः । सामाजिकैरिति शेषः । रस इति। रसपदाभिधेयो भवतीत्यर्थः ॥ - तदयं निर्गलितोऽर्थः। यथा असत्यपि सपे सर्पतयावलोकितात् दान्नोऽपि भीतिरुदेति तथा सीता- विषयिणी अनुरागरूपा रामरतिरविद्यमानापि नर्तके नाट्यनैपुण्येन तस्मिन् स्थितेव प्रतीयमाना सहृदयहृदये चमत्कारमर्पयन्त्येव रसपदवीमधिरोहतीति॥ उक्ते प्रथमव्याख्याने अनुकार्ये रामादावेव रसनिष्पत्या सामाजिके रसनिष्पत्त्त्यभावात्सामाजिकानां चमत्कारानापत्तिरित्यरुचिं मनसि निधाय "स्थायिनो विभावादिभिरुक्तरूपैः संयोगात् अनुमाप्यानु- मापकभावरूपात् संबन्धात् ररास्य निष्पत्तिरनुमितिरिति सूत्रार्थः " इति श्रीशङकुकसंमतं द्विर्तायं व्याख्यानमाह राम एवेत्यादिना श्रीशङ्कुक:ः इत्यन्तेन। प्रतीतिपदस्य सम्यगादिपदैः प्रत्येकमन्वय । राम एवायम् अयमेव राम इति। इयं सम्यक्प्रतीतिः । तथाहि। एवकारस्यार्थत्रयम् । यदुक्तम्। "अयोगमन्ययोगं च अत्यन्तायोगमेव च। व्यवच्छिनत्ति धर्मस्य एवकारस्त्रिधा मतः " इति। अयमर्थः। यत्र विशेषणान्व्रित एवकारस्तत्र विशेष्ये विशेषणस्य असबन्धरूपयोगे निषेधति। यथा राम एवाय- मित्यत्र रामस्य विशेषणत्वेन तदन्वितेनैवकारेण इदमर्थे विशेष्ये रामत्वायोग व्यवच्छिन्दन् अस्य रामत्वं नियमयति। यत्र पुनर्विशेष्यगत एवकारस्तत्र विशेष्यतरस्मिन् विशेषणीभूतधर्मसंबन्धं वारयति।यथा अयमेव राम इत्यत्र एतद्भिन्ने रामत्वसंबन्वं वारयन् अस्मिन् रामत्वं नियमयति। उभयरूपैवेयं प्रतीतिरव- धारणतया सम्यक्प्रतीतिः । यत्र तु क्रियान्वित एवकारस्तत्र अत्यन्तः सर्वदा योऽयोगस्तस्य निषेधकः । तक्क्रियाश्रये कुत्रचिदपि संबन्धबोधक इति तु फलितोऽर्यः। यथा 'नीलं कमलं भवत्येव' इति। अत्र हि न सकले कमले नीलत्वं नियम्यते नाप्यकमलेऽनीलत्वम् अपि तु यस्मिन्कस्मिन्नपि कमले नीलत्वसंबन्ध इति प्रसङ्गादुक्तम्। न रामोऽयमित्यौत्तरकालिके बाधे रामोऽयमितीति । इयमनन्तरावतीर्ण- विपरीतप्रतीतिकया मिथ्याप्रतीतिः। यथा नेदं रजतमित्यैौत्तरकालिके बाधे सति शुक्तौ रजतप्रतीतिः । बाधाभावे तु न मिथ्यात्वम्। खवतःप्रामाण्यवादे यावद्वाघं प्रामाण्यात्। रामः स्याद्वा न वायमितीति। इयमुभयकोट्यवलम्बितत्वेन संशयप्रतीतिः । रामसदृशोऽयमितीति। इयं सादृश्यप्रतीतिः। चित्रतु- -१ सत्त्वमत्र जवच्छरीरं तस्य धर्माः सात्त्विका इत्यर्थः। तत्र स्तम्भो गतिनिरधः। वयुषि सलिलोद्गमः स्वंदः। वपुषि रोमोत्थानं रोमाश्वः। गद्गदाख्यं स्वरनिष्ठवैजात्यं स्वरभङ्गः । आलिङ्गनह भीत्यन्यतमजन्यः शरीरस्पन्दो वेपथुः । मोहभयकोधशीतातपश्रमजन्यवर्णान्यथामावो वैवर्ण्यम्। हर्षामर्षशोकादिजन्याक्षिसलिलमश्रु। शरीरचेष्टानिरोधः प्रलय इति बाध्यम्। जुम्भा नवमः सात्त्विक इति कश्ियत्। सत्त्वगुणेद्रेकेण जायमाना एवते सात्त्विका भावा इत्यन्ये इति प्रद्दीपोद्योतादिषु स्पष्टम् ।।

Page 148

चतुर्थ उल्लास:। ८९

'सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः। मनोरथश्रीर्मनसः शर्रीरिणी प्राणेश्वरी लोचनगोचरं गता ॥ २५॥। दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्व। अविरलविलोलजलद: काल: समुपागतश्चायम्'॥ २६॥

शितैः कारणकार्यसहकारििः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः

रगादिन्यायेनेति । यथा चित्रे तुरगोऽयमिति पूर्वोक्तप्रतीतिचतुष्टगवैलक्षण्येन प्रतीतिरुदेति तथे- त्यर्थः। यद्यप्ययं भ्रम एव तथापि बाधशिरस्कस्यैवात्र भ्रमत्वेन विवक्षणान्न दोषः। अत्र च बाधानवतारः स्पष्ट एव। अन्यथा तद्रूपेण पक्षत्वमेव न स्यात्। रामोऽयमिति प्रतिपत्या रामत्वप्रकारकपुरोवर्तिमात्र- विशेष्यकप्रतीत्या। ग्राह्ये विषयीकृते। नटे इति पक्षोक्तिः । अस्याग्रिमेणानुमीयमानोऽपीत्यनेनान्वयः। व्याख्यातमिदं काव्यप्रकाशदर्पणे विश्वनाथेनापि। "यथा बालानां चित्रतुरगे वस्तुपरिच्छेदशून्या तुर- गोऽयमिति बुद्धिभर्वति तथा रामोऽयमिति प्रतिपत्या ज्ञानेन ग्राह्ये नटे अभिनेतरि " इति ॥ हेतुज्ञानोपायमाह सेयमित्यादिना। सेयं प्राणेश्वरी मम मनसः सकाशात लोचनगोचरं गतेति संबन्धः । सा यद्विरहानलसंतप्तेन यद्धावनया इयान् कालो नीतः । गोचरमिति भावप्रधाननिर्देशात् गोचरत्वमित्यर्थः । पूर्व मनस्येवासी इदानीं बहिरपि दृष्टेत्यर्थः । कीदृशी । अङ्गेषु नैकस्मिन्नक्गे सुधारसस्यामृतरसस्य छटा वृष्टिः। स्पर्शमात्रेणाखिलसंतापशान्तेः। दशोरिति सप्तमी। शोभनः पूरो द्रवो यस्य तथाभूतस्य कर्पूरस्य शलाकिका अञ्जननलिका । अतिशयितानन्दहेतुत्वादिति चन्द्रिकाकाराः । शोभनपूरणकत्री चासौ कर्पूरस्य शलाकिका कर्पूराञ्जनदानयोग्यतुलिकेति उदयोतकारादयः । शरीरिणी मूर्तिमती मनोरथस्य श्रीः संपत्तिरित्यर्थः । इन्द्रवंशावंशस्थविलयोर्मिश्रणादुपजातिश्छन्दः। "स्यादिन्द्र- वंशा ततजै रसंयुतैः" इति "वदन्ति वंशस्थविलं जतौ जरौ " इति "इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम " इति च तासां लक्षणेभ्यः ॥ इत्थं संभोगशृङ्गारमुक्त्वा विप्रलम्भशृङ्गारमाह दैवादिति। रुद्रटालंकारे उदाहृत पद्यमिदम्। अद्याह दैवात् न तु स्वेच्छया तया अनुभवैकवेद्यसमागमसुखया चपले चञ्चले आयते दीर्घे नेत्रे यस्यास्तथा- भूतया वियुक्तस्य। अभूवमिति शेषः । अविरला: निबिडाः विलोला: सर्वदिक्संचारिणो जलदाः मेघाः यत्र एवंविधः अयं दृश्यमानप्रकर्षः कालः प्रावृट्समयः। स एव कालो यम इति श्लेषमूलाभेदा- ्ववसानम्। तदा अविरलजलदेत्यस्य अविरलं प्रात्याहिकं विलोलम् अञ्जलिच्यवनेन चञ्चलं यज्जलं तर्पणोदकं तद्ददातत्यिर्थ इति नरसिंहठक्वुराः। सम्यक् प्रतिदिनोपचीयमानः उपागतश्च। चकाराभ्यां तुल्यकालता व्यज्यते। तथा च प्रियवियोगाप्रियसंयोगयोरेककालतारूपः समुच्चयोऽलंकारः । चप- लायतनेत्रयेति सहार्थतृतीयान्तं जलदेनाप्यन्वेति। चपला विद्युत् सैवायतनेत्रा काभिनीत्येतत्पक्षेऽर्थः। तेन प्रियतमासंयुक्तनायकान्तरदर्शनरूपमुद्दीपकान्तमुक्त भवति इत्युद्दयोते स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे)।। अनुसंधानं कविविवक्षितार्थस्य साक्षादिव करणम्। तेन नदादीनामपि रसास्वाद उपपन्नः। तस्य बलात् सहकाराद्। शिक्षेत्यादि। शिक्षया उपदेशेन अभ्यासेन पुनःपुनरनुशीलनेन च निर्वर्तितं काश्यपकाश १३

Page 149

९० काव्यप्रकाश: सटीक: । 'संयोगात्' गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्या- नुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुक:। न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमान: स्थायी सच्वाद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतच्वेन भोगेन भुज्यते इति भट्टनायक: ।

संपादितं यत् स्वकार्यस्याभिनयस्य प्रकटनं प्रकाशनं तेन करणभूतेनेत्यर्थः । हेतुमाह कारणकार्यसह- कारिभिरिति। कृत्रिमैरपि। वस्तुतोऽसद्धिरपि। ननु कृत्रिमैर्हेतुभिः कथमनुमितिः । बाधादत आह तथानभिमन्यमानैरिति। कृत्रिमत्वेनागृहीतैरित्यर्थः । भरतसूत्रं योजयति विभावादीति। सूत्रस्थ- संयोगपद व्याचष्टे संयोगादिति। गम्येति। गम्यं साध्यम्। गमको हेतुः। तद्भावो विभावादिसत्वे रतेरवश्यंभाव इत्येवंरूपव्याप्तिस्तद्रूपात्सबन्धात। अनुमीयमानोऽपीति। सामाजिकैरिति शेषः। तदयं प्रयोग:। "रामोऽयं सीताविषयकरतिमान् सीाद्यात्मकविभावादिसंबन्धित्वात् सीताविषयककटाक्षादि- मत्त्वाद्वा यत्नैवं तन्नैवं यथाहमिति " उद्दयोतः । वस्त्वित्यादि। वस्तुनोऽनुमीयमानायाः रतेः सौन्दर्य चमत्कारिता। लौकिकसुखानुमितिवारणायाह रसनीयत्वेनेति। रसनमास्वादो निरतिशयसुखरूपता । आस्वाद्यमानत्वेनेत्यर्थः । अन्येति। अन्यो योऽनुमीयमानो वहयादिरूपो लौकिकविषयस्तस्माद्विलक्षणो विभिन्नः। ननु रामनिष्ठस्य रत्यादेर्नेटेऽसत्वात्कथ नटेऽनुमानमत आह स्थायित्वेनेति। तत्र नटे असन्नपि वास्तवमविद्यमानोऽपि स्थायित्वेन नटगतत्वेन संभाव्यमानो ज्ञायमान इत्यन्वयः । साध्यमाह रत्यादिर्भाव इति। रसस्य क्षणिकत्वं निरस्यति चर्व्यमाण इति। पुनः पुनरनुसंधीयमान इति केचित्। आस्वाद्यमान इत्यन्ये। नन्वनुमितस्य नानुमानम्। सिद्धिप्रतिबन्धादित्यत आह वासनयेति। धारावा- हिनी इच्छा वासना तयेत्यर्थः । अनुमित्सयानुमितौ सिद्धेर्न प्रतिबन्धकत्वमिति सारबोधिन्यां स्पष्टम् ।। • एतन्मतस्यायं निष्कर्षः। यथा कुज्झेटिकाकुलिते देशेऽसतोऽपि धूमस्याभिमानात् धूमनियतस्य वह्नेरनुमानम् तथा नटेनैव सुनिपुणं 'भमैवैते विभावाद्यः' इति प्रकाशितैस्तत्रासाद्विरपि विभावा- दिभिस्तन्नियता रतिरनुमयमानापि निजसौन्दर्यबलात्सामाजिकानामास्वाद्यमानतया चमत्कारमादधती रसतामेतीति रतेरनुमितिरेव रसनिष्पात्तिरिति इति विवरणे स्पष्टम् ।। उक्ते द्वितीयव्याख्यानेऽपि 'प्रत्यक्षमेव ज्ञानं चमत्कारजनकं नानुमित्यादिः' इति लोकप्रसिद्धिवि- रोधः । संज्ञातबाधस्य सामाजिकस्य नटे निरुक्तानुमितिविरहेऽपि आस्वादोदयाद्रसं साक्षात्करोमीत्यनु- व्यवसायानुपपत्तिश्वेति अरुचिं मनसि विधाय "विभावादिभिः संयोगात् भोज्यभोजकभावसंबन्धात् रसस्य निष्पत्तिर्भुक्तिरिति सूत्रार्थः"इति भट्टनायकसंमतं तृतीयं व्याख्यानमाह न ताटस्थ्येनेत्यादिना भट्टनायक इत्यन्तेन। अत्र प्रत्यासन्नास्त्रयः । नटो नायकरामादिः सामाजिकश्चेति। तत्र किंगतत्वेन रसः प्रतीयतामित्याशङ्कयः तत्राद्यद्वयगतत्वं निरस्यति न ताटस्थ्येनेति। "तटस्थ उदासीनः ।सच प्रकृते नटो नायकरामादिश्वेति द्विविधः। तत्संबन्धित्वेनेत्यर्थः । तृतीयगतत्वमपि निरस्यति नात्म- गतत्वेनेति। सामाजिकसंबन्धित्वेन न प्रतययिते नानुमीयते तदानीं रामादीनामभावेन तद्रत्यादे रप्यभावात् । असतः सर्वेनानुमानप्रमाणाविषयत्वात्। वस्तुतो रामगतया नटगत्वेनानुमितयापि रत्या

F कुश्तटिका 'धुकें' इते महाराष्ट्रमाषायाम्। तथा आकुलिते व्यातें।।

Page 150

चतुर्थ उल्लासः। ९१

लोंके प्रमदाभि: स्थाध्यनुमानेऽभ्यासपाटववतां काव्ये नाटे च तैरेव कारणत्वादि- परिहारेण विभावनादिव्यापारवत्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते

सामाजिकेऽसत्या तच्चम कारजननासंभवाच। नोत्पद्यते न जन्यते। विभावादीनां वास्तविकत्वाभावात्। नाभिव्यज्यते न व्यञ्जनया उपस्थाप्यते। सिद्धस्यैव तत्संभवादिति भावः" इति विवरणम्। "अभधात इत्युपलक्षणम्। लक्षणात इत्यपि बोध्यम् " इति सारबाधिनी। द्वितीयेन अन्येन। विभावादीति। अन्यसंबन्धित्वेनासाधारणस्य विभावादेःस्थायिनश्च व्यक्तिविशेषांशपरिहारेणोपस्थापनं साधारणीकरण तदात्मना। "भाव्यमान: साधारणीक्रियमाणः । सच्चोद्रेकेत्यादि। स्त्वगुणस्योद्रेकेण रजस्तमसी अभिभूयाविर्भावेण यः प्रकाशः स एवानन्दात्मिका संवित् ज्ञानम् । तस्य विश्रान्तिर्ज्ञेयान्तरसंपर्क- राहित्येनावस्थानम्" इति विवरणम्। तत्सतत्वेन तत्स्वरूपेण। तत्त्वसतत्त्व्रशब्दौ पर्यायौ। गोत्रसगो- त्रशब्दवत् । अत एव ४८७ उदाहरणे 'सतत्त्वविदाम् ' इति प्रयोगः । भोगेन भोजकत्वनामक- व्यापारेणेति उद्दयोतादयः । भोगेन साक्षात्कारेण भुज्यते विषयीक्रियते इति सारबोधिन्यादयः ॥ भट्टनायकस्यैष सारः। शब्दस्याभिधारूपव्यापारवत् काव्यनाट्ययोस्तद्विलक्षणं भावकत्वभोजकत्व- नामकं व्यापारद्वयमतिरिक्तमस्ति। काव्यार्थबोधोत्तरमेव तत्राद्येन भावकत्वव्यापारेण विभावादिरूप- सीतादयो रामसंबन्धिनी रतिश्च सीतात्वरामत्वसंबन्धांशमपहाय सामान्यतः कामिनीत्वरतित्वादि- नैवोपस्थाप्यते। अन्त्येन भोजकत्वव्यापारेण तु उक्तरीत्या साधारणीकृतविभावादिसहकृतेन सा रतिः सहृदयैरास्वाद्यते (अत एव असत्या अपि रतेरास्वादः अलौकिकत्वादुपपन्नः) इति रतेरास्वाद एव रसनिष्पत्तिरिति इति विवरणादौ स्पष्म् ।। उक्ते तृतीयव्याख्यानेSपि एतादृशव्यापारदवयकल्पने प्रमाणाभावः। साक्षात्कारस्य तथाविधेत्वकल्पने प्रमाणाभावश्च।न च व्यञ्जनास्थाने तथाविधभोग एव कश्चिद्यापारः कल्पनीय इति वाच्यम्। तथापि भावकत्वरूपाधिकव्यापारान्तरकल्पनस्यैव दोषत्वादित्यरुचिं मनसि निधाय "स्थायिनां विभावादिभिः समं संयोगात् व्यङ्गयव्यञ्जकभावरूपात् संबन्धात् विभावादीनामेत्र वा परस्परं संयोगात् मिलनात रसस्य निष्पत्तिरभिव्यक्तिरिति सूनार्थ:"इति अभिनवगुप्तपादाचार्यसंमतं सिद्धान्तभूतं चतुर्थ व्याख्या- नमाह लोके इत्यादिना श्रीमदाचार्याभिनवगुप्तपादा इत्यन्तेन। लोके काव्यनाट्यमिन्नस्थले। प्रमदादिभि: प्रमदोद्यानकटाक्षनिर्वेदादिभिः । प्रमदादिभिरित्यस्यानन्तरं 'कारणादिभिः' इति पाठे आलम्बनकारणोद्दपिनकारणकार्यसहकारिभिरित्यर्थः। स्थायीत्यादि। स्थायिनो रत्यादेरनुमाने अनुमान- विषये अभ्यास: पुनः पुनरनुशीलनं तेन पाटवं पटुता (नैपुण्यं) तद्वताम्। अत्य सामाजिकानामित्य- ग्रिमेणान्वयः । तेन रसिका एव रसास्वादे योग्याः न तु विरक्ता यत्यादय इत्युक्तम्। अनुमानं च 'अयमेतद्विषयकरत्यादिमान् रत्यादिकार्यरूपकटाक्षादिरत्यादिसहकारिरूपनिर्वेदादिमत्वात यो नैवं स नैवं यथा विरक्तादिः' इति। काव्ये उक्तध्वन्यादिरूपे। नाट्ये ( "कायिको वाचिकश्चैव आहार्यः सात्त्विकस्तथा। चत्वारोऽभिनयाः प्रोक्ता नाट्यशास्त्रविशारदैः " इत्युक्तचतुर्विधाभिनयरूपे) नटक- रमणि। तैरेव प्रमदादिभिरेव। अस्य च 'अभिव्यक्तः' इत्यग्रिमेणान्वयः। कारणत्वादिपरिहारेण कारणत्वकार्यत्वसहकारित्वव्यपदेशपरित्यागेन। विभावनादिव्यापारेति। आदिपदेन अनुभावनव्य- भिचारणयोर्ग्रहणम् । तत्र वासनात्मतयातिसूक्ष्मरूपेणावस्थितानां रत्यादीनाम् आस्वादयोग्यतानयन- १ तथाविधत्वेति। सत्त्वोद्रेकेत्यायुक्तस्वरूप व्वेत्यर्थः ॥

Page 151

९२ काव्यप्रकाशः सटीकः। तटस्थस्यैवैते न ममैवैते न शत्रोरेवैंते न तटस्थस्यैवैते इति संबन्धविशेषस्वीकारपरिहार- नियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्काल- विगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सक रूपाविर्भावनं विभावनम्। तादृशानां रत्यादीनाम् अनुभवविषयीकरणमनुभावनम्। काये विशेषेण अभित: रत्यादीनां संचारण व्यभिचारणम्। ते एव व्यापारास्तद्वत्त्वादित्यर्थः । अलौकिकेति। लोके हर्षशोककारणेभ्यो हर्षशोकावेव हि जायेते । अत्र पुनः सर्वेभ्य एव तेभ्यः सुखमित्यलौकिकत्वम् । एते विभावादयः। 'ममैवैते' इत्याद्यत्रयेण संबन्धविशेषस्य 'अमुकस्यैवैते' इत्वेवंरूपस्य स्वीकारनियमः। 'न ममैवैते' इत्यन्त्यत्रयेग तस्य परिहारनियमः। तयोरनध्यवसायात् अनिर्णयात्। साधारण्ये सीता- त्वादिविशेषांशरहितेन कामिनीत्वादिना। प्रतीतैः ज्ञायमानैः । अत्रायमाशयः । लोके हि तिस्रो विधाः। कानिचिद्वस्तूनि स्वस्यैव कानि च शत्रोरेव कानि पुनः शत्रुमित्रविलक्षणस्य उदासीनापरनाम्नः तटस्थस्यैव (मित्रवस्तुनोऽपि आत्मसंबन्धित्वेन स्वकीयत्वमिति न विभागन्यूनता)। तत्र यदि स्वकीय- त्वेन विभावादयः प्रतीयेरन् तर्हि इतरसामाजिकसंनिधौ स्वरतिप्रकाशोऽनुचित इति हीरिवोदियात्। रसास्वादस्तु दूर एवास्ताम् । शत्रुसंबन्धित्वेन प्रतीतौ च विद्वेषाविर्भावस्यैवावश्यंभावितया रसास्वाद- प्रत्याशैव कथम्। उदासीनसंबन्धप्रतीतावपि स्वस्मिन् तदसद्भावाभिसंधानप्रसङ्गेन नितरामेव तदा- स्वादोऽनुपपन्न इति संबन्धविशेषस्वीकारस्यानिश्चयः स्वीकर्तच्यः। एवं तत्परिहारनियमनिर्णयोऽपि नास्तीत्यङ्गकिार्यम्। अन्यथा 'नैते कस्यापि' इति संबन्धपरिहारनियमनिश्चये 'असंवन्धिनोऽसत्वम्' इति नियमेन अलीकत्वशङ्कया गगनकुसुमगन्धोपलब्धये प्रवृत्तिवत् रसाखादप्रवृत्तिरेव न स्यात्। तस्मादुभयावधारणवैलक्षण्येन सामान्यतः 'कामिनीयम्' इति कृत्वा कामिनीत्वादिना प्रतीतैरिति इति विवरणे स्पष्टम्। वासनात्मतया संस्काररूपेण सूक्ष्मतया। स्थितः पूर्वमेवावस्थितः अधुना तु साधा- रणीकृतविभावादिभिस्तस्यैवाविर्भावमात्रमिति भावः । अत एव येषां वेदाभ्यासजडानां मीमांसकादीनां च तादृशसंस्काराभावः तेषां रसास्वादोऽपि न भवति। तदुक्तम् "वासना चेन्न हेतुः स्यात्स स्यान्मी- मांसकादिषु " इति "सवासनानां नाट्यादौ रसस्यानुभवो भवेत्। निर्वासनास्तु रङ्गान्तर्वेश्मकुड्या- शमसन्निमाः ॥" इति च। नियतेति। नियतः रसास्वादयितृतया निश्चितो यः प्रमाता सामाजिकः तद्वतत्वेन तत्संबन्धित्वेन। साधारणेति। साधारणः व्यक्तिविशेषसंबन्धित्वेनाप्रतीयमानो य उपायो विभावादिः। तत्कालेति। तत्कालं रसास्वादकालं विगलितोSप्रतीतो यः परिमितप्रमातृभावः ममैवैतेऽ- हमेव रसास्वादयिता' इत्येवंरीत्या अननुभूयमानो यो व्यक्तिविशेषसंबन्धः तद्वशेन उन्मिषितः प्रादुर्भूतः । एवं वेद्यान्तरस्य लौकिकघटादिविषयस्य संपर्केण ज्ञानरूपसंबन्धेन शून्योSपरिमितो भावश्चित्तवृत्तिविशेषो यस्य तेन। "अपारिमित्यं साधारण्यं प्रमातृविशेषनिष्ठत्वेनाग्रहे सति गृह्य- माणत्वम्। भावो वर्णनीयतन्मयीभवनयोग्यः " इति सारबोधिनी । प्रमात्रा रसास्वादयित्रा कर्ता। सकलसहृदयसंवाद्भाजेति। इदं साधारण्येनेत्यस्य विशेषणम् । सकलानां सहृदयानां संवाद- भाजा एकत्र दृष्टस्यान्यत्र तथादर्शनं संवादः' इत्युक्तेः समतिशालिनेत्यर्थः । साधारण्येनेति। प्रमातृविशेषानालिङ्गितेन कामिनीविषयकरतित्वसामान्येनेत्यर्थः । अस्य 'गोचरीकृतः इत्यने- नान्वयः । ननु विवक्षितविवेचने रत्याद्यास्वादस्यैव रसरूपतया कथ रसस्य आस्वादः। आस्वादास्वाद्ययोलोंके वैलक्षण्यदर्शनादित्यत आह स्वाकार इति। 'स्वस्य ज्ञानस्य आकार-

Page 152

चतुर्थ उल्लास:। लसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्रर्व्यमाणतैकप्राणो विभावादिजीविताबधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शुङ्गारादिको रसः । स च न कार्यः। विभावादिविनाशेऽपि विशेष एव विषयः न तु ज्ञानादन्यः' इति हि योगाचारमने यथा वस्तुतो ज्ञानस्वरूपस्य विषयस्य ज्ञेयत्वम् तथा आनन्दात्मकास्वादस्वरूपस्यापि रसस्य आस्वाद्यत्वमविरुद्धमिति भावः । गोचरीकृतः विषयीकृत इति विवरणे स्पष्टम्। चर्व्यमाणतेति। चर्व्यमाणता आस्वाद: एक: अद्वितीयः प्राण॥ इव स्वरूपनिष्पत्तिहेतुर्यस्य सः। विभावादीति। उक्तरूपविभावादिरेव जीवितस्य जीवनस्य अवधि: पूर्वापरसीमा यस्य सः। विभावादिकालमात्रस्थायीति परमार्थः। पानकरसन्यायेन चर्व्य- माण इति। पानकरसो हि यथा एलामरीचशर्कराकर्पूराम्लिकादिविलक्षणवस्तुसंपादितोऽपि एलामरी- चादिरसवैलक्षण्येन तत्समुदायसंवलनसंपादितेनानिर्वचनीयेनास्वादेनास्वाद्यते तथा विभावादिवैलक्ष- ण्येन लोकातीतेन आस्वादेन चर्व्यमाणः आस्वाद्यमान इत्यर्थ इति विवरणे स्पष्टम्। पुर इवेति। अत् सर्वत्र परिस्फुरन्न्िवेत्यादिरीत्या क्रियाभिरिवशब्दार्थान्वयो ज्ञेयः। सर्वाङ्गीणमिति। सर्वाङ्गव्यापनं यथा स्यादिति चक्रवर्ती। सर्वाङ्गव्यापनं यथा स्यात्तथालिङ्गन्निवेत्यन्वयः। "तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्रोति" (५।२।७) इति सूत्रेण खप्रत्ययः । व्याप्रोतीति कर्तृत्वमविवक्षितमिति चक्रवर्त्याशयः । "अपरिमितः प्रत्यङ्गममृतमिव सिञ्चन्नित्यर्थः" इत्युद्दयोतः । अपरिमित इति 'सर्वाङ्गीणमिवालिङ्गन्' इत्यस्य फलितार्थकथनम्। प्रत्यङ्गमित्यध्याहारलम्यम्। सर्वाङ्गं व्याप्रोतीति । सर्वाङ्गीणममृतम्। सर्वा- ङ्गीणशब्द: पङ्कजादिशब्दवद्योगरूढः । प्रत्यङ्गं प्रत्यवयवममृतं सिश्वन्निवेत्यर्थ इत्युद्दयोताशयः। अनेन सुखरूप एवायमिति ध्वनितम् । अन्यत् स्वविषय भूतविभावाद्यतिरिक्तम् । तिरोदधत् आच्छादयन्। ब्रह्मास्वादमिवेति। अत्रेवशब्दः यथास्थाने एवेत्युद्दयोते स्पष्टम्। ब्रह्मास्वादमिव स्वास्वादम् अनुभाव- यन्नित्यर्थः । ब्रह्मास्वादे (मुक्तिदशायां ) ब्रह्ममात्रं प्रकाशते। रसे तु विभावाद्यपीति भेदात् सादृश्यम्। एतेन "ब्रह्मैव रसः 'रसो वै सः' इति श्रुतेः" इति कैश्चित्प्रलपितमपास्तम्। उक्तदृष्टान्तदार्ष्टान्तिकभावा- नुपपत्तिप्रसङ्गात्। 'तद्िन्नत्वे सति तद्रतभूयोधर्मवत्त्वं सादृश्यम्' इति सादृश्यलक्षणस्य सर्वैरङ्गीका- रात्। न चोक्तश्रुतिविरोध इति वाच्यम् । स आत्मा रसः रसपदवाच्य इति तदर्थात्। "सर्वे वेदा यत्पदमामनन्ति" "नामानि सर्वाणि यमाविशन्ति" इत्यादिश्रत्यन्तरसंवादादिति सुधीभिराकलनीयम्। पुर इवेत्याद्यनुभावयन्नित्यन्तं सर्वमलौकिकत्वप्रतिपादनाय। तदेवाह अलौकिकेत्यादिना। अलौकिक: लौकिकसामग्रीजन्यविलक्षणः। लौकिकसामग्रीजन्यस्तु एकस्यैव सुखाय तस्यापि पर्यन्ते वैरस्यायैवेति बोध्यम्। शृङ्गारादिको रस इति। इत्युच्यते इति शेषः। एवं च ब्रह्मसहोदररसाविर्भावप्रकारप्रद- र्शनेन ब्रह्मावबोधोऽपि सति तादृशेऽधिकारिणि सति च तादृशसामग्रीसमवधाने "तत्त्वमसि" इत्यादिश्रत्युपनिबद्धवाक्यनिष्ठया सद्गुरूपदिष्टयत्किंचिद्वाक्यनिष्ठया वा व्यञ्जनयैव भवतीति ध्वनित- मिति सुधासागरे स्पष्टम् ।। एतन्मतस्य स्थूलत इदं मर्म। रतिकारणादीनामनुभवादसकृदनुमिता रतिः संस्काररूपेण सहृदयहृदय- मधिरोहति। अथ कियता कालेन सुनिपुणमनुष्ठितयोः रामादिव्यक्तिविशेषसंबन्धिरतिकारणविभावादि- प्रतिपादकयोरपि काव्यनाटथयोः पूर्वोक्तभावकत्वव्यापारेण रामसीतादिविशेषांशपरिहारेण रतिकारण- साधारणकामिनात्वादिना प्रतीतैः विभावादिभिः सहृदयहृदयावस्थिता सा रतिर्व्यञ्जनया अभिव्यक्ता

Page 153

९४ काव्यप्रकाशः सटीक:। तस्य संभवत्रसङ्गात्। नापि ज्ञाप्य: सिद्धस्य तस्यासंभवात्। अपि तु विभावादिभिर्व्य- ज्ञितश्वर्वणीयः। कारकज्ञापकाभ्यामन्यत् क दष्टमिति चेत् न कचिद्दृष्टमित्यलौकिकसि- द्वर्भूषणमेतन्न दूषणम्। चर्वणानिष्पत्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्।

प्यभिधीयताम् । तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सामाजिकानाम् आस्वाद्यतामायातीति एतादृशास्वाद एव रसनिष्पा रिति। पूर्वमते असत्या अपि रतेरास्वादः । अत्र तु वासनया स्थिताया एवेत्यप्यनयोर्भेद इति विवरणे स्पष्टम् ।। ननु भरतमुनिसूत्रे विभावादिसंयोगादिति पञ्चम्या विभावादीनां हेतुत्वमुक्तम् । तच्च कारकत्वं ज्ञापकत्वं वा स्यात्। तत्किं रसः कार्यो ज्ञाप्यो वात आह स चेति। न कार्य इत्यत्र हेतुमाह विभावा- दीति। तस्य रसस्य। संभवप्रसङ्गादिति। अवयवादिरूपोपादानकारणाद्यतिरिक्तकारणनाशेडपि कार्यनाशस्यावश्यंभावानियमात् दण्डनाशेऽपि घटस्थितेरिति शेषः। नापि ज्ञाप्य इति । विभावादि- भिरित्यादिः। असंभवादिति। अभावादित्यर्थः । तस्य सिद्धत्वाभावादिति यावत् । लोके जातो हि घटादिदीपादिना ज्ञाप्यो भवति न तु जायमान एवेति भावः। तर्हि विभावादिभिः किं क्रियते तत्राह अपि त्विति। विभावादिभिरिति तृतीया हेतौ साहित्येऽपि बोध्या। व्यञ्जितश्वर्वणीय इत्युभया- न्वयिनी च। एवं च भरतसूत्रे व्यञ्जकत्वमेव पञ्चम्यर्थः । व्यञ्जितः व्यञ्जनया गृहीतः सन् चर्वणीयः पुनः पुनरास्वादनीयः । विभावादिव्यञ्चितश्च चित्स्वरूपोऽनावृतानन्दांश एव भवतीति तात्पर्येम् ।। नन्वेवमलौकिकीयं प्रक्रियेत्याशङ्कयेष्टापत्ति शङ्कोत्तराभ्यामाह कारकेति। ज्ञापकाभ्यामिति। व्यञ्जकत्वातिरिक्तं ज्ञापकत्वमन्यत्र विवक्षितम्। अतो व्यञ्जकत्वस्य ज्ञापकत्वेऽपि न क्षतिः। अन्यत् व्यञ्जनाख्यम्। अलौकिकेति। व्यञ्जकोडप्येको हेतुरिति भावः। अलौकिकस्य कार्यस्य सिद्धेरलौकि- कहेतुकत्वं भूषणमेवेत्यक्षरार्थः । कथं तर्हि उत्पन्नो रस इति व्यवहार इति तत्राह चर्वणेति। चर्वणा- विशिष्टस्यैव रसत्वेन विशेषणस्योत्पन्नतया चर्वणोत्पत्तिमादाय रसस्योत्पत्तिव्यवहार इत्यर्थः। नन्वेवमपि ज्ञाप्य इति व्यवहार: कथम् इत्यत आह लौकिकेति। लौकिक यत् प्रत्यक्षादिज्ञानम् यच्च प्रमाणताढ़- स्थ्येन प्रमाणौदासीन्येन ( चक्षुरादिलौकिकप्रमाणमनपेक्ष्यैवेति यावत्) अवबोधः ज्ञानम् तच्छालिनां तद्वतां मितयोगिनाम् अपक्कयोगिनां युञ्जानपदवाच्यानां (ध्यानजन्यं) ज्ञानम् यदपि च वेद्यान्तरस्य ज्ञेयान्तरस्य लौकिकविषयस्य संस्पर्शेन संबन्धेन रहित स्वस्वरूपात्ममात्रविषयकं परिमितेतरयोगिनां पक्कयोगिनां युक्तपदाभिधेयानां संवेदनं ज्ञानम् एततत्रितयात् विलक्षणम् (अलौकिकविभावादिमत्वेन) विसदृशम्। अत एव च लोकोत्तरं लोकातीतं यत् स्वात्मकं संवेदनं तस्य गोचरः विषय इत्यर्थः । प्रत्येय: ज्ञेयः। अभिधीयताम् उच्यताम्। तथा च विभावादिभिरभिव्यक्तानन्दांशस्वरूपतया स्वयं- प्रकाशत्वेन ज्ञाप्यत्वव्यवहार इति भाव: ।। ननु संवेदनगोचर इत्युक्तम्। संवेदनं हि ज्ञानम्। तच्व निर्विकल्पकं सविकल्पकं चेति द्विविधम्। तत्र नामरूपजात्यादिविशेषशन्यं ज्ञानं निर्विकल्पकम्। तद्विपरीतं सविकल्पकम्। तयोर्मथ्ये रसः केन- गृह्यते इत्याशङ्कय नान्यतरेण गृह्यते इत्याह तद्ग्राहकं चेति। रसग्राहकं चेत्यर्थः । विभावादिपराम- शेति। विभावादाना परामर्श: संबन्धः प्रधानं यस्य तस्य भावस्त्त्वादित्यर्थः । विभावादिपरामर्शस्य सवि-।

Page 154

चतुर्थ उल्लासः। ९५

सविकल्पं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्। उभयाभावस्व- रूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचा- योभिनवगुप्तपादाः। व्याघ्रादयो विभावा भयानकस्येव वीराद्धतरौद्राणाम् अश्चपातादयोऽनुभावाः शृङ्गा- रस्येव करुणभयानकयोः चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकाना- मिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः। वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः।

इत्यादौ धरणिरभिनवाङ्कराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥ २७ ॥

कल्पकतया निर्विकल्पकजननायोग्यत्वादिति भावः । स्वसंवेदनसिद्धत्वात् स्वात्मकप्रतीतिमात्रसिद्ध- त्वात्। अयं भावः। तदानीं ज्ञानान्तरासंभवात् रसमात्रविषयिण्यां चर्वणायां नामरूपाद्युल्लेखासंभवाच्च कुतः सविकल्पकत्वमिति। उभयाभावस्वरूपस्य उभयभिन्नस्य। उभयात्मकत्वमपीति। 'विरुद्धयोरेकत- रनिषधेऽपरस्मिन् पर्यवसानम्' इति नियमेन सविकल्पकत्वनिषेधे निर्विकल्पकत्वम्। निर्विकल्पकत्वनि- षेधे च सविकल्पकत्वमायातीति उभयात्मकत्वम्। पूर्ववत् कारकत्वज्ञापकत्ववत्।न तु विरोधमिति। अनुभवबलेन तथैव स्वीकारादिति भावः। अभिनवगुप्तपादाः नाटयलोचनादिकर्ता। पादा इति। बहु- वचनश्रीपदाचार्यपदैः स्वसंमतत्वमुक्तम्। "इदमत्र रहस्यम्। पुरा किल काचित् वलभीपठतां बहूना ब्राह्मण बालानामध्ययनशालासीत्। तत्र पठन् कश्चिद्वौडबालोSतिसौबुध्यान्मुखरत्वाच्च निखिलबालानां भयप्रदत्वेन बालवलभीभुजंग इति गुरुणा व्यपदिष्टः । स चाचार्यतामुपगत इति सकलरहस्याभिज्ञ: श्रीवाग्देवतावतारो (मम्मटः) गूढं तन्नामाभिनवगोपानसीगुप्तपादः इति वैदग्ध्यमुखेनाभिव्यनक्तीति। अत एव मधुमत्यां रविभट्टाचार्यरुक्तम् 'अभिनवपदेन ध्वनिटीकाकर्तृपुराणगुप्तपादलिखनविरोवोडन्र न देय: ' इति सुधासागरे स्पष्टम् । ननु विभावादिभ्यः प्रत्येकं रसाभिव्यक्तिसंभवे भरतसूत्रे द्वन्द्वेन स्वसूत्रे 'व्यक्तः सःतैः' इत्यत्र बहुवच- नेन च किमिति साहित्यमुक्तमित्यत आह व्याघ्रादय इत्यादि। पृथक् एकैकस्य अनैकान्तिकत्वात् व्यभिचारित्वात्। तथाहि। एते भरूणां भयमिव वीराणामुत्साहमपूर्वदर्शिनां विस्मयं व्यापादितबन्धूना क्रोध जनयन्ति। अतो भयानकस्येव वीराद्दुतरौद्राणामपि विभावा इति व्यभिचारात् नैकैकस्मिन् व्यञ्ञ- कत्वमित्यर्थः। एवमनुभावमात्रेऽव्याह अश्भपातादय इति। एते शङ्गारस्य विप्रलम्भस्येव करुणभया- नकयोरपि अनुभावा इति व्यभिचारान्नैकैकस्मिन् व्यञ्जकत्वमित्यर्थः । एवं व्यभिचारिमात्रेऽप्याह चिन्ताद्य इति। एते शङ्गारस्य विप्रलम्भस्येव वीरकरुणभयानकानामपि व्यभिचारिण इति व्यभि- चारात् नैकैकस्मिन् व्यञ्जकत्वमित्यर्थः । तत्र शङ्गारे अवगतरूपादीनाम् वीरे सहायादीनाम् करुणे वन्धूपकारादीनाम् भयानके भयहेतुचण्डत्वादीनां चिन्तेति ज्ञेयम्। मूत्रे भरतसूत्रे स्वसूत्रे च । मिलिता: सहिताः । निर्दिष्ट इति। द्वन्द्वेन तैरिति पदेन चोक्ता इत्यर्थः । एवं च विभावादीनां चण्ड- चक्रादिन्यायेन संभूयैव कारणत्वम्। न तु तृणारणिमणिन्यायेनैकैकस्येति भावः ॥ ननु प्रत्येकस्मादपि रसोडनुभूयते इत्याशङ्कते वियदि त्यादिना केवलानामेवात्र स्थितिरित्यन्तेन। 5 गुप्तपादी भुजंगः । सप इति यावत्। "कण्डलीगढपाचलुश्श्रवाः" इत्यमरः ॥

Page 155

१६ काव्यप्रकाश: सटीक:। परिमृदितमृणालीम्लानमङ्ग प्रवृत्तिः कथमपि परिवारप्रार्थनाभि: क्रियासु। कलयति च हिर्माशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २८ ॥ इत्यादौ वियदिति। मानिनीं प्रति सख्या उक्तिरियम्। हे मुग्धे हे विवेकरहिते मानभङ्गावश्यंभावेऽपि मानात्यागादिति भावः। प्रणतिपरे मुहुर्मुहुः प्रणामशालिनि दयिते इति विषयसप्तमी। प्रेमपात्रे न तु स्वामिमात्रे प्रसीद तद्विषये प्रसादं कुरु। बहुतरोद्दीपकसत्त्वादवश्यंभावी मानभङ्ग इति तव गौरवरक्षा न भविष्यतीति भावः । तामेव मानभङ्गसामग्रीमाह वियदित्यादिना। वियत् आकाशम् अलयो भ्रमरास्तद्वत् मलिना अत्यन्तकृष्णा इत्युपमितसमासः। अम्बु गर्भे येषां ते अम्बुगर्भा इति व्यधिकरणत्रहुव्रीहिः। ततः अलिमलिना अम्बुगर्भा: मेघाः यत्रेति त्रिपदो बहुव्रीहिः तादृशम् । अस्तीति शेषः सर्वत्र बोध्यः । अम्बुगर्भत्वेनावृष्टत्वाच्चिरस्थितिर्व्यज्यते। एवं चोर्ध्वमुखी स्थातुं न शक्रोषीति भावः । मधुकरेति। मधुकरकोकिलयोः (सहितयोः) कूजितैः। प्रावृषि कोकिलकूजिताभावेऽपि मुग्धायां भयप्रदर्शनार्थ सख्याः प्रतारणोक्तिरियमिति केचित्। वर्षास्वपि कोकिला माद्यन्तीति कश्चित्। वस्तुतस्तु मधुकरा एव (सुखकरत्वात्) कोकिला इति रूपकम्। तत्कूजितैः दिशां श्रीः शोभा। एवं च तिर्यङ्मुखी स्थातुं न शक्रोषीति भावः। धरणिः भूमि: अभिनवा नूतना अड्कुरा एव अङ्के उत्सङ्गे टङ्का: पाषाणभेदकास्त्रवि- शेषा: (मर्मभेदित्वात् पाषाणप्रायकठिनमानभञ्जकत्वाद्वा) यस्यां सा तादशी। "अभिनवाः अङकुराः यत्र एवंविधोऽङ्को मध्यो यस्य स तथाभूतष्टङ्कःपाषाणप्रायकठिनस्थानं यस्यां सा" इति चक्रवर्तिभट्टाचार्याः। अभिनवाङ्कुरा अङ्कश्चिह्नं यत्र तथाविधष्टङ्कः पाषाणप्रायदेशो यत्रेति केचित्। "टङ्क: पाषाणदारणः" इत्यमरः । एतेनाधोमुखावस्थानं निराकृतम्। एवं चोर्ध्वमधस्तिर्यक्चोद्दीपकवृत्त्या तद्रहितदृष्टिसंचार- स्थलाभावात्प्रणतिपरे प्रेयसि दृष्टिपातं कुर्विति भावः । पुष्पिताग्रा छन्दः। "अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा" इति लक्षणात्॥ परिमृदितेति : मालतीमाधवप्रकरणे प्रथमाङ्क' तथाहि अस्याः' इत्युपक्रम्य माधवस्य मकरन्दंप्रति मालत्यवस्थावर्णनोक्तिरियम् । अस्या: मालत्या अङ्गं परिमृदिता कराभ्यां शिथिलीकृता या मृणाली बालमृणालं तद्वत् म्लानम् । अङ्गमिति जात्यभिप्रायेणैकवचनम्। तथा क्रियासु शरीरमात्रधारणोपयो- गिनीषु बह्वीषु परिवारस्य सखीसार्थस्य प्रार्थनाभिर्बह्वीमिः कथमपि अनिच्छन्त्या अपि बलात्कारेण प्रवृत्तिः सकृदुपक्रममात्रम् न तु चेष्टादि। तेनालस्यातिशयो विषयवैतृष्ण्यं वा व्यज्यते। अन्ये तु क्रियासु बह्वीषु उपन्यस्तासु प्रवृत्तिः क्वचिद्रुपक्रममात्रमित्याहुः। चकारो भिन्नक्मः । अस्या: कपोलः अभिनवस्य करिणो यो दन्तस्तस्य यश्छेद: ( छिद्यते इति छेदः । कर्मणि घन्) छिन्नो भाग: तद्वत् कान्तः। दन्तस्य कोमलत्वेनाशु रक्तसंबन्धात् अलक्तकमिश्रदुग्धवर्णलाभः । केचित्तु अभिनवो थः करिदन्तच्छेदस्तद्वत् कान्तः । तेन गौरत्वोत्कर्षः। तथा च मेघदूते कालिदासः 'सदःकृत्तद्वरददशन- छ्छेदगौरस्य तस्य' इत्यत्र कर्तनस्य सद्यस्त्वमाहेत्याहुः। ईद्ृशोडपि निष्कलङ्कस्य कलामात्रावारीष्ठस्य हिमांशोश्षन्द्रस्य्र लक्षमीं शोभां च कलयति धारयति। अनेन क्षामता व्यज्यते। एकपार्शरायनानचैव किचिदवच्लेदेन रक्तता किचिदवच्छेदेन पाण्डुतेति कपोड़ हत्येकवचनम् । आल्यामपि न शोभाच्यु-

Page 156

चतुर्थ उल्लासः । ९७

दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किंचाश्चितभ्रूलतम्। मानिन्याश्वरणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपश्चचतुरं जातागसि प्रेयसि ॥ २९॥ इत्यादौ च तिरिति कान्तलक्ष्मीपदाभ्यां व्यज्यते इत्युद्दयोतादौ स्पष्टम् । सुधासागरकारास्तु "चकारोऽप्यर्थे। कपोलोपि निष्कलङ्कस्य हिमांशो: लक्ष्मीं शोभां कलयति । शोभामित्यनेनैवमपि न शोभाच्युतिरिति गम्यते। कपोल इत्येकवचनादेक एव पाण्डुः । सौकुमार्येणाशु सर्वतः पाण्डिमोदयात्। अपरः (कपोलः) तु अभिनवकरिदन्तच्छेदकान्तः" इत्याहुः। कपोल इत्येकवचनं जात्यभिप्रायकमिति केचित्। 'छेद- पाण्डुः' इति पाठस्तु न युक्तः। प्राचीनेषु बहुषु पुस्तकेषु तथापाठाभावात्। पाण्डुता व्यज्यते इति सकल- टीकाविरुद्धत्वाच्चेति बोध्यम्। मालिनी छन्दः। "ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणात्॥ दूरादिति। अमरुकशतके निराकरणेन प्रसादनान्निवृत्तस्य नायकस्य पुनरागमने जातभावायाः मानिन्याश्चक्षःक्रियावर्णनमिदम् । उत्सुकमित्यादिविशेषणानि चक्षुरित्यनेनान्वियन्ति। सर्वसप्तम्यन्तानां प्रेयसीत्यत्र संबन्धः। जायत आगः अपराधो यस्मात् (प्रसङ्गतः) तथाभूते न तु कृतागसि "मत्तो जातं न तु मया कृतम् " इति न्यायात् । अत एव प्रेयसि प्रीतिपात्रे न तु स्वामिमात्रे मानिन्याः मानवत्याः चक्षुः प्रपञ्चे विचित्रव्यापारबाहुल्ये चतुरं कुशलं जातमित्यन्वयः । अहो इति चातुर्यदर्शनाद्विस्मये । प्रपञ्न- चातुर्यमेव प्रपञ्चयति दूरादित्यादिना । दूरात् 'दष्टे' इति शेषः । उत्सुकम् (इतोऽन्यत्र वा यातीति शङ्कया) उत्कण्ठासूचकचेष्टाविशेषशालि। आगते समीपं प्राप्ते विवलितं (दूरतः पश्यन्त्याः मम औत्सुक्यमनेन ज्ञातमिति लज्जया) तिर्यक्कतम् ( पूर्वनिराकरणलज्जया) संकुचितं वा। संभाषिणि सम्यक् भाषिणि स्फारितं (निराकरणेऽप्यवैमुख्येन अपूर्वालापेन वा हर्षोदयात्) विकसितम्। संक्लिष्यति (चाटु विनैव आलिङ्गनेच्छया) सांनिध्यं प्राप्तुवति अरुणम् (अप्रसादैव स्पर्शमिच्छतीति क्रोधाविर्भावात्) आरक्तम्। (अत एव क्रोधात् सविध त्यक्त्वा स्थानान्तरं गच्छन्त्याः) गृहीतवसने गृहीतचैलाञ्चले। किंचेति समुच्चयार्थे किंचिदित्यर्थे वा। किंचित् अश्चिता (चाटुकरणं विनैवोत्तरोत्तरं तत्तच्चेष्टाधिक्येना- सूयोदयात्) कुटिलीकृता भलता येन तथाभूतम् । चरणयोरानतिः प्रणामः तस्य व्यतिकरः संबन्धः समूहो वा यस्य तयाभूते बाष्पाम्बु (त्वया एवमाचरित मया कठिनया तत्सोढमित्येवरूपप्रसादोदयात्) अश्रुजलं तेन पूर्णम् ईक्षणं यस्य तथाभूतम्। अम्बुपदं बाहुल्यसूचनाय । ईक्षणपदं गोलकाधिष्ठान- तेज:परम्। गोलकस्याश्रुपूर्णतयैव तत्पूर्णत्वोपचारः। चक्षुर्जातमित्यत्र चक्षुःपदं गोलकपरम्। अतो भेदात् बहुव्रीहिसंगतिः। महेश्वरस्तु ईक्षणपदं गोलकपरम् चक्षुःपदं च तेजःपरमित्याह । तदयुक्तम्। औत्सुक्यविवलितत्वस्फारणादीनां तेजस्यसंभवात्। वस्तुतस्तु बाष्पाम्बुना पूर्ण समाप्तम् ईक्षणं दर्शनं यस्येत्यर्थ इति चन्द्रिकाकारादयः । उद्योतकारास्तु ईक्षणपदं गोलकपरम्। चक्षुःपदं तेजःपरम् विपरीतं वा। आद्े औत्सुक्यादीनां तेजसि सत्ं परम्परया बोध्यम्। अन्त्ये बाष्पाम्बुपूर्णत्वं परम्परया बोध्यम्। अतो भेदात् बहुव्रीहेर्नानुपपत्तिः ॥ 'बाष्पाम्बुपूर्ण क्षणात्' इति पाठस्तु सुगम इत्याङ्कः । शार्दूलविक्राडित छन्दः । लक्षणमुक्त प्राक् (१८ पृष्ठे) । १ "वी गतिप्राप्ति०" इत्यदादिगणपठिते वत्यत्र 'ईकारो धात्वन्तरं प्रश्लिण्यते' इत्युक्तम्। तस्येदं रुपम् । काव्यप्रकाश १३

Page 157

९८ काव्यप्रकाशः सटीक:।

यद्यपि विभावानामनुभावानामौतसुक्यत्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः तथाप्येतेषामसाधारणत्वमित्यन्यतमद्याक्षेपकत्वे सति नानै- कान्तिकत्वमिति॥ तद्विशेषानाह (सू० ४४) शृङ्गारहास्यकरुणरौद्रवीरभयानकाः। बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाटये रसा: स्मृताः॥ २९॥

यद्यपीति। आद्ये (वियदलीति पद्ये) विभावानां मुग्धादयितमेघादिरूपाणाम् आलम्बनोद्दीपन- कारणानाम् द्वितीये ( परिमृदितेति पद्ये) अनुभावानाम् अङ्गम्लानिविषयवैतृष्ण्यपाण्डुताक्षामतादि- रूपाणां कार्याणाम् तृतीये (दूरादुत्सुकमिति पद्ये) व्यभिचारिणाम् औत्सुक्यव्रीडादिरूपाणां सहका- रिणां चेत्यर्थः । यद्यपि प्रसादो न व्यभिचारिषु गणितस्तथापि "मनःप्रसादो हर्षः स्यात्" इति हर्ष एवात्र प्रसादो विवक्षित इत्याहुः । यद्यप्यत्र प्रेयसीत्यालम्बनविभावोऽप्यस्ति तथापि रत्यनुकूलधर्मव- त्वेनानिर्देशात् जातागसीति विरुद्धधर्मवत्वेन निर्देशाच्चाविद्यमानकल्प एव। तदेवाह केवलानामिति। अत्र यथाक्रममुदाहरणत्रये। स्थितिः साक्षादुललेखः। वियदलीत्यादिना केवलानामेवात्र स्थितिरित्यन्तेन शङ्कितं समाधत्ते तथापीति। नानैकान्तिकत्वमित्यनेन संबन्धः। असाधारणत्वं प्राकरणिकरतिनिय- तावस्थितिकत्वमिति विवरणकाराः । झटित्याख्यापकत्वमिति चक्रवर्ती। मुख्यत्वमिति सारबोधिनीकाराः। अन्यतमेति। अन्यतमेषु विभावानुभावव्यभिचारिषु द्वयस्य उल्लिितभिन्नस्य आक्षेपकत्वे प्रत्याय- कत्वे। उक्तं चोद्योते। "आक्षेपो व्यञ्जनेति। नानैकान्तिकत्वं न मिलितानां तेषां रसनिष्पत्तिहेतु- त्वव्यभिचारः। यथाह 'सद्भावश्चेद्विभावादे्द्वयोरेकस्य वा भवेत्। झटित्यन्यतमाक्षेपे तदा दोषो न विद्यते' इति। तदयं सिद्धान्तः । मिलितानामेव रसनिष्पत्तिहेतुत्वम्। यत्र तु एक एव निर्दिष्टः तत्रापि तेनैवान्य- योर्द्वयोराक्षेपेण रसनिष्पत्तिः" इति ॥ केचिदाहुरेक एव शृङ्गारो रस इति। केचिच्च प्रेयांसदान्तोद्धतैः सह वक्ष्यमाणा नवेति द्वादश रसाः। तत्र स्नेहप्रकृतिकः प्रेयांसः। अयमेव वात्सल्य इति बोध्यम्। धैर्यस्थायिभावको दान्तः। गर्वस्थायिभावक उद्धतः। "निन्दादितः परावज्ञा गर्वः" इत्याहुः। तन्मतनिरासाय सामान्यज्ञानोत्तरं विशेषजिज्ञासोदयाच्च वृत्तिकृदाह तद्विशेषानाहेति। तद्विशेषान् तस्य रसस्य विशेषान् भेदान् । रससामान्यलक्षणं तु रसत्वमेव। न च तत्र मानाभावः । रसपदशक्यतावच्छेदकतया तत्सिद्धेः । तच्च बाधकाभावाज्जातिर- खण्डोपाधि्वा ।। शृङ्गारेति। इयं हि कारिका संगीतनाट्यशास्त्रे षष्ठेडध्याये भरतमुनिना पठिता। सैवात्र मम्मटेनावि- कला संगृहीता। रससामान्यलक्षणं तत्तद्रसलक्षणं चोक्तमन्यत्रापि। तथाहि "विभावैरनुभावैश्व युक्तो वा व्यभिचारिभिः । अस्वाद्यत्वात्प्रधानत्वात्स्थाय्येव तु रसो भवेत् । इत्युक्तेः रत्यादिः स्थायिभाव एवं सामाजिकैश्वर्वर्यमाणो रसपदव्यपदेश्यो भवति। तत्र रतिस्थायिभावकः कान्ताद्यालम्बनकः स्त्रकचन्दना- दुद्दीपित; कटाक्षादनुभावितो त्रीडादिसंचारितः शृङ्गारः। १। हासस्थायिभावको विकृतकृदालम्बनको १ इतरदूतूयं तु तन्नादयें प्रणतिरनुभावः। प्रसाद्षार्थमोन्नेयासूचा संचारिणी। द्विनीये मालतीमाधवौ विभावी प्रकरण रव्यौ म्लानतवादिगम्या चिश्वा व्यभिचारिणी। बृतीये मामिनीयियासौ विभाषो सरणानिरनुसाव इति योगम्॥

Page 158

चतुर्थ उल्लास:। ९९

वैकृताघयुद्दीपितो गल्लफुल्लनाद्यनुभावितः श्रमादिसंचारितो हास्यः । २ । शोकस्थायिभावको मृता- द्यालम्बनकस्तद्गुणाघयुद्दीपितो रोदनाद्यनुभावितो दैन्यादिसंचारितः करुणः। ३ । क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराघुद्दीपितो विकत्थनाद्यनुभावितो गर्वादिसंचारितो रौद्रः । ४ । उत्साह- स्थायिभावको द्विषद्विद्वज्जनदीनालम्बनकोऽपकारगुणापदुद्दीपितः प्रतीकारकरणदानाद्यनुभावितो हर्षावेगचिन्तादिसंचारितो वीरः । ५। भयस्थायिभावको विकटाद्यालम्बनकस्तद्विकटकर्माद्युद्दीपितः पलायनाद्यनुभावितो जडतादिसंचारितो भयानकः । ६ । जुगुप्सास्थायिभावको विण्मूत्राद्यालम्ब- नको दुर्गन्धादयुद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचारितो बभित्सः ।७। विस्मयस्थायिभा- वको विस्मयजनककर्मकर्त्रालम्बनको विस्मयकर्माद्युद्दीपितश्चकितताद्यनुभावितो हर्षादिसंचारितोS- द्वुतः ।८। " इति ॥ अष्टाविति। "सर्व वाक्यं सावधारणम्" इति न्यायेन नाट्ये अष्टावेवेत्यर्थः । प्रेयांसादि- त्रयस्तु भावान्तर्गता इति भावः । एतेनाभिलाषस्थायिको लौल्यरसः श्रद्धास्थायिको भक्तिरसः स्पृहास्थायिकः कार्पण्याख्यो रसोऽतिरिक्त इत्यपास्तम् । त्रयाणामपि भावान्तर्गतत्वात्। व्याख्यातं च सोमेश्वरेणापि। अष्टाविति। एते एवोपरञ्जका इति भावः । तेनार्द्रस्थायिकः स्नेहो रस इत्यसत्। स्नेहो भक्तिर्वात्सल्यमिति रतेरेव विशेषाः। तेन तुल्ययोरन्योन्यं रतिः स्नेहः। अनुत्तमस्योत्तमे रति- भक्तिः। उत्तमस्यानुत्तमे रतिर्वात्सल्यम् इत्येवमादौ भावस्यैवासाद्यत्वमिति। अन्येऽप्याहुः । स्नेहो भक्तिर्वात्सल्यं मैत्री आबन्ध इति रतेरेव विशेषाः । तुल्ययोर्मिथो रतिः स्नेहः । प्रेमेति यावत्। तथा तयोरेव निष्कामतया मिथो रतिमैंत्री। अवरस्य वरे रतिर्भक्तिः सैव विपरीता वात्सल्यम्। सचेतनानामचेतने रतिराबन्ध इति । रसगङ्गाधरकारा अप्याहुः । अथ कथमेत एव रसाः। भग- वदालम्बनस्य रोमाञ्चाश्रुपातादिभिरनुभावितस्य हर्षादिभिः पोषितस्य भागवतादिपुराणश्रवणसमये भगवद्द्रक्तैरनुभूयमानस्य भक्तिरसस्य दुरपह्ववत्वात्। भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः । न चासौ शान्तरसेऽन्तर्भावमर्हति। अनुरागस्य वैराग्यविरुद्धत्वात्। उच्यते। भक्तेर्देवादिविषयरति- त्वेन भावान्तर्गततया रसत्वानुपपत्तेरिति। नाट्ये अभिनयात्मके काव्ये। श्रव्ये काव्ये तु शान्तो नवमोऽपि रसः । नाट्ये हि अवस्थानुकृतौ सर्वविषयोपरमस्वरूपस्य शान्तस्य न संभवः । रोमा- ्ादिविरहेणानभिनेयत्वात् गीतवाद्यादेस्तद्विरोधित्वाच्च। तदुक्त "न यत्र दुःखं न सुखं न चिंन्ता न द्वेषरागौ न कदाचिदिच्छा । रसः प्रशान्तः कथितो मुर्ना्द्रिः सर्वेषु भावेषु शमप्रधानः " इति सारबोधिनी। अन्ये तु अष्टौ इति नाट्ये इति चोपलक्षणम्। तेन "शान्तोऽपि नवमो रसः " इत्येतद्वक्ष्यमाणं नाट्यश्रव्यसाधारणम् । तस्याप्यभिनेयत्वस्य बहुभिरङ्गीकारात। गीतवाद्यादिकमपि तद्विषयकं न तद्विरोधि। अत एव चरमाध्याये संगीतरत्नाकरे "अष्टावेव रसा नाटयेष्विति केचि- दचूचुदन् । तदचारु यतः कंचित् न रसं स्वदते नटः॥" इत्यादिना नाटयेऽपि शान्तरसोS- स्तीति व्यवस्थापितमित्याहुः । ननु रसः सुखात्मक इति प्रतिपादितम् । तत्कथं शोकाद्युद्वोध- कत्वेन दुःखमयस्य करुणादिकस्य रसत्वम् । रसत्वे सुखरूपतापत्तिः दुःखकार्याश्पातादेरनापत्तिः । अरसत्वे तु तत्काव्ये सहृदयानां प्रवृत्तिर्न स्यादिति चेन्न। लोके तथात्वेऽपि काव्यादौ पार्यन्ति- कालौकिकसुखोदयात्। अन्यथा प्रेक्षावतां प्रवृत्यनापत्तेः । अयमाशयः । यदपि करुणो रसः सुख- १ इदं हि युद्धवीरो दानवीरो द्यावरिश्र्वंति त्रिविधो वीर इति मतेनेति बोध्यम् ॥२ तत्र श्रद्धा चास्तिक्यनिश्रया- त्मिफा वेदशास्त्रादिविषया शिष्टानां प्रसिद्धा। भक्तिरपि भगवति प्रसिद्धैव।। 3 कंचित् कंचिद्पि॥

Page 159

१०० काव्यप्रकाश: सटीक:। तत्र शृङ्गारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्। तत्राद्यः परस्पराचलोकनालि- ङनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गण्यते। यथा शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै- निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्। दुःखसंभिन्नः तथापि शोकावच्छिन्नस्य चैतन्यस्यानन्दांशे भग्नावरणस्य करुणरसत्वे निरतिशयस्या- नन्दांशस्योत्कटत्वेनोत्कटेच्छाविषयत्वात् शोकांशे च बलवद्द्वेषाभावात्तत्र सामाजिकानां प्रवृत्तिः । भावनया वर्णनीयमयीभावेन शोकाभिव्यक्तेस्तत्कार्याश्रुपातादयो भवन्तीति न किचिदनुपपन्नम्। एवं बीभत्सभयानकयोरपीति । अथवा अश्रुपातादयस्तु तत्तदानन्दानुभवस्वाभाव्याद्भवन्ति न तु दुःखादिति बोध्यम्। न हि दुःखनियता अश्रपातादयः । भगवद्वर्णनाकर्णनाद्गक्तानां तदुदयात्। तत्र दुःखलेशस्याप्यसंभावनीयत्वादिति दिक्॥ तत्रेति। तेषु रसेषु मध्ये इत्यर्थः । शृङ्गारस्येति । "शृङ्गं हि मन्मथोद्वेदस्तदागमनहेतुकः । पुषप्रमदाभूमि: शूङ्गार इति गीयते ॥ " इति शृङ्गारपदनिरुक्तिः । रत्यादिप्रकृतिकत्वं शृङ्गारादीनां लक्षणम्। रतिस्तु मनोऽनुकूलेष्वर्थेषु सुखसंवेदनं (सुखजनकत्वेन ज्ञानम्) इति प्रदीपोद्दयोतयोः स्पष्टम्। सुधासागरकारास्तु "स्मरकरम्बितान्तःकरणयोः स्त्रीपुंसयोः परस्परं रिरंसा रतिः। 'रतिर्देवा- दिविषया' इत्यादौ तु रतिशब्दप्रयोगो भाक्तः । उक्तं च रससुधासागरकारैः 'यूनोरन्योन्यविषयस्थायि- नीच्छा रतिः स्मृता'।। इति" इत्याहुः। द्वौ भेदाविति। उभयस्यापि रतिप्रकृतिकत्वात् । तदुक्तम्। "अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ। दर्शनस्पर्शनादीनि स संभोग उदाहृतः ॥ भावो यदा रतिर्नाम प्रकर्षमधिगच्छति। नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते ।।" इति । प्रकर्ष विभावादि- संवलितत्वम्। चानुकूलावित्यादि संभोगलक्षणं नायिकानायकयोरन्यतरमात्रदर्शनादिरूपे व्यङ्गबे संभोगेऽव्याप्तमिति वाच्यम्। रतिप्रकृतिकत्वे सति विप्रलम्भाभिन्नत्वे तात्पर्यात्। तत्र रसाभास एवेत्यपरे। न च विप्रलम्भलक्षणं नायकप्रसादमानमानिनीनायिकाविप्रलम्भेऽव्याप्तमिति वाच्यम् । रतिप्र- कृतिकत्वे सति संभोगभिन्नत्वे तात्पर्यात्। तदानीं तस्मिन् विरुद्धधर्मग्रहादभीष्टत्वज्ञानाभावेन लब्ध- त्वज्ञानाभावेन वा न दोष इत्यन्ये इति प्रदीपोद्दयोतयोः स्पष्टम् । तदेवाह संभोगो विप्रलम्भश्चेति। लज्जाधैर्निषिद्धान्यपीष्टदर्शनादीनि कामिनौ यत्र संभुञ्जाते सः संभोगः। संभोगसुखास्वादलोभेन विशे- षेण प्रलभ्यते आत्मा यत्र स विप्रलम्भ इत्यर्थः। एक एवेति। संयोगत्वसामान्याभिप्रायेणेदम् तच्च विप्रलम्भभिन्नत्वे सति रतिप्रकृतिकत्वमित्यनुपदाक्तम् । गण्यते इति। एतेन संभोगेऽवान्तरभेदाः संभवन्तीति कैश्चिदुक्तं निरस्तम्॥ सोऽपि संभोगो द्विधा। नायिकारब्धो नायकारब्धश्रेति। तत्राद्यमुदाहरति शन्यमिति। अमरुक- शत्के प्रथमावतीर्णमदनविकारमुग्धावर्णनपरं पद्यमिदम् । वासगृहं शयनागारम्। "भोगावासो वास- गृहम्"इति हारावली। शून्यं निर्जनं विलोक्य (शून्यत्वेन ज्ञातमपि निभृतसखीस्त्वशङ्कया) विशेषेण दृष्टा शयनात् किंचित् अपरकायेन न तु सर्वतः। पतिनिद्रामङ्गोऽपि पार्श्वपरिवर्तनेन समाधातुं शक्य- त्वादिति भाव: । शनैः ( वलयादिक्काणेन पतिनिद्राभङ्गो यथा न स्यात्तथा ) मन्दम् उत्थाय अनुराग- जिज्ञासया निद्रायाः ब्याजं मिषम् उपागतस्य प्राप्तस्य ने तु व्याजेन निद्राम् सर्वथा तदसंबन्धात् पत्यु: १ मानिनीनाथिकेति उद्दयोतकारप्रयोगे पुंवद्रावाभावो विचार्यः ॥ २ ननु कविना 'निद्राव्याजम्' इत्यत्र ' ब्याज- निद्राम्' इति नोक्तमित्यत आह नत्विति॥

Page 160

चतुर्थ उल्लास:। १०१

विस्रन्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता॥ ३०।।

तथा Eत्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि।

न तु प्रियस्य अपूर्वसमागमेनानुद्धित्नरहस्यत्वात्। तथा निर्वर्णनेऽपि निद्राव्याजसाहष्णुत्वादित्यन्ये। मुखं सुचिरं यावद्बुद्धिवैभवम् निर्वर्ण्य (अनुरागातिशयात् निद्रानिर्णयार्थ च) निःशेषं वर्णयित्वा दृष्ट्रे त्यर्थः। सुचिरं बहुकालं व्याजमुपागतस्येति वा अन्वयः। विस्रब्धं विश्वासयुक्तं यथा स्यात्तथा (एता- वताप्यभङ्गेन निद्रायां वास्तविकत्वभ्रमात्) परिचुम्व्य परितः कपोलयोर्नेत्रप्रान्तयोश्व चुम्बनं कृत्वा गण्डस्थलीं जातपुलकां उत्पन्नरोमाञ्च्वामालोक्य । पुलकस्य सर्वाङ्गीणत्वेऽपि गण्डस्थले एव दर्शनात गण्डस्थलोक्तिः । गण्डस्य स्थलीत्वेन पुलकस्याङ्करता। अत्र गण्डेत्यश्लीलम् । लज्जते इति लज्जेति पृथक्पदं पचादित्वादच् । लज्जावती। लज्जनक्रियया समानकर्तृकत्वेन आलोक्येति क्त्वोपपत्तिः । अन्यानि कत्वान्तान्यप्येतदपेक्षाण्येव। अत एव नम्रमुखी। लज्जाराहित्यहेतुप्रौढत्वव्यावृत्तये बालेति मुग्धेत्यर्थकम्। हसता। तव सर्व रहस्यमवगतमिति वा पूर्व मत्प्रार्थनयापि न प्रवृत्तासि इदानीं कथ- मिति वा निद्राव्याजफलं झटित्येव लब्धमिति वा हासः । अत एव प्रियेण चिरं लज्जापगमः संभोग- स्वीकारश्र यावत् तावत्पर्यन्तं चुम्बितेत्यर्थः । सवृद्धिकमूलधनग्रहणाय चिरमिति चक्रवर्ती। अत्र शून्यमित्यनेनोद्दीपनातिशयः चुम्बनप्रवृत्तियोग्यता च ध्वन्यते। वासगृहमित्यनेन स्त्रक्चन्दनादि- संपत्तिः । पत्युरित्यनेन युक्तानुरागित्वम् । विस्रब्धमित्यनेन रागातिशयादविमृश्यकारित्वम्। नम्रे- त्युक्त न तु नमितेति। तेन लज्जया तथा विह्वलत्वं यथा मुखनामनेऽप्यशक्तिरिति व्यज्यते। अत्र लज्जाहासयोर्व्यभिचारिणोः स्वपदेनोपादानं चिन्त्यम् । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्त प्राक् (१८ पृष्ठे) ।। अत्र नायक आलम्बनम्। शून्यगृहनायकनिद्रादि उद्दीपनम् । मुखनिर्वर्णनचुम्बनादि अनुभाव:। लज्जाहासव्यङ्गयहर्षादिर्व्यभिचारिभावः । रतिः स्थायिभावः । तज्ज्ञे सामाजिके रसनिष्पत्तिः । अत्र यद्यपि परस्परस्यालम्बनत्वेनोभयोरपि रतिः प्रतीयते शून्यगृहं शयनं चोभयोरुद्दीपनम् बालाया: रतेरु- द्दीपन बिभावोऽनुभावो व्यभिचारिणश्चोक्ता एव नायकरतेरुद्दीपनं नायिकाचुम्बनम् हासादिरनुभाव: हासव्यङ्गयो हर्षो व्यमिचारिभावः तथापि नायकविषयिण्याः नायिकानिष्ठाया रतेरुद्रेक एव चर्वणा- विषय इति सहृदयसाक्षिकम् । "पूर्व रक्ता भवेन्नारी पुमान् पश्चात्तदिङ्गितैः" इत्युक्तेर्नायिकारब्धं संभोगमुदाहृत्य नायकारब्धमु- दाहरति त्वं मुग्धेति। अमरुकशतके कुचोपपीडं परिरभ्य रन्तुकामस्य आलिङ्गनव्यवधानभूतां कञ्चुकी मोचयितुं प्रवृतस्य नायकस्य वर्णनमिदम्। हे मुग्धाक्षि हे सुन्दरनयने त्वं कञ्चुलिकया विनैव कञ्चुकी (चोलिकां) विनैव मनोहारिणीं चित्ताकर्षणशीलां (ताच्छील्ये णिनिः) लक्ष्मी शोभां धत्से धारयसि। अक्ष्णैव जगन्मनोवशीकरणात्। अत एव कञ्चुलिकावैयर्थर्थम्। न केवलं कञ्चुलिकानपसारणे शोभा- नुत्पत्तिः अपि तु विद्यमानशोभातिरोधानमपीत्येवकारद्योत्यम्। इति एवं अभिधायिनि आभाषमाणे

Page 161

१०२ काव्यप्रकाशः सटीक:। शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलककिवचनोपन्यासमालीजनः । १।। अपरस्तु अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पश्चविधः । क्रमेणोदाहरणम्। (एतेन नायकस्य प्रेमातिशयो व्यङ्गयः) प्रियतमे अतिशयप्रीतिपात्रे नायके (अनेनानुपेक्षणीयत्वं व्यङ्गयम्) तस्याः कञ्चुलिकायाः वीटिका ग्रन्थिस्तां (मोचनाय) संस्पृशि सति (सखीसार्थाल्लज्जया) शय्याया उपान्ते समीपदेशे (प्रान्तभागे) निबिडा निबिडसंलग्ना सा चासौ स्मिता ( भवतीषु स्थितास्वप्ययमेवं चेष्टते इति लज्जया) ईषत्संजातहास्या (अनेन कञ्चुलिकापसरणसंमतिप्रकटनम्। अन्यथा भ्रुकुटिलौल्यमेव स्यात्) एतादृशी या सखी (आलीजनस्य) प्रेयसी नायिकैव तस्याः नेत्रयो- रुत्सव उत्फुल्लता तेन आनन्दितः संजातानन्दः आलीजनः सखीजनः अलीकानां मिथ्याभूतानां (शुको मया पाठनीयः। सारिका मया भोजनीया। चकोरी मया चन्द्रिकापानाय मोचनीया इत्यादीनां) वचना- नामुपन्यासो यस्मिन्कर्मण यथा स्यात्तथा (अलीकवचनोपन्यासश्र सखरिहस्यज्ञानगोपनेन तस्याः लज्जातिशयपरिहाराय) शनकैः मन्दं निर्यातः मन्दिरात् निर्गत इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठ) ।। अथ मुग्धाक्षी आलम्बनम्। नयनसौन्दर्याङ्गशोभादि उद्दीपनम्। आभाषणवीटिकास्पर्शावनुभावौ। आभाषणवीटिकासंस्पर्शयोस्तुल्यकालतावगत्या प्रतीयमाना उत्कण्ठादयो व्यभिचारिणः । रतिः स्थायि- भावः। तज्ज्ञे सामाजिके रसनिष्पत्तिः। एवमेवाग्रिमेष्वपि ज्ञेयम्। यदप्यत्र मुग्धाक्षी प्रियतमश्च परस्पर- रत्यालम्बनविभावौ नायकरतेरुद्दीपनविभावोऽनुभावो व्यभिचारिणश्चोक्ता एव नायिकारतेस्तु नायकर- त्यनुभावावेवोद्दीपनम् स्मितादिरनुभावः तद्यङ्गयो हर्षो व्यभिचारिभावः तथापि प्राधान्येनास्वादविषयत्वं नायिकालम्बनायाः नायकनिष्ठरतेरेवेति पूर्वस्माद्गेद इति बोध्यम्।। अपरस्त्विति। अपरः विप्रलम्भः । अत्र अभिलाषः पूर्वरागमात्रम् अप्राप्तसमागमयोरन्योन्यप्रा- प्ीच्छा वा। तयोर्दूरस्थयोरपि न प्रवासहेतुकः। विरहस्तु एकदेशस्थितयोरपि एकतरस्याननुरागात्। अनुरागे सत्यपि वा दैवप्रतिबन्धात्। गुरुलज्जादिवशाच्चासंयोगः । ईर्ष्या मानहेतुमात्रम्। प्रवासः अनुरक्तयोरपि कार्यान्तरवशात् विभिन्नदेशस्थितिः । स च भूतभविष्यद्वर्तमानसाधारणः । विरहप्र- वासयोस्तु भेदं लक्ष्ये विवेचयिष्यामः । शापः एतावन्तं कालं तव नायिकासंयोगो मास्त्वित्यादिरूपः सिद्धपुरुषादिवाग्विशेषः । तद्धेतुकश्चैकदेशस्थितयोरपि पाण्डुमाद्योरिव वक्ष्यमाणोदाहरणे दूरस्थयोरपि यक्षतत्कान्तयोरिति ज्ञेयमिति टीकाकाराः। प्रदीपोद्दयोतप्रभासुधासागरकारास्तु विप्रलम्भः संगमपूर्वस्त- दन्यश्च। तत्रान्त्योऽभिलाषहेतुक इत्युच्यते। अभिलाषपदेन तद्धेतोः अनादिसंगमाभावस्य लक्षणात्। आद्यस्तु कचित् 'प्रिये सपत्नीरक्ते कोप ईर्ष्या' इत्युक्तलक्षणेर्ष्याहेतुको मानरूपः। प्रणयहेतुको वा मानरूपः । यथा भूषणादिलाभेच्छायाम्। स उभयरूप ईर्ष्याहेतुक इत्युच्यते। ईर्ष्यापदेन मानहेतो- रुपलक्षणात्। कचित्तु कार्यवशाद्देशान्तरस्थितेः स प्रवासहेतुकोडभिधीयते। उत्पद्यमानोत्पत्स्यमानावपि १ तद्वेतोरिति। सिद्ध इच्छाविरहात्संगमप्रागभावोडभिलाषप्रयोजक इत्यमिलाषपदेन लक्ष्यते। अन्यथा सर्वस्यैव विप्रलम्भस्याभिलाषहेतुकत्वेन भेदानुपपत्तेरिति भाव इति प्रभा । तद्वेतोरिति । एतेन "श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः । दशाविशेषसंप्राप्तिः पूर्वरागः स उच्यते ॥" "अभिलाषचिन्तास्मृतिगुणकथनोद्टेगसंलापाः । उन्मादो व्याधिरजडता मूर्छेति दशात्र दशाः ॥" इत्युक्तेः पूर्वरागविप्रलम्भीयदशान्तर्गतोऽमिलाषो न विप्रलम्भ

Page 162

चतुर्थ उल्लास:। १०३

प्रेमार्द्रा: प्रणयस्पृशः परिचयादुद्गाढरागोदया- स्तास्ता मुग्धदृशो निसर्गमधुराश्रेष्टा भवेयुर्मयि। कTP03BPSM5

यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा- दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ ३२ ॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादक् सुहृद् 55P

यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्मः । प्रवासौ स्वज्ञानद्वारा विप्रलम्भप्रयोजकाविति नाव्याप्तिः प्रवासशब्देन ज्ञानलक्षणाद्वा। कचिच्छापात्। स च शापहेतुक इति व्यवहियते। कचित् ईर्ष्याप्रवासशापरूपोक्तत्रितयातिरिक्ताद्गुरुलज्जादितः कार- णात्। स एष विरहहेतुक इत्युच्यते। गुरुलज्जादितः संगमप्रतिबन्धो विरहः। करुणशृङ्गारस्यापि विप्र- लम्भे एवान्तर्भावः । न च करुणों न शृङ्गारस्तस्य शोकप्रकृतिकत्वादिति वाच्यम्। प्रत्युज्जीवनान्त- प्रयाणेऽ्न्यतरस्यापि रतेरनपायात् । अतथाभूते करुणसौलभ्यात्। उक्तं च वाचस्पतिमिश्रप्रमुखैः "यूनोरेकतरस्मिन् गतवति लोकान्तरं षुनर्लभ्ये। विमनायते यदेकस्तदा भवेत्करुणविप्रलभ्भः ॥" इति दर्शनान्मूर्छितनायकविषयकः करुणविप्रलम्भोऽप्यस्ति। यथा कादम्बर्याँ पुण्डरीकमहाश्वेतावृत्तान्ते। शोकश्चात्र (करुणविप्रलभ्भे) व्यभिचारी बोध्यः। अत एव संगमप्रत्याशाकालिकस्तदनुत्पादो विप्रलभ्भ इतीत्याड्डः। पञ्चविध इति। केचित्तु "पूर्वानुरागमानाख्यप्रवासकरुणात्मना। विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ॥" इत्याह्कः ॥ तत्राभिलाषहेतुकमुदाहरति प्रेमार्द्रा इति। मालतीमाधवे पञ्चमाक्के मालतीप्राप्त्यै शमशानसाधने प्रवृत्तस्य माधवस्याभिलाषोऽयम् । मुग्धदृशः मालत्याः तास्ता अनुभूताः चेष्टाः दर्शनहासतादिरूपाः मयि (पुनः) भवेयुरित्यन्वयः। आशंसायां लिड्। कीदृश्यः । अयं मम अहमस्येत्याकारकः पक्षपातविशेषः प्रेम तेन आर्द्राः स्त्निग्धाः। प्रेमव्यञ्जकत्वात् । तथा प्रेमेवावलोकनादिना प्रकर्ष नीतम् अपराधसहस्त्रे- णाप्यविचालितं वा प्रणयः तं स्पृशन्तीति प्रणयस्पृशः प्रणययुक्ताः । तथा परिचयात् दृढासंगात् उद्गाढः (स्थिरतया) निःशेषमुत्सारितगुर्वादिपारतन्त्र्यः रागस्योदयो यासु तथाभूताः। परिचयातिशयेन रञ्जनक्षमः प्रणय एव रागः । तथा निसर्गेण स्वभावेन मधुराः मनोहराः। यासु (चेष्टासु) आशंसया मनोरथेन परिकल्पितास्वपि किं पुनरनुभूतासु इत्यपिशब्दद्योत्यम्। क्षणात् बाह्यकरणस्थ चक्षुरादेरि- न्द्रियस्य व्यापारं विषयग्राहित्वं रुणद्धीति तादृशः अन्तःकरणस्य मनसः आनन्देन सान्द्रः निबिड: लयः तन्मयत्वं भवतीत्यर्थः। 'तास्ताः मुग्धदृशः' इत्यन्न 'तस्या मुग्धदृशः' इत्युद्दयोतसंमतः पाठः। शार्दूलवि- क्रीडित छन्दः 1 लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र मालती आलम्बनम्। तद्विलासानुस्मरणमुद्दीपनम्। आशंमानुभावः। तद्वयङ्गयोत्कण्ठा व्यभि- चारिभावः । रतिः स्थायिभावः ।। विरहहेतुकमुदाहरति अन्यत्रेति। कृतसंकेतस्य नायकस्य गुरुलज्जादियत्किंचित्कारणात् रात्रावना- गमने वितर्कयन्त्याः नायिकायाः (विरहोत्कण्ठितायाः ) वर्णनमिदम्। इति एवंप्रकारेण अल्पेतराभिः बह्ीभि: कल्पनाभिर्वितर्कणैः कवलितं अ्सित हयाप्तमिति यावतू स्वान्तं मनो यस्यास्तथाभूता बाला १ मध्याशा पाहिनिश्रयय: ॥

Page 163

१०४ काव्यप्रकाश: सटीक:। इ त्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाम्ोति निद्रां निशि ॥ ३३॥ एषा विरहोत्कण्ठिता। सा पत्युः प्रथमापराधसमये सख्योपदशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्। स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठलोलालकैरश्रुभिः ॥ ३४ ॥ निशान्तस्य शयनगृहस्यान्तरे मध्ये वृत्तः संजातो विवर्तनानां पार्श्वपरिवर्तनानां व्यतिकरः संबन्धः समूहो वा यस्यास्तथाभूता सती चित्तस्वास्थ्याभावान्मुहुर्मुहुः शय्यायां लुठन्ती सतीति यावत् निद्रां निशि नाप्रोतीति संबन्धः । कल्पनाप्रकारमाह अन्यत्रेति। उत्तरवाक्यस्थोऽप्यपिशब्दः काकाक्षिगोलकन्याये- नात्ापि संबध्नाति । अन्यत्न नायिकान्तरगृहे व्रजति गच्छतीति कथापि प्रवादोऽपि का कुत्सिता अलीका किमुत गमनमित्यपिशब्दद्योत्यम्। तादृशमदेकपत्नीव्रतधरप्रियस्यान्यनायिकाभिलाषः स्वमेS- प्यसंभावितः कुतः पदार्थसत्तेति भावः । खलु निश्चितम् । अनेन स्वतोऽन्यत्र प्रवृत्तिर्वारिता। ननु तादृब्मित्रसंगत्या गच्छेत्तत्राह नाप्यस्येति। अस्य नायकस्य तादकू अन्यत्र गमनशीलः सुहृत् मित्रमपि न। ननु त्वय्यपि विरक्त इत्यत्राह यो मामिति। काकुरियम् । यो मां नेच्छतीति न अपि तु इच्छ त्येव। तर्हि हेत्वभावेऽनागमनमप्यसंभाव्यं तत्राह नागतश्चेति। चकारस्त्वर्थे । आगतस्तु नेत्यर्थः । कारणाभावेऽपि कार्यमिति विस्मये हहहेति । हहहेति दैन्ये इति चक्रवर्ती। सहसेति पाठे तु ननु दैववशान्नगतस्तत्राह सहसेति । अकस्मादित्यर्थः । विधेर्दैवस्य कोऽयम् अननुभूतपूर्तः प्रक्रम: आरभ्भ: अहेतुककार्योत्पादः इत्यर्थः । तथा विधेर्मया किमपराद्धमिति भावः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्त प्राक् (१८ पृष्ठे) । ननु विरहो न भेदान्तरं प्रवासेन सिद्धेः। न च दूरदेशाभावान्न तथा। सद्विशेषणवैयर्थ्यादित्यत आह एषेति। अनयोरैक्ये तु प्रोषितभर्तृकातोऽस्याः भेदो न स्यात्। न च मास्तु भेद इति वाच्यम्। भरतमु- निस्वीकृतानां स्वाधीनभर्तृकादिषोडशभेदानामसंगत्यापत्तेः। विरहोत्कण्ठितेति। "आगन्तुं कृताचि- त्तोडपि दैवान्नायाति यत्प्रियः। तदनागमदुःखार्ता विरहोत्कण्ठिता मता" इति तल्लक्षणात्। अत्ानागतप- तिरालम्बनम्। अनागमनादिरुद्दीपनम् । विवर्तनादिरनुभावः । हहहेत्यादिसूचितो विस्मयो दैन्यं वा व्यभिचारिभावः । रतिः स्थायिभावः ॥ ईर्ष्याहेतुकमुदाहरति सा पत्युरिति। अमरुकशतके काचित् नवोढायाः स्वप्रेयस्याः दुःखमसहमाना कांचित्तद्वृत्तान्तं कथयति। सा बाला मुग्धा पत्युर्न तु प्रियस्य तत्त्वेSपराधायोगात् प्रथमो योऽपराधः अन्याङ्गनासंगमरूपः तस्य समये। प्रथमत्वेनात्यन्तासह्यता । द्वितीयादौ चातुर्यसंभवाद्वा तदुक्तिः । सख्येन सौहार्देन करणेन य उपदेश: (अर्थात्सखीकर्तृकः ) तं विना तदभावात्। केचित्तु सख्येत्य- समस्त कर्तृतृतीयान्तम्। तथा च सखीकर्तृकोपदेश विनेत्यर्थ इत्याह्कः । तन्न। "कर्तृकर्मणोः कृति" (२।३/६५) इति सूत्रविहितकर्तृषष्ठया बाघात्। उभयो: प्रयोगाभावेन "उभयप्राप्तौ कर्मणि" (२।३। ६६) इति सूत्रस्य प्राप्त्यभावाच्च। सविभ्रमं यथा स्यात्तथा अङ्गस्य भ्रुकुटयादे: वलना चालना वक्री-

Page 164

चतुर्थ उल्लासः। १०५

प्रस्थानं वलयैः कृतं प्रियसखैरसैरजसं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः। यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता: । ही : गन्तव्ये सति जीवित प्रियसुहत्सार्थः किमु त्यज्यते॥ ३५॥ 1 05 त्वामालिख्य प्रणयकुपितां धातुरागै। शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।

करणादिरिति यावत्। याश्व वक्राक्तयः ताभि: संसूचनं (अर्थान्मानस्य प्रकाशनं) नो जानातीत्यर्थः। तर्हि किं करोतीत्यत्राह स्वच्छैरित्यादि । स्वच्छैरतिनिर्मलैः अच्छयोरततिनिर्मलयोः कपोलयोः मूलेन गलितैः। अञ्जनपत्रावलीगमनादश्रुकपोलयोः स्वच्छता। तेन रोदनाधिक्यम्। उत्तानशयनान्मूलेन गलनम्।अश्रु- भिरिति इत्थंभूतलक्षणे तृतीया। अश्रज्ञाप्यं केवलं रोदनमेव करोतीत्यर्थः। रोदनं हि अश्रुजनकीभूत आन्तरो व्यापारः। शब्दप्रयोगादिज्ञापकान्तरव्यवच्छेदायाश्रुभिरिति। कीदशी बाला। पर्यस्ते (परदर्शने लज्जया) परितः अस्ते क्षिप्ते नेत्रोत्पले यया तथाभूता। लुठन्तो विप्रकीर्णा: लोलाश्चञ्चलाः ये अलकास्त- रुपलक्षितेत्यर्थः । शार्दूलविक्रीडित छन्दः। लक्षणमुक्त प्राक् (१८ पृष्ठे) ॥ अत्र पतिरालम्बनम्। अपराध उद्दीपनम्। रोदनादनुभावः । तद्यङ्गया असूया व्यभिचारिभावः । रतिः स्थायिभावः । अत्र पत्युरन्यासङ्गाद्वालाया ईर्ष्या ॥ प्रवासहेतुकमुदाहरति प्रस्थानमिति। अमरुकशतके प्रवत्स्यत्पतिका स्वजीवितं संबोध्य सोपालम्भं वदति। हे जीवित त्रियतमे नायके यातुं गन्तुं निश्चितं जातनिश्चयं चेतो यस्य तथाभूते सति न तु गन्तुमुद्युक्ते सर्वे अर्थात्तव सुहृद: समं (प्रियतमेन ) सह प्रस्थिताः प्रचलिताः । तथा च (तवापि) गन्तव्ये सति गमनावश्यंभावे सति "कृत्यल्युटो बहुलम्" इति अवश्यार्थे तव्यप्रत्ययः । प्रियस्य नायकस्य सुहृदां च सार्थ: समूहः किमु कुतः (त्वया) त्यज्यते। अवश्यमेव प्रियसुहृद्वियोगे त्वयापि गन्तव्यमेवेति सार्थत्यागेन विलम्बकरणं वृथेति भावः । केचित्तु हे प्रियेति जीवितविशेषणम् सुहृदां सार्थ इत्यन्वय इत्याहुः। के के प्रस्थितास्तत्राह प्रस्थानमित्यादि। वलयैः कङ्कणैः प्रस्थानं कृतम्। वलयानां प्रस्थानं प्रियतमगमनवार्तया कार्श्येन वलयभ्रंशात्। प्रियसखैः प्रीतिपात्रैः प्रियस्य नायकस्य वा मित्रभूतैरिति लिङ्गवचनविपरिणामेन सर्वतृतीयान्तान्वयि। तत्त्वं च वलयानां प्रियसंनिधानान्वयव्यतिरेकानुविधायि- तया अस्राणामपि हृदयस्थत्वेन प्रियसखत्वम्। एवं धृतिचित्तयोरपि योज्यम् । अस्त्रैः अश्रुभि: अजस्त्रे निरन्तरं गतं नयनाभ्यां निर्गतम् एवं धृत्या धैर्येण क्षणं क्षणमात्रमपि नासित न स्थितम्। चित्तेन गन्तुं पुरः पूर्वमेव व्यवसितम् उदुक्तं न तु गतम्। अतः सममित्यनेन न विरोधः। सार्थशब्दश्व यद्यपि "संघसार्थौ तु जन्तुभिः" इत्यमरोक्तर्जन्तुसमूहे एव प्रयुज्यमानो दृष्टः न त्वचेतनसमूहे तथापि चेतनत्वारोपात्संगमनीय इत्याहुः । वस्तुतस्तु "सार्थो वणिक्समूहे स्यादपि संघातमात्रके" इति मेदिनी- कोशात्सार्थशब्दोऽचेतनसमूहेडपि वर्तत इति नात्र चेतनत्वारोपः। शार्दूलविक्रीडितं छन्दः । लक्षण- मुक्तं प्राक् ( १८ पृष्ठे ) । अत्र प्रियतम आलम्बनम् । तत्प्रयाणादि उद्दीपनम् । कार्श्यादयोऽनुभावाः । तद्यङ्गया चिन्ता व्यभिचारिभावः । रतिः स्थायिभावः ॥ शापहेतुकमुदाहरति त्वामिति। मेघदूतकाव्ये उत्तरमेधे कुबेरशापेन वियुक्तभार्यस्य यक्षराजस्य काव्यप्रकाश १४

Page 165

१०६ काव्यप्रकाश: सटीक: ।

क्रूरस्तस्मिन्नपि न सहते संगम नौ कृतान्तः ॥ ३६ ॥ हास्यादीनां क्रमेणोदाहरणम्। आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे। तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥ ३७॥ प्रियामुद्दिश्य मेघरूपदूतं प्रत्युक्तिरियम्। हे प्रिये प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वां त्वत्प्रतिकृतिमित्यर्थः। धातवो गैरिकादयः "धातुर्वातादिशब्दादिगैरिकादिषु" इति यादवः।ते एव रागा: र्जकद्रव्याणि "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः। सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्" इति शब्दार्णवः। तैः धातुरागैः शिलायां शिलापट्टे आलिख्य निर्माय आत्मानं मां मत्प्रतिकृति- मित्यर्थः । ते तव चित्रगताया इत्यर्थः। चरणपतितं कर्तु तथा लिखितुं यावत् इच्छामि तावत् इच्छासम- काल मुहुः उपचितैः प्रवृद्धैः अस्रैःअश्रमिः (कर्तृभिः) "अस्रमश्रुणि शोणिते" इति विश्वः। मे मम दृष्टिः दर्शनं आलुप्यते आव्रियते इत्यर्थः । ततो दृष्टिप्रतिबन्धात् लेखनं प्रतिबध्यते इति भावः। अर्थान्तरं न्य- स्यति क्रूर इति। क्रूरः परश्रेयोविघटने जागरूकः कृतान्तो दैवमेव कृतान्तो यमः "कृतान्तो यमसि- द्वान्तदैवाकुशलकर्मसु " इत्यमरः । तस्मिन्नपि आलेख्येऽपि नौ आवयोः संगम सहवासं न सहते। साक्षात्संगमं न सहते इति किमु वक्तव्यमित्यपिशब्दार्थः । अत्र कुपितस् लौहित्यौचित्यात् धातुरागै- रिति सामान्यनिर्देशेऽपि विशेषपरतास्येति बोध्यम् । तदा शय्यां विहाय भूमिशयनात् कठिनचित्त- त्वाच्च शिलायामिति। आलेख्येऽपि संगम न सहते इति क्रूरत्वम्। अत्र यद्यपि इच्छासमये एव स्मरणो- द्रिक्तविरहजनिताश्रुणा दृष्टिलोपाल्लिखनमेवासंभावितम् तथापि लिखनमपि इच्छाविषयतयैव नेयं न तु निष्पन्नतयेत्याहुः। "यद्यप्यत्र पद्ये प्रबन्धालोचनात् उन्माद एव प्रधानतया प्रतीयते तथापि तदनालो चनेनोन्मादाभास इत्याभिप्रेत्य रसोदाहरणम्" इति दीपिकाकृतः । मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (७६ पृष्ठे) । अत्र नायिका आलम्बनम्। तत्प्रणयकोप उद्दीपनम्। चरणपातेच्छादिः अनुभावः। कृतान्ते असूया व्यभिचारिणी रतिः स्थायिभावः । अत्र कुबेरशापस्तदनुचरस्य प्रियावियोगहेतुः ॥ हास्यं रसमुदाहरति आकुञ्च्येति। विष्णुशर्माणमुपहसतः कस्यचिदुक्तिरियम्। मन्त्राम्भसाम् आपो- हिष्ठादिमन्त्रपूतानाम् अम्भसां पृषतैः बिन्दुभिः प्रतिपदं प्रत्यवयवरूपप्रतिस्थानं प्रतिमन्त्रपदं वा पवित्रिते कृतसंस्कारे मम मूर्ति मस्तके वेश्या वाराङ्गना अशुचिम् उच्छिष्टाद्युपहितं पाणिं हस्तम् आकुश्चय संकु- चितं कृत्वा मुष्टीकृत्येति यावत् तारो दीर्घः स्वनः शब्दो यत्र (प्रहारे) तम् तथा प्रथितो विस्तारितः थूदिति शब्दो यत्र (प्रहारे) तथाभूतं प्रहारम् अदात् दत्तवती। हाहा हतोऽहमिति शब्दमुच्चार्य विष्णु- शर्मा कश्चित् विप्रो रोदितीत्यर्थः । प्रहितथूत्कमिति पाठे प्रहितं प्रक्षिप्तं थूत्कं लाला यत्रेति बोध्यम्। शर्मान्तं नामग्रहणं हासपरिपोषाय। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे) । अत्र विष्णुशर्मा आलम्बनम्। रोदनमुद्दीपनम्। स्मितातिहसितरुदितादय उत्तममध्यमाधमेष्वनु- भावाः। द्रष्टुरावेगचापल्यादयो व्यभिचारिणः । हासः स्थायिभावः। यस्य हासस्तदनिबन्धेऽपि सामर्थ्या- त्तदवसायः। तदुक्तम् "यस्य हासः स चेत्कापि साक्षान्नैव निबध्यते। तथाप्येष विभावादिसामर्थ्यादव- सीयते ॥।" इति । विकृतवाग्वेषादिदर्शनेSवश्यं हासोदयादत्र हासप्रकृतिको रसो व्यज्यते इति सारबोधिन्यादौ स्पष्टम् ।।

Page 166

चतुर्थ उल्लास:। १०७

हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिष: धिक् प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दशौ। इत्थं घर्घरमध्यरुद्करुणाः पौराङ्गनानां गिर- श्वित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥३८॥ कृतमनुमतं दृष्ट वा यैरिदं गुरुपातकं

नरकरिपुणा सार्ध तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्॥ ३९ ॥

करुणं रसमुदाहरति हा मातरिति। काश्मीरराजजननीमरणे उत्साहयित्रा भट्टनारायणेन रुदितं कृतमिति जयन्तभट्टः । मदालसायां दह्यमानायां पौरस्त्रीरुदितवर्णनमिदमिति महेश्वरः । राजपल्यां स्वर्यातायां तत्परिजनविलापोक्तिरियमित्यन्ये। पौराणां पुरे भवानामङ्गनानाम् इत्थम् एतत्प्रकारा: गिरः घर्घराः (उच्चैः रोदनात्) घर्धरस्वराः ताश्च ताः (श्रमाद्वाष्पबाहुल्येन) मध्येऽन्तराले रुद्धाः विच्छि- न्नाश्चेति कर्मधारयोत्तरं करणपदेन कर्मधारयः। करुणाः सस्नेहाः कातरा वा। नातो रसस्य शब्दवाच्य- तादोष इति शङ्कनीयम्। एवंभूताः सत्यः चित्रस्थानपि आलेख्यगतानपि अचेतनानपीति यावत् रोद- यन्ति। मित्तीरपि शतधा शतखण्डाः कुर्वन्ति कि पुनः सचेतनानित्यन्वयः। किंप्रकारा: गिर इत्यपेक्षायां वाग्भेदरूपानुकरणं पूर्वार्धम्। तदर्थस्तु हा इति विषादे। भो मातः कुत्र गन्तव्ये त्वरितासि संजात- त्वराससि येनास्मानपि नापेक्षितवतीत्यर्थः । किमिदम् आकास्मिकोत्पादरूपम् । डा इति धिगर्थे। देवताः घिक्। विविधबलिदानपूजास्तुतिनतिभिरप्यरक्षणादिति भावः । आशिषः अर्थाद्दानादितुष्टद्विजानाम् क्व कुत्र गता इति शेष:। ता अपि विफला इति भावः। प्राणान् आस्माकीनान् घिक् त्वदभावेऽपि स्थिर- त्वात्। ते तव अङ्गेषु (सुकुमारेषु) अवयवेषु अशनिर्वज्रं तद्रूपः तत्तुल्यो वा हुतवहः अग्निः यज्ञादिषु तर्पि- तस्य पतनात् पूर्वकृतोपकारविस्मरणाच्चाशनितुल्यता पतितः स्वयमेव सचेतनैरेतेष्वङ्गेषु पातयितुम- शक्यत्वादिति भावः । यद्वा। पतितोऽशनिरिति भिन्नं वाक्यम् । वज्रपात एवायं यत्तव विपत्तिरिति भावः। दशौ नेत्रे दग्धे प्लुष्टे। यद्यपि सर्वे एवावयवाः दग्धास्तथापि दृशोर्लीलाविशेषस्य विश्वविलक्ष- णस्य पूर्वमनुभवात् दग्धे द्ृशाविति विशेषतो दाहनिर्देशः । यद्वा। अशुभदर्शित्वादस्माकं दशौ दग्धे इति लोकोक्त्येदम्। शार्दूलविक्रीडित छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र मृतनायिका आलम्बनम्। तद्दाहादुद्दीपनम् । रोदनमनुभावः । दैन्यग्लानिमूच्छादियो व्यभि- चारिणः । शोक: स्थायिभावः । अत्राभिज्ञे सामाजिके शोकप्रकृतिकः करुणो रसो व्यज्यते ॥ रौद्रं रसमुदाहरति कृतमिति। वेणीसंहारनाटके तृतीयेडङ्के द्रोणवधोत्तरमर्जुनादीन् प्रति क्रुद्धस्या- श्वत्थाम्न उक्तिरियम्। इदं गुरोर्द्रोणस्य वधरूपं पातकमेव गुरुपातकं महापातकं यैः मनुजरूपैः पशुमिः धर्माधर्मापरिज्ञानादिति भावः । अत एव निर्मर्यादैः मर्यादाशून्यैः उदायुघैः उद्तास्त्रैः भवद्धिः कृतं जनि- तम् अनुमत अनुज्ञातं दृष्टम् अनिराकृतं वा । तत्र कर्ता घृष्टद्युम्नः अनुमन्तारः सात्यक्यादयः अनि- राकर्तारः सन्तो द्रष्टारोऽन्ये। नरकरिपुणा नरकासुरशत्रुणा श्रीकृष्णेनानुमन्त्रा सार्धम् तेषां वधादि- कर्तृणां धृष्टद्युम्नादीनां सभीमकिरीटिनां भीमार्जुनसहितानां भवताम् असृङ्मेदोमांसैः रुधिरवसापिशितैः अयम् एतत्क्षणवर्ती अहम् अनन्यसहायः (अश्वत्थामा) दिशां (लक्षणया) दिग्देवतानां बलिं पूजो-

Page 167

१०८ काव्यप्रकाशः सटीकः । क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेदेपु लज्जां दधति परममी सायका निष्पतन्तः। सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनाद: किंचिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि॥ ४० ॥ पहारं तृप्तिहेतुकपश्चालम्भनं वा करोमीत्यर्थः । "बलि पूजोपहारः स्यात्" इति शाश्वतः । हरिणी- छन्दः। "रसयुगहयैन्सौ मौ स्लौ गो यदा हरिणी तदा" इति लक्षणात् । अत्र पशुभिरित्यनेन बलिदानयोग्यता व्यज्यते। उदायुधैरित्यनेन प्रतीकारशक्तत्वेSपि तथाकरणा- दतिदण्डयता ध्वन्यते। कर्त्नुमन्तृद्रष्टणामुत्तरोत्तरापराधस्य लाघवात् 'कृतमनुमतं दृष्टम्' इति दण्डनक्र- मेण निर्देशः । सार्धमिति संबन्धिनि साहित्यं न तु बलिकर्तरीति बोध्यम्। नरकरिपुणेति अनुमन्तुर्राप कृष्णस्य क्रोधात् क्रमविस्मृत्या प्रागुक्तिरित्युद्दयोतकारश्रीवत्सलाञ्छनादयः । सुधासागरकारास्तु "यद्यपि धृष्टद्युम्नस्य संबोधनं क्रमप्राप्तं तथापि महापातकित्वेनग्राह्यनामकतया तमवज्ञाय पराक्रमयोग्यतया 'अरेरे अर्जुनार्जुन सात्यके सात्यके' इति संबोध्योक्तिरियम्। अत एव संबोधन व्युत्क्रम्य तेषामित्यनेन बुद्धिस्थतया क्रमप्राप्तधृष्टद्युम्नादयः परामृष्टा " इत्याहुः । अत्र पद्ै रौद्ररसव्यञ्जनक्षमा वृत्तिर्नास्तीति कवेरशक्तिर्बोध्या।। अत्रापकारिणोडर्जुनादय आलम्बनम्। पितृहन्तृत्वमस्त्राद्युद्यमनमुद्दपिनम्। प्रतिज्ञानुभावः । अन्यनैरपे- क्ष्यगम्यगर्बो व्यभिचारिभावः। क्रोधः स्थायिभावः। अभिज्ञे सामाजिके क्रोधप्रकृतिको रौद्रो रसो व्यज्यते॥ वीरं रसमुदाहरति क्षुद्रा इति। हनुमन्नाटके एकादशेडक्के रावणपुत्रस्य इन्द्रजित उक्तिरियम्। भो: क्षुद्रा (जात्या पराक्रमाभावेन च) नीचाः हरयः हे वानराः एते दृश्यमानदुरवस्थाः । यूयमिति शेषः । संत्रासं भयं विजहत त्यजतेत्यन्वयः । एते आगताः अर्थान्मयीति केचित्। एते क्षुद्रा इति स्वज्ञान ल्लेखः इति चक्रवर्त्यादयः। एते इयन्त इत्यन्ये। हरय इति हनूमदादर्थकमित्युद्दयोतकाराः। भयत्यागे हे तुमाह क्षुण्णेत्यादि। यतः क्षुण्णौ चूर्णितौ शक्ररूढस्य इभस्य ऐरावतनाम्रो गजस्य कुम्भौ यैस्तादृशाः अमी सायकाः बाणाः। सायका इति दन्त्यपाठे स्यन्ति नाशयन्ति प्राणान् ते सायकाः। षोऽन्तकर्मण ण्बुल। तालव्यादिपाठे तु शाययन्ति दीर्धनिद्रां प्रापयन्तीति व्याख्येयम्। रामाद्युद्देशेन पात्यमाना अपि दैव- वशात् युष्मद्देहेषु निष्पतन्तः पतमानाः परं केवलं यद्वा परं लज्जां महाव्रीडां दघति धारयन्ति। क्षुद्र कार्यकरणाल्लज्जिता इव मां नानन्दयन्तीत्यर्थः। स्वलज्जाया एव बाणेषु समारोपात लज्जाम् अर्थान्मदीयां दधति पुष्णन्तीति केचित्। सर्वथा मद्वाणानुद्दशे्यत्वात् भयं त्यजतेति भावः । केचित्तु निष्पतन्तो मच्चा- पान्निर्गच्छन्तः युष्मद्देहेषु अर्थात्पतितुं परं ल्ज्जां दधति न पाताभिमुख्यं पौरुषं वेत्यर्थः । न च निष्प- तन्त इत्यस्य पतन्त इत्यर्थः। निष्पतनस्य पतनरूपत्वाभावादितयाहुः। लक्ष्मणं प्रत्याह सौमित्रे इति । हे सुमित्रापुत्र त्वं तिष्ठ युद्धोदमाद्विरमेत्यर्थः। तत्र हेतुमाह पात्रमित्यादि। हि यस्मात् तवं रुषां (मम) करोधानां पात्रं विषयो नासि न भवसि। तर्हि किमर्थमुद्यमस्तत्राह नन्वहमित्यादि । अहं मेघनादः तर्वेन प्रसिद्धः। इन्द्रजिदिति नोक्तं तत्त्वस्याप्यनुत्कर्षकत्वात्। रामम् अन्वेषयामि कीदकूपराक्रमशील इति मार्गयामि। हेतुगर्भविशेषणमाह किंचित् ईषत् भ्रभङ्गलीलया नियमितो बद्धो वशीकृतो वा जल- विर्येन तथाभूतमित्यर्थः । किंचित्सरम्भ इति पाठे किचित्संरम्भः ईषत्क्रोधः स एव लीला तयेति प्राग्वत्। किंचिदित्यन्वेषणक्रियाविशेषणम्। तेन सोऽपि न ताद्ृगन्वेषणपात्रमिति भाव इति केचित्।

Page 168

चतुर्थ उल्लास।

ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बदूदृषटि पश्चार्धेन प्रविष्टः शरपतनभयायसा पूर्वकायम्। दर्भैंरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥४१॥

यत्तु राममनुलक्षीकृत्याहम् एषः यामीत्यन्वयः अन्यथा सेनाग्रवर्तिनो रामस्यान्वेषणानुपपत्ते: अन्वेषणस्य पलायने एव संभवाच्च रामस्य वीरचरितस्य प्रभोर्हनुमतापकर्षवर्णनानापत्तेरिति तन्न। हनुमता प्रतिपक्ष- वाक्यानुवादेन तद्गर्वोत्कथनस्य युक्तत्वात्। किंचिद्भ्रूभङ्गलीलानियमितजलधिरपि मां दृद्टा पलायित इति। अत्र 'सौमित्रे' इति मातृसंबन्धोत्कीर्तनान्निवीर्यत्व ध्वन्यते। रुषामिति बहुवचनेन तदतिशयः प्रकाश्यते। स्रग्धरा छन्दः। "म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् " इति लक्षणात् ॥ अत्र राम आलम्बनम्। तत्समुद्रबन्धनमुद्दीिनम्। क्षुद्रेषूपेक्षा पराक्रमशालिनि रामे प्रतिस्पर्धा चानुभावौ। ऐरावतकुम्भस्थलचूर्णनस्मृतिः लज्जां दधतीति गम्यगर्वश्च व्यभि चारिणौ। उत्साह: स्थायि भावः। "कार्यारम्भेषु संरम्भ: स्थेयानुत्साह उच्यते" इत्युत्साहलक्षणम्। स्थेयान् स्थिरतरः । सरम्भ: त्वराजनकश्चित्तवृत्तिविशेषः । अत्रामिज्ञे सामाजिके उत्साहप्रकृतिको वीरो रसो व्यज्यते। केचित्तु वीर- रसः त्रिधा। युद्धवीरो दानवीरो दयावीरश्वेति दर्पणकारमते धर्मवीरोऽप्यिकोडस्ति। यदाहु: "युद्ध- वीरो धर्मवीरो दानवीर इति त्रिधा। वीरस्यैव च भेदोऽयं कथ्यते सूंरिभिः परः ॥" इति। तत्नादस्यैवेदमु- दाहरणम्। तत्र दानवीरो बल्यादिः। दयावीरो जीमूतवाहनः यो दयया पक्षिणे सदेहमर्पितवान्। धर्म- वीरो युधिष्ठिरः इत्याहुः। परे तु निरुपपदवीरपदस्य युद्धवीरे एव प्रयोगोऽतो नेमौ वीररसौ अन्यथा पलाय- नवीरादिभेदेनानन्त्यं स्यात्। दानाद्युत्साहस्तु भाव एव। अत एव सप्तमोल्लासे शीर्णघ्राणेति ३०१ उदा- हरणं मूलकृता नीरसत्वेन प्रदार्शतमित्याङ्कः ॥ "अथ विभावादिसाम्ये वीररौद्रयोः को भेद इति न शङ्कनीयम् । स्थायिभेदात् विवेचकत्वत- दभावाभ्यां भेदाच्च। इह क्षुद्रान्विहाय राममात्रान्वेषणेन विवेकस्य स्फुटत्वात्। रौद्रे उदाहते तु कर्तुर- निराकर्तुरनुमन्तुश्च क्रोधविषयत्वतारतम्यलब्धक्रमोपन्यासमपहाय व्युत्क्रमोपन्यासेन सरवेषां वधोध्यमेन चाविवेकस्य स्फुटत्वात् " इत्युद्दयोते स्पष्टम् ।। भयानकं रसमुदाहरति ग्रविेति। शाकुन्तलनाटके प्रथमेडक्के मृगहननाय घावितरथस्य दुष्यन्तस्य राज: सूतं प्रति 'अयं पुनरिदानीमपि' इत्युपक्रम्योक्तिरियम्। इदानममिपि अयं पुरो दृश्यमानो मृगः पुनः उदग्रप्लुतत्वात् उत्कटोत्फालत्वात् वियति आकाशे बहुतरम् अधिकतरं प्रयाति उर्व्या भूमौ स्तोकम् अल्पं प्रयाति। किंभूतो मृगः। अनु पश्चात् पतति गच्छति धावति वा स्यन्दने रथे ग्रीवायाः भङ्गेन वक्री- भावेन अभिरामं सुन्दरं यथा स्यात्तथा मुहुः वारंवारं बद्धदृष्टिः दत्तदृष्टिः। गम्यदेशवैषम्यावैषम्यज्ञानस्य परिवृत्त्या रथदर्शने विच्छेदात् भयाच्च वारंवारं तथादर्शनम्। तथा शरपतनभयात् बाणपातभीत्या भूयसा स्थूलेन पश्चार्धेन अपरेणार्घेन "अपरस्यार्धे पश्चमावो वक्तव्यः" इति वार्तिकेन पश्चादेशः। पूर्व- कायं प्रविष्टः प्रवेष्टमारब्धः । आदिकर्मणि क्तः । यद्वा। प्रविष्टः । भूते क्तः। तेन स्थूलं कृशे प्रवेश्य गमनाद्गयातिशयः । तथा श्रमेण विवृतं विकसितं यत् मुखं तस्मात् भ्रंशिभि: भ्रष्टैः अर्धावलीढैः १ पश्रयार्धेनेते "प्रकत्यादिभ्य उपसंख्यानम्" इति वार्तिकेन तृतीया ॥

Page 169

११० काव्यप्रकाश: सटीकः । उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा- न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्यग्रपूतीनि जग्ध्वा।. आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्क: करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ४२ ॥ चित्रं महानेष बतावतारः कव कान्तिरेषाभिनवैव भङ्गि:। लोकोत्तरं धैर्यमहो प्रभाव: काप्याकृतिर्नूतन एष सर्गः ॥ ४३ ॥ अर्धास्वादितैः दर्मैः कीर्ण व्याप्तं वत्म मार्गो यस्य तथाभूतः । इति पश्येति वाक्यार्थः कर्म। वियति राजस्वाम्याभावाद्वहुतरम् भूमौ तत्सत्त्वादल्पमिति बोध्यम् । स्रग्धरा छन्दः । लक्षणमुक्तं प्राक (१०९ पृष्ठे) ॥ अत्र रथादेव नृपादेव वा भयं स्थायिभावो न तु शरपतनादिति न तस्य शब्दवाच्यतादोषः । अत्र पश्चाद्वच्छत्स्यन्दनो राजा वा आलम्बनम्। शरपतनभयमनुसरणं चोद्दीपनम्। ग्रीवाभङ्गपला- यनादयोडनुभावाः । शङ्कात्रासश्रमादयो व्यभिचारिणः । भयं स्थाययिभावः । तज्ज्ञे सामाजिके भयप्रकृतिको भयानको रसो व्यज्यते ।। बीभत्स रसमुदाहरति उत्कृत्येति। मालतीमाधवप्रकरणे पञ्चमेऽङ्के शमशानगतशवभोजिनं प्रेतरक्क दृष्ट्। माधवस्योक्तिरियम्। प्रेतेषु रङ्क: कृपणो दरिद्र इति यावत् प्रथमम् आदौ कृतिं चर्म उत्कृत्योत्कृत्य उत्पाटयोत्पाट्य अथ अनन्तरं पृथुना महता उत्सेधेन उच्छूनतया भूयांसि बहुलानि असौ स्कन्धौ स्फिक ऊरुमूलं कटिसंधिभागश्च पृष्ठपिण्डी जद्दोर्ध्वभागः एवमाद्यवयवेषु सुलभानि उग्रपूतीनि उत्कटदुर्गन्धानि मांसानि जग्ध्वा भक्षयत्वा अङ्कस्थात् उत्सङ्गस्थात् करङ्कात् प्रेतशरीरात् अस्थिशेषात्तन्मस्तकाद्वा ("करङ्को मस्तकः" इति मेदिनीकोशः) अस्थिसंस्थ अस्थिसंबद्धं स्थपुटं निम्नोन्नतभागः तत्र गत स्थितमपि क्रव्यम् अपक्कमांसम् (अत एव रङ्कता) अव्यग्रं शनैर्यथा भवति तथा अत्ति भक्षयतीत्यन्वयः । भोजनसमाप्तिभयाच्छनैरिति। कीदशः प्रेतरङ्कः । आर्त्तः क्षुत्पीडितः। परितः आसमन्तात् अस्ते (बल- वत्पिशाचान्तरापहरणशङ्कया) क्षिप्ते नेत्रे येन सः। प्रकटिताः (दैन्यात् स्थपुटगतमांसग्रहणाय च) प्रकाशिता: दशना: दन्ताः येन स इत्यर्थः । उत्कृत्योत्कृत्येति्वाप्सया यावत्कृत्तिसत्त्वमुत्कर्तन सूचितम्। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् (१०९ पृष्ठे)। अत्र शवः प्रेतरङ्को वा आलम्बनम्। तत्कर्तनं मांसादनं चोद्दीपनम्। तद्द्रष्टुर्नासाकुञ्चनवद- नविधूननविवर्तननिष्ठीवनादयोऽनुभावाः । उद्वेगादयो व्यभिचारिभावाः । जुगुप्सा स्थायिभावः । तज्ज्ञे सामाजिके जुगुप्साप्रकृतिको बीभत्सो रसो व्यज्यते । अत्राहू रसगङ्गाधरकाराः। "ननु रतिक्रोधो- तसाहभयशोकविस्मयनिर्वेदेषु प्रागुदाहृतेषु यथा आलम्बनाश्रययोः संप्रत्ययः न तथा हासे जुगुप्सारया च। तत्रालम्बनस्यैव प्रतीतेः । पद्यश्रोतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साश्रयत्वानुप- पत्तेरिति चेत् । सत्यम् । तदाश्रयस्य द्रष्टपुरुषविशेषस्य तत्राक्षेप्यत्वात्। तदनाक्षेपे तु श्रोतुः स्वीयकान्तावर्णनपद्यादिव रसोद्वोधे बाधकाभावात् " इति ॥ : अद्भुतं रसमुदाहरति चित्रमिति। वामनमुद्दिश्य बलेरुक्तिरियम्। अत्र चित्रादिशब्दाः भङ्गिभेदेन समभिव्याहृतपदार्थस्य तदवच्छेदकस्य वा लोकोत्तरमहिमत्वप्रतिपादकाः न तु विस्मयार्थकाः। तस्यात्र

Page 170

चतुर्थ उल्लासः। १११

एषां स्थायिभावानाह। (सू० ४५) रंतिहासश्र शोकश्र क्रोधीत्साहौ भैयं तथा।

स्थायितया वाच्यतादोषापत्तेः। तथा च महान् माहात्म्यशील एष पुरुषः चित्रं लोकोत्तरं वस्त्विति संबन्धः । माहात्म्यविशिष्टेऽन्वितस्य लोकोत्तरत्वस्य विशेषणे माहात्म्ये पर्यवसानम्। उत्कटः पण्डितः इतिवत्। बतावतार इति। अत्राप्येष इति मध्यमणिन्यायेन संबध्यते। एषोऽवतारः सदाचारप्रवर्तकः । बतेति हर्षे। एषा दृश्यमाना कान्तिः क। न क्वापीति भङ्गयन्तरेण लोकोत्तरेत्युक्तं भवति। भङ्गि: गमनोपवेशनदर्शनादिगतप्रकारविशेष: अभिनवैव अपूर्वैव। एवकारेण वैलक्षण्यं व्यङ्गयम्। यद्वा। विलक्षणैवेत्यर्थः । वैलक्षण्यगतमात्यन्तिकत्वमेवकारार्थः। धैर्य विरोधिसहस्त्रैरप्यचलचित्तत्वं् लोको - त्तरं लोकविलक्षणम्। प्रभाव: सामर्थ्य सकलवशीकरणरूपम्। अहो अलौकिकः । आकृतिः अब- यवसंस्थानं कापि अनिर्वचनीया । एष सर्गः निर्माणं नूतनः प्रसिद्धब्रह्मसर्गविलक्षणः । उपजाति- शछन्दः । लक्षणमुक्तं प्राक् (७८ पृष्ठे)। अत्र वामन आलम्बनम्। कान्तिगुणातिशयादि उद्दीपनम् । स्तवादयोऽनुभावाः । मति- धृतिहर्षादयो व्यभिचारिणः । विस्मयः स्थायिभावः । अभिजे सामाजके विस्मयप्रकृतिकोऽद्रुतो रसो व्यज्यते। एवं विभावादयो भावादिष्वपि भाव्याः ॥ रसगङ्गाधरकारास्तु "अद्भुतो यथा 'चराचरजगज्जालसदनं वदनं तव। गलद्रगनगाम्भीर्य वीक्ष्यास्मि हृतचेतना ।' कदाचिद्धगवतो वासुदेवस्य वदनमवलोकितवत्याः यशोदाया इयमुक्तिः। अत्र वदनमाल- म्बनम्। अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम्। हृतचेतनत्वम् तेन गैम्यं रोमाञ्चनेत्रस्फुरणादि चानुभावः । त्रासादयो व्यभिचारिणः। नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते। व्यञ्ञकाभावाद्। प्रतीतांयां वा तस्यां विस्मयस्य गुणत्वं ने युज्यते। एँवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याँः पुत्रो ममायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे। अर्तः तस्यामपि विस्मयस्य गुणीभावो न शङ्कयः । यच्च सहृदयशिरोमणिभि: प्राचीनैः उदाहृतम् 'चित्रं महानेष बतावतार: ००' इति। तत्रेदं वक्तव्यम्। प्रतीयतां नामात्र विस्मयः । परं त्वसौ कथकारं [अद्भुतरस ] ध्वनिव्यपदेशहेतुः। प्रतिपाद्महापुरुषविशे- षविषयाया प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्यें गुणीभूतत्वात्। यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंधान्' इत्यादौ वॉक्यसंदर्भे। इत्थं चास्ये रसीलकारत्वमुचितम्। भक्तिनैवात्र प्रतीयत इति चेद्दैरँमुकुलितलोचनं विदांकुर्वन्तु सह- दयाः " इस्याडुः ॥ नन्वास्वादस्य वैजात्यवरहेण कथमष्टौ भेदाः । स्थायिभेदाद्वेदा इति चेत के ते स्थायिनो भावा इत्य- पेक्षायामाह एषां स्थायिभावानिति। एषां शृङ्गारादीनां रसानाम्। स्थायिसामान्यलक्षणं तु "विरुद्धा १ नष्टम् ॥ २ तद्बोधकशब्दाभावादिति गावः ॥ ३ अत्र भावध्वनित्वं निराचष्टे नैवेति ॥ प्रकरणादिपर्यालो- चनयेति भाव: ॥ ५ विस्मयस्योत्कटत्वेन तस्या एव गुणत्वमनुत्कटत्वात् हृतचेतनेत्यनेन तस्यैव प्राधान्यप्रकटनाच्चेति भावः ॥ ६ अन्यथापि संमावितत्वं निराचष्टे एवमिति ॥ ७ यशोदायाः । तस्या इत्यस्य मध्यमणिन्यायेन भक्तिरित्यत्र निश्र्वयेनेत्यत्राव्यन्वयः ॥ ८ उत्पत्त्यभावादेव ॥ ९ भक्तावपि ॥ १० काव्यप्रकाशकारैः ॥ ११ कर्थरुत्वा ॥ १२ विस्मयस्य ।। १३ तत्र दष्टान्तमाह यथेति ॥ १४ इत्यादिरूपवाक्यसंदर्भे ।। १५ प्राचोक्तस्य पद्यस्य ॥ १६ रसवद- लंकारवस्वम्।। ईषन्मुकुलितलोचनमति क्रियाविशेषणम्। इति नागोजीभट्टरूता मर्मप्रकाशाख्या टीका॥

Page 171

११२ काव्यप्रकाश: सटीक:। जुगुप्सा विस्मयश्रेति स्थायिभावाः प्रकीर्तिताः॥ ३० ।। स्पष्टम्। व्यभिचारिणो बरूते (सू ४६) निर्वेदंग्लांनिश ङ्काख्यास्तथासूया मदेश्रर्माः। आलस्यं चैव दैन्यं च चिन्तां मोहंः स्मृतिर्धृति:॥ ३१॥ अविरुद्धा वा यं तिरोधातुमक्षमाः। आनन्दाङ्कुरकन्दोऽसौ भावः स्थायीति संज्ञितः॥" इति। विरुद्धा अविरुद्धा वेति। व्यभिचारिण: परस्पर विरुद्धा वेत्यर्थः । रतिर्हासिश्चेति। इयमपि कारिका संगीतनाट्य- शास्त्रे पष्ठेडध्याये भरतमुनिना पठिता। सैवात्र मम्मटेनाविकलोद्धृतेति ज्ञेयम्। उक्तरसानां यथासंख्यमेते स्थायिभावा इत्यर्थः । ते च चिस्तवृत्तिविशेषवासनारूपा इति बोध्यम्।। रत्यादीनामव्याख्याने हेतुमाह स्पष्टमिति। रत्यादीनां लक्षणमुक्तं साहित्यदर्पणादिषु। यथा "रति- रमनोनुकूलेडर्थे मनसः प्रवणायितम् "। प्रवणायितम् उत्कट आवेशः । "वागादिवैकृताच्चेतविकासो हास उच्यते।" आदिना वेषादिसंग्रहः । वाग्वेषवैकृतादिति पाठान्तरम्। वैकृतं विकारः। "इष्टनाशादि- भिश्चेतोवैक्व्यं शोक उच्यते।" आदिग्रहणादनिष्टावापतः। वैक्ञव्यं दुःखम्। तज्जनकश्चित्तवृत्तिविशेष इति यावत्। "प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोधसंज्ञितः।" तैक्ष्ण्यस्य अपचिकीर्षायाः प्रबोध उत्कट- त्वम्। तैक्ष्ण्यजनकश्चितवृत्तिविशेष इति यावत्। "कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते।" स्थेयान् स्थिरतरः संरम्भ: त्वराजनकश्चित्तवृत्तिविशेषः। "रौद्रशक्त्या तु जनितं वैक्वव्यं मनसो भयम्।"'चित्त वैक्रव्यदं भयम्' इति पाठान्तरम्। रौद्रः क्रुद्धः तस्य शक्त्या क्रोधरूपतया जनितं वैक्रव्य भाविदुःखे उत्कटो द्वेषः। "दोषेक्षणादिमिर्गर्हा जुगुप्सेति निगद्यते।"'जुगुप्सा गर्हणार्थानां दोषमाहात्म्यदर्शनात्। इति क्वचित्पाठः। "विस्मयश्चित्तविस्तारो वस्तुमाहात्म्यदर्शनात्।" उक्तं च। "विविधेषु पदार्थेषु लोकसीमातिवर्तिषु। विस्तारश्वेतसो यस्तु विस्मयः स उदाहृतः ॥" इति। 'विरुद्धेषु पदार्थेषु' इति क्वचि- त्पाठः। विस्तारश्वेतस इति। इष्टहेतुभ्योऽसंभाव्यत्वज्ञानं चेतोविस्तार इीत बोध्यम्। ननु कथ शोकादिसंभिन्नत्वे करुणादीनां रसत्वम्। न च तेषां रसत्वं नास्तीति वाच्यम्। तर्हि तत्प्र- धाने काव्ये सामाजिकानां प्रवृत्तिर्न स्यात्। न च रतिरिव शोकोऽपि ज्ञानसुखात्मक इति केर्षांचिद्वचनं ग्राह्यमिति वाच्यम्। कुत्राप्येतस्याश्चतचरत्वात्। अश्रुपातादेर्दुःखाद्याविष्कारस्यानुदयप्रसङ्गाच्चेति चेत् उच्यते। यद्यपि करुणो रसः सुखदुःखसंभिन्नस्तथापि शोकावच्छिन्नस्य चैतन्यस्यानन्दांशे भग्नावरणस्य करुणरसत्वे निरतिशयस्यानन्दांशस्योत्कटेच्छाविषयत्वात् शोकांशे बलवद्द्वेषाभावात्तत्र सामाजिकाना प्रवृत्तिः वर्णनीयतन्मयीभावेन शोकाभिव्यक्तेरश्रपातादयो भवन्तीति न किंचिदनुपपन्नम्। एवं बीभत्सभयानकयोरपीति दिगिति सारबोधिन्यादौ स्पष्टम् ।। भावनिरुक्तेर्व्यभिचारिघटितत्वेन तानाह व्यभिचारिण इति। निर्वेदग्लानीति। इमा अपि चतस्रः कारिकाः रसतरङ्गिण्यां भरतसूत्रत्वेन भानुदेवधृताः "प्रयान्ति रसरूपताम्" इत्यन्त्यमंशं "समा- ख्यातास्तु नामतः " इत्यन्यथाकृत्य मम्मटः स्वसूत्रत्वेन जग्राहेति ज्ञेयम्। निर्वेदादयोऽपि चित्तवृत्ति-

Page 172

चतुर्थ उल्लासः। ११३

विशेषा एव। स्त्रक्सूत्रन्यायेनें नियतावस्थानं स्थायिनः। व्यभिचारिणस्तु फेनबुद्बुदन्यायेन अनियताव- स्थानमित्यनयोर्भेदः। व्यभिर्चारिणां सामान्यलक्षणं प्राक् ४३ सूत्रे उक्तम् । अथैषां विशेषलक्षणानि। यथा "तत्त्वज्ञानापदीर्ष्यादेनिर्वेद: स्वावमाननम्। दैन्यचिन्ताश्रुनिःश्वासवैवर्ण्योच्छसितादिकृत्।।"त्त्व- ज्ञानं नित्यानित्यवस्तुविवेकः । आदिना दैन्यसंग्रहः । तत्र तत्त्त्वज्ञानजन्यः शान्तरसस्थायी स्थिरत्वात्। इतरो व्यमिचारीति बोध्यम्। स्वावमाननं स्वस्मिन् (देहावच्छिन्ने ) आत्मनि अवमाननं तुच्छत्वबुद्धिः। यथा 'कि करोमि क गच्छामि कमुपैमि दुरात्मना । दुर्भरेणोदरेणाहं प्राणैरपि विमुश्चितः ॥' इति। अत्रापदा स्वावमाननम्। १। "रत्यायासमनस्तापक्षुत्पिपासादिसंभवा। ग्लानिर्निष्प्राणताकम्पकार्यानु- त्साहितादिकृत् ।।" यथा 'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दर्र्घिशोकः । ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्' इति ।२। "परक्रौर्यात्मदो- षाधैः शङ्कानर्थस्य चिन्तनम्। वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत्।" यथा 'आनीतैव मया सीता किं नानीतं पुरुद्विषः । स चेदायाति लङ्कायां न जाने कि भवेत्तदा' इति ।३। " असूयान्यगुणर्द्वी- नामौद्धत्यादसहिष्णुता। दोषेक्षणभ्विभेदावज्ञोपहसितादिकृत् ॥।" यथा 'वृद्धास्ते न विचारणीयचरि- तास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रदिमनेऽप्यखण्डयशसो लोके महान्तो हि ते। यानि त्रीण्यकुतोभयान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ॥' इत्युत्तररामचरिते राम प्रति कुशोपहासः । ४ । "समोहानन्दसंभेदः स्खलदङ्गवचोगतिः । मधुपानादिजो ज्ञेयो मदो विविधभा- वकृत् ।।" यथा 'प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणायः। गूढसूचितरहस्यसहासःसुभ्रुवां प्रववृते परिहासः' इति माघपद्यम् ।५। " सेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छूमः। श्रमग्लान्यो- र्विभेदं तु चक्रे कारणकार्यता।।" "श्रमस्यातिशयावस्थामथ वा ग्लानिमूचिरे। बलस्यापचयो ग्लानिरा- धिव्याधिप्रकर्षभूः ॥" इत्येके। यथा 'सदः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात् त्रिचतुराणि पदानि गत्वा। गन्तव्यमस्ति कियदि त्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्' इति बालरामायणपद्यम्। ६। "आलस्यं श्रमगर्भादैः पुरुषार्थेष्वनादरः।" यथा 'चलति कथंचित् पृष्टा यच्छति वाचं कथंचि- दालीनाम्। आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः' इति ।७। "दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत्।" यथा 'वृद्वोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं कालोऽम्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो। यत्नात्संचिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्रा गर्भभरालसां निर्जवधूं श्वश्रश्चिरं रोदिति' इति बल्लाळविरचिते भोजप्रबन्धे पद्यम् ।८। "ध्यानं चिन्ता हितानापेः शन्यताश्चासतापकृत्।" "प्रयत्नपूर्विकान्त्रेष्यस्मृतिश्चिन्तेति केचन ।।" यथा 'अस्तमितविषयसंगा मुकुलितनयनोत्पला बहुश्वसिता। ध्यायति किमप्यलक्ष्यं बाला योगाभियुक्तेव।।' इति ।९। "मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः । घूर्णना ज्ञानपतनम्रमणादर्शनादिकृत् ॥" विचित्तता चित्तेन ज्ञानाजननम्। यथातीव्राभिषङ्गप्रभवेन वृत्ति मोहेन संस्तम्भयतेन्द्रियाणाम्। अज्ञातभर्तृव्यसना मुहूत कृतोपकारेव रतिर्बभूंव ।' इति कुमारसंभवपद्यम् ।१०। "सदृशज्ञानचिन्तादैम्नसमुन्नमनादिकृत्। १ स्रक्सूत्रेति। स्रजि सूत्रमित्यर्थः ॥२ फेनेति। फेनश्रव बुद्बुद्श्र्वेति दन्दूः ॥ 3 विडम्बित इति पाठान्तरम् ॥ ४ पुरु बहु यथा स्यात्तथा द्वेष्टीति पुरुद्विट् तस्य रामस्येत्यर्थः ॥५ त्याणां सरकाणां समाहारख्त्रिसरकं त्रिवा- रमधुपानं तेन। प्रतिभामेव प्रातिभम् । स्वार्थेडण ॥ ६ गृढानि पूर्व लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि यस्मिन्स चासौ सहासश्रेति सः ॥ ७ वत्सस्य पुत्रस्य ॥८ स्वस्नुषाम् ॥ ९ स्मृतिस्तज्ज- नको ध्यानाख्यश्वित्तवृत्तिविशेषः॥। १० रतिर्मदनमार्या इन्द्रियाणां वृत्तिं संस्तम्भयता मोहेन कतोपकारेव बभ्वेत्यन्वयः ॥ हेर १ काव्यप्रकाश १५

Page 173

११४ काव्यप्रकाशः सटीक:। व्रीडीं चपलैंता हैर्ष आवेगो जँडता तथा। गर्वो विषाद औत्सुंक्यं निद्रौपस्मर एव च ।। ३२ ।

स्मृति: पूर्वानुभू तार्थविषयं ज्ञानमुच्यते ॥।" यथा 'अवगणितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम्। कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि।' इत्युत्तररामचरिते सुमन्त्रोक्तिः। ११। "अभीष्टार्थस्य संप्रात्तौ स्पृहापर्याप्तता धृतिः। सौहित्यवदनोल्लाससहासवचनादिकृत् ॥" स्पृहा- पर्याप्तता इच्छानिवृत्तिः । तत्न ज्ञानजा यथा'वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परिणामे निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोरऽर्थवान् को दरिद्रः ॥' इति भर्तृहरिकृते वैराग्यशतके पद्यम्। १२।"संकोचश्चेतसो व्रीडा वैवर्ण्याधोमुखत्वकृत्।" यद्वा। "दुराचारादिभिर्व्रीडा धाष्टर्याभावोऽभिधीयते । वस्त्राङ्गुलीयकरपर्शभूरेखाधोमुखादिकृत्।" घाष्टर्याभावः चेतसः संकोचः । केचित्तु "चेतोनिमीलनं व्रीडा न्येङ्गरागस्तवादिभिः" इत्याह्डुः। यथा 'अलंकुरु निजं वपुर्दयितमण्डने कि पुनस्त्वमेव मम मण्डनं दयित किं परैर्मण्डनैः । वरं कुरु पयोधराधरनितम्बबिम्बेषु माम् इति प्रतिवचःश्रुतौ जयति नम्रवक्त्रा वधूः' इति। १३।" मात्सर्य- द्वेषरागादेश्चापल्यं त्वनवस्थितिः । तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥' अनवस्थितिः अविमृश्य- कारिता। यथा 'अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु। बालाम- जातरजसं कलिकामकाले व्यर्थ कदर्थयसि किं नवमल्लिकायाः ॥' इति। १४ । " मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः ।" यद्वा । "मनःप्रसादो लाभादेर्हर्षोंऽश्रस्वेदगद्रदाः ॥" लाभादे- रित्यादिना स्तवः । यथा 'आगते दयिते बाला हर्षोत्कर्षवशेवदा। उत्तरीयं न जानाति विभ्रष्टं स्तनमण्डलात् ।I' इति । १५ । " अनर्थातिशयाच्चेतस्यावेगः संभ्रमो मतः।" यद्वा "आवेगो राजविद्रावरत्यादेः संभ्रमो मतः । तत्र विस्मरणं स्तम्भः स्वेदः कम्पः रखलद्रतिः ॥" यथा 'एको वाससि विश्लथे सहचरीस्कन्धे द्वितीयः करः पश्चाद्वच्छति चक्षुरेकमितरद्धर्तुर्मुखे भ्राम्यति । एकं कण्टकविद्धमस्ति चरणं निर्गन्तुमुत्कण्ठते चान्यद्राक्षससुभ्रुवां रघुपतेरालोक्य सेनाचरान् ।' इति। १६ । " क्रियास्वपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः। आलस्ये तु क्रियाद्वेषो न त्वत्रेति मिदा ततः ॥" यद्वा । "अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्ष- णतूष्णीभावादयस्तत्र ।।" यथा 'आगताः प्रथममाहितगर्व कूलसीम्नि मुषिता इव तस्थुः। वानरा वलितकन्धरबन्धं नीरधौ निदधिरे नयनानि॥' इति। १७।"गर्वो मदप्रभावश्रीविद्यासत्कुलजन्मभिः। अवज्ञा सविलासाङगदर्शनाविनयादिकृत् ।।" अवज्ञेति। परस्मिन्निति शेषः। यद्वा। गर्वोडभिजनलाव- ण्यधनैश्वर्यादििर्मदः। सविलासाङ्गवीक्षाविनयावज्ञादिकृत्तु सः।" यथा 'धृतायुधो यावदहं ताव- दन्यैः किमायुधैः। यद्वै न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥' इति। १८। "प्रारब्धकार्यासिद्धयादे- र्विषादः सत्त्वसंक्षयः । निःश्वासोच्छासकृत्तापसहायान्वेषणादिकृत् ॥" सत्वसंक्षयः उत्साहनाशः । यथा 'व्यर्थ यत्र हरीन्द्रसख्यमपि मे वीर्य हरीणां वृथा प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि। मार्ग यत्र न विश्वकर्मतनयः कर्तु नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्कास्ति मे॥' इति। १९।"औत्सुक्यं वाञ्छितप्रातौ कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्धनिः-

१ परितोषे इति क्वचित् पाठः ॥२ न्यङ्गं वैरनम्। वैरुतं विकारः ॥ ३ अभिजनं ख्यातिः कुलं वा॥

Page 174

चतुर्थ उल्लास ११५

भैतिर्व्याधिस्तथोन्मांदस्तथा मैरणमेव च।। ३३॥

श्वसितादिकृत् " यद्वा "कालाक्षमत्वमौत्सुक्यं रम्पेच्छारतिसंभ्रमैः। तत्रोच्छासत्वराश्चासहत्तापस्वेदवि- भ्रमाः ॥ " यथा 'गतया पुरः प्रतिगवाक्षमुखं दधती रतेषु भृशमुत्सुकताम् । मुहुरन्तरालभुवमस्त- गिरे: सवितुश्च योषिदमिर्मात दशा ॥' इति माघपद्यम्। २०। " निद्रा व्यापारवैमुख्यमिन्द्रियाणां श्रमादिभिः । तत्र जुम्भाङ्गभङ्गाक्षिमीलनोछसितादयः ॥ " इन्द्रियाणामित्युपलक्षणं मनसोऽपि । तेन स्वप्ाद्ेदः ।' निद्रार्धमीलितदृशो मदमन्थराणि नात्यर्थवन्ति न च यानि निरर्थकानि। अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥' इति । २१ । "आधे- श्वात्यन्तदुःखादेरपस्मारस्तथाविधः ।" अत्रापस्मार इत्युद्देश्यम् तथाविध इति विधेयम्। " अप्र- स्तुतप्रशंसा सा या सैव० " इति १५१ काव्यप्रकाशसूत्रवत् । तथा च आधेरत्यन्तदुःखादेश्ष यः अपस्मारः अपमता स्मृतिः सः तथाविधः अपस्मारसंज्ञक इत्यर्थः। "मनःक्षेपस्त्वपस्मारो ग्रहावेशादिसंभवः" इति केचित् । अस्य व्याधित्वेन प्राप्तावपि पुनरुपादानं बीभत्सभयानकयोरस्यैव नियमाय। इतरो व्याधिस्तु विप्रलम्भादावपि यथा 'आश्लिष्टभूमिं रसितारमुच्चैर्लोल.दुजाकारचलत्त- रङ्गम्। फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥' इति माघपद्यम्। २२। क्चित्तु अपस्मार- स्थाने विस्मृतिः पठिता। तल्लक्षणं तु "विरोधिभावात्पूर्वस्य प्रस्मृतिर्विस्मृतिर्भवेत्। ध्यानजाड्याप्रमो- हाधिपरितापादिकृत्तु सा ।।" इति। प्रस्मृतिः प्रगता स्मृतिः। यथा 'तस्याः सान्द्रविलेपनस्तनतट०' इति मूलस्थं ५० उदाहरणम्। २२। "सुपं निद्रामुपेतस्य विषयानुभवस्तु यः। कोपावेगभयग्लानिसुख- दुःखादिकारकम् ॥" विषयानुभवः स्वामज्ञानम् । सुप्तमित्यत्र स्वम् इति दुःखादिकारकमित्यत्र दुःखा- दिकारक इति च प्रदीपे पाठः। यथा 'एते लक्ष्मण जानकीविरहिणं मां खेदयत्न्यम्बुदा मर्माणीव विध- ृयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहतपूर्वजन्मचरितो यो वीक्षितो राधया सेर्ष्य शङ्कितया स वः सुखयतु स्वमायमानो हरिः ॥' इति। २३ । "निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः । जूम्भाङ्ग- भङ्गनयनमीलनाङ्गावलोककृत् ।" यथा 'प्रातः स्मरामि दधिधोषविधूतनिद्रं निद्रावसानरमणीयमुखा रविन्दम्। ह्वद्यानवद्यवपुषं नवनीतचोरमुन्मीलिताब्जनयनं नयनाभिरामम् ।।' इति। २४। " कोप एव स्थिरतरों ह्यमर्ष इति कथ्यते।" यद्वा। "अधिक्षेपापमानादेरमर्षोऽभिनिविष्ठता। तत्र स्वेदशिर :- कम्पनेत्ररागाङ्गविक्रियाः ॥" अभिनिविष्टता स्थिरः क्रोधः। यथा 'प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात्। न त्वेवं दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ।।' इति महावीरचरिते पद्यम् । २५ "अव- हित्थं तु लज्जादयैर्हर्षाद्याकारगोपनम्। व्यापारान्तरसङ्गित्ववद्नानमनादिकृत्।" यथा 'एवंवादिनि देवर्षौ पार्श्े पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती ।।' इति। २६। "अधिक्षेपापमानादे- श्वित्तचण्डत्वमुग्रता " यद्वा। "द्विष्टेऽपराधदौर्मुख्यचौयैश्वण्डत्वमुग्रता। अत्र स्वेदशिरःकम्पताडना. तर्जनादयः ॥" चण्डत्वं साहंकारतदसहिष्णुत्वम्। यथा 'प्रणयिसखीसललिपरिहासरसाधिगतैर्ललित- शिर्राषपुष्पहननैरपि ताम्यति यत्। वपुष्रि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥' इति दशमोल्लासे ५०१ उदाहरणम्। २७। "शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणं मतिः। स्मेरता धृतिसन्तोषौ बहुमानश्च तद्भवाः ॥" यथा 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्याममिलाषि मे मनः। सर्तां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' इति शाकुन्तलनाटकपधम् ।२८। "विरहादेर्मनस्तापो व्याधिर्दुःस्थाङ्गतादिकृत्।" यद्वा "व्याधयः संनिपाताद्यास्तेषामन्यत्र विस्तरः।

Page 175

११६ काव्यप्रकाशः सटीक:। त्रासश्रैव वितर्कश्र विज्ञेया व्यभिचारिण:। के त्रयास्त्रिंशदमी भावा: समाख्यातास्तु नामतः ॥ ३४।। निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यभिचारित्वेऽपि स्थायिता- भिधानार्थम्। तेन प्रस्वेदकम्पतापाद्या अनुभावतयोदिताः ॥" यथा 'पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥' इति सप्तमोल्लासे ३३२ उदाहरणम्। २९/ "संनिपातग्रहादिभ्य उन्मादश्चित्तविभ्रमः ।" यद्वा । "उत्कठाहर्षशोकादेरुन्मादश्चित्तविप्ुवः । तस्मिन्नस्थानरुदितगीतहासासितादयः ॥ " चित्तविप्वः चित्तविभ्रमः । आसितमवस्थानम् । यथा 'रक्ताशोक कृशोदरी क नु गता ०००' इति सप्तम उल्लासे २०० उदाहरणम् । ३०।" रोगाधैः प्रागवस्था तु मरणस्य मृतिर्मता।" यद्वा। "जीवस्योद्गमनारम्भो मरणं परिकीर्तितम् । समोहेन्द्रिय- संग्लानिगात्रविक्षेपणादिकृत् "। जीवस्योद्गमनारम्भ इति। मुख्यमरणस्यालम्बनोच्छेदेन भावत्वायोगा- दिति भाव: । "मूछीत्र मरणम् " इत्यन्ये। यथा 'कुशलं तस्या जीवति [तत् ] कुशलं पृच्छामि जीवतीत्युक्तम्। पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ।।' इति । ३१।"औत्पातिकै- र्मन:क्षोभस्त्नासः कम्पादिकारकः । पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् ॥" औत्पातिकैः उत्पात- जन्यैः। गर्जितादैरित्यर्थः । यथा।'परिस्फुरन्मीनविघट्टितोरवः सुराङनास्नासविलोलदृष्टयः। उपाययु कम्पितिपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥' इति किरातार्जुनीये पद्यम्। ३२। "ऊहो वितर्क: संदेहे भ्रूशिरोडङ्गुलिनर्तकः ।" "तर्को विचारः संदेहे" इति पाठे विचारो विमर्शः । तथा च प्राहू रसगङ्गाधरकासः । "संदेहाद्यनन्तरं जायमान ऊहो वितर्कः ।" स च निश्चयानु- कूलः। यथा 'यदि सा मिथिलेन्द्रनन्दिनी नितरामेव न विद्यते भुवि। अथ मे कथमस्ति जीवित न विनालम्बनमाश्रितास्थितिः ॥' स्वात्मनि भगवतो रामस्योक्तिरिति। अलंकारचूडामणौ हेमचन्द्रोड- व्याह "संदेहविमर्शविप्रतिपत्त्यादिभ्यः संभावनाप्रत्ययो वितर्कः। यथा 'अनङ्ग: पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः। इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः' इति।" ३३। समाख्याताः कथिताः । नामत इति। उद्देशरूपेण न तु लक्षणोदाहरणप्रदर्शनादिनेत्यर्थः । 'त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः' इति प्रतापरुद्रयशोभूषणे पाठः ॥ ननु "'अष्टौ नाठ्ये रसाः स्मृताः" इति नाट्यस्य विशिष्योपादानेन श्रव्यकाव्ये रसान्तरमायाति तत् कीदगिव्यपेक्षायां वृत्तिकृदाह निर्वेदस्येत्यादि। अमङ्गलेति। सर्वत्र हेयत्वबुद्धिरूपतया वैराग्यप्रवर्ति- ततया चामङ्गलत्वम्। ईर्ष्याजन्यस्यामङ्गलत्वाभावात्प्रायेति। रसान्तराननुगुणत्वममङ्गलत्वम्। तेषा- मीहामयानामनीहामयेनानेन विरोधादित्युद्द्योते स्पष्टम्। सुधासागरकारास्तु अमङ्गलप्रायत्वं विषयवैरा- ग्यस्व्रूपत्वात्ससारिणां बोध्यमित्याह्कः। स्थायितेति। स्थायिव्यमिचारिणोर्मध्ये पाठादुभयरूपत्वम्। एवं च तत्वज्ञानजन्यस्य निर्वेदस्य स्थायित्वम् आपदीर्ष्यादिजन्यस्य तस्य व्यभिचारित्वमिति भावः । तदु- क्तम् "4 स्थायी स्याद्विषयेष्वेष त्त्त्वज्ञानाद्भवेद्यदि। इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ" इति। १ एषः निर्वेद: ॥ २ इष्टवियोगानिष्टावाप्तिभ्यां रुतस्तु इत्यर्थः ॥

Page 176

चतुर्थ उल्लासः ११७ (सू० ४७) निर्वेदस्थायिभावोडस्ति शान्तोऽपि नवमो रसः । (5४ o]) यथा 13 अहौ वा हारे वा कुसुमशयने वा हषदि वा

(की] मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा। तृणे वा स्त्नैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।४४। निर्वेदस्थायीति। निर्वेद: स्थायिभावो यस्य स निर्वेदस्थायिभाव इत्यर्थः । अस्तीति। न त्वाधु- निक इति भावः । अपिशब्देन पूर्वोक्तानां समुच्चयः । शान्तं रसमुदाहरति अहाविति। कश्मीरदेशस्थस्याभिनवगुप्ताचार्याणां परमगुरोः प्रत्यभिज्ञासूत्रा- द्यनेकग्रन्थकर्तुः श्रीमदुत्पलराजस्य पद्यमदमिति क्षेमेन्द्रकविकृतायामौचित्यविचारचर्चायां तट्टिप्पणे च स्पष्टम्। यद्यपीदं पद्यं भर्तृहरिकृते वैराग्यशतके दृश्यते तथापि भर्तृहरे: शतकत्रयेऽप्यन्यकविकृतान्यपि बहूनि पद्यान्युपलभ्यन्ते। अत एव 'भवन्ति नम्रास्तरवः फलोद्रमैः०' इति पद्यं शाकुन्तलनाटके पञ्च- मेडक्के विद्यमानं भर्तृहरेर्नीतिशतके दृश्यते। अत एव च 'तपो न तप्तं वयमेव तप्ताः' इति पदं परिव्राज- ककविनाम्ना क्षेमेन्द्रोद्धृतं भर्तृहरेवैराग्यशतके दृश्यत इति दिकू। अहिः सर्पः हारो मुक्ताहारः कुसुमशयनं पुष्पाकीर्णपल्यङ्कः दृषत् शिला मणिः रत्तम् लोष्टं मृत्पिण्डम् रिपुः शत्रु: सुहृत् मित्रम् स्त्रैणं स्त्रीसमूहः। द्वयोई्वयो प्रत्येकं वाकारस्तुल्यताद्योतनार्थः । अहिहारादोः समा (उपादेयत्वानुपादेयत्वाभानेन) उदासीना (वैषम्यरहिता) दक् दृष्टिर्यस्य। जगतो मिथ्यात्वेन रागद्वेषयोरभावादिति भावः । उत्तर- त्रापि वाशब्दानुषङ्गेणान्वयः । अन्यथा समदृष्टित्वासंगतिः स्याद् । तथा च कवचित् अमेध्ये देशे वा पुण्यारण्ये नैमिषारण्यादौ वा शिव शिव शिवेति अर्थाच्छेयस्करं वदतो वा प्रलपतोऽनर्थकं वदतो वा मम दिवसाः यान्तीत्यर्थः । "प्रलापोऽनर्थक वचः" इत्यमरः। यान्तीत्येव पाठः। जीवन्मुक्तेन विद्य- मानायाः स्वावस्थाया अत्र परामर्शात्। यान्त्विति पाठस्त्वयुक्त एव। तादृशदिवसगमने रतेः प्रतीयमा- नत्वेन तत्प्रधानभावध्वनित्वापत्तेः। अन्ये तु शिव शिव शिवेति प्रलपतः इति शब्दमात्रस्य ब्रह्मप्रतिपा- दकत्वात् प्रयोजनाभावाच्च शिवेतिशब्दोच्चारणस्यापि प्रलापरूपत्वेन तत्राप्युद्विम्नत्वद्योतनमित्याहुः । उद्दयोतकारास्तु अत्र क्वचिदित्यनेन मेध्येडमेध्ये वेत्यर्थकेन शान्तपरिपोषसंभवे पुण्यारण्ये इत्यधिक प्रतिकूलं चेत्याहुः । शिखरिणी छन्दः। लक्षणमुक्त प्राक् (७५ पृष्ठे) ॥ अत्र मिथ्यात्वेन परिभाव्यमानं जगत् आलम्बनम्। तपोवनादयुद्दीपनम् । अहिहारादयोः सम- दर्शनमनुभावः । मतिधृतिहर्षाः व्यभिचारिभावाः। निर्वेदः स्थायिभावः । तज्ज्ञे शान्तरसनिष्पत्तिः ॥ क यत्तु "अत्र वदन्ति। शान्तो नाम रसस्तावदनुभवसिद्धतया दुरपह्ववः। न चैतस्य स्थायी निर्वेदो युज्यते। तस्य विषयेषु अलंप्रत्ययरूपत्वात आत्मार्विमाननरूपत्वाद्वा। शान्तेश्व निखिलविषयपरिहार- जनितात्ममात्रविश्रामानन्दप्रादुर्भावमयत्वानुभवात्।तदुक्तं [कृष्णद्वैपायनेन] 'यच्च कामसुखं लोके यच्च १ पुणयेऽरण्ये इति क्वचित्पाठः ॥ २ विषयेण्विति । स्वस्मिन् स्वातिरिक्ते चेत्यर्थः ॥ 3 अलंप्रत्ययः हेयत्वज्ञा- नम् ॥ * आत्मावमाननं देहावच्छिन्ने आत्मनि तुच्छत्वबुद्धिः। तथा च सुखरूपत्वाभावान्न तत्स्थायिकस्य रसत्व- मिति भाव: ।।

Page 177

११८ काव्यप्रकाश: सटीक:। (सू० ४८) रतिर्देवादिविषया व्यभिचारी तथाख्जितः ॥ ३५॥ (०४ c७) भाव: प्रोक्त: आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया। कान्ताविषया तु व्यक्ता शृङ्गारः। दिव्यं महत्सुखम्। तृणाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ।' इति। अत एव सर्व-[चित्त] वृत्ति- विरामोऽस्य स्थायीति निरस्तम्। अभावस्य स्थायित्वायोगात्। तस्मात् शमोऽस्य स्थायी। निर्वेदादयस्तु व्यभिचारिण:। स च 'शमो निरीहावस्थायामानन्दः स्वोत्मविश्रमात्' इति" इति प्रदीपे उक्तम् तत्तु चिन्त्य- मेव। विषयेष्वलंप्रत्ययरूपस्य आत्मावमाननरूपस्य वा निर्वेदस्य शोकवत् समाधानात्। वस्तुतो रत्यादिकमुपजीव्य हर्षादेरिव तत्त्वज्ञानजनिर्वेदमुपजीव्य शमादिप्रवृत्तेः स एव स्थायी न शमः।न च "क्कचिच्छमः" इति भरतमुन्युक्तिविरोध इति वाच्यम्। शम्यते यस्मादिति व्युत्पत्या तस्य निर्वेदपर- त्बात्। तृष्णायाः क्षयो यस्मादिति व्युत्पत्या तृष्णाक्षयोऽपि निर्वेद एव। अत एव "एकोनपञ्चा- शद्भावाः " इति मुन्युक्तिः संगच्छते। अष्टौ स्थायिनः अष्टौ सात्त्विकाः त्रयस्त्रिंशद्वयभिचारिणैः इत्येवं गणनया हि एकोनपश्चाशत्वम्। शमस्यापि भावत्वे त्वाधिक्यापत्तिरित्युद्दयोते स्पष्टम्। सुधासागरकारैरपि प्रागुक्तः प्रदीपोऽनूदैवं खण्डितः । तथाहि। "न चैतावता 'निर्वेद: स्थायिभावाख्यः' इति वदतां श्रीवाग्देवतावतारवृत्तिकाराणां प्रमादः शङ्कयः। तत्त्वज्ञानजन्यनिर्वेदस्यैव शमरूपत्वात्। आपदीर्ष्या- दिकारणान्तरजन्यस्य तस्य स्वावमाननरूपत्वात्। अस्यैव चिन्ताश्रुनिःश्वासवैवर्ण्योच्छासदीनतादि- कार्योत्पादकत्वम्। न खलु ब्रह्मज्ञानजन्यनिर्वेदस्य वैवर्ण्योच्छासादिकार्यजनकता स्वप्ेऽपि संभवतीति सूक्ष्मदृशावधातव्यम् । एवं च तत्वज्ञानजन्यनिर्वेदस्य स्थायित्वं कारणान्तरजन्यस्य व्यभिचारित्व- मिति तत्त्वम्। उक्तं चान्यत्राचार्यैः'स्थायी स्याद्विषयेष्वेष तत्वज्ञानाद्गवेद्यदि। इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ' इत्यलं बहुना" इति ॥ रसभावतदाभासेति सूत्रे रसवत् भावोडप्यलक्ष्यक्रमेषु पठितः स किरूपः। रत्यादीनां रसरूपत्वात् व्यभिचारिणां रसाङ्गतानियमेन प्राधान्याभावात् सात्त्विकानामव्यङ्गयत्वादित्यतः क्रमप्राप्तं भावं लक्षयति रतिरिति । रतिरिति सकलस्थायिभावोपलक्षणम् । देवादिविषयेत्यपि अप्राप्तरसावस्थोपलक्षणम्। तथाशब्दश्वार्थे। तेन देवादिविषया सर्वप्रकारा कान्तादिविषयापि अपुष्टा रतिः हासादयश्च अप्राप्त- रसावस्थाः विभावादिभि: प्राधान्येनाञ्चितो व्यञ्चितो व्यभिचारी च भावः प्रोक्तः भावपदाभिधेयः कथित इति सूत्रार्थः । यदुक्तम् "रत्यादिश्चेन्निरङ्गः स्यादेवादिविषयोऽथ वा। अन्याङ्गभावभाग्वा स्यान् तदा स्थायिशब्दभाक् ।। " इतीति प्रदीपे स्पष्टम् ॥ देवादीत्यादिशब्दार्थमाह आदिशब्दादित्यादिना । देवादिपदव्यावर्त्यमाह कान्तादीति। व्यक्तेति। प्राधान्येन विभावादिभिः पुष्टेत्यर्थः । तेनाङ्गभूताया अनुभावादिभिरपुष्टायाश्च न रस- त्वम्। किं तु भावत्वमेवेति भावः। यत्र पुनरनुभावव्यभिचारिणौ न निबद्धौ तत्राक्षेप इत्युक्तं प्राकू (९८ पृष्ठे) ।I १ निरीहावस्थायाम् निस्तृष्णतावस्थायाम् ॥ २ स्वात्मेति । स्वात्मविश्रामजं सुखमित्यर्थः ॥ ३ "रतिर्हांसश्य शोकश्" इत्यादिना r५ सूत्रेणोक्ताः ॥ "स्तम्भः स्वेदृश्व रोमाश्ः स्वरभङ्गेऽ्थ वेपथुः। वैवण्यमश्रु प्रलय इत्यष्टौ सात्विका मताः ॥" इति प्राक् ८८ पृष्ठे उक्ता इत्यर्थः ॥ ५ "निर्वेदग्लानिशङ्काख्याः" इत्यादिना ४६ सूत्रेणोक्ता: ॥ ६ एतावता 'अत्र वद्न्ति' इत्यादिप्रदीपोक्त्या ।

Page 178

चतुर्थ उल्लासः। ११९

उदाहरणम् कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्। नितर अप्युपात्तममृतं भवद्वपुर्मेदवृत्ति यदि मे न रोचते ॥ ४५ ॥ ॥ T हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः। शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम्॥४६॥ एवमन्यदप्युदाहार्यम्।

तत्र देवविषयां रतिमुदाहरति कण्ठेति। काश्मीरिकश्रीमदुत्पलाचार्यप्रणीतिपरमेश्वरस्तोत्रावलौ त्रयोदशे स्तोत्रे पद्यमिदम्। हे ईश ते तव कण्ठस्य कोण: एकदेशः तत्र विनिविष्टं नितरां संलग्नं कण्ठरूपतया परिणतमिति यावत् यद्वा गलितभेदप्रतीति यथा स्यात्तथा संबद्ध कालकूटमपि उत्कट- विषमपि मे मम महामृतम् उत्तमममृतम् अतिप्रियत्वादिति भावः। उपात्तमपि मूर्धा धृतमपि अमृतं चन्द्रकलारूपं यदि भवद्वपुषो भेदेन वृत्तिरवस्थितिर्यस्य तथाभूतम् भेदेनावभासमानमिति यावत् तदा मे मह्यं न रोचते अन्यस्य यथा तथा भवतु मम तु न रुचिविषय इत्यर्थः । केचित्तु भवद्वपुषो मेदो यत्र तत् (भवद्वपुर्भिन्नम् आकारादि) तद्वृत्तीत्यर्थः । तथा चानन्यगामित्वेन कालकूटस्य प्रियत्वम् अतथाभूतत्वेनामृतस्याप्रियत्वमिति भाव इत्याहुः । रथोद्धता छन्दः। " रान्नराविह रथोद्वता लगौ" इति लक्षणात्।। अत्र महादेव आलम्बनम्। ईशपदप्रतिपाद्याव्याहतैश्वर्यमुद्दीपिनम्। स्तवोऽनुभावः । धृतिमाहा- त्म्यस्मरणादयो व्यभिचारिणः। अत्रैतैरनुमितस्तावकरतीनां सामाजिकानां तैरेव विभावादिभिर्व्यञ्जिता रतिर्भाव एवेति बोध्यम्। न चास्या: कुतो न रसत्वमिति वाच्यम्। मुनेः स्वतन्त्रेच्छत्वात्। फल- बलकल्प्यसामग्रीवैलक्षण्येन सहृदयसंवादेन चोत्कटानन्दांशाप्रकाशाच्चेत्युद्दयोते स्पष्टम् ।। मुनिविषयां रतिमुदाहरति हरतीति। माघकाव्ये प्रथमे सरगे नारदं प्रति श्रीकृष्णस्योक्तिरियम् । हे मुने भवदीयस्य भवत्संबन्धिनो दर्शनं कर्तृ भवदीयस्य कस्यापि दर्शन तथागुणविशिष्टं कि पुनर्भवत इति द्योतयितुं भवदीयेति। शरीरभाजां देहधारिणां (प्राणिनां) कालत्रितयेऽपि वर्तमानादिकालत्रयेऽपि योग्यताम् इष्टसंपादकगुणवत्त्वरूपां दुरदृष्टराहित्यशुभादृष्टादिमत्त्वरूपां वा व्यनक्ति सूचयतीत्यर्थः । प्रकटीकरोतीति यावत्। कथमित्याकाङ्क्षायामाह हरतीत्यादि। संप्रति वर्तमानकाले अघम् (उत्पद्यमानम् उत्पन्नं च) पापं हरति नाशयति तेनाशुभाभावात त्वदालापादिशुभसत्त्वाच्च तद्योग्यताध्वननम्। एष्यतः आगमिष्यतः शुभस्य श्रेयःसाधनस्य हेतुः संपादकम्। तत्त्त्वं चादष्टद्वारा बोध्यम्। दर्शनस्यादृष्टद्वारा श्रेयःसाधनत्वाददृष्टस्य च दृष्टसामग्रीसंपादकत्वेन हेतुत्वात् । तथा पूर्वाचरितैः पूर्वजन्मार्चितैः शुभैः सुकृतैः कृत जनितम्। तथा च वर्तमानकाले पापनाशरूपा योग्यता इष्टसंपादकगुणवत्तैव। निष्पाप- त्वस्य गुणस्य प्रतिबन्धकाभावत्वेन श्रेयःसंपादकत्वात्। भाविनि तु श्रेयःसाधकादृष्टसंपत्तिरिति तत्रापीष्टसंपादकगुणवत्तैव योग्यता। भूते तु तथाविधं सुकृतमिति योगयता तादृशगुणवत्तैव सूचकत्वं चाद्ययोर्जनकतया अन्त्यस्य जन्यतयेति बोध्यम् । वंशस्थं वृत्तम्। लक्षणमुक्त प्राक् (२४ पृष्ठ) । अत्र मुनिविषयायाः श्रीकृष्णरतेर्मुनिरालम्बनम्। दर्शनयोग्यताव्यञ्जनमुद्दीपनम्। श्रीकृष्णस्येय- मुक्तिरेवानुभावः । तद्यङ्गयो हर्षश्च व्यभिचारी । मुनिविषयश्रीकृष्णरतिज्ञे सामाजिके भावनिष्पत्तिः॥ एवमन्यदपीति। अनेनैव प्रकारेणाप्राप्तपरिपोषा गुर्वादिविषया रतिः स्थाय्यन्तरं चापुष्टमप्युदाहार्य-

Page 179

१२० काव्यप्रकाश: सटीक:।

अज्जितव्यभिचारी यथा जाने कोपपराङ्मुखी प्रियतमा स्वमेऽद्य दष्टा मयािनिरणवहण्ड मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः। नो यावत्परिरभ्य चाडुशतकैराश्रासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥४७॥ अत्र विधिं प्रत्यसूया। मित्यर्थः । तत्र गुरुविषया रतिर्यथा 'भवसागरबान्धवादुपेन्द्रप्रपदक्षालनवारितो विशिष्टम्। भवसा- गरवैरि वन्दनीयं गुरुपादोदकमेव केवलं नः ॥' इति नृपविषया रतिर्यथा 'संकल्पेऽडकुरितं द्विपत्रितमथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखान्तरैरावृतम्। प्रादुर्भाविनि दर्शने मुकुलित श्रीकर्ण दृष्टे त्वयि प्रोत्फुल्लं फलितं च संप्रति मनोराज्यद्रुमेनाद मे ॥' इति। पुत्रादिविषया रतिर्यथा 'एहेहि वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम्। आरोप्य वा हृदि दिवानिशमु- द्वहामि वन्देऽथ वा चरणपुष्करकद्वयं ते ।।' इति महावीरचरिते प्रथमेऽङ्के पद्यम्। इदं हि पद्यं केषुचित्पुस्तकेषु वृत्तावेव पठितम् व्याख्यातं च सारबोधिनीकारैरिति बोध्यम्। अत्र श्रीरामचन्द्रं प्रति जनकभ्रातुः कुशध्वजस्य वात्सल्यरूपा रतिः । तेन न वात्सल्यनामा रसोडङ्गीकरणीयः । भावेनैव गतार्थत्वादिति सारबोधिन्यां स्पष्टम्। कान्ताविषयपुष्टा रतियथा 'हरस्तु किंचित्परिवृत्त- घैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥' इति कुमारसंभवे पद्यम् । हासादयश्चापुष्टाः रसतरङ्गिण्यां द्रष्टव्याः ॥ प्राधान्येन वर्णित व्यभिचारिणमुदाहरति जाने इति। वियुक्तस्य कस्यचित् स्वमित्रं प्रत्युक्तिरियम्। हे भ्रातः प्रियतमा कोपेन पराङ्मुखी पराग्वलितवदना सती 'मां मा संस्पृश' इति पाणिना हस्तन ज्ञाप- यित्वेत्यर्थः। कोपे भाषणस्यापि त्यागादिति भावः । रुदती रोदनं कुर्वती पुरः अग्रे गन्तु प्रवृत्ता ईदृशी अद्य मया स्वमे दृष्टा। एतावत्कालं तु स्वपेऽपि दर्शनाभावः स्वप्राभाव एवं वेति भावः। ततस्तादृग्दर्शनो- त्तरमहं तदवस्थां तां प्रियां परिरभ्यालिङ्गय चाटुशतकैः प्रियवाक्यशतैः यावत् नाश्वासयामि नानुययं करोमि तावत् शठेन वञ्चकेन (पराहितकारिणा) विधिना दैवेन निद्रादरिद्रः निद्रारहितः कृत इति जाने निश्चिनोमीत्यर्थः । एतादृशमकार्य शठस्य विधेरेवेति जाने इति भावः। नो यावदिति लोकोक्तिः। अव्यया- नामनेकार्थत्वाद्वितर्के वेत्युद्दयोते स्पष्टम्। शार्दूलविकाडितं छन्दः। लक्षणमुक्तं प्राकू (१८ पृष्ठे) । अत्र विधिं प्रत्यसूया प्राधान्येन प्रतीयते । शठत्वोपन्यासरूपविचित्रानुभावव्यङ्गयकृतचारुत्वेन मुख्यतः प्राधान्यमिति प्रभायाम् । जाने शठेत्यनेन निर्णीतापकारित्वेनासूयाप्रकर्षः । विधिरत्रा- लम्बनम् । विधिदौर्जन्यमुद्दीपनम् । शठत्वोक्तिरनुभावः । प्राधान्येन व्यञ्नितोऽसूयारूपो व्यभि- चारी भावपदाभिघेयः ॥ ननु नायिकालम्बनस्य तत्कोपोद्दीपितस्य स्वमादिदृष्ट्यनुभावितस्य विप्रलम्भस्य सत्त्वात्तद्ध्वनित्वमेव स्यादत आह असूयेति। शठपदगम्या प्राधान्येन प्रतीयते इति शेषः । तथा च पानकरसे उद्भटमरी- चादिरूपयत्किंचिदङ्गस्येव विधिविषयायाः शठपदगम्याया असूयायाः पुरस्फूर्तिकत्वेन शठत्वोक्तिरूपा- ॥ : १ 'ज्ञा अवबोधने' इति क्यादिगणपठितस्य ज्ञाधातोः परस्मैपदित्वेऽपि "अनुपसर्गाज्ज्ञः " (१।३]७६) इति सूत्रेणात्मनपदम्। अत एव 'न जाने को हेतुः शिव शिव कलेरेष महिमा' इत्यादिपरयोगा॥

Page 180

चतुर्थ उल्लास:। १२१

(सू० ४९) तदाभासा अनौचित्यप्रवर्तिताः।मिF तदाभासा रसाभासा भावाभासाश्र। नुभावव्यङ्गयत्वकृतचारुत्वेनापाततः प्राधान्यमिति भावः। पर्यन्ते तु रसस्यैव प्राधान्यम्। मध्यमव्यङ्गय- मादायैव ध्वनित्वादिव्यवस्थितेरिति बोध्यमित्युद्दयोते स्पष्टम्। नन्वत्र शठेन विधिनेतिवत् 'त्वामा- लिख्य' इत्यादौ (३६ पद्े) क्रूरपदेनासूया प्राधान्येन व्यज्यते इति तत्रापि भावध्वनित्वमेव। तत्कथं विप्रलम्भोदाहरणमिति चेन्न । तत्र 'दृष्टिरालुप्यते मे' इत्यन्तेन विप्रलम्भावगमेऽनन्तरं प्रतीयमा- नाया असूयाया विप्रलम्भाङ्गत्वस्यैवौचित्यात्। अत्र तु यावत्तावत्पदाभ्यामेकवाक्यताभ्युपगमेन विशेषादित्याह्कः ॥ रसाभासं भावाभासं च लक्षयति तदाभासा इति। अनौचित्येन प्रवर्तिताः तदाभासा रसाभासा भावाभासाश्चेति सूत्रार्थः । तत्पदेन रसभावयोः परामर्शो न तु संनिहितत्वेन भावस्यैवेत्याह रसाभासा भावाभासाश्रेति। अनौचित्यं हि शास्त्रलोकातिक्रमात् प्रतिषिद्धविषयकत्वादिरूपं सामाजिकसवेद्यम्। तदुक्तमुद्दयोतादौ। "अनौचित्यं च सहृद्यव्यवहारतो ज्ञेयम् यत्र तेषामनुचितमिति घीः । तच्च शुङ्कारे बहुविषयत्वेन उपनायकादिगतत्वेन नायकनायिकान्यतरमात्रविषयत्वेन गुरुजनगतत्वेन तिर्यगा. दिगतत्वादिनों च नानैव। तदुक्तम् 'उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च। बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् । आभासत्वं कथितं तथैव [ च ] तिर्यगादिविषयतायाम्।' इति" इति। एवं वीरादावपि ज्ञेयम्। तथाहि। गुर्वाद्यालम्बनतया हासस्य वीतरागाद्याश्रयतया करुणस्य पित्राद्यालम्बन- तया रौद्रवरियोः वीरगतत्वेन भयानकस्य यज्ञीयपश्ुवसाद्यालम्बनतया बीभत्सस्य ऐन्द्रजालिका- दालम्बनतयाद्गुतस्य चण्डालादिगततवेन शान्तस्य चामासत्वं बोध्यम्। एकविषेया रतिरेव नेति तु प्रलापः। रसाभासस्य भावाङ्गतायां 'बन्दीकृत्य नृप द्विषां युवतयः०' इति ११९ उदाहरणस्य वक्ष्य- माणत्वात्। तत्र सैनिकगतैव रतिः न तु बन्दीकृतयुवतिष्त्रिति बोध्यमिति प्रदीपप्रभयोः स्पष्टम् । उक्तं च प्रतापरुद्रेऽपि "एकत्रैवानुरागश्च तिर्यड्म्लेच्छगतोऽपि च। योषितो बहुसक्तिश्वेद्रसामासस्त्रिधा मतः ॥ " इति ॥ सुधासागरे तु "अनौचित्येन प्रकर्षविरोधिना रूपेणेत्यर्थः । तच्चैकाश्रयत्वे तिर्यगादिविषयतायां बहुविषयत्वे व्यभिचारिणामाभासाङ्गतायां वा द्रष्टव्यम् इति प्रदीपकाराः। इदं च परिगणनं संप्रदायानु- सरणमात्रम्।'हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु। गौणेषु च पदार्थेषु तदाभासं विजानते॥' इति सरस्वतीकण्ठाभरणादिविसंवादात्। वस्तुतस्त्वनौचित्यमात्रमेवामीषां मनसाभासताप्रयोजकम् । तिर्य- गादौ तु अनौचित्याभावाद्रस एव। न तदाभासः। अत एव वृत्तिकारो 'त्रीवाभङ्गाभिरामम्' इत्यादौ (४५ उदाहरणे) तिर्यग्विषयतया भयानकं 'मित्रे क्वापि गते' इत्यादौ (३३४ उदाहरणे) तिर्यग्विषय- तया विप्रलम्भं चोदाजहार। अत एवान्यत्रानेककामुकविषयरतेराभासत्वेऽपि पाण्डवेषु द्रौपदाः न तथा। स्वकान्तापामपि शोकाद्यवस्थायां रतिवर्णनमाभासरूपमेव अनौचित्येन प्रवर्तितत्वादित्यवसेयम्। यद्यपि काव्यनाट्यश्रवणदर्शनाभ्यां विभावादिसाधारण्यज्ञाने सति सामाजिकानां स्वीयस्थायिव्यक्तिरित्य- १ आ.देशब्देनागम्याविषयत्वसंगहः ॥२ एकविषया एकमात्राशया ॥३ प्रकर्षविरोधित्वं च ॥। एकाश्रयत्वे नायकनायिकान्यतरमान्नाश्रयत्वे। रतेरियर्थ; ॥ ५ व्यमिचारिणां तु रसाङ्गतायामाभास वम्॥६ वा शब्द: कृत्र चिखयमाइलिखित एवेति प्रभयां हपकरंम् ।। काण्यमकाश १६

Page 181

१२२ काव्यप्रकाश: सटीक:।

तत्र रसाभासो यथा स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे। सुलग्ने को जातः शाशमुखि यमालिङ्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥४८॥ अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति । लौकिकरसः स्वतो नाभासः। तथापि असाधारण्यप्रतीतिप्रयोजककाव्यवर्णिते यत्रानौचित्यप्रतिसंधानं तत्र व्यङ्गये रसेऽप्याभासव्यवहार इति ध्येयम् " इत्येवं व्याख्यातम् ॥ स्तुम इति। वारयोषितं प्रति कस्यचित्कामुकस्य चाटूक्तिरियमिति वैद्यनाथः । वयं त्वनौचित्या पादनाय परकीयां प्रति कामुकोक्तिरियमिति ब्रूम इति सुधासागरकाराः। हे वामाक्षि वाम सुन्दरं (जितेन्द्रियाणामपि वशीकरणात) विरुद्धं वा अक्षि यस्याः सा तथाविधे तं कं पुरुषं स्तुमः यं बिना क्षणमपि न रमसे क्रीडसि हृष्यसीति यावत्। तथा यं मृगयसे अन्विष्यससि कोऽसौ रणः संग्रामः स एव मखो याग: (त्वत्कर्तृकान्वेषणरूपस्वर्गफलकत्वात्) तस्य मुखे पुरतः यः प्राणान् विलेमे दत्तवान् अर्थाज्जन्मान्तरे। हे शशिमुखि चन्द्रवदने यं बलात् आलिङ्गसि सः कः सुलग्ने शोभनजीवादिग्रहा- धिष्ठिते लग्ने राश्युदये जात उत्पन्नः । हे मदननगरि मदनस्य नगरि राजधानि अत्र स्थितस्यैव मदनस्य प्रभुत्वान्मदननगरीत्वम् यं तु ध्यायसि तस्य कस्यैषा त्वत्कर्तृकध्यानरूपा तपःश्रीः तपोजन्या संपत्ति- रित्यर्थः । अत्र शशिमुखीत्यनेनाङ्गीकृतापरित्यागस्य युक्तता ध्वन्यते । शशिनाप्यङ्गीकृतशशापरि- त्यागात्। नगरीत्वारोपेणानेकविषयकमदनाश्रयत्वसूचनम् । तस्या अनेकाश्रयस्वभावत्वात् । शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (७५ पृष्ठे) । अत्र रसस्याभासत्वं दर्शयति अत्रानेकेति। अत्र 'तस्याः' इति मध्यमणिन्यायेनोभयत्राप्यन्वेति। तथा च तस्याः वामाक्ष्याः 'स्तुमः' इत्यादिषु अनुगतं संबद्धं बहुषु (बहुकामुकविषये) ये व्यापाराः रमणान्वेषणालिङ्ग नध्यानरूपास्तेषामुपादानं ग्रहणं (कर्तृ) तस्याः अनेके ये कामुकाः जारास्तद्विषयक- ममिलाषं (कर्म) व्यनक्ति व्यञ्चयतीत्यन्वयः । अभिलाषेण चाभिव्यक्तेन बहुविषया रतिरभिव्यज्यते इत्यर्थात्सिद्धम्। तदुक्तं प्रदीपोद्दयोतादिषु। अत्र बहुषु व्यापारोपादानेन बहुविषया रतिर्व्यज्यते। नन्वत्न व्यापारस्य बहुविषयत्वमसिद्धम् । एकत्रापि तादृश (अनेकार्थक) व्यापारसंभवादिति चेत् अत्र ब्रूमः । तुशब्देन व्यवच्छेदार्थकेन व्यापारस्यानेकविषयकत्वं लभ्यते। एवमेकत्र भेदाभिप्रायेऽवगतेऽन्यत्नापि तथैवावगम्यते। "एकत्र निर्णीतः शास्त्रार्थोऽन्यत्रापि तथा" इति न्यायात् । अथवा वर्तमानरमणान्वेष णालिङ्गनध्यानरूपव्यापाराणां नैकस्मिन् संभवः । वर्तमानध्यानविषये आलिङ्गनादेर्वर्तमानत्वायोगात्। बहुपदमनेकपरं वा। एवं चानेककामुकविषयत्वेन बलादालिङ्गनगम्यानुभयनिष्ठत्वेन च शास्त्रलोका- तिक्रमात् रतेराभासत्वं बोध्यम्। रसानौचित्यस्य रसावगमोत्तरमेवावगमात् आभासताप्रयोजकतैव। १ तुशबदेनेनि। 'ये लुड्यायसि' इति ध्यानकर्मभतस्येलरशयो व्यवचछेदपनीतर्मिन्तत्वमवगम्यते। अतः सर्वेष

Page 182

चतुर्थ उल्लासः। १२३

भावाभासो यथा छ फवराड (b४ शB) राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी। तत् किं करोमि विदधे कथमत्र मैत्रीं भा

तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥४९ ॥ अत्र चिन्ता अनौचित्यप्रवर्तिता। एवमन्येऽप्युदाहार्याः।। न वाच्यवाचकानौचित्यवद्रसभङ्गहेतुतेति बोध्यम्। नन्वेतावता लौकिकस्याभासत्वमागतं न तु सामाजिकनिष्ठस्यालौकिकस्येति चेन्न। साधारणीकरणोपायेन सामाजिकस्य वर्णनीयमयीभावा- त्सामाजिकनिष्ठरतेरप्याभासत्वमितीति ।। यत्तु कैश्चिदुक्तम् "यद्यपि बहुव्यापारोपादानस्यैकविषयत्वमपि संभवति 'हृष्टः स्वपिति गच्छति इत्यादिषु विरुद्धक्रिययोः कमिकयोरपि स्थूलकालमादाय वर्तमानप्रयोगदर्शनेनाविरोधात् तथापि ये यमित्यसकृत् कर्मोपादानं व्यापारस्यानेकगतत्वमेव प्रकटयति। यद्येकविषयत्वममिप्रेतं स्यात्तदा सकृदेव कर्मोपादानं कुर्यात् " इति तत्तुच्छम्। स्तुमो विलेभे इत्यादीनां भिन्नवाक्यस्थानाम् एक- विभक्त्यन्तपदोपस्थापितेनानन्वैये तदन्वयिनः अभिन्नस्य (एकस्य) कं कः इत्यादिपदैरुपस्थापनेऽपि भिन्नकर्मपदैरेवोपस्थापनार्हणादित्यपि प्रदीपोद्दयोतादिषु स्पष्टम्।। राकेति। सीतामुद्दिश्य रावणोक्तिरियम्। राकायाम् अखण्डचन्द्रायां पूर्णिमायां यः सुधाकरश्चन्द्र- स्तद्वन्मुखं यस्यास्तथाविधा तरले चञ्चले आयते दीर्घे अक्षिणी यस्यास्तादृशी स्मेरम् ईषत्प्रकाशं यौवनं नवयौवनमिति यावत् तेन तरङ्गिताः तरङ्गवदुत्तरोत्तरारम्भशीलाः विभ्रमाः येषु तथाविधान्यङ्गानि यस्याः तथाभूतेति दर्शनक्रमेण मुखादिगतप्रकर्षविभावनम्। विभ्रमास्येतिपाठे विभ्रमयुक्तमुखीत्यर्थः। एतादृशी सा सीता। अस्तीति शेषः । तत् तस्मात् (अनुपेक्षणीयगुणवत्त्वात्) किं करोमि (तल्लाभाय ) किमा- चरामीत्यर्थः । तया सह मैत्री क्रियतां तत्राह विदधे कथमिति। अत्र अस्यां सतिायां मैत्री मित्रतां कथ केनोपायेन विदधे करोमि। मैत्रीकरणे न कश्चिदुपाय इत्यर्थः । एवं सति तया (मम) स्वीकृति: ममायमिति बुद्धिविषयीकरणं तस्य व्यतिकरे संबन्धे अभ्युपायः हेतुः क इव । अत्र इवशब्दः संभा- वनायाम्। कः संभाव्यते न कोऽपीत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे) ॥ अत्र भावस्याभासत्वं दर्शयति अत्र चिन्तेति। अनौचित्येति। "आदौ वाच्यः स्त्रियो रागः पश्चात्पुंसस्तदिङ्गितैः" इति हि औचित्यम्। तद्वैपरीत्येनाननुरक्तायामनुरागोडयुक्त इति रतेरनौचित्य- प्रवर्तितत्वात्तव्यभिचारिभावस्य चिन्ताया अपि अनौचित्यप्रवर्तितत्वम्। व्यभिचारिभावस्य चिन्तायाः प्राधान्येनाभिव्यक्तत्वाद्धावत्वम्। उद्दयोतकारास्तु मैत्रीं कथं करोमीत्युक्त्वा मैत्र्यभावलाभादनौचित्य- प्रवर्तिता चिन्तेत्याहुः ॥ अन्येऽपीति। रसान्तरभासा भावान्तराभासाश्चेत्यर्थः । तत्र रौद्राभासो यथा "रक्तोत्फुल्लविशा- ललोलनयन: कम्पोत्तरङ्गो मुहुर्मुक्त्वाकर्णमपेतभीर्धृतधनुर्बाणो हरे: पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्विक्रमं कीर्तयन्नंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः ॥" इति। भावान्तराभासो- १ भिन्नवाक्यस्थानामिति। भिन्नत्वं विजातीयत्वम्। तच्व कर्तृकर्मप्रत्ययान्तत्वेन बोध्यम् ॥ २ 'अनन्वये' इति सप्तमी अर्हणेऽन्वोति ॥ ३ तद्न्वयिन इति । एकक्रियान्वयिनः इत्यर्थः ॥

Page 183

१२४ काव्यप्रकाश: सटीक:।

(सू० ५०) भावस्य शान्तिरुदयः संधिः शबलता तथा ॥ ३६ ॥ क्रमेणोदाहरणम्

किं वक्षश्ररणानतिव्यतिकरव्याजेन गोपाय्यते। इत्युक्ते क तदित्युदीर्य सहसा तत् संप्रमार्ष्ट मया साश्िष्टा रभसेन तत्मुखवशात्तन्व्या चे तद्विस्मृतम् ॥ ५०॥

दाहरणं तु "सर्वेडपि विस्मृतिपथं विषयाः प्रयाताः विद्यापि खेदकलिताँ विमुखीबभूव। सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिंदेवतेव ।। " इति भामिनीविलासपद्यम्। गुरुकुले विद्याभ्याससमये तदीयकन्यालावण्यगृहीतमानसस्य अन्यस्य वा कस्यचिदतिप्रतिषिद्धगमनां स्मरतो देशान्तरगतस्येयमुक्तिः । अत्र च स्वोत्मत्यागात्यागाभ्यां स्रक्चन्दनादिषु विषयेषु चिरसेवितायां विद्यारया च कृतन्नत्वम् अस्यां च (हरिणशावकलोचनायां च) लोकोत्तरत्वभिव्यज्यमानं व्यति- रेकवपुः स्मृतिमेव पुष्णातीति सैव प्रधानम्। ऐषा चानुचितविषयकत्वादनुभयनिष्ठत्वाच्च भावाभास इति रसगङ्गाधरे स्पष्टम् ।। :2"भावशान्त्यादिरक्रमः" इति सूत्रतः क्रमप्राप्त भावशान्त्यादिपदप्रतिपाद्यमाह भावस्येति। जाता- वेकवचनम्। संधौ दयोः । शबलतायां बहूनामावश्यकत्वात्। शान्तिः प्रशमः । उदयः उत्पत्तिः । संधिः एककालमेव तुल्यकक्षयोरास्वादः। समकालमेव विरुद्धयोरपि तुल्यरूपयोरास्वादो वा। शबलता च पूर्वपूर्वोपमर्देन परपरोदयः । तदुक्त प्रदीपे "शबलता तु कालभेदेन निरन्तरया पूर्वपूर्वोपमर्दिनाम्" इति। एते तथा भावशान्त्यादिपदप्रतिपाद्या इति सूत्रार्थः । अत्र यद्यपि शान्तेर्भावान्तरोदये एव चमत्कारित्वम् उदयस्य च शान्तिपूर्वकत्वे एव चमत्कारित्वम् अत एव भावाद्भावोदय: पृथग्गणितः एवं चैतद्वेदद्वये शबलतावश्यकी तथापि तदनुभावाद्यनुपादानादस्वाद्यत्वाच्च न सा। पूर्वपूर्वोपमर्देन परोद- यस्यास्वाद्यत्वे एव तत्स्वीकारात। तदेतदुक्त संक्षेपेण काव्यप्रदीपे "न च भावस्य शबलतायाः शान्त्यु- दयाभ्यामविशेषः। शान्तेरुदयस्य वा एकैकस्यास्वादे तद्गेदद्वयोपगमात्" इति। एवं शान्त्युदयावुत्पत्ति- कालावच्छिन्नावेव चमत्कारिणाविति बोध्यम्। स्थायिनां त्वेते न संभवन्ति। तेषां सन्ततमविच्छे- दादित्युद्दयोते स्पष्टम्।। तत्र भावस्य शान्तिमुदाहरति तस्या इति। अमरुकशतके खण्डितायाः स्वनायिकायाः कोपतच्छा- न्तिवृत्तान्तं वयस्यं प्रति कथयतो धृष्टनायकस्योक्तिरियम्। तस्याः सपल्याः (असूयातिशयान्नामानि- र्देशः) सान्द्रं निबिडं श्रीखण्डादिविलेपनं तत्र तथाभूतस्य स्तनतटस्य तत्पर्यन्तसमदेशस्य (अत एव) प्रकृष्टो यः श्लेषः परिरम्भः तेन या मुद्रा स्तनाकारं विलेपनमयं चिह्नं तेनाङ्कितं तदीयत्वेन ज्ञाप्त- मित्यर्थः । यद्वा परिरम्भेण (स्वीयताद्योतकं) मुद्राकारं यच्चिह्नं तद्ुक्त वक्षः वक्षःस्थलं चरणयोरानतेः प्रणामस्य यो व्यतिकर: नैरन्तर्येण पौनःपुन्येन वा संबन्धः तद्वयाजेन तन्मिषेण कि किमिति गोपाय्यते गुप्तं क्रियते इति (तया) उक्ते सति मया तत् मुद्राचिहनं संप्रमार्ष्ट विलोपयतुं सहसाप्रसादैव क तदित्यु-

१ स्तनयुगति क्वचित्पाठः ॥ २ तन्व्यापीत्यपि पाठः ॥ ३ खेदेन दुःखेन कलिता संपादिता ॥ गुरुकुले गुरुगृहे॥ ५ स्वात्मत्यागेति । विषयविद्योभयकर्तृकस्वत्यागन विषयविद्ययोः कृतघ्नत्वम् नायिकाकर्तृकस्वीयत्यागेन चास्यां नायिकारयां लोकोत्तरत्वमित्यर्थः ॥ ६ स्मृतिः ॥

Page 184

चतुर्थ उल्लासः १२५

अत्र कोपस्य एकस्मिञ् शयने विपक्षरमणीनामग्रहे मुग्धया शिकाळ सदो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि। आवेगादवधारितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं

अत्रौत्सुक्यस्य मा भूत्मुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः॥ ५१॥

उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्संगप्रियता च वीररभसोत्फालश्र मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्रिग्धो रुणद्यन्यतः ॥ ५२॥

दीर्य कुत्र मुद्राचिह्नमित्युक्त्वा रभसेन त्वरया सा नायिका आश्लिष्टा आलिङ्गिता तत्सुखवशात् आलिङ्गनानन्दपारवश्यात् तन्व्या च तत् मुद्राङ्कितत्वं विस्मृतमित्यर्थः। चकारेणालिङ्गनविस्मृत्योरेक- कालतारूपसमुच्चयालंकारो द्योत्यते। अपीति पाठेऽपि स एवार्थः । "संपर्के च व्यतिकरः प्रकार- व्रातयोरपि "इति कोशः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) ।। अत्र कोपरूपभावस्य शान्तावेव चमत्कारविश्रामः। न तु विद्यमानेऽपि प्रसादोदये तदनुभावा- दयनुल्लेखादिति बोध्यम् । तदेवाह अत्र कोपस्येति। शान्तिरिति शेषः ।। भावोदयमुदयमुदाहरति एकस्मिन्निति। अमरुशतके पद्यमिदम्। एकस्मिन् शयने शय्यायां विपक्षभूता रमणी सपत्नी तस्याः नामग्रहे नाममात्रग्रहणे अर्थान्नायकेन कृते सति सदःतत्कालमेव मानस्य परिग्रहोऽङ्गीकारः तेन गलपितया खिन्नया। 'कोपपराङ्मुख ग्लपितया' इति पाठे कोपेन पराङ्मुखं यथा स्यात्तथा ग्लपितया खिन्नयेत्यर्थः । कोपपराङ्मुखग्लपितयेति पाठे कर्मधारयः। मुग्धया स्वधैर्य- मजानत्या (नायिकया) चाटूनि (प्रमादात्तनामग्रहणं न तु मे तस्यामासक्तिरित्यादीनि ) प्रिय- भाषणानि ("अस्त्री चाटुश्चटुः ल्लाघा प्रेम्णा मिथ्याभिशंसनम् "इति कोशः) कुर्वन्नपि प्रियतमः नायकः आवेगात् कोपावेशात् अवधीरितः अवज्ञातः तिरस्कृतः सन्निति यावत् तूष्णीम् आलापरहितः स्थितः प्रसादज्ञानायावहितः न तु निद्रितः तत्क्षणं तूष्णींस्थितिक्षणे एव (तत्क्षणमित्यत्र "कालाध्वनोरत्यन्त- संयोगे" इति द्वितीया। तत्क्षणादिति पाठे तूष्णींभावक्षणानतरमेवेत्यर्थः) स्वापस्य सर्वथा दुर्लभत्वेन सुप्त इव मा भूदित्यौत्सुक्येन अमन्दम् अतिशयितं यथा स्यात्तथा वलिता वक्रीकृता ग्रीवा यत्र तद्यथा स्यात्तथा पुनः वीक्षितानन्तरं वीक्षित इत्यर्थः। वारंवारं वीक्षित इति यावत्। शार्दूल- विक्राडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) ॥ अत्र सुरतविषयस्यौत्सुक्यस्योदयश्चमत्करोति न तु सत्यपि कोपशान्तिः तदनुभावानुपादाना; दिति बोध्यम्। तदेवाह अत्रौत्सुक्यस्येति। उदय इति शेषः ॥ भावसंधिमुदाहरति उत्सिक्तस्येति। महावीरचरितनाटके द्वितीयेऽक्के सीतामालिङ्गतः श्रीरामस्य परशुरामागमने उक्तिरियम्। उत्सिक्तस्य ख्यातस्याहंकृतस्य चेत्यर्थः तपःपराक्रमयोः निधेः स्थान- भूतस्य (ईदृशस्य परशुरामस्य) अभ्यागमात् आगमनेन एकतः एकस्यां दिशि सतः समीचीनस्य (परशु- १ कर्तृभतया। अस्यावधीरित इत्यत्र वीक्षित इत्यत्र चान्वय। ॥

Page 185

१२६ काव्यप्रकाश: सटीक:।

अत्रावेगहर्षयोः । क्वाकार्य शशलक्ष्मण: क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रतमहो कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियः खम्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि क: खलु युवा धन्योऽधरं धास्यति॥५३॥

रामस्य) सङ्गे या प्रियता प्रेम तच्च वीरस्य रभस उत्साहः तस्योत्फाल उद्रेकः वीरोचितोत्साहोद्रेक इत्यर्थः स च एतौ द्वावपि मां कर्षतः आकर्षतः । अत् चकारदयं दवयोः प्राधान्यसूचनाय । अन्यतः अन्यस्यां दिशि एष: अनुभूयमान: विदेहस्य जनकस्यापत्यं स्त्री वैदेही सीता तस्याः परिरम्भः आश्लेषः मां रुणद्धि च मुनिपार्श्वगमनं प्रतिबन्नाती्यर्थः । चकारः पूर्वोक्ततुल्यकालत्वसूचनाय। ननु एकपरि- रम्भकार्यस्य द्वाभ्यां सत्सङ्गप्रेमवीरोत्साहाभ्यां जन्यमानकार्यस्य तुल्यकालत्वं तस्य ताभ्यां तुल्यतां विनानुपपन्नमित्यतः तत्संपादके विशेषणे आह मुहुरित्यादि। मुहुः वारंवारं चैतन्यं ज्ञानम् आमी- लयन् विषयान्तराव्यावर्तयन् हरिचन्दनं चन्दनभेद: इन्दुश्च तद्वत् शिशिरः शीतलः स चासौ स्त्निग्धश्च प्रेमसंवलितश् अत एव णद्धीति युक्तं स्त्निग्धेन युद्धान्निवर्तनात् अत एवं आनन्दी आनन्दजनक इत्यर्थः । शिशिरस्पर्श इति पाठान्तरम् । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र मुनावत्यादरणीयत्वज्ञानजन्यत्वराविशेषः पूर्वार्धगम्यः हर्षस्तूत्तरार्धगम्यः अनयोस्तुल्यकाल- मेवास्वाद इति तयोर्मिलनरूपः संधिः । अत्र परिरम्भकृतहर्षेण सत्सङ्गप्रियतोत्साहो भयकृतत्वादा- वेगस्तुल्य इति बोध्यमित्युद्दयोते स्पष्टम्। तदेवाह अत्रावेगहर्षयोरिति । संधिरिति शेषः । आवेगस्त्वराविशेषः ।। भावशबलतामुदाहरति क्वाकार्यमिति। विक्रमोर्वशीये चतुर्थेडक्के उर्वशी दृष्ट्रा पुरूरवस उक्तिरिय- मिति जयन्तमहेश्वरनागोजीभट्टादयः । यद्यपीदं पद्यमस्मदुपलब्धहस्तलिखितपुस्तकेषु नोपलभ्यते तथापि १८७९ सिरिस्तान्देडङ्गिते पुस्तके १२२ पृष्ठेऽधिकपाठरूपेणोपलभ्यत एव। एतेन शुककन्यां देवयानी दृष्टवतो राज्ञो ययातेरियमुक्तिरिति वदन्तः श्रीवत्सलाञ्छनकमलाकरवैद्यनाथभीमसेनादयः प्रत्युक्ताः । अकार्य मुनिकन्यायामासक्तिरूपं क शशो मृगभेद: लक्ष्म चिहनं यस्य तस्य शशलक्ष्मणः चन्द्रस्य कुलं च क्क। कद्येन ज्ञानद्वयस्य सहानवस्थानप्रतिपत्तिः। तेनात्यन्तानौचित्यं व्यज्यते। यद्वा। क्वद्वयेनोभयोरत्य- न्तवैधर्म्याद्विषमालंकारो ध्वन्यते । अत्र शान्तसंचारिवितर्कावगमः । अत्र शशलक्ष्मण इत्यनुचितम् 'सुधांशोः' इति तूचितम्। भूयोऽपि पुनरपि सा अद्भुतसौन्दर्या उर्वशी दृश्येत कथं दृग्गोचरा भवेत्। अपिना संभावनौत्कट्यं सूच्यते। अत्र व्यङ्गयेन शृङ्गारसंचार्यौत्सुक्येन शान्तसंचारिवितर्कबाधनम्। नः अस्माकं श्रुतं शास्त्रश्रवणं दोषाणां प्रमादावेशादीनां प्रशमाय आत्यन्तिकनाशाय। अत्र व्यक्कयया शान्त- संचारिण्या मत्या पूर्वौत्सुक्यबाधनम् । अहो आश्चर्यम् कोपेऽपि मुखम् (अर्थात्तस्याः) कान्तं मनो- हरम्। अत्र व्यङ्गयेन शङ्गारसंचारिणा स्मरणेन पूर्वोक्तमतिबाधनम्। अपगतं कल्मषं पापकर्म येभ्य- स्तादशाः । कृते सदाचारे यद्वा कृते महात्मभिराचरिते (पुण्यकर्मणि ) धीर्येषां ते पण्डिताः किं वक्ष्यन्ति। अत्र व्यङ्गयया शान्तसंचारिण्या शङ्कया पूर्वोक्तस्मरणबाधनम्। स्वम्रेऽपि अदृष्टाश्रुतापूर्व- घटकेऽपि सा दुर्लभा। अत्र व्यङ्गथेन शुङ्गारसंचारिणाभिमताप्राप्तिप्रयुक्तदैन्येन पूर्वोक्तशङ्काबाधनम्। हे चेतः स्वास्थ्यम् उपैहि उपगच्छ। अत्र व्यङ्गपया शान्तसंचारिण्या घुत्या पूर्वोक्तदैन्यबाधनम्। क:

Page 186

चतुर्थ उल्लास:।क १२७

अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता।ह भावस्थितिस्तूक्ता उदाहृता च।। (सू० ५१) मुख्ये रसेऽपि तेडङ्गित्वं प्राप्ुवन्ति कदाचन। ते भावशान्त्यादयः। अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत्।। (सू० ५२) अनुस्वानाभसंलक्ष्यक्रमव्यङ्गयस्थितिस्तु यः ॥ ३७॥

खलु धन्यो नाहमिव मन्दभाग्य: युवा तरुणः अधरं धास्यति पास्यति। अत्र व्यङ्गयया शृङ्गारसंचारिण्या चिन्तया पूर्वोक्तधृतिबाधनम् । एवं चात्र काव्ये पार्यन्तिकचिन्तया शान्तोपमर्देन शृङ्गारस्य विश्रान्ति: (पर्यवसानम् ) सा च शत्रुविजयपूर्वकराज्यलाभ इव प्रकर्षनिदानम् । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठ) । अत्र पूर्वपूर्वोपमर्देन उत्तरोत्तरं प्रतीयमानं चमत्कारमादघतीति तत्स्वरूपा शबलता। तदेवाह अत्र वितर्केत्यादि। ननु भावस्य शान्त्यादिवत् स्थितिरप्येकावस्था संभवति सा कथं पृथक् नोक्ता इत्यत आह भाव- स्थितिरिति। उक्तेति। "व्यभिचारी तथाञ्जितः " इत्यनेन ४८ सूत्रेण उक्तेत्यर्थः । उदाहृता 'जाने कोपपराङ्मुखी' इत्यनन ४५ उदाहरणेन। अयं भावः। प्रशमाद्यवस्थाचतुष्करहितो भाव एव भावस्थितिः। सा पूर्वोपदर्शितेन भावेनैव गतार्थेति।। ननु विभावादिसमूहालम्बने रसेऽङ्गतां प्राप्तस्य व्यभिचरिणो भवतु कथंचन प्राधान्यं तच्छान्त्यादीना- मुदासीनानां कथ प्राधान्यमित्यत आह मुख्ये रसेऽपीति। अथवा ननु प्राधान्येन व्यञ्चितव्यभिचारिके स्थले नियमतो मुख्यस्य रसस्यावस्थानं तत्कथमुक्तानि भावादयुदाहरणान्येतानि। कथ वा भावादिध्वनि- त्वम्। भावानां रसाङ्गत्वेन गुणीभावात् भावशान्त्यादीनामपि रसानुभावतया रसाङ्गत्वेन गुणीभावादित्यत आह मुख्ये रसेऽपीति। मुख्ये रसे सत्यपि ते भावाः शान्त्यादयश्च अङ्गित्वं प्राधान्यं प्राप्ुवन्ति कदाचन यदा ते एवाङ्गित्वेन विवक्ष्यन्ते। यद्वा। रसापेक्षया सातिशयचमत्कारे सति इति सूत्रार्थः। ते इत्यस्य व्याख्यानमाह भावशान्त्यादय इति। भावाश्च शान्त्यादयश्चेति द्वन्द्वः । भावस्थितिशान्तादय इति पाठः सुगमः । अङ्गित्वमिति। आपातत इति शेषः । रस एव पार्यन्तिकोडस्तीति। अङ्गित्वे दृष्टान्त- माह राजानुगतेति। राजानुगतविवाहप्रवृत्तभृत्यन्यायेनेत्यर्थः । यथा विवाहप्रवृत्तो भृत्यो राज्ञाप्यपु- गम्यते तथा प्रकृतेऽपीति भावः। एवं च यत्र विभावादिव्यक्तस्थाय्यंशोद्रेककृत आस्वादस्तत्न रसध्वनि- त्वम् । यत्र स्वानुभावव्यक्तव्यभिचार्याद्युद्रेककृतस्तत्र भावादिध्वनित्वम् । यत्र व्यङ्गयीभूतमपि व्यभिचारिणमनपेक्ष्य विभावानुभावोद्रेककृतस्तत्र वस्त्वलंकारध्वनित्वमिति भावः । रससंपर्केणो- द्रटस्य भावशान्त्यादेरापातत एव चमत्कारित्वम् । पर्यन्ते तु रसस्यैवेति बोध्यम्। यथा हस्त्यश्वादि- भिरलंकृतो भृत्य आपाततः प्रेक्षकाणामुत्पादितविस्मयोऽपि दृष्टे राजनि एवमनुग्राहकोडयं राजा यदुपकरणीभूय भृरत्यं विवाह्यतीति राजोत्कर्षे एव पर्यवसानमिति दिगित्युद्दयोते स्पष्टम् ।। इत्थमसलक्ष्यकमव्यङ्गयं (रसादिश्वनि सावान्तरभेदस्) निरूप्येदानी संकक्ष्यक्रमवयङ्गयं पाने विभ- लते अनुस्वानेति। छण्टायां वाय्यमानायां प्रधानश्दप्रतीव्य्तरं यथा क्षोदीयानपरोडनुरणनानुस्वान-

Page 187

१२८ काव्यप्रकाश: सटीक: ।

शब्दार्थोभयशक्त्युत्थंस्त्रिधा से कथितो ध्वनिः। शब्दशक्तिमूलानुरणनरूपव्यङ्गयः अर्थशक्तिमूलानुरणनरूपव्यङ्गयः उभयशक्ति मूलानुरणनरूपव्यङ्गयक्षेति त्रिविधः॥ तत्र अलंकारोऽथ वस्त्वेव शब्दाद्यत्ावभासते॥ ३८॥ (सू० ५३) प्रधानत्वेन स ज्ञेय: शब्दाशक्त्युद्धवो द्विधा । वस्त्वेवेति अनलंकारं वस्तुमात्रम्। आद्यो यथा प्रतिध्वन्यादिपदाभिघेयः शब्दविशेषः प्रतीयते तदाभस्तत्सदृशः संलक्ष्यो ज्ञेयः क्रमः पौर्वापर्यम् (अर्था- द्यञ्जकेन सह) यस्यैवंभूतस्य व्यङ्गयस्य स्थितिर्यस्मिन् (ध्वनौ काव्यमेदे) स इत्यर्थः । यथा ध्वनिप्रति- ध्वन्योः क्रमो लक्ष्यते तथा वस्त्वलंकृतितद्यञ्जकयोर्यत्रेति भावः । एवं भूतो यः ध्वनिः सः शब्द- श्ार्थश्चोभयं च तेषां याः शक्तयः व्यञ्जनाः तत उत्तिष्ठति प्रादुर्भवति यः सः तदुत्थः तदुद्धव इति त्रिधा त्रिप्रकार: कथित इति सूत्रार्थः ॥ तदेवाह शब्दशक्तत्यादि। शब्दपरिवृत्यसहत्वेन शब्दशक्तिमूलत्वं शब्दपरिवृत्तिसहत्वेनार्थ- शक्तिमूलत्वम् अवच्छेदकभेदेन तदसहत्वसहत्वाभ्यां तूभयशक्तिमूलत्वमिति बोध्यम्। तदुक्तं प्रदीपे। "शब्दशक्तिमूलत्वं च एतदेव यत्तेनैव शब्देन तदर्थप्रतीतिर्न तु पर्यायान्तरेणापि। एतद्वैपरीत्यं चार्थ- शक्तिमूलत्वं न त्वभिधया तत्प्रतीतिरिति। एतेन अभिधाया यत्र न नियमनं तत्रैष भेदो द्रष्टव्यः। तन्नि- यमने तु नाभिधामूलत्वं किं तु व्यञ्जनामूलत्वमेव 'भद्रात्मनः' (६७ पृष्ठे) इतिवद्धवेत् इति यत्केन- चिदुक्तं तन्नादेयम्। भद्रात्मन इत्यादेरप्येतद्गेदत्वेनेष्टत्वात्। अन्यथा तस्य सर्वभेदबहिर्भावापत्तेः। किंच प्रथमोदाहरणे (उल्लास्य कालेत्यादौ १२९ पृष्ठ) प्राकरणिकाप्राकरणिकयोरिति व्याख्यानेन द्वितीये (तिम्मेत्यादौ १३१ पृष्ठे) मवानित्यनेन तृतीये (अमितइत्यादौ १३२ पृष्ठे) असत्यनेन प्रकरण- स्याभिधानियामकस्य स्पष्टत्वात्तेषामुदाहरणत्वं विरुद्धयेत । तस्माद्यथोक्तमेव न्याय्यम् " इति ॥ 3 शब्दशक्तिमूलानुरणनव्यङ्गयस्य द्वैविध्यमाह तत्रेत्यादि। तत्र त्रिविधेषु मध्ये। अलंकारोऽ्थेति। अथशब्दो विकल्पे। यत्र यस्मिन् ध्वनौ अलंकार उपमादिः अथवा वस्तेव वस्तुमात्रं शब्दात् परिवृ- त्यसहरूपात् पदात् प्रधानत्वेन प्राधान्यन अवभासते प्रकाशते स ध्वनिः शब्दशक्युद्धवः शब्दश- क्त्युत्थ: द्विधा (अलंकारध्वनिर्वस्तुध्वनिश्चेति) द्विप्रकार इत्यर्थः। प्रधानत्वनेत्यनेन शब्दस्य यत्र प्राधान्य- मर्थस्यापि तत्र साचिव्यमिति बोधितमिति केचित्। वस्तुतस्तु प्रधानत्वेनेत्यनेन गुणीभूतव्यङ्गयनिरासः॥ ननु वस्तुत्वस्य केर्वैलान्वायत्वात् अलंकारोपि वस्तु तत्कथ भेद इत्यत आह अनलंकारमिति। अलंकारभिन्नमित्यर्थः । एवं च गोबलीवर्दन्यायेन वस्त्वलंकारयोर्भेद इति भावः ॥ 9 अंशभेदेन ॥ २ शब्दार्थयोरेकव्यज्ग्यस्यापरव्यङ्गयत्वनियमादाह शब्दशक्निमूलत्वं चेति। अवच्छेदकमेदेनो- भयान्वयव्यतिरेकानुविधाने तभयशक्तिमूलत्वं द्रष्टव्यमित्युद्दयोतः॥३ उल्लात्येत्यादावभिधानियामकमस्त्येवेति तदुद।- हरण़ासंगतिरित्याह किं चेति। भवच्छ्दस्य संबोध्यवाचित्वादप्रकतस्य च संबोध्यत्वायोगात्परुतत्वम्। एवमसीत्यपि युष्मद्योमपेक्षमिति मरुनत्वगमकमित्यर्थ; इृति प्रभा ॥ केवलान्वयित्वं चात्यन्ताभावाप्रतियोगित्वम्॥ ५ अस्य ्यायस्यार्थन्वु लौकिकन्यायमालायां द्रष््थाNERI DIIFLE F

Page 188

चतुर्थ उल्लासः। १२९

उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन। निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः॥५४॥ अत्र वाक्यस्यासंबद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरु- पमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्गयः।

शब्दशक्तिमूलमलंकारध्वनिमुदाहरति उल्लास्येति। अत्र वाच्यपक्षे (प्राकरणिकराजपक्षे) येन प्रकृतेन देवेन राज्ञा जरठं कठोरम् ऊर्जितं बलवत् गर्जितं सिंहनादो यस्य तथाविधेन कालो वैरिसंहर्ता यः करवालः खङ्गः तत्र यन्महत् अतिशयितम् अम्बु धाराजलं तस्य वाह: प्रवाहः (प्रसरणं) तम् उल्लास्य ताक्ष्णीकरणेनाधिकं कृत्वा धाराजलैः खङ्गधाराकान्तिभिः (खङ्गरत्नादिकान्तौ लोके पानीया- दिपदप्रयोगात् पानीयपर्यायस्य च कान्तिवाचकत्वात्) रिपूणां शत्रूणां त्रिजगति त्रिभुवने जवलितः अतिप्रसिद्धिं प्राप्तः सकल एव प्रतापः शौर्यख्यातिरूपः रणे संग्रामे निर्वापितः विलोपित इत्यर्थः। यद्वा। महः उत्सवः वैरिजयरूपः स एवाम्बु अम्बुवन्निरन्तरप्रवृत्तिशीलः तत् वहति धारयतीति महाम्बुवाह्यः । कालकरवाल: कृष्णायसखङ्गश्वासौ स चेति कर्मधारयः। तमुल्लास्य निपातनायोद्यम्येत्यर्थः। सकल इति सप्तम्यन्तं रणविशेषणमिति केचित्। व्यङ्गयपक्षे (अप्राकरणिकेन्द्रपक्षे) तु येन देवेन मेघाधिपतिना इन्द्रेण जरठं गम्भीरम् ऊर्जित यत् गर्जितं गर्जनं तेमोपलक्षितम्। 'छत्रेण राजानमद्राक्षीत्' इतिवदुपलक्षणे तृतीया "इत्थंभूतलक्षणे " (२।१।२१) इति पाणिनिसूत्रात्। कालकरं कृष्णरशिंम वर्षर्तुकालसूचकं वा वालं (वबयोरभेदात्) बालं नवीनमित्यर्थः महाम्बुवाहं मेधम् उल्लास्य प्रकाश्य रणे तेजोविषय- जलकोलाहले सति यद्वा अङ्गारादिषु जले पात्यमाने जायमानः शब्दो रणः तस्मिन् सति धाराकृति- भिर्जलै: त्रिमुवने रिपूणाम् अर्थाज्जलशत्रूणां तेजसां सकलः प्रकृष्टः तापः औष्ण्यं निर्वापितः शमित इत्यर्थः । "रवे रणः " इत्यमरः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे) ॥ अत्र प्रकरणेन प्रथमार्थेऽमिधाया नियन्त्रणात्तया बोधयितुमशक्यो वस्तुरूपो द्वितीयार्थो व्यङ्गय एव। एवं च तयोश्ष (प्रथमद्वितीययोः) अर्थयोरुपमालंकारोऽपि व्यङ्गय एवेत्यलंकारध्वनित्वम्। तदेव दर्शयति अत्रेत्यादिना। नन्वेवमर्थयोरसंबन्धे वाक्यभेदः स्यादित्यत आह वाक्यस्येति। असंबद्धार्थाभिधाय- कत्वं व्यङ्गयेन सहासंबद्धो यः प्रकृतो राजा तदभिधायकत्वं तद्वोधकत्वम्। यद्वा। वाक्यस्य विशेषणा- दिविशिष्टस्य असंबद्धार्थकत्वम् अविवक्षितार्थकत्वम् तथा सति अपुष्टार्थतापत्तिरिति भावः । मा प्रसा- ङक्षीदिताति। मा प्रसक्तं भवत्वितीत्यर्थः । करवालमुल्लास्येत्येतावन्मात्ने वक्तव्ये कालेत्यादिविशे- षणादिपदप्रयोगो निरर्थक इति असंबद्धार्थकत्वप्रसक्तिरिति भावः । प्राकरणिकाप्राकरणिकयोः राजेन्द्रयोः उपमानोपमेयभावः सादृश्याख्यसंबन्धः । कल्पनीयः निर्णेतव्यः। इति हेतोः। अत्र काव्ये। उपमालंकार इति। प्राधान्येनेति शेषः । व्यङ्ग्य इति । इति व्यवहर्तव्य इति शेषः । तदेतदुक्तं प्रदीपोद्दयोतयोः। "अत्र 'करत्रालमुल्लास्य' एतावन्मात्रे वक्तव्ये यदेतादृशशब्दप्रयोग- स्तस्यासंबद्धार्थकता मा प्रसज्यतामित्यप्राकरणिकैह्द्रिवारिवाहादिभिः प्राकरणिकानां राजकरवाला- दीनामुपमानोपमेयभावे कवेस्तात्पर्यमित्युपमालंकारो व्यङ्गयः। स च शब्दशक्तिमूलकः । पर्यायान्तरेण भूपादिना तदर्थोपस्थितौ तदप्रतीतेः। एवमग्रेडप्यूह्यम्" इति प्रदीपः । "अत्र व्यङ्गयार्थामिन्नत्वेना- ध्यवसितल्लिष्टशब्दोपात्तविशेषणकृतं सादृश्यं प्रतीयते । उक्तयुक्तेः । परं तु द्वितीयार्थप्रतीतिमन्तरा

१ कर्मधारय इति। मयरव्यंसकादित्वादिति भावः ॥ काव्यप्रकाश १७

Page 189

१३० काव्यप्रकाश: सटीकः । तिग्मरुचिरप्रतापो विधुरनिशाकृद्विमो मधुरलीलः। मतिमानतत्त्ववृततिः प्रतिपद पक्षाग्रणीर्विभाति भवान् ॥५५॥ अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः । नोपमावगमः। तदवगमे च शब्दशक्तिर्मूलमिति तद्यपदेशः । यद्यप्युपमानभूतद्वितीयार्थस्य वस्तुभूतस्यापि व्यङ्गयत्वमस्ति तथाप्युपमानमुखेनैव तेषामुपमेयोत्कर्षकत्वादलंकारध्वनित्वम्। प्रकरणेनाभिधानियमनात् श्िष्टशब्दोपात्तद्वितीयार्थस्यापि व्यङ्गयत्वमेवेति भावः । तदुक्तम् प्राकरणिकेति। ननु नृपमहेन्द्रादेः रूपकमेव व्यङ्गयमस्तु एवं च करवाल एव महाम्बुवाह इत्यर्थसाम्राज्यात्तव्याख्यानक्वेशोऽपि नेति चेन्न। प्रकरणाद्वर्ण्यस्य राज्ञः प्रतीतिः। श्रिष्टशब्दमहिम्रा देवेन्द्रस्यापि प्रतीतौ परस्परं तयोरसंबन्धे वाक्यभेदा- पत्या द्वितीयार्थस्य वर्णनीयोत्कर्षानाधायकत्वे तादृशशब्दविन्यासरूपकविप्रयासानर्थक्यापत्या चाङ्गा- द्विभाव: कल्प्यः। तत्रेन्द्रसंबन्ध्यम्बुवाहस्य राजसंबन्धिकरवालं प्रति विशेष्यत्वादिन्द्रस्यापि राजविशेष्य- त्वापत्या राजैव महेन्द्र इत्यर्थप्राप्तावविवक्षितमहेन्द्रप्राधान्यात्तद्रतेरेव व्यङ्गयत्वापत्तावसंबद्धार्थकत्वं तदवस्थमेव स्यात्। उपमायां तु महेन्द्र इव राजेत्यर्थे राजगतोत्कर्षप्राप्त्या तद्गतरतिलाभरूपेष्टसिद्धिः। यद्वा। रूपकस्यापि सादृश्यमूलकत्वात्प्रथमोपस्थितसादृश्यस्यैव संबन्घत्वमित्यभिप्रायः " इत्युद्दयोतः । अत्रेदं बोध्यम्। यत्रैकस्य प्राकरणिकत्वं तत्रैवास्य विषयः यत्र तु उभयोरपि प्राकरणिकत्वाद्य- नियमस्तत्र ल्लेष इति। प्रतिपादित चेदं प्राक् (६९ पृष्ठे ) । ननु समासोक्तिवदुपमायाः प्रकृतोपस्कारकतयापराङ्गत्वरूपगुणीभूतव्यङ्गयत्वापत्तिरिति चेन्न। तत्र व्यङ्गयस्याप्रस्तुतवृत्तान्तस्य प्राधान्येन प्रतीतौ चमत्कृ:्यभावेन गुणीभावेऽप्यत्रोपमायाः प्राधान्य- संभवेन गुणत्वानङ्गीकारादिति प्रभायाम् । चक्रवर्त्यादयस्तु महाम्बुवाहमिव कालकरवालम् तमिव च महाम्बुवाहमिति पक्षद्वये ( वाच्यपक्षे व्यङ्गयपक्षे च) क्रमेणोपमितसमासाङ्गीकारेणार्थ इत्याहुः । तन्न युक्तम् । कालकरवालेत्यादेः परिवृत्तिसहत्वेन तदंशे शब्दशक्तिमूलत्वानुपपत्तेः। कालकरवाल एव महाम्बुवाहो मेघ इति रूपक त्वसंगतमेव। तथा सत्युत्तरपदार्थस्य मेघस्य प्राधान्यापत्त्या तदुल्लासकत्वस्य राजि इन्द्रारोपं विनासंगतत्वापत्तेः। एतदर्थ व्यङ्गयत्वाङ्गीकारे च तस्य वाच्य- सिद्धयङ्गत्वेन ध्वनित्वानुपपत्तेरिति सुधासागरे।। इत्थमुपमालंकारध्वनिमुदाहृत्यैवम लंकारान्तराणि व्यङ्गयानि बोध्यानीति ध्वनयन् विरोधाभासालं- कारध्वनिमुदाहरति तिग्मरुचिरेति। हे विभो स्वामिन् भवान् विभाति शोभते इत्यन्वयः। कीदृशः । (खलेषु ) तिग्म: तीक्ष्णः (सुजनेषु ) रुचिरो मनोहरः प्रतापो दण्डादिजनितं तेजो यस्य सः। तथा विधुराणां शत्रूणां निशेव निशा मरणं तत्कर्ता। तथा मधुरा मनोज्ञा लाला चेष्टा यस्य सः। मतिः शास्त्रादितात्पर्यनिर्णायिका बुद्धिः मानश्चित्तसमुन्नतिः तयोः तत्त्त्वेन याथार्थ्येन सारेण वा वृत्तिर्वर्तनं यस्य सः। यद्वा। मतिः वस्तुतत्त्त्वावधारणक्षमा बुद्धिः मानं प्रमाणं ताभ्यां तत्वे याथार्थ्थे वृत्तिरनुसरणं यस्य सः। प्रतिपदं प्रतिस्थानं पक्षाणाम् आत्मीयानाम् अग्रणी: अग्रेसर इति प्रस्तुतपक्षे (अविरोधपक्षे) अर्थः। अत्र पदभङ्गेन विरोधः । तथा हि। तिग्मः तीक्ष्णः अथ च रुचिरः यद्वा तिग्मरुचिः सूर्यः अथ च अप्रतापः प्रतापरहितः (अनुष्णः)। विधुः चन्द्रः अथ च अनिशाकृत् रात्रिकृत् न। विभः दीप्तिरहितः अथ च विभाति दीप्यते। मधुर्वसन्तः अथ च अलीलः क्राडाशून्यः। मतिमान् प्रशस्तबुद्धिः अथ च अतत्त्ववृत्तिः तरवे ब्रह्मणि न वर्तते। यद्वा। अतत्त्वे अवस्तुभूते विषये वृत्तिर्व्यवसायो यस्य तादृशः ।

Page 190

चतुर्थ उल्लासः। १३१

अमितः समितः प्राप्ैरुत्कर्षैर्हर्षद प्रभो। अहितः सहितः साधुयशोभिरसतामसि ॥५६॥ अत्रापि विरोधाभासः ।

प्रतिपत् प्रथमा तिथिः अथ च अपक्षाग्रणीः पक्षस्यादिभूता नेति विरोधाभासो व्यङ्गयः । गीतिश्छन्दः । लक्षणमुक्त प्राक् (४ पृष्ठ)। अत्रैकपदत्वेन प्रकृतेये ज्ञाते द्विपदत्वानुसंधाने विरोधाभासो व्यङ्गय इत्यलंकारध्वनित्वम्। तदेवाह अत्रेत्यादिना। एकैकस्येति। 'तिग्मरुचिरप्रतापः' इत्यादिरूपस्य। द्विपदत्वे तिग्मरुचिः अप्रताप इत्यादिरूपे। ज्ञाते इति शेषः। विरोधाभास इति। प्राधान्येन व्यङ्गय इति शेषः । अत्र सामाजिका- नुसंधानमेव द्विपदत्वज्ञानोपायोडस्तु तथापि 'मृणालवलयादि दवदहनराशिः' इति ४८१ उदाहरणव- द्विरोधस्य वाच्यतैव भवितुमर्हति तस्मादेकैकस्य पदस्य द्विपदत्वे वाच्यो विरोधाभास एकैकस्य पदस्य व्यङ्गय इत्यध्याहारः कर्तव्य इति केचित् । अपिशब्दाद्यभावे विरोधो व्यङ्गय इत्यन्ये। वस्तुतस्तु सहद- यानां वासनाबलात् द्विपदत्वज्ञानेऽपि प्रकरणादिनाभिधायाः प्रथमेऽर्ये बियमनात् अप्रकृततया द्वितीया- र्थस्य तत्संबद्धविरोधस्य च व्यङ्गयत्वमक्षतमिति बोध्यमित्युद्दयोतादौ स्पष्टम्।। एवं समङ्गे पदे विरोधाभासालंकारध्वनिमुदाहत्याभङ्गेडपि पदे विरोधाभासालंकारध्वनिमुदाहरति अमित इति। शत्रुमित्रयोर्हर्ष द्यति खण्डयति ददाति चेति हे हर्षद शत्रुहर्षखण्डक मित्रहर्षदायक प्रभो स्वामिन् त्वं समितः संग्रामात् प्राप्तैः उत्कर्षैः अमितः अपरिच्छिन्नः (परिच्छिन्नत्वरहितः) असतां खलानाम् अहितः दण्डविधायकत्वेन शत्रुः अत एव साधुभिः उत्कृष्टैः यशोभि: सहितः युक्तः असीति प्रस्तुतपक्षेऽर्यः । अत्र पदाभङ्गेऽपि विरोधः। तथाहि। अमितः परिमाणशून्यः अथ च समितः परिमाणसहितः । यद्वा । अमितः मितं मानं तद्रहितः अथ च समितः मानसहितः । अहितः हित- रहितः सहितः हितसहित इति। श्लोकश्छन्दः । लक्षणमुक्तं प्राक् (११ पृष्ठे) । अन्रापि प्रकरणादिना प्रथमार्थेऽभिधायाः नियमनेनाप्रकृतत्वात् द्वितीयार्थस्य विरोधो व्यङ्गय एवेत्य- लंकारध्वनित्वम्। तदेवाह अत्नापीति। भिन्नपदत्वेऽपि अप्रकृतत्वेनेति शेषः । विरोधाभास इति। प्राधान्येन व्यङ्गय इति शेष: । "ननु विरोधस्य किं सर्वत्र व्यङ्गयत्वमेव। नेत्युच्यते। तत्कियती सीमा। अपिशब्दादेविरोधव्यञ्ज- कस्य भावे वाच्यत्वम् तदभावे व्यङ्गयत्वमिति " इति प्रदीपः । अत्र प्रभा ( ननु द्वितीयार्थस्याप्रकृत- श्वेन विरोधस्य व्यङ्गयत्वे सर्वत्रैव तदापत्तिरिति न क्वापि तस्य वाच्यता स्यादित्याशयेन शङ्कते ननु विरोधस्येति। सीमा मर्यादा। कियत्युक्ते वाच्यता कियति चोक्ते व्यङ्गयतेति व्यवस्थेत्यर्थः । अपाति। द्योतकसत्वे स्फुट प्रतीतेर्वाच्यायमानतया वाच्यत्वमेव व्यवह्नियते। अन्यथा तु व्यङ्गयते- त्यर्थः ) इति । अत्रोद्द्योतोऽपि (विरोधव्यञ्जकस्येति। एतेन निपातानां दोतकत्वं ध्वनयति। भावे वाच्यत्वमिति। स्फुटद्योतितस्य विरोधस्य तदाक्षिप्तद्वितीयार्थस्य च वाच्यकल्पत्वादिति भावः । व्यङ्ग्यत्वमिति। द्वयमपि सामनाधिकरण्यस्त्वे एवेत्यपि बोध्यम्। शनिरशनिश्चेत्यत्रत्यप्रदीप- स्वरसात् । अन्ये तु सामानाधिकरण्यमपि वाच्यत्वे एव नियामकमित्याहुः) इति। वस्तुतस्तु "अप्रकृतत्वात् द्वितीयार्थस्य विरोधो व्यङ्गय एव" इत्युद्दयोतसिद्धान्तः प्रागन्नैवोपर्यावेदित एवेत्यलं मुडुर्मुहुरुद्वाटनेन। एवं च दशमोल्लासे वक्ष्यमाणे 'मृणालवलयादि दवदहनराशिः' इत्यादौ

Page 191

१३२ काव्यप्रकाश: सटीक: ।

निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्राध्याय शूलिने ॥ ५७॥ अत्र व्यतिरेकः। अलंकार्यस्यापि ब्राह्मणभमणन्यायेनालंकारता।

(४८१ उदाहरणे) अपिशन्दाद्यभावेऽपि विरोधाभासो वाच्य एव। प्रकृतार्थ( वाच्यार्थ)- संबद्धत्वादिति मन्तव्यम् । प्रतिपादयिष्यते चैवमेव १६६ सूत्रे इति बोध्यम्।। व्यतिरेकालंकारध्वनिमुदाहरति निरुपादानेति। काश्मीरिकनारायणभट्टप्रणीते स्तवचिन्तामणौ पद्यमिदमिति वदन्ति। शूलिने महादेवाय नम इत्यन्वयः । कीदृशाय। निर्गतः रहितः उपादानस्योपकर- णस्य (तूलिकादेः) संभारः संपतिः समूहो वा यत्र तद्यथा स्थात्तथा अभित्तावेव शूनये एव चित्रं नाना- कारं जगत् तन्वते विस्तारयते कुर्वते इति यावत् तस्मै अनिर्वचनीयस्वरूपाय कला चन्द्रस्य षोडशो भाग: तया श्लाध्यायेति प्रकृतोऽर्थः । व्यञ्जनया तु चित्रम् आलेख्यम् कला आलेख्यक्रियाकौशलम्। एवं चात्र व्यञ्जनया चित्रकलाशब्दाभ्यामालेख्यतत्प्रावीण्योपस्थित्या मषीतूलिकाद्युपादानैर्मित्तावालेख्य- कारिभ्यः कलावद्धयः शूलिन उत्कर्षः प्रतीयते इति व्यतिरेकालंकारो व्यङ्गयः । तस्य च चित्रकला- शब्दयो: परिवृत्त्यसहत्वेन शब्दशक्तिमूलता। तदुक्तमुद्दयोते "अप्रकृततया व्यङ्गयेनालेख्येनानुभावेन व्यङ्गयात्स्वकर्तुरप्रकृतात् शूलिनो व्यतिरेको व्यङ्गय एवेति भावः। न चास्य (व्यङ्गयस्य) कविगतशिव. विषयरतिं प्रति गुणत्वम्। वाच्यापेक्षया प्राधान्यमात्रेण तद्ध्वनित्वाक्षतेः" इति। शिष्यबुद्धिवैशदयाय बहूदाहृतमिति बोध्यम्। ननूदाहृतेषूपमादीनां व्यङ्गयानां प्राधान्येनालंकार्याणां कथमलंकारकत्वमित्यत आइ अलंकार्य- स्यापीत्यादि। ब्राह्मणश्रमणेति। श्रमणो बौद्धसंन्यासी। यथा तस्याशास्त्रीयविधिना त्यक्तशिखा- सूत्रादेसत्यक्तनित्यादिकर्मणश्च तदानीं ब्राह्मणत्वाभावेऽपि पूर्वकालिकब्राह्मणत्वमादाय ब्राह्मणत्वव्यव- हारस्तथालंकार्यस्यापि व्यङ्गयतादशायामलंकारत्वाभावेऽपि वाच्यतादशायां विद्यमानमलंकारत्वमादाया- लंकारत्बव्यपदेश इत्यर्थ: ॥ तदुक्तं प्रदीपे। "ननूदाहृतेषूपमादीनां प्राधान्यं न वा। आद्ये कुतस्तेषामलंकारत्वम्। अन्यान- लंकरणात्। द्वितीये कुतोऽस्य काव्यस्य ध्वनित्वं व्यङ्गयस्याप्राधान्यादिति चेन्न। पूर्व (वाच्यतादशायां) अयमलंकार आसीदित्येतावतालंकारव्यपदेशात्। यथा ब्राह्मणपूर्वबौद्धसंन्यासिनि ब्राह्मणव्यपदेशः । नन्वेवं व्यपदेशसमर्थनेऽप्यलंकारध्वनित्वं न समथितमिति चेन्न। अलंकारपदेन तैद्योग्यताया विवक्षित त्वात्। न चैवं रसादिध्वनावप्यलंकारध्वनित्वप्रसङ्गः। संलक्ष्यक्रमस्यैव ताद्ृशस्य (कदाचिदलंकारस्य) तथा (अलंकारध्वनिव्यपदेश्यतया ) अभिप्रेतत्वात् । वस्तुतस्तु प्राधान्याप्राधान्ये व्यङ्गयस्य वाच्या पेक्षयैव। न तु रसापेक्षयापि तदपेक्षया सर्वत्र गुणीभावात्। तथा चोपमादीनां रसाङ्गतयालंकारत्वं वाच्यापेक्षया प्राधान्यं चेति न दोषलेशावकाशः" इति॥ १ अलंकारपदेन अलंकारध्वनिशब्द्गतेन ॥ २ तद्योग्यतायाः अलंकारजातीयरूपायाः ॥३ न चैवमिति। तत्रापि रसवदलंकारसज तीयत्वसस्वादिति भावः । यद्वा। तेषामपि रसवदाद्यलंकारत्वयोग्यत्वादिति भावः ॥ वस्तुतस्थित्यत्र 'एवं च' इति पाठः क्वचिद्दृश्यते ॥

Page 192

चतुर्थ उल्लासः। १३३

वस्तुमात्रं यथा पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे। उण्णअपओहरं पेख्खिऊण जइ वससि ता वससु ॥५८ ॥ अत्र यद्युपभोगक्षमोऽसि तदा आस्स्वेति व्यज्यते।

एवमलंकारध्वनिम् (शब्दशक्तिमूलकम्) उदाहृत्य इदानीं वस्तुध्वनिम् (शब्दशक्तिमूलकम्) उदा- हरति पंथिअ इति। स्वयंदूती "द्ूयर्थैः पदैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रमनुसत्य पथिकं प्रति द्वयर्थैः पदैराच्छाद्य रहस्यं कथयति। "पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे। उन्नत- पयोधरं प्रेक्ष्य यदि वससि तदा वस ॥" इति संस्कृतम्। हे पथिक प्रस्तराणां पाषाणानां स्थले तन्मये अत्रास्मिन् ग्रामे न तु नगरे मनाक् अल्पमपि स्रस्तरं कटाद्यास्तरणं नास्ति। पाषाणबाहुल्येन तृणदुर्लभतासूचनम् । तस्माच्छयनसामग्रयभावेऽपि उन्नतपयोधरं वार्षुकं जलदं मेघं प्रेक्ष्य दृष्टा यदि (तत्प्रतिबन्धात्) वससि तदा वस न तु विश्रामार्होडयं ग्रम इत्यापाततो यथाश्रुतो वक्त्र्यभिप्रायः । व्यङ्गयार्थस्तु पाषाणानां तत्त्वेनाध्यवसितानां मूर्खानां स्थले तन्मये अत्र ग्रामे सत्थरं शास्त्रं यद्वा सत्थरं शास्त्रं कामशास्त्रमित्यर्थः । मनाक् ईषदपि नास्ति कि पुनः साहित्यम्। तस्मादाकारेङ्गिता- द्यमिज्ञविरहाननिःशङ्कतया उन्नतम् अनुपभुक्तं पयोधरं स्तन तादशोद्दीपनं मेघं च प्रेक्ष्य यदि वसस उपभोगक्षमोऽसि तदा वस आस्स्वेति। प्रस्तरस्थले इत्यनेन शय्यापेक्षापि नास्तीति ध्वन्यते। जघ- नविपुला छन्दः । उक्तं च वृत्तरत्नाकरे "संलङ्गय गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । यंस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति " इति। इयं विपुला चपलावन्मुखजघनभेदभिन्न। भवति । प्रथमेडर्वें मुखविपुला उत्तरार्धे जघनविपुलेति व्याख्यातारः । तथा च पिङ्गलसूत्रम् "विपु- लान्या " (४ अ० २३ सू०) इति। यस्या आर्याया अन्त्येऽर्धे आदे वा उभयोवा त्रिषु गणेषु पादो न विश्राम्यति सा आर्या विपुलेति तदर्थः ॥ अत्र वस्तुरूपं व्यङ्गयं दर्शयति अत्र यदीत्यादि। आस्स्वेतीति। वस्त्विति शेषः । व्यज्यते इति। अत्र शास्त्राभावादाकारेङ्गितज्ञानधिकरणे ग्रामे सति चैवंविधे उद्दीपने मेधे लषमर्यादया उन्नतस्तनदर्शने च को नाम उपभोगक्षमोऽन्यत्र गन्तुमर्हतीति वक्त्रयभिप्रायो व्यञ्जनया प्रकाशते इत्यर्थः। तच्च पओहर- सत्थरशब्दयोः परिवृत्त्यसहत्वाच्छब्दशक्तिमूलमिति शब्दशक्तिमूलो वस्तुध्वनिरयमिति भावः । सत्थर शास्त्रमास्तरणं च। शास्त्राभावोन्नतमेघस्तनादिदर्शनहेतुकतदावसेत्यादिगम्यायां गतिनिवृत्तौ शब्दान्वया- धनुविधानस्य स्फुटत्वात्। एतेन कुलजोक्तावुक्तार्थानवभासात् वक्तृप्रतिपाद्यौचित्याद्यपेक्षणेन नास्य केवलशब्दशक्तिमूलत्वम् अर्थव्यञ्जकतायामेव तेषां सहकारित्वोक्तेरिति परास्तम्। अर्थव्यञ्जकतायां तेषामावश्यकत्वमात्रं न तु शब्दव्यञ्जनारयां सर्वथानुपयोगस्तत्र प्रतिपादितो मानाभावात् । अत एव गुर्वादिप्रयुक्तात् 'सुरभि मांसं भुङ्क्ते' इत्यादितो न द्वितीयार्थप्रतीतिः। अस्ति हि शब्दव्यञ्जना कचित् तत्साहाय्येन विनापीत्यन्यदेतत्। न चात्र पयोधरादिपदादुपस्थितार्थद्वयस्य परस्परमसंबन्धाद्वाक्यभेदा- पत्तिः। इष्टत्वात्। न च वाच्यव्यङ्गययोरसंबन्धेऽसंबद्धार्थकत्वापत्तिरिति वाच्यम्। ग्राम्यतापरिहाराय संगोपनाय च वाच्यार्थाच्छादितव्यङ्गयार्थस्य प्रतिपाद्यतयाच्छाद्याच्छादकरूपसंबन्धस्य विवक्षितस्य

१ पिशुनयत् सूचयेत् ॥ २ यस्याः आर्यायाः॥

Page 193

१३४ काव्यप्रकाश: सटीक:।

शनिरशनिश्र तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्र ॥५९ ॥ अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते। (सू० ५४) अर्थशक्त्युद्धवोऽप्यर्थो व्यञ्ञजकः संभवी स्वतः ॥ ३९॥ प्रौढोक्तिमात्रात्सिद्धो वा कवे: तेनोम्भितस्य वा

सत्त्वेनाक्षतेरित्युद्द्योते स्पष्टम्। सारबोधिनीकारास्तु न च वाच्यव्यङ्गययोरसंबन्धे वाक्यभेदः स्यादिति वाच्यम् आच्छाद्याच्छादकभावस्यैव संबन्धत्वात्। अत्र वाच्यमभिभूयैव व्यङ्गयस्य स्थितत्वात् न तयोरु- पमानोपमेयभावः संबन्धः । द्वयोः समप्राधान्ये एव तदवकाशादित्याह्कः । एवं चात्र नालंकारो व्यङ्गयः किंतु वस्त्वेवेति तदाशयः । अत्र श्लिष्टशब्दानां बहुत्वाद्वाक्यत्वे वाक्यप्रकाश्यत्वम्।। संस्कृते (शब्दशक्तिमूलं) वस्तुध्वनिमुदाहरति शनिरिति। हे नरेन्द्र तवं यस्मै कुप्यसि तं शनिः शनिग्रहः अशनि: वज्रं च उच्चैः अतिशयेन निहन्ति। पुनःशब्दस्त्वर्थे। यत्र तु प्रसीदसि सः पुरुष उदार उद्धटः दाता वा महान् "उदारो दातृमहतोः" इत्यमरात् अनुदारः अनुगता दारा वनिता यस्य सः (त्वद्दत्तैश्ववर्येणाप्रवासात्) तथाभूतश्च भातीत्यर्थः। यद्वा। न विद्यते उदारो यस्मात्तथाभूतश्वेत्यर्थः । पक्षे अशनिः शनिविरोधी। नञोऽसुन्दरादाविव विरोध्यर्थकत्वात्। अनुदारः उदारादन्यः । इतरत्सर्व प्राग्वत्। आर्या छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) । अत्र पूर्वार्धे नञ्ो विरोध्यर्थकत्वेनाशनिपदात् शनिविरोधिरूपार्थस्यावगतौ 'विरुद्धावपि त्वदनुवर्त- नार्थमेकं कार्य कुरुतः' इति वस्तु ध्वन्यते इति वस्तुध्वनिः। न तूत्तरार्घेपि। तत्रैककार्यकरणाप्रतीतेः। किं तूत्तरार्धे विरोधालंकारध्वनिरेवेति बोध्यम्। तदेवाह अत्र विरुद्धावपीत्यादि कुरुत इतीति। वसत्विति शेषः । उक्तं च प्रदीपे। "अत्र प्रथमार्धे शनिरशनिश्चेत्यनेन 'विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः' इति वस्तु ध्त्रन्यते। न तु विरोधालंकारः शनिरशनिरित्यनयोः सामानाधिकरण्याभावात्। विरो- धस्य च तत्रैव विश्रान्तेः । द्वितीयार्ध तु नोदाहरणम्। तत्र च शब्दस्य (चकारस्य) अप्यर्थत्वे विरोधस्य वाच्यत्वात्। समुच्चयमात्रार्थत्वे तु विसेधस्यैव व्यङ्गयत्वात्" इति। अत्रोद्दयोतः (सामानाधिकरण्या- भावादिति। एकधर्मिगतत्वेन शनित्वतद्भ्िन्नत्वयोरप्रतिपादनादिति भावः । नञो भिन्नार्थत्वे एव विरोध इत्यपि बोध्यम्) इति॥ इत्थं शब्दशक्तिमूलं द्विविधं ध्वनिं निरूध्य इदानीमर्थशक्तिमूलत्वम् अनुरणनरूपव्यङ्गयं द्वादशवि धत्वेन विभजते अर्थशक्त्युद्ध्वोऽपीति। ध्वनाविति शेषः। अपिरयं भिन्नकरमेणान्वेति। यत् येन हेतुना व्यञ्जकः अर्थोऽपि स्वतःसंभवी लोकेऽपि दृष्टः कवेः काव्यकर्तुः प्रौढोक्तिमात्रात् सिद्धः । प्रोढोक्ति: चमत्कारानुगुणोक्तिः । मात्रपदेन बहिः (लोके) संभववारणम्। तथा च लोकेऽदृष्टोऽपि कविप्रतिभा- १ उद्द्योतपुस्तकान्तरे तु अयं पाठः। सत्थरं शास्त्रमास्तरणं च। शास्त्राभावोन्नतमेघस्तनादिदर्श नहेतुकतावसे- त्यादिगम्यायां गतिनिवृत्तौ शब्दान्वयाद्यनुविधानस्य स्फुटत्वात् । वक्तृवैशिषट्यादेः शब्दशक्तिमूलेऽि क्वचित्सह- कारित्वात्। अत्र पयोधरादिपदादुपस्थितार्थद्यस्य ग्राम्यतापरिहाराय संगोपनाय च वाच्यार्थाच्छादितव्यङ्गया- ्स्य प्रतिपाद्यतय।च्छाद्याच्छादकरूपसंबन्धस्य विवक्षितस्य सत्वेन नासंबद्धार्थता। वाक्यभेदस्त्विष्ट एवेति।। २ तदुक्तम् "तत्सादृश्यं तद्न्यत्वं तदल्पत्वं विरोधिता। अप्राशस्त्यमभावश् नञ्रर्थाः षट प्रकीर्तिताः ।" इति ॥ ३ संभववारणममित्यस्यानन्तरम् 'व्यङ्गव्यस्य स्व्रतःसंभविनोऽचमत्कारित्वात्तत्कता भेदा नोक्ता इति बोध्यम्' इति उद्दयोतपुस्तकान्तरे पाठ: ॥

Page 194

चतुर्थ उल्लासः। १३५

वस्तु वालंकृतिर्वेति षड्भेदोऽसौ व्यनक्ति यत् ॥ ४० ॥। वस्त्वलंकारमथ वा तेनायं द्वादशात्मक:। स्वतःसंभवी न केवलं भणितिमात्रनिष्पन्नो यावद्वहिरप्यौचित्येन संभाव्यमानः । कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोऽपर इति त्रिविधः। वस्तु वालंकारो वासाविति षोढा व्यञ्जकः । तस्य वस्तु वालंकारो वा व्यङ्ग्य इति द्वादशभेदोऽर्थशक्त्युद्वो ध्वनिः। क्रमेणोदाहरणम्। अलसशिरोमणि धुत्ताणं अग्मिमो पुत्ति धणसमिद्धिमओ। इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ॥ ६० ॥ मात्रेण कल्पित इत्यर्थ: (यथाकीर्त्यादेर्धावल्यादिः)। तेन कविना उम्भितस्य पूरितस्य वर्णनया उम्भि- तस्य नायकादेरित्यर्थः । 'उम उम्भ पूरणे ' इति धात्वनुसारात्। कविनिबद्धस्य नायकादेरिति यावत्। प्रौढोक्तिमात्रात् सिद्ध इत्यनुषज्यते। इति त्रिविधः । सोऽपि वस्तुरूपो वालंकृतिरूपो वेति षड्भेद: षडिधः। असौ षडिधोऽपि वस्तुमात्रम् अथवा अलंकारं व्यनक्ति व्यञ्जयति तेन हेतुना अयम् अर्थशक्त्युद्धवः अर्थशक्तिमूलो ध्वनिः द्वादशात्मकः द्वादशविध इति सूत्रार्थः ॥ तमेव सूत्रार्थमाह स्वतःसंभवीत्यादि। भणितिमात्रनिष्पन्न इति। भणितिमात्रेण प्रौढोक्तिमात्रेण निष्पन्नः कल्पित इत्यर्थः । अत्यन्तासत्यप्यर्थे शब्दस्य ज्ञानजनकत्वात् । "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्द: करोति हि" इति न्यायादिति भावः। बहिरपि लोकेऽपि। औचित्येन योग्यतया। प्रतिभेति। नवनवोन्मेषशालिनी प्रज्ञेत्यर्थः । असन्नपि अविद्यमानोऽपि। निर्मितः कल्पितः । तेनोम्मितस्य वेति व्याचष्टे कविनिबद्धेनेत्यादि। वक्त्रेति। नायकादिरूपेणेत्यर्थः। 'प्रतिभामात्रेण बहिरसन्नपि निर्मितः' इति अत्राप्यनुषज्यते। वृद्धोक्तिविषयाच्छिशूक्तिविषय इव कव्युक्तिविषयात्तन्निबद्धोक्तिविषयोऽधि- कतररागप्रकटकत्वेनाधिकचमत्कारीति द्वयोर्भेदः । अन्यथा कविनिबद्धभणितिनिष्पन्नः कविभगितिनि- ष्पन्न एवेति स्वतःसंभवित्वं प्रौढोक्तिनिष्पन्नत्वं चेति द्वैरूप्यमेव विदध्यात्। इतःपरं च प्रणिधानप्रतीति- कतया चमत्कारस्य स्थगनान्न कविनिबद्धनिबद्धवक्त्रादेः पृथग्गणनमित्युद्दयोतादौ स्पष्टम्। एतेन "कवितदुम्भितवक्तृप्रौढोक्तिनिष्पन्नयोरर्थयोर्न पृथग्भावेन गणनोचिता । उम्भितोम्भितादेरपि भेदा- न्तरप्रयोजकतापत्तेः"इति रसगङ्गाधरोक्तमपास्तम्। तदेवाह द्विविधोऽपर इति त्रिविध इति। षोढा षडिधः। तस्येति। षडिधस्य व्यञ्जकस्येवत्यर्थः। द्वादशात्मक इति व्याचष्टे द्वादशभेद इति। शेषपूरणलब्धमाह ध्वनिरिति॥ तत्र स्वतःसंभविन्यर्थे चतुर्षु भेदेषु मध्ये स्वतःसंभविना वस्तुना वस्तुनो व्यक्तिमुदाहरति अल- सेति। विवाहप्रसङ्गे यौवनाक्रान्तकुमारीं प्रत्युपमात्रा संभावितवरगुणवर्णने सा प्रसन्नाप्रसन्ना वेति कुमा- रीप्रसूप्रश्नं काचिदुत्तरयतीति सुधासागरकाराः। "अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः। इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ।।" इति संस्कृतम्। स्वयंपतिवरां प्रति धात्र्याः प्ररोचना- योक्ति: पूर्वार्धम् उत्तरार्ध तु कवेर्वाक्यमित्युद्दयोतकृत् । प्रकरणाच्चायमित्यध्याहारः । हे पुत्रि अयं वरः अलसानां निरुद्योगानां शिरोमणिः श्रेष्ठः धूर्तानां चाग्रिमः अग्रगण्यः धनसमृद्धिमयः प्रचुरधनसमृद्टिः।

Page 195

१३६ काव्यप्रकाशः सटीकः।

अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते। धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु। नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि॥६१॥

प्राचुर्ये मयट्। इति भणितेन भाषितेन ( लज्जया) नताङ्गी सा कुमारी प्रफुल्ले हर्षविकसिते विलोचने यस्यास्तादृशी जातेत्यर्थः । अत्र प्रफुल्लविलोचनत्वेन हर्षो व्यज्यते। नताङ्कीत्वेन स्वस्या मानिनीत्वं नम- स्कारद्वारा बोध्यते। मुखविपुला छन्दः। लक्षणमुक्त प्राक् (१३३) पृष्ठे ॥ अत्रालसत्वेन प्रवासे नायिकान्तरगृहे च गन्तुमनिच्छुः धूर्तत्वेन रतिकाले नायिकया दर्श्यमान- गुणेष्वनादरवान् संभोगेष्वतृप्तश्च धनसमृद्धिमत्तया कृपणः सुखी चेत्यवधारितवत्याः कुमार्याः हर्षका- र्येण प्रफुल्लविलोचनत्वरूपेण वस्तुना अन्यासाम् अनाकर्षणीय इति 'ममैवोपभोग्योडयं नाविदग्धायाः' इति वस्तु सामाजिकेषु व्यज्यते। तदेवाह अत्रेत्यादि। अत्र वस्तुना प्रफुल्लविलोचनत्वरूपेण 'ममैवो- पभोग्यः' इति वस्तु व्यज्यते इत्यन्वयः । ममैवेति। नाविदग्धाया इत्यर्थः । तद्विषयकं च कुमार्याः ज्ञानं तदलसशिरोमणित्वादिश्रवणविशिष्टेन प्रफुल्लनयनत्वेन वस्तुना स्वहेतुह्दर्व्यञ्जनद्वारेण तत्कर णीभूतं सामाजिकेषु व्यज्यते इत्युद्दयोते स्पष्टम् ॥ स्वतःसंभविना वस्तुनालंकारस्य व्यक्तिमुदाहरति धन्यासीति। रतिकथापरासु सखीषु मध्ये रति- कालीनं स्वप्रियालापं कथितवतीं कांचिदुपहसन्त्याः त्वमिदानीं स्वरतिवार्ता कथयेति प्रेरितायाः उक्ति- रियम्। विज्जिकायाः पद्यमिदमिति शार्ङ्गघरपद्धतौ स्पष्टम् । हे साख या (त्वं) प्रियसंगमे रतान्तरेष्वपि रतमध्येष्वपि विस्रब्धानां विश्वासयुक्तानां चाटुकानां प्रियवाक्यानां शतानि कथयसि त्वं धन्यासी त्यन्वयः। प्रथमतः प्रियसंगमे एव विलक्षणानन्दमन्थरतया तत्कथनमशक्यम् तत्रापि रते तत्रापि नादौ नान्ते किं तु मध्ये तस्य च पुनरिदानीं स्मरणमित्याश्चर्यभूतं तव सावधानत्वमिति भावः । भोः सख्यः प्रियेण नीवीं नाभितलवसनग्रन्थि प्रति करे प्रणिहिते प्रणिधानविषयीकृते नीव्यां करोऽर्पितव्य इति संकल्पविषयीकृते सतीति यावत् न त्वर्पिते इत्यर्थः । अवाचकत्वापत्तेः अभिप्रायस्य लघुत्वापत्तेश्र । यदि किंचिदपि स्मरामि तदा शपामि शपथं करोमीत्यन्वयः । भवतानिां शपथोऽहं तु न किंचिदपि स्मरामीत्यर्थः। कि पुनस्तादृशवाक्यमित्यपिशब्दार्थः । यद्यपि "शम उपलम्भने" इति वार्तिकेना- त्मनेपदं प्राप्तोति तथापि शपथकरणकप्रकाशनविवक्षाभावान्न तत्प्रवृत्तिरिति स्पष्टमस्मत्कृतशब्देन्दु- शेखरे इत्युद्दयोते स्पष्टम्। सुधासागरकारास्तु "त्वं धन्यासि या प्रियस्य संगमे गाढालिङ्गनादा- वपि रतान्तरे सुरतमध्येऽपि विश्रब्धमव्यग्रं चाटुकशतानि रिरंसोद्दीपकवाक्यानि कथयसि स्पष्ट- मुच्चारयसि। करं प्रसार्य सखीस्पर्शरूपशपथपूर्व स्ववृत्तान्तमावेदयास अहं तु प्रियेण करे नीवीं प्रति प्रणिहितेऽपि मनसि संकल्पितेऽपीति यावत् किं पुनः संगमादावित्यपिशब्दार्थः । दृढप्रत्ययो- १ 'नीलोत्पलद्लश्यामां विज्जिकां मामजानता। वृथैव दण्डिना प्रोक्तं सर्वशुक्का सरस्वती।।' इति विज्जिकारूतं पद्यान्तरमप्युपलभ्यते सुभाषितरत्नभाण्डागारे॥२ शब्देन्दुशेखरे इति। शप इति। "परे तु 'शप उपलम्भने' अनेना- त्मनेपदम् । भाष्ये उपलम्भन इत्येव पाठदर्शनात् । उपलम्भनं प्रकाशनम्। धातोः शपथकरप्रकाशने वृतौ तङ् तात्पर्यग्राहकः । शपथश्र लोकप्रसिद्ध एव। अत एवोदाहरणे देवदत्तायेत्यत्र चतुर्थ्येव भाष्ये प्रयुक्ता। 'सख्यः शपामि यदि किंचिद्पि स्मरामि' इत्यादौ शपथमात्रं विवक्षितं न तु प्रकाशनम्। मूले (सिद्धान्तकौमुदा) उपा- लम्मे इति पाठ आक्रोशार्थादित्यादि व्याख्यानं च वृत्तिअ्रन्थानुरोधेनेति वदन्ति" इति शब्दरेन्दुशेखरः।

Page 196

चतुर्थ उल्लास:। १३७

अत्र त्वमधन्या अहं तु धन्येति व्यतिरेकालंकारः ।

वीरैरव्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥६२।।

त्पादनायाह सख्यः शपामि भवदङ्गं स्पृशामि। अत्र शपथस्यामुख्यत्वादात्मनेपदाभावः" इत्याहुः।अत्र 'यदि किंचिदपि स्मरामि' इति वाक्यमध्ये 'सख्यः शपामि' इति गर्मितमपि गुणः। विवक्षितार्थस्य सत्य- त्वप्रत्यायनार्थत्वात्। अत्र पूर्ववाक्ये सोलुण्ठोक्तावेकस्या एव सौभाग्यगर्वितायाः संबोध्यत्वाद्धन्यासी- त्येकवचनम्। स्वोत्कर्षसूचने तु बह्वीनां संबोध्यत्वात्सख्य इति बहुवचनमिति नासंगतिरित्युद्दयोते स्पष्टम् । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे)। अत्र वाच्येन सखीं प्रति धन्यत्वोक्तिरूपेण वस्तुना स्वस्य महानन्दाप्तिसूचनद्वारा'त्वमधन्या अहं तु धन्या' इति व्यतिरेकालंकारो व्यज्यते। तदेवाह अत्रेति। वाच्येन वस्तुनेति शेषः। व्यतिरेकालंकार इति। व्यज्यते इति शेषः । तदुक्तमुद्द्योतेऽपि "अत्र च रतकालेऽपि विषयान्तरवेदनेन रागस्य कृत्रि- मतामावेदयता चाटुकथनेन त्वमधन्येति व्यज्यते। अन्तरापिशब्दाभ्यामत्यन्तानौचित्यप्रकाशनद्वारा तदतिशयः। एवं रतान्तरेष्व्रिति बहुवचनस्यापि प्रतिरतसमयं तथाभावसूचनद्वारा तद्यञ्नकत्वम्। एवं शतानीति प्रातिपदिकवचनयोश्च। तथोत्तरार्धेन प्रियकरस्पर्शमात्रेण संमोहानन्दमन्थरत्वेनाकृत्रिमरागा- तिशयं विषयान्तरानुभवाभावं च सूचयताहं धन्येति व्यज्यते। तथा चोभयसंवलनेन व्यतिरेकालंकार इति ध्येयम् " इति। ननु व्यञ्जकोऽत्र धन्यासीति त्वत्पदार्थस्य व्यतिरेकालंकार एव। तत्कथं वस्तुव्यञ्ज- कतोदाहरणमेतदिति चेन्न। संबोध्यव्यतिरेकस्तावन्न वाच्यः आत्मनि कथनाभावस्याशाब्दत्वात्। व्य- ङ्गयस्तु यद्यपि भवत्येव तथापि तमनपेक्ष्यैवे वाच्येन वस्तुमात्रेण यथोक्तव्यतिरेकव्यञ्जनादिति प्रदीप: ॥ स्तःसंभविनालंकारेण वस्तुनो व्यक्तिमुदाहरति दर्पेति । यस्य राज्ञः करे स्थितः कृपाणः खङ्गः युधि युद्धे वीरैः कोपेन कषाया अतिशयरक्ता कान्तिर्यस्य तादृशः काली दुर्गा तस्याः कटाक्ष इव साधारणभटानां भयप्रदत्वादत्यन्तशूरैरेव व्यलोकि विशेषेण दष्टः । रक्तत्वसंपादनाय कृपाणं विशिनष्टि दर्पान्धेति । दर्पेण मदेनान्धो मदोद्रिक्तो यो गन्धगजः "यस्य गन्धं समाघ्राय पलायन्ते परे गजाः । तं गन्धहस्तिनं विद्यानृपतेर्विजयावहम्।। " इत्युक्तलक्षणः "स्वेदं मूत्रं पुरीषं च मज्जां चैव मत- ङजाः । यस्याघ्राय विमाद्यन्ति तं विद्याद्गन्धहस्तिनम् ॥ " इत्युक्तलक्षणो वा तस्य कुम्भयोः गण्ड- स्थलयोः कपाटं (विशालतया दुर्भेद्त्वात्) कपाटमिव मध्यभागः तस्य कूटम् अग्रभागः तदेव (कठिनत्वात्) कूटं लोहमुद्गर इव तत्न संक्रान्त्या संबन्धेन पतनेन वा सम्यक्प्रविशनेन वा निन्नं दृढसंबद्धं घन निबिड यत् शोणित रुधिरं तेन शोणं रक्तं शोचि: कान्तिर्यस्य यत्र वा तादृश इत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्त प्राक् (६८ पृष्ठ) ।। अत्र कालीकटाक्ष इव कृपाणो व्यलोकीत्युपमा शोणशोचि: कषायकान्त्योर्बिम्बप्रतिबिम्बभावेन समा-

१ एवमेवाग्रेडपि ३२० उदाहरणे स्फुटीभविष्यति ॥ २ सामिप्रायोक्तौ॥ 3 संबोध्यव्यतिरेक इति। संबोध्य- सखीनिष्ठो व्यतिरेक इत्यर्थः ॥आत्मनीति। अहं न कथयामि त्वं तु कथयसीति व्यतिरेकशरीरम् तत्राहं न व्यथया- मीत्यंशस्यावाच्यत्वाद्यङ्गय एव संबोध्याया व्यतिरेक इत्यर्थः ॥ ५ अस्तु तस्यैव व्यञ्जकत्वमत आह तमनपेक्ष्यैवेति। कथनेन हि विषयान्तरव्यासङ्गसूचनेन रागानुत्कटत्वद्योतनादधन्यत्वं व्यज्यते प्रियकरस्पर्शमात्रेण विगलितवेद्यान्तरतया स्मरणाभावेन चाहं धन्येति व्यतिरेक प्रतीतिसिद्धौ न व्यङ्ग्यस्य त्वत्पदार्थव्यतिरेकस्य प्रतीक्षेत्यर्थं इति प्रभायां स्पष्टम् ।। काव्यप्रकाश १८

Page 197

१३८ काव्यप्रकाशः सटीक:। अत्रोपमालंकारेण सकलरिपुवलक्षयः क्षणात् करिष्यते इति वस्तु। गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य य:। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥ ६३॥ नधर्मत्वात्। इयं चोपमा स्वतःसंभविनी सादृश्यस्य बहिरपि (लोकेऽपि) सत्वात्। तया चोपमया 'सकल- रिपुक्षय: क्षणात् करिष्यते' इति वस्तु व्यज्यते। तदेवाह अत्रोपमालंकारेणेति। "अत्र निर्दिष्टसाधार- णधर्मेण सादृश्यपर्यवसानान्नोक्तव्यङ्गयस्य वाच्याङ्गतेति बोध्यम्" इत्युद्दयोतः। वस्त्विति। व्यज्यते इति शेषः। न चात्रोत्प्रेक्षा शङ्कया संभावनाविरहादिति प्रदीपे स्पष्टम्। (संभावनाविरहादिति। कर- वृत्तित्वरूपविरुद्धधर्मदर्शनात्तदभाव इति भावः) इत्युद्दयोतः। उद्दयोतपुस्तकान्तरे तु संभावनाविरहादिति। संभावनायामनुगतधर्मस्यैव प्रयोजकत्वं न बिम्बप्रतिबिम्बभावापन्नस्येति भाव इति पाठः । प्रभायां तु (संभावनाविरहादिति। संभावनाया अविवक्षितत्वादित्यर्थः। तद्विवक्षायां हि 'अमानि तत्तेन निजाय- शोयुगं द्विफालबद्धाश्चिकुरा: शिरःस्थितम्' इतिवदुत्प्रेक्षा विधेयतया प्रतिपाद्या स्यात् न तु विलोकनकर्म- विशेषणतया सिद्धवदित्यर्थः । व्यलोकीत्यस्यैवोत्प्रेक्षार्थतवे त्विवशब्दानर्थक्यमिति भावः। यत्तु संभावना- यामनुगतधर्मस्यैव प्रयोजकत्वं न बिम्बप्रतिबिम्बभावापन्नस्येति तदयुक्तम्। 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।।' इत्यादौ बिम्बप्रतिबिम्बभावापन्नस्याप्युत्प्रेक्षोपपादकतया चित्रमीमांसायामुदाहरणात्। न ह्यत्रोपमा। संचारिणीति विशेषणस्य वैयर्थ्यापत्तेः) इति व्याख्यातम्। सुधासागरकारास्तु "अत्र केचित् उपमया वर्णसाम्यं प्रत्याय्यते न तु कालीकटाक्षनिष्ठं सकलरिपुक्षयकारित्वमिति तादृशवस्तुव्यञ्जकत्वमनुपपन्न- मिति । अत्र ब्रूमः। न सकलरिपुकुलनाशकत्वमुपमानमात्रवृत्ति। किं तूभयसाधारणम्। अस्तु वोपमान- धर्मः। तथाप्युपमाने व्यञ्जनयोपमेथे तदवगमे बाधकाभावः।न चात्रोतप्रेक्षा शङ्कया। संभावनाविरहात्। न च शब्दव्यापारेणैव तथा प्रतीतिरिति शङ्कयम्। वर्णसाम्योपस्थापकत्वेनोपरतत्वात्तस्य। किं त्वर्थश- क्तिमूलेनैव तथा व्यञ्जनम्। उक्तं च मिश्रैः । साम्यावगमानन्तरमुपमानगतधर्मान्तरमुपमेये प्रतीयते इति यथोक्तव्यङ्गयावगमे न बाधः । तदुक्तम्। 'धर्मयोरेकनिर्देशेऽन्यसंवित्साहचर्यतः' यथा 'कैला- सगौरं वृषमारुरुक्षोः' इत्यत्र (रघुकाव्ये द्वितीयसर्गे) गौरत्वानिर्देशेनोच्छायस्येति" इत्याहुः ॥ स्वतःसंभविनालंकारेणालंकारस्य व्यक्तिमुदाहरति गाढेति। यो राजा युधि युद्धे रुषा क्रोधेन निजाधरं स्वाधरोष्ठं निर्दशन् दन्तैः खण्डयन् सन् अरीणां शत्रूणां वधूजनस्य स्त्रीसमूहस्य ओष्ठरू- पाणि विद्रुमस्य प्रवालस्य दलानि पत्राणि गाढस्यातिदुःसहस्य कान्तदशनक्षतस्य भर्तृदन्तव्रणस्य व्यथा पीडा तद्रूपात्संकटात् यद्वा गाढा तीव्रा या कान्तदशनक्षतव्यथा प्रियदन्तव्रणार्तिः सैव संक- मेडसह्योपद्रवः तस्मात अमोचयत् मोचितवान् । क्रोधाद्वैरिवधे तद्वधूनां रतिक्रीडाविरहाद्दन्तक्षता- भाव इत्यर्थः । रथोद्धता छन्दः । लक्षणमुक्तं प्राकू (११९ पृष्ठे) । १ 'विभज्य मेरुर्न यदर्थिसातकतो न सिन्धुरुत्सर्गजलव्ययर्मरुः' इति पूर्वार्धम्। इदं नैषधचरित प्रथमसर्गे पद्यम्। मेरुहरेमाद्रिः। विभज्य खण्डशः कत्वा यत् अर्थिसात् न कतः याचकेभ्यो न दत्तः तथा उत्सर्गजलव्ययैः उत्सर्गे दाने ये जलव्ययास्तैः करणैः सिन्धुः समद्रो यत् मरुर्जलशन्यो न कतः तेन नलेन द्विफालेन द्विगुच्छेन बद्धा: संयता: चिकुरा: केशा: तत् मेरुवितरणसिन्धुमरुकरणाभावरुपं शिरःस्थितं मस्तकन्यस्नं निजायशोयुगं स्वकीया- कीतिद्यम् अमानि मन्यते स्म। अप्रतिकार्यत्वात्। अत्र स्वदेशव्यवहार्यंतया शिरसि निहितानां द्विफालबद्धकेशा- नामयशोयुगश्वेन संभावितत्वात्प्रतीयमानोत्प्रेक्षा।।

Page 198

चतुर्थ उल्लासः। १३९ अत्र विरोधालंकारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षा च। एपूदाहरणेपु स्वतःसंभवी व्यञ्जक:। कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभि: श्रुत्वा कीर्ति विवुधरमणीगीयमानां यदीयाम्। अत्र स्वतःसंभविनालंकारेणालंकारस्य व्यक्तिं दर्शयति अत्रेत्यादि। विरोधालंकारेणेति विरोधाभासालंकारेणेत्यर्थः। ओष्ठविषयकयोर्दशनमोचनयोर्विरोधः (यो हि निजमप्यधरं दशति स करथ परेषामधरान्मोचयतीति विरोधः ) ओष्ठत्वेन सामानाधिकरण्यस्य विवक्षितत्वात्। प्रतियोगिभेदेनाभास इति बोध्यम्। तुल्ययोगितेति। वीरानुभावत्वेन प्रकृतयोःस्वाधरदशनशत्रुव्यापादनयोरेककालरूपैक- धर्मसंबन्धेन तुल्ययोगितालंकार इत्यर्थः । व्यज्यते इति शेष: इत्युद्दयोतसुधासागरयोः स्पष्टम्। उक्तं च विवरणे। ओष्दशनेन ओष्ठदशनव्यथामोचनं विरुद्धम्। विरुद्धं च आष्ठदशनव्यथामोचनकि- ययो: कारणकार्ययोरपि समकालिकत्वमिति। तेन च स्वाधरदशनशत्रुव्यापादनयोरेककालिकत्वरू- पैकधर्मसंबन्धात्तुल्ययोगितेति । व्यङ्ग्यान्तरमपि दर्शयति मम क्षत्यापीति। मम नृपस्य । अन्यस्य वैरिवधूजनस्य । तद्बुद्धिः नृपबुद्धिः । उत्प्रेक्ष्यते इतीति। उत्प्रेक्षणादित्यर्थः । उत्प्रेक्षा चेति। व्यज्यते इति शेषः । चकारेण समुच्चयार्थकेन तुल्ययोगितोत्प्रेक्षयोः संसृष्टिः सूच्यते। एष्विति। एषु चतुर्षु व्यञ्जकोऽर्यः स्वतःसंभवीत्यर्थः ॥ प्रदीपकारादयस्तु विरोधालंकांरणेत्यस्य विरोधाभासालकारेणेत्यर्थस्तु न। विरोधस्यासंभवात्। कि तु विरोधगर्मितोऽलंकारस्तेनेत्यर्थः। कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्त्यलंकारेणेति यावत्। स्वाधरदशनस्य कारणस्य वैरिवधूजनोष्ठदशनव्यथामोचनस्य कार्यस्य च समकालतया निर्दिष्टत्वात। तुल्ययोगितेति पदस्यापि तुल्ययोगितालंकार इत्यर्थस्तु न। "नियतानां सकृद्धर्मः सा पुनस्तुल्ययो- गिता" इति १५८ सूत्रेण लक्षितायाः प्रकृतानामप्रकृतानां वा एकधर्मसंबन्धरूपतुल्ययोगितायाः प्रकृतेऽसंभवात्। तुल्ययोगितायां धर्मस्य गुणत्रियान्यतररूपस्यैव ग्रहणात् । किं तु तुल्ययोगिपदस्य अधरो निर्दष्टश्च शत्रवो व्यापादिताश्चेति तुल्यकालं (एककालं) योगः (संबन्धः) ययोस्तौ तुल्ययोगिनौ तयोर्भावस्तुल्ययोगितेति व्युत्पत्या समुच्चयालंकार इत्यर्थः। अधरनिर्दशनवैरिव्यापादनक्रिययोयौगप- द्प्रतीतेरिति वदन्ति। अन्ये तु विरोधालंकारेणेत्यस्य वास्तवविरोधमूलासंगत्यलंकारेणेत्यर्थः । स्वाधर- निर्दशनवैरिवधूजनोष्ठव्यथामोचनयोः कारणकार्ययोः वैयधिकरण्येन निर्देशाद्विरोधस्य स्फुटत्वादिति वदन्ति। तत्सर्व चिन्त्यमेव। मुख्ययोर्विरोधाभासतुल्ययोगितयोनिर्बाधत्वस्य प्राक् प्रतिपादितत्वात् उक्तातिशयोक्तेः प्रौढोक्तिसिद्धत्वेन स्वतःसंभविव्यञ्जकोदाहरणत्वायोगाच्च तुल्ययोगितायां धर्मो गुण- क्रियान्यतर एवेत्यत्र मानाभावाच्च कालोपाधेरपि सूर्यक्रियारूपत्वाच्च । अतो वृत्युक्तं ओष्ठदशनत्य- थामोचनयौगपद्यविरोध एवाभासमानो व्यञ्जकः । वाच्यतया सामानाधिकरण्येनाप्रतीतस्यापि व्यङ्गय- तया तथाप्रतीतिसंभवादित्येव युक्तमित्युद्दयोतप्रभयोः स्पष्टम् ॥ अथ कविप्रौढोक्तिसिद्धे व्यञ्जकेऽर्थे चतुर्ष भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति कैलास- स्येति। कस्यचित् राज्ञो वर्णनमिदम्। कैलासस्य गिरिविशेषस्य प्रथमशिखरे श्रेष्ठशूङ्गे मूलशिखरे वा।

Page 199

१४० काव्यप्रकाश: सटीक:। स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्का दिङ्मातङ्गा: श्रवणपुलिने हस्तमावर्तयन्ति ॥ ६४॥ अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते। केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ। जह कन्दराहि विहुरा तस्स दढ कंठअम्मि संठविआ॥ ६५॥

वेणूनां वंशवाद्यानां संमूर्छनाभि: रागविशेषैः (करणभूतैः)। तदुक्तम्। "स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते। मूर्छनामिति तां प्राहुर्गीततत्त्वविदो जनाः ॥" इति। विबुधानां देवानां रमणीभिः अप्सरोभि: (कर्तृभूताभि:) गीयमानां यदीयां यस्य प्रकृतस्य राज्ञः संबन्धिनीम् त्वदीयामिति पाठे त्वत्संबन्धिनी कीर्ति श्रत्वा सरसस्य स्न्निग्धस्य बिसिनीकाण्डस्य कमलिनीमृणालस्य संजाता शङ्का संदेहो भ्रान्तिर्वा येषामेवंभूताः अत एव स्रस्तापाङ्गाः चलितनेत्रप्रान्ताः यद्वा स्रस्ताः तिर्यम्भूता अपाङ्गाः नेत्रप्रान्ता येषां तादृशाः दिङ्मातङ्गाः ऐरात्तादयोऽष्टी दिग्गजाः "ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥" इत्यमरः । श्रवणपुलिने श्रवणयोः कर्णयोः पुलिने समीपे (कर्ण तटे) "तोयोत्थितं तत्पुलिनम्" इत्यमरः। हस्तं शुण्डाम् आवर्तयन्ति चालयन्ति मुहुर्महुर्व्यापारयन्ती- त्यर्थः । आवर्तने शङ्गैव हेतु। तां (कीर्तिम्) आहर्तुम् इति कश्चित्। धवलत्वस्य श्रोत्राम्राह्यत्वात् स्रस्तापाङ्गा इति। अत्र समीपदेशस्य पुलिनत्वेन श्रवणस्य सरस्त्वम् । तथा च मृणालभ्रमस्य युक्तत्वम्। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् (७६ पृष्ठे) ।। व्यङ्गयं दर्शयति अत्रेत्यादि। वस्तुनेति। कविप्रतिभामात्रनिष्पन्नात् यशसः श्रवणप्रवेशात् बिसि- नीसंभावनया कर्णे हस्तावर्तनरूपेण कविप्रतिभामात्रनिष्पन्नेन वस्तुनेत्यर्थः । येषां दिग्गजानाम् जडा- नामित्यर्थः। अर्थाधिगमः गीतार्थज्ञानम्। एवमादीति। बिसादीत्यर्थः । त्वत्कीतिरिति। अत्र त्वच्छन्दो न युक्तः । पश्चादामन्त्रणपूर्व राज्ञः स्तूयमानत्वात्। अयं चार्थो यदीयामिति पदेन प्रतिष्ठितः । तत्कीर्तिरिति युक्त: पाठः। त्वदीयामिति पाठपक्षे तु यथाश्रुतः पाठ एव युक्तः । अत्र यद्यपि बिसिनीकाण्ड- संजातशङ्का इति भ्रान्तिमान् ससंदेहो वालंकारो व्यञ्जक इति वस्तुमात्रव्यञ्जकत्वोदाहरणमयुक्तम् । तथापि तद्भागनैरपेक्ष्येणापि 'किंचित् शुकं कर्णे प्रविशति' इत्येतावज्ञानमात्रेणापि श्रवणे हस्तावर्तनल- क्षणेन वस्तुमात्रेण 'येषामध्यर्थाधिगमो नास्ति तेषामप्येवं श्वैत्यमूर्तत्वादिबुद्धिजननेन त्वत्कीर्तिश्वमत्करो- तीति' व्यक्तिसंभवाद्वस्तुमात्रोदाहरणत्वमुक्तम्। अत्र च कीर्तिश्रवणानन्तरं कर्णे हस्तावर्तनं हस्तिनो न स्वतःसंभवि किं तु कविसंप्रदायात् कविना वर्णितमिति कविप्रौढोक्तिसिद्धत्वम्। एवमग्रेऽपि द्रष्टव्यमिति प्रदीपोद्दयोतयोः स्पष्टम् ॥ कविप्रौढोक्तिमात्रसिद्धेन वस्तुनालंकारस्य व्यक्तिमुदाहरति केसेस्विति। "केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता। यथा कन्दराभिर्विधुरास्तस्य दृढ कण्ठे संस्थापिताः ॥" इति संस्कृतम्। बला- मोडिशब्दो बलात्कारे देशीत्युद्द्योतकारादयः। बलादामोटयेति परे। 'बला मोडिअ ' बलात् मुटित्वा (आकृष्य) इत्यपि केचित्। जयश्रीरित्यनन्तरं 'तथा' इति पूरणीयम्। तेन राज्ञा नायकेन च समरे युद्धे सुरतसंगरे च जयश्रीः विजयलक्ष्मीः बलात्कारेण केशेषु 'बलात् आमोट्य' इति पाठे आमोट्य

Page 200

चतुर्थ उल्लास:।7 १४१

अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विघुरान् कण्ठे गृह्नन्ति इत्यु- त्प्रेक्षा। एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुर- लंकारः । न पलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्व। गाढालिंगणरहसुज्जुअम्मि दइए लहुं समोसरइ। माणंसिणीण माणो पीलणभीअ व्व हिअआहिं ॥ ६६ ॥ भोगाभिमुखीकृत्य बलात् तथा गृहीता यथा कन्दराभि: (स्त्रीलिङ्गेन नायिकात्वारोपो ध्वन्यते। तथा च) दरीभिर्नायिकामिश्च तस्य राज्ञो नायकस्य च विधुराः शत्रवः संभोगासहिष्णवश्च कण्ठे तटे कण्ठदेशे च दृढं गाढं यथा तथा संस्थापिता इत्यर्थः। तेन पराजिताः शत्रवः गुहास्वेव तिष्ठन्तीति तात्पर्यम्। गीति- शछन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) ।। अत्र व्यङ्गयं दर्शयति अत्रेति । 'कन्दराभिः कण्ठे स्थापिता इत्येवंरूपेण कविप्रतिभामात्रसिद्वेन वस्तुना' इति शेष: । केशग्रहणेति। नायककर्तृकनायिकाकेशाकर्षणदर्शनादपरस्याः कामोद्रेकस्य लोके दर्शनादिति भावः । तद्विधुरान् प्रकृतराजशत्रून् । उत्प्रेक्षेति। व्यज्यते इति शेषः । व्यङ्गया- न्तर दर्शयति एकत्रेति । एकत्रैवेत्यर्थः । तस्य राज्ञः । काव्यहेतुरिति। काव्यलिङ्गमलंकार इत्यर्थः । विजयदर्शनस्य पलायनहेतुत्वादिति भावः । व्यज्यते इति शेषः । व्यङ्गयान्तरमपि दर्श- यति न पलाय्येति। अपि तु किंतु। ततः नृपात्। तान् तच्छत्रून्। अपह्नतिश्चेति। पला- यनस्यापह्रवादपहुतिरलंकारश्वेव्यर्थः । व्यज्यते इति शेषः । " अत्र केशग्रहणेत्यादिना प्रदर्शितव्य- ङ्यालंकारत्रयेSन्यतमपरिग्रहे साधकबाधकमानाभावादनिश्चयसंकरश्चकारेण सूचितः" इति सुधासा गरे स्पष्टम्। सारबोधिन्युद्दयोतयोस्तु चकारेणैकव्यञ्जकानुप्रवेशसंकरः सूच्यते इत्युक्तम् तदपि युक्त- मेवेत्येकव्यञ्जकानुप्रवेशसंकरलक्षणे (२१० सूत्रे) द्रष्टव्यम् । प्रदीपकारास्तु वृत्तावुत्प्रेक्षारूपं प्रथमं व्यङ्गयं यदुक्त तदूषयन्ति । तथाहि। "यत्तु केशग्रहणावलो- कनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृहन्तात्युत्प्रेक्षा व्यज्यत इति तद्भवेदेवम् यदि पूर्व कन्द- रादीनां नायिकात्वाद्यारोप: स्यात् । अन्यथा केशग्रहणस्य मदनोद्दीपकत्वायोगात्। तरदभ्युपगमे च न वस्तुमात्रस्य व्यञ्जकत्वं किं तु समासोक्तेरलंकारस्ये" इति। तत्र ब्रूमः। यथेति यच्छ्देनोत्तरवाक्यगतेन तच्छब्द आक्षिप्यते। तेन च पूर्ववाक्यार्थमनूद्य वाक्यान्तरावष्टम्भाद्वाक्यैकवाक्यमिदम्। तन्न तेनेति कन्दराभिरिति च पदद्वयं विशेष्यसमर्पकं श्लिषं च। तथा च न तावत्समासोक्तिः। विशेष्यमात्रस्याश्लि- षटत्वे समासोक्तिस्वाकारात्।न वा श्लेषः। जयश्रीपदस्यास्याल्लिष्टत्वात्। विशेष्यविशेषणवाचिना सर्वेषां ल्लिष्टत्वे तत्स्वीकारात। कि च यत्रोभयतात्पर्यवशादभिधयैवार्थद्वयोपस्थितिस्तलैव श्लेषः । प्रकृते तु व्य- ञ्जनया द्वितीयार्थस्य प्रतिभामात्रमिति न श्रीवाग्देवतावतारमम्मटाचार्यव चस्यप्रामाण्यशङ्का कर्थंचिदु- देतीति दिक। एवं चैकस्याः नायककर्तृककेशाकर्षणदर्शनेनान्यस्याः कामोद्रेकः स्यादेवेति समासोक्ति: पुनरुत्प्रेक्षाया एवाङ्गमिति श्रवत्सलाञ्छनभट्टाचार्याणां समाधानमनादेयमिति सुधासागरे स्पष्टम् । १ तदभ्युपगमे नायिकात्वद्यारोपस्वीकारे प्रस्तुतेऽप्रस्तुतसमारोपस्य समासोकतिरूपत्वादित्यर्थ इति प्रभा ॥ तदभ्युपगमे चेति। एककर्तृककेशाकर्षणदर्शनेनापरयापरस्य दृढकण्ठस्थापनरूपश्लिष्टविशेषणैः कन्दरादिभिरिति स्त्रीलिङ्रेन समासोक्त्या कन्दराणां नायिकात्वारोपाभ्युपगमे चेत्यर्थ इत्युद्ंयोतः ॥ २ अलंकारस्येति। समासोक्त्यलं का रसहितवस्तुन इल्यर्थ: ॥

Page 201

१४२ काव्यप्रकाश: सटीक:। अत्रोत्प्रेक्षया प्रत्यालिड्गनादि तत्र विजम्भते इति वस्तु। जा ठेरं व हसन्ता कइवअणंबुरुहबद्धविणिवेसा। दावेइ भुअणमंडलमण्णं विअ जअइ सा चाणी ॥ ६७ ॥ अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः। कविप्रौढोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति गाढेति।"गाढालिङ्गनरभसोदयते दयिते लघु समपसरति । मनस्विन्या मानः पडिनभीत इव हृदयात् ॥" इति संस्कृतम् । पीलणभीरु व्वेति पाठे 'पीडनभीरुरिव' इति बोध्यम् । मानवतीं प्रति मानभङ्गायापरमानवतीवृत्तान्तं बोधयन्त्याः कस्याश्चिदुक्तिरियम्। गाढालिङ्ग नाय रभसेन हर्षेण वेगेन वा "रभसो वेगहर्षयोः" इति विश्वः । दयिते प्रिये उदते उद्युते एव (न त्वाचरितवति) मनस्विन्याः वशीकृतमानसाया अपि मानः "स्त्रीणामीर्ष्या- कृतः कोो मानोऽन्यासङ्ङिनि प्रिये" इत्युक्तलक्षणः पीडनाद्ीत इव हृदयात् लघु शीघ्रं गुप्त वा सम्यक् निःशेषतोऽपसरति गच्छतीत्यर्थः । एवं च तादृश्याः स्वाधीनचित्ताया अपि मानो यदि तावन्मात्ने- णैव गतस्तर्हि अतादृश्यास्तव गमिष्यतीति कि वक्तव्यमिति अवश्यंभाविनि मानभङ्गे किमित्यात्मानं वश्चयसीति भावः । गाथा छन्दः । लक्षणमुक्तं प्राक् (५ पृष्ठे)। उत्प्रेक्षयेति। पडिनभीत इवेति भयोत्प्रेक्षा रूपेणालंकारेणेव्यर्थः। इयं हि उत्प्रेक्षा कविप्रौढोक्तिमा- त्रसिद्धैव। पीडनभयमचेतनस्य नास्तीति उत्प्रेक्षायाः स्वतःसंभवित्वाभावात्। प्रत्यालिङ्गनादीति। मानभङ्गे तस्यावश्यंभावादिति भावः। आदिपदेन प्रहासहसितादिग्रहणम्। तदुक्तं प्रभायाम्। "भीरुत्वो- त्प्रेक्षया हि आत्यन्तिकी माननिवृत्तिर्गम्यते इति प्रसादातिशयानुभावानां प्रत्यालिङ्गनादीनामभिव्यक्ति- रित्यर्थः"इति। तत्र तस्मिन प्रसङ्गे। वस्त्विति। व्यज्यते इति शेषः। प्रत्यालिङ्गनादीनां मानापसरण- रूपवाच्यात् (वाच्यापेक्षया) संभोगं प्रति आसन्नत्वेन न वाच्याङ्गता। गाढालिङ्गनमात्रेणैव पीडनभयसि- द्वेर्न वाच्यसिद्धयङ्गता। पीडनभीत इवेत्युत्प्रेक्षया यादक्संभोगनिर्भरारम्भः प्रतीयते न तादृटकू गाढालिङ्ग- नोदते मानोडपसत इत्यनेनेति अलंकारस्य व्यञ्जकत्वमिति भाव इत्युद्दयोते स्पष्टम्। कविप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति जा ठेरमिति। "या स्थविरमिव हसन्ती कविधदनाम्बुरुहबद्धविनिवेशा। दर्शयति भुवनमण्डलमन्यदिव जयती सा वाणी।" इति संस्कृतम्। या वाणी (वाग्देवताभिन्नत्वेनाध्यवसिता काव्यरूपा) कविवाक् स्थविरं वृद्धं अर्थाद्वह्माणं भुवनान्यत्वप्रदर्श- नेन तस्यैवोपहसनीयत्वात् हसन्तीव वैदग्ध्यादिति भावः। कवेर्वदनमेवाम्बुरुहं पझ्म तत्र बद्धो रचितो विनिवेश: स्थितिर्यया तादृशी भुवनमण्डलम् अन्यदिव विलक्षणमिव दर्शयति। सा जयति सर्वोत्कर्षेण वर्तते इत्यर्थः । अत्र वदनेऽम्बुजत्वारोपो ब्रह्मणः पद्मासनत्वेन वाण्या अपि तत्संपादनार्थः । अत एव हसन्ती तदीयासनानुकरणादिति भावः । गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे ) ।। अत्नालंकारेणालंकारस्य व्यक्तिं दर्शयति अत्रेत्यादि। उत्प्रेक्षयेति। हस तीवेति अन्यदिवेति चोत्प्रे- क्षालंकारेणेत्यर्थः । अत्र हसन्तीवेत्युत्प्रेक्षया चमत्कारैककारणत्वांशलाभः। अन्यदिवेत्युत्प्रेक्षया जगतो नवनवत्वलाभः । कविवदनेत्यादिना अजडासनस्थेत्यंशलाभ इति बोध्यम्। अजडासनस्थेति। जडं जलजम्। अथ च जडपदार्थरूपं यत् आसनं ब्रह्मासनम् तदन्यस्मिन् कविवदनरूपे आसने तिष्ठति या सेत्यर्थः । 'अनम्बुजासना' इति प्रदीपे पाठः । लोकप्रसिद्धाम्बुजासनत्वाभाववतीति

Page 202

चतुर्थ उल्लासः । १४३

जे लंकागिरिमेहलासु खलिआ संभोगखिण्णोरई फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्। ते एहिं मलआनिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ॥ ६८॥ अत्र निश्श्ासैः प्राप्तैश्वर्या वायव। किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते। तदर्थः । व्यतिरेक इति। उपमानापेक्षया उपमेयोत्कर्षरूपो व्यतिरेकालंकार इत्यर्थः । व्यज्यते इति शेषः । अत्रोत्प्रेक्षयेति व्यतिरेक इति च जात्यभिप्रायेणैकवचनम्। हसन्तीवान्यदिवेत्युत्प्रेक्षाभ्यां भारतीतन्निर्माणयोः ब्रह्मतन्निर्मितिभ्यां व्यतिरेकस्य व्यक्तिरिति बोध्यम् । अत्र हसनादिकं न लोक- सिद्धम् नापि कविवाणी जगदन्यथा दर्शयतीति उत्प्रेक्षाद्वयस्य कविप्रौढोक्तिमात्रसिद्धत्वम् । यद्- प्युत्प्रेक्षां विनापि व्यतिरेकोऽयं प्रकाशते 'नियतिकृतनियमरहिताम्' (२ पृष्ठे) इत्यादिवत् तथापि न स्फुटो भवतीति। यद्वा। तावन्मात्रस्य व्यञ्जकत्वेऽपि उत्प्रेक्षाव्यञ्जकत्वं न विहन्यते । तत्साहि- त्येनापि तद्यङ्ग्यावगतेरितीति प्रदीपोद्दयोतयोः स्पष्टम्। एष्वित्यादि। एषु चतुर्षूदाहरणेषु व्यञ्ज- कोऽर्थ: कविप्रौढोक्तिमात्रनिष्पन्न इत्यर्थः ॥ एवं कविप्रौढोक्तिमात्रनिष्पन्नभेदचतुष्टयमुदाहृत्य कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धव्यञ्जकार्थस्य ध्वनेश्वतुर्षु भेदेषु मध्ये वस्तुना वस्तुनो व्यक्तिमुदाहरति जे लंकेति। "ये लंकागिरिमेखलासु रखलिताः संभोगखिन्नोरगीस्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिः श्वाससंपर्किणो जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥" इति संस्कृतम्। कर्पूरमञ्जरी- नामकसट्टके प्रथमजवनिकान्तरे देव्याः विभ्रमलेखायाः निदेशेन विचक्षणानाम्न्या सख्या कृतं वसन्त- वर्णनमिदम्। ये (वाताः) लंकागिरिर्हेमकूटस्तस्य मेखलासु नितम्बेषु स्खलिताः। स्वभोक्तृसर्पत्रासा- दिति भाव: । संभोगेन खिन्नानां (क्षुत्पीडितानाम्) उरगीणां सर्पिणीनां स्कारा वितता उत्फुल्ला ऊर्ध्व- प्रसूता ईदृशी या फणावलि: फणापङ्कि: तया कवलने भक्षणे सति दरिद्रत्वं क्षीणत्वं प्राप्ताः। स्वल्पाव- शिष्टा इति यावत्। ते इदानीं मलयसंबन्धान्मलयानिलाः विरहिणीनिःश्वासैः संपर्किण: ईषत्संबद्धा एव न तु सम्यक् संवलिताः प्राप्तैश्वर्याः सन्त इति यावत् झटिति शीघ्रमेव शिशुत्वेऽपि तारुण्येन पूर्णा इव बहला: पुष्टावयवाः (विरहिजनहृदयपाडने समर्थाः) जाता इत्यर्थः । अत्र स्त्रीणामाहारद्वैगुण्यादुरगीति स्त्रीलिङ्गनिर्देशः। क्षुदतिशयाय संभोगखिन्नेति। स्फारोत्फुल्लेति विशेषणाभ्यां कवलने स्थौल्यं व्यज्यते। अनिलानां लङ्कागिरितो मलयागमने समुद्रलङ्गनात् शैत्यं मलयसंबन्धात्सौगन्ध्यं स्खलनादिना मान्दं च ध्वन्यते। लंकागिरिर्हेमकूट एव। ये तु लंकागिरिर्लकासंनिहितो गिरिर्मलय इति व्याचख्यु: तेषां 'ते एण्हिं मलयानिलाः' इत्यसंगतं स्यादित्युद्दयोते स्पष्टम्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् ( १८ पृष्ठे) ।I अत्र यथोक्तेन कविनिबद्धसखीप्रौढोक्तिमात्रसिद्वेन वस्तुना 'निःश्वासैः प्राप्तैश्वर्याः वायवः कि किं न कुर्वन्ति' इति वस्तु व्यज्यते। तदेवाह अत्र निःश्वासैरित्यादि। वस्तुना वाच्यार्थरूपेण 'निःश्वासैः १ "सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम्। न च विष्कम्भकोऽप्यत्र प्रचुरश्षयाद्गुतो रसः ॥ अङ्का जवनिकाख्या: स्युः स्याद्न्यन्नाटिकासमम्। " इति सटृकलक्षणं साहित्यदर्पणे ६ परिच्छेदे ॥

Page 203

१४४ काव्यप्रकाश: सटीक:।

सहि विरइऊण माणस्स मज्झ धरित्तणेण आसासम् पिअदसणविहलंखलखणम्मि सहसत्ति तेण ओसरिअम् ॥ ६९ ॥ अत्र वस्तुनाकृतेऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोुं न शक्यते इत्युत्प्रेक्षा वा। ओल्ोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम्। स्त्तंसुअं पआओ कोवेण पुणो इमे ण अक्कमिआ। ७० ॥ प्राप्तैश्वर्या वायवः किं किं न कुर्वन्ति' इति वस्तु व्यज्यते इत्यन्वयः। अत्र तारुण्यपूर्णा इवेत्युत्परेक्षायाः सत्त्त्रेपि न सा व्यञ्जिका। तदविवक्षायामपि तथाभिव्यक्तिसंभवात्। न चैवमस्या उत्प्रेक्षाया अप्रयो- जकत्वमिति वाच्यम्। उक्तिविशेषपरिपोषकत्वात्। एवं निःश्वाससंपर्कस्य बहलत्वहेतोरुपादानात्संभव- दपि काव्यलिङ्गं न व्यञ्जकम् तस्य हेतुत्वाविवक्षयापि तथाभिव्यक्तेः। वस्तुतो वस्तुनः प्राधान्याद्वस्तुव्य- ञ्ञकतोदाहरणतया दत्तमिदम्। एवं च तस्यैव प्राधान्यादलंकारसत्त्वेऽपि तेनैव व्यपदेशः "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायादिति भाव इति सारबोधिन्युद्दयोतयोः स्पष्टम् ॥ कविनिवद्धवक्तृप्रौढोक्तिमात्रसिद्वेन वस्तुनालंकारस्य व्यक्तिमुदाहरति सहीति। "साख विरचय्य मानस्य मम धीरत्वेनाश्वासम्। प्रियदर्शनविशङ्गलक्षणे सहसेति तेनापसृतम् ।" इति संस्कृतम्। मया मानसहायार्थ धैथे आहितेऽपि किमिति मानं व्यक्तवती भवतीति वदन्तीं सखीं प्रति तदाहितधैर्यस्या- तितुच्छत्वबोधिका नायिकाया उक्तिरियम्। हे सखि धीरत्वेन (त्वद्दत्तेन) धैर्येण (कर्त्रा) मम मानस्य आश्वासं समाधानं विरचय्य कारयित्वा 'तवोपद्रवेऽहं सहायो भविष्यामि त्वं स्थिरो भव' इति समाश्वासं विधायेति यावत्। प्रियदर्शनविशृङ्गलक्षणे प्रियतमावलोकनकौतुकतरलित काले। यद्वा। प्रियदर्शनेन विशृङ्गलेति भावप्रधानम् विशृङ्धलत्वं कौतुकोत्तरलत्वमेव क्षण उत्सवस्तस्मिन् सतीत्यर्थः। विहलंखले- त्यत्र विहलत्तणेति पाठे विह्वलत्वक्षणे इत्यर्थः। तेन धैर्येण सहसेति सहसा कर्म मया कृतमिति वाक्यैक- देशानुकरणम्। इति एवम्। उक्त्वेति शेषः । अपसृतं पलायितमित्यर्थः । अतिसंभ्रमवशाद्वाक्यैकदेश- प्रयोगः । गीतिश्छन्दः । लक्षणमुक्त प्राक् (४ पृष्ठे) । अत्र प्रियदर्शनविशुङ्खलक्षणे धररित्वेन (धैर्येण) अपसृतमिति वाच्येन वस्तुना 'अकृतेऽपि प्रार्थने सा (वक्त्री) प्रसन्ना' इति विभावनालंकारः। 'नूनं प्रियदर्शनसौभाग्यबलं वैर्येण सोढुं न शक्यते' इत्युत्प्रेक्षा- लंकारश्व व्यज्यते। तदेवाह अत्र वस्तुनेत्यादि। वस्तुनेति। यथोक्तेन वाच्येनेत्यर्थः। विभावनेति। कारणाभावे कार्योक्तिरूपो विभावनालंकार इत्यर्थः । व्यज्यते इति शेषः । व्यङ्गयान्तरं दर्शयति प्रियेति। नूनमित्यादि। उत्प्रेक्षेति। सहृदयस्य व्यज्यते इति शेषः। वेति। अत्र 'च' इति क्वचि- त्पाठः । 'उत्प्रेक्षा च व्यज्यते' इति प्रदीपेऽपि पाठः। चकारेण संसृष्टिः सूचितेति सुधासागरकाराः। उत्प्रेक्षा चेति चेन संकर: संगृह्यते इत्युद्दयोते स्पष्टम्। अत्राचेतनस्य धैर्यस्यापसरणादिक न संभवतीति धैर्येंSपसतत्वरूपचेतनधर्मारोपात् कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धत्वं वस्तुन इति बोध्यम्। कविनिबद्धव क्तृप्रौढोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति ओल्लाललेति। "आर्द्रार्द्रकर- जरदनक्षतैस्तव लोचनयोर्मम दत्तम्। रक्तांशुकं प्रसाद: कोपेन पुनरिमे नाक्रान्ते॥" इति संस्कृतम्। क्रुद्धां नायिकां किमिति कुपिते लोचने वहसीति पृष्टवन्तं प्रतिनायिकाससर्गजनितनखक्षतादिचिह्नयुक्तं

Page 204

चतुर्थ उल्लास:। १४५

अत्र किमिति लोचने कुपिते वहास इति उत्तरालंकारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु। महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती। अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ। ७१॥

नायकं प्रति तस्या उक्तिरियम्। तदुक्तं सुधासागरेपि "भर्तरि सपल्या कृतममिनवनखक्षतादि दृष्टा कोपरक्तनयना काचिद्विदग्धा भर्तुः प्रश्नमुत्तरयति" इति। तवेत्यनन्तरम् 'अङ्गे विद्यमानैः' इति शेषः। पुनःशब्दस्त्वर्थे। हे प्रिय इमे मल्लोचने कोपेन नाक्रान्ते न व्याप्ते अपि तु तव अङ्गे विद्यमानैः आर्द्राद- प्यार्द्रैः (अत्याद्रैः) करजानां नखानां रदनानां दन्तानां च क्षतैः (अन्यनायिकाकृतैः) व्रणैः मम लोच- नयोः दत्तं रक्ता अशवः किरणा एव रक्तांशुकं रक्तवस्त्रं प्रसादः । अस्तीति शेषः । उद्दयोतकारास्तु लोचनयोः रक्तांशुकं प्रसादो दत्त इति संबन्ध इत्याहुः । अत्राद्रर्द्रिक्षतैरित्यनेनागोप्यत्वम् स्वस्य रक्त- त्वेन रक्तांशुकप्रसाददानौचित्यं च व्यज्यते । रक्तांशुकमित्यनेनैकजातीयमेव रक्तत्वमिति ध्वनिः । प्रसाद इत्यनेन करजादिक्षतेषु माहात्म्यं सूचयता तत्कर्तृभूतायां नायिकायां नायकप्रेमातिशयपात्र- ताध्वननम् । गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) ॥ अत्र प्रकृतवाक्यार्थरूपोत्तरेण 'किमिति कुपिते लोचने वहसि' इति प्रश्नस्योन्नयनादुत्तरालंकारः । तेन च 'न केवलमार्द्रक्षतानि गोपायसि किंतु तेषामहं प्रसादपात्रमपि जाता' इति वस्तु व्यज्यते। तदेवाह अत्र किमितीति। वहसीतीति। प्रश्नोन्नयनादिति शेषः । उत्तरालंकारेणेति। 'कोपेन पुनरिमे नाक्रान्ते' इत्यपहुत्यंलकारसहितेनेत्यपि द्रष्टव्यम् । गोपायसि आच्छादयसि। यावत् किंतु। तेषां क्षतानाम्। न प्रसिद्धानामार्द्रक्षतानामगोपनं किंतु गुप्तस्थानामपि यथादर्शनविषयता भवति तथा यतसे इति तात्पर्यम् । वस्त्विति। व्यज्यते इति शेषः। व्याख्यातमिदं प्रदीपादौ। "अत्र किमिति कुपिते लोचने वहसि" इति प्रश्नोन्नयनादुत्तरालंकारेण 'कोवेण इमे ण अक्कमिआ' इत्यपहुत्यलंकारसहितेन 'न केवलमार्द्रक्षतानि गोपायसि किंतु तेषामहं प्रसादपात्रमपि जाता' इति वस्तु व्यज्यते" इति प्रदीपः । (उत्तरालंकारेणेति। उक्तप्रश्नोनायकेन प्रकृतवाक्यार्थरूपोत्तरेणेत्यर्थः । अपह्ृत्यलंकारसहितेनेति । अप्रसक्तनिषेधानुपपत्या प्रश्नाक्षेपकत्वादपह्ुतिरियमुत्तरालंकारगुणाभूतेति सूचयितुं सहितेनेत्युक्तम्) इत्युद्दयोत: (इत्यपह्वत्यलंकारसाहतनेति। निषेधरूपाया अपहुतेः कोपप्रसञ्जकप्रश्नाक्षेपकत्वादुत्त- रालंकाराङ्गत्वमिति भाव:) इति प्रभा । अत्र 'कोवेण इमेण अक्कमिआ' इत्यपहुतेर्वाक्यार्थस्याप्रसङ्गे प्रति- षेधानुपपत्या प्रश्नमाक्षिप्य विश्रान्तावुत्तरालंकारस्यैव व्यञ्जकत्वं नापहनुतेः । तस्यास्तनमुखनिरीक्षकत्वात्। सत्प्रतिपक्षोत्थापकस्योपाधेर्हेत्वाभासत्वाभाववत्। अत एव प्रदीपकारैः 'अपहुत्यलंकारसहितेन' इति तृतीयया तदप्राधान्यं सूचितमिति सुधासागरोऽपि॥ कविनिद्धवक्तृप्रौढोक्तिमात्रिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति महिलेति "महिलासहस्र- भरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्मा अङ्गं तन्वपि [ तनुकमपि ] तनयति" इति संस्कृतम्। हालकविकृतायां शालिवाहनसप्तशत्यां (गाथाकाशे) चतुर्थशतके विरहकृशां नायिकां नाय- कायावेदयन्त्याः सख्या उक्तिरियम्। हे सुभग सौभाग्ययुक्त सा अकृत्रिमस्नेहा साध्बी नायिका महिला- सहत्रमरिते घूर्तस्त्रीसहस्त्रव्याते तव हृदये अमान्ती अवकाशमलममाना सती अनुदिनं दिवसं व्याप्य काव्यप्रकाश: १९

Page 205

१४६ काव्यप्रकाश: सटीकः ।

अत्र हेत्वलंकारेण 'तनोस्तनूकरणेऽपि तव हृदये न वर्तते' इति विशेषोक्तिः। एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः । एवं द्वादश भेदा: ॥ (सू० ५५) शब्दार्थोभयभूरेक:

यथा अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा। तारकातरला श्यामा सानन्दं न करोति कम् ॥ ७२ ॥

प्रतिदिनं च अनन्यकर्मा त्यक्तान्यकार्या सती यद्वा न अन्यत् तनुतासंपादकातिरिकतं कर्म कर्तव्यं यस्या- स्तादृशी तनुकमपि स्वतः कृशमपि अङ्गं शरीरं तनूकरोति तनयति क्रशयति कथमपि प्रवेशनाय कृश- तरं करोतीत्यर्थः। अत एव सुभगेति संबोधनम्। अत्र सुभगेत्यनेन नायिकाया एवानुरागविषयस्त्वं नतु सा तवेति व्यज्यते। एवं महिलासहस्त्रेत्यादिना त्वदनुरागविषया एव ताः न तु त्वं तासामित्यपि ध्वन्यते। गाथा छन्दः । लक्षणमुक्तं प्राक् (५ पृष्ठे) ॥ अत्रामान्तीत्यत्र महिलासहस्रभरितत्वं हेतुः तनूकरणे चामान्तीत्वं हेतुरिति द्वाभ्यां हेत्वलंकाराभ्यां 'तनोस्तनूकरणेऽपि तव हृदये न वर्तते' इति विशेषोक्त्यलंकारो व्यज्यते। तदेवाह अत्र हेत्वलंकारेणे- त्यादि। जात्यभिप्रायेणैकवचनम्। हेत्वलंकाराभ्यामित्यर्थः । काव्यलिङ्गालंकाराभ्यामिति यावत् । हेतुगर्भत्वात्काव्यलिङ्गस्यापि हेतुशब्देन व्यवहारः । अत एव कारणमालालंकारे वृत्तौ ग्रन्थकृद्वक्ष्यति "काव्यलिङ्गमेव हेतुः (हेत्वलंकारः)" इति। विशेषोक्तिरिति। कारणसत्त्वेऽपि कार्यानुत्पत्तिरूपेत्यर्थः । व्यज्यते इति शेषः । एष्विति। चतुर्षूदाहरणेष्वित्यर्थः । कविनिबद्धेति। अत्र प्रथमचतुर्थयोरुदाहर- णयोः कविनिबद्धा सखी द्वितीयतृतीययोस्तु तन्निबद्धा नायिका वक्त्रीति बोध्यम्। एवं द्वादश भेदा इति। अर्थशक्त्युद्धवस्य ध्वनेरिति शेषः ।। एवं द्विविधं शब्दशक्तिमूलम् द्वादशविधमर्थशक्तिमूलं च संलक्ष्यक्रमव्यङ्गयं ध्वनिं निरूप्येदानीमेकवि- धमुभयशक्तिमूलं तं निरूपयति शब्दार्थोभयेति। शब्दश्वार्थश्च शब्दार्थौ तद्रूपं यदुभयं त्हूः तच्छक्त्यु- द्धव इत्यर्थः । एक इति। वस्तुनालंकाररूप इत्यर्थः । यद्यपि शब्दशक्तिमू ले ऽ प्यर्थस्य अर्थशक्तिमूलेडर पि शब्दस्य व्यञ्जकत्वमस्तीति उभयशक्तिमूलत्वं सर्वत्रैवास्ति तथापि तत्र तयोर्गुणप्रधानभावेनेति प्राक् ३४ सूत्रे ३८ सूत्रे च प्रतिपादितम्। अत्र तु द्वयोरेव प्राधान्येन व्यञ्जकत्वमित्युभयशक्तिमूलत्वम्। तथाहि। शब्दस्य परिवृत्त्यसहिष्णुतत्सहिष्णुते शब्दार्थयोः प्राधान्ये मूलम्। यत्र पदं परिवृत्त्यसाहिष्णु तत्र पदप्रा- धान्यमन्यत्रार्थप्राधान्यमिति सारबोधिन्यां स्पष्टम्। एवं प्राधान्येन व्यङ्गयार्थोपस्थापकपदानामवि- शेषे परिवृत्तिसहत्वासहत्वाभ्यां शब्दार्थोभयशक्तिमूलत्वं ज्ञेयम् ॥ उभयशक्तिमूलं ध्वनिमुदाहरन्नाह यथेति। अतन्द्रेति। अतन्द्रः मेघाद्यनावृततया स्फुरदूपः चन्द्र- श्चन्दमा एवाभरणं भूषणं यस्याः सा। अत एव सम्यगुद्दीपितो प्रबलीकृतो मन्मथः कामो यया सा। तारकाः नक्षत्राणि तरला अल्पा यस्यां सा । आहिताग्न्यादेर।कृतिगणत्वाद्विशेषणस्य परनिपातः । एवंभूता श्यामा रात्रिः । विशेषणबलात्तस्याः ज्यौत्स्नीत्वलाभः। "इयामा रात्रिर्निशीथिनी" इति कोशः। कं जनं सानन्दं न करोति अपि तु सर्वमेवानन्दयतीति रात्रिपक्षेऽर्थः। अतन्द्रा सुरतादावालस्यरहिता सा चासौ चन्द्रः कर्पूरं सुवर्णनिर्मितशिरोभूषणविशेषो वा आभरणं यस्याः सा। "चन्द्रः कर्पूरकाम्पिल्ल-

Page 206

चतुर्थ उल्लासः। १४७

अत्रोपमा व्यङ्ग्या।। (सू० ५६) भेदा अष्टादृशास्य तत् ॥। ४१ ॥ अस्येति ध्वनेः॥ सुधांशुस्वर्णवारिषु" इति मेदिनी। मुदा हर्षेण सहिता समुत् दीपितो दीप्तिं प्रापितो मन्मथो यया सा दीपितमन्मथा। यद्वा। सम्यगुद्दीपितः मन्मथो यया सा। तारकाक्षिकनीनिका (अक्षिमध्यगतकृष्णम- ण्डलं) तरला चञ्चला यस्याः सा। यद्ा। तारकावत् (नक्षत्रवद्दीप्तः) तरलो हारमध्यमणिर्यस्याः सा। "तरलो हारमध्यगः" इत्यमरः। एवंभूता श्यामा षोडशवार्षिकी नायिका ("शीतकाले भवेदुष्णा ग्रष्मिे च सुखशीतला। सर्वावयवशोभाढ्या सा श्यामा परिकीर्तिता ॥।" इति लक्षणलक्षिता) कं पुरुषं सानन्दं न करोतीति नायिकापक्षेऽर्थः ॥ अत्रैवंरीत्यार्थद्वयप्रतीतौ स्त्रीविशेष इव रात्रिरित्युपमालंकार: ज्यौत्स्ी रात्रिरिव नायिकेति वोपमालं- कारः प्रतीयते। तदेवाह अत्रोपमा व्यङ्गयेति। अत्र श्यामारूपकामिनीविशेषरजन्योरुपमा व्यङ्गये- त्यर्थः । अत्र चन्द्रतारकातरलश्यामाशब्दाः परिवृत्त्यसहिष्णवः। पर्यायान्तरोपादानेSपरार्थबोधासंभवात्। अतन्द्राभरणसमुद्दीपितमन्मथशब्दाश्च परिवृत्तिसहिष्णवः । अनिद्रभूषणसमुत्तेजितका मादिपर्यायान्तरै- रपि तदर्थप्रतीतेरित्युभयशक्तिमूलत्वं द्रष्टव्यम्। एवं च "अतन्द्रेत्यादेः परिवृत्त्यसहतया" इति प्रदीपका- रोक्तं "चन्द्रसमुद्दीपिततारकाशब्दाः परिवृत्यसहिष्णवः। अन्ये न तथा" इति सारबोधिनीकारोक्तं च विद्वद्धिर्नादरणीयमिति सुधासागरे स्पष्टम्। एवं चेयं हि उपमा केषांचिच्छब्दानां परिवृ्त्त्यसहतया के्षांचित्तत्सहतया उभयस्यापि प्राधान्येन व्यक्षकत्वाच्छब्दार्थोभयशक्तिमूला ।। एतेन 'पंथिअ ण' इत्यादौ (१३३ पृष्ठे) वस्तुव्यञ्जने सत्थरपओहरशब्दयोः परिवृत्त्यसहत्वात् पथिकग्रामादिपदानां पर्यायपरिवृत्तिसहत्वादुभयशक्तिमूलत्वं स्यात् तथा च वस्तुनोऽप्युभयशक्तिमूल- त्वेन 'एकः' इत्यसंगतमित्यपास्तम्। तत्र परिवृत्त्यसहसत्थरपओहरशब्दयोरेव व्यङ्गधव्यञ्जकत्वं नेत- रेषां पथिकग्रामादिशब्दानां परिवृत्तिसहानामिति नोभयशक्तिमूलत्वमित्यदोषात्। एवं च प्राधान्येन विवक्षितव्यङ्गयोपयोगिपदानां परिवृत्तिसहत्वाभ्यामर्थशब्दयोः प्राधान्यमिति फलितम्। अतन्द्रेत्यादौ तु सर्वैरपि साधारणधर्मैरुपमायाः कवितात्पर्यविषयत्वात्सर्वेषां व्यञ्जकत्वमक्षतमेव । कि च रहस्ये वस्तुनि व्यङ्गये एव गोपनाय नानार्थपदोपादानम् तद्रोपने च शब्दशक्तय एव भवन्तीति न वस्तुन उभयशक्तिमूलता। एतेन शब्दार्थयोरन्यतरस्य व्यञ्जकत्वेऽपरस्यापि सहायत्वेनोक्तत्वात् सर्वत्रैवोभय- शक्तिमूलत्वमित्यपास्तम् । योऽर्थो व्यञ्जकस्तद्वोधकशब्दस्य यः शब्दो व्यञ्जकस्तद्वोध्यार्थस्यापि व्यञ्जकत्वमिति तदाशयादित्युद्दयोतादौ स्पष्टम् ।। सुखावबोधार्थमुक्तमेदान् परिगणयति भेदा इति। तत् एवम् (उक्तप्रकारेण) अस्य ध्वनेः न तु शब्दार्थोभयभुवः अष्टादश भेदा भवन्तीत्यर्थः। तथाहि। अविवक्षितवाच्यस्य द्वौ भेदौ। अर्थान्तरसंक्रमि- तवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति। विवक्षितान्यपरवाच्येषु मध्ये रसादिरलक्ष्यत्रमव्यङ्गय एक एवेति त्रयो भेदाः। लक्ष्यक्रमव्यङ्गयेषु शब्दशक्तिमूलो द्विधा अलंकारोऽथ वस्त्वेवेति। अर्थशक्त्युद्धवस्य द्वादश १ उक्तत्वादिति। ३४ सुत्रे ३८ सूत्रे चेति बोध्यम्।

Page 207

१४८ काव्यप्रकाशः सटीक:। ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह। (सू० ५७) रसादी नामनन्तत्वान्भेद एको हि गण्यते। अनन्तत्वादिति। तथाहि। नव रसाः। तत्र शृङ्गारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्व। संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादि कुसुमोच्चयजलकेलिसूर्यास्तमयच- न्द्रोदयषड्ऋतुवर्णनादयो बहवो मेदाः । विप्रलम्भस्याभिलाषादय उक्ताः । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम्। तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम्। तत्नापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम्। का गणना त्वन्येषाम् । असंलक्ष्य- क्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते। (सू० ५८) वाक्ये द्युत्थ: द्वयुत्थ इति शब्दार्थोभयशक्तिमूलः ॥ भेदाः । शब्दार्थोभयभूरेक इति पञ्चदश भेदाः । पूर्वोक्तैस्त्रिभिमेदैः सहाष्टादशेति। अस्येत्यव्यव- घानादुभयशक्तिमूलस्येति भ्रमः स्यात्तत्राह ध्वनेरिति ॥ ननु रसभावादीनां बहुत्वादष्टादशत्वमनुपपन्नमित्यत आह रसादीनामिति। आदिपदाद्भावादीना ग्रहणम्। जलकेलि। जलक्रीडा। उक्ता इति। 'अपरस्तु' इत्यादिना (१०२ पृष्ठे) उक्ता इत्यर्थः । तयोरपीति। संभोगविप्रलम्भयोर्द्वयोरपीत्यर्थः । विभावेति। विभावा उद्दीपनरूपाः । अनुभावा- श्वोक्तालिङ्गनादिव्यतिरिक्ता ज्ञेयाः। तथा नानारूपा व्यभिचारिणश्च तैवैचित्र्यमित्यर्थः। तत्रापीति। तस्मिन् वैचित्र्ये सत्यपीत्यर्थः । भायकयोरिति। नायिका च नायकश्च तयोरित्यर्थः । "पुमान् स्त्रिया" इत्येकशेषः । प्रकृतित्वमिति । वैचित्र्यहेतुरिति शेषः । बहुव्रीहेस्त्वप्रत्ययः । प्रकृतिः स्वभाव: । 'दुस्त्यजा प्रकृतिर्नृणाम्' इति प्रयोगात् । उत्कृष्टानुरागित्वादि चोत्तमस्वभावत्वादि । तत्रापि उक्तप्रकृतित्वे सत्यपि। देशो निकुञ्जादिर्विजनादि्वा। कालो वसन्तादिः। अवस्थाः नवोढा- त्वादयः नवयौवनादयो वा। भेदा इति। वैचित्र्यहेतव इति शेषः । अन्येषामिति। रसभावतदाभासा- नामित्यर्थः । कथं तर्ह्येकत्वेन गणनं तत्राह असंलक्ष्येति । सामान्यमिति। रसभावादिसाधारणं धर्ममित्यर्थः । तच्चाखण्डोपाधिरिति भाव: ॥ एवं ध्वनेरष्टादशभेदान् प्रदर्श्य तेषां मध्ये उभयशक्तिमूलातिरिक्तानां सप्तदशभेदानां पदवाक्यगत- त्वेन द्वैविध्यं वक्तुमुभयशक्तिमूलस्य वाक्यमात्रगतत्वेनैकविधत्वमेवेत्याह वाक्ये इति। द्वाभ्यामुत्तिष्ठ- तीति द्वयुत्थः शब्दार्योभयशक्तिमूलो ध्वनिर्वाक्ये एव भवतीत्यर्थ इति प्रदीपे स्पष्टम्। वाक्यमत्र पदसमु- दायः । तेन नानार्थानानार्थपदघटितसमासगतत्वेऽपि न क्षतिः । एवेन चासमस्तैकपदव्युदासः । एकप- देडस्यासंभवात्। एकस्यैव पदस्य परिवृत्तिसहत्वतदसहत्वयोर्वक्तुमयोग्यत्वादित्युद्दयोते स्पष्टम् ।। द्वयुत्थः शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति द्विविधो ध्वनिर्वाक्ये इति भ्रमं निराकुर्वन् वृत्तिकृदाह द्वयुत्थ इतीत्यादि। अस्योदाहरणं तु 'अतन्द्रचन्द्राभरणा' इति (१४६ पृष्ठे) उक्तमेवेति बोध्यम्। ननु नायं नियमे: शिशुपालवधे (माघकाव्ये) षोडशे सर्गे तदूतोक्तौ (शिशुपालदूतस्य श्रीकृष्णं प्रति १ एतेषां सर्वेषामुदाहरणानि नरसिंहमनीषायां रसमअ्जर्या च स्पष्टानीति तत एव द्रष्टव्यानि ग्रन्थगौरवभिया नात्र लिखितानि ॥ २ उभयशक्तिमलो ध्वनिर्वाक्ये एवेत्ययं नियम: ॥

Page 208

चतुर्थ उल्लास:। १४९

(सू० ५९) पदेडप्यन्ये

अपिशब्दाद्वाक्येऽपि। एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्गयेन वाक्यव्यङ्गयापि भारती भासते। तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि।

वचने) प्रबन्धेऽपि दर्शनात् । तथाहि 'दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ' इत्यारभ्य 'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' इत्यन्तेन प्रबन्धेन संधेर्वाच्यतया विग्रहस्य च व्यञ्जनया प्रतिपादनादुभयशक्तिमूलत्वसंभव इति । न च प्रबन्धस्य पदसमुदायरूपवाक्यत्वाक्षति- रिति वाच्यम् । क्रियाकारकभावापन्नस्यैव पदसमुदायस्य वाक्यशब्देन विवक्षितत्वात्। "तिङ्सुबन्त- चयो वाक्यं क्रिया वा कारकान्विता " इत्यमरोक्तेरिति चेन्न। तत्रोभयशक्तिमलत्वेऽपि ध्वनित्वाभावात् वाच्यार्थेन तुल्यप्राधान्यात् 'ब्राह्मणातिक्रमत्यागः' इतिवदिति प्रदीपोद्दयोतप्रभासु स्पष्टम् ॥ पदेऽप्यन्ये इति। अन्ये अर्थान्तरसंक्रमितवाच्यादयः सप्तदश भेदाः वाक्ये पदेऽपि भवन्तीत्यर्थः। सूत्रस्थापिशब्दस्यानुक्तपदांशादिसमुच्चयार्थकत्वं वारयन् वृत्तिकृदाह । अपिशब्दाद्वाक्ये इति । अलंकारादीनां पदांशादिव्यङ्गयत्वाभावादिति भावः । अत्रेदं बोध्यम् । यत्रैकस्यैव पदस्य प्राधान्येन व्यङ्गयार्थोपस्थितावानुगुण्यम् अन्येषां तु सहकारितामात्रम् तत्रैव पदनिष्ठत्वम्। नानापदानां तथारूपत्वे तु वाक्यगतत्वमिति । तदुक्तमुद्दयोते । "यत्रैकस्य पदस्य शक्तेः प्राधान्यमन्येषामानुगुण्यमात्रं तत्र पदाश्रयता यत्र तु नानापदानां क्रियाकारकरूपाणां शक्तेस्तुल्यता तत्र वाक्याश्रयतेति भावः" इति। ननु पदस्य व्यङ्ग्यार्थद्योतकत्वे पदार्थस्यैव चारुतया पदस्यैव वरं ध्वनित्वमास्तां न तु काव्यस्य। काव्या- त्मकयोर्वाक्यतदर्थयोश्वारुत्वाधायकत्वचारुत्वयोरभावादित्यत आह एकावयवस्थितेनेति। नासिका- स्थितेनत्यर्थः । भूषणेन मौक्तिकेन। कामिनीव वामलोचनेव। वाक्यव्यङ्ग्यापि भारतीति। श्रोत्र- ग्राह्यवाक्यव्यङ्गया स्फोटरूपा भारतीत्यर्थ इत्युद्दयोते स्पष्टम्। वाक्येन व्यञ्जयितु योग्यापीति नरससिंह- ठक्कुरः। काव्यार्थस्वरूपवक्तव्यात्मिका वाणीति विवरणकारः। भासते चमत्कुरुते। तेनायं फलितोऽर्यः । यदन्तर्गतेन पदेन द्योत्योऽतिशयितोऽर्थश्वारुतया व्यज्यते तस्यैव ध्वनित्वमिति। तदुक्तं ध्वनिकृर्ता "एका- वयवसंस्थेन भूषणेनेव कामिनी। पदव्यङ्गयेन सुकवेर्ध्वनिना भाति भारती ॥" इतीति प्रदीपे स्पष्टम्।। तत्र पदप्रकाश्यवाक्यप्रकाश्येषु मध्ये। पदप्रकाश्यत्वे इति । पदव्यङ्गयत्वे इत्यर्थः । वाक्य- प्रकाश्यत्वे तु 'त्वामस्मि वच्मि' (८३ पृष्ठे) इत्यादि उदाहृतमिति भावः । क्रमेणेति । अर्थान्तर- संक्रमितवाच्यादिक्रमेणत्यर्थः ॥

१ अपिशब्दरहितोऽपि पाठः क्वचिदस्ति। स च प्राचीनपुस्तकविरुद्धः उद्दयोतादिबहुटीकाविरुद्धश्र्वेति बोध्यम्। २ अत्र वाशब्दश्वेदर्थे। कारकान्विता किया चेत 'बोथ्या' इति शेषः। तेन निरर्थकशब्दसमुदायव्यावृत्तिः। सुप् च तिङ्न्तं च सुप्तिडन्ते सुब्विशिष्ट तिडन्तं सुप्िडन्तम् तेषामेकशब्दः। तेन कारकान्वितक्रियाबोधकसुबन्तचयतिङ्वन्त- चयसुप्तिडन्तचयानां त्रयाणाभपि वाक्यत्वलाभः। तत्र सुबन्तचयो 'देवद्त्तेन शयितव्यम्' इत्यादि। द्वितीयं 'पचति भवति' इत्यादि। तृतीयं 'चैत्रः पचति' 'ओदनं पचति' इत्यादीति शब्देन्दुशेखरे "त्वामौ द्वितीयायाः'- (८१२३) इति सुत्रे रपष्टम् । ३ इतिवदिति। इति पश्चमोल्लासे वक्ष्यमाणे १३० उदाहरणे 'क्षत्रियाणामिव रक्षसां क्षयं क्षणेन करिष्यति' इति व्यङ्गयं यथा वाच्यतुल्यचमत्कारम् संधेरपि विवक्षितत्वेन 'दुर्मनायते' इति वाच्यस्यापि गभीरोक्त्या चमत्कारित्वात् तथात्रापीत्यर्थः ॥ ४ आनन्दवर्धनेन ॥ ५ सुकवेर्भारती काव्यं भाति चमतकुरुते इत्यर्थः ॥

Page 209

१५० काव्यप्रकाशः सटीक:।

यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा। अनुकम्प्योऽनुकम्प्यश्च स जातः स च जवति॥ ७३॥[१] अत्र द्वितयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः। खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम्। हिअअवअस्सवहुमआ ण हु ववसाआ विम्ुज्झन्ति ॥ ७४।[२]

पदप्रकाश्यसप्तदशभेदेषु अविवक्षितवाच्यस्य ध्वनेर्भेदयोरमध्येऽर्थान्तरसंक्रमितवाच्यमुदाहरति यस्येति। यस्येत्यस्य वाक्यत्रयेऽप्यनुषङ्गः । चशब्द एवार्थे वाक्यत्रयेऽप्यन्वेति। यस्य पुरुषविशेषस्य मित्राणि सखायः मित्राणि आश्वस्तान्येव । विश्वासपात्राण्येवेत्यर्थः । तथा शत्रवः द्वेषिणः शत्रवः निय- न्त्रणीया एव। निःशेषतो दमनीया एवेत्यर्थः । अनुकम्प्यः अनुकम्पायतुं योग्यः। दयाविषय इत्यर्थः । अनु० कम्प्य एव स्नेहपात्रमेव । स पुरुषः जातः शोभनजन्मा। स च एव जीवति श्लाध्यजीवनवानित्यर्थः ॥ अस्य ध्वनेर्लक्षणामूलकत्वेन लक्ष्यमर्थ दर्शयति अत्रेत्यादि। नियन्त्रणीयत्वेति। निर्यन्त्रणत्वेति पाठे कर्मप्रत्ययेन निःशेषयन्त्रणापात्रत्वेत्यर्थः । द्वितीयो मित्रशब्द आश्वस्तत्वे शत्रुशब्दो नियन्त्रणीयत्वे अनुकम्प्यशब्द स्नेहपात्रत्वे संक्रमितवाच्य इत्यर्थः । अत्र द्वितीयमित्रादिशब्दा अनुपयुक्तत्वाद- विवक्षितवाच्याः सन्तः आश्वस्तत्वादि लक्षयन्ति। तेन नायकस्योचितव्यवहारित्वादिकं व्यङ्गयमुपा- दानलक्षणायाः फलमिति भावः। तदुक्तमुद्दयोते अत्रार्थान्तरसंक्रमितवाच्यैर्मित्रादिशब्दैराश्वस्तत्वादेर्याव- ज्जीवस्थायित्वरूपतदतिशयव्यञ्जनद्वारा नायकदृढप्रकृतिकत्वं व्यङ्गयमिति। अत्र लक्षणायां पादत्रयेऽपि सामान्यविशेषभावः संबन्धः । अत्र वाक्यार्थानां प्रत्येकविश्रान्तत्वेन नैकवाक्यता। तेन तत्तद्वाक्यगत- स्यैकैकपदस्यैव व्यञ्जकता न तु वाक्यस्येति पदप्रकाश्यो ध्वनिरयम्। उक्तं च विवरणे अत्र हि मित्रादि प्रत्येकमेव पदं लक्षकं सत् नायकस्योचितव्यवहारित्वादिक प्रकाशयतीति यथोक्तोदाहर- णत्वमिति। 'त्वामस्मि वच्मि' (८३ पृष्ठे) इत्यत्र तु व्यङ्गयार्थोपस्थितिः एकवाक्यस्थैः सर्वैरेव पदै- रिति तत्र वाक्यप्रकाश्यत्वमिति भेदः । तदेतत्सर्व चन्द्रिकायामप्यक्तम् "अत्रोक्तार्थान्तरसंक्रमित- वाच्यैर्मित्रादिशब्दैर्यावज्जीवस्थायित्वरूपतद्तिशयव्यञ्जनद्वारा नायकस्य स्थिरप्रकृतित्वं प्रत्येकं व्यज्यते। 'त्वामस्मि' इति तु तस्मादत्र सावधानेन भाव्यमिति पदसमुदायरूपवाक्यव्यङ्गयाभिप्रायमिति भेदः" इति ॥ पदप्रकाश्यत्वे क्रमप्राप्तमत्यन्ततिरस्कृतवाच्यमुदाहरति खलेति। "खलव्यवहारा दृश्यन्ते दारुणा यद्यपि तथापि धीराणाम् । हृदयवयस्यबहुमता न खलु व्यवसाया विमुह्यन्ति।" इति संस्कृतम् । यद्यपि खलानां धूर्तानां शठानामिति यावत् व्यवद्ाराः चरितानि दारुणा: दुःखदा: अन्येष्टप्रतिबन्धका इति यावत् दृश्यन्ते प्रसिद्धा इति भाव: तथापि सदर्थग्राहितया हृदयमेव वयस्यः मित्रं तेन बहुमताः अनुमोदिता: धीराणां महर्ता व्यवसायाः उद्योगाः स्वल न विमुह्यन्ति न प्रतिबद्धा भवन्तीत्यर्थः । यद्वा। न विरामं प्राप्नुवन्तीत्यर्थः । केचित्तु खलानां दारुणाः व्यवहारा इति जानन्तोऽपि धीरास्तेषा- मप्युपकारमेव कुर्वन्तीत्याशय इत्याहुः । मुखविपुला छन्दः । लक्षणमुक्त प्राक् (१३३ पृष्ठे)।। अत्राचेतने व्यवसाये मुख्यो विमोहो बाधितः सन् कार्यकारणभावसंबन्धात् प्रतिबन्धरूपं विरामरूप वार्थ लक्षयति। तेन च सर्वथा इष्टकार्यकारित्वं व्यङ्गयं लक्षणलक्षणाफलमिति बोध्यम्। तदेवाह अत्र

Page 210

चतुर्थ उल्लास:। १५१

अत्र विमुद्यन्तीति। लावण्यं तदसौ कान्तिस्तदूप स वचःक्रमः। तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥ ७५॥ अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते। यथा वा विमुद्यन्तीति। 'पदमत्यन्ततिरस्कृतवाच्यं सत् व्यञ्जकम्' इति शेषः । अत्र विमुह्यन्तीति पदस्यैकस्यैव व्यञ्जकतेति पदप्रकाश्यत्वम् 'उपकृतं बहु तत्र' (८३ पृष्ठे) इत्यत्र तु सर्वेषां पदानामिति तत्र वाक्यप्रकाश्यत्वमिति भेदः । तदुक्त प्रदीपोद्दयोतयोः । अत्र विमोहेनाप्रवृत्तिर्लक्ष्यते न च तत्र वाच्यस्य कथमपि प्रवेशः । यद्यपि व्यवसाये विमोहात्यन्ताभावो नान्वयायोग्य इति कुतो लक्षणा तथापि धाराणामधीरेभ्यो वैलक्षण्यं प्रतिपाद्यम्। न च तत् लक्षणां विना संभवति। अधीरव्यवसायेSपि विमो- हात्यन्तभावसत्वादिति ।। पदप्रकाश्यत्वे अलक्ष्यक्रमव्यङ्गयमुदाहृरति लावण्यमिति । कस्यचिद्वियोगिनः परामर्शोऽयम् । तत् अनुभवैकगोचरं लावण्यम्। "मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लाव- ण्यमुदाहृतम् ।।" इति लावण्यलक्षणम्। असौ अनुभवैकगोचरा कान्तिरुज्ज्वलता। तत् अनुभवैकगोचरं रूपं संस्थानसौष्ठवम् । प्रदीपे तु अवयवस्य संस्थानसौष्ठवं रूपम् अवयविनस्तदेव लावण्यमिति व्याख्यातम् । रूपं वर्ण इत्यन्ये। सः अनुभवैकगोचरः वचःक्रमः वचनपरिपाटी । सकलमिदं तदा (तत्संनिधानेन) अनुभवदशायां सुधास्पदम् अमृतस्थानम् अभूत् सर्वाङ्गीणसौहित्यसंपादकत्वादिति भावः। अधुना (तद्वियोगात्) स्मृतिदशायां तु महान् ज्वर इव ज्वरः अतिशयपीडाजनकः सर्वाङ्गीण तापहेतुत्वादित्यर्थः । ज्वरो महानित्यत्र ज्वरोपम इति पाठः क्वचिदस्ति ॥ अत्र तदादिभिर्विशिष्यवचनानर्हतया लावण्यादिगतलोकोत्तरत्वप्रतिपादनद्वारा विप्रलभ्भाभिव्यक्ति- रिति चन्द्रिकायां स्पष्टम्। तदेव दर्शयति अत्रेत्यादि। तदादीति। आदिना असौसतदाअधुनेति पदानां ग्रहणम् । अनुभवैकगोचरा इति। न तु निर्वक्तु शक्या इत्यर्थः । लावण्याद्यतिशयरूपा इति यावत्। प्रकाश्यन्ते इति । व्यज्यन्ते इत्यर्थः । अत एवोक्त नरसिंहठक्कुरैः अनुभवैकेति। अनुभव- मात्रविषयाः वचनागोचरा इत्यर्थः । न च सर्वनाम्नां तत्र शक्तिरेवेति वाच्यम्। तेषां बुद्धिस्थधर्म प्रकारकस्य बुद्धिस्थत्वप्रकारकस्य वा बोधस्य जनकत्वेऽपि वचनागोचरत्वप्रकारकबोधजनकत्वे शक्त्य- भावादिति। उक्तं चैवमेव रसगङ्गाधरेपि ।'तन्मञ्जु मन्दहसितं श्वसितानि तानि सा वै कलङ्क- विधुरा मधुराननश्रीः।' अत्र स्मृतेरेव पुरःस्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्धनित्वम् (भावध्वनित्वम्)। तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः । बुद्धिस्थं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यञ्जनावेद्यतैवेति। परे तु प्रकाशन्ते इति अभिधया बोध्यन्ते इत्यर्थः । अत एव "प्रकाश्यन्ते इति। शक्त्यैवेति शेषः " इति महेश्वरोक्तम् । "अत्र तदादेर्बुद्धिविषयतावच्छेदकवति शक्त्या तत्पदानामनुभवैकगोचरत्वेन लावण्यादिबोधकता द्रष्टव्या " इत्युद्दयोतोक्तं च संगच्छते इत्याहुः । अत्र विप्रलम्भप्रतीतेर्विभावादिसामग्रीसत्त्वेऽपि तदा- दिपदानां प्राधान्यमिति पदव्यञ्जकता। तदुक्त प्रदीपोद्दयोतयोः । "अत्र विप्रलम्भव्यञ्जके वाक्येऽ- नुभवैकगोचरमर्थ प्रकाशयतां तदादिपदानां प्राधान्यम्। लावण्यादेरनुभवैकगोचरत्वादिना स्मरणस्य विप्रळम्भपोषकत्वात्" इति ॥

Page 211

१५२ काव्यप्रकाश: सटीकः ।

मुग्धे मुग्धतयैव नेतुमखिल: काल: किमारभ्यते मानं धत्स्व धृति बधान ऋजुतां दूरे कुरु प्रेयसि। सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥७६॥[३] अत्र भीताननेति। एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते। भावादीनां पदप्रकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते।

एवं विप्रलम्भे उदाहृत्य न केवलं सर्वनामपदानामेव रसादिव्यञ्जकता किं त्वन्येषामपीति ध्वनयन् संभोगेऽपि तमेव ध्वनिमुदाहरति मुग्धे इति । अमरुशतके विदितरहस्यां मानोपदेशं कुर्वाणां सखी- मगणयन्त्याः भर्तरि प्रणयविनयवत्या नायिकायाः भङ्गयन्तरेण तां प्रत्युक्तिरियम् । हे मुग्धे उपदेशा- ग्राहिणि त्वया अखिलः अतीतो वर्तमानो भविष्यंश्च कालो मुग्धतयैव यथोचितानाचरणेनैव नेतुं यापयितुं किं किमिति आरभ्यते। तर्हि किमारम्भणीयं तदाह मानं धत्स्व बलाद्वारय धृति धैर्य बधान (बन्धनेनापसरणाशक्यता व्यज्यते) प्रेयास प्रियतमविषये (एतच्च वाक्यचतुष्टयेऽप्यन्वेति ) ऋजुतां सरलतां दूरे कुरु त्यजेत्यर्थः । दूरीकुरु इति पाठेऽपि स एवार्थः । "ऋत्यकः" इति प्रकृतिभावः । इत्येवं सख्या वयस्या प्रतिबोधिता मुहुर्मुहुरुपदिष्टा। प्रतिरत्र वीप्सायाम् । भूते क्तः। (अकृत्रिमानुरागा ) नायिका भीतानना भयजनितवैक्कव्यवद्वदना सती तां प्रतिबोधयन्तीं सखीं प्रतिवचः उत्तरमाहेत्यन्वयः । उत्तर दर्शयति नीचैरिति। हे सखि त्वं नीचैः मन्द शंस कथय हि यस्मात् प्राणेश्वरः प्राणानां तदायत्त- त्वाज्जीवितसर्वस्वायमानः अत एव मे मम हृदि हृदये स्थितो विद्यमानः श्रोष्यति आकर्णयिष्यति। ननु शङ्कायाम् । अत्र सख्या अपरिहार्यवाक्यतया नीचैः शंसनस्य विधान कृतम् मैवं शंसेति च नोक्तम्। अत्रामरुशतकटीकाकारो देवशंकरस्तु अखिलपदेन यौवनकालोऽपि संगृहीतः । मुग्धतयैव मानचातुरी- शून्यतयैव। तथा च मौग्ध्यकालस्य मुग्धतया निर्गमनमस्तु अधुना यौवनमपि मानचातुरी विनैव नीयते इत्यनुचितं करोषीति भाव: इति व्याचक्रे। अधिकं तु बृहदुद्दयोते द्रष्टव्यम्। ग्रन्थगौरवभिया नात्र दर्शितम् । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) ।। अत्र नीचैः शंसनविधानस्यानाहार्यत्वेन युक्तत्वम् तच्चाननगतविच्छायत्वानुमितभयगम्यमित्याह। अत्र भीताननेति। भयप्रतिपाद्याकृत्रिमानुरागेण च संभोग: प्रकृष्यते इति तस्य प्राधान्येन भीतानन- पदप्रकाश्यता। 'शून्यं वासगृहम्' (१०० पृष्ठे) इत्यादौ तु न तादृशं किमपि पदमिति तत्र वाक्य- प्रकाश्यतैवेति भेदः । तदेतत्सर्वमुक्तं प्रदीपोद्दयोतयोः । "भीताननेति पदं नाचैः शंसनविधानस्य योग्यतां प्रकाशयत् प्राधान्येन रागातिशयं व्यञ्जयति" इति प्रदीपः। (योग्यतां प्रकाशयदिति। नीचैः शंसनमेव योग्यमिति प्रकाशयदित्यर्थः । आननगतविच्छायत्वानुमितभयेन हि तत्प्रकाश्यते। प्राधान्येनेति। भयप्रतिपाद्याकृत्निमानुरागेण च संभोग: प्रकृष्यते इति तस्य भीानने पदमूलतेति भावः । रागातिशयं संभोगातिशयम् ) इत्युद्दयोतः ।। भावादीनामिति । आदिपदेन तदाभासादानां संग्रहः। अधिकं वाक्यापेक्षयातिरिक्तम्। वैचित्यं चारुत्वम् (आस्वादजनकत्वम्)। अयं भावः । भावादीनां तु वाक्येऽपि न तादृशं (रस- सदृश) चारुत्वम् पदप्रकाश्यत्वे सुतराम्। अतस्तत्प्रभेदा नोदाहियन्ते इति ॥

Page 212

चतुर्थ उल्लास:। १५३

रुधिरविसर प्रसाधितकरवालकरालरुचिर भुजपरिघः। झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम॥७।। [४] अत्र भीषणीयस्य भीमसेन उपमानम् । भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः। कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥ ७८॥[५]

अथ संलक्ष्यक्रमव्यङ्गयध्वनिप्रभेदेषु पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुनालंकारव्यक्तिमुदाहरति रुधिरेति। हे भीम भयंकर नृप त्वं विभासि शोभसे। कीदृशस्त्वम्। रुधिरस्य रक्तस्य विसरो धारा समूहो वा तेन प्रसाधितोऽलंकृतः (प्रकर्षेण रक्तीकृतः) यः करवालः खङ्गः तेन करालो भयजनकः स चासौ रुचिरश्च (शत्रुमित्रमेदेन करालत्वरुचिरत्वे ) ईदृशो भुज एव परिघः (शत्रुजयलक्ष्मी- निरोधकत्वात्) अर्गला यस्य तादृशः। एवम् झटिति शीघ्रं भ्रुकुटया भ्रूभङ्गेन विटङ्कितं तरङ्गितं यद्वा विटङ्कं कपोतपालिका तदाकाररेखान्वितं यत् ललाटं भालं तदेव (विस्तीर्णत्वात्) पट्टः फलको यस्य तथाभूत इत्यर्थः । "कपोतपालिकायां तु विटङ्कं पुंनपुंसकम् " इत्यमरः । करवाल- करालेत्यत्र करालकरवालेति चन्द्रिकासंमतः पाठः ।स च न तथा रुचिरः। 'विभासि नृप भीमि' इत्यत्र 'विभाति नपभीमः' इत्यपि क्वचित्पाठः। स च रूपकस्याप्यापत्त्योपमाप्रतिपादनपरवृत्तिविरुद्ध इति बोध्यम्। गीतिश्छन्दः । लक्षणमुक्त प्राक् (४ पृष्ठे) ।। अत्र भीमेति भीषणीयार्थेन नृपसंबोधनविशेषणेन भीमसेनोपमा व्यज्यते। तदेवाह अत्रेत्यादि। भीषणीयस्येति । भषियतीति भाषणीयस्तस्य प्रकृतनृपस्येत्यर्थः । "कृत्यल्युटो बहुलम् " इति बाहुलकात्कर्तरि अनीयर्प्रत्ययः । उपमानमति । व्यङ्गयमिति शेषः । भीमो भयंकर इति वाच्यः भीमसेन: पाण्डवभेदो व्यङ्गयः तयोरुपमापि व्यङ्गयेति भावः । विभासीति मध्यमपुरुषानन्वयान्न रूपकम् । तत्र विधेयप्राधान्येनैवान्वयात् । अत एव 'मुखचन्द्रो हसति' इत्यत्र हसनस्य रूपके बाधकत्वम् उपमायां साधकत्वं वक्ष्यतीत्याहुः। अत्र भीमपदशक्तिमहिम्ना भीमसेनोपमा व्यङ्गयेति पदप्रकाश्यता 'उल्लास्य कालकरवाल' (१२९ पृष्ठे) इत्यादौ तु उपमा वाक्यव्यङ्गयेति वाक्यप्रकाश्य- तैवेति भेदः । अत्रोपमाध्वनौ भीमपदस्य परिवृत्त्यसहत्वाच्छब्दशक्तिमूलत्वं द्रष्टव्यम्। संलक्ष्यत्रमव्यङ्गयप्रभेदेषु पदप्रकाश्यत्वे शब्दशक्तिमूले वस्तुना वस्तुव्यक्तिमुदाहरति भुक्तीति। जनान्तरसंनिधावुपनायके आगतेSप्रस्तुतवेदप्रशंसाव्याजेन तदागमनाधीनं हर्ष व्यञ्जयन्त्या उक्ति- रियम्। सदागम: सन् आगमो वेदः कस्य विज्ञस्य आनन्दनिस्यन्दम् आनन्दप्रवाहं (प्रमोदप्रस्रवणं) न विदधाति न करोति अपि तु सर्वस्येत्यन्वयः। निपूर्वः 'स्यन्दू प्रस्रवणे' इति धातुः। "अनुविपर्य- भिनिभ्यः स्यन्दतेरप्राणिषु " (८।३/७२) इति षत्वं तु न । वैकल्पिकत्वात्। निस्पन्दमिति पाठे जाड्यमित्यर्थो बोष्ः। कीदृक्। भुक्तिः स्वर्गादिभोगः मुक्तिः कैवल्यं च करोतीति भुक्तिमुक्तिकृत् । कर्मकाण्डवेदान्ताभ्यामुभयोपायबाधनादिति भावः । तथा एकान्तेन नियमेन ("यजेत स्वर्गकामः") १ रूपकस्याव्यापत्येति। तथा च रूपकोपमयोः संदेहसंकरः स्यादिति भावः ॥ २ एम्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यादिति तदर्थः । यथा अनुस्यन्दते अनुष्यन्दते वा जलम्। अप्राणिषु किम् अनुस्यन्दते हस्ती। अप्राणिव्विति पर्युदासात् 'म्योदके अनुष्यन्देते' इत्यत्रापि पक्षे षत्वं भवत्येव प्राणिषु नेति प्रसज्यप्रतिषेधे तु पत्वं न स्यादिति बोध्यम् ॥। काव्यप्रकाश २०

Page 213

१५४ काव्यप्रकाश: सटीक:।

काचित् संकेतदायिनमेवं मुख्यया वृत्त्या शंसति। सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं यातोऽस्ताचल मौलिमम्बरमणिर्विस्त्रब्धमत्रागतिः ।

इत्यादिविध्यादिभि: करणैः) सम्यक् आदेशने हितोपदेशने तत्परः अप्रतारकत्वादिति वाच्यपक्षेऽर्यः । व्यङ्गयपक्षे तु सतः सुन्दरस्य (वल्लभस्य) आगमः आगमनं कस्य रमणीजनस्यानन्दनिस्यन्दं न विदधाति। कीदृशः । भुक्तिः सुरतादिभोगः मुक्तिः विरहादिदुःखत्यागः ते करोतीति तथाभूतः । एकान्तस्य संकेतस्थानस्य समादेशने तत्पर इत्यर्थः । अत्र मुख्यतया विवक्षितोऽपि द्वितीयार्थो गोपनायाप्राकरणिकीकृतो भवतीति बोध्यम् ।। अत्र सदागमपदेन प्राधान्येनोपपतिस्तुतिरूपं वस्तु व्यज्यते । तदेवाह काचिदित्यादि। काचित् उपनायिका। संकेतदायिनम् उपनायकम्। एवमिति। प्रकृतार्थस्य सकलजनसंवेदने रहस्य- भङ्गभिया प्रथमं प्राकरणिकीकृतार्थप्रतीतिपूर्वकमित्यर्थः । मुख्ययेति। व्यञ्ञनयेत्यर्थः । शक्यस्या प्यर्थस्याप्राकरणिकीकृतत्वेन व्यङ्गयत्वं बोध्यम् । अत एवानयोनोपमा। व्यङ्गयार्थे एव प्रधानभूते प्रतीतिविश्रान्तावुपमाकल्पकाभावात्। संगोपनार्थमेव प्रथमार्थोंपादानात्। शंसति स्तौति। अत्र सदा- गमपदेन स्तुतिरूपं वस्तु व्यज्यते इति भावः । यद्यपि भुक्तिमुक्येकान्तपदानामपि व्यञ्ञकत्वमस्ति तथापि तदसत्वेऽपि सदागमपदमात्रं व्यङ्गयव्यञ्जने प्रभवति न त्वेतद्रहितानि तानीति सदागमपदस्य प्राधान्यमिति पदप्रकाश्यता । 'पन्थिअ ण एत्थ' (१३३ पृष्ठे ) इत्यादौ तु अनेकपदप्रतिपाधं वस्तु व्यङ्गयमिति वाक्यप्रकाश्यतैवेति भेदः । अत्र सदागमपदस्य परिवृत्त्यसहत्वाच्छब्दशक्तिमूलत्- मित्युद्द्योतादौ स्पष्टम् ।। अत्र सुधासागरकारास्तु "काचिद्विदग्धा कुलटा सन्मन्त्रोपदेशव्याजेन संकेतदायिनमत्युज्जवलशिष्ट. वेषधारिपाखण्डिनं प्रति एवं श्रोतृषु स्वसाधुतां सूचयतुमभिधाख्यप्रसिद्धव्यापारेण शास्त्रं स्तुवत्याह भुक्तिमुक्तीति। भुक्ति: स्वर्गादिभोगः संभोगश्च । मुक्तिरपवर्गः स्मरसंतापत्यागश्च। एकान्तः परमात्म- स्वरूपं विविक्तस्थानं घ । समादेशो नियोग: आह्वानं च। सदागमः सन्मन्त्रशास्त्रं सतः सुन्दरतरुण- स्यागमनं च। एवं च भुक्तिमुक्तिकारकं यदेकान्तममादेशनं तत्र तत्परो दक्षः सदागमः सच्छास्त्र- मानन्दनिस्यन्दं कस्य न विदधाति अपि तु सर्वस्यापि सकामनिष्कामस्य प्रमोदनिर्भरं करोत्येवेत्यर्थः । तदेतत्सर्वमभिप्रेत्य वृत्तिकार आह काचित्संकेतदायिनमित्यादि । अत्र वक्तृबोद्धव्यवैशिष्टयबलात् सदागमपदेन प्राधान्येनोपपतिस्तुतिरूपं वस्तु व्यज्यते । अत एवोक्तं प्रदीपकारैः 'काचित्संकेत दायिनमेवं मुख्यया वृत्त्या शंसति तत्र सदागमपदेन स्तुतिर्व्यज्यते' इति। एवं च मधुमतीकारैर्यद्याख्यातं मुख्यया व्यञ्चनयेत्यर्थ इति तत्प्रामादिकमेव। 'तत्र मुख्यो व्यापारोऽस्याभिधोष्यते' इति सूत्रेण (३९ पृष्ठे) अभिधाया मुख्यत्वप्रतिपादनात् । यच्च स्वजनकरत्नपाणिभट्टाचार्यकृतकाव्यदर्पणाख्यटिप्पण समर्थनम् यत्तु पितृचरणैरुक्तं मुख्यया शक्त्येति तत्प्रकृतव्यञ्जनाया अभिधामूलवत् परंपरया तत्प्राय- त्वममिप्रेत्येति तद्वृथैवेति ध्येयम् " इत्याहुः ॥ तत्रैव पदप्रकाश्यत्वेऽर्थशक्तिमूलध्वनेर्द्वादशभेदेषु स्वतःसंभविन्यर्थे व्यञ्जके वस्तुना वस्तुनो व्यक्तिमु दाहरति सायमिति। उपपति संभुज्य तज्जनितश्रमापनयनाय स्नानादि कृतवतीं प्रति ज्ञातरहस्याय। विदग्धायाः सख्या उक्तिरियम्। हे साख तव सौकुमार्य सुकुमारत्वम् आश्चर्यम् आश्चर्यभूतं जगद्विलक्षण।

Page 214

चतुर्थ उल्लास:। १५५

आश्चर्यं तव सौकुमार्यमभितः कान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्रोति ते नासितुम् ॥७९॥[६] अत्र वस्तुना कृतपरपुरुषपरिचया कान्तासीति वस्तु अधुनापद्द्योत्यं व्यज्यते। तदप्राप्तिमहादु:खविलीनाशेषपातका। तचचिन्ताविपुलाह्लाद्क्षीणपुण्यचया तथा॥। ८० ॥

मिन्यर्थ: येन सौकुमार्येण अधुना क्वमसामग्र्यभावे तन्निवर्तकसामग्रीसमवधाने च अभितः बहिरन्तश्व त्वं कान्ता श्रान्तासीत्यन्वयः । तादृशक्कममेव प्रकटयति नेत्रेत्यादि। ते तव नेत्रद्वन्द्वं लोचनयुग्मं अमील- नव्यतिकरं न विद्यते मीलनस्य मुद्रणस्य व्यतिकर: पौनःपुन्येन प्रवृत्तिः संबन्धो वा यत्र तादशम् आसितुं स्थातुं न शक्कोति न समर्थ भवति तथा च मीलनपौनःपुन्यं सर्वाङ्गीणश्रमं कथयतीति भावः । आश्चय कुतस्तत्राह सायमित्यादि। सायं रवावस्तोन्मुखे। अनेन स्नानोत्तरमितरकार्याकरणं ध्वन्यते। ननु दिनकृतगृहकृत्येनेद्ृशः श्रम इत्यत आह स्नानम् अङ्गप्रक्षालनम् उपासितं यत्नाच्चि कालं कृतम् । तथा च दिनकृतगृहकर्मश्रमस्य तेनैव निवृत्तिर्जातेति भावः । सायस्नानस्य श्रमनिवृत्ति- मात्रफलकत्वात्। तथा मलयजेन उत्तमचन्दनेनाङ्ग समालेपितं सम्यगासमन्तात् लेपितं न तु लिप्तम्। तथा च चन्दनलेपकरणकृतोऽपि न श्रम इति भावः । तथा अम्बरस्याकाशस्य मणिरिव मणिः सूर्य: अस्ताचलस्य मौलिं मस्तकम् (उल्लङ्मय) यातः गत इत्यर्थः । क्वचित्तु मूलमिति पाठः। तदा मूलं पश्चि- ममूलं गत इत्यर्थः । चूलमिति पाठेऽपि स एत्रार्थः । तेन रात्रिर्जातेति भावः । अत एव सायमित्यनेन न गतार्थता। तेन लेशतोऽप्युष्णाभावो व्यज्यते। तथा अत्र कुञ्जादिना घनच्छायमार्गे देशे विस्रब्धं मन्थर- मभीतं च यथा स्यात्तथा आगतिः आगमनम्। तेन मार्गे त्वरया चलनकृतोऽपि न श्रम इति भावः । तस्मात् स च श्रमः सामग््यन्तराभावेन केवलसौकुमार्यकृत एवेति अहो जगद्विलक्षणमाश्चर्यभूतं तव सौकुमार्य- मित्यर्थः । अत्र प्रत्येकपदव्यङ्गयानि सौकुमार्याश्चर्यत्वोपपादकानि। "उत्तमाङ्गं शिरो मूर्धा मौलि्मस्तक- मुण्डके " इति हैमः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) ॥ अत्र 'तव सौकुमार्यमाश्चर्य येन (सौकुमार्येण) अधुना क्रान्तासि' इति वाच्यार्थरूपेण वस्तुना 'कृतपरपुरुषपरिचया (गाढोन्मर्दना ) क्वान्तासि ' इति वस्तु अधुनेतिपदेन प्राधान्येन व्यज्यते। तदेवाह अत्र वस्तुनेत्यादि। कान्तासीति। स्नातासीति कचित्पाठः स चायुक्तः । अधुनापद- द्योत्यमिति। 'तव सौकुमार्यमाश्चर्य येनाधुना क्वान्तासि' इति समुदायस्य व्यञ्जकत्वेऽपि अधुनैवायं क्रमो नान्यदा कदापि दृष्ट इति परपुरुषकृतनिर्दयोपभोगादेवेति गम्यते इति अधुनेतिपदस्य प्राधान्य- मिति भावः । अत एवात्र पदप्रकाश्यता। 'अलसशिरोमणि धुत्ताणम्' ( १३५ पृष्ठे) इत्यादौ तु नेदशं पदमिति वाक्यप्रकाश्यतैवेति भेद: ॥ तत्रैव स्वतःसंभविना वस्तुनालंकारस्य व्यक्तिमुदाहरति तद्प्राप्तीति। विष्णुपुराणगतं पद्यद्वयमे- तत्। युग्मकमिदम् । द्वाम्यां छन्दोभ्यां वाक्यार्थसमाप्तेः । तदुक्तम् "द्वाम्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम्। कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ।।" इति । अन्या पूर्वश्लोकोक्ताम्यो भिन्ना काचित् गोपस्य कन्यका निरुच्छासतया परब्रह्मस्वरूपिणं सच्चिदानन्दरूपं जगत्सू्ति जगतः सूतिरुत्पत्तिर्यस्मात्तादशं श्रीकृष्णं चिन्तयन्ती भावयन्ती सती मुक्ति मोक्ष गतेत्यन्वयः। निरुच्छासतया

Page 215

१५६ काव्यप्रकाश: सटीक: ।

चिन्तयन्ती जगत्सूति परब्रह्मस्वरूपिणम्। निरुच्छासतया मुक्ति गतान्या गोपकन्यका।।८१।।[७] अत्र जन्मसहस्त्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादा- भ्यामनुभूतानीत्युक्तम्। एवं चाशेषचयपदद्योत्ये अतिशयोक्ती। निरुद्धप्राणवायुतया "नास्य प्राणाः समुत्क्रामन्ति अत्रैव समवलीयन्ते" इति श्रतर्मोक्षकाले निरुच्छा- सतेत्युद्दयोतकारादयः । निरुच्छासतया प्राणायामेनेति सुधासागरकाराः। निरुच्छासतया प्राणोत्क्रमणं विनेत्यर्थ इति चन्द्रिकाकाराः। कीदृशी। तस्य श्रीकृष्णस्य अप्राप्त्या वियोगेन यत् महादुःखं तेन विलीनानि नष्टानि अशेषाणि समस्तानि ( समग्राणि) पातकानि यस्यास्तथाभूता। पुनः कीदृशी। तस्य श्रीकृष्णस्य चिन्तया भावनया (ध्यानेन) यो विपुलो महान् आह्लाद: आनन्दः तेन क्षीणः नष्टः पुण्यस्य चयः समूहो यस्यास्तथाभूता पापपुण्ययोः फलभोगनाश्यत्वात् "प्रारब्धकर्मणां भोगादेव क्षयः " इति न्यायादिति बोध्यम्। अत्र श्रीकृष्णवियोगदुःखचिन्ताह्वाद योरशेषपापपुण्यफलत्वेनाध्यवसितयोरवगतिरित्य तिशयोक्तिद्वय- मशेषचयपदप्राधान्येन व्यज्यते । तदेवाह अत्र जन्मेत्यादि। अत्राशेषचयपदप्रभावादनेकजन्मस- हस्त्रभोग्यदुष्कृतसुकृतफलराशितादात्म्याध्यवसितभगवद्विरहदुःखचिन्ताह्वादयोः प्रत्यायनमित्यतिशयो- क्तिद्वयप्रतीतिरशेषचयपदहेतुका द्रष्टव्येति सारबोधिन्यादौ स्पष्टम् । उक्त च प्रदीपादौ । "अत्र जन्मसहस्त्रैरुपभोग्यानि दुष्कृतसुकृतयोः फलानि वियोगद:खचिन्ताह्वादाम्यां कयाप्यनुभूतानीत्युक्तम्। एवं च दुष्कतसुकृतफलराशितादात्म्येनाध्यवसितौ भगवद्वियोगदुःखचिन्ताह्वादौ प्रतीयेते इति निगीर्या- ध्यवसानरूपातिशयोक्तिद्वयमशेषचयपदाभ्यां द्योत्यते" इति प्रदीपः। (कयाप्यनुभूतानीत्युक्तमि- ति। अशेषपातकपुण्यचययोर्भगवदप्राप्तिदुःखतच्चिन्ताह्वादनाश्यत्वोक्तेरिति भावः । एवं चेति। तयोः फलभोगनाश्यत्वादिति भाव:। अशेषचयपदाभ्यामिति। ननु वियोगदुःखचिन्तासुखाभ्यां कथमशेष- पापपुण्यनाशस्तेषां स्वस्वफलभोगनाश्यत्वादित्यनुपपत्तेर शेषदुष्कृतसुकृतफलराशितादात्म्याध्यव सायेनैव परिहार इति वाच्यसिद्धयङ्गमेतदिति चेन्न । भगवन्माहात्म्यातिशयमादायापि तदुपपत्तेः ) इत्युद्दयोतः । (इत्युक्तमिति । अन्यथा सर्वपुण्यपापनाशस्य चिन्तावियोगसुखदुःखाभ्यां क्षयानुपपत्तेरिति भावः । न चोक्तव्यङ्गयस्य वाच्यसिद्ध्यङ्गतया गुणीभूतव्यङ्गयत्वमाशङ्कनीयम् । अन्यत्र तथात्वेऽपि प्रकृते भगवद्विषयकरत्युत्कर्षप्रयोजकतया वाच्यादतिशयितत्वेन तदप्रसङ्गात् । वाच्यादनतिशयित्वेन हि व्यङ्गयस्य गुणीभावः । स वाच्यसिद्धयङ्गतया क्वचित्कचित्प्रकारान्तरेणेत्यष्टौ तद्भेदाः। न तु वाच्यससि- द्वयङ्गत्वं गुणीभावनियतम् । वाच्यातिशायित्वे तदसंभवादित्याह्ुः। वस्तुतस्तु इत्युक्तमित्यनेनोक्तमेव व्यङ्गयं वाच्यसिद्धयङ्गम्। तेन त्वतिशयोक्तिर्ध्वन्यते इति नोक्तदोष इति ज्ञेयम्) इति प्रभा। अत्रा- शेषचयपदयोः प्राधान्यात्पदप्रकाश्यता। 'धन्यासि या कथयसि' (१३६ पृष्ठे) इत्यत्र तु न किमपि तादृशं पदमिति वाक्यप्रकाश्यतैवेति बोध्यम्। "यत्तु रविभट्टाचार्यैरुक्तम् अत्रातिशयोक्तिपदं समाख्याबलेन (योगबलेन) अलंकारसामान्यवाचक- मप्यत्र विशेषालंकारविशेषपरम्। प्रयत्नविषये तदवतारात् । इह च तद्वियोगदुःखोपभोगजनकय-

१ तद्वेदा: गुणीभूतव्यङ्गधस्य भेदाः ॥

Page 216

चतुर्थ उल्लास:। १५७

क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम्। बत वीर तव द्विषतां पराङ्मुखे त्वाय पराङ्मुखं सर्वम् । ८२॥[८] अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन 'विधिरपि त्वामनुवर्तते' इति सर्व- पदद्योत्यं वस्तु ।

त्नेन समस्तपातकजन्यदुःखोपभोगस्य तद्वियोगदुःखजनकपातकनाशेन समस्तपातकनाशप्रतीतेर्विशे- षालंकारद्वयमशेषपदद्योत्यम्। एवं च तच्चिन्ताह्वादभोगजनकयत्नेन सकलपुण्यजन्यसुखोपभोगस्य तचिन्ताह्वादजनकपुण्यनाशेन समस्तपुण्यविनाशप्रतीतेरपरविशेषालंकारदवयं च चयपदद्योत्यम्। चयाशेषपदाभ्यां विना स्वस्वजनकपातकपुण्ययोरेव विलयप्रतीतौ व्यञ्जनैव न स्यात् । एवं चाशेष- चयपदयोरतिशयोक्तिद्वयं प्रत्येकमेव द्योत्यमिति ज्ञेयमिति तन्न सम्यक्। योगरूढस्यातिशयोक्तिपदस्य समाख्याबलेन तादृशार्थकल्पने तत्रापि विशेषालंकारपरत्वाङ्गीकारे बीजाभावात्। यच्चातिशयोक्ति- चतुष्टयं प्रदर्शितं तद्ृत्तिविरुद्धम्। वृत्तौ द्वयोर्द्योतकयोरद्वयोर्घ्योत्ययोश्च यथासंख्येनैवान्वयः स्वारसिको न तु द्वयोरेकैकत्रान्वय इति सुधीभिर्ध्येयम्" इति सुधासागरे स्पष्टम् ।। तत्रैव स्वतःसंभविनालंकारेण वस्तुनो व्यक्तिमुदाहरति क्षणदेति। बतेति खेदे विस्मये वा। तवेति संबन्धसामान्ये षष्ठी "द्विषः शतुर्वा" इति द्वेषकर्मणि वा षष्ठी। भो वीर तव द्विषतां शत्रणां त्वयि पराङमुखे (विपरीते) सति सर्वं पराङ्मुखं विपरीतम्। जातमिति शेषः । तदेवोपपादयति क्षणदेत्यादि। असौ सुरतादिभोगक्षमा क्षणदा रात्रिः अक्षणदा तद्गिन्ना (क्षणमुत्सवं न ददातीति व्युत्पत्या) अनुत्सवदा च । वनम् अरण्यम् अवनं तद्भिन्नम् (अवति रक्षतीत्यवनमिति व्युत्पत्त्या) रक्षकं च। व्यस्यति बहुलं भवतीति व्यसनं द्यूतादि अव्यसनं तद्भिन्नम् अवीनां मेषाणामसनं प्रेरणम् व्यसनं कालक्षेपकं चेत्यर्थः । "त्रियामा क्षणदा क्षपा" इति "क्षण उद्धव उत्सवः" इति चामरः। "व्यसनं त्वशभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पापे विपत्तौ निष्फलोधमे॥" इति मेदिनी। उद्गीतिश्छन्दः । "आर्याशकलद्वितय व्यत्ययरचितं भवेद्यस्याः । सोद्रीतिः किल कथिता तद्वद्यत्यंशसंयुक्ता" इति लक्षणात् ॥ शब्दशक्तीत्यादि। शब्दशक्तिमूस्य क्षणदा अक्षणदेत्यादिविरोधस्य अङ्गेनोपपादकेन पराङ्मुखे त्वयीत्याधर्थान्तरन्योसेनेत्यर्थः । स चार्थान्तरन्यासो लोके दृष्टचरत्वात्स्वतःसंभव्येव । विधिरपि त्वामिति। अर्थान्तरन्यासस्थसर्वपदस्य प्रकृतपरतया पर्यवसितस्यापि व्यञ्जनायामसंकोचेन विधेरप्या- क्षेपादिति भावः । अत एव सर्वपदमेतस्मिन् व्यङ्गये प्रधानमिति पदप्रकाश्यता। 'दर्पान्धगन्धगज' (१३७ पृष्ठे) इत्यादौ तु न किमपि पदं तादृशमिति वाक्यप्रकाश्यतैवेति भेदः । वास्त्वति। व्यज्यते इति शेषः । अत्र व्यञ्जकस्य सर्वपदस्य नानार्थत्वाभावाद्वस्तुनोऽर्थशक्तिमूलालंकारव्यङ्गयता बोध्या। तदेतत्सर्वमुक्तं प्रदीपोद्दयोतयोः । अत्र पराङ्मुखे त्वयि पराङ्मुखं सर्वमित्यर्थान्तरन्यासेन विधिरपि त्वामनुवर्तते इति वस्तु सर्वपदप्राधान्येन व्यज्यते। ननु नायमर्थान्तरन्यासः वनं रक्षकमित्या-

१ शतृप्रत्ययान्तस्य द्विषधातोः कर्माण षष्ठी वा स्यान् पक्षे द्वितीयेति वार्तिकार्थः । यथा मुरस्य मुरं वा द्विषन् । २ "अव रक्षणे" इति भौवादिको धातुः । 3 "असु प्रेरणे" इति दैवादिको धातुः ॥ विरोधस्य विरोधाभासा- लंकारस्य ॥। ५ अर्थान्तरन्यासेन अर्थान्तरन्यासाख्यालंकारेण।।

Page 217

१५८ काव्यप्रकाश: सटीक:।

तुह वल्लहस्य गोसम्मि आसि अहरो मिलाणकमलदलो। इअ णवचहुआ सोऊण कुणइ वअणं महिसँमुहम्॥ ८३॥[९ अत्र रूपकेण त्वयास्य मुहुर्महुः परिचुम्बनं तथा कतम् येन म्लानत्वमिति मिलाणा- दिपद्द्योत्यं काव्यलिङ्गम्। एषु स्वतःसंभवी व्यञ्जकः। राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम्। एकच्छत्तं विण कुणइ भुअणरज्जं विजंभंतो ॥ ८४ ॥ [१० ] देर्वाच्यस्यार्थस्यानुपपादकत्वादिति चेन्न। शब्दशक्त्या व्यङ्गयस्य क्षणदा क्षणदाभिन्नति विरोध- स्योपपादकत्वेनार्थान्तरन्यासत्वात् । एतेन शब्दशक्तिमूलो विरोधोऽपि व्यञ्जक इत्यपास्तम् । तस्यार्थान्तरन्यासोत्थापकत्वेन तदङ्गत्वादिति॥ तत्रैव स्वतःसंभविनालंकारेणालंकारस्य व्यक्तिमुदाहरति तुहेति। "तव वल्लभस्य प्रभाते आसी- दधरो म्लानकमलदलम्। इति नववधूः श्रत्बा करोति वदनं महीसंमुखम् ।" इति संस्कृतम् । रात्रावतिशयचुम्बितदयिताघरां वधूं प्रति कस्याश्चिदुक्तिरियम् । गोसम्मि इति प्रभाते देशी। दलो इति पुंस्त्वं प्राकृते लिङ्गानियमादित्युद्दयोते स्पष्टम्। तव वल्लभस्य दयितस्य प्रभाते प्रातःकाले अधरोऽधरोष्ठः म्लानं यत् कमलदलं तद्ूप आसीदिति सखीवचनं श्रत्वा नववधूः नवोढा नायिका वदनं मुखं 'लज्जया' इति शेषः मह्याः भूमेः संमुखम् अधोमुखमिति यावत् करोतीत्यर्थः । अत्र तव वल्लभस्येत्यनेन नायकस्य नववधूवशीकारकत्वेनातिचातुर्यं व्यज्यते। प्रभाते आसीदित्यनेन ताव- त्कालं चुम्बनाविराम: सूचितः । सर्वविपुलेयमार्या । यस्यामार्यायां प्रथमपादमुल्लड्ध्य यतिः सा मुखविपुला यस्यां तृतीयपादमुल्लड्ध्य यतिः सा जघनविपुला यस्यां तु पूर्वोत्तरार्धयोद्वयोरपि तादृशी यतिः सा सर्वविपुलेति छन्दोविद्धिः प्रतिपादनात् । लक्षणमप्युक्तं प्राक् (१३३ पृष्ठ) ।। अत्राधरो म्लानकमलदलमिति रूपकेणालंकारेण त्वया (नायिकया) तथास्याधरस्य मुद्रमुद्ठः चुम्बनं कृतं येन तस्य म्लानत्वमिति काव्यलिङ्गालंकारो मिलाणकमलदलपदप्राधान्येन द्योत्यते। तदेवाह अत्र रूपकेणेत्यादि। मिलाणादिपद्द्योत्यमिति। अत एवात्र पदप्रकाश्यता। 'गाढकान्तदशनक्षतव्यथा' (१३८ पृष्ठे) इत्यत्र तु नेदृशं पदमिति वाक्यप्रकाश्यतैव। काव्यलिङ्गमिति। काव्यलिङ्गाख्योSलंकार इत्थर्थः । म्लानत्वे परिचम्बनस्य हेतुत्वादिति भावः । व्यज्यते इति शेषः । अस्य च रूपकस्य अधर- सदृशे कमलदले सादृश्यघटकशोणत्वस्य दृष्टत्वात्स्वतःसंभवित्वमिति महेश्वरः। एषु चतुर्षूदाहरणेषु ॥ अथ तत्रैव कविप्रौढोक्तिमात्रनिष्पन्नशरीरे व्यञ्जकेऽर्ये चतुर्षु भेदेषु मध्ये वस्तुना वस्तुनो व्यक्ति- मुदाहरति राइस्विति। "रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् । एकच्छत्रमिव करोति भुवनराज्यं विजम्भमाणः ॥" इति संस्कृतम् । मानिनीं प्रति माननिर्वाहः कठिन इत्येतद्वोधिका सख्यु- क्तिरियम्। यः प्रकृत: स्मरः चन्द्रेण धवलासु उज्ज्वलासु रात्रीषु ज्योत्स्नीष्विति यावत् ललित सुकुमा- रमेव (कुसुममयमेव) न तु कमठपृष्ठकठोरं चापं धनुः आस्फाल्यैव न तु बाणादि संधाय भुवनानां राज्यम् एकमेव छत्रं यत्र तथाभूतमिव अद्वितीयमिवेति यावत् करोति । अत एव विजुम्भमाणः विस्फुरमाणः अतिसाहंकारतया वर्तमान इत्यर्थः । सर्वविपुला छन्दः। लक्षणमुक्तं प्राक् (अत्रैव पृष्ठे)। प्रदीपे तु 'एकष्छत्तं व कुणइ तिहुअणरज्जम्' इति पाठः। तत्र 'एकछत्रमिव करोति त्रिभुवनरा- ज्यम्' इति संस्कृतम् । तदा मुखविपुला छन्द इति बोध्यम्।।

Page 218

चतुर्थ उल्लासः। १५९

अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्विदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरव तैर्निशात्तिवाह्यते इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते। निशितशरधियार्पयत्यनङ्गो दश सुदृशः स्वबलं वयम्यराले। दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः॥८५॥११]

अत्र कविप्रौदोक्तिसिद्धेन वस्तुना 'स्वशासकानङ्गपारवश्येन कुशलैः कामिभिरुपभोगपरैरेव निशा- तिवाह्यते' इति वस्तु भुवनराज्यपदेन प्राधान्येन व्यज्यते। तदेवाह अत्रेत्यादि। वस्तुनेति। चापास्फा- लनेन एकच्छत्रमिव भुवनराज्यं करोतीत्यनेनेत्यर्थः । इदं कविप्रौढोक्त्यैव सिद्धम्। येषां कामिना- मिति। कामिन्यश्च कामिनश्च कामिनस्तेषां कामिनामित्यर्थः । "पुमान् स्त्रिया " इत्येकशेषः । तेभ्यः इति। तेभ्योडपेत इत्यर्थ इति प्रभायां स्पष्टम्। तदादेशपराङ्मुखः कामाज्ञाभन्नकः। आसी- दिति शेषः । इति। हेतोः । उपभोगपरैरेव उपभोगासक्तैरेव । तैः । कामिभिः। निशा रात्रिः । अतिवाह्यते नीयते। इतीति। इति वस्त्वित्यग्रिमेणान्वयः । भुअणेत्यादि। भुवनराज्यपदेन प्राधा- न्येन व्यज्यते इत्यर्थः। अखण्डाज्ञाविषयो हि साम्राज्यम्। अत्र भुवनराज्यपदस्य प्राधान्यात्पदप्रकाश्यता। 'कैलासस्य प्रथमशिखरे' (१३९ पृष्ठे) इत्यादौ तु नेदृशं किमपि पदमिति वाक्यप्रकाश्यतैवेति भेदः। अत्र 'एकच्छत्रमिव' इति इवार्थः उत्प्रेक्षा सा च न व्यञ्जनोपयोगी प्रत्युत तत्परित्यागेडतिशयो गम्यते निर्धारितार्थप्रतीतेरिति प्रदीपप्रभयोः स्पष्टम् ॥

सुधासागरे तु इत्थं व्याख्यातम्। "असौ प्रजापालनपरो राजा स्मरः तेभ्यः तदर्थम् कन्दर्प- प्रजारूपकामुकप्रीत्यर्थमिति यावत् । तादर्थ्ये चतुर्थी । कश्चिदपि स्त्रीपुरुषात्मको जनः विरक्तोपि कश्विदेक इति भावः । तदादेशपराङ्मुखः कामाज्ञाभञ्जकः । सुरतविमुख इति यावत्। नासीदिति जाग्रद्भिरुपभोगपरैरेव तैः आसमुद्रक्षितिनितासिभिः सकामनिष्कामैः सवैरपि निशातिवाह्यते इति वस्तु भुवनराज्यपदप्राधान्येन द्योत्यते इति वृत्त्यर्थः । एवं च तेभ्य इत्यस्य तेषु मध्ये इति व्याख्यानं कुर्वतां श्रीवत्सलाञ्छनभट्टाचार्यचण्डीदासभट्टाचार्यगोविन्द महामहोपाध्यायप्रभृतीनां महतामपि महान् प्रमाद: " इति ॥

तत्रैव कविप्रोढौक्तिमात्रसिद्धेन वस्तुनालंकारस्य व्यक्तिमुदाहरति निशितेति। अनङ्गः कामदेवः निशितशरधिया तीक्ष्णबाणबुद्धया अयं मम निशितः शर इति दृग्विषयया बुद्धयेत्यर्थः। सुदृशः शोभन- दृश: (कामिन्याः) दृशि दृष्टौ स्वस्य बलं सामर्थ्यम् अर्पयति ददाति। कदा अराले (सकलकामिजनहिं- सकत्वात्) कुटिले वयसि अभिनवतारुण्ये उद्धते सति । अत एव सा अर्पितबला दक यत्र यस्यां दिशि लक्षणया तत्संबन्धिनि युवजने निपतति तत्र अवस्थाः हसितरुदितप्रलपितमूर्छादयः यद्वा "दृङमनः- सङ्गसंकल्पा जागरः कृशतारतिः । हीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश ॥" इत्युक्ताः व्यतिकरं मिश्रीभावम् एत्य प्राप्य समुन्मिषन्ति पुनःपुनरुत्पद्यन्ते इत्यर्थः। यद्वा । युगपद्गवन्तीत्यर्थः । एवं च तत्कृता एता ममावस्था इति कस्यचिन्मित्रं प्रत्युक्तिरियम् । पुष्पिताग्रा छन्दः। लक्षणमुक्त प्राकू (९६ पृष्ठ) ।।

अन्र व्यतिकरमेत्यावस्थाः समुन्मिषन्तीति वस्तुना परस्परविरुद्धा अपि हसितरुदितनिर्षेदोन्मादा-

Page 219

१६० काव्यप्रकाश: सटीकः ।

अत्र वस्तुना युगपदवस्था: परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः। वारिज्जंतो वि पुणो संदावकदत्थिएण हिअएण। थणहरवअस्सएण विसुद्धजाई ण चलइ से हारो ॥ ८६ ॥ [१२]

दयोऽवस्था: युगपत् भवन्तीति विरोधालंकारो व्यतिकरपदेन प्राधान्येन व्यज्यते। तदेवाह अत्र वस्तु- नेत्यादि। युगपदिति । एककाले इत्यर्थः । प्रभवन्तीत्यत्रान्वयः । विरोध इति। विरोधालंकार इत्यर्थः। व्यज्यते इति शेषः । अत्र शरे योद्धा स्वबलार्पणं तत्पातदिशि चावस्थासमुन्मेष इति सर्व कविप्रौढोक्तिमात्रसिद्धम्। व्यतिकरपदस्य प्राधान्यात्पदप्रकाश्यता। 'केसेसु बलामोडिअ' (१४० पृष्ठे) इत्यादौ तु नेदृशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेदः । उद्दपोतकारास्तु "शनि- रशनि:' (१३४ पृष्ठे) इत्यादाविव सामानाधिकरण्याभावात्कथ विरोधालंकार इति चिन्त्यम्। विरुद्धा इत्यस्य कार्यकारणभूता इत्यर्थः । व्यतिकरः पौर्वीपर्यविपर्ययः । एवं च विरोधपदेनात्र विरोध- मूलातिशयोक्तिरित्यन्ये" इत्याहुः ॥ प्रभाकृतस्तु "न च 'शनिरशनिः' इत्यादिवत् सामानाधिकरण्याभावे कथं विरोधालंकार इति वाच्यम् । तत्रेत्युपात्ते एकधर्मिण्येव हसितं रुदितमित्याद्यवस्था इति सामानाधिकरण्यस्य स्फुटप्रतीतेः । न ह्यमेदान्वये एव सामानाधिकरण्यं नान्यत्रेति नियमे मानमस्ति। 'शनिरशनिः' इत्यादौ तु नैकत्र धर्मिणि शन्यशनिप्रतीतिरिति न तत्न विरोध इति युक्तम्। एतेन विरुद्धा इत्यस्य कार्यकारणभूता इत्यर्थः । व्यतिकरः पौर्वापर्यविपर्ययः । तथा च विरोधशब्देनात्र तन्मूलातिशयोक्तिरुच्यते इति प्रलपितमनादेयम् " इत्याहुः ॥ तत्रैव कविप्रौढोक्तिमात्रसिद्वेनालंकारेण वस्तुनो व्यक्तिमुदाहरति वारिज्जेति । "वार्यमाणोऽपि पुनःसंतापकदर्थितेन हृदयेन । स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ॥" इति संस्कृतम्। काचित् कांचिदन्यनायिकाव्यवहारकथनेनोपदिशति। यद्वा । नायिकाविपरतिरताचरणसूचिका कवेः प्रौढोक्तिरियम्। हारस्य गाढालिङ्गनान्तरायतया यः संतापः (अर्थात् हृदयस्य) तेन कदर्थितेन पीडितेन हृदयेन पुनर्वार्यमाणोऽपि मुहुर्मुहुरपसार्यमाणोऽपि अस्याः नायिकायाः हारो मौक्तिकमाला स्तनभरवय- स्येन स्तनभररूपवयस्यतः न चलति नापगच्छति। स्तनरूपमित्रस्य पीडा मा भूदित्यभिप्रायेण स्तन- रूपमित्रादपादानान्नापसरतीत्यर्थः । हेतुगर्भविशेषणमाह विशुद्धेति । यतो विशुद्धजातिः निर्दुष्टमुक्ता- जातिमान् श्लेषेण विशुद्धजन्मा च विशुद्धजातित्वाद्धेतोन चलतीति भावः । विशुद्धजातयो (कुलीनाः) हि उत्कटक्ेशेऽपि मित्रं न त्यजन्तीति भावः । विपरीतरतावस्थेयम् । वयस्येनेति तृतीया चलनाभावयोगे पञ्चम्यर्थसाधारणार्थिका। तथा च वयस्यतो न चलतीत्यर्थो नासंगतः । अत एव "अतिग्रहाव्यथनक्षेपे- व्वकर्तरि तृतीयायाः" (५/४।४६) इति पाणिनिसूत्रेण तृतीयान्ताद्विकल्पेन तसिर्विधीयते। अव्यथनं चाचलनमिति व्याख्यातं वैयाकरणैः। चारित्र्येण न चलति चारत्र्यतो न चलतीत्युदाहतं चेति द्रष्टव्यम्। अत एव प्रदीपकारैरुक्तम् "अत्र स्तनभरवयस्येन विशुद्धजातित्वात् हारो न चलतीति हेत्वलंकारेणान- बरतं कम्पमान एव हारोऽस्तीति वस्तु 'न चलति' इति पदेन व्यज्यते" इति। यत्तु कश्चेत् स्तनभरवय- स्येनेति हृदयविशेषणम् स्तनभरस्य वयस्येन मित्रभूतेन हृदयेनेति व्याख्यातम् तद्विद्वद्भिर्नादरणीयमिति सुधासागरकाराः । उद्दयोतकारास्तु विशुद्धजातयो हि तिरस्क्रियमाणा अपि नाश्रयं त्यजन्ति। स्तनभर- वयस्यत्वेनेति पाठेडयमप्यचलने हेतुरित्येवाहुः। वस्तुतस्तु "स्त्रियाम्" (४।१।३) इति पाणिनिसूत्रवत

Page 220

चतुर्थ उल्लास १६१

अत्र विशुद्धजांतित्वलक्षणहेत्वलंकारेण हारोऽनवरतं कम्पमान एवास्ते इति ण चलइपद्द्योत्यं वस्तु । सो मुद्धसामलंगो धम्मिल्लो कलिअललिअणिअदेहो। [ ४९ तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जअइ ॥ ८७॥ [ १३ ]

'सहिविरइऊण ' (१४४ पृष्ठे ) इत्युदाहरणस्थविहलंखलेतिपदवच्च स्तनभरवयस्येनेति भावप्रधानो निर्देशः । तथा च स्तनभरस्य वयस्यत्वेन मित्रत्वेन हेतुना न चलतीत्यर्थो बोध्यः । गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) ।। हेत्वलंकारेणेति। काव्यलिङ्गालंकारेणेत्यर्थः। हेतुगर्मितत्वात्काव्यलिङ्गस्यैव हेतुशब्देन व्यवहारः। उद्दयोतकारास्तु अत्र ग्रन्थे काव्यलिङ्गस्यैव हेत्वलंकार वकथनात्त्त्वेन व्यवहार इति भाव इत्याहुः। अयं च हेतुवार्यमाणकर्तृकगमनाभावरूपचलनाभावे। अनवरत निरन्तरम् । कम्पमान एवेति। पुरुषायिते नायिकायाः पतनोत्पतनादिति भावः । वस्त्विति । व्यज्यते इति शेषः । तेन च विपरीत- रतचातुर्यातिशयो नायिकाया ध्वन्यते । चन्द्रिकाकारास्तु अत् व्यङ्गयमनवरतकम्पनं श्वासोच्छासाधि- क्येन हृदयकम्पनप्रयुक्त वेदितव्यमित्याहुः । अत्र मुक्ताजातेरत्यन्तशुभ्त्वरूपे विशुद्धत्वे ब्राह्मणत्वा- दिकुलविशुद्धत्वाध्यवसायात्तस्य विशुद्धत्वस्याचलनहेतुता स्वतोऽसंभविनीति कविप्रौढोक्त्यैव सिद्धा। अत्र 'न चलति' इस्यस्य पदत्वं तु चलतीतिक्रियाया अकारकीभूतनञर्थान्वितायाः वाक्यभिन्नखेन पदत्वस्याभ्युपगमात्। तस्याः कर्तृकारकान्वयसत्त्वेऽपि तदन्वयवशेनाव्यञ्जकत्वं किंतु नञर्थान्वयेनैव व्यञ्षकत्वमिति न कश्चिद्दोषः। तस्य च पदस्य प्राधान्यात्पदप्रकाश्यता। 'गाढालिंगण' (१४१ पृष्ठे) इत्यादौ तु न किमपि पदमीद्ृशं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेदः ॥ तत्रैव कविप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति सो मुद्धेति। "स मुग्धश्याम- लाङ्गो धम्मिल्लः कलितललितनिजदेहः । तस्याः स्कन्धाद्वलं गृहीत्वा स्मरः सुरतसंगरे जयति"॥ इति संस्कृतम् । सो सुद्धेति पाठे स शुद्धेति संस्कृतम् । सः धम्मिल्लः केशपाश एव स्मरः कामः तस्याः नायिकाया: स्कन्धोंडस एव स्कन्धः सेनानिवेश: तस्मात् बलं सामर्थ्यमेव बलं सैन्यं गृहीत्वा सुरत- संगरे सुरतरूपे संग्रामे जयति सर्वोत्कर्षेण वर्तते। कीदृशः । मुन्धं सुन्दरं श्यामलमङ्गं यस्थ सः।तथा कलितः पुनरासादितः ललितो मनोहरो निजदेहः स्वशरीरं धम्मिल्लरूपं येन तथाभूत इत्यर्थः । तादृशस्य हि महापुरुषबुद्धया स्वकीयबलदानेन साहाय्यकमाचरन्ति लोका इति बोध्यम्। धम्मिल्लः स्मर इति रूपकम्। स्कन्धादिति बलमिति च द्वे ल्लिष्टरूपके। सुरतसंगरे इति रूपकम् । यथा युद्धा- न्निवर्तमानमपि कंचित् कश्चिन्मित्रभूतोऽन्यतः स्कन्धावारात् बलं लब्धा तं प्रोत्साहयति तथास्याः (नायिकायाः) पूर्वसुरतवेलायां मुहुर्मुहुः कर्षणेन स्कन्धपतितकेशपाशः साक्षात्स्मर एव स्कन्धाद्वलं लब्ध्वा सुस्तभोगनिवृत्तमपि मां मनःप्रोत्साहनेन सुरते प्रवर्तयतीति भावः । अत एवेतरेभ्यः सर्वेभ्यस्त- दङ्गेभ्योऽन्येभ्यश्च सुरतोपकरणेभ्य उत्कर्षेण वर्तते इत्युक्तम् । अत एव च स्मरत्वेन रूपणम् साक्षा त्स्मरवत्सुरतप्रवर्तकत्वादिति बोध्यम्। तस्याः स्कन्धाद्वलं गृहीतवेत्यनेन स्कन्धसंबन्धेनातिशयित

FF१ यद्यण्यत्र द्वितीयतृतीयचरणे एकैकया मात्रया न्यूने तथापि "वा पादान्ते" इति छन्दःसूत्रेण पादान्ते लघोरपि गुरुत्वविधानान्न छन्दोभङ्ग: ।। FF कE काव्यप्रकाश २१

Page 221

१६२ काव्यप्रकाशः सटीक:। अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः यथा रतिविरताव- प्यनिवृत्ताभिलाषः कामुकोऽभूदिति खंधपद्द्योत्या विभावना। एषु कविप्रौढोक्तिमात्र- निष्पन्नशरीरः। णवपुण्णिमामिअंकस्स सुहअ को न्तं सि भणसु मह सच्चम्। का सोहग्गसमग्गा पओसरआणे व्व तुह अञ्ज ।। ८८ ।। [१४] अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादिपओसेत्या- दिपदद्योत्यं वस्तु व्यज्यते। शोभालाभ उक्त इत्युद्दयोते स्पष्टम्। "स्कन्धः प्रकाण्डे कायेंडसे विज्ञानादिषु पञ्चसु। नृपे समूहे व्यूहे च " इति हैमः । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (४ पृष्ठे) । रूपकेणेति। जात्यभिप्रायेणैकवचनम्। सुरतसंगरे इति धम्मिल्लः स्मरः इति रूपकालंकाराभ्यामि- त्यर्थः । प्राप्त इति। पतित इत्यर्थः । संबद्ध इति यावत्। खंधपदेति। अभिलाषनिवृत्त्या रतिनिवृत्तौ हि बन्धने केशानां स्कन्धसंबन्धो न स्यादिति भावः । विभावनेति। विभावनालंकार इत्यर्थः । व्यज्यते इति शेषः । अत्रैव रूपकेनेत्यस्यान्वयः। रत्यनिष्पत्तिरूपाभिलाषहेत्वभावेऽपि अभिलाषोदयात् विभावना रतिनिष्पत्तिश्च खंधपदेनैव द्योतिता। आकर्षणेन हि धम्मिल्लस्य स्कन्धप्राप्तेः प्रायशो रतिनिष्पत्तिं बिना- संभवादिति भाव इति विवरणे स्पष्टम् । अत्र रूपकं स्वतोऽसंभवीति कविप्रौढोक्तिमात्रसिद्धम्। धम्मिल्लस्य स्कन्धसंबन्धेन शोभातिशयलाभात् स्कन्धपदस्य प्राधान्यम् । अत एवात्र ध्वनौ पद- प्रकाश्यता। 'जा ठेरं व हसती' (१४२ पृष्ठे) इत्यादौ तु नेदशं किमपि पदमिति वाक्यप्रकाश्यतै- वेति भेदः। एषु चतुर्षूदाहरणेषु। निष्पन्नशरीर इति। व्यञ्जक इति शेष: ॥ तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेन वस्तुना वस्तुनो व्यक्तिमुदाहरति णवेति। "नवपूर्णिमा- मृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् । का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ।I" इति संस्कृतम् । भणेत्यत्र भणतु इति सुधासागरेऽस्ति । खण्डितायाः वृद्धपरवध्वनुरक्तं स्वामिनं प्रत्युक्ति- रियम्। हे सुभग नवः प्रथमोदितः पूर्णिमासंबन्धी मृगाङ्कश्चन्द्रः तस्य तवं कः सखा भ्राता वासि तत् मम सत्यं भण वद तत्संबन्धित्वं विना क्षणिकानुरागित्वस्य तत्स्वभावस्य त्वय्यनुपपत्तेः । तथा चन्द्रस्य प्रदोषरजनीव तव का नायिका सौभाग्यं नायकानुरागादि समग्रं पूर्ण यस्यां तथाभूतेत्यर्थः । "प्रदोषो रजनीमुखम् " इत्यमरः । प्रदोषे एव यथा रजन्यां चन्द्रानुरागसामग्र्यं तथा तव तस्यामिति भावः । अत्र नवत्वेन चाञ्चल्यं क्षणिकानुरागित्वम् । पूर्णिमाचन्द्रः प्रदोषे रज्यतेऽनन्तरं तु विरज्यते । एवम् पूर्णिमामृगाङ्कत्वेन नायिकान्तरानुरागित्वम् कलङ्गित्वम्। प्रदोषपदेन प्रकृष्टदोषवत्त्वम् । रजनी- पदेन मालिन्यं व्यज्यते इत्युद्दयोतादौ स्पष्टम् । केचित्तु 'नवः प्रतिपदुदितः' इत्यर्थमाह्ुः । मुख- विपुला छन्दः। लक्षणमुक्तं प्राक् (१३३ पृष्ठे) ।। वस्तुनेति। यथोक्तवाक्यार्थरूपेणेत्यर्थः । पद्द्योत्यममिति । अत्रायं विभागः। णवेत्यादिपदेन प्रथममनुरक्तस्त्वमिति पओसेत्यादिपदेन तु न तत इति व्यज्यते। नवेत्यादिपओसेत्यादिपदयोः प्राधान्यात्पद प्रकाश्यता। 'जे लंकागिरिमेइलासु' (१४२ पृष्ठे) इत्यादौ न किमपि पदं प्रधानमिति वाक्यप्रकाश्यतेति भेदः । अत्र कविनिबद्धा नायिका वक्त्री। ननु प्रदोषरजनीवेत्युपमालंकारसत्त्वेन कथं वस्तुमात्रस्य व्यञ्जकत्वमिति चेन्न। तदनुपादानेऽपि प्रदोषरजनी तव केत्येतावतापि व्यङ्गयव्य-

Page 222

चतुर्थ उल्लास:। १६३ सहि वणिहुवणसमरम्मि अंकवालीसहीए णिविडाए। हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ॥ ८९॥[१५] अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत तत्कथय कीद्ृागिति व्यतिरेकः कहंपदगम्यः। प्रविसंती घरवारं विवलिअवअणा विलोइऊण पहम्। खंधे घेत्तण घडं हा हा णद्टोत्ति रुअसि सहि किं ति॥ ९० ॥ ञ्जनं संभवतीति वस्तुमात्रस्य व्यञ्जकत्वाक्षतेः । उक्तं च सुधासागरे। प्रदीपकारास्तु अत्र पदे (प्रदोषरजनीपदे) रजनीवेत्युपमानैरपेक्ष्येण कथ व्यञ्जकत्वमिति चिन्त्यमित्याहुः । तत्रेयं चिन्ता। इवपदानुपादाने रजनी तव केत्येतावता हि व्यञ्जनासिद्धिरितीति। एवमेव सारबोधिन्यां प्रभायां चोक्तमिति बोध्यम्।। तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेन वस्तुनालंकारस्य व्यक्तिमुदाहरति सहीति। "सख नवनिधुवनसमरेऽङ्कपालीसख्या निबिडया। हारो निवारित एवोच्छिरियमाणस्ततः कथं रमितम्।।" इति संस्कृतम्। उच्छेरन्तो इत्यत्र उच्चेरन्तो इति पाठे उच्चलन्निति संस्कृतम्। नवोढां नायिकां प्रति अत्य- न्तविश्वस्ताया रसज्ञायाः सख्या उक्तिरियम्। हे सखि नवं नूतनं निधुवनं सुरतमेव समरः संग्रामस्त- स्मिन् निबिडया दृढया प्रगल्भया वा अङ्कपाली आलिङ्गनं सैव (इष्टविधायित्वात्) सखी तया उछि- यमाणः द्वयोस्तृतीयतयाधिको भवन् द्वितीयपाठे चलनव्यापारेण निधुवनान्तरायं हृदयाभिघातं कुर्वन् हार: मौक्तिकमाला निवारित एव भग्न एव (गाढालिङ्गनेन त्रोटित एव) ततो हारच्छेदानन्तरं त्वया नवोढया इतरप्रौढाङ्गनारतादपि विलक्षणं कथ रमित क्रीडितमित्यर्थः। "अङ्कपाली परीरम्मे कोटिधा- त्रिकयोरपि" इति मेदिनीकोशः। अत्र निबिडयेत्यनेन निवारणसामर्थ्यम् समर इत्यनेन दुरवगाहत्वं व्यज्यते । मुखविपुला छन्दः। लक्षणमुक्तं प्राक् (१३३ पृष्ठे) । वस्तुनेति। यथोक्तवाच्यार्थरूपेणेत्यर्थः । अन्यदेव रतमिति। प्रौढाङ्गनारतादपि विलक्षणं नवोढायास्ते सुरतमित्यर्थः । अत एव नवोढाया ईदशं रतमिति विस्मयः । व्यतिरेक इति। उपमा- नापेक्षयोपमेयस्योत्कर्षरूपो व्यतिरेकालंकार इत्यर्थः । कहंपद्गम्य इति। कहंपदस्य विस्मयार्थत्वा- दिति भाव:। नवोढाखभावविरुद्धगाढालिङ्गनात् ज्ञायते तद्रतं विलक्षणमिति। अत एव समरपदम्। द्वयोस्तुल्यव्यापारे हि समरो भवतीतीत्युद्दयोते स्पष्टम्। विवरणकारास्तु कहंपदगम्य इति कहंपदेन जिज्ञासावगम्यते। जिज्ञासा च प्रसिद्धस्य नोदेतीति तद्विलक्षणैवेयं रतिर्जातेति जिज्ञासया व्यज्यते इति भाव इत्याहुः । अत्र कहंपदं प्रधानमिति पदप्रकाश्यता। "सहि विरइऊण " (१४४ पृष्ठे) इत्यादौ नेदशं पदमिति वाक्यप्रकाश्यतैव। निधुवनसमरे इति रूपकालंकारसत्त्वेऽपि तन्नैरपेक्ष्येणापि व्यङ्गय- व्यञ्जनं संभवतीत्येतावन्मात्रेण वस्तुनोऽत्र व्यञ्जकत्वमिति बोध्यम्। तत्रैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालंकारेण वस्तुनो व्यक्तिमुदाहरति पविसंतीति। "प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम्। स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सख किमिति।" इति संस्कृतम्। 'विलोइऊण' इत्यत्र 'पलोइऊण' इति पाठे 'प्रलोक्य' इति संस्कृतम् । जलानयनव्याजेन संकेतस्थान गत्वा शून्यं तत् विलोक्य जलघढं स्कन्धे गृहीत्वा गृहद्वार-

Page 223

१६४ काव्यप्रकाश: सटीक: । अत्र हेत्वलंकारेण संकेतनिकेतनं गच्छन्त दृष्ट्री यदि तत्र गैन्तुमिच्छसि तदा अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदद्योत्यम्। यथा वाि्द्रीगी ्िड विहलंखलं तुमं सहि दद्डण कुडेण तरलतरदिट्ठिम् 9 IFEF FP वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो॥ ९१ ॥ [१६] पर्यन्तं समागतां पश्चात्संकेतस्थानयायिनं सकामुकमवलोक्य पुनर्जलानयनव्याजातसकेतस्थानं गन्तु विवलितं वदनं कृत्वा द्वारस्खलनव्याजेन घटं क्षिप्त्वा लोकवञ्चनायै रुदतीं सखीं प्रतीयमुक्तिश्चतुरायाः 'अपरं घटं गहीत्वा गच्छ अहं सर्व समाधास्ये' इत्यभिप्रायगर्भा। हे सखि गृहद्वारं प्रविशनती त्वं स्कन्धे घटं गृहीत्वा विवलितवदना परावर्तितवदना सती पन्थानं (निष्क्रान्तमपि) मार्ग विलोक्य दृष्ट्रा हा हा घटो नष्ट इति किमिति रोदिषात्यर्थः। रोदने नष्टत्वं हेतुः घटध्वंसे च विवृत्त्य पथो विलोकनं हेतुरित्युद्दयोते । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (४ पृष्ठे) ।I हेत्वलंकारेणेति। नष्ट इति रोदिषीति हेत्वलंकारेणेव्यर्थः। काव्यलिङ्गालंकारेणेति यावत्। संकेतनिकेतनं संकेतस्थानम् । गच्छन्तमिति। कामुकमिति शेषः । गन्तुमिति । अस्य 'तम्' इत्यादिः। किंतिपदेति। हेतुप्रश्नेन हेतुं विना रोदनस्याहार्यत्वलाभात्किंतिपदस्य प्राधान्यादिति भावः । द्योत्यमिति। व्यज्यते इति शेष: । अत्रैव हेत्वलंकारेणेःयस्यान्वयः ।। ननूक्तोदाहरणे हेत्वलंकारस्य खतःसंभवित्वमेवास्ति न तु प्रौढोक्तिमात्रसिद्धत्वमित्यत उदाहर- णान्तरं दर्शयन्नाह यथा वेति। तथा चाहुः प्रभाकृतोऽपि "अत् व्यञ्ञजकस्य खतःसंभवित्वेन कविप्रौढो- क्तिकल्पितत्वाभावादाह यथा वेति" इति। एवमेवाहुरुद्दयोतकारा अपीति बोध्यम्। सुधासागरकारास्तु "अत्र गृहद्वारप्रवेशनादेः स्वतःसंभवित्वेऽपि एतादृशव्यवहारस्य दुर्घटत्वादुरूहत्वाच्च प्रौढोक्तिमात्रनि- व्पन्नत्वं भवतीति सूचितम् । एवं च प्रकृतार्थस्य स्वतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पन्नत्वं नास्तीत्युदा- हरणान्तरमाहेति मधुमतीकारसारबोधिनीकारादिव्याख्यानमनादेयम्। न खलु श्रीवाग्देवतावतारः (मम्मटः) सर्वथा लोकबाधितं प्रौढोक्तिसिद्धं न जानातीति संभवति कि तु लोकाप्रसिद्धे ईदशलो- कोत्तरोक्तिप्रतिपादितेऽर्थेSपि प्रौढोक्तिमात्रनिष्पन्नवं संभवतीति समाज्ञापयति। अत एव प्रमाद- शङ्कानुदयायोदाहरणान्तरमाह यथा वेतीति सुधीभिर्ध्येयम्" इत्याहुः ॥ विहलमिति। "विशङ्खलां त्वां सखि दृष्ट्रा कुटेन तरलतरदृष्टिम्। द्वारस्पर्शमिषेण चत्मा गुरुक इति पातयित्वा विभिन्नः ॥" इति संस्कृतम्। विशङ्धलामित्यत्र विह्वलामिति सुधासागरेऽस्ति। मदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशसमये पश्चादागच्छन्तं कामुकं द्ृष्टरा पुनर्नदीगमनाय बुद्धिपूर्व द्वारस्पर्शव्याजेन घटं स्फोटितवतीं नायिकां प्रति सख्याः 'त्वदभिप्रायोऽवगतो मया तस्मात्स- माश्वासं विधाय समीहितसिद्धये व्रज अहं त्वच्छुश्व्वादिनिकटे सर्व समाधास्ये' इत्यभिप्रायगर्भा अविद- ग्धजनप्रतारणायोक्तिरियम्। हे साख विशृङ्धलाम् (अतिभारवशात्) विकलां (व्याकुलां) विह्वला- मिति पाठे वोढुमशक्ताम् अत एव तरलतरद्ृष्टिम् अतिशयितचञ्चलद्ृष्टि वां दृष्टा कुटेन घटेन (कर्त्रा) आत्मा खखरूपम् घटव्यपदेश्यः कम्बुग्रीवादिमान् मृन्मयो देह इति यावत् गुरुकः गरीयान् इति त्वादृश्या अपि कष्टदायक इति दुःखेनेति भावः द्वारस्पर्शस्य मिषेण व्याजेन पातयित्वा विभिन्न: विभेदित: स्फोटित इत्यर्थः। शंभुरितिवदन्तर्भावितण्यर्थोडयम्। नायं द्वारस्पर्शात् घटनाश-

Page 224

। चतुर्थ उल्लास:। १६५

। अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दष्ट्रा पुनर्नदी- गमनाय द्वारोपघातव्याजेन बुद्धिपूर्व व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज अहं ते श्वश्रूनिकटे सर्व समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपह्नत्या वस्तु। जोह्राइ महुरसेण अ विइण्णतारुण्णउत्सुअमणा सा। बुड्ढा वि णवोढव्विअ परहुआ अहह हरइ तुह हिअअम्॥९२॥[१७ ] अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलवसीति त्वदीयमाचरितं वक्तु न शक्यमित्याक्षेपः परवहूपदप्रकाश्यः। स्त्वया कृतः किंतु गुरुतया परपीडकत्वात् घटेनैव स्वात्मा विभेदित इत्यपहुतिरत्रालंकारः । विशृ झलां कामपरवशामिति ह्ृदि स्थितोऽर्य इत्युद्दयोते स्पष्टम्। "कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयो- गृहे " इति मेदिनी। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) । अवसरे समये। आगत कामुकम्। स्फोटित इति। अत्रैव बुद्धिपूर्वमित्यस्यान्वयः। चिन्तितम् अवगतम् । तत् तस्मात। व्रज गच्छ। ते तब । समर्थयिष्ये इतीति। इत्येतद्रूपमित्यर्थः । अस्य वस्तिवित्यनेनान्वयः । अपह्वत्येति । अत्रैत्रोपरिप्रदर्शितेनापहुत्यलंकारेणेत्यर्थः । वस्त्विति। वारप्फं- समिसेनेतिपदद्योत्यमिति प्रदीपे स्पष्टम् । सखीतिपदद्योत्यमिति महेश्वरमतम्। व्यज्यते इति शेषः । अत्रैवापहुत्येत्यस्यान्वयः । अत्राचेतने घटे स्वात्मविभेदनरूपचेतनधर्मारोप इति तन्मूलकतयापह्नुतेः प्रौढोक्तिसिद्धत्वम्। वारप्फंसमिसेनेतिपदस्य प्राधान्यात्पदप्रकाश्यता।ओललोल्लकरअरअण (१४४ पृष्ठे) इत्यादौ तु नेदशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेदः ॥ 1 तत्नैव कविनिबद्धवक्तृप्रौढोक्तिमात्रसिद्धेनालंकारेणालंकारस्य व्यक्तिमुदाहरति जोह्नेति। "जयोत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा। वृद्धापि नवोढेव परवधूरहह हरति तव हृदयम् ॥" इति संस्कृतम्। वृद्धपरवधूसक्तं नायकमुणहसन्त्यास्तरुण्या उक्तिरियम्। अहहेति खेदे। वृद्धापि सा नायिका क्योत्स्या चन्द्रिकया मधुरसेन च वसन्तरसेन मद्यस्यास्वादेन च वितीर्ण दत्तं तारुण्याय तरुणधर्माय (सुरताय) उत्सुकम् औत्सुक्यं मनसि यस्यास्ताद्ृश्यपि यतः परवधूः अतो नवोढेव तव हृदयं हरति परवधूत्वेनैव तव चित्तं सा हरति न तु सौन्दर्यादिनिमित्तान्तरमस्तीति भावः । परवधूत्वे हृदयहरणे हेतुरिति काव्यलिङ्गालंकार इत्युद्दयोते स्पष्टम्। वितीर्ण दत्तं यत् तारुण्यं तेनोत्सुकम् (अर्थाद्रत) मनो यस्यास्तथाभूता सतीति चन्द्रिकायां व्याख्यातम् । गीतिश्छन्दः । लक्षणमुक्तं प्राक् (४ पृष्ठे) ।। काव्यलिङ्गेनेति। परवधूत्वेनैव तव चित्तहरणमिति काव्यलिङ्गालंकारेणेत्यर्थः । तदुक्तमुद्दयोते "परवधुत्वं हृदयहरणे हेतुरिति काव्यलिङ्गमलंकारः " इति। "ज्योत्स्नामधुरसाम्यां दत्तं तारुण्यं ह्ृदय- हरणे हेतुरिति काव्यलिङ्गम् " इति तु चक्रवर्ती। आक्षेप इति। नायक च रितस्याशक्यवक्तव्यत्व रूप आक्षेपालंकार इत्यर्थः । तदुक्तं प्रभायाम् आक्षेप इति। त्वदीयमाचरितं वक्तुं न शक्यत इति द्योतन- फलो वक्ष्यमाणस्य त्वयैवं कर्तु न योग्यमित्यादिवचनस्य (वचनार्हस्य) निषेधरूप आक्षेपालंकार इति। प्रकाश्यः द्योत्यः । व्यज्यते इति शेषः । अत्रैव काव्यलिङ्गेनेत्यस्यान्वयः। अत्र हेतुर्हि उपहासार्थमेव १ पद्ये उत्सुकमिति भावप्रधानो निर्देश इति भावः ॥

Page 225

१६६ काव्यप्रकाश: सटीक:। एपु कविनिबद्ध्वक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः । वाक्यप्रकाश्ये तु पूर्वमुदाहृतम्। शब्दार्थोभयशक्त्युद्धवस्तु पदप्रकाश्यो न भवतीति पश्चत्रिंशद्ेदाः॥ (सू० ६७) प्रबन्धेऽप्यर्थश्ञक्तिभू: ॥४२॥ यथा गृधरगोमायुसंवादादौ। अलं स्थित्वा रमशानेऽस्मिन् गृधगोमायुसंकुले। कङ्कालबहले घोरे सर्वप्राणिभयंकरे ॥ ९३ ॥ चित्तहरणहेतुतया नायिकयोक्तः न तु वास्तवः परवध्वापि वृद्धया चित्तहरणाभावादिति काव्यलिङ्गा- लंकारः प्रौढोक्तिमात्रसिद्ध एव। परवहूपदस्य प्राधान्यात् पदप्रकाश्यता। 'महिलासहस्सभरिए' (१४५ पृष्ठे) इत्यादौ तु नेदृशं किमपि पदं व्यञ्जकमिति वाक्यप्रकाश्यतैवेति भेदः ॥ एपु चतुर्षूदाहरणेषु। निष्पन्नशरीर इति। व्यञ्जक इति शेषः । उदाहृतमिति।'त्वामस्मि वष्मि' ( ८३ पृष्ठे) इत्यादिभिरित्यर्थः । पदप्रकाश्यत्वे उभयशक्त्युद्धवः कुतो नोक्त इत्यत आह शब्दार्थोभयेति। पदप्रकाश्यो नेति । एकस्यैव पदस्य परिवृत्त्यसहत्वतत्सहत्वे वत्तुमशक्ये इति भावः। पञ्चत्रिंशदिति । वाक्यप्रकाश्याष्टादशपदप्रकाश्यसप्तदशभेदाभ्यां मिलित्वा पञ्चत्रिंशदित्यर्थः । अयं भावः । अर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यालक्ष्यक्रमास्त्रयः लक्ष्यक्रमेषु वस्त्वलंकारभेदेन शब्दशक्तिमूलो द्विविधः अर्थशक्तिमूलो द्वादशविधः एषां सप्तदशानां वाक्यपदमूलकत्वेन द्वैविध्ये चतुस्त्रिंशत् उभयशक्तिमूलः एक इति पञ्चत्रिंशदित्युद्द्योते स्पष्टम् ।। प्रबन्धेऽपीति। अर्थशक्तिभू: अर्थशक्तिमूलो द्वादशविधो ध्वनिः न केवलं पद्वाक्ययोरेव अपि तु प्रबन्धेऽपि भवतत्यर्थः । प्रबन्धश्च संघटितनानावाक्यसमुदायः । स च ग्रन्थरूपस्तदवान्तरप्रकरणरू- पश्चेति प्रदीपे स्पष्टम्। वृत्तप्रत्यायकं वाक्यं प्रबन्ध इति चक्रव्ती। प्रबन्धो वाक्यविस्तर इति कश्चित्। "पदं चैव पदार्थश्च वाक्यं वाक्यार्थ एव च। विषयोऽस्याः प्रकरणं प्रबन्धश्चामिधीयते ॥" इति सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजराजः ।। तत्र पदवाक्ययोरुदाहृतम् प्रबन्धे तूदाहर्तुमाह यया गृधगोमायुसंवादादाविति। गृध्रसंवादे गोमायुसंवादे आदिशब्दादन्यत्र चेत्यर्थः । तत्र गुध्रसंवादे पद्यद्वयात्मके प्रबन्धे स्वतःसंभविना वस्तुना वस्तुनो व्यक्तिमुदाहरति अलमिति। महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिपञ्चाशदधिकशततमे (१५२ ) अध्याये मृतं बालं संध्यासमये स्मशाने समानीतं दृष्ट्रा दिवसे एव मृतमांसभक्षणसमर्थस्य रात्रावन्धत्वादसमर्थस्य गध्रस्य तद्वन्धुजनविसर्जनपरमिदं ल्लोकद्वयात्मकं वचनम् । हे जनाः अस्मिन् श्मशाने स्थित्वा अलं पूर्यताम्। कीदृशे। गुध्रैः मांसादैः पक्षिविशेषैः गोमायुभिः शृगालैश्च संकुले व्याप्ते। तथा कङ्काला अस्थीनि बहला यत्रैवंभूते। अस्थिप्राये इत्यर्थः । "स्याच्छरीरास्थि कक्कालः" इत्य- मरः। अत एव घोरे दारुणे। सर्वेषां प्राणिनां जन्तूनां भयंकरे त्रासजनके इत्यर्थः। एवं च निष्प्रयोजना संभावितानिष्टा चैवंविधस्थले भवतां स्थितिरनुचितेति भावः । ननु बालकोज्जीवन संभाव्यते तत्राह न चेहेति। इह संसारे कालधर्म मृत्युम् उपागतः प्राप्तः प्रियः मित्रं द्वेष्यः शत्रुर्वा यदि वा अथवा १ अस्या इति। "अयुज्यमानस्य मिथः शब्द्स्यार्थस्य वा पुनः। योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ॥" इतिप्रागुक्तलक्षणलक्षिताया युक्तेरित्यर्थः ॥

Page 226

चतुर्थ उल्लास:। १६७

न चेह जीवितः कश्चित् कालधर्मयुपागतः । की प्रियो वा यदि वा द्वेष्य: प्राणिनां गतिरीदृशी॥९४॥ इति दिवा प्रभवतो गृधस्य पुरुषविसर्जनपरमिदं वचनम्। आदित्योऽयं स्थितो मूढा: स्नेहं कुरुत सांप्रतम्। बहुविन्नो मुहूर्तोडयं जीवेदपि कदाचन ॥ ९५॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम्। गृधरवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥९६॥ कश्चित् उदासीनोऽपि यद्वा कशश्चित् प्रियद्वेष्यान्यतरोऽपि न जीवितः । अद्य यावदिति शेषः । तथा च मृतस्य पुनरुज्जीवनमसंभावितमिति भावः। समाधानायाह। प्राणिनां संसारिणाम् ईदृशी मरणानन्तरमपरावृत्तिरूपा गतिः स्वभावः । तथा च "स्वभावो दुरतिक्रमः " इति न्यायेन स्वभावस्य दुरतिक्रमत्वात्खेदो न कार्य इति भाव: ॥ अत्र स्वतःसंभविना वाच्यार्थरूपेण वस्तुना पुरुषविसर्जनरूपं वस्तु व्यज्यते। तद्वयञ्जकश्चायं पद्यद्वयात्मको गुध्रवचनरूपः प्रबन्ध एव न तु तद्गतं वाक्यं पदं वेति प्रबन्धप्रकाश्यतैव। तदेवाह इति दिवेत्यादि। दिवा दिवसे एव प्रभवतः प्रगल्भस्येत्यर्थः । रात्रावन्धत्वाद्दिवसे एव मृतमांसभक्षण- समर्थस्येति यावत्। गृधस्य दाक्षाय्यस्य। पुरुषेति। पुरुषस्य मृतसंबन्धिजनस्य (मृतावक्षकजनसमु- दायस्य) विसर्जनं श्मशानतोऽपसरणं (गृहं प्रति निवर्तनं) तत्परमिदं वाक्यमेलकम्ँ इति फलितोऽर्थः ॥ एवं गुध्रसंवादे उदाहृत्य गोमायुसंवादे उदाहरति आदित्योऽ्यमिति। महाभारते शान्तिपर्वण आपद्धर्मपर्वण त्रिपञ्चाशदधिकशततमे (१५३) अध्याये निशि मृतमांसभक्षणसमर्थस्य गोमायोः मृत- बालावेक्षकजनानां रमशानसकाशान्निवर्तनमिच्छोः श्लोकद्वयात्मकं वचनम् । हे मूढाः मूर्खाः अयम् आदित्यः सूर्यः स्थितः । अस्तीति शेषः । तथा च न रात्रिचरेभ्यो भयमधुनास्तीति भावः । अतो (यूयं) सांप्रतम् अधुना स्नेहं (अर्थान्मृते बाले) समीपावस्थितिरूपं कुरुत । मृतस्य जीवना- संभवादफलमवस्थानमत आह बहुविन्न इति । अय संध्यात्मकः मुहूर्तः बहुविन्नः (राक्षसवेलत्वात्) भूतावेशादिरूपविध्नबहुलः तथा च राक्षसवेलत्वात् भूतावेशादिरूपग्रहग्रस्तश्चेत्तदा एतन्मुहूर्तापगमे तद्विघ्ननाशोपशान्तावेशो बालः कदाचिज्जीवेदित्यर्थः । अपिः संभावनाद्योतकः । एवं जीवनसंभा- वनामुत्पाद्य मोहयितुमाह अमुमिति। यूयम् अविशङ्किताः लोकापवादशङ्कारहिताः गृधस्य मांसलुब्ध- स्य वाक्यात् पूर्वोक्तात मूढाः (कथमकस्मादीदृशोऽयं बालस्त्याज्यः ) इति विचाररहिताः सन्तः अमुं बालं कथं त्यजध्वम्। आर्षमात्मनेपदम्। कीदृशं बालम्। कनकवर्णवत् आभा कान्तिर्यस्य तथाभूतम् न तु कनकाभम् तद्गतकाठिन्यस्यापि प्रतिपत्यापत्तेः। तथा न प्राप्तम् आसादितं यौवन येन तथाभूतमि- त्यर्थः । अत्र बालत्वेन मृत्युकालाभावः कनकेत्यादिना मृत्युचिह्न वैवर्ण्याद्यभावः अप्राप्तेत्यनेन परदारा- भिगमनादिराहित्येनायुःस्त्त्वं सूच्यते ॥ १ मेलकं समूहः। "ना मेलः संगमो ना वा" इत्यमरमाला। मेल एव मेलकम् ॥ २ इदानीतनगुस्तके तु अत्यन्तं पाठमेदोऽत्र वचने दृश्यते॥ 3 परदाराभिगमनेन तु आयुःक्षीणता प्रसिद्धवै। तथा चाह मनुः "नहीदशम नायुण्यं लोके किंचन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम् ॥" इति। अनायुष्यम् आयुष्यविरोधि। नत्रो विरोधार्थकत्वात् ॥

Page 227

१६८ काव्यप्रकाश: सटीक: ।

इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते। अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहताः स्वयं तु लक्षणतोऽनुसर्तव्याः। अपिशब्दात्पदवाक्ययोः ॥ (सू० ६१ ) पदैकदेशरचनावर्णेष्वपि रसादय: ॥ तत्र प्रकृत्या यथा II FF रइकेलिहिअणिअसणकरकिसलअरुद्ूणअणजुअलस्स। रुद्दस्स तइअणअणं पव्वईपरिचुंबिअं जअइ ॥ ९७ ॥ अत्र स्वतःसंभविना वाच्यार्थरूपेण वस्तुना जनव्यावर्तनरूपं वस्तु व्यज्यते। तद्वयञ्जकश्चायं पद्यद्वयात्मको गोमायुवचनरूपः प्रबन्ध एव न तु तद्रतं पदं वाक्यं वेति प्रबन्धप्रकाश्यतैव। तदेवाह इति निशीत्यादि। विजम्भमाणस्येति। प्रगल्मस्येत्यर्थः । मांसभक्षणसमर्थस्येति यावत्। गोमायोः जम्बुकस्य। जनव्यावर्तनेति । जनस्य मृतसंबन्धिजनस्य व्यावर्तनं श्मशानपरित्यागान्निवर्तनं तन्निष्ठं तत्तात्पर्यकमित्यर्थः। चेति। चकारेण अलं स्थित्वेत्यादिपूर्वोक्तवचनसमुच्चयः । प्रथते इति। समर्थो भवतीत्यर्थः । व्यञ्जकत्वेनेति शेषः । अर्थशक्त्युद्धवध्वनेर्द्वादशभेदानां मध्ये एक एवोदाहतः अन्ये त्वेकादश भेदा: कुतो नोदाहता इत्यत आह अन्ये त्वेकादशेति। लक्षणत इति। 'लक्ष्यतः' इत्येव बहुषु प्राचीनपुस्तकेषु पाठः । प्रबन्धेऽपीत्यपिशब्दस्योक्तसमुच्चयपरतामाह अपिशब्दादिति। पदवाक्ययोरिति। ते चोदाहता एवेति बोध्यम्।। पदैकदेशेति। पदानां तिड्सुबन्तरूपागामेकदेशेषु प्रेकृतिप्रत्ययोपसर्गरूपांशत्रयेषु रचनायां वैद- र्भ्यादिसंज्ञिकायामष्टमे वक्ष्यमाणायाम् यद्वा रचनासु दीर्धसमासादिरूपविन्यासविशेषेषु वर्णेषु ("मर्ति वर्गान्त्यगाः स्पर्शाः" इत्यादिना अष्टमे (१०७ सूत्रे) वक्ष्यमाणेषु) अक्षरविशेषेषु अपिशब्दात् प्रबन्धे च रसादयः रसभावतदाभासभावशन्तिभावोदयभावसंधिभावशबलतारूपाः अलक्ष्यक्रमाः संभवन्तीति सूत्रार्थः । पदैकदेशेत्युपलक्षणम्। पुरुषव्यत्ययपूर्वनिपातादयोऽपि ग्रहीतव्या इति लक्ष्यदर्शने वक्ष्यते इति सारबोधिन्याम्। पुरुषव्यत्ययपूर्वनिपातादयः पदैकदेशधर्मत्वात्पदैकदेशा एव गण्यन्ते इति प्रदीप- प्रभयो: स्पष्टम्। प्रकृतिरपि धातुरूपा नामरूपा चेति द्विविधा। उपसर्गाणां स्वातन्त्रयेणार्थाप्रत्यायक- त्वात्पदैकदेशत्वं बोध्यम् इत्युद्दयोतः । व्याख्यातमिदं प्रदीपे। "रसादयोSलक्ष्यक्रमाः पदैकदेशे रच. नायां वर्णेषु अपिशब्दात्प्रबन्धे। पदवाक्ययोस्तु 'पदेऽप्यन्ये'(१४९ पृष्ठे) इत्यनेनैव प्रतिपादिताः। पदं तावत् द्विविधं सुबन्तं तिडन्तं च। तदेकदेशो नामधातुस्वरूपप्रकृतिभाग: प्रकृत्येकदेशः सुप्तिड्ख. रूपविभक्तिभागश्च उपसर्गादिरूपश्व। तत्र पदवाक्ययोरुदाहृतं प्राकू। पदैकदेशादिषूदाहि्यते"इति॥। तत्र धातुरूपप्रकृत्यात्मकपदैकदेशे संभोगशूङ्गाररसस्य व्यक्तिम् (व्यञ्जनाम्) उदाहरति रइकेली- ति। हालकविकृतायां गाथासप्तशत्यां पञ्चशतके ५५ पद्यमिदम्। 'रतिकेलिहृतनिवसनकरकिसलयरुद्द- १ रूपाणामिति। "सुप्तिडन्तं पद्म्" (१।४।१४) हति पाणिन्यनुशासनादिति भावः ॥ २ प्ररुतित्वं च प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वं प्रत्ययविधानावधित्वं वा ॥ 3 प्रत्येति अर्थ बोधयतीति प्रत्ययः। तथा च प्रत्ययाधिकारपठितत्वे सत्यर्थबोधकत्वं प्रत्ययत्वम् । उपसर्गा: प्राद्यः ॥ ५ प्रथमपुरुषमध्यमपुरुषोत्तपुरुयाः। ६ ' पचतितराम्' इत्यादावन्यविधापि (तिडन्तरूपा) प्ररुतिरस्तत्यिन्यदेतत्॥ ७ प्रकुत्येकदेशः। प्ररुतेरेकदेशः । यथा 'अङ्गकैः' इत्यत्र (१०६ उदाहरणे ) 'क' उदा हरिण्यते इत्युद्दयोते स्पष्टम् ॥

Page 228

चतुर्थ उल्लास:। १६९ अत्र जयतीति न तु शोभते इत्यादि। समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम्। यथा बा

नयनयुगलस्य। रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥" इति संस्कृतम् । कापि सख्याः शिक्षार्थ पार्वत्याः लज्जायामपि स्नेहाभिव्यक्तिवैदग्ध्यं वर्णयति इति गाथासप्तशर्ताटीकाकारो गङ्गाधर- भट्टः । रुद्रस्य महादेवस्य तृतीयनयनं ललाटलोचनं पार्वत्या गौर्या परिचुम्बितं सत् जयति सर्वो- त्कर्षेण वर्तते। कीदृशस्य रुद्रस्य। रतिकेलौ सुरतकीडायां हृतं निवसनं (अर्थाद्गौरीसंबन्धि) वस्त्रं येन स चासौ करकिसलयाभ्यां करपल्लवाभ्यां रुद्वं (अर्थात्पार्वत्या) पिहितं नयनयुगलं नेत्रद्वन्द्वं यस्य तादृशश्च तस्येति बहुव्रीहिद्वयानन्तरं कर्मधारयो बोध्यः। चण्डीदासभट्टाचार्यास्तु रतिकेलिह- तनिवसनया (पार्वत्या) करकिसलयाभ्यां रुद्धं नयनयुगलं यस्येति विग्रहमाहुः तत्र निवसनेत्यत्र हस्वश्चिन्त्य इत्युद्दयोतसुधासागरयोः स्पष्टम्। प्राकृते (बालभाषायां ) समासेन निवसनेत्यस्य ह्स्व इति विवरणकाराः । एतन्मते 'रतिकेलिहतनिवसनाकरकिसलयरुदनयनयुगलस्य' इति संस्कृतम्। गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे) ।

अत्र (शुङ्गाराभिव्यक्तौ) जिधातुरूपप्रकृत्यात्मकपदैकदेशस्य प्राधान्यम्। तथा च करद्वयस्य नेत्रद्वयपिधानव्यापृततयालौकिकचुम्बनपिधानवत्तया तृतीयनयनस्योत्कृष्टत्वमुच्यमानं रागातिशय हर्षलज्जादिसंपत्तिमुखेन रसातिशयं पुष्णातीति चन्द्रिकायां स्पष्टम्। तदेवाह अत्रेत्यादि। जय- तीति न तु शोभते इत्यादीति। उक्तमिति शेषः। तृतीयनयनस्योत्कर्षे हेतुमाह समानेऽपी- त्यादि। समाने करकृतनयनपिधानतुल्ये। स्थगनव्यापारे तृतीयनयनपिधानक्रियायाम्। लोको- त्तरेण अलौकिकेन चुम्बनात्मकेन। अस्य तृतीयनयनस्य। तदेव तादृशपिधानवत्ततीयनयनमेव। उत्कृष्टमिति । धन्यजीवितमित्यर्थः । अयं भावः । जयत्यर्थेन उत्कर्षोऽवगम्यते । तृतीयनयन- स्योत्कर्षश्ोत्कृष्टपिधानवत्तया पिधानस्योत्कर्षश्च चुम्बनरूपालौकिककरणकतया चुम्बनेन पिधानं तु रसोत्कर्षादेव भवतीति जिधातुरेव रसोत्कर्षप्रतीतेः प्रयोजक इति । शोभते इत्युक्त तु उत्कर्ष -. कारणचिन्तानुदयेन वाच्यार्थे एव विश्रान्तिः। इह तु सहृदयहृदयमेव प्रमाणमिति विवरणे स्पष्टम् ।

-। तदुक्तं प्रदीपोद्दयोतयोः । "अत्र रतिव्यक्तौ जिधातुरूपप्रकृतेः प्राधान्यम्। यतः स्थगनव्यापा- रसाम्येऽपि अन्यनयनयोः कराम्यां पिधानमस्य तु लोकोत्तरेण कर्मणेति तदेवोत्कृष्टं धन्यजीवितमिति रत्युत्कर्षप्रयोजकमनया व्यज्यते। अत एव जयतीत्युक्तं न तु शोभते इत्यादि। एवमग्रेपि प्रकृ- व्यादे: रसादिव्यञ्जने प्राधान्यं तत्तदर्थव्यञ्जकतयावगन्तव्यम्" इति प्रदीपः । (जिधातुरूपेति। प्रकृत्यन्तरस्य स्त्त्वेऽप्यव्यञ्जकत्वादिति भावः । उत्कर्षे हेतुमाह यत इति । स्थगनम् आच्छादनम् । लोकोत्तरेणेति । पिधानोपकरणत्वेनादृष्टत्वात् क्रीडापिधानोभयकारित्वात् रागातिशयलज्जाहर्ादि- संपद्द्वारा रत्यतिशयपोषकत्वाच्च लोकोत्तरत्वमिति भावः। तदेव तादृशपिधानवत्तृतीयनयनमेव। उत्कर्षप्रयोजकमिति। वस्त्विति शेषः । अनया जिरूपप्रकृत्या । न तु शोभते इति। जयते- रेवोत्कर्षे शक्तेः। स च विशिष्य प्रतियोग्यनुपादानात्सर्वप्रतियोगिक एवेति करपिहितापेक्षया चुम्बन- पिहिते उत्कर्षः प्रतीयते इति भावः) इत्युद्दयोतः ।। काव्य प्रकाश २२

Page 229

१७० काव्यप्रकाशः सटीक:।

प्रेयान् सोडयमपाकृतः सशपरथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मना:। तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृता धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ ९८॥ अत्र पदानीति न तु द्वाराणीति। तिङ्सुपोर्यथा पथि पथि शुक चञ्चूचारुराभाङकुराणां दिशि दिशि पवमानो वीरुधां लासकश्च।

नामरूपप्रकृत्यात्मकपदैकदेशे सभोगशङ्गारस्य व्यक्तिमुदाहरति प्रेयानिति। सशपथमिति मध्य- मणिन्यायेनोभयान्वयि। सोडयं परमप्रेमास्पदत्वेन प्रसिद्धः सायमिति पाठे संध्याकाले प्रेयान् प्रिय- तमः सशपथ शपथेन सहितं यथा स्यात्तथा पादयोः आनतः प्रणतः कान्तया च सशपर्थं यथा स्यात्तथा अपाकृतः निराकृतः सन् उन्मना उत्सुकमनाः वासभवनात् क्रीडागृहात् ( "भोगावासो वासगृहम्" इति हारावली ) (द्वे वा त्रीणि वा द्वित्राणीति बहुव्रीहिः) द्वित्राण्येव नाधिकानि पदानि द्वाराणि यावत् न याति न गच्छति न तु यातः (गतः) तावत् कृतप्रणामकं कृतः प्रणामो यस्मिन्क- र्मणि तद्यथा स्यात्तथा धावित्वेव प्रत्युत विपरीतं धृतः स्थापितः। "धुङ् अवस्थाने" इति तौदादि. कात् धुधातोरन्तर्भावितण्यर्थात्कर्मणि क्तः। पाणिसुंपटे प्रणामार्थ कृताञ्जलौ गलन् रखलन् नीवीबन्ध। नाभितलवसनग्रन्थिर्यस्मिन् कर्मण तद्यथा भवति तथेति धारणक्रियाविशेषणम्। रागौतकव्यात् स्खलतो नीवीबन्धस्य प्रणामाञ्जलिनैवावलम्बनात्तदेवोपायनस्थानीयं कृतमिति भाव इति केचित्। त्वरातिशयद्योतनाय धावनक्रियाविशेषणमित्यन्ये। अत्र यातीत्युक्तं न तु यात इति तेन गमनानुकूल- व्यापारदशायामेव तथाभाव इति ध्वन्यते। धावित्वेवेत्यनेन धावनाविषयेऽपि तथाभावकरणादौतसुक्या- तिशयो ध्वन्यते। पूर्व हि कृतप्रणामकस्यापाकरणम् अधुना प्रणतिपूर्वकं धारणमिति वैपरीत्यं प्रत्युत- पदगम्यम्। लसन्नीवीति पाठे गलनमार्थिकमित्युद्दयोते स्पष्टम्। अर्थान्तरं न्यस्यति अहो प्रेम्ण इति। प्रेम्णः स्नेहस्य गतिः स्वभावः विचित्रा। अहो इत्याश्चये। गतिशब्दस्य स्वभावार्थकत्वं "प्राणिनां गति- रीदशी' इत्यत्र (९४ उदाहरणे) सुप्रसिद्धम्। प्रेयान्कान्तयेत्याभ्यां परस्परं विरहाक्षमत्वं ध्वन्यते। शार्दूलविकरीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) ॥ अत्र संभोगशृङ्गाराभिव्यक्तौ पदेतिनामरूपप्रकृत्यात्मकपदैकदेशस्योत्कण्ठापर्यवसायितया प्राधा- न्यम्। तदेवाह अत्र पदानीति न तु द्वाराणीतीति। उक्तमिति शेषः। द्वारादिपदमपहाय पदपदग्रहणात् द्वारपर्यन्तगमनासहिष्णुतया व्यङ्गययोत्कण्ठातिशयो व्यज्यते तेन च संभोगो व्यज्यते इति भाव इति प्रदीपोद्दयोतयोः स्पष्टम् ॥ प्रत्ययरूपपदैकदेशयोः तिड्सुपोः संभोगशृङ्गारस्य व्यक्तिमुदाहरति पथि पथीति। वसन्तवर्णन मिद्म्। अत्ाद्यवाक्ययोरस्तीत्यध्याहारः। "अस्तिर्भवन्तीपरोSप्रयुज्यमानोऽप्यस्ति" इति न्यायात्। पथि पथि प्रतिमार्गम् अड्कुराणां नूतनप्ररोहाणाम् आभा कान्तिः शुकचञ्चूनामित्र चारुर्मनोहरा अस्ति। एवम् दिशि दिशि प्रतिदिशं वीरुधां लतानां लासको नर्तकः पवमानो वायुश्वास्ति। आभ्यां १ यद्यपि धावित्वैवेति एवकारघटितः पाठो बहुषु पुस्तकेषु दृश्यते तथाप्यु द्दयोतानुरोधात्सुसंगतत्वात्स्वरसिकत्वाच्चा- यमेव (इवशब्दुघटित एव) पाठः परिगृहीतः ॥ २ अयं न्यायो लौकिकन्यायमालारया व्याख्यातः ॥

Page 230

चतुर्थ उल्लास:ः। १७१

नरि नरि किरति द्राक् सायकान् पुष्पधन्वा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ।। ९९।। अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिडा सुपा च तत्रापि क्तप्रत्ययेनाततित्वं द्योत्यते। च वाक्याम्यां नूतनाङ्कुरशोभाशालिवसन्तर्तुसर्वदिक्संचारिमन्दमारुतयोरुदीपकयोः संपत्तिरुक्ता। तत्कार्यमाह नरि नरीति। नृशब्दस्य सप्तम्यन्तं रूपम्। पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । "धनुषश्च" (५।४।१३२) इति सूत्रेणानडादेशः।नरि नरि प्रतिपुरुषं द्राक् झटिति सायकान् पञ्चापि बाणान् किरति क्षिपतीत्यर्थः । (एवं कामोद्दीपिने सति) पुरि पुरि प्रतिनगरं मानिनीनां मानवतीनां मानस्य चर्चा वार्ता प्रसङ्गो वा विनिवृत्ता विशेषेण निवृत्ता गतेत्यर्थः । मानवार्तापि गता किं पुनर्मानो गत इति वक्तव्यमिति भावः। अत्र नरि नरि पुरि पुरीत्येतयोः स्थानाख्यप्रमाणेन एकैकस्यां पुरि एकैकस्मिन्नरि सायकपातेन संपूर्णनगरे त्रासात्सवासां मानभङ्गः तथा पुरुषेषु बाण- पातेन मानधनाभिः स्त्रीभिरपि मानस्त्यक्त इत्यतीयाखण्डाज्ञाशालितं मन्मथस्य द्योत्यते । अत्र किरणनिवृत्योः कार्यकारणयोः (कारणकायैयोः) पौर्वापर्यविपर्ययरूपा कारणकार्ययोरसामानाघिकर- ण्येऽपि कार्योत्पत्तिरूपा वातिशयोक्तिरलंकार इत्युद्दयोते स्पष्टम्। रम्भाक्कुराणामिति पाठे शुकचञ्चूवत् चारूणां रम्भाङ्कराणां कदल्यङ्गुराणां कदलीपुष्पोद्गमानां वा लासक उद्घोधक इत्यम्वयः । मालिनी छन्दः। लक्षणमुक्तं प्राक् (९७ पृष्ठे) । अत्र किरतिनिवृत्तेतितिड्सुपोः प्रत्ययात्मकपदैकदेशयोः क्रमेण प्रत्ययार्थगतसाध्यत्वसिद्धत्वाभि- व्यक्तिद्वारा रत्युद्दीपिनातिशयपर्यवसानात्प्राधान्यमिति चन्द्रिकायां स्पष्टम्। तदेवाह अत्रेत्यादि। किरतीतीति। किरतीति तिडा इत्यग्रिमेणान्वयः । किरणस्येति। क्षेपणस्येत्यर्थः । "कृ विक्षेपणे" इति तौदादिकात् कधातोः "कृपृवृजिमन्दिनिधाञः क्युः" इति सूत्रेणौणादिकक्युप्रत्यये किरणपद- सिद्धिः। उद्दयोतकारास्तु किरति तमांसीति व्युत्पत्त्या किरणशब्दस्य क्युप्रत्ययान्तस्य मयूखे एव शक्यत्वाच्चिन्त्यः किरणपदप्रयोगः विकरणस्येति वक्तुं युक्तमित्याहुः । साध्यमानत्वमिति। उत्पा- द्यमानत्वरूपं साध्यत्वमित्यर्थः । तिङ्प्रत्यययोगे व्यञ्जनया साध्यत्वेनैव धात्वर्थोपस्थितेरिति भावः । निवृत्तेतीति। निवृत्तेति सुपा इत्यग्रिमेणान्वयः । निवर्तनस्येति। निवृत्तेरित्यर्थः । सिद्धत्वमिति । उत्पन्नत्वरूपं सिद्धत्वंमित्यर्थः । सुप्प्रत्यययोगे व्यञ्जनया सिद्धत्वेनैव प्रकृत्यर्थप्रतीतेरिति भावः । साध्यत्वसिद्धत्वे व्यङ्गये एवेत्याह तिडा सुपा चेति। किरतीति तिङ्प्रत्ययेन निवृत्तेति सुप्प्रत्ययेन चेत्यर्थः । द्योत्यते इत्यग्रिमेणान्वयः । अत्रायं भावः । तिऊः क्रिया गतवर्तमानत्वद्योतनद्वारा तद्रतो- त्पाद्यमानत्वरूपसाध्यत्वव्यञ्जकत्वम्। एवं निवृत्तपदं निवृत्तिकर्त्रर्थकम्। तदनुवादकेन सुपा स्वप्रकृत्य- र्थविशेषणनिवृत्तौ सिद्धत्वं व्यज्यते। इतरासमभिव्याहृतसुपो निवृत्तिरित्यादौ तव्यञ्जकत्वस्य दृष्टतवात्। निवृत्तिर्भविष्यति निवृत्तः स्यादित्यादौ तथाप्रतीतिरितीतरासमभिव्याह्ृतेति । तथा चायमत्र प्रकृताभि- प्रायः। माननिवृत्तौ शरकिरणं कारणम् । तस्य सिद्धत्वे वक्तव्ये किरतीति तिङ्प्रत्ययेन साध्यत्वो- क्तिः। माननिवृत्तौ च कार्यभूतानां साध्यत्वे वक्तव्ये सुप्प्रत्ययेन सिद्धत्वोक्तिः । तथा च किरणनिवृत्त्योः कारणकार्यभूतयोः पौर्वापर्यविपर्ययात् कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्क्यलंकारप्रकाशः । १ स्थानं चात्र क्रम: ।।

Page 231

१७२ काव्यप्रकाश: सटीक:।

स च निवृत्तेः शीघ्रत्वबोधनद्वारा वसन्तस्योद्दीपकत्वातिशयाभिव्यक्तेः रसोत्कर्षे पर्यवस्यतीति। तत्रापि सिद्धत्वेऽपि। क्तप्रत्ययेनातीतत्वमिति। अतीतत्वं क्तप्रत्ययेन शक्त्या बोध्यते। तेनोत्पन्नस्वरूपं सिद्धत्वं व्यङ्गयम् । तेन च स्वसमानाधिकरणमानचर्चासमानकालिकत्वरूपमात्यन्तिकत्वापरपर्या- यमतीतत्वं निवृत्तिगतं व्यङ्गयमित्युद्दयोते स्पष्टम् । उक्त च प्रभायाम् "अत्र मानचर्चानिवृत्तेरती- तोत्पत्तिकत्वस्य ध्वस्त इत्यादाविव क्तप्रत्ययवाच्यत्वेऽपि निवृत्तिगतमात्यन्तिकत्वं स्वसमानाधिकरण- मानचर्चासमानकालिकत्वरूपं क्तप्रत्ययव्यङ्गयमिति तात्पर्यम् " इति । सारबोधिनीकारास्तु "क्तप्र- त्ययेनेति। ननु क्तप्रत्ययवाच्यस्यातीतत्वस्य कथं व्यङ्गयत्वमिति। अथ कस्य वा अतीतत्वं बोध्यताम्। न तावन्मानचर्चायाः । तस्याः प्रकृतित्वाभावात्। प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वात्। न च निवृत्तेः । अतीतत्वरूपायास्तस्या अतीतत्वाभावादिति चेत् । उच्यते। प्रकृत्या प्रत्ययेन च मानचर्चाया एवातीतत्वं शक्तिव्यञ्जनाभ्यां बोध्यते। न चैकतरवैयर्थ्यम्। 'संभेदे नान्यतरवैयर्थ्यम्' इति न्यायात् । न च तथाप्यप्रकृत्यर्थान्वितस्वार्थबोधकत्वं क्तप्रत्ययस्य कथमिति वाच्यम् । व्यञ्ज- नशक्तिमहिन्नैवेत्यवेहि। यद्वा । अतीतत्वमिति । अतिशयेनेतत्वं गतत्वमतीतत्वम् । तथा च प्रकृत्या प्रत्यायितस्याप्यतीतत्वस्य पुनः कृत्प्रत्ययेन प्रत्यायनमतिशयावगमाय। शुक्कः शुक्क इत्यत्र द्वितीयशुक्कपदाद्यथा शुककत्वातिशयावगतिः । मानचर्चान्तरासमानकालीनत्वमेव मानचर्चातीतत्वाति- शय इति " इत्याहुः ॥ अत्र सुधासागरकारा विस्तरेणेत्थं सारमाहुः "अत्र किरतीति तिडा किरणस्य साध्यत्वम्। तिडयोगे व्यञ्जनया साध्यतयैव धात्वर्थोपस्थितेः । निवृत्तेति सुप्प्रत्ययेन निवृत्तेः सिद्धत्वम्। सुब्योगे व्यञ्जनया तथैव प्रकृत्यर्थप्रतीतेः। उक्तं च वैयाकरणभूषणे 'साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभा- वस्तु यस्तस्याः स घञादिनिबन्धनः ॥' इति। तथा च क्रियान्तराकाङ्कानुत्थापकतावच्छेदकरूपवत्वं कारकान्वयितावच्छेदकरूपवत्त्वं वा साध्यत्वम् एतदेव चासत्त्वभूतत्वम् । क्रियान्तराकाङ्कोत्थापकताव- च्छेदकरूपवत्त्वं कारकानन्वयितावच्छेदकरूपवत्त्वं वा सिद्धत्वम् एतदेव च सत्त्वभूतत्वम्। अत एव 'अ- सत्त्वभूतो भावश्व तिड्पदैरभिधीयते' इत्यादि वैयाकरणैः (भर्तृहरििः) उक्तम्। तत्र सिद्धत्वेऽपि क्त- प्रत्ययेनाततित्वं व्यज्यते इति किरणनिवृत्योः पौर्वापर्यविपर्ययरूपातिशयोक्त्यलंकारप्रकाशो रसोत्कर्षे पर्यवस्यति। यत्तु लटा साध्यत्वं क्तप्रत्ययेन भूतत्वमिति व्याख्यानम् तदयुक्तम् तिङ्सुब्भ्यां साध्वत्व- सिद्धत्वे अभिधाय तत्रापि क्तप्रत्ययेनातीतत्वमित्यनेन वृत्तिव्याख्यानेन विरोधात् । किरतीत्यत्र कर्तरि प्रत्ययविधानात्कर्ता फलव्यापारयोर्धातुलभ्यत्वाद्यापाराश्रयो वा तिड्ाच्यः । साध्यत्वं तु व्यङ्गयमेव। एवं निवृत्तेत्यत्रापि प्रातिपदिकार्थादि सुपो वाच्यम् । सिद्धत्वं तु व्यङ्गयमेव। तथा क्तप्रत्ययस्यापि भावादिरर्थः । अतीतत्वं तु व्यङ्गयमेवेति सुधीभिर्न विस्मर्तव्यम् । अत्र तार्किकाः प्रयोगसमवायिन- स्तिबादयो न वाचकाः। तेषां बहुत्वादनन्तशक्तिकल्पनापत्तेः। शक्यतावच्छेदकत्वकल्पनाप्यनेकेषु स्यादिति गौरवं च। किं तु तैः स्मृता आदेशिनो लकारादयो वाचकाः। लत्वस्य जातिरूपतया तस्या एव शक्ततावच्छेदकत्वौचित्यात्। न चैवं 'भूल' इत्यतोऽपि बोधः स्यादिति वाच्यम्। तादृशबोधे पचतीत्यादिसमभिव्याहारस्यापि कारणत्वात्। अन्यथा 'भूतिप्' इत्यतोऽपि बोधापत्तेः । न चैवमपि तानजानतां बोधो न स्यादिति वाच्यम्। तेषां तिड्क्ष्वेव शक्तिभ्रमाद्वोधात्। अपभ्रंशाद्वोघस्थले तथाकल्पनात्। अथैवं शत्रादिस्थले कर्तृकर्मणोर्वाच्यत्वं न स्याद् । स्याच्च कृतिमात्रं तथा। वाच- कस्य स्थानिनो लकारस्य तिडादाविव तुल्यत्वादिति चेन्न । तत्र लकारस्य कृतिमात्रमर्थः । कर्ता

Page 232

चतुर्थ उल्लास:। १७३

यथा वा लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितः निराहारा: सख्यः सततरुदितोच्छननयनाः। ஜ நிம்

परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमधुना ॥ १०० ॥

च शानजर्थः । 'कर्तरि कृत्' (३।४।६७) इति पाणिन्यनुशासनात्। तथा च नोक्तदोषः । नामार्थयोरभेदानुरोधादस्तु वा तत्र कर्तैवार्थः । तस्मान्न श्रयमाणानां वाचकतेत्याहुः । तत्र वदामः । स्मृतानां वाचकत्वेऽव्यवस्था । तथाहि । राम इत्यत्र विसर्गेण किं सिः स्मर्तव्यः किं वा सुः स्मर्तव्यः आहोस्विद्रः स्मर्तव्यः । अथ कलापििः सिः पाणिनीयैः सुः अपरैश्व रुः स्मर्तव्य इति वक्तव्यम्। तर्हि येनेदानीं सर्वमधीतम् तस्य विनिगमनाविरहेण प्रतिबन्धः स्यादिति संप्रदायविदः । वस्तुतस्तु तेषां लिपिवदननुगमेऽपि क्षत्यभावः । तस्माल्लकारस्य वाचकत्वे लकारमविदुषो बोधो न स्यात्। वाचका- ज्ञानात्। न च तिङ्क्ष्वेव शक्तिभ्रमात्ततो बोधः। तस्य भ्रमत्वे मानाभावात्। बहूनामानुपूर्व्याः शक्त- तावच्छेदकत्वादिकल्पनापत्तिर्मानमिति चेन्न। तवापि पूर्वोक्तक्रमेणादेशिनो नानात्वेन गौरवस्य तुल्य- त्वात्। पदतदर्थघटितशक्तेर्भ्रमस्य ब्रह्मणाप्यापादयितुमशक्यत्वाच्चेत्यनवस्था स्यात् । कि च व्यव- हारस्तावच्छक्तिग्राहकशिरोमणत्वेन स्वैर्मन्यते। स च श्रयमाणतिडादिष्वेवेति ते एव शक्ताः । तथा च गौरवं प्रामाणिकमिति वादिनां वाचकत्वे न दोषलेशावकाश इति दिक्। तदेतत्सर्वमभिप्रेत्य श्रीवाग्देवतावतारः ( मम्मटः ) आह किरतीत्यादीति "॥

अथ प्रत्ययरूपपदैकदेशेषु सुप्तिङ्विशेषेषु विप्रलम्भशृङ्गारस्य व्यक्तिमुदाहरति लिखन्निति। अमरुशतके बहुदिनव्यापिमानवतीं प्रति सख्या उक्तिरियम्। हे कठिने निर्दये तव प्राणानां दयितः प्रियः । तेन दयितदुःखेन त्वत्प्राणा अपि दुःखिता भविष्यन्तीति ध्वन्यते। यद्वा। तव प्राणा इव सोडस्माकं दयित इत्यर्थः। तथा च त्वत्प्राणा इव सोऽप्यस्माक रक्षणीय इति भावः। ईदृशोऽपि अवनतः नम्र: भूमिं न तु भूमौ। तेनाकाङ्कितस्य कर्मणः अनुद्देश्यत्वं ध्वन्यते। लिखन् शून्यहृदयतया विलिखन् न तु लिखतीति। तेन लिखनस्याबुद्धिपूर्वकत्वरूपमप्राधान्यं ध्वन्यते। बहिः बाह्यदेशे न तु गृह- मध्ये। तेन नायकस्यात्युद्वेगो ध्वन्यते। आस्ते उपविष्ेऽस्ति न तु आसीत्। तेनैवमवस्थानस्य प्रसादपर्यन्तता ध्वन्यते। तथा सख्यः सर्वाः वयस्याः निर्गतः आहारो यासां तथाभूताः सत्यः सततं निरन्तरं यत् रुदितं तेनोच्छूने जातशोफे नयने चक्षुषी यासां तथाभूताः । सन्तीति शेषः । तथा पञ्जरस्थैः शुकैः कीरैः हसितं हसनं पठितं पठनम् अन्यन्च सर्व शरीरधारणोपयोगिभोजनादिक- मपि परित्यक्तम् उज्झितम्। अज्ञानामपीदृश्यवस्था कि पुनरस्माकमिति भावः । पञ्जरेत्यनेनान्यत्र गम- नासामर्थ्य व्यज्यते। शुकेत्येकवचनं तुन कृतम्। एकस्य शिक्षादिनापि तथा ज्ञानसंभवादिति भावः । तव चेयम् उत्तरोत्तरवर्धमानासह्यपीडाजनिका अवस्था दशा। जातेति शेषः । अतः अधुना वसन्त- चन्द्रिकादिभिरुद्दामे मन्मथविलसिते सतात्यर्थः । मानं विसृज विशेषेण त्यजेत्यर्थः । अत्र शुकेष्त्रपि हास्यवर्णनं न विरुद्धम्।'विहायसा तेन विहस्य भूयः' इति नैषधे (३ सर्गे ९९ श्लोके) पक्षिणामपि हास्यवर्णनादित्याहुः । शिखरिणी छन्दः। लक्षणमुक्त प्राक् (७५ पृष्ठे)।।

Page 233

१७४ काव्यप्रकाश: सटीक:। अत्र लिखन्निति न तु लिखतीति तथा आस्ते इति न तु आसित इति अपि तु प्रसादपर्यन्तमास्ते इति भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किंचिल्लिख- तीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम्। संबधस्य यथा गामारुहम्मि गामे वसामि णअरद्विइं ण जाणामि। णाअरिआणं पइणो हरेमि जा होमि सा होमि॥१०१॥ अत्र लिखन्निति शतृप्रत्ययेन यावदुपवेशनकालिकत्वं लिखनस्य व्यज्यते। एवमास्ते इति वर्तमान- त्वार्थकात्मनेपदरूपतडा उपवेशनस्य प्रसादरूपफलपर्यन्तत्वम्। आसित इत्युक्तौ तदलाभात्। भूमि मिति द्वितीयया तस्या एव लिखनकर्मत्वावगमाद्वुद्विपूर्वकलिखनाभावव्यक्तिरिति चन्द्रिकायां स्पष्टम् । तदेवाह अत्रेत्यादि। लिखन्नितीति। उक्तमिति शेषः । लिखन्निति शतृप्रत्ययेन लिखनक्रियाया अप्राधान्यावगमात् अतात्पर्यविषयत्वेनाबुद्धिपूर्वकत्वं ध्वनितमिति भावः। आस्ते इतीति। उक्तममिति शेतः । आस्ते इति प्रारब्धापरिसमात्तिपर्यन्तताबोधकवर्तमानतिडप्रत्ययेनावस्थानस्य प्रसादपर्यन्तता ध्वनितेति भावः । तदेवाह अपि त्वित्यादि। पर्यन्तमास्ते इतीति। व्यङ्गयमित्यग्रिमेणान्वयः । भूमिमिति। उक्तमिति शेषः। भूमिमिति द्वितीयया विभक्त्याधिकरणस्य कर्मत्वप्रतीतेः लेखनीयमपरं कर्मान्तरं नास्तीति प्रतीयते। व्याख्यातं चान्यैरपि भूमावित्युक्ते आकाङ्कितस्य कर्मण उद्देश्यत्वं प्रतीयते न चात्र तथेति भाव इति । तदेवाह न हि बुद्धीति। व्यङ्ग्यमिति। तेन च व्यङ्गयेन नायकस्य मोहातिशयो व्यज्यते । तेन च विप्रलम्भोत्कर्षो व्यङ्गय इति भावः । अत्र तिड्सुपोः प्रस्तावे लिखन्निति शतृप्रत्ययवैशिष्ट्यप्रदर्शनं प्रासङ्गिकमिति न दोष इति विवरणकाराः । यद्यपि शतृप्रत्ययः सुपः प्रकृतिरेव तथा तिडादेशिलडिकृतितया तिडत्वेनैवोदाहत इति प्रदीपकाराः ॥ तदेतत्सर्वमुक्तं प्रदीपोद्दयोतयोः "अत्र लिखन्नित्युक्तं न तु लिखतीति। तेन शत्रा लिखनस्याप्राधा- न्यमबुद्धिपूर्वकत्वरूपम्। आस्ते इत्युक्तम् नत्वासीदिति। तेन तथावस्थानस्य प्रसादपर्यन्तता तिङि््भक्त्या व्यज्यते। भूमिमित्युक्तम् न तु भूमाविति। तेन बुद्धिपूर्वकं भूमौ न किंचिल्लिख्यते इति सुब्धिभक्त्या व्यज्यते" इति प्रदीपः । (शत्रेति। आख्यातान्तक्रियाविशेषणेन शत्रा इतरक्रियेष्टसाधनत्वज्ञाना- धीनकृतिसाध्यत्वपर्यवसित्नान्तरीयककृतिसाध्यत्वरूपमप्राधान्यं स्वप्रकृत्यर्थगतं बोध्यते। अत एव गच्छन्नित्युक्ते किं करोतीति प्रधानक्रियाप्रश्नः संगच्छते इति बोध्यम्। वर्तमानत्वस्य प्रत्ययवाच्यत्वम- तेऽपि व्यङ्गयमाह नत्वासीदिति। नत्वासिष्टेति पाठो युक्तः । एवं चात्र स्थित्यतीतत्वव्यवच्छेदो व्यङ्गय इति भावः । तत्राप्यसमाश्वासादाह तेनेति ) इत्युद्दयोतः ।। षष्ठी रूपप्रत्ययात्मकपदैकदेशस्य शृङ्गारव्यञ्जकत्वमुदाहरति गामेति। "ग्रामरुहास्मि ग्रामे वसामि नगरस्थिति न जानामि। नागरिकाणां पतीन् हरामि या भवामि सा भवामि।।" इति संस्कृतम्। 'गामारि- अम्मि' इति पाठे त्रामीणास्मीति संस्कृतम्। कलडे का त्वमस्मदग्रे इत्यधिक्षिपन्ती नागरिका प्रति ग्रामीणाया उक्तिरियम् । "वृषभारूढा नागरीभिर्ग्रामीणेत्युपहसिता काचित्कुलटा ताः १ 'संचन्धस्य यथा' इत्ययं ग्रन्थो यद्यपि कतिषुचित्पुस्तकेषु दृश्यते तथाप्ययं प्रक्षिप्त एवेति निश्रेयम्। अत एवो- दाहरणस्थायाः 'नागरिकाणाम्' इति पष्ठयाः अनादरार्थकत्वेन व्याख्यानं बहुमिष्टीकाकारैः रुतं संगच्छते। अत एव च काव्यप्रदीपे कतिषुचित्काव्यप्रकाशीयपुस्तकेषु च नोपलभ्यते ॥ २ नान्तरीयकपदं प्राकू (५० पृष्ठे) व्याख्यातम् ॥

Page 234

चतुर्थ उल्लासः। १७५

अत्र नागरिकाणामिति पठ्ठयाः। 4रमणीयः क्षत्रियकुमार आसीत्' इति कालस्य। प्रत्याह " इति सुधासागरकाराः। ग्रामरुहा ग्रामजातास्मि ग्रामे वसामि अतो नगरस्थिति नगर- मर्यादां (वैदग्धीं) न जानामि उत्पत्तिमारभ्याद्ययावत् ग्रामे एवाविरतं वासात् नगरस्थितिगन्धोऽपि न ज्ञायते इति भावः । नगरे भवाः नागरिकास्तासां नागरिकाणां पतीन् हरामि वशीकरोमीत्यर्थः । नागरिकाणामिति शेषे (संबन्धे) षष्ठी। "षष्ठी शेषे" (२। ३। ५०) इति पाणिनिसूत्राद्ं । तत्संबन्धेन तत्पतिषु उत्कर्षो व्यङ्गयः । यद्वा । नागरिकाणामित्यनादरे षष्ठी । "षष्ठी चानादरे" (२।३।३८ ) इति पाणिनिसूत्रोत् । ताः पश्यन्तीः अनादृत्य तासां पतीन् हरामीत्यर्थः । केचित्तु तद्र्तृभिः ताः अनादरय्य तत्पतीन् हरामत्यर्थः । पतिकर्तृके अनादारे अस्ता प्रयोजककर्तृत्व- त्वमित्याहुः । गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे) । अत्र नागरिकानित्यपहाय नागरिकाणां पतीनित्युक्तम्। तेन च संबन्धषष्ठया तत्संबन्धेन पतिषु चातुर्यातिशयो द्योत्यते । तेन च तस्मादपि स्वस्यातिचातुर्य व्यङ्गयम्। अनादरषष्ठीपक्षे तु 'ताः पश्यन्तीरनादृत्य' इति व्यङ्गयम्। पर्यन्ते सर्वव्यङ्गयो रस इति बोध्यम्। तदेवाह अत्रेत्यादि। षष्ठचा इति । व्यञ्जकत्वमिति शेषः । व्याख्यातमिदं प्रदीपोद्दयोतयोः । नागरिकाणामिति षष्ठया नगरभवत्वेनातिचतुराणां पतीनित्यर्थबोधनद्वारा पतिपदार्थे तादृशकलाभिज्ञतादिरूप उत्कर्ष: प्रकाश्यवे। तेन च स्वोत्कर्षो व्यङ्गयः । यद्वा । ताः पश्यन्तीरनादृत्येति व्यङ्गयम्। पर्यन्ते सर्व- व्यङ्गयो रस इति बोध्यमिति॥ अत्रैवमाहुः सुधासागरकाराः "अत्रेत्यादि। नागरिकाणामिति षष्ठी पतिपदार्थे तादृशकलाभिज्ञता- दिरूपमुत्कर्ष प्रकाशयतीत्यर्थः । एवं च यत्तावद्रविभट्टाचार्यप्रभृतिभिर्व्याख्यातम्।'नन्वनादरः षष्ठीवाच्य एव तत्कथं व्यङ्गय इति चेन्न। शैषिकषष्ठया एव च वक्त्रादिवैशिष्टयसह कारेणानादरव्यञ्ज- कत्वात् ' इति यच्च भास्करभट्टाचार्यप्रमुखैर्व्याख्यातम् 'षष्ठया अनादरो व्यङ्गय इत्यर्थः । ननु 'षष्ठी चानादरे' इत्यनुशासनात् कथमनादरस्य व्यङ्गयत्वमिति चेत्। उच्यते। ता पश्यन्तीरनादृत्येति व्यज्यते इति' इति यच्च चण्डीदासभट्टाचार्यादिभिर्व्याख्यातम् 'नागरिकानित्यपहाय तत्पती नित्युक्तौ तेष्वनादरः प्रतीयत एव तत्र व्यञ्जनैवेत्यर्थः ' इति यच्च श्रीवत्सलाञ्छनभट्टाचार्या- दिभिर्व्याख्यातम् 'अनादरो व्यङ्गयो वाच्यो वा स्यादित्यत्र नाग्रहः कर्तव्यः । किं तु षष्ठयानादरं प्रत्याय्य रसस्यैव व्यङ्गयत्वम्। अत एव ग्रम्थकृता पदैकदेशेत्यादिना (१६८ पृष्ठे) रसादेरेव व्यङ्गयत्वं प्रतिज्ञातम्' इति तत्सर्व सहृदयैर्नादरणीयम् " इति॥ प्रत्ययरूपलडात्मकपदैकदेशस्य रौद्ररसव्यञ्जकत्वमुदाहरति रमणीय इति। वीरचरिते नाटके द्वितीयेडक्के परशुरामवाक्यमिदम् । कालस्येति। कालार्थकलकारस्येत्यर्थः। अन्यथार्थव्यञ्जकत्वे पदैकदेशव्यञ्जकत्वालाभापत्तेरिति भावः । रौद्ररसव्यञ्जकत्वमिति शेषः । अत्रासीदित्यतीतकालबोध- १ कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसंचन्धः शेषः । तत्र षष्ठी स्यादिति सूत्रार्थः। यथा राज्ञः पुरुष इति ॥ २ अत्र सूत्रे 'यस्य च भावेन भावलक्षणम्' इत्यनुवर्तते। अनादरे गम्यमाने सति यस्य कियया क्रि्यान्तरं लक्ष्यते तस्मात् षष्ठीसप्तम्यौ स्त इति सूत्रार्थः। लक्ष्यलक्षणभावः षष्ठीसप्तम्योरर्थः। यथा रुद्ति रुदतो वा प्राबार्जात्। रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ।

Page 235

१७६ काव्यप्रकाश: सटीक: । एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः। वचनस्य यथा ताणँ गुणग्गहणाणं ताणुकंठाणं तस्स पेम्मस्स । ताणँ भणिआणं सुंदर एरिसिअँ जाअमवसाणम्॥ १०२॥ अत्र गुणग्रहणादानां बहुत्वम् प्रेम्णश्ैकत्वं द्योत्यते। पुरुषव्यत्ययस्य यथा कलडा मत्क्रोधकवलितस्यास्य क्षत्रियकुमारस्य रमणीयत्वमतीतं न तु वर्तमानं भविष्यद्वेति व्यज्यते। तेन च क्षणादेनं संहरामीति प्रतीत्या क्रोधातिशयो व्यङ्गय इति भावः । नन्वेवमतीतार्थकलकारस्य सर्वत्र तादृशार्थव्यञ्जकत्वं कुतो नेत्यत आह एषा हीति। तथा चात्रैव वक्तृप्रकरणवैलक्षण्यात्ता- दृशोऽर्थो भासतेऽन्यत्न तदभावान्नेति भाव: । तदेतत्सर्वमुक्तं सुधासागरे "कालस्येति। अतीतकाले विहितस्य लड्प्रत्ययस्येति भावः। अन्यथा पदैकदेशव्यञ्जकप्रस्तावे कालव्यञ्जकत्वोपदर्शनमसंगतं स्यात् । अत एव प्रदीपकारैरुक्तम् 'रमणीयः क्षत्रियकुमारः आसीदित्यत्र लडातीतकालविहितेनाचिरं तदीयहिंसाया सुकरत्वं व्यञ्जयता प्राधान्येन धूर्जटिधनुर्भङ्गजन्मा भार्गवक्रोधः प्रकृष्यते' इति। नन्वेवं लड इत्येव कि नोक्तमिति चेन्न । प्रत्ययान्तरस्याप्यतीतकाले विधानात् । तर्हि प्रत्ययस्येत्येवोच्यतामिति चेन्न । तथापि प्रकृतप्रत्य- यस्यैव व्यञ्जकत्वं संभाव्येत। कालस्येत्युक्तौ तु सर्वस्याप्यतीतकालविहितप्रत्ययस्यैतादृशविषये व्यञ्जकत्वं समायातीति वाग्देवतावतारोक्तं (मम्मटोक्तं) रमणीयमेवेति सुधीभिर्ध्येयम्। अत्र रौद्रो रस" इति॥ प्रत्ययरूपव चनविशेषात्मकपदैकदेशस्य विप्रलम्भ शृङ्गारव्यञ्जकत्वमुदाहरति । ताणमिति। उक्तं चान्यैरपि वचनविशेषप्राधान्येन विप्रलम्भव्यञ्जकत्वमुदाहरतीति।" तेषां गुणग्रहणानां तासामुत्क- छठानां तस्य प्रेम्णः । तासां भणितीां सुन्दर ईदृशं जातमवसानम् ।I" इति संस्कृतम्। 'ईरिसिअं' इति पाठे ईदृशमित्येवार्थः। एआरिसमिति पाठे एतादृशमित्यर्थ इति तु चिन्त्यम्। छन्दोभङ्गात्। पूर्व बहुतरगुणश्रवणादिभिरनुरागातिशयं प्रकटयति अनन्तरमन्यत्रासक्ते नायके कस्याश्चिदुक्तिरियम् । तच्छब्दाः विशिष्यानिर्वचनीयार्थकाः । हे सुन्दर तेषां गुणग्रहणानां गुणवर्णनानां तासामुत्कण्ठानां मम सांनिध्ये जातानां तासां भणितीनां त्वमेव जीवितसर्वस्वमित्यादीनां वचनानां तस्य प्रेम्ण- स्तादृशत्वत्कर्तृकगुणग्रहणादिजन्यस्य मद्ृत्तेस्त्वद्विषयस्य प्रेम्ण इत्यर्थः । ईदृशम् एवंविधापराधकलुषि- तम् अवसानं परिपाकः जातमित्यर्थः। जघनविपुला छन्दः। लक्षणमुक्तं प्राक् (१३३ पृष्ठे) । बहुत्वं बद्डुविधत्वम् । एकत्वम् एकविधत्वम्। द्योत्यते इति। बहुवचनैकव चनाभ्यामिति शेषः । तथा च गुणग्रहणादीनां प्रेमहेतूनां बहुविधत्वेऽपि ( नानाप्रकारकत्वेऽपि) कार्य प्रेमैकजातीयमेव् न कदाचिदन्यथाभावं प्राप्तमिति बहुवचनैकवचनाभ्यां व्यज्यते । तेन च विप्रलम्भोत्कर्षो व्यङ्गय इति प्रदीपादौ स्पष्टम्। एकजातीयमेवेति। सततमविच्छेदेन प्रकर्षनिकर्षराहित्यात्परमोत्कृष्टमित्यर्थ इत्युद्दयोते स्पष्टम् ।। १ यद्यप्यत्र प्रदीपे 'लुडन' इति पाठोडस्ति तथापि "लङातीिकालोति पाठः लुड्ेत्ययुक्त: पाठः" इत्युद्दयोते स्पष्टत्वात्तत्सूचितपाठ एवात्राङ्गीकतः ॥२ सुकरत्वं व्यञ्जयतेति। स्वक्रोधकवलितस्य स्थितौ वर्तमानकालभविष्यत्काल- संबन्धव्यवच्छेदव्यअ्जनद्वारेति भाव इत्युद्दयोते स्पष्टम् ॥ ३ तेषां भणितानामिति पाठः क्वचिदस्ति ॥

Page 236

चतुर्थ उल्लास:। १७७

रे रे चश्चललोचनाश्चिितरुचे चेतः प्रमुच्य स्थिर. प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यसि। किं मन्ये विहरिष्यसे बत हत मुश्चान्तराशामिमाम् एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ॥ १०३॥ पुरुषव्यत्ययस्य शान्तरसव्यञ्जकत्वमुदाहरति रे रे इति। कश्चिद्विरक्तः सुन्दरीदर्शनेन क्षुभितं स्वस्वान्तमुपहसतीति सुधासागरकाराः । शान्तस्य पुरुषस्य स्वचित्तं प्रति परिहासोक्तिरियमित्यन्ये। रे रे इति साक्षेपसंबोधनम् । चञ्चललोचनायां कामिन्याम् अश्चिता गमिता रुचिरभिलाषो येन तथा- भूत। यद्वा। चञ्चलाभ्यां लोचनाभ्याम् अश्चिता प्रकटीकृता (अर्थान्नायिकया ) रुचिरभिलाषो यत्र तथाभूत। तेन चञ्चलप्रकटीकृताभिलाषस्यास्थिरत्वं सूचितम्। अत एव तत्प्रतियोगितया स्थिरप्रे- माणमिति वक्ष्यति। एवंविध रे रे चेतः त्वं स्थिरं प्रेम यत्र तं महिमानं विषयानासक्त्यादिजनित- मुत्कर्ष प्रमुच्य प्रकर्षेण त्यक्त्वा एणनयनाम् एणसदृशनयनां (हरिणाक्षीम्) आलोक्य किं कस्मात् नृत्यसि नर्तनं करोषि। नृत्यप्रेक्षितृजनानवलोक्य नर्तक इव कि हर्षादुल्लोलं भवसीत्यर्थः । अत्रै- णीमिति विहाय एणेति पुँल्लिड्वेन यथा त्वयि नयनव्यापारादि करोति एवमन्यत्रापि पुरुषे यथा वा त्वं नयनयोर्व्यापारमस्यां करोषि एवमन्येडपि पुर्मास इति नास्यां साधारण्यामनुराग उचित इति सूच- यति। नर्तने हेतुमाशङ्कय निराकर्तुमाह कि मन्ये इति। त्वं मन्ये अहं विहरिष्यसे इत्यन्वयः । अहं विहरिष्ये इति किं त्वं मन्यसे इत्यर्थः । अत्र "प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च " (१।४।१०६ ) इति पाणिनिसूत्रेण मध्यमोत्तमयोर्व्यत्यासः । बतेति खेदे। हतां निन्दिताम् यद्वा.अनर्थदायिनीम् इमाम् अन्तराशाम् अन्तर्विद्यमानामाशाम् विहरणविषयिणीमित्यर्थः । मुञ्च त्यज। यतः खलु निश्चयेन एषा स्त्री आशा वा संसारः प्रपञ्च एव वारांनिधिः समुद्रः तस्मिन् मज्जनायेति शेष: कण्ठतटे (रिरंसया स्थितस्य सरागस्य पुरुषस्य) गलप्रदेशे शिला दृषत् कृता। विधात्रेति शेषः । एवं परिणामविरसत्वाद्धर्षो न युक्त इति भावः । 'संसारवारांनिधौ' इत्यत्र "तत्पुरुषे कृति बहुलम् " (६ । ३ । १४ ) इति बाहुलकात्वष्ठया अलुकू । "मारिते कुत्सिते हतम् " इति कोशः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) ॥ अत्र 'त्वं' इति युष्मद्युपपदे सति 'मन्यसे' इति मध्यमपुरुषस्य योग्यत्वेऽपि 'मन्ये' इति उत्तम- पुरुषः । 'अहम्' इत्यस्मद्युपपदे सति 'विहरिष्ये' इत्युत्तमपुरुषस्य योग्यत्वेऽपि 'विहरिष्यसे' इति मध्यमपुरुषः । एवं मध्यमोत्तमयोर्विपर्ययः प्रहासमभिव्यनक्ति । तेन च प्रहासेन शान्तरसप्रकर्षः । १ नतु 'अश्वितरुचे' इत्यस्य कथं साधुत्वं सोर्लुका लुप्ततया "न लुप्तताङ्गस्य " इति प्रत्ययलक्षणनिषेधेन "हस्वस्य गुणः" इति संबुद्धिनिमित्तगुणस्याप्राप्तेः । अतः 'अश्विवतरुचि' इत्येव भाव्यमिति चेन्न। "न लुमता०', इति निषेधस्यानित्यत्वात्प्रत्ययलक्षणेन संबुद्धिनिमित्तकगुणस्य प्रवृत्तेः । "न लुमता " इति निषेधस्यानित्यत्वे "इकोऽचि० " इतिसूत्रस्थजुग्रहणं ज्ञापकम् । तथाहि। अज्ग्रहणं हि संबुद्धौ तुमं वारयितुं कृतम् । भ्याम:दिषु तु सत्यपि नुमि तल्लोपसंभवात्। संबुद्धिश्र्य लुका लुप्तेति प्रत्ययलक्षणेन नुमः प्राप्तिर्वाच्या। प्रत्ययलक्षणं च "न लुमता इति निषेधस्यानित्यतां बिना दुर्लभमिति । अत एव "इकोऽचि०"इति सूत्रस्थम् "इह किंचित्त्रपो" इति "एड्हरवात्० " इति सूत्रस्थं "हे त्रपो" इति च महाभाष्यं संगच्छते। एतदेवाभिप्रेत्य वैयाकरणसिद्धान्तकौमुद्ां 'हे वारे हे वारि' इत्युदाहृतम्॥ २ मन्यधातुरुपपद यस्य धातोस्तस्मिन् प्रकृतिभते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यते- स्तूत्तम: स्यानस चैकार्थवाचकः स्यात् युष्मदयुपपदे सतीति सूत्रार्थः ॥ काव्यप्रकाश २३

Page 237

१७८ काव्यप्रकाशः सटीकः।

अत्र प्रहास: । पूर्वनिपातस्य यथा येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्य किमुवीश्वरैः। ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमा- स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ॥ १०४॥ अत्र पराक्रमस्य प्राधान्यमवगम्यते।

तदेवाह अत्र प्रहास इति। पुरुषव्यत्ययेन व्यज्यते इति शेषः। व्याख्यातमिदं प्रदीपोद्दयोतादिषु। 'त्वं मन्ये अहं विहरिष्यसे' इति "ग्रहासे च०"इति सूत्रेण युष्मदस्मदोर्योंगे उत्तममध्यमयोः पुरुष- योर्विपर्ययेण विधानात्प्रहासो व्यज्यते। तेन च शान्तरसः प्रकृष्यते। अत एव प्राक् (१६८ पृष्ठे) पदैकदेशादीनामलक्ष्यक्रमव्यञ्जकत्वमेवोक्तं संगच्छते । एवं सर्वत्र बोध्यम् । अत्र प्रहासे च नोत्तम- पुरुषस्य शक्तिः । प्रहासे द्योत्ये इति व्याख्यानात् । तस्माद्यञ्जकानुशासनमेव तत्। पुरुषव्यत्ययः पदै- कदेशधर्मत्वात्पदैकदेश एव गण्यते इति। उक्तं च सुधासागरे। "ननु 'प्रहासे च०' इति सूत्रेण पुरुषव्यत्ययविधानात्प्रइासो वाच्य एवेति चेत् । उच्यते। अभिधा हि पदशक्तिरिति निर्विवादम्। तत्र प्रहासे तावन्नोत्तमपुरुषस्याभिधा। ततस्तदप्रतीतेः। न वोत्तमपुरुषमात्रं पदम्। न वा नैयायिकरत्या प्रहासो वाक्यार्थ इति शङ्कयम्। पदार्थसंसर्गरूपताविरहात्। कि तु प्रहासे विवक्षितेऽनुशिष्टेन पुरुष- व्यव्ययेन स प्रतीयते इति दिक्। पदैकदेशत्वं च तद्धर्मत्वात्" इति ॥ पूर्वनिपातस्य भावव्यञ्जकत्वमुदाहरति। येवामिति। बलनयोभयविशिष्टा एव राजानः समर्था इत्यभिप्रेत्य कश्चित्कविः कंचिद्राजानमाह। येषां राज्ञां दोर्बलमेव बाहुबलमेव। अस्तीति शेषः । एवका- रेण नीतिव्यवच्छेदः । ते राजानः दुर्बलतया निर्बलत्वेन संमताः । नीतिज्ञानां वृद्धानामिति शेषः । प्रमादादिसंभवादिति भावः । सुधासागरकारास्तु ते राजानः दुर्बलतया दुर्बलत्वेन हेतुना असंमता अप्रयोजका इति अकारं प्रश्लिष्य व्याचक्षिरे। ननु कि तर्हि केवलनीतिविद एव समीचीनाः। नेत्याह तैरिति । तैरपि उर्वीश्वरैः राजभिः किं कार्य न किमपत्यिर्थः । तैः कैः । प्रायः बहुधा केवलं नीतिः राजधर्मादिशास्त्रं रीतिः तत्प्रतिपादितो वर्तनप्रकारः तन्मात्नशरणैः । बलवतान्येन तत्कालं झटित्येव घर्षणादिति भावः । के तर्हि समीचीनास्तत्राह ये इति। हे क्ष्माशक्र पृथ्वीन्द्र ये पुनः ये तु परा- कमनययोः पराक्रमनीत्योः स्वीकारेण कान्तः सुन्दरः क्मः पूर्व पराक्रमः ततस्तदाच्छिन् एव नय इत्याचारक्रमो येषां ते । तर्हि तानेवाश्रयस्वेत्यत्राह ते स्युरिति। ते तथाविधास्ते त्रिजगति भुवन- त्रयेऽपि न स्युरेव। यदि वा स्युः द्वित्राः द्वौ वा त्रयो वा। तथापि परं केवलं भवादृशाः भवत्तुल्याः पवित्राः प्रशस्ताः नैवेत्यर्थः । भूलोके तु द्वितायोऽसंभावित एवेति भावः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र पूर्वनिपातस्यालक्ष्यक्रमव्यञ्जकत्वं दर्शयति अत्रेत्यादि। प्राधान्यम् अभ्यर्हितत्वरूपं प्रधान- स्वम्। अवगम्यते द्योत्यते। पूर्वनिपातेनेति शेषः। अयं भावः। पराक्रमनयेत्यत्र नयपदस्याल्पाच्तरत्वात् "अल्पाच्तरम्" (२।२। ३४) इति पाणिनिसूत्रेण पूर्वनिपाते प्राप्ते पराक्रमपदस्य "अभ्पर्हित च"

Page 238

चतुर्थ उल्लासः। १७९

विभक्तिविशेषस्य यथा

प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्। दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥ १०५ ॥ अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति।

इति वार्तिकेन "अल्पाच्तरम्" इति सूत्रस्थेन पूर्वनिपातः कृतः। स च पूर्वनिपातः पराक्रमस्य प्राधान्यरूपमभ्यर्हितत्वं द्योतयति। तथा च परक्रमप्राधान्येन नयस्वीकारो राजोत्कर्षद्वारा राजविष- यकरति पुष्णातीति भावव्यञ्जकत्वमिति। तदेतत्सर्वमुक्त प्रदीपोद्दयोतयोः। "अत्र चाटुके पराक्रम- नयेत्यत्र नयस्याल्पाच्तरत्वेन पूर्वनिपातमविधाय पराक्रमस्य तथाभावोऽम्यर्हितत्वं द्योतयति। पूर्वनिपातः पदैकदेशधर्मत्वात्पदैकदेश एव गण्यते" इति प्रदीपः । (चाटुके राजस्तुतौ । अभ्यर्हितत्वं प्राधान्य- रूपम्। वस्तुतोऽभ्यर्हितस्य हि पूर्वनिपातो विधीयते। न तु तत्र तद्विधानमिति भावः) इत्युद्दयोतः ॥ उपपदविरभक्तिशेषस्य भावव्यञ्जकत्वमुदाहरति प्रधनेति । वीरधनुर्ध्वनीत्यपि पाठः । वीरेति संबोधनमिति केचित्। हे नरप नृप धीराणां वीराणां वा यानि धनूंषि तेषां ध्वनि टङ्काररूपं बिभर्तीति तथाभूते प्रधनाध्वनि प्रधनं युद्धमेवाध्वा मार्गः (प्रवेशनिःसरणहेतुत्वात्) तस्मिन् तव भवतः विधुरैः शत्रुभि: दिवसमभिव्याप्य अयोधि युद्धमकारि। निरन्तरं प्रह्ृतमित्यर्थः । दिवसमित्यत्र "कालाध्वनोरत्य- न्तसंयोगे " (२/३।५) इति पाणिनिसूत्रेणे अत्यन्तसंयोगे द्वितीया। तव शत्रूणां युद्धेन नेष्टप्राप्तिरिति भावः। भवांस्तु दिवसेन विधिर्ब्रह्मा सिद्धाः देवयोनिविशेषाः तेषां विधिसिद्धानाम् यद्वा विधिसिद्धस्या- नाहार्यस्य जयाज्जातस्येति यावत् साधुवादस्य साधु साध्विति वादस्य पदं स्थानं यथा स्यासथा अयुद्ध युद्धं कृतवानित्यर्थः । यस्तु युद्धविधीत्यादि क्रियाविशेषणमिति व्याख्यातवान् स छन्दोभङ्गम् भवानि- त्यस्यायोधीत्यनेनान्वयायोग्यत्वं च नाज्ञासीदिति बोध्यम्। गीतिश्छन्दः। लक्षणमुक्तं प्राक् (४ पृष्ठे) ।। अत्र दिवसेनेत्यपवर्गतृतीया "अपवर्गे तृतीया" (२।३।६) इति पाणिनिसूत्रेण फलप्राप्तौ धोत्या यामेव तृतीयाविधानात् तया च तृतीयया युद्धरूपक्रकियाया यत् फलं विजयस्तत्प्राप्तिर्व्यज्यते तेन च राजविषयकभावप्रकर्षो व्यङ्गयः। तदेवाह अत्रेत्यादि। तदेतदुक्त प्रदीपादौ। "अत्र वीररसात्मनि भवान् दिवसेनायुद्वेत्यपवर्गे तृतीया। अपवर्गश्च फलप्राप्तौ सत्यां क्रियापरित्यागः । अतो भवत्पदार्थस्य युद्धरूपक्रियायाः यत्फलं विजयस्तत्प्राप्तिस्तृतीयया द्योत्यते" इति प्रदीपः। (फलप्राप्ताविति। फलसि- द्धावेवोपायेच्छानिवृत्तेरिति भात्रः। एवं च नेदमपवर्गशरीरघटकं किंतु तदुपपादकम्। अंत एवाग्रेऽस्य व्यङ्गयतोक्तिः तृतीयया द्योत्यते इति। यद्वा। एषां प्रत्ययादीनां तत्तदर्थपुरस्कारेणामुशासनविहितानामपि

१ विभक्तिर्द्विविधा कारकविभक्तिरुपपद्विभक्तिश्र्वेति। तत्र क्रियाजनकार्थिका विभक्तिः कारकबिभक्तिः। उप समीपे उच्चारितं पदमुपपद्म् । तदर्थनिमित्तिका विभक्तिरुपपद्विभक्तिः ॥२ अत्यन्तसयोगो निरन्तरसंबन्धः।स च गुणक्रियाद्रव्यैरभावेन च। गुणादिभिः कालाध्वनोरत्यन्तसंयोगे सति अत्यासत्या कालाध्ववृत्तिम्यां द्वितीया भवतीति सूत्रार्थः । यथा मासं कल्याणी मापमधीते मासं गुडधानाः मास भोजनाभाव इति क्रमेण कालोदाहरणानि। क्रोशं कुटिला नदी क्रोशमधीते क्रोशं गिरिः क्रोशं भाजनाभाव इति क्रमेणाध्व्रोदाहरणानि। 'अत्यन्तसंयोगे' किम्। मासस्य द्विरधीते कोशस्यैकदेशे पर्वतः ॥ ३ अपवर्गः फलप्राप्तिस्तस्यां ध्योत्याया कालाध्वनोरत्यम्तसंयोगे तृतीया स्यादिति सूत्रार्थः । यथा अह्वा क्रोशेन अनुवाकोडधीतः । 'अपवर्गे' किम्। मासमधीतो नायातः ॥

Page 239

१८० काव्यप्रकाशः सटीकः । भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्टा दृष्टा भवनवलभीतुङ्ग/तायनस्था। साक्षात्कामं नवमिव रतिर्मालती माधवं यत् गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥१०६॥ अत्रानुकम्पावृत्तेः करूपतद्वितस्य। न तत्तदर्थवाचकत्वं गौरवादन्यलभ्यत्वाच्चेति व्यङ्गयत्वम्। एवं च व्यङ्गयार्थबोधकमेवानुशासनम्। अत एव तत्र तत्र 'दोत्यते' इति वृत्तिकृतो व्याचख्युः। तृतीयया द्योत्यते इति। इदमुपलक्षणम्। दिव- समिति अत्यन्तसंयोगविहितद्वितीययापि शत्रूणां फलप्राप्तिर्व्यज्यते। अत्यन्तसंयोगस्य तावत्येव पर्याप्तेः । फललाभे क्रियानाचरणादिति । अत्रायुद्धायोधीति तिङ्प्रक्रमभङ्गोऽप्येतदनुकूल एव) इत्युद्दयोतः ॥ करूपतद्वितप्रत्ययात्मकस्य प्रकृत्येकदेशस्य विप्रलम्भशृङ्गारव्यञ्जकत्वमुदाहरति भूय इति। माल- तीमाधवप्रकरणे प्रथमेऽक्के "कथितमेव नो मालतीधात्रेय्या लवङ्गिकया" इति चूर्णकमुपन्यस्य कामन्द- कीवचनमिदम्। भवनस्य वासगृहस्य संबन्धिनी या वलभी उपरितनमण्डपः तदीयम् यद्वा भवन- वलभी गृहाच्छादनवक्रदारु तत्र तुङ्गं महत् उन्नतं च यत् वातायनं गवाक्षः तत्र स्थिता मालती तन्नान्नी नायिका भूयो भूयो वारं वारं सविधया अर्थान्मालतीतातगृहसंनिहितया नगरीसंबन्धिरथ्यया राजमा- रगेण पर्यटन्तम् इतस्ततो गच्छन्तं माधवं तन्नामानं नायक रतिः कामभार्या नवं दाहानन्तरमुत्पन्नं कामे मदनमिव साक्षात् प्रत्यक्ष न तु चित्रादौ (तेन रागौत्कव्यम् "इन्द्रजाले च चित्रे च साक्षात्स्वमे च दर्शनम् " इत्युक्तेः) दृष्टा दृष्टा पुनः पुनरवलोक्य गाढा दृढा या उत्कण्ठा आकाङ्का औत्सुक्यं वा तया लुलितलुलितैः अतिखिनैः अतिम्लानैर्वी अत एवाङ्गकैः अनुकम्प्यैरङ्ैः ताम्यति ग्लायति इति यत तत् मालतीघात्रेय्या मालत्युपमातृपुत्रया लवङ्गिकया नः कथितमेवेति चूर्णिकावाक्येनान्वयः। अत् नवं काममित्यनेन प्रसिद्धकामापेक्षया व्यतिरेकः । दृद्टा दृष्ट्ेति वीप्सया रागौत्कट्यं व्यज्यते। ललितललि- तैरिति पाठे ललितेभ्योऽपि ललितैः अतिमनोहरैरित्यर्थः । ललितलुलितैरिति पाठे पूर्व ललितैः सुन्दरै- रधुना लुलितैः म्लानैरित्यर्थः । लुलितललितैरिति पाठे लुलितैर्म्लांनैः सद्धिर्ललितैर्मनोहरैरितयर्थः । बलभी गृहाच्छादनवक्रदारु। छज्जेति हिन्दीभाषायां सज्जेति महाराष्ट्रभाषायां च प्रसिद्धम्। "गोपानसी तु वलभी छादने वक्रदारुण" इत्यमरः । मन्दाक्रान्ता छन्दः । लक्षणमुक्तं प्राक् (७६ पृष्ठे) । अत्रानुकम्पार्थककस्वरूपतद्वितव्यङ्गयेन दुःखक्षमत्वानधिकारिणा सौकुमार्येण विप्रलम्भ: परिपोष्यते इति सुधासागरे स्पष्टम्। तदुक्तमुद्दयोतेऽपि अत्रानुकम्पाव्यङ्गधेन सौकुमार्येण दुःखासहिष्णुत्वाभिव्य- क्तिद्वारा विप्रलम्भोत्कर्ष इति। तदेवाह अत्रेत्यादि। अनुकम्पावृत्तेः अनुकम्पाद्योतकस्य। तद्दि- तस्येति। विप्रलम्भशुङ्गारव्यञ्ञकत्वमिति शेषः । अयं भावः । अङ्गकैरित्यत्र "अनुकम्पायाम्" (५३/७६) इति पाणिनिसूत्रेण विहितात्कप्रत्ययादनुकम्पातिशयो व्यज्यते। तेन च सौकुमार्यम्। तेनापि च दुःखासहिष्णुत्वाभिव्यक्तिद्वारा विप्रलम्भोत्कर्ष इति। "यत्तु मधुमतीकारैर्व्या्यातम् अत्रा- ल्पार्थे कनु न त्वनुकम्पायाम् । व्यङ्गयत्वाभिधानविरोधादिति । यच्चैतदनुसृत्य प्रदीपकारैर्व्याख्यातम् अत्नाङ्गकैरिति कस्वरूपतद्धितेनाल्पार्थकेनानुकम्पातिशयो व्यज्यते इति तत्सर्वम् 'अत्रानुकम्पावृत्तेः करूपतद्धितस्य' इति वृत्तिस्वरसभङ्गादुपेक्ष्यम् " इति सुधासागरे स्पष्टम्। उद्दयोतकारास्तु 'अल्पा-

Page 240

चतुर्थ उल्लासः । १८१

परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपर्थं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ १०७॥ अत्र प्रशब्दस्योपसर्गस्य। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम्॥ १०८॥ र्थकेन' इति प्रदीपप्रतीकमुपादाय "तस्यैव (अल्पार्थकस्यैव) झटिति प्रतीतेरिति भावः। अनु- कम्पार्थकत्वेऽपि व्यङ्गयमुक्तमेव" इत्याहुः ॥ उपसर्गरूपस्य प्रकृत्येकदेशस्य विप्रलम्भशङ्गारव्यञ्जकत्वमुदाहरति परिच्छेदेति। मालतीमाधव- प्रकरणे प्रथमेडङ्के मकरन्दं प्रति माधवस्य स्वावस्थाकथनमेतत्। कोऽपि विशिष्यानिर्वचनीयः विकारः कामजो भाव: (मम) अन्तः अन्तःकरणं जडयति मोहयति । विषयग्राहिवृत्तिविषये स्तब्धं करोतीत्यर्थः। तापं विरहसंतापं च कुरुते इत्यन्वयः । अनिर्वचनीयत्वमेव विशेषणैरुपपादयति परिच्छेदेत्यादिना। परिच्छेद इयत्ता विरामो वा तम् अतीतोऽतिक्रान्तः । तद्रहित इत्यर्थः । तथा सकलानां वाचकलाक्ष- णिकव्यञ्जकानां वचनानां शब्दानाम् अविषयः अगोचरः । अभिधया लक्षणया व्यञ्जनयापि वा शब्दै- निर्वक्तुमशक्य इति भावः । तथा पुनरन्यदा (कालान्तरे) अस्मिन् जन्मनि अनुभवपथम् अनुभव- विषयत्वं यो न गतवान् यो न प्राप्त इत्यर्थः । तथा विवेको दोषगुणविभागः तस्य प्रध्वंसात् अत्य- न्तनाशात् उपचितो वृद्धिं प्राप्तो यो महामोहः सकलविषयाणामज्ञानं विपरीतज्ञानं वा यत्र तादृशश्वासौ गहनश्व दुर्लङ्वयश्चेद्ृश इत्यर्थः । अत्र विरोधाभासोऽलंकार इति ४८८ उदाहरणे स्फुटीभविष्यति। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (७५ पृष्ठे) ॥ प्रशब्दस्योपसर्गस्येति । विप्रलम्भशङ्गारव्यञ्जकत्वमिति शेषः । अय भावः । अत्र प्रध्वंसा- दिति प्रशब्देन प्रकृत्येकदेशेन विवेकसमूलोन्मूलनरूपो ध्वंसप्रकर्षो द्योत्यते। उपसर्गाणामवाचकत्वात्। तेन मोहप्रकर्षः तेन च रागातिशयः तेनापि च माधवस्य विप्रलम्भशृङ्गारप्रकर्षो व्यङ्गय इति। प्रादीनां चादीनां च स्वतः प्रयोगानर्हतया पदैकदेशतुल्यत्वात्तत्रोदाहरणमिति नरसिंहमनीषार्या स्पष्टम्। "अत्र प्रध्वंसादिति प्रशब्दः प्रकृत्येकदेशः प्रकर्षद्योतकः । उपसर्गाणामवाचकत्वात्" इति प्रदीपः । (प्रकृत्यन्तर्गतत्वाभावात्कथं प्रकृत्येकदेशत्वमत आह प्रकर्षेति। प्रकृत्यर्थ एवास्याप्यर्थ इति पृथगर्थाभावात्तदन्तर्भूत एवेत्यर्थः। पृथगर्थाभावमेवाह उपसर्गाणामिति") इति प्रभा। (प्रकर्षद्योतक इति। प्रकर्षश्र समूलोन्मूलनरूपः ) इत्युद्दयोतः । निपातरूपपदैकदेशस्य वीररसव्यञ्जकत्वमुदाहरति कृतमिति। नृपं प्रति मन्त्रिण उक्तिरियम् । हे राजन् त्वया मनः गर्वस्याहंकारस्याभिमुखं संमुखं न तु गर्वितम् कृतं च नः अस्माकं द्विषः शत्रवः निहताश्च न तु निहनिष्यन्ते एवं सति अन्यत् शस्त्रादिग्रहणं युद्धादिकं नीत्यादि वा किम् अफलमित्यर्थः । तत्र व्यतिरेकेण (वैधर्म्येण) दृष्टान्तमाह तमांसीति। तमांसि तावत् तिष्ठन्ति यावत् अशुमान् सूर्य: उदयाद्रेमौलितां शिरोऽलंकारतां नायाति । तथाभूते तु तस्मिन् न तिष्ठन्तीत्यर्थः ।

Page 241

१८२ काव्यप्रकाश: सटीक: ।

अत्र तुल्ययोगिताद्योतकस्य 'च' इति निपातस्य। रामोऽसौ भ्ुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा- मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्। बन्दीवैष यशांसि गायति मरुद्यस्यैकवाणाहति- श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्ताभः ॥१०९॥

उदितसूर्य विना उदयाद्रिरपि अमौलिजनवन्न शोभते इति भावः। एतेन त्वां विनायं लोकोऽपि तथा न शोभते इति ध्वनितम्।। "मौलि: किरीटे धम्मिल्ले चूडायामनपुंसकम्" इति मेदिनी। "किरीटे मौलिरक्ीबे चूडासंयतकेशयोः" इति रभसश्च। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् (२४ पृष्ठे)। तुल्ययोगितेति । चकारेण मनोगर्वाभिमुखीकरणारिहननयो: प्राकरणिकयोरेक कालत्वलक्ष णैका धर्मसंबन्धात् तुल्ययोगितेति प्राचीनमतेनेदम्। वस्तुतस्तु मनः गर्वाभिमुखं कृतं च द्विषः निहता श्वेति तुल्यकालमेककालं योगः संबन्धो ययोस्तौ तुल्ययोगिनौ तयोर्भावस्तुल्ययोगितेति व्युत्पत्त्या तुल्ययोगितापदं समुच्चयपरम् । एवं चात्र चकाराभ्यां स्वसमभिव्याहृतक्रिययोस्तुल्यकालतारूप: समुच्चयालंकारः । तद्द्वारा वीररसप्रकर्षो ध्वन्यते। तदुक्त प्रदीपोद्दयोतयोः । "अत्र चद्वयेन मनो- गर्वाभिमुखीकरणशत्रुहननयोरेककाउतारूपः समुच्चयो द्योत्यते" इति प्रदीपः। (चद्वयेनेति। यद्यपि एकश्वकारोऽपि समुच्चयद्योतकस्तथापि प्रकृताभिप्रायमेतत्। समुच्चय इति। अयमेव तुल्यकालं योगितेति व्युत्पत्या तुल्ययोगिताशब्देनोक्तः । तेन वीररसप्रकर्षः । न चैवं समुच्चयालंकारस्य घौध्यत्वं न स्यादिति वाच्यम्। व्यञ्जकचादिसत्वे वाच्यत्वं तदभावे व्यङ्गयत्वमिति विशेषात्। विरो- धवत्। प्रकृते च नैतदादाय ध्वनित्वं किंतु तद्यङ्गयवीरप्रकर्षमादायेति बोध्यम्। वीरप्रकर्षोऽपि समु· चयव्यङ्गयपौर्वापर्यविपर्ययरूपातिशयोक्तिद्वारेत्याहुः) इत्युद्दयोतः। उद्दयोतपुस्तकान्तरे तु'वीरप्रकर्षोऽपि समु्चयव्यङ्गयतुल्ययोगिताद्वारा पौर्वापर्यविपर्ययरूपातिशयोक्तिद्वारा वेत्याहुः' इति पाठः। निपात- स्येति। वीररसव्यञ्जकत्वमिति शेषः । अयं भावः । निपातेन समुच्चयालंकारो व्यज्यते। तेन चाति- शयोक्तिव्यञ्जनद्वारा वीररसप्रकर्षो व्यङ्गय इति। अत्र चेतिनिपातरूपप्रातिपदिकमात्रस्यैव व्यञ्जक- त्वम् न तु प्रत्ययसहकृतस्य तस्येति पदैकदेशतेति निदर्शनकृन्निदर्शनम्। प्रदीपकारादयस्तु चकारस्य पदैकदेशत्वाभावेऽपि केवलस्य तस्याप्रयोगात् पदैकदेशत्वोपचार इति व्याचक्रु: ॥ अथ बहूनां वीररसव्यञ्जकत्वमुदाहरति रामोसाविति। राघवानन्दनाटके रावणमुद्दिश्य बिभीष णौक्तिरियमिति चन्द्रिकादौ स्पष्टम् । रामः सकलभुवनजनमनोरमणः एतेन सर्वे तद्धितकारिण इति व्यउ्यते। असौ खरदूषणादिनिहन्तृत्वेनातिप्रसिद्धः विलक्षणधैर्यगाम्भीर्यादिशाली च भावनया प्रत्यक्षा- यमाणश्च । विक्रमगुणैरिति। केवलं प्रसिद्धिं प्राप्त इत्युक्तौ सदोषगुणैरपि प्रसिद्धिसंभवः यथा संबोध्यरावणस्य। तन्निवृत्त्यर्थ गुणैरिति। न केवलं गुणैः अपि तु विक्रमजैः एतेन सीतादानस्यावश्य- कत्वं व्यज्यते। सापि (प्रसिद्धिरपि ) न ग्रामे न नगरे नापि भुवने किं तु भुवनेषु तेष्वपि न कृशां किं तु पराम् तेनाज्ञातत्वनिरासः। यद्वा । विक्रमगुणैः प्रकृष्टां सिद्धिं जयलक्षणां भुवनेषु प्राप्त

१ समुच्चयालंकरेण ॥ २ "अर्थालंकारानाह " इत्युपक्रम्य समुच्चयालंकारस्य दशमे वक्ष्यमाणत्वाद्वाच्यत्वं तभ् न स्यादिति भाव: ।।

Page 242

चतुर्थ उल्लासः। १८३

अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति अपि अस्मदित्यस्य सर्वाक्षेपिणः भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य।

इत्यर्थः । एतेन सर्वथापि युद्धेऽजेयत्वं ध्वन्यते । तमपि यत् देवो दिव्यज्ञानवानपि भवान् न जानाति यत् अस्माकं भाग्यस्य विपर्ययादेव अन्यथाविपरिणामादेव न तु त्वद्धाग्यविपयर्यात् त्रैलोक्यनाथतादृश- महापुरुषहस्तेन मरणेडपि मोक्षलक्ष्मीविलासलाभेन तस्यापि भाग्यफलत्वात् अस्माकं पुनः चिरकाल- जीवितानां त्वादशप्रभुविपद्दर्शनात् त्वद्वियोगाच्च निरन्तरदुःखदावानलपच्यमानानां परं भाग्यविपर्यय इति भावः। यदि परमिति निपातसमुदायोऽवधारणार्थः । अत्र भाग्यविपर्ययादित्युक्त न तु अभाग्यादिति तेन त्वादशप्रभुलाभात् सार्वदिकातिशयसुखलामेनाभाग्यवरहेऽनुमितेऽपि भाग्यान्येव विपरीतफल- दत्वेन परिणतानीति ध्वनिः । अस्मदित्यनेन समस्तरक्ष:कुलस्यैव तथात्वं प्रतीयते। प्रसिद्धिहेतुभूतं विक्रमगुणोदाहरणमाह बन्दीति। एष मरुत् वायुः बन्दीव वैतालिक इव ( "बन्दिनः स्तुतिपाठकाः" इत्यमरः ) सप्तभिः खरैः षड्जादिभि: यस्य रामस्य यशांसि गायतीवेत्युत्प्रेक्षागर्भम्। सप्त स्वराश्चोक्ता अमरेण "निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥" इति। कीदशैः स्वरैः । एकबाणाहत्या जातानि यानि श्रेणीभूतविशालतालानां विवराणि रन्ध्राणि तैः उद्गीर्णा: प्रकाशितास्तैस्तथाभूतैरित्यर्थः । एकबाणाहृतेति पाठः स्पष्टः । श्रीरामेण किल सुग्रीवप्रत्य- याय सप्त तालवृक्षाः एकबाणेन विभिन्ना इत्यार्षे रामायणे किष्किन्धाकाण्डे १२ सर्गे प्रसिद्धम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्रासाविति सर्वनाम्नो भुवनेष्विति गुणैरिति उभयत्रैव प्रातिपदिकबहुवचनयोः अस्मदिति सर्वाक्षे- पिणो भाग्यविपर्ययादिति अन्यथाविपरिणाममुखेनाभिधानस्य च वीररसव्यञ्जकत्वं सहृदयवेद्यम्। तदे- वाह अत्रासावितीत्यादि। वचनानामिति। वरिरसव्यञ्जकत्वमिति शेषः । एवं शेषः सर्वत्र। अस्मदि- तीति। उक्तमिति शेषः । अस्येति। बहुवचनान्तास्मच्छब्दघटितसमासांशस्याकृतमदाद्यादेशस्यास्मदि- व्यस्येत्यर्थः । सर्वाक्षेपिणः समस्तरक्षःकुलोपस्थापकस्य। अन्यथासंपत्तिमुखेनेति। अस्य च 'अभि- धानस्य' इत्यग्रिमेणान्वयः । अन्यथासंपत्तिः दुर्भाग्यरूपेण परिणमनम्। अभावमुखेन अभाग्यादिति रीत्या। तथा च अस्माकं भाग्यं नास्तीति न परं तु येनैव भवद्भ्रातृत्वाद्यनुबन्धिना भाग्येन आज- न्मसुखिनो वयम् तदेवाधुना दुःखफलदमस्माकमिति ध्वनितम् । तदेतत्सर्वमुक्तं प्रदीपोद्दयोतयोः । "अत्रासाविति सर्वनाम्नः भुवनेष्विति न तु देशेष्व्रिति भुवने वेति भुवनरूपप्रातिपदिकस्य बहुवच- नस्य च विक्रमगुणैरिति न तु गुणेन दोषैर्वेति प्रातिपदिकवचनयोर्व्यञ्जकत्वम्। कि चास्मद्भाग्येत्यत्र न त्वद्धाग्येति न मद्धाग्येति कृतम्। तेनास्मदित्यस्य बहुवचनसिद्धतया सर्वाक्षेपकत्वम्। तथा भाग्यवि पर्ययादित्यन्यथासंपत्तिमुखेनोक्तम् । न त्वभाग्यादित्यभावमुखेन । अतस्तथाविधानेनाभाग्यविरहेऽपि भाग्यान्येव तादृशत्वेन परिणतानीति व्यज्यते" इति प्रदीपः । (सर्वनाम्न इति। पष्ठयन्तानां व्यञ्ज- कत्वमित्यनेनान्वयः । दोषैर्वेति। यथा रावणस्येत्यर्थः । व्यञ्जकत्वमिति। तच्च यथा तथोक्तमेव। सर्वाक्षेपकत्वमिति। समस्तरक्ष:कुलबोधकत्वमित्यर्थः । आक्षेपोऽत्र व्यञ्जना । तेन च [सीतायाः ] अदाने सकलरक्षःकुलक्षयो भावीति ध्वन्यते। अन्यथासंपत्तीति। विद्यमानैव संपत्तिरनिष्टेन निवृत्ति- मत्त्वेन प्रदीयते इत्यर्थः । अभावमुखेनेति। तथोक्तौ हि भाग्यस्य सार्वदिकाभावप्रतीतौ संपत्तेरपि

Page 243

१८४ काव्यप्रकाशः सटीक: ।

ककीजी तरुणिमनि कलयति कलामनुमदनधनुर्ध्ुवोः पठत्यग्रे गिमकाल क अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ॥ ११० ॥ अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे इति धनुषः समीपे इति मौलौ वसतीति त्वादिभिस्तुल्ये एषां वाचकत्वे अस्ति कश्चित् स्वरूपस्य विशेषो यश्च- मत्कारकारी स एव व्यञ्जकत्वं प्राम्नोति।

तथाभाव: प्रतीयेतेति भावः ) इत्युद्दयोतः । नरसिंहठक्कुरादयस्तु भाग्यपरिवृत्तौ संपद्विपर्ययः । अत एवोक्तम् अन्यथासंपत्तिमुखेनेति। संपत्तेरन्यथात्वमुखेनेत्यर्थः । आभाग्यामिधाने भाग्यसामान्याभा- वात् संपत्तिसामान्याभावः प्रतीयेत न तु ध्वंसः।न चात्र सामान्याभावो विवक्षितः । तस्यासंभवादिति व्याचख्युः ॥

बहूनां शृङ्गाररसव्यञ्जकत्वमुदाहरति तरुणिमनीति। इयम् एषा चकितस्य भीतस्य हरिणस्य मृगरय चले चञ्चले नयने इव नयने यस्यास्तथाभूता यद्वा चकितस्य हरिणस्येव चले नयने यस्या इति विग्रहः। स्फुटीभविष्यतीदं विग्रहद्वयमपि ४०९ उदाहरणस्थवृत्तिग्रन्थव्याख्यानावसरे। तथाभूता नायिका सकलललनानां मौलिम अधिवसति। "उपान्वध्याङ्वसः" (१।४।४८) इति पाणिनिसूत्रे- णाधारस्य कर्मसंज्ञा। सर्वसुन्दरीशिरसि तिष्ठतीत्यर्थः । स्त्रीमात्रचूडामणित्वं प्राप्ोतीति यावत् । क- स्मिन् सति। तरुणिमनि तारुण्ये कलां कटाक्षविक्षेपाद्युपचयरूपां कलयति शिक्षयति सति अर्थान्ना- यिकायै। यद्वा। तरुणिमनि कलाम् उपचयम् (वृद्धिम्) कलयति प्राप्तवति सतीत्यर्थः । पुनः क- स्मिन् सति। भ्ुवोरग्रे भूलताग्रे (शिष्यभूते) अनुमदनधनुः मदनधनुषः कामचापस्य (गुरुभूतस्य) समीपे पठति सति अर्थात्कलाः । अत्र चकितत्यनेन चक्षुषोश्चाञ्चल्यातिशयो व्यज्यते। गीतिश्छन्दः । लक्षणमुक्तं प्राक् ( ४ पृष्ठे ) ।।

अत्र इमनिच्प्रत्ययाव्ययीभावसमासकर्मभूताधाराणां शृङ्गारव्यञ्जकत्वं दर्शयति अत्रेमनिजित्यादिना। तरुणिमनीति इमनिच्प्रत्ययः अनुमदनधनुरित्यव्ययीभावः मौलिमिति कर्मभूताधारस्तेषामित्यर्थः । स्वरूपस्येति। शृङ्गारव्यञ्जकत्वमिति शेषः । तदेवाह तरुणत्वे इतीत्यादि। त्वादिभिरित्यादि। एषाम् इमनिजादीनां वाचकत्वे त्वादिभिः त्वत्प्रत्ययादिभिः तुल्येऽपीत्यन्वयः। कश्चिदिति । श्रुतिकटुत्वादिहीनो माधुर्यादियुक्तो वचनागोचरः सहृदयसंवेद इत्यर्थः । स्वरूपस्य इमनिजादीनां स्वरूपस्य । विशेषः भेदः । चमत्कारकारीति । तथा चमत्कार एव तादृशविशेषे मानमिति भावः । व्यञ्जकत्वं प्रा्ोतीति। अयं भावः। इमनिचा तद्धितेन सुकुमाराक्षरेण तादृशमेव नवं वयः प्रतीयते। 'तरुणत्वे' इत्युक्तौ तु प्रत्ययस्य प्रौढाक्षरतया वयसोऽपि प्रौढत्वं प्रतीयेत। अनुमदनध- नुरिति पूर्वपदार्थप्रधानाव्ययीभावेन उत्तरपदार्थीभूतधनुषोSप्राधान्यं प्रकटयता तन्निरपेक्षवशीकरणासा मर्थ्य भूलताग्रस्य प्रत्याय्यते। तथा मौलिमिति कर्मप्रत्ययेन कर्मीभूतसकलललनामौलिव्याप्तिसूचनद्वारा सौन्दर्यातिशयो व्यज्यते। 'मौलौ' इत्युक्तौ तु आधारस्य एकदेशवृत्तिताया अपि संभवाद्याप्तिर्न प्रती- येत। एवं चेमनिजादीनामेवोक्तव्यङ्गयव्यञ्जनद्वारा शृङ्गाररसव्यञ्जकत्वमिति। अत सर्वत्र सहृदयता- सहकृतशब्दस्वभावो बीजमित्याहुरित्युद्दयोते स्पष्टम्। उक्तं च प्रदीपे "अत्र तरुणिमनीति इमनिच- स्तरुणत्वपदेन अनुमदनधनुरित्यव्ययभिावस्य धनुःसमीपे इत्यनेन मौलिमधिवसतीति कर्मीभूताधारस्य

Page 244

चतुर्थ उल्लास:। १८५

एवमन्येषामपि बोदव्यम्। वर्णरचनानां व्यञ्ञकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते। अपिशब्दात् प्रबन्धेषु नाटकादिषु। एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड़भेदाः। (सू० ६२) भेदास्तदेक पश्चाशत व्याख्याताः। (सू ६३) तेषां चान्योन्ययोजने॥ ४३॥ संकरेण त्रिरूपेण संसृष्या चैकरूपया। च मौलौ वसतीत्यनेन तौल्येऽपि वाचकरवेडस्ति कश्चित्स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकः । तत्र त्वशब्देन प्रकृत्यर्थस्य प्रौढत्वं व्यज्यते। इमनिचा तु तद्यतिरेकान्नवत्वम्। धनुषः समीपे इत्यत्र धनुषोऽत्यन्तं गुणीभावः । अव्ययीभावे तु पूर्वपदार्थस्य प्राधान्येऽपि उत्तरपदार्थस्य किंचिदेवाप्राधान्यम् । कर्मभूताधारस्थले तु व्याप्तिरवगम्यते इत्यवसेयम्" इति ॥ उपसंहरति एवमिति। अन्येषामिति। पदैकदेशादीनामित्यर्थः । बोद्धव्यमिति। व्यञ्जकत्व- मिति शेषः। रचना घटना। गुणस्वरूपनिरूपणे इति । अष्टमोल्लासे इत्यर्थः । उदाहरिष्यते इति। तेषीं रसनिष्ठमाधुर्यादिगुणव्यञ्जकत्वेन गुणज्ञाने सत्येव तद्यञ्जकत्वज्ञानसंभवादत्र नोदाहृतमिति भावः । इमनिजादीनां तु स्वबोध्यनिष्ठतत्तद्विशेषव्यञ्जकत्वमित्यत्रैवोदाहताः । अपिशब्दादिति। "वर्णेष्वपि" इत्यपिशब्दादित्यर्थः । प्रबन्धेष्विरिति। नाटकादिषु प्रबन्धेष्वित्यन्वयः । रसादयो व्यङ्गया इति शेषः । यत्तु पूर्व प्रबन्धशब्देन संघटितावान्तरवाक्यसमूहोऽमिहितः इदानीं तु संघटितमहावाक्यमित्यपौनरु- कत्यमिति कश्चिदाह तदज्ञानात्। पूर्व हि अर्थशक्तिमूलमात्रस्य प्रबन्धविषयत्वमुक्तम्। अत्र त्वसंल- क्ष्यक्रमव्यङ्गयस्येति पौनरुक्त्यभावादिति प्रदीपे स्पष्टम् ।। एवम् उक्तरीत्या। पूर्वगणितभेदाभ्यां वाक्यपदप्रकाश्याभ्याम्। षडिति। वाक्यपदपदैकदेश रचनावर्णप्रबन्धप्रकाश्यतया रसादीनामलक्ष्यक्रमाणां षड्भेदा भवन्तीत्यर्थः । सुखावबोधार्थमुक्तमेदान् परिगणयति भेदा इति। व्याख्याता इति। पूर्वगणनेन व्याख्यात- प्राया इत्यर्थः । तथाहि। अविवक्षितवाच्यस्य अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया दवौ भेदौ। तौ च प्रत्येक पदवाक्ययोरिति चत्वारः । विवक्षितान्यपरवाच्येषु मध्ये असंलक्ष्यक्रमव्यङ्गयस्य उक्तरीत्या (पदवाक्यपदैकदेशरचनावर्णप्रबन्धभकाश्यतया) षट्। संलक्ष्यकरमव्यङ्गयस्य तु एकचत्वारिंशद्ेदाः। (शब्दशक्तिमूलस्य द्वौ भेदौ। तौ च प्रत्येकं पदवाक्ययोरिति चत्वारः। अर्थशक्त्युद्धवस्य द्वादशभेदाः। ते च प्रत्येकं पदवाक्यप्रबन्धगता इति षटत्रिंशत् । उभयशक्त्युद्धवस्त्वेक इति एकचत्वारिंशत्) इति मिलित्वा शुद्धस्य ध्वनेरेकपञ्चाशत् भेदाः ॥ एवं शुद्भेदानुक्त्वा संकीर्णभेदानाह। तेषामिति। तेषाम् एकपञ्चाशतो भेदानां त्रिरूपण संक- १ तैल्यडपीति। प्रज्ञादित्वात् स्वार्थेडण। तुल्येऽपीत्यर्थः। 'तुल्पत्वेऽपि' इति पाठस्तु अनुपपन्नत्वाद्युक्त एवेति बोध्यम ॥ २ 'तदूव्यतिरेको नवत्वम्' इति कृचित्गठः ॥ ३ वर्णरचनानाम् ॥ काव्यप्रकाश २४

Page 245

१८६ काव्यप्रकाश: सटीक:।

न केवलं शुद्धा एवैकपश्चाशद्धेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपश्चाशता संशया- स्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्ष रूपयैकप्रकारया संसृष्टया चेति चतुर्भिर्गुणने। (सू० ६४ ) वेदखाब्धिवियच्चन्द्रा: (१०४०४)

रेण एकरूपया संसृष्टया च अन्योन्ययोजने परस्परगुणने सति (योजनमिति पाठे परस्परयोजनमिति हेतो:) 'वेदखाब्धिवियच्चन्द्राः' भवन्तीत्यग्रिमेणान्वयः ॥ तदेव दर्शयति न केवलमित्यादि। यावत् किंतु। तेषाम् एकपञ्चाशत्संख्याकानां शुद्धभेदानाम्। एकपश्चाशता एकपञ्चाशत्संख्याकैः स्वप्रभेदैः चतुर्भिर्गुणने इत्यन्वयः। "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः"इत्यमरादेकपञ्चाशतेत्येकवचनम्। त्रिविधेन संकरेणेति। साक्षात्परंपरया वा यथाकथंचित् परस्परसापेक्षः संयोगः संकरः तद्धिन्नः स संसृष्टिः। संकरस्थले हि क्वचित् साधक- बाधकमानाभावादेकतरानवधारणेन 'अयम् अयं वा' इति भवति संशयः । क्वचिच्च स्वत एवोपादे- यतया प्रधानयोरपि एकस्य कथंचिदपरानुगुण्यमात्रेण अङ्गाङ्गिभावापरनामकानुग्राह्यानुग्राहकभावः । क्चित्तु एकव्यञ्जकव्यङ्गयतया एकाश्रयानुप्रवेश इति संकरस्य त्रैविध्यमिति दशमोल्लासे २०८ सूत्रमा- रभ्य स्फुटीभविष्यति। न चानुग्राह्यानुग्राहकभावेन संकरस्थलेऽनुग्राहकस्याङ्गतया गुणीभाव इति न ध्वनिसंकरत्वमिति वाच्यम् । तत्र हि स्वतश्चमत्कारिण एवं तस्य किंचित्परोपकारकतामात्रम् न तु शेषशेषिभाव एवेतीति प्रदीपे स्पष्टम् ।। वेदेति। वेदाश्चत्वारः खं बिन्दुः अब्धयश्चत्वारः वियत् बिन्दुः चन्द्र एक: एषाम् "अङ्कानां वामतो गतिः" इति न्यायेन वामतः स्थापनात् चतुरुत्तरचतुःशताधिकायुतपरिमिताः (१०४०४) भेदा: संपद्यन्ते इत्यर्थः। तथाहि। एकपञ्चाशतो भेदानाम् एकपञ्चाशता गुणने एकोत्तरषट्शताघिकस- हस्त्रद्वयं (२६०१) भवति योजनं च संसृष्ट्यादिचतुःप्रकारैरिति तावतां चतुर्मिर्गुणने यथोक्तसंख्या (१०४०४) संपद्यते। एकस्मिन्नपि श्लोके एकविधध्वनिद्वयसंभवेन स्वस्य स्वेन योजनं नासंभवि॥ अत्र केचित् गणनेयमयुक्ता। अग्रिमाग्रिमभेदस्य योजने एकैकभेदहासात् । अत एव विरोधालंकारे "जातिश्चतुर्भिर्जात्यादैर्विरुद्धा स्यात् गुणास्त्रिभिः । क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणवेति ते दश" इति १६७ सूत्रेण जातिगुणक्रियाद्रव्याणां विरोधे दशत्वस्याभिधास्यमानता संगच्छते। अन्यथा प्रत्येकं चतुद्वे षोडशापि भेदा: भवेयुः। गुणजात्योर्विरोधस्य जातिगुणविरोधानन्यत्वेन गुणविरोधस्य त्रित्वात्। एवं कियाविरोधस्य द्वित्वम् द्रव्यविरोधस्यैकत्वम्। एवं च प्रकृतेऽपि अर्थान्तरसंक्रमितवाच्यस्य अत्यन्तति- रस्कृतवाच्येन योजने यो भेदः स एव अत्यन्ततिरस्कृतवाच्यस्य अर्थान्तरसंक्रमितवाच्येन योज- नायाम्। एवमन्यत्रापि। तस्मात् "एको राशिर्द्विधा स्थाप्य एकमेकाधिकं कुरु। समार्घेनासमो गुण्यः एतत्संकलितं लघु" इत्युक्तदिशा द्विपञ्चाशदर्धेन षडिंशत्या एकपश्चाशतं गुणयेत्। तथा च "रसपक्षा- ग्निमेदिन्यः" इति त्रयोदशशतानि षडिंशत्यधिकानि (१३२६) जायन्ते। योगश्वतुःप्रकार इति तेषु चतुर्मिर्गुणितेषु "वेदाभ्रदहनेषवः" इति पञ्चसहस्त्राणि चतुरधिकं शतत्रयं (५३०४) संकीर्णभेदाः इत्येव ज्याय इति वदन्ति। तन्न। अनुभवसिद्धौ तावत् पुण्ड्केक्षुरसेष्विव ध्वनिष्वपि हृद्यत्वातिशया- नतिशयौ। तथा चार्थान्तरसंक्रमितवाच्यस्य यत्रातिशयस्तत्रात्यन्ततिरस्कृतवाच्येन तद्योजनम्। यत्र

Page 246

चतुर्थ उल्लास। १८७

शुद्धभेदैः सह (सू० ६५) शरेषुयुगखेन्दव: (१०४५५) ।। ४४ ।। तत्न दिङ्मात्रमुदाहियते। खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ। रुअइ पडोहरवलहीघरम्मि अणुणिञ्जउ वराई॥ १११ ॥ अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभोगे एव तु तद्वैपरीत्यम् तत्रात्यन्ततिरस्कृतवाच्यस्येतरेण योजनमिति व्यपदेशः "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायात्। एवमन्यत्राप्यूह्यम् । एतदेव प्राधान्यमादाय गणना सौत्री। नन्वेवं यत्रोभयोस्तुल्यमेव चारुत्वम् तस्य भेदान्तरत्वं स्यादिति। मैवम्। अपकर्षाभावस्यातिशयपदेन स्वीकारात् तत्रोभयभेद- संकरस्वीकारादिति प्रदीपादौ स्पष्टम् ।। अत्र "पदैकदेशपदवाक्यमहावाक्यानामेकव्यङ्गयस्यान्यतरेणाव्यञ्जनात् कथं तेषामेकव्यञ्जकानु- प्रवेश: इत्येतावतापि बहुतरहासः" इति महेश्वराक्षेपस्येदं समाधानम् । 'एकव्यञ्जकानुप्रवेशः' इत्यत्र व्यञ्जकत्वं व्यञ्जने यथाकर्थंचिदामुगुण्यमित्यवश्यमङ्गकिार्यम्। अत एव 'रामोडस्मि' इत्यादौ (१८८ पृष्ठे) लक्ष्यार्थस्य व्यञ्जकतायां सहकारितामात्रेणैव रामपदं व्यञ्जकमिति वक्ष्यति एवं च यत्र वाक्यतदेक- देशपदयोरद्योरेव व्यङ्गयद्वयमस्ति तत्रैव वाक्यव्यङ्गयेऽपि तदेकदेशपदादेः सहकारितारूपेण व्यञ्जक- तया तत्पदरूपैकव्यञ्जकानुप्रवेशः संभवति इत्यलमिति विवरणे स्पष्टम् ।। शुद्धभदैः प्रागुक्तैकपञ्चाशद्देदैः । शरेति । शराः पञ्च इषवः पञ्च युगानि चत्वारि खं बिन्दुः इन्दुरेक: । अन्यत्प्राग्वत् ।। तत्र तेषु मध्ये। दिङ्मात्रं मार्गमात्रम्। संशयास्पदं ध्वनिद्वयसंकरमुदाहरति। खणेति। "क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणता । रोदिति गृहपश्चाद्धागवलभीगृहेऽनुनी- यतां वराकी ॥। " इति संस्कृतम्। देवरानुरक्तामुपनायिकामुत्सवागतां तत्पत्या कटूक्तामनुनेतुं देवरं प्रति कस्याश्चिदुक्तिरियम् । पडोहरशब्दो गृदपश्चाद्धागे देशी । हे सुभग ( त्वज्जाययातिदुरु- क्तिभि: पीडिताया अपि त्वय्यनुरागदर्शनेन ) हे सुन्दर हे देवर ते तव यः क्षणः उत्सवस्तत्र क्षणमात्रं वा प्राघुणिका अतिथि: सा ते तब जायया पतन्या न तु प्रियया किमपि अवाच्यं भणिता उक्ता सती गृहस्य पश्चाद्धागे यद्वलभीगृहमुपरितनगृहं तत्र रोदिति अतो वराकी) उत्तराशक्तत्वात् त्वय्यासक्तत्वाच्च) दीना अनुनीयतां समाधीयतामित्यर्थः । अत्रानुनयः रोदननिवर्तको व्यापारः तेन संभोगो व्यङ्गयः गृहपश्चाद्भागेत्यनेन विजनता क्षणप्राघुणिकेत्यनेन दुःखातिशयौचित्यम् स्वगृहे उत्सव- सरवेन सर्वेषां जनानां व्यासक्तचित्तत्त्वं च। देवरश्च पत्युः कनिष्ठो भ्राता। "स्वामिनौ देवृदेवरौ" इत्य- मरः। गाथा छन्दः। लक्षणमुक्तं प्राक् (५ पृष्ठे) । अत्र तात्पर्यानुपपत्या किमत्रोपभोगगतातिशयप्रतिपत्तये लक्षणया अनुनयतेरुपभोग एवार्थः उत रोदननिवर्तकानुनय एवार्थ: उपभोगो व्यङ्गय इत्यत्र साधकबाधकमानाभावातसदेहः । स चैकस्यैवोपभो- गस्योद्देश्वत्वान्न दोषाब। तदेवाह। अत्रेत्यादि । अनुनय इति । रोदननिवर्तकव्यापाररूप इ्त्यर्थः ।

Page 247

काव्यप्रकाशः सटीक:।

व्यङ्गये व्यञ्जकः इति संदेहः। स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्धलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। काम सन्तु दृढ कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथ भविष्यति ह हा हा देवि धीरा भव ॥ ११२।। अत्र लिपेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह संदेह इति। तथा चात्र व्यङ्गयसंदेहेनैतन्मूलक एवाविवक्षितवाच्यध्वनिविवक्षितान्यपरवाच्यध्यन्योरपि संदेहरूपः संकरालंकार इति भावः। व्याख्यातमिदं प्रभायाम् "कोपस्याभावाद्याजरूपतयोच्यमानोऽ नुनयो लक्षणयोपभोगप्रतिपादकः । उपभोगगतसामञ्जस्यं व्यङ्गयम्। अथवा बाधाभावाद्वाच्य एवोप- भोगव्यञ्जक इत्यर्थः । उभयथाप्युपभोग एव तात्पर्यपर्यवसानात्सदेहस्यादोषत्वम" इति ॥ अनुग्राह्यानुग्राहकैकव्यञ्जकानुप्रवेशरूपयोः संकरयोः संसृष्टेश्वैकमुदाहरणमाह स्निग्धेति। विरः हिणो रामस्योक्तिरियम्। स्त्निग्धा ल्लक्ष्णा श्यामला अत्यन्तकृष्णा या कान्तिस्तया लिपं निबिडसंबद्धं वियदाकाशं यैस्तथाभूताः । तथा वेल्लन्त्यो (बद्धपड्क्तितया बहुतरं) शोभन्त्यः सविलासं खेलन्त्यो वा बलाकाः बकपड्क्तयो येषु तथाभूता घनाः मेधा एव घनाः निबिडाः काम यथेष्टं सन्तु। "बलाका बकपङक्तिः स्याद्वलाका बिसकण्ठिका । बलाका कामुकी प्रोक्ता बलाकस्तु बको मतः ॥" इति कोशः । तथा शीकरिणः अम्बुकणशालिनः तेन शैत्यमान्दे व्यज्येते तादृशाः वाता अपि कामं सन्तु । एवं पयोदो मेघः सुहृत् ( केकाजनकाह्लादजनकतया ) मित्रं येषां तेषां केकापदसांनिध्यान्मयूराणां कला अव्यक्तमधुराः आनन्दकेकाः आनन्दजन्याः वाण्यः कामं सन्तु। आनन्देन कण्ठजाडयादव्य- क्तता। यद्वा। पयोदरय सुहदा तदुदयोल्लासिनामित्यर्थः । अत एवानन्दकेकाः पयोदोल्लासे तत्सुहृदा- मानन्दौचित्यात्। शेषं प्राग्वत् । काम सन्तु तावता न मे क्षतिरिति भावः। तदेवाह दृढम् अतिशयेन कठोरहृदयः अहं रामः सकलदुःखपात्रत्वेन प्रसिद्धः अस्मि । अत एव सर्वम् उक्तोद्दीपकातिशयज नित केशं सहे। उत्तमपुरुषैकवचनमेतत्। अन्रैतादशदुःखजनकसमाजेऽपि प्राणधारणादात्मन्यक्क रो व्यङ्गयः। वैदेही विदेहराजपुत्री (सीता ) तु राजापत्यत्वात् स्त्रीत्वाच्च सुकुमारतया दुःखाक्षमा विदे- हस्य अनङ्गस्य (कामस्य) आश्रया च कर्थ भविष्यति कथं जीविष्यति। तज्जीवनं न संभाव्यते इत्यर्थः । हहाहेति निपातसमुदायः खेदातिशये। भावनोपनीतां सीतां संबोध्याह हहादा हे देवि धीरा भव धैर्य कुरु इत्यर्थः। देवत्वेन धैर्यौचित्यम्। कमलाकरेण तु सीतामरणं संभाव्य पृथ्वीं प्रत्याह हे सर्वसहे वसुधे देवि धीरा भव दुहितृशोकेन त्वं मा विरदार्णा भवेति व्याख्यातम् । अत्र रामपदेन दुःखपात्रतालक्ष- णया व्यज्यमानस्य राज्यत्यागजटावल्कलधारणपितृशोकाद्यिगतदुःखसहनातिशयस्यावगमे व्यञ्ञ- नयावगतैः शोकावेगधैर्यनिर्वेदादिभि: परिपुष्टो विप्रलम्भः प्रकाश्यते इति उद्दयोते स्पष्टम्। शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) ।। संसृष्टिरिति। द्रवद्रव्यसंयोगविशेषस्य लेपनस्यामूर्ते वियति कान्त्यसंभवात् अचेतने तु मेधे चित्त- वृत्तिविशेषस्य सौहृदस्यासंभवाच्च लेपनं व्यापने सौहृदं च केकाद्यनुबन्धित्वेऽत्यन्ततिरस्कृतम्।अन्र च. लक्ष्यार्थयोरातिशथ्ये व्यङ्गये तयोश्र परस्परं निरपेक्षतयावस्थानात् संसृष्टिः । तन्मूलिकैव ध्वन्योरपि

Page 248

चतुर्थ उल्लासः। १८९

प्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः । एवमन्यदप्युदाहार्यम्॥ इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ॥४॥

संसृष्टिः । अनुग्राह्यानुग्राहकरूपं संकरं दर्शयति ताभ्यामित्यादिना अनुग्राह्यानुग्राहकभावेनेत्य- न्तेन। ताभ्याम् अत्यन्ततिरस्कृतवाच्यध्वनिभ्यां सह अर्थान्तरसंक्रमितवाच्यस्य ध्वनेरनुग्राह्यानुग्राहक- भावेन संकर इत्यन्वयः । तथाहि। रामपदस्य सकलदुःखपात्रतया प्रसिद्धरूपोडर्थों लक्ष्यः तेन च रामस्य स्वावधीरणं व्यङ्गयम् तदानीं तस्य खावधीरणं तु लिप्तपदसुहृत्पदव्यङ्गययोः मेघस्याकाशव्या- पनकेकाद्यनुबन्धित्वातिशय्ययोरुद्दीपकयोः प्रयोज्यमेवेति तयोरनुग्राहकत्वम् स्वावधीरणस्य तु अनुग्राह्यत्वमिति व्यङ्गयाभ्यां व्यङ्गयस्य उक्तरूपसंकरमूलक एव ध्वनिभ्यां ध्वनेस्तद्यपदेशः । एक- व्यञ्जकानुप्रवेशरूप संकरं दर्शयति रामपदेति। अर्थान्तरसंक्रमितवाच्यरसध्वन्योरिति । उक्तरूपेण स्वावधीरणमिव विप्रलम्भस्यागि कर्थचित् रामपदव्यङ्गयत्वात् वाक्यव्यङ्गयस्य विप्रलम्भस्य तदेकदेशरामपदव्यङ्गयत्वानपायाद्वा व्यङ्गययोः स्त्रावधीरणविप्रलम्भरसयोः रामपदरूपैकव्यञ्जकानु- प्रवेशरूपः संकरोऽस्तीति तन्मूलको ध्वन्योरपि तथा व्यपदेश इति विवरणे स्पष्टम् ।।

व्याख्यातमिदं प्रदीपोद्द्योतयोः । "अत्र मुख्यार्थबाधाल्लिप्पदं संपर्क लक्षयदतिशयं व्यनक्ति। पयोदे चाचेतने सौहृदाभावात्सुहृत्पदमुपकारित्वं लक्षयत्तदतिशयं प्रतिपादयति । पयोदानां मयूर- निष्ठकेकाधयुपकारशीलत्वात्। रामपदं च सर्वसहत्वानुपयुक्तशक्यार्थतया सकलदुःखभाजनत्वं लक्षय- त्सीतां विनापि जीविष्यामीति व्यञ्जयदेव विप्रलम्भं व्यनक्ति। तत्र लिप्तेति पयोदसुहृदामित्यनयोरत्यनत- तिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह राम इत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन संकरः। तयोरुद्दीपकत्वात्। रामपदेन चैकव्यञ्जकानुप्रवेशेनार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः । रामो स्मीत्यनेनैव लक्षणामूलस्य विप्रलम्भस्य च व्यञ्जनाद्विप्रलम्भे वाक्यव्यङ्गेडप्यस्य प्राधान्यात्" इति प्रदीपः । (मुख्यार्थेति। द्रव्यद्रव्यस्य सर्वावच्छेदेन संयोगो हि लेपनम्। संपर्को दृढसंबन्धः । पयोदे चेति। सौहृदं चित्तवृत्तिविशेषः। पयोदाः सुहृदो येषामिति बहुव्रीहिरिति भावः। तद्ध्वनयन्नाह पयोदानामिति । अत्यन्ततिरस्कृतेति । लेपनसुहृत्त्वयोः सर्वथानन्वयादिति भावः । संसृष्टि- रिति। त्रिरूपसंकराभावादिति भावः । अर्थान्तरेति । दुःखसहिष्णुत्वेन वाच्यस्य रामस्यैवान्व- यादिति भावः । संकर इति। पूर्वोक्तात्यन्ततिरस्कृतवाच्याभ्यां सहेत्यर्थः । तयोरुद्दीपकत्वादिति । तद्यङ्े विप्रलम्भे इति भावः । रामोऽस्मीत्यनेनैवेति । रामपदलक्ष्येण विप्रलम्भव्यञ्जनेऽपि रामपदस्य सहकारित्वादिति भावः । सीतां विना न जीविष्यामीति लक्षणामूलवस्तुनश्च वाच्यतः प्राधान्येनैव ध्वनिप्रयोजकत्वं बोध्यम्) इत्युद्दयोतः ।।

इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटीकारयां बालबोधिन्यां ध्वनिभेदप्रभेदनिर्णयो नाम चतुर्थ उल्लासः ॥४ ॥ कोशनाा:

Page 249

॥ अथ पञ्चम उल्लासः ॥

एवं ध्वनौ निणींते गुणाभूतव्यङ्गयप्रभेदानाह। (सू० ६६) अगूंढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुट म् । संदिग्धर्तुल्यप्राधान्ये काक्काक्षितमसुन्दरम्॥ ४५॥ व्यङ्ग्चमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदा: स्मृताः। मध्यमकाव्यनिरूपणस्य संगतिमाह एवमिति। भेदप्रभेदाभ्यामित्यर्थः । ध्वनौ निणीते इति। उत्तमकाव्ये प्रदर्शिते इत्यर्थः । गुणीभूतव्यङ्गयप्रभेदानाहेति । गुणीभूतव्यङ्गयस्य मध्यमकाव्यस्य प्रभेदान् अवान्तरभेदान् दर्शयतीत्यर्थः। अवसरसंगत्येति भावः। लक्षणं तु प्रथमोल्लासे (२१ पृष्ठे) एवोक्तमिति बोध्यम्। अगूढमित्यादि। वाच्यापेक्षयाचमत्कारित्वेनात्र व्यङ्गयस्य गुणीभावः । तच् स्वत एवासुन्दरत्वेन सुन्दरत्वेऽपि अगूढत्वादिविशेषणसप्तकेन चेति बोध्यम्। व्यङ्गयमित्यस्य 'गुणी- भूतव्यङ्गये' इति शेषः । तथा च अगूढम् असहृदयैरपि झटिति संवेदम्। अपरस्य वाक्यार्थीभूतस्य वाक्यतात्पर्यविषयतया प्रधानस्येति यावत् अधिकं तूदाहरणावसरे स्फुटीक्रियते अङ्गम् उपकारकम् (उत्कर्षकम्)। वाच्यसिद्धयङ्गं वाच्यस्य वाच्यार्थस्य (कुतोऽपि वैगुण्यादविश्रान्तस्य) सिद्धिः विश्रा न्तिस्तत्र अङ्गं निदानम् वाच्यस्य सिद्धिरेव यदधीना तदिति यावत्। अस्फुटं सहृदयानामपि दुःखसं वेद्यम्। सहृदयैरपि झटित्यसंवेद्यमिति यावत्। संदिग्धतुल्यप्राधान्ये इति संदिग्धप्राधान्यं तुल्यप्राधान्यं चेति द्वयमित्यर्थः। "द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते" इति न्यायेन प्राधान्यपदस्योभयत्रान्व- यात्। तत्र संदिग्धप्राधान्यं नाम संदिग्धं (वाच्यकृतं व्यङ्गयकृतं वा) इत्यनिश्चितं प्राधान्यं चमत्कारित्वं यस्य यत्र वा तत्। यद्वा संदिग्धं (चमत्कारजनने वाच्यव्यङ्गययोः) संदेहविषयभूतं प्राधान्यं यत्र तत्। वाच्यकृतो व्यङ्गयकृतो वा चमत्कार इति संदेहः । तुल्यप्राधान्यं तु तुल्यमर्थाद्वाच्येन समान प्राधान्यं यत्र तत्। चमत्कारजनने वाच्यव्यङ्गययोद्वयोरपि क्षमत्वेन तुल्यता बोध्या। काक्काक्षिप्तम् काकुर्ध्वनेर्वि- कारः तया आक्षिप्तं झटिति प्रकाशितम् यया काका विना वाक्यार्थ एव नात्मानं लभते तया प्रका- श्यमिति यावत् काक्ा हठेनोपैस्थापितमिति वा। असुन्दरं चमत्कारजनने वाच्यमुखनिरीक्षकम्। यद्वा। स्वभावादेव वाच्यापेक्षयाचारु। एवंभूतं व्यङ््यं गुणीभूतव्यङ्गये मध्यमकाव्ये भवतीत्यर्थः । एवं एतेन कारणेन गुणीभूतव्यङ्गयस्य मध्यमकाव्यस्य अष्टौ मिंदाः भेदा: स्मृताः कथिता इति सूत्रार्थः । एवं चागूढव्यङ्गयं मध्यमकाव्यम् अपराङ्गव्यङ्गयं मध्यमकाव्यमित्यादिरीत्या मध्यमकाव्यस्य अष्टौ भेदा इति भावः। अष्टाविति न्यूनाधिकवारणाय। तेनाप्रधानं संदिग्धतुल्यप्राधान्यं चेति मध्यम- काव्ये व्यङ्गयं त्रिविधमिति परास्तम्। उपाधिवैलक्षण्यस्य दुरपह्नवत्वात्। १ "सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे षोढा संगतिरुच्यते" इति ॥ २ अत्र दपिकतुल्य- थोगितादौ उपमालंकारो व्यङ्गन्य एव काव्यस्य दीपकादिमुखेनैव चमत्कारित्वादिति गृहाण॥ ३ अत एव मुख्यार्थ- बाधाद्यमुसंधानविलम्बाभावान्न लक्षणावसर इश्यर्थः ॥ भिवा इत्यत्र "षिद्विदादिम्योऽड" इति पािनिसूत्रेण भाषेडङ्प्रत्यय: ।।

Page 250

पश्चम उल्लासः। १९१

कामिनीकुचकलशवत् गूढ चमत्कारोति अगूढं तु स्फुटतया वाच्यायमानमिति गुणी- भूतमेव। अगूढं यथा यस्यासुहृत्कृततिरस्क्रतिरेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति कणौ। काश्चीगुणग्रथनभाजनमेष सोडस्मि जीवन्न संप्रति भवामि किमावहामि॥ ११३ ॥ अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य। अगूढस्य व्यङ्गयस्य वाच्यत्वाभावान्मुख्यत्वमेव न तु गुणीभूतत्वमित्याशङ्गां निवारयितुं गूढस्य मुख्यत्वं सदृष्टान्तमाह कामिनीति। कामिनीकुचकलशन्यायेनेत्यर्थः । गूढमिति। किंचिदूड- मित्यर्थः । यथा कामिनीकुचकलशस्य किंचिद्रू ढतानिबन्धनमेव चारुत्वं (चमत्कारित्वं) तथा व्यङ्गयस्या- पीति भावः। यदर्थमेतदुक्तं तदाह अगूढं त्विति। वाच्यायमानमितीति। न तथा चमत्करोतीति शेषः। यद्यपि वाच्यत्वं नास्ति तथापि अगूढं स्फुटतया वाच्यसदृशमिति गुणीभूतमेवेत्यर्थः। एवमतिगूढ- तानिबन्धनमप्यचारुत्वम् । अत एवास्फुटमपि गुणीभूतव्यङ्गयं न ध्वनिः । तदेतदुक्तम् "नौन्धरीपयो- घर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः । अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभा- ग्यमेति मरेहद्टववधूकचाभः ॥" इति। एवं च कामिनीकुचकलशन्यायेन सहृदयैकवेद्यमेव व्यङ्गयं ध्वनित्व- मुपयाति सहृदयैरपि दुःखसंवेद्यमसहृदयैरपि वेद्यं वेत्युभयमपि गुणीभूतव्यङ्गयमेवेति बोध्यम्। एवमन्ये व्वपि भेदेष्वनुभव एव साक्षीति प्रदीपादौ स्पष्टम् ।। उक्तभेदानां मध्येऽगूढं व्यङ्गयमर्थान्तरसंक्रमितवाच्ये उदाहरति यस्येति। कीचककृतपराभवं निवे- दयन्तीं द्रौपदीं प्रति बुहन्नडा(ला)रूपस्यार्जुनस्योक्तिरियमिति सुधासागरकाराः। अर्जुनस्य बुहन्नला- दशायां 'स्वाभ्युदयाय किमिति न चेष्टसे' इति केनापि पृष्टस्य वाक्यमिदमित्युद्दयोतकाराः । यस्य मम असुहत् शत्र: कृता (स्वस्य ) तिरस्कृतिः तिरस्कारो येन ईदृशः सन् (स्वयमेव मां शरणम्) एत्य आगत्य (स्वस्यैव) कर्णौ तप्तया सूच्या लोहशलाकया यो व्यध: वेधः तस्य व्यतिकर: पौनःपुन्यं तेन युनक्ति संबन्नाति । शरणागतस्य शत्रोस्तप्तलोहशलाकया कर्णवेधो देशाचारसिद्ध इति बहवः । शरणा- गतस्य तप्तशलाकया कर्णवेधनमिति पाश्चात्याचार इति चक्रवर्तिभट्टाचार्याः । (यस्य (मम) प्रागीदृशः प्रभाव आसीत् यन्नामश्रवणमात्रेण शत्रवः स्वमुखेनैवात्मानं धिक्कुर्वन्तः स्वहस्तेनैव कर्णकृततप्तलोहश- लाकावेधाः सन्तो यं शरणमायान्ति) स एषः अहं संप्रति अधुना काञ्चीगुणस्य ग्रथनं काञ्चयाः गुणेन त्रथनं वा तद्रूपस्य कर्मणो भाजनं पात्रम् अस्मि तत्र नियुक्त इति यावत् । अतो जीवन् न भवामि अश्लाध्यजविन इत्यर्थः । अतः किमावहामि किं करोमीत्यर्थ इति चन्द्रिकादौ स्पष्टम् । उद्दयोत- कारास्तु "अतो जीवन्नपि न भवामि न जीवामि" इति व्याचख्युः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् (६८ पृष्ठे ) । अत्र जीवन्निति पदं श्लाध्यजीवित्वरूपे (अभिमतकार्यशक्तत्वरूपे) अर्थान्तरे संक्रमितवाच्यम्। तस्य च मरणमेव श्रेय इति व्यङ्गयम्। तच्चासहृदयैरपि वाच्यवद्गम्यमित्यगूढाख्यं गुणीभूतम्। तदेवाह १ आन्ध्री तैलङगाङ्गना ॥ २ मरहद्ृेति। महाराष्ट्रेत्यर्थः ॥ ३ इतीति "अनुदधृतः शब्दैरथ च रचनातः स्फुटरस: पदानामर्थात्मा जनयति कवीनां बहुमुहम्। यथा किश्चित्किश्वित्पवनचलचोल ख्चलनया कुचद्वन्द्वं कान्ति किरि न तथोद्रघाटितमुरः " इत्यपि बोध्यम् ॥

Page 251

१९२ काव्यप्रकाशः सटीक:।

उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु। एतच्चकास्ति च रवेर्नवबन्धुजविपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥ ११० ॥ अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य।

अत्रेत्यादि। संक्रमितवाच्यस्येति। व्यङ्गयमगूढमिति शेषः । एवं चागूढव्यङ्गयं मध्यमकाव्यमिद- मिति भाव: । व्याख्यातमिदं विस्तारिकासारबोधिन्योः। "जविन्नितीति। जीवतो जीवनाभावबोधने बाध इति लक्षणा (उपादानलक्षणा)। श्लाध्यजीवित्वं लक्ष्यतावच्छेदकम्। नञा तदभावबोधने कष्ट- जीवित्वावगमः । अनुतापादेव जीवनं निन्दतीत्यनुतापातिशयो व्यङ्गयः । स च सर्वजनवेद्यत्वाद- गूढ एव । केचित्तु कष्टजीवित्वं लक्ष्यतावच्छेदकं वदन्ति । तन्न । नञः संबन्धे श्लाध्यजीवनावगम- प्रसङ्गात्। नच नञस्तात्पर्यग्राहकत्वम् सार्थकत्वे संभवति निरर्थकत्वाकल्पनात्। श्लाध्यजीवित्व- स्यैव लक्ष्यत्वेनार्थान्तरसंक्रमः" इति ॥ बुहुदुद्दयोतकारास्तु "एवं वदतो जीवनाभावस्य बाधात्क्रियापदस्थजीवपदं प्रकृष्टजीवनं लक्ष- यति। तदभावबोधे चानुतापादेव जीवनं निन्दतीत्यनुतापातिशयो व्यङ्गयः । स च सर्वजनवेद्यत्वा वादगूढः । यत्तु कष्टजीवित्वं लक्ष्यतावच्छेदकमिति तन्न। नओो वैयर्थ्थापत्तेः। तात्पर्यग्राहकतया सार्थकत्वमिति चेत उक्तार्थलक्षणया सार्थकत्वमेव युक्तम्" इति व्याचर्युः ॥ अगूढमेव (व्यङ्गयम्) अत्यन्ततिरस्कृतवाच्ये उदाहरति उन्निद्रेति। नायकेन सह सुप्तां रति- श्रमालसतयानाकलितप्रबोधसमयां सखीं प्रति तत्सूचनाय सख्या उक्तिरियम्। उन्निद्रं विकसितं यत् कोकनदं रक्ताब्जं ( "रक्ताब्जे रक्तकुमुदे बुवैः कोकनद स्मृतम् " इति कोशः । "अथ रक्तसरोरुहे रुक्तोत्पलं कोकनदम् " इत्यमरश्च । "अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे " इति मेदिनी च) तद्रेणुना तत्परागेण पिशङ्गितानि (रक्तकृष्णयोर्मिश्रणात्) पिशङ्गवर्णानि अङ्गानि येषां ते तथाभूता: मधुपाः भ्रमराः गृहदीर्धिकासु गृहवापीषु मञ्जु मनोहरं यथा स्यात्तथा गायन्ति गुञ्जारवं कुर्वन्ति। मधुपा इत्यनेन मत्ता अपि जागरिता इति ध्वनिः। गृहेत्यनेन निकटस्थतया गानश्रवणसुगन्धा- घ्राणादिरूपायाः कोकनदेतियोगोपस्थाप्यचक्राह्वशब्दादिरूपायाश्च जागरणसामग्रयाः संनिहितत्वं ध्वन्यते। सूर्योदयो मया प्रतीक्ष्यते इत्यत आह एतदिति। एतत् रवेः बिम्बं मण्डलं चकास्ति प्रका- शते। कीदृक्। उदयाचलचुम्बि तत्संयुक्तम्। अत एव नवस्य नूतनस्य बन्धुजीवपुष्पच्छदस्य बन्धुजी- वाख्यपुष्पपत्रस्य आभा कान्तिर्यस्मिन् तत् । रक्तत्वादित्यर्थ इन्युद्दयोते स्पष्टम् । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे) ।। अत्र चुम्बतेर्वक्त्रसंयोगो मुख्योऽर्थः । स चाचेतने रविबिम्बे तेन रूपेणानन्वयाद्वाधित इति सामा- न्यविशेषभावसंबन्धेन संयोगमात्रं लक्षयतोऽस्यात्यन्ततिरस्कृतवाच्यत्वम् व्यङ्गयश्चास्योषःकालारम्भः स च वाच्यायमानतया अगूढ इति गुणीभूतः । संयोगत्वस्य लक्ष्यतावच्छेदकस्य मुख्यार्थसाधारणत्वेऽपि प्रकृते तेन रूपेण मुख्यार्थस्थाचलेऽनन्व्रयादत्यन्ततिरस्कृतवाच्यत्वमिति प्रदीपोद्दयोतयोः स्पष्टम्। तदेव वृत्तिकृदाह अत्रेत्यादि। तिरस्कृतवाच्यस्येति। व्यङ्गयमगूढमिति शेषः। एवं चागूढव्यङ्गयं मध्यम- काव्यमिदमिति भावः। उक्तं च विवरणे अत्र चुम्बतिर्वक्त्रसयोगरूपे मुख्यार्थे सबाधः सन् संयोगत्व- रूपेण उदयाचलसूर्यबिम्बसंयोगं लक्षयन् प्रभातं वाच्यवत् प्रकाशयति। संयोगत्वसामान्यरूपेणापि वक्त्र संयोगरूपमुख्यार्थस्यान्वयाप्रवेशादत्यन्ततिरस्कृतवाच्यत्वमिति। व्याख्यातं च विस्तारिकासारबो-

Page 252

पश्चम उल्लास:। १९३

अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षास ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैलोंकान्तरं प्रापित: केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी । ११५॥ [१] अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य। 'तस्याप्यत्र' इति युक्तः पाठः। धिन्योरपि "अत्र चुम्बनस्य वक्त्रसंयोगस्य रविबिम्बे बाधितत्वात्संयोगे लक्षणा ( लक्षणलक्षणा )। संयोगत्वेनापि तद्वयक्तेरनन्वयादत्यन्ततिरस्कृतवाच्यत्वम् । व्यङ्गयश्च प्रातःकालारम्भो वाच्यवत्प्रतीयते इत्यगूढम् " इति ॥। अगूढमेव (व्यङ्गयम्) अर्थशक्तिमूलव्यङ्गये उदाहरति अत्रासीदिति। राजशेखरकृते बालरामायण- नाम्ि नाटके दशमेऽके रावणं हत्वा विमानमार्गेणायोध्यामागच्छतो रामस्य सीतां प्रत्युक्तिरियम्। एकस्या एव समरभुवस्तत्तत्कर्माधारतया नवनवायमाना्ुतरसालम्बनत्वेन पुनः पुनरत्रेत्यस्योपादानम्। यद्वा भिन्नान्येव स्थानानि अत्नपदैरुक्तानि। फणिपाशो नागपाशः तेन यत् बन्धनम् (अर्थादावयोः) तस्य विधिरासीत् । विधिरिति विधेर्दुर्लङ्मयत्वात्स्वपराभवगूहनम् । शक्त्या आयुधविशेषेण भवत्याः देवरे लक्ष्मणे वक्षसि उरसि गाढं दढं ताडिते सति हनुमता द्रोणाद्रिः न तु तद्वर्ति औषधमात्रम् आहृतः आनीत इति तत्पराक्रमप्रकाशनम् । भवदेवरे इति "सर्वनाम्नो वृत्तिमात्रे पुंवद्धावः " इति भाष्यकारेष्टया पुंवद्ावः। भवद्देवरे इति सीतासंबन्धप्रदर्शनं च वात्सल्योपादनया पराभवज्ञानतिरोधाना- योपकारप्रकाशनाय च। इन्द्रजित् रावणपुत्रः दिव्यैः दिवि भवा दिव्याः तादृशैः लक्ष्मणशरैः लोका- न्तरं स्वर्ग प्रापितः दिव्यानां तत्प्रापकत्वस्योचितत्वात्। रावणपुत्र इत्यपहाय इन्द्रजिदित्युक्त्या इन्द्रोऽपि येन जितः सोडपि येन जित इति प्रतीत्या लक्ष्मणपराक्रमप्रकर्षः । अत एवात्र लक्ष्मणत्वेन लक्ष्मणग्रह- णम्। लक्ष्मणशरैरिति शराणां कर्तृत्वप्रदर्शनेन लक्ष्मणस्य तत्रावहेला सूचिता। मृगाक्षीति सर्ववाक्या- न्वयि। केनापत्यपिर्हेलायाम्। राक्षसपतेः रावणस्य कण्ठरूपा अटवी अरण्यं केनापि कृत्ता छिन्नेत्यर्थः। छिन्नस्य पुनः पुनरुद्गतस्य छेदनादटवीत्युक्तम् अहंकारप्रकटनभिया धीरोदात्तेन (नायकेन) रामेण मयेत्यपहाय केनापीत्युक्तमित्युद्दयोते स्पष्टम्। शार्दूलविकरीडित छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे)।। अत्र केनापत्यर्थशक्तिमूलं संलक्ष्यक्रमं रामरूपं व्यङ्गयमगूढम्। तदेवाह अत्र केनापीत्यादि। अनुरणनरूपस्येति। व्यङ्गयस्यागूढत्वमिति शेषः । युक्तः पाठ इति। 'केनाप्यत्र' इत्यस्य स्थाने 'तस्याप्यत्र ' इति पाठे गूढतया ध्वनित्वमेवेति भावः। व्याख्यातमिदं सारबोधिन्याम् अत्रेति । अनिर्धारितविशेषत्वेन किमः शक्तौ मयेत्यर्थो व्यङ्गयः । स च प्रसिद्धिवशादगूढः । तस्याप्यत्रेति। तस्य तत्तत्प्रभावातिशयवत्त्वेन ख्यातस्य। युक्त इति। तथा सति ध्वनिरेव स्यात् । अत्रायमभिप्रायः । वर्णनीयनायकोत्कर्षोडपि कवितात्पर्यविषयः। स च केनापीति पाठे मयेति व्यङ्गयेन द्रागेव प्रतीयते इति तत्राप्यगूढता स्यात। तस्यापीति पाठे तु तज्जयानायकोत्कर्ष इत्यनया रीत्या नायकोत्कर्षप्रतीतौ गूढतेति ध्वनित्वमेव स्यादिति। न च तथा सति मयेत्यध्याहारे न्यूनपदत्वमिति वाच्यम्। एवं जयानुस्मृत्या सीतया सहालापेन च हर्षयुक्ते वक्तरि तस्यादोषत्वात्। धीरोदात्तत्वेन स्ववीर्यख्यापनभिया मयेत्यस्या- १ ख्यातस्य रावणस्य । 2 वर्णनीयन्नायकोऽत्र रामः ॥ ३ तस्य रावणस्य जयात् ॥ न्यूनपदत्वस्य ।। २५ काव्यप्रकाश

Page 253

१९४ काव्यप्रकाश: सटीक:। अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणनरूपं वा। यथा वक्तव्यत्वाच्च। ननु कथं शब्दशक्तिमूलवस्त्वलंकृत्योर्नोदाहरणमिति चेत्। मैवम्। प्रकृतवाक्यार्थप्रती- तिव्यवधानेन प्रतीयमानस्य व्यङ्गयस्य द्वितीयार्थस्यालंकारस्य वा झटित्यसंवेदत्वेन गूढत्वात्। एवं विभावादिव्यङ्गयेष्वपि अलक्ष्यत्रमेषु न तत्प्रसङ्गः । विभावाद्यनुसंधानस्य व्यवधायकत्वात्। अत एव पदव्यङ्गयेष्वेवोदाहतम् वाक्यव्यङ्गयेषु वाक्यार्थप्रतीत्या व्यवधानेन झटित्यवभासो यतः। एवमन्यत्र स्वयमूह्यमिति। उक्तं चेदं प्रदीपोद्द्योतयोरपि। "अत्रानुनायकोपनायकप्रतिनायकेषु निर्दिष्टेषु चतुर्थ- वाक्येऽनुक्तोऽपि नायको राम एवार्थशक्त्या प्रतीयते। स च केनापीत्युपादानेन वाच्यायमानतयागूढः कृतः । 'तस्याप्यत्र' इति पाठे गूढतया ध्वनित्वमव्याहतमेव । अत्र श्लोके प्रतिवाक्यमत्रेत्युपादानं प्रत्ये- कमेवाद्धुतत्वं व्यनक्ति " इति प्रदीपः। (केनापीत्युपेति। अनिर्धारितविशेषत्वेन किमः शक्तौ मयेति व्यङ्गयम्। तच्च प्रसिद्धिवशाद्वाच्यायमानमित्यगूढमिति भावः। यद्वा। अनिर्वचनीयगुणगरिम्णेत्यर्थकेन रामरूपः कर्ता स्फुट व्यज्यते इत्यर्थः । एकेनेति पदान्तरोपादानेऽपि तत्प्रतीतेरर्थशक्तिमूलत्वं बोध्यम्। तस्यापीति। अतिशयितप्रभाववत्त्वेन ख्यातस्येत्यर्थः । एवं पाठे लक्ष्मणशरैः कृत्तेत्यापाततोऽन्वयभ्रमे पश्चादत्युत्कट प्रभावशालिलङ्केशहन्ता राम एवेति पर्यालोचनेन गूढतया रामरूपः कर्ता द्योत्यते इत्यर्थः। तेन च तस्योत्कर्षातिशयः । एतेन कृत्तेत्यस्य कर्तृसापेक्षतया मयेतिपदाध्याहार आवश्यकः। इत्थं च स्फुटत्वं तदवस्थं न्यूनपदत्वरूपो दोषश्चाधिक इति परास्तम्। तादृशरणस्मृत्या सीतया सहालापेन च हर्षयुक्ते वक्तरि न्यूनपदत्वस्य गुणत्वाच्च स्ववीर्यसंगोपकत्वेन धीरोदेात्तत्वप्रकटकतया गुणत्वाच्चेत्याहकः। प्रकृतवाक्यार्थप्रतीतिव्यवधानेन प्रतीयमानस्य शब्दशक्तिमूलवस्तुरूपव्यङ्गयस्यालंकारस्य वा झटित्य- संवेदनेन नागूढत्वसंभव इति तत्र अनुदाहृत्यार्थशक्तिमूले एवोदाहृतम्। रसादीनामगूढत्वं तु वचन- स्याप्यनर्हमित्याहुः) इत्युद्दयोतः । 'अपरस्याङ्गम्' इति द्वितीयं भेदं विवृणोति अपरस्येत्यादि। अपरशब्दार्थमाह रसादेर्वाच्यस्ये- त्यादि। रसादिरित्यादिपदेन भावरसाभासभावाभासभावशान्तिभावोदयभावसंधिभावशबलतारूपस्या- संलक्ष्यत्रमस्य च ग्रहणम्। वाच्यस्य वाच्यार्थस्य। कीदृशस्य रसादेर्वाच्यस्य वेत्याकाङ्कायामाह वाक्यार्थीभूतस्येति । वाक्यतात्पर्यविषयतया प्रधानस्येत्यर्थः । एवं चासंलक्ष्यक्रमं संलक्ष्यक्रमं वाच्यवस्तु चेति त्रिविधोऽत्रापरशब्दार्थ इति भावः । अत एव "अपरस्याङ्गम् अपरस्य रसादेः स्वनैरपेक्ष्येण लब्धसिद्धेरुपकारकम् " इति प्रदीपस्थग्रन्थात् रसादेरिति प्रतीकमुपादाय नागोजीभट्टाः प्राहुः "रसपदमलक्ष्यक्रनोपलक्षणम् । आदिना लक्ष्यक्रमस्य वाच्यवस्तुनश्च संग्रहः" इति। एतेषा प्रधानानां मध्ये रसभाववाच्यरूपस्य त्रिविधस्यैव प्रधानस्योदाहरणानि मूलकृताग्रे प्रदर्शितानि। रसाभासाद्यसंलक्ष्यक्रमरूपस्य संलक्ष्यक्रमरूपस्य च प्रधानस्योदाहरणानि तु सुधीभिः स्वयमूह्यानि। अङ्गम् उपकारकम्। उत्कर्षकमिति यावत्। रसादीति। असंलक्ष्यत्रमरूपमित्यर्थः । निष्पन्नरसभा- वास्याङ्गत्वाभावाद्रसपदमत्र स्थायिभावपरम् । अनुरणनरूपमिति। संलक्ष्यक्रममित्यर्थः । एवं चासंल- क्ष्यक्रमम् अनुस्वानाभसंलक्ष्यक्रमं चेति द्विविधमपराङ्ग व्यङ्गयमिति भावः । अत्र 'रसादेः रसादि वाच्यस्य १ अनुनायको हनुमान् । उपनायको लक्ष्मणः । प्रतिनायको रावणः ॥ २ धीरोदात्तनायकः ॥ ३ रामरय ॥ ४ धीरोदात्तो नायकविशेषः ॥ ५ "शब्दशक्तिमलस्य वस्तुरूपस्यालंकाररूपस्य का व्यङ्र्धस्य झटित्यसंवेद्यत्वेन" इति युक्त पठनीयम् ॥ ६ शब्दशक्तिमूले॥

Page 254

पश्चम उल्लास:। १९५

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसरसनः करः ॥ ११६ ॥ अत्र शृङ्गारः करुणस्य। अनुरणनरूपम्' इति कैचिदुक्तो यथासंख्यान्वयस्तु प्रमाणशून्यतयोपेक्ष्यः । उदात्तालंकारोदाहरणे (५०५ उदाहरणे) "न चात्र वीरो रसः । तस्येहाङ्गत्वाद् " इति वदता ग्रन्थकृतैव रसादेर्वाच्याङ्ग- तया स्वीकृतत्वेन तस्यान्तर्भावे पृथग्भेदत्वापत्तेः । तदुक्तं बृहदुद्दयोते। "अत्र यथासंख्येनान्वय इति प्राञ्चः। अन्ये तु द्वयोरद्वयमप्यङ्गम्।न च रसस्य वाच्याङ्गत्वासंभव इति वाच्यम्। 'तदिदमरण्यं यस्मिन्' इत्यादौ (५०६ उदाहरणे ) रामगतवीरस्य वाच्यारण्योत्कर्षकत्वेन तत्संभवात। अत एव 'महतां चोपलक्षणम्' इत्युदात्तालंकारे (१७७ सूत्रे) महतां रसादीनामप्युपलक्षणमङ्गभाव इति व्याचख्युः। अत एव रसस्य वाच्याङ्गत्वमत्र नोदाहतम् । तत्रोदात्तालंकारस्य वक्ष्यमाणत्वात्। न चैवमनुग्राह्यानु- ग्राहकलक्षणध्वनिसंकरे (११२ उदाहरणे) अनुग्राहकस्याप्यपराङ्गत्वापत्तिः । यत्र साक्षादङ्गत्वं तत्र 'अयं स रशनोत्कर्षी' इत्यादावपराङ्गत्वम् यत्र परम्परया तत्र स भेदादित्याहुः " इति॥ रसस्य रसाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति अयं स इति। महाभारते स्त्रीपर्वणि चतु- र्विशेऽघ्याये रणभूमिपतित भूरिश्रवसश्छिनं हस्तमादाय तद्वधूप्रलापोक्तिरियम्। 'पीनस्तनविमर्दकः' इत्यपि पाठः । स पूर्वानुभूतरशनोत्कर्षणादितत्तच्छुङ्गारावस्थः करः हस्तः अयं दृश्यमानदुरवस्थ इत्य न्वयः। पूर्वानुभूतावस्थामेव विशेषणैराह रशनेत्यादि। उत्कर्षतीत्युत्कर्षी। "सुप्यजातौ णिनिस्ताच्छील्ये" (३।२७८) इति पाणिनिसूत्रेण ताच्छील्ये णिनिप्रत्ययः । रशनायाः काञ््याः उत्कर्षी आकर्षकः । चन्द्रिकायां तु 'रशनां काश्चीमुत्कर्षति' इति विग्रहो दर्शितः। सोऽप्युपपद्यत एव। यद्यपि तथा विग्रहे सूत्रे 'अजातौ' इत्युक्तत्वेन णिनिप्रत्ययो दुर्लभः रशनाशब्दस्य जातिवाचकत्वात् 'अजातौ' किम् 'ब्राह्मणानामन्त्रयिता इति प्रत्युदाहरणवत् तथापि "सुप्यजाताविति सूत्रे प्राणिजातिरेव पर्युदस्यते ताच्छील्यसमभिव्याहारात् 'ब्राह्मणानामन्त्रयिता' इति प्रत्युदाहरणानुगुण्याच्च। अत एव 'ब्रह्मवादिनो वदन्ति' इत्यत्र ब्रह्म वेद इति ब्रह्मशब्दस्य जातिवाचकत्वेऽपि णिनिः" इति तत्त्वबोधिन्युक्तनव्यमतरीत्या णिनिप्रत्ययः सुलभः एवेति बोध्यम् । तथा पीनयोः पुष्टयोः स्तनयोः विमर्दनः विमर्दकारी। नामिश्र ऊरू च जघनं चैतानि स्पृशति तच्छीलः । नीव्याः नाभितलवसनग्रन्थेः विस्त्रंसनः मोचक इत्यर्थः । जघनं कटिपुरोभागः । "जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि" इति मेदिनी। "नीवी स्त्री- कटीवस्रबन्धने । मूलद्रव्ये परिपणे" इति हैमः ॥ अत्र किं कस्याङ्गमित्याकाङ्कायामाह अत्रेत्यादि। शङ्गारः नायिकाविषयो नायकाश्रयः तस्यैव नायिकाशोकप्रकर्षकत्वात्। करुणस्य नायिकाश्रयस्य। अङ्गमिति शेषः । एवं चात्र भूरिश्रवसश्छिन्नं हस्तमासाध तद्वधूनां प्रलापे शृङ्गारोचितरशनाकर्षित्वादिविलासस्मरणं विगलद्वृद्यत्वाच्छोकावेगमधिक- मुपजनयतीति शृङ्गारस्य करुणपोषकत्वाच्छृङ्गारःकरुणस्याङ्गमिति वृत्त्यर्थः। अत्र करुणरस एव प्रधानम् १ इत्यत्रेति। इति वैदिकप्रयोगे महाभा्योदाहते इत्यर्थः ॥२ नायिकाविषय इत्यादि। अस्य हि शृङ्गारस्य रशना- कर्षित्वादिरूपानुभावैरनुभाविततया पूर्वावस्थास्थत्वम् इदानीं तु स्मर्यमाणमात्रत्वमिति नायिकाविषयत्वं नायकनिष्ठ्त्वमिति बोध्यम्।।

Page 255

१९६ काव्यप्रकाश: सटीक:। कैलासालय भाललोचनरुचा निर्वर्तितालक्तक- व्यक्तिः पादनखद्युतिगिरिभुवः सा वः सदा लायताम्। स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥ ११७॥ अत्र भावस्य रसः। अत्युच्चा: परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्ान्तासि तुभ्यं नमः। शोकस्योल्बणतया करुणस्यैवास्वादगोचरत्वात्। शङ्गारस्त्वङ्गम्। प्रागवृत्तशृङ्गारोचितरशनाकर्षणादि- विलासस्मरणस्य शोकपोषकत्वात्। अतित्रियनाशे शोकातिशयदर्शनात्। एवं च करुणमादायास्य काव्यस्य ध्वनित्वम्। शृङ्गारस्थायिनमादाय गुणीभूतव्यङ्गयत्वमिति बोध्यम्। शोकावेशादेव शूङ्गारोड- पुष्टः। एवमग्रेऽपीत्युद्दयोते स्पष्टम्। निष्पन्नस्य रसस्यापराङगत्वाभावाद्रसपदेनात्र रस्यते आस्वाद्यते इति व्युत्पत्या स्थायिभावो द्रष्टव्य इति प्राक् (१९५ पृष्ठे) उक्तं न विस्मर्तव्यम् । अत्र रसवदलंकारः । रसस्याङ्गत्वादित्युक्त प्राक् (चतुर्थोल्लासे) ।। रसस्य भावाङ्गतायामपाङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति कैलासेति। प्रणतिपरे भगवति भवे भवान्याः मानभङ्गेन नेत्रारुण्यनाशवर्णनमिदम्। गिरिभुवः पार्वत्याः सा पादनखानां द्ुतिः कान्तिः वः युष्मान् सदा त्रायतां रक्षत्वित्यन्वयः । कीदशी। कैलास आलयः स्थानं यस्य तथाभूतस्य (शंभोः) भालसंबन्धिनो लोचनस्य वहिरूपस्य रुचा अरुणकान्त्या निर्वर्तिता निष्पादिता (संपादिता) अलक्त- कस्य यावकस्य (लाक्षारसस्य ) व्यक्तिः प्रकटता यस्यां तथाभूता। मानिन्याः पादपतने सांनिध्येन लाक्षारुणललाटनेत्रप्रभासंपर्कादिति भावः । तेन शिवस्य गिरिजापादपतनं ध्वन्यते। सा का। यया नखद्युत्या सुदृढं यथा स्यातथा रूढा प्रवृद्धा कोकनदस्य रक्तोत्पलस्य रक्ताब्जस्य वा अनुकारः सादृश्यं यस्यां तादृशी। कोकनदसदृशीत्यर्थः । अत एव सरसातिशयिता नेत्रयोः कान्तिः कोपजनिता शोणद्युतिः सदः तत्क्षणं समुत्सार्यते निःशेषं दूरीक्रियते। पादपतनगतस्योत्सारणकर्तृत्वस्य तदनुभावरूपायां ताद- शदुतावुपचारो वक्ष्यमाणोत्प्रेक्षार्थः । अत्र गिरिभुवः कोपान्नेत्रयोः शोणा कान्तिरासीत् सा पादप्रणते शिवेऽपगतेति तत्त्वम् । तत्रेदमुत्प्रेक्षते स्पर्धेति । स्पर्धायाः विजिगाषायाः बन्धेन सातत्येन समृद्धयाति- दीप्तयेव। अत्र भाललोचनरुचिसंपर्ककृते स्वभावशोणनखद्युतेदीप्त्वे स्पर्धाबन्धो हेतुत्वेनोत्प्रेक्ष्यते इत्यु- दयोते स्पष्टम् । शार्दूलविकीडितं छन्दः । लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र किं कस्याङ्गमित्याकाङ्मयामाह अत्रेत्यादि। भावस्येति। तायतामित्यतः प्रतीतस्य कविनि- ष्ठस्य पार्वतीविषयकरत्याख्यभावस्येत्यर्थः ।रस इति । महादेवनिष्ठः पार्वतीविषयकः संभोगरूपः शुङ्गार इत्यर्थः । अङ्गमिति शेषः । अत्र कविनिष्ठे पार्वतीविषयकप्रतीतिरूपे भावे पार्वतीपरमेश्वरयोः शृङ्गारोऽङ्गमिति भावः । तदुक्तमुद्दयोते "अयं भावः । कैलासालयत्वादिगम्यपरमैश्वर्योऽपि अति- प्रियतमलोचनपीडामगणयन्नेव पादप्रत्यन्ते एव यां प्रसादाय नमस्करोति तस्यां भक्तिरुचितैवेति तस्य शृङ्गारस्य भावप्रकर्षार्थमेवोपादानात् पुष्टविभावाद्यप्राप्त्यापुष्टत्वाच्च रसस्य भावाङ्गता" इति। अत्रापि रसवदलंकार एव रसस्याङ्गत्वादिति बोध्यम् ।। भावस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति अत्युच्चा इति। पञ्चाक्षरीनामा कविरनेन

Page 256

पश्चम उल्लासा। १९७

आश्चर्येण मुहुर्मुह्ुः स्तुतिमिति प्रस्तौमि यावद्भुव-671E 11 स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥ ११८॥ अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य। ERT बन्दीकृत्य नृप द्विषां मृगदशस्ताः पश्यतां प्रेयसां श्विष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः।

विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥ ११९ ॥ अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ। वाक्येन (श्लोकेन ) भोजराजं स्तुतवानिति जयन्तभट्टकृतदीपिकायां स्पष्टम्। हे पृथ्वि इति संबोधन- पदाध्याहारः पूर्वारधें उत्तरार्धे तु हे राजन्निति । अत्युच्चा अत्युन्नताः गिरयः पर्वताः परितः सर्वतः स्फुरन्ति समन्ताद्वयाप्य तिष्ठन्ति । एवम् स्फारा अतिविस्तृताः अम्भोधयः समुद्राः तथा स्फुरन्ति । अपिर्मिन्नक्रमः । हे पृथ्वि तानेतान् गिरिसमुद्रान् बिभ्रत्यपि धारयन्त्यपि त्वं किमपि किचिदपि (ईषद्पि ) न क्रान्ता श्रान्तासि अतः तुभ्यं नमः इति भुवः पृथिव्याः स्तुतिम् आश्चर्येण (एवं- विधगिर्यादिधारणेडप्यक्वमादाश्चर्यम् ) यावत् मुहुर्मुहुः वारं वारं प्रस्तौमि करोमि तावत् हे राजन् इमाम् एतद्विशिष्टां भुवं बिभ्रत् पालयन्नेव बिभ्रत् धारयन् तव भुजः (नतु भुजौ) स्मृतः ततः भुजस्मरणात् वाचः पृथ्वास्तुतिरूपा: मुद्रिताः संकुचिताः (कुण्ठिताः) इत्यर्थः। शार्दूलविक्रीडित छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) । अत्र भूविषयकः कविनिष्ठो रतिभावो राजविषयकस्य कविनिष्ठस्य रतिभावस्याङ्गम्। तदेवाह अत्रेत्यादि। रत्याख्यः प्रीतिरूपः । रतिभावस्येति। अङ्गमिति शेषः । तदुत्कर्षकत्वात्तदङ्गमिति भावः । अत्र भूविषयो भाव आहार्यः। नृपवर्णनार्थमारोपितत्वात् । अत एवापुष्ट इत्युद्दयोते स्पष्टम्। "भूविषयः पादत्रयप्रतिपाद्यः । चतुर्थपाद्गम्यो राजविषयः " इति चक्रवर्ती। अत्र प्रेयोऽलंकारः । भावस्याङ्गत्वादिति बोध्यम् ।। रसाभासभावाभासयोर्भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति बन्दीकृत्येति। कश्चित्कविः राजानं स्तौति। हे नृप ते तव सैनिकाः भटाः येषां द्विषां शत्रूणां मृगदृशः कातरतया मृगसदृशदृष्टयः स्त्रियः बन्दीकृत्य हठादाहृत्य (पश्यतां प्रेयसामिति अनादरे षष्ठी "षष्ठी चानादरे" (२।३।३८) इति पाणिनिसूत्रात्) पश्यतः तत्प्रियतमान् अनादृत्येत्यर्थः ताः मृगदृशः (कर्म) श्लिष्यन्ति आलिङ्गन्ति प्रणमन्ति (हठाक्लेषजनितकोपशान्तये) नमस्कुर्वन्ति रिरंसया प्रसादयन्तत्यर्थः लान्ति गृह्नन्ति आदानं कुर्वन्तीत्यर्थः आत्मसात्कुर्वन्तीति यावत् परितः कामशास्त्रानुक्तस्थलेऽपि ( उत्तरोष्ठललाटाक्षिषु कपोलयोश्च) चुम्बन्ति मत्तत्वात् त्वरावेशाच्चेति भावः । इत्थमनुचितप्रवर्तयितापि त्वं तैः प्रत्यार्थेभिः वैरिभि: इति अमुना प्रकारेण स्तूयसे इत्यन्वयः। स्तुतिप्रकारमाह हे औचित्यवारानिधे औचित्यसमुद्र त्वम् अस्माकं सर्वेषां सुकृतैः पुण्यैः दृशोः निपतितोऽसि चक्षुर्गोचरतां प्राप्तोऽसि तत् तस्मात् (त्वद्दर्शनात्) अखिला: विपदः विपत्तयः अस्माकं ध्वस्ताः नष्टा इति । दशोरित्यत्रापि चास्माकमित्यस्यान्वयो बोध्यः। मृगतुल्येष्वपराक्रमिषु प्रियेषु दृशो यासामित्यर्थान्तरगर्भीकरणाय मृगेति पुंस्त्वम्। 'औचित्यवारांनिधे'

Page 257

१९८ काव्यप्रकाश: सटीक:।

दद्ट्शे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ १२० ।। अत्र भावस्य भावप्रशमः। इत्यत्र 'संसारवारांनिधौ' (चतुर्थोल्लासे १०३ उदाहरणे) इत्यत्रेव "तत्पुरुषे कृति बहुलम्" (६। ३।१४ ) इति बाहुलकात्षष्ठया अलुक्। शार्दूलविक्रीडितं छन्दः । लक्षणमुक्त प्राक् (१८ पृष्ठे) । अत्र प्रथमार्धे सैनिकनिष्ठः शङ्गारोऽननुरक्तस्त्रीविषयकतया परस्त्रीविषयकतया च प्रवृत्तः द्वितीयार्घे तु प्रत्यार्थनिष्ठो रतिरूपो भावः प्रकृतराजरूपशत्रविषयकतयाहार्यत्वेन प्रवृत्तः एवं चानौचित्यप्रवृत्तत्वादुभावप्याभासरूपौ तौ च रसाभासभावाभासौ राजविषयकस्य कविनिष्ठस्य रत्याख्यभावस्याङ्गभूताविति प्रदीपोद्दयोतादिषु स्पष्टम् । तदेवाह अत्र भावस्येत्यादि। अत्र ऊर्ज- स्विनामालंकारः । रसाभासस्य भावाभासस्य वाङ्गत्वादिति बोध्यम्। भावशान्तेर्भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति अविरलेति। हे राजन् अविरलं निर- न्तरं करवालस्य खङ्गस्य कम्पनैः भ्रुकुटीकरणकैः तर्जनैः छिन्धिभिन्धीत्यादिवाक्यरूपै; हुङ्कारसिंह- नादरूपैः गर्जनैः "प्रकृत्यादिभ्य उपसंख्यानम्" इति वार्तिकेन अभेदे तृतीया धान्येन स्वर्णेन वा धनवानितिवत् तद्रूपः तव वैरिणां यो मदः मदकार्यम् अस्माभिः मुहुः वारंवारं ददशे दृष्टः (दृष्ट) सः मदः (तत् मदकार्य) तवेक्षणे त्वत्कर्तृके त्वद्विषयके वा दर्शने सति क्षणात् क्वापि गतः गतं पला- यित मित्यर्थ इत्युद्दयोते स्पष्टम्। "मदो रेतसि कस्तूर्या गर्वे हर्षेमदानयोः" इति विश्वकोशान्मदशब्दस्य यद्यपि गर्ववाचकत्वं तथाप्यत्र कम्पनैरिति तर्जनगर्जनैरित्यभेदार्थकतृतीयान्तयोरर्थैः सामानाधिकरण्यो- पपत्तये मदकार्यपरत्वमङ्गीकार्यमित्युद्दयोताभिप्रायः। चन्द्रिकायां तु "अत्रिरलं करवालस्य कम्पनैः भ्रुकु- टीपूर्वकैस्तर्जनैश्छिन्धिभिन्धीत्यादिवाक्यैः गर्जनैः हुङ्कारसिंहनादरूपैर्लिङ्गैस्तव वैरिणां यो मदोडस्माभि- र्ददृशे दृष्टः स मदो गर्वस्तवेक्षणे दर्शने सति तत्क्षणात् क्वापि गतः पलायितः" इति व्याख्यातम् । वैतालीयं छन्दः। उक्तं च वृत्तरत्नाकरे "षडिषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥" इति । अयमर्थः । विषमपादे षट् मात्राः। ततो रगणलघुगुरवो भवन्ति। समपादे त्वष्टौ कलाः । ततो रगणलघुगुरवो भवन्ति। कि च समे पादे षट् कला: षट् लघवः निरन्तरा न भवन्ति। तथात्र वैतालीये सर्वपादेषु समा कला समो लघुः पराश्रितो न भवति। समा लघुकला परया कलया सह गुरुर्न भवतीति यावादिति। अत्र वैरिणो मदाख्यो गर्वरूपो भावस्तस्य प्रशमः (शान्तिः) कविनिष्ठराजविषयकरतिभावेऽङ्गम्। तदेवाह अत्रेत्यादि। भावस्येति। कविनिष्ठस्य राजविषयकरत्याख्यभावस्येत्यर्थः । भावप्रशम इति। भावस्य प्रशमः शान्तिरित्यर्थः । अङ्गमिति शेषः । न च मदो गत इत्यनेन स वाच्य एवेति वाच्यम्। अभेदार्थकतृतीयाभ्यां कम्पनाद्यात्मको मद इत्यर्थे मदपदस्य गर्वाख्यभावकार्यपरत्वात् गर्वप्रशेमो व्यङ्गय एवेति भावः। दद्दशे इत्यतातार्थकोपादानादपुष्टत्वम् आहार्यत्वाद्वा। एवमग्रेऽपि बोध्यमित्युद्दयोते स्पष्टम्। एवं च यत्तु चन्द्रिकायामुक्तम् "अत्र गतइत्यनेनाचेतने मदे मुख्यार्थबाधान्नाशो लक्ष्यते। तदति- १ गर्वाख्यो यो भावस्तस्य यत्कार्य कम्पनतर्जनगर्जनात्मकं तत्परत्वादित्यर्थः ॥ गर्वकार्यस्य कम्पनादेः प्रशमे सति (शान्तौ सत्यां ) गर्वस्य प्रशम: (शान्तिः) व्यङ्ग् एवेत्यर्थात्सिद्धमिति तात्पर्यंम्।।

Page 258

पश्चम उल्लास:। १९९

साकं कुरङ्गकद्टशा मधुपानलीलां कर्तु सुहृद्भिरपि वैरिण ते प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥ १२१ ॥ अत्र त्रासोदयः। असोढा तत्कालोलसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिक: शैलदुहितुः। प्रमोदं वो दिश्यात् कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्त: स्मरहरः ॥ १२२॥ शयश्च व्यङ्गयो राजविषयकरतिभावस्याङ्गम् । अत एवोक्तं वृत्तिकृता 'प्रशमः' इति" इति। यदपि चन्द्रिकामनुसृत्य सुधासागरकारैरुक्तम् "ननु गत इति प्रशमस्य वाच्यतया कथं भावप्रशमतेति चेत्। उच्यते। गत इत्यनेन गमनस्य मुख्यार्थस्य बाधाच्छान्त इत्यर्थो लक्ष्यते। तेन प्रशमातिशयो व्यज्यते इति" इति तदुभयमप्यनादरणीयम्। 'भावस्य भावप्रशमः' इति वृत्तौ प्रशब्दस्यातिशयार्थकत्वेनाति शयस्य च व्यङ्गयत्वेनाविवक्षितत्वात्। किंतु प्रशमशब्देन शान्तिमात्रं शान्तिमात्रस्य च व्यङ्गयत्वं विव- क्षितम् । अत एव "रसभावतदाभासभावशान्त्यादिरक्रमः " इति ४२ सूत्रे 'भावस्य शान्तिरुदयः' इति ५० सूत्रे च शान्तिपदमेवोपात्तम् । अत एव च प्रदीपकारैः 'अत्र भावस्य भावप्रशमः' इति वृत्ति- व्याख्यानावसरे अत्र वैरिणो गर्वरूपो भावः तस्य शमो राजविषयकरतिभावेऽङ्गम् इत्यत्र शमपदमेवो- पात्तम्। न तु प्रशमपदम्। तथा च वृत्तौ प्रशब्दार्थोSविवक्षित एवेत्यर्थसिद्धमिति सुधीभिराकलनी- यम्। अत्र समाहितालंकारः । भावप्रशान्तेरङ्गत्वादिति बोध्यम् ।। भावोदयस्य भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति साकमिति। हे विभो प्रभो (राजन्) ते तव वैरिणि शत्रौ कुरङ्गकदृशा बालमृगनेत्रया (कान्तया ) सुहृ्धिः स्त्निग्धैरपि साकं सार्ध मधुपा- नलीलां मद्यपानरूपां क्रीडां 'मधुपानलीलाः' इति पाठे मधुपानाद्या लीला: कर्तु प्रवृत्ते सति अन्याभि- धायि अनेकार्थकतया त्वद्भिन्नस्यापि बोधकं तव नाम तद्वाचकं पदं (कर्तृ) केनापि जनेन जलानय- नादिहेतुना वा गृहतिम् उच्चारितं सत् तत्न क्रीडामन्दिरे वैरिणि वा विषमां कम्पादिकर्त्रीम् अवस्थां दशाम् अकरोदित्यर्थः । "विषमां कातरप्रेक्षणापसरणमूर्छादिरूपाम्" इति चक्रवर्ती। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठे) ।। अत्र विषमावस्थाव्यङ्गयस्य त्रासरूपभावस्योदयः कविनिष्ठस्य राजविषयकस्य रत्याख्यभावस्याङ्गम्। तदेवाह अत्र त्रासोदय इति। त्रासरूपव्यभिचारिभावस्योदय इत्यर्थः । अङ्गमिति शेषः । अत्र भावो- दयाखूयोऽलंकारः । भावोदयस्याङ्गत्वादिति बोध्यम् ।। भावसंधेर्भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति असोढेति। तपः कुर्वती पार्वती बटु- वेषेण छलयतो महादेवस्य वर्णनमिदम्। कपटेन छलेन यो बटोर्ब्रह्मचारिणो वेषः आकारविशेषः तस्य अपनयने त्यागे युगपत् समकालमेव त्वराशैथिल्याभ्याम् अभियुक्तः आक्रान्तः स्मरहरः शिवः वः युष्माकं युष्मभ्यं वा प्रमोदम् आनन्दं दिश्यातू दद्यादित्यन्वयः । "दिश अतिसर्जने " इति धातुः।

Page 259

काव्यप्रकाश: सटीक:।

अत्रावेगधैर्ययोः संधिः। पश्येत्कश्चिचल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि। इत्थं पृथ्वापरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित् फलकिसलयान्याददानाभिधत्ते॥ १२३॥

त्वराशैथिल्ययोर्हेतुगर्मे विशेषणे क्रमेण चरणद्येनाह असोढेत्यादि। तत्काले (पार्वत्याः) बालत्वकाले उल्लसन् प्रादुर्भवन् असहभावो दुःसहत्वम् (अर्थादुर्बलत्वेन गौर्याः) यस्य तादृशस्य तपसः असोढा सोदुमसमर्थः फलदाने विलम्बयितुमक्षम इति यावत। तपस इति कर्मणि षष्ठी। अथचेत्यव्ययसमुदायः समुच्चये। शैलदुहितु: पार्वत्याः कथाविश्रम्भेषु विश्वस्ततया क्रियमाणकथास्विति यावत्। यद्वा। कथान। विश्रम्भेषु प्रणयेषु गौर्या: कथाज्ञाप्यस्वविषयकप्रणयेष्तिरित्यर्थः। "विश्रम्भः प्रणयेऽपि च। समौ विश्रम्भ विश्वासौ "इत्यमरात्। तेषु रसिकः प्रीतिमांश्वेत्यर्थः। 'उल्लसदसमभावस्य' इति पाठे उल्लसन् असम भावो निरुपमत्वं यस्येत्यर्थः । शैलदुहितुरपि ईदृश्यः सरसाः कथा इति तासु अत्यन्तसादरता स्मरहर इत्यनेन स्मरजेतापि यां दृष्टा यत्कथयाकृष्टचित्तः कृत इति पार्वतीसौन्दर्यातिशयश्चातुर्यातिशयश्ष ध्वन्यते इत्युद्दयोते स्पष्टम् । शिखरिणी छन्दः । लक्षणमुक्तं प्राक् (७५ पृष्ठे) । अत्र स्मरहरगतयोः त्वरापदशैथिल्यपदगम्ययोरावेगधैर्याख्ययोर्भवयोः संधिः कविनिष्ठस्य शिवविषय- करतिभावस्याङ्गम्। तदेवाह अत्रावेगेत्यादि । त्वरागम्य आवेगः शैथिल्यगम्यं धैर्यम्। अत्रावेगधै- र्ययोराहार्यत्वादपुष्टत्वम् । संधिरिति । कविनिष्ठस्य शिवविषयकरतिभावस्याङ्गमिति शेषः। अत्र भावसंधिरलंकारः । भावसंधेरङ्गत्वादिति बोध्यम् ।। भावशबलतायाः भावाङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदाहरति पश्येदिति। किंचिदुद्धिन्नयौ- वनायाः प्रकृतनृपविरोधिवननिवासिनृपकन्यायाः फलाद्याहरणसमये कस्मिश्चित्कामुके जातानुरागाया उक्तिवर्णनमिदम्। हे पृथ्वीपरिवृढ भूस्वामिन् ( राजन्) अरण्ये वृत्तिर्वर्तनं यस्य तस्यारण्यवृत्तेः भया- द्वननिवासिनो भवद्विद्विषः त्वच्छत्रोः कन्या कुमारी फलानि किसलयानि कोमलपल्लवांश्च (भक्षणार्थम- लंकरणार्थ च ) आददाना गृह्न्ती सती कंचित् कामुकं (जातानुरागा सती) इत्थमभिधत्ते। कथ- मित्याकाङ्डायां पूर्वार्धमाह पश्येदिति। कश्चित् जनः पश्येत् इति शङ्का। तद्वेतुश्च व्यङ्गया संगोपनी- यपुरुषचेष्टा। रे चपल स्वच्छन्दाचरणशील चल अपसर। इतः काकुविशेषसहकाराद्रागानुविद्धासूया। का त्वरेति सत्वरं जिगमिषावारणायेदं वचनमिति अनेन धृतिः। अहं कुमारी। अस्मीति शेषः। तेन कुमार्या: मम नैवंविधं स्वातन्त्रयमुचितमिति स्मरणम् । हस्तरूपमालम्बम् अवलम्बनं वितर देहीति श्रमः । हहहेति तादृशवाक्यप्रयोगजनकभावजं दैन्यम्। व्युत्क्रमः कन्यागमनरूपविपरीताचरणम्। जायते इति शेषः । सोडयं विबोधः । असीति त्वमित्यर्थे विभक्तिप्रतिरूपकमव्ययम्।'अत्रास्मि करोमि सख्यः ' (तृतीयोल्लासे २० उदाहरणे ) इतिवत् । त्वं क्व कुत्र यासि गच्छसीत्यौत्सुक्यम्। मन्दाक्रान्ता छन्दः । लक्षणमुक्तं प्राक् (७६ पृष्ठे) I अत्र 'पश्येत्कश्चित्' इति-शङ्का 'चल चपल रे' इत्यसूया 'का त्वरा' इति धृतिः 'अहं कुमारी' इति स्मृतिः 'हस्तालम्बं वितर' इति श्रमः 'हहहा' इति दैन्यम् 'व्युत्क्रमः' इति विबोधः

Page 260

पश्चम उल्लास:। २०१

अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता। एते च रसवदाद्यलंकाराः । यद्यपि भावोदयभावसंधिभावशबलत्वानि नालंकार- तया उक्तानि तथापि कश्चित ब्रूयादित्येवमुक्तम्। स च चैतन्यागमरूपः अकार्यत्वनिर्णयजनकरूप इत्यर्थः। विबोधो मतिरिति केचित्। 'क्वासि यासि' इत्यौत्सुक्यम्। एतेषां शबलता नृपविषयके रतिभावेऽङ्गम्। तदेवाह अत्र शङ्केत्यादि । शबलता । पूर्वपूर्वोपमर्देनोत्तरोत्तरोदयरूपा। केचित्तु एषां तिलतण्डुलन्यायेन समप्राधान्येन चर्व्यमाणतारूपे- त्याहुः। 'कविनिष्ठस्य राजविषयकस्य रत्याख्यभावस्याङ्गम्' इति शेषः । तदुक्तमुद्दयोते "सा च (शबलता ) राजपराक्रमप्रयोज्यारण्यगमनमूलिका राजपराक्रमाभिव्यक्तिद्वारा राजविषयिकां रति- मुद्दीपयन्ती तदङ्गमिति बोध्यम् । एवं सर्वत्र प्रायश उद्दीपनविधयैवाङ्गत्वं वोध्यं रसादेरित्याहुः " इति। अत्र भावशबललैवालंकारः । भावशबलताया अङ्गत्वादिति बोध्यम् ।। "ते च गुणीभूतव्यङ्गयाभिधाने उदाहरिष्यन्ते" इति पूर्वोक्तं (चतुर्थोल्लासे ४२ सूत्रवृत्तौ) स्ववचनं संगमयति एते चेति। एते एव गुणीभूता रसादयो रसवदाद्यलंकारव्यपदेश लभन्त इत्यर्थः। रसवत्प्रेय- ऊर्जस्विसमाहितभावोदयभावसंधिभावशबलताश्वेति सप्त रसवदादयो येSलंकाराः पूर्वमुक्तास्ते 'अयं स रशनोत्कर्षी' इत्यादिभिरुदाहता इति भावः। ननु "गुणीभूतो रसो रसवत् भावस्तु प्रेयः रसाभासभा- वाभासौ ऊर्जस्वि भावशान्तिः समाहितः।" इत्यस्त्यैव पूर्वेषामलंकारव्यवहारः । अतो रसादिचतुष्टयस्य रसवदाद्यलंकारत्वं युक्तम् न तु भावोदयादीनाम् पुरातनैरनुक्तत्वादिति शङ्कामनुवदति यद्यपि भावो- दयेत्यादि। नालंकारतयोक्तानीति। व्यक्तिविवेककृद्भिः (महिमभट्टैः) इति शेष इति विवरणे स्पष्टम्। समाधत्ते तथापीत्यादिना एवमुक्तमित्यन्तेन । तथापि परोत्कर्षकत्वस्यालंकारत्वव्यवहार- बीजस्य गुणीभूतरसादाविव भावोदयादावपि सत्त्वाद्विनिगमनाविरहेण भावोदयादीनामपि अलंकारत्व- मिति यदि कश्चित् प्रेक्षावान् ब्रयात्तदा किमुत्तरमिति तेऽप्यलंकारतया मयोदाहता इति भावः। उक्ताश्षा- लंकारसर्वस्वकृता भावोदयभावसंधिभावशबलताश्व तन्नामान एव ते पृथगलंकाराः इति। एवं चायमत्र वृत्तिकृतामाशयः । भावोदयादिष्व्रितरोत्कर्षकत्वस्यालंकारत्वव्यवहारबीजस्य सत्त्वेऽपि अलंकारत्वानु- क्तिरबोधायैव पर्यवस्यतीत्याक्षिप्ताः प्राञ्चः। परं तु रसवदाद्यलंकाराः प्राचामेवाभिमताः न तु स्वस्यापि। अमीषां गुणानामिव साक्षादुपकारकत्वेनाङ्गोपकारद्वारकाङ्गयुपकारकत्वार्भावात्। तस्माद्गुणीभूतव्य- ङ्गयत्वमेवेतीति सुधासागरे स्पष्टम्। नरसिंहठक्कुरास्तु एवं योजयन्ति। "भावोदयेत्यादि रसवदादेरप्यु- पलक्षकम्। तेन दशमोल्लासे रसवदलंकारादयो नोक्ताः । कथमत्र त्वया तेऽप्यलंकारतयोच्यन्ते इत्यत आह् यद्यपीति। उक्तानीत्यनन्तरं 'दशमोल्लासे' इति शेषः। प्राचीनैः रसवदाद्यलंकारा उक्तास्ते कीदृशा इति कश्चित् शिष्यश्चेद्ब्रयात् प्रश्नं कुर्यात्तदा किमुत्तरमिति कृत्वा तेऽपि परिचायिताः इत्यर्थः । काश्चि- दित्यनेन परमतमेतदस्मन्मते रसवदादीनां नालंकारत्वम्। भावोदयाद्यनलंकारतायुक्तिसाम्यात् । गुणानामिव साक्षादुपकारकत्वेनाङ्गद्वारोपकारकत्वाभावाच्चेति ध्वनितम्" इति ॥ ननु 'अयं स रशनोत्कर्षी' इत्यत्र प्रकरणगम्यस्य करुणस्य प्राधान्येन संभवति ध्वनित्वेन कथं गुणी- १ उपकारकत्वाभावादिति। अलंतक्राणां तु अङ्गोपकारद्वारकाङ्गयुपकारकत्वमेव। अत एवालंकारलक्षणे (८८ सूत्रे) "अङ्गद्वरिण" इति वक्ष्यति ॥ काव्यप्रकाश २६

Page 261

२०२ काव्यप्रकाशः सटीक: ।

यद्यपि स नास्ति कश्चिद्विषयः यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्वयवहारः।

जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वेदैहीति प्रतिपदमुदश्रु प्रलपितम्।

भूतव्यङ्गयतेत्याशङ्कते यद्यपि स इत्यादि। यद्वा। ननु रसध्वनौ भावध्वनिरवश्यं वाच्यः । तथा च कंचन प्रधानव्यङ्गयमादाय ध्वनित्वं कंचनाङ्गभूतमादाय गुणीभूतव्यङ्गयत्वमिति निमित्तद्वयसमावेशा- द्विनिगमनाविरहे कथ व्यपदेशनियम इत्याशङ्कते यद्यपि स इत्यादि। विषयः आश्रयः । ध्वनिगुणी- भूतव्यङ्ग्ययोः उत्तममध्यमकाव्ययोः । स्वप्रभेदादिभिरिति। स्वशब्देन ध्वनिगुणीभूतव्यङ्गययो- ग्रहणम्। प्रमेदोऽवान्तरभेदः । आदिपदेन विजातीयप्रमेदपरिग्रहः । संकर इति। अङ्गाङ्गित्वादौ संकरः । द्वयोः प्राधान्ये संसृष्टिरित्यर्थः। उक्त चोदयोते सर्वत्र रसध्वनौ भावध्वनेः सत्त्वेन तयोरुपकार्यो- पकारकतया संकरापत्तिः अवान्तरध्वनीनां प्रधानध्वनिरूपेतराङ्गतया गुणीभूतव्यङ्गयत्वस्य चापत्ति- रिति भावः । एवमन्यदप्यूह्यमिति । यद्यपि सांकर्यादिकमस्ति तथापि न्यायान्निर्णय इति परिहरति तथापीति। प्राधान्येनेति। "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायादित्यर्थः । क्वचिदित्यादि। यत्र यन्मुखेन चमत्कारस्तत्र तेनैव व्यवहार इत्यर्थः । प्राधान्यं च चमत्कारप्रयोजकत्वम्। तदुक्तम् "प्राधान्यं च अतिशयितचमत्कृतिमत्तया " इति । तथा च अङ्गीभूतरसादीनां चमत्कृत्यातिशय्ये गुणीभूतव्यङ्गयत्वम् अङ्गिनस्तथात्वे ध्वनित्वमिति भावः । एवं च 'अयं स रशनोत्कर्षी' इत्यादौ करुण- ध्वनावपि गुणीभूतव्यङ्गयशृङ्गारेगैव चमत्कार इति तेनैव व्यवहारो न ध्वनित्वेनेति सहृदयहृदयसाक्षि- कमिति यावत् । एतेन 'अयं स रशनोत्कर्षी' इत्यादौ मुख्यत्वेन करुणस्यैव प्राधान्यमिति निरस्तम्। शृङ्गारवर्णने कवे: सरम्भादिति सारबोधिनीनरसिंहमनीषादिषु स्पष्टम्। अथ शब्दशक्तिमूलानुरणनरूपोपमालंकारस्य (लक्ष्यक्रमस्य) वाच्याङ्गतायामपराङ्गव्यङ्गयं मध्यम- काव्यमुदाहरति जनस्थाने इति। राजसेवानिर्विण्णस्य कवेरुक्तिरियम्। "भट्टवाचस्पतेः पद्यमिदम्" इति क्षेमेन्द्रकृतकविकण्ठाभरणे स्पष्टम्। यद्यपीदं पदं हनुमत्कविकृते हनुमन्नाटके दशमेऽक्के दृश्यते तथापि हनुमन्नाटकेऽन्यदीयान्यपि बहूनि पद्यान्युपलभ्यन्ते। तथा च "ग्रीवाभङ्गाभिरामम्" इति पद्यं शाकुन्तलनाटके प्रथमेडक्के विद्यमानं हनुमन्नाटके चतुर्थेऽक्के दृश्यते। अपि च बालरामायणे षष्ठेऽक्के पठितं "सदः पुरीपरिसरेऽपि" इति पद्यम् अनर्घराघवनाटके तृतीयेऽक्के पठितं "समन्तादुत्तालैः सुरसहचरी " इति पद्यं च हनुमन्नाटके दृश्यत इति दिक्। मया रामत्वं रामधर्मः तत् आपं प्राप्तम् परं तु कुशलं परिणामसुरसम् उद्वेगनिरासनिपुण वा आयतिशुद्धं वा वसु धनं यस्य तद्गावः कुशलवसुता सैव कुशलवौ सुतौ यस्या इति व्युत्पत्या सीता सा तु नाधिगता न प्राप्ता । रामत्वं कथ प्राप्तं तद्ाह जनस्थाने इत्यादि। कनकस्य सुवर्णस्य मृगो मार्गणम् (अन्वेषणम्) प्रार्थना वा तत्र या तृष्णा कनके वा या मुगतृष्णा निष्फलाशा सैव कनकमृगे मारचि तृष्णा तया अन्धिता विवेकरहिता धीर्यस्य तादृशेन मयेत्यर्थः। "मृगः कुरङ्गे याच्जायां मृगयायां गजान्तरे। पशौ नक्षत्र- भेदे च " इति हैमः। यद्वा। अन्धितया घिया (करणभूतया) जनानां स्थाने ग्रामनगरादौ भ्रान्तं स्रमणमेव जनस्थाने दण्डकारण्ये भ्रमणं तत् कृतम्। वै निक्षयेन देहि प्रयच्छेति चचः वचनमेव वैदेहीति

Page 262

पश्चम उल्लास: । २०३

कृतालंकाभतुर्वदनपरिपाटीपु घटना मयापं रामत्वं कुशलवसुता न त्वधिगता ॥ १२४ ।।

अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः ।

सीतासंबोधनवचनम् तत् प्रतिपदं प्रतिस्थानम् उद्गतम् उत्थितम् अश्रु अश्रुजलं यत्र तद्यथा भवति तथा प्रलपितं वृथैवोक्तम्। भर्तुः भरणकर्तुः धनिकस्य परिपाटीषु सेवारचनासु अलम् अत्यर्थ का घटना न कृता वद। अथ वा काभर्तुः कुत्सितभर्तुः वदनपरिपाटीषु मिथ्याभाषणप्रकारेषु घटना उपपत्तिः वदनपरिपाटीषु मुखविवलनादिषु तदाशयाद्युन्नयनार्थ घटमा उपायो वा स एव लङ्काभर्तुः रावणस्य वदनपरिपाट्यां मुखपड्क्तौ इषुघटना शरसंयोजना सा अलम् अत्यर्थ कृता इति श्लेषोपस्थितानां पदार्था- नामभेदारोपाद्रामत्वोपपत्तिरित्युद्दयोते स्पष्टम् । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् (७५ पृष्ठे) ।। अत्र शब्दशक्तिमहिम्रा पादत्रयद्योत्या प्रकृताप्रकृतयोः कवयितृरामयोरुपमा 'मयापं रामत्वम्' इति वाच्यायाः रामत्वप्राप्तेरुपकारकतयैव कवेरभिप्रेतेति उपमायाः वाच्याङ्गत्वम्। तदेवाह अत्र शब्द- शक्तीत्यादि । उपमानोपमेयभावः सादृश्यम् । उपमेति यावत् । वाच्येति । वाच्यस्य 'मयापं रामत्वम्' इत्यस्य अङ्गताम् उत्कर्षकतामित्यर्थः । नीतः प्रापितः । जनस्थानादिशब्दानां परिवृत्त्यसह- त्वात् शब्दशक्तिमूलता। 'रामत्वम् आप्तम्' इत्यनेनैव वाच्यार्थसिद्धिरिति नास्याः ( उपमायाः) वाच्यसिद्धावङ्गत्वम् । इवाद्यभावेनोपमाया वाच्यत्वाभावान्नान्रोपमालंकारः किंतु मध्यमकाव्यत्वमेवेति बोध्यम् । क्वचित्तु 'वाच्यतां नीतः' इति पाठः । एवमेव प्रदीपेऽपि। एवं पाठे तु 'वाच्यतां नीतः' इत्यस्य 'मयाप्तं रामत्वम्' इत्यनेनेति शेषो बोध्यः। तथा च पादत्रयद्योत्यापि रामेण सहोपमा 'मयासं रामत्वम्' इत्यनेन वाच्यतां नीता। तदङ्गं च शब्दशक्तिमूलानुरणनरूपो द्वितीयोऽर्थ इत्यर्थ इति प्रदीपे स्पष्टम्। तदेतत्सर्वमुक्त सारबोधिन्यामपि। "अत्र प्रकृताप्रकृतयोः कवयितृरामयो साम्यं व्यञ्जनया बो- व्यते इत्याह रामेणेति। उपमानोपमेयभावः साम्यम्। वाच्यस्य मयाप्ं रामत्वमित्यस्य अन्यत्रान्यतादा- त्म्यारोपरूपातिशयोक्तिरूपस्य अङ्गताम् उत्कर्षकतां नीतः। मयापं रामत्वमित्यभिधाय कविनेति शेषः। तद्नुक्तावुपमाध्वनित्वानपायः स्यात्। अयमर्थः । तत्सदृशे तत्त्वारोपस्य चमत्काररूपत्वात् वाच्यस्य तत्त्वारोपस्य प्रतीयमानं साम्यमुत्कर्षकमित्यपराङ्गता। अथ कुतो रामत्वं प्राप्तमित्याकाङ्काया निवर्तकस्य सामस्य वाच्यसिद्धयङ्गत्वमेव नापराङ्गत्वमिति चेन्न। जनस्थानभ्रमणादिरूपसाम्यस्य शब्दशक्तिमूलव्य- ङयतः प्रागेवावगतौ रामत्वारोपरूपवाच्यस्य सिद्धत्वात्। अङ्गोपमायां तु जनस्थानेत्यादिशब्द एव साध- र्म्यम्। वाच्यतामिति पाठे वाच्याय हित इति वाच्यपदाद्यप्रत्ययः । तेन वाच्यतां वाच्योत्कर्षकतामि- त्यर्थः। अन्ये तु 'वाच्यतां नीतः' मयाप्तं रामत्वमित्यनेनेति शेषः । वारणेन्द्रलीलामिति निदर्शनो- दाहरणवत् (४३६ उदाहरणवत्) रामत्वमित्यस्य बाधात् रामसदृशत्वार्थकेन वाच्यवत् प्रतीतत्वादि- त्यर्थः । तदङ्गं तु शब्दशक्तिमूलो द्वितीयार्थ इति वदन्ति" इति ॥ अत्र बृहदुद्दयोते तु वाच्यतां नीतेति । कथमन्यस्य धर्मोऽन्यत्रेति निदर्शनालंकारविधया वारणे- न्द्रलीलामित्यादाविव रामत्वपदं रामसादृश्ये लाक्षणिकमिति भाव इति केचित्। अपरे तु जनस्थाने भ्रान्तमित्यादिपदैरुपस्थितरामधर्माणां लेषमूलकाभेदाध्यवसायेन निर्विण्णगतधर्माभेदमापन्नानां रामत्व- पदेनोपात्तानां रामनिर्विण्णयोः सादृश्यरूपाणां वाच्यत्वादिति तेषामन्वययोग्यत्वेन लक्षणाया अयोगः।

Page 263

२०४ काव्यप्रकाश: सटीकः ।

आगत्य संप्रति वियोगविसंठ्ठुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः। एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१२५॥[२] अत्र नायकवृत्तान्तोरऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ।

यत्तु "यथेवादिरूपवाचकाभावात् तादृशधर्मप्रतीतिव्यङ्गया रामनिर्विण्णयोरुपमा रामसदृशो निर्विण्ण इत्याकारा। न चेयं रामत्वं प्राप्तमित्यस्य वाच्या। तद्वतिधर्मप्रतीतिमात्रस्योपमात्वाभावात्। किंतूपमेय- विशेषणतया प्रतीयमानसादृश्यमेवोपमा। अन्यथा मुखे चन्द्रसादृश्यमित्यादावप्युपमा स्यात्। एवं चसा व्यङ्गयैव। सा च 'कुशलवसुता न त्वधिगता' इति प्रतिपाद्यदुःखित्वातिशयरूपाधिक्येन प्रतिपाद्मानस्य निर्विण्णरामव्यतिरेकस्योत्कर्षिका। यत्किंचिद्धर्मलब्धोपमानभावादाधिक्यमपेक्ष्य बहुविशेषणसमर्पितोप- मानभावादाधिक्यस्य प्रवृत्तत्वात् प्रतिपिपादयिषितदुःखित्वस्य कुशलवसुताया अप्राप्त्यैवाधिक्येन विशे- षणेन न्यूनत्वप्रतीतिरिति न वाच्यम्। न च कुतो रामत्वं प्राप्तमित्याकाङ्डानिवर्तकस्य साम्यस्य वाच्य- सिद्धयङ्गत्वमेव नापराङ्गत्वमिति वाच्यम्। जनस्थानभ्रमणादिना वाच्यार्थेनापि शब्दशक्तिमूलव्यङ्गयात् प्रागवगतेन रामत्वसिद्धेः । संमुग्धप्रतीतिवाच्यार्थानुपपत्तिवारकस्यैव वाच्यसिद्धयङ्गत्वात्। किंच रामत्व- रूपवाच्यसिद्धयङ्गत्वेऽपि प्रधानीभूतकुशलवसुताप्राप्तिरूपस्य स्वसिद्धावन्यानपेक्षस्य व्यङ्गयोपमोत्कर्षि- केति व्यङ्गयस्य साम्यस्य वाच्याङ्गत्वम्" इति तन्न। चमत्कारितद्धर्मप्राप्तेरेवोपमात्वात्। प्रागुक्ते उपमा इष्टैव । अन्यथा तत्रालंकाराभावापत्तेः । सा च वाच्यैवेति प्रदीपकृतामाशय इत्याद्कः । द्वितीयार्थाव्यङ्गय- त्ववादिनां मते तु सर्वविशेषणव्यङ्गयदुःखित्वातिशयो वाच्योपमा अङ्गमिति बोध्यमिति व्याख्यातम्॥ अर्थशक्तिमूलानुरणनरूपस्य (लक्ष्यक्रमस्य) वस्तुनो वाच्याङ्गतायामपराङ्गव्यङ्गयं मध्यमकाव्यमुदा- हरति आगत्येति। मौग्ध्याद्विनैवानुनयं त्यक्तमानां प्रति सख्या उक्तिरियम् । हे तन्वङ्गि क्वचिदपि क्कचिदेव (द्वीपान्तरे एव नायिकान्तरगृहे) क्षपिता अतिवाहिता त्रियामा रात्रिर्येन तथाभूतः सहस्र- रश्मिः सूर्यः संप्रति अधुना प्रभाते जाते सति शनैः (अतिभात इवातिलज्जित इव) मन्दं मन्दम् आग- त्य एत्य एताम् अम्भोजिनीं कमलिनीमेव नायिकां पादपतनेन किरणसंयोगेनैव चरणपतनेन (प्रणा- मेन) प्रसादयति विकासयत्येव अनुनयति। एतत् पश्येत्यन्वयः। कीदृशीम्। वियोगो द्वीपान्तरे सूर्यस्य संचारेण यस्तेन संबन्धाभावः स वियोगो विरहः तेन विसंष्ठुलाङ्गीं संकुचिताङ्गीमेव संतापकाश्या- दिना विषमाङ्गीमित्यर्थः । यत्तु अम्भोजिनीं पभ्मिनीतिपरिभाषितनायिकामिति तन्न। तस्यां पममिनीपदस्य पर्यायपरिवृत्त्यसहत्वेन (२०६ उदाहरणस्थे) वचोबाणपद इव नेयार्थत्वरूपदोषापत्तेः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८ पृष्ठ) ।। अत्र विनैवानुनयमपगतमाना नायिका सख्या उपालभ्यते । तथाहि। सइस्ररश्मिरित्यनेन बहुनायि- कावत्त्वं ध्वन्यते। अम्भोजिनीमित्यनेन वर्ण्यायाः पद्मिनीत्वम्। कचिदपि (क्वचिदेव) इत्यनेन उपना- यिकागृहे एवेति निश्चयाभावः। तत्रापि यामत्रयमेव न त्वधिकमिति। एवं चेद्शोऽपि ईदृशीं स्वयमेवागत्य पादपतनेनानुनयति ईदृशो हि कामिनोर्व्यवहारः त्वं पुनर्बह्ठुतरकालं परनायिकासक्ते धूर्ते विनैवानुनयं मानं त्यक्त्वा प्रसन्ना असत्युपालम्भः। एवं च नायकनायिकावृत्तान्तकथनमेवाभिप्रेतम्। स च वृत्तान्तो व्यज्यमान: वाच्ये रविकमलिनीवृत्तान्तेऽभिन्नतया च आरोप्यमाणः तस्य प्रकृतार्थतां संपादयन् तदुत्क- र्षमाधत्ते इत्यङ्गतयैवास्ते । अयमेव समासोक्त्यलंकार इत्युद्दयोतादौ स्पष्टम्। तदेतत्सर्वमभिप्रेत्याह

Page 264

पश्चम उल्लासः। २०५

वाच्यसिद्धयङ्गं यथा

अन्रेत्यादि। नायकेत्येकशेषः। नायकनायिकेत्यर्थः । वृत्तान्तो व्यवहारः। स एव न तु तत्प्रतियोगि- नौ नायिकानायकौ। तदुपस्थापकविरहात्। व्यवहारावच्छेदकत्वेनैव तयोः प्रतीतेः । तेन प्राधान्येन तदनुपस्थितौ नोपमारूपकध्वनी। तदाह वस्तुरूप इति। एवं च "उल्लास्य कालकरवाल०" (५४ उदाहरणे ) इत्यादौ यथा विशेष्यवाचकपदश्लेषसत्त्वादुपमा व्यङ्गया तथा प्रकृते विशेष्यवाच- कपद श्लेषाभावान्नायकसूर्ययोनोपमा व्यङ्गया। यत्र स्वातन्त्रयेण धर्मिद्वयमवगम्यते तत्नैकधर्मान्वये सत्युप- माङ्गीकारात्। एवं धर्मिद्वयावगतावेव तादात्म्यारोपे रूपकाङ्गीकारान्न रूपकमपि व्यङ्गयं किंतु वस्तुरूप एवेति भावः । यद्यपि पादशब्दस्य श्रिष्टत्वात् (परिवृत्त्यसहत्वात) शब्दशक्तिमूलत्वं संभवति तथापि अर्थशक्तिमूलत्वेन व्यपदेशः। परिवृत्तिसहशब्दानां बाहुल्यात्तेषां प्राधान्यात्। "प्राधान्येन व्यपदेशा भवन्ति " इति न्यायात्। पादपतनशब्दं विनापि नायकनायिकावृत्तान्तप्रतीतेस्तस्य प्राधान्याभावा- च्चेति भावः । वस्तुतस्तु अङ्घ्रिपतनशब्दोपादानेऽपि तत्संभवेनास्यापि परिवृत्तिसहत्वमिति बोध्यम्। नन्वत्र प्रकृतव्यवहारेSप्रकृतव्यवहारारोपरूपा समासोक्तिः । तस्यां च प्रकृताप्रकृतवृत्तायोरभेदो वाक्यार्थः । स चाप्रकृतवृत्तान्तोपस्थितिं विना न पर्यवस्यति। तदुपस्थितिश्व व्यञ्जनयैवेति व्यङ्गयस्य (नायकनायिकावृत्तान्तस्य) वाच्यसिद्धयङ्गत्वं नापराङ्गत्वमित्यत आह निरपेक्षेति। इदं रविकमलिनी वृत्तान्तेत्यस्य विशेषणम्। नायकनायिकावृत्तान्तरूपव्यङ्गयार्थनिरपेक्षेत्यर्थः । तथा चाप्रकृतवृत्तान्तोप- स्थिति विनापि वाक्यार्थस्य पर्यवसानात् न व्यङ्गयोपस्थिति विना वाच्यानुपस्थितिः समासाक्ताविति न वाच्यसिद्धयङ्गत्वम्। अपि तु प्रतीतस्य (उपस्थितस्य) वाच्यस्य व्यङ्गयेन शोभामात्रमाधीयते इत्यपराङ्ग त्वमेवेति भावः । एवं च यत्र सत एव सिद्धरूपस्य वाच्यस्य व्यङ्गयेनोत्कर्षाधानमात्रं तत्रायं प्रभेदः। यत्र पुनर्व्यङ्गयं विना वाच्यमेवात्मानं न लभते तत्र वाच्यसिद्धयङ्गत्वमिति व्यङ्गयसापेक्षनिरपेक्षसिद्धिम्यामन- योभेद इति द्रष्टव्यम्। रविकमलिनीवृत्तान्ताध्यारोपेणैवेति। रविकमलिनीवृत्तान्ते वाच्यभूतेऽध्या- रोपेणैवेत्यर्थः । स्थित इति। एवं च वाच्यरविकमलिनीवृत्तान्तोत्कर्षकतयैव स्थितो न तु प्रधानतये- त्यर्थः । अत्र प्रकृतवृत्तान्तवाचकैः पदैः प्रसिद्धिवशाद्यञ्चितानामप्रकृतवृत्तान्तानामाश्रयानुपादानादपर्यव- सितानां प्रकृतवृत्तान्ते वाच्यभूते आरोप्यमाणानां वाच्योत्कर्षकतैवेति भाव इति प्रदीपोद्दयोतयोः स्पष्टम्। व्याख्यातमिदं सारबोधिन्यामपि। "ननु प्रकृताप्रकृतयोरभेदो वाक्यार्थोSप्रकृतवृत्तान्तोपस्थिति विना न पर्यवस्यतीति वाच्यसिद्धयङ्गत्वमापतितमित्यत आह निरपेक्षेति। अप्रकृतवृत्तान्तोषस्थितिं विनापि वाक्या- र्थपर्यवसानान्न तत्साकाङ्कत्वम्। अपि तु तेनोत्कृष्टत्वमेवेत्यर्थः । अस्या व्यङ्गयोक्तेर्वाच्योत्कर्षकत्वेन समासोक्तित्वं वाच्येन सह संबन्धं च दर्शयति रविकमलिनीवृत्तान्ताध्यारोपेणैव स्थित इति। समासोक्तौ प्रकृतव्यवहारेSप्रकृतव्यवहारारोपरूपायां व्यङ्गयार्थोपस्कृतवाच्यस्यैव प्राधान्यात्समासोक्तित्वं तथा द्वयोर्वृत्तान्तयोरारोप्यमाणारोपविरषयताख्य एव संबन्ध इति ध्येयम्" इति ॥ वाच्यसिद्धयङ्गव्यङ्गयं मध्यमकाव्यमुदाहरन्नाह वाच्यससिद्धयङ्गं यथति। वा्यसिद्धयङ्ग द्विधा एक- वक्तृक(व्यञ्जकपदसमानवक्तृक)पदवाच्याङ्गमन्यवक्तृकपदवाच्याङ्गं चेति। स्फुटीभविष्यति चेदं १ न च समासोक्तवेतस्मिन् संबन्धे स्वीकृते समासोक्ते: सादशाख्यसंबन्धमूलकत्वं "साधर्म्यमु मा भेदे" इति १२५ सूत्रे टीकायां वक्ष्यमाणं विरुद्धं स्यादिति वाच्यम्। प्रकतवृत्तान्तेऽप्ररुतवृत्तान्तस्याध्यारोपार्थ सादृश्याख्यसं- बन्धस्याप्यावश्यकत्वेन तद्विरोधाभावादिति भाव: ।।

Page 265

२०६ काव्यप्रकाश: सटीकः।

भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम्। मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिर्नानाम् ॥ १२६ ॥ अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत्। द्वितीयोदाहरणे वृत्तिग्रन्थे एवेति बोध्यम्। तत्राद्यमुदाहरति भ्रमिमिति। सख्याः नायिकावस्थां नाय- काय बोधयितुं सामान्यतो वर्षावर्णनपरा उक्तिरियम्। जलदो मेघ एव त्रासकत्वात् भुजगः सर्पः तज्जं विषं जलमेव विषं हालाहलं (कर्तृ) तत् प्रसह्य बलात्कारेण वियोगिनीनां विरहिणीनां भ्रम्यादीनि कुरुते इत्यन्वयः । "विषं तु गरले तोये" इति विश्वः। तत्र भ्रमिः भ्रमणम्। दिग्भ्रमणमिव दर्शयन् मूर्धादिविकारकारी कश्चिदान्तरो विकारः चेतसोऽनवस्था वा। अरतिः विषयानभिलाषः । विषयेष्व- रुचिर्वा। अलसहृदयता अलसं हृदय यासां तत्ता उदासीनतेत्यर्थः । प्रलयो नष्टचेष्टता बहिरिन्द्रिय- चेष्टाविरह इत्यर्थः । मूर्छा बाह्याभ्यन्तरेन्द्रियचेष्टाविरहः चित्तर्य बहिरिन्द्रियासंबन्धो वा। तमः तमो- गुणोद्रेकेणान्ध्यम् । मूछैव तम इति रूपकमिति कश्चित्। शरीरसादो देहकार्श्यम्। शरीरस्य साद: पीडेति केचित्। मरणं "जीवस्योद्रमनारम्भो मरणं परिकीर्तितम्" इत्युक्तलक्षणम्। न तु प्रसिद्धं मुख्यमरणम्। तस्यामङ्गलरूपाश्लीलत्वात् आलम्बनोच्छेदकत्वाच्चेति बोध्यम्। चकार उक्तसमुच्चयार्थक इत्युद्दयोतादौ स्पष्टम्। गाथा छन्दः। "अत्रानुंक्त गाथा" इति पिङ्गलसूत्रात् । इयं हि गाथा संस्कृते एव। प्राकृते त्वार्यैव गाथेत्युच्यते इत्युक्त प्राक् (५ पृष्ठे)। चन्द्रिकायां तु "प्रतिपादमेकैकमात्रा- घिका गीतिरेवेयमिति प्राञ्चः । गाथेति तु नव्याः" इत्युक्तम् ॥ अत्र जलद इव भुजग इति रूपणं वाच्यं तावत् न सिद्धयति यावत् विषमित्यनेन जलवाचकेन हालाहलं न व्यज्यते इति वाच्यसिद्धयङ्गम्। तदेवाह अत्रेत्यादि । हालाहलं गरलम् । भुजगरूप- स्येति। प्रधानीभूतभुजगरूपस्येत्यर्थः। प्राधान्यं च रूपणे एव। उपमायां पूर्वपदार्थप्राधान्याद्वाच्यस्य जलदरूपता स्यात। तथा च जलगरलोद्गारित्वरूपसाधर्म्येण जलदभुजगयोः रूपणमुपपन्नमिति भावः । सिद्धिकृदिति। सिद्धि निश्चयं करोतीति सिद्धिकृदित्यर्थः । तदुक्तं चन्द्रिकायां "अत्नाप्रकृतत्वेन व्यङ्गयं हालाहलं जलदभुजगेतिरूपकस्य वाच्यस्य सिद्धिकृत् । अन्यथा जलदस्य भुजगत्वायोगेन भुजग इव जलद इति पूर्वपदार्थप्रधानोपमितसमासाश्रयणेनोपमालंकारापत्तेः । व्यङ्गयाभिन्नत्वेनाध्य- वसिते तु जले भुजगत्वोपपत्तेरुत्तरपदार्थप्रधानरूपकसिद्धिः" इति ॥ व्याख्यातमिदं प्रदीपादौ "अत्र हालाहलरूपो विषशब्दार्थो व्यङ्गयः। जैलेऽभिधानियेमनाद्।सच जलदभुजगेति रूपणस्य वाच्यस्य सिद्धिं करोति। अन्यथोपमासंदेहसंभवात्" इति प्रदीपः। (जलेऽभि- धेति। जलद भुजगेत्यत्र भुजगाभिन्नजलदेत्यर्थके प्रधाने जलदे तदन्वयानुपपत्तिसहकृतप्रकरणेन प्रसिद्धिं बाधित्वेति भावः । वाच्यस्य सिद्धिमिति। गरलात्मकजलोद्गारित्वसाधर्म्येण जलदे भुजगतादात्म्यारो- परूपरूपकोपपत्तिरिति भावः । नन्वनुपात्तधर्मेणैव वाच्यस्य रूपकस्य सिद्धिरत आह अन्यथेति। १ अत्रानुक्तमिति । अत्र शास्त्रे (पिङ्गलकुतछन्दःशःस्त्रे ) नामोद्देशेन यत् नोक्तं छन्दः प्रयोगे च दृश्यते तत् गाथेति मन्तव्यमिति हलायुधकता वृत्तिः ॥ २ ॥ चन्द्रिकार्या त्विति। यद्यप्यङ्कितचन्द्रिकापुस्तकेडयं पाठो नोपलभ्यते तथापि हस्तलिखिते जीर्णपुस्तके लभ्यत एव ॥ ३ ॥ रूपणम् अभेदारोपः । रूपकमिति यावत् ॥॥ जले इति। "विषमासु च" इत्यमरादिति भावः ॥ ५ प्रकरणेनेति भावः ॥

Page 266

पश्चम उल्लासः। २०७

यथा वा

गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा। तथा सति सामान्याप्रयोगसत्त्वेनोपमितसमासोऽपि संभाव्येतेति भावः। भ्रम्याद्यष्टविधकार्यस्य रूप- कसाधकतया विषपदेन गरलोपस्थितौ तदभेदेन जले गृहीते विषाभिन्नजलजनकत्वेन भुजगाभेदस्य "यत्संबन्धिनि यत्संबन्ध्यभेदस्तस्मिस्तदभेदः" इति न्यायेन सिद्धौ वाच्यरूपकसिद्धिरिति तत्त्त्वम्) इत्युद्दयातः । (अन्यथेति । हालाहलरूपव्यङ्गयाभावे हि भुजगसदृशजलदजन्यत्वस्य जलेऽन्वय- संभवादुपमा समञ्जसैव । भुजगाभिन्नजलजन्यत्वस्यापि संभवाद्रूपकस्यापि संभव इति तयोः संदेह- संकरः स्यात्। हालाहले तु व्यङ्गये सति जलभिन्नत्वेनाध्यवसिते भुजगाभिन्नजलदजन्यत्वस्यैव संभवो न तु भुजगसदृशजलदजन्यत्वस्येति रूपकनिश्चय इति भावः। न च व्यङ्गयहालाहलाभिन्नत्वेनावगते जले भुजगसदृदशजलदजन्यत्वं संभवतीति उपमाया अपि संभव इति वाच्यम्। भ्रम्याद्यष्टविधकार्योत्पाद- कत्वसामञ्जस्याय हालाहलप्राधान्यस्यैवोचितत्वात्। यद्यपि प्रसिद्धार्थसंभवे न प्रकरणेनाप्रसिद्धेडर्येडभिधा नियन्तुं शक्यते तथा सति निहतार्थत्वस्य दोषत्वानुपपत्तेः तथाप्यप्रकृतोपस्थितिर्नान्वयबोधौपयिकी। तद्विषयस्योत्सर्गतस्तात्पर्याविषयत्वात्। अतः प्रकृतोपस्थित्यावश्यकत्वाद्यञ्जनया पश्चादप्रकृतोपस्थिति- रिति युक्तम्। दोषता तु निहतार्थत्वस्य प्रकृतोपस्थितिविलम्बकृतान्यत्न। प्रकृते तु विवक्षितरूपकानुगु- णत्वान्न दोषत्वमित्यूह्यम् ) इति प्रभापि।। तदेतत्सर्वमाहुः सारबोधिनीसुधासागरकाराः। ननु गरलस्य न व्यङ्गयता। सत्यपि वृष्टिप्रकरणे प्रसि- सिद्धवशादमिधया विषपदेन द्राग्रेव गरलोपस्थितेः। यतः प्रकरणात् प्रसिद्धिरव बलवती। अन्यथ निहता- र्थविलोपप्रसङ्गात्। प्रकरणबलादप्रसिद्धस्य प्रागुपस्थितौ तद्दोषस्यानवकाशादिति चेत्। उच्यते। प्रसिद्धा गरलोपस्थितिरिति जलाभिन्ने गरले जलदाभिन्नभुजगजत्वावगमः । सर्वथा गरलप्रत्यायनं तु व्यञ्जनयैव। अभिधाया विरतत्वात्। न च पुनरभिधयैव गरलप्रत्यायनमस्तु किं व्यञ्ञजनयेति वाच्यम् । तथा सत्यावृ- त्तिकल्पनापत्तेः । अस्मन्मते तु नैवम् । शब्देनाभिधेयप्रत्ययद्वारा व्यञ्ञनसिद्धेः। अन्यथैवमावृत्तिकल्पने गतं शाब्द्ा व्यञ्जनया। न च दर्शनान्तराभिमानिनामिष्टमेव तदिति वाच्यम्। व्यञ्जनातिरिक्तवृत्तेर्बा- धितार्थबोधनासामर्थ्यात्। व्यञ्जनायास्तु बाधितार्थबोधकतयैव धर्म्िग्राहकमानसिद्धत्वादित्यलं बहुना । न च जलगरलयोर्जलदभुजगयोश्च न कथमुपमेति वाच्यम्। भ्रम्याद्यष्टविधकार्यस्य गरलादेवोपपत्तेर्न तु तत्सदृशादितीति। एवं च निहतार्थत्वं श्लेषादौ न दोष इति बोध्यम् । अन्यवक्तृकशब्दे वाच्यसिद्धयङ्गव्यङ्गयमुदाहरति गच्छामीति। गोपीम् आश्लिष्यन् आलिङ्गन् हरिः श्रीकृष्णः वः युष्मान् पातु रक्षत्वित्यन्वयः । कीदृशः। पुलकानां रोमाञ्चानाम् उत्करेण समूहेन अश्चिता व्याप्ता तनुः शरीरं यस्य तादृशः । हे अच्युत तन्नामक (श्रीकृष्ण) अहं गच्छामि। कुत इत्यत्राह दर्शनेनेत्यादि। भवतो दर्शनेन कि तृप्तिः उत्पद्यते अपि तु न तथा च निष्फलमवस्था- नमिति भावः । अवस्थाने बाधकमध्याह किंत्विति । एतच्च प्रत्युतेत्यर्थकम्। एवं विजनस्थयोः एकान्तगतयोः (आवयोः सतोः ) प्रत्युत हतजन। कुत्सितो जनः दुर्जनः अम्यथा संभावयति १ "इपमितं व्याघ्रादिभि: सामान्यायोगे" (३१/५६) हनि पाणिनिसुत्रेणेति शेष: ।

Page 267

२०८ काव्यप्रकाश: सटीक:।

इत्यामन्त्रणभङ्गिसूचित वृथावस्थानखेदालसाम् आश्लिष्यन् पुलकोत्कराश्चिततनुर्गोपीं हरिः पातु वः ॥ १२७॥[३ ] अत्राच्युतादिपदव्यङ्गयमामन्त्रणेत्यादिवाच्यस्य। एतचैकत्र एकवक्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेद:। अस्फुटं यथा अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता। नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ १२८॥। [४]

रत्यर्थ समागताविति संभावयतीति वाच्योऽर्थः । "मारिते कुत्सिते हतम्" इति कोशः। व्यङ्गया- र्थस्तु हे अच्युत (विजनेस्मद्विघनायिकादर्शनेऽपि) च्युतिरहित एकान्ते मादृशनायिकासंनिधा वपि अस्खलितधैर्य यतो न संभोगाय यतसे भवतो दर्शनेन न तृप्तिरुत्पद्यते अपि तु संभोगेनैव किं चान्यथासंभावनमावश्यकम् । संभोगे सति दुर्जनसंभावनमपि न दुःखाय। तस्माद्वथवात्मानं वञ्च- याव इति बोध्यः । इति पूर्वार्धोक्तम् आमन्त्रणं संबोधनम् अच्युतेत्येवंरूपं तस्य भङ्गि: स्वरविशे- षेणोक्तिः तया अस्खलितधैर्यत्वव्यञ्ञनद्वारा सूचित यत् वृथावस्थानं निरर्थकावस्थितिः तेन यः खेदः तेनालसाम् एतादशी गोपीम् यद्वा आमन्त्रणभङ्गिम्यां सूचितौ यौ वृथावस्थानखेदौ ताभ्याम लसामित्यर्थः । शार्दूलविक्रीडित छन्दः। लक्षणमुक्तं प्राक् (१८ पृष्ठे) ।। अत्र "इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम्" इति वाच्यं तावत् न सिद्धयति यावत् अच्युते- त्यादिपूर्वार्धेन प्रागुक्तरूपं व्यङ्गयं न प्रतीयते इति वाच्यसिद्धयङ्गम्। तदेवाह अत्राच्युतादिपदेति। वाच्यस्येति। सिद्धिकृदिति शेषः । व्याख्यातमिदं प्रदीपादौ "अत्राच्युतेत्यनेन सोलुण्ठेन त्वं मद्विषये च्यवसे इति व्यर्थमेवावस्थानमिति यद्वा अच्युतो धैर्यादस्खलितस्त्वमतो व्यर्थमवस्थानमिति दर्शनेने- त्यादिना संभोगेनैव तृप्तिरिति कि त्वेवमित्यादिना द्वयोरकीर्तिर्जातैव तद्वथैवात्मानं वञ्चयाव इति खेदश्च व्यज्यते। तच्च 'इत्यामन्त्रणभाङ्गिसूचितवृथावस्थानखेदालसाम्' इत्येतद्वाच्यस्य सिद्धिकृत् । तद्यक्ति विना ऐतद्विशेषणपदार्थस्य शरीरलाभात्" इति प्रदीपः। (सोलुण्ठेन त्वं मद्िषये विरस इति येनेदृशै- कान्तेऽपि न रति करोषीति भावः । साक्षान्नायकनामग्रहणमेव सोलण्ठत्वम् । यद्वेति पक्षे योगार्थमर्या- दयार्थलाभ इति विशेषः । इत्यामन्त्रणेत्यस्य कविप्रयुक्तेत्यादिः। तद्यक्तिं विना इतिपदार्थस्य विशे- षणस्य शरीरालाभादिति भावः) इत्युद्दयोतः । एवमवोक्तं सारबोधिन्यामपि "अच्युत तन्नामक अपरि- त्यक्तधैर्य च। किं दर्शनेन अपि तु संभोगेन । संभावयतीति। अन्यथासंभावनमावश्यकं तत्किमित्या- त्मानं वञ्चयाव इत्यर्था व्यङ्गयाः। ते चामन्त्रणाद्यर्थस्योपपादकाः। अन्यथा आमन्त्रणभङ्गिस्वरूपाज्ञानेन इत्यर्थानन्वयः स्यात्" इति ॥ उदाहरणद्वयभेदकमाह एतच्चेत्यादि। एतच् वाच्यसिद्धयङ्गं व्यङ्गयं च । एकत्र भ्रमिमित्याद्युदा- हरणे। एकेति। एक एव कविर्वक्ता। अपरत्र गच्छाम्यच्युतेत्यादिद्वितीयोदाहरणे। भिन्नेति । पूर्वार्धे गोपी वक्त्री अपरार्धे कविर्वक्तेति अनयोरुदाहरणयोर्भेद इत्यर्थः ॥ अस्फुटव्यङ्गयं मध्यमकाव्यमुदाहरति अदृष्ट इति। कस्याश्चित् प्रियं प्रत्युक्तिरियम्। त्वम् अदृष्टे १ सोल्लण्ठेन साभिप्रायेण इति प्रभायाम् ॥ २ एतद्विशेषणेति। इत्यामन्त्रणेत्यादिविशेषणेत्यर्थः ॥

Page 268

पञ्चम उल्लास:। २०९ अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्िष्टम् । संदिग्धप्राधान्यं यथा

हरस्तु किंचित्परिवृत्तधैर्यश्वन्द्रोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥१२९॥[५] अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम् कि वा विलोचनव्यापारणं वाच्यं प्रधान मिति संदेहः। सति 'कदा दर्शनादि भविष्यति' इति दर्शनस्योत्कण्ठा। दृष्टे सति विच्छेदो वियोगस्तद्विषये भीरूता भयशीलतेत्यर्थः । 'विश्लेषभीरूता' इति प्रदीपे पाठः । विश्लेषो वियोगस्तद्गयमित्येव तदर्थः । इत्थ- मदृष्टेन दृष्टेन वा भवता सुखं न लभ्यते । मयेति शेषः । भवतेति हेतौ तृतीया । श्लोकरछन्दः । लक्षणमुक्त प्राक् (११ पृष्ठे) । अत्रादृष्टो यथा न भवसि वियोगदुःखं च यथा नोत्पदते तथा कुर्या इति व्यङ्गयं सहृदयस्यापि न स्फुटमव मासते व्युत्पन्नानामपि विलम्बवेद्यत्वादित्यस्फुटव्यङ्गयं मध्यमकाव्यमिदम्। तदेवाह अत्रादृष्ट इत्यादि। कुर्या इतीति। व्यङ्गयमिति शेषः । क्विष्टमिति। अस्फुटमित्यर्थः । सहृदयैरपि झटित्यसं- वेद्यमिति यावत्। "अत्रादर्शनं वियोगभयं चेत्युभयं परिहरणीयमिति व्यङ्गयमस्फुटम्" इति चन्द्रिका- यामुक्तम् । क्विष्टमित्यत्र 'श्रिष्टम्' इति पाठोऽपि बहुषु पुस्तकेषु दृश्यते । व्याख्यातं च चक्रवर्तिभिः "किष्टं व्युत्पन्नैरपि झटित्यसंवेद्यम्। श्लिष्टमिति पाठेऽपि स एवार्थः" इति। तत्राधपाठ एव समाचीनः। द्वितीयपाठे श्लिष्टशब्दस्योक्तेऽर्यें शक्त्यभावात् निर्बीजलक्षणापत्तेश्च ॥ संदिग्धप्राधान्यव्यङ्गयं मध्यमकाव्यमुदाहरति हरस्त्विति। कुमारसंभवकाव्ये तृतीये सर्गे वसन्त- प्राप्तावन्येषां चेष्टायां वर्णितायां हरस्य चेष्टावर्णनमिदम्। चन्द्रोदयारम्भे अम्बुराशिः समुद्र इव किंचित् ईषत् परिवृत्तं च्युतं धैर्य यस्य तथाभूतः हरस्तु हरः पुनः बिम्बफलमधरयत इति बिम्बफलाधरौ ओष्ठौ यत्र तथाविधे बिम्बफलवत् अधरोष्ठो यत्र तथाविधे वा उमायाः पार्वत्या मुखे विलोचनानि नेत्राणि व्यापारमायास संचारयामासेत्यर्थः । विलोचनानीति बहुवचनेनोत्कण्ठातिशयो व्यज्यते। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (७८ पृष्ठे) ।। अत्राधरं परिचुम्बितुमैच्छदिति व्यङ्गयम् युगपल्लोचनत्रयव्यापारणं वाच्यम् तयोश्ष चमत्कारप्रयो जकत्वरूपे प्राधान्ये साधकबाधकमानाभावेन संदेहः । वाच्यस्याप्यलौकिकत्वेन चमत्कारकारित्वात्। उत्कण्ठातिशयव्यञ्जकत्वाच्चेति संदिग्ध प्राधान्यव्यङ्गयं मध्यमकाव्यमिदम्। तदेवाह अत्र परिचुम्बितु- मित्यादि। प्रतीयमानं व्यङ्गयम्। अस्य 'प्रधानम्' इत्यग्रिमेणान्वयः। प्रधानं चमत्कारप्रयोजकम्। संदेह इति। साधकबाधकमानाभावेनोभयोश्वमत्कारप्रयोजकत्वादिति भावः। अत्र विलोचनव्यापारणं धैर्यपरिवृत्तिश्चानुभावौ वाच्यौ। तौ यदि औत्सुक्यादा् व्यमिचारिणोडभिव्यज्य स्थायिचर्वणायां पर्य- वस्यतस्तदा व्यङ्गयस्य प्राधान्यम्। व्यङ्गयीभूतेच्छामभिव्यज्यैवौत्सुक्यादर्व्यञ्जनात्। यदि तु रतिकार्य- त्वादाहत्यैव स्थायिचर्वणायां पर्यवस्यतस्तदा वाच्यस्य। न चात्र विनिगमकम्। उभयोरपि प्रधानप्र- त्यासन्नत्वा्गावत्वाच्च। न च तुल्यप्रधानता। पृथग्विश्रामाभावादिति भाव इत्युद्दयोते स्पष्टम्।। मय काव्यप्रकाश २७

Page 269

२१० काव्यप्रकाशः सटीक:।

तुल्यप्राधान्यं यथा ब्राह्मणातिक्रमत्यागो भवतामेव भूतये। जामदग्न्यस्तथा मित्रम् अन्यथा दुर्मनायते ॥ १३० ॥ [ ६] अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम्। काक्काक्षिप्ं यथा मश्रामि कौरवशतं समरे न कोपात् दुःशासनस्य रुधिरं न पिवाम्युरस्तः।

तुल्यप्राधान्यव्यङ्गयं मध्यमकाव्यमुदाहरति ब्राह्मणेति। रावणं प्रति परशुरामदूतस्योक्तिरियमि- त्युद्दयोतचन्द्रिकासुधासागरकारादयः । रावणामात्यस्य माल्यवत उक्तिरियमिति कश्चित्। वस्तुतस्तु महावरिचरितनाटके द्वितोयडक्के रावणमुदिश्य रावणामात्यं माल्यवन्तं प्रति परशुरामेण प्रेषिते पत्रे पद्यमिदम्। ब्राह्मणानामतिक्रमोऽवमानस्तस्य त्यागो भवतामेव भूतये कल्याणाय। भवतीति शेषः । न तु ब्राह्मणानाम्। जामदग्न्ये जीवति तेषामनिष्टस्यासंभवादिति भावः । भवतामिति बहुवचनेन सकल- सभाक्षेपः । अन्यथा ब्राह्मणातिक्रमात्यागे तथा तादृशं ( जन्मप्रभृतिसकलरहस्यवेदि) मित्रं सुहृद्धतः जामदग्न्यः परशुरामः (अत्यन्तं साधुजनािक्रमासहनशीलः) दुर्मनायते क्षुब्धान्तःकरणो भवतीत्यर्थः। "वर्तमानसामीव्ये वर्तमानवद्वा" (३।३।१३१) इति पाणिनिसूत्रेण सामीप्याभिप्रायेण वर्तमाननिर्देशः। तथा च तत्क्षोमे सकलराक्षसकुलक्षयरूपोऽनर्थो दुर्वारः स्यादिति व्यङ्गयम् ॥ अत्र जामदग्न्यः क्षत्रियाणामिव रक्षसामपि क्षयं करिष्यतीति दण्डरूपं व्यङ्गयमिव भूत्युपदेशो मित्रत्वाभिधानरूपं च सामोपायात्मकं वाच्यमपि प्रधानमेव। 'दुर्मनायते' इति गम्भीरोक्त्या वाच्यस्यापि चमत्कारित्वात्। विग्रहतत् संधेरपि अनर्थनिवारकत्वेन विवक्षितत्वाच्चेति तुल्यप्राधान्यव्यङ्गयं मध्यम- काव्यमिदम्। तदेवाह अत्रेत्यादि। व्यङ्गयस्य दण्डरूपस्य। वाच्यस्य भूत्युपदेशरूपस्य मित्र- त्वाभिधानरूपस्य च साम्न इत्यर्थः । समं प्राधान्यमिति । विग्रहवत् संघरष्यनर्थनिवारकत्वेन विवक्षितत्वादिति भाव: । काक्काक्षिप्तमिति। काकुर्ध्वनेर्विकारस्तया आक्षिप्तं झटिति प्रत्यायितमित्यर्थः । काक्काक्षिप्तव्यङ्गयं मध्यमकाव्यमुदाहरति मथ्रामीति। वेणीसंहारे प्रथमाङ्के संधिश्रवणकुपितस्य भमिसेनस्य सहदेवं प्रत्यु- क्तिरियम्। अहं समरे युद्धे कोपात् कौरवाणां दुर्योधनादीनां शतं न मशामि। अत्र प्रतिज्ञातकुरुकुल- क्षयस्य भीमसेनस्य 'न मशामि' इत्युक्तिर्विरुद्धेति नजि काक: प्रतीयते। तथा च काक्का नञर्थान्तरं प्रती- यमानं 'न मशामीति न' इत्येवंरीत्या प्रकृतनअर्थान्वयीति अभावाभावरूपं मश्नाम्येवेत्यवधारणं गम्यते। एवमग्रेऽपि सर्वत्र। दुःशासनस्य उरस्तः हृदयात् रुधिरं रक्तं न पिबामि। सुयोधनोरू इति द्विती- याद्विवचनम् । सुयोधनस्य दुर्योधनस्य ऊरू सक्थियुग्मं गदया न संचूर्णयामि। भवतां नृपतिः राजा १ सूत्रेणेति। समीपमेव सामप्यिम् स्वार्थे ण्यञ्प्रत्ययः । "वर्तमाने लट्" इत्यारभ्य "उणादयो बहुलम्" इति यावत् येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च स्युरिति सूत्रार्थः । यथा कदा आग- तोडसि अयमागच्छामि अयमागमम्। कदा गमिष्यसि एष गच्छामि गमिष्यामि वा॥

Page 270

पञ्चम उल्लास: । २११

संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥ १३१॥ [७] अत्र मथ्राम्येवेत्यादि व्यङ्गयं वाच्यनिषेधसहभावेन स्थितम्। असुन्दरं यथा वाणीरकुडंगुड्डीणसउणिकोलाहलं सुणंतीए।

(युधिष्ठिरः ) न तु मम प्रजानां वा नृपतिः स्वबुद्धया राज्यत्यागादिति भावः । पणेन ग्रामपश्चकरू- पेण संधिं मैत्रीं करोत्वित्यर्थः । अत्र क्रोधातिशयान्मथनादौ वर्तमानताव्यपदेशः। यद्वा। "वर्तमानसा- मीप्ये वर्तमानवद्वा" इति पाणिनिसूत्रेण वर्तमानसामीप्ये (भविष्यति) लट्। दुःखेन योधनीयत्वाभा- वाभिप्रायेण दुर्योधनपदं विहाय सुयोधनपदप्रयोगः । कौरवशतमिति शतशब्दोऽनन्तवाची। भीमसेनस्य प्रतिज्ञातकुरुकुलक्षयत्वात् । वसन्ततिलका छन्दः। लक्षणमुक्त प्राक् (६८ पृष्ठे) । अत्र किं व्यङ्गयम् तस्य कथ गुणीभावस्तत्राह अत्रेत्यादि । प्रतिज्ञातकुरुकुलक्षयस्य 'न मश्नामि' इत्याद्युक्तिर्बाधितेति नञ्सु काकुः प्रतीयते तया च काक्का नञर्थान्तरं प्रतीयमानं 'न मशामीति न' इत्येवंरीत्या प्रकृतनवर्थान्वयीत्यभावाभावरूपं मश्नाम्येवेत्याद्यवधारणं व्यङ्गयम् । तदाह मथ्राम्येवे- त्यादीति । आदिना पिबाम्येवेत्यादेः संग्रहः । व्यङ्ग्यमिति । काक्काक्षिप्तमिति संबन्धः । ननु मश्ाम्येवेत्यादिव्यङ्गयस्य चमत्कारित्वे ध्वनित्वमेव स्यात् । तत्कथं गुणीभाव इत्यत आह वाच्येति । वाच्यो यो निषेधः मथनादिनिषेधः तस्य सहभावेन समकालं प्रतीयमानत्वेनैव स्थित व्यवस्थित- मित्यर्थः । तेन व्यङ्गयकृतचारुत्वस्य वाच्यानिर्वाह्यत्वाग्रहान्न ध्वनित्वं किं तु गुणाभूतव्यङ्गयत्वमेवेति भावः । अत एव काकुव्यङ्गयस्य पदार्थस्थानीयत्वेन सूत्रे आक्षिप्तपदं झटिति प्रत्यायितमित्येतत्परम्। यत्र काकुतोडपि विलम्बेन प्रतीतिस्तत्र ध्वनित्वमेव। यथोदाहते (१५ उदाहरणे) 'गुरुः खेदं खिन्ने' इत्यत्रेति द्रष्टव्यमिति विस्तारिकासारबोधिन्योः स्पष्टम्। कौरवकुलनिधननिहितप्रतिज्ञस्य भीमस्य न मथ्नामीत्याद्युक्तिरेव बाघिता। अतो न मथ्नामीति काकुः। न मथ्नामीति नेत्येवं मथननि- षेधनिषेधेन मथनावधारणात्मकं व्यङ्गयं हठेनैव उपस्थापयत् मथननिषेधस्य वाक्यार्थीभूतस्य प्रती- तिसमकालमेव प्रत्याययति। काकुं बिना वाक्यार्थस्य बाधितत्वेनाप्रतीतेः। काक्काक्षिप्तं व्यङ्गयं वाक्यार्थस्य सिद्धरूपस्य बाधमपाकरोति। वाच्यसिद्धयङ्कं तु पदार्थस्य सिद्धिकृदिति विवरणकृतः॥ व्याख्यातमिंदं प्रदीपादौ । "अत्र मध्नामीति व्यङ्गयम् । तच्च वाच्यस्य निषेधस्य सहभावेनैव व्यवस्थितम्। तादृशकाकुं विना वाच्यस्य बाधितत्वेनाप्रादुर्भाबात्। हठेनैव तदाक्षेपाद्वेत्युक्तं प्राक्" इति प्रदीपः । (मश्रामीति व्यङ्ग्यमिति। मथ्नाम्येवेत्यर्थः । प्रतिज्ञातविरुद्धाभिधायिषु नञ्सु काकुर्निषेधान्तराक्षेपिका अभावाभावश्चावधृतभावात्मक इति भावः। ननु मथ्नाम्येवेति व्यङ्गयस्य चमत्कारित्वे ध्वनित्वमेव स्यादत आह तच्चेति। सहभावेन तुल्यवत्प्रतीयमानत्वेन। काकुर्व्यङ्गयनि- षेधं विना वाच्यार्थस्यापर्यवसानादिति भावः । यत्र तु काकोर्विलम्बेन प्रतीतिः 'गुरुः खेदं खिन्ने' इत्यादौ तत्र ध्वनित्वमेवेति दिक्) इत्युद्दयोतः ॥। असुन्दरव्यङ्गयं मध्यमकाव्यमुदाहरति वाणीरेति। "वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः। १ "इन्द्रपस्थं वृकपस्थं जयन्तं बारणावतम्। दंहि मे चतुरो आ्रमान् पश्चमं किंचिदेव तु । " इन्युक्तेन । 'पश्चमं कंचिदेव तु' इत्यपि पाठः ॥ २ व्याख्यातमिदं सूत्रं प्राकू (२१० पृष्ठे ) टिप्पण्याम् ।

Page 271

२१२ काव्यप्रकाश: सटीकः । घरकम्मवावडाए बहुए सीअन्ति अंगाई ॥ १३२॥[८] अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्गयात् सीदन्त्यङ्गानीति वाच्यं सचमत्कारम्। (सू० ६७) एषां भेदा यथायोगं वेदितव्याश्र पूर्ववत् ।।४६ ।। यथायोगमिति "व्यज्यन्ते वस्तुमात्रेण यदालंकृतयस्तदा। ध्रुवं ध्वन्यङ्गता तासां काव्यवृ- गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥" इति संस्कृतम्। गृहपार्श्वववर्तिवेतसनिकुञ्जे दत्तसंकेतायाः निकुञ्जोड्डीनपक्षिकोलाहलतर्कितोपनायकप्रवेशायाः गुरुजनपारतन्त्रयेण गृहकर्मव्यापृततया च तत्र गन्तुमशक्नुवन्द्या अवस्थावर्णनमिदम्। वानीरा वेतसाः। "अथ वेतसे। रथाभ्रपुष्पविदुलशीतवानीरव ज्जुला:" इत्यमरः। तेषां कुञ्जानि गहनस्थानानि। "निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्य- मरः। तेभ्यः उड्डीनाः उत्प्लुताः ये शकुनयः पक्षिणस्तेषां कोलाहलं कलकलशब्दं शृण्वन्त्याः गृहकर्मणि रन्घनादौ व्यापृतायाः व्यापारयुक्तायाः वध्वा स्त्रिया अङ्गानि सीदन्ति अतसादं (आकुलतां) प्राप्नुव- न्तीव्यर्थः । सदिन्तीति वर्तमाननिर्देशादवसादस्याविरामः । वर्तमानप्रत्ययाभ्यां श्रवणावसादरूपयोः कारणकार्ययोः पौर्वापर्यविपर्ययरूपातिशयोक्तिरलंकारः । तेन चोत्कण्ठातिशयो व्यङ्गय इत्युद्दयोते स्पष्टम् । मुखविपुला छन्दः । लक्षणमुक्तं प्राक् (१३३ पृष्ठे) ।। अत्र 'अङ्गानि सदिन्ति' इति वाच्यापेक्षया 'दत्तसंकेतो लतागहनं प्रविष्टः' इति व्यङ्ग्यमसुन्दरम्।तदे- वाह अत्र दत्तेत्यादि। व्यङ्ग्यात् व्यङ्गयापेक्षया। सचमत्कारमिति। चमत्कारकारीत्यर्थः । व्याख्या- तमिदं प्रदीपोद्दयोतयोः। "अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्गयम्। तस्माद्वाच्यं चमत्कारि। शब्दश्रवणसमकालमेव सर्वाङ्गावसादसंतन्येमानतारूपस्य तस्यातिसौन्दर्यात् उत्कण्ठातिशयपर्यवसन्न- त्वात्" इति प्रदीपः । (तस्माद्वाच्यमिति। अत् शरीरावसादरूपवाच्यमेवानुभावभूतमौत्सुक्यावेगसंव- लितानुरागोद्रेककृतमदनपारतन्त्रयबोधकम् व्यङ्गयं तु तन्मुखप्रेक्षीति बोध्यम् ') इत्युद्दयोतः । अत्राह काव्यप्रकाशदर्पणे विश्वनाथः "एतच्च वाच्यसिद्धयङ्गतादेरपवादभूतत्वाद्गिन्म् । तेषु हि व्यङ्गयस्यापि चारुत्वं संभवति" इति। एवं चात्र व्यङ्गयप्रतीतावपि व्यङ्गयमनपेक्ष्यैव वाच्यस्य विप्रलम्भपोषकत्वाद्वाच्ये एव चमत्कारविश्राम इति वाच्यस्यैव प्राधान्येन तात्पर्यविषयत्वमित्यसुन्दरव्यङ्गयं मध्यमकाव्यमिदम्।। उक्तानामेव गुणीभूतव्यङ्गयानामवान्तरभेदानाह एषामिति। " शुद्धमेदानाह एषामिति " इति चक्रवर्तिमट्वाचार्याः। चकारो भिन्नकमः। एषाम् उक्तप्रकाराणां गुणीभूतव्यङ्गयानां मेदा: पूर्ववच्च ध्वनि- मेदवच्च यथायोगं यथासंभवं वेदितव्याः बोह्व्या इत्यर्थः। अय भावः। न केवलमेते एव (अष्टावेव) गुणी- भूतव्यङ्गयस्य भेदाः। किं तु अर्थान्तरसंक्रमितवाच्यत्वादिभिरुपाधिभिर्यथा ध्वने मैदास्तथासंभविनो विहायास्यापि तैरुपाधिभिः शुद्धभेदाः। संकरसंसूष्टिम्यां योजने च (गुणने च) तेषामिवैषां च संकीर्ण- भेदा अपि बोद्धव्याः । असंभविनश्च वस्तुमात्रेणालंकारव्यक्तिनिबन्धनाः । एवं च यत्र वस्तुनालंकार- व्यक्तिस्तत्र गुणीभूतव्यङ्गयत्वं मा प्रसाङ्कीदिति यथायोगमित्युक्तमिति बोध्यम्। तत्र ध्वनिकारसं मतिमाह व्यज्यन्ते इति। यदा वस्तुमात्रेण वाच्यालंकाररहितेनालंकृतयोडलंकारा: व्यज्यन्ते तदा तासाम् अलंकृतीनां ध्रुवं निश्चयेन ध्वन्यङ्गता ध्वनिव्यवहारप्रयोजकता। वाच्यवस्त्वपेक्षयालंकारत्वे- १ शृण्वन्त्याः सीदन्तीति ॥ २ संतन्यमानतेति। अनुपरम इत्यर्थः। वर्तमाननिर्देशादिति भावः ॥

Page 272

पञ्चम उल्लास:। २१३

त्तेस्तदाश्रयात् " इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालंकारो व्यज्यते न तत्र गुणी- भूतव्यङ्गयत्वम् ।

नैवातिशायितया ध्वनित्वनिर्वाहकतेति यावत्। कुतः । कात्यवृत्तेः काव्यव्यवहारस्य तदाश्रयात् अलं- कारसापेक्षत्वादित्यर्थः । इति ध्वनिकारोक्तदिशेति। ध्वनिकार आनन्दवर्धनस्तदुक्तदिशा तदुक्त- मार्गेणेत्यर्थः । न तत्र गुणीभूतव्यङ्गयत्वमिति । अयं भावः । वाच्याद्वस्तुनोऽलंकारस्य चारुत्व- नियमेन अगूढत्वादिना व्यङ्गयत्वाधीनचारुत्वापनयेऽपि अलंकारत्वकृता चारुता अव्याहतैवेति सर्वत्र वस्तुव्यङ्गयालंकारस्थले ध्वनित्वमेव न गुणीभूतव्यङ्गयत्वमिति। व्याख्यातमिदमुद्दयोते। "वस्तुमात्रे- णेति। वाच्यालंकार रहितेनेत्यर्थः । तत्सहितवस्तुनालंकारव्यञ्जने तु यत्र वाच्यालंकारापेक्षया व्यङ्गयस्य तस्य चारुत्वं तत्र ध्वनित्वमेव। यथा चतुर्थे उदाहृतेषु। यत्रालंकारव्यङ्गयालंकारस्य न चारुत्वं तत्र गुणी- भूतव्यङ्गयत्वमेव । यथा 'नैसर्गगुणविनीतं जनयति कापिञ्जलो वंशः । आजन्मनो ह्यपूर्व सूते रत्नाकरो रत्नम्' इत्यत्र प्रतिवस्तूपमाव्यङ्गयायामगूढायामुपमायाम्। तथा च वस्तुव्यङ्गयालंकृतिभेदहीनः द्विच- स्वारिंशत्प्रकारः शुद्धो गुणीभूतव्यङ्गयभेद इति भावः । ध्वन्यङ्गता ध्वनिव्यवहारप्रयोजकता। काव्य- वृत्तेरिति। काव्यपदप्रवृत्तेरित्यर्थः । सालंकारत्वस्य काव्यलक्षणघटकत्वादिति भावः । यद्वा। काव्यवृत्ते: काव्यनिष्पत्तेरित्यर्थः । अलंकारकृतचारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः " इति ॥

वाक्यप्रबन्धगतत्वेन त्रिरूपतया वस्तुव्यङ्गयालंकारस्य नवविधत्वमिति ध्वनिभेदसंख्यैकपञ्चाशतो नव- न्यूनेन अष्टानां भेदानां प्रत्येकं द्विचत्वारिशद्विधत्वमिति मिलित्वा गुणीभूतव्यङ्गयस्य षट्त्रिशदधि- कत्रिशतभेदाः (३३६) शुद्धाः । एवमस्य संसृष्टिसंकराभ्यां चतुरशीत्यधिकपञ्चशताधिकैकपश्चा- शत्सहस्त्रोत्तरचतुर्लक्षमेदा: (४५१५८४) संकीर्णाः । शुद्धमेदैः सह विंशत्यधिकनवशतोत्तरैक- पञ्चाशत्सहस्त्राधिकचतुर्लेक्षमेदाः (४५१९२०) । गुणनप्रकारस्तु ध्वनिस्थलीयोक्तदिशावसेयः " इति विवरणे स्पष्टम् । यत्तु अष्टानामेवैषां गुणीभूतव्यङ्गयभेदाना संकीर्णत्वमात्रातिदेशकम् (परस्परयोगातिदेशकम्) इदं सूत्रमिति केचिद्वदन्ति तदबोधात्।तथा सति हि 'यथायोगम्' इत्यनेन वस्तुव्यङ्गयालंकाररूपभेद- पर्युदासवैय्यर्थ्य स्यात्। तत्र प्रसक्तेरेवाभावादिति बोध्यम्। न च योगं दयोः संबन्धमनतिक्रम्येत्यर्थक- तया संकराद्युपस्थापकमिति वाच्यम्। संकरादीनां 'यथायोगम्' इति पदाभावेऽपि अव्याहतेः । यथा- योगमिति पदाभावेऽपि पूर्वेषां ध्वनीनां यथा मेदा: संकरादिभिः तथैषामपतियेताववतैव तत्सिद्धेरिति तत्वमिति प्रदीपोद्द्योतयोः स्पष्टम् ॥ तदेतत्सर्वमपि व्याख्यातं विस्तारिकासारबोधिन्योरपि। "एषामिति। समनन्तरोक्तप्रकाराणां यथा- योगं यथासंभवं पूर्ववत् ध्वनिभेदवत् अर्थान्तरसंक्रमितवाच्यत्वादिना। यत्तु अष्टानामेव गुणीभूतव्यङ्गय- भेदानां परस्परयोगातिदेशकमिति तन्न। तथा सति वस्तुनालंकारव्यक्तौ यथायोगमित्यनेन गुणीभूतत्व- व्यवच्छेदानौचित्यात् प्रसङ्गाभावात्। तदेवाह व्यज्यन्ते वस्तुमात्रेणेति। वस्तुमात्रेण वाच्यालंकार- शून्येन। तद्वत्वे तु विशेषो वक्ष्यते । ध्वन्यङ्गता ध्वनिव्यवहारहेतुता काव्यवृत्तेस्तदाश्रयात् तदुदे- शेनैव कविना काव्यनिर्वाहणात्। तत्कृतचारुत्वेनैव शब्दार्थयोः काव्यत्वलाभादित्यर्थः। न तत्रेति।न गुणीभूतव्यङ्गयत्वम्। अपि तु ध्वनित्वमेव। तथा च तैमैदै्न्यूनोऽत्र प्रकारः । इदमत्राकूतम्। अलंकाराः

Page 273

२१४ काव्यप्रकाशः सटीक:। (सू० ६८) सालंकारैर्ध्वनेस्तैश्र योगः संसृष्टिसंकरैः। सालंकारैरिति तैरेवालंकारैः अलंकारयुक्तैश् तैः। तदुक्त ध्वनिकृता कदाचिदङ्गभूतवाच्यालकाररहितन वस्तुमात्रेण व्यज्यन्ते कदाचिद्वाच्यालंकारसहितेन वस्तुना। तत्राधे वस्तुमात्रापेक्षयालंकारस्यैवाधिकं चारुत्वमिति तत्सर्वत्र ध्वनित्वमेव। उत्तरत्नापि यत्र वाच्यालंकारापे- क्षया व्यङ्गयालंकारस्य न चारुत्वं तत्र गुणीभूतत्वम्। यथा 'नैसर्गगुणविनीत जनयति०० ॥' इत्यत्र (२१३ पृष्ठे) प्रतिवस्तूपमाव्यङ्गयायामगूढायामुपमायाम् । यत्र च व्यङ्गयालंकारस्याधिकं चारुत्वं तत्र ध्वनित्वमेव। यथा 'गाढकान्तदशनक्षतव्यथा' (६३ उदाहरणे) इत्यादौ विरोधव्यङ्गयायां तुल्ययोगि- तायाम्" इति। पूर्व (चतुर्थोल्लासे ६३ सूत्रे) "संकरेण त्रिरूपेण" इत्यादिना सजातीययोगो ध्वनेरुक्तः। इदानीं तु गुणीभूतव्यङ्गयरूपविजातीययोगमाह सालंकारैरिति। अत्र च सालंकौररिति भिन्नार्थकयोरेकरूपपद- योरेकशेषः । एकत्रालंकारपदमलंकारत्वरूपधर्मपरम् । अलंकारपदस्य भावप्राधान्ये निर्देशात् । अन्यत्र स्वरूपवदलंकाररूपधर्मपरम् । विग्रहस्तु एकत्र अलंकृतिरलंकारः अलंकारेण शोभया सहिताः सालंकाराः । अन्यत्र तु अलंक्रियतेनेनेत्यलंकार उपमादिः तेन सहिताः सालंकाराः । सालंकाराश्च सालंकाराश्च तैः सालंकारैरिति। एवं च एकत्र सालंकारपदस्यालंकारोऽर्थः। अपरत्र तु अलंकारसहितोऽर्थः । तथा च सालंकारैः अलंकारात्मतां प्राप्तैः समासोक्तिरसवदादिपदाभिधेयैः वाच्यालंकारयुक्तैश्च तैः गुणाभूतव्यङ्गयप्रमेदैः शुद्धैः सह ध्वनेः चतुर्थोल्लासोक्तस्यैकपश्चाशद्देदस्य शुद्धस्य ध्वने: योगो मिश्रणं भवतीत्यर्थः । केन प्रकारेणेत्यत आह संसृष्टिसंकरैरिति। संसृष्ट्या एकरूपया संकरैः त्रिभिरिति चतुष्टयेनेति सूत्रार्थः ॥ एकशेषलब्धमेवार्थ दर्शयति तैरेवालंकारैरित्यादिना। तैरेवालंकारैरिति समासोक्तिरसवदादि- रूपैर्गुणीभूतव्यङ्गयैरेवालंकारैरित्यर्थः।'आगत्य संप्रति' इत्यादौ (१२५ उदाहरणे) गुणीभूतव्यङ्गयस्य नायिकानायकवृत्तान्तस्य वाच्यरविकमलिनीवृत्तान्तोतकर्षस्य समासोक्त्यलंकारत्वादिति भावः । अलं. कारयुक्तैश्र तैरिति। उपमाद्यलंकारसहितैर्वस्तुरूपगुणीभूतव्यङ्गयैरित्यर्थः। अलंकारश्वात्र वाच्य एवेत्याहुः। एवं च ध्वनिना गुणीभूतव्यङ्गयेन वाच्यालंकारेण च ध्वनेर्योग इति पूर्वापराभ्यां (चतुर्थो- ल्लासस्थग्रन्थात्रत्यग्रन्थाभ्याम्) उक्तं भवतीति प्रदीपोद्दयोतादिषु स्पष्टम्। सर्वत्रैव काव्येडलंकारसद्गाव- नियमेनालंकारासंकीर्णों ध्वनिगुणीभूतव्यङ्गययोरनयोन्ययोग एव दुर्लभ इत्याशङ्कानुपपत्तये रसवदाद- लंकारस्थले एव स्वभिन्नालंकारान्तराभावसंभवेन तत्संभव इति प्रदर्शनार्थमित्थमुक्तम्। अन्यथा गुणी- भूतव्यङ्गयेन ध्वनेर्योग इत्येव वदेत। व्याचक्रुरिदं सूत्रं वृत्तिग्रन्थं च चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्य- प्रभतयोऽपि । तथाहि । " ध्वनिगुणाभूतव्यङ्गयमिश्रणमाह साऊंकारैरित्यादि । तैः गुणीभूतव्यङ्गयैः शुद्धैः सजातीयविजातीयमिश्रीभूतैश्च सहेत्यर्थः । ध्वनेर्योगो मिश्रणम् । संसृष्टया एकया संकरैः त्रिमिः। तैरेवालंकारैरिति। समासोक्तिस्थले 'आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम्' इत्यादौ व्यङ्गयस्य नायकवृत्तान्तस्य रविकमलिनीवृत्तान्तोत्कर्षकतां प्राप्य समासोक्त्यलंकारताप्राप्तेः । अलंकारयुक्तैरिति। बाच्यालंकारसहितैरित्यर्थः " इति॥ स्वोक्तेऽर्थे प्रामाणिकसंमतिमाह तदुक्तमिति। ध्वनिकृता आनन्दवर्धनेन। स इति। स ध्वनिः

Page 274

पञ्चम उल्लास:। २१५

"स गुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः स्वैः। संकरसंसृष्टिभ्यां पुनरप्युद्दयोतते बहुधा ॥" इति (सू० ६९) अन्योन्ययोगादेवं स्यान्वेदसंख्यातिभूयसी ।। ४७।। एवम् अनेन प्रकारेण अवान्तरभेदगणनेऽतिप्रभूततरा गणना। तथाहि। शृङ्गारस्यैव भेदप्रभेदगणनायामानन्त्यम्। का गणना तु सर्वेषाम्। सालंकारैः वाच्यालंकारसहितैः गुणीभूतव्यङ्गयैः स्वैः प्रभेदैः अर्थान्तरसंक्रमितवाच्यादिभिश्च सह संकरसंसृष्टिभ्यां पुनः बहुधा बहुप्रकारः उद्दयोतते प्रकाशते इत्यर्थः ॥ अन्योन्ययोगादेवमिति। एवं ध्वन्यादिभेदैः तत्प्रभेदैश्च योजनेऽतिप्रभूता संख्या भवतीत्यर्थः । अतः उदाहर्तुमशक्यमिति भावः । एतैः प्रभेदैरुपनिबध्यमानः पुरातनोऽप्यर्थो नवनवीभवतीति न व्यर्थ ध्व्र निभेदानन्त्यप्रदर्शनम्। तदुक्तं ध्वनिकृता "ध्वनेर्यः स गुणाभूतव्यङ्गयस्यात्मा निदर्शितः । एते- नानन्त्यमायाति कवीनां प्रतिभागुणः ॥" इति। यः ध्वनेः आत्मा अर्थान्तरसंक्रमितवाच्यादिभेदप्रकारः सः गुणीभूतव्यङ्गयस्यापि प्रदर्शितः । एतेन भेदप्रदर्शनेन कवीनां प्रतिभा नवनवोन्मेषशालिनी प्रज्ञा तस्या गुणः आनन्त्यम् आयाति प्रामोतीति तदर्थ इति प्रदीपादौ स्पष्टम् ।। सूत्रं व्याकरोति एवमित्यादि। अनेन उक्तेन। अतिप्रभूततरेति। शुद्धसजातीयविजातीयसंमि- श्रणभेदेन निर्वक्तुमशक्येत्यर्थः। गणनायां प्रभूततरत्वमेवोपपादयति तथाहीति। भेदप्रभेदेति। प्रमे- दोऽवान्तरभेदः।आनन्त्यमिति। तत्तु चतुर्थोल्लासे (५७ सूत्रे वृत्तौ च) उक्तमित्यर्थः । सर्वेषां ध्वनि- गुणीभूतव्यङ्गयानाम्। एकस्यैव शुङ्गारस्य भेदप्रभेदगणनायामानन्त्यम् कि वक्तव्यं सर्वेषाम् तद्रणना- यामानन्त्यं स्यादिति भावः। "ननु ध्वनिगुणाभूतव्यङ्गययोः संकरो न प्रत्येतुं शक्यते। अनयोः सामा- नाधिकरण्यासंभवादिति चेन्न। चित्रेण चित्रव्यञ्जने व्यङ्गयत्वविवक्षया ध्वनित्वेऽपि चित्रत्वविवक्षयोभ- योस्तुल्यप्राधान्याद्गुणीभूतत्वमिति द्वयमपि विवक्षाभेदाच्चमत्कारप्रयोजकम्। एवमचित्रेणाचित्रव्यञ्जने व्यञ्जकस्याचित्रत्वात्प्राधान्यविवक्षया ध्वनित्वम् । उभयोरचित्रत्वविवक्षया तुल्यप्राधान्याद्गुणीभूतव्य- ङ्गयत्वमपीति दिशा सर्वे भेदा: सहृदयहृदयारूढा इति श्रीवाग्देवतावतार (मम्मट) प्रतिपादितेऽर्ये न कदा- चिदप्रामाण्यशङ्कोदेतीति मन्तव्यम् " इति सुधासागरे स्पष्टम् ॥ अत्राहुः सुधासागरकाराः। एवमनेनेत्यादि। अत्रेदमवधेयम्। "शुद्धैः सहैकपञ्चाशद्ेदैमेदा यथा ध्वनेः । संकीर्णा हि समाख्याताः शरेषुयुगखेन्दवः (१०४५५)॥ शुद्धैः शरयुगव्यक्तैः (४५) सहात्रापि तथा बुधैः । गुणीभूतव्यङ्गयभेदा बाणाब्धीन्दुगजाः (८१४५) स्मृताः ॥ मध्यमोत्तमयोरेवं भेदयोर्गुणने पुनः। भूताश्चाङ्केषुशरभूबाणस्तम्बेरमा (८५१५५९७५) मताः। चतुर्भिर्गुणने प्राग्वद्वि- ज्ञेया गुणकोत्तमैः। खाकाशाङ्काग्निपक्षर्तुव्योमवारिधिवह्रयः (३४०६२३९००)॥" गुणनप्रकारस्तु "गुण्यान्त्यमङ्कं गुणकेन हन्यादुत्सारितेनैवमुपान्त्यमादीन् । गुण्यस्तथोऽघोगुणखण्डतुल्यस्तैः खण्डकैः संगुणितो युतो वा ।।" इत्यादि लीलावत्यादौ द्रष्टव्यः। "एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्नात्" इत्यादिदशगुणोत्तरा संख्यापि ज्योतिःशास्त्रे प्रसिद्धा। प्रकृताङ्कगुणने त्वयं लघुसरलः प्रकारः "गुण्याङ्को गुणकाङ्कश्च बिन्द्न्तः संभवेद्यदि। बिन्दूधो बिन्दवः स्थाप्याः शेषाङ्कं गुणयेत्तदा॥।" तथा चात्र गुण्याङ्के चत्वारः खण्डाः। न्यूने गुणकाङ्केऽपि तावन्त एव।

Page 275

२१६ काव्यप्रकाश: सटीक:। संकलनेन पुनरस्य ध्वनेस्त्रयो भेदा:। व्यङ्गयस्य त्रिरूपत्वात्। तथाहि। किंचिद्वाच्यतां सहते

तत्र बृहत्खण्डयो: परस्परं गुणनेऽष्टकोटय: ( ८०००००००) । गुणकद्वितीयखण्डेन शतात्मकेन पुनस्तादृशसहस्त्रात्मकखण्डगुणने प्रयुतम् (१००००००)। गुण्यतृतीयखण्डेन चत्वारिंशदात्मकेन पुन- स्तत्खण्डगुणने लक्षचतुष्टयम् (४०००००)। चतुर्थखण्डेन पञ्चात्मकेन पुनस्तत्खडगुणने पञ्चाशत्सह- स्राणि (५००००)। अथ गुण्यद्वितीयखण्डेन शतचतुष्टयात्मकेन गुणकप्रथमखडस्याष्टसहस्त्रात्मकस्य महत्तया गुणने लक्षद्वयाधिकं प्रयुतत्रयम् (३२०००००)। तृतीयेन पञ्चाशदूपेण पुनस्तत्खण्डगुणने लक्षचतुष्टयम् (४०००००)। चतुर्थेन पञ्चात्मकेन पुनस्तद्रुणने चत्वार्ययुतानि (४००००)। अथ गुण्यद्वितीयखण्डेन गुणकद्वितीयखण्डगुणने चत्वार्ययुतानि ( ४००००) । गुण्यतृतीयखण्डेन चत्वारिंशदात्मकेन पुनस्तद्रुणने षोडशसहस्त्राणि (१६०००)। चतुर्थेन पञ्चात्मकेन पुनस्तद्गुणने सहस्त्रद्वयम् (२०००) । अथ गुणकतृतीयेन पञ्चाशदूपेण गुण्यद्वितीयस्य शतात्मकस्य गुणने पञ्चसहस्राणि (५०००)। चतुर्थेन पञ्चात्मकेन पुनस्तद्रुणने पञ्चशती (५००)। अथ गुण्यतृती- येन चत्वारिंशदूपेण गुणकतृतीयस्य पञ्चाशदूपस्य गुणने सहस्त्रद्वयम् (२०००)। गुण्यचतुर्थेन पञ्चात्म- केन पुनस्तद्गुणने पञ्चाशदधिकं शतद्वयम् (२५०)। अथ गुणकचतुर्थेन पञ्चात्मकेन गुण्यतृतायस्य चत्वारिंशदात्मकस्य गुणने शतद्वयम् (२००)। चतुर्थेन चतुर्थस्य गुणने पञ्चविंशतिः (२५)। सर्वेषां संमेलनेऽष्कोटयः लक्षाधिकानि पञ्चप्रयुतानि पञ्चायुतानि पञ्चसहस्राणि नवशतानि पञ्चो- त्तरा सप्ततिश्व (८५१५५९७५) । चतुर्मिः संसृष्ट्यादिप्रकारैर्गुणने अर्बुदत्रयम् कोटिचतुष्ट्यम् लक्षषटम् अयुतद्वयम् सहस्त्रत्रयम् नवशतानीत्युक्ता काव्यभेदानां संख्या (३४०६२३९०० ) संपद्यते I। "दिक्प्रदर्शनमेतच्चालंकारोद्तसंकरैः । परार्धाधिकतां याति गणनेति न दर्शिता ।। १ ॥" इति॥।

एवं ध्वनिगुणाभूतव्यङ्गयमेदान्निरूप्य संप्रति व्यञ्जनायां वादिविप्रतिपत्तिनिरासाय प्रकरणान्तरमा- रभते संकलनेनेत्यादि। संकलन संग्रहः । संक्षेप इत्यर्थः । केनाप्युपाधिना एकीकरणमिति यावत्। अस्य गुणाभूतव्यङ्गयस्य। ध्वनेरिति ध्वनेश्वेत्यर्थः । चकाराभावेऽपि "अहरहर्नयमानो गामश्वं पुरुषं पशुम्" इत्यादाविवात्रापि समुच्चयार्थकचकारादिकल्पनेति बोध्यम्। यद्वा। ध्वनेः ध्वननव्यापारोपहि- तस्य। तेन गुणीभूतव्यङ्गयस्यापि संग्रहः । त्रिरूपत्वादिति। वस्त्वलंकाररसौदिरूपत्वादित्यर्थः । अत्र सुधासागरकाराः। "अयमाशयः । एवमनन्तानां ध्वननव्यापारयोगिनां ध्वनीनां गुणाभूतव्यङ्गयानां च काव्यभेदानामनुगतोपाधिना संकलने त्रयो भेदाः। व्यङ्गयस्य त्रिरूपत्वात्। संकलनं संग्रहः। संकलन- व्यवकलनव्यवहारो वेदान्तिनां समा्टिव्यष्टिव्यवहारवज्ज्योतिःशास्त्रे गणितग्रन्थेषु प्रसिद्धः । अत्र त्रिषु विश्रामो व्यञ्जनादार्व्यप्रतिपादनाय। अधिकतरसंक्षेपेSविवक्षितवाच्यविवक्षितान्यपरवाच्यावेव द्वौ भेदौ। अधिकतमसंक्षेपे त्वेकमेव सर्वोत्थानबीजं स्फोटात्मकं व्यङ्गयम्। तदेव च 'एकमेवाद्वितीयं ब्रह्म' इत्यादिश्रुतिप्रतिपादं सच्चिदानन्दरूपं निर्गुणसगुणविलक्षणं वस्त्विति बोध्यम्। तदेतत्सर्व श्रीवाग्देवतावतारैः (मम्मटैः) संकलनव्यवकलनाभ्यां ब्रह्माण्डावयवगणनायां विराड्पे त्वेकत्वमिति १ ध्वननव्यापारो व्यख्ञना। २ आदिशब्देन भावादेरलक्ष्यक्रमस्य संग्रहः ॥३ चराचरशरीरसमुदायरूप विराट्शरीरं वनवत्समष्टिः। चसचराणां प्रत्येकं शरीरं वृक्षवव्यष्टिरिति हि तेषां व्यवहारः ॥

Page 276

कार्शक पञ्चम उल्लास:। २१७

किंचिच्चन्यथा । तत्र वाच्यतासहमविचित्रं विचित्रं चेति । अविचित्रं वस्तुमात्रम् विचित्रं त्वलंकाररूपम्। यद्यपि प्राधान्येन तदलंकार्यम् तथापि ब्राह्मणश्रमणन्यायेन सथोच्यते। रसादिलक्षणस्त्वर्थः स्वप्नेऽपि नवाच्यः। स हि रसादिशब्देन शृङ्गारादि- शब्देन वाभिधीयेत। न चाभिधीयते। तत्प्रयोगेऽपि विभावाद्यप्रयोगे तस्याप्रतिपत्ते- स्तदप्रयोगेऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्वेत्यन्वयव्यतिरेकाभ्यां विभावाद्य भिधानद्वारेणैव प्रतयिते इति निश्चीयते तेनासौ व्यङ्ग्य एव। मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणायः। व्यञ्ञजनद्वारा ध्वनितमिति सद्भिर्न विस्मर्तव्यम् " इत्याहुः । किंचिदिति । व्यङ्गयमित्यर्थः । वस्तु- मात्ररूपमलंकाररूपं चेति यावत् । वाच्यतां सहते इति । वाच्यत्वसहमित्यर्थः । वाच्यमपि कर्तु शक्यते इति यावत्। किंचित् रसादिरूपम्। अन्यथेति। वाच्यत्वासहमित्यर्थः । कदाचिदपि वाच्यता न सहते इति यावत्। तत्न तयोर्मध्ये। वस्तुमात्रमिति। अनलंकारं वस्तुमात्रमित्यर्थः । उक्तमत्र नर- सिंहठक्कुरैः "वाच्यतासहत्वं स्वशब्देनामिहितेऽपि चमत्कारित्वम्। अन्यथा स्वशब्देनामिहितं न चत्मकारि। यथा रसादि। नतु वस्त्वलंकारयोरपि वस्त्वलंकारपदाभ्यामभिधाने न चमत्कार इति तयोरपि कथं वाच्यतासहत्वमिति चेन्न। वाक्यार्थबोधविषयत्वे चमत्कारित्वस्यैव वाच्यतासहत्वम्। तच्चैतयोरेव न रसस्येत्यर्थात्" इति। नन्वलंकारे व्यङ्गये मुख्यध्वनित्वात्कथमलंकारत्वव्यपदेशोऽन्यानलंकरणादत आह यद्यपीति। प्राधान्येन हेतुना। तत् चित्रं व्यङ्गयम्। अलंकार्यमिति। न त्वलंकाररूपमि- त्यर्थः । तथोच्यते इति। अलंकार इत्युच्यते इत्यर्थः। अलंकारस्य प्राधान्येऽपि यथालंकारत्वं तथोक्तं ब्राह्मणश्रमणन्यायेनेत्यादिना चतुर्थोल्लासे (१३२ पृष्ठे) इति भावः । रसादिलक्षण इति। लक्ष्यते ज्ञायतेऽनेनेति लक्षणं नाम। रसादिनामक इत्यर्थः । आदिपदेन भावादिरलक्ष्यक्रमः सर्वोडपि संगृद्यते । स्वप्नेऽपीति। सर्वथैवेत्यर्थः । कदाचिदपीति यावत्। न वाच्य: न वाच्यत्वं सहते । अत्र हेतुमाह स हीति। हि यस्मात्। रसादिशब्देनेति । सामान्यतो रसभावादिपदैरित्यर्थः । शृङ्गा- रादिशब्देन वेति। विशेषतः शृङ्गारनिर्वेदादिपदैर्वेत्यर्थः । अिधायेतेति। लिडर्थश्वर्वणारूपेष्ट- साधनत्वम्। न चेति। नैवेत्यर्थः। तत्प्रयोगेऽपि तस्य रसादिपदस्य शृङ्गारादिपदस्य वा प्रयोगेऽपि। विभावादीति। आदिनानुभावव्यभिचारिभावयोरब्रहणम् । तस्य रसादिलक्षणस्य। अप्रतिपत्तेरिति। चमत्कारिप्रतिपत्तेरभावादित्यर्थः । 'नयननलिनीलीलाकृष्टं पिबन्ति रस प्रियाः' इत्यादौ 'शृङ्गारस्यो- पनतमधुना राज्यमेकातपत्रम् ' इत्यादौ (५३५ उदाहरणे ) च विभावादिप्रतीतस्यैवानुवादः शेष- संपादनायेति न दोषः । यत्र तु मुख्यतस्तदभिप्रायेण रसादिपदप्रयोगस्तत्र स्वपदाभिधानं दोषः इति सप्तमोल्लासे ८२ सूत्रे वक्ष्यते। तदप्रयोगेऽपि रसादिपदाप्रयोगेऽपि। यथा 'शून्यं वासगृहम्' इत्यादौ (१०० पृष्ठे)। विभावादिप्रयोगे इत्यादि। तेन विभावादिघटिततत्तद्रसयोग्यर चनादिरूपसामग्रया एव तद्वयञ्जकत्वं न रसादिपदस्येति भावः । अन्वयव्यतिरेकाभ्यामिति। यत्सत्वे यत्सत्त्वमन्वयः यदभावे यदभावो व्यतिरेकस्ताभ्यामित्यर्थः । द्वारेणैव मुखेनैव नियतपूर्ववर्तित्वेन द्वारत्वम्। प्रतीयते चमत्कारविषयीक्रियते। निश्चीयते निर्णीयेत। असौ रसादिलक्षणोऽर्यः। ननु वृ्त्यभावात्कथं प्रतीयते इत्यत आह व्यङ्ग्य एवेति। व्यञ्जनाविषय एवेत्यर्थः । चमत्कारगोचर इति शेषः। नन्वलंकारादेरपि अलकारपदेनोपादाने उपमादिपदेन वोपादाने न चमत्कारः प्रादुर्भवतीति कथ रसादिवैलक्षण्यमिति चेन्न। तेषां पदसमन्वयबलेन क्वचित्प्रतीतानामपि चमत्कारित्वदर्शनात्। नैवं रसादीनामिति विभावादि- काव्यप्रकाश २६

Page 277

२१८ काव्यप्रकाश: सटीक:।

अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्गयं विना लक्षणैव न भव- तीति प्राक् प्रतिपादितम्। शब्दशक्तिमूले तु अभिधाया नियन्त्रणेनानभिधेयस्यार्थान्त- रस्य तेन सहोपमादेरलंकारस्य च निर्विवादं व्यङ्गयत्वम् । द्वारिकैव प्रतीतिरिति बोध्यम्। अथ विभावादिवाचकेम्यो रसप्रतीतिनियमेन तत्र तेषां संकेताभावेन शक्त्यभावाल्लक्षणास्तु इत्याशङ्कय निराकरोति मुख्यार्थबाधेति। ननु 'यष्टीः प्रवेशय' (४३ पृष्ठे) इत्वादाविव तात्पर्यविषयानुपपत्या लक्षणास्त्वित्यत आह आदीति। आदिपदेन योग( संबन्ध) रूढि- प्रयोजनानां संग्रहः । न च विभावादिभिः सह रसस्य ज्ञाप्यज्ञापकभाव एव योगोऽस्तीति वाच्यम्। वृत्तिं विना तस्यैवासिद्धेः। तथा चातात्पर्यविषयश्यापि रसस्य प्रत्ययात् रसस्य स्वप्रकाशानन्दमयसंवि- द्विश्रान्तिरूपत्वेन तस्मिन् (रसे) लक्ष्ये प्रयोजनान्तरासंभवात् विभावादिवाचकेषु पदेषु कुशलादिपद- वत् प्रसिद्धयभावेन रूढयसंभवाच्च न लक्षणेति भावः । न च रसलक्षणायां प्रयोजनान्तरं कल्प्यते अतो नासंभव इति वाच्यम्। रसपर्यन्तेनैव प्रतीतिविश्रान्तेः । प्रयोजनादिकं विना तु न लक्षणा। तस्या: हेतुत्रयसापेक्षत्वनियमात् । तस्मात्तदनन्तरेण भवन्ती वृत्तिस्तु व्यञ्जनैव। मात्सर्यमात्रात्तु तर्क- कर्कशैर्लक्षणेत्युच्यते इति दिगित्युद्दयोतसारबोधिन्यादौ स्पष्टम्।। ननु मा भवतु रसादौ लक्षणा। वस्तुनि व्यङ्गये सा तु न हस्तपिहितेत्यत्र दूषणमाह अर्था न्तरसंक्रमितेत्यादि। यद्वा नन्वस्तु रसादौ व्यञ्जना। तदितरत्र तु तस्याः शशविषाणायमानत्वा- त्कुतो व्यङ्गयत्नैरूप्यकृतो भेद इत्याशङ्कयाह अर्थान्तरसंक्रमितेत्यादि। 'त्वामस्मि वच्मि' (८३ पृष्ठे) इत्यत्र वचनादि उपदेशादिरूपेऽर्थान्तरे संक्रमितम् । 'उपकृतं बहु तत्र' (८३ पृष्ठे) इत्यत्र अपकारातिशये व्यङ्गये वाच्यमत्यन्तं तिरस्कृतमिति लक्षणामूले तत्रोभयत्र वस्तुमात्रं व्यङ्गयं विना लक्षणैव न संभवतीत्यर्थः। तत्र रूढयभावेन प्रयोजनवत्यां लक्षणायां प्रयोजनस्य व्यङ्गयत्वमेव न लक्ष्य- त्वमिति भावः। प्राकूप्रतिपादितमिति। प्रयोजनवत्यां तस्यां रूढयभावेन प्रयोजनान्तरकल्पने चान- वस्थापत्तेरित्यादि "एवमप्यनवस्था स्यात्" इत्यादिना द्वितीयोल्लासे (६० पृष्ठे) प्रपञ्चितमित्यर्थः । तथा च व्यञ्जनासिद्धौ लक्षणाससिद्धिरपीति भावः । व्याख्यातं च सुधासागरकारैरपि "तत्र लक्षणामूले वस्तुमात्रं व्यङ्गयं विना लक्षणैव न संभवतीति द्वितीयोल्लासे (५८ पृष्ठे) 'यस्य प्रतीतिमाधातुम्' इत्यादिना महता प्रबन्धेन प्रतिपादितमिति भाव:"इति। एवं लक्षणामूले वस्तुमात्रस्य व्यङ्गयत्वं समर्थ्य अभिधामूलेऽपि वस्त्वलंकारयोर्व्यङ्गयत्वं समर्थयति शब्दशक्तिमूले इति । अभिधामूले इत्यर्थः । 'उल्लास्य कालकरवालमहाम्बुवाहम् (१२९ पृष्ठे) इत्यत्रेति भावः। अभिधायाः शब्दशक्तेः। निय- न्त्रणेन (राजरूपे प्रथमेऽर्ये प्रकरणादिमिः) नियमनेन। अनभिधेयस्य अभिधया बोधयितुमशक्यस्य। अर्थान्तरस्य इन्द्रमेघादिरूपस्य। तेन सह इन्द्रमेघादिरूपार्थान्तरेण सह। उपमादेरलंकारस्येति। अभिधावृत्त्यविषयस्येति भावः। निर्विवादं व्यङ्ग्यत्वमिति। व्यङ्गयत्वं सर्वसंमतमित्यर्थः । एवमेव 'भद्रात्मनः' (६८ पृष्ठे) इत्यादावपीदं सर्वमनुमसंधेयम्। उक्तमिदमुद्दयोतादावपि "अभिधामूलेष्वपि प्रकरणादिनाभिधायाः प्रथमेऽर्ये नियन्त्रणात्तया बोधयितुमशक्यस्यार्थान्तरस्य वस्तुरूपस्योपमादेर- लंकारस्य चाभिधावृत्त्यविषयस्य व्यङ्गयत्वमेव। शब्दबोध्यस्य वृत्तिविषयत्वनियमात्। स्मरणस्य तु नानार्थस्थले संभवेऽपि अन्वयबोधस्यासंभवादिति" इति ॥

Page 278

पश्चम उल्लास:। २१९ अर्थशक्तिमूलेऽपि विशेषे संकेतः कर्तु न युज्यते इति सामान्यरूपाणां पदार्थानामाका- ङ्वासंनिधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थोऽपि विशेषरूपो वाक्यार्थस्तत्राभिहि- तान्वयवादे का वार्ता व्यङ्ग्चस्याभिधेयतायाम्। येऽप्याहुः "शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति। श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया॥ १॥ इत्यभिदधत् अभिहितान्वयवादे व्यङ्गयस्याभिधेयतां निराकरोति अर्थशक्तिमूलेऽपीत्यादिना 'अभ- धेयताम्' इत्यन्तेन। विशेषे तत्तद्यक्तिविशेषे। संनिहितगवादिव्यक्ताविति यावत्। संकेतः संकेतग्रहः। न युज्यते न शक्यते (न पार्यते)। आनन्त्याद्यभिचाराच्चेति भावः । यद्वा विशेषे पदार्थसंसर्गे। न युज्यते। वाक्यार्थस्यापूर्वत्वेन प्रागनुपस्थितेरिति भावः। सामान्यरूपाणां जातिरूपाणामिति सारबो- धिन्यां स्पष्टम्। जातिरेव पदार्थ इति मीमांसकसिद्धानतादिति बोध्यम्। कथ तर्हि वाक्यार्थावगतिरि- त्यत आह आकाङ्कत्यादि। व्याख्यातमिदं द्वितीयोल्लासे (२६ पृष्ठे)। यत्र मते। अपदार्थः अभिधयानुपस्थितः । विशेषरूपः । वृत्तित्वानुकूलत्वादिविशेषात्मकः । वाक्यार्थः तात्पर्यवृत्त्या वाक्यप्रतिपाद्यः। अभिहितान्वयवादे भट्टैकदेशिनां मीमांसकानां मते। का वार्तेत्यादि। व्यङ्गयस्य वाक्यार्थादपि दूरभावित्वादभिधेयतायां कः प्रसङ्ग इत्यर्थः । अयं भावः । यन्मते वाच्यार्थबोधविषयी- कृतमपि संसर्ग शक्योपस्थापनपरिक्षीणशक्तिरभिधा नावभासयतीति तदर्थ तात्पर्यवृत्तिरवलम्ब्यते तन्मते वाक्यार्थबोधोत्तरकालिकायां व्यङ्गयोपस्थितौ नैवाभिधाप्रभाव इति किमु वक्तव्यमिति। तदे- तत्सर्वमुक्तं प्रदीपप्रभोद्दयोतेषु। "अर्थशक्तिमूलेऽप्येवमङ्गीकर्तव्यम्। यतः पदेभ्यः प्रथमं पदार्थस्तृतिः अथ पदार्थविशेषाणामन्वयविशेषरूपस्य वाक्यार्थस्य प्रत्ययः ततो व्यङ्गयप्रतीतिरिति तृतीयकक्षायां कुतोऽभिधायाः प्रसरणम् । द्वितीयकक्षायामेव तदनपेक्षणात्। यतोऽमिहितान्वयवादेSशक्य एवान्वयः आकाङ्कादिवशेन प्रतीयते। शब्दबुद्धिकर्मणां विरम्य व्यापाराभाव इति च सर्वसिद्धम्" इति प्रदीपः । (पदार्थविशेषाणां गवादिपदार्थगोत्वादिसामान्याक्षिप्तगवादिव्यक्तीनाम्। अन्वयविशेषरूपस्य गवाद्यन्वितकर्मत्वादिरूपस्य। सर्वसिद्धमिति । अन्यथा वाक्यमेदस्य दोषत्वानापत्तेरिति भावः ) इति प्रभा। (विशेषरूपस्य गत्रान्वितकर्मत्वादिरूपस्य। तदनपेक्षणादिति। वाक्यार्थस्यापदार्थसंसर्गरूप- स्यापूर्वत्वेनानभिधेयत्वे कथ व्यङ्गयस्यामिध्रेयत्वमिति भावः। तदेवोपपादयति यतोऽभिहितेति। एवं चापूर्वत्वाद्वाक्यार्थ इव व्यङ्गयार्थेऽपि संकेतग्रहो न संभवतीति भावः ) इत्युद्दयोतः ॥ एवमभिहितान्वयवादे व्यङ्गयस्यार्थस्यामिधेयत्वं ( वाच्यत्वं) निरस्य अन्विताभिधानवादेऽपि तन्निरसितुमन्विताभिधानवादिनां मतं पूर्वमुपपादयति येऽप्याहुरित्यादिना 'अन्विताभिधानवा- दिन:' इत्यन्तेन । येडप्यन्विताभिधानवादिनः प्राभाकराः (मीमांसकाः) इति एवंप्रकारेण आहुः कथ- यन्ति इति दूरेणान्वयः। बालस्य आद्या व्युत्पत्तिर्वृद्धव्यवहारादेव भवति। अत्र व्युत्पादको वृद्धः प्रयो- जकः प्रयोज्यश्वेति द्विविधः । तत्र प्रयोजकवृद्ध उत्तमवृद्धः प्रयोज्यवृद्धो मध्यमवृद्धः व्युत्पिसुश्च बालो वृद्धव्यवहारदर्शनाद्वयुत्पद्यते। तदाह शब्दवृद्धेति।अत्र कारिकाद्वये प्रतिवाक्यं 'बालः' इत्यध्याहारः। प्रत्यक्षपदमत्र करणपरम् । तथा च बालः शब्दवृद्धाभिधेयान् शब्द: श्रूयमाणः 'देवदत्त गामानय' १ 'अन्वयरूपस्य' इत्यपि पाठोडस्ति ॥

Page 279

२२० काव्यप्रकाश: सटीक:। अन्यथानुपपत्या तु बोधेच्छक्ति द्वयात्मिकाम्। अर्थापत्यावबोधेत संबन्धं त्रिप्रमाणकम् ॥ २ ॥" इत्यादिवाक्यरूपः वृद्धौ प्रयोजकवृद्धप्रयोज्यवृद्धौ अभिधेयोऽर्थः गवानयनादिरूपः एतान् प्रत्यक्षेण प्रत्यक्षहेतुना श्रोत्ादिना अत्र व्युत्पत्तिकाले पश्यति साक्षात्करोततत्यर्थः । तत्र श्रोत्रेण शब्दं चक्षुषा च वृद्धाभिधेयान्साक्षात्करोतीति भावः। एतेन प्रयोजकवृद्धप्रयोज्यवृद्धप्रयुज्यमानशब्दगवानयनादि- क्रियाणां प्रत्यक्षविषयत्वमुक्तम्। श्रोतुश्चेति। चकारः प्रतिपन्नत्वमित्यनन्तरं योज्यः । अनुमानपद- मत्र करणल्युङन्तम्। श्रोतुः प्रयोज्यवृद्धस्य प्रतिपन्नत्वं वाक्यार्थाभिज्ञत्वं च (कर्म) अनुमानेन अनु- मितिकरणभूतया चेष्टया गवानयनादिचेष्टारूपेण हेतुना पश्यति इति संबन्धः। पश्यति जानाति अनु. मिनोतीत्यर्थः। 'अयमेतच्छब्दजन्यैतदर्थगोचरज्ञानवान्। एतच्छब्दश्रवणानन्तरमेतदर्थगोचर चेष्टावत्वात्' इत्यनुमानाकारः । चेष्टयेत्यत्रापि श्रोतुरित्यस्यान्वयो बोध्यः। अन्यथानुपपच्येति । अन्यथानुपपत्या- र्थापत्त्येत्यमेदान्वयः। अनन्तरं द्वयात्मिकां वाचकत्वं वाच्यत्वं चेति द्विविधां शक्ति संकेतापरना- मकं वाक्यवाक्यार्थयोः संवन्धम् अन्यथानुपपत्त्या 'गामानयेत्यादिवाक्यश्रवणात् गवानयनाद्यर्थज्ञानम् एतद्वाक्येनैतदर्थस्य वाच्यवाचकभावसंबन्धं विनानुपपन्नम्' इत्यनुपपत्त्या (इत्यनुपपत्तिरूपया ) अर्थापत्या अर्थापत्याख्यप्रमाणेन (हेतुना) बोधेत् जानीयादित्यर्थः । अन्ये तु द्वयात्मिकाम् आश्र- यभूतस्य वाक्यस्य वाचकत्वम् विषयभूतस्यार्थस्य वाच्यत्वमेव द्वयम् आत्मा स्वरूपं यस्यास्तथाभूता- मिति वाच्यवाचकरूपं द्वयम् आत्मात्मीयं प्रतियोग्यनुयोगिभूतं यस्यास्तादृशीमिति च व्याचख्युः । अनन्तरं च त्रिप्रमाणकम् उक्तरीत्या प्रत्यक्षानुमानार्थापत्तिरूपप्रमाणत्रयाधिगतम् संबन्धं संके- तम् अवबोधेत (आवापोद्वापाभ्यां गोशब्दस्य गौरेवार्थः । अम्विभक्तेः कर्मत्वमिति रीत्या विशेषतः पदपदार्थनिष्ठतया) अवधारयेदिति कारिकाद्वयार्थः ॥ व्याख्यातमिदं कारिकाद्वयं बहुभिरपि। तथाहि "शब्दवृद्धेति। प्रत्यक्षपदं करणपरम्। तत्र श्रोत्रेण शब्दं पश्यति साक्षात्करोतीत्यर्थः । तथा चक्षुषा वृद्धैरभिधेयान् गवानयनादींश्च साक्षात्करोतीत्यर्थः । श्रोतुः प्रयोज्यवृद्धस्य प्रतिपन्नत्वं कार्यताज्ञानवत्त्वं चेष्टया लिङ्गरूपेणानुमानेन 'अवबुध्येत' इत्यग्रेतने- नान्वयः । अन्यथानुपपत्त्या कारणं बिना कार्यानुपपत्या द्यात्मिकां कार्यकारणत्वरूपां शक्ति बोधेत् जानीयादित्यर्थः । अर्थापत्या तदर्थसंबन्धं बिना वाक्यस्य तञ्ज्ञानजनकत्वानुपपत्या संबन्धं वाच्यवा- चकभावरूपमवबुध्येतेत्यर्थः । संवन्धाभावे हि तद्वाक्यादर्थान्तरस्यापि बोधः स्यादित्यतिप्रसङ्ग इति भावः। त्रिप्रमाणकमिति। प्रत्यक्षानुमानार्थापत्तिरूपप्रमाणत्यमूलकमित्यर्थः " इति प्रभा। "प्रतिप- न्नत्वं प्रतिपत्तिर्ज्ञानमिति यावत् । बुध्येतेत्यग्रिमेणान्वयः । अनुमानेन चेष्टयेति। चेष्टारूपानुमिति- जनकज्ञानविषयहेतुनेत्यर्थः । अन्यथानुपपत्या कारणं विना कार्यानुपपत्त्येत्यर्थः । बोधे बोधनिष्ठकार्य- तानिरूपितां द्वयात्मिकां दवयं कार्य कारणं च आत्मा प्रतियोगी यस्यास्तां कारणत्वरूपां शक्ति 'बुध्येत' इत्यग्रिमेणान्वयः। बोधेदिति पाठे 'ज्ञाननिरूपिताम्' इति शेषो बोध्यः। संबन्धं वाच्य- वाचकभावरूपम् । एवं शक्तिग्रहं त्रिप्रमाणकमाहुरित्यर्थः । अनुपपत्तिरर्थापत्तिरेव" इत्युद्दयोतः । "शब्दो 'गामानय' इत्यादिवाक्यम् वृद्धौ प्रयोज्यप्रयोजकौ अभिधेयो गवानयनादिरूपः संसर्गः । १ अनुमिमीते इति यावत्। २ वाक्ये कस्यचित्पदस्य प्रक्षेपः (ग्रहणं) आवापः । कस्यचित्पदृस्य उत्सर्गः (व्यागः) उद्दूापः ।।

Page 280

पञ्चम उल्लास:। २२१

इति प्रतिपादितदिशा 'देवदत्त गामानय' इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशाद्देशान्तरं सास्ादिमन्तमर्थ मध्यमवृद्धे नयति सति 'अनेनास्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्नः' इति तच्चेष्टयानुमाय तयोरखण्ड- वाक्यवाक्यार्थयोरर्थापच्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते । परतः 'चैत्र गामानय देवदत्त अश्वमानय देवदत्त गां नय' इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोग- प्रत्यक्षेण तद्धेतुना चक्षुषा श्रवणेन च। अत्र व्युत्पत्तिकाले । पश्यति जानाति। श्रोतुः प्रतिपन्नत्वं ज्ञानव्त्त्वं चेष्टया अङ्गक्रियया अनुमानेन अनुमितिकरणेन चेष्टया हेतोरित्यर्थः । 'अयमेतच्छब्दजन्यै- तदर्थगोचरज्ञानवान् । एतच्छब्दश्रवणानन्तरमेतदर्थगोचरचेष्टावत्त्वात्' इत्यनुमानाकारः । चकारः प्रतिपन्नत्वमित्यनन्तरं योज्यः । श्रोतुः प्रतिपन्नत्वमपि जानातीत्यर्थः । अन्यथेत्यादि। द्वयोर्वाक्य- वाक्यार्ययोरात्मा स्वरूपं यस्याः [इति] शक्तिविशेषणम् । आश्रयत्वेन शब्देषु विषयत्वेन चार्थेषु वृत्तेः । अनुपपत्तिश्च शब्दादर्थज्ञानं वृत्तिं विना अनुपपन्नम्। अन्यथातिप्रसङ्गात्। सा च शक्तिः स्वाभाविकसंबन्धत्वा[दित्या]द्याकारा। अर्थापत्या आवापोद्वापदर्शनसहकृतया। सा चानयनादन्विते गंवि गोपदशक्तिस्तदितराप्रतिपाद्यत्वे सति प्रतिपाद्यत्वादिरूपा । त्रिप्रमाणकं प्रत्यक्षमनुमानमर्थापत्ति- श्चेति प्रमाणत्रयम्। अनुपपत्तेरप्यर्थापत्तिभेदत्वात्। सिद्धमतस्यानुवादोऽयम्। तदनुपपत्तिस्तत्समर्थनं चाप्रकृतत्वान्नोद्धावितमिति" इति चक्रवर्ती।। इति प्रतिपादितदिशेति। इतिकारिकाद्वयोक्तमार्गेणेत्यर्थः । अस्य 'अवधारयति' इत्यत्रान्वयः । कारिकादूयं विवृणोति देवदत्तेत्यादि। देवदत्तेत्यादि सत्यन्तं शब्देत्यादेः पश्यतीत्यन्तस्य विवरणम्। अनेनेत्यादि अनुमायेत्यन्तं श्रोतुश्वेत्यादेश्चेष्टयेत्यन्तस्य विवरणम्। प्रतिपन्न इति। प्रतिपत्तिर्ज्ञानम्। ज्ञात इत्यर्थः। तयोरित्यादि बालस्तत्र व्युत्पद्यते इत्यन्तम् अन्यथानुपपत्त्येत्यादेरथापत्त्येत्यन्तस्य विव- रणम्। वाच्यवाचकभावलक्षणं संबन्धमिति शक्तिमित्यस्य विवरणम्। बाल: व्युत्पिसुः। तत्र वाक्ये। व्युत्पद्यते व्युत्पन्नो भवति। परत इत्यादि अवधारयतीत्यन्तं त्रिप्रमाणकमित्यन्तस्य विवरणम् । अवापोद्वापाभ्यां विशेषे संकेतग्रहं (शक्तिग्रहं) दर्शयति। परत इत्यादि। परतः अनन्तरम्। 'चैत्र गामानय' इत्यावापः। देवदत्तेत्यादिकस्तु उद्वाप इति बोध्यम्। वाक्यप्रयोगे इति। उत्तमवृद्धस्य वाक्यप्रयोगे इत्यर्थः । तस्य तस्य गवादिपदस्य। तं तं गवादिरूपम्। विशेषशक्त्यवधारणे हेतुमाह इत्यन्वयव्यतिरेकाभ्यामिति। इति गवादिपदस्यावापोद्वापाभ्यां ( गवादिपदप्रयोगाप्रयोगाभ्यां) यावन्वयव्यतिरेकौ ताभ्याम्। गवादिषु प्रवृत्त्यप्रवृत्तिभ्यां हेतोरित्यर्थः । गोपदसत्त्वे एव गवार्थप्रतीतिः । तदसत्त्वे च तदप्रतीतिरिति गोपदस्यैव गौरर्थ इत्यवधारयतीति भावः। ननु तथापि पदार्थवौशिष्टय- रूपो वाक्यार्थ आकाङ्कादिमहिम्ना भासताम्। कि तत्र शक्त्येत्यत आह प्रवृत्तिनिवृत्तिकारीत्यादि। प्रवृत्तिनिवृत्तिकारीति हेतुगर्भविशेषणम्। तेन प्रवृत्तिनिवृत्तिकारित्वादित्यर्थो बोध्यः । गामानयेति गवानयने प्रवृत्तिकारि। गां नानयेति तल्नैव निवृत्तिकारि। प्रयोगयोग्यमिति। शब्दप्रयोगस्य परार्थ- त्वादिति भावः। वाक्येनैव परस्येष्टानिष्टसाधनयोः प्रवृत्तिनिवृत्तिसंभवादतो वाक्यस्यैव सदा प्रयोगा- दन्वितेऽर्ये उपस्थितत्वात्पदानामभिधानसामर्थ्यमवधार्यते इति वर्तुलितोऽर्यः । इतीति। यस्मादेवं प्रकण :

Page 281

२२२ काव्यप्रकाश: सटीक:। योग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदार्थैरन्वितानामेव संकेतो गृह्यते इति विशिष्टा एव पदार्थाः वाक्यार्थः। न तु पदार्थानां वैशिष्ट्यम्। व्युत्पत्तिग्रहणप्रकारस्तस्मादित्यर्थः । वाक्यस्थितानामिति। वाक्यत्वेन परस्परान्विितबोधकतया स्थितानामेव पदानाम् अन्वितैः पदार्थान्तरेण संसुष्टैः पदार्थैः सह संकेतः शक्तिरूपः ज्ञायते इत्यन्वयः। पदानामिति विशेषयति अन्वितानामिति। परस्परसाकाङ्काणामित्यर्थः । तेन 'दण्डेन गामभ्याज' इत्यादौ कारणत्वान्विते गवि न गोपदस्य शक्तिः। प्रत्ययस्य स्वप्रकृत्यैव कारकस्य क्रिययैव साकाद्कत्वात्। इतीति। यतोऽन्विते व्यवहारस्तत इत्यर्थः । विशिष्टा एवेत्यादि। विशिष्टा एव परस्पर- संसृष्टा एव (संबद्धा एव अन्विता एव) पदार्थाः पदवृत्तिविषयाः (पदशक्याः) वाक्यार्थः वाक्यप्रति- पाद् इत्यर्थः । परस्परसंसष्टानामेव पदार्थानां वाक्यप्रतिपाद्यत्वमिति भावः । एवकारव्यवच्छेद्यमाह न तु पदार्थानां वैशिष्ट्यमिति। वाक्यार्थः इत्यनुषज्यते। न तु पदार्थानां पदवृत्तिविषयाणां (पद शक्यानां) वैशिष्टय संबन्धो वाक्यार्थः वाक्यप्रतिपाद्य इत्यर्थः । एवं च पदैरभिधया प्रतिपादिताना- मर्थानामाकाङ्कायोग्यतासंनिधिवशाद्भासमानः संबन्धरूपोऽर्योऽपदार्थोऽपि तात्पर्याख्यया वृत्त्या वाक्यार्थः (वाक्यप्रतिपाद्यः) इति प्राक् (२७ पृष्ठे २०७ पृष्ठे च) उक्तममिहितान्वयवादिनां (भट्टैकदेशिनां) मतं न युक्तमिति भाव: ।। तदेतत्सर्व व्याख्यातं प्रदीपेऽपि। तथाहि। "अनन्तरं तेनैव प्रयोजकेन 'चैत्र अश्वमानय देवदत्त गां नय' इत्यादिवाक्येषु कस्याचिदन्यस्य पदस्यावापे (ग्रहणे) कस्यचिदुद्धारे (त्यागे) च सति यस्य वाक्यभागस्य ( गोपदादेः) अन्वयव्यतिरेकाभ्यां यस्य वाक्यार्थभागस्य ( गवाद्यर्थभागस्य ) अन्वयव्यतिरेकावुपलभेते तत्र तस्य शक्तिमवधारयति। तच्च शक्त्यवधारणमन्विते एव (अन्वय- विशिष्टे एव) पदार्थे प्रथममन्वये एव ( अन्वयविशिष्टे एव) वाक्यस्य शक्तिग्रहात् पदार्थमात्रशक्ता- वुपजीव्यविरोधात् व्यवहेरेणान्वितज्ञानस्यैवोपस्थानाच्च (जननाच्)। न च वाक्यं विना क्वचिदाद- व्युत्पतिः । व्यवहारेणैवाद्यव्युत्पत्तेः। व्यवहारस्य च प्रवृत्तिनिवृत्तिरूपस्य पदमात्रेण कर्तुमशक्यत्वात्। अतो वाक्यस्थितानामेव (परस्परसाकाङ्काणां) पदानामन्वितेष्वेव पदार्थेषु संकेतग्रहात् अन्विता एव पदशक्याः । ते एव च वाक्यार्थ इति न वाक्यार्थबोधे शक्तेर्विरामः। ने तु अभिहितानां पदा- र्थानामन्वयोऽशक्य एव प्रतीयते योग्यतावशादिति युक्तम् " इति ॥ अत्रायं निष्कर्षः । संकेतग्रहो हि उक्तरीत्या व्यवहारादेव प्रथमतो भवति। व्याकरणादीनामन्येषां संकेतग्राहकाणां शाब्दबोधसापेक्षतया प्राथम्याभावात्। व्यवहारश्च मध्यमवृद्धस्य गवानयनप्रवृत्त्या- दिरूपः सर्वदैवोत्तम वृद्धोक्तगामानयेतिवाक्यश्रवणादेव भवति। न कदापि गोपदमात्रश्रवणात्। वाक्य- स्थितानां तु पदानामर्थाः (गामनयेत्यादौ आनयनेन गां रक्षेत्यादौ रक्षणेनेत्येवंरीत्या) नियतमेव १ वाक्यादन्वितज्ञानकल्पनमुपजवकम्। तत्सिद्धयर्थसंबन्धकल्पनमुपजीव्यम् । न तद्विरोधेन युज्यते। तन्मूल- त्वादित्यर्थः॥ २ नन्वन्यलभ्यतयान्वयांशे न शकक्तिकल्पना किंतु पदार्थस्वरूपांश एवेति न विरोध इत्यत आह व्यवहारेणेति इति प्रभायाम् । 3 अन्वितेष्वेवेति। इतरपदार्थस्य कर्मत्वादेरितरपदशक्यत्वेनान्यलभ्यतया तत्रापरपदशक्त्ययोगादन्वय- विशिष्ट एव संकेतग्रह इति भावः ॥ ४ ते एवेति। परस्परं संसृष्टः पदार्था एव वाक्यार्थः न तु पद्वृत्तिविषयाणां पदा- र्थानां तद्वृत्त्यविषयोऽन्वयो वाक्यार्थ आकाङ्क्षादिवशाद्ासते इति भावः ॥ ५ न त्विति। अशक्यभानेSतिप्रसङ्गात् अन्विते एव व्यवहाराश्वेति भाव इत्युद्दयोते स्पष्टम् ॥ ६ "शक्तिगहं व्याकरणोपमानकोशाप्वाक्याव्यवहारतश्। वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिष्यतः सिद्धपद्स्य वृद्धाः" इत्युक्तानामित्यर्थः ॥

Page 282

पञ्चम उल्लास:। २२३ यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः तथापि सामान्यावच्छादितो विशेष- रूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः। तेषामपि मते सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्त- परपदार्थान्विताः । अतो व्यवहारमूलकः संकेतग्रहोऽन्वितगवादिष्वेव भवतीति तदुत्तरभाविनोऽपि व्याकरणादिभ्यः शक्तिग्रहास्तथैवान्वितपदार्थविषयका इति नान्वयबोधार्थ तात्पर्यवृत्तिः स्वीकार्ये- तीति विवरणे स्पष्टम्।। ननु गामानयेत्यादौ यदेवानयनपदम् तदेव अश्वमानयेत्यादावपीति प्रत्यभिज्ञाबलेनोभयत्रैकमेवा- नयनपदमिति निर्णीयते । एवं चानयनपदस्य गवान्वितत्वमश्वान्वितत्वं वा नार्थः किंतूमयसाधार- ण्याय सामान्यतोऽपरपदार्थान्वितानयत्वेनापरपदार्थान्वितानयनमेवार्थ इत्येव वाच्यम् । तथा च गामानयेत्यादौ गवान्वयरूपविशेषान्वयबोधनाय तात्पर्यवृत्तिः स्वीकार्येत्याशङ्कते यद्यपीत्यादि । वाक्यान्तरप्रयुज्यमानानि गामानयेतिवाक्यभिन्ने अश्वमानयेतिवाक्ये उक्तानि। यथा नैयायिकमते गोत्वेन सामान्यतः शक्तिग्रहेऽपि आकाङ्कादिवशात् गोविशेषबोधस्तथा सामान्यतोऽपरपदार्थान्धित- स्वेन विशेषे शक्तिग्रहेऽपि आकाङ्कदिवशात् समभिव्याह्ृतगामितिपदार्थान्वयबलाच्च गवान्वितत्वरूप- विशेषान्वयस्य बोधः। गामितिपदार्थेनान्वितस्यानयनपदार्थस्यैव गवान्वितानयनरूपत्वादिति समाधत्ते तथापीत्यादि। सामान्यावच्छादितः गोत्वेन सकलगाव इव अपरपदार्थान्वितानयनत्वादिसामा- न्यधर्मप्रकारेण गृहीतसंकेतः सर्व एवानयनादर्थः । प्रतिपद्यते ज्ञायते। व्यतिषक्तानां परस्प- रमन्वितानाम्। तथाभूतत्वात् विशेषरूपत्वादिति विवरणे स्पष्टम्। सारबोधिनीकारादयस्तु "ननु तत्रापि संसर्गविशेषो वाच्य एव। इतरपदार्थान्विते एव शक्तिग्रहात्। अन्यथा गामानयेत्यनन्तरं गामपसारयेत्युक्तौ 'तदेवेदं पदम्' इति प्रत्यभिज्ञा न स्यात्। गवानयनतदपसारणरूपार्थभेदेन शब्दभेदादित्यपेक्षायामाह यद्यपीति। उत्तरमाह तथापीति । सामान्यावच्छादितः क्रियापदार्था- न्वितकारकत्वादिसामान्यधर्मेण परिगृहीतः । यद्वा । सामान्येनाक्षिप्तः सामान्यस्य विशेषं विना- पर्यवसानात्। विशेषरूपः आनयनाद्यन्वितघटादिरूपः । असौ संकेतः । व्यतिषक्तानां संसृष्टा- नाम्। तथाभूतत्वात् सामान्यरूपेण विशेषस्यैव बोधविषयत्वात्। यथा घटस्य रूपमित्यत्र षष्ठयाः संबन्धत्वेन समवायस्य" इति व्याचक्रुः । इत्यन्विताभिधानवादिन इति । अन्वितानामेव पर- स्परसंबद्धानामेवार्थानामभिधानं शब्देनाभिधया प्रतिपादनं तद्वादिन इत्यर्थः इति प्राक् (२७ पृष्ठे) व्याख्यातम्। आहुरिति पूर्वेणान्वयः । अत्रारुचिबीजं तु व्यवहारेण गोकर्मकानयनादिविशेषे एव प्रथमं शक्तिग्रहात्सामान्यान्वितशक्तिग्रहे उपजीव्यविरोधस्य तवापि सत्वेन लाघवादनन्विते एव शक्ति- रन्वय आकाङ्कालभ्य इत्येवोचितमितीत्युद्द्योते स्पष्टम् । दर्शिता चात्र मतेऽरुचिः प्राक् (२७ पृष्ठे) अपीति बोध्यम्।। एवमन्विताभिधानवादिनां मतमुपपादयैतन्मते व्यङ्गयस्य अभिधेयत्वं निरस्यति तेषामपीति। अन्वि- ताभिधानवादिनामपीत्यर्थः । सामान्यवशेषरूप इति । सामान्येन अपरपदार्थान्वितानयनत्वादि- १ पूर्वज्ञातस्य ज्ञानं प्रत्यभिज्ञा ॥ २ सामान्येन धर्मेण विशेषस्यैव गमकत्वादिति चक्र्वर्तिपाठः ॥

Page 283

२२४ काव्यप्रकाश: सटीक:। रगतोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे अर्थान्तरभूतस् निःशेष- च्युतेत्यादौ विध्यादेश्वर्चा। अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने अन्वितविशे- पस्त्ववाच्य एव इत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः । यदप्युच्यते 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इति। तत्र निमित्तत्वं कारकत्वं साधारणधर्मेण विशेषरूपः वस्तुगत्या गवानयनादिरूपोऽर्यः यत्र मते अतिविशेषभूतः गवानय- नत्वादिन। गवानयनादिरूपविशेषखरूपः पदार्थोऽसंकेतित्वात् सामान्यलक्षणप्रत्यासत्त्यभावेन संकेतग्रहकालेSप्रत्यासन्नतया संकेतग्रहाविषयत्वात् अवाच्य एव अनभिधेय एव वाक्यार्थान्तर्गतः गामानयेत्यादिवाक्यार्थमध्यनिविष्टः प्रतिपद्यते इत्यन्वयः । तत्र तस्मिन् मते। दूरे इति। अनभिधयवा- क्यार्थप्रतीत्यनन्तरं वक्तृबोद्धव्यादिवैशिष्टयेन प्रतीयमानस्य व्यङ्गयस्यातिविप्रकृष्टत्वादिति भावः। अर्था- न्तरभूतस्य तदन्तिकगमननिषेधविरोधिनस्तदन्तिकगमन रूपस्य। निःशेषच्युतेत्यादौ'निःशेषच्यु- तचन्दनम्' इत्यादौ (२० पृष्ठ)। विध्यादेरिति विध्याद्यर्थस्येत्यर्थः । व्यङ्गयाद्यर्थस्येति यावत्। व्या- ख्यातमिदमन्यत्रापि "विधिर्नायकान्तिकगमनरूपः" इति। चक्रवर्तिनस्तु "विध्यादेः निषेधेतरस्य" इति व्याचख्युः । न पुनस्तस्याधमस्यान्तिकम् इति वाच्यरूपान्निषेधादितरस्य 'तदन्तिकमेव रन्तुं गतासि' इत्यस्येति तदर्थ: । चर्चा प्रसङ्गः । 'चर्चा अनुसंधानम्। वाच्यत्वस्येति शेषः' इति केचित्॥ अयं भावः। वस्तुत्वेन वस्तुपदवाच्योऽपि घटो यथा घटत्वेन तदवाच्यः तथा अपरपदार्थान्वितान- यनत्वेन (अभिहितान्वयवादे केवलेनानयनत्वेन) आनयनपदवाच्यमपि गवानयनं गवानयनत्वेन तद- वाच्यमेवेत्यसंकेतिते तस्मिन् वाक्यगम्ये प्राथमिकबोधविषयीकृतेऽपि नाभिधाव्यापार इति नितरामेवा- नन्तरभाविनि व्यङ्गयबोधेऽभिधाविराम इति विवरणे स्पष्टम् ।। वादिद्वयमतं युगपदुपसंहरति अनन्वित इत्यादि। अभिहितान्वये अभिहितान्वयवादे। अनन्वितः असंसृष्टः । अर्थः वृत्तिविषयः। अन्विताभिधाने अन्विताभिधानवादे। अन्वितविशेषः गवान्वितान- यनरूपः। अवाच्य एव अनभिधेय एव। उभयनयेऽपि अभिहितान्वयवाद्यन्विताभिघानवादिमतेऽपि। अपदार्थ एव पदवृत्त्यविषय एव वाक्यार्थः संसर्गः । एतत्सर्व प्राग्व्याख्यातमेव ।। ननु व्यङ्गयप्रतीतिनैमित्तिकी। निमित्तान्तरानुपलब्धे: शब्द एव निमित्तम् । तच्च बोध्यबोधकत्वरूपं निमित्तत्वं वृत्तिं बिना न संभवतीति अभिधैव वृत्तिरिति मीमांसकैकदेशिमतमाशङ्कते यद्यपीत्यादि। यद्यपि कैश्चिदुच्यते शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तत्र सर्वत्रापि उपस्थितत्वाच्छब्द एव निमित्तं कल्प्यते "नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते " इति न्यायादित्यर्थः । तथा च व्यङ्गयप्रतीति- नैमित्तिका। निमित्तान्तरानुपलब्धे: शब्द एव निमित्तमिति शब्दस्य पुनःपुनरनुसंधानं कल्प्यते इति वा- च्यार्थ इव व्यङ्गयार्थेऽपि न वृत्त्यन्तरकल्पनं किंत्वभिधैव वृत्तिरिति भावः । व्याख्यातं च विवरणेऽपि "यस्मिन् सति ज्ञाते वा यावान् अर्थो जायते ज्ञायते वा तावत्येव तस्मिन् तस्य (यथाक्रमं कारकत्वरूपो ज्ञापकत्वरूपो वा) निमित्तभाव इति न्यायेन शब्दश्रवणानन्तरं यावानर्थः (वाच्यो वा व्यङ्गयो वा) प्रती- यते तत्र सर्वत्रैव उपस्थितत्वात् शब्द एव निमित्तमिति किमनेन विचाराडम्बरेणेति पूर्वपक्षः" इति। तन्मतं दूषयति तत्रेत्यादिना 'अविचारिताभिधानम्' इत्यन्तेन । तत्रेति । तदुक्तावित्यर्थः ।

Page 284

पश्चम उल्लास:। २२५

ज्ञापकत्वं वा शब्दस्य प्रकाशकत्वान्न कारकत्वम् ज्ञापकत्वं तु अज्ञातस्य कथम् ज्ञातत्वं च संकेतेनैव स चान्वितमात्रे एवं च निमित्तस्य नियतनिमित्तत्वं यावन्र निश्चितम् तावन्नैमित्तिकस्य प्रतीतिरेव कथम् इति 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इत्यविचारिताभिधानम्। ये त्वभिदधति 'सोडयमिषोरिव दीर्घदीर्घतरो व्यापारः' इति 'यत्परः शब्द: स शब्दस्येश्यस्य ह्वर्थः'इति शेषः । कारकत्वं जनकत्वम्। ज्ञापकत्वं प्रकाशकत्वम्। बोधकत्वमिति यावत्। प्रकाशकत्वात् अर्थबोधकत्वात्। अर्थानुत्पादकत्वादिति यावत्। न कारकत्वं नार्थजनक- त्वम्। अज्ञातस्य कथमति। अज्ञातस्य स्वरूपमात्रेण ज्ञातस्य वा ज्ञापकत्वे तु सर्वदार्थप्रतीतिरूपा- तिप्रसङ्गात् अव्युत्पन्नस्यापि शब्दश्रवणमात्रेणार्थप्रतीतिप्रसङ्गाच्च प्रत्यक्षान्यप्रमाणस्य ज्ञातस्यैव कर- णत्वनियमाच्चेति भावः । अस्तु तर्हि ज्ञातस्य ज्ञापकत्वमत आह ज्ञातत्वं चेति। संकेतेनैवेति। शक्ति- रूपसंकेतवश्वेनैव न तु स्वरूपमात्रेणेत्यर्थः । स च संकेतः । अन्वितमात्रे इति। न त्वन्वितविशेषे न वा विध्यादाविति भावः। नन्वस्तु विशेषे एव संकेत इत्यपेक्षायामाह एवं चेत्यादि। निमित्तस्य शब्दस्य। नियतनिमित्तत्वं विशेषसंकेतवत्वम्। नैमित्तिकस्य प्रतीतिः व्यङ्गयस्य ज्ञानम्। केचित्तु नियतनिमित्तत्वम् अव्यभिचरितनिमित्ताभावः नैमित्तिकस्य प्रतीतिः इदमेतन्निमित्तकमिति ज्ञानमिति व्याचख्युः । कथमिति। तेषां मते विशेषे संकेतज्ञाने तदुपस्थितिस्तदुपस्थितौ च संकेतज्ञानमि- त्यन्योन्याश्रय इति भावः। उक्तं च प्रदीपे "तथा च तत्र संकेतग्रहे शब्दात्तदुपस्थितिः। शब्दाच तदु- पस्थितौ संकेतग्रह इत्यन्योन्याश्रयात् " इति । अविचारिताभिधानम् अविचारितकथनम्। अवि० षये वचनप्रयोग इति यावत् ।। अयं भावः । इतरव्यवहारदर्शनेनैव व्युत्पन्नस्य लोष्ठाद्यन्वितानयनव्यवहारं कदाप्यदृष्टवतोऽपि 'लोष्ठ- मानय' इतिवाक्याद्वोधस्थले लोष्ठादन्वितानयनादेर्विशेषस्योपस्थापकान्तराभावेन शब्दादेवोपस्थितिर्वा- च्या। तथा च तत्र संकेतग्रहे शब्दात्तदुपस्थितिः । शब्दाच्च तदुपस्थितौ संकेतग्रह इत्यन्योन्याश्रयः स्यात्। न च व्यञ्जनापि तदूडुर्ग्रहेति वाच्यम् । अभिधा लक्षणा वा ज्ञातैवोपयोगिनीति सत्यम् । धर्मिग्राहक- मानसिद्धा व्यञ्ञना त्वज्ञातैव बोधिका। न चातिप्रसङ्ग:। वक्त्रादिवैशिष्ट्यापेक्षणात्। फलवत्वेन तथैव कल्पनादिति दिक्। तस्मात् 'नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इत्यविचारिताभिधानमितीत्यु- द्योतसुधासागरयोः स्पष्टम् ॥ अयमत्र सिद्धान्तसारः। व्यङ्गयोपस्थितौ शब्दस्य ज्ञापकत्वरूपं निमित्तत्वमस्माकमपि संमतम्। तत्र नास्माकं विवादः । परंतु व्यञ्जनाया अस्वीकारे तन्न संभवति। शब्दस्यार्थनिमित्तत्वं हि व्यापारसापेक्ष- मेव नियतम्। यथा वाच्यार्थलक्ष्यार्थयोरभिधालक्षणे व्यापारौ। यथा इहापि कोऽपि व्यापारोSवश्यमङ्गी कार्यः । अन्यथा हि शब्दस्य निमित्तत्वानिश्चयेन नैमित्तिको व्यङ्गयार्थ इत्येव भवदभिमतोऽपि न सि- द्वयति। यदि तु व्यापारं विनापि शब्दस्य निमित्तत्वं स्यात् तदा अभिधालक्षणे अपि दत्तजलाञ्जली स्यातामित्यस्माभिरुच्यते इत्यभिप्रायमबुद्धाभिधानमविचारविजृम्भितमेवेति विवरणेडपि स्पष्टम्॥ अथ भट्टमतोपजीविनां भट्टलोल्लटादीनामभिमतं पक्षमाशङ्कते ये त्विति। सोऽयमिषोरिवेति। यथा बलवता प्रेरित एक एव इषुरेकेनैव वेगार्येन व्यापारेण रिपोर्वर्मच्छेदं मर्मभेदं प्राणहरणं च विधत्ते तथा सुकविप्रयुक्तः एक एव शब्द: एकेनैवाभिधाख्यव्यापारेण पदार्थोषस्थितिमन्वयबोधं व्यङ्गयप्रतीर्ति च विधत्ते जनयति। अतो व्यङ्गयत्वाभिमतस्यार्थस्य वाच्यत्वमेवेत्यर्थः।न चैकार्थप्रतीतौ शब्दस्य कावयप्रका:श २९

Page 285

२२६ काव्यप्रकाशः सटौक:। शब्दार्थ:' इति च विधिरेवात्र वाच्य इति। तेऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रिया।। तथाहि 'भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते' इति कारकपदार्थाः क्रियापदार्थेना- न्वीयमाना: प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्रापुवन्ति ततश्रा बिराम इति वाच्यम्। विवक्षितार्थप्रतीत्युत्तरमेव विरामाङ्गीकारादिति भाव इति प्रदीपोद्दयोतयोः स्पष्टम्। युकत्यन्तरमाह यत्पर इति। 'यदर्थे यस्य शब्दस्य तात्पर्य स शब्दार्थः' इत्यर्थकेन "यत्परः शब्दः स शब्दार्थ: "इति न्यायेन चेत्यर्थः । विधिरेवेत्यादि। एवकारो भिन्नक्रमः । अत्र निःशेषच्युतचन्द नमित्यादौ विधिः नायकान्तिकगमनरूपः तात्पर्यविषयतया वाच्य एव न तु व्यङ्गयः इति एवंप्रका- रेण 'अभिदधति' इति पूर्वेणान्वयः। एवं भट्टलोल्लटादीनां मतमाशङ्कय संप्रति खण्डयति तेऽपीत्यादि। तात्पर्यवाचोयुक्तेः 'यत्परः शब्दः स शब्दार्थः' इति मीमांसकनियमोक्तेः अतात्प्यज्ञाः तात्पः र्यमजानन्त इत्यर्थ: किमुदिश्य 'यत्परः शब्दः स शब्दार्थः' इति प्रयुज्यते इत्यस्यानभिज्ञा इति यावत्। अत एव देवानांप्रिया: देवानां बलिभूताः पशव इत्यर्थः । मूर्खा इति यावत्। वाचोयुक्तेरिति देवानां- प्रिया इति चालुक्समासः। "वाग्दिक्पश्यद्यो युक्तिदण्डहरेषु" इति "देवानांप्रिय इति च मूर्खे" इतिः च कात्यायनकृतवार्तिकादिति बोध्यम्। 'यत्परः शब्दः' इति नियमस्येत्थमर्थो मीमांसकैर्निरणायि। वाक्यान्तर्वर्तिपदार्थेषूपस्थितेष सिद्धरूपाणां प्राप्ततया विधानमनर्थकमिति साध्यरूपस्यैव विधेयत्वम् यस्य च विधेयत्वं तत्रैव तद्वाक्यस्य तात्पर्यम् यस्मिंश्व तात्पर्य स एव वाक्यार्थः तदर्थबोधनायैव तद्वाक्यं प्रयुक्तम् तदंशस्य प्रमाणान्तराप्राप्ततया तदंशे एव तद्वाक्यस्यानवगतार्थबोधकत्वेन प्रामाण्य- निर्वाह इतीति सिद्धान्तयति तथाहीत्यादिना 'उपात्तशब्दार्थे एव तात्पर्थम् इत्यन्तेन। व्याख्यातं चैवमेवोद्योतेऽपि। 'यत्परः शब्दः' इत्यस्य हि उपात्तशब्दैः प्रतिपाद्येष्वर्थेषु यदंशे विधेयत्वं तत्र वाक्यतात्पर्यम् यत्र तात्पर्य स शब्दार्थः तदंशे शब्दस्यानधिगतार्थगन्तृत्वरूपं प्रामाण्यमित्यर्थः ।नतु यत्तात्पर्यकतया शब्द: प्रयुज्यते स शब्दार्थ इत्यर्थ इति भावः। एवं हि तात्पर्यस्यानियतत्वेन शक्ते- रप्यनियतत्वापत्तिरिति बोध्यमिति। ननु विधेयत्वं प्रवर्तनारूपविधिविषयत्वम् तच्च कियाया एव न द्रव्यादेरिति "दृध्ना जुहोति " इत्यादेर्दध्यंशे प्रामाण्यं न स्यादत आह भूतेति । भूतं सिद्धं कार- कादि भव्यं साध्यं क्रियारूपम् तयोः समुच्चारणे सममिव्याहारे सहोच्चारणे वा भूतं सिद्धं भव्याय साध्यायोपदिश्यते (साध्यार्थतयोपदिश्यते ) अज्ञातं ज्ञाप्यते इति न्यायार्थः । नन्वेवमपि कारकपदा र्थानामक्रियारूपत्वात्कथं प्रवर्तनाविषयत्वमत आह कारकपदार्था इति। कारकपदार्थाः 'गामानय' इत्यादौ गामित्यादयः क्रियापदार्थेन आनयनपदार्थेन अन्वीयमानाः संबद्धाः प्रधानक्रियायाः आनयनरू- पायाः निर्वर्तिका संपादयित्री या स्वस्य गोः क्रियाः चलनरूपा तस्या अभिसंबन्धात आश्रयत्वात साध्यायमानतां प्रामुवन्ति साध्या इव भवन्ति (स्रूपेण सिद्धा अपि साध्यक्रियाविशिष्टतया साध्या इव भवन्ति)। यथा पूर्वमुत्पन्नस्यापि घटस्य रक्ततादशायां 'रक्तो घटो जातः' इति व्यवहारः तथा सिद्धरूपाणामपि कारकाणां साध्यक्रियासंबन्धात् साध्यरूपत्वं भाक्तमिति भाव इति विवरणे स्पष्टम्। अत एव (भाक्तत्वबोधनायैव) 'साध्यायमानताम्' इति क्यडप्रत्ययः प्रयुज्यते। तदुक्तं विस्ता- रिकासारबोधिन्योरपि। प्रधानेत्यादि। 'घटमानय ' इत्यत्रानयनं समीपदेशसंयोगः प्रधानक्रिया तस्याः निर्वर्तिका हेतुभूता या स्वस्य घटस्य क्रिया पूर्वदेशसंयोगध्वंसहेतुविभागजनकस्पन्दः। वदस्य १'यत्तात्पर्यकतया शब्दः प्रयुज्यते स शब्दार्थ:' इति तद्मिप्रेतार्थकेनेति यावत् ॥

Page 286

पश्चम उल्लास:। २२७

दग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते यथा ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे "लोहितोष्णीषा ऋत्विजः प्रचरन्ति " इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम् हवनस्या- न्यतः सिद्धेः "दध्ना जुहोति" इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् । क्वचिदुभयविधिः क्वचित्त्रिविधिरपि यथा 'रक्तं पट वय' इत्यादौ एकविधिर्द्विविधि- स्त्रिविधिर्वा ततश्र 'यदेव विधेयं तंत्रैव तात्पर्यम्' इत्युपात्तस्यैव शब्दस्यार्थ तात्पर्य न तु

स्वरूपतः सिद्धावपि स्पन्दाश्रयत्वेन साध्यत्वम् । विशेष्ये बाधे स्पन्दस्यैव तथात्वमिति क्यड्प्रयोग इति। एवं च 'दध्ना जुहोति' इत्यादौ प्रधानक्रियाया होमस्यानुकूला दधिक्रिया पूर्वदेशसंयोगध्वंस- हेतुविभागजनकः स्पन्दो ग्रहणाख्यस्तद्योगात् स्वतःसिद्धत्वेन स्वरूपतस्तस्याविधेयत्वेऽपि तादृश- क्रियोपरागाद्विधेयतेति भाव इत्युद्दयोते स्पष्टम्। नन्वेवमपि स्वतः क्रियारूपस्य होमस्यैव विधेयता स्यादत आह ततश्चेति। उक्तन्यायादित्यर्थः । यद्वा उपदेशस्य भव्यार्थकत्वादेवेत्यर्थः । अदग्धद्- हनन्यायेनेति । यथा अदग्धमेव दहनेन दह्यते तथेत्यर्थः । यथा तृणान्वितभस्मराशावग्निरदग्धमेव तृणं दहति न तु दग्धं भस्म तथा साध्यान्वितसिद्धेषु साध्यमेव विधीयते न तु सिद्धमिति भावः । तदे- वाह यावदप्राप्तमित्यादि। यावदप्राप्तं तावदेव शब्देन विधीयते अशान्तरे त्वनुवादः प्राप्तस्याप्राप्तप्रा- पणरूपविधानासंभवादित्यर्थः । "अप्राप्ते शास्त्रमर्थवत् " इति न्यायोऽप्यत्नैवानुग्राहक इति बोध्यमू। प्रचरणे इति। प्रचरणमत्र तत्तदनुष्ठानम्। प्रमाणान्तरादिति। श्येनयागे ज्योतिष्टोमातिदेशादित्यर्थः। ज्योतिष्टोमविकृतिश्येनयागप्रकरणस्थं वाक्यमुदाहरति लोहितोष्णीषा इति। इत्यत्र इतिविधिवाक्ये। -उष्णीष: शिरोवेष्टनवस्त्रम्। लोहितोष्णीषत्वमात्रमिति। न तु ऋत्विक्प्रचरणमित्यर्थः। "सोष्णीषा विनीतवसना ऋत्विजः प्रचरन्ति " इति वाक्यादुष्णीषस्यापि प्राप्तत्वादुष्णाषस्य लौहित्यमात्रं विधेय- मिति भाव:। एवम् "अध्वर्यु वृणीते" इत्यादिभिर्वाक्यैऋत्विजां प्राप्तत्वान्न तेऽपि विधेया इति बोध्यम्। उदाहरणान्तरं दर्शयन्ाह हवनस्येत्यादि। अन्यतः "अग्निहोत्रं जुहोति " इत्युत्पत्तिवाक्याद् । हवनस्येत्युपलक्षणं दघ्नोडपीति द्रष्टव्यम् साधनद्रव्यतवेनाक्षेपतो दध्नोऽपि प्राप्तत्वात्। अत एव "करणत्वमात्रं विधेयम्' इति संगच्छते इति बोध्यम्। करणत्वमात्रमिति। तन्मात्रस्यैवाप्राप्तत्वा दिति भाष: ।। TF कचित् कस्मिश्िद्वाक्ये। उभयविधिरिति। यथा "सोमेन यजेत" इत्यत्र सोमयागयोरित्यर्थः । त्रिविधिरिति। यथा "यदाग्नेयोऽष्टाकपालः " इत्यत्र हव्यदेवतायागानामित्यर्थः । वेद इव लोकेऽपि विधेरप्राप्तांश एव तात्पर्यमिति बोधयन् लौकिकमप्युदाहरति यथा रक्तामिति। त्रिविधिर्वेति। रक्त- गुणपटभाववयनानां मध्ये एकस्य द्वयोस्रयाणां वा असिद्धाविति शेषः । एवमुदाहरणान्तरमपि बोध्यम्। यथा 'ब्राह्मणं स्नातं भुक्त समानय' इत्यत्र स्नानभोजनयोः प्राप्तावानयनमात्रस्य विधानम् 'ब्राह्मणं स्त्नातं भोजयित्वा समानय' इत्यत्र स्ानप्राप्तौ भोजनानयनयोविधानम् तत्रैव स्नापयित्वेत्युक्तौ त्रिविधिर- पीति बोध्यम्। प्रकृतमनुसरन् फलितमाह ततश्चेति। यदेव विधेयं तत्रैवेति। यावदेत विधेयं ताव- -त्यैवेत्यर्थः । उपात्तस्यैव उच्चरितस्यैव । अर्थे इति। वृत्तयुपस्थितेऽर्यें इत्यर्थः । तस्यैव विधेयत्वादिति १ सोमेति। सोमस्य करणत्वमित्यर्थः। पूर्वोक्तयुक्तेरिति बोध्यम्। नन्वत्र यागस्य कर्थं विधेयत्वम्। "ज्योतिष्टोमेन स्वर्गकामो यजेत" इति वाक्येन यागस्य प्राप्तत्वादिति चेन्मैवम्। तस्याधिकारविधित्वेन यागस्याप्राप्ततया "सोमेन अजेत" हत्यस्यैवोत्पत्तिवाक्यत्वेन पूर्वमीरयासारयां सिद्धान्तित्त्वादिति बोध्यम्॥

Page 287

२२८ काव्यप्रकाशः सटीकः। प्रतातिमात्रे एवं हि 'पूर्वो धावति' इत्यादावपराध्यर्थेऽपि क्वचित्तात्पर्य स्यात्। यत्तु 'विषं भक्षय मा चास्य गृहे भुड्क्थाः' इत्यत्र 'एतद्गुहे न भोक्तव्यम्' इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति उच्यते तत्रे चकार एकवाक्यतासूचनार्थः न चाख्यातवाक्ययोई्योरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता कल्प- भावः । तात्पर्यमिति । अनधिगतार्थगन्तृत्वरूपप्रामाण्यनियामकमिति शेषः । अतिप्रसङ्गवारणायाह न त्विति। प्रतीतमात्रे तत्कालं येन केनापि संबन्धन ज्ञायमाने। एवं च व्यङ्गधस्य शब्दोपात्तत्वा- भावात्सर्वत्र विधेयत्वाभावाच्च न तत्र प्रागुक्तप्रामाण्यनियामकं तात्पर्य नापि शक्तिरिति भावः। नन्वस्तु प्रतीतमात्रे तात्पर्य तावता को दोष इत्यत आह एवं हीति। येन केनचित्संबन्धेनापि प्रतीतेऽर्ये तात्प- र्याङ्गीकारे हीत्यर्थः । पूर्व इति। पूर्वत्वं हि नियतमेवापरसापेक्षमिति पूर्वत्वज्ञानकालज्ञायमानः पश्चि- मपदार्थोऽपि कदाचित्तात्पर्यविघयः सन् पूर्वशब्दवाच्यतां भजेतेति भावः । व्याख्यातं चान्यैरपि पूर्वो धावतीत्यादौ पूर्वाद्यर्थप्रतियोगित्वेन नित्यसाकाद्त्वात्पूर्वादिसमानवित्तिवेद्यत्वेन (एकज्ञानविषयत्वसंब- न्धेन) अर्थापत्या वा प्रतीतेऽन्यलभ्यत्वेनापदार्थेSपराधर्थेऽपि पूर्वशब्दस्य शक्तिसाधकं तात्पर्य स्यात्। तथा च 'पूर्वो धावति' इत्यादितोऽपरो धावतीत्यादिबोधापत्तिरिति भाव इति ॥ अत्र जयन्तभट्टाः "ततश्च यदेव वस्तु विधेयं साध्यं तत्रैव तस्मिन्नेव वस्तुनि तात्पर्यमित्युपात्तस्यै- घोक्तस्यैव शब्दस्य संबन्धिनि अर्थेडभिधेये तात्पर्य पर्यवसानम् " इति व्याचख्युः । "ततश्व यावदेव विधेयं तावत्येव तात्पर्यम् विधेयं च शब्दोपात्तमेवेति सुष्ठूक्तं 'शब्दोपात्ते एव तात्पर्यम्' इति। यदि च प्रतीतमात्रे तात्पर्य तदा 'पूर्वो धावति' इत्यादौ पूर्वादिसमानसंवित्सवेद्यतया प्रती- तेऽपरादर्थेऽपि कदाचित्तात्पर्य स्यात् " इति प्रदीपः । (शब्दोपात्ते एवेति। शब्दोपात्तविधेये एवेत्यर्थः । तात्पर्य प्रागुक्तप्रामाण्यनियामकम्। समानसंविदिति। तस्य प्रतियोगिनि नित्यसाका- दत्वादिति भाव:) इत्युद्दयोत: ।। ननु 'उपात्तस्यैव शब्दस्यार्थे तातपर्य न तु प्रतीतमात्रे' इति यदुक्त तदसंगत 'विष भक्षय' इत्यत्र व्यभिचारादिति शङ्कते यच्वित्यादिना 'वाक्यार्थ इति' इत्यन्तेन। 'विषं भक्षय' इति वाक्यस्य 'मा चास्य गुहे भुङ्क्थाः' इति वाक्यार्थे तात्पर्यादुपात्तशब्दार्थादन्यत्र तात्पर्य प्रसक्तमिति पूर्वपक्षिणोऽभि- प्रायः। तदेवाह इत्यत्र तात्पर्यमिति। एवं चैतद्वाक्यवर्तिपदोपस्थापितातिरिक्तेऽपि तात्पर्यदर्शना- द्यङ्गयार्थेऽपि तात्पर्य स्यादिति भावः। उक्तशङ्कां परिहरति उच्यते इत्यादिना 'उपात्तशब्दार्थे एव तात्पर्यम्' इत्यन्तेन। अन्र केचित् 'उच्यते' इत्यन्तः शङ्काग्रन्थः 'तत्र' इत्यारम्य परिहारग्रन्थ इत्याह्कः। परिहारप्रकारमाह तत्र चकार इत्यादि। सुहदुक्तस्य 'विषं भक्षप' इत्यस्य स्वार्थेऽविश्रान्तस्य साका- डक्षतया समनन्तरोच्चारितेन मा चेत्यादिना एकवाक्यता सा च चकारेण सूच्यते अन्यथा तद्वैयर्थ्यप्र- सङ्ग इति भावः। न चेति। न चेत्यस्य 'अङ्गाङ्गिभावः' इत्यनेनान्वयः। आख्यातवाक्ययोरिति। 'भक्षय भुड्क्थाः' इत्येव्रंरूपाख्यात( तिडन्त)घटितवाक्ययोरित्यर्थः । नरसिंहठक्कुरास्तु 'भक्षय भुड्क्थाः' इत्येवंरूपाख्यातान्तक्रियापदार्थयोरित्यर्थ इत्याड्डः। द्योरिति। परस्परनिरपेक्षत्वेन प्रधानभू- तयोद्योरित्यर्थः । अङ्गाङ्गिभाव इति । विशेषणविशेष्यभाव इत्यर्थः । अयं भावः। न चाख्यातवा- क्ययोः साक्षादन्वयः संभवति "गुणानां च परार्थत्वादसंबन्धः समत्वात् " इति न्यायेन यथा समतवेन १ 'विषं भुङ्क्व' इति पाठोडपि क्वचिदस्ति ॥ २ 'अत्र' इति पाठोडपि क्वचिद्रिति ॥

Page 288

पश्चम उल्लास:। २३९ नीयेति 'विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः' इति उपात्त- शब्दार्थे एव तात्पर्यम्। यदि शब्दभ्ुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः ततः कथ 'ब्राह्मण पुत्रस्ते जातः ब्राह्मण कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् कस्माच् लक्षणा लक्षणीयेऽप्यर्थे दर्षिदीर्घतराभिव्यापारेणैव प्रतीतिसिद्धेः किमिति च गुणयोः परस्परमसंबन्धः एवं प्रधानयोरपि समत्वेनैव परस्परमनन्वयादिति। कल्पनीयेत्यादि। अयं भावः । सुहृद्वाक्यं चैतत् । अतो भवितव्यमत्रान्वयेन । स चान्वयो न साक्षात्कर्तृकर्मभावादिना । बाधात्। नापि मुख्यार्थमादाय परस्परोपपादकतया तत्र विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेन मुख्यार्थे बाधाद्। अतस्तस्यैवाङ्गता लक्षणाश्रयणेन कल्प्येति तत्न 'विषं भक्षय' इत्यस्य विषभक्षणाधिकबलवद- निष्टानुबन्धित्वविशिष्टैतद्गृहभोजने लक्षणा। तस्य च मा चास्येत्यादिवाक्यार्थे सर्वथेत्यर्थसंवलिते हेतुत्वे नान्वयः । ततो विषभक्षणादप्येतद्गृहभोजनमनिष्टहेतुरतः सर्वथा नास्य गृहे भुङ्क्था इति वाक्यार्थः । तथा च तद्वाक्यस्थशब्दोपस्थापिते एव तात्पर्यमिति सिद्धम् । तस्मात् 'यत्परः शब्दः' इत्यादि यदुक्तं तद् तात्पर्याज्ञानादिति । एवं च यत्र वाक्यं स्वार्थे न विश्राम्यति यथात्रैव सुहक्क्तृकत्वात्तत्रामुख्यार्थे तात्पर्याल्लक्षणा यत्र तु स्वार्थबोधोत्तरमितरत्प्रतीयते तत्र व्यञ्जनैवेति प्रघट्टकार्थ इति प्रदीपोद्दयोतयोः स्पष्टम् ।। व्याख्यातं च विवरणकारैरपि। यदि हि उपात्तशब्दार्थे एव तात्पर्य स्यात् तदा 'विष भक्षय' इति 'मा चास्य गृहे भुङ्क्थाः' इति च आख्यातान्तक्रियाद्व्यघटितत्वेन वाक्यद्वयस्य एकस्मिन् एतद्गृहे न भोक्त- व्यमित्यर्थे तात्पर्य न स्यात् । अस्यार्थस्य 'विषं भक्षय' इतिवाक्यार्थत्वाभावादिति पूर्वः पक्षः । सिद्धान्तस्त्वयम् । मा चास्येति चकारेणानन्यप्रयोजनकेनानयोरेकवाक्यत्वमेव लभ्यते। एकवाक्यत्वं चाख्यातक्रियाद्वयान्वितयोर्यथाश्चतार्थे निरपेक्षयोरनयोर्न संभवति नापि च विषभक्षणं सुहृदुपदेशयो- ग्यमिति 'विषं भक्षय' इति वाक्यं स्वार्थे संबाधं सत् विषभक्षणादपि दुष्टमेतद्रृहे भोजनमित्यर्थ लक्षयत् 'मा चास्य' इति वाक्यस्य हेतुत्वेनाङ्गतामापन्नं च सत् परस्परमेकवाक्यत्वं भजते इति एकवाक्यान्तर्व- र्तिपदार्थे एव तात्पर्यमिति नियमस्य न व्यभिचार इति।। यञचोक्तं 'सोडयमिषोरिव' इति तद्दूषयति यदि चेति। शब्दश्रुतेरनन्तरं शब्दश्रवणानशतरम्। अभिधैवेति। एवकारेण व्यञ्जनाव्यावृत्तिः। कन्या कुमारी अनूढाया गर्भे पापात् राजदण्डादिभयाद्वा शोक इत्यर्थः। न वाच्यत्वमिति। क्थं न वाच्यत्वमिति पूर्वेणान्वयः। तनमते दीर्धदीर्धतराभिधारूप- व्यापारेणैव हर्षशोकादिप्रतीतर्वाच्यत्वमेव स्यादिति भावः। व्याख्यातमिदं प्रदीपे "यदपि 'सोऽयमिषो रिव०' इति तदप्ययुक्तम्। यतः शब्दश्रवणानन्तरं यावानर्थः प्रतीयते तावति सर्वत्र यदि शब्दस्याभिधैव स्यात्तदा 'चैत्र पुत्रस्ते जातः कुमारी ते गर्भिणी' इत्यादिवाक्यानन्तरं [इत्यादिवाक्यश्रवणानम्तरं] हर्ष- विषादयो: प्रतीतेस्तयोरपि तद्वाक्यस्याभिधा स्यात्" इति। ननु "अनन्यलभ्यः शब्दार्थः" इति न्याये- नानन्यलभ्येऽर्थेडभिधाकल्पनम् हर्षशोकादयस्तु मुखप्रसादमालिन्यादिलिङ्गेनानुमानात प्रत्याय्यन्ते इति न हर्षशोकादिषु अभिधेत्यरुचेर्दोषान्तरमाह कस्माच्चति। लक्षणीये मुख्यार्थबाधात्प्रतीयमाने। १ विरोधितारूपसंचन्धेनोति भावः ॥२ 'उपात्तस्येष शब्दस्यार्थे तात्पर्यम्' इति नियमस्य॥३ तथा चाहुर्देवलात्रि कश्यपाः " पितुर्गहे तु या कन्या रजः पश्यत्यसंसकता। भ्रूणहत्या पितुस्तरयाः सा कम्या वृषली स्मृता।" इति ॥

Page 289

२३० काव्यप्रकाश: सटीक:। श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्ववलीयस्त्वम् इत्यन्विताभिधानवादेऽपि विधेरपि सिद्धं व्यङ्ग्यत्वम्।

प्रतीतिसिद्धेरिति। एवं च तन्मते लक्षणाया उच्छेद एवेति भावः। ननु 'गङ्गायां घोषः' इत्यादौ गङ्गाद्यर्थप्रतिपादनद्वारा तीरादिप्रतिपादनस्यापि अभिधयैव संभवान्नास्मन्मते लक्षणा नामातिरिक्ता वृत्ति- रिति लक्षणोच्छेदो न दूषणमित्यतो दूषणान्तरमाह किमिति चेति। अथवा ननु मुख्यार्थबाधेनामिधा- या विच्छेदान्न दर्धतरव्यापार इत्यरुचेराह किमिति चेति। किमिति च पूर्वपूर्वबलीयस्त्वमित्यन्वयः । अयं भाव:। भगवता जैमिनिना "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थतिप्रकर्षात्" इति सूत्रेण यथाक्रममुक्तानां श्रत्यादीनामेकत्रोपनिपाते परपरस्य विलम्बेनार्थोपस्थापकतया दुर्बल- त्वमभिदधता पूर्वपूर्वस्य श्रत्यादेः प्राबल्यं निरणायि। यदि शब्दश्रुतेरनन्तरोपस्थितान् सर्वानेव प्रत्ययान् प्रति अभिधैव व्यापारः स्यात् तदा श्रुत्युपस्थापितार्थस्येव लिङ्गाद्यनुगृहीतार्थानामप्यभिधेयतया सर्वेां समकालमर्थोपस्थापकत्वप्रसक्त्या अर्थविप्रकर्षाभिधानं मुनेरनुचितं स्यादिति विवरणादौ स्पष्टम्। जैमि- निसूत्रार्थस्तु अनुपदमेवाग्रे स्फुटीभविष्यति। उपसंहरति इत्यन्वितेति । तद्वाधेकदेशिमतेऽपीत्यर्थः । मतान्तरं तु प्रागुपसंहृतमिति बोध्यम्। विधेरपीति। निःशेषच्युतचन्दनमित्यादौ (२० पृष्ठे) तदन्ति- कगमनरूपस्य विधेरपि व्यङ्गयत्वं सिद्धमित्यर्थः ॥ जौमिनिसूत्रं तु प्रकृतार्थविच्छेदकत्वेSपि बहूपकारकत्वाद्दुरूहत्वाच्च व्याक्रियते। श्रुतिलिङ्गादीनि षडिह विनियोजकानि (अङ्गाङ्गित्वरूपविनियोगबोधकानि) प्रमाणानि। तत्र विरुद्धयोरेकत्रोपनिपाते समुच्चयो न संभवतीत्येकेनापरस्य बाधो वक्तव्यः।स च बलवता दुर्बलस्येति स्थिते दौर्बल्यप्रतिपादक- मिंदं पूर्वमीमांसायां ३ अध्याये ३ पादे १४ सूत्रम् । परमेव पारम् स्वार्थे प्रज्ञादित्वादण्प्रत्ययः । श्रुति- लिङ्गादीनां समवाये एकत्र समवधाने (एकत्रोपनिपाते) परस्यैतत्सूत्रपठितेषु पदस्य दौर्बल्यं दुर्बलख- मित्यर्थः। श्रुत्यादीनां मध्ये यदपेक्षया यत् पर तदपेक्षया तत् दुर्बलमिति यावत्। दुर्बलत्वे हेतुमाह अर्थ- विप्रकर्षादिति। अर्थस्य विनियोज्यस्य विप्रकर्षात् दूरवर्तित्वादित्यर्थः । विलम्बेनार्थप्रत्यायकत्वादिति यावत्। यथा चैतत्तथाग्रिमेषु विरोधोदाहरणेषु स्फुटभविष्यति। तत्र निरपेक्षो रवः श्रुतिः। निरपेक्षः स्वकरणीये शेषत्वबोधे (अङ्गत्वबोधे) प्रमाणान्तरनिरपेक्षो रवः शब्दः श्रुतिरित्यर्थः । रव इत्येता- वन्मात्रे उक्ते वाक्यादावतिप्रसङ्गस्तद्वारणाय निरपेक्ष इत्युक्तमिति मीमांसार्थसंग्रहकौमुद्यां स्पष्टम्। निरपेक्ष: स्वार्थबोधे शब्दान्तरानपेक्षो वः शब्दः श्रतिरित्यर्थ इति प्रभायां स्थितम्। इतरप्रामाण्यानधी- नप्रामाण्यकत्वं चात्र निरपेक्षत्वमिति केचिदवदन्ति। सा च श्रतिरनेकविधा। तत्र विभक्तिरूपा श्रुति- र्यथा "ब्रीहीन् प्रोक्षति" इति। अत्र क्रियाजन्यफलभागित्वं कर्मत्वं प्रतिपादयन्त्या द्वितीयाविभक्तिरू पया श्रुत्या प्रोक्षणस्य ब्रीह्यङ्गत्वं बोध्यते। त्व प्रोक्षणं न व्रीहिस्वरूपार्थम्। व्रीहिस्वरूपस्य प्रोक्ष- णेन विनापि उपपत्तेः । किंतु अपूर्वसाधनत्वप्रयुक्तम् व्रीहीनप्रोक्ष्य यागानुष्ठानेऽपूर्वानुपपतेः। अय भावः । अनुपनीतानुष्ठितवेदाध्ययनस्यापूर्वाजनकत्ववत् त्रीह्ीणां प्रोक्षणमकृत्वा तैः अनुष्ठितस्य यागस्यापूर्वानुपपत्तेरिति । यथा "त्रीहिभिर्यजेत " इति। अत्र तृतीयाविभक्तिरूपया श्रुत्या त्रीहीणां १ अङ्गत्वपुपकारकत्वम् अद्गितत्वमुपकार्यत्वम् तद्रूपो यो विनियोगः संबन्धस्तद्वोधकानि ॥ २ तत्र विरुद्धयोरिति। यत्रैकस्येव पदार्थस्य प्रमाणाभ्यां पदार्थद्वयसंबन्धो बोध्यते तत्र तयोविरोध इति भावः ॥३ अपूर्वेति। अपूर्वमत्रादष्टा परपर्यायं पुण्यरूपम् ॥ ₹ तैः ब्रीहिमिः ॥

Page 290

पश्चम उल्लासः। : २३१

यागाङ्गखवं बोध्यते। यथा वा " यदाहवनीये जुहोति" इति । अत्र सप्तमीविभक्तिरूपया श्रत्या आहवनीयस्य होमाङ्गखवं बोध्यते। अत्राहुश्षक्रवर्तिभट्टाचार्याः "अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः' इति श्रतिलक्षणम् । अभिधातुं प्रकृत्यर्थेन सह स्वार्थान्वयमनुभावयितुं पदान्तरविषयाकाङ्का- शून्यो रवः शब्दः श्रतिः । अत श्रत्रणमात्रेणार्थमनुभावयन्ती श्रुतिरुच्यते । ताक्ष कारकविभक्तयः । उपपदविभक्तयस्तु सहार्थतृतीयादयः सहादिसापेक्षा इति न तासतथा। एतन्मलकमेव 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति वचनम्। श्रतिर्यथा 'व्रहनिवहन्ति' इति । अत्र द्वितीयाश्रवणमा- त्रेण व्रीहीणामवहननक्रियायां विनियोगोऽवगम्यते। 'मासं गुडधानाः' 'क्रोशं कुटिला नदी' इत्यत्र द्विंलीया [ उपपदविभक्तिः ] न श्रुतिः अन्तर्भूतक्ियासापेक्षत्वात्" इति ॥१॥ शब्दसामर्थ्य लिङ्गमू। शब्दस्यार्थविशेष प्रकाशनसामर्थ्य लिङ्गमित्यर्थः। यदाहुः 'सामर्थ्य सर्वशैब्दानां लिद्गमित्यमि- धीयते " इति। सामर्थ्य रूढिरेव। तेन समाख्यातो नामेदः यौगिकशब्दरूपसमाख्यातो रूढयात्मक- लिङ्गशब्दस्य भिन्नत्वात्। तच्व लिङ्गं यथा "बर्हिर्देवसदनं दामि" इति। दामीति 'दाप् लबने' इति धातो रूपम् । देवसदनं पुरोडाशसदनभूतं बर्हिः कुशं (दर्भ) दामि खण्डयामि (छेदयामि ) इत्यर्थः । अस्य मन्त्रस्य दामीतिश्रुतपदसामर्थ्यरूपाल्लिङ्गात् बर्हिर्लवनाङ्गत्वम् ॥ यथा वा "अग्नये जुष्टं निर्वपामि" इति। अस्य मन्त्रस्य निर्वपामीतिनिर्वापप्रकाशनसामर्थ्यरूपाल्लिङ्गान्निर्वापाङ्गत्वम्। "यस्य मन्त्रस्य- यत्प्रकाशनसामर्थ्य तस्य तदङ्गत्वम् " इति न्यायादिति बोध्यम् ॥ २ ॥ परस्पराकाङ्कावशा- त्क्वचिदेकस्मिन्नर्थे पर्यवसितानि पदानि वाक्यम् । यथा "देवस्य त्वा सवितु: प्रसवेऽश्विनो- बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि" इति। अन्न निर्वपामीति लिङ्गेन निर्वापे विनियुज्यमा- नस्य समवेतार्थभागस्यैकवाक्यताबलेन "देवस्य त्वा" इत्यादिभागस्यापि निर्वापे एव विनियोगँ: ॥ ३॥ परस्पराकाङ्का प्रकरणम्। यथा "दर्शपूर्णमासाभ्यां खर्गकामो यजेत" इत्यत्र दर्शपूर्णमासाभ्यां 'खर्ग भावयेत्' (सर्गापूर्व कुर्यात्) इति बोधानन्तरं भवत्याकाङ्का (भवत्युपकारकाकाड्डा) 'कथमाभ्यां स्वर्ग भावयेत्' (कथमाभ्यां स्वर्गापूर्व कर्तव्यम्) इति। तथा फलवदाग्नेयादिसंनिधौ "समिधो यजति तनू- नपातं यजति आज्यभागौ यजति" इत्यादिभिः प्रयाजादयः फलरहिताः श्रुताः। तेर्षा स्ववाक्येषु 'समि- द्ागेन भावयेत्1 इत्यादिबोधानन्तरं फलविशेषाश्रवणात् भवति प्रयोजनाकाङ्का (भवत्युपकार्याकाङ्ड) 'किमेतेषां प्रयोजनम्' इति। ततश्च प्रयाजादीनां प्रयोजनाकाड्डायां दर्शपूर्णमासयोः कथंभावाकाङ्कायां परस्पराकाङ्डालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपूर्णमासाङ्गतवं निश्चीयते ॥४॥ समान- देशत्वं स्थानम्। तदेव कम इत्युज्यते। समानदेशत्वं द्विविधम्। पाठसमानदेशत्वम् अनुष्ठानसमा- नदेशत्वं चेति। यथाहुः "तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्विनियो- गस्य कारणम् ।। " इति। पाठोडपि द्विविधः यथासंख्यपाठः संनिधिपाठश्चेति। तत्र यथासंख्यपा- ठेन समानदेशतवं यथा "इन्द्राग्री रोचना दिव:० वैश्वानरोऽजीजनत्० " इत्यादिमन्त्ररूपयाज्या- १ तथेति। श्रुतय इत्यर्थः ॥ २ मासमित्यादौ बुद्धिस्थयावद्वयवसंचन्धरूपा व्याप्तिर्द्वितीयार्थः। तथाच व्यासरुपात्रा- न्तर्भूतक्रियेति बोध्यम्।। 3 सर्वशब्दानामित्यत्र 'सर्वभावानाम्' इति पाठः क्वचित्कचिद्दृश्यते स च प्ररुतेऽनुपयुक्तोऽपि समीचीन: अर्थसामर्थ्यस्यापि संग्रहात्। अत एव "स्रुवेणावद्यति" इत्यवदातसामान्यशेषत्वावगमेSपि स्रुवस्य लिद्गन न्सामर्थर्थरूप।दाज्यसान्ननाय्यादिद्रवद्रव्यावदानविशेषाङ्गत्वम् स्त्रुवेण मांसादिद्रव्यावदानस्य कर्तुमशक्यत्वादिति सिद्धान्तः संगृहीतो भवति ॥ सदनभूतं स्थानभूतम् ॥ ५ एकस्मिन्नर्थे विशिष्टेऽर्थे ॥ ६ विनियुज्यमानस्य अङ्गत्वन संबध्यमा- नस्य ॥ ७विनियोग: अङ्गत्वेन संबन्धः॥

Page 291

२३२ काव्यप्रकाश: सरीक: ।

नुवाक्यायुगलानां मध्ये "इन्द्राग्री०" इति प्रथमस्य याज्यानुवाक्यायुगलस्य "ऐन्द्राग्मेकादशकपाल निर्वपेत् वैश्वानरं द्वादशकपालं निर्वपेत्" इत्येवंक्रमविहितेष्टीनां मध्ये "ऐन्द्राग्रमेकादश०" इति प्रथः मायामैन्द्राग्रेष्टौ विनियोग: (अङ्गरवेन संबन्धः)। वैश्वानरोऽजीजन० इति द्वितीयस्य याज्यानुवा- क्यायुगलस्य "वैश्वानरं द्वादश०" इति द्वितीयायां वैश्वानरेष्टौ विनियोगः । यथासंख्यपाठेन समानदे- शखवात्। यतः "इन्द्राग्री रोचना०" इति प्रथमपठितयाज्यानुवाक्यायुगलस्य किमर्थमिदमिति (किम- नेन भाव्यमिति) कैमर्थ्याकाङ्कयाम् "ऐद्राग्रमेकादश०" इति प्रथमतो विहितमैन्द्राग्ेष्टिरूपं कर्मैव प्रथममुपतिष्ठते। एवं द्वितीययुगलस्यापीति बोध्यम् ॥ संनिधिपाठेन यथा "आमनस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति" इत्यामनहोमाः श्रयन्ते। तेषां "वैश्वदेवी सांग्रहणीं निर्वपेद्ग्रामकामः" इति काम्येष्टियागस्य विकृतिभूतस्य सांग्रहण्याख्यस्य संनिधौ पाठाद्विकृतौ विनियोग: (उक्तकाम्ये- ष्टियागरूपविकृत्यङ्गख्वम्)। तेषां हि 'किमर्था इमे' इति कैमर्थ्याकाङ्कयां (फलाकाङ्गायां) फलवद्ि- कृत्यपूर्वमेव भाव्यतवेन (फलत्वेन) संबध्यते। संनिधि रूपप्रमाणेनोपस्थितत्वात्। नन्वामनहोमानां फला- काङ्कायां फलवद्विकृत्यपूर्वमेव भाव्यत्वेन संबध्यते इत्यसत्। तेषां मुख्ययागतवे विरोधाभावात। न ह्यामे- यादीनां षण्णामनुमित्यादीनां च बहूनां मुख्यतवं विरुद्धमिति चेत्। उच्यते। यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इति वाक्येनग्नियादीनां फलसंबन्धावगमस्तथा आमनहोमानां फलसंबन्धावगमा- भावान्न प्राधान्यं युज्यते । वैश्वदेवीर सांग्रहणीं निर्वपेद्ग्रामकामः" इति वाक्यस्य तु सांग्रहण्या एव फलसंबन्धबोधकत्वेनामनहोमानां तत्संबन्धबोधकत्वाभावात्। तस्मात् "फलवत्संनिधावफल तदङ्गम्" इतिन्यायात्फलवत्याः सांग्रहण्याः संनिधावाम्राता अफला आमनहोमास्तदङ्गम् । 'किमर्था इमे किल' इति कैमर्थ्याकाड्डायां फलवद्विकृत्यपूर्वस्यैव भाव्यतवेन संबन्धात्। नन्वामनहोमानां संग्रहणीसंनिधि- पाठेडपि विश्वजिन्यायेन स्वतन्त्रफलकत्वमेव किं न स्यादिति चेन्मैवम्। स्वतन्त्रफलकत्वे विकृतिसंनि- धिपाठस्यानर्थक्यापत्तेः। अयं भावः। फलवत्कर्मासंनिधौ पठितस्यैवाश्रयमाणफलकस्य विश्वजिन्यायेन स्वतन्त्रं फलं कल्प्यते। अन्यथा प्रयाजादीनामपि तनयायेन स्वतं्त्रफलकत्वापत्तिः स्यात्। अफलस्य फलवत्संनिधौ पाठस्तु तदङ्गत्वायैव। तदभावेSनर्थकत्वमेव तस्यापदेतेति। अनुष्ठानसमानदेशत्वं यथा उपाकरंणपर्यग्निकरणयूपनियोजनादयः पशुधर्माः श्रयन्ते। तत्र "प्रजापतेर्जायमानाः प्रजा जाताश्च या इम :००" "इमं पशुं पशुपते ते अदय बभ्नाम्यग्रे सुकृतस्य मध्ये००" इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनसुपा- करणम् दर्भज्वालयार्रिःप्रदक्षिणीकरणं पर्यग्निकरणम् यूपे रज्ज्वा बन्धनं यूपनियोजनम्। एवमन्येडपि पशुधर्मा: बोद्धव्याः। एतेषां पशुधर्माणामग्नीषोमीयपश्चङ्गत्वमेव। अनुष्ठानसमानदेशतवात्। तथाहि। ज्योतिष्टोमप्रकरणे त्रयः पशवः समाम्नाताः। अग्रीषोमीयः सवनीयोऽनुबन्ध्यश्चेति। तत्राग्रीषोमीयः पशुः सौत्यनामकादहः प्राचीने औपसथ्यनामकेडहि धिष्णियनिर्माणादूर्ध्व समनुष्ठीयते । तत्रैव चाहि ते धर्माः समान्नाताः। ततश्च तेषां कैमर्थ्याकाङ्मयामनुष्ठानसमानदेशतवेनोपस्थितमग्नीषोमीयपश्वपूर्वमेव भाव्यत्वेन संबध्यते। न तु सवनीयानुबन्ध्यापूर्व तत्संनिधिविरहात्। यतः सवनीयः पशुः सौत्यनाम केऽहि समाम्नतः अनुबन्ध्यस्तु अवभृथान्ते श्रयमाणः। तस्माद्युक्तमनुष्ठानसमानदेशत्वात्तदङगत्वं तेषा- मेति। नच पाठसमानदेशत्वादेव तेषां तदङ्गत्वं कि न स्यादिति वाच्यम्। अग्नीषोमीयपशोः सोमक्र- यसमीपे पाठात्तेन तत्त्वासंभवात्। न च सोमक्रयसंनिधौ तस्य पाठात्तदनुष्ठानमपि सोमक्रयसंनिधावेव

१ विश्व जिन्न्यायस्तु लौकिकन्यायमालायां व्याख्यातः ॥ २ स्वतन्त्रफलमत्र सर्वाभिलपैतं स्वर्गरूाम् ॥

Page 292

पश्चम उल्लासः। २३३

किं न स्यादिति वाच्यम्। "स एष द्विदैवत्यः पशुरौपसथ्येह्नि आलभ्यते" इति वचनात्तस्य तत्रानु- ष्ठानानुपपत्तेः। न च स्थानात्प्रकरणस्य वलीयस्त्वात्तेन पशुधर्माणां ज्योतिष्टोमाङ्गत्वमेत्र कि न स्यादिति वाच्यम्। तस्य सोमयागत्वेन तद्धर्मग्रहणायोगात्। सोमो ह्यमिषवादीन् धर्मानाकाङ्कति। न तु यूपनि- योजनविशसनादीन्। तस्मात् "आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्" इति न्यायेन प्रकरणं प्रधा- नात्प्रच्याव्य स्थानात्पशुयागाङ्गत्वमेव पशुधर्माणां युक्त भवति ॥५॥ यौगिक: शब्द: समाख्या। शब्दश्चतुर्विध: यौगिको रूढो योगरूढो यौगिकरूढश्चेति। तत्राध्वर्यवं पाचकः इत्यादिर्यौगिक: ।स एव समाख्येत्युच्यते। यत्रावयवार्थ एव ज्ञायते स यौगिक इति तन्निवचनम्। योऽवयवशक्ति- निरपेक्षया समुदायशक्त्यैवार्थ बोधयति स रूढः । यथा गवादिशब्दः। यस्त्ववयवशक्तिविषये समुदाय- शक्त्यापि प्रवर्तते स योगरूढः । यथा पङ्कजादिशब्दः । पङ्कजादिशब्दस्यैवावयवशक्त्या पङ्कज- निकर्तृत्वेन समुदायशक्त्या च पद्मत्वेन रूपेण पद्मबोधकत्वात्। यसुववयवशक्तिसमुदायशक्तिभ्यां रूढयर्थ योगार्थ च स्वातन्त्रयेण बोधयति स यौगिकरूढः । यथा उद्धिदादिशब्दः । स चोर्ध्वभेदनकर्तृ- तरुगुल्मादिकं बोधयति यागविशेषमपि चेति। सा च यौगिकशब्दात्मिका समाख्या द्विविधा लौकिकी वैदिकी चेति। तत्र लौकिकी ( यौज्ञिकैः परिकल्पिता) यथा याज्यापुरोजुवाक्यापाठादीनि कर्माणि ऋग्वेदे प्रतिपादितानि दोहननिर्वापादीनि यजुर्वेदे आज्यस्तोत्रपृष्ठस्तोत्रादीनि सामवेदे। तत्रानेनैवै- तानि कर्माणि अनुष्ठेयानीत्यत्र नियामकस्य दुर्निरूपत्वाद्येन केनापि ऋत्विजा यानि कान्यपि कर्माण्यनु- ष्ठेयानीति प्राप्ते 'हौत्रम् आध्वर्यवम् औद्रात्रम्' इति लौकिक्या समाख्यया नियमो बोध्यते। अयं भावः । य ऋग्वेदेन कर्म करोति स होता यो यजुर्वेदेन सोऽध्वर्यु: यः सामवेदेन स उद्गाता। तथा च होतुः कर्म हौत्रम् अध्वर्योः कर्माध्वर्यम् उद्धातुः कर्म औद्वात्रम् इति योगबलरूपया समाख्यया यथाक्रमं ऋग्वेदप्रतिपादितेषु कर्मसु होतुः यजुर्वेदप्रतिपादितेषु अध्वर्योः सामवेदप्रतिपादितेषूद्वातुः कर्तृत्वेनाङ्गत्वं बोध्यते इति। वैदिकी यथा होतुश्वमेसभक्षणाङ्गत्वम् " होतृचमसः " इति वैदिक्या समाख्ययेति संक्षेपः ॥ ६ ॥ तथा चोक्तानि श्रुत्यादीनां लक्षणानि। "अभिधातुं पदेऽन्यस्मिन्ननपेक्षो रवः श्रुतिः। सर्वत्रावगता शक्तिर्लिङ्गमित्यभिधीयते । संहत्यार्थ ब्रुवद्वन्दं पदानां वाक्यमुच्यते। प्रधानवाक्यस्याङ्गोकत्याकाङ्का प्रकरणं मतम् । स्थानं समानदेशत्वं समाख्या यौगिको रवः ।" इति। अभिधातुमिति। व्याख्यातमिदं प्राक् (२३१ पृष्ठे)। सर्वत्रावग- तेति। शक्तिः सामर्थ्यम्। संहत्येति। संहत्य विशेष्यविशेषणभावं प्राप्य । तेनाकाङ्कादिपरिग्रहः । प्रधानवाक्यस्येति। "दर्शपूर्णमासाभ्यां यजेत" इत्यस्येत्यर्थः । स्थानमित्यादि। व्याख्यातमिदं प्राक् (२३२ पृष्ठे)। समाख्येति। योगेनावयवशक्त्यार्थ प्रत्याययतीति यौगिको रवः शब्दः समाख्येत्यर्थः ॥ अथैषां विरोधोदाहरणानि। तत्र ्रतिलिङ्गयोविरोधे लिङ्गस्य दुर्बलत्वं यथा "कदाचन स्तरी- रसि नेन्द्र सश्वसि दाशुषे" इति। इयमृगग्निहोत्रप्रकरणे श्रयते। हे इन्द्र त्वं कदाचन कदाचिदपि १ 'आलब्धव्यः' इत्यप पाठः ॥ २ तद्वर्मग्रहणेऽयोग्यत्वादित्यर्थः ॥ ३ तन्निरुक्तिः ॥४याजञिकैः सूत्रकारैः ॥ ५ अत्र सर्वत्र "प्राणभृज्जाति०" (५१।१२९) इति पाणिनिसूत्रेणोद्गात्रादित्वात्कर्मार्थेडनप्रलयः ॥ यद्यपि चमसशब्दः पलाशादिकाष्ठुनिर्मितस्य यज्ञियपात्रभेदस्य वाचकः तथाप्यत्र "तात्थ्यात्ताचछब्दयम् " इति न्यायेन चमसस्थ- सोमरसपर:॥ काषयप्रकाश ३१

Page 293

२३४ काव्यप्रकाशः सटीकः ।

न स्तरीरसि न हिंसको (घातुको) भवसि किंतु दाशुषे आहुतिं दत्तवते यजमानाय सश्चसि प्रीयसे इत्यर्थः । अस्या ऋचो विनियोजिकेयं द्वितीयाविभक्तिरूपा श्रुतिः "ऐन्द्रा गार्हपत्यमुपतिष्ठते" इति। ऐन्द्रोति करणे तृतीया। "कदाचन स्तरीरसि० " इत्यसावैन्द्री ऋकू। इन्द्रेति संबुद्ध्यन्तपदेनेन्द्र- प्रकाशनाद्। तथा च ऐन्द्रा इन्द्रसंबन्धिन्या (इन्द्रप्रकाशिकया) ऋचा (करणभूतया) गाईपत्यं गार्हपत्यनामानमग्निम् उपतिष्ठते आराधयतीत्यर्थः । "उपान्मन्त्रकरणे" (१।३।२५) इति पाणिनिसूत्रे- णात्मनेपदम्। अत्रायं संदेहः । इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गात् गार्हपत्यपदस्य लक्षणया इन्द्रपरत्वं प्रकल्प्य गार्हपत्यमिति द्वितीयायाः सप्तम्यर्थकतया व्याख्याय 'गार्हपत्यसमीपे' इत्यर्थ प्रकल्प्य वेन्द्रो. पस्थोने एवास्या ऋचो विनियोग: किंवा गार्हपत्यमिति द्वितीयारूपया श्रुत्या इन्द्रपदस्य गौणार्थकत्वेन गार्हपत्याग्न्युपस्थाने एव विनियोग: इति । एवं संदेहे प्राप्ते श्रत्या लिङ्गं बाध्यते इति सिद्धान्तः । तथाहि। द्वितीया कारकविभक्तिः कामपि क्रियामपेक्षन्ती 'उपतिष्ठते' इति क्रिययान्विता सती प्रथमत एवाभिधया गार्हपत्याग्न्युपस्थाने इमामृचं विनियोजयति। नैवं लिङ्गम् । इन्द्रपदमिन्द्रप्रकाशकमिति प्रथमं ज्ञानम् ततोऽन्यप्रकाशकमन्त्रस्य (ऋचः) नान्यत्र विनियोगः संभवतीत्यनुपपत्तिज्ञानम् ततश्चे- न्द्रोपस्थाने एव विनियोग: इति रीत्या लिङ्गेन कल्पनीयमिति विलम्बः । तस्मात् श्रुतेः प्रबलतया तदानुगुण्येन लिङ्गे नीयमाने इन्द्रपद मैश्वर्यवत्परतया गार्हपत्यतात्पर्यकं कल्पनीयमिति। अयं भावः । अस्य मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गादिन्द्रोपस्थानाङ्गत्वे प्राप्ते गार्हपत्यमिति द्वितीयाश्रत्या गाई- पत्योपस्थानाङ्गत्वेन विधानाल्लैङ्गिके इन्द्रोपस्थाने विनियोगो बाध्यते। श्रतिर्हि स्वतो विनियोजिका । लिङ्गं त्विन्द्रप्रकाशनसामर्थ्यमालोच्य 'ऐन्द्रेन्द्रमुपतिष्ठते' इतिश्रुतिकल्पनाद्वारा विनियोजकमिति ॥ १॥ लिङ्गवाक्ययोर्विरोधे वाक्यस्य दुर्बलत्वं यथा "स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः" इति। अयं मन्त्रस्तैत्तिरीयब्राह्मणे ३ काण्डे ७ प्रपाठके ५ अनुवाके दर्शपूर्णमासयोः पुरोडाशस्य स्थानकरणस्थापनस्वरूपयोः सदनसादनयोः प्रकरणे पठयते। भो: पुरोडाश ते तव स्योनं समीचीनं सदनं स्थानं करोमि तदेव सदनं घृतस्य धारया (स्निग्धत्वेन) सुशेवं सुष्ठु शेवितुं योग्यं कल्पयामि संपादयामि। सुशेवमित्यत्र 'शेवृ खेवृ क्रेवृ इत्येके' इति धातुपाठात् शेवृधातोस्तालव्यादेः "ईषद्दुःसुषु कृच्छाकृच्छार्थेषु खल" (३।३।१२६ ) इति पाणिनिसूत्रेण बोधितः कर्मणि खल्प्रत्ययः । भोः व्रीहीणां मेध व्रीहिसारभूत (पुरोडाश) त्वं सुमनस्यमान: समाहितमनस्कः सन् तस्मिन् अमृते समीचीने (निरुपद्रवे) सदने सीद उपविश (अव- स्थिति कुरु) प्रतितिष्ठ तत्र स्थितो भवेत्यर्थः। अत्र च 'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचकेन पूर्वोत्तरार्धयोरेकवाक्यत्वे सिद्धे मन्त्रद्वयस्याभावात्सर्वोड्ययं मन्त्रः स्थानकरणस्याङ्गं पुरोडाशस्थापनस्य चाङ्गं भवति। तत्र विनियोजिका श्रतिश्चैवं कल्पनीया 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्' इति तथा १ "दक्षिणा मिर्गार्हपत्याहवनीयौ त्रयोऽमयः" इत्यमरः ॥२ इन्द्रोपस्थाने एवेति। अन्यप्रकाशकस्यान्यत्र विनि- योगायोगादिति भावः ॥ ३ अस्याः "कदाचन स्तरीरसि०" इत्यस्याः ॥ऐश्वर्यवत्परतयेति। इन्द्रपदस्य 'इदि पर- मैश्वर्ये' इति धातुनिष्पन्नत्वादिति भावः॥५ "कदाचन स्तरीरसि" इत्यस्य ॥ ६ अस्मिन्मन्त्रे 'करोनि' इत्यत्र 'रुणोमि' इति 'सुशेवम्' इत्यत्र 'सुषेवम्' इति मेध' इत्यत्र 'भेद' इति 'मेदः' इति च पाठान्तरं कैश्वत्प्रदर्शितम् किंच 'रुणोमि' इतति श्रुतिपाठो भामत्याम् 'मेधः' इति च सविसर्गः पाठस्तत्र इस्युद्दयोतकारैरुक्तम् तत्सर्व न मनोरमम् वेदे केवल- पाठान्तरप्रदर्शनस्यानुचितत्वात् 'इत्यमुकशाखिनः पढन्ति' इति रीत्या शाखाभेदेन पाठभेदस्य प्रदर्शनीयत्वादिति बोध्यमू।

Page 294

पश्चम उल्लास:। २३५

'सर्वेणानेन मन्त्रेण पुरोडाशस्तत्र स्थापनीयः' इति च। तथा च सदनकरणपुरोडाशस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा स्वेच्छया भविष्यतीति पूर्वपक्षः । तत्र यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेनैकं वाक्यं संपन्नम्। तदेतदुत्तरार्धस्य सदनकरणे शक्तिमकल्पयित्वा सकलं मन्त्रं सदने विनियोक्तुं नार्हति तथा तदेव वाक्यं पूर्वार्धस्य पुरोडाशस्थापने शक्तिमकल्पयित्वा न पुरोडाशस्थापने कृत्स्ं मन्त्रं विनि- योक्तुं प्रभवति अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुति प्रति विप्रकृष्यते। प्रत्यक्षं तु लिङ्गद्वयं ता श्रुति प्रति न विप्रकृष्यते। तथा सति लिङ्गेन वाक्यस्य बाधान्मन्त्रस्यार्धद्वयं सदनकरणपुरोडाशस्था- पनयोर्व्यवस्थितमिति सिद्धान्तः । अयं भावः । "स्योनं ते सदनं करोमि० तस्मिन्सीद०" इत्यत्न तस्मि- न्निति तच्छब्दस्य पूर्ववाक्यार्थसापेक्षतयैकवाक्यत्वभानाद्वाक्यप्रमाणेन द्वयोरेकमन्त्रत्वं भाति लिङ्गेन भिन्नमन्त्रत्वं भाति आद्यस्य सदनप्रकाशनसामर्थ्यात् तस्मिन्सीदेत्यस्य सादनप्रकाशकत्वात्। रत्र वाक्यापेक्षया लिङ्गस्य प्राबल्याद्वाक्यं बाधित्वा लिङ्गेन 'स्योनं ते' इत्यस्य सदनाङ्गत्वं 'तस्मिन्सीद' इत्यस्य सादनाङ्गत्वमिति निर्णयः । 'स्योनं ते' इत्यस्य 'तस्मिन्सीद' इत्यनेनैकवाक्यत्वबलाद्यथाकर्थंचित्सा- दनसामर्थ्यरूपं लिङ्गं कल्पयित्वा 'अनेन विशिष्टमन्त्रेण सादनं कुर्यात्' इति श्रुतिः कल्पनीया। सदन- प्रकाशनरूपप्रत्यक्षलिङ्गेन कल्पितया 'स्योनं ते इत्यनेन सदनं कुर्यात्' इति श्रत्या 'स्योनं ते' इत्यस्य शीघ्रं सदने विनियोगे सति तेनैव मन्त्रस्य नैराकाड्डयाद्वाक्यप्रमाणाल्लिङ्गं कल्पयित्वा श्रुतिकल्पना प्रति- बध्यते विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाध इति ॥ २ ॥ वाक्यप्रकरणयोर्विरोधे प्रकरणस्य दुर्बलत्वं यथा तैत्तिरीयब्राह्मणे ३ काण्डे ५ प्रपाठके १० अनुवाके दर्शपूर्णमासप्रकरणे "इदं दयावा- पृथिवी भद्रमभूत्" इत्यादिकः सूक्तवाकनिगदः पठितः । तत्र च "अग्नीषोमाविद हविरजुषेतामवीवृधेता महो ज्यायोऽक्राताम्। इद्राग्री इदहविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम् " इत्यवान्तरवाक्यद्वयं श्रयते। तत्र देवतावाचकं पदमग्नीषोमादिरूप पौर्णमास्याँदिकाले यथादेवतं विभज्य प्रयोकैतव्यमिति तृतीयेऽव्याये स्थिंतम् । 'इदयहविः' इत्यादि पदमवशिष्टं तु यथोक्ताग्नीषोमेन्द्राग्निमन्त्रद्वयगतमपि यथाक्रमममावास्यायामग्नषिमिपदपरित्यागेन पौर्णिमास्यामिन्द्राग्निपदपरित्यागेन च पठनीयम्। तथा च सति तेषां मन्त्रभागानां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोऽनुगृहीतो भवतीति प्राप्तेडभिधीयते। अग्नीषोममन्त्रशेषस्य 'इदहविः' इत्यादिरूपस्येन्द्राग्निपदान्वयाश्रवणात्प्रकरणेन प्रथमं तदन्वयरूपं वाक्यं कल्पनीयं तेन च वाक्येनेन्द्राग्निप्रकाशनसामर्थ्यरूपं लिङ्गं कल्पनीयम् तच्च लिङ्गम् 'अनेन मन्त्रभागेनेन्द्राग्निविषया काचिल्क्िया अनुष्ठेया' इति विनियोजिकां तृतीयाश्रुति कल्पयति ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति। अग्नीषोमपदान्वयरूपं वाक्यं तु श्रूयमाणत्वाल्लिङ्गश्रुति- भ्यामेव व्यवधयिते। एवमिन्द्रागनिमन्त्रशेषस्याप्यग्रीषोमपदान्वयाश्रवणात्प्रकरणेन प्रथमं तदन्वयरूपं वाक्यं कल्पनीयमित्यादि स्वयमूह्यम्। तस्माद्वाक्येन स्वस्माद्दुर्बलस्य प्रकरणस्य बाधितत्वात्तत्तन्मन्त्र- शेषस्तत्र तत्रैव व्यवतिष्ठते इति। अत्र केचित् दर्शपूर्णमासयागे श्रूयते "अग्नीषोमाविदम्०" इति मन्त्र:

१ न विधरूण्यते इति। कितु संनिरुष्यत इति भावः। २ सूक्तवाकशब्दो भागे यौगिक: 'सूक्तं वाक्ति' इति तद्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः । नितरामुशैर्गदते पठ्यते इति निगदः। तादृशो मन्त्रसमूह इत्यर्थः। 'देवतासंबन्धबोधकः पदसमूहो निगदः' इति केचित्। 'परसंबेोधनार्थलोडन्तपद्युक्तपद्समूहो' निगद इत्यन्ये। सूक्तवाकश्वासौ निगद्श्र्वेति कर्मधारयः ॥ ३ अश्नीषोमादिरूपमिति। आदिपदेन इन्द्रामीरूप ग्राह्मम् ॥l पौर्णमास्यादीति। आदिशब्देनामावास्यायाः संग्रहः ॥ ५ यथादेवतमिति । देवतामनतिक्रम्येत्यर्थः । अभ्रीषोमौ पूर्णमासदेवते इन्द्राभी दर्शदेवते इति ज्ञेयम् ॥ ६ प्रयोक्तव्यं विनियोक्तव्यम् ॥ ७ स्थितं निर्णीतम् ॥

Page 295

२३६ काव्यप्रकाशः सटीक:।

पौर्णमासे च "इन्द्राग्नी इदम्०" इति मन्तः। अत्रेन्द्राग्री अमावास्यायां देवते अग्नीषोमौ पौर्णमास्या- मिति वस्तुस्थितिः। यथाक्रमं पुनरसमवेतार्थकतया परमन्त्रः पूर्वम् पूर्वमन्त्रश्च परत्र प्रयुज्यते। तल्न प्रकरणसमवेतार्थकत्वभयेन 'अग्नीषोमौ' इति 'इन्द्रामी' इति च देवतापदभागमेव त्यजति नापरभागम्। तस्य समवेतार्थकत्वात्। वाक्यं तु यथास्थानादाकृष्यमाणं न कंचनाप्यंशं जहाति । विशेषणविशेष्य- भावेनैवाक्यतामापन्नस्य तस्यांशमेदाभावात् इति वाक्यप्रकरणयोर्विरोधः । अत्रेयं व्यवस्था । झटिति प्रवृत्तेन वाक्ये विप्रकृष्टं प्रकरणं बाध्यते। तथाहि नह्येतावतो वाक्यादवतरति प्रकरणम् । अपि तु वाक्यान्तराणामनुसंधानादिति तेषामनुसंधानम् ततस्तदर्थावगमः ततः प्रकरणावतार इति विप्रकर्ष- परंपरातः प्रागेवोपस्थितानां खण्डवाक्यानामाकाङ्कादिमहिम्नैकत्वं जायते इति। परतश्चावतीर्ण प्रक- रणमकिंचित्करम्। जातत्वात्तस्य । तदुक्तम् "विरोधिनोस्तदेको हि फलं न लभते तयोः । प्रथमेन गृहीतेऽस्मिन्पश्चिमे वेतरन्मुधा॥" इति। न चायोग्यताज्ञानात्कथमेकत्वं वाक्यानामिति वाच्यम्। प्रकरणावतारेणैव तदवतारात् प्रकरणस्य विलम्बितत्वमित्युक्तत्वादिती्याहुः ॥३॥ प्रकरणस्थानयो- र्विरोधे स्थानस्य दुर्बलत्वं यथा राजसूयप्रकरणे पश्चिष्टिसोमयागा बहवः समप्रधानभूताः पठ्यन्ते। तत्र च कश्चिदभिषेचनीयसंज्ञकः सोमयागः पठितः । तस्य हि संनिधौ देवनादयो धर्माः "अक्षैर्दीव्यति। राजन्यं जिनाति । शौनःशेपमाख्यापयति" इति श्रयन्ते। दव्यिति क्रीडति। जिनाति जयति। बहुचब्राह्मणे (ऐतरेयब्राह्मणे) सप्तमपश्चिकायां तृतीयेऽध्याये समाम्नातं शुनःशेपस्येदमुपाख्यानं शौनःशेपम्। शुनःशेपविषयकमुपाख्यानमित्यर्थः । तच्च 'शुनःशेपनामा कश्चिदृषिपुत्रो हरिश्चन्द्रपुत्रेण पुरुषमेधार्थ पशुत्वेन क्रीतः । स च वरुणाय स्वस्यालम्भने क्रियमाणे वरुणं तुष्टाव स चैनं ररक्ष' इतीति ज्ञेयम्। तदाख्यापयतीत्यर्थः । तत्र च देवनादीनां संनिधिबलादभिषेचनीयाङ्गत्वमिति प्राप्ते सिद्धान्तः। राजसूयेतिकर्तव्यताकाङ्कयामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषों एव भवन्ति। राज- सूयश्च बहुयागात्मको भवति। ततश्र तत्रत्यसर्वयागशेषत्वं देवनादीनां सिध्यति। किंचाभिषेचनीयस्य काचिदप्याकाड्का देवनादिषु नास्त्येव । तस्य ज्योतिष्टोमविकृतित्वेनातिदिष्टैरेव प्राकृताङ्गैस्तदाकाड्ड- निवृत्तेः। ननु संनिहितविधिबलादाकाङ्कोत्थाप्यते इति चेत्तर्हयाकाङ्कारूपमन्तरालप्रकरणमादौ परि- कल्प्य तद्द्वारा वाक्यलिङ्गश्रुतिकल्पनया संनिधिर्विप्रकृष्यते। राजसूयाकाङ्भारूपं महाप्रकरणं तु क्लृप्तत्वादेकयाकाङ्डया संनिकृष्यते। ततश्व प्रकरणेन संनिधेर्बाधात्सर्वयागशेषा देवनादयो धर्मा इति। अयं भावः । राजसूययागे पुनरिष्टिपशुसोमयागाः प्रधानभूताः फलवन्तोऽतिदिश्यन्ते। तदन्तःपातिनोऽभिषेचनीयाख्यस्य सोमयागस्य संनिधौ "अक्षैर्दीव्यति। राजन्यं जिनाति। शौनः- शेपमाख्यापयति" इति श्रयते । तच्च देवनादित्रयमिष्टिपशुसोमयागानां सर्वेषामङ्गम्। एतत्त्रितया- नतिरिक्तस्य राजसूयस्य कथंभावाकाङ्कायामभिधानात्। तच्च नोपपद्ते। समानदेशत्वरूपेण सांनिध्ये- नाभिषेचनीयस्यैवाङ्गतावगतेः । उच्यते। संनिधिपाठेन तदङ्गता स्यात्। कुतोऽन्येषामनङ्गतवम्। तत्सं- निधावपाठात् इत्यनुमानादिति चेत्। यावदनुमितिसामग्रीव्याप्तयादिज्ञानं नावतरति तावदेव राजसूया- त्मकत्वेन प्रकृतानां सर्वेषां विद्यमानप्रकरणबलाद्देवनादिष्वङ्गतावगमः सर्वेषामेव बुद्धौ सांनिध्याद्बुद्धि- संनिधेरेव प्रकरणत्वादित्यविप्रकृष्टेन प्रकरणेन विप्रकृष्टं स्थानं बाध्यते इति ॥ ४ ॥ १ शुन इव शेपः पुच्छः शिश्षो वा यस्येति व्युत्पत्तिमात्रम्। नत्ववयवार्थावगमः सथंतरमितिवत्। "शेपपुच्छला- झू·लेषु शुनः" इतिवातिकेन षष्ठया अलुक् ॥ २ शेषत्वमत्राङ्गत्त्वम्। एवमग्रेडपि बोध्यम् ॥

Page 296

पश्चम उल्लास:। २३७

स्थानसमाख्ययोर्विरोधे समाख्याया दुर्बलत्वं यथा "शुन्धध्वम्" इत्ययं मन्त्रः सानाय्यपा- त्राङ्गं पाठसमानदेशत्वात् न तु 'पौरोडाशिकम्' इति समाख्यया पुरोडाशपात्राङ्गम्। अयं भावः । "शुन्धध्वं दैव्याये कर्मणे" इत्ययं मन्त्रः 'पौरोडाशिकम्' इति याज्ञिकैः समाख्याते काण्डे पठितः। तस्य च समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शुन्धने (शोधने) अङ्गत्वमिति प्राप्ते सिद्धान्तः। न समाख्यया मन्त्रस्य पुरोडाशपात्राङ्गत्वम्। पदार्थयोर्भिन्नदेशत्वेन संबन्धस्याप्रत्यक्षत्वात्। स्थानतिनियोगे तु पदार्थयोरदेशसामान्यलक्षणः संबन्धः प्रत्यक्ष एव। न च सा (समाख्या) पदार्थयोः संबन्धवाचिका भवति। यौगिकशब्दानां द्रव्यवाचकत्वेन पदार्थसंबन्धावाचकत्वात्। तथात्वे वा तस्याः सा संबन्धमात्रवाचिका तद्विशेषवाचिका वा स्यात्। नादः। तन्मात्रोक्तौ प्रयोजनाभावात् सर्वेषां यौगिकवचसां पर्यायतापत्तेश्च। द्वितीये तु संबन्धे विशेषत्वस्य संबन्धिविशेषनिरूप्यत्वादवश्यं संब- न्धिनौ वक्तव्यौ। तथा च "संबन्धिप्रतिपत्त्यैव वाक्यार्थप्रतिपत्तिः" इति न्यायेन संबन्धप्रतिपत्ति- संभवे तत्रापि शक्तिकल्पने गौरवान्न समाख्यायाः संबन्धवाचित्वम्। तथा चोक्त भट्टवीर्तिके "सर्वत्र यौगिकै: शब्दैर्द्रव्यमेवाभिधीयते। नहि संबन्धवाचित्वं संभवत्यतिगौरवात्॥।" इति। तथान्यच्चोक्तम् "पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽप्यकः। पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ॥" इति। किंच 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधते तद्धितप्रत्ययस्तु 'पुरोडाश- स्येदम्' इति व्युत्पत्त्या काण्डमभिधत्ते न चैतावता कृत्स्पुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भत्रति। किंत्वर्थापत्या स कल्प्यते। कथम्। शणु। यद्युक्तः संनिभिर्न स्यात्तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशि- कसमाख्या न स्यात्। नह्यग्न्यसंनिहितानाम् "इषे त्वा००" इत्यादिमन्त्राणामाग्नेयकाण्डसमाख्या भवति। भवति च सा संनिहितानां "युञ्जानः प्रथमं मनः" इत्यादिमन्त्रागाम्। ततश्च काण्डसमाख्यया संिधिं परिकल्प्य कल्पितकाण्डसंनिध्यन्यथानुपपत्या परस्पराकाङ्कारूपं कृत्स्पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीश्च कल्पयित्वा तया श्रत्या विनियोग इति स्थानापेक्षया विनियोगे समाख्याया विप्रकर्षः । सान्नाय्यपात्राणां तु कुम्भीशाखापवित्रादीनां शोधनमन्त्रसंनिधिः प्रत्यक्षो भवति। कथम्। शणु। इध्माबर्हिःसंपादनस्य मुष्टिनिर्वापस्य चान्तरालं सान्नाय्यपात्राणां देश उक्तः शोधनमन्त्रश्चाय- मिध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोर्मध्यमेऽनुवाके पट्यते। तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः समाख्यापेक्षया संनिकृष्यते। तस्मादर्थविप्रकर्षात्समाख्या स्थानतो दुर्बलेति न पुरोडाशपात्राणां शुन्धनेऽस्य मन्त्रस्य विनियोग: किंतु प्रबलेन स्थानेन समाख्याया बाधात्सान्नाय्यपा- त्राणां शुन्धने एव विनियोगो भवतीति ॥५॥ एवमन्यान्यप्युदाहरणानि ग्रन्थान्तरतोऽवधार्याणि। ग्रन्थ- गौरवभयान्नेह प्रपञ्चितानि । तदयं निर्गलितोऽर्थः। श्रतिर्निरपेक्षत्वात्सर्वतो वलवती लिङ्गं तु विनियोगे एकान्तरितत्वात् द्यन्तरितवाक्याद्वलवत्। एवं वाक्यादावप्यूह्यम् । समाख्या तु पञ्चान्तरितत्वात्सर्वतो दुर्बला। तदेतदुक्तम् "एकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम्। श्रुत्यर्थ प्रति वैषम्यं लिङ्गादीनां प्रती- १ सान्न्राय्ययागयोरेन्द्रद्यैन्द्रपयसोः पात्राणां कुम्भीशाखापवित्रादीनामङ्गमित्यर्थः ॥ २ पुरोडाशस्येदं पौरोडाशि- कमति व्युत्पत्तिः (योगः)। केचित्तु 'पुरोडाशस्यैतानि पात्राणि पौरोडाशानि तान्यधिकत्य प्रवृतं काण्डं पौरोडाशिकम् इति व्युत्पत्तिरित्याहुः ॥ ३ पुरोडाशपात्राणामुलखलादीनामङ्गमित्यर्थः ॥ 'शुन्ध शुद्धौ' इति धातोर्भौवादिकस्य परस्मैपदप्ररुन्तिकत्वेऽपि "व्यत्ययो बहुकम् " (३।१।८५) इति पाणिनिसूत्रेणात्मनेपदम् ॥ ५ देवसंबन्धिने ॥ ६ संबन्धवाचकत्वे ॥ ७ समाख्यायाः ॥ ८ समाख्या ॥९ भट्ोऽत्र कुमारिलभट्टः ॥ १० वार्तिकं तन्त्रवार्तिकम् ॥ ११ एकेति । लिङ्गस्यैकया श्रुत्या श्रुत्यर्थ विनियोगं प्रति अन्तरयो व्यवधानं तत्कारितं वैषभ्यं प्रतीयते वाक्यस्य

Page 297

२३८ काव्यप्रकाशः सटीक: । कि च 'कुरु रुचिम्' इति पदयोवैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम्। न ह्यत्रास भ्योरऽर्थः पदार्थान्तरैरन्वितः इत्यनभिधेय एवेति एवमादि अपरित्याज्यं स्यात्। यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्गयव्यञ्जकभावो नाम्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्ात्। न चानुपपन्नम् यते॥ बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा। मध्यमानां तु बाध्यत्वं बाधकत्वव्यपेक्षया ।।" इति। स्पष्टमिदं सर्व माधवीये जैमिनिन्यायमालाविस्तरे भिक्षुरामेश्वरकृतायां मीमांसार्थसंग्रहकौमु- द्याम् आपदेवकृते मीमांसान्यायप्रकाशे श्रीकृष्णयज्वकृतायां मीमांसापरिभाषायां चक्रवरतिकृतायां काव्यप्रकाशटीकायां चेति दिक्। प्रकृतमनुसरामः । ननु 'निःशेषच्युतचन्दनम्' इत्यादौ विध्यादौ शक्तिरेव। तस्याप्राप्तत्वेन विधे- यतया तात्पर्यविषयत्वात् । प्राथमिकार्थबोधाद्वाक्यस्य विरामस्तु न विवक्षितार्थाबोधात्। अन्यथावान्त- रवाक्यार्थबोधे महावाक्यार्थबोधो न स्यात्। एवं शब्दश्रुतेरनन्तरं यावानर्थः प्रतीयते न स केवलया- भिधया प्रतिपादयते किं त्वाकाङ्कादिसापेक्षयेति श्रुत्यादेः पूर्वपूर्वसहकारेणोत्तरोत्तरस्य बोधकत्वमिति जैमिनिसूत्रविरोधोऽपि न। वक्त्रादिवैशिष्टयसहकारेण क्वचिदभिधाया अज्ञाताया अप्युपयोगोSस्त्वित्यतो दूषणान्तरमाह किं चेति। वैपरीत्ये 'रुचिं कुरु' इत्येवंरूपे विपयासे। इंदं २१३ उदाहरणे स्फुटी- भविष्यति। काव्यान्तर्वर्तिनीति। 'क्न्तर्वर्तिनि' इति पाठे कुशब्दोऽन्तर्वर्ती यत्र तादृशे वैपरीत्ये 'रुचिं कुरु' इत्येवंरूपे इत्येवार्थः । दुष्टत्वमिति। संधौ चिङ्कपदस्य निष्पादनादिति भावः। लाटभाषायां चिक्कुपदं योन्यन्तर्वर्त्यङ्कुरवाचकमिति सरस्वतीतीर्थादयो बहवः। व्याख्यातं च काव्यप्रकाशदर्पणे विश्व- नाथेनापि "चिक्कुपदं कश्मीरादिभाषायामश्लीलार्थबोधकम्" इति। ननु चिङ्कपदस्य वाचकत्वमेवेत्यत आह न हीति। अत्र वैपरीत्ये। असभ्योऽर्थः व्यङ्गयो योन्यन्तर्वर्त्यङ्कररूपः । अन्वित इति। अन्विते एवाभिधाङ्गीकारादिति भावः । एवमादीति। पदमिति शेषः। अपरित्याज्यमिति। काव्ये इति शेष:। 'रुचिं कुरु' इत्यादिशब्दस्य दुष्टववं न स्यात् । तदर्थस्यान्यानन्वितत्वेनाशक्यतया व्यञ्ज- नानङ्गीकारे तदनुपस्थित्या तस्य परित्याज्यत्वं काव्ये न स्यादिति भाव: ॥ अयमत्र निर्गलितोऽर्थः। रुचिं कुर्वित्युक्तौ स्त्रीगुह्याङ्गवाचकचिङ्कुपदतुल्येन चिड्ित्यनेन व्यञ्ज- नया स्त्रीगुह्याङ्गोपस्थित्या ्लीलत्वदोष इति नैवमुच्यते (नैवेदं प्रयुज्यते)। तच्च 'अन्वित एवार्थोऽ- भिधेयः' इत्यन्विताभिधानमते व्यञ्ञजनाया अखीकारे न संभवति। तादृशार्थस्य केनाप्यनन्वितत्वेना- नभिधेयत्वादिति विवरणे स्पष्टम् ।। नन्वानुभाविकी शक्तिरेवान्विते स्मारिका नत्वनन्वितेSपीति चिङ्ादिपदस्यासम्यार्थस्मारकत्वाद्दुष्टत्वं स्यादित्यतो दूषणान्तरमाह यदि चेति। वाच्यवाचकत्वव्यतिरेकेण वाच्यवाचकभावं विना अभिधां विनेति यावत्। वाच्यवाचकभावातिरेकेणेति पाठेपि स एवार्थः । व्यङ्ग्यव्यञ्ञकभावः व्यङ्गयव्य- ञ्जकत्वम्। व्यञ्ञजनेति यावत्। नाभ्युपेयते नाङ्गीक्रियते। असाधुत्वादीनामिति। च्युतसंस्कृतित्वा- दीनामित्यर्थः । असाधुत्वमत्र व्याकरणाननुगतत्वम् व्याकरणव्युत्पत्तिविरहो वा। कष्टत्वादीनामिति। द्वाम्यां लिङ्गश्लुतिभ्यां प्रकरणरय वाक्यलिङ्गश्लतिमिस्तिसृमिरित्यादिक्रमणेत्यर्थ इत्युद्दयोते स्पष्टम्। अन्तरायपर्यायोऽन्तर- यशब्दोप्यस्ति अन्तर्मध्येडयनम् अन्तरयः 'इण् गतो' इति धातोः "एरच" (३३।५६) इति पाणिनिसूत्रेण भावेऽच्प्रत्यय इत्यमरकोशटीकार्यां रामाश्रम्यामन्तरायशब्दे ध्वनितम् ।

Page 298

पश्चम उल्लास: । २३९

सर्वस्यैव विभक्ततया प्रतिभासात्। वाच्यवाचकभावव्यतिरेकेण व्यङ्गयव्यञ्जकताश्रयणे तु व्यङ्गयस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था।

'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।'

कष्टत्वमत्र श्रुतिकठुत्वम्। अनित्यदोषत्वं रसविशेषापकर्षकत्वम्। कष्टत्वप्रभृतीनामनित्यदोषत्वं शृङ्गा- रादौ दुष्टत्वेऽपि रौद्रादावदुष्टत्वादिति भावः । नन्वस्तु अनुपपन्नमत आह न चेति। चस्त्वर्थे। सर्वस्य तत्तद्रसाविष्टस्य पुरुषस्य। प्रतिभासात् अनुभवात्। ननु त्वन्मतेऽपि कथं विभाग इति शङ्कायां व्यञ्जनाभ्युपगम एव विभागबीजमित्याह वाच्यवाचकेत्यादि। वाच्यवाचकभावोडभिधारूपो व्यापार- स्तदपेक्षया व्यतिरेकेण भिन्नतया व्यङ्गयव्यञ्जकताया व्यञ्जनारूपव्यापारस्याश्रयणे स्वीकारे इत्यर्थः । व्यङ्गयस्य रसादेः। विभागव्यवस्थेति। नित्यानित्यत्वेनेत्यर्थः । अय भावः । असाधुत्वादयो हि सर्व- दैव हेया इति नित्यदोषाः। कष्टत्वादयस्तु शृङ्गाराद्यभिव्यक्तिप्रतिकूलतया तत्नैव (शृङ्गारादावेव) हेया अपि रौद्रादौ व्यङ्गयेऽनुगुणतयोपादेया एवेत्यनित्यदोषाः । इत्थं च व्यङ्गयव्यञ्जकभावे प्रातिकूल्या- नुकूल्याभ्यामेव नित्यानित्यदोषविभागः। स च व्यञ्जनाया असत्वे नोपपन्नः। वाच्यवाचकभावे हि कष्ट- त्वादीनामौदासन्येन सर्वत्रैव दुष्टत्वमदुष्टत्वं वा अन्यतरत् नियतमेव स्यादिति विवरणे स्पष्टम्।। व्याख्यातमेतत्सर्व प्रदीपोद्दयोतयोः । "वाच्यवाचकभावव्यतिरेकी व्यङ्गयव्यञ्जकभाव इत्यवश्यं काव्यज्ञदृष्टया स्वीकर्तव्यम्। अन्यथा कष्टत्वादयोSनित्यदोषाः असाधुत्वादयो नित्यदोषा इति विभागो न स्यात्। वाच्यस्यार्थस्याविशेषेण कष्टत्वादीनामपि सर्वत्र दुष्टत्वस्यादुष्टत्वस्य वा प्रसङ्गात्। व्यञ्जना- भ्युपगमे तु व्यञ्जनीयस्य बहुविधत्वेन रौद्रादौ व्यङ्गयेऽनुकूलतं शृङ्गारादौ तु दुष्टत्वमिति युज्यते विभाग- व्यवस्था" इति प्रदीपः । (प्रसङ्गादिति। असाधुत्वज्ञानवत् यदि श्रुतिकटुत्वादेरपि वाक्यार्थज्ञानविध- टकता तदा सर्वत्र चमत्कारस्य वाक्यार्थज्ञानाधीनत्वात्तदभावे चमत्काराभावेन नित्यदोषत्वमेव। तदवि- घटकत्वे तु दोषत्वमेव न स्यादिति भावः । अनुकूलमिति। तद्गतौजोगुणव्यञ्जकत्वेनोत्कर्षकत्वात्। शृङ्गारे तद्विरोध्योजोगुणव्यञ्जकत्वेनापकर्षकत्वादिति भावः ।) इत्युद्योतः ॥

एवम् व्यञ्जनानङ्गीकारे पर्यायेषु मध्ये कस्याचिदेव कुत्रचित् काव्यानुगुणत्वमित्यपि व्यवस्था न स्यात्। वाच्यार्थस्याविशेषात्। दृश्यते चासौ (व्यबस्था) यथेत्याह दवयमित्यादि। 'कला च सा कान्ति- मती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी' इत्युत्तरार्धम्। कुमारसंभवकाव्ये पञ्चमे सर्गे तपस्यन्तीं पार्वतीं बटुवेषेण छलयतः शिवस्य खनिन्दापरेयमुक्तिः । हे पार्वति कपालिनः कपालधारिणः (अस्थि- विशेषधारिण: हरस्य) समागमप्रार्थनया प्राप्तिकामनया (हेतुभूतया) संप्रति इदानीं (तवैवं निश्चये सति) दवयं शोचनीयतां शोच्यत्वं (गर्ह्यत्व) गतं प्राप्तम् । कि तदाह कका चेति। सा प्रागेव हरशिरो- गतत्वेन प्रसिद्धा कान्तिमती (नित्ययोगे मतुप्) कलावतः चन्द्रस्य कला षोडशो भागश्च अस्य लोकस्य नेत्रकौमुदी आह्मादकतया नेत्रयोश्वन्द्रिकारूपा त्वं चेत्यर्थः। एतावत्कालं कपालिनोऽयोग्यस्य सङ्गा- देका चन्दकलैव शोच्या आसीत संप्रति तु त्वमप्यपरेति दयं शोच्यमिति पिण्डितोऽर्थः । अत्र गत- मिति भूतकालनिर्देशेनावश्यभाव्यत्वं सूच्यते । 'कपालिनः' 'नेत्रकौमुदी' इत्येताभ्यां च शोचनीयत्व- स्य युक्तता ध्वन्यते। "कपालोऽस्री शिरोडस्थि स्याहटादेः शकले व्रजे" इति मेदिनी। अस्मिन् पद्येऽ- क्मखवं दोषोड़स्तीति २५२ उदाहरणे वक्ष्यते । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राकू (२४ पृष्ठे) ॥

Page 299

२४० काव्यप्रकाश: सटीक:। इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम्। अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तुन् प्रति एकरूप एवेति नियतोऽसौ। न हि 'गतोऽस्तमर्कः' इत्यादी वाच्योऽर्थः क्वचिदन्यथा भवति। प्रतीयमानस्तु तत्तत्प्रकरणवक्तृ- प्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते। तथा च 'गतोऽस्तमर्कः' इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणा न्निवर्तामहे इति सांध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्ता- मिति संतापोऽधुना न भवतीति विक्रेयवस्तूनि संद्वि्यन्तामिति नागतोऽद्यापि प्रेयानि- त्यादिरनवधिर्व्यङ्ग्योऽर्थः तत्र तत्र प्रतिभाति। अत्र हि शिवनिन्दायां तात्पर्यम्। कपालिपदेनाशुचिबीभत्सकपालधारणे स्पर्शे दर्शनेऽप्ययोन्यतया सर्वथा हेयत्वं व्यज्यते। कपालिपदस्थाने पिनाकिपदप्रयोगे तु कपालिपिनाकिपदयोरभिधेयोपस्थापना- विशेषेऽपि पिनाकवत्तया वीरावगतेर्निन्दा न स्यात्। न च कपालसंबन्धबोधकत्वमेव विशेष: व्यञ्जना- नभ्युपगमे तावन्मात्रविशेषस्याप्रयोजकत्वात् । अन्यथा कपालसंबन्धबोधस्येव पिनाकसंबन्धबोधस्यापि विशेषतया कथं न तस्य काव्यानुगुणत्वं स्यादिति सुधीभिर्ध्येयम्। तदेवाह इत्यादाविति। कपाल्या- दीति। पिनाकिकपाल्यादिपदानामभिधायकत्वे विशेषाभावात्। व्यञ्जनाङ्गीकारे तु कपालिपदस्य बीभ- तसालम्बनत्वं व्यञ्जयतो देव्याः शोचनीयतोपपत्तौ भवति काव्यानुगुण्यमिति भावः । काव्यानुगुणत्व- मिति। अनुगुणत्वम् उत्कर्षकत्वम्। व्याख्यातमिदं प्रदीपोद्दयोतयोः । "अत्र वीरद्योतकत्वेन न पिना- क्यादिपदमनुकूलम् किं तु जुगुप्साव्यञ्जकतया कपालिपदमेव। न च कपालसंबन्धबोधकत्वाद्विशेषः । तत्संबन्धमात्रबोधस्य विशेषकत्वाभावात्। व्यञ्जनोपगमे तु कपालसंबन्धकृतसकलामङ्गलनिधानत्वदु-

गोच्यतातिरेकद्वारेण तत्र पार्वव्या भावनिवृत्तौ तत्पदं प्रभवतीति तस्य काव्यानुगुणतेति भावः" इति ॥ किं च वाच्यव्यङ्गययोर्वाच्योऽर्थः सर्वसाधारण: व्यङ्गयस्तु नानारूपः प्रकाशते इत्यतोऽपि वाच्याद्वय- ङ्गयस्य भेद इत्याह अपि चेत्यादिना 'प्रतिभाति' इत्यन्तेन। सर्वान् विदग्धाविदग्धान्। प्रतिपत्तुन् बोडन्। एकरूप एवेति। शक्यतावच्छेदकस्य नियतत्वादिति भावः। अन्यथा भवतीति। नानात्वं भजते इत्यर्थः । प्रतीयमान: व्यङ्गयः। प्रकरणेत्यादि । प्रकरणादीनि प्राक् (७२ पृष्ठे) निरूपि- तानि। प्रतिपत्त्रादीति। बोद्धव्यादीत्यर्थः। नानास्वं भजते इति। व्यङ्गयतावच्छेदकानैयत्याद- नियत इत्यर्थः। ननु नैतद्वैधर्म्यम् नानार्थकसैन्धवादिपदे नानार्थावगमदर्शनादिति चेन्न। तत्र नानार्था- वगमेऽपि कोशादनुशासनेन नियतरूप एव सः।न हि व्यङ्गयेऽनुशासनमस्ति कि चैकवाक्यान्तर्गते तत्राप्येक एवार्थः । "सकृदुच्चरितः शब्दः सकृदर्थ गमयति" इति न्यायात्। अन्यथा वाक्यस्य संशा- यकत्वेनाप्रामाण्यापत्तेः। प्रकरणादिसहकारेण तद्धीर्न स्वत इत्यन्यदेतत्। न हि व्यङ्गयस्तथेति तस्य (वैधर्म्यस्य) भेदकत्वात् । अत एवोच्यते 'अनवधिव्यङ्गयोऽर्थस्तत्र तत्र प्रतिभाति' इति (अत्रैव पृष्ठे)। तथा चेति। तथा हीत्यर्थः। सपत्नं प्रति शत्रुं प्रति। अवस्कन्दनेति। प्रसभमवमर्दने- व्यर्थः। चक्रवर्ती तु अवस्कन्दनं युद्धान्निवर्तनम्। रात्रियुद्धस्य छलबहुलत्वेनाधमत्वादिति व्याचक्रे । अनवधि: अनन्तः । तत्र तत्र बोद्धरि बोद्धरि योद्धभिसारिकावासकसज्जाकर्मकरब्राह्मणपथि- कगोरक्षकसंतापभीतवणिग्विरहिण्यादिरूपे इत्यर्थः। प्रतिभातीति । प्रकाशते इस्यर्थ: । अय

Page 300

पञ्चम उल्लासः। २४१ वाच्यव्यङ्ग्चयोः निःशेषेत्यादौ निषेधविध्यात्मनाएक शमी एग "मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु। भावः। 'गतोऽस्तमर्कः' इति वाक्ये राजः सेनापती प्रति 'शत्रणां हठेनावमेर्दनावसरः' इति दूतीना- मभिसारिकाः प्रति 'अभिसरणमुपक्रम्यताम्' इति सख्याः वासकसज्जां प्रति 'प्राप्तप्रायस्ते प्रेयान्' इति कर्मकरस्य सह कर्म कुर्वतः प्रति 'कर्मकरणान्निवर्तामहे' इति भृत्यस्य धार्मिक (ब्राह्मणं) प्रति 'सांध्यो विधिरुपक्रम्यताम्' इति आप्तस्य कार्यवशेन बहिर्गच्छन्तं प्रति 'दूरं मा गाः' इति गृहिणो गोपालकं प्रति 'सुरभयो (गावः) गृहं प्रवेश्यन्ताम्' इति दिवसेऽतिसंतप्तस्य बन्धून् प्रति 'संता- पोडधुना न भवति' इति आपणिकानां भृत्यान्प्रति 'विक्रेयवस्तूनि उपसंहि्यन्ताम्' इति नायकागम- नप्रस्तावे प्रोषितभर्तृकायास्तत्कथकं प्रति 'नागतोऽद प्रेयान्' इति एकस्यैव वा वक्तुर्बहून्प्रति तत्तत्प्र- करणवक्तृबोद्धव्यादिवशादेवमादिरनवधिर्व्यङ्गयोऽर्थः प्रकाशते इतीति प्रदीपादौ स्पष्टम्। एवम् 'उदितं मण्डलं विधोः' इति वाक्ये दूत्यभिसारिकाविरहिणीसख्यादिसमुदीरिते यथाऋ्रममभिसरणविधि- निषेधजीवनाभावपतिप्राप्त्यादिर्व्यङ्गयोऽर्यः प्रकाशत इति बोध्यम् ॥ वाच्यत्यङ्गययोरभेदे उपपादकान्तराण्यप्याह वाच्यव्यङ्ग्ययोरित्यादिना 'भेदोन स्यात्' इत्यन्तेन। अत्रायमन्वयः। निषेधविध्यात्मत्वादिना हेतुना वाच्यव्यङ्गययोः स्वरूपस्य कालस्य आश्रयस्य निमित्तस्य कार्यस्य संख्यायाः विषयस्य च भेदेडपि यद्ेकत्वं तत् (तदा) क्वचिदपि नीलपीतादौ भेदो न स्यादिति। अक्षरार्थस्तु निःशेषेत्यादौ 'निःशेषच्युतचन्दनम्' (२० पृष्ठे) इत्यादौ वाच्यो निषेधः । व्यङ्गयो विधिस्तदात्मना तद्रूपेण वाच्यव्यङ्गययोः स्वरूपस्य भेदेऽपीत्यर्थः। व्याख्यातं च प्रदीपे निःशेषेत्यादौ वाच्यो निषेधरूप: व्यङ्गयस्तु विधिरूप इति ॥ अन्यं स्वरूपभेदमाह मात्सर्यमिति। भर्तृहरिकृते शृङ्गारशतके पद्मिंद दृश्यते। अधिकं तु प्राक् ११७ पृष्ठे ११ पड्क्तावुक्तम् । हे आर्याः मान्याः (कार्याकार्यविचारनिपुणाः) भवन्तः भूधराणां पर्वतानां नितम्बाः मध्यप्रदेशा: किमु सेव्याः सेवनीयाः उत स्मरेण कन्दर्पेण स्मेरा: स्मितयुक्ता: या: विलासिन्यः प्रमदाः तासां नितम्बाः कटिप्रदेशाः सेव्याः इति संशये मात्सर्यम् एकतरपक्षपाते- नेतरत्रासूयाम् उत्सार्य त्यक्त्वा (मयि वा प्रश्नोत्तरपरिश्रमदानात् मात्सर्य उत्सार्य व्यक्त्वा) विचार्य विचारं कृत्वा न त्ववहेलनया समर्यादं प्रमाणमर्यादासहितं यथा स्यात्तथा सप्रमाणमिति यावत् कार्य कर्तव्यम् उदाहरन्तु सयुक्तिकं कथयन्त्वित्यर्थः । किम्विति उतेति च संशयार्थकम्। 'इदं वदन्तु' इति पाठे निर्धार्येत्यध्याहत्येदं कोटिद्यं निर्धार्य निश्चित्य वदन्त्वित्यर्थः। उत्तरार्धमार्योत्तरत्वेन व्याच- क्षणानां त्वभिप्रायं न विद्य इति चन्द्रिकाकाराः। "पश्वान्नितम्बः स्त्रीकटयाः" इति "कटकोऽस्री- नितम्बोदेः " इति चामरः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् (७८ पृष्ठे)॥ अत्र वाच्यः संशयः व्यङ्गयस्तु शान्तशङ्गार्यन्यतरगतनिश्चय इति स्वरूपवैलक्षण्यम् (स्वरूपस्य भेद: ) इति चन्द्रिकायां स्पष्टम् । उद्योतकारास्तु मात्सर्यमिति। मात्सर्यम् एकतरपक्षपातेनेतरत्रासूयाम् उत्सार्य त्यक्त्वा मयि वा

१ राज्ञ इत्यादिषष्ठयन्तानां 'वाक्ये' इत्यपरुष्टेनान्वय इत्युद्दयोंते स्पश्म्। सेनापतीन् प्रतीत्यादिपत्यन्तेषु सर्वेषु 'वाक्ये' इश्यस्यान्वयो द्रष्टश्य इति प्रभायामपि स्पष्टम् ॥ २ अवमर्दनं पीडनम् ॥ ३ तत्क्रथकं प्रति। नायकागमन कथनकर्तारं प्रति॥ काव्यप्रकाश ३१

Page 301

२४२ काव्यप्रकाश: सटीक:।

सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्। १३३॥ "

"कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूर्धा विद्विषां स्वकिता श्रीः । ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥ १३४ ॥" इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य

प्रश्नादिना क्ेशदानात् मात्सर्य परगुणद्वेष: तत् त्यक्त्वा विचार्य नत्ववहेलनया समर्यादं प्रमाणमर्या- दासहितं यथा तथा सप्रमाणमिति यावत् कार्य कर्तव्यम् उदाहरन्तु सयुक्तिकं कथयन्त्विति प्रश्ने आर्याणामुत्तररूपमुत्तरार्धम् एते वा सेव्या एते वेति । किमु उतेति च संशयार्थकम् । अत्रापाततः संशयरूपेणोत्तरेण शान्तैः पर्वतनितम्बा एव सेव्याः शृङ्गारिभिर्विलासिनीनितम्बा एव सेव्या इति निश्चयरूपमुत्तरं ध्वन्यते इति व्याचर्यु: ॥ तदेतत्सर्वमभिप्रेव्य वृत्तिकृदाह इत्यादौ संशयत्यादि । संशयश्च शान्तशृङ्गारिणा: शान्तशृङ्गार- रसप्रधानपुरुषयोरन्यतरगतोऽन्यतरविषयको यो निश्चयश्च तदूपेण तदात्मना वाच्यव्यङ्गययोः स्वरूपस्य भेदेऽपीत्यर्थः । व्याख्यातमेतत्प्रदीपादौ । "अत्र वाच्यः संशयरूपः व्यङ्गयस्तु शान्ते शृङ्गारिणि वा वक्तरि तदुचितैककोटिनिश्चयरूपः" इति प्रदीपः। (संशयरूप इति। किमादिपदाभिधेयत्वादिति भावः। न च संशयो ज्ञानं तदैतद्वाक्यजन्यं न तु तदस्य वाच्यमिति वाच्यम्। संशय्यते इति संशय इति विषयस्यैव संशयपदेनोक्तेरदोषात् । एवं निश्चीयते इति व्युत्पत्या निश्चयपदेनापि विषय एवेति ज्ञेयम्। अत एव ज्ञानरूपसंशयस्य लक्षणभूते गौतमीये सूत्रे तद्वार्तिककृता संशय्यते विषयोऽनेनेति संशयपदव्युत्पत्तिर्दर्शिता। 'स्थाणुर्वा पुरुषो वा' इति ज्ञानेन हि धर्मी विकल्पितरूपत्वरूपसंशयत्व- वान् क्रियते तद्रूपं संशयत्वमेव च वाशब्दार्थ इति दिक्। तदुचितकेति। सेवाद्ये एकाधिकरणक- त्वासंभवादैच्छिकविकल्पानुपपत्या शान्तशृङ्गारिभेदेन व्यवस्थितविकल्पे पर्येवसानम् स च व्यापारान्त- राविषयत्वाद्यङ्गय इति भाव: ) इत्युद्दयोत: ॥। अन्यमपि स्वरूपभेदमाह कथमिति। हे अवनिप अवति रक्षतीत्यवनिः तस्या अपि रक्षक त्वया यत् निशाता तीक्ष्णा या असिधारा खङ्गधारा तया दलन छेदनं तेन गलिताः पतिताः मूर्धानो मस्तका येषां तादृशानां विद्विषां वैरिणां श्रीः संपत्तिः स्वीकृता गृहीता तत् तस्माद्वेतोः दर्पो गर्वः कथम् युक्त इति शेषः । दर्पोऽयमिति छेदे स्वीकृतेऽप्ययं दर्पः कथमिति संबन्धः । कथमयुक्तो दर्पस्तत्राह नन्विति। नन्विति यत इत्यर्थे। यतो निहतारेरपि मारितशत्रोरपि तव असौ प्रसिद्धा कीर्तिरेव वल्लभा प्रिया (स्त्री) एमिः वैरिभि: अपगताङ्गैः हीनाङ्गैरपि कि त्रिदिवं स्वर्ग न नीता अपि तु नीतैवेत्यर्थः । व्याजस्तुतिरत्नालंकारः । मालिनी छन्दः। लक्षणमुक्तं प्राक् (९७ पृष्ठे ) ।। अत्र जीवत्येव रक्षणसमर्थे च त्वयि त्वत्प्रियायाः हीनाङ्गैः शत्रुभिरपहरणात् मृतानां श्रीहरणे गर्वोऽनुचित इति आपाततः प्रतीयमानया निन्दया 'सकलशत्रुविनाशनेन तैलोक्यविश्रतकीर्तिस्त्वम्' इति स्तुतिर्वर्यज्यते। तदेवाह इत्यादौ निन्देत्यादि। अत्र वाच्या निन्दा व्यङ्गया स्तुतिः तद्वपुषा तत्स्वरूपेण वाच्पव्यङ्गययोः स्वरूपस्य भेदेऽपीत्यर्थः ॥

Page 302

पश्चम उल्लास:। २४३ पूर्वपश्चाद्ावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन च आश्रयस्य शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्र करणात् कार्यस्य गतोऽस्तमर्क इत्यादौ प्रदर्शितनयेन संख्याया: वाच्यव्यङ्गययोः कालभेदमाह पूर्वेति। वाच्यस्य व्यञ्जकत्वेन कारणत्वात् तस्य च पूर्ववर्तित्वात्पूर्व प्रतीते: व्यङ्गयस्य तु पश्चात्प्रतीतेर्वाच्यव्यङ्गययोः कालस्य भेदेऽपीत्यर्थः । व्याखयातं च प्रदीपोद्दयोतयोः "कालभेदस्तु सर्वत्र वाच्यप्रतीतेर्व्यङ्गयप्रतीतिकारणत्वात् पूर्व हि वाच्यः प्रतीयते पश्चातु व्यङ्गय इति" इति। अभिधाव्यञ्जनयोराश्रयभेदमाह शब्देत्यादि। वाच्यस्य शब्दाश्रितत्वाभावेऽपि वृत्तिप- रमिदम् । तथा च अर्थ शब्दयन्ति ज्ञापयन्तीति शब्दा वाचकाः तेऽभिधाया आश्रयाः । एकदेशाः प्रकृत्यादयः संघटना पदानां पौर्वापर्येण विन्यासः । इमे व्यञ्जनाया आश्रय इति चक्रवर्तिकमलाक- रभट्टादयः । परे तु "परंपरया वाच्यादेः शब्दाश्रितत्वसंभवाद्वाच्यव्यङ्गययोराश्रयभेदमाह शब्देत्यादि। वाच्यस्य शब्दाश्रयत्वेन व्यङ्गयस्य तु शब्द: पदम् तदेकदेशः प्रकृतिप्रत्ययादिः तदर्थः शब्दार्थः स च वाच्यो लक्ष्यो व्यङ्गयश्चेति त्रिविधोऽपि वर्णाः प्रसिद्धाः संघटना रचना तदाश्रयत्वेन च वाच्यव्यङ्गययोराश्रयस्य भेदेऽपत्यर्थः । व्याख्यातं च प्रदीपे 'वाच्यस्य शब्दमात्रमाश्रयः प्रती यमानस्य तु पदशब्दैकदेशभूतकाक्वादितदर्थवर्णसंघटना इत्याश्रयभेदः' इति" इत्याहुः । निमित्तमे- दमाह शब्दानुशासनेति। वाच्यस्य व्याकरणकोशादिशब्दानुशासनज्ञानेन तज्जन्यबोधकत्वज्ञान- मात्रेण अवगमः । व्यङ्गयस्य तु प्रकरणवक्त्रादिसहायं यत् प्रतिभायाः नैर्मल्यं दोषगुणविवेकस्तत्सहि- तेन तेन शब्दानुशासनज्ञानेन अधिकेन अवगम इति वाच्यव्यङ्गययोर्निमित्तस्य कारणस्य ज्ञापक. रूपस्य भेदेऽपीत्यर्थः । इदानीं कार्यभेदेनापि वाच्यव्यङ्गययोर्भेदमाह बोद्धमात्रेत्यादिना। बोद्धा ज्ञाता शाब्दज्ञानसामान्यवानित्यर्थः । मात्रशब्दाववधारणार्थकौ "मात्रं कात्स्न्येऽवधारणे" इत्यमरः । अवधारणं चात्रान्ययोगव्यवच्छेदरूपम्। विदग्धः सहृदयः । व्यपदेशनं व्यपदेशः । भावे घन् व्यव- हार इत्यर्थः । चमत्कृतिरास्वादः । वोद्धमात्रमिति विदग्ध इति च व्यपदेश इति तत्पुरुषः । तथा च वाच्येन बोद्धृमात्रव्यपदेशस्य केवलं बोद्धेति व्यवहारस्य व्यङ्गयेन तु विदग्धः सहृदय इति व्यप- देशस्य च करणादित्यर्थः । तथा वाच्येन प्रतीतिमात्रस्य केवलप्रतीतेः । अनेन चमत्कृतेर्व्युदासः । व्यङ्गयेन तु चमत्कृतेरपि (अर्थात्सहृदयस्य) करणात् उत्पादनात्कार्यस्य भेदेऽपीत्यर्थः । व्याख्या- तमिदं प्रदीपोद्दयोतयोः । "वाच्येन व्युत्पन्नमात्रस्य प्रतीतिमात्रम् अन्येन तु ( व्यङ्गयेन तु) विदग्ध- पदवाच्यस्य सहृदयस्य चमत्कृतिरिति कार्यभेदः" इति प्रदीपः । (कार्यभेद इति। वाच्यबोधेन बोद्ध- व्यपदेश: व्यङ्गयबोधेन विदग्धव्यपदेश इत्यपि कार्यभेदो द्रष्टव्यः) इत्युद्दयोतः। 'व्यपदेशयोः' इत्यत्र 'व्यपदेश्ययोः' इति पाठः क्वचित्कचिद्दृश्यते। तत्र बोद्धमात्रं च विदग्धव्यपदेश्यश्च तयोरिति द्वन्द्ूः। मात्रशब्द: साकल्यार्थकः । द्वितीयो मात्रशब्दोऽवधारणार्थकः । तथा ( वाच्येन) सकलबोद्धूणां प्रतीतिमात्रस्य शाब्दबोधात्मकप्रतीतेरेव करणात् (अनेन मात्रशब्देन चमत्कृतेर्व्युदासः) (व्यङ्गये- न तु) विदग्धव्यपदेश्यस्य विदग्धशब्दव्यवहार्यस्य (सहृदयस्य) प्रतीतिचमत्कृत्योरुभयोरपि कर- णात्कार्यभेदेऽपीत्यन्वयो बोध्धः । गतोऽस्तेति । 'गतोऽस्तमर्कः' इत्यत्र प्रदर्शितनयेन "वाच्यस्ता- १ शब्दैकदेशभूनकाक्कादीति। ध्वनिविकारस्य काकुत्वादिति भावः। आदिन। पदैकदेशप्ररुतिप्रत्ययादि॥

Page 303

२४४ काव्यप्रकाशः सटीकः। 150y1s" कस्स व णं होई रोसो दद्ठण पिआइ सव्वणं अहरं। गणान ्कष सभमरपडमग्घाइणि वरिअवामे सहसु एण्हिं"॥ १३५ ।। इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्ेकत्वम् तत् क्वचिदपि नीलपीतादौ भेदो न स्यात्। उक्तं हि "अयमेव हि भेदो भेदहेतुर्वा यद्विरूद्धधर्माध्यासः कारणभेदश्च" इति।

वदेक एव व्यङ्गयस्तु प्रकरणादिसहायतयानेकप्रकारः" इति (२४० पृष्ठे ) प्रदर्शितरीत्या संख्याया भेदेऽपात्यर्थ: ॥ विषयभेदमाह कस्स वेति। "कस्य वा न भवति रोषो दृष्ट्रा प्रियायाः सत्रणमधरम्। सभ्रमरपझाघ्रा- यिणि वारितवामे सहस्वेदानीम् ।।" इति संस्कृतम्। स्वकान्ताया उपपतिदष्टमधरं वीक्ष्य रुष्टे प्रोषिता- गते पत्यौ सख्या निरंपराधत्वबोधनाय तत्प्रतारणोक्तिरियम् । प्रियायाः स्वकान्तायाः सव्रणं व्रणसहि तम् अधरम् अधरोष्ठ दृष्टा कस्य वा पुरुषस्य रोषो न भवति अपि तु सर्वस्यापि रोषो भवतीति भावः । अधरदशनपर्यवसायि सभ्रमरपद्माघ्राणं तत्त्वेनाध्यवसितषिङ्गनिधुवनं च मा कृथा इति वारितेऽपि वामे विरुद्धाचरणात्प्रतिकूले त्वम् इदानीम् अविचारदशायां प्रतिनायिकासंनिधौ च सहस्व अनुभव रुष्प- तियन्त्रणमिति शेषः । गाथा छन्दः । लक्षणमुक्तं प्राक् (५ पृष्ठे) । अन्राविनीतत्वरूपवाच्यार्थस्य संबोध्या सखी प्रकृतनायिका विषयः । तत्र हि वाच्योऽर्थः श्रोत्रयाः संबोध्यनायिकायाः व्यवतिष्ठते। 'इयं भ्रमरेण दष्टाधरा न तु षिङ्गेन' इति व्यङ्गयस्य तु तत्कान्तो नायको विषयः । तदेवाह इत्यादौ सखीत्यादि। (वक्त्रयाः) सखी नायिका सैव कान्ता यस्य तत्कान्तो गृहपतिश्व नायकश्च तदादिगतत्वेन तदादिविषयकत्वनेत्यर्थः । अयं भावः । वाच्यस्य नायिका विषयः 'इयं भ्रमरेण दष्टाधरा न तूपपतिना' इति व्यङ्गयस्य नायको विषयः आदिपदात 'ममैवं वैदग्ध्यम्' इत्यस्य प्रतिवेशिनी विषयः 'इदं मया समाहितं पुनरेवं त्वया न विधेयम्' इत्य- स्योपपतिर्विषयः 'भ्रमरेणास्या अधरः खण्डितो न तु भ्त्रेति त्वयेर्ष्या न कार्या' इत्यस्य सपत्नी विषयः 'सरलतरेयं न किंचित्प्रपञ्चं जानाति' इत्यस्य साध्वी विषयः 'नान्यथा शङ्कनीया' इत्यस्य श्वश्रूः विषथः 'अनया बिना त्वत्पतिर्न जीवतीति विदिंतमेव तदस्मत्समन्विते भेदो न विधेयः' इत्यस्यो- पपतिभार्या विषय इत्यादिपरिग्रहः। इत्थं बहुगतत्वेन वाच्यव्यङ्गययोः विषयस्य च भेदेऽपि वैधम्ये सत्यपि यदि एकत्वम् वाच्यव्यङ्गययोः अभेदः स्यात् तत् तदा नीलपीिादौ गुणे तद्वति घटादौ च भेदो न स्यात्। इदं नैल्यमिदं पैत्यमिति इदं नीलमिदं पीतिमिति च भेदो न स्यात् वैधर्म्याविशे- षादित्यर्थः । एवं स्वरूपादिभेदादवश्यमङ्गीकर्तव्यो वाच्यव्यङ्गययोर्भेद इति महावाक्याभिप्रायः ॥ उक्तेऽर्थे वृद्धसंमतिमाह उक्तं हीत्यादि। अयमेवेति। भेदोऽन्योन्याभावः। विरुद्धस्य तदवृत्ते- र्धर्मस्याध्यासो ज्ञानं भेदः। इदं ज्ञातवैधर्म्यस्यान्योन्याभावत्ववादिमतेनोक्तम्। कारणभेदो भेदहेतुर- न्योन्याभावज्ञापक इति क्रमेण योजनेति कमलाकरभट्टः। एबमेब चक्रवर्तिभट्टाचार्योडप्याहेति बोध्यम्। विरुद्धधर्मस्याध्यास आश्रयत्वं यदयमेव भेदो न ततोऽन्य इति प्राचीनानां के्षांचिन्मतम्। यदिति १ पूर्व प्रोषितः विदेशगतः पश्रदागतः प्रीषितागत इत्यर्थः ॥ २ शेजारिणीति महाराष्ट्रभाषायां पडोशीति गुर्जर- भाषायां च प्रसिद्धा।।

Page 304

पश्चम उल्लास:। २४५

वाचकानामर्थापेक्षा व्यञ्ञकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम्। किं च वाणीरकुडंग्वित्यादौ प्रतयिमानमर्थमभिव्यज्य वाच्यं स्वरूपे एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्गयेऽतात्पर्यभूतोऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति। फगर करिा

सामान्ये नपुंसकम्। अयमेवेति विधेयाभिप्रायं पुंस्त्वम्। "सा वैश्वदेवी" इतिवत्। तथा कारणभेदो भेदस्य विरुद्धधर्मरूपस्य हेतुरिति प्रभाकृत्। ज्ञातवैधम्यमेवान्योन्याभाव इति मतेनेदम्। कारणभेदश्च विरुद्धधर्मरूपभेदस्य हेतुरिति भाव इत्युद्द्योतकारः । अयमेव घटपटयोर्भेदः जलाहरणशीतत्राणादि- विरुद्धधर्माध्यासः अयमेव भेदहेतुः यत्कारणभेदश्चेत्यर्थ इति सरस्वतीतीर्थः ॥ न केवलं वाच्यव्यङ्ग्ययोरेव वैधम्य किं तु वाचकव्यञ्जकयोरपीत्याह वाचकानामित्यादि। गृही- तसंकेतं सन्तमेवार्थ वाचका बोधयन्तीति तेषामर्थापेक्षा व्यञ्जकास्तु असदेव पावनत्वादिकं तटे बोधय- न्तीति तेषां नार्थापेक्षेत्यर्थः। व्याख्यातं च प्रदीपे "किं च वाचकव्यञ्जकयोरपि वैध्म्या्द्ेदो वक्तव्यः। यतो वाचकस्य संकेतितार्थापेक्षा। संकेतिते (गृहीतसंकेते) एव हयर्थेऽभिधा वर्तते। न त्वेवं व्यञ्जकः । अन्यत्रापि (अगृहीतसंकेतेऽपि) व्यञ्जनया प्रत्ययजननात्" इति। कमलाकरभट्टास्तु "अर्थः संकेत- विषयः। संकेतितमेव वाचका बोधयन्ति। व्यञ्जकस्तु न तथा अर्थस्यापि व्यञ्जकत्वात्। नहि अर्थोऽ- प्यर्थे संकेतितः" इत्याहुः। "व्यञ्जकानां त्विति। निरर्थकवर्णानामपि व्यञ्जकत्वाङ्गीकारादिति भाव:" इति नरसिंहठक्कुराः। यच्चोक्तं (२२५ पृष्ठे) 'यत्परः शब्दः स शब्दार्थः' इति तदितोऽप्य- नुपपन्नमित्याह किंच वाणीरेत्यादि। यद्वा। 'सोऽयमिषोरिव' इत्यादिना 'यत्परः शब्दः स शब्दार्थः' इत्यादिना चोक्तं मतद्यं सिंहावलोकनन्यायेन पुनराक्षिपति किं च वाणीरेत्यादि । इत्यादाविति। अत्रैवोल्लासे (२११ पृष्ठे) उक्ते इत्यर्थः। प्रतीयमानं व्यङ्गयम्। 'सदिन्त्यङ्गानि' इत्यादौ 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति व्यङ्गयमिति भावः। अभिव्यज्य बोधयित्वा। वाच्यम् अङ्गावसादरूपम्। स्वरूपे एव स्वस्मिन्नेव। विश्राम्यति व्यङ्गयमनपेक्ष्यैव विप्रलम्भं पोषयति। यद्वा चारुत्वेन तात्पर्य- विषयीभवत् आस्वादयं भवति। तत्र तस्मिन्। गुणीभूतव्यङ्गये असुन्दराख्ये। संकेतभङ्गश्चमत्कारा प्रत्यासन्नतया अप्रधानत्वेन विधेयताविरहेणातात्पर्यविषयत्वादनभिधेयः 'विधेयस्यैवाभिधयत्वम्' इत्युक्तत्वादित्यभिप्रत्याह अतात्पर्येत्यादि । अतात्पर्यभूतः तात्पर्याविषयः। अर्थः व्यङ्गयरूपः । स्वशब्देत्यादि। स्वपदेन व्यङ्गयाभिधानम् तस्य शब्दस्तद्वोधकस्तस्यानभिधेय इत्यर्थः । विधेयस्यै- वाभिधेयत्वमित्युक्तत्वादिति भावः । प्रमाणमुत्थापयति प्रतीतिपथमिति । प्रतीतिरेव तत्र प्रमाण मित्यर्थः । कस्य व्यापारस्येति। व्यञ्जकव्यापारं विनेति शेषः। स्पष्टमिदं सर्व सारबोधिन्यादाविति बोध्यम्। अयं भावः । यत्र गुणीभूतव्यङ्गये वाच्यस्य प्राधान्येन तात्पर्यविषयत्वम् तत्र व्यङ्गयार्थे अभि- धातात्पर्यवृत्योरुभयोरप्यभावेन कथमस्योपस्थितिरिति तदर्थमवश्यं व्यञ्जनापि स्वीकार्येतीति विव- रणेऽपि स्पष्टम्। इतिशब्दः वाच्यव्यङ्गययोर्वाचकव्यञ्जकयोश्च विभागस्य परिसमाप्तिं द्योतयति॥! व्याख्यातमेतत्प्रतीपोद्द्योतयोरपि। "यच्चोक्तं तात्पर्यविषये (अर्थे) शब्दः प्रमाणमिति तदितोऽप्य- नुपपन्नम्। यतो व्यङ्गयस्य वाच्यताभ्युपगमेऽपि नानार्थन्यायेन तात्पर्यादेव नियमो वाच्यः। अन्यथा सर्वत्र सर्वव्यङ्गयप्रतीतिप्रसङ्गात्। तथा च यत्र वाणीरकुडंगुड्डीनेत्यादौ व्यङ्गयप्रतीतावपि वाच्ये एव चारुत्व १ "तप्ते पयसि दुध्यानयति सा वैश्वदेव्यामिक्षा वाजिम्यो वाजिम्यो वाजिनम् " इति श्रुति: ॥

Page 305

२४६ काव्यप्रकाश: सटीक:।

ननु 'रामोऽस्मि सर्व सहे' इति 'रामेण प्रियजीवितेन तु कृतं प्रेम्ण: प्रिये नोचितम्' इति 'रामोऽस्मि भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्य- पेक्षश्रेति कोडयं नूतनः प्रतीयमानो नाम। विश्रामस्तत्र तात्पर्याविषयो व्यङ्गयोऽर्यः कथं प्रतीयेत । यत्परः शब्दः इत्युक्तमते तु सुतराम्। एतेन तात्पर्यमेव व्यङ्ग्यप्रतीतौ व्यापार इत्यपि निरस्तम् । तस्मात्तात्पर्यमभिधा वा न प्रतीयमानेऽर्ये व्यापारः" इति प्रदीपः । ( चारुत्वविश्राम इति। व्यङ्गयमनपेक्ष्यैव विप्रलम्भपोषकत्वादिति भावः । तात्पर्या- विषय इति। वाच्यस्यैव प्राधान्येन तात्पर्यविषयत्वादिति भावः । सुतरामिति। तात्पर्यविषयस्यै- वाभिधेयत्वेन तद्यङ्गयस्य शब्दानभिधेयत्वापत्तिरिति भावः । तस्मादिति। क्वचित्सहायत्वं तु तात्पर्यस्य न वार्यते। ननु वक्त्रादयौचित्यसहकारेणाभिैव तत्तदर्थोपस्थापिका अस्तु इति चेन्न । अभिधायां तत्सहकारकल्पनस्याक्लृप्तत्वात्। कि चैवमेकशक्यार्थबाधसहकारेणाभिघात एव लक्ष्यत्वाभिमतार्थस्या- प्युपस्थितिसंमवेन लक्षणया अप्युच्छेदापत्तिरिति दिक्) इत्युद्दयोतः ॥। ननु व्यङ्गयेषु नानात्वम् अर्थान्तरसंक्रमितवाच्यध्वनित्वादिविशेषव्यपदेशविषयत्वम् शब्दार्थाधी नत्वम् (शब्दार्थान्वथव्यतिरेकानुविधायिकत्वम्) प्रकरणादिसव्यपेक्षत्वम् (प्रकरणादिसापेक्षत्वम्) इति धर्मा दृश्यन्ते ते च लक्ष्येष्वपीति व्यङ्गयाः लक्ष्या एव तथा च व्यङ्गयस्य लक्षणागम्यत्वमेवेति शङ्कते नन्वित्यादिना नाम इत्यन्तेन। रामोऽस्मि सर्व सहे इति। इदं पदं चतुर्थोल्लासे मूले एव (१८८ पृष्ठे) स्पष्टम् । रामेणेति। अत्र "प्रत्याख्यानरुचेः कृतं समुचितं क्रूरेण ते रक्षसा सोढं तच्च तथा त्वया कुलजनो धत्ते यथोचैः शिरः। व्यर्थ संप्रति बि्रता धनुरिदं तद्वयापदां साक्षिणा" इति पूर्व चरणत्रयम्। भावनोपनीतां सीतां प्रति रामस्योक्तिरियम्। हे प्रिये जानाकि प्रत्याख्याने 'त्वं मां मा अपाहार्षी:' इत्येवंरुपे निराकरणे रुचिर्यस्याः तत्पराया इत्यर्थः ते तव क्रूरेण रक्षका रावणेन समुचितं स्वकरौर्ययोग्यं कर्म कृतं तच्च त्वया तथा सोढं सहनविषयीकृतम् यथा कुलजनः कुलजो जनः (मल्लक्षणः) उच्चैः उन्नतं शिरो धत्ते ल्लाघनीयत्वात् अन्यथा लाञ्छनेन नम्रीभावापत्तेः । रामेण तु मया प्रेम्णः स्नेहस्य उचितं योग्यं न कृतम्। किंभूतेन। प्रियं जीवितं जीवनं यस्य तथाभूतेन । पुनः कीदृशेन। संप्रति अस्यां दशायामपि व्यर्थ (त्वादृशप्रियासंरक्षकत्वात्) निरर्थकम् इदं धनुः बिभ्रता धारयता प्रती कारासमर्थत्वादिति भावः । तथा त्वद्वयापदां तव विपत्तीनां साक्षिणा द्रष्टरा स्नेहातिशयेन तन्मयीभावा- दिति भावः। रामोऽसौ सुवनेष्विति। इदमपि पद्यं चतुर्थे मूले एव ( १८२ पृष्ठे) स्पष्टम्। नानात्वमिति । रामोऽस्मीत्यत्र सकलदुःखपात्रत्वेन रामेणेत्यत्र निष्करणत्वेन रामोSसावित्यत्र खर- दूषणादिनिहन्तृत्वेन प्रतीतेर्नानात्वं (अनेकविधत्वम्) इत्यर्थः । विशेषेति। विशेषव्यपदेशा अर्थान्तरसंक्रमितवाच्यादयो लक्षणास्तद्वेतुस्तद्विषय इत्यर्थः । तद्वगमः तस्य लक्ष्यस्यवगमो बोधः । शब्दार्थायत्त इति । लक्षणया शब्देन प्रतिपाद्यत्वाच्छब्दायत्तः शब्दाधीनः । मुख्यार्थबाधज्ञाने मुख्यार्थज्ञानस्यावश्यकतया अर्थायत्त इत्यर्थः । प्रकरणादीति। आदिपदेन वक्त्रादिवैशिष्ट्यपरिग्रहः । तातर्यग्राहकत्वेन प्रकरणादेरपेक्षणीयत्वात् तात्पर्यानुपपत्तेरेव लक्षणाबीजत्वादिति भावः। तस्माल्लक्ष्ये वैधर्म्यानाश्रयत्वेन लक्ष्यतो न व्यङ्गयभेद इत्याह कोऽयमित्यादि। अतिरिक्त इति शेषः। प्रतीयमान इति। व्यङ्गय इत्यर्थ इति सारबोधिन्यादौ स्पष्टम्। व्याख्यातमेतदुद्योतेSपि। तथाहि। लक्षणीयार्थवि-

Page 306

पञ्चम उल्लास:। २४७

उच्यते। लक्षणीयस्यार्थस्य नानात्वेऽपि अनेकार्थशब्दाभिधेयवन्नियतत्वमेव न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते। प्रतीयमानस्तु प्रकरणादिविशेषवशेन निय- तसंबन्धः अनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते। न च "अत्ता एत्थ णिमज्इ एत्थ अहं दिअहए पलोएहि। मा पहिअ रत्तिअन्धअ सेजाए मह णिमज्राहिसि ॥ १३६॥" इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधा। तत्कथमत्र लक्षणा। लक्षणा- यामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम्। शेषावगमश्च लक्षणया शब्देन प्रतिपाद्यमानत्वाच्छव्दायत्तः मुख्यार्थबाधतत्संबन्धज्ञानसापेक्षत्वेन शक्यार्थायत्तश्च तात्पर्यानुपपत्तेर्लक्षणाबीजत्वात्तात्पर्यज्ञानसापेक्षश्वेति तद्ग्राहकप्रकरणादिप्रतिभानै- र्मल्यादिसापेक्षश्वेति प्रागुक्तवैधर्म्याभावात्किमतिरिक्तव्यङ्गयस्वकिारेणेति भाव इति ॥ अयमत्र पूर्वपक्षिणोडभिप्रायः। व्यङ्गयस्येव लक्ष्यस्यानियतत्वम् तच्चोद्धतोदाहरणत्रये स्पष्टम् तत्र हि यथाक्रमं दुःखसहिष्णुत्वेन प्रसिद्धे निष्करुणे खरदूषणादिहन्तरि चार्ये एकस्यैव रामपदस्य लक्षणा। तथा (असंलक्ष्यक्रमत्वादिनेवार्थान्तरसंक्रमितवाच्यत्वादिना) काव्यसंबन्धिविशेषव्यवहार- हेतुत्वम् प्रकरणाद्यधीनशब्दजन्यप्रतीतिविषयत्वं चास्तीति उभयत्नापि (व्यङ्गये लक्ष्ये च) लक्षणैब व्यापारोऽस्तु इतीति विवरणादावपि स्पष्टम् ।। सिद्धान्तयति उच्यते इति। अनेकार्थशब्दाभिधेयवदिति। भद्रात्मनः (६८ पृष्ठे) इत्या- दिवदित्यर्थः । यद्वा नानार्थकसैन्धवादिपदाभिधेयस्येवेत्थर्थः । नियतत्वं नियतसंबन्धत्वम्। 'एक- स्मिन् वाक्ये' इति शेषः । व्यङ्गयस्य तु एकस्मिन्नेव वाक्ये 'गतोऽस्तमर्कः' इत्यादावनियतत्वमुदा- हतम् (२४० पृष्ठे )। ननु लक्षणा अप्यनियते कुतो न स्यादत आह न खल्विति । अनियत- संबन्ध इति। अनियत: सामीप्यसादृश्यादि प्रसिद्धसंबन्धादन्यः कादाचित्को वा संबन्धो यस्य ताद- शोऽर्थ इत्यर्थः । न हि यदा कदाचित् गङ्गामनुसरन्ती गौरनुसरणसंबन्धेन गङ्गापदलक्ष्या भवति सामीव्यादिरूपनियतसंबन्धिन्येव लक्षणासत्वादिति भावः। प्रतीयमानो व्यङ्गयः। नन्वनियत- संबन्धस्य व्यङ्गयत्वेऽतिप्रसङ्ग: स्यादत आह प्रकरणादिविशेषवशेनेति। नियतसंबन्ध इति। बहुव्रीहिः। एवमग्रेऽपि। संबद्धसंबन्ध इति। संबन्धपरंपराश्रयत्वेन प्रतीतिपरंपराविषय इत्यर्थः । नियत संबन्धादीनामुदाहरणानि तु मूलकृतैवाग्रे (२५० पृष्ठे ) स्फुटीक्रियन्ते ॥ मुख्यार्थबाधाभावादपि न लक्षणेत्याह आह न चेति। यद्वा। नन्वेवं लक्ष्योऽपि नियतानियतसंब- न्धोऽस्तु प्रकरणादित एवानतिप्रसङ्गादत आह न चेति। न चेत्यस्य 'मुख्यार्थबाधः' इत्यनेना- न्वयः । अत्ता एत्थेति । प्राकृतमिदं गाथासप्तशत्यामित्युक्तं व्याख्यातं च तृतीयोल्लासे (८० पृष्ठे)। न च मुख्यार्थबाध इति। न च मुख्यार्थान्वयानुपपत्तिरित्यर्थः । अत्र 'अत्ता एत्थ' इत्यत्र। ननु लक्षणायां न मुख्यार्थबाधो बीजं कि तु तात्पर्यानुपपत्तिरेव सा च प्रकृते ('अत्ता एत्थ' इत्यत्र) अस्त्येवेति न दोष इत्यरुचेर्दोषान्तरमाह लक्षणायामपीति। प्रतिपादितमिति। द्वितयिोल्लासे (५८ पृष्ठे) 'यस्य प्रतीतिमाधातुम्' इत्यादिना प्रघट्टकेनेत्यर्थः । अत्राह्ुः कमलाकर-

Page 307

२४८ काव्यप्रकाश: सटीक:। 2 यथा च समयसव्यपेक्षा अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा अत एवाभिधापुच्छभूता सेत्याहुः। भट्टा अपि "पावनत्वादिप्रतातेरावश्यकत्वात्तत्र च वृत्त्यन्तराभावादवश्यं व्यञ्जना अङ्गीकार्या। न च तत्रापि लक्षणा। सा हि न निरूढा प्रसिद्धयभावात् न च प्रयोजनवती प्रयोजनस्य विषयत्वाभावा- दित्युक्तं द्वितीयोल्लासे। कि च व्यङ्गथे लक्षणा न पदवृत्ति: वाच्यस्यापि व्यञ्जकत्वात् पदैकदेशवर्णादौ तत्वाच्च। न च वाक्ये पदत्वं तदेकदेशादौ सत्तवात्। न च शब्दवृत्तिः। अर्थस्यापि व्यञ्ञकत्वा- दित्यादिवैधम्यैर्मुख्यार्थबाधाभावेऽपि तात्पर्यज्ञानं विनापि वक्तृबोद्धव्यादिसहकारेण या अन्यार्थधीः सा व्यञ्जनां साधयति" इति ॥ ननु 'कर्मणि कुशलः' इत्यादिनिरूढलक्षणायामिवान्यत्राप्यस्तु प्रयोजनानपेक्षेत्यत आह यथा चेति। समयः संकेतः। मुख्यार्थबाधादीति। आदिपदेन तद्योगप्रयोजनयोरग्रहणम्। तदेवाह त्रयेति। समयविशेषेति। मुख्यार्थबाधादिना विशेषणाद्विशेषः। न चैवम् व्यञ्जनायाम् सामान्य विशेषसंकेतरहितस्यापि बोधनात्। अयं फलितोऽर्थः । यथा हि संकेतग्रहसापेक्षा अभिधा तथा मुख्यार्थबाधतद्योगरूढिप्रयोजनान्यतरस्य मुख्यार्थसकेतग्रहस्य च सापेक्षा लक्षणा तत्कथ रूढेः प्रयोजनस्य वा अभावे सा भवेदिति। अत एवेति। यतो लक्षणा संकेतग्रहसापेक्षा अत एवेत्यर्थः । अभिधापुच्छभूतेति। अभिधापृष्ठलग्नेत्यर्थः । शक्यसंबन्धस्य लक्षणात्वेन तन्निरूप्येति भावः। सा लक्षणा। एवं च मुख्यार्थबाधादिसापेक्षत्वरूपाद्वैधर्म्याद्यथा अभिधातो लक्षणाया भेदः तथा मुख्यार्थ- बाधाद्यनपेक्षत्वरूपवैधर्म्याल्लक्षणातो व्यञ्जनाया भेद इति बोध्यम्। इद पदमेतदर्थस्य न वाचकं न लाक्षणिकं किं तु व्यञ्जकमिति प्रामाणिकव्यवहाराद्यञ्जनासिद्धिरित्युद्दयोते स्पष्टम्। कि च व्यञ्जक- वाक्यस्य वाक्यान्तराद्वैलक्षण्यं प्रतीयते तत्र चाभिधादितोरऽर्थोपस्थितौ यावती सामग्री तावती न व्यङ्गयोपस्थिताविति स्थिते: सहकारिविशेषे कल्पनीयेडभिधाया एव तत् कल्प्यते चेत्तदा स्वभाव- भङ्ग इत्यगत्या वृत्त्यन्तरं कल्प्यते। अन्यथा मुख्यार्थबाधादिसहकारेणाभिधयैव लक्ष्यार्थोपस्थिति- संभवे लक्षणा अपि वृत्त्यन्तरं न सिद्धयेदिति सारबोधिन्यादौ स्पष्टम् ।। बृहदुद्दयोते तु ननु 'यष्टीः प्रवेशय' इत्याद्यनुरोधात्तात्पर्यविषयार्थान्वयानुपपत्तिरेव तद्वीजम् लक्षणा- बजित्वं च लक्षणाजन्यशाब्दबोधे लक्षणया जननीये सहकारित्वम्। एवं च लाघवात्तात्पर्यानुपपत्तिरेव तद्वीजमस्तु तात्पर्यानुपपत्तिश्चानुपपद्यमानतात्पर्यम् तज्ज्ञानं च लक्ष्यार्थबोवे इव व्यङ्गयार्थबोधेऽप्यवश्यं कारणं वाच्यम् अत एव 'गङ्गायां घोष' इत्यत्र शैत्यपावनत्वस्यैव प्रतीतिः न केशवालुकादिमत्त्वस्येति संगच्छते। अत एव चाननुगतानां प्रकरणादीनां व्यङ्गयबोधे सहकारिः्वमुपपद्यते तात्पर्याग्राह कत्वेनानु- गमात्। वस्तुतस्तात्पर्यग्रह एव व्यङ्गयबोधे सहकारी तानि तु तात्पर्यनिर्णायकान्येव। एवं च लक्ष्य एव व्यङ्गयार्थोडस्तु 'गच्छ गच्छसि' इत्यादौ तात्पर्यानुपपत्तिसत्वात् 'वाणीरकुडंगु' इत्यादौ (२११ पृष्ठे) अचारोरपि व्यङ्गयस्य कवितात्पर्यविषयत्वे क्षत्यभावात्। न च व्यङ्गयस्य लक्ष्यत्वे न रूढिर्न प्रयोजन- मिति वाच्यम् लक्ष्यप्रतीतेरेव प्रयोजनवत्वात्। लक्षणा हि प्रयोजनेन नियता न तु लक्ष्यप्रतीत्यतिरिक्त- प्रयोजनेन गौरवादप्रयोजकत्वाच्च। पदतदेकदेशादीनामर्थविशेषतात्पर्यग्राहकत्वं न तु प्रतिपाद- कत्वमिति नाश्रयभेदादपि भेद इति चेत्। अत्राहुः। पदमेतदर्थस्य न वाचक न लाक्षणिकं १ मुख्यार्थसंकेतग्रहस्य चेति। मुख्यार्थबाधादिप्रतिसंधानद्वूरैव चास्योपयोग इति बोध्यम् ॥ २ "गच्छ गच्छासी चेत्कान्त पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्ैव भूयाद्यत्र गतो भवान् । " इत्यत्र ।

Page 308

पश्चम उल्लास:। २४९

न च लक्षणात्मकमेव ध्वननम् तदनुगमेन तस्य दर्शनात्। न चतदनुगतमेव अभिधाव- लम्बनेनापि तस्य भावात्। न चोभयानुसार्येव अवाचकवर्णानुसारेणापि तस्य दृष्टे: न च शब्दानुसार्येव अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेरिति अभि- धातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्तीं ध्वननादिपर्यायो व्यापारोऽनपह्ववनीय एव । किं तु व्यञ्जकमिति प्रामाणिकव्यवहारादेव व्यञ्जनासिद्धिः । अन्यथैकया अभिधयैव सिद्धे लक्षणा अप्युच्छिधेत। किं चानेकविधशक्यसंबन्धानां प्रयोजकत्वमपेक्ष्यैकस्या व्यञ्जनाया एव तत्त्वमुचितिम्। तेषां त्त्वं सिद्धमिति चेत तन्दतःपातिनामेव प्रयोजनान्तरादनियतानां चमत्कारिप्रतीतिजनकानां व्यञ्जनासंज्ञा अस्तु। लक्षणा च रूठ्यतिरिक्ता लक्ष्यप्रतीव्यतिरिक्तप्रयोजननियतैव। अन्यथा लक्ष्यप्र- तीतिरूपप्रयोजनस्य सर्वत्र सत्त्वेन दुष्टलक्षणोच्छिदयेत। वस्तुतस्तु संबन्धज्ञानाभावेऽपि व्यङ्गयार्थबोधद- र्शनेनातिरिक्तैव सा। सा च स्वरूपसत्येव हेतुः। वक्त्रादयौचित्यज्ञानसहकाराच् नातिप्रसङ्गः । अभिधा- लक्षणे तु ज्ञाते एवेति वैषम्यम् । किं च वक्तृतात्पर्याविषयकव्याञ्जनिकबोधस्तु दृश्यत एव । वस्तुतरतु प्रसिद्धार्थविषयबोधकत्वविशेषः शक्तिः मुख्यार्थबाधादिसापेक्षा प्रसिद्धार्थविषयकबोधकत्वविशेषो लक्षणा तन्निरपेक्षप्रसिद्धाप्रसिद्धार्थविषयः शब्दतदर्थतदेकदेशकटाक्षादिनिष्ठो बोधकत्वविशेषो व्यञ्जने- त्यस्मत्कृतवैयाकरणसिद्धान्तमञ्जूषायां विस्तरः" इति व्याख्यातम्। एवमेव सुधासागरेऽपि शब्दान्तरै- व्याख्यातमित्यलम् ।। लक्षणाव्यञ्जनयोर्भेदकान्तरमाह न चेति। न लक्षणाव्यञ्जनयोरमेद इत्यर्थः । तत्र हेतुमाह तदनुग- मेनेति। लक्षणोपजीवनेनेत्यर्थः । (लक्षणामूलव्यञ्जनास्थले) लक्षणापश्चाद्गावेनेति यावत्। तस्य ध्वन- नस्य (व्यञ्जनायाः)। एवं सर्वत्र। दर्शनादिति। व्याख्यातं च प्रदीपे "लक्षणामुपजीव्य तव्यापारात्" इति। लक्ष्यार्थ प्रत्याय्य विरतायां लक्षणायां व्यञ्जनाप्रवृत्तेरिति तदर्थः । तथा च निमित्तप्रयोजनयोरमे- दासंभव इति भावः। ध्वननस्य लक्षणातुगमोऽपि क्वचिन्नास्तीति तयोः सुतरां भेद इत्याह न चेति। नापात्यर्थः । एवं सर्वत्र। तदनुगतमेव लक्षणानुगतमेव। अभिधेति। नानार्थकशब्दव्यञ्जना स्थले भद्रात्मन इत्यादौ (६८ पृष्ठे) अभिधावलम्बनेन अभिधोपजीवनेनापीत्यर्थः । भावात् विद्य- मानतवात्। अस्तु तर्हि ध्वननं लक्षणाभिधोभयानुगतमेवेत्यत आह न चोभयेति । अवाचकेति। अवाचकानां "मूर्ि वर्गान्त्यगाः स्पर्शा:" इत्यादिना अष्टमोल्लासे वक्ष्यमाणानां कोमलपरुषादिवर्णा नामपि गुणव्यञ्जनद्वारा रसादिव्यञ्जकत्वस्य दर्शनान्न ध्वननमुभयानुगतमेत्रेत्यर्थः । दृष्टेः दर्शनात्। व्याख्यातं च प्रदीपे "न च लक्षणाभिधोभयानुसार्येव। वर्णमात्राजुसारेणापि हि दृश्यते (गुणव्यञ्ज- नद्ारा) रसादिदिव्यञ्जना। न च वर्णमात्रे अभिधा लक्षणा वा "इति। अस्तु तर्हि शब्दानुसारेण ध्वननं तत्राह न च शब्देति। अशब्दात्मकेति। अशब्दात्मकं यत् नेत्रस्य विकसन्नर्तकीनेत्रस्य त्रिभागेन कदाक्षेण अवलोकनम् आदिपदादभिनयादि तद्रतत्वेनापीत्यर्थः । प्रसिद्धेरिति। अनया (नर्तक्या) कटाक्षेणाभिलाषो व्यञ्जित इति सर्वसाधारणप्रसिद्धेरित्यर्थः। व्याख्यातं च सुधासागरकारैः "इदं त्ववधेयम्। अनया कटाक्षेणाभिलाषो व्यञ्जित इति सर्वसाधारणप्रसिद्धेः कटाक्षादेरभिलाषोपस्था- पकत्वं व्यञ्जनयैव । परंतु तत्र शब्दसंबन्धासंभवे मानसो बोध इति"इति। व्यञ्जनस्याभिधादिव्यति- १ त्रिभागशब्दस्य कटाक्षवाचकत्वं प्रसिद्धमेव यथा 'मय्यासक्तश्र्कितहरणीहारिनेत्रत्रिभागः' इति॥ काव्यप्रकाश ३२

Page 309

२५० काव्यप्रकाशः सटीकः । - तत्र "अत्ता एत्थ" इत्यादौ नियतसंबन्धः "कस्स व ण होइ रोसो" इत्यादौ अनि- यतसंबन्धः। "चिपरीअरए लच्छी बम्हं दद्ण णाहिकमलदं। हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ। १३७॥"

रेक(भेद)साधनमुपसंहरति इतीत्यादि। इति तस्मात्। अभिधेति। शब्दस्य मुख्यो व्यापारोडभिधा वाक्यस्य तदर्थ व्यापारस्तात्पर्यम् शब्दस्य लक्ष्यार्थविषयको व्यापारो लक्षणा तदात्मकं तद्रूपं यत् व्यापारत्नयं तदैतिवर्ती तद्यतिरिक्तश्चतुर्थो ध्वननव्यञ्जनद्योतनप्रकाशनप्रत्यायनबोधनाञ्जनादि: पर्यायो यस्य तादृशो व्यापारोडङ्गीकर्तव्य इत्यर्थः। तदेवाह अनपह्ववनीय एवेति। मात्सर्यमात्रान्नापलपनीय इत्यर्थः । तत्र नाभिधा संकेताभावात् । नापि तात्पर्यम् अन्वयप्रतीतावेव क्षीणशक्तिकत्वात्। नापि लक्षणा स्खलद्गतित्वाभावादिति दिक्॥ 'प्रतीयमानोऽर्थस्तु नियतसंबन्धोऽनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते' इत्युक्तं प्राक् (२४७ पृष्ठे) तत् यथाक्रमं सिंहावलोकनन्यायेनोदाहरति तत्रेत्यादि । तत्र नियतसंबन्धादिषु मध्ये। एत्थे- त्यादाविति । पूर्वम् (२४७ पृष्ठे) उक्ते इत्यर्थः । नियतसंबन्ध इति। व्यङ्गयोऽर्थ इति शेषः । एवमग्रेडपि। शय्याप्रवेशरूपे व्यङ्गये तदप्रवेशरूपस्य वाच्यस्य विरोधसंबन्धोऽस्ति । स च प्रसिद्धतया- क्लप्त इति नियतत्वम्। रोसो इत्यादाविति । पूर्वम् (२४४ पृष्ठे) उक्ते इत्यर्थः । अनियतसंबन्ध इति। नायकेनावगते 'भ्रमरेणास्या आस्यं दष्ट न तूपपतिना' इतिव्यङ्गयार्थेSविनीतत्वरूपवाच्यार्थस्य न कोडपि प्रसिद्धसंबन्धोऽस्तीति कोऽपि कल्पनीय इत्यनियतत्वमिति विवरणे स्पष्टम्।। "तत्र 'अत्ता एत्थ णिमज्जइ' इत्यादौ व्यङ्गयोऽर्थों नियतसंबन्धः 'कस्स व ण होइ रोसो' इत्यादा- वनियतसंबन्धः । नियतसंबन्धत्वं च वाच्यव्यङ्गयप्रतीत्योरेकविषयतात्मकत्वम् । प्रथमे तस्य भावः । पथिकरूपैकविषयत्वात्। द्वितीये तु तदभावः। सखीतत्कान्तादि विषयभेदादिति के चित् । ा तन्र स्यग - भाति। लक्ष्यस्य नियतसंबन्धत्वमेव व्यङ्गयस्य तु तथात्वमन्यथात्वं वेति पूर्वप्रतिपादितस्य हीिमुदाहर- णमिति लक्ष्यसाधारणं नियतसंबन्धत्वं वाच्यम्। न चोक्तं तथा भवति। अन्ये तु प्रथमे सर्वेषामेव सत्यताप्रतीतिः द्वितीये तु कान्तस्यैव सत्यतया अन्येषां त्वसत्यतयेति नियतानियतसंबन्धत्वमित्याहः । तदपि न मनोरमम् । यतः एवं वाच्यप्रतीतेरव सत्यत्वासत्यत्वप्रतीतिविषयत्वरूपं वैलक्षण्यमात्रमुच्यते न तु व्यङ्गयप्रतीतेः। तस्मान्नियतसंबन्धत्वं तेन वाक्येन सह ज्ञाप्यत्वरूपसंबन्धनियम इति युक्तमुत्प- श्याम:" इति प्रदीपः । (एकविषयतेति। एकोद्देश्यकत्वमित्यर्थः । न चोक्तमिति। लक्ष्यप्रतीति- स्थले वाच्यस्य (बाधात्) अप्रतीतेरिति मावः । यत एवमिति । पूर्वोक्तप्रकारेणेत्यर्थः । नियम- इतीति। तच्च 'अत्ता एत्थ' इत्यादौ व्यङ्गयार्थस्यैकत्वादक्षतम् 'कस्स व ण' इत्यादौ न तथा व्यङ्गयस्या- नेकत्वाद्वोद्धृभेदाच्चेति भावः) इत्युद्दयोतः । (एकविषयतेति। एकसंबन्धित्वप्रकारकेच्छाविषयत्वमि- त्यर्थः । तेन वाक्येनेति। तद्वाक्यजन्यज्ञानविषयत्वनियम इत्यर्थः । अत्ता एत्थेत्यादौ व्यङ्गयं नियम- तस्तद्वोध्यम् । अन्यस्याप्रतीतेः। कस्स व णेत्यादौ तु सर्वेषामेकव्यङ्गयाप्रततिर्न तथा नियम इति मावः) इति प्रभा अपि।। विपरीति। "विपरीतरते लक्ष्मीर्बह्माणं दृष्ट्रा नाभिकमलस्थम्। हरेर्दक्षिणनयनं रसाकुला झटिति १ अतिक्रम्य वर्तते इत्यतिवर्ती ॥ २ समानन प्रकारेणैकार्थोपस्थापकोडनेकः शब्द: पर्यायः ॥

Page 310

पश्चम उल्लासः। २५१ इत्यादौ संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते तान्नि- मीलनेन सूर्यास्तमयः तेन पद्मस्य संकोचः ततो ब्रह्मणः स्थगनम् तत्र सति गोप्या- ङस्यादर्शनेन अनिर्यन्त्रणं निधुवनविलसितमिति। 'अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः वाक्यमेव च वाचकम्' इति येऽप्याहुः तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्गय एव। स्थगयति ।। " इति संस्कृतम् । विपरीतरते विपरीतरतिकाले यद्वा विपरीतरतौ प्रसक्ता लक्ष्मीः कमला नाभिकमलस्थं हरेर्नाभिकमले विद्यमानं ब्रह्माणं चतुर्मुखं दृष्ट्रा (लज्जमाना ) रसेन सुरता- वेशेनाकुला सुरतान्निवर्तितुमक्षमा हरेर्विष्णोः दक्षिणनयनं स्थगयति आच्छादयतीति वाच्योऽर्थः । गाथा छन्दः । लक्षणमुक्त प्राक् (५ पृष्ठे) । संबद्धसंबन्ध इत्रि। व्यङ्गयोऽर्थः निर्वाह्यनिर्वाहकतया संतानीभूय प्रतीयते इत्यर्थः । व्यङ्गयस्य संबद्धसंबन्धत्वमेव दर्शयति अत्र हीत्यादि। सूर्यात्मकतेति । हरेर्दक्षिणवामनयनयोः सूर्चचन्द्रात्म- कत्वेन पुराणादिषु प्रसिद्धत्वादिति भावः । तनन्निमीलनेन तदाच्छादनेन । अस्तमयः अप्रकाशः । व्यज्यते इत्यनुषङ्गः । एवं सर्वत्र । संकोचः मुद्रणम् । स्थगनं पिधानम्। तत्र सति स्थगने सति। गोप्याङ्गस्य गोपनीयाङ्गस्य। अदर्शननेति । ब्रह्मण इति शेषः । अनिर्यन्त्रणम्। अप्रतिबन्धम् । निधुवनेति । निधुवनस्य सुरतस्य विलसितं विलास इत्यर्थः । तथा चैवंरीत्या संबन्धपरंपराश्रयत्वेन प्रतीतिपरंपराविषय इति व्यङ्गयस्य संबद्धसंबन्धत्वमिति भावः ॥ अखण्डवाक्यस्य वाक्यार्थे शक्तिः तथा च व्यङ्गयेऽपि वाक्यगम्ये वाक्यस्य शक्तिरेवेति वेदान्ति- मतं शङ्कते अखण्डबुद्धीत्यादि। क्रियाक्रारकभावमुररीकृत्य जायमाना धी: खण्डा तदन्या अखण्डा तया बुद्ध्या नितरां ग्राह्य इत्यर्थः । आहुरिति । अयं भावः । क्रियाकारकभावो हि धर्मधर्मिभावम पुरस्कृत्य (अनादृत्य) न संभवति धर्मधर्मिभावश्च संसारस्य मिथ्यात्वेन न संभवति- नापि च ब्रह्मण: निर्धर्मकत्वात् । अतः पदपदार्थविभागमन्तरेणैव "सत्यं ज्ञानमनन्त ब्रह्म" इत्यादिमहावाक्य- मखण्डमेवाखण्डं ब्रह्म बोधयतीति वैदान्तिकमतानुसारेण व्यङ्गयेऽपि वाक्यगम्ये वाक्यस्य शक्तिरेवेति पूर्वः पक्षः । समाधत्ते तैरपीति । अविद्यापदपतितैः संसारदशायामाविधिकव्यवहारावलम्बिभिः 'अविद्यापथपतितैः' इति कचित्पाठः। उक्तोदाहरणादौ निःशेषच्युतचन्दनमित्यादौ (२० पृष्ठे)। विध्यादिर्व्यङ्ग्य एवेति। 'तदन्तिकं गतासि' इत्यादिरूपो विध्यादिर्व्यङ्गय एवेत्यर्थः । अयमत्र सिद्धान्तः । संसारदशायां वैदान्तिकैरपि क्रियाकारकभावस्वीकारेण नैवं संभवतीति तन्मतेऽपि विध्यादिर्व्यङ्गय एवेतीति विवरणादौ स्पष्टम्। व्याख्यातं च सारबोधिनीसुधासागरकाराभिः "वेदान्तिभिरपि दशाविशेषे व्यञ्जनाङ्गीकार्यैवेत्याह अखण्डबुद्धीत्यादि। 'अविशिष्टमपर्यायानेकशब्दप्रकाशितम्। एकं वेदान्तनिष्णातास्तमखण्डं प्रपे दिरे ।।' इत्यादिदिशा 'सत्यं ज्ञानमनन्तं ब्रह्म''एकमेवाद्वितीयं ब्रह्म "'नेह नानास्ति किंचन इत्यादिश्रुतिजनितया अखण्डबुद्धया निर्ग्राह्यः परब्रह्मात्मको वाक्यार्थ एव वाच्यः अखण्डमेव वाक्यं वाचकमेतादृशबुद्धिनिमित्तम् । यदाहुर्व्यासपादाः 'अनवयवमेव वाक्यमनाद्यविद्योपदर्शितालीकपद-

Page 311

२५२ काव्यप्रकाश: सटीक:। ननु वाच्यादसंबद्धं तावन्न प्रतायते यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात्। एवं च संबन्धात् व्यङ्गयव्यञ्जकभावोऽप्रतिबन्धेSवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिङ्गाल्लिद्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति। तथाहि वर्णविभागमस्या निमित्तम्' इति। अस्याः बुद्धेः। केचित्तु अखण्डबुद्धिर्मद्ावाक्यबुद्धिः तया निर्ग्राह्यो महावाक्यार्थः स एव वाच्य इत्याहुः । तस्माद्यङ्गयो वाच्य एवेति पूर्वः पक्षः । समाधत्ते तैरपीति। अविद्यापदं व्यवहारमार्गः । अविद्यादशायां तु व्यवहारे भट्टनयाङ्गकिारादावापोद्वापाभ्यां पदपदार्थवि- भागोडङ्गीकार्य एव । अन्यथा व्युत्पन्नाव्युत्पन्नव्यवहारः (साध्वसाधुशब्दव्यवहारः ) न स्यात् तत्त- द्विशेषपदार्थोपस्थितिश्व न स्यात् । भट्टनये च व्यञ्जना स्थापितैव 'अर्थशक्तिमूलेऽपि' इत्यादिना २१९ पृष्ठे इत्युक्तोदाहरणादौ विध्यादिर्व्यङ्गय एवेत्यर्थः " इति। एवमेव प्रदीपेऽपि व्याख्यातमिति तत एव द्रष्टव्यम् । प्रभाकृदादयस्तु इदं सर्व व्याख्यानं 'वाक्यमखण्डार्थवाचकम्' इति भ्रान्तस्य वेदान्त्येकदेशिनो मतेन सिद्धान्तिभिर्वेदान्तिभिस्तु लक्षणाया एवाङ्गीकारात। वस्तुतस्तु "येऽप्याहुः" इत्यादिवृत्तिग्रन्थो वाक्यस्फोटाङ्गीकर्तृवैयाकरणमताभिप्राय एव समञ्जसः । तेषां मतेऽखण्डेत्यादिविशेषणविशिष्टः स्फोट: पदपदार्थविभाग आविदिको व्युत्पत्तिदशायां कल्पित इति। तदुक्तं भर्तृहरिणा "ब्राह्मणार्थो यथा नास्ति कश्चिद्राह्मणकम्बले। देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥" इति । अस्यार्थः। ब्राह्मणसंबन्धिनि कम्बले प्रतीयमाने यथा ब्राह्मणरूपोडयों नास्ति तत्संबन्धित्ववविशिष्टकम्बलस्याखण्डस्य प्रतीतेः तथा 'देवदत्तो गच्छति' इति वाक्ये देवदत्तसंबन्धिगमनस्याखण्डस्य प्रतीतेः खण्डभूता देवदत्तादयोऽनर्थकाः स्युर्भवन्तीति। वाक्यमेवेति। एवकारेण पदव्यवच्छेदः। येऽपीत्यस्य शब्दब्रह्मवादिनो भर्तृहरिप्रभृतयो वैयाकरणा अपात्यर्थः । अविद्यापदपतितैरित्यस्य च प्रक्रियादशापन्नैरित्यर्थः । तदप्युक्त तैरेव "उपायाः शिक्ष्यमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समहिते ।" इतीत्याहुः॥ अथ'अनुमानाद्ङ्गयप्रतीतिः' इति न्यायाचार्यव्यक्तिविवेकग्रन्थकृन्महिमभट्टमत निराकर्तुमाशङ्कते नन्वित्यादिना 'विरुद्धोपलबब्धिः' इत्यन्तेन। व्याप्तिं साधयति वाच्यादसंबद्धमिति। वाच्यात् अर्थात् असंबद्धं वस्तु न प्रतीयते इत्यर्थः । यद्यप्यनुमितौ नियतसंबन्घस्यापेक्षणीयत्वम् व्यञ्जनाया तदनैयत्यम् संभावनमात्रादपि तदुपपत्तेः तथापि मया तत्रापि व्याप्तिः साधनीयेति पूर्वपक्षिणोS- भिप्रायः। तावच्छव्देन व्यक्ति( व्यञ्जना)वादिनोऽपि नात्र विप्रतिपत्तिः (विवादः) इति दर्शितम्। असंबद्धमपि यदि प्रतीयते तदा यतः कृतश्चित् शब्दात् यस्य कस्यचिदर्थस्य प्रतीतिः स्यादित्यतिप्रसङ्ग- माह यतः कुतश्चिदित्यादि। वाच्यसंबद्धस्यैव प्रतीतिरस्तु तावता प्रकृते किमागतं तत्राह एवं चेति। संबन्धादिति । इदं 'व्यङ्गयव्यञ्जकभावः' इत्यत्नान्वेति । अप्रतिबन्धे इति। प्रति नियतो बन्धः सबन्ध: नियतसंबन्धः अप्रतिबन्धे अनियतसंबन्धे इत्यर्थः। व्याप्त्याख्यसंबन्धरहिते इति यावद्। अवश्यं नियमेन। सहृदयानां तु व्यङ्गयप्रतीतिर्नियतैवेत्यर्थः । व्याप्तत्वेनेत्यनेन सपक्षसत्वम् नियतत्वं विप- क्षव्यावृत्तत्वम् धर्मिनिष्ठत्वं धर्मी पक्षस्तन्निष्ठत्वम् तेन पक्षवृत्तित्वम्। द्योर्द्वन्द्वसमासानन्तर त्वप्रत्यय इति रूपत्रयम्। तदेवाह त्रिरूपादिति । सपक्षसत्त्वविपक्षासत्वपक्षसत्त्वलक्षणरूपत्रयवत इत्यर्थः। स्वार्थानुमितावेतावत एवोपयोगान्नाबाधितत्वासत्प्रतिपक्षितत्वयोरुपादानमिति नरसंहठकुराः। अन्ये तु

Page 312

पश्चम उल्लासा । २५३ "भम धम्मिअ वीसड्ो सो सुणओ अज्ज मारिओ तेण। गोलाणईकच्छकुडंगवासिणा दरिअसीहेण॥" अत्र गृहे श्वनिवृत्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेर्रमणमनुमापयति। अबाधितत्वस्य सर्वप्रमाणसाधारण्यान्नाभिधानम् असत्प्रतिपक्षितत्वस्य स्वार्थानुमानेऽनुपयोगान्नाभिधा- नमित्याङ्डः। लिङ्गात् हेतोः । लिद्रिज्ञानमिति। लिङ्गिनि साध्ये ज्ञानम् साध्यविषयक ज्ञानमित्यर्थः। अनुमानम् अनुमितिः । तद्रूपः अनुमित्यात्मकः । इदं च 'व्यङ्गयव्यञ्जकभावः' इत्यस्य विशेषणम्। व्यङ्गयव्यञ्ञकभाव: व्यञ्जनया अर्थविषयकशाब्दप्रतीतिरित्यर्थः इति सारबोधिन्यादौ स्पष्टम्। अन्ये तु व्याप्तत्वेन ( वाच्यार्थस्य) व्यङ्गयार्थव्याप्तिमत्तया नियतधर्मिनिष्ठत्वेन (व्याप्योऽि वाक्यार्थी न स्वानाश्रये व्यङ्गयं प्रतिपादयतीति) व्यङ्गयार्थाश्रयाश्रितत्वेन च हेतुना। तृतीयान्तद्वयस्य 'पर्यवस्यति' इत्यग्रिमेणाव्वयः । त्रिरूपात् पक्षसत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणरूपत्रयवतः । तदूपः {तेनानु- मानेन रूप्यते विषयीक्रियते इति व्युत्पत्त्या) अनुमेयानुमापकभावः । अयमेव विधेयः अत्र'व्यङ्गयव्य- ञ्जकभाव:' इत्युद्देश्यपदं ज्ञेयमिति व्याचख्युः। एवं च क्लप्तलिङ्गव्यापारेणैव निर्वाहेडक्लप्तव्यञ्जनारूप- व्यापारकल्पनमनुचितमिति भावः। तथा चाह व्यक्तिविवेककारो महिमभट्टः "अनुमानेऽन्तर्भावं सर्वस्यैव ध्वने: प्रकाशयितुम्। व्यक्तिविवेक कुरुते प्रणम्य महिमा परां वाचम् ।।" इतीति सरस्वतीतीर्थकृत- टीकार्या स्पष्टम्। तत्र व्यक्ति( व्यञ्जना) वादिमूर्धाभिषिक्तध्वन्युदाहरणे प्रथममनुमान योजयति तथाहीत्यादि । भ्रमेति। हालकविकृताया गाथासपतशत्यां (गाथाकोशे) द्वितीये शतके ७५ पद्यमिदम्। "भ्रम धार्मिक विश्रब्ध: स शूनकोडद मारितस्तेन। गोदानदीकच्छकुञ्जवासिना इप्तसिंहन ॥।" इति संस्कृ- तम्। "वीसद्धो" इत्यत्र'वीसित्थो' इति पाठे 'विश्वस्तः' इति संस्कृतम्। पुष्पावचयार्थ स्वसंकेतस्थान- भूते गोदाकूलनिकुञ्जे यान्तममिसारविन्नकारिण कंचन धार्मिक भीषयितुं कस्याश्चिदमिसारिण्या स्वविनय सूचयन्त्या उक्तिरियम्। हे धार्मिकेति साक्षेपसंबोधनम् परश्रेयोविघातकस्य तत्त्त्वायोगात्। स्वं विश्रब्धो विश्वस्तः सन् भ्रम यथेच्छ विचर गृहे इति शेषः । कुत इत्यत्राह स इत्यादि। सः गेहस्थः यद्धयाद्ग्रामे भ्रमणं व्यक्तमासीत् स इत्यर्थः शूनकः श्वा अद्य तेन गादानदाः कच्छो जलप्रायदेशः तत्संबन्धिनिकुञ्जवासिना दर्पयुक्तेन सिंहेन मारित इत्यर्थः । तेनेति प्रसिद्धार्थकम् तेन 'मिथ्या मया नोच्यते' इति व्यज्यते। सिंहस्य दृप्ता नगरमागत्य हननादिति बोध्यम्। अत्र वाच्येन भीरुस्व- भावस्य गृहे श्वनिवृत्या भ्रमणेन निकुश्जे सिंहोपलब्ध्या भ्रमणनिषेधो व्यङ्गयः । जघनविपुला छन्दः। लक्षणमुक्तं प्राक् (१३३ पृष्ठे) ।। अत्र कि वाच्य किमनुमेयमित्याकाङ्यामाह अत्ेत्यादि। विहित 'भ्रम' इति विधिविषयीभूतं गुहे भ्रमणमभ्रणमनुमापयतीत्यन्त्रयः । अभ्रमणमनुमापयतीति। तदेव दर्शयति यद्यदिति । व्याख्यात च कमलाकरभट्टैरपि "अभ्रमणमनुमापयतीति। यद्यपि गहे भ्रमणं गोदावरीतीरे न भ्रम- णाभावमनुमापयितुमीष्टे व्यधिकरणत्वात् तथापि व्याप्तिग्रहौपयिकत्वेनेदमुक्तम्। श्वनिवृत्त्या गृहे विहितं भ्रमणं तद्धेतुकं कल्प्यते तेनैवं व्याप्तिः 'यद्द्गीरुभ्रमणं तत्तद्यकारणाभावज्ञानपूर्वकम्' इति" इति। व्यापकविरुद्धेति। भरुभ्रमणस्य व्यापिका भयकारणाभावोपलब्धिस्तद्विरुद्धं भयकारणं तदु- पलब्धिरित्यर्थः । तथा च व्यतिरेकव्याप्तिर्दर्शिता व्यतिरेकिणि तस्या एव तन्त्रत्वाद्। ततश्र गोदा.

Page 313

२५४ काव्यप्रकाश: सटीकः ।

यत् यत् भीरुभ्रमणं तत्तद्भ्यकारणनिवृत्युपलब्धिपूर्वकम् गोदावरीतीरे च सिंहोपलब्धि- रिति व्यापकविरुद्धोपलब्धिः।

अत्रोच्यते। भीरूरपि गुरोः प्रभोरवा निदेशेन प्रियानुरागेन अन्येन चैवंभूतेन हेतुना

वरीतीरं भीरुभ्रमणायोग्यं सिंहवत्वात् यन्नैव तन्नैवम् यथा गृहम्' इति भ्रमणाभावानुमितिरिति भाव इति सारबोधिन्यां स्पष्टम् ।। अत्र विवरणकारा अपि व्याचख्युः व्यापकविरुद्धोपलब्धिरिति । भीरुभ्रमणव्यापकस्य भयका- रणनिवृत्त्युपलब्धिरूपस्य विरुद्धा सिंहोपलब्धिः तथा च विरुद्धया सिंहोपलब्ध्या भयकारणनिवृत्यु- पलब्धौ निवृत्तायां तद्याप्यमपि भ्रमणं निवृत्तिमेतीति ॥ व्याख्यातं च प्रदीपोद्दयोतयोः । तथाहि। "तदत्र निकुञ्जवासिसिंहकृतया श्वनिवृत्त्या गृहे भ्रमणवि- धिर्वाच्यः स एव निकुञ्जभ्रमणायोग्यतानुमित्यै प्रभवति। यद्द्गीरुभ्रमणं तत्तद्गयकारणनिवृत्त्युपलब्ध पूर्वकम् निकुञ्जे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धौ पर्यवसानात् भ्रमणस्य व्यापकभयकारणा- भावोपलब्धिः प्रतीता तद्विरुद्धं यद्यकारणं तदुपलब्धेः । यथा नात् तुषारस्पर्शो वहेः। अनुमानं च 'इदं गोदावरीनिकुञ्जं श्वभीरुभ्रमणायोग्यं सिंहवत्वात्' इति"इति प्रदीपः। (तदत्र निकुञ्जेति । श्वा अत्र गेहस्थः यद्धयात् गृहेऽप्यभ्रमणमासीत्। स एव निकुञ्जेति। निकुस्जे पक्षे भ्रमणायोग्यत्वा- नुमित्यै इत्यर्थः। ननु गृहे भ्रमणं न गोदावरीतीराभ्रमणमनुमापयति व्यधिकरणत्वादिति चेन्न । श्लोक-

भरुभ्रमणवति गुहे भयकारणश्वनिवृत्युपलब्धिरेव वाच्या तथापि तत्र तदुपलब्धिज्ञानाद्वयुत्पन्नेन झठिति तयोर्व्याप्तिः स्मर्यते उत्तरार्धन च व्यापकाभावस्य पक्षधर्मताज्ञानमिति भावः । पर्यवसानमेवोपपादयति। व्यापकभयेति। व्यापिका चासौ भयकारणाभावोपलब्धिश्चेति कर्मधारयः । प्रतीतेति। पद्या- दिति भाव: । तद्विरुद्मिति। तद्विषयविरुद्धत्वेन तद्विरुद्धत्वोपचारोऽत्र बोध्यः। एवं च भ्रमण- व्यापकभयकारणाभावज्ञानाभावेन व्याप्यभ्रमणाभावः सिध्यतीति भावः । अत्र प्रयोगमाह अनुमानं चेति। सिंहवच्वादिति। उपलभ्यमानभयकारणवत्त्तं हेतुः यददुपलम्यमानभयकारणवत् ततं भीरुभ्रमणायोग्यम् यथा महदरण्यमित्यन्वयसहचारः यद्त् न भीरुभ्रमणायोग्यं न तदुपलभ्य- मानभयकारणवत् यथा गृहमित्येवं व्यतिरेकसहचारः उपलभ्यमानत्वं चानुपलभ्यमानभयहेतुमति व्यमिचारवारणायेत्यन्ये। मूलं तु व्यापकविरुद्धज्ञानं व्यतिरेक्यनुमितिहेतुरिति मते। नव्यमते तु भयहेतुमत्वज्ञानाभावो व्यापको बोध्य इत्याहुः ) इत्युद्द्योतः । एतावता प्रन्थेन व्यक्तिविवेककारमहिमभद्टमतमनूदयेदानी तन्मतं दूषयति अत्रोच्यते इत्यादिना 'साध्यसिद्धिः' इत्यन्तेन। अत्र पूर्वपक्षे। सिद्धान्त उच्यते इत्यर्थः । तत्रादौ व्याप्तिविघटकं व्यभिचार मुद्धावयति भीरूरपीत्यादि। निदशेन आज्ञया । अन्येन निधिलाभादिना । अनैकान्तिक: व्यमिचारी। एवं च 'यद्यद्धीरुभ्रमणं तत्तद्द्यकारणनिवृत्त्युपलब्धिपूर्वकम्' इति व्यतिरेकव्याप्तिरवासि-

१ यथेति। तुषारस्पर्शव्यापको हि वह्निभेदस्तदमावे वह्नित्वे वह्नितादातमे वा तुषारस्पर्शाभावानुमितिरित्यर्थः। अत्र च भ्रमणभयकारणाभावयोः सहचारः तद्गृहे निश्र्ित इति सपक्षसत्वं विगक्षासत्वं व्याप्तिग्रहादेव ज्ञातम। व्यापका- भावस्य च भयहेतुसिंहवश्वस्योत्तरार्धेन निकुअरूपपक्षधर्मतवं गृहीतमित्यूह्ममिलि प्रभारया स्पष्टम् ॥।

Page 314

पञ्चम उल्लास: । २५५

सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः शुनो विभ्यदपि वीरत्वेन सिंहान्न विभेतीति विरुद्धोऽपि गोदावरातीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः अपि तु वचनात् न च वचनस्य प्रामाण्यमस्ति अर्थेनाप्रतिबन्धादित्यसिद्धश्च तत्कथमेवंविधाद्वेतोः साध्यसिद्धिः। द्वेति भावः। न केवलमनैकान्तिको हेतुः। अपि तु विरुद्धोऽपीत्याह शुन इति। बिभ्यदिति। स्पर्श- दोषाद्विम्यदित्यर्थः स्पर्शेन पापजननात् पापजनके तद्विधे पौरुषानास्पदत्वादिति भावः । सिंहादभीतौ हेतुमाह वरित्वेनेति। धार्मिकस्य भयानास्पदत्वात्। अतः सिंहवत्त्वभीरुभ्रमणाभावयोर्न सामानाधि- करण्यमित्याह विरुद्धोऽपीति। भीरुभ्रमणेन साध्याभावेन व्याप्तत्वादिति भावः। केचित्तु व्यभिचरितो व्यतिरेकी विरुद्ध इति मतेनेदमिति वदन्ति। पक्षधर्मताविघटनमाह गोदावरीतीर इति। वचनात् कुलटावाक्यात्। अनेनानाप्तोक्तत्वादप्रामाण्यं सूचितम्। तदेवाह न च वचनस्येति। वचनस्य कुल- टावाक्यस्य। प्रामाण्यमिति। नियतमिति शेषः। कोपाकुलितत्वाच्चेत्यपि बोध्यम्। तदेवाह अर्थेनाप्र तिबन्धादिति। अर्थेन समं संबन्धानियमादित्यर्थः। शाठ्योक्तौ प्रामाण्यसंदेहाच्छब्दार्थयोर्नियतसंब- न्धाभावादिति भावः । तथा चार्थनिश्चयस्तदाह इत्यसिद्ध इति। हेतुरसिद्ध इत्यर्थः । शब्देषु प्रामाण्यसं- देहादर्थेष्त्रपि संदेह इत्यसिद्धिः (संदिग्धासिद्धिः ) इति भावः । तथा च हेत्वनिश्चयान्नानुमितिरिति फलितम्। नन्वस्तु अनुमानाभास इति चेन्न। व्यभिचारज्ञाने सति अनुमित्यनुदयात्। न च व्यभि- चारास्फूतौं तथा सर्वविज्ञानवतां सामाजिकानां तदस्फूर्त्यभावात्। तदवे दर्शयन् उक्तमुपसंहरति तत्कथमित्यादि। न कथमपत्यिर्थः। एवंविधात्। अनैकान्तिकविरुद्धासिद्धरूपात्। स्पष्टमिंदं सर्व सारबोधिन्यादाविति बोध्यम्।। व्याख्यातं च प्रदीपोद्दयोतयोः । तथाहि। "अत्रोच्यते। श्वभीरोरवीरस्वभावस्य भ्रमणायोग्यत्वमत्र साध्यम् वीरस्वभावस्य वा विशेषौदासीन्येन तत्सामान्यस्यैव वा। आद्ये व्यमिचारः। प्रभोर्गुरोर्वा निदे- शेन प्रियानुरागेण निधिलाभादिशङ्कया वा तादशस्यापि तत्र भ्रमणदर्शनात्। अते एव नान्त्योऽपि। मध्यमे तु विरोधः। स्पर्शादिशङ्कया अपौरुषेयतया वा शुनो बिभ्यतोऽपि मृगयादिकुतूहलेन सिंहवद्देशे वीरस्य भ्रमणात्। किं च पैक्षे सिंहसद्धावो न मानान्तरेणावधारितः किं तु पुंश्चलीवाक्यादवधारितः । न च तद्वचनं निश्चायकम् अर्थेनें समं संबन्धानियमादित्यनिश्चयरूपासिद्धिः" इति प्रदीपः।( तत्र भ्रमणदर्शनादिति। एवं च यद्गीरुभ्रमणं तद्धयकारणनिवृत्त्युपलब्धिपूर्वकमिति व्यतिरेकव्याप्तिरेवा- सिद्धेति भावः। विरोध इति। तदा ह्येवमनुमानम् गोदावरीतीरं शूरभ्रमणायोग्यं सिंहादिसत्त्वादिति। तत्र साध्यहेत्वोरसामानाधिकरण्यात् साध्याभावव्याप्तत्वाच्च हेतोर्विरोध इति भावः। ननु गुरुनिदेशाघ- भावे सति यत्स्वोपलभ्यमानयद्धयकारणवत् तत्तद्रमणायोग्यमित्यत्न नोक्तदोषावत आह किंचेति। पुंश्र- लीति। अनेनानाप्तोक्तत्वादप्रामाण्यं सूचितम्। तदेवाह न च तद्वचनमिति। कोपाकुलितत्वाच्चे- व्यपि बोध्यम्। तदेवाह संबन्धानियमादिति। व्याप्त्यभावादिति भावः ) इत्युद्द्योतः । ध्वनिकारोक्तोदाहरणेSनुमानं निरस्य स्वोक्तोदाहरणेऽपि तन्निराकुर्वन् स्वोक्तं ध्वनिलक्ष्यं समर्थयति तथेत्यादिना 'अदूषणम्' इत्यन्तेन । गमकतया संभोगज्ञापकतया। तदाह व्यक्तिविवेककारो १ अत एव व्यभिचारादेव ॥ २ विरोध इति। यत्र सिंहातत्र सर्वत्र श्वमीरोरपि वीरस्य भ्रमणयोग्यतासतत्वात् साध्य- हेतुसामानाधिकरणस्यैवाभावादित्यर्थः ॥ ३ पक्षे निकुख्जे॥अर्थेनेति। अप्रतिबन्धात् अव्याप्तत्वात्। न हि सर्वे वाक्यमर्थसत्तया व्याप्तम् प्रतारकवाक्यस्यापि दर्शनादिति टीकान्तरेऽपि स्पश्टम् ॥

Page 315

२५६ काव्यप्रकाश: सटीक:।

तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणा- न्तरतोऽपि भवन्ति अतश्ात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे एव प्तिबद्धानत्यिनै कान्तिकानि। व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम्। न चात्राधमत्वं प्रमाण- प्रतिपन्नमिति कथमनुमानम् । एवंविधादर्थादेवंविधोरऽर्थ उपपत्यनपेक्षत्वेऽपि प्रकाशते इति व्यक्तिवादिन: पुनस्तत् अदूषणम् ।। इति काव्यप्रकाशे ध्वनिगुणीभूतव्यङ्गयसंकीर्णभेदनिर्णयो नाम पश्चम उल्लास:॥५।। महिमभट्टः "जात्यन्तराभिव्यक्तौ या सामग्री संनिबन्धनम्। सैवानुमितिपक्षे नो गमकत्वेन संमता" इति। दूषयति तानीति इति चक्रवर्तिकृतविस्तारिकायां स्पष्टम् । कारणान्तरत इति। कारणान्त- रमुपभोगभिन्नं स्नानादि तस्मादित्यर्थः । कारणान्तरमेव दर्शयति अतश्चेति । अत एवेत्यर्थः । अत्रै- वेति। निःशेषच्युतचन्दनमित्यत्रैवेत्यर्थः । प्रतिबद्धानि व्याप्तानि संबद्धानि वा। अनैकान्तिकानि व्यभिचारीणि। व्याख्यातं च प्रदीपेऽपि "एवं निःशेषच्युतेत्यादौ चन्दनव्यवनादीन्युपभोगव्यञ्जकतया [उपभोगज्ञापकतया ] उपात्तानि। न च तानि तद्याप्यानि कारणान्तरतोऽपि संभवात् । अत एवात्र स्नानकार्यतवेनोपात्तानि। अतौSनैकान्तिकात् (व्यभिचारिहेतोः ) कथमनुमितिः स्यात् " इति॥ तर्हि व्यभिचारे तदन्तिकगमनस्य व्यञ्जनापि कथं तत्राह व्यक्तिवादिनेति। व्यञ्जनावादिने- व्यर्थः। एषां चन्दनच्यवनादीनाम्। ननु अधमपदार्थसहकारेण यथा व्यञ्जकत्वं तथा अधमपदार्थसह- कारेणानुमापकत्वमपि स्यादित्यत आह न चात्रिति। प्रमाणेति। प्रमाणेन प्रतिपन्नमवधारितमित्यर्थः । तथा चाधमत्वस्य पक्षधर्मतासंदेहान्नानुमानम्। न च शब्दादेव निश्चयः तस्य कोपाकुलितकामिनीवच- नत्वेनानिश्चायकत्वादिति भावः। एवं च नायकस्याधमत्वानिश्चयेन पूर्ववत्संदिग्धासिद्विरिति यावत्। ननु व्यञ्जनापक्षेऽप्येष दोषोऽस्त्येव तथा व्यञ्जना कथमित्यत आह एवंविधादित्यादि । उपपत्तिः न्याप्त्यादिः। अनपेक्षत्वेऽपीति। अत्र व्याप्तेरनङ्गत्वेन संभावनामात्रादेव तत्सिद्धिरिति भावः। तदेवाह प्रकाशते इति । प्रकाशः प्रतीतिः । तस्या एवानपलपनीयत्वेन प्रमाणत्वादित्यर्थः । तत् अनैकान्तिक- त्वादि। अदूषणमिति। न दुष्टमित्यर्थः । तत्र व्याप्तेरनङ्गत्वेन संभावनामात्नादेव व्यङ्ग्यप्रतीतिरिति न किमपि व्यञ्जनावादिनां दूषणमिति भावः । व्याख्यातं चोद्योतेऽपि "व्यभिचारस्फूर्तिमतामपि सामा- जिकानामसति च पक्षधर्मतानिश्चये संभावितादप्यर्थाद्यक्तेरुदयादित ावकि व्याप्तिस्मरणादि- कल्पनातो व्यञ्जनाया: कारणत्वकल्पनमेवोचितमिति शिवम्"इति। "न चोपपत्त्यनपेक्षत्वेऽपि व्यङ्गय- प्रतीतावतिप्रसङ्ग इति वाच्यम् वक्त्रादिवैशिष्टयस्य नियामकत्वात्। एवं चावाग्गोचरब्रह्मबोधिकेयमलौ- किकी वृत्तिर्वाग्देवता( मम्मटा)ङ्गीकृता व्यञ्जना ब्रह्मणाप्यपलपितुमशक्येति सुधीभिर्मन्तव्यम्" इति सुधासागरादावपि स्पष्टम्। व्र्याख्यातं च काव्यप्रकाशदर्पणे विश्वनाथेनापि "उपपत्त्यनपेक्षत्वेऽपि व्या- प्त्यादिप्रतिबन्धनाभावेऽपि। न चैवमतिप्रसङ्गः। प्रतीतावन्यथोपपत्तेरेव व्यक्तिकल्पनादिति काव्यपुरु- षावतारस्य निखिलशास्त्रतत्त्ववेदिनः श्रीमदानन्दवर्धनाचार्यस्य (ध्वनिग्रन्थकारस्य ) पृथग्व्यञ्जन- व्यापारस्थापनमिति सर्वमवदातमिति " इति शिवम् ।। इति झळकीकरोपनामकभट्टवामनाचार्यकृतायां काव्यप्रकाशटकियां बालबोधिन्यां ध्वनिगुणी भूतव्यङ्गयसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ॥ ५ ॥

१ "अर्थान्तराभिव्यक्तौ" इति सुगमः पठोऽपि क्वचिदुपलभ्यते ॥

Page 316

(सू० ७०) शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम्। गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥४८॥ एवं मध्यमकाव्ये निर्णीते क्रमप्राप्तमधमकाव्यं निरूपयति शब्दार्थचित्रमित्यादि। यद्यपि शब्दार्थ- चित्ररूपभेदद्दयं प्रथमोल्लासे एव दर्शितम् तद्भेदाश्र नवमदशमयोरुल्लासयोः शब्दार्थालंकारप्रदर्शनेनैव दर्शिता भविष्यन्तीति संप्रति न दर्शनीयं किंचिदस्ति तथापि शब्दानां चित्रतायां प्रधानभूतायामर्थ- चित्रताया गुणत्वम् एवमर्थानां चित्रतायां शब्दचित्रताया गुणत्वम् न तूभयोरुभयत्राभाव इति गुण- प्राधान्येन स्थितिवशादनयोर्विभाग इति दर्शयितुं शब्दार्थालंकारावप्यस्माकमिष्टा न त्वन्यतर इति च दर्शयितुमयमारम्भ इति सारबोधिनीकारादयः । प्रदीपकारादयस्तु "यद्यपि शब्दचित्रार्थचित्ररूपभेद- दयं प्रथमोल्लासे एव दर्शितम् तत्प्रभेदाश्र्वालंकारप्रभेददर्शनेनैव प्रदर्शिता भविष्यन्तीति न किंचित्प्रद- र्शनीयमस्ति तथापि प्रदर्शितप्रभेदद्यमेव तावदनुपपन्नम् 'स्व्च्छन्द्रोच्छलत्' (२१ परष्ठे) इत्यादौ नयन्तरापेक्षया आधिक्यरूपस्य व्यतिरेकालंकारस्य 'विनिर्गतं मानदम्' (२३ पृष्ठे) इत्यादौ 'मान- दमात्ममन्दिरात्' इत्यत्र मकारानुप्रासस्य 'ससंभ्रमेन्द्रद्रुत' इत्यनुप्रासस्यापि सत्वेन शब्दार्थालंकार- योरन्योन्यनैरपेक्ष्येण (अन्योन्येन विना) अनुपलम्भात्। उपलम्भेऽपि वा तदुभयसद्भावे तृतीय- भेदस्य (शब्दार्थोभयचित्रस्य) संभवान्यूनतेति शङ्कानिरासार्थो भेदार्थोऽयमुद्यमः" इत्याहुः॥ सूत्राक्षरार्थस्त्वयम। चित्रशब्दस्य शब्दार्थयोः प्रत्येकमन्वयः तथा च शब्दचित्रम् अर्थचित्रम् चेति यत् काव्यद्वयं पूर्व प्रथमोल्लासे उदाहृतं (स्वच्छन्देत्यादिंविनिर्गत मित्याघयुदाहरणाभ्यां) प्रोक्तमित्यर्थः। ननु स्वच्छन्देत्यादौ नग्रन्तरादाधिक्यरूपेण व्यतिरेकालंकारेणार्थस्य चित्रत्वम् विनिर्गतमित्यादौ च 'मानदमात्ममन्दिरात्' इति मकारस्यासकृदावृतत्त्या वृत्त्यनुप्रासेन शब्दस्य चित्रत्वमस्ति तत्कथमयं विभाग इत्यत आह गुणप्राधान्यत इत्यादि। तत्र काव्ये चित्रार्थशब्दयोः चित्रौ च तावर्थशब्दौ च तयोः गुणप्राधान्यतः गुणत्वेन प्राधान्येन च स्थितिरवस्थानमित्यर्थः। शब्दचित्रेऽर्थस्य मुणभावः शब्दस्य प्राधान्यम् तत्रैव आसमाप्तिकविसंरम्भ(उद्यम)विषयत्वात्। अर्थचित्रे शब्दस्य गुणभाव अर्थस्य प्राधान्यम् तत्रैव आसमाप्तिकविसंरम्भविषयत्वादिति॥ १ चित्रार्थशब्दयोरिति। अयमेव पाठः प्राचीनाष्टादशपुस्तकेषपलम्वते। व्याख्यातं च सरस्वतीतीर्थप्रभाक: दादिमिरिममेव प्रतीकमपादायेति बोध्यम्। 'शब्दार्थत्रित्रयोः' इति पाठस्तु अङ्गितयोर महेश्वर महेशचन्द्रपुस्तकयोरेव दृश्यते। उक्तं च महेश्वरेण "शब्दार्थचित्रयोः" इति सुगमः पाठ इति ॥ २ ननु "तारतारतरैरेतैरुत्तरोत्तरतो रुतैः। रतार्ता तित्तिरी रौति तीरे तीरे तरौ तरौ॥" इत्यत्र केवलानुप्रासश्य "मध्येव्योम स्कुरति सुमनोधन्विनः शाणचक्रं मन्दाकिम्या विपुलपुलिनाभ्यागतो राजहंसः। अह्ृश्छेदे ललितचरणन्यासमाकाशलक्ष्म्याः संसर्पस्त्याः श्रवणपतितं पुण्डरीकं मृगाङ्कः ॥" इति पद्ये केवलार्थालंकार य रूपकस्य चोपलम्भोऽस्तीत्याशङ्कयाह उपलम्भेऽवपि वेति। मध्येव्योमेति। व्योम्न्नो मध्ये इत्यर्थः । सुमनोधन्वा कामः। शाणचक्रं चक्राकारं शखततैक्ष्ण्यसंपादकं पाषाणजयन्त्र मुच्यते। पुलिनं तीरं तत्राभ्यागतः। अह्ृश्छेदे सायंसमये।।

Page 317

२५८ काव्यप्रकाशः सटीकः ।

न तु शब्दचित्रेऽर्थस्याचित्रत्वम् अर्थचित्रे वा शब्दस्य। तथा चोक्तम् "रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ एतदेव व्यतिरेकमुखेन[ण] व्याचष्टे नत्वित्यादिना । एवं च यत्कृतं कवेरुत्कटचारुत्वं विवाक्ष- तं तस्य प्राधान्यमन्यस्य गुणत्वम् यस्य च प्राधान्यं तेनैव व्यपदेशः "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायात्। तथा च नैकैकासत्त्वप्रयुक्तोऽयं विभागः अप तु उत्कटचमत्कारजनकत्वरूपप्राधा- न्यपुरस्कारेणेति युक्तोऽयं विभाग इति बोध्यम्॥

नन्वेवं यत्रोभयोरपि चमत्कारजनकत्वं तत्र संकरसंसृष्ट्यादिरूपतृतीयादिभेदापत्तौ किमुत्तरामीत चेत्। इष्टापत्तिरेव। प्रभेदद्यप्रदर्शनस्य न्यूनताव्यवच्छेदमात्रपरतया तृतीयादिभेदोपलक्षकतापि ज्ञेया। अत एव दशमोल्लासे "सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः" इति संसृष्टिलक्षणे 'एतेषां समनन्तर- मेवोक्तानां यथासंभवमन्योन्यनिरपेक्षतया यदिह शब्दभागे एवार्थविषये एवोभयत्रापि वा अवस्थानं सा एकार्थसमवायस्वरूपा संसृष्टः' इति व्याख्याय 'वदनसौरभलोभपरिभ्रमत्' इत्यादिपद्ये परस्परनिरपे- क्षयोर्यमकानुप्रासयोः शब्दालंकारयोः 'लिम्पतीव तमोऽङ्गानि' इत्यादिपधे उत्प्रेक्षोपमयोरर्थालंकारयोः 'सो णत्थि एत्थ गामे' इत्यादिगाथायामनुप्रासरूपकयोः शब्दार्थालंकारयोः संसृष्टिम "अविश्रान्तिजु- षामात्मन्यङ्गाङ्गिवं तु संकरः" इत्यादिना संकरत्रयप्रतिपादनावसरे 'आत्ते समिन्तरत्ने' इत्यादिपये अनुग्राह्यानुग्राहकभावेन तह्ुणभ्रान्तिमतोरर्थालंकारयोः 'राजति तटीयम्' इत्यादिपद्ये यमकानुलोम- प्रतिलोमयोः शब्दालंकारयोः 'स्वयं च पल्लवाताम्र' इत्यादिपये शब्दश्लेषोपमयोः शब्दार्थालंकारयोः 'नयनानन्ददायीन्दोः' इत्यादिपदे पर्यायोक्तातिशयोक्तिरूपकदीपक तुल्ययोगितासमासोक्त्यप्रस्तुत- प्रशंसानामर्थालंकाराणां संदेहात्मकत्वेन 'स्पष्टोल्वसत्किरणकेसर' इत्यादिपद्ये एकपद्प्रतिपाद्यतया अनुप्रासरूपकयोः शब्दार्थालंकारयोः संकरमुदाहरिष्यति स्वयमेव ग्रन्थकारः। नन्वेवं दोषगुणयारेपि संकरसंसृष्टिसंभवेनानिष्टापत्तिरपीति चेन्न। अत्र चमत्कारवैलक्षण्यानुरोधेन तथा स्वीारात्। दोषा- भावस्य च दोषत्वावच्छिन्नप्रतियोगिकसामान्याभावस्यैव विशेषणतया तत्प्रतियोगिगतैकत्वानेकत्वाभ्यां नाधिकं चमत्कारवैलक्षण्यमीक्षामहे रसप्रतिबन्धकतावच्छेदकं च रूपं श्रुतिकटुत्वाद्येव न पुनर्दोष- द्यनिष्ठः कश्वन धर्मोऽस्ताति न तत्संकरादीनां दोषान्तरत्वाशङ्का। गुणस्य च तत्तद्रसनियततयैकत्र रसद्यानवस्थानादेव न संकराय्याशङ्केत्यस्मन्मनीषोन्मिषतीति नरसिंहमनीषायां स्पष्टम् ।

शब्दालंकाराणामर्थालंकाराणां च चमत्कारप्रयोजकत्वे प्रामाणिकसंमतिमाह तथा चोक्तमित्यादिना इति' इत्यन्तेन। उक्तमिति। 'भामहेन' इति शेष इति सरस्वतीतीर्थकृतटीकायां स्पष्टम्। 'ध्वनि- करेण' इति विवरणकाराभिप्रायः। ननु विप्रतिपत्त्यभावात् किमर्थ प्रामाणिकादरणमित्याशङ्कय वाि- विप्रतिपत्तिमुद्धावयन् प्रथमम् 'अर्थालंकार एवादरणीयो न तु शब्दालंकारः' इति कस्यचिद्वादिनो मतमाह रूपकादिरिति। तस्य काव्यम् रूपकादि: रूपकोपमादिरेव (अर्थालंकार एव) अलंकारः अन्यैः कैश्विदलंकारिकै: बहुधा बहुप्रकार: उदितः उक्त इत्यर्थः। अर्थस्य विभावादिरूपस्य रसव्यअ्जकत्वे-

१ विप्रतिपत्तिर्विवादः॥ २ विभावादत्यादिपदेनानुभावव्यमिचारिभावयोः संग्रहः॥

Page 318

षठ्ठ उल्लास: । २५९

रूपकादिमलंकारं बाह्यमाचक्षते परे। सुपां तिडां च व्युत्पत्ति वाचां वाञ्छन्त्यलंकृतिम्॥ तदेतदाहु: सौशब्यं नार्थव्युत्पत्तिरीदृशी। शब्दाभिधेयालंकारभेदादिंष्ट द्यं तु नः ॥" इति ॥ नार्थनिष्ठो रूपकादिरेवालंकार: कै्विदुक्त इति भावः । अर्थाश्रयो रूपकादिरेवालंकारः विभावादिरू- पार्थोपस्कारकतया मुख्यस्य रसादेरुत्कर्षकत्वात्। शब्दालंकाराणां तु विभावाुपनयनमात्रप्रयोजक- शब्दधर्मतया बहिरङ्गत्वान्न मुख्यालंकारत्वमिति यावत्। तत्र व्यतिरेकद्टष्टान्तमाह न कान्तमित्यादिः। यथा वनिताया अङ्गनाया आननं कान्तमपि सलावण्यमपि निर्भूषं निरलंकारं सत् न विभाति नाह्लादाय पर्याप्यते तथा शब्दार्थशरीरं काव्यं सगुणमपि निरलंकारं न विभातीत्यर्थः । व्याख्यातं चैतत् सारबो- धिन्यादावपि " विभाति विभावतां प्रामोति कुण्डलादिमत्त्वेनैव विभावनीयत्वात्। विभावादित्वेन प्राप्तानामर्थानामेव रसत्वमिति तेषां परिष्करणम् (पुरःस्फुरणम् ) उचितम् । अर्थ प्रत्याय्योपक्षीणानां शब्दानामलंकारस्यानादरणीयत्वात्" इति। 'शब्दालंकार एवादरणीयो न त्वर्थालंकारः' इति केषां- चिद्लंकारिकाणां मतमाह रूपकादिमित्यादिसार्धपद्येन। परे अन्ये ( केचिदलंकारिकाः रूपकादिम अर्थालंकारं बाह्यं काव्यार्थप्रतीत्युत्तरवर्तिनम् आचक्षते कथयन्तीत्यर्थः। शब्दश्रवणानन्तरं शब्दालंका- रेण चित्ते आकृष्टे अर्थप्रतीत्यनन्तरं हि रूपकाद्यनुसंधानमिति तेषां बाह्यत्वमिति भावः। अत्राहुरुद्दयो- तकारा अपि "बाह्यम् आस्वादोत्पत्तिपरवर्तिनम्। प्रथमतः शब्दालंकारेण चित्तापकर्षः अर्थप्रतीत्य- त्तरं तु अर्थालंकारप्रतीतिरिति तेषां बाह्यत्वमिति भावः" इति। यतस्ते हि सुपां तिडां सुबन्तानां तिङ- न्तानां च पदानां व्युत्पत्तिं विशेषणानुप्रासादिरूपेणोत्पत्तिं संनिवेशं वाचामलंकृतिं शब्दालंकारं वाञ्छ- न्ति अत्यन्तोपादेयत्वेनाभिलषन्तीत्यन्वयः । तस्या एवालंकृतित्वे हेतुमाह तदेतदाहुरिति। सौशब्यं शोभनशब्दस्य काव्यस्य शोभनत्वम् स्वत एव शब्दालंकाराणां चमत्कारित्वमित्यर्थः। अर्थव्युत्पत्ति: अर्थालंकार: नेद्ृशी न शब्दवत् स्वतश्रमत्कारिका अपि तु विभावाद्युत्कर्षमुखेन् णै ]ित्यर्थः। तथा च काव्यस्यालंकारो वक्तव्यः । काव्यं च कविकर्म (करिसंरम्भगोचरः ) शब्द एव 'काव्यं पठ्यते श्रूयते गीयते' इत्यादिव्यवहारेण शब्दस्यैव पठनश्रवणादिविषयत्वात्। अतस्तद्धर्म एवालंकारो न तु रूपकादि: तस्यार्थाश्रितत्वेन बाह्यत्वात् तत्रालंकारप्रयोगस्तु गौण एवेति भावः। अत्राहुः सारबोधिनीकारा अपि "ईदृशी यथा शब्दव्युत्पत्तिः । सौशब्दं शब्दनिर्माणसौध्ठवम्। अयमर्थः। शब्दैरभिव्यज्यमानानामा- स्वादानां विभावादिभिरथैरुपचायनम् ते च (शब्दाश्र) माधुर्यादिव्यक्षकवर्णघटितानुप्रासादिमत्तया रचिता एव तव्यञ्जने प्रभवन्ति तेन शब्दालंकाराणामावश्यकत्वम् पाश्रात्यानामर्थालंकाराणामकिंचित्क- रता तैर्विनापि शब्दालंकारैरभिव्यक्तेरिति। तदेवाह बाह्यमिति। आस्त्रादोत्पत्तिदशायां तदनुपलम्भात् " इति। स्वसिद्धान्तमाह शब्देति। अभिधेयः अर्थः। यद्वा अभिधेयः प्रतिपाद्यः। तेन लक्ष्यव्यङ्गययो- रपि संग्रहः। तुशब्दः पुनररथे। तथा च नः अस्मांकं तु शब्दाभिधेयालंकारभेदात् शब्दार्थालंकारयो- र्भेदात् दयं शब्दार्थालंकारयुगलम् इष्टम् अभिमतमित्यर्थः । इदमत्राकूतम् । न हि शब्दे स्वरूपेणालं- कारः । निरर्थकेऽपि तदापत्तेः। नाप्यर्थे सर्वदार्थसत्त्वेन तदापत्तेः। कि तु शब्दबोधितेऽरथेऽर्थबोधके शब्दे च चित्रता अत एव द्वे काव्ये तेन द्वयोरप्यास्वादोपकारकत्वस्य सहृदयैकवेद्यत्वात् कविसंरम्भ-

१ आस्वादानामिति शेषः ॥ २ भामहाख्यानामिति सरस्वतीतीर्थाभिपरायः । ध्वनिकाराणामिति विवरणकाराः ॥

Page 319

२६० काव्यप्रकाश: सटीक: ।

शब्दचित्रं यथा प्रथममरुणच्छायस्तावत्ततः कनकप्रभ: तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्यतिः । उद्यति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे

अर्थाचत्रं यथा कना ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलद्दशामलकाः खलाश्च।

गोचरत्वाच्च द्वावप्यलंकाराविति। उक्तं चोद्दयोतकारैरप "अलंकृतशब्दव्यङ्गयस्यास्वादस्य विभावाद्य-

प्यास्वादोपकारत्वात्कविसंरम्भगोचरत्वाच्चोपादेयता तत्र यो यदन्वैयव्यतिरेकानुविधायी स तेन व्यप- दिश्यते इति भाव:" इति॥ तत्र शब्दचित्रमुदाहरति प्रथमेति। यन्तु 'मालतमिाधवे चन्द्रोदयवर्णनमिदम्' इति चन्द्रिकायामु- क्तम् तच्चिन्त्यमेव संप्रतितनपुस्त तत्रास्यानुपलम्भात्। मृगलाञ्छनः चन्द्रः क्षणदामुखे रजनीप्रार- मभे प्रथमम् अरुणच्छायः रक्तकान्तिः तावदित्यवधारणे अरुणच्छाय एवेत्यर्थः। ततः तदनन्तरं कनक- प्रभः पीतवर्णः। तदनु पश्र्ात् विरहेण प्रियवियोगेनोत्ताम्यन्ती क्विश्यमाना या तन्वी कामिनी तस्याः कपोलस्य गण्डस्थलस्य द्युतिरिव द्युतिर्यस्य तादृशः पाण्डरवर्ण इत्यर्थः। ततः सरसा स्तन्निग्धा या बििनी कमलिनी तस्या: कन्दो मूलं "कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान्" इति मेदिनी। काण्डेति पाठे मृणालमित्यर्थः । तस्य छेद: खण्डस्तद्ृत् छविः कान्तिर्यस्य सः अतिधवलत्वात्तथाभूतः । छेद- ग्रहणं धावल्यार्थम् अत एव व्वान्तस्यान्धकारस्य ध्वंसे नाशे क्षमः समर्थः अत एव विपक्षजयात् उदयतीत्यर्थः। "छेद: खण्डोSस्त्रियाम" इति त्रिकाण्डशेषः । अत्राहुरुद्दयोतकाराः "अत्रारुा स्य विप- क्षीयत्वात्कनकस्य परालंकारतयोत्कर्षात्कामिनीकपोलस्यापि तन्मुखरूपप्रतिद्वन्द्विसंबन्धित्वादुपमा यु- क्तेत्यतः सरसेति" इति। अत्र मृगलाञ्छन इत्यपुष्टार्थम् चन्द्रादिपदेनापि तदर्थलाभात्। हरिणी छन्दः। लक्षणमुक्तं प्राक (१०८ पृष्ठे)।। अत्र मकारयोस्तकाराणां ककारयोर्धकारयोः क्षकारयोरछकारयोः सकारछकारलकाराणामनुप्रासः शब्दालंकारः स एव प्रधानम् आसमाप्ति कवेस्तत्रैव संरम्भात् प्राधान्यस्य कविविवक्षामात्रनिबन्धनत्वा- दिति शब्दचित्रता। स्वभावोक्त्युपमयोरर्थचित्रयोः सत्त्वेऽपि तयोर्गौणतैव तत्र कविसंरम्भाभावादित्ति प्रदीपोद्दयोतयोः स्पष्टम्। उक्तं च सुधासागरकारैरप "अत्र क्रमेण तत्तदूर्णता स्वभावोक्तिः। यद्यापे किंचिब्ङ्ग्यमपि संभवति तथा हि प्रथमं तावत् अरुणच्छायः अरुणस्येव छाया रक्तदीप्तिर्यस्य तथा- भूतः । ननु स्वोत्कर्षासहिष्णोरनुकारोऽनुचित इति विचार्य तदनन्तरं कनकप्रभः। ननु प्रतिस्पर्द्धि- कान्तामुखमण्डनमेतदित्यस्यानुकारोऽनुचित इति तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । ननु यत्सं- बन्धात्कनकप्रभा त्यक्ता तद्नुकारोऽत्यन्तानुचित इति ततोऽनन्तरं ध्वान्तध्वंसेत्यादिबोधितरूपान्तर- माश्रित इति। तथाप्यत्र न कवेस्तात्पर्यमित्यधमकाव्यत्वम्। एवमग्रेऽपि द्रष्टव्यम्। स्पष्टीकृतं चैतत्प्र- थमोल्लासे" इति॥ अर्थचित्रमुदाहरति ते दृष्टिमात्रेति। ते प्रसिद्धाः यद्वा ते सकलवशीकरणसमर्थाः । पक्ष्मलेति भूम्नि १यत्सत्वे यत्सत्त्वमन्वयः यद्भावे यद्भावो व्यतिरेक; तद्नुविधायी तद्नुसारीत्यर्थः॥

Page 320

षठ उल्लास:। २६१

नीचा: सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ॥१४० ॥ यद्यपि सर्वत्र काव्येऽन्ततः विभावाहिरूपतयैव पर्यवसानम् तथापि स्फुटस्य रसस्यानुपल- म्भादव्यङ्गयमेतत्काव्यद्वयमुक्तम्। अत्र च शब्दार्थालंकारभेदाद्वहधो भेदाः ते चालंकारनिर्णये निर्णेष्यन्ते॥ इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लास: ॥६॥ मत्वर्थीयो लच्प्रत्ययः । पक्ष्मले बहुपक्ष्मयुक्ते दशौ अक्षिणी यासां तथाभूतानां सुन्दरीणाम् अलकाः चूर्णकुन्तला: खलाश्र शठाश्र (दुर्जनाश्र) दृष्टिमात्रे पतिताः दृग्गोचरतां गता अपि न पुनर्मनसा भावितस्वरूपा व्यवहारगोचरा वा अत्र संसारे कस्य पुरुषस्य क्षोभाय धैर्यविघातायासुस्थत्वाय च न 'भवन्ति' इति शेषः । अपि तु सर्वस्यापि क्षोभं जनयन्तीति भावः। कर्थंभूताः । नीचाः हरस्वाः पापा- श्रयाश्र यद्वा नीचाः अधोगामिनः अनुच्चाशयाश्र कृत्रिमविनयान्नीचतां गता वा। तथा सदैव सर्व- दैव सविलासं विलाससहितं यथा स्यात्तथा अलीके ललाटे मिथ्याभाषणे च लग्ना आसक्ताः । केित्तु सदैव विलासेन विभ्रमेण सहितं यथा स्यात्तथा अलीके ललाटे लग्नाः संबद्धाः खलपक्षे बवयोरभेदात् विलं बिलं (रन्ध्रं ) तत्र आसोऽसनं प्रहारस्तत्सहितं यथा स्यात्तथा अलीके मिथ्याभाषणे लग्ना आसक्ता इति व्याचख्युः । एतादृशास्ते के। ये कुटिलतामिव कालतां न त्यजन्ति न मुञ्चन्ति। कुटिलता वक्रता कपटता च (अनभिव्यक्तपरापचिकीर्षा च)। कालता श्यामता परपीडकत्वोद्यमता च। यद्दा कालता कृष्णरूपता भयानकत्वेन यमस्वरूपता चेत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् (६८) पृष्ठे॥ अत्र क्षोभरूपैककार्येलकखवलयोः समुच्चयोक्तेः "तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्" इति १७८ सूत्रेण वक्ष्यमाणः समुच्चयोऽर्थालंकारः। श्लेषोपमयोस्तदङ्गत्वात्तस्यैव प्राधान्यम् आरम्भादास- माप्ति तननिर्वाहणात्। अलीकशब्दस्य परिवृत्त्यसहत्वेन शब्दश्लेषस्यानुप्रासस्य च संभवेऽपि गुणीभूत- त्वमेवेति प्रदीपप्रभादिषु स्पष्टम्। अत्र कुटिलतामिवेति सहोपमा तद्यङ्ग्यश्र समुच्चयः तेन यथा ते कुटिलतां न त्यजन्ति तथा कालतामपत्यर्थालंकारस्य प्राधान्यम् कवेस्तत्रैव संरम्भादित्युझ्योतकाराः । अत्रानुप्राससंभवेऽपि श्र्लेषप्रतिभाहेतुरर्थालंकारः समुच्चयः प्रधानमित्यर्थचित्रता आसमाप्ति कवेस्तत्रैव संरम्भादिति सारबोधिनीकारादयः । अत्र प्रकृतखलाप्रकृतालकयोरेकधर्मान्वयरूपं दीपकमर्थालंकारः प्रधानमिति महेश्वरभट्टाचार्याः॥ ननु प्रथमश्लोके चन्द्रोदयरूपस्योद्दीपनविभावस्य वर्णितत्वेन शृङ्गाररसस्य व्यङ्ग्यत्वात् द्वितीय- श्लोके खलसदृशा अलका इत्युपमायास्तन्मूलकविप्रलम्भस्य च व्यङ्ग्यत्वात्कथमुभयं काव्यमव्यङ्गयम् कथं वा अधमम् "अव्यङ्गयं त्ववरं स्मृतम्" (२३ पृष्ठे ) इत्यनेन व्यङ्गयरहितस्यैवाधमत्वकथनादि- त्याशङ्कते यद्यपीति। सर्वत्रेति (२२ पृष्ठे ) स्वच्छन्देत्यादावपीत्यर्थः । तत्रापि मन्दाकिन्यादि- विषयकस्य रत्याख्यभावादेर्व्यङ्गच्स्य सत्वादिति भावः । विभावाहीति। तेषामेव रसत्वेन पर्यवसान- मिति भावः । ननु स्वच्छन्देत्यत्र भाव एव व्यङ्ग्चो न तु रस इति "सर्वत्र काव्ये" इत्यसंगतमिति चेन्न। रस्यते आस्वाद्यते इति व्युत्पत्त्या रसशब्दस्य व्यङ्गचपरत्वात्। "अव्यङ्गयं त्ववरं स्मृतम्" इति सूत्रेऽव्यङ्गयशब्देन व्यङ्गयरहितं न विवक्षितम् अपि तु स्फुटव्यङ्ग्यरहितमिति न विरोध इति समाधत्ते तथापीति। स्फुटस्येति। अन्यवचित्र्यतिरोधानेन झटिति प्रतीयमानस्येत्यर्थः । उक्तमिति। चित्रस्यैवोन्भटतया चमत्कारित्वेन कवितात्पर्यविषयत्वाद्रसरूपव्यङ्गयस्य चातथात्वाद्धमत्वव्यवहार

Page 321

२६२ काव्यप्रकाशः सटीक:।

इति भाव:। तथा च यत्र व्यङ्गयत्वप्रयुक्तचारुत्वप्रतिपत्तिस्तत्रोत्तमत्वम् यत्र व्यङ्ग्यं वाच्यापेक्षया अतिशयितचमत्कारानाधायकं तत्र मध्यमत्वम् यत्र सत्यपि व्यङ्गये तत्प्रयुक्तचमत्काराभावः कि त्वलंकारमात्रकृतश्रमत्कारस्तत्राधमत्वमिति विभागः । अत एव च वक्ष्यति दशमोह्ासे उपमाप्रकरणे "न खलु व्यङ्गयसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः अपि तु वाच्यवैचित्रयप्रतिभासादेव" इत्यादि। ननु ध्वनिगुणीभूतव्यङ्गयभेदवत् शब्दार्थचित्रावान्तरभेदास्त्वत्र नोक्ताः ते किं न सन्त्येव आहो- स्विन्न ते सचमत्कारा इत्याशङ्कायामाह अत्र चेति। शब्दार्थचित्रकाव्ययोरित्यर्थः। एतद्भेदा्रा- लंकारभेदाद्भवन्तीत्यलंकारनिर्णयेनैव ते निर्णेष्यन्ते इति भाव:॥ इति झळकीकरोपनामकभट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकायां बालबोषटन्यामधमकाव्यनिरूपणं नाम षष्ठ उल्लासः ॥ ६ ॥

कोडय स

Page 322

॥। अथ सप्तम उल्लास: ॥

काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह (सू० ७१) मुख्यार्थहतिर्दोषो रसश्र मुख्यस्तदाश्रयाद्राच्यः। उद्देशकमानुसारेण दोषाभावं निरुपयितुमादौ दोषसामान्यलक्षणमाहेत्याह काव्यस्वरूपमिति। ध्वन्यादिकमित्यर्थः । निरूप्येति। तथा चावसरो वृत्त इति ध्वनितम्। "तद्दोषौ शब्दार्थौ" इति काव्यलक्षणे (१३ पृष्ठे) दोषाणां प्रागुपादानाद्गुणालंकारात्प्राक्तननिरूपणस्यावश्यकत्वादाह दोषाणा- मिति। काव्यदोषाणामित्यर्थः । सामान्यलक्षणमिति। अज्ञातसामान्यस्य विशेषाकाङ्कापि न संभव- तीति प्रथमं सामान्यलक्षणमेवाभिधातुमर्ति इति भावः । अत्र च दोषाभावे निरूपणीयेSभावस्य स्वरू- पतो निरूपणानर्हतया प्रतियोगिनिरूपणाधीननिरूपणकत्वा्धेयापरिचये तद्धानासंभवाच्च दोषलक्षणं शाब्दम् आर्थ च तदभावलक्षणमित्यवगन्तव्यम्। एतेन लक्ष्यस्य दोषाभावस्य लक्षणाप्रणयनादलक्ष्यस्य च दोषस्य लक्षणप्रणयनादुन्मत्तजल्पनकल्पमेतदित्युन्मत्तजल्पनमपास्तमिति नरसिंहमनीषायां स्पष्टम्। यत्तु "गुणविपर्ययात्मानो दोषा:" इति वामनोक्तेर्गुणनिरूपणमेवोचितमिति तन्न। व्यत्ययस्याषि सुवचत्वात् प्रसादादिगुणसत्त्वेऽपि दोषसत्त्वाच्चेत्युइ्योते स्पष्टम्।। व्याख्यातमेतत्प्रदीपोद्योतादिषु। तथाहि। "एवं धर्मिणि काव्ये सप्रभेदे निरूपिते प्राप्तावसरतया दोषाभावादीनि काव्यलक्षणस्थानि विशेषणानि विवेचनीयानि तेषु च दोषाभावः प्रधानम् सति दोषे गुणादेरप्यकिंचित्करत्वात्। यदाह 'स्याद्वपुः सुन्दरमपि श्वित्रेणैकन दुर्भरगम्' इति। सति तु दोषाभावे गुणादिकं विनापि किंचिदाह्लादसंभवात् 'अपदोषतैव विगुणस्य गुणः' इति न्यायात् । अत एव काव्य- लक्षणेऽदोषाविति दोषाभावस्य गुणालंकारात्प्रागुपादानम्। अतः प्रथमं तस्मिन् निरूपणीयेऽभावस्य स्वरूपतो निरूपणानर्हतया प्रतियोगिनिरूपणाधीननिरूपणीयत्वाद्धियापरिचये त्धानासंभवाच्च दोषा निरूपणीयाः । न च सामान्येऽज्ञाते विशेषजिज्ञासेति तत्सामान्यलक्षणमाह मुख्यार्थेत्यादि" इति॥ मुख्यश्र्वासावर्थश्र्वेति कर्मधारयः हतिरिति भावसाधनम् तथा च मुख्यस्यार्थस्य हतिरपकर्षो यस्मात्स दोष इत्यर्थः । अत्र व्यधिकरणत्वेऽपि गमकेत्वात् बहुव्रीहिः। अन्ये तु मुख्यार्थो हन्यतेऽपकृष्यतेऽनेनेति करणसाधनो हतिशब्दः एवं 'हतिरपकर्षः' इति वृत्तावपि अपकर्षशब्दोऽपि करणसाधन एव एवं हि दोषपरता भवति तद्वत्त्वं च दुष्टलक्षणं बोध्यमित्याहुः। एवं च मुख्यार्थापकर्षकत्वं दोषत्वमिति मतद्दयेऽ- पि लक्षणम्। मुख्यत्वमर्थस्य न शक्यत्वलक्षणम् येन लक्षणस्यासंगतिः (सँकलदोषाव्यापकत्वं) स्यात् किं तु इतरेच्छानधीनेच्छाविषयत्वम् तञ्च स्वतः पुरुषार्थे सुखरूपे रसेऽक्षतमित्याह रसश्च मुख्य इति। अत्र रसशब्देन रस्यते आस्वाद्यते इति व्युत्पत्त्या भावादिरप्यपसंग्रह्यते। नन्वेवं नीरसेषु न कश्िचि- १ काव्यदोषाणामिति। न तु ब्रह्महत्यादीनामिति यावत् ॥ २ सूत्रकार इति शेषः ॥ ३ श्वित्रं कुष्ठम्। रोगविशेष इत्यर्थः ॥ दुर्भंगम् असुन्दरम् ॥ ५ गमकत्वात् ज्ञापकत्वात्। "सप्तमीविशेषणे बहुव्रीहौ" ( २।२।३५ ) इति पाणि- निसूत्रे सप्तमीग्रहणमत्र ज्ञापकमिति बोध्यम्। ६ "मुख्यार्थबाधे तद्योगे" इति सूत्रे ( ४२ पृष्ठे) अर्थस्य मुख्यत्वं शक्यत्वरूपं प्रसिद्धम तथा नात्र विवक्षितमित्याह मुख्यत्वमित्यादिना॥ ७ रसादिदोषाव्यापकत्वम् ॥

Page 323

२६४ काव्यप्रकाशः सटीकः ।

उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥४९ ॥ हतिरपकर्षः । शब्दाद्याः इत्याद्यग्रहणाद्वर्णरचने।

द्दोष: स्यात् विघात्यस्य (अपकर्षणीयस्य रसस्य) अभावादित्यत आह तदाश्रयाद्वाच्य इति। आश्रय आश्रयणमपेक्षणम्। तथा च तेन रसेनाश्रयणात् उपकोरकतयापेक्षणात् वाच्यः शब्दबोध्योऽपि मुख्य इत्यर्थः । वाच्योऽपपि रससाहचर्याच्चमत्कार्येव ग्रृह्यते। न चैवं मुख्यशब्दार्थस्य नानात्वेनाननुगम इति वाच्यम् काव्ये प्राधान्येनोद्देश्यप्रतीतिविषयत्वेनानुगमात्। तदेवं रसवति सर्व एव दोषाः नीरसे तु अवि- लम्बितचमत्कारिवाक्यार्थप्रत्नीतिविघातका एव हेया इति मन्तव्यम्। नरसिंहठक्कुरास्तु "ननु रसस्यैव मुख्यत्वेऽर्थे मुख्यत्वव्यवहारः कथमित्यत आह तदाश्रयाद्वाच्य इति। तथा च गौणस्तत्र व्यवहारः" इत्याहुः। नन्वेवं रसवाच्ययोरेव दोषाधारत्वमुचितं न तु शब्दादीनामित्यत आह उभयोपयोगिन इत्यादि। शब्दाद्याः उभयोः रसवाच्ययोः उपयोगिनः उपायभूताः (व्य्जकवाचकत्वादिनोपका- रका:) स्युः विभावादिप्रतीतिद्वारा रसप्रत्यायकत्वेन तेषामुभयोपयोगित्वमिति भावः। तेन रसोपायत्वेन (हेतुना ) तेषु अर्थशब्दादिष सः दोषः न केवलं रसे एवेत्यपेरर्थः । अत्र सूत्रे शब्दपद शब्धते बोध्यतेऽनेनेति व्युत्पत्या प्रतिपादनात्मकशब्देनाव्यापारवतोः पद्वाक्ययोर्वर्तते। तेन 'आद्यग्रहणा- द्वर्णरचने संग्ृहीते' इति वृत्तिस्वरसः । अन्यथा वर्णस्य शब्दरूपत्वादाद्यपद्ग्राह्यता वृत्त्युक्ता असं- गता स्यात्। न च तत्र बीजाभावः। अन्यथा वर्णस्यापि शब्दपदेनैव प्रात्तौ शब्दाया इति बहुवचना- संगतेरिति बोध्यम्।

हतिपदं व्याचष्टे हतिरपकर्ष इति। अपकर्षश्र रसनिष्ठो जातिविशेषः तव्यञ्ञकं दोषज्ञानम् अस- त्यपि श्रतिकटुत्वादौ तद्भ्मेण रसोपकर्षव्यक्तेरिति बोध्यम्। केचित्तु आनन्दांशे सम्यगावरणध्वंसाभावो- डपकर्ष इत्याहुः । वर्णरचने इति। संग्रहीते इति शेषः । रचना घटना पौर्वापर्यरूपा आनुपूर्वी। अत्र सूत्रे मुख्यत्वमात्रं सुखान्तरेडप्यतिप्रसक्तमिति तद्वारणायार्थपदम्। अर्थत्वं तु शब्दजन्यसाक्षात्कारविष- यत्वम्। काव्यभिन्नशब्दाश्र न सुखप्रत्यक्षम सुखांशे आवरणभङ्गाभावात् काव्योपात्तविभावादिप्रतीत्यैव तद्भङ्गात् किं तु शाब्दबुद्धिरेव। 'पुत्रस्ते जातः' इत्यािवाक्यात् जायमानसुखं तज्जन्यपुत्रोत्पत्तिज्ञानादे- वेति न दोषः । अस्तु वा तस्याँपि काव्यत्वमेव। अर्थत्वमात्रमचमत्कारिण्यर्थेऽपि अतो मुख्यत्वमुपात्तम्। केचित्तु अर्थत्वमात्रं शब्देऽपि तस्यापि विषयतया शब्दजन्यश्रवणसाक्षात्कारविषयत्वात् अतो मुख्यत्वमुपात्तमित्याहुः। एतेन मुख्यत्वार्थत्वयोः परस्पराव्यभिचारात्कर्मधारयानुपपत्तिरर्थपदवैयर्थ्य चेति दूषणद्दयमपास्तमिति प्रदीपोद्दयोतसारबोधिन्यादिषु स्पष्टम्।

ननु हतिर्विनाश: न च दोषण रसो नाश्यते दुष्टेष्वपि रसानुभवात्। तस्मादलक्षणमेतदिति चेत् मैवम्। हतिशब्दस्यापकर्षवाचित्वात्। नन्वेवं रसानुत्पत्तिप्रयोजकेषु च्युतसंस्कृत्यादिष्वव्याप्तिः। अथा- नुत्पत्तिरेव हतिशब्दार्थः । त्हिं यत्र रस उत्पय्यत एव परं त्वपकृष्यते तत्र श्रुतिकटुप्रतिकूलवर्णादावव्या- परिः। तदेतल्वक्षणमतिदरिद्रवम्पत्योः कृशतरनिशावगुण्ठनीय वसनमिवैकेनापकृष्यमाणमपरं परिहरति।

१ उपकारकतयेति। विभावाद्िसमूहालम्बनरूपत्वाद्रसस्येत्यर्थः ॥ २ शक्द्बोध्योऽपीति। एतेन बाच्यलक्ष्यव्यङ्गयाः संगुह्यन्ते॥ 3 प्राधान्येनोद्वेश्येति। सा च चमत्कारिणी प्रतीतिः तेन चमत्कारिकाव्यजन्यप्रतीतिविषयत्वमित्यर्थः ॥ * 'पुत्रस्ते जातः' इस्यस्यापि।

Page 324

सप्तम उल्लास: । २६५

विशेषलक्षणमाह (Fu op)

किंच अर्थरूपस्य मुख्यार्थस्यानुत्पत्तिरपकर्षो वा न दोषाधीन इति। अत्र बूमः । उद्देश्यप्रतीतिविघातल- क्षणोऽपकर्षो हतिशब्दार्थः । उद्देश्या च प्रतीतिः रसवत्यविलम्बितानपकृष्टरसविषया च। नीरसे तु अविलम्बिता चमत्कारिणी चार्थविषया। तथा च तादृशप्रतीतिविघातकत्वं सर्वेषामविशिष्टम्। यतो दुष्टेषु क्वचिद्रसस्याप्रतीतिरेव क्वचित्प्रतीयमानस्यापकर्षः क्वचिद्विलम्बः । एवं नीरसे क्रचिदर्थस्य मुख्यभूतस्याप्रतीतिरेव क्वचिद्विलम्बेन प्रतीतिः क्वचिद्चमत्कारितेत्यनुभवसिद्धमित्युद्देश्यप्रतीत्यनुत्पादो व्यक्त एव। तद्विघातकता च कस्यचित्साक्षात् यथा रसदोषाणां स्वशब्दवाच्यत्वादीनाम्। रसाप- कर्षकाणामपि तेषां प्रकृष्टरसव्यक्षकत्वभावोऽस्त्येव। कैस्यचित्परंपरया यथा शब्दार्थवर्णरचनादो षाणाम्। तेष्वपि कस्यचिदर्थोपस्थितेरभावात् यथा असमर्थत्वादेः। कस्यचित्तद्विलम्बात् यथा निहता- र्थत्वादेः। कस्यचिद्वाक्यार्थबोधाभावात् यथा च्युतसंस्कृत्यादेः। करयचित्तत्र विलम्बात् यथा क्िष्टत्वादेः। कस्यचित्सहृदयतरमुख्यव्यग्रताद्यापादनेन यथा निरर्थकत्वादेः। कस्यचिद्विरोध्युपस्थापनेन विपरीतार्थोपस्थापनेन वा। यथा अमतपरार्थविरुद्धमतिकृत्त्वादेरित्याबूह्यम्। विघातकत्वं च कस्यचित् ज्ञातस्य यथा व्याहतत्वादेः। यस्य पूर्वमुत्कर्षापकर्षौ वर्णितौ तस्याग्रे तद्वैपरीत्यं चेव्ाहतः। कस्यचि- त्स्वरूपसत एव यथा निहतार्थत्वादेः। एवं चेदं दोषसामान्यलक्षणम् 'उद्देश्यप्रतीतिविघातको दोषः' इति। स चायं दोषो द्विविधः। नित्योऽनित्यश्र। तत्रानुकरणादन्येन प्रकारेण समाधातुमशक्यो नित्यः यथा च्युतसंस्कृत्योिः। अन्याद्ृशस्त्वनित्यः यथा अप्रयुक्तादि: तस्य श्लेषादावदोषत्वादिति बोध्यम्। अथ वा सर्वदैव हेयो नित्यः यथा च्युतसंस्कृत्यादिः। तदन्यस्त्वनित्यः यथा शृङ्गारादौ हेयमपि श्रुतिकटु रौद्रादावुपादेयमेवेति प्रदीपोद्दयोतादिषु स्पष्टम्। तदेतत्सर्वमभिप्रेत्य वृत्तिकारैरुक्तं 'हति रपकर्ष' इतीति बोध्यम् ।।

विशेषलक्षणमिति। काव्यदोषाणामिति शेषः। व्याख्यातं च प्रदीपोद्दचोतयोः। "अथ विशेष- लक्षणानि वक्तव्यानि तत्र नित्यानित्यत्वरूपेण द्विविधोऽप्ययं दोषस्त्रिविधः शब्ददोषोऽर्थदोषो रस- दोषश्र्वेति। वाक्यार्थबोधात्प्राक् प्रतीयमाना: शब्दगाः ततः परं प्रतीयमानाः परंपरया रसापकर्षका अर्थगा: तादशाः साक्षाद्रसापकर्षका रसगाः। तत्र शब्दार्थरसानां यथापूर्वमुपस्थितिः प्राथमिकीति तत्क्रमेणैव दोषभेदा निरूपणीया इति शब्ददोषाणां प्राथम्यम्। शब्दस्तु त्रिधा। पदं तदेकदेशो वाक्यं च। एवं च तदाश्रितः शब्ददोषोऽपि त्रिविधः। तत्र पदानां वाक्यघटकत्वेन प्राथम्यात्प्रथमं तद्दोषनिरूपणमिति परमार्थः। तत्रेदं शङ्कयते। एवं सति पदैकदेशस्य पदापेक्षयापि प्राथम्यम् न च पदांशः पदनिरूप्यः प्रकृतित्वप्रत्ययत्वादिना भानात्। तस्मात् (प्राथम्यात्) तद्दोषनिरूपण- स्यैव प्राथम्यमैहताति। अत्र भास्करः 'सत्यमुच्यते परं तु पददोषेष्वेव यथासंभवं केचित् पदैकदेश- दोषा:' इति समादधे तन्नातिमनोरमम्। अस्त्वेवं तथापि पदैकदेशदोषत्वेन प्रथमाभिधानापादने किमुत्तरमिति। वयं त्वालोचयामः । उपदेशे तावत् प्राथम्यादिविचारणा अतिदेशस्तूपदेशानन्तर- मेव न च पदैकदेशे दोषोपदेशः अतिदेशेनैव तल्लाभे लाघवात्। न च पदैकदेशे एवास्तूपदेशः

कस्थचिदिति सामान्याभिप्रायमेकवचनम् ॥ २ आदिपद्याहा अग्रे ३०५ उदाहरणे स्फुटीकरिण्यन्ते॥ 3 यथा- पूर्वमिति। पूर्वमनतिकम्यन्यर्थः ॥ ४ 'अर्हनीत्यस्य प्राथम्यमेव कर्तृ' इति प्रभा। 'तद्वोषनिरूपणस्य प्राथम्यं ग्रन्थरदह- तीत्यन्वयः' इत्युद्दयोतः॥म म ३४

Page 325

२६६ काव्यप्रकाश: सठकिः ।

(सू० ७२) दुष्ट पदं श्रुंतिकटु च्युतसंस्कृत्यप्रयुक्तरमैंसमर्थम्। निहंतार्थमनुचितार्थं निरर्थकमवार्चकं त्रिधाश्लीलम् ॥ ५०॥ संदिग्धमप्रंतीतं ग्राम्यं नेयार्थमथ भवेत् क्रिट्टम्। अविमृष्टविधेयांशं विरुन्द्मतिकृत्समासगतमेव ॥ ५१॥

पदे त्वतिदेश इति वाच्यम्। पदैकदेशावृत्तीनामपि केषांचित् पदवृत्तित्वेन तदर्थ पदेषूपदेशस्या- वश्यकत्वादिि। पद्दोषविशेषलक्षणमाह दुष्टं पदमित्यादि" इति॥

  • दुष्ट पदमिति। श्रतिकटु पदं दुष्ट भवेदिति संबन्धः। एवं सर्वत्र बोध्यम्। तदुक्तं विवरणे "दुष्ट पदमिति विधेयं: सर्वत्रान्वयि श्रुतिकटुपदाद्यन्यतमत्वं पददोषसामान्यलक्षणमपि तन्मात्रलक्षणत्वेन दोषविशेषलक्षणमेवेति न प्रतिज्ञाहानिः" इति। "पदशब्देनात्र सुबन्तं तिङन्तं तत्प्रकृतिभूतं प्राति- पदिकादि च ग्रृह्यते। विभक्तिप्रत्ययादेस्तु पदैकदेशत्वमग्रे वक्ष्यति" इत्युद्चोते स्पष्टम्। श्रुतिकटु अ्रत्युद्वेगजनकं परुषवर्णम्। च्युतसंस्कृति व्याकरणलक्षणहीनम्। असाध्विति यावत्। अप्रयुक्तं तथा आम्नातमपि कविभिर्नादृतम्। असमर्थ तदर्थाबोधकम्। निहतार्थम् अर्थान्तरप्रतीत्या प्रकृतव्यवधायकम्। अनुचितार्थम् अयोग्यार्थकम्। निरर्थकम् पादपूरणमात्रार्थकम्। अवाचकम् अनभिधायकम्। अश्लीलं वीडानिन्दाशुभविधया व्रिधा त्रिप्रकारकम्। संदिग्धं नानार्थे संदेहविषयभूतम्। अप्रतीतं यत्किश्चि- च्छास्त्रपरिभाषितम्। ग्राम्यं ग्रामे भवो ग्राम्यो लोकस्तन्मात्रप्रयुक्तम्। नेयार्थ निषिद्धमपि लक्षणया प्रयुक्तम्। इदं दोषजातं केवलपद्गतं समासगतं च। अथ क्विष्टाि समासगतमेवेत्यन्वयः। क्रिष्ट बलाव्याख्येयार्थकम्। अविमृष्टविधेयांशम् अिमृष्टः प्राधान्येनानुक्त: (गुणीभूतः) विधेयांशो यत्र तादृशम्। विरुद्धमतिकृत् विरुद्धस्य मति विरुद्धां (विपरीतां) वा मति करोत्ीति तादृशमिति संक्षिप्तः कारिकार्थः । एते षोडश पददोषा इति भावः । एतेषां स्वरूपं परस्परभेदश्र तत्तदुदाहरणावसरे विशे- षतो मतभेदेन सविस्तरं स्फुटीभविष्यतीति बोध्यम्। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥

ननु श्रतिकटुप्रभृतिशब्दानां लक्षणपरत्वे विभागपरत्वाभावाल्लक्ष्यानुपस्थितौ कथं लक्षणवाक्यत्वनिर्वा- हः लक्षणवाक्यस्य लक्ष्यलक्षणसंबन्धबोधकत्वात्। तथा च विभागवाक्याल्लक्ष्योपस्थितावेव हि विशेष- लक्षणाकाड्कायां लक्षणकथनयोग्यत्वम् विभागपरत्वे तु लक्षणानुक्तेर्न्यूनतेति। अत्रोच्यते। श्रुतिकद्वादि- पदेभ्यो रूढियोगाभ्यामुभयार्थोपस्थितौ लक्ष्यलक्षणयोरुभयोरपि प्रत्ययः । तत्र रूढ्यर्थो लक्ष्यः श्रुतेः कटु श्रुतिकटु इत्यादिरूपो योगार्थो लक्षणम्। यथा "घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यैः" इति गौतमीये (१।१।१२) इन्द्रियलक्षणसूत्रे रूढ्यर्थो लक्ष्यः जिघ्रतीति घ्राणमित्यादिरूपो योगार्थों लक्षणमिति प्रदीपकाराः। उदयोतकारास्तु योगरूढेषु एकार्थीभाववादिनां मते नैकविनाकृतापराथार्पस्थि- तिरिति कथं प्राक लक्ष्यज्ञानम् यस्य योगार्थो लक्षणं स्यात्। अतः श्नतिकट्टादिपदवाच्यत्वं लक्षणमित्या- हुः। इदमेव युक्तम् नतु प्रदीपोक्तम् "रूढ्यर्थयोगार्थयोरन्यतरवियोगेनान्यत्रान्वयायोगः" इति नियम विरुद्धत्वात्। नन्वयं नियमो व्यभिचरितः 'अरिमेद: पलाशश्र् बाहुः कल्पद्रुमश्र ते' इति प्राचीनोक्तपद- श्लेषोदाहरणे (अरीणां शत्रूणां मेदो वपां पलं मांसं चाश्नातीति अरिमेदः पलाशस्ते तव बाहुः अरिमेद-

१ भूतेभ्य इति। पृथिव्यप्तेजोवाय्वाकाशरूपपश्चमहाभतोपादानकारणकानीत्यर्थः॥ २ बृहदुद्व्योते तु 'केवलरू- ढेर्योगस्य चातिप्रसक्तत्वाद्योगरूढानीमानि तत्र हि नैकविनाकतापरार्थोपस्थितिरिति' इति पाठः। अन्यत्सर्व प्राग्वत् ॥

Page 326

सप्तम उल्लास:। २६७

(१) श्रुतिकटु परुषवर्णरूपं दुष्टं यथा

आलिद्रितः स तन्वङ्या कातार्थ्य लभते कदा ॥ १४१॥ संज्ञकः पलाशसंज्ञकश्र कल्पद्रुमः इत्यर्थके) परस्परमुद्देश्यविधेयभावेनान्यतरवियोगेनान्यत्रान्वयस्य दृष्ट- त्वादिति चेत्। अत्रोच्यते। अरिमेदपलाशशब्दौ हि यगिकरूढौ मण्डपादिशब्दवत् नतु पङ्कजादिश- ब्दवत् योगरूढौ वृक्षयोर्मेंदःपलानशितृत्वात्। योगरूढस्थले चायं नियम इति नास्य व्यभिचार इति। परस्परनैरपेक्ष्येणावयवशक्त्या समुदायशक्त्या चार्थप्रत्यायकं यौगिकरूढम्। यथा उद्धिदादिपदम्। उद्धित्पदादवयवमात्रशक्त्योन्द्ेदनकर्तारस्तरुगुल्माद्या बुध्यन्ते। "उद्धिदा यजते" इत्यादौ यागविशेषः समुदायशक्त्यैव बुध्यते।अवयवशक्त्या समुदायशक्त्या चार्थप्रत्यायकं योगरूढम्। यथा पङ्कजादिपदं पङ्कजनिकर्तृत्वेन रूपेण पद्मत्वेन रूपेण च पदमं बोधयतीति प्राक् (२३३ पृष्ठे) प्रतिपादितमित्यलं पुनरुक्त्या। वस्तुतस्तु सूत्रे श्रतिकट्टादिपदस्य आवृत्त्या एकस्य (रूढस्य) लक्ष्यपरत्वम् अपरस्य (यौगिकस्य) लक्षण्परत्वमिति ऋजुः पन्थाः॥ "अथैषां लक्षणवाक्यत्वे 'त्रिधाश्लीिम्' इत्यत्र त्रिधेति निरर्थकम् तस्य विभागमात्रार्थत्वेन लक्षणेS- नुपयोगादिि चेन्न। अश्लीलशब्दस्य व्रीडादिव्यनजकत्रितयसाधारणैकावयवशक्तिविरहेण नानार्थतया लक्षणत्रयार्थत्वमित्यस्य तंदर्थत्वात्" इति प्रदीपे स्पष्टम्।। तत्र श्रुतिकठुत्वं यद्यपि श्रुत्युद्वेजकत्वम् तञ्च पुरुषभेदेनानियतम् तथापि तज्जनकतावच्छेदकरू- पवत्वं विवक्षितम् तच्च परुषवर्णत्वम् तच्च दुर्वचत्वम्। तदाह श्रुतिकटु परुषवर्णरूपमिति। अत्र सारबोधिनीकारा: "परुषवर्णत्वं मुख्यार्थापकर्षकत्वे सत्योजोव्यञ्जकवर्णत्वम्। वीरादिष्वदुष्टतया तद्तिप्रसङ्गवारणाय सत्यन्तम् वीरादिषु मुख्योत्कर्षकत्वादस्यादोषत्वात्। न च प्रतिकूलवर्णेनास्य संकर इति वाच्यम्। उपधेयसांकर्येडप्युपाध्योरसांकर्यात्। तथाहि। अत्र प्रकृतरसव्यञ्जकवर्णाभावाद्र- सोद्वोधरूपं कार्य न जायते प्रतिकूलवर्णें तु प्रकृतरसप्रतिबन्धकैवर्णैः प्रतिबध्यते इत्यनयोरेकत्र व्यञ्ष- कवर्णाभावात्कारणाभावप्रयुक्तकार्याभाववत्त्वम् अपरत्र प्रतिकूलवर्णसन्भावात्प्रतिबद्धकार्यकत्वमेव दूष- कताबीजम्। इदं मधुररसे एव दूषकम् प्रतिकूलवर्ण तु सर्वत्र रसे इति स्मर्तव्यम्। वर्णानां रसे व्यक्ष- कत्वं प्रातिकूल्यं च [अष्टमे उल्लासे ] वक्ष्यते" इत्याहुः। वस्तुतस्तु प्रतिकूलवर्णव्याख्यावसरेऽनयो- भेदः प्रतिपाद्यिष्यते॥ प्रथमं पददोषमुदाहरति अनङ्गमङ्गलेति। शम्भल्याः (कुद्टन्याः) कयोश्व्वित्कामिनोः समागमानुध्या- नमिद्म्। स मद्बुद्धिस्थो युवा अनङ्गमङ्गलगृहापाङ्गाः कन्दर्पोत्सवमन्दिरायमाणकटाक्षास्तेषां याः भङ्गयः प्रकारास्तासां तराङ्गितैः तरङ्गवदाचरणैः उत्तरोत्तराविच्छेदरूपैः उपलक्षितया सहितया वा तन्व- ङ््या कृशाङ्ग्या आलिद्गितः सन् कार्तार्थ्य कृतार्थतां कदा लभते लप्स्यते प्राप्स्यति इत्यर्थः। "विभाषा कदाकह्यों:" (३।३।५) इति पाणिनिसूत्रेण कदाशब्दयोगे भविष्यति लट्। उद्दयोतचन्द्रिकाका- राभ्यां तु 'तन्वङ्ग्यालिङ्गितः कण्ठे' इति प्रदीपपाठमुपादाय "अत्र पूर्वार्धे लोचनैरिति विशेष्य- मध्याहार्यम्। अङ्गशून्यस्यापि विजयप्रदत्वान्मङ्गलगृहमिति कश्रिवित्। स्वस्यानङ्गत्वादत्र मङ्गलं निहित- १ तदर्थत्वात् तस्प्रतिपाद्यत्वात्॥ २ परुषत्वमोजोव्यञ्जकत्वम्। वीरबीभत्सरौद्रेण्वस्यादुष्टत्वादाह दुर्धचत्वमिति। मुख्यार्थापकर्षकत्वमित्यर्थः। वीरादौ तु मुख्यार्थोत्कर्षकत्वाददुष्टत्वम् दुःखेन वक्तु शक्यत्वाच्च तत्वं माधुर्यवद्रसेS- स्येत्युद्दयोते स्पष्टम् ।।

Page 327

२६८ काव्यप्रकाश: सटीक:।

अत्र कातार्थ्यमिति॥ (२) च्युतसंस्कृति व्याकरण लक्षणहीनं यथा

मित्यपरे। तत्संबन्ध्यपाङ्गवृत्तिभङ्गीनां ये तरङ्गा उत्तरोत्तराविच्छेदास्ते संजाता येषु तैः लोचनैः उपल- क्षितया कृशाङ्या कण्ठे आलिङ्गितः कृतार्थतां कदा लभते लप्स्यते इत्यर्थः" इति व्याख्यातम्। अन्ये तु भङ्गीनां तरङ्गवदाचरणैः करणैः तन्वङ्ग्या (क्या) आलिङ्गित इत्याहुः॥ अत्र कार्तार्थ्यमिति पदं कठोरवर्णघटितत्वाच्छतिकटु। तदेवाह अत्र कार्तार्थ्यमितीति। 'परद परुषवर्णप्रायम्' इति शेषः। स्वायत्ते शब्दप्रयोगे निरर्थ प्रयुक्तो दुःश्रवः कार्तार्थ्यमितिशब्दः श्रोतु- विर्रक्तिमापादयताति दुष्ट इति भावः। यमकायर्थ प्रयुक्तस्तु न दुष्ट इति बोध्यम्॥ व्याख्यातमिदं प्रदपो््योतयोः। "अत्र कार्ता्थ्यमिति पदं परुषवर्णप्रायम्। कि पुनरस्य दूषकता- बीजम्। उद्वेगजनकत्वमिति चेन्न। रौद्रादावपि दोषत्वप्रसङ्गात्। माधुर्यव्यअ्षकरचनामध्यगुम्फितमेव तदुद्वेजयतीति चेत्। तत्किं तादशत्वेन ज्ञातं तथा उत स्वरूपसदेव। नाद्यः। रसविशेषव्य्जकत्वा- ज्ञानेऽपि प्राथमिकतादृशपदश्रवणेनोद्वेगाभावप्रसङ्गात्।न चेष्टापत्तिः। अनुभवविराधात्। अन्त्ये तु सत्यादयः प्रमाणम्। न ह्यविदितविशेषानपि तत्रैव तदुद्वेजयति नान्येत्रत प्रमाणमस्ति। किंच एवं वैयाकरणादौ वक्तरि किंनिबन्धनो दोषत्वाभावः स्यात्। अत्रोच्यते। स्वायत्ते शब्दप्रयोगे कणोंपता- पकशब्दप्रयोगेण श्रोतुरुद्वेगो रसापकर्षायेति स एव तद्वीजम्। अत एव प्रतिकूलवर्णादस्य भेद: तस्य केर्णोपतापाहेतुत्वात्। अत एव चानुकरणे वैयाकरणादौ वक्तरि श्रोतरि वा रौद्रादौ रसे व्यङ्गये नीरसे च काव्येऽस्य दोषत्वाभावः। आद्ये तस्यवानुकरणीयतया स्वायत्त्यभावात् द्वितीये च तत्स्वभावाव- गमे नोद्वेगाभावात् तृताये च श्रोतुस्तेनानुद्वेगात् चतुर्थे तदनुगुणवेनोद्वेगाहेतुत्वात् पञ्चमे मुख्यार्थहते- रभावात्। अत एवायं माधुर्यवच्छान्तकरुणशुङ्गाररसप्रधानकाव्ये एवेत्याहुः। एवमर्थौचित्यप्रकरणादिव- शेनाप्यनुद्देजकतया दोषत्वाभाव उपपद्यते। एवं च रसायपकर्षकं श्रोतुरुद्वेगजनकत्वं श्रुतिकटुलक्षण- मिति बोध्यम्। एतेन श्रुतिवरैस्याधायकशब्दत्वं श्रृतिकठुत्वमिति कैश्िविदुक्त निरस्तम्" इति॥ द्वितायं पददोषमुदाहरन् च्युतसंस्कृतिपदं व्याचष्टे च्युतेति। च्युता सखलिता संस्कृतिः संस्करणं व्याकरणलक्षणानुगमो यत्र तदित्यर्थः। यद्भ्ाषासंस्कारकव्याकरणलक्षणविरुद्धं यत् तत् तन्द्ाषायां व्युतसंस्कृताति भावः। संज्ञाशब्दानां डित्थडपित्थादीनाम् "उणादयो बहुलम्" (३।३।१) इति पाणिनिसूत्रेण संस्कृतत्वान्न तत्रातिव्यातिः। देश्यं तु न लक्षणविरुद्धं किंतु तद्विषय एव। एवं च तत्र च्युतसंस्कृतिरन दोषः। देश्यं तत्तेशीयभाषारूपम्। यत्तु 'देश्यं लडहादि' केनचिदुक्तम्

१ एकस्यास्तन्वङ्गयाः लोचनबहुत्वाभावेऽपि तव्ापारबहुत्वाल्लेोचनैरिति बहुवचनम्। यद्वा आदावञजनेति २०० उदाहरणस्थवृत्तिगन्थे 'अलसवलितैः' इत्यादौ 'ईक्षणः' इतिवत् लोचनशब्दूस्य व्यापारवाचकत्वाद्वहुवचनोपपत्तिरिति भाति॥ २ तादृशत्वेन माधुर्यव्यञ्जकरचनामध्यगुम्फितत्वेन॥ ३ अन्त्ये इति। वस्तुगत्या माधुर्यव्यञ जकरचनामध्य- गुम्फितं नतु तत्त्वेन ज्ञातमिति पक्षे इत्यर्थः॥ सत्याद्य हति। "सत्येन शापयेद्विप्रम्" इत्यादिस्मृतयुक्ताः शपथा इत्यर्थः "सत्यं शपथतथ्ययोः" इत्यमरः ॥५ नान्यत्रेति। न सौद्रादिरसे इत्यर्थः॥ ६ इतीति। इत्यस्मिन्ननर्थे इत्यर्थः।। ननु माधुर्यव्यञ्जकरचनामध्यगतत्वेन ज्ञातमेवोट्वेजकमित्येवानुभव इत्पतो दोषान्तरमाह किंचैवमिति॥८ तस्येति। प्रतिकूलवर्णस्येत्यर्थः॥९ कर्णेति। रौद्रे मसृणवर्णादेरिति भावः ॥ १० दोषत्वाभाव इति। "वक्त्रादौचित्यवशात्" इत्यादिना ८१ सूत्रेणाय्रे वक्ष्यमाण इत्यर्थः ॥ ११ यद्राषेति। संस्कृतभाषाव्याकरणवच्छौरसेन्यादिपाकृतभाषाव्याकर- णस्यापि सत्वादित्यर्थ: ।।

Page 328

सप्तम उल्लास:। २६९

प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते। तत् पल्लीपतिपुत्रि कुअ्जरकुलं कुम्भाभयाभ्यर्थना- के हमाड (5)

दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥ १४२॥ अत्रानुनाथते इति । 'सपपिषो नाथते' इत्यादाविवाशिष्येव नाथतेरात्मनेपदं विहितम्

तन्न। "लडहादयो बहुलम्" इति प्रकृतसूत्रेण तेषामपि व्युत्पादनादित्याहुरिति प्रदीपोह््चोतयोः स्पष्टम्। केचित्तु प्राकृतानां "दाढादयो बहुलम्" इति वररुचिकृते प्राकृतप्रकाशे ४ परिच्छेदे ३२ सूत्रेण सामान्यतो व्युत्पादनान्न तत्र दोष इत्याहुः। तदेवाह व्याकरणलक्षणहीनमिति। व्याकरणस्य लक्षणं सूत्रं तद्द्ीनं तदविरुद्धमित्यर्थः । केचित्तु व्याकरणेन लक्ष्यते इति लक्षणं साधुत्वं तद्दीनं तच्छून्यमित्याहुः ॥

एतन्मन्देति। पल्लीपतिपुत्रयाः कुचयुगं दिद्दक्षोः कस्यचिद्विदग्धस्योक्तिरियम्। हे पल्लीपतिपुत्रि। पल्ली क्षुद्रग्रामः । "कुटीकुग्रामयोः प्लिः" इति शाश्वतकोशः। पल्लिशब्दात् "सर्वतोऽक्तिन्नर्थादित्येके" इत्यनेन "पिप्पल्याद्यश्र" इत्यनेन वा डीष पल्लीति रूपम्। तत्स्वामिनः मुख्यशबरस्य प्रधानभिल्लस्य पुत्रि एतत् पुरोदृश्यमानम् अनपलपनीयमिति यावत् अर्थात् त्वत्कुचयुगं पुलिन्दसुन्दरः शबरयुवा तस्य करस्पर्शक्षमं हस्तमर्दनयोग्यं यतो लक्ष्यते दृश्यते तत् तस्मात्कारणात् कुञ्जरकुलं करिसमूहः त्वाम् अनुनाथते याचते इत्यन्वयः । किमित्याकाङ्ायामाह कुचयुगमित्यादि। त्वं कुचयुगं पत्रैः पर्णैः आवृतम् आच्छनं मा कृथा: मा कुरु इतीत्यर्थः । एवं च याचनस्य 'मा कृथाः' इत्यन्तवाक्यार्थः कर्मेति बोध्यम्। याचने हेतुगर्भ कुञ्जरकुलविशेषणमाह कुम्भेत्यादि। कुम्भयोः कुम्भस्थलयोर्या अभयस्य अभ्यर्थना प्रार्थना तया दीनं कातरमित्यर्थः । केचित्तु 'अभ्यर्थनाद्दीनिम्' इति पाठं स्वीकृत्य कुम्भाभयाभ्यर्थ- नात् प्राणरक्षणवाञ्छनादितिभावः दीनं यथा स्यात्तथा त्वाम् अनुनाथते इत्यन्वयमाहुः। तथा च कुचयोः पत्रानावृतत्वे तदासक्तमनसः पुलिन्दसुन्दरस्य प्रहारपाटवं न भवतीति अनयोः कतरः कुम्भ इति संशयेन हनने मौढ्यं वा भविष्यतीति तत्सारूप्येण प्रहारायोग्यत्वबुद्धया वा कुम्भाभयं स्यादिति भावः । केचित्तु शबरयूनस्तव्यासङ्गेन धनुस्त्यागात्स्यादेव प्राणरक्षणमिति भावमाहुः। कीदृशं कुचयुगम्। मन्दमीषत् विपक्कं तिन्दुकस्य कालस्कन्धस्य महाराष्ट्रभाषायां टेंभुरणीति प्रसिदधस्य यत् फलं तद्दत् श्यामं सुन्दरं श्यामवर्ण वा उदरं मध्यभागो यस्य तथाभूतं च तत् आपाण्डर ईषत्पाण्डरः प्रान्तो यस्य तथाभूतं चेत्यर्थः । "तिन्दुकः स्फूर्जकः कालस्कन्धश्र शितिसारके" इत्यमरः। हन्तेति हर्षे 'लक्ष्यते' इत्यनेनान्वाय। अत्र मन्दविपक्कमित्यनेनेषत्कठिनत्वपाण्डरत्वलाभः। पल्लीपतिपुत्रत्यिनेन तत्पुत्रयास्तव भीतत्राणमुचितमिति ध्वनितम्। कुलमित्यनेन बह्वनुरोधात्तथाकरणस्यावश्यकत्वं ध्वनितम्। शार्दूलवि- क्राडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ॥

अत्र 'अनुनाथते' इति पदं व्याकरणलक्षणविरुद्धं च्युतसंस्कृति "आशिषि नाथः" इति वार्तिकेन नाथतेराशिष्येवात्मनेपदविधानादत्र च याचनार्थत्वात्। तदेवाह अत्रानुनाथते इतीति। पदं च्युत- संस्कृतीति शेषः । अयं भावः । 'अथ कत्थन्ता: षट्ठिशदनुदात्तेतः' इत्युपक्रम्य 'नाथू नाधृ याच्चोपतापै- श्वर्याशी:षु' इते धातुपाठे पाठादनुदात्तेत्वादेव "अनुदात्तङित आत्मनेपद्म्" (१।३।१२) इति

Page 329

२७० काव्यप्रकाशः सटीक:। "आशिषि नाश्रः" इति। अत्र तु याचनमर्थः । तस्मात् 'अनुनाथति स्तनयुगम्' इति पठनीयम्। (३) अप्रसुक्तं तथा आम्नातमपि कविभिर्नादृटतम्। यथा यथायं दारुणाचार: सर्वदैव विभाव्यते। पाणिनिसूत्रेणैवात्मनपदे सिद्धे "आशिषि नाथः" इति वार्तिकेन पुनरात्मनेपद्विधानं नियमार्थम् 'आशिष्येवात्मनेपदम्' इति। इह याच्ञार्थत्वादात्मनेपदप्रयोगो व्याकरणलक्षणहीन इति। अयं च्युत- संस्कृतित्वरूपो दोष: पदे एव न पदैकदेशे इति 'आदावञ्जन०' इति २०० उदाहरणे स्फुटी- भवष्यति। सर्पिषो नाथते इति। अत्र "आशिषि नाथः" (२।३।५५) इति पाणिनिसूत्रेण आशरिथस्य नाथतेः कर्मणि सर्विषि श्रेषे षष्ठी सर्पिमें स्यादित्याशास्ते इति तदर्थः। आत्मनेपदं केन विहितमित्याकाङ्कायामाह "आशिषि नाथः" इतीति। "क्रीडोऽनुपसंपरिम्यश्र" (१।३२१) इति पाणिनिसूत्रस्थेन "आशिषि नाथः" इति वार्तिकेन कात्यायनकृतेनेत्यर्थः । यत्तु "आशिषि नाथः" इति सूत्रणेति प्रदीपकारोक्तम् तत्तु भ्रममूलकमवोत बोध्यम्। न च 'अनुनाथते' इत्यात्रा- प्याशीरर्थ इति वाच्यम् त्वामित्यस्य कर्मत्वानुपपत्तेः। इष्टार्थस्यैवाशंसनकर्मत्वात्। तदाह अत्र तु याचनमर्थ इति। कयं तहिं पाठो युक्त इति शङ्कायां युक्तं पाठमुपदिशति तस्मादिति। पठनीयमिति। 'अनुनाथति' इति परस्मपद्मेव युक्तं याचनार्थत्वादिति भावः। एवं 'नाथसे किमु पतिं न भूभृताम्' इत्यपि किरातकाव्ये १३ सगे ५९ श्लोके च्युतसंस्कृत्युदाहरणं बोध्यम्। तत्र 'नाधसे' इति पठनीयम्॥

यत्तु आत्मनेपदिगणपाठादेवात्मनेपदे सिद्धे पुनस्तद्विधानं नियमाय नियमश्च नाथतेराशीरथें आत्म- नेपदमेव न परस्मैपदमित्याकार: एवं चार्थान्तरे त्वनियमः तथा च याचनेऽप्यात्मनेपदमविरुद्धमिि चिन्त्योडयं वृत्तिग्रन्थः तस्मात् ग्रामग्राम इत्युद्ाहार्यमिति केचिदाहुः। तन्न। तत्र विपरीतनियमे महाभाष्यादिग्रन्थावराधादिति बृहदुश््योतादौ स्पष्टम्। किंच विपरीतनियमे व्याव्त्यालाभेन वार्तिकस्य वैयर्थ्यमेव स्यात्। तथााह। आशीरर्थे आत्मनेपदमेवेत्युक्ते आशीरर्थें परस्मैपदस्य व्यावृत्तिः कर्तव्या सा च "अनुदात्तडितः ०" इति सूत्रेणैव सिद्धयतीति। ननु 'अनुनाथते' इति स्वरूपं संस्कृतमेव तथा चार्थ- विशेषे न तथेति वक्तव्यम् एवं चार्थदोषत्वं प्राप्तमिति। मैवम्। यत्र शब्दपरिवर्तनेऽपि यो दोषोऽनु- वर्तते तस्यार्थदोषत्वम् यस्तु तथा सति निवर्तते तस्य शब्ददोषत्वमिति विभागादिति प्रदीपे स्पष्टम्। अत्रासाधुत्वज्ञानाभावः साधुत्वज्ञानं वा शाब्दबोधकारणम् तदभावाच्छान्द्बोघस्थगनमेव दूषकताबीज- म्। साधुशब्दान्तरस्मरणे शाब्दबोधेऽपि प्रतीतिमान्थर्य दूषकताबीजमिति ततत्वमिति सारबोधिनीकाराः। वयं तु साधुशब्दान्तरस्मरणे साधुत्वभ्रमे वा बोधेऽपि व्याकरणव्युत्पत्तिद्वारार्थाप्रत्ययनमेवात्र दूषकता- बीजमिति प्रतीम इति सुधासागरे स्पष्टम्। यत्त्वत्रार्थाप्रतीतिर्दूषकताबीजमिति नित्यदोषत्वम् अनुकरणे त्वर्थपरत्वाभावाद्दषित्वाभाव इति प्रदीपे उक्तम्। अत्रेदं चिन्त्यम्। साधुशब्दस्मरणेन शक्तिभ्रमेण शक्त्यैव वा तेषां बोधकत्वस्य सर्वैः स्वीकारान्नार्थाप्रतीतिः असाधुत्वज्ञानस्य शाब्दबोधप्रतिबन्धकत्वे तत्तद्ेशभाषाकाव्यादितो न बोधः स्यात् तस्मात्तत्तव्याकरणसंस्कृतशब्द्घटितपद्ये तदसंस्कृतपदोपादा- नस्य काव्यशक्त्युन्नायकतया सहृदयश्रोतुरुद्दगो दूषकताबीजमिति तत्त्वमित्युइ्चोते स्पष्टम्॥

तृतीयं पद्दोषमुदाहरन्नप्रयुक्तपव व्याचष्टे अप्रयुक्तमिति। तथा प्रयुज्यमानतावच्छेदकरूप अनुशासनसिद्धमपि कविभिर्यन्न प्रयुक्तमित्यर्थः।तदेवाह तथेत्यादि । तथा प्रयुज्यमानतावच्छेदक

Page 330

सप्तम उल्लास:। २७१

तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥ १४३॥ अत्र दैवतशब्दो "दैवतानि पुंसि वा " इति पुंस्याम्नातोऽपि न केनचित्प्रयुज्यते। (४) असमर्थ यत्तदर्थ पठ्यते न च तत्रास्य शक्तिः । यथा रूपेण । आम्रातम् अनुशिष्टम् कोशव्याकरणादिशास्त्रसिद्धमिति यावत्। कविभिः पण्डितैः। नाहतमिति। न प्रयुक्तमित्यर्थः कविसंप्रदायनिषिद्प्रयोगवत्। तेनैतत्कविप्रयुक्तत्वेन नाप्रयुक्तत्व- सिद्धिः। नाप्यसमर्थे हन्त्यादावतिव्याप्तिः तेषामुद्धतिपद्धतीत्यादौ प्रयोगानुमत्या सामान्यतो निषेधाभा- वात्। नापि नपुंसकत्वेनाप्रयुक्ते घटादौ च्युतसंस्कृत्यादौ चातिव्याप्तिः तेषामनुशासनसिद्धत्वाभावात्। कविभिरिति व्याकरणस्याप्युपलक्षणम् । तेन व्याकरणनिषिद्धस्य घृधातोर्घृतघर्मघृणाम्योऽन्यत्र प्रयोगस्य वचेश्र्वान्तौ प्रयोगस्य च संग्रहः। एवं च लडहादीनां प्राकृतादिशब्दानां संस्कृतकाव्य- निवेशेऽयमेव दोष इति बोध्यमित्युद्योते स्पष्टम्। यथायमिति। यथा यतः अयं पुरुषः दारुणाचारः क्रूरकर्मा सर्वदैव न तु कदाचित् विभाव्यते दृश्यते तथा ततः अस्य पुरुषस्य दैवतः उपास्य पिशाचोऽथवा राक्षस इति अहं मन्ये इत्यर्थः। चन्द्रिकायां तु यथा यादशः तथा तदनुरूप इत्यर्थ इत्युक्तम्॥ अत्र पुँलिङ्गो दैवतशब्दोSमरकोशे प्रथमकाण्डे प्रथमवर्गे "वृन्दारका दैवतानि पुंसि वा" इत्या- म्रातोऽपि कविभिर्न क्वापि प्रयुक्त इत्यप्रयुक्तत्वं दोषः । तदेवाह अत्रेत्यादि। न केनचित्पयुज्यते इति। अत्र तादशकविसमयलङ्गने प्रयोजनानुसंधानव्यग्रतया मुख्यार्थप्रतीतिविलम्बो दूषकताबीजम्। यमकादिप्रयोजनसत्त्वे तु नायं दोष इति बोध्यम्। उक्तमिदं प्रदीपे "नन्वत्र कि दूषकताबीजम्। न तावच्छक्तिविरहः। तत्सत्वात्। शक्तिस्मृतिविरह इत्यपि नास्ति शब्दानुशासनेन तद्ग्रहे स्मृतौ प्रति- बन्धकाभावात् इति चेत्। पदार्थोपस्थितिविलम्बः तद्वीजम्। अत एव श्लेषयमकाद/विदोषत्वम्। उन्टा- लंकारसंपत्त्या प्रतीत्यविलम्बस्य तत्रानुददेश्यत्वात्। वस्तुतस्तु तादृशकविसमयलङ्गनप्रयोजनानुसंधान- व्यग्रतया मुख्यार्थविच्छित्तिः दूषकताबीजम्। अत एवानुकरणे दोषत्वाभावः। यमकादावप्यदाषत्वम् अन्यत्राप्रयुज्यमानस्यापि तदर्थ कविभिः प्रयोगस्य दर्शनेन व्यग्रताभावादिति" इति॥ उदाहरणान्तरं यथा 'अथैकधेनोरपराधचण्डाद्वुरोः कृञ्नानुप्रतिमाद्विभेषि। शक्योऽस्य मन्युर्भविता विनेतुं गाः कोटिशः स्पर्शयता घटोघ्नीः॥' इति रघुवंशे २ सगे। अत्र स्पर्शयतेति पदं 'स्पृश संस्पर्शने' इति धातुपाठाद्दानार्थकत्वाभावेऽपि "विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्" इत्यमरे दानार्थकत्वेनाम्नातमपि सर्वत्र तदनुपलम्भादप्रयुक्तमेवेोत बोध्यम्॥। चतुर्थ पददोषमुदाहरन्नसमर्थपदं व्याचष्टे असमर्थमिति। असमर्थमित्यल्पार्थे नञ्र् "तत्सादृश्यं तदन्यत्वं तदल्पत्वं०" इति प्राक् (१५ पृष्ठे) उक्तवचनात्। तेन यत्तदर्थ परिपठितमपि प्रकृतस्थले विवक्षितार्थसामर्थ्यरहितमित्यर्थः । समर्थस्यैवासामर्थ्य विरुद्धमिति चेन्न। उपसंदानोपजीवित्वात्सा-

१ असमर्थत्वमत्र गमनरूपेऽर्थे इत्यग्रिमे १४४ उदाहरणे स्फुटीभविष्यति ॥ २ 'वचिरन्तिपरो न प्रयुज्यते' इति वैयाकरणसिद्धान्तकौमुद्यामदादिगण स्पष्टम् ॥ 3 बाधकाभावादिति पाठान्तरम्॥ पदार्थोपस्थितितिलम्ब इति। तद्वीजं त्वप्रयुक्तत्वेन शक्तिस्मरणविलम्ब इत्याहुः ॥ ५ इदं मूलकार एव ३.२ उदाहरणात्म्राग्वृत्तौ वक्ष्यति ॥६ पदार्थोपस्थि- त्यविलम्बेपि दोषतानुभवादाह वस्तुतस्त्विति ॥ ७ मुख्यार्थवि्छित्तिः तत्प्रतीतावत्यन्तविलम्ब इत्युद्त्योते स्पष्टम् ॥

Page 331

२७२ काव्यप्रकाशः सटीक:।

तीर्थान्तरेषु स्नानेन समुपार्चितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संप्ति सादरम् ॥१४४॥ अत्र हन्तीति गमनार्थम्॥ (५) निहतार्थ यदुभयार्थमप्रसिद्धेऽर्थे प्रयुक्तम्। यथा यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥१४५॥ मर्थ्यस्य। उपसंदानं यत्किंचित्सहकारः। यथा हनधातोः पैद्धतिजर्घनजङ्गादिषु पदादिपदोपसंदानेन मार्गादयर्थोपसंदानेन वा गतौ सामर्थ्य न पुनरविशिष्टस्य। एवं चोपसंदानं विना अनुशिष्टार्थ- बोधकत्वमसूमर्थत्वमिति प्रदीपोद्दयोतयो: स्पष्टम्। तीर्थेति। सत्कृतिः सत्फलजनकं पुण्यम्। सुरस्रोतस्विनीं गङ्गाम्। सुरेत्यादिनावश्यगम्यत्वं ध्वनि- तम्। हन्ति गच्छति । अत्र हन्तीति। पदमसमर्थमिति शेषः । धातुपाठे 'हन हिंसागत्योः' इति गमनार्थे परिपठितोऽपि हन्तिस्तत्प्रत्यायने स्वरूपायोग्यः। प्रहतोद्धतजङ्गादिषूपसंदानेन गतेः प्रत्याय- कत्वेन न तत्पाठवैयर्थ्यम्। एवम् 'इङ अध्ययने' इत्यध्ययने परिपठितस्यापीङ्धातोरधि विना तत्र प्रयोगेSसामर्थ्यमेवेति बोध्यम् । अत्र स्वरूपायोग्यत्वेनास्यार्थानुपस्थितिर्दूषकताबीजमिति नित्यदोषो- डयम्। अन्रार्थानुपस्थितिसत्त्वादेव न निहतार्थसंकरः तत्र विलम्बेन प्रकृतार्थोपस्थितेः। नाप्यवाचक- संकरः तस्योपसंदानेनाप्यबोधकत्वात्। अस्य नित्यदोषत्वं चिन्त्यम्। यस्योपसंदानं विनापि गमनार्थ- बोधस्तं प्रत्यदोषत्वादित्येके। तस्यापि प्रसिद्धपरित्यागेनेदृशप्रयोगे प्रयोजनानुसंधानव्यग्रत्वाद्विलम्ब एव दुष्टिबीजमिति तत्त्वम्। अत्र हन्तेः पदैकदेशत्वेऽपि प्रकृतिगतत्वात्पददोषता बोध्येति बहदुद्दयोतसार- बोधिन्यो: स्पष्टम्॥ पश्चमं पददोषमुदाहरनिहतार्थपदं व्याचष्टे निहतार्थमिति। निहतः प्रसिद्धेनाविवक्षितेनार्थेना- प्रसिद्धतया व्यवहितो विवक्षितः अर्थो यस्य तदित्यर्थः। अविवक्षित प्रसिद्धार्थप्रत्ययव्यवधानेन विवक्षिता- प्रसिद्धार्थबोधकत्वमिति फलितम्। अविवक्षितेत्युपादानान्नाप्रसिद्धव्यञ्षकनानार्थेऽतिप्रसङ्ग:। साम्ग्री- साद्गुण्यात्प्रागप्रसिद्धार्थप्रतिपत्तौ नायं दोष इति तृतीयान्तम् । प्रसिद्धिश्र् भूरिप्रयोगाहितपठुतरसंस्कार- विषयत्वम्। तेन हि तस्य द्रुतमुपस्थित्या तदितरतिरोधानम्। एवं च योगमात्राश्रयेण कुमुदादौ प्रयुक्ते पङ्ुजपदेऽयमेव दोषः। रू्यर्थस्य द्वतमुपस्थितेः । लक्षणया प्रयुक्ते त्वसति प्रयोजने नेयार्थत्वं दोष: सति त्वदोष एव। गूढेऽप्यर्थे कैचित्प्रयोगान्नाप्रयुक्तसंकर इति प्रदीपोद््चोतयोः स्पष्टम्॥ यावकेति। यावकस्य अलक्तकस्य रसेनार्द्रो यः पादः तेन यः प्रहारः ताडनं तेन शोणिता उज्ज्व- लीकृता: ईषदारक्तीकृताः कचा केशाः यस्य तादृशेन दयतेन प्रियेण नायकेन साध्वसन रुधिरभ्रमात् भयेन तरला व्याकुला अत एव मुग्धा मूढा विलोक्येयं साध्वसवतीति ज्ञात्वा सहसा १ पादाभ्यां हन्यते गम्यते इति पद्धतिर्मार्गः। हनधातोः कतिन्प्रत्ययः। "हिमकाषिहृतियु च " (६।३।५४) इति सूत्रेण पादस्य पद्धावः ॥ २ वक हन्ति गच्छतीति जघनम्। यङ्लुगन्तात् पचाद्यच्। "आगमशास्त्रमनित्यम् " इति नुक न॥ ३ जङुन्यते कुटिलं गच्छतीति जङ्गा। हन्तेर्यङ्रलग-तात् "अन्येभ्योऽपि" इति ङः ॥ ४ अध्ययने ॥ ५ क्वचिदिति। शलेषयमकादिव्यतिरिक्तस्थलेऽपि क्वचिदित्यर्थः। अप्रयुक्तस्य तु ्लेषथमकादिनिर्वाहार्थ एव प्रयोग इति ततो भेद: ॥

Page 332

सप्तम उल्लास:। २७३

अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते॥। (६ ) अनुचितार्थ यथा तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्न्रिभिरिष्यते च या। Sी FIS प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ॥ १४६ ॥ अत्र पशुपद कातरतामभिव्यनक्तीत्यनुचितार्थम्॥ (७) निरर्थकं पादपूरणमात्रप्रयोजनं चादिपदम्। यथा तत्क्षणमेव परिचुम्बिता सति विलम्बे नायिकाया भ्रमोच्छेदसंभवादिति भावः । 'सहसा अप्रसायै- वेत्यर्थः' इति केचित्। "मुग्धः सुन्दरमूढयोः" इति कोशे। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र नानार्थस्य शोणितपदस्य रुधिरे प्रसिद्धिरप्रसिद्धिस्तज्ज्वली कृतत्व रुपेा विवक्षितार्थें इति निहता र्थत्वम्। यद्वा। शोणशब्दात्तत्करोतीतिण्यन्तात् क्ते उज्ज्वलीकृतत्वरूपार्थबोधो विलम्बेन रूढ्या रुधिरस्यैव बोधादिति निहतार्थत्त्रम्। तदेवाह अत्रेत्यादि। शोणितशब्दस्य शोणितपदस्य। उज्ज्वलीकृतत्वरूप: ईषदारक्तीकृतत्वस्वरूपः। अत्र प्रसिद्धस्यैव द्रागुपस्थित्या विवक्षितस्य विलम्ब्य उपस्थितिर्दूषकताबीजम्। अतो यमकादावदोषत्वम् तत्रोपस्थितिविलम्बस्यापि सहृदय- संमतत्वेनाविलम्बानुद्देश्यत्वादिति प्रदीपे स्पष्टम्। विलम्ब्येति। द्राग्रुधिरोपस्थितौ तदन्वयानुपपत्ति- प्रतिसंधानपूर्विका प्रकृतार्थोपस्थितिरिति विलम्ब इति भाव इत्युद््योतः ॥ षष्ठं पददोषमुदाहरन्नाह अनुचितार्थमिति । अनुचितो विवक्षितार्थतिरस्कारकधर्मव्यक्ञकोर्ऽर्थो यस्य तदित्यर्थः । अत एवाहुः सारबोधिनीकाराः उपश्लोक्यमानतिरस्कारव्यञ्जकार्थत्वमनुचितार्थ- त्वमिति। तपस्विभिरिति। या गतिः तपस्विभिः सुचिरेण चिरकालेन लभ्यते या सुचिरेणेत्यनेन तैरपि या क्वेशलभ्येति सूचितम्। या च सत्त्रिभिः याज्ञिकैः प्रयत्नतः प्रयत्नेन इष्यते न तु प्राप्यते काला- न्तरभावित्वान्न तदैव लभ्यते इति भावः। तां गति रणः संग्राम एवाश्वमेधः अश्वमेधाख्यो यागविशेषः तत्र पशुतां वध्यताम् उपागताः प्राप्ताः अत एव यशस्विनः आशु शाघ्रिं यथा स्यात्तथा प्रयान्ति प्राप्नुवन्ती- त्यर्थः । तदुक्तं महाभारते उद्योगपर्वणि विदुरनीतौ ३३ अध्याये "द्वाविमौ पुरुषव्याघ्र सूर्यमण्डल- भेदिनौ। परिव्राड्योगयुक्तश्र रणे चाभिमुखो हतः ॥" इति। पशुश्छगलः "पशुर्मृगादौ छगले प्रथमे च पुमानयम्" इति रभसः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र पशुतामित्यनुचितार्थम् कातरत्वाभिव्यक्त्या वर्णनीयस्य शौर्यस्य तिरस्कारात्। तदेवाह अत्र पशुपदमित्यादि। अत्र शौये प्रतिपाधे पशुपदात्प्रकृष्टकार्याक्षमत्वं प्रतीयते सैव कातरतेति विवक्षिता- र्थस्य शौर्यादेरपकर्षस्योपस्थितिर्दूषकताबीजम्। अत्र प्रदीपकारा: "अत्र शौर्ये प्रतिपाधे पदान्तरापेक्षमेव पशुपदं कातरतामभिव्यनक्ति पशुपदार्थे कातरतायाः दर्शनात्। विरुद्धमतिकृत्तु पदान्तरसापेक्षं तथेति तस्माद्भेदः। दूषकताबीजं च विवक्षिततिरस्कारकार्थोपस्थितिः । अतोऽस्य नित्यदोषत्वम्" इत्याहुः । (पदान्तरानपेक्षमिति। प्रकृते तदन्वितार्थबोधकपदान्तराभावादिति भावः। अस्य नित्यदोषत्वं चिन्त्यम्। तदर्थेऽगृहीतकातरत्वस्य तत्तिरस्कारकोपस्थित्यभावात्) इत्युद्योते स्पष्टम् । सप्तमं पद्दोषमुदाहरन्निरर्थकपदं व्याचष्टे निरर्थकमिति। अविवक्षितार्थकमित्यर्थः। वृत्तन्यूनता- परिहारमात्रप्रयोजनकमिति यावत्। अत एव वाक्यालंकारभूतं यमकािनिर्वाहकं च खल्वादिपद- ३५

Page 333

२७४ काव्यप्रकाशः सटीक: । उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि। अभिवाञ्छितं प्रसिद्धूयतु भगवति युष्मत्प्रसादेन ॥ १४७॥ अत्र हिशब्दः॥ (८) अवाचकं यथा मदुष्टम्। तदेवाह पादपूरणमात्रेति। मात्रपदेन ('कला च सा कान्तिमती' इत्यादौ २५२ उदाहरणे) समुच्चयार्थकचादिव्युदासः । प्रयोजनमिति। "च ह वै पादपूरणे" इत्यादिना तत्प्रयोजनकत्वेनोक्त- मित्यर्थः । अत एव नाधिकपदत्वेन संकरः। तदर्थस्याविवक्षितत्वेऽपि निष्प्रयोजनत्वात्। चादिपद- मिति। निपातरूपं चादिपदं बहुवचनादि चेत्यर्थः । बहुवचनं च पदैकदेशदोषनिरूपणे उदाहरिष्यते (२०० उदाहरणे) 'दृशाम्' इतीति बाध्यम्। ननु बहुवचनं न पादपूरणमात्रार्थकम् अपि तु संबन्धार्थ- कमपि [ "षष्ठी शेषे" (२।३।५०) इति पाणिनिसूत्रेण संबन्धार्थे षश्ठ्याः विधानात् ] इति चेन्न। दशोरिति द्विवचनेनापि संबन्धप्रतीतिसंभवादिति प्रदीपोद्द्चोतयोः स्पष्टम्॥ उत्फुल्लेति। हर्षदेवकृते नागानन्दनाटके प्रथमेऽङ् मलयवर्तानाम्न्याः नायिकायाः गौरीस्तुतिरूपं गानमिदम्। उत्फुछलं विकसितं यत्कमलं तस्य केसरेषु किञ्जल्केषु लग्नो यः परागः रेणुः तद्वत् गौरी गौरवर्णा द्ुतिः कान्तिर्यस्यास्तथाभूते भगवति सकलैश्वर्यसंपन्ने हे गौरि युष्मत्प्रसादेन मम अभिवा- ञ्छितम् इष्टं प्रसिद्धयतु इत्यर्थः । भगवर्तीत्यत्र भगोऽस्या अस्तीति विग्रहः। "ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानवैराग्ययोश्र्वैव षण्णां भग इतीरणा ॥" इति भगशब्दार्थः । अत्र गौरद्युते इति विशेषणमपुष्टम्। भगवतीत्यनेन वाञ्छितदानसामर्थ्य ध्वन्यते। अत्र युष्मविति विरुद्धम् पूर्वमेकत्व- विशिष्टायाः संबोध्यत्वादित्युद्योते स्पष्टम्। सारबोधिनीकारास्तु युष्मदिति गौरवाय बहुवचनम् तेनै- कत्वेन संबोधनेऽपि नासंगतिरित्याहुः। आर्या छन्दः । लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र हिपदं निरर्थकम्। अर्थस्याविवक्षितत्वात्। अत्र तत्पदव्यतिरेकप्रयुक्तान्वयाबोधकत्वाभावान्नि- राकाङ्कत्वमेव दूषकताबीजमिति सारबोधिन्यां स्पष्टम्। अत्र हिर्न हेतुत्वे । अनन्वयात्। नाप्यवधारणे स्तोतव्यापकर्षापत्तेः । न च क्रियान्वाय तत् लोटा निर्देश्येऽवधारणायोगात्। हे: पदान्तरसापेक्षत्वे नियमेन पदत्वाभावात्कथं पददोषत्वमिति चेत्। विभक्त्याद्यन्यस्यैवात्र पदत्वेन ग्रहणाददोषः । प्रेत्यप्यत्र निरर्थकम्। तदर्थविवक्षायां तु प्रसिद्धिलाभेनावाचकम्। एवं विनश्यतीत्यादौ वीत्यादिकमप्यनर्थकमिति दिगिति बहदुश्चोते स्पष्टम्। अत्र प्रदीपकाराः "दूषकताबीजं त्वस्य चिन्त्यताम्। तद्धि न तावदर्था- नुपस्थितिः पदान्तरैरव यावदभिधेयोपस्थापनात्। न चैवमवाचकादौ तत्र तद्भिधेयस्य वाक्यार्थघट- कस्य पदान्तरैरनुस्थापनात्। नापि प्रतिकूलवर्णवद्रसविरोधिता चादीनां सार्थकत्वस्थलेऽपि रस- विरोधित्वप्रसङ्गात् स्वरूपस्य ताद्रप्यादिति। उच्यते। निरर्थकं प्रयुञ्जानस्य वचसि सहृदयानां वैमुख्यं दूषकताबीजम् प्रयोजनानुसंधानव्यग्रता वा " इत्याहुः। (व्यग्रता वेति। तस्यां च वाक्यार्थबोधे विलम्बः स्यादिति भावः ) इत्युझ्ोतः । अष्टमं पद्दोषमुदाहरन्नाह अवाचकमिति। विवक्षितधर्मविशिष्टस्य विवक्षितधर्मिणः क्वापि न वाचकं यत्तदित्यर्थः। अत एवासमर्थान्द्िदः। तस्य क्रचिच्छक्तिस्वीकारात्। एतादशविशिष्टविरहश्र

वधारणे इत्यर्थ: ॥ १ ननु "हि हेतावधारणे" इत्यमराद् हिशब्दोऽत्र हेत्वर्थे स्थादिति शङ्कायामाह न हेतुत्वे इति ॥ २ ममैवेत्य-

Page 334

सप्तम उल्लास:। २७५

अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्या: स्वयमेव देहिन: ।मक ता अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादर: ॥ १४८ ॥Y अत्र जन्तुपदमदात्यर्थे विवक्षितम् तत्र च नाभिधायकम्। यशा वा गोजमट्राकट किमकी विद हा धिक सा किल तामसी शशिमुखी दष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दृग्धं दिनं कल्पितम्। क्वचिद्धर्मिणि शक्तावपि विवक्षिते प्रकारे (धर्मे) शक्तिविरहात् क्रचित्प्रकारे शक्तावपि धर्मिणि शक्तिविरहात् क्वचित्प्रकारधर्मिणोरुभयोरपि शक्तिविरहात्। तत्रादं द्विधा। अपेक्षितयोगमनपेक्षित- योगं च। तयोराद्यमुदाहरति अवन्ध्येति। किरातकाव्ये प्रथमे सर्गे दुर्योधननिग्रहाय युधिष्ठिर- मुद्रोधयन्त्या द्रौपया उक्तिरियम्। अवन्ध्यः अनिष्फलः कोपो यस्य सफलकोपस्येत्यर्थः तेन शूरस्येति फलितम् तथा आपदां परकीयदारिद्रूपाणां विहन्तुः नाशयितु: दातुरिति यावत् जनस्य स्वयमेव विनैव यत्नं देहिनः शत्रुमित्ररूपाः जना वश्याः भवन्ति देहिनां ताद्ृशस्यैव भयलोभाभ्या- मांक्ान्तत्वादिति भावः । उक्तमर्थ व्यतिरेकमुखेन द्रढयितुमर्थान्तरं न्यस्यति अमर्षेत्यादिना। यतः अमषशून्यन अवन्ध्यकोधश्न्येन अशूरेणेति यावत् (भवाद्ृशेन) विद्विषा शत्रुणापि जनस्य अर्था- च्छन्नुरूपस्य दरो भयं न भवति लोके इति शेषः। तथा जातहार्देन जातस्नेहेन मित्रेणापीत्यर्थः जन्तुना अदात्रेत्यर्थः जनस्य अर्थान्मित्ररूपस्य आदरो न भवतीत्याकारप्रश्लेषेणार्थः। अत्र भयादर- योरभावकथनेन भङ्ग्चन्तरेण वश्यत्वाभाव एवोक्त इति बोध्यम्। "दरस्त्रासो भीतिभीः साध्वसं भयम्" इत्यमरः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र जन्तुपदं विवक्षितेनादातृत्वेन रूपेणावाचकम्। तदेवाह अत्र जन्तुपदमित्यादिना। अत्र पूर्वार्धे दारिद्रूपापद्विघातकया दातृत्वं विवक्षितमिति द्वितीयार्धे तद्वैपरीत्यप्रदर्शकं जन्तुपदमदातरि प्रयुक्तम्। तत्र च 'जायते' इति योगमपक्ष्य तस्य [धर्मिणि] शक्तत्वेऽपि न विवक्षितयादावृतया प्रकारेण शक्तिरित्यवाचकमिति भावः। न च तात्पर्यानुपपत्या लक्षणया बोधकमिदं जन्तुपद्म- स्त्विति वाच्यम्। प्रयोजनाद्यभावेन लक्षणाया अनवतारात् । अत एव 'रामोऽस्मि' इत्यादौ (१८८ पुष्ठे) न दोषः विवक्षितसकलदुःखभाजनत्वादिना विवक्षितधर्मिणि लक्षणाङ्गीकारात्। लक्षणे वाचकत्वं शक्तिलक्षणान्यतरसंबन्धेन बोधकत्वं विवक्षितम्। 'रामोऽसौ' इत्यादौ (१८२ पृष्ठे) लक्षणाद्यनवतारकाले दुष्टत्वभेव एवं जन्तुपदमपि सर्वप्रकारानुपास्यत्वादिप्रतीतिरूपप्रयोजनानु- संधानेनादातृत्वादिलाक्षणिकं यदि तदा तदप्यदुष्टमेवेति प्रदोद्दयोतयोः स्पष्टम्। यदपि कोलाचल- मल्लिनाथकृतस्य श्लोकव्याख्यानस्यावलम्बने जन्तुपदे नायं दोषः तथापि तव्याख्याने 'विहन्तुरापदाम्' इत्यस्यापुष्टार्थत्वं दोषोऽस्त्येवेति बोध्यम्॥ अनपेक्षितयोगं यथा वेत्युदाहरति हा धिगिति। रात्रौ सवमे उर्वशी दृष्टवतः पुरूरवस उक्तिरिय- मित्युद्योतचन्द्रिकाकारादयः। परंतु विक्रमोर्वशीये संप्रतितनपुस्तके नोपलभ्यते। निर्वेदातिशयसूचकं हा धिगिति। अत्र हेतुः। यत्र रात्रौ सा अनिर्वचनीयरमणीयगुणा शशयेव मुखं यस्यास्तादशी उर्वशी (मया) दष्टा सा रात्रिः किल तामसी तमोयुक्ता कल्पितेति लिङ्गविपरिणामेनान्वयः। घात्रोत विभ- १ योगोSत्रावयवशक्तिः ॥ २. तादृशस्यैवेति। शौयंदातृत्वविशिष्टस्यैवेत्यर्थः। निरूपितत्वं षष्ठचर्थ: ॥।

Page 335

२७६ काव्यप्रकाशः सटीकः।

किं कुर्म: कुशले सदैव विधुरो धाता न चेत्तत्कथं ताहग्यामवतीमयो भवति मे नो जीवलोकोडधुना॥ १४९॥ अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम्। यच्चोपसर्गसंसर्गादर्थान्तरगतम्। यथा जङ्डाकाण्डोरुनालो नखकिरणलसत्केसरालीकराल: प्रत्यग्रालक्तकाभा प्रसर किसलयो मञुमऔ्ीरभृङ्ग:। भर्तुरनृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी- संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥ १५० ॥।

क्तिविपरिणामेन। किलेत्यरुचौ। शशिनः समुद्धवे तमोव्यवहारस्यायोग्यत्वात्। "किल संभाव्यवा- र्तयोः । हेत्वरुच्योरलीके च " इति हेमचन्द्रकोशः । एवम् तद्विच्छेदः तस्याः उर्वश्या: विच्छेदो वियोग: तद्रूपया रुजा रोगेण 'तद्विश्लेषरुजा' इति पाठेऽपि स एवार्थः अन्धकारितम् अन्धकारी- कृतं विषयाग्राहकमिति यावत् अत एव दग्धं दुःखदत्वान्निन्यम् इदम् अनुभूयमानं कालरूपं वस्तु दिनं प्रकाशमयं कल्पितम् इत्यप्यनुचितम् विषयाग्राहकस्य प्रकाशमयत्वायोग्यत्वादिति भावः । (ईदृशानुचितकारिणि धातरि ) कि कुर्म इति साकूतोक्तिः। धाता विधाता कुशले इष्टे सदैव सर्वदैव विधुरः प्रतिकूलः । तत्रोपपत्तिमाह चेत् यदि न विधुर इत्यनुषज्ज्यते तत् तदा जीवलोकः जीवना खिलकालः अधुना इदानीं मे मम तादक् तन्नायिकादर्शनजनकयामिनीमयः कथं नो न भवर्ता- त्यर्थः । यत्र सा दृष्टा तद्रात्रिरूपः क्थं न भवताति भावः । जीवलोको भूलोक इति कश्वित् । नो इत्य- व्ययं नञर्थे "अभावे नह्य नो नापि" इत्यमरः । शार्दूलविकाडितं छन्दः। लक्षणमुक्तं प्राक् १८ पुष्ठे॥ अत्र दिनपदं प्रकाशमयमित्यर्थे विवक्षितम् तामसीत्यनेन लब्धस्य तमोमयत्वस्य वैपरीत्याभि- धानायोपादानात्। तत्र च धर्मिणि योगमनपक्ष्यैव रूढ्या दिनपदं दिनत्वेन शक्त न पुनः प्रका- शमयत्वेनेत्यवाचकम्। तदेवाह अत्रेत्यादि। दिनमिति। दिनपदमित्यर्थः। दिनत्वं च रव्यव- च्छिन्नकालत्वमिति प्रदीपोद््योतयोः स्पष्टम् ॥

द्वितीयोदाहरणं तु 'जलं जलधरे क्षारमयं वर्षति वारिदः। इदं बृंहितमश्वानां ककुद्मानेष हेषते ॥' इति द्रष्ठव्यम् ॥ जलधरः समुद्रः । वारिदो मेघः। बृंहितं करिगर्जनम्। "बंहितं करिगार्जेतम्" इत्य- मरः। ककुझ्मान् वृषभः । अश्वस्य शब्दो हेषा "हेषा ह्ेषा च निस्वनः" इत्यमरः । अत्र जलधरशब्दस्य जलधारकत्वे प्रकारे सामर्थ्येऽपि न समुद्रे धर्मिणि सामर्थ्यम्। यद्यपि योगशक्तिस्तत्राप्यस्त्येव तथापि मेघविषयया रूढया प्रतिबन्धादनस्तिकल्पैव "रूढिर्योगापहारिणी" इति न्यायादिति प्रदीपादौ स्पष्टम्॥ तृ्तयभेदरूपमवाचकं पदं तूपसर्गसंसर्गात् (प्राय्युपसर्गयोगात्) अर्थान्तरगतम् (अर्थान्तरवाचकम्) अन्यथा च। तयोराय्यमुदाहरति जङ्गाकाण्डेति। भर्तुः महेश्वरस्य नृत्तानुकारे "पदार्थाभिनयो नृत्यं नृत्तं ताललयाश्रितम्" इति संगीतकल्पतरूक्तलक्षणस्य नृत्तस्यानुकारे अनुकरणदशायां भवान्याः पार्वत्या अभिनवः कोमलः इदंप्रथमतया नृत्यप्रवृत्तो वा दण्डपादः "प्रसह्योर्ध्वीकृतः पादो दण्डपादोऽभिर्धा- यते" इति संगीतरत्नाकरोक्तलक्षणलक्षितश्ररणः जयति सर्वोत्कर्षेग वर्तते इत्यन्वयः।'स दण्डपादो भवदण्डपादमुत्खण्डयन् रक्षतु चण्डिकायाः' इति श्रीकण्ठचरितस्य टकिायां जोनराजस्तु "नाट्यारम्भे १ सामिप्रायोक्तिः ॥ २ अयं न्यायो लौकिकन्यायमालायां व्याख्यातः ।।

Page 336

सप्तम उल्लासः। २७७

अंत्र दधदित्यर्थे विदधदिति। (९) त्रिधेति व्रीडाजुगुप्सामङ्गलव्यअ्जकत्वात्। यथा ऊर्ध्वोत्क्षिप्तः पादो दण्डपादः" इत्याह। कीृशः। निजा भवानीसंबन्धिनी या तनुः सैव स्वच्छा लावण्यस्य वापी तत्र संभूतं यत् अम्भोजं कमलं तस्य शोभां विदधत् विशेषेण धारयन्नित्यर्थः । जल- स्थानीयमत्र लावण्यम् अत एवाम्भोजेत्युक्तिः। एतदेव विशेषणचतुष्टयेनोपपादयति जङ्गेत्यादि। जङ्गाकाण्ड एव उरुमहान् नालो यस्य तादृशः यद्वा जङ्ाकाण्डः ऊरुश्र नालो यत्र तादृश इत्यर्थः। तथा नखानां किरणा एव लसन्तः शोभमानाः केसराः किञ्जल्काः तेषामाली पक्गि: तया कराल; नतोन्नतः। तथा प्रत्यग्रो नूतनः (तत्कालदत्तः ) यः अलक्तकः यावकरसः तस्य आभा कान्तिः तस्याः प्रसराः प्रसरणान्येत किसलयानि नवदलानि यक्य यत्र वा तथाभूतः । एवम् मञ्जुमञ्जीर: सुन्दरपादभूषणमेव भुङ्गो यस्य यत्र वा तथाभूत इत्यर्थः। अत्रोपमानधर्माम्भोजशोभाया दण्डपादे आरोपान्निदर्शनालंकारः कविकल्पितोपमानेनापि बहुश उपमादर्शनात्। तदुपपादकं जङाकाण्डेत्या- दिरूपकचतुष्टयमित्यु्योतचन्द्रिकयोः स्पष्टम्। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृषध॥ अत्र दधातेधार्रणे शक्तिरूपसामर्थ्यसत्त्वेपि 'वि' इत्युपसर्गेण विधाने करणे एव शक्तेर्नियमित त्वेन विद्धातिधरिणेऽर्थेडवाचकः न त्वसमर्थ इति बोध्यम्। तबेवाह अत्र दधदित्यर्थे इत्यादि। व्याख्यातं च प्रदीपाद्दचोतयोः "अत्र विद्धातिधररिणे प्रयुक्तः न च धारणे धारणत्वे वा समर्थः विस- सैगेण (वि' इत्यपसर्गसंबन्धेन) विधाने (करणे) नियमितशक्तिकत्वात्। एतेन धारणं व्यङ्ग्चमिति परास्तम्। अन्वय्यर्थान्तरं प्रिपाद्यत एव पदस्य व्यञ्जकत्वात्। अन्त्यं तु (अन्यथा चेत्युक्तं तु) वाक्यनिष्ठावाचकतायां 'प्राभ्रभ्राड्' इत्यादौ (१७४ उदाहरणे) उदाहरिष्यते । तदेवं निर्दूषणे काव्य- प्रकाशे यत् 'असमर्थे धर्मधर्मणोद्दयारपि शक्तिविरहः अवाचके तु धर्ममात्रे सः विदधदित्युदाहरणं त्ववाचकप्रकरणमध्येSसमर्थस्यैव इति प्रलपितं तद्वाक्यावाचकत्वोदाहरणानवलोकननिबन्धनं संदर्भ- विरुद्धं चेत्यनादेयम्। दूषकताबीजं तु विवक्षितार्थानुपस्थितिरित नित्य एवायं दोषः" इति॥ 1) नवमं पददोषमुदाहरन् सूत्रस्थत्रिधाशब्दार्थमाह त्रिधेतीति। त्रिप्रकारत्वम् न तु वस्तूनि त्रित्वमि- त्यर्थः। अश्लीलममित्यस्य सभ्यवशीकरणसंपत्तिः श्रीः तां लाति गह्लातीति रश्रुतेर्लश्रुतिरिति न श्लीलम- श्लीलमशोभनमित्यर्थः। "लक्ष्मीवान् लक्ष्मणः श्लीलः श्रीमान्" इत्यमरः। व्रीडेत्यादि। वरीडा लज्जा। जुगुप्सा तु ३० कारिकायां ११२ पृष्ठे व्याख्याता। अमङ्गलं मङ्गलविरोधि 'असुरा:' इत्यादाविव नञ्रो विरोधार्थकत्वात्। व्यक्षकत्वादिति। वीडादिशब्दो लक्षणया तद्धेतपरः उदाहरणान्तरेषु वीडादिव्यञ्जकत्वासंभवात् व्यक्षकत्वादित्यस्य बोधकत्वादित्यर्थः। अन्यथा 'पर्दते हदते स्तन्यं वमत्येष स्तनंधयः । जुम्भते मुहुरासीना प्राप्तगर्भा पुनर्वधः ॥" इत्यत्राव्याप्तेर्जुगुप्साहेत्वभिधानेनाव्यञ्जकत्वादिति सारबोधिन्याम्। प्रदीपोद्दयोतयोस्तु "त्रिधाश्लीलमिति। अश्रीरस्यास्तीत्यर्थे सिध्मादित्वाल्लच्प्रत्ययः १ वद्यप्यत्र "ससंबन्धिना निजस्वात्मादिपदार्थाना प्रधानकरियान्वयिकारकपदार्थे एवान्वयः" इति व्युत्पच्या निजपदार्थस्य दण्डपादे एवान्वयो न तु भवान्याम् तथाप्यत्र भवान्यामन्वयो विवक्षित इति बोध्यम्। अयं च दोष एव व्यु्पत्तिविरोधात्। अत एवाभवम्मतयोगरुपदोषोदाहरणावसरे व्युत्पत्तिविरोधोदाहगणतया इदमेव पद्यं मूले एवो- दाहरिण्यते॥ २ स्वसंसर्गेणेति पाठेऽपि वीत्युपसगसंबन्धेनेत्येवार्थः ॥ ३ वाक्यावाचकत्वोदाहरणेति। वाक्यस्यावाच कत्वे यदुदाहरणेत्यर्थः। संकोचादिबोधकनिद्रादिपदं हि तत् ।। * अनवलोकननिबन्धनम् अनवलोकननिमित्तकम् ॥ ५ "तत्सादृश्यं" इति प्राक् (१५ पृष्ठे) उक्तवचनात्॥

Page 337

२७८ काव्यप्रकाश: सटीकः।

साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ॥१५१॥[१]

क्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥१५२॥[२] कपिलकादित्वाद्रेफस्य लत्वम् तथा च कान्त्यभाववदिति पर्यवसन्नम्। कान्त्यभावश्र ग्राम्यादिष्व- तिप्रसक्त इति वीडाजगप्साद्यालम्बनविभावादिभूतासभ्यार्थपस्थितिद्वारा वीडाजुगुप्सामङ्गलव्यक्ति- हतुकस्तद्विशेषो वक्तव्यः । ग्राम्यं च नासभ्यार्थबोधकं किं तु स्वत एव शोभारहितमिति न तत्संकर इति बोध्यम्। न चैतत्त्रयेऽनतिप्रसक्तमनुगतं रूपमस्तीति ्रीडादिहेतुकाकान्तिमत्सु नाना- र्थोऽयमश्लीलशब्द इत्यर्थः। तच्च प्रत्येकं त्रिविधम्। क्वचिद्विवक्षितस्यैवार्थस्य व्रीडाय्यालम्बनत्वात् कचिद- विवक्षितस्यार्थस्य प्रकृतार्थेऽन्वयिनो व्रीडाद्यालम्बनत्वात् क्वचित्तादृशार्थस्य प्रकृतार्थेऽनन्वयिनोऽपि स्मृतिमात्रहेतुत्वात्। एषु क्वचित्किंचिदुदाह्नियते" इति स्पष्टम् ॥ तत्र व्रीडाव्यक्तावर्थान्तरस्य प्रकृतेऽर्थेऽन्वयिनस्तथाभावम् (हेतुत्वम्) उदाहरति साधनमिति। यत् यादशं अन्यस्य न विलोक्यते ताद्ृशं सुमहत् अतिविपुलं साधनं सैन्यं यस्य धीशालिनः बुद्धि- मतः (नीतिज्ञस्य ) विलोक्यते तस्य राज्ञः अरालितां कोपेन कुटिलीकृतां भ्रुवं कोऽन्यः सहेते- त्यर्थः। 'कोऽन्यः' इत्यत्र 'कान्या' इति उद््योंतसंमतः पाठः। व्याख्यातं हि उद्दयोते "साधनं सैन्यं पुरुषलिङ्गं च। धीः शत्रुपराभवनयादिविषया सुरतविशेषविषया च। [तस्य राज्ञः पुरुषस्य च ]। अरालितां शत्रदर्शने कोपावेशाद्वक्रिताम् कामिनीदर्शने मन्मथपीडासहतया वक्रितां च अन्या सेना नायिका च" इति। "साधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ। निर्वर्तनोपायमेद्दापनेऽ- नुगमे धने ॥।" इति मेदिनी ॥ अत्र सैन्यार्थकस्य साधनशब्दस्य पुरुषलिङ्गव्यञ्ञनमर्थान्तरम्। इदं च प्रकृतेऽर्थेऽन्वयि। एवं चात्र सैन्यार्थकं साधनपदं पुंव्यञ्जनरूपार्थान्तरोपस्थापकतया व्रीडादायीत्यश्लीलम्। अश्लीलार्थोप- स्थित्या श्रोतुर्वैमुख्यमत्र दूषकताबीजम्। येषां पुनः शिवलिङ्गसुभगाभगिनीब्रह्माण्डादिशब्दानां विव- क्षितार्थस्य प्रसिद्धतया अश्लीलार्थों नोपतिष्ठते न तेषु दुष्टत्वमित्यग्रे (२८० पृष्ठे) स्फुटभिविष्यति॥ जुगुप्साव्यक्तौ तथाभूतार्थस्मृतिमात्रहेतुत्वमुदाहरति लीलेति। अमरुशतके पद्यमिदम्। अन्यस्य वनितया दयितया निःशङ्कं यथा स्यात्तथा दष्टोऽधरो यस्य तथाभूतः निःशङ्कमित्यतिस्पष्टतां व्रणस्य ध्वनयति। यद्वा अन्यस्य वनितायाः निःशङ्कं दष्टोऽधरो येन तथाभूतः अत एव लीलातामरसेन कीडाकमलेन आहतः क्रोधातिशयात्स्ववनितया ताडितः कश्रिवित् विलासी नायकः केसरदूषितेक्षण इव केसरैः क्रीडाकमललगनैः परागैः दूषिते आकुलिते पीडिते ईक्षणे चक्षुषी यस्य तथाभूत इव नेत्रे व्यामाल्य निमील्य स्थितः अभूत् । इवेन नेत्रनिमीलनस्य कपटकृतत्वं ध्वन्यते। ततः मुग्धा तदीयघूर्तत्वानभिज्ञतया मूढा नायिका ("मुग्धः सुन्दरमूढयोः" इति कोशः) कुड्लितेन कुड्मलाकारीकृतेन आननेन मुखेन तत्र तयोर्नेत्रयोः 'तस्य' इति पाठे तस्य नायकस्य वायुं फूत्कारं १ तथाभूतार्थेति। जुगुप्सालम्बनत्यर्थः । मात्रपदेन प्रकतार्थान्वयित्वव्यवच्छेदः॥

Page 338

सप्तम उल्लास: । २७९

मृदुपवनविभिन्नो मत्पियाया विनाशात् घनरुचिरकलापो निःसपत्नोऽद्य जातः । wp irifis (3) रतिविगलितबन्धे केशपाशे सुकेश्या: सति कुसुमसनाथे क हरेदेष बरही ॥ १५३॥[३] ददती स्थिता अभूत् मुखवातेन नेत्रपीडा श्याम्यतीति भावः। अथानन्तरं तेन नायकेन भ्रान्त्या धूर्ततया वा नति प्रणतिम् ऋते विनैव सा मुग्धा अनिशं निरन्तरं बहुकालमिति यावत् चुम्बितत्यर्थः । अस्याः कोपोऽपगत इति भ्रान्ति: धूर्तता तु कोपानपगमेऽप्येनां चम्बेयमिति। यद्यप्युभयोरपि चुम्बने प्रयोजकत्व्राद्वाशब्दोऽनुचितः तथापि अन्यतरस्य प्राधान्यविवक्षया तदुपपत्तिः। नतिमित्यत्र 'न ऋते परमात्मानम्' इत्यत्रेव ऋतेशब्दयोगे "ततोऽन्यत्रापि दृश्यते" इति वार्तिकेन द्विताया अन्यथा "अन्यारादितरर्ते० " (२।३२९) इति पाणिनिसूत्रेण पञ्चम्यापत्तेः । अत एव पृथग्विनानानाभिरिति सूत्रे शब्देन्दुशेखरे उक्तम् "परे तु द्वितीयासमुच्चये न फलम् 'बिना वातं विना वर्षम्' इत्यादौ ऋतेशब्दयोगे इव 'ततोऽन्यत्रापि दृश्यते' इत्यनेन द्वितीयासिद्धेः" इति। यद्यप उद्चोते पुस्तक- चतुष्टयेऽपि 'ऋतेयोगेऽन्येष्वपाति द्वितीया' इति तु दृश्यते तथापि सोऽपपाठ एवेति मन्तव्यम्। शार्दूलविक्राडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र वायुशब्दोऽपानवायुस्मारकतया जुगुप्सादायी। तदुक्तं प्रदीपे "अत्र वायुशब्दोऽपानवायुं स्मारयति न तु तदर्थतया वाक्यमुपपद्मते" इति। एवं च जगुप्साप्रतीतेरश्लीलोऽयं वायुशब्दः॥ अमङ्गलव्यक्तौ विवक्षितस्यैवार्थस्य तथात्वम् (अमङ्गलालम्बनत्वम्) उदाहरति मृदुपवनेति। विक्रमावशीये चतुर्थेडडे उर्वशीविरहिणः पुरूरवस उक्तिरियम्। मृदुपवनेन मन्दानिलेन विभिन्नः संयोगध्वंसवान् घनो निबिडः रुचिरः सुन्दरः कलापो मयूरपिच्छं मत्प्रियाया उर्वश्याः विनाशात् अदर्शनात् अद्य प्रियारहिते जगति निःसपत्नः निःशत्रुः सद्शरहितः जात इत्यन्वयः । सुकेश्याः शोभनकेशायाः उर्वश्याः केशपाशे सति एषः बहीं मयूरः कं जनं हरेत् अनुरञ्जयेत् न कमपीत्यर्थः । कीदशे केशपाशे इत्याशङ्क्य विशिनष्टि रतीत्यादि। रतौ रतिकाले विगलितः विस्खलितः बन्धो ग्रन्थिर्यस्य तथाभूते। विगलितेत्युक्तं न तु विभिन्न इति तेन रामणीयकतातिशयः कलापापेक्षया व्यतिरेकश्र। 'रतिविलुलितबन्धे' इति पाठपक्षे तु विस्तृतकलापसाम्याय विशिनष्टि रतिविलुलितेति। रतौ विलुलितः शिथिलो बन्धो यस्य तथाभूते इत्यर्थः । तथा कुसुमैः सनाथे युक्ते इत्यर्थः । चन्द्रक- साम्याय कुसुमसनाथत्वोक्तिः। 'बहीं' इत्यत्र 'बर्हः' इत्यपपाठः "पिच्छबहेः नपुंसके" इत्यमरात् पौनरुक्त्यापाताच्च। यद्यपि कलापशब्दो मयूरपिच्छे शक्तः तथा च बर्हीत्यपुष्टम् तथापि "कलापो भूषणे बहे" इति कोशात् भूषणवाचिग्रहणं मा भूदिति तद्ुक्तिरित्युद्चोतचन्द्रिकयोः स्पष्टम्। मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥ अत्र विनाशो मरणममङ्गलं व्यङ्गयमिति कमलाकरभट्टाः । अत्र विनाशशब्दस्य विवक्षित एवार्थोड- मङ्गलः। एवं त्रिष भिन्नभिन्नप्रकारोदाहरणेन प्रत्येकं त्रिप्रकारत्वमूहनीयम्। न्यायसाम्यात्। दूषकताबीजं तु अनुभवसिद्धरसापकर्षकताद्ृशार्थोपस्थितिः (अश्लीलार्थोपस्थितिः)। नीरसे तु चमत्कारापकर्षकत्वं तस्याः। अथ वा तादृशार्थोपस्थित्या श्रोतुर्वैमुख्यं तद्वीजम्। असभ्यार्थोपस्थितिर्हि श्रोत्रियसमूहे

Page 339

२८० काव्यप्रकाशः सटीक: ।

एषु साधनवायुविनाशशब्दा: व्रीडादिव्यक्षकाः॥ (१) संदिग्धं यथा आलि्गितस्तत्रभवान् संपराये जयश्रिया। आशी:परंपरां वन्धां कर्णे कृत्वा कृपां कुरु॥ १५४ ॥ अत्र वन्यां किं हठहृतमहिलायाम किं वा नमस्यामिति संदेहः॥

चण्डालागमनमिव वैरस्यमापादयतीति। अतः शमकथायां दोषत्वाभावः तादृशार्थोपस्थितेः शमपोष- कत्वात्। भाव्यमङ्गलादिसूचने कामशौस्त्रस्थितौ च न दोषत्वम् वैमुख्याभावात्। शिवलिङ्ग भगिनीब्रह्माण्डादिशब्देषु तु समुन्नीतगुप्तलक्षितेषु असभ्यार्थानुपस्थितेर्नायं दोषः। अविनातानादिप्र- योगयोगित्वे सति भगवदादिसंबन्धित्वं समुन्नतित्वम्। इदमेव संवीतमित्युच्यते। शिवलिङ्गशब्दस्य जगदन्तर्यामिभगवति प्रसिद्देवीडाय्यर्थाप्रतीतिरेव। तत्त्वे सति रूढ्यर्थातिरिक्ताश्लीलार्थस्य योगेनो- पस्थापकत्वं गुप्तत्वम्। अत्र हि रूढयर्थस्य झटित्युपस्थित्या तद्भावनया योगार्थस्य तिरोधानम्। यथा . भगिनीत्यत्र। ग्राम्यस्मृतिजनकैकदेशवत्त्वं लक्षितत्वम्। ब्रह्माण्डादिपदं हि समुदायरूढ्या झटिति सभ्यमर्थमवोपस्थापयति न त्ववयवेनासभ्यस्येति न दोष इति प्रदापोद््चोतयोः स्पष्टम्। तदेतत्सर्वमभि- प्रेत्य वृत्तिकार आह। एषु साधनेत्यादि। एषु उक्तेषु। त्रिषूदाहरणेषु। साधनवायुविनाशशब्दा इत्यादि। आद्ये साधनशब्दो वीडाव्यञ्जकः मध्यमे वायुशब्दो जगुप्साव्यञ्जकः अन्त्ये विनाशशब्दोऽ- मङ्गलव्यञ्जक इत्यर्थः ॥ दशमं पददोषमुदाहरन्नाह संदिग्धमिति। तात्पर्यसंदेहविषयीभूतार्थद्वयोपस्थापकमित्यर्थः। यत्तु प्रदीपकारोक्तम् संदिग्धत्वं विवक्षिताविवक्षितोभयार्थोपस्थापनानुकूलस्वरूपद्दयसंदेहविषयत्वमिति यद्पपि भास्करप्रभृतिभिरुक्तम् अनिश्चितानुपूर्वीकत्वं संदिग्धत्वमिति तदुभयमप्यसत्। वाक्यदोषे 'सुरालयोल्लास' इत्यादौ (१७८ उदाहरणे ) मार्गणभूतिपदयोः स्वरूपनिश्रयेऽप (आनुपूर्वीनिश्र- येऽपि) संदिग्धत्वेन तदव्याप्तेरिति सारबोधिन्युश्चोतादिषु स्पष्टम्। आलिङ्गित इति। संपराये युद्धे जयश्रिया आलिद्गितः तत्रभवान् पूज्यः त्वं वन्यां वन्दनीयाम (नमस्याम्) आशीःपरंपराम आशीर्वाद- पङ्क्तिम् (अर्थाज्जितशत्रुप्रयुक्तां) कर्णे कृत्वा आकर्ण्य कृपां कुरु विधेहीत्यर्थः। आलिङ्गित इत्य- नेनानायासजयं सूचयति। तत्रभवानित्यत्र "इतराभ्योऽपि दृश्यन्ते" (५३१४ ) इति पाणिनिसू- त्रेण पञ्चमीसप्तमीतरविभक्त्यन्तात् त्लप्रत्ययः। सुप्सुपेति समासः। "पूज्यस्तत्रभवान्" इति सज्जनः ॥ अत्र वन्यामिति बैवयोरभेदात् वन्यां नमस्याम् आर्शाःपरंपरां कर्णे कृत्वेति संबन्ध: अथवाशी :- परंपरां कर्णें कृत्वा बन्धां हठहतमहिलायां कृपां कुर्विति संबन्ध इति संदेह इत्याह अत्र वन्यां किमिति। हृठहृतेति। बलात्कारेण आनीतेत्यर्थः । महिलायां राजपत्न्याम्। "महिषी महिला समा" इति विश्वः। प्रदीपे तु 'हठगहीतमहिलायाम्' इति पाठः। हठगृहीतेति बलात्कारेण स्वप- त्नीकृतेत्यर्थ इत्युद्योतः । नमस्यां वन्दनीयाम्। संदेहः वक्तृतात्पर्यसंशयः बवयोरभेदबुद्धिमूलकः। बन्धामित्यानुपूर्व्या उभयसाधारणत्वेन विनिगमनाविरहादर्थद्वयस्मृतौ वक्तृतात्पर्यसंशय इति भावः । अत एव 'विधौ वक्रे' इत्यादौ (३६९ उदाहरणे ) अर्थद्योपस्थितिरित्युद््चोते स्पष्टम्। प्रदीपे तु १ इदं ३०४ उदाहरणे ॥ २ इदं ३०५ उदाहरणे॥ 3 इदं ३०३ उदाहरणे ॥ बवयोरमेदादिति। यथा आहु: "रलयोर्डलयोश्रैव शसयोर्बवयोस्तथा। वदन्त्येषां च सावर्ण्यमलंकारविदो जनाः ॥" इति। सावर्ण्यमभेदः॥

Page 340

सप्तम उल्लास:। २८१

(११) अप्रतीतं यत्केवले शास्त्रे प्रसिद्धम्। यथा सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः। विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ॥ १५५ ॥ "अत्र वन्यामिति पदं बन्दीशब्दे सप्तम्यन्तम् वन्धाशब्दे द्वितायान्तं वेति संदेहः । प्रथमे हठ- गृहीतमहिलायां कृपां कुर्विति द्वितीये नमस्यामशीःपरंपरामित्यर्थोपपत्तौ साधकबाधक प्रमाणाभावात्। दूषकताबीजमुद्देश्यनिश्र्वयाभावः । अतो यत्र संदेह एवोद्देश्यस्तत्र यत्र च वाच्यादिमहिम्रा प्रकरण- दिवशेन वा निश्रयस्तत्र चादोषत्वम्" इत्युक्तम्। सुधासागरकारास्तु उपदर्शित प्रद्वीपमेव समुल्िख्य यत्तु श्रीवत्सलाञ्छनभट्टाचार्यैरुक्तम् बन्दी वन्या वेत्यनिश्र्यादर्थानिश्रयः । न चानु- पूर्वीनिश्र्वयाभावात्कथमथद्वयोपस्थितिरिति वाच्यम्। लाघवेनानुपूर्वीज्ञानमात्रस्यैव तन्त्रत्वात्तत्संशयेS- प्युपपत्तेः। 'श्वेतो धावति' इत्यादौ तथैवोपगमात्। अत्रार्थानिश्रय एव दूषकताबीजम् इति तभ्न रमणीयम्। आनुपूर्वीनिश्रयस्यार्थोपस्थितिं प्रति कारणत्वं न त्वर्थसंदेहं प्रति। न चार्थानिश्रयमात्रं दूषकताबीजम् यत्रार्थानिश्रय एवोद्देश्यस्तत्रापि दोषापत्तेरित्याहुः॥ एकादशं पद्दोषमुदाहरन्नप्रततिपदं व्याचष्टे अप्रतीतमिति। प्रति प्रतिशास्त्रे इतं ज्ञातं प्रतीतम् न प्रतीतमप्रतीतम् यत्किंचिच्छास्त्रपरिभाषितमित्यर्थ इति सारबोधिन्यां स्पष्टम्। व्याख्यातं चच प्रदीपोद््योतयोरपि । "नञ्रोऽल्पार्थकतया शब्दानुशासनातिरिक्तशास्त्रमात्रप्रसिद्धमित्यर्थः । अत एवाप्रयुक्ताद्भ्ेदः तस्यान्यत्रापि प्रसिद्धेः" इति प्रदीपः । (शब्दानुशासनेति। व्याकरणकोशादि- सकलेत्यर्थः। तेन व्याकरणमात्रप्रसिद्धटिघुभादिसंग्रहः। शास्त्रमात्रेति। न तु लोककाव्यादीत्यर्थः । अन्यत्रापि शब्दानुशासने लोके च) इत्युद्चोतः। तदेतत्सर्वमभिप्रेत्याह यत्केवले शास्त्रे प्रसिद्ध- मिति। यत्तु सुधासागरकाराः "नञोऽल्पार्थकतयालंकारशास्त्रातिरिक्तैकशास्त्रप्रसिद्धमित्यर्थः । अत एव रविभट्टाचार्याः प्राहुः उभयप्रसिद्धार्थकेSलंकारशास्त्रमात्रप्रसिद्धार्थके वा न दोष इति। अत एवाप्रयुक्ता- द्ेद: तस्य शब्दानुशासनेऽलंकारातिरिवतशास्त्रान्तरेऽपि प्रसिद्धेः। यञ्च सारबोधिनीकारैर्व्याख्यातम् यञ्च प्रदीपकारैर्व्याख्यातं तदुभयमप्यवद्यम् अलंकारमात्रप्रसि्ेऽपि तत्त्वापत्तेः। अत एव मुखादौ प्रयुज्यमानं चन्द्रादिपदं शास्त्रान्तराप्रसिद्धमप्यलंकारशास्त्रप्रसिद्धत्वान्नाप्रततिमिति द्रष्टव्यमिति" व्याचखव्युः तत्तु न रुचिरं मुखादौ चन्द्रत्वादिधर्ममारोप्य मुखादौ चन्द्रादिपद्प्रयोगस्य सर्वत्र शास्त्रे लोके च प्रसिद्धत्वात् । अत एव 'गोवृन्दारकः' इत्यादौ "वृन्दारकनागकुञ्जरैः पूज्यमानम्" (२।१।६२) इति पाणिनिसूत्रेणारोपबोधनपूर्वकं समासबोधनं कृतम्। नहि 'गोवृन्दारकः' इति प्रयोगापेक्षया मुखचन्द्र इति प्रयोगोऽतिरिच्यते इति सुधीभिर्विचारणीयम्। न च "वृन्दारकनाग०" इति सूत्रेण पूज्यमानत्वे एवारोपो बोध्यते इति वाच्यम्। "विशेषणं विशेष्येण बहुलम्" (२।१।५७) इति सूत्रेण सिद्धस्यैव समासस्यानेनानुवादात् । उक्तं च सिद्धान्तकौमुद्यां 'समासे सिद्धे विशेष्यस्य पूर्वनिपातनार्थमिदं सूत्रम्' इति॥ सम्यगिति। सम्यग्ज्ञानं तत्त्वज्ञानं तदेव महत् ज्योतिः सकलाज्ञाननिवारकत्वेन सर्वप्रकाशक त्वात् मोक्षजनकत्वाच्चेति भावः तेन दलितः विनाशितः ('गलितः' इति पाठे 'गल अदने' इति धातोः गलितः भक्षितः नाशितः) आशयो मिथ्याज्ञानजनितः संस्कारविशेषः यस्य तस्य भावस्तत्ता तत्ताजुषः तत्तासेविन: ताद्शस्य पुरुषस्य एतत् विहितप्रतिषिद्धमपि कर्म (कर्तृ) विधीयमानमपि (हस्तपादादिना) ३६

Page 341

२८२ काव्यप्रकाशः सटीक:।

अत्राशयशब्दो वासनापर्यायो खोगशास्त्रादावेव प्रयुक्त: ।। Oe (53) (१२) ग्राम्यं यत्केवले लोके स्थितम्। यथा राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम्। तपनीयशिलाशोभा कटिश्र हरते मनः ॥ १५६ ॥ क्रियमाणमपि बन्धनं बन्धजनकं संसारप्रयोजकं न भवेदित्यर्थः। तदुक्तं महाभारते भीष्म- पर्वणि श्रीमद्भगवद्गीतायां चतुथऽध्याये "यथैधांति समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्व कर्माणि भस्मसात्कुरुते तथा" ॥ इति॥ अत्राशयशब्दो वासनार्थः वासना चात्र संसारनिदानं मिथ्याज्ञानजन्यः संस्कारविशेषः। स चैंवं- भूत आशयशब्दः "कशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः" (१।२४) इति पातञ्जलसूत्रात् योगशास्त्रे एव प्रसिद्धो नान्यत्रेति बोध्यम्। तदेवाह अत्राशयशब्द इति। आशयपदमित्यर्थः। शास्त्रा- दावित्यादिपदेन तत्तच्छास्त्रमात्रप्रसिद्धमन्यदप्यूह्यमिति ध्वनितम्। दूषकताबीजं तु तच्छास्त्रानभिज्ञ- स्यार्थानुपस्थितिः । अत एव यत्र तच्छास्त्राभिज्ञ एव प्रतिपौद्यः स्वयमेव वा पैरामर्शस्तत्र न दोषत्वम् प्रत्युत व्युत्पत्तिसूचकतया गुणत्वम् । असमर्थान्त सर्वेषाम् (तच्छास्त्राभिज्ञानभिज्ञानाम्) अर्थानुपस्थिति- रिति ततो भेद इति प्रदीपोद्दयोतादिषु स्पष्टम्। "यत्तु सारबोधिनीकारैरुक्तम् वासनायां प्रयुक्तस्या- शयशब्दस्य योगशास्त्रमात्रपरिभाषितत्वाद्विरलप्रयोगेन झटिति न संस्कारोद्वोधकता किं तु भावनयैवेति भावनाविलम्बात्प्रतीतिमान्थर्यमेव दूषकताबीजमिति। तन्न निरवद्यम। इदं हि सकलशास्त्राभिज्ञं प्रत्येव संभवति न पुनस्तच्छास्त्रानभिज्ञं प्रत्यप सर्वज्ञस्य च दुर्लभत्वात्" इति सुधासागरकाराः ॥ द्वादशं पददोषमुदाहरन् ग्राम्यं व्याचष्टे ग्म्यमिति । ग्रामे भवो ग्राम्योSविदग्धो न तु सभ्यस्त- त्प्रयुक्तं ग्राम्यमिति सारबोधिनीकाराः। आपामरं सर्वलोकप्रसिद्धं ग्राम्यम्। अप्रयुक्तं तु शास्त्रसिद्ध- त्वान्न तथेति भेद इति कमलाकरभट्टः। वरतुतस्तु प्रदीपोद्य्ोतसुधासागरेषु व्याख्यातम्। तथाहि। ग्रामे केवले लोके प्रसिद्धं ग्राम्य न तु शास्त्रेऽपि अत एवाप्रयुक्तान्द्ेद इति भास्करादयः। अपरेतु देश्यमनेन संग्रह्यते। कटिशब्दादयरतु नोदाहर्तव्याः किं तु गल्लभल्लादय इत्याहुः तदुभयमप्यसत् कटिशब्दस्य शास्त्रेऽपि प्रसिद्धस्य व्युत्पन्नस्य चोदाहरणत्वेन दर्शितत्वात्। न खलु बाग्देवतावतारोक्ति(मम्मटो- क्ति)विरुद्धं विद्वद्भ्िराद्रियते। तस्मात्समस्तलोकप्रसिद्धं तस्मिन् देशे सवैः (विदग्धाविदग्धैः) लोकै- र्यदाख्यया यद्दस्तु व्यवह्नियते तत्पदं तद्दस्तुनि तद्देशीयान् प्रति ग्राम्यम्। तेन देशमपि संगृहीतम्। अत एवाग्रे खादनपानगल्लादय उदाहेरणीयाः कलममहिषीदध्यादयश्ष प्रत्यु्दाहरणीया इति॥ यथेत्युदाहरति राकिति। हे प्रिये राका पूर्णचन्द्रा पूर्णिमा तत्संबन्धी यो विभावर्याः रात्रेः कान्त- श्रन्द्रः तस्य संक्रान्ता प्रतिबिम्बिता द्युतिः यत्र तथाभूतम् यद्वा तस्मिन् संक्रान्ता द्युतिर्यस्य ताटटक् ते तव मुखम् तपनीयस्य स्वर्णस्य शिलायाः शोभा यत्र तादृशी कटिः नितम्बश्र (मे) मनः हरते अनुरञ्जयतीत्यर्थः । १ केशा अविद्याद्यः कर्माणि सुरुतदुष्कतानि तत्फलं विपाकः आशयो वासना तैरपरामृष्टः त्रिष्वपि कालेषु अस्पृष्टः अन्येभ्यः पुरुषेम्यी विशिण्यते इति पुरुषविशेष ईश्वर इति तदर्थः ॥ २ आत्मारामेति ३०७ उदाहरणे॥ 3 षडविकेति ३०८ उदाहरणे ॥ समस्तलोकप्रसिद्वत्वमेव विवृणोति तस्मिन्देरी इति॥५ उदाहरणीया इति। ताम्बूलभृतगल्लोडयमिति १८० उदाहरणे ।। ६ प्रत्युदाहरणीया इति। फुलक्रमिति ३०९ उदाहरणे।जवल

Page 342

सप्तम उल्लास: । २८३

अत्र कटिरिति।। (१३) नेयार्थ "निरूढा लक्षणा: काश्चित सामथ्यदिभिधानवत्। क्रियन्ते सांप्रतं काश्चित काश्चिन्नैव त्वशक्तितः ॥" इति यन्निषिद्दं लाक्षणिकम्। यथा शरत्कालसमुल्ा सिपूर्णिमाशर्वरीप्रियम्। करोति ते मुखं तन्धि चपेटापातनातिथिम्॥१५७॥ अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते। अत्र कटिरितीति। कटिपद ग्राम्यमित्यर्थः । अयं भावः। श्रोणीनितम्बादिकमेव विदग्धैः प्रयु- ज्यते कटिपदं त्वविदग्धमात्रप्रयोज्यमिति ग्राम्यम्। ग्राम्यशब्द्श्रवणेन वक्तुरवैदग्ध्योन्नयनात् श्रोतुर्वै- मुख्यं दूषकताबीजमिति। व्याख्यातमिदं प्रदीपोद्दचोतयोः। "अत्र कटिशब्दः। लोकानभिज्ञं प्रति तदर्थानुपस्थितिर्दूवकताबीजमिति ऋजवः। वस्तुतस्तु पदं त्रिविधम् ग्राम्यं नागरमुपनागरं चेति। विदुग्धमात्रप्रसिद्वं नागरम् ग्राम्यकक्षातिकान्तमप्राप्तनागरभावमुपनागरम् ग्राम्यं तु प्राग्व्याख्यातम्। नागरोपनागरौ विहाय ग्राम्यशब्दप्रयोगाद्वक्तुरवैदग्ध्योन्नयनेन श्रोतुरवैमुख्यं तदित्यालोच्यते। अत एव विदूषकादावधमे वक्तरि न दोषत्वम् तस्य तथैवौचित्येन वैरस्याभावात्। कटिशब्दे तु ग्राम्यताप्रयोजकं नाश्लीलमिति न तत्संकर:" इति प्रदीपः । (ग्राम्यताप्रयोजकमिति)। प्रयोजकमिति सामान्ये नपुंसकम् विदग्धाविदग्धप्रसिद्धत्वप्रयुक्तशोभारहितत्वं वैमुख्यप्रयोजकम् न वीडादिव्यञ्जकार्थोपस्था- पकत्वं तद्वीजमिति नाश्लीलेनास्य गतार्थतोति भावः ) इत्युदचोतः । त्रयोदशं पददोषमुदाहरन् नेयार्थमिति पद व्याचष्टे नेयार्थमिति। नेयो न्यायपरिहारेण कवेः स्वेच्छया कल्पनीयोऽर्थों यस्य तदित्यर्थः रूढिं प्रयोजनं वा बिना शक्यसंबन्धमात्रेणाशक्यार्थोपस्था- पनमिति यावत्। तथा च नेयत्वं नाम "निरूढा लक्षणा: काश्वित्" इत्यादिभद्टवार्तिकेनारुणाधि- करणे रूढिप्रयोजनाम्यां विना निषिद्द्वा या लक्षणा तद्विषयत्वम्। तदेव कुमारिलभद्टकृतं तन्त्रवार्तिकं दर्शयति निरूढा इत्यादि। अभिधानवत् शक्तिवत् सामर्थ्यात् प्रसिद्धि: शब्दस्वभावाद्दा निरूढा अनादिप्रसिद्धाः काश्वित् लक्षणा भवन्तीत्यन्वयः। यथा 'शुको घटः' इत्यादौ। क्रियन्ते इति। सांप्रतम् अधुना 'प्रयोजनवशात्' इति शेष: काश्वित् लक्षणा क्रियन्ते इत्यर्थः । यथा 'गङ्गायां घोषः' इत्यादौ। काश्चिन्नैवेति। काश्वित् लक्षणा अशक्तितः प्रत्यायनसामर्थ्याभावात् नैव क्रियन्ते 'रूढिप्रयोज- नान्यतराभावात्' इति शेषः । यथा 'रूपी घटः' इत्यादाविति वार्तिकार्थः । निषिद्धमिति। रूढि- प्रयोजनान्यतरशून्यमिति पर्यवसितोऽर्थः । अत्र वृत्तौ क्वचित् "काश्विन्नैव त्वशक्तितः" इति चतुर्थ पाद एव दृश्यते क्रचित्तु पादचतुष्टयात्मकः पाठोऽपि दश्यते॥ शरदिति। हे तन्वि ते तव मुखं (कर्तृ) शरत्काले समुल्लासी यः पूर्णिमासंबन्धी शर्वरीप्रियः चन्द्रः तं चपेटा प्रसृतकरतलं तत्पातनस्य तत्प्रहारस्यातिथिं पात्रं करोतीत्यर्थः यद्वा कपोले करतलाघा- तश्रपेटः तस्य आपातनमर्पणं तस्यातिथिं भोक्तारं करोतीत्यर्थः । अत्रेत्यादि। अयमाशयः । अत्र चपेटापातनातिथिपदं मुख्यार्थबाधात् निर्जितत्वे लक्षणया प्रयुक्तम्। यद्यपि वैयाकरणनये एव (वैया- १ शुको घट इत्युदाहरणं भट्टादिरत्या बोध्यम्। वस्तुतस्तु "गुणवचनेम्यो मतुपो लुगिष्टः" इति वचनेन सिद्ध स्वान्न्ेदमुदाहरणम् किं तु 'कर्मणि कुशलः' इत्यादिकमिति बोध्यम् ॥ २ ॥ रूपवान् घट इत्यर्थ: ॥

Page 343

२८४ काव्यप्रकाश: सटीकः ।

अथ समासगतमेव दुष्टमिति संबन्धः अन्यत् केवलं समासगतं च। (१४) क्विष्टं यतः अर्थप्रतिपत्तिव्यवहिता। यथा अत्रिलोचनसंभूतज्योतिरुद्ग मभासिभिः । सदशं शोभतेऽत्यर्थ भूपाल तव चेष्टितम् ॥१५८॥ अत्रात्रिलोचनसंभूतस्य चन्द्रस्व ज्योतिरुद्गमेन भासिि: कुमदैरित्यर्थः । करणैरिव ) अलंकारिकैरपि वृत्तावेकार्थीभावाङ्गीकारात् शक्यसंबन्धरूपा लक्षणा सूपपादा तथापि निर्जितत्वेऽस्य पदस्य रूढेः प्रयोजनस्य वा अभावेन मुख्यशब्दार्थातिरेकिणोऽर्थस्याप्रतीतिनेयार्थत्वम्। न च निर्जितत्वातिशयप्रतिपत्तिः प्रयोजनमिति वाच्यम् उपमानत्वेनोत्तमगुणे चन्द्रे न्यूनेन मुखेन चपेटापातनदानवर्णने वर्ण्यस्यैवापकर्षापत्तेः। तस्माज्जयतीति वक्तव्यम्। दूषकताबीजं तु लक्षणाज- न्यबोधे: रूढिप्रयोजनान्यतरज्ञानस्य हेतुत्वेन प्रकृते तदभावाद्वत्त्यभावेनार्थानुपस्थितिः । अत एवाप्रयु- क्तान्भेदः। अत एव च नित्योऽयं दोष इति प्रदीपोश्योतयोः स्पष्टम्॥ "अथ भवेत्किृष्टम्" इति कारिकांशं व्याचष्टे अथेत्यादि। क्िष्टादिकं दुष्ट पदं समासगतमेवेत्य भिसंबन्ध इत्यर्थः । अयं भावः । क्विष्टत्वादिदोषत्रयं पदान्तरसाहित्येनैवर संभवति तथा च यदि तयो: पदयोः समासस्तदैव समासेनैकपद्यात्पददोषता असमासे वाक्यदोषत्वमेव इतरेषां तु (श्रतिकट्टादीनां) समासेऽसमासे च पददोषत्वम् द्वितीयपदनैरपेक्ष्येणैव दुष्टत्वाविति। तदेतत्सर्वमभिप्रेत्य 'समासगतमेव' इत्येवकारप्रतिपाद्यमाह अन्यदिति। श्रुतिकट्वादीत्यर्थः । केवलम् असमासगतम् ॥ तत्र चतुर्दशं पददोषमुदाहरन् किष्ट व्याचष्टे क्विष्टमिति। अर्थप्रतीतौ केशवदित्यर्थः। आकाङ्गा- सत्तितात्पर्यज्ञानरूप्कारणविलम्बेन विलम्बात्स्वार्थबोधजनकमिति यावत्। तदेवाह यत इंति। यतोऽर्थस्य विवक्षितस्यान्वितविशेषस्यार्थस्य प्रतिपत्तिः प्रतीतिर्व्यवहिता विलम्बिता तदित्यर्थः। निहतार्थादौ तु पदार्थोपस्थितिरेव विलम्बितेति ततो भेदः। विलम्वआ्राप्रत्त्यासत्तेर्वां सामान्यशक्तात्प्र- करणाब्भावे विवक्षितविशेषस्य द्रागनुपस्थितेवा। आद्ये वाक्यमात्रदोषत्वं 'धम्मिल्लस्य' इत्यादौ (१८२ उदाहरणे ) अन्त्ये तु पददोषत्वमपीति प्रद्ीपोद््योतयोः स्पष्टम् ॥ यथेत्युदाहरति अत्रीति। हे भूपाल तव चेष्टितं चरित्रं यशः (कर्तृ) अत्रेर्मुनिविशेषस्य लोचनात् संभूतं यत् ज्योतिश्रन्द्रः "अत्रिनेत्रसमुद्भवः" इति पुराणवचनात् तस्योद्गमेनोद्येन भासिभिः भासन- शीलैः अर्थात्कुमुदैः सदृशम् अत्यर्थम् अतिशयेन शोभते इत्यर्थः॥ अत्रात्रीत्यादि। अयमाशयः । अत्रिलोचनसंभूतेत्यादौ सामान्यतोऽन्वयबोधाविलम्बेऽपि अत्रिलो- घनसंभूतेत्यनेन विवक्षितविशेषस्य चन्द्रस्य न द्रागुपस्थितिः चक्षुज्योतिषोऽपि तथात्वात् नियामकस्य प्रकरणादेरभावाच्च। एवम् चन्द्रोद्रमभासित्वेन कुमुदस्यापि न द्रागुपस्थितिः चन्द्रविकास्यकुसुमान्तर- साधारण्यात्। अतः कुमुदैरित्यस्य व्यवधानेन उपस्थितिः । तस्मादिदं क्विष्टम् चन्द्रादिपदेनैव सिद्धे- १ मुख्यशब्दार्थेति। मुख्यत्ं च शाब्दवाक्यार्थान्वयित्वमित्युद्व्योतः। निर्जितमिति मुख्यशब्देन प्रतिपाद्यो योड- र्धस्तव्यतिरिक्तस्येत्यर्थः । मुख्यशळ्दप्रयोगाद्लभ्यं हि शैत्यपावनत्वं प्रयोजनम्। न चेह तथा प्रतीयमानमस्तीति प्रभायाम्॥ २ पदार्थोपस्थितिरेवेति। शक्यतावच्छेद्करूपेण प्ररुतपदार्थोपस्थितिरेवेत्यर्थः। इड तु शक्यतावच्छे. दकस्य प्ररुताप्रकुतसाधारण्यात्तेन रूपेणोपस्थितावव्यन्वितविशेषानुपस्थितिमात्रमित्यर्थः ॥ ३ व्यवधानेनोति। यश :- शुक्े कुमुदे तात्पर्यग्रहोत्तरमित्यर्थः ॥

Page 344

सप्तम उल्लास:। २८५

(१५) अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यथा मू्धामुद्दत्तकृत्ताविर लगल गलद्वक्तसंस क्त्धारा - धौतेशाङब्रिप्रसादोपनतजय जगज्जातमिथ्यामहिस्रराम्। रपुष्टं च। इदं पद्मार्धमपि पदम् समस्तत्वात्। इद्मेत्र च 'अत्रिदृष्टेः समुद्धतस्योद्योतेनावभासिभिः' इति पाठे द्वितीयप्रभेदे वाक्यदोषोदाहरणं द्रष्टव्यम्। दूषकताबीजं विवक्षितविशिष्टार्थप्रतीतिविलम्बः । प्रहेलिकायां यमकादौ च चित्रोद्देश्यत्वेन प्रतीतिविलम्चस्येष्टत्वाद्दोषत्वम्। मत्तोक्त्यादौ गुणत्वमपि तदौचित्यादिति प्रदीपोद्दयोतादिषु स्पष्टम्। अत्र सुधासागरकाराः "यत्र तु विशेषणं नान्यसाधारणं तत्र नायं दोष: यथा 'शतार्धपश्चांशभुजो द्वादशार्धार्धलोचनः' इत्यत्र दशभुजत्वं त्रिलोचनत्वं च राव- णशिवयोरेव। इयमेव 'पैदार्थे वाक्यरचना' इत्यर्थगुणं प्राश्चो वदन्ति" इत्याहुः। तत्र 'रावणशिवयो- रेव' इति चिन्त्यम् रावणस्य विशतिभुजत्वेनैव प्रसिद्धेः। तस्मात् 'शिवस्यैव' इत्येव वक्तुं युक्तम्। अत एव सरस्वतीकण्ठाभरणे १ परिच्छेदे ९ सूत्रे उदाहृतस्य 'शतार्धपश्चाशभुजो द्वादशार्धार्धलोचनः। विशत्यर्धाधमूर्धा वः पुनातु मदनान्तकः॥' इति पद्यस्य शिवपरत्वमेव दृश्यते॥' पश्चदशं पददोषमुदाहरन्नविमृष्टविधेयांशं व्याचष्टे अविमृद् इति। अनिर्दिष्टः अनुक्तः । विधेयांशः विधेयरूपोंडशो वाक्यार्थस्य भागः साध्यांशः। प्राधान्यं चात्र विधेयताप्रतीतियोग्यत्वम्। तदुक्तं भट्टवार्तिके "यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाव्यनूद्यता। तच्छब्द्योग औत्तर्य साध्यत्वं च विधे- यता।" इति। तथा चोद्देश्यविधेययोः पृथक्पदाभ्यामुपस्थितिर्न तु समासप्रविष्ठत्वमिति बोध्यम्। इद- मत्रोद्देश्यविधेयभावविषयेऽवगन्तव्यम्। यच्छब्द्प्रतिपायं सिद्धत्वेन प्रतीयमानमनुवाद्यमुद्देश्यम् तदादि- शब्दप्रतिपाद्यमुद्देश्यसंबन्धितया अपूर्वबोधविषयीभूतं विधेयम् यथा 'यः क्रियावान् स पण्डितः' इत्यादौ क्रियावन्तमुद्दिश्याभेदेन पण्डितः स्वरूपसंबन्धेन पण्डितत्वं वा विधीयते। यद्यपि यत्तच्छब्द्रौ सर्वत्र न प्रयुज्येते तथापि गम्येते ताविति। उद्देश्यविधेयभावो हि विषयतांविशेषरूप इत्यग्रे (२९१ पृष्ठे १३ पक्कौ) स्फुटीभविष्यति। व्याख्यातमिदं प्रदीपे "अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। प्राधान्यं च विधिप्रतीतियोग्यता सा चानुपसर्जनीभूतत्वे सत्युदश्यानन्तर्यम्। अतो 'न्यक्वारो ह्ययम्' इत्यादौ ( १८३ उदाहरणे) 'क्षणमप्यमुक्ता' इत्यादौ (१६२ उदाहरणे च) नाव्याप्तिः । प्रथमे उक्तरूपप्राधान्याभावेन द्वितीये विधेयस्य प्रसज्यप्रतिषेधस्यानिर्देशेन विशिष्टविरहसत्त्वात्" इति। विवरणकारास्तु "प्राधान्यं च विधिप्रतीतियोग्यता सा च कुत्रास्ति कुत्र वा नेत्यत्र विद्वदनुभव एव प्रमाणम् केवलमुदाहरणैरेतत्प्रदर्शितम् विधेयस्य समासान्तर्गतत्वेन इतरविशेषणतयोपस्थितौ (एक- स्मिन् वाक्ये) 'अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्' इति नियमविपरीतनिर्देशे उद्देश्यगतविशेष- णान्तरमहिम्रा विधानात्पूर्वमेव सिद्धौ यच्छब्दसांनिध्येन प्रसिद्धार्थ एव नियमितशक्तिकेन तदादि- पदेन निर्देशे च विधेयतानवगम इति। एतच्च वाक्योदाहरणेषु सुस्पष्टम्" इत्याहुः॥ यथेत्युदाहरत मूर्ध्नामिति। हनुम्नाटकेधमेSङ्गे रामसेनया लङ्कायां वेष्टितायां रावणस्योक्तिरि- १ शतार्धेति। शतार्ध पञ्चाशत् तस्याः पश्मोंऽशो दश तत्संख्याका भुजा यस्य स इत्यर्थः। शतार्धपश्चेत्यत्र "नान्तादसंख्यादर्मेट् " (५।२।४९) इति पाणिनिसूत्रेण मडागमस्तु न असंख्यादेरति्युक्तेः । यद्वा "आगमशास्त्र- मनित्यम्'इति परिभाषया मडागमो न । अथवा पञ्चशब्दो वृत्तिविषये पञ्चमपरः वृत्तिस्वामाव्यादिति बोध्यम्॥ २ पदार्थे वाक्येत्यादि। स्फुटीभविष्यति चेदमप्टमे उल्लासे ९६ सूत्रे वृत्तौ॥ ३ भट्टोऽत्र कुमारिलभटटस्तत्कृतं वार्तिकं तन्त्रवार्तिकमित्यर्थः ॥

Page 345

२८६ काव्यप्रकाशः सटीकः।

दोष्णां चैषां किमेतत् फलमिह नगरीरक्षणे यत् प्रयासः १५९।।

अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम्। यथा वा

यम्। एषां मदायानां सम्यग्विद्यमानानां या मूर्वी मस्तकानां दोष्णां भुजानां च किमेतदेव फलम् यत इह अस्मिन् (वानरापादानके) नगरीरक्षणे लङ्मासंरक्षणे प्रयासोऽसामर्थ्यम् इति निर्वेदः। किमित्यनेन ईदशफलेऽनौचित्यं व्यज्यते। तदुपपादकमेव मूती दोष्णां च क्रमेण विशेषणमाह उद्दत्तेत्यादिना। उद्दत्तम् उद्धतम् यद्वा वृत्तं मर्यादा उद्दत्तं निर्मर्यादमित्यर्थः तादृशं यत् कृत्तं कर्तनं छेदनं तेनाविरलं सान्द्रं निर्भरं यथा स्यात्तथा गलात् कण्ठात् गलन्ती या रक्तस्य संसक्ता अविच्छिना धारायद्ा संसक्ता (अर्थादीशाङ्च्रौ ) संलग्ना धारा तया धौतौ प्रक्षालितौ यौ ईशाङ्व्री महेश्वरचरणौ तत्प्रसादेनोपनतः प्राप्तो यो जयस्तेन जगति जातो मिथ्याभूतो महिमा येषां तादृशानामिति मूर्धविशेषणम्। कैलासस्य हरगिरे: उल्लासने उत्थापने उद्धरणे वा यः इच्छाया आकाङ्गाया व्यतिकरः आधिक्यं तस्य पिशुनानां सूचकानाम् उत्सर्पी उत्कटो यो दर्पो गर्वस्तेनोद्धुराणां समर्थानाम् अतिक्रान्तजगताम् इति दोष्णां विशेषणम्। कैलासेन स्वविमानगतिनिरोधे तमुत्थापयितुमान्दोलितवान् रावण इति पौराणिकी कथा अत्रानुसंधया। केचितु मू्ध्नामित्यस्य सांनिध्यात् कृत्तेनैवान्वयो न तु 'किमेतत्फलम्' इत्यनेनापि अनुषङ्गकल्पनापत्तेः कृत्तानां जयप्राप्तमहिमत्वाभावेन विशेषणानुपपत्तेश्। एवं च विशेषणद््यमपि दोष्णामेव। 'दोष्णां चैवाम्' इति पाठस्तूक्तदोषाद्वेय इत्याहुः । तद्युक्तम्। तात्पर्यग्राहकचकारस- ववनानुषङ्गस्य प्रामाणिकत्वात्। कृत्तानामेव मूध्नी पुनरारोपेण द्वितीयदूषणस्याप्यभावात् साजात्येनापि तथाव्यपदेशसंभवाच्च। ननु नगरीरक्षणप्रयासो दोष्णामेव धर्मों न तु मूर्ध्नामित्युभयमपि दोष्णामेव विशेवणम् मूध्नामित्यस्य तूद्दत्तकृत्तेनैव संबन्धः चकारोऽपि विशेषणसमुच्चयार्थ इति चेत्। अत्र बूमः। न खलूद्वत्तकृत्तेत्यादि विशेषण दोष्णामुत्कर्षकम् स्वमस्तककर्तने तेषां भयासंभवात् कि तु रिपुकण्ठ- कर्तनमेव पौरुषम्। मू्नी तु तद्विशेषणं ताद्ृशोत्कटकेशसहिष्णुतया लोकोत्तरशौर्य व्यञ्जयति। किंच शौर्य बलं चोभयमपि प्रबलरिपुमारणप्रयोजकमिति न तथात्वे पूर्वार्धवैयर्थ्य शङ्क्यमिति सुधीभिध्येय- मित्युइ्चोते स्पष्टम्। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥

अत्रैवंविधानां मूध्नी दोष्णां चैतत्फलमनुचितमित्यतो महिमा मिथ्येति मिथ्यात्वस्य विधेयत्वं विव- क्षितम् तञ्च न प्रतीयते उद्देश्यविधेययोः पृथङनिदशे एवोद्देश्यविधेयभावप्रतीतेः। समासे चैकार्थीभावा- ङ्रीकारेणेतरपदार्थान्विततयैव स्वार्थोपस्थित्या गुणाभावेन विधेयत्वस्यानिर्वाहादविमृष्टविधेयांशत्वं दोषः। तदेवाह अत्रेत्यादि। मिथ्यामहिमत्वमिति। 'महिमा मिथ्या' इति रीत्या महिम्रो मिथ्यात्वमित्यर्थः। अनुवाद्यम। उद्देश्यम प्राप्तत्वेनावगतमिति यावत् । प्राप्तस्य धर्मान्तरप्राप्तये कथनमुद्देशः। विधेयं साध्यम् अप्राप्तत्वनावगतमिति यावत्। अप्राप्तस्य प्राप्तये कथनं विधानम्। अयमाशयः। यद्त्र मिथ्या- महिमत्वमनुवायं स्यात्तदा तदनूद्य किंचिद्विधेयं स्यात्। प्रकृते तु यदि तदैव मिथ्यामहिमत्वं जातें तदिदानी नगरीरक्षणे प्रयासो नानुचितः । यदि तु विधेयं स्यात्तदा ताद्वशेनापि कर्मणा यन्महिमत्वं तदाभूत्तदिदानीं मिथ्या बभूव। यतः स्वनगरीरक्षणेऽ्यसामर्थ्यमिति प्रतीतिः सिद्धयति अतो मिथ्या- त्वस्यैवाप्राप्तत्वान्मिथ्यामहिमत्वमित्यस्य महिम्रो मिथ्यात्वमित्यर्थ एव करणीयः। तच्च मिथ्यात्वं बहुवी- हावन्यपदार्थे गुणीभूतम्। किं च उद्देश्यं विधेयं च यदि पृथक्पदाभ्यामुपतिष्ठते तदा प्राप्तमुद्दिश्य।-

Page 346

सप्तम उल्लास:। २८७

स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरेदामकाश्चीम्। दाट न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ १६० ।। प्राप्तं विधीयते पर्वतो वह्निमानितिवत् न तु समासे अन्यथा वह्निमत्पर्वत इत्यभिधानापत्तेरिति सार- बोधिन्यां स्पष्टम्।। व्याख्यातं च प्रदीपादौ। "अत्र नगरीरक्षणे एव यत्प्रयासस्तन्मूर्त्री महिमा मिथ्येति मिथ्यात्वं विधेयम् अप्राप्तत्वात्। अत एव च नानुवाद्यम्। प्राप्तत्वे तु मिथ्यामहिम्नामफलत्वमेवोचितम् अतः किमेतत्फलमित्यादिना नाभिसंबन्धः स्यात् तच्च (मिथ्यात्वं) बहुव्रीहावन्यपदार्थे गुणीभूतम् विशेषण- प्राधान्ये समासाननुशासनात्। किंचोद्देश्यं विधेयं च यदि पथक्पदाभ्यामुपतिष्ठते तदा प्राप्तमुद्दिश्या- प्राप्तं विधीयते। न च समासे पृथक्पदाभ्यामुपस्थितिः अपृथगुपस्थितौ च न तथा व्युत्पत्तिरित" इति प्रदीप: । (वक्ष्यमाणकर्मधारयोदाहरणे प्रागुक्तोपसर्जनत्वविरहेण तत्संगत्यर्थमाह किं चेति। पदाभ्यां यदि पृथग्विशेष्यविशेषणभावानापन्न उपतिष्ठेतेत्यर्थः । न च समासे पदात्पृथगुपस्थितिरित्यन्वयः। समासे एकार्थीभावाङ्गीकारेणेतरपदार्थान्विततयैव स्वार्थोपस्थितेरिति भावः। अयमेव चैकार्थीभावो नाम यदितरान्वयितयैवोपस्थितिरिति स्पष्ट तद्विदाम्। एवं चोपसर्जनत्वम् इतरविशेषणतयवोपस्थिति वषयत्वं फलितम्। पृथगुपस्थितयोस्तथान्वय इत्युत्सर्गः लोहितोष्णीषाः (२२७ पृष्ठे) इत्यादौ समसेऽपि तदर्श- नात्। एवं चोत्सर्गत्यागेन सहृदयोद्वेग एव दुष्टिबीजमत्रेति तत्त्वैम्। अत्राभवन्मतयोगसत्त्वेपि न क्षतिः अविमृष्टविधेयत्वस्यापि सत्वेनोपाधियसांकर्यस्यादोषत्वात्) इत्युश्योतः । (तच्चेति। मिथ्यात्वं चेत्यर्थः। विशेषणेति । एकार्थीभावभङ्गप्रसङ्गादित्यर्थः । वैरूप्यादप्येकस्मिन् समस्तपदे उद्देश्यविधेय- भावो न संभवतीत्याह किं चेति। प्राप्तत्वेनावगतं ह्युरेश्यम् अप्राप्तत्वेनावगतं विधेयम् न चैक- स्मात्पदादनेकरूपेणोपस्थितिरित्यर्थः । अयमेव चैकप्रसरताभङ्ग इत्युच्यते यथा 'वषट्कर्तु: प्रथम- भक्षः' इत्यत्र प्राप्तभक्षानुवादेन प्राथम्यविधौ। तत्राप्येकार्थीभावभङ्गेन समासानुपपत्तेरुक्तवरूप्यस्य च प्रसङ्गादिति) इति प्रभा ॥ एवं बहुव्रीहावुदाहृत्य समासान्तरेऽ्यविमृष्टत्वं द्रष्टव्यमित्याह यथा वेति। तत्र कर्मधारये उदाहरति स्रस्तामिति। कुमारसंभवकाव्ये तृतीये सर्गे कामस्य हरं प्रत्यभियोगे सहायभूतां पार्वतीम् "अदृश्यत स्थावरराजकन्या" इति कुलकादिनोपक्रम्य तस्याः वर्णनमिदम्। किंभूता स्थावरराजकन्या। नितम्बात् कटिपश्राद्भागात् स्रस्तां विगलितां केसरो बकुलः तस्य दाम माला सैव काश्ची नितम्भभूवगं तां पुनः पुनः वारंवारम् अवरोपयन्ती स्थाने (नितम्बे) निवेशयन्तीत्यन्वयः। अत्रोत्प्रेक्षते। स्मरेण कामेन न्यास: पुनर्ग्रहणाय समपपित द्रव्यम् तदेव निक्षेप इत्युच्यते न्यासीकृतां निक्षेपीकृतां कार्मुकस्य कार्मु- कसंबन्धिनीं द्वितीयमौर्वीमिवोति। अत्रैव किमिति न्यस्ता नान्यत्रेत्यत आह 'स्थानविदेति।' स्वास्त्रभूता पार्वत्येव स्वीयमौर्वीस्थापनस्थानमिति जानता मन्नाशेऽ्यनयैव शिवं वशीकरिष्यामीति जानता वा आश्रयगुणप्रकर्षेण आधेयगुणप्रकर्ष इति योग्यमिदं स्थानमिति जानता वेत्यर्थः। "केसरं हिङ्गनि कृी किञ्जल्के न स्त्रियां पुमान। सिंहच्छटायां पुंनागे बकुले नागकेसरे" इति मेदिनी। अत्र मौवीपदादेव कार्मुकसंबन्धे लब्धे कार्मुकपद्मपुष्टम्। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ १ अवरोधयन्तीति क्वचित्पाठः। अवलम्चमातेत्यपे क्वचित् पाठः ॥ २ केसरपुष्पकाश्वीमिति क चेत्पाठः ॥ ३ ततप्रमिति। एकमेव वृत्त्यर्थवादे वैयाकरणसिद्धान्तमञ्जूषायामपि (५ पत्रे) उक्तम् ॥ हिमालयकन्या॥?

Page 347

२८८ काव्यप्रकाशः सटीक:।

अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम्। मौर्वी द्वितीयामिति युक्त: पाठः। यथा बा वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु। वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥१६१॥ अत्र द्वितीयत्वं मौर्व्यामुत्प्रेक्ष्य विधेयम् तदेवाह अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यमिति। स्वीयवस्तुन एव न्यासीकरणं न तु तत्सद्दशस्यति नोपमा किंतु न्यासीकरणे हेतूत्प्रेक्षेयम्। तत्र घ हेतुर्द्वितीयत्व- मेव मौर्वीत्वस्य तत्राप्रयोजकत्वादिति भावः । मात्रपदेन विशिष्टोत्प्रेक्षानिरसनम्। तञ्व द्वितीयत्वं कर्म- धारयसमासे परपदार्थप्राधान्याद्गुणीभूतमिति विधेयत्वस्यानिर्वाहादविमृष्टविधेयांशत्वं दोषः। मौर्वी द्वितीयामिति पाठे तु निराबाधा प्रतीतिः । तदेवाह मौर्वीमित्यादि। द्वितीयाम् अन्याम्। नन्वत्र काञ्चयां द्वितीयमार्वात्वं विशिष्टमेवोत्प्रेक्ष्यमतो नोक्तदोषावकाश इति चेन्न। तथापि हि विशेषणांशस्य द्वितीयत्वस्य प्राधान्यम् द्वितीयसद्भावे एक य न्यासीकरणौचित्यात् । मौर्वीत्वं तु तस्याप्रयोजकम् अन्यस्यापि सद्वितीयस्य तदौचित्यादिति वस्तुविशेषपरिचायकतामात्रम्। अयं भावः। मौर्वीभिन्नस्यापि यस्य कस्यापि पदार्थस्य सद्वितीयस्य न्यासीकरणान्मौर्वीत्वं न न्यासीकरणे प्रयोजकं किंतु ज्यारूप- वस्तुविशेषपरिचायकमेवेति। तस्माद्विशिष्टविधावपि विशेषणमात्रप्राधान्येन वक्तव्यम्। अत एव "आकडारादेका संज्ञा" (१।४।१) इति पाणिनिसूत्रे एकत्वस्याप्राधान्यप्रसङ्गभयेन समासो नाकारीति व्याख्यातारः । अन्यथा तत्राप्येकत्र संज्ञिन्युद्देश्ये एकत्वविशिष्टसंज्ञाविधाने दोषो न स्यादिि प्रदीपसुधासागरयोः स्पष्टम्। अधिकमग्रे २९० पृष्ठे २७ पड़ौ द्रष्टव्यम्॥ चक्रवर्तिप्रभृतिभिस्तु "ननु द्वितीयमौर्वीत्वविशिष्टमेव विधेयमतो नोक्तदोष इति चवेत्। अत्र केचित् बकुलमालाया मौर्व्याकारत्वेन मौर्वीत्वप्राप्तौ द्वितीयत्वस्यैव विधेयत्वमित्याहुः। तन्न। तदा द्वितीयत्वस्यापि प्राप्तत्वादुत्प्रेक्षाया एवासंभवः स्यात्। वस्तुतस्तु कार्मुकपदसांनिध्येन मौर्व्या आरूढत्वावगतिः ततश्रव धनुरारूढमौर्व्या एव वशीकरणरूपकार्यकारित्वादन्यत्वेनोत्प्रेक्षते। यथा अयं राजा अपरः पाकशासन इवेत्यादौ। यथा च प्रतिनिधौ महापात्रे राजकर्मसंपादके जनः संभावयति किं सिंहासनारूढो राजा द्वितीयो भूत्वा कर्म कुरुते इति" इति व्याख्यातम्॥ बहुव्रीहावेव तद्धितार्थगुणीभूतेन्यपदार्थे गुणीभावं यथा वेत्युदाहरति वपुरिति। कुमारसंभव- काव्ये पश्चमे सगे बटुवषधारिणः शिवस्य पार्वतीं प्रत्युक्तिरियम। भो बालमृगाक्षि पार्वति वरेषु वोढषु ("वरो जामातृवोढारौ" इति विश्वः ) यत् रूपकुलधनादि समस्तं मृग्यते कन्यातद्वन्धुभिः अन्विष्यते तत् व्यस्तम् एकैकमपि समस्तं मा भूदिति भावः त्रिलोचने व्यम्बके किमस्ति अपि तु नेत्यर्थः । एकैकस्याप्यभावं दर्शयति वपुरित्यादिना। वपुः शरीरं विरूपाक्षं विरूपाणि विषमाणि त्रीणि सोमसूर्याग्निरूपत्वात् भीषणानि वा अक्षीणि यस्य तथाभूतम्। सर्वाङ्गप्रधानं चक्षुरेव यस्य विरूपं तस्ये तराङ्ग किं वक्तव्यमित्यर्थः। अतो न सौन्दर्यवार्ता अपीति भावः। विरू विरुद्वं रूपं सर्पकपाला- दिवेषोऽक्षीणि च यस्य तथाभूतमिति केचित्। अलक्ष्यम् अज्ञातं जन्म यस्य तस्य भावस्तत्ता अस्तीति शेष: । जन्मैव न ज्ञायते कुलं गोत्रं च दूरापास्तमिति भावः । वसु धनं दिगम्बरत्वेन नग्नतयैव निर्वदितं नास्तति ज्ञापितमित्यर्थः । यदि धनं भवति तदा कथं दिगम्बरो भवतीति भावः । "देव- भेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः। बालमृगाक्षि इति संबोधनेनैवंविधसौन्दर्यशालिन्यास्तव

१ उत्प्रेक्षितमिति क्वचित्पाठः ॥ २ "अत्र मौर्वी द्वितायामिति द्वितीयत्वमात्रमुत्पक्ष्यम्" इति वृत्तिपाठः क्वचिदर्ति ॥

Page 348

सत्तम उल्लास: । अत्र 'अलक्षिता जनिः' इति वाच्यम्। यथा वा आनन्दसिन्धुरतिचापलशालिचित्त संदाननैकसदनं क्षणमप्यमुक्ता। या सर्वदैव भवता तदुदन्तचिन्ता तान्ति तनोति तव संप्रति धिग्धिगस्मान् ॥ १६१॥ अत्र 'न मुक्ता' इति निषेधो विधेयः। यथा विरूपवरप्रार्थनमनुचितमिति व्यज्यते। दीपिकाकृतस्तु यत् त्रिलोचनेऽस्ति तत् व्यस्तमपि किं वरेषु मृग्यते इत्यन्वयः । उक्तान्वये तु रूपाभावादे: स्पष्टतयोपन्यासो न युज्यते इत्याहुरिति चन्द्रिकोद्यो- तयो: स्पष्टम्। "कन्या वरयते रूपं माता वित्तं पिता श्वतम्। बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥" इति न्यायेन वरगुणेषु गवेषणीयेषु साकल्यं तावदास्तां तदेकदेशोऽ्यत्र नास्तीत्यभिप्राये- णोक्तं 'व्यस्तमपि' इति। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र वरेषु मार्गणीयानां धर्माणां वैकल्यदर्शनप्रस्तावाज्जन्मन्यलक्ष्यत्वं विधित्सितम् तच्व समासे न्यग्भूतम् इत्यविमृष्टविधेयांशत्वं दोषः। तर्ेतत्कथं पठनीयमित्याशङ्गयां शिष्यशिक्षार्थमाह अत्रेत्यादि। अलक्षिता जनिरिति। जनिरुत्पत्तिः अलक्षिता न ज्ञातेत्यर्थः । इति वाच्यं इति वक्तव्यम् इति पठनीयमिति यावत्। अलक्षिता जनिरिति पाठे तु पौर्वापर्यविपर्ययसत्वेऽपि समासनिबन्धनमप्राधान्यं निवर्तते। तथा च पददोषोद्धारेऽपि वाक्यविधेयाविमर्शस्तद्वस्थ एवेति भावः। केचित्तु शिवे जन्म- नोऽप्यभावाद्विशिष्टविधिरेव विवक्षित इत्याहुरिति प्रदीपोद््योतयोः स्पष्टम्। उक्तं च सारबोधिन्या- मपि "पद्दोषोद्धारमात्राभिप्रायेण पाठकल्पनम् अन्यथा अलक्षितेत्यस्य प्रागुपादानेन वाक्यगतविधेया- विमर्शतादवस्थ्यात्। वस्तुतस्तु त्रिलोचने शिवे जन्मनोऽप्यसिद्धतया विशिष्टस्यालक्षितजन्मनो विधे- यतया अलक्षितेत्यस्य विशेषणस्य पूर्वोपादानमुचितमिति रचितः पाठः समीचीनः"इति॥ नञ्समासे यथा वेत्युदाहरति आनन्देति। विरक्तं नायकं प्रति नायिकासखीनामुक्तिरियम। या अस्मत्सखी नायिका भवता त्वया सर्वदैव क्षणमपि अमुक्ता न मुक्ता त्यक्ता नेत्यर्थः तदुदन्तचिन्ता तस्याः उदन्तो वार्ता तच्चिन्तापि संप्रति अधुना तव तान्तिं ग्लानि तनोति अतोऽस्मान् धिग्धिगित्य- न्वयः। एवंविधदुःखदर्शित्वादतिशोच्या वयमित्यर्थः। कथंभूता सखी। आनन्दस्य त्वत्प्रमोदस्य सिन्धुः सागरः। तथा अतिचापलेनातिचापल्येन शालते शोभते इत्यतिचापलशालि यत् तव चित्तं तस्य यत् संदाननं बन्धनं तस्यैकं केवलं सदनं स्थानं कारणं वा तत्रैव तव चित्तस्य विश्रान्तेरिति भाव:। अव्यभिचारेण तथात्वं व्यङ्गयम्। उभयमिदं रूपकं नायिकाविशेषणं चेति बोध्यम् केचित्तु सीतावार्ताज्ञानदुःखितं रामं प्रति लक्ष्मणस्येयमुक्तिः। यया पूर्व क्षणमपि न वियोगस्तद्वार्तापि सांप्रतं दुर्लभेति प्रतीकारासमर्थानस्मान् धिग्धिगित्यर्थः इति व्याचख्युः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे। अत्रासमासेन नञ्रा निषेधो विधयः 'न मुक्ता' इति। समासकरणेन तु गुणीभूतत्वान्निषेधस्य विधे- यत्वाप्रतीत्याविमृष्टविधेयांशत्वं दोषः। दूषकताबीजं तु विवक्षितविधेयतानुपपत्तिः। तदेवाह अत्र न मुक्तेति निषेधो विधेय इति। अयं भावः । अत्रावान्तरवाक्येऽमुक्तेत्यनेन 'नवजलधरः संनद्धोऽ- १ दीपिकाऊतस्तु प्रदीपकर्तारो गोविन्दठक्करा एव। एवं चात्र दीविकापदेनोदाहरणदीपिकैव याहा न तु जयन्त- भट्टरृतदीपिकेति मन्त्यम् ॥ २ श्रुतं शास्त्रम् ॥ 3 न्यग्भूतं गुणीभूतम् ॥ ४ रचितः मलकता कल्पितः ॥ ५ तचि- न्तापीनि। अस्मत्कतेत्यर्थ:र ॥। ३७

Page 349

२९० काव्यप्रकाशः सटीकः।

यम्' इति (२९१ पृष्ठे ) वक्ष्यमाणपदे इव प्रसज्यप्रतिषेध एव विधेयो न तु 'जुगोपात्मानमत्रस्तः' इति (२९२ पृष्ठे) वक्ष्यमाणपद्येऽत्रस्तत्वाद्यनुवादेनात्मनो गोपनादिवदमुक्ततानुवादेनान्यत्किंचिद्विधे- यमस्ति। एवं च 'मुक्ता न भवति' इत्यर्थोऽत्र विवक्षितः स च न प्रतीयते समासकरणात्। न च समासे नञ्रः प्रसज्यप्रतिषेधोऽर्थः किं तु पर्युदास एव। तदुक्तम् "प्रधानत्वं विधर्यत्र प्रतिषेधेSपधा- नता। पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ््॥" इति। अस्यायमर्थः । 'यत्र विधेर्भेदप्रतियोगिन: प्रधानत्वं प्राधान्यं (विशेष्यत्वं) प्रतिषेधे नञ्रर्थे अप्रधानता (नञ्रतत्पुरुषस्योत्तरपदार्थप्रधानत्वात् अघटः' इत्यस्मादारोपितो घट इत्येवंबोधादिति भावः) स पर्यदासः विज्ञेयः। स च क्व भवतीत्यपेक्षा- यामाह। यत्रोत्तरेति । यत्रोत्तरपदेन युतो नञ्र् समस्त इत्यर्थः उत्तरपदशब्दः समासस्य चरमावयवे रूढः' इति। यथा अब्राह्मणमानयेति। अब्राह्मणमित्यस्यारोपितब्राह्मणत्ववििष्टमित्यर्थः। ब्राह्मणभिन्नं ब्राह्मणसदृशं क्षत्रियादिकमिति यावत्। अत एव "भृशादिभ्यो भुवि० " (३।१।१२) इति सूत्रे "अबाह्मणमानयेत्युक्ते ब्राह्मणसदृश एवानीयते नासौ लोष्टमानीय कृती भवति" इति ( नह्यब्राह्मण- मानयेत्युक्ते लोष्टमानीय कृती भवति' इत्यर्थकं) महाभाष्यम्। केचित्तु "यत्र विधेः कर्तव्यतायाः प्राधान्यम् प्रतिषेधे निवर्तनारूपेSप्रधानता अविवक्षा स पर्यदासः यथा 'नेक्षेतो धन्तमादित्यम्' इत्यादावनीक्षणसंकल्पकर्तव्यताप्राधान्यादीक्षणप्रतिषेधस्य चाविवक्षणात्। एतत्क भवतीत्यपेक्षायामाह यत्रेति। उत्तरपदेन स्वोत्तरनामधात्वन्यतरपदार्थेन 'संबध्यते' इति शेषः" इत्याहुः। प्रसज्यप्रतिषेधस्तु असमासे एव भवति। तदप्युक्तम् "अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोSसौ क्रियया सह यत्र नञ््॥" इति। यत्र क्रियान्वयी नञ्र धात्वर्थरूपक्रियाभावबोधक इति यावादिति तदर्थः अन्यत्सर्व सुगमम्। यथा "न कलअं भक्षयेत्" इति। तथा च प्रसज्यप्रतिषेधे भवतिक्रियायामन्वयेन मुक्तापदेन समासो न स्यादसामर्थ्यादिति बोध्यम् कथं त्हि 'अश्राद्धमोजी' इत्यादौ प्रसज्यप्रतिषेध- लाभ:। अयं भावः। अत्र हि श्राद्धादितरभोजित्वं नार्थः। भोजनस्य रागप्राप्तत्वेनाव्रतत्वात् व्रता- धिकारपठितणिन्यनुपप नेः अश्राद्वाद्युपपदाच्च सः श्राद्भोजनाभावश्र व्रतमिति। मैवम् । पर्यदासेना- क्षेपात्। अयं भावः। श्रा्धभोजिभिन्न इति वाच्योऽर्थः श्राद्धभोजनाभावव्त्त्वं च तेनाक्षिप्यते व्रते गम्ये णिनिरिति सूत्रार्थः। णिन्यन्तेन नत्समासे हि तस्य गम्यता इति। वस्तुतः "असूर्यललाटयो:०" (३।२।३६ ) इति पाणिनिसूत्रज्ञापकादसा मर्थ्येडपि क्वेचित् समासः। न च प्रकृतेऽपि स्यात्। तावतापि तादृशात्सहृदयवैमुख्यं दुर्वारम्। एतेन 'अशब्दोऽयं निषेधार्थकः तेनासमास एव' इत्यपास्तम् समाससंदेहेन पर्युदाससंदेहाच्च पौर्वापर्यविपर्ययस्यापरिहाराच्चैं। एवं 'द्वितीयमौर्बीम् ' इत्यत्र विशिष्टस्य विधेयत्वेऽपि तत्र प्रधानमौर्वीत्वस्य प्रिद्धसाद्ृश्येन प्राप्ततया प्राप्ताप्राप्तविवेक- न्यायेन द्वितीयत्वे पर्यवसानेन शब्दतो गुणभूतस्य द्वितीयत्वस्य न्यासीकरणे हेतुत्वे सहृदयवैमुख्यमेव दूषकताबीजमिति बोध्यम्। ननु पर्युदासार्थोऽमुक्तत्वमेव विधायताम् फलाविशेषादिति चेत् भवेदप्येवं यदि तथा सति क्षणमपात्यनेन संबन्धः स्यात्। स हि मुक्तत्वेनैव

  • १'त्िपसंपृक्तबाणेन हतौ यौ मृगपक्षिणौ। तयोरमीसं कलञ्जं स्याद्भुक्त्वा चान्द्रायणं चरेत्'॥। इत्युक्तम् ॥ २ क्रचिदिति। सूर्य न पश्यन्तीति 'असर्यपश्याः राजदारा:' इत्यत्रेव 'अश्राद्वभोजी' इत्यादावित्यर्थः॥ ३ अपरिहा. सच्चेति। उक्तं च सारबोधिन्यादावपि "न्वत्र नमिन्नस्याकारस्य निषधार्थकत्वात्समासाभावेन नात्रायं दोष इति चेन्न। एवमपि पर्युदाससदेहानपायात् नत्रभिन्नस्याकास्यासत्त्वाच्च। 'अमानोना प्रतिषेधे' इत्यस्य समासासमा- सेदेन ्वैविध्यकथनपरत्वात्" इति॥

Page 350

सप्तम उल्लास: । २९१

नवजलधरः संनद्धोडयं न हप्तनिशाचर: सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्। अयमपि पदुर्धारासारो न बाणपरंपरा कनकनिकषस्त्रिग्धा विद्युत् प्रिया न ममोर्वशी॥ १६३॥ इत्यत्र। न त्वमुक्ततानुवादेनान्यदत्र किंचिद्विहितम्। यथा प्रतियोगिना विवक्षितः न च पर्युदासे तथा संभवः समासे एकदेशेनान्वयायोगात् विशिष्टेनारोपि- तमुक्तत्वेनैवान्वयाच्च। नन्वेवमप नाविमृष्टविधेयांशता विधेयस्यानुपस्थितेः किंतु धारणे 'विद्धत्' (इति २७७ पृष्ठे) अवाचकत्वमेव स्यात् समासेऽर्थान्तरनिरूढत्वादिि चेन्न। प्राधान्येनानिर्देशस्य तथाप्यक्षतेः । अत एव 'प्राधान्येनानिर्दिष्टो विधेयांशो यत्र' इत्याह वृत्तिकृत् (२८५ पुष्ठे) न त्वप्रा- धान्येन निर्दिष्ट इति। तहं 'विदधत्' (२७७ पृष्ठे ) इत्यस्याप्यत्रैवान्तर्भाव इति चेन्न। तदर्थस्या- निर्दिष्टस्याप्यविधेयत्वात् । अमुक्तेत्यस्याविमृष्टविधेयांशस्यावाचके प्रवेश इति चेन्न। उभयोरसंकीर्ण- स्थलसंभवे क्वचित्संकरेऽप्यदोषात्। दूषकताबीजं च विवक्षितस्योद्देश्यविधेयभावरूपार्थस्याप्रतीतिः। तस्मान्नित्यदोषोऽयम् । उद्देशै्यविधेयभावो हि अपदार्थोऽपि विषयताविशेषरूपो विशष्येविशेषणभाववत् वाक्यार्थप्रतीतो भासते। सोऽपि पदार्थ इत्यन्ये। उद्देश्यत्वविधेयत्वे विशेष्यत्वविशेषणरूपे तत्सम- नियते वेति तु न युक्तम् पर्वते वह्निरित्यादौ व्यभिचारादित्याहुः। अभवन्मतयोगे तु परस्परं पदार्थानां संबन्धरूपोऽन्वयोऽपि भासते इति ततो भेदः। दूषकताबीजान्तरप्युक्तमितीति प्रदीपो- द्योतप्रभासु स्पष्टम्॥। निषेधप्राधान्ये समासाभाव द्ष्टान्तयति यथेति। इदम् 'इत्यत्र' इत्यस्यानन्तरमन्वेति इत्यत्रेवेत्यर्थः। विशिष्टस्य ('इत्यत्र यथा' इत्यस्य) 'निषेधो विधेयः' इति पूर्वेणान्वय इति बोध्यम्। नवजलघर इति। विक्रमोर्वशीये चतुर्थेडक्के उर्वशीविरहे पुरुरवसो मेघादौ निशाचरादिश्रमानन्तरं विशषदर्शने सति उक्तिरियम। अयं संनद्धः कवची हन्तुमुद्यतो वा नवो जलधरो मेघ: दप्तनिशाचरो न। भवतीति शेषः। इदं दूरमाकृष्टं सुरधनुः इन्द्रधनुः तस्य राक्षसस्य शरासनं धनुः न। भवतीति शेषः। अयमपि पटुः तीव्र: धारासारः धारावर्षः बाणपरंपरा न। भवतीति शेषः। (इयमपि) कनकस्य निकषः कषण- रखा तद्त् स्न्िग्धा दीप्तिमती विद्युत् तडित मम प्रिया उर्वशी न। भवतीति शेष:। "आसारः स्यात्प्र- सरणे वेगवर्षे सुहृद्दले" इति विश्वः । हरिणी छन्दः। लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र चतुर्षु वाक्येषु गम्यमानभवतिक्रियान्वयिनो नञ हप्तनिशाचरादविपदेनासामर्थ्यान्न समासः अत एव नञ्र्थों निषेध: प्राधान्याद्विधेयः। तेन नात्राविमृष्टविधेयांशत्वदोषः। एवं चात्र गम्यमानभवति क्रियाया एव निषेधो बोध्यः। नन 'आनन्दसिन्धुः' इति पूर्वपथ्े 'अमुक्ता' इत्यत्र पर्युदासादमुक्त- त्वमनुवाद्यमेवास्तु 'जगोपात्मानमत्रस्तः' इति (१६४) वक्ष्यमाणपद्येऽत्रस्तत्ववदित्याशङ्कय निराक- रोति न त्विति। तुरप्यर्थे। अत्र आनन्दसिन्धुरिति पदे। यद्यनुवाद्यं तर्हि किंचिद्विधेयं स्यात् न चात्र (आनन्दसिन्धुरित्यत्र) तदस्ति अतो नानुवाद इति भावः ॥ -i1१ "अन्द्यविधेयभावः (उद्देश्यविधेयभावः) संसर्गो विशेष्यविशेषणभाव इवापदार्थोऽपि वाक्यार्थतीतौ भासते" इति चक्रवर्तिभट्टाचार्या:।

Page 351

२९२ काव्यप्रकाशः सटीकः । जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृन्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ॥१६४॥ इत्यत्र अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि॥ (१६) विरुद्धमतिकृद्यथा सुधाकरकराकारविशारदविचेष्टितः । अकार्यमित्रमेकोSसौ तस्य किं वर्णयामहे॥१६५॥ अत्र 'कार्य विना भित्रम्' इति विवक्षितम् 'अकार्ये मित्रम् इति' तु प्रतीतिः। यथा वा विधेयान्तरसत्त्वे त्वनुवाद्यत्वात्पर्युदासो दृष्टो नान्यथेत्याह यथेति। जुगोपेति। रघुकाव्ये प्रथमे सर्गे पद्यमिदम्। स दिलीपः अत्रस्तः निर्भीकः सन् आत्मानं शरीरं जुगोप ररक्ष। "त्रस्तो भीरुभीरुकभीलु- काः" इत्यमरः । अनातुरः अरोगी सन् धर्म भेजे सिषेवे। अगृध्नुः अलुञ्धः सन् अर्थान् आददे स्वीकृत- वान्। असक्तः अनासक्तः सन् सुखम् अन्वभूत् सुखानुभवं चक्रे इत्यर्थः । अत्रस्तोऽपि त्रस्तवत्स- म्यक्तया सदैवात्मानं जुगोपेति व्यङ्गयम् तावता नयप्रकर्षः । "आत्मा यत्नो धृतिर्बृद्धिः स्वभावो ब्रह्म वर्ष्म च।" इति "गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्" इति चामरः॥ अत्र पर्युदासे गुणीभूतो निषेधोनुवाद्यो न तु विधेयस्तदाह अत्रस्तत्वेत्यादि। गोपनादीति। विहितमित्यनुषङ्गः। अत्रात्मगोपनादिवत्तत्र (आनन्दसिन्धुरिति पद्ये) विधेयान्तराभावान्निषेधस्य् विधे- यत्वमेवेति भावः । उक्तं च प्रदीपे "इत्यत्रात्रस्तत्वाद्यनुवादेनात्मगोपनादिवद्मुक्तता नुवादेन किंचि- द्विधेयमस्ति। नच समासे नञ्रः प्रसज्यप्रतिषेधोऽर्थः किंतु पर्यदास एव" इति॥ षोडशं पददोषमुदाहरलाह विरुद्धमतिकृद्यथेति। प्रकृतार्थधी प्रतिबन्धकीभूताप्रकृतार्थधीजनकं विरुद्धमतिकृत्। तेन विरुद्धस्य मतिर्विरुद्धा वेति समासे नास्था। विरुद्धत्वं च प्रकृतन्यक्कारप्रतीतिहेतु- कारित्वम्। अनुचितार्थाश्लीलयोरर्थानां न परस्परप्रतिबन्धकता। अमतपरार्थे तु द्वयोरपि प्रतिबन्धेन प्रतीतिरिति सारबोधिनीकाराः । प्रदीपोद्दयोतयोस्तु पदान्तरसंनिधानेन प्रकृतप्रतीतिन्यक्कारकप्रतीतिज- नकं विरुद्धमतिकृत्। विरुद्धस्य मतिर्विरुद्धा वा मतिरिति समासः । अत्र पदान्तरसंनिधानेनेति विशे- षणात् अनुचितार्थाश्लीलनिहतार्थानां व्युदासः। कि चाययोर्न :वाक्यार्थप्रतीत्योः परस्परविरोधिता किंतु व्यङ्ग्ययोर्वाच्यव्यङ्ग्ययोवा। अमतपरार्थश्र व्यङ्ग्चरसयोरेव बिरोधे इति न तत्संकरः । प्रकाशित- विरुद्धे तु प्रथमप्रतीतन विवक्षितार्थेनैव विरुद्धव्यञ्जनम् नात्र तथेति ततो भेदः । न्यक्वारकत्वं च प्रकृतबोधप्रतिबन्धकतया तद्वोधजन्यचमत्कारप्रतिबन्धकतया चेति बोध्यमिति स्पष्टम्॥ तच्च विरुद्धमतिकृदनेकधा प्रवर्तते। तत्र क्वचित्समासान्तरविग्रहेण यर्थेत्युदाहरति सुधाकरेति। सुधाकरश्रन्द्रस्तस्य कराः किरणास्तदाकारं निर्मलतया तत्सदशं विशारदं प्रगल्भं च विचेष्टितं यस्य तादशः असौ एक: अकार्यमित्रं कार्य विनैव मित्रम तस्य पुरुषस्य कि वर्णयामहे अर्थाद्गुणानित्यर्थः। मित्रशब्दस्य सुहृद्वाचकस्याजहल्लिङ्गत्वान्नपुंसकत्वम्। "विद्वत्सुप्रगल्भौ विशारदौ" इत्यमरः। "मित्रं सुहृदि मित्रोऽर्कः" इति कोशः॥ अत्र 'अकार्यमित्रम्' इत्यत्र कार्यस्य प्रयोजनस्याभावोSकार्यमित्यर्थाभावेऽव्ययीभावः मक्षिकाणाम- १ 'अकार्येपु मित्रमिति प्रतीतिः' इति क्रचित्पाठः। 'अकार्येषु मित्रमिि तु दुष्प्रतीतिः' इत्यपि पाठान्तरम्॥

Page 352

सप्तम उल्लास: । २९३

चिरकालपरिप्राप्तलोचनानन्ददायिनः। कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ १६६ ॥ अत्र 'कण्ठग्रहम्' इति वाच्यम्। यथा वा भावो निर्मक्षिकमितिवत्। ततः अकार्य मित्रमकार्यमित्रमिति मयूरव्यंसकादित्वात्समासः। तथा च (एवं समासेन ) कार्य प्रयोजनं विनैव मित्रमित्यर्थोऽत्र विवक्षितः । तदेवाह अत्र कार्य विना मित्र- मिति विवक्षितमिति। अकार्ये मित्रमिति त्विति। तुरप्यथें। न कार्यमकार्यमिति नञ्समासे कृते नञोऽल्पार्थकत्वे कुकारये मित्रमित्यपीत्यर्थः। अव्ययीभावनञ्समासयोस्तुल्यकक्षत्वेन नञ्समासस्यापि प्राप्त्या अस्यापि प्रतीतिरिति भावः। उक्तं च नञ्रोऽल्पार्थकत्वम् "तत्सादृश्यं तदन्यत्वं तदल्पत्वं विरो- घिता। अप्राशस्त्यमभावश्र् नञ्रर्थाः षट् प्रकीर्तिताः ॥" इति। अयं सर्वोऽप्युइथोताभिप्रायः। सार- बोधिनीकाराद्यस्तु कार्यस्याभावोऽकार्य तेन मित्रमकृत्रिममित्रमित्यव्ययीभावे लक्षणानुसंधाने विलम्बेन तदपेक्षया शक्तिलक्षणयोरन्यतराभावात्कर्मधारयेण झटिति कुकार्यप्रतीतिरिति भावः। अत्रोपश्लोकन- विरोधिनञ्समासावयवस्य नञ्रोऽप्रशस्तार्थकत्वमित्याहुः ॥ क्वचिन्नामपदयोः समासे विरुद्धार्थनिरूढपद्घटनया भवति। तदेव यथा वेत्युदाहरति चिरेति। कान्ता चिरकालेन परिप्राप्तस्य लोचनानन्ददायिनः नेत्रानन्दजनकस्य। 'चिरकालपरिप्राप्ति' इति पाठे तु चिरकालात् या परिप्राप्तिः समागमः तया लोचनयोरानन्ददायिन इत्यर्थः । ईदृशस्य कान्तस्य मनः- प्रियस्य गलग्रहं गलस्य कण्ठस्य ग्रहो ग्रहणम् आलिङ्गनं तं सहसा झटिति विद्धाति करोतीत्यर्थः । चिरकालपरिप्राप्तेत्यनेनौत्कण्ठ्यातिशयः । लोचनानन्ददायिन इत्यनेन सौन्दर्यातिशयो व्यज्यते॥ अत्र कण्ठग्रहार्थतया आलिङ्गनार्थकतया विवक्षितो गलग्रहशब्दो रोगविशेषे निरूढः। तथा च "रूढिर्योगमपहरति" इति न्यायेन कण्ठग्रहार्थापहारेण रोगविशेष एव प्रतीयते इति गलग्रहपदं विरुद्द्- मतिकृत्। व्याख्यातं चैवमेव सारबोधिन्याम्। तथाहि "गलग्रहो रोगविशेषः । तत्र समुदाये शक्तिः आलिङ्गने च योग: समुदायशक्तर्बलवत्वात् रोगस्यैव प्रतीतिरिति विरुद्धस्य मतिः। न च रूढ्यर्थबोधेऽ- वयवशक्त्या परिरम्भप्रतीतौ निहतार्थत्वमेव स्यादिति वाच्यम्। विलम्बेनापि गलग्रहपदात् तद- प्रतीते: रूढ्या योगप्रतिबन्धात्। शोणितादौ तु ( २७२ पृष्ठे ) अथद्यस्य रूढिसाम्येऽपि भूरिप्र- योगादप्रकृतार्थस्य प्राक् प्रतीतिरिति" इति। उद््योतकारास्तु अत्र प्रकरणेन रूढेर्बलवत्त्त्वं बाधित्वा योगार्थोपस्थितावपि अविवक्षितार्थव्यञ्जनया तिरस्कार एव विरोधो बोध्यः पदार्थः। अत एव प्रकरणौत्कट्ये निहतार्थस्य न दोषत्वमित्याहुः। 'गलग्रहशब्देनार्धचन्द्रदानं प्रतीयते' इति काश्रिवित् ॥ क्वचिद्विवक्षितविशेषपरत्वे पदवैयर्थ्यप्रसङ्गेनविव्षिविशेषपरत्वग्रहा्वति। तदेव यथावेत्युदाहरति १ तुल्यकक्षत्वेनेति। नञ्समासेनाव्ययीभावसमासस्य बाधस्तु नास्त्येव। तदुक्तं वैयाकरणसिद्धान्तकौमुद्यां 'नत्र्' (२।२६) इति सूत्रे "अर्थाभावेडव्ययीभावेन सहायं (नञ्र्समासः) विकल्प्यते 'रक्षोहागमलध्वसंदेहाः प्रयो० जनम्' इति 'अद्गतायामसंहितम्' इति च भाष्यवार्तिकप्रयोगात् । तेन 'अनुपलब्धिः' 'अविवाद:' 'अविघ्रम्' इत्यादि सिद्गम्" इति ॥ २ लक्षणानुसंधाने इति। अकार्यपदस्यारुत्रिमत्वे लक्षणाया अनुसंधाने इत्यर्थः ॥ 3 नैया" यिकमते समासे शक्त्यभावादाह शक्तिलक्षणयोरित्यादि ॥ कर्मधारयशब्देनात्र नञ्रूतत्पुरुषो ग्राह इति मम भाति॥ ५ निरूढया पद्घटनयेत्यर्थः इत्युद्योतकारः। वस्तुतस्तु विरुद्वऽथे निरुढस्य पदस्य घटनया रचनयेत्यर्थे कते न काचिदपि हानिरिति मम भाति॥

Page 353

२९४ काव्यपकाशः सटीकः।

न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनः तेन व्यारुजता धनुर्भगवतो देवा्भवानीपतेः। तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियोऽहमथ वा शिष्य: कथं विस्मृतः ॥१६७॥ अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीति करोति। यथा वा क न त्रस्तमिति। वीरचरितनाटके द्वितीयेSङ्के कृतमहेश्वरधनुर्भङ्गं दाशरथिमुद्दि्य महेश्वरशिष्यस्य पर- शुरामस्योक्तिरियम्। यदि तेन रघुनाथेन धनुः व्यारुजता भन्नं कुर्वता देवात् विजिगीषोरपि ('दिवु क्रीडाविजगीषाव्यवहार०' इति धातुपाठः) भगवतः तत्समर्थादपि भवानीपतेः महेश्वरात् (इदं च दक्षयज्ञध्वंसकत्वेनार्थान्तरसंक्रमितम् तेनातिरोषवतोऽपि सकाशात्) यत् न त्रस्तं न भीतं तत् नाम युक्तमित्यर्थः। तत्र हेतुगर्भविशेषणं भृतेत्यादि। भूतेषु प्राणेषु करुणासंतानो दयासमूहस्तेन शान्त आत्मा यस्य तादशात्। ननु तत्पुत्र एव योत्स्यते कि तवेत्यत्राह तत्पुत्रस्त्विति। तुर्व्यवच्छेदे। तस्य भवानीपितेः पुत्रस्तु स्कन्दः जगदास्कन्दनसमर्थोऽपि मदेन गर्वेणान्धस्य द्वितीयमनवलोकयतः तारका- सुरस्य वधात् विश्वस्य सर्वलाकस्य दत्त उत्सवो येन तादृशः तेन दत्तोत्सवत्वात्कथमपि तद्विपरीतं कर्तु नेष्टे अतस्तदस्मरणं युक्तमिति भावः । ननु तथापि तव मुनेः कि प्रयोजनम् कश्र संबन्धो येन त्वत्ता भयं कार्यमत आह स्कन्द इवेत्यादि। स्कन्द इव तस्य देवस्य यतः अहं प्रियोऽतः कर्थं विस्मृतः अनुचितं मम विस्मरणमिति भावः। ननु त्वत्प्रियत्वं नास्माकं विदितं तत्राह अथवा शिष्य: शिष्यत्वं तु जगद्विदितमिति भाव: । अहमिति क्षत्रियकुलान्तकेऽर्था्तरसंक्रमितवाच्यम् तेन धनुर्भङ्गकर्तुः साहसातिशयो व्यज्यते इत्युद्योते स्पष्टम। चन्द्रिकायां तु "तत्पुत्रस्तु स्कन्दः अथवा स्कन्द इव प्रियोऽहं शिष्यः कथं विस्मृत इत्यन्वयः । मदान्धो यस्तारकासुरस्तस्य वधाद्विश्वस्य देवगणस्य दत्तें उत्सवो येनेत्युत्कर्षगर्भ स्कन्दविशेषणम्" इति योजितम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्त प्राक् १८ पृष्ठे।।

अत्र भवानीत्यादि। अयं भावः। अत्र भवादित्येव वक्तव्ये भवानपपितेरित्युक्तम् भवानीशब्दः भवस्य महादवस्य पत्नीत्यर्थे "पुंयोगादाख्यायाम्" (४।१।४८) इति पाणिनिसूत्रेण भवशब्दात् डीष्प्रत्यये "इन्द्रवरुणभवशर्व०" (४।१।७०) इति सूत्रेण आनुगागमे च कृते सिद्ध इति भवानी- पतिशब्दो 'देवदत्तपत्न्याः पतिः' इतिवत् भवान्याः पत्यन्तरे प्रतीतिमुपस्थापयति। एवं चाराध्याया देव्या एवं प्रतीतिरातङ्काधर्मदायिनीति मतिर्विरुद्धेति। व्याख्यातमिदं प्रदीपोद्दयोतयोः "अत्र भवस्य पत्नत्यर्थे भवानीति सिद्धम्। तथा च भवपत्नीपतौ प्रतयमाने भवातिरिक्तः स द्राक प्रतीयते। नहि भव एवाभिधेये भवपत्नीपतिरिति प्रयोगो योग्यः सचेतसाम्" इति प्रदीपः । (द्राक् प्रतीयते इति। तेन भवप्रतीतिप्रतिबन्ध एवेति भावः तच्चमत्कारप्रतिबन्धी वा। परे तु भवस्य पत्न्यां गुणभूतत्वेन भवान्वितपत्न्या विशेष्यभूतः पत्यर्थोऽन्य एव प्रतीयते गुणस्योत्सर्गतः प्रधानत्वायोगादित्याहुः। एवं चाराध्याया देव्या ईदक्प्रतीतिर्भयकारिणीति मतिर्विरुद्धा) इत्युद्चोतः । केचित्तु भवानीशब्देन दुर्गा- त्वप्रकारक एव बोधो जन्यते अन्यथा भवान्यपणादुर्गादिशब्दानां पर्यायत्वं न स्यात् योगस्तु साधुत्वार्थः एवं पङ्कजादिपदेष्वपि। एवं च भवानीशब्दो दुर्गात्वविशिष्टे रूढ एवेति नात्र पय्ये दोष इत्याहुः ॥ १ रोषात्तन्नामाग्रहणम् ॥ २ "मीत्रार्थानां भयहेतुः " (१।२५) इति पाणिनिसूत्रेणापादानत्वात्पश्चमी।। ३ इदं धेति। 'भवानीपतेः' इति पदं चेत्यर्थ: ।।

Page 354

सप्तम उल्लास:। २९५ गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः।गिहनल सविधे निरहंकार: पायाद्दः सोऽम्बिकारमण: । १६८।( W४ eg) अत्राम्बिकारमण इति विरुद्धां धियमुत्पादृयति॥ श्रुतिकटु समासगतं यथा सा दूरे च सुधासान्द्रतर्गितविलोचना। बर्हिनिर्र्हादनार्होऽयं कालश्च समुपागतः ॥ १६९॥ क्वचित्समासैक्येऽपि समस्यमानपद्योर्व्यर्थकतया भवति। तदेव यथा वेत्युदाहरति गोरपीति। केचित्तु "पुंयोगादाख्यायाम्" इति सूत्रेण संज्ञोक्तेः "शिवा भवानी रुद्राणी" इत्यमरकोशाञ्च 'अविदितविभवो भवानीपतिः' इति महाकविप्रयोगाच्च भवानीशब्दो दुर्गात्वविशिष्टे रूढ एवेति न तत्र पद्ये दोष इत्यरुच्योदाहरणान्तरमाहेत्याहुः। सः अम्बिकायाः पार्वत्याः रमणो महेशः वः युष्मान् पायात् रक्षतु इत्यन्वयः । स कः यद्वाहनतां यस्य महेशस्य वाहनतां प्राप्तवतः गोः वृषस्यापि सविधे निकटे सोऽपि अतिक्रूरतया प्रसिद्धोऽपि गिरिसुतायाः पार्वत्याः वाहनभूतः सिंहः निरहंकारः सौम्यः 'भवति' इति शेषः। "गोः स्वर्गे वृषभे रश्मौ वज्रे शीतकरे पुमान्। अर्जुर्नीनेत्रदिग्बाणभूवाग्वारिषु योषिते॥" इति विश्वः। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ॥ अम्बिकारमण इतीति। पदमिति शेषः। विरुद्धां धियमिति। अम्बिकापदस्य "मृडानी चण्डि- काम्बिका" इत्यमरकोशात् गौरीव "अम्बा माता" इत्यमरकोशात् अम्बैवाम्बिकेति व्युत्पत्त्या च माताप्यर्थः अत एव "अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि" इति कोशः। एवं रमणपदस्य प्रीतिकर इव जाररूपासभ्योऽप्यर्थोडस्ति तथा चाम्बिकारमणपदस्य गौरीपतिरित्यर्थ इव मातृपतिरित्य- र्थोडपि प्रतीयते इति विरुद्धमतिकृत्वमिति भावः। व्याख्यातमिदं प्रदीपोद्दोतयोः "अत्राम्बिकारमण- पदयोः गौरीप्रीतिकरत्ववत् मातृस्वामित्वमप्यर्थः । अम्बिकाशब्दस्य जनकताविशेषवत्स्त्रीत्वेन मातरि गौरीत्वेन गौर्या च शक्तिरिति बोध्यम्। दूषकताबीजं विवक्षितार्थतिरस्कारकार्थोपस्थितिः। अतो यत्र विरुद्धोऽर्थो विवक्षित एव तत्रादोषत्वम्" इति। "अम्बिकाशब्दस्य मातृवाचकत्वे किं प्रमाणमिति चेत् तदुक्तं नृसिंहपुराणे 'शक्तित्वाल्लोकमातृत्वादम्बिका त्वं भविष्यसि ॥' इति" इति सारबोधिनी। "अभ- वन्मते इष्टान्वयाबोधः अत्र त्वनिष्टबोधः इति भेदः" इति कमलाकरभट्टाः ॥ क्िष्टादित्रयेषु समासगतत्वनियमविधानात् श्रतिकटुप्रभतिष्व नियमोSभ्यनुज्ञातः तत्रासमासगतानि श्रुतिकटुप्रभृतीन्युदाहृतान्येव इदानीं समासगतेषु तेषु श्रुतिकटु पदमुदाहरन्नाह श्रुतिकद्वित्यादिना । सा दूरे चेति। विरहिणो रामस्योक्तिरयम्। सुधाया अमृतस्य सान्द्रतरङ्गाः ते संजाता ययोस्तथाविधे विलोचने यस्या इति चन्द्रिकाकारः । सुधासान्द्रं सुधाव्यापं तरङ्गितं तरङ्गवच्चञ्चलं विलोचनं यस्या इति महेश्वरः। संजातसुधासान्द्रतरङ्गसद्टशकटाक्षवल्लोचनेति उद्दयोतकारः। एतादृशी सा सीता दूरे 'स्थिता' इति शेष:। अयं बर्हिणां मयूराणां यत् निर्ह्नादनम् अव्यक्तशब्दस्तदर्हस्तद्याग्यः तज्जनक इति यावत् काल: घनसमय एव कालोऽन्तकश्र समुपागतः समागत इत्यर्थः। "महालये यमे मृत्यौ कालः समयकृष्णयोः" इति शाश्वतः ॥

Page 355

२९६ काव्यप्रकाश: सटीकः । एवमन्यदपि ज्ञेयम्॥ (सू० ४७) अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषा: सन्त्येते पदस्यांशेऽपि केचन ॥ ५२॥ केचन न पुनः स्वे। क्रमेणोदाहरणम् अत्र 'बर्हिनिर्हरादनाहः' इति पदं समासगतं श्रुतिकटु समासादैकपय्यम्। समासे च्युतसंस्कृत्यादि स्वयमूह्यमित्याह एवमिति अन्यदपीति। च्युतसंस्कृत्याद्यपीत्यर्थः ॥ उक्तान पद्दोषानेव वाक्ये पदैकदेशे चातिदिशति अपास्येति। अपास्येत्यादि पूर्वार्ध 'वाक्येऽपि दोषा: सन्त्येते' इतितृतीयचरणेनैव संबध्यते नतु 'पदस्यांशेऽपि केचन' इत्यनेन चतुर्थचरणेनापि। अत एव मूलकृता पदांशे निरर्थकत्वदोषस्य 'आदावञ्ञन० इति २०० उदाहरणमग्रे वक्ष्यते इति बोध्यम्। अत्र च्युतसंस्कारेत्यादिर्भावप्रधानो निर्देशः "स्त्रियाम्" (४।१।३) इति पाणिनिसूत्रे स्त्रीत्वे इत्यर्थे स्त्रियामितिवत् "लध्वादिधर्मैः साधर्म्य वैधर्म्य च गुणानाम्" (१।१२८) इति सांख्य- सूत्रे लघुत्वादिधर्मैरित्यर्थे लध्वादिधर्मैरितिवच्चेति बोध्यम्। तथा च च्युतसंस्कारं च्युतसंस्कृतित्वम् असमर्थम् असमर्थत्वं निरर्थकं निरर्थकत्वं चापास्य विहाय एते श्रतिकट्ठादिपदप्रवृत्तिनिमित्तभूताः श्रुति- न्तीति सूत्रार्थ:॥ कटुत्वादयः त्रयोदश पूर्वदोषाः वाक्येऽपि सन्ति भवन्ति केचन दोषा: पदस्यांशे एकदेशेऽपि भव- "साकाङगनानापरदवृत्तिदोषो वाक्यदोषः । च्युतसंस्कारादित्रयाणां स्वभावादेवान्वयबोधस्वरूपायोग्या- नामन्वयबोधने पदान्तरविरहप्रयुक्तत्वविरहेण साकाङ्गत्वाभावान्न वाक्यदोषत्वमिति तेषां वर्जनम्" इति सारबोधिन्यां स्थितम्। "एकान्वयबोधकानेकपद्गतत्वेन हि वाक्यदोषता व्याकरणसंस्कारस्य पदे एवेति तत्प्रच्यवस्यापि तत्रैवेति च्युतसंस्कृतेर्न वाक्ये संभवः। एवं च स्वातन्त्र्येण शक्यार्थानुपस्थापका- नामसमर्थानां निरर्थकानामपि चादिपदानां सुतरां न वाक्यत्वमिति न तयोरपि वाक्यगामितेति तेष।ं पर्युदासः" इति चक्रवर्तिभट्टाचार्याः। अत्राहुः प्रदीपकाराः "अत्र यत्र पदान्तरसाहहित्येन पदानां दुष्टत्वं स वाक्यदोषः । न चासाध्वसमर्थ- निरर्थकानां दुष्टत्वे पदान्तरसाहित्यापेक्षति तत्त्रितयापासनमिति संप्रदायः। तदसत् । 'सोऽध्यैष्ट' इत्यादौ ( १७० उदाहरणे ) श्रतिकटोर्दुष्टत्वे पदान्तरसाहित्यस्यानपेक्षणीयतया तदुदाहरणविरोधात्ः। न च 'सोऽध्यैष्ट' इत्यादावपि वाक्यस्य श्रतिकटुत्वं पदान्तरापेक्षमेवेति वाच्यम् परुषवर्णारब्धत्वस्य स्वत एव सच्वात् । तैथात्वेऽपि वा 'स रातु वो दुश्वयवनः' ( २९८ पृष्ठे ) इत्याद्यप्रयुक्तादुदाहरणा- व्याप्तिः। नहि तत्रापि दुष्टत्वे पदान्तरापेक्षेति वक्तुमपि शक्यते अप्रयुक्तत्वस्य पदमात्रधर्मत्वात् किंच अवाचकमप्यसमर्थसमानशीलं किमिति नापास्तमिति सर्वव्याख्यानेषु (दर्शतप्रकारेषु) विनि- गमकं वक्तव्यमिति। अत्र बूमः । विवैक्षितधर्मिप्रत्यायकशब्दवृत्तित्वे सति नानापदवृत्तित्वमेवात्र वाक्यवृ- १ असाधु च्युतसंस्कृति ॥ २ स्वत एवोति। पदान्तरानपेक्षतयेत्यर्थः ॥३ नन्वेवमपि वाक्यस्य श्रतिकटुत्वं पद- मात्रगतात्तस्माद्न्यतः सापेक्षमेवेत्याशङ्गयाह तथात्वेऽपीति ॥ ननु वाक्येऽव्यप्रयुक्तत्वाद्यरत्येवेति वाहिनं प्रत्याह किचेति ॥ ५ विवक्षितेति। अत्र विवक्षितध ्मप्रत्यायकनानापदवृत्तित्वोक्तौ वाक्यनिष्ठावाचकत्वे 'पाभ्रभ्राड' इत्यादौ (१७४ उदाहणे असंभवः सर्वेषां पदानां विवक्षितधर्मिप्रत्यायकत्वाभावात् अतः पृथक सत्यन्तम्। तादृशकिंचिच्छ- ब्दगतत्वाच्च न दोषः। च्युतसंस्कृत्यादि त्रयं तु न तथेति तदपासनमिति प्रभायां स्पष्टम् ।

Page 356

सप्तम उल्लास: । २९७

सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितृनताप्सीत्सममंस्त बन्धून्। व्यजेष्ट षद्डर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्र ॥१७०॥ त्तित्वमभिप्रेतम्। 'न्यक्वारो ह्ययम्' इत्यत्रापि ( १८३ उदाहरणेऽपि) नाव्याप्तिः उद्देश्यविधेयाभि- धायकयोरद्योरैपि दुष्टत्वात्। अत एवाविमृष्टविधेयांशमित्यत्रांशपदोपादानम्। 'योऽसौ सुभगे तवा- गतः' इत्यायुदाहरणे ( १८४ उदाहरणे ) प्रकाशे एव स्फुटमेतत्। एवं च युक्त च्युतसंस्कृत्यादिव्युद- सनम्। न चासमर्थसहोदरस्यावाचकस्यापि व्युदासो युक्तः तेनापि केनचिद्विवक्षितधर्मिज्ञापनात् यथो- दाहतेन (२७५ पृष्ठे) जन्तुपदेन। व्युदस्तेषु पुनर्न कोऽपि प्रभेदो विवक्षितधर्मिप्रतिपादक इति" इति॥ विवरणकारास्तु "विशिष्टैकार्थतात्पर्यकपदसमूहो वाक्यम् तदपेक्षदोषत्वमेव वाक्यदोषत्वम् तद- पेक्षत्वं च केषांचिदात्मलाभाय केषांचिच्च स्वोत्कर्षाय। तथाहि। ये केवला वाक्यदोषा: येऽपि च विधेयाविमशदियो वाक्यगतास्ते वाक्ये एव संभवन्तीत्यात्मलाभाय वाक्यमपेक्षन्ते। ये पुनः श्रुतिकट्टा- दयः पददोषा अपि वाक्यघटकपद्द्वयत्रयादिगतत्वनातिशयदोषतामापद्यन्ते ते स्वोत्कर्षलाभायैव वाक्न- सापेक्षा इति। च्युतसंस्कारासमर्थयोः स्वत एवातिशयदोषयोर्न वाक्यघटकपदद्दयादिगतत्वेन कोऽपि विशेष: निरर्थकपदस्य वाक्यघटकत्वमेव नास्तीति नैषां वाक्यदोषत्वम्। एकस्य विवक्षितार्थावाचकपद- स्य प्रसिद्धार्थमादायापि कथंचित् वाक्यार्थबोधोपपत्तिः संभवतीति नावाचकत्वदोषस्य स्वत एवातिशय इति पद्द्वयादिगतत्वेनातिशयितो वाक्यदोषोऽयमिति यथाकथंचिद्विभजनीयम् " इत्याहुः ॥ तत्र श्रतिकटुत्वं वाक्यगतमुदाहरति सोऽध्यैष्टेति। भट्टिकाव्ये प्रथमे सर्गे दशरथराजवर्णनमिद्म्। स राजा दशरथो वेदान् ऋग्यजःसामादीन अध्यैष्ट अधीतवान्। त्रिदशान् देवान् अयष्ट अपूजयत्। पितृन् अतार्प्सीत् अतर्पयत् श्राद्धादिभिस्तर्पितवानिति भावः । 'अपारीत्' इति पाठे निवापजलादिभि: पूर्णान्कृतवान् पालितवान् वेत्यर्थः । बन्धून् सममंस्त संमानितवान् तेषां दानसूनृतादिभि: सन्मानं कृतवान्। षडुर्ग कामक्रोधलोभमोहमदमात्सर्याणां षण्णां वर्ग समुदायं व्यजेष्ट विजितवान्। नीतौ अरंस्त रेमे। अरीन् शत्रून् समूलघातं न्यवधीत् समूलं हतवानित्यर्थः । समूलघातमित्यत्र "समू- लाकृतर्जीवेषु हन्कृञ्ूग्रह: " ( ३।४।३६ ) इति पाणिनिसूत्रेण णमुल्प्रत्ययः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्रानेकपद्गतत्वेन श्रुतिकदुत्वस्य वाक्यदोषत्वम्। नन्वाख्यातवाक्यानां परस्परनिराकाङ्कत्वेन प्रत्येकं श्रतिकटुत्वे कथं वाक्यदोषतेति। अत्र टीकाकृतः 'व्यजेष्ट षडर्गम्' इत्यत्रैव वाक्यदोषता एकान्व- यबोधकयोई्वयोरिह सत्त्वात् तत्प्रसङ्गेन सर्वपद्याभिधानमित्याहुः। वस्तुतस्तु चकारबलादेकवाक्यत्वम- स्त्येव। न चैवं 'यस्य मित्राणि मित्राणि' इत्यत्र (१५० पृष्ठे) चकारे सत्येकवाक्यत्वे कथं पदप्रकाश्य- तति वाच्यम् एकवाक्यत्वे सत्यपि पदानां प्रत्येकं व्य्जकत्वानपायात्। नन्वग्रे (८१ सूत्रे) 'वैयाकरणे वक्तरि श्रोतरि वा कष्टत्वं गुणः' इति वक्ष्यमाणत्वाद्वैयाकरणोक्तमिदं कथं दुष्टमिति चेत् उच्यते। न खलु वैयाकरणोक्तं सर्व श्रुतिकटु अदुष्टम् किंतु वैयाकरणेन स्ववैयाकरणत्वप्रतिपिपाद्यिषया प्रयुक्त- १ द्ूयोरपीति। विधेये उद्देश्यानन्तर्यवत् उद्देश्ये तत्प्राग्वर्ति-वस्थाव्यपेक्षणात् ॥ २ अशपदोपादानमिति। विधेय- पदे धातोविधिबोधे लक्षणा तद्योग्यांशो यत्राविमृष्ट इत्यक्षरार्थः । अन्यथा अविमृष्टविधेयमित्येव वदेदिति भाव इत्युद्योतः ॥ ३ एवं च युक्तमिति। असाधुत्वात् शक्त्यभावाच् प्रत्यायकत्वाभावेनेति भावः। प्रागुक्तास्मद्रीत्या च्युतसंस्कृतिव्युदासश्रिवन्त्य एव श्रोव्द्वेगविशेषाजनकत्वे सतीति वक्तुं युक्तमित्युद्दयोतकाराः ॥ ३८

Page 357

२९८ काव्यप्रकाशः सटीकः।

स रातु वो दुश्च्यवनो भावुकानां परंपराम्। अनेडमूकतादैश्च द्यतु दोषैरसंमतान् ॥ १७१ ॥ अत्र दुश्च्यवन इन्द्रः अनेडमूको मूकबधिरः॥ सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः। अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोक: ॥ १७२ ॥ अत्र सायकादयः शब्दा: खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धाः॥

मेव। एवं वैयाकरणे श्रोतरि नादुष्टं गुणो वा किंतु वैयाकरणे श्रोतरि तद्वैयाकरणत्वप्रतिपिपादय- षया प्रयुक्तमेव। अत एव ग्रन्थकृत्तथैवोदाहरिष्यति। ध्वनितं चेदं सर्व श्रोतरीति पदं परिहृत्य 'प्रतिपाये' इति वदता मूलकृतैव। एवं च 'वैयाकरणे वक्तरि कष्टत्वं गुणः' इत्यस्य स्वयं ग्रन्थकृता वक्ष्यमाणत्वेन भट्टिकाव्यस्य व्याकरणार्थनिरूपणैकतात्पर्यस्य पद्यमिदं श्रतिकठुत्वे कथमुदाहृतमिति न जानीमः' इति विद्यासागरोक्तं दूषणं तेषामेवेति सारबोधिनीसुधासागरयोः स्पष्टम् ॥

वाक्यगतमप्रयुक्तत्वमुदाहरत स रात्विति। स प्रसिद्धो दुश्च्यवनः इन्द्रः वः युष्माकं युष्मभ्यं वा भावुकानां कल्याणानां परंपरां संततिं रातु ददातु। 'रा दाने' इत्यादिको धातुः। च पुनः असंम- तान् शत्रून् अनेडमूकतायैः मूकबधिरत्वाद्यैः दोषैः करणभूतैः धतु खण्डयतु नाशयत्वित्यर्थः। 'दो अव- खण्डने' इति दैवादिको धातुः। "अनेडमूक उद्दिष्टः शठे वाक्श्तिवर्जिते" इति मेदिनी। "त्रिलि्गोऽ- नेडमूक: स्याच्छठे वाक्श्तिवर्जिते" इति रभसश्र ॥

अत्र "संकन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः" इत्यमरकोशे दुश्च्यवनशब्द इन्द्रे प्रागुक्तकोशयोः अनेंडमूकशब्दो मूकबधिरे पठितोऽपि कविभिरप्रयुक्तः । उक्त च प्रदीपादौ। "अत्र दुश्च्यवनशब्द इन्द्रे अनेडमूकशब्दश्रैडम्केSप्रयुक्तः" इति प्रदीपः । (एडमूके इति। मूकबधिरे इत्यर्थः। 'एडमूक: स्मृतो धीरैः शठे वाक्श्ुतिवर्जिते' इति विश्वः ) इत्युइयोतः। अत्रापि 'सोऽध्यैष्ट' इत्यादिपूर्वोदा- हरणवच्चकारबलादेकवाक्यता बोध्या।

वाक्यगतं निहतार्थत्वमुदाहरति सायकेति। हे अवनिप राजन ते तव श्लोको यशः अब्जस्य चन्द्रस्य रुचिवत् भास्वरो भासनशीलः भातितरां शोभतेतरामित्यन्वयः । कीदशस्य ते। सायकः खङ्ग: सहायो यस्य तथाविधो बाहुर्यस्य तथाभूतस्य तथा मकरध्वजेन मकरो नक्र एव ध्वजः केतुर्यस्य तेन समुद्रेण नियमिता परिछिन्ना या क्षमा भूमिस्तस्या अधिपतेः सार्वभौमस्येत्यर्थः। आर्या छन्दः लक्षणमुक्तं प्राक् ४ पृष्ठे॥

अत्र सायकादय इत्यादि। अत्र सायकमकरध्वजक्षमाअब्जश्लोकशब्दानां शरमदनक्षान्ति- पद्मपद्येषु प्रसिद्धिबाहुल्यात्प्रकृतार्थतिरोधानमिति निहतार्थत्वमिति भावः। व्याख्यातमिदं प्रदीपोद््चोत- योरपि। "सायकः खङ्ग: शरश्र मकरध्वजः समुद्रः कन्दर्पश्र क्षमा भूमिः क्षान्तिश्र अब्जश्रन्द्रः अब्जं पझं च श्लोको यशः पझं च। अत्र द्वितीयेनाद्यो निहन्यते" इत्युद्योतः। "अत्र सायकशब्दः खङ्गे मकरध्वजशब्दः समुद्रे क्षमाशब्दो भूमौ अब्जशब्दश्रन्द्रे श्लोकशब्दो यशसि च प्रयुक्तः । न चैतेषामे- तेषु प्रसिद्धिभूयस्त्वम्। अतः प्रसिद्धैः शरमदनक्षान्तिपद्मपद्यैरर्थैर्निहतार्थाः" इति प्रदीपः। "शरे खड्गे च सायकः" इत्यमरकोशः "सायकः शरखद्गयोः" इति विश्वकोशश्। "पुष्पधन्वा रतिपतिर्मकरध्वज

Page 358

सप्तम उल्लासः । २९९

कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो। शरज्ज्योत्स्ोगौरस्फुटविकट सर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥ १७३॥ अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः॥ आत्मभूः" इति "क्षितिक्षान्त्योः क्षमा" इति "पद्ये यशसि च श्लोकः" इति चामरः। "अब्जोऽस्त्री शङ्गे ना निचुले धन्वन्तरौ च हिमाकरणे। क्रीबं पझमे" इति मेदिनी॥ वाक्यगतमनुचितार्थत्वमुदाहरति कुविन्द इति। राजानं प्रति कवेरुक्तिरियम्। हे विभो प्रभो कुं पृथ्वीं विन्दृति लभते इति व्युत्पत्त्या कुविन्दो भूपतिः त्वं तावत् गुणानां शौर्यादीनां ग्रामं समूहम् अभितः समन्तात् सर्वत्र वा पटयसि पटुं करोषि 'ईदशी विद्या ईदशं दानम् अहो शौर्यम्' इति प्रशंसया निर्मलीकरोषीति यावत्। च पुनः एते नग्नाः बन्दिनः (स्तुतिपाठकाः) "नग्नो बन्दिक्षपणयोः पुंसि त्रिषु विवाससि" इति मेदिनी। दिशि दिशि तव यशो गायन्ति। तथापि एवंविधवैभवे सत्यपि यद्वा यशस्विनि त्वाय सत्यपि त्वत्कीर्तिः त्वत्संबन्धिकीर्तिः इह अस्मिन् लोके विगतम् आच्छादनम् आवरणं यस्यां क्रियायां तद्यथा भवति तथा भ्रमति पर्यटतीति व्याजस्तुतिः। कदिशीत्याशङ्कचाह शरदित्यादि। शरज्ज्योत्स्नावत् गौराणि अतिनिर्मलानि स्फुटानि प्रकाशमानानि विकटानि विपुलानि धानि सर्वाङ्गाणि तैः सुभगा सुन्दरी। यद्वा शरज्ज्योत्स्नावत् गौराणि स्फुटानि विकटान्यपि गुप्तान्यपि सर्वाङ्गाणि यस्याः सा चासौ सुभगा रमणीया चेति वाच्योऽर्थः॥ व्यङ्गचार्थस्तु कुविन्दशब्दो रूढ्या तन्तुवायार्थकः "तन्तुवायः कुविन्दः स्यात्" इत्यमरः । तथा च कुविन्दस्तन्तुवायः त्वं तावत् गुणग्रामं तन्तुसमूहम अभितः आरोहपरिणाहाभ्यां सव्यापसव्यतुरीचालने- न वा पटयस पटं वस्त्रं करोषि। च पुनः एते नग्नाः वस्त्रहीनाः त्वत्तो पटलाभे सति तव यशो गायन्ति। तथापि एवं वस्त्रसमृद्धावपि त्वत्कीर्तिरूपा स्त्री इह विगताच्छादनं विगतवस्त्रं यथा स्यात्तथा भ्रमतीति। शेषं प्राग्वत्। एवं च संभावितपतिकायाः स्त्रियोऽनावरणभ्रमणं विवस्त्रभ्रमणं चानुचितमिति भावः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ अत्र प्राकरणिके राजरूपेऽर्थे तदन्वययोग्ये चार्थे तत्तच्छब्दानामभिधाया नियमनात्तन्तुवायरूपोऽर्थ- स्तदन्वययोग्यश्रार्थो व्यञ्जनया गम्यते। ततश्रास्य पद्यस्यासंबद्धार्थाभिधायकत्वापत्या तद्भयेनोपमार्या पर्यवसानम्। उक्तं चास्माभिः 'भद्रात्मनः' इत्यादिश्लोकव्याख्यावसरे (६८ पृष्ठे) 'असंबद्धार्थद्वयबो- धकत्वेन वाक्यभेदापत्तेः' इति। एवं च राज्ञोऽनुचितं तन्तुवायौपम्यं वाक्यमहिमलभ्यमिति वाक्यम नुचितार्थम्। तदुक्तमुझ्योतेऽपि "तथापीत्युपात्तविरोधस्फोरणाय 'भद्रात्मनः' इतिवदुपस्थिततन्तुवाया- दिद्वितीयार्थमादाय वाक्यस्यासंजद्धार्थकतापत्तावुपमा कल्पनीया तथा च तदुपमानकत्वं राज्ञि अनुचि- तमित्युदाहरणसंगतिः" इति। तदेव वृत्तिकार आह अत्र कुविन्दादीत्यादि। अर्थान्तरं तन्तुवाय= रूपं द्वितीयमर्थम्। प्रतिपादयन् व्यञ्जनया वृत्त्या बोधयन्। उपश्लोक्यमानस्य वर्णनीयस्य राज्ञः। यत्तूक्तं प्रदीपकारैः "अत्र कुविन्द इति तन्तुवायं पटयसीति पटं करोषीति गुणेति तन्तुं १ शरज्ज्योत्स्नाकान्तोति पाठः प्रदीपोद्वयोतयोः ॥ २ कीर्तौ स्त्रीत्वारोपात् ( भार्यात्वारोपात् ) आह स्त्रीति ॥

Page 359

काव्यप्रकाश: सटीकः ।

प्राभ्रभ्राद्डिष्णुधामाप्य विषमाश्वः करोत्ययम्। निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥१७४॥

भूपते रुप सर्पन्ती कम्पना वामलोचना। तत्तत्प्रहरणोत्साहवती मोहनमादधौ॥ १७५॥ अत्रोप सर्पण प्रहरण मोहनशब्दा व्रीडादायित्वा दश्लीलाः। नग्नेति वस्त्रहीनं यश इत्यकारप्रश्लेषादयशः विगताच्छादनमित्यवसनमित्यर्थानुपश्लोक्यमानापकर्षय्ो- तकतया अनुचितान् प्रकाशयन्ति" इति तत्रायश इत्यकारप्रश्लेषः प्रामादिकः अयशास्विपतिकायाः स्त्रियो विवस्त्रभ्रमणस्यापि संभवेन वाक्यार्थस्यासामञ्जस्यापत्तेः। नन्वत्र कुविन्दपदात्प्रथमं जातिविशेषो- पस्थितौ राजनि तन्निहतार्थमिति चेत् सत्यम्। किंतु अप्रयुक्तनिहतार्थौ श्लेषयमकादावदुष्टाविति (२०२ उदाहरणे) प्रतिपाद्यिष्यामः इति सुधासागरकाराः । "अत्र प्रसिद्धाप्रसिद्धयोद्वयोरप्यर्थयो- विवक्षितत्वम् तत्र तु प्रकृतस्यैव विवक्षितत्वमिति भेद:" इति सारबोधिन्यां स्थितम्॥

वाक्यगतमवाचकत्वमुदाहरति प्राभ्रेति। अयं विषमाश्वः विषमसंख्याका अश्वा यस्य स सप्ताश्वः सूर्य: प्राभ्रभ्रा् अभ्रे आकाशे भ्राजते शोभते इति अभ्रभ्राट् जलदः प्रकृष्टोऽभ्रभ्राट् यत्र तदिति विष्णुधामेत्यस्य विशेषणम् तादशमपपि विष्णुधाम विष्णुपदम् आकाशम् आप्य प्राप्य सहस्त्रं पर्णानि पत्राणि दलानि येषां तेषां कमलानां निद्रां संकोचं पलायनपरायणां पलायनतत्परां करोति दूर्री- करोतीत्यर्थः तत्कालविनश्वरां करोतीति यावत्। कमलानि विकासयतीति भावः। "अभ्रं मेधे च गगने धातुभेदे च काश्चने" इति कोशः ॥

अत्र प्राभ्रभ्राडिति प्रकृष्टजलदे विष्णुधामेति विष्णुपदे विषमाश्व इति सप्ताश्वे निद्रेति संकोचे सह- स्रप्णेति सहस्त्रदले प्रकृष्टजलदत्वादिना प्रकारेणावाचकानि प्रगताभ्रस्थानिकत्वविष्णस्थानत्वअयुग्म- संख्यावच्छिन्नाश्वत्वमित्थानाडीमनोयोगत्वपत्रसहस्त्रवत्त्वेन वाचकत्वादिति बोध्यम्। कानिचिच्चात्र धर्मि- णि शक्तान्यवेि यथोक्तवाक्यदोषत्वमिति प्रदीपोद््योतयोः स्पष्टम्। तदेवाह अत्र प्राभ्चेत्यादि। व्या- ख्यातमिद्मन्यैरपि "अभ्रभ्राट्शब्दस्य संज्ञाशब्दत्वन (द्रव्यशब्दत्वन) तेन सह प्रशब्दस्यान्वयायोगः उपसर्गरूपप्रशब्दस्य धातुयोगे (क्रियायोगे) एवानुशासनात्। तथा च प्रकर्षानुपस्थितिः। एवं विष्णुपद्पदस्यैव गगनवाचकत्वम् न तु हरिपद्विष्णुधामादीनाम् एकत्रिपश्चाश्वानामपि विषमाश्व- तया न सप्ताश्व एव विषमाश्वपदवाच्य इति" इति॥

त्रिविधेष्वश्ललिषु व्रीडाव्यअ्षकमश्लीलं वाक्यमुदाहरति भूपतेरिति। वामलोचना वामे शतून् प्रति विरुद्धे लोचने यस्यास्तादृशी यद्ा वामं भुकुटीविषमं लोचनं यस्यास्तादृशी उपसर्पन्ती द्विषदभिमुखं गच्छन्ती भूपतेः कम्पना सेना शत्रुकम्पजनकत्वादिति भावः तत्तत्प्रहरणे तत्तच्छस्त्रादिप्रक्षेपे उत्साह- बती 'तत्तत्प्रहणनोत्साहवती' इति पाठे तत्तत्प्रहणने तस्य तस्य मारणे उत्साहो यस्यास्तथाभूता सरती मोहनं विपक्षसंमोहनम् आदधौ चकारोति विवक्षितवाक्यार्थः। "वामं सव्ये प्रतीपे च द्रविणे चाति- सुन्दरे " इति विश्वः । आदधावित्यत्र 'आद्धे' इति प्रदीपे पाठः ॥ १ 'पुरीतत्' नाम्न्ी नाडी ॥ २ "उपसर्गाः क्रियायोगे" (१।४।५९) इति पाणिनिसूत्रेणोति शेषः ॥

Page 360

सप्तम उल्लास: । ३० १

तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुअ्जते। इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥ १७६ ॥ अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः। पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे। ERE भवति सपढ़ि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥ १७७॥ अत्र पितृ गृहमित्यादौ विवक्षिते इमशानादिप्रतीतावमङ्गलार्थत्वम्।। सुरालयोल्लासपर: प्राप्तपर्यात्कम्पनः । मार्गणप्रवणो भास्वद्भतिरेष विलोक्यताम् ॥ १७८॥। अत्र उपसर्पन्ती रतोद्ता रिरंसोद्योगवता कम्पयतीति कम्पना कम्पजनिका स्वदर्शनेन सात्त्वि- कभावेन पुंसः कम्पयुक्तान करोतीति भावः। यद्ा शङ्कया स्वयमेव कम्पयुक्ता। तादृशी वामलोचना सुन्दरनयना नायिका तत्तत्प्रहरणे कामशास्त्रप्रसिद्धे दम्पतिजघनताडने (स्वजघनेन पुरुषजघनताडने) उत्साहवती सती (प्रहणनेति पाठेऽपि स एवार्थः) भूपतेः मोहनं निधुतनविलासातिशयम् आदधौ कृतवर्तीत्यर्थान्तरं व्यज्यते। एवं च विवक्षितवाक्यार्थप्रतीतिदशायामर्थान्तरव्यञ्जनेन व्रीडादायित्वादुप- सर्पन्तीत्यादिशब्दा अश्लीला: दुष्टाः इति भावः॥ जुगुप्सादायि अश्लीलं वाक्यमुदाहरति तेडन्यैरिति। येषां कवीनाम इतरार्थग्रहे इतरकविनिबद्धा- र्थग्रहण प्रवर्तनं प्रवृत्तिः स्यात् ते कवयः अन्यैर्वान्तं छर्दितं मुखद्वारा भुक्तत्यक्तं समश्नन्ति भक्ष- यन्ति परेषामुत्सर्ग पुरीषम् अधोद्वारण त्यक्तं च भुञ्जते इत्यर्थः। प्रवर्तनं प्रवृत्तिः पुरीषोत्सगश्॥ अत्र वान्तोत्सर्गशब्दौ छर्दितपुरीषार्थकतया जुगुप्सां प्रयच्छतः प्रवर्तनशब्दः प्रवृत्त्यर्थकतयोपात्तोऽपि पुरीषत्यागरूपार्थान्तरतया जुगुप्सां प्रयच्छति। तदेवाह अत्र वान्तेत्यादि। जुगुप्सादायिन इति श्रोतुर्जगुप्साजनका इत्यर्थः । तत्र वान्तोत्सगशब्दौ वाच्यार्थेनैव जुगुप्सादायिनौ प्रवर्तनशब्दस्तु पुरी- षोत्सर्गरूपेण व्यङ्गयेन द्वितीयार्थेन जुगुप्सादायीति भावः ।। अमङ्गलदाय अश्लीलं वाक्यमुदाहरति पितृवसतिमिति। पतिगृहे प्राप्तशोकायाः कस्याश्विदु- क्तिरियम्। अहं परिवारजनेन सह तां पितृवसति जनकग्ृहं व्रजामि गच्छामि। यत्र पितृवसतौ मे मम हृदयं पावकान्वये पवित्रत्वकारके वंशे यद्वा पावकानां पवित्रत्वकारकाणां पित्रादीनाम् अन्वये संबन्धे सति सपदि तत्कालमेव अशेषितम् उन्मूलितं शोकरूपं शल्यकं कुत्सितशल्यं यस्मात्ताद्शं भव- तीति विवक्षितवाक्यार्थः । शल्यमत्र बाणः। "क्ष्वेडाशङ्गशरे शल्यं ना श्वाविन्मदनद्ठमे" इति तालव्यादौ रभसः । अपरवक्त्रं छन्दः। "अयुजि ननरला गुरुः समे न्जमपरवक्त्रमिदं ततो जरौ" इति लक्षणात्॥

अत्र विवक्षितार्थबोधकाले 'तां पितृवसति रमशानं व्रजामि यत्र रमशाने पावकान्वयेऽग्निसबन्धे चिताग्निसंबन्धे सति मे हृदयं अशेषितशोकशल्यकं भस्मरूपं भवति' इत्यर्थान्तरव्यञ्जनेन पितृ- वसतिपावकान्वयशब्दावमङ्गलार्थकत्वादश्लीलाविति बोध्यम्। ननु पावकशब्दस्य कथममङ्गलार्थकत्वं वह्निशब्दस्येवातथात्वादिति चेत् मैवम्। यत्रेत्यनेन रमशानाकृष्टया तत्संबन्धिनो वह्नेश्विताग्नित्वप्रतीते रिति सुधासागरे स्पष्टम। अत्र वह्निः रमशानसांनिध्याच्चितावह्निरेव प्रतीयते इति तस्यामङ्गलत्वं बोध्य- मित्युद्चोतेऽपि स्पष्टम्॥

Page 361

३०२ काव्यप्रकाश: सटीकः।

अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः इति संदेहः॥ तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दढभूमि: प्रियप्राप्तौ यत्नः स फलितः सखे ॥ १७९॥ अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वाद प्रतीताः।। ताम्बूलभृतगल्लोड़यं भल्लं जल्पति मानुषः । करोति खादनं पानं सदैव तु यथा तथा॥१८० ॥

वाक्यगतं संदिग्धत्वमुदहरति सुरेति। अत्र सुरालयो देवतागृहं तत्रोल्वासो हर्षस्तत्परः प्राप्ता पर्याप्ता शत्रवधक्षमा कम्पना सेना येन तादृशः मार्गणेषु बाणेषु प्रवण: रतः ('मार्गणं याचनेऽन्वेषे मार्गणस्त शरेऽर्थिनि' इति हैमः ) भास्वती शोभमाना भूतिः संपत्तिर्यस्यैवंभूतः ('भूतिर्भस्मनि संप- त्तिहस्तिशृङ्गारयोः स्त्रियाम्' इति मेदिनी) एष राजा विलोक्यताम्" इत्यर्थो विवक्षितः। अथवा सुरालयो मदिरागृहं तत्र य उल्लासस्तत्परः प्राप्तं पर्याप्तम् अतिशयितं कम्पनं कम्पो येन तादृशः मार्गण अन्वेषणे याचने वा प्रवणस्तत्परः भास्वती उज्ज्वला भृतिः भस्म यस्यैवंभूतः एषः जनः विलो- क्यताम् इत्यर्थो विवक्षित इति संदेहः। एवं चात्र प्रकरणाद्यभावात्तात्पर्यसंदेहेन स्तुतिर्निन्दा वेति संशय इत्यु्योते स्पष्टम्। अत्रैकार्थे प्रकरणसत्त्वे तु 'उल्लास्य कालकरवाल०' (१२९ पृष्ठे) इत्यत्रेवोपमाध्वनिरेव स्यात्। उभयत्र प्रकरणादिसच्वे 'पृथुकार्तस्वरपात्रम्' इति (३७० उदाहरणे ) नवमोल्लासे वक्ष्यमाणवत् श्लेषालंकार एव स्यादित्यादर्शकारः ॥

वाक्यगतमप्रतीतत्वमुदाहरति तस्येति। हे सखे तीव्रः परमः संवेगो वैराग्यम् उपायानुष्ठानशैघ्रयं वा यस्य तत्तायुक्तस्य अधिमात्रो दृढज्ञानकारी उपायो यर्मनियमादिर्यस्य ताद्शस्य तस्य योगिनः दृढभूमिः दढसंस्कार: काभिरपि चित्तवृत्तिभिरभिभवितुं न शक्यते तथाभूतः यद्दा दीर्घकालादरनैरन्तयसेविता- भ्यासक: स लोकोत्तरो यत्न: निदिध्यासनादिरूपः प्रयत्नः यद्ा चित्तैकाम्चविषयको यत्नः प्रियस्या- त्मसाक्षात्कारस्य प्राप्तौ सत्यां फलितः मोक्षरूपफलभाकू जात इत्यर्थः । 'दृढभूमिप्रियप्राप्तौ' इति सम- स्तपाठे दृढभूमे: दृढसंस्कारजनकस्य प्रियस्यात्मसाक्षात्कारस्येत्यर्थः । अयं भावः । योगिनस्तावत्त्रिविधा भवन्ति मृदूपायो मध्योपायोऽधिमात्रोपायश्र। ते च प्रत्येकं मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्र्ेति त्रिविधा:। एवं नव भेदा भवन्ति। तेष्वधिमात्रोपायस्तीव्रसंवेगो योगी सिद्ध इत्युच्यते इति प्रदीपो- द्योतादिषु स्पष्टम्॥।

अत्र दोषं दर्शयति अत्राधिमात्रेत्यादि। अत्राधिमात्रोपायतीवसंवेगभूमिशब्दानां योगशास्त्रमात्र- प्रसिद्धत्वेनाप्रतीतत्वं दोष इत्यर्थः। अधिकं तु पद्दोषोदाहरणे (२८१।२८२ पृष्ठयोः) द्रष्टव्यम् ॥ ग्राम्यं वाक्यमुदाहरात ताम्बूलेति। ताम्बूलेन भृतः पूर्णः गल्लः कपोलो यस्य सः अयं मानुषः १ हिंसादिभ्यो निषिद्वकर्मभ्यो योगिनं यमयन्ति निवर्तयन्तीति यमाः। ते च "अहिंसासत्यास्तेय बह्मचर्यापरि- अहा यमा:" इति सूत्रेण पतञ्जलिना दर्शिताः "ब्रह्मचर्य दया क्षान्तिर्ध्यानं सत्यमकल्पता। अहिंसा स्तेयमाधुये दमश्र्वेति यमा: स्मृताः ॥" इति याज्ञवल्क्येन दर्रशिताश्। जन्महेतोः काम्यधर्मात् निवर्त्यं मोक्षहेतौ निष्कामधर्मे योगिनं नियमयन्ति प्रेरयन्तीति नियमा:। ते च "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति सूत्रेण पतञ्जलिना दर्शिता: "स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः। नियमा गुरुशश्रूषाशौचाक्रोधाप्रमादताः।" इति याज्ञवल्क्येन दर्शिताश्र्यति बोध्यम्।

Page 362

सप्तम उल्लास: । ३०३

अत्र गल्लादय: शब्दा: ग्राम्याः॥ वस्रवैदूर्यचरणैः क्षतसत्त्वरजःपरा। निष्कम्पा रचिता नेत्रयुद्धं वेदय सांप्रतम् ॥१८१।। अत्राम्बररत्नपादैः क्षततमा अचला भूः कृता नेत्रद्वन्दवं बोधयेति नेयार्थता। धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः। रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ १८२ ॥ सदैव यथा खादनं भक्षणं पानं च करोति तथा तु तथैव भल्ं सम्यक जल्पति वदतीत्यर्थः। नैसर्गि- कत्वं चात्र साधर्म्यम्। 'सदैव' इत्यत्र 'सहैव' इत्युद्द्योतसंमतः पाठः ॥ अत्र गल्लभल्लमानुषखादनपानशब्दा ग्राम्याः । तदेवाह अत्र गल्लेत्यादि। ग्राम्या इति। गल्ला- दयो गण्डादिषु विदग्धैर्न प्रयुज्यन्ते किंतु कपोलादय एवेति भावः ॥ वाक्यगतं नेयार्थत्वमुदाहरति वस्त्रेति। निद्रितां सखीं प्रबोधयन्त्याः कस्याश्विदुक्तिरियम्। हे सखि वस्त्रम अम्बरम् आकाशं तस्य वैदूर्य मणिः सूर्यः तस्य चरणैः पादैः किरणैः (कर्तृभिः) क्षतं निरस्तं सत्त्वरजोभ्यां परं तमः अन्धकारो यस्या ईदशी निष्कम्पा अचला भूमि: रचिता कृता (तस्मात्) सांप्रतम् अधुना नेत्रयुद्वं नेत्रद्वन्द्वं वेदय बोधय उद्धाटयेत्यर्थः । विदूरात् वालवायाख्यदेशात् प्रभवति वैदूर्य वालवायजो मणिः। "वैदर्य वालवायजम् " इति विश्वः। "विदूराञ्ज्यः " (४३८४) इति पाणिनिसूत्रेण प्रभवतीत्यर्थे ञ्यप्रत्यथः ।। अत्राम्बरेत्यादि। अयं भावः । अत्र वस्त्रवैदूर्यचरणसत्त्वरजःपरनिष्कम्पायुद्धवेद्येति पदैः स्ववाच्य- वस्त्रादिवाचकत्वसंभवेन यथाक्रमम् अम्बररत्नपादतमःअचलाद्वन्द्वबोधयेतिपदानि लक्ष्यन्ते तैश्र क्रमेण आकाशमणिकिरणअन्धकारभूमियुगलउद्धाटयेत्यर्था उपस्थाप्यन्ते इति लक्षितलक्षणेयम् वस्त्रादिपद- लक्षितेनाम्बरादिपदेनाकाशादेबीधनादिति केचित्। अपरे तु वस्त्रादिपदैरेव स्ववाच्यवस्त्रादिवाचका- म्बरादिपद्वाच्यत्वसंबन्धेनाकाशादय एव लक्ष्यन्ते इति लक्षणेयमिति वदन्ति। उभयमतेऽपीद्टशलक्ष- णाङ्गीकारे रूढिप्रयोजन, न्यतराभावान्नेयार्थतेति बोध्यम्॥ व्याख्यातं च प्रदीपादौ। "अत्र वस्त्रवैदूर्यशब्देनाम्बरमणेर्विवक्षितत्वाद्वस्रशब्देन गगनं विवक्षि- तम् न चास्य तत्र शक्तिरिति वाचकत्वलक्षणेन शक्यसंबन्धेन (पर्यायत्वसंबन्धेन) अम्बरपदं लक्ष- यति तस्माच्च गगनप्रतातिः । यद्वा स्ववाचकवाच्यत्वलक्षणशक्यसंबन्धेन ( पर्यायबोध्यत्वसंबन्धेन ) गगनमेव लक्षयतीति लक्षितलक्षणा लक्षणा वेति वस्तुगतिः। एवं वैदूर्येत्यस्य मणौ चरणेत्यस्य पादे सत्त्वरजःपरेत्यस्य तमसि निष्कम्पेत्यस्य चाचलायां भूमौ युद्धमित्यस्य द्वन्द्े वेदयेत्यस्य बोधने लक्ष- णैव। न च तद्वीजं रूढिः प्रयोजनं वेति नेयार्थत्वम्" इति प्रदीपः । (वाचकत्वेति। स्वशक्यवाचकत्वे- त्यर्थः। लक्षितलक्षणेति। इदमाद्यपक्षे लक्षितेन पदेन बोधनात्। द्वितीयपक्षे लक्षणा वेति। तम- सीति। सत्वरजःपरत्वेन तमसो गुणस्य बोधनेऽपि अन्धकारे लक्षणैवति भावः । बोधने इति। उद्धाटनरूप इत्यर्थः ) इत्युक्योत:। वाक्यगतं क्िष्टत्वमुदाहरति धम्मिल्स्येति। कुरङ्गशावाक्ष्याः हरिणकलोचनायाः अपूर्वस्य बन्धस्य १ अम्बरपद्मिति। इदं कर्मपदम्। कर्तृपद्मत्र 'वस्त्रशब्दः' इत्यव्याहार्यम् ॥ २ लक्षितेनाम्बरपदेन गगनबोध- नादित्यर्थः ॥

Page 363

२०४ काव्यप्रकाश: सटीक: ।

अत्र धम्मिलस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्विष्टत्वम्। न्यक्वारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापस: सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः। धिग्धिक शक्रजितं प्रबोधितवता कि कुम्भकर्णेन वा। स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥१८३॥

व्युत्पत्तिः विशिष्टा उत्पत्तिः संबन्धो यत्र ताद्टशस्य धम्मिल्लस्य शोभां प्रेक्ष्य कस्य पुरुषस्य मानसं निका- मम् अतिशयेन न रज्यति हृष्यति अपि तु सर्वस्येत्यर्थः । "धम्मिल्ठः संयताः कचाः" इत्यमरः । संयता: मौक्तिकदामादिबद्धाः कचाः केशसमूहो धम्मिल्ठ इत्युच्यते इति तदर्थः । बुचडा इति महाराष्ट्र भाषायाम्। शावः शिशुः "पृथुकः शावकः शिशुः" इत्यमरः । आर्या छन्दः । लक्षणमुक्त प्राक ४ पृष्ठे।

अत्र व्यवहितान्वयात्किष्टत्वमित्याह अत्रेत्यादि। "अत्र 'कुरङ्गशावाक्ष्याः धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति' इति संबन्धे प्रतीतिव्यवधानम् " इति प्रदीपः । अन्नासत्तिज्ञानविलम्बादन्व- यबोधविलम्बो दूषकताबीजमिति सारबोधिनी॥

वाक्यगतमविमृष्टविधेयांशत्वमुदाहरति न्यक्कार इति। हनुमन्नाटके चतुर्दशेऽक्के रामेण राक्षसक्षये क्रियमाणे क्षुब्धस्वान्तस्य रावणस्य स्वाधिक्षेपोक्तिरियम्। अयमेव मे मम न्यक्वारः निन्दा यत् अरयः 'सन्ति' इति शेषः। अन्येषां तत्कृतपराभवादिः मम पुनर्वशीकृतजगत्त्रयस्यारिसत्त्वमेव न्यक्वार इत्यर्थः। अरयः न त्वेको द्वौ वा। अरय इति बहुवचनेन पूर्वमेकोऽप्यरिरनासीत् अधुना युगपत् अकस्मादेव बहवो जाता इति ध्वन्यते। तत्रापि तेष्वपि अरिषु मध्ये इत्यर्थः असौ मानुषः (रामः) सोऽपि तापसः तपस्वी 'मुख्यः' इति शेषः । आभ्यां भक्ष्यत्वशस्त्रानभिज्ञत्वे द्योत्येते। तथा च तपस्विसहस्त्र- भक्षकस्य ममैकस्तपस्वी रिपुमुख्य इत्यत्यन्तमेव न्यक्कार इति भावः। सोऽपि अत्रैव मत्समीपे एव न तु दूरे राक्षसानां कुलम आबालवृद्धाङ्गनं सर्व निहन्ति नितरां मारयति। स्त्रीवधस्य (ताटकावधस्य) भूतत्वेऽपि "वर्तमानसामीप्ये वर्तमानवद्वा" इति पाणिनिसूत्रेण वर्तमानसामीप्यविवक्षया सर्वत्र वर्तमानतानिर्देशः । क्वचित्तु 'राक्षसभटान्' इति पाठः । एतावता न्यक्वारातिशयः। जीवत्यहो रावणः । विश्रवसोSपत्यं पुमान् रावण इति विग्रहः। "तस्यापत्यम्" (४।१।९२) इति पाणिनिसूत्रेणाणि कृते "विश्रवसो विश्रवणरवणौ" इत्यनेन प्रकृतेः (विश्रवस्शब्दस्य) रवणादेशः आदिवृद्धिश्र। अहो महदाश्र्वर्यम् एवंविधेऽपि पराभवातिशये क्रोधाग्निनिर्दग्धोऽपि रावणो न भस्मीभवतीति भावः। यद्वा अहो इति निर्वेदातिशयः। रावयति आक्रन्दयति लोकानिति रावणः इति व्युत्पत्तिः । तदुक्तमुत्तर- काण्डे रामायणे "यस्माल्लोकत्रयं चैतद्रावितं भयमागतम्। तस्मात्वं रावणो नाम नाम्ना वीरो भवि- ष्यसि ॥" इति। रौतेर्ण्यन्तात्कर्तरि ल्युट्। अनेन तत्सहनेऽनौचित्यातिशयः । जीवति काक्का न जीव- तीत्यर्थः । शक्रजितम् इन्द्रजितं धिग्धिक धिग्धिगिति वीप्सया निन्दातिशयः अत एव शक्रजितमि- त्युक्तिः शक्रोऽपि येन जितः तस्य मनुष्यमात्राज्जयेन निन्दातिशयप्रतीतेः। 'प्रबोधितवता' इति णिजन्ताद्भावे क्तप्रत्ययः ततो मतुप न तु क्तवतुप्रत्ययः कर्मणि तस्यासाधुत्वात्। प्रबोधितवता २ अधिक्षेपोऽवमाननम् ॥ २ अदःशब्दस्य सर्वनामत्वेन बुद्धिस्थपरामर्शकत्वादाह मानुष इति॥ ३ इद् सूत्रं प्राक (१९५ पृष्ठे) व्याख्यातम् ।

Page 364

सप्तम उल्लास: ३०५

अत्र 'अयमेव न्यक्वारः' इति वाच्यम्। उच्छूनत्वमात्रं चानुवाद्यम् न वृथात्ववि-S शेषितम्। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य। प्रबोधनकर्मभूतेन (उत्थापितेन) कुम्भकर्णेन कि न किंचित्फलमित्यर्थः । एवम् स्वर्ग एव ग्रामट- का अल्पग्रामस्तस्य विलुण्ठनेन ध्वंसनेन यद्दा स्वर्गस्य ग्रामटिकेव अल्पग्रामवत् विलुण्ठनेन वृथोच्छूनैः वृथापुष्टैः एभिः विंशतिसंख्याकैः यद्वा प्रसिद्धपराक्रमैः भुजैः किं न किंचित्फलमित्यर्थः भुजद्दयशा- लिशत्रोरप्यजयादिति भावः । ग्रामशब्दादल्पार्थे "तद्िताः" (४।१।७६) इतिपाणिनिसूत्रस्थबहुवच- नबोध्यः टिकच्प्रत्यय इत्युइ्योते स्पष्टम्। अत्र च किंपदेन भुजवैयर्थ्य वृथापदेन च तदुच्छूनत्ववै- यर्थ्यमुक्तमिति न पौनरुक्त्यम्। शार्डूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे । अत्र प्राप्तारिमत्त्वम् 'अयम्' इत्यनेनानूद्याप्राप्तं न्यक्वारत्वं विधीयते। तत्रानूद्यविधेययोः उद्देश्यवि- धेययोः पौर्वापर्योपादानेनैव तथा प्रतिपत्तिः। "यच्छब्दयोगः प्राथम्यं सिद्धत्वं चाप्यनूदता। तच्छब्द- योग औत्तर्य साध्यत्वं च विधेयता ॥" इति भट्टवार्तिकोक्तेः। तथा चायंपदन्यक्वारपदयोरुद्देश्यविधे- यार्थकत्वेन विवक्षितयोः पौर्वापर्यविपर्ययो दोषः "अनवाद्यमनुक्त्वैव न विधेयमुदीरयेत्। नै ह्यलब्धा- स्पद किंचित्कुत्रचित्प्रतितिष्ठति ॥" इति वृद्धवचनेन तयोः पौर्वापर्यस्य नियमितत्वात्। अत एव सर्वत्र 'इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोः' इत्येव 'पर्वतो वाह्निमान्' इत्येव चोच्यते न तु व्यत्ययेनेति बोध्यम्। अत्र 'अयं न्यक्वारः' इत्युभयोः पदयोर्दुष्टत्वाद्वाक्यदोषत्वम्। उद्देश्यविधेयभावस्तु प्राक् २९१ पृष्ठे १३ पङ्क्तौ निरूपित एव । निर्दुष्टं पाठमुपदिशति अत्रायमेव न्यक्वार इति वाच्यमिति। वाच्यं वक्तुं योग्यम्। प्रसङ्गादस्य पद्यस्यान्त्यपाद्दोषं दर्शयति उच्छूनत्वमात्रं चेत्यादि। उच्छूनत्वमुद्दिश्य विधीयमानं वृथात्वं समास- वशात् गुणीकृतम् अतः समासगतमविमृष्टविधेयांशत्वमेवेत्यर्थः। एवं च समासगतत्वेन पददोष एवायं प्रसङ्गादुक्तो न तु वाक्यदोषः मिथ्यामहिमत्ववत् (२८६ पृष्ठे) इति प्राचीनार्वाचीनटीकासु स्पष्टम्। ननु 'न्यक्कारोऽयम्' इत्यत्रानूद्यविधेयभावानुपपत्तिरर्थयोरेव तथा चार्थयोरेव वैपरीत्येन प्रत्ययादर्थस्यैवायं दोषो न वाक्यस्येत्याशङ्कयाह अत्र चेत्यादि। रचनायाः शब्दगतत्वाच्छब्दव्यत्ययेऽप्यर्थसाम्याच्छब्द- दोष एवेत्यर्थः रचनायाः शब्दधर्मत्वेन तदन्वयव्यतिरेकानुविधानात्तदोषतैवेति भावः ॥ "उच्छूनत्वमात्रं चानुवाद्यम् न तु वृथात्वविशेषितम्" इति वृत्तिग्रन्थो बहुभिर्बहुधा व्याख्यातः । तत्र प्रदीपोद्दयोतप्रभाकृत इत्थं व्याचख्युः। "अत्र प्राप्तीरिमत्त्वमयमित्यनूद्याप्राप्तं न्यक्कारत्वं विधीयते अतः 'अयमेव न्यक्वारः' इति वाच्यम् 'अनुवाद्यमनुक्त्वैव न 'विधेयमुदरियेत्' इति वृद्धवचनात्। अन्यथा तु वैपरीत्येन विलम्बेन वा तथाभावः प्रतीयेत। 'अयं न्यक्वारः' इति उभयोः पद्योर्दुष्टत्वाद्वा- क्यदोषत्वम्। अत एव समासगतमेव दुष्ट,पदमित्युक्तम्। अपि च अत्र वृथोच्छूनैरित्यसंगतम् उच्छूनत्व- मात्रस्यैवानुवादौचित्यात् न तु वृथात्वविशेषितस्य किमेभिरित्यनेन वृथात्वस्यैव विधेयत्वात्। अर्थ- भेदोपगमेऽपि किमेभिरिति वैफल्याभिधानविरोधात् वृथोच्छूनस्य तदौचित्यात्। ननु 'न्यक्कारोऽ- यम्' इत्यत्र वैपरीत्येन विधेयत्वप्रत्ययादर्थदोष एवायं स्यादिति चेत् न खल्वत्र विवक्षितोऽर्थो दुष्टः

१ तथेत्यादि। तथा उद्देश्यविधेयत्वेन प्रतिपत्तिः प्रतीतिः ज्ञानमित्यर्थः ॥ २ 'तच्छब्द्योगः पश्वात्वम्' इति पाठान्तग्म्॥ ३ 'न हयलब्धात्मकम्' इति पाठान्तरम् ॥ उद्देश्यविधेययोः ॥ ५ अनूदविधेयोति। उद्देश्यविधेये- त्यर्थ: ॥ ६ 'प्राप्तमरिसत्वमयम्' इति क्वचित्पाठः ॥ ७ नामिधेयमिति क्वचित्पाठः ॥उद्देश्यविधेयभावः ॥ ३९

Page 365

३०६ काव्यप्रकाशः सटीक: ।

यथा वानलास अपाङ्गसंसर्गि तरड्गितं दशोर्भ्रुवोररालान्तविलासि वेल्लितम्। विसारि रोमाश्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥ १८४॥

किंतु क्रमविशषादविवाक्षितार्थप्रत्यय एवेति शब्दविशेष एवापराध्यति शब्दान्तरेण तत्प्रतीतेरवैकल्यात् यथा विरुद्धमतिकृति " इति प्रदीपः । (विधेयमिति। अभिधेयमिति पाठेऽपि विधेयमित्येवार्थः। वृद्धवचनादिति। उद्देश्यविधेयताशालिबोधे विधेयवाचक प्राग्वर्त्युददेश्यवाचकपदजोपस्थितिर्हेतुरित भावः। वृथात्वस्यैव विधेयत्वादिति। घटो घट इतिवद्योग्यमेतदिति भावः। अर्थभेदोपगमे 5पीति। उच्छूनताया भुजानां [ च ] वैफल्यस्य भेदादिति भावः । अत एव किंपदवृथापदयोर्न पौन- रुक्त्यम्। वैफल्येति। अस्य 'अनौचित्यविशिष्टतया' इति शेषः । तदौचित्यादिति। एवं चानुवा- दायुक्त इति भावः। प्रसङ्गाच्चैतत्कथनम्। अयुक्तानुवादेऽपि विधेयाविमर्शः फलतीति कश्र्वित्। शब्दा- न्तरेणेति । शब्दधर्मक्रमविशेषभूतरचनान्तरेणेत्यर्थः) इत्युद्योतः । (अर्थभेदोपगमेऽपीति। उच्छून- ताया: श्षुद्रस्वर्गलुण्ठनं न फलमिति वैयर्थ्यमन्यत् भुजवैफल्यं तु स्वपराजयदर्शनादन्यादिति भेदाङ्गी- कारेऽपीत्यर्थः । एवं चाप्रयुक्तानुवादत्वरूपोऽर्थदोषोऽपि दर्शितः) इति प्रभा ॥ विवरणकारास्तु "किमेभिरित्यनेन वृथात्वविधाने नीलघटस्य नीलत्वविधिवत् वृथोच्छूनस्य वृथात्व- विधानमसंगतं स्यात्। वैफल्यविधाने च वृथोच्छूनस्य वैफल्यम् औचित्येन सि्धमेवेति तद्विधानमनर्थ- कमिति वृथात्वविशेषणसत्त्वे विधेयत्वप्रतीतिव्याघात इतीत्थमपि विधेयाविमर्शदोषः" इति व्याचख्युः॥ चक्रवर्तिरभट्टाचार्यास्तु "उच्छूनत्वमात्रं चेति। 'अयं तु समासगतत्वन पददोष एव प्रसङ्गादुक्तो न वाक्यदोष: मिथ्यामहिमत्वमत्' इति टीकाकृतः प्रलपन्ति तन्न। वाक्यदोषप्रकरणे पददोषाभिधा- नानौचित्यात्। न चागत्या तथेति वाच्यम् गतेः कल्पयिष्यमाणत्वात्। तथाहि। वृथोच्छूनैरेभिर्भुजैः किमिति किमर्थस्य वृथात्वस्य विधेयत्वं विवक्षितम्। न च तथा प्रतातिः वृथात्वस्य वृथापदेनानू- दितत्वात् अनूद्यत्वप्रतीतेर्विधेयत्वप्रतीतिप्रतिबन्धकत्वात् उच्छूनैर्भुजैः किमित्यभिधानेनैवानूद्यत्वविधे- यत्वप्रतिपत्तेः । न चैवं पौनरुक्त्यमेव उपधेयसंकरस्यादूषकत्वात् । अथ किमित्यनेन भुजानामेव वृथापदेनोच्छनत्वस्येति विषयभेदात्किमर्थस्य विधेयत्वप्रतीतिरेवेति चेन्न। विशिष्टविधेर्विशेषणविशेष्यो- भयपर्यवसन्नत्वेनोच्छूनत्वेऽपि वृथात्वस्य विवक्षितत्वात्। अथवा विलुण्ठनेन हेतुना भुजोच्छूनत्वमेव स्यान्न तु तद्दथात्वमति वृथाकिंपदयोरेव भुजवैयर्थ्ये तात्पर्यमिति न विषयभेदप्रसङ्ग। वृथोच्छूनैः किमिति पद्द्वयावलम्बनाद्वाक्यदोषता तदाह। न वृथात्वविशेषितमिति। वृथात्वविशेषणाभावे निष्प्रत्यूहं विधेयत्वप्रतीतिरित्युक्तमेवेति ग्रन्थरहस्यम्। यदप्युच्छूनत्वमात्रमित्यादिना प्रसङ्गेनानुवादा- युक्तत्वमुपन्यस्तमिति मिश्रमतम् तदसत् चकारादेकदोषसमन्वयसाहित्यावगमात् प्रकृतदोषसमन्वये सति प्रसङ्गाभिधानानौचित्याच्च" इति व्याचख्यु:॥ - न केवलं विधेयस्योपसर्जनत्वव्युत्क्रमाभ्यामेवायं दोषः कि तु विधेयानुपस्थित्यापीत्याशयेनोदा- हरणान्तरं दर्शयति यथा वेति। अपाङ्गेति। नायकागमनोत्सवं निवेदयन्त्याः सख्या उक्तिरियम्।

Aक '१ अनुवादायुक्त इति। अररामाहस्तेति २८३ उदाहरणे वक्ष्यमाणोऽनुवादायुक्तत्वरूपः (अयुक्तानुवादत्व- रूप:) अर्थदोष एवायमित्यर्थः ॥२ अप्रयुक्तानुवादत्वरूप इति। अयुक्तानुवादत्वरूप इत्येवार्थः ॥ 3 विधेयस्यो पसर्जनत्वेति। वृथोच्छूनैरित्यंशे इदम् ॥ व्युत्क्मेति। मिन्न्नकमेत्यर्थः। न्यक्कारो हयमित्यंशे इदम्॥0

Page 366

सप्तम उल्लासः । ३०७

अत्र योऽसाविति पददयमनुवाद्यमात्रप्रतीतिकृत्। சா் செச்த்ரந்த तथाहि। प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छव्दो यच्छब्दोपादानं नापेक्षते।त क्रमेणोदाहरणम्। कातर्य केवला नीतिः शौर्य श्वापद चेष्टितम्। अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥१८५॥

तवेत्यस्य षश्चन्तत्रयेऽप्यन्वयः । हे सुभगे हे सुन्दरि यः तव दृशोः नेत्रयोः अपाङ्गसंसर्गि नेत्रान्तसं- बद्धं तरङ्गितं वक्रप्रेक्षणपरंपरां तनोति विस्तारयति। तथा तव भवोः अरालान्ते कुटिलप्रान्तभागे विलासि विलासयुक्तं वेलिितं वक्रताधिक्यं नर्तनं वा तनोति। तथा तव तनोः विसारि प्रकाशयोग्यं रोमाञ्चनमेव कञ्चुकम् सर्वाङ्गव्यापनादिति भावः तनोति। असौ सः नायकः आगत इत्यर्थः । "अपाङ्गस्त्वङ्हीने स्यान्नेत्रान्ते तिलकेऽपि च" इति विश्वः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र 'यस्तनोति असावागतः' इति यच्छब्दार्थानुवादेन तच्छब्दार्थपरामर्शकतया असावित्यस्य विधे- यपरामर्शकत्वमभिप्रेतम् तच्च न संभवति यच्छब्दसांनिध्येन प्रयुज्यमानस्यादसादेर्यच्छब्दार्थगतप्रसिद्धि बोधकतया अनुवाद्यकोटिप्रविष्टार्थकत्वात्। एवं च यच्छब्दः स्वार्थपरामर्शकतच्छब्द्राद्यभावात्साकाङ़ एवावतिष्ठते। तदाहुः "यत्तदोर्नित्यमभिसंबन्धः" इति। तथा च विधेयवाक्यस्यासंपूर्णतया उद्देश्यवि- धेयभावानवगम इत्यविमृष्टविधेयांशत्वदोषः। तदेवाह अन्रेत्यादि। अनुवाद्यमात्रेति उद्देश्यमात्रेत्यर्थः । मात्रशब्देन विधेयव्यवच्छेद:॥ व्याख्यातमिदं विवरणकारैः "अत्र 'यत्तदर्थयोर्नित्योऽभिसंबन्धः' इति नियमेन पूर्वनिर्दिष्टोद्देश्यवा- क्यगतो यच्छब्दो नियतमेव विधेयवाक्यगतं तच्छब्दं तच्छब्दसमानार्थकं वा अदःशब्दादिकमपेक्षते। अत्र च विधेयवाक्ये तच्छब्दो नोपात्तः । यश्र 'असौ' इति उक्तः । सोऽपि यच्छब्दसांनिध्यात् यदर्थ- विशेषणतया प्रसिद्धार्थमभिद्धत् उद्देश्यवाक्ये एवान्तर्भवति न तु विधेयवाक्ये। इति विधेयवाक्यस्या- संपूर्णतया उद्देश्यविधेयभावानवगमः" इति॥ इममेवार्थ यत्तदर्थयो: साकाङ्गत्वप्रतिपादनपूर्वकं प्रदर्शयि तथाहीत्यादिना 'तथाभूतमेव तच्छ- ब्देन परामृश्यते' इत्यन्तेन (३१५ पृष्ठस्य २।३ पक्किस्थेन दूरस्थेन ग्रन्थेन)। ननु केवलयोरपि यत्तदोः प्रयोगदर्शनात्सापेक्षत्वमेवानयोरसिद्धम् तथा च यत्तदोरेकतरोपादानेऽपि निराकाड्का प्रतीतिः स्यादेवेति प्रकृतोदाहरणे (अपाङ्गसंसर्गीत्यत्र) नायं दोष इत्याशङ्कयाह तथाहीत्यादि। तथाहि तदेवोच्यते। अयं भावः । यत्तदोः परस्परार्थापेक्षात्मकत्वं नियतमेव। एतदेवोच्यते "यत्तदोर्नित्यमभिसंबन्धः" इति। स चाभिसंबन्धः शाब्द: आर्थो वा। तत्र द्वयोरुपादाने शाब्द: यथा 'स दुर्मतिः श्रेयसि यस्य नादर:' इति। एकस्य द्वयोरपि वानुपादाने त्वार्थः अनुपात्तस्यापि सामर्थ्यादेवाक्षेपात्। तत्र प्रक्रान्तप्रसि द्धानुभूतार्थकेन तच्छब्देन यच्छब्दाक्षेपो न तु तदुपादानमेवेति। तदेवाह प्रक्रान्तेति। प्रक्रान्तः पूर्वप्रतीतिविषयः प्रसिद्धो लोकप्रसिद्धः अनुभूतः अनुभवविषयो वा अर्थो विषयो यस्य ईदशस्तच्छब्द्रो यच्छब्दोपादानं नापेक्षते इत्यर्थः आक्षेपादेव सिद्धेरिति भावः ॥क्क · "तत्र प्रकान्तार्थकं तच्छब्दमुदाहरति कातर्यमिति" इति बहवः। चक्रवर्तिभट्टाचार्यास्तु "तत्र तच्छब्दस्य प्रक्रान्तपरामर्शित्वमपि द्विविधम क्वचिद्विधयतया विवक्षितस्य क्वचित्केवलस्य। तत्राये यच्छब्दोपादानमावश्यकम् तेन विना तच्छब्दस्य विधेयत्वाबोधकत्वात् व्युत्पत्तिमर्यादायास्तथात्वात्। १ अनुवाद्येत्यत्र 'अनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रे' त्यपि पाठः ॥

Page 367

३०८ काव्यप्रकाशः सटीकः ।

दयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ १८६॥ उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती। क्रूरण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि॥१८७॥ यथा 'यदुवाच न तन्मिथ्या' इति (रघुकाव्ये सप्तदशे सर्गे ४२ पय्म्)। द्वितीय तूदाहरति कातर्य- मिति" इत्याहुः। रघुकाव्ये सप्तदशे सर्गे राज्ञोऽतिथेवर्णनमिदम्। केवला शौर्यरहिता नातिः सामदा- मादिरूपा कातर्य कातरता भरित्वरूपेत्यर्थः। केवलेति लिङ्गविपरिणामन (लिङ्गविपर्यासेन) शौर्य- मित्यननापि संबध्यते केवलं नीतिरहितं शौर्य श्वापदानां व्याघ्रादिपशूनां चेष्टितं चेष्टितप्रायम्। 'चाप- लचेष्टितम्' इति पाठे चापलं चपलता तत्प्रयुक्तं चेष्टितमित्यर्थः। यद्वा चपल एव चापलः (स्वार्थे प्रज्ञादित्वादण्प्रत्ययः) तदीयचेष्टितमित्यर्थः। अतो हेतोः स प्रक्रान्तः अतिथिर्नाम राजा समेताभ्यां संयुक्ताभ्याम् उभाभ्यां नीतिशौयभ्यां सिद्धिं कार्यसिद्धिं जयप्राप्तिरूपाम् अन्वियेष अन्विष्टवान् गवेषि- तवानित्यर्थः। तदुक्तम्ं "तीक्ष्णादुद्विजते लोको मृदुः सर्वत्र बाध्यते। एतद्बुड्ा महाराज मा तीक्ष्णो मा मृदुर्भव ॥" इति। अत्रोभाभ्यामित्यनेनैव सामर्थ्यात्परस्परसाहित्यलाभे समेताभ्या मेति चिन्त्यप्रयो- जनम्। "व्याघ्रादयो वनचरा: पशवः श्वापदा मताः" इति हलायुधकोशः॥ अत्र 'सः' इति प्रकान्तमातथिसंज्ञं राजानमाह । तथा चात्र 'सः' इति तच्छब्दः प्रक्रान्तार्थकत्वात् यच्छब्दोपादानं नापेक्षते 'स राज्यं गुरुणा दत्तम्' इति रघुकाव्ये चतुर्थसर्गें इव आक्षेपादेव सिद्धेः। आक्षेपे बीजं तु व्युत्पत्तिवैचित्रयं पदस्वभावो वेत्युइ्योते स्पष्टम्। एवं चात्र प्रक्रान्तार्थकेन तच्छब्देन यच्छब्दाक्षेपादन्वयबोध इति बोध्यम्। प्रसिद्धार्थकं तच्छब्दमुदाहरति दयमिति। व्याख्यातमेतत्पयं प्राक् (२९६ पृष्ठे)। अत्र 'सा' इति प्रसिद्धमर्थमाह। तथा चात्र 'सा' इति तच्छब्दः प्रसिद्धार्थकत्वान् यच्छब्दोपादानमपेक्षते 'सोऽपि गिरिसुतासिंहः" इति (२९५ पृष्ठे) प्रागुक्तोदाहरणवदाक्षेपादेव सिद्धेः। एवं चात्र प्रसिद्धार्थकेन तच्छ व्देन यच्छब्दाक्षेपादन्वयबोध इति बोध्यम्।। अनुभूतार्थकं तच्छ्दमुदाहरति उत्कम्पिनीति। हर्षदेवकृतायां रत्नावल्यां नाटिकायां वासवदत्तां दग्धां संभाव्य तामनुध्याय शोचतो वत्सराजस्योक्तिरियमिति जयन्तमहेश्वरकमलाकरवैद्यनाथनागेश- भट्टादयः । परंत्विदं पद्यं रत्नावल्यां चतुर्थेडङ्के संप्रतितनपुस्तकेषु नोपलभ्यते इति बोध्यम्। हे प्रिये उत्कम्पिनी उद्गतकम्पवती कम्पयुक्ता । तथा भयेन परिस्खलितः गलितः अंशुकान्तः उत्तरीयव स्त्रप्रान्तो यस्यास्तादशी। तथा ते अनुभूते मदनुभूतशोभाविशेषे वा विधुरे कातरे लोचने चक्षुषी प्रतिदिशं दिशि दिशि क्षिपन्ती (कश्िविन्मां त्रास्यतीति बुद्धया ) संचारयन्ती त्वं क्रूरेणातिप्रवृद्धेन दारु- णतया निष्करुणतया दहनेन दाहजनकधर्मवता अग्निना सहसा अविचार्यैव (तत्कालमेव) दग्हैव। यतो धूमो धूम्रस्तेनान्धितेन आवृतेन तेन दहनेन न वीक्षितासि न दृष्टासि अतो दग्धासि। यदि पश्ये- त्तर्हि न दहेदित्यर्थः। क्रूरस्य विलम्बाक्षमत्वमन्धितस्यावक्षिणं चोचितम्। अन्यथा त्वत्सौन्दर्यदर्शने कथं दहेदिति भावः । 'धूमाश्चितन' इति पाठे धूमेनाश्चितो युक्तस्तेनेत्यर्थः । 'घूमान्वितेन' इति पाठस्तु स्पष्टार्थः । अत्र 'अि' इति मध्यमपुरुषेण त्वमित्याक्षिप्यते। "अंशुकं शुक्कवस्त्रे स्याद्स्त्रमात्रोत्तरीययोः" इति रभसः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

Page 368

सप्तम उल्लास:। ३०९

यच्छव्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छव्दस्योपादानं नापेक्षते। यथा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके। उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥१८८॥ प्रागुपात्तस्तु यच्छन्दस्तच्छव्दोपादानं विना साकाङकः। यथा अत्रैव श्लोके आद्यपादयाव्यत्यासे। द्योरुपादाने तु निराकाङत्वं प्रसिद्धम्। अनुपादानेऽपि सामर्थ्यात्कुत्रचिद्द्यमपि गम्यते। यथा

अत्र 'ते' इत्यनुभूतमर्थमाह। तथा चात्र 'ते' इति तच्छब्दोऽनुभूतार्थकत्वान्न यच्छब्दोपादानम- पेक्षते 'तेन तेन वचसैव मघोनः' इति नैषधकाव्यवदिति बोध्यम्। "एवं च त्रिष्वप्येषु ( उदाहरणेषु) यच्छब्दोपादानं नावश्यापेक्षणीयम् तदभावेऽप्याक्षेपादेव 'यः पूर्वोक्तगुणवान्' 'या प्रसिद्धा' 'ये अनुभूते' इति च प्रत्ययाविघातात्" इति प्रदीपे स्पष्टम् ।। इत्थं तच्छब्दस्य यच्छब्दोपादानानपेक्षत्वं प्रदर्श्य यच्छ्दस्यापि क्रचित् तच्छ्दोपादानानपेक्षत्वं दर्शयति यच्छब्दस्त्वित्यादि। यच्छब्दस्तूत्तरवाक्यगत एव सर्वत्र तच्छब्दाक्षेपसमर्थ इति भावः। अत्र 'उत्तरवाक्यगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यगतस्य ' इति वृत्तिपाठो बहुषु पुस्तकेषु दृश्यते। उत्तरवाक्या- र्थगतत्वेन' इति पाठे तु तदन्वयप्रतियोग्युपस्थापकत्वेनेत्यर्थः ॥ यथेत्युदाहरति साध्विति। अभिरामतया सौन्दर्येणाधिके चन्द्रमसि (उदिते) सति पुष्करैः पद्मैः यत् मीलितं मुकुलितम् तत् साधु समीचीनं कृतम्। पुनरिति त्वर्थे। तेन चन्द्रमसा तु कामिनीमुखे जयिनि उत्कर्षशालिनि (सर्वजेतरि ) सति उद्यता उदयं प्रामुवता साहसम् अविचार्यकारित्वम् अनुष्ठितं कृतमित्यर्थः । "साहसं तु दमे दुष्करकर्मणि। अविमृश््यकृतौ धाष्टर्ये" इति हैमः। रथोद्धता छन्दः लक्षणमुक्तं प्राक् ११९ पृष्ठे॥ अत्र 'यन्मीलितम्' इत्युत्तरवाक्यगतो यच्छब्दः पूर्ववाक्ये ' तत्साधु कृतम्' इति तच्छ्दोपादानं नापेक्षते आक्षेपादेव सिद्धेरिति बोध्यम। एवं च तदनुपादानेऽपि न दोषः इति भावः। उक्तं च चन्द्रिकायाम् "अत्रोत्तरवाक्यगतेन यच्छब्देन पूर्ववाक्ये 'तत्साधु कृतम्' इति तच्छब्दाक्षेपः" इति॥ पूर्ववाक्यगतस्तु यच्छब्दः तच्छब्दाक्षेपासमर्थतया तदुपादानमेवापेक्षते इत्याह प्रागिति। अत्रैव श्लोके 'साधु चन्द्रमसि' इति पद्ये। आद्यपादयो: पूर्वार्धपादयोः । व्यत्यासे इति। 'मीलितं यदभिरामता- धिके साधु चन्द्रमसि पुष्करैः कृतम्' इत्येवं विपर्यासे इत्यर्थः। एवं 'तनोति योऽसौ सुभगे' इति १८४ उदाहरणे प्रागुपात्तो यच्छब्दः साकाङ़ एव अतो दोषः एवोते गूढाभिप्रायः। ननु पूर्ववाक्यगतोऽपि यच्छ- ब्दस्तच्छब्दाक्षेपसमर्थः यथा 'तच्चक्षुर्यदि हारितं कुवलयैः' इति। अत्र तच्चक्षुर्यदि अस्ति तर्हि कुवलयै- रहारितम् इति प्रतीतेस्तर्हिशब्दोपादानं विनापि प्रतीतेर्निर्बाधत्वादिति चेत् सत्यं समर्थो न तु सर्वत्र। कि तु यदीत्येतावद्रूपस्तत्पर्यायः। उत्तरवाक्यगतस्तु सकलरूपस्तथेति विशेषः। यद्वा यदीत्यव्ययमिदं न तु यच्छब्दः। तञ्च भिन्नस्वभावमेव। एवं चेच्छब्दोऽपि। यथा तत्रैव पय्े 'तच्चे-

१ 'तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा त्चक्षुर्यदि हारितं कुवलयैः ताश्वेद्विरे धिङ्मधु। सा चेत्कान्तिरतन्त्रमेव कनकं किवा बहु बूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ॥' इति राजशेखरकते बालरामायणे द्वितीयेऽक्के जानकीमुद्विश्य रावणोक्तिरियम् ॥ २ चेदिति शब्दोऽपीत्यर्थः ॥

Page 369

काव्यप्रकाश: सटीक:

1कF ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी॥१८९। अत्र य उत्पत्स्यते तं प्रतीति।

त्स्मितं का सुधा' इतीति प्रदीपोद््योतप्रभासु स्पष्टम्। द्योः यत्तच्छब्दयोः । प्रसिद्धमिति। प्रसिद्धमे- वेत्यर्थः। यथा 'यदुवाच तन्मिथ्या' इत्यादाविति बोध्यम्। क्वचिद्द्वयोरनुपादानेऽपि सामर्थ्यात्तत्प्रती- तिरित्याह अनुपादानेऽपीति। गम्यते अवगम्यते। व्याख्यातमिदं प्रदीपप्रभयोः । "द्व्योरप्यनुपादा- नेऽप्यार्थों यत्तदो: संबन्धः" इति प्रदीपः । (दयोरपीति तु प्रसङ्गादुदाहृतम् न तु प्रकृतोपयोगित- येति ज्ञेयम्) इति प्रभा॥ उभयोरुपादानेऽनुपादाने चैकमेव पद्यं यथेत्युदाहरति ये नामेति। मालतीमाधवप्रकरणे प्रथमेडङ्के भवभूतेः (कवेः) उक्तिरियम । 'नः' इति "अस्मदो द्वयोश्र" (१।२।५९) इति पाणिनिसूत्रेणै- कत्वे बहुवचनम् तेन ममेत्येकवचनेन न विरोधः । नामेति क्रोधे कुत्सने वा "नाम प्राकाश्यसंभाव्य- क्रोधोपगमकुत्सने" इत्यमरोक्तेः । ये नाम केचित् जनाः अस्माकम् इह मालतीमाधवाखव्यप्रबन्धे अवज्ञाम् अवहेलनां प्रथयन्ति कुर्वन्ति ते किमपि जानन्ति अपि तु किमपि न जानन्तीति काक्का अर्थः। अतः तान् प्रति एष मालतीमाधवाख्यप्रकरणारम्भरूपः यत्न: प्रयत्नः न 'भवति' इति शेषः । "नहि बधिरे गीयते" इति न्यायादिति भावः । अत्र ग्रन्थस्य परार्थत्वात् "विशेषविधिनिषेधौ शेषविधिनिषे- धाभ्यनुज्ञाफलकौ" इति न्यायेन विशेषनिषेधस्य च शेषाभ्यनुज्ञाफलकत्वात् 'कं प्रति' इति जिज्ञासाया- माह उत्पत्स्यते इत्यादि। उत्पत्स्यते इत्यत्र हेतुः कालस्य निरवधित्वम् अस्तीत्यत्र तु पृथ्व्याः विपुल- त्वम् । तथा च कालोऽयं निरवधिः अनन्त इति हेतोः कोऽ्येकः मम समानधर्मा तुल्यगुणः यः उत्पत्स्यते जन्माप्स्यति पृथ्वी विपुला विस्तृतेति हेतोश्रास्ति विद्यते वा तं प्रति यत्न इति यत्तच्छब्द- योर्वाशब्दस्य चाध्याहारेण योजना। एवं च 'इयता कालेनानुत्पन्नस्य कथमुत्पत्स्यमानत्वं विद्यमानत्वे वा कथमद्दश्यत्वम्' इत्याशङ्काद्वयं क्रमेण हेतुद्वयेन परिहृतमिति बोध्यम्। वसन्ततिलका छन्दः । लक्षण- मुक्तं प्राक् ६८ पृष्ठे॥ अत्र पूर्वार्धे 'ये ते' इति यत्तच्छ्दयो्वयोरुपादानाननिराकाङ्त्वं प्रसिद्धम्। उत्तरार्धे तु 'यः तम्' इति द्वयोरनुपादानेऽपि सामर्थ्यात् दयमप्यध्याहारेणावगम्यते इति बोध्यम्। तदेवाह अत्र य इति। व्याख्यातमिदं प्रदीपोद्द्योतयोः। "अत्र ग्रन्थस्य परार्थत्वात् विशेषनिषधस्य शेषाभ्यनुज्ञाफलकत्वात् 'तर्हि कं प्रति' इति जिज्ञासायां पठ्यमाने उत्तरार्धे 'यः उत्पत्स्यतेऽस्ति वा मम समानधर्मा तं प्रति यत्नः' इति स्फुटमेव यत्तच्छब्दाक्षेपादवगम्यते। यथाश्रुते हि न पूर्वार्धेन कथमप्यन्वयः। यत्तु 'प्रक्रान्तादयर्थकस्य तच्छब्दस्य यच्छब्दापेक्षैव न' इति व्याख्यानं तव्यक्तिविवेकाद्यनालोचननिबन्धनं वृत्तिकारानभिमतं च यदयं वृत्तिकारः 'यच्छब्दोपादानं नापेक्षते' इत्याह (२०७ पृष्ठे ) न तु 'यच्छब्दं नापेक्षते' इत्यादि। तस्माद्यथाव्याख्यातमेवादरणीयम्" इति। (तस्मादिति । एवं च 'शाब्दी ह्याकाङ्का शब्देनैव पूर्यते' इति न्यायादपेक्षा अस्त्येव परंतु क्वचिन्न्यूनपदत्वरूपो दोषो नास्ति यत्र प्रक्रान्तार्थकादिषु शीघ्रमध्या- हारेण प्रतीतिरित्येतावन्मात्रमेव सम्यगिति भावः) इति प्रभायां स्पष्टम्।

१ व्यक्तिविवेको नाम महिमभट्टकतो ग्रन्थविशेषः ॥ २ 'पूर्यंते' इत्यत्र 'शाम्यति' इत्यपि पाठो लौकि कन्यायमालार्यां दर्शितः ॥

Page 370

सत्तम उल्लास:। ३११

एवं च तच्छव्दानुपादानेऽत्र साकाङ्कत्वम्। न चासाविति तच्छब्दार्थमाह। असौ मरुच्चुम्तितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृाष्टिवीक्षतो वसन्तकालो हनुमानिवागतः ॥ १९०॥ अत्र हि न तच्छब्दार्थप्रतीतिः। इत्थं पूर्ववाक्योपात्तस्य यच्छब्दस्य तच्छब्दसाकाङ्गत्वव्यवस्थापनेन 'तनोति योऽसौ सुभगे' इत्यत्र तच्छब्दाभावादविमृष्टविधेयांशत्वं सिद्धमित्याह एवं चेति। अत्रेति। 'तनोति योऽसौ सुभगे' (३०७ पृष्ठे) इत्यत्रेत्यर्थः । साकाङ्कत्वमिति। तच्छब्दस्यानुपादानात् यच्छब्दस्य पूर्ववाक्यस्थ- त्वेनाक्षेपासंभवाच्च यच्छब्दस्य साकाङ्कत्वमेवेत्यर्थः । यच्छव्दस्योत्तरवाक्यगतत्वं विना द्योरुपादानमनु- पादानं च विना तच्छब्दं विना यच्छब्दस्य साकाङ्कत्वमेवेति भावः। एवं च विधेयाविमर्श इति बोध्यम्। ननु 'योऽसौ सुभगे' इत्यत्रासावित्यदःशब्द एव तच्छब्दार्थकोऽस्तु तथा च तच्छब्दपर्यायस्यादसः प्रयोगानिराकाङ्कत्वमेवेति न विधेयाविमर्शदोष इत्याशङ्क्य निराकरोति न चासावितीत्यादि। चो हयर्थे। असाविति शब्दः तच्छब्दस्यार्थ न हि आहेत्यर्थः॥

तत्र हेतुमाह असौ मरुदिति। यद्यपीदं पद्यं हनुमन्नाटके षष्ठेडङ्वे दृश्यते तथाप्यन्यदीयमेवेति संभाव्यते। अधिकमत्र यद्क्तव्यं तत्प्राक् (२०२ पृष्ठे २२ पङ्क्तौ ) उक्तम्। हे प्रिये असौ दृश्यमानचिह्नः वसन्तकालो (लंकातो) हनुमानिव आगत इत्यन्वयः । उभयसाधारणानि विशेषणा- न्याह। मरुत् पवनः (दक्षिणानिलः) ते चुम्बिताः संयुक्ताः (ईषत्स्पृष्टाः) चारवः सुन्दराः केसरा बकुलाः नागकेसरा वा यस्मिन् तथाभूतः । हनुमत्पक्षे मरुता पवनाधिष्ठातृदेवतारूपेण स्वपित्रा चुम्बिताः चम्बनविषयीकृताः आघ्राता वा चारवः केसराः सटाः स्कन्धलोमानि यस्य तादृश इत्यर्थः । "केसरो नागकेसरे। तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्गुमे। पुंनागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गनि" इति हेमचन्द्रः । तथा प्रसन्नः स्वच्छो यस्ताराधिपो नक्षत्रेशः चन्द्रः तस्य मण्डलं बिम्बं तदेव अग्रणी: मुख्यं यस्मिन् तथाभूतः । पक्षे प्रसन्नस्तुष्टः ताराधिपः सुग्रीवस्तस्य मण्डले राष्ट्रे अग्रणीः अग्रे- सर इत्यर्थः । तथा वियुक्ताः वियोगिन्यो याः रामाः कामिन्यस्तासाम् यद्वा वियुक्ताभिः रामाभिः रमणाभि: आतुरया खिन्नया कातरया वा दृष्ट्या दृशा वीक्षितः अवलोकितः । पक्षे वियुक्तः सीतावि- रहितो यो रामो दाशरथस्तेन आतुरयोत्सुकया दृष्टया वीक्षित इत्यर्थः । आतुरद्ृष्टिवीक्षितत्वं विरहोद्दी- पकत्वेन सहायोत्कण्ठया चोते बोध्यम्। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥

अत्रादःशब्देन प्रत्यक्षत्वोक्तेर्न तच्छब्दार्थस्य परोक्षस्य प्रतीतिरित्याह अत्र हीति। अत्र 'असौ मरुत्' इति श्लोके। नेति। अदःशब्दनेति शेषः । तथा चोक्तं सारबोधिन्याम् "पुरावर्तित्वमात्र- मदःशब्दार्थः" इति। उक्तं च चन्द्रिकायाम् "अत्रासावित्यस्मात्तच्छब्दार्थाप्रतीतेर्नादसस्तदर्थकत्वम्" इति। व्याख्यातं चैवमेव प्रदपिोह्द्योतयारेपि "एवं च 'योऽसौ सुभगे' इत्यत्र ३०७ पृष्ठे तच्छ- बदस्यानुपादानात् यच्छब्दस्य पूर्ववाक्यस्थत्वेनाक्षेपासंभवाच्च यच्छब्दः साकाङ्क। ननु स्यादेवैतयदि तच्छब्दार्थकोऽयमदःशब्दो न स्यादिति चेत् तत्किमदसस्तच्छब्दपर्यायता। तथा सति असौ मरु- च्चम्बितचारुकेसरः' इत्यत्रादःशब्दस्तच्छब्दार्थमेवाभिदध्यान्न त्विदमर्थम्। तथा सति विधेयत्वावगमेS- नुवादकयच्छब्दापेक्षा स्यादिति भावः" इति॥

Page 371

३१२ काव्यभकाशः सटीक:।

प्रतीतौ वा करवालकरालदो:सहायो युधि योऽसौ विजयार्जुनैकमलः। यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥१९१॥ अत्र स इत्यस्यानर्थक्यं स्यात् अथ योऽविकल्पमिदमर्थण्मडल पश्यतीश निखिलं भवदपु:। आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥ १९२ ॥

अदःशब्दस्य तच्छन्दुपर्यायत्वे बाधकमाह प्रतीतौ वेति। अदःशब्दस्य परोक्षरूपतच्छब्दार्थक- त्वेन प्रतीतावित्यर्थः । अस्य 'अत्र स इत्यस्यानर्थक्यं स्यात्' इत्यग्रिमेणान्वयः । करवालेति। यः असौ प्रसिद्धः कर्णः स भूपतिना दुर्योधनेन यदि तत्र तस्मिन् कार्ये (सेनाधिपत्ये) विनियुज्येत ततः तदा यद्ा ततः तस्मात् कृतं पाण्डवराज्यत्यागादिकं कृतं सफलं स्यात् यद्वा युक्त स्यादित्यर्थः संभूतमेव स्यादिति वा। कीदशः। करवालेन खड्गेन करालो भयजनको दो: बाहुरेव सहायो यस्य तथाभूतः । "करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत्" इति मेदिनी। तथा युधि संग्रामे विजयनामा योर्ऽर्जनः पार्थः स इवैक एव मल्ः बाहुयुद्धकुशलः प्रतीकारसमर्थ इत्यर्थः । यद्वा विजयः फाल्गुनोरऽर्जन: कार्तवीर्यश्र तद्देकमल्ल इत्यर्थः । अथ वा विजये (परपराजये) इति सप्तम्यन्तम्। विजयार्जनेति पाठे तु विजयस्य विशिष्टजयस्यार्जने संपादने एकमल्लः प्राधान्येन समर्थ इत्यर्थः । "विजयः स्याज्जये पार्थे स्त्रियां तिथ्यन्तरे स्मृता" इति मेदिनी। मालभारिणी छन्दः "विषमे ससजा गुरू अनोजे सभरायश्र् तु मालभारिणीयम् " इति लक्षणात्॥

अत्रासावित्युक्त्वा पुनः 'सः' इति तच्छब्दनिर्देशाददःशब्दस्य तच्छब्दार्थकत्वं नास्ताति गम्यते अन्यथा 'सः' इति व्यर्थ स्यादित्याह अत्र स इत्यस्येत्यादि। अत्रादःशब्देन तच्छब्दार्थप्रतीतौ द्विती- यस्य तच्छब्दस्यानर्थक्यं स्यादिति भावः। व्याख्यातमिदं प्रदीपे "अत्र स इति पुनरुक्तं स्यात् अद :- शब्देन तदर्थाभिधानात्" इति॥

ननु 'करवालकरालदो:सहायो युधि योऽसौ' इत्यत्र 'सः' इत्यस्यानर्थक्यापत्तिमिया अदःशब्दस्य तच्छब्दसमानार्थकत्वाभावेऽपि 'तनोति योऽसौ सुभगे' इत्यत्र तच्छ्दसमानार्थकत्वं स्यात् नानार्थक- त्वात् इदमादिवत् इदमेतददसां तुल्यार्थकत्वादिति शङ्कते अथेत्यादिना 'अभिधत्त इति' इत्यन्तेन। एवमेवाहुः सारबोधिनीकारा: "ननु न वयमदःशब्दस्यार्थान्तरं निरस्यामः किं त्विदंशब्दवत् तच्छब्दार्थताप्यस्तीत्याह अथेति" इति। अथशब्दोऽत्र प्रश्नार्थकः। "मङ्गलानन्तरारम्भप्रश्नकात्स्न्ये- ष्वथो अथ" इत्यमरात्। अथेत्यस्य 'इतीदंशब्दवददःशब्दस्तच्छन्द्वार्थमभिधत्ते' इत्यत्रान्वयः। इदंशब्दस्य तच्छब्दार्थ प्रयोगमाह योऽविकल्पमिति। उत्पलाचार्यप्रणीतपरमेश्वरस्तोत्रावलौ त्रयोदशस्तोत्रे ईश्वरं प्रति भक्तस्याद्वैतदर्शिन उक्तिरियम । हे ईश यः पुरुषः इदं प्रसिद्दं निखिलं सर्वम् अर्थमण्डलं प्रमेयजातं (जगद्रूपं पदार्थसमूहम्) अविकल्पं निःसंदेहं यथा स्यात्तथा भवद्वपुः त्वत्स्वरूपं (त्वदभिन्नम् ) पश्यति (अत्र बाधेन सामानाधिकरण्यम् परमार्थतोऽसत्त्वेन तद्बा-

१ 'असौ' इत्यदःशब्दात्तच्छब्दार्थप्रतीतिर्भवतीति विवद्मानं प्रति बाधकमाहेत्यर्थः॥ २ समे पादे॥ा

Page 372

सप्तम उल्लास:।क ३१२

इतीदंशब्दवदद:शब्दस्तच्छव्दार्थमभिधत्ते इति उच्यते। तर्ह्यत्रेव वाक्यान्तरे उपादानमर्हति नः तत्रैव। यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति। यथा यत्तदूर्जितमत्युयं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥१९३॥ इत्यत्र तच्छब्द: । धेन भवन्तमेव पश्यतीत्यर्थः यथाश्रुते जडस्य प्रपश्चस्य परब्रह्मस्वरूपत्वाभावादसंगत्यापत्तिः ।) नित्यसु- खिनः प्रकाशमाननित्यानन्दस्य अस्य तस्य (आत्मैक्यदर्शिनः पुरुषस्य) आत्मपक्षेण आत्मस्वरूपेण पक्षेण परिपूरिते व्याप्ते आच्छादिते बाधिते इति यावत् तादृशे जगति प्रपश्चे कुतः कस्मात् भयं न कुतोऽपीत्यर्थः। "द्वितीयाद्वै भयं भवति" इति श्रुतेः। स्वात्मपक्षेति पाठे स्वशब्दः स्वीयवचनः आत्मः शब्द: स्वरूपे तेन स्वात्मपक्षः स्वीयपक्षः आत्मरूपपक्षो वेत्यर्थः । तत्रादौ स्वीयत्वेन ज्ञानम् तत आत्मैव जगदिति ज्ञानम् परिपूरितत्वं चैतदेव यज्जगतस्तादृशज्ञानविषयत्वम् अत एव नित्यसुखिनः तत्स्वरूपस्य कुतो भयं न कुतोऽपीत्यर्थ इत्युइ्योतादौ स्पष्टम् । रथोद्धता छन्दः। लक्षणमुक्त प्राक् ११९ पृष्ठे॥ अत्र यथा 'अस्य' इतीदंशब्दस्तच्छब्दार्थे तथा 'तनोति योसौ सुभगे' (२०६ पृष्ठे) इत्यत्राद :- शब्दस्तच्छब्दार्थे स्यात् इदमदसो: समानशीलत्वात्। तथा च 'तनोति योऽसौ' इत्यत्र न विधेया- विमर्शदोष इति शङ्कार्थस्तमाह इतीदंशब्दवदित्यादिना ॥ समाधत्ते (दूषयति) उच्यते इत्यादिना। अत्रेव 'योऽविकल्पम्' इत्यत्रेव। 'अत्रैव' इति पाठे तु 'तनोति योऽसौ' इत्यत्रैवेत्यर्थः। अनयोर्मध्ये प्रथमपाठ एव समञ्जसः इवशब्द्घटितत्वेन दृष्टान्तपर- त्वात् दृष्टान्तपरत्वे एव मूलग्रन्थस्वारस्यम् । अत एवास्य व्याख्यानं 'योऽविकल्पम्' इत्यत्रेवेति प्रदीपे दृश्यते। स च प्रदीपोऽगे ३१४ पृष्ठे १९ पङ्कौ स्फुटीभविष्यति। उपादानमिति। इदम् 'अर्हति' इत्यस्य कर्म कर्ता तु अदःशब्द इति स चाक्षेपादेव लभ्यते । तत्रैव एकस्मिन्वाक्ये एव। तथा च अस्येतिवत् असावित्यस्य वाक्यान्तरे प्रयोगः स्यात् तत्रैवैकवाक्ये यच्छब्देन सह प्रयोगो न स्यादित्यर्थः । सहप्रयोगे किं स्यात्तत्राह यच्छब्दस्येति। हि यतः। निकटे स्थित इति। 'तच्छब्दः' इति शेषः । अव्यवहितानन्तरवर्ती समानलिङ्गविभक्तिवचनकः एकवाक्योपात्तस्तच्छब्द इत्यर्थः। प्रसिद्धिं प्रसिद्धिमात्रम् । परामृशति बोधयति। एवं चैतादशस्तच्छब्दोऽपि प्रसिद्धिमात्रबोधको न तु विधेयसमर्पकः किं पुनरिदमादिशब्द इति भावः । 'विभाति मृगशावाक्षी येदं भुवनभूषणम्' इत्यत्र प्रसिद्धिबोधकत्वाभावात्समानलिङ्गक इति। 'धनं यस्य स ते पुत्रः' इत्यादिवारणाय समानविभक्तिक इति। 'वेदवचांसि यानि तत् प्रमाणम्' इत्यादौ वचनभेदेऽपि वारणाय समानवचनक इति। 'पर- दारापहर्ता यः स स्वर्ग नाधिगच्छति' इत्यादिवारणायाव्यवहितति। अत्र तु विसर्गेण व्यवहितः यत्या विच्छिन्नो वेति बोध्यम्। अत्रैव यत्तदोर्व्यत्यासेऽतिप्रसङ्गवारणायानन्तरवर्तीति। एवमेकवाक्योपात्त इत्यस्यापि कृत्यं स्वयमूह्यम्। अत्र सर्वत्र तच्छब्दो न प्रसिद्धिं बोधयति किं तु विधेयत्वमित्युद्दयो- तविस्तारिकयो: स्पष्टम् ॥ प्रसिद्धौ तच्छब्दप्रयोगमाह यत्तदिति। वेणीसंहारे प्रथमेडड्के युधिध्ठिरं निन्दतो भीमस्य सहदेवं १ यति: स्थानविशेषे विच्छेदः इत्यग्रे (हतवृत्तव्याख्यानावसरे टिप्पणे) स्फुटीभविष्यति ॥ह? ४०

Page 373

३१४ काव्यप्रकाश: सटीकः ।

ननु कथम् कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्या लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद। - प्रत्युक्तिरियम् । यत्तु 'किराते इन्द्रं प्रत्यर्जनवाक्यमिदम्' इति कमलांकरभट्टनोक्तम् तत्तु तत्तद्ग्रन्था- नवलोकननिबन्धनमेव। अस्य भूपतेः यधिष्ठिरस्य तत् प्रसिद्धं यत् ऊर्जितम उद्भटम् अत्युगं क्षात्रं क्षत्रियसंबन्धि तेजः प्रतापरूपम् 'आसीत्' इति शेषः । तदा वृतप्रसङ्गे अक्षैः पाशकैः दीव्यता क्रीडता अनेन भूपतिना युधिष्ठिरेण नूनं तदपि तेजोऽपि हारितम अर्थाच्छत्रुभिर्ग्राहितमित्यर्थः । राज्यं तु हारितमेव तदैव नूनं तेजोऽपीत्यपिशब्दार्थः । "अक्षो रथस्यावयवे व्यवहारे बिभीतके। पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ। अक्षं सौवर्चले तुत्थे हृषीके" इति हैम: ॥

अत्र यच्छब्दानन्तरवर्ती तच्छब्दोऽपि प्रसिद्धिपरामर्शकः कि पुनरिदमादिरिति 'तनोति योऽसौ सुभगे' इत्यत्रोक्तदोषो वज्रलेपायित इति सिद्धम्। तदेवाह इत्यत्र तच्छब्द इति। 'प्रसिद्धिं परामृ- शति' इति शेषः । यद्यत्र तच्छब्दः प्रसिद्धिं न परामृशेत तदा द्वितायं तच्छब्दोपादानं निरर्थक स्यादिि भावः। एवमदःशब्दादीनामपि तथात्वे (प्रसिद्धिपरामर्शकत्वे ) प्रकृते (तनोति योऽसा- वित्यत्र) विधेयत्वानुपपत्तिः सिद्धैवेति सारबोधिन्यादौ स्पष्टम् ।।

'अथ' इत्यारभ्य 'इत्यत्र तच्छब्दः' इत्यन्तं सर्व व्याख्यातं प्रदीपेऽपि। तथाहि। "नन्वर्थान्तर- मस्य ( अदःशब्दस्यः ) न निषेधामः किंत्वनुजानीमस्तदर्थकत्वं ( तच्छब्दार्थकत्वम्) कथमन्यथा 'योऽविकल्पमिदमर्थमण्डलम्' इत्यत्रेदंशब्दस्यापि तच्छब्दार्थकता इदमदसोः समानशीलत्वादिति चेत्। सत्यमात्थ परं तु यच्छब्दाव्यवहितानन्तरवर्ती समानाधिकरणः (समानलिङ्गविभक्त्यादिकः) तच्छब्दोऽपि प्रसिद्धिमात्रे निरूढः किं पुनरिदमादिः। यथा 'यत्तदूर्जितमत्युग्रम्' इत्यादौ। तस्मात् 'योऽविकल्पम्' इत्यत्रेव व्यवधानेनादःप्रयोगो युक्तो न त्वव्यवधानेन। कथं तर्हि 'न केवलं यो मह- तोऽपभाषते शृणोति तस्मादपि यः स पापभाक' इत्यत्र तच्छब्दो न प्रसिद्ध्यर्थ इति चेत् य इत्यत्र विच्छें- देन (असहिताकृतार्धमात्राकालेन) व्यवधानात् [अथवा विसर्गेण व्यवधानात्] 'योऽसौ' इत्यत्र तु

ननूक्तविषयादन्यत्र यत्तत्पदयोः साकाङ्गत्वं वक्ष्यमाणलक्ष्ये व्यभिचारीत्याशङ्कते नन्वित्यादिना 'इत्युक्तम्' इत्यन्तेन । यद्वा ननु यत्तदोरन्यतरानुपादाने चेदविमृष्टविधेयांशत्वं तदा कल्याणानाम्' इति श्लोके यद्यदित्युक्त्वा तन्मे इत्युक्ते कथं नाविमृष्टविधेयांशत्वस्य प्रसक्तिः द्वितीययच्छब्दस्य साका- इत्वादिति शङ्कते ननु कथमित्यादि। उक्तं च प्रदीपे "ननु भवेदेवं यदि यत्तदार्नित्योSभिसंबन्धः स्यात् स एव तु नास्ति कमन्यथा 'यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे' इत्यत्रैकयत्परामृष्टस्ये- केन तदा (तच्छब्देन) परामर्शेऽपि द्वितीययच्छब्दवानिराकाङ्गाप्रतातिः द्वितीयतत्पदाभावात्। न च तत्राक्षेपोऽपि यद: (यच्छब्दस्य) पूर्ववाक्यगतत्वात्" इति। कथमित्यस्य 'इत्युक्तम्' इत्यग्रिमेणा- न्वयः । कल्याणानामिति। मालतीमाधवप्रकरणे प्रथमेऽङ्के सूत्रधारस्य सूर्यप्रार्थनोक्तिरियम्। ह विश्व- मूर्ते सर्वात्मक (सूर्य) "सूर्य आत्मा जगतस्तस्थुषश्र" इति श्रुतेः त्वं कल्याणानां कल्याणरूपाणां १ प्रसिद्धिमात्रे इति। एवं च नायं विधेयसमर्पक इति भाव: ॥

Page 374

1 सप्म उल्लासः। ३१५

यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥१९४॥ अत्र यद्यदित्युक्त्वा तन्मे इत्युक्तम्। उच्यते। यद्यदिति येन केनचिद्रपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तम् तथाभूतमेव तच्छव्देन परामृश्यते।

कल्याणहेतूनामिति यावत् 'आयुर्धृतम्' (५१ पृष्ठे) इतिवत् कारणे कार्योपचारात् तथा च कल्या- णकारिणां महसां तेजसां भाजनम् आश्रयः असि। अथ नृत्यारम्भे मय मद्विषये धुर्या नृत्यभारवह- नक्षमाम् लक्ष्मीं संपत्तिं भृशम् अतिशयेन धेहि अर्पय यद्दा निधेहि। देहीत्यपपाठः मह्यमिति चतु- थ्यापत्तेः । हे देव प्रसीद प्रसन्नो भव। हे जगन्नाथ भुवनपते नम्रस्य प्रणतस्य मे मम यद्यत् ज्ञात- मज्ञातं च पापम् आरब्धविरुद्धं तत् प्रतिजाह नाशय। भो भगवन् भूयसे बहुतराय (महत्तमाय) मङ्ग- लाय निःश्रेयसे आशंसनीयकमार्थमिति यावत् तादर्थ्ये चतुर्थी। अथ वा मङ्गलाय मङ्गलं कर्तुमित्यर्थः। क्रियार्थोपपदस्य चेति चतुर्थी। भद्रं भद्रम् अत्यन्ताभीष्टं वितर देहीत्यर्थः । 'त्वमिह महसामीशिषे त्वं विधत्से पुण्यां लक्ष्मीमथ मय हशं धेहि' इति पाठे तु इह लोके संसारे वा महसाम् उत्सवरूपा- णाम् उत्सवहेतूनामिति यावत् 'आयुर्घृतम्' इतिवत् तथा चोत्सवकारिणां कल्याणानां शुभादृष्टानाम् ईशिषे कल्याणानि नियमयर्सीत्यर्थः "अधीगर्थदयेशां कर्मणि " ( २।३।५२) इति पणिनिसूत्रेण कर्मणि शेषे षष्ठी। पुण्यां पुण्यफलां पवित्रां वा लक्ष्मी विधत्से कुरुषे अथ मयि दशं कृपादृष्टि धेहि निधेहि' इत्यर्थो बोध्यः। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे॥

अत्र यद्यदित्युक्त्वेति । अत्र यद्यदिति यत्पदद्वयमुक्त्वा 'तन्मे' इति तत्पदमेकमेव कथमुक्तं यत्तदोर्नित्यमभिसंबन्धादित्यर्थः । अयमत्र शङ्काभिप्रायः। यदि यच्छ्दस्य नियतमेव तच्छब्दसाकाङ्ता तदा कथमत्र श्लोके निराकाङ्गतानिर्वाहः। अत्र हि एकेन तत्पदेन एकस्य यत्पदस्य निराकाङ्गत्वेऽपि द्वितीयस्य यत्पदस्य साकाङ्कत्वमस्त्येव तथा चाविमृष्टविधेयत्वं दुर्वारमेव स्यादिति॥

इत्थं शङ्गां कृत्वा समाधत्ते उच्यते इति। येन केनचिद्रूपेणेति। ज्ञातत्वाज्ञातत्वादिरूपेणेत्यर्थः यद्वा उपपातकत्वमहापातकत्वादिनेत्यर्थः । सर्वात्मकं सकलम्। वस्तु पापरूपम्। तच्छव्देनेति। एकेनैवेत्यर्थः बुद्धिविषयतावच्छेदकावच्छिन्ने तदादीनां शक्तेरिति भावः । अत एव 'यो यः शस्त्रं बिभर्ति स्वभुजगुरुबलः पाण्डवीनां चमूनां यो यः पाश्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी मयि चरति रणे यश्र यश्ष प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्त- कोऽहम ॥' इत्यत्र (वेणीसंहारे तृतीयेऽङ्के कुद्धस्याश्वत्थाम्न उक्तौ) यच्छब्दाष्टके 'तस्य तस्य' इति द्विरेव तच्छब्दोक्तिः । एवं 'स श्लाध्यः स गुणी धन्यः स शूरः स च पण्डितः । स कुलीनः स विक्रान्तो यस्त्वया देवि वीक्षितः ॥' इत्यादौ नानातत्पदपरामृष्टस्यैकेनैव यत्पदेन प्रतीतिरिति बोध्यम्। अयमत्र समाधानाभिप्रायः । यत्पदद्दयेन ज्ञातत्वाज्ञातत्वाभ्यां रूपाभ्यां परामृष्टस्य सकलस्य पापस्यकेनैव तत्पदेन पापत्वेन रूपेण परामर्शोपपत्तेर्न द्वितीयतत्पदापेक्षा यत्तद्भयामेकरूपेणैव परामर्श इति नियमे मानाभा- वात्। तथा च 'यत्पदार्थस्तत्पदेन परामृश्यते' इत्येव नियमो न तु 'यावन्तो यच्छब्दास्तावन्तस्त-

१ मानमत्र प्रमाणम्॥

Page 375

३१६ काव्यप्रकाश: सटीकः ।

यथा वा किं लोभन विलङ्धितः सभरतो येनैतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा। च्छब्दाः' इति। एवं चात्र नाविमृष्टविधेयत्वशङ्कापीति। तथा च 'अपाङ्गसंसगि' इति प्रकृतो- दाहरणे 'यस्तनोत्यसौ समागतः' इत्युद्देश््यविधेयभावो विवक्षितः न च स प्रतीयते योऽसौ प्रसिद्ध इत्येव प्रतीतेरिति दोष एवेति बोध्यम्।।

व्याख्यातमिदं प्रदीपोह््योतयोः । "इति मैवम्। न खल्वेकेनैव रूपेण यत्तद्भचां परामर्शनियम इति बूम: किंत्वेकस्य ताभ्यां परामर्श इति। तथा चात्रापि पापात्मकं वस्तु येन केनचिद्विशेषद्वयेन यत्प- दाभ्यां परामृष्टम तत्पदेन तु पापत्वेनैकेनेति को विरोधः" इति प्रदीपः । (यच्छब्दार्थस्तच्छब्देन परामृश्यते इति नियमो न तु 'यावद्यत्पदं तावत्तत्पदम्' इतीत्याशयेन समाधत्ते मैवमिति। विशे- षद्टयेनेति। उपपातकत्वमहापातकत्वादिनेत्यर्थः ) इत्युद्दयोतः॥ इदं सर्व व्याख्यानं मूलकारोक्तरीत्येति बोध्यम्। प्रदीपोद्दयोतयोस्तु प्रकारान्तरेणापि समाहितम्। तथाहि। "वस्तुतस्तु यद्यदिति न पदद्वयम् किं तु 'नित्यवीप्सयोः' (८।१।४) इति पाणिनिसूत्रेण वीप्सायां यदो द्वित्वापन्नाऽयमादेशः। तथा चादेशिनैकेन यत्पदेन तत्पदेन च द्वाभ्यामप्येकेनैव रूपेण पापपरामर्शः। आदेशस्तु साकल्येन संबन्धपरताग्राहक इति यत्पदीयेनैव तेन तदुपपत्तौ न तत्प- देऽपि। यत्र तु तत्पदेऽपि वीप्सा तत्र न यत्पदेऽप्यादेशः किंतूभाभ्यां रूपद्वयेन सर्वोपस्थापनमिति सारम्" इति प्रदीपः । (संबन्धपरताग्राहक इति । साकल्येनान्वये तात्पर्यग्राहक इत्यर्थः । तदुपपत्तौ प्राथम्यात्तेनैव साकल्येन संबन्धप्रतीत्युपपत्तौ। न तत्पदेपीति। वाप्साद्यातको द्वित्वापन्न आदेश इत्यर्थः। यत्र तु तत्पदप्राथम्यं तत्र तत्पदे एवादेशो न यत्पदे । यथा 'तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलै्वञ्चितम्' इति। तत्पदेऽपीति। अपिना यत्पदे। वीप्सा तदर्थे साकल्येन संबन्धः। यत्पदेऽपीति । अपिना तत्पदे । आदेशः द्वित्वापन्नः किंतु पदद्दयं पृथगेवेति भावः । यथा 'संचा- रिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमि- पाल:॥" इत्यादौ। अत्र नरेन्द्रकन्यया क्रमेण व्यतीतानां क्रमेणैव वैवर्ण्यप्राप्तिरिति पृथक्पृथग्रूपेणैव प्रथक्पदाभ्यां बोधः । तदेवाह किंतूभाभ्यामिति। इदमपि क्रमभेदविवक्षायाम्। तन्भेदविवक्षाविरहेऽपि तथा प्रयोगे तु एकत्रादेशो व्यर्थ एव।यथा 'यददाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इत्यादौ) इत्युद्द्योत:॥ इत्थमसमासे सप्रपञ्चं वाक्यगतमविमृष्टविधेयांशत्वमुदाहृत्य समासेऽ्यनेकपदगतत्वेनास्य वाक्यदो- षत्वमिति तदुदाहरति। यथा वेति। किं लोभेनेति। रामवनवासे हेतुं चिन्तयतो लक्ष्मणस्योक्तिरि- यमिति बहवष्टीकाकाराः। सः विनयार्जवगुरुभक्त्यादिमत्त्वेन प्रसिद्धः भरतः लोभेन विलङ्घितः आक्रान्तः किम् येन भरतेन (कर्त्रा) मात्रा कैकेय्या (करणभूतया) एतत् रामवनवासादि एवं "क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहवातशीततपनकेशा न तप्तं तपः। व्यातं वित्तमहर्निशं न च पुनर्विष्णो: पदं शाश्वतं" इत्यायचरणत्रयम् ॥२ रघुकाव्ये पष्ठे सरगे ६७ पद्यमिदम् ॥ ३ इत्या- दाविति। आदिपदेन 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा व्हिया नम्रमुखी बमूत' इतिमाघकाव्यादिसंग्रहः॥ ४ यद्यदाचरतीति। श्रीमद्गगवद्गीतायां ३ अध्याये २१ शलोकोडयम् ।।

Page 376

संप्तम उल्लांस:। ३१७

मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु- माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥१९५॥ अत्रार्यस्येति तातस्येति च वाच्यम् न त्वनयोः समासे गुणीभावः कार्यः। एवं समासान्तरे- प्युदाहार्यम्:। कपटेन कृतम् उत्पादितम्। भरत इति नामग्रहणमनुचितकारित्वात्कोपेनेति बोध्यम अन्यथा मान्य- त्वाद्गुरुरिव वदेत्। अथवा यद्वा मे मम मध्यमा माता कैकेय्येव स्त्रीषु निसर्गसिद्धां लघुतां श्षुद्रतां गता प्राप्ता किमिति वितर्कः। एवकारण भरतव्यवच्छेदः। पुनर्विमृश्याह मिथ्यैतदिति। एतत् द्वितय- मपि भरतस्य लुब्धत्वं मातुः श्षुद्रत्वं च मम चिन्तितं मिथ्या। कुत इत्याशङ्कायां तत्र हेतुमाह आर्येत्यादि। असौ भरतः (विमर्शेन कोपापगमान्मान्यत्वेन नामाग्रहणम्) आर्यस्य श्रेष्ठस्य श्रीरामस्य अनुजः कनिष्ठम्राता। गुरुः 'मम' इति शेषः । मम गुरु: ज्येष्ठभ्रातेत्यर्थः । तथा च भरतेऽत्यसंभावित- मेतत्। माता च तातस्य पितुः (दशरथस्य) कलत्रं भार्या। इति अतो हेतोरित्यर्थः । तर्हि केन एत- त्कृतं तत्राह अनुचितमित्यादि। विधात्रा विधिना अनुचितं कृतम् इति अहं मन्ये इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्रानुजे आर्यसंबन्धस्य कलत्रे च तातसंबन्धस्योत्कर्षाधायकत्वेन विधित्सितस्य प्राधान्यमुचि- तम् समासकरणाच्च गुणीभाव इत्यविमृष्टविधेयांशत्वं दोषः । उक्तं च चन्द्रिकायाम् "अत्रानुचिताकरणे हेतुत्वेन विधित्सितस्यानुजे आर्यसंबन्धस्य कलत्रे च तातसंबन्धस्य गुणीभावाद्विमृष्टविधेयांशता दोष:" इति। तदेवाह अत्रेत्यादि। आर्यस्येति। संबन्धस्योत्कर्षहेतुत्वेन विधित्सितस्य प्राधान्यौ- चित्यादिति भावः । वाच्यं वक्तव्यम्। समासेऽपि संबन्धप्रतीतिरस्त्येवेत्यत आह न त्विति। अनयोः आर्यतातयोः। कार्यः कर्तुमर्हः। "अत्रार्यानुजतातकलत्रमित्यनेकपद्गतत्वाद्वाक्यदोषत्वम्। 'आर्या- नुजत्वादिविशिष्टविधिसंभवाद्विरोध्यादिसाधारणसंबन्धस्योत्कर्हेतुत्वेन तस्यैव युक्तत्वाच्च नायं दोषः।' इत्येके" इत्युद्योतकाराः। सारबोधिन्यां तु "ननु समासासमासयोरर्थभेदाभावात्कथमेवमिति चेन्न। अर्थभेदाभावेऽपि समासनिबन्धनगुणीभावस्यावश्यकत्वात् अन्यथा मिथ्यामहिमत्वेऽपि गत्यभावात्। 'समासगतत्वेन पददोषतया सिंहावलोकनन्यायेनास्य वाक्यदोषान्तर्निवेशः' इत्यभिधानमसत्। वाक्य- दोषस्यैव संभवात्। तथाहि। अनुजे आर्यसंबन्धं विधायानौचित्यकारित्वाभावो विधीयते यत्रायं संब- न्धस्तत्र नानौचित्यमिति विहितविधेयत्वं विवक्षितम् संबन्धस्य गुणीभावेन न तत्प्रतीतिः। आर्येत्यादि- मिथ्येत्याद्यनेकपदावलम्बनाद्वाक्यदोषता। तथा च 'आर्येत्यादितातेत्यादिपदद्यनिष्ठत्वेन वाक्यदोषता' इति कश्चिवित् तन्न। अनयोः परस्परमाकाङ्काविरहात् साकाङ्गनानापदवृत्तिदोषस्यैव तत्वात्" इत्युक्तम् ॥ इत्थं षष्ठीतत्पुरुषसमासे उदाहृत्य समासान्तरेऽप्येवमेवोह्यमित्याह एवमिति। समासान्तरेSपीति। वाक्यगतत्वेनेत्यर्थः । तत्र बहुव्रीहौ यथा 'यः स्थलीकृतविन्ध्याद्रिराचान्तापरवारीधः। यश्र तापि- तवातापिः स मुनि: श्रेयसेऽस्तु वः ॥' इति। अथ 'येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः । वातापिस्तापितो येन' इति वक्तव्यम् बहुव्रीहिणा तु गुणीभावः कृत इत्यविमृष्टविधेयत्वमिति बोध्यम्। तृतीयासमासे यथा 'धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमाजयितुं समर्थः' इति। १ वातापिः असुरविशेषः "आतापिर्भक्षितो येन वानापिश्र् महासुगः" इत्युक्तेः । 'महाबलः' इत्यपि पाठः ॥ २ अगस्त्यः ॥

Page 377

३१८ काव्यप्रकाशः सटीकः। विरुद्धमतिकृद्यथा श्रितक्षमा रक्तभुवः शिवालिङ्गिंतमूर्तयः । विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ॥१९६ ॥ अंत्र क्षमादिगुणयुक्ता: सुखमासते इति विवक्षिते हता इति विरुद्धा प्रतीतिः॥ अत्र 'स्वहस्तेन' इति वक्तव्यम्। द्न्द्े यथा 'सीताया ऊर्मिलायाश्र सदृशौ रामलक्ष्मणौ' इति। अत्र 'रामो लक्ष्मणश्र' इति वक्तव्यम्। द्विगुसमासे यथा 'ब्रह्मा विष्णुश्र रुद्रश्र त्रिलोकीमधिकुर्वते' इति अत्र 'त्रीन् लोकान्' इति वक्तव्यम्॥ वाक्यगतं विरुद्धमतिकृत्वमुदाहरति श्रितक्षमा इति। सामोपायलब्धसिद्धीनां राज्ञां वर्णनमिदम्। अद्य ते राजानः विग्रहस्य युद्धस्य क्षपणेन त्यागेन (सामोपायाभिनिवेशायुद्धत्यागेनेति भावः) गत- मसुखं सुखविरुद्धं (दुःखं) येषां तथाविधाः सन्तः शेरते निश्वितान्तःकरणतया निद्रां कुर्वन्तीत्यर्थः । कीहशाः । श्रिता आश्रिता क्षमा क्षान्तिर्यैस्तथाभूताः । रक्ता अनुरक्ता भू: (लक्षणया) तद्गतनिखि- लजनो येषु तादृशाः । शिवेन कल्याणेन आलिङ्गिताः संबद्धाः मूर्तयः शरीराणि येषां तथाभूता इति विवक्षितोऽर्थः । 'विग्रहः समरे काये' इति विश्वः। "क्षितिक्षान्त्योः क्षमा" इत्यमरः । "रक्तोऽ- नुरक्ते नील्यादिरजिते लोहिते त्रिषु। क्ीबं तु कुङ्डमे ताम्रे प्राचीनामलकेसृजि॥" इति मेदिनी। "भूः स्थानमात्रे कथिता धरण्यामपि योषिति" इति कोषः । "शिवो मोक्षे महादेवे कीलकग्रहयो- गयोः। वालुके गुग्गुलौ वेदे पुण्डरीकद्गुमे पुमान्। सुखे क्षेमे जले कीबं शिवा झाटामलौषधौ। अभ- यामलकीिौरीफेरुसक्तुफलासु च ।।" इति मेदिनी॥ अत्र श्रिता आश्रिता क्षमा भूमिर्यैस्तथाभूता: (भूमिपतिताः ) रक्तस्य रुधिरस्य भुवः स्थानभूता: शिवाभि: क्रोष्ट्रीभि: आलिङ्गितमूर्तयः विग्रहस्य शरीरस्य क्षपणेन नाशेन गता असवः प्राणाः खानि इन्द्रिरयोणि च येषां तथाभूताः शेरते इति विरुद्धोऽर्थः प्रतीयते। अत्र दूषकताबीजं तु प्रकृतप्रतीति- जन्यचमत्कारापकर्षकत्वमिति बोध्यम्। न चामङ्गलप्रतीत्या अश्लीलत्वमत्रेति वाच्यम् उपाधेयसांकर्येऽ- प्युपाधेरसंकीर्णत्वात्। अमतपरार्थे विरुद्धोऽप्यर्थो विवक्षित इति ततो भेदः। न च प्रकाशितविरुद्ध- संकर इति वाच्यम्। तत्रार्थस्य व्यञ्जकत्वम् अत्र तु शब्दस्येति विशेषादिति प्रदीपोद््योतयोः स्पष्टम् ॥ अत्राहुश्क्रवर्त्यादयः । "अत्र पृथक्सिद्धयोरागन्तुकः संबन्धः श्रयणम् तस्य क्षान्तौ गुणविशेषे बाधात् तथा रक्तत्वस्य रुधिरत्वस्य भूस्थजने बाधात् एवम् आलिङ्गनकर्तृत्वस्य शिवे शुभादृष्टे बाधात् तद्वत् क्षपणस्य नोदनस्य युद्धे बाधात् लक्षणातः प्रागेव झटिति धरण्यायुपस्थित्योपश्लोक्यमानस्यानु- चितशुभविरोध्यशुभप्रतिपादनया विरुद्धमतिकारिता। एवम् 'तव कण्ठासृजा सिक्ता करवाललता द्विषाम्। प्रसूते समरारण्ये यशःकुसुमसंचयम् ॥' इत्यत्र संनिधिवशात्स्तव्यकण्ठासृक्प्रतीत्या विरुद्ध- मतिकारिता" इति॥ इत्थ त्रयोदशविध वाक्यदोषमुदाहृत्य "पदस्यांशेऽपि केचन" इति सूत्राशस्योदाहरणं प्रदर्शयन्नाह १ सुखविरुद्धमिति। "तत्सादृश्यं तद्न्यत्वम्०" इति प्राक ( २९३ पृष्ठे ) उक्तोक्त्या नत्रो विरुद्धार्थ- कत्वादिति भाव: ॥ २ "इन्द्रियेडपि खम्" इति नानार्थवर्गेडमरः ॥ ३ उपाधेयो धर्मी कार्यमित्यर्थः दोष इति यावत्। उपाधिर्धर्मः कारणमित्यर्थः दूषकताबीजमिति यावत् ॥

Page 378

सप्तम उल्लास:॥क ३१९

पढ़ैकदेशे यथासंभवं क्रमेणोदाहरणम् अलमतिचपलत्वात्स्वप्रमायोपमत्वात् परिणतिविर सत्वात्संगमेनाङ्गनायाः। इति यदि शतकृत्वस्तत्त्वमालोचयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा॥ १९७॥ अत्र त्वादिति। यथा वा तदूच्छ सिद्धचै कुरु देवकार्यमर्थोऽयमर्थान्तरलभ्य एव। अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्करः प्रागुदयादिवाम्भः ॥१९८॥ पड़ैकदेशे इति। तत्र पदैकदेशे श्रतिकटुत्वमुदाहरति अलमिति। इदं पय्ं बिह्नणचरिते प्राप्यते इति वदन्ति। कस्यांचित्कामिन्यामनुरक्तस्योक्तिरियम। यत्त मकरन्दं प्रति माधवस्योक्तिरियमिति कमलाकरभट्टनोक्तम् तन्तु भ्रान्तिमूलकमेव मालतीमाधवप्रकरणेऽस्य पद्यस्यानुपलम्भात्। अङ्गनासंग- मस्यालंतायां हेतवश्रपलत्वादयः । तथा चातिचपलत्वात् अस्थिरत्वात् चित्तवृत्तिमात्रपरिकल्पिता सृष्टिः स्वम्ः मन्त्रादिसामर्थ्यादविद्यमानार्थप्रकाशनं माया स्वम्श्र माया चेति द्वन्द्वः तदुपमत्वात् तत्सदृशत्वात् परिणतौ परिणामे विरसत्वात् विरहादिद्ुःखानुबन्धित्वाच्च अङ्गनायाः संगमेनालं प्रयो- जनाभाव इति तत्त्वं परमार्थ शतकृत्वः अनेकवारं यदि यद्यपि आलोचयामः विचारयामः तद्पि तथापि अन्तरात्मा जीवः हरिणाक्षीं न विस्मरतीत्यर्थः । मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे। अत्र पदैकदेशस्य त्वादित्यस्य श्रुतिकटुत्वम्। तदेवाह अत्रेत्यादि। त्वादितीति। चपलत्वादित्या- दिपदैकदेशभूतं त्वादितीत्यर्थः । एकत्र पदे वर्णद्वयकटुत्वे पददोषत्वम् पदस्यैव कटुत्वप्रतीतेः । एकस्यैव तथात्वे पदैकदेशदोषत्वम्। न चैवं 'सोऽध्यैष्ट' (२९७ पृष्ठे) इत्यादौ प्रत्येकं पददोषाभा- वात्कथं वाक्यदोषतेति वाच्यम्। न हि नानापददुष्टत्वे वाक्यदोषता किं तु नानापदवृत्तितामात्रेण सा च पदावच्छेदेन तदेकदेशावच्छेदेन वेति को विशेषः। अत्र विरोधिनं शान्तमुपमर्द्य स्वविश्रान्तस्य शृङ्गारस्यातिमध्ुरत्वेन श्षुद्रापचारस्याप्यसहतया पदैकदेशगतश्रुतिकटुत्वस्याप्यपकर्षकतेति भाव इंति प्रदापो््योतयोः स्पष्टम् ॥ त्वादित्यस्य श्रुतिकटुत्वेऽनुभवविराध इति विप्रतिपत्तावुदाहरणान्तरं दर्शयति यथा वेति। तद्ग च्छेति। कुमारसंभवकाव्ये तृताये सर्गे कामं प्रतान्द्रिस्योकक्तिरियम्। हे काम त्वं तत् तस्मात्कारणात् सिद्धयै कार्यसिद्धयर्थ गच्छ। कार्य किं तत्राह कुरु देवकार्यमिति। सर्वेषां देवानां न ममैव कार्य स्कन्दात्पत्तिरूपं कुरु। शिवयो: समागमैकलभ्येSस्मिन्नर्थे किं मयेति शङ्कायामाह अर्थोऽयमिति। अर्था- न्तरेण उमामहेश्वरसंगमरूपण कारणान्तरेण लभ्य एव लभ्योऽपि अयं स्कन्दोत्पत्तिरूपः अर्थः प्रयोजनं कार्यम् अङ्गलब्ध्यै स्वरूपलाभाय स्वरूपसिद्वयै प्रत्ययं शिवस्य पार्वतीवशतासंपादनेन कारणम् अर्थात् त्वाम् अपेक्षते। कः कमिव बीजसाध्योऽडरो बीजाड्कर: उदयात् उत्पत्ते: प्राक पूर्वम् अम्भो जलमिवेत्यर्थः। अत्रामामहेश्वरसंगमस्य वक्तुमयोग्यत्वादर्थान्तरत्वेनोक्तिः । "अर्थः प्रकारे विषये वित्तकारणवस्तुषु। अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने" इति विश्वः। "प्रत्ययोऽधी- नशपथज्ञानविश्वासहेतुषु" इत्यमरः ॥ उद्दयोतकारास्तु "सिद्धयै अस्मद्भिमतलब्ध्यै तत्वज्ञानसिद्धयै च। नन्वधुना तत्वज्ञानं नोददेश्यमत

Page 379

३२० काव्यप्रकाशः सटीकः । अत्र द्वयै ब्ध्यै इति कटु।। यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरै्बिभर्ति। बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ १९९। अत्र मत्ताशब्द: क्षीबार्थे निहतार्थः॥ आह कुरु देवकार्यमिति। स्वानिष्टे कथं प्रवृत्तिः स्यादत आह अर्थोऽयमिति। शिवस्य पार्वतीवश- ताकरणरूपदेवकार्यभूतोऽयमर्थः अर्थान्तरं स्वानिष्टरूपं तल्वम्यं यत्र तादृश एव। नन्वन्य एव तत्र नियुज्यतां तत्राह उदयात्प्राक बीजाङ्करः अङ्गलब्ध्यै अम्भ इव इदं कार्य त्वामेव प्रत्ययं कारणमपेक्षते। एवं च दैवस्य दुरतिक्रमत्वादनिष्टशङ्क न कार्येति भावः" इति व्याचख्युः। देवकार्य तारकासुरवध- रूपम्। अयमर्थः तारकासुरवधरूप इति कमलाकरभट्टः। अङ्गेति कामसंबोधनममिति सरस्वतीतीर्थःः। 'प्रत्ययमुत्तमं त्वाम्' इति क्वचित्पाठः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे ॥ अत्र सिद्धयैलब्ध्यैइत्युभयोः पदयोरेकदेशौ दुष्टावित्याह अत्रेत्यादि। द्वचै-ब्ध्यै इति। सिद्धै- लब्ध्यै-इतिचतुर्थ्यन्तपदैकदेशः श्रुतिकटुरित्यर्थः। "प्रार्थनेऽतिमधुरभाषणस्यैवौचित्येनास्यात्र दोष- त्वम् " इत्युद्योते स्पष्टम्। अत्र नायकनायिकावृत्तान्तरूपरसस्य संभवात्तवक्षकवर्णवैधुर्येणास्य दूषकतेति सारबोधिनीकारः ।

पदैकदेशे निहतार्थत्वमुदाहरति यश्चाप्सर इति। कुमारसंभवकाव्ये प्रथमे सर्गे हिमालयवणनमिदम्। यश्रेति चकारः किंचेत्यर्थकः। किं च यः हिमालयः शिखरैः शृङ्गैः करणभूतैः धातुमत्तां धातवः सिन्दूरगैरिकादयः ("धातुर्वातादिशब्दादिगौरकादिषु" इति यादवः । धातवश्रोक्ताः। "सुवर्णरौप्य- ताम्राणि हरितालं मनःशिला। गैरिकाअ्नकासीसिलोहवङ्गा: सहिङ्गलाः। गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः ॥" इति ) तेऽस्य सन्तीति धातुमान्। नित्ययोगे मतुप्। धातुमतो भावः धातुमत्ता तां बिभर्ति धत्ते इत्यन्वयः । कीदृशीम्। अप्सरसां देवाङ्गनानां विभ्रमाय विलासार्थ यानि मण्डनानि अलंकरणानि तिलकपत्रादीनि तेषां सिन्दूरगैरिकादिना संपादयत्रीं कर्त्रीम्। मण्डनानामिति कर्मण षष्ठी "कर्तृकर्मणोः कृति" (२।३।६५) इति पाणिनिसूत्रात्। तथा बलाहको मेघ: तस्य छेदेषु खण्डेषु छेदेन खण्डखण्डीभावेन वा विभक्तः अवच्छेदकभेदेनावस्थितः रागो लौहित्यं वर्णभेदो वा यस्यास्तथाभूताम्। "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रअ्जने पुमान् ॥।" इति शब्दार्णवः । मल्विनाथस्तु बलाहका मेघास्तेषां छेदेषु खण्डेषु विभक्तः संक्रा- मितो रागो यया ताम एतेनाद्रेरभ्रंकषत्वं गम्यते इति व्याख्यातवान्। अकालसंध्यामिव अनियत- कालप्राप्तसंध्यामिवेत्युत्प्रेक्षा तदकालेऽपि तद्वद्भासनात् । अकालसंध्या वर्षाकालसंध्यति केचित्। पूर्वोक्तविशेषणद्दयं संध्यायामपि योज्यम्। उपजातिश्छन्दः । लक्षणमुक्तं प्राक् ७८ पृष्ठे॥

अत्र मत्ताशब्दः पदैकदेशः क्षीबायाम् (उन्मत्तायां) सुप्रसिद्ध इति तेन (क्षीबार्थेन) मत्वर्थो निहन्यते (तिरोधीयते) । तदेवाह अत्र मत्तेत्यादि। क्षीबार्थे उन्मत्तार्थे 'सुप्रसिद्धोऽतः' इति शेष: । क्वचित्तु 'क्षीबार्थेन' इति सुगमः पाठः। व्याख्यातामिदं सारबोधिन्याम् "मतुबुत्तरतल्प्रत्य- येन 'संबन्धाभिधानम् तदपेक्षया क्षीबार्थः प्रसिद्धः" इति॥ क १ संबन्धाभिधानमिति। "रुत्तद्वितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन" इति न्यायादिति भावः ॥

Page 380

सप्तम उल्लास: । आदावञ्ञनपुअलिप्वपुरषां श्वासानिलीलासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दशाम्। संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्रे्क्षणा ॥ २०० ॥ अत्र दशामिति बहुवचनं निरर्थकम् कुरङ्रेक्षणाया एकस्या एवोपादानात्। न चाल- सवलितैरित्यादिवत् व्यापारभेदाद्वहुत्वम् व्यापाराणामनुपात्तत्वात्। न च व्यापारेडत हक्शब्दो वर्तते। अत्रैव 'कुरुते' इत्यात्मनेपदमण्यनर्थकम् प्रधानक्रियाफलस्य कर्त्रसं- बन्धे क्त्रीभ प्रायक्रियाफलाभावात्। पदैकदेशे निरर्थकत्वमुदाहरति आदाविति। भाविविरहेण रुदत्याः कस्याश्व्विदवर्णनमिदम् । कुरङ्गीव ईक्षणे यस्या: सा। "कुक्कुट्यादीनामण्डादिषु" इति वार्तिकेन पुंवद्भावः। कुरङ्गीशब्दोऽत्र लक्षणया तदीक्षणपरः । तादृशी नायिका यत् हशां नेत्राणां संप्रत्येव (अव्ययानामनेकार्थत्वात्) संतापनाद- व्यवहितमेव अश्रुपयसा अश्रुजलेन निषेकम् अभिषेचनं काममतिशयेन यथेष्टं वा कुरुते तत् चेतोभुवः देवस्य मदनस्य भल्ीनां बाणविशेषाणां ("भल्लः स्यात्पुंसि भल्लूके शस्त्रभेदे पुनर्द्योः" इति मेदिनी) पानकर्म इव कुरुते। पानकर्मेवेत्युत्प्रेक्षा। इवशब्दस्यार्थवशाद्भिन्नक्रमत्वम्। धारायास्तैक्ष्ण्याय शत्त्रं पङ्के- न लिप्त्वा अग्रौ संताप्य पयास निक्षिप्यते इति पानकर्मस्वरूपम्। दशः कामशस्त्रत्वेनाध्यवसायादित्थ- मुक्तिः । तत्र लेपतापयोः संपादनाय दशां विशेषणद्यमाह आदावित्यादि। आदौ पूर्वम् अञ्जनस्य कज्जलस्य पुञ्जेन समूहेन लिपं वपुःस्वरूपं यासां तथाभूतानाम्। भल्लीनामप्यङ्गारचूर्णाञ्जनेन लेपात्तथा- भूतत्वम् । ततः अनन्तरं श्वासानिलेन निःश्वासवातेनोल्लासितः संधुक्षितः (प्रवृद्धः) अत एव प्रोत्सर्पन् समन्तात्प्रसरन् (सर्वाङ्ग व्यामुवन्) यो विरहजन्मा अनलोडग्निस्तेन संतापितानां चेति भिन्नक्रमश्रकारः। भल्ीनां तु भस्त्राश्वासानिलोल्लासितेन प्रोत्सर्पता विरहसदृशेनानलेन संतापितत्वमवसेयम्। नायिका चेय भविष्यत्प्रवासपतिका अञ्जनसत्त्वात्। शार्दूलविकरीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र दृशामिति बहुवचनमविवक्षितार्थकमेव वृत्तपूरणायोपात्तम् एकस्याः कुरङ्गेक्षणायाः हग्बहुत्वा- संभवादिति निरर्थकम्। तदेवाह अत्र दशामित्यादि। निरर्थकमिति। बहुत्वासंभवादिति भावः । बत्र हेतुमाह एकस्या इति। न च 'ब्राह्मणा: पूज्याः' इतिवत् बहुवचनमिति वाच्यम् "जात्याख्याया- मेकस्मिन् बहुवचनमन्यतरस्याम्" (१।२।५८) इति पाणिनिसूत्रेणैकत्वे बहुत्वविधानेऽपि द्वित्वे बहु- त्वविधानाभावादिति भावः। ननु द्वित्वेऽपि दृशोर्व्यापारभेदाद्वहुत्वं दृष्टमत आह न चेति। अलसव- लितैरित्याहविदिति। 'अलसवलितैः प्रेमाद्र्रिर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्- मुखैः। हृदयनिहित भावाकूतं बमान्भिरिवेक्षणैः कथय सुकृती कोडयं मुग्धे त्वयाद्य विलोक्यते॥' इत्यम- रुशतकपदे इवेत्यर्थः । तत्र 'ईक्षणैः' इति भावसाधनेन व्यापारा उपात्ताः न चात्र तथेत्याह व्यापा- राणामिति। तत्रेक्षणैरितिवत व्यापाराणामनुपाानाित्र्ः । ननु श्धातोःसंपदादित्वात् भावार्थे क्विप्प्रत्ययेन भावसाधनतया दक्शब्द एव व्यापारे वर्तते व्यापाराश्र बहव एवेत्याशङ्क्य निषेधति न चेत्यादि । वर्तते इति। न वतते इत्यन्वयः। 'अञ्जनलेपादीनां क्रियायामसंभवेन विशेषणान- १ अलसेन आलस्येन वलितैः प्रेम्णा आद्रारद्रिः अत्यन्ता्द्रैः भावो रतिस्तदाकूतं तद्भिप्रायं वमाद्र: उद्विरद्विखिप ईक्षणैः दर्शनैः (दर्शनरूपव्यापारै;) कोड़य त्वया विलोक्यते इत्यर्थः ॥ ४१

Page 381

काव्यप्रकाशः सटीक:।

न्वयप्रसङ्गात्' इति शेषः । एवं चात्र दक्शब्दो 'दृश्यतेऽनया' इति करणसाधन इति नेत्रपर एव न तु व्यापारपर इति भावः। अत्रैष श्लोके पदान्तर्राशेऽपि निरर्थकत्वं दर्शयति अत्रैवेति। अ्मिन्नेव श्लोके इत्यर्थः । अनर्थकं निरर्थकम्। प्रधानक्रियाफलस्य प्रधानस्य मुख्यस्य क्रियाफलस्य (प्रकृते) सकलविलासिजनविजयरूपस्य । कर्तरि कुरङ्गेक्षणालक्षणे असंबन्धे अविद्यमानत्वे। कर्त्रभीति। कर्तारमभिप्रैति गच्छति तत् कत्रिप्रायं कर्तृगामि "कर्मण्यम्" इति पाणिनिसूत्रेणाण प्रत्ययः तथा- विधं यत् क्रियायाः फलं तस्याभावादित्यर्थः । अत्रेदमनुसंधेयम्। "स्वरितञितः क्त्रभिप्राये क्रिया- फले" (१।३।७२) इति पाणिनिसूत्रम्। स्वरितेत्संज्ञको अकारेत्संज्ञकश्र यो धातुस्तस्मादात्मनेपेनं भवति क्रियाफले कत्रभिप्राये कर्तृगामिनि सतीति तदर्थः। यथा यजमानो यजते। अत्र यजतिक्रि- याया: फलं "यजेत स्वर्गकामः " इति श्रुतिबोधितः स्वर्गः तस्य च यजमानगामित्वादात्मनेपदम्। फलं चात्र प्रधानमेव गृह्यते "प्रधानाप्रधानयोः प्रधाने कार्यसंप्रत्ययः " इति न्यायात् । अत एव 'ऋत्विजो यजन्ति' इत्यत्र दक्षिणादिरूपफलस्य कर्तृगामित्वेऽपि नात्मनेपदम् तस्याप्रधानत्वात्। तदुक्तं शब्देन्दुशेखरे "क्रियाफलं च श्रुत्या लोकतो वा यदुद्देशेन क्रियाप्रवृत्तिरवगता तदेव न दक्षि- णादिरूपम् । तञ्च पच्यादौ भोजनादि लोकतोऽवगतम् यज्यादौ स्वर्गादि श्रुत्यावगतम्" इतीति। व्याख्यातमिदमुझ्चोते "अत्र 'कुरुते' इत्यात्मनेपदम् उत्प्रेक्षितभल्वीपानकर्मसाध्यमन्मथसंबन्धिजग- द्विजयलक्षणकार्यस्य मृगद्दशोऽनभिप्रेतत्वेन तद्संबद्धत्वेन च कर्तृगामिक्रियाफलाभावादनुपपन्नम् अत एव निरर्थकम् तद््योत्यस्य क्रियाफलगतकर्तृगामित्वस्याप्रत्ययात्। असाधुत्वं तुन 'कमलवनोद्धा- टनं कुर्वते ये' इतिवत् कामदेवगतफलस्य तत्संबन्धिनायिकायामारोपमात्रेण दृग्दयेऽपि बहुत्वारोपेण · च साधुत्वस्य निरूपयितुं शक्यत्वात् औरोपफलाभावाच्च निरर्थकत्वम्" इति॥ प्रदीपकारादयस्तु "ननु 'दीनं त्वामनुनाथते' (२६९ पृष्ठे) इत्यत्रेव च्युतसंस्कृतिरेवात्र दोष आस्तामिति चेन्न। वैषम्यात्। तथाहि। 'आशिषि नाथः' इति वार्तिकेन आशिषि आत्मनेपदं नियमयता तद्भिन्ने याचनादर्थे विवाक्षिते आत्मनेपदं व्यवच्छिद्यते इति याचनार्थे प्रयुक्तमात्मनेपदं च्युतसंस्कृतमस्तु प्रकृते तु एकत्वादिसंख्याविशेषाविवक्षायां क्रियाफलस्य पराभिप्रेतत्वाद्यविवक्षायां च प्रयुक्तं बहुवचनमात्मनेपदं च न च्युतसंस्कृतम् 'बहुषु बहुवचनम्' (१।४।२१) इत्यनेन 'स्वरित- जितः कत्रभिप्राये क्रियाफले' (१।३७२) इत्यनेन च पाणिनिसूत्रेण यथाक्मं बहुषु बहुवचनं कत्रभिप्रेतक्रियाफले विवक्षिते आत्मनेपदं च नियमयता एकत्वादिविवक्षायां बहुवचनम् पराभिप्रेत- क्रियाफलविवक्षायां चात्मनेपदं च व्यवच्छियते न तु तत्तदविवक्षास्थलेऽपि तस्य तस्य व्यवच्छेद: परं तु तत्तदर्थाविवक्षायां तेषां प्रयोगो निरर्थक इति यथोक्तमेव सम्यक्। एतेन 'अवयवांभिप्रायेण (प्रत्ययांशाभिप्रायेण ) निरर्थकत्वं समुदायाभिप्रायेण (पदाभिप्रायेण) त्वसाधुत्वमेव' इति चण्डी- दासमतमनादेयम् असाधुत्वस्योक्तरीत्या प्रसक्त्यभावात् । नच 'अनुनाथते' इत्यत्रापि पदैकदेश- दोषत्वापत्तिरिति वाच्यम् आशीरूपप्रकृत्यर्थासंभवप्रयुक्ततया प्रत्ययासाधुत्वस्य पददोषत्वस्य तत्राभ्यु- पगमात्। अत्र तु प्रकृत्यर्थाबाधेन तद्वैलक्षण्यादिति" इत्याहुः ॥ एवमेवाहुः सारबोधिनीकारा अपि "अथ 'दृशाम्' इतिवत् 'कुरुते' इतिवच्च 'नाथते' इत्यपि : १ च्युतसंस्कृतित्वम् ॥ २ कमलवनोति । मयरकविरते सूर्यशतके द्वितीयाद्यगतं वाक्यमिदम्। ये भास्करस्य सूर्यध्य कराः किरणा इति संबन्धः। 'कमलवनोद्घाटनं कुर्वते' इत्यादो तु सुगन्धाघ्राणा्विरुपविकासफलारोप; किरणेषििति शब्देन्दुशेखरे स्पप्टम्।३ आहायारपस्य फलसत्वे एव संभवादाह आरापेफलाभावादीति॥

Page 382

सत्तम उल्लास:। चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः। अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्घस्तव परशुना लज्जते चन्द्रहासः ॥ २०१॥ अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः॥ पदैकदेशदोष: स्यात् अथ 'नाथते' इतिवत् एतावपि पद्दोषौ स्याताम् अविशेषादिति चेन्न। प्रकृ- स्यर्थासंभवाहितप्रत्ययासंभवो यत्र तत्र पददोषात्। 'नाथते' इत्यत्राशीरूप प्रकृत्यर्थस्यासंभववशेनात्मने- पदाभावात्। इह तु प्रकृत्यर्थावबाधितावेव किंतु प्रत्ययार्थाविति विशेषात् । ननु तथापि 'बहुषु बहु- वचनम्' इत्यनुशासनोल्ङ्कनात् 'नाथते' इतिवदसाध्वेवेति चेत्। उच्यते। 'आशिषि नाथः' इत्यनेना- शिषि आत्मनेपदं नियम्यते ततो याचने युक्तमसाधुत्वम्। प्रकृते तु क्त्रभिप्रायक्रियाफलविवक्षायां तन्नियमयता पराभिमतसंबन्धफले तन्निषेधः प्रतिपाद्यते इति तत्रैवासाधुत्वम न तु कत्रभिप्रायफलाभावे। अत एव कत्रभिप्राये इति किम पराभिप्रेते मा भूदित्युक्तम्। तथा च क्त्रभिप्रायफलाभावात्तदनर्थक- मेवात्मनेपदं न त्वसाधु। एवं 'बहुषु बहुवचनम्' इति सूत्रं बहुषु बहुवचनं नियमयत् बेकयोस्तन्निषेध- यति न तु बहुत्वाविवक्षामात्रमित्यनन्वितमेवैतदिति" इति॥ पदैकदेशे अवाचकत्वमुदाहरति चापाचार्य इति। राजशेखरकृते बालरामायणे द्वितीयेडक्के राव- णस्य परशुरामं प्रत्युक्तिरियम्।'रावणदूतस्योक्तिरियम्' इति चन्द्रिकोदयोतिू्त तुचिन्त्यमेव। हे परशुराम तब चापाचार्यः धनुविर्द्ागुरुः (धनुर्वेदाध्यापकः) त्रिपुरविजयी महेश्वरः। तथा कार्तिकेयः स्कन्दः विजेयः विजितः । त्रिपुरजेता स्कन्दो येन जित इति पराक्रमातिशयः। 'कार्त्तवीर्यः' इति पाठे सहस्रबाहुः विजेयः विजितः इत्यर्थः । तथा शस्त्रेण बाणेन व्यस्तः स्थानात् दूरमुत्क्षिप्तः न तु स्वयं चलितः ईदशः उदधि: समुद्रः तव सदनं गृहम् । अमूर्तिमतोऽपि शस्त्रेण निराकरणात्पराक्रम- स्यैवातिशयः । तथा इयं भू: भूमि: तव हन्तकारः षोडशग्रासात्मिका अतिथिभिक्षा । " ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम्। अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः ॥" इति मार्कण्डेयपुराणवच- नात्। चक्रवर्त्यादयस्तु हन्तकारोऽतिथिबलिरित्याहुः। अनेन सकलनरपतिजेतेति ध्वनितम् सवै- विशेषणैर्देवासुरमनुष्यजेतेति वदान्य इति च फलितम्। अस्त्येवैतत् सर्व श्र्लाध्यमेतदिति सत्यम्। किमु किंतु रेणुकायाः रेणुकानाम्नयाः त्वन्मातुः कण्ठबाधा गलकर्तनं कृतवता तव परशुना कुठारेण सह बद्धस्पर्ध: पूर्व बद्धस्पर्धोऽपि चन्द्रहासः खङ्ग: ('मम' इति शेषः) लज्जते इत्यर्थः । 'चन्द्रहासासि- ऋष्टयः" इत्यमरः । 'मम चन्द्रहासो लज्जते' इति भङ्ग्या एवंविधनिन्यकर्मकारिणा त्वया सह स्पर्धितुमहं लज्जे इत्युक्तं भवति। पुरा किल परशुरामः कार्तिकेयं कार्तवीर्य च विजितवान् क्षत्रियान् हत्वा कश्यपाय पृथ्वीं दत्त्वा समुद्रमुत्सार्य तत्रावासं चकार परशुना रेणुकानान्नीं स्वमातरं जघान चोति पौराणिकी कथा अत्रानुसंधेया। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे॥ अन्न यत्प्रत्ययः क्तप्रत्ययार्थे प्रयुक्तस्तत्रावाचकः। तदेवाह अत्रेत्यादि । कृत्यप्रत्ययः कृत्यसंज्ञकः प्रत्ययों यत्प्रत्ययः। क्तप्रत्ययार्थे अतीतत्वे। अवाचक इति। अयं भावः । 'विजेयः' इत्यत्र 'जि १ हत्यनुशासनेति। इति पाणिनिसूत्रेत्यर्थ: ॥

Page 383

२४ काव्यप्रकाश: सटीकः।

अतिपेलवमतिपरिमितवर्ण लघुतरमुदाहरति शठः। परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव॥ २०२ ॥ अत्र पेलवशब्द:। यः पूयते सुरसरिन्मुखतीर्थसार्थस्रानेन शास्त्रपरिशीलनकीलनेन। सौजन्यमान्यजनिरूर्जितमूर्जितानां सोऽयं दशो: पतति कस्यचिदेव पुंसः ॥ २०३॥

जये' इति धातोः सकाशात् "अचो यत्" (३१।९७) इति पाणिनिसूत्रेण कृत्यसंज्ञको यत्प्र- त्ययः अहार्थे हहि सः "अर्हे कृत्यतृचश्र" (३३१६९) इति सूत्रात् । अर्ह्त्वं च योग्यता सा च भाविविषया। अतीतत्वं तु विवक्षितम् । अन्यथा सिद्धत्वाप्रतीत्योत्कर्षासिद्धेरिति। यत्प्रत्ययमात्रग- तत्वेनात्र पदैकदेशदेशोऽयम्। 'विद्धदभिनवः' (२७६ पृष्ठे) इत्यादौ तु धातूपसर्गयोः संबन्धा- हसंपन्नो दोषस्तदुभयगतत्वात्पददोष इति बोध्यम्। अत्राहुश्रक्रवर्तिनः "क्तप्रत्ययार्थे अतीतकाले। अवाचक इति। अनिर्दिष्टार्थप्रत्ययस्य कालत्रयविधाने योग्यतावच्छेदकतयातीतत्वेनान्वयः । तद्रूपेण च कृत्यप्रत्ययस्य वृत्तिविरहः अहार्थे कृत्यप्रत्ययस्य विधानादिति भावः" इति॥

त्रिविधेष्वश्लीलेषु व्रीडादायिनम् अश्लीलं पदैकदेशमुदाहरति अतिपेलवमिति। मित्रं प्रत्याप्तस्यों- पदेशोक्तिरियम। शठः खलः अतिपेलवं अत्यन्तकोमलम् अतिपरिमिता अल्पाः वर्णा यत्र तथाविधं (वाक्यं) लघुतरम् अतिमन्दं यथा भवति तथा (सत्यत्वप्रत्यायनायेदम्) उदाहरति वदति। पुनरिति त्वर्थे। परमार्थतः तत्त्वतस्तु स शठः कालकूटेन उत्कटविषेण घटितमिव हृदयं वहति। तथा च कृत्रिमतया तद्वाक्यमश्रद्द्ेयमिति भावः। गीतिश्छन्दः । लक्षणमुक्तं प्राक ४ पृष्ठे। अस्मिन् छन्दसि द्वितीयपाद: एकया मात्रया न्यूनोडस्ति। शठ इत्यत्र 'शब्दम्' इति पाठे तु न न्यूनता। तदा पूर्व प्रक्रान्त: 'सः' इतितच्छब्दपरामृष्टः शठ एव वाक्यद्वयेऽपि कर्तेति न काप्यनुपपत्तिः॥ अत्र पलेति पेलवशब्दैकदेशो लाटभाषायां वृषणरूपगुह्याङ्गबोधकतया (स्मारकतया) व्रीडादायी- त्युद्योतचन्द्रिकादिषु स्पष्टम् । तदेवाह अत्र पेलवशब्द इति। पेलवशब्दैकदेश इत्यर्थः । क्रचित्तु 'अत्र पेलशब्दः' इत्येव सुगमः पाठ उपलभ्यते। 'अश्लीलः' इति शेषः॥

जुगुप्साव्यअ्जकमश्लील पदैकदेशमुदाहरते यः पूयते इति। कस्यचिन्महापुरुषस्य प्रशंसनमिदम्। सुरसरित् गङ्गा तन्मुखानि तन्मुख्यानि (तत्प्रधानानि) तत्प्रभृतीनि वा यानि तीर्थानि तेषां सार्थ: समूहः तत्र स्नानेन शास्त्राणां वेदान्तादीनां परिशीलनम् अभ्यासस्तेन यत् कीलनं संस्कारदृढीकरणं तेन च (कर्त्रा) यः पूयते पवित्रीक्रियते ('पूड् पवने' इति भौवादिकात् धातोः कर्मणि लट्) तथा सौजन्येन मान्या जनिरुत्पत्तिर्यस्य ('सौजन्यमानजनिः' इति पाठे सौजन्यमानयोर्जनिरुत्पत्ति- स्थानं तयोर्जनिरुत्पत्तिर्यस्मादिति वेत्यर्थः ) ऊर्जितानां बलवताम् ऊर्जितं बलम् ऊर्जितानां बलानामपि ऊर्जित बलमिति वा तथाभूतः सोडयं महापुरुषः कस्यचिदेव अर्थात्पुण्यशालिनः पुंसः दृशोः पतति हग्गोचरो भवति न तु सर्वस्येत्यर्थः। "मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः" इति यादवः। प्रभा- कृता तु 'पूयते पवित्रीभवति' इति व्याख्यातम् तन्मते 'लूयते केदारः स्वयमेव' इतिवत् प्रागुक्तपूङ- धातोरेव कर्मकर्तरिप्रयोगों बोध्यः । न च तन्मते पूर्याधातोः कर्तृलडन्तप्रयोगोऽयमिति वाच्यम् 'पूयी विशरणे दुर्गन्धे च' इत्येव धातुपाठे पठिततया तस्य पवित्रार्थकत्वाभावात्। धातूनामनेकार्थकत्वकल्पनं स्वगतिकगतिकमेवेति बोध्यम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

Page 384

सप्तम उल्लासः। ३२५

अत्र पूयशब्द: ।। विनयप्रणयैककेतनं सततं योऽभवदङ्ग ताहशः। कथमद्य स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः॥२०४॥ अत्र प्रेतशब्द:॥ कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्। अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह॥२०५॥ अत्र किं पूर्व साधुः उत साधुषु चरतीति संदेहः॥ अत्र पूयेत्येकदेशो विकृतरुधिररूपपूयव्यञ्जकतया जुगुप्सादायी। तदेवाह अत्र पूयशब्द इति। पूयेति पदैकदेशो व्रणक्लेदव्यञ्जकतया जुगुप्सादायीत्यश्लील इति भावः। पदैकदेशत्वेन शक्तिविर- हाद्यञ्ञकता बोध्या। अमङ्गलव्यक्जकमश्लीलं पदैकदेशमुदाहरति विनयेति। सखायं प्रति कस्यचित् पूर्ववृत्तमैत्रीकस्य पुरुषस्य वृत्तान्तकथनमेतत्। अङ्गपदं सादरसंबोधने। "अथ संबोधनार्थकाः। स्युः पाट प्याडङ्ग हे है भोः' इत्यमरः। अङ्ग भोः अद्य तस्य नीचस्य पुरुषस्याभिप्रेतम् अभिलषितं यत्पदं नीचपदं तत् समागतः उपगतोडंपे सः तद्वत् नीचपुरुषवत् कथम् ईक्ष्यतां दृश्यताम्। यः सततम् अनवरतं विनयो नमता प्रणयः प्रीतिस्तयोः एक केतनं मुख्यं स्थानम्। "केतनं तु निमन्त्रणे। गृहे केतौ च कृत्ये च2। इति मेदिनी। यः तादृशः अनिर्वचनीयगुणवान् अभवदित्यर्थः। केचित्तु नायिकायाः सखीं प्रति नायकवृत्तान्तोक्तिरियम्। अङ्ग हे सखि यः तादृशो नायकः अभवत् सोऽय तस्याः सपत्न्या अभिप्रेतपदं समागतः तद्वशीभूतः तद्वत् प्राग्वत् कथम् ईक्ष्यताम् किंतु अन्यथा दृश्यते इत्यर्थः इति योजयन्तीति चन्द्रिकादौ स्पष्टम्। अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक् २०१ पृष्ठे॥ अत्र प्रेतेत्येकदेशोSमङ्गल्यस्मारकः। तदेवाह अत्र प्रेतशब्द इति। अत्र प्रेतशब्दी मृतबोधक इत्यश्लीलत्वमिति भावः । केचित्तु अभितः सर्वतः प्रेताः कणपाः यस्मिन्निति व्युत्पत्त्या रमशान- प्रतीतिर्दूषकताबीजम् तथा चास्य नायकस्य गतासुत्वं व्यज्यते। एतेन शाकुन्तलनाटके षष्ठेऽङ्के 'वयस्य अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतं लिखितु विस्मृतमस्माभिः' इत्यत्राप्ययमेव दोषः इति केनचिदुक्तमपास्तमित्याहुः तन्न। "अत्र प्रेतशब्दः" इति वृत्तिविरुद्धत्वात् अभिप्रेतशब्दे दूषकताबीजस्य प्रेतशब्दमूलकत्वेन तं विहायाभिप्रेतशब्दे दोषप्रतिपादनस्यानुचितत्वाच्च अमङ्गल- व्यक्षकत्वस्य दुर्वारत्वाच्चेति बोध्यम्। पदैकदेशे संदिग्धत्वमुदाहरति कस्मिन्निति। अस्य पुरुषस्य सामर्थ्य शक्तिः कस्मिन् कर्मणि नोत्तपते न ज्वलति न प्रकाशते इति यावत्। अयं पुरुषः साधुचरः साधुषु चरतीति वा भूतपूर्वः साधुर्वा तस्मात् इह अस्मिन् पुरुषे अञ्जलिर्बध्यतामित्यर्थः॥ अत्र चरेत्येकदेशः आढ्यो भूतपूर्वः 'आढ्यचरः' इतिवत् "भूतपूर्वे चरट्" (५।३।५३) इति पाणिनिसूत्रविहितः चरद्प्रत्ययो वा कुरुषु चरतीति 'कुरुचरः' इतिवत् "चरेष्टः" (३२।१६) इति पाणिनिसूत्रविहितटप्रत्ययान्तश्रवरधातुर्वेति संदेहात् पूर्व साधुरिति वा साधुषु चरतीति वा अर्थ इति संदेहः। तदेवाह अत्र किमित्यादि। संदेह इति। प्रकरणाय्यभावाद्वक्तृतात्पर्यसंदेह इत्यर्थः॥

Page 385

३२६ काव्यप्रकाशः सटीक: ।

किमुच्यतेऽस्य भूपालमौलिमालामहामणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते॥ २०६ ॥ अत्र वचःशब्देन गीःशब्दो लक्ष्यते। अत्र खलु न केवलं पूर्वपदम् यावदुत्तरपदमपि पर्यायप रिवर्तनं न क्षमते। जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव।। यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदा: तथाप्यन्यैरलंकारिकैर्विभागेन प्रदर्शिता इति भंद प्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः॥ पदैकदेशे नेयार्थत्वमुदाहरति किमुच्यते इति। भपालानां या मौलिमाला किरीटसमूहस्तत्र महामणेः मेरुस्थानीयमणेः अस्य राज्ञः किमुच्यते किं वर्ण्यते न किमपि वर्णयितुं शक्यम्। यस्य तेज: वचाबाणैः (वबयोरभेदात्) गीर्वाणैः देवैरपि सुदुर्लभं सुतरां दुर्लभमिति विभाव्यते ज्ञायते इत्यर्थः। "मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम्" इति मेदिनी। अत्र वच:शब्देन स्वशक्यनिरूपितवाचकत्वसंबन्धेन गीःशब्द एव लक्ष्यते गीर्वाणशब्दयोरेब मिलितयोर्देवेषु रूढत्वात्। न च शब्दलक्षणायां रूढिः प्रयोजनं वेति नेयार्थत्वम्। तदेवाह अत्र वच :- शब्देत्यादि। गीःशब्दो लक्ष्यते इति। स्ववाच्यवाचकत्वसंबन्धनेति भावः। अत्र शब्दे लक्षणैवोचिता गीर्वाणशब्दयोरेव मिलितयोदैवेषु रूढत्वादित्युद्योते स्पष्टम्। अस्य शब्ददोषत्वं प्रतिपादयति 'अत्र खलु' इत्यादिना 'न क्षमते' इत्यन्तेन। अत्र गीर्वाणपदे। पूर्वपदं गीरूपम्। यावत् किंतु। उत्तर- पद्मपि बाणपद्मपि। गीःशरशब्देनापि देवताया अप्रतीतेरिति भावः । न क्षमते न सहते। व्याख्यातमिदं प्रदीपे "अत्र वचोबाणशब्दो गीर्वाणे विवक्षितः न च तत्र समर्थः गीर्वाणशब्दयोरेव समस्तयोस्तदर्थरूढिः न तु तत्पर्यायान्तराणाम्। अत एव गीःशरादिशब्दोऽपि तत्रासमर्थः पर्यायप- रिवृत्त्यसहत्वात्। तस्माद्वचःशब्देन गीःशब्दो लक्ष्यते। न च तत्र रूढिः प्रयोजनं वेति नेयार्थता" इति। तर्हि कुत्रोत्तरपदमेव कुत्र वा पूर्वपदमेव पर्यायपरिवर्तनं न क्षमते तदाह जलध्यादाविति। जलधरजलपात्रादिशब्देन पयोध्यप्रतीतेः । वडवेत्यादि। अश्वानलेत्यादिना वडवाग्नेरप्रतीतेः । आंदि- पदेन जलधरादयः । उद्कधरशब्देन च मेघाप्रततिरित बोध्यम्। एवं च जलव्यादौ पयोधिरिति रीत्या पूर्वपदपरिवर्तनेऽपि वडवानलादौ वडवाझनिरिति रीत्योत्तरपदपरिवर्तनेऽप्यदोष इति बोध्यम्। वचोबाण- शब्दे लक्षणायां कवेस्तात्पर्यान्नावाचकत्वम् तदभावे त्ववाचकत्वमेवेत्युद्तोतादिषु स्पष्टम् । नन्वसमर्थत्वं विवक्षितार्थप्रतीतिसामर्थ्यविरह एवोच्यताम् स च प्रसिद्धयभावात्समयाद्यभावाद्े- त्यप्रयुक्तावाचकनिहतार्थादयोऽप्यसमर्थभेदा एव भवितुमर्हन्तीति किमुक्तसूक्ष्मप्रभेदकरणेनेति पूर्वप- क्षयात यद्यपीति। अप्रयुक्तादय इति। प्राग्वत् (२९६ पृष्ठे १० पड्मौ) भावप्रधानोऽयं निर्देशः । अप्रयुक्तत्वादय इत्यर्थः । अत्र कमलाकरभट्टाः "आदिपदादवाचकत्वनिहतार्थकत्वनयार्थकत्वरूपा दोषा ग्राह्याः तेष्वप्यर्थाप्रतीतेरर्थाप्रसिद्द्ेरसामर्थ्यस्य तुल्यत्वात्" इत्याहुः। भेदा: विशेषाः । सत्यम् परंतु प्राचीनप्रणाल्यनुरोधेन शिष्याणां प्रभेदप्रदर्शनद्वारा उदाहरणज्ञापनानुरोधेन च एवं कृतमिति सिद्ध।- न्तयति तथापीति। भेदप्रदर्शनेनेति। शिष्यबुद्धिवैशद्यायेति शेषः । अन्यथा रसापकर्षकत्वसामान्येन १ ₹। वचःशब्दः ॥ २ रूढत्वादिति। अत एव देवपर्याये "गीर्वाणा दानवारयः" इत्यमरः ॥ ३ नावाचकत्विति। तथा चोक्तं प्राकू (२७५ पृष्ठे २३ पङ्ौ) 'लक्षणे वाचकत्वं शक्तिलक्षणान्यतरसंबन्धेन बोधकत्त्वं विवक्षितम्' इति॥

Page 386

सप्तम उल्लास: । ६२७

(सू० ७५) प्रतिकूलवर्णमुपहतलुप्तविसर्ग विसंधि हतवृत्तम्। न्यूनाधिककथितपदं पतत्प्कर्षं समाप्तपुनरात्तम् ।। ५३।। अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम्। अपदस्थपद्समासं संकीरणी गर्भितं प्रसिद्धिहतम् ॥।५४।। भग्नपक्रममक्रमममतपरार्थ च वाक्यमेव तथा। (१) रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरींत प्रतिकूलवर्णम्। यथा शृङ्गरे अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम्। कम्बुकण्ठ्या: क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर॥२०७॥ दोषैक्यं प्रसज्येतेति भावः। अत्र च्युतसंस्कृत्यसमर्थानुचितार्थावाचकाश्लीलसंदिग्धाप्रतीतक्किष्टाविमृ- ष्टविधेयांशविरुद्धमतिकृतां काव्याकाव्यसाधारणता बोध्येति प्रदीपोक््योतयोः स्पष्टम् ॥ चक्रवर्तिनस्तु 'भेदप्रदर्शनेन' इत्यत्र 'भेदप्रभेदेन' इति पाठमुपादायेत्थं व्यचख्युः "ननु यत्र यस्याप्रयोगस्तत्र तस्याबोधकत्वमित्यप्रयुक्तोऽसमर्थ एव एवं विरुद्धमतिकृदपि शक्यान्तरविरुदश- क्यान्तरबोधकमिति तदपि तथैवेति कथममी पृथग्दोषा इत्याह यद्यपीत्यादि। अन्यालंकारिकपथानु- वृत्त्या ( मार्गानुसरणेन ) विवेचकत्वहानिरित्याह भेदप्रभेदेत्यादि। अयमर्थः । अबोधकत्वसामान्य- धर्मोंपगमेऽवैजात्यसंभवेऽपि तत्तत्स्फूर्त्या तत्तद्विशेषरूपज्ञानेऽपि रसापकर्ष इति युक्तस्तन्मूलको भेद- निर्देश इत्यर्थः। उदाहर्तव्या इति। आवश्यकार्थे कृत्यः ( कृत्यसंज्ञकस्तव्यप्रत्ययः)। अन्यथा रसापकर्षकत्वेन स्थूलोपाधिना दोषैकत्वं प्रसज्येतेति भावः" इति॥ इत्थं पदवाक्यपदैकदेशसाधारणान् दोषान् निरूप्य संप्रति वाक्यमात्रगामिदोषाणां लक्षणमाह प्रतिकूलेत्यादि। अत्रापि प्राग्वत् (२६६ पृष्ठे २४ पङ़गौ) रूढियोगाभ्यमर्थद्वयोपस्थितौ लक्षणवाक्य- त्वोपस्थितिः। उपहतविसर्ग लुप्तविसर्ग च। न्यूनपदम् अधिकपदं कथितपदं च। अर्धान्तरे द्वितीय- स्मिन्नर्धे एको वाचकः शब्दः (प्रथमार्धस्य) यत्र तत् अर्धान्तरैकवाचकम्। अपदस्थपदम् अपदस्थस- मासं च। एवंविधं वाक्यमेव तथा दुष्टमित्यर्थः। प्रतिकूलवर्णत्वादिकं वाक्ये एव न तु पदादिष्वपीति भावः । यद्यपि एकस्मिन्नपि पदे ठकारादेः सत्त्वे प्रतिकूलवर्णत्वं प्रसज्यते तथापि वाक्यगतत्वेनैव रसानुकूल्यप्रातिकूल्ययोरनुभवसिद्धत्वाद्वाक्यदोषत्वमेवेति प्रभायां स्पष्टम् । प्रतिकूलवर्णत्वादीनां स्वरूपं परस्परभेदश्र तत्तदुदाहरणावसरे विशेषतो मतभेदेन सविस्तरं स्फुटीभविष्यतीति बोध्यम्॥ प्रातिकूल्यं वक्तुं तत्प्रतियोगि आनुकूल्यमाह रसेत्यादि। वक्ष्यते इति। अष्टम उल्लासे इत्यर्थः । प्रातिकूल्यमाह तद्विपरीतमिति। तद्विपरीतत्वमास्वादोद्वोधप्रतिबन्धकत्वम् । (१) प्रतिकूलवर्ण- मिति। प्रतिकूला: (विवक्षितरसादेः ) अननुगुणाः (आस्वादोद्वोघप्रतिबन्धकाः) वर्णाः यत्र (वाक्ये) तदित्यर्थः। न च श्रुतिकटुत्वेन सहास्य सांकर्यमिति वाच्यम् उपाध्योरसांकर्यस्य प्रागेव (२६७ पृष्ठे २० पङ्कौ) दर्शितत्वात्। तत्र परुषवर्णमात्रं दुष्टम् इह तु सुकुमारा अपि वर्णा रौद्रादौ दुष्यन्तीति ततोऽस्य भेद इति केचिदिति सारबोधिन्यां स्थितम्। स्फुटीभविष्यति चानयार्मेदोडग्रे ३३० पृष्ठे १० पक़कौ॥ शृङ्गारे प्रतिकूलवर्णत्वमुदाहरत अकुण्ठेति। नायिकासमागमोत्सुकस्य कस्यचिदुक्तिरियम् । हे

Page 387

३२८ काव्यप्रकाश: सटीकः। रौद्रे यथा देशः सोऽयमरातिशोणितजलैर्य्मिन हद़ाः पूरिताः क्षत्त्रादेव तथाविध: परिभवस्तातस्य केशग्रहः । तान्येवाहितहेतिघस्मर गुरुण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ २०८॥ कलकण्ठि कलो मधुरस्वरः तयुक्तः कण्ठो यस्यास्तथाविधे इति दूत्या: सख्या वा संबोधनम् विर- हातुरतया कोकिलाया वा। त्वं मां कम्बुकण्ठ्या: कम्बुः शङ्क: स इव कण्ठो ग्रीवा यस्यास्तस्याः नायिकाया: कण्ठे क्षणं क्षणमात्रं कुरु तदालिङ्गनशालिनं कुर्वित्यर्थः। कण्ठस्यार्ति तद्ालिङ्गनौत्सु- क्यरूपां कण्ठपीडाम् उद्धर अपहर। कीदशं माम्। अकुण्ठा अप्रतिहता सातिशयेत्यर्थः उत्तरोत्तर वर्धमानेति यावत् तथाविधा या उत्कण्ठा औत्सुक्यं तया आकण्ठं कण्ठपर्यन्तं पूर्ण व्याप्तमित्यर्थः। "शङ्क: स्यात्कम्बुरस्त्रियौ" इत्यमरः ॥ अत्र शृङ्गारे रसे टवर्गः प्रतिकूलः अष्टमोल्लासे ९९ सूत्रे "अटवर्गाः" इत्यनेन टवर्गस्य पर्युदा- सात् शृङ्गारपरिपन्थ्योजोगुणव्यञ्जकत्वाच्चेति बोध्यम्। एवं च शृङ्गाररसानुसारेण कोमलवर्णोच्चारणे कर्तव्ये तद्विपरीतठकारोच्चारणात्प्रतिकूलवर्णत्वं वाक्यदोष इति भावः। उक्तं च सारबोधिन्याम् "अत्र शृङ्गारपरिपन्थिन ओजसो व्यक्षकवर्णानां शृङ्गारव्यञ्जने प्रतिबन्धकता" इति॥ रौद्रे यथेति। रौद्रे रसे प्रतिकूलवर्णत्वं यथेत्यर्थः। उदाहरति देश इति। वेणीसंहारे तृतीयेSङ्के क्रुद्धस्याश्वत्थाम्नः कर्ण प्रत्युक्तिरियम्। यस्मिन् देशे अरातीनां शत्रूणां शोणितानि रुधिराणि तान्येव जलानीति रूपकम् तैः ह्नदाः पञ्च ह्दाः पूरिताः अर्थात् 'परशुरामेण' इति शेष: सोऽयं कुरुक्षेत्ररूपो देशः। क्षतात्त्रायते इति क्षत्त्रः पृषोदरादित्वात्साधुःक्षत्त्रात् क्षत्त्रियादेव (कार्तवीर्यात् घृष्टघुन्नाञ्च) तातस्य पितुः (जमदग्नेर्द्रोणाचार्यस्य च) तथाविधस्तुल्य एव केशग्रहः केशाकर्षणरूपः परिभवः अनादरः "अनादरः परिभवः परीभावस्तिरस्क्रिया" इत्यमरः । परशुरामतातस्य जमदग्नेरपि कार्तवर्यिार्जुनेन। केशग्रहणं कृतम् मत्तातस्य द्रोणस्यापि धृष्टयुम्नेन केशान् गृहीत्वा शिरच्छिन्नमित्यर्थः। 'केशग्र. हात्' इति पाठे तातस्य द्रोणस्य केशग्रहाद्धेतोः क्षत्त्रात् क्षत्त्रियादेव घृष्टद्युम्नात् तथाविधः कार्त- वीर्यार्जुनाज्जमद्ग्रेरिव परिभव इत्यर्थः। उद्योतकारास्तु तथाविधः याद्ृशात्पितृकेशग्रहरुष्टहृदयेन जामदग्न्येनाक्षत्त्रिया भू: कृता तादृश इत्याहुः। अहितानां शत्रूणां याः हेतयः शस्त्राणि ( "हेति- ज्वालास्त्रसूर्याशुषु" इत्यभिधानम् ) तेषां घस्मराणि अदयराणि भक्षकाणि अत एव गुरूणि श्रेष्ठानि। भास्वन्ति भास्वराण ( शिलातीक्ष्णानि) मे मम अस्त्राणि ब्रह्मास्त्रादीनि ("आयुध तु प्रहरणं शस्त्र- मस्त्रम्" इत्यमर: ) तान्येव यानि मत्तातेन परशुरामात्प्राप्तानि। अतः क्रोधनः क्रोधशीलः द्रोणात्मजो मल्लक्षणो जनः यत् रामेण परशुरामेण कृतं क्षत्त्रक्षयरूपं पितृवैरनिर्यातनं तदेव कुरुते इत्यर्थः। आत्मजपदेन द्रोण एवाहमिति बोधनम् । "रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे। राधवे चासिते श्वेते मनोज्ञेऽपि च वाच्यवत् ।I" इति विश्वः। शार्डूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे। अत्र रौद्रे रसे मृदवो वर्णाः प्रतिकूला: ओजस्विरिनि रसे विकटवर्णत्वस्य दीर्घसमासत्वस्य चानुगुण- त्वात्। अत एवाष्टमोल्वासे ७५ कारिकायामुक्तम् "वृत्तिदै्ध्य गुम्फ उद्धत ओजसि" इति। तदेवाह

Page 388

सप्तम उल्लास:।

अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम्। यथा fhie ie BDPE ( 9)

क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्। उज्ज्वाल: परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥२०९॥ यत्र तुन क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥ अत्र हीत्यादि। विकटेति। उद्धतेत्यर्थः ओजोगुणव्यञ्जकेति यावत्। दीर्घसमासत्वं चेति। इदं रौद्ररसानुगुणत्वप्रदर्शनपरमिति प्रासङ्गिकम् न तु प्रकृतोपयुक्तमिति बोध्यम् । यत्तु "दीर्घसमासेति। प्रतिकूलवर्णेत्यत्र वर्णपदं समासस्याप्युपलक्षणमिति भावः " इति उद्चोतोक्तं प्रकृतोपयुक्तत्वेन व्याख्यानम् तत्तु चिन्त्यमेव अपदस्थसमासोदाहरणे वृत्तौ वक्ष्यमाणया 'समासस्यावर्ण रूपत्वात्' इति प्रद्ीपोक्त्या 'रसाननुगुणवर्णबहुलवाक्यत्वस्यैव प्रतिकूलवर्णपदार्थत्वादिति भावः' इति स्वोक्त्या च विरुद्धत्वादिति ज्ञेयम्। उचितमिति। तदभावात्प्रातिकूल्यमिति शेषः॥ विकटवर्णत्वस्य दीर्घसमासत्वस्य च रौद्रानुगुणत्वं क दष्ट तदाह यथेति। एवमेवाहुश्रक्रवर्त्यादयः "समुचितरचनानिदर्शनमाह यथेति " इति। प्रातिकूल्य प्रकटनार्थमेवानुकूलस्थलमुदाहरतीति फलितम्। प्रागप्राप्तेति। वीरचरितनाटके द्वितीयेऽङ्के कृतपिनाकिधनुर्भङ्ं (कृतमाहेश्वरकार्मुकभङ्गम्) श्रीरामं प्रति क्रुद्धस्य पिनाकिशिष्यस्य परशुरामस्योक्तिरियम्। रेरेक्षत्रियकुमार सः परशुः (मम) कुठार: क्षणात् क्षणमात्रेण त्वत्कण्ठरूपे पीठे आसने अतिथिरिव भवत्विति संबन्धः। स कः। येनानेन परशुना देवो हरः जगत्सु लोकेषु खण्डपरशुरिति ख्याप्यते खण्डः भिन्नः (अर्धीकृतः) परशुर्यस्य तादृश इति प्रसिद्ध: क्रियते। हरेण स्वपरशोरेकः खण्डः (अवयवः) स्वशिष्याय परशुरामाय दत्त इति प्रसिद्धि: यद्वा खण्डयति (शत्रून्) नाशयतीति खण्डः तथाभूतः परशुर्यस्यैवं ख्याप्यते इत्यर्थः। तेन यद्ध- नुस्त्वया खण्डितं तत्परशुना त्वमपि खण्डिष्यसे इति ध्वन्यते। कीदशः परशुः। प्राक् पूर्वमप्राप्तो निशुम्भो नमनं (नम्रत्वम) मईनं वा (भङ्गो वा) येन तादृशं यत् शांभवं शंभुसंबन्धि धनुः कार्मुकं तस्य या द्वेधाविधा द्वैधीकरणं तेनाविर्भवन् प्रकटो यः क्रोध: तेन प्रेरितः भीमो भयंकरो यः भार्गवस्य भृगुकुलोत्पन्नस्य (मम) भुजः बाहुः स एव (पुष्टदीर्घत्वात्) स्तम्भस्तेनापविद्धः चालितः क्षिप्तो वा। अत एव अशिथिलः वेगवत्तरः । तथा उज्ज्वालः उद्गता ज्वाला यस्य तथाभूत इत्यर्थः। अत्रागच्छतः परशोरनिवारणीयत्वद्योतनाया तथित्वोक्तिः। अतिथेश्र पीठारोहणमुचितमिति पीठित्वरूपणमिति बोध्यम्। शार्दूलविकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र पादत्रये रौद्ररसप्राधान्यात्तदुचितो विकटवर्णदीर्घसमासयोर्विन्यास इति बोध्यम्। ननु साध्य- विकलोऽयं दृष्टान्तः चतुर्थपादे दीर्घसमासाभावात्कोमलवर्णसत्त्वाच्चेत्यत आह यत्र त्वित्यादि। तत्रेत्यस्यार्थमाह चतुर्थपादाभिधाने इति। तुरीयचरणकथने इत्यर्थः । तथैव शिथिल एव। चतुर्थ- १ अतति (सततं गच्छति) इत्यनिथिः। 'अत सातत्यगमने' इति धातोः औणादिक इथिन प्रत्ययः "अध्व- नीनोऽतिथिर्जेयः" इति याज्ञवल्क्यस्मृतिः। अतिथिलक्षणं व्यासेनाप्युक्नम् "दूरच्ोपगनं श्रान्तं वैखवदेवे उपस्थितम्। अतिथिं तं विजानीयान्न्नातिथि: पूर्वमागतः ॥ " इति। यद्वा अनित्यावस्थानान्न विद्यते द्विनीया तिथिरस्येत्यतिथिः । तदुक्तं मनुना "एकरात्रं तु निवसन्नतिथिर्बाहणः स्मृतः। अनित्यं हि स्थितो यस्तनात्तसताइतिथिरुच्यते ॥" इति ॥ ४३

Page 389

काव्यप्रकाशः सटीक:।

(२ ) उपहृत उत्वं प्राप्तो (३ ) लुप्तो वा विसर्गो यत्र तत। यथा धीरो विनीतो निपुणो वराकारो नृपोडन्र सः। यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥२१०॥ पादे हररूपगुरोरनुस्मरणेन तद्विषयकभवोद्रेकात्क्रोधस्य तिरस्कृतेरुचितमेव दीर्घसमासराहित्यं कोमल- वर्णरचनं चेति भाव इत्युद्योतविस्तारिकादिषु स्पष्टम्। "अत्र चतुर्थपादे गुरुस्मरणेन भावोद्रेकात्तदौ- चित्येन मसृणवर्णवन्यासः पादत्रये तु रौद्रप्राधान्यात्तदुचितो विकटवर्णविन्यासः" इति चन्द्रिकाया- मपि स्पष्टम्। "अपरुषस्थापि (मसृणवर्णस्यापि) रौद्रादिविरोधितयास्य न श्रुतिकदुभेदत्वम्। न चश्रुतिकटोरेव तद्विशेषत्वम् तस्य सकृत्प्रयोगेऽप्यात्मलाभात्। अत एव स पद्दोषः। अस्य तु वाक्यव्यापित्वेन। अत एवास्य न पददोघत्वम् एकत्र तादृशवर्णप्रयोगस्य रसाविरोधित्वात्। दोषत्वबीजमप्यस्य रसविसे- धित्वमेव अत एव नित्यदोषोऽयम् नीरसादावात्मलाभाभावात्। श्रुतिकटोस्तु नीरसादावात्मलाभादनि- त्यत्वमिति महान् भेद:। इदंतु चिन्त्यम'रौद्रादिरसे श्लोकार्धपर्यन्तं समासेनेकपदे मृदुवर्णप्रायेऽस्य न कथं पद्दोषत्वम्' इति। अथान्यसाहित्येन दोषत्वं वाक्यदोषत्वम् निरपेक्षदोषत्वं तु पद्देषत्वमिति चेन्न। एवं हि क्िष्टत्वादावापे पददोषत्वं न स्यात्। कि बहुना। यादृशविवक्षया क्िष्टत्वं पददो- षत्वेनोक्तं तयेदमपि तथेति न्यूनः पद्दोषत्वविभाग इति चेत् अत्र वक्ष्यामः" इति सुधासागरकाराः। सच सुधासागरोप्यग्रे 'तत्र वदामः' इत्यादिना ३४२ पृष्ठे ३० पङ्कौ स्फुटीभविष्याति॥

(२) उपहतविसर्गत्वं (३ ) लुप्तविसर्गत्वं चोति दोषद्वयमेकेनैव वाक्येन विवृणोति उपहत इत्यादि। उपहतः उपघातं प्राप्तः । उपघातश्र उत्वप्राप्तिः उपघातान्तरस्य स्वरूपभ्रंशरूपस्य दोषान्तरे (लुप्तत्व- रूपान्यदोषे) अनुप्रवेशात्। तदेवाह उत्वं प्राप्त इति। "अतो रोरप्लुतादप्लुते" (६।१।११३) इति "हशि च" (६।१।११४) इति च पाणिनिसूत्रेणोत्वप्राप्तिरिति बोध्यम्। 'ओत्वं प्राप्तः' इति पाठे "आदुण:" (६१।८७) इत पाणिनिसूत्रेण ओत्वप्राप्तिशित बोध्यम्। लुतः लोपं प्राप्तः दर्शनाविषय इत्यर्थः । विसर्ग इति । विसर्जनीयापरपर्यायः 'अः' इत्यचः परो बिन्दुद्वयरूपो वर्ण इत्यर्थः। विसर्ग- शब्देनात्र लक्षणया विसर्गस्थानीयो रेफो ग्राह्यः। तेन व्याकरणप्रक्रियोपपत्तिरिति केचित्। उपहत इत्यादौ एकवचनं जात्यभिप्रायकम्। तथा च उपहता उत्वं प्राप्ताः लुप्ता वा विसर्गा यत्र (यस्मिन्वाक्ये) तदिति बहुवचनान्तो विग्रहः एकस्य विसर्गस्य तथात्वेऽवैरस्यात्। तेन नैरन्तर्येणोत्वप्राप्तबहुविसर्गत्वम् तथा लुप्तबहुविसर्गत्वं च लक्षणे। अन्यथा वाक्यदोषत्वायोगः स्यात्। एवं चोपहतविसर्गाणां लुप्तविस- र्गाणां च बहूनां मेलने दोष इति फलितम्। यद्यप्युपहतलुमान्यतरविसर्गत्वमकं लक्षणं संभवति तथापि गौरव।द्वैरस्यभेदेनानुभवाच्च दोषदयमुक्तमिति प्रदीपप्रभयोः स्पष्टम्। 'लुत्तो वा' इत्यत्र 'लुप्तश्र' इत्यपि पाठः संभाव्यते "चकरेण दोषद्वित्वावगमः पृथगेव वैरस्योत्पादनात्" इति चक्रवर्त्युक्तेः॥ दोषद्वयमपि एकस्यैत् श्लोकस्यार्धद्वयेनोदाहरति धीर इति। अत्र 'सः' इति "सर्व विशेषणं साव- धारणम्" इति न्यायेनावधारणसाहेतम् तेन अत्र जगति स एव नृपो धीरत्वादिगुणवानित्यन्वयः। धीर: पण्डितः विनोतः सुशिक्षितः "विनीतः सुवहाश्वे स्याद्वणिज्यपि पुमासत्रिषु। जितेन्द्रियेSपनीते १ रसविरोधित्वमिति। तद्वयकि्विविरोधित्वमित्यर्थः। तद्वि तत्तद्रसवृत्तिमाधुर्यादिगुणव्यक्तिप्रतिबन्ध कत्वाद्वोध्यमि- न्युद्त्योते स्पष्टम् ।।

Page 390

सप्तम उल्लास: ।

(४) विसंधि संघेर्वैरूप्यम् विम्लेषोऽश्लीलत्वं कष्टत्वं च। तत्राद्य यथा च निभते विनयान्विते ॥" इति मेदिनी। निपुणः प्रवीणः । वरः श्रेष्ठः आकारो यस्य सः सुन्दरा- कृतिरित्यर्थः । यस्य नृपस्य भृत्याः सेवकाः बलेन उत्सिक्ताः अहंकृता: बुद्धिप्रभाविताः बुद्धिप्रभाव- युक्ता: बुद्धिजन्यसामर्थ्ययुता इत्यर्थः । तारकादित्वादितच्प्रत्ययः । 'बुद्धिप्रभान्विताः' इति पाठे बुद्धया प्रभया तेजसा चान्विता युक्ता इत्यर्थः ॥

अत्र पूर्वार्धे 'धीरो विनीतो' इत्यादौ "हशि च" इति सूत्रेण 'नृपोऽत्र' इत्यत्र "अतो रोर०" इति सूत्रेण च रोरुत्वप्राप्तिरूपाद्विसर्गोपघातादुपहतविसर्गत्वम् । उत्तरार्धे तु 'भृत्या बलोत्सिक्ताः' इत्यादौं सकारस्य "ससजुषोरुः" (८।२६६) इति सूत्रेण रुत्वे "भोभगोअघोअपूर्वस्य योऽशि" (८।३१७) इति सूत्रेण यत्वे "हलि सर्वेषाम्" (८३।२२) इति सूत्रेण यलोपे च सति विसर्गस्य लोपात् अर्द- शनात् लुप्तविसर्गत्वम् । उपहतविसर्गत्वलुप्तविसर्गत्वाभ्यां बन्धशैथिल्यम् बन्धशैथिल्येन च सहृद- योद्वेगो दूषकताबीजम् बन्धस्य गाढत्वे यथा चमत्कारो न तथा शैथिल्ये इति सहृदयानुभवात्। अत एवायं नित्यदोषः । अत्रापीदं चिन्त्यम् 'भूयो महीयोऽतियशोविभूषितः' इत्यादौ कथं न पद- दोषत्वमस्येतीति प्रदीपे स्पष्टम्। सारबोधिनीकारास्तु प्रतिकूलेत्यादिषु पञ्चसु पतत्प्रकर्षे च बन्धशै- थिल्यकारित्वमेव दूषकताबीजमित्येवाहुः। एवं विसर्गबहुत्वमपि दोषः । यथा 'स्मरः खरः खलः कान्त कायः कशतरः सखि' इत्यादौ। तदुक्तं कुन्तकेन "अत्रापुतविसर्गान्तैः पदैः प्रोतैः परस्परम्। -हस्वैः संयोगपूर्वेश् लावण्यमंतिरिच्यते॥" इतीत्युद्योतदीपिकयोः स्पष्टम्। यमके तु नायं दोषः। यथा 'पिकोऽपि कोऽपि कोपिको वियोगिनीरभर्त्सयत्' इत्यत्र नलोदयकाव्ये द्वितीयसर्गे । कोपिक: कोपोऽस्यास्तीति कोपी कोप्येव कोपिकः सकोप इत्यर्थः। यद्वा कोपयतति कोपिकः तासामेव कोपकर्तेति यावत्। अपि संभावनायाम्। एतादृशः कोऽपि पिकः कोकिलः ताः वियोगिनीः विर- हिणीः अभर्त्सयत् भर्त्सितवानिति तदर्थः। "भत्सनं त्वपकारगीः" इत्यमरः ॥

(४ ) विसंधिपदं विवृणोति विसंधीति। विशब्दोSत्र वैरूप्यार्थकः। परः संनिकर्षः ( वर्णाना मतिशयितः संनिधिः ) संधिः संहितारूपः। संहिता च स्वारसिकार्धमात्राकालव्ययेनोच्चारणम्। तदेवाह संधेर्वैरूप्यमिति । वैरूप्यं त्रिधा भवतीत्याह विश्लेष इत्यादि । विश्लेषः संध्यभावः । अश्लीलत्वं प्राक् (२७७ पृष्ठे) उक्तमेव। कष्टत्वं श्रतिकटुत्वम्। अयमाशयः । विसंधि: विरूप: संधि: संनिकर्षो यत्र (वाक्ये) तत्। वैरूप्यं च त्रिधा विश्लेषोश्लीलत्वं कष्टत्वं च। विश्लेषस्तु प्राप्तस्य संहिताकार्यस्याभावः । विश्लेषोऽपि पुनर्द्विविधः "संधिरेकपदे नित्यो नित्यो धातूपसर्गयोः । नित्यः समासे द्रष्टव्यः अन्यत्र तु विभाषया ॥" इति वचनादैच्छिकः आनुशासनिकश्रेति। 'अन्यत्र' इत्यस्य वाक्ये इत्यर्थः । अत एव पाठान्तरं दृश्यते "संहितैकेपदे नित्या नित्या धातूपसर्गयोः। नित्याँ समासे वाक्ये तु सा विवक्षामपेक्षते ॥" इति। आनुशासनिकोऽपि प्रगृह्यहेतुकोSसिद्धिहेतुकश्रेति १ "अदर्शनं लोप:" (१।१।६०) इति पाणिनिसूत्राददर्शनशब्दलोपशब्द्योः पर्यायत्वममिप्रेत्याह अद्र्शनादिति। २ एकपदेऽखण्डपदे यथा हयोः। धातूपसर्गयोर्यंथा अन्वेति। समासे यथा सुध्युपास्यः। वाक्ये तु सा संहिता विवक्षां वक्तुरिच्छामपेक्षते विवक्षाधीनेत्यर्थः क्वचित् भवति क्वचिच्च न भवतीति यावत्। अत एव "मनसश्रेन्द्रिया- णा च ऐकाग्रथं परमं तपः" इत्यादौ संहिताकार्य दृश्यते न दृश्यते चेति बोव्यम् ।

Page 391

३३२ काव्यप्रकाशः सटीकः । राजन्विभान्ति भवतश्चरितानि तानि इन्दोर्दुतिं दधति यानि रसातलेऽनतः। धीहोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः ॥ २११॥ यथा वा -ला तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः।। निजवंश उदात्तकान्तकान्तिर्वत मुक्तामणिवच्चकास्त्यनर्घः ॥ २१२॥ द्विविध इति त्रिविधोऽयं विश्लेषः । तेष्वाद्यः सकृदृपि वर्तमानो दोषाय इच्छानिबन्धनत्वेनाशकक्तिमू- लकतया प्रथमत एव सहृदयोद्वेजकत्वात्। अन्त्यौ तु असकृदेव वर्तमानौ दोषाय आनुशासनिकत्वे- नाशक्त्यनुन्नायकतया बन्धपारुष्येणैव (बन्धशैथिल्येनैव) हि तस्य दोषत्वम् तच्चासकृत्प्रयोगे एव । तत्त्रैरूप्यवतामनुगमश्रान्यतमत्वेन अश्लीलव्नानार्थत्वमेव वेति प्रद्ीपे स्पष्टम् ।। एवं त्रिविधे विश्लेषे ऐच्छिकः प्रगृह्यहेतुकानुशासनिकश्र्वति द्विविधं विश्लेषमेकस्यैव श्लोकस्यार्धद्ये- नोदाहरति राजन्निति। हे राजन् भवतः तव तानि चरितानि चरित्राणि विभान्ति शोभन्ते यानि रसातले पाताले अन्तः गम्भीरप्रदेशे यद्वा रसातले प्रविश्य अन्तः मध्ये इन्दोः युति दधति धारयन्ती- त्यन्वयः । इन्दुवत्प्रकाशमानानि सन्तीत्यर्थः । "अधोभुवनपातालबलिसझरसातलम्" इत्यमरः। धीदो- र्बले धीर्नीत्यनुसारिणी बुद्धि: दोर्बलं वाहुबलं ते उभे विजयस्य संपदं संपत्तिम् एत्य प्राप्य भातः शोभेते। कर्थंभूते। अतितते अत्यन्तविस्तृते। तथा उचितयोरवसस्योः अनवृत्ती अनुसरणे आतन्वती कुर्वती (कुवाणे)। यथोचितावसरानुसारेण प्रवर्तमाने इत्यर्थः । 'उचितार्थवृत्ती' इति पाठे उचितयोर्योग्य- योरर्थयोः कर्मणोर्वृत्ती वर्तने आतन्वती इत्यर्थः। उदाहरणदीपिकाकृतस्तु 'उचितानुवृत्तिम्' इति पठित्वा उचितावसरानुसरणं विजयसंपदं चातन्वती धीदोर्बले त्वाम् एत्य प्राप्य भातः इत्यन्वय- माहुः। तद्युक्तम्। संनिहिततया संपदमित्यनेनान्वययोग्यस्य 'एत्य' इत्यस्याध्याहृतेन 'त्वाम्' इत्यनेनान्वयस्यानुचितत्वात् चकाराभावाच्च। 'उचितानुवृत्ती' इत्यस्य धीदोर्बलविशेषणत्वं तु नुमाग- मप्रसक्त्या 'उचितानुवृत्तिनी' इति रूपापत्तेरयुक्तमिति चन्द्रिकोद्योतयोः स्पष्टम् । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र पूर्वाे 'तानि इन्दोः' इत्यत्र "अन्यत्र तु विभाषया" इति वचनानुसारेणानित्यतया ऐच्छि- की विश्लेषः (संध्यभावः) सकृदपि दोषः। उत्तरार्धे तु 'धीदोर्बले अतितते' इत्यत्र 'अतितते उचि- तानुवृत्ती' इत्यत्र 'उचितानुवृत्ती आतन्वती' इत्यत्र च 'ईदूदेद्द्विवचनं प्रगृह्यम्" (१।१।११) इति पाणिनिसूत्रेण द्विवचनस्य प्रगृह्यसंज्ञ। तस्य च प्रग्ृह्यसंज्ञकस्य "परतप्रगृह्या अचि नित्यम्" (६।१।१२५) इति पाणिनिसूत्रेण प्रकृतिवद्भावविधानात् प्रगृह्यहेतुकानुशासनिको विश्लेषोS- सकृदेव दोष इति बोध्यम्। अत्रैच्छिकविश्लेषस्य खेदादिना विच्छिय पाठे न दुष्टत्वम् यथा 'एका एका शिरोरुहा' इति केचिदित्युइ्चोते स्पष्टम्॥ असिद्धिहेतुकमानुशासनिकं विश्लेषमुदाहरति तत उदित इति। पतिवरां प्रति सख्या उक्तिरियम। १ उद्योनकारास्तु 'तद्वैरूप्यवताम्' इति पाठमगदाय "प्रागुक्तप्रकाररुपवैरुव्यवतामित्यर्थः। अन्यान्यत्वेनेति पाठः" इत्याहुः ॥ २ ईत् ईकारान्तम् ऊत् ऊकान्तम् एत एकारन्तं च यत् द्विवचनं तत् पगृह्संज्ञकं भवतीति सूत्रार्थः । यथा हगी एतौ विष्णू इमौ गङ्गे अम् ॥3 पुताश्र प्रगृह्याश्र्वाचि परे सति नित्यं प्रकत्या भवन्तीति तदर्थः। तत्र पुतो यथा एहि कृष्ण॥ ३ अत्र गौश्वरति। प्रगृहो यथा हरी एतौ।।

Page 392

सप्तम उल्लास: 1 संहितां न करोमीति स्वेच्छया सकृदपि दोष: प्रगृद्यादिहेतुकत्वे त्वसकृत्।91 वेगादुड्डीय गगने चलण्डामरचेष्टितः । अयमुत्तपते पत्त्री ततोडत्रैव रुचिङ्करु ॥ २१३॥ उच्चैरत्युन्नतात् उदयाचलात् पूर्वाद्रेः उदित उदयं प्राप्तः इन्दुरिव उच्चैरुत्कृष्टात् ततः पूर्वोक्ताद्वशात् उदित उत्पन्नः उदारो महान् हारो मुक्तादाम तेन हारिणी मनोहारिणी ब्युतिर्यस्य तादृशः इन्दुरपि उदारहारवत् हारिणी द्ुतिर्यस्य तादृश इत्युभयसाधारणं विशेषणमिदम्। एवंविधोडयं राजा निजवंशे स्वकुले मुक्तामणिवत् मौक्तिकमणिरिव चकास्ति दीप्यते । मुक्तामणिरपि स्वजनकवंशे वेणौ चकास्ति मुक्तामणीनां वेणुजन्यत्वं प्रसिद्धमेव यथाहुः "गजेन्द्रजीमूतवराह शङ्गमत्स्याहिशुक्त्युद्भववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्धवमेव भूरि॥" इति। कीदृशः। उदात्ता उदग्ा (उद्भटा) कान्ता मनोहरा कान्तिः शोभा यस्य तथाभूतः। तथा अनर्धः श्रेष्ठोSमूल्यश्र्वेत्यर्यः। बतेति हर्षे विस्मये वा। "बतामन्त्रणसंतोषखेदानुक्रोशविस्मये" इति नानार्थकोशात्। "वंशो वेणौ कुले वर्गे पृष्ठाद्यव- यवेऽपि च" इति विश्वमेदिन्यौ। "मूल्ये पूजाविधावर्घः" इत्यमरः। विषमं छन्दः "भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम्" इति लक्षणात् ॥ अत्र 'तत उदित' इत्यत्र 'उदित उदार' इत्यत्र 'निजवंश उदात्त' इत्यत्र च "लोपः शाकल्यस्य" (८।३ १९) इति पाणिनिसूत्रेण विहितस्यापि लोपस्य "आदुणः " (६१।८७) इति सूत्रेण विहितं गुणं प्रति "पूर्वत्रासिद्धम्" (८।२।१) इति सूत्रेणासिद्धिविधानादसिद्धिहेतुक आनुशास- निको विश्लेष: (असंधिः) इति बोध्यम्। अस्य दूषकताबीजं तु बन्धशैथिल्यमित्युक्तमेव।। राजन्विभातीत्यादिदर्शितोदाहरणत्रये दोषविवेकमाह संहितामित्यादि। संहितां संधिम्। स्वच्छयेति। न तु संहितानिषेधकसूत्रपारतन्त्रयेणेति भावः। न चैवं च्युतसंस्कृतित्वमिति वाच्यम् संधेरिच्छाविकल्पस्य "अन्यत्र तु विभाषया" इति व्याकरणानुशिष्टत्वात्। सकृदपि दोष इति। सकृदेकवारमपि विश्लेषो दोष इत्यर्थः । स च 'राजन्विभाति' इति पूर्वश्लोकस्य पूर्वार्धे स्पष्ट एवेति भावः। प्रगृह्यादीति। आदिपदेनासिद्धिहेतुकस्य परिग्रहः। असकृदिति। अनेकवारमित्यर्थः तथैव कविसमयसिद्धत्वात् तदैव बन्धशैथिल्योदयाच्चेति सारबोधिन्यादौ स्पष्टम्।। अश्लीलत्वमुदाहरति वेगादिति। नायकाधिष्ठितं संकेतस्थानं बोधयन्त्या दूत्या उक्तिरियम्। हे सखि अयं पत्त्री पक्षी वेगात् जवेन उड्डीय उड्डयन कृत्वा गगने चलन् गच्छन् उत्तपते उत्तपो भवति दीप्यते वा। "उद्विभ्यां तपः" (१।३२७) इति पाणिनिसूत्रेणात्मनेपदम्। ततः तस्मात् अत्रैव प्रदेशे रुचिं प्रीतिम् अवस्थितिमिति यावत् कुरु इत्यन्वयः ।'रुच दीप्तावभिप्रीती च' इति धातुः। कीदशः। डामरम् उद्भटं चेष्टितं चेष्टा यस्य तादृशः। डामरं डमरुवायं तद्त् चेष्टितं यस्येत्यर्थ इत्यन्ये। "शयेनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणौ" इति शाश्वतः ॥ अत्र चलण्डामरति रुचिङ्कविति च संनिकर्षरूपसंध्युपस्थापपिताभ्यां लण्डाचिङ्कशब्दाभ्यां पुंव्यक्षन- योन्यङ्करयो: प्रतीतिरिति अश्लीलः संधिः। काशीदेशभाषायां लण्डाशब्देन शिश्षस्याभिधानात् लण्डोति जुगुप्साव्यञ्जकः। लाटदेशभाषायां चिङ्कशब्देन योन्यग्राभिधानात् चिङ्किति वीडाव्यक्जक इति चन्द्रि- कादौ स्पष्टम्। काश्मीरदेशे दुड्डीलण्डचिङ्कशब्दाः वराड्ग(योनि)मेण्ट्रा(शिश्न) योनिमणि( योन्य-

Page 393

३३४ काव्यप्रकाश: सटीक:।

अत्र संधावश्लीलता।। उदर्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः। नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाकृ॥२१४॥ (५) हतं लक्षणानुसरणेडप्यश्रव्यम् अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम् । क्रमेणोदाहरणम्। न्तर्गताङ्कर)वाचका इति जयन्तभद्टकृतदीपिकायामपि स्पष्टम्। तदेवाह अत्र संधावश्लीलतेति। लण्डाचिङ्कशब्दौ पुंव्यञ्जनवराङ्गबोधकौ तयोः संधानेनैव निष्पत्तेरिति भावः । अत्र चलन्निति डामरेति रुचिमिति कुर्विति बहुपदावलम्बनाद्वाक्यदोषतेति बोध्यमिति सारबोधिन्यां स्पष्टम्।। कष्टत्वम् (श्रुतिकटुत्वम्) उदाहरति उर्व्यसाविति । अध्वगं प्रति कस्यचिदुपदेशोक्तिरियम्। अत्र अस्मिन् मरोः मरुदेशस्य अन्ते समीपे चारु: सुन्दरा अवस्थितिरवस्थानं यस्यास्तथाभूता। मरौ वृक्षदौलभ्याच्चारुत्वम्। यद्वा चारूणां सुन्दराणां पक्ष्यादीनामवस्थितिर्यस्यां तथाभूता उर्वी महती असौ दृश्यमाना तर्वाली तरुपक्कि 'अस्ति' इति शेषः। (तेन कारणेन) अत्र वने ऋजु सरलं यथा स्यात्तथा गन्तुं न युज्यते। तत् तस्मात्कारणात् त्वं मनाक किंचित शिरो मस्तकं नमय नीचैः कुर्वि- त्यर्थः। 'नात्रर्जुः क्षमते' इति प्रदीपपाठे 'जन' इत्यध्याहार्यम्॥ . अत्र 'उर्व्यसौ' इत्यादौ संधेः श्रुतिकदुत्वरूपं कष्टत्वम् । अत्र तरुश्रेण्या विशेषणविशेष्यभावेना- न्वयाद्वाक्यदोषता। अत्र दूषकताबीजं पद्दोषप्रस्तावे उक्तम् ।।

शेऽपि लोपासिद्धिनिबन्धनविश्लेषस्य पदेऽपि सद्भावात्कथमस्य न पददोषत्वम्। यथा 'भूय उच्चैर्मह उदात्तयश उदारः' इति। वयं तु तर्कयामः। सकलप्रभेदभिन्ना एते दोषा दूषणान्तरासंकीर्णा वाक्ये एवेति 'वाक्यमेव तथा' इति नियमार्थः। अत एव न पद्दोषविभागन्यूनतापि तादृशस्यैव पदवृत्ते- स्तत्र विभागादिति" इति प्रदीपः। (असाधुमध्यप्रवेशेऽपीति। ततश्र तेषां पद्दोषत्वे इष्टापत्ति- रित्यर्थः । दूषणान्तरेति। पदे तु लोपासिद्धिनिबन्धनविश्लेषस्यासंकीर्णत्वेऽप्यश्लीलकष्टेच्छानिबन्ध- नानामश्लीलादिसंकरस्योक्तत्वान्न सकलप्रभेदानामसंकीर्णता। एवं प्रतिकूलवर्णत्वमपि शृङ्गारे समस्त- पदगतं श्रुतिकदुत्वेनापदस्थसमासत्वेन च संकीर्णम्। तथोपहतलुप्तविसर्गत्वमप्रयुक्तसंकीर्णमिति भावः। तादशस्यैव दोषान्तरासंकीर्णसकलभेदस्यैव) इति प्रभा। (एते दोषा इति। प्रतिकूलवर्णस्य शृङ्गारे समासगतत्वेऽस्थानस्थसमासेन श्रुतिकटुना च संकरः उपहतलुप्तविसर्गस्याप्रयुक्तेन विसंधि- भेदस्याश्लीलकष्टाभ्यामिति बोध्यम्) इत्युद्योतः॥ (५) हतवृत्तमुदाहर्तु हतपदार्थ त्रिविधं वदन् हतवृत्तमित्यत्र विग्रहं दर्शयति हतमित्यादि। ("मारिते कुत्सिते हतम्" इति कोशात्) हतं निन्दितं वृत्तं छन्दो यत्र (वाक्ये) तदिति संबन्धः । तत्र प्रथ- मविधं हतपदार्थमाह लक्षणानुसरणेऽपीति। लक्षणं गुर्वादिनियामकं पिङ्गलमुन्यादिप्रणातं छन्द :- शास्त्रम् । अपिशब्देन तदननुसरणं समुच्चीयते अन्यथा छन्दोभङ्गेड्यदुष्टकाव्यत्वापत्तिः स्यात्। १ मध्यप्रवेशेपीलि। कचित्तु अपिशब्दहिन एघ पाठो दृश्यते॥

Page 394

सप्रम उल्लास:। ३३५

अमृतममृतं कः संदेहो मधून्यपि नान्यथा द्वितीयविध हतपदार्थमाह अप्राप्तेति। "वा पादान्ते" इति छन्दःशास्त्रेण लघोरपि पादान्ते गुरुत्व- मतिदिश्यते तन्न प्रामोति तत्कार्यकारि न भवतीत्यर्थः । तथा च "वा पादान्ते" इत्युक्तेः अप्राप्तो गुरुभावो गुरुत्वं येन तथाभूतः अन्ते लघुर्लघुवर्णो यस्य यत्र वेति बहुव्रीहिगर्भों बहुव्रीहिरिति बोध्यम्। तृतीयविधं हतपदार्थमाह रसाननुगुणमिति। प्रकृतरसप्रतिकूलमित्यर्थः । एवं वृत्ते हतत्वं त्रिविधमिति भावः। वृत्तस्याश्रव्यत्वं च लक्षणाननुसरणे छन्दोभङ्गात् लक्षणानुसरणे तु यतिभङ्गोत स्थानविशेषे गणविशेषयोगाच्चेति त्रिविधम्। तत्रायं छन्दोभङ्गादश्रव्यत्वं प्रसिद्धत्वाद्गुपेक्ष्यान्त्ये दे उदाहरिष्यते मूले एव। आद्यं तु काव्यप्रदीपे उदाहृतम्। तद्था "यस्मिन् पञ्च पञ्चजना आकाशश्र प्रतिष्ठितः ।" "तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।" इति। यस्मिन्निति। बृहदारण्यकोपनिषदि चतुर्थेऽध्याये चतुर्थे ब्राह्मणे १७ कण्डिकायां वाक्यमिदम्। तमेवेति। इदमपि वाक्यं तत्रैव २१ कण्डिकायामिति बोध्यम्। अन्र पञ्चजनशब्देन रूढ्या प्राणचक्षु :- श्रोत्रान्नमनांस्युच्यन्ते "प्राणस्य प्राणमुत चक्षुषश्क्षुः श्रोत्रस्य श्रोन्मन्नस्यान्नं मनसो ये मनो विदुः" इति वाक्यशेषात्। पञ्चजनाः कति इत्यपेक्षायां पञ्चेति विशेषणम्। तथा च यस्मिन् परमेश्वरे प्राणाद्यः पञ्च पश्चजनाख्या आकाशश्र प्रतिष्ठितः तमेव धीरो विद्वान् ब्राह्मणो विज्ञाय निश््वित्य प्रज्ञां तत्त्वबुद्ध्यभ्यासं कुर्वीतेत्यर्थ इति प्रभायां स्पष्टम्। उदयोतकारास्तु रथकारपश्चमाश्वत्वारो वर्णाः पञ्चजनाः । प्रज्ञां निदिध्यासनमिति व्याचख्युः॥ अत्र श्लोकरूपे छन्दसि (वृत्ते) प्रथमवाक्यस्य प्रथमे पादे द्वितीयवाक्यस्य प्रथमे द्वितीये च पादे पञ्चमस्य गुरुत्वाच्छन्दोभङ्ग: "श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम्" इति प्राग् ११ पृष्ठे उक्तछन्दःशास्त्रविरुद्धत्वात्। उक्तं च सरस्वतीकण्ठाभरणे प्रथमपरिच्छेदे भोजराजेन "अत्र पश्च- मवर्णस्य लघो: स्थाने गुरोः करणाच्छन्दोभङ्ग:" इति। एवं चात्र छन्दःसूत्राननुसरणेन छन्दोभङ्गा- द्श्रव्यत्वमिति बोध्यम्।। ननु इदं सर्वे काव्यप्रदीपानुरोधेनैवोक्तं न तु मूलकृत्संमतम् छन्दोभङ्गादश्रव्यत्वस्य वक्ष्यमाणे विद्याविरुद्धत्वेऽन्तर्भावात् 'विद्याविरुद्धः' इत्यत्र विद्याशन्देन शास्त्रमुच्यते इति वक्ष्यमाणत्वात्। न च काव्यवर्णादिनियमबोधकस्य पिङ्गलमुन्यादिप्रणीतग्रन्थस्य शास्त्रत्वं नास्तीति वाच्यम् "शक्तिर्निषुण- तेति" ३ कारिकायां (११ पृष्ठे) शास्त्रशब्देन छन्दोव्याकरणादीनां ग्रहणस्य मूलकृतैव प्रदर्शितत्वात्। अत एव छन्दोभङ्गादश्रव्यत्वं मूलकृता नात्रोदाहतम् इति तु न शङ्कनीयम् अश्रव्यत्वस्य वाक्यनिष्ठ- तया शब्ददोषत्वेन विद्याविरुद्धत्वरूपार्थदोषेऽन्तर्भावायोगात्। तस्माद्यथोक्तमेव मूलकृत्संमतम्॥ द्वितीयमश्रव्यत्वम् (लक्षणानुसरणेऽपि वर्णवृत्ते यतिभङ्गादश्रव्यत्वम्) उदाहरति अमृतमिति। १ छन्दःशास्रेणेति। इदं हि वृत्तरत्नाकरे १ अध्याये ९ श्लोके दृश्यते। पादान्ते श्लोकचरणान्ते वर्तमानो लघुर्वा विकल्पेन गुरुर्भवतीत्यर्थः। लघावपेक्षिते लघुकार्य गुरा पेक्षिते गुरुकार्य करोतीति भावः ॥ २ यतिभङ्गादिति। यतिः स्थानविशेषे विच्छेदः "यतिर्विच्छे:" इति षष्ठेड्ध्याये पिङ्गलसूत्रात्। केचित्तु यतिरुपरम इत्याहुः ॥ 3 गणेति। गणा: यगणरगणतगणाद्यः ॥४ अत एवेति। विद्याविरुद्धत्वेडन्तर्मावादेवेत्यर्थः ॥ ५ अन्तर्भावायोगािति । अन्तर्भावस्यायोग्यत्वादित्यर्थः ॥

Page 395

३३६ काव्यप्रकाशः सटीकः । मधुरमधिक चूतस्यापि प्रसन्नरसं फलम् । सक्कदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात्॥ २१५।। अ्षत्र 'यदिहान्यत्स्वादु स्यात्' इत्यश्रव्यम्। यथा वा जं परिहरिउं तीरह मणअं पि ण सुन्दरत्तणगुणेण। अह णवरँ जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥ २१६ ॥ कश्वित्प्रियाया अधरस्य स्वादिष्ठतामभिधित्सुः स्वादुतया प्रसिद्धांस्तांस्तानर्थान् अनुजानाति। अन्न द्वितीयममृतपदमास्वादातिशयपरम्। तदुक्तं चन्द्रिकायाम् "अत्र द्वितीयममृतपदं स्वादुतरत्वरूपार्था- न्तरसंक्रमितवाच्यम् स्वादुतरत्वायोगव्यवच्छेदो व्यङ्ग्यः" इति। तथा चामृतं पीयूषम् अमृतं स्वादुतरम् कः संदेहः अत्र न कश्वित्संदेह इत्यर्थः । एवम् मधूनि माक्षिकान्यपि अन्यथा अमधूनि न मधून्येवे- त्यर्थ: मधुराण्येवेति यावत्। चूतस्य आम्रस्यापि प्रसन्नरसं स्वच्छरसं फलम् अधिकं मधुरम् इदम- प्यन्यथा न।: पुनरिति परंत्वित्यर्थकम् परंतु प्रियायाः दशनच्छदात् अधरात् तदपेक्षयेत्यर्थः अ- न्यत् यत् इह जगति यदि स्वादु मधुरं स्यात् तर्हि रसानामन्तरं तारतम्यं रसानाम् आन्तर मर्म वा वेत्तीति तथाभूतो जनः मध्यस्थः पक्षपातरहितः सन सकृदेकवारमपि वदत्वित्यर्थः। तादृशं जगति न किमपीति भावः । हरिणी छन्दः । लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र हरिणीछन्दसि प्रतिपादं षषाक्षरे यतिरुचिता चतुर्थे तु पादे 'हा' इति षष्ठाक्षरे परपदानु- संधानापेक्षत्वेन यतिभङ्गादश्रव्यत्वम्। तदेवाह अत्र यदीत्यादि। अश्रव्यमिति। 'वदतु मधुरं यत्स्यादन्यत् प्रियादशनच्छदात्' इति तु युक्तमिति प्रभायां स्पष्टम् ॥ तृतीयमश्रव्यत्वम् (लक्षणानुसरणेऽपि मात्रावृत्ते स्थानविशेषे गणविशेषयोगादश्रव्यत्वम्) यथा वेत्युदाहरति जं परीति। आनन्दवर्धनकृतपञ्चबाणललिायां गाथेयमिति माणिक्यचन्द्रकृतसकेते स्पष्टम्। "यत् परिहर्तु तीर्यते मनागपि न सुन्दरत्वगुणेन। अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥" इति संस्कृतम्। मानिनीं प्रति दूत्या: समाधानोक्तिरियम्। णवरशब्दः केवलवाची। प्रतिपक्षैरपीत्यं- पिशब्दः समुच्चयार्थक इति केचित् एवार्थक इति कश्वित। तादृशमेतत् कामचेष्टितम् यत्सुन्दरत्वगुणेन रमणीयत्वरूपेण गुणेन युक्तं वस्तु मनागिदपि परिहर्तु त्यक्तुं न तीर्यते न पार्यते न शक्यते इति यावत् 'पारतीर कर्मसमाप्तौ' इति चोरादिको धातुः। अथ च यस्य दोष उक्तापरिहार्यत्वरूपः प्रति- पक्षैः यत्यादिभिरपि (विरकतरपि) केवलं प्रतिपन्नोऽङ्गीकृतः न तु परिहृतः ॥ त्वत्कान्तस्य तु कैव कथा तस्य दैवादन्यवनितासङ्गऽपि कोपातिशयो न विधेय इति भाव इत केचित्। अन्ये तु 'जो परि- हरिउम्' इति प्राकृतं पठित्वा 'जं परिहरिउम्' इति पाठेऽपि प्राकृते लिङ्कानियमं मत्वा 'य; परिहर्तु' इति संस्कृतं प्रदर्श्य यो नायकः अपराधशीलोऽपि सुन्दरत्वगुणेन मनाक किंचिदपि परिहर्तु त्यक्तुं न तीर्यते न शक्यते अथ यस्य नायकस्य दोषोऽपराधः प्रतिपक्षैरप्यस्माभिः केवलं प्रतिपन्नः पूर्वोक्तप्र- कारण समाहित इति व्याचक्षते। अपरे तु 'जस्स' इत्यत्र 'तस्स' इति पठि वा 'तस्य' इति संस्कृतं प्रदश्य यो नायक इत्यादि व्याख्याय अथ तस्य नायकशिरोमणेः केवलमेको दोषः यत्प्रतिपक्षैरपि १.आनन्दवर्धनो नाम ध्वन्यांलोककारः।नवालोको नामालंकारयन्थविरोषः। यस्य हि टीका अभिनवगुप्तपाद- रुता लोचनाख्या स इत्यर्थ:।।

Page 396

सप्तम उल्लास: । ३३७

अत्र द्वितीयतृतीयगणौ सकारभकारौ॥ नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ॥ २१७॥ अत्र हारिशब्दः । हारिप्रमुदितसौरभेति पाठो युक्तः । यथा वा प्रतिपन्नः सपत्नीजनैरपि समाहित इत्यर्थ इति व्याच्युः। स्पष्टमिदं सर्वमुद््यातचन्द्रिकासुधासा- गरादिषु। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र वर्णत्रयात्मकः (मात्राचतुष्टयात्मकः ) एकैको गणः। तत्र 'हरिउं' इति द्वितीयो गण: "सोऽ- न्तगुरुः" इति वचनात्सगणः । 'तीरइ' इति च तृतीयो भगणः "भ आदिगुरुः" इति वचनात्। अत्रार्यायां द्वितीयस्य 'हरिउं' इत्यन्तगुरोः सगणस्य 'तीरइ' इति वृतीयस्यादिगुरोर्भगणस्य चाश्र- व्यत्वं छन्दःशास्त्रसिद्धमिति प्रभाचन्द्रिकयोरुक्तम्। सुधासागरकारास्तु "अत्रार्यायां द्वितीयतृतीयौ सगणभगणौ। तौ च तथाविधौ छन्दःशास्त्रेण दुःश्रवत्वेन प्रतिपादितौ" इति प्रदीपमुपादाय "अयं भाव: । सगणभगणावन्तगुर्वादिगुरू प्रथमगणान्ते यत्यकरणादश्रव्यौ। सगणस्य प्रागुपादानं तूचितम्। यथा गाथालक्षणे 'पढमं बारहमत्ता बीए अठ्ठारहेहिं संजुत्ता। जह पढमं तह तीअं पंचदहविहूसिआ गाहा ॥' इत्यत्र" इत्याहुः। वयं तु इत्थ प्रतीमः। अत्र गाथाछन्दास द्वितीयस्य 'हरिउं' इत्यन्तगुरोः सगणस्य तृतायस्य 'तीरइ' इत्यादिगुरोभगणस्य चाव्यवधानादश्रव्यत्वमानुभाविकम् 'उंती' इति द्वयोर्गुर्वोरव्यवधानेनोच्चारणात् । अत एवोक्तं वृत्तिकृता "लक्षणानुसरणेऽप्यश्रव्यम्" इतीति॥ अप्राप्तगुरुभावान्तलघु वृत्तम् (यस्मिन्वृत्ते पादान्त्यलघोर्गुरुकार्याक्षमत्वं तत्) उदाहरति विकसि- तेति। वसन्तः ऋतुविशेषः मुनेरपि दुर्हरमानसस्याप मानसं मनः हरति वशीकरोतीत्यन्वयः। कीदृशः। विकसितः पुष्पितो यः सहकारोऽतिसौरभश्चूतविशेषः तस्य तारोऽत्युत्कटः हारी मनोहरश्र (मनो- रञ्जकश्) यः परिमलो गन्धः तेन गुञ्जिताः गुआ्जारवयुक्ताः (उन्मत्ततया शब्दं कुर्वाणाः) पुञ्जिताः मिलिताश्व (एकत्र समवेताश्र) द्विरेफा: भ्रमराः यस्मिन तथाभूतः। यद्ा तादृशः परिमलो यत्र तादृशश्रासौ गुञ्जितपुअ्जितद्विरेफश्रेति विग्रहः। 'परिमलपुञ्जितगुञ्जितद्विरेफः' इति पाठे परिमलेन पुञ्जिताः सन्तो गुिता द्विरेफा यत्रेति विग्रहः। पुनः कीदृशः। नवकिसलयानि नवपल्लवा एव चारुचामराणि मनोहरचामराणि तेषां श्रीः शोभा यत्र तथाभूतः। यद्वा नवाकिसलयैश्र्वार्वी मनो- हरा चामरश्रीश्रामरशोभा यस्य तथाभूत इत्यर्थः । अनेन राजत्वम् तेन हरणे शक्तिश्र् ध्वन्यते। पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे॥ अत्र पुष्पिताग्रायां छन्दसि "वा पादान्ते" इति छन्दःशास्त्रेण पादान्तस्य गुरुत्वाच्छन्दोभङ्गाभावे- Sपि प्रथमपादान्तवर्तिन इकारस्य लघोर्गुरुकार्यकरणाक्षमत्वं बन्धशौथल्यात्। बन्धशैथिल्यमेव दूषक- ताबीजमिति तु प्रागुक्तमेव। ननु "वा पादान्ते" इति शास्त्रस्य वैयर्थ्यमिति चेन्न। तस्य वसन्ततिलकेन्द्र- वज्रादिषु तत्कार्यकरणक्षमत्वेन चारितार्थ्यात्। तथा च "वा पादान्ते" इति शास्त्रं वसन्ततिलकेन्द्रव- ज्रादिवृत्तपरमेवेति बोध्यम्। तद्तत्सर्वमभिप्रेत्य दोषं प्रकाशयति अत्रेत्यादि। उक्तं च चन्द्रिका- याम् "अत्रादपादान्तस्थस्य रिकारस्य गुरुत्वानुशासनेऽपि तत्कार्याक्षमतयाश्रव्यत्वम्" इति। युक्तं १ तथाविधौ अव्यवधानेन पठितौ॥ ४३

Page 397

३३८ काव्यप्रकाश: सटीकः ।

अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा मकशीकी प संभारा: खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा। श्रीमत्कान्तिजु्षां द्विषां करतलात् स्त्रीणां नितम्बस्थलात् दष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च । २१८॥ अत्र 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुतां भजते॥। हा नृप हा बुध हा कविबन्धो विप्र सहस्रसमाश्रय देव। मुग्धविद्ग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥ २१९॥

पाठमुपदिशति हारिप्रमुदितेति। प्रमुदितेत्यत्र 'मुद हर्षे' इति भौवादिकाद्धातोः "आदिकर्मणणि क्तः कर्तरि च " (३४।७१) इति पाणिनिसूत्रेण कर्तरि क्तः 'मासं प्रमितः प्रतिपच्चन्द्रः' इतिवाक्य स्थप्रमित इतिवत्। तथा च हारि च प्रमुदितं प्रमोदं कर्तुमारब्धवच्च यत् सौरभं सौगन्ध्यं तेन पुश्िता: द्विरेफा यत्रेत्यर्थः। एवं पाठे तुं प्रात्पूर्वस्य "संयोगे गुरु" (१।४।११) इति पाणिनिसूत्रेण गुरुत्वलाभेन बन्धदार्ढ्यान्न दोष इति भाव:॥

इत्थं पुष्पिताग्रावृत्ते उदाहृत्य शार्दूलविक्रीडितवृत्तेऽप्युदाहरति यथा वेति। यद्वा न केवलं प्रथ- मतृतयपादयोरवायं दोषः किं त्वन्ययोराप तत्र चतुर्थे पादे उदाहरति यथा वेति। अन्यास्ता इति। कस्यचिद्राज्ञो वर्णनमिदम्। स एष युवा वििना विधात्रा यैः पदार्थैः सृष्ट उत्पादितः ताः तदन्त- र्गता: गुणरूपाणां रत्नानां संबन्धिन्यो रोहणस्य रत्नोत्पत्तिहेतुभूतपर्वतविशेषस्य भुवो भूमयः अन्याः भिन्ना: विलक्षणा इत्यर्थः । सा मृत् समवायिकारणरूपः पार्थिवो भागः अन्यैव भिन्नैव परं धन्या तत्संबन्धप्राप्तेरिति भावः। इदं भुवोऽप विशेषणम् वचनविपरिणामादिति बोध्यम्। एवम् ते खलु संभारा: उपकरणानि इतरकारणकलापभूतसामग्रीरूपा इत्यर्थः अन्य एव भिन्ना भिन्ना एवेत्यर्थः। 'धन्या' इति अत्राप्यन्वेति । स कः। यत्र यस्मिन् (यूनि) दृष्टे सति द्विषां शत्रूणां करतलात् अस्त्राणि शस्त्राणि पतन्ति स्त्रीणां नितम्बस्थलात् कटिप्रदेशात् वस्त्राणि च पतन्तीति योजनीयम्। श्रीमदित्यादि मूढेत्यादि च द्विषां स्त्रीणां च विशेषणम् श्रीमन्तश्र ते कान्तिजुषः कान्तियुक्ताश्र तेषाम् श्रीमत्यश्र ताः कान्तिजुषश्र तासामित्यर्थः । मूढमनसां मोहयुक्तचेतसामित्यर्थः । मोहः प्रतिपत्तिलोप: स च शत्रो भयात् परत्र कामाच्चेति बोध्यम्। यैरित्यत्र "पुमान् स्त्रिया" (१।२।- ६७) इति पाणिनिसूत्रेण याभिश्र यया च यैश् यैरिति स्त्रीपुंलिङ्गयच्छब्दैकशेषः । शार्दूलविक्री- डितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ।

अत्र शार्दूलविक्रीडिते छन्दसि चकारस्य पूववत् गुरुत्वनियामकलक्षणानुसरणेऽपि बन्धशैथि- ल्यात् गुरुकार्यकरणाक्षमत्वेन दोषः। वस्त्राण्यपीति पाठे तु अगुरोरेव संयोगात्परतया बन्धदार्ढ्येन स्वरवृद्धौ लघुरपि गुरुकार्यकारी संपद्यते इति न दोषः। तथा च पादान्तलघोर्गुरुत्वे बन्धदार्ढ्यमेव हेतः। एवमन्यत्र द्वितीयपादेऽप्यूह्यम् । एषु चाश्रव्यता सहृद्योद्वेजिनी दुष्टताबीजम् अतो नित्य- दोषोऽयमिति प्रदीपोद्द्योतादिषु स्पष्टम्।।

प्रकृतरसाननुगुणं वृत्तमुदाहरति हा नृपेति। राज्ि मृते सति तदीयानां विलापोक्तिरियम्। अत्र

१ मासमित्यादि। मासं परिच्छेत्तुमारब्धवानित्यर्थः॥

Page 398

सप्तम उल्लास: ३३९

हास्यरसव्यअ्कमेतद्वत्तम् (६) न्यूनपदं यथा तथाभूतां दष्टा वृपसदसि पाश्चालतनयां n iBhe (e) वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः। विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरु: खेदं खिन्ने मयि भजति नाद्यापि कुरुषु॥ २२०॥ सर्वत्र हाशब्दः खेदे। मुग्धेति मुग्धा सुन्दरा विदग्धा चतुरा या सभा तदन्तरे तन्मध्ये रत्न रत्न- भतेति विशिष्टं संबोधनम्। मुग्ध हे सुन्दर विदग्धानां पण्डितानां या सभा तदन्तरे तन्मध्ये रत्नेति संबोधनद्यमिति केचित्। संबोधनत्रयं तु न बुधेत्यनेन पौनरुक्त्यापत्तेः। तादृश हे राजन् त्वं क्व गतोऽस तव संबन्धिन एते ईदृगवस्था वयं च क्व 'वनखण्डे गताः स्मः' इति शेषः। "मुग्धः सुन्दरमूढयोः" इति कोशः । अत्र प्रत्येकं हापदेन नृपत्वादेः प्रत्येकं प्राधान्येन शोकोद्दीपकत्वं व्यज्यते। दोधकं वृत्तम् "दोधकवृत्तमिदं भभभाद्गौ" इति लक्षणात्॥ हास्येत्यादि। इदं दोधकवृत्तं शोकाननुगुणम् तद्विरोधिहास्यव्यञ्जकत्वादित्यर्थः । इदं वृत्तं हास्यरसोचितं प्रकृतकरुणरसाननुगुणं यतोऽ करुणे निबद्धमतो दोष इति भावः। अत्रेदं बोध्यम्। करुणे मन्दाक्रान्तापुष्पितायादीनामेवानुगुणत्वम् शुङ्गारादौ पृथ्वीस्त्रग्धरादीनां वीरादौ शिखरिणी- शार्दूलविक्रीडितादीनामानुगुण्यम् हास्ये च दोधकस्य प्रतिपद्विच्छेदित्वेनानुगुण्यमिति । अत एव सप्तदशेऽध्याये तत्तद्रसे तत्तच्छन्दों नियम्य "शेषाणामनुयोगेन छन्दः कार्य प्रयोक्तृभिः" इति भरतोऽपयाह। अनुयोगः पारुष्यादिवाच्यस्य योग्यता सामञ्जस्यम्। शुङ्गारप्रकाशे महाराजोऽप्याह "येषु श्रतेषु चित्तस्य वैराग्यं न च हृद्यता। तानि वर्ज्यानि वृत्तानि प्रसिद्धिप्रच्युतानि च ।।" इति। अस्य च (प्रकृतरसाननुगुणत्वरूपभेदस्य) प्रतिकूलवर्णत्वं दुष्टताबीजम् । नीरसे च नास्यात्मलाभ इति नित्यदोषतेति प्रदीपोद्दयोतसुधासागरेषु स्पष्टम्।। (६) 'न्यूनाधिककथितपद्म्' इत्यत्र न्यूनपदमधिकपदं कथितपद्मिति पदपदस्य प्रत्येकमन्व्रय: "द्वन्द्वान्ते श्रूयमाणं पदम्००" इति न्यायात्। तत्र न्यूनपदमुदाहरति न्यूनपद्मिति। न्यून- मनुपात्तविवक्षितार्थकं पदं वाचकशब्दो यत्र (वाक्ये) तदित्यर्थः। द्योतकन्यूनतायां तु अनभिहित- वाच्यत्वमिति विशेष इति प्रदीपोद्दयोतयोः स्पष्टम्। "अनुपात्तविवक्षितान्वयप्रतियोग्युपस्थापकं न्यूनपदम्" इति चक्रवर्तिनः। अधिकं त्वग्रे उदाहरणानन्तरं वृत्तिव्याख्यानावसरे स्फुटीभविष्यति। तथाभूतामिति। प्राक् तृतीयोल्लासे (७४ पृष्ठे) व्याख्यातमिदम्।। अत्र पादत्रयमध्ये 'अस्माभिः' इति 'खिन्ने' इत्यस्य पूर्वम् 'इत्थम्' इति च पदं नास्ति। आवश्यके च ते। अन्यथा कर्तुरलाभादेकवाक्यत्वासंभवाच्च। तदर्थस्य विवक्षितत्वात्। अर्थश्रवैतादृश एवं विवक्षित १ महाराजोऽत्र सरस्वतीकण्ठाभरणकर्ता भोजराज एव ॥ २ अस्यां प्रदीपफक्किकार्या 'सिन्ने इत्यस्मात्पूर्वम्' इति पठनीयम् "अभ्यारादित रर्तेदिकशब्दाञ्चत्तरपदाजाहियुक्ते" (२।३।२९) इति पाणिनिसूत्रण दिकशब्दयोंगे पञ्चम्या विधानात्। न च नायं दिकशब्दः किंतु देशवाचीति वाच्यम् दिशि दृष्टः शब्दो दिकशब्द इति वैयाकरणैर्व्याख्यात• स्वात्। पूर्वशब्दश्यात्रावयववाचित्वं तु नास्त्येव पदयोः परस्परमवयवावयवित्वासंभवात्। अत एव वृत्तिरता "खिन्ने- इस्यस्मात्पूर्वम्" इत्येव पठिसम्॥ मील्ड

Page 399

३४० काव्यप्रकाश: सटीकः।

अत्रास्माभिरिति "खिन्ने" इत्यस्मात्पूर्वमित्थमिति च।। (७) अधिकं यथा स्फटिकाकृतिनिर्मल: प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्वः। अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि॥२२१॥ अत्र आकृतिशब्दः। यथा वा इति शब्दस्यैवायमपराधः । यत्र त्वर्थ एव न तावददूरं विवक्ष्यते तत्रार्थ एव दुष्ट इति। साकाङ्कत्वं तु दोषान्तरमिति द्रष्टव्यमिति प्रदीपे स्पष्टम्। अयं भावः। वल्कलधरैरित्यस्य विशेष्यसाकाङ्गत्वात् उषित- मित्यत्र स्थितमित्यत्र च कैरित्याकाङ्गोदयान्मध्यमपादद्ये अस्माभिरित्यावश्यकम् तदैवोक्तानां खेद- हेतुत्वलाभात्। आद्यपादे यद्यपि गुरुः कर्तृत्वेनान्वेतुं योग्यः तथापि खिन्नत्वातिशयस्तथादर्शनकाललि- कतूष्णीस्थित्यैवेति तत्रापि अस्माभिरित्येव कर्तृपदमपेक्षितम्। स्थितमिति च तृतीयपादस्थमावृत्त्या तत्राप्यन्वेति। तथाभूतन्ृपतनयादर्शनोत्तरकालिक स्थित्यादिरित्यर्थकमित्थमिति पदं बिना नैकवाक्यता- संभव इतीत्युइ्चोते स्पष्टम्। तदेतत्सर्वमभिप्रेत्याह अत्रास्माभिरितीत्यादि । उक्त एव दोषश्रतुर्थ- चरणेऽप्यस्तीति दर्शयति खिन्ने इत्यादि। इत्थमिति चेति। पदं न्यूनमिति शेषः। अत्र पदज्ञान- विरहकृता विवक्षिताप्रतिपत्तिश्र दूषकताबीजम् अतो झटित्याक्षेपतस्तल्वाभेऽदोषत्वम्। यथा 'मा भव- न्तमनलः पवनो वा' इत्यादौ अधाक्षीदभाङ्गीदिति प्रसिद्धक्रियाया झटिति आक्षेपतो लाभः। यथा वा 'निधानगर्भामिव सागराम्बराम्' (रघुकाव्ये ३ सर्गे ९ श्लो०) इत्यादावव्यभिचारिविशेषणेन पृथ्व्या झटिति आक्षेपतो लाभ इति बोध्यम्। विवरणकारास्तु "येन विना वाक्यत्वहानिः क्रियाका- रकाद्यन्यतमरूपस्य तस्य पदस्य तत् पदं यत् पदं बिना साकाङ्गम् तस्य चाकथने एव न्यूनपद- त्वम्। यथोदाहरणे अस्माभिरिति कारकपदस्य खिन्ने इति कारकपदसाकाङ्गस्य इत्थमिति पदस्य चानभिधानात्। एतदतिरिक्तपदानभिधानं वाच्यानभिधानस्य विषयः। उभयत्रैव प्रकरणादितो विवक्षितार्थप्रतीतिर्भवति। साकाङ्कस्थले तु नैवमिति भेद:" इत्याहुः ॥ (७) अधिकपदं वाक्यमुदाहरन्नाह अधिकं यथेति। अधिकपदं वाक्यं यथेत्यर्थः। अधिकपद- मित्यस्य अविवक्षितार्थकपदकमित्यर्थः। केचित्तु अधिकम् अन्वयाप्रतियोग्युपस्थापकमिति व्याचख्युः । स्फटिकेति। कस्यचिद्विदुषो वर्णनमिदम् । स्फटिकाकृतिवन्निर्मलः स्वच्छान्त:करणः रागद्वेषादिरहितः । प्रकामम् अत्यन्तं प्रतिसंक्रान्तं (प्रतिबिम्बमादर्शादिष्विव) हृदयमारूढं निशातानि तीक्ष्णानि दुरूहा- नीति यावत्। यद्वा निशातानि गूढार्थानि यानि शास्त्राणि तेषां तत्त्वं गूढार्थरूपं यस्मिन् तादृशः । अविरुद्धाः लोकशास्त्रादिभिरविरुद्ध्ाः समन्विताः परस्परान्विता उक्तयो युक्तयश्र यस्य तादृशः । 'अविरुद्धसमर्थितोक्तियुक्तः' इति पाठे अविरुद्धा वेदशास्त्रसिद्धा समर्थिता लोकप्रसिद्धा च या उक्तिस्तयुक्त इत्यर्थः । प्रतिमल्लानां प्रतिस्पर्धिनां (प्रतिवादिनाम्) अस्तमयस्य (लक्षणया) पराभव- स्योदयः प्रादुर्भावो यस्मात्सः कदापि केनाप्यपरिभूतानामपि पराभवकर्तेत्यर्थः। तथाभूतः स कोऽपि महापुरुष इत्यर्थः । मालभारिणी छन्दः । लक्षणमुक्तं प्राक् ३१२ पृष्ठे ॥ ंजि अन्र आकृतिशब्द इति। अधिक इति शेषः । अत्र स्फटिकमेव निर्मलतायामुपमानं विवक्षितम् निर्मलताया: स्फटिकपदेनैव प्राप्तत्वादित्याकृतिपदमधिकममित्यर्थः। व्याख्यातमिदं प्रदीपादौ। "अत्र स्फटिकमेव निर्मलताथामुपमानं विवक्षितम्। उपात्तेऽ्याकृतिपदे यथाकथंचितेनैवोपमितिपर्थवसाना-

Page 400

सप्तम उल्लास: । इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । S (s) यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ २२२ ॥। अत्र कृतमिति। कृतं प्रत्युत प्रक्रमभङ्गमावहति। तथा च 'यदपि च न कुरङ्गलोचनानाम्' इति पाठे निराकाङ्रैव प्रतीतिः ॥ दित्याकृतिपदमधिकं न तु व्यर्थत्वादपुष्टार्थेन संकर इति वक्ष्यते" (२५५ उदाहरणे) इति प्रदीपः। विवक्षित इति भावः । न तु व्यर्थत्वादिति । अपुष्टार्थत्वसंकराभावे हेतुर्व्यर्थत्वम्) इत्युद्दयोतः। (यथाकथंचित्। आकृतिपदस्य स्वरूपपरतया । नत्विति। इदं हि व्यर्थ तदर्थस्यावयवसंयोगवि- शेषस्याविवक्षितत्वात्। अपुष्टार्थ तु न तथा विततत्वार्थस्य विवकक्षितत्वेऽप्यर्थलम्यत्वेनानुपादे- यत्वादिति वक्ष्यते इत्यर्थः) इति प्रभा। "प्रतिमल्लानामस्तमयस्य पराभवस्योदयः प्रारम्भो यस्मात्सः। पूर्व केनाप्यपराभूतानामपि ततः पराभवारम्भ इत्यर्थः। सच उदयपदादेव लभ्यते इति नोदय- पदस्य व्यर्थता" इति विवरणम्। न केवलं समासे एव पदाधिक्यम् किं त्वसमासेSपीत्युदाहरणान्तरमाह यथा वेति। इदमिति। इह जगति पुंसां जरास्वपि वृद्धत्वावस्थास्वपि यत् मान्मथाः कामसंबन्धिनो विकाराः इतीदम् अनु- चितम् असामर्थ्येऽपि प्रवृत्तत्वाल्लोकविरुद्धमित्यर्थः। अक्रमश्र असंप्रदायश्र शास्त्रविरुद्धश्र्वेति यावत्। बाल्ययौवनजरासु विद्यासेवनविषयोपभोगधर्मर्जनमिति हि शास्त्रम्। इत्थं पुरुषधर्म निन्दित्वा स्त्रीधर्म निन्दृति यदपि चेति। यदपि च नितम्बिनीनां स्त्रीणां जीवितं जीवनं रतं रमणं वा स्तनपतनम् अवधि: सीमा यस्य तथाभूतं न कृतम्। 'विधात्रा' इति शेषः। तदप्यनुचितम् वैरस्याधायकत्वादिति भावः । अक्रमश्र अप्रशस्ता एषा परिपाटीति भावः । पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे॥ अत्र कृतमिति पदमधिकमित्याह अत्र कृतमितीति। अधिकमित्यनुषज्जते। तेन कृतमिति पदम- धिकं पठितमित्यर्थः। तद्विनापि पूर्वार्धवत् निराकाङ्कप्रतिपत्तेः संभवादिति भावः। यद्वा कृतमित्यस्य प्रत्युतेत्यादिना अन्वयः । भग्नप्रक्रमत्वरूपं दोषान्तरमाह कृतं प्रत्युतेत्यादि। प्रत्युत विपरीतम्। प्रक्रमभङ्गमिति। पूर्वार्धेऽकरणादिति प्रदीप:। पूर्व पुंधर्मेनौचित्यमुक्त्वा इदानीं स्त्रीधर्में तद- नुक्त्वा तत्करणे तदुक्त्या विधावनौचित्यप्रतीतेः प्रक्रमभङ्ग इत्युश्चोतः । "पूर्वाधे विकाररूपधर्म- स्यानौचित्यमुक्तम् उत्तरार्धे तु जीवितरतयोधर्मयोः स्तनपतनावधित्वाकरणस्येति प्रक्रमभङ्ग:। एवं यदपि चेति समुच्चयार्थकेन चकारेण समुचितमन्यत् किमपि 'न कृतम्' इत्यनेनान्वेतुमाकाङ्रितमस्ति" इति विवरणम्। अत्र निष्प्रेयोजनशब्दश्रवणेन श्रोतुरवैमुरयं दूषकताबीजम्। अतो हर्षादावभिव्यङ्गचे न दोषत्वम्। निर्दुष्टं पाठमुपदिशति तथा चेति। एवं दोषे सर्तीत्यर्थः॥ (८) कथितपदं वाक्यमुदाहरति कथितपदमिति। कथितं पदं यस्मिन् (वाक्ये) इति विग्रहः। प्रयोजनशून्यत्वे सति समानार्थकसमानानुपूर्वीकपदवत्त्वं कथतपदत्वमित्यर्थः। 'उदेति सविता ताम्र- स्ताम्र एवास्तमेति च' इत्यादौ (२४४ उदाहरणे) एतद्वारणाय सत्यन्तम्। तत्र हि तेनैव शब्देन १ तद्नुक्त्वा अनौचित्यमनुक्त्वा। तत्करणे स्त्रीधर्मकरणे (स्त्रीधर्मोत्पादने) । तदुक्त्या अनौचित्योकया। विधौ विधातरि॥२ निष्प्रयोजनेति। निष्प्रयोजनत्वं चाविवक्षितार्थकत्वाद्योध्यम्॥ ३ श्रोतुवैमुख्यमिति। तथ्मिन् हि रसोह्बोध वैगुण्यादिति नावः ॥एतच 'वद् वद०' इति ३१३ उदाहरणे स्फुटीभविष्यति॥

Page 401

काव्यप्रकाशः सटीकः ।

(८ ) कथितपदं यथा अधिकरतलतल्पं कल्पितस्वापलीला- हाग

परिमिलननिमीलत्पाण्डिमा गण्डपाली। सुतनु कथय कस्य व्यअयत्यअ्सैव स्मरनरपतिलीलायौवराज्याभिषेकम्॥ २२३ ॥ अत्र लीलेति।।

पुनरुपादानेऽनुवादत्वेन झटिति प्रयोजनजिज्ञासायां व्यञ्जनयास्तमयोदयादावेकरूपतावगमः प्रयो जनमस्ति। विभिन्नानुपूर्वीकपदोपादाने पुनरुक्तत्वं वक्ष्यते इत्युझ्योते स्पष्टम्।।

अधिकरेति। करतले कपोलमाधाय चिन्तयन्तीं नायिकां प्रति सख्या उक्तिरियम्। हे सुतनु। करतलतल्पे इत्यधिकरतलतल्पम्। सप्तम्यर्थेऽव्ययीभावः । करतलरूपे तल्पे शय्यायां कल्पिता या स्वापलीला तया तस्यां सत्यां वा यत्परिमिलनं (करतलकपोलयोः) दढतरः संबन्धः तेन निमीलन तिरोभवन् पाण्डिमा विरहधावल्यं यस्यां सा। करकपोलयोर्द्दढसंबनधेन रक्तिमोदयाद्विरहपाण्डिमति- रोधानमिति भावः। तथाभूता (तव) गण्डपाली गण्डप्रदेशः कपोलस्थली कर्त्री। एतेन सकललाव- ण्यातिशयमर्यादात्वबोधनम्। अञ्जसा शीघ्रं तत्त्वतो वा कस्य नायकशिरोमणेः स्मर एव नरपतिस्तस्य लीलाश्रुम्बनदशनादयस्तत्र यौवराज्यं युवराजत्वं (मुख्याधिकारः) तत्राभिषेकं व्यञ्जयति सूचयति त्वं कथयेत्यर्थः । वृद्धः स्मरः स्वेनाप्यवशीकृतां त्वां वशीकुर्वन्तं तं जनमवलोक्यावश्यमेव रमणीयज- यलक्षणे स्वराज्येऽभिषेक्ष्यतीति भावः। एतेन तन्नायकस्य कन्दर्पादप्यधिकवशीकरणकर्तृता ध्वन्यते। "पालिः कर्णलतायां स्यात्प्रदेशे पङ्गिचिह्नयोः" इत्यजयः। "कृदिकारादक्तिनः" इति वार्तिकेन डीषि पालीतिरूपम्। निमीलत्पाण्डिमेत्यत्र "ऋन्नेभ्यो डीपू" (४।१।५) इति सूत्रेण प्राप्तस्य र्रीप्प्रत्ययस्य "मनः" इति (४।१।११) इति सूत्रेण निषधः । अत्र सूक्ष्मालंकारः । मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥ अत्र लीलापदं वारद्वयमुपात्तम। तथोपादानं हि उद्दिष्टप्रतिनिर्दिष्ट्योः (उद्देश्यप्रतिनिर्देश्ययोः) अभेदव्यञ्जकतया स्वापलीलायां यौवराज्यमिति प्रत्याययति। प्रकृते तु न तथा विवक्षितमिति कथत- पदत्वं दोषः । तदेवाह अत्रेत्यादि। लीलेतीति। कथितपदमिति संबन्धः । अत्र 'स्मरनरपतिलक्ष्मी' इति पाठे तु नायं दोष इति भाव:। दूषकताबीजं तु कवेरशक्त्युन्नयनेनोपभुक्तभोगवत् श्रोतुर्वैमु- ख्यम्। अतो लाटानुप्रासादावदोषत्वम् अशक्त्यनुन्नयादिति प्रदीपोद्योतयोः स्पष्टम्। उक्त च सार- बोधिन्याम् "द्विःप्रयुक्तमेकं पदमुद्देश्यप्रतिनिर्देश्यविधयार्थयोरभेदप्रत्यभिज्ञानजनननैयत्येन या स्वाप- लीला तत्रैव यौवराज्यमिति प्रत्ययमुत्पादयति प्रकृते तु न तद्विवाक्षितम्" इति। केचित्तु एकस्यैव पदस्य द्वितीयवारोपादानं पिष्टपेषणवदचमत्कारीत्याहुस्तन्न। अनवीकृतत्वसांकर्यापत्तेः॥

अत्र प्रदीपकारा: प्राहुः "समासे सत्येकस्मिन्नपि पदे व्यवधानाल्लाटानुप्रासविरहेऽप्यस्य संभवा त्कथं न पद्दोषत्वमिति" इति। तत्र वदामः।न खल्वेकस्मिन् पदे कथितपदत्वं स्वमेऽपि संभ- वति पदावयवयोः पदत्वाभावात्। किंतूपात्तपदस्य प्रयोजनं विना पुनरुपादाने सजातीयपदव्यव- हारयोग्यपद्योरेव तथात्वम्। तादृशपदान्तर्गताखण्डपदाभिप्रायेण तथात्वमिि चेत् तर्हि तादग्बिव- क्षया मामापदवृस्तिताप्यक्षतोते वाक्यदोषत्वमवेतीत सुधासागरे स्पष्टम्।

Page 402

सप्तम उल्लासः । ३४३

९) पतत्प्रकर्ष यथा कः कः कुत्र न घुर्धुरायितघुरीघोरो घुरेत्सूकर: कः कः कं कमलाकरं विकमलं कर्तु करी नोद्यतः। के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविला सबद्धवसतिः पञ्चाननो वर्तते ॥ २२४॥ (९) पतत्प्रकर्ष यथेत्युदाहरति पतत्प्रकर्षमिति। पतन् हसन् प्रकर्ष उत्कर्षो यत्र (वाक्ये) तदित्यर्थः। अलंकारकृतस्य बन्धकृतस्य वा प्रकर्षस्य यत्रोत्तरोत्तरं पातो निकर्ष इति भाव: ॥ क:क इति। पञ्चयतीति पैञ्चं विस्तृतम् आननं मुखं यस्य स पञ्चाननः ('पचि विस्तारवचने' इति चुरादौ धातुपाठः) यद्ा मुखं पादाश्र्वेति पञ्चाननानीव (युद्धे मुख्यत्वात्) यस्य स पञ्चाननः सिंहः यतः यस्मात् सिंह्याः स्नेहेन यो विलासः दन्तेन कण्डूयनादि: तेन बद्दा स्थिरीकृता वसतिः अवस्थितिः अथवा बद्धा नियतं कृता वसतिः एकदेशवासो येन तादृशो वर्तते अतः क कः सूकर: वराहः कुत्र न धुरेत् न भीमं शब्दं कुर्वीत अपि तूत्तममध्यमाधमरूपः सर्व एव सर्वत्रेति भावः। 'घुर भीमार्तशब्दयोः' इति तुदादौ धातुपाठः। कीहक सूकरः। घुर्धुरायिता घुर्धुरः शब्दविशेषः तद्ूती या घुरी घोणा (नासिका) तया घोरः भीमः (भीषणः)। एवम् कः कः करी हस्ती कं कमलानामाकरमुत्पत्तिस्थानं विकमलं विगतकमंलं कर्तु नोदतः नोयुक्तः अपि तु सर्वः सर्वमपीति भाव:। तथा के के अरण्यमहिषाः कानि वनानि नोन्मूलययुः न समूलं नाशयेयुः अपितु सर्वे एव सर्वाण्यपीति भावः। अनेन स्वाश्रयोन्मूलकतया तेषां मदौत्कट्यं ध्वनितम्। एवं चात्र 'राजनि व्यसनशीले क्षुद्रा अपि भौमिका निर्मर्यादा भवन्ति' इति प्रस्तुतध्वननादप्रस्तुतप्रशंसालंकारः। 'कः कः' इत्यत्र कस्कादित्वात्तु 'कस्कः' इति युक्तम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र सूकरेभ्यः परपक्षविनाशोदोगितया करिणाम् तेभ्यश्र देवीप्रतिपक्षजातीयतया यमवाहनजा- तीयतया च महिषाणाम् तेभ्यः कर्यादिहिंसकत्वेन सिंहानामुत्कृष्टतयाभिधाने तथैव बन्धदार्ढ्यादिक- मुचितम् सूकराद्यभिधानेऽपि विकटबन्धकृतोऽनुप्रासकृतश्र प्रकर्षः सिंहाभिधाने पतित इति पतत्प्र- कर्षत्वम्। अत्र दूषकताबीजं तु कवेरशक्त्युन्नयनेन श्रोतुवैरस्यम्। क्वचित् रसानुगुणतया प्रकर्षपातेऽपि न दोष: यथा प्रागप्राप्तेत्यादौ (३२९ पृष्ठे) येनानेनेत्यादिचतुर्थपादे इति प्रदीपोद््योतप्रभासु स्पष्टम्। "अत्र वाच्यस्य सूकरादेरुत्तरोत्तरमुत्कृष्टतया तथैव समुचितस्य बन्धप्रकर्षस्य भङ्ग: (पातः ) उत्तरोत्तरं तदपकर्षस्य स्फुटत्वात्" इति चन्द्रिकायामपि स्पष्टम् । सारबोधिनीकारादयस्तु अत्रानु- प्रासकृतस्य प्रकर्षस्य पतनं व्यक्तमेव। अत्र पूर्वापेक्षयोत्तरत्र बन्धशैथिल्यमेव दूषकताबीजमित्याहुः॥ - ( १०) समाप्तपुनरात्तं यथेत्युदाहरति समाप्तपुनरात्तमिति। क्रियाकारकान्वयेन समाप्तेऽपि वाक्ये विशेषाभिधित्सां विना पुनस्तद्वाक्यान्वयिपदाभिधानं यत्र (वाक्ये) तत्। तथा ह्यस्योदाहरणे 'एतादृश: क्वाण: प्रेम तनोतु वः' इत्यनेन वाक्यसमाप्तावपि पुनः तत्काणस्य कर्तुः नवेत्यादिविशेष गाभिधानम् न च तत्र विशेषणादन्यत् प्रयोजनमस्तीति विवरणकारः। वस्तुतस्तु समाप्तपुनरात्तत्वं च क्रियाकारकभावे- नान्वयबोधकसकलपदोक्त्यनन्तरं तद्वटकयत्किंचित्पदान्वयिविशेषणोपादानमिति वैयाकरणलघुमञ्जू- १ पश्चमिति। "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" ( ३।१।१३४) इति सूत्रण कर्तरि पचादित्वादच्प्रत्ययः ॥

Page 403

३४४ काव्यप्रकाश: सदीकः।

(१०) समाप्तपुनरात्तं यथा क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः। तन्व्या: कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण- क्वाण: प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥ २२५॥ षायां स्पष्टम। व्याख्यातमिदं प्रदीपोद्दचोतयोरपि। समाप्तपुनरात्तं समाप्तं सत्पुनरात्तम्। तथा च समापं च तत् पुनरातं पुनरुपात्तं चेति विशेषणोभयपदः कर्मधारयः समासः। समाप्त जनितविवक्षितान्वय- बोधकं सत् तदन्वयिशब्दोपादानेन पुनरुपात्तं पुनरनुसंधानविषय इत्यर्थः। वाक्ये समाप्ते पुनस्तदन्व- यिशब्दोपादानं यत्रेति भावः। 'तदन्वयि' इत्यस्य तत्रान्वयो यस्य तेनान्वयो यस्येति चेत्यर्थः।तेन विशेषणस्य विशेष्यस्य च संग्रहः। आद्योदाहरणं प्रकृतमेव। द्वितीयं तु 'प्रागप्राप्त' इति (३२९ पृष्ठे)। तत्र हि 'येनानेन' इति वाक्ये तृतीयान्तपरामृष्टबाक्यार्थस्य विशेषणत्वम् [परंतु प्रागप्राप्तेत्यत्र वाक्या- न्तरकरणेनादोषत्वमित्यन्यदेतत्। स्फुटीभविष्यति चेदमग्रे ३१८ उदाहरणे। ] विवक्षितेतिविशे- षणात् 'अयमुदयति मुद्राभञ्जनः पग्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्। विरहविधुरकोकद्वन्द्व- बन्धुर्विभिन्दन् कुपितकपिकपोलकोडताम्रस्तमांसि ॥' इत्यादौ 'अद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिक:' इत्यादौ च न दोषत्वम्। आद्ये अयंपदार्थस्य संदिग्धतया कुत्राप्यपर्यवसितत्वेन न क्रियान्वय इति वक्ष्यमाणविशेषणैर्विशेष्यसमर्पणे युगपदेवान्वयबोधात्। अन्त्ये कुतो वेपथुरिति हेत्वाकाङ्गाया अनिवृत्तेः प्रमाणाधिकत्वान्वयं विना विवक्षितान्वयबोधस्यैवाभावात्। एतदेववक्ष्यते (३४५ पृष्ठे १६ पक्कौ) 'निराकाङ्कत्वं चास्य दूषकताबीजम्' इति। यत्तु समासे वाक्येSविशेषविधा- यिविशेषणान्तरोपादानवत्त्वं समाप्तपुनरात्तलक्षणमिति कैरिविदुक्तम् तन्न । प्रागप्राप्तेत्यादौ वाक्यान्तरा- रभ्भे विशेषणान्तरानुपादाने तल्लक्षणविरहेण तत्रानित्यदोषत्वव्युत्पादनविरोधात्। किंच पुनः शब्दा- र्थानन्वयः नववय इत्यादेः सकृदेवोपादानात्। विशेषणान्तरापेक्षया तत्त्वे तु तद्वैयर्थ्य व्यधिकरणबहु- व्रीह्यापत्तिश्र । क्रियाविशेष्यकबोधवादनां मते 'घटोऽस्ति मृन्मयः' इत्यत्रात्याप्तेश्र विशेषणान्तरानुपा- दानात् । ननु 'नववयः' इत्यादिना विशेष्यभूतः क्वाण एव पुनरुपात्तः न वाक्यम् एवं 'येनानेन' इत्यत्रापि परशुरूपं विशेषणं पुनरुपात्तं न वाक्यमिति चेन्न। तादृशवशेषणविशिष्टक्वाणस्यरिया- काङ्कतया वाक्यस्यैव पुनरुपादानात्। येनानेनेत्यत्रापि त्वत्कण्ठपीठातिथिभवनकर्तृपरशुनेत्यथीद्वा- क्यानुसंधानं स्फुटमेवेति॥

क्रेद्कार इति। स्वगृहं प्रति प्रस्थितान् पथिकान् प्रति कस्यचित्कवेरुक्तिरियम् । तन्व्याः कृशाङ्ग्याः कञचुलिका चोलिका तस्या अपसारणे निष्कासने अर्थाद्भ्रवद्धिः कियमाणे सति यो भुजयोराक्षेपो धूननं तेन स्खलन्ति यानि कङ्कणानि करभूषणानि तेषां क्वाण: शब्द: वः युष्माकं प्रेम प्रीति तनोतु विस्तार- यत्विति संबन्धः। कीटशः क्वाण इत्यपक्षायां क्रेङ्कार इत्यादीनि पश्च रूपकाणि। स्मरकार्मुकस्य मदन- धनुषः केङ्कारः विपक्षजयकालिकज्याकर्षणजः शब्दः। तथा सुरतक्रीडारूपाणां पिकीनां कोकिलानां १ अस्य विशेषं दर्शयति वाक्ये इत्यादिना॥ २ शाकुन्तलनटके प्रथमेडडे पद्यमिदम् ॥ ३ अविशेषेति। प्रकतोप- युक्तविशेषाबोधकेत्यर्थः। तेन 'अद्यापि स्तनवेपर्थं जनयति' इत्यत्र प्रमाणेत्यादिविशेषणान्तरोक्तौ न दोष इति भाव: ॥ तद्वयत्पादनं तु मूले एवाये ( ३१८ उदाहरणे) स्फुदीभविष्वति ॥

Page 404

सप्तम उल्लासः । ३४५

(११) द्वितीयार्धगतैकवाचकशेषप्रथमार्ध यथा मसृणचरणपातं गम्यतां भू: सदभा विरचय सिचयान्तं मूर्नि धर्म: कठोरः । : कयE (93)

रवः कूजितम्। तथा रतिः सुरतमेव (विलासादिफलोत्पत्तिस्थानत्वात्) मञ्जरी वल्वरी तत्संबन्धिनो ये मधुलिह: भ्रमरास्तेषां झङ्कारः रवः। यद्वा रतिः प्रीतिः तद्रूपमञ्जरी (विलासादिफलोत्पत्तिस्थान- त्वात्) तत्संबन्धिमधुलिहां झङ्कारः । अत्र मधुलिटत्वारोपविषयः (भ्रमरत्वारोपाश्रयः) कङ्कणान्येव । तथा लीला कटाक्षादिविक्षेपः तद्रूपचकोरीध्वनिः। तथा नववयसस्तारुण्यस्य नववयसां तरुणानां वा लास्याय नृत्याय वेणुस्वनः वंशीध्वनिरूप इत्यर्थः । मालारूपकमत्रालंकारः । अत्र क्रेङ्कारारोप- विषये रवत्वारोपो विरुद्धः। कि च पिकादीनामपि कूजितमेव प्रसिद्धं न तु रव इति बोध्यम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र 'एतादृशः क्वाणः प्रेम तनोतु वः' इत्यनेन वाक्यसमाप्तावपि पुनः तत्काणस्य कर्तुः नवेत्या- दिविशेषणाभिधानम् न च तत्र विशेषणादन्यत्प्रयोजनमस्ति इति समाप्तपुनरात्तत्वमिति तु प्रागुक्त- मेव। उक्तं च प्रदीपोद्द्योतयोरपि। अत्र 'तनोतु वः' इति समाप्तमेव वाक्यं नवेत्यादिविशेषणेन पुनरुपात्तं (पुनरनुसंधानविषयीकृतम्) इति समाप्तपुनरात्तत्वम् । अस्य विशेषणस्यानुगुणत्वेऽपि तन्निरपेक्षतया प्राग्जनितविवक्षितान्वयबोधत्वेन [ बोधसत्वेन ] पुनरन्वये आकाङ्गाभावादिति भावः । एतेन 'पुन- रुपात्तविशेषणस्यानुगुणत्वे कथं तद्विना बोध: अननुगुणत्वे त्वपुष्टार्थतव स्यात्' इत्यपास्तम्। एवं च निराकाङ्कत्वमेव दूषकताबीजम्। अतश्रानित्यदोषोऽयम् वाक्यान्तरारम्भे तदभावात्। यथा 'येनानेन जगत्सु' (३२९ पृष्ठे) इत्यादौ येनेति यत्पदेनाकाङ्कोत्थापनादिति बोध्यम्। एवं च 'यो नववयोलास्याय' इति पाठेऽन्रापि न दोष इति बोध्यमिति॥ (११) अर्धान्तरैकवाचकमुदाहरन् व्याचष्टे द्वितीयार्घेति। द्वितीयार्धगतम् एकं वाचकं शेषम् अवशिष्टं यस्य ताद्ृशं प्रथमार्ध यत्र (वाक्ये) तदित्यर्थः। यत्र प्रथमार्धगतं वाक्यं द्वितीयार्ध- गतेनैकेन पदेन पूर्यते तत् अर्धान्तरैकवाचकमिति भावः। व्याख्यातमिदं प्रदीपे "द्वितीयार्धगतम- प्रधानहेत्वाद्यर्थकमेकं वाचकं यत्र तदर्धान्तरैकवाचकम्" इति। वाक्यान्तरान्तःपातविरहान्न संकीर्ण- सांकर्यमित्युद्चोतादौ स्पष्टम्। सरस्वतीतीर्थास्तु अन्यदर्धम् अर्धान्तरं तत्र एकमसहायभूतं वाचकशेषं पदं यत्र वाक्ये तदर्धान्तरैकवाचकम्। तच्न द्विविधम् द्वितीयार्धगतैकवाचकशेषं प्रथामार्घम् प्रथमार्धगतैकशचकशेषं द्वितीयार्ध चति। तत्राद्मुदाहरणं प्रकृतमेव। द्वितीयं तु 'वक्षःस्थलं मुकुन्दस्य कौस्तुभाङ्कं कपर्दिनः । चूडालो भालचन्द्रेण जटाजूटश्र पातु वः ॥' इति अत्र 'कपर्दिनः' इति पदं द्वितीयार्धशेषं प्रथमार्धे उपात्तमित्याहुः ॥ मसृणेति। राजशेखरकृते बालरामायणे षष्टेडङ्गे रामेण सह वनवास गतायां सीतायां तद्वार्ती कथ- यतः दशरथामात्यस्य सुमन्त्रस्य दशरथं प्रत्युक्तिरियम् । जनकपुत्री सीता पथि मार्गे पथिकानां पान्थानां वधूभिः स्त्रीभिः (कर्त्रीभिः) अश्रुपूर्णैः बाष्पव्याप्तैः लोचनैः (करणैः ) वीक्षिता इति पूर्वाधों- क्तप्रकारेण शिक्षिता चेत्यन्वयः। शिक्षाप्रकारमेवाह मसृणेत्यादि । हे बाले यतः भूः भूमिः सदर्भा दर्भाङ्करसहिता तत् तस्मात् (त्वया) मसृणो मन्दः (लघुः) चरणयोः पातो यस्मिन्कर्मण तद्यथा स्यात्तथा गम्यताम्। तथा यतो धर्मः आतपः कठोर: र्तीक्ष्ण; तत् तस्मात् मू्व्ि मस्तके सिचयान्त वस्त्राश्चलं ४४

Page 405

३४६ काव्यप्रकाशः सटीक:।

तदिति जनकपुत्री लोचनैरश्रुपूर्ण: पथ पथिकवधूभिवीक्षिता शिक्षिता च ॥ २२६॥ ( १२ ) अभवन् मत: (इष्टः ) योग: (संबन्धः ) यत्र तत्। यथा

विरचयेति। अहो धन्यतमेयं राजपुत्रयपि कोमलतराभ्यां पद्धयामेव पथिकं स्वभतरमनुयाति अधन्यतमा वयं या एवं विरहद्दुःखेन पीडयेमहि इत्यश्रपूर्णता। अत एव परथकपदं चरितार्थम्। "धर्मः स्यादातपे ग्रीष्मेऽप्युष्णस्वेदाम्बुनोरपि " इति कोश: । "पटोऽस्त्री कर्पटः शाटः सिचयप्रोतलक्तकाः " इति रभसः । अत्र 'घुसृणमसृणपादा गम्यते भूः सदर्भा विरचय शिवजातं मूर्तनि घर्मः कठोरः' इति पूर्वार्धे पाठान्तरम्। 'घुसृणः पङ्कजे गर्भो (?) घुसृणं नवनीतकम्" इति धरणिः। "शिवजातं शिरःपाद- त्राणं वल्कलपत्रजम् " इति संसारार्णवः । मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥

अत्र 'भूः सदर्भा तत् (तस्मात्) मसृणचरणपातं गम्यताम्' इति वाक्यं द्वितीयार्धगतेन तदित्यनेन पूर्यते इत्यर्धान्तरैकवाचकत्वम्। अत्र निराकाङ्कता दुष्टिबीजम् श्रतमात्रस्यैव भूसदर्भत्वस्याक्षेपेण व्यञ्जनया वा हेतुत्वप्रतीतेः । न च तदित्यखण्डो निपातः प्रागुक्तपरामर्शकः इतीत्यनेनैव सिद्धेः। [यत्र तु ] यस्य तु कर्त्रादेर्न तथा (निराकाङ्का) प्रतिपत्तिः [ तत्र ] तस्यार्धान्तरोपादानेऽपि दोषस्या- त्मलाभ एव नास्ति हेत्वादिघटितलक्षणकरणात् । यथा 'तव तुल्यः प्रभो नास्ति भुवनत्रितयोदरे। राजा दानदयाशीलः' इत्यादाविव बोध्यम्। वृत्त्युक्तरीत्या हेत्वाद्यघटितलक्षणकरणे आत्मलाभेऽपि वा नायं दोष: निराकाङ्गत्वरूपस्य दुष्टिबीजस्याभावात् । आसत्तिज्ञानकृतप्रतातिविलम्बेन तत्रापि दुष्टत्वा- नुभवे तु क्विष्टत्वमेव तत्र दोष इति बोध्यम्। परं तु अस्य (दोषस्य) वाक्यदोषता कथम् अपदस्थ- पदता अपुष्टार्थता वा कथं नेति चिन्त्यमिति प्रदीपोद््योतप्रभासु स्पष्टम्। सारबोधिन्यां तु अत्र परार्धपतितस्य तत्पदस्य विलम्बेनोपस्थित्यान्वयबोधविलम्ब इति दूषकताबीजम्। अत्र केचित् भूसद र्भत्वमसृणचरणपातयो: कठोरघर्मत्वमूर्धावगुण्ठनयोश्र हेतुहेतुमद्भावेनान्वयोपपत्तौ कि तच्छब्दापेक्ष- णेन। तदिति पुनरखण्ड एव निपातः प्रागुक्तपरामर्शकः । तथा च 'भूः सदर्भा' इत्यत्रार्थहेतुत्वम् तथोत्तरत्रापीति नात्र दोष इति वदन्ति तन्न। "शाब्दी ह्याकाङ्गा शब्देनैव पूर्यते" इति न्यायाच्छाब्दे हेतुत्वे संभवत्यार्थत्वस्यान्याय्यत्वात् तदित्यखण्डनिपाते प्रमाणाभावाच्चेति व्याख्यातम्।। (१२) अभवन्मतयोगमुदाहरन् व्याचष्टे अभवन्निति। न भवतीत्यभवन् अविद्यमानो मतोऽभिमतः (इष्टः) योग: संबन्धो यत्र (वाक्ये) तदभवन्मतयोगमित्यर्थः । अत्र पदार्थयोरन्वयस्यैवासंभवः अविमृष्ट- विधेयांशे तु अन्वयसंभवेऽपि उद्देश्यविधेयभावानवगम इति भेदः । व्याख्यातमिदं प्रदीपोद््योतप्रभासु । न चाविमृष्टविधेयमध्येऽस्यान्तर्भावः उपजीव्यत्वेन भेदादिति केचित्। उपजीव्यत्वेनेत्यस्य 'अविमृष्ट- विधेयांशत्वस्य मतयोगाभावप्रयोजकत्वेन' इत्यर्थः । वस्तुतस्तु तत्र पदार्थयोः (परस्परान्वितत्वेन विव- क्षितयोः) उपस्थितयोरन्वयो भवत्येव परं तु.अनभिमतेनाप्राधान्यादिना रूपेण। अत्र तु संबन्ध एव तयोर्न प्रतीयते इति महान् भेद: । तथा च तत्रान्वयविशेषाभावः इह तु सामान्याभावः इति भावः। एवं च प्रकृते पदार्थयोवक्यार्थविधया भासमानसंसर्गस्यैवाभानम् तत्र तु उद्देश्यत्वादिशालिबो- धस्यैवानुदय इति विशेष इति भावः । अत एवात्र योगपदं चरितार्थम्। नेन्वेवम् 'अभवन्मतयोगम्' १ नन्वेवमिति । अन्वयसामान्याभावतिवक्षायां विवक्षितार्थक्मतत्वविशेषणमन्वये व्यर्थम् प्रत्युताविमृष्टविधे. यांशसंकीरणत्वापादकमेव स्यादिति भाव:।।

Page 406

सप्तम उल्लास: । ३४७

येषां तास्त्रिदशेभदानसरित: पीताः प्रतापोष्मभि- र्लीलापान भुवश्च नन्दनवनच्छायासु यैः कल्पिताः । येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥ २२७।। अत्र "गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्" इत्युक्तनयेन यच्छब्दनिर्देश्या- इत्यत्र योगे मतत्वविशेषणानर्थक्यमिति चेन्न। एकवाक्यस्थपदोपस्थापितत्वादिरूपस्य योगस्यापि सत्वात्। मतत्वं चान्वयबोधविषयत्वमित्यप्रसङ्ग इति। अभवन्मतयोगत्वं च क्वचिद्विभक्तिभेदनिबन्धनम् क्वचिन्न्यूनतादिनिबन्धनम् क्वचिदाकाङ्गाविरह- निबन्धनम् क्वचिद्वाच्यव्यङ्ग्ययोविर्वक्षितयोगाभावनिबन्धनम् क्वचित्समासच्छन्नतया मतयोगाभावनि- बन्धनम् क्वचिद््यत्पत्तिविरोधनिबन्धनं च भवति। तत्र विभक्तिभेदनिबन्धनमुदाहरति येषामिति। हनुमता लंकायां दग्धायां वीरराक्षसानधिक्षिपतः कस्यचिद्रावणं प्रत्युक्तिरियम्। हे प्रभो येषां क्षपाचा- रिणां राक्षसानां प्रतापस्य ऊष्मभिः (कर्तृभूतैः) ताः प्रसिद्धाः (लोकोत्तराः) त्रिदशानां देवानाम् इभस्य गजस्य (ऐरावताख्यस्य) दानं मदजलं तस्य सरितः नद्यः पीताः शोषिताः। ऊष्मणा हि नदी- शोषणं युक्तमेव। तथा यैः क्षपाचारिभिः नन्दनवनस्य देवेन्द्रकीडावनस्य छायासु लीलया लीलानां वा यत् पानम् (अर्थान्मद्यस्य) तस्य भुवः भूमयः कल्पिताः रचिताः। अनेन स्वर्गोऽपि येषां भूतुल्य इति सूचितम्। तथा येषां क्षपाचारिणां हुंकृतयः हुंकाराः कृतोऽमरपतेरिन्द्रस्य क्षोभो भयविक्ृवो याभिस्तथाभूताः । इदं सर्वै त्वदाश्रयादिति भावः । तैः क्षपाचारिभिः तव रावणस्य परितोषकारि संतोषदायि प्रवादोचितं सदसि कथनयोग्यं प्रवादस्य स्वख्यातेरुचितं वा किंचिद्विहित कृतम् अप तु न किंचिदपि कृतमित्यर्थः । 'नन्दनवनच्छायासु' इत्यत्र 'नन्दनतरुच्छायासु' इति प्रदीपे पाठः। तरुत्वा- भिधानं साधारणोपभोग्यत्वप्रतिपादनाय तेन नन्दनसंबन्धिष्वपि येषां (क्षपाचारिणां) साधारणी बुद्धि- रासीदिति ध्वनिरित्युद्द्योतः। नन्दनतरुच्छायास्वित्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि समर्थच्छायानिष्पत्ते- स्तदपेक्षाभावात् "छाया बाहुल्ये" (२।४।१२) इति पाणिनिसूत्रेण नपुंसकत्वं नास्तीत्यनुसंघेयम्। यद्वा एकैकतरुच्छायाविवक्षया तरोः छाया तरुच्छायेति एकवचनघटिततत्पुरुषे कृते तरुच्छाया च तरु- च्छाया च तरुच्छाया चेत्येकशेषेण तरुच्छावास्विति स्त्रीत्वोपपत्तिः। नन्वेवमुपपत्तौ "इक्षुच्छायानिषा- दिन्यः' इत्यत्र (रघु० ४ सर्गे २० श्लोके) 'आ समन्तान्निषादिन्य इत्याङ्प्रश्लेषो बोध्यः' इति वैयाकर- णसिद्धान्तकौमुद्युक्तं व्याकुप्येतेति चेन्न। तत्रैकैकेक्षुच्छायायां निषादनस्यासंभवेनोक्तोपपत्तेरप्राप्त्या प्रश्लेषस्यावश्यकत्वेन तव्याकोपाभावात। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र दोषमाह अत्रेत्यादिना 'अप्रतीतिरिति' इत्यन्तेन। इत्युक्तनयेन इत्युक्तन्यायेन । गुणानां चेति। अयं हि न्यायः पूर्वमीमांसायां तृतीयेऽध्याये प्रथमे पादे द्वादशेऽधिकरणे भगवताः जैमिनिना द्वाविशतिसूत्ररूपेण पठितः। गुणानाम् अप्रधानानां विशेषणानामिति यावत् परार्थत्वात् प्रधानान्वया- पेक्षित्वात् असंबन्धः परस्परमनन्वयः समत्वात् परापेक्षाया नियतत्वात्। यद्वा प्रधानापेक्षित्वतौल्यादि- १ नात्र विवक्षितार्थकतया मतशब्दप्रयोगः किंतु शाब्दबोधविषयत्वार्थकतयेति समाधत्ते नेति ॥ २ पदार्थेण्विति शेषः ॥ 3 सूत्रेणेति। छायाशब्दान्तस्तत्पुरुषो नपुंसकें स्यात् पूर्वपदार्थबाहुल्ये इति तदर्थः । इक्षूणां छाया इक्षुच्छायम् शलभच्छायमिति तदुदाहरणम्।।

Page 407

३४८ काव्यप्रकाश: सटीकः।

नामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेष्यस्याप्रतीतिरिति। 'क्षपाचारिभः' इति पाठे युज्यते समन्वयः।

त्यर्थः। गुणानां परस्परमनाकाङ्गतया न परस्परमन्वयः किंतु प्रधानेनैव गुणानामन्वय इति भावः । एवं च गुणप्रधानभावेनैव पदार्थानामन्वयो न गुणानां न वा प्रधानानां परस्परमनाकाङ्गत्वादिति निष्कर्षः। प्रकृते तु यैरिति यदर्थश्र विशेष्यतया क्षपाचारिसंबन्धो विवक्षितः सच न घटते भिन्नविभक्तिकत्वात्। यदपि 'यो गुणवान् तस्य यशः' इत्यादौ यत्तदर्थयोरिव यदर्थयोरपि भिन्न- विभक्तिकयोरभेदान्वयः स्वीक्रियतामिति येषां प्रतापोष्मभिः पीताः यैः पानभुवः कल्पिताः येषां हुङकृतय इति रीत्या सर्वेषामेव यदर्थानामभेदान्वये सति एकत्र क्षपाचारिपदार्थस्य विशेष्यत्वे सर्व- वैव तस्य विशेष्यत्वप्रतीतिर्भवतीति तदपि न। यदर्थानामुद्देश्यतया अप्रधानानां परस्परमन्वयासं- भवात् "गुणानां च परार्थत्वात्" इति न्यायात् । एवं चाभवन्मतयोगत्वं स्पष्टमेवेति बोध्यम्। कीदशपाठे समन्वय इत्याकाङ्ायामाह क्षपाचारिभिरितीत्यादि। क्षपाचारिभिरिति पाठे तु क्षपा- चारिपदार्थस्य तैरिति तत्पदार्थविशेष्यतया प्रतीतौ पदार्थानां सर्वयत्पदार्थनिरूपितविशेष्यत्वप्रतीति- रिति न दोष इति बोध्यम्।

व्याख्यातमिदं सर्व प्रदापोद्योतादिषु। अत्र यैरित्यस्य अभेदसंसर्गेण विशेष्यतया क्षपाचारिशब्दार्थों विवक्षितः। न च तेन ततस्तया योगः प्रतीयते विभक्तिभेदात्। यैरिति क्षपाचारिणामिति पदयोर्भिन्न- विभक्तिकयोरभेदान्वये स्वरूपायोग्यत्वादिति भावः। अथ यैर्लीलापानभुवः कल्पिताः येषां प्रतापोष्म- भिरित्यादिप्रकारेण यच्छब्दाभिधेययोरेवाभेदसंसर्गेण विशेषणविशेष्यतयान्वयोऽस्तु। 'यो धूमवान् तत्र वह्निः' इत्यादावन्वयानुरोधेन व्युत्पत्तिवैचित्र्यात् यत्तच्छब्दार्थानां परस्परमभेदान्वये विरुद्धविभक्ति- राहित्यस्यातन्त्रत्वात्। एवं च तृतीयान्तयत्पदार्थस्य षध्ठ्चन्तयत्पदार्थेडभेदान्वये तेन च क्षपाचारि- णामभेदबोध इति तृतीयान्तार्थेडप्यभेदलाभः। तथा च किं विशेष्यान्तरविवक्षयेति चेन्न। अनुवाद्यानां (यत्पदनिरदेश्यानां) हि विधेयेनैव (विधेयत्वेन स्वार्थबोधकतच्छब्दार्थेनैव) साक्षादन्वयो न तु तदनन्तर्भाव्यनुवाद्यान्तरेण गुणत्वस्योभयत्र (यत्पदार्थद्ये) तुल्यतया विशेष्यत्वविनिगमनाया अशक्य- त्वात्। तदेतदुक्तम् "गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्" इति। अत एव "अरुणयै- कहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति" इत्यारुण्यादीनां पिङ्गाक्ष्यादिभिर्नान्वयो नापि गवा तस्या अपि क्रयणसाधनत्वेन गुणत्वात् किं तु क्रयेणैव। कथं तर्हि धर्म्यन्तरस्थरैपि आरुण्यादिभिर्न क्रय इति चेत् आरुण्यादीनां गोत्वान्तानामार्थसमाजात्। 'आर्थसमाजात्' इत्यस्य परस्पराकाङ्या अर्थतः पर- स्परनियमादित्यर्थः। गुणादिप्रकारकव्यक्तिवचनानां संनिहितविशषपरत्वादीति भावः। अत एवारु- ण्यादीनां स्वाश्रयावच्छेदकतया क्रयसाधनत्वप्राप्तये धर्म्यैक्यप्राप्तये चारुण्येनेत्यादिकं विहायारुणये- त्यादिनिर्देश इति बोध्यम्। तर्हिं तद्वदेवात्राप्यार्थसमाजोऽस्त्विति चेत् भवेदेवं यदि तद्दत् समानविभ- क्तिकत्वं भवेत्। विभक्तिविपरिणामस्तु न भवत्येव। चरितार्था हि विभक्तयो विपरिणम्यन्ते। चारि- तार्थ्य तु प्रधानसामानाधिकरण्येनैव। न चात्र तथेति बोध्यम्। कथं तर्हि भवत्यभिमतो योग इति चेत् क्षपाचारिभिरिति पाठे। ननु क्षपाचारिभिरिति पाठेऽपि षध्ठ्चन्तानन्वयताद्वस्थ्यमिति चेन्न । तत्प-

१ विनिगमना चैकतरपक्षपातिनी युक्तिः ॥ २ धर्म्यन्तरस्थैरपाति। "वाससा क्रीणाति" इति वचनात् क्रय- साधनवस्त्रपरिच्छेदकतयाप्यारुण्यादि क्रयाङ्गं स्यादित्यर्थः ॥

Page 408

सप्तम उल्लास:। ३४९

यथा वा त्वमेवंसौन्दर्या स च रुचिरताया: परिचितः कलानां सीमानं परमिह युवामेव भजथः। अपि हन्दं दिष्चा तदिति सुभगे संवदति वाम अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया॥२२८॥ अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति। 'चेत्स्यात्' इति युक्तः पाठः। यथा वा

देन विभिन्नविभक्तिकेनाप्यन्व्यबोधाद्यावद्यत्पदार्थे तत्पदेन परामृष्टे क्षपाचार्यभेदलाभात् सकलयत्प- दनिर्दिष्टानां तत्पदेन परामर्शे तेषां सर्वेषां क्षपाचारित्वावगतेः। क्षपाचारिणामिति निर्धारणषश्ठ्ा- दरे तु नाभवन्मतयोगतेति चिन्त्यमिति कश्विदिति॥

न्यूनतादिनिबन्धनं यथा वेत्युदाहरति त्वमेवमिति। नायिकां प्रति दूत्या उक्तिरियमिति चन्द्रि- काकारः। क्ुद्धां प्रति सखीवाक्यमिदमिति कमलाकरभट्टः। हे सुभगे त्वम् एवं विलक्षणप् (अनु- भवमात्रगोचरं विशिष्य वक्तुमशक्यं) सौन्दर्य यस्यास्तथाभूता। स च प्रकृतनायकोऽपि रुचिरतायाः सुन्दरतायाः परिचितः। शेषे षष्ठी 'ब्राह्मणस्य कुर्वन्' 'नरकस्य जिष्णुः' इत्यादिवत्। तेन "न लोकाव्ययनिष्ठा०" (२।३६९) इति सूत्रेण षष्ठीनिषेधः कुतो नेति शङ्का पराहता। एवं च रुचिरतापदार्थस्य कर्मत्वेनाविवक्षिततया अकर्मकत्वात "गत्यर्थाकर्मक०" (३४७२) इति सूत्रेण कर्तरि क्तप्रत्ययस्य सिद्धिः। इह संसारे कामिलोके वा कलानां वैदग्धीनां चतुःषष्टिकलानां वा सीमानं परोत्कर्ष (परां काष्ठां) परम् अतिशयेन युवामेव भजथः आश्रयथः नान्य इत्यर्थः। अपीति संभा- वनायाम्। वां युवयोः तत् अनिर्वचनीयगुणगरिम द्वन्द्वं भिथुनं दिष्ट्या भाग्येन इति पर्वार्धोक्तप्र- करेण संवदति योग्यं भवति। अतो हेतोः शेषम् अवशिष्टं यत् संगमरूपं तत् यदि स्यात तदानीं गुणितया गुणवत्तया इह संसारे जितं सर्वमित्यर्थः। चन्द्रिकाकारादयस्तु तत् तस्मात् इति एवंविधं वां युवयोरद्वन्द्वं मिथुनं दिष्ट्या भाग्येन संवदत्यपप योग्यमपि भवति। अतः पूर्वोक्तात् शेषम् अवशिष्ट समा- गमरूपं यदि स्यात् तदानीम् इह द्वन्द्े गुणितया सौन्दर्यादिना जितम्। अन्यथा योग्यसमागमा- भावेन गुणवत्त्वमेव विफलमित्यर्थः इत्याहुः। "शेषः संकर्षणेऽनन्ते उपयुक्तेतरेऽन्यवत्" इति विश्वः। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे।

अत्र शेषं यत् तत् यदा स्यादित्यर्थोऽपेक्षितः स न भवति तत्पदयदापदयोरभावात। अतो यदर्थस्य तदानींपदेनैवान्वयोऽभिधित्सितः। स च न संभवति यत्पदेन तदानींपदस्यान्वये आका- झाया अभावादित्यभवन्मतयोगत्वम् । तदेवाह अत्रेतयादि। वचनम् उक्तिः। नास्तीति। अत्र यदित्यत्र तत्पदाभावात्तदानीमित्यत्र यद्रेत्यभावाच्च नेष्टः संबन्ध इत्यर्थः। न च तदित्यस्य पूर्वत्र विद्यमानस्यात्रानुषङ्ग: अथादिवदतः शब्देन विच्छेदात् "व्यवायान्नानुषज्येत" इति न्यायादिति कमला- कर्या स्पष्टम्। कथ तर्हि पाठो युक्तोऽत आह चेत्स्यादिति। चेदिति यदेत्यर्थकम्। अतो न न्यूनत्वमिति बोध्यम्। अत्राहुश्रन्द्रिकाकाराः "अत्र यदीत्यस्याभावादित्यस्य च तदर्थाबोधकत्वाद- भिमतान्वयालाभः" इति॥

Page 409

३५० काव्यप्रकाशः सटीकः।

संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥ २२९॥ व्याख्यातमिदं प्रदीपोद्दयोतयोः।"अत्र शेषसंपत्तेर्गुणिताजयप्रयोजकत्वान्वयो विवक्षितः ।स च द्विधा संभवति यदित्यस्य चेदित्यर्थकतया तद्यदिपदार्थयोर्विवक्षया वा। तयोर्यदि प्रथमे तात्पर्य तदा अवाचकता द्वितीये तु न्यूनपदत्वम्" इति प्रदीपः । (शेषसंपत्तेः। मङ्गलशेषसंपत्तेः। स च द्विधेति। यदित्यस्य क्रियाविशेषणतया 'यच्छेषभवनं स गुणितायाः जयः' इत्यर्थे तु तदानीमित्यस्यानन्वितत्वमिति भावः । तद्यदिपदेति। अतः शेषं यत् तद्यदि स्यादित्यन्वयविवक्षयेति भावः) इत्युद्योतः। सुधा- सागरे तु उक्तं प्रदीपमनूद इति प्रदीपकारा: प्राहुस्तन्न रमणीयम् यदित्यस्य यदेत्यर्थकाव्ययत्वात्। यथा 'विभावा अनुभावास्तत्कथ्यन्ते' (८६ पृष्ठे) इत्यत्र तदित्यस्य तदानीमित्यर्थकत्वम्। वयं तु पश्यामः। अव्ययानामनेकार्थकत्वादित्यस्य तदानींशब्दसमभिव्याहारविलम्बेन विलम्बोपस्थितिकत्वा- च्चमत्कारविघातकत्वम् चमत्कारानुकूलस्य च योगस्य [स्या] सत्त्वात्। 'विभावा' इत्यादेः कारिकात्वेन संभवतोऽप्यस्यातन्त्रत्वादिति। तस्माद्विवक्षाभेदेन न्यूनतादिनिबन्धनोऽयं दोष इति व्याख्यातम्॥ "न च न्यूनपदस्याप्यत्रैवान्तर्भावः क्वचिन्न्यूनपदेऽपि अध्याहारादिना मतयोगसंभवे विलम्बादेरदु- ष्टत्वसंभवात्" इति प्रदीपः । (अध्याहारादिनेति। [आकाङ्गितैकदेशपूरणमध्याहारः ] आदिपदेन लक्षणापरिग्रहः । तथा च स्वरूपायोग्यविषये प्रकृतदोष इति विषयभेद इति भावः) इतिः प्रभा । (क्वचिन्न्यूनेति । अध्याहारश्र नित्यसाकाङ्गक्रियाकारकवाचिस्थले एवेति नात्र स इति भावः। संभवादिति। स्वरूपायोग्यत्वे तु प्रकृतदोष इति भाव:) इत्युद्दयोतोऽपि॥ आकाङ्काविरहनिबन्धनमुदाहरति संग्रामेति । 'संग्रामाङ्गणम्०' (२२९ ) इति 'क्रामन्त्य:०। (३३८) इति 'आलानम्०' (४२६) इति 'लावण्यौकसि०' (५५२) इति 'आत्ते सीमन्तरत्ने०' (५६८) इति च पञ्चोदाहरणानि यद्यपि हनुमत्कविनिबद्धायां खण्डप्रशस्तौ रामावतारवर्णने दृश्यन्ते तथापीमानि पद्यान्यन्यकविकृतानीति संभाव्यते खण्डप्रशस्तावेतद्द्रष्टणां कुशाग्रधिषणानां तथैवानुभ- वात्। अत एव काव्यमालायां काव्यप्रदीपाङ्ककस्य "संग्रामाङ्गणेति पद्यं कर्कराजस्य सदुक्तिकर्णामृते" इति टिप्पणोक्तिः संगच्छते । कि बहुना खण्डप्रशस्तिनामा संपूर्णोऽपि ग्रन्थो हनुमन्नाटकवत हनुमत्कविना अन्यकविकृतान् श्र्लोकानेकत्र संगृह्योपनिबद्ध इति संभाव्यते। अत एव 'कल्याणानां निधानं कलिमलमथनं पावनं पावनानाम्०' इति पद्यं हनुमत्कविनिबद्धे हनुमन्नाटके मङ्गलाचरणरूपेण पठितं खण्डप्रशस्तौ रामावतारवर्णने दृश्यते। किंच 'ब्रह्माण्डच्छत्रदण्डः शतधृतिभैवनाम्भोजसन्नाल- दण्डः क्षौणीनौकूपदण्ड:०' इति पद्यं दण्डिकविकृते दशकुमारचरिते मङ्गलाचरणरूपेण पठितं खण्डप्र- शस्तौ वामनावतारवर्णने दृश्यते। अपि च 'मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान्०' इति १ २०२ पृष्ठे १२४ तमं पद्यं सव्याख्यान द्रष्टव्यम् ॥२ 'जीवनं जीवनानाम्' इत्यपि पाठः॥ 3 ननु हनुमन्नाटक- खण्डप्रशस्त्योरुभयोरपि हनुमत्कविनैव कतत्वात् हनुमन्नाटके पठितस्य 'कल्याणानाम०' इति पद्यस्य स्वकतार्यां खण्डप्रशस्तावुद्धरणमुचितमेव रघुकाव्ये ७ सर्गे पठितानाम् "आलोकमार्ग सहसा व्रजन्त्या०" इत्यादीनां षण्णं पद्यानां कुमारसंभवकाव्ये ७ सर्गे महाकविना कालिदासेनाप्युद्धृतेः। तस्मान्नेदं प्रकृतेऽर्थे साधकमिति चेत्तत्राह किंनेति ॥४ 'भवनाम्भोरुहो नालदण्डः' इत्यपि पाठः॥

Page 410

सप्तम उल्लास: । ३५१ अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम्। न च यच्छब्दार्थस्तद्विशेषणं वा कोदण्डादि। न च केन केनेत्यादि प्रश्नः । पद्यं श्रीमद्भागवते दशमस्कन्धे पूर्वारधे ४३ अध्याये (१७ श्लो०) पठितं खण्डप्रशस्तौ कृष्णावतार- वर्णने दृश्यते इति दिक। हे देव राजन् संग्रामो युद्धमेवाङ्गणमजिरम्। वीराणां निर्भयसंचरणीयत्वेन संग्रामस्याङ्गणत्वेन रूपणम्। तत् आगतेन प्राप्तेन भवता त्वया चापे धनुषि समारोपिते ज्याविशिष्टे कृते सति येन येन सहसा झटिति यत् यत् समासादितं प्राप्तं तत् आकर्णय शृणु इति संबन्धः । केन केन किं किं समासादितमित्याकाङ्कायामुत्तरार्धमाह कोदण्डेनेत्यादि । कोदण्डेन धनुषा शराः बाणाः समासा- दिता: शरैः अरिशिरः शत्रुमस्तकं समासादितम तेनारिशिरसापि भूमण्डलं समासादितम् तेन भूमण्ड- लेन त्वं समासादितः भवता च अतुला अनुपमा कीर्तिः समासादिता कीर्त्या च लोकत्रयं समासादित- मित्यर्थः। समासादितमित्यत्र "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" (१२६९) इति पाणिनि- सूत्रेण नपुंसकानपुंसकयोर्नपुंसकैकशेषः एकत्वं चेत्युद््योते स्पष्टम्। एतेन 'समासादितमित्यस्य वचना- दिविपरिणामेन समासादिताः समासादितं समासादितः समासादितेत्येवमनुषङ्गो बोध्यः' इति चन्द्रिका- कारोक्तमपास्तम्। भूमण्डलेन च राज्ञ: समासादनं स्वस्वामिभावेनेत्यवगन्तव्यम् । अत्र मालादीपकम- लंकार इति दशमोल्लासे ४५९ उदाहरणे वक्ष्यते। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्राभवन्मतयोगं दर्शयति अत्रेत्यादिना 'प्रश्न' इत्यन्तेन। अत्र हि प्रथमार्धवाक्यार्थे उत्तरार्धार्थस्य संबन्धो विवक्षितः स च न संपद्यते। तथाहि। आकर्णनक्रियायां कोदण्डादिप्रातिपदिकार्थानां प्रत्येकं कर्मतया अन्वये 'कोदण्डं शरान्' इति द्वितीया स्यात् "कर्मणि द्वितीया" (२।३२) इति पाणिन्यनु- शासनात्। तदेवाह आकर्णनेत्यादि। कोदण्डं शरानित्यादीति। अस्य 'प्राप्तम्' इत्यग्रिमेणान्वयः । अथ कोदण्डादीनां सर्वेषां परस्परमनन्वितानामपि एकदैव वाक्यार्थविधया कर्मत्वमिति न द्वितीया- प्रसङ्ग:। प्रातिपदिकादेव द्वितीयाविधानेन वाक्यात्तदसंभवादिति चेन्न। 'यो यो वीरः समायातस्तं तं शृणु महीपते। भीष्मो द्रोण: कृपः कर्णः सौमद/त्तिर्धनंजयः॥' इत्यादिवत् परस्परमनन्वितार्थकत्वात् कोदण्डादिशब्देभ्यः 'कोदण्डः शराः' इति प्रथमा स्यात् शुद्धप्रातिपदिकार्थे प्रथमाविभक्तेरनुशास- नात्। तदेवाह वाक्यार्थस्येत्यादि। ननु यच्छब्दस्य बुद्धिस्थवाचकतया कोदण्डादिपदार्थ एव यच्छब्दार्थ इति यच्छब्दार्थस्य क्रियान्वये कोदण्डादीनामन्वयो लभ्यत एव एवं च तदभिन्नत्वात्को- दण्डादौ तृतीयाद्यपपत्तिरित्याशङ्क्च निराकरोति न च यच्छब्दार्थ इति। न च यच्छब्दार्थः कोदण्डादीत्यन्वयः। यच्छब्देन कोदण्डत्वादिना बोधेऽयं दोषः। यदि यच्छब्देन कोदण्डत्वादिरूपेण कोदण्डादिकर्तृकशरादिकर्मकासादनावगमस्तदा कोदण्डादानां पुनरुपादानं 'घटो घटः' इतिवत् व्यर्थ- मेव स्यात्। यच्छब्दार्थस्य साकाङ्कत्वप्रसङ्गश्वति भावः। ननु 'यो घटस्तमानय' इत्यत्र घटपदस्य तात्पर्य- ग्राहकत्वेन संभेदात् यथा न वैय्यर्थ्य तद्वदत्रापि कोदण्डेनेत्यादि तात्पर्यग्राहकमिति चेत् आवश्यकत्वा- दिदमेवास्तु किं तेनेति भावः। अथ यदर्थयोः कर्तृकर्मणोः विशेष्याणि विशेषणानि वा कोदण्डादीनी त्याशङ्क्य निराकरोति तद्विशेषणं वेति। न चेत्यनुषञ्जनीयम् न च कोदण्डादि तद्विशेषणमित्यन्वयः। तद्विशेषणमित्यत्र स एव (यच्छब्दार्थ एव) विशेषणं यस्येति तस्य (यच्छब्दार्थस्य) विशेषणमिति च विग्रहः । तेन 'यैरित्यत्र विशेष्यस्याप्रतीतिरिति' प्राक् (३४८ पृष्ठे १ पङ्कौ) उक्तग्रन्थस्य १ सोमदत्तस्यापत्यं पुमान् सौमदत्तिः भरिश्रवा इत्यर्थः ॥ २ शुद्धेति। कर्मत्वाद्यनाविष्टेत्यर्थ;।३ अनुशासना, दिति। "प्रातिषदिकार्थलिङ्गपरिमाणव चनमात्रे (२।३।४६) इति पाणिनिसूत्रादित्यर्थ: ॥।

Page 411

३५२ काव्यप्रकाशः सटीकः।

न विरोधः। इदमत्र निराकरणम्। आद्यकल्पे येन कोदण्डेन यत् शराः समासादितं तत् आकर्णयेति वाक्यार्थपर्यवसानेन 'केन कोदण्डेन के शराः' इति विशेषाकाङ्काया अनिवृत्तिप्रसङ्ग: । केचित्तु भिन्न- वचनकत्वेन 'यत् शराः समासादितम्' इत्यन्वयासंभवश्र्ोति दोषान्तरमप्यस्मिन्कल्पे इत्याहुः तन्न युक्तम् समासादितमित्यत्रेव यदित्यत्रापि एकशेषेणान्वयसंभवादिति बोध्यम्। द्वितीयकल्पेऽपि 'कोदण्डेन येन शरा: यत् समासादितं तदाकर्णय' इतिवाक्यार्थपर्यवसानेनोक्तदोष एवेति बोध्यम्। कल्पद्वयेऽप्यन्वय- बाहुल्यप्रसङ्गेन प्रतीयमानैकवाक्यत्वभङ्गश्वेत्यप बोध्यम्। ननु येन यदिति सामान्यतोऽवगमेन 'केन केन किं किम्' इति विशेषप्रश्ने सति तदुत्तरतया 'कोदण्डेन शराः' इत्युत्तराधमुक्तमित्याशङ्क्य तद्पि निषधति न च केन केनेत्यादि। आदिशब्दात्किं किमित्यस्य परिग्रहः।न च न कथं प्रश्नः प्रश्नवा- चकपदाभावात्। येन येन यत् यत् समासादितं तत् आकर्णयेति प्रतिज्ञयैव कोदण्डादीनामुक्तत्वा- दिति भाव: । न चोत्तरस्यैव प्रश्नोन्नायकता (प्रश्नवाक्यकल्पकता) अत एवोत्तरेण प्रश्नोन्नयने उत्तरालंकारो मूल एव (१८८ सूत्रेण) वक्ष्यते इति वाच्यम कोदण्डादेः प्रश्नं विनव स्वार्थपर्यवसा- नात्। यत्र तु प्रश्नोन्नयनं विना वाक्यान्तरानुपपत्तिस्तत्रैव्र तदुन्नयनेनालंकारत्वोपगमादिति भावः । एवं च मतस्य चमत्कारिण: पूर्वापरार्धार्थयोरन्वयस्याभावादभवन्मतयोगत्वमिति बोध्यम्। 'संप्राप्ते परि- पन्थियोधनिवहे सांमुख्यमासादितम्' इति द्वितीयपादपाठे तुन दोष इति स्पष्ट बहुषु टीकाग्रन्थेषु॥ व्याख्यातमिदं प्रदीिऽपि "अत्रे पूर्वाधार्थेन उत्तरार्धस्य योगो विवक्षितः न च कथचित्संपद्यते। तथाहि। अर्थानां वाक्यार्थे योगः क्रियात्वेन वा कारकत्वेन वा संबन्धित्वेन वा एषां विशेषणतया वा हेतुत्वलक्षणत्वादिना वा तदादिना पूर्ववाक्यार्थमनूद्य वाक्यान्तरावष्टम्भाद्वाक्यैकवाक्यतया वा ।१ (अस्य प्रदीपस्याप्यंतिकठिनत्वादुद्वयोतोऽपि लिख्यते) कर्मत्वे विवक्षिते इति। अत्र येन येन यद्यत्स- मासादितं तदाकर्णयेति द्वितीयपदार्थः उत्तरवाक्यस्थयत्पदेन तत्पदाक्षेपात्। तत्राक्षिप्तत्पदार्थे कोदण्डादीनाम- भेदान्वये विवक्षिते इत्यर्थः। समानविभक्तिकत्वस्य तद्न्वये तन्त्रत्वात् द्वितीया स्यादिति भावः।परस्परा- नन्विता इति। कोदण्डयुक्ताः शरा इत्येवं परमनन्विता इत्यर्थः। मिलिताः कोदण्डाद्यः समुदायापन्नाः। अत एव 'कोदण्डः शराः' इत्यादिप्रथमापादनम्। कर्मेति। येन येन यद्यत्समासादितं तदाकणयेति आकर्णन- क्रियाकर्मीभृततत्पदार्थान्वितत्वमित्यर्थः । कोदण्डः शरा इति। तत्पदेन तृतीयान्तयत्पदोपस्थाप्यस्य प्रथमा- न्वयत्प दोपस्थाप्यस्याकर्णनक्रियाक्मत्वचोधनादिति भावः। समुदायामेदान्वये हि न समानविभक्तिकत्वं तन्त्रम- त्याह माहिष दवीति। 'कालिदासकविता नवं वयः एणमांसमबला च कोमला। स्वर्गशीषमुपभुञ्जते नगः' इति तच्छेषः । अत्र हबलान्तानां समुदितानां मिन्न्नविभक्तिकत्वेऽवि स्वगशेषेऽभेदान्वयदर्शनादिति भावः। अत्र पक्षे आसादनान्वितस्याकर्णनक्रियान्वयो न प्रतीयेत यत्पदेन केवलकोदण्डादे: परामर्शे आक्षिप्ततत्पदेनापि तथैव प्रतिपत्तेरित्यपि बोध्यम्। एतेन यद्यत्समासादितं तदाकर्णय कोदण्डादिकं चाकणयेत्यन्वयोऽपि परास्तः १ (प्रभापि लिख्यते ) उत्तरार्धस्य तदर्थस्य। कर्मत्वे इति। कर्मविशेषणत्वे इत्यर्थः। येनेत्युत्तरवाक्य- गतयच्छब्दाक्षिप्तत्वेन हि तच्छब्देन कर्म समाव्यते तत्राभेदेन कोदण्डादेरन्वये समानविभक्तिकत्वस्यापेक्षितत्वात्प्र त्यकं द्वितीया स्यदित्यर्थः। अथति। परस्परं कर्तृकर्मभावेनानन्विताः समुदिताः कोदण्डादयस्तच्छब्दोपात्तकर्म- विशेषणमिति न प्रत्येकं द्वितीयापत्तिरित्यर्थ;। तहीति। कर्तृकर्मभावान्वये हि तद्वोधक विभक्तिप्रसङ्गः स्यात्त- दभावे तु प्रत्येकं साधुनवार्था प्रथमा स्यादित्वर्थः। अत्र दृष्टन्तमाह माहिषमिति। अत्र हि माहिषद्ध्यादि- समुदायस्याभेदेन स्वर्गशेषपदार्थे कर्मणि समन्त्रयः। वृत्तौ वाक्यार्थपदं पदार्थसमुदायपरम्। यथाश्रुते प्रथमाया आपादनासंभवात्। 'परस्परान्विताः' इति पाठस्तु प्रामादिक एव। वाक्यार्थकर्मताया अनुपदमेत शङ्कयमानत्वाच्चोते घोध्यम्। अथेति। एवं च कोदण्डादे: प्रत्येकं समुदितिस्य वा नाकर्णनक्रियान्वयो येन प्रत्येकं द्वितीया प्रथमा बा स्थात् किं तु समासादनक्रियायामपात्तविभक्तििरव वाक्यार्थानां चाकर्णनक्रियारयां कर्मत्वेनान्वय इत्यर्थ:।

Page 412

सप्तम उल्लास: । ३५१

भवेत्। तत्र कोदण्डादेः प्रथमतृतीयपश्चमषष्ाः पक्ष्यास्तद्विशेषणता चासंभाविता एव। कारकत्वमपि कर्मकर्तृभावाभ्यामन्यन्न घटते। तत्राकर्णनक्रियायां पदार्थमात्रस्य कर्मत्वे विवक्षिते 'कोदण्डं शरान्' इत्यादि स्यात्। अथ परस्परानन्विताः मिलिताः पदार्थाः कर्म न प्रत्येकम् अतो न प्रत्येकवाचका- त्कोदण्डादिशब्दात् द्वितीयेति चेत् तर्हि शुद्धप्रातिपदिकार्थमात्रार्थत्वात् 'कोदण्डः शराः' इत्यादिप्र- थमा स्यात् 'माहिषं दधि सशर्करं पयः' इत्यादिवत्। अथ समासादनक्रियायां कोदण्डादीनां कर्तृतया शरादीनां तु कर्मभावे नान्वय इति चेन्न। शराः समासादितमित्यनन्वयात्। किं च येन यत्समासादितं कोदण्डेन शरा: समासादितास्तदाकर्णयेति पर्यवसाने कत्रोः कर्मणोश्र भेद: प्रतीयेत। न चाकाङ्गानिवृत्तिः स्यात् । अथ यच्छब्दस्य बुद्धिस्थवाचकतया कोदण्डादिपदार्थ एव यच्छब्दार्थः तथा च यच्छब्दार्थस्य क्रियान्वंये कोदण्डादीनामन्वयो जात एवेति चेन्न। एवं हि कोदण्डादीनां पुनरुपादानं व्यर्थमेव स्यात्। तस्मादस्ति कश्व्वित्प्रकारकृतस्तदर्थयोर्भेद इति तद्वच्छिन्नतया योगः कथं- कोदण्डाय्यतिरक्तिस्यैव यत्देन तदा स्वरसतः प्रतीत्या तत्किमित्याकाङ्सापत्तेश्र। कत्रोः कर्मणोश्च भेद इति। कोदण्डादिकर्तृकमपक्षया यत्पदार्थकर्तृकर्मणोर्मेदः प्रतीयेनेति भावः। न चाकाङक्षेति। यत्पदार्थयोरित्यर्थः। जात एवेति। एवं च तद्भिन्नत्वात्कोदण्डादौ तृतीयाद्युपपत्तिरिति भावः। एवं हीति। कोदण्डत्वादिना यच्छ- ब्देन बोधेडयं दोषः। कोदण्डेनेत्यादि तात्पर्यग्राहकमिति चेत् आवश्यकत्वादिद्मेवासत्विति भावः। तदर्थयाः यच्छब्दार्थकोदण्डपदार्थयोः । आकाङ्क्षाया इति। केन कोदण्डेन के शरा इति विशेषाकाङ्क्षाया इत्यर्थः। अन्वयबाहुल्येति। तथा च प्रतीयमानैकवाक्यताभङ्ग इति भावः। अनन्वयचाहुल्येति पाठे बहुण्वनन्वयप्रसङ्ग इत्यर्थ: कथंचित्। व्युदस्तमिति। कल्पट्वयेडपि यच्छरा येन शरैरित्यनन्वयादन्वयबाहुल्यप्रसङ्गाच्चेत्यपि बोध्यम्। तदुन्नयनासिद्धेरिति। राज्ो धीरोदात्तत्वेन प्रश्नवाक्याप्रयोगेऽपि जिज्ञासाया आवश्यकत्वात्कवेरपर्यवसितसामा- न्योक्त्या न्यूनतापत्तेश्र। सामान्योक्त्या बोधनीयमभिमुखीकृत्य लोकोत्तरविशेषनिर्देशेन चमत्कारातिशयाय प्रति- ज्ञातस्यार्थस्य निर्वाहाय विशेषनिर्देशसंभवेनान्यथानुपपत्त्यभावान्न तदुन्नयनमिति भावः। नन्वेवं तथैवास्त्वति शङ्कते ननु चेति। समासादितमित्यस्य वचनविपरिणामेनानुषङ्गच्च क्रियालाभोऽपीति भावः। वाक्यभेदे हेतु- माह पूर्वापरार्धयोरिति। एवं च मतस्य चमत्कारिणः पूर्वांपरार्धयोरन्वयस्याभावाद्भवन्मतयोग इति भावः। 'संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादितम्' इति पाठस्तु युक्त इत्युद्दयोतः ॥ समासादिता इति लिङ्गवचनविपरिणामेनान्त्रयमाशङ्कयाह किं चेति। कत्रोः येनेतिकोदण्डेनेतिपदोपात्तयोः । कर्मणोः यद्यदिति शरा इत्यादिपदोपात्तयोः। भेद इति। येन कोदण्डेनेत्येवमभेदान्वयाबोधादित्यर्थः। इष्टापत्तिमा शङ्कयाह न चेति। येन यदित्यस्य विशेषानुक्तेरिति भावः। येन येनेत्यनेनैव बुद्धिस्थकोदण्डादिबोधकेनाकर्णन- क्रियाकर्मत्वेन कोदण्डादेरन्वयान्न तेषामनन्वय इत्याशङ्कते अथ यच्छनदस्येति। अस्मिन् पक्षे उत्तरार्धवैयर्थ्यम्। यच्छब्दार्थतात्पर्यग्राहकत्वे तु तदेवोपादेयम् न येनेत्यादीत्याह एवं हीति। प्रकारकृतः कोदण्डत्वबद्विस्थत्वरूपप्र। काररुतः । तदर्थयोः यच्छब्दकोदण्डादिशब्दयोः। आक्षिप्तेति उत्तरवाक्यस्थयच्छव्द्वाक्षिप्ेत्यर्थः। अथेति। कर्तृकर्मणोः यच्छब्दोपात्तयोः। विशेषणानीति। कोदण्डेन येनेत्येवं पूर्वाधकवाक्यतापन्नानीत्यर्थः। अत एव उक्तदोषादेव। येन कोदण्डेनेति कोदण्डाविविशेषणत्वं यत्पदार्थस्येति पक्षेऽपि साकाङ्क्षत्वं 'शरा यत्' इत्याद्यसामञ्जस्यं च तुल्यमित्यर्थः । अथेति । अत्र प्रश्नवशेन कोदण्डादेर्यत्पदार्थामेदलाभः उत्तरवाक्यस्यास- बद्धार्थकत्वपरिहारश्र् भवतीति भावः। असौ प्रश्रः। उत्तरेण प्रश्ोन्नयने उत्तरालंकारो वक्ष्यते इत्ययं पक्षो युक्त इत्यर्थः। दूषयति नेति। सामान्यतोऽमिहितस्यार्थस्य पर्यवसानाय प्रश्ं विनाप्यत्तरवाक्योपपत्तेः प्रश्रोन्नयनासं भवात्। यत्र प्रश्नोन्नयनं विना वाक्यान्तरानुपपत्तिस्तत्रैव तद्रुन्नयनेनालंकारत्वोपगमात् । यथा 'वाणिअअ हत्थि" दन्ता कुतो अह्माणम्' इत्यायुदाहरणे (५२८)। तहिं निर्दुष्ट एवायं पक्षः आसादितमित्यस्य लिङ्गवचनविपरि णामेनान्वयोपपत्तेरिति शङ्कते नन्विति। वैरस्याप्रसकत्या लोके दुष्टत्वाभावेदपि काव्ये तत्प्रसक्त्या दोषत्वमवर्जनीय मित्याह लोके इति। इति प्रभा॥ ४५

Page 413

३५४ काव्यप्रकाशः सटीकः ।

यथा वा "चापाचा र्यस्त्रिपुरविजयी० " ॥ २३०॥ इत्यादौ भार्गवस्य निन्दायां तात्पर्यम्। कृतवतेति परशौ सा प्रतीयते। 'कृतवतः' इति तु पाठे मतयोगो भवति। यथा वा चिदुपपादनीयः । एतेनाक्षिप्ततच्छब्दार्थत्वमपि निरस्तम्। अथ कर्तृकर्मणोर्विशेषणानि कोदण्डादीनीति चेन्न। कोदण्डेन येन शराः यत् समासादितं तत् आकर्णयेति वाक्यार्थपर्यवसाने पुनर्विशेषानुक्ता- वाकाङ्काया अनिवृत्तिप्रसङ्गात् शरा यत् इत्याद्यन्वयबाहुल्यप्रसङ्गाच्च। अत एव कोदण्डादिशरादिक- नृर्कर्मणी तद्विशेषणं तु यच्छब्दार्थ इत्यपि व्युदस्तम्। अथ येन यदिति सामान्यतोऽवगमात्केन किमिि विशेषप्रश्ने कोदण्डेन शरा इत्यायुत्तररूपाणि वाक्यान्तराणीति चेन्न। तादृशप्रश्नाश्रवणात्। अथा- सावुन्नीयते एवमुत्तरालंकारोऽपि लभ्यते इति चेन्न। येन यदासादितं तदाकणयेति प्रतिज्ञाय प्रश्नं विनापि कोदण्डादिनिर्देशसंभवेन तदुभ्यनासिद्धेः । ननु चासादितमित्यस्य क्रियापदस्य वचनादिविप- रिणामेनानुषङ्ग 'कोदण्डेन शराः समासादिताः' इत्यादिवाक्यान्तरारम्भे को दोष इति चेत् वाक्य- भेद: पूर्वापरार्धयोरनन्वयतादवस्थ्यात्। लोके तादृशवाक्यभेदेऽपि दोषाभावात्तथा प्रयोग इतीति॥ व्यङ्ग्चस्यापि विवक्षितयोगाभावेऽस्यावान्तरभेदो यथेत्युदाहरति चापाचार्य इति। व्याख्यातमिद मत्रैवोल्लासे ३२३ पृष्ठे। इत्यादौ भार्गवस्येत्यादि। इयं युयत्सुं भार्गवं (परशुरामं) प्रति रावण- स्योक्तिः। अत्र हि रावणस्य भार्गवेण सह युद्धमनभिलषितमिति तदुपेक्षा वाक्यार्थः। स च भार्गव- निन्दायामेव परशोर्निन्दायामपि भार्गवस्यानुपेक्ष्यत्वात् निन्दितशस्त्रं बिना शस्त्रान्तरेणापि भार्गवेण सह युद्धसंभवात्। कृतवतेत्यस्य परशुविशेषणत्वेन परशुनैव तदर्थाभिसंबन्धात्तत्रैव (परशावेव) निन्दा प्रतीयते न च तथा सति संगतिरित्यभवन्मतयोगत्वमिति भावः । अस्त्रस्य निन्धत्वेऽप्यस्त्रिणोSनिन्धत्वा- त्परशुनिन्दामुखेन भार्गवनिन्देत्यपि वक्तुमशक्यम् परशोरचेतनस्याकर्तृत्वेन स्वतोऽनिन्यत्वाच्च धीरो- द्वतस्य (रौद्ररसप्रधानस्य ) रावणस्य परंपरया तद्दोषकथनानौचित्याच्चेति भाव इत्युद्चोते स्पष्टम्। विवरणकारास्तु "परशौ सा प्रतीयते इति। अत्र परशुनिन्दामुखेन भार्गवनिन्दायां वैदग्ध्यातिशय इति तदेवात्राभिप्रेतमिति न वाच्यम् यथा स्पर्धायोग्यत्वोपपत्तये परशुस्वामिनः शिवशिष्यत्वादीनि विशे- षणानि तथा तदयोग्यत्वप्रतिपादनाय तस्यैव कश्विद्धर्मो वक्तुमुचितः अन्यथा प्रकरमभङ्ग: स्यादिति यथोक्तमेव सम्यक्" इति व्याचख्युः। इति तु पाठे इति। तदैवोपेक्षावगमात्। न च परशु- निन्दाया अप्रतीतौ "परशाना बद्धस्पर्द्धों लज्जते" इत्यसंबद्धं स्यादिति वाच्यम् तव परशुनेत्यनेन तत्सं- बन्धेन परशोर्निन्दासूचनात्। मतयोग इति। भार्गवनिन्दायोगरूप इत्यर्थः॥ तदेतत्सर्व प्रदीपेऽपि व्याख्यातम् "अत्र रेणुकाकण्ठबाधाजन्यात्मनिन्दया भार्गवस्य योगो विवक्षितः तन्निन्दाप्रकरणात् परशोः स्वक्रियापाटवेनानिन्दनीयत्वाच्च। न च तथा प्रतीयते कृतवतेति तृतीयया परशुनैव संबन्धावगमात्। कृतवत इति पाठे तु भार्गवे निन्दायोगः प्रतयिते। यदि तु परशुनिन्दान- न्तरं विदग्धोक्त्या भार्गवेऽपि निन्दावगमस्तदा कृतवत्त्वस्यानेनायोगाद्वच्यायोगोदाहरणमेवैतत् । त्थाहि। यथा स्पद्धयोग्यत्वोपपत्तये परशुस्वामिनो महादेवशिष्यत्वादीनि विशेषणान्युपात्तानि तथा १ जन्यनिन्द्येति पाठ इत्यद्व्योतः॥ २ संबन्धावगमादिति। निन्दाप्रयोज्यरेणकाकण्ठबाधाकारित्व संबन्धाव- गमाहित्यर्थः ॥ ३ विद्ग्धेति। अन्यनिन्दाव्या नेनान्यनिनद्वोक्तिरूपयेत्यर्थः ॥ ४ अनेन भार्गवेण ॥ ५ वाच्यायो- गोति। तदूत्वेन वाच्यस्य तद्योगेत्यर्थः॥ ६ ननु रुतवत्त्वस्य भार्गवान्वयविवक्षायां किं मानमत आह तथा

Page 414

सप्तम उल्लासः । ३५५

चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरि: संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता। कौरव्या: पशवः प्रियापरिभवक्केशोपशान्तिः फलं राज्यन्योपनिमन्त्रणाय रसंति स्फीतं हतो दुन्दुभिः ॥२३१॥ तदयोग्यत्वोपपादनाय तस्यैव कश्विद्धर्मो वक्तुमुचित इति भार्गवेण कृतवत्त्वस्यान्वयो विवक्षितो न प्रतीयते इति दुष्टत्वम्" इति॥ समासच्छन्नतया मतयोगाभावो यथेत्युदाहरति चत्वार इति। नारायणदीक्षितकृते वेणीसंहारे प्रथमेडङ्के दुन्दुभिध्वनिमाकर्ण्य 'प्रिये रणयज्ञः प्रवर्तते' इत्युक्त्वा भीमसेनस्योक्तिरियम्। भीमार्जुन- नकुलसहदेवाश्ववत्वारो वयम् ऋत्विजः । 'संग्रामाध्वरे' इति योज्यम्। एवमग्रेऽपि सर्वत्र। ऋत्विज इत्यस्य मुख्या ऋत्विज इत्यर्थः । अतो दीक्षितस्य ऋत्विक्षोडशत्वेपि न कत्विक्चतुप्टविरोधः। मुख्याश्र अध्वर्युः होता उद्गाता ब्रह्मा चेति प्रसिद्धा एव। यो यजुर्वेदेन कर्म करोति सोऽध्वर्यु: य ऋगवेदेन स होता यः सामवेदेन स उद्गाता यस्त्रय्या विद्यया (वेदत्रयेण) यजमानशाखया वा स ब्रह्मेति बोध्यम्। स सर्वज्ञत्वेन प्रसिद्धः भगवान् पूज्यः हरिः श्रीकृष्णः कर्मणामुपदेष्ठा उप- द्रष्टा सदस्यापरनामधेय इत्यर्थः । "सदस्यं सप्तदशं कौषीतकिनः समामनन्ति स कर्मणामुपद्रष्टा भवति" इति (१३ अध्याये २३ खण्डे) आश्वलायनसूत्रात्। स भगवानित्यनेन ताद्ृशस्योपद्रष्ट- त्वेऽवश्यं कार्यसिद्धिरिति ध्वनितम्। नरपतिः राजा युधिष्ठिरः संग्राम एवाध्वरो यज्ञस्तत्र दीक्षितो गृहीतनियम: यजमान इत्यर्थः। "राजा सार्वभौमोऽश्वमेधेन यजेत" इति श्रुतेरिति भावः । पत्नी द्रौपदी गृहीतं वतं यया तथाभूता दुर्योधनवधपर्यन्तं केशसंयमनाद्यभावरूपव्रतवतीत्यर्थः । सपत्नी- कस्यैव यज्ञाचरणौचित्यादिति भावः। कौरव्यः दुर्योधनादयः शतं भ्रातरः पशवः छगलकाः तत्तु- ल्यतया वध्यत्वात् अश्वमेधे मध्ययूपे शतवधादिति भावः। "पशुर्मृगादौ छगले प्रथमे च पुमान- यम्" इति रभसः। प्रियायाः द्रौपदाः परिभवः सभायां केशाम्बराकर्षणादिरूपः तज्जनितस्य क्ेश- स्योपशान्तिरेव फलम् "तरति मृति तरति शोकं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते" इति श्रुत्या फलश्रवणादिति भावः। राजन्या: क्षत्रियाः तेषाम् उपनिमन्त्रणाय आह्वानाय हतः ताडितः दुन्दुभिः भेरी स्फीतं स्त्निग्धं यथा स्यात्तथा रसति शब्दं करोतीत्यर्थः। ताडने स्त्निग्धश- व्दोदयाज्जयसूचनम्। 'यशो दुन्दुभिः' इति पाठे स्फीतमभिवृद्धं यश एव दुन्दुभिरिति व्यस्तरू- पकं बोध्यम् समासे स्फीतमित्यस्यानन्वयात्। 'रस शब्दे' इति भौवादिको धातुः। शार्दूलविक्री डितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ "अत्र संग्रामाध्वरस्य ऋत्विगादिषु सर्वत्रान्वयो विवक्षितो न तु प्रतीयते समासच्छन्नत्वात्" इति प्रदीपः । अत्रोद्योतकाराः (समासच्छन्नत्वादिति । इतरविशेषणत्वेनोपस्थितस्यापरत्र विशेषणत्वे- नान्वयस्याव्युत्पन्नत्वात् समासे एकार्थीभावाङ्गीकारेण पदार्थोपस्थितिरेवेतरविशेषणतयेति भावः। 'हिर- ण्यपूर्व कशिपुं प्रचक्षते' (माघे १ स० ४२ श्लो०) 'रामेति व्यक्षरं नाम मानभङ्ग: पिनाकिनः'

हीति! परशोर्हि स्पर्धनीयत्वं स्वामिद्वूारकमिति तत्प्रयोजकविशेषणानि भार्गवे एव यथोक्तानि तथा तद्व्यतिरेक- प्रयोजकमपि तत्रैव वक्तुमर्हम् अतो विवक्षिताप्रतीतिरिति भाव इति प्रभारया स्पष्टम् । १ नियमविरुद्धत्वात् ॥

Page 415

३५६ काव्यप्रकाशः सटीकः ।

अत्राध्वरशब्द: समासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यते। यथा वा जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकराल: प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमऔीरभृङ्ग:। भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥ २३२।। अत्र दण्डपादगता निजतनुः प्रतीयते भवान्याः संबन्धिनी तु विवक्षिता॥ (१३) अवश्यवक्तव्यमनुक्तं यत्र। यथा अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्ुतैरपहृतस्य तथापि नास्था। इत्यादौ तु नायं दोषेः नामनामिनोरभेदस्य सत्त्वेनेष्टयोगसंपत्तेः। नामनामिनोरभेदश्र वैयाकरणास- द्वान्तमत्जूषायामस्माभिरुपपादितः) इत्याहुः। तदेतत्सर्वमभिप्रत्याह अत्रेत्यादि। अध्वरशब्दः संग्रामाध्वरशब्दः । तदर्थः संग्रामाध्वरशब्दार्थः । सर्वैः ऋत्विगादिभिः । संयुज्यते इति। न संयुज्यते इत्यन्वयः । एवं चात्र समासप्रविष्टस्यान्येन सहाका ङ्राविरहादृत्विगादीनामध्वरपदार्थेन सहान्वये भवत्येवाभवन्मतयोगः। न चात्र 'प्रिये रणयज्ञः प्रवर्तते' इत्यनेनान्वय इति वाच्यम्। तथा सति संग्रामाध्वरशब्दस्य पुनरुक्तत्वं स्यादितीति सारबोधिन्यां स्पष्टम्॥ व्युत्पत्तिवविरोधनिबन्धनमुदाहरति जङघाकाण्डेति । व्याख्यातमिदमत्रैवोल्लासे २७६ पृष्ठे। अत्र "ससंबन्धिनां निजस्वात्मादिपदार्थानां प्रधानक्रियान्वयिकारकपदार्थे एवान्वयः" इति व्युत्पत्या (नियमेन) निजपदार्थस्य दण्डपादे एवान्वयः स्यात् न तु भवान्याम भवान्यामन्वयस्तु विवक्षित इत्यभवन्मतयोगत्वम्। तदेवाह अत्रेत्यादि। व्याख्यातमिदं प्रदीपसुधासागरयोः "अत्र तनुपदार्थस्य पार्वत्या योगोडभिमतः दण्डपादेन प्रतीयते वाक्ये यत्प्रधानं तत्रैव निजादिपदव्युत्पत्तेः। अत एवोक्तं मिश्रप्रमुखैः 'निजस्वात्मादिशब्दानां प्रधानक्रियाकर्त्रन्वयित्वव्युत्पत्तिः' इति। दूषकताबीजमिष्टप्रती- तिविरह इति नित्यदोषोऽयम्" इति॥ (१३) अनभिहितवाच्यं व्याचष्टे अवश्यवक्तव्यमित्यादि। वाच्यमित्यत्र "कृत्याश्र" (३३। १७१) इति पाणिनिसूत्रेणावश्यके ण्यत्प्रत्ययः। वाच्यशब्द्वोऽत्र शब्दपरो न त्वर्थपरः अर्थपरत्वे सति वाक्यदोषत्वानापत्तेः। तथा च अनभिहितम् अनुक्तं वाच्यं (वाचकपदातिरिक्तम्) अवश्यवक्तव्यं यत्र (वाक्ये) तदित्यर्थः। वाचकपदातिरिक्तं तु (अर्थात्) द्योतकमेव । अप्यादेर्वाचकत्वमते तु स्वातन्त्रयेणाप्रयोज्यं 'वाचकपदातिरिक्तम्' इत्यनेन विवक्षितमिति ज्ञेयम्। एवं चोद्देश्यविधेयभावादि- द्योतकविभक्तीनां निपातानां च न्यूनत्वेऽयं दोषः वाचकपदस्य न्यूनत्वे न्यूनपदत्वं दोष इति भेद:। यत्तु "न्यूनपदेSप्रतीतिमात्रम् अत्र तु विरुद्धा प्रतीतिरित्यनयोर्भेदः 'अप्राकृतस्य' इति वक्ष्यमाणोदाह- रणे च मत्संबन्धित्वेन वीरशिशुप्रतीतिरेव विरुद्धा प्रतीतिः" इति कस्यचिद्याख्यानम् तदनुभववि- रुद्धम् मत्संबन्धितया वीरशिशुकानुभवस्याप्रतीतेरिति प्रदोद्द्ोतप्रभासु स्पष्टम्॥ तत्र विभक्तिन्यूनत्वे उदाहरति अप्राकृतस्येति। अत्र प्रदपकाराः "अनभिहितवाच्यं चान्यथाता- १ स्फुटीकरिण्यते चेदमग्रे ३१९ उदाहरणे॥ २ शब्दार्थयोरभेदस्य। शब्दश्वार्थस्य शब्दार्थौ तयोरभेदस्येति यावत॥ ३ संचन्धिससबन्धिशब्दौ पर्यायौ ९१ पृष्ठे तत्त्वसतत्त्वशबद्वत गोत्रसगोत्रशब्दवच्ेति बोध्यम॥ * वाक्ये यत्प्रधानमिति। प्रधानक्रियाकर्त्रन्वितस्वार्थबोधकव्युत्पत्तेरत्यर्थः।

Page 416

सप्तम उल्लास:। ३५७

कोऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसार समुदायमयः पदार्थः ॥ २३३॥ अत्र 'अपहृतोऽस्मि' इत्यपहृतत्वस्य विधिर्वाच्यः तथापी्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः। यथा वा च्यस्यान्यथाभिधानाद्वा अवाचकस्य द्योतकादेरनभिधानाद्वेति द्विविधं भवति। तत्राद्यमुदाहरति अप्राकृतेति" इत्याहुः। वीरचरितनाटके द्वितीयेSङ्के सीतास्वयंवरे श्रीरामेण धनुर्भङ्गे कृते परशुरामस्य स्वगतोक्तिरियम् । यत्तु 'जनकस्योक्तिरियम्' इति महेश्वरकमलाकरभट्टनागोजीभट्टभीमसेनवैद्यनाथा- दिभिरुक्तम् तत्तु चिन्त्यमेव अङ्कितपुस्तके प्राचीनलिखितपुस्तकेषु च परशुरामोक्तेरेवोपलभ्यमान- त्वात् नाटयसंदर्भविरुद्धत्वाच्च। अत एव 'रामदर्शने जामद्ग्नयोक्तिरियम्' इति परमप्राचीनेन माणिक्य- चन्द्रेण संकेते उक्तमिति बोध्यम्। चकारोऽत्रानुक्तसमुच्चयार्थको भिन्नक्रमश्। तेन श्रुतैरिति समुच्चीयते। तथा च अप्राकृतस्य अनन्यसामान्यस्य (श्रीरामस्य ) यद्वा अप्राकृतस्य विदग्धस्य 'मम' इत्यग्रिमेणान्वयः । अत्यद्भुतैः अमानुषैः दृष्टैः श्रतैश्र चरितातिशयैः चरित्रोत्कर्षैः अपहृतस्य वशी- कृतमनसो (मम) ( यद्यप्यहमपहृतः ) तथापि नास्थानादरः न निश्रय इत्यर्थः दशरथपुत्रेणैव धनु- र्भग्रमिति निश्चयो नेति भावः । तत्र हेतुमाह कोऽपीत्यादि ॥ एषः पुरोवर्ती पदार्थः श्रीरामरूपः कोऽपि जनागम्यः वीरशिशुकाकृतिः वीरबालकाकृतिः अप्रमेयसौन्दर्यसारसमुदायमयः अन्यत्रादृष्टसौन्दर्य- सारसमुदायप्रचुर इत्यर्थः । अस्मिन् पद्ये बहवः पाठमेदाः सन्ति ते च ग्रन्थगौरवभयात्प्रकृतानुपयुक्त- त्वाच्च नास्माभि: प्रदर्शिताः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्र तथापीति तच्छब्दार्थः पूर्ववाक्योक्तं कमप्यर्थमपेक्षते इति पृथग्वाक्यसंपादयित्री 'अपहृतः' इति प्रथमा विभक्तिरवश्यं वाच्या तदभावादनभिहितवाच्यत्वम्। तदुक्तं चन्द्रिकायाम् "अत्र तथा- पत्यस्य यद्यपीत्येतत्साकाङ्कतया यद्यप्यपहृतः' इति वाच्यम् न च तथोक्तमित्यनभिहितवाच्यत्वं दोष: " इति। तदाह अत्रेत्यादि। अपहृतोऽस्मीति विधिस्वरूपकीर्तनम्। अस्मीत्यहमर्थे विभक्ति- प्रतिरूपकमव्ययम् 'कुरुध्वमत्रास्मि करोमि सख्यः' ( ७८ पृष्ठे ) इतिवत्। उपपत्तेरिति। अत्र हि तथापीति तच्छब्दश्र पूर्वप्रक्रान्तपरामर्शकः न चैकवाक्यतयान्वये तत्संभव इति भावः। 'आकर्ण्णि- तैरपहृतोऽस्मि तथापि नास्था' इति तु युक्तमित्युद्दयोते स्पष्टम् । व्याख्यातं च प्रदीपादौ "अत्रः 'अहमपहृतोऽस्मि' इति प्रकारेणपहृतत्वस्य विधिर्वाच्यः तेन वाक्यद्वयसंपत्तौ तथापीत्युपपय्ते द्वितीर्यवाक्यगतत्वेनैव तस्य प्रतीतेः। नन्वयमविमृष्टविधेयांश एवेति चेन्न। न हि विधेयाविमर्शमात्रमत्र दूषणम् किं तु तथापीत्यस्यासंगतिरपि। तदनुरोधेनैवा- पहृतत्वस्य विधेयत्वाभ्युपगमो न तु तत्प्राधान्यात्। एवं चात्र 'अपहृतस्य मम नास्था' इत्यन्वय- संभवेऽपि 'तथापि' इतिपदासंगतियुक्तस्य तस्यात्र दोषत्वमिति बोध्यम्। एतेन 'अवान्तरवाक्ये न विधेयाविमर्शः इति समाधानमनादेयम् बीजाभावात् 'क्षणमप्यमुक्ता' इति (२८९ पृष्ठे) अवान्तर- वाक्ये एव तदुदाहरणाच्च। अस्तु वा अत्रोदाहरणे विधेयाविमर्शस्तथापि द्वितीयभेदे (द्योतकाप्या- द्यनुक्तिरूपे वक्ष्यमाणे ) तदसंकरमात्रेणैव दोषभेदव्यवस्थितेः" इति॥ १ द्वितीयवाक्येति । तस्य द्वितीयवाक्यगतत्वेनैव वाक्यार्थपरतीतेरित्यन्वयः ।। २ नन्वास्थासअ्जकतयापहृत त्वस्य प्राधान्यमावश्यकमतो विधेयाविमर्शोडस्त्येवेत्यत आह अस्तु वेति ॥:

Page 417

३५८ काव्यप्रकाशः सटीकः।

एषे।Sहमद्रितनयामुखपझ्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती। स्वप्रेऽनिरुद्धघटनाधिग ताभिरूपलक्ष्मीफलामसुरराजसुतां विधाय॥। २३४।। अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः । यथा वा •. शत्वयि निबद्धरतेः प्रियवादिन: प्रणयभङ्गपराङ्मुखचेतसः। कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥ २३५॥

अप्यादिनिपातानां न्यूनत्वे विधेयाविमर्शासंकीर्णमनभिहितवाच्यमुदाहरति यथा वेति। एषोड- हमिति। उषाहरणनाटके उषायाः सखीं चित्रलेखां प्रति अनिरुद्धस्य मदनपुत्रस्योक्तिरियम्। तदुक्तं सुधासागरे "इयं किल हरिवंशे कथा। पार्वतीशिवयोः समीपे सकलकलाभिज्ञाः सुरासुरयक्षगन्धर्वो- रगादीनां दुहितरो गीतवादनृत्यानि कुर्युः। तत्रैकदा बाणासुरकन्योषानाम्नी 'अहो अद्भुतमिदं दम्पत्योः सुखम्' इत्यभिललाप। अथ तत्प्रावीण्यतुष्टयाद्रिकन्यया वरो दत्तः ' एतावत्कालोत्तरं सत्रावनुरूपो भर्ता त्वामुपयास्यति' इति। उषा तु परिहासवचनमिति तद्विस्मृतवती । अथ वरदान- बलात्सति समये स्वम्ेऽनिरुद्द्ेन श्रीकृष्णपौत्रेण संगमो जात इति। तन्मूलकनाटकस्थमिदं पद्मम्। व्यभिचारदूषिताहमिति प्राणांस्त्यजेदिति शङ्कया वरः स्वरूपवानुवायाः सखीं चित्रलेखामाह एषोS- हमित्यादि। एतेन मदनस्येयमुक्तिरिति वदन्तः [ चन्द्रिकाकारादयः ] भ्रान्ता एव" इति। सुरा- सुराणां देवदैत्यानामपि ये मनोरथास्तेवामपि दूरवर्ती दुष्प्राप्यः अद्रितनयायाः पार्वत्याः मुखपद्मात् आननकमलात् जन्मोत्पत्तिर्यस्य ताद्शोऽहं वरः असुरराजस्य बाणासुरस्य सुताम् उषानाम्नीं स्वमे स्वप्रावस्थायाम् अनिरुद्धेन श्रीकृष्णपौत्रेण सह घटनया समागमरूपयाधिगतं प्राप्तमभिरूपलक्ष्म्याः परमसौन्दर्यसंपत्तेः फलं यया तथाभूतां विधाय कृत्वा एषः प्राप्तः परावृत्त इत्यर्थः। 'अनुरूपलक्ष्मी- फलाम् ' इति पाठे अनुरूपा अनिरुद्धानुरूपा या लक्ष्मी: सौन्दर्यशोभा तस्याः फलं ययेति प्राग्वत्। अत्र सुरासुरमनोरथेत्यनेनान्यमनोरथविषयत्वाभावः सुरासुराणामन्येन्द्रियाविषयत्वं च ध्वनितम्। बसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र सुरासुराणामपि मनोरथानामपि दूरवर्तीत्यप्यर्थद्वयमवश््यं वक्तव्यम् अन्यथान्यमनोरथविष- यत्वं सुरासुरबहिरिन्द्रियविषयत्वं च प्रतीयते इत्यनभिहितवाच्यत्वम्। तदेवाह अत्रेत्यादिना। अप्यर्थो वाच्य इति। अप्यर्थः समुच्चयः न केवलं बहिरिन्द्रियादीनामित्येवंरूपः। स चापेरनुपा- दानान्नोपपन्ः । अतश्रापिरप्यवश्यं वाच्य इति भावः॥।

  • असमासेऽप्युदाहरत यथा वेति। त्वयीति। विक्रमोर्वशीये चतुर्थेडङ्के गिरिनयामुर्वशी संभाव्य तां प्रति पुरूरवस उक्तिरियम। 'प्रणयभङ्गपराङ्मुखचेतसस्त्वयय निबद्धतेः प्रियवादिनः' इति प्रदापे पाठः। हे मानिनि मम कम् अपराधस्य लवं लेश पश्यसि यतः यस्मात् अपराधलेशात् दास- भूतं जनं मल्लक्षणं त्यजसीत्यन्वयः। कीदशस्य मम त्वाये भवत्यां निबद्धरतेः स्थिरानुरागस्य तथा प्रियवादिन: मधुरभाषणशीलस्य एवम् प्रणयमङ्ग पराङ्मुखं विमुखं [भीरू]चेतो यस्य तथाभूतस्ये- त्यर्थः। "पराङ्मुखः पराचीनः" इत्यमरः। अत्र विशेषणत्रयस्यापराधलेशाभावोपपत्यभिप्रायगर्भ- त्वात्परिकरनामालंकारः। द्रुतविलम्बितं वृत्तम्। लक्षणमुक्त प्राक् ८३ पृष्ठे॥

१ चक्रुरिति सुवचम॥ २ पार्वतीशिवरूपयोः ॥

Page 418

सप्तम उल्लास:। ३५९

अत्र 'अपराधस्य लवमपि' इति वाच्यम्।। मल़ (१४) अस्थानस्थपदं यथा प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षास पीवरस्तने। स्नजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु॥ २३६॥ अत्र 'कोचिन्न विजहौ' इति वाच्यम्। यथा वा अत्रापि 'लवमपि' इत्यप्यर्थोऽवश्यं वक्तव्यः अन्यथा लवनिषेधे स्थूलप्रतीतिप्रसङ्गादित्यनभि- हितवाच्यत्वम् । तदेवाह अत्रेत्यादिना। लवमपीति वाच्यमिति। अन्यथा 'अपराधलवं न पश्यासी किं तु महान्तमपराधम्' इति प्रतीयते इति भावः। दूषकताबीजं प्रथमेऽभिमताप्रतातिः अन्त्ययोस्तु विरुद्धप्रतीतिरिति नित्यदोषोऽयमिति प्रदीपे स्पष्टम्।। (१४) "अपदस्थपद्समासम्" इति सूत्रम्। तत्रायं पदपदं स्थानार्थकम्। "पदं स्थाने विभ- क्त्यन्ते शब्दे वाक्यैकवस्तुनोः। त्राणे पादे पादचिह्ने व्यवसायापदेशयोः' इति हेमचन्द्रकोशात्। तथा चास्थानस्थपदमस्थानस्थसमासं चेति दोषद्वयम्। "अस्थानस्थत्वं चायोग्यस्थानस्थत्वम्" इति प्रदापः। उद्दयोतकारास्तु अस्थानस्थत्वं यथाश्रुतानुपूर्व्या विवाक्षितस्वार्थानुभावकत्वे सति स्वसाका- ङस्थानाद्व्यवहितस्थानप्रयुक्तत्वम्। सत्यन्तेन संकीणर्णगर्भिताक्रमाणां व्युदासः तेषु तदानुपूर्व्या विव- क्षितार्थाबोधादित्याहुः। एवमेव विस्तारिकासारबोधिन्योरपि। तत्राद्यम (अपदस्थपदम) उदाहरति अस्थानस्थपदमित्यादि। प्रियेणेति। किरातार्जुनीयेऽष्टमे सर्गे जलक्रीडावर्णने कस्याश्विन्नायिकाया वर्णनमिदम् । विप- क्षस्य सपत्नीजनस्य संनिधौ समीपे भर्त्रा प्रियेण संग्रथ्य सम्यक् आदरेण ग्रथित्वा (निर्माय) न तु यथा कथंचित् पीवरौ स्तनौ यस्मिन् तथाविधे (स्थूलोच्चकुचे) वक्षसि उपाहितां स्पर्शपूर्वकं निवेशितां (वक्षस्यर्पणे पीवरस्तनत्वं हेतुः) स्रजं मालां जलाविलां जलेन म्लानामपि (उदकेन गतप्रभामपि) काचित् नायिका न विजहौ न तत्याज। कुत इत्याकाङ्गायामाह वसन्ति हीति। हि यतः कारणात् प्रेम्णि गुणा उत्कर्षाः वसन्ति न तु वस्तुषु। प्रेम्णि सति वस्तुनि उत्कर्षो न तु वस्तुमात्रे इत्यर्थः। प्रेमोत्कर्ष एवोपादेयो न तु वस्तूत्कर्ष इति भाव इत्युद्योतादिषु स्पष्टम्। चन्द्रि- काकारास्तु प्रेमसत्वे एव वस्तुन उपादेयत्वचित्तापकर्षकत्वयोर्दर्शनात्तदभावे चादर्शनादन्वयव्यतिरे- काभ्यां प्रेमैवोपादेयं चित्तापकर्षकं च भवतीति तदेव गुणवदित्यर्थः। तथा च सपत्नीसमक्षं निर्माय प्रेमपूर्वकं कान्तन हृदि निहितायाः स्रजो जलाविलतया सौरभाभावेऽपि प्रेमास्पद्तयापरित्याज्यत्वं युक्तमिति भाव: इत्याहुः । 'वस्तुषु' इत्यत्र 'वस्तुनि' इत्यपि पाठः। अर्थान्तरन्यासोSत्रालकारः। वंशस्थं वृत्तम्। लक्षणमुक्त प्राक् २४ पृष्ठे। अत्र 'काचिन्न विजहौ इति' वक्तव्ये 'न काचिद्विजहौ' इत्युक्तम् तस्मान्नकारोऽस्थानस्थ इत्यपद- स्थपदत्वं दोषः। तदेवाह अत्रेत्यादि। वाच्यं वक्तव्यम्। यथाश्नते 'न काचिद्विजहौ अपि तु सर्वा एव विजहुः' इति विरुद्धं प्रतीयते इति भावः। व्याख्यातमिदं प्रदीपे "अत्र 'न काचित्' इति न योग्यं नञ्र: स्थानम्। 'प्रेतियोगिसंनिधिर्हि तथा' इति न युक्तम् तव्यवधानेऽपि 'न खलु न खलु बाण: संनिपात्योऽयमस्मिन्' इत्यादौ निरवद्यप्रयोगदर्शनात्। परं तु 'न काचिद्विजहौ अपि तु सर्वा एव १ 'काचित्स्रजं नो विजहौ' इति सुवचम॥ २ अन्वयप्रतियोगिसंनिधिर्योग्यत्वं तदभावश्र्यायोग्यत्वमिति मतं दूषयति प्रतियोगीति॥ 3 शाकुन्तलनाटके प्रथमेडड्े पद्यमिदम्॥

Page 419

३६० काव्यप्रकाशः सटीक: लग्न: केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्क: शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्। पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितहीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥ २३७॥ विजहुः' इति विरुद्धप्रतीतिप्रसङ्गादयोग्यं स्थानमेतत्" इति। उद्योतकारास्तु "अत्र न काचिदिति। कर्वेर्जलक्रीडावर्णने एकैकस्या एकैकगुणवर्णनप्रस्तावेनैकस्याः कस्याश्विदेवैतादृशवर्णने तात्पर्यात् 'अपि तु सर्वा न विजहुः' इति विरुद्धप्रतीतेर्मूले' 'अपि तु सर्वा न विजहुः' इत्येव पाठः । अत एव 'न डिसंबुद्ध्योः' (८।२८) इति सूत्रे महाभाष्ये 'न कचित् डि्लोंपेन लुप्यते अपि तु सर्वत्र लुमतैव' इति प्रयुक्तम् । तत्र हि न क्वचिदित्यादेः सर्वत्रैव लोपेन लुप्यते इत्यर्थः 'अपि तु सर्वत्र' इत्यादिप्रतिनिर्देशात्। तस्मात् क्वचिदादेः पूर्ववर्तिनि नति सति कचिदादिपदे काकुर्व्युत्प- त्तिसिद्वेति चिदित्यस्याप्यर्थकत्वं वा व्युत्पत्तिसिद्धमिति भावः" इत्याहुः॥ विस्तारिकासारबोधिन्योस्तु एवं व्याख्यातम् "अत्रासमस्तस्य नञ्रः क्रियान्वयित्वतात्पर्यग्रहे क्रिया- काङ्कायामन्तरा काचिदित्यर्थोपस्थितौ क्रियाया अलाभेन तस्याः स्थगनम्। अनन्तरं चः क्रियोपस्थिताव- योग्यकारकपरिहारेण तया सह स्वस्थानस्थितस्य नञ्रो विलम्बनान्वयः । क्रियासांनिध्ये तु नैवमित्याह काचिन्न विजहावितीति। यथाश्लुतानुपूर्व्यन्तराकल्पनान्न क्िष्टत्वम्। नञ्रः क्रिकियायोगविलम्बेनाभावानु- भावकत्वविलम्ब इत्यासत्तिवैगुण्यं दूषकताबीजम् ।न च 'नवजलधरः' (२९१ पृष्ठे) इत्यादावपि नामसांनिध्येऽप्यसमस्तस्य नञ्रोऽभावप्रत्यायने विलम्ब इति वाच्यम् तत्रापि गम्यमानभवतिक्रियासां- निध्यात्। अत्र तु क्रियोपादानेनाध्याहाराभावात्कियासांनिध्यमात्रेणैव नञ्रोऽभावार्थानुभावकत्वं न तु पूर्वापरत्वनियमेनेत्यक्रमाद्भेदः । तत्र तु पौर्वापर्यनियमोल्ङ्घनमिति दूषकताबीजम् । केचित्तु नञ्रः समभिव्याहृतनिषेधव्युत्पत्तेर्न काचिदित्यत्रानिर्वारितैकविशेषनिषेधसि द्वौ सर्वा विजहुरित्यर्थः प्रतीयते। न चायं विवक्षितः। क्रियापदसंनिधावुपादाने क्रियामात्रनिषेधप्रतीतौ विवक्षितार्थसिद्धिरित्याहुः" इति॥ विरुद्धप्रतीतिजननादिव विवक्षितोपयोगस्य पदस्योपयोगासंभवादपि स्थानस्यायोग्यत्वमुदाहरति यथा वेति। लग्न इति। कदाचित्किल भवानी रात्रौ प्रणयकलहे हरजटामाकृष्य चन्द्रखण्डसहितां तां कपोलतले निधाय निद्ां कृतवती। ततः प्रातःसमये जटास्थचन्द्रखण्डमुद्राङ्कितं कपोलं दृष्टा नखक्षतमे- तदिति शङ्कमानायाः सख्या: हास्येन लज्जिता सती कपोलस्थं चन्द्रमुद्राङ्कं हस्तेन ममार्जेति कविकल्पितं वर्णनमिद्म्। शितिकन्धरो महादेवस्तस्येन्दुशकलेन चन्द्रखण्डेन निन्द्रान्तरे निद्रामध्ये अन्तःकपोल- स्थलं अर्थात् पार्वतीकपोलस्थलमध्ये लग्नः सक्तो मुद्राङ्क वः युष्मान् पातु रक्षतु इत्यन्वयः । अन्यसंपर्का- दन्यत्र समुदितं चिह्नं मुद्राङ्कः। कपोलस्थलमत्र पार्वत्याः एव न तु महादेवस्य शितिकन्धरपदोपादा- नादिस्वारस्यात् । पार्वत्याः कपोललग्नत्वे हेतुगर्भमिन्दुशकलेनेत्यस्य विशेषणमाह केलीति। केलि: सुरतक्ाडा तत्र यः कचग्रहः (पार्वतीकर्तृकं) केशाकर्षणं तेन श्लथा शिथिला या जटा तस्यां लम्बेन लम्बायमानेन यद्वा लम्बो लम्बनं यस्य तथाभूतेनेत्यर्थः। एवं च कपोलसंबन्धोपपत्तिः । अथवा कपोललग्नत्वे हेतुः केलीति। आलम्बेन संबन्धेनेत्यर्थः । कादृशो मुद्राङ्क: नखलक्ष्म नखचिह्नं तत्र (तद्विषये) शङ्किता संजातशङ्का या सखी तस्या: नर्मस्मितं लीलास्मितं रहस्यहास्यं वा तेन हीतया १ मूले काव्यप्रदीपे ॥ २ तस्याः कियायाः। तस्या आकाङ्क्षाया इति केचित॥

Page 420

सप्तम उल्लास:। ३६१

अत्र नखलक्ष्मेत्यतः पूर्व 'कुटिलाताम्र०' इति वाच्यम्॥ (१५) अस्थानस्थसमासं यथा अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः। प्रोद्यद्दूरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात् फुललत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी॥।२३८। लज्जितया पार्वत्या (कर्त्र्या) करपल्लवेन (करणेन) प्रोन्मृष्टः प्रमार्जितः । 'नर्मस्मितव्रीडया' इति पाठे तथाविधस्मितेन व्रीडा लज्जा तया हेतुभूतयेत्यर्थः। एवं च प्रोन्मृष्टत्वे हेतुः नखलक्ष्मशङ्गा- वत्सखीनर्मस्मितजन्यव्रीडेति बोध्यम् । केचित्तु तथाविधस्मितेन व्रीडा यस्या इति पार्वतीविशेषण- मेवेत्याहुः। पुनः कीदशः कुटिला वक्रा आताम्रा ईषदारक्ता छविः कान्तिर्यस्य तादृशः। यद्वा कुटिलश्ासावाताम्रच्छविः ईषदारक्तकान्तिश्वेत्यर्थः। इदं च नखलक्ष्मशङ्काहेतुरिति बोध्यम्। 'करपल्लवेन' इत्यत्र 'करपङ्कजेन' इति क्चित्पाठः । "द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च" इत्यमरः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र कुटिलाताम्रच्छवित्वं नखलक्ष्मशङ्काबीजमिति नखलक्ष्मेत्यतः पूर्वमेव प्रयुज्यमानमुपयुज्यते न तु पश्र्वादित्यपदस्थपदत्वम्। तदेवाह अत्र नखलक्ष्मेत्यादि। पूर्वमित्यादि। तत एव हेतुहेतुमद्दा- वेन झटित्यन्वयः स्यात्। यथाश्रुते तु पूर्ववद्योग्यपरिहारादिविलम्ब इत्यवधेयम् । अत्रेदं तत्त्वम्। कुटिलाताम्रच्छवित्वस्य साधम्यरूपस्य नखलक्ष्मशङ्काबीजस्य प्रागप्राप्तेः तच्छङ्कायास्तन्मुखनिरीक्षक- त्वेनायोग्यतादिपरिहाराय साधर्म्योपस्थापकापेक्षणाद्विलम्बेन प्रतीतिः पूर्व प्रयोगे तु झटिति हेतुहेतुम- द्व्ावेनान्वयप्रतीतिरिति। एवं च स्पष्टमेव दुष्टिर्बीजं नित्यश्रायं दोष इति प्रदीपोद्दयोतादिषु स्पष्टम्॥ (१५) अपदस्थसमासमुदाहरति अस्थानस्थसमासमित्यादि । अद्यापीति। असौ दृश्यमानः शशी चन्द्रः फुल्लत् विकसत यत् कैरवं कुमुदं तस्य कोशः कुड्मलमेव कोशः खद्गपिधानं तस्मान्निःसरन्ती या अलिश्रेणी भ्रमरपक्कि: सैव कृपाणं करवालिका तां तत्क्षणात् कर्षति निष्कासयतीत्यन्वयः। कोश इति जात्यभिप्रायकमेकवचनम् खद्गपिधानस्यैकत्वादिति बोध्यम्। कुत इत्याकाङ्कायां हेतुमुत्प्रेक्षते अद्यापीत्यादि। अद्यापि मत्सांनिध्येऽपि एष मानः "स्त्रीणामीष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इत्युक्तलक्षणः समन्तिनीनां कान्तानां हृदि हृदये स्थातुं वाञ्छति धिक निन्धमदमिति क्रोधादिवे- त्यर्थः । अत एवालोहितः आरक्तः कोपेन रक्तिमोदयादिति भावः । स्त्रीसिंबन्धेनात्मानं रक्षतोऽपि शत्रोः (मानरूपस्य) अनास्कन्दनात् धिगित्युक्तिः। हृदि तिष्ठासायां हेतुगर्भ तद्विशेषणमाह स्तनेति । स्तनावेव शैलौ तद्रूपेण दुर्गेण विषये अनाक्रमणीये। यद्वा स्तनलक्षणशैलदुर्गाभ्यां विषमे अगम्ये। शशी कीहक प्रोद्यन्त एव दूरतरं प्रसारिता: कराः किरणा एव करा हस्ता येन तथाभूतः खङ्गाक- षणेऽपि हस्तस्य तथात्वादिति भावः। केचित्तु प्रोद्यंश्रासौ दूरतरप्रसारितकरश्रवेति कर्मधारयमाहुः। 'तत्क्षणोत्फुल्लत्' इत्येकपदत्वेन पाठे 'तत्क्षणे उत्फुलत् विकसत्' इति विग्रहः। अत्र शशिनो नायकत्वं मानस्य प्रतिनायकत्वं विवक्षितम् कवीनां कामचारात्। तथा च यथा कान्तो जारवधार्थ खङ्गमाकर्षति तथा शशी मानवधार्थ खड्गमाकर्षतीति भावः। "कोशोऽस्त्री कुड्मले खङ्गपिधानेड- र्थौघदिव्ययोः" इत्यमरः। शार्दूलविकीडितं छन्दः। लक्षणमुक्तं प्राकू १८ पृष्ठे ॥।

Page 421

३६२ काव्यप्रकाशः सटीकः ।

अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥ (१६) संकीर्णम् यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति। यथा किमिति न पश्यसति कोपं पादगतं बहुगुणं गृहाणेमम्। ननु मुश्च हृदयनाथं कण्ठे मनसस्तमोरुपम्॥ २३९॥ अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुश्चेति। एकवाक्यतायां तु क्विष्टमिति भेद:॥ अत्र पूर्वारे कुद्धस्य शशिन उक्तिरिति तत्र दीर्घसमासः कर्तव्यः तत्रैव दीर्घसमासव्यङ्ग्यौजो गुणस्यौचित्यात् परंतु न कृतः । उत्तरार्धे तु दीर्घसमासः कृतः स च व्यर्थः उत्तरार्धे कवेरुक्तौ दीर्घसमासव्यङ्गयौजोगुणस्याप्रयोजकत्वादित्यस्थानस्थसमासत्वम् । केचित्तु अत्र दोषद्वयम् अस्थाने दीर्घसमासत्यागोऽस्थाने दीर्घसमासकरणं चेति। अस्थानसमासपदार्थोऽपि द्विविध इत्याहुः ।न च प्रतिकूलवर्णत्वेऽस्यान्तर्भाव इति वाच्यम् समासस्यावर्णरूपत्वात् रसाननुगुणवर्णबहुलवाक्यत्वस्यैव प्रतिकूलवर्णपदार्थत्वादिति भावः। एवं च माधुर्यवच्छङ्गारादिरसप्रधानपदये दीर्घसमासेऽप्ययमेव दोष इति बोध्यम्। नाप्यत्र पतत्प्रकर्षता प्रथमप्रवृत्तस्य प्रकर्षस्याग्रे त्यागे हि तत्संभवः अत्र तु तद्वैपरीत्यम्। किंच उभयत्रोचितस्यैव प्रकर्षस्याभावे तत्संभवः अत्र त्वेकतरत्रैव समासौचित्यमिति। दूषकताबीजं सहृदयवैपुख्यमिति प्रदीपोद््योतयोः स्पष्टम्॥ (१६ ) संकीर्णे न्याचष्टे संकीर्णमित्यादि। वाक्यान्तरपदैर्मिश्रमित्यर्थः। एवं च वाक्यान्तर- घटकपदव्यवहितपद्घटितत्वं लक्षणं बोध्यमिति सुधासागरे स्पष्टम्। उद्तयोतेऽपि व्याख्यातम् संकीर्णत्वं नाम भिन्नभिन्नवाक्यार्थान्वितपदानां तत्तदर्थनिराकाङ्कवाक्यघटकत्वम्। तेन वाक्यैकवाक्य- तया महावाक्यस्यैकत्वेऽपि 'किमिति' इत्यादावयं दोष इति बोध्यमिति। चक्रवर्त्यादयस्तु वाक्यान्तरं क्रियान्तरान्वितम् । तेभैकक्रियान्विते 'घटमानय पटं च' इत्यत्र पटान्वितानयनपद्संकरेऽपि क्रियैक्यान दोषप्रसङ्ग: इत्याहुः॥ यथेत्युदाहरति किमितीति। मानिनीं प्रति सख्या उक्तिरियम्। रुद्रटालंकारे उदाहृतं पद्य- मिद्म्। पादगतं पादप्रणतं बहुगुणं हृदयनाथं किमिति न पश्यसि। इमं हृदयनाथं कण्ठे गृहाण आलिङ्ग्य। मनसस्तमोरूपं तमोगुणात्मकं कोपं मुश्चेत्यन्वयः । "गुणान्धकारशोकेषु तमो राहौ पुमानयम्" इति कोशः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ विवक्षितमन्वयं दर्शयति अत्रेत्यादि। मुश्रेतीति। इदं हि वाक्यत्रयं परस्परपदसंकीर्णमिति भावः। अत्र वाक्यत्रयेऽन्योन्यवाक्यस्थपदमादायानभिमतं प्रतीयते। इदमेव च दुष्टिबीजम् प्रतीति- विलम्बो वा। इष्टबोधविलम्बाद्रसभङ्गो दूषकताबीजमिति केचित्। ननु संकीर्णत्वं क्िष्टत्वदोष एवे- त्याशङ्कायमाह एकवाक्यतायामित्यादि। अनेकवाक्यतायां संकीर्णत्वम् एकवाक्यतायां तु क्िष्ट- त्वमिति विवेक इति भावः । 'बाले नाथ विमुश्च मानिनि रुषं रोषान्मया किं कृतम्' इत्यादौ तु 'बाले शुणु नाथ वद' इत्येवं तयोरध्याहृतक्रियापदेनैकवाक्यतया प्रतीतेः संकीर्णत्वदोषशङ्कापि नास्तीति बोध्यमित्युद्चोते स्पष्टम्।। १ 'खेदोडस्मासु न मेडपराध्यति भवान् सर्वेडपराधा मय। तत्किं रोव्द्रिषि गद्रदेन वचसा कस्याग्रतो रुथते. नव्वनन्त्रम का तवास्मि दविता नास्मत्यितो रुदते॥' इत्ययिनं पादत्रयं द्रष्टव्यम्॥।

Page 422

सप्तम उल्लास: ३६३

(१७) गर्मितम् यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति। यथा परापकारनिरतैर्दुर्जनैः सह संगतिः। वदामि भवतस्तत्वं न विधेया कदाचन ॥ २४०॥ अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा लझं रागावृताङ्गया सुदृढमिह ययैवासियष्टचारिकण्ठे मातङ्गगानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। (१७) गरभितं व्याचष्टे गर्भितमित्यादि। गर्भितं संजातगर्भम् अन्तःस्थितवाक्यान्तरं वाक्य- मित्यर्थः । तत्तु वाक्यं क्वचित्स्वभावत एवैकम् क्वचित्तु हेतुहेतुमद्भावेन वाक्यैकवाक्यतया एकीभूतम्। एवं च द्विविधं गर्भितमिति फलितम् । तदेवाह यत्रेत्यादि। वाक्यस्येति। स्वभावत एकवाक्यस्य वाक्यैकवाक्यताक्रमेणैकवाक्यतापन्नस्य वा वाक्यसमुदायस्येत्यर्थः । "अत्र मध्यस्थितस्य स्वार्थानु- भावकत्वम् संकीर्णे तु न तथेति भेदः । एतेन 'बीजफलसाम्ये संकीर्णाद्गर्भितस्य पृथगुपादानं चिन्त्यम्' इत्यपास्तम् फलवैषम्यसत्त्वात्" इत्युश्चोते स्पष्टम् । "वाक्यान्तरेऽन्यवाक्यीयपदप्रवेशे संकीर्णता अन्यवाक्यस्यैव प्रवेशे तु गर्भितत्वमिति भेद:" इति महेश्वरः ॥ तत्राद्यमुदाहरति परापकारेति। परापकारनिरतैः परपीडारतैः दुर्जनैः दुष्टैः सह संगतिः संबन्धः कदाचन कदापि न विधेया न कार्या। भवतः तव तत्त्वं वास्तविकस्वरूपत्वं वदमीत्यर्थः । "तत्त्वं परमात्मनि। वाद्यभेदे स्वरूपे च" इति हैम: ॥

अत्र दोषं दर्शयति अत्रेत्यादि। 'अत्र वदामि भवतस्तत्त्वम्' इति वाक्यान्तरं प्रथमवाक्यस्य मध्ये प्रविष्टमित्यर्थः। एवं च संगतेः सदसत्त्वसंशयोऽन्त्यपादे कर्मसाकाङ्कत्वं चति दूषकताबीजमिति प्रदीपोद््योतयोः स्पष्टम्। संकीर्णे गर्भिते चानासत्तिरेव दूषकताबीजमिति सारबोधिनीकारः। अत्रा- धयोस्तु परावृत्तौ न दोष: यथा 'वदामि भवतस्तत्त्वं न विधेया कदाचन। परापकारनिरतैर्दुर्जनैः सह संगतिः ।' इति इति सोमेश्वरकृतसंकेते स्पष्टम्। अत्र 'संगतिर्न विधेया' इति वाक्यं वदामी- त्यादिवाक्यान्तरेण गर्भितमित्युदाहरणचन्द्रिका॥ द्वितीयमुदाहरति लग्नमिति। यस्य राज्ञः कीर्तिः श्रियो लक्ष्म्याः नियोगात् 'मत्पितर्येवं निवेदय' इत्येवंरूपात् शासनात् अम्बुधिं समुद्रं प्रति इति गदितुमिव तत्संदेशं वक्तुमिव गतेत्यन्वयः । समुद्र- पर्यन्तगामिनी यस्य कीर्तिरिति भावः । अत्रासियाष्टरसतीत्वेन (असाध्वीत्वेन) श्रीः राजपत्नीत्वेन कीर्तिश्रव दूतीत्वेनाध्यवासिता बोध्या। संदेशस्वरूपमेवाह लग्नमित्यादिना 'भृत्येभ्यः' इत्यन्तेन। हे अम्बुधे रागो रुधिरलौहित्यं तेनावृत्तं लिप्तम् अङ्गं विशिष्टलोहरेखाविशेषो यस्याः पक्षे रागोऽनुरागस्ते- नावृतानि व्याप्तानि अङ्गान्यवयवाः यस्या: तथाभूतया यया एव असियष्ट्या कृपाण्या नायिकया (अत्र स्त्रीलिङ्गेन नायिकात्वाध्यवसानं बोध्यम्) इह संग्रामे अरीणां शत्रूणां कण्ठे सुदृढं यथा स्यात्तथा लग्नम्। खण्डनाय रमणाय चेति भावः । तथा या चासियष्टिरेव या च नायिका इह संग्रामे मातङ्गानां गजा- नामुपरि (स्वयमेव गत्वा खण्डनाय) पतन्ती परपुरुषैः शत्रुभटैः दृष्टा पक्षे मातङ्गानां चण्डालानामुपरि (स्वयमेव गत्वा रमणाय) पतन्ती परपुरुषैः उदासनिपुरुषैः उत्कृष्टपुरुषैर्वा दृष्टा। तेनोदासीनादिपुरु- षसाक्षिसत्त्वान्मिथ्यात्वनिरासः। तत्सक्तः तस्यामसियष्ट्यां सक्तः संबद्ध एव तस्यां नायिकायां सक्तोS-

Page 423

३६४ काव्यप्रकाशः सटीकः ।

तत्सक्तोडयं न किंचिदणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाददित्तुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥ २४१॥ अत्र 'विढितं तेऽस्तु' इति एतत्कृतम्। प्रत्युत लक्ष्मीस्ततोऽपसरतीति विरुद्धमतिकृत्॥ (१८) "मऔीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति। स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम्॥"

नुरक्तः अयं (त्वज्जामाता मम भर्ता) राजा न किंचिदणयति न किमपि युक्तायुक्तं विचारयति। तेनाविचारेणैव हेतुना अहं भृत्येभ्यः सेवकेभ्यः दत्तास्मि इदं ते तव (मत्पितुः) विदितमस्तु इती- त्यर्थः। "मातङ्ग: श्वपचे गजे" इति मेदिनी। अत्र ययवेत्येवकारेणैकस्या एव नानासंबन्ध इति सूचि- तम्। अरिकण्ठे इत्यनेन या राज्ञि अत्यन्तं विरक्तेति ध्वनितम्। अत्र भङ्गिविशेषेण शौर्यदातृत्व- यशसामुत्कर्षो वर्णितः । व्याजस्तुतिरत्रालंकारः। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥

अत्र 'तत्सक्ताडयं न किचिद्ृणयति तेन भृत्येभ्यो दत्तास्मि' इति वाक्यैकवाक्यमध्ये 'विदित तेऽस्तु' इति वाक्यान्तरं प्रविष्टमिति गर्भितत्वम् । तदेवाह अत्रेत्यादि। एतत्कृतमिति। प्रयोजनं विनैव गर्भितं कृतमित्यर्थः । न केवलं विवक्षितैकवाक्यताप्रतीतिमात्रं किंतु अिवक्षितप्रतीत्या वक्ष्य- माणदोषान्तरमपीत्याह प्रत्युतेति। प्रत्युत विपरीतम्। ततः राज्ञः सकाशात्। अपसरति अपग- च्छति। विरुद्धेति। प्रकाशितविरुद्धेत्यर्थः । 'विदितं तेऽस्तु' इत्यनन 'स्वापराधेन नाहमपसरामि किंतु राजकीयेनैव' इति प्रतीयते । अतो 'लक्ष्मीस्ततोऽपसरति' इति स्तुतिविरुद्धप्रतीतिकृदित्यर्थः । 'विदितं तेऽस्तु' इत्यनेनार्थशक्तिमाहिम्रा 'उत्तरकालं पतिपरित्यागोत्थमपराधं त्वं माभिदध्याः' इति पूर्वमेव: मया पत्यसद्वत्ततां ज्ञापितस्त्वम् इत्यर्थाभिव्यक्तिद्वारा 'ततोऽपसरति' इति व्यज्यते इति प्रकाशितविरुद्धत्वाख्यं दोषान्तरमपीति भावः। तच्च दोषान्तरं २८० उदाहरणे वक्ष्यते। एवं चास्मिन् पद्ये चत्वारो दोषा: गर्भितत्वम् प्रकाशितविरुद्धत्वम् अक्रमत्वम् त्यक्तपुनःस्वीकृतत्वं चेति। २५३ क उदाहरणे अक्रमत्वम् २८४ उदाहरणे त्यक्तपुनःस्वीकृतत्वं च वक्ष्यते। प्रतीतिवि- च्छेदोऽत्र दुष्टिबीजम्। अतो न यत्र प्रतीतिर्विच्छिय्ते तत्र नायं दोषः । अत्र सारबोधिनीकारादयस्तु "विदितं तेऽस्त्विति कृतम्" इति पाठं मन्यमाना इत्थं व्याचख्युः "अत्रेत्यादि। 'विदितं तेऽस्तु' इत्यनेन गर्भितं कृतमिति योजनम्। यद्वा कृतं 'वाक्यान्तरम्' इति शेषः । तेन 'अस्मि' इत्यर्थस्यापि वेदनीयत्वं विवक्षितम्। विदितमित्यादेर्मध्यानुप्रवेशेन तथा प्रतीतिः । अत्राप्यनासत्तिः प्रतीतिविच्छेदो वा दूषकताबीजम्" इति॥

(१८) प्रसिद्धिहतं प्रसिद्धिमतिक्रान्तमिति व्याकुर्वन् प्रसिद्धिं तावद्दर्शयति मञ्जीरादिष्विति। उक्तं च चक्रवर्तिप्रभृतिभिः "प्रसिद्धादन्यत्र प्रयोगः प्रसिद्धिहतः । तत्र कि कुत्र प्रसिद्धमित्याह मञ्जी- रादिष्विति" इति। मञ्जीरादिषु नूपुरादिषु रणितप्रायं रणितप्रभृति 'प्रसिद्धम्' इति शेष: । एवमग्रेऽपि सर्वत्र शेषो बाध्यः । आदिपदेन रशनाघण्टाभ्रमरादिपरिग्रहः। प्रायपद प्रभृत्यर्थकम् तेन क्वणित शिञ्जितगुञ्जितादिपरिग्रहः । पक्षिषु च कूजितप्रभृति प्रसिद्धम्। चकारेण मण्डूकादिपरिग्रहः । प्रभृ- तिपदेन रववासितादिपरिग्रहः । सुरते निधुवने स्तनितमणितादि प्रसिद्धम्। आदिपदेन भणितादि- परिग्रहः । ननु स्तनितस्य सुरते एव प्रसिद्धत्वे "स्तनितं गर्जितं मेघनिर्घोषो (षे) रसितादि च" इत्य- मरविराध इति चेत् शृणु। स्तनितादिकं सुरते एव चमत्काराय न त्वन्यत्रेति कविप्रयोगानियमनान्न

Page 424

1:3 सप्तम उल्लास:। ३६५

इति प्रसिद्धिमतिक्रान्तम्। यथा महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जित प्रतिरुतानुकारी मुहुः। रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ २४२॥ अत्र रवो मण्डकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे। (१९) भग्नः प्रक्रमः प्रस्तावः यत्र। यथा तद्विरोध इति। मेघादिषु गर्जितप्रमुखं प्रसिद्धम्। आदिपदेन सिंहादिपरिग्रहः। प्रमुखपदेन ध्वन्या- दिपरिग्रहः । इति प्रसिद्धिमिति । इति उक्तरूपा या प्रसिद्धिस्तामतिक्रान्तमित्यर्थः । यथेत्युदाहरि महापलयेति। वेणीसंहारनाटके तृतीयेऽक्के रणकोलाहलमाकर्णयतोऽश्वत्थाम्न उक्तिरियम्। यत्तु 'भीमस्योक्तिरियम्' इति महेश्वरोक्तम् तत्तु तन्नाटकानवलोकनमूलकम्। अद्यायं पूर्व भूतो नेत्यभूतपूर्वो नवीनः रवः सिंहनादः पुरः अग्रे समरोदधेः संग्रामसमुद्रसकाशात् मुहुः वारं वारं कुतः कस्माद्धेतोः जायते इति प्रश्नः। सुधासागरे तु 'अभूतपूर्वो हरेः' इति पठित्वा 'हरे: रवः सिंह- नादः' इति व्याख्यातम्। कीदृशो रवः । महान् यः प्रलयमारुतः (महत्पदस्य प्रलयान्वयस्त्वयुक्तः सर्वमुक्तरेव तथात्वात्।) तथा च महता प्रलयकालिकमारुतेन क्षुभितौ प्रचण्डौ यौ पुष्करावर्तकाख्यौ (मेघौ) तयो: प्रचण्डं भीषणं घनं निबिडं च यद्गर्जतं गर्जनं तस्य प्रतिरुतं प्रतिव्वनिः तदनुकारी तत्सदृशः । अत एव श्रवणयोः कर्णयोः भैरवः भयंकरः । तथा स्थगिता आच्छादिता व्याप्तेति यावत् रोदस्यो: स्वर्गभूम्योः (अन्तरमेव) कन्दरा गुहा येन तथाभत इत्यर्थः । "भूद्यावौ रादस्यौ रोदसी च ते" इत्यमरः। पृथ्वी छन्दः। लक्षणमुक्तं प्राक् ५६ पृष्ठे॥ अत्र रवशब्दस्य मण्डूकादिशब्दे एव कविप्रयोगप्रसिद्धिर्नत्ववंविधे वीराणां गर्जिते इति प्रसिद्धयति- क्रमात्प्रसिद्धिहतत्वम्। तदेवाह अत्रेत्यादि। मण्डूकादिष्विति। मण्डूकादिसंबन्धिषु मृदुध्वनिष्वि- त्यर्थः । आदिना सकलमृदुध्वनिकजन्तुपरिग्रहः । प्रसिद्ध इति। कविप्रसिद्ध इत्यर्थः । उक्तविशेषे इति। श्रवणभैरवत्वादिविशेषणमर्यादया लब्धे इत्यर्थः । "उक्तविशेषणके" इति पाठे श्रवणभैरवत्वा- दिविशेषणविशिष्टे इत्यर्थः। "उक्तविषये" इति पाठे उक्तस्य श्रवणभैरवत्वादेविर्षयेऽधिकरणे इत्यर्थः ॥ व्याख्यातमिदं प्रदपोद््ोतयोः। "रवो मण्डूकादिशब्दे कविप्रसिद्धो नतूक्तविशेषे सिंहनादे। न चावाचकसंकरः तुल्येनैव रूपेणोभयत्र शक्तिसत्त्वेऽप्येकत्रैव कविप्रयोगनियमात्। अत एवायं वाक्य- दोष: विशेषणविशेषसंनिरधानेन विशेषपरत्वादिति" इति प्रदीपः । (तुल्येनैव रूपेणेति। अत एव न निहतार्थत्वम्। कविप्रयोगनियमादिति । सिंहशब्दे रवशब्दप्रयोगो न चमत्कारायेति नियमः। अतो नाप्रयुक्तत्वम् सर्वथा प्रयोगनिषेधे एव हि स दोष: प्रकृते चार्थविशेषे प्रयोगोऽनुमत एवत्याहुः । विशेषणविशेषेति। श्रवणभैरवत्वरोदसीस्थगनरूपेत्यर्थः । प्रसिद्धित्यागकृतसहृदयोद्वेगो दूषकताबीजम् ) इत्युद्दयोत:॥ (१९) भग्नप्रक्रमपदं व्याचष्टे भन्न इत्यादि। भग्नो नष्टः प्रक्रमः प्रस्तावः (उपक्रमः) यत्र (वाक्ये) त्भ- १ अत एव वक्ष्यमाणहेतोरेव ॥ २ तमेव हेतुमाह विशेषणविशेषेति। 'विशेषणविशेष्य' इनि त्वपपाठ एव ॥ 3 संनिधानं समभिव्याहारः।

Page 425

काव्यप्रकाशः सटीकः।

नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि यांता। कुलाङ्गनानां हि दशानुरूपं नातःपर भद्रतरं समस्ति ॥ २४३॥ अत्र 'गता' इति प्रक्रान्ते 'याता' इति प्रकृतेः । 'गता निशापि' इति तु युक्तम्। ग्रप्रक्रममित्यर्थः । प्रकमशब्दार्थमाह प्रस्ताव इति। प्रस्तावौचित्यमित्यर्थः। यथाश्रुते कथितपदस्य प्रक्र- मभङ्गदोषवारकतया गुणत्वमेव सर्वत्र स्यात्। औचित्यस्य तु क्वचिदेव सत्त्वादन्यत्र कथितपदत्वस्य दो- षत्वमुपपन्नमिति बोध्यम्। प्रक्रमशब्दस्य पूर्वप्रक्रान्त[ पूर्वप्रक्रान्ति ]परत्वे 'महीभृतः पुत्रवतः' इत्यादौ ३६९ प्ृष्ठे वक्ष्यमाणोदाहरणे पुत्रपदे प्रक्रमभङ्गो न स्यादतः प्रस्तावः प्रक्रमपदार्थतयोक्त इति प्रभायां स्पष्टम्। प्रस्तावौचित्यमित्यस्य प्रस्तावः उपक्रमस्तस्यौचित्यं येन रूपेणोपक्रमस्तेनोपसंहारः इत्यर्थः। एवं च 'येन रूपेणोपक्मस्तेनैवोपसंहारः' इति नियमस्य भङ्गो भग्नप्रक्रमत्वमिति भावः। अयमेव दोष: प्रक्रमभङ्ग इत्युच्यते। उपकमश्र द्वेधा शब्दतोऽर्थतश्र्ेति। तत्रादं 'नाथे निशायाः' इत्यादौ २३४ उदाहरणे। द्वितीयम् 'अकलित०' इत्यादौ (२५१ उदाहरणे) इति बोध्यम्। अत्र दूषकता- बीजं तु 'अकलित०' इत्याघुदाहरणस्थवृत्तिग्रन्थव्याख्यानानन्तरं वक्ष्यते॥ भग्नप्रक्रमत्वं च प्रकृतिप्रत्ययसर्वनामपर्यायादिविषयत्वादनेकधा व्यवस्थितम्। तत्र प्रकृतेः प्रकम- भङ्गमुदाहरति नाथे इति। नियतेः अदृष्टस्य नियोगात् आज्ञया निशायाः नाथे चन्द्रेऽस्तं गते सति निशापि रात्रिरपि (तद्वधूः) अस्तं याता गता। हन्तेति खेदे। यद्वा हन्तेति हर्षे। हर्षश्र दशानु रूपत्वादिति बोध्यम्। चन्द्रे गते सति यन्निशा याता तद्युक्ततरमिति भावः। इदमेवार्थान्तरन्यासेन समर्थयति कुलाङ्गनानामिति। हि यस्मात्कारणात् कुलाङ्गनानां पतिव्रतास्त्रीणां दशानुरूपं वैधव्यदशा- योग्यं भद्रतरं कल्याणातिशयः अतः परम् अनुगमनादन्यत् न समस्ति न संभवतीत्यर्थः । स्वामिस- मानदशैवोचितेति भावः । पतिव्रतालक्षणं तु "आतर्ते मुदिति हृष्टा प्रोषिते मलिना कृशा। मृते या म्रियते पत्यौ सा स्त्री ज्ञेया पतिव्रता।" इति स्मृत्युक्तं बोध्यम्। "दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधि: " इत्यमरः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्र 'अस्तं गते' इति गमिरूपायाः प्रकृतेः प्रस्तावे 'याता' इति यारूपायाः प्रकृतेः प्रयोग इति प्रकृतिप्रक्रमभङ्ग:। तदेवाह अत्रेत्यादि। प्रकृतेरिति । प्रक्रमभङ्ग इति शेषः । :गते इति गमि- धातोः प्रक्रमादग्रेऽपि तत्प्रयोग एवोचितो न तु यातोति याधातारित प्रकृतेः प्रक्रमभङ्ग इत्यर्थः । तर्हि कीदशः पाठो युक्त इत्याकाङ्कायामाह गतेत्यादि। युक्तमिति। अयमाशयः । भिन्नाभ्यां शब्दा- भ्यामुपस्थापितं भिन्नवद्भाति "न सोऽस्ति प्रत्ययो लोके थैः शब्दानुगमादते" इति भर्तृहरिप्राक्त- न्यायेन शाब्दबोधात्मके ज्ञाने शब्दस्यापि विशेषणतया भानात्। तेन च प्रकृतस्थले भिन्नशब्दा- म्यां गमयाप्रकृतिभ्यामुपस्थितः एकोऽप्यर्थो भिन्नवद्भाति । अतो यातेति पदेन गमनस्योपादानेऽपि नानुगमनत्वेन प्रतीतिः। तथा च कुलाङ्गनानां न स्वामिसद्दशावस्थाप्रतीतिर्न संभवतीति दशानुरूप- मिति भज्येत। गतेति कृते तु अनुगमनस्य स्फुटैव प्रतीतिरिति बोध्यम्। १ प्रकुतिलक्षणं प्रत्ययलक्षणं च प्राक् १६८ पृष्ठे टिप्पणे प्रदर्शितम् ॥ २ 'मृते म्रियेत या पत्यौ' इति पाठान्तरम् ॥ ३ प्रत्ययो ज्ञानम् ॥ ४ 'यत्र शब्दो न भासते' इति पाठान्तरम् ॥ ५ पतिवतास्त्रीणां सहगमन- मनुगमनं चोक्तम्। तत्र सहगमनं चैकचित्यारोहणम् दम्पत्योः सहैव मन्त्रवद्दाहः। विप्रस्त्रीणां सहगमनमेव्र नानु- गमनम्। अनुगमनं च भर्तु: समन्त्रकदाहोत्तरं पृथक्चितावभिप्रवेशः। क्षत्रियादीनामनुगमनं सहगमनं वेति धर्म- शाखे स्पष्टम्।।

Page 426

सप्तम उल्लासः । ३६७

ननु 'नैकं पद द्विःप्रयोज्यं प्रायेण' इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् तत्कथमेकस्य पदस्य द्विःप्रयोग: उच्यते। उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य तद्ति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः । तथाहि। व्याख्यातमिदं सुधासागरकारैः "ननु पर्यायशब्दानां शक्यतावच्छेदकैक्यनियमात्कथमन्यत्वेन प्रतीतिरिति चेत् उच्यते। यन्मते शाब्दबोधे शब्दोऽपि भासते तन्मतेन इदम्। तथाहि। अस्माच्छ- ब्दादयमर्थो बोद्धव्य इत्याकारकशक्तिग्रहविषयत्वाच्छब्दस्य विशेषणादिपदार्थवत्तस्योपि उपस्थितिः पदान्तरोपादाने च तदुपस्थित्या प्रततत्यन्यथात्वं स्फुटमेव। उक्तं च 'न सोऽस्ति प्रत्ययो लोके यत्र शब्दो न भासते' इति। मतान्तरेऽपि पर्यायपदाभ्यामुपस्थापितोऽर्थोSभिन्नोऽपि शक्ततावच्छेदकमहिम्ना भिन्न इव प्रतीयते इति बोध्यम्" इति। "यत्र तु सर्वनाम्ना परामर्शस्तत्र तेषां (सर्वनाम्नां) बुद्धिविषये शक्तिस्वीकारात्पूर्वपदावच्छिन्नस्यैव प्रतिपादनान्नायं दोषः। न च सर्वनामपदावच्छिन्नत्वेनापि भाना- द्ेद: विशिष्टस्य तदवच्छिन्नतया भानेऽपि पूर्वरूपाप्रच्यवात्" इत्युद्दयोते स्पष्टम्॥ ननु 'गता' इति पाठे पूर्वाचार्यवचनविरोधः स्वग्रन्थविरोधश्चेति शङ्कते नन्वित्यादिना 'द्विःप्र- योगः' इत्यन्तेन। नैकमित्यादि। एकं पदं द्विः द्विवारं न प्रयोज्यं न प्रयोक्तव्यं प्रायेणेत्यर्थः। गमक- निवृत्त्यर्थ प्रायेणेत्युक्तमिति केचित्। वस्तुतस्तु प्रायेणेत्यस्य फलमनुपद्मेव स्फुटीभविष्यति। अन्य- त्रेति। वामनेन स्वकृतकाव्यालंकारसूत्रवृत्त्याख्यग्रन्थे प्रथमेऽध्याये पश्चमाधिकरणे इत्यर्थः। अस्य 'उक्तम्' इत्यग्रिमेणान्वयः । स्वग्रन्थविरोधमपि दर्शयति कथितपद्मित्यादि। इहैवोक्तमिति। काव्यप्रकाशे अस्मिन्नेवोल्लासे ३४२ पृष्ठे उक्तमित्यर्थः । आक्षेपमुपसंहरति तत्कथमित्यादि। तत् तस्मात्कारणात् एकस्य पदस्य द्विः द्विवारं प्रयोगः कथमित्यन्वयः । एवं च पुनर्गमेः प्रयोगो दुष्टः स्यादिति भावः। विषयभेदेन विरोधो नास्तीति समाधत्ते उच्यत इति। उद्देश्येति । उद्देश्यः प्राक प्रत्यायित एव प्रतिनिर्देश्यः पुनः प्रत्याय्यो यत्र तस्माव्यतिरिक्त इति विग्रहः । उद्देश्यप्रतिनिर्देश्यकाद- तिरिक्तं हि एकपद्द्विःप्रयोगनिषेधस्य विषय इत्यर्थः। यथा 'अधिकरतलतल्पम्' इत्यादि: (३४२ पृष्ठे)। प्रकृतेऽभेदज्ञापनार्थ पुनरुक्तिरेवोत्कर्षिकेति न दोष इति भावः। एवमर्थान्तिरसंक्तमितवाच्यलाटानुप्रा- सयोरपीति बोध्यम्। इदमेवाभिप्रेत्य वामनेन 'प्रायेण' इत्युक्तमित्युद्दयोतादौ स्पष्टम्। तद्वतीत्यादि। तद्वति उद्देश्यप्रतिनिर्देश्यकत्ववति तु विषये प्रत्युत विपरीतं तस्यैव प्रागुक्तस्यैव पदस्य सर्वनान्नरत- ददसादेरवा प्रयोगं विना दोष एव भवतत्यर्थः । एवं च तस्यैव पदस्य प्रयोगं विना 'उदेति सविता' इत्यादौ (३६८ पृष्ठे) सर्वनाम्रः प्रयोगं विना 'कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलम्' इत्यादौ (३५० पृष्ठे ) चाभेदप्रत्यभिज्ञानापत्तिरूपदोषः स्यादिति भावः। 'भातीन्दुस्तस्य चेन्दोः करनिकर०' इत्यत्र तु पौनरुक्त्यमेव तत्पदेनैवेन्दोः परामर्शसंभवात् । 'से स्थाणः स्थिरभक्तियोगसु- लभः' इत्यत्र न पौनरुक्त्यम् स्थाणपदानुपादाने तच्छब्दार्थपरिच्छेदासंभवादिति बोध्यम्॥ तदेतत्सर्व विवरणेऽप्युक्तम् "प्रतिनिर्देश्येति आवश्यके ण्यत्प्रत्ययः। उद्देश्यः वक्तव्योऽर्थः प्रि निर्देश्यः पुनरप्यवश्यं वक्तव्यो यत्र तस्माव्यतिरिक्तः। पूर्वापरयोरैकरूप्यरक्षार्थ यत्र पूर्वनिर्दिष्टस्वार्थस्य १ वैयाकरणमतेन ॥ २ शब्दस्यापि॥ ३ पदान्तररूपशब्दोपस्थित्या ॥ इदं चाग्े 'सितकरकर० इति' ३१४ उदाहरणे 'ताला जाअंति' इति ३१५ उदाहरणे च स्पष्टम्। ५ विक्रमोरवशीये १ अड्के १ शलोकोडयम् ॥

Page 427

३६८ काव्यप्रकाशः सटीक: ।

By. उदेति सविता ताम्रस्ताम्र एवास्तमेति च। संपत्तौ च विपत्तौ च महतामेकरूपता॥ २४४॥ अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तर तयेव प्रतिभासमान: प्रतीति स्थगयति॥ यथा वा यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा। V निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥२४५॥ तेनैव शब्देन तेनैव च रूपेण पुननिर्देशावश्यकत्वं तदन्यत्र दोष इति फलितोऽर्थः। तस्यावश्यकत्वं च कुत्र भवति कुत्र वा नेत्यत्र विद्वदनुभव एव प्रमाणम्। तथापि किंचित् संक्षिप्योच्यते। वाक्यद्ये यद्येकस्योद्देश्यत्वं विधेयत्वं वा स्यात् यदि वा पूर्वस्मिन् विधेयस्य वा उद्देश्यस्य वा परस्मिन् उद्देश्यत्वं विधेयत्वं वा भवेत् तदा पुनर्निर्देश आवश्यकः । यथा 'उदेति सविता' इत्यादावुभयत्रैव सवितुरु- द्देश्यत्वं ताम्रत्वस्य विधेयत्वम् । 'कोदण्डेन शराः' इत्यादौ पूर्वत्र विधेयस्य शरादेः परस्मिन् वाक्ये उद्देश्यत्वम् । एवं 'चन्द्रायत शुकरुचापि हंसः हंसायते चारुगतेन कान्ता' इत्यादौ पूर्ववाक्ये उद्देश्यस्य हंसस्य परस्मिन् विधेयतेति। उद्देश्यविधेयान्तर्गतानामपि उद्देश्यविधेयत्वं वाच्यम्" इति॥ 'सर्वनाम्नो वा' इत्यत्र वाशब्दो व्यवस्थितविकल्पे तेन यत्र सर्वनाम्ना परामर्शासंभवस्तत्रैव प्रागुक्त- पदमुपादेयम्। यत्र तु तेन (सर्वनाम्ना) संभवस्तत्र तदेव। उदेतीत्यादौ स इति कृते प्रधानस्य सवितुरेव परामर्शः स्यात् । तादृश इति कृते तु नाभेदप्रतीतिः सादृश्यावगमात्। तथैवेति कृतेऽपि 'तेन प्रकारेण' इत्यर्थनिष्पन्नतथाशब्देन ताम्रत्वेन प्रकारेणास्तमेतीत्यर्थे प्रकारभानेनाभेदप्रत्यभिज्ञा न स्यात्। 'एवं वागेर्थावित संपृक्तौ वागर्थप्रतिपत्तये' इत्यत्र नोपमा तत्तत्फलप्राप्तये तत्सदृशवस्तुवन्द- नादेरलेकिऽदष्टत्वात्। तस्मादुत्प्रेक्षात्र । अभेदप्रतिपत्तेरेवोद्देश्यत्वाच्च न कथितपदत्वादिदोष इति दिगित्युद्द्योते स्पष्टम् ।। कथितपदस्यादोषत्वे दृष्टान्तं दर्शयन् उद्देश्यप्रतिनिर्देश्यभावे द्विःप्रयोगावश्यकत्वमुदाहरति उदे- तीति। निगेदेनैव व्याख्यातमिदम्। अत्रेत्यादि। अत्र पद्ये 'रक्त एवास्तमेति च' इति यदि क्रियेत तदा पदान्तरप्रतिपाद्यमानः स एवार्थों "न सोडस्ति प्रत्ययो लोके०" इति (३६६ पृष्ठे २६ पङ़कौ) उक्तन्यायेन शब्दस्यापि विशेषणतया शाब्दबोधे भानात् भिन्न इव प्रतीयमानः एकरूपताप्रतीति व्यव दधीतेत्यर्थः । अर्थान्तरतयेवेति। भिन्न इवेति यावत्। तेनैव शब्देन पुनरभिधाने तु अनुवादत्वेन झटिति प्रयोजनजिज्ञासयोदयास्तमयादावेकरूपतावगमो व्यञ्जनया झटिति अन्यथा विलम्बेनेत्याशय इत्युद्योते स्पष्टम्। एवमेव प्रागपि (३४२ पृष्ठे ७ पङ्कौ ) स्पष्टम्। प्रतीतिम । ऐकरूप्यप्रतीतिम्। स्थगयति तिरोधत्ते। एवं चोद्दिष्टप्रतिनिर्देश्यरूपतया कथितपदत्वाख्यदोषानवताराद्थात्र प्रक्रान्तमेव ताम्रपदं प्रयुज्यते तथा दर्शितोदाहरणेऽपि 'गता' इति प्रक्रान्तमेव प्रयोक्तुमुचितमिति सिद्धम्॥ प्रत्ययस्य प्रक्रमभङ्गमुदाहरति यशोऽधिगन्तुमिति। किरातार्जुनीये तृतीये सर्गेऽर्जनं प्रति द्रौपया उक्तिरियम्। 'युधिष्ठिरं प्रति द्रौपया उक्तिरियम्' इत्युद्दयांतोक्तं तु चिन्त्यमेव। यशोऽधिगन्तुमित्या- दीनां 'निरुत्सुकानाम्' इत्यत्रान्वयः । यशः कीर्तिम अधिगन्तुं लब्धुम् सुखस्य लिप्सा लब्धुमिच्छा तया १ रघुवंशकाव्ये १ स्गे १ पद्यमिदम्॥ २ निगढ़ः पाठमात्रम् ॥ ३ व्याख्यातपायमित्यर्थः ॥

Page 428

सप्तम उल्लास:। ३६९

अत्र प्रत्ययस्य। 'सुखमीहितुं वा' इति युक्त: पाठः। ते हिमालयमामन्त्रय पुनः प्रक्ष्य च शूलिनम्। सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥२४६॥ अत्र सर्वनाम्ः। 'अनेन विसृष्टाः'इति तु वाच्यम्। महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्। अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥२४७॥ वा मनुष्येषु संख्यां गणनाम् अतिवर्तितुम अतिक्रम्यावस्थातुं वा मनुष्यदुर्लभमुत्कर्ष प्राप्तुमिति यावत् निरुत्सुकानां निरौत्सुक्यानाम (अनुत्कण्ठानाम्) अभियोगभाजां यत्नवतां पुंसां सिद्धि: समुत्सु- केव उत्कण्ठितेव अङ्कम उत्सङ्गम उपैति स्वयमागच्छतीत्यर्थः । 'अङ्कमुपैति लक्ष्मीः' इति पाठान्त- रम्। "उत्सङ्गचिह्नयोरङ्कः" इत्यमरः । उद््योतकारास्तु लोके हि सर्वे लक्ष्म्युत्सुकाः तेषु अनिः- स्पृहत्वरूपं यशो लब्धुम् उत्कण्ठाविषयार्थासिद्धौ हि दुःखं भवति लक्ष्म्यागमने हि न कोऽपि मनुष्यः स्वत आगच्छल्लक्ष्मीकः ताद्ृशश्रायं न मनुष्यगणनाविषय इति व्यवहारो भवति इति व्याचख्युः । उपेन्द्रवज्रा छन्दः "उपेन्द्रवञ्रा जतजास्ततो गौ" इति लक्षणात्॥ अत्र तुमुन्प्रत्ययस्य प्रक्रमे 'लिप्सया' इति सन्प्रत्ययस्योपादानात्प्रत्ययप्रक्रमभङ्ग:। तदेवाह अत्र प्रत्ययस्येति। 'प्रक्रमभङ्ग:' इति शेषः । अत्र तुमुनः प्रक्रमे सनोभिधानमेरुपताप्रतीति स्थग- यतीत्यर्थः । तुमुन्प्रत्ययेन क्रियायाः प्राधान्यावगमः फलत्वप्रतीतिश्र न तु सन्प्रत्ययेनेत्येकरूपता- प्रतीतिस्थगनमिति भावः। युक्तं पाठमुपदिशति सुखमित्यादि॥ सर्वनाम्न: प्रक्रमभङ्गमुदाहरति ते इति। कुमारसंभवकाव्ये षष्ठे सर्गे पद्यमिदम्। ते मरीच्या- दयो मुनयः हिमालयम् आमन्त्र्य पृष्टा पुनः शूलिनं महादेवं प्रेक्ष्य च अस्मै शूलिने अर्थ पार्वती- दानरूपं सिद्ं पित्रङ्गीकृतं निवेध ज्ञापयित्वा तेन शूलिना विसृष्टाः आज्ञप्ाः सन्तः खम् आकाशम् उदयुः उत्पेतुरित्यर्थः । 'प्रेक्ष्य' इत्यत्र 'प्राप्य' इत्यपि पाठः । केचित्तु 'सिद्धमर्थ गौरीविवाहरूपं प्रयोजनं निवेद् कथयित्वा' इति व्याचख्युः॥ अत्रेदंशब्दस्य सर्वनाम्रः प्रक्रमभङ्ग इत्याह अत्र सर्वनाम्न इति। 'प्रक्रमभङ्ग' इति शेषः। "अत्रास्मै इतीदमः प्रक्रमात्तद्विसृष्टा इत्यत्राप्यनेन विसृष्टा इत्येव वक्तव्यम्। न च तदिदमोरर्था- भेद: इदमः प्रस्तुतप्रत्यक्षपरामर्शकत्वात्" इति प्रदीपः । अयं भावः। इदमः पूर्वानुभूतपुरोवर्तिविष- यवाचकत्वम् तदस्त्वप्रत्यक्षपूर्वानुभूतपरामर्शकत्वम् अन्यथानयोः पर्यायतापत्तिः स्यादिति । अत एव श्रीवत्सलाञ्छनभट्टाचार्याः प्राहुः "तदिदमोः सर्वनामत्वाविशेषेऽपि पूर्वानुभूतपुरोवर्तिविषयत्वाच्नैक- रूपता" इति। एवं चार्थभेदस्य प्रामाणिकत्वादिदमोपक्रम्य तदा स्मरणात् 'किं हिमालयेन आहो- स्वित् शूलिना विसृष्टाः' इत्यनिश्रयात्प्रतीतिस्थगनमित्युश्योतसुधासागरयोः स्पष्टम्। युक्तं पाठमु- पदिशति अनेनेत्यादि। वाच्यमिति। वक्तुं योग्यमित्यर्थः॥ पर्यायस्य प्रक्रमभङ्गमुदाहरति महीभृत इति। कुमारसंभवकाव्ये प्रथमे सर्गे पद्यमिदम्। पुत्रा मैना- कादयोऽस्य सन्तीति पुत्रवान् तस्य पुत्रवतोऽपि महीभृतो हिमाचलस्य दृष्टिः तस्मिन् गौर्याख्यकन्या- रूपेऽपत्ये तृप्तिम् इच्छाविच्छेदं न जगाम न प्रापेत्यर्थः। स्नेहातिशयादिति भावः। अत्र दृष्टान्तमाह अन- ४७

Page 429

३७० काव्यप्रकाश: सटीकः। अत्र पर्यायस्य। 'महीभृतोऽपत्यवतोऽपि' इति युक्तम्। 'अत्र सत्यपि पुत्रे कन्या- रूपेऽप्यपत्ये स्नेहोऽभूत' इति केचित्समर्थयन्ते। न्तेत्यादि। हि यतः अनन्तपुष्पस्य बहुतरकुसुमस्य मधोः वसन्तस्य संबन्धिनी द्विरेफमाला भ्रमर- पङ्क्तिः (दृष्टिरूपा) चूतस्य पुष्वं चूतं तस्मिन् सविशेषः सातिशयः सङ्ग: आसक्तिर्यस्यास्तथाभूता भवतीत्यर्थः । सानुरागं पततीति भावः । अत्र द्विरेफमाला सादृश्याद्वसन्तदृष्टित्वेनाध्यवसिता बोध्या। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्र पुष्पसामान्यसत्तायां पुष्पविशेषादरद्टष्टान्तेन दार्ष्टान्तिकेऽपि अपत्यसामान्यसत्ताभिधानार्थमप- त्यवत इत्येव वक्तुमुचितम् न तु विशेषतः पुत्रवत इति दृष्टान्तवैषम्यापत्तेः। अतः पर्यायप्रक्रमभङ्ग । पर्यायत्वं त्वेकधर्मिवाचकतया गौणं न तु मुख्यमिति चन्द्रिकायां स्पष्टम्। तदेवाह अत्र पर्यायस्येति। 'प्रक्रमभङ्ग:' इति शेषः। अत्रापत्येषु बहुषु सत्स्वपि तस्मिन् कन्यारूपे अपत्ये स्नेहातिशयविव- क्षणादपत्यशब्दे प्रयोक्तव्ये पुत्रशब्दप्रयोगात्सामान्यपर्यायप्रक्रमभङ्ग इति भावः। अत्रेदं ततत्वम्। यत्सामान्यसत्ता तद्विशेषगोचरेच्छेति प्रस्तावः पुष्पसामान्यसत्तायां पुष्पविशेषादरबोधकेन दृष्टान्तेन तथैव बोधनात् विरोधार्थकापिशब्दरवरसाच्च। ततश्र्ापत्यसामान्यसत्तायामप्यपत्यविशेषे स्नेह इति प्रस्ताव: पुत्रपदस्थानेऽपत्यपदानुपादानाद्विघटितः। नन्वारभ्यमाणस्य वर्त्मनोऽन्येन भङ्ग एव प्रकमभङ्गो न त्वारम्भकेण पुत्रपदेनेति चेन्न : औचित्यावर्जितप्रस्तावान्यथाभाव एवास्य विषयत्वात् विघटकपौर्वापर्यस्यानियमात्। अत एव प्रक्रमपदस्य प्रस्तावोरऽर्थो विवृतो वृत्तिकारैः (३३६ पृष्ठे )। अत एव च पाठान्तरे पुत्रपदस्थाने एवापत्यपदप्रक्षेपो वक्ष्यते ( ३७० पृष्ठे १ पङ्कौ ) वृत्तिकारैरेवेति । युक्तं पाठमुपदिशत महीभृत इत्यादि॥ केषांचिन्मतमनुवदति अत्र सत्यपीत्यादि। पुत्रे मैनाके। केचित्समर्थयन्ते इति। अत्र केचि- दित्यनेनास्वरस: सूचितः । अयमाशयः। केचित्तु 'असति पुत्रे सुतायां स्नहो युक्तः तस्य (महीभृतः) तु सत्यपि पुत्रे (मैनाके) सुतायां स्नेहोऽभूदिति विवक्षणानात्र (पद्ये) प्रक्रमभङ्गरूपदोषप्रतीतिः' इति समादधिरे तदयुक्तम् 'अनन्तपुष्पस्य चूते' इति दृष्टान्तवैषम्यप्रसङ्गात्। तत्र च सामान्यविशेष- भावेनोपादानाद्दार्टान्तिके तथैवौचित्यादिति। तस्मात् 'अपत्यवतोऽपि' इति युक्तः पाठः । न चात्रापि बहुत्वालाभाद् दृष्टान्तवैषम्यम् अपत्यानि अस्य सन्तीति बह्नर्थे एव मतुपो विधानात्। एतेन "साधु- रेव 'पुत्रवतः' इति पाठ इत्यतः 'केचित्' इत्यनेन सांप्रदायिका इत्यर्थकेन वृत्तिकृतोऽप्यत्रानुमति- रेव" इति चण्डीदासमतमनादेयमितीति प्रदीपे:स्पष्टम् ।। अथापत्यपुत्रशब्दयोः सामान्यविशेषवाचकयोः कथं पर्यायता जन्यप्राणित्वजन्यपुंस्त्वयोः शक्यताव च्छेदकयोर्भेदात्। अत्र केचित् पुत्रशब्दोऽपत्यपर्यायोऽपि भवति अत एव "आत्मजस्तनयः सूनुः सुतः पुत्र: स्त्रियां त्वमी। आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे" इत्यमरः संगच्छते। अन्यथा "प्रत्य- १ समानप्रवृत्तिनिमित्तकत्वे सति भिन्नानुपूर्वीकत्वं पर्यायत्वमितिमुख्यपर्यायत्वाभावादाह गौणमिति ॥ २ आत्मज: तनयः सूनुः सुतः पुत्रः पश्चकं पुत्रस्य। अमी आत्मजादयः सर्वे स्त्रियाँ वर्तमानाः दुहितरम् आहुः। यथा आत्मजा तनया सूनुः सुता पुत्री। दुहितेत्यपि ऋदन्तम्। दुहितेत्यत्र ऋदन्तत्वान्डीप् तु न "न षटस्वस्रादिभ्यः" ( ४११०) इत्यनेन तन्निषेधात्। अपत्यं तोकं द्वे तयो; समे पुत्रे दुहितरि च कीचलिङ्गे एवेति तदर्थः॥ ३मानान्तरमप्याह अन्यथेति । पर्यायत्वानङ्गीकारे इत्यर्थः ॥

Page 430

सप्तम उल्लास:। ३७१

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः। नियता लघुता निरायतेरगरीयान्न पढं नृपश्रियः ॥२४८॥ K 2.14 यानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्" इति व्युत्पत्तिसत्वेन पुत्रीत्यत्र स्त्रीप्रत्ययः किंगतं स्त्रीत्वमभिद- ध्यात्। न चापत्यपुत्रशब्दयोः पर्यायत्वाङ्गकारे सापत्य इतिवत् सपुत्र इत्यतोऽपि कन्यापुत्रसंदेहापत्ति- रिति वाच्यम् पुंस्त्वतात्पर्यग्राहकस्य विसर्गस्य सत्त्वेन स्त्रीत्वतात्पर्यग्राहकस्य ईकारस्यासत्त्वेन च संदेह- विरहात्। तस्मादपत्यशब्दस्य वंशायननहेतुत्वरूपमपत्यत्वं शक्यतावच्छेदकम् तदेव च पुत्रशब्दस्या- पीति पर्यायतेत्याहुः। तन्न युक्तम् नथा सति (पुत्रशब्दस्यापत्यसामान्यार्थकत्वे सति) द्वयोरप्य- पत्यार्थकत्वाविशेषेण दोषस्यैवाप्रसङ्गात्। तथाहि। अत्र हि दृष्टान्तानुरोधेन सामान्यविशेषभावेनापत्य- प्रतीतिर्विवक्षिता सा च शब्दभेदेऽप्युपपद्यते इति न दोषप्रसक्तिः उद्देश्यप्रतिनिर्देश्यस्थले एवैकरू- पताप्रतीत्यनुरोधेन शब्दभेदे दोषोपगमात् इह च तदभावादिति। इदमत्र तत्त्वम्। उद्देश्यप्रतिनिर्दे इयस्थले एकरूपार्थप्रतीतिविघातो हि दूषकताबीजम् अत एव गतेत्युपक्रम्य यातेत्युक्तौ दोष उक्तः । अत्र तु न तत् दूषकताबीजम् किंतु द्ृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम्। पुत्रशब्दस्यापत्यपर्यायत्वे सामान्य- विशेषभावेन प्रतीत्युपपत्तर्दषकताबीजाभावाददोषप्रसद्ग इति। तस्मात्पर्यायत्वमेकार्थप्रतिपादकत्वमात्रम् न त्वेकप्रकारकप्रतीतिजनकत्वमपीति बोध्यम्। अत एव (उक्तपर्यायत्वोपगमादेव) 'विपदोऽभिभ- वन्ति' इति २४८ पये लघुतामुपकम्यागरीयानित्युक्तावपि पर्यायप्रक्रमभङ्गो वक्ष्यते। निरुक्तपर्यायत्वं सामान्यविशेषबोधकयोरप्यक्षतमेव । एवं च चूतशब्दस्य पुष्पविशेषवाचिनः सामान्यपर्यायप्रस्तावे दार्ष्टान्तिके विशेषपर्यायोपादानात्पर्यायप्रक्रमभङ्ग: । किंच पुत्रापत्यशब्दयोरेकप्रकारकप्रतीतिजनकत्व रूपे पर्यायत्वे उपक्रमानुरोधेनोपसंहारस्यान्यथा नेतुमुचितत्वात् 'तस्यां हि पुत्याम्' इति युक्तः पाठ इत्येव वृत्तिकृतो बूयुरित्यलमिति प्रदीपोद््योतयोः स्पष्टम्॥ अत्र चक्रवर्तिकृतविस्तारिकायामपि "अथ कथमपत्यपुत्रयोः पर्यायता जन्यप्राणित्वेन जन्यपुंस्त्वेन च शक्यतावच्छेदकभेदात्। अत्र केचित् 'पुत्रश्र दुहिता चेत्येकशेषेण पुत्रपदस्य कन्यापुत्रोभयबोधक- तयापत्यपर्यायता' इत्याहुः तन्न। जन्यप्राणित्वस्य जन्यस्त्रीपुंस्त्वाभ्यामन्यत्वेन प्रकारभेदादपर्यायत्वात्। न च विषयमात्रैक्येनात्र पर्यायता षण्ढस्यापत्यत्वेन तदैक्यविरहात्। न च षण्ढेषु नापत्यता तेषां संतत्यनारम्भकत्वेन पतति वंशो येन तत्पत्यं न पत्यमपत्यमिति व्युत्पत्तिविरहादिति वाच्यम् तेष्वपि प्रयोगेणाजन्मानूढतार्थस्यापत्यत्वेन च व्युत्पत्तेरप्रयोजकत्वात्। घटो द्रव्यमित्यत्रापि पर्यायतापाताच्च। तत्रापि विषयैक्यानपायात्" इत्याशङ्कच प्रागुक्तरीत्यैव सिद्धान्तितम्।। उपसर्गपर्याययोः प्रक्रमभङ्गमेकस्मिन्नेव पद्ये उदाहरति विपद इति। किरातार्जुनीये द्वितीये सर्गे युधिष्ठिरं प्रति भीमसेनस्योक्तिरियम्। यत्तु चन्द्रिकोद््योतयोरुक्तं 'द्रौपद्या उक्तिरियम्' इति तत्तु तदनवलोकनमूलकमेव। विपदः विपत्तयः अविक्रम पराक्रमरहितं ( कातरं जनम्) अभिभवन्ति तिरस्कुर्वन्ति। आयतिः उत्तरकालशुद्धिः आपदा आपत्या उपेतं युक्तं जनं रहयति त्यजति शुभो- दर्को न भवतीति भावः । निरायतेः आयतिरहितस्य जनस्य लघुता नीचता नियता अवश्यंभाविनी। अगरीयान् गौरवहीनः (लघुः) जनः नृपश्रियः राजलक्ष्म्याः पद स्थानं न भवतीत्यर्थः। तस्मात्पौरुषं कर्तव्यमेवेति भावः । नृपेति युधिष्ठिरसंबोधनमिति केचित्। 'नृपश्रियाम्' इति प्रदीपे पाठः । अत्र पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमालाख्योSलंकारः । सुन्दरी वैतालीयं वा छन्दः "अयुजो-

Page 431

३७२ काव्यप्रकाशः सटीकः । अत्रोपसर्गस्य पर्यायस्य च। 'तदभिभवः कुरुते निरायतिम्। लघुतां भजते निरायति- र्लघुंतावान्न पदं नृपश्रियः ॥' इति युक्तम्। काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मी- रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः। र्यदि सौ जगौ युजो: सभरा ल्गौ यदि सुन्दरी तदा" इति छन्दोमअ्जर्या तृतीये स्तबके सुन्देरी- लक्षणात् "पड्डिषमेSष्टौ०" इति प्राक (१९८ पृष्ठे) उक्तवैतालीयलक्षणाद्वा॥ -अत्र विपद इति व्युपसर्गमुपक्रम्य आपद्ुपेतमिति आङ उपादानादुपसर्गस्य प्रक्रमभङ्ग: लघुते- त्युपक्रम्य अगरीयानिति पर्यायान्तरोपादानात्पर्यार्यस्य प्रक्रमभङ्गश्व। तदेवाह अत्रोपसर्गस्य पर्या- यस्य चेति। 'प्रक्रमभङ्ग:' इति शेष:। आपदित्युपसर्गस्य प्रक्रमङ्ग: अगरीयानिति र्यायस्य च प्रक्रमभङ्ग इत्यर्थः। द्वितीयादिपादत्रये युक्तं पाठमुपदिशति तदिति। तासां विपदामभिभवः विपत्क- तर्काभिभव इत्यर्थः। अत्राहुः प्रदीपकाराः "तदभिभवः कुरुते निरायतिम्। लघुतां भजते निरायति- र्लघुता भागपदं नृपश्रियाम् ॥। इति पाठो युक्तो यदि न छन्दोभङ्गः" इति। अयं प्रदीपाशयः । यदा 'विपदोऽभि०' इति पय्े सुन्दरी छन्दस्तदा छन्दोभङ्गादयुक्तोयं वृत्तिकृद्दर्शितः पाठः यदा तु बैतालीयं छन्दस्तदा छन्दोभङ्गाभावायुक्त एवायं पाठ इति। यत्तु विवरणकृता 'तद्भिभवः' इति वृत्तौ 'तत्' इति 'तस्मात्' इत्यर्थकमव्ययम् तञ्च 'युक्तम्' इत्यनेनान्वितम् 'अभिभवः' इत्यारभ्यैव वृत्तिकृत्कल्पितो द्वितीयचरणपाठ इति मत्वा उक्तम् "प्रकृतदाषपरिजिहीर्षयैव कल्पितेऽस्मिन् पाठे छन्दोभङ्गो न दोषाय निर्दोषवाक्यमात्रसमर्थनपरत्वादस्य। वस्तुतः 'अभिभूतिः कुरुते निरायतिम्' इत्येव पाठः [द्वितीयपादे] कल्पयितुं योग्यः" इति तन्न युक्तम्। तत्कल्पितपाठे छन्दोभङ्गाभावेऽपि 'विकसितसहकारतारहारि०' (३३७ पृष्ठे ) इत्यादाविव हतवृत्तत्वदोषापत्तेः । वस्तुतस्तु वृत्तिकृत्पाठे छन्दोभङ्गो नास्त्येव द्वितीयचरणपाठस्य तच्छब्दघटितस्यैव वृत्तिकृता कल्पितत्वेन वैतालीयस्य छन्दस: सत्वात्। एतेन "वृत्तौ (काव्यप्रकाशे) युक्तमित्ययुक्तम् छन्दोभङ्गप्रसङ्गात् अतः शेषं पूरयति यदि न छन्दोभङ्ग इति" इति प्रदीपावतरणं प्रभाकृदुक्तम् "तदिति शोधकमात्रम् न पाठकल्पम् छन्दोभङ्गापातात्" इति चक्रवत्युक्तं चापास्तम् ॥ वचनस्य प्रक्रमभङ्गमुदाहरति काचिदिति। माघकाव्ये पञ्चद्शे सगे शिशुपालपक्ष्यमहीपतिषु युद्ध- प्रस्थानोद्यतेषु तत्पत्नीनाममङगलचेष्टावर्णनमिदम्। एतेन 'पार्थिवानां त्वद्द्विषाम्' इत्युश्योतोक्तं व्याख्या नमपास्तम् सर्वजनसाधारण्येन पूर्ववृत्तान्तबोधनाय प्रवृत्तस्य माघकवेरस्यामुक्तौ त्वच्छब्द्बोध्यस्य सबो- व्यस्याभावात्। नार्यः स्त्रियः पार्थिवानां शिशुपालपक्षीयराज्ञां प्रस्थाने यात्रायां (युद्धनिर्याण) पुरोऽगे भावि उत्पत्स्यमानम् अशिवम् अमङ्गलम् इति अनेन प्रकारेण शशंसुः प्रकटयामसुः (सूचयामासुः)। केन प्रकारेणेत्याकाङ्ायामाह काचिदित्यादि। काचित् नायिका रजोभिः आर्तवैः कीर्णा व्याप्ता (रजस्वला) अत एव मन्दा वक्त्रेन्दोर्मुखचन्द्रस्य लक्ष्मीः शोभा यस्यास्तादशी सती दिवम् आकाशम् १ १ इयं सुन्दर्येव क्वचिद्वियोगिनीत्युच्यते "विपमे ससजा गुरु समे समरा लोथगुरुर्वियोगिनी" इति लक्ष- णात्। एवं चात्र शलोके अक्षरगणवृत्तरीत्या गगने सुन्दरी वियोगेनी वा छन्दः मत्रागणवृत्तरीत्या गणने तु वैता- लयिमिति विवेक:। अन एव रघुवशेऽटमे सर्े 'अ्मित् सर्े वैतालयं छन्दः' इति कुमरसंभवे चतर्थे सरगे 'अस्मिन् सर्गे वियोगिनीवृत्तानि' इति च मल्लिनाथक्तम्। छन्दोभङ्ग इात यत्प्रीचक्रवर्त्यायुक्तं ततसुन्दरी उन्दोभङ्गापातादित्याशयेन स्यादिति बोध्यभ् ॥

Page 432

। सपम उल्लासः। ्रेमुर्वात्या इवान्या: प्रतिपदमपरा भूमिवत्कम्पमाना: प्रस्थाने पार्थिवानामशित्रमिति पुरो भावि नार्यः शर्शसुः ॥ २४९ ॥ अत्र वचनस्य। 'काश्चित्कीर्णा रजोभिर्दिवमनुविदघुर्मन्दवकत्रेन्दुशोभा निःश्रीकाः' इति 'कम्पमानाः' इत्यत्र 'कम्पमापुः' इति च पठनीयम्। गाहन्तां महिषा निपानसलिलं शुद्गैर्मुहुस्ताडितं छायाब्कदम्चकं मृगकुलं रोमन्थमभ्यस्यताम्। अनुविदधौ अनुकृतवती। औौरपि रजोभिः (पांसुभिः) कीर्णा मन्दवक्त्रसदृशचन्द्रशोभा जाता सक- लनृपक्षयरूपोत्पातसूचकत्वादिति भावः । केचित्तु पतिवियोगदुःखेन भूमिपतनात्पांसुभिः कीर्णेति नायिकापक्षे व्याचख्युः। उद्धान्तं व्याकुलीभूतं सत्त्वं सत्त्वगुणो यद्ा सत्त्वं चित्तं यासां तथाभूताः काश्चिचत् नाययिका: अश्रीका: शोभाहीनः सत्यः दिश इव अन्तः हृदये दाहं संतापं दधिरे। दिशोऽपि तत्कालम् उद्धान्ता इतस्ततो विक्षिताः सत्वाः प्राणिनो यासु तथाभूताः सत्योऽन्तः मध्ये दाहं हेतुलक्षणया वह्निं दधुः। दिग्दाहस्याप्यमङ्गलसूचकत्वादिति भावः। "सत्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः। आत्मत्वे व्यवसाये च चित्ते प्राणिषु जन्तुषु" इति विश्वः ।अन्याः नायिका वात्या: वातसमूहा इव ("पाशादिम्यो यः" (४।२४९) इति सूत्रेण समूहे यप्रत्ययः) प्रतिपदं पदे पदे भ्रेमुः भ्रमणं चक्रुः। तत्काले वात्या अपि जाता इति भावः। प्रतिपदमित्यत्र 'प्रतिदिशम् इति पाठे दिशि दिशीत्यर्थः। अपराः नायिका भूमिवत् कम्पमानाः कम्पयुक्ता जाता। तत्काले भूकम्पोऽपि जात इति भावः। वात्याभ्रमणभूकम्पयोरशुभसूचकत्वं प्रसिद्धमेव। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥ अत्र 'काचित्' इत्येकवचनमुपक्रम्य 'काश्र्वित' इति बहुवचनोपादानाद्वचनस्य प्रक्रमभङ्ग। तदेवाह अत्र वचनस्येति। 'प्रक्रमभङ्ग:' इति शेषः । युक्तं पाठमुपदिशति काश्चिदित्यादि। असिद्धि- हेतुकविसंधिदोषप्रसङ्गवारणाय 'अश्रीकाः' इत्यत्र 'निशश्रीकाः' इति पठितम्। प्रसङ्गादाख्यातप्रक्रमभङ्ग· मपि पाठान्तरेण परिहरति कम्पमाना इत्यत्रेत्यादि। इति च पठनीयमिति। अन्यथा 'अनुवि- दधौ दधिरे' इत्यादि क्रियाप्रधानं तिङन्तमुपक्रम्य द्रव्यप्रधानस्य 'कम्पमानाः' इत्यस्य शानजन्तस्य नाम्न उपादानादाख्यातप्रक्रमभङ्ग: स्यादिति भावः। तिङन्तानां क्रियाप्रधानत्वं नाम्नां द्रव्यप्रधानत्वं चोक्तं निरुक्ते यास्कमुनिना "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि" इति। भावोऽत्र करिया आख्यातं तिङन्तम् सत्त्वं द्रव्यम् नाम पातिपदिकमिति बोध्यम्। व्याख्यातमिदं प्रदीपोध्योतयोः। "कम्पमाना इति च कम्पमापुरिति पठनीयम् शतृशानचोर्गुणीभूतक्रियान्तराभिधायकत्वनियमात् । न चात्र क्रियान्तरं प्रधानमस्तीति" इति प्रदीपः। (गुणीभूतक्रियान्तरेति। क्रियान्तरं प्रति गुणीभूतस्वार्थाभिधायकत्वादित्यर्थः । तदाह प्रधानमस्तीति। आख्यातप्रक्रमभङ्गप्रसङ्गाच्चेत्यपि बोध्यम्) इत्युद््योत:।। कारकस्य प्रक्रमभङ्गमुदाहरति गाहन्तामिति। शाकुन्तलनाटके द्वितीयेSङ्के महर्षेः कण्वस्याश्रमे शंकन्तलादर्शनान्निवृत्तमृगयाभिलाषस्य राज्ञो दुष्यन्तस्य सेनापति प्रत्युक्तिरियम् । तत्र "अद तावत्" इति उपकमस्थं सर्ववाक्यान्वाये। महिषा अरण्यमहिषाः शृङ्गैः विषाणैः मुहुः वारंवारं ताडितम् आह- तम उत्फालितंवा निपानस्य आहावस्य (कूपसमीपवर्तिश्ुद्रजलाशयस्य) सलिल जलं गाहन्सां क्लोडन

Page 433

३७४ काव्यप्रकाश: सटीक:। विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमरमद्धनुः॥२५०। अत्र कारकस्य। 'विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्' इत्यदुष्टम्। अकलिततपस्तेजोवर्र्यिप्रथिन्नि यशोनिधा- ववितथमदाध्माते रोषान्मुनावभिगच्छति। अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभस/त्पाणिः पादोपसंग्रहणाय च ॥२५१॥ कुर्वताम्। त्रासापगमेन प्रकृतिस्वाच्छन्याच्छड्गै: सलिलमू्ध्व क्षिप्त्वा शरीरोपरि पातयन्त्विति भावः। अत्र स्वभावोक्त्यलंकारः । एवमग्रिमवाक्ययोरपि बोध्यम्। एतेन हननयोग्यदेशस्थितानपि न हनिष्ये इति स्व्रोदात्तता ध्वनिता। एवं सर्वत्र। "आहावस्तु निपानं स्यादुपकूपजलाशये" इत्यमरः। तथा मृगकुलं हरिणकुलं छायायां बद्धं कदम्बकं समूहो येन तादृशं सत् रोमन्थम् अभ्यवहृतस्याकृष्य चर्वणम् अभ्यस्यताम् त्रासात्पलायनपरतयान्योन्यवातनिभिज्ञं विस्मृतरोमन्थं चाधुना त्रासापगमे सति संभूय शिक्षाक्रमेण रोमन्थाभ्यासं कुरुतामित्यर्थः । कदम्बानां बहुत्वात्कुलस्यान्यपदार्थत्वोपपत्तिः। एवम् वराहपतिभिः सूकरश्रेष्ठैः विश्रब्धैः विश्वासयुतैः सद्भिः "समौ विश्रम्भविश्वासौ" इत्यमरः पल्वले अलसरसि मुस्तायाः तृणविशेषस्य क्षतिर्नाशः उत्खननम् वा क्रियताम्। "पल्वलं चाल्प- सरो वापी तु दीर्घिका" इत्यमरः। विश्रब्धैरिति विभक्तिविपरिणामेन सर्वत्र योज्यम्। 'विस्नब्धं क्रियतां वराहततिभिः" इति पाठे वराहसमूहैः विस्त्रब्धं विश्वासयुक्तं यथा स्यात्तथेत्यर्थः। तथा इदं नानाविधदानवसेनाविनाशकम् अस्मद्धनुः शिथिलो ज्याबन्धो मौर्वीबन्धनं यस्य तथाभूतं सत् विश्रान्तिं विश्रामं लभतामित्यर्थः । अथवा अस्मदिति पञ्चमीबहुवचनान्तं पृथक्पद्म् अस्मत्सका- शाद्विरतं भवत्वित्यर्थः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्राक् १८ पृष्ठे ॥

अत्र 'गाहन्ताम्' इति कर्तृकारकवाचकतिङः प्रक्रमे 'क्रियताम्' इति कर्मकारकवाचकस्योपादाना- त्कारकप्रक्रमभङ्र । तदेवाह अत्र कारकस्येति। 'प्रक्रमभङ्ग:' इति शेषः । एवं चात्र गाहन्तामिति कर्तृतिङ: प्रक्रमात्क्रियन्तामित्यत्र तद्ङ्ग इति भावः। युक्त पाठमुपदिशति विश्रब्धा इति। 'विश्वस्ताः' इत्यपि पाठः । सूकरवरा इति। 'शूकरवराः' इति तालव्यादिरपि पाठः "तालव्या अपि दन्त्याश्र संबसूकरपांसवः" इत्यूष्मविवेकः । सूकरपदस्य ग्राम्यत्वाद्वन्धशैथिल्याच्च 'विश्रब्धः कुरुतां वराहनिवहो मुस्ताक्षतिम्' इति युक्तं पठितुम्। एवं चात्मनेपदप्रक्रमभङ्गोऽपि नेत्युदयोते स्पष्टम् ।

कमस्य प्रक्रमभङ्गमुदाहरति अकलितेति। वीरचरितनाटके द्वितीयेऽङ्के धनुर्भङ्गकुपिते भार्गवे (परशुरामे) आगते श्रीरामस्योक्तिरियम् । अकलितम् अपरिमितं यत्तपस्तेजो वीर्य च ताभ्यां प्रथिमा पृथुता यत्र तथाभूते यद्वा अकलितोऽपरिमितस्तपस्तेजसो ब्रह्मचर्यादितेजसो वीर्यस्य प्रभावस्य च प्रथिमा विस्तारो महिमा वा यस्य तथाभूते यशोनिधौ अतिप्रसिद्धे अवितथो यथार्थो यो मदः अहंकार- स्तेन आध्माते उद्दीपिते तादृशाहंकारविशिष्टे इति यावत् मुनौ परशुरामे रोषात् क्रोधात् अभिगच्छति अभ्यागते सति 'अभिधावति' इति पाठे संमुखं धावमाने सति पाणिः मद्धस्तः अभिनवालौकिकी नूतना यो या बनुर्विदा तया यो दर्पो गर्वस्तस्य क्षमाय योग्याय कर्मण बाणाकर्षणरूपाय च युद्धरूपाय

Page 434

सत्तम उल्लास:। ३७५

अत्र क्रमस्य! पादीपर्सग्रहणायेति पूर्व वाच्यम्। एवमन्यदप्यनुसर्तव्यम्॥ (२०) अविद्यमान: क्रमो यत्र। यथा चेति यावत् पादयोरुपसंग्रहणाय वन्दनाय च रभसात् आवेगात् स्फुरति चेष्टते इत्यर्थः। चकारद्व- येन तुल्यकालत्वाभिव्यक्तिः । यशोनिधावित्यनेन तादृशस्य जयादुत्कर्षाधिक्यं ध्वनितम्। हरिणी छन्दः। लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र क्रमस्येत्यादि। अत्र प्रथर्मद्वितीयपादार्थो यथाक्रमं पादग्रहणबाणाकर्षणयोर्हेतू इति तनिर्देश- क्रमेणैव 'पादोपसंग्रहणाय च अभिनवधनुर्विद्यादर्पक्षमाय च' इति निर्देशो युक्तः तदन्यथात्वेन कम प्रक्रमभङ्ग इति भाव इति संप्रदायविदः। वस्तुतस्तु "अत्र तपस्तेजोवीर्ये क्रमेणोपक्रम्य तदुभयोचितयोः पाद्ग्रहणचाणकर्षणय: पौर्वापर्य योग्यम् 'यथासंख्यमनुदेशः समानाम्' इति न्यायात् तदन्यथा- करणेन क्रमप्रक्रमभङ्ग इति भावः। यत्तु प्रदीपकारैरुक्तं 'तेजोवीर्यरोषौ क्रमेणोपक्रम्य' इति तद- युक्तमिति ध्येयं दक्षैः" इति सुधासागरे स्पष्टम् । एवमेवोक्तमुद्योतेऽपि "अत्र 'तपस्तेजोवीर्ये क्रमेण' इति पाठः" इति। पूर्वमिति। 'अभिनवधनुर्विद्यादर्पक्षमाय' इत्यतः पूर्वमित्यर्थः। एव- मन्यदपीति। 'शशी दिवसधूसरो गलितयौवना कामिनी' इत्यादौ (५०८ उदाहरणे ) शोभन- त्वेन प्रतीतस्य धूसरत्वादिनाशोभनत्वमिति विवक्षितः क्रमस्तस्य द्वितीयचतुर्थषष्ठवाक्येष्वन्यथात्वेन भङ्ग इत्यादि सुधीभिरूह्यमिति भावः॥। "अत्र सर्वत्र एकरूपप्रसृतायाः प्रतीतेः स्थगनमुपघातो वा दूषकताबीजम्। यदुक्तम् 'प्रक्रमस्या- न्यथात्वेन प्रतीतौ प्रस्खलद्तौ। ह्लादः स्फुरन्ननास्वादी यत्र ग्लानत्वमश्नुते। दोषः प्रक्रमभेदाख्यः शब्दा- नौचित्यभूश्र सः।' इति। अत एव नित्यदोषोऽयम्" इति प्रदीपः। (अत्र सर्वत्रेति। तथाहि। उद्देश्य प्रतिनिर्देश्यस्थले ('नाथे निशायाः' इत्यादौ २४३ उदाहरणे ) तावदेकरूपताप्रतीतिर्विवा्षितैव। यशोऽधिगन्तुमित्यादावपि (२४५ उदाहरणे) यशःप्रभुतेः फलत्वेनैकरूप्यमिष्टम्। महीभृत इत्यत्रापि (२४७ उदाहरणे ) अपत्यत्वेनैक्यं दृष्टान्तवशादिष्टम्। काचित्कीर्णेत्यत्रापि (२४९ उदाहरणे) अशुभसूचकत्वेनैकरूपत्वम्। तथा गाहन्तामित्यत्रापि (२५० उदाहरणे.) तत्तत्क्रियाकर्तृत्वमेकरूपे- णैव मृगयानिवृत्तिप्रयुक्तत्वेन वाच्यम्। एवम् अकलितेति पद्येऽपि (२५१ उदाहरणे ) यथासंख्यन्यायेन पूर्वोक्तक्रमैकरूप्यमित्यूह्यम्। तत्र गता यातेत्यादौ तुमुनादौ तादृशप्रतीतेः स्थगनं विलम्बितत्वम्। पुत्र- वतोऽपीत्यादौ तूपधातोऽत्यन्ताभाव इति यथानुभवं द्रष्टव्यम्) इति प्रभायां स्पष्टम्। उद्दयोतकारास्तु स्थगनमित्यत्र 'र्खलनम्' इति पाठं मन्यमाना: स्खलनं सर्वथैवाभावः उपघातश्रमत्कारापकर्ष इत्याहुः ॥ (२०) अक्रमपदं व्याचष्टे अविद्यमान इत्यादि। यत्रेति। यस्मिन्वाक्ये इत्यर्थः । 'तदक्मम्' इति शेषः । यत्पदानन्तरं यत्पदोपादानमुचितं ततोऽन्यत्र तदुपादानं यत्र तत् अक्रममित्यर्थः। यस्य यदव्यवहितपूर्वत्वनियमेन यदव्यवहितपरत्वनियमेन वा विवक्षितार्थानुभावकत्वं तस्य तत्परिहारेणान्यत्र स्थितत्वमक्रमत्वमिति भावः । एवं चायं दोषो निपातविषयः। यथा उपसर्गाणां धातोः पूर्वमेवे प्रयोग: एवेत्यादीनां व्यवच्छेद्यानन्तरम् पुनरादीनां व्यतिरेच्यादनन्तरम् इवादीनामुपमानादनन्तरम् एवं च १ निपाताश्र्व 'अद्रव्यार्थाश्र्वादयो निपातसंज्ञका भवन्ति' इत्यर्थकेन "चादयोऽसत्वे" (१४।५७) इति पाणिनि- सूत्रेण निपातसंज्ञका बोध्याः ॥ २ "ते प्राग्धातोः" (१४८० ) इति पाणिन्यनुशासनादिति भाव: ॥

Page 435

काव्यप्रकाश: सटीक:

दयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः। कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ॥२५२॥ अत्र त्वंशब्दानन्तरं चकारो युक्तः । यथा वा शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री- रवक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खङ्गयष्टिः। 'उद्धाहुरित्र वामनः' इत्यादावप्ययमेव दोषः चादीनां समुच्चेयादनन्तरमित्यादि बोध्यमित्युद्योते स्पष्टम् । पदसंनिवेशरूपरचनायाः प्रस्तुतार्थाप्रत्यायकत्वेऽक्रमत्वम् प्रत्यायकत्वेऽप्यनौचित्येऽस्थान- पदता अर्थक्रमस्थानौचित्ये तु दुष्क्रमत्वम् उपक्मेक्तक्रमस्योपसंहारे भङ्गे प्रक्रमभङ्ग इत्येतेषां भेद इति विवरणे स्पष्टम्।। यथेत्युदाहरति दयमिति । व्याख्यातमिदं पञ्चमोल्लासे (२३९ पृष्ठे) अस्मिन्नप्युल्लासे (३०८ पृष्ठे) इति बोध्यन् । अत्रेत्यादि। अत्र लोकस्य चेति चकारस्त्वंशब्दानन्तरं युक्त: त्वंशब्दार्थस्यैव शोच्यतायां समुच्चयस्य द्योतनीयत्वात् लोकपदार्थे समुच्चयाभावादिति भावः। एवं च त्वं च' इति पाठक्रमो युक्तस्तदभावादक्रमत्वम्।। "अथापदस्थपदादस्य को भेदः। तत्र प्रतीत्यन्तरमत्र सैव प्रतीतिः किं तु विलम्बितेति केचित् तन्न। 'कुटिलाताम्रच्छविः' इत्युदाहृते (३६० पृष्ठे ) अपदस्थपदे प्रतीत्यन्तराभावात्। वयं तु बूमः । अव्यवधानेनैव यत्राभिमतप्रतीतिजननसामर्थ्य तदेतस्य विषयः अन्यः पुनरितरस्य। चादीनां चाव्यव- हितपदार्थेष्वेव समुच्चयादिद्योतकता। यदुक्तं [व्यक्तिविवेके ] महिमभ्टेन 'अत एव व्यवहितैर्बुधा नेच्छन्ति चादिभिः। संबन्धं ते हि स्वां शक्तिमुपदध्युरनन्तरे॥' इति। न च नञ्रोऽ्यव्यवहितस्यैव तथात्वम्। अतः 'स्रजं न क चिद्विजहौ' ( ३५९ पृष्ठे ) इत्यादिकमप्यक्रमभेदः स्यादिति वाच्यम्। 'न खलु न खलु बाणः संनिपात्योऽयमस्मिन्' इत्यादौ व्यवधानेऽपि प्रतीतिविशेषाभावात्" इति प्रदीप: । (अव्यवधानेनैवेति । 'प्रयुक्ते' इति शेषः । स्वां शक्तिमिति। स्वार्थाभिधानसामर्थ्य- रूपामित्यर्थः। अनन्तरे अव्यवहितपदार्थे। उपदध्युः व्यवस्थापयेयुः तदन्वितस्यार्थबोधका इत्यर्थः । अव्यवहितस्येति । प्रतियोगिवाचकपदाव्यवहितस्येत्यर्थः [न खल्विति । शाकुन्तलनाटके प्रथमेडङ्के पद्मिदम] । प्रतीतिविशेषाभावादिति। प्रतीतौ विशषस्य विलम्बितत्वादिरूपस्या- भावादित्यर्थः ) इत्युद्योतप्रभयोः स्पष्टम् ॥ न चायं चादिपदेष्वेव दोषः कि त्वित्थमादिष्वपीत्याशयेनोदाहरणान्तरमाह यथा वेति। शक्ति रिति। यस्य राज्ञः शशिकरसितया चन्द्रकिरणबद्धवलया कीर्त्या प्रकोपात् इत्थम् अनेन प्रकारेण प्रोच्येव उक्त्वेव प्रयातं प्रकर्षेण गतं दूरं गतं पलायितमित्यर्थः । अत्र स्त्रीलिङ्गेन कीर्तो पत्नीत्वा- ध्यवसायो बोध्यः । एवं शक्त्यादेरप्यसन्नायिकात्वेनाध्यवसानम्। कथमुकत्वत्यपेक्षायामाह शक्तिरि- त्यादि। हे नाथ इयं प्रत्यक्षा निस्त्रिंशजा निर्गतास्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खद्ग: तज्जा तदुत्पन्ना त्रिंशद्द्यो निर्गता निस्त्रिंशाः त्रिंशदधिका: तज्जा तदुत्पन्ना च एवं च नानापितृजन्या वेश्यापुत्रीत्वा

१ रघुकाव्ये प्रथमे सर्गे पद्यमिदम्। वामन इव उद्बाहुरित्यन्वयः ॥ २ "निराद्यः कान्तायर्थे पञ्चम्या" इति वार्तिकेन तत्पुरुषसमासः "संख्यायास्तत्पुरुषस्य वाच्यः" इनि वार्तिकेन डचू। "बहुवीहौ संख्येये० " (५७३) इति पाणिनिसूत्रेण डजिति केचित् तन्न। बहुलीहित्वाभावाल ॥ 78

Page 436

सप्तम उल्लास: । ३७७

आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशकरसितया यस्य कीर्त्या प्रयातम् ॥२५३॥० अत्र 'इत्थं प्रोच्येव' इति न्याय्यम्। तथा 'लननं रागावृताङ्गया० ॥' २५३ क ॥ इत्यादौ 'इति श्रीनियोगात्' इति वाच्यम्।। (२१) अमतः प्रकृतविरुद्धः परार्थो यत्र। यथा राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी। द्वेश्येति फलितम्। यद्वा "निस्त्रिंशो निर्धृणे खड्गे" इति हेमचन्द्रकोशात् निस्त्रिंशः खलः तज्जा तदु- त्पन्नेत्यर्थः। एवं च खलजन्यायाः खलस्वभावत्वादसतीति फलितम्। एतादृशी शक्तिः सामर्थ्यमेव नायिका तव भुजयुगले बाहुयुग्मे न तु भुजे एव 'प्रतिवसति' इत्यग्रेतनेनान्वयः। तथा दोषाकरस्य चन्द्रस्य दोषाणामाकरस्य महामूर्खस्य चश्रीः शोभा यद्वा दोषाकरा दूषणाश्रया श्रीःशोभा तव वक्त्रे प्रतिवसति। तथा तव पार्श्वे प्रदेशे एषा प्रत्यक्षा महती चासौ कुद्टयति छिनत्तीति कुट्टनी 'कुट्ट छेदने' इति चौरादिकात् धातोल्युट् टित्वान्डीप छेदिका शम्भली च (परस्त्रीपुरुषादिसंघटनकर्त्री च) खङ्गयष्टिः प्रतिवसति। अनेनात्यन्तं परवनितासक्त इति व्यज्यते। तथा सर्वगा सर्वगामिनी सर्व- जनग्राह्येति यावत् सर्वोपभोग्या च कुलटा चेति यावत् ईदशी इयं ते तव आज्ञा ते तव पुरः पुरतः विलसति। 'प्रसरति' इति पाठे इतस्ततः संचरमाणा तिष्ठतीत्यर्थः । ईदृशस्य दुर्वृत्तस्य ते तव मया वृद्धया महत्या जरत्या च किम् कि प्रयोजनमितात्थमुक्त्वेति योज्यम् । "कुद्गनी शम्भली समे" इत्यमरः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥ अत्रेत्थमित्यादि। अत्र 'इत्थं प्रोच्येव' इति वक्तुं योग्यम् इत्थंशब्दस्याव्यवहितपूर्वपरामर्शकत्वात् पाद्त्रयस्यैव च परामर्शनीयत्वान्न तु वचनस्येत्यर्थः । एवं च तदन्यथाकरणादक्रमत्वमिति भावः ॥ एवं लग्नं 'रागावृताङ्गया' इति गर्भितस्योदाहरणत्वेन प्रदर्शितेऽपि (२४१ उदाहरणे) पद्ेSक्मत्वदोषं प्रकटयति तथेति। इति श्रीनियोगादिति । इति शब्दस्याप्यव्यवहितपूर्वपरामर्शकत्वादिति भावः । अत्र दूषकताबीजं चोद्देश्यप्रतीतिविरह इति नित्यदोषोऽयम्। उद्देश्यप्रतीतिविरहश्राकाङ्काविरहादास- त्तिविरहादपि वा बोध्यः। आद्यो यथा शक्तिरित्यत्र। अन्त्यो लग्नमित्यत्रेति प्रदीपोद्योतयोः स्पष्टम्॥ (२१) अमतपरार्थ व्याचष्ट अमत इत्यादि। अमतः प्रकृतविरुद्धः (प्राकरणिकरसविरुद्धरस- व्यञ्जकः) परार्थो द्वितीयार्थो यत्र (वाक्ये) यस्य (वाक्यस्य) वा तदित्यर्थः। तदुक्तं प्रदीपसार- बोधिन्यादिषु अमतत्वं च "ज्ञेयौ शृङ्गारबीभत्सौ तथा वीरभयानकौ। रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः ॥" इत्युक्तदिशा प्रकृतरसविरुद्धरसव्यञ्जकत्वमिति। अत्र परार्थो 'भद्रात्मन:०' इत्यादौ (६८ पृष्ठे) प्राकरणिकराजरूपादर्थात् द्वितीयोऽप्राकरणको गजरूपो व्यङ्ग्यार्थस्तद्वत् प्रकृतोदाहरणे प्राकरणिकताटकारूपादर्थात् द्वितीयोऽप्राकरणणिकोऽभिसारिकारूपो व्यङ्ग्यार्थ एव स तु विरुद्ध- रसव्यञ्जको न तु वाच्यार्थ इति प्रतिकूलविभावादिग्रहान्द्ेदः। विरुद्धमतिकृदादिभ्यो भेदस्तु प्राक् (२९२) पृष्ठे प्रतिपादित: ॥ उदाहरि रामेति। रघुवंशे एकादशे सर्गे श्रीरामेण हतायास्ताटकाया वर्णनमिदम्। दुःसहेन ४6

Page 437

३७८ काव्यप्रकाशः सटीक: ।

गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ॥२५४॥ अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्रकोऽपरोऽर्थः। अर्थदोषानाह (सू० ७६) अर्थोडपुंष्ट: कष्टो व्याहतपुनरुक्तदुष्क्रमग्रामयीः ॥।५५॥ संदिग्धो निर्हेतु: प्रेसिद्धिविद्याविरुद्धश्व। अनंवीकृतः सनिर्यमानियमविशेषाविशषपरिवृत्ताः ॥५६॥ सारकाड्ोऽपदयुक्तः सहचरभिन्नः प्रकाशितेविरुद्धः। विध्यनुवादायुक्तस्त्य केतपुनः-वीकृतोऽलीलः॥५७॥ दुष्ट इति संबध्यते । क्रमेणोदाहरणम्

असह्येन रामो मन्मथ इव पक्षे राम एव मन्मथो मदनस्तस्य शरेण बाणेन हृदये उरसि मनसि च- ताडिता अत एव गन्धवत् गन्धयुक्त रुधिरचन्दनं रुधिरमेव चन्दनं रक्तचन्दनं च तेन उक्षिता सिक्ता (कृताङ्गरागा) सा प्रस्तुता निशाचरी राक्षसी (ताटका) निशायां चरतीति निशाचरी अभि- सारिका च जीवितेशस्य यमस्य प्राणनाथस्य च वसति गृहं सुरतस्थानं च जगामेत्यर्थः। "जीवितेशौ यमप्रियौ" इति कोशः। गन्धवत्वं रक्तस्य रघुनाथशरसंबन्धेन पापक्षयात्पूतनाधूमवदिति बोध्यम्। रथोद्धता छन्दः। लक्षणमुक्तं प्राक् ११९ पृष्ठे॥

अत्र रूप्यमाणानामप्रकृतार्थानां प्रकृतबीभत्सरसविरोधिशृङ्गाररसव्यञ्जकत्वादमतपरार्थत्वं दोषः । तदेवाह अत्रेत्यादि । अत्र प्रकृतस्य बीभत्सरसस्य विरोधी शृङ्गारः तस्य व्यञ्जको द्वितीयोऽर्थः । तादृशार्थोपस्थित्या प्रकृतबीभत्सरसापकर्षकतास्य दोषत्वबीजम् अतो नित्योऽयं दोषः नीरसे स्वात्म- लाभस्यैवाभावादिति भाव:॥

एषु वाक्यदोषेषु न्यूनपदकथितपदाभवन्मतयोगाविमृष्टविधेयास्थानस्थपदाक्रमाः काव्याकाव्यसाधा- रणा । केचित्तु अनभिहितवाच्यस्य न्यूनपदेऽक्रमस्यापदस्थपदेऽन्तर्भावः शक्यः एवमर्थान्तरैकवाचक- संकीर्णगर्भितानामप्यपदस्थपदतैव अल्पान्तरेण दोषान्तरत्वेऽतिप्रसङ्गादित्याहुरीत प्रदीपोद््योतयोः स्पष्टम्।।

इत्थं शब्ददोषानभिधायेदानीं त्रयोविशतिमर्थदोषानाह अर्थदोषानाहेति। अथार्थदोषलक्षणा-

भावः। अत एवाहुः सारबोधिनीकारा: "संप्रति वाक्यार्थप्रतीतिपश्चाद्भावित्वेन वाक्यदोषानन्तरमर्थदोषा- नाह" इति। अर्थोऽपुष्ट इति। व्याहतश्र पुनरुक्तश्र दुष्क्रमश्र ग्राम्यश्रेति दोषचतुष्टयम्। प्रसिद्धि- विरुद्धो विद्याविरुद्धश्र्वेति दोषद्वयम्। सनियमपरिवृत्तोऽनियमपरिवृत्तो विशेषपरिवृत्तोSविशेषपरिवृत्त- श्र्वेति दोषचतुष्टयम् । विध्ययुक्तोऽनुवादायुक्तश्र्वति दोषद्वयम्। एतेषां स्वरूपं विशेषतस्तत्तदुदा- हरणावसरे स्फुटीभविष्यती। अत्रापि प्राग्वत् (२६६ पृष्ठे २४ पङ्कौ ) रूढियोगाभ्यामर्थद्वयोप- स्थितौ लक्षणवाक्यत्वोपस्थितिः । दुष्ट इतीति "दुष्टं पदम्" इति (२६६ पृष्ठे १ पङ्कौ) पद- दोषलक्षणसूत्रस्थं दुष्टमिति पदं लिङ्गविपरिणामेन संबध्यते इति भावः॥ १ द्वितीयोडर्थ इति। प्राकरणिकताटकारूपादर्थांद्द्वितीयोडपाकरणिकोड़भिसारिकारूपोड़र्थ इति भावः।

Page 438

सप्तम उल्लास: । ३७९

(१) अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः। मरुदुल्लासितसौरभक्मलाकर हासकृद्रविर्जयत॥२५५॥ अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थ न बाधन्त इत्यपुष्टाः न त्वसंगताः पुनरुक्ता वा॥ तत्रापुष्टः पुष्टाद्भिनः। पुष्टत्वं च विवक्षितार्थबाधप्रयोजकानुादानकत्वम्। तदविरह्र द्विधा अप्रेयोजकत्वात् प्रयोजकत्वेऽप्यन्यलभ्यत्वाच्च। यमेनं [ सरस्वतीकण्ठाभरणे प्रथमपरिच्छेदे ] "ठंयर्थ- माहुर्गतार्थ यत् यञ्च स्यान्निष्प्रयोजनम्" इति [ ४७ सूत्रेण ] भोजराजोऽपि व्यर्थमाह। अत एव वृत्तिकारोऽपि "अतिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थ न बाधन्ते" इत्येवाह न त्वप्रयोजका एवेतीति प्रदीे स्पष्टम्।। (१) अपुष्टमर्थमुदाहरति अतिविततेति । रविः जयति सर्वोत्कर्षेण वर्तते। कीदृशः अति- विततम् अत्यन्तदीरघ यत् गगनम् आकाशस्तद्रूपा या सरणिः मार्गस्तत्र प्रसरणे गमनागमने परि- मुक्तः परित्यक्तो विश्रामानन्दो विश्रान्तिजं सुखं येन तादृशः । तथा मरुद्िः पवनैः उल्लासितं प्रकाशितं प्रसारितं वा (दिश्षु संचारितं वा) सौरभं सौगन्ध्यं यस्य तथाभूतस्य कमलाकरस्य पद्मसमूहस्य हासकृत् विकासकर्तेत्यर्थः। "आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते" इति मेदिनी। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ॥ अत्रातिविततत्वसरणित्वमरुदुल्लासितसौरभत्वरूपाणामर्थानामनुपादानेऽपि प्रकृतार्थस्याक्षतेरपुष्टार्थ- त्वम्। तदेवाह अत्रातिविततेत्यादि। अत्रातिविततत्वादयोऽर्था अनुपादानेऽपि शब्द्ेनाप्रतिपादनेऽपि प्रतिपाय्यमानमर्थ विवक्षितमर्थ न बाधन्ते न क्षीणयन्तीत्यपुष्टा इत्यर्थः । अयं भावः। "अत्रातिवितते निरवलम्बे व्योम्नि अविश्रामं गमनागमनात् इतराप्रकाश्यकमलप्रकाशनाच्च रवेरुत्कर्षो विवक्षितः। तत्रातिविततत्वं गगनस्यार्थादेवावगम्यते अग्नेरिवौष्ण्यंम्। सरणित्वं मरुदुल्लासितसौरभत्वं चाप्रयोजकमे- वेत्यपुष्टा एतेऽर्थाः इति" इति प्रदीपे स्पष्टम्। "अत्रातिविततत्वं दार्घत्वं न तु विस्तृतत्वम् न हि बिस्ती- र्णपथसंचार: श्रमहेतुरिति बोध्यम्। निरवलम्बत्वोपादानं दृष्टान्तार्थम्। अत्रानन्दपदमप्यपुष्ठम्। एवं कमलाकरेत्यत्राकरपदमपि व्यर्थम्" इत्युश्योते स्पष्टम्। नन्विदमपुष्टार्थत्वमधिकपदत्वं पुनरुक्तत्वं वा स्यादित्यत आह नन्वित्यादि। असंगताः अधिकाः। प्रयोजनान्तराभावात्तदर्थाविवक्षायामपि तत्पदा- भिधानेऽधिकपदत्वम् स्वरूपकथनार्थ प्रस्तुतानुपयोगिनोऽप्यर्थस्य विवक्षायामपुष्टार्थत्वमित्यनयोर्भेदा- दिति भावः। अत्र सारबोधिनीकाराः "असंगता अधिकाः। तत्त्वं चान्वयाप्रतियोगित्वाद्भवति प्रकृते तद- भावात्। शब्दोपस्थिते पुनःशब्दानुपादानान्न पुनरुक्तिरित्यर्थः अर्थपुनरुक्तिश्रापुष्टार्थत्वमेवेति भाव:" इत्याहुः। "नन्विति। पराशयेनेदमुक्तम् रुद्रटो हीदमेव काव्यमसंगताख्यदोषतयोचे तं प्रत्युच्यतें। 'पुनरुक्ता वा' इति तु स्वेष्टदोषाशयेनोक्तम्" इति माणिक्यचन्द्रः । असंबद्धश्र तद्वांश्र्वेति रुद्रटोक्तौ द्वौ दोषावपुष्टादस्मादभिन्नावित्याशयेनाह न त्वसंगता इति" इति जयन्तभद्ठः ॥ व्याख्यातमिदं सविस्तरं प्रदपे "नन्वेतेऽत्यर्था अपुष्टा इति सिद्धम। परंतु अतिविततेति पुनरुक्तः। गगनपदादेव तदुपस्थितेः। मरुदुल्ासितसौरभेति विरुद्धम्। विकासात्पूर्व सौरभाभावेन तद्विशिष्टस्य १ पुष्टत्वं चेति। यस्यार्थस्यानुपादाने ( शव्द्रनाप्रतिपादने) विवक्षितार्थस्य बाधः (असिद्धिः ) तत्वं पुष्टत्व- मित्यर्थ इति प्रभायां स्पष्टम् ॥ २ प्रयोजनशून्य वांत् ॥ अन्यलभ्यत्वादिति। शब्देनानुक्तावष्यर्थगम्यस्वादित्यर्थः ॥ * उक्तापुष्टत्वनिर्वचनादेव।।

Page 439

३८० काव्यप्रकाश: सटीकः।

(२) सदा मध्ये यासामियममृतनिस्यन्दसुरसा मोE-(5) सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्।

सूर्येगाप्रकाश्यत्वादिति नायं पृथगिति चेन्न। गगनपदं न विततत्वे शक्तम्। अर्थलभ्यत्वे च न पुनरुक्तता। यदुक्तं भोजराजेन 'काव्येतिहासादावर्थवृत्त्या लञ्धस्य साक्षाद्भणनमपौनरुक्त्याय' इति। नापि विरुद्धम् सौरभस्योपलक्षणत्वात्। यद्ा चित्रहेतुपुरस्करण पूर्वभावाभिधानात्। अथाधिकपदा- दस्य को भेदः। अप्रयोजके प्रयोजनाभावकृतोऽपि भेदो न संभवति। अत्र कश्षिवित् 'तत्र पदार्थान्वयस- मकालं दुष्टत्वप्रतिभासः इहे तु तद्नन्तामिति विशेषः' इति तन्नातिसमीचीनम्। तथा नियमे प्रमाणा- भावात्। एतावता च विशेवेण शब्ददोषत्वमेकस्यापरस्यार्थदोषत्वमिति विभागानुपपत्तेश्र। विरुद्धमति- कृद्मतपरार्थादौ शब्द्दोषेऽन्वयप्रत्ययोत्तरमेव दुष्टत्वप्रतिभासात्। वयं तु पश्यामः। यत्र विवक्षित एवार्थोऽन्यथाभिधानेऽपि दुष्यति सोऽर्थदोषः अन्यस्तु रसदोषभिन्नः शब्ददोष इति विवेक:। तथा च यत्राविवक्षितोऽप्यर्थः कथचिदन्विततयाभिधीयते तत्राधिकपदत्वम् तत्पदेन विनापि तननिव्हिात्। यत्र तु सोऽर्यों विवक्षित एव परं त्वप्रयोजकत्वान्यलभ्यत्वाभ्यां न शब्देनोपात्तुमर्हस्तत्रापुष्टत्वम्। 'स्फटिकाकृति' इत्यत्र (२२१ उदाहरणे) नाकृतिपदार्थ उपमानत्वेन विवक्षितः तस्य नैर्मल्याभावात्। 'यदपि च न कृतं नितम्बिनीनाम्' इत्यत्रापि च (२२२ उदाहरणे) रतस्य स्तनपतनावधित्वव्यतिरेक एवानुचितत्वेन विवक्षितः न तु तत्कृतिव्यतिरेकः पूर्वारे तथैव कमात्। कि तु छन्दोनुरोधादिना द्वयमपि कथंचिदन्वितत्वेनोपात्तमित्यधिकपदत्वम्। अतिविततेत्यादौ तु अतिविततत्वादिकं वक्तुँविव- क्षितमेव परं त्वर्थलम्यत्वादिना नोपादानार्हमित्यपुष्टम्। व्यक्तं च पूर्वस्य शब्ददोषत्वमुत्तरस्य चार्थ- दोषत्वमिति। दूषकताबीजं चाशक्त्युन्नयनेन श्रोतुवैमुख्यम्। अत एव यमकादावदाषता तत्रालंका- रान्तरारम्भेणाशक्त्यनुन्नयनात्। कर्णावतंसादिपदे च विशेषयोतकतया तदुपादानं नाशक्त्यन्नायक- मित्यदुष्टत्वम् । अत एव विशेषणदानार्थ विशेष्यप्रयोगेऽपि दोषाभावः" इति॥ (२) 'कष्टः' प्रतीतिक्लेशवान् दुरूह इत्यर्थ: तमुदाहरति सदा मध्ये इति। स्वकाव्यस्य गम्भीर- चमत्कृतार्थशालितया स्फुटार्थत्वाभावेऽपि दोषाभावसमर्थनाय कस्यचित्कवेरुक्तिरियम्। महान्तः कवयो द्वादशादित्याश्र रुचयोऽभिप्रायाः प्रभाश्वव अमृतं सुधा जलं च रसः शुङ्गारादिर्माधुर्य च सरस्वती १ चित्रहेतविति। चित्रमत्र कार्यकारणयोः पौर्वापर्यविपर्ययलक्षणातिशयोक्तिरलंकारस्तद्वेत्वभिप्रायेण कार्यस्य पूर्वभावाभिधानादित्यर्थः॥ २ अप्रयोजके प्रयोजनशून्ये। प्रयोजनवत्यन्यलभ्ये हि न प्रयोजनाभावः । अधिक- पद्ं तुस इत्यस्तु मेद: न त्वपयोजके प्रयोजनाभावस्योभयत्र साम्यादिति भावः॥ ३ तत्र पदार्थेति। एवं च तत्र प्रतीनेरेवानुपपत्तिरिति भावः ॥ इह त्विति। अन्वयचोधोत्तरं तल्लम्यार्थस्यान्यलभ्यत्वानुसंधानोत्तरं तेषा- मनुपकारित्वग्रह इति प्रतीतावनुपपत्तिरित भावः ॥ ५ रसदोषभिन्न इति। तस्य शब्दवाच्यतेनान्यथाभिधान।- संभवादिति भावः ॥६ तस्थेति। अवयवसंयोगरुपस्या रुतिपदार्थस्येत्यर्थ: ॥ वक्तुविवक्षितमेवेति। अति- विततत्वं श्रमोत्कर्षीय मरुदुल्लासितसौरमत्वमतिशयोक्त्यलंकारबोधनाय सरणित्वं च विभिनादिवन्न कदाचिद्गमनं किं तु प्रतिदिनं निरुपनिगमनमित्यर्थलाभायोति भावः। अविवक्षितार्थकत्व इव विशेषानाधायकार्थबोधकेऽपि तद्वोषस्वीकारे किं बाधकमिति चिन्त्यम् ॥ ८ व्यक्तं चति। अविवक्षितार्थकत्वं हि शब्द्ृदोष इति व्यक्तमेव। विवक्षितार्थकत्वे तु न पदं दुष्ट कि त्वर्थ एवाप्रयोजकत्वान्यलभ्यत्वाभ्यां तथेत्यपि व्यक्तमिति भाव इति उद्योत- प्रभयो: स्पष्टम् ॥९ ते चोक्ताः "विवस्वानयमी पूर्षा त्वष्टाथ सेविता मैगः। धाता विधाता वेरुणो मित्र: शैक उरुकेमे ॥" इति। एते च कौर्मेव्युक्ताः "धातार्थमी च मित्रश्र वरुणश्चेन्द्रे एव च। विवस्वानथ पूँषा च पर्जन्यश्यांसुरेव च। भगर्त्वष्टी च विव्णुश्र् आदित्या द्वदश स्मृताः ॥" इति॥

Page 440

सप्तम उल्लास: । ३८१

प्रसादं ता एता घनपरिचिता: केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥ २५६॥ अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत् प्रतन्ना भवन्तु। यासामाित्य- प्रभाणां मध्ये त्रिपथगा वहति ताः मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥ वाणी नदी च उद्दामा प्रौढा महती च मार्गो रीतिः पन्थाश् परिमलं चमत्कारः सौगन्ध्यं च घनो निबिडो मेघश्र यद्ा घनो गम्भीरो मेवश्र परिचिता अभ्यस्ताः संबद्धाश्र प्रसाद: सुव्यक्तत्वं स्व्च्छता च। तथा च यासां कविरुचीनां कवेरेभिप्रायाणां (काव्यरूपाणां) मध्ये सदा अमृतनि- स्यन्दा सुधास्राविणी चासौ सुरसा सुष्ट रसाः शङ्गारादयो यत्र तादशी उदामा प्रौढा बहुमार्गा सुकुमा- रविचित्रमध्यमात्मकमार्गत्रयवती वैदर्भीगौडीपाश्चाल्याख्परीतित्रयवतीति यावत् एतादशी इयं सरस्वती वाणी (कवित्वरूपा भारती) परिमलं चमत्कारं वहति द्धाति ता एताः महतां कवीनां रुचयोऽ- भिप्रायाः ( काव्यरूपाः) घनपरिचिताः निबिडाम्यस्ता अत्यन्ताभ्यस्ता वा यद्ा गम्भीरकाव्याभ्यस्ताः स्फुरिता अनुभवारूढा: सत्यो मधुराः अभीष्टाः यद्वा स्फुरितः विषयीकृतः मधुरः शुङ्गारादिरसो याभिस्ताः महाकाव्यव्योम्नि व्योमसदशात्यन्तापरिच्छेये महाकाव्ये (काव्यमागे) केन प्रकारेण प्रसादं सुबोधत्वं (स्फुटतां) यान्तु गछन्तु कथमितरकाव्यवत् प्रसभा: (सुबोधाः) भवन्तु न कथमपीति भाव इति प्रकृतपक्षेऽर्थः ॥ अप्रकृतपक्षे तु यासाम् आदित्यप्रभाणां मध्ये सदा अमृतनिस्यन्दा जलस्राविणी चासौ सुरसा सुम- धुरा (सुष्टस्वादा) उद्दामा महती बहुमार्गा त्रिपथगामिनी इयं गङ्गाख्या सरस्वती नदी ("सरस्वती सरिद्वेदे भवाग्दवतयोरपि। स्त्रीरत्ने चापगायां च" इति विश्वः) परिमलं सुराङ्गनाङ्गसङ्गसंभवं सौग- न्ध्यम् यद्ा परिगतो मलो यस्यां क्रियायामिति व्युत्पत्त्या क्रियाविशेषणम् परिमलं स्वच्छं यथा स्यात्तथा वहति ताः एताः स्फुरितेन प्रकाशेण मधुरा मनोहराः यद्ा स्फुरितो दृष्टो मधुरो रम्यपदार्थों याभिस्तथाभूताः महतां द्वादशादित्यानां रुचयः प्रभाः महाकाव्यव्योभ्नि महाकाव्यसदृशव्योन्नि घन- परिचिताः मेघसंबद्धा: वर्षाकालीनाः सत्यः केन प्रकारेण प्रसादं स्वच्छतां यान्तु कथमितरशरदादि- कालिकप्रभावत् स्वच्छाः भवन्तु न कथमपीत्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ कठिनत्वात् पद्य व्याकर्तव्यमिति संक्षेपेण व्याचष्टे अत्र यासामित्यादिना 'इति संक्षेपार्थः' इत्यन्तन। प्रकृतपक्षे योऽर्थस्तमाह यासां कविरुचीनामित्यादि। सुकुमारविचित्रमध्यमात्मकत्रि- मार्गा वैदर्भीगौडीपाश्चाल्याख्यरीतित्रयवती। अप्रकृतपक्षे योऽर्थस्तमाह यासामादित्यप्रभाणा- मिति। अस्य 'यथा' इत्यादिः। एवं चात्रादित्यप्रभारूपो द्वितीयोऽर्थः उपमानम् तेन सह वाच्यार्थस्योपमा व्यङ्ग्या। इति संक्षेपार्थ इति। इत्यर्थो विवक्षित इति भावः। अत्र पद्येडयं हि विवाक्षितोऽर्थः शब्दान्तरैः करथंचिय्योजितोऽपि क्वेशेनैव प्रतीयते इत्यर्थ एवायं दुष्टः। क्विष्टत्वादिकं तु शब्ददोष: घटनान्तरेणार्थस्य सुखेनैव प्रतिपत्तेः। सम्यक्प्रतीतिविरहश्र दूषकताबीजम् अतो नित्योऽयं दोष इति प्रदापादौ स्पष्टम्।। (३) 'व्याहतः' "उत्कर्षों वापकर्षों वा प्राग्यस्यैव निगयते। तस्यैत्राथ तदन्यश्र्वेव्याहतोऽर्थस्तद।

Page 441

काव्यप्रकाशः सटीकः ।

(३) जगति जयिनस्ते ते भावा नवेन्दुकलादय: प्रकृतिमधुरा: सन्त्येवान्ये मनो मदयन्ति ये। मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येक: स एव महोत्सवः ॥२५७। अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याह तत्वम्।।

भवेत् ।।" इत्युपलक्षितविरुद्धत्ववानिति प्रदीपे स्पष्टम्। एवं च निन्दित्वा पुरस्कृत्य वा तदन्यथाक- रणं व्याहतत्वमिति द्विविधं व्याहतत्वं फलितम्। तत्राद्यमुदाहरति जगतीति। मालतीमाधवप्रकरणे प्रथमेऽङ्के माधवस्योक्तिरियम। ये नवेन्दुकलादयः आदिना चन्द्रिकापझ्मादिपरिग्रहः भावाः पदार्थाः सन्ति ते जगत्येव जयिनः उत्कृष्टाः न तु ममेति भावः। येऽप्यन्ये मनो मद्यन्ति हर्षयन्ति तेऽपि जगत्येव प्रकृतिमधुराः प्रकृत्या स्वभावेन मधुराः रमणीयाः । लोका एव तान् प्रकृतिमधुरत्वेन व्यव- हरन्तु न त्वहं व्यवहरिष्ये इति भावः। तर्हि तव किं तथा तदाह मम त्वित्यादि। ममतु लोके इयं मालत्येव विलोचनयोः नेत्रयोः चन्द्रिका आह्लादिका। सा च यत् नयनविषयं याता दृष्टि गोचरतां गता से एक एव जन्मनि महोत्सवो न त्वन्य इत्यर्थः । मद्यन्तीत्यत्र 'मदी हर्षे' इति दैवादिकाद्धातोर्हेतुमण्ण्यन्ताल्लट। हरिणी छन्दः। लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र पूर्वार्धे येन साधारणचन्द्रिकाचन्द्रकलादयः स्वं प्रत्यसारतया प्रतिपादिताः तेनैवोत्तरार्धे चन्द्रिकात्वमुत्कर्षायारोप्यत इति व्याघातः । तदेवाह अत्रेत्यादि। यं प्रति माधवं प्रति। पस्पश- आयाः तुच्छप्रायाः । स उव माधव एव। आरोपयतीति । मालत्यामिति भावः। व्याहतत्व- मिति। एवं च पूर्वमसारतयोक्तायाश्रन्द्रिकाया मालत्यामुत्कर्षायारोपो व्याहत इति भावः । न चात्रानुचितार्थता। तत्र पशुकुविन्दादिपदैः स्वार्थोपस्थितिदशायामेवोपश्लोक्यमानस्य तिरस्कारावगमः । अत्र तु चन्द्रिकायाः सहजतः उपादेयत्वात् वाक्यार्थप्रतिसंधानानन्तरं चन्द्रकलादयो यं प्रतत्याद्य- थंपर्याप्ताविति भेदात्। अत्राहुः कमलाकरभट्ठाः "अत्र हेयोपादेयत्वविरोधो दूषकताबीजम्" इति। प्रदीपकारास्तु वाक्यार्थाप्रतातिर्दूषकताबीजम् नित्योऽयं दोष इत्याहुः। अत्र वाक्यार्थमर्यादयैव तिर- स्कारोऽवगम्यत इत्यर्थदोषतैवेति चक्रवर्तिनः। शब्दस्य परिवृत्तिसहत्वादर्थदोषतैवेत्यपि बोध्यम्॥ द्वितीयं पुरस्कृत्य तदन्यथाकरणरूपं व्याहतत्वम्। तत्रोदाहरणं यथा 'देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम्। श्रुत्वा ते परिवार- बारवनितागीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव ॥' इति रत्नावल्यां नाटिकायां प्रथमेडङ्के पय्यम्। अत्र पूर्वार्धे मुखोपमानतया पङ्कजान्युत्कर्ष्य तेषामेवाग्रे विनिर्जितानीति तत्कृतापकर्षवर्णनाव्याहतत्वं बोध्यम्। प्रमत्तोन्मत्तबालकानामुक्तौ तु नाभवन्मतयोगादिदोषः तेषां संबन्धस्यानुद्देश्यत्वात् प्रत्युतोन्मादादिव्यअ्जकत्वाद्गुणतैवेत्युद्दयोते स्पष्टम्।।

(४) 'पुनरुक्तः' शब्देन प्रतिपन्नत्वे (अवगतत्वे) सति पुनस्तेनैव प्रतिपादितः । अर्थेन प्रतिपन्नस्य प्रतिपादनेSपुष्टत्वमुक्तम्। अयमाशयः । तेनैवेत्यस्य तद्वाचकेन पर्यायान्तरेणेत्यर्थः। तस्यैव पदस्यो- १ एवं चात्र मुखोत्कर्षाय पङ्टजश्वमारोष्य 'अब्जानि विनिर्जितानि' इत्यादिना निम्दनमिति भाव: ॥

Page 442

सप्तम उल्लास: । ३८३

(४) कृतमनुमतमित्यादि ॥२५८॥ अत्रार्जुनार्जुनेति भवद्भ्िरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः । यथा वा अस्त्रज्वालावलीढ प्रतिब लजलधेरन्तरौर्वाय माणे सेनानाथे स्थितेSस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्। कर्णालं संभ्रमेण व्रज कृप समरं मुश्च हार्दिक्य शङ्कां ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥२५९॥ पादाने तु कथितपदत्वमुक्तम् (३४२ पृष्ठे)। परिवृत्तिसहत्वादर्थदोषतास्येति । यत्तु केचित् पुनरु- क्तलक्षणे प्रयोजनं विनेत्यपि विशेषणं देयम् अत एव कर्णावतंसादिषु प्रयोजनं विनेत्यंशाभावान्न पौन- रुक्त्यमिति वदन्ति तदयुक्तम्। एवं सत्यस्यानित्यदोषत्वं न स्यात् प्रयोजनस्थले पुनरुक्तत्वस्यै- वाभावप्रसङ्गात्। स चायं द्विविधः पदार्थवाक्यार्थभेदादिति प्रदीपोद््योतयोः स्पष्टम्॥ तयोराद्यम् (पदार्थस्य पुनरुक्तम्) उदाहरति कृतमिति। "अरे रेऽर्जुनार्जुन सात्यके सात्यके न युक्त ईदृशो मत्तातस्य सुतशोकभ्रान्त्या न्यस्तशस्त्रस्य दिवमुपगच्छतः केशाकर्षणरूपः पराभवः । अपि च " इत्युपक्रम्य पितृवधामर्षितस्याश्वत्थाम्न उक्तिरियम। व्याख्यातमिदं पद्यं चतुर्थोल्लासे १०७ पृष्ठे। अत्रार्जुनार्जुनेति संबोध्य यैर्भवद्भिरित्यनेन परामृश्य तेषामित्यनेन परामर्शादर्जुनस्यापि प्राप्तेः सभीमकिरीटिनामिति किरीटिपदार्थः (अर्जुनपदार्थः) पुनरुक्तः। तदेवाह अन्रार्जुनेत्यादि। पुन- रुक्त इति। न च प्राधान्यप्रतिपत्तये पुनरुपादानमित्यदोषता संबोधनेनैव तल्लाभात्। न च तेषा- मिति तत्पदार्थेऽर्जुनेऽर्जुनसाहित्यानन्वयादभवन्मतयोगोऽप्यत्रेति वाच्यम् इष्टापत्तेः। किरीटिपदयोगा- र्थमादायापाततोऽन्वयसंभवाच्च । अत्र केचित् नात्र पद्येऽयं दोषः सभीमेत्यादौ उक्तानुक्तविस्मृति- द्वारा क्रोधातिशयव्यञ्जकत्वेन पौनरुक्त्यस्यानुगुणत्वात्। अत एवार्जुनसात्यक्योद्दयोरेव संबोधनेSपि भवद्भिरिि बहुवचनं संगच्छते। न चायं वीर: नरकरिपुणा सार्धमित्यायुक्तेः रौद्रपरिपोषकत्वादि- त्याहुः। ध्वनितश्रायमर्थ उत्तरश्लोके वरित्वकथनेन प्रदीपकृतेत्युद्द्योते स्पष्टम्।। द्वितीयं (वाक्यार्थस्य पुनरुक्तत्वम्) उदाहरति यथा वेति। अस्त्रज्वालेति। वेणीसंहारनाटके तृतीयेऽङ्केSश्वत्थाम्न उक्तिरियम् । अस्त्राण्येव ज्वाला वह्निशिखाः ताभि: अवलीढः व्याप्तो योऽसौ प्रति- बलं शत्रुसैन्यमेव्र जलधिः समुद्रस्तस्यान्तर्मध्ये और्वायमाणे वाडवाग्नितुल्ये सर्वधन्वीश्वराणां सकलधनु- र्धरश्रेष्ठानां गुरौ सेनानाथे दुर्योधनसेनापतौ अस्मिन् समीपवर्तिनि प्रसिद्धशौर्ये वा मम पितरि द्रोणा- चार्ये स्थिते विद्यमाने सति हे कर्ण संभ्रमेण पलायनवेगेन अलम् हे कृप कृपाचार्य समरं युद्धं व्रज गच्छ हे हार्दिक्य कृतवर्मन् (तन्नामकयादवविशेष) शङ्कां मुञ्च त्यज न किंचिद्द्यमस्तीति भावः। चापं धनुरेव द्वितीयं यस्य चापैकसहाये ताते पितरि (द्रोणाचार्ये) रणधुरं युद्ध्धभारं वहति सति भयस्य कोऽवकाशोवसर इत्यर्थः । अत्र सेनाया जलधित्वेन पितुरौर्वत्वेन रूपणाद्वध्यघातकभावः अस्त्रज्वालेत्यनेन प्रसिद्धवाडवापेक्षया व्यतिरेकश्र व्यज्यते प्रसिद्धो हि जलधेरेव भक्षकः अयं तु साग्ने- रपि भक्षक इति प्रतीतेः । मम पितरीत्यनेन यस्य पुत्र ईदृशः किं वक्तव्यं तस्य माहात्म्यमिति ध्वनितम्। सर्वधन्वीश्वराणां गुरौ इत्यनेन न कोऽपि हन्तेति ध्वनितम्। "संभ्रमः साध्वसेऽपि स्यात्सं वगादरयोरेपि" इति मेदिनी। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक १०९ पृष्ठे॥ि

Page 443

३८४ काव्यप्रकाशः सटीकः।

अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः॥ (५) भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव। RERET (S)'

विश्राणय तुरङ्गं मे मातङ्ग वा मदालसम् ॥ २६०॥ अत्र मातङ्गस्य प्राङ्निर्देशो युक्तः ।

अत्र चतुर्थेत्यादि। अत्र 'अलं संभ्रमेण' 'को भयस्यावकाशः' इत्यभिन्नार्थाविति चतुर्थपादार्थः पुनरुक्त इत्यर्थः । न च वक्तुः रौद्ररसाविष्टत्वं समाधानमाशङ्कनीयम् वीरस्यायुक्तकारित्वावर्णनात्। दूषकताबीजं च निष्प्रयोजनद्वितीयाभिधानेन श्रोतुर्वैमुख्यम्। अत एव प्रयोजनसत्त्वेनादोषत्वादनि- त्योऽयं दोषः । केचित्तु अर्थप्राप्तस्यापि वचने पुनरुक्तता । तदुदाहरणमस्त्रज्वालेत्यादि। अप्रयोजक- द्वितीयाभिधानमात्रस्थले त्वपुष्टार्थत्वमित्याहुरिति प्रदीपोद्दयोतयोः स्पष्टम्। (अत्रालमिति। तात इत्यादेस्त्वर्थलभ्यस्य कथनान् पौनरुक्त्यमित्याशयः। 'चतुर्थपादार्थः' इति वृत्तिग्रन्थो मतान्तराभिप्रा- येणेति ध्वनयितुमाह केचिच्विति। अस्त्रज्वालेत्यादिनार्थप्राप्तस्य तात इत्यादेर्वचनेऽपि पुनरुक्तत्वमेव। यत्र त्वप्रयोजन एवार्थोऽभिधीयते तत्रैवापुष्टत्वम् न तु सप्रयोजनस्यार्थप्राप्तस्याभिधाने इत्यर्थः । अत्र च प्रकाशविरोध एवारुचिबीजम् ) इति प्रभा। (५) 'दुष्क्रमः' दुष्टः अनुचितः कमो यत्रेत्यर्थः। दुष्टत्वं च कमस्य लोकशास्त्रविरुद्धत्वम्। अस्याक्रमा- द्वेदस्तु प्राक् (३७६ पृष्ठे ७८ पङ्क्त्योः) प्रदर्शितः । तत्राद्यमुदाहरति भूपालेति। राजानं प्रति कस्य- चिदर्थिन उक्तिरियम्। हे भूपालेषु रत्न श्रेष्ठ ।"रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । निर्गतं दैन्यं यस्मात् (अर्थादर्थिनां) तथाविधे प्रदाने प्रकृष्टदाने यद्वा निर्दैन्यम् अकार्पण्यं यथा भवति तथा प्रदाने प्रथितः ख्यातः उत्सवो यस्य तादृश हे राजन् त्वं मे मह्यं तुरङ्गम् अश्वं विश्राणय देहि। मदेनालसम् आलस्य- युक्तं मातङ्गं गजं वा 'विश्राणय' इत्यनुषङ्ग: । विपूर्वः 'श्रणु दाने' इति चौरादिको धातु:॥

अत्र "तुरङ्गं मातङ्गं वा' इति क्मो लोकविरुद्धः। तदेवाह अत्र मातङ्गस्येत्यादि। अत्र तुर- ङ्ग्भूयिष्ठ प्रति मातङ्गं देहि तुरङ्गं वेति लौकिकः क्रमः गुरुदानाशक्तौ लघुदानौचित्यात्। वक्तुश्र यथास्थित एव क्रमो विवाक्षित इत्यर्थदोष एवायमिति प्रदीपे: स्पष्टम् । अत्राहुः सारबोधिनीकाराः अत्रोते। मातङ्गस्य बहुमूल्यत्वेन तदलाभे तुरङ्गप्रार्थनौंचित्यादिति भावः। यत्र हस्तिनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यमिति।

उक्तरीत्या क्रमस्य शास्त्रविरुद्धत्वमप्यूह्यम्। यथा 'काराविऊण खउरं मामडलो मज्जिऊण जेमिअ अ। णक्खतं तिहिवारे जोइसिअं पुच्छिदुं चलिदो॥' इति।

"कारयित्वा क्षौरं ग्रामवृद्धो मङ्क्त्वा (स्नात्वा) भुक्त्वा च। नक्षत्रं तिथिवारौः ज्यौतिषिकं प्रष्टुं चलितः ॥" इति संस्कृतम्। 'काराविऊण' इत्यत्र 'कावारिऊण' इति क्वचित्पाठः । अत्र नक्षत्रादि- ज्ञानपूर्वकं क्षौरस्य शास्त्रेण (धर्मशास्त्रेण) विधानादयं क्रमः शास्त्रविरुद्धः (धर्मशास्त्रविरुद्धः)। दूषकताबीजं च विराधेना[ र्था ]प्रतीतिः सहृदयोद्वेगो वेति नित्य एवायं दोष इति प्रदीपादौ स्पष्टम्। १ 'ग्रामद्विजः' इति संस्कृतं केचिदाहुः ॥

Page 444

सप्तम उल्लास: । ३८५

(६) स्वपिति यावदयं निकटे जन: स्वपिमि तावदहं किमपैति ते। तदयि सांप्रतमाहर कूर्पर त्वरितमूरुमुदश्चय कुश्चितम् ॥। २६१॥ एषोSविदग्धः ।। (७) मात्सर्यमुत्सार्येत्यादि॥ २६२॥ अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः॥ सरस्वतीकण्ठाभरणे १ परिच्छेदे भोजराजेन तु "वाक्यं यत्तु क्रमभ्रष्टं तद्पक्रममुच्यते यथा 'कारा- दिऊण खउरम्०'। अत्र क्षुरकर्मणोऽनन्तरं नक्षत्रादिप्रश्नादिदमपक्रमम्" इत्युक्तम्॥ (६) 'ग्राम्यः' ग्रामसंभव: अविदग्धोक्तिप्रतिपादितो रिरंसादिः । तदुक्तम् "स ग्राम्योऽर्थो रिरंसादि: पामरैर्यत्र कथ्यते। वैदग्ध्यवत्र्िमबलं हित्वैव वनितादिषु ॥" इति। तमुदाहरति स्वपितीति। नवोढां प्रति रिरंसोरुक्तिरियम्। अयं जनः कश्वित् यावत् स्वपिति स्वापं करोति तावत् अहं निकटे त्वत्स- मीपे स्वपिमि लक्षणयारमामीत्यर्थः । ते तव किम् अपैति अपगच्छति हीयते इत्यर्थः न काचित्क्ष- तिरिति भावः । अयीति संबोधनम्। तत् तस्मात् सांप्रतम् इदानीं कूर्परः कफोणिः हस्तवर्ती अस्थिप्रधा- नोऽवयवविशेषः ("स्यात्कफोणिस्तु कूर्परः" इत्यमरः ) तम् आहर अपसारय। तथा कुश्चितं संकुचि- तम् ऊरुं सक्थि (जानूपरिभागं) त्वरितं शीघ्रम् उदश्वय प्रसारयेत्यर्थः । "सक्थि क्ृीबे पुमानूरुः" इत्यमरः । 'तदपि संहर कूर्परमायतम्' इति पाठे तत् तस्मात् आयतं स्परशरोधकं कूर्परं संहर कुश्चि- तम् ऊरुमपि त्वरितम् उदश्वय विकासयेत्यर्थः। चन्द्रिकाकारास्तु तत् तस्मात् कूर्परं जानुमपि सांप्रतम् उचिंत यथा स्यात्तथा आहर रचयेत्यर्थ इत्याहुः। यद्वा वेश्यां प्रत्युक्तिरियम्। अत एव 'तदाय सांप्र- तमाहर रूपकम्' इति पाठः प्राचीनपुस्तकेषु द्ृश्यते । अत एव च 'रूपकं दीनारादि सांप्रतम् आहर स्वीकुरु' इति व्याख्यातं सरस्वतीतीर्थेन। रूपमेव रूपकम् स्वार्थे कन् "रूपं श्लोके यशोनाटकादौ सौन्दर्यशब्दयोः। ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके मृगे" इति महीपकोशः। द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राक् ८३ पृष्ठे॥ अयमर्थो ग्राम्य इत्याह एष इति। नायक इत्यर्थः । अविदृग्ध: पामरः। एवं चात्र 'निकटे ताव- दहं स्वपिमि' इत्यविदग्धस्य रिरंसोक्तिः स्व्रपिमीत्यस्योपगमनार्थत्वादिति भावः। दूषकताबीजं चाश्लीलवत् सहृदयहृदयवैमुख्यम्। कि चैतादशोक्तिकवलितो विभावादिरूपोऽर्थो न रसाय पर्याप्यते भृष्टमिव बीजमङ्करायेति प्रदीपे स्पष्टम् । विदूषकोक्तौ न दोष: तस्य तथैवौचित्येन वैरस्याभावा- दित्यनित्योऽयम्। अत्रार्थस्यैव दोषः न शब्दस्य परिवृत्तिसहत्वादिति बोध्यम्॥ 'रिरंसादि:' इत्यादिशब्दग्राह्यस्योदाहरणं तु 'गोरपत्यं बलीवर्दो घासमत्ति मुखेन सः। मूत्रं मुश्चति शिश्नेन अपानेन तु गोमयम् ॥।' इति बोध्यम् ॥ (७) 'संदिग्धः' संदेहविषयः तत्प्रयोजकरूपवानिति यावत्। एवं च प्रकरणाद्यभावात्संदिह्य मा न् र्थः संदिग्ध इति फलितम्। तमुदाहरति मात्सर्यमिति। व्याख्यातमिदं पश्चमोल्लासे २४१ पृष्ठे॥ अत्रेत्यादि। अत्र भूधरनितम्बानां कामिनीनितम्बानां वा सेव्यत्वं व्यक्षनया प्रतिपिपादयिषितम् तत् विरुद्धद्वयोपस्थित्या द्वितीयेन संदिह्यते प्रकरणाद्यभावात्। यन्तु 'वक्तृविशेषसंदेहः' इति व्याख्यानं १ रिरंसा रन्तुमिच्छा ॥ २ रिरंसो: रन्तुमिच्छोः ॥ ३ रमणेच्छाकथनम् ॥ ٧٢

Page 445

३८६ काव्यप्रकाशः सटीकः।

(८) गृहीतं येनासी: परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्िन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥२६३॥ अत्र शस्त्रमोचने हेतुर्नोपात्तः।

सर्वमान्यानाम् तदुत्तानताविलसितम् वक्तुः पदवाक्यार्थत्वाभावेन तत्संदेहस्यार्थदोषत्वाभावात् किमु- पदद्या[ किमुतपदद्या ]नभिधेयत्वाच्च। अत एव वृत्तिकृता वक्तृविशेषनिश्र्यः (शान्तशृङ्गा- · रित्वान्यतरनिश्र्यः) संवेहाभावप्रयोजकत्वेनोक्तः तन्निश्र्वये एकतरनितम्बस्य सेव्यत्वनिर्णयेनासंदे- हात्। वन्यामित्यादौ (२८० पृष्ठे) द्वितीयासप्तम्यन्तत्वाभ्यां पदे एव संदेहः अत्र तु पदानामसंदिग्धत्वे सत्येव स इति पदसंदिग्धत्वाद्भेदः। दूषकताबीजं चोदेशयनिश्रयविरहः। यत्र तु संदेह एवोद्देश्यस्तत्रादोषत्वमेवेति भाव इति प्रदीपोद्द्येतयोः स्पष्टम्। शान्तेत्यादि। वक्तुः शान्तत्वे शृङ्गारित्वे वा निश्चिविते निश्रय एवेति भावः ॥ (८) 'निर्हेतुः' निष्क्रान्तो हेतुर्यस्मादित्यर्थः अनुपात्तहेतुकोऽर्थो निर्हेतुरिति यावत्। तमुदाहरति गृहीतमिति। वेणीसंहारनाटके तृतीयेऽक्के द्रोणाचार्ये हते शोकाविष्टस्याश्वत्थाम्रः स्वशस्त्रं प्रत्युक्तिरि- यम्। हे शस्त्र येन मत्पित्रा (द्रोणाचार्येण) नोचितमपि (ब्राह्मणस्य स्ववृत्तिविरोधात्) अनुचितमपि (नोचितमिति 'नैकधा' 'नारायणः' इत्यादिवत् नशब्देन सह "सह सुपा " (२।१।४) इति सूत्रेण समासः) त्वं परिभवभयात् क्षात्रकृतानादरभयात् गृहीतम् अङ्गीकृतम् आसीः। 'नोज्झितमपि' इति पाठे येन पित्रा त्वं गृहीतं स्ववृत्तिविरोधेऽपि स्वीकृतम् आसीः परिभवभयात् शस्त्रधारिभ्यस्तिरस्कारस्तद्भयात् नोज्झितं न कदाचित्त्यक्तमपीत्यन्वयः । यस्य द्रोणाचार्यस्य प्रभावात् सामर्थ्यात् तव खलु कश्वित् विषये। गोचर: (लक्ष्यः ) नाभूदिति न अपि तु सर्वोऽपि युयुत्सुविर्षयोऽभूदित्यर्थः ("द्वौ नञौ प्रकृतमर्थ सातिशयं गमयतः" इति न्यायात् ) तेन पित्रा त्वं सुतशोकात् सुतस्य मम मिथ्यामरणश्रवणजात् शोकात् परित्यक्तम् उज्झितम् असि न तु भयात्। अतो हेतोः अहमपि त्वां विमोक्ष्ये त्यक्ष्यामि। क्वेत्य- पेक्षायामाह यत इत्यादि। यतः यत्र भवते स्वस्ति विश्रामसुखं तत्रेत्यर्थः। यच्छोकात् तेन धनुस्त्यक्तं तच्छोकात् स्वस्यापि धनुस्त्याग उचित इति भावः । 'यतः' इत्यत्र "आद्यादिम्य उपसंख्यानम्" इति वार्तिकेन सार्वविभक्तिकस्तसिः। 'भवते' इत्यत्र "नमःस्वस्ति" इति सूत्रेण स्वस्तियोगे चतुर्थी। "स्वस्ति स्यान्मङ्गले पुण्येऽप्याशंसायामपि क्वचित्" इति मेदिनी। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ पुरा किल युद्धे अश्वत्थामनाम्नि गजे मृते 'अश्वत्थामा हतः' इति युधिष्ठिरेणोक्तमाकर्ण्य द्रोणाचार्यः पुत्रमरणभ्रान्त्या शोकात् स्वशस्त्रं त्यक्तवान् अथ च मारितो घृष्टयुम्नेन ततः पितृशोकादश्वत्थामापि स्वशस्त्रं मुमुक्षुरासीदिति महाभारतीयकथा अत्रानुसंधेया॥ अत्र यथा द्रोणाचार्यकर्तृकशस्त्रमोचने 'सुतशोकात्' इति हेतुरुक्तस्तथा अश्वत्थामकर्तृकशस्त्रमोचने 'पितृशोकात्' इति हेतुर्वक्तव्यः स च नोक्त इति निर्हेतुत्वम्। तदेवाह अत्र शस्त्रेत्यादि। स्वशस्त्रत्यागे हेतुर्नोपात्त इत्यर्थः । न च ततः पितृशस्त्रत्यागादहमपि विमोक्ष्ये इति अस्त्येव तदुपादानमिति १ उद्देश्यनिश्रयविरह इति। पश्चमोल्लासग्रन्थेनेदं विरुध्यते इत्युद्योतः ॥ २ तादृशस्थलं त्वये ३२० उदा- हरणानन्तरं 'पन्थिअ ण एत्थ' इत्यादिना टीकायां स्फुटीकरिष्यते ॥

Page 446

सप्तम उल्लास: । ३८७

(९) इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्न: कटकमिति धत्से खलु धियम्। इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥२६४॥ अत्र कामस्य चक्रं लोकेऽप्रसिद्धम्। यथा वा वाच्यम् तावन्मात्रस्याहेतुत्वात्। श्रमादिना पित्रा शस्त्रत्यागेऽपि वीरस्य तद्ग्रहणमेवोचितम्। न च शोकमूलकतदीयतत्त्यागो हेतुः पितृशोकनिवारणाय तद्दशायामपि तद्ग्रहणस्यौचित्यात्। तस्माग्रथा तेन सुतशोकात त्यक्तम एवमहं पितृशोकात् त्यक्ष्ये इति पितृशोक एव तद्धेतुः शोकाविष्टे चेतसि उत्साहस्याप्ररोहात्। स च नोपात्त इति भाव इत्युइ्चोते स्पष्टम्।। व्याख्यातमिदं प्रदृपपिप्रभयोः। "अत्र स्वशस्त्रत्यागे हेतुनोपात्तः । ननु तं बिना प्रतीतेः पर्यवसानं न वा। आद्ये दोषाभावः अन्त्ये साकाङगसंकर इति। अत्र केचित् 'उपात्तस्य परेणान्वये साकाङ्गत्वम् अनुपादाने निर्हेतुत्वमिति विशेषः' इति तन्न। साकाङ्गोदाहरणे (२७७ उदाहरणे ) उपेक्षितुमित्याका- ङ्वतीत्यनेनानुपात्तसाकाङ्कताया एव वृत्तौ प्रदर्शनात्। तस्माद्वेतुतद्भित्र सापेक्षतया दवयोर्भे इत्येव ज्यायः। यद्वा अत्राप्रतीतिमात्रम् तत्र तु विरुद्धा प्रतीतिः स्त्रीरत्ने एवामर्षप्रतीतिरिति विशेषः । दुष्टिबीज चोद्देश्यप्रतीतिविरहः । अत एव प्रसिद्धावनुपादानेऽपि न दोषः" इति प्रदीपः। (उपात्तस्येति। अयमर्थः। 'स्त्रीरत्नं च' इत्यादौ (२७७उदाहरणे) स्त्रीरत्ने Sमर्षस्यायोगात्परस्येत्येतत्साकाङ्गता स्त्रीरत्नस्य। तच्चोपात्तमपि उत्कर्ष चेत्यनेनान्वितत्वान्न स्त्रीरत्नेनान्वययोग्यमित्यतस्तत्र साकाङ्कत्वदोषः। अनुपात्तेन हेतुना साकाङ्गत्वे निर्हेतुत्वमिति। प्रसिद्धाविति। 'चन्द्रं गता पद्मगुणान्न भुझे' इत्यादौ (२९४ उदाहरणे) निशि पद्मसंकोचादिहेतुप्रसिद्धावित्यर्थः ) इति प्रभा ॥ (९) "प्रसिद्धिविद्याविरुद्ध" इत्यत्र प्रसिद्धिविद्यापदाभ्यां विरुद्धपदस्य प्रत्येकमन्वयः "द्वन्द्वान्ते श्रूयमाणं पदम्०" इति न्यायात्। तथा च प्रसिद्धिविरुद्धो विद्याविरुद्धश्र्वेति दोषद्वयम्। तत्र प्रसिद्धिवि- रुद्धो यत्रार्थे न प्रसिद्धि: स प्रसिद्धिविरुद्धः। स च द्विविधः लोकप्रसिद्धिविरुद्धो कविप्रसिद्धिवि- रुद्धश्रवेति। तत्राय्म् (लोकप्रसिद्धिविरुद्धमर्थम्) उदाहरति इदं ते इति। हे कमलातङ्कवदने कमला- नामातङ्को भयं यस्मात्तादशं वदनं यस्यास्तथाभूते। अनेन वदनस्य चन्द्रत्वं व्यङ्ग्यम्। यद्वा कम- लानामातङ्के भयं यस्मात्स चन्द्रः तद्दत् वदनं यस्यास्तथाभूते। हे चन्द्रमुखीति यावत्। ते तव इद केन प्रतारकेणोक्तं कथय। यत् एतस्मिन् वस्तुनि (करस्थिते कटकाकारे चक्रे) हेम्नः सुवर्णस्य कटकं कङ्कणमिति खलु धियं बुद्धिं धत्से धारयसि निश्रयं करोषीति यावत्। तर्हि किमिदं तत्राह इदमित्यादि। इदं प्रत्यक्षतो दृश्यमानं तत् प्रसिद्धं दुःखेन साधयितुं शक्याः दुःसाधाः दुराराध्याः (तरुणा: जितेन्द्रियाश्र) तेषाम् आक्रमणे वशीकरणे परमास्त्रभूतं स्मृतिभुवा कामेन प्रीत्या तव कर- कमलमूले प्रकोष्ठे विनिहितं स्थापितं चक्रमित्यर्थः। "रुक्तापशङ्कास्वातङ्कः" इत्यमरः। "चक्रः कोके पुमान् क्लीबं वजे सैन्यरथाङ्गयोः। राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः" इति मेदिनी। अपह्नुति- रत्रालंकारः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे ॥। अत्र कामस्य चक्रं लोके न प्रसिद्धमिति लोकप्रसिद्धिविरुद्वोऽर्थः। तदेवाह अत्रेत्यादि। अप्रसि द्वमिति। भगवतो विष्णोरेव चक्र प्रसिद्धम कामस्य तु पश्चशरत्वेनैव प्रसिद्धेः। तथा चाहामर: "कामः पञ्चशरः स्मरः" इति। अन्यदीयशस्त्रनिधानं त्वफलमिति भावः । अत्राहुश्क्रवर्त्यादयः "न

Page 447

३८८ काव्यप्रकाशः सटीकः ।

(९ अ) उपपरिसरं गोदावयाः परित्यजताध्वगा:

इह हि विहितो रक्ताशोक: कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्करकञ्चुक: ॥२६५॥ अत्र पादाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो न पुनरक्करोद्गमः।

च कामस्य चक्राभावादयोग्यत्वेन वाक्यदोषता चक्रनिधानकर्तृत्वमेव स्मरस्योपन्यस्तं नतु चक्रव- त्वम् येन बाधः अन्यदीयशस्त्रस्याप्यन्येन निधानसंभवात्। अन्यदीयास्त्रस्याप्यन्येन निधानमफल- मिति प्रतिसंधानस्य वाक्यार्थप्रतीत्यौत्तरकालिक त्वेनार्थदोषतैव" इति॥

(९अ) कविप्रसिद्धिविरुद्धम् (अर्थम्) उदाहरति यथा वेति। उपपरिसरमिति। अशोककलिका- दर्शनमूर्छितस्य कथंचिदृहमागच्छतः पथिकस्य तेनैव पथा व्रजतोऽन्यान् पथिकान् प्रत्युक्तिरियम्। भो: अध्वगाः पान्था यूयं गोदावर्याः परिसरः पर्यन्तभूमिः ("पर्यन्तभूः परिसरः" इत्यमरः) उपपरिसरं परिसरसमीपे (तटसमीपे) सरणिं मार्ग परित्यजत। इह प्रदेशे भवद्धिः तावत् यावदशोकोऽङ्गरितस्ता- वदित्यर्थः अपरो मार्गः ईक्ष्यतां दृश्यताम् अन्वेष्यतामिति यावत्। 'अवेक्ष्यताम्' इति क्रचित् पाठः । तत्र हेतुमाह इह हीत्यादि। हि यस्मात्कारणात् इह गोदावरीपरिसरे सरणौ वा हताशया हता पाप- जनकत्वेन निन्धा आशा पथिकमारणेच्छा यस्यास्तथाभूतया कयाचित् मत्ततरुण्या (कत्या) रक्ता. शोक: चरणनलिनन्यासेन पादपद्माघातेन (करणेन) उदश्वन्तः उद्गच्छन्तः (उदयं प्राप्नुवन्तो) नवाङ्करा एव (सर्वावयवव्यापनात्) कञ्चुकः कवचो यस्य तादृशो विहितः कृत इत्यर्थः । हता- शयोति परपीडकत्वाद्रोषोक्तिः । रक्तपदेन नवपल्लवता। आदौ नदीतीरम् तत्रापि रक्ताशोक: तत्रापि सपुष्प इत्युद्दीपनातिशयः। "मारिते कुत्सिते हतम्" इति कोशः। हरिणी छन्दः। लक्ष- णमुक्तं प्राक् १०८ पृष्ठे॥

अत्र वनितायाः पादाघातेनाशोकस्य पुष्पोद्गम एव कविप्रसिद्धो न त्वङ्करोद्रम इति कविप्रसि- द्विविरुद्धोऽर्थः । यद्यपि पुष्पोद्गमेन नवाङ्करोद्गमोऽपि स्यादेवेति न बाधस्तथापि तथा कविवर्णनावि- रहेण तद्विरुद्धः। तदेवाह अत्रेत्यादिना। पादाघातेन पादताडनेन। कविषु प्रसिद्ध इति। तडु- क्तम् "स्त्रीणां स्पर्शात्प्रियङ्गविकसि बकुलः सीधुगण्डूषसेकात् पादाघातादशोकस्तिलककुरबकौ वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात् पटुमधुसहनाच्च्पको व्च्चूीतारुर्िक- सति च पुरो नर्तनात्कर्णिकार:" इति। दूषकताबीजं च विरोधादर्थाप्रतीतिः। उत्पातादिना तत्प्र- तीतावदाषः इति प्राचीनटीकासु स्पष्टम् ।

सुधासागरे तु इत्थं व्याख्यातम् "अत्रेत्यादि। अयमाशयः। लोकप्रसिद्धिभ्रान्त्या प्रयुक्तं लोकाप्र- सिद्धं लोकप्रसिद्धिविरुद्धमित्युच्यते । कविसंप्रदायप्रसिद्धिभ्रान्त्याशोकाङ्करोद्गमः कविसंप्रदायाप्रसिद्धो वर्णित इति कविप्रसिद्धिविरुद्धोऽर्थः। लोकस्तु पुष्पाङ्करोद्गमयोई्योरप्यदर्शनात्तत्रोदासीन एवेति। एवं च यत्प्रदीपकारैरुक्तम् 'यत्तपपरिसरमिति कविसमयसिद्धोदाहरणम् तदयुक्तम् चरणन्यासेनाशोका-

१ 'पटुमृदुहसनात्' इत्यपि पाठ: ॥

Page 448

सप्रम उल्लास: । ३८९

(सुसितवसनालंकारायां कदाचन कौमुदी- (63) महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधु:। तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगहमगान्मुक्ताशङ्का क्व नासि शुभन्दः ॥२६६॥ अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न

दुष्टम् ॥) ङ्करस्य कवीनामप्यसंगतेः पुष्पोद्गम एव तेषां समयात्' इति तद्रिक्तं वचः । न हिश्रीवृत्तिकारैः कविप्रसि- द्वर्बलवत्त्वद र्शनायोपपरिसरमित्युदाहतम् किं तु कविप्रसिद्धिविरोधदर्शनायैव। न च पूर्वोदाहरणेन गता- र्थता शङ्क्या उदाहरणयोमेंदस्य प्रतिपादितत्वात् । कथमन्यथाग्रे सुसितवसनेत्युदाहरणं संगच्छेत। तस्मान्महोपाध्यायानाम् (प्रदीपकाराणाम्) ईर्ष्यामात्रमत्रावशिष्यते। न हि गीर्वाणगुरवोऽपि श्रीवागदेव- तावतारोक्तिम् (मम्मटोक्तिम) आक्षप्तं प्रभवन्ति कि पुनर्मानुवा मशकाः। सुष्ठक्तं खल देवनाथतर्कप- ञ्चाननैः 'य एष कुरुते मनो विपदि गौरवीणां गिरां स वामन इवाम्बरे हरिणलाञ्छनं वाञ्छति। लिलि- षति सिंहिकारमणकेसरं फेरुवत् पतङ्ग इव पावकं नृहरिमावकं धावति॥' इति" इति॥ लोकविरुद्धस्यापि कविप्रससिद्धत्वेन न विरुद्धत्वमिति दर्शयति सुसितति। राजानं प्रति कवेरुक्ति- रियम्। हे राजन् कदाचन एकदा कौमुदीमहसि ज्योत्स्नोदयोते यद्ा कौमदी ज्योत्स्ा महस्तेजो यस्य तस्मिन् चन्द्रे सति सुसितानि अत्यन्तधवलानि वसनानि वस्त्राणि अलंकारा आभरणानि च यस्यास्तथा- भूतायां सुद्ाशी मृगनयनायां (नायिकायां) स्वैरं यान्त्याम् अभिसरन्त्यां सत्यां विधुश्न्द्रः अस्तं गतोऽभ्त्। तदनु तदनन्तरं केनापि केनचित्पुरुषेण भवतः तव कीर्तिः अगीयत गीता येन कीर्तिगानेन हेतुना (कौमुदीवदेव प्रकाशे जाते) साभिसारिका मुक्ता त्यक्ता आशङ्क श्वतवस्त्राभरणैलीकदृश्यत्व- भयं यया तथाभूता सती 'मुक्ताशङ्कम्' इति पाठे निःशङ्कं यथा स्थात्तथा प्रियगृहं कान्तवसतिम् अ- गात् गतवता अतस्त्वं क्व कस्मिन् वेशेऽवसरे वा शुभप्रदो नासि न भवसि अपि तु सर्वत्र सुखप्रदोS- सीत्यर्थः। अर्थान्तरन्यासोऽत्रालंकारः। हरिणी छन्दः।लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र कीर्तेर्धवलतागुणाश्रयत्वरूपं मूर्तत्वं ज्योत्स्नावत्प्रकाशकता च लोकविरुद्धे अपि कविसमयसिद्धे इत्यदोषः । तदेवाह अत्रामूर्तापीत्यादि। कविप्रसिद्वेरिति। यत्र लोकस्य कवेश्र प्रसिद्ध्योविरोधस्तत्र कविप्रसिद्धेर्बलवत्त्वम्। तस्य काव्ये प्रधानत्वािति भावः। न दुष्टमिति। एवमकीरत्यदिर्मालिन्यादौ द्रष्टव्यम्। एवं च लोकविरुद्धस्यापि कविसमयप्रसिद्धिविरोध एव दोषः ॥ कविसमयश्र्ालंकारशेखरे केशवमिश्रेण दर्शितः। तथाहि। "असतोऽपि निबन्धेन सतामप्यनिब- न्धनात्। नियमस्य पुरस्कारात्संप्रदायस्त्रिधा कवेः॥" असतोऽपीति। वस्तुगत्या यन्न भवति तदपि कवि- भिनिबध्यते [इत्यर्थः ]।यथा "रत्नानि यत्र तत्राद्रौ हंसायल्पजलाशये। जलेभावं नभोनग्याम् अम्भो- जादं नदीष्वपि। तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिमेद्यता। शुकत्वं कीर्तिपुण्यादौ कार्ष्ण्य चाकत्य- घादिष। प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः। ज्योत्स्नापानं चकोराणां प्रवालं सर्ववारिषु। केस- राशोकयोः सत्स्रीगण्डषात्पादघाततः। मासान्तरेऽपि पुष्पाणि रोमालिस्त्रिवलिः स्त्रियाम्"। सतामपीति। पारमार्थिकमपपि न निबध्यते [इत्यर्थः ]यथा "वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने। कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तता। नारीणां श्यामता पातस्तनयोर्यच्चे वा हिये ॥"। नियमस्येति। B .. १ यश्ेति वा पाठः ॥

Page 449

काव्यप्रकाशः सटीकः ।

(१०) सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः। नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च।२६७। ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम्।

यथा "हिमवत्येव भूर्जत्वक चन्दनं मलये परम् । हेमन्तशिशिरौ त्यक्त्वा सर्वदा कमलस्थितिः । सामान्यग्रहणे शौकयं पुष्पाम्भश्छत्रवाससाम्। ध्वजचामरहंसानां हारस्य बकभस्मनोः । कृष्णत्वं शैलवृक्षादिमेघवारिधिवीरुधाम। भिल्लकाचासुराणां च धूपपङ्कशिरोरुहाम्। लौहित्यं धातुमाणिक्य- •जपारत्नविबस्वताम्। पद्मपल्लवबन्धूकदाडिमीकरजादिषु । पीतत्वं शालिमण्डूकवल्कलेषु परागके। र्षास्वेव शिखिप्रौढिर्मधावेव पिकध्वनिः ।" इति। अधिकं तु तत्रैवालंकारशेखरे पञ्चदशे मरीचौ विश्वनाथकृतसाहित्यदर्पणे सप्तमे परिच्छेदे च द्रष्टव्यम्॥

(१०) 'विद्याविरुद्धः' इत्यत्र विद्याशब्देन शास्त्रमुच्यते तथा च विद्याविरुद्धः शास्त्रेण विरुद्धत्ववा- नित्यर्थः । स चायं शास्त्रभेदान्भियते। तत्र धर्मशास्त्रविरुद्मुदाहरति सदा स्नात्वेति। बुधः पण्डितः सदा प्रतिदिनं निशीथिन्यां रात्रौ ("निशा निशीथिनी रात्रिः" इत्यमरः) स्नात्वा सकलं संपूर्ण वासरं दिवसं दिनमभिव्याप्योति यावत् नानाविधानि अनेकप्रकारकाणि शास्त्राणि दर्शनानि व्याचष्टे व्याकरो- ति शृणोति चेत्यन्वयः । वासरमिति "कालाध्वनोरत्यन्तसंयोगे" (२३५) इति सूत्रेण द्वितीया। अत्रोद्योतकाराः 'निशीथिन्याम् अर्धरात्रे' इति व्याचख्युः। तच्च युक्तमेव। तथाहि। तत्रार्धरात्रशब्दो रात्रेर्मध्ययामद्दयपर: तत्रैव स्नाननिषेधात्। यथा च ऋगाह्निकपद्धतौ भट्ठोजीदीक्षितकृतायां व्यासस्मृतिः "महानिशा तु विज्ञेया मध्ययामदयं निशि। तत्र स्नानं न कुर्वीत काम्यनैमित्तिकाते ॥" इति । एवं च रात्रिस्राननिषेधकेषु सर्वेषु वचनेषु रात्रिशब्दो मध्ययामद्यपर एवेति।। अत्र निमितं विना रात्रौ स्नानं धर्मशास्त्रेण प्रतिषिद्धमिति तद्विरुद्धाऽयमर्थः। तरवाह ग्रहोपरागादि- कमिति। व्रजाशनिवत्समुदितप्रयोगः। आदिपदेन निमित्तमात्रसंग्रहः। तदुक्तं स्पृतिशास्त्रें "राहुद- र्शनसंक्रान्तिविवाहात्ययवृद्धिषु। स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च ॥" इति। धर्मशास्त्रेणेति। धर्मशास्त्रं स्मृतिरिति प्राक् (१२ पृष्ठे) दर्शितम्। विरुद्धमिति। तदुक्तम् "रात्रौ स्नानं न कुर्वीत राहोरन्यत्र दर्शनात्" इति। शातातपोऽप्याह 'स्नानं दानं तथा श्राद्धमनन्तं राहुदर्शने। आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्जयेत् ॥।" इति। उदाहरणान्तरं तु सरस्वतीकण्ठाभरणे उक्तम्। तथ्था 'असावनुपनीतोऽपि वेदानधिजगे गुरोः । स्वभावशुद्धस्फठिको न संस्कारमपेक्षते ॥' इति। अन्नानु- पनीतस्य वेदाध्ययनानधिकाराद्द्वर्मशास्त्रविरोधः॥

विद्याविरुद्ध इत्यत्र विद्येत्युपलक्षणम् 'सविषाणस्तुरङ्गमः' इत्यादौ प्रत्यक्षादिविरुद्धस्येति बोध्यमि- त्युइचोते स्पष्टम्। अत एवाहुः सरस्वतीकण्ठाभरणे १ परिच्छेदे भोजराजाः। देशविरोधो यथा 'सुरा- श्रष्वस्ति नगरी मथुरा नाम विश्नता। आक्षोटनारिकेराढ्या यदुपान्ताद्रिभूमयः ॥' अत्र सुराघ्ट्रषु मथुरा नाम नास्ति तत्पर्यन्ताद्रिभूमिषु चाक्षोटनारिकेराणामभावात् "देशोऽद्रिवनराष्ट्रादिः" इत्ययं देशकृतः : प्रत्यक्षविरोधः ॥' कालविरोधो यथा 'पद्मिनी नक्तमुन्निद्रा स्फुटत्यह्नि कुमुद्दती। मधुरुत्फुल्लनिचुलो निदाघो मेघनिस्वनः ॥ मधुर्वसन्तः । निचलो जलवेतसः। निदाघो ग्रीष्मकालः। अत्र प्मिन्या नक्तं , कुमुद्त्या अह्नि मधौ निचुलानामुनिद्रत्वाद्यभावात् निदाघस्य चामेधदुर्दिनत्वात् " कालो नक्तं दिनर्तवः" इति कालकृतोऽयं प्रत्यक्षविरोधः ॥ लोकविरोधो यथा "आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तु-

Page 450

सप्तम उल्लास:। ३९१

(१० अ) अनन्यसद्दशं यस्य बलं बाह्ो: समीक्ष्यते। l०9 षाङ्गण्यानुसृतिस्तस्य सत्यं सा निष्पयोजना ॥ २६८॥ एतत् अर्थशास्त्रेण। (१० आ) विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना। बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥ २६९॥ अत्र केयूरपदे नखक्षतं न विहितमिति एतत्कामशास्त्रण। रङ्गम: । गुरुसारोऽयमेरण्डो निःसार: खदिरद्रुमः ॥' अत्र हस्तिहयैरण्डखदिराणां केसरादिसद्भावस्य प्रत्यक्षेणानुपलम्भात् "जङ्गमः स्थावरो लोकः" इति लोककृतोऽयं प्रत्यक्षविरोधः ॥ प्रतिज्ञाविरुद्धं यथा 'यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता। माता च मम वन्ध्यासीत् स्मराभोऽनुपमो भवान् ॥' अत्र स्वयं वक्तुरव 'यावज्जीवमहं मौनी' इत्यादिपदानामुक्त्या प्रतिविरोधात् प्रतिज्ञाविरुद्ध- मिद्मिति। एवम् 'एष वन्ध्यासुतो याति खपुष्पकृतशेखरः। मृगतृष्णाम्भसि स्नातः शशशृङ्ग- धनुर्घरः ॥' इत्यादावपि यथायोग्यं विरोधो द्रष्टव्यः ॥ (१० अ) अर्थशास्त्र(नीतिशास्त्र) विरुद्धमुदाहरति अन्येनेति। यस्य पुरुषस्य बाह्नो: भुजयोर्बलं सामं- थ्यम् अनन्यसदशम् अनुपमं समीक्ष्यते विलोक्यते तस्य सा प्रसिद्धा षाङ्गण्यानुसृतिः संधिविग्रहयाना- सनद्वैधसंश्रयाः षङ्गणा: त एव षाङ्गण्यम्। चतुर्वर्णादित्वात् स्वार्थे ष्यञ्र। तस्यानुसृतिः अनुसरणं निष्प्रयोजनेति सत्यमित्यर्थः । "संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षङ्गणाः" इत्यमरः ॥ अयमर्थो नीतिशास्त्रविरुद्धः समर्थ प्रत्यपि षाङ्गण्योपदेशात् तदेवाह एतदिति। अर्थशास्त्रे- णेति। नीतिशास्त्रेणेत्यर्थः । 'विरुद्धम्' इति शेषः। महाबलस्यापि संध्यादिषाङ्गण्यानुसरणमर्थशास्त्रेण विहितमिति तद्विरोध इति भावः। अर्थशास्त्रं च गर्गभार्गवादिप्रणीतमिति प्राक् (१२ पृष्ठे) प्रतिपा- दितम्। उदाहरणान्तरं तु सरतवतीकण्ठाभरणे उक्तम्। तद्था 'कामोपभोगसाकल्यफलो राज्ञां महीजयः । अहंकारेण जीयन्ते द्विषन्तः कि नयश्रिया ॥' इति । अत्र महीजयस्य फलत्वेन कामो- पभोगानामर्थशास्त्रकारैरननुमतत्वात् शत्रुजये चाहंकारस्याहेतुत्वादर्थशास्त्रविरोधः॥ (१० आ) कामशास्त्रविरुद्धमुदाहरति विधायेति। अनङ्गाङ्गणं कन्दर्पविलासस्थानरूपा अङ्गना काचित् वनिता केयूरं बाहुभूषणं दूरे विधाय दूरीकृत्य कान्तेन भर्त्रा कृतां करजानां नखानामुल्लेखाः क्षतानि तेषां मालिकां पक्किं बभार दधावित्यर्थः। अनङ्गाङ्गणमित्यनेन रमणीयतातिशयः। अनङ्गाङ्गणमिति केयूरविशेषणमिति केचित्। 'अनङ्गाङ्गदम्' इति पाठेऽनङ्गाय मदनायाङ्गप्रदमि- त्यर्थ: तदा केयूरविशेषणमेवेति बोध्यम्।। अत्र केयूरस्थाने नखक्षतवर्णनं कामशास्त्रविरुद्धम। तदेवाह अत्रेत्यादि। केयूरपदे बाहुभूषणस्थाने। न विहितम् न बोधितम् न योग्यम्। एतत् केयूरपदे नखक्षतवर्णनम्। कामशास्त्रेणेति। वात्स्या- यनमुन्यादिप्रणीतेनेत्यर्थः । 'विरुद्धम्' इति शेषः । "स्तने नखक्षतं प्रोक्तं जघनेऽपि क्वचिद्भवेत्" इति कामशास्त्रेण विधानादर्थतः शेषेषु प्रतिषेधादिति भाव इति सुधासागरः। "नखक्षतस्य स्थानानि कक्षौ वक्षस्तथा गलः। पार्श्वौ जघनमूरू च स्तनगण्डललाटिकाः॥" इति वात्स्यायनोक्तस्थानभिन्नत्वात्कामशा- स्त्रविरुद्धमिति चन्द्रिका । नखस्थानानि तु "कक्षाकरोरुजघनस्तनपृष्ठपार्श्वहृत्कन्धरासु नखराः खर-

Page 451

३९२ काव्यप्रकाशः सटीकः।

(१० इ) अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविध विदधद्विदूरे।( ०)) आसादयन्नभिमतामधुना विवेकख्यातिं समाधिधनमौलिमणिर्विमुक्तः ॥२७०॥ अत्र विवेकख्यातिस्ततः संप्रज्ञातसमाधिः पश्चादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ एतत् योगशास्त्रेण। एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम्।। वेगयो: स्युः" इत्युक्तानीत्युद्चोतः । एतेन "कण्ठकुक्षिकुचपार्श्वभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः इति रतिरहस्योक्तं भुजयोर्नखास्पदत्वमपास्तम् प्रकाशविरुद्धत्वादुक्तबहुग्रन्थविरुद्धत्वाच्चेति दिक्॥ उदाहरणान्तरं तु सरस्वतीकण्ठाभरणे। तद्यथा 'तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्के विराजते। पूर्णसप्त- स्वरः सोऽयं भिन्नग्राम: प्रवर्तते ॥' इति अत्रोत्तरोष्ठे दशनाङ्कस्य कामशास्त्रकारैरननुज्ञानात्कामशास्त्र- विरोधः। भिन्नग्रामाणां च पूर्णसप्तस्वरत्वानुपपत्तेः कलाशास्त्रविरोधोऽपि तदङ्गत्वात्कामशास्त्रविरोध एव।।

(१० इ) योगशास्त्रविरुद्धमुदाहरति अष्टाङ्रेति । समाधिश्च्वित्तवृत्तिनिरोध: स एव धनं येषां ते सभा- धिधनाः योगिनस्तेषां मौलिमणिः शिरोमणिः प्रसिद्धो योगी "यमश्र नियमश्र्वैवमासनं प्राणसंयमः । प्रत्याहारो धारणा च ध्यानं चैव समाधियुक्। एतानि कथतान्यष्टौ योगाङ्गानि मनीषिभिः" इति पठिताः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टौ अङ्गानि यस्य तथाभूतस्य योगस्य परि- शीलनं मुहुर्मुहुराचरणं तेन यत्कीलनम् अभ्यासदार्ढ्य तेन दुःसाधा दुष्प्रापा या सिद्धिर्मुक्ति: तस्याः स- विधं समीपवर्तनम् असंप्रज्ञातलक्षणं पुरुषमात्रविश्रान्तमनोवृत्तिरूपं योगं दूरे विद्धत् दूरीकुर्वन् तमन- पेक्ष्यैवेति यावत् अभिमताम् अभीष्टां विवेकख्याति प्रकृतिपुरुषयोर्भिन्नत्वज्ञानरूपाम् आसादयन् प्रामवन् अधुना सांप्रतं विमुक्तो मुक्तिं गत इत्यर्थः । "दुःसाधा सिद्धयो 'अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥' इत्युक्ता अणिमादयस्तासां सविधं सांनिध्यं दूरे विद्धत् वर्जयन्नित्यर्थः" इति केचित्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृषठे॥

अत्र मुक्तिसमीपस्थमसंप्रज्ञातयोगमनपेक्ष्यैव मोक्षो योगशास्त्रेण विरुद्धः। तथाहि। प्रथमं विवेक- ख्यातिः प्रकृतिपुरुषयोर्भिन्नत्वज्ञानरूपा ततो वितर्कविचाराद्यनुसारिरूपः संप्रज्ञातयोगः पश्रात्पुरुषमा- त्रावलम्बनस्वरूपोSसंप्रज्ञातयोगः ततो मुक्तिः न तु विवेकख्यातिमात्रत एवेति हि योगशास्त्रं तद्विरु- द्वोरऽर्थ इति। तदेवाह अत्रेत्यादि। संप्रज्ञातसमाधिः सविकल्पकसमाधिः यत्रात्मा विषयान्तरं च भासते आत्ममात्रं वा। असंप्रज्ञातः असंप्रज्ञातसमाधिः सर्ववृत्तिनिरोधरूपः तत्र हि स्वरूपमात्रेऽवस्था- नम्। न तु विवेकख्याताविति। मुक्तिरित्यनुषङ्गः। योगशास्त्रेणेति । विरुद्धमिति शेष: । एवं विद्यान्तरैरिति । गजतुरगखङ्गादिलक्षणशास्त्रैरपि विरुद्धमेवंरीत्या स्वयमूहनीयम ग्रन्थविस्तरभिया

१ 'अध्यन्ययोनवरते कलहे च शान्ते पुष्पोद्गमे प्रवसने विरहे च याज्याः' इत्युत्तरार्धम् ॥ २ यमनियमौ प्राक (३०२ पृष्ठे) टिप्पणे प्रदर्शितौ। स्थिरसुखमासनम् पद्मस्वस्निकादिना यादृशेन देहस्थापनेन यस्य पुरुषस्या- वयवव्यथानुत्पत्तिलक्ष गसुखं देहचलनराहित्यलक्षणं स्थैर्य च संपद्यते तस्य तदेव मुख्यमासनम्। श्वासनिश्वासयो- ्गतिविच्छेदः प्राणायामः । श्रोत्रत्वकचक्षुर्जिह्ाघाणानां पश्चानामिन्द्रियाणां मनःषष्ठानां स्वस्वविषयेभ्यः शब्दम्पर्श- रूपरसगन्धादिभ्यो निवर्तनम् (आत्मरश्मित्वेन चिन्तनं) प्रत्याहागः। आधारनाभिचक्रहृदयभ्रमध्यब्रह्मरन्ध्रादि- देशविशेषे चित्तम्थापनं धारणा। प्रत्ययस्यैकतानता ध्यानम् तत्तु एकविषयप्रवाहः। समाधिः संप्रज्ञातसमाधिः तल्क्षणं तु "बह्माकारमनोवृत्तिप्रवाहोऽहंरुतिं विना। संप्रज्ञातसमाधिः स्यात् ध्यानाभ्यासप्रकर्षतः ॥" इत्युक्त- मिति विद्यारण्यकते जीवन्मुक्तिविवेके स्पष्टम् ।

Page 452

सप्तम उल्लास: 1 ३९३

(११ ) प्राप्ता: श्रियः सकलकामदुघास्ततः किं दत्तं पद शिरास विद्विषतां ततः किम्। संतर्पिताः प्रणयिनो विभवैस्ततः किंकल्पं स्थितं तनुभृतां तनुभिस्ततः किम्॥२७१॥ अत्र ततः किमिति न नवीकृतम्। (तत्तु यथा यदि दहत्यनलाऽत्र किमद्भतं यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधे: प्रकृतिरेव सतामविषादिता ॥ २७२॥) नोदाहतमिति भावः। अत्राभिमतप्रतीतिविरहो दूषकताबीजम्। विरुद्धार्थप्रतीत्या सहृदयहृदयवै- रस्यं दुष्टिबीजमित्यन्ये इति प्रदीपोइ्योतादिषु स्पष्टम्।। (११) 'अनवीकृत:' भङ्ग्यन्तरेण प्रकारान्तरेण यन्नवत्वं तन्न प्रापितः एकभङ्गि निर्दिष्टोऽनेकार्थ इत्यर्थः । तमुदाहरति प्राप्ता इति। वैराग्यशतके शान्तस्य भर्तृहरेरुक्तिरियम् । सकलकामदुघाः सकलकामदाः श्रियः संपदः प्राप्ताः ततः किम् तत्त्वज्ञानं बिना सर्वमकिंचित्करमिति भावः। एवम- ग्रेऽपि बोध्यम्। विद्विषतां शत्रूणां शिरसि पदं चरणं दत्तं न्यस्तम् तेषामाक्रमणं कृतमिति यावत्। प्रणयिनो मित्रादयाः विभवैः समृद्धिभिः संतर्पिताः तोषिताः । 'संमानिताः' इति क्वचित्पाठः। तनुभृतां शरीरिणां तनुभिः शरीरैः कल्पं व्याप्य स्थितं जीवितं ततोऽपि किमित्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्र 'ततः किम्' इति पुनःपुनरुक्त्यानवीकृतत्वम्। तदेवाह अत्र तत इत्यादि। सर्वेष्वर्थेषु 'ततः किम्' इत्येकैव भङ्गि: भङ्ग्चन्तराभावान नवीकृतमित्यर्थः। अत्र पिष्टपेषणन्यायेनाशक्तिप्रका- शनेन वा सहृदयोद्वजकत्वं दूषकताबीजमिति नित्योऽयं दोषः। अथैष कथितपदे एवान्तर्भविष्य- तीि चेन्न। ततः किमित्यस्य 'एतस्मात्किम्' 'इतः किम्' इत्यादयः पर्यायाः तादृशपर्यायान्तरप्रयोगेऽपि भङ्गरेकरूपतायामसांकर्यात। अयं भावः। एकप्रकारकार्थाभिधानेऽनवीकृतत्वम् भिन्नधर्मप्रकारेणार्था- भिधाने तु नवीकृतत्वमिति। अत एवास्यार्थदोषतेति प्रदीपोद्द्योतयोः स्पष्टम्। उक्तं च विवरणकारैरपि "किं तत इत्यत्र 'किं तस्मात्' इत्यादिरूपेण शब्दपरिवर्तनेऽपि उत्कर्षान्तराभावादनवीकृतत्वमिति कथितपदान्भेदः" इति। "अत्र वाक्यभेदान्न कथितपदेऽन्तर्भावः तस्यैकवाक्यनिष्ठत्वात्" इति कमला- करभट्टाः। "न चात्र कथितपदत्वमेवेति वाच्यम् पर्यायान्तरप्रयोगेऽपि भङ्गचेकरूपतायामसांकर्यात्। न च तथाप्यनेन कथितपदत्वान्यथासिद्धि: स्यादिति वाच्यम् सत्यप्यर्थभेदे पदैकत्वदोषादर्थैक्यप्रति- भासस्य कथितपद्दूषकताबीजस्य भेदात्" इति सारबोधिनी॥ ननु नवीकृतं कीदृगित्याशङ्कायां तद्दर्शयति तत्तु यथेति। यदि दहतीति। आनन्दवर्धनाचा- र्यप्रणीते दवीशतके पद्यमिदमिति वदन्ति परं तु तत्रेदं नोपलभ्यते। सतां साधूनामविषादिता विषादशून्यता प्रकृतिरेव स्वभाव एव यद्वा प्रकृतिरेव स्वाभाविक्येव नाश्र्वर्यकरीत्यर्थः। तत्र दृष्टान्त- त्रयमाह तत्रोपमानभूतं वाक्यार्थत्रयमुपन्यस्यति यदि दहतीत्यादिना। एवं च यथानलोऽग्निर्यदि दहति अत्र अग्रेर्दाहकत्वे किमद्भुतं किमाश्र्वर्यम् स्वाभाविकत्वान्नाद्भुतमित्यर्थः । यदि चाद्रिषु पर्वतेषु गौरैवं गुरुत्वम् अस्तीति शेष: किं ततः तदपि स्वाभाविकत्वान्नाद्भुतमित्यर्थः । महोद्धेः समुद्रस्य अम्बु जलं सदैव लवणं क्षारम् अतस्तद्पि स्वाभाविकत्वान्नाद्भुतम् । तथा सताम् अविषादिता प्रकृतिरेवेत्यर्थपर्यवसानं बोध्यम्। मालारूपा प्रतिवस्तूपमात्रालंकारः। द्रुतविलाम्बितं वृत्तम्। लक्षणमुक्तं प्राक् ८२ पृष्ठे॥ ५०

Page 453

३९४ काव्यप्रकाशः सटीकः । (१२) यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधे- 1105 1) रुत्कर्ष प्रतियोगिकल्पनमपि न्यक्वारकोटि: परा। याता: प्राणभृतां मनोरथगतीरुल्लङ्कय यत्संपद स्तस्याभासमणीकृताश्मसु मणेरमत्वमेवोचितम् ॥।२७३।। अत्र 'छायामात्रमणीकृताइमसु मणेस्तस्याइमतैवोचिता' इति सनियमत्वं वाच्यम्॥ अत्र हि 'सतामविषादिता स्वाभाविकीति नाश्वर्याय यथानलादेर्दाहकत्वादि' इति मालारूपा प्रतिवस्तूपमा विवक्षिता । तत्र च 'ततः किम्' इत्यनेन 'किमद्भुतम्' इति नवीकृतम् सदैवेत्यनेन 'ततः किम्' इति नवीकृतम्। अत्र वाच्यार्थबोधकाले भिन्नभिन्नप्रकारेण बोधान्नवीकृतत्वम्। एवं चात्रैक एवाश्र्वर्याभावरूपः पर्यवसितोऽर्थः 'किमद्भुतम्' 'कि ततः' 'सदैव' 'प्रकृतिरेव' इति भङ्गिभेदेन प्रकारभेदेन उक्त इति नवीकृतत्वसत्वान्नानवीकृतत्वरूप दोष इति बोध्यम्। (१२) 'सनियमानियमविशेषाविशेषपरिवृत्ताः' इत्यत्र सैनियमादिभि: चतुर्भिः परिवृत्तपदान्वयत् सनियमपरिवृत्तादिचतुष्टयं लभ्यते। परिव्ृत्तिश्र सनियमानियमयोविशेषाविशेषयोश्र । अविशेषः सामा- न्यम्। तत्र सनियमपरिवृत्तः सनियमत्वेन वक्तुमचितोऽनियमत्वेनोक्तः । तमुदाहरति यत्रति। यत्र यस्मिन चिन्तामणौ सति एतत् निखिलं सर्वमपि विधेः ब्रह्मणः निर्माणं जगत्। निर्मीयते इति निर्माणम् क्माणी ल्युट्। अनुल्लिखितोऽविभावितः अर्थः प्रयोजनं यस्य तथाभूतमेवेत्यर्थः अप्रयो- जकमेवेति यावत्। 'भवति' इति शेषः । अनुल्लिखिताख्यामति पाठे न उललिखिता निर्दिष्टा आख्या नाम यस्य तथाभूतम् फलाभावेन नामाग्रहणादित्यर्थः । केचित्तु अनुल्लिखिताख्यम् अनिर्दिष्टनामकम् न खलु तत्सदृशं किंचिदस्ति यस्य नाम्ना स मणिर्व्यपदिश्येतेत्यर्थ इत्याहुः । अनुल्विखिताक्षमिति पाठे यत्रेति विषयसप्तमी अनुल्लिखितं विषयावगाहनविमुखम् अक्षि लोचनं यस्य तथाभूतमित्यर्थः। कि च यत्र चिन्तामणा उत्क-स्य प्रतियोगिनोऽवधेः कस्यित्कल्पनमपि परा न्यक्वारकोटि: न्यक्वारस्यावज्ञायाः परा काष्ठेत्यर्थः सर्वोत्कृष्टतया यत्किंचिन्निरूपितोत्कर्षकथनस्यापकर्षहेतुत्वादिति भावः। केचित्तु उत्कर्ष- प्रतियोगिन: प्रतिसंबन्धिनः सदृशस्येत्यर्थः कल्पनं कथनं परा न्यक्वारकोटिः निरुपमत्वहानेरित्याहुः । अन्ये तु उत्कर्षे आभिजात्यादौ यत्प्रतियोगिकल्पनमुपमानकल्पनमपि यस्य परा उत्कृष्टा न्यक्वारकोटि- र्निन्दाकोटिरित्यर्थ इत्याहुः। किं च यत्संपदः यस्य चिन्तामणेः गुणनिधानादिसंपत्तयः प्राणभृतां शरी- रिणां मनोरथगतीः अभिलाषसंचारान् उल्लङ्ग्यातिक्रम्य याताः प्राणिमनोगोचरा अपि न भवन्तीत्यर्थः । तस्य मणे: चिन्तामणे: आभासेन ईषत्स्फुरणन मणीकृता अमणयोऽपि मणित्वेन कल्पिताः येऽकमानः पाषाणास्तेषु मध्ये अश्मत्वमेवोचितम् अश्मत्वव्यवहार एवोचितो न तु मणित्वव्यवहार इत्यर्थः। चिन्ता- मणेः प्रकृतमणिगणनायां गणनमनुचितमिति भावः । एवं च चिन्तामणेराभासेनैव मणीकृतैः पाषाणैः सह चिन्तामणेर्गणने चिन्तामणेरेव वरं पाषाणत्वमस्तु तेषां तु मणित्वमिति सोपहासान्योक्तिरियम् :। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्रान्योक्तौ 'आभासमात्रेण मणीकृतेषु' इति सनियमत्वं वक्तुमुचितम् निन्दनीयानां मणीनां १ "सनियमादिभिरिति। अत्र केचित् एतन्मते परिवृत्ता इति बहुवचनमादश्यकम्। कर्थ वा सविशेषपरिवृत्त इति न संज्ञितम्। तस्मान्न्नियमादिमिश्रतुर्मिः परिवृत्तपदान्व्यान्न्नियमपरिवृत्तादिचतुष्टयम्। तैः सहित इत्यनवकित- विशेषणमित्याहुः" इत्युद्दयोतः ॥

Page 454

सप्तम उल्लासः।३ ३९५

(१३) वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहु: काकुत्स्थवीर्यस्मृतिकरणपदुर्दक्षिणस्ते समुद्रः। वाहिन्यः पार्श्वमेता: क्षणमपि भवतो नैव मुश्चन्त्यभीक्षणं स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते तेऽम्बुपानाभिलषः ॥२७४॥ गुणान्तरव्यावर्तनेन निन्दातिशयप्रतीतेः अनियमे तुन निन्दनीयानां मणीनां गुणान्तरव्यवच्छेदप्र- त्ययः । तस्मात् 'छायामात्रमणीकृताशमसु मणेस्तस्य।रमतैवोचिता' इति पठनीयम्। तदेवाह अत्र छायामात्रेत्यादि। सनियमत्वं वाच्यमिति । सनियमोकतौ हि कारणान्तरव्यवच्छेदेनाइमनां निन्दातिशय प्रतीयते। आनयमे तु तेषामश्मनां चिन्तामणतोऽपकर्षाप्रतात्या तन्मध्यपतितस्याश्मत्व विधानं विरुध्येत अपकृष्टमध्ये हि स्थितिरपकर्षायेति भावः। यद्यपि मणिरश्मैव तथाप्यश्मपदेनार्था- न्तरसंक्रमितवाच्येन निष्प्रयोजनाइमत्वं प्रतीयते इति बोध्यम्। अव्युत्पत्त्युन्नयनेन वैमुख्याधायकत्व- मेव दुष्टिबीजम् नित्यदोषोऽयमिति प्रदीपोक््योतयोः स्पष्टम्॥ अर्थविशेषस्य विवक्षितत्वेपि तत्प्रतिपादकपदानभिधाने न्यूनपदत्वानभिहितवाच्यते दोषौ अत एव तौ शब्दगतौ अर्थविशेषाविवक्षायां तु अयमिति भेदः। अत एवोक्तं प्रदीपे "न च न्यूनपद- त्वेऽनभिहितवाच्यत्वे वानुप्रवेश इति वाच्यम् तादृशेऽर्थे विवक्षिते तयोग्वकाशात् अविवक्षिते त्वेतत्प्र- सरत अत एवायमर्थदोषः विर्वक्षितमात्रस्य पदान्तरेणोपस्थितौ तस्य ताद्वस्थ्यात्। एवमितरेष्व- प्यूह्यम्। यत्त 'अर्थत्वेन विशेषणं सम,धानम्' इति तन्न। न्यूनपदौदिषु त्रिषु त्रयाणां संकरप्रसङ्गात्। चण्डीदासस्तु 'शब्दोच्चारणानन्तरमेव यत्प्रतिभासः स शब्ददोषः यस्य त्वर्थप्रत्ययानन्तर सोऽर्थ- दोष: अस्य तु अर्थप्रत्ययानन्तरमेवेत्यसावर्थदाषः अत एवानभिहितवाच्याद्भियते' इत्याह तच्चायुक्तम् बहुर्षु स्थलेषु व्यभिचारात् शब्दार्थविभागस्यासंगतत्वात्" इति॥ (१३) अनियमपरिवृत्तमुदाहरति वक्त्राम्भोजमिति। [मृगयायां ] पिपासितम् 'एलोशीरलवङ्ग- चन्दनलसत्कर्पूरकस्तूरिकाजातीपाटलकेतकैः सुरभितं पानीयमानीयताम्' इति वदन्तं विक्रमार्क राजानं प्रति मगधस्योक्तिरियमिति बल्लाळविरचिते भोजप्रबन्धे स्पष्टम्। हे अवनिपते राजन् ते तव अस्मिन् स्वच्छं पवित्रमेव स्वच्छं निर्मलं तादृशे मानसं स्वान्तमेव मानसं मानसाख्यं सरस्तस्मिन् सति ("मानसं सरसि स्वान्ते" इति विश्वः) अन्तः अभ्यन्तरे (हृदयमध्ये) अम्बुपानस्याभिलाषः इच्छा कथं १ तादृशेऽर्ये इति। आभासस्यैवान्वयप्रतियोगित्वेन कविविवक्षिततया तद्वाचकपद्सत्वान्न दोषः अन्धयप्रतियो- ग्युपस्थापकपदानुपादाने एव न्यूनपदत्वादिति भावः। मात्रार्थ विनाव्यन्वयोपपत्त्या तस्यावश्यानपेक्षणान्नानाभहित- वाच्यत्वमपीति भावः ॥ २ अविवक्षिते त्विति। न चास्य विवक्षितत्वे यत्रानुल्िखिनेत्युदाहरणेऽशमत्वौचित्ये हेत्वा- काङ्क्षायाः सत््वेन कथं वाक्यार्थबोधः आभासेन मणिसदृशाश्मनिलनस्यैवाश्मत्वे हेतुत्वप्रतीत्या तदाकाङक्षानिवृत्तेः। अत एव न निर्हेतुत्वम् नाव्यनभिहितवाच्यत्वादि। मात्रपदं त्वत्यन्तापकर्षाय। स च कवेरविवक्षित एवोति भावः ।। ३ अत एवेति। अविवक्षितत्वादेवेत्यर्थः । विवक्षितस्थ हि शब्देनाप्रतिपादने शब्द्ृदोषत्वमिति भावः॥ विवाक्षत- मात्रस्थति। यावानर्थो विवस्षितस्तावन्मात्रस्यानियमरुपस्य पदान्तरेण नियमवाचिमात्रादिपद् भिन्नेनाभासमणकता- श्मस्वित्यादिनोपस्थिनौ तस्य सनियमपर्विृत्तत्वरूपर्थदोषस्य ताद्वस्थ्यादित्यर्थः ॥५ न्यूनपादिप्ते। आदिना अधिकपदावाचकसंग्रहः। एवं च तद्संकीर्णमस्योदाहरणं न स्यादिति भावः। अत्रावाचकत्वं तृनीयश्लोके श्यामा- पदे बोष्यम्। ६ बहुव्विति। अपदस्थपद्समासामतपरार्थादिवाक्यदोषस्यर्थप्रत्ययं विना प्रतिभासाभावेन शब्ददोष- त्वस्योक्तनियमव्यभिचारादित्यर्थ इत्युद्द्योतप्रभयो: स्पष्टम् ।।

Page 455

२९६ काव्यप्रकाशः सटीक:।

अत्र 'शोण एव' इति नियमो न वाच्यः॥ (१४) श्यामां श्यामलिमानमानयत भो: सान्द्रैर्मषीकूर्चकै- र्मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्। चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तदक्त्रमुद्राङ्गिताः ॥२७५॥ 'भवति' इति शेषः। जलाधारतया तव पिपासानुचितेति भावः। अनौचित्यातिशयं प्रतिपाद्यितुमाह वक्त्रेत्यादि। 'ते' इत्यग्रेतनमिहापि संबध्यते। ते एव वक्त्राम्भोजं वक्त्रकमलं (कर्म) सरस्वती वाण्येव सरस्वती नदीविशेषः ("सरस्वती सरिद्भेदे भूवाग्देवतयोरपि । स्त्रीरत्ने चापगायां च" इति विश्वः ) सदा अधिवसति। वक्त्रमेवाम्भोजन्यं तत्रापि श्लिष्टरूपकेण वाण्यभिन्नसरस्वत्याख्यनद्यावास इति भाव:। एवं सर्वत्र। वक्त्राम्भोजमित्यत्र "उपान्वध्याङ्रसः" (१।४।४८) इति पाणिनिसूत्रेणाधारस्य कर्मत्वम्। ते तव अधरः अधरोष्ठः शोणो रकत एव शोणो नदविशेषैः । "शोण: कृशानौ श्योनाके लोहिताश्वे नैदे पुमान्। त्रिषु कोकनदच्छाये" इति कोशः । ते तव बाहुः दक्षिणः दानदक्षः सव्ये- तरो वा स एव दक्षिण: दक्षिणदेशस्थः समुद्रः मुद्रया राजचिह्नभूतया सहित एव समुद्रो जलधिः। कीदृशो बाहु: काकुत्स्थस्य श्रीरामस्य वीर्यस्मृतिः परात्रमस्मरणं तस्याः करणे उत्पादने पटुः समर्थः तद्वाहुसादृश्यादिति भावः । एवं समुद्रोऽपि सेतुदर्शनात् रामस्य स्वबन्धनकर्तृत्वेन रामवीर्यस्मारक- त्वात्तथाभूतः । एताः वाहिन्यः सेना एव वाहिन्यो नयो भवतः तव पार्श्व क्षणमप अभीक्ष्णं निर- न्तरं नैव मुश्चन्ति नैव त्यजन्तीत्यर्थः । "वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः" इति विश्वः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥ अत्र 'शोण एव' इत्यवधारणमनुचितम् अन्यजलाशयव्यावृत्तेः पिपासानौचित्यातिशयप्रतिकूल त्वाित्यनियमपरिवृत्तत्वम्। तदेवाह अत्र शोण एवेति नयमो न वाच्य इति। वैयर्थ्यात प्रत्युतान्यजलाशयानात्मकत्वप्रतीतौ पिपासानौचित्यातिशयाप्रतीतेरिति भावः । अधिकपदभेदो दूष- कताबाजं च पूर्ववत् । यत्रान्वयप्रतियोग्यर्थापेक्षयाधिकार्थो न विवक्षितस्तत्राधिकपदत्वम् प्रकृते चैवकारार्थः कवेर्विवक्षित एवेति न स दोष इति भावः। सदैव शोण इति विवक्षिते त्वस्थानपद्तेति बोध्यमिति प्रदीपोद्द्योतयोः स्पष्टम्। एवकारस्य द्योतकत्वान्नाधिकपदत्वमित्यप्याहुः। प्रस्तुतोत्कर्षा- पकर्षयोरनुपयोगिनि स्वरूपकथने एवापुष्टत्वम् अयं च प्रकृतापकर्षे स्वरूपकथनाभावेडाप च भव- तीति भेद इति विवरणकारा: प्राहुः॥ (१४) विशेषपरिवृत्तमुदाहरते श्यामामिति। राजशेखरकृतायां विद्दशालभञ्जिकाख्यनाटिकायां तृतीयेडङ्के मृगाङ्कावलीवियोगातुरस्य राज्ञो विद्याधरमल्लदवस्योक्तिरियम्। 'भोः' इत्याकाशे संबोधनम् भो: परिजना: (परिचारिकाः) यूय सान्द्रैः निबिडैः मषी अक्षरविन्याससाधनं कज्जलप्रधानं द्रवद्रव्यं तस्या: कूर्चकैस्तृणवविशेषाददिकल्पितैलेपनसाधनैः म्षायुक्ततूलिकाभिरिति यावत् श्यामां रात्रिं श्यामलिमानं श्यामलतामानयत प्रापयत। अथशब्दो विकल्पे समुच्चये वा। "अथाथो संशये स्यातामधिकारे च मङ्गले। १ नद्विशेष इति। नदभेद इत्यर्थः। नदाश्र् सप्त तदुकतं देवलेन "शोणसिन्धुहिरण्याख्याः कोकलोहित- घर्घरा; । शतदूश्र्य नदाः सप्त पावनाः परिकीर्तिताः ॥ इति। प्राकूस्त्रोतसो नद्यः प्रत्यकस्रोतसो नदाः नर्मदां विने- त्याहुः॥ २ नदे इति। नद्विशेषे इत्यर्थः॥

Page 456

सप्तम उल्लास:। ३९७

अत्र 'ज्यौत्स्नीम्' इति श्यामाविशेषो वाच्यः॥ (१५) कल्ोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः। ITE (P3) किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि॥२७५॥ विकल्पानन्तरप्रश्नकात्स्न्यारम्भसमुच्चये" इति मेदिनी। अपीति पाठे समुच्चयोऽर्थः। मन्त्रम् अथवा तन्त्रं वैद्यादिशास्त्रोक्तमौषधं प्रयुज्य मन्त्रस्य तन्त्रस्य वा प्रयोगं कृत्वेत्यर्थः। यद्ा मन्त्रं तन्त्रं च प्रयुज्येत्यर्थः । श्वेतोत्पलानां श्रियं शोभां 'रुचिम्' इति पाठे दीप्तिं हरत नाशयत । चन्द्रस्यैवानयो: (श्यामाश्वेतोत्प- लयोः ) शोभाहेतुत्वात्तं द्वेष्टि चन्द्रमिति। चन्द्र च शिलापट्टके विपुलपाषाणफलके कृत्वा निधाय क्षणात् कणशः चूर्णयत। येन एवंविधकरणेन हेतुना अहं तस्या: मृगाङ्कावल्याः वक्त्रमेव मुद्राङ्क: संजातो यासु तथाभूताः दर्श दिशो द्रष्टुम अवलोकयितुं क्षमे शक्कोमीत्यर्थः । अन्यसंबन्धादन्यत्र समुदितं चिह्नं मुद्राङ्कः । यत्तु 'वक्त्रमेव मुद्रा चिह्नं तयाङ्किताः' इति व्याख्यानं तत्तु न रुचिरम मुद्राङ्कयोरन्यतरवैयर्थ्यापत्तेरिति बोध्यम्। भावनोपनीतं तन्मुखं दशसु दिक्षु पश्यतो मम चन्द्रादि- भिरुद्दीपकतया संतापकैः क्रियमाणं प्रतिब्न्धमुक्तरीत्यापहरतेति भावः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे। अत्र ज्यौत्स्नीमिति। ज्योत्स्ना चन्द्रप्रकाशः सास्त्यस्यामिति ज्यौत्स्न्नी। "अण्च" (५।२।१०३) इतिपाणिनिसूत्रस्थेन "ज्योत्स्नादिभ्य उपसंख्यानम्" इति वार्तिकेन मत्वर्थेऽणप्रत्यये आदिवृद्धौ "टिड्डा- णञ्र०" इति सूत्रेण डीपू । "ज्यौत्स्नी ज्योतिष्मती रात्रिर्ज्योत्स्ना चन्द्रमसः प्रभा" इति शाश्वतः "ज्यौत्स्नी पटोलीज्योत्स्नावनिशोः" इति हैमश्। 'ज्योत्स्नीम्' इति पाठे "संज्ञापूर्वको विधिरनित्यः" इति वृद्धयभावः । "इयामाविशेषो वाच्य इति। श्यामायाः 'श्यामा स्याच्छारिवा निशा' इत्यम- रात् निशासामान्यवाचितया कृष्णपक्षनिशाया अपि लाभात् तत्र च श्यामत्वविधानस्यायुक्तत्वादद- ग्धदहनन्यायप्राप्तेरभावाद्विध्यनुरोधवैषम्यापत्तेरिति भावः" इति सुधासागरः । "अत्र ज्योत्स्नीरूपरात्रि- विशेषस्य विवक्षितत्वाद्विशेषत एव ज्योत्स्नीमित्यभिधातुमुचितम् अन्यथा विशेषस्य प्रतीतौ विलम्बा पत्तेः" इति तु चन्द्रिकायामुक्तम् । वस्तुतस्तु प्रदीपोद्दयोतप्रभासूक्तम् "अत्र ज्योत्स्नीमिति रात्रि- विशेषो वाच्यः अपरविशेषस्य स्वत एव इयामत्वात्तत्राकाङ्काविरहात्। इदमेवात्र दूषकताबीजम्। अन्यत्र विरोधादिकमप दुष्टिबीजं द्रष्टव्यम् । विशेषनियामकप्रकरणादिसत्त्वे त्वदोषत्वम्" इति प्रदीपः । (तत्राकाङ्काविरहादिति। तमिस्रायाः श्यामत्वेन इ्यामीकरणवैफल्यात्सामान्योपादानम- युक्तमिति भावः। इइलेवेनि। एतत्कृतसहृदयोद्वेग एवेत्यर्थः। येन रूपेण न शक्तिस्तेन रूपेण बाधस्य कविविवक्षितवेऽवाचकत्वम् प्रकृते च सामान्यरूपेणैव बोधः क वेविवक्षितः योगस्याविव- क्षितत्वाद्रूढेरज्योत्स्नायां सत्त्वाञ्च नावाचकत्वन्यूनपदत्वे इति भावः) इत्युश्योतः । (अन्यत्रेति। 'संतानं कीर्तिमातनुते' इत्यादावसत्संताने कीर्तिजनकत्वविरोधादिकमित्यर्थः) इति प्रभा। तत्र 'सत्संतानम्' इति विशेषो वक्तव्य इति प्रभाशयः ॥ (१५) अविशेषपरिवृत्तम् (सामान्यपरिवृत्तम्) उदाहरति कलोलेति। भलटकविकृते भल्लटशतके ६२ १ प्राची१ आग्नेयी२ दक्षिणा3 नैऋती४ प्रतीची५ वायवी६ उदीची• ईशानीट ऊर्ध्वा९ अधरा१० चेति क्रमेण दश दिशः ॥ २ ज्योत्स्नामिति। ज्योस्न्यानित्यर्थः "ज्योत्स्ना चन्द्रमसो भासि स्फुरज्ज्योतिर्निशि स्मृताः"

Page 457

३९८ काव्यप्रकाशः सटीकः।

अत्र 'एकेन किं न विहितो भवतः स नाम' इति सामान्यं वाच्यम्॥ (१६) अर्थित्वे प्रकटीकृतेऽपि न फलप्रातिः प्रभो: प्रत्युत द्रुह्यन्: दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया। उत्कर्ष च परस्य मानयशसोर्विस्रंसनं चात्मनः स्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥२७७॥

पद्यमिदम्। हे मकरालय वारिधे त्वं कल्लोलाः महोर्मयः ("अथोर्मिषु। महत्सूल्वोलकल्लोलौ" इत्यमरः) तैः वेल्विता: चालिताः याः दृषदः पाषाणास्तासां परुषप्रहारैः कठोरताडनैः अमूनि स्वाश्रितानि रत्नानि मावमंस्था: मावज्ञासीः ( मा तिरस्कुरु)। कुत इत्यत आह किमित्यादि। नामेति प्रसिद्धौ। भवतः तव कौस्तुभेन कौस्तुभाख्यरत्नेन पुरुषोत्तमः श्रीकृष्णोऽपि पुरुषश्रेष्ठोऽपि च याच्चार्थ प्रसारितः करो हस्तो येन ताहशः किं न विहितः अपि तु याचकः कृत एवेत्यर्थः । वसन्ततिलका छन्दः । लक्ष- णमुक्त प्राक् ६८ पृष्ठे ॥

अत्रैकेन रत्नेनैवंविधोत्कर्षलाभादन्येषामपि रत्नानामवमाननं नोचितमित्यर्थो विवक्षितः । स च कौस्तुभेनेति विशेषतोऽभिधाने न निर्वहति कौस्तुभस्योपकारकत्वेऽप्यन्यरत्नसामान्यावमानननिषे- धायोगात् कौस्तुभस्य रत्नसामान्यान्तर्गतत्वेनाप्रतीतेः । अतः सामान्यपरिवृत्तत्वम्। तस्मात् 'एकेन किं न विहितो भवतः स नाम' इति पठनीयम्। तथा सति तथा प्रतततन दोष इति बोध्यम्। तदेवाह अत्रैकेनेत्यादि। वाच्यं वक्तुं योग्यम्।।

व्याख्यातमिदं प्रदीपोद्दयोतयोः । "अत्र 'कौस्तुभेन' इति विशेषतो रत्नवचनं नोचितम् कौस्तुभमा- त्रस्योपकारकत्वेनान्यावमानननिषेधायोगात्। 'एकेन किं न भवतो विहितः स नाम' इति पाठे तु भेदानवगमाद्विवक्षितनिर्वाहः। तदनिर्वाहादिकं च दूषताबीजमिति नित्य एवायं दोषः" इति प्रदीपः । (निषेधायोगाह़िति। वस्तुनि सत्युपकार एव स्यादिति वाक्यार्थोपपत्तावनन्तरं कौस्तुभमात्रस्यो- पकारकत्वेऽन्यावमानननिषेध: कथमिति प्रतीतावनुपपत्तिरिति भावः । एकेन कि नेति। येषामेके- नोपकृतं तदितरेषामवमाननं नोचितमिति प्रतीतेर्नानुपपत्तिरिति भावः । अनिर्वाहादिकमिति । विवक्षितान्यावमाननानिर्वाहादिकमित्यर्थः । अन्वयित्वेन तु कवेर्विशेष एव विवक्षित इति न पूर्वो- क्तिविरोधः) इत्युइ्चोत:।।

(१६) 'साकाङ़:' आकाङ्मया सह वर्तत इत्यर्थः । साकाङ्गत्वं चानुपात्तार्थाकाङ्गाविषयार्थकत्वम्। निर्हेतुभेदस्तु तदवसरे एवोक्त: (३८७ पृष्ठे)। साकाङ्गमर्थमुदाहरति अर्थत्वे इति। वीरचरितनाटके द्वितीयेडङ्के सीताप्राप्तौ निराशस्य रावणामात्यस्य माल्यवत उक्तिरियम्। यत्तु 'रावणदूतस्य शौष्कलस्ये- यमुक्तिः' इति चन्द्रिकोद्योतयोरुक्तम् तत्तु चिन्त्यमेव। अर्थित्वे (मत्प्रेषणात्) याचकत्वे प्रकटीकृतेऽ- पि प्रभो: समर्थस्य (रावणस्य) फलप्राप्तिः सीतालाभो न। प्रभौ ह्यर्थिनि फलप्राप्तिरावश्यकी उचिता च। सा न जातेति भावः । न केवलं फलाप्राप्तिः किंतु वैपरीत्यमपीत्याह प्रत्युतेत्यादि। प्रत्युत विपरीतं द्रुह्यन् (ताटकावधादिना) द्रोहं कुर्वन् विरुद्धचरितो यज्ञादिसंरक्षको दाशरथि: दशरथ- पुत्र: (श्रीराम:) तया प्रार्थ्यमानया कन्यया सीतया युक्तः संयुक्तः। दाशरथिरिति पितृसंबन्धो- त्कीर्तनन स्वतः ख्यात्यभावादपकर्षसूचनम्। स्वप्रार्थितं स्वयं न लब्धं किं तु शत्रुणेति वैपरीत्यम्। (एवं सति) परस्य शत्रो: (श्रीरामस्य) मानयशसोरुत्कर्ष च आत्मनो विस्रंसनम् अवमाननं च। यद्वा

Page 458

सप्तम उल्लास: । ३९९ अत्र स्त्रीरित्नम् 'उपेक्षितुम' इत्याकाङकृति। नहि परस्येत्यनेन संबन्धो योग्यः॥ परस्योत्कर्षम् आत्मनो मानयशसोर्विस्त्रंसनं भ्रंशमित्यन्वयः । स्त्रीरत्नं सीताख्यं च जगतां पतिः देवो विजिगीषुः । 'दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्रकान्तिगतिषु' इति दिवादौ धातु- पाठः । दशमुखो रावण: कथं मृष्यते क्षमते न करथंचिदपीत्यर्थः। 'मृष तितिक्षायाम्' इति स्वरि- तेतो दैवादिको धातुः। दशमुख इत्यनेन सकललोकविलक्षणत्वं ध्वनितम्। उद्दयोतकारास्तु "पर- स्योत्कर्षरूपम् आत्मनः मानयशसोर्विस्त्रंसनं नाशरूपं च जनके जन्याध्यवसायः एतादृशं स्त्रीरत्नं कथं मृष्यते" इत्यन्वयमाहुः तच्चिन्त्यम्। तृतीयचकारस्य व्यर्थत्वापत्तेः। "चकारत्रयेण त्रयाणा- मेकक्रियान्वयित्वमेव कविविवक्षितम्" इति (अस्मिन्नेव पृष्ठे) वक्ष्यमाणस्वोक्तिविरोधापत्तेश्र। शार्दूल- विकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र साकाङ्कत्वं दर्शयति अत्रेत्यादि। स्त्रीरत्नमिति। स्त्रीरत्नमितिशब्दस्यार्थ इत्यर्थः। उपेक्षितु- मिति। उपेक्षितुमितिशब्दस्यार्थमित्यर्थः । आकाङकतीति। अन्यथोपादेयस्य स्त्रीरत्नस्यामर्षायोग्यत्वे कथं 'कथं मृष्यते' इत्यनेन द्वेषार्थकेनान्वयः स्यादिति भावः । अथ परस्येत्यनेन संबन्धात् परस्त्रीष्वमर्षो युज्यत एव। तथा च स्त्रीरत्नस्य नामर्षायोग्यत्वमित्याशङ्क्य निषेधति नहीत्यादि। परस्येत्यरय उत्कर्षेण सह जनितान्वयबोधत्वेन निराकाङ्गत्वादिति भावः। न च परस्येत्यस्यानुषङ्ग इति वाच्यम् आत्मन इत्यनेन विस्रंसनमित्यनेन च व्यवधानादनुषङ्गाप्रसक्तेः "व्यवायान्नानुषज्येत" इति न्यायात्। तथा चात्र परस्येति पदं वा उपेक्षितुमिति वा अन्यद्वा किमपि पदं कल्प्यमिति नियमाभावाद्विवक्षितप्रतीतिविरहो दूषकतानीजमिति बोध्यम्॥। व्याख्यातमिदं प्रदीपोद्दयोतयोः "अत्र स्रीरत्नमित्यस्यार्थ उपेक्षितुमित्यस्यार्थमाकाङ्गति। अन्यथा 'कथं मृष्यते' इत्यनेनामर्षार्थकेनानन्वयप्रसङ्ग: । नहि स्त्रीरत्ने एवामर्षः किंतु तदुपेक्षायाम्। न च परस्येत्येतदन्तर्भाव्यः तदन्वयोऽस्त्विति वाच्यम् तस्य जनितान्वयबोधत्वेन निराकाङ्कघत्वात्। न चा- भवन्मतयोगसंकरः वक्तृविवक्षितयोगस्यात्र सत्त्वात्। परंतु विवक्षित एवार्थः साकाङ्गतया दुष्टः। अत एव न न्यूनपदत्वान्तर्भावः । दूषकताबीजं चाभिधानापर्यवसानम् अतो नित्य एवायम् [दोषः]" इति प्रदीपः । (कथं मृष्यते इति। एतत्समुदायरूपेणामर्षार्थकेनेत्यर्थः । तस्य जनितेति। परस्ये- त्यस्योत्कर्षेण जनितान्वयबोधत्वादित्यर्थः । न चानुषङ्ग: विस्त्रंसनादिना व्यवधानात्। असंबद्ध- व्यवाये तु वैषम्यान्नानुषज्यते इत्युक्तेरिति भावः। वक्तृविवक्षितयोगस्येति। चकारत्रयेण त्रया- णामेकक्रियान्वयित्वमेव वक्तृविवक्षितमिति स्त्रीरत्नस्यामर्षान्वय एव वक्तृविवक्षितः । तस्मिश्रापाततो जाते पर्यालोचनायां रत्नस्यामर्षायोग्यत्वेन प्रतीतावनुपपत्तिपरिहारायोपेक्षितुमित्यपेक्षणेन साकाङ्गत्व- ग्रह इति भावः । अमर्षो द्वेषः । अत एव न न्यूनपदेति। विवक्षितार्थबोधकानुपादाने एव तदङ्गीकारात् यथा 'तथाभूताम्' (३३९ पृष्ठे) इत्यादावित्थमादेरिति भावः । अभिधानापर्यव- सानमिति। प्रतीतावनुपपत्तेरिति भाव:) इत्युद्दयोतः ॥ सारबोधिन्यां तु "न्यूनपदत्वशङ्कायां न्यूनपदत्वं पुनरमर्षणक्रियोपादानानिरस्तम्। स्त्रीरत्नमित्यत्रा- मर्षणक्रियायामेव तात्पर्य न तु क्रियान्तरे येन तदनुपादाने न्यूनपदता स्यात्। केवलं स्त्रीरत्नामर्षणक्रिया- १ अयं न्यायो लौकिकन्यायमालायां व्याख्यातः ।।

Page 459

४०० काव्यप्रकाशः सटीकः।

(१८) आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्गेति दिव्या पुरी। उत्पत्तिर्द्रुहिणान्वये च तदहो नेहग्वरो लभ्यते स्थाच्चेदेष न रावण: क्व नु पुनः सर्वत्र सर्वे गुणाः ।।२७८।। योग्यताघटकत्वेनोपेक्षायामपेक्षणीयत्वम्। तन्न्यूनतायां च न न्यूनपदता। अन्यथा 'घटेन जलमाहर' इत्यत्र छिद्रेतरत्वानुपादाने तथा प्रसङ्गात्। तेन विशेषणविशेष्यभावान्वये क्रियाकारकान्वये वामीषां यत्किंचिदनुपादाने एव न्यूनतेति नात्र प्रसङ्ग इति" इत्युक्तम्॥ ('७) 'अपदयुक्तः' अपदेऽस्थाने युक्तः संबद्ध इत्यर्थः। एवं च प्रकृतार्थवविरुद्धार्थकपदशालित्वमप- दयुक्तत्वम्। तदुक्तं विवरणे "यत्र यदभिधानं विवक्षितप्रतीतिविघटकं ताद्ृशेऽनुपयुक्ते स्थाने तदभि- धानमपद्युक्तता" इति। केचित्तु 'अपदमुक्तः' इति पठित्वा व्याचक्षते "पदे स्थाने योऽमुक्तोऽ- त्यक्तः । 'आज्ञा शकर०' इत्यादौ च 'स्याच्चेदेष न रावणः' इत्येतावता विच्छेदे कापि कान्तिरनुभव- सिद्धा 'जीवत्यहो रावणः' (३०४ पृष्ठे) इतिवत्। सोऽयमर्थोडत्र चेन्न त्यज्यते 'क् नु पुनः' इत्यादिना विस्तार्यते तदा मध्यप्रवेशेनायनर्थोऽलक्षितप्रायश्रमत्कारं नावहतीत्यनुभवसिद्धम्" इति। तन्न रुचिरम् ईटरोऽर्थेडस्य पदस्य साधुत्वस्य दुर्वचत्वात् दूषकताबीजभूतस्यानुभवस्य च संदिग्ध- त्वादिति प्रदीपोद्द्योतयोः स्पष्टम् । तमुदाहरति आज्ञेति। राजशेखरकृते बालरामायणे प्रथमेऽङ्वे "आश्र्वर्यम् एकोऽपि गरीयान् दोषः समग्रमपि गुगग्रामं दूषयति। तथाहि" इत्युपक्रम्य जनकं प्रति जनकपुरोहितस्य शतानन्दस्योक्तिरि- यम्। यत्तु 'वीरचरितनाटके सन्त्येव बहवो गुणास्तथापि बलवानेको दोषस्तानपवद्ति इति चर्णिका- मुपक्रम्य रावणदूतं प्रति शतानन्दस्योक्तिरियम्' इति चक्रवर्तिश्रीवत्सलाञ्छनवैद्यनाथभीमसेनना गोजीभट्टादिभिरुक्तम् तत्तु तत्तद्ग्रन्थानवलोकनविजुम्भितमेव तेवां सर्वेषां गड्डरिकाप्रवाहन्यायेनैव प्रवृ- त्तत्वात् वीरचरितेऽस्य पद्यस्यानुपलम्भाद्वालरामायणे चोपलम्भाच्चेति विचारिभिबोध्यम्। यस्य रावणस्य आज्ञा शक्रस्य देवेन्द्रस्य शिखामणे: मुकुटमणेः प्रणयिनी प्रिया शिरोधार्येति यावत्। प्रणयिनीत्वेन रूपणाद्दम्पत्योरविच्छेदसूचनम्। शास्त्राण्येव नवं नूतनं चक्षुर्लोचनम् शास्त्रदृष्टयैवाचरणादिति भावः। शास्त्राणि चक्षुरिति बहुवचनैकवचनाभ्यां सर्वशास्त्रविषयकैकसमूहालम्बनज्ञानसूचनम्। चक्षुर्नवत्वेन विषयग्रहाधिक्यमभ्रान्तत्वं च सूचितम्। तथा भूतपतौ सकलप्राणिनामीश्वरे पिनाकिना हरे भक्तिः । तथा लङ्केति प्रसिद्धा दिव्या उत्कृष्टा पुरी पदं निवासस्थानम्। द्रुहिणो ब्रह्मा तस्यान्वये कुले चोत्पत्ति- र्जन्म। तत् तस्मात् अहो आश्र्वर्यम् ईटक् उक्तगुणगणयुक्तो वरः न लभ्यते दुर्लभ इत्यर्थः। 'केद- ग्वरः' इति पाठे ईदग्वरः क लभ्यते न क्वापीत्यर्थः । एषः रावणः रावयति (पीडाजननेन) आक्रन्द- यति लोकानिति तथाभूतश्र्वेन्न स्यात्तदा। क्वनु पुनः सर्वत्र जने सर्वे गुणाः न क्वापीत्यर्थः। रावण एव सर्वगुणशालितयोत्कृष्टः स्यात्। जगदाक्रन्दकारित्वेन तु बलवता दोषेणायमुपेक्ष्य इति भावः। शार्दूलविक्राडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र "आश्वर्यम् एकोऽपि गरीयान् दोषः समग्रमपि गुणग्रामं दूषयति" इति चूर्णिकासाचिव्येन (साहाय्येन) रावगोपेक्षैव विवक्षिता सा च 'स्याच्चेदेष न रावणः' इत्येतावतैव संपन्ना रावणपदस्य १ अयं न्यायो लौकिकन्यायमालायां व्याख्यातः ।

Page 460

सप्तम उल्लास:। ४०१

अत्र 'स्याच्चेदेष न रावणः' इत्यत एव समाप्यम्।। (१८) श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्किेन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता॥ २७९॥ अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम्।। (१९) 'लननं रागावृताङ्गया ॥' २८० ।। जगदाक्रन्द्रकारित्वरूपार्थान्तरसंक्रमितवाच्यत्वात् । अतः 'स्याच्चेदेष न रावणः' इत्यत्रैव काव्यार्थ- समाप्तिरुचिता। तदनन्तरं 'क नु पुनः' इत्याद्यभिधानं समाधाने पर्यवस्यत् विवक्षितां रावणापे- क्षाप्रताति स्थगयतीत्यपद्युक्तत्वम् । तदवाह अत्र स्याच्चेदेष इत्यादि। समाप्यमिति। पद्य- मिति शेषः । न त्वग्रे वक्तव्यमिति भावः॥ व्याख्यातमिदं प्रदीपे "अत्र जगदाक्रन्दकारित्वादिना रावणस्य त्याज्यत्वं विवक्षितम् तथा च 'स्याच्चेदेष न रावणः' इत्यत्र 'क्क नु पुनः' इत्यादि योजितं समाधाने पर्यवस्यतीति दुष्टम्" इति। "अत्र समर्थनसहितैतद्वाक्येनान्यस्मिन्नुक्तगुणगणासंभवेन रावणादन्य ईदृग्वरो न लभ्यते इत्येवमापाततो वाक्यार्थप्रतीतिनिष्पत्तौ चूर्णिकानुसंधानेनैव दोषावतारादस्यार्थदोषता बोध्या। दुष्टिबीजं च विरुद्धप्र- तीतिः । अतो नित्य एवायं दोषः । न च प्रकाशितविरुद्धान्तर्भावः स्थानविशेषयोगमनपेक्ष्य तस्य प्रवृत्तेः । अत्र तात्पर्यविरुद्धस्यैवाभिधानाच्च। नाप्यधिकपदत्वम् तदर्थस्यान्वितत्वात् । विरुद्धमतिकृद्वेदस्तु तत्प्र- करणे एव दर्शितः" इत्युद्योतादिषु स्पष्टम्। अन्येऽप्याहुः "प्रकाशितविरुद्धेर्थस्यानभिधानं न वा विवक्षितप्रतीतिविरोधः अत्र तु विवक्षितप्रतीतिविरुद्धस्यैवाभिधानमित्यनयोर्भेदः" इति॥ (१८) 'सहचरभिन्नः' सहचरेषु समभिव्याहृतेषु सहचरेभ्यः समभिव्याहृतेभ्यो वा भिन्न विजातीय इत्यर्थः। विजातीयत्वं चोत्कृष्टत्वापकृष्टत्वाभ्याम्। एवं च समभिव्याहृतविजातीयार्थकत्वं सहचरन्न- त्वम्। सहचरभिन्नमर्थमुदाहरति श्रुतेनेति। श्रुतेन शास्त्रेण शास्त्रश्रवणेन वा बुद्धि: अलंक्रियते इत्य- न्वयः । एवमुत्तरत्राप्यलंक्रियते इत्यनेनान्वयो बोध्यः । "अ्रतमाकर्णिते शास्त्रे" इति मेदिनी। व्यसनं द्यूतादि। "व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु" इति मेदिनी। मदो यौवनादिजन्मा। निम्नगा नदी। " स्रवन्ती निम्नगापगा" इत्यमरः । धृतिः धैर्यम् । समाधिः धर्मचिन्ता योगो वा। नयो नीतिमार्गः। नरेन्द्रता राजत्वम्। क्रियादीपकमत्रालंकारः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्रेत्यादि। अत्र श्रुतबुद्धयादिभ्यः उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खतयोर्निकृष्टतया विजातीयत्व- मिति भावः। सहचरितानां हि प्रायश एकरूपतया सर्वेषामुपादेयत्वं त्याज्यत्वं वा प्रतीयेत। तथाहि। श्रुतादिसमभिव्याहारेण मूर्खस्य व्यसनं कर्तव्यमित्यपि स्यात् व्यसनादिसमभिव्याहारेण बुद्धिशािनः श्रुतमपि त्याज्यं स्यादिति। एतदेवात्र दूषकताबीजम्। 'उत्कृष्टैरुत्कृष्ट भूष्यते' इति बुद्धेर्निकृष्टानुप्रवे- शेन विच्छेदो दूषकताबीजमित्यन्ये। नित्यश्रायं दष इति प्रदपोद्दचोतादिषु स्पष्टम्। 'विनयेन वीरता' इति पाठो युक्त इति सरस्वतीतीर्थाः॥ (१९) 'प्रकाशितविरुद्धः' प्रकाशितो व्यञ्जितः विरुद्धः (विवक्षितार्थस्य) प्रतिकूलोऽर्थो येन (वाक्यार्थन) सः । तथा च प्रतिपादितविवक्षितार्थविरोधिव्यञ्जकार्थकत्वं प्रकाशितविरुद्धत्वम्। सह- चरभिन्ने पदार्थस्यैव तथात्वमिति ततो भेद:। प्रकाशितविरुद्धमर्थमुदाहरति लन्नमिति। व्याख्या- तमिद मन्नैवोलासे गर्भितप्रस्तावे (१६३ पृष्ठे)।। ५१

Page 461

४०२ काव्यप्रकाशः सटीकः।

इत्यत्र विहितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते॥ (२०) प्रयत्नपरिबोधित: स्तुतिभिरद्य शेषे निशा- (53) मकेशवमपाण्डवं भुवनमद्य निःसोमकम्। इयं परिसमाप्यते रणकथाद्य दो:शालिना- मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥२८१॥ अत्र 'शयितः प्रयत्नेन बोध्यसे' इति विधेयम। यथा वा इत्यत्रेत्यादि। अत्र 'विदितं तेऽस्तु' इति वाक्यस्यार्थों 'लक्ष्मीस्ततोऽपसरति' इति राजस्तुतिविरोधि- नमर्थ प्रकाशयतीति प्रकाशितविरुद्धत्वमिति भावः । तस्मात्। राज्ञः सकाशात्। अपसरति अप- गच्छति। प्रकाश्यते व्यञ्ञनया बोध्यते। विरुद्धप्रकाशनमेव दूषकताबीजमिति नित्यदोषोऽयम्। विरुद्धमतिकृन्द्वेदस्तु तत्प्रकरणे (२९२ पृष्ठे) एव प्रदर्शितः । "विरुद्मतिकृति शब्दशक्तिमूला विरुद्धार्थप्रतातिः अत्र तु अर्थसामर्थ्यनिबन्धनेति भेदः" इति सरस्वतीतीर्थाः॥

(२०) "विध्यनुवादायुक्तः" इति सूत्रांशे विध्यनुवादपदाभ्पामयुक्तपदं प्रत्येकमन्वेति "द्न्द्वान्ते श्रूयमाणं पदं०" इति न्यायात्। तेन विध्ययुक्तोऽनुवादायुक्तश्र्वेति दोषद्वयम्। तत्र विध्ययुक्तोऽयुक्त- विधिरित्यर्थः । विधेरयुक्तत्वं चाविधेयस्यैव विधेयत्वेन (विध्यविषयस्यैव विधिविषयत्वेन) अयुक्तक्रमतया वति द्विविधम्। तत्राद्यमुदाहरति प्रयत्नेति। वेणीसंहारनाटके तृतीयेडङ्के द्रोणवधकुपितस्य शत्रून् प्रति प्रतिकर्तुमिच्छोरश्वत्थान्नो दुर्योधनं प्रत्याश्वासनोक्तिरियम्। हे राजन् अद्य त्वं निशां रात्रिं व्याप्य शेषे निद्रास्यसीत्यन्वयः । निशेत्यत्र पाणिन्याचार्यमते 'णिश समाधौ' इति भौवादिकात् निशधातोः "इगुप- धज्ञाप्रीकिर: कः" (३१।१३५) इि पाणिनिसूत्रेण कप्रत्यये कृतेऽदन्तत्वादेव टाप्। भागुर्याचा- यमते तु निशशब्दात्किबन्तत्वेन हलन्तादपि टापू। तदुक्तम् "वष्टि भागुरिरल्लोपमवाप्योरुप सर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा॥" इतीत्यव्ययप्रकरणे शब्देन्दुशेखरे स्थितम् । निशा- मिति "कालाध्वनोरत्यन्तसंयोगे" (२।३।५) इति पाणिनिसूत्रेणात्यन्तसंयोगे द्वितीया। शेषे इति 'शीङ् स्वमे' इत्यादादिकात शीधातोः "वर्तमानसामीप्ये वर्तमानवद्दा" (३३१३१) इति पाणि- निसूत्रेण वर्तमानसामीप्ये भविष्यति लट् मध्यमपुरुषैकवचनम् । कीदृशस्त्वम् स्तुतिभिः (वैतालि- कानां मागधानां) स्तवैः प्रयत्नेन परिबोधितः प्रबोधितः । तथा निद्रास्यसि यथैवं प्रतिबोधनीय इति भावः। अद्य भुवनम् अकेशवं श्रीकृष्णरहितम् अपाण्डवं पाण्डवैश्र रहितम् निःसोमकं निर्गताः सोमकाः पाञ्चालाः यस्मात्तथाभूतं च 'यतः करोमि' इति शेषः। अद्य दोःशालिनां बाहुबलशालिनां (वीर- क्षत्रियाणां) इयं रणकथा संग्रामवार्ता परिसमाप्यते। दूरतस्तु संग्राम इति भावः। "भुजबाहू प्रवेष्टो दोः" इत्यमरः । अद्य भुवः पृथिव्याः भारः अपैतु अपगच्छतु दूरं यातु। कीदृशो भारः रिपुरू- पेण काननेन वनेनातिगुरु: गरीयानित्यर्थः । 'नृपकानन०' इत्यपि पाठः। कालान्तरकर्तव्यत्वसं- भावनायाः सर्वथैव निरासाय प्रदिपादमद्येत्युक्तिः । पृथ्ती छन्दः। लक्षणमुक्तं प्राक् ५६ पृष्ठे॥ अत्र पाण्डवभयेनाद्यावाध तव (दुर्योधनस्य) निद्रा नाभूदेव अद्य तु मया (अश्वत्थाम्ना ) शमि- तेषु तेषु (पाण्डवेषु) निःशङ्कतया निद्राणस्त्वं वैतालिकस्तुतिभिः प्रयत्नेन बोध्यसे (बोधं लप्स्यसे ) इति तात्पर्यम्। तथा च शयितस्त्वं प्रयत्नेन बध्यसे इति विधिर्युक्तो न तु 'शेषे' इति शयनस्य। यतः शयित एव बोध्यते न तु बाितः शेते इत्ययुक्तावधित्वम्। तदेवाह अत्र शायत इत्यादि।

Page 462

सप्तम उल्लास:। ४०३

वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ता: पुनरभ्रतोयकणिकातीव्रव्रतैर्वर्हिभिः। तेऽपि क्रूरचमूरुचर्मवसनैनीताः क्षयं लुब्धकै- ्दम्मस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥२८२॥ अयं भावः। शयितः प्रयत्नेन बोध्यसे इति प्रयत्नबोधनं हि शयनातिशयव्यञ्जकतया प्राधान्येन बोध- नीयमिति तस्यैव विधेयत्वं युक्तं शयनविशिष्टस्य तस्य वा न तु शयनमात्रस्य 'बोधितः शेषे' इति विरोधाच्चेति। विवक्षितानिर्वाहोऽत्र दुष्टिबीजम्। अत्र सुखस्वापे बोधात्परतोऽपि निद्रासंभवेन शयने- पि कदाचिद्विधेयताविश्रान्तिसंभवादापाततो वाक्यार्थबुद्धावपि प्रकरणादुक्तार्थतात्पर्यग्रहेण तद्वाधाव- तारादर्थदोषत्वं बोध्यम्। 'सुखेन शयितश्विरादुषसि बोध्यसे मागधैः' इति युक्तः पाठः। अविमृष्टविधे- यांशे तु युक्तस्यैव विधि: परं त्वविमर्शमात्रम्। अत्र तु अयुक्तस्यैव विधिरिति ततो भेदः। 'शेषे' इत्याख्यातेन ( तिङन्तेन ) शयनस्यापि विधेयतावगतिर्जायते। परं तु विधेयतापर्याप्त्यनधिकरणे तत्रा- ख्यातगम्यविधेयत्वविश्रान्तिरयुक्ता प्रयत्नबोधपर्यन्तमेव तदौचित्यात्। तथा शयितो भविष्यसि यथा प्रयत्नेन बाध्यसे इति प्रबोधे एव तद्विश्रान्तेः विशिष्टविधौ विशेषणांशेऽपि तदवगमान्न विधेयाविमर्श इति भावः। निशां रात्रीणां शेषेऽवसाने अद्यारभ्य प्रयत्नपरिबोधितो 'भविष्यसि' इत्यध्याहार्यमिति नात्रायं दोष इत्यन्ये। एतन्मतेऽपि साकाङ्गत्वं दोषोऽस्त्येवेति बोध्यमिति प्रदीपोद्दयोतप्रभासु स्पष्टम् ।। "यत्तु श्रीवत्सलाञ्छनभट्टाचार्यप्रमुखैरुक्तम् ननु सुखस्वापे बोधात्परतोऽपि निद्रासंभवे शयने एव विधेयतापर्याप्तिः संभवति कि च निशां रात्रीणां शेत्रऽन्ते इत्यर्थस्यापि संभवेन नोक्तदोष इत्यस्वरसा- दाह वाताहारेतीति तत्प्रामादिकम्। ईदक्वष्टकल्पनायां चमत्काराभावात्। अचमत्कृतं च काव्यमेव ने स्यात्। किं च प्रयत्नपरिबोधितो निशां शेषे इत्युक्ते निशाप्रारम्भ वैतालिकैर्बोधनं प्रतीयते तच्चायु- क्तमेव। पक्षान्तरे निःसोमकं जायते कथा परिसमाप्यते भारोऽपैतु इति समभिव्याहारे प्रयत्नपरि- बोधित इति विधिरसंगतः स्यात् । द्वितीयोदाहरणे विध्ययुक्तत्वमयुक्तक्रमतयेति द्रष्टत्यम्" इति सुधासागरकारा आहु:॥ द्वितीयमुदाहरति वाताहरेति। भल्टकविकृते भल्टशतके ८७ पद्यमिदम। विषधरैः सपैः वाता हारतया वायुभक्षणव्रतधारितया आश्वास्य सर्वेषां विश्वासमुत्पाद्य जगत् निःशेषितं सर्व नाशितम्। जगन्ति निःशेषयितुमेव वाताहारत्वमाचरितमिति भावः। ते पुनविषधराः अभ्रतोयकणिकापानरूपं तीव्रं व्रतं येषां तादशैः मेघजलबिन्दुमात्राहारैरित्यर्थः बर्हिभि: मयूरैः ग्रस्ताः भक्षिताः। सर्पान् ग्रसितुमेव अभ्रतोयकणिकापानव्रतमाचरितमिति भावः । "अभ्रं मेघो वारिवाहः" इत्यमरः। ते बर्हिणोऽपि क्रूर कर्कशं (कठिनं) यञ्चमूरोश्वित्रमृगस्य चर्म तदेव वसनं येषां तथाभूतैः लुब्धकैः व्याधैः क्षयं नाशं नीता: प्रापिताः । बर्हिमारणायैव चर्मधारिव्रताचरणमिति भावः। "व्याधो मृगवधाजीवो मृगयुर्तुब्धको- डपि सः" इत्यमरः । युक्तोऽयमर्थ इत्याह दम्भस्येत्यादि। जाल्मोऽसमीक्ष्यकारी ( मूर्खः) जनः (परप्रतार्यः)। "जाल्मस्तु पामरे। असमीक्ष्यकारिणि च" इति हैमः। शाठ्येन धर्माचरणं दम्भ: तस्य स्फुरितं च चेष्टितं (परहिंसारूपं) विदन्नपि जानन्नपि गुणान् धार्मिकत्वादीन् ईहते संभावयति १ "निशीथिनी निशा निट् च श्यामा तुङ्गी तमा तमी" इति नामनिधानकोशात् निडिति शान्तशब्दस्यापि सच्वादाह निशामित्यादि।।

Page 463

४०४ काव्यप्रकाश: सटीकः।

अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम्॥ २१) अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिपराणदमन। सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोडहं मोहं श्लथय कथय क्वेन्द्ुवदना॥२८३॥

'दाम्भिकेष' इति शेषः । उद्तयोतकारास्तु वाताहारतयेत्यादितृतीयान्तानि 'आश्वास्य' इत्यत्र करण- तयान्वियन्तीत्याहुः। अर्थान्तरन्यासोऽत्रालंकारः । शार्दूलविक्रीडितं छन्दः। लक्षणमुंक्तं प्राक् १८ पृष्ठे ।

अत्र मृगचर्मवसनं मेघतोयकणिकापानं वायुभक्षणं चेत्युत्तरोत्तरं तीव्रमिति तत्क्रमेणैव :विधिर्युक्त: तदन्यथाकरणेनायुक्तक्रमतया विध्ययुक्तत्वम् । अज्ञातस्य ज्ञापनं विधिः स चात्र निःशेषितमिति निःशेषणस्य ग्रस्ता इति ग्रासस्य क्षयं नीता इति क्षयप्रापणस्य चेति बोध्यम्। तदेवाह अत्रेत्यादि। व्युत्क्रमेण वाच्यमिति। विपरीतक्रमेण वक्तव्यमित्यर्थः। अयं भावः। अत्रार्थान्तिरन्यासरूपान्यापदे- शभूतचतुर्थचरणस्वारस्येन दम्भाधिक्ये वाच्ये तीव्रतीवरतरतीव्रतमक्रमेणैव विधिर्वाच्यः । एतेन दुष्क्रम- त्वमत्र स्यादित्यपास्तम्। अत एवार्थदोषोडयम् यथाश्लतवाक्यार्थोपपत्तावपि चतुर्थचरणीयापदेशानुसा- रेण तीव्रादिक्रमेण विधौ तात्पर्यग्रहादित्याहुः। केचित्त दम्भचेष्टाया विधेयत्वे जगन्निःशेषयितुं वाताहार: कृत: तान् ग्रसितुमभ्रतोयकणिकाव्रतं कृतम् तान् क्षयं नेतुं चर्मवसनं कृतमित्येवं व्युत्कमेणाभिधातुं युक्तमित्याहुः तन्मतेऽविमृष्टविधेयांशतैव स्यात्। एतादृशापदेशे लोकप्रसिद्धकमलङ्गनेन विवक्षिता प्रतीत्या श्रोतुरुद्वेगो दुष्टिबीजमिति नित्योऽयं दोष इति प्रदीपोद्दयोतयोः स्पष्टम्॥

(२१ ) 'अनुवादायुक्तः' अयुक्तानुवाद इत्यर्थः । अयुक्तत्वं चात्र विध्यननुगुणत्वम् । अनुवाद्श्रव सिद्धस्योपन्यास: (कथनम् ) इति बोध्यम् । तमुदाहरति अरे इति। नीलोत्पलं प्रति विरहिण: पुरूरवस उक्तिरियमिति चक्रवर्तिमहेश्वरश्रीवत्सलाञ्छनवैद्यनाथभीमसेननागोजीभट्टादयो वदन्ति। परं तु विक्रमोर्वशीये पद्यमेतन्नोपलभ्यते। अरे हे सखे नीलोत्पल अहं सखेदः दैन्यसहितः अस्मि अतः इन्दुवदना चन्द्रमुखी क तत् कथय मदीयं मोहं श्लथय शिथिलं कुरु (दूरीकुरु) इत्यन्वयः । कीदश रामायाः सुन्दर्याः हस्तस्याभरण अलंकारभूत। अनेन तदागमनस्य तत्र संभावितता ध्वनिता। भसला: भ्रमराः "भसलश्ष मिलिन्दश्र शिपुटश्र शिलीमुखः" इति भ्रमरपर्यायेऽमराधिकपाठः। तेषां श्रेण्याः आवल्याः शरण गृहभूत यद्दा रक्षक। "शरणं गृहरक्षित्रोः" इत्यमरः । अनेन शरणगमन- योग्यता ध्वनिता। स्मरक्रीडायां या वीडा लज्जा तच्छमन। तच्छामक। उद्ीपकतया स्मरक्रीडाव्रीडा- शामकत्वम्। अनेन मदनोपकारकत्वं ध्वनितम्। विरहिणां वियोगिनां ये प्राणास्तेवां दमन संत्रासक। विरहिप्राणद्मनत्वं स्मरसपक्षत्वात् । सरोहंसस्य सरःश्रेष्ठस्य उत्तंस भूषण। "निलोभे नृपतौ हंस:" इति विश्वः । प्रचलानि (मन्दमारुतेन) चञ्चलानि दलानि पत्राणि यस्य तथाभूतेत्यर्थः। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥

१ दुष्क्रमे कमस्य दुष्टत्वम् अत्र तु कमस्य दुष्टत्वेन विधेरयक्नत्वमिति भारः। प्रभारूतस्तु "लोक नसिंद्वस्योत्त- रोत्तरतविकरमस्य त्यागमात्रम् न त्वत्र लौकिकक्रमेण विरोधः 'तुरङ्ग' मातङ्ग वा' (३८ ४ पृष्ठे ३ पङ्चौ) इति वद- स्तीति दुष्क्माद्रदः" इत्याहुः ॥

Page 464

सप्तम उल्लास: । ४०५

अत्र 'विरहिपाणदमन' इति नानुवाद्यम् ॥ (२२ ) लन्नं रागावृताङ्गचेत्यादि॥ २८४॥ अत्र 'विदितं तेडस्तु' इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः। (२३) हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथास्य जायते पातो न तथा पुनरुन्नतिः ॥ २८५।। अत्र पुंध्यअ्ञनस्यापि प्रतीतिः । अत्र विरहीत्यादि। अत्र 'विरहिप्राणदमन' इत्यनुवाद: 'कथय क्वेन्दुवदना' इति विधिविरुद्धः। अयं भावः। अत्र विरहिण: पुरुषस्य स्वमोहश्लथनप्रार्थनायां विरहिप्राणदमनत्वेनानुवादो न युक्तः विरहिविरोधित्वेन तन्मोहश्लथनायोगादिति। विधिविरुद्धत्वमेव दूषकताबीजमिति नित्यदोषोऽयम्। प्रकरणानुसंधानेनानुवादायुक्तताप्रतीतिरित्यर्थदोषतेति प्रदीपोक््योतविस्तारिकादिषु स्पष्टम्॥ (२२) 'त्यक्तपुनःस्व्रीकृतः'। "पूर्व त्यक्तोऽनन्तरं पुनः स्वीकृतः पुनरुपात्त इत्यर्थः" इति प्रदपिः । क्रियाकारकान्वयेन निराकाङतया समाप्तेऽपि वाक्ये पुनः कारकान्तराभिधानं त्यक्तपुनःस्वीकृतत्वम्। तमदाहरति लग्नमिति। व्याख्यातामिदं प्रागत्रवोल्लासे गर्भितप्रस्तावे (३६३ पृष्ठे)॥ अत्र विदितमित्यादि । अत्र 'न किंचिदणयति' इत्यन्तेन कर्मकारकेण विदिक्रियान्वये समा- प्रेऽपि 'भृत्येम्यः' इत्यादिना पुनः कर्मकारकाभिधानमिति त्यक्तपुनःस्वीकृतत्वम्। समाप्तपुनरात्ते तु पूर्वोक्तस्यैव कारकस्य विशेषणदानमिति भेद इति विवरणे स्पष्टम्। व्याख्यातं च प्रदीपोद्दयोतयोरपि। "अत्र 'विदितं तेऽस्तु' इत्युपसंहृतो राजदोषः 'तेनास्मि दत्ता भृत्येभ्यः' इत्येतावता पुनरुपात्तः । स चाप्रयोजकः उत्प्रेक्षाया उपसंहृतेनैव निर्वाहात्। श्रीनियोगादित्यादिकं त्वदुष्टमेव अन्यथा वाक्यैकवाक्यतोच्छेदापतेः। दूषकताबीजं त्वप्रयोजकत्वं सहृदयवैरस्याधानं वा। लोकेपि हि त्यक्तस्य भक्ष्यादेः पुनरुपादानं वैरस्यमावहति। नित्यश्रायं दोषः। त्यक्तपुनःस्वीकृते एव वाक्यार्थे विशेषणान्त- रोपादाने समाप्तपुनरात्तम् । अत्र त्वन्य एव वाक्यार्थ इति ततो भेदः" इति प्रदीपः । (उपसंहृतः उपसंहृतैकदेशः । अप्रयोजकत्वे हेतुमाह उत्प्रेक्षाया इति। अन्यथा वाक्यैकेति। अत एव 'येनानेन जगत्सु०' (३२९ परष्ठे) इत्यादौ नायं दोष: उत्तरवाक्यस्थयत्पदार्थस्य आक्षिप्ततत्पदार्थेन नियता- काङ्कासत्त्वाच्च। परशुप्रकर्षार्थ तदुपादानेन 'येनानेन' इत्यादौ न समाप्तपुनरात्तत्वम्। नापि प्रकृतो- दाहरणे समाप्तपुनरात्तता तेनास्मि दत्ता भृत्येभ्य इति श्रीनियोगाद्गदितुमिवेत्यर्थबोधोपपत्तेरिति भावः। विशेषणान्तरोपादाने इति। तच्च पदार्थरूपं वाक्यार्थरूपं चेत्यन्यदेतत्) इत्युद््योतः । (२६) 'अश्लीलः' व्रीडादिसमर्पकोऽर्थः तमुदाहरति हन्तुमिति। प्रदीपे तु 'उद्यतस्य परं हन्तुम' इति प्रथमचरणे 'यथाशु जायते' इति तृतीयचरणे च पाठः। हन्तु हिंसां सुरतक्रियारूपयोनिताडनं च कर्तुमेव प्रवृत्तस्य स्तब्धस्यानम्रस्य निष्क्रियोन्नतस्य च वित्ररैषिणः परदोषान्वेषिणः स्त्रीवराङ्गम- ध्यान्वेषिणश्र्ास्य दुष्टस्य लिङ्गस्य च यथा पातोऽपचयः वीर्यत्यागजनितशैथिल्यं च जायते तथा उन्नतिरुपचयः रागोद्रेकेण दृढता च पुनर्न जायते इत्यर्थः॥ अत्र पुंव्यञ्जनस्यापि प्रतीतेरश्लीलत्वम्। तदेवाह अ्रेत्यादि। पुंव्यअ्ञनस्येति। पुरुषावयवविशे- षस्येत्यर्थः पुरुषलिङ्गस्येति यावत्। "वयञ्जनं लाञ्छनं रमश्षनिष्ठानावयवेष्वापि" इत्यमरः। अत्र पद-

Page 465

४०६ काव्यप्रकाशः सटीकः ।

यत्रैको दोष: प्रदर्शितस्तत्र दोषान्तराण्यि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम्।। (सू० ७७) कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थम् अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये। यथा

परिवृत्तिसहत्वेनार्थदोषता। तदुक्तं प्रदीपोद्योतयोः । "शब्दान्तरेणाप्युपादीयमानोऽयमर्थः पुंव्यञज- नादिसाधारण्येन प्रतीतेवीडादायी" इति प्रदीपः । (अस्यार्थदोषत्वे बीजमाह शब्दान्तरेणापीति) इत्युद्योतः ।

नन्क्तेषूदाहरणेषु किमुदाहता एव दोषा: तथा सत्यन्यलक्षणानां तेषु दर्शनादतिव्याप्तिः अथ तत्र दोषान्तराण्यपि संभवन्ति तर्हि किमिति न प्रकाशितानीत्याशङ्कायामप्रकृतत्वान् प्रकाशितानी- ति समाधत्ते यत्रैक इत्यादि। सन्तीति। संभवन्तीत्यर्थः । यथा 'लग्नं रागावृताङ्गया' (४०५ पृष्ठे) इत्यादौ। तेषां दोषाणाम्। अप्रकृतत्वादिति। दोषान्तराणामन्यदोषप्रसङ्गे वक्तुमनर्हत्वा- दित्यर्थः । न त्वलक्ष्यत्वात्। तथा सति तल्लक्षणगमनेऽतिव्याप्तिः स्यात्। एवं चोपधेयसांकर्येऽप्य- पाधेरसांकर्याददोष इति भाव इत्युद्योते स्पष्टम्। उक्तं च सारबोधिन्याम् "यत्रैक इति। एतच्च 'लग्नं रागावृताङ्ग्या' इत्यत्र दोषाननेकान् प्रकाशयता ग्रन्थकृतैव प्रकाशितम्। तथा चोपाधिसंकरो दोषाय न तूपधेयसंकरोऽपीति भावः" इति ॥

अथ दोषाणामेव विषयविशेषे यथासंभवमदोषत्वे प्रतिपाद्यितव्येऽर्थदोषाणां संनिधानात्प्रथममर्थदो षस्यैवादोषत्वं प्रतिपाद्यति कर्णावतंसादीत्यादि। अयं हि श्लोक: (इदं सूत्रमग्रिमसूत्रं च ) मम्मटापे- क्षया प्राचीनेन वामनेन स्वकृतकाव्यालंकाराख्यग्रन्थे २ अधिकरणे २ अध्याये १९ सूत्रवृत्तौ स्वप्रति पादितेऽर्थे वृद्धसंमति प्रदर्शयितुं लिखितः स एव श्लोको मम्मटेनात्र स्वसूत्रतयोपात्त इति बोध्यम्। ध्वनिः शब्दः । निर्मितिरुपादानं प्रयोगो वा। संनिधानं सांनिध्यम् । तथा च कर्णावतंसादिपदे कर्णादिशब्दप्रयोग: संनिधानादिबोधार्य कर्णस्थित्यादिरूपाधिकार्थप्रतिपत्त्यर्थ क्रियते इत्यर्थः ॥ कर्णादिशब्दानां वैयर्थ्यपूर्वकं सार्थकत्वं दर्शयन सूत्रं व्याचष्टे अवतंसादीनीति आदिपदेन शेखरादिपरिग्रहः । कर्णाद्याभरणान्येव कर्णादिविभूषणान्येव। उच्यन्ते इति। "पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे" इत्यमरादिति भावः। कर्णादीति। आदिमा शिरआदिपरिग्रहः । कर्णादिस्थितिप्र- तिपत्तये इति। एवं चावस्थितिप्रतिपत्तिरूपप्रयोजनहेतुत्वान्न पौनरुक्त्यम् पुनरुक्तलक्षणे प्रयोजनं विनेत्यस्य विशेषणस्य दानात्। नापि चापुष्टत्वम् दूरस्थितेष्ववतंसादिशब्दप्रयोगादिति भावः ॥

व्याख्यातमिदं प्रदीपोद्दयोतप्रभासु । "अवतंसादिपदैर्जात्यादिपुरस्कारेण कर्णाभरणादीन्येवोच्यन्ते इत्यर्थप्राप्तौ कर्णपदादीनां यद्यप्यपुष्टार्थत्वं पुनरुक्तत्वं वा युज्यते तथापि क्वचित् कर्णेऽवतंस इत्यादि- व्युत्पत्त्या क्वचिल्लक्षणादिना च कर्णस्थित्यादिरूपस्याधिकस्य विवक्षितार्थस्य प्रतिपत्तेरदोषत्वम्" इति प्रदीपः । (जात्यादिपुरस्कारेणेति। कर्णसंबन्धिभूषणत्वेन शक्तौ शक्यतावच्छेदकगौरवात्कर्णाद्य-

१ अलक्ष्ये लक्षणगमनम् अतिव्याप्तिः ॥ २ उपधेयोति। उपाधेयेत्यपि पाठः। अधिकं तु प्राक् (१९६ उदा- हरणे ३१८ पृष्ठे ३ टिप्पणे) द्रष्टव्यम् ।। ३ 'इत्यर्थतः प्राप्तौ' इत्यपि पाठः ॥

Page 466

सप्तम उल्लास: । ४०७

अस्या: कर्णावतंसेन जितं सर्व विभूषणम्। तथैव शोभतेऽत्यर्थमस्याः श्रवणकुण्डलम् ॥ २८६॥ अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ॥ २८७॥ अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रतीत्यर्थाः। विदीर्णाभिमुखारातिकराले संगरान्तरे। धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ॥२८८॥ संबन्धेऽपि तत्प्रयोगाच्च कर्णादिसंबन्धयोग्यतया वैलक्षण्यानतिरेकाच्चेति भावः। वैजात्यं च कर्णादि- संबन्धाक्षेपकम्। अत्र पक्षेऽपुष्टार्थत्वम्। 'अवतंसः कर्णभूषा' इत्यादिकोशात् कर्णसंबन्धयोग्यभू- षणत्वेन शक्तिरिति केचित्तन्मतेनाह पुनरुक्तत्वं वेति। क्वचिलक्षणादिनेति। यथा पुष्पमालापदे (४०९ पृष्ठे) इत्युद््योतः । (जात्यादाति। ताटङ्कत्वादिजातिपुरस्कारेणेत्यर्थः । आदिना कर्णा- भरणत्वोपाधिना वेत्यर्थः । तत्राय्यपक्षे कर्णांभरणत्वमर्थप्राप्तम् अन्त्ये तु पुनरुक्ततेत्यर्थः) इति प्रभा॥ तदुदाहरति अस्या इति। 'तस्याः' इत्यपि पाठः । अस्याः कामिन्याः कर्णावतंसेन कर्णाभरणेन सर्व विभूषणं जितम्। तथैवास्याः श्रवणकुण्डलं कर्णकुण्डलं अत्यर्थम् अत्यन्तं शोभते इत्यर्थः । अत्रावतंसपदेनैव कुण्डलपदेनैव च कर्णाभरणोक्तावपि कर्णादिपदस्य कर्णादिस्थितित्यञ्जकतया न पुनरुक्तत्वादिदोषः । तथा चोक्तं प्रदीपे "अत्रावतंसस्य कर्णस्थित्यवस्था कर्णपदोपादानेनावगम्यते। तदवगत्या किं प्रयोजनमिति चेत् वर्णनीयोत्कर्षः। कथमिति चेत् न स्वरूपतोऽस्य विभूषणजेतृत्वम् किं तु तत्कर्णावस्थित्येति पर्यवसानात्। एवं श्रवणकुण्डलपदेऽप्यूह्यम्" इति। उक्तं च सार- बोधिन्यामपि "तत्रावतंसस्य कर्णस्थित्यवस्था कर्णपदेनावगम्यते ततो वर्णनीयोत्कर्षः। स्वतो न भूषणान्तरजेतृत्वम् अपि तु तत्कर्णसंबन्धेनेति पर्यवसानात्" इति॥ न केवलं कर्णश्रवणपद्योरेवायं महिमा किं त्वन्येषामपीत्युदाहरणान्तरमाह अपूर्वेति। तथा चाहुः सारबोधिनीकारा: "शब्दान्तरेऽप्युदाहरति अपूर्वेति" इति। अपूर्वों लोकोत्तरो मधुरो हय्यो य आमोद: गन्धपुष्पादिपरिमलः तेन प्रमादिताः सुगन्धिताः दिशः यैः । 'मधुरालापप्रमोदित' इति पाठे आलापो भाषणं तेन प्रमोदिताः हर्षिताः दिशा यैस्तथाभूता इत्यर्थः । भृङ्गैः भ्रमरैः मुखराः संजातशब्दा: (भ्रमरकृतगुञ्जारवयुक्ताः ) शिरःशेखरः शिरोभूषणं तच्छालिनः तच्छो- भिन: पुरुषा आययुः आगता इत्यर्थः। मुखरशब्दो "रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्' इति वार्तिकेन मत्वर्थे रप्रत्यये साधुः ॥ अत्रापि "शिखास्वापीडशेखरौ" इत्यादिकोशात् शेखरपदेनैव शिरोभूषणोक्तावपि शिरःपदस्य शिरःस्थितिव्यञ्जकतया न पुनरुक्तत्वादिदोषः । उक्तं च प्रदीपे "अत्र शिरःपदादाने शेखर- स्वाम्यमात्रं लभ्यते न तु तदलंकृतत्वम्। तथा च तत्प्रतीतेरदोषत्वम्" इति। तदेतत्सर्वमाह अत्रेति। क्रमेणोदाहरणेष्वित्यर्थः ।। संनिधानादीत्यादिशब्दार्थ दर्शयन उदाहरणान्तरमाह विदीर्णति। हे राजन् आदौ विदीर्णा; १ हस्तिदन्तनिर्मित: सुवर्णनिर्मितो वा कर्णाभरणविशेषस्ताटङ्क; ।

Page 467

काव्यप्रकाशः सटीक:।

अत्र धनुःशब्द आरूढत्वावगतये। अन्यत्र तु ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसदक्त्रपरंपरेण। कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥२८९॥ इत्यत्र केवलो ज्याशब्दः । प्राणेश्वरपरिष्यङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनदयम् ॥ २९०। अत्र मुक्तानामन्यरत्नामिश्रितत्व बोधनाय मुक्ताशब्दः । विक्षताः (शरनिर्भिन्नाः) पश्र्ादभिमुखाः अनुकूलाः (वशतां गताः) ये अरातयः शत्रवः तैः कराले व्याप्ते भीषिणे वा संगरान्तरे संग्राममध्ये तव धनुर्ज्यायाः धनुमौर्व्याः किणो व्रणः स एव चिह्नं लिङ्गं यस्य तादृशेन दोष्णा बाहुना विस्फुरितम्। 'स्फुर स्फुरणे संचलने च' इति तौदादिकाद्धातोर्भावे क्ः। 'विस्फूर्जितम्' इति पाठे सम्यक् चेष्टितमित्यर्थः । करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत्" इति "संगरो युधि चापदि। क्रियाकारे विषे चाङ्गीकारे कीबं शमीफलें" इति च मेदिनी॥ अत्र धनुरित्यादि। अत्र "मौर्वी ज्या शिञ्जिनी गुणः" इत्यमरकोशात् ज्याशब्देनैव धनुर्गुणो- क्तावपि धनुःशब्दप्रयोगो ज्याया आरूढत्वप्रतीतये तया च प्रतीत्या किणस्य प्रहारकृतत्वमवगम्यते तदवगमे च वर्णनीयोत्कर्ष इति न पुनरुक्तत्वादिदोष इति भावः। तदुक्तं चन्द्रिकायाम् "अत्र धनुरारूढता प्रतीयते धनुःपदेन सा च किणस्य प्रहारकृतत्वप्रतिपत्तये" इति॥ यत्र तु आरूढत्वप्रतीतिरूपं प्रयोजनं नास्ति तत्र न धनुःशब्दोपादानम् किंतु केवलज्याशब्दोपादा- नमेव। तदेवाह अन्यत्र त्विति। आरूढत्वावगतिरूपप्रयोजनशून्ये स्थले इत्यर्थः । ताद्ृशं स्थलमुदा- हरति ज्याबन्धेति। रघुकाव्ये षष्ठे सर्गे इन्दुमतीं प्रति सुनन्दाया उक्तिरियम्। यस्य कार्तवीर्यस्य कारागृहे बन्धनागारे निर्जितवासवेन निर्जितदेवेन्द्रेणापि लङ्केश्वरेण रावणेन आ प्रसादात् प्रसाद- पर्यन्तम् उषितं स्थितमिति संबन्धः। कीदशेन ज्यायाः मौर्व्याः यो बन्धो बन्धनं तेन निष्पन्दाः निष्कि- या: निश्र्वेष्टाः भुजाः यस्य तथाभूतेन । अत एव विशेषतो निश्वसती वक्त्रपरंपरा मुखपक्किर्यस्य तथाभूतेनेत्यर्थः । पुरा किल जलकेलिलोलविलासिनीजनस्नानार्थमर्जनभुजपरिघरुद्द्ेन रेवावारिप्रवाहेण स्वकृतशिवलिङ्गार्चापुष्पोपहारस्यापहाराद्वुषितं रणरसागतं रावणं युद्धे जित्वा माहिष्मत्याः पुर्याः पतिः सहस्रबाहुः कार्तवीर्योरऽर्जुनो निजचापज्याबन्धेन बबन्धेति कथा श्रीमद्रामायणे उत्तरकाण्डे एकत्रिंशद्वात्रिंशयोः सर्गयोः स्थितात्रानुसंधेया। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ इत्यत्रेति। अत्रारूढत्वप्रतीतिरूपप्रयोजनाभावाद्धनु:शब्दानुपादानमिति भावः॥ उदाहरणान्तरमाह प्राणेश्वरेति। स्तनद्यं (कर्तृ) प्राणेश्वरस्य दयितस्य परिष्वङ्गे आलिङ्गने ये विभ्रमा: हावभेदाः (अर्थान्नायिकायाः) तेषां प्रतिपत्तयः ज्ञानानि ताभिः यद्वा प्राणेश्वरस्य परिष्वङ्गेण याः विभ्रमस्य प्रतिपत्तयस्ताभि: उपलक्षितम्। लसता शोभमानेन मुक्ताहारेण हसतीवेत्युत्प्रेक्षालं- कारः । मुक्ताहार एव शुभ्रत्वात् स्तनद्वयस्य हास इत्यर्थः ॥ अत्र हारश्दस्य मुक्तासंदर्भशक्तत्वेऽि न पुनरुक्तमित्याह अत्र मुक्तानामित्यादि। "हार शब्दस्य मुक्तासंदर्भशक्तत्वेऽपि न मुक्ताशब्दवैयर्थ्यम् पदमरागादिरत्नान्तरामिश्नितत्वप्रतिपादनेनोत्ये-

Page 468

सप्तम उल्लास: । ४०९

सौन्दर्यसंपत् तारुण्यं यस्यास्ते ते च विभ्रमा। षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे॥। २९१॥ अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः। निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते॥ (सू० ७८) स्थितेष्वेतत्समर्थनम् ॥५८॥ न खलु कर्णावतंसादिवज्जघनकाश्चीत्यादि क्रियते। जगाद मधुरां वाचं विशदाक्षर शालिनीम्॥ २९२।। क्षायामुपयागादिति भावः" इति प्रदीपः। (उत्प्रेक्षायामुपयोगादिति। 'हारो मुक्तावलौ' इति विश्वकोशात् 'मुक्ताग्रैवेयकं हारः' इति कोशाच्च हारत्वेनैव मुक्तासंबन्धावगतौ पुनर्मुक्तापदं नियमायेत्यन्यव्यावृत्तिरिति भावः । एवं मरकतशिलेत्यादौ शिलापदं विस्तीर्णत्वप्रतिपादनायेति बोध्यम्) इत्युइ्योतः। यद्यप्युक्तकोशात्केवलमुक्तानामेवावलौ हारशब्दस्तथापि मुक्तानां बाहुल्येन प्राधान्यादाम्रवनन्यायेन मलग्रामन्यायेन वा रत्नान्तरमिश्चितमुक्तानामप्यावलौ हारशब्द इति वृत्ति- प्रदीपोदयोतानामाशय इति न तेषां (वृत्तिप्रदीपोद्दयोतानाम् ) अनुपपत्तिः॥ उदाहरणान्तरमाह सौन्दर्येति । हे सखे सा वनिता कान् पुरुषान् नाकर्षति न वशीकरोति अपि तु सर्वानित्यर्थः । केव षट्पदान् भ्रमरान् पुष्पमालेव । सा का यस्याः सौन्दर्यसंपत् सौन्द- र्यातिशयः तारुण्यं च 'अस्ति' इति शेषः । ते ते अनुभवैकवेद्याः विभ्रमाः हावभेदाः सन्तीत्यर्थः । "षट्ूदभ्रमरालयः" इत्यमरः ॥ अत्र निरुपपदान्मालाशब्दादेव पुष्पस्रक्प्रतीतेः पुष्पपद्मुत्कृष्टपुष्पत्वे संक्रमितवाच्यम्। तदाह अत्रोत्कृष्टेत्यादि। मालाशब्दो यद्यपि पुष्पस्यैव स्रजि शक्तस्तथापि न पुष्पपद्मपुष्टार्थम् लक्षणयो- त्कृष्टत्वप्रतिपादकत्वादिति भावः । अयमेव करिबृंहितन्यायः । ननु मालाशब्दस्य पुष्पस्रङ्मात्र- शक्तत्वमित्यसम्यक् रत्नमालाशब्दमालेत्यादिप्रयोगदर्शनादिति चेन्न। निरुपपदस्य तथात्वात्। तदाह निरुपपदो हीति। विशेषणरहितो हीत्यर्थः॥ नन्वेवं जितमपुष्टार्थेन ईद्ृशप्रयोजनस्य सर्वत्र वक्तुं शक्यत्वात् तथा च जघनकाञ्च्यादिपद्प्रयोग- प्रसङ्ग इत्यत आह स्थितेष्तिति । स्थितत्वं चानादिप्रयोगविषयत्वम् । समर्थनं युक्तिप्रदर्शनम्। तथा च चमत्कारजनकतया स्थितेषु महाकविप्रयुक्तेष्वेव हि पदेष्वेतत्समर्थनं न तु स्वेच्छया पद्मात्रे। तादशं च कर्णावतंसादिपदमेव न जघनकाञच्यादिपदम् कविभिरप्रयुक्तत्वादित्यर्थः । अत एव प्रथमोल्लासे (१२ पृष्ठे ) पूर्वप्रयोगाद्यवेक्षणार्थे महाकविकाव्यविशेषावेक्षणमुक्तमिति बोध्यम्॥ सूत्रं व्याचष्टे न खल्वित्यादि । क्रियत इति। प्रयुज्यते इत्यर्थः । 'महाकविभिः' इति शेष: । महाकविप्रयुक्तेष्वेवं समाधानं न तु स्वेच्छया कर्णावतंसादिपद् वज्जवनकाऊ्यादि करिक- लभवदुष्टकरभादि वा प्रयोक्तव्यमिति प्रदीपेऽपि स्पष्टम् । अत एव 'त्यज करिकलभ त्वं प्रेमबन्धं करिण्याः' इति महाकविप्रयोगः॥ वामनेन तु स्वकृतकाव्यालंकाराख्यग्रन्थे २ अधिकरणे २ अध्याये १८ सूत्रे 'जगाद मधुरां वाचम्' इत्यत्र 'गद व्यक्तायां वाचि' इति धातुपाठात् जगादेति क्रियया उक्तार्थस्यापि वाचमिति विशेष्यस्य नानर्थक्यं मधुरां विशदाक्षरशालिनीमिति विशेषणदानार्थ तडुपादानात् अन्यथानन्वय; ५३

Page 469

४१० काव्यप्रकाशः सटीकः। इत्यादौ क्रियाविशेषणत्वेऽपि विवक्षितार्थप्रतीतिसिद्धौ "गतार्थस्यापि विशेष्यस्य विशेषणदानार्थ क्वचित्प्रयोग: कार्यः" इति न युक्तम्। युक्तत्वे वा चरणत्रपरित्राणरहिताभ्यामपि द्रुतम्। पादाभ्यां दूरमध्वानं व्रजन्न्नेष न खिद्यते॥ २९३ ॥ इत्युदाहार्यम्॥ स्यादित्युक्तम् तदुदाहरणं निराकरोति जगादेत्यादिना 'न युक्तम्' इत्यन्तेन। सिद्धाविति। हेतौ सप्तमी। अस्य 'न युक्तम्' इत्यनेनान्वयः । गतार्थस्य पदान्तरेणोक्तार्थस्य। इति न युक्तमिति। तत्र 'जगाद मधुरं विद्वान् विशदाक्षरशालि च' इति पठनेन मधुरं विशदाक्षरशालि च यथा स्यात्तथा जगादेत्यादिरीत्या क्रियाविशेषणतया विवक्षितार्थप्रतीतिसंभवात् वाचमित्यनर्थकमेवेति भावः। एवं "शुचिस्मितां वाचमवोचदच्युतः" (१ सर्गे २५ शलो०) इति माघप्रयोगेऽपि बोध्यम् ॥ यत्र क्रियाविशेषणत्वं न योग्यं स्वयं तदुदाहरति चरणत्रेति। एष पुरुषः चरणौ त्रायते इति चरणत्रम् उपानत् तेन यत्परित्राणं तद्रहिताभ्यामपि पादाभ्यां द्रुतं शीघ्रं ('स्फुटम्' इति पाठे सवेगमित्यर्थः) दूरम् अध्वानं मार्ग व्रजन् गच्छन् ('व्रज गतौ' इति भ्वादिगणे धातुः) ('व्रजन्नेष' इत्यत्र 'व्रजन्नपि' इत्यपि क्वचित्पाठः ) न खिद्यते खेदं दुःखं न प्रामोतीत्यर्थः॥ अत्र 'व्रजन्' इति गतिक्रियायाश्ररणत्रपरित्राणासंभवेन पादपदोपादानमावश्यकमिति पादपदस्य न गतार्थत्वम्। तदेवाह इत्युदाहार्यमिति। अत्र चरणत्रेत्यादि पादविशेषणमेव न क्रियाविशे- षणार्हमिति उत्तरदेशसंयोगानुकूलपादविहरणार्थकेन व्रजधातुना उक्तार्थस्यापि पादाभ्यामित्यस्य नानर्थक्यम् उक्तविशेषणदानार्थमुपात्तत्वादिति भावः । तथा चायं सिद्धान्तः । यत्र यदुपादानं विना विशेषणदानासंभवेन विवक्षितार्थप्रतीतिविघातस्तत्रैत्र गतार्थस्यापि तस्योपादानं युक्तम् नान्य- त्रेतीति विवरणादौ स्पष्टम्। एवं च 'संप्रस्थितो वाचमुवाच कौत्सः' (५ स्गे ३२ श्लो०) इति रघुकाव्ये वाचो विशेषणायोगात् 'वाचमुवाच' इति चिन्त्यमेव ॥ अत्र प्रदीपकाराः "वामनस्तु 'अपुष्टस्यापि तत्रोपादानमुचितं यत्र तद्विशेष्यते अन्यथा कुतस्त- द्विशेषणान्वयः स्यात्। यथा 'जगाद विशदां वाचं मधुराक्षरशालिनीम्' इत्यादौ। अत्र हि वाचमि- त्यनुपादाने मधुरत्वादितद्विशेषणयोगः क्व प्रत्येतव्यः' इत्याह। तन् युक्तमुदाहृतम् विशदं जगादे- त्यादिक्रियाविशेषणत्वेनैव समीहितसिद्धेः। तस्माद्यत्र न क्रियाविशेषणत्वं योग्यं तदुदाहरणीयम् यथा चरणत्रपरित्राणेत्यादि। अत्र हि चरणत्रेत्यादि पादविशेषणं न क्रियाविशेषणाहमिति प्रकाशकृत्। तदपि न युक्तमुदाहृतमिति वयम्। कर्तृविशेषणत्वेनैवोपपत्तेः। तस्मान्नदीयं पद्यमुदाहरणीयम्। यथा "निर्वातपझ्मोदरसोदराभ्यां विलोचनाभ्यामवलोकयन्ती। न केवलं यूनि मनोभवेऽपि व्यनक्ति कंचित्त- पसः प्रभावम्॥" अत्र निर्वातपद्मोदरसोदराक्षीत्येवं कर्तृविशेषणत्वेनोपपत्तिरिति चेत् सत्यम् परंतु अक्षिपदोपादानमपेक्ष्यैव । कि च सोदरत्वमात्रं नान्यविशेषणीभवितुमर्हति यथा मधुरत्वचरणत्र परित्राणरहितत्वे" इत्याहुः। तत्र बूमः । नह्यत्र कर्तृधर्मसंबन्धविचारः प्रकृतः यतो न कर्तृविशेषणम् क्वचित्कर्तरि साक्षादन्वयानर्हम् येनापुष्टस्योपादानं संभाव्येत किं तु क्रियाधर्मसंबन्धविचार एव । १ निर्वातेनि। वातसंचन्धरहितं यत् पद्मं तस्योदरं मध्यं तत्सदृशाभ्याम् निमेषरहिनाभ्यामिति यावत्। मनो- भवेडशीने। एवविध क्ामिनीरूनने जकार्यसावन संप त्वेरित भावः॥२ अपेक्षामेव व्युत्पादयति किंच सोदरत्वेति॥

Page 470

सप्तम उल्लास: । ४११

(सू० ७९) ख्यातेऽर्थे निर्हेतोरदुष्टता (65o3 )

यथा चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्। उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमचाप लक्ष्मीः ॥ २९४॥ अत्र रात्रौ पद्मस्य संकोच: दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुङक्ते' इति हेतुं नापेक्षते।। अत एव 'जगाद विशदां वाचम्' इत्यादौ क्रियाविशेषणत्वेन विवक्षितस्य विशदत्वादेर्वचनक्रियायां विशदं जगादेति साक्षादेवान्वययोग्यतया न कथचिद्रूपान्तरेण संबन्धार्थ 'गद व्यक्तायां वाचि' इति धात्वर्थेन गतार्थस्यात एवापुष्टस्य वाक्पदस्योपादानं युक्तम्। चरणत्रादेस्तु साक्षात्किरियान्वयानर्हतया कथंचिद्वजनक्रियासंबन्धार्थ पादाम्यामित्यपुष्टोपादानं युक्तमित्युदाहतं प्रकाशकारैः। चरणत्रादेः कर्तृ- द्वारा क्रियासंबन्धाङ्गीकारे तु तस्य पादधर्मतया पादपदाक्षेपावश्यकतया द्वारद्वारान्वेषणगौरवापत्याप्रयो- जकत्वं स्यात्। न स्याच्चाभीष्टसिद्धिः। चरणत्रेत्यादिपये कर्तुर्वजनसामर्थ्य प्रतिपाद्ते। न खलु चरण- त्रादेः कर्तृविशेषणत्वे तत्सिद्धयति।तथाहि। चरणत्रपरित्राणरहितो व्रजन्नपि न खिद्यते इत्युक्ते चरणत्र- राहित्यं कर्तरि सार्वदिकमिति संभाव्येत। तेन च खेदाभावानुकूलेन न खिद्यते इति वजनसामर्थ्यमपकृ- ष्यते। चरणत्रपरित्राणरहिताभ्यां पादाभ्यां व्रजन्नपीत्यत्र चरणत्रराहित्यं वर्तमानक्रियाकालिकमेव प्रती यते। तादृशप्रतीतेश्र खेदानुगुणतया न खिद्यते इति व्रजनसामर्थ्यमुत्कृष्यते इति। सन्ति हि केचि- द्विल्ादयो ये न कदाचिदुपानत्परिधानं कुर्वन्ति न च व्रजन्तः खिद्यन्ते तेषामेव चरणत्रादेः कर्तृ- विशेषणत्वे प्रतीतिः स्यात्। तञ्च नेष्टमिति ध्येयं बहुज्ञैः। यञ्च सोदरत्वमात्रं नान्यविशेषणीभवितु- मर्हतीति तदप्यप्रयोजकमेव 'निर्वातपझ्मोदरसोदरेण नवप्रकारेण विलोकयन्ती' इति पाठेऽन्यविशेष- णत्वस्याभिमतप्रतीतेश्र निर्बाधत्वात्। तथा च कर्तृविशेषणत्वे "भक्षितेऽपि लशुने न शान्तो व्याधिः इति न्याय आपयेत। तस्माद्वरं पादपदोपादानम्। एवं च श्रीवागदेवतावतारोक्तमप्यन्यथा भवतीति न भ्रमितव्यमित्यस्माभिरसकृदावेदितं विद्वद्भिर्न विस्मरणीयमिति सुधासागरे स्पष्टम् । अथ निर्हेतोरदुष्टत्वं गीतिवृत्तेनाह ख्यातेऽर्थे इति। ख्याते तद्धेतुकत्वेन प्रसिद्धे। यथेत्युदाह- रति चन्द्रमिति। कुमारसंभवकाव्ये प्रथमे सर्गे पद्यमिदम्। लोला चञ्चला लक्ष्मीः चन्द्रं गता सती पद्मगुणान् सौरभादीन् न भुङक्ते नानुभवति। रात्रौ पद्मस्य संकुचितत्वादिति भावः । पझमाश्रिता दिवा विकसत्कमलाश्रिता सती चान्द्रमसीं चन्द्रसंबन्धिनीम् अभिख्यां परमां शोभां 'न भुङक्ते' इत्यनुषङ्ग: । अत्र चन्द्रस्य निष्प्रभत्वं हेतुः। उमायाः पार्वत्याः मुखं तु प्रतिपद्य प्राप्य द्विसंश्रयां चन्द्रपद्मोभयगतां प्रीतिम् अवाप। उमामुखस्योभयगतगुणशोभाश्रयत्वादिति भावः । लोलेत्यनेन चञ्चलाया अपि ताह्ट- शप्रीतिदानेनोमामुखस्योत्कर्षः सूचितः । "अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपि" इति मेदिनी। उपजातिर्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे। अत्र रात्रौ चन्द्रगतायाः लक्ष्म्याः पद्मगुणानुपभोगे पद्मसंकोचो हेतुः दिवा च पद्माश्रितायाः लक्ष्म्याश्रन्द्रगुणानुपभोगे चन्द्रस्य निष्प्रभत्वं कारणम् ते चातिप्रसिद्द्ेरेवावगम्येते इति न तदुपादा- नापेक्षेति न निर्हेतृत्वदोषः । तदेवाह अत्र रात्रावित्यादि । हेतुं नापेक्षते इति। न चाशाब्दत्वम्

Page 471

४१२ काव्यप्रकाशः सटीक:

(सू० ८०) (अ)नुकरणे तु सर्वेषाम्।। सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम्। यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम्। पश्यैष च गवित्याह सुत्रामाणं यजेति च ॥ २९५॥ (सू० ८१) वक्त्राद्यौचित्यवशाददोषोऽपि गुणः क्वचित्क्चिन्नोभौ ।५९॥ वक्तृप्रतिपाद्यव्यङ्गयवच्यप्रकरणादीनां महिम्ा दोषोऽपि क्वचिद्गुणः क्वचिन्न दोषो प्रसिद्धित एव झटिति तत्पदाध्याहारात्। एवं चेदृटशे विषये हेतूपादानेऽपुष्टत्वं स्यादिति बोध्यमिति प्रदीपोद्दयोतयोः स्पष्टम् । अत्राहुः सारबोधिनकिारा अपि "अत्र विनापि हेतूपादानं प्रतिपत्तेर्निरा- काङ़त्वादिति भाव:" इति ॥ अथ पदादिदोषाणामप्यदोषत्वं क्वचिदित्याह अनुकरणे त्विति। संहितायां विवक्षितायां "रदु- ष्टतानुकरणे" इति संधिसत्त्वान्नात्र गीत्यात्मकछन्दोभङ्गशङ्गेति बोध्यम्। अनुकरणं नाम शब्दस्य ताद्रूप्येणाभिधानमिति सरस्वतीतीर्थाः। अनुकरणत्वं च स्वसदृशशब्दमात्रबोधतात्पर्यकोच्चारणविष- यत्वमित्यन्ये । व्यवहितदोषानुवृत्तये आह सर्वेषामिति। अदुष्टतेत्यनुषज्जते। सर्वेषामित्यस्य व्या- ख्यानमाह श्रुतिकट्वित्यादि। दोषाणामिति। अदुष्टतेति संबन्धः। प्रतिपादितदूषकताबीजाभावात् तत्र वैरस्याभावस्यानुभाविकत्वेन तैदतिरिक्तस्थले एव दोषत्वव्यवस्थितेर्वेति भावः ॥ यथेत्युदाहरति मृगेति । मृगचक्षुषं मृगनेत्राम्। सुत्रामाणम् इन्द्रम् । अत्र प्रथमार्धे शृङ्गारव्य- अकेऽद्राक्षमिति पदं श्रुतिकटु तृतीयपादे "न केवला प्रकृतिः प्रयोक्तव्या" इति व्याकरणविरो- धात् गोपदं च्युतसंस्कृति चतुर्थपादे "सुत्रामा गोत्रभिद्ज्री" इत्यमरकोशेन "सुत्रामापि च सूत्रा- मा" इति द्विरूपकोशेन च तथाम्नातमपि सुत्रामपदं काव्यादराविषयत्वादप्रयुक्तम्। परं तु परो क्तानुकरणादेतेषामदुष्टता । अनुकरणे चैषामदोषत्ववीजं प्रतिपादितम् तद्वदन्यत्राप्यूह्यम्। ननु श्रतिकटुप्रतिकूलवर्णादीनां पुरोवोद इवानुवादेऽपि स्वरूपानपायात्कर्थं न दोषतेति चेन्न। तस्य शब्द- स्यान्यथावक्तुमशक्यत्वेन श्रोतुर्वैमुख्याद्यभावेनादोषत्वादित्युश्योतादौ स्पष्टम् ।। इदानीं वक्त्रादिमहिम्रा दोषस्यापि क्वचित् रसोत्कर्षापकर्षकारित्वाभावाद्दोषतवाभावमात्रम् क्वचित्तु प्रकृतरसोत्कर्षकत्वात् भाक्तो गुणव्यवहारोऽपीत्याह वक्त्रादीति। वक्त्रादीनाम् औचित्यवशात् उचितस्य न्याय्यस्य भाव: औचित्यं तद्वशात् तदनुसारादित्यर्थः। "अभ्यस्तेप्युचितं न्याय्ये" इति यादवः। सूत्रं व्याकुर्वन् आदिशब्दार्थमाह वक्तृप्रतिपाद्येत्यादि। वक्त्रादीनां स्वरूपं वृतीये उल्लासे (७२ पृष्ठे) प्रदर्शितम्। प्रतिपाद्यपदेन बोधनीयजन उच्यते श्रोता उच्यते इति यावत्। व्यङ्गयपद- मत्र रसरूपव्यङ्ग्यपरम्। यद्वा वक्त्राद्यौचित्यव्यतिरिक्तस्थानीयव्यङ्गयपरमित्यग्रे (४१७ पृष्ठे १७ १ तद्तिरिक्तस्थले एवेति। दोषलक्षणं तद्िन्नत्वघटितं कार्यमित्यर्थः ॥ २ केवला प्रत्ययरहिता॥ ३ व्याकर- गेति। स्पष्टमिंद "सरूपाणाम्०" (१।२६४) इति सूत्रे "बासरूपोडस्त्रियाम्" (३१।९४) इति सूत्रे च महामाष्ये "पुंयोगात्०" (४i१४८) इति सूत्रे कैयटे च "प्रत्ययः" (३।१।१) "परश्र्य " (३।१।२) इति च सूत्रे शब्देन्दुशेखरे चेति दिक॥ प्रतिपादितमिति। प्रथमं स्वायत्तत्वाभावः द्वितीयेऽर्थाविवक्षा तृतीये कविसमय- लड्घनस्यानुकारिण्यप्रसक्तेरित्येतद्वोषप्रतिपादनावसरे प्रतिपादितम्। इहापि वैरस्याभावरूपमव्युक्तमिति भावः ॥ ५ पुरोवाद इवानुवादेपाति। अनुकार्य इवानुकरणेऽपीति यावत् ॥

Page 472

सप्तम उल्लास: । ४ १३

न गुणः। तत्र वैयाकरणादौ वक्तरि प्रतिपाद्े च रौद्राद्रौ च रसे व्यङ््ये कषटत्वं गुणः। क्रमेणोदाहरणम् दीधीङ्वेवीङ्सम: कश्चिदूणवृद्धयोरभाजनम्। क्विप्प्रत्ययनिभ: कश्विदत्र संनिहिते न ते ॥ २९६ ॥ पङ्क्तौ) स्फुटीभविष्यति । महिम्रा माहात्म्येन। नोभाविति विवृणोति क्वचिन्न दोषो न गुण- इति। प्रकृतरसोत्कर्षापकर्षविरहादनुभयरूपता। तेन गुणाभावस्य दोषत्वं दोषाभावस्य वा गुणत्वं निरस्तम् विनिगमकाभावात् अभावस्य तारतम्यानुपपत्तेश्र्वेति बोध्यम् । दोषस्य गुणत्वं कुत्रेत्याका- ड्ायामाह तत्रेत्यादि। तत्र वक्त्रादिषु मध्ये। वैयाकरणादाविति। आदिपदात् क्रुद्धादिपरिग्रहः। वैयाकरणत्वं चात्र न व्याकरणगाढज्ञानवत्त्वमात्रम् 'सोऽध्यैष्ट वेदान्' इत्यत्र (२९७ पृष्ठे) तादृश- भट्टिकारव्रक्तृके श्रुतिकटुत्वदोषोदाहरणत्वानुपपत्तेः किं तु स्ववैयाकरणत्वप्रतिपिपादयिषया प्रवृत्तत्वम्। प्रपश्चितमिदं प्राक् 'सोऽध्यैष्ट' इत्यत्रेत्यवगन्तव्यम्। तथा च 'वैयाकरणे वक्तरि' इत्यस्य स्ववैयाकर- णत्वं प्रतिपिपाद्यिषौ वक्तरीत्यर्थः । रौद्रादाविति । आदिपदात् वीरबीभत्सयोः परिग्रहः । कष्ट- त्वम्। अर्थस्य दुरूहत्वम् शब्दस्य श्रतिकटुत्वं च । गुण इति । गुणत्वे हेतुरपे तत्तदुदाहरण- व्याख्यानानन्तरं प्रतिपादयिष्यते इति बोध्यम्॥ क्रमेणेति। वक्त्रादिक्रमेणेत्यर्थः । तत्र वैयाकरणे वक्तरि सति कष्टत्वरूपदोषस्य गुणत्वमुदाह- रति दीधीङवेवीङिति। अस्मिन् ग्रामे कीदृशा लोका इति प्रश्नस्योत्तरमिदम् । कश्वित् पुरुषः दीधीङ्वेवीङिति धातुद्वयम् 'दीधीङ़् दीप्तिदेवनयोः' इति 'वेवीङ् वेतिना तुल्ये' इति च द्वितीयगणे धातुपाठात् ताभ्यां समः सदृशः । 'दीधीवेवटि्समः' इति पाठे इडिति आगमः तैः सम इत्यर्थः । साम्यमेवाह गुणवृद्धयोरिति। यतः गुणस्य पाण्डित्यदानशौर्यधैर्यादेः वृद्धेः समृद्वेश्र अभाजनम् अना- अ्रयः। धातुपक्षे "अदेङ् गुणः" ( १।१।२ ) इति पाणिनिसूत्रपरिभाषितो गुगः "वृद्धिरादैच्' (१।११) इति पाणिनिसूत्रपरिभाषिता वृद्धिः तयोरभाजनम्। "दीधीवेवीटाम्" (१।१।६) इति सूत्रेण गुणवृद्धिनिषेधात्। यथा आदध्यनम् आवेव्यनमित्यत्र गुणनिषेधः आदिध्यकः आवेव्यक इत्यत्र वृद्धिनिषेधः भवितेत्यादौ इडागमस्य गुणनिषेध इति बोध्यम्। नैतावती परा काष्ठा कि तु कश्वित् पुरुषः क्विप्प्रत्ययेन निभः तुल्यः सर्वतः प्राप्तलोप इत्यर्थः । क्विप्प्रत्ययोऽपि तथाभूतः "वेरपृक्तस्य" (६१६७) इति पाणिनिसूत्रेण लोपविधानादिति भावः। यत्र यरिमन् पुरुषे संनिहिते समीपस्थे सते ते गुणवृद्धी न (अन्यस्यापि) न भवतः । क्विप्प्रत्ययेऽनि संनिहिते परतो वर्तिनि गुणवृद्धी न भवतः "किति च" (१।१।५) इति पाणिनिसूत्रेण निषेधादिति भावः । यथा लिट्भित्इत्यादौ "पुगन्तलघूपधस्य च" (७३८६) इति सूत्रविहितस्य गुणस्य निषेधः मृट् इत्यत्र "मृजेर्वृद्धिः" (७।२।११४) इति सूत्रविहितायाः वृद्धेर्निषेधो बोध्यः ॥ अत्र विलम्बेनार्थप्रत्ययेSप वक्तुर्व्याकरणव्युत्पत्त्यतिशयप्रतीतेर्गुणत्वम् दोषत्वाभावश्र तदवसरे एव (२६८ पृष्ठे १६ पक्कौ) 'वैयाकरणादौ वक्तरि श्रोतरि वा' इत्यादिनोपपादित इति बोध्यम्। केचित्तु पूर्वार्धे शब्दस्य श्रतिकटुत्वरूपकष्टत्वं गुणः उत्तरार्धे यथा क्विपः सर्वापहारी लोपस्तथा तस्या- पीत्यर्थस्य दुरूहत्वरूपकष्टत्वं गुण: वक्तुर्वैयाकरणत्वादित्याहुः ॥

Page 473

४१४ काव्यप्रकाशः सटीकः ।

यदा त्वामहमद्राक्षं पदविद्याविशारदम्। उपाध्यायं तदास्मार्ष समस्प्राक्ष च संमदम् ॥२९७॥

प्रायपेङ्गि तभूरिभूषण रवैराघोषयन्त्यम्बरम्।

दूचालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥ २९८॥ वैयाकरणे प्रतिपादे (बोधनीयजने सति) कष्टत्वरूपदोषस्य गुणत्वमुदाहरति यदा त्वामिति। पदानां सुप्तिङन्तरूपाणां विद्या शास्त्रं व्याकरणशास्त्रमित्यर्थः तत्र विशारदं निपुणम्। शब्दविद्यावि- शारदम्' इति पाठेऽपि स एवार्थः । "विशारदः पण्डिते च घष्टे" इति भेदिनी। त्वाम् अहं यदा अद्राक्षं द्ृष्टवान् तदा उपाध्यायं उपेत्याधीयतेऽस्मादिति उपाध्यायो गुरुस्तम् अस्मार्ष (सादृश्यात्) स्मृतवान् । संमदं हर्षे च समस्प्राक्ष संस्पृष्टवान् प्राप्तवानस्मीत्यर्थः । "मुत्प्रीतिः प्रमदो हर्षः प्रमो- दामोदसंमदा:" इत्यमरः ॥

अत्र पद्विद्याविशारदं त्वाम् इति वैयाकरणस्य संबोध्यत्वेनोकं्तत्वाद्वैयाकरणः प्रतिपाद्यः (श्रोता) तस्मिन् श्रुतिकटुत्वरूपकष्टत्वं गुणः श्रतिकटुनानावर्णैवैयाकरणसामाजिकस्य वक्तृव्युत्पत्तिज्ञानेन चमत्कारात्। दोषत्वाभावश्र प्राक् (२६८ पृष्ठे १८ पक्कौ) 'श्रोतुस्तेनानुद्वेगात्' इत्यनेनोपपादित सवेति बोध्यम्। तथा चोक्तं प्रदपकारैः "वैयाकरणादौ प्रतिपाद्ये च तस्य गुणत्वम् तद्भ्ावनाभा- वितस्य तच्छ्रवणेन प्रीत्युपचयात्" इति॥

रसरूपव्यङ्गयमहिम्रा श्रुतिकटोर्गुणत्वमुदाहरति अन्त्रप्रोतेति । तदुक्तं प्रदीपे "ओजस्विनि रौद्रा- दिरसे व्यङ्ग्ये च तस्य गुणत्वम् कठिनशब्दस्य तद्व्यञ्जकत्वात्। तत्र बीभत्से यथा अन्त्रप्रोतेत्यादि" इति। वीरचरितनाटके प्रथमेडक्के "का पुनरियम्" इत्युपक्रम्य लक्ष्मणकर्तृकं ताटकायाः वर्णनमिदम्। का पुनरियं दर्पेण गर्वेण उद्धतम् उन्धटं यथा स्यात्तथा धावतीत्यन्वयः । यत्तदाहरणचन्द्रिकायामुक्तम् "अत्र प्रकृता ताटका दर्पेण उद्धतं यथा स्यात्तथा धावर्तीत्यन्वयः" इति तत्र 'प्रकृता ताटका धावति' इत्यन्वयो न युक्तः ताटकायास्ताटकात्वेन रूपेण प्रकृतत्वाभावात् 'का पुनरियम्' इत्युपक्रमादिदंत्वेनैव (पुरोवर्तित्वेनैव) प्रकारेणोपस्थितत्वाच्च 'का पुनरियम्' इति लक्ष्मणकृतप्रश्नस्योत्तरत्वेन "सेयं सुकेतोर्दुहिता भार्या सुन्दासुरस्य च। मारीचजननी घोरा ताटका नाम राक्षसी॥ ३६ ॥" इत्यन- न्तरस्थविश्वामित्रोक्तेश्रोति बोध्यम्। कीदृशी अन्त्रैः पुरीतद्भ्िः अन्त्रेषु वा प्रोतानि ग्रथितानि बृहन्ति महान्ति यानि कपालानि शिरोस्थीनि नलकानि जङ्घास्थीनि च तान्येव क्रूरं यथा स्यात्तथा क्वणन्ति सशब्दानि कङ्कणानि करभूषणानि तत्प्रायाणि तद्वहुलनि प्रेङ्रखितानि चञ्चलानि यानि भूरिभूषणानि बहुभूषणानि ग्रैवेयकाङ्गदादीनि तेषां रवैः शब्दैः (करणैः ) अम्बरम् आकाशम् आघोषयन्ती समन्ताच्छब्दायमानं कुर्वती प्रतिध्वनिव्याप्तं कुर्वतीत्यर्थः । तथा पूर्व पीतं पश्र्ात् छर्तितं वान्तं यत रक्तं रुधिरं तदेव कर्दमः पङ्कस्तेन घनो व्याप्तो यः प्राग्भार उत्तरकायस्तत्र घोरं यथा स्यात्तथा उल्लसन्तौ विपुलतया व्यक्तं दृश्यमानौ व्यालोलौ वेगवशाच्चलन्तौ यौ स्तनौ तयो्भरेण भैरवं भयंकर वपुः शरार १ तस्य कष्टत्वस्य ॥ २ तद्यञ्जकत्वादिति तद्रतौजोगुणव्यञ्जनद्वारोति भावः इत्युद्द्योतः ॥ ३ सुन्दासुरस्य जम्भासुरपुत्रस्य।।

Page 474

सप्तम उल्लास: । ४१५

वाच्यवशादथा aIE SHI FI मातङ्गा: किमु वल्गितैः किमफलैराडम्बरैर्जम्बुका: सारङ्न महिषा मद व्रजथ किं शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटा को टेरिभारे: पुरः सिन्धुध्वानिनि हुङ्गते स्फुरति यत् तद्गर्जितं गर्जितम् ॥२९९॥ यस्यास्तथाभूता। 'प्राग्भार' इत्यत्र 'प्राघार' इति पाठे रक्तकर्दमस्य घनप्राघारो निरन्तरक्षरणं (अविरतधारा) तेन घोराविति स्तनविशेषणम्। पीतच्छर्दितत्यनेन घृणातिशयो व्यज्यते। "अन्त्रं पुरीतत्" इत्यमरः । "कपालोऽस्त्री शिरोस्थि स्यात् घटादेः शकले व्रजे" इति मेदिनी। शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ॥ अत्र बीभत्सरसस्य व्यङ्ग्यत्वात्कष्टत्वं गुण इत्युदाहरणचन्द्रिकायां स्पष्टम्। इदमत्र तत्त्वम्। अत्र कष्टत्वस्य गुणत्वम् कठिनशब्दस्य (परुषशब्दस्य) बीभत्सरसगतौजोगुणव्यञ्जनद्वारा बीभत्सरसव्यञ्ष- कत्वात्। दोषत्वाभावश्र प्राक् (२६८ पृष्ठे १८ पङ्कौ) 'उद्देगाहेतुत्वात्' इत्यनेनोपपादित एवेति। यत्तु चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यप्रभृतिभिरुक्तम् "अन्त्रप्रोतेति। श्रीरामं प्रति क्रुद्ायास्ताटकाया वर्णनमिदम्। अत्रोन्भटा वर्णा ओजो व्यञ्षयन्तः प्रकृतरौद्रवीभत्सयोरानुगुण्यमाद्धते" इति तत्र 'रौद्र' इति न युक्तम् रामायणे बालकाण्डे षडडिंशे सर्गे "तं शैब्दमभिनिध्याय राक्षसी क्रोधमूर्च्छिता। श्रत्वा चाभ्यद्रवत्कुद्धा यत्र शब्दो विनिःसृतः ॥८॥" इत्यादिना ताटकायाः क्रोधस्य वर्णतत्वेऽपि प्रकृत- नाटके क्रोधस्य वार्ताया अप्यभावन रौद्ररसस्याभावात्। अत एव "बीभत्से यथा अन्त्रप्रोतेत्यादि" इति प्राक् (४१४ पृष्ठे १९ पक्ौ) प्रदर्शितप्रदीपोक्तेर्न न्यूनतापत्तिरिति मन्तव्यम्॥ वाच्यमहिम्रा कष्टत्वस्य गुणत्वमुदाहरति मातङ्गन इति। तथा चोक्तं प्रदीपे "ओजस्व्रिनि सिंहादौ वाच्येऽपि तस्य गुणत्वम् यतो मसृणशब्दप्रयोगेणोर्जितोऽप्यर्थो मृद्ुवद्भासते ऊर्जितशब्दप्रयोगे त्वौर्जित्येन। उदाहरणम् :मातङ्गा इत्यादि" इति। हे मातङ्गा: गजाः वल्गितैः गतिविशेषैः किमु 'प्रयोजनम्' इति शेषः । बंहितैरित पाठे गर्जितैरित्यर्थः । यद्यपि "बृंहितं करिगर्मितम्' इत्यमर- कोशस्तथापि "विशिष्टवाचकानां पदानां पृथग्विशेषणसमवधाने विशेष्यमात्रपरत्वम्" इति नियमा- त्प्रकृते गर्जितमात्रपरत्वं बोध्यम्। हे जम्बूकाः शृगालाः अफलैः व्यर्थैः आडम्वरैः गर्जितैः किम्। "आडम्बरः समारम्भे फेरुगर्जिततूर्ययोः" इति विश्वः । हे सारङ्गा: मृगाः तथा हे महिषाः अरण्य- लीलायाः मदं गर्व किं किमर्थ व्रजथ प्राप्नुथ। 'व्रज गतौ' इति भवादिकाद्वजधातोर्लट मध्यमपुरुषैक- वचनम्। 'व्रजत' इति लोडन्तपाठोऽप्यस्ति तथापि स न तथा रुचिर इति बोध्यम्। शून्येषु बलवद्र- हितेषु स्थानेषु के न शूराः अपि तु सर्वेऽपीत्यर्थः। तथा च शूरत्वख्यापनार्थमपि नैतदुचितमिि भाव: । 'शून्येऽथ शूरा न के' इति पाठे अथशब्दः प्रश्नार्थकः। किं तर्हि सार्थकं तत्राह कोपेत्यादि। कोपस्य य आटोप: उद्रेकस्तेन समुद्भटा उत्कठा उत्थिताः सटानां ग्रीवारोम्णां स्कन्धकेशानां वा कोटयोऽग्रभागा: यस्य तथाभूतस्य इभारे: सिंहस्य सिन्धुध्वनिनि ध्वानो ध्वनिः (शबदः) सोऽस्मि- १ घृणा जुगुप्सा। "घृणा तु स्याज्जुगुप्सायां करुणायाम्" इति हैम: ॥ २ तं शब्दं श्रीरामकतं धनुर्ज्याघोष श्रुत्वा च कुद्धा स शब्द्रो यत्र यतो विभिःसृनस्तम् अभिनिष्याथ शब्दनिःसरणावधिदेशं लक्ष्यीरूत्याभ्यद्रवदिति योजना॥ ३ तस्य कष्टत्वस्य ।।

Page 475

४१६ काव्यप्रकाश: सटीकः ।

अत्र सिंहे वाच्ये परुषाः शब्दाः॥ प्रकरणवशादथा रक्ताशोक कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः। उत्कण्ठाघटमानषट्पद्घटासंघट्टदष्टच्छद स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ ३०० ॥ न्नस्तीति ध्वानि सिन्धुः समुद्रः स इव ध्वानि ध्वनिशालि तस्मिन्नित्यर्थः । अथवा सिन्धुरिव ध्वानः सिन्धुध्वानः सोऽस्मिन्नस्तीति सिन्धुध्वानि तस्मिन्नित्यर्थः। अत्र पक्षे सिन्धुशब्देन लक्षणया सिन्धु- ध्वानो ग्राह्यः । उभयपक्षेऽपि मत्वर्थे इनिप्रत्ययः। "कर्तर्युपमाने" (३।२७९) इति सूत्रेणोष्ट्र इव क्रोशति 'उष्ट्रकोशी' इत्यादिवत् सिन्धुरिव ध्वनति 'सिन्धुध्वानि' इति णिनिप्रत्यय इति तु न वाच्यम् हुङकृतस्य ध्वनधात्वर्थ प्रति कर्तृत्वासंभवात्। तथा च समुद्रध्वनिसद्टशगम्भीरध्वनिशालिनीति भावः । तादृशे हुङ्कते हुङ्गारे पुरः अग्रे स्फुरति सति यद्गर्जितं तदेव गर्जितं सफलगर्जितमित्यर्थ इति विस्तारिकासारबोधिन्युश्चोतादिषु स्पष्टम्। चन्द्रिकाकारास्तु तत् गर्जितं सार्थकमित्यर्थः द्वितीयगर्जितपदस्य सार्थकत्वविशिष्टलाक्षणिकत्वात्। सफलगर्जितत्वरूपार्थान्तरसंक्रमितवाच्यत्वं तु न युक्तम् गैर्जितान्तरस्याफलत्वेन पूर्वमनुक्तत्वादित्याहुः । "सटा जटाकेसरयोः" इति मेदिनी। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ॥ अत्र सिंहरूपवाच्यौचित्यात्तदभिधाने कष्टत्वं गुणः । तदेवाह अत्र सिंहे इति। अत्र सिंहे ओजस्विनि वाच्ये तन्निष्ठौजोगुणप्रकाशकाः दीर्घसमासविकटवर्णा अनुगुणा इति भावः ॥ प्रकरणमहिम्रा कष्टत्वस्य गुणत्वमुदाहरति रक्ताशोकेति। कालिदासकृते विक्रमोवर्शाये चतुर्थेडङ्के विरहिणः पुरूरवस उक्तिरियम्। एत्रमेव वैद्यनाथनागोजीभद्टादयोऽप्याहुः। यद्यपीदं पद्यं कतिषुचि- द्विकमोर्वशीयपुस्तकेषु नोपलभ्यते तथाप्यङ्गितपुस्तके (१२८ पृष्ठे) पाठभेदरूपेणोपलभ्यत एव। हे रक्ताशोक रक्तस्तदवर्णोंऽशोको वृक्षविशेषः रक्तानामनुरक्तानां (मादृशानाम्) अशोको यस्मादिति व्युत्पत्त्यानुरक्तशोकापनोदकश्र। अनुरक्तं जनं मद्रूपं त्यक्त्वा कृशोदरी उर्वशी क् नु गतत्यन्वयः । बातचालितां तदग्रशाखां द्ृष्टा पुनराह नो दृष्टेतीति। इतीत्यनन्तरं 'सूचायतुम्' इति शेषः। वातेना- वधूतं कम्पितं शिरः मुधैव वृथैव मिथ्यैवेति यावत् किं कुतः चालयास। वातावधूतस्यैव शिरसः कोधाद्वातव्याधिकम्पितत्वेनोकक्तिः । मिथ्य त्वं समर्थयति उत्कण्ठेत्यादिना। तस्याः कृशोदर्याः पादाहति पादघातम् अन्तरेण विना भवतः तवायम् अदृष्टपूर्वः पुष्पोद्गमः पुष्पोदयः कुतः कथं जात इत्यर्थः । "स्त्रीणां स्पर्शात्प्रियङ्गविकसति बकुलः सीघुगण्डूषसेकात् पादाघातादशोकस्तिलककुरबकौ वीक्षणा- लिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात् पटुमधुहसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुविकसति च पुरो नर्तनात्कर्णिकारः॥" इति प्रसिद्धोरति भावः। कीदृशः पुष्पोद्गमः उत्कण्ठया औत्सुक्येन १ अयं "उपमानानि सामान्यवचनैः" (२१।५५) इति सूत्रेग घन इत श्यामो 'घनश्यामः' इतिवत कमधारयः समासः ॥२ अयमपि "विशेषणं रिशेष्येण बहुलम्" (२१।५७) इति सूत्रेण ५१३ उदाहरणे चिम्बमिवोष्ठो 'बिम्बोष्ठः' इतिवत् उपमानोपमेययोः कर्मधारय एव॥। ३ गर्जितान्तरस्योति। 'वल्गितादीनामफलत्वे- नोक्तत्वेऽपि' हुत्यादि: ॥ * पर्वमिति। पथमचरणद्वये इत्यर्थ; ॥ ५ 'पटुमृदुहसनात्' इत्यपि पाठः ॥

Page 476

सप्तम उल्लास:। ४१७

अत्र शिरोधूननेन कुपितस्य वचसि॥ क्वचिन्नीरसे न गुणो न दोषः । यथा घटमाना युक्ता: मिलिता वा ये षटपदा: भ्रमरास्तेषां या घटा समूहस्तस्या यः संघट्टः गाढमिलनं यत्र स चासौ (अर्थात् तैरेव मकरन्दाप्राप्त्या ) दष्टच्छदः खण्डितद्लश्वत्यर्थः। यद्वा षट्पदानां या घटा समूहस्तस्याः संघट्टेन निबिडसंबन्धेन परस्परोपमर्देन वा दष्टाः खण्डिताइछदाः पत्राणि यस्य तथाभूत इत्यर्थः। 'घटा' इत्यत्र 'घट संघाते' इति चौरादिकात् घटधातोः 'अनित्यण्यन्ताशचुरादयः' इति "ऋदुपधाच्चाक्लपिचृतेः" (३१।११०) इतिसूत्रस्थवैयाकरणसिद्धान्तकौमुद्युक्तरीत्या णिजभावे "घटादयः षितः" इति गणसूत्रेण षित्वात् "षिद्भिदादिम्योऽड." (३३१०४) इति सूत्रेण स्त्रियां भावेऽङप्रत्ययेऽदन्तत्वाद्टाप्। अथवा 'घट चेष्टायाम्' इति भौवादिकात् घटधातोः पूर्ववद्डि टाप्। "धातवोऽनेकार्थाः" इति न्यायेन संघातार्थकत्वम्। एवं च "घटः समाधिभेदेभशिरःकूटकुटेषु च। घटा घटनगोष्ठीभघटनासु च योषिति॥" इति मेदिनीकोशे कूटे (समूहे) घटः इति पुंस्त्वनिर्देशः प्रायोऽभिप्रायः प्रकृते महाकविप्रयोगे घटेति स्त्रीत्वनिर्देशस्यापि दर्शनादिति बोध्यम्। शार्डूकविक्री- डितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र मिथ्याशिरोधूननेन कोपप्रकरणम् तदौचित्यात्कष्टत्वं गुण इत्याह अत्रेत्यादि। अयं भावः। त्वाद्ीर्घसमासविकटवर्णयोर्गुणत्वम् तेनाङ्गस्य क्रोधस्य प्रकर्षादङ्गिनो विप्रलम्भस्यापि प्रकर्ष इति। न चास्य व्यङ्ग्यौचित्ये एव प्रवेशः कोपस्य व्यङ्ग्यत्वादिति वाच्यम् वक्त्त्राद्चित्यव्यतिरिक्तस्था- नीयस्य व्यङ्ग्यस्य व्यङ्रयपदोपादानात् गोबलीवर्दन्यायात्। दोषत्वाभावश्र्वैतेषु गुणत्वप्राप्ते: स्फुट एवेति प्रदापोक्योतयोः स्पष्टम्। इत्थं "दोषोऽपि क्वचिद्रणः" इत्यस्य सविस्तरमुदाहरणं प्रदर्श्य संप्रति "कचिन्न दोषो न गुणः" इत्यस्योदाहरणं प्रदर्शयन्नाह क्वचिदित्यादि। क्वचिदिति व्याचष्टे नीरसे इति। शृङ्गारादिरसशून्ये न तु निरास्वादे इत्यर्थ: निरास्वादे काव्यताविरहादिति भावः । न गुणो न दोष इति । कष्टत्वस्य पुनर्न दोषत्वं न वा गुणत्वम् यत्र न रसो न वा प्रतिपाद्याद्यौचित्यमिति भावः । अत्रोक्तं प्रदीपादौ "अथ नीरसे यदि विघात्यभावादस्य (कष्टत्वस्य) अदोषत्वं तदान्येषामपि स्यात्। तथा च नीरसदोषोदाह- रणं विरुद्धचेतेति चेन्न। तस्योपलक्षणत्वात् दोषपरिचयमात्रार्थत्वाद्ा" इति प्रदीपः । (अथ नीरसे इति। विघात्यस्य रसस्याभावादित्यर्थः। अन्येषामपीति। अश्लीलादिदोषाणां रसापकर्षकत्वान्नीर- सेऽदोषत्वं स्यात् । एवं च नीरसं दोषोदाहरणमयुक्तम्। यथाश्लीले 'साधनं सुमहद्यस्य' (२७८ पृष्ठे) इति तथा 'सोऽध्यैष्ट' (२९७ पृष्ठे) इत्यादि श्रतिकटूदाहरणमपि नीरसत्वादयुक्तमिति शङ्कार्थः ।न तस्येति । नीरसोदाहरणस्येत्यर्थः । मात्रपदेन तत्काव्यस्य दुष्टत्वव्यवच्छेदः) इति प्रभा। (उपलक्षणत्वादिति। दोषपरिचयमात्रार्थत्वादिति भावः) इत्युश्योत:॥ १ व्यङ्गनयपदोपादानादिति। व्यङ्गयपदेनोपादानादित्यर्थः । अत एव " व्यङ्गयपदेन विवक्षणाद्रोवृभन्यायात्" इति सारबोधिनी॥ २ दोषत्वाभावे हेतुः 'उद्देगाभावात्' इत्यादिना प्राक (२६८ पृष्ठे) प्रतिशादितोऽपि पुनः संक्षेपेण प्रतिपाद्यते गुणत्वप्राप्तेरिति ।। ५३

Page 477

४१८ काव्यप्रकाशः सटीकः ।

दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिन्ननिर्विन्नवृत्ते- दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविघातम्॥३०१॥ यथेत्युदाहरति शीर्णघ्राणेति। मयूरकविकृते सूर्यशतके सूर्यस्तुतिरियम्। तस्य घर्माशोः सूर्यस्य घृणयः किरणा: वः युष्माकम् अहसां पापानां विघात नाशं शीघ्रं झटिति विद्धतु कुर्वन्त्वित्यन्वयः। स कः यः एकः असहायः (साधननिरपेक्षः ) अघौघैः पापसमूहैः घ्राणं नासिका च अङ्घ्री चरणौ च पाणी हस्तौ च एषां समाहारो घ्राणाङ्व्रिपाणि शीर्ण विदीर्ण (विगलितं) घ्राणाङघ्रिपाणि येषां तान्। तथा वणिभिः व्रणयुक्तैः ('घृणिभिः' इति पाठे जुगुप्साविषयैः ) अपघनैः अङ्गै: (शेषाव- यवैः) उपलक्षितान। उपलक्षणे तृतीया "इत्थंभूतलक्षणे" (२।३।२१) इति पाणिनिसूत्रात् । अत एव ( दुःखात्) घर्घरः बलवद्दारिध्वनिस्तद्वत् अव्यक्तः वर्णप्रतिभारहितः घोषः शब्दो येषां तथाभूतान्। तथा दीर्घम् आघ्रातं श्वासो येषां तान्। यद्वा अघौघैः दीर्घाघ्ातान् दृढव्याप्तान् । अथ वा अघौघैः दीर्घकालं व्याप्याघ्रातान् आक्रान्तान। एवंविधान् गलत्कुष्ठिनो जनान् उल्लाघयन् नीरोगीकुर्वन् (व्याधिनिर्मुक्तान् कुर्वन् ) पुनरपि घटयति भूयोऽपि नवीकरोतीत्यर्थः । घ्राणादि- भिर्नूतनावयवैः संबन्नातीति यावत्। कीदृशस्य घर्माशोः अन्तः हृदये द्विगुणा बहुला घना निबिडा या घृणा कृपा तन्निन्ना तदायत्ता निर्विन्ना विन्नरहिता (विघ्ननाशिनी) निरपवादा वा वृत्तिर्व्य- वसायश्वित्तस्वभावो यस्यैवंभूतस्य। "घृणा तु स्याज्जगुप्सायां करुणायाम्" इति हैमः। कीदृशाः घृणयः सिद्धानां देवयोनिविशेषाणां विश्वावसुप्रभृतीनां संघैः समूहैः दत्ता अर्घाः पूजोपहाराः येषां तथाभूता इत्यर्थः । "अङ्गं प्रतकिोऽवयवोऽपघनः" इत्यमरः। "घर्घरो बलवद्वारिध्वानः" इति विश्वः। "उल्लाघो निर्गतो गदात्" इति "मूल्ये पूजाविधावर्घः" इति चामरः। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥

शब्दचित्रेऽस्मिन् काव्ये सतोऽपि कविनिष्ठसूर्यविषयकभावस्य न प्राधान्यमिति नीरसत्वव्यपदेशः । न च सूर्यस्य दयावीरत्वेन दयावीरेरसस्य सत्त्वात्सरसत्वमिति वाच्यम् अनुप्रासमात्रलग्नत्वेन कवेस्तत्र तात्पर्याभावात्। तथा चात्रानुप्रासैकपरतया नीरसत्वात्कष्टत्वं न गुणो न दोष इति बोध्यम्। उक्तं च प्रदपिद्दचोतयोः। "नीरसत्वं चात्रानुप्रासमात्रलग्नतया रसे तात्पर्याभावात्। न चानुप्रासास्पदैकतयैव गुणत्वम् 'सोऽध्यैष्ट वेदान्' (२९७ पृष्ठे ) इत्यादावपि तदापत्तेरिति। न च परुषवर्णत्वमनुप्रासे प्रयोजकम् येन तद्धटकतयादोषत्वं स्यात्" इति प्रदपः । (रसे इति। सूर्यस्य दयावीरत्वेन दयावीररसे इत्यर्थः । न च कविनिष्ठसूर्यविषयकभावस्यौजस्व्यालम्बनकत्वेनौजस्वितया तद्गतौजो- गुणव्यञ्जकत्वेन गुणत्वम् भावेषु गुणानङ्गीकारादिति संप्रदायः) इत्युद्चोतः ॥

अत्राहुः सारचोधिनीकारा: "क्चिन्न दोषत्वं नापि गुणत्वम् यत्र न रसः न वा वक्त्रादयौचित्यम्। तत्र नीरसे शीर्णघ्राणेत्यादौ विकटा ओजोव्यक्जकास्ते च शङ्गारादिरसानामेकस्याप्यभावान्नापकर्षोत्कर्ष- का: प्रकृतस्य भावस्य गुणाभावादकिंचित्कराः। नन्वत्रापि दयावीरत्वेन सरसत्वम् ओजस्विनि सूर्ये वाच्ये १ मनूरकवेरितिवृत्तं प्राक् (८पष्ठे) 'पुरा किल श्रीविकमार्कसमयात्' इत्यादिनामिहितम् ॥ २ दयावीररस; प्राक् (१०९ पृष्ठे १४ पङ्क्तौ ) निरूपितः ॥

Page 478

सप्तम उल्लांस: । ४१९

अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ। यथा येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्चोद्दत्तभुजङ्गहारवलयोगङ्गं च योऽधारयत्। यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ ३०२ ॥ 'सिन्धुध्वानिनि' इतिवत् (२९९ पद्े ) वाच्यौचित्यमप्यस्तीति चेन्न। अनुप्रासमात्रलग्नकत्वेन कवेस्तत्र तथातात्पर्याभावात् दयावीरस्य ग्रन्थकृतानेङ्गीकृतत्वाच्च। न चानुप्राससंपादकत्वनैव गुण- त्वम् 'सोऽध्यैष्ट वेदान्' इत्यत्रापि तथा प्रसङ्गात्" इति॥

"कचिन्न दोषो न गुणः" इत्यस्योदाहरणान्तरं दर्शयन् च्युतसंस्कृत्यसमर्थयोर्नित्यदोषत्वेन तावप- हायाप्रयुक्तनिहतार्थयोः प्रतिप्रसवमाह अप्रयुक्तेत्यादि। श्लेषादाविति। आदिपद्ग्राह्यं यमकादि। अद्रुष्टाविति। 'न दुष्टौ' इत्यपि पाठः। यदि च प्रयोजनानुसंधानव्यग्रता दुष्टिबीजम् तथाप्यत्र न दोषता तदलंकारत्वस्य प्रयोजनस्य प्रतीतेर्व्यग्रताया अभावादिति भावः। व्याख्यातमिंद प्रदीपोद्दयो- तयोः। "अप्रयुक्तनिहतार्थौ श्लेषयमकादावदुष्टाविति प्रतिपादितं प्राक (२७१ पृष्ठे १९ पङ़ौ )। यदि च प्रयोजनानुसंधानव्यग्रता दुष्टिबीजम् तथाप्यत्र न दोषता तदलंकारत्वस्य प्रयोजनस्य प्रतीतेर्व्यग्र- ताभावात्" इति प्रदीपः । (यदि च प्रयोजनेति। 'पदार्थोपस्थितिविलम्ब एव दुष्टिबीजम्' इत्यर्थ- स्यापि प्राक् (२७१ पृष्ठे १९ पक्कौ ) निरूपणादिति भावः। तत्पक्षेऽपि तदलंकारविषये प्रतीत्य- विलम्बस्यानुद्देश्यत्वाददुष्टत्वम्) इत्युद्योतः॥

तत्र श्लेषे अप्रयुक्तनिहतार्थयोरदोषत्वमुदाहरति येनेति। चन्द्रकरय कवेः षद्यमिदमिति सुभाषि- तावल्लयां स्पष्टम्। अत्र विष्णुपक्षे सः माधवः मा लक्ष्मीः तस्याः धवः पतिः विष्णुः त्वां स्वयं पायात् रक्षतु। "इन्दिरा लोकमाता मा" इति "धवः प्रियः पतिर्भता" इति चामरः । स कः येन अनः शकटं (शकटासुरः) ध्वस्तं पातितम्। "अनः क्कीबं जले शोके मातृस्यन्दनयोरपि" इति विश्वः। पुरा किल बाल्ये श्रीकृष्णः शकटरूपधारिणं शकटासुरं पाद्घातेन पातयामासेति पौराणिकी कथात्रानुसंधेया। तथा अभवन अजन्मना न भवः संसारो यस्मात्तादृशेन वा। "भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः" इति मेदिनी। येन बलिं बलिनामानं दैत्यं जयतीति बलिजित् बलिजयन- शील: (स्वस्य) कायो देहः पुरा अमृतहरणप्रस्तावे स्त्रीकृतः स्त्रीरूपतां प्रापितः मोहिनीरूपतां प्रापित इत्यर्थः। असुराणाममृतपाननिरसनायेति भावः । यश्च उद्दत्तस्य द्वप्तस्य भुजङ्गस्य कालियसर्पस्य हन्ता। रवाणां शब्दानां (नाम्नां) लयो यत्र सः। नामरूपात्मकजगतो ब्रह्मणि लय इति वेदान्त- विद्नुमतम्। यः अगं गोवर्धनगिरिं गां पृथ्वीं च अधारयत् धृतवान्। श्रीकृष्णवराहरूपतया करेण दष्टाङ्करेण चेति भावः । अमरा: देवा: यस्य शशिनं चन्द्रं मभ्नातीति शशिमत् राहुस्तस्य शिरो हर- तीति शशिमच्छिरोहर इति स्तुत्यं स्तवनीयं नाम नामधेयम् आहुः। अन्धकाः यादवास्तेषां क्षरयं निवासं द्वारकारूपं गृहं कृतवान्। सर्वदः सर्वदाता चतुर्वर्गप्रद इत्यर्थः । "क्षयो गेहे च कल्पान्तेS- पचये रुजि" इति हैम:॥ १ अनङ्गीकृतत्वमपि प्राक्ू (१०९ पृष्ठे १७ पङ्मौ) 'परे तु' इत्यादिना निरूपितमिति बीध्यम्।

Page 479

४२० काव्यप्रकाशः सटीकः। अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ॥ अश्लीलं क्वचिद्णः । यथा सुरतारम्भगोष्ठचाम् "दचर्थैः पढैः पिशुनयेच्च रहस्यवस्तु" इति कामशास्त्रस्थितौ शिवपक्षे तु स उमाधवः शिवः सर्वदा सर्वकाले त्वां स्वयं पायात् । स कः ध्वस्तमनोभवेन नाशि- तकन्दर्पेण येन पुरा त्रिपुरनामकदैत्यवधकाले बलिजितो नारायणस्य कायः अस्त्रीकृतः बाणरूपतां प्रापितः। उक्तं च महिम्रः स्तोत्रे पुष्पदन्तेन "रथः क्षोणी यन्ता शतघुतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति" इति। यश्र उद्दत्ता उद्धता ये भुजङ्गा: वासुक्यादयस्त एवं हारा: वलयानि च यस्य तादृशः। यः गङ्गां भागीरथीम् अधारयत् उत्तमाङ्गेनेति शेषः। यस्य शिरो मस्तकं शशिमत् चन्द्रयुतम् । यस्य हर इति ब्रह्माद्िसंहारकत्वेन स्तुत्यं नामामरा आहुः । यः अन्धकनामकदैत्यस्य क्षयो नाशस्तत्कर्तेत्यर्थः ॥ प्रदीपे तु "यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिरपत्रप्रियः" इति द्वितीयचरणपाठः "सोऽव्या- दिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः" इति चतुर्थचरणपाठश्र दृश्यते। तत्र बर्हिपत्रप्रियः मयूर- पिच्छवारकः। इष्टभुजङ्गहा भुजङ्गान् हन्तीति भुजङ्गहा गरुडः सः इष्टो ( वाहनतया ) अभीष्टो यस्य तादृश इति विष्णापक्षेऽर्थः। शिवपक्षे तु बहीं मयरः पत्रं वाहनं यस्य स बर्हिपत्रः कार्तिकेयः प्रियो यस्य तादृशः । तथा इष्टानि भुजङ्गानां हारवलयानि यस्य तथाभूतः इत्यर्थः । "पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः" इति मेदिनी। शार्दूलविक्ीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र माधवपक्षे (विष्णुपक्षे) शशिमत्पदस्य राहौ अप्रयुक्तत्वम् क्षयपदस्य गृहे निहतार्थत्वं च न दोष: श्लेषनिर्वाहकत्वात्। तदेवाह अत्रेत्यादि। व्याख्यातमिदं प्रदीपोद्दयोतादिषु। अत्र माधवपक्षे राहौ शशिमत्पदमप्रयुक्तम् क्षयपदं गृहे निहतार्थम् तथापपि श्लेषालंकाराय गृहीतत्वादनयोरदुष्टत्वम् । न च श्लेषालंकारप्रयोजकतया गुणत्वमपि शङ्कनीयम अप्रयुक्तनिहतार्थत्वस्यालंकारेप्रयोजकत्वात्। एतेन निरर्थकस्यानुप्राससंपादकत्वेन क्वचिद्गणत्वमित्यपास्तम् नैरर्थक्यस्य तत्राप्रयोजकत्वात् सार्थके- नापि तन्निर्वाहादिति बोध्यम्। एवमन्येष्वपि प्रतीतिविलम्बवत्सु द्रष्ठव्यमिति। सरस्वतीतीर्थास्तु अन्धक- क्षयशब्दो निहतार्थः अन्धकशब्दस्य यादवेम्योऽपि दैत्यविशेषे क्षयशब्दस्य निवासादपि विनाशे प्रसिद्धिबाहुल्यादित्याहुः। अत्राहुश्वक्र्व्तिनः "अत्रालंकारकृतचारुत्वनिर्वाहकत्वेन प्रतीतिमान्थर्यस्या- प्यदूषणत्वात्तौ न दुष्टाविति बोध्यम्। 'दधार हृदये गौरी देवं हिमकरालयम्' इत्यत्र श्लेषनिर्वाहकत्वेन हिकारस्य गुणत्वमिति यत्कैश्विदुक्तम् तन्न युक्तम् श्र्लेषनिर्वाहप्रयोजनान्तरसत्त्वेन पादपूरणमात्रप्र- योजनकत्वस्वरूपाभावात् धर्मिसत्तायामेवोत्कर्षकत्वात्" इति॥ अनुचितार्थनिरर्थकावाचकानां नित्यदोषत्वेन तानपहायाश्लीलस्य प्रतिप्रसवमाह अश्लीलमि- त्यादि। अश्लीलत्वमित्यर्थः । सुरतेति। सुरतारम्भाय गोध्ठ्यां वार्तायामित्यर्थः । "गोष्ठी सभासंलापयोः स्त्रियाम्" इति मेदिनी। द्यथैरित्यादि। "ताम्बूलदानविधिना विसृजेद्वयस्यां द्वयर्थैः पदैः पिशुन- येच्च रहस्यवस्तु" इत्यादिकामशास्त्रस्य वात्स्यायनमुन्यादिकृतस्य स्थितौ सत्यामित्यर्थः। अत्रोक्तं १ त्रिपुरनामकदैत्यस्येतिवृत्तमग्े ३४० उदाहरणे टिप्पणे स्फुटभविष्यति ॥ २ ब्रह्मा॥ ३ मन्दरपर्वंतः॥ विष्णुः ॥ ५ वयस्यां सखीं ताम्बूलदानरूपेण विधिना प्रकरेण विसृजेत तथा दूयथैः अनेकार्थः पदैः रहस्यं गो्यं वस्तु योनिलिङ्गगादिकं पिशुनयेत् सूचयेदित्यर्थः ॥

Page 480

सप्तम उल्लास: । ४२१

करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते।गगीवावक अपणीकी i उपसर्पन् ध्वजः पुंसः साधनान्तार्विराजते॥ ३०३॥ शमकथासु उत्तानोच्छूनमण्डू कपाटितोदर संनिभे। केदिनि स्त्रीव्रणे सक्तिरकरृमेः कस्य जायते॥ ३०४॥ प्रदीपोद््योतयोः। "अश्लीलत्वं क्वचिद्गुणः यथा सुरतारम्भगोष्ठ्यां 'धर्थैः पदैः०' इति कामशास्त्र- स्थितौ दोषत्वाभावे व्युत्पत्तिप्रकटनात्" इति प्रदीपः । (गुणत्वे हेतुमाह व्युत्पत्तीति। उदासी- नवश्चनया स्वार्थसंपत्त्या च रसोत्कर्षकत्वाद्गुणत्वं बोध्यम्) इत्यद्दयोतः॥ त्रिविधेष्वश्लीलेष वीडाव्यञ्जकस्याश्लीलस्य वाक्यगतस्य गुणत्वमुदाहरति करिहस्तेनेति। पुंसः वीरस्य ध्वजः केतुः । "ध्वजः पूर्वदिशो गृहे। शिक्षे चिह्ने पताकायां खट्टाड्गे शौण्डिकेऽपि च" इति हैमः। साधनस्य सैन्यस्यान्तः मध्ये प्रविश्य उपसर्पन् इतस्ततो गच्छन् विराजते शोभते इत्यन्वयः । "साधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ। निर्वर्तनोपायमेद्दापनेऽनुगमे धने" इति मेदिनी। कीदशे साधानान्तःसंबाधे नराश्वादिभिः संकटे। "संबाधः संकटे भगे" इति विश्वः। तथा करिणां गजानां हस्तेन शुण्डया विलोडिते सावकाशे कृते इत्यर्थः ॥ अत्र पुंसः कामिनः ध्वजः लिङ्गं शिश्षः साधनस्य मदनमन्दिरस्य स्त्रीवराङ्गस्य अन्तः मध्ये प्रविश्य उपसर्पन् गतागतं कर्वन् विराजते। कीदशे साधनान्तःसंबाधे संकुचिते। कथं तर्हि प्रवे- शस्तत्राह करिहस्तेनेति । करिहस्तो नाम कठिनयोनिशैथिल्यापादको बहिष्कृतमध्यमाङ्गलीकः संयुक्ततर्जन्यनामिकारूपः । तदुक्तम् "तर्जन्यनामिके युक्ते मध्यमा स्याद्वहिष्कृता। करिहस्तः समुद्दष्टः कामशास्त्रविशारदैः॥" इति। तेन करिहस्तेन विलोडिते विकाशिते केदिते वा इति गुप्तोऽश्लीलार्थः । अत्र करिहस्तसंबन्धादिपदेष्वश्लीलेष्वपि "द्वचर्थैः पदैः०" इत्यादिना कामशास्त्रेण सुरतारम्भो- पयुक्तवार्तायामश्लीलार्थस्यानुमतत्वाददोषत्वम्। गुणत्वं तु व्युत्पत्तिप्रकटनात् उदासीनवश्चनया स्वार्थ- संपत्त्या च रसोत्कर्षकत्वाच्चेति बोध्यम्।। शमकथास्वपि अश्लीलत्वस्य गुणत्वमित्याह शमकथास्विति। 'अश्लीलं गुणः' इत्यनुषङ्ग: । शमक- थासु शान्तिवार्तास्वपि अश्लीलत्वं गुणः वैराग्यहेतुघृणोत्पादनेन शान्तिपोषकत्वादिति भावः । जगुप्सा- श्लीलस्य वाक्यगतस्य गुणत्वमुदाहरति उत्तानेति। उत्तान: वैपरीत्येन स्थितः उच्छनः शोफवांश्र यो मण्ड्कः भेकस्तस्य पाटितं विदारितं यद् उदरं तत्संनिभे तत्तुल्ये केदिनि किने स्रवन्मन्मथजले स्त्रीव्रणे योनिरूपे वराङ्गरूपे कस्य अकृमे: कृमिभिन्नस्य सक्तिः आसक्तिः जायते इत्यर्थः । तदासक्तः कृमिरेवेति भावः। "उत्तानमगभीरे स्यादूर्ध्वास्यशयिते त्रिषु" इति कोशः। अत्र शान्तिक- थायां जगुप्साश्लीलत्वं गुणः वैराग्यहेतुघणोत्पादनेन शान्तिपोषकत्वादिति बोध्यम्।। १ यक्ते संयुकते श्लिष्टे इति यावत् ॥ २ "मध्यमा पृष्ठतस्तयोः" इति पाठान्तरम् ॥ ३ "करिहस्त इति प्रोक्तः" इति पाठान्तरम् ॥ घुणा जुगुप्सा ॥

Page 481

४२२ काव्यप्रकाशः सटीकः ।

निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः समृत्याः ॥३०५॥ अत्र भाव्यमङ्गलसूचकम्॥ संदिग्धमपि वाच्यमहिस्रा क्वचिन्नियतार्थप्रतीतिकृत्वेन व्याजस्तुतिपर्यवसायित्वे गुणः । यथा अमङ्गलव्यञ्जकस्याश्लीलस्य वाक्यगतस्य भाव्यर्थसूचकतया गुणत्वमुदाहरति निर्वणिति। नाराय- णदीक्षितकृते वेणीसंहारे नाटके प्रथमेडङ्के सूत्रधारस्योक्तिरियम्। पाण्डुतनयाः युधिष्ठिरादयः अरीणां शत्रूणां प्रशमात् कलहोपशमात् युद्धनिवृत्तेः शान्त्यवलम्बनाद्वा निर्वाणः शान्तो वैरें विरोध एव दह- नोऽग्निर्येषां तथाभूता: सन्तः माधवेन श्रीकृष्णेन सह नन्दन्तु समृद्धा भवन्तु। 'टुनदि समृद्धौ' इति भ्वादिगणे धातुः । तथा सभृत्याः कुरुराजस्य धृतराष्ट्रस्य सुताः दुर्योधनादयः रक्ता अनुरक्ता प्रसा- धिता प्रकर्षेण साधिता वशीकृता च भूर्यैस्तादृशाः क्षतो निवृत्तो विग्रहः कलहो येषां ते क्षतविग्रहाः खण्डितयुद्धाश्र सन्तः स्वीयप्रकृतौ तिष्ठन्तीति स्वस्थाः सुस्थिताः सुखिनः भवन्तु इत्यर्थः। "नि- र्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने" इति यादवः । "विग्रहः समरे काये" इति "सुस्थिते च मृते स्वस्थः" इति च विश्वः । वेणीसंहारटीकाकर्त्रा जगद्धरेण तु 'निर्वाणवैरिदहनाः' इति पाठं मत्वा निर्वाणो निस्तेजीकृतो वैर्येव दहनो यस्ते' इति विग्रहो दर्शितः । परं तु प्रागुक्तपाठ एव रुचिरः 'अरीणां प्रशमात्' इत्यनेन सह सामञ्जस्यातिशयादिति बोध्यम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे। अत्र 'प्रशमात् नाशात् रक्तं रुधिरं तेन प्रसाधितालंकृता भूर्यैस्तादशाः क्षतविग्रहाः खण्डितशरी- राश्र्व सन्तः स्वस्थाः स्वर्गस्थाः (मृताः) भवन्तु' इत्यमङ्गलार्थो व्यज्यते। इदं चामङ्गलाश्लीलत्वं भाव्य- र्थसूचकतया गुणः । तदेवाह अत्र भाव्येति। व्याख्यातमिदं प्रदीपोध््योतयोः "अत्र 'प्रशमात्' इति 'स्वस्थाः' इति मरणार्थकत्वादश्लीले अपि भाव्यमङ्गलसूचनाद्गुणः। दुयाधनामङ्गलस्य नायकमङ्ग- लत्वेन गुणत्वं बोध्यम्। एवम् 'अङ्गीकृता क्वचिद्विज्ञैरश्लीलस्याप्यदोषता। प्रसिद्वपादशब्दादौ क्वचिल्लाक्षणिके तथा॥' आदिना शिवलिङ्गादि। द्वितीयं (लाक्षणिकं) यथा 'अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम्' इत्यादौ" इति॥

पवेति बोध्यम्। ननु निरर्थकक्किष्टविरुद्धमतिकृतोऽनित्याः "द्धार हृदये गौरी देवं हिमकरा- ङ्ञितम्। अत्र श्र्लेषोदयान्नैव त्याज्यं हीति निरर्थकम्" इति जयदेवोक्तेः क्िष्ट मत्तोक्त्यादौ गुण इति प्रदीपोक्तेश्र। एवं विरुद्धमतिकृतोऽपीति चेन्न। वृत्तनिर्वाहमात्रप्रयोजनकस्य निरर्थकस्यात्रा- त्मलाभाभावात् । तस्मान्निरर्थकं नित्यदोष एव। प्रकृतप्रतीतिन्यक्वारकप्रतीतिजनकं हि विरुन्धम- तिकृत् । न्यक्कारकप्रतीतेर्विवक्षितत्वे तु तस्यात्मलाभ एव नेति तस्यापि नित्यत्वम्। अयमेव तत्रत्य- प्रदीपाशयः । अनित्यमेवेदमित्यन्ये क्विष्टं त्वनित्यमेवेति दिगित्याहुः॥ संदिग्धत्वस्यापि (वाक्यगतस्य) क्वचिद्गुणत्वमित्याह संदिग्धमपीति। 'संदेहश्र्वापाततः' इति १ अत्र पक्षे स्वरित्यव्यथं स्वर्गवाचकम्। "स्वरव्ययं स्वर्गनाक०" इत्यमरः। अत्र "खपरे शरि वा विसर्गलोपो वक्तव्यः" इति वार्तिकेन वैकल्पिकविसर्गलोपान्न वैरुप्यम्॥ २ पादशब्दस्य महाराष्ट्रभाषादावपानवायुबोधकत्वेना- ्लीलत्वं प्राप्तम् ।।

Page 482

सप्तम उल्लास: । ४२३

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयो: सदनम् ॥३०६॥ प्रतपाद्यप्रतिपादकयोर्ज्त्वे सत्यप्रतीतं गुणः । यथा शेषः । कुत इत्यत आह नियतार्थेति । प्रकृतार्थेत्यर्थः। प्रतीतिः निश्रयः तत्कृत्त्वेन तत्का- रित्वेन। तत्करणे हेतुः वाच्यमहिस्नेति। वाच्यो वर्णनीयो राजादिस्तस्य महिम्रा महिमप्रतिपत्त्ये- त्यर्थः । तावता दोषत्वाभावः । गुणत्वे हेतुमाह व्याजेति । संपत्तिबाहुल्येन राजोत्कर्षप्रतीतेर्व्याज- स्तुतेर्भावोत्कर्षकतया संदिग्धत्वस्य गुणत्वमिति भावः॥ यथेत्युदाहरति पृथुकेति। राजानं प्रति कवेरुक्तिरियम् । हे देव राजन् संप्रति अधुना आवयोः सदनं गृहं समं तुल्यमित्यन्वयः । त्वत्तो धनलाभानन्तरं न सममिति संप्रतिपदाभिप्रायः। साम्यमेव श्लिष्टविशेषणैराह पृथ्वित्यादिना । राजसदनपक्षे पृथूनि विपुलानि कार्तस्वरस्य सुवर्णस्य पात्राणि भाजनानि यत्र तत्। "रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्" इत्यमरः ।तथा भूषिता अलं- कृता: निःशेषा: सकलाः परिजनाः परिचारकजना: सेवकाः यत्र तत् । तथा विलसन्त्यः शोभ- माना: करेणवः करिण्यस्ताभि: गहनं संकीर्णम् व्याप्तम्। "करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे" इति मेदिनी। कविसदनपक्षे तु पृथुकाः शिशवः । "पृथुकः शावकः शिशुः" इत्यमरः । तेषामार्त- स्वरस्य श्षुद्धाधाकृतकातरध्वनेः पात्रमधिकरणम् । भुवि धरायाम् उषिताः निःशेषा: परिजनाः परिवा- रजना: पुत्रकलत्रादयः यत्र तत् । विले वबयोरभेदात् बिले छिद्रे सीदन्तीति बिलसत्काः मूषकाः । कुत्सायां स्वार्थे वा कन् प्रत्ययः । तेषां रेणुभिः धूलिभिः । यद्वा सन्तीति सन्तः सन्त एव सत्काः बिले सत्काः विद्यमाना ये रेणवस्तैः गहनं व्याप्तम् । अथ वा बिले सत् विद्यमानं कं जलं रेणश्र ताभ्यां गहनं व्याप्तमित्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र पृथुकार्तस्वरपात्रमित्यादीनि विशेषणानि 'पृथूनि कार्तस्वरस्य पात्राणि यत्र तत्' इत्यादर्थकानि अथ वा 'पृथुकानामार्तस्वरस्य पात्रमित्यादर्थकानि' इति संदेहात्संदिग्धानि। तथाप्यत्रोक्तविशेषणानां योग्यतया तत्तत्पक्षानुकूलार्थनिर्णयाद्याजस्तुतिनिर्वाहकतया संदिग्धत्वं गुण इति चन्द्रिकादौ स्पष्टम्। अत्र सुधासागरकारा अपि राजकव्योरुभयोरपि प्रस्तुतत्वात् पृथुकार्तस्वरादिशब्दा आपाततः संदिग्धा अप्यत्र वाच्यमहिम्रा (वाच्यो वर्णनीयो राजा न तु कविः अकिंचित्करत्वात् राजवर्णनस्य दैन्यनाशक- त्वाच्चेति तन्महिम्ना) नियतो नियमितोऽर्थों राजानुरूपोत्कर्षरूपस्तस्य प्रतीति निश्रयं कृत्वैव व्याज- स्तुतिपर्यवसायित्वाद्गुणतां प्राप्ता इति ध्येयमिति व्याचख्युः । विस्तारिकासारबोधिन्योस्तु "ननु नृप- विषयकभावस्यारसत्वेन 'शीर्णघ्राण०' (४१८ पृष्ठे) इत्यादाविवानुभयत्वप्राप्तौ कथं गुणत्वमिति चेन्मैवम्। भावस्य गुणवत्त्व्विरहेण श्रुतिकटुप्रभृतीनां गुणव्यञ्जकानां तथात्वात् व्याजस्तुतेरलंकारस्य भावत्कर्षकत्वेन गुणत्वाविरोधात्" इत्युक्तम् । "अत्र पृथुकार्तस्वरादिशब्दाः पृथकानामार्तस्वरः पृथु बहुलं कार्तस्वरं चेति संदिग्धाः" इति तु प्रदीपः ॥ अप्रतीतत्वस्यापि क्रचिद्गुणत्वमुदाहर्तुमाह प्रतिपाद्येति। प्रतिपाद्यः शब्दप्रयोगोद्देश्यः प्रतिपादको वक्ता तयोः वक्तृश्रोत्रोद्दयोरपीति यावत्। ज्ञत्वे तज्ज्ञत्वे (तच्छास्त्रपठुत्वे) सतीत्यर्थः । गुण इति १ गुणाः माधुर्यौजःप्रसादाख्याः । 'गुणवत्त्वविरहेऽपि' इति युक्तं पदनीयम् ॥ २ जानातीति ज्ञः "इगुपधज्ञाप्री- किस; क:" ( ३।१।१३५) इति पाणिनिसूत्रेण क: ॥

Page 483

४२४ काव्यप्रकाशः सटीकः ।

आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः। यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्ता- त्तं मोहान्ध: कथमयममुं वेत्ति देवं पुराणम्॥३०७।। स्वयं वा परामर्शे। यथा षडधिकद्शनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूप: सिद्धिदस्तद्विदां यः। अर्थाप्रतीतिरूपबीजाभावेनादोषतायां सत्यां व्युत्पत्तिप्रकटकत्वादिति भावः। आत्मारामा इति। नारायणदीक्षितकृते वेणसिंहारनाटके प्रथमेऽङ्के श्रीकृष्णबन्धनोद्यतं दुर्योधनं श्रुत्वा "आर्य किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति" इति पृच्छन्तं सहदेवं प्रति भीमसे- नस्योक्तिरियम। उद्योते तु "कि दुर्योधनः श्रीकृष्णस्वरूपं न जानाति" इति सहदेवस्य प्रश्नवाक्यं लिखितम् तच्चार्थिकम् तदानींतनपुस्तकपाठानुसारि वेति मन्तव्यम्। मोहेनाज्ञानेनान्धः वस्तुतत्त्वप्र- तिपत्तिरहितः अय दुर्योधनः पुराणं प्रकृतेरपि प्राग्वर्तिनं तम् अमुं देवं श्रीकृष्णं कथं वेत्ति केन प्रकारेण जानातत्यन्वयः न कथमपि वेत्तीति भावः। तं कम्। आत्मनि चिदानन्दे औरमन्ति प्रत्याहृतेन्द्रियाः सन्तस्तदेकताना भवन्तीत्यात्मारामाः। यद्वा आत्मैवारामः क्रीडास्थानं येषां तादृशाः योगिनः। निर्विकल्पे आत्ममात्रावलम्बिनि ( भेदसंसर्गभानशून्ये ) समाधौ योगे यद्वा समाधौ ध्याने (ध्येयध्यात्रोरेकत्वापत्तिरूपे ) विहिता कृता रतिः निरन्तरा प्रीतिर्यैस्तादशाः। ज्ञानोद्रेकात् आत्मसाक्षात्कारदार्ढ्येन विघटितो नाशितस्तमोग्रन्थिः मिथ्याज्ञानजन्यः संस्कारो येषां तथाभूताः । सत्वनिष्ठाः सत्त्वगुणमात्रविश्रान्ताः सन्तः यं श्रीकृष्णं कमपि वागादगोचरं वीक्षन्ते पश्यन्तीत्यर्थः साक्षात्कुर्वन्तीति यावत्। यत्तु 'वीक्षन्ते' इत्यत्र 'ध्यायन्ते' इति प्रदीपे दृश्यते तच्चात्मनेपदाप्राप्तेर्दु- ष्टमेव। यश्र 'ध्यायन्ति' इत्युद्योतसंमतः पाठः सोऽपि छन्दोभङ्गापत्त्या दुष्ट एव। कथं त एव पश्यन्तीत्यत्र हेतुगर्भ यत्पदार्थविशेषणमाह तमसामित्यादि। तमसां तामसानां ज्योतिषां राजसानां वा परस्तात् दूरे 'वर्तमानम्' इति शेषः । रजस्तमःस्पृष्टैरलभ्यमिति पर्यवसितोऽर्थः। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे॥ अत्र निर्विकल्पादिशब्दा आत्ममात्रावलम्बनत्वादावर्थे योगशास्त्रमात्रप्रसिद्धा इत्यप्रतीताः। तथाप्यत्र प्रतिपाद्यप्रतिपादकौ सहदेवभीमसेनौ। तौ च योगशास्त्रज्ञाविति प्रतीतिविलम्बाभावान्न दोषत्वम्। इत- राज्ञातज्ञातृत्वेन स्वज्ञानद्वारा भावोत्कर्षकत्वाद्रणत्वं चेति बोध्यम्। अत्र प्रतिपाद्यप्रतिपादकपदाभ्यां सामाजिकवक्तारौ च विवक्षितौ। एतेन सामाजिकस्य रसोद्वोधात्तयोस्तज्ज्ञत्वमकिंचित्करमित्यपा- स्तमिति प्रदीपोद्दयोतयोः स्पष्टम्॥ सहृदयविमर्शवेलायामपि अप्रतीतत्वस्य गुणत्वमित्याह स्वयं वेति। परामर्शे विमर्शे पर्यालोचने इति यावत्। 'अप्रतीतं गुणः' इत्यनुषङ्ग: । यथेत्युदाहरति षडधिकेति। भवभूतिकृते मालतीमा - धवप्रकरणे प्चमेऽङ्के कपालकुण्डलायाः स्वयंपरामर्शोऽयम्। सः मत्परामर्शविषयीभूत ईश्वरः जयति १ "व्याङ्परिम्यो रमः" (१।३।८३) इति पाणिनिसूत्रेण परस्मैपदम्। उद्धयोतादिषु तु 'आरमन्ते' इति विगृ- हीतम् तच्चाडित्तिमाकारमादायेति कर्थचिदुपपाद्नीयम्।।

Page 484

सप्तम उल्लास: । ४२५

अविचलितमनोभि: साधकैर्मृग्यमाण: स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥ ३०८॥ अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथ्रा फुल्लक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहा दे। जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्विअइल्लपसूणपुआा॥३०९॥ सर्वोत्कर्षेण वर्तते इत्यन्वयः । स कः षडभिरधिकाः षडधिकाः दश षोडश याः नाड्यः ताश्र "इडा १ च पिङ्गला २ चैव सुषुम्ना ३ चापरारजिता ४। गान्धारी ५ हस्तिजिह्वा ६ च पूषा ७ चैव तथा- परा॥ अलम्बुसा ८ कुहुशरैव ९ शङ्गिनी १० दशमी स्मृता। तालुजिह्वेभजिह्वा ११ । १२ च विजया १३ कामदापरा १४ ॥ अमृता १५ बहुला १६ नाम नाड्यो वायुसमीरिताः ॥" इति गोर- क्षसंहितादावुक्ताः । तासां यत् चक्रं मणिपूराख्यं हृदयस्थितं तन्मध्ये स्थित आत्मा स्वरूपं यस्य तादृशः। हृदि हृदये विशिष्टं निहितं रूपं ज्योतिरादिरूप आकारो यस्य तथाभूतः। तद्विद्वां तथाज्ञा। नवतां सिद्धयोऽणिमादयस्ता ददातीति सिद्धिदः । सिद्धयश्राष्टौ। तदुक्तम् "अणिमा महिमा चैव गरिमा लघिमा तथा। प्राप्ति: प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥" इति। तथा अविचलितं निश्रलं विषयान्तरव्यावत्तं मनश्चित्तं येषां तादृशैः साधकैः उपासकैः मृग्यमाणः अन्विष्यमाणः । तथा शक्तिभि: ज्ञानेच्छाकृतिभिः परिणद्धो व्याप्त: उपहितो वा। शक्तिः पार्वती तस्याः नाथः पतिरित्यर्थः। केचित्तु शक्तिभिः ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिकाख्या- भिरष्टाि: परिणद्धः वेष्टितो नित्ययुक्तो वा (भैरवमूर्तित्वादिति भावः) अत एव तासामेव शक्तीनां नाथ इत्याहुः। मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥ वक्त्रयाः कपालकुण्डलायाः स्वयं परामर्शात्प्राग्वद्गुणत्वम्। तथा चाहुः कमलाकरभट्टाः "शक्तयोऽस्य जगत्सर्व शक्तिमांश्र महेश्वरः" इत्यागममात्रप्रसिद्धत्वेऽपि स्वयं ज्ञातत्वाद्गुणत्वमिति॥ नीचपात्रोक्तिषु ग्राम्यत्वस्य गुणत्वमित्याह अधमेत्यादि । अधमप्रकृतीनां विटचेटविदूषकाणां हास्यरसप्रधानानामुक्तिषु हास्यकरीषु तथैवौचित्याद्दोषत्वाभावे हास्यपर्यवसावितवाद्ग्राम्यो गुण इत्यर्थः । फुललक्करमिति। "पुष्पोत्करं कलमभक्तनिभ वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते। ये गालितस्य महिषीदवः सदृक्षास्ते कि च मुग्धविचकिलप्रसूनपुञ्जाः ॥" इति संस्कृतम्। राजशेखरकृते कर्पूरमञ्ज- रीनामकसँटटके प्रथमजवनिकान्तरे विदूषकोक्तिरियम्। यत्तु 'विद्धशालभञ्जिकायां विदूषकोक्तिरियम्' इति चन्द्रिकोद्योतयोरुक्तम् तत्तु तद्ग्रन्थानवलोकनमूलकमेव। कूरशब्दो भक्ते देशी। तदुक्तमुददयोते 'प्राकृते देशीयमेतत्' इति। कलमाः शालिधान्यानि तेषां भक्तम् ओदनं तननिभं तत्तुल्यं पुष्पोत्करं कुसुमपुं ये वहन्ति ते सिन्धुवारस्य निर्गुण्डीवृक्षस्य विटपा: शाखाः मम वह्लभाः प्रियाः। शाल्यो- दनसादृश्यं प्रियत्वे बीजम्। तथा ये गालितस्य निर्जलीकृतस्य महिषीदन्नः सदृक्षाः सदशाः कि चेति समुच्चये तेऽपि मुग्धस्य सन्दरस्य विचाकलप्रसूनस्य मल्लिकापुष्पस्य पुञ्जाः 'मम वल्लभाः' इत्यनुषङ्ग: १ 'सुषुम्ना चापरा स्मृता' इति पाे 'पूषा च सुयशास्तथा' इत्यग्रे चतुर्थे चरणे पाठः ॥ २ 'लोलजिव्हेमजिह्वा च' इति पाठान्तरम्। 'तालुजिह्वा च जिह्वा च' इत्यपि पाठान्तरम् ॥ 3 'अमृता चक्रनामा च एता वायुसमी- रिताः' इति पाठान्तरम् ॥ सटटकलक्षणं तक्त प्राक १४३ पृष्ठे टिप्पणे। ५४

Page 485

४२६ काव्यप्रकाशः सटीकः।

अत्र कलमभक्तमाहषीदधिशब्दा ग्राम्या अपि विदूषकोक्तौ।। न्यूनपदं क्वचिद् गुणः । यथा गाढालिङ्गनवामनी कृतकुच प्रोभ्व्तरोमोद्नमा सान्द्रस्ने हर सातिरेकविगलच्छी मन्नितम्बाम्बरा। मा मा मानइ माति मामलमिति क्षामाक्षरोलापिनी सुप्ा किं नु मृता नु किं मनति मे लीना विलीना नु किम् । ३२०। सिन्दुवारेत्यपि पाठान्तरम्। "स्याननिकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्" इति "सिन्दुवारेन्द्रसुरसौ निगुण्डीन्द्राणिकेत्यपि" इति चामरः । "मुग्धः सुन्दरमूढयोः" इति कोशः। "पुमान् विचकिलो मल्लीभेदे दैमनकेऽपि च" इति विश्वः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्रेति। कलमेत्यादि प्राकृतविवरणमिति विस्तारिकासारबाधिनीसुधासागरादिषु स्पष्टम्। विदू- षकोक्ताविति। गुण इति संबध्यते। 'हास्यरसपरिपोषकत्वात्' इति शेषः । तथा चात्र कलमकूरमहि- सीदहिशब्दानामविदग्धप्रयोज्यत्वात् ग्राम्यत्वेऽपि विदूषकोक्तौ हास्यरसपरिपोषकत्वाद्गुणत्वमिति भाव: । "स पुनर्वेषभाषाभिर्हास्यकारी विदूषकः" इति विदूषकलक्षणं बोध्यम्॥

वाक्यदोषेषु प्रतिकूलवर्णोपहतलुप्तविसर्गविसंधिहतवृत्तानां नित्यदोषत्वात्तान् अपहाय न्यूनपदानित्यत्वं दर्शयती न्यूनपदमिति। न्यूनपदमपि क्वचिद्गुणो यत्र म्यूनतयैवाभिमतविशेषसिद्धिरित्यर्थः । यथेत्यु- दाहरति गाढेति। शंकराचार्यकृते अमरुशतके शृङ्गाररसातिरेकसीमानं प्राप्तस्य कस्यचिन्नायकस्य सुरतान्ते रतिश्रमनिमग्नां प्रेयसीमनेकधोल्विख्य वितर्कोडयम्। गाढालिङ्गनेन दृढ़परिरम्भणेन वामनीकृतौ खर्वीकृतौ यद्वा कठोरत्वात्कथंचिन्नामितौ कुचौ यस्याः । अनेन पीनोच्चकुचत्वं सूचितम् "खर्वो ह्रस्वश्र वामनः" इत्यमरः । सा चासौ अत एव प्रोद्ूताः प्रकटाः रोमोद्गमाः रोमाञ्चा यस्याः सा । तथा सान्द्र: प्रियसंबन्धेन निबिडो यः स्नेहरस आनन्दस्तस्यातिरेक आधिक्यं तेन विगलत् विस्त्रंसत् श्रीमन्नितम्बात् सुन्दरतमकटिपश्राद्भ्ागात् अम्बरं वस्त्रं यस्यास्तादशी। हे मानद मानं द्यति खण्डयांते मानं ददातीति च मानद इति व्युत्पत्त्या हे मानखण्डक हे सन्मानदायक च मा मां मा 'आयासय' इति शेषः । माम् अति अत्यन्तं मा 'पीडय' इति शेष: । अनुक्तिस्तु रसातिशयव्यञ्जनाय। अलं पूर्य- तामिति क्षामाणि कृशानि न्यूनानि अस्पष्टानि वा अक्षराण यस्मिन् कर्मण यथा स्यात्तथा उल्ला- पिनी वदन्ती। एवंभूता प्रेयसी सुप्ता कि नु निश्रलत्वेन वर्तमानत्वादिति भावः सुप्तेत्यादयो नाय- कवितर्काः । सुप्तस्यापि लोके श्वासाद्यनुभवादाह मृता नु किमिति। कि नु मृतेत्यन्वयः । मृतापि बहिरनुभूयते इत्यत आह मनसीति । मे मनास लीना जतुकाष्ठन्यायेनैक्यं गता 'कि नु' इत्य- नुषङ्ग:। ननु तादृशोऽपि पदार्थ: पृथक्वर्तु शक्यते इत्यत आह विलीनेति। कि नु विलीना नीर- क्षीरन्यायेन मिश्रीभावं गतेत्यर्थः । यद्वा विलीना क्षारे जले लवणवन्मिश्रितेत्यर्थः। नुशब्दः सर्वत्र वितर्के। शार्दूलदिक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अत्र 'मा मा' इत्यत्र 'आयासय' इति 'माति' इत्यत्र 'पीडिय' इति च न्यूनम्। न च दोष; झटित्यध्याहारेण प्रतीते: स्फुटत्वात्। प्रत्युत गुणः हर्षसंमोहातिशयप्रत्यायकत्वेन रसातिरेकव्यञ्ज- १ 'दवणा' इति महाराष्ट्रमाषायां प्रसिद्धे॥!

Page 486

सप्तम उल्लास: । ४२७

कचिन्न गुणो न दोष:। यथा तिष्ठेत्कोपवशात्मभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्मस्या मनः । तां हर्तु विबुधद्विषोऽपि न च मे शक्ता: पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यतिति कोडयं विधि:॥ ३११॥

कत्वात्। एवं शोकादावपि गुणत्वं बोध्यमिति प्रदीपोद््योतयो: स्पष्टम्। तत्र शोके यथा 'त्वं जीवित त्वमसि मे हृदयं द्वितीयं त्वं कौमुद्ी नयनयोरमृतं त्वमङ्गे। इत्यादिभि: प्रियशतैरव्बध्य मुग्धां तामेव शान्तमथवा किमिहोत्तरेण ॥I' इत्यत्र 'त्यक्तवानसि' इति क्रियापद्मनुपात्तम् अशक्यवक्तव्यत्वेन शोकातिशयपोषकत्वादिति चक्रवर्ती।।

क्वचिदिति। न्यूनपदमित्यनुषङ्ग। तिष्ठेदिति। विक्रमोर्वशीये चतुर्थेडड्के विरहिणः पुरुरवस उक्तिरियम्। सा उर्वशी कोपवशात् प्रभावेणान्तर्धानकरणविद्यया देवशक्त्या वा पिहिता अन्तर्हिता तिरोहिता सती अत्रैव तिष्ठेत् इति वितर्कः । एतदुत्तरं 'नैतयुक्तम् यतः' इति शेष: पूरणीयः। यतो यस्मात्कारणात् सा उर्वशी दरध चिरकालं न कुप्यति। स्वर्गायेति कर्मणि चतुर्थी "क्रियार्थोपपदस्य च कर्मणि स्थानिन:" (२।३१४) इति पाणिनिसूत्रात्। यत्तु "तुमर्थाच्च भाववचनात्" (२३। १५) इि सूत्रेण चतुर्थीति कमलाकरभट्टचन्द्रिकाकारादिभिरुक्तम् तत्तु न युक्तम्। स्वर्गशब्दस्य सुष्टु अज्यते इति स्वर्गः 'अर्ज अर्जने' इति भौवादिकादर्जधातोः "अकर्तरि च कारके संज्ञायाम्" (३।३१९) इति पाणिनिसूत्रेण कर्मघञ्रा सुष्टु ऋज्यतेऽस्मिन्निति स्वर्गः 'ऋज गतिस्थानार्जनो- पार्जनेषु' इति भौवादिकात् ऋजधातोः "हलश्" (३।३।१२१) इति पाणिनिसूत्रेणाधिकरणघञ्रा वा निष्पन्नत्वेन भावप्रत्ययान्तत्वाभावतया "तुमर्थाच्च०" इति सूत्रस्याप्राप्तेरिति बोध्यम्। स्वर्गाय स्वर्ग गन्तुम् उत्पतिता ऊर्ध्वगमनानुकूलव्यापारवती भवेत्। एतदुत्तरं 'नैतद्पि युक्तं यतः' इति शेषः पूरणीयः । यतो यस्मात्कारणात् अस्याः उर्वश्याः मनः पुनः मयि मद्विषये भावेन स्नेहेन आर्द्र सरसम। अत्रोक्तं चन्द्रिकाकारैः "भावेन स्नेहेनार्द्र सरसम्। 'तेन एतदपि न' इति शेषः। भवे- दित्यनन्तरं 'नैतद्यतः' इति शेषपूरणे पुनःशब्दार्थानन्वयप्रसङ्गात्" इति। अस्माभिस्तु "एवं द्विती- यपादेऽपि" इति (४२८ पृष्ठे ७ पक़कौ) वक्ष्यमाणप्रदीपानुरोधेन भवेदित्यनन्तरमेव शेषपूरणं कृतम् पुनःशब्दस्य वाक्यालंकारप्रयोजनकत्वेन तदर्थानन्वयप्रसङ्गाभावादिति मन्तव्यम्। मे मम पुरोवर्तिनीं च तां प्रियाम् (उर्वशी) हर्तुम अपहर्तु विबुधानां देवानां द्विषः शत्रवः असुरा अपि न शक्ता: किमुतान्ये। सा चात्यन्तं नयनयोः अगोचरम् अगोचरत्वम् (अविषयत्वं) याता प्राप्तेति कोऽयं विधिः प्रकारो दैवं वा 'वर्तते' इति शेषः। "विधिर्ब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः" इति कोशः। पिहितेत्यत्र "वष्टि भागुरिरल्लोपम्०" इति प्रागुक्तवचनेनापेरकारलोपः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

१ अवबध्येत्यत्र 'अनुरुध्य' इति वा पाठः ॥ २ फलेभ्यो यातीतिवत्। फलाम्याहर्तु यातीति नदर्थः॥ ३ इति सूत्रणेति। यागाय यातीति तदुद्ाहग्णम् वर्ष्ुं यातीति तदर्थः ॥अगोचरमिति भावप्रधानो निर्देश: २५७ उदा- हरणे 'नयनविषयम्' इतिवत्।।

Page 487

४२८ काव्यप्रकाश: सटीक:।

अत्र पिहितेत्यतोऽनन्तर 'नैतद्यतः' इत्येतैर्न्यूनैः पदैर्विशेषबुद्धेरकरणान्न गुणः। उत्तरा प्रतिपत्ति: पूर्वा प्रतिपत्तिं बाधते इति न दोषः । अधिकपदं क्वचिद्गुणः । यथा यद्वश्चनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किंतु कर्तु वृथा प्रणयमस्य न पारयन्ति ॥३१२। अत्र 'विदन्ति' इति द्वितीयमन्ययोगव्यवच्छेदपरम्। यथा वा

अत्र पिहितेत्यनन्तरं 'नैतद्ुज्यते यतः' इत्येतैः पदैन्यूनम्। एवं द्वितीयपादेऽपि। न चात्र गुणत्वम्। विशेषबुद्धेरनुत्पादात्। नापि दोषत्वम् तव्यतिरेकेणापि 'दीर्घ न सा कुप्यति' इत्यादिप्रतीत्या 'तिष्ठे- त्कोपवशात्' इत्यादिप्रतीतीनां बाध्यत्वावगमादिति प्रदीपे स्पष्टम्। बाध्यत्वावगमादिति। भ्रम-। त्वेनावगमादित्यर्थः । वाक्यार्थबुद्धावविलम्बाच्चेत्यपि बोध्यमित्युश्चोतः । तदेवाह अत्र पिहितेत्यादि। न्यूनैः अनुपात्तैः। विशेषबुद्धेरिति। वितर्करूपभावस्य न्यूनपदेनाप्रकर्षादिति भावः । न गुण इति। न्यूनपदत्वं न गुण इत्यर्थः । दोषोऽपि न भवतीत्याह उत्तरेति। 'दीर्ध न सा कुप्यति' इत्यादिरूपेत्यर्थः प्रतिपत्तिः ज्ञानम्। पूर्वी 'तिष्ठेत्कोपवशात्' इत्यादिरूपाम्। बाधते इति। विरुद्धत्वादिति भावः एवं चोत्तरा प्रतिपत्तिः पूर्वप्रतिपत्तिविरुद्धविषया ग्राह्या घटप्रतिपत्त्युत्तरस्याः पटप्रतिपत्तेर्घटप्रतिपतत्यबा- धकत्वात्। न दोष इति। दीर्घमित्याद्युत्तरवाक्यार्थावगमेनैव पूर्ववाक्यार्थस्य बाध्यत्वावगमान्न्यूनपदत्वं न दोष इति भावः। उक्तमिदं विवरणे "अयं भावः। नैतदित्यादेरनुपादानेऽपि निषेधहेतुभूतस्य 'द्धि न सा कुप्यति' इत्यादेरुक्त्यैव निषेधो वाच्यवत् प्रतीयते अतस्तदनुपादानं न दोषाय" इति॥ अधिकपदस्य गुणत्वमाह अधिकेति। क्वचिद्गुण इति। 'यत्र विशेषप्रतिपत्तिः' इति शेषः । यथेत्युदाहरति यद्दश्चनेति। वञ्चनायां प्रतारणायाम् आहिता स्थापिता कृता वा मतिर्बुद्धिर्येन सः कार्ये स्वकारयें उन्मुखस्तत्परः खलजनः दुर्जनः बहु अनल्पं चाटुगर्भ प्रियवाक्यगर्भ कृतकं मिथ्याभूतं यत् वचनं ब्रवीति तत् साधवः पण्डिताः न विदन्ति न जानन्ति इति न किंतु विदन्ति। कथं तर्हि ज्ञात्वाप्युपकुर्वन्तीत्यत्राह कर्तुमित्यादि। तथापि अस्य खलस्य प्रणयं कृतकमपि स्नेहं वृथा कर्तु न पारयन्ति न शक्नुवन्तीत्यर्थः । 'पार तीर कर्मसमापतौ' इति चौरादिको धातुः। "अस्त्री चाटुशटः श्लाघा प्रेम्णा भिथ्याभिशंसनम्" इति कोशः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ दोषत्वाभावमुपपाद्यति अत्र विदन्तीतीति। अन्ययोगव्यवच्छेदपरमिति । अन्यस्य साधु- भिन्नस्यासाधोर्योगो वेदनसंबन्धस्तस्य व्यवच्छेदो व्यावृत्तिस्तत्परमित्यर्थः । साधव एव विदन्ति नान्यं ज्ञापयन्ति इत्यर्थकमिति यावत्। अत्र द्वितीयं विदन्तीति पदमन्ययोगव्यवच्छेदं प्रतिपाद्यन्नाधिकप- दत्वेऽपि दुष्टमित्यर्थः । न्रद्वययोगेन [ "द्वौ नत्रौ प्रकृतमर्थ सातिशयं गमयतः" इति न्यायात् ] ज्ञानातिशये लब्धे पुनर्विदन्तीति पदम् 'एते एव जानन्ति न त्वन्यं ज्ञापयन्ति' इति विशेषकत्वाद्गुण इति भाव इति प्रदीपोद््योतयोः स्पष्टम्। नन्वत्र कथमधिकपदत्वम् द्वितीयेन 'विदन्ति' इति पदेन 'एते एव जानन्ति न त्वन्यं ज्ञापयन्ति' इत्यर्थस्य विवक्षितत्वात् पदस्याविवक्षितार्थकत्वे एव हि अधिकपदत्वाङ्गीकारात् इति चेन्न। "अधिकपदं क्वचिद्गुणः" इत्यत्र 'आपाततः' इत्यादिः । तथा च आपाततो यत् अधिकपदं तत् क्वचिद्गुणो भवतीत्यर्थादुक्तशङ्काया अनुत्थितेः। अन्यथा कथं पापस्य पुण्यत्वमिव दोषस्य गुणत्वं स्यादिति बोध्यम्।

Page 488

सप्तम उल्लास:। ४२९

वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति। चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे।। ३१३।। इत्येवमादौ हर्षभयादियुक्ते वक्तरि॥ कथितपद क्वचिद्गुणः लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये बिहितस्यानुवाद्यत्वे च। क्रमेणोदाहरणम् सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः। पौरुषकमला कमला सापि तवैवास्ति नान्यस्य॥। ३१४।। एवं हर्षभयादियुक्ते वक्तरि अधिकपदस्य गुणत्वमित्युदाहरति यथा वेत्यादि। वद वदेति। स शत्रुः जितः वदेति रगादागतं प्रति स्वामिनः प्रश्नः। तवास्मि तवास्मि इति जल्पन् न हतः । परं किंतु पुत्रे मृते सति चित्रं चित्रं यथा स्यात्तथा हा हेति अरोदीदित्युत्तरम्। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे। अत्र पाद्चतुष्टये क्रमेण हर्षभयविस्मयविषादयुक्ता वक्तारः। हर्षादियुक्ते वक्तरि अधिकपदस्य गुणत्वम् :त्वरादिव्यक्त्या हर्षाद्यभिव्यञ्जकत्वात् । तदेवाह इत्येवमादाविति। वक्तरीति। 'अधि- कपदत्वं गुणः' इति शेषः । तदेतदुक्तम् "विषादे विस्मये हर्षे दैन्ये कोपेडवधारणे। प्रसादनेऽ नुकम्पायां द्विस्त्रिरुक्तं न दुष्यति ॥" इति सारबोधिन्यादौ स्पष्टम्। प्रदषि तु "विस्मये च विषादे च दैन्ये चैवावधारणे। तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥" इति पाठान्तरं दृश्यते। एवं पुनरुक्तेऽपि द्रष्टव्यम्॥ कथितपद्स्यापि त्रिषु गुणत्वमाह कथितपदमित्यादि । कथितपदस्यापि "शाब्दस्तु लाटानु- प्रासः" इति ११२ सूत्रेण वक्ष्यमाणे लाटानुप्रासे तननिर्वाहकतया प्रागुक्ते (८३ पृष्ठे ) अर्थान्त- रसंक्रमितवाच्ये ध्वनौ विशेषव्यञ्जकतया पूर्ववाक्ये विधेयस्योत्तरवाक्ये यत्रानुवादस्तत्र च तादृशा- भिमतनिर्वाहकतया गुणत्वमिति भावः॥ तत्र लाटानुप्रासे कथितपदस्य गुणत्वमुदाहरति सितकरेति। हे विभाकराकार विभाकर: सूर्य- स्तत्सदृश प्रचण्डप्रताप हे धरणिधर राजन् सितकरः श्वेतकिरणः चन्द्रः तस्य करवत् किरणवत् रुचिरा आह्लादिका विभा कान्तिर्यस्यास्तादृशी कीर्तिः। तथा पौरुषकमला पराक्रमलक्ष्मीः सा कमला प्रसिद्धा लक्ष्मीश्ष तवैवास्ति नान्यस्येत्यर्थः । 'पौरुषमेव कमलमधिष्ठानम् आश्रयः यस्याः सा लक्ष्मी- रित्यर्थः' इति चक्रवर्तिश्रीवत्सला्छनादयः आहुः तन्न। तथा सत्यर्थभेदेन शब्दभेदेन च 'कैमला कमला' इत्यस्य लाटानुप्रासत्वाभावापत्या लाटानुप्रासे कथितपद्गुणत्वोदाहरणासंगतेः । अन्वयमा- त्रभेदे एव तस्य (लाटानुप्रासस्य) नवमोल्लासे ( ३५९ उदाहरणे) वक्ष्यमाणत्वादित्युद्योतचन्द्रि- कयोः स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र 'कर कर' इति 'विभा विभा' इति 'कमला कमला' इति च लाटानुप्रासः। तन्निर्वाहकत्वा- त्कथितपदस्य गुणत्वमिति बोध्यम्। उद्दयोतकारास्तु 'अत्र लाटानुप्रासः' इति प्रदीपप्रतीकमुपादाय "अत्रानुप्रासमात्रं निमित्तम् औपम्यस्य कान्तिपदादपि निर्वाहात्" इत्याहुः ॥

Page 489

५३० काव्यप्रकाश: सटीकः।

ताला जाअंति गुणा जाला दे सहिअएहि घेप्पन्ति। रइकिरणाणुग्गहिआहँ होन्ति कमलाइँ कमलाइँ॥ ३१५॥ जितन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपद: ॥ ३१६॥ अर्थान्तरसंक्रमितवाच्ये ध्वनौ कथितपदस्य गुणत्वमुदाहरति तालेति। "तदा जायन्ते गुणाः यदा ते सहृद्यैर्ग्रह्यन्ते। रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥" इति संस्कृतम् । आनन्दवर्धनकृतपञ्चबाणलीलायां (विषमबाणलीलायां) गाथेयमिति जयन्तकृतदीपिकायां सोमेश्वरकृ- तसंकेते च स्पष्टम्। उक्त्ते च ध्वन्यालोके द्वितीयोद्दयोते आनन्दवर्धनेनापि "यथा च ममैव विषम- बाणलीलायां 'ताला जाअन्ति गुणा'" इति। द्वितीयकमलपदं विकाशसौरभसौन्दर्यादिमत्कमल- परम्। जघनविपुला छन्दः। लक्षणमुक्तं प्राक् १३३ पृष्ठे॥ अत्र द्वितीयकमलपदस्यार्थान्तरसंक्र्मितवाच्यत्वेन व्यञ्जनोपयुक्तत्वाद्गुणत्वम्। असाधारणत्वादि- कमत्र व्यङ्ग्यमिति बोध्यम्। व्याख्यातमिदं प्रदीपादौ "अत्र द्वितीयं कमलपदं सौरभादिमदर्थकतया- ्थान्तरसंक्रमितवाच्यम् तथात्वे च कथितपदत्वमेव प्रयोजकम्" इति प्रदीपः । (तथात्वे चेति। पुन- स्तत्पदोपादाने चार्थान्तरसंक्र्कमितवाच्यत्वं स्फुटमिति तदेव निमित्तम् अर्थान्तरसंक्रमितवाच्यलक्षणा- साध्यविच्छित्तेः 'कमलान्युत्कृष्टानि' इति मुख्यप्रयोगादप्रतीतिश्र्वेति भावः) इत्युद्योतः । "अत्र द्वितीयकमलपद्मुत्कर्षबोधकम्। रविकिरणानुग्रहेण कमलानि यथोत्कृष्टानि तथा सहृद्यैर्गृह्यमाणा गुणा इत्यर्थान्तरसंक्रमितवाच्यलक्षणासाध्या विच्छित्तिः कमलान्युत्कृष्टानीति मुख्यप्रयोगात्तदप्रतीतेः । ननु तटघोषान्वयपरे 'गङ्गायां गङ्गा' इत्यत्रात्यन्ततिरस्कृतवाच्येऽपि विशेषावगमसंभवे विशेषे प्रति- प्रसवोऽनुचित इति चेन्न। घोषपदोपादानेऽपि विशेषप्रतिपत्तिसंभवेन पौनरुक्त्यस्याकिंचित्करत्वात्" इति चक्रवर्तिभट्टाचार्याः ॥ विहितस्यानुवाद्यत्वे कथितपदस्य गुणत्वमुदाहरति जितेन्द्रियत्वमिति। जितानि इन्द्रियाणि येन तस्य भाव: जितेन्द्रियत्वं विनयस्य नम्रतायाः कारणं भवति। विनयात् गुणप्रकर्षो गुणोत्कर्षः अवाप्यते प्राप्यते। गुणप्रकर्षेण जनः अनुरज्यते अनुरक्तो भवति। हिशब्दः प्रसिद्धौ। संपदः जनानुरागप्रभवाः प्रभवत्यस्मादिति प्रभवः कारणम् जनानुरागः प्रभवो यासां तथाभूताः भवन्तीत्यर्थः। 'गुणाधिके पुंसि जनोऽनुरज्यते' इति पाठे गुणैरधिके उत्कृष्टे इत्यर्थः । अत्र जितेन्द्रियत्वाद्विनयः तस्माद्गुणप्रकर्षः तस्माज्जनानुरागः तस्मात्संपद: इति पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमालालंकार इति ५२५ उदाहरणे स्फुटीभविष्यति। अत्र पय्ये भग्नप्रक्रमत्वं दोषोऽस्त्येव विनयस्य कारणमित्युपक्रम्य विनया- दवाप्यते इत्युपसंहारादिति विभावनीयम्। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र पूर्ववाक्ये जितेन्द्रियत्वेन विनयो विहितः । स एव चोत्तरवाक्ये गुणप्रकर्षार्थ निमित्तत्वेनानूयते। एवमुत्तरत्रापीति विहितस्यानुवाद्यत्वम् विहितस्यानुवाद्यत्वे हि कारणमालालंकारनिर्वाहकतया कथित- पदस्य गुणत्वम्। अयं भावः । कारणमालालंकारे पूर्वोपात्तपदेनैव विनयादिकमुपादेयम्। पदान्तरेणो- पादाने तु भिन्नत्वेनावभासप्रसङ्ग: स्यात्। "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते" (३६६ पृष्ठे २६ पक्कौ) इति भर्वृहरिप्रोक्तन्यायेनोपस्थितशब्दस्यापि विशेषणतया भानाङ्गीकारात्। भिन्नत्वेनावभासे

Page 490

सप्तम उल्लास: । ४३१

पतत्प्रकर्षमपि क्वचिदणः । यथा उदाहृते प्रागभाप्तेत्यादौ ॥ ३१७॥ समाप्तपुनरान्तं क्वचिन्न गुणो न दोषः। यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते। यथा अत्रैव प्रागप्राप्तेत्यादौ॥ ३१८॥ अपदस्थसमासं कवचिदणः । यथा उदाहृते रक्ताशोकेत्यादौ॥ ३१९॥ चोत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुता न लभ्येतेति कारणमालालंकारसंपादनमेव कथितपदस्य गुणत्वे निमित्तमिति। दोषत्वाभावश्र गुणत्वेन वैरस्यरूपबीजाभावादिति बोध्यम्। एवं च सर्वत्रानुप्रास- सत्त्वेऽपि पृथङनिर्देशो निमित्तमेदादिति बोध्यमिति प्रदीपोद्योतादिषु स्पष्टम्। उदाहते इति। अत्रैवोल्लासे (३२९ पृष्ठे २०९ उदाहरणे) इति बोध्यम्। प्रागप्रात्तेत्यादा- विति। अत्र हि चतुर्थपादे गुरुस्मृत्या क्रोधाभावान्मसृणमेव कोमलमेव पदं युक्तमिति दोषत्वाभावः। गुणत्वं तु परशूत्कर्षस्य परशुस्वामिविषयकवक्तृनिष्ठविनयप्रकाशकतयेति भावः ॥ समाप्तपुनरात्तस्यापि प्रतिप्रसवमाह समाप्तपुनरात्तमित्यादि। यत्र न विशेषणेत्यादि। प्राग- प्राप्तेत्यादौ 'येनानेन' इत्यादि न विशेषणदानमात्रार्थ कि तु वाक्यान्तरमेवावधेयम् अतो बीजा- भावान् दोषः। न च गुणः विशेषबु्धेरकरणादिति प्रदीपे स्पष्टम्। अयमभिप्रायः । विशेषणस्य

पादाने दूषकताबीजम् तच्च 'क्रेङ्ारः स्मरकार्मुकस्य' (३४४ पृष्ठे ) इत्यादौ स्पष्टमेव प्रागप्राप्ते- त्यादौ तु 'येनानेन' इत्यादिवाक्यान्तरारम्भसत्त्वेन न तादृशदूषकताबीजम् पदानामनाकाङगत्वेऽपि वाक्ययोः सर्वनाम्ना यच्छ्देनाकाङ्कोत्थापनात्। कि च प्रागप्राप्तेत्यादौ प्रत्युत समापप्तिरङ्गम यथाहुः तन्त्रवार्तिके (१।४।२३) कुमारिलभट्टाः "स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया। वाक्यानामेक- वाक्यत्वं पुनः संहत्य जायते॥" इति । अत एव 'यो नववयो लास्याय वेणुस्वनः' इति पाठे तत्रापि (क्रेङ्कार इत्यत्रापि) अदोष एवेत्युक्तं प्रागिरतात्युइ्योतसुधासागरयो: स्पष्टम्॥ अर्धान्तरैकवाचकादीनां नित्यदोषत्वेन तानपहायापदस्थसमासप्रतिप्रसवमाह अपदस्थेत्यादि। उदाहृते इति। अस्मिन्नेवोल्लासे (४१६ पृष्ठे) इति बोध्यम्। रक्ताशोकेत्यादाविति। "अत्र हि शृङ्गारे दीर्घसमासस्यानौचित्यमिति अपदस्थसमासोऽपि उद्दीपकं (रक्ताशोकं) प्रति कोपमुत्कर्षयन् विप्रलम्भमेव पुष्णातीति गुणः" इति केचित्। अत्र प्रदीपकाराः "अत्रापदस्थसमासत्वमेव कथमिति चिन्त्यम् द्वितीयार्धस्यापि तत्स्थानत्वात् तस्यापि रुष्टवक्तृकत्वात् अन्यथा गुणत्वासंभवात्" इत्याहुः। (अन्यथा गुणत्वेति। क्रोधोन्मादपरिपुष्टया हि तस्य गुणत्वम्। विरहिणः पुरूरवस इयमुक्तिरिति भावः । नो दृष्टेत्यस्यापि कोपप्रकाशकत्वेन तत्स्थानत्वम्। एवं च स्थानेऽकृतत्वमात्रेणापदस्थपद्तेति कश्र्वित) इत्युद्दयोतकाराः । सुधासागरकारास्तु 'चिन्त्यम्' इति प्रदीपप्रतीकमुपादायेत्थं प्राहुः "तत्रेयं चिन्ता। द्वितीयपादवदुत्तरार्धस्यापि समासस्थानत्वं रुष्टवक्तृकत्वं चेति सत्यम्। अत एव पूर्व शृङ्गार- प्रतिकूलस्यापि दीर्घसमासस्य रुष्टवक्तृकत्वेन गुणत्वमुदाहृतम् प्रकुते तु तारतम्यविचारे 'नो दृष्टा' इति कोधोत्पत्त्यव्यवहितोच्चारितपदेष्वेव ताद्शसमासस्यावश्यकता न तु कतिचित्पदानि परित्यज्येत्यपदस्थ- समासत्वम्। न पुनरस्य रुष्टवक्तृकत्वेन गुणत्वमुदाह्ियते। किं तून्मत्तपुरूरवस उक्तिरियम्। अतः स्थानौचित्या विवकादुम्मादपरिपुष्टयैवंति वाग्देवतावतारोक्ति: (मम्मटोक्तिः) अनवय्यैवेत्यसकृदस्माभिरा-

Page 491

४३२ काव्यप्रकाशः सटीक:।

गर्भितं तथैव। यथा हुमि अवहत्थिअरेहो णिरंकुसो अह विवेअरहिओ वि। सिविणे वि तुमम्मि पुणो पत्तिहि भत्ति ण पसुमरामि॥३२०॥ अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय ॥ एवमन्यदृपि लक्ष्याल्लक्ष्यम्।

वेदितं शिष्टैर्मन्तव्यम्। उक्तानि चोन्मत्तचरितानि 'अस्थानहासस्मितनृत्यगीतक्रोधाङ्गविक्षेपणरोदनानि' इति। एवं च यद्भास्करभट्टाचार्यैरुक्तम् 'शृङ्गारे दीर्घसमासस्यानौचित्यादस्थानत्वम्' इति तद्गर्भस्नावे- णैव गतमिति ध्येयम्" इति॥ "केचित्तु अभवन्मतयोगस्यापि क्वचिद्दुष्टता। यथा 'हिरण्यपूर्व कशिपुं प्रचक्षते' (माधे १ सर्गे ४२ श्लो०) इत्यत्र। तथाहि। कशिपुपदस्य स्वार्थपरत्वे पुंस्त्वान्वयो न स्यात् 'कशिपु त्वन्नमाच्छा- दनं द्यम्' इत्यमरेण नपुंसकानुशासनात्। शब्दपरत्वे तु प्रख्यानक्र्ियान्वयानुपपत्तिः संज्ञिन एव संज्ञया व्यवहयमाणत्वात् । अदोषत्वं तु लक्षणया झटित्येव धर्मिप्रत्यायनात्। न च प्रयोजनाभावः शब्दप्रसरस्यैव तत्त्वात्। एवं देशपूर्व रथम' इत्यादिष्वपीत्याहुः तन्न। लक्षणया विवक्षितान्वयोपप- त्तावभवन्मतयोगताविरहात् लक्षणातः पूर्वमन्त्रयानुपपत्तेर्लक्षणोत्थापकत्वेनादोषत्वात् अन्यथा सर्वत्रैव लाक्षणिके तत्प्रसङ्गात्। किं च लक्षणैव न स्यात् विकल्पासहत्वात्। तथाहि। असुरविशेषत्वेन लक्षणा हिरण्यपूर्वादिशब्दवाच्यत्वेन वा। नादः प्रख्यानक्रियाया द्विकर्मकत्वेन कर्मान्तराकाङ्ाया अनुवृत्तेः। नान्त्यः हिरण्यपूर्वककाशपुत्वेन ख्यातिविरहात् हिरण्यकशिपुत्वेनैव प्रसिद्धेः। द्विरेफादिपदे तु निरूढलक्षणया जातिविशेषपुरस्कारेणैव प्रतीतिरिति न तत्र दोषः। तेनाभवन्मतयोगस्य नित्य- दोषतैव" इति चक्रवर्तिकृतविस्तारिकायां स्थितम्। वस्तुतस्तु 'हिरण्यपूर्वम्' इत्यादौ नायं दोष: नामनामिनोरभेदस्य सत्त्वेनेष्टयोगसंपत्तेरिति प्राक् ३५६ पृष्ठे प्रतिपादितमित्यलम्॥ गर्भित तथैवेति। गर्भितमपि क्वचिद्गुणो दृढप्रत्ययहेतुत्वात्। न च दोषः प्रतीतेरव्यवधानादि- त्यर्थः । यथेत्युदाहरति हुमीति। आनन्दवर्धनकृतविषमबाणलीलायां (पश्चबाणलीलायां) स्मरं प्रति योवनोक्तिरियमिति माणिक्यचन्द्रसोमेश्वरकृतयोः संकेतयोः जयन्तकृतदीपिकायां च स्पष्टम्। एवमेव सरस्वतीतीर्थकृतटीकायामपि। एतेन 'गुरुं प्रति शिष्योक्तिरियम्' इति कमलाकरभद्टस्य कपोलकल्पि- तमपास्तम्। "भवाम्यपहस्तितरखो निरङ्कुशोऽथ विवेकरहितोऽपि। स्वमेऽपि त्वयि पुनः प्रतीहि भक्ति न प्रस्मरामि ॥" इति संस्कृतम् । हे स्वामिन् अहम् अपहस्तिता त्यक्ता रेखा मर्यादा येन तथाभूतः निरङ्कुशः अनुरोधशून्यः उच्छङलो वा अथ विवेकराहतः धर्माधर्मशून्योऽपि भवामि। (विशेषणत्रयस्य भिन्नार्थत्वं चिन्त्यम्)। स्वप्ेऽपि त्वयि पुनः 'प्रतीहि त्वं सत्य जानीहि' भक्ति न प्रस्मरामि न विस्मरिष्यामीत्यर्थः। "वर्तमानसामीप्ये वर्तमनवद्वा" (३।३३१) इति पाणिनिसूत्रेण भविष्यतीति लट्। 'ण पुलसिम्मि' इति पाठे न प्रमोक्ष्यामत्यिर्थः। याद्ृशस्ताद्ृशोऽपि स्वामिभक्तोऽ- नुग्राह्य एवेति भावः । भत्तिमित्यत्र तत्तिमिति पाठे तान्तिं चिन्तामित्यर्थः । केचित्तु हुमीत्यत्र 'होमि' इति पाठे भवामीति 'भम्मि' इति पाठे भ्रमामीति च संस्कृतमिति वदन्ति तच्चिन्त्यम् छन्दोभङ्गापत्तेः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे। अत्र 'प्रताहि' इति वाक्यगर्भितत्वं दृढप्रत्ययार्थकतया गुणः। तदेवाह अत्र प्रतीहीतीति। .१ दशरथमित्यर्थः। एवं 'दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः' इति रघुकाव्ये ८ सर्गे २९ श्लोके॥

Page 492

सप्तम उल्लास:। ४३१

(सू० ८२) व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभावविभावयोः॥६० ॥ दृढप्रत्ययोत्पादनायेति। प्रतीहीति सत्यप्रतीतिपरम्। तेन स्वोक्तेरमिथ्यात्वप्रतिपादकेन प्रती हीत्थनेन शपथसमानशीलेन सौहार्दविषयदाढर्यावगमः । परत उपादाने तु प्राङ्मिथ्यात्वेन प्रतीतौ तदकिंचित्करं स्यादिति भावः। प्रतीहीत्यत्र 'त्वम्' इत्यस्याध्याहारनियमेन वाक्यत्वमक्षतम्। एवं चास्य वाक्यदोषत्वमुपपन्नमिति मन्तव्यम्। 'परापकारनिरतैः' (३६३पृष्ठे) इत्यत्र तु प्रसिद्धार्थ- स्योपदेशान्नास्त्युपपत्त्यपेक्षेति तत्र निराकाङ्गतैवेति बोध्यम्। एवम् 'धन्यासि' (१३६ पृष्ठे) इत्या- दावपी 'सख्यः शपामि' इति गर्भितं गुण एव अविदग्धगोश्ठ्यां शपथेनैव प्रत्यायनौचित्यादिति विस्तारिकासारबोधिन्यादिषु स्पष्टम्।। एवमन्यदृपि लक्ष्य दृष्ट्ा ऊहनीयमित्याह एवमन्यदपीत्यादि। एवमुक्तप्रकारेणैवान्यत् दोषान्तरमपि क्वचिद्गुणः क्रचिल गुणो न दोषश्र्वेति लक्ष्यात् उदाहरणात् लक्ष्यं, दृष्ट्ेति यावत् (ल्यब्लोपे पञ्चमीयम्) लक्ष्यम् ऊहनीयंमित्यर्थः।यथा 'पंथिअ ण एत्थ सत्थरमत्थि' (१३३ पृष्ठे) इत्यादौ स्रस्तरव्याजेन स्नस्तरं संभोगं वा श्लिष्टशब्देन याचते इति पथिकाभिप्रायसंदेहान्नायिकया तथैवोत्तरितमिति संदेहस्य विवक्षायां संदिग्धस्यादोषत्वमित्याद्यूह्यम्। यत्तु चण्डीदासप्रभतिभिरुक्त्तम् 'ताणँ गुणग्गहणाणम्' (१७६ पृष्ठे) इत्यादौ वचनप्रक्रमभेदस्यादोषता प्रत्युत प्रेम्ण एकरूपत्वव्यञ्ञ- नाद्रगुणत्वमिति तन्न रमणीयम्। एकवचनेनैव प्रेमैकरूपत्वव्यञजनात्प्रक्रमभङ्गस्याकिंचित्करत्वात्। अन्यथा द्विवचनोपादानेपि तत्प्रसङ्गादिति ध्येयमिति विस्तारिकासारबोधिनीसुधासागरादिषु स्थितम्।

त्युद्योते स्पष्टम्।। अथ साक्षाद्रसविरोधिनो दोषानाह व्यभिचारीति । व्यभिचारिणां "निर्वेदग्लानि" इत्यादिना (११२ पृष्ठे) प्रोक्तानां व्यभिचारिभावानाम् रसानां "शृङ्गारहास्यकरुण" इत्यादिना (९८ पृष्ठे) प्रोक्तानां शृङ्गारादीनां च स्थायिभावानां "रतिर्हासश्र" इत्यादिना (१११ पृष्ठे) प्रोक्तानां रत्यादीनां च शब्दवाच्यता (सामान्यतो विशेषतो वा) स्वशब्देनोपादानं दोष इत्यन्वयः । व्यभिचारिणां व्यभिचारिशब्देन निर्वेदादिशब्देन वा रसानां रसशब्देन शृङ्गारादिशब्देन वा स्थायिभावानां स्थायिभावशच्देन रत्यादिशब्देन वोपादाने त्रयो दोषा इत्यर्थः । व्यभिचारिणां स्वशब्दानपादाने सत्येव स्वैः स्वैरनुभावैरभिव्यक्तौ भावध्वनित्वं रसाय पर्याप्तत्वं च । अत एवोक्तं (११८ पृष्ठे) "व्यभिचारी तथाञ्जितः" इति। तथा. रसपदेन शृङ्गारादिपदेन वा रसोपादानेऽपि विभावादिभिर- भिव्यक्ति विना न चर्वणीयता। अत एवोक्तं (९४ पृष्ठे) "वयञ्जितश्वर्वणीयः" इति। 'नयन- नलिनीिीलाकृष्टः पिबन्ति रसं प्रियाः' इत्यादौ 'शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्' इत्यादौ च विभावादिना प्रतीतस्यैवानुवाद इति न दोष इति प्राक् (२१७ पृष्ठे ) प्रतिपादितम्। तथा स्थायिनोऽभिव्यक्ता एव रसतां प्रामुवन्ति न स्वपदोपात्ताः । तदुक्तं (८६ पृष्ठे) "व्यक्तः स तैः" इत्यादि। एतत्सर्व व्यञ्ञनावृत्तेर्माहात्म्यम् । प्रमाणं तु सहृदयहृदयमेवेति ध्येयम्। एवं च स्वपदे- नोपादाने तु तदुपादानकृत आस्व्रादापकर्ष इति दोष इति भाव इति सारबोधिन्यादिषु स्पष्टम्। सिद्दान्ते रसस्य आस्वादात्मकस्य सामाजिकनिष्ठतया अवाच्यतया च रसशब्देनात्र आस्वाद्यमानोऽ- ५५

Page 493

४३४० काव्यप्रकाशः सटीक: ।

प्रतिकूलविर्भावादिग्रहो दीप्ति: पुनः पुनः।(F३,) अकाण्डे प्रर्थनच्छेदौ अङ्गस्याव्यतिविस्तृतिः ॥ ६१॥ अद्गिनोऽननुसंधान प्रकृतीनां विपर्ययः।

1557 अनङ्गस्याभिधानं च रसे दोषा: स्युरीहशाः ॥६२॥ क (१) स्वशब्दोपादानं व्यभिचारिणो यथा सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविरुमयरसा चन्द्रेSमृतस्यन्दिनि सेर्ष्या जह्न सुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥३२१॥ अत्र वीडादीनाम्। "ध्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सेत्कम्पा अजगे नुभावादिसंवलितः स्थायिभाव उच्यते रसादिशब्दस्य 'रस्यते आस्वाद्यते' इति व्युत्पत्या तत्रैव शक्तेः। निर्विशेषस्थायिभावस्य स्वशब्दवाच्यतायां तृतीयो दोषः। रत्यादिपदानां केवलरत्यादावेव शक्तेरिति नाभेदः। अकाण्डे इति । अकाण्डेऽनवसरे प्रथनच्छेदौ विस्तारविच्छेदावित्यर्थः रसस्यैवेति भावः । रसे इति। रस्यते :आस्व्राद्यते इति व्युत्पत्या रसभावादिमात्रे आस्वाद्यमाने इत्यर्थः । एतेषां स्वरूप- मग्रे तत्तदुदाहरणवसरे विशेषतः स्फुटीभविष्यताति ज्ञेयम्॥ अत्र व्याचख्युश्रक्रवतिरभट्टाचार्याः 'व्यभिचारीत्यादि । वाच्यता ताटस्थ्यलक्षणया बोधनम् ब्रह्म- पद्वत्। लोके यथा गोप्यानां स्तनादीनां साक्षात्प्रकाशने नोपादेयता तथानुभावादिबहुव्यङ्गचत्वेन च्मत्कारनिदानानां व्यभिचारिभावानां स्वशब्दप्रकाशनेनेत्यर्थः" इति ॥ (१) तत्र व्यभिचारिभावस्य स्वशब्दवाच्यत्वं (दोषम्) उदाहरति सव्रीडेति। पार्वत्याः दृष्टिः वः युष्माकं शिवाय कल्याणायास्तु। "श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्" इत्यमरः । दृष्टिः विशिनाष्ट सवीडेत्यादि। दयितानने इत्यादीनि विषयसप्तम्यन्तानि। नायकस्य (शिवस्य) संमुखदर्श- नादवाडा। एवं मातङ्गो गजस्तच्चमम्चिरदर्शनेन कारुण्यम् विभवाभावेन शोकोदयात्। भुजगदर्शनेन भयम्। आकाशस्थायी कथमत्रेति चन्द्रदर्शनाद्विस्मयः । विस्मयस्य स्थायित्वेऽपि चमत्कारकारित्वे- नोपचाराद्रसत्वम्। पत्युरन्यस्त्रीसङ्गदर्शनादीर्ष्या। मणिस्थाने कपालदर्शनाहैन्यम्। नवसंगमे प्रणयिनी प्रीतियुक्ता चेत्यर्थः । व्रीडादयः प्राक् (४६ सूत्रे) व्याख्याताः । "कपालोऽस्त्री शिरोस्थि्नि स्यात्" इति मेदिनी। शार्डूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ - अन्र व्रीडादीनां व्यभिचारिणां शब्द्वाच्यत्वं दोषः। तदेवाह अत्र व्रीडादीनामिति। 'शब्दवा- च्यता' इति शेषः। अत्रेदं दूषणबीजम्। सति संभवेऽनुभावादिनाभिव्यक्तावेव चमत्कारास्वादयो- रुत्कर्षः तत्र वाच्यत्वे तु अगूढत्वापत्तेस्तयोरपकर्ष इति। एवं च यत्र यस्यानुभावादिना स्फुटतरं नाभिव्यक्तिसंभवः तत्र तस्य वाच्यत्वेपि न तयोरपकर्ष इति स्त्रपदोक्तिर्न दोषः। अत एव वक्ष्यति (४४८ पृष्ठे) "न दोषः स्त्रपदेनोक्तावपि संचारिणः क्वचित्" इति ८३ सूत्रम्। एवमेषामास्वाद्यत्वे एवं दोषो न त्वितराङ्गतयानास्वाद्यत्वेपीति बोध्यम्। एवं परत्राप्यास्वादाभावो दूषकताबीजमिति विविरणे स्पष्टम। युक्तं पाठमपदिशति व्यानम्रेत्यादि। युक्तमिति। एवं पाठे तु बीड़ादीनां

Page 494

सप्तम उल्लास:।

निमेषरहिता चन्द्रेSमृतस्यन्दिनि। मीलद्गः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे' इत्यादि तु युक्तम्।। (२) रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम् । क्रमेणोदाहरणम् तामनङ्गजयमङ्गलश्रयं किंचिदुच्चभुजमूललोकिताम्। नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥ ३२२॥ व्यभिचारिणां न स्वशब्देनोपादानं ककि तु अनुभावैर्नम्रतादिभिरभिव्यक्तिरेवेति भावध्वनिर्भवतीति भाव:। एवं चानुभावैर्व्यङ्गयानां वीडादननिां प्रतीतिरतिचमत्कारकारिणीत्यत्र सहृदयहृदयमेव प्रमाण- मिति ध्येयम् ।। व्याख्यातमिदं प्रदीपेऽपि "अत्र व्रीडादयो व्यभिचारिभावाः स्वशब्देनोपात्ताः। न च स्वशब्देनोपात्तेषु व्यभिचार्यादिष्वास्वादसंभवोऽनुभूयते किंतु अनुभावादिमुखनैव व्यक्तेषु। तस्मादास्व्रादानुत्पत्तिर्दोषत्व- बीजमिति संप्रदायः। तत्रेदमालोचनीयम्। एतावता शब्दवाच्यताया दोषत्वमेव तावदर्लभम् दूरे पार्थक्ये- न दूरतरे साक्षात्। तथाहि। अनुभावादीनामुपस्थितावियं रसप्रतिबन्धिकाभिमता तदनुपस्थितौ वा। अन्त्ये कारणाभावादेव आस्वादाभावो न तु वाच्यत्वकृतः । सत्येव कारणचक्रे कार्यानुत्पादस्य प्रतिबन्ध- कताव्यवस्थापकत्वात्। तथा च न्यूनपदत्वमनभिहितवाच्यता वा दोषः न त्वियम्। आग्येऽनुभावादित एव रसव्यक्तिरिति किं तच्छब्देनोते वैयर्थ्यमात्रं दोषः । वयं त्वालोचयामः । अनुभावादीनामुपस्थितावेव भावादीनां शब्दवाच्यतयास्वादोपघातः प्रतीयते इति तस्याः पृथग्दोषत्वम्। अत एवोत्सुक्यादीनां शब्द वाच्यता न दोषः सत्रास्वादविघाताप्रतीतेः । ने च वाच्यमेवमनुभावोपादानेऽपि किमिति नोदाहतमिति। तदुपादानस्थले भातादिशब्दानां वैयर्थ्यमपीत्यसंकराभिप्रायेण तथोदाहरणात्। उदाहते त्वनुभाँवाक्षे- पकतया वैयर्थ्याभावात्। न चैवैमुक्तोदाहरणविरोधस्तत्रानुभावाँद्यनुपादानादिति वाच्यम्। 'दैवादह- मत्र तया' (८९ पृष्ठे) इत्यादाविवाक्षेपेण तेषां प्रतीतेः । न हि व्रीडादिशब्दैः प्रतिपादिता व्रीडादय आस्वाद्यतामिव स्वानुभावाद्याक्षेपकतामप्यास्वादयितुमक्षमाः बीजाभावात्। एवमग्रिमोदाहरणेष्वप्यू- ह्यम्। एवं च स्थिते 'व्यानम्रा दयितानने' इत्यादि: पादत्रयपाठो युक्तः। एवं भावादिशन्देनाप्यु- पादाने द्रष्टव्यम " इति॥ (२) रसस्य सामान्यतो रसशब्देन वाच्यत्वं दोषम् उदाहरति तामिति। तां नायिकां नेत्रयो गोचरे विषये कृतवतः अस्य नायकस्य निरन्तरः अविच्छिनः कोऽपि अनिर्वचनीयः रसः शृङ्गारः अजायतेत्यन्वयः । कीदशीम् अनङ्गजयमङ्गलश्नियं कामसंबन्धिविजयमङ्गललक्ष्मीरूपाम्। तथा किंचि- वुच्चे ईषदुन्नते भुजमूले कुचसंधौ लोकिताम् अवलोकिताम द्ष्टाम इति केचित्। किंचिदुच्चेन भुजमूलेन लोकितामवलोकितामित्यन्ये। वस्तुतस्तु किंचिदुच्चम् ईषदुन्नत यद्बुजमूलं लोकितं दर्ष्ट १ मुखं द्वारम् ॥ २ इयम् शळ्द्च्यता ॥ ३ अन्त्ये कारणाभावादिति स्वस्वानुभावैरभिव्यक्तावेव व्यमिचारिण आस्व्ादका: शळ्द्रवाच्यता च तद्पकर्षिकवोति भावः ॥ न च वाच्यमिति। अनुभावोपादाने एव किमिति नीदाहतमिति न वाच्यमित्यन्वयः ॥ ५ अनुभावाक्षेपकतयेति वीडाद्याक्षिप्ैस्तद्नुभावैर्व्यजितैरेव तै रसपर्यापतिः पर स्वाश्वादोपघात इति भावः। एतदुत्तरं 'न चैवमुक्तोदाहरण' इत्यादिः । 'आक्षपेणैव तेषां प्रतीतेः' इत्यन्तो ग्रन्थ: क्वचित्पुस्तके पठ्यते सोडग्रन्थ इत्युद्योतः ॥६ एवम् उक्तप्रकारेण दोषतवे॥ ७ अनुभावाद्यनुपादानादिति। तथा च सामग्रयभावादेव रसानुत्पत्ता तदपकर्षकतया दोषोद्भावन विरुद्मित्यर्थः॥८ स्वानुभावादीति। स्वस्थेति षष्ठा साक्षात्परंपरासाधारण्यैन स्वानुभावा रत्याद्यनुभावाश्रव गृह्यम्ते इति प्रभा॥

Page 495

४३६ काव्यप्रकांश: सटीकः।

पइयैष बाल्यमतिवृत्य विवर्तमानः शुङ्गारसीमनि तरङ्गितमातनोति॥३२३ ॥ (३) स्थायिनो यथा संप्रहारे प्रहरणैः प्रहाराणां परस्परम्। ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत्॥३२४।। अत्रोत्साहस्य ॥। यया तामित्यर्थः। "वाहिताग्नयादिषु" (२।२/३७) इति पाणिनिसूत्रेण लोकितेत्यस्य परनिपातः। पूर्वव्याख्याद्वये लोकितामित्यनेनैव नेत्रविषयत्वे सिद्धेः 'नेत्रयोर्गोचरे' इत्यस्य पौनरुक्त्यापत्तेः । नख- क्षताद्यवलाकनाय भुजमूलस्य किंचिदौन्नत्यकारणम। पूर्वार्धे उद्दीपनातिशयः। रथोद्धता छन्दः। लक्षणमुक्तं प्राक् ११९ पृष्ठे ॥ अत्र रसस्य सामान्यतः रसवाच्यता दोषः । अत्र रसपदोपात्ततद्रसाक्षिप्तस्वविभावानुभावव्यभि- चारिभिर्व्यज्यते रसः कि तु [रसपदवाच्यत्वात्] आस्वादापकर्ष इति भावः। एवमग्रेऽपि बोध्यमि- त्युदयोते स्पष्टम् । अत्र 'कोऽप्यजायत विकार आन्तरः' इति पाठे तु न दोषः॥ रसस्य विशेषतः शृङ्गारपदेन वाच्यत्वं (दोषम्) उदाहरति आलोक्येति। कोमलयो: (किशोरतया) मृदुतरयोः कपोलतलयोगण्डफलकयोरभिषिक्तः (तत्कार्यपाण्डुतादर्शनात्) प्रति छ्वित: व्यक्त: (रामाश्चादिना) अभिव्यक्तः (प्रकटीभूतः) योऽनुरागो रिरंसारूपस्तेन सुभंगा दर्शनीयरूपाम् अभिराममूर्ति रमणीयतरावयवसंस्थानां (बालाम्) आलोक्य एषः बाल्यम् अतिवृ- त्यातिक्रम्य विवर्तमान: पुलककटाक्षादिभिश्र्वेष्टमानः सन् शृङ्गारसीमनि तरङ्गितं वल्लितम् अवि- च्छेदारम्भं वा अविच्छिन्नखेलनं वा आतनोति करोतीति त्वं पश्येत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्र रसस्य विशेषतः शृङ्गारपदवाच्यत्वं दोषः। अत्र शृङ्गारपदोपात्तसंभोगशृङ्गाररसाक्षिपस्व- विभावानुभावव्यभिचारिभिव्यज्यते रसः किंतु शृङ्गारपदवाच्यत्वादास्वादापकर्ष इति भावः ॥ i (३) स्थायिभावस्य विशेषतः उत्साहपदेन वाच्यत्वं (दोषम्) उदाहरत संप्रहारे इति। संप्रहारे युद्धे प्रहरणैः शस्त्रैः "आयुधं तु प्रहरणं शस्त्रमस्त्रम्" इत्यमरः । परस्परं क्रियमाणानां प्रहाराणां ताडनानां श्रुतिगतैः कर्णप्राप्तैः ठणत्कारैः तादृशशब्दैः प्रहरणकरणकप्रहारजन्यठणत्काररत्यर्थः । 'झणत्कारैः' इति पाठान्तरम्। तस्य प्रकृतवीरस्य कोऽप्यनिर्वचनीय उत्साहः वीररसस्थायी अभूदित्यर्थः ॥ अत्रोत्साहस्य स्थायिभावस्य उत्साहशब्दवाच्यत्वं दोषः । तदेवाह अत्रोत्साहस्येति। 'शब्द- वाच्यत्वं दोषः' इति शेषः । अत्र 'प्रमोदस्तस्य कोऽप्यभूत्' इति पाठे न दोषः । अत्रैव पय्ये 'स्थायिभावोऽस्य कोऽप्यभूत' इति चतुर्थचरणपाठे सामान्यतः शब्दवाच्यतोदाहरणं द्रष्टव्यमिति प्रदीपोद्दयोतयो: स्पष्टम्॥ 1 (४) 'कष्टकल्पनया व्यक्तिः' इत्यादेरयमर्थः । अनुभावविभावयोः कष्टकल्पनया पृथक्श्लोकाद्नुसंधे- यप्रकरणादिपर्यालोचनया विलम्बेन व्यक्तिरभिव्यक्तिः न तु 'दैवादहमत्र तया' (८९ पृष्ठे) इत्या- दाबिव झटित्याक्षपमहिम्रा सा (व्यक्तिः) इति। तत्रानुभावस्य कष्टकल्पनया व्यक्तिमुदाहरति

Page 496

सप्तम उल्लासः । ४३७

(४) कर्पूरधूलिधवलद्यतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यूनः। 8ो7 तिो लीलाशिरों ऽशुक निवेशविशेषक्ल प्तिव्यक्तस्त नो न्नतिरभू न्नय नव नौ सा ॥ ३२५। अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना ॥। कर्पूरेति । शिशिररोचिषि चन्द्रे कर्पूरधूलिवत् धवलो यो दुतिपूरः कान्तिसमुदायः तेन धौतं प्रक्षा- लितं (निर्मलीकृतं) दिङ्मण्डलं येन तथाभूते सति लीलया शिरोंऽशुकनिवेशस्य शिरःसंबन्धितस्त्र- निवेशस्य या विशेषक्लप्तिः विशेवरचना तया व्यक्ता स्तनोन्नतिर्यस्यास्तादशी सा नायिका तस्य प्रसिद्धतारुण्यस्य यूनः नयनावनौ नयनप्रसारणभूमौ अभूत्। दृष्टिपथमवतीर्णेत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्र "स्तम्भ: स्वेद्श् रोमाञ्चः" इत्यादिना प्राक् (८८ पृष्ठे) उक्तः स्तम्भादिरूपः कश्रन पुंनि- धस्य शृङ्गाररसस्यानुभावोडभिमतः स च प्रकरणाद्यनुसंधानसापेक्षतया विलम्बेन प्रतयते इति क्टेन गम्यः। तदेवाह अत्रोद्दीपनेत्यादि। उद्दीपनालम्बनरूपा इति । उद्दीपनरूपो विभावश्रन्द्रः लीला- शिरोंडशुकेति च आलम्बनरूपो विभावो नायिकेत्यर्थः । अनुभावपर्यवसायिन इति। अनुभावं पर्यवसाययन्ति प्रकरणाद्यनुसंधानसापेक्षतया विलम्बेनावगमयन्ति ये तादृशा इत्यर्थः। अयं भावः। तादृशचन्द्रादीनामवलोकनेऽपि तस्य यूनोऽरसिकत्वे रतेरनुदयस्यापि संभवेन प्रथमं तस्य रसिक- त्वमनुसंघेयम् ततो रत्यनुभावप्रतीतिरिति विलम्ब इति। अथवा चन्द्रोदये यूनो: परस्परावलोकने विकारो भवत्येवेति प्रतिसंधानोत्तरं रत्यनुभावप्रतीतिरिति विलम्ब इति॥ प्रद्पिकारास्तु 'अनुभावापर्यवसायिनः' इति पाठं मन्यमाना एवं व्याचर्युः "अत्र चन्द्रादय उद्दीपनालम्बनविभावा: शृङ्गारयोग्या अनुभावाप्रतीत्यास्वादापर्यवसायिनः स्थिताः। यद्यप्यंशुकनिवे शोऽनुभावत्वयोग्यः तथापि तस्य स्तनव्यक्तिप्रयोजकत्वेनोपादानान्नानुभावत्वपर्यवसानमिति प्राश्चः। वस्तुतस्तु पुंनिष्ठ एव शृङ्गारोऽ् प्रतिपिपादयिषितः 'अभून्नयनावनौ सा' इत्यनेन तस्या एवालम्बन- त्वप्रतिपादनात्। न च पुंसि कश्विदनुभाव उपात्तः न च विभावैरप्याक्षेपार्ह इति कष्टेन कल्प- नीयः" इति। अत्रोद्योतकाराः (लीाशिरोंऽशुकेत्यप्युद्दीपनविभाव एव। उद्दीपनालम्बनेति। चन्द्रनायिकाः । अनुभावा तीत्येति। झटिति तदप्रतीत्येत्यर्थः । चन्द्रोदये यूनो: परस्परावलो- कने विकारो भवत्येवेति प्रतिसंधानोत्तरं विलम्बेन तत्प्रततिरिति भावः। उपादानादिति। एवं च दर्शनकार्यत्वेनाप्रतीतेर्नानुभावत्वमिति भावः। स्तनोन्नतिव्यञ्जनस्यानुभावत्वयोग्यत्वादाह वस्तुत- स्त्विति ।) इत्याहुः॥ एवमेव सारबोधिन्यामपि पाठदयमङ्गीकृत्य व्याख्यातम्। तथाहि। "शृङ्गारयोग्या: विभावा इति । उद्दीपनविभावश्रन्द्रः आलम्बनं नायिका । अनुभावेति। अनुभावाप्रतीत्यास्वादापर्यवसायिनः स्थिता इत्यर्थः । 'पर्यवसायिनः' इति पाठे 'कष्टेन' इति शेषः । न झठिति आक्षेपका इत्यर्थः। न च स्तनोन्नतिव्यञ्जनमेवानुभावः तस्य दर्शनकार्यत्वेनाप्रतीतिः। वस्तुतो नायकनिष्ठ एवं शङ्गारो व्यञजनीय: १ उपादानादिति। अयमुद्दयोतर्समतः पाठः बहुष्वस्मदुपलब्धप्रदीपपुस्तकेषु तु 'उगत्तेः' इत्येव पाठः । 'उपा- सस्य' इत्यपि क्वचित्पाठः ॥ २ तस्या एवेति। यद्यपि सर्वेष्वस्मदुपलब्धप्रदीपपुस्तकेषु 'तस्यैव' इति पाठो दृश्यत तथापि सोऽपपाठ एवेति मन्तव्यम्। ३ अत्र बहुवचनमाद्यर्थकम् पूर्वोक्ते १० उदाहरणे (५७ पृष्ठे) 'ललितानि' इतिवत्।I

Page 497

कांव्यप्रकाशः सटीकः ।

(५) परिहरति रतिं मति लुनीते स्खलति भृशं परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥ ३२६॥ अत्र रतिपरिहारादीनामनुभावानां करुणादवपि संभवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः॥ (६) प्रसादे वर्तस्व प्रकदय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिश्चतु वचः।

'नयनावनौ सा' इत्यनेन तस्या एवालम्बनत्वेनावगतेः। न च नायकनिष्ठः कश्विदनुभाव उपात्तः न वा विभावेन झठित्याक्षेपगम्य इति कष्टेन कल्पना" इति॥

(५) विभावस्य कष्टकल्पनया व्यक्तिमुदाहरति परिहरतीति। बतेति खेदे । "खेदानुकम्पा- संतोषविस्मयामन्त्रणे बत" इत्यमरः । विषमा कठिना दशा अवस्था विरहावस्था (कत्री) अस्य नायकस्य देहं ( कर्म) प्रसभ हठात् बलात्करेण इति एवंप्रकारेण परिभवि तिरस्करोति अत्र अस्मिन्विषये वयं किं कुर्मः न कश्विदुपायः स्फुरतीत्यर्थः । परिभवप्रकारमाह परिहरतीत्यादि। रति वस्तुनि स्पृहां परिहरति दूराकरोति। मतिम् अर्थावधारणं लुनीते छिनत्ति। 'स्खलति' इति 'परिवर्तते' इति च अन्तर्भावितण्यर्थः (७३ पृष्ठे १४ पङ्कौ) शंभुरितिवत् । तथा च भृशम अत्यन्तं स्खलयति भूयः परिवर्तयतीत्यर्थः । केचित्तु परिहरति त्यजति स्खलति विपर्येति परिवर्तते विशेषदर्शी च भवति। अत्र नायकस्यैव कर्तृत्वं न तु दशायाः अनन्वयात् । इति एवं विषमा दशा (भ्रमविशेषदर्शनाभ्यां सुखदडुःखदायित्वात्) क्षणक्षणविलक्षणावस्था अस्य नायकस्य देहं प्रसभं परिभवतात्यर्थमाहुः । पुष्पि- ताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे।

अत्र कामिनीरूपो नायकनिष्ठस्य विप्रलम्भशृङ्गारस्यालम्बनविभावोऽभिमतः सच नोपात्तः । न च रतिपरिहारादिभिरनुभावैराक्षेप्तुमप शक्यतेेषांकरुणभयानकबीभत्सेष्वि संभवेन झटित्यना क्षेपात्। किंतु प्रकरणाद्यनुसंधानेन विलम्बेनेति कष्टेन कल्पनीय इति दोष:। तदेवाह अत्र रतिप- रिहारादीनामित्यादि। करुणादाविति । आदिपदेन भयानकबीभत्सयोः परिग्रहः । तथा च संशयेनैकस्यापि न निश्र्य इति भावः। विभावः आलम्चनात्मको विप्रलम्भशृङ्गारविभावः। यत्नतः प्रतिपाद्य: प्रकरणाद्यनुसंधानेन विलम्बेन गम्यः। एवं च विलम्बकृत एवास्वाद्विन्नः। आपाततस्तु बहूनां संगमेनैकतरविश्रान्त्यभावादास्वादविघ्न इति बोध्यमिति प्रदीपोद््योतादिषु स्पष्टम्॥ (

1F (६) 'प्रतिकूलविभावादिग्रहः' प्रतिकूलः प्रकृतरसादेविरुद्ो यो रसादिस्तद्विभावानुभावव्यभिचारिणां ग्रहो ग्रहणमुपादानमित्यर्थः । तत्र तादृशविभावव्यभिचारिणोर्ग्रहमुदाहरत प्रसादे इति। चन्द्रकस्य कवे: पय्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। यत्तु मानवती मालतीं प्रति माधवस्योक्तिशयमित्युद््योतच- न्द्रिकयोरुक्तम् तन्तु चिन्त्यमेव मालतीमाधवप्रकरणेडस्य पद्यस्यानुपलम्भात् । प्रणयकलहकुपिता नायिकां प्रति नायकस्योक्तिरियम। हे प्रिये प्रसादे वर्तस्व प्रसन्ना भवेत्यर्थः। मुदं हष प्रकटय। रुषं कोपं संत्यज। अमृतमिव ते तव वचः (कर्तृ) शुष्यन्ति शुष्कीभवन्ति अङ्गानि (अर्थान्मम) अवयवान् सिश्चतु। शुष्यन्तीति शत्रन्त न तु तिङन्तम्। सौख्यानां निधानम् आकरं (उत्पत्तिस्थानभूतं) मुखं क्षणम् अभिमुखं संमुखं स्थापय। हे मुग्धे विवेकरहिते गतः कालरूपो हरिणः प्रत्येतुं परावर्तितुं न प्रभवति न

Page 498

सप्तम उल्लास:। निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥३२७॥ अत्र शृङ्गगरे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश व्यभिचारी उपात्तः।। णिहुअरमणम्मि लोअणपहम्मि पडिए गुरुअणमज्झम्मि। सअलपरिहारहिअआ वणगमणं एव्व महइ वहू ॥ ३२८॥ अत्र सकलपरिहारवनगमने शान्तानुभावौ। इन्धनाद्यानयनव्याजेनोपभोगार्थ वनग-

मनं चेत् न दोष:।। शक्कोतीत्यर्थः। काले हरिणत्वारोपेण चपलत्वं ध्वन्यते। शिखरिणी छन्दः। लक्षणमुक्तं प्राकू ७५ पृष्ठे।। अत्र प्रकृते शृङ्गारे प्रतिकूलस्य शान्तरसस्य प्रकाश्यमानकालानित्यतारूप उद्दीपनविभावः एतत्प्र- काशितो निर्वेदरूप: शान्तस्थाय्याख्यो व्यभिचारी च स्फुटमेव्र ग्रह्यते इति दोषः। तदेवाह अत्रेत्यादि। शृङ्गारे इति। 'प्रकृते' इत्यादिः। अनित्यतेति। कालानित्यतेत्यर्थः । विभाव इति। उद्ीपनविभाव इत्यर्थः । तत्प्रकाशित इति। कालानित्यताप्रकाशनप्रकाशितत्वेन निर्वेदस्य प्रतिकूलता प्रकारान्तर- प्रकाशितस्त्वनुकूल एवेति बोध्यम्। निर्वेदश्च वयभिचारीति। निर्वेदरूप: शान्तस्थाय्याख्यो व्यभिचारी चेत्यन्वयः । व्यभिचारित्वोक्तिश्र शृङ्गारापक्षयेति बोध्यम्। अस्यामतपरार्थान्व्ेदश्विन्त्य इति कश्विदिति प्रदीपोह््योतयो: स्पष्टम्। वस्तुतस्तु अस्यामतपरार्थन्भ्िदोऽमतपरार्थे एव (२७७ पृष्ठे) अस्माभि: प्रतिपादित इति द्रष्टव्यम्। उपात्त इति। एवं च विभावादिना प्रतिकूलरसस्याप्युपस्थित्या विरोधेन प्रकृतरसानास्वादप्रसङ्ग इति दोष इति भावः। सारबोधिनीकारास्तु "उपात्त इति। मना- गपि तयोरुपादानं वियोगातिरिक्तं सकलमेव शृङ्गाररसमुच्छिनत्तीति भावः" इत्याहु: ॥ प्रतिकूलानुभावग्रहमुदाहरति णिहुअरेति। "निभतरमणे लोचनपथे पतिते गुरुजनमध्ये। सक- लपरिहारहृदया वनगमनमेवेच्छति वधू: ॥" इति संस्कृतम्। गुरुअणेत्यत्र 'गुरूण' इति पाठे 'गुरू- णाम्' इति संस्कृतम्। निभृतरमणे गुप्तकामुके (जारे) गुरुजनानां मध्ये लोचनपथे नेत्रमार्गे पतिते सति सकलस्य गृहकार्यस्य परिहारे त्यागे हृदयं यस्यास्तथाभूता वधू: (तेन सह रन्तुं) वनगमनमेव इच्छतीत्यर्थः । गुरुजनमध्ये इत्यनेनात्यन्तं तरलता ध्वन्यते। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र व्याजादिकं विना वनगमनं सकलपरिहारश्र शान्तानुभावः न च व्याजः प्रतिपादित इति शृङ्गारस्य प्रकृतस्य विच्छेद इति प्रतिकूलानुभावग्रहो दोषः । इन्धनाद्यानयनव्याजेन संभोगार्थ वनगमनं यद्युच्यते तदा न शान्तानुभावग्रह इति न दोषः। तदेवाह अत्र सकलेत्यादि। सकलपरिहारश्र वनगमनं चेति इतरेताद्वन्द्समासः। शान्तानुभावाविति। तेन प्रतिकूलानुभावग्रहेण प्रकृतविप्रल- म्भशृङ्गाररसविच्छेद इति भावः । तयोरेव शृङ्गारानुभावत्वोपायतामाह इन्धनेत्यादि। इन्धनं काष्ठम्। आदिशब्देन कुसुमादीनां ग्रहणम्। व्याजः कपटः । वनगमनं चेदिति। निबध्यते इति शेषः । तथात्वे हि शृङ्गारे एव पर्यवसानं न तु शान्ते इति न दोष इत्यर्थः। अत्र गुरुजनसंनिधौ निभृतरम-

Page 499

४४० काव्यप्रकाशः सटीक: । (७) दीप्तिः पुनःपुनर्यथा कुमारसंभवे रतिविलापे॥ (८) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्केऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम्।। (९) अकाण्डे छेदो यथा वीरचरिते द्वितीयेड्क्के 'कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ॥ राधवभार्गवयोर्धाराधिरूढे वीररसे

णदर्शने प्रकाशशङ्गया वैराग्यस्यापि संभवान्न निभृतेत्यादिपदादेव शृङ्गारप्रतीतिरिति बोध्यम्। तदुक्तमुद्योते "न च निभृतेत्यादिस्वरसात्सकलपदस्य गृहकार्यपरत्वादेवं प्रतातिः तत्कर्मणस्तदा- नीमनौचित्यप्रतिभासेन वैराग्यहेतुत्वसंभवात् " इति॥ (७) दीप्तिरित्यादि। 'पुनःपुनर्दात्तिः' दीपितस्य (स्वसामग्रीलब्धपरिपोषस्य) अन्तरा विच्छिय्य वि्छिय ग्रहणम् वेद्यान्तरसंबन्धेन धाराया विच्छेदात्। पुनःपुनर्दीप्तिस्तु अङ्गरसादीनामेव न त्वङ्गिनः । अङ्गिनस्तु सा महाभारतादौ शान्तादेरिव न वैरस्यमावहतीति प्रदीपादौ स्पष्टम्। पुनःपुनर्दीप्ति: प्रबन्धे एव संभवतीत्याह कुमारसंभवे इत्यादि। 'चतुर्थे सरगे' इति शेषः। रतिविलापे। रतिविलापप्रस्तावे। अत्र. 'अथ मोहपरायणा सती' (४ स० १ श्लो०) इत्यादिना दीपितोऽपि (दीप्तिमानीतोऽषि ) करुण: 'अथ सा पुनरेव विह्वला' (४ स० ४ श्लो०) इत्यादिना पुनर्दीपितः (दीप्तिं नीतः) अथ च वसन्तदर्शनेन विच्छिन्नः पुनरपि 'तमवेक्ष्य रुरोद सा भशम्' (४ स० २६ शलो०) इत्यादिना उद्दीपित इति बोध्यम्। अत्रैकस्यैव पुनःपुनरास्वादः सहृदयानां वैरस्यायेति दूषकताबी- जम्। तदुक्तं प्रदीपोद्योतयोः "उपभुक्तो हि पुनरुपभुज्यमानः उपभुक्तकुसुमपरिमल इव सहद- यानामास्वादाप्रकर्षक:"इति। तथा चाह तृतीयोद्द्योते ध्वनिकारः "परिपाकं गतस्यापि पौनःपु- न्येन दीपनम। परस्यं स्याद्विराधाय" इति। परस्य श्रोतुः विरोधाय वैरस्यायेति तदर्थः ॥ (८) अकाण्डे इति। अकाण्डेऽनवसरे रसस्य प्रथनं विस्तारः (वर्णनम्) इत्यथः। उदाहरति वेणीसंहारे इति। 'नाटके' इति शेषः । अनेकवरिक्षये प्रवृत्ते इति। भीष्मादिवीरमरणे प्रक्रान्ते इत्यर्थः । तदानी करुणवीरादिरेवास्वाद्यते न तु शृङ्गार इति दोष इति भावः । तदुक्तमुद्दयोते "तदा करुणस्य वीरस्य वावसरो न शृङ्गारादेः न हि शोकोत्साहवासनानिरुद्धे प्रतिपत्तृचेतसि शृङ्गारादिः पदमपि लभते सुतरामास्वाद इति भाव:" इति ॥ (९) छेद इति। रसस्य विच्छेद इत्यर्थः । यथेत्युदाहरति वीरचरिते इति। नाटके इत्यर्थः । राघव- भार्गवयोः श्रीरामपरशुरामयोः । धाराधिरूढे धारावाहिनि अविच्छिन्नप्रसरतया प्रवृत्ते इति यावत्। वीररसे युद्धोत्साहे। कङ्कणेति। कङ्कणमोचनं विवाहदशमदिनोत्सवभेदः। राघवस्योक्ताविति। अकाण्डे हि तथोक्तिव्यजिन निर्गमनं प्रतिपाद्यन्ती श्रीरामस्यावरित्वे पर्यवस्यतीति नायके श्रीरामे वीररसो नास्वयतेति दोषः। तादृशे हि समाजे तथाचरणमशक्तिसंदेहापादकत्वादर्कीर्तिपर्यवसायाति भाव इति प्रदीपो््योतयोः स्पष्टम्। यद्यपि अङ्किते हस्तलिखिते च वीरचरितपुस्तके 'कङ्कणमो- चनाय गच्छामि' इति पाठो नोपलभ्यते तथाप्यार्थिकः फलतीति बोध्यम्। १ प्रचन्धलक्षणं तु प्राक् (६० सूत्रे १६६ पृष्ठे) प्रदर्शितम्॥ २ 'रसस्य' इति त्वपपाठ एव ।

Page 500

सप्तम उल्लास: ४४१ (१०) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम्। यथा हयग्रीववधे हयग्रीवस्य।। (११) अङ्गिनोऽननुसंधानम् । यथा रत्नावल्यां चतुर्थेडक्के बाभ्रव्यागमने सागरि·

काया विस्मृतिः॥ (१२ ) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्तरसप्रधाना (१०) "अङ्गस्याप्यतिविस्तृतिः" इति व्याचष्टे अङ्गस्येत्यादि । अप्रधानस्य प्रतिनाथकादेः। हयग्रीववधे हयग्रीववधाख्ये काशमीरकमेण्ठकविप्रणीते नाटके । तत्र हि विष्णुः प्रधानभूतों नार्य- कः । तद्दर्णनं परित्यज्याप्रधानस्य हयग्रीवनान्नो दैत्यस्य जलकेलिवनविहाररतोत्सवादेरनायकापेक्षया विस्तरेण वर्णनं हयग्रविस्यैव नायकत्वं प्रत्याययति । तथा च तद्गत एव रसः प्राधान्येनास्व्राय्येत न तु नायकगतः प्रधानो रस इति दोषः । यद्यपि "वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि" इत्यादि काव्यादर्शे प्रथमपरिच्छेदे दण्डचुपाध्यायोक्ते: प्रतिनायकवर्णनं नायकस्यैवोत्कर्षे पर्यवस्यति तथाप्य- तिशयितं वर्णनं प्रधानतिरोधायकतया दोषपद्वीमवतरतीति भाव:॥ तदेतत्सर्वमुक्तं सारबोधिन्याम् "हयग्रीवस्य जलके लिवनविहाररतोत्सवादेर्नायकापेक्षया विस्तरोण वर्णनं हयग्रीवस्य नायकत्वमेव प्रत्याययति न प्रतिनायकत्वमिति दोषः । न च 'वंशवीर्यश्रुतादीनि वर्णायत्वा रि्पिोरपि' इत्यादिना विरोध इति वाच्यम् । यद्गुणवत्वेन रिपोर्वणनेन नायकोत्कर्षप्रतिपा- दनं तत्रैवास्य तात्पर्यात् न तु वनविहारादावपि । अत एवाह 'तज्जयानायकोत्कर्षकथनं च धि- नोति नः' इति" इति। (११) अङ्गिन इति। अङ्गिनः प्रधानस्य नायकस्य नायिकाया वाननुसंधानमपरामर्शो विस्मरणमि- त्यर्थः । रत्नावल्याम्। तन्नामकनाटिकायाम्। बा्रव्येति। बाभ्रव्यनाम्नो सिंहलेश्वरकञचुकिन आग- मने आगमनकाले इत्यर्थः । सागरिकायाः रत्नावल्याख्याया मुख्यनायिकायाः । विस्मृतिः बाभ्रव्याग- मने विजयवर्मवृत्तान्तश्रवणासक्तहृदयेन राज्ञा (नायकेन वत्सराजेन) सागरिकाया नाममात्रस्याप्यग्रह- णाद्विस्मृतिः । तेन नाटिकाप्रतिपाद्यशृङ्गाररसो विच्छिन्नप्राय इति दोषः । व्याख्यातमिदमुद्योते "अङ्रिनन इति। प्रधानस्य प्रबन्धव्यापिन इत्यर्थः । प्रबन्धो हि नैकरसेन निर्वहति तत्र नानारसोपादानस्य कवि- समयसंमतत्व्रात् उपादानं च न प्रधानानाम् परस्परनिराकाङ्गत्वात् इत्येकस्याङ्गित्वमन्येषामङ्गत्वं रसवैचित्र्यार्थ वाच्यम। तत्र यदङ्गी नोपादीयते तदा वैचित््यं न प्रतीयत इति दोषः। विस्पृतिरिति। तदनुसंधानाधीना शृङ्गाररसधारा तदननुसंधाने विरता स्यादिति दुष्टिबीजम्" इति॥ (१२)"प्रकृतीनां विपर्ययः" यत्प्रकृतौ यद्वर्णनमनुचितं तत्र तद्वर्णनं प्रकृतिविपर्ययः । अमुमेव प्रकृति- विपर्ययं व्याख्यातुं तत्प्रतियोगिभूताः प्रकृतीराह प्रकृतय इत्यादि। प्रकृतयो नायकाः। नायकलक्षणे तु दशरूपके द्वितीये प्रकाशे उक्तम् "नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः। रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा। बुद्धय्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः । शूरो दृढश्र तेजस्वी शास्त्रचक्षुश्र धार्मिकः ॥" इति। अस्यार्थः। नेता नायको विनयादिगुणसंपन्नो भवतीत्यन्वयः । मधुरः प्रियदर्शनः। त्यागी सर्वस्व्रदायकः । दक्ष: क्षिप्रकारी। प्रियवदः प्रियभाषी। रक्तलोकः अनुरक्तजनः लोकरञ्जक इति यावत्। शुचिः नित्यकर्मरतः । यद्वा शौच नाम मनोनर्मत्यादिना कामाद्यनभिभूतत्दम्। वारमी १ वाच्यामीति। तदुपत नाटकं प्रकृत्य "एक एवं भवेदबी शुद्ारे वीर एव ा। अब्गमनपे रमा कवे" हत्यादि।।

Page 501

४४२ काव्यप्रकाश: सटीक: ।

रतिहा सशोका- मितप्रस्तुतवाक् रूढवंशः ख्यातवंशः । स्थिरः 'वाङ्गन:कर्मभिर्यश्र न चलः स स्थिरो मतः"। षोड- शवर्षादारभ्य त्रिंशवर्षपर्यन्तं युवेत्युच्यते। तथा चाह भरतः 'षोडशात् त्रिंशको युवा' इति। बुद्धिर्ज्ञानम्। उत्साह: 'कार्यारम्भेषु संरम्भ उत्साहः परिकीर्तितः'। संरम्भस्त्वरा। 'स्मृतिः पूर्वानुभूतार्थविषयज्ञानमु- च्यते'। 'प्रज्ञा तीक्ष्णमतिर्मता' । कला गीतवादनादिनैपुण्यम् । 'मानश्र्वित्तसमुन्नतिः'। शूरः संग्रामनि- पुणः । दृढ़ः दार्ढ्ययुक्तः । तेजस्वी अतिप्रतापः। 'शास्त्रचक्षस्त्रेयीपरः'। 'आत्मवत्सर्वभूतानि यः पशयति स धार्मिकः' । दिव्या इत्यादि । दिवि स्वर्गे भवाः विद्यमानाः दिव्याः दैवतैकरूपाः इन्द्रादयः। अदिव्या: मानुषैकरूपाः वत्सराजादयः। दिव्यादिव्याः मानुषरूपेणाप्यवतीर्णाः देवाः श्रीरामा- दयः। अत्राहुः प्रदीपकाराः "अत्र दिव्यत्वममर्त्यैकरूपत्वम्। अतो न पातालीयाद्संग्रहः। उदा- हरणं श्रीमन्महेश्वरादिः। अदिव्यत्वं मर्त्यैकरूपता यथा माधवादेः। दिव्यादिव्यत्वमुभयरूपता यथा श्रीकृष्णादेः" इति। त्रिविधा अप्येते धीरोदात्तादिभेदेन चतुर्धा भवन्तीत्याह वीरेत्यादि। इदं धीरो- दात्तादिषु यथाक्रममन्व्रेति। तथा च वीररसप्रधानो धीरोदात्तः रौद्ररसप्रधानो धीरोद्धतः शृङ्गाररस- प्रधानो धीरललितः शान्तरसप्रधानो धीरप्रशान्त इति पर्यवसितोऽर्थः । एवं च क्रमेण वीररौद्रशृ- ङगारशान्तरसप्रधानत्वमेतेषां लक्षणानीति फलितम्। श्रीरामभार्गवश्रीकृष्णजीमूतवाहनाः क्रमेणोदा- हरणानि। धीरोदात्तादीनां लक्षणानि दर्शरूपकेऽप्युक्तानि । तथाहि । "महासत्त्वोऽतिगम्भीरिः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारो धीरोदा्तो दढ़व्रतः ॥" महासत्त्वः शोकक्रोधाद्यनाभे- भूतान्त:करणः । अविकत्थनोऽनात्मश्लाघनः । 'वाङ्मनःकर्मभिर्यश्र न चलः स स्थिरो मतः'। निगूढा हंकारो विनयप्रच्छन्नगर्वः । दृढवतोऽङ्गीकृतनिर्वाहकः । "दर्पमात्सर्यभूयिष्ठो मायाछय्मपरायणः । धीरो- द्वतस्त्वहंकारी चलश्षण्डो विकत्थनः ॥" दर्पः शौर्यादिमदः। मात्सर्य परोत्कषसिहनता। मन्त्रबले- नाविद्यमानवस्तुप्रकाशनं माया। छद्म वञ्चनामात्रम्। चलोऽनवस्थितः । चण्डो रौद्रः। स्त्रगुणप्रशंसी विकत्थनः । "निश्चिन्तो धीरललितः कलासक्तः सुखी मृदुः"। निश्चिन्तः सचिवादिविहितयोगक्षे- मत्वाज्चिन्तारहितः कलासु गीतवादनादिषु आसक्तः। सुखी भोगप्रवणः शृङ्गाररसप्रधानत्वात्। मृदु: सुकुमाराकारः । "सामान्यगुणयुक्तस्तु धीरशान्तो द्विजादिकः ।" सामान्यगुणयुक्तः विन- यादिनेमृसामान्यगुणयोगी। द्विजादिक इति विप्रवणिक्सचिवादीनां प्रकरणनेतृणामुपलक्षणम्। विवक्षितं चैतत् । तेन नैश्िविन्त्यादिगुणसंभवेऽपि विप्रादीनां शान्ततैव न लालित्यम् इति। द्वाद- शविधा अप्येते उत्तमादिभेदेन प्रत्येक त्रिधा भवन्तीत्याह उत्तमाधममध्यमाश्चेति। गुणात्कर्षा- पकर्षतवुभयैरेते त्रयो भेदा बोध्याः। एवं च दिव्यादिमदेन त्रिविधा अपि पुनर्धीरोदात्तादिभेदेन प्रत्येकं चतुर्विधा भूत्वा पुनः गुणोत्कर्षापकर्षतदुभयमूलकेनोत्तमादिभेदेन प्रत्येकं त्रिधा भूत्वा षटट- त्रिंशदविधा: प्रकृतयः संपद्यन्ते इति भावः। एवम् अनुकूलो दक्षिणो घृष्टः शठश्रेति चत्वारोर्ऽपे प्रकृतिभेदे गणनीयाः। अत एवोक्तं विद्यानाथेन प्रतापरुद्रे विश्वनाथेन साहित्यदर्पणे तृतीयपरिच्छेदे धनंजयेन दशरूपके द्वितीयप्रकाशे च "अथ शृङ्गारविषयाश्रत्वारो नायका इमे। अनुकूलो दक्षिणक्च धृष्टः शठ इति स्मृताः ॥" ("अनुकूल एकनिरतः" । एकस्यामेव् नायिकायामासक्तोऽनुकूलो नायक इत्यर्थ: एकभार्योऽनुकूल इति यावत्। "अनेकमहिलासु समरागो दक्षिण." । द्वयोस्तचतुःप्रभृ- १ ऋग्यज:सामोति त्रयो वेदा मिलिताख्रयी झेया॥ २ दशरूपके इति 'द्वितीये प्रकाशे' इति शेष: ॥ ३ अल- म्यैस्प लायो योग: लब्वस्त्र परिपालनं क्षेमः ॥

Page 502

सप्तम उल्लास:।

ुतानि अदिव्योत्तम कृतिवत् दिव्बेष्वपि। किंतु रतिः संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया। तदूर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम्। क्रोधं प्रभो संहर संहरेति यावद्विर: खे मरुतां चरन्ति। तावत्स वह्िर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार॥ ३२९ ॥ इत्युक्तवत् भ्रुकुट्यादिविकारवर्जितः क्रोध: सदय:फलदः स्वर्गपातालगगनसमुद्रोलकुनाद्युत्साहब दिव्येष्घेव। अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिब

तिषु नायिकासु तुल्यानुरागो दक्षिणो नायक इत्यर्थः । "कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक कथितो धृष्टनायकः ॥" कृतागाः कृतापराधः । निःशङ्को गतभयः । तर्जितो निर्भर्त्सितः । दृष्टदोषः ललाटादिषु लाक्षालक्ष्मादिभिर्नायिकया दृष्टो निश्चितो नायिकान्तररतिरूपो दोषो यस्य तादशः। "गूढविप्रियकृच्छठः"। नायिकामात्रविदितविप्रियकारी शठो नायक: ) इति॥ उक्तासु प्रकृतिषु विपर्ययाभिधानाय तदौचित्यमनुवदति तत्रेत्यादिना 'दिवयेष्वपि' इत्यन्तेन। तत्र उक्तासु प्रकृतिषु मध्ये। अदिव्यति। अदिव्या; याः उत्तमप्रकृतयस्तास्विवेत्यर्थः । दिव्येष्व- पीति। वर्णनीयानीति शेषः । विपर्ययम् अनौचित्यं दर्शयति किंत्वित्यादि। संभोगेति। संभो- गश्चम्बनालिङ्गनादिरूपः न त्वन्योन्यावलोकनम् तस्य व्रीडाद्यकारित्वादिति प्रभोद््योतयो: विस्तारि- कायां च स्पष्टम्। यद्यपि संभोगपदेनान्योन्यावलोकनमपि मूले (१०० पृष्ठे) गृहीतम् तथाप्युत्त- मदेवताविषयकस्य परस्परावलोकनस्य वीडाद्यनुत्पादकत्वेन प्रकृते संभोगपदेन तदग्रहणमिति भावः। उत्तमदेवताविषया उत्तमदिव्यविषया। न वर्णनीयेति। भावाख्या तु वर्णनीयेति भावः। कुतो न वर्णनीया तत्राह तदूर्णनं हीति। पित्रोरिति। अत्र "पिता मात्रा" (१।२।७०) इति पाणिनिसू- त्रेण विकल्पेनैकशेषः मातापित्रोरित्यर्थः। अनुचितमिति। यथा 'दष्टमुक्तमधरोष्ठमम्बिका वेदनावि धुतपाणिपल्लवा। शीतलेन निरवाप तत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥" इत्यनुचितमित्यर्थः । एवं भयं नोत्तमेषु जुगुप्साप्यदिव्येष्वेवेति बोध्यम्।। क्रोधोत्साहविशेषावपि दिव्येष्वेव वर्णनीयावित्याह क्रोधमिति। कुमारसंभवे तृतीये सर्गे पद्यमिदम्। हे प्रभो शंकर क्रोधं संहर संहर निवर्तय निवर्तय। "चापले द्वे भवत इति वक्तव्यम्" इति वार्ति- केन द्वित्वम्। संभ्रमेण वृत्तिश्रापलमिति काशिका। इत्येवं मरुतां देवानां ("मरुतौ पवनामरौ" इत्यमरः ) गिरः वाचः खेव्योम्नि यावत् चरन्ति प्रवर्तन्ते तावत् तत्कालमेव भवस्य शिवस्य नेत्रा ज्जन्म यस्य सः भवनेत्रजन्मा। "अवर्ज्यो बहुव्रीहिर्व्यधिकरणी जन्माद्युत्तरपदः" इति वामनः । पाणिनि- मतेऽपि "सप्तमीविशेषणे बहुव्रीहौ" ( २।२।३५) इतिसूत्रज्ञापकात् 'कण्ठेकालः' 'चक्रपाणिः' 'ऊर्णनाभः' इतिवद्यं व्यधिकरणपदो बहुवीहिः सूपपादः। स वह्निः मदनं भस्मैवावशेषो यस्य ताद्ृशं चकार ददाहेत्यर्थः । माय्यतीति मदनः मत्तस्यैवंदशौचित्यमिति भावः । इन्द्रवज्रा छन्दः "स्यादिन्द्र- वच्चा यदि तौ जगौ गः" इति लक्षणात्॥ उक्तवत् ईदशः । समुद्रलङ्गनाद्यत्साह इति। समुद्रलङ्गनादावुत्साह इत्यर्थः । दिव्येष्वेवेति । १ 'उपनिबद्धव्यम' इति निर्नकारस्त्वपपाठ एव ॥ २ पूर्व दध पश्रान्मुक्तमित्वर्थः। दषयक्तमिति पाढे दंश- युक्तमित्यर्थः भावे क्तः ॥

Page 503

४४४ काच्यप्रकाशः सठीकः ।

न्जूनयम्। अधिकें तु निवध्यमानमसत्यप्रतिभासेन 'नायकवदूर्तितव्यं न प्रतिनायकवत्' इत्युपदेशे न पर्यवस्येत्। दिव्यादिव्येषु उभयथापि। एवमुक्तस्यौचित्यस्य दिव्यादीनामिव धीरोदात्तादी- नामप्यन्यथावर्णनं विपर्ययः। तत्रभवन् भगवन्नित्युत्तमेन न अधमेन मुनिप्रभृतौ न राजादौ भट्ठारकेति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम्। एवं देशकालवयोजात्यादानां वेषव्यव हारादिकमुचित मेवोपनिबन्दव्यम्।। वर्णनीय इति शेष:। अदिव्येषु वर्णनीयमाह अदिव्येषु त्विति। अवदानं वृत्तं कर्म भतपूर्व चरित्र- मिति यावत्। "अवदानं कर्म वृत्तम्" इत्यमरः । प्रसिद्धं लोकप्रसिद्धम्। उचितं योग्यम्। उपनि- बन्द्ूव्यं निबन्धनीयम् वर्णनीयमिति यावत्। अधिकवर्णने दोषमाह अधिकं त्वित्यादि। मनुष्येषु अधिक वर्णनेSसत्यत्वेन 'रामादिवद्वर्तितव्यं न रावणादिवत्' इति प्रागुक्तोपदेशे (१० पृष्ठे) पर्यवसानं न स्यादित्यर्थः । उक्तं च रुद्रभट्टेन "कुलशैलाम्बुनिधीनां न बूयाल्लङ्गनं मनुष्येण। आत्मी- ययैव शक्त्या सप्तद्वीपावनिक्रमगम् ॥" इति। आत्मीययेति वदता हन्मतोऽब्धिलङ्गनमर्जुनस्य देववि- मानारोहणं च परमेश्वरशक्त्युपबृंहितत्वादेवावतारत्वेन दिव्यादिव्यप्रकृतिकत्वाच्च न दोष इति सूचितम्। एवं यद्रपनिबन्धनेन विनेयानां बुद्धिखण्डना न जायते तादग्वर्णनीयम्। अत एवोक्तमधिकं त्विति। अत एव दशरूपके द्वितीये प्रकाशे धनंजयेनाप्युक्तम् "यत्तत्रानुचितं किंचिन्नायकस्य रसस्य च। विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत्" इति। यथा छद्मना वालिवधो मायुराजेनोदात्तराघवे नाटके परित्यक्त: वीरचरितनाटके भवभूतिना तु रावणसौहदेन वाली रामवधार्थमागतो रामेण हत इत्यन्यथा कृतः। दिव्यादिव्येष्वपि वर्णनीयमाह दिव्यादिव्येष्वििति। उभयथापीति। उभयोरप्यु- चितं वर्णनीयमित्यर्थः । एवमिति। एवं दिव्यादीनामुक्तस्यौचित्यस्यान्यथावर्णनमिव धीरोदात्तादी- नामप्यौचित्यस्यान्यथावर्णनं प्रकृतिविपर्यय इत्यन्वयः । धीरोदात्तादीनामिति। आदिना धीरोद्वता- दीनामुत्तमादीनां च संग्रहः। इदानीमामन्त्रणौचित्यम् संबोधनौचित्यम् आह तत्रभवन्नित्यादि। तत्र- भवन् भगवन्निति उत्तमेनैव वाच्यं प्रयोक्तव्यं नाधमेनेत्यन्वयः । उत्तमत्वाधमत्वे गुणोत्कर्षापकर्षा- भ्यामिति प्राक् (४४२ पृष्ठे) प्रतिपादितम्। तत्रभवानित्यत्र "इतराभ्योऽपि दृश्यन्ते" (५३१४) इति पाणिनिसूत्रेण सार्वविभक्तिकस्त्रल् सुप्सुपेति समासः। "पूज्यस्तत्रभवान्" इति सज्जनः । एव- मत्रभवानित्यत्रापि। मुनीति। उत्तमेनापि मुनिप्रभृतावेव वाच्यं प्रयोक्तव्यं न तु राजादावित्यर्थः । भट्टारकेतीति। भट्टं स्वामित्वम् ऋच्छति प्रामोति इति भट्टारकः । 'ऋ गतौ' इति भौवादिकात् ऋधातोः "कर्मण्यण्" (३२१) इति पाणिनिसूत्रेणाण् प्रत्ययः ततः स्वार्थे "नीतौ च तय्ु- कतात्" (५३७७) इति सूत्रेण कन्। "भट्टारको नृपे नाट्यवाचा देवे तपोधने" इति मेदिनी। इतिशब्देन परमेश्वरेत्यस्यापि ग्रहणम्। भट्टारकपदं राजादावुत्तमेन न वाच्यं प्रयोक्तव्यं किंतु देवादावेव अन्यथा प्रकृतिविपर्ययापत्तेरित्यर्थः । अधमेन तु राजादावेव न मुनिदेवादाविति केचिदिति प्रदीपोश््चोतयोः स्पष्टम्। एवं देशादिष्वप अनुचितवर्णने विपर्ययप्रसङ्गात्तदुचितमेव वर्णनीयमि- त्याह एवं देशेति। जगज्जगदंशश्र देशः काष्ठामुहूर्तयामदिनरात्रिपक्षमासर्तुवर्षादिरूपः कालः शैश- वादिकं वयः स्त्रीपुंसादिका ब्राह्मणत्वादिका च जातिः आदिशब्दाद्वियावित्तकुलादयः परिग्राह्याः ।

: १ कुलशैलाश्-"महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः। विन्ध्यश्व पारियात्रश्रय समैते कुलपर्वताः ॥" इतिविष्णुपुराणोक्ताः।।

Page 504

सप्तम उल्लास:। (१३) अनङ्गस्य रसानुपकारकस्य वर्णनम्। यथा कर्पूरमअ्जर्या नायिकया स्वात्मना च कृत वसन्तवर्णनमनाहत्य बन्दिवर्णितस्य राजा प्रशंसनम्। "ईदृशाः" इति। नायिकापादप्रहारादिना नायककोपादिवर्णनम्। उक्तं हि ध्वनिकृता "अनौचित्याहते नान्यद् रसभङ्गस्य कारणम्। औचित्योपनिबन्धस्तु रसस्योपनिषत्परा॥" इति॥ इदानीं क्वनित्रिददोषा अप्येते इत्युच्यन्ते। (सू० ८३) न दोष: स्वपदेनोक्तावपि संचारिणः क्रचित। व्यवहारादिकमित्यादिशब्दादाकारवचनादयो ग्राह्याः । उचितमेवोपनिबन्द्धव्यमिति । अन्यथा- निबन्धने तु प्रकृतिविपर्ययः स्यादित्यर्थः । यथा स्वर्गाङ्गनासु मानुषीवेषादिवर्णनम् रसातलादौ मेधादिवर्णनम् एवं वसन्ते मेघादिवर्णनम् जरायां संभोगादिवर्णनम् कुलवधूजातीयस्य साभिप्राय- वचनादिवर्णनमनुचितमिति प्रदीपोद््योतादिषु स्पष्टम्।। (१३) 'अनङ्गस्याभिधानम्' इत्येतवाचष्टे अनङ्गस्येति । अनङ्गस्येत्यस्य व्याख्यान रसानुप- कारकस्येति । अभिधानमित्यस्यार्थमाह वर्णनमिति। प्रशंसनमित्यर्थः । कर्पूरमअ्जर्यामिति। राजशेखरकविकृते करपूरमञ्जरीनामकसट्टके इत्यर्थः । 'प्रथमजवनिकान्तरे' इति शेषः । नायिकयेति। देव्या विभ्रमलेखयेत्यर्थः। स्वात्मना च स्वेन च। राजा चण्डपालेन। पर्शसनमिति। 'जह किल णिवेदिदं बन्दीहिं' इत्यारभ्य विदूषकोक्तिपर्यन्तेन ग्रन्थेन बन्दिवर्णितस्य वसन्तस्य वर्णनं प्रकृतर- सस्यानुपकारकमित्यनुचितमित्यर्थः॥ ईदशा इति। सूत्रस्य प्रतीकोऽयम्। 'एवंविधा अन्येऽप्यनौचित्यहेतवो रसदोषा भवन्ति' इत्यर्थ- परेण कारिकायाम 'ईदशा:' इति पदेन एतदुक्त भवति अनौचित्यहेततः सर्व एव दोषा भवन्ति परिगणितप्रकारस्तु प्रदर्शनार्थमुक्त इतीति परिगणितादन्यदुदाहरति नायिकापादेति। नायिका- पादाघातादिना नायकस्य कोपादिवर्णनमनुचितमित्यर्थः॥ अनौचित्यं रसविच्छेदहेतु: तत्र वृद्धसंमतिमाह उक्तं हीति। ध्वनिकृता आनन्दवर्धनेन। 'ध्वन्यालोके तृतीये उद्योते' इति शेषः । औचित्योपनिबन्धस्त्विति । संप्रत्युपलब्धध्वन्यालो- कपुस्तके तु 'प्रसिद्धौचित्यबन्धस्तु' इति पाठो दृश्यते। उपनिषत्परेति । परा उपनिषदित्यन्वयः परं रहस्यमित्यर्थः । "उपनिषत् वेदसारभागः नित्यरसस्वरूपब्रह्मोपस्थापकवेदभाग इव रसोपस्थितिनि- दानमिति फलितोऽर्थः" इति केचित्॥ प्रतिप्रसवमाह इदानीमित्यादि। इदानीमेषां केषांचित्क्वचिददोषत्वमपीत्याहेत्यर्थः। संचारिण इति। व्यभिचारिण इत्यर्थः न तु रसस्थायिनोरपीति भावः। क्वचिदिति। यत्रेतरैविलक्षणो नानुभाव १ सटकलक्षणं प्राक १४३ पृष्ठे टिप्पणे उक्तम् ॥ २ "यथा किल निवेदितं बन्दिभ्याम्" इति संस्कृतम् ॥ 3 यत्रेतरविलक्षण इति। इदमुपलक्षणम्। यत्रानुभावविभावादिरुतः परिपोषः प्रकतरसाननुगुणत्वाद्नपेक्षितस्तत्रेत्यपि बीध्यमिति केचित् ! तादृशोदाहरणं तु चिन्त्यमित्युद््योते स्पष्टम् ।।

Page 505

काव्यप्रकाश: सटीकः ।

पथा औत्सुक्येनं कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैनीताभिमुख्यं पुनः । हष्टाय्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ ३३०॥ अत्रौत्सुक्यशब्द इव तदनुभावो न तथाप्रतीतिकृत् । अत एव 'दूरादुत्सुकम्' इत्यादौ ब्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसाप्रसरणादिरूपस्य तथाप्रतिपत्ति कारित्वाभावादुत्सुकमिति कृतम्।। इत्यर्थः यत्रासाधारणो नानुभावादिस्तत्रेति यावत्। एवं च येषां व्यभिचारिणां नासाधारणानुभावा- दिसंभवस्त एव स्वशब्देनोपादेयाः न त्वन्येऽपीति भावः ॥

यथेत्युदाहरति औत्सुक्येनेति। रत्नावल्याख्यनाटिकायां प्रथमेड्ङ्के मङ्गलाचरणरूपं पथममि दम्। नवे संगमे हसता (हासश्र विश्वासोत्पादनायेति बोध्यम्) हरेण शिवेन श्लिष्टा आलिङ्गिता अत एव संरोहत्पुलका उद्गतरोमाश्चा (प्रियकरस्पर्शन सात्त्विकभावोदयादिति भावः ) तादृशी गौरी वः शिवाय कल्याणाय अस्तु भूयात्। कीदशी औत्सुक्येन (दयितसमीपगमने ) उत्कण्ठया कृता त्वरा सहसागमनारम्भो यया तादशी। त्वराया रोषभयादितोऽपि संभवेन भयादुत्कण्ठातो वेति संश- यान्न निर्णय इति औत्सुक्येनेत्युक्तम् । तथा सहभुवा सहोत्पन्नया स्वाभाविक्येति यावत् नवोढात्वा- दिति भाव: हिया लज्जया व्यावर्तमाना परावर्तमाना। व्यावर्तनस्य कोपादिनापि संभवात् हियेत्युक्तम्। पुनः तैस्तैः तत्कालोचितैः बन्धुवधूजनस्य भ्रातृजायादेः वचनैः आभिमुख्यं (प्रियस्य) संमुखत्वं नीता प्रापिता। तथा अग्रे वरं श्रेष्ठं पतिं च दष्टा आत्तो गृहीतः साध्वसरसो भयरसो यया तथा- भूतेत्यर्थः । अत्र साध्वसस्य विकृतवरदर्शनादिरूपविभावानुभावमुखेन परिपोषः प्रकृतशृङ्गाररसप्रति- कूलप्राय इति तस्य स्वपदाभिधानम् तेन नवोढास्वाभाव्यकृतसाध्वसलाभः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे।

अत्रौत्सुक्यस्य संचारिणः स्वशब्दवाच्यता न दोषः असाधारणानुभावाभावेनानुभावव्यङ्गयत्वा- संभवात्। व्याख्यातमिदं विवरणेऽपि "अत्रोत्सुक्यस्य नैकोऽपि तादृशोऽसाधारणोऽनुभावादिरस्ति येन उपात्ते न औत्सुक्यमसंशयं प्रतीयेत । येऽपि च त्वरादयः ते नासाधारणाः गुरुजनगमनभयादिनापि तेषां संभवात् इति स्वशब्देनोपादयते" इति। तदेवाह अत्रेत्यादिना। औत्सुक्यशब्द इव औत्सुक्यशब्द। वत्। तदनुभावः तस्यौत्सुक्यस्य त्वरारूपः (सहसाप्रसरणादिरूपः ) अनुभावः। न तथाप्रतीतिकृ- दिति। नौत्सुक्यमसंदिग्धं प्रतिपादयितुमीषटे इत्यर्थः। भयादिसाधारणत्वादिति भावः। तथा च त्वरारू- पानुभावस्य रोषभयादितोऽपि संभवेन भयादौत्सुक्याद्वेति संशयात्तस्यौत्सुक्यव्यञ्ञजनाक्षमत्वेन औत्सु- क्यस्य स्वपदेनोपादानं न दोषः। दोषत्वाभावबीजं तूक्त प्राक् ४३५ पृष्ठे। 'सवीडा दयितानने' (४३४ पृष्ठे) इत्यत्र तु वरीडादीनामसाधारणानुभावसत्वादनुभावमुखेनैवोपादानं युक्तं न तु स्वशब्देनेति स्वश- ब्दोपादानं दोष इति बोध्यम्। उक्तमर्थ कव्यन्तरप्रयोगे द्रढयति अत एवेत्यादि। अत एव त्वरारू- पानुभावस्यौत्सुक्यव्य्जनाक्षमत्वादेव। इत्यादाविति। प्राक् (९७ पृष्ठे ) उक्ते पय्ये इत्यर्थः। तत्राम- रुकबिनौत्सुक्यमेव शब्देनोपात्तमिति भावः। तदेवाह व्रीडाप्रेमाद्यनुभावानामित्यादि। त्रीडाप्रेमादयो

Page 506

सप्तम उल्लास: । ४४७

(सू० ८४) संचार्यादेविरुद्द्धस्य बाध्यस्योक्तिर्गुणावहा ॥ ६३ ॥ नाध्यत्वेनोक्तिर्न परमदोषः यावत् प्रकृतरसपरिपोषकृत्। यथा 'क्वाकार्य शशलक्ष्मणः क्व च कुलम्' इत्यादौ ॥ ३३१॥ अत्र वितर्कादिषु उद्गतेष्त्पि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥

वीडाप्रेमादिरूपा: संचारिण: (व्यभिचारिभावाः) तेषां येऽनुभावास्तेषामित्यर्थः। उत्सुकत्वानुभा- वस्य उत्सुकत्वमौत्सुक्यरूपो व्यभिचारिभावस्तस्य योऽनुभावस्तस्य। तथाप्रतीतीति। असदिग्ध- प्रतिपत्तीत्यर्थः । कृतमिति। उपात्तमित्यर्थः। एवं चात्र त्वरारूपानुभावस्य रोषभयादिसाधारणस्यौ- न्सुक्यरूपव्यभिचारिभावप्रतिपादनाक्षमत्वादेव परमरसिकोSमरुकविः 'दूरादुत्सुकमागते' इति श्लोके व्रीडादीन् व्यभिचारिभावान् विवलितत्वादिरूपानुभावमुखेनैव प्रतिपादयन् औत्सुक्यं केवलं स्वशब्दे- नैवोपात्तवानिति भाव इति प्रदीपादिषु स्पष्टम्।।

प्रतिकूलविभावादिग्रहस्यादोषत्वमाह संचार्यादेरिति। आदिपदेनानुभावविभावयोः परिग्रहः। विरु- द्स्य प्रकृतरसविरोधिरसाङ्गभूतस्य संचार्यादे: व्यभिचार्यादेः बाध्यस्योक्तिः बाध्यत्वेनोक्तिः गुणावहा भवतीत्यर्थः । यदि स्व्रभावत एव बाध्यत्वं न तदा विरोध इत्यन्यथा व्याचष्टे बाध्यत्वेनेति। तथा निर्देष्टव्यं तथा बाध्यतावगमः स्यादित्यर्थः। गुणपदं विवेचयति न परमित्यादि। परम् केवलम्। याव- दित्यादि। प्रत्युत प्रकृतरसपरिपोषकृत्तया गुण इत्यर्थः । व्याख्यातमिदं प्रदीपोह््योतयोः ।"प्रकृतविरुद्धं व्यभिचार्यादि बाध्यत्वेनोच्यते तदा दूरे दोषत्वम् प्रत्युत प्रकृतरसपरिपोषकतया गुणत्वम्" इति प्रदीपः । (बाध्यत्वेनेति । तथा बाध्यत्वेनावगमस्तथा चेदुच्यते इत्यर्थः ) इत्युद्दचोतः ॥

तत्र विरुद्धस्य व्यभिचारिणो बाध्यत्वेनोकतौ गुणावहत्वमुदाहरति क्वाकार्यमिति। चतुर्थोल्लासे ( १२६ पृष्ठे) व्याख्यातमिदं पद्यम्।।

अत्र हि प्रतिचरणं पूर्वभागोक्तानां शमाङ्गसंचारिणां वितर्कादीनाम् उत्तरभागप्रतिपादितानां च कृङ्गाराङ्गसंचारिणामौत्सुक्यादीनां यथोत्तरं बाधकतया चरमोक्तायां चिन्तायामेव बाधकत्वं पर्यवसन्न- मिति (विपक्षजयात् सैनिकोत्कर्षद्वारा राज्ञ इव) चिन्तोत्कर्षद्वारा शृङ्गारस्यैवोत्कर्षः। स चोत्कर्षः वितर्का- दीनां बाध्यतयोक्तावेव भवताति गुणत्वम्। तैश्र बाध्यमानैः शान्तस्य प्रतीत्यनुदयात् प्रकृतशृङ्गाररसा- स्वादविघातो नास्तीति न दोषत्वमिति बोध्यम्। तदेवाह अत्र वितर्कादिष्वित्यादि। विश्रान्तिः पर्य- वसानम्। प्रकृतरसपरिपोष इति। भावशबलतापरिपोष इत्यर्थः रसपदेनात्र 'रस्यते आस्वाद्यते' इति व्युत्पत्त्या रसादीनां भावशबलतान्तानां ग्रहणादिति भाव: ।।

व्याख्यातमिदं प्रदीपोद्दयोतयोः। "अत्र चतुर्षु पादेषु पूर्वभागप्रतिपाद्यानां शमाङ्गानां ( शान्तसंचा- रिणां)शुङ्गारविरोधिनां वितर्कमतिशङ्काधृतीनामुत्तरभागप्रतिपाद्याभिरभिलाषाङ्गभूताभिरौत्सुक्यस्मृति- दैन्यचिन्ताभिस्तिरस्कारपुरःसरं चिन्तायामेव पर्यवसानमिति भावशबलतापरिपोषकत्वाद्गणत्वम्" इति प्रदीप: । (भावशबलतेति। विपक्षजयाद्राज्ञ इव ततः शृङ्गारस्योत्कर्ष इति भावः। स्त्रीरत्नरूपालम्बनवि- भावबलादान्तरालिकहेतूपनिपातेनाविर्भूतानामपि मत्यादीनां बाधिकाभिरौत्सुक्यस्मृतिदन्यचिन्ताभिः पूर्वानुरागावस्थानुभवादभिलाषस्य गाढता तेन पूर्वानुरागप्रकर्ष इति तात्पर्यम्) इत्युद्योतः॥.

Page 507

४४८ काव्यप्रकाशः सटीकः । पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः। आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तं: ॥ ३३२॥। इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥ सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः किंतु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम्॥३३३॥ तृतीयोद्योते ध्वनिकाराक्तमन्यथा समर्थयितुमाह पाण्डिति।अन्न 'मालतीं प्रति लवङ्गिकाया उक्ति- रियम्' इति महेश्वरेणोक्तम् तच्चिन्त्यमेव मालतीमाधवप्रकरणेडस्य पद्स्य सर्वथानुपलम्भात्। हे सखि तव पाण्डु शुभ्रं क्षामं कृशं च वदनम् सरसं सानुरागम् अन्ररससहितं च हृदयम् अत एव अलसम् आलस्ययुक्तं (बाह्यक्रियायामक्षमं वपुः) शरीरं च ( वदनादित्रयं कर्तृ) नितान्तमित्यतिशयार्थकं सर्व- वाक्यान्वयि हृदन्तः हृदयमध्ये क्षेत्रियरोगम् आवेदयति ज्ञापयतीत्यन्वयः । क्षेत्रमत्र शरीरम् "इदं शरीरे कौन्तेय क्षेत्रमित्यभिधीयते" इति श्रीमद्भगवद्गीतायां त्रयोदशेऽध्याये श्रीकृष्णवचनात् "क्षेत्रं शरीरं केदारे सिद्धस्थानकलत्रयोः" इति मेदिनीकोशाच्च। क्षेत्रियः परक्षेत्रे चिकित्स्यः देहान्तरे चिकित्स्य इत्यर्थ: असाध्य इति यावत् देहपर्यन्तस्थायीति फलति। "क्षेत्रियच् परक्षेत्रे चिकित्स्यः" (५- २।९२) इति पाणिनिसूत्रेण निपातितम्। "क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च। अन्यदे- हचिकित्सार्हेऽसाध्यरोगे च जायते ॥" इति विश्वः। तुल्ययोगितात्रालंकार इति ४६० उदाहरणे वक्ष्यते। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र पाण्डुत्वादीनां राजयक्ष्मादिरोगानुभावतया करुणरसोचिततया च विरुद्धत्वेऽपि विप्रलम्भशृ- द्ारे समारोपात् (समावेशात्) अङ्गभावप्राप्त्या (उत्कर्षकत्वलाभेन ) दोषत्वाभाव इति ध्वनिकार: तद्युक्तम् तेषामुभयसाधारण्याद्विरोधस्यैवासिद्धेरिति प्रदीपोह्चोतयोः स्पष्टम्। तदेवाह इत्यादावि त्यादिना। साधारणत्वमिति। करुणविप्रलभ्भोभयसाधारणत्वमित्यर्थः । अत्र सारबोधिनीकाराः "अत्र व्याधेः करुणरसोचितस्य शृङ्गाराङ्गत्वेन समारोपोऽदोषत्वे हेतुरिति ध्वनिकारः तन्न । करुण इव शृङ्गारप्रकर्षेऽपि पाण्डुतादीनामनुभावानामुचितत्वात् । अत एव ' व्याध्युन्मादापस्मारजाडयप्रसर णादिभिर्विप्रलम्भोSभिनेतव्यः' इति भरतः । तेनात्र विरोध एव नास्तीत्यलं तत्समर्थनप्रयासेनेत्याह इत्यादाविति" इत्याहुः। इदमत्र तत्त्वम्। पाण्डुत्वाद्यनुभावपोषितस्य रोगस्य करुणाङ्गतया (करुण- रससंचारितया) विरुद्ध्वत्वेऽपि विप्रलम्भे समावेशात् अङ्गभावप्राप्त्या दोषत्वाभाव इति ध्वनिकृन्म- तम्। एतदयुक्तम् पाण्डुत्वादीनां (व्याध्युन्मादेत्यादिभरतोक्त्या ) रोगस्य विप्रलम्भसाधारणतया विरोधस्यैवासिद्द्वेरिति प्रकाशकृन्मतम् इति॥ 'संचार्यादेः' इत्यादिपद्ग्राह्यस्य विरुद्धस्य विभावस्य बाध्यत्वेनोक्तौ गुणावहत्वमुदाहरति सत्यमिति। रामा: रमण्यः मनोरमाः रम्याः इति सत्यम् विभूतय ऐश्वर्याण्यपि रम्या इति सत्यम् किं तु परं तु जी. वितं जीवनं हि मत्ताङ्गनायाः तरुण्यः अपाङ्गभङ्ग: कटाक्षः तद्दत् लोलं चञ्चलम् अस्थिरमित्यर्थः । तद्वष्वोलतया जीवितस्यानुपादेयं सर्वमिति भावः। अत्र सत्यमित्यर्धाङ्गीकारे इति बोध्यम्॥ अत्र पूर्वार्धे रामा इति विभूतय इति च् पुरुषनिष्ठशृङ्गारस्य विभावः अपरार्धे जीवितस्य लौल्यं १ क्षेत्रियरोगम् असाध्यरोगम् राजयक्ष्मादिरेगतृत्यं ि रुमसाध्यरीपित्यर्थ: ॥ १ विभाव हति। रमा हत्पाळम्बनविभाव: विभूतय हतयुद्वीपनविभाव इति भाव; ।।

Page 508

सप्तम उल्लास: । इत्यत्राद्यमर्ध बाध्यत्वनवक्तिम्। जीवितादृपि अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गरोपमान- तयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः। न तु विनेयोन्मुखीकरण- मत्र परिहारः शान्तशृङ्गारयोनैरन्तर्यस्याभावात्। नापि काव्यशोभाकरणम् रसान्तरादतुपरासमात्राद्वा तथाभावात्।। शान्तस्य विभावः। अनयोर्विरुद्धत्वेऽपि पूर्वार्धस्य बाध्यत्वेनैवोक्तत्वान्न दोषत्वम् अपि तु गुणत्वम् शान्तपरिपोषकत्वात्। सर्वाः रामादयः सत्येव जीविते तत्सौकर्यार्थमुपादेयाः। जीवितं चातिभङ्गरमिति किंकृतं तासामुपादेयत्वम्। अतो रम्यत्वेऽपि निष्फला एवेति पर्यवसानादिति बोध्यम्। तदेवाह इत्यत्रा- द्यमर्ध बाध्यत्वेनैवोक्तमिति। नन्वेवं पूर्वार्धप्रतिपायस्य बाध्यत्वेऽपि मत्ताङ्गनापाङ्गभङ्गत्यनुभावेन स्त्रीनिष्ठशृङ्गारस्य प्रतीत्या विरोधोऽस्त्येव न च तत्र न शृङ्गारप्रतीतिरिति वक्तुं शक्यम् तदुपादानवै- यर्थ्यप्रसङ्गादित्याशङ्क्य तं विरोधं परिहरति जीवितादपीत्यािना 'तदङ्गाप्रतिपत्तेः' इत्यन्तन । इतिशब्देनाधिकास्थिरत्वपरामर्शः। इति अधिकास्थिरत्वेन प्रसिद्धः सकलजनप्रसिद्धो यो भद्गरः (अपा- ङ्भङ्ग:) तस्य उपमानतयोपात्तम् उपादानमित्यर्थः । तदनुपमानत्वे सामान्यवचनस्य (साधारणधर्मवा- चकस्य लोलमित्यस्य) समस्ततयोपादानं न स्यात् उपमानेन सामान्यवचनस्य समासात् "उपमानानि सामान्यवचनैः" (२।१।५५) इति पाणिन्यनुशासनात्। उपात्तमित्यत्राविवक्षितकर्मत्वेनाकर्मकत्वा- द्वावे क्तप्रत्यय इति सारबोधिन्यु्योतादौ स्पष्टम्। प्रभाकृतस्तु "जीवितादप्यधिकमपाङ्गभङ्गस्यास्थिर- त्वमिति प्रसिद्धं भङ्गरोपमानतयोपात्तम्" इति प्रदीपस्थं प्रकाशपाठमुपादाय "प्रसिद्धमतो भङ्गरोपमा- ततया भङ्गरं च तत् उपमानं च तत्तयोपात्तं बोधितम् अपाङ्गभङ्गरूपमुपमानमित्यर्थः" इति व्याचख्युः । शान्तमेव पुष्ण/तीति। यथापाङ्गभङ्गोऽस्थिरस्तथा जीवितमिति जीविते क्षणस्थायित्वप्रत्ययः तत्प्रत्यये त्वपाङ्गभङ्गादानां निष्फलत्वावगतिः शान्तमेव रसं पुष्णातीत्यर्थः। एवं च शान्तरसपरिपोषक- त्वेन नापाङ्गभङ्गोपादानस्य वैयर्थ्यमिति भावः। ननु शान्तशृङ्गारयोद्वयोरप रसत्वेनात्रैकेनापरस्य बाधने किं विनिगमकमित्यपेक्षायामाह न पुनः शृङ्गारस्यात्र प्रतीतिरिति। तत्र हेतुमाह तदङ्गाप्राति- पत्तेरिति। शृङ्गारयोग्यविभावाय्यकरणादित्यर्थः । अय भावः । अत्र अपाङ्गभङ्गस्य (कटाक्षस्य) नानु- भावतयोपादानं रतिकार्यत्वेनानुक्तेः किं तु चश्चलत्वसाधर्म्येणोपमानतयैवेति। एवं चायमत्र विरोधप- रिहारः। शृङ्गारस्यानुभावाय्यप्रतीत्या न तावन्मान्नेण शृङ्गारप्रतीतिरिति न विरोधः प्रत्युत अपाङ्गभ- ङगस्योपमानतयोपादानमपाङ्गभङ्गस्य प्रसिद्धभङ्गरत्वं तदातिशय्यं चोपस्थापयत् शान्तमेवोपकरोति। तथाहि। भङ्गरत्वोपमायां प्रसिद्धमङ्गरस्यैवोपमानतानियमेन उपमानस्य आतिशय्यनियमेन च तस्याप मानतयोपादानादेव प्रसिद्धभङ्गरत्वतदातिशय्ये उपस्थिते भवतः इति ॥ "शुङ्गाराङ्गविभावादिसत्त्वाद्भवत्येवात्र शुङ्गारप्रतीतिः। परंतु तया गुडजिह्िकान्यायेन शिष्या अभि- मुखीकृत्य शान्ते निवेश्यन्ते इत्यदोषता। यद्ा काव्यशोभानिमित्तमेव तदुपादानम् अतोऽदोषता" इति द्विविधं ध्वनिकारसैमाधानम् । तत्रादं दूषयति न त्विति। विनेयेति। विनेयाः शिष्यास्तेषामुन्मु- १ एकतरपक्षे प्रमाणम् ॥ २ अयं हि न्यायो लौकिकन्यायमालायां व्याख्यातः ॥ 3 काव्यशोभानिमित्तमिति । शङ्गरस्य सकलजनमनोभिरामत्वादङ्गसमावेशः काव्यशोभातिशयं पुष्णानीति भावः ॥ मत्ताङ्गनागङ्गभङ्गे्यस्यो- पादानम् ॥ ५ ध्वनिकारसमधाननिति। तुनीये उद्योते इति शेषः। तदुक्त व्वनिकारेण "विनेयानुन्मुखीकंर्तु काव्यशोमार्थमेव वा। तट्टिरुद्रसस्पशस्तदुङ्गानां न दुष्यति ॥ ३० ॥" इति ॥ ५७

Page 509

४५० काव्यप्रकाशः सटीकः ।

(सू० ८५) आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंभ्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ ६४ ॥ वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः।शान्तशृङ्गा- रयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् यथा नागानन्दे शान्तस्य खीकरणमभिमुखीकरणमित्यर्थः । नैरन्तर्यस्य अव्यवधानस्य। अभावादिति। विरोधेनेति शेषः । एवं च शृङ्गारोद्वोधे शान्तोद्वोधो दुर्घट इति भावः। उक्तकाव्ये च शृङ्गारासंभव इत्युक्तम्। एवं प्रथमं समाधानं दूषयरित्वा संप्रति द्वितीयमपि दूषयति नापीति। काव्यशोभाकरणमिति। अत्र परि- हारः इति शेषः। काव्यशोभायामुपपादकमाह रसान्तरादिति। शान्तरूपादित्यर्थः । ध्व्रनिकारा भिमतशृङ्गारापेक्षया शान्तस्य रसान्तरत्वम्। अनुपास्तमात्राद्विति। मत्ताङ्गनापाङ्गभङ्गेति कोमला नुप्रासमात्रद्वेत्यर्थः । अत एव चित्रकाव्येऽलंकारादेव चारुत्वप्रत्यय इति बोध्यम्। मात्रपदेन विभावा- दिव्यङ्गयरसादिव्यवच्छेदः । तथाभावात्। काव्यशोभासत्त्वात् ।।

इदानीं रसविरोधं संक्षिप्य तत्परिहारोपायमाह आश्रयैक्ये इति। "रसयोरविरोधोपायान्तरमाह" इति प्रदीपोद्दचोतयोरुक्तम् । "एवं रसाङ्गानां विरोधं समर्थ्य रसयोर्विरोधं समर्थयति" इति सारबो- धिन्यामुक्तम्। "रसशब्देनात्र प्रकरणे स्थायिभाव उपलक्ष्यते" इति एतदुलाससमापतौ मूलकृदेव वक्ष्यति। रसानां विरोधो द्विधा दौशििकः कालिकश्ष। तत्रायं समाधत्ते भिन्नसंश्रय इति। अत्राश्र- यसंश्रयशब्दौ आलम्बनाधारोभयपरौ। तेनालम्बनैक्येन विरोधे भिन्नालम्बनतया निवेश्यः। आधारै- क्येन च विरोधे भिन्नाधारतया निवेश्य इत्यर्थः । द्वितीयं समाधत्ते रसान्तरेणेति। 'यो रसः' इत्यत्र 'विरुद्धः' इत्यनुषज्यते। नरन्तर्येण अव्यवधानेन तु यो रसो विरुद्धः स रसान्तरेण अन्तरितः व्यव- हितः 'कार्यः' इति पूर्वेणान्वयः ॥

कारिकायाः प्रथमार्ध व्याचष्टे वीरभयेति। तत्रेत्यादिः। प्रतिपक्षग तत्वेन। वर्णनीयनायकादेर्यः प्रतिपक्षः शत्रुस्तद्वतत्वेन । निवेशयितव्यः वर्णनीयः । 'तथा सति दूरे तस्य दोषत्वं प्रत्युत वीररस- परिपोषः' इति शषः। भयानकस्य प्रतिपक्षगतत्वेनोपन्यासे नायकवीररसपरिपुष्टिरिति भावः । उक्त- मिदमुद््योते "उत्साहातिशयवान् वीरः । न हि तत्र भयसंभवः। प्रतिपक्षे तु भयनिबन्धो नायकपरा- क्रमातिशयायेति वीरस्य परिपोषः। तदीयभयं तु तत्र व्यभिचारि। एवं प्रतिपक्षे शोकोपनिबन्धोSपि द्रष्टव्यः" इति। उदाहरणं यथा 'आहूतापि पदं ददाति न पुरो न प्रार्थितापीक्षते साकूतं परिभाषितापि बहुशः किंचिन्न चाभाषते। आश्लिष्टापि न संमुखानि रचयत्यङ्गानि मढाशया कोपोद्रेकवशंवदेव तरुणी श्रेणी यदीयद्विषाम् ।।' इति। कस्यचिद्राज्ञो वर्णनमिदम्। यदीयद्विषां यस्य प्रकृतस्य राज्ञः संबन्धिनां द्विषां शत्रूणां श्रेणी पक्कि: (कत्रीं ) कोपोद्रेकस्य कोपातिशयस्य वशंवदा अधीना (कुपितेति यावत्) तरुणीव युवतवि मूढाशया मूढः किंकर्तव्यतामूढः (भयात् तरुणीपक्षे कोपात्) आशयोऽन्तःकरणं यस्यास्तादृशी सती आहूतापि पुरः अग्रे पदं न ददाति नागच्छाते। प्रार्थितापि नेक्षते नावलोकयति। साकूतं साभि-

Page 510

सप्तम उल्लास: । ४५१ जीमूतवाहनस्य 'अहो गीतम् अही वादित्रम्' इत्यद्भतमन्तर्निवेश्य मलयवतीं प्रति शृङ्गारो निबद्धः। न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते। यथा भूरेणुदिग्धान् नवपारिजातमालार जोवासितबा हुमध्याः। गाढं शिवाभि: परिरभ्यमाणान् सुराङ्गनाश्लिष्टसुजान्तरालाः॥३३४॥ प्रायं यथा स्यात्तथा बहुशः परिभाषितापि किंचित् किंचिदृपि नाभाषते। आश्लिष्टापि संनिधि प्रापि तापि तरुणीपक्षे आलिङ्गितापि अङ्गानि हस्त्यश्वादीनि तरुणीपक्षे मुखादीनि संमुखानि न रचय- तीति श्लोकार्थः। शार्दूलविकीडितं छन्दः। अत्र भयानकस्य प्रतिपक्षगतत्वेनोपन्यासात् नायकवीरर- सपरिपुष्टिरिति बोध्यम्। न चात्र शृङ्गारभयानकयोरपि विरोध इति वाच्यम् "अङ्गिन्यङ्गत्वप्राप्तौ यौ" इत्यादिना (४५३ पृष्ठे) वक्ष्यमाणक्रमेण द्वयोरप्यन्याङ्गत्वात् शृङ्गारस्य राजगतत्वेन भयस्य सेनागतत्वेन वयधिकरणत्वाच्च। यद्यप्याश्रयभेदेनेव एकाश्रयावपि वीरभयानकौ क्वचिदनुभूयेते तथापि न तथा वर्ण्येते इति भिन्नाश्रयतयैव निवेशनीयौ। एवमन्येषामप्यूह्यमिति प्रदीपे स्पष्टम् ।। कारिकायाः द्वितीयार्ध व्याचष्टे शान्तशृङ्गारयोस्त्विति। नैरन्तर्येणेति। निर्गतमन्तरं व्यवधानं याभ्यां (शान्तशृङ्गाराभ्यां) तौ निरन्तरौ तयोर्भावो नैरन्तर्य तेन अव्यवहितत्वेनेत्यर्थः अव्यवधाने- नेति यावत्। अन्तरे मध्ये। कार्य निवेशनीयम्। व्याख्यातमिदं प्रदीपोद््योतयोः । "यस्य तु येन रसेन नैरन्तर्येण विरोधः सोऽविरोधिना रसान्तरेणान्तरितो निबद्धव्यः" इति प्रदीपः । (सोऽवि- रोधिनेति। कालव्यवधानेनाविरोधेऽपि विरोधिवासनाया अप्यपनयायाविरोधिरसान्तरोपनिबन्धः तदपनये हि निरस्तकण्टकतया रसान्तरप्रकर्ष इति भावः) इत्युद्दयोतः ॥ तदुदाहरति यथा नागानन्दे इति । इतीति इत्यनेनेत्यर्थः । अद्भुतमिति। तत्तपोभङ्गार्थं- मिन्द्रप्रेषिताप्सरसां वादित्रगीतैरिति शेषः । अयं भावः । हर्षदेवकृते नागानन्दे हि नाटके प्रथमाङ्के 'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः' इत्यादिना ग्रन्थेन जीमूतवाहनस्य नायकस्य शान्तो रसः मलयवतीनामकनायिकाविषयकः शृङ्गारश्रेति विरोधशङ्का सा च 'अहो गीतम् अहो वादित्रम्' इत्यनेन ग्रन्थेनाद्धुतरसस्य दयोर्मध्ये निवेशनात्परिहृतेति।। न चायमविरोध: प्रबन्धे एव किंत्वेकस्मिन् वाक्येऽपीत्याह न परमित्यादि। न परं न केव- लम्। प्रबन्धे प्राक् (१६६ पृष्ठे) उक्तलक्षणे प्रबन्धे एव । रसान्तरव्यवधिना रसान्तरव्य- वधानेन। विरोधः रसयोर्विरोधः । निवर्तते परिहृतो भवति। यावत् किंतु । एकस्मिन्नपि बाक्ये एकक्रियासमाप्ये वाक्येऽपि निवर्तते इत्यर्थः ॥ तदुदाहुरति भूरेण्वित्यादि। आनन्दवर्धनकृते ध्वन्यालोके तृतायोद््योते उदाहृतानीमानि पद्यानि। विशेषकमिदम् त्रिभिश्छन्दोभिवाक्यार्थसमाप्तेः। तल्वक्षणं तूक्तं प्राक् १५५ पृष्ठे ३१ पक़ौ १ व्यधिकरणत्वाच्चेति। सनासोक्त्यलंकारविधया द्विट्सेनायामपि शृङ्गारप्रतातिरिति न वाच्यम् इवेन तस्यास्तिर स्कागत्। तत्सादृश्येन तथा प्रतीतिर्यद्यनुभवारूढा तदान्याङ्गत्वेनैव विरोधपरिहार इति बोध्यमित्युद्वयोते स्पष्टम्।। २ 'यद्यण्यालम्चन पेदेन' इति पाठ इत्युद्दयोतः ॥ ३ एकाश्रयावपीति। ब्राह्मणेन सह युद्धप्नप्तङ्गगदावित्वर्थः ॥

Page 511

४५२ काव्यप्रकाशः सटीकः।

सशोणितैः क्रव्यभुजां स्फुरादिः पक्षैः खगानामुपवीज्यमानान्। संवीजिताश्चन्दनवारिसेकैः सुगन्धिभि: कल्पलतादुकूलैः ॥३३४ अ॥ विमानपर्यङ्कतले निषण्णा: कुतूहलाविष्टतया तदानीम्। निर्दिश्यमानान् ललनाङ्गलीभिवीरा: स्वदेहान् पतितानपश्यन्॥३३५। विशेषण (शत्रून्) ईरयन्ति कम्पयन्तीति वीरा: शूरा: (युद्वे मरणाहेवत्वलाभेन) विमानमध्ये यः पर्यङ्कस्तत्तले निषण्णा: उपविष्टाः सन्तः तदानीं ललनाः स्ववेश्यास्तासामङ्गलीभिः निरदिश्यमानान् प्रदर्श्यमानान् (रणभूमौ) पतितान् स्वदेहान् कुतूहलाविष्टतया आश्र्र्ययुक्ततया अपश्यन्नित्यन्वयः । कौतुकहेतुगर्भ यथाक्रममेकं देहविशेषणम् अपरं वीरविशेषणमाह भूरेण्वित्यादि। भूसंबन्धिरेणुना दिग्धान् व्याप्तान्। नवानां पारिजातमालानां रजोभिः परागैः वासितं सुरभीकृतं बाहुमध्यं वक्षो येषां तथाभूताः । 'रजोरञ्जितबाहुमध्याः' इति पाठे रक्जितं वासितमित्येवार्थः । शिवाभिः शृगालीभिः गाढं यथा भवति तथा परिरभ्यमाणान् आलिङ्गच्मानान्। "शिवा गौरीफेरवयोः" इति नानार्थ- वर्गेडमरः । सुराङ्गनाभिः अप्सरोभिः आश्लिष्टम् आलिङ्गितं भुजयोरन्तरालं मध्यं (वक्षः) येषां तथाभूताः । सशोणितैः सरुधिरैः क्रव्यभुजां मांसाशिनां खगानां गृध्रादिपक्षिणां स्फुरद्द्िः चलन्ि: पक्षैः पतत्रैः उपवीज्यमानान्। चन्दनवारिणां सेको यत्र तादृशैः सुगन्धिभिः कल्पलतादुकूलैः कल्पद्रुमोद्दूतपट्टवस्त्रेः यद्दा कल्पलता एव दुकूलानि पट्टवस्त्राणि तैः संवीजिता इत्यर्थः। उपजाति- इछन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे । अत्र भूरेणदिग्धेत्यादिना कर्मविशेषणेन बीभत्सः नवपारिजातेत्यादिना कर्तृविशेषणेन शृद्गारः अनयोश्र निर्देशक्रमेण प्रतीतिः। एवं भूरेणदिग्धत्वादे: तवपारिजातमालारजोवासितत्वादेश्र रणोत्सा- हमूलकतया रणोत्साहप्रतीत्या वीररसः । एवं च प्रथमतो बीभत्सः ततो वीरः ततश्र शृङ्गारः ततः पुनर्वीर इति व्यवधानम्। तेनानन्तर्याभावात् बीभत्सशृङ्गारयोरविरोधः। वीरस्यालम्बनमत्र प्रति- योद्धा शृङ्गारस्य तु स्वर्गाङ्गना इत्यालम्बनभेदादनयोरप्यविरोधः। तदेतत्सर्वमभिप्रेत्याह अत्र बीभ- त्सशृङ्गारयोरित्यादि। अन्तः मव्ये। निवेशितः उपनिबद्धः ॥ व्याख्यातमिदं प्रदीपोद्दयोतयोः। "अत्र विशिष्टस्य वीरस्य कर्तुः सर्ववाक्यान्वयित्वेन विमानाधिरो- हणादिना मध्ये उत्साहप्रतीतेर्बीभत्सशुङ्गारयोरविरोधः । यद्यप्यत्र वीर एव प्रधानमन्यौ (बीभत्सशृ- ङगरौ) च तवभिचारिणाविति न विरोधः तथाप्येवमप्यविरोधः संभवतीत्युदाहृतम्" इति प्रदीपः ।

रणमध्यनिपातजन्यस्वर्गलाभरूपानुभावेनाक्षेपलभ्यगर्वादिसंचारिणा च वीररसप्रतीतिररिति बोध्यम्। एतद्वाक्यात्तत्तत्सामग्रीतश्रिवित्ररस इति संप्रदायविदः तन्नेत्याह वीर एवेति। प्राकरणिकत्वादिति भावः । अत्र रसानां परस्परविरोधस्त्रिधा क्रचिदाश्रयैक्येन क्वचिदालम्चनैक्येन क्वचिन्नैरन्तर्येण। तत्रालम्बनैक्येन वीरशृङ्गारयोः हास्यरौद्रबीभत्सैः संभोगस्य वीरकरुणरौद्रैविप्रलम्भस्य आलम्बना- श्रयैक्याभ्यां वीरभयानकयोः। नैरन्तर्यविभावैक्याभ्यां शान्तशृङ्गारयोः। अविरोधोऽपि त्रधा वीर स्याद्द्ुतरौद्राम्यां सर्वथैवाविरोधः शृङ्गारस्याद्दुतेन भयानकस्य बीभत्सेन क्वचिदालम्बनभेदात् यथा वीरशाङ्गारयोः तृतीयस्तु भूरेण्वित्यादावुक्त एवेति केचित् इत्युद्योतः ॥ १ युद्धे मरणाद्विवत्वलामस्तु प्राकू (२७३ पुष्ठे २२ पङ्मौ) "द्वाविमौ०" इत्यादिना प्रतिपादितः ॥

Page 512

सप्तम उल्लास:। ४५३३

अंत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः । (सृ० ८६) स्मर्यमाणो विरुद्ोऽपि साम्येनाथ विवक्षितः । अ्रिन्यङ्गत्वमाप्तौ यी तौ न दुष्टौ परस्परम् ॥६५॥ अयं स रशनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥ ३३६॥ एतत् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वघूरभिदधौ। अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुण परिपोषयति॥ दन्तक्षतानि करजैश्च विपाटितानि प्रोद्ििन्न तान्द्रपुलके भवतः शरीरे। दत्तानि रक्तमनसा मृगराजवध्वा जातस्ृहैर्मुनिभिरप्यवलोकितानि ॥ ३३७॥ सारबोधिनीकारास्तु वीररसो निवेशित इति। ननु कथमत्र वीररसप्रतीतिः वीरशब्दमात्रेण तदप्रतीतेः । नैवम्। साहसनिपातजन्यस्वर्गलाभरूपानुभावस्याक्षेपलब्धगर्वादेः संचारिणश्र संभवा- त्तत्प्रतीतेः । न च प्राकरणिकत्वाद्वीरस्य प्राधान्यम्। एतद्वाक्याद्वीभत्सशृङ्गारसामग्रयोरेवोत्कठत्वेन प्रतयमानत्वात्। वीरसामग्रयाः पुनराक्षिप्यमाणत्वेनानुत्कटत्वादित्याहुः॥ अविरोधहेत्वन्तरमाह स्मर्यमाण इति। 'दुष्टौ' इत्यत्र 'दुष्टः' इति 'विरुद्धः' इत्यत्र 'विरुद्धौ' इति च विपरिणम्यते। तथा च विरुद्द्वोऽपि कश्ववित् रसः प्रधानरसेन सह स्मर्यमाणश्रेत् न दुष्ट इत्येकः प्रकारः । अथ विरुद्धोऽपि कश्वित् रसः साम्येन विवक्षितश्रेत् न दुष्ट इति द्वितीयः प्रका- रः । विरुद्धावपि यौ रसौ अङ्गिनि प्रधाने (उत्कर्षाश्रये) अङ्गत्वम् उपकारकत्वम् (उत्कर्षकार- कत्वम्) आत्तौ प्राप्तौ चेत् तावपि परस्परं मिथः न दुष्टौ इति तृतीयः प्रकारः। अधिकं तु तत्तदु- दाहरणावसरे स्फुटीभविष्यति ॥ तत्र स्मर्यमाणत्वेनाविरोधो यथेत्युदाहरति अयमिति। पश्चमोल्लासे (१९५ पृष्ठे) व्याख्यात- मिदं पद्यम्। अत्र करुणो रसः प्रधानमस्ति शृङ्गाराङ्गस्मृत्या शृङ्गारोऽपि स्मृतः स्मृतस्य तस्य प्राधान्येनास्वाद्यत्वाभावाद्विरोधः । अत्र करुणः प्रकृतत्वात्प्रधानम् शृङ्गारस्याप्रकृततया हीनबल त्वेनाङ्गत्वमिति बोध्यम्। एतदेव कथयन् शृङ्गारस्य स्मर्यमाणत्वं दर्शयति एतदित्यादि। पूर्वा- वस्था रशनोत्कर्षणादिः। शृङ्गाराङ्गंं शृङ्गारानुभावः । पोषयतीति। शोच्यावस्थायां पूर्वावस्था- स्मरणस्य करुणोद्दीपकत्वात्। एवं चात्र स्मर्यमाणशृङ्गारस्य करुणोद्दीपकतया तदङ्गत्वात् (तदु- त्कर्षकत्वात्) न विरोध इति भाव:।। व्याख्यातमिदं प्रदीपोश््योतयोः । "समरभुवि निपतितं भूरिश्रवसो हस्तमालोक्य तद्वधूनामिदं वचनम्। तथा च शृङ्गाराङ्गमपि पूर्वावस्था स्मर्यमाणतयोद्दीपनविभावत्वेन करुणपरिपोषिकेत्यदोषः" इति प्रदीप: ॥ (पूर्वावस्था शृङ्गारानुभावरूपरशनोत्कर्षादिरूपा। परिपोषिकेति। अत्यन्तसु- खहेतुवियोगस्य शोकपरिपोषकत्वात्) इत्युद्दयोतः।। साम्यविवक्षयाविरोधो यथेत्युदाहरति दन्तक्षतानीति। 'दन्तैः क्षतानि' इति पाठस्तु नवीनानां कपोलकल्पित इति त्याज्य एव प्राचीनपुस्तकेष्वनुपलम्भात्। "प्रसूय बुभुक्षया निजापत्यमेव भोक्तुमा-

Page 513

४५४ काव्यप्रकाश: सटीकः।

अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीण तथा जिनस्य । यथा वा परः शृङ्गर। तदवलोकनात्सस्पृहस्तद्वत एतद्दृदशो मुनय इति साम्यविवक्षा।।

रभमाणायै सिंह्ै तदपत्यरक्षणाय स्वाङ्गमर्पितवन्तं जिनं (बुद्ध) प्रति कस्यचिदुक्तिरियम्" इति चक्र- वर्तिश्रीवत्सलाञ्छनभट्टाचार्यप्रभृतयः प्राहुः। "स्वडिम्भभक्षणप्रवृत्तसिंहिकायाः स्वाङ्गं ददतो बौद्धस्य केनापि चाटु क्रियते" इति माणिक्यचन्द्रजयन्तभद्टादयः । "बोधिसत्त्वस्य स्वकिशोरभक्षणप्रवृत्तां सिंहीं प्रति निजशरीरं प्रयच्छतः केनापि चाटु क्रियते" इति ध्वन्यालोकलोचने तृतीयोद्दयोतेऽभिनव- गुप्तपादाः। "प्रसवजनितातिबुभुक्षावशेन निजापत्यमेव भोक्तुमारभमाणायै सिंहवध्वे परमदयालुं जिनं तद्रक्षार्थ स्वशरीरदायकं प्रतीयमुक्तिः" इति प्रदीपकाराः। आनन्दवर्धना चार्यप्रणीते ध्वन्यालोके तृती- योद्दयोते संसृष्टालंकारान्तरसंकीर्णध्वनेरुदाहरणतया गृहीतं पद्यमिदम्। हे जिन प्रोद्भिन्ाः (परपरि- त्राणहर्षात् पक्षे अनुरागात्) प्रकटा: सान्द्राः निबिडाः पुलकाः रोमाश्चाः यत्र तादृशे भवतः तव शरीरे रक्तमनसा रक्ते रुधिरे मनो यस्यास्तथाभूतया रक्तमनुरक्तं मनो यस्यास्तथाभूतया च मृग- राजः सिंहः मृगाख्यपुंजातिविशेषनृपश्र तस्य वध्वा सिंहिकया राज्या च (कत्र्या) दत्तानि यानि दन्तक्षतानि करजैः नखैः (करणभूतैः) बिपाटितानि विदारणानि च (भावे क्तः) तानि जात- स्पृहै: (वयमप्येवंविधाः भूयास्मेति) जाताभिलाषैः मुनिभिरपि अवलोकितानि दृष्टानीत्यर्थः । अपि- विरोधे गतस्पृहाणां मुनीनामपि तदुद्रेकादिति बोध्यम्। "रक्तः स्यात्कुङ्कमे ताम्रे प्राचीनामलकेS- सृजि। अनुरागिणि नील्यादिरञ्जिते लोहिते भवेत्" इति विश्वः। वसन्ततिलका छन्दः। लक्षण- मुक्तं प्राक् ६८ पृष्ठे ॥

अस्मिन् श्लोके शान्तशृङ्गारयोः रसयोर्विरोध इति माणिक्यचन्द्रजयन्तभद्टादीनां मतम्। बीभत्सशृङ्गा रयोर्विरोध इति सारबोधिनीसुधासागरकारयोर्मतम्। दयावीरशृङ्गारयोविरोध इति प्रदीपकारचक्रवर्तिभ- द्वाचार्ययोर्मतम्। एवमेव ध्वन्यालोके आनन्दवर्धनाचार्यस्य मतम् तत्र दयावीररसस्योल्लेखात्। शान्तशृ- ङ्गारयोरवा विरोध इति ध्वन्यालोकलोचनेऽभिनवगुप्तपादानां मतम् 'दयावीरशब्देन वा शान्तमुपदिशति' इति तत्रोक्तत्वात्। विवरणकारमतं तु अग्रे तद्ग्रन्थादेवावगन्तव्यम्। मया तु अयं श्लोकोऽमुकग्र- न्थस्य इति प्रकरणानुपलम्भादमुकयोरेव रसयोर्विरोध इति निर्णेतुमसमर्थेन "महाजनो येन गतः स पन्थाः" इति न्यायमनुसृत्य प्रदीपकारादिमतानुसारेणैव वृत्तिग्रन्थो व्याक्रियत। अत्र हि वृत्तौ अङ्गयोः साम्यविवक्षयाङ्गिनोरपि रसयोः साम्यं विवक्षितमित्यायातीति प्रतिपादते। तत्र चानुभावरूपयोर्विभा- वरूपयोर्वाङ्गयोरिति पक्षद्यम् । तत्रादं पक्षमाह अत्रेत्यादिना 'जिनस्य' इत्यन्तेन। कामुक- स्येति । 'कामुकीमुक्तस्य' इति क्रचित् सुगमः पाठः । दन्तक्षतादीनीति। आदिपदेन नख- क्षतानां ग्रहणम्। चमत्कारकारीणीति। 'स्वं प्रति' इत्यादिः । तथा तद्वत्। जिनस्य बुद्धस्य। स्वं प्रति चमत्कारकारीणि भवन्तीति भावः । एवं चात्र पक्षे साम्यविवक्षा। अयं भावः। यथा कान्तादत्तदन्तक्षतनखक्षतानि कान्तोऽत्यन्तोपादेयतयानुरागातिशयादङ्गीकरोति तथा सिंहिकादत्तद- न्तक्षतनखक्षतानि जिनोऽप्यङ्गीकरोतीत्यर्थबोधात् दन्तक्षतादिधारणात्मकानुभावरूपयोरङ्गयोः साम्य विवक्षयाङ्गिनोरपि जिननिष्ठकामुकनिष्ठयोर्दयावीरशृङ्गारयोः रसयोः साम्यं विवक्षितमिति। एवं च शृङ्गाररसः उपमानत्वेन दयावीररसस्याङ्गम् (उत्कर्षकम्) इति न तयोः रसयोर्विरोधरूपो दोष इति निष्कर्षः । द्वितीयं पक्षमाह यथा वेत्यादि। परः दन्तक्षतादियुक्तकामुकादन्यः । शृङ्गारी कामुकः।

Page 514

सप्तम उल्लास: । ४५५

तदघलोकनात् कामुकदन्तक्षतादिविलोकनात् । सस्पृहः जाताभिलाषः । तह्वत् तथा । एतद्- दश इति। दन्तक्षतादिद्टश इत्यर्थः सिंहीदत्तजिनशरीरस्थदन्तक्षतादिद्रष्टार इति यावत्। मुनयः बौद्धयतयः । इति साम्यविवक्षेति। अयं भावः । यथा कामुकस्य कान्तादत्तदन्तक्षतादीन्यवलोक्य परः शृङ्गारी 'अहमप्येवं कान्तादत्तदन्तक्षतादियुक्तो भूयासम्' इति जाताभिलाषो भवति तथा जिनस्य सिंहीदत्तदन्तक्षतादीन्यवलोक्य मुनयोऽपि 'वयमप्येवं दयालवो भूयास्म' इति जाताभिलाषा भवन्तीत्यर्थबोधात दन्तक्षताद्यात्मकोद्दीपनविभावरूपयोरङ्गयोः साम्यविवक्षयाङ्गिनारपि मुनिनिष्ठपर- शृङ्गारिनिष्ठयोर्दयावीरशृङ्गारयोः रसयोः साम्यं विवक्षितमिति। एवं च पूर्ववत् शृङ्गारः उपमानत्वेन दयावीररसस्याङ्गम् (उत्कर्षकम्) इति न तयोः रसयोर्विरोधरूपो दोष इति निष्कर्षः ॥ दयावीरस्य जिनस्य नेद्शं कर्म विस्मयजनकमिति नात्राद्भुतो रसः नापि च जिनविषया रतिरत्राभिप्रतेति दयावीर एव प्रधानभूतो रस इति बोध्यम्। व्याख्यातमिदं प्रदीपोद्दयोतयोः। "अत्र दयावीरस्यानुभावविशेषे शृङ्गार उपमानभावेनाङ्गम् । न चात्र द्यापि विस्मयोपकारकत्वेनाङ्गम् बौद्धानां स्वाभाविकदयाशीलत्वेन विस्मयाजनकत्वात्" इति प्रदीप: । (अनुभावविशेषे दन्तक्षतादिधारणरूपे । अङ्गमिति । यथा कान्ताकृतनखक्षतादीनि कान्तोऽत्युपादेयतयानुरागातिशयादङ्गीकरोति एवमसावपीति दयोत्साहपरिपोषकत्वादिति भावः । विस्मयोप कारकत्वेनेति। जिनविषयकरतिभावाङ्गभूताद्ुतस्थाय्युपकारकत्वेनेत्यर्थः दयावीरस्य विस्मयसूचककर्मणा तदुपस्थितेरिति भावः। तत्र च दयावीरशृङ्गारावङ्गमिति तात्पर्यम्। एवं चाङ्गत्वं प्राप्तयोरेवेदमुदाहरणं न तु साम्यविवक्षाया इति शङ्कार्थः। स्वाभाविकेति। ब्राह्मणानां दैयावदित्यर्थः । केचित्तु जिनदेहे सिंहीदत्तनखक्षतानि बीभत्सप्रतिपादकान्यपि कान्तादन्तक्षतरूपशृङ्गारानुभावसाम्ये- नोक्तानि निजं प्रकर्षयन्तीति तद्विषयभावपोषकाणि अत एव सस्पृहतदवलोकनेनैव रागितुल्यता मुनीनामपीत्याहुः) इत्युदयोतः॥ "अत्र जिनदेहे सिंहीदत्तनखक्षतानि बीभत्सप्रतिपादकान्यपि कान्तादत्तदन्तक्षतरूपशृङ्गारानुभाव- साम्येनोक्तानि तस्य प्रकर्षातिशयं प्रतिपादयन्ति। अत एव सस्पृहतद्वलोकनेन रागिजनतुल्यता मुनीनामपीति साम्यविवक्षेत्याह अत्र कामुकस्येत्यादि। ननु दयावीरस्य विस्मयोत्थापकत्वाज्जिनविषय- करतावद्दुतस्य तत्र तत्र च दयावीरशृङ्गारयोरङ्गतेति अङ्गत्वं प्राप्तयोरेवोदाहरणत्वेन तृतीयप्रकारासंभव १ एतद्दृश इति। अत्रेदं बोध्यम्। पश्यन्तीति दृशः। "क्विप् च" (३।२।७६) इति सूत्रेण क्विप्प्रत्ययः। ततः एतेषां दृशः एतद्दृश इति शेषषष्ठया समास्तः 'गङ्गाधरः भूधरः' इत्यादिवत्। एतत्पश्यन्तीत्येतद्दृश इति उपपद. समासस्तु न। तथा सति कर्मण्यपि 'एतद्वर्श:' इत्यापत्तेः। अन एव "त्यदादिषु दृशोऽनालोचने कञ्च" (३।२/६०) इति सूत्रे प्रौढमनोरमायामुक्तम् 'अनालोचने किम् तं पश्यतीति तद्दर्शः कर्मण्यण्' इति। त्यदादिव्विति सूत्रेणात्र किन् तुन उपपद्समासाभावात् 'अनालोचने' इत्युक्तत्वाच्च। अत्र तु आलोचनार्थत्वादिति बोध्यम्। एतदिति भिन्नपद्ं तु न "कर्तृकर्मणोः रुति" (२।३।६५) इति सूत्रेण कर्मषष्ठयापत्तेः। न चैकपदत्वे "आ सर्वनाम्नः' (६।३।९३) इति सूत्रेग 'ताटक' 'एताटृक्' इत्यादाविव आकारादेशापत्तिरिति वाच्यम् "आ सर्वनाम्नः" इति सूत्रेडनुवृत्तिलब्धस्य दृगित्यस्य लक्ष्यानुरोधात् 'दृश' इति कनन्तसाहचर्याच्चानालोचनार्थकस्य त्य्ादि्वितिसूत्रादि विहित कविन्पत्ययान्तस्यैव्र ग्रहगाहित्यलमप्रस्तुतविचारण ॥ २ द्यावदिति। अत्र 'संध्यावन्दनवत्' इति पठनीयम् साक्षात्पश्वालमभनकर्तणां ब्राह्मणानां दयाया असंभवात्। अत एव 'बाह्मगानां संध्यावन्दनमिव' इति पठितं चक्र- वर्त्यादिमिः। अथवा वाहमणानामित्यत्य ब्राहमणविशेषाणामित्यर्थः पिष्ृपश्वादरकर्तणा वैष्णवानामिति यावत्॥। ३ तस्य बीभत्सस्य ।।

Page 515

४५६ काव्यप्रकाश: सटीकः ।

कामन्त्यः क्षतकोमलाङ्गलिगलद्रक्तैः सदर्भा: स्थली: पाढैः पातितयावकैरिव गलद्वाष्पाम्बुधाताननः।

दावासिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥ ३३८॥ अत्र चाटुके राजविषया रतिः प्रतीयते। तत्र करुण इव शृङ्गारोऽ्यङ्गमिति तयोरन विरोधः।

इति चेत् ब्राह्मणानां संध्यावन्दनमिव बौद्धस्य दयालुत्वं स्वाभाविकमिति दयाया विस्मयानुत्थापक- त्वात्" इति सारबोधिनी॥

विवरणकारास्तु "अङ्ग्योः साम्याववक्षया अङ्गिनोरपि रसयोः साम्य विवक्षितमित्यायाति। अत्र हि प्रकरणेन जिनस्य दयावीररस इव शब्दशक्तिमहिम्रा शृङ्गारोऽपि उपस्थीयते। उभयोरेव सिंही आलम्बनम्। न च विरोधिनोरनयोरेकालम्बनतया प्रतीतिसंभव इति। एवं मुनिभिरित्यनेन मुनिषु शान्त इव जातस्पृहरित्यादिना शब्दशक्तिमहिम्रा शृङ्गारोऽपि प्रतीयते। न चानयोरेकत्रैककालं प्रती तिसंभव इति विरोधसंभावना। साम्यविवक्षायां तु शृङ्गारस्योपमानत्वेन नायिकालम्बनतया नायक- निष्ठतया पूर्वसिद्धतया च प्रतीतिः । वीरस्य सिंह्यालम्बनतया जिननिष्ठतया च प्रतीतिः । शान्तस्य च मुनिगतत्वेन तत्कालीनत्वेन च प्रतीतिरिति न विरोधः" इत्याहुः ॥

अङ्गिनीति तृतीयप्रकारे एकत्राङ्गिनि विरुद्धयोरङ्गत्वं द्विधा भवति राज्ि सेनापतिद्वयवत् तुल्यक- क्षतया राज्ञि सेनापतितद्धृत्यवत् परस्याङ्गत्वमापद् वा। तराेनविरोधो यथेत्युदाहरति क्रामन्त्य इति। अत्र यद्वक्तव्यं तत्प्रसङ्गात्प्रागेव (३५० पृष्ठे २० पक्कौ) उक्तम्। आनन्दवर्धनकृते ध्वन्या- लोके तृतीयोक््योते उदाहृतं पद्यमिदम्। राजानं प्रति कवेरुक्तिरियम। हे राजन् त्वद्वैरिनार्यः त्वच्छ- त्रनार्य: (क्त्र्यः) अधुना संप्रति क्षताः (दर्भाङ्करैः) विद्ाः याः कोमलाङ्गलयस्ताभ्यो गलत् रक्तं येषु तादशैः अत एव पातितयावकैरिव दत्तालक्तकैरिव पादैश्वरणैः (करणभूतैः) सदर्भा: सकुशा- डरा: स्थली: प्रदेशान् कामन्त्यः लङ्घयन्त्यः। स्थलीनां सदर्भत्वं दर्भोत्पत्या होमार्थदर्भास्तरणेन चेति बोध्यम्। गलता पतता बाष्पाम्बुनाश्लजलेन धौतं प्रक्षालितम् आननं यासां ताः। बाष्पपतनं शोकेन होमधूमेन च। भीताः भययुक्ता। मा रिपुः पश्येदिति। मा वरो रज्येदिति च भयम्। 'भीत्या' इति पाठे भीत्या भयेन भर्तुः पत्युः वरस्य च करेण हस्तेनावलम्बिताः गृहीताः। यद्वा करे हस्ते अवलम्बिताः स्थापिता: कराः स्वकराः यासां तथाभूताः।अत एव पुनरष्युय्द्विवाहा इव जाय- मानपरिणया इव दावाग्नि वनवहनिं वैवाहिकागनिं च परितः समन्ततो अ्रमन्ति पर्यटन्ति परिक्रमणं च कुर्वन्तीत्यर्थः । विवाहाङ्गलाजहोमे प्रायो वधूनामेवंभावात्। दावाग्निमित्यत्र परितःशब्दयोगे (संब- न्धार्थे-) द्वितीया "अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि" इति वार्तिकात्। शार्दूलविक्राडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ।

अत्र प्रधानभूते राजविषयकरतिभावे द्वावपि करुणशृङ्गारौ राजि सेनापतिद्यवत् साक्षादङ्गे इति न विरोधः। तदेवाह अत्रेत्यादि। चाटुके प्रियवाक्ये राजस्तुतौ वा। "अस्त्री चाटुशरटुः श्लाघा प्रेम्णा भिथ्याभिशंसनम्" इत्यभिधानम्। तत्र रतौ। तयोः करुणशृङ्गारयोः। न विरोध इति। परस्पर-

Page 516

सत्तम उल्लास: । ४५७

यथा एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहय्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ ३३९॥ इत्यत्र पहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागमनगमनयोर्न विरोधः। क्षितो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्लन केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण। विरुद्धयोरपि सेनापत्योः सामन्तयोवा नृपतिकार्यसंपादनायेवेत्यर्थः । अयं भावः । अत्र शोच्याव स्थातः करुणः विवाहावस्थातश्र शृङ्गारः द्वयोरप्यनयोर्नृपविषयकरतिभावेऽङ्गता 'एतादृशो हि अस्य राज्ञः प्रतापः येनैषाम् (शत्रुराजतन्नारााम्) ईदृशी अवस्था जाता चैषां पुनर्विवाह उत्प्रेक्ष्यते' इति प्रत्ययात्। एवं चैककार्यव्यग्रयो; राज्ञः सेनापत्योरि सामन्तयोरिव वानयोः स्वभावतो विरो- धिनोरपि नात्र विरोध: प्रसरतीति॥ व्याख्यातमिदं प्रदीपोद््योतयोः । "अत्र चाटुके या राजविषया रतिस्तत्र करुणशृङ्गारावुभावपि साक्षादङ्गमिति तननिर्वाहणैकव्याकुलयोस्तयोरेव (करुणशृङ्गारयोरेव) राजकार्योद्यतयोरिव भटयोः सहजातो विरोधोऽपि न दोषाय" इति प्रदीपः । (भटयोरिति। साक्षाद्राजसेवकयोर्मिथो विरुद्ध- योरित्यर्थः ) इत्युद्द्योतः ॥ प्रधानस्य साक्षादङ्गभूतयोर्विरोधिनोरप्यविरोधं द्ृष्टान्तेन द्रढयति यथेति । तथा चाहुरुद्दचोत- कारा: "एकप्रधानाङ्गयोविरुद्धयोरप्यविरोधे दृष्टान्तमाह यथेति" इति । सारबोधिनीकारा अप्याहु: "नन्वन्यपरयोर्विरु्द्वैकस्वभावयोः कथं स्वभावत्याग इति दृष्टान्तेन परिहरति एहीति" इति। विष्णुशर्मकृते पञ्चतन्त्रे आनन्दवर्धनकृते ध्वन्यालोंके तृतीयोद्दयोते च पद्यामिदं दृश्यते। धनिनो धनिका: नराः एहि आगच्छ गच्छ पत उत्तिष्ठ वद मुनेर्भावः मौनम् अभाषणं समाचर धारय इत्ये- वंप्रकारेण अर्थिभिर्याचकैः सह क्रीडन्ति । "अथ मौनमभाषणम्" इत्यमरः । कीदशैः आशा- वाञ्छैव रव्यादिरूपो ग्रहस्तेन ग्रस्तैराक्रान्तैरभिभूतैरित्यर्थः । "ग्रही निग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥" इति विश्वः ॥ अत्र क्रीडाङ्गत्वेनोपात्तानां विरुद्धस्वभावानामप्यागमनगमनादीनां यथा न विरोधस्तथा 'क्रामन्त्यः' इत्यत्रापीत्याह इत्यत्रेत्यादि। 'अन्र' इति कचित्पाठः। अयं भावः। गमनागमनयोः पतनोत्थानयोर्वचन- मौनाचरणयोश्रव स्वभावतो विरुद्धत्वेऽपि मिलित्वा क्रीडातिशयकारित्वाद्यथा न विरोधस्तथा 'क्रामन्त्यः' इत्यत्रापि करुणशृङ्गारयोः स्वभावतो विरुद्धत्वेऽपि राजविषयकरतिभावपोषकत्वान्न विरोध इति। एवं च विधेययोरेव (प्राधान्येन प्रतिपाद्यमानयोरेव) विरोधो दोषाय न त्वनूद्यमानयारेपि (अङ्गतया प्रतिपाद्ययोरपि ) इति परमार्थ इति प्रदीपादौ स्पष्टम्। "अत्र एहीति क्रीडन्तीति रीत्या सर्वेषां प्रधानभूतक्रीडान्वयादागमनगमनाद्यैर्न विरोधः" इति चन्द्रिकायामपि स्पष्टम्। तृतीयप्रकारस्य द्वितीयभेदमुदाहरति क्षित इति । तथा चाहुः प्रदपकाराः "अङ्गाङ्गिभावेन पराङ्गतयाविरोधो यथा क्षिप्त इत्यादि" इति । अमरुशतके पद्यमिदम्। सः त्रिपुरदाहकालिकः शांभवः शंभुसंबन्धी (संबन्धोत नियोज्यनियोजकभावः) शंभुनोदितः इति यावत् शरागनिः बाणामिः

Page 517

४५८ काव्यप्रकाशः सटीकः ।

आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभि: कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराभिः ॥। ३४०।। इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् तस्य तु शृङ्गरः तथापि न करुणे विश्रान्ति- रिति तस्याङ्गतैव। अथवा प्राक् यथा कामुक आचरति स्म तथा शराननिरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोह्वल्यते।

वः युष्माकं दुरितं पापं दहतु भस्मीकरोतु (नाशयतु) इत्यन्वयः । स कः यः आद्रपिराधः तत्कालकृ- तापराधः कामाव प्रणयीव हस्तावलग्नः हस्तस्पर्श कुर्वन् सन् साक्षनेत्रोत्पलामिः साश्रुणी (भयात्को- पाच्च) अश्रुसहिते नेत्रोत्पले यासां तथाभूताभिः। 'सास्रनत्रोत्पलाभिः' इति पाठेपि स एवार्थः। "अस्रः कोणे कचे पुसि क्लीबमश्षणि शोणिते" इति मेदिनी । त्रिपुरयुवतिभिः त्रिपुरासुरकामिनीभिः क्षिप्तः प्रक्षिप्तः तिरस्कृत इति यावत् । 'यः आर्द्रापराधः कामीवेति त्रिपुरयुवतिभिः' इति चाग्रे सर्वत्र संबध्यते। तथा प्रसभं बलात् अंशुकान्तं वस्त्रप्रान्तम् आददानो गृह्लन् सन्नपि अभिहतः ताडितः । तथा केशेषु गृह्न् सन् अपास्तः दूरीकृतः कामिनापि चुम्बनाय केशग्रहणात्। यद्ा अशुकान्तम् आददान: प्रसभमभिहतोऽपि केशेषु गह्नन् अपास्त इत्यन्वयः । तथा चरणयोनिपतितः सन् संभ्र- मेण भयेन आदरेण च नेक्षितः नावलोकितः । "संभ्रमः साध्वसेऽपि स्यात्सवेगादरयोरपि" इति मेदिनी। तथा आलिङ्गन् सन् अवधूतो निराकृत इत्यर्थः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥

अत्र करुणशृङ्गारयारेङ्गाङ्गिभावेन प्रधानाङ्गतया विरोधाभाव इत्याह इत्यत्रेत्यादि। त्रिपुररिपुः शंभु: करुणोऽङ्गमिति। करुणोद्दपनविभावस्य त्रिपुरस्त्रीवैक्कव्यस्य त्रिपुररिपुप्रभावातिशयाधीनत्वा- दिति भावः एवं च त्रिपुररिपुप्रभावातिशयस्य त्रिपुररिपुविषयकरतिभावोद्दीपनविभावत्वात् आङ्गिनि त्रि- पुररिपुविषयकरतिभावे करुणोऽङ्गमिति पर्यवस्वतीति बोध्यन। तस्य तु करुणस्य तु। शृङ्गर इति । अङ्गमिति शेषः। नन्वेवमपि शृद्गगरेण परिपुष्टः करुणः प्रधानमेव न त्वङ्गमत आह तथापीि विश्रा- नितिः प्रकर्षपर्यवसानम्। तस्य करुणस्य। अङ्गतैव्रेति। शङ्गारापेक्षया प्रधानत्वेऽपि प्रभावातिशयेऽ- ङत्वमवेि भावः । यदपि शृङ्गारापेक्षया करुणोऽङ्गी तथापि तत्र प्रकर्षणपर्यवसानं नास्ति तेनापि भावप्रकर्षणादित्यङ्गमेव तदिति तात्पर्यम्। उक्तेऽर्थ हेतुं दर्शयति अथवेत्यादि। अथवेति यत इत्यर्थे "अव्ययानामनेकार्थत्वम्" इति न्यायात्। उक्तं च सरस्त्रतीतीर्थकृतटीकायाम् "तत्र करुणे विश्रा- न्त्यभावे हेतुमाह अथवेति। अथवेत्यव्ययसमुदायो यस्मादित्यर्थे 'अथवा श्रेयसि केन तृप्यते' इत्य- त्रेव" (इति माघकाव्ये प्रथमसर्गे २९ श्लोके इव) इति। प्राक पूर्वम्। कामुकः प्रणयी। आच- रति स्म करावलम्बनादिकमकार्षीत्। शरानिः शंभुशराग्रिः । मुख्यः त्रिपुररिपुविषयकरतिभावः । उपोद्वल्यते उद्गतबलः क्रियते प्रकर्षमानीयते इति यावत् । अतः करुणे न विश्रान्तिरित्यर्थः ।

१ त्रिपुरयुवतिभिरिति। त्रिपुरशब्दोडत्र "तात्स्थ्यात्ताच्छव्यम्" इति न्यायेन त्रिपुरस्थासुरपरः मश्वा हसन्ति ग्राम: पलायित: गिरिदधते (५४ पृष्ठे) इत्यादिवत्। तदेवाह त्रिपुरासुरेति। त्रयाणां पुराणां पत्तनानां समाहार- स्त्रिपुरम् त्रिपुरस्थाश्य तेऽसुराश्र त्रिपुरासुरास्तेरषां कामिनीमिरित्यर्थः। इत्थमत्रैतियं महाभारते कर्णपर्वण ३३ अध्याये ३ अध्याये च। पुरा किल तारकासुरस्य सुताः तारकाक्षः कमलाक्षो विद्युन्माली चेति त्रयोऽसुराः पितामहालब्ध- वराः वलाढ्याः मयासुरेण निर्मितषु काञ्चनं रोप्यं कार्ष्णायसं चेति त्रिविधेषु पुंरेषु यथाक्रमं सपरिवाराः तस्थु: तांश्र्वासतुरान् शंभुः शरामिना ददाहेति।।

Page 518

सप्तम उल्लास:। ४५९

अयं भावः। पूर्व प्रणयी यथा करावलम्बनादिकमकार्षीत्तथेदानीं शंभुशराग्निरित्युपमानभावेन पूर्वा- वस्थाप्रततिरुद्दीपकत्वेन च शृङ्गारः करुणाङ्ग सन् परंपरया प्रधानस्य भावस्याङ्गमिति विरोधिनोरप्य नयोः शृङ्गारकरुणयोः राज्ञि सेनापतितद्भृत्ययोरिव प्रधानेऽङ्गभावेनाविरोध इति। एवं चोदाहरणद्वये- नैतत् प्रतिपादितम् यत् अङ्गिनि साक्षात्परंपरया वाङ्गत्वमाप्तयोई्योः रसयोर्न विरोध इति। उक्तं च चन्द्रिकायाम् "अत्र यथा पूर्व कामुकः करावलम्बनादिकमकार्षीत्तथा संप्रति शरागनिरित्युपमान- तया शृङ्गारपोषितेन करुणेन भगवतः शंभोः प्रभावातिशय एव प्रकर्षमानीयते इत्यनवद्यम्" इति॥

व्याख्यातमिदं प्रदीपोद््योतयोरपि। "अत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् तस्य तु शृङ्गारः । नन्वेवं करुणस्य प्राधान्ये तत्रैव विश्रान्तेरुभयोरङ्गत्वासंभवे कथमुदाहरणत्वमिति न वाच्यम्। शृङ्गारा- पेक्षया हि तस्य प्राधान्येऽपि न तत्रैव विश्रान्तिरिति तस्यापि प्रभावं प्रत्यङ्गतैव। यतो यथा पूर्व कामुक: करावलम्बनादिकमकार्षीत् तथा संप्रति शराग्निरित्युपमानतया शृङ्गारपोषितेन करुणेन प्रभावातिशय एव प्रकर्षमानीयते" इति प्रदीपः । (करुणोऽ्ङ्गमिति। रिपुस्त्रीवैक्कव्यस्य तत्कार्यत्वेन तव्ञ्ञकत्वा- दिति भावः। क्षिप्तत्वादीनां वीरानुगुणानां शुङ्गाराङ्गसाम्येनालंकारवदुत्कर्षकत्वात्करुणाङ्गत्वमित्याह तस्य त्विति। करुणस्य शृङ्गारेण पुष्टस्य। अद्गत्वासंभवे प्रभावाङ्गत्वासंभवे। यथा पूर्वमिति। यासां पूर्वमीष्याकलुषहृदयानां प्राणेश्वरास्तथा चाटुपरा बभूवुस्तासामिदानीं, शंभुशराग्िस्तथाविधां दशां करोतीति प्रतीत्येति भावः । अनेन च पुष्ट ईश्वरोत्साहस्तद्विषयरतिभावपोषक इति तात्पर्यम्) इत्युद््योत: ॥

कतिपयैष्टीकाकारैस्तु अथवेत्यादिवृत्तिग्रन्थः पक्षान्तरपरतया व्याख्यातः । तथाहि। "तस्य तु नृङ्गार इति। अङ्गमिति शेषः । नन्वेवमपि शृङ्गारेण परिपुष्ठ करुणं प्रधानमेव न तु प्रभावातिशयेऽङ्गमत आह तथापीति। शृङ्गारापेक्षया प्रधानत्वेऽपि प्रभावातिशयेऽङ्गत्वमिति भावः। अथवेति। प्रथमपक्षे एकस्य द्वयम् परपक्षे च विशिष्टवैशिष्ट्यमिति पक्षयोर्भेदः" इति श्रीवत्सलाञ्छनभट्टाचार्यः। एवमेव चक्रवर्तिभट्टाचार्योऽपि। "पूर्वोदाहरणादस्यायं विशेषो यदत्र शृङ्गारेण करुणप्रकर्षणम् करुणेन भावप्रकर्षणमिति करुणः साक्षादङ्गं शृङ्गारः परंपराङ्गम्। 'क्रामन्त्यः' इत्यादि पूर्वोदाहरणे तु करुण- स्थानीयत्वेन करुणस्येव शृङ्गारस्य साक्षादेव भावाङ्गत्वमिति। इत्थं पदैः सकलपदार्थोपस्थितौ 'खले कपोत' न्यायेन 'विशेष्ये विशेषणम् तत्रापि च विशेषणान्तरम्' इति शक्तिबोधस्तवङ्गयबोधेऽपीयं रातिरित्युक्तम। इदानीं विशिष्टस्य वैशिष्ट्यमिति प्रथमं शृङ्गारविशिष्ठकरुणबाधः ततः करुणविशिष्ट- भावबोध इति वक्तुमाह अथवेति। विशिष्टवैशिष्ट्चबोधस्य ईदशरीतिद्वयात् । तथा शराग्निरिति। अनेन प्रथमं शृङ्गारौपम्यं करुणस्य दर्शितम्। उपोद्वल्यते। प्रकृष्यते। अनेन च शृङ्गारविशिष्टकरुण- वैशिष्ट्यं भावस्य दर्शितमिति विशिष्टस्य वशिष्ट्यमिति रीत्या विशिष्टवैशिष्ट्यबोधो दर्शितः" इति महेश्वर- भट्टाचार्यः । "ननु यथा छेदे औदासीन्येन खङ्गनिर्माता तमुत्कर्षयन् वा शिल्पी नाङ्गम् तथा करुण- मुत्कर्षयन्नपि शृङ्गारो नाङ्गिनि भावेऽङ्गमिति केवलकरुणस्यैव भावाङ्गतया तत्र शृङ्गारस्यौदासीन्यादि- त्याशङ्क्य पक्षान्तरमुपन्यस्यति अथवेति। यथा केवलः खङ्गो न छेदेऽङ्गं किंतु निपातितः स इति निपा- तयितु: छेदेऽङ्गभावः तथा केवलः करुणो नात्राङ्गतया विवक्षितः किं तु शृङ्गारेणोत्कर्षितः सः इति १ वारानुगुणानामिति। बीभ सानुगुणानामिति केचित् ।।

Page 519

४६० काव्यप्रकाश: सटीकः।

उक्त हि 'गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते। प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥' इति॥ प्राक् प्रतिपादितस्य रसस्य रसान्तरेण न विरोध: नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते॥। इति काव्यप्रकाश दोषदर्शनो नाम सत्तम उल्लास:॥७॥ तदुत्कर्षयितुः शृङ्गारस्याङ्गभावोऽक्षत इति सिद्धान्तः" इति तात्पर्यविवरणकारः (महेशचन्द्रः)। "अत्र शिवप्रभावातिशयो वाक्यार्थः प्रधानम् तत्र करुणोऽङ्म तस्यापि शृङ्गारोऽङ्गम्। ननु शृङ्गारं प्रति करुणस्य प्राधान्यात्कथमङ्गतात आह तथापीति। यागस्य स्वाङ्गं प्रति प्राधान्येऽपि स्वर्ग प्रतीव करु- णस्य शृङ्गारं प्रति प्राधान्येऽपि शिवप्रभावेऽङ्गत्वमेव। न च वाजपेय [ये] तद्वैरूप्यम् कल्प्यविधि- लभ्यत्वात्प्राधान्यस्येति भावः । ननु करुणस्याविधेयत्वाद्वैरूप्यं स्यादेवात आह अथवेति। परिपोषि- तेन सहितेन। तेन करुणवच्छृङ्गारस्यापि तुल्यकक्षतया प्रभावाङ्गत्वमिति भावः । उपोद्वल्यते प्रकृष्टः क्रियते। आद्ये पक्षे विशिष्टम् अन्त्ये दवयं समप्रधानमन्याङ्गमिति भेद:" इति कमलाकरभट्टः। एवमेव जयन्तभद्टमाणिक्यचन्द्रादयोडप्युच्चावचं व्याचख्युरित्यलम्।। अङ्गाङ्गस्यापि (प्रभावातिशयाङ्गकरुणाङ्गस्यापि) शृङ्गारस्य प्रधानप्रभावातिशयाङ्गत्वमित्युक्तेऽर्थे न्योयानुग्रहं दर्शयति उक्तं हीत्यादि। गुणोऽङ्गम् विशेषणमित्यर्थः अप्रधानमिति यावत्। "गुणस्त्वा- वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु" इति वैजयन्ती। कृतः आत्मनः स्वस्य संस्कारोऽन्येन परिपुष्टिर्यस्य तादृशः सन् प्रधानम् अद्गिनं प्रतिपयते प्रामोति तथा आत्मसंस्कारेण प्रधानस्याङ्गिनः भूयसि महति उपकारे वर्तते इति न्यायार्थः । एवं चानेन न्यायेन शृङ्गारोप्रकृतस्य करुणस्योपकारविशेषाधायकतया शृङ्गारस्याप्युपकारकत्वेन प्रभावातिशयाङ्गत्वमुपपन्नमिति भावः। उक्तं च प्रदीपे "न चाङ्गाङ्गस्य (प्रभावातिशयाङ्गकरुणाङ्गस्य शृङ्गारस्य) कथमङ्गत्वम् (प्रभावातिशयाङ्गत्वम्) इति वाच्यम् तदुपकृ- तस्य (शृङ्गारोपकृतस्य) अङ्गस्य (करुणस्य) उपकारविशेषाधायकतया तस्यापि (शृङ्गारस्यापि) उपकारकत्वात्। यदुक्तम् गुणः कृतात्मसंस्कार इत्यादि" इति। अत्राहुरुद्दयोतकाराः "दन्तक्षतानी- त्यतस्त्वस्येयान् भेदः । तत्र प्रतीतयोः साम्यम् अत्र कामीवेत्युक्तेः साम्येनैव प्रतीतिरिति" इति। अत्र सरस्वतीतीर्थाः "ननु 'गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' इति (३४७ पृष्ठे) उक्त- न्यायेन करुणशृङ्गारयोः परस्परमत्र नाङ्गाङ्गिभावेन भवितव्यमित्यत आह उक्तं हीति" इत्याहुः। अयं तदाशयः । "गुणानां च०" न्यायस्य "गुणः कृतात्म०" इति न्यायोऽपवादः । अतः "प्रकल्प्य चापवादविषयं तत उत्सर्गोडभिनिविशते" इति न्यायेनापवादविषयं परित्यज्योत्सर्गस्य प्रवृत्तेर्यत्र द्वयोरष्यङ्ग्योः प्रधाने साक्षादङ्गतत्वं तत्रैव गुणानां चेति न्यायस्य प्रवृत्तिः । अत्र तु शृङ्गारस्य परं- परया प्रधानेऽङ्गत्वमिति॥ ननु विगलितवेद्यान्तरत्वं (वेद्यान्तरसंपर्कशून्यत्वं) रसस्वरूपम् अत एकदा द्वितीयाभावात्कर्थ रसस्य रसान्तरेण विरोध: कर्थं वा अङ्गाङ्गिभाव इत्यसंबद्धमेवैतत्स्वमित्याशङ्कायामाह प्रागित्यादि। १ न्यायानुकूल्यम् ।।

Page 520

सप्तम उल्लास: । चतुर्थोल्लासे ९१ पृष्ठे 'लोके प्रमदादिभिः' इत्यारभ्य ९३ पृष्ठे 'अलौकिकचमत्कारकारी शृङ्गारा- दिको रसः' इत्यन्तेन ग्रन्थेन प्रतिपादितस्येत्यर्थः । रसशब्देनेति। रसशब्देनात्र प्रकरणे रस्यते आस्वाद्यते इति व्युत्पत्त्या स्थायिभावोऽभिधीयते इत्यर्थः । यद्यपि "बहूनां समवेतानां रूपं यस्य भवेद्वहु। स मन्तव्यो रसस्थायी शेषाः संचारिणो मताः ॥ रसान्तरेष्त्रपि रसा भवन्ति व्यभिचा- रिणः । तथाहि हासः शृङ्गारे रतिः शान्ते च दृश्यते ॥ क्रोधो वीरे भयं शोके जुगुप्सा च भया- नके। उत्साहविस्मयौ सर्वरसेषु व्यभिचारिणः।" इति भरतोक्तेः 'अयं स रशनोत्कर्षी' (४५४ पृष्ठे) इत्यादौ रत्यादेः स्थायित्वमप नास्ति तथापि किंचित्प्राधान्यविवक्षया स्थायित्वव्यपदेश इत्यु- द्दचोते स्पष्टमिति शुभम् । इति झळकीकरोपनामकभट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकायां बालबोधिन्यां दोषदर्शनो नाम सप्तम उल्लासः।। ७।।

ज पेनोगा कसक्न/ किक ्रिधा

१ 'संचारिण: स्थिताः' इति पाठान्तरम्।

Page 521

1:0

प्रशन पकशन ॥ अथ अष्टम उल्लास: ।

एवं दोषानुक्त्वा गुणालंकारविवेकमाह (सू० ८७) ये रसस्याङ्गिनो धर्मा: शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥६६॥।

संगति दर्शयन्नाह एवं दोषानुक्त्वेति । यद्येवं गुणनिरूपणमुचितम न तु गुणालंकारयोर्भे- दसाधनम् तथापि भेदं विना गुणालंकाराभिधानमसंगतम् अन्यतराभिधानेनैव चरितार्थत्वादिति तद्विवेचनमावश्यकमिति सूचयन् केचिद्ठुणालंकारयोर्नास्ति भेद: काव्योत्कर्षकत्वाविशेषादित्या हुस्ता- तिराकुर्वश्र्वाह गुणालंकारविवेकमाहेति । कारिकाद्वयेनेति शेषः। विवेको विभागः स च परस्पर- वधर्म्यज्ञानाधीन इति तदाह ये रसस्येति । उक्तमिदं प्रदीपे "एवं दोषे निरूपिते गुणालंकारौ प्राप्तावसरौ। तयोगुणस्यान्तरङ्गतया प्राथम्यम्। विप्रतिपद्यन्ते तु केचिद्गुणालंकारयोर्भेदे। कि च सामान्यतो लक्षिते विशेषलक्षणमुचितमिति कारिकाद्येन तयोः स्वैरूपदर्शनमुखेन लक्षणं दर्शय- न्नेव भेदैकमाह ये रसस्येत्यादि" इति॥

रसस्याङ्गिन इत्यभेदान्वयः अङ्गिनः प्रधानस्य रसस्येत्यर्थः । एवं च रसः आत्मस्थानीयः शब्दार्थो शरीरमिति फलितम् । धर्माः साक्षात्संबद्धाः । अत्र समुचितं दृष्टान्तमाह शौर्यादय इवात्मन इति। शौर्य ज्ञानविशेषः । स च यथा चेतनस्य आत्मनः जीवात्मन एव नाचेतनस्य शरीरस्येत्यर्थः। तथा च अङ्रिनः शरीरे आत्मवत् काव्ये प्राधान्येन स्थितस्य रसस्य शृङ्गारादेः ये धर्माः साक्षात्तदाश्रितास्ते गुणा इत्यर्थः । एवं च 'वर्णादीनामेव धर्माः गुणाः' इति वदन्तो वामनादयः परास्ताः। गुणानां रसधर्मत्वकथ मेन नालंकारेष्वतिप्रसङ्ग: तेषां रसधर्मत्वाभावात्। नन्वेवमपि रसत्वे स्थायित्वे च रसदोषेषु चातिप्र- सङ्ग: तेषां रसधर्मत्वादित्यत आह उत्कर्षहेतव इति। रसोत्कर्षस्य हेतुभूता इत्यर्थः रसोत्कर्षका इति यावत्। रसस्योत्कर्षश्रानुभवसिद्धचित्तद्रुत्यादिरूपकार्यविशेषप्रयोजकत्वरूपो बोध्यः । एवं च रस धर्मत्वे सति रसोत्कर्षकत्वं गुणानां लक्षणमिति फलितम्। अथवा रसधर्मत्वं नोपादेयमिति मनसि निधा- याह अचलस्थितय इति। अचला स्थितिर्येषां ते इति विग्रहः। अव्यभिचारिस्थितय इत्यर्थः नियत- स्थितय इति यावत्। नैयत्यं च रसेन तदुपकारेण वा बोध्यम्। तथा च ये रसं विना नावति छ्ठन्ते अवस्थिताश्रावश्यं रसमुपकुर्वन्तीत्यर्थः। एवं च रसोत्कर्षकत्वे सति रसाव्यभिचारिस्थितित्वम् अव्यभिचारेण रसोपकारकत्वं चेति लक्षणद्दयं फलितम्। अलंकाराणां तु रसव्यभेचारिस्थितित्वेन नियमेन रसोपकारकत्वाभावेन वा तेषु नातिप्रसङ्ग इति भावः । एवं च पूर्वलक्षणेन सह लक्षणत्रयं गुणानामिति फलितम्। तथा च लक्षणभेदात्सूत्रे न विशेषणवैयर्थ्यमिति बोध्यम्॥ १ अन्तरङ्गतयेति। गणस्य रसधर्मत्वन प्रधानतयेत्यर्थः ॥ २ विप्रतिपद्यन्ते इति। विवदन्ते इत्यर्थः । शब्दाश्रित- त्वकाव्यशोभाकरत्वाद्धमाविशेषादिति भावः ॥ 3 तयोः गुणालंकारयोः ॥ स्वरूपं लक्ष्यतावच्छेदकं गुणत्वालंका- रत्वरूपम्॥ ५ भेदकम्। अलंकारतः। तच्चाय्रे स्वयमेव वक्ष्यति ॥ ६ रसधर्मत्वाभावादिति। किंतु शब्दालंकाराण। शब्दधर्मत्वम् अर्थालंकाराणामर्थधर्मत्वमिति बोध्यम्।।

Page 522

अषटम उल्लास:। ४६३

आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णा- व्याख्यातमिदं प्रदीपोश््योतयोः। "ये रसस्येत्यादि। अङ्गिनः शरीरेष्वात्मवत्काव्ये प्राधान्येन स्थितस्य रसस्य धर्मा: साक्षात्तदाश्रिता इत्यर्थः। अचलस्थितय इत्यपृथकस्थितयः अव्यभिचारिस्थितय इति यावत्। अव्यभिचारश्र रसेन तदुपकारेण वा। तेन रसं विना ये नावतिष्ठन्ते अवतिष्ठमानाश्रावश्यं रसमुपकुर्वन्तात्यर्थः। अत एवानयोर्व्यतिरेकमलंकारे वक्ष्यति। एवं च रसोत्कर्षहतुत्वे सति रसधर्मत्वम् तथातैवे सति रसाव्यभिचारिस्थितित्वम् अयोगव्यच्छेदेन रसोपकारकत्वं चेति लक्षणत्रयं गुणानां द्रष्ट- व्यम्। अलंकारमात्रभेदकं तु सत्यन्तभागवविमुक्तमिदमेव ग्राह्यम् अन्यथा विशेषणवैयर्थ्यात्" इति प्रदीप: । (अचलस्थितित्वं विवृणोति अपृथगिति । रसाभाववद्वृत्तय इत्यर्थः । तदेवाह अव्य- भिचारीति । रसं विनेति । रसाभाववतत्यिर्थः। अनयोरिति। रसधर्मत्वाव्यभिचारिस्थितित्व- योरित्यर्थः । अन्यथेति । अलंकारप्रतियोगिकभेदानुमाने संपूर्णस्य हेतुत्वे इत्यर्थः । विशेषणेति । अलंकारभेदानुमापकहेतौ सत्यन्तरूपविशेषणवैयर्थ्यादित्यर्थः। एवं चालंकारव्युदासाय लक्षणद्दये विशे- ष्यदलमिति फलितम्। रसत्वादिवारणाय सत्यन्तम्। [रसोपकारकत्वं चेति]। अत्रालंकारव्यावृ- त्तये अयोगव्यवच्छेदेनेति। अत्र सूत्रे रसस्येत्यलक्ष्यतमोपलक्षणम्। अत एव 'प्रागप्राप्त०' इत्यादौ (३२९ पृष्ठे) चतुर्थचरणे गुरुस्मरणेन मसृणवर्णस्यानुगुणत्वमुक्तम्। एवं च यत्र रसस्तत्र माधुर्या- दिकमस्त्येव तस्य तद्धर्मत्वात्। क्वचित्तु व्यञ्ञकाभावात्तदस्फुटत्वमित्यन्यत्। यथा 'अयं स रशनात्क- र्षी०' इत्यादौ (४५४ पृष्ठे) इति बोध्यम्) इत्युक्योतः॥ चक्रवर्त्यादयस्तु "ये रसस्येति। रसस्य धर्माः गुणाः। ते चोत्कर्षरूपाः स्वव्यञ्जकस्य काव्यस्योत्कर्ष- काश्र। तदाह उत्कर्षहेतव इति। तेन रसदोषव्यवच्छेद: तस्यापकर्षरूपस्य रसधर्मस्य स्वव्यञ्जकका- व्याप्रकर्षकत्वात्। उत्कर्षहेतुष्वलंकारेष्वतिप्रसङ्गवारणायाह अचलोते। अचला नियता स्थितिर्येषां ते तथा। रसविशेषनियतविशेषा इत्यर्थः। शृङ्गारादौ माधुर्यस्य वीरादावाजसः प्रसादस्य सर्वात्मनि नियत- त्वात्। अलंकाराणां तु सर्वेषां सर्वरसोत्कर्षकत्वात् नरिसेऽपि सत्त्वाव्यभिचाराच्च। अत एवं सर्वालंका- राणां स्वेच्छया प्रयोग: । ननु 'अयं स रशनोत्कर्षी' इत्यादौ माधुर्यव्यक्षकवर्णविरहेणोत्कर्षमनासाय करुणाङ्गतां प्राप्तवति शृङ्गारे माधुर्यस्य चलस्थितावव्याप्तिरित्यत आह अङ्गिन इति। अङ्गिन्येव स्थि- तिनियमो न त्वङ्गे इत्यर्थः" इति व्याचख्युः ॥ नदेतत्सर्वमभिप्रेत्य वृत्तिकारो द्ृष्टान्तमुखेन वामनमतं निराकुर्वन् सूत्रं व्याचष्टे आत्मन एव हीत्यादि। आत्मनः जीवात्मनः । शौर्यादय इति। गुणा इति शेषः । आकारस्य शरीस्य। माधुर्यादयः माधुर्यौजःप्रसादाख्याः। न वर्णानामिति। शरीरस्य शौर्यादयो न धर्मा: मृतशरीरे अभावादिति लोके यथा प्रसिद्वं तथा माधुर्यादयो रसस्यैव धर्माः न वर्णानामित्यर्थः ॥ ननु 'मधुराः वर्णाः' इति लोकव्यवहारात् गुणस्य वर्णधर्मत्वं स्यात् उक्तं च गुणस्य वर्णधर्मत्वं वामनादिभिरपत्याशङ्क्य अभियुक्ताः औपचारिकं वर्णधर्मत्वमादाय 'मधुराः वर्णाः इति व्यवहरन्ति भ्रान्तास्तु तं व्यवहारं पश्यन्तो वास्तविकं वर्णधर्मत्वं मत्वा 'मधुराः वर्णाः' इति व्यवहरन्ति नैतावता

१ व्यतिरेको भेदः ॥२ रसात्कर्षकत्वे सति ॥३ अभियुक्ताः प्रामाणिकाः तत्त्वज्ञा इति यावंत् ॥

Page 523

४६४ काव्यप्रकाशः सटीक: । नाम्। क्वचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात् 'आकार एवास्य शूर:' इत्यादे- वर्यवहारादन्यत्राशूरेपि वितताककृतित्वमात्रेण 'शूरः' इति क्वापि शूरेऽपि मूर्तिलाघवमात्रेण 'अशूर:' इति अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यक्षकसुकुमारादिव- र्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिवन्ध्या- गुणस्य वर्णधर्मत्वसिद्धिरिति सदृष्टान्तं सिद्धान्तयति क्वचित्त्वित्यादिना 'प्रतीतिवन्ध्या व्यवहरन्ति' इत्यन्तेन। शौर्यादिसमुचितस्य शौर्यादिव्यञ्जकस्य । आकारः शरीरम् । महत्त्वम् आरोहपरिणाहव. त्वम्। अस्य पुरुषस्य। व्यवहारादिति । अभियुक्तानामौपचारिकव्यवहारादित्यर्थः। वितता स्थूला। शूर इतीति। अस्य 'यथा व्यवहरन्ति' इत्यग्रिमेणान्वयः । मूर्तीति। मूर्तेः शरीरस्य लाघवम् अनति- स्थौल्यं तन्मात्रेणेत्यर्थः । अशूर इतीति। अस्यापि 'यथा व्यवहरन्ति' इत्यनेनैवान्वयः। अविश्रान्तप्र- तीतय इति। विश्रान्ता विषयादन्यत्राप्रसारिणी तदन्याविश्रान्ता एवं प्रतीतिर्ज्ञानं येषां ते भ्रान्ता इत्यर्थः। थद्दा न विश्रान्ता याथार्थ्यें पर्यवसन्ना प्रतीतियेषां ते अदूरदर्शिन इत्यर्थः । व्यवहरन्तीति। एतादृशे भ्रान्तानां व्यवहारे अभियुक्तानामौपचारिकव्यवहार एव बीजमिति ध्येयम्। इत्थं दृष्टान्ते भ्रमबीजं प्रदर्श्य दार्ष्टान्तिकेऽपि तद्दर्शयात तहूदित्यादि । मधुरादिव्यञ्जकेति। शृङ्गारादिरसव्यञ्जकेत्यर्थः । मधुरादिव्यवहारप्रवृत्तेरिति । अभियुक्तानामौपचारिकस्य मधुरादिव्यवहारस्य प्रवृत्तेरित्यर्थः । अमधुरादिरसाङ्गानामिति । अमधुरादिश्व्वासौ रसश्र्वेति विग्रहः । अमधुरादिरसौ वीरादिरसस्तद- द्रानां तव्यञ्ञकत्वेनोपात्तानामित्यर्थः । सौकुमार्यादिमात्रेणेति। माधुर्यादिविरहेऽपि मृदुत्वादिने- त्यर्थः । माधुर्यादीति। माधुर्यादि अमाधुर्यादि च व्यवहरन्तीत्यन्वयः। मधुरादिरसोपकरणा- नामिति । शृङ्गारादिरसव्यक्षकत्वेनोपात्तानामित्यर्थः । तेषां वर्णानाम् । रसपर्यन्तेति। रसस्य पर्यन्ते सीमायां विश्रान्ता पर्यवसन्ना तदन्यत्राप्रसारिणीत्यर्थः रसमर्यादाग्राहिणीति यावत् तादृशी या प्रतीतिस्तया वन्ध्या हीना इत्यर्थः । माधुर्यादि न शब्दवृत्ति किं तु रसवृत्तीत्यजानन्त इति फलितोऽर्थः । वामनादय इति यावत्। व्यवहरन्तीति। अयं प्रघट्टकस्य भावः । वितताकारस्य सुकुमारवर्णानां चान्य- वैलक्षण्येन व्यञ्ञकत्वप्रतिपत्तये उपचारेण "यजमानः प्रस्तरः" इतिवत् अस्यायमाकार एव शूरः एते वर्णा एव मधुराः इत्यादि क्वचिदभियुक्ता व्यवहरन्ति। तमवलोकयन्तोऽनभिज्ञाः वितताकारस्यैव शूर- त्वम् सुकुमारवर्णादीनामेव माधुर्यादि मन्यमानास्तथैव व्यवहरन्ति। नैतावता गुणस्य वर्णधर्मत्वसिद्धि- रिति। अत्र सुधासागरकारा: "शब्दार्थयोर्माधुर्यादिव्यवहारस्यौपाधिकत्वं दर्शयन्नाह क्वचित्वित्यादि। तद्ददिति। तथा च मधुररसव्यक्षकत्वौपाधिक्येव वर्णानां मधुरत्वप्रतीतिः। परं तु तव्यअ्ञकतावच्छेदकं सौकुमार्थम्। तेन क्वापि सौकुमार्यमात्रेणामधुररसव्यञ्जकानामपि मधुरव्यवहारो मधुररसव्यअ्जकानामप्य सौकुमार्यमात्रेणामधुरव्यवहार इत्यर्थः" इति व्याचख्युः ननु शौर्यादेरात्मवृत्तित्ववत् माधुर्यादीनां रसवृ- त्तित्वव्यवस्थितावेवं स्यात् सैव त्वसिद्धा रसवृत्तित्वं वर्णवृत्तित्वं वेत्यत्र विनिगमकाभावादिति चेत् मैवम्। भवत्येव विनिगमकाभावो यदि त्वया वर्णमात्राश्रयाः गुणाः स्वीकर्तु शक्यन्ते । न त्वेवम्। मधुरा १ यजमान इति। ऐतरेयबराह्मणे द्वितीयपञ्चिकार्या १ अध्याये 3 खण्डे वाक्यमिदम्। एवं ताण्ड्य ब्राह्मणेडपि (६७१७) श्रूयते इति बोध्यम्। यजतेऽसौ यजमानः। प्रस्तरो दर्भमुष्टिः। प्रस्तरस्य हविरासाइनादिद्वारा याग माधनत्वात् यजमानोदपि साक्षायज्ञसाधनामीति यागसाधनत्वसाम्यातप्रस्तरे यजमानत्वोपचार: ॥

Page 524

अष्टम उल्लास: LPक ४६५

ड्यवहरन्ति अत एव माधुर्यादयो रसधर्माः समुचितैवर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः। यथैषां व्यक्षकत्वम् तथोदाहरिष्यते।। (सू० ८८) उपकुर्वन्ति तं सन्तं येडद्गद्वारेण जातुचित्। हारादिव द्लंकारास्तेऽनुप्रासोपमादयः ॥ ६७॥ ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षा धानद्वारेण शरीरिणोऽपि उपकारका हारादय इवालंकारा। यत्र तु नास्ति रसस्तत्रोक्तिवैचित्रय- मात्रपर्यवसायिनः । क्वचित्तु सन्तमपि नोपकुर्वन्ति। यथाक्रममुदाहरणानि रचना' इति व्यवहारात् अविशेषेण रचनायामपि तदभ्युपगमप्रसङ्गात्। तथा चास्मन्मते गुणस्य रसै- कधर्मत्वे लाघवम् त्वन्मते वर्णरचनोभयवृत्तित्वे गौरवमिति प्रदीपादौ स्पष्टम्। तदेतत्सर्व सूचयन्नाह अत एवेत्यादि। अत एव रसनैयत्यादेव। समुचितैः योग्यैः । वर्णैः वर्णादिभिः। व्यज्यन्ते इति। एतेन 'माधुर्यादीनां गुणानां यदि रसधर्मत्वं तदा किमन्तर्गडुभिवर्णैः' इति शङ्कापि अपास्ता। न तु वर्ण- मात्राश्रया इति। मात्रशब्दोऽत कात्स्न्यार्थकः। "मात्रं कार्त्स्न्येऽवधारणे" इत्यमरः। 'अभ्युपगन्तुं शक्याः' इति शेषः। ननु यद्येवं तदा कथं वर्णादीनां समुचितत्वम् कथं वा व्यअ्षकत्वमत आह यथैषा- मिति। एषां वर्णादीनाम्। उदाहरिष्यते इति। अत्रैवोल्लासे 'अनङ्गरङ्गप्रतिमम्' इत्यादिनेति शेषः । अलंकारेषूक्तगुणधर्मराहित्यं दर्शयितुमलंकारस्वरूपमाह उपकुर्वन्तीति । अत्राहुः सरस्वतीतीर्थाः "गुणालंकारविवेकस्य वक्तव्यत्वात्तस्य च तदुभयस्वरूपपरिज्ञानपूर्वकत्वादकाण्डेऽप्यलंकारलक्षणमुप- क्षिपति उपकुर्वन्तीत्यादि" इति। ये धर्माः अङ्गद्वारेण अङ्गिनो रसस्याङ्गभूतौ शब्दार्थो तद्द्वारेण तद- तिशयाधानमुखेन (तदुत्कर्षजननमुखेन) तम् अङ्गिनं रसं सन्तं संभविनं जातुचित् कदाचित् न तु नियमेनेति यावत् उपकुर्वन्ति उत्कर्षयन्ति ते धर्माः अनुप्रासोपमादयोऽलंकाराः। तत्र शैब्दद्वारेण अनु- प्रासादयः अर्थद्वारेण उपमादयः। तत्र दृष्टान्तमाह हारादिवदिति। यथा कण्ठाय्ङ्गोत्कर्षद्वारण शरीरिणोऽप्युपकारकाः हारादयोऽलंकारा इति सूत्रार्थः ॥ अमुमेव सूत्रार्थ दर्शयन्नादावङ्गद्वारणेति व्याचष्टे ये वाचकेत्यादि। वाचक शब्द: वाच्योऽर्थः तल्ल- क्षणं तद्रूपं यत् अङ्गं तदतिशयमुखेन तदतिया धा न द्द्ारेणेत्यर्थः। तमिति तत्पदेनाङ्गिपरामर्शस्तदाह मुख्यमिति। स तु प्रकृते रस इत्याह रसमिति। एवं च काव्योपात्तविभावादिभ्यो लब्धात्मानं प्रधा- नभूतं रसमित्यर्थः । सन्तमित्यस्यार्थमाह संभविनमिति । यत्र रसस्य संभवस्तत्र तमुपकुर्वन्ति यत्र तस्यासंभवस्तत्रोक्तिवैचित्रयमात्रपर्यवससिता इत्यर्थः । यथा हारादयोऽपि कामिनीसौन्दर्ये सति तदङ्गा- नामुत्कर्षकाः कुरूपाङ्गेतु दृष्टिवैचित्र्यमात्रहेतव इति भावः। तदेवाह यत्र तु नास्तीति। उक्तिवै- चित्रयेति। उक्तिः काव्यम् । वैचित्रयमत्र शब्दानां सुश्रवत्वम् बन्धकौशलादि च अर्थानां तु ईषन्मनो- हारितेति बोध्यम्। जातुचिदिति विवृणोति क्वचित्तु सन्तमपीत्यादि। सन्तमपि रसं क्रचिन्नोपकु- १ आदिपद्गाहा रचना ॥ २ शब्दद्वारेणेति। रमणीया अप्यर्थास्तुच्छशब्देनाभिधीयमाना न तथा चमत्कारायेति भावः। यथा काश्नाश्वलादि वस्त्रमुत्कण्यैव तत्परिधात्री नायिकामप्युत्कर्षयति नहि रमणीयापि नायिका तुच्छवसना- वगाण्ठिताह्लादाय भवतत्याहुः ॥ ३ अर्थद्वरणोति। रसाद्यभिव्यअ्जकविभावाद्युत्कषाधानद्वारेणेत्यर्थः ! ते हि न साक्षा- द्रसोपयोगिनः अप्रकृतत्वात् अलंकाररौहितातिशयाश्र् आस्वादातिशयं जनयन्ति अनुभूयते हि नि्लंकारात्सालंकारे कश्रिपदतिशय इति भावः। अलंकारा हि विभावायत्कर्षयन्तो बहुधा उद्दीपनाः क्वचिद्नुभावा अपि यथा नायकादि रुतनायिकादिवर्णने इत्याहुरत्युद्द्योतः॥ । ५९

Page 525

४६६. काव्यप्रकाशः सटीकः ।

अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैः इति वदति दिवानिशं बाला ॥३४१॥ इत्यादौ वाचकमुखेन मनोरागस्तीव्रं विषमव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव। र्वन्तीत्यर्थः यथा अतिसुकुमारनायिकाङ्गे ग्रामीणालंकारा इति भावः । अत्रापि 'उक्तिवैचित्र्यमात्रपर्य- वसायिनः' इत्यस्यानुषङ्ग। कचिदित्यनेनोपकारनियमव्यवच्छेदः। अङ्गद्वारेणेत्यनेन रसधर्मत्वं निर- स्तम्। एतावता रसावृत्तित्वं चलस्थितिकत्वं चालंकाराणां दर्शितम्। एवं चालंकारा: रसं विनावतिष्ठन्ते अवश्यं च नोपकुर्वन्ति न वा रसे साक्षात् किंतु अङ्गद्वारणेति गुणेभ्यो विलक्षणा एवेति ध्येयम्। इद- मपि अलंकारस्वरूपकथनमेव। लक्षणं तु रसोपकारकत्वे सति तदवृत्तित्वम् तथात्वे सति रसानियत- स्थितिकत्वम् अनियमेन रसोपकारकत्वं वेति त्रितयमिति फलितम्। गुणमात्रभेदकं तु सत्यन्तभागर- हितं पूर्ववद्वेदितव्यम् अन्यथा व्यर्थविशेषणत्वादिति बोध्यम् । अत्राप्याद्यलक्षणयोः सत्यन्तं पदादि- दोषातिव्याप्तिवारणायोते बोध्यमिति प्रदीपोद््योतयोः स्पष्टम्। कुवलयानन्दचन्द्रिकायां तु अलंकारत्वं च रसादिभिन्नव्यङ्गयभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयितासंबन्धावच्छिन्ा चमत्कृतिजनकता- वच्छेदकता तदवच्छेदकत्वम्। अनुप्रासादिविशिष्टशब्दज्ञानादुपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदया- त्तेषु लक्षणसमन्वयः शब्दार्थयो्ज्ञननिष्ठचमत्कृतिजनकतायां विषयितयावच्छेदकत्वे तद्विशेषणीभूतानु- प्रासोपमादेस्तन्निष्ठावच्छेदकतावच्छेदकत्वात्। रसवदाय्यलंकारसंग्रहाय व्यङ्गयोपमादिवारणाय च भेद- दयगर्भसत्यन्तोपादानमित्युक्तम् ।। तत्र शब्दद्वारेण रसोपकारकत्वमलंकारस्योदाहरति। अपसारयेति। दामोदरगुप्तकृते कुद्टनीमताख्ये काव्ये कस्याश्विद्विरहिण्याः वर्णनरूपं १०२ पद्यमिदम्। हे आलि सखि। अत्र "आलिः सखी" इत्यमरोक्तात् आलिशब्दात् 'शकटी शकटिः' इतिवत् "सर्वतोक्तिन्नर्थादित्येके" इति गणसूत्रेण डीष् "अम्बार्थनयोर्हनस्वः" (७३१०७) इति पाणिनिसूत्रेण ह्स्वः। त्वं घनसारं कर्पूरम् अपसारय दूरीकुरु। हारं मौक्तिकमालां दूर एव कुरु। कमलैः पुष्पैः जलमलभूतैश्र किम् न किमपीत्यर्थः । मृणालैः बिसैः अलमलं न किंचित्साध्यमित्यर्थः । गम्यमानापि क्रिया कारकविभक्तिप्रयोजिकेति करणत्वात्तृतीया। अन्यथा "नमः स्वस्ति०" (२।३१६ ) इति पाणिनिसूत्रेणोपपद्विभक्तिश्र्वतुर्थी स्यात्। अलमलमिति द्विरभिधानमवधारणार्थम्। इति एवंप्रकारेण दिवानिशं संततं बाला तथावि धदडुःखासहिष्णुः वदतीत्यर्थः । "घनसारस्तु कर्पूरे दक्षिणावर्तपारदे" इति हैमः । "बाली बाला त्रुटिस्त्रियोः" इति मेदिनी "बाला तु त्रुटियोषितोः" इति हैमश्र। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ।। अत्र रेफानुप्रासः शब्दमलंकुर्वन् विप्रलम्भशृङ्गारमुपकरोति रेफस्य विप्रलम्भशृङ्गारगतमाधुर्यव्यक्ष कत्वात्। तदेवाह इत्यादाविति। वाचकमुखेनेति । शब्दद्वरणेत्यर्थः अनुप्रासस्य शब्दालंका- रत्वादिति भावः । अस्य 'अलंकारौ रसमुपकुरुतः' इत्यग्रिमेणान्वयः । उक्त च सारबोधिन्याम् "अत्र कोमलया वृत्त्या अनुप्रासेन शब्दानामलंकरणं विधाय विप्रलम्भ उत्कृष्यते" इति॥ अर्थद्वारेण रसोपकारत्वमलंकारस्योदाहरति मनोराग इति। मालतीमाधवप्रकरणे द्वितीयेडड्के माध-

Page 526

अष्टम उल्लास: ।

हिनस्ति प्रत्यङ्ग ज्वर इव गरीयानित इतो न मां त्रातुं तात: प्रभवति न चाम्बा न भवती॥ ३४२ ॥ इत्यादौ वाच्यमुखेनालंकारी रसमुपकुरुतः॥ चित्ते विहद्ठदि ण दुद्वदि सा गुणेसुं सेजासु लोद्दि विसद्टदि हिम्मुहेसुं। वानुरक्तायाः मालत्याः लवङ्गिकां प्रत्युक्तिरियम् । हे सखि (अद्य मम) मनोरागो माधवविषयक- श्रित्तानुराग: (कर्ता) अविरतं निरन्तरं तीव्रं यथा स्यात्तथा विषमिव यद्वा तीव्रं विषमिव हाला हलमिव विसर्पति विविधप्रकारेण सर्वतः संचरति व्याप्रोति वा। (तत उत्कर्ष प्राप्तः) प्रमाथी प्रक- र्षेण मथनशील: क्षोभकारीति यावत्। विधुतः प्रज्वालितः (वातेनोत्तेजितः ) अत एव निर्धमं यथा स्यात्तथा 'निर्धूमः' इति पाठे धुमरहितः पावक इव ज्वलति। (ततोऽप्युत्कर्षकाष्ठां गतः) गरीयान् अतिशयेन गुरुः सांनिपातिकज्वर इव प्रत्यङ्गं प्रत्यवयवं हिनस्ति पीडयतीत्यर्थः। विभिन्नधर्मा मालो- पमात्रालंकारः । 'इत इतः' इति मौग्ध्यादङ्गप्रदर्शनम्। केचित्तु इतः कारणात् इतो दुःसहतरानुरागात् मां त्रातुमित्युत्तरान्वयमाहुः। मां त्रातुं तातः पिता न प्रभवति न शक्रोति नन्दनरूपवरान्तरानुसरणात् राजानुवर्तनाञ्चोति भावः । "तातस्तु जनकः पिता" इत्यमरः। न चाम्बा माता प्रभवति तयापि तदप्रतिषेधादिति भावः। "अम्बा माता" इत्यमरः । न भवती प्रभवति पित्रोः संमते सख्याः प्रति- षेधासंभवादिति भावः। रागो मनस्येव कन्यकात्वेन सरीषु प्रकाशनोपायाज्ञानादिति बोध्यम्। "चित्रा- दिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्" इति शब्दार्णवः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक ७५ पृष्ठे॥ अत्र विषमिवेत्यादिरुपमा सा चार्थमलंकुर्वाणा रसमुत्कर्षयति विषमिवेत्युपमावशेन विसर्पणादेरति शयप्राप्त्या विप्रलम्भोत्कर्षादिति प्रदीपे स्पष्टम्। सारबोधिनीकारा अपि "अत्र मालोपमाया तीव्रवि- षादिधर्म मनोरागे प्रत्याय्य तद्द्वारा त्रिप्रलम्भ उत्कृष्यते" इत्याहुः। तदेतत्सवर्मभिप्रेत्याह इत्यादा- विति। वाच्यमुखेनेति। अर्थद्वारेणेत्यर्थः । उपमाया अर्थालंकारत्वादिति भावः। अलंकाराविति। पूर्वोदाहरणे रेफानुप्रासः अत्र तु मालोपमेत्यर्थः ॥ "रस विनाप्यलंकारसंभवो यथा 'स्वच्छन्दोच्छलदच्छकच्छ०' इत्यादौ (२२ पृष्ठे ) चित्रमेदे" इति प्रदीपे स्पष्टम्। एवमेव सुधासागरेऽपि स्पष्टम् । अत एवाहुर्विवरणकाराः "स्वच्छन्दोच्छलाद त्यादौ चित्रकाव्ये स्फुटरसं विनाप्यलंकारप्रदर्शनादत्र पुनर्नोदाहृतम्" इति। अत एव च सारबो- धिनीकारा अप्याहुः "नीरसे उक्तिवैचित्र्यं 'शीर्णघ्राणाङि्घ्रपाणीन्०' इत्यादौ (४१८ पृष्ठे ) सुप्रसि- द्वमति नोदाहृतम्" इति। एवं च यत्त्वत्र स्वच्छन्दोति प्रदापप्रतीकमुपादायोइचोते उक्तम् "गङ्गा- विषयकरतिभावसत्त्वात् अङ्गिपदेन भावस्याप्युक्तेश्र (४६३ पृष्ठे) चिन्त्यमेतत्" इति तदेव चिन्त्यम् स्वच्छन्देत्यत्र रतिभावसत्त्वेऽपि तदस्फुटत्वस्यावश्यवक्तव्यत्वात् कथमन्यथा स्वच्छन्देत्यस्य चित्रकाव्योदाहरणत्वं संभवेदिति। न चास्फुटस्याप्यलंकारकृतोपकार इति वाच्यम् उपकारस्य निष्फ- लत्वात् काव्यप्रकाशस्यात्रोदाहरणादानप्रयुक्तन्यूनतापत्तेश्र। न च सारबोधिनीकारोक्तं शीर्णघ्राणा- ङ्घीत्युद्ाहरणमिति वाच्यम् तत्रापि सूर्यविषयकरतिभावस्यास्फुटस्य सत्वेन तौल्यादिति सुधीभिवि भावनीयम् ।। सत्यपि रसे तदनुपकारकत्वं शब्दालंकारस्योदाहरति चित्ते इति। राजशेखरकृते कर्पूरमअरीनामक-

Page 527

४६८ काव्यप्रकाशः सटीकः।

बोलम्मि वद्टदि पवददि कव्वबन्धे झाणेण दुद्टदि चिरं तरुणी तरट्टी॥ ३४३॥ इत्यादौ वाचकमेव। मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम्।

सट्टके द्वितीयजवनिकान्तरे "दंसणक्खणादो पहुदि कुरङ्गच्छी" (दर्शनक्षणात्प्रभृति कुरङ्गाक्षी ) इत्यनेन देवीं कर्पूरमञ्जरीमुपक्रम्य सोन्मादमिव राज्ञश्ण्डपालस्योक्तिरियम्। यत्तु "प्रवासिनं नायकं प्रति विरहिण्यवस्थावर्णनमिदम्" इति सुधासागरोक्तम् "दूत्या उक्तिरियम्" इत्युद्योतोक्तं च तत्सर्व तत्तदनवलोकनमूलकमेवेति बोध्यम्। "चित्ते विघटते न त्ुट्यति सा गुणेषु शय्यासु लुठति विस- पति दिङ्मुखेषु। वचने वर्तते प्रवर्तते काव्यबन्धे ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ॥" इति संस्कृतम् । चिरमित्यत्र 'खणम्' इति पाठे 'क्षणम्' इति संस्कृतम्। तरट्टी चलाक्षीतति कश्वित् । 'प्रगल्भायां तरद्वीति देशी' इति महेश्वरभट्टाचार्याः । सा प्रगल्भा प्रतिभान्विता । "प्रगल्भः प्रतिभा- न्विते" इत्यमरः । तरुणी चित्ते विघटते विशेषेण घटिता भवति दृढतरसंबद्धा भवर्तात्यर्थः । चित्तानुरूपं व्यवहरतात्येके। 'चिहुद्वदि' इति पाठेऽपि स एवार्थः। गुणेषु न बु्यति न हीयते। गुणविषये हीना न भवतीत्यर्थः । 'खुद्वदि' इति पाठस्तु चतुर्थचरणस्थस्य 'दुद्वदि' इत्यस्य कथित- पदत्वाप्रसङ्गात्सम्यगेव अर्थस्त्वयमेव। शय्यासु लुठति मुहुर्मुहुः पार्श्वपरिवर्तनं करोति न तु स्वपि्ताति भावः। दिङ्मुखेषु विसर्पति सर्वतः संचरति। वचने वर्तते अविरतं प्रलपति। काव्यबन्धे प्रवर्तते प्रवृत्ता भवति। चिरं चिरकालं ध्यानेन चिन्तया तुट्यति कृशा भवतीत्यर्थः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् ६८ पृष्ठे।। अत्र टवर्गानुप्रासः शब्दालंकारः स च शब्दमात्रमलंकरोति न तु सन्तमपि विप्रलम्भशृङ्गारं रसम् टवर्गस्य शृङ्गगारप्रतिकूलत्वात् । अत एव "मूत्नि वर्गान्त्यगाः स्पर्शाः" इति ७४ कारिकायां 'अटवर्गाः' इति पर्युदासो वक्ष्यते। तदेवाह इत्यादाविति। वाचकमेवेति। शब्दमेवेत्यर्थः । उपकरोतीति शेषः । न तु रसमिति अग्रिमेणान्वयः । व्याख्यातमिदं प्रदीपोद्चोतयोः "अत्र परुषवर्णारब्धेनौजोव्य- अकेनानुप्रासेन शब्दमात्रमलं क्रियेत न तु सन्नपि विप्रलम्भः शृङ्गारः टवर्गस्य तत्प्रतिकूलत्वात् । 'अत्रँ च प्रतिकूलवर्णत्वं न दोषः प्राकृतस्यौजोगुणप्रधानत्वात् अस्य चं तदभिव्यञ्जकत्वात्' इति क्वित्। वस्तुतस्तु सत्यपि प्रतिकूलवर्णत्वे रसस्य नानुत्पत्तिरेव अनुभवविरोधात् कि तुं अपकर्ष- मात्रम्। न चापकृष्टेऽपि विद्यमाने तस्मिन् टवर्गानुप्रासस्योपकारकतेति सारम्" इति। चक्रवर्तिना तु "वाचकमेवेत्यनेन रसव्यवच्छेदः । अत्रौजोव्यञ्जकस्य परुषानुप्रासस्यातिमधुरे विप्रलम्भे नोपकारक- त्वम्" इत्युक्तम् ॥ सत्यपि रसे तदनुपकारकत्वमर्थालंकारस्योदाहरति मित्रे इति। संध्याकालिक चक्रवाकचेष्टावर्णन- मिदम्। मित्रे सूर्ये सुहृदि च। "मित्रं सुहृदि मित्रोडर्कः" इति कोशः। कवापि अज्ञातरूपे देशविशेषे गते १ सट्टकलक्षणं तुक्तं प्राकू (१४३ पृष्ठे टिप्पणे) ॥ २ उद्योतोकनं चेति। एवं "सख्युक्ति्नायकं प्रति" इति कमलाकरभट्टोक्तमपि बोध्यम्। ३ अत्र चोते। प्रतिकलवर्णत्वस्य दोषत्वे हि रसाभावस्तेन 'सन्तमपि रसं नोपकुर्वन्ति' इत्यस्योदाहरणत्वमसंगतं स्यादित्याशयः ॥अत्राश्वरसमाह वस्तुतस्त्विति॥ ५ प्रतिकूलवर्णत्वे इाते। तस्य दोषतवे इत्यर्थः ॥

Page 528

अट्टम उल्लास: ।

चैक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ ३४४॥ इत्यादौ वाच्यमव न तु रसम्। अत्र बिसलता न जीवं रोद्धं क्षमेति प्रकृताननुगुणोपमा॥ सति। एतेन मित्रस्य प्रतिकर्तुरभावः सूचितः। सरोरुहवने कमलवने। सरोरुहेत्यनेनैकदेशवासेन सुहत्त्वं सूचितम। बद्धानने मुद्रिते मौनिनि च ताम्यति ग्लायति शोकात्तप्यमाने च सति। एतेन सहवासिषु प्रतीकारयत्नाभावः सूचितः । भ्रमरेषु भृङ्गेषु भ्रमं रान्तीति व्युत्पत्त्या पान्थेषु च क्रन्दत्सु शब्दायमानेषु रदत्सु च सत्सु । अनेन क्रन्दज्जनान्तरदर्शनेन दुःखातिरेकः सूचितः । पुरः अग्रे दयितया कान्तया (सारस्या) आसन्नं युक्तं सारसं पक्षिविशेषं रसिकं च वीक्ष्य अवलोक्य। वीक्ष्य दयितत्यनेन नायिकासक्तनायकान्तरदर्शनेन विप्रलम्भोद्दपिनम् । 'दयितासक्तम्' इति कचित्सुगमः पाठः। 'दयितासक्तां पुरः सारसीम' इत्यपि क्वचित्पाठः । वियोगिना चक्रवार्काविच्छेदवता संध्या- कालिकचन्द्रोदयेन चक्रवाकमिथुनविच्छेदस्य सुप्रससिद्धत्वादिति बोध्यम्। चक्राह्वेन चक्रवाकपक्षिणा (कत्रा ) बिसलता मृणालवल्ली नास्वादिता न भुक्ता न वा उज्झिता त्यक्ता। किंतु केवलं निर्गच्छतः जिगमिषोः जीवस्य अर्गलेव कण्ठे गले निहिता स्थापितत्यर्थः । निपूर्वाद्दधातेः कर्मणि क्तः। 'वक्त्रे' इति पाठे चञचपुटे तिर्यग्धतेत्यर्थः । अर्गला च निर्गमद्वारि तिर्यगाहितो निर्गमरोधकः (कपाटावष्ट- म्भकः ) स्थूलो मुसलाकारः काष्ठविशषः । अर्गलासादृश्यं च ऋजुत्वगलद्वारपिधानादिना। अत्र चक्रवाकगतविप्रलम्भाभासः तिर्यग्गतत्वेनानौचित्यप्रवृत्तत्वात् । "पुष्कराह्वस्तु सारसः" इत्यमर: "सारसः पक्षिभेदेन्द्वोः कृविं तु सरसीरुहे" इति मेदिनी च। "कोकश्रकश्वक्रवाको रथाङ्गाह्नय- नामकः" इत्यमरः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अत्रार्गलेवेत्युपमार्थालंकारः स चार्थमेवोपकरोति न तु सन्तमपि रसमित्याह इत्यादाविति। वाच्यमेवेति। जीवनिरोधरूपमर्थमेवेत्यर्थः । न तुरसमिति। न तु सन्तमपि विप्रलम्भशृङ्गारं रसमि- त्यर्थ: न तु चक्रवाकगतविप्रलम्भाभासमिति यावत् । तत्र हेतुमाह अत्र बिसलतेत्यादि। अत्र एता- दृशविप्रलम्भावस्थायाम्। जीवं रोद्धुं जीवननिरोधाय। न क्षमा नार्पयितुं योग्या । जीवनिरोधनिमित्तं कण्ठे बिसलतार्पणमनुचितमित्यर्थः । विप्रलम्भोत्कर्षे हि जीवनिर्गमोपाय एवावलम्ब्यते न तु तनिरो- धोपाय इति इयमुपमा प्रकृतं विप्रलम्भं रसमपकर्षयतीति भाव इति विवरणे स्पष्टम् । विप्रलम्भे प्राणा- पगमस्यापि वर्णनीयत्वात् तत्प्रतिबन्धवर्णने तदपकर्षः स्फुट एवेत्यतो नानुगुण्यम् उक्तिवैचित्रयं तु करो- त्येवेति सारबोधिन्यामपि स्पष्टम्।।

प्रदीपोद््योतप्रभासु तु इत्थ व्याख्यातम्। तथाहि। "अन्रोपमार्थालंकारः न चासौ प्रकृतस्य शृङ्गा- रस्योपकारिका विप्रलम्भे हि जीवनिर्गमोऽपि वर्ण्यंते तदुत्कर्षाधायकत्वादिति तन्निरोधहेतूपादानमनुचि- तम् प्रत्युत स्नेहाभावे पर्यवस्यति। तदेतदुक्तम् 'अन्र बिसलता जीवं निरोद्धुमशक्तेति प्रकृताननु- गुणोपमा' इति। अशक्तत्वं चात्रानुचितत्वमिति प्राश्ची व्याचख्युः। वस्तुतरतु तदन्यथा व्याख्येयम्। बिसलता जीवं रोद्दुमशक्तेत्युपमा प्रकृताननुगुणा प्रकृते विषयेऽनुगुणरहिता । उपमाया अनुगुणं यत्सा- दृवश्यं तच्छून्या। तस्मादत्रोपमा नालंकारः कि तूत्प्रेक्षा। न च तस्यामपि तद्दोषतादवस्थ्यम् संभावि- तेनापि सादृश्येन तत्प्रवृत्तेः । न तूपमावद्स्तुसतैव जीवरोधकत्वरूपसादृश्यमपि विषये ह्युत्प्रक्षणयको-

Page 529

४७० क व्यिप्रकाशः सटीकः। एष एव च गुणालंकारप्रविभागः । एवं च "समवायवृत्त्या शौर्यादयः संयोगवृत्त्या तु हारादय इत्यस्तु गुणालंकाराणां भेद: ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थिति रिति गड्डुलिकाप्रवाहेणैवैषां भेदः" इत्यभिधानमसत्॥ टावेवान्तर्भतम्। यथोच्यते रोधकमिव निहितमिति। तर्हि कथमिदं प्रकृतोदाहरणमिति चेत् उत्प्रेक्षातो रसातिशयाप्रतीतेः । प्रत्युत तादृशोत्प्रेक्षाया उपमोक्तन्यायेनापकर्षपर्यवसानादिति" इति प्रदीपः। (शृङ्गारस्य विप्रलम्भस्य । तदाह विप्रलम्भे हीति। जीवनिर्गमः जीव निर्गमोपायानुसरणम्। तन्नि- रोधहेतूपादानमिति । अर्गलासाद्ृश्येन हि तथात्वप्रतीतिरुत्कृष्यते । अत्र विसेति। जीवं निरोद्ुं जीवनिरोधफलकं बिसलता तद्ग्रहणम् अशक्ता अनुचितम् अतः प्रकृताननुगुणा सेत्यक्षरार्थः ।यत्सा- दृश्यं तच्छून्येति। बिसलतायां कविविवक्षितस्य जीवनिर्गमप्रतिबन्धकत्वरूपस्य सादृश्यस्याभावादिति भावः। अत्र पक्षेऽशक्तत्वम् असमर्थत्वम्। लक्षणात्र नेति युक्तत्वम्। एतेन ऋजुत्ववक्रनिधानगलद्वार- पिधायकत्वादिसादृश्यमस्त्येवोति परास्तम्। न च तस्यामपीति। सादृश्याभावेन तस्या अप्यसंभवः तस्या अपि सादृश्यमूलकत्वादिति भाव:) इत्युदयोतः। (अनुगुणं यत्सादृश्यमिति। जीवनिरो- धकत्वरूपमित्यर्थः। तेन ऋजुत्वगलद्वारपिधानादिसादृश्यसंभवेऽपि नासंगतिः। वस्तुसतैवेति। यय्पि नायं नियम: कीर्तौ चन्द्रिकोपमायां श्वेतत्वस्यावास्तवत्वात् तथापि कविसंप्रदायसिद्धत्वमेव वस्तुस- त्वमिहाभिप्रेतं बोध्यम्। जीवनिरोधकत्वं तु बिसलतायां न तथेति नानुपपत्तिः। ननूत्प्रेक्षायामिव- शब्देन संभावनैवोच्यते न तु सादृश्यमपि एवं च शब्दानुपात्तस्य सादृश्यस्य कथं संभावना अर्गलाया एव तु तद्वाचकपदानन्तरोच्चारितेनेवशब्देन संभावनोचितेत्याशङ्कायामाह उत्प्रेक्षणीयकोटावेवेति। अयमाशयः। अर्गलापदमत्र विरोधके लाक्षणिकम् अन्यथा जीवस्यार्गलेवेत्यन्वयायोगात्। तथा च जीवस्य निरोधिकेवेत्यर्थप्रततेः सादृश्यस्य विशेषणतया संभावनान्वयोपपत्तिरिति । तदाह यथोच्यते इत्यादि) इति प्रभा॥ सुधासागरकारा अपि उक्तमेव प्रदीप लिखित्वाहुः "अत एवोक्तं जयरामतर्कपञ्चाननैः 'अर्गलासा- दृश्यं ऋजुत्ववक्रनिधानगलद्वारपिधानादिकं बिसलतायां संभवति। न हि सर्वथा चन्द्रादिसादृश्यं मुखादा- वपि। परं तु जीवनिर्गमनिरोधकार्गलाया अप्रसिद्धया नोपमात्वम् प्रसिद्धस्यैव तत्त्वात्। तत्त्वेन संभावनं तु भवत्येवेत्युत्प्रेक्षैवात्र' इति। अत्र च मित्रबद्धाननेत्यादिशब्दश्लेषाहितः कश्विदतिशयो न प्रकृतोत्क- र्षकः । यद्यपि मित्रस्य प्रतिकर्तुरभावात् सुहृदां च मौनिनां क्रदन्तां च वियोगप्रतीकारासामर्थ्यात्तहर्श- नेन स्वस्य दुःखोत्पादकत्वाच्च नायकनायिकान्तरमिलनदर्शनस्य विप्रलम्भोद्दीपकत्वात्प्रकृतानुकूलता तथापि शर्लेषस्याप्ररूढत्वान्मुख्याया उत्प्रेक्षायाः प्रकृताननुगुणत्वमिति द्रष्टव्यम्" इति॥ उक्तमुपसंहरति एष एवेति। पूर्वोक्त एव । रसाधर्मत्वचलस्थितित्वरूप एवेत्यर्थः। नान्योक्तप्रकार: नापि च विभागाभाव इति भावः । उक्तं च प्रभायाम् "एष एव रसधर्मत्वरसाव्यभिचारित्वतद्भावरूप एव" इति। प्रविभाग: भेदकः । भामहवृत्तौ भट्टोद्भ्टेनोक्तमुत्थाप्य दूषयति एवं चेति। गुणालंका- रयोरुक्तरीत्या भेदसत्त्वे चेत्यर्थः । अस्य 'इत्यभिधानमसत्' इत्यग्रिमेणान्वयः । दूषणीयं ग्रन्थमुप- न्यस्यति 'समवायवृत्त्या शौयादयः' इत्यादिना 'प्रवाहेणैवैषां भेद:' इत्यन्तेन। अस्त्विति। कामचारे लोटू। गुणालंकाराणामिति। लौकिकानामित्यादिः। ओज:प्रभृतीनामिति। अलौ- किकानामित्यादिः। यद्पि काव्यप्रकाशे (४६३ पृष्ठे ४७२ पृष्ठे च) माधुर्यस्य प्रथमोपात्तत्वात् माधुर्य-

Page 530

अट्टम उल्लास: । ४७१ यदप्युक्तम् "काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः" इति तदपि न युक्तम्। यतः किं समस्तैर्गुणैः काव्यव्यवहार: उत कतिपयैः। यदि समस्तैः तत्कथमसमस्तगुणा गौडी पाश्चाली च रीतिः काव्यस्यात्मा। प्रभृतीनामिति वक्तुमुचितम तथापि अस्य ग्रन्थस्य मतान्तरत्वान्न दोषः । समवायवृत्त्येति । समवायवृत्तिरत्र अयुंतसिद्ध्यात्मकः तत्सत्तानियतसत्ताकत्वरूपो वा कश्रन संबन्धविशेषः न पुन- वैशोषककल्पितः समवाय इति बोध्यम्। तदुक्तमुद्योते "समवायपदं नित्यसंबन्धोपलक्षणम् तेन सामान्यादिगतसादृश्यसंग्रहः" इति। स्थितिरितीति । इति शब्दोऽत्र हेतौ इति हेतोरित्यर्थः । गड्डुलिकाप्रवाहेणैवेति। गद्डलिकाप्रवाहन्यायेनैवेत्यर्थः । गड्डरिकेति गडुलिकेति गड्डरिकेति च कचित्कचित्पाठः। भेद इति। तथा च दृष्टान्तीकृतानां गुणालंकाराणां वृत्तिभेदेन भेदमभ्युपगच्छामः दार्ध्टान्तिकानां तु प्रभेदो गतानुगतिकतामात्रप्रयुक्त इति भावः। इत्यभिधानमिति । एवंप्रकारण कथनमित्यर्थः । असदिति। असम्यगित्यर्थः ॥ अयं प्रघट्टाशयः। तदेवं गुणालंकारयोर्भेदे व्यवस्थिते यद्भद्वोद्भटादिभिरुक्तंलौकिका: गुणा- लंकारा: शौर्यादिहारादयः समवेतत्वसंयुक्तत्वसंबन्धेन तिष्ठन्तीति तेषां भेदोऽस्तु। काव्ये पुनर लौकिकानां गुणालंकाराणां माधुर्याद्यनुप्रासोपमादीनामेकेनैव समवायसंबन्धेनावस्थितिरिति भेदोऽ- नुपपन्नः । तस्मात्तयोः (अलौकिकयोर्गुणालंकारयोः) भेदाभिधानं गड्डुलिकाप्रवाहन्यायेन । तथाहि। गड्डुलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छति इतरास्तु विनैव निमित्तविचारं तामनुगच्छन्ति अग्रिमाया: कूपादिपाते सति इतरा अपि कूपादौ पतन्ति च तथा केनापि प्राक्तनेनालंकारिकेण गुणालंकारौ कयाचिद्धान्त्या भिन्नत्वेनोक्तौ इतरे आधुनिकास्तु विनैव हेतुविचारं तदनुसारेण तन्भेद वदन्तीति तदसम्यग्वेदितव्यमिति माणिक्यचन्द्रकृतसंकेते प्रदीपोद््योतयोश्र स्पष्टम् ॥ सारबोधिन्यां तु प्रकारान्तरेण व्याख्यातम् । तथाहि। "आचार्यान्तरोक्तं गुणालंकारयार्भेद- काभिधानं दूषयितुमुपन्यस्यति एवं चेति। तदुक्तरीत्या भेदे व्यवस्थिते यत्तैरुक्तं समवायसंयोगाभ्यां गुणालंकारयोर्भेद इति लौकिकी स्थितिस्तद्वदत्रापि समवायसंयोगकृत एव भेदो भविष्यति गुणा- लंकारयोरिति। तद्दषयति ओज:प्रभृतीनामिति। काव्ये गुणालंकाराणां शब्दार्थाभ्यां पृथक्सिद्धि- राहित्येन संयोगाभावादपृथक्सिद्धत्वेन समवाये सिद्धे दृष्टान्तस्य वैषम्येण न तथात्वमित्यर्थः । इति हतार्हेतुशून्यवचसां भेदाभिधानं तदसदित्यन्वयः । गड्डरिकाप्रवाह इति। भेदकं विना भेदवादादि- दमित्थमिति हेतुशून्यं वचो गड्डरिका तस्य गुरुगौरवेणानुमोदनं प्रवाहः । यद्वा गड्डरिका मेषी अविच्छेदेन तदनुगमनं प्रवाहः" इति॥ इदानीं वामनोदीरितं भेदलक्षणं दूषयितुमुपन्यस्यति यदप्युक्तमिति। 'वामनेन' इति शेषः । काव्यशोभायाः काव्यव्यवहारनिदानस्योत्कर्षस्य । कर्तारः हेतवः । तदतिशयेति । तस्या गुणकृत- शोभाया अतिशय आधिक्यं तस्य हेतव इत्यर्थः। अलंकारा इत्यस्यानन्तरं 'इति तयोर्भेदः' इत्यध्याहारः। इतीति। उक्तमिति पूर्वेणान्वयः। तद्दूषयति तदपि न युक्तमिति। यतः काव्यशोभाहेतवो गुणा इत्युक्तम् तत्र किं समस्तैगुणैः काव्ये शोभोत्पत्तिः उत येन केनापीति विकल्पयति यतः किि- १.अपृथकृस्थित्यात्मकः ॥ २ गड्डरिकाप्रवाहन यायस्वरूपमनुपद्मेवोक्तम् ॥

Page 531

काव्यप्रकाशः सटीक:। Wer अथ कतिपयैः ततः अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः॥३४५॥ इत्यादावोज:प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः । स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी। अस्या रदच्छदरसो न्यक्करोतितरां सुधाम्॥३४६॥ इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ

त्यादि। आद्येव्याप्तिरित्याह समस्तैरित्यादि। तत्कथमिति । कथं काव्यस्यात्मेत्यन्वयः। कर्थ काव्यस्यात्मेति। अयमाशयः । वामनेन हि रीतिरात्मा काव्यस्य सा च पदसंघटनात्मिका त्रिविधा वैदर्भी गौडी पाश्चाली च सर्वगुणव्यञ्ञकवर्णवती वैदर्भी प्रसादौजोव्यञ्जकवर्णवती गौडी माधुर्यप्रसाद- वदक्षरयुता पाश्चाली रीतिधर्मा: गुणाः शब्दार्थोभयरूपं काव्यं शोभयन्ति शब्दार्थाश्रया अलंकारा- स्तच्छोभाया अतिशयं कुर्वन्तीत्युक्तम्। तत्र वैदर्भ्यी माधुर्यस्य प्रसादस्य च सत्त्वेन संभोगशृङ्गारादौ लेशत ओज:सत्वेऽपि क्षत्यभावेन सैव काव्यस्यात्मा स्यात् न तु गौडी पाश्चाली च तत्र माधुर्याय- भावेन समस्तगुणाभावाच्छोभाया अनुत्पत्तेः शोभाहीने च काव्यत्वस्यैवाभावादितीत्युद्योते स्पष्टम् । वामनमते गुणाः न रसधर्माः नापि च त्रय एव किं तु दश इत्यनुपदं स्फुटभिविष्यति॥

एवमाद्येव्याप्तिमुक्त्वान्त्येSतिव्याप्तिरित्याह अथ कतिपयैरित्यादि । अथशब्दोऽत्र प्रश्नार्थक: "मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ" इत्यमरात् । कतिपयैः असमस्तैः येन केनापीति यावत्। तत इति । अस्य 'काव्यव्यवहारप्राप्तिः' इत्यत्रान्वयः । प्राज्यः प्रचरः बहुल इति यावत्। "प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु" इत्यमरः ।

ओज:प्रभृतिषु वामनोक्तौज:प्रसादार्थव्यक्तिषु । एषां स्वरूपं वक्ष्यते। काव्यव्यवहार- प्राप्तिरिति। काव्यव्यवहारप्रसङ्ग इत्यर्थः। न हि मन्मत इव वामनमतेऽपि तव्यवहारेSलंकारापेक्षा वामनेन गुणमात्रेणैव काव्यव्यवहारस्वीकारादिति भाव इति प्रदीपे स्पष्टम । "काव्यव्यवहारप्राप्ति- रिति । काव्यव्यवहारः स्यादित्यतिव्याप्तिरित्यर्थः। न चेष्टापत्तिः उपकार्यस्य रसस्याभावात्। काव्यव्यवहारस्तु दुष्टो हेतुरितिवद्गौणः" इति कमलाकरभट्टा अप्याहुः॥

एवं गुणलक्षणं दूषयित्वालंकारलक्षणं दूषयति स्वर्गप्राप्तिरित्यादि। वरः श्रेष्ठश्वासौ वर्णश् वरवर्ण: स्वर्णवर्णः सोऽस्त्यस्या इति वरवर्णिनी उत्तमाङ्गना। "वरागेहा मत्तकाशिन्युत्तमा वर- वर्णिनी" इत्यमरः । यद्वा "शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या सुखशीतला। भर्तृभक्ता च या नारी विज्ञेया वरवर्णिनी ॥" इति रुद्रकोशोक्ताङ्गना सैव (पुंसः) अनेन मानुषदेहेनैव न तु दिव्यदेहेन स्वर्गप्राप्तिः स्वर्गसुखलाभ इत्यर्थः । तदेव व्यतिरेकेणोपपादयति अस्या इति। अस्या वरवर्णिन्या: रदच्छदस्याधरस्य रसः सुधाम् अमृतं न्यक्वरोतितराम् अतिशयेन तिरस्करोतीत्यर्थः ॥

इत्यादाविति। इत्यत्रेत्यर्थः। विशेषोक्तिव्यतिरेकाविति । पूर्वार्धे विशेषोक्तिरलंकारः उत्त- रार्धे व्यतिरेकोऽलंकार इत्यर्थः । 'एकगुणहानिकल्पनया शेषगुणदार्ढ्यकल्पना विशेषोक्तिः इति 'उप- मेयस्य गुणातिरेकत्वं व्यतिरेकः' इति च वामनेनैवोक्तत्वादिति भावः । प्रकृते च दिव्यदेहरूपैकगुणहा- निकल्पनया सुखदायकत्वादिरूपशेषगुणदार्यकल्पनायाः सत्वाद्विशेषोक्तिः अधररसस्योपमेयस्य

Page 532

अष्टम उल्लासः। ४७३

इद़ानीं गुणानां भेदमाह शगण, क एणिक ip (सू० ८९) माधुर्यौज:प्रसादाख्यास्त्रयस्ते न पुनर्दश।(० og.) सुधारसापेक्षयाधिक्योक्तेर्व्यतिरेक इति बोध्यम्। गुणनिरपेक्षावित्यादि। एतौ च गुणमनपेक्ष्यैव काव्यव्यवहारहेतुशोभाजनकावित्यर्थः। एवं चात्र माधुर्यव्यञ्जकवर्णाभावेन ओजसश्र प्रकृतविरुद्धत्वेन गुणाहित शोभाया अभावे गुणाहितशाभातिशयकारित्वरूपालंकारलक्षणस्य निरुक्तालंकारद्वयेऽव्याप्ति- रिति भावः। एवमन्यत्राप्यूह्यम्। नन्वत्रापि प्रसादादेर्वर्तमानत्वात्कथं गुणानपेक्षत्वमलंकारयोः किंच निर्गुणत्वे कथं त्वन्नयेऽपि काव्यव्यवहारः सगुणत्वविशेषणाभावादिति चेत् अस्त्येवात्र गुणस्तथा ज्ञानं च परं तु किंचिदुणवत्त्वस्य शोभाहेतुत्वे 'अद्रावत्र प्रज्वलत्यग्निः' इत्यादावति प्रसङ्गात्समस्तगुणवत्त्वं तथा वक्तव्यम्। न चात्र तत्सामग्रचम्। तथा च गुणजन्यां शोभामनपेक्ष्यैवालंकाराभ्यां शोभासंपत्तिरिति तात्पर्यमिति प्रदिः । तात्पर्यमिति। वस्तुतोऽत्र शृङ्गारे माधुर्यमेव शोभाधायकं न विद्यमानमप्योज इति ओजोनुविद्धत्वात्प्रसादोऽपि न तच्छोभाहेतुः। एवं च काव्यव्यवहारनिमित्तगुणजन्यशोभाभावा- त्स्ये काव्यत्वमेव न स्यादिति भावः। न चेष्टापत्तिः नायकयोरनुरागातिशयस्य रदच्छदरसास्वादाति- शयस्य च काव्योपात्ततया रसानुभवस्य सर्वसिद्धत्वादित्युझ्योतः॥ व्याख्यातमिदं सारबोधिन्यामपि "स्वर्गप्राप्तिरिति। अनेन मानुषदेहेन न तु दिव्यदेहेन। एतद्देहः स्वर्गप्राप्त्यभावे कारणम् तस्मिन् सति तदभावाद्विशेषोक्तिः व्यतिरेकश्र स्पष्ट एव । गुणनिरपेक्षा- विति। तथा चात्रालंकारलक्षणाव्याप्तिः स्यात् यतोऽत्र प्रसादादेरभावाद्गुणाहितशोभाया अभावात्तदति- शयाभावः 'गुणाहितशोभाया अतिशयकर्तारो धर्मा अलंकाराः' इति त्वन्मते तल्लक्षणात्। ननु प्रसा- दाभावेऽप्यन्यगुणसत्त्वान्नैवमिति चेन्न। गुणसाकल्यस्य विवक्षितत्वात्। वामनमते वैदर्भ्या रीतेरेव काव्यत्वात्। अत्र च काव्यव्यवहारः सकलसहृदयसंवेद् एव। किंच तत्सत्वेऽप्यलंकारौ तं नापेक्षेते तन्नैरपेक्ष्येणैवालंकारतश्रमत्कारादिति" इति॥ उक्तं च विवरणकारैरपि "अत्र हि काव्यव्यवहारनिदानशोभाजनका न केऽपि गुणाः सन्ति। येऽपि च वामनमतसिद्धाः प्रसादादयः सन्ति ते हि रौद्रादिरसव्यञ्जकाः नास्मिन् शृङ्गारप्रधाने श्लोके काव्यव्यवहारप्रवर्तनाय प्रभवन्तीति एतावेव (विशेषोक्तिव्यतिरेकावेव) अलंकारौ काव्यव्यवहारं प्रव- र्तयत इत्यवश्यं भवता (वामनेन) अङ्गीकार्यम्। एवं चास्मिन् अलंकारद्वये गुणलक्षगातिव्याप्तिरव्या- शिश्रवालंकारलक्षणस्य आभ्यां गुगकृतशोभाया अनतिशयादिति। ग्रन्थकृता यत् काव्यस्वरूपनिरुक्तौ 'सगुणौ' इति विशेषणं दत्तम् तत् न वामनायुक्तगुणयोगाभिप्रायम् अपि तु स्वोक्तरसधर्मगुण- योगाभिप्रायमिति रससत्त्वे तदक्षतमिति न दोषः" इति॥ इदानीं गुणानामलंकारमेदे सिद्धे वामनोक्तदशवविधत्वव्युदासाय गुणभेदमाह माधुर्येत्यादि। चक्र वर्तिनस्तु "गुणानां सामान्यलक्षणानन्तरं विशेषलक्षणे निर्वक्तव्ये तत्सौकर्यायोद्देशमाह माधुर्येत्यादि" इत्याहुः। ते गुगा माधुर्योजःप्रसादाख्याः त्रय एवेत्यर्थः । आख्यापदं परमतेन सह संज्ञामात्रेणाभे- दसूचकम्। संज्ञायामभेदेऽपि संज्ञिषु परं भेद एवरेत्यर्थः। त्रय इत्यनेनाधिकसंख्याव्यवच्छेदः। व्यवच्छे- १ सगुणत्वोति। काव्यलक्षणे त्वदुक्तस्य सगुणत्वरूपविशेषणस्याभावादसंभवादित्यर्थः॥ २ तस्य स्वर्गप्राप्तिरिति पद्यस्य।। ३ सर्वेति। सर्वसहृदयेत्यर्थः ॥। ।। : म TSe' 1 T iRFOR Ay Tmfimie ६०

Page 533

४७४ काव्यप्रकाशः सटीकः।

एषां क्रमेण लक्षणमाह (सू० ९०) आह्लदकत्वं माधुर्यं शृङ्गनरे द्रुतिकारणम्॥ ६८॥ ) शृङ्गारे अर्थात् संभोगे। द्रुतिर्गलितत्वमिव। श्रव्यत्वं पुनरोजःप्रसादयोरपि॥

द्यमेवाह न पुनर्दशेति। "श्लेषः प्रसादः समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोज:का- न्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणा मताः।" इति वामनोक्ता दश शब्दगुणा अर्थगुणाश्र नेत्यर्थः । यतः सामाजिकानां नवरसजन्यास्तिस्रोऽवस्थाः। द्रुतिर्विस्तारो विकासश्र्वेति। तत्र शृङ्गारकरुणशान्तेम्यो द्रुतिश्रिवित्तस्य वीररौद्रबीभत्सेम्यो विस्तारस्तस्य हास्याद्भुतभयानकेभ्यो विकास इति। विकासश्र हास्ये वदनस्य अद्भुते नयनस्य भयानके द्रुतापसरणरूपो गमनस्य। स च क्वचिद्द्रुत्या क्रचिद्विस्तारेण च युक्तः विभाववैचित्रयात्। प्रसादस्तु सर्वेषामाधिक्यकारीत्यवस्था- त्रयरूपकार्यवैचित्यनियामकतया कारणत्रयमेव कल्प्यते कारणवैचित्रयेण त्रयाणामेव स्फुटमुपलम्भात्। अवान्तरगुणानामङ्गाङ्गिभाववैचि=रयेणानन्त्यादस्फुटत्वच्चेति भाव इत्युइ्योते स्पष्टम् ।।

एषामिति। माधुर्यौजःप्रसादाख्यानां गुगानामित्यर्थः । क्रमेणेति। विभागक्रमेणेत्यर्थः । तत्र माधु- र्यस्य लक्षणमाह आह्लादकत्वमिति। आह्लादनमाह्नादः भावे घञ्र। ततः स्वार्थे कप्रत्ययः आनन्दस्व- रूपत्वमित्यर्थः । तथा च द्रुतिकारणमाह्लादकत्वं माधुर्यम् तच्च शृङ्गारे इत्यन्यः । ननु अह्लादय- तीत्याह्लादक इति विग्रहः। तथा चाह्नादकत्वमानन्दहेतुत्वम् आनन्द्जनकत्वम् इत्यर्थोऽस्त्विति चेनन। तथा सति 'शृङ्गरे' इत्यसंगतं स्यात् शृङ्गारस्याह्नादस्व्रूपत्वेनाह्लादहेतुत्वाभावात्। आह्लादस्वरूपत्व- मात्रे उक्ते सर्वेषु रसेषु अतिव्याप्तिः सर्वेषामेव रसानामाह्लादस्वरूपत्वादत उक्तम् द्रुतिकारणमिति। द्रुतिश्र्वेतसो गलितत्वमिव द्वेषादिजन्यकाठिन्याभावः। तथा च यद्वशेन श्रोतुर्निर्मनस्कतेव संपद्यते तत् आह्लादकत्वस्वरूपं माधुर्यमित्यर्थः । यदुक्तम् "गलितत्वमिवाह्लदपदव्या हृदये ददत्। माधुर्य नाम शृङ्गारे प्ररोहं गाहते गुगः ॥" इति । क्वासावित्यत आह शृङ्गरे इति॥

तदेतत्सर्वमभिप्रेत्य सूत्रं व्याचष्टे शृङ्गारे इति। शृङ्गारपदमत्र संभोगपरमित्याह अर्थात्संभोगे इति। विप्रलम्भेतिशयस्य (९१ सूत्रेण) वक्ष्यमाणत्वादिति भावः । द्रुतिरिति। चेतस इति शेषः । गलितत्व- मित्रेति। मुख्यद्रवत्वासंभवादिवेत्युक्त। शौर्यकोधाद्याहित दीपतत्वविस्मयहासा द्याहित विक्षेपपरित्यागेन चित्तस्यार्द्रताख्यो नेत्राम्बुपुलकादिसाक्षिको वृत्तिविशेष इत्यर्थः। तत्कारणं च सुखविशेषवृत्तिरूपाह्लाद- गतवैजात्यम् । तदेव माधुर्यमिति भावः। विभावादिचर्वणाजन्यवृत्त्यानन्दांशे भग्नावरणक स्वप्रकाश- सुखस्यैव रसत्वात्। करुणविप्रलम्भशान्तेषु विजातीया विजातीया द्रुतिः। तःकारणाह्लादोऽपि विजातीय एव। तेषां सर्वेषां च माधुर्यत्वेन व्यवहार इति तत्त्वम्। व्याख्यातमिद्मन्येरपि "द्रुतिर्गलित त्वमिवोति। सामाजिकानुभवसिद्धः सुकुमारश्िवत्तस्यावस्थाविशेषो द्रुतिः स च मधुररसास्व्रादा देव (मनःकाठिन्याद्य-

१ 'नवरसीजन्याः' इति पठनीयम्। अथवा नव नवसंख्याका: अवयवाः यस्य स नवावयवः स चासौ रसश्य नवरस इति कर्मवारयोन तु द्विगुः । एवमेव व्याख्यतमेतत्सर्व प्राक् ३४ पृष्ठे। अत एव 'त्रिलोकनाथेन रुद मखद्विषः' इति (३ सर्गे r५ श्लोके) रघुकाव्यप्रयोगः 'त्रिलोकरक्षी महिमा हि वज्जिणः' इति (५ अङ्के ५ '्लोके) विक्रमोर्वशीयप्रयोगश्व। यद्वा पश्चपात्रं त्रिभुवनमित्यादिवत् पात्राद्यन्तत्वं कल्प्यम्। पात्राद्यन्तगण आकृतिगण इति तत्त्वबोधिन्यां स्पष्टम् ॥ २ 'आस्वाद्पदव्या' इत्यपि पाठः ॥

Page 534

अष्टम उल्लास:। ४७५

(सू० ९१) करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्। अत्यन्त द्रुतिहेतुत्वात्। (सू० ९२) दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ ६९ ॥ पगमे) जायते न तु माधुर्यमेव स इति" इति। भामहैस्तु श्रव्यत्वं माधुर्यस्य लक्षणमाह स्म तद्युक्तम् ओज:प्रसादयोरपि तत्सत्त्वेनातिव्याप्तेः शब्दनिष्ठत्वाच्चेत्याह श्रव्यत्वमित्यादि। श्रव्यत्वं श्रवणानुद्दे- जकत्वम्। ओजःप्रसादयोरपीति । तत्रौजसि क्रोधादिकृतं दीप्तत्वमेवावगम्यते न माधुर्यम् प्रसादे नियतवर्णाभावान्न माधुर्याभिव्यक्तिरिति भाव इति प्रदीपोद््योतादिषु स्पष्टम् । "श्रव्यत्वमिति। तेन 'श्रव्यं नातिसमस्तार्थशब्दं मधुरमिष्यते' इति यत् भामहलक्षणं तदुपेक्षितम्" इति सारबोधिन्यामुक्तम्। श्रव्यं नातिसमस्तात्मशब्दं मधुरमिष्यते' इति शब्दवृति माधुर्य दूषयति श्रव्यत्वं पुनरिति। तच्च श्रव- णानुकूलत्वम्। ओजसि यथा 'यो यैः शस्त्रम्' इत्यादि। अत्र हि क्रोधकृतं दीप्तत्वमेवानुभूयते न माधुर्यम् प्रसादे यथा 'परिम्लानं पीनस्तनजघनसंगात्' इत्यादि। अत्र हि माधुर्यनियतवर्णाभावेन न तदभिव्य- क्तिः ततो न शब्दाश्रयं माधुर्यमिति भावः इति चक्रवर्तिनः ॥ "न केवलं संभोगे एव माधुर्य किंतु करुणादावपीत्याह करुणे इति। अतिशयान्वितमिति। क्रमा- दिति शेष: । तथा च तत् माधुर्य संभोगात्करुणे तस्मादपि विप्रलम्भे ततोऽपि शान्तेऽतिशयान्वितम- तिशयितमित्यर्थः । अतिशयान्वितत्वे हेतुमाह अत्यन्तद्रुतिहेतुत्वादिति । हास्यादेरप्यपगमेनातिद्रु- तिहेतुत्वादित्यर्थः । इयांस्तु विशेषः । संभोगविप्रलम्भयोस्तन्निःसपत्नम् शान्ते तु जगुप्साद्यन्वयादो- जोलेशानुविद्धमिति" इति प्रदीपे स्पष्टम्। (संभोगात्करुणे इति। करुणसंचारिणो निर्वेदस्य विषये- ष्वलंप्रत्ययहेतुत्वात् प्रतिबन्धकविषयरागोच्छेदकत्वादतिद्रुतिः तत्स्थायिशोकापेक्षया विप्रलम्भस्थायिरतेः कोमलतया करुणे प्रियनाशेन संगमाशानिवृत्तौ चित्तविक्षेपस्य निर्वेदविरोधिनः संभवेन विप्रलम्भे संगमाशासत्वेन प्रियालाभाद्विषयान्तररागस्य सर्वथोच्छेदेन निर्वेददार्ढ्यात तदपेक्षया विप्रलम्भेधिका द्रुतिः शान्ते च निर्वेदस्य स्थायितया सर्वात्मना विषयनिवृत्तौ निर्भमात्मसुखालम्बनमित्यतिशयिता द्रुतिरिति भावः । अतिशयो यथोत्तरं तारतम्यम् कोमलकोमलतरकोमलतमभेदेन द्रुतौ तारतम्यात्। संभोगे तु विषयरागौत्कट्येन निर्वेदासत्वान्न तथा द्रुतिः । अत एवात्र नाश्रुपातलेशोऽपि। न च तर्हि 'मानिन्याश्वरणानतिव्यतिकरे' (९७ पृष्ठे) इति कथम् प्रसादेन मानभङ्गमात्रम संभोगप्रवृत्तिस्तु तदु- त्तरमेवेति न दोष: ) इत्युद्योते स्पष्टम्। ( निःसपत्नमिति। स्वकार्यद्रुतिविरोधिदीप्तिज़नकतया प्रतिपक्षभूतं यदोजस्तद्रहितमित्यर्थः । जुगुप्सेति। तस्या बीभत्सस्थायित्वाद्वीभत्से चौजसो वक्ष्यमा णत्वात्तलेशसंकीर्णमित्यर्थः । एवं बीभत्से माधुर्यलेशसंकीर्णत्वमोजसः सहृदयानुभवसि्द्ं ज्ञेयम्) इति प्रभायां स्पष्टम्।। ओजो लक्षयति दीप्त्यात्मेति। आत्मात्र चित्तम्। "आत्मा कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते धतौ च बुद्धौ च परव्यावर्तनेऽपि च" इति धरणिः। तथा च दीप्तिः दीप्तिरूपा ( ज्वलद्रूपा ) १ 'भामहः' इत्येव पाठः प्राचीनटीकासु। प्रदीपमात्रे तु 'भास्करः' इतीति बोध्यम् ॥ २ भामहोक्तं लक्षण- मित्यर्थः ३ यो यः शस्त्रमिति। प्राक् ३1५ पृष्ठे २३ पङ्चौ प्रदर्शितं पद्यमिदम ॥ ४ परिम्लानमिति। इदं पद्यमग्े ३४९ उदाहरणरूपेण स्फुटीभविष्यति॥।

Page 535

४७६ काव्यप्रकाशः सटीकः।

चित्तस्य विस्ताररूपदीप्तत्वजनकमोज: ॥ पिकिक़ ( 12.oस) (सू० ९३) बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च। ாமி்ார்ும் वीराद्गभित्से तेतो रौद्रे सातिशयमोज:॥ (सू० ९४) शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव य: ॥७०॥ या आत्मनश्वचिवित्तस्य विस्तृतिर्विस्तारस्तस्याः हेतुः ओज इत्यर्थः । केदमित्यत आह वीररसस्थितीति वीरे रसे स्थितिरवस्थानं यस्येत्यर्थः । व्याख्यातमिदं प्रदीपोद्द्योतयोः । "दीप्तिस्वरूपा या मनसो विस्तृ- तिर्ज्वलितत्वमिव। तथा च यद्वशाज्वलितमिव मनो जायते तद्षोज इत्यर्थः" इति प्रदपिः । (विस्तृतिः द्रुतिविरोधिनी काचन वृत्तिश्वित्तस्य) इत्युद्योतः। चक्रवर्तिनस्तु "दीप्तिर्वेषविषयासंगेन द्ुतिवि राधी कश्रन धर्मः सैव विस्तृतिः स्त्निग्धस्यापि सामाजिकचित्तस्य द्वेष्यात्मविषयविशेषसंपर्केणोष्णता। यथा सूर्यकान्तस्य सूर्यरश्मिसंबन्धेन" इति व्याचख्यु:॥ अस्यौजोगुणस्याधिकरणान्तरमाह बीभत्सेति। तस्येति । ओजस इत्यर्थः । क्रमेण चेति। 'क्रमेण तु' इति क्वचित्पाठः । सूत्रं व्याकरोति वीरादित्यादि। वीराद्वीभत्से ततोऽपि रौद्रे चित्तदीप्तेः। कार्यायाः सातिशयतया कारणमोज: क्रमेणोत्कर्षवदित्यर्थः । स्त्निग्धस्यापि सामाजिकचित्तस्य द्वेष्यविषयसंपर्केण दीप्तत्वमुष्णता जायते। तत्र वीरस्य द्वेष्यनिग्रहे जिगीषामात्रम्। बीभत्से तु जगुप्सितविषयेऽत्यन्तं त्यागे- च्छा। रौद्रे त्वपकारिण वधावधिक: प्रयास इति क्रमेण दीप्त्याधिक्यं बोध्यमिति प्रदीपोद््योतयोः स्पष्टम्। व्याख्यातं च चक्रवर्तिभिः "बभित्सेत्यादि। तितिक्षाजिघांसाजनकत्वात्। वीरे तु जिगीषैव वैरिवशीकरणमात्रस्योद्देश्यत्वात्। बीभत्से जुगुप्सिते विषये ममतानास्पदत्वेन तितिक्षा न तु जिघांसा। रौद्रे त्वपकारिणि वधावधिकः प्रयास इति जिघांसैव न तु जिगीषा न वा तितिक्षेति क्रमशो दीप्तिराधिक्यम्। अयमेव रौद्रवीररसयोर्भेदोऽवसेयः। एतदेव विवृतं 'वीराद्वीभत्से ततोऽपि रौद्रे' इति" इति। सातिशयमोज इति। तदेतद्वीररौद्रयोर्निष्प्रतिपक्षम। बीभत्से तु माधुर्यलवानुविद्धमति विशेषः। एवं च पारिशेष्यात् उक्तेतरेषु हास्यभयानकाद्भुतेषु उभयोरेव माधुर्यौजसोः स्थितिरिति फलितम्। तत्र हास्यादीनां शङ्गाराङ्गविभावादिप्रभवत्वे माधुर्य प्रधानम् वीरादङ्गविभावादिप्रभवत्वे तु ओज प्रधानम्। हास्ये सर्वदैव प्रकृष्टं माधुर्य स्वल्पमोजः भयानकेद्ुते च ओज; प्रधानं स्वल्पं माधु- र्यमिति तु केचित्।। प्रसादं लक्षयि शुष्केति। शुष्केन्धनाग्निवत् अभगनिर्यथा शुष्कम् इन्धनं काष्ठं सहसैव झटित्येव व्याम्रोति प्रसरति आर्द्रेन्धनेऽग्रेरप्रसरात स्वच्छजलवत् जलं यथा स्वच्छं पटं सहसैव व्यामोति मलि- नपटे जलस्याप्रसरात् तद्दत् यः गुणः अन्यत् व्याप्यं चित्तं (कर्म) सहसैव व्यामोति असौ सः प्रसाद: प्रसादाख्यः स्वच्छतारूपो (विकासरूपः ) गुण इत्यर्थः । यदा वीररौद्रादिषु चित्तं व्याप्रोति तदा शुष्केन्धनाग्निवदिति यदा शृङ्गारकरुणादिषु तदा स्वच्छजलवदिति इति बोध्यम्। येन गुणेन रसाः सहसैव चित्तं व्याप्नुवन्ति स प्रसाद इति फलितोऽर्थः। 'येन गुणेन रसश्र्वित्तं व्यामोति' इति वाच्ये करणभूतस्यापि गुणस्य 'यः' इति कर्तृत्वेन निर्देशः स्वातन्त्र्यविवक्षयेति बोध्यम्। केचित्तु 'व्यामोति यः' इति कर्तृतया निर्देशोऽन्यवैलक्षण्येन करणत्वावगतये इत्याहुः । एवं च माधुर्यादीनां १ तत इति। 'ततोड़पि' इत्यपि क्वचित्पाठः २ विवृतमिति। 'वृत्तिकारैः' इति शेष:॥76 mp

Page 536

अष्टम उल्लास: । ४७७

(सू० ९५ ) व्यापनोत्यन्यत् प्रसादोऽसी सर्वत्र विहितास्थितिः।TTO अन्यदिति। व्याप्यमिह चित्तम्। सर्वत्रेति। सर्वेषु रसेषु सर्वासु रचनासु च।। गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ ७१॥ त्रयाणां क्रमेण द्रुतिदीप्तिविकासाख्यास्तिस्त्रश्िवित्तवृत्तयः कार्या इति कथितम्। अस्य प्रसादस्याधिकरणं किमित्याकाङ्कायामाह सर्वत्रेत्यादि। सर्वेषु रसेषु सर्वासु रचनासु च विहितस्थितिः कृतस्थितिरित्यर्थः॥ सूत्रस्थमन्यदिति पदं व्याचष्टे अन्यदितीति। व्याप्यं व्यापनीयम्। व्याप्तेर्विषयसाकाद्कत्वात् विष- यान्तरस्य बाधाच्चित्तमेव तथेत्याह इह चित्तमिति। सूत्रे सर्वत्रेति पदं तन्त्रेण रसरचनोभयपरमित्याह सर्वत्रेत्यादि। अयं च प्रसादाख्यो गुणः सर्वेषु शृङ्गारादिरूपेषु रसेषु आधाराधेयत्वसंबन्धेन सर्वासु पद्संघटनारूपासु रचनासु व्यङ्ग्यव्यञ्जकत्वसंबन्धेन स्थित इत्यर्थः। एतेन गुणानां रसमात्रधर्मत्वात् 'सर्वासु रचनासु च' इति वृत्तिग्रन्थोऽसंगत इत्यपास्तम्। रचनाया व्यञ्जकत्वं "प्रोक्ता: शब्दगुणाश् ये" इत्यादिना ९८ सूत्रेण वक्ष्यते। अत्र सारबोधिनीकाराः "सर्वेष्विति । झटिति प्रतीयमानत्वं रसेषु झटिति प्रत्यायकत्वं रचनासु। तदुक्तम् [ध्वन्यालोके द्वितीयोद्दयोते आनन्दवर्धनेन]'समर्पकत्वं काव्यस्य यत्तु सर्वरसान् प्रति। स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥' इति" इति व्याचख्युः॥ व्याख्यातमिदं प्रदपिप्रभोद्दयोतेषु। "ओजसि शुष्केन्धनागनिवत्। माधुर्ये स्वच्छशर्करावस्त्रादिजल- वत् यो गुणोऽन्यत् व्याप्यं चित्तं झटित्येव रसेन व्यामोति स प्रसादः। करणस्यापि स्वातन्त्र्यविवक्षया य इति निर्देशः । अयं च सर्वेषु रसेषु आधेयतया सर्वासु रचनासु व्यङ्ग्यतया स्थित इति तन्त्रेणाह सर्वत्र विहितस्थितिरिति" इति प्रदीपः । (करणस्यापीति। 'येन गुणेन रसश्चिवित्तं व्याम्रोति' इति वक्तव्ये करणभूतस्यापि गुणस्य 'यः' इति कर्तृत्वेन निर्देशः स्वातन्त्र्यविवक्षयेत्यर्थः। 'गुणानां रसमात्रधर्मत्वात् सर्वासु रचनासु च' इति वृत्तिग्रन्थासंगतिमाशङ्क्याह अयं चेति) इति प्रभा। (आधेयतयेति। विशेषणनिष्ठः संबन्ध इति मते इदम्। रचनास्विति । यद्यपि शब्दार्थयोरपि व्यञ्जकत्वमनुपदं वक्ष्यति तथापि रचनायाः प्रसादेSसाधारण्यम् प्रसिद्धशब्दार्थयोरपि रचनावैरूप्ये प्रसादाव्यञ्जकत्वादिति भावः) इत्युद््योतः।। ननु गुणानां रसधर्मत्वे कथं तत्त्ववेदिनां शब्दार्थयोर्मधुरादिव्यवहार: कथं वा काव्यलक्षणे (१३ पृष्ठे) 'शब्दार्थौ सगुणौ' इत्युक्तमित्यत आह गुणवृत्त्येति। आत्मगुणानां शौर्यादीनां स्थूलशरीरे १ इति मते इदमिति। अयं भावः। वस्तुतस्तु नेहं मतं सम्यक् अधियतायाः व्यङ्गयतायाश्र्ैकमात्रवृत्तितया संबन्धत्वायोगात्। किंतु 'आधाराधेयतया' इति 'व्यङ्गयव्यञ्जकतया' इति वक्तुं युक्तम्। संचन्धो हि संबन्धिभ्यां भिन्न उभयसंबन्धी। उक्तं च वाक्यपदीये भर्तृहरिणा "द्विष्ठोऽव्यसौ परार्थत्वादगुणेषु व्यतिरिच्यते। तत्राभिधीय- मानश्र्व प्रधानेऽ्युपयुज्यते ॥। इति" इति। अधमस्याः कारिकाया अर्थः। राज्ः पुरुष इत्यादौ असौ संचन्धः द्विष्ठोऽपि विशेषणविशेष्योभयनष्ठोऽपि परार्थत्वान् गुणानां पर प्रति विशेषणत्वेन विवक्षितत्वादित्यर्थः। मेदे सति विशेषणनया विवक्षितस्य संचन्ध विना विशेषणत्वासंभवेन तदाकाङक्षितत्वादिति भावः । गुणेयु विशेषणषु व्यतिरि च्यते उद्भृततया प्रतीयते। अतस्तत्रैव पष्ठी। तत्र गुणे (विशेषणे) अभिधीयमानः शब्द्ेन षष्ठयादिनांशतः प्रतीयमानः प्रधाने विशेष्येऽपि उपयुज्यते तस्य द्विष्ठस्वभावत्वाद्राजादिनिरूपितविशेष्यताया राजादिपदसंनिधाने प्रतीयमानाया उपकारको भवर्तीत्यर्थः। राज इति हि स्वामित्वमवगम्यमानमन्ययानुपपर्यैव पुरुषे स्वत्वमवगमयति अतः संबन्धस्य बहिरङ्गत्वात्पुरुषपदादन्तरङ्गा प्रथमैवेति इति मञ्जूषार्या स्पटम् Sलाक e

Page 537

४७८ काव्यप्रकाशः सटीक: । गुणवृत्त्या उपचारेण। तेषां गुणानाम्। आकारे शौर्यस्येव।। कुतस्त्रय एव न दश इत्याह (सू० ९६) केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजान्ति दोषत्वं कुत्रचित् न ततो दश । ७२॥ बहूनामपि पदानामेकपदव्भासनात्मा यः श्लेषः यश्चारोहावरोहक्रमरूपः समाधिः या इव तेषां रसवृत्तीनां माधुर्यौजःप्रसादाख्यानां गुणानां व्यक्षकेषु सुकुमारादिवर्णेषु अर्थेषु रचनासु च गौणः प्रयोग इत्यर्थः । शब्दार्थरचनानां नानात्वाद्रसनिष्ठमेव माधुर्यादीत्युक्तयुक्तेरिति भावः । उपचारेणेति। स्वव्यञ्जकतादिसंबन्धेन लक्षणयेत्यर्थः । मधुरः शब्द: मधुरोऽर्थ इति व्यवहार इति भावः। तत्पदेनानन्तरप्रसादपरामर्शे बहुवचनासंगतेरित्याह गुणानामिति। अत्राप्युक्तस्यैव (४६४ पृष्ठे) दृष्टान्तस्यानुषंग इत्याह आकारे इति। स्थूलशरीरे इत्यर्थः॥ न पुनर्दश इत्युक्तम् (४७३ पृष्ठे) तत्समर्थनार्थ पद्यमवतारयति कुत इति। ननु "श्लेषः प्रसाद: समता माधुर्य सुकुमारता। अर्थव्यक्तिरुद्वारत्वमोज:कान्तिसमाधयः ॥" इति वामनादिभि- रुक्ताः श्लेषादयोऽपि दश गुणाः दुरपह्नवाः तत्कुतस्त्रय एव न पुनर्दशेत्यर्थः ॥ केचिदिति। ये दश गुणा: ते त्रिधा व्यवतिष्ठन्ते केचित् गुणाः एषु मदुक्तलक्षणेषु माधुर्यादिषु अन्तर्भवन्ति अन्तर्भूता भवन्ति 'एतल्लक्षणक्रोडीकृतत्वात्' इति शेषः। परे इतरे केचित् दोषत्यागात् दोषाभावस्वरूत्वात् दोषाभावव्यापकत्वाद्वा श्रिता आश्रिता अङ्गीकृता इत्यर्थः । अन्ये अपरे केचित् कुत्रचित् रसविशेषे उदाहरणविशेषे वा दोषत्वं भजन्ति दोषरूपा भवन्ति दोषरूपत्वाद्गुणा एव न भवन्तीत्यर्थः दोषस्वभावानां गुणस्वभावत्वानौचित्यात् स्वभावभङ्गप्रसङ्गादिति भावः । यत एवं ततो हेतोः न दश गुणाः किं तु त्रय एवेति सूत्रार्थः। अत्र सूत्रे एष्वित्युपलक्षणम् अलंकारध्वन्योरप्यन्तर्भावस्य दर्शयिष्यमाणत्वात्। उक्तान्तर्भावादिहेतुत्रयोपादानमप्युपलक्षणम् वैचित्र्यमात्रपर्यवसानस्यापि दर्श- यिष्यमाणत्वादिति प्रदीपादौ स्पष्टम्।। तदेतत्सर्वे प्रदर्शयन् वृत्तिकारः 'किं शब्दगुणान् दश ब्रूषे अर्थगुणान्वा.' इति हृदि निधाय तत्राय्यं कल्पं निरस्यति बहूनामित्यादिना न दश शब्द्गुणाः इत्यन्तेन। तत्र श्लेषसमाध्युदारताप्रसादा- नामोजस्यन्तर्भावमाह बहूनामित्यादि। अस्य 'वामनमते' इत्यादिः। एवमग्रेऽपि बोध्यम्। एकपद- वन्ासनात्मेति। एकपद्वद्भासनरूप इत्यर्थः एकपदवद्भासनमिति यावत् तञ्च संधिसौष्ठवादेक- स्थानीयवणोपन्यासाच्च। यथा 'अस्त्युत्तरस्यां दिशि देवतात्मा' इति कुमारसंभवकाव्ये १ सर्गे १ पद्यम्। अत्र संधिः सन्नपि न प्रतीयते वर्णाश्र प्रायेणैकस्थानीयाः। आरोहेति। आरोहो गाढता अवरोहः शैथिल्यम् तयोंः क्मः वैरस्याजनको विन्यासः। स चावरोहपूर्वक आरोहः आरोहपूर्वकोS- वरोहो वा गाढवर्णमिश्रितशिथिलस्यापि गाढत्वोपगमात् यथा 'चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचू्णि- तोरुयुगलस्य सुयोधनस्य। स्त्यानावनद्धघनशोणितशोणशोचिरुत्तंसयिष्यति कचांस्तव देवि भीमः॥' इति वेणीसंहारनाटके प्रथमाङ्के भीमसेनोक्तिः। अत्र संचूर्णितेत्यन्तमारोहः सुयोधनान्तोऽवरोहः। पुन- स्तवान्ते पूर्वः भीमान्त परः। अत्र गाढत्वं व्यक्तमेव । तत्संबन्धेनैव शैथिल्यस्यापि गाढत्वाद्गुणत्वम्। १ केवलमारोहोऽवरोहो वा वरस्याधायक इति भावः।।

Page 538

अष्टम उल्लास: । च विकटत्वलक्षणा उदारता यश्चै।जोमिश्रितशैथिल्यात्मा प्रसाद: तेषामोजस्यन्तर्भावः।पृथकात्वरूपं माधुर्य भङ्गया साक्षादुपात्तम्। प्रसादेनार्थव्यक्तिर्गृहीता। मार्गाभेदरूपा समता क्वचिद्दोषः। तथाहि 'मातङ्गा: किमु वल्गितैः' इत्यादौ सिंहाभिधाने मसृणमार्गत्यागो गुणः । कष्टत्वग्राम्यत्वयोर्दुष्टताभि- धानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्च स्वीकृता। एवं न दश शब्दगुणाः । विकटत्वं विच्छेदात्पदानां नृत्यप्रायत्वम्। उदारता यथा 'स्वचरणविनिविष्टैर्नूपुरैर्न्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च' इत्यादौ। ओजोमिश्रितेति। सर्वशैथिल्यस्य दोषत्वादिति भावः । "अत्र क्रमविपर्ययात्समाधितो भेद:" इत्युद््योतः । "कमनियमाभावात्समाधितो भेद:" इति सारबो- धिनी। "आरोहानन्तरमवरोहे समाधि: व्युत्क्रमे प्रसाद:" इत्यन्ये। "अत्र शैथिल्यं प्रधानम् ओजो गुणभूतम् तेन तस्याल्पत्वम् समाधौ तु तदाधिक्यं शैथिल्यस्य न्यूनत्वमित्यनयोर्भेंदः चञ्चद्भुजेत्यादौ तथा दर्शनात्" इति प्रभा। प्रसादो यथा 'यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा। यो यस्तत्कर्मसाक्षी मयि चरति रणे यश्र यश्र प्रतीप: क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्' इति वेणीसंहारनाटके तृरतीयेऽ- ङ्ेड्वत्थान्न उक्तिः । अत्र यो य इत्यत्र शैथिल्यम् शस्त्रमित्योजः पुनर्बिभर्तीत्यत्र पूर्वम् अन्त्यवर्णदये परमित्युद््योतादयः । अत्र हि शैथिल्यस्य प्राधान्यमाधिक्यात् गाढत्वं च शैथिल्यदोषपरिहारार्थमल्पं गुगभूतमिति प्रभा। तेषामोजसीति। चतुर्णामप्येषां गाढबन्धतया दीप्तिहेतुत्वादोजोव्यञ्जकरचनाया- मन्तर्भावः "गुम्फ उद्धत ओजसि" इति १०० सूत्रे वक्ष्यमाणत्वादिति भावः । पृथगिति। पृथक पदानि यस्य स पृथक्पदस्तस्य भावस्तत्त्वम् दीर्घसमासाभावरूपमित्यर्थः । भङ्गया माधुर्यव्यञ्जके अवृ- त्तिपदोपादानरूपया यावत्। साक्षादुपात्तं कण्ठरवेणोक्तम्। माधुर्य यथा 'स्थिताः क्षणं पक्ष्मसु ताडिताधराः' इति कुमारसंभवे ५ सर्गे २४ पद्यम्। प्रसादेन प्रसादाख्यगुणेन। अर्थव्यक्तिरिति। व्यक्तिरिति करणे कितिन्। झटित्य- थारपस्थापनसामर्थ्यमित्यर्थः । सा यथा 'वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये' इति रघुकाव्ये प्रथमसगे १ पद्यम्। गृहीता उपात्ता। तस्य गुणस्य प्रसादेऽन्तर्भाव इत्यर्थः यथोक्तप्रसादस्य तव्यङ्ग्यत्वादिति भावः । तद्यञ्ञकवर्णेन तव्यवहार इति तात्पर्यम्। गुणस्य दोषत्वं वैचित्र्यावहमिति सूत्रे चरममपि पूर्व व्याचष्टे मार्गाभेदेति। मार्गो वैदर्भ्यादिरीतिस्तस्याभेदोऽपरित्यागः यया रीत्योपक्रमस्तया रीत्या समा- पनं मार्गाभेद इत्यर्थः । आरब्धवैदर्भ्यादिमार्गापरित्यागरूपा या समता सा क्वचिददोष एवेति भावः । तस्याः दोषत्वं दर्शयति मातङ्ग इति। व्याख्यातमिदं पद्यं प्राक् (४१५ पृष्ठे)। अत्र प्रारब्धस्य मसृणवर्णत्वस्य (कोमलवर्णत्वस्य) सिंहाभिधानेऽप्यत्यागो दोषायेति भावः । अत्र मसृणवर्णैरुपक्रमः सिंहाभिधानेऽपि यदि तथैव स्यात्तदा वक्तृवाच्यप्रबन्धानामौचित्येन यद्रचनादीनामौचित्यं तद्भज्येतेति तात्पर्यम् । प्रत्युत मार्गभेदे गुणत्वम् तद्दर्शयति सिंहाभिधाने इति। कोपाटोपेत्यादावित्यर्थः । मसृणा: कोमलाः। गुण इति । सिंहापेक्षया मृदुत्वेन मातङ्गादीनां मृदुभिरेव वर्णेरुपक्रमः सिंहे तु कोपसंचन्धात्तत्त्यागः समुचित इति भावः। समतोपयोगस्तु वृत्त्यनुप्रासालंकार इति बोध्यम्। दोषाभा- वत्वेन संग्रहणमाह कष्टत्वेत्यादि । कष्टत्वं श्रतिकटुत्वम्। ग्राम्यत्वं तूक्तं प्राक् २८२ पृष्ठे। दुष्टताभिधानादिति। सप्तमोल्लासे "दुष्ट पदं श्रतिकटु" इत्यनेन "ग्राम्यं नेयार्थमथ भवोत्किृष्टम्"

Page 539

४८० काव्यप्रकाशः सटीकः।

PamPNg 'पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा। आक प्रौढिर्व्याससमासौ च साभि प्रायत्वमस्य च॥'

इत्यनेन च७२ सूत्रे दोषवत्वकथनादित्यर्थः । तन्निराकरणेन तयोः परित्यागेन। अपारुष्यं परुषव- र्णाभावः श्रुतिसुखावहत्वमिि यावत्। औज्ज्वल्यं हालिका।दिसाधारणपदविन्यासवैपरीत्येनालौकिक- शोभाशालित्वम्। स्वीकृतेति । अनिष्ठुराक्षरप्रायत्वं सुकुमारत्वम् तञ्च कष्टत्वरूपदोषाभावर्पर्यवसन्नम् । ग्राम्यपदाघटितत्वरूपोज्ज्वलत्वरूपा कान्तिः सापि न ग्राम्यत्वरूपदोषाभावपर्यवसन्नैव। सुकुमारतोज्ज्व- लत्वयोरसत्त्वे रसापकर्षः। तत्सत्वे तु तद्भावमात्रमिति न गुणत्वमनुकर्षकत्वादिति भावः । तत्र सौकुमार्य यथा 'अपसारय घनसारम्' इति (४६६ पृष्ठे)। कान्तिर्यथा 'निरानन्दः कौन्दरे मधुनि विधुरो बालब- कुले न साले सालम्बो लवमप लवङ्गे न रमते। प्रियङ्गौ नासंगं रचयति न चूते विचरति स्मरन् लक्ष्मी- लीलाकमलमधुपानं मधुकरः ॥' इति। दशानां शब्दगुणानां त्रिष्वन्तर्भावमुपसंहरति एवमित्यादि। एवम् उक्तरीत्या दश शब्दगुणा न पृथग्वक्तव्या इत्यर्थः। उक्तानां शर्लेषादिगुणानां लक्षणश्लोका वामनवृत्तौ तृतीयेऽधिकरणे द्वितायेऽध्याये स्पष्टाः । तथाहि "पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः। श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते॥ यत्रैकपदवद्भावः पदानां भूयसामपि। अनालक्षितसंधीनां स श्लेष: परमो गुणः ॥ प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः । दुर्बन्धो दुर्विभावश्र समतेति गुणो मतः ॥ आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत्। समाधिर्नाम स गुणस्तेन पूता सरस्वती॥ बन्धे पृथक्पदत्वं च माधुर्य कथितं बुधैः। बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् ॥ विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम्। पश्रादवगतिर्वाचः पुरस्तादिव वस्तुतः ॥ यत्रार्थव्यक्तिहेतुत्वात्सोS- र्थव्यक्तिः स्मृतो गुणः । औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः ॥" इति। स्पष्टमिदं सर्व प्रदी- पोद््योतप्रभादिषु ॥ एवं शब्दगुणान् दश दूषयित्वा संप्रति उक्तश्लेषादिनामकान् दश अर्थगुणान दूषयति 'पदार्थे' इत्यादिना 'तेन नार्थगुणा वाच्याः' इत्यन्तेन। वामनादिमतेरऽर्थगुणानां दशानां श्लेष इत्यादीन्येव नामानि लक्षणानि तु भिन्नानीति बोध्यम्। एकपदार्थस्य बहुभिः पदैरभिधानं पदार्थे वाक्यरचनम्। बहूनां च पदार्थानामेकपदेनाभिधानं वाक्यार्थे पदाभिधा। व्यासो विस्तारः। एकवाक्यार्थस्यानेकवाक्येन प्रतिपादनं व्यास इत्यर्थः । समासः संक्षेपः। अनेकवाक्यार्थस्यैकवाक्येन प्रत्यायनं समास इत्यर्थः । अस्य विशेषणस्य साभिप्रायत्वं सार्थकत्वम् प्रकृतोपयुक्तत्वमित्यर्थः । प्रौढिरिति लक्ष्यनिर्देशः । अर्थगतमोजः प्रौढिः प्रौढत्वमित्यर्थः । प्रौढिरिति सर्वत्र संबध्यते। तथा चोक्तपञ्चप्रकारा प्रढ़िरीत फलितोऽर्थः । तत्राद्या यथा चन्द्र इत्येकपदार्थे वक्तव्ये 'अत्रिलोचनसंभूतं ज्योतिः' इति वाक्यकथनम्। यथा वा चन्द्रपदार्थे 'अथ नयनसमुत्थं ज्योतिरत्रेः' इति (रघुकाव्ये २ सर्गे ७५ श्लोके) वाक्यरचनम्। द्वितीया यथा 'कान्तार्थिनी संकेतस्थानं गच्छति' इति वाक्यार्थे वक्तव्ये 'अभिसारिका' इति पदाभि- धानम्। यथा वा 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च' [ तत्सुखं स्वःपदास्प- दम] इति वाक्यार्थे 'स्वर्गः' इति पदाभिधानम्। तृतीया यथा 'परस्वं नापहर्तव्यम्' इति एकस्मिन् वाक्यार्थे वक्तव्ये 'पराभं नापहर्तव्यम परवस्त्रापहारोऽनुचितः पराभरणहरणमिहामुत्रानिष्टकरम्' इत्या- दिना व्यासेन (नानावाक्येन ) प्रतिपादनम् । यथा वा 'अयं नानाकारो भवति सुखदुःखव्यतिकर

Page 540

अष्टम उल्लास: । ४ ८१

इति या प्रौढिः ओज इत्युक्तं तत् वैनित्र्यमात्रम् न गुणः । तदभावेडपि काव्यव्यवहा- रपवृत्तेः निराकरणेन च साभिप्रायत्वरूपमोज: अर्थवैमल्यात्मा प्रसाद: उक्तिवौचित्रयरूपं माधुर्यम् अपारुष्यरूपं सौकुमार्यम् अग्राम्यत्वरूपा उदारता च स्वीकृतानि। अभिधास्यमानस्वभावोक्त्यलं- सुखं वा दुःखं वा भवति न भवत्येव च ततः । पुनस्तस्मादूर्ध्व भवति सुखदुःखं किमपि तत् पुन- स्तस्मादूर्ध्व न च भवति दुःखं न च सुखम् ।।' इति। अत्रादृष्टवैचित्र्यात्सुखदुःखवैचित्रयमिति वाक्या- र्थस्यानेकवाक्येन प्रतिपादनम् । चतुर्थी यथा 'ते हिमालयमामन्त्र्य' इति (२४६ पद्यम्)। अत्र ते हिमालयमामन्त्र्येत्यादिना एकेनैव वाक्येन नानावाक्यार्थीभूतस्यामन्त्रणादेरुक्तिः। एकवाक्ये बहु- वाक्यार्थनिबन्धात्समास इति भावः । पश्चमी यथा 'कुर्या हरस्यादि पिनाकपाणेः' इति कुमारसंभव- काव्ये तृतीयसरगे १० पद्यम् । अत्र पिनाकपाणेरिति विशेषणस्य साभिप्रायत्वम्। यथा वा 'सुधां- शुकलितोत्तंसस्तापं हरतु वः शिवः' इति। अत्र सुधांशुकलितोत्तंस इति विशेषणस्य तापहरणरू- पप्रकृतार्थोपयुक्तत्वम् ।। इतीति। इति उक्तपञ्चप्रभेदा या प्रौढ़िः प्रतिपादनवैचित्र्यम् । ओज इत्युक्तमिति। वामना- दिभिरर्थगुणस्वरूपमोज इत्युक्तमित्यर्थः । पञ्चप्रभेदायाः प्रौढेरादयभेदचतुष्टयमुक्तिवैचित्रयमात्रे पर्य- वस्यतीत्याह तदिति । वामनायुक्तमोज इत्यर्थः । वैचित्र्यमात्रमिति। उक्तिवैचित्रयमात्रमित्यर्थः उक्तेवैचित्यं सौष्ठवं तन्मात्रमिति यावत् । गुणत्वाभावे हेतुमाह तदभावेऽपीति। आद्यभेदचतुष्टयाभा- वेऽपीत्यर्थः 'पदार्थे वाक्यरचनम्' इत्यादिभिश्र्तुरभिर्विनापीति यावत्। काव्यव्यवहारप्रवृत्तेरिति। 'यः कौमारहरः' इत्यादौ (१७ पृष्ठे ) काव्यव्यवहारादित्यर्थः । अत्र 'तत्सत्त्वेऽपि रसाय्यभावे काव्य व्यवहाराप्रवृत्तेश्व' इत्यपि बोध्यम् । अयमभिप्रायः। काव्यव्यवहारहेतुभूतानामेव गुणत्वमङ्गीकुर्वतां वामनादीनामतादृशेऽस्मिन् ओजि काव्यत्वाङ्गीकारो बाधित एवेति। उक्तं चोद्द्योतेऽपि "तदभावेS- पीति। न च भवदुक्तौजोगुणविरहेऽपि स्वर्गप्राप्तिरित्यादे: (४७२ पृष्ठे) काव्यत्वात्तस्यापि गुणत्वानाप- त्तिरिति वाच्यम् दीप्तत्वाख्यचित्तवृत्तिविशेषप्रयोजकतया गुणत्वात् एषां तूक्तिवैचित्र्यमात्रत्वमित्यत्र तात्पर्यात्। न हि चन्द्रादिपदार्थस्यात्रिलोचनेत्यादिनाभिधाने कोऽपि विशेषः कि तु प्रतीतिविलम्ब एवेति भावात्" इति। इदानीं प्रौंढेः पञ्चमप्रभेदम् तथा प्रसादं माधुर्य सौकुमार्यमुदारतां च दूषयति अपुष्टार्थत्वेत्यादिना 'स्वीकृतानि' इत्यन्तेन । निराकरणेन निरासेन । सप्तमोल्लासे इति शेषः। साभिप्रायत्वरूपमोज इति। एतेनास्मिन् ओजसि ओजोन्तरेभ्यो विशेषोऽयमिति ध्वनितम् । अर्थवैमल्यम् अर्थनैर्मल्यम् अपेक्षितार्थमात्रपरिग्रह इति यावत्। यथा काञ्चीपदम् न तु काञ्चीगुण- स्थानमिति । उक्तिवैचित्रयरूपमिति। उक्तिवैचित्रयमत्र नवीकृतत्वरूपम् एकस्यैवार्थस्य भङ्ग्यन्तरेण पुनः कथनमुक्तिवैचित्र्यमिति यावत्। यथा 'यदि दहत्यनलोSत्र किमद्भुतम्' (३९३ पृष्ठे) इत्यादौ। अपारुष्येति। अपारुष्यं परुषेऽ्यर्थे वक्तव्येऽपरुषरूपेणाभिधानम्। यथा मृत इति वक्तव्ये कीर्ति- शेषं गत इति। अग्राम्यत्वेति। अर्थस्याग्राम्यत्वेत्यर्थः। तञ्च ग्राम्येऽप्यर्थे वक्तव्ये विद्ग्धतयाभिधा- नम्। यथा 'कामं कन्दर्पचण्डालो माय वामाक्षि निर्दयः। त्वयि निमत्सरी दिष्ट्या' इति। स्वीकृता- नीति। तेषां तदनन्यत्वादिति भावः। स्वीकृतानीत्यस्य स्वीकृतं स्वीकृतः स्वीकृतेत्यादिर्रीत्या स्त्रीपुत्र- ६'

Page 541

४८२ काव्यप्रकाशः सटीकः ।

करेण रलध्वनिगुणीभूतव्यङ्गचयाभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्ति: दीपरस त्वरूपा कान्तिश्च स्वीकृता। क्रमकौटिल्यानुल्वणत्वोपपत्तियोगरूपघटनात्मा श्लेषोऽपि

पंसकैकशेषेणान्वयो बोध्यः । 'स्वीकृता' इति तु क्वचित्पुस्तकेऽपपाठ एव "नर्पुंसकमनपुंसकेनैकव- च्चास्यान्यतरस्याम्" (१२।६९) इति पाणिनिसूत्रेण क्कीबस्य शेषविधानादिति बोध्यम्।

अयं भावः। साभिप्रायत्वरूपमोजः अपुष्टार्थत्वरूपपोषाभावपर्यवसन्नम्। एवं प्रसादोऽपि अधि- कपदत्वरूपदोषपरित्यागादेवान्यथासिद्धसंनिधिः । माधुर्य तु अनवीकृतत्वरूपदोषाभावरूपम् । यच्च पुनः सौकुमार्य तदपि अमाङ्गल्यरूपाश्लीलत्वपरित्यागेनैव सिध्यति। उदारता तु ग्राम्यत्वरूपदोषाभाव एवेतीति प्रदीपादौ स्पष्टम्।।

अर्थव्यक्तिः स्वभावोक्त्यलंकारेऽन्तर्भवति कान्तिस्तु रसध्वनौ गुणीभूतव्यङ्गचे वान्तर्भवतीत्याह अभिधास्यमानेति । दशमोल्लासे वक्ष्यमाणेत्यर्थः। स्वभावोक्त्यलंकारेणेति। "स्वभावोक्तिस्तु डिम्भादे: स्वक्रियारूपवर्णनम्" इति तल्लक्षणं बोध्यम्। रसध्वनीति। ध्वनिगुणीभूतव्यङ्ग्याभ्या रसपदस्य प्रत्येकमन्वयः । रसस्य प्राधान्ये रसध्वनिना। अप्राधान्ये तु रसवदलंकाररूपगुणीभूतव्यङ्गये- नेत्यर्थः। वस्तुस्वभावस्फुटत्वरूपेति । वस्तुनो वर्णनीयस्य डिम्भादेः स्वभावोऽसाधारणो रूपक्रिया- दिस्तस्य स्फुटत्वं स्फुटत्वेन वर्णनं तद्रूपेत्यर्थः । यथा ( काव्यादर्शे प्रथमपरिच्छेदे) 'कलक्वणनगर्भेण कण्ठेनाघूर्णितेक्षणः । पारावतः परिभ्रम्य रिरंसुश्रुम्बति प्रियाम् ॥' इति। दीप्रसत्वरूपेति । स्फुद- प्रतीयमानरसत्वरूपेत्यर्थः । स्वीकृतेति। संग्रृहीतित्यर्थः । तयोस्तेष्वप्यन्तर्भाव इति भावः । उक्तं च प्रदीपे "अर्थव्यक्तिस्तु वस्तुस्वभावस्य स्फुटता। सा च स्वभावोक्त्यन्तर्भूता। कान्तिस्तु दीप्तरसत्वं सा च रसध्वनौ रसवदलंकारे गुणीभूतव्यङ्गये वान्तर्भूता" इति। श्लेषस्वरूपवर्णनपूर्वकं तस्य गुणत्वमेव नास्तीत्याह क्रमेति । क्रमकौटिल्यमतिक्रमः । तस्यानुल्बणत्वम् अस्फुटता । तत्रोपपत्तिर्युक्तिस्तस्याः योग: संबन्धस्तदरूपा या घटना रचना तदात्मा तदूपः शर्लेष इत्यर्थः । यथा देष्टैकासनसंस्थिते प्रियतमे पश्रादुपेत्यादरादेकस्या नयने पिधाय विहितक्ीडानुबन्धच्छलः । ईषद्वक्रितकन्धरः सपुलकः प्रेमोलस- न्मानसामन्तहासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति॥' इत्यमरुकवेरुक्तिः । अत्र पिहितनयनामति- क्रम्यान्यस्याश्चम्बनादतिक्रमः तस्यास्फुटत्वमनया तदज्ञानात् तत्रोपपत्तिः एवंप्रकारणानया तु न ज्ञात- व्यमितीति प्रदपोद्दयोतकृतः । चक्रवर्त्यादयस्तु "क्रमः क्रियापरंपरा कौटिल्यं विदग्धचेष्टितम् अनुल्ब- णत्वं प्रसिद्धि: उपपत्तिः उपपादकयुक्तिविन्यासः तेषां योगः संमेलनम् स एव रूपं यस्याः घटनाया- स्तदात्मा तद्रूपः श्लेषः । यथा 'दृष्ट्रकासनसंस्थिते' इति । अत्र क्त्वान्ताः दर्शनादयः क्रियाः पश्ादु- पेत्य नयनपिधानं विदग्धचेष्टितम् अयमर्थो लोकप्रसिद्धः एकासनसंस्थिते इति पश्रादुपेत्येति नयने पिधायेति ईषद्वकक्रितकन्धर इति चोपपादकानि एषामत्र योग" इत्याहुः। विचित्रत्वमात्रमिति। १ 'स्व्रीकते' इत्यपि पाठः ॥२ दृष्ट्टैकेति। धूर्तश्वतुरो नायकः प्रियतमेतिप्रिये नायिके एकासनसंस्थिते एका सनोपविष्टे दृष्ट वीक्ष्य आदरात् उत्साहात् पश्रात् पृष्ठुतः उपत्य आगत्य विहितं रूतं क्रीडाया नेत्रनिमीलनाख्याय। अनु- बन्धः संचन्धस्तस्य छलं मिषं येन तथाभूतः सन् एकस्या नायिकाया नयने नेत्रे पिधाय हस्ताभ्यामाच्छाय ('नि- मील्य' इति क्वचित्पाठः) ईपत किंचित् वक्िता नामिता (चहुविनामने हस्तलौल्यं स्यादिति भावः) कन्धरा ग्रीवा येन तथामृत: सपुलकः संजातरोमाश्रः सन् प्रेम्णा स्रेहेनोल्सत् प्रसन्नं मानसं स्वान्नं यस्यास्तथाभ्ताम् अन्तः हृदि हासेन लसत्कपोलफलकां विलसत्कपोलपट्टाम् अपराम् अन्यां नायिकां चुम्बति तस्या मुखचुम्बनं करोततत्यर्थ।।

Page 542

अष्टम उल्लास:।

विचित्रत्वमात्रम्। अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गणः । कः खल्वनुन्मत्ती- Sन्यस्य प्रस्तुववऽन्यदभिदध्यात्। अर्थस्थायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शन तत्कथं काव्यम् इत्यर्थदृष्टिरूप: समाधिरपि न गुणः ।।

(सू० ९७) तेन नार्थगुणा वाच्या: कवेर्वैदग्ध्यप्रतिपादनाद्वैचित्र्यमात्रं न गुणः अनन्यसाधारणरसोपकारित्वातिशयविरहात् तथाप्रति- संधानेन प्रत्युतास्वादस्य प्रतीतेर्विलम्बाच्चेति भावः । कमलाकरभद्गास्तु कवेश्रातुर्यमात्रं न गुण: रसोपकाराभावात् चम्बनरूपसंभोगोपकारेऽपि छले एव चमत्कारातिशयादित्याहुः। समताया दोषा- भावेऽन्तर्भावमाह अवैषम्येति। उपक्रान्तस्योपसंहारे परित्यागः (प्रक्रमभङ्गदोषस्वरूपः) वैषम्यम न वैषम्यमवैषम्यं तत्स्वरूपेत्यर्थः। व्याख्यातमिदं प्रदीपोद्द्योतयोः "समता तु अर्थस्य क्रमभेदाभावः स च क्रमाभेदरूप इति प्रक्रमभेदरूपदोषाभाव एव । यथा 'उदेति सविता ताम्रः' इत्यादौ (३६८ पृष्ठे)" इति। प्रस्तावभङ्ग न केवलं रस एव हीयते कि तु कविरप्यपराध्य्तीत्याह कः खल्वित्यादि। अभिद- ध्यात् कथयेत्। न कोऽप्यभिधत्ते इति भावः । अर्थदृष्टिरूपस्य समाधेः काव्यशरीरनिर्वाहकत्वमेव न गुणत्वमित्याह अर्थस्येत्याि। "अर्थहृष्टिः समाधिः" इति वामनसूत्रम् (३ अधिकरणे २ अध्याये ७ सूत्रम) । अयोन्यन्यच्छायायोनिरूपस्य द्विविधस्यार्थस्य दृष्टिर्दर्शनं समाधिः समाधिनामको गुण इति तदर्थः। तत्रायोनिरर्थः कविसंप्रदायपरिशीलितपद्धतिमन्तरेण स्वबुद्धिविभवमात्रप्रादुर्भावितः उप- मानोपमेयभावादिरूपः । यथा 'सद्योमुण्डितमत्तहूणचिबुक प्रस्पर्धि नारङ्गकम्' इति। हूण: पाश्रात्यो यवनविशेष:। चिबुकम् ओष्ठाधोभागः । "अधस्ताद्धरोष्ठस्य चिबुः स्याच्चिबुकं तथा" इति निगमः । अत्र नारङ्गकस्य हूणचिबुकेन सहोपमानोपमेयभावो न केनापि प्राक्तनकविना प्रदर्शित: केवलमेत- त्कविनैव स्यबुद्धया प्रादुर्भावितः । अन्यच्छायायोन्यर्थस्तु प्राक्तनकविपरंपराव्यवहृतः किंचिद्भङ्ग्यन्तरेण वर्णितः । यथा 'निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि। नीलोत्पलेऽपि विमृशति करम- पयतुं कुसुमलावी।' इति। अत्र नयननीलोत्पलयोः सादृश्यं कविसंप्रदायप्रसिद्धं विच्छित्तिविशेषेणात्र निबद्धम्। तदेवाह अर्थदृष्टिरूपः समाधिरिति। न गुण इति। काव्यशरीरनिर्वाहकत्वादिति भावः। व्याख्यातमिदं विस्तारिकोद्दचोतादिषु "अर्थस्येत्यादि। अयोनिः केनाप्यनुल्लिखितपूर्वः । यथा 'सदो- मुण्डितमत्तहूणचिबुक०' इति। अत्र हूणः पाश्वात्योऽतिगौरो यवनविशेषः तस्य स्वभावतोऽतिगौरं मदरक्तं सद्य:5मश्रत्पाटनव्यक्तरोमकूपं यत् चिबुकं तत्तुल्यत्वेन नारङ्गस्य वर्णनं नान्येन कृतमित्य- योनिरिति बोध्यम्। अन्यच्छायायोनिः। अन्यैरुल्विखितमूलकोऽभिनवोऽर्थः अन्यवर्णनमुपजीव्य वर्णि- तोर्ऽर्थ इति यावत् यथा 'निजनयनप्रतिबिम्बैः०' इति। अत्र नयननीलोत्पलयोः प्रसिद्धामेवोपमामत- लम्ब्यायमर्थ उद्भावित इत्यन्यच्छायायोनिरिति बोध्यम्। अर्थदृष्टिरूप इति। अर्थदर्शनरूप इत्यर्थः । अवर्णितपूर्वोऽयमर्थः पूर्ववर्णितच्छायो वेति काव्यालोचनमिति यावत्। न गुण इति। काव्यशरीरका- रणत्वादिति भावः । काव्यनिर्वाहहेतोरर्थदृष्टेर्न गुणत्वमिति तात्पर्यम्" इति। उक्तं च विवरणेऽपि "अयं भावः। लोकशास्त्रकाव्यादिदर्शनजन्यनिपुणतायाः काव्यहेतुतया अर्थदर्शनाभावे काव्यशरीर- मेव न निष्पद्यते इत्यर्थद्ष्टेः काव्यशरीरनिर्वाहकत्वमेव न तु (पुत्रे पितुरिव) गुणत्वमिति" इति॥

उक्तयुक्तीर्बुद्धिस्थीकृत्य दशानां गुणत्वदूषणमुपसंहरति तेनेति। परैर्वामनादिभिरङ्गीकृता अर्थ-

Page 543

४८४ काव्यप्रकाशः सटीकः।

वाच्या: वक्तव्याः।।। रछ S ( सू० ९८) प्रोक्ताः शब्दगुणाश्र ये। वर्णाः समासो रचना तेषां व्यञ्कतामिताः।।७३ ।। के कस्य इत्याह (सू० ९९) मूर्ति वर्गान्त्यगा: स्पर्शा अटवर्गा रणौ लघू। अवृत्तिर्मध्यवृत्तिवां माधुर्ये घटना तथा॥७४॥ टठडढवर्जिता: काइयो मान्ता: शिरसि निजवर्गान्त्ययुक्ता: : तथा रेफणकारौ ह्वस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समामो वेते समासः 'तथा' माधुर्यवती पदान्तर- योगेन रचना माधुर्यम्य व्यकिका। उदाहरणम् गुणास्ते चोक्तयुक्त्या न पृथग्वक्तुमर्हा इत्यर्थः । वाच्या इत्यस्य शक्या इत्यर्थकत्वभ्रमं निरस्यति बक्तव्या इति। वक्तुं योग्या इत्यर्थः। सरस्वतीतीर्थास्तु "तेनेति। 'राजा भोजो गुणानाह विशतिं चतुरश् यान्। वामनो दश तान् वाग्मी भट्टस्त्रीनेव भामहः ॥' इत्युक्तरीत्येत्यर्थः" इत्याहुः ॥ नन "गुणवृत्त्या पुनस्तेषाम" इत्यादिना ( ४७७ पृष्ठे ) गुणवृत्त्या शब्दगुणत्वेन चोक्तानां माधुर्यादीनामभिव्यञ्जकाः के इत्याकाङ्मयामाह प्रोक्ता इति। गुणवृत्त्येति शेषः । वस्तुतो रसगुणा एवेति भावः । ये माधुर्योजःप्रसादाख्यास्त्रयो गुणवृत्त्या उपचारेण शब्दगुणाश्र प्रोक्ताः तेषां गुणानां व्यक्षकतां वर्णादयः इताः गताः प्राप्ता इत्यर्थः। वर्णाः अक्षराणि। समासो बहू- नामेकपदता। वृत्तिमात्रोपलक्षणमिदम्। रचना पदसंघटना (पदानां पौर्वापर्यरूपा आनुपूर्वी)। शब्दगुणा: इत्युक्तिस्तु शब्दात्मनां वर्णादीनां व्यक्षकत्वसंभवप्रदर्शनाय। वर्णाः इति बहुवचन- मेकद्वित्रिवणानामव्यक्षकत्वसूचनायोति प्रदीपोद्दयोतादिषु स्पष्टम् ।। के वर्णादयः कस्य गुणस्य व्यक्षका इत्याकाङ्कायामाह मूध्रीति। अटवर्गाः णकाररहितटवर्गव र्जिताः मर्नि शिरसि (अग्रभागे) वर्गान्त्यगाः वर्गाणां कुचुटतुपनां येऽन्त्याः ड्ञ्णनमा: तान् गच्छन्ति ते इत्यर्थः स्वस्ववर्गान्त्यवर्णयक्ता इति यावत्। यथा अनङ्ग: कुञ्ज इत्यादि। तादृशाः ये स्पर्शाः कादयो मावसाना: लघु ह्रस्वस्वरान्तरितौ रणौ रेफणकारौ चेति वर्णाः। अवृत्तिरित्यत्र नञ्र ईषदर्थे। वृत्तिः समासः । तथा च अवृतत्तिः अल्पसमासः मध्यवृत्तिः मध्यमसमासो वेति समासः। तथा नाम माधुर्यवती। घटना रचना च। माधुयें गुणे 'व्यञ्षकताम् इताः' इति पूर्वेणान्वयः ॥ अटवर्गा इति व्याचष्टे टठडढवर्जिता इति। स्पर्शा इति व्याचष्टे कादयो मान्ता इति। • "कादयो मावसानाश् स्पर्शाः स्यु पञ्चविशतिः" इति चारायणीयशिक्षावचनम्। मूर्त्नि वर्गान्त्यगा इति व्याचष्टे शिरसि निजेत्यादि। रणाविति व्याचष्टे रेफणकाराविति। लघू इति व्याचष्टे हस्वान्तरि- ताविति। "एकमात्रो भवेद्धस्वो द्विमात्रो दीर्घ उच्यते। त्रिमात्रस्तु प्लुतश्र्वैव व्यञ्जनं त्वर्धमात्रकम्।" इति ह्रस्वादिलक्षणं बोध्यम्। ह्रस्वेन अन्तरितौ व्यवहितावित्यर्थः । तेन राणादेर्व्युदासः । अत्र निषिद्धा- नामसकृदुपादाने दोषता बोध्या। अवृत्तिरिति व्याचष्टे समास्ाभाव इति। अत्राभावपदर्मीषदर्थकम्। तथा चाल्पसमास इत्यर्थो बोध्यः। तेन "वर्णाः समासो रचना" (९८ सूत्रे) इत्युक्तसमास इत्य-

Page 544

अष्टम उलास: । ४८%

कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि॥३४७॥कp (सू० १००) योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः । टादि: शषौ त्तिंदैर्ध्यं गुम्फ उद्धत ओजि॥७५॥ नेन न विरेधः । अवृत्तिरित्यनेन वैदर्भी रीतिरुक्ता। मध्यवृत्तिरिति व्याचष्टे मध्यम समास इति। तस्य च मध्यमता द्वित्रिचतुःपदकृता। एषा पाश्चाली रीतिः शृङ्गारकरुणशान्तेषु। तदुक्तम् "द्वित्रिपदा पाश्चाली लाटी या पञ्चसप्नधा यावत। शब्दैः समासवन्भिर्यथाशक्ति गौडी या॥" द्वित्रीत्युपलक्षणं चतुःपर्यन्तापि। "वैदर्भीपाश्चाल्यौ प्रयसि करुणे भयानकान्भुतयोः। लाटीं गौडीं रौद्रे कुर्यात् यथा यथवाचितं सुकविः ॥" इति। तथेत्यस्यार्थः । माधुर्यवतीति। सौकुमार्यवतीत्यर्थः। शेषपूरण- लब्धमाह पढ़ान्तरयोगेनेति। पदान्तरयोगसंधिः यथा अलंकुर्विति पदयोः संधौ मधुरवर्णोत्पत्तिः। यथा वा प्रतिमं तदङ्गम् इति पदयोः संधौ 'न्त' इति मधुरर्णोत्पत्तिरिति बहवः। अन्ये तु संधिं विनापि पौर्वापर्यविशेषेणापि रचना मधुरा भवतीत्याहुः। अत्र वर्णसौकुमार्यवती रचना वर्णसौकु मार्यादेव लब्धेति पदान्तरयोगे सौकमार्यलाभाय 'घटना तथा' इत्युक्तमिति प्रदीपोद्दयोतसारबोधि- न्यादिषु स्पष्टम्।। वर्णादीनां माधुर्यव्यञ्जकत्वमुदाहरति अनङ्गेति। अनङ्ग: कन्दर्पस्तस्य रङ्गो नृत्यस्थानम्। "रङ्गो ना रागे नृत्यरणक्षितौ। अस्त्री त्रपुणि" इति मेदिनी। तत्प्रतिमं तत्सदृशं तत् अनुभवैकगोचरम् आन- ताङ्गयाः आनतं (स्तनभारेण) ईषन्नतमङ्गं यस्यास्तादृश्याः (रमण्याः) अङ्ग भङ्गीभिः वशीकरणहेतुवद नगमनादिगतविशेषैः तथा अङ्गीकृतं स्वयमादरेण गृहीतम् यथा एता भङ्ग्यो यूनां तरुणानां स्वान्तानि मनांसि शान्तानि अपरचिन्तनानि अपरविषयचिन्तनानि येषां तथाभूतानि सहसा झटिति कुर्वन्ती- त्यर्थः । शान्तापरचिन्तितानति पाठे दुःशान्तानि अपरचिन्तितानि येषु तादृशानि विस्मृतसर्वकार्याणी- त्यर्थः । यद्वा शान्तादपरः शृङ्गारस्तस्य चिन्तितं चिन्ता येषु तादृशानीत्यर्थः। महेश्वरेण तु आनताङ्गया अङ्गं भङ्गीभिः अङ्गीकृतम्। कुत एतत ज्ञातमित्यत्राह कुर्वन्तीति। यत इत्यर्थे यथेति। यतः एता भङ्गयः यूनां स्वान्तानि शान्तापरचिन्तनानि कुर्वन्ति अत इत्यर्थ इति व्याख्यातम्। उपजाति- इछन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे ॥ अत्र गकारास्तकाराश्र स्वस्ववर्गान्त्यमूर्धानः ह्रस्वान्तरितो रेकश्र्वेति वर्णाः। अनङ्गरङ्गप्रतिममिति मध्यवृत्तिः। प्रतिमं तदङ्गमिति अङ्ग भङ्गीभिरिति च माधुर्यवती रचना। तथा चात्र वर्णसमासरच- नारूपं त्रयमपि विप्रलम्भशृङ्गारे माधुर्यस्य व्यञ्जकमिति बोध्यम्॥ एवं माधुर्यगुणव्यञ्जकान् निरूप्य संप्रति ओजोगुणव्यञ्जकान्याह योग इति। (वर्गाणाम्) आय्: प्रथमो वर्णः (कचटतपरूपः) तृतीयः तृतीयो वर्णः (गजडद्बरूपः) ताभ्यां सह अन्त्ययोः तदन्त्ययोः (द्वितीयचतुर्थयोः) खछठथफरूपघझढधभरूपयोः योगः संबन्धः नैरन्तर्यमिति यावत्। यथा पुच्छः बद्धेत्यादि। तथा रेण रेफेण (अध उपर्युभयत्र वा यस्य कस्यापि) योगः। यथा वक्त्रार्कनिह्नां- दादयः । तथा तुल्ययोः सदृशयोः (कयोश्र्वित्) योगः। यथा चित्तवित्तादौ। तथा टादि: टादि- चतुष्टयं (टठडढरूपम्) शषौ शकारषकारौ चेति वर्णाः । वृतिदैर्ध्य दीर्घसमासः। उद्धतो विकटः गुम्फो रचना च ओजसि गुणे 'व्यञ्जकताम् इताः' इति पर्वेणान्वयः। इता इत्यस्यात्र 'इतानि'

Page 545

४८५ काव्यप्रकाशः सटीकः।

वर्गप्रथमतृतीयाभ्यामन्त्ययो: द्वितीयचतुर्थयो: रेफेण अध उपररि उभयत्र या यस्य कस्यचित तुल्ययो: तेन तस्यैव संबन्ध: टवर्गोऽर्थात् णकारवर्जः शकारबकारौ दीर्घसमासः विकटा संघटना ओजसः । उदाहरणम् मूर्धामुद्दत्तकृत्तेत्यादि: ३४८॥।

(सू० १०१) श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत्। साधारणः समग्राणां स प्रसादो गुणो मतः ॥ ७६॥

इति लिङ्गविपरिणामो बोध्यः । अन्यथा 'वृत्तिदैर्ध्यम्' इत्यस्थ नपुंसकत्वेन "नपुंसकमनपुंसकेन०" इति पाणिन्यनुशासनविरोधः स्यादिति बोध्यम्।। सूत्रं व्याकुर्वन् वर्गस्यैव प्रकृतत्वात्तस्यैवाद्यतृतीयावित्याह वर्गप्रथमेत्यादि। रेणेति व्याचष्टे रेक- णेति। उभयत्र वेति। योगपदस्याविशेषेणोपादानादिति भावः । यस्य कस्यचिदिति। यस्य कस्य- चिदक्षरस्य यत्र कुत्रापि रेफेग योग इत्यर्थः। तुल्यपदस्याभेदाभिधानतात्पर्यमाह तेन तस्यैवेति। कत्वायाश्रयस्य कत्वाद्याश्रयत्वेनेत्यर्थः। तुल्यत्वमत्र नेह स्थानप्रयत्नसादृश्यं किंतु तदाकारेणेति भाव;। थोगपदं सर्वत्रान्वयीति बोधयन् "अन्त्ये लेखः सर्वोपकारकः" इति न्यायेन योगपदमन्त्ये व्याचष्े संबन्ध इति। टादिरिति व्याचष्टे टवर्ग इति। अर्थािति। णकारस्य माधुर्ये व्यञ्जकत्वोक्तेरित्यर्थः। णकारस्य लघोरेव वर्जनम् "रणौ लघू" इति तत्रोक्तत्वादिति चक्वर्त्यादयः। शषाविति व्याचष्टे शका- रषकाराविति। तालव्यमूर्धन्यावित्यर्थः। शषयोस्तालुमूर्धाङ्गोच्चारणप्रयत्नगौरवण दृढप्राणतेति तयोः संग्रहः कृतः। दन्त्यस्य सकारस्य तु बाह्यदन्तगतत्वेन प्रयत्नलाघवमिति तस्य त्याग इति बोध्यम्। वृत्ति- दैर्ध्यमिति व्याचष्टे दीर्धसमास इति। चतुरधिकपदारब्ध इत्यर्थः। एषोऽपि विकटवर्णपदघटित एव ओजोऽतिशयव्यञ्जकः । तेन 'अनवरतनयनजललवनिपतनपरिपीतहरिणमदतिलकम्। करतलनिष- पणमबले वदनमिदं कं न तापयति।।" इत्यादौ न दोषः। एषा गौडी रीतिः। रौद्रवीरबीभत्सेषु। उद्धत इति व्याचष्टे विकटेति। विकटवर्णपद्घटितेत्यर्थः। "करालं विकटं तथा" इति वैजयन्ती। विकटा कठोराक्षरति केचित्। गुम्फ इति व्याचष्टे संघटनेति। रचनेत्यर्थः। ओजस इति। व्यञ्जका इति शेष: ।। मूर्धामुद्दत्तेति । व्याख्यातमिदं पद्यं सप्तमोल्लासे (२८५ पृष्ठे) । अत्र मूर्वामिति उत्सर्पिद- पेति चोपरि रेफेण योगः अङ्घ्रीत्यधो योगः उद्दत्तोत कृत्तेति च तकारस्य तकारेणैव योगः ईश- पिशुनशब्दयोः शकारः दोष्णामिति षकारः समासदैर्ध्य संघटनौद्धत्यं च स्पष्टमेव। 'पटुरटत्करूर- धारः कुठारः' इत्यत्र टवर्ग इति बोध्यम्।

प्रसादव्यक्षकमाह श्रुतिमात्रेणेति। येन शब्देन समासेन वा रचनया वा श्रतिमात्रेण श्रवण- मात्रेण शब्दात् अर्थप्रत्ययोऽभिधेयप्रतातिः भवेत् स प्रसादव्यञ्जक इत्यर्थः। तथा चोक्तं विवरण- कारैः "श्रुतिमात्रेणार्थबोधकाः सर्व एव (सुकुमारा वा विकटा वा) वर्णादयः प्रसादगुणस्य व्यक्षका इत्यर्थाल्लभ्यते" इति । येनेत्यनेन प्रसिद्धार्थकत्वमासन्नत्वादिकं च प्रसादव्यञ्जकमित्युक्तं भवति। समग्राणां साधारणः समग्ररसवृत्तिरित्यर्थः । समग्राणां समासानां घटनानां चापेक्षित इति चार्थ:। अत्र चाप्रसिद्धपदक्किष्टत्वादिदोषाभावो निदानमित्युद्दयोते स्पष्टम्।।

Page 546

अट्टम उल्लास: । ४८७

समग्राणां रसानां संघटनानां च । उदाहरणम् परिम्लानं पीनस्तनजघनसंगादुभयत स्तनोर्मध्यस्यान्त: परिमिलनमप्राप्य हरितम्। FE इंद व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्गयाः संतापं वढति बिसिनीपत्रशयनम् ॥ ३४९॥ यद्याे गुणपरतन्त्रा: संघटनादयस्तथापि (सू० १०२) वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्चित्। रचनावृत्तिवर्णान।मन्यथात्वमपीष्यते ॥ ७७॥ क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः। यथा मन्थायस्तार्णवाम्भ:प्लुतकुहरचलन्मन्दरध्वानधीर: परिम्लानमिति। हर्षदेवकृतायां रत्नावल्याख्यनाटिकायां द्वितीयेडङ्के सागरिकामुद्दिश्य वत्सरा- जस्योक्तिस्यिम। इद बिसिनीपत्रशयनं बिसिन्याः कमलिन्याः पत्राणां शयनं शय्या (तल्पं) कृशाङ्गयाः संतापं विरहतापं वदति आवेदयति (स्पष्टमभिव्यनक्ति) इत्यन्वयः। शयनं विशिनाष्टि परीत्यादि। पीनयोः मांसलयोः स्तनजघनयोः संगात् संबन्धात् उभयतः पीनस्तनजघनस्थानयोः परि- म्लानं शिथिलं शुष्कं वा वसन्तीयकुसुमदर्शनभीत्या न्युब्जकायं शयनादिति भावः । तथा तनोः क्षीणस्य मध्यस्य मध्यभागस्य परिमिलनम् आमर्दनम् अप्राप्य (कटेः कृशतरतया स्पर्शमलब्ध्वा) अन्तः मध्यभागे हरितं हरिद्वर्णम् व्याकुलतयाधोमुखशयनादिति भावः। श्लथं (अबलप्रयोज्यत्वात्) शिथिलं यथा स्यात्तथा भुजलतासंबन्धी य आक्षेपः अभिघातस्तस्य वलनैः संबन्धैः (करणैः) यद्वा श्लथैः शिथिलैः भुजलतयो: क्षेपवलनैः व्यस्तो विपरीतो न्यासो रचना यत्र तथाभूतम्। क्षेप इच्छापूर्विका क्रिया वलनं त्वतादृश्यपि क्रियेति तयोर्भेदः। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ अत्रान्वयप्रतियोगिनां यथास्थानमवस्थितेर्झटित्येवान्वयबोधात्प्रसादः । अत्र 'संगात्कृशाङ्गयाः' इत्यादौ माधुरयोंचिता वर्णाः मध्यमः समासः संघटना चानुद्धतेति बोध्यम्। अत्र प्रदीपकाराः "अन्येषां तु वर्णानामुदासीनत्वमिति तदुपादाने तु पुराणच्छायेत्यच्यते" इत्याहुः॥ नन्वेवं माधुर्यादावुद्धतादयो रचनादाः सर्वत्र विरुद्धाः स्युरित्यतः प्रतिप्रसवमाह यद्यपीत्यादि। गुणपरतन्त्रा: गुणव्यञ्षकत्वनियताः। संघटनादयः रचनादयः आदिपदात् वर्णसमासौ ज्ञेयौ। वक्तृवाच्येति। वक्ता कविस्तन्निबद्धश्र वाच्योऽभिधेयः वर्णनीय इति यावत् प्रबन्धो महाकाव्यनाट- कादिस्तेषाम् औचित्येन योग्यतावशात् क्वचित्कचित् कुत्रचित् रचना संघटना वृति: समासः वर्णा अक्षराणि तेषाम् अन्यथात्वं गुणपारतन्त्र्याभावोऽपि इष्यते इष्ट भवर्तीत्यर्थः। एवं चैषां गुणव्यञ्ज- कत्वनियम औत्सर्गिक: वक्त्राय्यौचित्येन क्वचिद्वाघात् तद्भिन्नस्थले एव च गुणव्यञ्जकत्वनियम इति भावः। व्याख्यातमिदं प्रदीपे "अन्यथात्वं गुणपारतन्त्र्याभावः। वक्तृवाच्यप्रबन्धौचित्यविरह एव गुण्पपारतन्त्र्यस्वीारत्। तत्रापि वैक्तृकोधाङ्गव्यक्तावुपयोगात्" इति॥ तत्र कचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादीनामन्यथात्वं यथेत्युदाहरति मन्थायस्तैति। १ वषतृकोधाङ्गेति। वकतुर्थः करोधस्तस्य यदङ्ग्मुस्कर्षकमौद्धत्यादि तक्य व्यक्तौ व्यज्ञनायामित्यर्था ॥

Page 547

४८८ काव्यप्रकाशः सटीक:।

कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्धातवातः केनास्मत्सिंह नाद प्रतिरसितसखो दुन्दुभिस्ताडितोऽसौ॥ ३५०॥ अत्र हि न वाच्यं क्रोधादिव्यअ्जकम्। अभिनेयार्थ च काव्यमिति तत्प्रतिकूला उद्ूता रचनादयः। वक्ता चात्र भीमसेन: ।। वेणीसंहारनाटके प्रथमेऽङ्के रणस्थाने दुन्दुभिध्वनिं श्रुत्वा भीमसेनस्य प्रश्नोऽयम्। असौ दुन्दुभि: दुन्दुभि- शब्द: केन अतिबलवता ताडितः ताडनेनोत्पादित इत्यर्थः। तेन मन्दरध्वानसिंहनादप्रतिरसिताभ्यां साम्यमुपपन्नम्। दुन्दुभिं विशिनाष्टि मन्थेत्यादि। मन्थो मन्थनदण्डस्तेनायस्तं दूरमुत्क्षिप्तं यत् अर्णवाम्भ- स्तेन प्लुतं व्याप्तं यत् कुहरं गुहा तत्र चलतो मन्दरगिरेर्यों ध्वानो ध्वनि: (शब्दः) तद्दत् धीरो गम्भीर इत्यर्थः। यद्वा मन्थो मन्थनं तेनायस्तमान्दोलितं यत् अर्णवाम्भस्तेन प्लुतं व्याप्तं कुहरं गुहा यस्य ताद्- शस्य चलतो मन्दरगिरेरिति प्राग्वत्। प्लुतीति पाठे मन्थो मन्थनं तेनायस्तो भ्रान्तो योरऽर्णवस्तदम्भ :- प्लुत्या कुहरेषु रन्ध्रेषु इत्यर्थों बोध्यः । तथा कोणो वादनदण्डः। "कोणो वीणादिवादनम्" इत्य- मरः "कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने। एकदेशे गृहादीनामस्त्रे च लगुडेऽपि च॥ " इति मेदिनी च। तदाघातेषु तत्ताडनेषु सत्सु । यद्वा "भेरीशतसहस्राणि ढक्काशतशतानि च। एकदा यत्र हैन्यन्ते कोणाघातः स उच्यते ॥" इति भरतपरिभाषितेषु शब्देषु सत्सु । गर्जन्तो ये प्रलयकालीनाः घना मेघास्तेषां घटाः समूहास्तासामन्योन्यं परस्परं यः संघट्टः संघर्ष: (आमर्दः) स इव चण्डः प्रचण्डः दुःसह इत्यर्थः । तथा कृष्णाया द्रौपदाः क्रोधस्य अग्रदूतः भविष्यदर्थस्य प्रथमावेदकः। तथा कुरुकुलस्य दुर्योधनादेनिधनार्थ मृत्यवे उत्पातरूपो निर्घातयुक्तो वातः। मेघवातयोः संघट्टजी ध्वनिरशुभसूचको निर्घात उच्यते। तथा योऽस्मत्सिंहनादस्तस्य च यत् प्रतिरसितं प्रतिध्वनिस्त- त्सखः तन्मित्रं तत्सदृश इत्यर्थः । प्रतिध्वनेः सिंहनादेन संवलनाद्गुरुत्वम् । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥ अत्र वाच्यं न क्रोधादिर्दीप्तरसव्यञ्जकं प्रश्नरूपत्वात्। प्रबन्धश्च नाटकात्माभिनयबोधनायार्थक इति दीर्घसमासत्वं प्रतिकूलम् दीर्घसमासेनार्थप्रतिपत्तौ विलम्बात् अभिनयेन झटिति प्रत्यायनासंभवाज्त क्रोधाभावेन तव्यञ्कदीर्घसमासादेरनौचित्याच्च। तथापि वक्ता भीमसेन इति वक्तुरौचित्यात् (वक्तुरौ- द्वत्यव्यञ्जनाय ) उद्धता रचनात्र। अतस्तदुद्धतत्वादिव्यक्तावेवोपयुज्यते इति प्रदीपोद््योतयोः स्पष्टम् । तदेवाह अत्र हीत्यादि। न क्रोधादिव्यअ्षकमिति। प्रश्नरूपत्वादिति शेषः। न च प्रश्नविषयो दुन्दु- भिशब्दस्तथां केनेत्यस्य केन कारणेनेत्यप्यर्थात् युद्वेच्छया प्रवृत्तत्वसंदेहात्। क्रोधादीत्यादिपदेनो- त्साहस्य संग्रहः । अभिनेयार्थमिति। अभिनेयः अभिनयबोधनीयोऽर्थो यस्य तत् नाटकमित्यर्थः। अङ्गादिक्रियया नायकाद्यवस्थानुकरणमभिनय इति बोध्यम्। काव्यं वेणीसंहाररूपम्। तत्म- तिकूला इति। अभिनयस्थले हि झटित्यर्थप्रत्यायनमेवोचितम् दीर्घसमासादिना तु तद्विलम्बादिति १ ताड्यन्ते इति पाठान्तरम्। वाद्यन्ते इत्यपि क्वचित्पाठः॥२ यद्यपि "कालाहुत््" ( ४३1 ११) इति पाणिनिसूत्रेण 'कालिकः' इत्येव प्रयोगस्तथापि 'न्यक्कारो हयमेव मे यदरयः' इति १८३ उदाहरणस्थग्रामटिका शब्दसाधनरीत्या खप्रत्ययं कल्पयित्वा कालीनशब्दोऽपि साधनयिः। अत एव समानकालीनं प्राक्कालननिमित्याद्यो नैयायिकानां प्रयोगा; संगच्छन्ते ॥ ३ तथेति। कोधादिव्यक्जक इत्यर्थः ॥

Page 548

अष्टम उल्लास:। ४८९

क्वचिदक्तृप्बन्धानपक्षया वाच्यौचित्यादेव रचनादयः। यथा गझ रगाश शा प्रौढच्छेदानुरूपोच्छ लनरयभवत्सैंहिकेयोपघात- कुर्वत् काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भांकारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ३५१॥ क्वचिद्वक्तृवाच्यानपेक्षा: प्रबन्धोचिता एव ते। तथाहि । आख्यायिकायां शृङ्गारेऽपि न भावः । रचनादय इति। आदिना दीर्घसमासवर्णयोः परिग्रहः ।वक्त्रौचित्यादेवात्र रचनादीर्घ- समासादय इत्याह वक्ता चात्रेति। रौद्ररसप्रधानो धीरोद्धतो भीमसेनो ह्यत्र वक्ता स च समु द्वताभिधानस्वभाव इत्यर्थः । एवं चैवं कृते तदालम्बनकं रसादिकमभिव्यक्तं भवताति भावः ॥ क्वचित्तु वाच्यौचित्यादेव रचनादीनामन्यथात्वं यथेत्युदाहरति पौढेति। छलितरामनाम्नि नाटके पद्यमदमिति वदन्ति। यत्तु वीरचरिते वैतालिकस्येयमुक्तिरिति चन्द्रिकादावुक्तम् तत्तु भ्रान्तिमू- लकम् अङ्किते लिखितेऽपि च वीरचरितपुस्तकेऽस्य पद्यस्यानुपलम्भात्। भीमं भयजनकम् एतत् कुम्भकर्णस्य उत्तमाङ्गं शिरः वियतः आकाशात् निपततीत्यन्वयः। कीदशम प्रौढेन बलवता प्रयुक्तो यश्छेद: ( करणव्युत्पत्या) तज्जनकः खङ्गाभिघातः तदनुरूपं तद्योग्यं यत् उच्छलनम ऊर्ध्वगमनं तेन जनितो यो रयो वेगः तेन भवन् जायमानो यः सैंहिकेयोपघातत्रासः राहूपनिपात- भयम् वेगसारूप्येण सैंहकेयभ्रमात् यस्तदुपघातत्रास इत्यर्थ: तेन आकृष्टा गमनात्प्रतिषिद्दाः ये अश्वाः तैः तिर्यग्वलितः तिर्यकृतो ( वक्रतया संस्थापितः) रविरथो येन तथाभूतेन अरुणेन अनूरूणा ईक्ष्य- माणं दृश्यमानमित्यर्थः। तथा कन्धरा ग्रीवा तस्याः यानि रन्ध्राणि छिद्राणि तद्भाजां तत्प्रविष्टानां मरुतां वायूनां भांकारैः भांभामिति शब्दैः काकुत्स्थवीर्यस्य श्रीरामपराक्रमस्य स्तुतिमिव कुर्वदित्यर्थः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राकू १०९ पृष्ठे॥ अत्र वक्ता वेतालिकः प्रबन्धश्राभिनेयात्मक इति दीर्घसमासोद्धतरचनादयो यद्यपि नोचिताः तथापि वाच्यस्य कुम्भकर्णोत्तमाङ्गस्य भीमत्वेनौजस्वितया औद्धत्यात्तदौद्धत्यव्यञ्जनायोद्धता रचनादय इति प्रदापोह््योतयो: स्पष्टम् ॥ प्रबन्धौचित्यादेव रचनादीनामन्यथात्वमुदाहर्तुमाह क्वचिदिति । ते रचनादयः । आख्यायि- कायामिति । आख्यायिका च प्रबन्धविशेषः । यथा बाणभट्टादिकृतो हर्षचरितादिः। तल्लक्षणं तु "आख्यायिका कथावत्स्यात्कवेरवशादिकीतर्तनम्। अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित् क्चित् । कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित्। अन्या- पदेशेनाश्वासमुखे भाव्यार्थसूचनम्" इति। सुधासागरकारास्तु आख्यायिकालक्षणं साहित्यमीमां- सायाम् "कतिसाहित्यसहितं नरपालकथान्विितम्। विचित्रवर्णनाचारु दशोच्छासमनोहरम्। उच्छा- सान्ते वक्त्रयुक्तं रचितापरवक्त्रकम् । उच्छासादौ च पद्यार्थयुक्तमाख्यायिकाभिधम् ॥" इत्याहुः। अयं भावः । आख्यायिकायां हि शृङ्गारेऽपि व्यङ्गचेऽनुद्धतेऽपि वक्तरि नातिमसृणाः (नातिकोमला:) १ आर्या प्रसिद्वेव। वक्त्रारवकत्रे अपि छन्दोविशेषौ।।

Page 549

४९० काव्यप्रकाशः सटीक: ।

मसृणवर्णादयः कथार्यां रौद्रेऽपि नात्यन्तमुद्धता: नाटकादौ रौद्रेऽपि न दीर्धसमासादयः। एवमन्य- दप्यौचित्यमनुसर्तव्यम्॥ इति काव्यप्रकाशे गुणालंकारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ॥८॥ वर्णादयः प्रत्युत विकटबन्धवत्त्वेनैव शोभावत्त्वम् आख्यायिकायां गद्यप्राधान्यात् गद्ये च विकट- वर्णस्यैवाभ्यर्हितत्वात् । विप्रलम्भकरुणयोस्तु तस्यामपि न दीर्घसमासादि तयोरतिसौकुमार्यादिति। कथायामिति। कथालक्षणमग्निपुराणे उक्तम् "श्लोकैवशं तु संक्षेपात्कविर्यत्र प्रशंसति। मुख्यार्थस्या- वताराय भवेद्यत्र कथान्तरम्। परिच्छेदो न यत्र स्यान स्याद्ा लम्भकः क्रचित्। सा कथा नाम तदर्में निबन्नीयाच्चतुष्पदीम ॥" इति। साहित्यदर्पणे तु कथायाः लक्षणमुदाहरणं चोक्तम् "कथाया सरसं वस्तु पद्यैरेव विनिर्मितम् । क्वचिदत्र भवेदार्या क्रचिदक्त्रापवक्त्रके। आदौ पद्मैर्नमस्कारः खलादे- रवृत्तकीर्तनम् ॥" यथा कादम्बर्यादि इति। अयं भावः। कथायां तु रौद्रेऽपि व्यङ्गचेनात्यन्तमुद्भटा वर्णादयः वर्णनीयस्य सुखप्रतिपत्तेरवोद्देश्यत्वादिति। नाटकादाविति । आदिशब्देन प्रकरणादि- परिग्रहः। नाटकादीनि चदश। तदुक्तं भरतेन "नाटकं सप्रकरणमङ्को व्यायोग एव च । भाण' समवकारश् वीथी प्रहसनं डिमः । ईहामृगश्र विज्ञेयों दशमो नाट्यलक्षणे ॥" इति। एतेषां लक्षणानि मत्कृतलक्षणकोशे दर्शतानि। अयं भावः। नाटकादावभिनेये तु रौद्रेऽपि व्यङ्गये न दीर्घसमासादयः विच्छेदेनाभिनयसौकुमार्यादिति। एवं मुक्तकाद्यौचित्यमनुसरणीयमित्याह एवमित्यादि। तथाहि। एकैकच्छन्दसि वाक्यसमाप्तिर्मुक्तकम् इयोः संदानितकम् त्रिषु विशेषकम् चतुर्षु कलापकम् पञ्चादि- चतुर्दशान्तेषु कुलकम्। द्योर्युग्ममित्यपि। तदुक्तं प्राक् (१५५ पृष्ठे ३० पङ़कौ) "द्वाभ्यां युग्ममिति प्रोक्तं त्रिभि: श्लोकैर्विशेषकम्। कलापकं चतुर्भिः स्यात्तदूर्ध्व कुलकं स्मृतम् ॥" इति। तत्र मुक्त- केषु कवे: रसवत्त्वाभिनिवेशित्वे रसाश्रयमौचित्यम्। यथा 'शून्यं वासगृहम्' इत्यादौ (१०० पृष्ठे)। रसाभिनिवेशित्वाभावे-तु कामचारः । संदानितकादिषु काव्यपरिसमाप्तेर्यतो वैकट्यं (नैकट्याभावः) अतो दीर्घमध्यमसमासतापि तत्र कार्या प्रबन्धगतेषु पुनस्तेषु प्रबन्धोचिता एव रचनाद्रय इत्यादि ज्ञेयमिति प्रदीपोद््योतादिषु स्पष्टम् ।।

इति झळकीकरोपनामकभट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकायां बालबोधिन्यां गुणालंकारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः॥८॥ ककरट

१ काइम्घरशिव्दनात्र क्षेनेन्द्ररूता पयका इम्घरी विवालषिता न तु बाणभट्टरूता तस्याः गद्यमयत्वात् ॥

Page 550

521

॥ अथ नवम उल्लास: ॥

गुणविवेचने कृतेऽलंकारा: प्राप्तावसराः इति संप्रति शब्दालंकारानाह (सू० १०३) यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते। श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा। ७८।। शब्दालंकाराणामवसरसंगतिमाह गुणविवेचने कृते इति। काव्यलक्षणे गुणस्यालंकारापेक्षया प्रागुक्तत्वात् रसधर्मतया च प्राधान्यात् तत्र प्रथमं जिज्ञासेति तन्निरूपणे कृतेऽवसरसंगत्येत्यर्थः। प्राप्तावसरा इति। काव्यलक्षणे (१३ पृष्ठे) "अनलंकृती पुनः क्वापि" इत्युक्तत्वादिति भावः। एतेन शब्दचित्रमर्थचित्रमिति यच्चित्रभेदद्वयमुक्तं तस्य भेदा उल्लासाभ्यां वक्तव्या इत्यपि ध्वनि- तम् । संप्रतीति । गुणनिरुक्तेरनन्तरम् अर्थालंकारनिरुक्तेः प्रागित्यर्थः । शब्दालंकारानिति। काव्यलक्षणे शब्दस्यार्थापेक्षया प्रागुपादानादिति शेषः। ते च शब्दालंकाराः षट्। तदुक्तं काव्य प्रकाशसंकेते सोमेश्वरेण "वक्रोक्तिरप्यनुप्रासो यमकं श्लेषचित्रके। पुनरुक्तवदाभासः शब्दालंकृत- यस्तु षट्।" इति। उक्तं च सरस्व्रतीतीर्थेनापि "पठन्ति शब्दालंकारान् बहूनन्यान्मर्नाषिणः । परिवृत्तिसहिष्णुत्वात् न ते शब्दैकभागिनः ॥" इति। एतेषां शब्दालंकाराणामपि अर्थातिशयाधा- नद्वारेणैव रसोपकारकत्वम्। शब्दानां परिवृत्त्यसहत्वमात्रेण शब्दालंकारव्यपदेश इति सिद्धान्तो 'भंण तरुणि रमणमन्दिरम्०' इति (५८१।५८२) उदाहरणे स्फुटभिविष्यति॥ उक्तमिदं प्रदीपोद्दयोतादिषु "एवं गुणे विवेचिते अलंकारा विवेचनीयाः। तत्र सामान्यलक्षण गुणविवेचन एवोक्तम्। शब्दालंकारार्थालंकारोभयालंकाररूपविशेषाणां लक्षणत्रयं च शब्दाश्रित- त्वादिरूपम्। तच्च शब्दालंकारेत्यादिपदादेवार्थलब्धमिति तेषां विशेषलक्षणेषु वक्तव्येषु शब्दस्य प्राथम्यात्काव्यलक्षणे प्रागुपादानाच्च शब्दालंकारविशेषलक्षणे वक्तव्ये 'वक्रोक्तिः काव्यजीवितम्' इति कैश्विदभिहितत्वेन वक्रोक्तेश्रवारुत्वातिशयात् उक्तिवक्रताया: स्फुट शब्दालंकारत्वाच्च प्रथम वक्रोक्ति लक्षयति यदुक्तमित्यादि" इति॥ यदुक्तमिति (एकेन वक्त्रा) अन्यथा अन्याभिप्रायेण उक्ते यत् वाक्यम् अन्येन श्रोत्रा श्लेषेण शब्दबोध्यार्थान्तरेण काक्का ध्वनिविकारेण वा अन्यथा अन्यार्थकतया योज्यते संगम्यते सा वक्रोक्तिः। सा च तथा द्विधा श्लेषवक्रोक्तिः काकुवकोक्तिश्र्वेति द्विविधेत्यर्थः । एकेनान्याभिप्रायेणोक्तं वाक्यम् अन्येन यदि अन्याभिप्रायकं कल्प्यते तदा वक्रोकक्तिरलंकार इति तात्पर्यम्। वक्तृश्रोतृनिर्वाह्योऽयमलं- कार इति भावः । अत्र 'योज्यते' इत्यन्तं सामान्यलक्षणम् 'श्लेषेण काक्का वा' इति योजनाहेतुकथन- मुखेन विशेषलक्षणद्यम् 'सा तथा द्विधा' इति लक्ष्यविशेषकथनं विभाग इति बोध्यम्। अन्येने- त्युक्त्या वक्ष्यमाणापह्नतौ नातिव्यातिः अपह्नतौ स्वोक्तेः स्वयमेवान्यथाकरणात्। यथा 'काले पयो- धराणामपतितया नैव शक्यते स्थातुम। उत्कण्ठितासि तरले नहि नहि सखि पिच्छिलः पन्थाः॥' इति। अत्र 'अपतितया' इति पति विनेत्यभिप्रायकं स्ववचनं पतनाभावेनेत्यर्थे स्वेनैवान्यथा कृतमित्यु-

Page 551

४९२ काव्यप्रकाशः सटीकः । तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च। तत्र पदभङ्गम्लषेण यथा नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो वामानां प्रियमादघाति हितकृन्नैवाबलानां भवान्। युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्य भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥ ३५२॥त चिनकगोण्छ दयोतसारबोधिनीविस्तारिकादिषु स्पष्टम्। ननु नात्रापह्नतिः "प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वप- ह्रतिः" इत्यपह्नतिलक्षणे 'प्रकृतम् उपमेयम्' इति वृत्तौ व्याख्यातत्वेनोपमानोपमेयभावसत्वे एव तत्प्रवृत्ते: अन्नतु नोपमानोपमेयभाव इति तदप्रवृत्तिरिति चेन्न। तन्रउपमेयमित्युपलक्षणम् किंचि- दपह्नत्य कस्त्चित्प्रदर्शनमपह्नततिरित्येव लक्षणम् इति व्याख्यास्यमानत्वादिति बोध्यम्। श््ेषेणे- त्यस्य शब्दबोध्यार्थान्तरेणेत्यर्थकत्वेन 'मश्चः कोशति किमहो प्रयासि नय मां परावृत्त्य। किं कात- रतयैवं मुह्यसि मश्चः किमालपति॥' इत्यादौ मुग्धया नवाभिसारिकया पुरुषे लक्षणया प्रयुक्त मश्चपदं दूत्या मुख्यार्थाभिप्रायेण योजितमिति अस्य न भेदान्तरतवमित्याहुः। 'अङ्कं केऽपि शश- ड्विरे' इत्यपह्नतावतिप्रसङ्गवारणाय सामान्यलक्षणे 'उक्तं वाक्यम्' इत्युक्तम् ॥ सूत्रे तथेत्यस्य ताभ्यामुपाधिम्यामित्यर्थः तदाह श्लेषेत्यादि। शर्लेषश्र द्विधा सभङ्गपदोऽभङ्गप- :FFT दश्चोत बोध्यम। अस्मिन्नलंकारे तत्तच्छब्दानां परिवत्त्यसहत्वन शब्दस्यव चमत्काराधायकतया चास्य शब्दालंकारत्वम् । एवमग्रिमाणामपीति ज्ञेयम्।। तत्र द्विविधे श्लेषे सभङ्गपदश्लेषण या वक्रोक्तिस्तामुदाहरति नारीणामिति। नारीणां स्त्रीणाम् अनुकूलम अनुगुणम् आचरास चेत् जानासि विज्ञोऽि (अभिज्ञोऽसि) विज्ञ एव स्त्रीणामनुकूल इति भाव: इति वक्त्रभिप्रायकं वाक्यम् 'अरीणां शत्रणाम् अनुकूलं नाचरसि चेत् जानासि' इत्यर्थपस्तया योजयत्वा श्रोता आह कश्ेतन इति। क चेतनः ज्ञानवान् वामाना प्रतीपाना (प्रतिकूलानां शत्रूणां) प्रियं हितम् आदधाति आतनोति काका नादधातीति लभ्यते कोऽपि नाद्धातीत्यर्थः। "वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे। पयोधरे हरे कामे विद्याद्वामामपि स्त्रियाम्" इति विश्वः। वामानामित्यस्य नारीणामित्यर्थपरतया योजयित्वा प्रथमः पुनराह हितकृ- दित्यादि। भवान् अबलानां स्त्रीणां हितं करोतीति हितकृत् हितकारको नैव भवतीत्यर्थः। अथा- परः अबलानामिि दुर्बलार्थकतया हितकृदिति च (हितं कृन्तति छिनत्ति इति व्युत्पत्त्या ) हित- कर्तनार्थकतया योजयित्वाह युक्तं किमित्यादि। बलाभावन शक्त्यभावेन प्रसिद्ध आत्मा स्वरूप यस्य तादृशजनस्य हितकर्तन हितच्छेदनं कि युक्तम् अपि तु नेत्यर्थः। "बलं सैन्यं बलं स्थौल्यं बलं शक्तिर्बलोऽसुर" इति यादव। प्रथमस्तु बलस्य बलनाम्नोसुरविशेषस्याभावन नाशन प्रसिद्धस्व- रुपस्य इन्द्रस्य हितकर्तनं कि युक्तम् अपितु नेत्यर्थपरतया योजयित्वा पुनराह सामथ्यमित्यादि। पुरंदरस्य इन्द्रस्य यत् मतम् इट तस्य छेदो नाशस्तं विधातुं कर्तु भवतः तब कुतः सामर्थ्य शक्ति: सामथ्ये सति युक्तायुक्तविचार: तदेव भवतो नास्तति भावः। उद्योतकारास्तु साम्थ्य युक्तायुक्तविचारानुकूलव्यापार इत्याहुः। शार्दूलविकाडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र वक्रोक्तिरलंकार: वक्त्रा अन्याभिप्रायेणोक्तस्य वाक्यस्य श्रोत्रा अन्यार्थकतया योजितत्वात्।

Page 552

नवम उल्लास:।

अभङ्गश्लेषण यथा DioE (४o९ ०g) अहो केनेदशी बुद्धिर्दारुणा तव निर्मिता। त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित्॥ ३५३॥ आकन्डर्शहर कोर्ट काक्का यथा गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम्। अलिकु लकोकिलललिते नैष्यति साख सुरभिसमयेऽलौ॥३५४॥ अत्र नारीणामित्यादीनां पदानां अर्थकत्वात्सर्वत्र श्लेष: । एवं च श्लेषमूलिका वक्रोक्तिरियम्। उक्तं चान्यैरपि "अत्र नारीणामिति पदं कामिनीपरतया वक्त्रा उक्तम् प्रतिवक्त्रा तु 'न अरीणाम्' इत्यर्थपरतया योजितम् ततस्तेन शत्रुपरतयोक्तं वामानामिति पदं वक्त्रा नारीपरतया योजितम् ततस्तेन हितकारिपरतया हितकृदिति नारीपरतया अबलानामिति चोक्तम् प्रतिवक्त्रा यथाक्रमं हितच्छेत्तृपरतया दुर्बलतया कल्पितम् ततस्तेन दुर्बलपरतयोक्तं 'बलाभावप्रसिद्धात्मनः' इति पदं वक्त्रा बलासुरनाशक(इन्द्र)परतया योजितम्" इति। अत्र नारीणामिति पदे अबलानामिति पदे च सभङ्गश्लेषः नाराति समुदायस्य अबलेति समुदायस्य च स्त्रियां रूढत्वादिति बोध्यम्। यद्यपि वामादिपदेन भङ्गस्तथापि नारीणामिति पदभङ्गमुपजीव्य प्रवृत्तानां श्लेषान्तराणां स एव मूलमिति तेनैव व्यवहार इति सारबोधिनीकारादयः । अन्ये तु यद्प्यत्रैव वामानामित्यादिषु अभङ्ग श्लेषः

अभङ्गमात्रपदेन श्लेषेण या वक्रोक्तिस्तामुदाहरति अहो इति। दारुणा क्रूरा। "दारुणो रस- भेदे ना त्रिषु तु स्यान्द्रयावहे" इति विश्वमेदिन्यौ। त्रिगुणा सत्त्वरजस्तमोरूपगुणत्रयात्मिका बुद्धेः प्रकृतिपरिणामतया त्रिगुणात्मकत्वमिति सांख्यसिद्धान्तात। यद्वा सूक्ष्मग्राहित्वआशुग्राहित्वगृहति- ग्राहित्वरूपगुणत्रयवती। दारुमयी काष्टमया। "काछ दारु" इत्यमरः। अत्र दारुणेति क्रूरेतयर्थ- कत्वेन वक्तुरभिप्रेतम् काष्ठेनेत्यर्थपरतयान्यो योजितवान् अस्मिन्पक्षे "प्रकृत्यादिभ्य उपसंख्या- नम्" इति वार्तिकेन विहितायाः दारुणेति तृतीयाया अभेद एवार्थः "धान्येन धनवान् स्वर्णन धनवान्" इत्यत्रेवेति बोध्यम्। अत्र दारुणा क्रूरा काष्ठेनेत्युभयार्थपक्षेऽपि दारुणेति पदस्य न भङ्ग इत्यभङ्गपदश्लेषेण वक्रोक्तिरियम्। काकुवक्रोक्तिमुदाहरति गुरुजनेति। प्रवासं जिगमिषौ नायके नायिकायाः सख्याश्र वचन- प्रतिवचनरूपं पद्यमिदम। हे सखि गुरुजनपरतन्त्रतया पित्रादिपराधीनतया। "परतन्त्रः पराधीनः" इत्यमरः । 'गुरुपरतन्त्रतया बत' इति पाठे बतोति खेदे। दूरतर देश विषयान्तरं गन्तुम् उद्यतः उद्युक्त असौ कान्तः अलिकुलै भ्रमरसमूहैः कोकिलैश् ललिते रमणीये सुरभिसमये वसन्तकाले। वसन्ते पुष्पसमयः सुरभिः" इत्यमरः । नैष्यति नागमिष्यति इति वक्त्यभिप्रायकमिदं वाक्यम्। आर्या छन्दः। लक्षणमक्तं प्राक ४ पृष्ठे ॥ जिक णिाव

अत्र नैष्यतीति निषधाभिप्रायेण नायिकयोक्तम्। पुनस्तद्वोत्तरयन्त्या सख्या तु न एष्यति अपि तु एष्यत्येवेत्यर्थतया काक्का (ध्वनिविकारेण ) योज्यते। पारतळ्त्रयं न सार्वदिकमिति भातः।

Page 553

काव्यप्रकाशः सटीकः ।

(सू० १०४) वर्णसाम्यमनुप्रास:

अतोऽत्र काकुवक्रोक्तिरियम् । अत्र काको: शब्दधर्मतया शब्दालंकारता अन्यथायोजनं च व्यञ्ञन- येति प्रदीपोह्योतयोः स्पष्टम् ॥ अत्र प्रदीपकारा: इयं च न वोकोवाक्यमात्रे किं तु स्वतोऽप्यन्येनोक्तस्यान्यथायोजनमात्रे न्यायसाम्यात्। यथा मम 'कृष्णो वैरिविमर्दने हरिपदप्रत्यिर्जने त्वर्जुनः पीतः पङ्कजलोचनाभिरभितो नेत्राञ्चलैश्वञ्चलैः। रक्त: सज्जनसंगमेषु करणश्रेणीमणे श्रीधिर स्थाने वर्णचतुष्टयस्य भुवने भर्ता भवान् गीयते॥' अत्र वर्णचतुष्टयस्य भर्ता श्रीधर इति सार्वलौकिकं वाक्यमन्यथा श्लेवादिनास्माभि: समर्थितम् एवमन्यदप्यूह्यमित्याहुः ॥ इति वक्रोक्तिः ॥ १॥ "अथावृत्तिनिबन्धनेष्वलंकारेषु लक्षणीयेषु रसानुगुणतयानुप्रासः प्रथमं लक्षणीयः। स द्विधा वर्णा- नुप्रासः पदानुप्रासश्र। तत्राद्योऽवाचंकवर्णमात्रावृत्तौ द्वितीयस्तु वाचकपदावृत्ताविति वस्तुगतिः। तत्रायं लक्षयति वर्णसाम्यमिति। अव्यवधानेन वर्णमात्रविन्यासो वर्णानुप्रास इत्यर्थः। शब्दसाम्यत्वमनुप्रास- सामान्यलक्षणमित्यर्थाल्लभ्यते। वर्णपदं व्यञ्जनपरम्। अतो व्यञ्जनवैसादृश्ये विरिश्चिपदादौ नाति- व्यापतिः। न चेष्टैव सा तत्रानुप्रासशब्दार्थस्याभावात्। रसादिभिरनुगत प्रकृष्ट आसो न्यासो ह्यनुप्रास- शब्दार्थः। न च स्वरमात्रसादृश्ये रसानुगमः न वा सहृदयहृदयावर्जकत्वलक्षणः प्रकर्षः" इति प्रदीपः । (वर्णानुपास इति। केवलानुप्रासशब्द एव वर्णसाम्यवृत्तिर्न तु वर्णानुप्रास इति सूत्रस्वरसाच्चिन्त्यमेत- दित्येके। अवाचकवर्णमात्रिति। सूत्रे वर्णपदमहिम्रा तथैव लाभादिति भावः। व्यअ्ञनवैसादृश्ये इति। स्वरमात्रसादृश्येऽपीति शेषः । रसादिभिरनुगत इति। आदिना भावादीनां संग्रहः अनेन यमकव्या- वृत्ति: तत्रार्थभेदप्रतिसंधानेन रसावगमविलम्बात्। लाटानुप्रासे च नातिव्याप्तिः तात्पर्यभेदप्रतिसंधानेन तत्रापि रसावगमविलम्बात् । प्रकृष्टः संनिहितः। तेनातिव्यवधानेन न्यासस्य चमत्काराप्रयोजकस्य व्युदासः। न न्र स्वरमात्रसादृश्ये इति। मात्रपदेनोभयसाम्ये चारुत्वातिशय इति ध्वन्यते। यथा 'अग्रेसरा वासराः' इत्यादौ। साम्यं च श्रुतिकृतमपि गृह्यते । यथा 'याति राजा बलाढ्यः' इति 'रंहः संघः' इति च श्रुतिसाम्यं स्थानैक्यात् । जातिसाम्ये तु मूले एवोदाहरणम्। सहृदयहृदयावर्जक- त्वं सहृदयहृदयानुरञ्जकत्वम् । प्रकर्षश्र्वाव्यवधानेन न्यासः स एव च सहृदयहृदयानुरक्षकः) १ वक्रोक्तिः ॥ २ उक्तिप्रत्युक्तिरूपवाक्यमात्रे इत्यर्थः। वाकोवाक्यलक्षणमुक्तं सरस्वतीकण्ठाभरणे द्वितीय- परिच्छेदे "उक्तिपत्युक्तिमद्वाक्यं वाकोवाक्यं विदुर्बुधाः । द््योर्वक्त्रोस्तदिच्छन्ति बहूनामपि संगमे ॥" इति ॥ ३ रुष्ण इति। रुष्ण: श्रीरुष्ण: कृष्णवर्णश्र् ! अर्जुनः पार्थो धवलश्य। पतिः सादरं दृष्टः पीतिवर्णश्। रक्तः अनु. रक्तः आरक्तवर्णश्र्। करणाः कायस्थाः ।[ "करणं कारणे काये साधनेन्द्रियकर्मतु। कायस्थे वतचन्धे च नाट्य- गीतप्रभेदयोः । पुमात्र् शूद्राविशोः पुत्रे वानरादौ च कीर्त्यते" इत्यजयः ।] श्रीधराख्यः प्रभुः। भवान् वर्णचतुष्टयस्य भर्तेति यत् भुवने गीयते तत् स्थाने युक्तमित्यर्थः। [ "युक्ते द्वे सांप्रतं स्थाने" इत्यमरः । "स्थाने तु कारणार्थे स्यायुक्तसादृश्ययोरपि" इति मेदिनी च ] भर्ता धारकः पोषकश्र्वेति प्रभायां स्पष्टम् ॥ श्लेषेणास्माभिरिति पाठः। श्लेषादिनति पाठे आदिपदार्थ्रियन्त्य इत्युद्व्योतः' ५ व्यञ्जनमत्र हूलवर्णः ।।

Page 554

नधम उल्लास: । ४९५

स्वरवैसाद्टश्येऽपि व्यअ्षनसदशत्वं वर्णसाम्यम्। रसाद्यनुगतः प्रक्रुष्टो न्यासोऽनुप्रासः। (सू० १०५) छेकवृत्तिगतो द्विधा। छेका: विदग्धाः । वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकानुप्रासो वृत्त्यनु- प्रासश्च। किं तयो: स्वरूपम् इत्याह इत्युद््योनः । (वर्णमात्रेति । समानवर्णेत्यर्थः । पदानुप्रासेऽतिव्याप्तिवारणाय मात्रेति। शब्देति । विभक्त्यन्तप्रातिपदिकोभयसाधारण्यायैवमुक्तम्। अन्यथा पदेत्युक्तौ विभक्त्यन्तस्यैव ग्रहणं स्यादिति भाव:) इति प्रभा ॥ तदेतत्सर्वमभिप्रेत्य वृत्तिकारः संक्षेपेण सूत्रं व्याचष्टे स्वरवैसादृश्येऽपीत्यादि। स्वराः अच: तेषां वैसादृश्येऽपि वैलक्षण्येऽपि । व्यक्जनानि हलः । "व्यञ्जनं त्वर्धमात्रकम्" इत्युक्तत्वात् । अत्र सारबोधिनीकाराः "यमकेऽतिव्याप्तिरित्यत आह स्वरवैसादृश्येऽपीति। अत्र स्वरसाद्ृश्यं न प्रयोजकम्। कुलालकलत्रमित्यादिष्वपि दर्शनात्। यमके तु समानानुपूर्वीकत्वनियमः । अत एव यमके वक्ष्यति 'वर्णानां सा पुनः श्रतिः' इति। साम्यमिति। तत्त्वं तु समानश्रुतिमत्वमित्यर्थः । संभवत्स्वरसाद्टश्यं तु तत्प्रकर्षकम् अत एव व्यञ्षनसाम्यमित्यपहाय वर्णसाम्यमित्युक्तम्" इत्याहुः । अनुप्रासपदस्य योगार्थमाह रसाद्यनुगत इत्यादि। अनुशब्दोऽनुगमार्थकः प्रशब्दः प्रकर्षार्थकः आसशब्दो न्यासार्थकः अनुगमनं रसादेरिति बोध्यम्। अन्रेदं तत्त्वम्। रसाद्यनुगतः प्रकृतरसव्यञ्जक- वर्णसंबन्धित्वेन प्रकृतरसानुकूल: प्रकृष्टः अनतिव्यवहिततया चमत्कृत्याधायकः न्यासः आवृत्तिः। तथा चानतिव्यवहितत्वेन चमत्कृत्याधायिका प्रकृतरसव्यञ्जकसदृशवर्णावृत्तिरनुप्रास इति फलितम्। अत्रैव वर्णसाम्यपदस्य तात्पर्यम्। शब्दस्य साम्ये तदन्तर्गतवर्णस्य साम्यमप्यक्षतमिति लाटानुप्रा- ससंग्रहः । प्रकृतरसप्रतिकूलेऽपि अनुप्रासव्यवहारो भाक्त इति॥ अनुप्रासो हि द्विविध: वर्णानुप्रासः शब्दानुप्रासश्वेति। निरर्थकवर्णानुप्रासः प्रथमः द्वितीयस्तु सार्थकवर्णानुप्रासस्वरूपः। तत्र प्रथमं वर्णानुप्रासं विभजति छेकवृत्तीति। गतपदस्य द्वन्द्वोत्तरव- र्तित्वनोभयत्राप्यन्वयः । छेकगतो वृत्तिगतश्र्वेति द्विविध इत्यर्थः । छेकगतः विद्ग्धाश्रितः तत्प्रिय- त्वात्तदाश्रितत्वम् । यद्वा तैः प्रचुरतरमेतत्प्रयोगात्तदाश्रितत्वम्। छेकानां विदग्धानां (चतुराणां) प्रचुरप्रयोज्य इति यावत्। "छेकस्त्रिषु विद्ग्धेषु गृहासक्तमृगाण्डजे" इति रभसः । वृत्तिगतः वृत्त्याश्रितः तदुपोद्वलकत्वात्। "वृत्तिश्र मधुरादिरसानुगुणनियतमसृणादिवर्णगतो रसविषयो व्यापारो व्यञ्जनाख्यः" इति प्रदीपकृतः । "नियतरसविशेषव्यञ्जकत्वेन परिगणिता वर्णास्तद्गतस्तनिनिश्ठे व्यापार: सहकारी आनुपूर्वीविशेषः स एव वृत्तिः" इति चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यादयः। "वृत्तिश्र्व माधुर्यादिव्यक्षकसुकुमारादिवर्णगतत्वेन मधुरादिरसोपकारकः शब्द्स्य संघटनाख्यो व्यापारविशेषः" इत्यन्ये। एकत्वशङ्काव्युदासाय द्विधेत्युक्तम् ॥ सूत्रद्धयमेकदैवावतारयति किं तयोरित्यादि। तयोः छेकानुप्रासवृत्त्यनुप्रासयोः । स्वरूपमिति । स्वं लक्ष्यपदार्थो रूप्यते लक्ष्यते (इतरव्यावृत्ततया ज्ञायते) अनेनेति व्युत्पत्या स्वरूपं लक्षणमित्यर्थः

Page 555

४९६ काव्यप्रकाश: सटीकः । (सू० १०६) सोनेकस्य सकृत्पूर्व: InSpRIeus P2Bya1DpN अनेकस्य अर्थात् व्यअ्ञनस्य सकृदेकवारं सादश्यं छेकानुपासः। उदाहरणम् १ ०प ) ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी। दधे कामपरिक्षामकामिनीगण्डपाण्डुताम्॥३५५॥ (सू० १०७) एकस्याप्यसकृत्परः ॥ ७९॥ 1ISWFR

एकस्य अपिशब्दादनेकस्य व्यअनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुपासः। एऊक : की

इतरभेदकमिति यावत। इत्याहेति। 'क्रमेण सूत्राभ्याम्' इति शेषः। सोऽनेकस्येति। अनेकस्य व्यञ्जनस्य सकृत् एकवारं साम्यं पूर्वः अद्यः छेकानुप्रास इत्यर्थः॥ सूत्रं व्याचष्टे अनेकस्येति । अर्थात् स्वरसाम्यस्यानियामकत्वात् । व्यअ्ञनस्य हल्वर्णस्य। सूत्रे स इत्यस्यानुप्रासपरामर्शकत्वम्। स चानुप्रासो वर्णसाम्यस्वरूपः। तत्र वर्णस्य 'अनेकस्य' इति पदेनैव लाभात्साम्यमात्रपरामर्शकस्तच्छब्द इत्याशयेनाह सादृश्यमिति। साम्यमित्यर्थः। पूर्वपदा- र्थमाह छेकानुपरास इति॥ ततोऽरुणेति 1 भारते रात्रियुद्धान्ते प्रभातवर्णनमिदमिति कमलाकरभट्टोक्तम् प्रभातवर्णनेयं व्यासपादानामिति चक्रवत्युक्तम् तदुभयमपि चिन्त्यमेव। द्रोणपर्वणि १८४ अध्याये रात्रियुद्धान्तेऽस्य पद्यस्यानुपलम्भात्। अरुणस्य अनूरो: (सूर्यसारथेः) न तु सूर्यस्येति भावः परिस्पन्देन किंचिच्चलनेन न तु पूर्णोदयेनेति भावः मन्दीकृत विरुचीकृतं (निष्प्रभीकृतं) वपुर्यस्य तादृशः शशी चन्द्रः कामेन स्मरेण परिक्षामा क्षीणा या कामिनी तस्या: गण्डवत् कपोलवत् पाण्डुतां शुभ्रतां दधे धारयामासेत्यर्थः॥ अत्र स्पन्दमन्दीत्यत्र नकारदकारात्मकस्य गण्डपाण्डु इत्यत्र च णकारडकारात्मकस्यानेकव्यञ्जनस्य सकृत्साम्यमिति छेकानुप्रास इति प्रदीपचन्द्रिकादिषु स्पष्टम। सारबोधिनीकारास्तु व्यवहितस्यापि अनेकस्य व्यञ्जनस्य सकृत्साम्ये छेकानुप्रासं मन्यमाना: "स्पन्दमन्दीत्यत्र कामकामीत्यत्र नकारद- कारयोः ककारमकारयोरप्यनेकस्य सकृत्साम्यम्" इत्याहुः। एवमुद््योतकारा अपि "नकारदकारस्य णकारडकारक कारमकाराणामनेकेषाँ सकृत्साम्यम्" इत्याहुः - वृत्त्यनुप्रास लक्षयति एकस्यापीति एकस्य य वा नस्यासकृत् अनेकवारं साम्यं परो वृत्यनुप्रास इत्यर्थः। तमेवाह एकस्येत्यादि उक्तसमुच्चयार्थोSपिशब्द इत्याह अपिशब्दादिति। असकृदिति व्याचष्टे द्विर्वहुकृत्वो वेति। द्विवारं बहुवारं वेत्यर्थः। पर इत्यस्यार्थमाह वृत्त्यनुपास इति। यत्तु श्रीवत्सलाञ्छनभट्टाचार्यैरुक्तम् "अन्नैकस्य सकृत्साम्येऽपि वृत्यनुप्रासमिच्छन्ति। यथा व्याधूतचूताङ्करेत्यत्र तकारस्य" इति तत्प्रामादिकम्। तत्र 'ऊत ऊत' इत्यस्य छेकाभासत्वात्। न ह्येकस्य व्यञ्ञनमात्रस्य सकृदावृत्तौ कश्विच्चमत्कारोऽनुभयते। एवं च प्रदीपकारैवृत्तिं व्याख्याय यदु- क्तम् "वस्तुतस्तु छेकानुप्रासभिन्नं लक्ष्यम् अन्यथैकस्य सकृदावृत्तेरसंग्रहापत्तेः एवं चैकस्य वर्णस्य सकृदसकृद्दानेकस्य त्वसकृत्सादृश्यं वृत्त्यनुप्रास इति पर्यवसन्नम्" इति तदीर्ष्यामात्रम्।नि खलु १ चिन्त्यमेवेति। इयमत्र चिन्ता। अस्य पद्यस्य १३० सूत्रोदाहृतमहाभारतोक्तपद्यसादृश्यात्तदेवेद्मिति कम- लाकरभट्चक्रवरतिनार्धान्तिः ॥२ "सरुदावृत्तेिते। यथा व्याधुतचुताङ्करति" इत्युद्योतः ॥

Page 556

नवम उल्लास:।

तत्र (सू० १०८) माधुर्यव्य ञ्जकैवर्णैरुप नागरिकोच्यते। (सू० १०९) ओज:प्रकाशकैस्तैस्तु परुषा F९६ ०N) उभयत्रापि प्रागुदाहृतम्। (सू० ११०) कोमला परैः ॥ ८० ॥ परैः शेषैः । तामेव केचित् आ्म्येति वदन्ति। उदाहरणम् अपसारय घनसारं कुरु हारं दूर एव किं कमलैः। अलमलमालि मृणालैरिति वदति दिवानिश बाला ॥ ३५६ ॥ बाग्देवतावतारवृत्तिकारोक्तं ब्रह्मणाप्यतिवर्तितु शक्यमित्यसकृद्ावेदितमस्माभिस्तत्र तन्नेति सुधीभिट्र- षव्यमिति सुधासागरे स्पष्टम। एवं चैकस्य सकृत्साम्यं न चमत्कारजनकमिति नास्यानुप्रासर्त्व ग्रम्थकृदनुमतमिति यथाश्नतमेव सम्यगित्यवधेयम्॥। तथा चाहुश्कवतिभट्टाचार्या अपि "अत्रैकस्यापि सकृत्साम्ये वृत्तित्वमिच्छन्ति। यथा व्याधूत- चूताङ्ररेत्यत्र तकारस्य तन्न। अस्या: गुणव्यक्षकनियतवर्णगत [त्व]नियमात् तकारस्य माधुर्यादिव्यअ्ञ- कत्वेनापरिगणितत्वात् छकारादिविशेषव्यपदेशेऽप्यनुप्रासत्वसामान्यम्। द्विधेत्यस्यैकत्वसंदेहव्यवच्छेद- कत्वेन व्याख्यातत्वात् अन्यथाधिकसंख्याव्यवच्छेदकत्वे लाटानुप्रासेऽनुप्रासत्वाभावप्रसङ्गात्। कि त्वेक- स्य सकृत्साम्ये नाधिकचमत्कार इति विदग्धाप्रयोज्यत्वानृच्छेदकत्वेन संग्रृहीतमिति भावः "इति॥ वृत्यनुप्रासघटकतयोद्टङ्कितां वृत्तिं प्रसङ्गात् विभजति तत्रेति। वृत्त्यनुप्रासे इत्यर्थः । माधुर्येति। माधुर्यव्यअ्जकैः "मूर्ति वर्गान्त्यगाः स्पर्शाः" (४८४ पृष्ठे) इत्यादिप्रतिपादितैः वर्णेः अक्षरैः सुक्ता वृत्ति: उपनागरिका नागरिकया चतुरया स्त्रियोपमिता उपनागरिकेत्युच्यते। तथा चोक्तम "स्वरू- पसंयोगयुतां मूर्व्नि वर्गान्त्ययोगिभिः। स्पशैर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥" इति। एषैव केषाचिन्मते वैदर्भी रीतिरिति वक्ष्यते॥। ओज प्रकाशकैरिति। ओज:प्रकाशकैः ओनाव्य्कैः ("योग आयवृतीयाभ्याम्" (४८५ पृष्ठे) इत्यायुक्तैः) तैः व्णैः यक्ता वत्तिः परुषा परुषवर्णघटितत्वात् परुषेत्युच्यते इत्यर्थः। एषैव केषांचिन्मते गौडी रीतिरिति वक्ष्यते ।। उभयत्रापपि किमुदाहरणमित्याकाङ्कयामाह उभयत्रापीति। उपनागरिकायां पुरुषायां चेत्यर्थः। प्रागुदाहृतमिति। अष्टमोल्लासे माधुर्यौजसोर्व्याख्यानावसरे 'अनङ्गरङ्गप्रतिमं तदङ्गम' ( ४८५ पृष्ठे) इत्यादि 'मूध्ामुद्ृत्तकृत्त' (४८६ पृष्ठे) इत्यादि चोदाहृतमिति भावः ॥ तृतायां वृत्तिमाह कोमलेति । परैः शेषैः (ओजोमाधुर्यव्यञ्जकातिरिक्तैः प्रसाद्वाद्भः) वर्णैः युक्ता वृत्तिः कोमलेत्युच्यते इत्यर्थः। एषैव केषांचिन्मते पाश्चाली रीतिरिति वक्ष्यते । अस्या एव संज्ञान्तरं केचिदाहुरित्याह तामेवेति। एनां कोमलामेव केचित् उद्भटादयोऽतिशयितकान्तिराहि- त्येन ग्राम्यस्त्रीसाम्यात् (अविदग्धस्त्रीसादृटश्यात्) ग्राम्येति वदन्तीति भावः। तदुक्तम् "शेषर्वणैर्य- थायोगं ग्रथितां कोमलाख्यया। ग्राम्यां वृत्ति प्रशंसन्ति काव्ये निष्णातबुद्यः ॥" इति !गए कोमलां वृत्तिमुद्दाहरति अपसास्थेति। व्याख्यातामिदं प्रागष्टमोलासे (४६६ पृष्ठे)। अन मूर्तनि ६३

Page 557

४९८ काव्यप्रकाशः सटीक:।

(सू० १११) केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः। एतास्तिस्त्रो वृत्तयः वामनादीनां मते वैदर्भींगौडीपाश्चाल्याख्या रीतयो मता: ॥ (सू० ११२) शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ।।८१॥ शब्दगतोऽनुप्रासः शब्दार्थयोरभेद्ेऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः। एष पदानुपास इत्यन्ये।। वर्गान्त्यगाभावात् आद्यतृतीयादियोगाभावाच्च कोमला वृत्तिरिति बाध्यम् । अत्र न केऽपि वर्णाः माधुर्यव्यञ्जकाः येऽपि च त्रयो लघुरेफाः ते त्वतिव्यवहिता न माधुर्य व्यञ्जयितुमशिा इति भावः । नेदंः माधुर्यौजसोरव्यञ्जकतया प्रागुदाहृतमिति अत्रोदाहृतमिति बोध्यम्। अत्र सरस्वतीतीर्थाः अत्र रेफस्य लकारस्य बहुकृत्व: सादश्यात् वृत्त्यनुप्रासः। उपनागरिकापरुषाकोमला वृत्तयोऽनुप्रासस्या ङभूता इत्याङु॥7

एतासां वृत्तीनामन्यमते नामान्तराण्याह केषांचिदिति । एता इत्यस्यार्थमाह तिस्रा वृत्तय रति। उपनागरिकापरुषाकोमलाख्यास्तिस्त्रो वृत्तय एवेत्यर्थः। केषांचिदित्यस्यार्थमाह वामनादी- सामिति। मते इंति। यथाक्रममिति शेषः । पाश्चाल्याख्या इति। लादी अल्पान्तरत्वात्पाश्चा ल्यन्तर्गतैवेति बोध्यमित्युद्द्योते स्पष्टम्।

एवं वर्णानुप्रासं निरूष्य इदानीं शब्दानुप्रासं लक्षयति शाब्दस्त्विति। शब्यते प्रकाश्यतेऽ- निनेति शब्द: शब्दनारूपव्यापारवान् स च प्रातिपदिकसंज्ञको विभक्त्यन्तश्रवति द्विविधः तद्गतः शाब्द: । शब्दनारूपव्यापारशार्थबोधानुकूल: शक्त्यादिरिति बोध्यम्। तात्पर्यमन्वयभेदः स क; तात्पर्यविषयसंसर्गस्तन्मात्रतः तन्मात्रात् भेदे सति (न तु स्वरतोऽर्थतः क्रमतश्र भेदेऽपि )। तथा च भिन्नतात्पर्यकतुल्यार्थकशब्दसाद्ृश्यं शब्दानुप्रासः स तु लाटानुप्रास इत्युच्यते इत्य्थः। तुशब्दो वर्णानुप्रासस्य लाटीयत्वव्यवच्छेदकः । केचित्तु अनुप्रासाद्भिन्न एवायं नानुप्रासत्वाक्रान्तः एतद्वोधक एव तुशब्दः लाटानुप्रासव्याहारस्तु 'पिष्टकमय्यो गावः' इतिवत्। अत एव "वर्णसाम्यमनुप्रासः" इत्येवाक्तं न वर्णानुप्रास इतात्याहु। मात्रपदेन यमकव्यावृत्तिः तत्रार्थभदात्। भेदे इत्यनेन पुनरु- क्तत्वव्यावृत्तिः अर्थैक्ये सति अभिन्नतात्पर्यकशब्दप्रयोगे पुनरुक्तत्वस्य काथतपदत्वस्य च प्रवृत्तेः। एतेन "पुनरुक्तत्वव्यवच्छेदाय 'भेदे तात्पर्यमात्रतः' इत्युक्तम्" इति कस्यचिद्वयाख्यानमपास्तम् समुदायस्य पुनरुक्तत्वव्यावृत्त्यर्थकत्वकल्पनाया असम्यक्त्वादिति प्रदीपोद्द्योतयो: स्पष्टम् ॥

व्याख्यातं च विवरणेऽपि "शाब्दः सार्थकवर्णगतः। उद्देश्यविधेयभाबादिः कर्तृकर्मत्वादिरूपश्र पदार्थयो: संबन्धोऽन्वयः तदेवात्र तात्पर्यम् तन्मात्रस्य भेदे। अत्रापि वर्णसाम्यमेत्यनुषज्यते। तेन विभिन्नान्वयपराणां समानानुपूवाकाणां तुल्यस्वरूपाणामेकार्थकानां वर्णानां (वर्णयोर्वा) अनतिव्य- वधानेनावृत्ति: शाब्दानुप्रासः स च लाटानुप्रास इत्युच्यते" इति॥

तदेतत्सर्वमभिप्रेत्य वृत्तिकार: सूत्रं व्याचष्टे शब्दगत इत्यादि। शब्दगत इत्यनेन छेकानुप्रासवृत्त्य- नुप्रासाभ्यामस्य भेदो दर्शितः तयोरनिरर्थकगतत्वादिति बोध्यम्। लाटेति। लाटो देशविशेषः तत्स्था E अन्तरं भेद: "अन्तरमवकाशावधिपरिधानान्तर्षिभेदताद््थ्ये" इत्यमरात् ॥

Page 558

नवम उल्लास:।

(सू० ११३) पदानां सः स इति लाटानुप्रासः । उदाहरणम् यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य। यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ ३५७॥ यो जनः कविः तद्वल्लभत्वात् तत्प्रियत्वादित्यर्थः । अस्यैव संज्ञान्तरमाह एष इति । एष एवेत्यर्थः । अन्ये इति। केचिदित्यर्थः। अन्ये इत्यनेनारुचि: सूचिता। पदेत्युक्तौ विभक्त्यन्तस्यैव ग्रहणं स्यान् तु प्रातिपदिकस्येति । शब्देत्युक्त्या तु विभक्त्यन्तप्रातिपदिकयारद्योरि संग्रहो भवतीति बोध्यम्। सरस्वतीतीर्थास्तु 'एषः' इति प्रतीकमुपादाय यदाहोन्वटः "स्वरूपार्थाविशेषेऽपि पुनरुक्तिफलान्तरम्। शब्दानां वा पदानां वा लाटानुप्रास इत्यपि" इतीत्याहुः॥ शाब्दानुप्रासस्तु प्रथमतो द्विविधः पदगतो नामगतश्र्वेति । तत्राद्योऽपि अनेकपदैकपद्गतत्वेन द्विविध: अन्त्यश्र समासासमासगतत्वेन एकसमासगतत्वेन विभिन्नसमासगतत्वेन च त्रिविध इति मिलित्वा शाब्दानुप्रासः पञ्चविधः । तदेव "पदानां सः " इत्यादिना "तदेवं पञ्चधा मतः" इत्य- न्तेन दर्शयिष्यन् तत्राद्यभेदमाह पदानामिति। पदानामिति बहुवचनमनेकोपलक्षणम् अन्यथा दयोः पद्योरावृत्तौ षष्ठभेदापत्तेः॥ यस्येति। यस्य पुंसः सविधे समीपे दयिता कान्ता नास्ति तस्य तुहिनदीधितिः चन्द्रः दव दहन: (विरहोद्दीपकतया ) दावाग्निर्भवति। चस्त्वर्थे समुच्चेयाभावात्। यस्य तु सविधे दयिता अस्ति तस्य दवदहन: तुहिनदीधितिर्भवर्तीत्यर्थः । एवं च 'तुहिनदीधितिर्दवदहनः' 'दवदहनस्तुहिनदी- धितिः' इत्युभयमपि रूपकमिति फलितम्। चन्द्रिकाकारास्तु वक्ष्यमाणप्रदीपानुसारेण तदुभयमप्युपर्मा मन्यमाना: "तुहिनदीधितिर्दवदहनतुल्यः दवदहनस्तुहिनदीधिंतितुल्यः" इति व्याचख्युः । "समीपे निकटासन्नसंनिकृष्टसनाडवत् । सदेशाभ्याशसविधसमर्यादसवेशवत् ॥।" इत्यमरः । आर्या छन्दः । लक्षणमुक्तं प्राक् ४ पृष्ठे। अत्र सविधेदयितेत्यादीनां बहूनां पदानां तात्पर्यमात्रभेदेनावृत्तिरिति अनेकपद्गतो लाटानुप्रासः। पूर्वार्धे तुहिनदीधितौ दवदहनत्वं विधेयम् उत्तरार्धे तु दवदहने तुहिनदीधिंतित्वं विधेयमित्युद्देश्य- विधेयभावविप्यासेन शाब्दबोधरूपान्वयभेदात्तात्पर्यभेदोSत्रेति बोध्यम्। पूर्वार्धे दवदहनस्यैव उत्तरार्धे तुहिनदीधितेरेव च विधेयतया आरोपणम् न तु लक्षणया यथाक्रमं तापकरत्वस्य शीतलत्वस्य च विधे- यत्वं विवक्षितम् तथात्वे भिन्नार्थकत्वापत्या लाटानुप्रासो न स्यात्। लाठानुप्रासादौ उद्देश्यविधेययोवै परीत्येन निर्देशो न दोषायेति बोध्यम्। अत्रोक्तं प्रदीपोद्दयोतयोः। "अत्र यद्यपि पूर्वा्धे दवदहनश- ब्दस्य परार्धे तुहिनदीधितिशब्दस्यार्थान्तरसंक्रमितवाच्यत्वान्नार्थाभेद: तथापि शक्यार्थमात्रेणोदाहर णम्। यद्वा अविशिष्टपदावृत्तेरेवोदाहरणं द्रष्टव्यम्" इति प्रदीपः । (शक्यार्थमात्रेणेति। शक्यार्थाभेद- मात्रेणेत्यर्थः । अविशिष्टपदावृत्तेरेवेति। शुद्धपद्मात्रावृत्तेरित्यर्थः न तु तुल्यार्थत्वैविशिष्टपदावृत्ते १ मात्रपदेन तुल्यार्थत्वरूपलक्ष्यार्थाभेदव्यवच्छेदः ॥ २ शुद्धपदेति। लाक्षणिकार्थरहितपदेत्यर्थः। तानि च पद नि वस्य सविधे दयिता तस्थेति चत्वारीति बोध्यम् ॥ तुल्यार्थत्व विशिष्टपदेति। तादृर्शं पद पूर्वारधे दवदहन इति उत्तरार्धें तुहिनदीधितिरिति पदट्यमिति बोभ्यम्॥

Page 559

काव्यप्रकाश: सटीकः।

(सू० ११४) पदस्यापि अपिशब्देन स इति समुच्चीयते। उदाहरणम् वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः। सुधाकर: क्व नु पुनः कलङ्कविकलो भवेत्॥ ३५८॥ (सू० ११५) वृत्तावन्यत्र तत्र वा। नाम्: स वृत्त्यवृत्त्योश्र एकस्मिन समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम्। उदाहरणम्

रिति भावः । वस्तुतो रूपकमत्रेति न दोषः तत्र लक्षणायामपि शक्यार्थारभेदस्य व्यञ्जनया बोधे- नार्थाभेदो द्रष्टव्यः ) इत्युद्द्योतः ॥

ीक एकपदगतं द्वितीयभेदमाह पदस्यापीति। अपिशब्देन लाटानुप्रासपरामर्शकः स इति समु चीयते इत्याह अपिशव्देनेति। एकविशेष्यान्तयित्वरूपसाहित्यसूचनादिति भावः।

वदनममिति। तस्या: वरवर्णिन्याः उत्तमस्त्रियाः। "उत्तमा वरवर्णिनी" इत्यमरः "शीते सुखो- 6णसर्वाङ्गी ग्रीष्मे या सुखशीतला। भर्तृभक्ता च या नारी विज्ञेया वरवर्णिनी॥" इति रुद्रश्व। बदनं मुखं सुधाकर: चन्द्रः। सत्यं निश्वितम् यद्ा सत्यमित्यर्धाङ्गीकारे। उक्तरूपकं निषेधति सुधाकर: केति। सुधाकरः चन्द्र: पुनः कलङ्गेन विकलः रहितः क नुभवेत् न क्वापीत्यर्थः। एवं चास्य मुखरूपणायोग्यत्वमिति भावः । अत्र व्यतिरेकालंकारो व्यङ्गचः॥

अत्र सुधाकर इत्यस्यैकस्य पदस्य तात्पर्यमात्रभेदेनावृत्तिरिति एकपदगतो लाटानुप्रासः।अत्र प्रथमसुधाकरपदस्य विधेयपरत्वम् द्वितीयस्योद्वेश्यपरत्वमिति तात्पर्यभेदः। अत्राहुरुद््योतकाराः "अत्राद्यसुधाकरपदस्य लाक्षणिकत्वेऽपि प्राग्वदर्थाभेदः। उद्देश्यविधेयभावभेदाच्च तात्पर्यभेद इति बोध्यम्" इति॥

नामगतस्य (प्रातिपदिकगतस्य) प्रकारत्रयमाह वृत्तावित्यादि। तत्र वृत्तौ एकस्मिन् समासे अन्यत्र वृत्तौ भिन्ने समासे वा वृत्त्यवृत्त्योः समासासमासयोवा नाम्नः प्रातिपदिकेस्यैव स लाठानु प्रासी भवर्तात्यर्थः। वृत्तिनिरूपितप्रकारत्रये नाम्न एवं लाठानुप्रास इति भावः॥

सूत्रे पाश्ात्यमपि तत्रेति पदं प्रथमं व्याकुर्वन् वृत्तावित्येकत्वस्य विवक्षितत्वादाह एकस्मिसमासे -हति। अन्यत्र वृत्ताविति व्याचष्टे। भिन्ने वा समासे इति। वृत्त्यवृत्योरिति व्याचष्टे समासा समासयोरिति। सूत्रे समुच्चयबाधाच्चकारो वार्थे इत्याह वेति। पादानुप्रासान्वेदमाह नाम्न इति। नाम्न इत्यस्यार्थमाह प्रातिपढ़िकस्येति। प्रत्ययरहितस्येत्यर्थः प्रकृतिभागस्य प्रातिपदिकत्वात्। तदेवाह न तु पदस्येति। सुप्तिङन्तस्य पदत्वात्। यथपि भेदेन प्रातिपदिकस्य प्रयोगाभावान् तस्यावृत्ति: तथापि लुप्तविभक्तिकस्यैव प्रयोगेण तावन्मात्रपुरस्कारेण प्रातिपदिकस्येत्युक्तमिति तत्त्वम्। १. प्रातिपदिकलक्षणमाह पाणनिः "अर्थवद्धातुरप्रत्ययः प्रातिपदिकम्" (१२।१४५) इति। धातुं प्रत्यय परत्ययतं च वर्जयित्वार्थवत् यत् शदवरूप तत् प्रातिपदिकसंज्ञकं सवताति तदर्थA

Page 560

नवम उललास:।

सितर्करकररुचिरविभा विभाकराकार धरणिधर कीर्ति:। पौरुषकमला कमला सापि तवैवास्ति नान्यस्य।। ३५९।। (सू० ११६ ) तदेवं पञ्चधा मतः ॥। ८२ ।। क (सू० ११७) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः। यमकम्

सारूप्यं समानरूपता साम्यमिति यावत् । अत्र समास इत्युपलक्षणम् कृततद्धितसमासएकशेषस- नादन्तधातुरूपपश्चविधवृत्तेरपि । एतेन 'हंसायते चारुगतेन कान्ता कान्तायते स्पर्शसुखेन वायुः' इत्यादे: संग्रहः। नाम्न इत्युपलक्षणम् 'जित्वा विश्वं भवानद् विहरत्यवरोधनैः। विहरत्यप्सरोभिस्ते रिपुवर्गो दिवं गतः ॥' (काव्यादर्श: २ ) इति केचिदित्युद्योते स्पष्टम् ॥

भेदत्रयमपि एकेनैव पद्येनोदाहरति सितेति। सप्तमोल्लासे (४२९ पृष्ठे) व्याख्यातमिदम् ।अत्र करकरेत्येकसमासः विभाविभति भिन्नौ समासौ कमलाकमलेति पूर्वस्य समासः उत्तरस्यासमास इति त्रयाणामुदाहरणम् । यद्यपि कमलाकमलेत्यत्र विभक्त्यन्तस्याप्यावृत्तिरस्ति तथापि प्रकृतिभागस्यापि सास्तीत्यदोषः । यत्तु पौरुषं कमलमाश्रयो यस्याः सा पौरुषकमलेति व्याख्यानम् तदयुक्तम् कमल- पदेन आश्रयस्य कमलापदेन लक्ष्म्या अभिधानादर्थभेदेन शब्दभेदेन चानुदाहरणत्वापत्तेः । केित्तु द्वितीयकमलापदस्यापि अर्शआद्यजन्तत्वेन कमलाश्रयेत्येवार्थः पौरुषकमलाश्रयाभिन्ना कमलाश्रये- त्यर्थ: अच्प्रत्ययप्रकृतिकमलभागस्य चानुप्रास इत्याहुरिति प्रदपोद्द्योतयोः स्पष्टम्। अत्र कमला- करभट्टाः नामैकदेशावृत्तावप्ययं ज्ञेयः यथा 'मधुनि मधुकर त्वं रङ्ग्भङ्गीकरोषि' इतीत्याहुः ॥

की लाटानुप्रासस्य पश्चविधत्वमुपसंहरति तदेवमिति। तस्मादुक्तप्रकारेणेत्यर्थः । लाटानुप्रास इत्य- नुषज्यते। 'तेनायम्' इति पाठे अयं लाटानुप्रास इत्यर्थः । पश्चधेति। पदानाम् पदस्य एकस- मासे भिन्नसमासे समासासमासयोश्रेति पश्चविध इत्यर्थः । इत्यनुप्रासः ॥ २ ॥ इदानीं यमकं लक्षयति अर्थे सतीति। भिन्ना अर्था यषां तेऽर्थभिन्नास्तेषाम्। "वाहिताग्रया- दिषु" (२।२/३७) इति पाणिनिसूत्रेण निष्ठान्तस्य परनिपातः । अर्थे अभिधेये सति अर्थभिन्नानां भिन्नार्थकानां वर्णानां सा पूर्वेणैव क्रमेण स्थिता पुनः श्रुतिः आवृत्तिः यमकमित्युच्यते इत्यर्थः ।यमौ द्वौ समजातौ तत्प्रतिकृति यमकम्। "इवे प्रतिकृतौ" (५।३९६) इति पाणिनिसूत्रेण :कन् प्रत्ययः । वर्णानामिति बहुवचनमविवक्षितम् "सूत्रे लिङ्गवचनमतन्त्रम्" इति न्यायात् । अन्यथा द्योर्यमकव्यवहारो न स्यात्। तथा चैकेन क्रमेणासमानार्थकानां समानवर्णानां (वर्णयोर्वा) आवृ- न्तिर्यमकनामालंकार इति फलितोऽर्थः। अत्र चक्रवर्त्युदयोतकारादयः क्रचिदूर्णभेदेपि श्रुतिसाम्येन थमकं भवति। तदुक्तम् "यमकादौ भवेदैक्यं डलयोः रलयोर्बवोः। शषयोर्नणयोश्वान्ते सविसर्गा विसर्गयोः । सबिन्दुकाबिन्दुकयोः स्यादभेदप्रकल्पनम् ।" इति । यथा 'भुजलतां जडतामबलाजनः' इति रघुकाव्यम् (९ सर्गे ४६ श्लो०)। अत्र डकारलकारयोर्भेदेपि श्रतिसाम्येन यमकं भवतत्याहुः । यमकं हि एकस्मिन् द्वयोश्रतुर्षु वा पादेषु प्रयोक्तव्यम् न तु पादत्रये "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्" इति निषेधात् । अत एव दशमोल्लासेऽलंकारदोषप्रकरणे मूलकृद्ृक्ष्यति "यम- कस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः" इति॥

Page 561

५०२ काध्यप्रकाशः सटीकः।

समरसमरसोऽ्यमित्यादावेकेषामर्थवत्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यतै वक्तुम इति अर्थे सतीत्युक्तम्। सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता। (सू० ११८) पादृतद्भ्भागवृत्ति तद्यात्यनेकताम्॥ ८३ । प्रथमो द्वितीयादौ द्वितीयस्तृतीयाहौ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति सप। प्रथमो द्वितीये एकार्थके लाटानुप्रासेऽतिव्याप्तिवारणाय अर्थभिन्नानामिति । तन्मात्रे च कृते 'समरसमरसोऽ- यम्' इत्यादौ द्वितीयावृत्तेरर्थाभावात् 'शमरतेऽमरतेजसि पार्थिवे' (रघु० ९ सर्गे ४ श्लो०) इत्या- दावुभयोरप्यनर्थकत्वाच्चाव्यापप्तिः स्यादत उक्तम् अर्थे सतीति । यद्यर्थस्तदा भिन्न इत्यर्थः । सरो- रस इत्यादावतिव्याप्तिवारणायोक्तं सेति । सरोरस इत्यादौ अक्षरसाम्येऽपि क्रमभेदान्नातिव्याप्तिः। एवं च समानार्थकत्वाभाववत्समानानुपूर्वीकानेकवर्णावृत्तिर्यमकमिति लक्षणं द्रष्टव्यमिति प्रद्ीपोद््यो- तयो: स्पष्टम् ॥ तदेतत्सर्वमभिप्रेत्य वृत्तिकारस्तावत् 'अर्थे सति' इत्येतद्ग्रहणे प्रयोजनमाह समरेत्यादि। अयं राजा समरे युद्धे समः एकरूपः रसः प्रीतिर्यस्य तादृश इत्यर्थः। "रसो गन्धरसे जले। शृङ्गारादौ विषे वाये। तिक्तादौ द्रवरागयोः' इति मेदिनी। अत्र प्राथमिकस्यैव समरशब्दस्यार्थवत्वम् न तु द्वितीयस्थेति भाव:। तदेवाह एकेषामर्थवत्वे अन्येषामनर्थकत्वे इति। न युज्यते वक्तुमिति। उक्तस्थलेS- व्याप्तेरिति भाव: । सेत्यस्य प्रयोजनं दर्शयन्नर्थमाह सेतत्यादि। सरोरस इति। सरस्तडागः तस्य रसो जलमित्यर्थः । अथवा सरः रस इति भिन्ने पदे। आदिशब्देन नदी दीनेत्यस्य संग्रहः। अत्राक्ष- रसाम्येऽपि क्रमव्यत्ययान्न यमकमिति भावः । तदेवाह इत्यादिवैलक्षण्येनेति। इत्यादितो वैलक्षण्येने- त्यर्थः । तेनैव क्रमेणेति। पूर्वेणैव क्रमेणेत्यर्थः । स्थितेति। पुनःश्रुतिरिति संबन्धः ॥ यमकं विभजते पादतद्ागेति। पादः पद्यचतुर्थाशः। यमक तावत् पादवृत्ति तद्भागवृत्ति चेति द्विविधम्। तञ्च प्रत्येकम् अनेकताम् अनेकरूपतां याति प्रामोतीत्यर्थः॥ तत्र पादवृत्तियमकस्यैकादश भेदा भवन्तीत्याह प्रथमो द्वितीयादौ इत्यादिना 'श्लोकावृत्तिश्चेति द्वे' इत्यन्तेन। प्रथम: पादः द्वितीयादौ द्वितीये तृतीये चतुर्थे वा 'यम्यते' इत्यग्रेनेन ूरस्थेनान्वयः एवमग्रेऽपि सर्वत्रेति बोध्यम्। प्रथमः पादो यदि द्विताये पादे यम्यते (आवर्त्यते बध्यते वा रच्यते वा) तदा मुखं नाम यमकम् [१] वृतीये चेत्तदा संदंशो नाम यमकम् [२] चतुर्थे चेत्तदा आवृत्तिर्नाम यमकम् [३] इति भावः । द्वितीयस्तृतीयादाविति। द्वितीय: पाद: तृतीयादौ तृतीये चतुर्थे वा न तु प्रथमेऽपि तस्य 'प्रथमो द्वितीयादौ' इत्यनेन गतार्थत्वात्। द्वितीयः पादश्रवेत्तृतीये पादे यम्यते तदा गर्भो नाम यमकम् [४] चतुर्थे चेयम्यते तदा संदष्टकं नाम यमकम् [५] इति भावः । तृती- यश्चतुर्थे इति। तृतीयः पादश्वेच्चतुर्थे पादे यम्यते तदा पुच्छं नाम यमकम् [६] इति भाव: । प्रथमस्त्रिष्वपीति। प्रथमः पादः त्रिष्वपि द्वितीये तृतीये चतुर्थेऽपि पादे चेद्यम्यते तदा पङक्ि- र्नाम यमकम् [७] इति भावः। सप्तेति। "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्" इति नियमात् एकस्यापरपादद्वयगतत्वेन भेदो न कृत इत्यसंकीर्ण पादगतं यमकं सप्तविधमेवेत्यर्थः। तदुक्तम् "पादत्रययमकं तु न चमत्कारकारि अतो न प्रयुक्तमित्येकैकपादावृत्तौ शुद्धा एते सप्त भेदाः" इति। संकीर्ण तु पादगतं चतुर्विधं भवतीत्याह प्रथमो द्वितीये इत्यादि। प्रथम: पादो १ शमरते शान्तिपरे अमरतेजसि दशरथे पार्थिवे पृथिव्या ईश्वरे सतीत्यर्थ।॥

Page 562

11 नवम उल्लास: ।

तृतीयश्चतुर्थे प्रथमश्चतुर्थे द्वितयिस्तृतीये इति द्े। तदेवं पावजं नवभेवम्। अर्धावृत्ति: श्ोकावृत्तिश्चेति द्वे।

द्विधा विभक्ते पादे प्रथमादिपादादिभाग: पूर्ववत् द्वितीयादिपादादिभागेषु अन्तभागोडन्तभा- गे्व्रिति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः । त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत्।

द्विताये पादे तृतीयः पादश्रतुर्थे पादे चेद्यम्यते तदा मुखपुच्छयोः संयोगात् युग्मकं नाम यमकम् [८] इति भावः। प्रथमचतुर्थे इत्यादि। प्रथमः पादश्रतुर्थे पादे द्वितीयः पादस्तृतीये पादे चेद्य म्यते तदा आवृत्तिगर्भयोर्योगात् परिवृत्तिर्नाम यमकम् [९] इति भावः। इति द्वे इति। युग्मकं परिवृत्तिरिति द्वे इत्यर्थः। पादजम्। एकदैकपादमात्रावृत्तिरूपम्। एकदानेकपादावृत्तिरूपं पादजं तु द्विविधमित्याह। अर्धावृत्तिरित्यादि। अर्धावृत्तिः समुद्रो नाम यमकम् [ १० ] संवंशसंदष्टकयोः संकरोऽत्रेति बोध्यम्। श्लोकावृत्तिर्महायमकम् [११] इति भावः। इति द्वे इति। अर्धस्य पाददया- त्मकतया श्लोकस्य पाद्चतुष्टयात्मकतया च एते अपि पादगते। तेन पादगतमेकादशविधं यमकमिति भाव इति प्रदीपोद्द्योतयोः स्पष्टम् ॥

इदानीं पादभागवृत्तियमकस्य बहवो भेदा भवन्तीत्याह द्विधा विभक्ते इत्यादि। द्विधा विभक्तषु पादेषु प्रथमादिपादानामाद्यभागा: पर्ववत् (पादावृत्तिरीत्या) द्वितीयादिपादेष्वाद्यभागेष्वेव यदि यम्यन्ते तदा पूर्ववन्मुखादयो दश भेदा इत्यर्थः । अयं भावः। प्रथमपादाद्यभागो द्वितीयतृतीयचतुर्थपादाद्य- भागेषु यम्यते इति त्रिधा द्वितीयपादाद्यभागस्तृतीयचतुर्थपादाय्यभागयोर्यम्यते इति द्विधा तृतीयपा- दादभागश्चतुर्थपादाद्यभागे यम्यते इत्येक: प्रथमपादाद्यभागस्त्रिष्वप्याद्यभागेषु यम्यते इत्यपर इति सप्त शुद्धमेदाः । प्रथमपादाद्यभागतुल्यो द्वितीयपादाद्यभागस्तृतीयपादाद्यभागतुल्यश्रतुर्थपादाद्यभागः एतयोः संकर एक: प्रथमपादाद्यभागतृतीयपादाद्यभागयोस्तुल्यत्वे द्वितीयपादाद्यभागचतुर्थपादाय्यभागयोश्र तुल्यत्वेऽपर: संकर इति नव। अर्धावृत्त्या समं पूर्ववत् दश भेदा इति। अन्तभाग इति। एवं प्रथ- मादिपादानामन्त्यैभागो द्वितीयादिपादान्त्यभागेष्वेव यदि यम्यते तदा पूर्ववत् (पादावृत्तिरीत्या) दश भेदा इत्यर्थ: । अयं भावः । प्रथमपादान्त्यभागो द्वितीयतृतीयचतुर्थपादान्त्यभागेषु यम्यते इति त्रिधा

भागे यम्यते इत्येकः प्रथमपादान्त्यभागस्त्रिष्वप्यन्त्यभागेषु यम्यते इत्यपर इति सप्त शुद्धमेदा: प्रथमपादान्त्यभागतुल्यो द्वितीयपादान्त्यभागस्वृतीयपादान्त्यभागतुल्यश्रतुर्थपादान्त्यभागः एतयोः संकर एकः प्रथमपादान्त्यभागतृतीयपादान्त्यभागयोस्तुल्यत्वे द्वितीयपादान्त्यभागचतुर्थपादान्त्यभागयोश्र तुल्यत्वेऽपरः संकर इति नव। अर्धावृत्त्या समं पूर्ववत् दश भेदा इति। तदेतत्सर्वमभिप्रेत्य द्विधा विभक्ते पादे भेदानां संख्यामाह विशतिर्भेदा इति। इत्थं द्विखण्डीकृतेषु पादेषु विशतिर्भेदा इत्यर्थः । ननु श्लोकावृत्या सह द्वाविशतिसंख्याकैभेदैर्भवितव्यम् तत्कथं विशतिर्भेदा इत्यत आह श्लोकान्तरे इति। श्लोकान्तरे भागावृत्तिर्न स्वदते इति श्लोकावृत्तिस्थानीय एकादशो भेदो भागावृत्तौ

१ अन्त्योति। अन्तेति वक्तव्येऽन्त्येत्युक्तिः "आदिरन्त्येन सहेता" (१।१।५१) इति पाणिनिसूत्रेऽनत्येनेनिव- दिति बोध्यम्।।

Page 563

काव्यप्रकाशः सटीकः। प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते आद्यार्घादिभागे यम्यते इत्याद्यन्वर्थतानु सरणेनानेकभेदम् अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः मध्यादिकम् आदिमध्यम् अन्तमध्यम् मध्यान्तिकं तेषां समुच्चयः। तथा तस्मिन्नेव पाढे आद्यादिभागानां मध्यादिभागेषु अनियते च स्थाने आवृत्तिरिति प्रभूततमभेदम्। तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम्। दिङ्गात्न. मुदाहियते नास्तत्यिर्थः। एवं च भागावृत्तौ भागिनः श्लोकस्यावृत्तिर्भवत्येव। अतिव्यवधाने हि त्रिचतुराय- क्षरावृत्तौ न चमत्कारः। तेन न प्रत्येकमेकादशविधत्वेन द्वाविशतिविधत्वात्पत्तिरिति भावः। इत्थं द्विखपडे पादे भेदानां विशतिमुक्त्वा त्रिखण्डे चतुःखण्डे च पादे भेदानाह त्रिखण्डे इत्यादि। त्रिखपडे चतुःखण्डे इत्यत्र 'पादे' इत्यनुषङ्ग: । प्रथमादिपादादिभाग इत्यादि पूर्वतनमत्र योज्यम्। चत्वारिंश दिति। प्रतिभागावृत्तेर्दशविधत्वादिति भाव:॥ इत्थमाय्यभागोSपरस्याद्ये एव भागे अन्तभागोऽन्ते एव भागे इति सजातीयभागावृत्तिमुक्त्वा इदानीं विजातीयभागावृत्तिमाह प्रथमपादादिगतेत्यादि। अन्वर्थता अनुगतार्थता योग इत्यर्थः । अनुसरणम् अनुसारः। अनेकभेदं अनेकप्रकारं यमकम्। तत्समुञ्चयः तयोः समुच्चयः। अयं भाव:। प्रथमादिपादानामन्तादिभागाः द्वितीयादिपादानामार्य्यादिभागेषु यम्यन्ते इत्याय्यन्वर्थतानुसारेणा- न्तायादियमकादयः प्रभेदा भवन्ति। तथाहि। द्विखण्डे यथा प्रथमपादस्यान्त्यमर्ध द्वितीयपादस्याय्यर्धे चेदम्यते तदा अन्तादिकं नाम यमकम् प्रथमपादस्याद्यमर्ध द्वितीयपादस्यान्त्यभागे चेय्यम्यते तदा आद्यन्तिकं नाम यमकम् एवं प्रथमपादस्याय्यन्तभागौ द्वितीयपादस्यान्तादिभागयोर्यदि यम्येते तदा आग्यन्तिकान्तादिकयोर्यमकयोः समुच्चयः। अत्र त्रिखण्डचतुःखण्डयोः पूर्वपादमध्यभागः उत्तरपाद- स्यादिभागे यदि यम्यते तदा मध्यादिकं नाम यमकम् पूर्वस्यादिभागश्रेदुत्तरपादस्य मध्यभागे यम्यते तदा आदिमध्यं नाम यमकम् पूर्वर्य मध्यादिभागौ चेदुत्तरस्याय्यमध्ययोस्तदा मध्यादिकादिमध्ययो- यमकयोः समुच्चयः। एवं प्रथमस्यान्त्यभागो द्वितीयस्य मध्यभागे चेत्तदा अन्त्यमध्यम् पूर्वस्य मध्य भागश्वेत् द्वितीयस्यान्तभागे तदा मध्यान्तिकम् पूर्वस्यान्त्यमध्यभागौ चेत् द्वितीयस्य मध्यान्तभाग योस्तदा अन्त्यमध्यमध्यान्तयोः समुच्चयः । यद्यपि पूर्वस्यादिभागः उत्तरस्यान्तभागे चेत्तदा आयन्तकम् अन्तभागस्त्वाद्यभागे चेत्तदा अन्तादिकमित्यादि प्रकारद्वयं संभवति तथापि द्विखण्डान्तर्गतमेव तदति उृथक न गण्यते। सर्वेषां चैषामपरः समुच्चय इति भिन्नपादे यमने प्रभेदा इतीति प्रदीपे स्पष्टम् इस्थं पादान्तरभागापेक्षया पादभागभेदाः प्रदर्शिताः। इदानीमेकस्मिन्नेव पादे भागभेदानाह तथेति। एवं तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वावृत्तौ भेदा द्रष्टव्या इत्यर्थः । सर्वे चैते नियत- भागस्थानविवक्षया भागस्थानयमकभेदाः नियतेषु भागस्थानेष्वावृत्तेररििः बोध्यम्। इदानीिनियत- स्थानयमकभेदा अपि बहवो भवन्तीत्याह अनियते च स्थाने इति। पादादिव्यवस्थाशून्यगयादावेते द्रष्टःया इत्याहुः। प्रभूततमभेदमिति। यमकमिति संबन्धः । अस्य भेद: किमिति न लक्ष्यते इत्यत आह तदेतदिति। गडुः ग्रन्थिः। यथेक्षुदण्डे ग्रन्थिश्वर्वणेन रसनिःसरणे व्यवधायकस्तथा काव्येऽपि यमकं गूढार्थानुसंधानविलम्बेनास्वादविच्छेदादिति भावः । गडुरग्रंह इति प्रदीपकाराः तदाप्यय- १ अन्तादीत्यादिना आद्यसंग्रहः ॥ २ आद्यादीत्यादिनान्त्यसंग्रहः ॥

Page 564

नवम उल्लास: सन्नारीभरणोमायमाराध्य विघुशेखरम्।5F सन्नारीभरणोSमायस्ततर्त्वं पृथिवीं जय ॥ ३६० ॥ विनायमेनो नयतासुखादिना बिना यमेनोनयता सुखादिना। महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम्॥ ३६१॥ मेवार्थः। लक्षणं विशेषलक्षणम् । उक्तप्रकारेण भेदानामानन्त्येन सर्वोदाहरणाशक्तर्यथाशक्ति उदाह्नियते इत्याह दिङ्गमात्रमिति। मार्गमात्रमित्यर्थः । तत्रैकपादाभ्यासेषु (प्रथमपादस्य तृतीयपादे यमने) संदंशनामकं यमकमुदाहरति सन्नारीति। रुद्ठालंकारे पद्यमिदम। हे राजन् सतीर्नारीिभर्ति पुष्णातीति सन्नारीभरणा यद्वा सतीनां नारीणां भरणमाभरणस्वरूपा एवंभूता या उमा गौरी तां याति (शरीरार्धरूपेण) प्रामोति यः यद्वा ताम अयते प्रामोति यः तं विधुशेखरं चन्द्रशेखरं (शिवम्) आराध्य ततः तदाराधनाद्धेतोः त्वं सन्नाः अवसनाः अवसादं गताः मृताः इति यावत् अरीणां शत्रणाम् इमा: गजाः यत्र तादृशों रणो युद्धं यस्य तथाभूतः सन् पृथिवीं जय सार्वभौमो भवेत्यर्थः । कीदृशस्त्वम् अमायः अकपटः। 'अमायम्' इति पाठे अमायम् अकैतवं यथा स्यात्तथा आराध्येति संबन्धः । अमायेति पाठे अमाय मायाशून्य निष्कपटेति संबोधनम्। ततः रणादित्युद्द्योतकृत्। अत्र प्रथमपादस्य तृतीयपादे यमनात्सदशो नाम यमकम्॥ द्विपादाभ्यासे (प्रथमपादस्य द्वितीयपादे तृतीयपादस्य चतुर्थपादे च यमने) युग्मकं नाम यम- कमुदाहरति विनेति। रुद्रटालंकारे पद्यमिदम्। विना अयम एनः नयता असुखादिना विना यमेन ऊनयता सुखादिना। महाजनः अदीयत मानसात् अरम् महोजनोदी यतमानसादरमिति पदच्छेद: । अयं विश्वासौ ना च विना पक्षिस्वरूप: पुरुषः हंसारयो जीव इति यावत (कर्म) यमेन कृतान्तेन (कर्त्रा) मानसं चित्तं तदेव मानससरस्तस्मात् अरंशीघ्रं यतमानसादरं यतमानानां रक्षितुं प्रयत्नवतां (रक्षितुमिच्छतां) सादम अवसादं (विषादं) राति ददानीति तत् यथा स्याल्तथा अदीयत अखण्डयत। 'दो अवखण्डने' इति दैवादिको धातु। आत्ममनसोः संयोगध्वंसो मरणम तत्कृतमिति पर्यवसितोऽर्थः । केचित्तु मानसादिति ल्यब्लोपे कर्मण पश्चमी 'प्रासादात्प्रेक्षते' इतिवत् मानसमाक्रम्येत्यर्थ इत्याहुः। अयं किंभूतः । महाजनः महात्मा उत्कृष्टगुणवानित्यर्थः। पुनः किंभूतः महाजनोदी महान् उत्सवान् अजन्ति क्षिपन्ति ये दुर्जनास्तान् नोदितुं दूरीकत शीलमस्य तथाभूबः दुर्जनापसारक इति यावत्। "मह उद्धव उत्सहः" इत्यमरः । यमेन किंभूतेन एनो विना अपस- धमन्तरेण नयता स्वस्थानं प्रापयता। "एनः पापापराधयोः" इत्यभिधानम्। असुखादिना प्राणभक्ष- केण सुखादिना ऊनयता हीनं कुर्वता चेत्यर्थः। केचित्तु एनो बिना सुखादिना ऊनयता विश्रयभोग- मसहिष्णुनेत्यन्वयमाहुः । उद्योतकारादयस्तु द्वितीयं विनेति पदं यमविशेषणम विना पक्षिरूपेण। यद्वा विर्भारुण्डसंज्ञकः पक्षी तत्तुल्येनेत्यर्थः । अनेन दुर्लक्ष्यत्वं सूचितम्। एनः तद्गोगस्थानं नयता। १ यो भक्षणार्थ जीवन्तं मनुष्यं स्वस्थानं नयति स भारुण्ड इति वदन्ति। महाभारते भीष्मपर्वण अतमेडब्याये तु "दृक्षिणेन तु नीलस्य मेरो: पार्थे तथोत्ते। उत्तरा: कुरवी रजन् पुण्याः सिद्धनिषेविताः। तत्र वृक्षा मधुफलो: 0०•bभारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाचलाः। तान निर्हन्तीह मृनान् दरीयु प्र्षिपन्ति च ॥ इश्युकतम् ॥

Page 565

५०६ काव्यप्रकाशः सटीक:। स त्वारम्भरतोऽवश्यमबलं वितताखवम्0 सर्वदा रणमानैषीिवानलसमस्थितः ॥ ३६२ ॥

सर्वदारणमानैषी दवानलसमस्थितः । ३६३।। अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम्। या च मातेव भजते प्रणते मानवे दयाम् ॥ ३६४ ॥ यढ्ढा अयं शुभावहविधिं विना एनः पापं तत्फलं नरकादि नयतेत्यर्थः। "अयः शुभावहो विधिः" हत्यमरः। ऊनयता हानिं कुर्वता सुखादिना सुखभक्षकेणेत्यर्थमाहुः। वंशस्थं वृत्तम्। लक्षणमुक्त प्राकू २४ पृष्ठे ॥ श्लोकाभ्यासे महायमकमुदाहरति सत्वेति। रुद्रटालंकारें पद्यमिदम् । सः तु आरम् भरतः अवश्यम् अबलम् विततारवम्। सर्वदा रणम् आनैषीत् अवान् अलसम अस्थितः ॥ सत्वा- रम्भतः अवश्यम् अवलम्बिततारवम्। सर्वदारणमानैषी दवानलसमस्थितः ॥ इति पदच्छेद: । स तु प्रक्रान्तो राजा आरम् अरिसमूहं सर्वदा सर्वकाले अवश्यं निश्वयेन भरतोऽतिशयेन। "अतिशयो भरः" इत्यमरः। रणं युद्धम् आनैषीत् प्रापयामास। कीदृशम् आरम् अबलं बलरहितम् विततारवम् अतिशयकृतहाहाशब्दम्। केचित्तु अबलं सैन्यशून्यं यथा स्यात्तथेति विततारवं विस्तृतार्तनादं यथा स्यात्तथेति च क्रियाविशेषणमित्याहुः। अन्ये तु इदं दयं क्रियाविशेषणम् तेन सैन्यं विनैव सिंहनादं विस्तीर्य रणसंचरेण चकारेत्यर्थ इत्याहुः। अपरे तु अवलम्बोऽस्यास्तीत्यवलम्बि ससहायम् अत एव ततारवं विस्तृतसिंहनादमिति व्याचकुः। किंभूतो राजा अलसं मन्दं यथा स्यात्तथा अवान् अग- च्छन शीघ्रं गच्छन्नित्यर्थः । 'वा गतिगन्धनयोः' इति धातुः। पुनः किंभूतः अस्थितः ए विष्णौ स्थित: विष्णपरायण इत्यर्थः। यद्वा अस्थीनि तस्यति उपक्षिपतात्यस्थितः रौद्र इत्यर्थः 'तसु उप- क्षये' इति धात्वनुसाराव । असन्तत्वेऽपि धातुत्वादुपधादीर्घाभावः "अत्वसन्तस्य चाधातोः" (६।४।१४) इति पाणिनिसूत्रेऽधातोरित्युक्तत्वात्। अथावृत्तपदानामर्थः । किंभूतो राजा सत्वेना- रम्भ: सात्विकं कर्म तत्र रतः सक्तः सात्त्विककर्मानुष्ठाननिरत इत्यर्थः । किंभूतम् आरम् अवश्यं वश्यतामनापन्नम्। अत एव अवलम्बितम् आश्रितं तारवं तरोर्भावोऽनम्रत्वं येन तथाभूतम्। केचित्तु अवलम्बितानि वस्त्रतया स्वीकृतानि तारवाणि तरुसंबन्धानि (वल्कलानि) येन तथाभूतमित्याहुः। अन्ये तु अवलम्बितं तारवं तरुसमूहो (वनं) येन तथाभूतमित्याहुः। पुनः किंभूतो राजा सर्वेषां दारणे विदारणे यो मानस्तदैषी तदिच्छाशीलः। तथा दवानलेन दावागनिना समं तुल्यं स्थितं स्थिति- र्यस्य तथाभूत इत्यर्थः । अहितानां संतापकारित्वेन दवानलसाम्यम्। अत्र बहुभिष्टीकाकारैर्बहुधा योजनं कृतं तथापि ग्रन्थगौरवभिया न दर्शितम्। द्विखण्डेषु भिन्नपादे पादभागाभ्यासेषु द्वितीयपादान्तभागस्य चतुर्थपादान्तभागे यमने संद्टकं नाम यमकमुदाहरति अनन्तेति । आनन्दवर्धनप्रणीते देवीशतके प्रथमं पद्मिदम्। अनन्तेन महिम्रा व्यासं विश्वं जगत् यया ताहशी यां देवीं (दुर्गा) वेधा: ब्रह्मापि न वेद तत्वतो न जानाति। या

Page 566

नवम उल्लास:।

यदानतोयदानतो नयात्ययं न यात्ययम्। शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥ ३६५ ।। सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति। सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥ ३६६ ॥ ससार साकं दर्पेण कंदर्पेण ससारसा। शरन्नवाना विभ्राणा नाबिभ्राणा शरन्नवा ॥ ३६७॥ च प्रणते नम्रे मानवे मनुष्ये मातेव दयां भजते अनुकम्पां करोतीत्यर्थः । 'तमांसि ध्वंसमायान्ति यस्या: स्तुत्यादरेण वः। तस्या: सिद्धयै घियां मातुः कल्पन्तां पादरेणवः ॥I' इति तत्रत्यपश्चमश्लोकेन सहान्वयो बोध्यः । एतेन 'तां स्मरामि' इत्युत्तरश्लोकेन सहान्वयः' इति विवरणकारोक्तमपास्तम्॥ एकस्मिन्नेव पादे भागावृत्तौ (आदिभागस्यान्तभागे यमने) आद्यन्तिकं यमकमुदाहरति यदा- नत इति। आनन्दवर्धनप्रणीते देवीशतके एकोनपश्चाशत्तमं पद्यमिदम्। यस्यां पार्वत्याम आनतः प्रणतः अयं जनः नयात्ययं नयस्य नीतेः अत्ययं नाशम् नीतिविश्लेषमित्यर्थः न याति नाधिगच्छति। कुतः अयदानतः अयस्य शुभावहविधेर्दाितो दानात् अर्थात्तयैव पार्वत्यास्य शुभावहवििदानादि- त्यर्थः। "अयः शाभावहो विधिः" इत्यमरः । शिवेन शङ्करेण ईहिता प्रार्थिताम् शिवे कल्याणे हिताम् अनुकूलाम् कल्याणदात्रीमिति यावत् स्मरेण कन्दर्पेण अमितां मातुमयोग्याम् अनभिभूता- मिति यावत्। "स्मरेण कामेनामितां शिवनिमित्तमपरिच्छिन्नस्मरभावाम्" इत्युश्योतकृत्। तां पर- मेश्वरीं स्मरामीत्यर्थः। प्रमाणिका छन्दः। "प्रमाणिका जरौ लगौ" इति लक्षणात्। अत्रैकस्मिन्नेव पादे आद्यन्तिकं भागावृत्तियमकम् ॥ प्रथमपादाद्यभागस्य द्वितीयादिपादानामन्ताद्यभागेषु यमने पूर्वार्धे आद्यन्तिकम् उत्तरार्धे आय न्तिकमन्तादिकं चेति तेषां समुच्चयमुदाहरति सरस्वतीति । आनन्दवर्धनकृते देवीशतके पश्चा- शत्तमं पद्यभिदम्। हे सरस्वति वाग्देवि प्रसादं प्रसन्नतां सर गच्छ (प्राम्ुहि) प्रसन्ना भवेत्यर्थः । 'सृ गतौ' इति भौवादिको धातुः। मे मम चित्तसरस्वति चित्तरूपसमुद्रे स्थितिम् अवस्थानं स्वति सुष्ठु (अतिशयेन ) कुरु। नय्याः समुद्रेऽवस्थानमुचितमिति भावः । "सरस्वान् सागरोर्ऽर्णव:" इत्यमरः । केचित्तु प्रसादं स्वति सुष्ठ (अतिशयेन) सर गच्छेत्यन्वयमाहुः। अन्ये तु स्वतिप्रसाद सुन्दरातिप्रसादं सरेत्यन्वयमाहुः । संबोधनस्य विशेषणमाह क्षेत्रकुरुक्षेत्रसरस्वतीति। क्षेत्रं शरीर तदेव कुरुक्षेत्रं क्षेत्रविशेषस्तत्र सरस्वति सरस्वत्याख्यनदीरूपे इत्यर्थः। "क्षेत्रं शरीरे केदारे सिद्ध- स्थानकलत्रयोः" इति मेदिनी। "सरस्वती सरिद्द्ेदे भूवाग्देवतयोरपि। स्त्रीरत्ने चापगायां च" इति विश्वः। अत्र प्रथमार्धे आद्यन्तिकमेव केवलम् उत्तरार्घे तु आद्यन्तिकम् अन्तादिकं चोभयमिति तेषां समुच्चयः । अयं भावः । अत्र प्रथमपादाय्यार्धभागो द्वितीयपादान्त्यार्धभागेन तृतीयपादाद्यार्धभागश्र- तुर्थपादान्त्यार्धभागेन तृतीयपादार्धान्त्यभागश्रतुर्थपादाद्यार्धभागेन यम्यते इति॥ द्वयोरप्यर्धयोरादयन्तिकान्तादिकयोः समुच्चयमुदाहरति ससारेति। रुद्रटालंकारे पद्यमिदम्। शरत १ सिद्यै समीहितसंपत्तये कल्पन्तामित्यन्वयः ॥

Page 567

५०८ काव्यप्रकाशः सटीकः। मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम्। अभृत बारितवारिजविपुवं स्फुटितताम्रतताम्रवणं जगत् ॥ ३६८ ॥। शरन्नामा ऋतुः कंदर्पेण कं ब्रह्माणं दर्पयताति कंदर्पस्तेन मदनेन दर्पोऽस्यास्ताति दर्पः अर्शआदित्वादच् प्रत्ययः तेन दर्पेण दर्पवता यद्ा कन्दर्परूपेण दर्पेण गर्वेण साकं सार्ध ससार गतवती आजगामति कश्वित्। कीदशी शरत् ससारसा सारसैः पक्षिविशेषैः पद्ैर्वा सहिता। "सारसं सरसरुहे। सारसः पुष्कराख्येन्द्वोः" इति हैमः । "सारसः पक्षिभेदेन्द्रोः क्कीबं तु सरसीरूहे" इति मेदिनी च। नवानः नवं नूतनम् अनः शकटं (कर्दमाभावेन पथि ) यस्यां सा। यद्वा नवं (कर्दमाभावात्) अनः शकटं तन्मार्गों यस्यां सा। "अनः क्कीबं जले शोके मातृस्यन्दनयोरपि" इति विश्वः। शरं काशाख्यं तृणं बिभ्राणा पोषयन्ती परिपाकं प्रापयन्तीत्यर्थः । नाविभ्राणा वीनां पक्षिणां भ्राणः शब्दो यत्र सा विभ्राणा न विभ्राणाविभ्राणा न अविभ्राणा नाविभ्राणा पक्षिशब्दसहितेत्यर्थः । नवा प्रशस्तेत्यर्थः नवा नूतनेति केचित्। अत्र द्वयोरप्यर्धयोराद्यन्तिकम् अन्तादिकं चोभयमिति तत्समुच्चयः। अयं भावः। अत्र प्रथमपादस्यान्त्यार्धभागो द्वितीयपादस्याय्यार्धभागे आययभागोऽन्त्यभागे यम्यते एवं तृती- यपादस्यान्त्यादिभागौ चतुर्थपादस्याद्यान्त्यभागयोर्यम्येते इति॥ अनियतस्थानावृत्तिरूपयमकसमुच्चयमुदाहरि मधुपराजीति । "चतुःखण्डे पादे द्वितायभागस्य मृतीयभागे यमनं यथा मधुपराजीत्यादि इति प्रदीपकाराः प्राहुः तदज्ञानविजृम्भितम्। न हयुदाह- रणे वर्णत्रयात्मकद्वितीयभागस्य पुनःश्षुतिः न वा भागान्तरकल्पनापि संभवति वर्णस्य सिद्धत्वेन भागत्वाभावात्। किं तु भागमनपेक्ष्यानियतस्थानयमकभेदा अपि भवन्तीति सूचनाय पादेष्वाद्यवर्णद- यानन्तरं वर्णत्रयावृत्तियमकमिदमुदाहतं श्रीवृत्तिकारैरिति तत्त्वम्" इति सुधासागरकाराः। रत्नाकरक- विकृते हरविजयकाव्ये तृतीयसर्गे वसन्तवर्णनमिदम्। जगत् ( कर्तृ) श्रियं शोभाम अभृत दधार। कीदशं जगत् मधुपराज्या भ्रमरपङ्क्त्या पराजितानि धैर्याच्च्यावितानि मानिनीजनानां मनांसि याभि: एवंभूता: याः सुमनसः पुष्पाणि ताभिः सुरभि सुगन्धि। वारितः (तुषारापगमेन) निवारितो वारि जाना कमलानां विपुवो नाशोऽभावो व यत्र तत्। स्फुटितानि विकसितानि ताम्राणि (पह्लवोद्धवैः) आरक्तानि ततानि विस्तीणानि च आम्राणां चतानां वनानि यत्र तथाभूतमित्यर्थः । अन्ये तु एवं भूताः सुमनसः पुष्पाणि यत्र ताद्ृशस्य सुरभेर्वसन्तस्य श्रियं लक्ष्मीमित्येकपदतया व्याचक्षते। यत्तु तादृशसुमनसां सुरभिश्रियं सौरभसंपदमिति व्याख्यानम् तत्तु न युक्तम् सुरभिपदस्य सौरभविशिष्टे दव्ये एव काव्ये प्रयोगदर्शनात् न तु सौरभे गुणे इति बोध्यम्। यत्तु श्रीवत्सलाञछनभट्टाचार्यप्र- भूतिभिः 'वारिजवारिजविपरुवम्' इति पाठं मत्वा व्याख्यातम् वारि जलं तस्माज्जायते उत्पद्यते यस्ता- इशो वारिजानां कमलानां विप्वो नाशो यत्रेति तदसमञ्जसमिति सुधीभिर्ध्येयम्। आम्रवर्णमित्यत्र "प्रनिरन्तः शरेक्षपृक्षाम्र०" (८४।५) इति पाणिनिसूत्रेण वनशब्दनकारस्य णत्वम्। द्रुतविल- म्बितं वृत्तम्। लक्षणमुक्तं प्राक् ८३ पृष्ठे॥ इदमेव यमकं माघे (६ स० २ श्लो०) यथा 'नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम्। १ नशब्देन सह समासः 'नकधा' 'नारायणः' (५० पृष्ठे) इत्यादिवत् ॥ २ मानिनीति! मानश्ात्र 'खीणा- मीर्थ्याकृत: कोपो मानोडभ्यासङ्गिनि प्रिये" इत्युक्तलक्षणः ।।

Page 568

नवम उल्लास: ।

एवं वैचित्र्यसहस्त्रैः स्थितमन्यदुन्नेयम्। (सू० ११९) वाच्यभेदेन भिन्ना यत् युगपद्ाषणस्पृश ाः। श्लिष्यन्ति शब्दा: श्लेषोऽसावक्षरादिभिरट्टधा।। ८४ ।।

मृदुलतान्तलतान्तमलोकयत्ससुरभिं सुरभिं सुमनोभरैः ॥' इति सुधासागरः । एवमिति। 'तन्व्यां तन्व्यां न संमाति तस्या लावण्यसंचयः' इत्यादि। तन्व्यां कृशायामित्युद्दयोते स्पष्टम्। अन्य- दुन्नेयमिति । अन्यदप्यूह्यमित्यर्थः ॥ इति यमकम् ॥ ३॥

श्लेवं लक्षयति वाच्येति। वाच्यभेदेन अर्थभेदेन भिन्नाः शब्दाः युगपद्भाषणम् एकोच्चारणम् एको यः कण्ठताल्वाय्यभिघातानुकूलयत्न इत्यर्थः तत् स्पृशन्तीति युगपद्भाषणस्पृशः एकोच्चारण- विषयाः सन्तः यत् श्लिष्यन्ति भिन्नं स्वरूपमपह्नवते (एकरूपतयेव भासन्ते) स श्लेषः श्लेषनामा शब्दालंकारः । असौ श्लेषः अक्षरादिभिः वर्णनपदादिभिः अष्टधा अष्टप्रकार इति सूत्रार्थः । अत्र श्लेष इति लक्ष्यनिर्देशः श्लिष्यन्तीति लक्षणम् असाविति लक्ष्यानुवादो विभागार्थः। अयमाशयः । शब्दा: यत् श्लिष्यन्ति स श्लेषः श्लेषणं चागृहीतभिन्नस्वरूपत्वम्। दोषाद्वेदाग्रहेऽयमलंकारः । को दोष इत्यत्राह युगपदित्यादि। एकोच्चारणविषया इत्यर्थः । एको यः कण्ठताल्वाद्यभिघातानुकूल- यत्नस्तद्विषयत्वं समानानुपूर्वीकत्वं च दोष इति।

'श्वेतों धावति' इत्यादौ हि समुदायः एकोच्चारणानुकूलकविकौशलनैक इव ग्रृह्यते इतः श्वेत्युच्चा- रणे तैदयोगात्। वाच्यः प्रकृते बोध्यः। तथा च 'श्वेतो धावति' इत्यादौ प्रत्येकं पदे शक्तिसत्त्वेऽपि 'श्वा इतः' इति पद्समुदाये शक्त्यभावेन समुदायार्थस्य वाच्यत्वाभावेऽपि न लक्षणस्याव्याप्तिरिति बोध्यम्। यत्तूक्तं सुधासागरे "वाच्यः प्रकृते बोध्यः। तथा च श्वेतादिशब्दानां गुणवाचकतया गुणिनि लक्षणाङ्गाकारेण श्वेतपदाभिधेयत्वासत्त्वेऽपि न क्षतिः" इति यच्चोक्तं सारबोधिन्याम् "वाच्यः शब्दोच्चारणानन्तरं प्रत्येयो न त्वभिधेयः। तेन 'श्वेतो धावति' इत्यत्र नाव्याप्तिः । अन्यथा श्वेतगुण- वत्समीपदेशस्थकुक्कुरयोरेकस्यापि वाच्यताविरहेण श्र्लेषो न स्यात् गुणवति श्वेतशब्दस्य लाक्षणिक त्वात्" इति तत्र गुणिनि लक्षणा न युक्ता ्वेतादिशब्दानां गुणे इव गुणिन्यपि शक्तिस्व्रीकारात्। अत एव "गुणवचनेभ्यो मतुपो लुगिष्टः" इति वार्तिकं चरितार्थम्। कि च गुणसमुदायो हि द्रव्यमिति वैया- करणसिद्धान्तात् गुणगुणिनोरभेदमाश्रित्य "गुणवचनेभ्यो मतुपो लुगिष्टः" इति वार्तिकस्य भाष्यकृ त्कृतप्रत्याख्यानपक्षेऽपि गुणिनि शक्तिरेवेति ध्वनितम्। उक्तं च लघुमञ्जूषायां प्रातिपदिकार्थवादे नागोजीभट्टैः "शुकादयः शब्दाः गुणे गुणिनि च शक्ता एव। आद्ये पुंस्त्वम् अन्त्ये विशेष्यनिघ्नता १ यश्वत्र सुधासागरे 'शब्दाः पदान' इति व्याख्यातम् तत्तु न रुचि।म् सामाग्यपरस्य शब्दशब्दस्य सिशेष परत्वेन व्याख्यानस्थायुक्तत्वात् अष्टविधश्लेपेषु पदश्लेपस्य प्रमेदरूपेण पृथग्गणनाच् ॥२ "श्वेतो धावति अलं चुसाना याता" इति १ अध्याये १ पादे १ आहनिके "न मुने" (८२।३) इति सूत्रे च म्हाभाष्यम्। तत्र क: कीदृशो धावतीति प्रश्ने श्वत इत्युत्तरम्। श्वा इत इति छेदेन क इत्यस्योत्तरम्। श्रेत इति छेदेन कीदृश इत्यस्थो- त्तरमिद्म्। एवं केर्षा जनपदानां गन्ता को वा समर्थ इति प्रश्ने उत्तरम् अलमित्यादि। अलंबुसाः देशविशेषाः। युसानां पलालवर्णानां याता प्राप्तिमान् अलं समर्थ इति चार्थ इति नागोजीभट्टकते महाभाष्यपदीगेद्योते स्पष्टम् । तद्योगादिति। एकावेन ग्रहणायोगादित्यर्थः ॥४न च नैयायिकसिद्धान्तरी्योकनत्वाद्गुणिनि लक्षणा युक्तैवेति वाच्यम् अलंकारिकाणां वैयाकरणमतानुयायित्वस्य उपोद्घताप्रकरणे प्रतिपादतत्वात्॥4

Page 569

५१० काव्यप्रकाश: सटीकः ।

'अर्थभेदेन शब्दभेद:' इति दर्शने 'काव्यमार्गे स्वरो न गण्यते' इति च नये वाच्यभदेन 'गुणे शुककादयः पुंसि गुणिलिङ्गास्तु तद्दति' इत्यमरकोशात् । गुणिनि लक्षणेति तु न युक्तम् मानाभावात् लाक्षणिकानां शब्दानां कोशेऽनुपादानाच्च" इति। न च 'भद्रात्मनः' (६८ पृष्ठे) इत्यादाविवात्रापि अर्थान्तरे व्यञ्ञनैवास्त्विति वाच्यम् प्रकरणादीनां तुल्यत्वेनैकत्राभिधानियन्त्रणा- भावात्। तस्मात् नानार्थेषु श्लिष्ेषु यत्रानेकत्र तात्पर्यग्राहकं प्रकरणादिकं युगपद्वतरति नावतरति वा तत्र श्लेषः। यत्र तु क्रमेण तत्रावृत्तिः । यत्र त्वेकत्रैव तत्र व्यञ्जनेति व्यवस्थितिः। उक्ते चेदमस्माभि- र्द्वीतीयोल्लासे 'भद्रात्मनः' इत्यादिव्याख्यानावसरे इति बोध्यम्। नानार्थेषु श्लिष्टेषु यत्रानेकत्र प्रकरण- दिकं सुगपदवतरति तत्रैव श्लेषः इति तु न वक्तुं युक्तम् अनेकत्र प्रकरणायनवतारे वक्ष्यमाणे 'योऽ- सकृत्परगोत्राणाम्' इत्यादौ (३७६ उदाहरणे) श्लेषानापत्तेः "प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ" इति तदुदाहरणस्थवृत्तिग्रन्थविरोधाच्च दशमोल्लासेऽर्थश्लेषालंकारोदाहरणे 'अभिधाया नियन्त्रणाभावात् द्वावप्यर्कभूपौ वाच्यौ" इति वृत्तिग्रन्थविरोधाच्चेति विद्वद्भिराकलनीयम् ॥ सूत्रं व्याचष्टे अर्थभेदेनेत्यादिना। "अर्थभेदेन शब्दभेदः" इति नयेन भिन्नाः शब्दाः "काव्य- मार्गे स्वरो न गण्यते" इति नयेन युगपदुच्चारणविषयतया यत् श्लिष्यन्ति भिन्नं स्वरूपमपह्नवते एक- वन्तगतफलद्वयन्यायेन यत्रार्थक्वयप्रतीतिः स श्लेष इति वृत्त्यर्थः इति प्रदीपे स्पष्टम्। अयमाशयः । "सकृदुच्चरितः शब्दः सकृदर्थ गमयति" इति नियमाङ्गीकर्तृणां मतेनाह अर्थभेदेनेति। एकानुपूर्वी- कत्वेऽपि तत्तदर्थनिरूपितवृत्तिभेदाच्छब्दभेद इत्यर्थः। वर्णश्लेषेऽप स्वघटितसमुदायद्वारार्थभेदो बोध्यः स्वरूपभेदेनैव तत्र भेदादस्य अनावश्यकता वा। ननु इन्द्रशत्रुप्रभुतीनां (६६ पृष्ठे ) भिन्नसमासानां श्लेषे उदात्तानुदात्तादिस्वरभेदे भेदग्रहो दुरपह्नव इत्यत आह काव्यमार्गे इति। स्वरः उदात्ता- नुदात्तस्वरितरूपः । न गण्यते इति। स्वरमनाद्ृत्यैव विचार्यते इत्यर्थः । अन्यथा श्लेषोच्छेदापत्ति: स्यादिति भावः । श्लेषस्य चमत्कारितायाः सकलसहृदयजनसिद्धत्वेनापलपितुमशक्यत्वादिति बोध्यम् । भिन्नं स्वरूपमपह्ववते इति। एकरूपतयेव भासन्ते इत्यर्थः । अर्थभेदग्रहोत्तरं शब्दभेदग्रहस्त्व- किंचित्कर इति भावः। एवं चैकोच्चारणापह्नतभेदकभिन्नार्थकसदृटशनानाशब्दवत्त्वं श्लेष इति फलि- तम्। सकृदुच्चरित इति नियमानङ्गीकर्तणां मते एकदा गृहीतनानातात्पर्यकः शब्द एव श्लेष इत्यपि सुवचमिति प्रदीपोद्दयोतसुधासागरेषु स्पष्टम् ।।

व्याख्यातमिदं विवरणकारैरपि "सकृदुच्चरितः शब्दः सकृदर्थ गमयति इति नियमेन एकेन शब्देनार्थद्वयप्रतीत्यसंभवात् अर्थद्वयप्रतीत्यर्थ (श्लेषस्थले ) एकाकारौ द्वौ शब्दौ स्तः इत्यवश्यम- ड्रीकार्यम्। तौ च एकेन प्रयननेनैकदोच्चार्यतया पृथक्तया नानुभूयेते। तथा च एकप्रयत्नोच्चार्य- तथा भिन्नत्वेनाननुभयमानत्वमेव श्लेष इति फलितम्। भिन्नसमासादीनामुदात्तादिस्वरभेदनियमात तदनुसारेणोच्चारणे श्र्लेषाभावप्रसङ्गस्तु 'काव्ये उदात्तादिस्वरविशेषमनादृत्य सर्वेष्वेव समासादिष्वेक- विधमेवोच्चारणम्' इत्यङ्गीकारेण निराकृतः" इति॥ :१ आवृत्तिः पुनरनुसंधानम् यथा अक्षा भज्यन्ता भुज्यन्तां दीव्यन्तामिति। अत्रान्वयिपदार्थमेदाद्वोद्धुरावृत्त्त्यैव योन: उच्चारणं तु तन्त्रणैवेति सरूपाणामिति सूत्रे शब्देन्दुशेखरे स्पष्टम्॥ २ एकवृन्तगतफलदूयन्यायेनेति। एक- वृन्तगतानेकफलन्यायेनेत्यपि पाठान्तरम्। अभङ्गश्लेपाभिप्रायेणेदम् । सभङ्गडपि शब्दद्वारोते बोध्यमित्युद्योत:॥ ३ सरुदेकवारमेवार्थ गमयति बोधयतत्यर्थः ॥४ अर्थमेदस्य ॥

Page 570

नवम उल्लास:। भिन्ना अपि शब्दा यत् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्लवते स श्लेषः । स च वर्णपद- लिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा। क्रमेणोदाहरणम् श्लेषो द्विधा सभङ्गोऽभङ्गश्र्वेति। तत्रादं विभजन् अक्षरादिभिरिति व्याचष्टे स चेत्यादि। अक्षरशब्दा- र्थमाह वर्णेति। आदिशब्दार्थमाह पदेत्यादि। पदं सुप्तिङन्तम् "सुप्तिङन्तं पदम्" (१।४।१४) इति पाणिनिसूत्रात्। लिङ्गं पुंस्त्वस्त्रीत्वनपुंसकत्वरूपम्। भाषा संस्कृतादिः। भाषा च षड़डिधा। तदुक्तं जयन्तकृतदीपिकायां सोमेश्वरकृतसंकेते च "संस्कृतप्राकृतमागधपिशाचभाषाश्र शौरसेनी च। षष्ठोSत्र भूरिभेदो देशविशेषादपभ्रंशः॥" इति। प्रकृतिः प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्ता प्रत्ययविधा- नावधिर्वा। प्रत्ययः प्रत्ययसंज्ञकः। प्रत्येति (प्रत्याययति) अर्थ बाधयताति व्युत्पत्तिः । एवं च प्रत्य- याधिकारपठितत्वे सत्यर्थबोधकत्वं प्रत्ययपदमत्र गोबलीवर्दन्यायेन विभक्तिभिन्नपरम्। उक्तं च प्रदीपे "विभक्तवैचित्र्यविशेषहेतुतया पृथगुपादानात्प्रत्ययपदं तद्तिरिक्तपरम्" इति। गोबलीवर्दन्यायस्तु मत्कृतलौकिकन्यायमालायां व्याख्यातः। विभक्तिः सुप्तिडौ। वचनं त्रिकविभक्तीनामेकैको भाग: एकवचनं द्विवचनं बहुवचनं चेत्यर्थः। अष्टधेति । सङ्गश्लेषोऽष्टविध इत्यर्थः। अभङ्गश्लेषस्तु "भेदाभावात्प्रकृत्यादेः" इत्यादिना १२० सूत्रेण वक्ष्यते॥। अत्राहुर्विवरणकारा अपि "विजातीयत्वेऽपि विभिन्नस्वरूपापह्नवो हि चमत्कारातिशयं पुष्णा तीति वर्णादीनां मध्ये यस्य वैजात्येऽपि (वरिभक्तिविशेषयोगसमासादिना ऐकरूप्येण) श्लिष्टत्वम् तत्र तच्छेषनाम्नैव व्यपदेशः । यथोदाहरणे विधुविधिशब्दयोः श्लिष्टत्वेन तदन्तर्गतयोर्विजातीययो- रपि उकारेकारवर्णयोः (सप्तमीविभक्तियोगेन औकारत्वापन्नतयैकरूप्यात्) श्लेषः स एव चमत्का- रातिशयजनकतया व्यपदेश्यः । एवं परत्रापि। प्रकृत्यादिघटकानामेकस्य वर्णस्य विजातीयत्वे वर्ण- श्लेष: अनेकस्य तथात्वे प्रकृत्यादिश्लेषः । विभक्त्यन्तसमुदायस्य विभिन्नस्वरूपत्वे पदश्लेषः तदन्त- र्गताया: केवलायाः प्रकृतेः प्रत्ययस्य वा तथात्वे तु यथाक्रमं प्रकृत्यादिश्लेषः। विभक्तिर्द्विधा सुप्- तिङ्प्रत्ययभेदात्। एवं च सामान्यविशेषन्यायेन विभक्तिस्वरूपयोः सुपतिङ्प्रत्यययोः श्लिष्टत्वे विभक्तिश्लेषः तदन्यत्र प्रत्ययश्लेष इति विशेषः" इति॥ अधिकं तु सुधासागरे। तथाहि। "तथा च एकोच्चारणापह्नतभेदकभिन्नार्थकसदृशनानाशब्दत्वं श्लेषत्वमिति फलितम्। अत्र केचित् नन्वेकोच्चारणेन सदृशनानाशब्दोत्पत्तिर्दुर्घटा। न चानेकार्थ- प्रतिपिपाद्यिषयोच्चारणात्तथा । नानाघटचिकीर्षातः कपालादिसंयोगादेकस्मान्नानाघटोत्पत्यापत्तेः। अत्र चक्रवर्तिनः घटादेः समवाय्यसमवायभेदान्न तथा तदैक्यात्तत्संभव इत्याहुः। तञ्चिन्त्यम् साम- ग्रचैक्ये कार्यैक्यात् भेदे मानाभावादगौरवाच्च। एकस्मादपि शब्दात् 'सकृदुच्चरितः' इत्यादिनियमसत्वे आवृत्त्या नानार्थबोध: संभवति आवृत्तिः पुनरनुसंधानमिि तत्कृतानुपूर्वीभेदाद्वत्तिभेदाच्च पदभेद इत्याहुः। तदपि न रमणीयम् आवृत्त्यङ्गीकारे एकवृन्तगतफलद्वयन्यायानुपपत्त्या श्लेषस्य दुरुपपाद- त्वात् यन्नानेकत्र क्रमेण प्रकरणादिकमवतरति तत्रावृत्तिरिति सिद्धान्तात्। अपरे तु द्वितीयक्षणे शब्दजशब्दोत्पत्या पदभेद: संभवतीत्याहुः। तद्पि मौनिमात्रविदितश्लेषाव्यापकमिति न रमणीयम्। वयं तु वस्तुतः एकः शब्दः सकृदुच्चरितः सकृदर्थ गमयति न त्वेकोच्चारणापह्नतभेदोऽपीति श्लिष्ट- १ अन्तर्भावितण्यर्थोड़यम् ९२ पृष्ठे 'शंभु' इतिवत् ॥

Page 571

५११ काव्यप्रकाश: सदीकः।

अलंकार: शङ्काकरनरकपालं परिजनी विशीर्णाङ्गे भृङ्गे वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विंधौ वक्रे मूर्धि स्थितवति वयं के पुनरमी॥ ३६९॥ पृथुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव। विलसत्करेणुगहनं संप्रति सममावयो: सदनम् ॥३७० ॥ -स्योभयत्र तात्पर्यग्राहकसद्भावेऽभावे वा एकसंबन्धिज्ञानस्यापर संबन्धिस्मारकत्वादुद्गद्धस्वस्वसंस्कारेण द्वय र्युगपदुपस्थितिः ततश्र सकृदित्यादिनियमवशात्सटृशनानाशब्दबोधः। तदेतदुक्त श्रीवाग्देवता- वतारैः (मम्मटोपाध्यायैः) अर्थभेदेन शब्दभेद इति। शब्दे सादृश्यं तु क्वचित्साहजिकम् यथा 'विद्वन्मानसहंस' इत्यादौ (४३३ उदाहरणे) अखण्डपदश्लेषे। कचित्त्वपह्वतभेदत्वेन यथा 'श्वेतो धावति' (५०९ पृष्ठे) 'येन ध्वस्तमनोभवेन' (३०२ उदाहरणे) इत्यादिसखण्डपदश्लेषे इति युक्तमुत्पश्यामः। एवं चैकोच्चारणेन सदृशनानाशब्दोत्पत्तिर्दुर्घटेति रिक्तं वचः । यत्तु जयरामन्या- यपञ्चाननैरुक्तम् इ तु बोध्यम्। यत्रैकस्यैव शब्दस्य शक्यलक्ष्योभयपरत्वं तत्रार्थश्लेष एव पदस्य परिवृत्तिसहत्वे। यस्य चैकस्य समुदायस्य बोधितार्थस्य तेन रूपेण नार्थान्तरबोधनं तत्र न श्लेषः । यथा वैदेहीति (२०२ पृष्ठे) 'देवं हिमकराङ्कितम्' ( ४२२ पृष्ठे टी०) इत्यत्र च एकत्र केव- लमर्थप्रयुक्तभेदाभावात् रूपतोऽपि भेदात्। तदाहुवैयाकरणाः त्रिधा शब्दो भिद्यते रूपतः स्वरतोऽ- र्थतश्र । 'त्रिधा तु भिद्यते शब्दो रूपतः स्वरतोऽर्थतः' इत्युक्तेरितीति तच्चिन्त्यम् । तथा सति श्रीवागदेवतावतारोक्त (मम्मटोकत) सखण्डपदश्लेषोच्छेदापत्तेः रूप्रभेदाभावस्योपपादितत्वाच्चेति सुधीभि: परिभावनीयम्" इति॥

तत्र वर्णश्लेषमुदाहरति अलंकार इति। विधौ चन्द्रे दैवे च वक्रे कुटिलाकारे प्रतिकूले च मूर्वि मस्तके स्थितवति सति सर्वामरगुरोः सकलदेवश्रेष्ठस्य स्थाणोः महेश्वरस्यापि इयं वक्ष्यमाणरूपा अवस्था दशा भवति अमी कीटकल्पाः वयं पुनः के न केऽपीत्यर्थः। अवस्थां दर्शयति अलंकार इत्यादि। शङ्काकरं भयजनकं यत् नरकपालं मनुष्यशिरोस्थि अलंकार: भूषणम् । विशीर्णानि गलितानि अङ्गानि अवयवा यस्य यद्वा विशीर्णानि बुभुक्षावशात्स्वयमेव भक्षितानि अङ्गानि स्वावयवाः येन तथाभूतो भङ्गी गणविशेष: परिजनः सेवकलोकः। च परं वृषः वृषभः वसु धनम् सोऽपि वृषः एक: सोऽपि बहुवयाः जरत्तर इत्यर्थः। जरत्तरत्वेन मूल्याल्पत्वं सूचितम् । "स्थाणः कीले हरे पुमान् । अस्त्री ध्रुवे" इति मेदिनी। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ अत्र विधावित्यत्र विधिविधुशन्दयोरिकारोकारयोरौकारतां प्राप्तयोर्भेदाद्वर्णश्लेषः। त्रिधावित्यादे- शिनि भेदेऽपि आदेशमादाय सादृश्यं बोध्यम्।।

पदश्लेषमुदाहरति पृथुकेति। व्याख्यातमिदं सप्तमोल्लासे ४२३ पृष्ठे । अत्र पृथुकानां बालका- नामार्तस्वरस्य क्षुद्धाधाकृतकातरध्वनेः पात्रम् अधिकरणम् पक्षे पृथूनि विपुलानि कार्तस्वरस्य सुव. · र्णस्य पात्राणि भाजनानि यत्र तदित्यादिक्रमेण पदभेदात्पदश्लेषोऽयम्। समासघटकत्वेन पदानां श्लेवोडत्र बोध्यः समासस्य पदत्वाद्वा तत्त्वमिति प्रदीपोद्द्योतयो: स्पष्टम्॥ 52 P

Page 572

नवम उल्लास भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैनीतेहित प्राप्तये। लावण्यस्य महानिधी रसिकतां लक्ष्मीद्टशोहतन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः॥ ३७१ ॥ एष वचनश्लेषोSपि। महदेसुरसंधम्मे तमवसमसंगमागमाहरणे। हरबहुसरणं तं चित्तमोहमवसरउमे सहसा॥ ३७२॥ लिङ्गश्लेषं वचनश्लेषं चोदाहरति भक्तीति। भागवतामृतवर्धनकवेः पद्यमिद्मिति सुभाषिता वल्यादौ स्पष्टम्। वाशब्दः समुच्चये । हरे: विष्णोः नेत्रे चक्षुषी तनुः मर्तिश्र् युष्माकं भत्रस्य संसारस्य आर्तेः पीडायाः शमनं शान्तिं कुरुतामित्यन्वयः। कुरुतामिति परस्मैपद्द्विवचनम् आत्म- नेपदैकवचनं चेति बोध्यम्। उभयो: श्लिष्टविशेषणान्याह भक्तात्यादि। किंभूते नेत्रे। भक्तिः परानुरक्तिः । "अथातो भक्तिजिज्ञासा। सा परानुरक्तिरीश्वरे" (१।१।१) इति शाण्डिल्यप्रणी- तभक्तिसूत्रात्। तया ये प्रह्वाः नम्रास्तेषां विलोकने सदयावलोकने प्रणयोऽनुरागो ययोस्ते भक्ति- प्रह्नविलोकनप्रणयिनी भक्तावलोकनकर्तृणी इत्यर्थः। तनुपक्षे भक्तिप्रह्वानां विलोकनप्रणयो दर्शनानु- रागो यस्यां सा भक्तावलोकनकर्मभूतेत्यर्थः । प्रणयिनीति नपुंसके द्विवचनं स्त्रियामेकवचनं च । एवमग्रेडपि। नीलोत्पलं स्पर्धितुं शीलं ययोस्ते नीलोत्पलस्पर्धिनी। तनुपक्षे नीलोत्पलं स्पर्धितुं शीलं यस्या: सेत्यर्थः । पक्षद्वयेऽपि ताच्छील्ये णिनिः। नीलोत्पलस्परधित्वं नेत्रपक्षे संनिवेशवैशिष्टचेन तनुपक्षे श्यामत्वमात्रेण। केचित्तु नीलोत्पलस्पर्धिनी इन्दविरानुकारिणी मतुबर्थे इनिः तनुपक्षे ताच्छील्ये णिनि- रित्याहुः। समाधिनिरतैः योगिभिः हितप्राप्तये शाभावाप्तये ध्यानालम्बनतां ध्यानविषयताम् ('ध्याना- लोकनताम्' इति पाठेऽपि ध्यानगोचरताम्) नीते प्रापिते। तनुपक्षे ईहितप्राप्तये वाञ्छितसिद्धये ध्याना- लम्बनतां नीता। लावण्यस्य सौन्दर्यस्य महानिधी अपरिमिताधारभूते। नेत्रशब्दस्य नपुंसकत्वेऽपि निधिशब्दस्याजहल्विङ्गत्वान्महानिधी इति द्विवचनम्। "निधिर्ना शेवधिर्भेदाः" इत्यमरः। तनुपक्षे महानिधिरिति छेदः। "द्रलोंपे पूर्वस्य दीर्घोण:" (६।३१११) इति पाणिनिसूत्रेण रेके परे दीर्घः। लक्ष्मीदृशो: रसिकतां तन्वती कुर्वाणे। तन्व्ती इति शत्रन्तनपुंसकस्य द्विवचनम्। तनुक्षे स्त्रियामेक- वचनम्। शार्दूलविकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र प्रणयिनीत्यादिषु रूपसाम्येन नपुंसकस्त्रीलिङ्गयोर्द्विवचनैकवचनयोश्व श्लेषः एवं च तयो- रत्र संकर. । महानिधी इत्यत्र प्रथमाद्विवचनैकवचनयोः कुरुतामित्यत्र परस्मैपदद्विवचनात्मनेपदै- कवचनयोश्र लिङ्गश्लेषरहितयो: श्लेषः । एवं 'हरिस्तन्राम चाघनुत्' इत्यत्र वचनश्लेवनिरपेक्षयोर्लि- ङ्गश्लेष इति अनयोः पृथगुक्तिः । एष इति। द्विवचनैकवचनयोः सारूप्यादिति शेषः । व्याख्या- तमिदं प्रदीपोक्योतयोः । "अत्र प्रणयिनीति स्त्रियां प्रथमैकवचनम् नपुंसके तद्द्विवचनं चेति लिङ्गवचनयो: श्लेषः । एवमग्रेऽप्यूह्यम्" इति प्रदीपः । (लिङ्गवचनेति। लिङ्गपदेन लिङ्गबोधकः शब्द: रूपसाम्येन स्त्रीलिङ्गपुंलिङ्गयोर्द्विवचनेकवचनयोश्र श्लेषः। 'वा पुंस पदमम्' इत्याय्यनुशास नालिङ्गं प्रातिपदिकार्थ इत्यर्थः। विशेषानां विशेष्यलिङ्गग्राहित्वनियमादिति भावः। कुरुतामिति द्विवचनैकवचनयोरपि श्र्लेषो बोध्यः) इत्यु्योतः॥। ६५

Page 573

काव्यप्रकाश: सटीक:।

अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यत। सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥ ३७३ ॥ रजनिरमणमौले: पादपझ्मावलोककक्षणसमयपरातापूर्व संपत्सहस्त्रम्। प्रमथनिवहमध्ये जातुचित्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे॥३७४॥ संस्कृतप्राकृतयो्भाषयोः शर्लेषमुदाहरति महदे इति। आनन्दवर्धनप्रणीते देवीशतके ७६ पद्- मिदम्। अत्र संस्कृतपक्षे महदे सुरसंधम में तम् अव समासंगम् आगमाहरणे। हर बहुसरणम तम् चित्तमोहम् अवसरे उमे सहसा इति पदच्छेदः। हे उमे गौरि मे मम आगमाहरणे वेदविद्यो- पार्जने तं प्रसिद्धं समासंगं संसक्तिम् अव रक्ष अवसरे मोहापचयोचितकाले तं प्रसिद्धं चित्तमोहं सहसा झटिति हर अपनय। कीट्टशे आगमाहरणे महदे उत्सवदे। संबोधनविशेषणमप्येतत्। किंभूतं समासंगम सुरैः देवैः संधा संधिः (मिलनं) यस्मात्तथाभूतम् यद्दा सुराणां देवानां संधा संधानं (सम्यकज्ञानं) यस्मात्तथाभूतम् । किंभूतं चित्तमोहम् बहु अनेकधा सरणं प्रसरणं यस्य तथाभूतम् यद्वा बहु वारंवारं सरणं संसारो यस्मात्तथाभूतमित्यर्थः। प्राकृतपक्षे तु मह देसु रसम् धम्मे तमवसम् आसम् गमागमा हर णे। हरबहु सरणम् तम् चित्तमोहम् अवसरउ मे सहसा इति छेदः । "मम देहि रस धर्मे तमोवशाम् आशां गमागमात् हर नः । हरवधु शरणं त्वं चित्त- मोहोऽपसरतु मे सहसा॥" इति संस्कृतम्। ममेत्यत्र 'मह्यम्' इति पठन्ति चन्द्रिकोद्दयोतकारादयः । चित्तमोहमित्यत्र मोहशब्दस्य गुणवाचकत्वात् "कीबे गुणगाः" इति सूत्रेण नपुंसकत्वमित्युद्योते स्पष्टम्। हे हरवधु पार्वति त्वं मे शरणं 'भवसि' इति शेषः। मम धर्मे पुण्ये ( कर्माण) रसं प्रीतिम उत्पादय। नः अस्मत्संबन्धिनीं तमोवशां तमोगुणयुक्ताम् आशां गमागमात् गमो गमनम् (मरणम् ) आगम: आगमनं (पुनर्जन्म ) यस्मिन् ताद्ृशात् संसारात् हर। मे चित्तमोहः सहसा शीघ्रम् अपसरतु दूरीभवत्वित्यर्थः । "शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः" इत्यमरः । जघन- विपुला छन्दः। लक्षणमुक्तं प्राक् १३३ पृष्ठे॥ अत्र 'सहसा' इति पदादन्यत्र सर्वत्रैव :संस्कृतप्राकृतयोर्भाषयोः श्लेषः। तदेतदुक्तं प्रदीपे "अत्र प्राकृते 'मम देहि रसं धर्मे तमोवशामाशां गमागमात् हर नः। हरवधु शरणं त्वं चित्त- मोहोऽपसरतु मे सहसा ॥' इत्यर्थकानि पदानि। संस्कृतपक्षे तु 'महदे उत्सवदे सुरेण संधा संधानं यस्मात्तम् आगमाहरणे समासंगमव। बहुसरणं संसाररूपं यस्मात्तं चित्तमोहमवसरे उमे हर सहसा ॥' इत्यर्थकानि पदानि" इति॥ प्रकृतिश्लेषमुदाहरति अयमिति। हृदि स्वहृदये ज्ञेषु विद्वत्सु च वक्ष्यति धारयिष्यति कथयिष्यति च। सामर्थ्य कृन्ततीति करोतीति च सामर्थ्यकृत् सामर्थ्यच्छेत्ता सामथ्यकारकश्र यथाक्रममर्थः। "ज्ञो ब्रह्मबुधविद्वत्सु" इति मेदिनी। अत्र वक्ष्यतीति वहिवच्योर्दटि तुल्यं रूपम्। कृदिति कृन्तति- करोत्योः क्विपि तुल्यं रूपम्। अतोऽत्र वहिवच्योः कृन्ततिकरोत्योश्र प्रकृत्योरेव भिन्नस्वरूपता न तु प्रत्ययस्यापीति प्रकृतिश्लेषौ।। प्रत्ययश्लेषमुदाहरत रजनीति। रजनिरमणश्रन्द्रो मौलौ किरीटे यस्य तस्य हरस्य पादपद्मयोश्र्वरण- कमलयोरवलोकनमेव क्षण उत्सवस्तत्समये तत्काले एव परापं सम्यगाप्तम् अपूर्वायाः संपदः सहस्र यस्मिन्कर्मणि यद्वा अपूर्वम् अदृष्टं संपत्सहस्त्रं च यस्मिन् कर्माण तथथा भवति तथा। प्रमथाः गणवि-

Page 574

नवम उल्लास:। ५१५

सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्पर:। नयोपकारसांमुख्यमायासि तनुवर्तनम्॥ ३७५॥ (सू० १२०) भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत्। शेषास्तेषां निवहः समूहस्तन्मध्ये जातुचित् कदाचित् त्वत्प्रसादात् अहम् उचिता रुचिर्दीप्तिर्यस्य तथाभूतः सन नन्दिता नन्दकः (आनन्दकः) स्यामित्याशंसा। तथा एवं सति सा गणमध्यग- णनैव मे मम नन्दिता नन्दिनस्तन्नामकगणाधिपस्य भावः नन्दित्वं स्यात् भवेदित्यर्थः। उद्दयोत- कारास्तु प्रमथा: गणास्तत्समूहमध्ये जातुचित् कदाचित् उचिता रुचिः प्रीतिर्यत्रेहशी सा नन्दिनो भावो नन्दिता महादेवसेत्रकविशेषता मे मम स्यात्। अथ चाहं त्वत्प्रसादात् त्वद्गणमध्ये उचित- रुचचि: नन्दिता नन्दकः स्यामित्याशंसेत्यन्वयमाहुः। मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥ अत्र स्यान्नन्दितेति स्याम् स्यात् इति उत्तमपुरुषप्रथमपुरुषयोस्तुल्यं रूपमिति तयोः श्लेषः । तस्य च पृथगनुक्तेः प्रत्ययश्लेषान्तर्भावः। तथा नन्दितेति तृचतलोस्तुल्यं रूपमिति वृचतलोः कृत्त- द्वितप्रत्यययो: श्लेषः ॥ सुपतिङ्रूपा या विभक्तिस्तच्छ्रेषमुदाहरति सर्वस्वमिति। शिवं प्रति भक्तस्य पुत्रं प्रति दस्यो- श्रोक्तिरियम। तत्र प्रथमपक्षे हे हर शंभो त्वं सर्वस्य सर्वस्वं यतः यतश्र भवस्य संसारस्य छेदे विनाशे तत्पर आसक्तः संसारनिवर्तकः मुक्तिप्रद इति यावत अतः नयो नीतिः उपकारक्ष दुःखात्त्राणं तयो: सांमुख्यम् आनुकूल्यं यस्मात्ताद्शं तनुवर्तनं शरीरावस्थितिम आयासि प्रामोषी- त्यर्थः । पक्षान्तरे तु हे पुत्र त्वं सर्वस्य जनस्य सर्वस्वं ग्रामहिरण्यादिकं हर अपहर चोरय त्वं छेदे भित्तेर्ग्रन्थेश्र छेदने तत्परः भव उपकारसांमुख्यं प्रत्युपकारकरणं नय अपनय दूरीकुरु आयासि परेषाम् आयासदायकं केशकारकं वर्तनं जीविकां तनु विस्तारयेत्यर्थः। केचित्तु आयासि आया- सयुक्तं वर्तनम आचरणं तनु विस्तारय श्रमजितो भवेत्यर्थ इत्याहुः । उद्योतकारास्तु छेदतत्पर: चन्धच्छेदपरो भव उपकारसांमुख्यं नय प्रापय आयासोऽस्यास्तीति आयासि वर्तनं तपश्रर्यादियोगि- जीवितं तनु विस्तारय सर्वस्वादिकं हृत्वा तपः कारय येन मोक्षः स्यादिति तात्पर्यार्थ इत्याहुः। सर- स्वतीतीर्थास्तु "यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् " इति न्यायेन सर्वस्वाद्यपहारादिनानुग्रहं कुर्वित्यर्थ इत्याहुः॥ अत्र 'हर' इत्यादिपद्मेकत्र सुबन्तम् अन्यत्र तु तिङन्तमिति विभक्तिश्लेषः । एवमायासि तनु इत्यादावपि बोध्यम्। प्रदपोह्योतयोस्तु अत्र हरभवेत्यनयोः संबोधनत्वक्रियापदत्वाम्यां सुप्तिङ्किम- वत्यन्तत्वम्। एवमायासीत्यादिक्रियापदत्वे णिन्यन्तायासपदत्वे च विभक्तिश्लेषः। एवमन्यदप्यूह्य- मित्युक्तम् ।। एवमष्टविधं सभङ्गश्लेष निरुप्य संप्रत्यभङ्गशलेषमाह भेदाभावादिति। सरस्वतीतीर्थास्तु "एवं रुद्रभद्टोक्तानष्टौ भेदानुदाहृत्य तदधिकोऽपि भेद: कश्विदुत्प्रेक्षितुं शक्यते इत्याह भेदाभावादिति।" इत्याहु: पूर्वोक्तप्रकृत्यादिरूपभेदकाभावे यत्रार्थद्वये युगपत्तात्पर्यमवगम्यते स नवमोऽपि प्रकार: श्लेषस्येत्यर्थः । अभङ्गश्लेष इति यावत्। पूर्वम् ५०९ पृष्ठे "अक्षराविभिरष्टधा" इत्युक्तेः अत्र

Page 575

५१६ काव्यप्रकाश: सटीकः ।

नवमोऽपी्यपिर्भिन्नकमः । उदाहरणम् योऽसकृत्परगोत्राणं पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ॥३७६॥ अत्र प्रकरणादिनियमाभावात् द्वावप्यथौ वाच्यौ।। ननु स्वरितादिगुणभेदात् भिन्नपयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणं च 'भेदाभावादक्षरादेः' इति पाठो भवितुमुचितः। अपिशब्दस्य व्युत्क्रमेणान्वय इत्याह नवमोऽपी- त्यादि। अभङ्गश्लेषमुदाहरति योऽसकृदिति। राजपक्षे यः असकृत अनेकवारं परगोत्राणां शत्रुवंशानां पक्षस्य सहायस्य मतस्य वा छेदे खण्डने क्षणेन क्षणमात्रेणैव अल्पकालेनैव क्षमः समर्थः । यद्वा छेदरूपे क्षणे उत्सवे क्षमो योग्यः। शतकोटिना वज्रतुल्येन (अस्त्रेण) द्रति (शत्रून्) खण्डयतीति शतकोटिदः तस्य भावस्तत्ता तां (छेदकतां) बिभत् दधानः । यद्वा शतकोरटी: कोटिशतं ददा- तीति शतकोटिदः तस्य भावस्तत्ता तां (शतकोटेर्दतृतां) बिभ्रत्। स विबुधेन्द्रः पण्डितश्रेष्ठी राजा राजते शोभते इत्यर्थः। इन्द्रपक्षे तु यः परगोत्राणां श्रेष्ठपर्वतानां पक्षः पतत्रं तस्य छेदे क्षणक्षम इति पूर्ववत्। शतकोटिना वज्रेण द्यति (असुरान्) खण्डयतीति शतकोटिद: तस्य भावस्तत्ता तां बिभ्रत्। स विबुधेन्द्रो देवराजः राजते इत्यर्थः। "पक्षः पार्श्वगरुत्साध्यसहायबलभि त्तिषु" इति त्रिकाण्डशेषः । अयमभङ्गश्लेषः । राजपक्षे 'शतकोटिदताम्' इत्यस्य शतकोटिदावृता- मित्यर्थकत्वेऽस्मिन्नंशे नायं प्रभेद: कं तु पूर्वोक्तावेव प्रत्ययश्लेषप्रकृतिश्लेषाविति बोध्यम्॥ अर्थान्तरस्य व्यङ्गयताशङ्कां निराचष्टे अत्र प्रकरणेत्यादि। अत्रैकार्थमात्रनियतप्रकरणाद्यभावात् राजेन्द्ररूपौ द्वावप्यर्थौ वाच्यावेवेति 'भद्रात्मनो दुरधिरोहतनोः' (६८ पृष्ठे) इत्यादिवत् द्वितीयार्थ- मादाय न ध्वनित्वमित्यर्थः। उपमामादाय ध्वनित्वं त्वत्रापीष्टमिति द्वितीयोल्लासशेषे प्रद्पे स्पष्टम्। एवं चात्र द्वयोरप्यर्थयोर्युगपत्प्रकरणाद्यवतारेऽनवतारे वा श्लेष इ ते बोध्यम्। उदयोतकारास्तु श्लोके 'सः प्रकृतो राजा' इति व्याख्याय एवं च युगपदनेकत्र प्रकरणाय्यवतारे श्लेषः क्रमेण तदवतारे आवृत्ति: यत्रैकत्रैव तत्र व्यञ्जनति बोध्यमित्याहुः॥ अभङ्गश्लेषस्यार्थालंकारेऽन्तर्भावात्कथं शब्दश्लेषत्वमिति शङ्कते नन्वित्यादिना. 'कथमयं शब्दालं कार:' इत्यन्तेन। प्रभाकृतस्तु "अलंकारसर्वस्वकारायुक्तां श्लेषस्य शब्दार्थालंकारत्वव्यवस्थामितरालं- कारबाधकतां च दूषयितुं तन्मतमुपन्यस्यति नन्वित्यादिना" इत्याहुः । स्वरितः समाहारः स्वरः "समा- हार: स्व्रितः" (१।२।३१) इति पाणिनिसूत्रात्। आदिपदादुदात्तानुदात्तौ ग्राह्यौ। गुणत्वं चैषां सजा- तीयेभ्यो भेदकत्वात्। अत एवोक्तं द्वितीयोल्वासे वृत्तौ (३३/३४ पृष्ठे) 'विशेषाधानहेतुर्गुणः' इति । स्वरभदेन प्रयत्नभेदः। तथा च स्वरितादयो ये गुणास्तेषां भेदात् भिन्नो यः कण्ठताल्वाद्यभिघातानुकूलः प्रयत्नस्तेनोच्चार्याणाम् उच्चारणयोग्यानामितार्थः। तदभावादित्यादि। स्वरितादिगुणभेदाभावात् अभिन्नः एको यः प्रयत्नस्तेनोच्चार्याणाम् उच्चारणयोग्यानां चेत्यर्थः । बन्धे इति। रचनायामित्यर्थः। १ उदात्तत्वानुदात्तत्वे वर्णधर्मो समाहियेते यस्मिन सोSच् स्वरितसज्ञः स्यादिति सूत्रार्थः॥

Page 576

नवम उलास: ।:

शब्दानां बन्धेSलंकारान्तरप्रतिभोत्पत्तिहतु: शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्यर्थालंकारमध्ये परि- गणितोऽन्यैरिति कथमयं शब्दालंकार:। 'संबन्धे' इति क्वचित् पाठः । अलंकारान्तरेति। अलंकारान्तरस्योपमादेः प्रतिभा प्रतिभामात्रम् आभानमात्रं तस्याः उत्पत्तौ हेतु: हेतुभूत इत्यर्थः : अलंकारान्तराणां प्रतिभामात्रमुत्पादयति न तु तत्पर्याप्तिमिति भावः। न त्वलंकारान्तरकृतश्रमत्कार इति तत्त्वम्। केचित्तु अलंकारान्तरस्य प्रतिभा आभानमात्रं न तु स्वस्मिन् विश्रान्ततया चमत्कारित्वम् सा उत्पत्तिहेतुर्यस्य श्र्लेषस्येति विग्रह इत्याहुः। तच्च हेतुशब्दस्य फलवाचकतया क्थंचित्समर्थनीयम्। शब्दश्लेष इति। समासभेदेन स्वरितादिस्व रभेदात् भिन्नप्रयन्नोच्चारणयोग्यानां शब्दानां श्र्लेषभङ्गभयेन स्वरभेदानादरणादेकप्रयत्नोच्चारणे शब्दश्लेष इत्यर्थः । यथा 'पृथुकार्तस्वरपात्रम्' (५१२ पृष्ठे) इत्यत्र समासभेदेन स्वरभेदाद्दिजातीयोच्चारणयोग्य- त्वेन भिन्नयो: शब्दयोर्जतकाध्ठन्यायेन श्लिष्टत्वाच्छन्दश्लेष इति भातः। अर्थश्लेष इति। समासाभेदेन

र्थयोरेव श्लिष्टत्वादर्थश्लेष इत्यर्थः । यथा 'योऽसकृत्परगोत्राणाम्' (५१६ पृष्ठे) इत्यत्र समासाभेदेन स्वरितादिस्वराभेदादुच्चारणप्रयननैक्येन न शब्दानां भेद: कि त्वर्थयोरेवेति अर्थश्लेष इति भावः। अर्था- लंकारमध्ये इति। अर्थद्वयप्रतीतावेवालंकारत्वोपगमादर्थाश्रितत्वेन द्वयोरप्यर्थालंकारतयार्थालंकार- मध्ये इत्यर्थः। एवं च आश्रयाश्रयिभाव एवं अलंकाराणां शब्द र्थगतत्वेन व्यवस्थायां बीजमिति भाव: । परिगणितः पठितः । अन्यैः अलंकारसर्वस्वकारादिभिः । इतीति । इति हेतोरित्यर्थः । अयमिति अभङ्गश्लेष इत्यर्थः ॥

व्याख्यातमिदं प्रदीपोद््योतयोः "ननु श्लेषस्तावत् द्विधा सभङ्गपदोऽभङ्गपद्श्र। तत्राद्यः शब्दश्लेषः स्वगितिादिगुणभेदाद्भिन्नप्रयतनोच्चार्यतया भिन्नानों शब्दानां बन्धे जतुकाष्ठन्यायाच्छब्दयोरेव श्लिष्टत्वात्। यथा 'पृथुकार्तस्वरपात्रम०' इत्यत्र। द्वितीयस्त्वर्थश्लेषः स्वरितादिगुणाभेदादेकप्रयतन्नोच्चार्यतया शब्दभे- दाभावादेकवृन्तगतफलद्वयन्यायेनार्थयोरेव श्लिष्टत्वात्। यथा 'योऽसकृत्परगोत्राणाम्०' इत्यत्र। यद्यपि 'अर्थभेदेन शब्दभेद:' इति नयेन द्वितीयेऽपि शब्दस्य भेदः तथाप्युपपत्त्या शब्दभेदप्रतीतावपि ततः पूर्वमकत्वाध्यवसायात् नास्ति शब्दभेदः । स द्विविधोऽपि श्र्लेष: श्लेषस्थलेऽवशयमलंकारान्तरप्रति- भासत्वान्निरवकाशतया सर्वालंकारबाधक इत्यतो हेतोरलंकारान्तराणां प्रतिभामात्रमुत्पाद्यति ने तु तत्पर्याप्तिम् यथा 'स्वयं च पल्लवाताम्र०' इत्यादौ (५१९ पृष्ठे) वक्ष्यमाणे। तत्र पूर्वार्धे भास्वत्करे- त्यत्राभङ्गपद: द्वितीयार्धेडस्वापेत्यत्र सभङ्गपदः श्लेषः । द्वयमपि उपमाप्रतिभायाः उत्पत्तिहेतुः साध- म्याभाबेन उपमायाः प्ररोहाभावात्। यैदुक्तम् 'एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम्। स्वरि-

१ उपपत्त्यंति। एवं चार्थभेद्प्रतीत्युत्तरकालमवज्ञानविषयः सः ॥ २ एकत्वेति। यतः शक्ततावच्छेदकानुपर्व्यभेदा- दभेदाध्यवसायस्तयोरिति भाव:। पूर्वोदाहृतेषु प्रकत्यादिभेदग्रहं विनार्थान्तरबुद्धिरेव नोदेतीति विशेषः । एवं च शक्त- तावच्छेदकमेदे समद्गश्लेः तद्भेदेडभङ्गश्लेष इति फलितम् ॥ ३ अलंकारान्तराणां प्रतिभामात्रमिति। इवशब्दश्रवणा- दापाततः शब्दरूपसाम्यमादाय तत्प्रनिभामुत्पादयति। 'स्वयं च' इत्यादौ पर्यन्ते च शब्दार्थंधर्मत्वाभावपर्यालोचनाय। तद्प्ररोह एव। इवस्तु उत्प्रेक्षयापि रतार्थः तस्याश्र साधर्म्यसंभावनयाध्युपपत्तेरित्याहुः ॥ ४ न तु तत्पर्याप्तिमिति । न तु तत्कृतश्र्यमत्कार इत्यर्थ:॥। ५ उक्तर्थे ग्रन्थसमतिमाह यदुक्तमिति। आद्यपादेनाभङ्गशब्दोक्तिः द्वितीयन सयक्रोकत:। मिन्नै: स्वरितादिगुणैः तच्छायाम् एकप्रयत्नोच्चार्यसाटृश्यं बिघ्रतामित्यन्वयः। एतादृशानां शब्दानां बन्ध

Page 577

५१८ काव्यप्रकाश: सटीक: ।

उच्यते। इह दोषगुणालंकाशणां शञदार्थगतत्वेन यो विभाग: सः अन्वयव्यतिरेकाभ्यामेव

धायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते।

तादिगुणैर्भिन्नैर्बन्धः श्लिष्ट इहोच्यते। अलंकारान्तरगतां प्रतिभां जनयत्पदैः । द्विविधैरर्थशब्दोक्ति- विशिष्टं तत्प्रतीयताम् ।।' इति। द्विविधोऽप्यर्थद्वयप्रतीतवेवालंकारत्वोपगमादर्थाश्रितत्वेन द्वयोरप्य- र्थालंकारतयालंकारसर्वस्वकारादिभिरर्थालंकारमध्ये पठितः तत्कथं शब्दालंकारमध्ये पठ्यते" इति ॥

अयं भावः । श्र्लेषो द्विविधः सभङ्गेऽभङ्गश्रवेति। तत्राद्यः पृथुकार्तस्वरपात्रमित्यादो। अत्र हि पृथु- कार्तस्वरस्य पात्रमिति पृथुकानामार्तस्वरस्य पात्रमिति च पदभङ्गः। अन्त्यस्तु 'योऽसकृत्पर गोत्राणाम्' इत्यादौ। अत्र हि उभयस्मिन् पक्षे एकरूपमेव पदम्। तत्र सभङ्गश्लेषो विजातीयशब्दयोः शर्लेषत्वेन शब्दश्लेषः । तत्र हि उदात्तानुदात्तस्वरितात्मको नैकस्वरः किंतु भिन्नौ द्वौ। न च स्वरभेदे उच्चारण प्रय. वस्यैक्यम् अपि तु विभिन्नत्वमेव। विभिन्नप्रयन्नोच्चारणयोग्यानां च विजातीयत्वमेव नियतम। तथापि "काव्यमार्गे स्वरो न गण्यते" इति नियममाश्रित्य स्वरविशेषमननुसंधायोच्चारणात् श्लिष्ठत्वमिति। अभङ्गस्तु अर्थश्लेष एव। तत्र स्वराभेदेन उच्चारणप्रयत्नस्यैक्यात् न शब्दानामपि वैजात्यम् कि त्वर्थ- योरेव। तथा श्लेषश्र उपमादयलंकारान्तरसंकीर्ण एव नियतः उपमाद्यश्र शर्लेषासंकीर्णा अपि संभव- न्तीति सामान्यविशेषन्यायेन श्लेषः उपमाद्यलंकारान्तरबाधक इति उपमादलंकारान्तराणां प्रतिभायाः (आभासत्वेन प्रतीतेः ) उत्पत्तौ हेतु: श्रलेषो हि विशेषतया अलंकारपद्वीमधिकुर्वन् उपमादीन् सभा. वयमानानपि प्रतिबध्नन् तेषामलंकाराभासत्वं प्रत्याययतीति। द्विविधोऽपि श्र्लेषोऽर्थसापेक्षतया वस्तुतो- रर्थालंकार एवेति अलंकारसर्वस्वकारादिभिरर्थालंकारमध्ये संग्रहीतः इति अस्य अभङ्गश्लेषस्य शब्दालं- कारत्वकथनं नोचितमिति पूर्वः पक्षः। अस्य च पूर्वपक्षस्यांशत्रयम् अभङ्गश्लेषस्यार्थालंकारत्वमित्येक: श्लेषः उपमाद्यलंकारबाधक इत्यपर: उभयरूपश्रार्थालंकार इति चान्य इतीति॥

समाधत्ते उच्यते इत्यादि। तत्र प्रथमतः पूर्वपक्षप्रथमांश दूषयितुं दोषगुणालंकाराणां शब्दार्थगतत्वे नियामकं दर्शयति इहेति। "सिद्धान्तमाह उच्यत इत्यादिना। तत्रादौ शब्दालंकारमध्ये स्वयमुक्त- स्यार्थालंकारत्वं विरुद्धमित्यतस्तद्दषयति दोषेति" इति प्रभायां स्थितम्। दोषगुणालंकाराणामिति। न केवलमलंकारे एवायं नियमः किं तु दोषगुणयोरपीति सूचयतुं दोषगुणोक्तिः। गुणग्रहणं. वामना- दिपरमतेन स्वमते गुणानां रसैकगतत्वेन शब्दार्थगतत्वाभावादिति बोध्यम्। अन्वयव्यतिरेकाभ्या- मेवेति। यत्सत्त्वे यत्सत्त्वमन्वयः यदभावे यदभावो व्यतिरेक: यथा दण्डचक्रादिसत्त्वे घटोत्पत्तिस- स्वमन्वयः दण्डचक्रादभावे घटोत्पत्यभावो व्यतिरेकः ताभ्यामेवेत्यर्थः। एवकारेण अलंकारसर्वस्व- कारायुक्तस्य आश्रयाश्रयिभावस्य व्यवच्छेदः आश्रयाश्रयभावनिबन्धनतायामपि अन्वयव्यतिरेकयो- रवर्जनीयत्वस्य दशमोल्लासे २११ सूत्रे वृत्तौ वक्ष्यमाणत्वात्। यद्वा अन्वयव्यतिरेकौ भावाभावो ताभ्यामेवेत्येवार्थः 'योऽलंकारो यदीयान्वयव्थतिरेकावनुविधत्ते स तदलंकारो व्यवस्थाप्यते" इति दशमोल्लासीयवक्ष्यमाणग्रन्थस्वरसात् । व्यवतिष्ठते व्यवस्थितो भवति। यत्र हि पर्यायान्तरपरिवृ- त्तिसहत्वं नास्ति तस्य शब्दगतत्वम् यत्र तु तत्सहत्वं तत्रार्थगतत्वमिति सिद्धान्तादिति भावः । श्लिष्ट उच्यते। तद्रन्धे श्लेषालंकार इत्यर्थः। एवं समङ्गाभङ्गरूपत्विविधैः पदैः अलंकारां्तर वषयां प्रतिभा जनयत् सत् (अर्थात्) काव्यम् अर्थशन्द्राक्तिम्या विशिष््म अर्थ लेपशब्दश्लेपश्दाभिधेयं प्रतयितां ज्ञायतामिति योजना॥

Page 578

नवम उल्लास: ।

स्वयं च पल्लवाताम्रभास्वत्करविराजिता। इत्यभङ्ग: प्रभातसंध्येवास्वापफल लुब्धेहितप्रदा ॥ ३७७ ॥ इति सभङ्ग: तथाहीति। तदेवोपपादयामीत्यर्थः । कष्टत्वादीत्यादि । कष्टत्वं श्रुतिकदुता कष्टत्वादयो दोषा: गाढत्वम् ओजोव्यञ्जकगाढबन्धनम् गाढत्वादयो वामनाक्ताः (४८० पृष्ठे १२ पङ्कौ ) दश गुणाः अनुप्रासो वर्णसाम्यम् अनुप्रासादयोऽलंकाराः 'एते शब्दगतत्वेन व्यवस्थाप्यन्ते' इत्यन्वयः एते शब्दगता इत्यर्थः पर्यायान्तरेण तदर्थोपस्थापने तेषामसंभवादिति भावः। व्यर्थत्वादीत्यादि। व्यर्थत्वम् अपुष्टार्थता व्यर्थत्वादयो दोषा: प्रौढ्यं प्रौढत्वम् अर्थस्यौज इत्यर्थः प्रौढिरिति यावत् तच्च "पदार्थे वाक्यरचनम्" इत्यादिना पञ्चधा प्राक् (४८० पृष्ठे ) उक्तम प्रौढ्यादयो वामनोक्ताः दश गुणा: उपमा साधर्म्यम् उपमाद्योऽलंकाराः एते 'अर्थगतत्वेन व्यवस्थाप्यन्ते' इत्यन्वयः एतेऽ- र्थगता इत्यर्थः पर्यायान्तरेणापि तदर्थोपस्थापने तेषां संभवादिति भावः। कष्टत्वादिगाढ़त्वादीनां शब्दगतत्वे व्यर्थत्वादिप्रौढ्यादीनां चार्थगतत्वे हेतुमाह तद्भावतदभावेत्यादि। प्रथमतत्पदेन शब्दा- र्थानुकर्ष: एवं द्वितयतत्पदेनापि भावः सत्वम् अभावोऽसत्त्वम् अनुविधायित्वम् अनुसारित्वम शब्दार्थसत्वशब्दार्थासत्त्वयोरनुसारित्वादेवेत्यर्थः । तथा च ये दोषगुणालंकाराः यदीयमावाभावाव- नुविदधते (अनुसरन्ति) ते तदीयत्वेन व्यवस्थाप्यन्ते इत्यर्थः ॥ "अयमत्र सिद्धान्तः। शब्दार्थयोर्मध्ये यस्मिन् (शब्दे अर्थे वा) सति ये दोषगुणालंकाराः सन्ति असति चन सन्ति ते तद्धीनस्वरूपतया तदीया इति व्यवस्थाप्यन्ते एतन्मूलक एव 'शब्दपरिवृ- त्तिसहत्वासहत्वाभ्यां ( तच्छब्दमनुपादाय तच्छब्दसमानार्थकशब्दोपादानेऽपि संभवासंभवाभ्यां) शब्दा र्थगतत्वव्यवस्थितिः' इति प्राचां प्रवादः। एवं च यथा श्रुतिकटुत्वादयो दोषा: ओजआद्यपरनामानो (वामनादयुक्ताः) गाढत्वादयो गुणाः अनुप्रासादयश्रालंकाराः तत्तच्छब्दे सति सन्ति असति च न सन्ति चि शब्दगता इत्युच्यन्ते यथा च अपुष्टार्थत्वादयो दोषाः ओजआद्यपरनामानो ( वामना- . युक्ताः) प्रढिप्रभृतयो गुणाः उपमादयश्ालंकाराः सति तस्मिन्नर्थे सन्ति असति च तस्मिन् न सन्ति च तत्तच्छब्दपारवर्तनमपि च सहन्ते इत्यर्थगता इति नियम्यन्ते यथा उभयश्लेषोदाहरण- तया निर्णीतेऽपि 'स्वयं च पल्लवा०' इत्यादौ परार्ध इव प्रथमार्धेऽपि तत्तच्छब्दे सति असति च श्लेषस्य सत्त्वमसत्त्वमिति शब्दाधीनस्वरूपत्वाविशेषेण शब्दालंकारत्वमवश्यं वाच्यम्। न चैतावता अर्थश्लेषस्य निर्वि्षयत्वं शङ्क्चम् स्तोकेनेत्यादौ (५२० पृष्ठे) रतोकादिपदपरिवर्तनेनाल्पांदिपदोपादानेऽपि श्लेषस्याक्षुण्णतया तस्यैवार्थश्लेषविषयत्वादिति। अयं च सिद्धान्तः 'इहेत्यादि' 'खलस्य च' इत्यन्त- प्रतकिप्रतिपाद्यः" इति विवरणे स्पष्टम्। श्लेषस्य क तद्भावतदभावानुविधायित्वं (शब्दान्वयव्यतिरेकानुसारित्वं) दृष्टमित्याह स्वयं चेति। प्रतीहारेन्दुराजविरचितायामुद्भटालंकारसारसंग्रहलघुवृत्तौ चतुर्वर्गे उदाहृतं पार्वतीवर्णनपरं पद्यामेदम्। पार्वती (गौरी) स्वयं च न केवलं महत्संबन्धित्वेनैव (स्वामिसंबन्धेनैव) श्लाघनीया किं तु स्वयमप्येवंभूतेत्यर्थः । 'इयं च' इति पाठेऽप्येष एवार्थः। पार्वतपिक्षे पल्लववत् किसलयवत् आताम्रौ अरुणौ भास्वन्तौ दीप्तिमन्तौ यौ च करौ हस्तौ ताभ्यां विराजिता शोभिता। विराजिनीति पाठे विराजमानेत्यर्थः। सुखेनाप्यते इति स्व्रापं सुलमम्। "ईषद्दःसुषु कृच्छाकृचछार्थेषु, खल-"

Page 579

काव्यप्रकाश: सटीक :!

इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपत्नम् न त्वाद्यस्यार्थम्लेषत्वम्। अथम्लषस्य तु स विषय: यत्र शब्दपरिवर्तनेपि न श्लेषत्वखण्डना। यथा स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्! अहो सुसदशी वृत्तिस्तुलाकोटे: खलस्य च॥ ३७८ ॥ न चायमुपमाप्रतिभोत्पत्तिहेतु: श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा 1 तथाहि। यथा (३३ १२६ ) इति पाणिनिसूत्रेण कर्मणणि खल्प्रत्ययः । न स्वापम् अस्वापं दुर्लभं यत् फलं मोक्षा- दिकं तंत्र ये लुब्धा: अभिलाषशालास्तेषाम् ईहितप्रदा वाञ्छितदात्री। केव प्रभातसंध्येवेत्यर्थः । प्रभातसंध्यापक्षे तु पल्लववत् आताम्रैः भास्वत्करेंः सूर्यकिरणैः विराजिता। अस्वापो निद्राभावस्तद्रूपं यत्फलम् यद्वा तस्य यत् फलं स्नानसंध्यादिकं तत्र लुब्धे (जने ) हितप्रदा इष्टदात्रीत्यर्थः ॥ अत्र पूर्वाधे भास्वत्करेत्यत्राभङ्गश्लेषः द्वितीयाधे अस्वापेत्यत्र सभङ्गश्लेषः । तदाह इति द्वाव- पीति। शब्दैकेति। अन्वयव्यतिरेकाभ्यामिति शेषः । तथा चोभयश्लेषोदाहरणतया निर्णीतेSप्यत्र पद्ये परार्ध इव पूर्वाधेंऽपि तत्तच्छब्दे सति असति च श्लेषस्य सत्त्वमसत्वमिति शब्दाधीनस्वरूपा- विशेषेण शब्दालंकारत्वमवश्यं वक्तव्यमिति भावः। तदेवाह नत्वित्यादि। आद्यस्येति। 'स्वयं च पल्लवा०' इति पद्ये आद्यत्वेन दर्शितस्येत्यर्थः। नवमप्रभेदरूपस्याभङ्गश्लेषस्येति यावत्। व्याख्या- तमिदं प्रदीपोद््योतयोः अत्र द्योरप्यर्धयोः भास्वत्पदास्वापपदयोः परिवृत्त्यसहतया दयोरपि शब्दा- लंकारत्वमेवोचितम् न त्वाद्यस्यार्थालंकारत्वम्। न चार्थप्रतीत्युत्तरं शब्दयोर्भेदग्रहे श्लिष्टत्वग्रहादर्थ- श्लेषता अर्थप्रताते: प्राकू शब्दयोभेदाग्रहस्यैवालंकारत्वादिति॥ ननु भवन्मते तर्ह्यर्थश्लेषो निविर्षयः स्यादित्यत आह अर्थश्लेषस्येत्यादि। स विषयः तत स्थलम्। श्लेषत्वखण्डना श्लेषभङ्ग:। अर्थश्लेषमुदाहरत स्तोकेनेति। स्तोकम् अल्पम् उन्नतिम् ऊ्ध्वगमनम् अहंकार च अधोगतिम् अधोगमनं दर्पभ्रंशं च। अधोगतिम् अवःपतनं पादपतनं चत्यन्ये। सुवर्णादिगुरुत्वनिरूपको घटापरपर्यायो द्रव्यविशेषस्तुला तस्याः कोटिः अग्रम्। शिखरश- लाकेति यावत्। कोटिदण्ड इत्यन्ये। खलो दुर्जनः। सुसदशी तुल्या। वृत्तिर्वर्तनम् आचरणमिति यावत्। अहो आश्वर्यम्। अत्र स्तोकादिपदपरिवर्तनन 'अल्पेनोद्रेकमायाति' इत्यादिरीत्याल्पादिपदोपादानेपि न श्लेषङ्ग् इत्यर्थश्लेषोडयम्। एवमिवादिपदादेरि यथादिपदादपि साम्याय्यवगतेः पर्यायपरिवृत्तिसहत्वादुपमादे- रप्यर्थालंकारता बोध्या। न च 'प्रसरति पुरतः सरित्प्रवाहः' इत्यत्र [ 'पुरतः' इत्यस्य स्थाने] 'गिरितः' इत्युक्तेऽप्यनुप्राससत्वात्तस्याप्यर्थालंकारता स्यादिति वाच्यम् वर्णसाम्यरूपस्यार्थास्पर्शेन

पूर्वपक्षस्य द्वितीयमंशं निराकरोति न चेति। अयं 'स्वयं च पछ्वाताम्र०' इतिश्लेकोदाहतः । उप- मेति। उपमायाः या प्रतिभा आभासत्वेन प्रतीतिः तस्याः उत्पत्तिहतुः संपादक इत्यर्थः। एवमेवार्थ: परत्रापि सर्वत्र। यथा चात्रोपमाया एवालंकारत्वम् श्लेवस्य त्वाभास्त्वं तथा 'उपपत्तिपर्यालोचने तु' इति (५२४ पृष्ठे ) वक्ष्यमाणग्रन्थावसरे एव प्रतिपादयिव्यते। पछ्लवाताय्रेत्यादिशच्डसाम्थेनेयमुपमा। ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकत्वेन शब्दसाम्यमाकंचित्करमिति अत्रोपमैव नास्तीत्याशङ्गा

Page 580

नयम उल्ास:। ५९१

कमलमिव मुखं मनोक्षमेतत्कचतितराम्' इत्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा। 'तथा 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्वमिव' इत्यादौ शब्दमात्रसाम्येऽवि सा युक्तैव। तथा ह्युक्तं रुद्रटेन 'स्फुटमर्थालंकारावेततावुपमासमुच्चयौ किं तु। आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥" इति। निराकरोति 'तथाहि' इत्यादिना 'संभवत इति' इत्यन्तेन। मनोजं सुन्दरम्। कचतितेरां दीप्यतेतराम् । गुणसाम्ये मनोज्ञत्वरूपगुणस्य साम्ये। क्रियासाम्ये दीप्तिरूपक्रियायाः साम्ये। उभयसाम्ये उभयोर्गुणक्रिययोः साम्ये । सकलकलमिति । सुधांशुबिम्बपक्षे सकलाः कलाः यस्य तत् पुरपक्षे कलकलेतिशब्देन सहितं यत् तदिति चार्थः । शब्दमात्रसाम्येऽपीति। गुणक्रिययोग्वि वाचकतासंबन्धेन समानशब्दस्य समानशब्दवाच्यत्वस्य वा साधारणधर्मत्वात् गुण- क्रिययोरेव उपमाप्रयोजकत्वे मानाभावाच्चेति भावः। उक्तं च सारबोधिन्याम् "शब्दमात्रेति । सकलकलकलकलत्वयोरेकशब्दवाच्यत्वन धर्मेण साजात्यमित्यर्थः" इति। सा उपमा 1 उक्तेऽर्थे स्वकपोलकल्पितत्वशङ्कावारणाय वृद्धसंमतिमाह तथा हक्तमिति। रुद्रटेन रुट्रटभट्टेन । स्फुटं निश्वितम्। सामान्यं साधारणं धर्मम्। इहापीति। शब्दालंकारमध्येऽपीत्यर्थः॥ 'न चायम्' इत्यादिग्रन्थः प्रदीपोद्दयोतयोरपि व्याख्यातः। तथाहि। "यच्चोक्तं 'स्वयं चेत्यादावु- दाहते उपमाप्रतिभोत्पत्तिहेतु: श्लेषः' इति तदप्ययुक्तम् प्रत्युतोपमैवात्र श्र्लेषप्रतिभोत्पत्तिहेतुः तद्वा- धकत्वात्। तथाहि। साधर्म्याभावेनोपमायाः प्ररोहाभावादेव तावन्नोपमा बाध्या यतः 'कमलमिव मुखं मनोज्ञमेतत्कचतितराम्' इत्यादौ मनोज्ञत्वस्य गुणस्य दीप्तिरूपायाः क्रियाया वा उभयोर्वा साम्ये यथो- पमा निर्वहृति तथा 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादावपि शब्दमात्रसाम्येनापि सा युक्तैव साध्म्यमात्रस्योपमाप्रयोजकत्वात् तस्य चार्थरूपस्येव शब्दरूपस्याप्यविशेषेण संभवात्। तथा ह्युक्तं रुद्रटेन 'स्फुटमर्थालंकारावेतौ०' इति" इति प्रदीपः । (उपमैवात्रेति। उपमैवालंकारः । सा तु श्लेषप्रतिभां जनयति। इवपदेन हि साम्यबोधने किमनयोः साम्यमित्यपेक्षायां श्लेवस्य बुद्धयारो- हात्। अन्यथोपमास्थले सर्वत्र समानधर्मवाचकपदे शब्दश्लेषस्यार्थश्लेषस्य वा सत्त्वादुपमाया निर्विष- यत्वापत्तिः । तदाह तद्वाधकत्वादिति। तावन्नोपमा बाध्येति । श्लेषं विना उपमायाः प्ररो- हाभावादेवोपमा बाध्येति यत्तदुक्तं तत्तावन्नेत्यर्थः। कचतीति। शोभते इत्यर्थः। सकलकलमिति। कलकलशब्दवत् सकलकलावच्चेत्यर्थः । शब्दमात्रसाम्येनापीति । वाचकतासंबन्धेन तस्याप्यर्थ- १ कचतीति। 'कच बन्धने' इति पठितस्य कचधातोरात्मनेपदित्वऽपि "अनुद।त्तेत्वलक्षणमात्मनेपद्मनित्यम्" इति न्यायनात्र परसमैपदम्। दीव्यते इत्यर्थोऽपि "धातवोऽनेकार्थाः" इति न्यायमाश्रित्य प्रदीपानुरोधेनैव। अत एव 'कचतीति शोभते इत्यर्थः' इत्युद््योतोडपि संगच्छते। न हीदं 'कचि काचि दीप्षिचन्धनयोः' इति पठितस्य कचिधातो: रूपम् तस्य कश्ते इति रूपात्। कचति बध्नाति (वशीकरोति) इति व्याख्यातुः सारबोधिनीकारस्य मतेडपि उक्तन्यायेनैव परसमैपदम्। पांतु उद्योतकारेव नागोजीभट्टैः परिभाषेन्दुशेखर "अनुदात्तेत्वलक्षणमात्मने- पद्मनित्यम्" इनि न्यायस्यानङ्गीकारात्तननतेडयं परस्नैपद्परयोगशियन्त्यः । यद्वा भ्वादेरुतिगणत्वात् 'चलुम्पति' इत्याद्वित् 'कच दीत्ौ' इति धातुर्वा कल्पनीयः। अथवा चान्द्रमनेनात्र परस्मैपदोपपतिः "चान्द्रादयस्तु मन्यन्ते सर्वर्मादुभयं पद्म्" इति न्यायसुधाक्तः। अत एव तत्र सर्वाणि तीर्थानि सर्वे यज्ञा; सदक्षिणाः। यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे ।' इत्यत्र 'तिष्ठते' इत्यात्मनेपद्सिद्धिगिति घोष्यम् । ६६

Page 581

५२२ काव्यपकाश: सटीक:।

I न च 'कमलमिव मुखम्' इत्यादि: साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम् पूर्णोपमाया निर्विषयत्वापत्तेः॥ देव त्वमेव पातालमाशानां त्वं निबन्धनम्। त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥ ३७९॥

धर्मत्वादिति भावः । न च 'अर्थभेदाच्छब्दभेदः' इति मते नैकः शब्दः उभयसाधारणः एकजाती- यानुपूर्वीकत्वेनैकत्वाध्यवसायात्। 'यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा' इत्यादौ शब्दसाम्यमात्रे- णाप्युपमा अन्वर्थसंज्ञावत्त्वस्यैव साधारणधर्मत्वादित्याहुः। एकजातीयानुपूर्वीक शब्दबोध्यत्वेनैकीकृत- स्तदर्थ एव साधारणधर्मः इत्यपि वक्तुं शक्यम। इहापीति। सकलकलमित्यादावित्यर्थः । यद्ा शब्दा- लंकारमध्येऽपीत्यर्थः । एवं च रुद्रटमते उपमासमुच्चययोरुभयालंकारत्वैम् प्रकृते तु शब्दस्यापि सामान्यत्वमित्येतावन्मात्रे संवाद इति बोध्यम् ) इत्युद्योतः॥ ननु उपमाद्यसंकीर्णस्य श्लेषस्यासंभवात् उपमादीनां चश्लेषं विनापि संभवात् सामान्यविशेषन्या- थेन श्लेषस्यैवोपमादिबाधकत्वमिति 'कमलमिव मुखं मनोज्ञम्' इत्यादावपि अर्थश्लेष एवालंकार: मनो- ज्ञत्वस्य उपमानोपमेययोः कमलमुखयोर्भेदन भिन्नतया श्लिष्टत्वात्। यत्र तुन साधारणधर्मोपादानं तत्र श्लेषाभावादुपमैवालंकार इत्याक्षेपे समादधाति न चेति। साधारणेति। मनोज्ञत्वादिरूपस्य साधारणधर्मस्य यः प्रयोग: उपादानं तच्छून्यस्तद्रहित इत्यर्थः । तथा च 'कमलमिव मुखम्' इत्यादौ मनोज्ञत्वादिरूपस्य साधारणधर्मस्यानुपात्तस्य कल्पितत्वेपि न क्षतिरिति भावः । युक्तमिति । न च युक्तमिति पूर्वेणान्वयः । तत्र हेतुमाह पूर्णोपमाया इति। दशमोल्लासे १२६ सूत्रेण वक्ष्यमाणाया इत्यर्थः । निर्विषयत्वापत्तेरिति । पूर्णोपमायाः साधारणधर्माद्युपादाननियतत्वादिति भावः॥ व्याख्यातमिदं प्रदीपप्रभोद्दयोतेषु। "अथात्र ( सकलकलमित्यत्र) साधर्म्यसंभवेऽपि नोपमा । साधारणधर्मप्रयोगशून्यो हि 'कमलमिव मुखम्' इत्येतावन्मात्रादिरुपमाविषयः । अत्र तु ( सकलकलमि- त्यत्र तु) शब्दरूपसाधारणधर्मप्रयोग एवेति वैयात्याद्वक्तव्यम् तदपि न युक्तम् पूर्णोपमायाः निर्वि- षयत्वापत्तेः साधारणधर्मप्रयोगे उपमात्वाभावात् तदप्रयोगे त्वपूर्णत्वात्" इति प्रदीपः । (पूर्णेति। उपमानोपमेयसाधारणधर्मवाचके वादिप्रयोगे हि पूर्णोपमेति कथ्यते तत्र धर्मप्रयोगे उपमानङ्गीकारे तद्विशेषरूपा पूर्णोपमा निर्विषयैव स्यादित्यर्थः) इति प्रभा। ( तदप्रयागे त्विति। पूर्णोपमात्वं हि चमत्कारातिशयाय उपात्तधर्मेण झटिति सादृश्यावगमात्। अनुपात्तेन विलम्बेन तदवगत्या चमत्का रापकर्ष इति भावः) इत्युद्योतः॥ उपमाद्यलंकाराणां श्लेषस्य च सामान्यविशेषभावम् शर्लेषस्य निर्विषयत्वशङ्कां चापनेतुं श्लेषस्यासं- क्णोदाहरणं दर्शयति देव त्वमेवेति। उक्तं चैवमेव प्रदीपादौ "ननु 'स्वयं च पल्लवा०' इत्यादावु- पमाया एवालंकारत्वे श््लेषस्य प्रतिभामात्रे च श्लेषस्य निर्विषयत्वम् असंकीर्णस्थलाभावात्। तथा च तद्युत्पादनविरोध इत्यत आह देव त्वमेवेति" इति। देव हे विष्णो त्वमेव पातालम् अधोभुवनम् नागलोक इत्यर्थः । त्वम् आशानां दिशां निबन्धनं नियमस्थानम् भूलोक इति यावत भूलोके १ 'तथैत सोडमूदन्वर्थो राजा प्ररुतिरञ्जनात्' इन्युत्तगार्ध चोध्यम्। रघुकाव्ये सर्गे १२ पद्यमिद्म्॥।२ रुद्रटमते समुच्चये उदाहरणं तु 'तवाधरे च रागोऽमूदधुना हृदये च मे' इति बोध्यम्। अन्न हि रक्तिमानुरागयोः श्लिएं रागपद्मेव साधम्यमिति महेश्वरः॥ ३ साधारणधर्मत्वम् ॥ * 'वैजात्यात्' इति पुस्तकान्तरे पाठः ॥

Page 582

नवम उल्लासः।

इत्यादि: श्र्लेषस्य चोपमाद्यलंकारविविक्तोस्ति विषय इति। दयोर्योंगे संकर एव। उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः । अन्यथा विषयापहार एव पूर्णोपमायाः स्यात्।

एवं सूर्यगत्या दिङ्नियमात्। चकारो भिन्नक्रमः । त्वम् अमरमरुद्दमिश्र अमराणां देवानां मरुता मरु- द्णानां च भूमिः आवासस्थानं चेत्यर्थः स्वर्गलोक इति यावत्। एवम् एकोऽपि लोकत्रयात्मकः भुवनत्रयात्मकः । विष्णोस्त्रिभुवनमयत्वं श्रुतिसिद्धम इति विष्णपक्षेऽर्थः। राजपक्षे तु देव हे राजन् त्वमेव अलम् अत्यर्थम् (अतिशयेन ) पाता रक्षिता। त्वम् आशानाम् अभिलाषाणां (याचकवा- ञछानां) निबन्धनं कारणम्। यद्वा निबन्धनं विषयः निर्वाहको वा। त्वं चामराणां रोमगुच्छकानां ये मरुतो वातास्तेषां भूमिः विषयः पात्रमिति यावत्। एवम् एकोऽपि लोकत्रयात्मकः जनत्रयात्मकः। राजा च कश्न रक्षिता कश्वन दाता कश्रन सुखी। अयं तु त्रिरूपतया जनत्रयात्मक इत्यर्थः॥

अत्र प्रकरणादिनियामकाभावात् द्वयोरप्यर्थयोर्वाच्यत्वेन श्र्लेष एवालंकारः। तदेवाह इत्यादिरिति। उपमाद्यलंकारविविक्त इति। अयं भावः। न तावदत्रोपमा इवायप्रयागात्। नापपि तुल्ययोगिता- दीपके प्रकरणादिनियामकाभावात्। न चात्र राज्ञो लोकत्रयात्मकत्वेन रूपणे पातालत्वादिरूपण- मङ्गममिति परंपरितरूपकमिति वाच्यम विद्वन्मानसहंसेत्यादौ (दशमोल् से वक्ष्यमाणे ४२५ उदाह- रणे) मनसि मानसत्वारोपे स्वच्छत्वस्य राज्ि हंसत्वारोंपे मोदवहत्वस्य प्रतीतेः परंपरितत्वसत्त्वेऽपि इह राज्ि पातालत्वादिरूपणे प्रयोजनाभावादक्तश्लेवे एव कवेस्तात्पर्यात् किं च व्येङ्ग्चस्य तस्य (परंपरितरूपकस्य) संभवेऽपि वाच्यापेक्षयैवासंकरगवेषणादिति बोध्यम्। अथवा अत्रोपमयासं- कीर्णोदाहरणप्रदर्शनस्यैव प्रकृतोपयोगितया सदप रूपकं न दषाय। तेनाप्यसंकीरणोदातरणं तु 'येन ध्वस्तमनाभवेन' (४१९ पृष्ठे ) इत्यादि। अत एव 'इत्यादि:' इत्यत्र (१ पक़कौ ) आदिप- दमुक्तवान्। न च 'येन ध्वस्तमनोभवेन' इत्यत्रापि माधगोमाधवयोः प्रकृतयोर्येन ध्वस्तमित्यादि- सकृ्द्धर्मोक्तेस्तुल्ययोगितालंकार इति शङ्कनायम्। पृथगुपात्ततया भेदेन प्रतायमानयोरेकस्मिन्वाक्ये सकृद्धर्मोक्तौ हि तुल्ययोगिता। यथा 'पाण्ड क्षामं वदनम्' इत्यादौ (४६० उदाहरणे) वदना- दीनां रोगावेदकत्वरूपधर्मस्य सकृदुक्तिरिति। 'येन ध्वस्तमनोभवेन' इत्यत्र तु माधवोमाधवयोः सकृदुपात्तयोर्न भेदप्रतीतिरित न धर्मस्य साधारण्यप्रतीतिः । आवृत्या तु धर्मिभेदप्रतातौ धर्म- वाचकस्याप्यावृत्तेर्न सकृत्वम्। प्रतिवस्तूपमा तु वाक्यद्वये भदेन धर्मस्योक्तौ भवतीि न तस्या अप्ययं विषय इति विविक्त ऐवायं श्लेवविषय इति बोध्यम्। एवं च 'देव त्वमेव' इत्यादौ 'थेन ध्वस्त- मनोभवेन' इत्यादौ वा नास्त्येव किंचिदलंकारान्तरमित्युपमाश्लेषयोविभक्तोदाहरणसंभवाद्वाध्यबाधक- भावानुपगमेSलंकारान्तरयोरिवानयोरुपमाश्लेवयोरप्येकत्रोपनिपाते संकरालंकार एवं युक्त इति वरम- भ्युपगन्तव्यमित्याह द्वयोर्योंगे संकर एवेति। 'स्वयं च' (५१९ पृष्ठे ) इत्यादावानुपात्तधर्मेणापि सादृश्यप्रतीतेर्न श्र्लेषस्तदङ्गमिति अङ्गाङ्गिभावानापन्नयोर्द्दयोरपि चमत्कारित्वात्संकरः परस्परापेक्षाशून्य- योदयोर्योंगे संसृष्टिः सापेक्षयोर्योंगे संकर इति भावः । यद्वा संकर एवेति। द्वयोरपि विविक्तविषयत्वेन बाध्यबाधकत्वायोगादेकत्र समप्राधान्येन मिलनमित्यर्थः अङ्गाङ्गित्वसंकरस्य [ 'उपपत्तिपर्यालोचने तु'

१ व्यङ्गयस्यति। समस्तवाक्याङ्गस्य राजि लोकत्रयात्मकत्वे विष्णऋूपणस्योपपाद्कानि प्रत्येकावान्तरव्यङ्गयानि पातालादिरूपकाणाति भाव:। विष्णोर्लोकत्रयात्मकत्वं श्रुतितिद्गम् राजा तु त्रिरूपतया त्रितयात्मकः तयोश्र्वाभेदाव्य वसाय इति योध्यमित्युद्योतः ॥२ 'येन ध्वस्तमनोभवेन०' इत्ययम्॥३ 'येन ध्वस्तमनोभवेन•' हत्ययम् ॥

Page 583

५२४ काव्यपकाश: सटीक:। क न च 'अविन्तुसुन्दरी नित्यं गलल्लावण्यबिन्दुका' इत्यादौ विरोधप्रतिभोत्पत्तिहेतु: श्ेषः अपि तु श्लेषप्रतिभोत्पत्तिहतुर्विरोधः। न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात्। न च विरोधाभास इव विरोध: शर्लेषाभास: शर्लेषः । तदेवमादिषु वाक्येषु श्र्लेषप्रतिभोत्पत्तिहेतुरलंकारान्तरमेव। तथा च इति ग्रन्थेऽनुपदमेव ] वक्ष्यमाणत्वेन यथाश्रुतासंगतेः। ननु साधारणवर्मानुपादाने एव तथा। तदुपादाने तु उपात्तधर्मेणैव सादृश्यमिवादिना बोध्यते। अन्यथा 'हंसीव धवलः' इत्यादौ दुष्टोपमात्वं न स्यादिति न श्लेषनिरपेक्षात्रोपमेत्याशयेनाह उपपत्तीति। उपपत्तिश्र्वेयम्। व्यपदेशाः प्राधान्येन भवन्तीति वस्तुस्थितिः। प्रधानं चात्रोपमा शर्लेषस्य तननिर्वाकस्य तदङ्गत्वात्। न हि श्लेषं विना समानशब्दवाच्यत्वलक्षणं साधर्म्यमुपमानिर्वाकं निर्वहति। उपमा तु न श्लेषाङ्गम श्लेषप्रतातिं विना तत्प्रतत्यभावेन तदनुपकारकत्वादिति। अन्यथेत्यादि। यदि च उपमाव्यवहारवारणाय 'साधारणधर्मप्रयोगशून्य उपमाविषयः' इति स्विर्तव्यं तदा पूर्णोपमाया निर्विर्षयत्क्मेव स्यादिति भाव इति प्रदीपोद्द्योतप्रभादिषु स्पष्टम्। विवरणकारास्तु "एवं च श्लेषस्योपमाद्यसंकीर्णविषयस- रवात् सामान्यविशेषभावो नास्तीति नोपमाबाधकत्वं श्लेषस्य परमलंकारान्तरयोरिवानयोरप्येकत्रोप- निपाते संकर एव युक्त इत्याह द्योरिति। नन्वेवं चेत् 'स्वयं च पल्लवा०' इत्यादावपि श्लेषस्यो- पमायाश्र सत्त्वात् संकर एवास्तां न तूपमा इत्याक्षेपे आह उपपत्तीति। इयमत्रोपपत्तिः । प्रधान- योई्वयोरेकत्र समावेशो हि संकरः। न चात्र द्वयोरपि प्राधान्यम् येन संकरः स्यात्। प्राधान्यं चात्रोपमायाः श्लेवश्ष तन्निर्वाहकतया तदङ्गमित्यप्रधान एव। न हि श्लेवं विना साधारणधमसंभवः । न चतं बिना उपमा संभवति। यञ्च यन्निवाहकं तत्तदङ्गम्। अङ्ग चाप्रधानमेव। न चाप्रधानेन व्यपदेशः 'प्रधानेन हि व्यपदेशा भवन्ति' इति नियमात्। अत्रोपमैव प्रधानभूता व्यपदेशहेतुरिति। अन्यथा उपपत्तिसत्वेऽपि संकरस्वीकारे स्यादिति। अविशेषेण 'कमलमिव मुखं मनोज्ञम' इत्या- दयर्थश्लेषमूलकपूर्णोपमास्थलेऽपि संकरस्वीकारप्रसङ्ग: । संकरश्रालंकारान्तरम् इति संकरेणैव तत्र तत्रापि व्यपदेश आस्ताम न तु पूर्णोपमयेति भावः" इति व्याचख्युः॥ न केवलमुपमाया एव श्लेषबाधकत्वम् कि त्वलंकारान्तरस्यापीत्याह न च इत्यादिना 'प्ररोहाभा- वात्' इत्यन्तेन। अत्िन्दुसुन्दरीति। इय स्त्री अप्सु प्रतिबिम्बित इन्दुरभिन्दुस्तद्वत् सुन्दरी। तथा नित्यं गलन्तः स्रवन्तो लावण्यस्य बिन्दवो यस्यास्तादृशीवेत्युत्प्रेक्षागर्भम्। अत्र अबिन्दुः बिन्दुशून्यापि लावण्यभिन्दुमताति विरोधः। तत्परिहारस्तु अप्सु प्रतिबिम्बितो य इन्दुस्तद्वत्सुन्दरीति उक्त एव। अत्र श्लेषस्य प्रतिभामात्रम् विरोध एव चालंकारः। न तु विपरीतम् अन्यथा श्लेष विना विरोधाभासस्या- संभवात्तद्विलयापत्तेः । तथा चात्र विरोधालंकारेण श्लेषो बाध्यते इति भावः । विनिगमकमाह न ही- त्यादि। अर्थद्वयप्रतिपादकः उभयविधार्थस्यान्वयबोधकतया अभिप्रेतः । यत्र ह्यर्थद्वयस्य समकक्षत्वं स श्लेषस्य विषय इति भावः । द्वितीयार्थस्य बिन्दुरहितबिन्दुसहितरूपार्थस्य। प्रतिभातमात्रस्य शब्दशक्तिमहिम्रा आपातत उपस्थितस्य। प्ररोहाभावादिति। पर्यन्तेऽन्वयाप्रवेशादित्यर्थः शाब्दवो- धाविषयत्वादिति यावत्। अयं भावः । उभयविधार्थस्य विवक्षितत्वे एव 'अर्थभेदेन शब्दभेद:' इति नियमात् शब्दयो: शर्लेष: स्वीक्रियते न चात्रोभयविधार्थान्वयो विवक्षितः द्वितीयार्थस्याप्यन्वये प्रवेशे 9 समानधमोपादानं विनाध्युवमास्वीकारे उक्तदोषं स्मारयति यादे चेति। उपात्त्लवं विहाय प्रतीयमानधर्मा- हलरकल्पने श्रुतहान्यश्षुतकस्पनापत्तिरपीति बोध्यम्।

Page 584

नवम उल्लास:।

सद्वंशमुक्तामणिः॥ ३८० ॥. नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान्॥ ३८१॥

वास्तविकविरोधप्रसङ्गादिति तात्त्विक: श्लेष एव नास्ति दूरे चास्तामस्य विरोधितेति। ननु विरोधा- भासस्य विरोधालंकारत्वमिव श्लेषाभासस्यापि शर्लेषालंकारत्वमस्तु इत्याक्षेपे समादधाति न च विरोधे- त्यादि। विरोधाभासो विरोध इवेत्यन्वयः । अयं भावः । वास्तविकविरोधस्य दोषतया विरोधाभास स्यैव विरोधालंकारत्वं स्वीक्रियते श्लेषस्य तु वास्तविकस्य संभवेन तस्यैवालंकारत्वं युक्तम् न तु तदाभासस्यापीति। उक्तं चोह्योते "विरोधस्य वास्तवस्य दुष्टत्वादाभासस्यैवालंकारत्वम् न त्वेवं श्लेषे पुनरुक्तवदाभासादावतिप्रसङ्गादिति भावः" इति । एवमेव रूपकालंकारादिनापि श्लेषो बाध्यते इत्युपसंहारव्याजेनाह तदिति। तस्मादित्यर्थः। केषुचित्पुस्तकेषु 'तस्मात्' इत्येव पाठः । श्लेष- प्रतिभोत्पत्तिहतुरिति। अयं षष्ठीतत्पुरुष एव न बहुव्रीहिः अलंकारान्तरविशेषणत्वेन नपुंसक- त्वापत्तेः । "हेतुर्नाकारणं बीजम्" इत्यमरः । अलंकारान्तरमेवेति। 'साधीयः' इति शेषः । चमत्कारित्वेन प्राधान्यादिति भावः॥।

एवमादिष्विति यदुक्तं तद्दर्शयति तथा च इत्यादिना 'न तु श्लेषत्वम्' इत्यन्तेन । सद्वशेति । अयं राजा सद्वंशः सत्कुलमेव सद्वेणुस्तत्र मुक्तामणिरित्यर्थः । वेणोः मुक्तोत्पत्तिस्थानत्वं तु प्रसिद्धमेव "करीन्द्र जीमूतवराहशङ्गमत्स्याहिशक्त्युद्ववेणुजानि। मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्यु- द्दवमेव भूरि॥" इति वचनात्। अत्र वंशशब्दश्लेषप्रयुक्तं वेणुकुलयोः रूपकमेव मुक्तामणित्वारोपे हेतुरिति श्लिष्टपरंपरितरूपकम् श्र्लेषस्तु तन्निर्वाकतया तदङ्गत्वेनाप्रधानमेवेति बोध्यम्। उक्तमिदं प्रदीपोद्द्योतयोः । "सद्वंशमुक्तामणिरित्यत्र परंपरितश्लिष्टरूपके रूपकं प्रधानम्। वंशशब्दे श्लेषस्तु वेणकुलयोः रूपकोपयोगितया तदङ्गमिति श्लेषप्रतिभोत्पत्तिहेतू रूपकमेव व्यपदेश्यम" इति प्रदीपः । "सद्वंशेति। वंशः कुलं वेणुश्र। अत्र वंशः कुलमेव वेणरिति वंशपदश्लेषप्रयुक्तस्य कुले वेण्वभेदा- रोपस्य मुक्तामणित्वारोपे हेतुत्वादिति भावः" इत्युश्योतः । उक्तं च सारबोधिन्यादावपि "वंशोऽ- न्वयो वेणुश्र। अत्र वंशशब्दस्य श्लेषो मणित्वारोपरूपकस्याङ्गम्। श्लिष्टपरंपरितरूपकस्य एकदेश- विव्तीति व्यवहारो भामहादीनाम्। सद्वंश एव सद्वंश इत्यारोपपूर्वको मणेरारोपः" इति। अयं व्यवहारो दशमोल्लासे १४५ सूत्रे "एकदेशविवर्ति हीदमन्यैरभिधीयते" इति ग्रन्थेन मूले एव स्फुटीभविष्यति। उक्तं च माणिक्यचन्द्रेणापि "भामहोक्तैकदेशविवर्तिरूपकस्य मम्मटमते परंपरि- तमिति संज्ञा। अत्र वर्णनीयस्य राज्ञो मुक्तामणित्वरूपणान्यथानुपपत्या वंशस्य (गोत्रस्य ) वेण- त्वरूपणं साक्षादनुक्तमपि श्र्लेषबलादवगम्यते इत्येकदेशविवर्तित्वम्" इति॥

नाल्प इति। देव हे राजन् महान् भवान् अल्पः श्षुद्र: कविरिव न स्वल्पश्लोंक इत्यर्थः । श्लोको यशः पद्यं च। "पद्ये यशसि च श्लोकः" इत्यमरः । अन्रान्यकवितो व्यतिरेकः श्लोकशब्दश्ले- षप्रयुक्त इति श्लेषमूलकव्यतिरेकालंकारोऽयम् श्लेषस्तु तदङ्गत्वेनाप्रधानमेवेति बोध्यम्। उक्तं च प्रदीपोह्योतयोः । "अत्र श्लेषव्यतिरेके (श्लेषमूलके व्यतिरेकालंकारे) व्यतिरेक एव प्रधानम श्लेषस्त तन्निर्वाहक इति तत्प्रतिभोत्पत्तिहेतुर्व्यतिरेकः" इति प्रदीपः । (श्लेषव्यतिरेक इति। अत्रान्यकवितो व्यतिरेकः। प्रधानमिति। श्लेषप्रयुक्तस्य यशसि पद्याभेदाध्यवसायस्योपमानाधि- क्यरूपव्यतिरेकनिर्वाहकत्वाविति भाव:) इत्युद्दयोतः ॥

Page 585

कांव्यप्रकाश: सटीक:।

अनुरागवती संध्या दिवसस्तत्पुरःसरः। अहो दैवगतिश्चित्रा तथापि न समागमः ॥३८२॥ आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः। यश्चित्रमच्युतशरो लक्ष्यमभाक्कीन्नमस्तसमै॥ ३८३॥

अनुरागवतीति। आनन्दवर्धनकृते ध्वन्यालोके प्रथमोद्योते उदाहृतं पद्यमिदम्। अनुरागः प्रेमवि- शेष: रक्तिमा च। पुरःसरोऽग्रगामी संमुखश्र। समागमो मिलनं स्त्रीपुरुषसंगमश्! अहो आश्र्वर्यम्। चित्रा विचित्रा। अत्राभिधाया नियमनेनार्थद्वयान्वयबोधस्याभावात् न श्लेष: कितु श्लिष्टविशेषणम- हिम्ना नायकवृत्तान्तप्रतीतिमात्रमिति समासोक्तिरेवालंकारः। उक्तं च सारबोधिन्याम् "अत्रापि समा- सोक्तेरुपकारक: श्लेषः द्वितीयार्थे प्रकरणाद्भावान्न श्लेषः" इति। "अत्र समासोक्तिरलंकारः अभि- धाया नियमने श्लेषस्यासंभवात्" इति प्रदीपः । (समासोक्तिरिति। अभिधाया नियमनादर्थद्वया- बोधेन श्लेषस्यासंभवः किंतु श्लिष्टविशेषणमहिम्रा नायकवृत्तान्तप्रतीतिमात्रमिति भावः ) इत्युद्द्योतः॥ आदायेति। यः विषमा अयुग्मा दृष्टिर्यस्य स विषमदृष्टिः त्रिलोचनः शिवः अचलं पर्वतं (मन्दराख्यं) चापं धनुः आदाय गृहीत्वा अहीनां सर्पाणाम् इनं प्रभुं (वासुकिं) गुणं मौर्वी कृत्वा विधाय चित्रम् आश्र्र्यम् अच्युतो विष्णः शरो बाणो यस्य तथाभूतः सन् लक्ष्यं त्रिपुरासुररूपं शरव्यम् अभाङ्गीत् भञ्जितवान् जघान तस्मै महाधानुष्काय नमः इति प्रकृतोऽर्थः। इदं हि वर्णनं महाभारतोक्तकथामूलकम् । तथा चोक्तं द्रोणपर्वणि व्यधिकद्विशततमेऽध्याये "गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः। पृथ्वीं ससागरवनां रथं कृत्वा तु शंकरः ॥ ७१॥ अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः । चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधक्॥ ७२ ॥ अणी कृत्वैलपत्रं च पुष्पदन्तं च व्यम्बकः। यूप कृत्वा तु मलयमवनाहं च तक्षकम् ॥ ७३॥ योक्त्राङ्गानि च सच्वानि कृत्वा शर्वः प्रतापवान् । वेदान्कृत्वाथ चतुरश्रतुरश्वान् महेश्वरः ॥ ७४॥ उपवेदान् खलीनांश्र कृत्वा लोकत्रयेश्वरः। गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥ ७५॥ कृत्वोंकारं प्रतोदं च ब्रह्माणं चैव सारथिम्। गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम्॥७६ ॥ विष्णुं शरोत्तमं कृत्वा शैल्यमग्नि तथैव च। वायुं कृत्वाथ वाजाभ्यां पुड्डे वैवस्वतं यमम्॥७७॥ विद्युत्कृत्वाथ निश्राणं मेरुं कृत्वाथ वै ध्वजम्। आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥ ७८॥ त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः।" इति। अधिकं तु ३४० उदाहरणे टिप्पणे द्रष्टव्यम्। अत्र विषमा लक्ष्यादन्यत्र निहिता दृष्टिर्येन तादृशो यो धन्वी अचलं चलनशून्यं निष्क्रियं चापम् आदाय १ वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ महाध्वजस्तु मेरुरिति वक्ष्यते ॥ २ अणी युगान्तबन्धने अक्षाग्रकीलके वा। "अक्षाग्रकीलके तु द्योरणिः" इत्यमरः ॥ ३ ऐलपत्रः पुष्पदन्तश्र्वेति द्वौ नागौ ॥ * यूप यूपयुगम् ॥ ५ अवनाहं त्रिवेणुयगबन्धनरज्जम् ।। ६ योक्ताणि वृषभादेरगले युगबन्धनोपयोगिनी: रज्जूः अङ्गानि आकर्षादीनि च सवानि सरीसृपपर्वतादीनि॥७ उपवेदान् आयुर्वेदधनुर्वेदपश्रिविमाम्नायान् ॥ ८ से मुखबिले लीना: खलीना- स्तान् 'कडियाली लगाम' इति भाषायां प्रसिद्धान्। "कविका तु खलीनोऽलरी" इत्यमरः ॥ "नार्यी कवी खलीन कवियं वा ना तुरङ्गममुखभाण्डम्" इति बोपालितश्र्य ॥ ९ गायत्रीसावित्यौ प्रगहं रश्मीन् ॥ १० प्रतोई कशाम् 'असूड कोडा चाबूक' इति भाषायां प्रसिद्धम् ॥ ११ गाण्डीवं धनुः। "जिष्णोधनुषि कोदण्डे गाण्डीवं गाण्डिवं तथा" इति शाश्वतः । कोदण्डे धनुरमात्रदपि ॥ १२ बाणाग्रम् ॥ १३ वाजाभ्यां पक्षाभ्याम् पक्षयोरित्यर्थः । "वाजो निश्वनपक्षयोः। वेगे पुमानथ कीचे घृतयज्ञान्न्नवारिषु" इति मेदिनी ॥ १* विद्युत् विद्युतम् निभाणं शबू. लीक्ष्णीकरणसाधनं शाणार्यं यन्त्रम् ।।

Page 586

नवम उल्लास:। ५२७

इत्यादावेकदेशविवर्ति रुप कश्लेषवयतिरेकसमा सोक्तिविरोधत्वमुचितम् न तुश्लेषत्वम्।। शब्दश्लेष इति चोच्यते अर्थालंकारमध्ये च लक्ष्यते इति कोऽयं नयः। किं च वैचि-

हीनं जीर्ण निकृष्टं वा अथ वा अहीनं धनुर्दण्डादन्यूनपरिमाणं गुणं कृत्वा अच्युतः गुणादनिर्गतः शरो यस्य तथाभूतः सन्नपि लक्ष्यं शतसहस्त्रीरूपं शरव्यम् अभाङ्गादिति विरोधाभासः। "इन: सूर्ये प्रभौ" इति "मौर्वी ज्या शिञ्जिनी गुणः" इति चामरः। आर्या छन्दः। लक्षणमुक्त प्राक् ४ पृष्ठे॥ अत्र विरोधाभास एव प्रधानभूतोऽलंकार: शर्लेषस्तु तदङ्गमात्रम् तस्य प्ररोहाभावादिति बोध्यम्। उक्तं च सारबोधिन्याम् "अर्थान्तरस्य प्रतिभातमात्रस्य प्ररोहाभावाद्विरोधाभासो न श्लेषः" इति ॥ तदेतत्सर्वमभिप्रेत्य चतुर्षूदाहरणेषु यथाक्रममलंकारं दर्शयति इत्यादावित्यादि। श्लेषव्यतिरेकेति। श्लेषमूलकव्यतिरेकेत्यर्थः । विरोधत्वमिति। त्वशब्दस्य द्वन्द्वान्ते श्रुतत्वात्सर्वैः संबन्धः । न तु श्लेष- त्वमिति। श्लेषेणैव तेषां निर्वाहो न तु तैः श्लेषस्येतीति भावः । अत्राहुः प्रदीपकाराः "केवीनां संतापो भ्रमणममितो दुर्गतिरिति त्रयाणां पञ्चत्वं रचयास न तच्चित्रमधिकम। चतुर्णी वेदानां व्यरचि नवता वीर भवता द्विषत्सेनालीनामयुतमपि लक्षं त्वमकृथाः ॥' अत्र मदीये पद्ये काव्यलि- ङ्रस्य श्लेषोऽङ्गमिति श्लेषप्रतिभोत्पत्तिहेतु काव्यलिङ्गम् । तस्मात् 'अलंकारान्तरप्रतिभोत्पत्तिहेतुः श्लेषः' इति रिक्त वच:" इति ॥ पूर्वपक्षस्य तृतीयमंशं दूषयति शब्दश्लेष इति। कोऽयं नय इति। कोऽयं न्याय इत्यर्थः। व्याख्यातमिदं प्रदीपादौ। "किं च 'प्रभातसंध्येव' इत्यादौ शब्दश्लेषस्यार्थालंकारत्वमिति वचनं भवतां विरुद्धम् शब्दानाश्रितत्वे तेन व्यपदेशस्य न्याय्यत्वात्" इति प्रदीपः । (शब्दानाश्रितत्वे इतिः। सति सप्तमीयम्। एवं च प्रकृते शब्दाश्रितत्वात् भवद्भिश्र आश्रयाश्रयिभावस्यैव लोके इव शब्दार्था- लंकारव्यपदेशबीजत्वेनाभ्युपगमात्तद्विरुद्धमिदमभिधानमित्यर्थः) इति प्रभा। (वचनं भवतामिति। 'शब्दश्लेषोऽर्थश्लेषश्र्वति द्विविधोऽप्ययमर्थश्लेषः' इत्यत्र शब्दश्लेषत्वमभिधायार्थश्लषेत्वाभिधानं व्याहत- मित्यर्थः । तथा च शब्दमप्यदुष्टं वक्तुमसमर्थः कथमर्थमदुष्टं बरूयादिति भावः) इत्युद्दयोतः ॥ ननु शब्दालंकारतया न शब्दश्लेषव्यपदेशः किं तु विजातीययोः शब्दयोः श्लेषरूपतया तथा व्यपदेशः अर्थालंकाररूपतया चार्थालंकारमध्ये गण्यते इति को दोष इत्यत आह कि चेत्यादि। य एव (शब्दो वा अर्थो वा) कविप्रतिभाया: कविबुद्धिकौशलस्य संरम्भ: पर्यवसानं तस्य गोचरो विषयः तत्रैव (शब्दे वा अर्थे वा) विचित्रता इति हेतो: सैव (शब्दो वा अर्थो वा ) अलंकारभूमिः अलंकारस्याश्रयः । विचि- त्रताया एवालंकारतया यत्र विचित्रता तत्रैव सुतरामलंकार इति फलितोऽर्थः। एवं च उक्तोभय- विधश्लेषस्थले कविप्रतिभासंरम्भविषयतया शब्दस्यैव वैचित्र्यमिति तद्रत एव तत्र श्लेष इति भावः । अलंकारभूमिरितिविधेयापेक्षतया सैवेति स्त्रीलिङ्गतेति बोध्यम्। अत एवोक्तमभियुक्तैः "उद्देश्यप्रतिनि- देश्ययोरैक्यमापाद्यत्सर्वनाम पर्यायेण तत्तल्विङ्गभाक्" इति। व्याख्यातमिदं प्रदीपोद्चोतयोः "अपि च यस्य वैचित्र्यं कविप्रतिभासंरभ्भगोचर: स एवालंकारस्थानम्। 'स्वयं च पल्लवाताम्र' इत्यादौ

१ कवीनामिति। अभितो भ्रमणं याचनाय। पश्त्वं नाशं पञ्संख्या च। नवता (उच्छिन्नमप्रदायस्य पुन- रुज्जीवनात् ) नूतनना नवसंख्याता च। तक्षं संख्याविशेन लक्ष्यं च। "लक्ष व्याजराग्व्ययोः । संख्यायामपि" इति हैमः। अत्र त्रयाणां पश्चत्वकरणं न चित्रमित्यर्थे चतुर्णा नवत्वकरणस्य अयुतलक्षीकरणम्य च हेतुत्वेन विवक्षणा काव्यलिद्ग मलंकारस्तत्र श्लेषोडङ्गमिति प्रभाया स्पष्टम ।।

Page 587

५२८ काव्यप्रकाशः सटीक:।

त्यमलंकार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता इति सैवालंकारभूमिः। अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽ्यर्थालंकारा: किं नोच्यन्ते। रसादिव्यअ्कस्वरूपवाच्यविशेषसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनामलंकारता। शब्दगुण- दोषाणामप्यर्थापेक्षयैव गुणदोषता। अथगुणदोषालंकाराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि

शब्दवैचित्र्यमेव तादक् तस्यैव कविप्रतिभयोद्टङ्डनादिति शब्दालंकारत्वमेवोचितम्" इति प्रदीपः । (ननु शब्दवौचित्रयेण शब्दश्लेष उच्यते अलंकारत्वं पुनरर्थस्यैवेत्यत आह अपि चेति। कविप्रतिभा- संरम्मेति। प्रतिभा शक्तिर्निपुणतैव वा। संरम्भो यत्नः। [अनयोः प्रतिभासंरभ्भयोर्मध्ये ] एकं विनापरस्याकिंचित्करत्वादुभयमुपात्तम्। तथा च कविप्रतिभायत्नगोचरत्वं यत्र तत्रैव विचित्रता तत्त्वं च प्रकृते शब्द एवेति तद्गतविचित्रता श्लेषणरूपा तदाश्रयः शब्द एवेति प्रघट्टार्थः) इत्युद््योतः। ननु निरर्थकशब्दानां श्लेषासंभवन श्लेषस्यार्थसापेक्षतया अर्थालंकारत्वमिति युक्तमेवेति पूर्वपक्षयात अर्थ- मुखेत्यादि। अर्थमुखप्रेक्षित्वम्। अर्थसापेक्षत्वम् अर्थापक्षित्वमिति यावत्। एतेषां श्लेषगोचराणाम्। अयं पूर्वपक्षाशयः। श्लेषोऽर्थमुखप्रेक्षकः न ह्यर्थद्वयप्रतीति विना श्लेषस्य चमत्कारित्वं संभवो वेत्यर्थाल- कारत्वं श्लेषस्येति। एवं तर्हि अनुप्रासादीनामप्यर्थापेक्षित्वादर्थालंकारत्वापत्तिरिति दूषयति अनुपरासा- दीनामपीति। वर्णानुप्रासलाटानुप्रासादीनामित्यर्थः । आदिपदेन वक्रोक्त्यादयो ग्राह्याः। तथैवेति। अर्थमुखप्रेक्षित्वमेवेत्यर्थः। ते अनुप्रासादयः। किं नोच्टन्ते इति। तेषामप्यर्थालंकारत्वापत्तिरिति भावः। कथमनुप्रासादीनामर्थापक्षित्वं तदाह रसादीति। आदिना भावादिसंग्रहः । रसादिव्यञ्जकं यत् स्वरूपम् यश्र वाच्यविशेषोऽर्थविशेषः तयोः सव्यपेक्षत्वे अधीनत्वे सतीति शेषः। अपिर्भिन्न- क्रमेणान्वेति अनुप्रासादीनामपि रसादि=यञ्जकस्वरूपवाच्यविशेषसव्यपक्षत्वे सति हि अलंकारतेत्य- न्वयः । अयं भावः । अनुप्रासो हि रसादिव्यञ्जकस्वरूपमपेक्षते अनुप्रासपदस्य 'रसाय्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः' इति व्युत्पत्तेः । रसादयश्र असत्यर्थे न संभवन्तीति अनुप्रासस्यार्थापेक्षा। लाटानुप्रास- वक्रोक्त्यादयश्र वाच्यविशेषं साक्षादेवापेक्षन्ते इति। प्रदीपादिषु तु एवं व्याख्यातम् "रसादिव्यञ्जक- स्वरूपवाच्यसव्यपेक्षत्वेन ह्यनुप्रासस्यालंकास्ता अन्यथा वृत्तिविरोधादिदोषस्य वक्ष्यमाण:वात्" इति प्रदीप: । (रसादिव्यअ्केति। रसादिव्यञ्जकस्वरूपं यत् वाच्यं तत्सापेक्षत्वेनेत्यर्थः । शृङ्गारव्यञ्जकार्थ- निबन्धे तदनुगुणवैदर्भ्याख्यवृत्त्यनुगुणो ह्यनुप्रास उच्यते। एवं वीरादौ गौडी वृत्तिरिति तदनुगुण इत्यर्थः। वृत्तिर्वैदर्भ्यादिरातिः) इति प्रभा। (रसादिव्यअ्षकवाच्यसव्यपेक्षत्वेनेति। रसादि च व्यञ्जकस्वरूपं च वाच्यं चैतत्सापेक्षत्वेनेत्यर्थः। माधुर्यादिव्यक्जकत्वरूपवैचित्र्येण हि अनुप्रासस्यालंका- रता सा च नार्थप्रतीति विनेति भावः । एतेन 'उभयमप्यर्थालंकार इति स्वाभिप्रायः' इति कुवलया- नन्दोक्ति: परास्ता) इत्युद्यातः। ननु श्रतिवैचित्रयादेवानुप्रासादीनामलंकारत्वेन शाब्दत्वं स्यादित्यतो दोषान्तरमाह शब्दगुणदोषाणामपीति। शब्दस्य ये गुणाः दोषाश्व तेषामपीत्यर्थः। गुणानां शाब्दत्वं परमतापेक्षया। शाब्दानामोज:प्रभतीनामर्थस्यौजस्वित्वे एव गुणता श्तिकटुत्वादीनां दोषाणां चार्थस्य सुकुमारत्वे एव दोषतेत्यर्थमुखप्रेक्षित्वेन तेषामप्यार्थत्वं स्या.दिति भावः। आर्थेषु वैपरीत्यमपि स्यादित्याह अर्थगुणति । अर्थस्य ये गुणाः दोषा: अलंकाराश्र तेषां (शब्देनार्थबोधं विना असंभवात्) शब्दापक्षयेव व्यवस्थितिः इति हेतोः तेऽपि शब्दगतत्वन उच्यन्तामित्यर्थः । अयं भावः॥ आर्थाः ये माधुर्यादयो गुणाः अपुष्टत्वादयो दोषा: उपमादयोऽलंकारास्तेषां शब्दादुपस्थितेष्वेव गुणदोषालंकार-

Page 588

नवम उल्लास:। ५२९

शब्दगतत्वेनोच्यन्ताम्। 'विधौ वक्रे मूर्ध्न' इत्यादौ च वर्णादिश्लेषे एकप्रयत्नोच्चार्यत्वेडर्थम्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम् ॥ (सू० १२१) तच्चित्रं यत्र वर्णानां खङ्गाद्याकृतिहेतुता ।। ८ ५ ।। संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खङ्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काधयम्। क्छव काव्यमेतदिति दिङमात्रं प्रदर्श्यते। उदाहरणम्

त्वव्यवस्थितिः न हि प्रत्यक्षादिनोपस्थितौ तत्समावेश इति तेषामपि शाब्दत्वं स्यात अतस्त्वदीयः शाब्दार्थविभागोSसंगतः किं त्वस्मदीय एवोचित इति॥ यच्चोक्तम् (५१६ पृष्ठे) एकप्रयत्नोच्चार्यत्वमेवार्थश्लेषत्वे नियामकमिति तदप्ययुक्तमिति दूष- यति विधाधिति। शब्दभेढे विधिविधुरूपे । प्रसज्यतामिति। अयं भावः। एकप्रयत्नोच्चार्य- त्वमेवार्थश्लेषे न नियामकम् विधौ वक्रे इत्यादौ (५१२ पृष्ठे) वर्णादिशब्दभेदेऽपि अर्थश्लेषत्वाप- त्तेरिति। स्वयं विचार्यनति। स्वयमपि विचार्यमित्यर्थः न तु परोक्तत्वेनैव द्वेषः कार्य इति भावः ॥ इति श्लेष: ॥। ४॥ चित्रमलंकारं लक्षयति तच्चित्रमिति । "संनिवेशविशेषेण शक्तिमात्रप्रकाशकाः" इत्युत्तरार्ध क्वचित्पम्यते इत्युद्योतः । यत्र अलंकारे। नन्वमूर्तानां वर्णानां कथ खङ्गाद्याकारतेत्यत आह संनि- वेशविशेवेणेति। रचनाविशेषेणेत्यर्थः । खङ्गादीत्यादिपद्ग्राह्यान्बन्धानाह मुरजपझ्मादीति। तदु- क्तमग्रिपुराणे ( ३४२ अध्याये ) "अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना । तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते॥।" इति। अस्यानन्तप्रकारत्वम् । तदप्युक्तं तत्रैव "बाणबाणासनव्योमखङ्ग मुद्गर- शक्तयः । मृदङ्गपद्मशृङ्गाटदम्भोलिमुसलाङ्कशाः । पदं रथस्य नागस्य पुष्करिण्यसिपत्रिका । एते बन्धास्तथा चान्येऽप्येवं ज्ञेया: स्वयं बुधैः ॥" इति। हेतुशब्दं विवृणोति उल्लासयन्तीति। संपा- दयन्तीत्यर्थः । चित्रमिति। चित्रालंकारयुक्तमित्यर्थः । कचित् 'चित्रमलंकारः' इति सुगम: पाठः। अयं भावः। यद्यपि शब्दात्मकानां वर्णानां खङ्गाद्याकारहेतुता नास्ति। तथापि तव्यअ्जकानां लिप्या- त्मकानां वर्णानां तथात्वेन तेषु तथात्वमुपचर्यते इति। कष्टं कष्टसाध्यम्। दिङ्मात्रं मार्गमात्रम् स्तोकम् अल्पमिति यावत्। व्याख्यातमिदं प्रदीपोद््योतप्रभासु । "यद्पि वर्णानामाकाशगुणानां खङ्गाद्याकृतिहेतुत्वमसंभवि तथापि विन्यस्तवर्णानुमापिका लिपयः संनिवेशविशेषत्वेन यत्र (यस्मिन्नलंकारे) खङ्गायाकारमु ल्वासयन्ति तच्चित्रमिति विवक्षितम्। तर्हि लिपिनिष्ठत्वात् शब्दालंकारत्वं न स्यादिति चेन्न। ताद्- शवर्णविन्यासं विना ताद्ृशलिपिविन्यासाभावात् शब्दान्वयव्यतिरेकयोरभग्रत्वात्। लिपेवर्णाभेदस्य लोकप्रसिद्धिमाश्रित्य शब्दालंकारत्वमिति कश्वित्। तथापि शृङ्गारादिरसानुपकारकस्यास्य कथमलं- कारत्वमिति चेत् कविनैपुण्यवशेन विस्मयोपकारकत्वादिति गृहाण। श्लेषनिर्वाह्यं चैतत्। न च तादृशं रसोपकारकमिति दिङ्मांत्रमुदाहियते" इति प्रदीपः । (विस्मयोपकारकत्वादिति। कवि- शक्तिप्रकाशनेन चमत्काराभासजनकत्वादिति भावः) इत्यु्योतः । (शब्दान्वयेति। ताभ्यामेव शब्दालंकारत्वस्य व्यवस्थापितत्वादिति भावः। आश्रयाश्रयिभावस्याव्यवस्थापकत्वं पूर्वोक्तमेव कश्िवि- दित्यरुचिबीजम्। कविनैपुण्येति। तथा च रसजन्यविस्मयाख्यचमत्कारातिशयप्रयोजकत्वात् अद्ु- तरसोपकारकत्वाद्वालंकारत्वोपपत्तिस्त्यिर्थः । न च ताहशमिति। क्िष्टतयार्थासुन्दरतया च रसिक-

Page 589

५३० काव्यप्रकाश: सटीक: । 6 माररिशकरामेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा॥३८४॥। माता नतानां संघट्ट: श्रियां बाधितसंभ्रमा। L I F9 मान्योथ सीमा रामाणां शं मे दिश्याहुमादिमा॥ ३८५॥ (खङ्गबन्धः )

वैमुख्याधायकत्वादिति भावः) इति प्रभा । तत्र खङ्गबन्धं द्वाभ्यामुदाहरति मारारीति। रुद्रटालंकारे उदाहृतं पद्द््यमिदम्। उमा पार्वती मे मम शं सुखं दिश्यात् दद्यादित्यन्वयः । किंभूता। मारस्य कन्दर्पस्यारिः शंभु: शक्ः इन्द्रः रामो रघुनन्दनः परशुरामो वा। "रामः पशुविशेषे स्थाज्जामदग्न्ये हलायुधे। राघवे चासिते शवेते मनोज्ञेऽपि च वाच्यवत्" इति विश्वः। इभमुखो गणेशः । एतैः। आसाररंहसा आसारो वर्ण- धारासंपातः । "धारासंपात आसार" इत्यमरः। तस्य रह उद्ेक: (अविच्छेद:) तेन (कर- णेन) सारम् अतिशयं यथा स्यात्तथा यद्वा सारः उत्कृष्टः आरब्धः स्तवः स्तोत्रं यस्यास्तथाभूता। नित्यम् अनवरतं तदार्तिहरणक्षमा तेषां मारारिशक्रादीनां या आर्तिः पीडा तस्याः हरणे दूरीकरणे (नाशने) क्षमा समर्था। नतानां नम्राणां जनानां माता वत्सला। श्रियां संघट्टः संमेलनस्थानम् सर्वासां सहवासात्संकीर्णस्थानमित्यर्थः । बाधितसं्रमा बाधितः निरस्तः संभ्रम उद्देगो यस्याः सा यद्दा दूरीकृतनतजनभया। "संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि" इति मेदिनी। मान्या सवैः माननीया। अथशब्दः समुच्चये। रामाणां नारीणां सीमा परा काष्ठा। यद्वा रामाणां रमणीयानां सीमा अवधिः अतःपरं रमणीयता नान्यत्रेति भावः। आदिमा सर्वादिभूतेत्यर्थः । केचित्तु 'संघद्टश्रि- याम्' इत्येकपदं मन्यमाना: संघट्टेन लोकविमर्देन श्रीः संपत्तिर्येषां ताद्ृशानां महिषासुरप्रभृतीनां बाधितः संभ्रम: संरम्भो यया सा" इति व्याचक्षते। युग्ममिदम द्वाभ्यां छन्दोभ्यां वाक्यार्थसमाप्तेः। युग्मलक्षणं तूक्तं प्राक (१५५ पृष्ठे) ।। सुखेन बोधनाय तत्र तत्र तत्तच्वित्राकारोपि लिख्यतेऽस्माभिः। तत्र खङ्गचित्राकारो यथा

मु खेर तानताना संघ न्याथसीम पश रर व्ध स्तवा नित्यं त दार्तिह रण ाद उ रामाणा श

खडगबन्धनप्रकारो यथा। मुष्टेरुपरि अधश्र शाखाद्वयवान् खड्गो लेख्यः। तत्र उपरिशाखाचतुष्पथमध्ये मा' इति प्राथमिकं वर्ण विन्यस्य तदूर्ध्वमारोहक्रमेण (उपरि अधो वा) एकस्यां धारायां 'रा' इत्यादीन् 'ह' इत्यन्तान् चतुर्दश वर्णान् विन्यसेत। खद्गस्याग्रे च 'सा' इति वर्णों विन्यास्यः तत्रःच अपरः 'सा' इति वर्ण: प्रविष्टः। ततोऽपरधारायामवरोहक्रमेण 'रा' इत्यादीन् 'क्ष' इत्यन्तान् चतु-

Page 590

नवम उल्लास: ।

सरला बहुलारम्भतरलालिबलारवा। वारलाबहुलामन्दकरलाबहुलामला॥ ३८६॥ (मुरजबन्धः )

दश वर्णान् विन्यसेत्। 'मा' वर्णः प्राथामिके 'मा' वर्णे प्रविष्टः। ततश्र खङ्गस्य एकस्यामुपरि- शाखायां निष्क्रमणक्रमेण 'ता' इत्यादीन् 'दः' इत्यन्तान् सत वर्णान् विन्यस्य अपरस्यामुपरिशा- खायां प्रवेशक्रमेण 'श्रि' इत्यादीन् 'भ्र' इत्यन्तान् सप्त वर्णान् विन्यसेत्। माकारः प्राथमिके माकारे प्रविष्टः। ततश्र खङ्गमुष्टौ माशब्दादधः क्रमेण 'न्या' इत्यादि 'सी' इत्यन्तं वर्णत्रयं विन्यस्य तद- धश्चतुष्पथे माकारो विन्यास्यः। ततश्र तदूर्ध्वशाखायां निष्क्रमणक्रमेण 'रा' इत्यादीन् 'शम्' इत्यन्तान् चतुरो वर्णान् विन्यस्य अपरशाखायां प्रवेशक्रमेण 'मे' इत्यादि 'दु' इत्यन्तं वर्णचतुष्टयं विन्यसेत्। माकारोऽधश्रतुष्पयस्थमाकारे प्रविष्ठः। ततश्र मुष्ठेर्मूलभागे माकारस्याधःक्रमेग 'दिमा' इति वर्णद्वयं न्यसदिति प्रदीपादौ स्पष्टम् ।। मुरजबन्धमुदाहरति सरलेति। रुद्रटालंकारे उदाहृतं शरद्ूर्णनपरं पद्यमिदम्। अत्र प्रकरण- गम्या शरत् विशेष्या। शरत् 'जयति' इति शेषः । किंभूता । सरला मेघादिकौटिल्यरहिता। शरलेति तालव्यपाठे शरं शरकाण्डं लाति आदत्ते गृह्नाति इति व्युत्पत्त्या शरकाण्डोद्वमवतत्यर्थः शरदि शरकाण्डसंपत्तेः । बहुलैरारम्मैः प्रचरैः संरम्भैः तरलानां चञ्चलानाम् यद्वा बहुलारम्भाणां नानाकुसुमलम्पटानाम् अत एव तरलानां चञ्चलानाम् अलिबलानां भ्रमरसैन्यानाम आरवः कोलाहलो यस्यां ताहशी। वरला एव वारला: स्वार्थे प्रज्ञादित्वादण्प्रत्ययः वारलाः हंस्यः बहुला यस्यां सा यद्ा वारलाभि: हंसीभिर्बहुला बहुलहंसीकेत्यर्थः । "वरठा वरला हंसी" इत्यभिधानम्। अमन्दा उद्योगिन: (अर्थात् रणाय ) करं स्वामिग्राह्य भागं लान्ति गृह्नन्तीति करला: राजानो यस्यां सा। यद्ा अमन्दा उदक्ताः करलाः राजधनग्राहिणो मार्गेऽधिकृता जनाः यस्या ताहशी। अबहुलेन शुककपक्षेण अबहुले शुककपक्षे वा अमला निर्मला तद्ददमला वा। यद्ा बहुले कृष्णपक्षेऽपि अमला स्वच्छाकाशतया तारकाभिः प्रकाशनादिति भावः। "बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम। पुंस्यम्रौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः" इति मेदिनी। मुरजं वाद्यभाण्डविशेषः । मरजबन्धो यथा

ला मम

र्व ला

Kog वा

बे हु ला म ला

Page 591

काव्यप्रकाश: सटीकः।

भासते प्रतिभासार रसाभाताहताविभा। भावितात्मा शुभा वाढे देवाभा बत ते सभा॥३८७॥ (पद्मबन्धः ) अस्य न्यासप्रकारस्त्वयम्। पक्गिक्रमेण प्रथमपादवर्णान् लिखित्वा तेषामधोऽधस्तथैवापरपादत्रयव- र्णान् लिखेत्। ततस्तेषु रेखाविशेषदानेन श्लोकोद्धारो मुरजोत्पादनं च कार्यम्। यथा प्रथमादि- पादचतुष्टयस्य यथाक्रमं प्रथमद्वितीयतृतीयचतुर्थवर्णेषु अधोगत्या एका रखा देया। ततश्र तद्रे- खाग्रतः चतुर्थादिपादचतुष्टयस्य व्युत्क्रमेण पञ्चमषठ्ठसप्तमाष्टमेषु ऊ्ध्वगत्या एका रेखा देया। एवं रखाद्वयेन प्रथमपाद्ोत्पत्तिः । ततश्व द्वितीयपादप्रथमवर्गप्रथमपादद्वितीयवर्णयोरका रेखा तदग्रतः प्रथमपादवृतीयवर्णद्वितीयपादचतुर्थवर्णयोरेका तद्ग्रतः द्वितीयपादपश्चमवर्णप्रथमपादपष्ठवर्णयोरका तद्ग्रतः प्रथमपादसप्तमवर्णद्वितीयपादाष्टमवर्णयोश्र्वैका इत्येवं रेखाचतुष्टयेन द्वितीयपादोद्वारः । यथैव प्रथमद्वितीयपादयोयेषु येषु वर्गेषु रेखाचतुष्टयदानेन द्वितीयपादोद्धार: तथैव तृतीयचतुर्थपाद- योस्तेषु तेषु वर्णेषु रेखाचतुष्टयेन तृतीयपादोद्धारः कार्यः। एवं चतुर्थादिपादचतुष्टयस्य व्युत्क्रमेण प्रथमद्वितीयवृतीयचतुर्थवर्णेषु ऊ्ध्वगत्या एका रेखा एका च रेखा तद्ग्रतः प्रथमादिपाद्चतुष्टयस्य क्रनेणाधोगत्या पश्चमषष्ठसप्तमाष्टमवर्णेषु देया एवं रेखाद्वयेन चतुर्थपादात्पत्तिः। एवं कृते रेखा- भिर्मुरजषट्कस्यात्पत्तिरिति विवरणे स्पष्टम। अत्रोक्तं सुधासागरकारैः "अथ न्यासः प्रथमपादस्य वर्णाष्टकं पक्किकमेणाभिलिख्य तेषामधोऽधोऽपरपादत्रयवर्णान् पक्किकमेण विलिखेत्। ततः प्रथम- पादप्रथमाक्षरपार्श्वत एकैकवर्णाधिकसंग्रहेण चतुर्थचरणचतुर्थाक्षरपर्यन्तं दक्षिणतो रेखां कुर्यात्। एवमुत्तरपार्श्वे चरमचरणतृतीयाक्षरपर्यन्तम् ईशानादारभ्य विदिक्ष्वेवमेव कुर्यात्। ततो दिग्विदिश्षु रखाष्टके दत्ते मुरजत्रयाकारो भवाति" इति ॥ पद्मबन्धमुद्दाहरति भासते इति। हे प्रतिभासार प्रज्ञाश्रेष्ठ ( राजन् ) ते सभा भासते । किंभूता रसैः प्रीतिरूपैः शृङ्गारादिभिर्वा आभाता शोभिता रसिकेति यावत्। अहता अप्रतिहता आविभा सम्यग्दीप्तिर्यस्याः सा यद्वा हता अविभा अदीप्तिर्यस्याः सा निर्दोषेति यावत्। भावितः निर्णीत आत्मा परमात्मा यस्यां सा तत्त्वज्ञविशिष्टेत्यर्थः । भावितो वशीकृत आत्मा ययेति वार्थः । वादे तत्वकथायां शुभा निपुणा। देवाभा देवतुल्या। बतेत्याश्चर्ये। "रसौ गन्धरसे जले। शृङ्गा रादौ विषे वीर्ये तिक्तादौ द्रवरागयोः" इति हैमः॥

Page 592

नवम उल्लास: ।

रँसासार रसा सारसायताक्ष क्षतायसा। सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ।३८८ ।। (सर्वतोभद्रम् )

पद्मबन्धो यथा

उच्त वायुविदिक ईशानविविक लागु वाद

तावि भा सत पूर्वदिक पश्विमादिक 31 सार नकतविदिक अग्रियावदिक दक्षिणािक

अस्य च न्यासो यथा अष्टद्लपझ्मं लेख्यम् तत्र कर्णिकाया श्लोकस्यादिमो वर्णः स्थाप्यः स चाष्टधा श्लिष्टः। दले दले द्वौ दौ वर्णो लेख्यौ तत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टौ वर्णो विदि- गदलेषु तुन श्लिष्टौ। तत्र प्राच्यदले आदौ निर्गमः श्लोकान्ते च प्रवेशः दक्षिणोत्तरदलयो्निर्गत्यवै प्रवेशः । पश्चिमदले तु प्रविश्यैव निर्गमः आग्नेयवायव्यदलयोः प्रवेश एव नैर्ऋतेशानयोस्तु निर्गम एव। तथाहि। प्रकृते कर्णिकायां 'भा' इति पूर्वदले निर्गमक्रमेण 'सते' इति आग्रेयदले प्रवेश- क्रमेण 'प्रति' इति चैते वर्णा लेख्याः 'भा' इति वर्णः कर्णिकास्थे प्रविष्टः ततो दक्षिणदले निष्क- मणक्रमेण 'सार' इति वर्णद्वयं लेख्यम् तस्मिन् वर्णद्ये कर्णिकास्थवर्णे च प्रवेशक्रमेण 'रसाभा' इति वर्णत्रयं प्रविष्टम् एवमग्रेऽपि उक्तदिशावसेयमिति विवरणे स्पष्टम्। उक्तं च प्रदीपे "अस्य न्यास: । कर्णिकायां 'भा' इति पूर्वपत्रे निर्गमक्रमेण 'सते' इति आग्नेयपत्रे प्रवेशनक्रमेण 'प्रति' इति ततो 'भा' इति कर्णिकास्थं श्लिष्टम्। ततो दक्षिणपत्रे निष्कमणक्रमेण 'सार' इति वर्णद्वयम ततस्ताभ्यां कर्णिकास्थेन वर्णेन प्रवेशक्रमेण श्लिष्टं 'रसाभा' इति वर्णत्रयम्। एवमग्रेऽपि दिक्प- स्रस्य कर्णिकायाश्रव वर्णाः सर्वत्र श्लिष्टा इति" इति॥

सर्वतोभद्रमुदाहरति रसेति। रुद्रटालंकारे उदाहृतं पद्यामेंदम्। रक्षतः तु अस्तु अतक्षर इति

Page 593

५३४ काव्यप्रकाशः सटीक: ।

संभविनोऽप्यन्ये प्रभेदा: शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदश्यन्ते॥। (सू० १२२) पुनरुक्तवदाभासी विभिन्नाकारशब्दगा ।। एकार्थतव

गूढपदच्छेद:। हे रसासार रसायां पृथिव्यां सार श्रेष्ठ राजन् रक्षतः रक्षणं कुर्वतः तव रसा पृथ्वी क्षतायसा क्षतः नाशितः अयः शुभावहविधिर्येषां ते दुर्जनाः तान् स्यति ('षोऽन्तकर्मणि' इति धातो रूपम्) अस्तं प्रापयति या तादृशी। तुशब्दश्रार्थे न विद्यते तास उपक्षयो यस्याः सा अतासा अनुपक्षया च ( 'तसु उपक्षये' इति धातो: रूपम् ) अस्तु इत्यन्वयः । निरुपद्रवा स्थिरा च भवत्वित्यर्थः । अथ संबोधनविशेषणानि सारसायताक्ष सारसवत् पद्मवत् आयते विशाले अक्षिणी लोचने यस्य तादृश। सातावात सातं नाशितं अवातं अज्ञानं येन तादृश। 'वा गतिगन्धनयोः' इति पठितस्य वाधातोर्गत्यर्थतया ज्ञानार्थकत्वं "गत्यर्था ज्ञानार्थाः" इति न्यायात्। यद्वा साते सुखे अवात अचञ्चल (अनासक्त)। अतक्षर अतक्षं अनल्पं राति ददाति तादृश। 'तक्षू त्वक्षू तनूक- रणे' 'रा दाने' इति अनयोर्धात्वो रूपम्॥

सर्वतोभद्रस्य विन्यासप्रकारविशेषप्रदर्शनं निरर्थकम् पाद्चतुष्टयस्य क्रमेणाधोऽधो लिखनमेव पर्याप्तम्। तथाकृते एव हि "तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः" इति दण्डयुक्तस्य सर्वतोभ्र- मणस्य प्रतीतिसंभवात्। सर्वतोभ्रमणं च अनुलोमेन प्रतिलोमेन अनुलोमप्रतिलोमाभ्यां प्रतिलोमानु- लामाभ्यां च अधःक्रमेण उपरिक्रमेण अधउपरिक्रमेण उपर्यधःक्रमेण च उच्चारणे स एव श्लोक आयातात्येवंरूपम् । यथा

र सा सा र र सा सा ₹ं सा य ता क्ष क्ष ता य सा। सा ता वा त त वा ता सा र क्ष त स्त्व स्त्व त क्ष र॥ 2 止 1

अस्य हि प्रथमादिपादानामनुलोमेनेव प्रतिलोमेनोच्चारणेऽपि त एव पादा: आयान्ति। एवं प्रतिपादं प्रथमादिवर्णचतुष्टयस्य पञ्चमादिवर्णचतुष्टयस्य वा अनुलोमप्रतिलोमाभ्याम् प्रतिलोमानुलोमाभ्यां वा त एव पादाः । एवं पादचतुष्टयस्य प्रथमानाम् अष्टमानां च वर्णानाम् अधःक्रमेण उपरिक्रमेण वा उच्चारणे प्रथम: पादः। अथवा प्रथमवर्णचतुष्टयस्य अष्टमवर्णचतुष्टयस्य वा केवलस्य उपर्यधःक्रमेण अधउपरि- कमेण वा उच्चारणे प्रथमः पादः। एवंरीत्या प्रत्येकपादानां द्वितीयवर्णचतुष्टयेन सप्तमवर्णचतुष्टयेन च द्वितीयपादस्य तृतीयवर्णचतुष्टयेन षष्ठवर्णचतुष्टयेन च तृतीयपादस्य एवं चतुर्थवर्णचतुष्टयेन पश्चमवर्णचतुष्टयेन च चतुर्थपादस्य च उत्पत्तिरित्येवं बहुविधं भ्रमणमूद्यमिति विवरणे स्पष्टम् ॥

ननु अन्येऽपि भेदा: सन्ति ते किमिति न प्रदुश्यन्ते इत्यत आह संभविन इत्यादि। अन्ये प्रभेदा इति। ते चोक्ताः (५२९ पृष्ठे)। शक्तिमात्रेति। कविशक्तिमात्रेत्यर्थः। न तु काव्य- रूपतां दघतीति । अतिर्नीरसत्वादिति भावः ॥ इति चित्रम् ॥ ५॥

शब्दार्थोभयवृत्तित्वेन शब्दार्थालंकारयोर्मव्ये पुनरुक्तवदाभासं लक्षयति पुनरुक्तवदित्यादि।

Page 594

नवम उल्लास: ।

भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः। सच (सू० १२३) शब्दस्य । सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः। उदाहरणम् अरिवधदेहशरीर: सहसा रथि सूततुरगपादातः। भाति सदानत्याग: स्थिरतायामवनितलतिलकः ॥ ३८९॥ एकार्थतेवेति। एकोऽर्थो ययोर्येषां वा तद्भावः एकार्थता एकार्थकता। इवशब्दोऽत्र नौपम्यस्य प्रति- पादकः किंतु आभासस्यैव। तेन विभिन्नेत्यादौ विशेषणे स्त्रीत्वोपपत्तिरिति विस्तारिकायां स्पष्टम्। एवं च वस्तुतो नैकार्थकत्वं किन्तु एकार्थकत्वन आभासमात्रमित्यर्थः अन्यथा पौनरुक्त्यदोषापत्तेः। तथा च विभिन्नाकारो विजातीानुपूर्वीको यः शब्दस्तद्गा तद्ता या एकार्थतेव आभासीभूतैकार्थकता (एकार्थकत्वेनापाततो भासनं) पुनरुक्तवदाभास इति सूत्रार्थः। अर्थान्तरसंक्रमितवाच्ये 'यस्य मित्राणि मित्राणि' (१५० पृष्ठे) इत्यादावतिप्रसङ्गवारणाय विभिन्नेति। तत्र च नानुपूर्वभेद इति नातिप्रसङ्ग इति विस्तारिकासारबोधिन्योः स्पष्टम्। व्याख्यातमिदं प्रदीपोद््योतयोः । "एकार्थतेवेति। एकार्थत्वावभासयोग्यशब्दतेत्यर्थः । एतच्च यमकलाटानुप्रासयोरतिव्यापकमतो विशिनष्टि विभिन्ना कारशव्दृगेति' इति प्रदीपः । (एकार्थत्वावभासेति। वस्तुतो नैकार्थत्वम् किं तु तत्त्वेन प्रतिभानमात्रमिति भावः तेन न पौनरुक्त्यम्। विभिन्नाकारत्वं विभिन्नानुपूर्वीकत्वम्) इत्युद्द्योतः। तदेतत्सर्व वृत्तिकार आह भिन्नरूपेत्यादि। सार्थकानर्थकेति। अनेन वक्ष्यमाणलक्ष्यसमन्वयः सूचितः । मुखे आपाततः । भासनं प्रतीतिः। तथा च विभिन्नरूपयोर्वस्तुतो भिन्नार्थकयोरपि शब्दयोरापातत एकार्थकतया प्रतीतिः पुनरुक्तवदाभासस्तन्नामकोऽलंकार इति वृत्यर्थः । पुनरु- क्तस्येव पुनरुक्तवत् आभासो ज्ञानमिति पुनरुक्तवदाभासपदनिरुक्तिर्बोध्या। स चायं द्विविधः शब्दमात्रस्य शब्दार्थयोश्र्वेति। तयोराय्यमाह शब्दस्येति। शब्दमात्रस्येत्यर्थः। अयमपि द्विधा सभङ्गशब्दनिष्ठोऽभङ्गशब्दनिष्ठश्रवेति। तदाह सभङ्गाभङ्गेति। "तथा शब्दार्थयोरयम्" इति १२४ सूत्रेणोभयालंकारस्य वक्ष्यमाणत्वात्परिशेषलब्धमाह केव्लेति। अनेनार्थव्यावर्तनम्। शब्दनिष्ठ इति। शब्दस्यैवान्वयव्यतिरेकानुविधायित्वादिति भावः। पर्यायपरिवृत्त्यसहत्वादिति तात्पर्यम् ।। तत्र सभङ्गशब्दनिष्ठं पुनरुक्तवदाभासमुदाहरति अरिवधति । अवनितलातलकः भूतलभूषणभूतो राजा भाति शोभते। कया सदा सर्वकाले नत्या नम्रभावेन अथवा सदानत्या सतां विषये आनत्या अतिनम्रभावेन संतोषजननेन वा यदा सदा सर्वकालं अनत्या (श्षुद्रेषु) अनम्रतया। कीदृशः अरिवधदा शब्ुविनाशिनी ईहा चेष्टा येषां तादृशाः ये शरिणः शरयुक्ताः (योधाः) तान् ईर्यति प्रेरयतीत्यरिवधदेहशरीरः । यत्तु अिवधदेहं शरीरं यस्येति व्याख्यानम् तन्न। द्वितीयपदस्य परिवृत्ति- सहत्वेनाभयालंकारत्वापत्तौ शब्दमात्रालंकारोदाहरणत्वानुपपत्तेः इत्युइ्योते स्पष्टम्। उक्तं च चन्द्रिका- यामपि "अरिवधदेहं शरीरमस्येति व्याख्यानमयुक्तम् तथा सति शरीरपदस्य परिवृत्तिसहत्वेन देहपदस्य तदसहत्वेन चोभयालंकारत्वापत्या शब्दमात्रालंकारोदाहरणत्वानुपपतत्तिप्रसङ्गात्" इति।

Page 595

५१६ काव्यप्रकाश: सदीकः । चकासत्यङ्गनारामा: कौतुकानन्दहेतवः । तस्य राज्: समनसो विबुधाः पार्श्ववर्तिनः ॥३९०॥ सहसा शीघ्रं हठेन वा राथभि: सुष्ठु उताः संबद्धाः तुरगा अश्वाः पादाताः पदातिकाश्व यस्य सः। स्थिरतायाम् अगः पर्वततुल्य इत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र देहशरीरशब्दयोः सारथिसूतशब्दयोः दानत्यागशब्दयोश्रवापाततः पौनरुक्त्यम सभङ्गाश्र्वैते शब्दा इति सभङ्गशब्दनिष्ठः पुनरुक्तवदाभासः । शब्दमात्रालंकारत्वं चोभयोरपि शब्दयोः पर्यायपरि- वृत्त्यसहत्वादिति बोध्यम्। उक्तं च प्रदीपे "अत्र देहशरीरशब्दयोः पुनरुक्तत्वधीः। सभङ्गौ च तौ अरिवधदा ईहा यत्र तादृशान् शरिण ईरयतीत्यर्थकत्वात्। एवं सारथिसूतशब्दयोः सहसा हठेन रथेना सुष्ठु उतं तुरगपादातं यस्येत्यर्थकत्वात्। दानत्यागयोश्र सदा नत्या भाति स्थिरतायाम् अगः पर्वत इवे- त्यर्थकत्वात् स्भङ्ग: पुनरुक्तवदाभासः। शब्दमात्रालंकारत्वं चोभयोरपि शब्दयोः पर्यायपरिवृत्त्यसह त्वात्" इति। इदमत्र तत्त्वम्। देहशरीरइति द्वावपि शब्दौ सार्थकौ सभङ्गौ च। सारथिसूतइति द्वयोरायो निरर्थकः अन्त्यक्ष सार्थकः उभावपि सभङ्गौ। दानत्यागइति उभावाप निरर्थकौ सभङगौ चेति। शब्दस्य सार्थकत्वं च विवाक्षितार्थकत्वम् निरर्थकत्वं तु विवक्षितार्थाभाववत्त्वमिति बोध्यम्॥ अभङ्गशब्दनिष्ठं पुनरुक्तवदाभासमुदाहरत चकासतीति। तस्य राज्ञः पार्श्ववर्तिनः सेवकाः चकासति शोभन्ते। 'चकासृ दीप्तौ' इत्यदादिगणे धातुः। किंभूताः पार्श्ववर्तिनः अङ्गनारामाः कल्या णानि (प्रशस्तानि ) अङ्गानि ( अवयवाः) यासां ता अङ्गनाः । "लोमादिपामादिपिच्छादिभ्यः शने- लच:" (५२i१००) इति पाणिनिसूत्रस्थेन "अङ्गात्कल्याणे" इति गणसूत्रेणाङ्गशब्दात् नप्र- त्ययः तासु रमन्ते क्रीडिन्तीति तथाभूताः विरहशून्या इत्यर्थः । पुनः किभूताः । कौतुकेन नृत्य्गी- तादिना यः आनन्दस्तस्य हेतव इत्युश्योतकारादयः। कौतुकेन विवाहसूत्रेण यः आनन्दः सुखं तद्वेतव इति चक्रवर्तिश्रीवत्सलाञ्छनभीमसेनादयः । कौतुकेन काव्यादिचर्चया आनन्दहेतव इति प्रभाकृत्। कौतुकम् उत्सवविशेषस्तद्रपानन्ददा इति चन्द्रिकाकृत्। "कौतुकं नर्मणाच्छायामुत्सवे कुतुके मुदि" इति हेमचन्द्रकोशः "कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले" इति शाश्वतकोशश्र । पुनः किंभूताः । सुष्ठु विषये मनांसि येषाम् शोभनानि वा मनांसि येषां ते सुमनसः । विबुधाः पाण्डता इत्यर्थः॥ अत्राङ्गनारामाशब्दयो: स्त्रयर्थकतया कौतुकानन्दशब्दयोः संतोषार्थकतया सुमनसो बिबुधा इत्यन- योर्देवार्थकतया आपाततः पौनरुक्त्यम् अभङ्गाश्र्वैते शब्दा इत्यभङ्गशब्दनिष्ठः पुनरुक्तवदाभासः । उक्तं चात्र चक्रवर्तिप्रभतिभिः "अत्राङ्गनादिपदान्यखण्डान्येव" इति। शब्दमात्रालंकारत्वं चैतेषां सर्वेषां शब्दानां पर्यायपरिवृत्तयसहत्वात्। अत्र सर्वेडपि शब्दाः सार्थका इति बोध्यम्॥ ननु 'अङ्गनारामा' इत्यत्राङ्गनाशब्दस्य महिलादिरूपपर्यायपरिवृत्तिसहत्वेनोभयालंकारतापत्तौ अस्य शब्दमात्रालंकारोदाहरणत्वमसंगतमिति चेन्न। "विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना" इत्य- मरात् अङ्गनाशन्दस्य स्त्रीविशेषवाचकत्व्रन "प्रतीपदर्शिनी वामा वनिता महिला तथा" इत्यमरात् महिलादिशब्दस्य स्त्रीसामान्यवाचकत्वेन तयोमिथः पर्यायत्वाभावात्। नन्वानन्दशब्दस्यामोदहर्षसंतो- षादिशब्दैः परिवृत्तिसहत्वेन कौतुकानन्देत्यस्य शब्दमात्रालंकारोदाहरणत्वमसंगतमित्यपपि न शङ्कनायम् आपाततः पर्यायत्वेन भानेऽपि आनन्दशब्दस्य सुखविशेषार्थकत्वेनामोदहर्षादिश्दानां तत्पर्यायत्वा-

Page 596

नवम उल्लास: ।

वात्। अत एव "यत्रानेन्दाश्र मोदाश्र यत्र पुण्याश् संपदः । वैराजा नाम ते लोकास्तैजसा: सन्तु ते धुवाः ॥" इत्युत्तररामचत द्वितीयेऽङ्के शम्ब्रूकं प्रति श्रीरामवन्द्रोक्तौ आनन्दमोदयोः पृथङ्निर्देशः । किंच "अप्रहर्षमनानन्दमशोकं विगतक्कमम् । ०००० ईदशं परमं स्थानम्" इति महाभारते शान्तिपर्वणि मोक्षधर्मे जापकोपाख्याने ( १९८ अध्याये) प्रहर्षानन्द्योः पृथङ्निर्देश;। अपि च "अन्योऽन्तर आत्मा आनन्दमयः ।००००। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तर: पक्षः। आनन्द आत्मा" इति तैत्तिरीयोपनिषदि ब्रह्मवल्या पश्चमेनुवाके मोदप्रमोदान- न्दानां पृथङ्रनिर्देश इति दिक। न चानन्दहर्षसंतोषमोदप्रमोदामोदादिशब्दानां पर्यायत्वाभावे "मुत्प्रीतिः प्रमद्ो हर्षः प्रमोदामोदसंमदाः । स्यादानन्दथुगनन्दशर्मशातसुखानि च ॥" इत्यमरे पर्याय- त्वप्रदर्शनं विरुद्धं स्यादिति वाच्यम् सामान्यवाचिनां विशषवाचिनामपि शब्दानां क्वचित्कचित्पर्यायत्वेन गणनेSमरस्वभावात्। यथा "बुद्धिमनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः" इत्याद विति बोध्यम्। पतेन "कौतुकेन (सत्कर्मण ) अभिलाषेण नृत्यगीतादिना वा अस्य विष्णोर्नन्दस्य संतोषस्य हेतव इत्यर्थ: । 'कौतुकेन आनन्दहेतवः' इति यथाश्रतार्थकरणे आनन्दशब्दस्य परिवृत्तिसहत्वेनास्य शब्दमात्रालंकारोदाहरणत्वासंगतिः" इति विवरणकारोक्तिः परास्तेति सुधीनिर्विभावनीयम् । यत्तु सुधासागरे उक्तम् "कौतुकानन्देत्यत्र नायमलंकारः कौतुकानन्दशब्दयोः क्वचिदप्यर्थे पर्यायत्वा- दर्शनात्" इति तन्न युक्तम् प्राक् (५३६ पृष्ठे) प्रदर्शितयोर्हेमचन्द्रशाश्वतकोशयोः संतोषरू- पेऽथ पर्यायत्वदर्शनादिति बोध्यम्।। अत्र व्याख्यातं प्रदापोह््चोतयोः । "अत्राङ्गनारामाशब्दयोः स्त्रयर्थकतया पुनरुक्त [त्व]धीः। वस्तु- तस्तु अङ्गने आरमन्ति अङ्गनानामारामा इति वा अर्थ इति न पुनरुक्तिः । न चात्र सभङ्ग:। शब्दमा- त्रालंकारत्वं चैकस्यापि परिवृत्त्यसहत्वात्। एवं कैतुकानन्दशब्दयोः सुमनसोविबुवा इति शब्दयोश्र द्रष्टव्यम्" इति प्रदीपः। (अङ्गनासु रमन्ते इत्यङ्गनारामाः विरहशून्याः । अङ्गने आरमन्ताति वा अङ्गनेषु आरामा: क्रीडावनानि येषामिति वा) इत्युश्योतः। एतयोः प्रदीपोद्दचोतयोः कठिनत्वाद्ाम- कत्वाच्च तदाशयं यथामति प्रकटयामः । अङ्गने इति । अङ्गनम् अजिरम्। "अङ्गनं प्राङ्गणे याने कामि- न्यामङ्गना मता" इति नान्तवर्गे विश्वः। आरमन्तीति। आ अत्यन्तं क्रीडन्तीत्यर्थः अप्रवासिन इति भाव:। एवं चात्र पक्षे अङ्गनारामाशब्दौ द्वावपि निरर्थकाविति निरर्थकशब्दनिष्ठः पुनरुक्तवदाभास इति भाव: । "व्याङ्र्परिभ्यो रमः" (१३८३) इति पाणिनिसूत्रेग आरमन्तीति परस्मैपदम्। एतेन 'अङ्गने एव आ सम्यक् रमन्ते' इति विवरणकायेक्तमात्मनेपदं परास्तम्। न चायमाकरोडडि दिति वाच्यम् वाक्यस्मरगयोर्द्योतकस्यैव आकारस्याडित्वात्। तदुक्तं "निपात एकाजनाङू" (११।१४) इति पाणिनिसूत्रे महाभाष्ये "ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमात डितं विद्याद्वाक्यस्मरणयोरडित्" इतीति बोध्यम्। ननु 'अङ्गने आरमन्ति' इत्यर्थे यद्यपि रामा- १ "आन.दाः सुखानि (सुखविशेषाः)। मोदा आह्वाद्ाः" इति तव्याख्यातारः ॥ २ 'प्रहर्षम् इष्टलामज सुखम् आनन्दस्तद्रोगज सुखम् ता्भ्या हनिमप्रर्षर्मनानन्दम्। शोक आन्तरं दुःखम् कुमो बाहां दुःखं ताम्यां हीनमशोकं विगतकृमम्" इति चतुर्धरनीलकण्ठरता तह्याख्या॥ ३ "शिर इव शिरः प्राधान्यात्। मोड इति प्रिथलाभनिमितो हर्षः । स एव च प्ररुष्टे हर्षः प्रमोः। आनन्द इनि सुखसामानयमात्मा प्रियादीनां सुखावय- वानां तेष्वनुस्यूतत्वादानन्द इति परं बह्म" इति शांकरभाण्यम् ॥ ४ निश्वयात्मवृत्त्याश्रया बुद्धिः । नीत्यनुसारिणी बुद्धिर्धीः। झटिति स्फूर्तिः प्रज्ञा । शास्त्रादितात्पर्यनिर्णायिका बुद्धिर्मतिः । किचाहुः "स्मृतिर्भतार्थविषया मति- रागामिगोचरा। बुद्धिस्तात्कालिकी प्रोक्ता प्रज्ञा त्रैकालिकी मता ॥" इति॥

Page 597

५३८ काव्यप्रकाशः सटीक:।

(सू० १२४) तथा शब्दार्थयोरयम् ॥ ८६॥ उदाहरणम् तनुवपुरजघन्योऽसौ करिकुअररुधिररक्तखरनखरः । तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ॥ ३९१॥

शब्दोऽभङ्ग एव तस्य आरामशब्दैकदेशत्वेऽपि अभङ्गत्वानपायात् तथापि आरामशब्दैकदेशस्य आका- रस्य संयोजनेनाङ्गनाशब्दस्यानुसंधानात्तस्य सभङ्गत्वापत्या अभङ्गोदाहरणत्वमनुपपभ्नमित्यरुचिं मनसि निधायार्थान्तरं दर्शयति अङ्गनानामारामा इति वार्थ इति । अङ्गनानाममिति आबन्त- स्याङ्गनाशब्दस्यैव षष्ठ्यन्तम् न तु अङ्गनशब्दस्य अन्यथा अस्मिन्नप्यर्थे सभङ्गत्वस्य तद्वस्थत्वा- पत्तेः । तथा च अङ्गनानां स्त्रीविशेषाणाम् आरामाः क्रीडास्थानभूता इत्यर्थः । सभङ्गत्वभ्रमं वार- यति न चात्रेत्यादि। अत्रेति। अङ्गनानामारामा इत्यर्थपक्षे इत्यर्थः । सभङ्ग इति। किंतु अभङ्ग एवेत्यर्थः । 'शब्दः' इति शेषः 'सभङ्गौ च तौ' (५३६ पृष्ठे ७ पङ्कौ ) इति पूर्वोदाहरणस्थस्व- ग्रन्थस्वरसात् । अथवा 'पुनरुक्तवदाभासः' इति शेषः "सभङ्ग: पुनरुक्तवदाभास:" (५३६ पृष्ठे १० पक्कौ ) इति पूर्वोदाहरणस्थस्वग्रन्थस्वरसात् । तथा चालंकारघटकयोरङ्गनारामाशब्दयोरु- भयोरपि अभङ्गत्वमुपपन्नमिति भावः। एवं चात्र पक्षेऽङ्गनारामाशब्दौ द्वावपि निरर्थकाविति निरर्थ- कशब्दनिष्ठः पुनरुक्तवदाभास इति फलितम् । एकस्यापि परिवृत्त्यसहत्वादिति। एकस्यापि शब्दस्य परिवृत्तिसहत्वाभावादित्यर्थ इति।। उभयालंकारं द्वितीयमाह तथा शब्दार्थयोरिति। तथेति। समुच्चये। अयं पुनरुक्तवदाभासः॥ तनुवपुरिति। सिंहवर्णनमिदम्। असौ हरिः सिंहः। "हरिर्वातार्क चन्द्रेन्द्रयमोपेन्द्रमरीचिषु। सिंहा- श्वकपिभेकाहिशुकलोकान्तरेषु च। हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः" इति विश्वः। तनुतपुरपि कृशशरीरोऽपि अजघन्यः श्रेष्ठः अप्रमेयबल इत्यर्थः प्रसिद्धसिंहेभ्यो विलक्षण इति यावत्। "तनुः काये त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे" इति विश्वमेदिन्यौ। "जघन्योऽन्त्येऽधमेऽपि च" इत्यमरः "जघन्यं चरमे शिक्षे जघन्यं गर्हितेऽन्यवत्" इति विश्वश्र। किंभूतः करिकुञ्जराणां गजश्रेष्ठानां रुधिरेण शोणितेन रक्ता: लोहितवर्णाः खरास्तीक्ष्णाश्र नखराः नखाः यस्य तथाभूतः । कुञ्जरशब्दः श्रेष्ठवाची "स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः। सिंहशार्दूलनागायाः पुंसि श्रेष्ठार्थवाचकाः ॥" इत्यमरात्। "रक्तो- Sनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु। क्ीबं तु कुङ्गमे ताग्रे प्राचीनामलकेऽसृजि" इति मेदिनी । तेजसां धाम आश्रयः। "धाम रशमौ गृहे देहे स्थाने जन्मप्रभावयोः" इति हैमः। महसा तेजसा पृथुमनसां विपुलान्तःकरणानाम् इन्द्रः प्रभुः। "महस्तूत्सवतेजसोः" इत्यमरः । अथवा तेजोधाम- महःपृथुमनसामित्येकमेव पदम् तेजसः परोत्कर्षाक्षमतायाः धाम स्थानं यन्महः बलविशेषः तेन पृथु प्रशस्तम यद्वा पृथु विपुलं सगर्वमिति यावत् मनो येषां तेषाम् इन्द्रः श्रेष्ठः । 'इदि परमैश्वर्ये' इति धातु: तस्मात रक्प्रत्ययः । जिष्णुः जयशीलश्वेत्यर्थः। "जिष्णुर्ना वासवेऽर्जुने। जित्वरे वाच्य- वत्" इति मेदिनी। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ १ आरामशब्दकदेशस्योति। आङ: "गतिश्र्य" (१।४६०) इति पाणिनिसूत्रेण "गतिसंज्ञकत्वात्" "कुगति- प्रादयः" (२२१८) इति सूत्रण रामाशब्देन सह समासे ऊते आरामशब्दस्य सिद्धत्वादिति भाव:॥ अङ्गनाशब्दस्य ।।

Page 598

नवम उल्लास: । ५३९

अत्रैकास्मिन पढ़े परिवर्तिते नालंकार इति शब्दाश्रयः अपरसिंमस्तु परिवर्तितेऽपि स न हयिते इत्यर्थनिष्ठ इत्युभयालंकारोऽयम्।। इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम नवम उल्लास: ॥

अत्र तनुवपुःशब्दयोः शरीरार्थकतया करिकुञ्जरशब्दयोर्गजार्थकतया रुधिररक्तशब्दयोः शोणि- तार्थकतया तेजीधाममहःशब्दानां तेजोऽर्थकतया इन्द्रहरिजिष्णुशब्दानां च देवेन्द्रार्थकतया आपा- ततः पौनरुक्त्यम्। तत्र तनुकुञ्जररक्तधामहरिजिष्णुशब्दाः परिवृत्तिं न सहन्ते बपुकरिरुधिरेन्द्र- शब्दास्तु तां सहन्ते इत्युभयालंकारत्वम्। इन्द्रशब्दस्य परिवृत्तिसहत्वं तु वृषशब्देनेति बोध्यम्। वृषश- बदस्य श्रेष्ठवाचित्वं देवेन्द्रवाचित्वं च "वृषो गव्याखुधर्मयोः। पुंराशिभेदयोः शृङ्ग्यां वासवे शुकलेऽपि च। श्रेष्ठे स्यादुत्तरस्थे च" इति हेमचन्द्रकोशे "वृषः स्याद्वासवे धर्मे सौरभेये च शुकले। पुंराशिभेदयोः शृङ्गयां मूषकश्रेष्ठयोरपि" इति विश्वकोशे च सुप्रसिद्धमिति ज्ञेयम्। धाममहः इत्यत्र हरिर्जिष्णुः इत्यत्र चं शब्द्गतत्वमेव उभयोरपि शब्दयोः परिवृत्त्यसहत्वादिति तु विभावनीयम्॥ तदेतत्सर्व प्रदर्शयन् अस्यालंकारस्य शब्दार्थाश्रयतामुपपादयति अत्रेत्यादिना। एकस्मिन तनुकुञ्जररक्तेत्यादिरूपे। नालंकार इति। 'नायमलंकारः' इत्यपि पाठः । कृशादिपदोपादाने तद- भावादिति भावः। तेन शब्दानामन्वयव्यतिरेकानुविधानाच्छब्द्वाश्रयता। तदेवाह शब्दाश्रय इति। शब्दनिष्ठ इत्यर्थः। अपरस्मिन वपुःकरिरुधिरादिरपे। वपुःप्रभृतीनां स्थाने शरीरादीनामुपादा- नेऽपि तदनपचयादर्थान्वयव्यतिरेकानुविधानमित्यर्थाश्रयता। तदेवाह अर्थनिष्ठ इति। अन्वयव्य- तिरेकमूलिकैव 'शब्दपरिवृत्तिसहत्वासहत्वाभ्यां शब्दार्थगतत्वव्यवस्थितिः' इति तु प्राक् (५१९ पृष्ठे १६ पड्मौ) प्रदर्शितम्। उभयं शब्दोऽर्थश्र। यद्यप्युभयालंकारोऽत्र न प्रकृतः तथापि शब्द- मात्रालंकारस्यैतद्द्ेदस्यात्र प्रकरणेऽवश्यवक्तव्यतया तत्प्रसङ्गादुभयालंकारत्वानपायाच्चोभयालंकार- भूतोऽप्ययमत्रोक्तः । उभयालंकारान्तराणां तु न कोऽपि भेद: शब्दमात्रालंकार इति न तान्यत्र पठितानीति सर्वै रमणीयम्। शशिशुभ्रांशुरित्यादौ केवलार्थाश्रयताप्यस्य बोध्येति सर्वेष्टसिद्धिरिति प्रदीपोद्दयोतयोः स्पष्टमिति शिवम् ॥ इति पुनरुक्तवदाभासः ॥६॥ इति झळकीकरोपनामकभट्टवामनाचार्यविरचितायां काव्यप्रकाशटीकारयां बालबोधिन्यां शब्दालंकारनिर्णयो नाम नवम उल्लासः ॥ ९॥

१ आदिपदेन 'भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः। जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ।I' इर्ति साहित्यदर्पणोदाहृतं पद्यं ग्राह्यम्। व्यक्ता: मस्तके विद्यमानाः शशिवत् कर्पूरवत् शुभा अंशवो यस्येत्यादिविग्रहः। अभ्यात् रक्षेत् ।।

Page 599

। अथ दशम उल्लास: ।।

अर्था लंकारानाह (सू० १२५) साधर्म्यमुपमा भेदे अथ शब्दालंकारनिरूपणानन्तरं प्राप्तावसरतयार्थालंकारा निरूपर्णायाः । ते च न्यूनाधिक्यव्य- वच्छत्तये काव्यप्रदीपादौ परिगणिताः । तथाहि "उपमानेन्वयस्तइदुपैमेयोपमा ततः। उत्प्रेक्षा च सैसंदेहो रूपकापह्वँती तथा॥ श्लेर्षस्तथा समासक्तिः प्रोक्ता चाथ निर्दर्शना। अप्रस्तुतप्रशंसातिशैये,क्ती परिकीर्तिते॥ प्रतिवस्तूपमा तद्वदष्टान्तो दीपक तथा। तुल्ययोगितया चैव व्यतिरेकः प्रकीर्तितः ॥ प्रकीर्तितस्तथाक्षेपस्तथै। च विभावना। विशेषोक्तियथासंख्यं तथैव परिकीर्तितम्। अथ चार्थान्तरन्यासविरोधीभाससंज्ञकौ। स्वैभावोक्तिस्तथा व्योजस्तुतिः प्रोक्ता सैहोक्तियुक्॥ विनोक्तिपरिवृत्ती च भाविरक काव्यलिंङ्गन्युक्। पर्यायोक्तमुद्दात्त च समुच्चय उर्दारितः॥ पैरथायश्र्ानुमानं च प्रोक्तः परिकरस्तथा। व्याजोक्तिपरिसंख्ये च मौला कारणपूर्विका॥ अन्योन्यमुत्तर सूक्ष्मसारी 'मारों तद्ृदसंगातेः। समाधिश्र समेन स्यात् विषमस्त्वधिकन च॥ प्रत्यनीकं मीलितं च स्यातामेकावलीस्मृती। भ्रान्तिमांश्र प्रतीपेन सामान्यं च विशेषयुक्॥ तद्रणातङ्गणौ चैव व्याघातः परिकीर्तितः । संसृष्टिसंकरौ चैव्रमेकषष्टिः क्रमोदिताः ।" इति। तेषु उपमेयोपमानन्वयप्रतापस्मरणरूप ससंदेहभ्रान्तिमदपह्वत्युत्प्रेक्षातिशयोविततुल्ययोगि-

शयच्च प्रधानमुपमां प्रथमं लक्षयति साधर्म्यमिति। भेदे (उपमानोपमेययोः) भेदे सति साधर्म्यम् उपमेत्यन्वयः । समानः एकः तुल्यो वा धर्मो गुणक्रियादिरूपो ययो: (अर्थादुपमानो- पमेययोः ) तौ सैधर्माणौ तयोर्भावः साधर्म्यम् उपमानोपमेययोः समानधर्मेण सह संबन्ध इत्यर्थः । समासोत्तरवर्तिभाववाचितद्धितप्रत्ययस्य "कृत्ताद्वितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेन" इति भैर्तृ- हरिप्रोक्तन्यायेन संबन्धाभिधायकत्वात् स एव संबन्धः ( उपमानोपमेययोः समानधर्मेण सह संबन्धः) १ सौकुमार्येति। इनरालंकारापेक्षवास्याः स्फुटनया विभावाद्युत्कर्षकत्वादिति भावः ॥ २ आदिपदेन 'सकलकलं पुरमेतन०' इत्यादौ समानशब्दरूपो वा समानशब्द्वाच्यत्वरूपो वा गूघते इति नवमोलासे (५२१ पृष्ठे २ पङ्चौ) स्फटीरूनम्॥ ३ मधर्माणाविति। "धर्म दनिच् केवलान्" (५४११४) इति पाणिनिसूत्रेणानिच्प्रत्ययः। 'समा- नम्य रछन्दत्षि००" (६।३८४) इनि सूत्रे 'समानस्य' इति योगार्वभागात् 'सपक्षः' 'सजातीयम्' इत्यादा- विवात समानशब्दस्य सादेश इति काशकाकारमतम्। "वोपसर्जनस्य" (६।३।८२) इति सूत्रेण सहशदस्यात्र सादेश. । सहशब्द: सदृशवचनोडस्ति सदृशः सख्या ससखीति यथा। तेनायमस्वपद्विग्रहो बहुव्ीहिः समानः धर्मो एवाभ्योऽपि न्यायः कैयटोपाध्याथेरुपास: स च ५४३ पृष्ठे ३ टिप्पणे दृश्टव्यः । अयं न्यायो लौकेकन्यायमालारया सविस्तरं व्यारयाल:।।

Page 600

देशम उल्लास: ।

उपमा उपमालंकार इत्युच्यते इति सूत्रार्थः। व्याख्यातं च साधर्म्यपदमुइ्चोते "साधर्म्यमिति। साधारणधर्मवत्त्वमित्यर्थः" इति। तत्र साधारणधर्मवत्त्वं च साधारणधर्मसंबन्ध एव मतुब्रूपतद्धितप्रत्य- योत्तरवर्तिभावप्रत्ययस्य प्रागुक्तन्यायेन संबन्धबोधकत्वात्। तथा च सादृश्यप्रयोजकसाधारणधर्मसं- बन्धः उपमेति फलितम्। तदेतद्वक्ष्यति (५४४ पृष्ठे १।२ पङ्कत्योः) "समानेन धर्मेण संबन्ध उपमा" इति। ननु साधर्म्यै हि संबन्धविशेषः संबन्धश्रैकेप्रतियोगिकोऽपरानुयोगिक एव नियतः यथा 'राज्ञ: पुरुषः' इत्यत्र राजपुरुषयो: स्वस्वामिभावः संबन्धः तस्य च राजा प्रतियोगी पुरुषोऽनुयोगी तथा' चात्र साधर्म्याख्यसंबन्धस्य कौ प्रतियोग्यनुयोगिनाविति चेत् साधारणधर्मः प्रतियोगी उपमानमुपमेयं चोते द्वावप्यनुयोगिनाविति गृहाण। उक्तं च विस्तारिकायां परमानन्दचक्रवर्तिभट्टाचार्येः "सादृश्यस्य प्रतियोग्युपमानम् अनुयोग्युपमेयम्। अस्य च साधर्म्यस्य उपमानमुपमेयं च द्वावप्यनुयोगिनौ" इति। एवं च यः साधारणधर्मप्रतियोगिकः उपमानोपमेयोभयानुयोगिक; संबन्धः स साधर्म्यमित्युच्यते यश्ष उपमानप्रतियोगिक: उपमेयानुयोगिकः संबन्धः स सादृश्यमित्युच्यते इति साधर्म्यसादृश्ययोर्भेदः । अतएव "साद्ृश्यं च साधारणधर्मसंबन्धप्रयोज्यो धर्मविशेषः" इत्युद्दयोतोक्तं सादृश्यलक्षणं संगच्छते । तदेतदुक्तमुद्योते (५५४ पृष्ठे १९ पङ्मौ) "सादृश्यप्रयोजकसाधारणधर्मसंबन्धो ह्युपमा सादृश्यं चातिरिक्तः पदार्थः" इति। उक्तं च परिभाषेन्दुशेखरटीकायां गदाख्यारयां "नतिवयुक्तमन्यसदृशा- धिकरणे तथा ह्यर्थगतिः" इतिपरिभाषाव्याख्यानावसरे पायगुण्डोपार्येन बैळंभट्टेन "अत्र परिभाषायां सादृश्यं साधारणधर्मसंबन्धप्रयोज्यं सदृशादिपद शक्यतावच्छेदकतया सिद्धं सदशदर्शने संस्कारोब्वोधक- त्वस्य सर्वसंमतत्वेन तत्कारणतावच्छेदकतया च सिद्धमखण्डमतिरिक्तः पदार्थः इति"। उक्तं च लघु मञ्जूषायां धात्वर्थनिपातार्थवादे (१४ पत्रे १ पृष्ठे ) नागोजीभट्वैरपि "इवादियोगे साधारणधर्मसंबन्ध- रूपोपमा वाच्या साहश्यप्रतीतिस्त्वार्थी। सदशादिपद्योगे सादृश्यप्रतीतिः शाब्दी उपमा त्वार्थी। सादृश्यं तु साधारणधर्मसंबन्धप्रयोज्यं सदृशादिपदशक्यतावच्छेदकतया सिद्धं सदृशदर्शने संस्कारो- छोधकत्वस्य सर्वसमतत्वेन तत्कारणतावच्छेदकतया च सिद्धमखण्डमतिरिक्तः पदार्थः। न चातिरि- क्तपदार्थत्वे गौतमकणादोक्तपदार्थसंख्याविरोध इति वाच्यम् प्रमेयपदार्थे गौतमोक्तेऽम्तर्भावात्। किं च पदार्थसंख्यानिब्रन्धनमुपलक्षणमेव। तदुक्तं गौतमेन 'संख्यैकान्तासिद्धिः कारणानुपपत्त्युपपत्ति- भ्याम् ( ४ अध्याये १ आह्निके ४१ सूत्रं ) इति। पदार्थगतसंख्यानियमस्यासिद्धि: कारणस्य प्रमा- णस्यानुपपत्तेः उपपत्तौ न तन्नियमः साधनस्य साध्यातिरेकादिति तदर्थ तद्याख्यातार आहुः। किं च०.०। सादृश्यस्यातिरिक्तत्वादेव 'अनेनायं सदशः' इत्युक्ते केन धर्मेणानयोः सादृश्यमित्येव जिज्ञासा न तु को धर्मोऽनयोः सादृश्यमिति। अतएव 'क्षमया पृथ्वीसदृशः' 'धर्मतः सादृश्यम' इत्यादि आअ्जस्येनैवरोपपद्यते। तञ्च व्यञ्ञकधर्मभेदादाश्रयभेदान्निरूपकभेदाच्च भिन्नम्। अतएव 'उभयोरुभयं वर्तते सादृश्यमूलाभेदाद्यवसायनोपमानस्योपभेयेडभेदान्वयः' इति सिद्धान्तपक्षे 'एवमप सादृश्यनि- मित्तं गुणो न निर्दिष्टः' इति शङ्का संनिधानात् 'श्यामत्वमेव गुणः' इति समाधानं च [ 'उपमा-

सादृश्यप्रयोजकेति। उपमानोपमेययोर्थंत्सादृश्यं तत्प्रयोजकेत्यर्थः। सादृश्यलक्षणं तु (५४२ पृष्ठे) वक्ष्यते॥ ३ प्रतियोध्यनुयोगिनौ संयन्धिविशेषा विशिष्टचुद्धौ प्रकारतया भासमानं संब्रन्वश्य प्रतियोगीत्युच्यते विशेष्यतया भासमानं संबग्धस्यानुयोगात्युच्यते ।। ३ संबन्ध इति। स च पष्ठीविभक्त्यर्थरूप इत्यर्थः ॥ 3 अतिघित इति। साधारणधर्म: संयन्धरूपसाधम्यापक्षया सादृश्यमतिरिक्तः पदार्थ इत्यर्थ: इत्यनुपद्मेव (५४२ पृष्ठे) मञजुषाग्न्थत

Page 601

काव्यप्रकाशः सटीक:।

नानि सामान्यवचनैः' (२।१।५५) इति पाणिनिसूत्रे ] भाष्ये ( महाभाष्ये) संगच्छते। साधारण- धर्मसंबन्धस्यैव सादृश्यरूपत्वे तदसङ्गतिः स्पष्टैव। मम तु प्रतीयमानं सादृश्यं किंधर्ममूलकमिति शङ्का उपात्तवर्ममूलकमवेत्युत्तरमिति न दोष इत्यलम्" इति। उक्तं च रसगङ्गाधरे तुल्ययोगितालंकारे पाण्डित- राजेन जगन्नाथेनापि "औपम्यं चात्र गम्यम् तत्प्रयोजकस्य समानधर्मस्योपादानात् वाचकाभावाच्च। अत एवालंकारिणामपि सादृश्यं पदार्थान्तरम् न तु साधारणवर्मरूपमिति विज्ञायते अन्यथा औपम्य- स्यात्र गम्यत्वोक्तेरनुपपतेः" इति। व्याख्यातं च तत्रैव रसगङ्गाधरटीकायां मर्मप्रकाशाख्यायां नागोजीभट्टैः "[ औपम्यमिति। उपमैवनौपम्यम् 'चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्' इति वार्तिकेन स्वार्थे ष्यञप्रत्ययः । अत्र तुल्ययोगिताऊंकारे ।] अतएव औपम्यस्य गम्यत्वादेव। अपिना वैयाकरणादिसमुच्चयः। निरूपितं चैतत्कुवलयानन्दव्याख्यायां मञ्जूषायां च" इति। "सादृशयं च साधारणधर्मसंबन्धप्रयोज्यो धर्मविशेषः" इत्युइचोते स्पष्टम् । एवं च काव्यादर्शठीकायां प्रेमचन्द्रतर्कवागीशभट्टाचायैर्यदुक्तम् "सादृश्यमतिरिक्तः पदार्थ इति केचित् साध्म्यमित्यन्ये" इति तत्र प्रथममतेऽस्वरससूचकं केचित्पदोपादानं न रमणयिम् । अत एव 'त्रिलोपे च समासगा' इति १३४ सूत्रे "सादृश्यं पदार्थान्तरमिति प्राचां मतम् साधारणधर्भरूपमेव तदिति नव्यानाम्" इति प्रभायां पूर्वमतस्य प्राचामित्यनेन पूज्यत्वं सूचितम्।।

नव्यतार्किकास्तु सादृश्यस्यातिरिक्तपदार्थत्वेऽष्मपदार्थापत्या 'द्रव्यगुणकर्मसामान्यविशेषसमवा- याभावाः सप्तैव पदार्थाः' इति स्वसिद्धान्तहानि मन्यमानाः "साद्वश्यं न पदार्थान्तरम् कि तु साधर्म्य साद्ृशयं चैकमेव। तञ्च सादश्यं तद्भ्िन्त्वे सति तैद्रतभूयोधर्मवत्त्वरूपम् । अस्यायमर्थः । तस्माद्ति- न्नत्वे सति तत्रासाधारण्येन (सकलपदार्थावृत्तित्वेन ) विद्यमाना: ये भूयांसो धर्मास्तद्वत्त्वमिति। यथा 'चन्द्रवन्मुखम्' इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम्। अत्र सादृश्य- निरूपके (सादृश्यप्रतियोगिनि चन्द्रे) अतिव्याप्तिवारणाय तज्जिभत्वे सतीति विशेषणम्। घठभिन्न- त्वेन [सिंह ] सिंहाकारकयोरपि सादृश्यापत्तिवारणाय भूयांस इति विशेषणम्। [ भूयोधर्मवत्वाम- त्यत्र धर्मवत्त्वं धर्म एव (न तु धर्मसंबन्धः ) तस्य च धर्मस्य गुणत्वे गुणेऽन्तर्भावः क्रियात्वे क्रिया- यामन्तर्भाव इत्येवरत्या यथासंभवं सप्तसु द्रव्यादिपदार्थेष्वेवान्तर्भावः" इति वैदन्ति ॥

ननु साधर्म्यसादृश्ययोर्भेदकथनं 'ग्रभ्नामि काव्यशशिन विततार्थराश्मिम्' इति ५९७ उदाहरणस्थया "काव्यस्य शशिना अर्थानां च राईमामः साधर्म्यं कुत्रापि न प्रतीतम्" इति वृत्त्या सह विरुद्धम् तत्र काव्यार्थयोरनुयोगित्वेन शशिरशम्योश्र प्रतियोगित्वेन प्रतीतेः साधर्म्यशब्दादुपमानोपमेयभूतयोः काव्यशशिनोरर्थरशम्योश्र्व सादृश्याख्यसंबन्धस्यैव प्रतिपत्तेरिति चेन्न। तत्र शशिसहितस्य काव्यस्य राई्मसहितस्यार्थस्य च साधारणधर्मसंबन्धरूपं साधर्म्य कुत्रापि न प्रतीतमित्यर्थस्य विवाक्षितत्वन विरु- दत्वाभावात्। एवं च तत्र काव्यशशिनोरर्थरकम्योश्रवानुयोगित्वमेव न तु काव्यार्थयोरनुयोगित्वं शाश-

१ आदिपदेन मीमासकसंग्रहः ॥ २ प्राचीनिनैयायिकगौतममते तु सादृश्यस्य पदार्थाम्तिरत्वं तस्य च प्रमेये पदार्थेऽन्तर्भाव इति सिद्धां्तस्य प्राक् (५४५ पृष्ठे) प्रद्शितत्वादाह नव्येति ॥। ३ तद्गतभयोधर्मवस्वरूपमिति।

इति पराक् (५४० पृष्ठे) उक्तम्यायविरोध इति बोध्यम्॥ ५ प्रतियोगित्वं तु साधारणधमस्योति प्राकू (५r१ पृष्ठे) प्रतिपादितम् ॥

Page 602

दशम उल्लास: । ५४३

रश्म्योश्र प्रतियोगित्वमिति बोध्यम् । यद्यपि "पूर्णा लुप्ता च" इति १२६ सूत्रे '0० उंपमाप्रति- पादकानामुपादाने पूर्णा' इति वृत्तिग्रन्थेन इवादितुल्यादिशब्दानामुपमाप्रतिपादकत्वमुक्तम् तथा "हेत्वोरुक्तावनुक्तीनां त्रये साम्थे निवेदिते" इति १६० सूत्रे 'साम्ये' इत्यस्य 'उपमानोपमेयभावे' इति वृत्तिकृत्कृतव्याख्यानेन इवादितुल्यादिशब्दानां सादृश्यप्रतिपादकत्वमुक्तम् तच्च मिथो विरुद्धम तथापि 'उपमानोपमेयभावे' इत्यस्य 'उपमानोपमेयभावप्रयोजके साधारणधर्मसंबन्धे' इति व्याख्ये- यत्वान्न कश्विद्विरोध। अतएव तत्र प्रदीपकारैर्व्याख्यातम् "साम्ये साध्म्ये" इतीति बोध्यम् ॥ नन्वत्र ("साधर्म्यमुपमा भेदे" इति सूत्रे) साधर्म्यशब्दः उपमानोपमेययोः संबन्धरूपं सादृश्य- मभिधत्ते इत्येव वक्तव्यम् किमेतावता प्रयासेनेति चेन्न । "समानेन धर्मेण संबन्धः" (५४४ पृष्ठे १ पड्डौ) इति वृत्तिकृत्कृतसाधर्भ्यपदव्याख्यानविरुद्धत्वात् "एवं चोपमानोपमेययोः समानेन धर्मेण संबन्धः उपमेति लक्षणम्" (५४४ पृष्ठे १० पङ्चौ) इति "साधर्म्यपदस्यारोपितानारोपितसाधारण- समानधर्मसंबन्धमात्रपरत्वेन" (५४६ पृष्ठे १६ पङ्ौ ) इति च "श्रौतत्वं चोपमानोपमेययोः साधा- रणधर्मसंबन्धरूपायास्तस्याः (उपमायाः ) शाब्दबोधविषयत्वम्" (५४९ पृष्ठे ११ पङ्ौ) इति च "यथादिशब्दानां धर्मविशेषसंबन्धे एव शक्तत्वात्" (५५४ पृष्ठे) इति च या प्रदीपोक्तिस्त- द्विरुद्धत्वाञ्च "सादृश्यप्रयोजकसाधारणधर्मसंबन्धस्येवादिशक्यस्योभयवृत्तितया शाब्दबोधविषयत्वे श्रौतत्वमित्यर्थः" (५४९ पृष्ठे ) इति "यथादयश्र तत्प्रयोजक ( सादृश्यप्रयोजक ) धर्मविशेषसंबन्धे एव शक्ताः" (५५५ पृष्ठे) इति च "तत्तत्साधारणधर्मसंबन्धः उपमा" (५५५ पृष्ठे) इति च "इवादिभि: स्वसमभिव्याहृतचन्द्रादावुपमानत्वम् तननिर्वाहक आह्लादकत्वादिसाधारणधर्मसंबन्धश्र बोध्यते" (५५६ पृष्ठे) इति च या उद््योतोक्तिस्तद्विरुद्धत्वाच्च "इवादियोगे साधारणधर्मसंबन्ध- रूपोपमा वाच्या सादृश्यप्रतीतिस्त्वार्थी सद्ृशादिपदयोगे सादृश्यप्रतीतिः शाब्दी उपमा त्वार्थी" इति प्राक् (५४१ पृष्ठे १८ पङ्ौ) प्रदारशतवैयाकरणमञ्जूषोक्तिविरुद्धत्वाञ्च "उपमानोपमेययोः साधारणधर्मसंबन्धो यत्र शब्दादवसीयते सा श्रौती" इति चक्रवर्त्युक्तिविरुद्धत्वाच्च "यथेववादि- शब्दप्रयोगे श्रौती तुल्यसदृशादिशब्दप्रयोगे त्वार्थी" इति वक्ष्यमाणविभागानुपपत्तेश्र प्रागुक्तवैयाकं- रणन्यायविरुद्धत्वाच्चेति दिक। १ सादृश्यप्रतिपादकत्वमिति। अतएव 'उल्लास्य कालकरवाल०' इत्युदाहरणे वृत्तौ (१२९ पृष्ठे) उपमानोप- मेयभावशब्दः सादृश्यार्थे मम्मटेनैव प्रयुज्यते ॥ २ विभागानुपपत्तेरिति। त्वन्मते सादृश्यमेवोपमा तश्य च सादृश्य- स्योभयत्रापि (इवादिशब्दप्रयोगस्थले तुल्यादिप्रयोगस्थले च) शब्दशक्त्यैव प्रतीतिरशित विशेषाभावाद्विभागानुप• पत्तिरिति भावः । अस्मन्मते तु साधर्म्ये भिन्नं सादृश्यं च भिन्नम् साधम्यमेव चोपमा यधादिशब्द्प्रयोगस्थले साध्म्य शब्दशक्त्या प्रतीयते तुल्यादिशब्दप्रयोगस्थले तु तुल्यादिशब्दानां सादृश्यवति शक्तेः सादृश्यस्य साधारणधर्मसंबन्धं विनानुपपत्या साधारणधर्मसंचन्धरूपं साधर्र्यमर्थादाक्षिप्यते इति श्रत्यार्थी चेति विभाग उपपद्यते इति बोध्यम् ।। ३ व्याकरणसिद्धान्तविरुद्धत्वमवि दर्शयति वैयाकरणन्यायेत्यादि। वाक्यपदीयकर्तृभतृंहरिपराक्तन्यायविरुद्वत्वादित्यर्थः। तथाहि। रुत्तद्वितसमासेभ्यो विहितस्य भावप्रत्ययस्य संचन्धाभिधायकत्वं हि न्यायेन प्रतिपाद्ते। प्रकते सधर्म न्निति बहुव्रीहिरूपः समासः ततो विहितो भावप्रत्ययश् व्यत्र् स च "गुणवचनवाह्मणादिभ्यः कर्मणि च" (५१।१२४) इति पाणिनिसूत्रेण ब्राह्मणादेराकतिगणत्वात् भावरुपेऽर्ये विहितः भावश्व प्ररृतिजन्योधे प्रकारीभतोऽर्य: तथा सधर्मन्निति बहुवरीहिरूपा व्यत्रप्रत्ययस्य प्ररुतिः तज्जन्यो यो बोधः समानधर्मसंब्धिनोबोधः तत्र प्रकारीभतो योऽर्थः समानधर्मसंबन्ध इति हेतोः स व्यञप्रत्ययः तमेव संचन्धममधत्ते यथा पीताम्चरत्वमित्यत्र भावविहित स्त्वप्रत्ययः पीताम्बरधारिणः पुरुषस्य पीतत्वविशिष्टाम्बरस्य च संयोगरूपं संबन्धमभिधत्ते तदूत्। तथा चाहु: "तस्य भावसत्वतलौ" (५१११९) इति सूत्रे महाभाष्यप्रदीपे कैयटोपाध्यायाः "द्रव्यवाचिभ्यस्तु गवादिभ्यो

Page 603

काव्यप्रकाश: सटीक:।

उपमानोपमेययोरेव न तु कार्यकारणादिकयो: साधर्म्य भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा।

ननु साधर्म्यस्य प्रतियोग्यनुयोगिनिरूप्यतया तौ प्रतियोग्यनुयोगिनौ लक्षणे उपादयौ यद्यपि साधर्म्यपदेऽनुस्यूतः समानधर्मरूपः प्रतियोगी प्रतीयते तथापि उपमानोपमेयरूपावनुयोगिनौ नोपात्ता- विति न्यूनत्वं लक्षणवाक्यस्येति शङ्कां मनसि निधाय आक्षेपादेवोपमानोपमेयरूपयोस्तयोः (अनुयो- गिनो: ) लाभान् न्यूनत्वं लक्षणवाक्यस्येति समाधत्ते 'उपमानोपभेययोरेव' इत्यादिना 'साधर्म्य भवति' इत्यन्तेन । (समानधर्मरूपस्य प्रतियोगिनः) उपमानोपमेयरूपयोरनुयोगिनोरेव साध्म्य साधर्म्यातत्मक: संबन्धो भवति ने तु कार्यकारणादिकयोरित्यर्थः। एवं चोपमानपमेयरूपावनुयोगिनौ विना साधर्म्याख्यः संबन्धविशेषो नोपपद्यत इति अनुपपत्त्या आक्षेपेणेवोपमानपमेयरूपयोरनुयोगि- नोर्लाभ इति न न्यूनत्वं लक्षणवाक्यस्येति भावः । अत एवोक्तं प्रदीपे "एवं चोपमानोपमेययोः समा- नेन धर्मेण संबन्धः उपमेति लक्षणम्" इति। यत्त्वत्र प्रदीपकारकृतं वृत्तिव्याख्यानम् "ननु साधर्म्यस्य प्रतियोग्यनुयोगिनिरूप्यतया तदनभिधाने न्यूनत्वं लक्षणवाक्यस्येति चेन्न। आक्षेपादुपमानोपमेययो- स्तयो: (प्रतियोग्यनुयोगिनो: ) लाभात्" इति तत्तु सादृश्यप्रयोजकसाधारणधर्मसबन्धात्मिकायामुप- मायां सादृश्यस्य प्रविष्टत्वन तस्यैव यौ प्रतियोग्यनुयोगिनौ तत्प्रदर्शनपरम् तत्र साधर्म्यपदं च सादृश्य- परमिति यथाक्थंचियोजनीयम। अत्र लक्षणवाक्ये उपमानापमेययोराक्षेपः साधर्म्यस्य निराकाङ्कत्वप्र तिपत्तिमात्रफलको न तु व्यावर्तकः कार्यकारणादिकयोः साधम्यस्यैवाभावात्। न च "कारण णानु- सारी कार्ये गुणः" इति व्यवहारात्कार्यकारणाद्विकयोरवि साधर्म्यमस्त्येवति वाच्यम् कविप्रतिभाकल्पि" तांशाभावेन तस्यानलंकारत्वात्। एवं च चमत्कारिसाधर्म्यस्योपमात्वात्तस्य च कार्यकारणादिमात्रयोर- भावानातिप्रसङ्ग:। यत्र तु कार्यकारणादिकयोरपि तौदशं साधर्म्यमस्ति यथा 'पितेव पुत्रः सगुणः स आसति' इत्यादौ 'पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव' (रघुकाव्ये ५ सर्गे ३४ श्लो० ) इत्यादौ च तत्र तयो: (कार्यकारणयोः) उपमानोपमेयत्वमुपमालंकारंश्र्वेष्ट एवेति भावः। तयोरेव उपमानोपमेययोरेव। उक्तव्युत्पत्तिलम्यं साधर्म्यपदार्थमाह समानेन धर्मेणेति। एकत्वबुद्धिविषयेणे- त्यर्थः। "सहयुक्तेऽप्रधाने" (२।३१९) इति पाणिनिसूत्रेण तृतीयेयम् । अत्राहुः सुधासागरसारबोधि- नीकारादयः "एकवचनमत्राविवक्षितम् समानैर्बहुभिर्धर्मैरित्यर्थः अन्यथा यत्किंचिद्धर्मेण साजात्यस्य सर्वत्र सुलभत्वादतिप्रसङ्ग: स्यात्" इति। उपमेति। उप समीपे मीयते परिच्छियते (उपमानेन कर्त्रा जातौ प्रत्ययः । सम सकत्तद्वितास्तु यद्यपि केवलं संबन्ध नामिद्धति तथापि संबन्धिनि वर्तमानाः संबन्धं प्रवृत्ति निमित्तमपेक्षन्ते इति तभ्यः संबन्धे भावप्रत्ययः। तथा च राजपुरुषत्वमिति स्वस्वामिभावः प्रतीयते पाचकत्वमति क्रियाकारकसयन्धः औपगवत्वमिति अपत्यापत्यवत्संचन्धः (उप्वपत्ययोर्जन्यजनकभावात्मकः संबन्धः) 0

त्वन्मते न्यायविरुद्ुत्वं स्पष्टमेवेति।

  • १ न त्विति। कार्यकाग्णादिकयोर्हि कार्यकारणभावाद्यात्मक एव संबन्धः न तु साधर्म्याख्यः संबन्धोसंभवात् ॥२ सादृश्यस्यैव ॥३ निगकाङ्गन्वेति। साधर्र्यस्य यन्निराकाङुत्वं तत्प्रतिपत्तत्धेकदेशान्वयोऽत्र विवक्षितः ॥ चमत्कारि॥ ५ ईड्य: इत्यपि पाठान्तरम् ॥ ६ उमानेन कत्रेनि। अत एवीक्तं मञ्जूष यां धात्वर्थ निगतार्थवादे (१२ पत्रे)- अन्यत्रेति। रूढेरमिन्नरुपादव्यभिचरितसंबन्धेभ्यश्र्ान्यत्ेत्यर्थः॥ ]इदं च वचनं वार्तिकमिति वैयाकरणभूषणसारे आवप्रत्ययार्थनिर्णये (1५५ पत्रे) कौण्डभट्टःसीरदेवस्तु परिभाषातवेनाङ्गचकार संप्रतितनवार्तिकपुस्तके तु नोपलभ्यते॥

Page 604

दशम उल्लास: । ५४५

उपमेयं कर्म) अनयेत्युपमा। उपपूर्वात् 'माङ् माने' इति जौहोत्यादिकान्माधातोः "आतश्रोपसर्गे" (३।३।१०६) इति पाणिनिसूत्रेण करणेडङ्रप्रत्ययः तत्र "अकर्तरि च कारके संज्ञायाम्" (३।३१९) इति सूत्रात् 'अकर्तरि कारके' इत्यनुवृत्तेरिति बोध्यम्। पङ्कजादिपदवत् (२३३ पृष्ठे) योगरूढ़मिद्मु- पमापद्म्। एवमेव 'अनन्वयः' इत्यादन्यिप्यलंकारनामानि प्रायो योगरूढान्येवेति बोध्यम्॥* उपमास्थले चोपमानम् उपमेयम् साधारणो धर्मः साधर्म्य चेति चतुष्टयमपेक्ष्यते। साधारणधर्म- वत्वेन प्रसिद्धः पदार्थः उपमानम् तद्धर्मवत्तया वर्णनीयः पदार्थः उपमेयम्। केचित्तु अधिकगुणवत्तया संभाव्यमानमुपमानम् निकृष्टगुणवत्तया संभाव्यमानमुपमेयमित्याहुः। सादृश्यप्रतियोग्युपमानम् साह- श्यानुयोग्यपमेयमित्यन्ये। उभयत्र (उपमाने उपमेये च ) संगतो धर्मः साधारणो धर्मः यस्य धर्मस्य संब्न्धात् येन सह यदुपमीयते स साधारणो धर्मः तत् उपमानम् तच्चोपमेयमिि परमार्थः। यथा 'कमलमिव मुखं मनोज्ञम्' इत्यादौ मनोज्ञत्वधर्मसंबन्धात्तद्वत्तया प्रसिद्धेन कमलेन सह मुखमुपमीयते इति मनोज्ञत्वं साधारणो धर्मः कमलमुपमानम् मुखमुपमेयमित्यपमालंकारोऽयम्। अत्र सर्वत्र इवादि- पदादेरिव यथादिपदादपि साधर्म्याद्यवगतेः पर्यायपरिवृत्तिसहत्वादुपमादेरर्थालंकारतेति प्राक् (५२० पृष्ठे १४ पङ्कौ ) प्रतिपादितम्। अत्र सर्वेष्वलंकारलक्षणेषु 'अलंकारत्वे सति' इति विशेषणमलंकार- सामान्यलक्षणप्राप्तमस्त्येव तेन 'गौरिव गवयः' 'घट इव पटो द्रव्यम्' 'घट इव पटो जातिमान्' 'अस्थिवद्दधिवत्कार्तिः' इत्यादौ सदपि साधर्म्य नोपमालंकारः वौचत्र्याभावात्। एवं रूपकादिस्थलेऽपि नोपमालंकारप्रसङ्ग: तत्र रूपकादिकृतवैचित्रयस्यैव चमत्कारातिशयजनकतया तेनोपमावौित्रयस्य ति- रोधानात्। एवं 'कण्ठे केवलमर्गलेव०' (३४४ पद्ये) इत्यादावुपमायाः प्रकृतरसानुपकारकतयालंकारत्व- मेव नास्ति तथापि तद्यवहारो भाक्त एवेति बोध्यम् । उपमानादिचतुष्टयं च सदसदपि वाच्य प्रतीयमानमपि च भवति। अत एव 'त्वाय कोपो ममाभाति सुधांशाविव पावकः' इत्यादौ सुधांशौ पावकस्यासतोऽपि उपमानत्वसिद्धि: 'कमलमिव मुखम्' इत्यादौ लुप्तोपमास्थले प्रसिद्धतया साधा- रणधर्मस्यानुपात्तत्वेऽपि उपमासि्धिश्रेति बोध्यम्। एतदभिप्रायिकैवोदयोतकारोक्तिरप्यनुपदमेव "उपमानत्वं च साधारणधर्मवत्त्वेनेषदितरपारच्छेद्कत्वम् तद्गर्मवत्तया परिच्छेद्यत्वं चोपमेयत्वम्" इति। एवमुद्ठयोते- डपि राष्टमुक्तमि ते द्रष्टव्यम् ॥ १ प्रत्यनीकादौ लाक्षणिके योगरूढत्वाभावादाह 'प्राय' इति। २ अलंकारत्वं च चमत्कारित्वम् तच्व वैचि- यापरपर्यायम् ॥ ३ भाक्तो लाक्षणिक: ॥ *वस्तुनस्तु सर्वमेतद्याख्यानं साधर्म्यपदस्वारस्यानाकलननिबन्धनमेव। साधर्म्ये तु समानधर्मान्वय (संबन्ध)- निरूपितः उपमयानुयोगिकः उपमानप्रतियोगिक: उपमानोपमेययोव मिथः संबन्ध एव नतु महतास्थानप्रबन्धेन टीकाक रेग द्वितीयावृत्तौ प्रतिपादितः उसमानोपमेयोभयानुयोगिक: समानधर्मप्रनियोगि६: संबन्धः। एतदृशो धर्मधर्मिणो: संचन्धः समवाय एव स तु साधर्म्यार्यसंचन्धी न कदापि भवितुमहत। यथा चायमुपमानोपमेययो रेव मिथः साधर्म्याि्यसंबन्धस्तथैव सवैरलंकार निचन्धरूद्र: सवैर्लंकारव्याख्याकृद्विश्व परिगृहातः। भट्वामनाचार्ये- णापि स्वरूतचालचोविन्यां प्रथववृत्तौ तथैव व्याख्यातः। साधर्म्याख्यः उपमानोमेययोरेव मिथः संचन्ध एवं ग्रन्थरुन्मम्मटाचार्यसंमत इति तु निविवाद्मेत्र। ग्रथ्नामि काव्यशशिनं विततार्थरश्मिमित्यत्रोपमादोषनिरूपणावसरे 'अत्र काव्यस्य शशिना अर्थानां च रश्मामिः साधर्म्य न प्रनीतमित्यनुचिनार्थत्वम्' इति वृत्तिग्रन्थेन ग्रन्थरता कण्डरवण व्यास्यातत्वात् । तथा च 'उपमानोपमेययोरेव साधर्म्ये भवनीति तयोरेव समानेन धर्मेण संचन्ध उपमा' इति वृत्तिग्रन्थेन 'नन साधम्स्थ प्रतियोग्यनुयोगिनिरुष्यतया तदनभिधाने न्यूनत्वं लक्षणवाक्यस्येति चेन्न। आक्षपा दुग्मानोपमेययोस्तयोलीभात्'। इलि प्रदीपकाराःसंदेहव्याख्यानेन च संबन्धस्य प्रतियोग्यनुयोगिनोश्र् निशन्यिनत्वेन स्फुटं प्रतिपन्नत्वात्। न चात्र काव्यस्य शशिना सह अर्थानां च रश्मिमिः सह समानेन धर्मेण सहेति सर्वत्र सहपद्प्रक्षेपपूर्वक व्याख्यानमचितम्। तथा सति तत्र तत्र वृत्तिग्रन्थे ग्रन्थरुदेव तथैवावक्ष्यत् । ६९

Page 605

५४६ काव्यपकाशः सटीकः।

भेदग्रहणमनन्वयव्यवच्छेदाय। स्फुटीभविष्यति। एवं च "साम्यं वाच्यमवैधर्म्य वाक्यैक्ये उपमा दयोः" इत्युपमालक्षणे वाच्यपद प्रक्षेपः साहित्यदर्पणकृद्विश्वनाथस्यानुचित एवेति मन्तव्यम्॥ नन्वाक्षेपादेवोपमानोपमेययोर्लभाङ्गीकारे भेदग्रहणमनर्थकम् एकधर्मवत्त्वमिति व्यवहारस्य भेदे एव संभवेन भेदस्याप्याक्षेपादेव लाभसंभवादित्यत आह भेड़ग्रहणमित्यादि। अनन्वयव्यवच्छेदायेति। 'नितम्बिनी सैव नितम्बिनीव' इत्यादौ वक्ष्यमाणेऽनन्वयालंकारे एकस्यैवोपमानत्वमुपमेयत्वं चेति (उपमानस्यैवोपमेयतया) तयोः पारमार्थिकभेदविरहात्तव्यावृत्तये इत्यर्थः । न च तत्राप्युपमैवेति वाच्यम् तत्र साधर्म्यस्य चमत्कारित्वाभावात् उपमानान्तरव्यवच्छेदस्यैव चमत्कारित्वात्। न च तत्र धर्म- स्यैकत्वे सजातीयताविरहेण नोपमाप्रसङ्ग इति वाच्यम् धर्मिभेदस्येव धर्मभेदस्यापि काल्पनिकत्वेन

अनारोपितसाधम्यनिबन्धन एवोपमालंकार इति मन्तव्यम्। अत्राहुः सुधासागरकाराः "उपमानोप- मेययोर्भेदश्ववतुर्धा उपात्तोऽनुपात्त आरोपितस्तिरोहितश्रोति। तत्राद्ये वाच्योपमा यथा 'कमलमिव मुखं मनोज्ञमेतत्' (५२१ पृष्ठे १ पककौ) इत्यादौ द्वितीये व्यङ्ग्योपमा यथा "उल्लास्य कालकरवाल०" (१२९ पृष्ठे १ पङ़कौ ) इत्याह्ौ तृतीयेऽनन्वयालंकारः चतुर्थे रूपकम्" इति॥ वयाख्यातमिदं प्रदीपोह््चोतयोः । "नन्वेवं 'भेदे' इत्यनुपादेयम् तस्याप्याक्षेपादेव लाभसंभवात्। न ह्यभेदे सादृश्यात्मकं साध्म्यमिति चेन्न। साधर्म्यपदस्यारोपितानारोपितसाधारणसमानधर्मसंबन्धमात्र- परत्वेनारोपितसाध्म्यनिबन्धनस्यानन्वयालंकारस्य व्यवच्छेद्यत्वात्" इति प्रदपिः । (आरोपितेति। अत एव 'त्वाय कोपो ममाभाति०' इत्यादावुपमानिर्वाहः। तत्र हि उपमानस्यात्यन्तासंभावितत्वेन साद- श्यस्य लोकसिद्धत्वाभावेऽपि कविना खण्डशः पदार्थोपस्थितिमता स्वेच्छया संभावितत्वेन आकारेण चन्द्राधिकरणकमनलं प्रकल्प्य तेन सह साम्यस्यापि कल्पनात्। कल्पितस्यापि भावनोपनीतकान्तेव चमत्कात्त्विमविरुद्धमिति भावः । आरोपितसाधर्म्येति। तत्र ह्याहार्यारोपितभेदेन आपाततः सादृश्य- प्रतीतिः। पर्यन्ते तु तस्य बाधप्रतिसंधानेन द्वितीयसदृशव्यवच्छेदः फलतीति भावः। ननु तत्तदुत्कर्षवि- शेषाणां वैचित्रयं क्वोपयुज्यते इति चेत् मुखादिनिष्ठानां तेषां वैचित्र्यम् उद्दीपिनविभावतया विचित्रवि- चित्रास्वादे इति गृहाण। 'उभौ यदि व्योत्नि पृथक प्रवाहावाकाशगङ्गापयसः पतेताम्। तदोपमी- येत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' इत्यादौ नोपमा यदि तथाभूतौ स्यातां तदोपमीयेत न चैवमित्युपमानिष्पत्त्यभावात् किं तु 'यद्र्थोक्तौ च कल्पनम्' इति (१५३ सूत्रेण) अतिशयो- क्तिरेवेति न दोषः । 'भद्रात्मन:०' (६८ पृष्ठे) इत्यादौ व्यङ्ग्योपमाया वाच्यापेक्षया प्राधान्येऽपि व्यङ्गयभावाद्युपस्कारकत्वेनालंकारकत्वस्येष्टत्वेन दोषाभावात् नाव्यङ्गयत्वमप्रधानत्वं वा विशेषणं देयमित्याहुः ) इत्युद्योतः॥ 'चन्द्र इव मुखमाह्लादकम्' इत्यतः आह्लादकोपमानभूतचन्द्राभिन्नमाह्लादकमुपमेयं मुखमिति बोधः। अत एवेवादिसमभिव्याहारे उपमानोपमेययोः समानविभक्तिकत्वनियमः। साधारणधर्मसंबन्धश्र क्वचि- १ सादृश्यात्मकमिति। इदं नैयायिकमतानुरोधेनोक्तम् वैयाकरणालंकारिकाणां मते सादृश्यसाधम्ययीर्भेदादद्िति बोभ्यम् ॥ २ माघे तृतायसर्गे ८ पद्यमिदम्। अस्य श्रीरुष्णस्य वक्ष: वक्ष:स्थलं तदा उपमीयेतेत्यन्वयः॥

Page 606

देशम उल्लास: ५४७

(सू० १२६ ) पूर्णा लुत्ा च उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा एकस्य द्योस्त्रयाणां घा लोपे लुपा। द्विशेषणतया यथा 'चन्द्र इव मुखमाह्लादकम्' इत्यादौ। क्वचिद्विशेष्यतया यथा 'चन्द्र इव मुखमाह्लाद- यति' इत्यादो। अत्र हि उपमानचन्द्रकर्तृकाह्वादाभिन्नः उपमेयमुखकर्तृकाह्लाद इति बोधः। अतोऽ- तरापि तयोः (उपमानोपमेययोः) समानविभक्तिकतैव।[ हरीतकीं भुङ्क्ष्व राजन् मातेव हितका- रिणीम्' इत्यादि तु असाध्वेव समानविभक्तिकत्वाभावात्।] ये त्वत्र चन्द्रसादृश्यप्रयोजको मुखकर्तृकः आह्लाद इति बोधं वदन्ति तेषां मते तयोः (उपमानोपमेययोः) समानविभक्तिकत्वनियमे मानं चिन्त्यम्। यत्तु वाचनिकी समानविभक्तिकतेति तन्। व्याकरणशास्त्रे तादृशवचनानुपलम्भात्। एवं 'गजराज इव गच्छति देवदत्तः' इत्यादौ बोध्यम्। 'वनं गज इव शूरः समरभूमिं गच्छति' इत्यादावु- पमानगजकर्तृकवनगमनाभिन्नमुपमेयशूरकर्तृकसमरकर्मकं गमनमिति बोधः। साधारणधर्मरूपगम- नस्य विधेयतयोपमादिधेयिकात्र धीः। 'व्याघ्र इव यः [शूरः ] पुरुषः स गच्छति' इत्यादौ उपमा- नशूरव्याघ्राभिन्नपुरुषकर्तृकगमनमिति धीः। शूरत्वादिसाधारणधर्मस्योद्देश्यतयोपमोदेश्यकात्र धीः। अत एव भेदाभेदप्रधानोपमेति वृद्धाः। यद्यपि चन्द्रमुखयोस्तत्त्वेन भेद: तथापि साधारणधैर्मवत्त्वे- नाभेदान्वययोग्यता बोध्येत्युद्दचोते धात्वर्थनिपातार्थतादमञ्र्जूषायां (१२ पत्रे) च स्पष्टम्।। चक्रवर्तिश्रीवत्सलाञ्लनभट्टाचार्यादयस्तु “अत्र 'चन्द्र इव मुखम्' इत्यत्र यज्जातीयधर्माश्रयश्रन्द्र- स्तज्जातीयधमश्रियो मुखमित्युभयविशेष्यकैव प्रतीतिः न तु चन्द्रनिष्ठधर्मसजातीयधर्माश्रयो मुखमिति प्रकृतविशेष्यक एव प्रत्ययः। तथा सति 'हंसीव धवलश्षन्द्रः' इत्यादौ प्रतीतिमान्थर्यविरहेण दोषो न स्यात् हंसीनिष्ठधवलत्वसजातीयधवलत्ववत्तया चन्द्रप्रतीतौ सकलसहृदयानुभवसिद्धं प्रतीतिमान्थर्य न स्यात्। उभयविशेष्यकत्वे तु पुंस्त्वान्वितधवलपदार्थस्य हंस्यामनन्वयेन चन्द्रमात्रान्वये विव क्षितप्रतीत्यनुपपत्तेर्दोषः संभवतीति ध्येयम्। 'चन्द्र इव मुखमाह्लादकम्' इत्यत्र तु आह्लादकपद- स्योभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणम् 'नपुंस कमन पुंसकेनैकवच्चान्यतरस्याम्' (१।२६९) इति पाणिन्यनुशासनात्" इत्याहुः॥ अथोपमां विभजते पूर्णा लुप्ता चेति। उपमा तावत् द्विविधा पूर्णा साङ्गा (सकलाङ्गबोधक- शब्दोपादानसहिता) लुप्ता निरङ्गा (यत्किंचिदङ्गबोधकशब्दोपादानरहिता) चेत्यर्थः। तदुवतं चक्रवर्तिभट्टाचार्यैः "पूर्णा उपमा तु सर्वावयवा लुप्ता अनुपात्तयत्किंचिदङ्गा।" इति। तत्राद्यामाह उपमानेत्यादि। उपमालंकारस्य चत्वार्यङ्गानि उपमानम् उपमेयं साधारणो धर्मः उपमाप्रतिपादक- श्रेति। तत्र साधारणधर्मवत्त्वेन प्रसिद्धः पदार्थः उपमानम् तद्वत्तया वर्णनीयः पदार्थः उपमेयम् उपमाने उपमेये च संगतो धर्मः साधारणो धर्मः (गुणक्रियादिरूपः) उपमाप्रतिपादकाः उपेमाबो- १ साधारणधर्मवत्वेनेति। साधारणधर्मवेषेणेति पुस्तकान्तरे पाठः ॥ २ ते चोपमाचोधकाः काव्यादर्शे द्विताय- परिच्छेदे दण्डिनोक्ताः । तथाहि "इववद्वायथाशब्दाः समाननिभसंनिमाः। तुल्यसंकाशनीकाशपकाशपतिरूपक।ः ॥ प्रतिपक्ष प्रतिद्वृन्द्विपत्यनीकविरोधिनः । सदृक्सदृशसंवादिसजातीयानुवादिनः ॥ प्रतिबिम्ब नतिच्छन्द्सरुपसमसंमिनाः । सलक्षणसदृक्षामसपक्षोपमितोपमाः ॥ कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि। सवर्गतुलितौ शब्दी ये चानभ्यार्थ- बादिनः॥ समासश्र बहुव्रीहिः शशाङ्कवदनादिषु। स्पर्धते जयति द्वेष्टि द्ुस्यति प्रतिगजति ॥ आक्रोशत्यवजानाति

Page 607

५४८ काव्यप्रकाश: सटीकः । (सू० १२७) साग्रिमा । श्रौत्यार्थी च भवेद्दाक्ये समासे तद्द्िते तथा॥८७॥ धका: (इवादितुल्यादिशब्दाः) एतेषां चतुर्णामुपादाने निर्देशे (उच्चारणे ग्रहणे) पूर्णा पूर्णो- पमेत्यर्थः। द्वितीयामाह एकस्येत्यादि। एतेषां चतुर्णा मध्ये एकस्य द्वयोस्त्रयाणां वा लोपे अनुपादाने (अनुच्चारणे अग्रहणे ) लप्ता लुन्तोपमेत्यर्थः । लुप्तावयवां उपमा लुप्तोपमेति यावत्॥ व्याख्यातमिदं प्रदीपोद्दयोतयोः। "एनां विभजते पूर्णेत्यादि। यत्रोपमानोपमेयसाधारणधर्माणामुप- माप्रतिपादशब्दस्य चोपादानं सा पूर्णा। एतच्चतुष्कमध्ये एकस्य द्वयास्त्रयाणां वानुपादानं यत्र सा लुप्ता" इति प्रदीपः। यत्रोपमानोपमेयेति। सादृश्यप्रतियोगित्वानुयोगित्वे चोपमानत्वोपमेयत्वे इति बोध्यम) इत्युश्चोतः। यत्त्वत्र चक्रवर्तिनोक्तम् "एकस्य द्वयोरित्यादि। उपमानादीनां चतुर्णी मध्ये त्रयाणामुपमानेतरेषामितिः तत्रैव वक्ष्यामः । लोपे अनुपादाने । तच्च क्वचिन्न्यायकृतम् कचना- नुशासनिकमिति यथायथं दर्शयिष्यामः" इति तत्र 'त्रयाणामुपमानेतरेषाम्' इति चिन्त्यम् "त्रयाणां वादिधर्मोपमानानाम्" इति वृत्त्या (१३४ सूत्रस्थया) विरुद्धत्वादित्यवधेयम्॥ तयोः पूर्णी (षड्डिधतया) विभजते साधिमेत्यादि। सा अग्रे भवा अग्रिमा (प्रागुद्दिष्टा) पूर्णो- पमेत्यर्थः । अत्र चक्रवर्तिनः "अग्रिमा सूत्रे प्रथममुपात्ता। अग्रिमेत्यनेनैव लब्धेः सेति सुखार्थम्" इत्याहुः। पूर्णैव तावत् द्विविधेत्याह श्रोत्यार्थी चेति। श्रौती शब्दगम्या वाच्येति यावत्। सा च यथे- ववादिशब्दानामुपादाने इवार्थविहितवतिप्रत्ययस्योपादाने च भवति यथेववादिशब्दानाम् इवार्थविहि- सवतिप्रत्ययस्य च साधारणधर्मसंबन्धरूपसाधम्यवाचकतया तत्सद्भावे श्रवणमात्रेणैव साधर्म्यस्योप स्थितेः। आर्थी अर्थवशलभ्या आक्षेपगम्येत्यर्थः अर्थापत्तिगम्येति यावत्। सा च तुल्यसदृशादिशब्दाना- मुपादाने तुल्यार्थविहितवतिप्रत्ययस्योपादाने च भवति तुल्यसद्दशादिशब्दानां तुल्यार्थविहितवतिप्रत्य- सस्य च सादृश्यवति शक्ते: सादृश्यस्य साधारणधमसंबन्धरूपं साधर्म्य विनानुपपत्या साधर्म्यस्यार्था- दुपस्थितेः। एतत्सर्वमनुपदं मूले एव स्फुटीभविष्यति। एवं द्विविधापि पूर्णा वाक्यसमासतद्धितगामि- त्वभेदात् षड्डिधेत्याह भवेद्वाक्ये। इत्यादि। ऐकपद्यानापन्नमाकाङ्कादिमदनेकं पदं वाक्यम् समासत्व- धान् समासः समासत्वं च संकेतविशेषसंबन्धेन समासपदवत्त्वम् तद्धितः तद्धितसंज्ञको वतिप्रत्ययादिः। तथा च श्रौती आर्थी च प्रत्येकं वाक्ये समासे तद्ित च भवेदित्यर्थः। एवं चोपमानादिपदानि चत्वा- र्यपि यद्यसमस्तानि तदा वाक्यगा तेषु (उपमानादिचतुर्षु पदेषु मध्ये) कयोरपि समस्तत्वे समासगा तद्धितप्रत्ययस्य न वाक्यत्वं न वा समातत्वमिति पृथगुक्तिः। एवं चः श्रौत्यार्थी चेति द्विविधापि कदर्थयति विन्दृति। विडम्बयति संधत्ते हसतीर्ष्यत्यसूयि ॥ तस्य मुष्णाति सौमाग्यं तस्य कान्तिं विलुम्पति। तेन सार्ध विगृह्धाति तुलां तेनाधिराहति॥ तत्दव्यां पदं धत्ते तस्य कक्षां विगाहते। तमन्वेत्यनुच्न्राति तच्छीलं तन्निषेधति ॥ तस्ष्य चानुकरोतीति शब्दाः *साटृश्यसूचकाः ॥ इति ॥ *साटृश्यसूचकाः सादृश्यस्य (साधर्म्यस्य) बोधकाः वाचका लक्षका व्यञ्ञकाश्वेत्यर्थः। तत्रेवादयो वाचकाः तत्रापि इवाद्यः सधर्म्यस्य वाचकाः तुल्याद्यस्तु साधर्म्यप्रयोज्यसादृश्यस्य वाचकाः । सादृश्यघटकत्तदृशादिवाचकाः इति सुवचम् । स्र्धते इत्याद्यो लक्षकाः स्पर्धा- दिधातुनां सादृश्ये संकेतितत्वामावात्। तस्य मुण्गाति सौभाग्यम् इत्यादयो व्यञ्जका इत्यर्थः ॥ १ अवयवशब्द्ोडत्रावयवबधिकशब्द्रपर इति ज्ञेयम् ॥ २ मूलरुतैव १४१ सूत्रे "श्रीताः शब्दोपात्ताः आर्था अर्थसामर्थ्याद्वसेयाः" इति व्याख्यातत्वात्तद्नुराधेनैवात्र श्रौतार्थशब्दौ व्याख्यातव्याविति व्याच्े शब्दगम्बेत्यादि।।

Page 608

देशम उललसि: । ५४९ अगिमा पूर्णा। यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यव्युपमानविशेषणान्येते तथापि शव्दशक्तिमहि्रा श्रुत्यैव षश्चीवत् संबन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा। तथैव "तत्र तस्येव' इत्यनेनेवार्थे विहितस्य वतेरुपादाने। पूर्णोपमा प्रत्येकं वाक्यादिगतत्वेन त्रिधा भूत्वा षडिधेति भावः । अग्रिमाप इस्य लुप्तात्वभ्रमं वारयति अग्रिमा पूर्णेति।। व्याख्यातमिदं प्रदीपप्रभोद््योतेषु। "तयोः पूर्णी विभजते साग्रिमेत्यादि। अग्रिमा प्रथमोदिष्टा पूर्णेत्यर्थः। वाक्यं विग्रहः। तेनोपमानादिपदानि चत्वार्यपि यत्रासमस्तानि भिन्नविभक्तिकानि (पृथ- ग्विभक्तिकानि) सा वाक्यगा। यत्र तु तेषु कयोरपि समासः सा समासगा। तद्धितेनोपमाप्रतिपाद- केन तु सममुपमानवाचिन्याः प्रकृतर्न समासो नापि विग्रह इति तृतीयः उपमाभेदः। त्रिविधाप्येषा श्रौत्यार्थीभेदात्प्रत्येकं द्विधेति षड्डिधा पूर्णेत्यर्थः । श्रौतत्वं चोपमानोपमेययोः साधारणधर्मसंबन्ध- रूपायास्तस्याः शाब्दबोधविषयत्वम्। अर्थापत्तिगम्यत्वं चार्थत्वम्। तत्र यथेववादिशब्दानां 'तत्र तस्येव' इत्यनेनेवार्थे विहितस्य वतेश्रोपादाने श्रौती। तुल्यादिशब्दानां "तेन तुल्यम्०" इत्यादिना तुल्यार्थे विहितस्य वतेश्र प्रयोगे आर्थी" इति प्रदीपः । (असमस्तानीति। समासाभावस्य 'चन्द्र- वन्मुखम्' इति तद्धितेऽपि सत्त्वादाह भिन्नविभक्तिकानीति। भिन्नविभक्तिकत्वस्य 'चन्द्रइब मुखम्' इति समासेऽपि सत्वादसमस्तानीत्युक्तम्। तेषु उपमानादिपदेषु मध्ये) इति प्रभा। (श्रौतत्वं चोपमानेति। एवंच सादृश्यप्रयोजकसाधारणधर्मसंबन्धस्येवादिशक्यस्योभयवृत्तितया शाब्दबोधविषयत्वे श्रौतत्वमित्यर्थः । अर्थापत्तीति। तुल्यादिशब्दानां सादृश्यवति शक्तेः सादृश्यस्य साधारणधर्मसंबन्धं तिनानुपपत्त्या तत्प्रतीतिरिति भावः) इत्यद्द्योतः ॥ नन्वयं श्रौत्यार्थी चेति विभागोऽनुपपन्नः उभयत्र (यथेववादिशब्दप्रयोगस्थले तुल्यसदृशादिशब्द- प्रयोगस्थले च) सादृश्यप्रयोजकसाधारणधर्मसंबन्धप्रत्ययाविशेषादिति शङ्कायाम् यथेववादिशब्दानां सादृश्यप्रयोजकसाधारणधर्मसंबन्धरूपे साधर्म्यें एव शक्ततया यथेववादिशब्दप्रयोगस्थले साधारण- धर्मसंबन्धरूपं साधर्म्य वाच्यम् सादृश्यप्रतीतिस्त्वार्थी तुल्यसद्ृशादिशब्दानां सादृश्यवति शक्तेः तुल्यसदृशादिशब्दप्रयोगस्थले सादृश्यं वाच्यम् साधारणधर्मसंबन्धरूपं साधर्म्य त्वार्थमिति संबन्धबोधे विशेषादुपपद्यत एव श्रौत्यार्थी चेति विभाग इत्याह यथेववादिशब्दाः इत्यादिना 'वतेः स्थितौ' इत्यन्तेन दूरस्थेन। ग्रथेववादिशब्दानां साधारणधर्मसंबन्धरूपसाधर्म्यवाचकत्वं यथेववादिशब्दसद्भावे उपमायाः श्रौतत्वं च व्युत्पादयन् तावत् शङ्कते 'यथेववादिशब्दाः' इत्यादिना 'उपमानविशेषणा- १ श्रौतत्वमिति। अयं च प्रयोगः "वोतो गुणवचनात्" (४४) इतिपाणिनिसूत्रस्य "त्वतलोर्गुणवचनस्य" इतिवार्तिकोक्तशब्देन्दुशेखररी या बोध्यः । अत एव 'कारकविभक्तेर्वलवतत्वात्' इति (१ पत्रे) शब्देन्दुशेखरप्रयोग:॥ सिद्धान्तकौमुदीकारोक्तरात्या तु 'श्रौतीत्वम्' इति प्रयोक्तव्यम्। यद्वा 'निराक्ष्य मेने शरदः कतार्थता' (किराते सर्गे ९ श्लो० ) इत्यादाविव "सामान्ये नर्पुंसकम्" इतिनपुंसकत्वविवक्षयायं प्रयोग इति बोध्यम्। एवम् 'आर्थ- त्वम्' इति प्रयोगोऽपि ज्ञेयः ॥ २ 'चन्द्रइव' इत्यत्र "इवेन समासो०" इति (५५५ पृष्ठे) वक्ष्यमाणवार्तिकेन समास: ॥ 3 सादृश्यलक्षणं तु प्राक् (५४१ पृष्ठे १२ पङ्मौ) दर्शितम् ॥ तत्प्रतीतिरिति। तस्य साधारण- धर्मसंचन्धस्य प्रतीतिरित्यर्थः॥ रपष्टोकतमिदं सादृश्यप्रतीतेरर्थतवं प्राक् (५४१ पृष्ठे १८ पङ्मौ) मञ्जूषा- ग्रन्थप्रदर्शनेन अग्रेदपि (५५३ पृष्ठे) इति बोध्यम् ।।

Page 609

५५० काव्यप्रकाश: सटीकः ।

न्येते' इत्यन्तेन। यथेववादीत्यादिपदेन वशब्दग्रहणम् "वे वा यथा तथैवैंवं साम्ये" इत्यमरकोशात् "वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्" इति मेदिनीकोशाच्च वशब्दस्याप्युपमावाचकत्वात्। यत्परा: यदनन्तरमुपात्ताः । तस्यैव तदर्थस्यैव। उपमानतेति। सादृ्श्यप्रतियोगित्वरूपेत्यर्थः। एते यथेववादिशब्दाः । अयं शङ्काभिप्रायः। "यद्धि यदर्थे धर्मविशेषं प्रतिपादयति तत् तद्विशेषणम्" इति "एकविशेषणं नापरत्र स्वार्थ प्रत्याययति" इति च नियमः। यथा 'नीलमुत्पलम्' इत्यादौ नील- पदमुत्पलपदार्थे स्वार्थ प्रत्याययत् उत्पलपदस्य विशेषणं भवति ततश्र नान्यत्र स्वार्थ प्रत्याययति तथा 'मुखं मनाज्ञं कमलं यथैतत्' इत्यादौ यथाशब्दः कमलपदोत्तरमुपात्तत्वेन कमलपदार्थे उपमानतां प्रत्याययताति कमलपदस्य विशेषणमिति उपमानभूते कमले एव साधारणधर्मसंबन्धं बोधयतु तदन्य- स्मिन्नुपमेये मुखे कथं साधारणधर्मसंबन्धमवगमयोदाते उपमानोपमेययोः साधारणधर्मसंबन्धरूपस्य साधर्म्यस्य शब्दागम्यत्वाकथमुपमायाः श्रौतत्वमिति॥ उक्तां शङ्गां समाधत्ते 'तथापि' इत्यादिना 'श्रौती उपमा' इत्यन्तेन। शब्दशक्तिमहिस्रा शब्दशक्तिस्वाभाव्येन "विचित्राः शब्दशक्तयः" इति न्यायाच्छब्दशक्तिवेचित्र्येणेति यावत्। श्रौतत्वं व्युत्पादयति श्रुत्यैवेति। श्रवणमात्रेणेत्यर्थः न तु तुल्यसद्दशादिशब्दा इव आक्षेपेणेति भावः। व्याख्यातमिदं चक्रवर्तिप्रभृतिभिः "श्रुत्यैवेति। श्रत्यैव न तु कथं सदृशमित्याकाङ्गितधमक्षयापि" इति। तत्र दृष्टान्तमाह षष्ठीवढिति। षष्ठी या विभक्तिस्तद्वदित्यर्थः । संबन्धं (प्रकृते) साधारणधर्म- संबन्धरूपं साधर्म्याख्यं संबन्धम्। तत्सद्भावे। यथेववादिशब्दोपादाने। श्रौती उपमेति। वाक्यगा श्रौती उपमेति भावः । अयमत्र समाधानाभिप्रायः। 'राज्ञो राज्यम्' इत्यादौ स्वप्रकृत्यनन्तरमुपात्ता षषठी विभक्तिः स्वप्रकृत्यर्थे राजनि स्वामित्वं प्रत्याययन्ती तद्विशेषणं भवन्त्यपि यथा राजराज्ययोः स्वस्वामि- भावं संबन्धं प्रत्याययति तथा उपमाने उपमानतां प्रत्याययन्तोऽपि यथेववादिशब्दाः उपमानोपमेययोः साधर्म्याख्यसंबन्धं (साधारणधर्मसंबन्धं) श्रवणमात्रेणोपस्थापयन्त्येव शब्दशक्तिस्वाभाव्याद्। तथा च यथेववादिशब्दानां साधर्म्यसंबन्धवाचकत्वं तत्सद्भावे उपमायाः श्रौतत्वं चोपपन्नमिति। व्याख्यातं च सारबोधिन्याम् "षष्ठीवदिति। यथा 'राज्ञः पुरुषः' इत्यत्र राजनि भ्रूयमाणा षष्ठी तमेव विशेषयन्ती स्वस्वामिभावादिकं संबन्धं पुरुषगतमपि प्रतिपादयति उभयवृत्तिसंबन्धस्यैकत्वात् तथेदमपि लुप्त- विभक्तिकमव्ययपद्मेकत्र विश्रान्तमप्युभयाश्रयं संबन्धमभिव्यनक्तीत्यर्थः" इति॥ तद्धितमात्रे उपमायाः न श्रौतत्वम् किंतु इवार्थविहितवतिप्रत्यये एवेत्याह तथैवेति। तद्वदित्यर्थः यथेववादिशब्दोपादानवदिति यावत्। इत्यनेनेति। (५१।११६) इति पाणिनिसूत्रेणेत्यर्थः। अस्य पाणिनिसूत्रस्यार्थस्तु अनुपदमेव (५५१ पृष्ठे १७ पङ़कौ) स्फुटीभविष्यति। इवार्थे इति। सादृश्य- १ साम्ये वशब्दो यथा 'नारिकेलासवं योधाः शात्रवं व पपुर्यशः' इति (४ सर्गे "२ १लो०) रघुकाव्यमिति मनोरमार्या स्पष्टम्। न चात्र "शात्रवं च" इति चवर्गप्रथमवर्णघटितः पाठ इति शङ्कनीयम् प्राचीनपुस्तकेषु वका- रघटितपाठस्यैवोपलम्भात। व्याख्यातं च सुगमार्थचोधिकाख्यटीकार्यां सुमतिविजयेन "किमिव शात्रवं शत्रोः संबन्धि यश एव विबन्ति स्मेत्यर्थः । अत्र वशब्दः इवार्थे" इति। एवमेव पञ्जिकाख्यटीकायां वल्लभदेवेनापीति ज्ञेयम्। एतेन चकारघटितं पाठं मत्वा यन्मालिनाथेन व्याख्यातम् "शात्रवं यशश्र् पपुः" इति तदनादरणीयम्। उदाहरणान्तरं यथा "मणी वोषृस्य लम्बेते प्रियौ वत्सतरौ मम" इति महाभारतप्रयोगे इवार्थे वशब्दो वाशब्दो वा बोष्य: इति वैयाकरणसिद्धान्तकौमुदी। एवं 'कादम्बखण्डितद्लानि व पङ्कजानि' इत्याद्यपि द्रष्टव्यम् ॥ २ प्रतियोगि- लक्षणं प्राक (५४१ पृष्ठे २ टिष्पणे) प्रदर्शितम्॥

Page 610

दशम उल्लास: । ५५१

प्रयोजकसाधारणधर्मसंबन्धरूपे इत्यर्थः । नन्विवशब्दस्य साधारणधर्मसंबन्धार्थकत्वे इवशब्दयोगे इवार्थ- विहितवतिप्रत्यययोगे च सादृश्यप्रतीतिः कथं स्यादिति चेन्न। तत्र सादृश्यप्रतीतेरार्थिकत्वात्। अत एव मञ्जूषायां धात्वर्थनिपातार्थनिर्णयावसरे (१४ पत्रे १ पृष्ठे ) नागोजीभट्टैरुक्तम् "इवादियोगे साधारणधर्मसंबन्धरूपोपमा वाच्या सादृश्यप्रतीतिस्त्वार्थी" इति। एतेन इवशब्दस्य साधारणधर्म- संबन्धार्थकत्वे "यथा असादृश्ये" (२।१।७) इति पाणिनिसूत्रे इवशब्दपर्यायस्य यथाशब्दस्य साद- इयार्थकत्वं विरुध्यते' इति शङ्का परास्ता तत्र सादृश्यपदस्य आर्थिकसादृश्यार्थकत्वेन यथाशब्दस्य साद इयार्थकत्वमिति तद्विराधाभावादिति बोध्यम्। न च पाणिनिसूत्रे शब्दानां वाच्यातिरिक्तार्थकत्वमदृष्ट- चरमिति शङ्कनीयम् बहुषु सूत्रेषु लक्ष्यार्थकानां व्यङ्ग्चार्थकानां प्रयोगोपाध्यर्थकानां च ग्रहणस्य दर्शनात्। अत एव "इदुदुपधस्य चाप्रत्ययस्य" (८।३।४१) इति सूत्रे प्रत्ययपदस्य प्रत्ययसंबन्धिनि लाक्षाणकत्वमुक्तम् तथा "न धातुलोप आर्धधातुके" (१।१।४) इति सूत्रे धातुपदस्य धात्वंशे लाक्षणिकत्वमुक्तम् "उपोऽधिके च" (१।४८१) इति सूत्रे उपेतिपदस्याधिकार्थद्यातकत्वं हीनार्थ- द्योतकत्वं चोक्तम् द्योतकत्वं च क्वचित्समभिव्याहृतपदयशक्तिव्यञ्जकत्वमिति प्राक् (६९ पृष्ठे २७ पक्कौ) प्रतिपादितम् "संमाननोत्संजनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः" (१।३।३६) इति सूत्रे नयतेः प्रयोगोपाध्यर्थकत्वमुक्तमिति दिक्। विहितस्य कृतस्य। वतेः वतिप्रत्ययस्य। उपादाने स्थितौ प्रयोगे इति यावत्। 'श्रौती उपमा' इत्यनुषज्यते। तदद्धितगा श्रौती उपमोति तदाशयः। उदा- हरणं तु 'गाम्भीर्यगरिमा तस्य सत्यं गङ्गभुजंगवत्' इत्यग्रे (३९६ पद्ये) स्फुटीभविष्यति।।

"तत्र तस्येव" (५१।११६) इति पाणिनिसूत्रे "तेन तुल्यं क्रिया चेद्वतिः" (५१।११५) इति पूर्वसूत्रात् वतिरित्यनुवर्तते क्रिया चेदिति तु नानुवर्तते "स्वरितेनाधिकारः" (१।३११) इति पाणिनिपरिभाषणात्। एवं च द्रव्यगुणादितुल्यार्थमिदं सूत्रम्। "तेन तुल्यम्०" इति पूर्वसूत्रं तु क्रिययोस्तुल्यत्वे एव प्रवर्तते इत्यनयोर्भेदः। कि चेवार्थस्योपमानविशेषणतया तुल्यपदार्थस्य तद्विशे- ष्यतया बोधे भेदः। तथा च तत्रेति सप्तम्यन्तात् तस्येति पश्ठचन्ताच्च इवार्थे (साधारणधमसबनरूपेऽर्थे) वतिप्रत्ययो भवतीति सूत्रार्थः । तत्र सप्तम्यन्ताययथा मथुरावत् पाटलिपुत्रे प्राकारः। मथुरावदित्यस्य मथुरायामिवेत्यर्थः । पश्ठयन्ताद्यथा मथुरावत् पाटलिपुत्रस्य विस्तारः। मथुरावदित्यस्य मथुराया इवे- त्यर्थः । अत्र प्राकारयोरुपमानोपमेयभावः। वृत्तौ मथुरादिपदानां तद्धिकरणकतत्संबन्धिप्राकाराद- न्तर्भावेण वृत्तिरिति केचित्। परे तु षष्ठयर्थसप्तम्यन्तात् षष्ठ्यन्ताच्चायं (वतिः) साधुः। अधिकरण- सततम्यन्तात्तु नायम् असामर्थ्यात्। अत एव "तत्र तस्येव" इति सूत्रस्थतत्रग्रहणस्य इवशब्दयोगे षष्ठचर्थे सप्तमीज्ञापकतोक्ता भाष्ये ( पतञ्जलिकृते महाभाष्ये) 'देवेष्विव मनुष्येषु नाम' इत्युदाहृतं च । तत्रैत्र 'देववन्मनुष्येषु नाम' इति साधु। उपमानदेवसंबन्धिनामाभिन्नं मनुष्यसंबन्धि नामेतति बोधः । 'मथुरावत्पाटलिपुत्रे प्राकारः' इत्यत्रोपमानमथुरासंबन्धिप्राकाराभिन्नः पाटललिपुत्रसंबन्धी प्राकार: इत्येवंबोधे साधुत्वम्। अस्मादेव ज्ञापकादिवयोगे उपमानविशेषणादुपमेयविशेषणाच्च षष्ठचर्थे सप्तमी। न चाधिकरणकारकस्य कर्त्रादिद्वारैव क्रियान्वय इति नासामर्थ्यमिति वाच्यम् एवं तर्ह्य- स्तीत्यध्याहारावश्यकत्वन क्रिययोरेव तुल्यत्वे "तेन तुल्यम्०" इत्येव सिद्धावस्य (सूत्रस्य) वैय- थ्यापत्तेः। अत एत 'द्रव्यगुणतुल्यार्थोऽयमारम्भः' इति भाष्ये ध्वनितम् । कैयटेन च स्पष्टमुक्त- १ उपमानविशेषणति। उपमानस्य विशेषणात् सुन्दगदिपदात उपमेयस्य विशेषणात् सुन्दरादिपंदाच्चेत्यर्थः॥

Page 611

५५२ काव्यप्रकाश: सटीकः । 'तेन तुल्यं मुखम' इत्यादावुनमेये एव 'तत्तुल्यमस्य' इत्यादौ चोपमाने एव 'इदं च तच्च तुल्यम्' इत्युभयत्रापि तुल्वादिशव्दानां विश्रान्तिरिति साम्यपर्यालोचनय। तुल्यताप्रतीतिरिति सावर्म्यस्यार्थत्वात्तुल्यादिशब्डोपाडाने आर्थी तह्वत् 'तेन तुल्य किया चेदूतिः" इत्यनेन विहितस्य वते: स्थितौ। नित्याहुः। मथुरापाटलिपुत्रयोः सादृश्यं त्वार्थमिति वैयाकरणलवुमञ्जूषायां वृत्त्यर्थवादे (४७ पत्रे) शब्देन्दुशेखरे च स्पष्टम्॥ उपमाया आर्थत्वं व्युत्पादयति 'तेन तुल्यं मुखम्' इत्यादिना 'आर्थी' इत्यन्तेन। अत्र सर्वत्र तत्पदार्थः कमलम् इदंपदार्थश्र मुखम्। उपमेये एवेति। समानविभक्त्यन्तपदोपस्थाप्यत्वादिति भावः । उपमेये एवेत्यस्य 'तुल्यादिशब्द्वानां विश्रान्तिः' इत्यग्रिमेणान्वयः। एवकारेणोपमानव्यव- च्छेदः। उपमाने एवेति। समानविभक्त्यन्तपदोपस्थाप्यत्वादेवेति भावः। 'उपमाने एव' इत्यस्यापि 'तुल्यादिशब्दवानां विश्रान्तिः' इत्यग्रिमेणैवान्वयः। एवकरेणोपमेयव्यवच्छेदः। उमयत्रापीति। उपमेये उपमाने चेत्यर्थः। 'कमलेन तुल्यं मुखम्' इत्यत्र कमलेनेति षष्ठचर्थे (संबन्धे) तृतीया "तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" (२।३७२) इति पाणिनिसूत्रेण तुल्यार्थकशब्दयोगे संबन्धेऽर्थे तृतीयाषष्ठचोर्विकल्पेन विधानात्। कमलसंबन्धिसादृश्यवन्मुखमिति शाब्दबोधः। एवमन्य- स्मिन्नुदाहरणदयेऽपि बोध ऊह्यः। एवं च उपमेये एवेत्यादौ उपमानादिव्यवच्छेदकैवकारोपन्यासः उदा- हरणत्रये वस्तुस्थितिप्रदर्शनार्थ एव नतु प्रकृतस्य श्रत्यार्थी चेति विभागस्योपयोगार्थः। अत एव प्रदीपे (५५६ पृष्ठे) एवकाररहित एव पाठ इति ज्ञेयम्। तुल्यादिशब्दानामिति। तुल्यसदशादिश- ब्दानां साहश्यवद्वाचकानामित्यर्थः। विश्रान्तिरिति। पर्यवसानमित्यर्थः व्यापारविराम इति यावत्। तुल्यादिशब्दाः सामान्यतः सादृश्यं बोधयित्वा विश्राम्यन्ति (अर्थान्तरबाधने विरतव्यापारा भवन्ति) इति भाव: । इतीति। इति हेतोरित्यर्थः। साम्येति। समयोः साधारणधर्मसंबन्धवतोर्भवः साम्यं साधारणधर्मसंबन्धरूपं साधर्म्य तस्य पर्यालोचनयानुसंधानेनेत्यर्थः । व्याख्यातश्र्वैवमेव साम्यशब्द: "हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते०" इति १६० सूत्रे प्रदीपकारैः "साम्ये साधर्म्ये" इति। तुल्यताप्रतीतिरिति। तुल्ययोः सदृशयोर्भावस्तुल्यता सदृश्यं तस्याः प्रतीतिः निराकाङ्प्रतीतिरि- त्यर्थः। इतीति। इति हेतोरित्यर्थः। साधर्भ्यस्य। साधारणधर्मसंबन्धरूपस्य। आर्थत्वात्। अर्थवशल- भ्यत्वात् आक्षेपगम्यत्वादित्यर्थः अर्थापत्तिगम्यत्वादिति यावत्। व्याख्यातश्रवैवमेव श्रौतशब्द: आर्थश ब्दश्र १४१ सूत्रे मुलकतैव "श्रीताः शब्दोपात्ताः आर्थाः अर्थसामर्थ्यादवसेयाः" इति। उपादाने प्रयोगे। आर्थीति। आर्थी उपमेत्यर्थः वाक्यगा आर्थी उपमेति यावत्। अयं भावः। 'कमलेन तुल्यं मुखम्' इत्यत्रोपमेये 'कमलं तुल्यं मुखस्य' इत्यत्रोपमाने 'मुखं च कमलं च तुल्यम्' इत्यत्रोभयत्रापि सामान्यतः सादृश्यं बोधयित्वा विरतव्यापारेषु तुल्यसदशादिशब्देषु धर्मविशेषं विना कथमनयोः सादृश्यमिति सादश्यस्य (तुल्यादिशब्देनाभिहितस्य) अनुपपत्या धर्मविशेषसंबन्धप्रतीतिरित साध- म्यस्य आर्थत्वादुपमाया आर्थत्वमिति। उक्तं चैवमेव सरस्वतीतीर्थैः "तुल्यत्वनिर्वाहाय सामीन्यमपे- १ आदुगिति ! इदं 'परे तु' इत्यनेन पूर्वेणान्वेति ॥ २ अर्थान्तरमत्र साम्यरूपम् (साध्म्यरुपम्) ॥३ तुल्यत्वं सादृश्वं तस्य निर्वाहाय उपपत्तय इत्यर्थः ॥ ४ समानो धर्मः सामान्यम् उपमनीपमेययोः साधारणो धर्म इत्यर्थः चातुर्वण्यांदित्वात्स्वार्थे व्यत्र इति 'उपमानानि सामान्यवचने" (२।१५५) इति पाणिनिसूत्रेग तत्योधिन्याम "उपमितं व्याघ्रादिामि: सामान्याप्रयोगे" इति सूत्र सिद्धान्तकौमर्यां च स्पष्टम् ।।

Page 612

दैशम उल्लास: । ५५३

क्षणीयमित्यादि उपमेत्यर्थः " इति। उक्तं च मञ्जूषायां धात्वर्थनिपातार्थनिर्णयावसरे (१३ पत्रे २ पृष्ठे) नागोजीभट्टैरपि "तेन तुल्यमित्यादौ प्रतीततुल्यतोपपत्तये साधर्म्यस्यार्थत्वादार्थी उपमा" इति॥ तद्धितगामार्थीमाह तद्दित्यादि। तुल्यादिपदोपादानवदित्यर्थः । इत्यनेनेति। (५१।११५) इति पाणिनिसूत्रेणेत्यर्थः । 'तुल्यार्थे' इति शेषः । अस्य पाणिनिसूत्रस्यार्थस्तु अनुपदमेव (५५४ पृष्ठे) स्फुटीभविष्यति। विहितस्य कृतस्य। वतेः वतिप्रत्ययस्य। स्थितौ उपादाने प्रयोगे इति यावत्। तद्धितगता आर्थी उपमेति भावः । उदाहरणं तु 'दुरालोकः स समरे निदाघाम्बररत्नवत्' (३९६ पद्यम् ) इत्यग्रे स्फुटीभविष्यति॥ अयं प्रघट्टाभिप्रायः। यथेववादिशब्द्वानां सादृश्यप्रयोजकसाधारणधर्मसंबन्धरूपे साध्म्ये शक्य- तया यथेववादिशब्दप्रयोगस्थले साधारणधर्मसंबन्धरूपं साध्म्यें वाच्यम् सादृश्यं त्वार्थम तुल्यसद्द- शादिशब्दानां सादृश्यवति शक्तेस्तुल्यसदशादिशब्दप्रयोगस्थले सादृश्यं वाच्यम् साधारणधमसंबन्ध- रूपं साधर्म्ये त्वार्थमिति संबन्धबोधे विशेषादुपपन्न एव श्रीत्यार्थी चोति विभागः । न चेद्टशश्रौत्या- र्थीविभागो विफल इति वक्तव्यन् आथ्यामुपमानोपमेयनिर्णयविलम्बनास्वादविलम्बः तदभावः श्रौत्यामिति तत्साफल्यादिति। तयुक्तं प्रभायाम् "एवंच 'मुख पझमं च तुल्यम्' इत्यनेनोभयत्र सादृश्यप्रत्ययाविशेषेऽपि यथेवादिश्रुतिः साधारणधर्मविशेषरूपाह्वादकत्वसंबन्धमप्रत्याय्य न पर्यवस्यति तुल्यादिपदश्रतिस्तु धर्मविशेषसंबन्धावगमं विनापि सामान्यतः साध्म्यबोधमात्रेण (सादृश्यबोधमा- त्रेण) पर्यवसिता प्रतीतसामान्यस्य (प्रतीतसादृश्यस्य) विशेषं विनानुपपत्या पश्राद्दिशेषमाक्षिप- तीति यथेवादिपदप्रयोगे श्रौती तुल्यादिपदप्रयोगे त्वार्थीति विभागोऽभिमतः" इति॥ यत्वत्रोक्तं चक्रवतिश्रीवत्सलाञ्छनप्रभृतिभिः "नन्विवादीनां प्रयोगे श्रौती तुल्यादीनां चार्थीति कथं नियमः द्वयोः सादृश्यवाचकत्वेन तुल्यत्वादिि चेत् अत्रोच्यते। इवादिप्रयोंगे प्रतियोग्यनु- योगिसमानधर्मबोधकानां समानविभक्तिकत्वेन परस्परशब्दान्वये नानुपपत्तिः यथा 'कमलमिव मुख माह्लादकम्' इत्यादौ कमले मुखे च द्रागेवाह्लादकत्वान्वयात्। 'चन्द्रेण तुल्यं मुखमाह्लादकम्' इत्यादौ तु चन्द्रेण सह नाह्लादकत्वान्वयः शाब्दः विभक्तिभेदात्। किंतु कर्थं तुल्यमित्याकाङ्गायामार्थ एवेति श्रौत्यार्थीविवेकः। 'कमलं मुखं च तुल्यं सुरभि' इत्यत्र विभक्तिसाम्येऽपि उपमानोपमेयभावो न शब्दश्रवणमात्रेणावगम्यते किंतु प्रकृतत्वाप्रकृतत्वपर्यालोचनयैवरति नेयं श्रौतीति भावः। उपमानोपमे- योभयविशेष्यकत्वेऽपि प्रतियोग्यनुयोगिभाव उपमानोपमेययोः गुणप्रधानभावात् प्रकृतत्वेनोपमेयस्य प्राधान्यादिति" इति तन्तु अनादरणीयमेव मूलकुन्मते साधर्म्यस्यैवोपमात्वेन सादृश्यस्योपमात्वा- भावात् उपमानोपमेययोर्मिथः संबन्धरूपस्य सादृश्यस्योपमात्वमङ्गीकृत्य समानधर्मान्वयस्य (साधारण- धर्मान्वयस्य) आर्थत्वेनोपमाया आर्थत्वमिति कथनस्य "कर्णे पृष्टे कटिं चालयति" इति लौकिकन्या- यविषयत्वापत्त्यानुचितत्वाच्च प्रत्युत तुल्यादिशब्दप्रयोगे उपमापदार्थस्य सादृश्यस्य शाब्दत्वेनोपमायाः शाब्दत्वापत्तेश्र 'कमल मुखं च तुल्यं सुरभ' इत्यत्र प्रकृताप्रकृतत्वपर्यालोचनमात्रेणोपमाया आर्थत्व- कथनस्याप्रयोजकत्वाच्च पूर्व ("साधर्म्यमुपमा भेदे" इति सूत्रे) "सादृश्यसंबन्धस्य प्रतियोग्युपमानम- १. प्रतीता तुत्यादिशब्देनामिहिता या तुल्यता सादृश्यं तस्या उपपत्तये निर्वाहायेत्यर्थः ॥ २ उपमनोपमेयभावः उपमानत्वमुपमेयत्वं च। ७०

Page 613

५५४ काव्यप्रकाशः सटीकः ।

नुयोग्युपमेयम अस्य च साधर्म्यस्योपमानमुपमेयश्र द्वावप्यनुयोगिनौ' इति वद्तश्रक्रवर्तिनः स्वोक्ति- विरुद्धत्वाच्चेति विद्वद्भिविभावनीयम्॥

(."तेन तुल्यं किया चद्दतिः" इति पाणिनिमूत्रे तुल्यमिति सामान्ये नपुंसकं प्रथमान्तं च व्यापा- रविशेषणत्वात्। तुलया संमित तुल्यं सदशमित्यर्थः "नौवयोधर्म०" (४४।९१) इति पाणिनिसू- त्रेण यत्प्रत्ययः । यथा तुला परिच्छिनत्ति द्रव्य विशेषमेवं यत् सादृश्येन वस्त््तरं परि्छनत्ति तु ल्यमित्युच्यते इति महाभाष्यकैयटादिषु स्पष्टम्। तथा च तेनेति तृतीयासमर्थात्तुल्यमित्यर्थे वतिप्रत्ययो भवति यत् तुल्यं (सदशं) क्रिया चेत्सेति सूत्रार्थः उपमेयस्य क्रियात्वे उपमानवाचक।त्तृतीयान्ता- त्तुल्यमित्यर्थे वतिप्रत्ययो भवतीति भावः क्रिययोस्तुल्यत्वे एव वतिप्रत्ययो भवतीति यावत्। उदाह- रणं तु 'ब्राह्मणवद्धीते क्षत्रियः' इति महाभाष्ये उक्तम्। ब्राह्मणवदित्यत्र ब्राह्मणेन तुल्यमिति विग्रहः। नन्वत्र कथं वतिप्रत्ययः ब्राह्मणसादृश्यस्याध्ययनेऽभावादिति चेन्न। ब्राह्मणशब्दस्य तत्कर्तृक्ाध्ययने लाक्षणिकत्वात्। सौष्ठवादिश्र साधारणो धर्मः। एवंच ब्राह्मणकर्तृकाव्ययनतुल्यं क्षत्रि- यकतृरकं वर्तमानकालिकमध्ययनमिति बोधः । नन्वत्र सूत्रे 'क्रिया चेत्' इति किमर्थमिति चेत् गुण- तुल्ये वतिप्रत्ययो माभूदिति। तेन 'पुत्रेण तुल्यः स्थूलः' इति 'पुत्रेण तुल्यः पिङ्गलः' इति च वाक्यनेव तिष्ठतत नतु वतिप्रत्यय इति बोध्यम्। नन्वेवं 'चन्द्रवन्मुखम्' इत्यत्र कथं तुल्यार्थकवति- प्रत्ययः उपमेयस्य क्रियात्वाभावादिति चेन्मवैम्। तदुपपत्तेनगिोजीभट्टोक्तायाः 'दुरालोकः स समरे' इति ३९६ उदाहरणे वक्ष्यमाणत्वात्॥

ननु "तेन तुल्यम्०" इति पाणिनिसूत्रस्योक्तार्थकत्वे (क्रिययोस्तुल्यत्वे एव वतिप्रत्ययो भवतत्य- र्थकत्वे) 'ब्राह्मणवदर्धीते क्षत्रियः' इत्यत्र सौष्ठवादेः साधारणधर्मस्यानुपात्ततया वतिप्रत्ययो दुर्लभः 'साधारणधर्मस्य लोपे (अनुपादाने सति ) तुल्यार्थकवतिप्रत्ययस्यासंभव एव' इति सिद्धान्तस्य "तद्- द्वर्मस्य लोपे स्यात्" इति १२८ सूत्रे वक्ष्यमाणत्वािति चेत् अत्रोच्यते। ब्राह्मणवदित्यत्राध्ययन- रूपक्रिययोरुपमा ब्राह्मणक्षत्रिययोरुपमा चेति उपमादयं बुध्यते यथा 'दुरालोक:०' इति ३९६ उदाहरणे दुरालोकत्वरूपक्रिययोरुपमा अम्बररत्नराज्ञोरुपमा चेति तद्त्। दर्शिता चेयं दिक दुरालोक इत्युदाहरणे 'अत एवार्थीत्वम्' इत्यादिना 'व्यञ्जनयैव' इत्यन्तन नागोजीभट्वैरिति तत्रैव द्रष्टव्यम्। तथा च प्रकृते प्रथमोपमायां साधारणधर्मस्य सौष्ठवादेरनुपात्तत्वेऽपि आर्थ्युदाहरणत्वेन विवक्षितायां द्वितायोपमायामध्ययनक्रियारूपस्य साधारणधर्मस्योपात्तत्वाद्वतिप्रत्ययः सुलभ एवेति। एतेन "तेन तुल्यम्० " इतिपाणिनिसूत्रस्योक्तार्थकत्वे 'ब्राह्मणवत्०' इत्यत्र तुल्यार्थकवतिप्रत्ययो दुर्लभ एव स्यात् 'साधारणधर्मस्यानुपादाने तुल्यार्थकवतिप्रत्ययस्यासंभव एव' इतिवक्ष्यमाणसिद्धान्तात्। अतः प्राङ्गिरू- पितः पाणिनिसूत्रार्थो महाभाष्यकारादिवैयाकरणानामेवाभिमतः ग्रन्थकृन्मम्मटाभिमतस्त्वयम् 'तृताया- न्ताततुल्यमित्यर्थे वतिप्रत्ययो भवति यत् तुल्यं यत् तुल्यताप्रयोजकं (सादृश्यप्रथोजकं) क्रिया चेत्सा' इति। एवं च ब्राह्मणक्षत्रिययोरुपमानोपमेययोः साधारणवर्मस्याध्ययनरूपस्योपात्तत्वाद्वतिप्रत्ययः सुलभ इति कस्यचिदाधुनिकस्य कपोलकल्पितमपास्तम्। न हि महावैयाकरणो मम्मटोपाध्यायः पाणिनिसू त्रस्य महाभाष्यकारादिवार्णतमर्थमपहाय तद्विरुद्धमर्थ कदाचिद्पि अभिप्रेयात् स्वदैयाकरणत्वहानेः।

१ एतेनेति। अश्य 'अपास्तम्' इत्यनेनागिमेणान्वयः ॥

Page 614

दशम उल्लास: । ५५५

नापि च सूत्राक्षरात्तादशार्थलाभः तुल्यशब्दस्य तुल्यताप्रयोजकत्वरूपेऽर्थे शक्त्यभावात्। लक्षणायां गौरवात्फलाभावाच्च फलाभावे लक्षणाया अनौचित्याच्च तुल्यशब्दस्य तुल्यताप्रयोजकेऽर्थे रूढयभावेन रूढिलक्षणाया अप्यभावाच्चेत्यलमवैयाकरणोक्तिविचारेण॥ तदेतत्सर्व पूर्वोक्तं (शङ्कासमाधानादिकं) प्राहुः प्रदीपोद््योंतकाराः। तथाहि "नन्वयं विभागोऽनुप- पन्नः उभयत्र सादृश्यप्रत्ययाविशेषात्। न च वाच्यं यथादिशब्दैः साधारणधर्मसंबन्ध उभयत्र शक्त्यव बोध्यते न पुनस्तुल्यादिशब्दैः अयमेव विशेष इति यतो यथादिशब्दा यदनन्तरमुपात्तास्तस्यैवोपमा- नताप्रतीतिरित्युपमानविशेषणानि ते अत उपमाने तत्संबन्धं बोधयन्तु न पुनरुपमेये अन्यविशेषणस्या- न्यत्र संबन्धबोधकत्वादर्शनादिति चेन्न। शब्दशक्तिस्वाभाव्यादन्यविशेषणत्वेऽप्यन्यत्र संबन्धबोध कत्वात्। न चादष्टचरत्वम् ष्यां तथा दर्शनात्। षठी हि यदनन्तरमुपात्ता तस्यैवोपसर्जनत्वप्र- तीतिरित्युपसर्जनविशेषणत्वेऽपि प्रधानेऽपि संबन्ध बोधयति। तस्मात्प्रतैतत्यनुपपत्या प्रतीतानुपपत्या च संबन्धबोधे विशेषाच्छौतार्थविभाग इति मन्तव्यम्। तथाहि 'पद्ममिव मुखम्' इत्यादावुपात्तस्याक्षि प्रस्य वा रमणीयत्वादेः संबन्धमविषयीकृत्यापर्यवसानम् यथादिशब्दानां धर्मविशेषसंबन्धे एव शक्त- त्वात्। तुल्यादिशब्दास्तु नैवन् 'पद्मेन तुल्यं मुखम्' इत्यादावपमेये 'पझं तुल्यं मुखस्य' इत्यादावुप- माने 'मुखं पझं च तुल्यम्' इत्यादवुभयत्रापि सामान्यतस्तुल्यत्वं बोधयित्वा विश्रा-तेषु तेषु धर्मविशेषं विना कथं तुल्यतेति प्रतीतानुपपत्या धर्मविशेषसंबन्धप्रततिरिति । केचित्तु 'उपमानोपमेयभावरूपसं- बँन्धस्य श्रौतार्थत्वाभ्यां विशेषः' इति व्याचक्रस्तद्युक्तम् 'साधर्म्यस्यार्थत्वात्तुल्यादिपदोपादाने आर्थी' इति प्रकाशविरोधात्। यस्यैव ह्वार्थतया उपमाया आर्थत्वं तस्यैव श्रीततया श्रतत्वौचित्यात्। किंच साधर्म्यमेवोपमेति तस्यैव श्रौतत्वार्थत्वाभ्यामुपमाभेदो युक्तः । अत एव 'यथादिना सादृश्यरूपः संबन्ध एव साक्षादभिधीयते षषठीवत् तुल्यादिभिस्तु धर्म्यपि' इति व्याख्यानमनुपादेयम्" इति प्रदीपः ॥ (उभ- यत्र सादृश्येति। सादृश्यप्रयोजकसाधारणधर्मेत्यर्थः । उभयत्र शक्त्यैवेति। ईवार्थे सादृश्ये नियमेन उपमानोपमेययोः प्रतियोगित्वानुयोगित्वाभ्यामन्वयादिति भावः। यदनन्तरम् यद्वोधकशब्दानन्तरम् । उपमानता सादृश्यप्रतियोगित्वम्। उपमानविशेषणानीति। उपमानविशेषणोपमानत्वद्योतकानी- त्यर्थः। उपमानं विशिंषन्ति उपमानत्ववैशिष्ट्चेन बोधयन्तीत्यर्थात्। नच तस्य सादृश्यप्रतियोगित्व- रूपोपमानत्वविशिष्टस्य स्ववृत्तिधर्मवत्त्वसंबन्धेनोपमेयेऽन्वयेनोपमेयेऽपि तल्लाभः नामार्थयोमदेनान्वया- १ अयं विभागः श्रत्यार्थी चति विभाग: ॥ २ इवादि्दृपयोगस्थले तुल्यादिरव्दपयोगस्थले च॥ ३ उमाने उपमेवे च॥ उपसर्जनत्वं विशेषणत्वम्॥ ५ इवादिश्द्प्रयोगस्थले आह प्रतीयनुपपस्थेति॥ ६ तुल्यादिशब्द प्रयोगस्थले आह प्रतीतानुपपत्येति॥ ७ सादृश्यस्येत्यर्थः ॥ ८ सादृश्यं भिन्नं साधर्म्य च मित्रमिति तु प्राक (५४१ पृष्ठे ११ पङौ) प्रतिपादितम् ॥ ९ इगरथे सादृश्ये इति। सादृश्यप्रयोजकताधारणवर्नसंचन्धस्येवार्थर्तेवि साधारण- धर्मसंचन्धपयोज्यत्वात्सादृश्यस्येवार्थत्वमिति भाव इति केचित्। वस्तुतस्तु इवार्थे सादृश्ये इत्यस्य इशब्दप्रतिपाये सादृश्ये इत्यर्थः । इवशब्दस्य सादृश्यप्रतिपाद्कत्वेन साटृश्यस्य इवशब्दप्रतिपाद्यत्वम्। मूले (५४७ पृष्ठे २ पङौ) तुऱ्यादिशब्द्रानां सादृश्यवद्वाचकत्वेऽवि साधारणधर्मसंबन्धरूपाया उपमाया आर्थत्वेनोपमाप्रतिपाद्कत्वमिवेहेवशवदुस्य साधारणधर्मसंचन्धवाचकत्वेवि उपमानोपमेययोर्मिथःसंचन्धूवपस्य सादृश्यस्य आर्थत्वेन सादृश्यप्रतिपादकत्वमिति चोध्यम्। इवादिशब्दप्रयोगस्थले सादृश्यस्य आर्थत्वादेव मञ्जषार्यां धातर्थनिपातार्थवादे (१४ पत्रे) नागो जीमट्टै- रुक्तम् "इवादियोगे संधारणधर्मसंबन्धरूपोपमा वाच्या सादृश्यप्रतीतिस्वार्थी" इति। एवं च " यथाादृश्य" (२।१।७) इति पाणिनिसूत्रे सादृश्यपद्म र्थिकसादृश्यार्थकमेवोते नेवशबद्रसमानार्थकस्य यथाशब्दस्य सादृश्या- थंकत्वं विरुध्यले इति बहुश्रुता विद्रांकुर्वन्तु॥

Page 615

५५६ काव्यप्रकाश: सटीकः।

व्युत्पत्तेः । एवं च शक्त्योभयत्र साधारणधर्मसंबन्धाप्रतीत्या नायं श्रत्यार्थीविभाग उचित इति भावः । शब्दशक्तीति। स्वसदशे उपमानवाचकपद्लक्षणायामिवस्य तात्पर्यग्राहकत्वेन तस्याभेदेन नामार्थी- न्वयस्वीकारादित्याशयः । यथातथाशब्दयोगे तु पश्चाज्जायमानसादृश्यविषयकबोधमादायेदं बोध्यम् यद्ध- दृष्टान्तमाह षष्ठचामिति। तदेवोपपादयति षष्ठी हीति। यदनन्तरमित्यनेनोपसर्जनसंबन्धित्वं बोध- यति। उपसर्जनत्वं स्वार्थसंबन्धे प्रतियोगित्वेनान्वयित्वम्। उपसर्जनविशेषणत्वेऽपि उपसर्जननिष्ठ- विशेषणतानिरूपितविशेष्यताश्रयत्वेऽपि। यद्वा यथा प्राचीनमते प्रकारीभूतविभक्त्यर्थसंबन्धेन नामार्थ- योर्मदेनान्वयः 'चैत्रस्य धनम्' इत्यादौ स्वामिचैत्रीयं धनमिति बोधात् तथा प्रकारीभूतनिपातार्थसंबन्धेन नामार्थयोर्भेदेनान्वय इति 'चन्द्र इव मुखम्' इत्यादौ सदशचन्द्रीयं मुखमिति धीरिति प्राचीनमतेनायं ग्रन्थः। श्रौतात्वं सादृश्यप्रतियोगित्वरूपस्योपमानत्वस्येवेन बोधनादिति बोध्यम्। परं त्वत्र पक्षे षष्ठचा एव विशिष्य दृष्टान्तत्वेनोपादाने बीजं चिन्त्यम्। नन्वेवं तुल्यादिपदैरपि 'चन्द्रेण तुल्यम्' इत्यादौ तृतीयार्थान्वयद्वारा अ्त्यैवोपमानत्वोपमेयत्वयोबोधात् श्रौती स्यादित्यत आह तस्मादिति। प्रतीत्यनुपपतत्येति। अयं भावः । सादृश्यप्रयोजकसाधारणधर्मसंबन्धो हपमा। साहश्यं चातिरिक्तः पदार्थः। धर्मविशेषश्र क्वचिदुपात्तः क्वचिदाक्षिप् इत्यन्यत्। यथादयश्र तत्प्रयोजकधर्मविशेषसंबन्धे एव शक्ता: न तुल्यादयः ते हि सदृशमात्रवाचका इति। उपमेये इति। समानविभक्त्यन्तपदोप स्थाप्यत्वादिति भावः। उपमाने इति। तत्त्रादेवेति भावः। एवं च सादृश्यादिपदयोगेऽप्यार्थ्येव। अपरे तु तत्तत्साधारणधर्मसंबन्ध उपमा। उपमानत्वं च साधारणधर्मवत्त्वेनेवदितरपरिच्छेदकत्वम् । तद्दर्मवत्तया परिच्छेद्यत्वं चोपमेयत्वमिति 'उपमानानि०' इति सूत्रे भाष्ये स्पष्टम्। उपमानविशेष- णानि ते इति। उपमाननिष्ठसाधारणधर्मबोधकानीत्यर्थः। एवमुपतानत्वमपवाय्यर्थः। यदोपमान- विशेषणोपमानत्वद्योतकास्ते इत्यर्थः। उपमाने तत्संबन्धमिति। उपमानत्वस्वरूपस्य साधारण- धर्मघटितत्वात्तत्र तत्संबन्धबोधोऽस्त्वित्यर्थः। षी हीति। सा हि 'राज्ञः पुरुषः' इत्यादौ स्वस्त्रा मिभावसंबन्धबोधिका प्रकृत्यर्थस्य विशेषणत्वबोधिका च। सा च विशेषणस्येतरविशेषणत्वार्थ संब- न्धस्याकाङ्कणात्तत्तिष्ठविशेषणत्वस्य तन्निष्ठस्वामित्वस्य बोधकत्वेऽपि पश्चात्प्रधाने पुरुषे संबन्धस्य द्विष्ठतःस्त्रभावत्वात्संबन्धघटकं स्व्त्वं बोधयति। यदनन्तरसुपात्तेति । राज्ञ इत्यतश्र राजस्वामि- कमिति बोधः। पुरुषपदेन च तद्विशेषसमर्पणमिति 'षष्ठी शेषे' इति सूत्रे भाष्ये स्पष्टम्। एवमि- वादिभिः स्वसमभिव्याहृतचन्द्रादावुपमानत्वं तननिर्वाहकआह्वादकत्वादिसाधारणधर्मसंबन्धश्र बोध्यते। तमपि बोधयतीति भावः । एवं च 'चन्द्र इव मुखमाह्वादकम्' इत्यत्र अभेदान्वययोग्यता बोध्येत्य- धिकं मञ्जूषायां द्रष्टव्यम्। धर्मविशेषसंबन्ध एवेति। अस्य शक्त्या स्वसामर्थ्येन बोधनं तद- न्वयतात्पर्यग्राहकतया बोध्यम् । तत्कृतोपमानत्वस्य तु द्योतका इति बोध्यम्। तुल्यादिशब्दा- स्त्विति। ते च सदृशवाचकाः। सादृश्यं च साधारणधर्मप्रयोज्यो धर्मविशेष इत्याहुः। न चेदृश- श्रौत्यार्थीविवेको विफलः आ्थ्यामुपमानोपमेयनिर्णयविलम्बेनास्वाद्विलम्बः तदभावः श्रौत्यामिति तत्साफल्यादिति बोध्यम्। संबन्धत्येति। स संबन्ध एवेवार्थः । अनुपादेयमिति। धर्मिबोधेऽपि यावदप्राप्तं तावद्विघीयते इति सादृश्यस्यैव विधेयत्वादित्यपि बोध्यम्) इत्युद्योतः । १ चन्द्र इवेति। एतदनन्तरस्थो ग्रन्थः प्राकू (५८६ पृष्ठे ३० पङ्मौ) प्रदुर्शित इति तत्रैव द्रष्टव्यः॥

Page 616

दशम उल्लासः। ५५७

"इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रककृतिस्वरत्वं च" इति नित्यसमासे इवशब्दयोंगे समासगा। क्रमेणोदाहरणम् स्वप्ेऽपि समरेषु त्वां विजयश्रीर्न मुश्चति। प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥ ३९२॥

समासगां श्रौतीमाह इवेनेत्यादि । इतीति । "सुपो धातुप्रातिपदिकयोः" (२।४।७१) इति पाणिनिसूत्रे वैयाकरणसिद्धान्तकौमुद्यां "सह सुपा" (२१४) इति पाणिनिसूत्रे महाभाष्ये च स्थितेन कात्यायनकृतवा र्तिकेनेत्यर्थः। यत्त्वत्रोक्तं सारबोधिनीकारेण 'अनेन सूत्रेण' इति यच्चोक्तं महश्वरेण 'इदं पाणिनिसूत्रम्' इति तदुभयमपि भ्रान्तिमूलकमेवेति मन्तव्यम्। "सुपा" इति विभ- क्तसूत्रेणैव समासे सिद्धे कार्यान्तरविधानार्थमिदं वचनमिति कैयटे स्पष्टम् । कार्यान्तरं च विभ- क्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति बोध्यम्। इवशब्देन सह समर्थस्य सुबन्तस्य समासः विभक्ते: अलोपो लोपाभावः पूर्वपदप्रकृतिस्वरत्वं च भवतीति वार्तिकार्थः। पूर्वपदे प्रकृतिस्वरत्वमिति भावः समासाभावे यः स्वरःस एव न तु समासस्वर इति यावत्। उदाहरणं यथा 'जीमूतस्येव' इति। इदं "जीमूतस्येव भवति प्रतीकम्" इति ऋकसंहितायां पश्चमाष्टके प्रथमाध्याये एकोनविशे वर्गे तैत्तिरीयसंहितायां चतुर्ाष्टके पश्चमप्रपाठके षष्ठानुवाके च श्रूयते तथापि ऋक्संहितास्थमेवोदाहरणं न तु तैत्तिरीयसंहितास्थम् तैत्तिरायाणां मतेऽत्र समासाभावात् अत्र समासावयवस्य सुपोऽलोपविधा- नेऽपि समासादुत्पन्नस्य सोः "अव्ययादाप्सुपः" (२।४८२) इति सूत्रेण लुग्भवत्येव अनुपसर्जने तदन्तस्याप्यव्ययत्वात्। अत्र "अव्ययं विभक्ति०" (२१६) इति सूत्रेण यथार्थत्वादिप्रयुक्तोऽ- व्ययीभावसमासस्तु न "तत्र तस्येव" (५१११६) इति निर्देशात्। अस्य च समासस्य सुप्सु- प्समास इत्येव नाम। अव्ययीभावतत्पुरुषादिविशेषसंज्ञास्तु न सन्त्येव तद्धिकारेष्वपाठात्। समास- फलं तु "जीमतस्येव" इत्यादौ बह्वचानां मते समासस्वरं बाधित्वा प्रकृतिस्वरसिद्धिः 'अग्निरिव- राज:' इत्यादौ "राजाहः सखिभ्यष्टच्" (५४।९१) इतिपाणिनिसू त्रविहितसमासान्तप्रत्ययादिसिद्धि- श्रेति बोध्यम्।"व्याकरणे समासस्य वैकल्पिकत्वाङ्गीकारात् वार्तिके नित्यपद्घटितपाठाभावाच्चात्र नित्यपदप्रक्षेपोऽप्रामाणिकः" इत्युइ्योते स्पष्टम्। अत एव "जीमूतस्येव भवति प्रतीकम्" इत्यादौ तैत्तिरीयाणां पृथक्पदत्वेन पाठः। अत एव च 'अनयेनेव राज्यश्रीः इति वक्ष्यमाणे ४१० मालो- पमोदाहरणे 'भुजङ्गमस्येव मणिः सदम्भाः' इति वक्ष्यमाणे ५८१ यमकदोषोदाहरणे च 'उद्धाहुरिव वामन:' इति (१ सर्गे ३ श्लोके) 'जुगोप गोरुपधरामिवोर्वीम्' इति (२ सर्गे ३ श्लोके ) रघुकाव्ये च व्येस्तप्रयोगा: संगच्छन्ते । अत एव च रसगङ्गाधरकारोऽपि 'प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः' इत्यादौ (प्रावृषेण्यो वारिधर इत इत्येवान्वयस्य कर्तव्यत्वात्) वाक्यगत इव- शब्द इत्युदाजहारेति दिक। एवं षड्िधां पूर्णामपपाद्य तां क्रमेणोदाहरन् आदौ वाक्यगां श्रौतीमुदाहरति स्वभेऽपीति। हे १ पाठाभावच्चति। महाभाष्येदपि निःयपद्रहितपाठस्यैवसत्वाच्चेव्यपि बोःयम् ॥ २ चतुर्ष्वपि श्लोकेषु 'अनयेनेव' इत्यादौ समस्तत्वाभावादाह व्यस्तप्रयोगा इति। प्रथमे श्लोके 'अनयेन राज्यश्रीरित्र' इति द्वितीये 'भुजंगमस्य सदम्भा: मणिरिव' इति तृतीये 'उद्धाहुः वामन इव' इति चतुर्थे 'गोरूपधराम् उर्वीमिव' इत्यन्यस्य विव्रक्षितत्वादिति भावः॥ ३ उदाजहारोति। परंत्वेतेषु काव्येण्वक्रमत्वं दोषोडस्तीति प्राक (३७५ पृष्ठे २ पड़ौ) प्रतिपादितं द्रष्टव्यम्॥

Page 617

५५८ काव्यप्रकाशः सटीक:।

चकितहरिणलोललोचनाया: कुधि तरुणारुणतारहारिकान्ति। सरसिजमिदनाननं च तस्याः सममिति चेतसि संमदं विधत्ते॥ ३९३॥ राजन् स्वाधीनपतिका स्वाधीनः आकूताज्ञाकारी पतिर्यस्यास्तादशी नायिका यथा प्रभावप्रभवं प्रभा- वस्य प्रकृष्टानुरागस्य प्रभवमुत्पत्तिहेतुं कान्तं कमनीयं नायकं न मुश्चति न परित्यजति तथा विज- यश्रीः जयलक्ष्मीः प्रभावप्रभवं प्रभावस्य प्रभुत्वस्य प्रभवमुत्पत्तिहेतुम यद्वा प्रभावात्तपोविशेषात् प्रभवः उत्पत्तिर्यस्य तादृशं त्वां समरेषु संग्रामेषु (नत्वेकस्मिन्समरे ) स्वम्ेऽपि स्वम्ावस्थायामपि न मुश्चती- त्यर्थः। वैरिभिः स्वमेऽपि त्वत्कर्तृकविजयानुभवादिति भावः। एवं च स्वमोऽत वैरिणामेवोति बोध्यम्। प्रकृतनृपस्येति केचित्। विजयश्रिय इति कश्विवित्। अत्र स्वाधीनपतिकाशब्देन काचन स्त्री विव- क्षिता अथवा "सुरतातिरसैर्बद्धो यस्याः पार्श्वगतः प्रियः। सा मोदगुणसंयुक्ता भवेत्स्वाधीनभर्तृका॥" इति भरतोक्तलक्षणलक्षिता अष्टविधनायिकान्तर्गता विवक्षितेति बोध्यम्।। अत्र स्वाधीनपतिका उपमानम् विजयश्रीरुपमेया 'न मुश्चति' इत्यपरित्यागः साधरणो धर्मः यथेत्युपमाप्रतिपादकम्। न चैतेषाँ मध्ये कयोरपि समास इति वाक्यगा श्रौंती पूर्णेयमुपमेति बोध्यम्। नन्वत्र यथाशब्दस्य स्वाधीनपतिकाशब्देन सह "अव्ययं विभक्ति०" (२१६) इति पाणिनि- सूत्रेण यथार्थकत्वात्सादृश्यार्थकत्वाद्दा अव्ययीभावसमासेनावश्यं भवतव्यम् अव्ययीभावसमासस्य नित्यत्वात् स च कविना कुतो न कृत इति चेन्न। "यथासादृश्ये" (२।१।७) इति सूत्रेणासादृश्ये एव समासनियमनात्सादृश्ये समासाप्राप्तेरिति बोध्यम्। "अत्र यत्तत्पदप्रकृतिकप्रकारवाचिथालप्रत्य- यान्तयथाशब्दयोगे यद्धर्मवती स्वाधीनपतिका तद्दर्मवती विजयश्रीरिति उभयविशेष्यको बोधः । पश्चात् यत्तद्भयां धर्मस्यैक्यबोधात्साद्टश्यं फलति। राज्ञः कान्तस्य च बिम्बैप्रतिबिम्बभावः। तदा- लिङ्गितस्वम्राधिक रणकत्यागाभावोऽनुगामी साधारणधर्म इति बोध्यम्" इत्यइ्चोते स्पष्टम्॥ वाक्यगामार्थीमुदाहरति चकितेति। कस्याश्रिविन्नायिकायाः सौभाग्यं सखीं प्रत्यनेन पद्येन कयाचि- न्निवेद्यते। चकितः त्रस्तो (भीतो) यो हरिणः कुरङ्ग: तस्य लोले चञ्चले लोचने नेत्रे इव लोचने यस्या: यद्वा हरिणशब्दस्य तह्लोचने लक्षणेति 'तरुणिमनि००' इत्युदाहरणे स्फुटीभविष्यति तथा च चकि- तहरिणवत् लोले लोचने यस्यास्तथाभूतायाः तस्याः प्रकरान्तनायिकायाः कुधि क्रोधे सति तरुणो योऽरु णः सूर्यसारथस्तद्वत् तारा उद्भटा (उत्कटा) पुषा वा हारिणी मनोहरा यद्दा तरुणारुणो गाढरक्तो यः तारः शुद्धमौक्तिकं तस्य हारिणी अनुकारिणी कान्तिः शोभा यस्य ताद्ृशम् आननम् इदं हस्तस्थ सरसिजं रक्तोत्पलं च समं समानमिति हेतोः चेतसि नायकचिचे संमदं हर्ष विधत्ते कुरुते

१ स्वाधीनः ( रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्) आयत्तो भर्ता पतिर्वस्यः सेति व्युतपत्तिः ॥ २ सूत्रे 'असा- दृश्ये' इति छेदः। योग्यतावीप्सापदार्थानतिवृत्तित्ादृश्यानांत चत्वारो यथाशब्दार्थाः। तत्र "अध्यय विभक्ति०" इति सूत्रेण सादृश्यार्थकत्वाद्यथार्थकत्वाद्वा सादृश्येSसादृश्ये चार्येडव्ययीभावसनासे सिद्धडसादृश्ये एवेति नियमार्थमिदं सूत्रम्। तथा चासादृश्ये एव वर्तमानो यथाशब्दः समस्यते इति सूत्रार्थः। उदाहरणम् 'यथा हरिस्तथा हरः' इति। अत्र यथाशब्दस्य सादृश्यार्थकत्वात् हरिशब्देन सह न समासः। योग्यतादिषु त्रिष्वर्थेष तु समासो भवत्येव। तत्र योग्यतायां यथा यथाकालं वर्तते। कालस्य योग्यमित्यर्थः। वीप्तायां यथा यथोत्तर हेतुना। उत्तरमुत्तरं प्रतीत्यर्थः। पदार्थानतिवृत्तो यथा यथाशक्ति भुङ्ठे। शक्निमनतिकरम्पेत्यर्थः ॥ 3 बिम्चप्रतिचिम्चभावश्र् दृश्टन्तालंकारे निरूप- यिष्यते ॥ इदनिति सरस्िजविशेषणमेव न तुआननरिशेषणम् इदमः संनिकृष्टवाचित्वात्। आननं त्वसंनिरुष्टम् परोक्षार्थकस्य तस्या इत्यस्य निर्देशात्॥ ५सरजिजरदस्य कमलसामान्यपरत्वदपि प्रते विशेषपरत्वम् अतएव

Page 618

दशम उल्लास:। ५५९ अत्यायतैर्नियम कारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार॥३९४॥ इत्यर्थः। "प्रमद्संमदौ हर्षे" ( ३३६८) इति पाणिनिसूत्रेण संमदशब्दो हर्षे निपात्यते। "हर्षः प्रमोदामोदसंमदा:" इत्यमरः। "तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके। तारं च रजतेऽत्युच्च स्वरेऽप्यन्यवर्दारितम्"। इति विश्वः । पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे॥ अत्र सरसिजमुपमानम् आननमुपमेयम् अरुणसद्ृशकान्तिमत्वं साधारणो धर्मः समशब्द: उप- माप्रातपादकः समशब्देन सह समासाभावाद्वाक्यमिति वाक्यगा आर्थीं पूर्णेयमुपमेति बोध्यम्। अत्र सरसिजमाननं च सममित्यत्र प्रथमं सादृश्यवदभिन्नमिदं दयमिति बोधे पश्चान्मनसा व्यञ्ञनया वा परस्परनिरूपितसाधारणधर्मसंबन्धप्रतीतिरिति ध्येयमित्युद््योते स्पष्टम् ।। समासगां श्रौतीमुद्ाहरति अत्यायतैरिति। शूरस्य (तन्नामकयाद्वविशेषस्य) गोत्रापत्यं पुमान् शौरिः श्रीकृष्णः "देवकीनन्दनः शौरि: श्रीपतिः पुरुषोत्तमः" इत्यमरः । चतुर्भिः चतुःसंख्याकैः भुजै- रिव यः प्रकृतो राजा चतुर्भिरुपायैः सामदामभेदवविग्रहरूपैः सदा सर्वदा अदः एतत् भुवनं लोकं बभार पुपोष (पालयामास) इत्यन्वयः । भुजोपाययोः श्लिष्टविशेषणान्याह अत्याय- तैरित्यादि। अत्यायतैः अत्यन्तदीघैः (आजानुंलम्बिभिः)। अत्यन्तमायतैः आयतिविशिष्टैश्रव (उदर्कशुद्धिविशिष्टैश्र)। उद्धतानां दानवानां नियमकाशिमः शिक्षकैः उद्धतानां गर्ववतां नियम- कारिभ: दण्डप्रदैश्। दिव्यैः दिवि स्वर्गे भवैः (अलौकिकैः ) उत्कृष्टेश्वैव। प्रभाभिः कान्तिभिः प्रभावैश्व 'उपलक्षितैः' इति शेषः । यद्वा पक्षद्वयेऽपि प्रकर्षेण भान्तीति प्रभास्तैः प्रकृष्टशोभावद्भि- रित्यर्थः । "किपू च" (३२१६ ) इति पाणिनिसूत्रेण भातेः क्तरि क्विप्प्रत्ययः विश्वपा इतिवत् "आतो मनिन्क्कनिब्वनिपश्र" (३२१४) इति चकारात् विच्प्रत्ययो वा। केचित्तु प्रभामि: दीप्तिभिः प्रभावैश्व दिव्यैः अलौकिकैरुत्कृष्टैश्व्वेत्यन्वयमाहुः। अनपायमयैः अपायाभावप्रचरैः सदातनैः सदा सफलैश्वति भावः । लक्ष्म्याः कमलायाः संपत्तश्र विलासस्य भवनेः आधारभूतै- रित्यर्थः। लक्ष्मीविलासभवनत्वमुपायानां तत्प्रयोजकत्वादिति बोध्यम्। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक्- ६८ पृष्ठे। -अत्र भुजैरित्युपमानम् उपायरित्युपमेयम् अत्यायतत्वादि: साधारणो धर्मः इवशब्दः उपमाप्रति- पादक: भुजैरिवेत्यत्र "इवेन समासो विभक्त्यलोपः० " इति प्राक् (५५७ पृष्ठे १ पङ्कौ ) उक्त- वार्तिकेन समासपक्षे समासगा श्रौती पूर्णेयमुपमति बोध्यम। समासस्य वैकल्पिकतयैच्छिकत्वेन समा- साभावे तु वाक्यगैव। भुजैरिवोपायैरित्यत्र भुजसादृश्यप्रयोजकात्यायतत्वादियर्मवद्भिरित्यादिरेव बोधः। 'गजो वन गच्छतीव शूरः समरभूमि गच्छति' इत्यादौ करियासमभिव्याहनतेवादेरुत्प्रेक्षाद्योतकत्वमेवेति न तत्रोपमालंकार इत्युत्प्रेक्षालंकारे स्फुटीभविष्यति॥ ननु नेदमुदाहरणं समासगाया भवितुमर्हति समासे कृते 'भुजैरिव' इत्यस्यैकपदार्थतया पदार्थैक- देशे भुजे 'अत्यायतैः' इत्यादीनां विशेषणानामन्वयस्यानुपपत्तेः "पदार्थः पदार्थेनान्वेति न तु पदार्थैक- १ एकपदार्थतयेति। "समर्थः पद्विधिः" (२।१।१) इति पाणिनिसूत्रेणे कार्थीभावापन्नतयोति भावः।

Page 619

५६० काव्यप्रकाश: सटीक:।

अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुसदशः स भवानभिलषणीयः क्षितीश्वर न कस्य ॥ ३९५॥ गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजंगवत्। दुरालोकः स समरे निदाघाम्बररत्नवत् ३९६॥

देशेन" इति न्यायेनैकदेशान्वयस्य निषिद्धत्वात्। विशेषणानां भुजेऽन्वयाभावे तु अत्यायतत्वादीना धर्माणां साधारणत्वाभावेनोपमाया एवानिष्पत्तिप्रसङ्ग: स्यात्। तस्मात् 'स्वमेऽपि समरेषु त्वाम्०' इति- वदिदमपि वाक्यगाया एवोदाहरणमिति चेत् अत्रोच्यते। पदार्थैकदेशे भुजे विशेषणानामन्वयस्य शाब्दस्याभावेऽप्याथिकस्य सत्त्वेनादोषत्वम्। यतः उपमेये एव शाब्दो विशेषणानामन्वयः उपमाने तु आर्थिकोऽपीति संप्रदायः । अत एव 'एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः। वाल्मीकेररहितरामलक्ष्मणानां साधर्म्य दधति गिरां महासरस्यः ॥' (४ सगे ५९ श्लो०) इति माघकाव्ये विशेषणानामन्वयस्यार्थिकस्य सत्त्वेऽप्युपमा। तस्माद्यथोक्तोदाहरणमेवैतदितीति संप्रदाय- विदः। अन्ये तु "उपमानविशेषणान्येते (इवादयः)" (५४९ पृष्ठे २ पक्कौ ) इति मूलकारो क्तसिद्धान्तरीत्या इवशब्दार्थस्य साधर्म्यस्य विशेषणतया भानात् 'भुजैखिव' इति समासात्साधर्म्य विशिष्टैर्भुजरित्यर्थबोधाद्विशेष्यभूते भुजे विशेषणानामन्वयस्य सत्त्वेन नात्र कश्विदपि शङ्काकलङ्क इत्याहुः। केचित्तु "सक्त्वाढकमापणीयानाम्" इति "किमोदनः शालीनाम्" इति समर्थसूत्रस्थम- हाभाष्यप्रयोगात्कचित्कचिदेकदेशान्वयस्याप्यङ्गीकर्तव्यतया अत्र पदार्थैकदेशे भुजेऽत्यायतत्त्वादीनां विशेषणानामन्वयस्य सुलभत्वमित्याहुः ॥ समासगामार्थामुदाहरति अवितथेति। हे क्षिरतीश्वर राजन् अवितथाः अव्यर्थाः (सफलाः) ये मनोरथपथाः (जनानां) मनोरथमार्गा: तेषां प्रथनेषु विस्तारणेषु इयं विषयसप्तमी सफलमनोरथ - विस्तारणविषये इति यावत् प्रगुणगरिमर्गीतश्रीः प्रकृष्टगुणानां गरिम्णा अतिगुरुत्वेन हेतुना गाता (लोकै:) स्तुता श्रीः संपत्तिर्यस्य तथाभूतः । अत एव सुरतरुसदृशः कल्पवृक्षतुल्यः स प्रसिद्धो भवान् कस्य पुरुषस्य न अभिलषणीयः न स्पृहणीयः अपि तु सर्वस्याप्यभिलषणीय एवेत्यर्थः । "इच्छा काड्का स्पृहेहा वृङ्गाञछा लिप्सा मनोरथः" इत्यमरः । गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ॥ अत्र सुरतरुरुपमानम् भवानित्युपमेयम् प्रगुणगरिमर्गीतश्रीत्वम् अभिलषणीयत्वं वा साधारणो धर्म: सदशशब्दः उपमाप्रतिपादकः सुरतरुसदश इति उपमानोपमाप्रतिपादकयोः समास इति समा- सगा आर्थी पूर्णेयमुपमति बोध्यम्।। प्रथमार्धेन तद्धितगां श्रौतीम् अपरार्धेन तद्धितगामार्थी चोदाहरति गाम्भीर्येति। तस्य प्रकृतस्य राज्ञ: गङ्गाभुजङ्गवत् गङ्गायाः भुजङ्ग: उपपतिः (समुद्रः) शन्तनोरेव पतित्वात् तस्येव तद्वत् गाम्भीर्यगरिमा गाम्भीर्य दुज्ञेयान्तःकरणत्वम् अतलस्पर्शित्वं च तस्य गरिमा गुरुत्वं सत्यमित्यर्थः। "भुजङ्गो विटसपयोः" इति विश्वः। स राजा समरे संग्रामे निदाघाम्बररत्नवत् निदाघो ग्रीष्म- कालस्तत्र यत् अम्बररत्नं सूर्यः तेन तुल्यस्तद्वत् निदाघकालिकसूर्यवत् दुरालोकः दुःखेनालोकयितुं शक्यः द्रष्टमशक्यः इत्यर्थः ॥ १ मूलकारोक्तसिद्धान्तरत्यिति। 'इवार्थस्योपमानविशेषणतया' इति प्राक् (५५१ पृष्ठे २० पङौ) प्रदर्शित-

Page 620

दशम उल्लास:। स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारभूः तथा जयश्रीस्त्वदासेवनेने- अत्र पूर्वारधे गङ्गाभुजंगः उपमानम् तस्येत्युपमेयम् गाम्भीर्यगरिमा साधारणो धर्मः भुजंगवदि त्यत्र "तत्र तस्येव" इति सूत्रेण षश्ठ्चन्तादिवार्थे वतिप्रत्यय इति तद्धितगा श्रौती पूर्णेयमुपमेति बोध्यम्। अत्र षष्ठ्यन्तादेव वतिप्रत्ययः नतु सप्तम्यन्तात् उपमेये षठीनिर्देशात्। "उपमानोपमे- ययोः समानविभक्तिकत्वम् " इति नियमादिति बोध्यम्। उत्तरार्धे तु निदाघाम्चररत्नमुपमानम् से इत्युपमेयम् दुरालोकत्वं साधारणो धर्मः अम्बररत्नवदित्यत्र "तेन तुल्यं क्रिया चेद्वतिः" इति सूत्रेण तृतीयान्तात्तुल्यार्थे वतिप्रत्यय इति तद्धितगा आर्थी पूर्णेयमुपमेति बोध्यम्॥ अत्राहुरुदयोतकारा: "पूर्वत्र बोध उक्तदिशा ऊह्यः । उत्तरत्र तु निदाघम्बररत्नतुल्याभिन्नो दुरालोक इति बोधः । तुल्यत्वप्रयोजकं च दुरालोकत्वमिति पश्चान्मनसा व्यञ्ञनया वा बुध्यते। स चेत्थम् उपमानदुरालोकनिदाघाम्बररत्नाभिन्नो दुरालोको राजेत्येवमिति बहवः । अत/ एवार्थीत्वम् नामार्थयोरभेदान्वयस्यैतद्विग्रहवाक्ये वप्[स्थ]निर्वाहायास्थ वतेरंपि धार्िवाचकतैवोचिता अनुशास- नस्य तथैव शक्तिग्राहकत्वाच्च। क्रिययोस्तुल्यत्वे एव "तेन तुल्यम्" इंति वतिः साधुः । अत एव 'ब्राह्मणतद्धीते इत्यत्र ब्राह्मगपदस्य तत्कतृकाध्ययने लक्षणेति महाभाष्यकृतः । एवं च 'चन्द्रव- न्मुखम्' इत्यादौ भवतिक्रियामध्याहृत्य चन्द्रभवनसदृशं मुखभवनमित्येव वाच्योऽर्थः। चन्द्रमुखयोः सादृश्यं तु व्यञ्जनयैवेति बोध्यम्। गङ्गभुजंगवदित्यत्र गङ्गाभुजंगपदस्य तत्संबन्धिगाम्भीर्यगरिमल- क्षकत्वेन गङ्गाभुजंगसंबन्धिगाम्भीर्यसदृशमेतत्संबन्धिगाम्भयिमिति बोधः। तदनन्तरं गाम्भीर्ययो साद- श्यमूलकाभेदाध्यवसायेनाभिन्नधर्ममूला पश्रात्. गङ्गाभुजंगराज्ञारुपमाप्रतातिः। गङ्गाभुजंगस्येवास्य गाम्भयिगरिमेत्यादिवाक्ये षष्ठ्चपपत्तये गाम्भीरयगरिमेत्यस्य आवृत्त्या गङ्गाभुजंगेऽप्यन्वयेन तादृशबो- धस्यैवानुभवन वृत्तावपि तथैवौचित्यात्। एवम् 'अरविन्दतुल्यो भाति' इत्यस्यारविन्दतुल्यकर्तृकं भानमिति वाच्योऽर्थः । भानमेव च साधारणो धर्मः । एव चोपमाविधेयिका धीः। यदा तु धर्मा- न्तरेण तुल्यत्वं तदोपमाया उद्देश्यतावच्छेदकत्वम्" इति॥ ननु 'गुणालंक रयुक्तमव्यङ्ग्यं चित्रम्' इति प्रथमोल्लासे (२२ पृष्ठे ) उक्तम् अलंकारस्थले च सत्यपि तद्वैचित्रये व्यङ्गयस्यानुभवसिद्धतया ध्वनिगुणीभूतव्यङ्गयान्यतरत्वसंभवे कथं चित्रत्वमित्या- शङ्कते स्वाधीनेत्यादिना 'अलंकारः' इत्यन्तेन। अथवा ननु षष्ठोल्वासे (२६१ पृष्ठे ३ पङ्गौ) 'अत्र च शब्दार्थालंकारभेदात् बहवो भेदाः' इत्यभिहितम् तञ्चाभिधानं तदैवावितथं स्यात् यद्यलं- कारप्रभेदेषु विद्यमानेषु चित्रकाव्यत्वस्य संभवः स्यात् स एव न उपमादीनामर्थालंकाराणां व्यङ्गच- स्वरूपतया तत्सद्भावे ( तादृशव्यङ्गचस्य प्राधान्ये ) ध्वनित्वस्थ (अप्राधान्ये) गुणीभूतव्यङ्ग्य- त्वस्य वा संभवेन अव्यङ्गयत्वरूपस्य चित्रकाव्यत्वस्य दुरुपपादत्वात्। तथाहि। स्वमेऽपीत्यादावु- दाहरणे 'स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारविषयः तथा जयश्रीस्त्वदासेवनेन' इत्यादिव्यङ्गयरूपैवोपमा वाच्यार्थस्य उत्कर्षाधायकतया अलंकारः तया विना वैचित्रयान्तरस्यास्त्वा- दिति उक्तोपमाद्यर्थालंकारसत्त्वे न चित्रकाव्यस्य संभव इति पूर्वाभिधानेनात्रोपमालंकाराभिधानं विरुद्धमिति पूर्वपक्षयति स्वाधीनेत्यादि। भजमाना आसेवमाना लोकोत्तरचमत्कारभूः अलौ- १ इदं सूत्रं प्राक (५५१ पृष्ठे १७ पङ्मौ ) व्याख्यातम् ॥ २ अयं नियमः प्राक् (५४६ पृष्ठे ३१ पङ्गौ) निरूपितः ॥ ३ इदमपि सूत्रं प्राक् (५५४ पृष्ठ 3 पङ्गौ) व्याख्यातम् ॥४ अनुशास्नस्योति॥ "तेन तुल्यम्" इतिपाणिनिसूत्रस्येत्यर्थ: !! ७१

Page 621

५६२ काव्यप्रकाशः सटीक: । त्यादिना प्रतीयमानेन विना यद्यपि नोक्तेवैचित्र्यम वैचित्रयं चालंकार: तथापि न ध्वनिगुणीभूतव्य- ङ्गनयव्यवहारः। न खलु व्यङ्गयसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः अपितु वाच्यवैचित्र्य प्रतिभासादेव। रसादिस्तु व्यङ्गचोरऽर्थोऽलंकारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलंकारा उदाहताः। तद्र हितत्वेन तु उदाहनियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम्॥ किकचमत्कारविषयः । प्रतीयमानेन व्यङ्गचेन वस्तुरूपव्यङ्ग्चेनेत्यर्थः। जयश्रियस्त्वदासेवनेन चमत्कारित्वमित्यर्थरूपेणेति यावत्। यथातथेत्यंशस्तु वाच्यकोटिगत एवानूदित इति प्रभायां स्पष्टम्। उक्तेरिति। काव्यस्येत्यर्थः काव्यवाच्यार्थस्यति यावत्। वैचित्र्यं चमत्कारित्वम् उत्कर्षाधायक- वैलक्षण्यं वा चमत्कारानुगुण्यं वा। उक्तां शङ्गां परिहरन् सिद्धान्तयति तथापीति। न ध्वनि- गुणीभूतेति । नोत्तमकाव्यमध्यमकाव्यव्यवहार इत्यर्थः । तत्र हेतुमाह न खल्वित्यादि। व्यङ्गच- संस्पशेति । व्यङ्गचस्य स्वाधीनपतिकेत्याद्युक्तस्य संस्पर्शः संबन्धस्तस्य परामर्शात् अनुसंधानादि- त्यर्थः । अत्र उपमाद्यलंकारस्थले अलंकारवति काव्ये इति यावत्। चारुताप्रतीतिः उत्कर्षप्रतिपत्तिः । अपि तु किं तु। वाच्येति। वाच्यम् इवादिशब्दवाच्यं यत् वैचित्र्यमुपमावौचित्रयं तस्य प्रतिभा- सादेव परामर्शादेव अनुसंधानादेवेत्यर्थः । इदमत्र सिद्धान्तपर्यवसानम्। अत्र वैचित्र्यान्तरस्यासत्व- मेवासत् वाच्यस्यैवोपमावैचित्रयस्य सत्त्वात् तच्च श्रतिमात्रेण प्रतीतं सत् वक्तव्यमर्थ सातिशयमु- त्कर्षयत् प्रथमत एवालंकारपदवीमधिकरोति उक्तव्यङ्गचरूपं वैचित्र्यम् अनुसंधानसाधितं भवदाप पश्च्ात्प्रतीततया अलंकारवैचित्रयप्रतीतिव्यवहितप्रतीतिकत्वेनास्फुटतया च सदप्यकिंचित्करमेवेति न ध्वनिगुणीभूतव्यङ्गयव्यवहारप्रयोजकम् "अव्यङ्ग्यं त्ववर स्मृतम्" इत्यत्र (२२ पृष्ठे) अव्यङ्गयपदं तु स्फुट प्रतीयमानव्यङ्गचरहितम् । एवं चोपमाद्यलंकाराणां वाच्यस्वरूपतया तत्सद्भावे चित्रकाव्यत्वं नासंभवीति न पूर्वाभिधानेनात्रोपमालंकाराभिधानं विरुद्धमिति।। ननु तथापि पूर्वापरविरुद्धाभिधानद्वयमस्ति। तथाहि। "ते चालंकारनिर्णये निर्णेष्यन्ते" इत्य- नेन यान्येवालंकारोदाहरणतया उपन्यस्तानि तान्येन चित्रकाव्यस्योदाहरणतयावगन्तव्यानीत्यभि- हितं पष्ठोल्वासे (२६१ पृष्ठे) अत्र तु यानि 'स्वमेऽि' इत्यादानि उपमोदाहरणतयाभिहितानि त.न्येतानि चित्रकाव्योदाहरणानि भवितुं नार्हन्ति एषु राजविषयकभावादिरूपस्य व्यङ्ग्चस्य सत्वे- नाव्यङग्यत्वलक्षणस्य चित्रकाव्यत्वस्यसंभवादित्यकं पूर्वापरविरुद्धाभिधानम्। तथा अलंकारद्वयस्य एकत्रोपनिपाते "सैषा संसृष्टिरतेषां भेदेन यदिह स्थितिः । अविश्रान्तिजुषामात्मन्यङ्गाद्गित्वं तु संकर: ॥" इत्यनेन संसृष्टिसंकररूपं स्वतन्त्रमलंकारद्यं वक्ष्यते तदनुसारेण 'स्वमेऽपि०' इत्यादौ प्रभावप्रभवेत्याद्यनुप्रासस्यापि सत्त्वेन उपमानुप्रासयोः संसृष्टिसंकरयोरन्यतर एवास्तु अलंकारो न तूपमेति अस्योपमोदाहरणत्वाभिधानमसंगतमित्यपरं पूर्वापरविरुद्धाभिधानमिति पूर्वपक्षमंशतोऽङ्गी- कृत्य समाधानमाह रसािरिति। 'रसादिरूपस्तु व्यङ्गयोऽर्थः' इति क्रचित्सुगमः पाठः । आदिना भावादिपरिग्रहः। अव्यभिचारि नियतावस्थितिकम् । इति हेतोः। अगणयित्वा ( अनाव- कयकतया ) अनालोच्य तत्रौदासीन्यमवलम्ब्योति यावत्। तदलंकाराः काव्यालंकाराः। यद्दा तदिति भिन्नं पदम् अव्यभचारीत हेतोः तत् अगणयित्वा अलंकाराः उपमादयः उदाहृता इत्यर्थः ॥

Page 622

दशम उल्लास:। ५६३

अयमत्र समाधानाशयः । इहालंकारस्यैव प्रकृततया तस्यैव विवेचनमपेक्षितम् रसादिरूपस्तु व्यङ्गयोऽर्थोऽन्ततोऽलंकारद्वयं च सर्वस्मिन्नेव काव्ये संभवति तत्र स्वमेऽपीत्यादौ राजविषयकभावादेर्यदि स्फुटत्वमङ्गीकरोषि तदा ध्वनित्वम् गुणीभूतव्यङ्गयत्वं वास्तु अथास्फुटत्वं चेत् तदा चित्रत्वमस्तु "अव्यङ्गयं त्ववरं स्मृतम्" इति चित्रकाव्यलक्षणे अव्यङ्ग्यपदस्यास्फुटव्यङ्गयपरत्वादिति। एतद्विवे- चनमत्राप्रकृततया उपेक्ष्य प्रस्तुताः काव्यालंकारभताः उपमादयः केवलं प्रदर्शिताः न तु चित्र- काव्यभेदा अपीति। "ते चालंकारनिर्णये निर्णेष्यन्ते" इत्यनेन तु नैवमभिहितम् 'यान्येवालंकारो- दाहरणानि तान्येव चित्रकाव्यप्रभेदोदाहरणानि" इति किंतु यदेवालंकारनिरूपणम् तदेव चित्रकाव्य- प्रभेदनिरूपणमित्येवोक्तम् । अत एव 'निर्णेष्यन्ते' इत्युक्तम् न तु 'उदाहरिष्यन्ते' इति। अलंकारप्रभेदे हि निरूपिते चित्रकाव्यप्रभेदनिरूपणाय नापरं किंचिदपेक्षितं स्यात्। तथाहि। अनुप्रासचित्र- मुपमाचित्रमित्येवमादयश्र्वित्रकाव्यप्रभेदा: स्वनिरूपणाय केवलमनुप्रासोपमादिनिरूपणमेवापेक्षन्ते इतरांशस्य विज्ञातत्वात् ततश्र स्वमेऽपीत्यादौ चित्रकाव्यत्वाभावेऽपि न प्राथमिकं पूर्वापरविरुद्धा- भिधानमिति। एवं न द्वितीयमपि। तथाहि। सत्यामेवोपमायां तया सहापरस्य संसृष्टिः संकरो वा संभवतीति शुद्धोपमास्थल इव संसृष्ट्यादिस्थलेऽपि उपमासत्त्वमावश्यकमेव। इयांस्तु विशेषः । चमत्कारितायां यद्यलंकारान्तरस्य उपमाया तुल्यकक्षत्वादि तदा संसृष्टा संकीर्णा वा उपमा भवति तुल्यकक्षत्वादि नो चेत् शद्धैवोपमा भवतीति। एतद्विवेचनं तु अत्राप्रकृततया उपेक्ष्य प्रकृतत्वात् काव्यालंकारभूता उपभैव केवलं प्रदर्शितेति । ततश्र स्वमेऽपीत्यादौ अनुप्रासस्य यद्यपमातुल्य- कक्षत्वमङ्गीकरोषि तदाङ्गीक्रियतां नाम संसृष्टा संकीर्णा वा उपमा। अथातुल्यकक्षत्वम् तदा शुद्धै- वोपमेति न पूर्वापरविरुद्धाभिधानमिति। वस्तुतस्तु अत्रोपमाकृतचमत्कारेण सातिशयेनानुप्रासकृत- चमत्कारस्य तिरोधानात् शुद्धोपमैवारंकार इत्यलमधिकेनेति विवरणे स्पष्टम्।। ननु चित्रकाव्योदाहरणयोग्यतया रसादिरहितान्येव 'चन्द्रधवलः पटः' इत्यादीनि उपमोदाहर- णानि किमिति नोपन्यस्तानीत्यत आह तद्रहितत्वेनेति। रसादिरहितत्वेनेत्यर्थः । उदाह्वियमाणाः उदाहरणत्वेन प्रदश्यमानाः। विरसतां निरास्वाद्यताम्। आवहन्तीति। अयं भावः। 'चन्द्रधवलः पटः' इत्यादिवाक्यस्याकाव्यत्वेन तस्या अप्युपमालंकारत्वाभावः वाचकवाच्योपस्कारद्वारा रसादयुप- कारकस्यैवालंकारत्वात् नीरसे हि स्वैचित्रयेणापाततश्रमत्कारमात्रम् न त्वलंकारत्वमिति। तदुक्तम् "रसध्वनिर्न यत्रास्ति तत्र वन्ध्यं विभूषणम्। मृताया मृगशावाक्ष्याः किं फलं हारसंपदा ॥" इति। उक्तं च ध्वन्यालोके द्वितीयोद्योते आनन्दवर्धननापि "रसभावादितात्पर्यमाश्रित्य विनिवेशनम्। अलंकृतीनां सैर्वासामलंकारत्वसाधकम् ॥ ६ ॥ ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः । ॐपमादिरलंकारवर्ग एति यथार्थताम्। २१॥" इति। अत एव 'गौरिव गवयः' इत्यत्रोपमायाः 'नूनं स्थाणुनानेन भाव्यम्' इत्यत्रोत्प्रेक्षायाः 'लोष्टः पाषाणः' इत्यत्र रूपकस्य 'स्थाणर्वा पुरुषो व ' इत्यत्र ससंदेहस्य 'नेदं रजतम्' इत्यत्रापहुतेः 'दण्डेन घटः' इत्यत्र काव्यालङ्गस्य 'जनो गव्छति जनेन गम्यते' इत्यत्र पर्यायोक्तस्य 'गौरयम्' इत्यत्रातिशयोक्तेः 'अद्रिरग्निमान् धूमात्' इत्यंत्रानुमानस्य "आयन्तौ ट्वितौ" इति पाणिनिसूत्रे यथासंख्यस्य 'पुत्रेण सहागतः पिता' इत्यत्र

१ सर्वांसाम् अमादीनाम् ॥ २ सावनमित्यपि पाठः ॥ ३ रूपकादिरलंकारवा इत्यपि पाठान्तरम् ॥४ यथार्थतामिति। चारुत्वहेतुतामित्यर्थः ।

Page 623

५६४ काव्यप्रकाशः सष्टीक: ।

(सू०१२८) तद्वत् धर्मस्य लोपे स्यात् न भरौती तद्धिते पुनः । धर्मः साधारणः । तद्िते कल्पवादौ त्वार्थ्येव। तेन पश्च। उदाहरणम् सहोक्तेः रङ्गे रजतमिदमिति बुद्धौ भ्रान्तिमतश् विद्यमानत्वेऽपि नालंकारत्वम् । पूर्वापरेति । पूर्वम् "अव्यङ्गयं चित्रम्" इत्युक्तम् इदानीं तु सव्यङ्गच्मुदाहृतमित्येवमादि परस्परविरुद्धाभिधान- मित्यर्थः । न चोदनीयं न शङ्कनीयम् ॥ एवं षडिधां पूर्णी निरूप्य इदानीमिकोनविशतिविधां लुपां निरूपयन् आदौ पञ्चविधां धर्मलुप्तामाह तदूदिति। अत्राहुः प्रदीपकाराः "अथ लुप्ता विभजनीया। सा च सप्धा। तत्रैकस्य लोपे त्रिधा उपमानस्य साधारणधर्मस्य द्योतकस्य च लोपात् उपमेयमात्रस्य लोपादर्शनात्। द्विलोपेऽपि त्रिधा धर्मवाद्योरधर्मोपमानयोर्वाद्यपमेययोश्र लोपात् अन्यस्य द्विकस्य लोपासंभवात्। त्रिलोपे त्वियमेका उप- मेयं विनान्येषामेकैकमात्रसत्वे उपमाया असंभवादिति दर्शयन्नेव यथासंभवं तासां सप्तविधानामपि विभागमाह तद्वदित्यादि" इति। धर्मस्य साधारणधर्मस्य लोपेऽनुपादाने सति तद्वत् पूर्णवत् वाक्यादिगेत्यर्थः वाक्ये समासे तद्धिते च श्रौत्यार्थी च स्यादिति भावः । षडिधत्वं वारयति न श्रौतीति। पुनःशब्दस्त्वर्थे तद्धिते तु श्रौती नेत्यर्थः इवार्थविहितवतिरूपे एव हि तद्धिते श्रौती भवेत् स च वतिप्रत्ययः "तत्र तस्येव" इति पाणिनिसूत्रेण षष्ठीसप्तम्यन्तादेवोपमानपदात् विहित- तया साधारणधर्मे एव स्वार्थान्वयबोधं जनयन् नियतमेव साधारणधर्मसाकाङ्ग इति साधारणधर्जो- पादानं विना ताद्शस्य तद्धितस्यासंभवान्न तत्कृत उपमाभेद इति भावः ॥ ननु चन्द्रत्वमुखत्वादिधर्मप्रतीतेर्न धर्मलोप इत्यतो धर्मपदार्थमाह धर्मः साधारण इति। तुल्यार्थ- वतिर्हि "तन तुल्यं क्रिया चेद्वतिः" इति पाणिनिसूत्रेण विहित इति तदर्थस्य साधारणरूपायां तुल्य- क्रियायामेव पर्यवसानात् साधारणधर्मोंपादानं बिना नैव तुल्यार्थवतेः संभव इति तद्धितान्तरे दर्शयति कल्पवादाविति। कल्पप्प्रत्ययादावित्यर्थः । आदिशब्देन देश्यदेशीयरबहुचो ग्राह्याः। तुशब्दस्तु- ल्यार्थतावसंभवबोधनाय। अधिकमुदाहरणे स्फुटीभविष्यति। आर्थ्येवेति। न श्रौतीति भावः । पश्चेति। वाक्यगा समासगेति द्विविधा श्रौती वाक्यसमासतद्धितगेति त्रिविधा आर्थीति मिलित्वा धर्मलोंपे लुप्तोपमा पञ्चविधेत्यर्थः॥ व्याख्यातमिदं प्रदीपो््योतप्रभासु। "धर्मस्य साधारणस्य। तद्त् समासे वाक्ये तद्धिते च श्रती आर्थी चेत्यर्थः। तत्र विशेषमाह न श्रौती तद्धिते इति। इवार्थे एव हि तद्धिते सा श्रौती भवेत् इवार्थश्र वतिरेव स च 'तत्र तस्येव' इत्यर्थकतया नित्यं धर्मसाकाङ्ड इति धर्मानुपादाने श्रौती तद्धिते न भवत्येव आर्थी तु यद्पि वतिरूपे तद्धिते न संभवति 'तेन तुल्यं०' इत्यर्थे उक्तन्यायेन नित्यं तुल्यक्रियाकाङ्कत्वन धर्मलोपे तदसंभवात् तथापि कल्पप्देश्यदेशीयरबहुचूरूपे संभवत्येवेति प्चधा धर्मलोपोपमेत्यर्थः" । इति प्रदीपः । (नित्यं धर्मेति। इवस्य साधारणधर्मसंबन्धे शक्ते- स्तदुंपादानं विना तदर्थचोधाभावात्। किंच षष्ठीसप्तम्यन्तात्तद्विधानेन षध्यायर्थस्य धर्मोपादानं विना- न्वयासंभवादिि भावः) इत्युद्योतः । धर्मसाकाङ्ड इति। न च 'कुशाग्रीया बुद्धिः' इत्यादौ 'इवे प्रतिकृतौ' (५३९६) इत्यधिकारविहितच्छप्रत्ययतद्धितस्य धर्मसाकाङ्कत्वाभावादिवार्थकत्वाच्च तद्धिते १ व्याख्यतमिद सूत्रं प्राक (५५१ पृष्ठे १ पडौ) ॥ २ इदमपि सूत्रं प्राक (५५४ पूष्ठे ३ पडौ) व्याख्यातम् ।

Page 624

दशम उल्लास:। ५६५

धन्यस्यानन्यसामान्य सौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥ ३९७॥ आकृष्टकरवालोऽसौ संपराये परिभ्रमन्। प्रत्यर्थिसेनया हष्टः कृतान्तेन समः प्रभु:॥३९८॥ श्रौती संभवत्येवेति वाच्यम् इवादेरिव धर्मविशषसंबन्धं विना पर्यवसानाभावस्य तत्राभावेन श्रौती- त्वाभावात्। अत एव सादृश्यपदप्रयोगेऽपि न श्रौतीत्वम् यथा 'परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु। मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु' इत्यादौ (रघुकाव्ये १ सर्गे ४० श्लोके ) इति बाध्यम् ) इति प्रभा। तत्र वाक्यगां धर्मलुप्तां श्रौतीमुदाहरति धन्यस्येति। हे चेतः अमृतं यथा पीयूषमिव (परिणाम- सुरसं संतोषजनकं वा) तस्य साधोः वच: वाक्यं सत्यं निश्वयेन करणीयं कर्तु योग्यमित्यर्थः। कीट- शस्य तस्य। समानमेव सामान्यं साधारणम् "ब्राह्मणादिषु चातुरवर्ण्यादीनामुपसंख्यानम्" इति वार्तिकेन स्वार्थे ष्यञ्र प्रत्ययः । "साधारणं तु सामान्यम्" इत्यमरः । अन्यसामान्यम् अन्यसाधारणं यन्न भवति तत् अनन्यसामान्यम् तादृशं यत् सौजन्यं सुजनत्वं तस्यात्कर्षेण आधिक्येन शालते शोभते इति तच्छाली तस्य। अत एव धन्यस्य सव्रोत्कृष्टस्यत्यर्थः । "सुकृती पुण्यवान धन्यः " इत्यमरः। उद्दयोतकारास्तु अनन्यसामान्यस्येति बहुर्वाहिरित्याहुः। अयं तदाशयः। समानयोः सदृशयोर्भावः सामान्यं सादृश्यम "गुणवचनत्राह्मणादिभ्यः कर्मणि च" (५१।१२४) इति पाणिनिसूत्रेण ब्राह्म- णादेराकृतिगणत्वाद्भावे ष्यञ् प्रत्ययः। न विद्यतेऽन्यसामान्यम् अन्यसादृश्यम (अन्यगतसौजन्यसा- दृश्यं) यस्य तथाभूतस्येति। चन्द्रिकाकारास्तु अनन्यसामान्योSसाधारण इत्युत्कर्षविशेषणमित्याहः॥ अत्रामृतवचसोरुपमानोपमेययोः परिणामसुरसत्वादिः साधारणो धर्मोतिप्रसिद्धत्वादनुपात्तः कर- णीयत्वं त्वमृते बाधितमिति न साधारणम् यथाशब्देन सह समासाभावाद्ाक्यमिति वाक्यगा धर्मलुप्ता श्रौती उपमेति बोध्यम्। उक्त च प्रदीपकारैः "अत्रामृतवचसोः परिणामसुरसत्वादि साधर्म्यम् तञ्च नोपात्तम् आक्षेपात्तु लब्धस्य संबन्धो यथाशब्देन तद्वोधं बिना अपयाप्तन श्रुत्यैव बोध्यते इति धर्म- लोपे श्रौतीयम्" इति ॥ वाक्यगां धर्मलुप्तामार्थीमुदाहरति आकृष्टेति । आकृष्टकरवालः आकृष्टखङ्ग: असौ प्रभु: राजा संपराये युद्धे परिभ्रमन् पर्यटन् (परितः संचरन् ) प्रत्यर्थिसेनया शत्रुसेनया (कर्त्या) कृतान्तेन यमेन समः तुल्यः दृष्ट इत्यर्थः। "करवालमण्डलाग्रकौलेयकासिरिष्टियः। ऋष्टिः खद्गस्तरवाररिकौ क्षेयकौ च नन्दकः ॥" इति रभसः। "कृतान्तो यमुनाभ्राता शमनो यमराड्यमः " इत्यमरः ॥ अत्र राजकृतान्तयोरुपमेयोपमानयोः क्रूरत्वं साधारणो धर्मः स चातिप्रसिद्धत्वादनुपात्तः (लुप्तः ) । आकृष्टकरवालत्वं च न साधारणो धर्मः यमस्य दण्डायुधत्वेनैव प्रसिद्धेः। अत एव "कालो दण्डधरः श्राद्धदेवो वैवस्वतोन्तकः" इत्यमरे 'दण्डधरः' इत्येवोक्तम्। दृष्टत्वं तु अतीन्द्रिये कृतान्त बाधान्न साधारणम्। समशब्दः सदशवाचकः। समशब्देन सह समासाभावाद्वाक्यमिति वाक्यगा धर्मलुप्ता आर्थीयमुपमा। अत्र क्रूरत्वरूपसाधारणधर्मस्यातिप्रसिद्धत्वान्न न्यूनपदत्वं दोषः 1 एवमग्रेऽपीति बोध्यम्। न चात्र कृतान्तेनेति तृरतायादर्शनात् "उपमानोपमेययोः समानविभक्तिकत्वम्" इति

Page 625

५६६ काव्यप्रकाश: सटीकः ।

करवालइवाचारस्तस्य वागमृतोपमा। विषकल्पं मनो वेत्सि यदि जीवास तत्सखे ॥ ३९९ ॥ (सू० १२९) उपमानानुपादाने वाक्यगाथ समासगा ॥। ८८ ॥। नियमस्य प्राक् (५४६ पृष्ठे ३१ पक्कौ ) उक्तस्य भङ्ग इति वाच्यम् "तुल्यार्थैरतुलोपमाभ्यां तृर्तीयान्यतरस्याम्" (२।३७२) इति पाणिनिसूत्रेण तुल्यार्थकशब्दयोगे षष्ठीतृतीययोर्विशेषतो विधानेन तदतिरिक्तस्थले एव तस्य नियमस्य प्रवृत्तेरिति बोध्यम्।। समासगां श्रौतीमार्थी तद्धितगामार्थी च धर्मलुप्तामुदाहरति करवालइवेति। हे सखे तस्य प्रकृ तस्य (दुष्टस्य) आचारः आचरणं करवालइव कृपाणइव। अस्तीत्यध्याहारः। एवमुत्तरवाक्यद्वयेऽ- प्यस्तीत्यध्याहारो बोध्यः। अत्रोपमानोपमेययोर्घातुकत्वं साधारणो धर्मः स च लुप्तः इवेन सह समास इति समासगा श्रौती धर्मलुप्ता ॥ तस्य वाक् वाणी अमृतेनोपमीयते या यद्ा अमृतमु पमा (उपमानं ) यस्याः सा अमृतोपमेत्यर्थः। अत्रोपमानोपमेययोर्माधुर्य साधारणो धर्मः स च लुप्तः उपनाशब्दः सदशवाचकः उपमाशब्देन सह समास इति समासगा आर्थी धर्मलुप्ता॥ तदुक्तमु- दयोंते "उपमाशब्दस्य सदृशमात्रवाचकत्वेऽपि साधारणधर्मसंबन्धे नित्यसाकाङ्कत्वाभावाच्छक्तत्वाभा- वाद्वार्थीत्वम्" इति ॥ तस्य मनः विषादीषन्नचनं विषकल्पं विषसदृशमित्यर्थः। अत्रोपमानोपमे- ययोर्नाशकत्वं साधारणो धर्मः सच लुतः विषकल्पमित्यत्र "ईषदसमातौ कल्पब्देश्यदेशीयरः" (५।३६७) इति पाणिनिसूत्रेण कल्पप्प्रत्ययः स च तद्धितसंज्ञक इति तद्धितगार्थी धर्मलुप्ता। उक्तं च प्रदीपोद्दयोतयोः "ईषद्समाप्तौ विधीयमानस्य कल्पपः सादृश्ये पर्यवसानात् विषकल्पमिति तद्धितगार्थी" इति॥ ननु 'विषवन्मनः' इत्यादौ "अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति" इति न्यायेनास्तीत्यादिक्रियारूपं साधारणधममध्याहृत्य तुल्यार्थवतेः संभवः । अत एवोद्दयोते 'दुरालोक:०' इत्युदाहरणे (५६१ पष्ठे १४ पङ़ौ ) नागोजीभट्टैरुक्तम् "चन्द्रवन्मुखमित्यादौ भवतिक्रियामध्याहृत्य चन्द्रभवनसद्दशं मुखभवनमित्येव वाच्योऽर्थः" इति। तथा च धर्मलुप्तो दाहरणं तुल्यार्थकवतिप्रत्ययेऽपि संभवतीति चेत् अत्रोच्यते। अध्याहृत्येत्यत्राध्याहारश्र आकाद्कितैकदेशपूरणम् । अध्याहतं चोपात्तमेव नतु लुप्तमिति नैव धर्मलुप्तोदाहरणं तुल्यार्थप्रत्यये संभवतीति। एवं च 'विषवन्मनः' 'चन्द्रवन्मुखम्" इत्यादावार्थी पूर्णैवोपमा नतु लुप्तोपमेति बाध्यम। तदेतत्सर्व यदि वेत्सि ज्ञास्यास तत् तर्हि जीवसि जीविष्यसीत्यर्थः । "वर्तमानसामप्ये वर्तमानवद्दा" (३३१३१) इति पाणिनिसूत्रेण भविष्यति लट्। केित्तु यदि जीवसि तत् तदा वेत्सि तत्समीपावस्थाने तव जीवनमेव दुर्लभमिति भावः इत्याहुः ॥ इति धर्मलुप्ता: पञ्च ॥ वाक्यसमासगामित्वेन द्विविधामुपमानलुप्तामाह उपमानेति। उपमानस्यानुपादाने लोपे सति वाक्यगा समासगा चेति द्विविधैवोपमा भवतीति सूत्रार्थः। उपमानवाचकपदादेव उपमाप्रतिपादकस्य वतिप्रभति तद्वितस्य विधानादुपमानानुपादाने तद्धितस्यासंभवेनात्र न तद्धितगा संभवति। नापि श्रौती इवादी नामुपमानान्विततयैव स्वार्थबोधकत्वनियमेन उपमानानुपादाने तेवामप्युपादानासंभवात् अतो वाक्यसमासयोरव तयोरप्यार्थ्येव्रेति द्विविधैवोपमानलुत्ता उपमेति भावः ॥ १. सूत्रेणेति। तुल्यार्थकः शब्दैरयोगे तृतीया वा स्यात पक्षे पष्ठीति तदर्यः। यथा तुल्यः सदृशः समो वा कण्णर। रुष्णेन वा। अत्रातुलोपमाभ्यामिति किमर्थमिति चेत् तुला उपमा वा रुष्णस्य नास्ति इत्यत्र तृतीया मा भदिति॥ २ मात्रशब्देन साधर्म्यवाचकत्वव्यवच्छेदः।। ३ सूत्रेणेति। इदं सूत्रं प्राकू (२१० पृष्ठे ) टिध्वणे व्याख्यातम् ॥

Page 626

दशम उल्लास:। ५६७

सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स।शय दीसइ अह व णिसम्मइ सरिसं अंसंसमेत्तेण॥ ४००॥ (०६०इ) उक्तमिदं प्रदीपोद्दयोतयोः। "अत्र तद्धितगा न संभवति उपमाप्रतिपादकस्य तद्धितस्य वतिकल्पबा- देरुँपमानादेव विधानेन उपमानानुपादानेऽसंभवात्। न वा श्रौती इवादीनामुपमानमात्रान्विततया तदनुपादाने तेषामप्यनुपादानात्। अतो वाक्यसमासयोरेव तयोरप्यार्थ्येवेति द्विप्रकारा लुप्तोपमानो- पमा" इति प्रदपः । (उपमानमात्रान्विततयेति। उपमानानन्तर्यनियमेनेत्यर्थः) इत्युद्योतः ॥

तत्र वाक्यगामुपमानलुप्ताम् (आर्थीम) उदाहरत सअलेति। "सकलकरणपरविश्रामश्रीवित- रणं न सरसकाव्यस्य। दृश्यतेऽथ वा निशम्यते सदृशमंशांशमात्रेण ।" इति संस्कृतम् । सर- सकाव्यस्य अंशांशमात्रेण लेशतोऽपि अपिरत्र गम्यः किंचिदंशेनापीति यावत् सदृशं तुल्यं न दृश्यते अथवा न निशम्यते न श्रूयते इत्यन्वयः । कीदृशमित्याकाङ्कायामाह सकलेति। सकलकरणानां सर्वेन्द्रियाणां यः पर: परमो विश्रामो विश्रान्तिः विषयान्तरवैमुख्यमिति यावत् तज्जन्या या श्रीः संपत्तिः तद्वितरणं तद्दात्रित्यर्थः । तथा च सरसकाव्यमेवैवंविधं नान्यदिति भावः। "करणं साधकतमं क्षेत्रगोत्रे्द्रियेष्वपि" इत्यमरः। गाथेयं मुखविपुला। लक्षणमुक्तं प्राक् १३३ पृष्ठे॥ अत्र वर्णनीयतया काव्यमुपमेयम् उपमानं तु नोपात्तम् सकलेत्यादिकं साधारणो धर्मः सद्टश- पदन सह काव्यशब्दस्य समासो न कृत इति वाक्यगा उपमानलुप्ता आर्थी उपमोते बोध्यम्। अत्र सदृशपदेन सामान्यतः उपमानोक्तावपि विशेषतः (उपमानतावच्छेदकामृतत्वादिरूपेण) उपमानं नोपात्तमित्युपमालुप्तेयम्। महेश्वरभट्टाचार्यास्तु उपमानवाचकात् यत्पदादनन्तरम् इवादेः संभवस्तदनु- पादानमेवोपमानानुपादानम् तेनात्र सदृशपदेन सामान्यतः उपमानोक्तावपि न क्षतिः सदृशशब्दादि- वाद्यप्रयोगादित्याहुः । ननु उपमानानुपादाने सादृश्यप्रतातिः कथमिति चेत् उच्यते। अत्रास्मद्दर्शनश्रव- णविषयत्वेन दुर्लभतया उत्कृष्टगुणम अस्मदगोचरं किंचिदुपमानं भविष्यतीति सादृश्यपर्यवसानादुपमा- नलुप्तेयमुपमेति। उक्तं चेदं प्रदीपोद्दयोतप्रभासु । तथाहि "अत्र विशेषतः उपमानं नोपात्तम्। चिन्त्य- मेतत्" इति प्रदीपः । (अत्र विशेषत इति। अत्रास्मद्दर्शनश्रवणाविषयत्वेन दुर्लभतयोत्कृष्टगुणमस्म- दगोचरं किंिदुपमानं भविष्यतीति सादृश्यपर्यवसानादुपमानलुप्तोपरमैवेयम्। एतेन 'असमालंकारोऽ- यमुपमातिरिक्तः' इति रत्नाकरायुक्तमपास्तम् । अत एवोपमानानुपादाने इत्युक्तम् न त्वसत्त्वे इति। वस्त्वन्तस्य विशिष्यानुपादानमात्रेणोपमानलोकव्यवहारः । एतेन 'अनन्वयोऽत्र' इत्यपास्तम् अनन्वये उपमानासत्त्वस्यैव विवक्षितत्वात्। चिन्त्यमेतदिति। तद्वीजं तु काव्यमेवात्रोपमानम् 'चन्द्रस्य सदशं मुखम्' इत्यादौ चन्द्रस्यैवोपमानतावगमात् एवं चोपमेयलोप इति वक्तुमुचितमिति। उद्धारस्तु 'काव्यस्य समम्' इत्यस्य काव्यनिष्ठसादृश्यप्रतियोगीत्यर्थः काव्यस्य वर्णनीयतयोत्कर्षयोपमेयत्वस्य विवाक्षितत्वादिति) इत्युद्दयोतः । (चिन्त्यमिति। विचार्यमित्यर्थः । अयमाशयः । अत्र हि 'न दृश्यते न वा श्रूयते' इत्युपमानासंभवकथनात्सादृश्यरूपायाः उपमायाः असंभवात् असमालंकारोऽयमुपमाति- १ उपमानादेवेनि। उपमानवाचकपदादिवेत्यर्थः ॥ २ अयं नियमः प्राक् (३७५ पृष्ठे ३१ पङ्मौ) प्रदार्शितः । ३ अत्र 'साटृश्यरुपायाः' इतीयमुक्तिः रवनैयायिकमतानुसारत्वामिमानेनैव। सादृश्यं भिन्नमुपमा च भिन्नेति मूल- कन्मम्मटसिद्वान्तविरुद्वत्वात्। स च सिद्धान्तः प्राक् (५४१ पृष्ठे १3. पङ्ौ) प्रतिपादितः । तस्मादत्र 'साधा- रणधमर्संचन्धरूपाया;' इति वक्तुमुचितम्॥

Page 627

५६८ काव्यप्रकाशः सटीक:। कव्वस्प्तेत्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे एषैव समासगा॥। (सू० १३०) वादेलोंपे समासे सा कर्माधारक्यचि क्याड़। कर्मकर्त्रोर्णमुलि वाशब्दः उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् समासन कर्मणोि- करणाच्चोत्पन्नेन क्यचा कर्तुः क्यडन कर्मकर्त्रोरुपपदयोर्णमुला च भवेत्॥ रिक्त एवेत्यलंकाररत्नाकरादावुक्तमिति उपमाभेदोदाहरणत्वमयुक्तमिति। विचार्यमाणे तूपमैवेयम् अस्मद्दर्शनायगोचरत्वेऽपि उत्कृष्टं किंचिदुपमान भविष्यतीत्युपमायामेव पर्यवसानात् अतो नालं- कारान्तरमिति) इति प्रभा। सुधासागरकारास्तु "अत्र ब्रह्मज्ञानस्योपनानत्वसंभवेऽपि असंभव वि- वक्षयोषमानानुपादानमिति बोध्यम् । अत्रोपमा व्यतिरेकस्याङ्गमिति कैश्िविदुक्तम् तन्न। अश्रुताद- ष्टत्वेनोपमानासंभवविवक्षायां ततः अधिक्यस्यासंभवात्" इत्याहुः॥ अस्यामेव गाथायां "कव्वसमम् " इति पाठे समासगा उपमानलुप्ता उपमा संभवतीत्याह कव्ब स्सेत्यत्रेति। कव्वसममिति। "काव्यसमम्" इति संस्कृतम्। काव्यस्य काव्थेन वा सममिति विग्रहः। कव्तसममिति पाठे समशब्दस्य 'सरिसम्' इत्यनेन पौनरुक्त्यं स्यादत आह सरिसमित्यत्र चेति। णूणमिति "नूनम्" इति संस्कृतम्। निश्रयेनेत्यर्थः । इति पाठे इति। एवं पाठे पौनरुक्त्यं नोति भावः। एषैव इयमेव। समासगेति। उपमानलुप्तेति भावः । " भास्करादयस्तु अत्रैव्र 'कत्वंव' 'काव्यमिव' इति पाठे यद्यपि श्रौत्यपि संभवति तथापि प्रचुरतरप्रयोगाभावेन प्राचीनैरनादृटतत्वात्सा नोक्तेत्याहुः तन्न। इवादेरुपमानपरत्वनियमेन तदनुपादाने तदसंभवस्योक्तत्वात्" इति सुधासागरे विस्तारिकायां च स्पष्टम् ॥ इत्यपमालुप्ते द्वे॥ षड़िघां वादिलुप्तामाह वाडेरिति। आदिना इवादयस्तुल्यसदृशादयश्र ग्राह्याः। वादे: उपमाप्र- तिपादकस्य लोपे अनुपादाने सति सा उपमा समासे कर्मक्याच आधारक्यचि क्याङ कर्मण्युपपदे सति णमुलि कर्त्युपपदे सति णमुलि च भवर्ताति सूत्रार्थः। वादिलोपे उपमा वाक्यगा न संभ- वति 'मुखं चन्द्रः काशते' इत्येतावन्मात्रेणोपमाया अप्रतीतेः । नापि तद्धितगा श्रौती वा संभवति वत्यादीनां तद्धितादीनाम इवादीनां च औपम्यप्रतिपादकतया तत्प्रयोगे औपम्यप्रतिपादकलोपासंभ- वात् । अत उपमाबोधकवादिलोपे उपमा समासादिगामित्वेन षड्डिधैवेति भावः। षड्डिधापीयमर्था- पत्तिगम्यत्वेनाथ्येव न श्रौतीति 'असितभुजग०' इत्युदाहरणव्याख्यानात्नसरे प्रतिपादायष्यामः। कर्मकत्रोर्णमुलीति "कर्मकत्रोर्णमुल्येतद्द्विलेपे क्विप्समासगा " इति संधिसत्त्वान्नात्र छन्दोभ- ङशङ्का कार्या ॥ सूत्रं व्याचष्टे वाशब्द इत्यादि। उपमाद्योतक इति। " उपमायां विकल्पे वा " इत्यमरात् *वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये " इति विश्वकोशाच्चेति भावः। उपमाप्रतिपादकस्य उपमा- बोधकस्य। षडिति। भेदा: भवन्तीति शेषः। षड्डिधत्वमेवोपपादयति समासनेत्यादि। ननु समास- क्यचक्यङणमुलइति चतुर्भिरुपाधिभिश्र्वतुविधत्वमेव कथं षड्डिधत्वमित्यत आह कर्मण इत्यादि। क्यच द्विधा कर्मणोऽधिकरणाच्च विधानेन तस्य द्वैविध्यात् क्याङ त्वेकैव कर्तुरेव ताद्विधानात् णमु. ल्यपि द्विधा कमीणी कर्तारे चोपपदे तद्विधानात् एवंच षड्डिघत्वमुपपन्नमिति भावः। यद्यपि क्यच क्यङणमुलां प्रत्ययानां प्रयोगे उपमा प्रतीयते तथापि चेषां यथा नोपमप्रतिपादकत्वं तथोदा-

Page 628

दशम उल्लास:। ५६९०

उदाहरणम् ततः कुमुदनाथेन कामिनीगण्डपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता।। ४०१॥ तथा असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः। पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत्॥४०२॥ हरणव्याख्यानावसरे एव प्रतिपादयिष्यामः। षण्णां मध्ये या समासगा सा द्विपदसमासगा बहुपद- समासगा चेति द्विविधेति बोध्यमिति प्रदीपादौ स्पष्टम्॥ समासगा द्विविधा द्विपद्समासगा बहुपद्समासगा चेत्युक्तम तत्र द्विपदसमासगां वादिलुप्तामुदा हरति तत इति। महाभारते द्रोणपर्वणि ( १८४ अध्याये) रात्रियुद्धे चन्द्रोदयवर्णनमिदम्। ततः तद्नन्तरं कुमुदानां कुमुदपुष्पाणां नाथेन स्वामिना। कुमुदनाथत्वं तद्विकाशित्वात्। कामिनी कामयमाना स्त्री विरहिणाति यावत्। तस्या: गण्डः कपोलः स इव पाण्डः पाण्डुवर्णस्तादृशेन। नेत्रयोरानन्देन आनन्दजनकेन चन्द्रेण (कर्त्रा) महेन्द्रस्येयं माहेन्द्री प्राची दिक् अलंकृतेत्यर्थः । चन्द्रोदयो जात इति भाव:॥ अत्र 'कामिनगिण्ड इव कामिनीगण्डवद्वा पाण्डः' इति विग्रहे "उपमानानि सामान्यवचनैः" (२।१।५५) इति पाणिनिसूत्रेण उपमानसाधारणधर्मवाचकयोरद्योः पदयोः समासे समासविधाय- कसूत्रे 'उपमानानि' इत्यादुक्तेः समासेनोपमाप्रतिपत्तौ "उक्तार्थानामप्रयोगः" इति न्यायेन इवा- द्यप्रयोग इति द्विपदसमासगा वादिलुप्तेय मु प मा ् । बहुपद्समासगां वादिलुपतामुदाहरति असितेति। अयं वीरः प्रतिकूलाः भटाः योद्धारः प्रतिभटाः शत्रवस्तेषां विक्रमस्य पराक्रमस्य दर्शने अवलोकने सति असितभुजग कृष्णसर्पः स इव (तद्वत) भीषण: (तीक्ष्णधारत्वात्) भयंकर: असिः खद्ग एव पत्रं (तदाकारत्वात्) यस्य तादृशः। रुहरुहिका रभसोत्कण्ठा तया आहित व्याप्तं यत् चित्तं मनः तेन तूर्णः त्वरितः चार: संचारो (गमनं) यस्य तादृशः । चित्रतूर्णेति पाठे रुहरुहिकया आहितः चित्रः आश्र्वर्यभूतः तूर्ण: चारो यस्य तादृश इत्यर्थः । पुलकिता (शौर्येणानन्दोदयात् ) रोमाश्चिता तनुः शरीरं यस्य सः अत एव उद्गता उल्लसिता कपोलयोः कान्तिः शोभा यस्य तादृश आसीदित्यर्थः! पुष्पिताया छन्दः। लक्षणमुक्तं प्राक् ९६ पुष्ठे । अत्रासितभुजगः उपमानम् भीषणतवं साधारणो धर्मः असिपत्रमुपमेयम् असितभुजगेत्यादावुप- मानसाधारणधर्मउपमेयपदानां त्रयाणामपि समास इति बहुपद्समासगा वादिलुप्तेयमुपमा। तथा च पूर्वोदाहरणे द्विपदसमासगा अत्र तु बहुपदसमासगेति उदाहरणयार्भेदः। यत्त पूर्वोदाहरणे "उपमा- नानि सामान्यवचनैः इति समासात् श्रौती अत्र त्वसितभुजगवद्भीषण इति मध्यमपदलोपिसमासा- दार्थीति भेदमाहुः तन्न। विनिगमनाविरहात् इत्युदयोते स्पष्टम्। उक्त्तं च सुधासागरकारेरपि "यत्तु १ द्ू पदे यम्मिन् समासे इति बहुचीहिः। एवं बहुपद्समासेत्यत्रापि॥ २ पाणिनिसूत्रेगेति। उपमानबोध कनि सुबन्तानि सामान्यवचनैः साधारणधमवाचकेः सुचन्तेः सह समस्यन्ते इति तदर्थः। यथा घन इव श्यामः घनश्याम इति॥ ३ एकतरपक्षपातिनी युक्तिविनिगमना तस्याः विरहात् अभावात् ॥ ७२

Page 629

५७० काव्यप्रकाशः सटीकः । पौरं सुतीयति जनं समरान्तरेSसावन्तःपुरीयति विचित्रचरित्रचुञचुः। नारीयते समरसीम्नि कृपाणपाणेशलोक्य तस्य चरितानि सपत्नसेना ॥ ४०३ ॥। मधुमतीकारादिभिर्व्याख्यातम् असितभुजगतुल्यभीषणोSसिरिति समासे शाकपार्थिवादित्वात्तुल्यशब्द- लोपात्समासगा आर्थी पूर्वत्र श्रौतीत्वप्रयोजकयथाशब्दादिलोपः द्वितीये त्वार्थीत्वप्रयोजकतुल्यादिशब्द- लोप इत्यदाहरणयोर्भेदः इति तत्प्रामादिकम् उभयत्रोपमानधर्मयोः समासस्य तुल्यत्वेन शाकपार्थिवा- दित्वकल्पनस्यान्याय्यत्वात्। अपि च द्योतकमादायैव श्रौतार्थविभागस्तस्य च लोपे क्व श्रौतीत्वसंभवः आर्थी त्वर्थापत्तिगम्यत्वेन सिद्धैव। किं च न खलु समासे तुल्यादिरिवादिर्वा लुप्यते कि तु समासेनै- वापमाभिधानात् 'उक्तार्थानामप्रयोगः' इति न्यायेन द्योतकं न प्रयुज्यते इति लोपव्यवहारः तत्रेवादे स्तुल्यादेरवा विनिगन्तुमशक्यत्वात्। आप च द्योतकलोपेऽपि श्रौतीत्वाङ्गीकारे भेदाधिक्यं स्यात तथा च'ऊनविंशतिर्लुप्ताभेदाः [ एकोनविशतिर्लुप्ता: ]' इति (५७९ पृष्ठे वक्ष्यमाणा)श्रीवागदेवतावतारोक्तिः (मम्मटोक्तिः) विरुध्येतेति विद्वद्भिर्विभाव्यम् " इति॥ कर्माधिकरणयोः क्यचि क्यङ्ङि च वादिलुप्तामुदाहरति पौरमिति। असौ राजा पुरे भवं पौरं नागरं जनं सुतमिवाचरति सुतीयति पुत्रवत्पालयतीत्यर्थः । अत्र "उपमानादाचारे" (३१।१०) इति पाणिनिसूत्रेण उपमानवाचकात् सुतमिति कर्मपदात् आचारेऽर्थे क्यच्प्रत्ययः। जनमित्युपमेये द्वितीयादर्शनादत्र द्वितीयान्तादेव क्यचू न तु सप्तम्यन्तात् "उपमानोपमेययोः समानविभक्तिकत्वम्" इति प्राक (५४६ पृष्ठे ३१ पङ़कौ ) उक्तनियमादिति बाध्यम्। आचारोऽत्र स्नेहपालनादिरूपः। स एवात्र साधारणो धर्मः। क्यचः आचारः सामान्योऽर्थः विशेषाचारस्तु तत्तत्पदसानिध्यात्प्रतयिते। उपमानादित्यनेन (क्य्विधायकसूत्रस्थेन) इवार्थस्य वृत्तौ प्रवेशः सूचितः। एवं क्यङ्कपोवविर्षयेऽप्यूह्यम्। एवं चोपमानभूतसुतकर्मकाचाराभिन्नः पौरजनकर्मकाचार इति बोधः। तथा चात्रोपमाप्रतिपादकस्येवादे- स्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति कर्मक्यचि वादिलुप्तेयमुपमा।क्यच्प्रत्ययस्तु नोपमाप्रतिपादकः तस्य आचारेऽर्थे विहिततया आचारमात्रार्थकत्वात् आचारस्य च समानधर्मत्वादिति बाध्यम् ।। विचित्रैरद्धुतैश्र्वरित्रैराचरणैर्वि्त्तः (प्रसिद्धः) विचित्रचरित्रचुञचुः । "तेन वित्तश्रुञचुपचणपौ" ( ५।२।२६) इति पाणिनिसूत्रेण चुञचुप्प्रत्ययः। ताद्ृशोऽसौ राजा समरस्य युद्धस्य अन्तरे मध्ये अन्तःपुरे इवाचरति अन्तपुरीयति अन्तःपुरे इव स्वच्छन्दं गच्छतीत्यर्थः । केचित्तु अन्तःपुरीयति स्त्रीमध्ये इव कीडतीत्यर्थः इत्याहुः। अत्र "उपमानादाचारे" इति पाणिनिसूत्रस्थेन "अधिकरणाच्चति वक्तव्यम् " इति वार्तिकेन उपमानवाचकात् अन्तःपुरे इत्यधिकरणपदात् आचारेऽर्थे क्यच्प्रत्ययः । १ "शाकपार्थिवादीनां सिद्धये उत्तरपद्लोपस्योपसंख्यानम्" इति कात्यायनकतेन वार्तिकेनेि भावः ॥ २ सूत्रेणेति। अत्र "धातोः कर्मणः समानकर्तृकादिच्छार्या वा" (३।१।७) इति पूर्वसूत्रात् 'कर्मणः' इति "सुप आत्मनः क्यच" (अ१८) इति पूर्वसूत्रात् सुप इति क्यजिति चानुवर्तते। उपमानात्कर्मणः सुचन्तादाचारेडर्थे क्यच् स्यादिति सूत्रार्थः । यथा पुत्रमिवाचरति पुत्रीयति छात्रम्। यथा वा विष्णुमिवाचरति विष्णूयति द्विजम् ॥ ३ वृत्तिपदार्थश्र्य १३२ सूत्र्याख्यानावसरे निष्वपयिण्यते इति तत एव द्रष्टव्यः ॥* सूत्रेगेति। तेनेति तृतीयान्तात् वित्तः (प्रसिद्ध:) इत्यर्थे चुञ्चुपचणपौ प्रन्ययौ भवतः इति सूत्रार्थः । यथा विद्यया वित्तो विद्याचुञ्चः विद्याचणः ॥ ५ वार्तिकेनेति। उपमानवाचकादधिकरणवाचिनः सुबन्तादाचारेऽर्थे क्यच् स्यादिति वार्तिकार्थः। यथा प्रासादे इवाचरति प्रासादी- यति कुर्स्यां भिक्षु: कुस्यामिवाचरति कुटौयति प्रासादे ॥

Page 630

16 दशम उल्लास: ।

समरान्तरे इत्युपमेये सप्तमीदर्शनादत्र प्रागुक्तन्यायेन सप्तम्यन्तादेव क्यच् न तु द्वितीयान्तादिति बोध्यम्। आचारोऽत्र स्वच्छन्दगमनादिः । से एवात्र साधारणो धर्मः । अत्रापि उपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेश: सूचितः। एवं चोपमानभूतान्तःपुराधिकरणकाचाराभिन्नः समरान्तराधिक- रणकाचार इति बोधः। तथा चात्रोपमाप्रतिपादकस्येवादेस्तुल्यादेर्वा प्रयोगाभावेनोपमाप्रतिपादकरय लोपः इति अधिकरणक्यचि वादिलुप्तेयमुपमा।। सपत्नसेना शत्रुसेना कृपाणपाणेः खङ्गहस्तस्य तस्य राज्ञः चरितानि चरित्राणि समरसीम्नि युद्ध- भूमौ आलोक्य अवलोक्य नारीवाचरति नारीयते स्त्रीवद्विभेतीत्यर्थः । वसन्ततिलका छन्दः। लक्ष- णमुक्तं प्राक् ६८ पृष्ठे॥ अत्र "कर्तुः क्यङ् सलोपश्र" (३१११) इति पाणिनिसूत्रेण उपमानवाचकात् नाराति कर्तृपदात् आचारेऽर्थे क्यङ् प्रत्ययः। क्यडे डित्वादात्मनेपदम्। आचारोऽत्र सकातर्यविनयादि: स एवात्र साधारणो धर्मः । सू्रेऽनुवृत्तिलब्धेनोपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेशः सूचितः। एवं चोपमानभूतनारीकर्तृकाचाराभिन्नः सपत्नसेनाकर्तृकाचार इति बोधः । तथा चात्रोषमाप्रति पादकस्येवादेस्तुल्यादेवा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति क्यडि वादिलुत्तेयमुपमा। क्यङ्र- प्रत्ययस्तु नोपमाप्रतिपादकः तस्य आचारेऽर्थे विहिततया आचारमात्रार्थकत्वात् आचारस्य च समानधर्मत्वादिति बोध्यम्।। "अत्र [सर्वत्र] सादृश्यसद्ृशैतन्मात्रबोधकाभावाद्वाचकलुप्ता बोध्या। यत्तु सुतपदस्य सुतसाद- शयलक्षकत्वेऽपि सादृश्यवाचकाभावाद्वाचकलुप्तेति तन्न। 'चन्द्रप्रतिपक्षमाननम्' इत्यादावपि वाचक- लुप्तापत्तेः' इत्युद्योते स्पष्टम्। विवरणकारास्तु "क्यचक्यङोरुपमावाचकत्वाभावेन एषु उपमाप्रति- पादकस्य लोपः। तथाहि। क्यच्क्यडो: केवल आचारस्तुल्याचारो वा सामान्यतोऽर्थः विशेषाचा- रस्तु तत्तत्पदसांनिध्यात् प्रतीयते। यथा 'पौरं जनं सुतीयति' इत्यस्य सुतकर्मकाचारतुल्यपौरजन- कर्मकाचारकर्तेत्यर्थः । 'समरान्तरेऽन्तःपुरीयति' इत्यस्य अन्तःपुराधिकरणकाचारतुल्यसमरान्तरा- धिकरणकाचारकर्तेत्यर्थः । एवं 'नारीयते' इत्यस्य नारीकर्तृकाचारतुल्याचारकर्त्रीत्यर्थः। ततश् क्यचक्यडोराचारगततुल्यताप्रतिपादकत्वमेवास्ति न तु प्रकृतोदाहरणतया विवक्षितायाः सुतादिना (उपमानेन ) पौरजनादे: (उपमेयस्य) उपमायाः प्रतिपादकत्वमिति। सा चोपमा तुल्याचारप्रती त्यनन्तरं (तुल्याचारं साधारणधर्माकृत्य) प्रतीयते" इत्याहुः। अत्र प्राश्चः "इयं श्रौती इवादीना- मिव क्यजादीनामपि सत्त्वे तत्वानपायात्" इत्याहुः तन्न रुचिरम्। इवादिसत्वे एव श्रौत्यादिचिन्तेति सिद्धान्तस्य प्राक (५७० पृष्ठे) प्रतिपादितत्वात् क्यजादीनां पाणिन्यादिवचनैराचारायर्थे विहि- ततया आचाराद्यर्थकत्वेनोपमाप्रतिपावकत्वाभावाच्चेति दिक।। १ सूत्रेणेति। अत्र सूत्रे "धातोः कर्मण:०००" इति पूर्वसूत्रात् वेति "उपमानादाचारे" इति सूत्रात् उपमाना- दिति "सुप आत्मनः क्यच्" इति सूत्रात् सुप इति चानुवर्तते। तथा च उपमानवाचकात्कर्तुः सुचन्तादाचारेडर्थे क्यङ वा स्यात् सान्तस्य तु कर्तृवाचकस्य लोपों वा स्थात् स च लोप: "अलोऽन्त्यस्य" (१।१।५२) इति सूत्रेणा- नत्यस्य सकारस्य भवतीति सूत्रार्थः । क्यङ् वेत्युक्तेः पक्षे वाक्यमपि। सान्तस्य लोपस्तु क्यडसंनियोगशिष्ट: । स च व्यवस्थितः "ओजसोडप्सरसो नित्यमितरेषां विभाषया" इति वार्तिकोक्तेः । यथा रष्ण इवाचरति रुष्णायते। सान्तस्य यथा ओज इवाचरनि ओजायते ओजःशब्दो वृत्तिविषये तद्ति वर्तते 'वक्त्रं च लालायते' इति नीति- शतके भर्तृहरिप्रयोगवत् ओजस्वीवाचरतीत्यर्थः । अप्सरायते यशायते यशस्यते ॥ २ तत्वेति। श्रौतीत्वत्यर्थः ॥

Page 631

५७२ काव्यप्रकाश: सटीकः।

की मृधे निदाघघर्माशुदर्श पश्यन्ति तं परे। स पुनः पार्थसंचारं संचरत्यवनीपतिः॥ ४०४॥ कर्मणि कर्तरि चोपपदे सति यो णमुल् तस्मिन् वादिलुप्ताम् (णमुलि भेदद्यम् ) उदाहरति मृधे इति। परे शत्रवः "परोSरिपरमात्मनोः" इति विश्वः। मृधे युद्धे। "मृधमास्कन्दनं संख्यम्" इति युद्धपर्यायेष्वमरः । तं राजानं निदाघो ग्रीष्मकाल: तत्संबन्धी यो घर्माशुः सूर्यस्तमिव दर्शन- मिति निदाघघर्माशुदर्श निदाघघर्माशुमिव पश्यन्तात्यर्थः। निदाघघ्माशुदर्शमिति मान्तम् (णमुल- न्तम्) अव्ययम् "कृन्मेजन्तः" ( १।१।३९) इति पाणिनिसूत्रेणाव्ययसंज्ञाविधानात्। अत्र "उपमाने कर्मणि च" (३४।४५) इति पाणिनिसूत्रेण उपमानवाचके निदाघर्माशुमिति कर्म. ण्युपपदे सति दृशधातोर्भावे णमुलूप्रत्ययः "तुमर्थे सेसे० ० ०" ( ३।४।९) इत्यादिपाणिनिसूत्रे महाभाष्ये दृष्टेन "अव्ययकृतो भावे" इति वचनेन णमुलो भावे एव विधानात् । 'यस्माण्णमुलुक्तः स एव धातुरनुप्रयोक्तव्यः' इत्यर्थकेन "कषादिषु यथाविध्यनुप्रयोगः" ( ३४।४६ ) इति पाणि- निसूत्रेण पश्यन्तीति दृशधातारेवानुप्रयोगः। णमुलप्रकृतिस्तु साधुत्वमात्रार्था। निदाघघर्मीशुरुपमा- नम् राजा उपमेयः पश्यन्तीति दर्शनं साधारगो धर्मः। उपमाने इत्यनेन (पाणिनिसूत्रस्थेन) डवा- र्थस्य वृत्तौ प्रवेश: सूचितः। एवं चोपमानभूतनिदाघघर्माशुकर्मकदर्शनक्रियाभिन्ना तत्कर्मिका (राज- कर्मिका) परकर्तृका दर्शनक्रियेति बोधः । एवं च कर्मणोरेवात्रोपमानोपमेयभावः। तथा चात्रोपमाप्र- तिपादकस्येवादेस्तुल्यादर्वा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति कर्मण्युपपदे णमुलि वादिलुप्ते- यमुपमा। णमल्प्रत्ययस्तु नोपमाप्रतिपादकः तस्य भावरूपेऽर्थ विहिततया भावमात्रार्थकत्वात्॥ पुनरिति त्वर्थे स अवनीपतिस्तु मृधे पार्थोरडर्जनः स इव संचरणमिति पार्थसंचारं पार्थ इव संच- रतीत्यर्थः । अत्रापि "उपमाने कर्मणि च" इति सूत्रेण चकारानुकृष्टे उपमानवाचके पार्थ इति कर्त र्यपपदे सति संपूर्वाच्चरधातोर्भावे णमुल प्रत्ययः । संचारोऽत्र साधारणो धर्मः । अन्यत्सर्व प्राग्वत् । उपमानभूतपार्थकर्तृकसंचारक्रियाभिन्ना अवनपितिकर्तृका संचारक्रियेति बोधः। एवं च कर्त्रोरवात्रो- पमानोपमेयभावः । तथा चात्रोपमाप्रतिपादकस्येवादेस्तुल्यादेरवा प्रयोगाभावेनोपमाप्रतिपादकस्य लोप इति कर्तर्युपपदे णमुलि वादिलुप्तेयमुपमा। विवरणकारास्तु "णमुल उपमावाचकत्वाभावेनात्रोपमाप्रतिपादकस्य लोपः। तथाहि। णमुलोऽपि क्रियागततुल्यत्वमर्थः 'निदाघघ्मीशुदर्श पश्यन्ति तं परे' इत्यस्य निदाघघ्मीशुकर्मकदर्शनक्रियातुल्य- तत्कर्मकदर्शनकर्तारः परे इत्येवमर्थः। 'पार्थसंचारं संचरति' इत्यस्य पार्थसंचारक्रियातुल्यसंचरण- कर्तेत्यर्थः । ततश्र णमुलः क्रियागततुल्यत्वप्रतिपादकत्वेऽपि प्रकृताया: (निदाघघमाक्ठापार्थभ्याम् उपमानाभ्याम् अवनीपतेरुपमेयस्य ) उपमायाः प्रतिपादकत्वं नास्ति उत्तरकालं तु तुल्यक्रियाप्रर्ती- तिमूला तत्प्रतीतिर्भवति" इत्याहुः ॥ इति वादिलुप्ताः षट्॥ एवं त्रयोदशविधामेकलुप्तां निरूप्य इदानीं पश्चविधां द्विलुपतां विवक्षुरादौ धर्मवादिलुप्तां द्विविधा- १ सूत्रेणेति। रुत् यो मान्तः एजन्तश्र तदन्तमव्ययसंज्ञ स्यादिति सूत्रार्थः। यथा स्मार स्मारम् जीवसे वि- बष्यै इति॥ २ सूत्रणेति। चकारात्कर्तरतत्यनुवतते। उपमानवाचके कर्माण कतरे चोपदे सति धातोर्णमुल स्यादिति सूत्रार्थः। कर्मण यथा घृतनिधायं निहितं जलम घृतमिव सुरक्षितमित्यर्थः। कर्तरि यथा अजकनाशं नष्टः अजक इव नष्ट इत्यर्थ: ॥

Page 632

दशम उल्लास:। ५७३

(सू० १३१ ) एतद्द्विलोपे क्विप्समासगा॥ ८९ ॥(६ ०) एतयोर्धर्मवाद्योः । उदाहरणम् सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि॥४०५॥ परिपन्थिमने. राज्यशतैरपि दुराक्रमः । संपरायप्रवृत्तौऽसौ राजते राजकुअ्जरः॥ ४०६॥

माह एतदिति। एतच्छब्देनात्राव्यवहितस्य 'वादे:' इत्यस्य 'व्यवहितस्य धर्मस्य' इत्यस्य च परा- मर्शः अत एव "एतयोर्धर्मवाय्योः" इति वृत्तिः संगच्छते। तथा च एतयोः धर्मवाद्योई्योलोंपे अनु- पादाने सति क्विब्गा समासगा चोपमा भवतीत्यर्थः। धर्मवाद्योलोपे वाक्यगा न संभवति शिष्टयोरुप- मानोपमेययोः 'मुखं चन्द्रः' इत्येतावन्मात्रयोरुपादाने उपमाया अनवगमात्। नापि तद्धितगा तद्धि- तस्यैव कल्पबादिरूपस्योपमाप्रतिपादकत्वेन तत्सत्त्वे द्विलोपासंभवात्। नापि श्रौती इवाद्यभावात्। अतो धर्मवाद्योलोंपे क्विबगा समासगा चेति द्विविधैवेति भावः। एतदिति व्याचष्टे एतयोरिति॥ क्विबगामुदाहरति सवितेति। मनास चित्ते सुखदुःखाभ्यां वशीकृते आक्रान्ते सति यथाक्रमं सवित्रादिकं विध्वादिरिव आचरतीत्यर्थः । तथाहि। सुखिते मनसि सविता सूर्यः विधुरिवाचरति विधवति चन्द्रसदशो भवति आह्लादकत्वादिति भावः । दुःखिते मनससि विधुरपि सवितेवाचरति सवितरति सूर्यसद्दशो भवति दु.खदत्वादिति भावः। एवमुत्तरत्रापि। तथा यामिन्यः रात्रयः दिनानी-

प्राक् ४ पृष्ठे। वाचरन्ति दिनन्ति दिनानि च यामिन्य इवाचरन्ति यामिनयन्तीत्यर्थः । आर्या छन्दः। लक्षणमुक्तं

अत्र चतुर्ष्वपि क्रियापदेषु "कर्तुः क्यङ् सलोपश्र" (३।१।११) इतिपाणिनिसूत्रमहाभाष्य- स्थेन "सर्वप्रातिपदिकेभ्यः क्विपू वा वक्तव्यः ' इति कात्यायनकृतवार्तिकेन उपमानवाचकात विध्वादिकर्तृवाचिप्रातिपदिकात् आचारेऽर्थे क्विपू प्रत्ययः । "यद्यप्याचारे क्विब्विधानात्तस्यैव च समानधर्मरूपत्वेन क्विपि धर्मलोपो नास्ति तथापि [ 'वेरपृक्तस्य' ( ६। १ । ६७) इति पाणि- निसूत्रेण ] क्विप एव लोपा्धमलोपव्यवहारः । अत एव समानार्थत्वेऽपि क्यङ् अत्र नोपात्तः तस्या- लुप्तत्वेन धर्मलोपाभावात् " इति प्रदीपे स्पष्टम्। उक्तं चोद्योतेऽपि 'यद्पि क्विप्प्रकृते; कर्तृभूतः स्वसादृश्यप्रयोजकाचारे लक्षणेति कथं धर्मलोपः तथापि तन्मात्रबोधकाभावाल्लोपव्यवहारः" इति। अत्रापि उपमानादित्यनेन (वार्तिकेऽनुवृत्तिलब्धेन) इवार्थस्य वृत्तौ प्रवेश: सूचितः । अतो धर्मवाद्योरलोपे कविबगेयमुपमा। विवरणकारास्तु क्विप्प्रत्यय एव तुल्याचाररूपसाधारणधर्मवाचकः। तस्य "वेरपृक्तस्य" इति सूत्रेण नित्यं लुप्तत्वान्धर्मलोप इत्याहुः॥ समासगामुदाहरति परिपन्थीति। संपरायो रणः "युद्धायत्योः संपरायः" इत्यमरः " संपरायः समीके स्यादापदुत्तरकालयोः " इति मेदिनी च। तन्न प्रवृत्तः परिपन्थिनां शत्रणां यानि मनोरा- १ वार्तिकेनेति। प्रातिपदिकग्रहणादिह सुप इनि न संचध्यते। अन्यत्सर्व संबध्यत एव। तथा च उपमानवाचकेभ्यः कर्तृवाचिम्यः सर्वेभ्यः प्रातिपदिकेम्य आचारेऽर्थे किप्पत्ययो विकल्पेन वक्तव्य इति वार्तिकार्थः। यथा कष्ण इवाच- रति रुण्णतति। अ इवाचरति अति अतः अन्ति॥ २ सूत्रेगेति। अत्र वेरिति इकारः उचारणार्थः। अपृक्तसंज्ञकस्य वेर्लोपर: स्यादिति सूत्रार्थः । 'एकाल (एकवर्णरूप:) प्रत्ययो यः सोडपृक्तसंज्ञः स्यात्' इत्यर्थकेन "अपृक्त एकाल प्रत्ययः" (१।२।४१) इति सूत्रेणापृक्तसंज्ञा झेया॥

Page 633

५७४ काव्यप्रकाशः सटीक:। (सू० १३२) धर्मोपमानयोलोंपे वृत्तौ वाक्ये च दृश्यते।9९ ०उ) टुण्टुण्णन्तो मरिहसि कण्टअकालआइँ केअइवणाइ।ाए मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि॥४०७॥ ए5 ज्यानि मनोरथास्तेषां शतैरपि दुराक्रम: दुष्प्रापः शत्रूणां मनोरथैरप्यजेय इत्यर्थः साक्षात् दुराक्रम एवेति किं वक्तव्यमित्यपेरर्थः । असौ राजा कुञ्जर एव राजकुञ्जरः राजते शोभते इत्यर्थः । " कुञ्जरो वारण: करी" इत्यमरः ॥ अत्र राजकुञ्जर इति "उपमितं व्याघ्रादिभिः सामान्याप्रयोंगे" (२।१।५६) इति पाणिनिसूत्रेण समासः। उपमितम् उपमेयम् तच्च प्रकृते राजेति बोध्यम्। अत्र दुराधर्षत्वस्य परसेनाविद्रावकत्वादेवा साधारणधर्मस्य प्रसिद्धत्वान्न न्यूनपदत्वं दोष:। एवं च दुराधर्षत्वादेः साधारणधर्मस्यातिप्रसिद्धतया तदनुपादानेऽपि नोपमाप्रतीतिव्याहतिः सूत्रे उपमितमित्युक्ते औपम्यस्य समासगम्यत्वात्। अतो धर्मवाद्योलोंपे समासगेयमुपमा। दुराक्रमत्वं तु न साधारणम् परिपन्थिमनोराज्यशतैरपि दुराक्रमत्व्रस्य कुञ्जरेऽभावात्। यद्यपि 'राजते' इति साधारणधर्म उपात्त एवास्ति उपात्तधर्मसत्वे तेनैव साम्यप्रतीतेरनुभवसिद्धत्वम् तथापि "उपमितं व्याघ्रादिभि:०" इति समासस्य साधारणधर्माप्रयोगे एवं प्रवृत्तिसत्त्वेन सोऽविवक्षित इति बोध्यम्। "अत्र 'राजैव कुञ्जरः' इते रूपकं तु न मनोराज्यशतैरित्यादेरनन्वयात्" इत्युइ्योते स्पष्टम् ॥ धर्मोपमानरूपद्विकलोपे समासगा वाक्यगा चेति द्विविधामाह धर्मेति । वृत्तौ समासे ननु 'परार्थाभिधानं वृत्तिः' इति वृत्तिलक्षणम्। अभिधानमिति करणे ल्युट् "सामान्ये नपुंसकम्" इति वार्तिकेन नपुंसकम्। तथा च स्वावयवार्थातिरिक्तार्थाभिधानं वृत्तिरित्यर्थः । सा च वृत्तिः पञ्चथा। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुमेदात् । तथा च वृत्तिशब्दस्य सामान्यपरस्य प्रकृते कथं समा- सरूपविशेषपरत्वमिति न शङ्कनीयम धर्मोपमानयोलोंपे समासातिरिक्तायाः वृत्तेरसंभवादिति बोध्यम्। दृश्यते इति। आर्थीति शेषः। तद्द्विते तु नेयम् उपमानलोपे तद्धितस्यैवाभात्। नापि श्रौती उपमाना- प्रयोगे इवादेरप्रयोगात्। तथा च द्विविधैव साप्यार्थ्येवेति भाव:॥ तत्र समासगामुदाहरति टुण्टुण्णन्त इति। "टुण्टुणायमानो मरिष्यसि कण्टककलितानि केत कीवनानि। मालतीकुसुमसदृक्षं भ्रमर भ्रमन् न प्राप्स्यसि।" इति संस्कृतम्। आत्मनः सौभाग्यं प्रियाय सूचयन्त्या: कस्याश्विन्ायिकायाः प्रियसंनिधौ भ्रमरं प्रत्युक्तिरियम : हे भ्रमर त्वं टुण्टुणा- यमान: टुण्टुणिति शब्दं कुर्वाण: टुण्टुणित्याकारकशब्देन प्रार्थरयन् वा कण्टकैः दुमावयवविशेषैः कलितानि युक्तानि केतकीवनानि भ्रमन् पर्यटन् सन् मरिष्यसि अपि तु मालतीकुसुमसदृक्षं जाति पुष्पसदृटशं न प्राप्स्यसीत्यर्थः । 'टुण्टुण्णन्तो' इत्यत्र 'दुण्दुल्वन्तो' इति पाठे 'दुण्दुलयमानः' इति संस्कृतम्। केतकीवनानि ढुण्ढुलायमानः अन्वेषमाणः इत्यन्वयः। "वाच्यलिङ्गा: समस्तुल्यः सदृक्षः सदशः सदक" इतयमरः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ १ सूत्रेणेति। उपमितम् उपमेयं व्याघ्रादिभि: व्याघ्रादिगणपठितैः शब्दैः सह समस्येत सामान्याप्रयोगे साधारण- धर्मस्याप्रयोगे सतीति सूत्रार्थः। यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः इति। सामान्याप्रयोगे इति किमर्थमिति चेत् 'पुरुषो व्याघ्र इव शूरः' इत्यत्र समासो मा भदितीति बोध्यम् ॥२ रूपकमिति। "मयूरव्यंसकादयश्र् "(२११। ७२) इति सूत्रेण समासे इति शेष:॥

Page 634

दशम उल्लास:। ५७५

कुसुमेण सममिति पाठे वाक्यगा।। 0/1115र (सू० १३३) क्यचि वाद्युपमेयासे आसे निरासे। अरातिविक्रमालोकविकस्वरविलोचनः। कृपाणोदग्रदोदण्ड: स सहस्रायुधीयति॥४०८॥ अत्रात्मा उपमेयः । अत्र [ वर्णनीयत्वेन ] प्रकृतत्वात् मालती उपमेया कुसुमान्तरस्याप्राप्त्युपदेशेन त्वदप्राप्यमुत्कृष्टगु- णमस्योपमानमिति प्रतीतेरस्त्युपमितिक्रियानिष्पत्तिरित्युश्योंते स्पष्टम्। उक्तं च प्रभायामपि "अत्रापि दुर्लभतयोत्कृष्टं कुसुमान्तरमप्रकृतं प्रकृतमालत्युपमानतया विवक्षितम्" इति। उक्तं च रसगङ्गाधरेऽपि "मालती कुसुमसदृशं भ्रमर भ्रमन्नपि न प्राप्त्यसत्युक्त्या 'वर्ततां नाम तत्सदशं क्वापि त्वया तु दुष्प्रा- पमेव' इति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुम्हति नासमालंकारः। अन्यथा मालतीकुसुमसदृशं नास्तात्येव बूयात् न तु 'प्राप्स्यसि' इति" इति। तथा च मालतीकुसुमस्य सदृक्षं मालतीकुसुमसदृक्षमिति समासः सौरभादिधमस्योमानस्य च लोप इति धर्मोपमानयोलोंपे समासगेयमुपमा।। अस्यामेव गाथायां 'कुसुमसरिच्छम्' इत्यत्र 'कुसुमेण समम्' इति पाठे इयमेव वाक्यगा भवती त्याह कुसुमेणेति। "कुसुमेन समम्" इति संस्कृतं बोध्यम् ।। वादुपमययोलोंपे एकविधामाह क्यचीति। विषयसप्तमीयम्। वाद्युपति। वादुपमेययोरासे इति विग्रहः। तथा च वादेरुपमाबोधकस्य उपमेयस्य च आसे निरासे लोपे अनुपादाने सति क्यचि क्यच्प्रत्ययविषये लुप्ता उपमा भवतीत्यर्थः । आसे इति। 'असु क्षेपणे' इति दैवादिकादसधातोर्भावे धञप्रत्ययः । तामुदाहरति अरातीति। अरातीनां शत्रूणां विक्रमस्य पराक्रमस्य आलोके दर्शने सति यद्ा आलोकेन दर्शनेन विकस्वरे विकसनशीले विलोचने नयने यस्य तथाभूतः। मदग्रेपि वैरिविकम इति नयनवविकास इति भावः। "आलोकौ दर्शनोइयोतौ" इति नानार्थवर्गेडमर । कृपाणेन खड्गेन उदग्र: उद्भटः भीषणो वा दोर्दण्डो दण्डसदशो बाहुर्यस्य तादृशः सवीर, सहस्रायुधीयति सहस्र- मायुधानि यस्य स सहस्रयुधः कार्तवीर्यार्जनस्तमिवात्मानमाचरतीत्यर्थः यथा तं दुर्जयं मन्यते तथा आत्मानमपीति भावः। अभिमानफलं तु निःशङ्करणप्रवेशात् प्रतिपक्षात्सारणम्। आयुधसहस्त्रनिर्वा- ह्यस्य प्रतिपक्षात्सारणस्यैकेन कृपाणेन निर्वाहान्नृपतौ वीररसप्रकर्ष इति द्रष्टव्यम्॥ अत्र 'सहस्रायुधयति' इत्यत्र "उपमानादाचारे" इति सूत्रेण (प्राक् ५७० पृष्ठे १३ पककौ उक्तेन) उपमानवाचकात् सहस्रायुधमिति कर्मपदात् आचारेऽर्थे क्यच्प्रत्ययः। आचारोऽन्र दुर्जयमा- निता। स एव साधारणो धर्मः उपमानादित्यनेन इवार्थस्य वृत्तौ प्रवेश: सूचितः । तथा च सहस्रायुध मिवात्मानमाचरतीत्यर्थात् आत्मात्रोपमेयः । एवं च वायपमेययोर्लोप इति क्य वाययुपमेयलुप्तेयमु- पमा। तदेवाह अत्रात्मा उपमेय इति। यद्प्यत्र कर्तैवोपमेयः स च 'सः' इति तच्छब्देन साक्षा- दुपात्त एव तथापि एवमत्रानुसंघेयम्। उपमानवाचकात्कर्मपदाद्धि पाणिनिसूत्रेण क्यच्प्रत्ययो विधीयत

Page 635

५७६ काव्यप्रकाश: सटीकः। (सू० १३४ ) त्रिलोपे च समासगा ॥ ९० ॥ इति द्वितीयान्तवाच्यस्यैवोपमानत्वे उपमेयत्वमपि द्वितीयान्तवाच्यस्यैवाभ्युपगन्तव्यम् "उपमानोपमे- ययो: समानविभक्तिकत्वम् " इति प्राक (५४६ पृष्ठे ३१ पक्कौ) उक्तनियमात्। तथा च कर्मत्वे- नोपमेयभूत आत्मा कर्मत्वन नोपात्त इति यथोक्तमुदाहरणमेतदिति । तदुक्तं प्रदीोद्चोतयोः। "अत्र यद्यपि साक्षादुपात्तः कर्तैवोपमेयः तथापि न तथात्वेन किंतु कर्मत्वेन अन्यथा क्यचोऽसङ्गत- त्वापत्तेः" इति। उक्तं च चन्द्रिकायामपि "अत्र कर्मत्वेनोपमेयस्यात्मनस्तत्त्वेनैवानुपादानम्" इति। किंच "अत्र सः सहस्रायुधमिव आत्मानमाचरतीति वाक्ये उपमेयस्यात्मनो लोपः" इति विश्वनाथ- कृतसाहित्यदर्पणे । (उपमेयस्यात्मन इति। कर्मक्यचो योगे कर्मण एवोपमेयत्वम् तस्याप्रयोगे तथेति भाव: ) इति तट्टीकायां दर्पणविवृत्तिसमख्यायाम्॥ - केचित्तु 'सः' इत्युपमेयोपादानप्रसङ्गभयात् 'सहस्रेणायुधैः सह वर्तत इति ससहस्त्रायुध: कार्तवीर्या- र्जुनस्तमिवात्मानमाचरति' इत्यकपदतया व्याचख्युः तच्व व्याख्यानं व्यर्थमेव एकपदतया व्याख्या- नेपि अरातीत्यादिविशेषणद्वारा कर्तुरुपात्तत्वेन तादृशोपभेयोपादानप्रसङ्गस्य दुर्वारतया तन्मते "भक्षितेऽपि लशुने न शान्तो व्याधिः" इति न्यायापातापत्तेः । न च पुत्रमात्मनः इच्छति 'पुत्रीयति' इत्यादिवदत्र "सुप आत्मनः क्यच (३१८) इतिसूत्रविहितः इच्छाक्यजेवायमिति उपमाया एवाप्रसङ्ग इति वाच्यम् तथा सति अराती्यादिविशेषणस्यासामैअ्जस्यापत्तेः। न च सुतमिवाचरति 'सुतयिति' पौरम् (५७० पृष्ठे १ पक्कौ) इत्यादाविवात्रापि (सहस्रायुधीयतीत्यत्रापि) अन्यस्याप्युपमे- यत्वसंभवेन "अत्रात्मा उपमेयः" इति वृत्तिग्रन्थः शिथिल इति शङ्कयम् कृपाणेत्यादिविशेषणवशात् आचरितुरेव (आचारकर्तुरव) उपमेयत्वलाभात् अन्यस्योपमेयत्वे तु विशेषणयोरुपादानस्य वैयर्थ्यमेव स्यादिति ध्येयम्। न चास्मिन्नेव श्लोके 'सहस्रायुधायते' इति पाठे क्यड्यप्ययं भेद: संभवतीति शङ्क- नीयम् कर्तु: क्यडो योगे कर्तुरेव (आचारकर्तुरेव) उपमेयत्वम् तस्य च कर्तुः 'सः' इति तच्छ- ब्देन साक्षादुपात्ततया उपमेयलोपासंभवात् एकपद्तया व्याख्यानेऽपि विशेषणद्वारा कर्तुरुपात्तत्वेनो- पमेयोपादानसत्त्वाच्च। अत एवोक्तं प्रदीपे "हंसायते इत्यादौ कर्तैवोपमेयः तस्य चानुपादाने वाक्यमेव न पर्याप्यते इति विशेषात् क्याड नेयं संभवति अतस्तन्द्रेदो नोक्तः" इति। यद्यपि द्विलोपेऽन्यदपि भेदत्रयं संभवति यथा उपमानोपमेययोः उपमानव्राद्योः उपमेयधमयोरिति तथापि तेषूपमायाः प्रसङ्ग एव नास्ताति न न्यूनत्वमाशङ्कनीयमिति प्रदीपादौ स्पष्टम्। प्रदीपे तु 'स सहस्रायुधीयति' इत्यत्र 'सहस्रारायुधीयति' इति पाठः । सहस्त्रम् अराणि कीलकानि (अवयवभूतानि) यस्य तत् सह- स्नारं चक्रम् तत् आयुधं यस्य (विष्णोः) तमिवात्मानमाचरतीति तदर्थों बोध्यः । इति द्विलुप्ताः पश्च॥ त्रिलोपे एकविधामाह त्रिलोपे चेति। चस्त्वयें। समासगेति। त्रिलोपे तूपमेयातिरक्तित्रि- तयलोपे एवोपमा सभवति। सापि समासमात्रे अन्यत्र बोधकाभावात्। तत्राप्यार्थ्येव इवादेलोंपात् इत्येकविधवोति प्रदापे स्पष्टम् ।। १ तथेति। उपमेयस्यात्मनो लोप इत्यर्थः ॥ २ इति सूत्रोते। इषिकर्मणः एषितृसंचन्वनः सुचन्तादिच्छा- यामर्थे (इच्छतीत्यर्थे) क्यचप्रत्ययो वा स्यादिति सूत्रार्थः ॥ ३ इच्छाक्यजेवेति। तदा 'सहस्र।युधमात्मन सहाय र्थम्) इच्छति' इति विग्रहो बोध्यः ॥ ४ अप्ताम्जस्यापत्तेरिति। विशेष गयोरपुष्टार्थत्वरूपदोष।पत्तेरिति भावः ॥ ५ इयमिति। वादयनमेयलुप्ता उपमे यर्थः ॥ ६ अत्र 'उपमानधर्मयोः' इति प्रदीपपाठस्त्वयुक्त एव तल्ोपेड- नुपदमेव "दु्टुण्गन्तो" इत्यस्य (५७४ पृष्ठे) उदाहरणादित्युद्दयोते सपप्टम्॥त W TPE

Page 636

दैशम उल्लास:। ५७७

त्रयाणां वादिधर्मोपमानानाम्। उदाहरणम् तरुणिमनि कृतावलोकना ललितविलासवितणिविग्रहा। स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ॥४०९ ॥ की

ताम् (त्रिलोपे समासगाम्) उदाहरति तरुणिम्नीति। तरुणिमनि तारुण्ये (यौवनविषये) कृतम् अवलोकनं यया सा किशोरीत्यर्थः । ललिताय विलासाय च वितीर्णः समरपितः (दत्त: ) विग्रहो देहो यया सा । स्त्रीणां विलासविब्बोकविभ्रमा ललितं तथा। हेला लीलेत्यमी हावाः क्रिया: शृङ्गारभावजाः" इत्यमरः। 'विलब्धविग्रहा' इति पाठे विलब्धो दत्त इत्येवार्थः । 'सहास- विग्रहा' इति पाठे ललितविलासैः सहासो विकसनशीलो विग्रहो यस्याः सेत्यर्थः । स्मरशराणां काम- बाणानां विसरः समूहः तेन आचितं व्याप्तम् आन्तर मनो यस्याः सा। 'विशरारितान्तरा' इति पाठे स्मरशरैः विशरारितं किंचिद्विदारितं विशीर्णीकृतं वा आन्तरमन्तःकरणं यस्यास्तादृशी मृगन- यना हरिणाक्षी मुनेरपि मनः हरते तपस्विनोऽपि चित्तमाकर्षतीत्यर्थः। उद्दयोतकारास्तु 'हरते' इत्यत्र 'नयते' इति प्रदीपपाठमवलम्ब्य तरुणिमनि सति मृगनयना मुनेर्मनो नयते हरतीत्यन्वयमाङ्क । अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक २०१ पृष्ठे॥

अत्र यदि मृगशब्देन लक्षणया तल्लोचने विवक्ष्येते तदा नेदमुदाहरणम् मृग इव नयने यस्याः सा मृगनयनोते समासे कृते मृगशब्दस्यैवोपमानप्रतिपादकस्य सत्त्वप्रसङ्गात्। यदा तु मृगलोचने इव (चञ्चले ) नयने यस्या इत्यर्थो विवक्ष्यते तदा "अनेकमन्यपदार्थे" (२।२।२४) इति पाणि- निसूत्रस्थेन "सप्तम्युपमानपूर्वपदस्य बहुव्रीहिरुत्तरपदलोपश्र" इति कात्यायनकृतवार्तिकेन मृगलो- चनेत्युपमानपूर्वपदकस्य नयनशब्दन सह बहुवीहौ उपमानवाचिनि मृगलोचने इति पूर्वपदे उत्तरपद- भूतस्य लोचनशब्दस्य लोपे उपमेयभूतस्य नयनमात्रस्योपादानादिदमुदाहरणमिति प्रदीपे स्पष्टम्। अत्रापि उपमानेत्यनेन इवार्थस्य वृत्तौ प्रवेशः सूचितः। एवं च लोचनेत्युपमानस्य इवशब्दस्य चञ्चल- रूपसाधारणधर्मस्य चानुपादानमिति त्रिलोपे समासगेयमुपमति भावः। ननु लोचनपदस्यैवोपमा- नवाचकत्वन मृगलोचनशब्दस्योपमानपूर्वपदकत्वं कथमिति न शङ्कनीयम् अवयवधर्मेण समुदायस्य व्यपदेशात् मृगलोचनशब्दस्योपमानपूर्वपदकत्वात् । एतद्भिप्रायक एव कैयटग्रन्थोऽधस्तात् (५७८ पृष्ठे ८ पक्कौ) स्फुटीभविष्यति। यद्यप्यनया रीत्या मृगस्योपमानत्वस्वीकारे मृगपदस्य विद्यमानत्वेनोपादानप्रसङ्ग: प्राप्तः तथापि वास्तविकोपमानत्वबोधकस्य (अनारोपितोपमानत्वबोध- कस्य) लोचनशब्दस्यानुपादानाद्यथोक्तोदाहरणत्वमति मन्तव्यम्। मृगपदं तल्लोचने लाक्षणिक- मिति कातन्त्रव्यकरणसंमतम्। सप्तम्युपमानेत्यादिकं तु पाणिनीयसंमतमिति वोध्यम्।।

सप्तम्युपमानेत्यादिवार्तिकस्यायमर्थः । 'सप्तमी सप्तम्यन्तम् उपमानम् उपमानवाचकं वा पूर्वपदं यस्य तत् सप्तम्यपमानपूर्वपदं तस्य उत्तरपदेन सह बहुव्रीहिर्वक्तव्यः पूर्वपदे यत् उत्तरपदं तस्य च लोपो वक्तव्यः' इति। इदं हि वार्तिकम् "अनेकमन्यपदार्थे" इति पाणिनिसूत्रेण समानाधिकरणानामेव बहुब्राहिविधानात् सिद्धेऽपि बहुव्राहौ क्वचिदुत्तरपदलोपार्थम् क्वचिच्च व्यधिकरणानमपि बहुव्रह्यिर्थमु- १ उपमानवाचिनीति। लोकप्रसिद्धोपमानवाचिनी्यर्थः ॥ २ कातन्त्रव्याकरणमेव कलापव्याकरणमिति कौमा- रव्याकरणमिति च व्यवह्ियते। तच् शर्ववर्मरूतं दुर्गसिंहरुतवृत्तिसहितं चेति बोध्यम । ७३

Page 637

५७१ काव्यप्रकाशः सटीकः ।

अत्र सप्तम्युपमानेत्यादिना यदा समासलोपा भवतः तदेदमुदाहरणम्॥ क्रूरस्याचारस्यायःशूलतयाध्यवसायात् अयःशूलेनान्विच्छति 'आयःशूलिकः' इत्यतिशयो- कितिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा। त्तरपदलोपार्थ चति बोध्यम्। तत्र सप्तमीपूर्वपद्कस्य यथा कैण्ठेस्थः कालो यस्य सः 'कैण्ठकालः' उरसिस्थानि लोमानि यस्य सः 'उरासलोमा'। अत्र "अमूर्धमस्तकात्स्वाङ्गादकामे" (६।३।१२) इति सूत्रेण सप्तम्या अलुक पदयोः समानाधिकरण्यात्सिद्धेऽपि बहुव्राौ वचनमुत्तरपदलोपार्थम्। उप- मानपूर्वपदकरय यथा उष्टमुखमिव मुखमस्य 'उष्ट्रमुखः' मृगलोचने इव नयने यस्याः सा 'मृग- नयना'। अत्रावयवधर्मेण समुदायस्य व्यपदेशात् उष्टस्योपमानतेति उपमानपूर्वकः उष्ट्रमुखशब्दः। उपमानोपमेयवृत्तित्वात् पदयोवैर्यधिकरण्यमत्रेति वचनं बहुव्रीह्यर्थमुत्तरपदलोपार्थ चेति "अनेकमन्यपदार्थे" इति सूत्रे महाभाष्यकैयटयोः स्पष्टम्।। तदेतत्सर्वमभिप्रेत्य वृत्तिकृदाह अत्र सप्तम्युपमानेत्यादिनेत्यादि। यदेति। कातन्त्रव्याकरणरीत्या लक्षणास्वीकारे तु नेदमुदाहरणमिति भावः॥ चक्रवर्तिसुधासागरकारादयस्तु "वार्तिकस्यायमर्थः। सप्तम्यन्तमुपमानं च पूर्वमिदं यस्य इवादि- समानधर्मबोधकपदस्य पदान्तरेणोपमेयबोधकेन बहुव्रीहिः उत्तराणां च इवादिसमानधर्मोपमान- बोधकानां लोप इति। एतेन यदैषां लोपस्तदेत्यर्थः। अत एव यदेति पदं मूले संगच्छते" इत्याहुः । एतन्मते यद्यपि अवयवधर्मेण समुदायस्य व्यपदेशो नावश्यक इति लाघवमस्ति तथापीदं व्याख्यानं चिन्त्यमेव वार्तिकात्तादशार्थानुपलब्धेः । तथाहि। पूर्वपदेन प्रत्यासत्या सत्समासीयोत्तरपदस्यवाक्षेपः तथा च इवादिसमानधर्मबोधकपदानापुत्तरपदत्वाभावः स्पष्ट एव उत्तरपदशब्दस्तु समासस्य चरमावयवे रूढ इति वैयाकरणसिद्धान्तादिति॥ केचित्तु "उपमेयमात्रोपादानवत् उपमानमात्रोपादानेऽपि त्रिलेपा उपमा संभवति। यथा 'अय- मायःशूलिकः' इति। अयःशूलपदेन स्वार्थसदशः क्रूराचारो लक्ष्यते। तथा च अयःशूलमिव क्रूराचा- रस्तेनान्विच्छति (व्यवहरति) इत्यर्थे आयःशूलिक इति सिध्यति। अत्र हि क्रूराचार उपमेयः तक्ष्ण- त्वािरूपः साधारणो धर्मः इवादिश्र नोपातः केवलमुपमानभूतमयशूलमेवोपात्तम् अतस्त्रिलोपेय- मुपमा " इत्याहुः तन्मतं निराकरोति क्रूरस्याचारस्येति। निगीर्णस्वरूपस्येति शेषः । अयःशूलतया (अय:शूलतादात्म्येन) अध्यवसायात् अध्यवसानात् (आरोपपूर्वकनिश्र्वयात्) अन्विच्छति व्यव- हरति यद्ा अन्विष्यति 'अर्थम्' इति शेषः । आयःशूलिक इत्यतिशयोक्तिरिति। अयःशूलश- ब्दादयः शूलत्वेन स्वार्थसदृशक्रूराचारँलक्षकात् "तेनान्विच्छति " इत्यधिकारस्थेन "अयःशूलदण्डा- १.कण्डस्थ इति। "सुपि स्थः" (३।२।४) इति सूत्रेण कप्रत्ययः ॥ २ कालः रष्णवर्णः ॥ ३ कण्ठेकालो रुद्रः ॥ उत्तरपद्लोपार्थमिति। कण्ठेस्थकाल इतिप्रयोगनिवृत्त्यर्थमियर्थः ॥ ५ मुखस्यैवोपमानत्वेनाप्टमुखशब्द- स्योपमानपूर्वकत्वं कथमत आह अवयवधर्मेणोते। मुखगतोपमानत्वेनोष्टस्यापि व्यवहारादिति भावः ।' ६ वैयधि- करण्यमिति। वाक्ये समासे च सादृश्यसंचन्धेनान्वयः इवशब्दस्तथासंबन्धेनान्वयस्यैव द्योतक इत्यभिमानः ।उप- मानानीतिसूत्रमाण्योकतरत्या सामानाधिकरण्यमस्त्येवेत्यत आह उत्तरपदेति इति नागोजीभट्टरूते महाभाष्यप्रदी- पोद्योते स्पनटम ॥ लक्षकादिति। "अयःशूलदण्डाजिनशब्द्रौ तीक्ष्ण पावदम्भनोर्गोणौ। अय:शूलदण्डाजिन- शब्दाभ्यां मुख्यार्थकाम्यां प्रत्ययो नेष्यते अनभिधानात् " इति अयःशूलेति सूत्रे वैयाकरणसिद्वान्तकौमुदीटीकार्या तत्त्वबोधिन्यां मनोरमाशव्दरत्नयोश्र्य स्पषटम ।।

Page 638

दशम उल्लास: । ५७१

एवमेकोन विंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः॥ अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता। मम्लौ साथ विषादेन पझ्मिनीव हिमाम्भसा॥ ४१०॥ इत्यभिन्ने साधारणे धर्भे ज्योत्स्नेव नयनानन्द: सुरेव मदकारणम्। प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥ ४११॥ जिनाभ्यां ठक्ठऔौ" (५।२।७६) इति पाणिनिसूत्रे ठक्प्रत्यये 'आयःशूलिकः' इति रूपसिन्द्ेर्निगी- र्याध्यवसायरूपातिशयोक्तिरेवात्रालंकारो न तूपमेति भावः । तदेवाह न त्विति। नतु उपमेत्य- न्वयः । क्रूराचारोपमेयेति। क्रूराचारश्रासावुपमेयश्र्वेति कर्मधारयः । तैक्ष्ण्यधर्मेति। तैक्ष्ण्यरू- पसाधारणधर्मेत्यर्थः। वादीनाम् उपमाप्रतिपादकानाम्। न तु उपमेति। अयं भावः। क्रूराचार एव निगीर्णस्वरूप: अयःशूलतादात्म्येन (आरोपात्) निर्दिष्ट इत्यतिशयोक्तिरेवात्रालंकारः । एना- दशस्थले उपमास्वीकारे तु वक्ष्यमाणे 'कमलमनम्भसि कमले च कुवलये' इत्यादौ ४४९ उदाह- रणेडप कमलादिपदैःस्वार्थसदृशमुखादेर्लक्षणादुपमाभेदापत्या निगीर्याध्यवसानमूलातिशयोक्तेर्नि- विषयत्वापत्तिः स्यादिति॥ लुप्ताभेदानुपसंहरन् एकलोपे द्विलोपे त्रिलोपे च फलितां पूर्व ख्यामाह एवमिति। उक्तप्रकारे- णेत्यर्थः । एकोनविंशतिर्लुत्ता इति। धर्मलोंपे पञ्च ५ उपमानलोपे दवौ २ इवादिलोपे षट् ६ धर्मेवादिलोपे दौ २ धर्मोपमानयोलोंपे दौ २ इवोपमेययोलोंपे एक: १ त्रिलोपे चैकः १ इति मिलित्वा एकोनविंशतिः १९ लुप्तोपमाप्रभेदा इत्यर्थः। उपमानोपमेयादीनां लोपे उपमैव न संभ- वतीति तत्कृतप्रभेदो नोक्तः । पूर्णाभेदैः षडिः सहाह पूर्णाभिरिति। पश्चविशतिरिति। अत्रो- दयोतकारा: वस्तुतोऽयं पूर्णालुप्ताविभागो वाक्यसमासक्यचक्यडादिप्रत्ययविशेषगोचरतया शब्दशा- स्त्रव्युत्पत्तिकौशलपरत्वादत्र शास्त्रे न व्युत्पाद्यतामर्हर्तीत्याहुः ॥ ननु अन्येपि उपमाप्रभेदा: प्राचीनैः (रुद्रटादिभिः ) उक्ताः । तथाहि। एकस्योपमेयस्य बहूपमा- नसंबन्धे मालोपमा पूर्वपूर्वस्योपमेयस्योत्तरोत्तरमुपमानत्वे रशनोपमा चेति द्वौ भेदौ तयोरपि यथाक्रमं बहूपमानानाम् उत्तरोत्तरोपमानानां च साधारणधर्मस्य एकत्वेन भिन्नत्वेन च प्रत्येकं द्वैविध्यमिति मिलित्वा चत्वारो भेदाः इत्येवं प्राचीनप्रदर्शितबहुभेदसत्वे कथं पश्चविशतिविधत्वमित्याशङ्काम् उक्त- चतुःप्रभेदप्रदर्शनपूर्वकम् (एवंविधयत्किंचिद्वैचित्र्यमादाय प्रभेदकरणे आनन्त्यदोषप्रसङ्गेन पूर्वोंक्तप्रभे- देषु यथासंभवमेतेषामन्तर्भावेण च) निराकरोति 'अनयेनेव' इत्यादिना 'उक्तभेदानतिक्रमीच्च' इत्यन्तेन। तत्राभिन्ने साधारणे धर्मे मालोपमामुदाहरति अनयेनेवेति। अनयेन अनीत्या राज्यश्रीरिव राज्यलक्ष्मीरिव दैन्येन दुःखेन दारिद्ेण वा मनस्वितेव पाण्डित्यमिव धीरतेव वा हिमाम्भसा हिमोद- केन पझ्मिनीव कमलिनीव सा प्रकृतनायिका विषादेन दुःखेन मम्लौ म्लानिं प्राप ग्लायति स्मेत्यर्थः । अत्र राज्यश्रीप्रभतीनां बहूनामुपमानानां ग्लानिरेव साधारणो धर्म इति एकस्य नायिकारूपोप- मेयस्य राज्यश्रीप्रभृतिबहूपमानसंबन्ध इति च अभिन्ने साधारणे धर्मे मालोपमेयम्। तदेवाह इत्य- भिन्ने इति। एकशब्द्बोध्यत्वेन सर्वोपमानगते इत्यर्थः। साधारणे धर्मे म्लानिरूपे। अस्य मालोपमा' इत्यग्रिमेणान्वयः ॥ भिन्ने साधारणे धर्मे मालोपमामुदाहरति ज्योत्स्नेवेति। ज्योत्स्नेव चन्द्रिकेव नयनयोः आनन्दः आन-

Page 639

५८० काव्यप्रकाश: सटीकः। इति भिन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे

भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ ४१२॥ मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता। तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥४१३॥ इत्यादिका रशनोपमा च न लक्षिता एवंविधवेचित्र्य सहस्रसंभवात् उक्तभेदान- तिक्रमाच्च॥ न्दजनिका सुरेव मदिरेव मदकारणरूपा प्रभोर्भावः प्रभुता सेव समाकृष्टाः वशीकृताः सर्वलोकाः सकलजना: यया सा एवंविधा प्रशस्तो नितम्बः कटिपश्रान्भागोऽस्या अस्तीति नितम्बिनी कान्ता अस्तीत्यर्थः । "कान्ता ललना च नितम्बिनी" इत्यमरः ॥ अत्र ज्योत्स्नादीनां बहूपमानानां नयनानन्दहेतुत्वादयः साधारणधर्माः भिन्ना इति एकस्यैव नितम्बिनीरूपोपमेयस्य ज्योत्स्नाप्रभतिबहूपमानसंबन्ध इति च भिन्ने साधारणे धर्मे मालोपमेयम्। तदेवाह इति भिन्ने चेति। तस्मिन् साधारणे धर्मे। एकस्यैवेति । उपमेयस्येति शेषः । बाह्विति । बहूनामुपमानानामुपाशने इत्यर्थः । मालोपमेति । यथा माला काचिदेकजाता्यै : कुसुमैः काचिद्विजातीयैर्ग्रथिता तथा इयमपि सजातीयैर्विजातीयैरवां बहुभिरुपमानैर्घटितेति द्विधा मालोपमेत्यर्थः । अस्य 'रशनोपमा च न लक्षिता' इत्यग्रिमेणान्वयः ॥ रशनोपमामाह यथोत्तरमिति। उत्तरमुत्तरमितयर्थः । पूर्ववत् मालोपमावत्। अभिन्नभिन्न- धर्मत्वे इति। अस्य 'इत्यादिका रशनोपमा च' इत्यग्रिमेणान्वयः। अभिन्ने साधारणे धर्मे रशनो- पमामुदाहरति अनवरतेति । हे राजन् अनवरतं निरन्तरं कनकवितरणाय स्वर्णदानाय जललव- भृते जलबिन्दुपूर्णे करे हस्ते तरङ्गिता पूर्वपश्रान्भावेन श्रेणीभूय मिलिता अर्थिततिः याचकसमूहो यस्य तादृशस्य (तव) भणितिरिव उक्तिरिव मतिः बुद्धि: मतिरिव चेष्टा आचारः चेष्टेव कीर्तिः अतिविमला अतिस्वच्छेत्यर्थः । "नित्यानवरताजस्रम्" इत्यमरः। गीतिश्छन्दः । लक्षणमुक्तं प्राक ४ पृष्ठे। अत्र विमलत्वमेव सर्वासूपमासु साधारणो धर्म इति पूर्वपूर्वस्योपमेयस्योत्तरोत्तरमुपमानत्वमिि च अभिन्ने साधारणे धर्मे रशनोपमेयम्॥। भिन्ने साधारणे धर्मे रशनोपमामुदाहरति मतिरिवेति । तस्य नृपस्य मतिरिव मूर्तिः तनूः मधुरा मूर्तिरिव सभा प्रभावेन चिता व्याप्ता सभेव जयश्रीः जयलक्ष्मीः परेषां विपक्षाणां जेतुं न शक्तेत्यर्थः । उद्गीतिश्छन्दः । लक्षणमुक्तं प्राक १५७ पृष्ठे॥ अत्र मूर्त्यादीनां मधुरत्वादयः साधारणधर्माः भिन्ना इति पूर्वपू्वस्योपमेयस्योत्तरोत्तरमुपमानत्वमिति च मिन्ने साधारणधर्मे रशनोपमेयम्। तदेवाह इत्यादिकेति। रशनोपमा चेति। शुङ्गलान्यायेन पश्राद्व- लनयेत्यर्थः । यथा रशनायां पूर्वत्वं प्राप्तायाः क्षुद्रघण्टिकायाः परग्रथनायां परत्वर्म् तद्वदत्र पूर्वपूर्व- स्योपमेयस्योपमानत्वाय परपरप्राप्तिरिति रशनात्वमिति सारबोधिन्यां स्पष्टम्। चकारेण मालोपमायाः १ शृङ्ला च पुंसः कटिभूषणम। "पुस्कस्यां शुङ्गलं त्रियु" इत्यमरः ॥

Page 640

दशम उल्लास:। ५८१

(सू० १३५) उपमानोपमेयत्वे एकस्यैवैकवाक्यगे। अनन्वयः समुच्चयः । न लक्षितेति। अस्माभिरिति शेषः । न लक्षितेत्यत्र हेतुमाह एवंविधवैचित्रयसहस्त्रेति। बिम्बप्रतिबिम्बभावादिभेदेन लोकसिद्धकविकल्पितादिभेदेन उपस्कार्यभेदेन निरवयवादिभेदेन अन्यो- न्योपायत्वरूपपरपरितत्वे उपायत्वस्यानुकूल्यप्रातिकूल्यादिभेदेन तेषां परस्परगुणने इयत्ताया वक्तुमश- क्यत्वादिति भाव इत्युइयोतः। ननु वैचित्रयसहस्र संभवे ते सर्वेऽपि भेदा अवश्यं वक्तव्याः अन्यथा न्यून- त्वं दोष इत्यत्र आह उक्तभदेति। पूर्वोक्तोपमाप्रभेदेषु यथासंभवमेतेवामन्तर्भावान्न न्यूनतेति भावः ॥ अत्र सारबोधिनीकारा: "ननु वैचित्र्यसहस्त्रसंभवनमनुक्तावप्रयोजकमित्यत आह उक्तेति। तथा चात्र न पश्ाद्वलनया चमत्कारः अपि तूपमानत्वेनेत्युक्ते एवान्तर्भावः इत्यर्थः। यथा 'चन्द्रस्पर्द्धि मुखम्' 'शुकमुखद्युति किंशुकमाबभौ' इत्यादेर्तुप्तोपमायामन्तर्भावः" इति व्याचख्युः। चक्रवर्तिनस्तु "न लक्षितेति प्रामादिकत्वं निरस्यति एवमित्यादि। वैचित्र्यसहस्त्रेति यथा 'शुकमुखद्युति किंशुकमा- बभौ' इत्यादौ लौकिकी 'सदयोमुण्डितमत्तहूणचचिबुकप्रस्पर्द्धि नारङ्गकम्' इत्यत्र तदेकप्रतिभानत्वे- नालौकिकी। 'पाण्डयोऽयम्' इत्यादौ बिम्बप्रतिबिम्बभावः।'यान्त्या मुहुर्वलितकंन्धरमाननं तदावृत्तवृ- न्तशतपत्रनिभं वहन्त्या। दिग्धोमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्ष: ॥I' इत्यत्र वलितत्वावृत्तत्वाख्यस्थैव धर्मस्य संबन्धिभेदान्भेदेन निर्देशः। 'चन्द्रवदाननम्' इत्येकपद्गतत्वम्। 'चन्द्र इव वद्नमस्याः' इत्यादौ वाक्यगत्वमित्यादयः संभवन्ति। ननु वैचित्र्य- संभवे निरुक्त्यौचित्यमत आह उक्तमेदेत्यादि। शुकमुखद्युताति त्रिलोपा। मत्तहूणेत्यादौ धर्मलोपे समासगति विवेचनादुक्तेष्वन्तर्भाव इति। यच्च शुकमुखेत्यादौ कुटिलत्वादिकम् सय्ोमुण्डितेत्यादो च रमश्रूत्पाटनेन सरन्ध्रत्वं मद्यपाने च रक्तत्वं प्रतयिते तत्स्वभावोवितमेव प्रज्वलयतीति तत्रोपमाया अकिंचित्करत्वमिति ध्येयम् " इत्याहुः ॥ इत्युपमा ॥ १॥ अनन्वयनामानमलंकारं लक्षयति उपमानोपमेयत्वे इति। उपमानं चोपनेयं चेति द्वन्द्वः तयोभीवावुपमानोपमेयत्वे। त्वप्रत्ययस्य द्वन्द्वान्ते श्रूयमाणत्वादुपमानत्वमुपमेयत्वं चेत्यर्थः "द्वन्द्वान्ते भ्रूयमाणं पदं प्रत्येकमभिसंब्यते" इति न्यायात्। एतेन सप्तम्यन्तमिदमित्यपास्तम्। सप्तम्यन्तत्वे तु अनन्वय इति विधेयवाचकपद्सत्वेऽपि उद्देश्यवाचकपदाभावापत्या "अनुवाद्यमनुक्त्वैव न विधेयमु- दीरयेत्" इति प्राक (२०५ पृष्ठे ) उक्तन्यायविरोध: स्पष्ट एव स्यात्। अत एव पूर्वसूत्रे साधर्म्य- मिति उत्तरसूत्रेषु विपर्यास इत्यादि च प्रथमान्तमेवोपात्तम् । न च "क्रियया तु परस्परम् " इति १८७ सूत्रादाविवात्रापि 'यत् वैचित्रयम्' इत्यध्याहार एवास्तु तथा च नोक्तन्यायविरोध इति वाच्यम् वलप्तप- देनैवोपपत्तावध्याहारकल्पनाया अयोगादिति बोध्यम्। एकं च तत् वाक्यं चैकवाक्यम् तत् गच्छत इत्येकवाक्यगे। न विद्यतेऽन्वयः संबन्धोऽर्थादुपमानान्तरेण यत्र सोऽनन्वय इत्यन्वर्थकमलंकार- नामेदम् । तथा च उैपमानान्तरव्यवच्छेदाय एकस्यैव धर्मिणः (वरतुनः) एकवाक्यगे एकौपम्यप्र- १ विम्बप्रतिविम्चभावो दृष्टान्तालंकारे द्रश्टव्यः ॥ २ इत्यादाविति । 'पाण्ड्योडयमँसार्पितल बहारः क्लप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्वार इवाद्रिराजः ॥' इति रघुकाव्ये षष्ठे सर्गे ६० श्लोके इत्यर्थः ॥ 3 यान्त्योति मालतीमाधवप्रकरणे प्रथमेऽक्के पद्यमिदम ॥ वाक्यगत्व मेति । अनेकपद्गतत्वमिति भावः ॥५ अन्वर्थसंज्ञाचललब्धमर्थमाह उपमानान्तरेति॥

Page 641

काव्यप्रकाश: सटीक: ।

उपमानान्तरसंबन्धाभावोऽनन्वयः । उदाहरणम् न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव। यावह्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ॥४१४॥ तिपादकशब्दप्रतिपाये उपमानोपमेयत्वे दृष्टान्तदार्टान्तिकत्वे उपनिवध्येते सोऽनन्वय इत्यर्थः यदे- कस्यैव (तत्सदृशवस्त्वन्तरासत्त्वप्रतिपादनाय ) उपमानोपमेयभावो भेदेऽसत्यपि भेदघटितसादृश्यो- पचारणैवोपनिबध्यते सोऽनन्वयनामालंकार इति भावः। स्वेन स्वस्य उपमानन्वय इति तु निष्कर्षः ॥ अनन्वय इति यौगिकीयं संज्ञेत्याह उपमानान्तरेति। संबन्धोSन्वयः । उपमानान्तरसंबन्धस्या- भावो यत्रति बहुव्रीहिः। तथा च योगरूढोऽयमनन्वयशब्द इति भावः। एवं चात्रोपमानान्तरव्यव- च्छेदेन चमत्कारः उपमायां तु साम्यप्रतीत्या चमत्कार इति फलवैजात्यादन्यान्यभेदनिरूपणमुचि- तमिति भाव: । एकस्येत्युपमालंकारव्यवच्छेदाय उपमालंकारस्य भेद्घटितत्वात्। यद्यपि एकस्यै- वोपमानोपमेयत्वं रशनोपमायामस्ति तथाप्युपमेयोपमाव्यवच्छेदार्थोपात्तैकवाक्यगत्वविशेषणादेव तव्यव- च्छेदोऽपि द्रष्टव्यः। तदुभयत्राद्देश्यविधेयभेदेन वाक्यभेदात् अत्र तदभावात्। वस्तुतस्तु उपमेयोप- मादौ द्वितीयसदशव्यवच्छेदफलकत्वाभावेन योगलब्यार्थेनैव वारणसंभवाभ्नेदमस्य व्यावर्त्यम् किंतु तादृशस्थले एव तस्य फलस्य संभवात्स्वरूपकथनमेतदिति ध्येयम्। एवकारेण भिन्नशब्दबोध्यत्व- व्यवच्छेद: अतः 'अस्याः वदनमिवास्याः वक्त्रम्' इत्यत्र नानन्वयप्रसङ्ग:। तदुक्तं चक्रवर्तिभट्टा- चार्यै: "एवकारण भिन्नशब्दबोध्यत्वव्यवच्छेदः शब्दतोऽर्थतश्र्वैकत्वस्य विवक्षितत्वात् अन्यथा 'अस्या वद्नमिवास्या वव्त्रम्' इत्यत्र प्रसक्तेः शब्दभेदेनार्थभेदावभासस्य [प्राक् ३६६ पृष्ठे २६ पक्कौ] प्रतिपादितत्वात् " इति। अत्राहुः सुधासागरकाराः द्ययप्यसति सादृश्ये नोपमानोपमेयभावः सादृश्यं च भेदघटितमित्येकस्योपमानोपमेयत्वमनुपपन्नम् तथाप्याहार्योऽत्र भेदो द्रष्टव्यः। न चैव 'भेदग्रहण- मनन्वयव्यवच्छेदाय' (५४६ पृष्ठे १ पङ्कौ) इति वृत्तिविरोधः तस्य वास्तविकभेदाभिप्रायकत्वात् । अयमेवोपमानन्वययोर्भेदो यदेकत्र वास्तवोऽन्यत्राहार्यो भेदः। यदि देशान्तरीयस्य काला त्तरीयस्य वा तस्यैव वास्तविकं भेदमादाय प्रयोगस्तदोपमैवेति बोध्यम्" इति। एवं च 'गगनं गगनाकारं सागर: सागरोपमः । रामरावणयोर्युद्वं रामरावणयोरिव ॥' इत्यादि देशकालादिभेदेन भेदे उपमैव तदुगे तद्देशे वा यथा गगनं तथा एतदुगे एतद्दशेऽपीति बोधात् अन्यथा त्वनन्वय एवेति मन्त- व्यम। कमलाकरभट्टास्तु अयं हि अनन्वयो द्विविधः श्रौतः आर्थश्रवेति। यथा 'गगनं गगनाकारम्' इति श्लोके पूर्वार्धे आर्थः उत्तरार्धे इवशब्दसत्त्वात् श्रौत इत्याहुः तन्न युक्तम्। अनन्वये साम्य- कृतचमत्कारस्यैवाभावात्।। अनन्वयमुदाहरति न केवलमिति। यावादिति समुच्चयार्थकमव्ययम् तच्च 'तद्विलासाः' इत्यनेना- न्वेति। एवकारो भिन्नक्रमः स च नितम्बिनीशब्देन संबध्यते तथा च केवलं नितान्तकान्तिः अति- शयितकान्तिः सा अनुभूतप्रकर्षा नितम्बिन्येव नितम्बिनीव न भाति न शोभते किंतु विलासायुधस्य कामस्य लास्यवासा: नृत्यस्थानाननि। " ताण्डवं नटनं नाट्यं लास्यं नृत्यंच नर्तने" इत्यमरः। 'लास- वासाः' इति पाठे क्रीडास्थानानीत्यर्थः "लस श्लेषणक्रीडनयोः" इति धात्वनुसारात्। एवंभूताः ते १ आहार्यलक्षणमग्रे (५९५ पृष्ठे ६ टिप्पणे) स्फुटीभवविष्यति॥ २ गगनाकारं गगनसदृशम । इवेत्यतः प्राक् युद्धमित्यन्याहार्यम। अत्र वैपुल्यगाम्भीर्यदारुणत्वानि गगनादिषु त्रिपु यथाकममनुपात्ताः साधारणधर्मा:॥

Page 642

दशम उल्लास: । ५.८३

(सू· १३६ ) विपर्यास उपमेयोपमा तयोः ॥ ९१ ॥ाक तयो: उपमानोपमेययोः । परिवृत्तिः अर्थात् वाक्यदये। इतरोपमानव्यवच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा। उदाहरणम् अनुभवैकगोचराः तद्विलासाः तस्याः नायिकायाः विलासाः हावभेदा अपि तद्विलासा इव 'भान्ति' इति वचनविपरिणामेनार्थः। 'तद्विलासाः' इत्यत्र "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति महाभाष्य- कारेष्ट्या पुंवद्ध वः । "स्त्रीणां विलासविब्बोकविभ्रमा ललितं तथा। हेलालीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः" इत्यमरः । चन्द्रिकाकारास्तु 'यावत्' इति 'अपि तु (किं तु)' इत्यर्थे इत्याहुः। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्र स्वेनैव नितम्बिन्यादिरूपवस्तुना स्वस्योपमेति अनन्वयालंकारः। "अत्र दशाविशेषादिभेदाद्भे- दोपचारः" इति प्रदीपः। "अत्र साधर्म्यमात्रमिवार्थः न तु भेदांशो बाधात्। रूपके चन्द्राय्यभेदबुद्धि: फलम् तत्कृत एव चमत्कारः अत्र तु परस्मिन् स्वसाधर्म्याभावकृतः न तु स्वाभेदबुद्धिकृतः तस्याः सिद्धत्वादिति ततो भेदः। एतदग्रेऽत्र (प्रदीपे ) दशाविशेषादिभेदाद्भेदोपचारः इति क्वचित्पम्यते सोऽपपाठः तथा सत्युपमाया एवापत्तेः। देशकालभेदेनाप्ययमेव तत्तुल्य इति प्रतीतेस्तत्राप्यनन्वय एवे त्याशय इत्यन्ये। ननु 'भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्र दानवैः। न भविष्यति नास्ति नाम- वन्नृप यस्ते भजते तुलापदम् ॥' इत्यादौ सर्वथैवोपमाननिषेधात्मकोऽसमालंकारः प्राचीनैरुक्तः । उपमानलुप्तोपमातिव्याप्तिवारणाय सर्वथैवेति। एवं च तङ्धनिनैव चमत्कारोपपत्तौ अनन्वयस्य पृथ- गलंकारत्वं किमर्थम्। यदि तु रत्यनुकूलतया कुतश्विदङ्गात् भूषणापसारणं यथा चमत्काराय तथा प्रकृते उपमालंकाराभाववर्णनमेव चमत्काराय न तु तत्रासमनामा पृथगलंकार इत्युच्यते तर्हि तङ्गनि- नैवोपपत्तिरिति चेन्न। पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादौ ध्वन्यमानार्थसत्त्वेऽपि वाच्यार्थकृतच- मत्कारमादायालंकारत्ववदुपपत्तेः अन्यथा दीपकादावपि उपमाभिव्यकत्यैव चमत्कारोपपत्तौ तेषामपि पृथगलंकारत्वं न स्यादित्याहुः। केचित्तु सर्वेभ्य उत्कृष्टगुणस्त्वमिति प्रतीतिर्व्यतिरेकालंकारध्वनिरेवात्रेति वद्न्ति तच्चिन्त्यम्" इत्युद्योतः ॥ इत्यनन्वयः ॥ २ ॥ उपमेयोपमानामानमलंकारं लक्षयति विपयास इति। तयोः उपमानोपमेययोः विपर्यासः परिवृत्तिः उपमेयोपमानभावः उपमेयोपमा तन्नामालंकार इत्यर्थः। सूत्रं व्याचष्टे तयोरित्यादि। उपमानोपमे- ययोरिति। काव्यनिबद्धोपमानोपमेययोरित्यर्थः । विपर्यासपदं विवृणोति परिवृत्तिरिति। परिव- रतनमित्यर्थः उपमेयोपमानभाव इति यावत्। एकवाक्ये परिवर्तनासंभवादाह अर्थाद्वाक्यदये इति। वाक्यद्वयमत्र शाब्दमार्थ वा तेन "रामरावणौ मिथस्तुल्यौ" इत्यादौ नाव्याप्तिः तत्रापि रामो रावण- तुल्यो रावणो रामतुल्य इति वाक्यार्थभेदप्रतीतेः। उक्तं च प्रभायाम् "न च 'मुखमरविन्दं च पर- स्परेण समम्' इत्यादावेकवाक्येऽप्युपमेयोपमास्त्येवेति कथमसंभव इति शङ्क्यम् तत्राप्यरविन्देन मुखं समम् मुखेन चारविन्दमित्यर्थतो वाक्यभेदसत्त्वात्" इति। वाक्यद्वये इत्यनेनानन्वयव्यवच्छेदः। ननु वाक्यद्ये एव परिवृत्तिसंभवे सति 'मुखमिव चन्द्रः' इत्यत्रोपमेयोपमाया अभावात्कोऽलंकारः स्यादिति चेत् तत्र निन्दाभिव्यक्तौ प्रतीपालंकार इति प्रदीपे स्पष्टम्। उपमातो भेदबीजमाह इत- १ अयममरः प्राक् ५७ पृष्ठे व्याख्यातः ॥

Page 643

५८४ काव्यप्रकाश: सटीक:। कमलेव मतिर्मतिरिव कमला तनुरि विभा विभेव तनुः। धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ।। ४१५।। (सू० १३७) संभावनमथात्प्रेक्षा प्रकृतस्य समेन यत्। रोपमानव्यवच्छेदपरेति। प्रकृताभ्यामितरत् अन्यत् यत् उपमानं तस्य यो व्यवच्छेदो व्यावृत्ति- स्तत्परेत्यर्थः इतरोपमानव्यवच्छेदनैव चमत्कारिकेति यावत्। इदं विशेषणम् 'एकस्योभयत्र साधार- णधमत्वे सति' इति विशेषणं ग्राह्यति। एकेन हि धर्मेण तस्य साम्येऽपरत्र वर्णिते तेन धर्मेणा- परस्य तत्र साम्यमर्थप्राप्तमपि पुनः शब्देनोच्यमानं तेन धर्मेण तयो: सदृशं तृतीयं वस्तु व्यवच्छि- नत्तीति उद्दयोतादौ स्पष्टम्। अत एव 'सविता विधवति विधुरपि सवितरति' (५७३ पृष्ठे) इत्यादौ सत्यपि उपमानोपमेययोर्वाक्यद्ये विपर्यास साधारणधर्मस्य भिन्नतया नोपमेयोपमा तत्र हि 'सविता विधवति' इत्यत्र शीतकरत्वादि: साधारणो धर्मः 'विधुरपि सवितरति' इत्यत्र तु उष्णकिरणत्वादि: साधारणो धर्म इति। अयमत्र निष्कर्षः। पूर्ववाक्योक्तसाधारणधर्ममेव साधारणधर्मीकृत्य पूर्ववा- क्योक्तेन उपमेयेन पूर्ववाक्योक्तस्योपमानस्य उपमा उपमेयोपमेतीति विवरणे स्पष्टम्। तथा चोपमानान्तरव्यवच्छेदफलकः उपमानोपमेययोर्विरपर्यास इति उपमेयोपमालक्षणं बोध्यम्। उपमेये- नोपमेति यौगिकीयं संज्ञेत्याह उपमेयेनोपमेत्यादि। अत्रो्योतकाराः उपमेयेनोपमा यत्रेति यौगिकीयं संज्ञेत्याहुः। कवलयानन्दकारिकाव्याख्यायामाशाघरभट्टास्तु 'उपमेयाभ्यामुपमा उपमेयो- पमा' इति व्युत्पत्तिमाहुः ॥ उपमेयोपमामुदाहरति कमलेवेति । बतेति ह्षे। "बत खेदेऽनुकम्पार्यां हर्षे संबोधनेऽद्भुते" इत्यजयः। यस्य नृपतेः कमलेव मतिः लक्ष्मीरिव बुद्धि: मतिरिव कमला तनुरिव विभा शरीरमिव कान्तिः विभेव तनुः धरणीव धृतिः पृथ्वीव धर्यम् धृतिरिव धरणी सततं निरन्तरं विभाि शोभते इत्यर्थः। गीतिश्छन्दः : लक्षणमुक्त प्राक ४ पृष्ठे॥ अत्र स्पृहणीयत्वप्रचितत्वविस्तृतत्वानि त्रिषु साधारणधर्मा इत्युइ्योते स्पष्टम्। यत्त अत्र कम लायाः उपमानत्वे मतिनिष्ठं सर्वजनोपास्यत्वम् मतेस्तथात्वे कमलानिठं स्थिरत्वम् तनोस्तथात्वे विभा निउमनभिभवनीयत्वम् विभायास्तथात्वे तनुनिष्ठं नैर्मल्यम् धरण्यास्तथात्वे धतिनिष्ठं वैपुल्यम धते स्तथात्वे धरणीनिष्ठ निरुपद्रवत्वं प्रतीयते तच्चेतरोपमानसंबन्धाभावेनोत्कृष्यते इति सारबोधिनीसुधा- सागरादी उक्तम् तन्न रुचिरम अत्रैकस्यैव साधारणधर्मस्य स्वीकार्यत्वात् अन्यथा 'सविता विधवति' इत्यादौ अतिव्याप्तिः स्यादिति बोध्यम्॥ इत्युपमेयोपमा ॥ ३॥ वाच्यसाधर्म्यालंकारान् निरूप्य संप्रति व्यङ्गयसाधर्म्येषु निरूपणीयेषु चमत्कारातिशयेन प्राधा न्यात प्रथममुत्प्रेक्षां निरूपयति संभावनमिति। अथेति। वाच्यसाधर्म्यालंकारनिरुपणोत्तरमित्यर्थः 'उत्प्रेक्षा निरूप्यते' इति शेषः । प्रकृतमात्मनः समयति' (समं करोति) इति सममुपमानम्। समशब्दात्तत्करोताति ण्यन्तात्कर्तर पचाद्यच्प्रत्ययः। समेनेत्यनन्तरं 'सह एकरूपतया' इति शेषंः । उत्कटा प्रकृष्टस्योपमानस्य ईक्षा ज्ञानमुत्प्रेक्षापदार्थः। संभावनं चोत्कटकोटिक: संदेहः। तथा च प्रकृतस्योपमेयस्य समेन उपमानेन सह एकरूपतया (तादात्म्येन) यत् संभावनम् (सा) उत्प्रेक्षा उत्प्रेक्षानामकोऽलंकार इति सूत्रार्थः। उत्कटोपमानकोटिकं प्रकृतविषयकं संशयज्ञानमुत्प्रेक्षेति भाव:। १ वाच्यमत्र शब्द्बोध्यम। तथा च तुल्यादिशब्दयोगे साधर्म्यस्यार्थत्वन वाच्यत्वाभावेदपि न क्षतिः ॥

Page 644

दशम उल्लास: ।

समेन उपमानेन। उदाहरणम् अथ वा उत्कटैककोटिः संशयः संभावनम्। संशये हि कोटिद्वयं (पक्षद्वयं) वर्तते यथा 'अयं पुरुषो न वा' इत्यत्र एका कोटिः पुरुषस्य विधिः अपरा च 'न वा' इति पुरुषस्य निषेधः । यस्मिन् संशये कोटिद्यमध्ये एकस्याः कोटे: उत्कटत्वं (निश्वितप्रायत्वम् ) स एव संशयः संभा- वनमित्युच्यते। प्रकृतस्य उपमेयस्य। समेन समात्मतया। उपमेयस्योपमानत्वेन संभावना उत्प्रेक्षा इति तु निष्कर्षः । एवं चासदृशयोः संभावनं नोत्प्रेक्षालंकारः सादृश्यातिरिक्तमूलकस्मरणाददिवत् किं तु वस्तुमात्रमिति फलितम्। तेन 'वदनकमलेन बाले स्मितसुषुमालेशमावहसि यदा। जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥" इत्यादौ नोत्प्रेक्षालंकारः अत्र स्मितस्य संभावनोत्थाप- कत्वेऽपि जगद्विजितरूपविषयविषयिसाधारणत्वाभावात्।। समेनेत्यस्यार्थमाह समेन उपमानेनेति। उपमानेनेत्यस्य अलोकसिद्देन कविकल्पितेनोपमानेने- त्यर्थः। तदुक्तं चक्रवर्तिभट्टाचार्यैः "यदायमुपमानांशो लोकतः सिद्धिमृच्छति। तदोपमैव येनेव- शब्द: साधर्म्यवाचकः॥ यदा पुनरयं लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दः संभावना- परः ॥" इति। इदं चेवशब्दसमभिव्याहारे एव अन्यत्र तु लोकसिद्द्ेनापि तेन 'मुखं चन्द्रं मन्ये' इत्यादेः संग्रहः। 'चन्द्र इव मुखम्' इत्यादौ तु उपमैवेति बोध्यम्। प्रकृतस्येत्यस्य च प्रकृंततावच्छेदकरूपेण ज्ञातस्येत्यर्थः । तेन यत्र आहार्यसंभावनं तत्रवात्प्रेक्षा। तेन 'रामं स्त्निग्धघनश्यामं विलोक्य वनमण्डले। प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥' इत्यत्रानाहायसंभावनायां नातिव्याप्तिः अत्र केकिनां नृत्यप्रवृत्त्या संभाँवनाया अनाहार्यत्वम्। रूपकवित्तावति याप्तिवारणायात्र संभावनमिति। रूपके तत्वेनावधारणम्। ससंदेहे समकोटिकः संशयः अत्र तूपमानकोटिक इति दयोर्भेदः । अत्राप्यलं- कारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्त्येव तेन प्रतिभानुत्थापितायाः वास्तविकसंभावनायाः असु- नदरसाधारणधर्ममूलायाः संभावनायाश्र चमत्काराजनकतया अलंकारत्वाभावेन नोत्प्रेक्षात्वप्रसङ्ग: रमणीयसाधारणधर्मनिबन्धना प्रतिभोत्थापितैव हि संभावना चमत्करोतीति सैवालंकारः। क्तं चान्यैरपि "संभावना च रमणीयधर्मनिमित्तिका ग्राह्या तेन 'नूनं स्थाणुनानेन भाव्यम्' इत्यादौ निश्रलत्वादिसाधारणधर्मनिमित्तकसंभावनायां नातिव्याप्तिः" इति। इयं हि उत्प्रेक्षा इवधुवम्प्रायो- नूनंमन्येशङ्केअवैमिऊहेतर्कयामिजानेउत्प्रेक्षेइत्यादिभि: प्रतिपादकैः सहिता यत्रोत्प्रेक्षासामग्री तत्र वाच्या यत्र प्रतिपादकशब्दरहितम् उत्प्रेक्षासामग्रीमात्रं तत्र व्यङ्ग्या। यथा वक्ष्यमाणेष्वेवोदाहरणेष्विवादि- पदादाने। यत्र तु उत्प्रेक्षासामग्रीरहितं प्रतिपादिकशब्दमात्रं तत्र संभावनामात्रमेव नोत्प्रेक्षालंकार १ अस्मिन् रसगङ्गाधरपदये अयं द्वितीयचरण एकया मात्रया न्यूनोडस्ति ॥ २ पश्चचाणेनेत्यर्थः स्मरणेति यावत् ॥ 3 ऋच्छति प्राप्ोति।'ऋ गतिप्रापणयोः' इति धातोः सावधातुके परे "पाघाष्मा०" इति पाणिनि- सूत्रेण ऋच्छादेशः ॥ ४ अयम् उपमानांशः ॥ ५ उदाहरणे पादशोभात्वम् प्रत्युदाहरणे रामत्वं प्रकततावच्छेदक- मिति बोध्यम् ॥ ६ बाधकालिकेच्छाजन्यं ज्ञानमाहार्यम्। अत्र बाधशब्देन (बावते प्रतिबन्नाति इति बाध इति व्युत्पत्त्या ) बाधकं (प्रतिबन्धकं) ज्ञानं विवक्षितम्। तञ्व प्रकते 'मुखं चन्द्रो न' इति ज्ञानम् तत्कालिकी या इच्छा 'मुखे चन्द्रत्वज्ञानं मे जायताम्' इति तज्जन्यं यत् ज्ञानं 'मुखं चन्द्रः' इनि तत् आहार्यमित्युच्यते॥ संभावनाया इति। संभावनानतिपादकमत्र प्राय इति स्यादिति चति बोध्यम्। प्रायःादसतत्वाद्वक्ष्यमाणो भ्रान्तिमद्लंकारोऽप्यत्र न भवतीति ज्ञेयम् ॥८ रूपकप्रसिद्वौ॥ ९ उक्तं चान्यत्र "मन्ये शङ्क ध्रुवं प्रायो नून मित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्द्रोऽनि तादृशः ॥ " इत्युत्प्रेक्षाबोधकत्वेन परिगणितानां शब्दानां प्रयोगे वाच्या तेषामप्रयोगे गम्योत्प्रेक्षेति। 'मन्ये शङ्के ध्रुवम्०' इति वचने 'व्यज्यते' इति पदं बध्यते इत्यर्थकम् ॥ ७४

Page 645

५८६ काव्यप्रकाश: सटीक: । उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्दोरिन्दीवरदलदशा तस्य सौन्दर्यदर्पः। नीतः शान्ति प्रसभमनया वक्त्रकान्त्येति हर्षाल्- लझ्ना मन्ये ललिततनु ते पादयोः पझ्मलक्ष्मीः ॥४१६॥ इति बोध्यम्। तिङन्तसमभिव्याहृतेवशब्दः सर्वत्रोत्प्रेक्षावाचक एवेति 'लिम्पतीव०' इत्युदाहरणे (५८७ पृष्ठे २३ पक्कौ) वक्ष्यते। नामसमभिव्याहृतस्तु इवशब्दस्तत्रैवोत्प्रेक्षाबोधकः यत्र संभा- वनोपयुक्तविशेषणदानम्। यथा 'बालेन्दुवकराण्यविकाशभावाद्वभुः पलाशान्यतिलोहितानि। सदयो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ (कुमारसंभवे ३ सर्गे २९ श्लो०)' इत्यादौ। यत्र क्वचित् स्थितैरपि नखक्षतैर्वक्रत्वलौहित्यादिना उपमाया वक्तुं शक्यत्वेऽपि सद्योवसन्तनायक- समागतवनस्थलीसंबन्धित्वरूपविशेषणकल्पनमुत्प्रेक्षागमकम् उपमायां तस्यानुपयोगात्। तदन्यस्थले तु इवशब्दः उपमाबोधक एव। उत्प्रेक्षाबोधक इवशब्दृश्र क्वचित्प्रतीयमानोऽपि भवति। यथा 'तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥' इत्यत्र लज्जयेवेत्युत्प्रेक्षाबोधक इवशब्दो झटिति प्रतीयते स्तनयोर्लज्जाया असंभवात् इवशब्दं विन। वाक्यार्थस्याप्रतीतेः । सा चैयमुत्प्रेक्षा हेतुफलस्वरूपसंभावनभेदाद्वहुप्रकारा। तथाहि। जातिगुण- क्रियाद्रव्याणामभावस्य च संभावितत्वेन स्वरूपोत्प्रेक्षा पञ्चधा एवं हेतुफलयोरि जात्यादिरूप- त्वेन तयोरपि प्रत्येकं पञ्चविधत्वम् एवमुत्प्रेक्षानिमित्तस्य धर्मस्योपादानानुपादानाभ्यां बहुभेदा । परं तु ईदग्वैचित्यसहस्रं न चमत्कारातिशयायेति न ग्रन्थकृता उक्तमिति सर्व प्रदीपोद्योतादिषु स्पष्टम्। तत्र हेतूत्प्रेक्षामुदाहरत उन्मेषमिति। नायकस्य नायिकां प्रति चाटूक्तिरियम्। हे ललिततनु सुन्दरशरीरे (प्रेयसि ) पद्मलक्ष्मीः कमलशाभा इति हर्षात् एवंविधानन्दात् (हेतोः) ते तव पादयो- श्ररणयोः लग्ा सक्ता (पतिता प्रणता ) इति अहं मन्ये तर्कयामीत्यन्वयः । इति किमित्याकाङ्माया- माह उन्मेषमित्यादि। यो जातिवैरी सहजशत्ुः निशायां रात्रौ मम (पद्मलक्ष्म्याः) उन्मेषं विकासं न सहते तस्य इन्दोः चन्द्रस्य सौन्दर्यदर्पो लावण्यगर्वः इन्दीवरदले इव हशौ चक्षुवी यस्यास्तथाभूतया अनया सुन्दर्या ( कर्त्या) वक्त्रकान्त्या मुखदप्त्या (करणभूतया) प्रसभ बलात्करणं यथा स्यात्तथा "प्रसभं तु बलात्कारः" इत्यमरः शान्ति नीतः प्रापितः (दूरीकृतः ) इतीत्यर्थः । मन्दाक्रान्ता छन्दः । लक्षणमुक्तं प्राक् ७१ पृष्ठे । अत्रोपमेयभूता स्वाभाविकी पादशोभा उपमानभूतयथोक्तहर्षहेतुकपादपतनविषयीभूतपद्मशोभात्वेन संभावितेति हेतूत्प्रेक्षेयमित्यर्वाचीनाः। अत्रोक्तं प्रदीपोक््योतयोः । "अत्र पद्मलक्ष्म्याः कामिनीचरणयोः स्वभावलग्नत्वं यथोक्तहर्षहेतुकलग्नत्वतादात्म्येन संभावितमिति हेतूत्प्रेक्षेयम्" इति प्रदापः । स्वभाव लस्नत्वमिति। तत्त्वेनाध्यवसितः स्वाभाविकः शोभासंबन्ध इत्यर्थः ।संभावितमिति। अतिमनोहर- त्वेन निमित्तेनेति भावः । अत्र लग्नापदेन लक्षणया पृथगुपस्थिते स्वाभाविकशोभासंबन्धे यथोक्तहर्ष- हेतुकपदलक्ष्मीलम्नत्वतादात्म्यसंभावना तात्पर्यानुपपत्त्यैव च लक्षणा लक्ष्यगतातिशयप्रतीतिश्व प्रयोज- नम्। एतावतैवोत्प्रेक्षायां साध्यवसानत्वव्यवहारः प्राचामिति बोध्यम्।न च हेतुफलयारेपि स्वरूप तया स्वरूपोत्प्रेक्षैव सर्वत्र वक्तुमुन्तितेति वाच्यम् हेतुत्वफलत्वाम्यां निर्दिष्टेतरस्य स्वरूपशब्दार्थत्वात्

Page 646

दशम उल्लासः। ५८७

लिम्पतीव तमोऽङ्गानि वर्षतीवाअ्नं नभः। असत्पुरुषसेवेव दृष्टिर्विफलतां गता॥ ४१७ ॥ इत्याहौ व्यापनादि लेपनादिरूपतया संभावितम्।।

लिम्पतवित्यादाविवश्रत्योपमां ये मन्यन्ते तन्मतं निराकुर्वन् क्रियास्वरूपोत्प्रेक्षामुदाहरति लिम्पती- वेति। शूद्रककविकृते मृच्छकटिकनान्नि प्रकरणे प्रथमेऽङ्के गाढान्धकारवर्णनमिदम्। असत्पुरुषसेवेवे- त्युत्तरार्ध यद्यपि बहुषु काव्यप्रकाशपुस्तकेषु न दृश्यते तथापि प्रदीपानुरोधात् कमलाकरभट्टेन व्याख्या- तत्वाच्चात्र मया संगृहीतम् । यतः तमोऽन्धकारः अङ्गानि अवयवान् लिम्पतवि नभः आकाशः अञ्जनं कज्जलं वर्षतीव अतो दृष्टिः नेत्रम् असत्पुरुषस्य दुर्जनस्य सेवेव विफलतां (प्रसाराभावात्) व्यर्थतां गता प्राप्तेत्यर्थः । "अङ्गं प्रतीकोऽवयवः" इत्यमरः । अत्रोत्तरार्धे उपमालंकारः । पूर्वार्ध- मेवोदाहरणम्।।

अत्र पूर्वार्धे लिम्पतीति पदेन 'गौरयम्' ( ४८ परष्ठे ) इतिवत् साध्यवसानलक्षणया उपमेयभूत व्यापनमुपस्थितम् एवं वर्षतीति पदेनापि उपमेयभूतमधःप्रसरणमुपस्थितम्। तथा च तमःकर्तृका- ङ्रकर्मकव्यापनं भ्रमातिशयकारकत्वसकलवस्तुमलिनीकरणत्वादिनिमित्तेन लेपनरूपतया संभावितम् एवं नभ:कर्तृकाञ्जनकर्मकाधःप्रसरणं पूर्वोक्तेनैव निमित्तेन वर्षणरूपतया संभावितमित्युभयत्र क्रियास्वरूपोत्प्रेक्षैवेयम् । इयांस्तु विशेषः। तमःकर्तृकाङ्गकर्मकव्यापनं स्वतःसंभवि (लोकप्रसि- द्म) नभ:कर्तृकाञ्जनकर्मकाधःप्रसरणं तु कविकल्पितमितीत्युश्योतसुधासागरयोः स्पष्टम्। परे तु 'लिम्पतीव तमोङ्गानि' इत्यत्राचेतनस्य तमसो व्यापनरूपो विषयो लेपनत्वेन संभावितः एवं 'वर्ष- तीाञ्जनं नभः' इत्यत्र निरालोकप्रवृत्तस्तमसः संपातो नभःकर्तृकाञ्जनवर्षणत्वन संभावितः उभयत्र विषयस्यानुपादानमित्याहुः । तदेतत्सर्वमभिप्रेत्य वृत्तिकृदाह इत्यादािति । व्यापनादीति आदिपदेन कविकल्पितं नभ:कर्तृकाअ्जनकर्मकाधःप्रसरणं ग्राह्यम्। लेपनादीत्यादिपदेन वर्षणं ग्राह्यम्। इदमुद्योतसुधासागरकारमते । परमते तु प्रथमेनादिपदेन निरालोकप्रवृत्तस्तमसः संपातो ग्राह्यः द्वितीयेनादिपदेन नभ:कर्तृकाअ्जनकर्मकवर्षणं ग्राह्यम्। संभावितमिति । उत्प्रेक्षितमित्यर्थः । अयं भावः। अत्र पूर्वार्धे कियास्वरूपोत्प्रेक्षैव न तूपमा तिङन्तसमभिव्याहृतेवशब्दस्य संभावनाबो- धकत्वात्। स्पष्ट चदं "धातोः कर्मणः समानकर्तुकादिच्छार्या वा" (३१७) इति पाणिनि सूत्रे महाभाष्ये। तथाहि "न बै तिङन्तेनोपमानमस्ति" इति महाभाष्यम् । "किं तु तत्र संभाव नार्थकः इवशब्दः" इति कैयटः । तिङन्तेन शब्देनोपमानबोधो नास्तीति महाभाष्यार्थः तिङ्न्तप- दप्रतिपाद्यस्य साध्यत्वात् सिद्धस्यैवोपमानत्वसंभवादिति भावः। तदुक्तम् "सिद्धमेव समानार्थमु- पमानं विधीयते। तिङन्तार्थस्तु साध्यत्वादुपमानं न जायते ॥" इति । उपमेयत्वं त्वस्त्येव 'ब्राह्म- णवद्धीते' इत्यादौ ( ५५४ पृष्ठे ९ पङ्क्तौ) तथा प्रर्तातेः । तिङन्तसमभिष्याह्ृतवसब्दस्य संभावनाबधकत्वादेव 'रोदितीव पठति' इत्यादौ 'नृत्यतीव गच्छति' इत्यादौ च नोपमा कितु क्रियास्वरूपोत्प्रेक्षैव । एतेन 'लिम्पति०' इत्यादौ तमसि लेपनकर्तृतादात्म्यमुत्प्रेक्ष्यम् नभसि वर्ष- णकर्तृतादात्म्यमुत्प्रेक्ष्यमिति केनचिदुक्तमपास्तम् लिम्पतिवर्षती्याख्यातयोः कर्तृवाचकत्वेऽपि

लक्षणयेति। अचेतने तमस्ति चेतनवर्मस्य लेपनस्यासंभवामुख्यार्थबाधः सकलवस्तुमलिनी कण्ेर्म श्रयत्वं संचन्धः सर्वथैवाभेदावगमः प्रयोजनं चेनि बोष्यमू ।।

Page 647

काव्यप्रकाश: सटीकः । (सू० १३८) ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ ९२ । "भावप्रधानमाख्यातम्" इति यास्कमुन्युक्तनिरुक्तस्मृतेर्धात्वर्थक्रियाया एव प्राधान्येन तदुपसर्ज- नत्वेनान्वितस्य कर्तुरुत्प्रेक्षणीयतयान्यत्रान्वयायागात् । अत एव तस्य ( तिङ्पदप्रतिपाद्यस्य कर्तुः ) उपमायामुपमानतयान्वयः काव्यादर्शे दण्डिना निराकृतः "कैता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे। स्वक्रियासाधनव्यग्रो नालमन्यव्यपेक्षितुम् ॥" इति । उक्तं च कर्तुर्न्यग्भूतत्वं वैयाकर- णैरपि "फैलव्यापारयो्धातः अश्रये तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ।" इति। 'देवदत्त इव यज्ञदत्तः पचति' इत्यादौ पदान्तरापस्थाप्यकर्तृविशेषणस्य तु उपमेयत्वं भवत्ये- वेति बोध्यम्। ननु प्रथमान्तविशेष्यकबोधवादिमते कर्तुरेव प्राधान्यात् कर्तुरुत्प्रेक्षणीयतयान्यत्रान्व यस्य संभवेन कर्तुरुत्प्रेक्षणीयत्वं संभवत्येवेति चेन्न। तन्मतेऽपि व्यापनादेलेपना/दितयोत्प्रेक्षगेनैव चमत्कारपर्यवसानात् तत्कर्तृत्वपर्यन्तोत्प्रेक्षणे प्रयोजनविरहेण तस्यात्राविव्रक्षितत्वादिति संप्रदायविदः। परे तु प्रथमान्तविशेष्यकबोधवादिमतेऽपि न तमोनभसोलेपनवर्षणकर्तृत्वमुत्प्रेक्ष्यम साधारणधर्माप्र- तीतेः। उत्प्रेक्षायाः संशयविशेषतया संशयस्य च साधारणधर्मदर्शनजन्यत्वनोपमाविषये एव प्रवृत्तेः । न हि व्यापनमधःप्रसरणं च यथाक्रमं साधारणो धर्मो भवितुमर्हति व्यापनस्य लेपनकर्तृनिष्ठतया अधःप्रसरणस्य वर्षणकर्तृनिष्ठतया चाप्रतीतेरित्याहुः। "अत्र गम्यमानं तमसो व्यापनादि लेपनादिरूप- तया संभावितम्" इति प्रदीपे उक्तम् तत्र गम्यमानमित्यस्य लक्षणया बोध्यमानमित्येवार्थः । यत्तु प्रभाकृता व्याख्यातम् गम्यमानं व्यञ्जनया प्रतीयमानमिति तत्त प्रामादिकमवेति विद्वद्भिराकलनीयम्। एवं फलोत्प्रेक्षाप्यूह्येत्यलम् ॥। इत्युत्प्रेक्षा ।।४।। ससंदेहनामानमलंकारं लक्षयति ससंदेह इति । अत्र ससंदेह इति लक्ष्यनिर्देशः संशय इति लक्षणम् भेदोक्तौ तदनुक्तौ चोति विभागः। अत्र पूर्वसूत्रात् 'प्रकृतस्य समेन यत्' इत्यनुवर्तते तुशब्दो भिन्नक्रमणान्वोति यदिति लिङ्गव्यत्ययात् संशय इत्यनेनान्वेति प्रकृतस्य समेनेत्यनेन संशयस्य सादृश्यप्रयोज्यत्वलाभः । तथा च प्रकृतस्य उपमेयस्य समेन उपमानेन (उपमानरूपतया) सादृश्यज्ञा नप्रयोज्यो यस्तु संशयः संशयात्मकं ज्ञानं स ससंदेहनामालंकारः स च भेदोक्तौ भेदानुक्तौ चति द्विविध इति सूत्रार्थः । अयं च ससंदेहो निश्वयगर्भो निश्र्यान्तः शुद्धश्र ( केवलसंशयरूपश्र ) इति १ आख्यातं तिङ्न्नं तच्व मातप्रधानं क्रियाप्रधानमित्यथः तिडथापिक्षिया धात्वर्थ प्रवानं विशेष्यमिति यावत्। तिङर्थस्तु विशेषणमिति भावः ॥ २ अन्ययायोगादिति। "एकविशेषणं नापरत्र स्वार्थ प्रत्याययति" इति भ्यायादिति भावः। उक्तं च मञ्जूषार्या वृत्यर्थवादे नागोजीभट्टैः "एकत्र विशेषणत्वेन गृहीतशक्तिकश्य ज्ञातस्व वापरत्र विशेषण- स्वायोगः । अत एव 'राज्ञ: पुरुषोऽशवश्रय इतिवत् राजपुरुषोऽशवश्र्वेति न" इति॥३ कर्तेति । कर्ता तिङप्रतिपायो व्यपाराश्रयः यदि उपमानं स्यात् तमसः उपमानत्वनोच्यते 'तहि तद्वि न सम्यक्' इति शेष।। यतोडसौ कर्ता क्रिया पढे लिम्पर्ताति करियापदेन विशेष्यतथा प्रतिपाधे लेपनव्यापारे भ्यम्भूतः उपसर्जनमितः "तिडर्थस्तु विशेषणम्" इत्युक्तेः! लेपनव्यापारे विशेषणतथान्वितस्य कर्तुः कथमुपमानतया तमसा सहाम्वयित्वमिति भावः । कि च स्वक्रिया स्वाश्रयकलेपनव्यापारस्तस्या साधन सिद्धि विशेष्यतया बीध इत्यर्थः तत्र व्यगो व्यापृतः प्रकारतामापन्न इति यावत् तादृशः सन् अभ्यत् पदार्था्तिरं व्यपेक्षितं स्वप्रकारकान्वयबोधे विशेष्यत्वेनाकाङ्क्षितुं पदार्थाम्तरविशे- व्यकबोधे पुनः प्रकारीभवितुमिति यावत नालं न समर्थ इत्यर्थ इति व्यारनार ॥ फरेति। फलं 'पचति' इन्यादौ पारिभाषिकं विक्कित्यादि व्यापारश्र विकित्याद्यनुकूला। धातुरित्यत्र 'स्मृतः' इति वचनावपरिणामेनान्वयः। आश्रये इति। फलाश्रये कर्मण व्यापाराश्रये कतरि चेत्यर्थ।॥ फले प्रधानमिति। फलनिरूपितप्राधाम्यपान् व्यापार हत्यर्थ: ॥ ५ प्रथमान्तविशेष्यकचाधवादिमते इति। नैयायिकमते हत्यर्थ: ॥

Page 648

दैशम उल्लास:। ५८९

भेदोक्तौ यथा अयं मार्तण्ड: किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्।

त्रिविधो भवतीत्यग्रे स्फुटीभविष्यंति। संदेहेन सह विषयतया तद्विशिष्ट इति ससंदेह इत्युद्चोतकाराः। केचित्तु (बहूनां संदेहानां प्रायशः सत्त्वात्) संदेहेन सह वर्तमानः संदेहः ससंदेह इति यथाकथं- चिद्धयत्पत्तिः कार्येत्याहुः। अयमेव ससंदेहः क्वचित् संदेहसंशयशब्दाम्यां व्यवह्नियते। तत्र संदेहसंशय शब्दौ 'पापः पुरुषः' इत्यत्र पापशब्द्वत् अर्शआदित्वात् मत्वर्थीयाकारप्रत्ययान्ताविति बोध्यम्। भेदो वैधर्म्यम् त्चोपमानोपमेययोरेकस्मिन्नवर्तमानमपरस्मिन् वर्तमानं धर्मविशेषरूपं ग्राह्यम्। यथोदाहरण- दये यथाक्रमं सताश्वसंबन्धः उपमेये राजनि अवर्तमानः सूर्ये एव वर्तते एवं ललितसविलासवचनं चन्द्रादाववर्तमानम् उपमेये मुखे एव वर्तते इति तयोरुक्तिरत्र वैधम्योक्तिरिति बोध्यम्। सादृवश्यज्ञान- प्रयोज्यस्य संशयस्य ग्रहणादेव 'इतो गता सा क्व गता न जाने गेहं गता में हृदयं गता वा' इत्यत्र न ससंदेहालंकारः संशयस्य सादृश्यमलकत्वाभावात् अस्य प्रेममात्रोत्कर्षकत्वेऽपि वर्णनीयोत्कर्षकत्वा- भावाच्च असद्विषयेऽपि कस्यचित्प्रेमसंभवात्। संशयश्रात्रोभयस्मिन् पक्षे तुल्यरूपो ग्राह्यः तेन संभावनाया अपि संशयविशेषरूपतया नोत्प्रेक्षालंकारे ससंदेहालंकारत्वप्रसङ्ग: संभावनाया एकस्मिन् पक्षे आधिक्येनोभयत्र तुल्यरूपत्वाभावात्। उक्तं चान्यैरपि "संशयश्रात्र समकोटिको ग्राह्य इत्युत्प्रेक्षा- व्युदास:" इति। अत्राप्यलंकारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्येव तेन प्रतिभानुत्थापितेऽचमत्का- रिणि 'स्थाणुर्ता पुरुषो वा' इति संशये नालंकारत्वप्रसङ्ग इत्युइ्योतादिषु स्पष्टम्॥

भेदोक्तौ ससंदेहमुदाहरति अयमिति। राजानं प्रति कस्यचिदुक्तिरियम्। हे राजन् प्रतिभटाः शत्रवः त्वाम् आजौ संग्रामे समालोक्य सम्यक् दृष्टा इति एवंविधान् विकल्पान संशयान् चिर बहुकालं यथा स्यात्तथा विद्धति कुर्वन्ति। किंविधान् विकल्पानित्याकाङ्डायामाह अयमिति। अयं भूलोक- गतः मार्तण्डः सूर्यः किम् स प्रसिद्धः सूर्यः खलु सप्तभिः तुरगैः अश्वैः इतः युक्तः "सर्व वाक्यं सावधारणम्" इति न्यायेन सप्तभिरेव तुरगैरित इत्यर्थः अयमसंख्यतुरगयुक्तत्वान्न सूर्य इति भावः। तर्हिं कृशानु: अग्निः किम् एषः सः (प्रसिद्धः कृशानुः) सर्वाः दिशः नियतं यथा स्यात्तथा न प्रस- रति किंतु वाय्तभिमुखामेव दिशं प्रसरति अयं तु सर्वदिक्प्रसरणान्नान्निरिते भावः। तर्हि साक्षात् दग्गोचरतां प्राप्तः कृतान्तो यमः किम् असौ सः (कृतान्तः) महिषवहनः महिषारूढः अयं तु कदाचिदपि महिष नारोहतीत्यर्थः। केचित्तु 'चिरम्' इत्यस्य 'समालोक्य' इत्यत्रान्वयमाहुः। शिख- रिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥

अत्र अयं किं मार्तण्डस्तदन्यो वेति संशयाकारः। अत्र प्रतापेन दुर्निरीक्ष्यत्वसाम्यान्मातण्डत्व- संशयः दुराधर्षत्वसाम्यात् कृशानुत्वसंशयः क्षणन सकलहन्तृत्वसाम्यात् कृतान्तत्वसंशयः। सप्ताश्व- संबन्धादिकमुपमेये राज्ि न वर्तते उपमाने सूर्यादावेव वर्तते इति भेदोक्तिरिति भेदोक्तौ ससंदेहालं कारोडयम्। न चायमसंख्यतुरगयुक्तत्वादिना राज्ञो मार्तण्डायुपमानेभ्य आधिक्योक्तेव्यतिरेकालंकार इति वाच्यम व्यतिरेकस्य संदेहानुयायितया ससंदेहालंकारेणैव व्यपदेशौचित्यात्। अयं भावः। प्रथमतः

१ नालंकारत्वप्रसङ्ग इति। निर्श्रलत्वादिसाधारणधर्मनिमित्त कत्वेन संशयम्य सादृश्यज्ञानप्रयोज्यतवेऽपीति शेषः ॥

Page 649

५९० काव्यप्रकाशः सटीकः । कृतान्त: किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥४१८॥ भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यातन्निश्चयान्तोऽवि संदेहः स्व्रीकृतः । यथा इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् । ललित सविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥ ४१९॥ संद्ेहप्रतीतेरनन्तरं च वैधम्योपन्यासेन व्यतिरेकप्रतीत।वप्युपजी्यत्वात्संशयचप्रत्कृतावेव, पर्यवसान- मितीति प्रदीपप्रभयो: स्पष्टम्।। अयमादयः प्रभेदोऽपि द्विविधः निश्र्यगर्भो निश्रयान्तश्रेति। निश्चयः गर्भे (मध्ये) यस्येति व्युत्पत्त्या याद्शसंशयोत्तरं निश्रये जातेऽपि पुनः संशयः स निश्रयगर्भः। निश्वयश्रात्र उपमानभिन्न- त्वेन उपमेयावधारणरूपो ग्राह्यः। एकोपमानभिन्नत्वेनावधारणेऽपि उपमानान्तररूपेण संशयोदयसंभ- बात् संशयस्य निश्रयगर्भत्वं नासंभवि। यथोदाहरणे सूर्ये सप्ताश्वसबन्धरूपवैधर्म्यदर्शनेन राज्ञः सूर्यभिन्नत्वसाधारणेऽपि कृशानुत्वरूपेणापि पुनः संशयः संभवत्येव इत्थमेव निश्रयगर्भत्वमुपपद्मते। निश्रयः अन्ते (समाप्तौ) यस्येति व्युत्पत्त्या यादृशसंशयानन्तरं निश्र्ये जाते ( निश्र्यस्यैव संशय- निवर्तकतया) पुनः संशयानुदयः स निश्रयान्तः। उपमेयस्वरूपेण उपमेयावधारणमेव उपमेये उपमा- नसंशयनिवर्तकमिति तदेवात्र निश्रयपदेनोच्यते। तादृशनिश्रयानन्तरमेव हि संशयानुदयेन निश्र्यान्त- त्वमुपपद्यते। यथा वक्ष्यमाणे 'इन्दुः किम्०' इत्युदाहरणे ललितसविलासवचनरूपवैधर्म्यदर्शनात् मुखत्वरूपण मुखस्य निश्ये पुनः केनापि रूपेण न संशयः। इत्थं काव्यालंकारे रुद्रटोक्तं प्रभेदद्दयं "भेदोक्तौ" इति वदता सूत्रकारेण स्वीृतमेवेति न स्वग्रन्थस्य न्यूनतेत्याह भेदोक्तावित्यनेनेत्यादि। यावत् किं तु। संदेह: ससंदेहः । स्वीकृत इति। 'सूत्रकृता मया' इति शेषः । अयमाशयः । भेदो वैध्म्यम् तदुक्तिर्द्विधा उपमाननिष्ठवैधर्म्यस्योक्तिरुपमेयनिष्ठवैधर्म्यस्योक्तिश्र्वेति। तत्रोपमान मात्रनिष्ठवैधर्म्यस्योक्तौ निश्वयगर्भः यथोक्तोदाहरणे सप्ताश्वसंबन्धादिवैधर्म्येण मार्तण्डत्वाद्यभावनि- श्वयेऽपि कृशानुत्वादिसंशयात् निश्रयगर्भता। वैध्म्योक्तिस्तु सति मार्तण्डत्वसंशये कृशानुत्वसंश यायोगात्तत्संशयनिवृत्तये कृता। उपमेयनिष्ठस्यापि वैधर्म्यस्योक्तौ तु निश्रयान्तः । यथा वक्ष्यमाणे 'इन्दुः किम् इत्युदाहरणे ललितसविलासवचनैः मुखत्वेन रूपेण मुखस्य निश्र्ये सति अग्रे केनापि रूपेण संशयाभावात् न निश्र्यगर्भता किं तु निश्र्वयान्ततैव्र। एवंच 'भेदोक्तौ' इति विभजनेन द्विविधोऽप्ययं प्रभेद: सूत्रकृता स्वीकृत एवेति। तमेवे निश्वयान्तं सैंसदेहमुदाहरति इन्दुरिति। नायिंकां प्रति कस्यचिदुक्तिरियम। हे हरि- णाक्षि मृगनयने एतत् (मुखम) इन्दुः किम् तर्हि कलङ्कः क्व नास्तीत्यर्थः तेन चन्द्रो नेति भावः। सरसिजं पदं किम तर्हि अम्बु जलं कुत्र गतम् जलाभावान्न पद्ममिति भावः । ललितैः रम्यैः सविलासैः विलाससाहतैश्व वचनैः भाषणैः परतः पश्रात् मुखमिति निश्चितमित्यर्थः। गीतिश्छदः । लक्षणमुक्तं प्राक् ४ पृष्ठे। अब्र ललितसविलासवचनरूपवैधर्म्यवर्शनात् मुखत्वेन रूपेण मुखस्य निश्रयें पुनः केनापि रूपेण

Page 650

दुशम उल्लास: । ५९१

किं तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो भट्टोद्भटेन। तदनुक्तौ यथा अस्या: सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिपद: शृङ्गारैकरसः स्वयं नु मदनो मासो न पुष्पाकरः। वेदाभ्यासजड: कथं नु विषयव्यावृत्तकातूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥४२०॥ न संशय इति निश्यान्तोऽयं ससंदेहालंकारः । उक्तं च सुधासागरकारैः "अत्रायमाशयः। भेदो वैधर्म्यम् तदुक्तिर्द्विधा उपमाननिष्ठवैधर्म्यस्थोक्तिरुपमयनिष्ठवैधर्म्यस्योक्तिश्व्वेति। तत्रोपमाननिष्ठ- स्योक्तौ प्रकृते मातण्डत्वाद्यभावननिश्र्वयस्य मध्यवर्तित्वाद्र्भता असति तस्मिन्निश्चये पूर्वपूर्वसंशये विद्यमाने संशयान्तरानुत्पत्तेः । उपमेयनिष्ठस्य वचनादिरूपस्योक्तौ तु वास्तवमुखत्वनिश्चये सति संशयान्तराभावान्न निश्यगर्भता किं तृ निश्चयान्ततैवेति" इति॥ तर्हि काव्यालङ्कारसारसंग्रहे भट्टोन्भटेन कथमुपेक्षितोऽयं निश्यान्तप्रभेद इत्यत आह कित्वित्यादि। किं तु परं तु । अत्र निश्रयान्ते। न प्रतीयमान इति। व्यङ्ग्चो नेत्यर्थः । इति हेतोः। उपेक्षितो भट्टोभ््टेनेति। अयं भावः । निश्रयगर्भे हि वैधम्योक्त्या निश्रयस्य व्यङ्ग्यत्वम् अत्र तु (निश्र्वयान्ते तु) निश्वितमिति शब्देन निश्र्वयस्य कथनात् वाच्यत्वं वाच्यत्वे च न तादृशचमत्कारित्वमिति मन्य- मानेन भद्टोद्भटेनायं निश्वयान्तप्रभेद उपेक्षितो नोक्तः निश्यस्य व्यङ्ग्यत्वे एव चमत्कारित्वादिति। सूत्रकृता तु निश्रयस्य वाच्यत्वेऽपि चमत्कारानुभवात्स्वीर्तव्य एवेति स्वीकृत इति गूढाशयः । ।अत्राहुर्विवरणकारा अपि "वाच्यस्य संशयस्य वाच्येनैव निश्चयेन निवृत्तिवर्णनमुचितमिति निश्रया- न्तस्थले निश्वयस्य वाच्यत्वमावश्यकम् 'तस्य वाच्यत्वे च न तादृशचमत्कारित्वम्' इति मन्यमानेन भद्टोद्भटेनायं निश्रयान्तप्रभेद उपेक्षितः (वस्तुतो ग्रन्थकृत्संमतः)। ततश्र निश्र्वयगर्भस्थले निश्र्य- पदेन पूर्वोक्तोपमानभिन्नत्वेन निश्यो वाच्यो वा प्रतीयमानो वा ग्राह्यः। निश्यान्तस्थले तु निश्रय- पदेन उपमेयरूपेणैव निश्यो ग्राह्यः स च वाच्य एव नियतः। एतत्सर्वे वृत्तौ स्पष्टम् ॥ भेदानुक्तौ ससंदेहमुदाहरति अस्या इति। विक्रमोर्वशीये प्रथमेऽङ्के उर्वशी प्रकृत्य पुरूरवसः उक्तिरियम। अत्र पूर्वार्धे नुशब्दाः किंशब्दार्थकाः प्रश्नार्थकाः "नु प्रश्नेऽनुनयेऽतीतार्थे विकल्प- वितर्कयोः" इति हेमचन्द्रकोशात्। अस्या: सुन्दर्या: (उर्वश्याः) सर्गविधौ सृष्टिविधाने (निर्मितिसंपा- दने ) यः प्रजापतिः निर्माता (निर्माणकर्ता) अभूत् सः कान्तिप्रदः कान्तिदायकः चन्द्रो नु चन्द्रः किम् अपूर्वकान्तेश्रन्द्रत एव संभवादिति भावः । 'कान्तिप्रदः' इत्यत्र 'कान्तप्रभः' इति पाठस्तु न रुचिरः। किं वा शृङ्गारः एकः प्रधानो रसो यस्य तादृशो मदनः कामदेवः स्वयं किम् शुङ्गारोद्दीपक- रूपलावण्यादेर्मदनत एव संभवादिति भावः । अथ वा पुष्पाकरो मासः मधुमासः (वसन्तः) किम् अधरदशनादिरूपपुष्पाणां वतन्तत एव संभवादिति भावः। ननु प्रसिद्धो ब्रह्मा कुतो न प्रजापति- रित्यत आह वेदाभ्यासेत्यादि। वेदाभ्यासेन जडः कुण्ठितधीः विषयेभ्यो वनितादिभ्यो व्यावृत्तं निवृत्तं कौतूहलं कौतुकं (औत्सुक्यं ) यस्य तादृशः पुराणो वृद्: (जरठः ) मुनिः मननशीलः (ब्रह्मा) इदं मनोहरं रूपं निर्मातुं स्रछ्ठुं कथं नु प्रभवेत नैव समर्थो भवेदित्यर्थः । अत्र मुनिरित्यस्य 'ब्रह्मा' इत्येवार्थ: न तु 'नारायणः' इति नारायणस्योत्पादकल्वेऽपि निर्मातृत्वाभावात् प्रकृते तु मुनिनिष्ठनिर्मातृ-

Page 651

५९२ काव्यप्रकाश: सटीकः ।

त्वव्यवच्छेदस्यैव विवक्षितत्वात् । अत एव प्रजापतिपदस्वारस्यमपि। अत एव चामरेण प्रजापति- पर्यायपरिगणनावसरे "ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः" इति ग्रन्थेन पितामह इति नाम परिगणितम् । अत एव च चक्रवर्ति विना बहुभिष्टीकाकारैः 'मुनिर्ब्रह्मा' इत्येव व्याख्यातम्। एतेन "ऊरुद्भवा नरसखस्य मुनेः सुरस्त्री" इत्यादिविक्रमोर्वशीयसंदर्भात् "नारायणोरुं निर्भिद्य संभूता वरवर्णिनी। ऐलस्य दयिता देवी योषिद्रतं किमुर्वशी" इति हरिवंशवचनाच्च मुनिरित्यस्य नारायण इत्यर्थ इत्यपास्तम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र 'अस्याः सृष्टौ यः प्रजापतिः (निर्माता ) अभूत स कि चन्द्रः कि वा मदनः किं वा वसन्तः' इति प्रजापतिधर्मिकश्रन्द्रत्वादिरूपविरुद्धनानाभावकोटिकः संशयः। उर्वशीनिर्मातरि कान्तिप्रदत्व- सत्वेन चन्द्रस्य च तत्वेन कान्तिप्रदत्वं तयोः (प्रजापतिचन्द्रयोः) सादृश्यम् उर्वश्याः शृङ्गारो- दीपक रूपलावण्यादिमत्वेनाधरदशनादिरूपपुष्पवत्त्वेन तन्निर्मातरि ताद शलवण्यादिसंपद्दत्तायाः पुष्पवत्तायाश्र सत्वेन मदनवसन्तयोरपि तत्सत्वात् तद्रूपसादृश्यमूलक्ोऽयं संशयः तत्सामग्रीसंपभ्नेनैव तद्वर्मवतो निर्माणसंभवादित्युइ्चोते स्पष्टम् । एवं चात्र एतत्प्रजापतौ (उर्वशीनिर्मातरि ) चन्द्रादि- संदेहः। तथा चात्रोपमेयमूतस्य प्रजापतेरुपमानभूतस्य चन्द्रादेरवा कस्यापि वैधर्म्य नोक्तमिति भेदानुक्तौ ससंदेहालंकारोडयम। वेदाभ्यासजड इत्यादिना जाड्यादेर्धर्मस्योक्तावपि जाड्यादेन भेदकधर्मत्वम् तस्योपमानोपमेयान्यतरधर्मत्वाभावात् । परं तु जाड्यादयो हि ब्रह्मणः चतुर्मुखस्य सृष्टिकर्तृत्व निराकुर्वन्तश्रन्द्रादीनां सृष्टिकर्तृत्वसंशयमेव पुष्गन्ति । प्रसिद्धः सृष्टिकर्ता ब्रह्मा वेदा- भ्यासजड इति स नास्या: सृष्टिकर्तृतया संभवति । अत एव संदिह्यते अस्याः सृष्टिकर्ता कः चन्द्रो वा मदनो वा वसन्तो वेति संदेह एव वर्तते। एवं चात्र पूर्वार्धमेवोदाहरणम्। उत्तरार्धे तु 'कथं नु प्रभवेत्' इत्युक्त्या संबन्धेऽसंबन्धरूपातिशयोक्तिरलंकारः । अस्मिन् द्वितीयमेदे निश्यगर्भो निश्रयान्तश्रवेति प्रभेदद्वयस्य वार्तापि न संभवति भेदकधर्मानुक्त्या निश्यस्यैवाभावात् इति बोध्यम् । अत्रोक्तं सुधासागरे "अत्र प्रजापतित्वेन शङ्क्यमानस्य चन्द्रादेः कस्यापि न वैधर्म्यमुक्तम्" इति। अत्राहुक्षकरवर्तिनः "अत्र नुशब्दाः किंशब्दार्थाः। 'र्जिता नु विविधास्तरुशैला नामित नु गगनं स्थगितं नु। पूरिता नु विषमेषु धरित्री संहता नु ककुमस्तिमिरेण ॥' इत्यत्र तिमिरव्याप्तौ रञ्षना वुत्प्रेक्ष्यते। न चात्र भेदानुक्तौ ससंदेहः एकत्र विषये विरुद्धकोटिद्वयानवलम्बनात् तर्वादिसंबन्धि- भेदेन तिमिरव्यापनस्य नानात्वात् विषयानुपादाने संदेहाप्रवृत्तेः इवशब्दवत्ुश्देनापि संभावनो- त्थापनात् " इति॥ केचित्तु 'अस्याः सर्गविधौ' इत्यत्र वितर्कांकार: वितर्कश्र संशयोत्तरमनिर्णये ऊहः तब्अ्जकशच नुशब्दादि स चेत्थम् चन्द्रान्यो यादि निर्माता स्यात्कान्तिप्रदोन स्यादित्याद्याकारः अत एव ब्रह्मा यदि निर्माता स्यात् निर्माणसामग्रीमान् स्यादिति संशयोत्तरवर्तितर्कस्यापायं वेदाभ्यासजड इत्यादिना निषिध्यते इति तनन। वितर्ककारणत्वेन त्वयापि अत्र संशयाङ्गीकारेण तस्यैवालंकारत्वात् सतोऽपि वितर्कस्य वर्णनीयोत्करषनिाधायकत्वेनालंकारत्वाभावाच्च संदेहेनैव तस्याः उत्कर्षसिद्धेः। वेदाभ्यासजड इत्याय्युक्तिस्तु जगननिर्मातरि ब्रह्मणि सति कथमेतेषु तस्याः निर्मातृत्वसंदेह इत्याशङ्कापनयनार्थमेवेति बोध्यम्। यत्तु 'इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा' इत्यत्र विकल्पालंकार: पृथ गेव वाशब्दशचात्र कल्पान्तरपरः 'असामर्थ्ये कलिङ्गनृपतिवत् शिरो नमय सति सामर्थ्ये करहाटनृप- तिवत् धनुर्नमय' इत्यर्थात् व्यवस्थितरचायं विकल्पः इति तन। वर्णनीयोत्कर्षानाधायकत्वेनैतस्यालं

Page 652

दशम उल्लास:। ५९३

(सू० १३९) तद्रूपकमभेदो य उपमानोपमेययोः । अतिसाम्यात् अनपह्नुतभेदयोः अभेद:। कारत्वे मानाभावात् "उपकुर्वन्ति तं सन्तम्" (४६५ पृष्ठे) इत्यादिसामान्यलक्षणाभावात्। एतेन नमनरूपेकक्रियाकर्मत्वेनौपम्यं गम्यमानमलंकारताबीजमित्यपास्तम् तादृशौपम्यस्य चारुत्वाभावाच्च। अन्ये तु अत्रापि संदेह एव व्यङ्ग्चस्तु निश्चयो 'मात्सर्यमुत्सार्य०' (२४१ पृष्ठे) इतिवदित्याहु- रित्युइ्योते स्पष्टम्॥ इति ससंदेहः ।॥ ५॥ रूपकनामानमलंकारं लक्षयति तदूपकमिति। रूपयत्येकतां नयतीति रूपकमिति व्युत्पत्तिः । कुवलयानन्दकारिकाव्याख्यायामाशाधरभट्टास्तु "रूपवत्करोतीति रूपयतीति [ वा ] रूपको लक्षणा- विशेष: रूपयुक्तं करोतीत्यर्थः । सोडस्मिन्नस्तीति रूपकमलंकारः " इत्याहुः । उपमानोपमेययोः यः अभेदः अभेदारोपः तत् रूपकमित्पर्थः । तदिति विधेयलिङ्गग्राहि "उद्देश्यप्रतिनिर्देश्ययोरैक्य- मापादयत् सर्वनाम पर्यायेण तत्तल्विङ्गमाकू भवति" इत्यभियुक्तोक्तेः । अभेदारोपे हेतुमाह अति- साम्यादिति। धर्मबाहुल्यादित्यर्थः । अनपतह्गुमेदयोरिति । भेदो वैधर्म्यम् तच्च चन्द्रत्वमुखत्वादि प्रकाशितवैध्म्ययोरित्यर्थः । अभेद: अभेदारोपः । तथा च परस्परविरुद्धर्मवत्त्वेन उपस्थिततया रूपकनामा अलंकार इति भावः । यथा 'मुखं चन्द्रः' इत्यादौ मुखत्वचन्द्रत्वरूपपरस्परविरुद्धधर्मवत्तया उप- स्थितयोर्मुखचन्द्रयोरभेदारोप इति बोध्यम्। निगीर्याध्यवसानरूपायाम् अतिशयोक्तौ उषमेयस्य नोपमेयगतधर्मवत्तया उपस्थितिरिति ततो भेद: अपह्नतौ तु उपमेयगोपनेन भेदस्याप्यपह्नवः अत्र तु न स इति ततोऽपि भेदः । एवं च गौणसारोपलक्षणासंभवस्थले रूपकम् गौणसाध्यवसानल- क्षणासंभवस्थले त्वतिशयोक्तिरिति फलितम् । रूपके लक्षणा नेति मतं तु प्राक् (५३ पृष्ठे ८ पङ्कौ) खण्डितमेव। मुखपद्ममित्यादिसमासस्थले तु विशेषणस्य मुख्यतया उपमानगतत्वे रूपकम् यथा विकसितं मुखपद्ममिति उपमेयगतत्वे उपमा यथा सहास्यं मुखपद्ममिति उभयन्न तुल्यरूपत्वे रूपकोपमयोः संकरः यथा रमणीयं मुखपझ्ममिति। अत्र,प्यलंकारत्वे सतीति विशेषणमस्त्येव तेन प्रतिभानुत्थापितेऽचमत्कारिणि 'लोष्टः पाषाणः' इत्यभेदे नालंकारत्वप्रसङ्ग: वैचित्र्याभावात्। व्याख्यातमिदं प्रदीपोद्द्योतयोः। "अभेदोऽभेदारोपः बीजं तु तत्रातिसाम्यम्। अभेदश्र्वात्रानपहनुत- भेदयोर्विवक्षित इति नापह्नुतावतिव्याप्तिः " इति प्रदीपः । (अभेदारोप इति। अत्रोपमानोपमेययो- र्यत्वलाभः । तेन भ्रान्तिमति नातिव्याप्तिः । अपह्ुतावतिशयोक्तौ च नातिव्याप्तिः। अपहुतौ स्वेच्छया निषिध्यमानत्वेन भ्रान्तिमति तज्जनकदोषेणैव प्रतिबन्धात्। अतिशयोक्तेः साध्यवसानलक्षणामूलक- त्वात्तस्य पुरस्काराभावात्। अतिशयोक्तिवत् निदर्शनायामपि नातिव्याप्तिः। शब्दादिति विशेषणात् 'मुखमिदं चन्द्रः' इति प्रात्यक्षिकाहायनिश्रयगोचरतादात्म्यव्यवच्छेदः। निश्चीयमानयोरित्युक्त्या 'नूनं मुखं चन्द्रः' इत्युत्प्रेक्षायां नातिव्याप्तिः तत्र ज्ञानमलंकारः अत्राभेद इति भेदाच्च। उपमानोपमेय- १ प्ररुते चन्द्रत्वमुपमानतावच्छेद्को धर्मः मुखत्वमपनयेतावच्छेद्को धर्मः ॥ २ आहार्यलक्षणं तुक्तं प्राक् (५<५ पृष्ठे ६ टिप्पणे) ॥ ७५

Page 653

५९४ काव्यपकाशः सटीक:।

(सू० १४०) समस्तवस्तुविषयं शरीता आरोपिता यदा।। ९३ ।। आरोपविषया इव आरोप्यमाणाः यदा शब्दोपात्ताः तदा समस्तानि वस्तूनि विषयोऽस्येति समस्तवस्तुविषयम्। आरोपिता इति बहुवचनमविवक्षितम्। यथा

योरित्येतद्विशेषणलभ्यमर्थमाह बीजं तु तत्रातिसाम्यमिति। तेन 'सुखं मनोरमा रामा' इत्यादिशु- द्वारोपविषयाभेदनिगसः । यत्तु सादृश्यप्रयुक्ताभेदस्येव संबन्धान्तरप्रयुक्ताभेदस्यापि रूपकत्वमिति तन सादृश्यामूउक्स्मरणस्याप्यलंकारतापत्तेः । चन्द्रादिपदानां तद्वत्तिगुणवति सारोपलक्षणायाम् अभेदप्रतीतिर्व्यङ्गचेत्येतावतैव रूपकं वाच्यम् चशब्दादिव्यङ्गयत्वे समुच्चय इव । 'मुखमपरश्चन्द्रः' इत्यादौ तु कविकल्पितापरचन्द्रेण रूपकं बोध्यम्। 'मुखचन्द्रेण विरहतापः शाम्यति' इत्यादावपि रूपकमेत्र। न चैौ चन्द्राभेदप्रतीतौ विरहतापशामकत्वासंभवः अभेदप्रतीतेराहार्यत्वेन मुखत्वस्या- तिरस्कारेण विशष्यतया भानेन च तत्वसंभवात्। 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ आहार्यनारायणत्वबुद्धया आहार्यस्यैत्र लक्ष्मीकर्तृकालिङ्गनस्य बोधान् दोषः । यत्तु आरोप्य- माणो यत्र विषयात्मतयैव प्रकृतकार्योपयोगी न स्वातन्त्र्येण स परिणामः । अत्र च विषयाभेदः आरोप्यमाणे उपयुज्यते रूपके तु नैवमिति विशेषः । 'वदनेनेन्दुना तन्वी स्मरतापं तिलुम्पति' इत्यादि उदाहरणम्। अत्र हि स्मरतापनाशनसामर्थ्य मुखात्मनैवेन्दोः ग्रीष्मसंतापहारकत्वाद्रमर्णा- यशोभाधारत्वाच्चेन्दुविर्षयतयोपात्त इति दाक्षिणात्याः तन्न। इन्दौ वदनतादात्म्यप्रतीतेर्वर्णनीयमुखा-

रूपकं तावत् त्रिविधम साङ़ग निरङ्गं परंपरितं चेति। तत्रापि साङ्गं समस्तवस्तुविषयम एकदे शविवर्ति चेति द्विविधम। निरङ्गं च शु्द्ध (केवलं) मालारूपं चेति द्विंविधम। परंपरितं तु श्लिष्टा- श्लिष्टशब्दनिबन्धनतया द्विविधं सत् प्रत्येकं केवलं मालारूपं चेति चतुविधमिति मिलित्वा रूपकस्याष्टौ भेदाः । तत्र साङ्गस्य प्रभेददयं क्रमेण दर्शयन् आदौ समस्तवस्तुविषयं लक्षयति समस्तवस्तुविषय- मिति। यस्मिन्रूपके आरोपिताः आरोप्यमाणाः यदा श्रौताः शाब्दा: (शब्दोपात्ताः) तदा तद्रूपकं समस्तवस्तुविषयमित्युच्यते इत्यर्थः । ये आरोप्यमाणाः ते सर्वेऽपि यदि आरोपविषया इव शाब्दा एव भवन्ति तदा समस्तवस्तुविषयं नाम रूपकम् समस्तं वस्तु आरोप्यमाणं विषयः शब्दप्रतिपाद्यो यत्रेति व्युत्पत्तरति भावः । आरोपविषयस्यानुपादानेऽतिशयोक्तेरेव प्रसङ्ग: अतो रूपके आरोपविषयस्यो- पादानं नियतमेवेति द्ष्टान्ततया उपादत्ते आरोपविषया इवेति। आरोपविषयाः आरोपाधिकरणानि उपमेया इत्यर्थः उदाहरणे ज्योत्स्ादय इति यावत्। आरोपविषयाणां श्रौतत्वेSविवादाद्दष्टान्ततोते बोध्यम्। आरापिता इत्यत्र क्तप्रत्ययार्थातीतत्वस्याविवक्षायां कर्ममात्रे तात्पर्यमित्यभिप्रेत्य तदर्थमाह आरोप्यमाणा इति। उपमानानीत्यर्थः उदाहरणे भस्मादयः इति यावत्। श्रौता इत्यस्य व्याख्यानमाह शब्दोपात्ता इति। शब्दप्रतिपाद्या इत्यर्थः न त्वार्था इति यावत् आर्थत्वे एकदेशविवर्तिरूपकस्य वक्ष्यमाणत्वाडविति भावः । समस्तवस्तुविषयमिति पदस्य व्युत्पत्तिमाह समस्तानीत्यादि। समस्तानि सकलानि वस्तूनि आरोप्यमाणानि विषयः शब्दप्रतिपाद्य इत्यर्थः । अविवक्षितमिति। "सूत्रे लिङ्गव- १ मूलस्थे ५७५ उदाहरणे इति बोध्यम् ॥ २ परिणामनामालंकारः ॥ ३ कुवलयानन्द्रकाराद्यः ॥४ वचनं संख्या। अतन्त्रम् अविवक्षितम्। अत्र लिङ्गवचनमित्युपलक्षणं कालस्यापि अत एव सूत्रे 'आरोपिताः' इत्यत्र क्तप्रत्य घार्थस्याततित्वस्याविवक्षया 'आरोष्यमाणा;' इति व्याख्यातं वृत्तौ ।।

Page 654

दशम उल्लास: । ५९५

शी ज्योत्साभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम्। द्वीपाह्टीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाअ्जनपरिमलं लाञ्छनस्य च्छलेन ।। ४२१।। चनमतन्त्रम्" इति न्यायेनाविवक्षितम् अन्यथा आरोप्यमाणस्य द्विमात्रत्वेऽस्यासंभवः स्यादिति भावः । उक्तं च प्रदीपे "आरोपिता इति बहुवचनमविवक्षितमित्यारोप्यद्वयस्थले नाव्याप्तिः" इति ॥ समस्तवस्तुविषयं रूपकमुदाहरति ज्योत्स्नति । कविः रूपकमुखेन ज्यौत्स्नीं योगिनीत्वेन वर्ण- यति। इयम् अनुभवारूढा रात्रिरेव कापालिकी योगिनी द्वीपात् द्वीपं द्वीपान्तरं भ्रमति विद्यावशायथेच्छं सर्वद्वीपेषु गच्छतीत्यर्थः। कीदशी। ज्योत्स्ना चन्द्रिकैव भस्म तस्य छुरणम् अङ्गलेपनं तेन धवला शुभ्रा। तारका: नक्षत्राण्येवास्थीनि कीकसानि बिभ्रती दधाना। अन्तधनं तिरोभाव एव व्यसनं कौतुकं कीडा वा तत्र रसिका तत्परा। चन्द्र एव मुद्राकपालं दीक्षोकालगृहीतोपकरणम् कापालिकानाम- अ्जनादिधारणकपालमिति यावत् तत्र लाञ्छनस्य कलङ्कस्य छलेन व्याजेन न्यस्तं स्थापितं सिद्धा- अनस्य परिमलं चूर्णम् (आविर्भावतिरोभावसाधनं वस्तु) दधती आददानेत्यर्थः । "व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु" इति मेदिनी। मन्दाकान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे। अत्र रात्रिरेव कापालिकी ज्योत्स्नैव भस्म इत्यादिरीत्या "मयूरव्यंसकादयश्र" (२।१।७२) इति पाणिनिसूत्रेण समासः। अत एवोपमेयपदस्य पूर्वनिपातः। मयूरव्यंसकादिपदेन सर्वाण्येव रूपको- दाहरणानि गृह्यन्ते मयूरव्यंसकादेराकृतिगणत्वात्। रात्रिरुपमेया कापालिकी उपमानम्। एवं ज्योत्स्ना दिकमुपमेयम् भस्मादिकमुपमानम्। रात्रिरेव कापालिकीति अ्ङि (प्रधानं) रूपकम् अन्यानि चाङ्ग रूपकाणि। तानि चाङ्गिरूपकस्य परिपोषकाणि। अत एवाहुरुद्तयोतकारा: "साङ्गत्वं च परस्पर- सापेक्षरूपकसमुदायत्वम्। अत्र समुदायात्मकस्य सावयवरूपकस्यावयवानां सर्वेषामपि समर्थ्यसम- थ्कत्वं परस्परं तुल्यम् तथापि कवेः रात्रौ कापालिकीरूपकस्यैव सामर्थ्यत्वेनाभिप्रेतत्वादितरेषां समर्थ- कत्वं गम्यते" इति। तथा चात्र उपमेयभूतेषु रात्रिज्योत्स्नादिषु आरोप्यमाणानां कापालिकीभस्मार्दाना सर्वेषां शब्दोपात्तत्वात्समस्तवस्तुविषयं रूपकमिदम्। एवं कापालिक्या आरोप इव तदङ्गानां (तदुपकरणानां तदानुषङ्गिकाणां) भस्मादीनामप्यारोपाद्ूपकस्य साङगत्वम्। चतुर्थपादे त्वपहतिरेव छलशब्दप्रयोगादिति बोध्यम् । अत्राहुरुदचोतकारा: "रात्रिकापालिकीत्यस्य कापालिक्यभिभ्ना रात्रि- रित्यर्थः उपपदस्य लक्षणायामपि व्यङ्ग्याभेद्घटितवाक्यार्थस्यापि बोधात्। उपमार्या तु सादृश्य- घटित एव वाक्यार्थबोध इति विशेषः" इति॥ ननु "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति सूत्रेण रात्रिः कापालिकीव ज्योत्स्ना भस्मेवेत्या- दिर्रात्योपमितसमासस्यापि संभवेनात्रोपमा वा स्यात् मयूरव्यंसकादिसमासेन रूपक वेति संशयोदयेन १ इद्मेकं विशेषणं कापालिक्या एव न तु रात्रेरसंभवाह्विति वृत्तिग्रन्थे स्फुटीभविष्यति ॥ २ दीक्षाकालगृही सोपकरणेषु मुद्रोपपदनाम्ना पाखण्डाना व्यवहारः मुद्राकुण्डलं मुद्राखर्परमित्यादि इति चक्रव्त्याद्यः ॥ ३ सूत्रेणेति। एते मयुरव्यंसकादयः शब्द: समस्ताः (रतसमासाः) निपात्यन्ते इति सूत्रार्थः ॥ इति सूत्रेणेति। व्याख्यात मिद प्राक् (५७४ पृष्ठे १ टिष्पणे) ॥

Page 655

५९६ काव्यप्रकाश: सटीकः । अत्र पादत्रये अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधक- मस्तीति तत्संकराशङ्का न कार्या।। उपमया सह रूपकस्य संदेहसंकर एव स्यात् न तु रूपकमित्याशङ्कां निराकरोति अ्रेत्यादिना । अत्र अस्मिन् श्लोके अन्तर्धानव्यसनरसिकत्वम् आरोपितस्य कापालिकीपदार्थस्य धर्म एव न तु आरोप- विषयभतायाः रात्रे: इति हेतोः पादत्रये यद्रूपकं तत्परिग्रहे तद्ग्रहणविषये साधकमस्तीत्यतस्तत्संकर: तस्य रूपकस्य यः संकरः उपमया सह संदेहसंकरस्तस्य आशङ्का न कार्येत्यर्थः। इदमत्र निरा करणम्। अन्तर्धानव्यसनरसिकत्वं हि चेतनधर्मः स च कापालिक्या एव संभवति न तु रात्रेः उपमा- परिकल्पने तु उपमेयभूतायाः रात्ररेव प्राधान्येन तत्र (रात्रौ) नान्तर्धानरसिकत्वस्य मुख्यतयान्वयः स्यादिति रूपकमेवास्थीयते इति। ननु अन्तर्धानं स्वस्य चोराणां वेति उपमायामपि न तद्न्वयानुपप- त्तिरिति चेन्न। साधारणधर्मप्रयोगस्य तदा सत्वेनोपमितसमासोनापत्तौ मयूरव्यंसकादिसमासस्यैवेष्टव्य त्वेन रूपकस्यैव सिद्धिरित्याशयात् व्यसनरसिकत्वस्य स्वरसतो रात्रावनन्वयाच्चेत्युद्दयोतादौ स्पष्टम्।। ननु कापालिक्येवात्र वर्णनीयास्तु समासोक्त्यलंकारोदाहरणतया दर्शयिष्यमाणे 'दन्तप्रभापुष्प- चिता०' इत्यत्रेव "शाकपार्थिवादीनां सिद्धये उत्तरपद्लोपस्योपसंख्यानम्" इति वार्तिकेन 'रात्रिरिव रात्रिसदशी वा कापालिकी रात्रिकापालिकी' इत्यादिसमासः क्रियते तथा चोपमैवात्रालंकारो न तु रूपकमिति चेत् अत्रोच्यते। मयूरव्यंसकादिसमासेनोपपत्तावगतिकगतिकस्य शाकपार्थिवादिसमास- स्याङ्गीकरेण कापालिक्या वर्णनीयत्वे कवितात्पर्यकल्पनाया अनौचित्यम् । किं च कापालिक्यां सिद्धाञ्जनपरिमलमेव वास्तविकम् न तु लाञ्छनमिति तस्यामवास्तविकस्य लाञ्छनस्य छलत्वानुपपत्त्या 'लाञ्छनस्य छलेन' इत्यस्यानुपपत्तिप्रसङ्ग: वास्तविकस्यैव छलत्वसंभवात् । अत एव 'बत सखि०' इति वक्ष्यमाणापह्ुत्युदाहरणे भृङ्गाणां वास्तविकानामेव छलत्वं वर्णितमिति दिक॥ अत्र वृत्तौ 'न कार्या' इत्यनन्तरम् "अथवा 'न्यस्तं लाञ्छनमञ्जनं कुमुदिनीप्रोल्लाससिद्धिप्रदम्' इति चतुर्थपादः एवं रूपकेणैव निर्वाहः" इति क्वचित्पाठः । स च सरस्वतीतीर्थमाणिक्यचन्द्राम्यां विनान्यैर्बहुभिष्ठीकाकृद्भिरधृततया भिन्नच्छन्दस्तया चानाकर एवेति निश्चीयते॥ अत्र रात्रिकापालिक्योः साधारणधर्मः स्त्रीत्वादिरूपः कश्षन सुप्रसिद्धो ग्राह्यः द्वपिान्तरत्रमणादिरूप उपात्तस्तु 'राजते राजकुञ्जरः' (५७३ पृष्ठे) इत्यादाविवाविवक्षित एवेति बोध्यम्। ननूपात्त एव द्वीपान्तरभ्रमणादिरूपः साधारणधर्मोडस्तु उपात्तधर्मसत्त्वे तेनैव साम्यप्रतीतेरनुभवसिद्धत्वादिति श्वेत् न वृत्तिविरोधात्। तथाहि। वृत्तौ हि अन्तर्धानव्यसनरसिकेति विशेषणेन संकराशङ्का निवारिता तत्र यदि उपात्त एव साधारणधर्मः सादृश्यप्रयोजकत्वेन ग्रृह्यते तदा "उपमितं व्याघ्रादिभि:०" इति समासस्य साधारणधर्माप्रयोगे एव प्रवृत्तिसत्त्वेन प्रकृते साधारणधर्मप्रयोगस्य सत्त्वादुपमित- समासाप्राप्त्या उपमाया अभावेन संकरस्य खपुष्पायमाणतया विशेषणेन संकराशङ्कानिवारणं व्यर्थमेव स्यादिति वृत्तिविरोधः स्पष्ट एवेति। एतदभिप्रायक एवोद्द्योंतग्रन्थोऽप्यग्रिमसूत्रोदाहरणवृत्तिग्रन्थ- व्याख्यानावसरे स्फुटीभविष्यति। एतेन 'अनेकद्वीपभ्रमणादिप्रसिद्धसादृश्येन रात्रौ कापालिकीत्वारोपः' इति "नियतारोपणोपायः" इति वक्ष्यमाणसूत्रस्थप्रभाग्रन्थोडपास्त इति विद्वद्भिर्विभावनीयम् । १ समासानापत्ताविति। "उपमितं व्याघ्रादिमिः" इति पाणिमिसूत्रे 'सामान्यापयोगे' इत्युक्तत्वात्समासा-

Page 656

दैशम उलास: । ५९७

(सू० १४१) श्रौता आर्थाश्र ते यस्मिन्नेकदेशविवर्ति तत् ।। केचिदारोप्यमाणाः शब्दोपात्ताः केचिदर्थसत्रामर्थ्यादवसेयाः इत्येकदेशविवर्तनात् एकदेशविवर्ति। तथा जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम्। रससंमुही वि सहसा परंमुही होई रिउसेणा ॥ ४२२॥ अत्र रणस्यान्तःपुरत्वमाराप्यमाण शब्दोपात्तम् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादव सीयते इति एकदेशे विशेषेण वर्तनादेकदेशविवर्ि। एकदेशविवर्ति रूपकं लक्षयति श्रौता इते। यस्मिन् रूपके ते आरोपिताः (आरोप्यमाणाः) श्रौता: शब्दा: (शब्दगम्याः ) आर्था अर्थाक्षिप्ाश्र (अर्थगम्याश्र) स्युः तत् रूपकम् एकदे- शविवर्ति इत्युच्यते इत्यर्थः ॥ ते इति व्याकरोति केचिदारोव्यमाणा इति। श्रौता इति व्याकरोति शब्दोपात्ता इति। आर्था इति व्याकरोति केचिदर्थसामर्थ्यादवसेया इति। अवसेयाः निश्रेयाः। एकदेशविवर्ति- पदस्य व्युत्पत्तिमाह एकदेशविवर्तनादिति। एकदेशे (रूपकसंघातस्यावयविनः) अवयवे कस्मिंश्विद्रूपके विशेषेण शब्दमुखेन स्फुटतया वर्तनात् प्रकाशनादित्यर्थ इत्युइ्चोते स्पष्टम्। केचित्तु एकस्मिन् देशे एक- स्मिन्नंशे विवर्तनात् विशेषण वर्तनात् अर्थात् आरोप्यमाणस्य सर्वत्र वाच्यत्वे एकांशे प्रतीयमानत्वरूपस्य विशेषस्य सत्वात् एकदेशविवर्ति इति नाम सार्थकमित्याहुः॥ एकदेशविवर्ति रूपकमुदाहरति जस्सेति। "यस्य रणान्तःपुरे करे कुर्वती मण्डलागरंलताम्। रससंमुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥ " इति संस्कृतम्। यस्य राज्ञो रण एवान्तःपुरं स्त्रयगारं तत्र मण्डलाग्रः खङ्ग एव लता तदाकारत्वात् तां नायिकां च करे पाणौ कुर्वतः गृहाति- वतः युद्धार्थ रतार्थ चेति भावः। रिपुसेना शत्रुसेना प्रतिनायिका च रससंमुखी युयुत्सया वीरर- साविष्टापि पक्षे रिरंसया शृङ्गाररसाविष्टापि सहसा झटिति पराङ्मुखी भवति। भयेन युद्धात् कोपेन प्रियसंगमाच्च निवर्तते इत्यर्थः । आर्या छन्दः। लक्षणमुक्त प्राक् ४ पृष्ठे ॥ अत्र रणेऽन्तःपुरत्वम् आरोप्यमार्ण शब्दोपात्तम् मण्डलाग्रलतायाः नायिकात्वम् रिपुसेनायाश्र प्रतिनायिकात्वं चारोप्यमाण न शब्दोपात्तम् कि तु अन्तःपुरत्वारोपादिसामर्थ्यादवसीयते अन्तःपुरे तासामेवौचित्यात् अन्यथा अन्तःपुरत्वारोपादेरपर्यवसानम् (अनुपपन्नत्वं) स्यात् अतः एकदेशे (रणान्तःपुरे इत्यत्र ) विशेषेण (शब्दमुखेन स्फुटतया) वर्तनादेकदेशविवर्ति रूपकमिदम्। तदेवाह अन्नेत्यादि। प्रतीति। ईर्ष्याितुः सपत्नी प्रतिनायिकेत्युच्यते। अर्थसामर्थ्यािति। पाणिग्रहींतुरपि बोधकं'करे कुर्वतः' इति विशेषणम् रससमुखत्यादिस्त्रीलिङ्गम् रणेऽन्तःपुरत्वारोपश्र्वेति त्रितयमत्र अर्थसामर्थ्यमिति बोध्यम्। यद्पि लिङ्गविशेषात् :करग्रहणरससंमुखत्वादेरनायिकाधर्मत्वेन प्रसिद्ध- त्वात् श्लिष्टत्वाच्च समासोक्तिविधयैव नायकात्वावगतिर्वक्तु शक्या तथाप्यन्तःपुरत्वारोपोऽपि तत्र तम्त्रमित्याशयः। अवसीयते निश्चीयते। एकदेशे रणान्तःपुरे इत्यत्र। विशेषणति। शब्दमुखेन स्फुटतयेत्यर्थः आरोपविषयस्य रणस्येव आरोप्यमाणस्यान्तःपुरत्वस्यापि शब्दोपात्तत्वादिति भावः। वर्तनात् प्रकाशनात्। एकदेशविवर्तीति।न च रूपकसंघातात्मकस्यास्य रूपकभेदगणनायां गण-

Page 657

५९८ काव्यप्रकाश: सटीकः ।

(सू० १४२) साङ्गमेतत् b उक्तद्विभेदं सावयवम्॥ (सू० १४३) निरङ्गं तु शुद्म् यथा कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमप पुनः प्रश्नयति यत्। अनिद्रं यञ्चान्तः स्वपिति तद्हो वेद्मचभिनवां प्रवृत्तोऽस्याः सेक्तुं हृद़ि मनसिजः प्रेमलतिकाम् ॥ ४२३॥ नमनुचितमिति वाच्यम् चमत्कारविशेषजनकतया सत्समुदायात्मकस्याप्यस्य मालारूपकादिवत् तन्भे- देषु गणनात् यथा मौक्तिकालंकृतिगणनायाम् एकं नासामौक्तिकमिव तत्संघातात्मिकाः मौक्तिक- मञ्जयदियो गण्यन्ते तद्वत्। अत्र मण्डलाग्रलतादिरेव नायिकादिरित्यङ्गि प्रधानं रूपकम मण्डलाग्रल- तादर्मुख्यतया वर्णनीयत्वात् रण एवान्तःपुरमित्यङ्गरूपकम्। मण्डलाग्रलतादेनायिकात्वाद्यारोपे लिङ्गविशेषकरग्रहादिः साधारणो धर्मः रणेऽन्तःपुरत्वारोपे सुखसंचारास्पदत्वादिः साधारगो धर्म इति बोध्यम् अत एवाहुरुद््योतकाराः "ननु वक्ष्यमाणे विद्वन्मानसहंस' इत्यादौ (६०१ पृष्ठे) राज्ञो हंसत्वारोपो यथा मनसः सरस्त्वारोपमपेक्षते तथात्रापि नायिकाप्रतिनायिकारोपाभ्यां रणेड- न्तःपुरत्वारोपोऽपेक्ष्यते इति परंपरितत्वमस्य स्यादिति चेन्न। रणेऽन्तःपुरत्वस्य सुखसंचारास्पदत्वा- दिनेव मण्डलाग्रलतादर्नायिकात्वाद्यारोपस्य लिङ्गविशेषकरग्रहादिनापि संभवेनास्य परंपरितत्वाभावात्। राज्ञि हंसत्वारोपस्तु मनासी सरस्त्वारोपं बिना न भवत्येव सरोवराधेयत्वं बिना राज्ि हंससाधर्म्यान्तरा- भावात्। एवं 'ज्योत्स्नाभस्म' इत्यादावि बोध्यम्। अत एव 'नियतारोपणोपायः' इति वक्ष्यति (६०० पृष्ठे) इति। उक्तमेदद्यमुपसंहरति साङ्गमिति। एतदित्यस्याव्यवहितपूर्वमात्रपरामर्शकत्वं वारयन् तदर्थ- माह उक्तद्विभेदमिति। समस्तवस्तुविषयम् एकदेशविवर्ति चेति भेदद्यं यत् उक्तं तत् साङ्ग सावयवं रूपकमित्यर्थः । स्वत एव वर्णनीयतया अङ्गिनः प्रधानस्य अवयवानां मुख्यतस्तत्रावर्णनी- यतया अप्रधानानां तत्संपार्कणां रूपणैः अभेदारोपैः सहितं यत् अङ्गिनः रूपणं तत् सावयवं रूपकमिति भावः अङ्गरूपकसहितम् अद्गिनो रूपणमिति यावत्। अत्राहुः सुधासागरकाराः "साङ्ग- त्वमनेकरूपकसमुदायः एकस्मिन् रूपके द्वितीयस्याङ्गत्वेनावस्थानात् अङ्गशब्दस्य हेत्वर्थत्वात्। अत एवोक्ते मधुमतीकारैः अङ्गमारोपकारणम् " इति॥ निरङ्ग दर्शयति निरङ्गमिति। अङ्गानामारोपरहितं केवलस्याङ्गिनो यत् रूपणमित्यर्थः तदेव रूप- कान्तरामिश्रणात् शुद्धं केवलमित्युच्यते इत्यर्थः। व्याख्यातामदं प्रदीपोद्दयोतयोः। "निरङ्गमद्वितीयम् तच्छुद्धमेवेत्यर्थः" इति प्रदीपः । (अद्वितीयमिति। अङ्गाङ्गिभावहीनमित्यर्थः। केवलस्यैव रूपणा- दित्याशयः । सावयवं त्वनेकविषयं परस्परसापेक्षं चेति बोध्यम्) इत्युद्योतः॥ निरङ्गमुदाहरि कुरङ्गीवेति। किशोर्याः वृत्तान्त धात्री कांचिन्निवेदयाति। अहो इंति संबोधने हर्षे वा। हे सखि इयं (बाला) यत् यस्मात्कारणात् गीतध्वनिषु कुरङ्गीव मृगीव अङ्गानि अवयवान स्तिमितयति निश्र्लयति (निश्रलानि करोति) यत् यस्मात् श्वतमपि कान्तस्य प्रियस्योद्म्तं वृत्तान्तं

Page 658

दशम उल्लास: । ५९९

(सू० १४४ ) माला तु पूर्ववत् ॥९४॥(P४/ ०४) मालोपमायामिवैकस्मिन बहव आरोपिताः। यथा सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभू:। विद्या वक्रागिरां विधेरनवधिप्रावीण्यसाक्षाक्क्रिया बाणाः पश्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ ४२४॥ (वार्ता) सखीं प्रति पुनः भूयोऽपि प्रश्नवन्तं करोति प्रश्नयति उदन्तं प्रश्नविषयं करोतीत्यर्थः । णिचः इष्ठवद्भावात् "विन्मतार्लुक" (५३६५) इति पाणिनिसूत्रेण मतुपो लुकू। "उदन्तः साधु- वार्तयोः" इति विश्वः । यत् यस्माच्च अनिद्रं निद्रारहितं यथा स्यात्तथा अन्तः गृहमध्ये स्वपिति शेते यद्ा नयनामुद्रणेऽपि (कान्तैकतानान्तःकरणतया) विषयं न गृह्णाति तत् तस्मात्कारणात् अहं वेझि जाने। किमित्याकाङ्कयामाह मनसिजः कामः अस्याः बालायाः हृदि अभिनवाम् अङ्ड- रितां प्रेमैव लतिका अनुकम्पितलता तां सेक्तुं रसार्द्रा कर्तु प्रवृत्त इतीत्यर्थः। अभिनवत्वन सेचनौचित्यं व्यज्यते। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे।।

अत्र प्रेममात्रे लतिकात्वमात्रारोपः न तु तत्परिपोषकत्वेन क्वचिदप्यन्यारोप इति निरङ्गं (केवलं) रूपकमिदम्। उक्तं च प्रदीपोद््योतयोः "अत्र प्रेममात्रे लतिकात्वमात्रारोपः न तु तदुपपादकत्वेन क्वचिदप्यन्यारोपः" इति॥

मालारूपं निरङ्ग दर्शयति माला त्विति। अत एवाहुः प्राश्चः "निरङ्गस्यैव वैचित्रयान्तरमाह माला त्विति" इति। चक्रवर्तिनोऽ्युद्ाहरणव्याख्यानानन्तरमाहुः "अत्रैकस्यां प्रियायामारोपविषये तरङ्गिणात्वादयो बहव आरोप्या इति माला सा च निरङ्गरूपा रूप्यमाणानामङ्गाङ्गिभावविरहात् इति। प्रदीपे तु "अथ साङ्गस्यैव वैचित्र्यान्तरमाह माला तु पूर्ववत्" इत्युक्तम्। तदुपपत्तिस्तूद्चोते नागोजीभट्टैयथाकथंचित्कृतोत तत्रैव द्रष्टव्येत्यलमसारग्रन्थविचारेण। अत्र पूर्वपदेनोपमानुकर्षणम् यथै- कस्योपमेयस्य बहूपमानसंबन्धे मालोपमा तथैकस्तिनुपमेये बहूनामुपमानानामारोपे मालारूपक- मित्यर्थः । तदेवाह मालोपमायामिवेति । एकत्मिन्निति । उपमेये इत्यर्थः । एकस्योपमानस्य नानोपमेयकृतस्तु न कश्विच्चमत्कार इति न पृथग्गण्यते इत्युइ्योंते स्पष्टम्। अत्र कारिकायां 'पूर्ववत्। इत्युक्त्या य एव कारिकाकारः स एव वृत्तिकार इत्यायाति अन्यथा कारिकाकृता वृत्तिकृत्प्रदर्शतायाः मालोपमाया अलक्षितत्वेनात्र पूर्ववदिति तस्या: दृद्टान्ततयोन्भावनमनुपपन्नं स्यादिति सरस्व्वतीतीर्थ- चक्रवर्त्यादिकृतटीकासु स्पष्टम्। उक्त च सुधासागरेऽपि "मालोपमा वृत्तौ लक्षिता कारिकायां तु सा दृष्टान्तीकृतेति वृत्तिकृत्कारिकाकृतोरैक्यं स्वयमेव श्रीवाग्देवतावतारैः (मम्मटभट्टैः) सूचितम्" इति।

मालारूप निरङ्गमुदाहरति सौन्दर्यस्येति। कश्विद्विरही प्रेयसीं परामृशति। सौन्दर्यस्य लावण्यस्य तरद्गिणी नदी तरङ्गपदेनोत्तरोत्तराविच्छेद: सूचितः उत्तरोत्तराविच्छिन्नलावण्यस्य नदीत्यर्थः अपरि- मितसौन्दर्यपूरितेि यावत् जलस्थानीयमत्र लावण्यम् अत एव नदीत्युक्तिः । तरुणिमोत्कर्षस्य तारुण्यातिशयस्य हर्षोद्गमः (समुचितस्थानलाभेन) आनन्दाविर्भावः। अन्ये तु हर्षोद्रमः उद्गतो हर्ष इत्यर्थः "कृदभिहितो भावो द्रव्यवत्प्रकाशते" इति न्यायादिति व्याचख्युः। कान्तेः अवयवशोभाया;

Page 659

६०० काव्यप्रकाशः सटीकः ।

(सू० १४५) नियतारोपणोपायः स्यादारोपः परस्य य:। तत् परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥९५॥ eJ )

कार्मणकर्म कार्मणं वशीकरणमन्त्रः तस्य कर्म सम्यक्प्रयोग: यद्वा कान्तेः कार्मणकर्म वशीकरणेक्रिया। "कार्मणं मन्त्रतन्त्रादियोजने कर्मठेपि च" इति मेदिनी। नर्मरहसां करीडारहस्यानां रहस्यपरिहासानां वा उल्लासनायाः विजुम्भणस्य आवासभः वसतिस्थानम्। वक्रगिरां साकूतवचसां विद्या उपदेशिका यद्वा वक्रगिरां व्यक्षकवाचां विद्या अलंकारशास्त्ररूपा। विधेः ब्रह्मणः अनवधि निःसीमं यत् प्रावपियं निर्माणकौशलं तस्य साक्षात्क्रिया (करणव्युत्पत्या) प्रत्यक्षहेतुः। पश्चशिलीमुखस्य पञ्चबाणस्य (कामस्य) बाणा: तरुणानां हर्षणरोचनमोहनशोषणमारणजनकत्वेन स्मरशरसमष्टिरूपेत्यर्थः । तदुक्तम् "उन्मादनस्तापनइच शोषणः स्तम्भनस्तथा। संमोहनइच कामस्य पञ्च बाणाः प्रकीर्तिताः।" इति। "अरविन्दुमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्व सायकाः ॥ " इत्यमराधिकपाठः। ललनानां स्त्रीणां चूडामणि: शिरोमगिः एतादशी सा मदनुभूता प्रिया प्रेयसा इत्यर्थः। सौन्दर्थ भिन्नं कान्तिर्भिन्नेति प्राक ('लावण्यं तदसौ कान्तिः' इत्युदाहरणे १५१ पृष्ठे) प्रतिपादितम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे। अत्रैकस्यामुपमेयभूतायां प्रियायां तरङ्गिण्यादीनां बहूनामुपमानानामारोपान्मालात्वम् यथैकस्मिन् सूत्रे बहूनां पुष्पाणामिति बोध्यम्। प्रियामात्रे नय्यादिमात्रारोपो न तु तत्परिपोषकं रूपकान्तरमिति निरङ्गत्वमिति ध्येयम् ॥ परंपरितं रूपकं लक्षयति नियतेति। नियतं वर्णनीयतया अवश्यापेक्षणयिं यत् आरोपणं तस्य उपायः (साधारणधर्मसंपादकतया) निमित्तं यः परस्यान्यस्य आरोपः तत् परंपरितम कार्यकारण- भावरूपा आरोपपरंपरा संजातास्येति व्युत्पत्तेः । परंपराशब्दात् "तदस्य संजातं तारकादिभ्य इतच्" (५२।३६) इति पाणिनिसूत्रेण तारकादेराकृतिगणत्वादितच्प्रत्ययः । एवं च यत्र वर्णनीया रोपणं प्रति अन्यारोपणमेव केवलं कारणतया विवक्षितम् तत् परंपरितमिति तु निष्कर्षः। तद्भेदा- वाह श्लिट्टे इत्यादिना। वाचके इति। 'परस्य' इत्यनुषज्यते तथा च परस्यान्यस्य वाचके शब्दे श्लिष्टे श्रलषयुक्ते सति भेदभाजि भिन्नरूपे वा सतीत्यर्थः । अयं भावः। तदेतत् परंपरितं द्विविधम् उपायभूते रूपके आरोप्यमाणारोपविषययोर्वाचकस्य श्लिष्टत्वाद्भिन्नरूपत्वाच्चेति। इदं हि परंपरितं श्लिष्टाश्लिष्टशब्दनिबन्धनतया द्विविधं सत् प्रत्येकं केवलं मालारूपं चेति चतुर्विधमित्युक्तं प्राक् (५९४ पृष्ठे)। साङ्गरूपके तु वर्णनीयस्याङ्गिनः रूपणं सुप्रसिद्धसाधर्म्यनिमित्तकमेव न तु तत्राङ्गरूपणमेव निमित्तम् तस्य तद्विनाप्युपपत्तेः तत्राङ्गरूपकं तु सुप्रसिद्धसाध्म्यनिमित्तकस्य अङ्गिरूपकस्य परिपोषकमात्रमिति साङ्गरूपकादस्य भेद: ॥ अत्र व्याचख्युश्चक्रवर्त्यादयः "नियते वर्णनीयत्वेनावश्यके प्रकृते यः आरोपः (यत् आरोपणं) अन्यतादात्म्यस्याहार्यप्रतीतिः तस्योपायः उपपादकः परस्याप्रकृतस्यारोपोऽर्थादप्रकृतविषयः परंपरा संजाता अस्येति व्युत्पत्या परंपरितमित्युच्यते" इति। प्रदीपोद्दयोतयोत्स्वित्थं व्याख्यातम् "नियतस्य १ कान्तिः सर्वान्वशकिरोति अनया तु प्रत्युत कान्तिर्वशीरुतेति भाव इति सुधासागरः ॥ २ तत्क्रियाविशिष्टे हि जगद्वशीकरोति कान्तिरण्येतद्विशिष्टा तथेति जगद्वशीकारकतवं साधारणो धर्म इत्युद्वयोतः।।

Page 660

दशम उल्लास: । ६०१

यथा कीिगाक कह क विद्वन्मानसहंस वैरिकमलासंकोचदीप द्ुते pfpiiदुर्गामार्गणनीललोहित समित्स्वीकार वश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिश्रमुच्चैः क्रियाः॥ ४२५॥

अत्र मानसमेव मानसम् कमलायाः कमलानामसंकोच: दुर्गाणाममार्गणमेव मुख्यस्यारोपो वस्त्वन्तरतादात्म्यप्रतीतिस्तस्योपायः कारणं यः परस्यामुख्यस्यारोपस्तत्परंपरितम् रूप- णानां कार्यकारणभावरूपा परंपरा संजातात्रेति योगादिति केचित्। वस्तुतस्तु नियतमारोपणमु- पायो यत्र। आरोपणं विना यदारोपणं न संभवत्येवेति यावत्। एवंभूतः परस्यान्यस्यारोपः स तथा। एवं चैकरूपणहेतुकं रूपणान्तरं परंपरितम् कार्यकारणभावरूपा परंपरा संजातात्रेति व्यत्पत्तेः" इति प्रदीप: । (नियतस्य मुख्यस्येति । वर्णनीयत्वेन प्रकृतस्येत्यर्थः । वृत्तित्वं षश्ठ्चर्थः । अमु- ख्यस्य अप्रकृतस्य योऽन्यारोप इत्यर्थः । केचिदिति । अत्रारुचिबीजं तु 'आलानं जयकुञ्जरस्य' इत्यादौ (४२६ उदाहरणे ) अध्याप्तिः प्रकृते एव जये कुञ्जरत्वारोपस्य प्रकृते एव राज्ि आला- नत्वारोपहेतुत्वात्। परस्यान्यस्योति। अप्रकृतस्य प्रकृते यः आरोप इत्यर्थः । एकरूपणहेतुक- मिति। यद्यपि दुर्गाणाममार्गणादौ दुर्गामार्गणादीनामारोपो न रूपकम किंतु शर्लेषमहिम्रारोपमात्रम् तथापि रूपणपद्मारोपमात्रपरमेवेति न दोषः । इदमेव चास्योपायत्वमारोपे यत्तन्मूलीभूतसाधारण- धर्मसंपत्तिः । साधारणधर्मसंपत्तिः रूपकेणैवेत्यत्र न किंचिन्मानम् । यद्वा श्रलषस्थलेऽपि शब्दरू पसाधर्म्यकृत एवाभेदाध्यवसाय इति तस्यापि रूपकत्वमेवेति न दोषः ) इत्युद्चोतः ॥

श्लिष्ट मालारूपं परंपरितं रूपकमुदाहरति विद्वूदिति। राजानं प्रति कवेरुक्तिरियम्। हे वरवीर वरेषु श्रेष्ठेषु वीर शूर हे प्रभो राजन् त्वं वैरिञ्चं ब्राह्मं वत्सरशतं शरच्छतं व्याप्य उच्चैः महत् अतिश- यितं वा साम्राज्यं चक्रवर्तित्वम् आज्ञया राजशासकत्वमिति यावत् क्रियाः कुर्याः इत्याशीः । शेष संबोधनविशेषणतया योज्यम्। तथाहि। विदुषां पण्डितानां मानसं चित्तमेव मानसं मानससरः तत्र हंस हंसपक्षिरूप मानसे स्थितत्वादिति भावः। "मानसं सरसि स्व्रान्ते" इति विश्वः। वैरिणां शत्रूणां कमलाया: लक्ष्म्याः संकोच एव कमलानां पद्मानामसंकोचो विकासः तत्र दीप्तबुते सूर्यरूप। दुर्गाणां कोट्टानां विषमभूप्रदेशानां अमार्गणम् अनन्वेषणमेव दुर्गायाः पार्वत्याः मार्गणमन्वेषणं तत्र नीललोहित शिव। "मार्गणं याचनेऽन्वेषे" इति हैमः। समितां संग्रामाणां युद्धानां स्वकि।रोऽनु- पेक्षणमेव समिधाम् इन्धनानां काष्ठानां स्वीकार: कवलनं तत्र वैश्वानर वह्निरूप । सत्ये तथ्ये अमृ- षाभाषणे प्रीतिरेव सत्यां दक्षकन्यायां दुर्गायां अप्रीतिस्तद्विधाने दक्ष दक्षप्रजापतिरूप। विजयः परपराभव एव विजयोऽर्जुनस्तस्य प्राग्भावः प्रथमात्पत्तिस्तत्र भीम भीमसेन चेत्यर्थः । "विजयः स्याज्जये पार्थे" इति मेदिनी। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अत्र मानसादिपदं श्लिष्टम् राज्ि हंसत्वाद्यारोपे श्लेषबलात् मनःप्रभृतिषु सरोविशेषत्वाद्यारोपो निमि- त्तमिति श्लिष्टं परंपरितं रूपकमिदम्। एकस्मिन् सूत्रे बहूनां पुष्पाणामिव एकस्मिन् राजरूपे उपमेये हंसादीनां बहूनामारोपाद्रूपकस्य मालात्वमिति बोध्यम्। तदेतत्सर्व वृत्तिकार आह अत्र मानसमेवे- ७६ू

Page 661

६०२ काव्यप्रकाशः सटीक:। दुर्गायाः मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीति: विजय: परपराभव एव विजयोर्ऽर्जुन: एवमारोपणनिमित्तो हंसादेरारोपः। यद्यपि शब्दार्थालंकारोऽयमित्युक्तम् वक्ष्यते च तथापि प्रसिद्धयनुरोधादत्रोक्तः एकदेशविवर्ति हीदमन्यैरभिधीयते। भेदभाजि यथा त्यादि। एवम् उक्तरीत्या। आरोपणेति। आरोपणं मनःप्रभृतिषु सरःप्रभृतितादात्म्यारोपणं तदेव निमित्तं यस्य तादृशो हंसादेरारोप इत्यर्थः ॥ -अत्र श्लिष्टशब्देनार्थद्वयोपस्थितौ श्लेषमहिम्रा प्रकृतसंबन्धिनि अप्रकृताभेदप्रत्ययः प्रकरणेन प्रकृत- संबन्धिनो विशेष्यत्वात् स चाभिधामूलव्यञ्जनयेति बोध्यम्। एवं च सूत्रे 'वाचके' इति च बोधके इत्यर्थकम् ततस्तमेव साधारणधर्ममाश्रित्य प्रकृते राजनि हंसत्वाद्यारोपरूपरूपकसिद्धिरित्युद्दयोते स्पष्टम्। विस्तारिकायां तु "अत्र केचित् 'नृपतिवर्णन प्रकरणनियन्त्रितैर्मानसादिपदैरभिधया मनःप्रभृतनिां प्रत्यायनम् सरःप्रभतनिां पुनःर्यञ्जनयैव । ततश्च लक्षणस्थवाचकपदस्य बोधकत्व- मर्थः' इत्याहुः। तद्सत् प्रकरणवच्छब्दान्तरसांनिध्यस्यापि तात्पर्यग्राहकत्वात् हंसादिपदान्तरसा- चिव्यन सरआदेरपि वाच्यतायामविरोधात्। ततश्च वाच्ययोरर्थयोरभेदात्संसर्गोडपि वाच्य इत्यभिसं- धाय ग्रन्थकृता लक्षणे वाचकपदमुपात्तम " इत्युक्तम् तन्न रुचिरमिति विद्वन्भ्िर्विभावनीयम्। इद्मत्रावधेयम्। राज्ि हंसत्वारोपे मानसाधेयत्वं साधारणो धर्मः मानसे मानसत्वारोपे तु समान- शब्दरूप: समानशब्दबोध्यत्वरूपो वा साधारणो धर्म इति। एवमग्रेऽप्यूह्यम्। दर्शिता चेयं दिक नवमोल्लासे (५३१ पृष्ठे ) मूले एवेति।। ननु मानसादिपदस्य परिवृत्त्यसहत्वाच्छब्द्ालंकारत्वम हंसादिपदस्य च परिवृत्तिसहत्वादर्थालं- कारत्वम् तथा च श्लिष्टपरंपरितस्योभयालंकारतया पुनरुक्तवदाभासवत् उभयालंकारप्रस्तावे (५३९ पृष्ठे) अभिधानमुचितम् न त्वर्थालंकारप्रस्तावे इति शङ्कते 'यद्यपि' इत्यादिना 'वक्ष्यते च' इत्यन्तेन । उक्तमिति। नवमोल्लासे श्र्लेषनिरूपणप्रस्तावे (५१८ पृष्ठे) "इह दोषगुणालंका- राणाम्" इत्यादि ग्रन्थेन उक्तप्रायमित्यर्थः । यद्ा उक्तमिति। 'प्राचीनैः' इति शेषः । वक्ष्यते इति। संकरालंकारनिरूपणप्रस्तावे "उक्तमत्र यथा काव्ये" इत्यादिना "एवं च पुनरुक्तवदाभासः परंप- रितरूपकं चोभयोर्भीवाभावानुविधायितया उभयालंकारौ" इत्यन्तेन ग्रन्थेन अस्माभिः व्यवस्थाप्यते इत्यर्थः। समाधत्ते तथापीति । प्रसिद्धचनुरोधादत्रोक्त इति। भामहादिपूर्वीचार्यप्रसिद्धयनुरोधा- दर्थालंकारमध्ये उक्त इत्यर्थ इति प्राचीनटीकासु स्पष्टम्। उक्तं च नवीनैरपि प्रसिद्धिरत्रान्येषा- मलंकारिकाणामर्थालंक।रमध्ये गणनारूपा ग्राह्येति तथा प्रसिद्वौ बीजमाह एकदेशविवर्ति हीत्यादि। हि यतः । इदं श्लिष्टपरंपरितरूपकम् । एकदेशविवर्तीति। एकदेशविवरतिर्रूपकमिति अन्यैर्भामहादिभिरभिधीयते कथ्यते इत्यर्थः । यथा 'जस्स रणन्ते उरए' इति ४२२ उदाहरणे मण्ड लाग्रलतादिषु आरोप्यमाणं नायिकात्वादिकमार्थमिति रूपकमेकदेशविवर्तीत्युच्यते तथा 'विद्वन्मानस- हंस' इति ४२५ उदाहरणेऽपि मनःप्रभृतिषु आरोप्यमाणं सरोविशेषत्वादिकमार्थमिति रूपकमेक देशविवर्तीत्यन्यैरैमिधयिते इति भावः। तथा चैकदेशविवर्तिरूपकस्यार्थालंकारत्वं सर्वसंमतमेवेति अस्याप्येकदेशविवर्तित्वेन पूर्वाचार्याणां व्यवहारात्तन्मतेऽर्थालंकारत्वेन प्रसिद्धिः स्पष्टेवेत्याशयः । स्वमते (काव्यप्रकाशकारमते) तूक्तलक्षणरत्यास्य नैकदेशविवतिर्तवमित्यन्यैरित्युक्तमिि बोध्यम्॥

Page 662

दशम उल्लास: । ६०३

आलानं जयकुअ्जरस्य हषदां सेतुर्विपद्वारिधे: पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः। संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥ ४२६॥ अत्र जयादेर्भिन्नशब्दवाच्यस्य कुअ्जरत्वाद्यारोपे भुजस्य आलानत्वाद्यारोपो युज्यते। व्याख्यातमिदं प्रदीपप्रभोद््योतेषु। "ननु शर्लेषस्य शब्दपरिवृत्त्यसहतया शब्दालंकारत्वमित्युक्तम् वक्ष्यते च तथा च श्लेषपरंपरितमुभयालंकारो युज्यते इति तदवसरे एव वक्तुमौचित्यात् किमित्यर्था- लंकारमध्ये पठित इति चेत् सत्यमेतत् तथापि श्लेषापवादकं रूपकमित्यलंकारसर्वस्वकारािप्रसिद्धय- नुरोधेनात्रोक्तः । तथा प्रसिद्धौ कि बीजमिति चेत् मानसत्वादीनामार्थत्वम्। इदं हि तैरेकदेशविवर्ती- त्युच्यते" इति प्रदीपः । (उक्तम् नवमे इत्यर्थः । वक्ष्यते च अग्रे इत्यर्थः । तदवसरे अर्थालंकार- प्रस्तावे। मानसत्वादीनामिति। सरोविशेषत्वादीनामित्यर्थः । आदिना कमलविकासित्वादिसंग्रहः । आर्थत्वम् अर्थगम्यत्वम्। खङ्गलताया इव नायिकात्वमित्यर्थः । नन्वेकदेशविवर्तित्वं सावयवस्यव भेदो न तु परंपरितस्येत्याशङ्क्याह इदं हीति ) इति प्रभा। ( उक्तं प्राचीनैः । वक्ष्यते अस्मामिः । उभ- यालंकार इति। मानसादिपदस्य परिवृत्त्यसहत्वात् हंसादिपदस्य च परिवृत्तिसहत्वादिति भावः । श्लेषापवादकं रूपकमिति बहुवाहिः। उभयमप्यर्थालंकार इत्युक्तेश्व्वेत्यपि बोध्यम् । तैरेकदेशेति । यथा रणेऽन्तःपुरत्वारोपे तद्विशिष्टसंबन्धस्य मण्डलाग्रलतादावयोग्यतया तद्वलादेव नायिकात्वारोपस्तथा राजनि हंसत्वारोपे तद्विशिष्टस्यान्तःकरणसंबन्धायोग्यत्वेन तद्वलात् मानसे सरस्त्वारोपेणैकदेशवि- वर्तीति तैरुक्तमित्यर्थः। नव्यमते (काव्याकाशकारमते) तु उक्तलक्षणरीत्या नैकदेशविवर्तित्व- मिति बोध्यम्) इत्युइ्चोतः।।

अश्लि मालारूपं परंपरितं रूपकमुदाहरति आलानमिति। अत्र यद्वक्तव्यं तत् प्रसङ्गात्प्रागेव (३५० पृष्ठे २१ पककौ ) उक्तम्। हे राजन् ते तव भुजो राजति शोभते। किंभूतः । जय एव कुञ्जरो गजस्तस्यालानं बन्धनस्तम्भः "आलानं गजबन्धनस्तम्भः" इत्यियुक्तोक्तेः "आलानं बन्ध- नस्तम्भे" इत्यमरोक्तेश्व्वेति बोध्यम्। विपत् विपत्तिरेव वारिधिः समुद्रस्तस्य द्ृषदां सेतुः शिलामयस्त- रणम.रगः तदुत्तारणक्षमत्वात्। दृषदामिति दाढ्यार्थम्। करवालः खङ्ग एव चण्डमहाः सूर्यस्तस्य पूर्वाद्रिरुदयाचलः । श्रीः संपत्तिरेव श्रीः लक्ष्मीस्तस्या लीला सुखस्वापस्तस्या उपधानं शिरोनिधानतू- लपटः। उपधीयते आरोप्यते शिरोऽत्रेत्युपधानम् "उपधानं तूपबर्हः" इत्यभरः । संग्राम एव अमृत- सागरः लोड्यत्वात् तस्य प्रकृष्टमथनमेव क्रीडा सुखनिर्वा्यत्वात् तस्याः विधौ संपादने मन्दरो मन्थाचलः। वीराः अपलायिनो ये वैरिणः शत्रवः तदन्येषामुपेक्षणीयत्वात् तेषां याः वनितास्ताभ्यों वैधव्यं विधवात्वं ददातीति तादश इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे।॥

अत्र जयादिकुञ्जराद्योः पदयोरमिन्नत्वान्न मानसादिपद्वत् श्लिष्टत्वम् भुजे आलानत्वाद्यारोपे जयादौ कुञ्जरत्वाय्यारोपो निमित्तमित्याश्रलष्ट परंपरितं रूपकमिदम्। एकस्मिन् सूत्रे बहूनां पुष्पाणामिवेकस्मिन् भुजरूपे उपमेये आलनादीनी बहूनामारोपाद्वूपकस्य मालात्वम्। इदमेव संक्षेपतः स्पष्टयति अंत्र- जयादेरित्यादि। भिन्नशब्दवाच्यस्य जयादेरित्यन्वयः । इयं संबन्धे षष्ठी एवं भुजस्येत्यपि। कुंअ्र- स्वाद्यारोपे इति। सतीति शेष:। युज्यते उपपद्यते। एवमेव्ाहुः सुधासागरकाराः "जयादेरिति भुंजब

Page 663

६०४ काव्यप्रकाश: सटीकः ।

"अलौकिकमहालोकप्रकाशितजगत्त्रयः। स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्॥ ४२७ ॥ निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपश्चम्। प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥ ४२८॥"

स्येति च न कर्मणि षष्ठी किंतु संबन्धे। तथा च जयसंबन्धिकुञ्जरत्वारोपोर्ऽर्थाज्जयविषयकः अन्यथा जयस्यारोप्यमाणत्वेन प्राधान्यापत्तावालानत्वस्य तत्रानन्वयः स्यात्। नन्वेवं जयादाविति भुजे इति च विषयसप्तम्येव कुतो नोक्तेति चेत् शृणु। सप्तर्मानिर्देशे जयस्य कुञ्जरे संबन्धो न प्रतीयेत न च तथेष्टम्। प्रदीपकृता तु 'भुजे' इति भुजस्यारोपेविषयत्वाभावभ्रमवारणायोक्तमिति बोध्यम्" इति अत्राहुरुद्दयोतकाराः "युज्यते इति। कु्जराभिन्नजयाधारत्वसाधर्म्येगति भावः। एवमग्रेऽपि बोध्यम्। एवं जये कुञ्जरत्वारोपे भुजरूपालानसंबन्धित्वं साधारणधर्मः । न चैत्रमन्योन्याश्रयः कल्पनामयतया सकलसि्द्धे: कल्पनायाश् स्व्रप्रतिभाधीनत्वात् शिल्पिभिः परस्परावष्टम्भमात्राधीनस्थितिकाभिः शिले- ष्टकादिभिर्गेहविशेषनिर्माणाच्चेति केचित् । वस्तुतो जयकुञ्जयोरभेदप्रत्ययः इच्छाधीन आहार्य एव समर्थकारोपः सादृश्यमूलक एवेत्यत्र नाग्रह इत्यन्योन्याश्रयसंभावनैव न" इति॥

श्लिष्टममालारूपं (केवलं) परंपरितं रूपकमुदाहरति अलौकिकेति । हे देव राजन् अलौकिको लोकोत्तरो यो महालोक: उत्कृष्टदीप्तिः यद्वा अलौकिकमहालोको यशस्तेन प्रकाशितं जगत्त्रयं येन तादृशः अथ वा अलौकिको लोकेऽन्यत्रादृष्टो यो महः उत्सवस्तस्य आलोकः प्रदर्शनमेव अलौकिको महान् आलोक: य्योतस्तेन प्रकाशितं जगत्त्रयं येन तादशः। "आलोकौ दर्शनद्योतौ" इत्यमरः। सद्वंशो महत्कुलं तदेव सद्वंशः उत्कृष्टवेणुः (मुक्तोत्पत्तिस्थानं) तत्रत्यं मुक्तारत्नं मौक्तिकश्रेष्ठः भवान् कैः न स्तूयते अपि तु सर्वैः स्तूयते इत्यर्थः। "वंशः संघेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च" इति हैमः। "रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । चन्द्रिकायां तु 'वंशोन्भवमुक्ताया बहुमूल्यत्वाद्रत्नत्वोक्तिः' इत्यु- क्तम्। वेणोः मुक्तोत्पत्तिस्थानत्वं तु नवमे "सद्वंशमुक्तामणिः " इत्यत्र (५२५ पृष्ठे) प्रतिपादितम्। मूले एतत्पद्यानन्तरम् 'इति' इत्येवंरूपः पाठो यद्यपि क्वचिदेवोपलभ्यते तथापि स युक्त एव यतो 'निरवाध० ' इत्युत्तरपद्यानन्तरस्थवृत्तौ 'इति च' इति चशब्दार्थ: स्वरसतः संगच्छते ॥

अन्रारोपैविषयारापणीययोः सत्कुलसद्वेण्वोः श्लिष्टसद्वशशब्देनाभिधानम् राजि मुक्तात्वारोपे कुलगतो वेणुत्वारोपो निमित्तमिति श्लिष्ट परंपरित रूपकारमदम्। राजरूपे उपमेये मुक्तारत्नत्वारोप बिनान्यारोपाभावाद्रूपकस्यामालात्वम्। अलौकिकमहालोकेत्यादि तु न राजनि मुक्तातवारोपे निमि- त्ततयोपात्तम् मुक्तारत्नप्रभया जगत्न्रयप्रकाशासंभवात् किंतु मुक्तारत्नापेक्षया उत्कर्षप्रदर्शनायैवो- वतमिति बोध्यम्।।

अश्लिष्टममालारूपं (केवल) परंपरितं रूपकमुदाहरति निरवधीति। निरवधि कालपरिच्छेदशू- न्यम निराश्रयं च ( सर्वाधःस्थितत्वात्) आश्रयशून्यं च अत एव. अनिवर्तितः कौतुकस्य आश्र्वर्यस्य प्रपश्ची विस्तारो येन तादशं यस्य स्थितम् अवस्थानं स इह अस्मिन् जगाते प्रथमः आद्ः कूर्ममूर्तिः १ "अत्र जयादेर्मिन्नशब्दृवाच्यकुञ्जरत्वा [या] रोपे सति भुजे आलानत्वाद्यारोपो युज्यते" इति प्रदीपः॥ १ आरोपविषयत्वम् आरोपाश्रयत्वम् ॥ ३ आरोपविषयः आरोपाश्रयः ॥

Page 664

दशम उल्लास: । ६०५

इति च अमालारूपकमपि परंपरितं द्रष्टव्यम् ॥ड 'किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति। ३४ नलिनीनां कमलमुखैः मुखेन्दुभिर्योषितां मदनः'॥ ४२९॥ कमठाकृतिः भवान् जयति। कीदशः कूर्ममूर्तिः। चतुर्दशलोका: भूमुवरादयः ते एव (उपर्यधोभावेन दीर्घत्वात्) वललिर्लता तस्याः कन्दो मूलमित्यर्थः। विष्णुं प्रति भक्तस्योक्तिरियमिति चन्द्रिकाकाराः। उद्त्योतसुधासागरकाराद्यस्तु हे राजन् निरवधि अनवच्छिन्नकालम् निराश्रयम् अनाधारम् अनि- वर्तितः कौतुकेन प्रपश्चः संसारो यत्र ताद्ृशं यस्य स्थितं स्थितिः पक्षे निरवधि निरन्तरं निराश्रयम् अपराधीनम् अनिवर्तितः कौतुकानां विवाहनृत्यादीनां प्रपश्चो नानाप्रकारता यत्र ताद्ृशं यस्य स्थित स प्रथमः अनादि: अथ वा प्रथमः स्वत एव भूतः स्वत एव लब्धराज्यादश्र कूर्ममूर्तिः कमठात्मकः भवान् जयते नाधुनिक इति भावः। कीदृशः चतुर्दशलोका एव वललिस्तस्याः कन्दो मूलम्। त्वत्पराक्र्मेणैव सर्व स्थिरमिति भावः इति व्याचख्युः । पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे॥ अत्र लोकवल्लिपद्योर्भिन्नत्वादाश्लष्ठत्वं लोके वल्लित्वारोपो विष्यौ कन्दत्वारोपे निमित्तमिति अश्लिष्ट परंपारतं रूपकमिदम। विष्णुरूपे उपमेये कन्दत्वारोपं विनान्यारोपाभावाद्रूपकस्यामालात्व- मिति चन्द्रिकाकाराशयः। उद्ोतकारास्तु लोके वल्वित्वारोपो राज्ञि कन्दत्वारोपे निमित्तम् स च राज्ञि कूर्मत्वारोपे हेतुः। ननु पूर्वश्लोके मुक्तात्ववारोंपे प्रकाशितजगत्त्रयत्वारोपोऽपि निमित्तम् अत्र कूर्मत्वारोपे निरवाधस्थितत्वारोपोऽपि निमित्तमिति इदं दयमनेकारोपनिमित्तत्वान्मालापरंपरितमव युक्त- मिति चेन्न। ज्योस्ाभस्मच्छुरणधवलेत्यादेरपि तथात्वापत्तेः नानापरंपरासत्वे एव मालापरंपरितत्वस्य युक्तत्वाच्चेत्याहुः। वयं तु वर्णनीयोS्र विष्णुरवा राजा वेत्यत्र प्रकरणाययनवगमात्तूष्णीं तिष्ठामः ॥ इति चेति। चकारेण पूर्वोक्तम् अलौकिकमहालोकेति समुच्चीयते। इत्युदाहृतममालारूपं भेदद्वयमित्यर्थः। अपिना पूर्वोक्तं मालारूप भेददयं समुच्चीयते विद्वन्मानसहंसेत्यादिपद्यद्येनोदाहतं मालारूपकमपि परंपरितं भवतीति द्रष्वव्यमित्यर्थः। अत्र ('अमालारूपकमपि' इति वृत्तिग्रन्थे) मालारूपकमपीति पाठं मन्यमानैः 'प्रकृतारोपं प्रति यदि बहवोऽपरारोपाः साक्षात्परंपरया वा निमित्ततया उपात्तास्तदापि मालारूपकम्' इत्यङ्गीकुर्वाणैर्महेश्वरादिभिः कैश्िविद्वीकाकारैरुक्तोदाहरण- द्वयमेतादशमालारूपकविषयमिति प्रतिपादितम् तच्च तत एवावगन्तव्यव् ग्रन्थगौरवभिया न प्रदर्श्यते॥ यद्यपि रशनारूपमपि रूपके संभवति तच्च पूर्वपूर्वमारोप्यमाणानामुत्तरत्रारोपविषयत्वेरूपम्। तग्यथे- स्याहं किसलयति। लताना नलिनीनां च स्त्रीत्वमार्थम्। योषितामित्यस्य करकमलैरित्यनेन मुखे- न्दुर्भिरित्यनेन चान्वयः । तथा च मदनः कामः कामिनां रागिणा मनः चित्तं जयति अभिभवति वशी करोतीति यावत्। ' जि अभवे' इति धातोर्लेटू। 'जि जये' इति त्वकमक इत्युक्तं प्राक् प्रथमका- १ भां भुवः स्व! महः जन! तपः सत्यमित्यैते सप्त ऊ्वलोका। अतलं वितलं सुतलं तलातलें मंहातल रसातलै पातालमित्यैते सप्त अधोलोका।। मिलित्वा चतुर्दश। तदुक्नमम्नियुगणे "चतुर्दशविधं हेतद्म्तवृन् मुकीर्तितम्। भुर्भुवःस्वर्महश्र्यैव जनश्र्वं तप एव च ॥ सत्यलोकश्व सप्तैते लोकास्तु परिकीर्तिताः। अनलं वितलं चैव सुतलें च तलातलम्। महातलं रसातलं पातालं सप्तमं स्मृतन् ।।" इति। एवमेवोक्तं भागवते ५ स्क्धे २३ अध्याये ७ वार्कये इंति बोध्यम् ॥२ आरोपविषयत्व्रम् आरोपाश्यत्वम्॥ ३ अभिमत्ो न्यूनीकरण न्यूनीमवनं च। आधे सकर्मका द्वितीये त्वकर्मक: ॥

Page 665

६०६ काव्यप्रकाश: सटीकः ।

इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम्॥ (सू० १४६) प्रकृत यन्निषिध्यान्यत् साध्यते सा त्वपह्नतिः । उपमेयम् असत्यं कृत्वोपमानं सत्यतया यत् स्थाप्यते सा तु अपह्नतिः ।

रिकाव्याख्यानावसरे। कैजयेति तत्राह किसलयेत्यादि। लतानां वल्लीनां किसलयानि नूतनपत्राण्येत करास्तैः योषितां कामिनां करा: हस्ताः एव कमलानि तैः नलिनीनां कमलिनीनां कमलान्येव मुखानि तैः योषितां मुखान्येव इन्दवस्तैश्वेत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥

अत्र किसलये करत्वम् करे कमलत्वम् कमले मुखत्वम् मुखे चेन्दुत्वमारो प्यते इति ( रशनो- पमायामिव पूर्वपूर्वेषामारोप्यमाणानां परपरत्र औरोपविषयत्वात्पशचाद्वलनया रशनारूपकमिदम्। तदुक्तं चन्द्रिकायाम् "अत्र पूर्वमारोप्यमाणस्य करादेरुत्तरत्रारोपविषयत्वाद्रशनात्वम् " इति। तदेवाह इत्यादि रशनारूपकमिति। तर्हि कुतो न लक्षितमित्यत्राह न वैचित्रयवदिति। न तादृश- वैचित्र्यवदित्यर्थः। यथोपमायां 'भणितिरिव मतिः' (५८० पष्ठे) इत्यादौ राजसंबन्धितया वर्ण- नीयानां भणित्यादीनामुपमानोपमेयतया ग्रन्थनं प्रकृतोत्कर्वपर्यवसायितया वैचित्रयहेतुस्तथा नेति भाव इति प्रभायां स्पष्टम्। उद्दयोतकारास्तु उपमेयोत्कर्षप्रतिपादनाय उपमनीकृतानां पुनरुपमेर्या- करणे तदुत्कर्षस्थगनमिति न वैचित्रयवदित्याहुः। न लक्षितमिति। न पृथग्लक्षितमित्यर्थः । अस्माभिरिति शेषः । परिणामालंकारस्तु रूपके एवान्तर्भवतीत्याहु. ॥ इति रूपकम् ॥६॥

अपह्नुतिनामानमलंकारं लक्षयति प्रकृतमिति। प्रकृतम् उपमेय निषिध्य असत्यं कृत्वा (असत्यतया व्यवस्थाष्य) अन्यत् अप्रकृतम् उपमानं यत् साध्यते सत्यतया व्यवस्थाप्यते ( आहार्यनिश्रयविषयीक्रियते ) सा अपह्नतिरित सूत्रार्थः ॥ प्रकृतमिति व्याचष्टे उपमेयमिति। ननु निषिध्येत्यस्य निषेधार्थकत्वे 'शिखा घूमस्येयं परिणमति रोमावलिवपुः' इत्यादौ वक्ष्यमाणे (६०८ पुष्ठे) अपहुतिर्न स्यादत आह असत्यं कृत्वेति। असत्यतया व्यवस्थाप्ये यर्थः असत्यता प्रतिपाद्येति यावत्। तच्च शब्देनार्थतो वेति न कश्विद्विशेषः। अन्यदित्यस्य अप्रकृतमित्यर्थ- स्तदेवाह उपमानमिति। साध्यते इत्यस्यार्थमाह सत्यतया स्थाप्यते इति। सत्यतया व्यवस्थाप्येत इत्यर्थः आहार्यनिश्रयविषर्याकियते इति यावत्।

निषिध्येत्यत्र कत्वाप्रत्ययार्थः पूर्वकालिकत्वमविवाक्षितम् तेन पूर्व पश्चाद्ा उपमथस्वरूपीनेषधसेहि- तमुपमयस्योपमानरूपताव्यवस्थापनमपहुतिरिति फलितम्। अत एव 'मन्थानभूमिधरमूलाशिलासहस्त्र -र सघट्टृजव्रणकिण: स्फुरतीन्दुमध्ये। छाया मृगः शशक इत्यतिपीमरोक्तिः इत्यादावारोपपूर्वकनिषेधे माव्याप्तिः। निषेधस्त्वत्र पामरवचनोपन्यासौदर्थसिद्धः। निषिध्येत्यन्तेन रूपकव्युदास: रूपके प्रकृत- निषेधाभावात्। प्रकृतं निषिध्येत्येतावन्मात्राक्तौ वक्ष्यमाणे अक्षपालंकारेतिव्याप्तिस्तंद्वारणाय अन्ये त्साध्यते इति। ससंदेहे संशयः अत्र तु निश्चय इति ततो भेदः। अत्र 'उपमेयम्' इत्याय्युपलक्षणम् १ आरोपविषयत्वात् आरोपाश्रयत्वात् ॥ २ चिह्नम् ॥ ३ भच्छायेत्यर्थः ॥ * 'तेषां कर्थचिद्पि तत्र हि न प्रसक्ति:' इति चतुर्थचरणम्। ५ एवम् 'आरुरोह चितामेष मालतीविरहादलिः । न कियुकस्य कुसुमे वर्तते जीवितेश्वरि ॥' इत्यत्र प्रागारोपः पश्रवान्निषेध।। नेद कुसुर्मं किंतु चितेति प्रतीतेरहुतिरिति बीध्यम् ॥ ६ अज

Page 666

दशम उल्लास:। ६०७

उदाहरणम् अवाप्तः प्रागल्म्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि॥४३०॥ किंचिदपह्नुत्य कस्यचित्प्रदर्शनमपह्नुतिरित्येव लक्षणम्। अत एव 'केसेसु बलामोडिअ' इत्यादौ "स्वयं न पलाय्य गतास्तद्वैरिणः आपे तु ततः पराभवं संभाव्य तान् कन्दराः न त्यजन्तीत्यपह्नुतिर्व्यज्यते" इति मूलकारैश्चतुर्थोल्लासे (१४१ पृष्ठे ३ पङ्कौ ) उक्तम् अन्यथा उपमानोपमेयभावसत्त्वे एवापत्रु- तिप्राप्त्या तै त्रोपमानोपमेयभावाभावादपह्ुतेर प्राप्तौ तदसङ्गतमेव स्यात्। एवं च "नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् " इत्यादावुपमाननिषेधेऽपि अपहनतिरेव। अत एव काव्यादर्शे द्वितीयपरिच्छेदे दण्डिनाप्युक्तम् "अपह्ुतिरपह्नुत्य किंचिदन्यार्थसूचनम् न पैश्चेषुः स्मरस्तस्य सहस्रं पत्रिणां यतः" इति। एतेन 'नायं सुधांशुः' इत्यादौ 'न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते'इत्यादौ च नापहुतिः किं तु दृढारोपरूपकमित्यपास्तम्। 'नेदं मुखं चन्द्रः' इति प्रसिद्धापह्नत्युदाहरणेऽपि मुखत्वनिषेधो चन्द्रारोपदाढर्यसंपादकताया वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापह्नुतिमात्रस्योच्छेदापत्तेः। यदि तु निषेधपूर्वकारोपे चमःकारविशेषस्यानुभवसिद्धत्वादलंकारान्तरत्वम् तर्हि प्रकृतेऽपि तुल्यम्। 'साध्यते' इत्यस्य 'आहार्यनिश्चयविषयीक्रियते' इत्यर्थकरणेन 'न पझं मुखमेवेदं भृङ्गौ चक्षुषी इमे' इत्यादौ अनाहार्ये नातिव्याप्तिः । तथा विरहिजनवाक्ये 'नायं चन्द्रोऽपि तु मार्तण्डः' इत्यादौ नैषा तज्ज्ञानस्य दोषविशेषजन्यत्वेनानाहार्यवात्। 'नायं चन्द्रोऽरविन्दं वा मुखं वेदं मृगीदृशः' इत्यत्र च नैषा निश्रयविषयत्वाभावादित्युइ्योते स्पष्टम । अत्राप्यलंकारत्वे सतीति विशेषणमस्त्येव तेन प्रतिभानु- त्थापितेऽचमत्कारीण 'इमं जडं न मनुजं वेधि गामेव केवलं' इत्यादौ नालंकारवप्रसङ्ग: ॥ अपह्नतिश्च द्विविधा शाब्दी चार्थी चेति। शाब्दीत्यस्य शब्देन यत्रासत्यत्वमाह सेत्यर्थः। आर्थी- त्यस्य आक्षपलभ्येत्यर्थः। आर्थी तु बहुमिर्भङ्गीभिर्निबध्यते। तथाहि। कचि कपटोर्थकशब्दोपादानात क्वचित परिणामार्थकशब्दोपादानात् क्वचिच्चान्यथेति उदाहरणे स्फुटीभविष्यति । तत्र शाब्दमिपहुति मुदाहरति अवाप्त इति। पूर्णचन्द्रे कलङ्कं दृष्टा पार्वतीं प्रति महेश्वरस्योक्तिरियम। हे शैलतनये पार्वति परिणतरुच: पूर्णकान्तेः परिपूर्णस्य शशाङ्कस्य चन्द्रस्य वपुषि शरीरे अर्थाद्वक्षास प्रागल्भ्यं प्रक- टत्वम् अवाप्तः प्राप्तः प्रकटीभूतः अयं पदार्थः कलङ्को नैव विलसति शोभते कलङ्को नैव भवती- त्यर्थः किं तु इयं रजनिरमणी निशाभिधा चन्द्रकामिनी अमुष्य चन्द्रस्य विगलत् द्रवीभूतं यत् अमृतं तस्य स्यन्दः प्रस्रवणं तेन शिशिरे शीतले उरसि वक्षःस्थले रतिश्रान्ता विपरीतसुरतखिन्ना सती गाढं निश्वेष्टं यथा स्यात्तथा शेते स्वपिति इति अहं मन्ये इत्यर्थः। श्यामत्वादिति भावः । केचित्तु श्रान्तानां शीतलस्थाने सुखस्वापो भवत्येवेत्याहुः तन्न रुचिरम्। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ १ निषिध्य असत्यं कत्वेति यावत् । उपलक्षणतया व्याख्यानाकरणे ॥ ३ 'केसेसु बलामोडिअ' इत्यादौ॥ ४ पश्च इषवो बाणा: यस्य तादृशो नेत्यर्थः ॥ ५ बाणानाम् ॥ ६ 'विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्' इत्युत्तरार्धम्॥ ७ न पद्ममिति। मुखे पद्मत्वन भ्रान्तं प्रत्युक्तिरियम्। काव्यादर्शे द्वितीयपरिच्छेदे दण्डिना पठित- मिदं पद्यम्।। ८ प्रकारैः॥९ कपटार्थकश्दाच कपर मिषछलछद्कैतवादय; ॥

Page 667

६०८ काव्यप्रकाश: सटीक:।

इत्थं वा बत सखि कियदेतत् पश््य वैर स्मरस्य प्रियविरहकृशेऽस्मिन् रागिलोके तथा हि।

प्रतिविशिखमनेनोद्टङ्गितं कालकूटम्॥४३१॥ अत्र हि न सभृद्गाणि सहकाराणि अपि तु सकालकूटाः शरा इति प्रतीतिः। एवं वा अमुष्मिल्लावण्यामृतसरसि नूनं मृगहशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गङ्गराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपु:॥ ४३२।। अत्रोपमेयभूतं कलङ्कं निषिध्य असत्यं कृत्वा उपमानभूता रात्रिः सत्यतया व्यवस्थापितेत्यपहुाति- रियम्। इयं हि नैवायमिति नञ्ूशब्देन निषेधस्य प्रतिपादनाच्छाब्दी। अत एवाहुः प्रदीपकाराः "अत्र कलङ्को नैवायमिति शाब्दोऽपह्नवः" इति। उक्तं च सारबोधिन्यामपि "अत्र, नैवायमित्यनेन कलङ्कस्यासत्यताया शब्देन बोधनम्" इति॥

निषेधबोधकभङ्गभेदेन प्रकारभेदेन लक्ष्यभेदं सूचयति इत्थं वेति। कपटार्थकशब्दोपादानादार्थी यापन्नुतिस्तामुदाहरति बतेति। सखीं प्रति कस्याश्विद्विरहिण्या उक्तिरियम् । बतेति खेदे। हे सखि प्रियविरहेण पतिसांनिध्याभावेन कृशे क्षीणे अस्थिचर्मावशेषे अस्मिन् मादशे रागिलोके कामिजने स्मरस्य कामस्य कियत् अपरिमितं वैरं विद्वेष: 'अस्ति' इति शेष: एतत् पश्य । तथा हि तदेव कथयामि। अनेन स्मरेण (कर्त्रा) उपवनेषु आरामेषु यानि सहकाराणि सहकारपुष्पाणि तेषु उद्भासिन: शोभमाना: (अवस्थिताः) ये भृङ्गाः भ्रमरास्तेषां छलेन छद्मना कपटेन प्रतिविशिखं प्रति- बाणम् सहकारपुष्परूपे बाणे बाणे इति यावत् कालकूटं दुर्निवारोत्कटविषम् उद्दङ्कितं प्रकाशितम् उपरि निहितमित्यर्थः । सहकारः आम्रवृक्षस्तस्य पुष्पाणि सहकाराणीति विग्रहः । "अवयवे च प्राण्यौषधिवृक्षेभ्यः" (४।३१३५) इति पाणिनिसूत्रेण विहितस्याणप्रत्ययस्य "पुष्पम्लेषु बहुलम्" इति वार्तिकेन लुक । आम्रश्रूतो रसालोऽसौ सहकारोऽतिसौरभः" इत्यमरः । "छलं छद्स्खलि- तयोः" इति हैमः । मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥

अत्रोपमेयभूतान् भृङ्गान् निषिध्य असत्यतया व्यवस्थाप्य उपमानभूतं कालकूटं सत्यतय। व्यवस्थापितमित्यपह्नुतिः । छलशब्देन भृङ्गाणामसत्यत्वं प्रतिपाद्यते सत्यत्वे व्याजताविरहादित्या- क्षेपलभ्यो निषेध इति आर्थी अपह्नतिरियम। तदेवाह अत्र हीति। कपटार्थकछलशब्दबलादिति शेष: । सभृङ्गण भृङ्गसहितानि। सहकाराणि सहकार पुष्पाण। अपि तु किं तु । प्रतीति- रिति। न नञ्रादिवद्भिधया प्रतिपादनमित्यर्थः ॥

एवं वेति। क्वचित्परिणाम दिशब्दवशादित्यर्थः। परिणामार्थकशब्द्रोपादानादार्थी यापन्तिस्तामुदा हरति अमुष्मिन्निति। वेश्यादासी कंचित्समृद्धलम्पट कामिनं प्रति वेश्यां वर्णयति। हे रसिक शर्वेण

Page 668

दशम उल्लास:। ६०९

अत्र न रोमावलि: धूमशिखयमिति प्रतिपत्तिः। एवमियं भङ्गचन्तरैरप्यूह्या। (सू० १४७) श्लेषः स वाक्ये एकस्मिन् यत्रानेकार्थता भवेत् ॥ ९६ ॥ एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेवः। उदाहरणम् हरेण प्लुष्टो दग्धः स्मरः कामदेवः अस्याः मृगदृशः हरिणनयनायाः पृथुजघनभागे पीने कटिपुरो- भागे अमुष्मिन् दृश्यमानप्रकर्षे लावण्यमेव्रामृतं तस्य सरसि वराङ्गरूपतडागे नूनं निपतितः (ताप- शान्त्यै) निश्रयेन निमग्नः । यस्य स्मरस्य अङ्गान्येव अङ्गारास्तेषाम् यद्ा यत् यस्मात्कारणात् अङ्गाङ्गाराणा प्रशमस्य निर्वाणतायाः शान्तेः पिशुना सूचिका इयं धूमस्य शिखा नाभिकुहरे नाभि- चिले रोमावलितपुः रोमावल्याकारा परिणमति प्रादुर्भवतीत्यर्थः । रोमावल्याकारं दघतीति भावः । तप्ताङ्गारस्य जलप्रवेशे धूमशिखा भवतीति स्वभावः । "पश्रान्नितम्बः स्त्रीकट्याः क्रीबे तु जघनं पुरः" इत्यमरः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे। अत्र धूमशिखा रोमावलिवपुः परिणमतीति परिणामशब्दार्थवशान्नेयं रोमावलिः कि तुधूम- शिखेति प्रतीयते इति परिणामार्थकशब्दोपादानादार्थी अपहुतिरियम । तदेवाह अत्रेति। परिण- मतीतिशब्दार्थवशादिति शेषः । प्रतिपत्तिः प्रतीतिः । कचित्प्रकारान्तरेणाप्यपहुतिभर्वतीत्याह एवमिति। इयम् आर्थी अपह्नुतिः । भङ्ग्यन्तरैः प्रकारान्तरैः रीत्यन्तरैरिति यावत् । ऊह्येति । तर्क्येत्यर्थः। यथा 'इदं ते केनोक्तम्' इत्यादौ सतमोल्लासे ३८७ पृष्ठे २६४ पद्े। अत्र 'इदं ते केनोक्तम्' इति शब्देन निषेधस्य प्रतिपादनादार्थी अपहुतिरियम् । क्वचिन्दङ्ग्या व्यञ्जनया निषधबोधनम् यथा "अङ्कं केऽपि शशाङ्किरे जलनिधेः पङ्कं परे मेनिरे सारङ् कतिचिच्च संजगदिरे भूच्छायमैच्छन् परे। इन्दौ यद्गलितेन्द्रनीलशकलश्यामं दरीदृश्यते तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ॥" इति। केचित्तु "गोपनीयं कमप्यर्थ द्योतयित्वा कथंचन। यदि श्लेषेणान्यथा वान्यथयेत्साप्यपहुतिः]।" यथा 'काले पयोधराणाम्' इत्यादौ पूर्वम् (४९१ पृष्ठे २८ पक्कौ) उक्ते पद्ये। अत्र पति विना इत्युक्त्वा पतनाभावेन समर्थनम्। एवं 'प्रजल्पन मत्पदे लग्नः कान्त किन हि नूपुरः' इत्यादावपि अपह्नतिरेवेत्याहुः। उभयत्र व्याजोक्तिरित्यन्ये॥ इत्यपह्नतिः ॥७॥ श्लेषम् (अर्थश्लेषम्) अलंकारं लक्षयति श्लेव इति। परिवृत्तिसहानामेव शब्दानामेकवृन्त- गतफलद्वयन्यायेन यत्रानेकार्थप्रतिपादकता सोऽर्थश्लेष इत्यर्थ इति प्रदीपे स्पष्टम्। तत्र परिवृत्ति- सहानामित्यनेन शब्दश्लेषाद्भेदो दर्शितः। तेन 'योऽसकृत्परगोत्राणाम्' इत्यादौ (५१६ पृष्ठे) गोत्रादिशब्दानां परिवृत्यसहत्त्वान्नार्थश्लेष इति फलितम्। सूत्रार्थ दर्शयन्नध्याहारलम्यमाह एकार्थप्रतिपादकानामेव शब्दानामित्यादिना। अर्थभेदेन शब्दभेद: इति नियमेन एकार्थस्यैवान्वयबोधसमर्थानां शब्दानां यत्र यस्मिन् 'अलंकारे विद्यमाने' इति शेष: अनेकोरऽर्थः 'प्रकरणादेरनियमेन बुध्यते' इति शेषः स श्लेषः सोऽर्थश्लेषः इत्यर्थः। नन्वेकार्थ- प्रतिपादकानां कथमनेकार्थो वाच्यः तथाविधाकारैरपरैः शब्दैः सह श्लिष्टतयेति बमः । एवं चेत् अस्य शब्दालंकारत्वे किं बाधकम् शब्दपरिवृत्तिसहत्वमिति गृहाण। एवं च परिवृत्तिसहानां श्लिष्टानां शब्दानां १ अङ्गारो 'निखाग' इति महाराष्ट्रमाषायां प्रसिद्धः ॥२ मन्येऽहं परिपतिमन्वतमसं कुक्षिस्थमालक्ष्यते' इति पाठान्तरम ।।

Page 669

६१० काव्यप्रकाश: सटीक:।

उदयमयते दिङ्मालिन्यं निराकुरुतेतराम् नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनम् बत बत लसत्तेजःपुओ्तो विभाति विभाकरः ॥ ४३३॥ प्रकरणादिनियमाभावादनेकार्थप्रतिपादकत्वेऽर्थश्लेष इति फलितम्। परे तु एकार्थप्रतिपादकानां सामान्यैक्धमवत्तया सामान्यरूपस्यकस्यार्थस्य वाचकानां शब्दानामनेकोऽर्थः विशेषरूपो नाना अर्थः प्रकरणादेरनियमेन बुध्यते स श्लेवः। यथोदाहरणे उदयरूपे सामान्योदयवाचकादुदयपदाद- कोदयराजोदययोरुदयविशेषरूपयोरर्थयोः प्रतीतिरित्याहुः। श्लि्यतोऽर्थावस्मिन्निति श्लेवपदव्युत्पत्तिः॥ अत्र व्याख्यातं चक्रवर्तिना "श्लेव इत्यादि। यत्र शक्यभेदेन शब्दभेदस्तत्र शब्दश्लेषः । यथा दर्शिते नानार्थे श्लिष्टे च। यत्रैकार्थः शक्योऽपरो निरूढलक्षणया प्रतिपाद्यस्तत्रार्थश्लेषः वाच्या- भेदेन शब्दभेदाभावात् स्वरूपभेदापह्नवस्यैव श्लेषत्वात्। एकस्मिन्वाक्ये वाच्यैकत्वेनाभिन्नस्वरूपे अनेकार्थता अनेकवैशिष्टयबोधकता उपस्थितिविषयस्यानेकस्यान्त्रयाप्रवेशे श्लेषाभासत्वात् । अत एव 'वाक्ये एकस्मिन्' इत्युक्तम्। अर्थयो: श्लेषणादेक प्रतीत्याश्रयणात् श्लेषः " इति ॥ अर्थश्लेषमुदाहरति उदयमिति । विभाकरः सूर्य: विभाकरनामकराजविशेषश्र उदयं पूर्वाचलं समृद्धिं च अयते प्राप्रोति। दिङ्मालिन्यं दिशां (लक्षणया) दिश्यजनाना म न्ध क वशात्,मालिन्यं स्वरूपावरणम् दारिघ्वशात् कुवेषत्वं च निराकुरुतेतराम अतिशयेन दूरीकरोति। अन्ये तु दिशां मालिन्यम् अन्धकारम् तत्तदिग्गतदुष्टसामन्तायुपद्रवं च निराकुरुतेतरामित्याहुः। निद्रामुंद्रां निद्रा- जन्यां चक्षुषोः मुद्रां मुद्रणं नेत्रनिमीलनं निद्रेव मुद्रा निद्रासदशी मुद्रा निरुत्साहता तां च निधनं नाशं नयति प्रापयति। क्रिया: गमनागमनादिका: विहितकिषाश्र प्रवर्तयति कारयति। क्रियाः पक्षद्वयेपि अग्निहोत्राद्याः प्रवर्तयतीत्यन्ये। स्वैराचारोऽभिसारादि: स्वेच्छया वेदनिषिद्धाचरणं च तत्र यत्प्रवर्तनं तस्य कर्तनमुच्छेदं रचयतितराम् अतिशयेन संपादयति। स्वैराचारप्रवर्तनमभिसारादि- विधिनिषेधातिक्रमश्र तत्खण्डनं निवृत्ति रचयतीत्यन्ये। बत बतेति हर्षातिशये। लसत्तेजसां शोभ- मानरश्मीनां शोभमानकान्तीनां च यद्ा लसत्तेजसो मनागपि स्वावमाननाक्षमतायाश्र पुञ्जः समूह- रूप: विभाति विशेषेण दीप्यते इत्यर्थः । हरिणी छन्दः। लक्षणमुक्तं प्राक १०८ पृष्ठे ॥ अत्र 'उदयमयते' इत्यादिषु वाक्येषु उदयमित्यादनिां शब्दानामभिधायाः संयोगाधैः प्रकरणा- दिकै: नियन्त्रणाभावादनेकार्थस्य वाच्यतया पर्यायपरिवृत्तिसहतथा चार्थश्लेषोऽयम् । विभाकर इत्यंशे तु परिवृत्त्यसहतया शब्दश्लेव एव। एवं च विभाकर इत्यंशे परिवृत्त्यसहत्वेन शब्दश्लेवेऽपि उद- यमित्यादिषु बहुषु अर्थश्लेषादुदाहरणत्वमिति विभावनीयम्। केचित्तु विभाकरशब्दः शक्त्या सूर्यम् नृपं योगेन बोधयतीत्येतदंशेऽप्यर्थश्लेवः प्रभाकरादिपर्यायशब्देन परिवृत्तिसहत्वादित्याहुः। यदि त्वत्र संयोगायैः प्रकरणादिभिः अभिधायाः नियन्त्रणे राजा प्रकृतो रविरप्रकृतस्ता 'भद्रात्मनः' (८७ पृष्ठे) इत्यादाविव द्वितीयार्थस्य ध्वनिरेव। पर्यायपरित्तिसहत्वेऽर्थशक्तिमूलध्वनिः तदसहत्वे १ वाच्याभेदेनेति। वाच्यभेदेनेति पुस्तकान्तरे पाठः ॥२ निद्रया मुद्रेति विग्रहः॥ ३ योगनेति। विभा नीत्या राज्यस्य प्रकाशं ख्यातिम् उन्न्तिम् करोतीति व्युत्पत्त्येत्यर्थः ॥

Page 670

दशम उल्लासः। ६११

अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ।। (सू० १४८) परोक्ति भेदकैः श्लिट्टैः समासोक्ति: प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्म्यात् न तु विशेष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानम् सा समास्ेन संक्षेपेणार्थदवयकथनात् समासोक्तिः । उदाहरणम् तु शब्दशक्तिमूलध्वनिरित्युक्तं प्राक् १२८ पृष्ठे। तदेतत्सर्वे वृत्तिकार आह अत्रेत्यादि। व्याख्या- तमिदं प्रदपिोद््यातयोः "अत्र विभाकरनामा राजविशेषो मार्तण्डश्वेत्युभयार्थकानि 'उदयमयते' इत्या· दीनि वाक्यानि। न चायं द्वितीयार्थस्य ध्वनिरवेति शङ्कनीयम् संयोगादीनामभावेनाभिधाया अनिय- न्त्रणात् द्वयोरपि वाच्यत्वात् " इति प्रदीपः । ( द्योरपि वाच्यत्वादिति। 'प्रकृतत्वेन' इत्यादि: । उभयो: प्रकृतत्वेऽप्रकृतत्व्रे वा ध्वनित्वाभावादिति भावः। एतेनार्थश्लेषे विशेषणानामेव श्लिष्टत्वं न तु विशेष्याणामपीत्यपास्तम्) इत्युद्योतः । यत्तत्र चक्रवर्तिना व्याख्यातम् (विभाकरः सूर्यः राज्याभिषेकसमये पुरोहितादिभिस्तत्तुल्यत्वेन प्रतापरुद्रादिवत्संकेतितो नृपतिविशेषश्र । अत्र सूर्यानुकला अर्था वाच्याः नृपत्यनुकूलाश्र लक्ष्या एवे- त्यर्थः। अत्रेत्यादि। अर्थान्तरस्य व्यङ््यतां निरस्यति अभिधाया इत्यादि। अनियन्त्रणादिति। प्रकरणाद्यभावेनेत्यर्थः। वाच्याविति। निरूढलक्षणाया अपि शक्तितुल्यत्वात्समकालं प्रतयिमाना- वित्यर्थः । ननु विभाकरपदस्य नृपतौ संकेतितस्य कर्थं लाक्षणिकत्वमिति चेन्न। शक्तिकल्पने गौर- वात् एकादशदिवसीयपितृक्कृतसंज्ञायामेव शक्तेरभ्युपगमात् 'एकादशेऽहनि पिता नाम कुर्यात्' इतिविध्यनुमितेश्वरेच्छाविषयत्वादिति नवीनः पन्थाः इति ) तन्तु न रुचिरमिति विद्वद्भिविभावनीयम्। इति श्लेष: ॥८॥। समासोक्तिनामानमलंकारं लक्षयति परोक्तिरिति। परम् अप्रकृतम् अप्रकृतव्यवहार इत्यर्थः। उक्तिर्वचनं बाधनमित्यर्थः व्यञ्ञनया प्रतिपादनमिति यावत्। भेदयन्ति व्यवच्छेदयन्तीति भेदकाननि विशेषणानि। श्लिष्टानि अनेकार्थकाननि प्रकृताप्रकृतार्थोभयसङ्गतानीत्यर्थः। समासेन संक्षेपणार्थद्वय- स्योक्तिः प्रकृताप्रकृतवृत्तान्तयोः प्रतिपादनं समासोक्तिरित्यलंकारनामेदम्। तथा च श्लिष्टैः प्रकृ- ताप्रकृतारथोभयसंगतैः भेदकैः विशेषणैः विशेषणवाचकमात्रशब्दैः या परोक्तिः परस्याप्रकृताथस्य अप्रकृतगत यवहाररूपार्थस्य उक्तिः बोधनं प्रकृतवृत्तान्ते आरोपः व्यञ्जनया प्रतिपादनं सा समा- सोक्तिरिति सूत्रार्थः। प्रकृतार्थविशेषणवाचिमात्रशब्दस्य श्लेषमाहम्रा यत्र प्रकृतार्थकेन वाक्येनाप्रकृतगत- वयवहाररूपार्थस्य व्यञ्जनया बोधनं समासोक्तिरलंकार इति भाव: ।। h: सूत्रं व्याकुर्वन्नाकाङ्कितैकदेशं पूरयति प्रकुतार्थप्रतिपाठकवाक्येनेति। प्रस्तुतार्थबोधकवाक्ये= नेत्यर्थः। परशब्दप्रतिषाद्यस्याप्रकृतार्थस्य नित्यं प्रकृतार्थसाकाङ्कत्वेनेदं लब्धमिति बोध्यम्। श्लिष्टै- भेदकैरित्यस्य पर्यवसितमर्थमाह श्लिद्धेत्यादिना सामर्थ्यादपि इत्यन्तेन । श्लिष्टविशेषणेत्यादि। :"सर्व वाक्यं सावधारणम्" इति न्यायेन श्लिष्टं याद्वशेषणं विशेषणबोधकमात्रं पदं तस्य माहात्म्यात् बोधकत्वरूपसामर्थ्यादित्यर्थः। न तु विशेष्यस्य सामर्थ्यादपीति। न तु विशेष्यबोधकस्यापि पदस्य सामथ्यादित्यर्थः। परोक्तिरित्यस्यार्थमाह अप्रकृतस्यार्थस्याभिधानमिति । अप्रकृतगत- व्यवहाररूपस्यार्थस्याभिधानं व्यञ्जनया बोधनमित्यर्थः। एवं च समासोक्तौ प्रकृतवृत्तान्तोऽभिधया प्रतीयते अप्रकृतवृत्तान्तस्तु व्यञ्जनयैव प्रकरणेनाभिधाया नियमनाविति बोध्यम्। समासोक्तिप

Page 671

६१२ काव्यप्रकाश: सटीकः ।

दस्य 'समासेन संक्षेपेण (एकेनैव शब्देन) उक्तिः (अर्थद्वयस्य ) कथनं समासोक्तिः' इति व्युत्पत्ति दर्शयति समासेनेत्यादिना। संक्षेपेण एकेनैव शब्दन। केचित्तु 'विशेषणमात्रस्यानेकार्थ- कत्वात्संक्षेपः' इत्याहुः। समासोक्तिरिति। तन्नामकोSलंकार इत्यर्थः । अत्र प्रकृतव्यवहारेSप्रकृत- व्यवहारारोपः रूपके तु विशेष्ये प्रकृतेऽप्रकृतरूपारोपः । अत एवैकदेशविवर्तिरूपकविषये 'जस्स०' इत्यादौ ( ५९७ पृष्ठे ४ पङ्कौ) न समासोक्तिः । परोक्तिरित्यनेनाप्रस्तुतप्रशंसायां नातिव्याप्तिः तत्राप्रकृतेनार्थेन प्रकृतार्थव्यञ्जनात्। अत एव वक्ष्यमाणेSप्रस्तुतप्रशंसालंकारे प्रदीपः "अप्राकरणि- केन प्राकरणिकाक्षपोSप्रस्तुतप्रशंसा प्राकरणिकेनाप्राकरणिकाक्षेपः समासोक्तिः" इति। भेदकैरि त्यनेनोपमाध्वनौ श्लेषालंकारे च नातिव्याप्तिः तत्र विशेष्यस्थापि श्लिष्टत्वात्। "अत्र विशेषणस्य श्लिष्टत्वं चोपलेक्षणम् प्रकृताप्रकृतसाधारणत्वस्य औपम्यगर्भत्वस्य सारूप्यस्य च संभवात्। तत्र श्लिष्टविशेषणवशाया समासोक्तिस्तदुदाहरणं मूले एव वक्ष्यते। साधारणविशेषणव- शादथा 'विलिखति कुचावुचगाढं करोति कचग्रहं लिखति ललिते वक्त्रे पत्रावलीमसमञ्जसाम्। क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षाति चांशुकं मर्रुभुवि हठान्नशयन्तीनां तवारिमृगीद्शाम्।' इति। अत्र कुचविलेखनकचग्रहणादिविशेषणानां शब्दश्लेवं विना स्वत एव साधारण्यान्नायकवृत्तान्तपरिस्फूर्ति- रिति समासोक्तिः। औपम्यगर्भविशेषणवशायथा 'दन्तपभापुष्पचिता पाणिपल्लवशोभिनी। केशपा- शालिवृन्दन सुवेषा हरिणेक्षणा ॥' इति। अत्र नायिकाविशेषणत्वस्य 'दन्तप्रभाः पुष्पाणीव पाणयः पल्लवानीव केशपाशोऽलिवृन्दमिव' इत्युपमितेसमासेन सिद्धौ 'दन्तप्रभासदशैः पुष्पैः पाणिसदृशैः पछ्लवैः केशपाशसदृशेनालिवृन्देन' इति समासान्तराश्रयणेन लतावृत्तान्तस्य परिस्फूर्तिरिति समा- सोक्तिः। सारूप्यात् यथा 'पुरी यत्र स्रोतः पुलिननधुना तत्र सरितां विपर्यासं यातो घनविरलभावः १ आक्षेपोडत्र व्यञ्ञनम् ॥ २ व्याख्यातमिद्मुपलक्षणपदं प्राक् ६०६ पृष्ठे ६ टिप्पणे॥ ३ उपभैवीपम्यम् चातु- व्र्ण्यादित्वात्स्वार्थे व्यत्रु। औपम्यं गर्भे यस्य तदिति व्यधिकरणपदो बहुवीहिः ॥ सारुप्यस्थेति। समानं रूप यस्य तत् सरुपम् "ज्योतिर्जनपद०" (६।३८५) इति पाणिनिसूत्रेण समानशब्दस्य नित्यं सादेशः तस्य भावः सारूप्यं तुल्यरूपत्वं तत्येत्यर्थः ॥ ५ उच्चैर्महान्तौ उन्नतौ इति कुचविशेषगम्। "अल्पे नीचैर्महत्युच्चैः" इत्यमरः। उच्चैरित्यव्ययस्याधिकरणशक्तिप्रधानस्याप्यत्र शक्तिमत्परत्वम्। 'शुङ्गमुच्चैर्गिरेदम्' इत्यत्रेव (महश्वर- रुतायामरकोशटीायामुदाहते) 'कि पुनर्यस्तथोच्चैः' (मेघदूतकाव्ये पूर्वमेधे १७ श्लो०) इत्यत्रेव्र चेति बोध्यम् ॥ ६ खदिर: कण्टकयुक्तो वृक्षविशेषः 'खैर' इति महाराष्ट्रभाषार्यां प्रसिद्धः । 'खदिरो रक्तसारश्र गायत्री दग्तधावनः । कण्टकी बालपत्रश् जिह्मशल्यः क्षितिक्षमः ॥" इति त्रिकाण्डशेष: ॥ ७ श्रोणीबिम्बात् कटिमण्डलात्। तथा च ैराग्यशतके भर्तृहरिप्रयोगः 'शरणमथवा श्रोणीचिम्वं रणन्मणिमेखलम्' इति ॥ ८ मरुभुवि निर्जले देशे 'मारवाड' इति प्रसिद्धि। म्रिियते पिपासया जन्तुर्यस्मिन्निति मरुः ॥९ नश्यम्तीनानदर्शनं प्रापुवन्तनिाम्। 'णश अदर्शने धातुः। पलायनं कुर्वन्तीनामित्वर्थः। १० उपमितसमासेनेति । "उपमितं व्याघ्रादिभि: सामान्याप्रयोगे" इति पाणिनिसूत्रविहितेनेति शेषः। इद सूत्रं प्राक् (५७४ पृष्ठे १ टिप्पणे) व्याख्यातम्॥ ११ समासान्तरेति। 'शाक षार्थिवादित्वात्' इत्यादि:॥ १२ पुरा यत्रेति। भवभतिरूते उत्तारामचरिते द्वितीयेडक्के प्रसङ्गगतकालास्तरे (सीता- स्वागानन्तरकाले) पुनर्दण्डकारण्यमागतवतः श्रीरामस्योक्तिरियम्। पुरा बनवासकाले सरितां नदीनां स्रोतः प्रवाहो यत्र यस्मिन्प्रदेशे आसीतु तत्र तस्मिन्त्रदेशे अधुना इदानीं पुलिनं जलाद्चिरनिर्गतं तटम् 'अस्ति' इति शेष:। "तोयोस्थितं तत् पुलिनम्" इत्यमरः। तथा क्षितिरुहां तरूणां घनविरलभावः विपयासं वैपरीत्यं यातः प्राप्तः सान्द्राणां विरलता विग्लानां शाखापल्लवादिवृद्धया सान्द्रता जातेत्यर्थः। तथा च बहोर्भयमः कालादनन्तरं दश्ठमिदं वनम् अपरम् अन्यदिव मन्ये परंतु शैलानां पर्वतानां निवेशः विन्यासविशेषः 'तद्वेदं वनम्' इति बुद्धिं प्रत्यमिज्ञा- रपां द्रृढयति दृढककगेतीत्यर्थः। "निवेशः शििरोद्वाहविन्यासेपु प्रकीर्तितः" इति शाश्वतः ॥

Page 672

दशम उल्लास: । ६१६ लहिऊण तुज्झ बाहुफ्फंसं जीए स का वि उल्लासो।ी जअलच्छी तुह विरहे ण हूज्जला दुब्बला णं सा ॥ ४३४॥। अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति॥। (सू० १४९) निदर्शना । अभवन् वस्तुसंबन्ध उपमापरिकल्पकः ॥ ९७॥ क्षितिरुहाम्। बहोर्दष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥' इति। अत्र वनसारूप्यात् कुटुम्बिषु धनसंतानादिसमृद्धयसमृद्धिविपर्यासं प्राप्तस्य ग्रामनगरादेवृत्ता- न्तस्य प्रतीतेः समासोक्तिः। इय च समासोक्तिः कुवलयानन्देऽपय्यदीक्षितरेवोक्ता नान्यैः" इति प्रदीपप्रभयोरुक्तम्। यत्तु रसगङ्गाधरे 'पुरा यत्र स्रोत:०' इत्यत्र न समासोक्तिः किंत्वप्रस्तुतप्रशं- सैवोति सिद्धान्तितम् तत्तु तत्रैव मर्मप्रकाशाख्यटीकार्या नागोजीभट्टैः समासोक्तिमेव समर्थयित्वा खण्डितमिति तत्रैत्र द्रष्टत्यम् ग्रन्थगौरवभिया नात्र प्रदर्श्यते इति बोध्यम्॥ समासोक्तिमुदाहरति लहिऊणेति। "लब्ध्वा तव बाहुस्पर्श यस्याः स कोऽप्युल्लासः। जयलक्ष्मी- स्तव विरहे न खलूज्ज्वला दुर्बला ननु सा॥" इति संस्कृतम्। समरपतितं स्वामिनमवेक्ष्य वीरपत्न्या उक्तिरियमिति सुधासागरकाराः । महेश्वरेण तु 'दुर्बलानां सा" इति संस्कृतं पठित्वा दैवाद्दुर्बलेन शत्रुणा जितं नृपति प्रति कस्यचिदुक्तिरियमित्युक्तम्। हे वीर तव बाहुस्पर्श भुजसङ्गं लब्ध्वा अवाप्य यस्याः स कोपि अनिर्वचनीयः उल्लासो हर्षोत्फुल्वताभूत् सा जयलक्ष्मीः विजयश्रीः तव विरहे वियोगे सति न खलु उज्ज्वला ननु प्रत्युत दुर्बला जातेत्यर्थः । गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र समासोक्ति दर्शयति अ्रेत्यादि। अत्र केवलं विशेष्यवाचिनी जयलक्ष्मीशब्दस्य कान्तावाच- कत्वम् अप्रकृतकान्ताबोधकत्वं नास्ति तस्य जयलक्ष्मीमात्रबोधनसामर्थ्यात् विशेषणानां तु लहिऊणे त्यादिपदानामुभयगतबाहुस्पर्शप्राप्त्यादिबोधकत्वमस्त्येवेति समासोक्तिरलंकार इत्यर्थः । एवं च लहि- ऊणेत्यादिपद्बोध्यानामभेदारोपात् व्यञ्जनया कान्ताव्यवहाराभेदेन प्रतीयमानस्य जयलक्ष्मीव्यवहा- रस्य जयलक्ष्मीवृत्तान्ततया प्रतीयमानस्य चमत्कारकतेति भावः। अत एवोक्तं कुवलयानन्दकृतापि समासोक्तावप्रस्तुतव्यवहारसमारोपश्वारुताहेतुरितीत्युद्योते स्पष्म्। अन्राप्रकृतव्यवहारो अप्रकृतवृ- त्तान्तो व्यज्यमानो वाच्ये प्रकृतव्यवहारेऽभिन्नतया चारोप्यमाणो वाच्योत्कर्षमेवाधत्ते इत्यङ्गतयैवास्ते न तु प्रधानतयेति न ध्वनिव्यवहारः किंतु अपराङ्गव्यङ्गयरूपगुणीभूतव्यङ्ग्यव्यवहार एव अत एव 'आगत्य संप्रति०' इत्यादौ (२०४ पृष्ठे ) अपराङ्गव्यङ्गये मध्यमकाव्ये 'अयमेव समासाक्त्यलंकारः' इत्युक्तमुद्योतकारैः। एवमप्रस्तुतप्रशंसादावपि न ध्वनिव्यवहारः। एवं चात्र समासकतौ वक्ष्यमाणेS- प्रस्तुतप्रशंसादौ च ध्वन्यमानार्थसत्त्वेऽपि वाच्यार्थकृतचमत्कारमादायालंकारत्वमिति बोध्यम्। अत्रो- कतमुदाहरणचन्द्रिकायाम् "अत्र बाहुस्पर्शलाभप्रयुक्तोल्लासादिसाधारणविशेषणबलाज्जयलक्ष्मीवृ- त्तान्तो नायिकावृत्तान्तरूपतया गम्यते इति समासोक्त्यलंकारः" इति। "न च स्त्रीप्रत्ययेन कान्ता- प्रत्यायनमस्त्विति वाच्यम् प्रत्ययस्य प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमेन जयलक्ष्मीगतस्त्रीत्वमात्रप्र- त्यायनात्" इति विस्तारिकायामुक्तम् ॥ इति समासोक्तिः ॥ ९॥ निदर्शनानामानमलंकारं लक्षयति निदर्शनेति। न भवतत्यभवन् प्रतीतिविषयतामलममाना

Page 673

६१ ४ काव्यप्रकाश: सटीकः।

निदर्शनं दष्टान्तकरणम्। उदाहरणम् क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं माहादुडुपनास्मि सागरम् ॥४३५॥

यद्वा अभवन् असंभवन् अनुपपद्यमानः तात्पर्याविषय इति यावत्। ताहृशः वस्तुनोः वाक्यार्थयोः पदार्थयोवा संबन्धोऽन्यः उपमां परिकल्पयतीति उपमापरिकल्पकः उपमां कल्पयित्वा पर्यवस्यति औपम्यमाक्षिप्य पर्यवस्यतीति यावत् सा निदर्शना तन्नामकोऽलंकारः दृष्टान्तकरणात्मकनिदर्शनरूप- त्वादिति सूत्रार्थः। एवं चेयं वाक्यार्थनिदर्शना पदार्थनिदर्शना चोति द्विविधेति भावः। 'अभवन् वस्तुसंबन्धः' इत्युक्तत्वादेव प्रतीतिपर्यवसानाभावादस्य दृष्टान्ततो भेदः। परस्परनिरपेक्षयोवा्यार्थ- योर्द्ष्टान्तालंकार: इयं पुनः सापेक्षयोरिति भेद इत्यन्ये इत्युश्चोते स्पष्टम्। 'अभवन् वस्तुसंबन्धः' इत्येतावन्मात्रे उक्ते 'दश दाडिमानि षडपूपाः कुण्डमजाजिनम्' इतिवत् वाक्यमसङ्गतं स्यादत उप- मापरिकल्पक इति। निदर्शनापदार्थमाह निदर्शनमिति। तदपि विवृणोति दृष्टान्तकरण- मिति। उदाहरणकरणमित्यर्थः । करणमिति भावे ल्युट्। केचित्तु "निदर्शना निश्वित्य दर्शनं साद शयत्रकटनं निदर्शना। दृशेर्ण्यन्तात्स्त्रियां भावे युच्" इति व्याचर्युः ॥

तत्र वाक्यार्थनिदर्शनामुदाहरति क्व सूर्येति। रघुकाव्ये प्रथमस्गे स्वाहंकारं परिहर्तु कालिदास- स्योक्तिरियम् । प्रभवत्यस्मादिति प्रभवः कारणम्। "प्रभवो जलमूले स्याज्जन्महेतौ पराक्रमे। ज्ञानस्य चादिमस्थाने" इति मेदिनी। सूर्यः प्रभवो यस्य स सूर्यप्रभवः वंशः रघुवंशः क्व। अल्पो विषयो ज्ञेयोऽर्थो यस्यास्तादशी मे मम मतिः क्व। द्वौ क्वशब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकल- यितुं न शक्कोमीत्यर्थः । तथा च तद्विषयकप्रबन्धनिरूपणं तु दूरापास्तमिति भावः । तथाहि। दुस्तरं तरितुमशक्यं सागरं समुद्रं मोहात् अज्ञानात् उडुपेन चर्मवनद्धवंशपात्रेण तितीर्ः तरितुमिच्छः अस्मीत्यर्थः । अल्पसाधनैरधिकारम्भो न सुकर इति भावः। "चर्मावनद्वमुड़पं पुवः काष्ठकरण्डवत्? इति सज्जन: ॥

अत्र सूर्यवंशवर्णनेऽइं सागरं तितीरषुरस्मीति संबन्धीऽनुपपन्नः 'उडुपैन सागरतरणवन्मन्मत्यो सूर्यवंशवर्णनमसंभावितम्' इति उपमां कल्पयतीति उपमार्या पर्यवसानात् वाक्यार्थनिदर्शनेयम्। तदुक्तं चक्रवर्त्यादिभिः "अन्नाल्पविषयकमन्मत्या रघुवंशवर्णन न स्यादित्येको वाक्यार्थः अपरस्तु उडुपन सागरतरणमिति न चोपमानोपमेयभावं विना अनयोः परस्परवैशिष्ट्यं (परस्परसंबन्धः) इति व्यङ्गयोपमया स्थिरीकरणम्। तदाह उडपेनेत्यादि" इति। एवं चात्र वाक्यार्थः उपमाक्षेपक इति वाक्यार्थनिदर्शनयमिति बोध्यम्॥

व्याख्यातमिदं प्रदपोद्द्योतयोः। तथाहि "अत्र 'अहं सागर तितीर्षुरस्मि' इत्यस्या संबद्धार्थकतया उडपन सागरतरणवन्मदीयमत्या सूर्यवंशवर्णनमसंभादितमिति उपमायाः कल्पनम्" इति प्रदाप:। (अत्र स्वमतिसूर्यप्रभववंशयोरत्यन्ताननुरूपत्वं बोध्यते तदनन्तरमुडपकरणकसागरतरणेच्छाया अप्र कृताया: कथनेन ताद्शमतिकरणकवर्णनेच्छायाः पूर्वार्धत आक्षेपः तयोश्र परस्परासंबन्धस्य स्पष्टत्वादौ- १ वाक्यार्थनिदर्शनेत्यादि। वाक्यार्थविषया निदर्शना पदार्थविषया निदर्शना चेत्यर्थः ॥ २ दशदाडिमानी हवादि। पदसमुदायोन्रानर्थकः पढ़ार्थानामन्वयाभावािति अर्थवत्सूत्रे महाभाष्यकैयटयोः स्पम्

Page 674

दशम उल्लासः । ६१५

अत्र उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमार्या पर्यवस्यति। यथा वा

उदयति विततोर्ध्वराश्मरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्। वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्॥ ४३६॥ पम्यमादाय पर्यवसानम्। तत्फलितमाह उडुपेन सागरतरणविति। कल्पनं व्यञ्जनम्। प्रतीयमा- नाभदेरक्षणायोति भावः । एवं चात्रार्थी निदर्शना । 'त्वत्पादनखरत्नानि यो रक्षयति यावकैः। इन्दुं चन्दनलेपेन पाण्डरीकुरुते हि सः ॥' इत्यादौ तु शाब्दी बोध्या। वाक्यार्थगा चोभयत्रापि। एवं 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम्। इदं श्रीखण्डलेपेन पाण्डरीकरणं विधोः ॥' इत्यत्राप्येषैव। न चेदं वाक्यार्थरूपकम् लोकप्रसिद्वोपमानत्वोपमेयत्ववतोरभेदस्यैव रूपकत्वात्। कि च तत्र सादृश्यलक्ष- णामूलाभेदप्रतीतिः इह तु प्रतीयमानाभेदानुपपत्या तत्त्वकल्पनेति भेदात्। 'नितरां निर्गते नीरे सेतुमेषा चिकीर्षति' इत्यादौ किंचिरददाक्षिण्यसमागततत्कालोपेक्षित प्रतिनिवृत्तनायिकान्तर।सक्तनायका नयनार्थ सखीं प्रेषायतुकामां नायिकामुद्दिश्य सख्या वचनेऽपि आर्थी निदर्शनेव। एतेनात्र ललिता- लंकार: वर्णनीयवाक्यार्थमनुक्त्वैव वर्ण्ये धर्मिणि तत्सरूपस्य कस्याचिदप्रस्तुतवाक्यार्थस्य वर्णनरूप: इति [ कुवलयानन्दे अप्यय्यदीक्षितोक्तम् ] अपास्तम्। न हि प्रस्तुताप्रस्तुतवृत्तान्तयोः शब्दोपात्तयोरेव निदर्शनेत्यत्र मौनमास्ति। न चैवमतिशयोक्तिविषयस्याप्यार्थरूपकेणापहारः स्यादिति वाच्यम् विषय- तावच्छेदकरूपेण भाते विषये विषयितावच्छेदकावच्छिन्नविषय्यभेदस्य रूपकशरीरस्य विषयितावच्छे दकरूपेण भासमानविषयात्मकादतिशयोक्तिस्वरूपाद्विलक्षणत्वेन तयोरैक्यासंभवात्। न च निदर्शना- विषये व्यङ्ग्योपमयैवास्तु चमत्कार इति वाच्यम् अत्राभेदप्रतीतिकृतचमत्कारस्यैव सत्वात् कल्पितौ- पम्यमूललिकया पर्यवसन्नया तयैव चमत्कार इत्याशयात्। तद्डक्तम् 'उपजीव्यत्वेन भेदात्' इति) इत्युद््योतः । अत्रोक्तं सुधासागरे "अत्र ललितालंकार इत्युक्तमप्पय्यदीक्षितादविभिस्तद्दषितमस्माभिरलं- कारसारोद्दारे" इति॥ पदार्थनिदर्शनामुदाहरति उदयतीति। माघकाव्ये चतुर्थसर्गे रैवतकगिरिवर्णनमिदम्। विततोध्वर- श्मिरज्जौ वितताः विस्तीर्णाः ऊर्ध्वाः ऊर्ध्वदेश्याः रकूमयः किरणाः एव रज्जव्ो यस्य तादृशे यद्वा विततो विस्तीर्ण: ऊर्ध्वः ऊर्ध्वदेश्य: रश्मिः किरणः रज्जुरिव यस्य तादृशे अहिमरुचौ सूर्ये उदयात उद्यमाने सति विततोर्ध्वरश्मिरज्जौ हिमधान्नि चन्द्रे अस्तं याति सति च पूर्णिमायां सूर्यचन्द्रयोरुद यास्तयोरेककालिकत्वादिति भावः। अयं गिरि: रैवतकाचलो विलम्बि विशेषं यथा स्यात्तथा लम्बमानं यत् घण्टाद्यं तेन परिवारितः (शृङ्गारार्थमुभयतः) संबन्धितो यो वारणेन्द्रो गजश्रेष्ठः तस्य लीलां शोभां वहतीत्यर्थः। उदयतीत्यत्र 'अय गतौ' इति भ्वादिगणे पठितस्यायधातोरनुदात्तेत्त्वादात्मनेपदि- त्वेऽपि चक्षिडो डित्करणाज्ज्ञापकात् अनुदात्तेत्त्वलक्षणमात्मनेपद्मनित्यम् इति ततः परस्य लटः परस्मै- पद्संज्ञकः शत्रादेश इति केचित् । अयधातोः स्वरितेत्वाङ्गीकारादुभयपदित्वेन ततः परस्य लटः शत्रादेश इत्यन्ये। "चान्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्" इति न्यायसुधोक्तेश्रान्द्रमते सर्वेम्यो

१ सेतुः तरणमार्गः ॥ २ दाक्षिण्येत्यादिक्तप्रत्ययान्तचतुष्टयं नायकविशेषगम्। दाक्षिण्यम् अनुरोधशीलत्वमू। ३ मानं प्रमाणम् ।।

Page 675

६१६ काव्यप्रकाशः सटीक: ।

अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सशीमित्युपमार्यां पर्यवसानम् दोर्भ्यां तितीर्षिति तरङ्गवती भुजंगमादातुमिच्छति करे हरिणाङ्कबिम्बम्। मेरुं लिलङघयिषति ध्रुवमेष देव यस्ते गुणान् गदितुमुद्यममादधाति॥४३७॥ इत्यादौ मालारूपाप्येषा द्रष्टव्या॥

धातुभ्य उभयपदं भवतीति ततः परस्य लटः शत्रादेश इति परे। 'इट किट कटी गतौ' इत्यत्र प्रश्लष्टस्य इधातोः ईधातोर्वा परस्मपदित्वात्ततः परस्य लटः शत्रादेश इत्यपरे। पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे ॥ अत्र समस्तैकपद्बोध्येन वारणेन्द्रलीलापदार्थन गिरिपदार्थस्यान्वयोऽनुपपन्नः अन्यलीलोद्दहनस्या- न्येनासंभवात् अन्यलीलातादात्म्यस्यान्यलीलायामसंभवाच्च अतः 'वारणेन्द्रलीलासदशी लीलाम्' इन्युप- मायां पर्यवस्थतीति पदार्थनिदर्शनेयम्। अत्रेदं तत्त्वम्। 'वारणेन्द्रलीलाम' इत्यस्य वारणेन्द्रस्य लीला- भिन्नां लीलामित्यर्थः। श्लेषेण लीलापदेन लीलाद्वयोपस्थितेः । श्लेषाश्रयगे बीजं दर्शयति अत्र कथ- मन्यस्येति। अन्यलीलातादात्म्यस्यान्यलीलायामसंभवाच्चेत्यपि बोध्यम्। नं चेहशस्थलेऽन्वयानुपपत्त्या लीलापदस्य तत्सदशलीलायां लक्षणैव स्यादिति वाच्यम् आरोपेणाप्यन्वयोपपत्तेः। वस्तुमाहात्म्यादेव त्वस्य सादृश्यव्यञ्कत्वं तदाह उपमायाँ पर्यवसानमिति । अत्रोपमानोपमेयधर्मयोरभेदप्रतिपत्तिः । अत इयमेव पदार्थनिदर्शनेत्युच्यते। एवं च पूर्वोदाहरणे वाक्यार्थ उपमाक्षेकः इह तु पदार्थमात्रमुप माक्षेपकमिति भेदः। यत्तु प्रदीपप्रभयोरुक्तम् "इह पदार्थमात्रमुपमाक्षेपकमिति व्याख्यानमनादेयम् अत्रापि लीलापदार्थमात्रस्यानाक्षेपकत्वात् किंतु लीलोद्वहनरूपवाक्यार्थस्यैवाक्षेपकत्वात् तस्मात्पूर्वोदा- हरणे उडुपेन सागरतस्णरूपमुपमानमप्रसिद्धम इह तु वारणेन्द्रलीलारूपमुपमानं प्रसिद्धमित्येव भेद:" इति तच्चिन्त्यम् वारणेन्द्रलीलामित्यस्य समस्ततयैकपदत्वेन तत्पद्बोध्यस्य वारणेन्द्रलीलापदार्थमात्र- स्याप्युपमाक्षेपकत्वादित्युदयोतादौ स्पष्टम्। "अत्रान्यलीलाया अन्यत्रारोपो लीलासदृशी लीलामित्यु- पमां गमयति। तत्र चन्द्रसूर्ययोर्घण्टयोश्र बिम्बप्रतिबिम्बभावः तत्समर्थनाय च रश्मिषु रज्जुत्वारोप इति बोध्यम्" इति चन्द्रिकायाम् ॥

निदर्शना च माल/रूपापि संभवतीति तामुदाहरति दोर्भ्यामिति । हे देव राजन् यः ते तव गुणान् शौर्यादीन् गदितुं वक्तुम उद्यमम् उद्योगम् आदधाति करोति एषः सः पुरुषः धुवं निश्रयेन दोर्भ्यीं भुजाभ्यां तरङ्गवतीभुजंग तरङ्गवतीनां नदीनां भुजंगं विटं भर्तारमित्यर्थः समुद्रमिति यावत् तितीर्षति तर्तुमिच्छति करे पाणौ हरिणाङ्कबिम्चं चन्द्रमण्डलम आदातुं ग्रहीतुम इच्छति मेरुं हेमाद्रिं लिलङ्धायेषति लङघयितुमिच्छर्तीत्यर्थः । अनन्तगुणस्त्वमसीति भावः । "भुजंगो विटसर्पयोः" इति हलायुधः । "मेरु: सुमेरुर्हेमाद्री रत्नसानुः सुरालयः" इत्यमरः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् ६८ पृष्ठ॥ : अन्न 'यः तव गुणगणान् गदितुमुद्यममादघाति' इति एको वाक्यार्थः 'एषः तरङ्गवतीभुजगं दोर्भ्या तितीर्षति' इत्यादिरपरो वाक्यार्थः तयोश्र संबन्धोऽनुपपन्नः सन् 'सागरतरणादिसदश त्वद्गण- -गणभाषणम्' इत्युपमायां पर्यवस्यतीति वाक्यार्थस्योपमाक्षेपकत्वात् वाक्यार्थनिदर्शनेयम्। एकस्य गुण- गणनोद्यमस्योपमेयस्य समुद्रतितीषदानि बहून्युपमानानीति मालारूपेयम्। तदुक्तं चन्द्रिकायाम् "दोर्भ्यीं सागरतरणवत् त्वद्गुणभाषणमशक्यमित्यनेकोपमाकल्पनान्मालारूपेयं निदर्शना" इति ॥।

Page 676

दशम उल्लास: ६१ (सू० १५०) स्वस्वहेत्वन्वयस्योक्ति: क्रिययैव च सापरा।९०g ) क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते सा अपरा निदर्शना। यथा उन्नतं पदमवाप्य यो लघुर्हेलयैत्र स पतोदति ब्रुवन (४९ बए) । शैलशखरगतो द्ृषत्कणश्चारुमारुतधुतः पतत्यधः ॥४३८॥ अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपद प्राप्तिरूपस्य च संबन्धः ख्याप्यते॥ अन्यविधां निदर्शनां लक्षयति स्वस्व्रेति। अत्र हेतुपद्सांनिध्यात्स्वपदेन हेतुमदभिधानम्। तथा च क्रिययैव क्रियारूपेण स्वेनैव कार्येग स्वस्य क्रियारूपस्य कार्यस्य स्वहेतोः स्वकारणस्य चान्वय- संबन्धः (कार्यकारणभावरूपः) तस्य या उक्तिः कथनं (प्रतिपादनम्) सा अपरा अन्या निद्श- नेत्यर्थः । व्याख्यातमिदं प्रदीपोद््योतयोः । "यत्र क्रिययैव स्वस्य कार्यस्य स्वहेतोश्र्वान्त्रयो हेतुहेतु मद्भावरूपः ख्याप्यते (परान प्रति बोध्यते) सा परा निदर्शना" इति। तमेवार्थमाह क्रिययैवे- त्यादिना। क्रिययैवेत्येवकारेण शब्दव्यवच्छेद्ः। ब्रुवन्पततीति पातक्रियाया एव हेतुहेतुमन्द्ावगमकत्व- स्योक्तेरिति प्रभायां स्पष्टम्। प्रथमस्वपदार्थमाह स्वस्वरूपेति। स्वहेतुशब्दार्थमाह स्वकारणेति। अन्वयशब्दार्थमाह संबन्ध इति। अवगम्यते इति । णिजन्तेस्य रूपमिदम्। ख्याप्यते इत्यर्थः। अपरा अन्या। अपरेत्यस्थालंकारनामताशङ्काव्युदासाय विवृणोति निदर्शनेति। निदर्शनैवेयम् न त्वलंकारान्तरम् दृष्टान्तपर्यवसानादिति भाव: 1 अधिकमुदाहरणवृत्तिग्रन्थव्याख्यानानन्तरं प्रतिषादयिष्यामः॥ तामुदाहरति। उन्नतमिति । दृषत्कणः पाषाणकणः शैलशेखरगतः पर्वतशिखरारूढः सन् चारुमारुतो मन्दवातः न तु झञ्झावातः तेन धुतः चालितः अधः पतति। किं कुर्वन् यो लघुः अल्पमतिः अपकृष्टगुरुत्ववांश्र सः उन्नतं पदम् उत्कृष्टस्थानम् ऊर्ध्वस्थानं च अवाप्य प्राप्य हेलयैव लीलयैव तादृशकारणाभावेऽपि लघुस्व्भवेनैवेति यावत् पतेत् पदभ्रंशम् अधःसंयोगहेतुक्रियां च प्रामुयात् इति ब्ुवन् स्वदृष्टान्तेन प्रतिपाद्यन्नित्यर्थः । सुधासागरकारादयस्तु 'ब्रुवन्' इत्यत्र 'घ्रुवम्' इति पाठं मन्यमाना: यो लघुः अल्पबुद्धिरणपरिमाणश्र सः उन्नतं पदम उत्कृष्टां संपदमूर्ध्वस्थानं च प्राप्य हेलयैव पतेत् संपत्तिध्वंसमधःसंयोगं च गच्छेत् इति धुवं निश्चिवतम। तथाहि। दृषत्कण: पाषाणरेण्ववयवः शैलशेखरगतः सन् चारुमारुतधुतो मृदुवायुचालितोऽधः पततीत्यर्थः इति व्याचख्युः । रथोद्धता छन्दः। लक्षणमुक्तं प्राक् ११९ पृष्ठे॥ अत्र पततीति पतनक्रियारूपेण कार्येण स्वेनैव पतत्पदप्रतिपावस्य स्वस्य पतनरूपकार्यस्य स्वकारणस्य च लघीयसः उन्नतपदप्राप्तिरूपस्य संबन्धः कार्यकारणभावात्मकः प्रतिपादते। तथा च लाघवे सति उन्नतपदप्राप्तिः पाते हेतुः यथा दृषत्कणस्येति द्ृष्टान्तपर्यवसानादियमपि निद्शना। उक्तं च प्रदीपे "अत्र प्रतेत्पदप्रतिपाद्यस्य पातस्य कार्यस्य लाघवे सत्युन्नतपदप्राप्तिरूपस्य कारणस्य च तथा संबन्ध: (कार्यकारणभावरूपः) पततिपदप्रतिपाद्यया पातक्रियया प्रतिपाद्यते। तथा च लाघवे सत्युन्नतपदप्राप्तिः पाते हेतुर्यथा दृषत्कणस्यति दृष्टान्तपर्यवसानान्निदर्शनात्वम्" इति। १ अवपूर्वाद्गमेर्णिजन्तात्कर्मणि लटि यक्ति "णेरनिटि" (६।४५१) इति पाणिनिसूत्रेण णिलोपे रूपमिदम्। उधावृद्धिस्तु न " जनीजृषवनसुरओडमन्ताश्" इति गणसूत्रेण अमन्तत्वात् मित्संज्ञायां "मितां हस्वः" (६।४ ९२) इति पाणिनिसत्रेण हृस्वविधानात्॥

Page 677

६१८ काव्यप्रकाश: सटीक: ।

(सू० १५१) अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया।। ९८ । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा। (सू० १५२) कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति। तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्च्धा॥ ९९॥

तदेवाह अत्रेत्यादि। पातक्रियया पततीतिपद्प्रतिपाद्यया। पतनस्य पतेत्पदप्रतिपाद्यस्य कार्यस्य । लाघवे सत्युन्नतपदप्राप्तिरूपस्य चेति। तद्रपस्य कारणस्य चेत्यर्थः । संबन्धः कार्यकारण- भावरूपः । ख्याप्यते प्रतिपायते । तथा च लाघवे सति उन्नतपदप्राप्तिः पाते हेतुः यथा हृषत्कणस्येति दृष्टान्तपर्यवसानान्निदर्शनात्वमिति भावः ॥ इयं हि निदर्शना संभवद्वस्तुसंबन्धनिबन्धनेत्युच्यते। एत्च क्रिययैवेत्येवकारेण दर्शितम्। एवं च पूर्वा निदर्शना त्वसंभवद्वस्तुसंबन्धनिबन्धनेति द्वयोर्भेदः । तदुक्तम् "अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत्। उपमानोप्रमेयत्वं कथ्यते सा निदर्शना ॥" इति। अन्ये तु "स्वहेत्वन्वयस्य" इत्युपलक्षणम् स्वक्रियया यत्किंचिदर्थबोधनस्य। एवं च 'चूडामणिपदे धत्ते यो देवं रविमागतम्। सतां कार्यातिथेयाति बोधयन् गृहमेधिनः ॥' इत्यादावप्येषैवेत्याहुरित्युइ्चोतादौ स्पष्टम् ॥ चकवर्त्यादर्यस्तु क्रिययैवेति। क्रियाद्वारेणैव न तूपमाकल्पननेत्यर्थः । अपरेति । न त्वन्योS लंकार इत्यर्थः वाक्यार्थयोरुपपाद्योपपादकभावेन सामान्ये धर्मेण क्रोडीकृतत्वादिति भावः । उप- पादकत्वं तूपमया संबन्धान्तरेण चेत्यन्यदेतत् । इयमेव संभवद्दस्तुमूला। न चात्र द्ृषत्कणस्याध :- पतनं लघोरुन्नतपद्प्राप्त्या पतनमिवेत्युपमाक्षेप इति वाच्यम् आक्षेपं विना वाक्यार्थोपपत्तेः । अनुपपत्तेरेवोपपादकसाकाङ्गत्वेन तदाक्षेपकत्वादिति कुव्याख्यानमपहस्तितम् । अत्रोपपादकेन वाक्यार्थस्थिरीकरणम्। दृष्टान्ते स्वतः पर्यवसितेन तेन बिम्बप्रतिबिम्बभावप्रत्यायनमिति द्वयोभेर्द इत्याहुः ॥ इति निदर्शना ॥ १० ॥ अप्रस्तुतप्रशंसानामानमलंकारं लक्षयति अप्रस्तुतेति । या अप्रस्तुतस्याप्रकृतस्य प्रशंसा वर्णना अभिधानं सा प्रस्तुताश्रया प्रकृतार्थप्रतिपत्तिपरा चेत् प्राकरणिकार्थप्रतिपत्तिहेतुश्वेत तदा सैव अप्रस्तुतप्रशंसैव नामालंकार इत्यर्थः। अप्रस्तुतप्रशंसनमात्रं समासोक्तावतिप्रसक्तमिति तद्वार- णाय प्रस्तुताश्रयेत्युक्तम्।। तदेवोपपादयन् सूत्रं व्याकरोति अप्राकरणिकस्येत्यादिना । अप्राकरणिकस्य अप्रस्तुतस्य । अभिधानेन कथनेन । प्राकरणिकस्य प्रस्तुतस्य बुद्धिसंनिहितस्य । आक्षेपः व्यञ्ञनम् । तथा चाप्राकरणकेन प्राकरणिकाक्षेपोऽप्रस्तुतप्रशंसा प्राकरणकेनाप्राकरणिकाक्षेपः समासोक्ति- रिति विवेकः। एवं चान्यवृत्तान्तस्यान्यवृत्तान्ताक्षेपकत्वमलंकारत्वबीजमिति फलितम् ॥ प्रस्तुतव्यञ्षनं प्रस्तुताप्रस्तुतयोरसंबन्धे सति न संभवतीति तत्संबन्धप्रदर्शनमुखेन तामप्रस्तुतप्रशंसां पञ्चधा विभजते कार्ये इत्यादिना। सेत्यनुवर्तते। तुल्यस्येत्यनन्तरं चकारो योज्यः । तथा च कार्ये १ अत्र समागतं रविं शिरसा संभावयन्नुद्याचलः स्वनिष्ठिया रविधारणकरियया 'समागतानां सतामेव गृहमेधि- भिरतिथ्यं कार्यम्' इनि सदर्थ बोधयन्निचद्ध इति सदर्थनिदर्शनेयमिति कुवलयानन्दकारः। २ आदिपदेन सार बोधिनीकारादयो ग्ाह्याः।।

Page 678

दशम उल्लास:। ६१९

तैदन्यस्य कारणादेः । क्रमेणोदाहरणम् याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितगां कृशासि कथयत्येवं सवाष्पे मयि। लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दष्टा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ४३९॥ प्रस्तुते वर्णनीयत्वेन प्रकृते सति तदन्यस्य कारणस्याप्रस्तुतस्य वचः वर्णनम् अभिधानम् इत्येक: प्रकारः । निमित्ते कारणे प्रस्तुते सति तदन्यस्य कार्यस्याप्रस्तुतस्य बच इति द्वितीयः प्रकारः । सामान्ये प्रस्तुते सति तदन्यस्य विशेषस्याप्रस्तुतस्य वच इति तृतीयः प्रकारः । विशेषे प्रस्तुते सति तदन्यस्य सामान्यस्याप्रस्तुतस्य वच इति चतुर्थः प्रकारः । तुल्ये प्रस्तुते सति तुल्यस्याप्रस्तुतस्य वच इति पश्चमः प्रकारः । इति एवंरीत्या सा अप्रस्तुतप्रशंसा पञ्चधा पञ्चप्रकारेत्यर्थः। पश्चधेत्यधिकसं- ख्याव्यवच्छेदाय। तदन्यस्येति व्याचष्टे कारणाहेरिति। आदिपदेन कार्यस्य विशेषस्य सामान्यस्य च संग्रहः । कार्यादिभि: कारणादेनियमेन तदन्यत्वेन प्रतीतिः । अत एव 'तुल्ये तुल्यस्य' इति पृथगुपात्तम्। व्याख्यातमिदं प्रदीपे "कार्यादिपश्चके प्रस्तुते तदन्यस्य कारणादिपश्चकस्याप्रस्तुतस्य वर्णनमिति सा पञ्चधेत्यर्थः" इति॥ तत्र कार्ये प्रस्तुते कारणस्य वर्णनम् अभिधानम् उदाहरति याता इति। अमरुशतके 'प्रस्था- नान्निवृत्तोऽसि किम्' इति मित्रेण पृष्टो यियासुर्गमननिवृत्तिहेतुं स्वप्रियावृत्तान्तं वर्णयति। अयमर्थः । हे सुन्दरि याता: देशान्तरं गताः किं न मिलन्ति नायान्ति अपि तु मिलन्त्येवरति काकुः। आगत्य भूय इति शेषः । या चिन्ता कृता सा कृतैव पुनर्न कार्येत्याह पुनरित्यादि । त्वया मत्कृते मदर्थ पुनः चिन्ता आधि: नो कार्या न विधेया। नैव चिन्ता कृतेत्यपलपे चिन्ताकार्यमाह नितरामिति। नितराम् अत्यन्तं कृशा क्षीणासि। स्वभावत एव त्वं कृशा चिन्तया तु सुतरां कृशासीति भाव:। एवम् उक्तप्रकारेण (हे मित्र) सबाष्पे साश्रुणि मयि कथयति सति। अतिकारश्यदर्शनादनिष्टाशङ्गया ब्राष्पोद्गम इति भावः तया प्रेयस्या (कञ्या) लज्जया मन्थरा स्तब्धा निष्क्रिया तारका कनी- निका यस्य तादशन। गमनानिच्छा प्रियेण ज्ञातेति लज्जाहेतुः । निपतत् विगलदेव पतिं संवृत्तम् अश्रु येन। अश्रुपतनमङ्गलमिति भियेति भावः । ताद्ृशेन च चक्षुषा नेत्रेण (करणभूतेन) मां दृष्ट्रा। चक्षुष्येकवचनं लज्जया संमुखदर्शनविच्छेदाय। हसितेन हास्येन । प्रियायाः जीविते सति वैदेशिकानां मिलनं संभवति अहं तु प्रियवियोगे कथमपि न जीविष्यामि इति ज्ञात्वापि एवं प्रता- रयतीति हास्यमिति भावः। भाविनि आवश्यके मरणे उत्साहः सूचितः । अन्यथा हसितासंभवादिति भावः। उत्साहश्र वियोगदुःखशान्तिवाञ्छयोति ज्ञेयमिति। 'कृते' इत्यव्ययं ताद्थ्यें। "अर्थे कृतेऽ- व्ययं तावत् तादर्थ्ये वर्तते दयम्" इति कोशसारः। "तारकाक्षणः कनीनिका" इत्यमरः "नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च" इति शाश्वतश्व। 'लज्जामन्थरतारकेण चक्षुषा' इत्ययं प्रयोगस्तु करिबंहितन्यायेनेति बोध्यम्। स च् न्यायोSस्मत्कृतलौकिकन्यायमालायां व्याख्यातः। शार्दूलविक्रीडित छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र 'प्रस्थानान्निवृत्तोऽसि किम्' इति प्रस्थाननिवृत्तिरूपे कार्ये पृष्टे कारणस्थ प्रियाभाविमरणोत्साहस्य वर्णनम्। एवं च प्रस्थाननिवृत्तिरूपे कार्ये प्रस्तुते सति अप्रस्तुतस्य प्रियाभाविमरणोत्साहरूपकारण-

Page 679

६२० काव्यप्रकाशः सटीकः।

अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्ठे कारणमभिहितम्।।r 1rayB राजन्रजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिता: कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्यगै: पञ्जरात् चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥४४०॥ अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः इति कारणे प्रस्तुते कार्यमुक्तम्। स्याभिधानमित्यप्रस्तुतप्रशंसाख्योऽयमलंकारः । तदेवाह अत्रेत्यादिना। प्रस्थानात् गमनात् " प्रस्थानं गमनं गमः " इत्यमरः। किमितीति। किंशब्दः प्रश्नार्थक इति न कारणप्रस्ताव इति प्रदीपे स्पष्टम्। इतिशब्दस्तु प्रक्षिप्तो निरर्थक एव अन्यथा 'किमिति कृशासि कृशोदरि 'इत्यादाविवात्र कारण- प्रस्ताव: स्यात्। अत एव "अत्र प्रस्थानात्किं निवृत्तोऽसीति कार्ये पृष्टे कारणस्य प्रियाया भाविभर- णोत्साहस्य वचनम्" इति प्रदीपे इतिशब्दरहित एव पाठः। कार्ये निवृत्तिरूपे। अत्रेदमेव प्रस्तुतम् वर्णनीयत्वादिति बोध्यम्। व्याख्यातमिदं विवरणकारैरपि "किमिति प्रश्ने किं प्रस्थानात् निवृत्तोऽसि इति प्रश्नः । ततश्र प्रस्थाननिवृत्तिप्रश्ने अथ किम् प्रस्थानात् नितृत्तोऽस्मि इत्येवमुत्तरं युक्तम्। अत्र तु प्रस्थाननिवृत्तिकारणमभिहितम् तेनापि च प्रस्थानात् निवृत्तोऽस्मि इत्युत्तरं स्पष्टमेव प्रतीयते" इति। अत्राप्रस्तुतेन मरणेनाक्षिपायाः गमननिवृत्तेरनुरागोत्कर्षकत्वेनैतस्य अलंकारत्वम्। अत एवो- त्तरेण प्रश्नोन्नयनेऽपि नोत्तरालंकार: तस्य चमत्कारजनकत्वाभावात्। अन्ये दयोः समावेशमिच्छन्ती- त्युद्योते स्पष्टम् ॥। कारणे प्रस्तुते कार्यस्य वर्णनम् अभिधानम् उदाहरत राजन्निति। राजानं प्रति कवेरुक्तिरि यम्। हे नाथ राजन् तव अरिभवने (त्वदागमनभिया शून्यीकृते) प्रतिनृपतिमन्दिरे अध्वगैः पान्थैः पञ्जरात् पक्ष्यादिबन्धनागारं पञ्जरम् तस्मात् मुक्तः त्यक्तः शुकः प्रतिनृपतिशुरः शून्यायां निर्जनायां बलभौ उपरिगृहे सौधे इत्यर्थः। "शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि" इति रभसः । चित्रस्थान् आलेख्यगतान् राजादीन् अवलोक्य एकैकम् एकमेकं प्रति इत्थम् अनेन प्रकारेण आभाषते वदति। इत्थं कथमित्याकाङ्कायामाह राजन्नित्यादि। हे राजन् राजसुता मां न पाठयति। देव्यो राज्योऽपि तूष्णीं स्थिता: न किमपि वदन्ति। कुब्जे इति तादश्या: भोजिकायाः संबोधनम्। हे कुब्जे मां भोजय। हे कुमार सचिवैः भवद्यस्यैः अद्यापि कि न भुज्यते इतीत्यर्थः । यद्वा कुमाराश्र तत्सचि- वाश्र तैरित्यर्थः । तेषां भोजनसमये शुकस्यापि भोजनलाभादिति भावः। शार्दूलविकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे।

अत्र शत्रुपलायनरूपे कारणे प्रस्तुते पथिकमुक्तशुकाभाषणरूपाप्रस्तुतका र्याभिधानमित्यप्रस्तुतप्रशंसा- ख्योऽयमलंकारः। उक्त च चन्द्रिकायाम् "अत्र शत्रुपलायने कारणे प्रस्तुते तत्कार्यवचनरूपा[ अप्रस्तुत प्रशंसा ]" इति। तदेवाह अत्रेत्यादिना। कारणे शत्रुपलायनरूपे। कार्य पथकमुक्तशुकाभाषण- १ इत्यादाविति। 'किमिति कशासि कृशोदरि किं तव परकीयवृत्तां्तैः' इतिकाव्यमुत्तरालंकारे स्कुटीभविष्पति अत्र काव्ये 'किमिति' इतिशब्दो हेत्वर्थका। किंहेतुकं रुशत्वमिति भावः। एवं 'किमिति न पश्यसि०' इनि २१९ उदाहरणेडवि चौध्यम्।

Page 680

दशम उल्लास:। ६२१

अली की: एतत्तस्य मुखात्कियत् कमलनीपत्रे कर्ण वारिणो फित पा यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि।

कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्त:शुचा ॥। ४४१॥ अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेष: कथितः । सुहद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः। स एव पूज्य: स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः ॥ ४४२॥। रूपम्। उक्तमिति। तेन च कारणं व्यज्यते इत्यर्थः । अत्र व्यङ्गयापेक्षया वाच्यस्याधिकचमत्कार- कारित्वेन न ध्वनित्वव्यपदेशः किं त्वलंकारव्यवहार एवेति बोध्यम्। एत्रमग्रेऽपीत्युद्दयोते स्पष्टम् ।। सामान्ये प्रस्तुते सत विशेषस्य वर्णनम् अभिधानम् उदाहरति एतदिति। भल्लटकविकृते भलटशतके कस्यचिन्मूर्खस्य वृत्तान्तं कुतश्विदाकर्ण्य विस्मयेन भाषमाणं कंचित्प्रति कस्यचचिदुक्ति- रियम। तस्य मुखात् 'श्रुतम्' इति शेषः एतत् कियत् अत्यल्पमित्यर्थः। किं तदित्याह यत् स जड: मूर्खः कमलिनीपत्रे स्थितं वारिण: कणं जलबिन्दुं मुक्तामणिः मौक्तिकमिति अमस्त ज्ञातवा- निति। अस्मादपि अन्यत् अधिकजडत्वबोधकं शृणु। शनैः आदीयमाने मौक्तिकबुद्धया यत्नेन मन्दं ग्ृह्यमाणे (अर्थात्तस्मिन् वारिकणे) अङ्गल्पग्रयोः लघ्वी या क्रिया स्पर्शरूपा तया प्रविल यिनि अङ्गलावेव लीयमाने लग्ने सति मम मुक्तामणिः कुत्र उड्डीय गत इति शुचा दुःखेन अन्तः न निद्राति नेत्रनिमीलनेऽपि चिन्तां न त्यजतीत्यर्थः। 'निद्राति नार्तः शुचा' इति क्रचित्पाठः । अमंस्तेति मन्यतेर्लुङ्। उदयोतकारास्तु "मुखात् प्रतारकस्य कस्यचिन्मुखात् अपगतं शृण्वन् स जडः यन्मुक्तामणिरित्यमंस्त एतत्तस्य कियत्। यतोऽस्मादप्यधिकं किंचिज्जडत्वबोधकमस्ति। तदाह अङ्गल्यग्रेति। शनैरादीयमानेऽपि अङ्गल्यग्रस्य लघुक्रिययाल्पचालनेन प्रविलायनि अङ्गलावेव लगे इत्यर्थः" इति व्याचख्युः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्त प्राक्् १८ पृष्ठे॥ अत्र जडानामस्थाने अयोग्यस्थाने एव ममत्वसंभावना भवतीति सामनये प्रस्तुते जडविशेषस्य बारिकणे मुक्ताधीत्वरूपाप्रस्तुतममत्वविशेषस्याभिधानमित्यप्रस्तुतप्रशंसेयम्। तदेवाह अ्रेत्यादिना। जडानां मूर्खाणाम्। ममत्वेति। आत्मीयत्वेत्यर्थः। ममेति विभक्तिप्रतिरूपकमात्मीयार्थकमव्ययम् तस्माद्भावे त्वप्रत्ययः । विशेष: ममत्वविशेषः । भ्रमविशेष इत्यपि बोध्यम् ।। न च स इति तच्छब्दस्य प्रक्रान्तार्थकतया जडविशेषस्य प्रस्तुतत्वेन कर्थं जडसामान्यप्रस्ताव इति वाच्यम् 'कला च सा कान्तिमती कलावतः' इत्यादाविव (२५२ पये) तच्छब्दस्यात्र प्रसिद्यर्थ- कत्वेन जडसामान्यप्रस्तावसंभवात्। एवं 'तस्य' इत्यस्यापि तटस्थबोधकत्वेन नानुपपत्तिः। अत एवाक्तिं प्रदीपे "जडानामस्थले (अयोग्यस्थले) एव ममत्वसंभावना भवतीति सामान्ये प्रस्तुते पुरुष- विशेषस्य ममत्वविशेषोऽभिहितः" इति। एवं "जडसामान्यप्रस्तावे तद्विशेषाभिधानरूपाप्रस्तुतप्रशंसे" यम" इत्युदाहरणचन्द्रिकायामप्युक्तम्। "वारिकणे मुक्ताधीर्विशेषः " इति चक्रवर्त्यादयः। विशेषे प्रस्तुते सामान्यस्य वर्णनम् अभिधानम् उदाहरति सुहृदिति। श्रीकृष्णेन नरकासुरे हते तत्सुहृदं शाल्वं प्रति तन्मन्त्रिण उक्तिरियमिति चन्द्रिकायां स्पष्टम्। थः पुरुषः वैरप्रतियातनेन

Page 681

६२२ कव्यप्रकाशः सटीकः।

अत्र 'कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत् त्वमेव श्लाध्यः' इति विशेषे प्रकृते सामान्यमभिहितम्। तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः। श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात् तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम् पुंस्त्वादपि प्रविचलेत् यदि यद्यधोऽपि यायात् यदि प्रणयने नमहानपि स्यात्। अभ्युद्धरेत्तदृपि विश्वमतीद्वशीयं केनापि दिक प्रकटिता पुरुषोत्तमेन ॥ ४४३॥ वैरशोधनेन कृतपीडेषु पीडादानेनेति यावत् सुहृद्धनां मित्रस्त्रीणां बाष्पजलप्रमार्जनम् अश्लुप्रोञ्छनम् (जलेति बाहुल्यसूचकम् ) करोति स एव पूज्यः स एवं पुमान् पुरुषः स एव नीतिमान् नयज्ञः तस्यैव सुष्ठु जीवितम् स एव श्रियः लक्ष्म्याः भाजनं पात्रमित्यर्थः । शुद्धविराट् छन्दः । इदमेव वंशस्थम्। लक्षणमुवतं प्राकू २४ पृष्ठे । अत्राप्रस्तुतप्रशंसां दर्शयति अत्रेत्यादिना । तत् तदा। प्रकृते प्रस्तुते। अभिहितम् उक्तम ।। पञ्चमभेंदे त्रविध्यमाह तुल्ये इत्यादिना। श्लेषः समासोक्तिरिति। अप्रकृतोक्त्या प्रकृताक्षेप- स्थले उक्तयोः श्लेषसमासोक्त्यलंकारयोरसंभवात्। अत्र श्लेषपदं विशेषणविशेष्यवाचिशब्दानां सर्वे- षामेवोभयार्थबोधकपरम् समासोक्तिपदं च विशषणमात्रस्योभयार्थबोधकपरमिति बोध्यम्। तदुक्त चक्रवर्तिभट्टाचार्यैः "श्लेषसमासोक्ती तदाभासरूपे अप्रकृतात्प्रकृताक्षेपे तयोरविषयत्वात् अप्रकृतयोः प्रकृतयोर्वार्थयोः श्लेषविषयत्वात् तथा प्रकृते वस्तुनि अप्रकृतव्यवहारारोपस्य समासोक्तित्वात्" इति । सादृश्यमात्रमिति। मात्रपदेन श्लेषव्यवच्छेदः। आक्षेपे व्यञ्जने। व्याख्यातामिदं प्रदीपोद्चोतयोः । "तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकारा: विशेषणविशेष्यवाचिनां सर्वेषामपि श्लिष्टत्वस्य विशेषण- मात्रवाचिनो वा श्लिष्टत्वस्य श्लेषाभावेऽपि सादृश्यमात्रस्यैव वा प्रकृताक्षेपहेतुत्वात्" इति प्रदीपः । (श्लिष्टत्वस्येति। प्रकाशे (काव्यप्रकाशे) श्लेषसमासोक्तिपदे श्लिष्टश्दश्लि विशिपरे अप्रकृ तात् प्रकृताक्षेपे तयोरभावात् द्वयोः प्रकृतत्वेऽप्रकृतत्वे वा श्र्लेषस्य प्रकृतेऽप्रकृतव्यव्हारारोपे च समासाक्तेः स्वीकारादिति भावः) इत्युद्दयोतः ॥ तन्न श्लेषहेतुकामप्रस्तुतप्रशंसामुदाहरति पुंस्त्वादिति। सपत्नापहृतं राज्यमुद्धर्तु कचित्नृपमुद्देजयत- स्तन्मन्त्रिण उक्तिरियमिति टीकाकाराः । भल्लठकविकृते भल्लटशतके ७९ पद्ममिदम् । पुंस्त्वात् पुरुष- चिह्नादपि यदि प्रविचलेत् चलनं प्राप्नुयात् नारीभूय दैत्यगगादमृतहरणेन विश्वस्य रक्षगादिति भावः । अधः पातालमपि यदि यायात् गच्छेत् पृथ्वीरक्षगाय कूर्नमूर्त्या पातालगमनादिति भावः । यद्वा वराहावतारे पातालं गत्वा पृथव्युद्धरणादिि भावः । प्रणयने याचने यदि नेमहान् महत्त्व- रहितोऽपि अल्पोऽपि स्यात् बलिसकाशात् प्रार्थनसमये वामनत्वं प्राप्य जगद्रक्षणादिति भावः । तदपि तथापि विश्वं जगत् सर्वजनमिति यावत् अम्युद्वरेत् विपद्विनाशनेन रक्षेत् इति ईदशी इयं दिकू मार्ग: यद्ा दिक प्रकार: रीतिरिति यात्रत् केनापि अनिर्वचनीयेन पुरुषोत्तमेन विष्णुना प्रकटिता प्रकाशिता दर्शिता इत्यप्रस्तुतविष्णुपक्षेऽर्थः । प्रस्तुतराजपक्षे तु पुंस्त्वात् पौरुषादपि शौर्यादेरपि यदि प्रविचलेत्। अधः संपद्भ्रंशमपि यदि यायात् प्राप्नुयात् । याचने यदि नमहान् १ मोहिनीरूपमङ्गीरत्य ॥ २ नमहानिति नशब्देन सह समासः 'नैकधा' 'नारायणः' (५० पृष्ठे २६ पङ्चौ) इत्यादिवित्॥। ३ हस्वत्वम् ।।

Page 682

दशम उल्लासः। ६२१

येनास्यभ्युदितेन चन्द्र गमितः क्कान्तिं रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः। क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग् अस्त्वेवं जडधामता तु भवतो यद्चोम्नि विस्फूर्जसे ॥ ४४४॥ महत्वशून्योऽपि स्यात्। तदपि तथापि सपत्नापहृतं विश्वम् अभ्युद्धरेत् इति ईदशी इयं दिक केनापि अन्येन पुरुषोत्तमेन सत्पुरुषेण प्रकटितेत्यर्थः। भवतापि तादशभावेन स्वराज्यमुद्ध्रियतामिति भावः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे ॥ अत्र सत्पुरुषे वर्णनीयत्वेन प्रस्तुते सति तत्तुल्यस्य अप्रस्तुतस्य श्रीविष्णोरभिधानम् तत्र 'पुंस्त्वात्' इत्यादिविशेषणानां 'पुरुषोत्तमेन' इति विशेष्यस्य च श्लेषेण प्रस्तुतस्य विष्णुतुल्यस्य सत्पुरुषस्याक्षप इति श्लेषहेतुकाप्रस्तुतप्रशंसेयम्। ननु प्रकरणेन राजरूपः प्रस्तुतोऽर्थ एव प्रथममुपस्थायते इति कथ- मत्राप्रस्तुतप्रशंसा अप्रस्तुतार्थस्य प्रथमत उपस्थितावेवाप्रस्तुतप्रशंसायाः संभवादिति चेत् अत्रोच्यते॥ पुरुषोत्तमादिशब्दानां सत्पुरुषादिरूपे प्रस्तुतेर्थे यौगिकी (प्रकृतिप्रत्ययलभ्या) शक्तिरिि प्रकरणादिस- हितामपि तां बाधित्वा अभिधाशक्तिर्नारायणादिरूपमप्रस्तुतमर्थ प्रथममेवोपस्थापयति ततश्र प्रस्तुता- र्थबोध इति। यत्र हि उभयस्मिन्नप्यभिधावृत्तेः संभवस्तत्रैव प्रकरणादिकं नियामकम् यत्र पुनरेकास्मिन् अभिधा अपगस्मिन् यौगिकी शक्तिः तत्राभिधैव बलवती अपरां प्रकरणादिसहितामपि बाधते। अत्र च मूलं 'अवयवशक्तेः समुदायशक्तिर्बलयसी" इति न्यायः ॥ अत एव नात्र श्र्लेषोऽपि उभयार्थ- स्थानभिधेयत्वात् प्रकरणाद्यनियमाभावाच्चेति विवरणे स्पष्टम्। अत्राहुश्कवर्तिभट्टाचार्या अपि "अत्र पुरुषश्रेष्ठे प्रकृते तदुपमानीभूतः श्रक्िष्णः (श्रीविष्णुः) अभिहितः पुरुषोत्तमादीनां शब्दानामुभयार्थ- कत्वात् श्लेषच्छायाप्रसिद्धिवश्ञादप्रकृतस्यापि श्रीकृष्णस्य (श्रीविष्णोः) प्रथममभिधानम् "इति ॥ उक्तं च प्रदपिो्द्योतयोरपि "अत्र पुंस्त्वादित्यादिविशेषणानां पुरुषोत्तमेनेति विशेष्यस्य च श्लेषात् सत्पुरुषप्रातपत्तिः । न च श्र्लेष एवायम् 'अवयवशक्तेः समुदायशक्तिर्बलीयसी' इति न्यायात् प्राग्विष्णू- पस्थितौ सत्पुरुषस्याक्षेपेणैवोपस्थितेः श्लेषसत्वेऽपि अप्रस्तुतस्य प्रथमोपस्थित्यैवाप्रस्तुतप्रशंसा- त्वात्" इति प्रदीपः । (सत्पुरुषेति । अप्रकृतस्य श्रीकृष्णस्य प्रतीतौ जातायां पश्रात्प्रकृतेत्यादिः । न च श्लेष एवेति। विशेषणविशेष्ययोरुभयोरपि श्लिष्टत्वादिति भावः। अवयवशक्तेरिति। न च प्रकरणसत्त्वे योग एव बलवान् विश्वोद्धरणरूपपदार्थसामर्थ्यरूपलिङ्गस्य विष्णावपि सत्त्वात्। एतेन श्लेषमूलो ध्वनिरित्यपास्तम्। ये तु श्लेषस्थले उभयोरप्यर्थयोः क्रमेण शक्त्यैव प्रतिपादनमिच्छन्ति तन्मते कथमत्राप्रस्तुतप्रशंसा अप्रस्तुतेन प्रस्तुतस्याव्यङ्ग्चत्वादत आह श्लेषसत्वेऽपीति। अप्रस्तुतप्रतीत्युत्तर तन्मूलमूलिका वा यत्र प्रस्तुतावगतिस्तत्रा प्रस्तुतप्रशंसेति भावः। एकशब्दवत्त्व्रसाधर्म्यात्परं 'तुल्ये तुल्यस्य' इत्युदाहरणतेति बोध्यम्) इत्युइ्चोतः। समासोक्तिहेतुकामप्रस्तुतप्रशंसामुदाहरति येनेति। क्षीणधनः कश्वित् उपजीिनार्थमपकारिणं सध- नमनुसरन् केनचिदुपालभ्यते। हे चन्द्र अभ्युदितेन उदयं प्राप्तेन समृद्देन च येन रविणा त्वं क्रान्तिं तेजोहीनताँ ग्लानिं च गमितः प्रापितः असि इत्यर्थः। अभ्युदितेनैव न त्वपकृतनेति भावः। तत्र १अत एव महाभारते शान्तिपर्वणि विष्णुसहस्त्रनामस्तोत्रे "नारसिंहवपुः श्रीमान् केशरः पुरुपोत्तमः" इत्यत्र पुरुषोत्तम इति नामलवेन निर्देश: ।।

Page 683

६२४ काव्यप्रकाश: सटीक:। आदाय वारि परितः सरितां मुखेभ्यः कि तावदर्जितमनेन दुरणवेन। क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥ ४४१॥ तस्मिन रवौ सूर्यविषये ते तव प्रतिकर्तु प्रत्यपकर्तुमव युज्येत । पुनः प्रत्युत. तस्यैव रवेरेव पादग्रहः किरणग्रहणं पादपतनं च न 'युज्यते' इति शेषः। अमायां सूर्येण सह संगत्य ततस्तेजोग्रहणं चन्द्र- स्येत्यागमसि्वं पादग्रहणम्। यदि क्षीणेन कलाहीनेन धनहीनेन च त्वया एतत् पाद्ग्रहणम् अनु- छवितम् अङ्गीकृतम् तर्हि ततः पादग्रहणाद्वितोः मनाक ईषदपि किंनो लज्जसे कुतः स्वल्पामपि लज्जां न प्रयासीत्यर्थः। 'नो' इति निषेधार्थकमव्ययम्। "अभावे नैह्य नो नापि" इत्यमरः। अस्त्वेवं लज्जा- शून्यत्वमप्यस्तु। यत् व्योम्नि आकाशे विस्फूर्जसे सगर्वमुदेषि तत् भवतः तव जडधामतैव। जडं जलम् डलयोरभेदात शीतलप्रभतैव। जडपदस्य भावप्राधान्येन निर्देशान्मूर्खत्वास्पदतैव चेत्यर्थः। " धाम रकष्मौ गृहे देहे स्थाने जन्मप्रभावयोः" इति हैमः । शार्दूलविक्रीडितं छन्दः। लक्षणमुकं प्राक् १८ पृष्ठे ॥ अत्र विशेष्यनचिचन्द्रपद न श्लिष्टम्। श्लिष्विशेषणमात्रमाहात्म्येन प्रस्तुतसधननर्धनवृत्तान्ता क्षेप इति समासोक्तिहेतुकाप्रस्तुत प्रशंसेयमिति प्रदीपोह््योतकारादयः। अन्ये तु विशेष्यवाचि चन्द्र- पदं रविपदं च बिना विशेषणमात्रवाचकानां पदानां श्लेषेण प्रस्तुतयोः सधननिर्धनपुरुषयोरवृत्तान्त- स्याक्षेप इति समासोक्तिच्छायाहेतुकाप्रस्तुतप्रशंसेयमित्याहुः। "अत्र विपक्षेण पराभूते तमुपजीव्य धन्यंमन्ये कचन पुंसि अप्रकृतचन्द्रव्यवहारः प्रतीयते। तेनाप्रकृतात्प्रकृताक्षेपे सामासोक्तिच्छाया न तु सा तत्र (समासोक्तौ) प्रकृतेऽप्रकृतव्यवहारारोपात्" इति चक्रवर्तिभह्टाचार्याः ॥ सादृश्यमात्रहेतुकामप्रस्तुतप्रशंसामुदाहरति आदायेति। भट्टेन्दुराजस्य पद्यमिदमिति क्षेमेन्द्रकृतौ- चित्यविचारचर्चायां स्पष्टम्। यत्तु शुकस्य कवेः पद्यामेदमिति शार्ङ्गधरपद्धतौ उक्तम् तत्त चिन्त्यमेव। अनेन दुरर्णवेन दुष्टसागरेण (लवणसमुद्रेण) परितः सर्वतः सरितां नदीनां मुखेभ्यः संगमस्थानेभ्यः वदनेभ्यश्र वारि जलम् आदाय गृहीत्वा तावदिति वाक्यालंकारे किम् अर्जितं संपादितम् न किम- पीत्यर्थः। तथाहि। क्षारीकृतम् मिष्टमपि कटु कृतम् वडवादहने वाडवाग्रौ हुतं च पातालमेव, कुक्षिकु हरं तास्मिन विनिवेशित विक्षिप्त चेत्यर्थः। मिहं जलम् वृथा नाशितमिति भावः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे ॥ अत्र सर्वतः परम्यो धनमाकृष्यासव्ययं कुर्वाणे पुंसि प्रकृते अपकृतस्याब्धेः कथनम् तत्र श्र्लेषा- भावेऽपि सादृश्यमात्रेणासत्पुरुषाक्षेप इति सादृश्यमात्रहेतुकाप्रस्तुतप्रशंसेयम्। तदुक्तमुद्दयोते "अत्र ग्रासकल्पं परधनमपहृत्य विफलव्ययकर्तरे दुरीश्वरे प्रकृते तत्सदृशस्याप्रकृतस्यार्णवस्य कथनम्" इति। उदाहरणान्तरं 'यथा 'कौटिल्यं नयने निवारयतरां शीघां गति शीलय व्यक्तार्था कुरु भारतीं १नहि अ नो न इति चत्वारि अभावे ॥ २ अमेदादिति । 'यमकादौ भवेदैक्यं डलयो रयोर्चवोः' इति प्राक् (५०१ पृष्ठे २८ पङ्मौ) प्रदर्शतवचनादमेदो बोष्यः ॥ 3 कौटिल्यमिति। नायिकां प्रति सख्या उक्तिश्यम्। 'नन्दिनि' इति नायिकायाः संबोधनम् । कौटिल्यं बक्रतां निकर्यतराम् अतिशयेन निवार्य। निवारणप्रयत्नाति- शयबोधनाय तरामिति। गति गमनं शीघ्रां शीलय अभ्यस्य अभ्यास विना स्वाभाविकमन्द्गमनस्य निवर्तनासंभवा- दिति भावः। भारतीं वाणीं व्यक्तार्थी स्पष्टार्था कुरु वदेत्यर्थः । यत्नातिशयसूचनाय कुर्वित्युक्तम्। विहसिते मधुरस्वरसहितहासे औद्धत्यम् उद्धतत्वम् आयोजय नियोजय। अत्र हेनुरुत्तरार्धम्। नागरीजनानां : समाचारा: व्यवहाराः नेत्रकौटिल्यमन्दगमनास्पष्टार्थभाषणानोद्वित्यरूपाः तैः। न समारण्यते न वशीक्रियते। शार्द्ूलविकरीडितं

Page 684

दशम उल्लास:। ६२५

इयं च काचित् वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति। यथा अब्धेरम्भःस्थगितभुवनाभोगपाताल कुक्षेः पोतोपाया इह हि बहवो लङ्डनेऽपि क्षमन्ते। आहो रिक्तः कथमपि भवेदेष दैवात् तदानीं को नाम स्यादवटकुहरालोकनेऽव्यस्य कल्प: ॥ ४४६ ॥ विहसितेऽप्यौद्धत्यमायोजय। कुग्रामप्रमदाविलासरसिकः कान्तस्त्वयासादितो नार्यं नन्दिनि नागरी- जनसमाचारैः समाकृष्यते ।।" इति । अत्र दुष्प्रभुसत्कविवृत्तान्ताक्षेप इति प्रदीपोद्दयोतयोः स्पष्टम् ॥ इयं च क्वचित् वाच्यार्थे प्रतीयमानार्थानध्यारोपमात्रेण क्वचित्प्रतयमानार्थाध्यारोपेण क्वचित्वंश- भेदेन तदध्यारोपानारोपाभ्यामिति त्रिधा भवति। तत्राद्यामाह इयं चेति। पञ्चमप्रकारा (तुल्ये प्रस्तुते तुल्याभिधानरूपा ) अप्रस्तुतप्रशंसा चेत्यर्थः। वाच्ये वाच्यार्थे। प्रतीयमानति। व्यङ्गयेत्यर्थः। अनध्यारोपेणेति । अतस्मिन् तत्वारोपोऽध्यारोपः। अयं भावः। वाच्यस्याप्राकरणिकार्थस्य संभ- वित्वे न तत्र प्रतयमानस्य प्राकरणिकार्थस्य आरोपः तस्यासंभवित्वे तु तदारोप आवश्यक एव अन्यथा अयोग्यत्वबुद्धया अर्थबोध एव न स्यादिति। एतच्चोदाहरणेन स्फुटीभविष्यति॥ अब्धेरिति। इह अस्मिन् लोके बहवः भूयांसः पोतोऽब्धियानम् ("यानपात्रे शिशौ पोतः" इति नानार्थवर्गेडमर:) उपायः साधनं येषां ते पोतोपायाः सांयात्रिका: समुद्रवणिजः । अम्भो जलम् ('अर्ण:' इति पाठे जलमित्येवार्थः) तेन स्थगित आच्छादितः तिरस्कृतो वा भुवनस्य भूमेराभोगो विस्तार: पातालस्य कुक्षिर्मध्यं च येन तादृशस्य अब्धेः समुद्रस्य लङ्घने उल्लङ्घनेऽपि क्षमन्ते शक्ता भवन्ति। 'क्रमन्ते' इति पाठे उत्सहन्ते इत्यर्थः । सर्वपृथिव्या. अब्धिप्रतिबन्धेनाग्रहणात्तिरस्कारः जलै- वर्यापनात्पातालकुक्षेरपि तिरस्कार इति बोध्यम। आहो इत्यव्ययं ययर्थे यदि दैवाद्धेतोः एष समुद्र: रिक्तः जलशून्यः भवेत् तदानीम अस्य समुदस्य अवटो गर्तः (खातः) कुहरं छिद्रं (गम्भीरभागः ) तयो: आलोकने दर्शनेऽपि 'नाम' इति संभावनायाम् को नाम कथमपि केन प्रकारेणापि कल्पः समर्थ: स्यात् न कोऽपीत्यर्थः। लङ्घनस्य कैव कथोति 'अवलोकनेऽपि' इत्यपिशब्दार्थः। मन्दा- क्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे।। अत्र उपमर्दनशीलस्य दुष्प्रभो: पूर्णतैव वरम् न रिक्तता (निःस्वता) अत्यन्तोपमर्दनापत्तेरिति प्रस्तुतं प्रतीयमानम्। अत्र वाच्यार्थस्य स्वत एव संभवितया न तत्र प्रतीयमानार्थाध्यारोप आव- श्यकः। तथा चाहुश्वकवर्तिश्रीवत्सअञ्छनभट्टाचार्यादयः "अत्र दुर्लङध्यस्य कस्यचित्प्रकृतस्याध्यारोपं विनापि वाक्यार्थोपपत्तेर्नाध्यारोपः" इति। उक्तं च सुधासागरकाररैपि "अत्र प्रभुः संपदि सुख- सेव्यो विपदि कष्टसेव्य इति प्रभुवत्तान्तः प्रकृतोऽप्रकृताब्धिवृत्तान्तेन सादृश्यमात्रादाक्षिप्यते। तत्रा- पुरुषेऽब्धावप्येतेऽर्था अबाधिता एवेति न प्रतीयमानार्थाध्यारोपः" इति। एवं च इयं हि अप्रस्तु- तप्रशंसा वाच्ये अप्राकरणिके समुद्रे सर्वसंभवात् प्राकरणिक प्रभुरूपप्रतीयमाना्थनध्यारोपेणैव भवतीति द्रष्टव्यम्। "अत्र व्यङ्ग्यं गुणीभूतमेव। ध्वनित्वं तु नात्र। इहात्यन्ताप्रस्तुतस्य तत्त्वादेव (अप्रस्तु- तत्वादेव) वर्णनमनुचितमिति तत्रापर्यवसानात्तेन स्वस्योितत्वसिद्ये व्यङ्गयार्थस्य बलादाकृष्टत्वेन वाच्यासिद्धयङ्गत्वात् " इत्युइ्योते स्पष्टम् ।। ७९

Page 685

६२६ काव्यप्रकाशः सदीक:।

क्वचिदध्यारोपेणैव। यथा

कस्त्वं भो: कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते। वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परीपकारकरणे मार्गस्थितस्यापि मे ॥४४७॥

द्वितीयामाह क्वचिदित्यादिना । कस्त्वमिति । आनन्दवर्धनाचार्यप्रणीते ध्वन्यालोके तृर्तायो- इचोते उदाहृतं प्रश्नोत्तररूपं पद्यमिदम्। शाकोटकमिति कचित्पाठः । शाहोटकमित्यपि। शाखोटश्र इमशानाग्निज्वालालीढलतापल्लवादिस्तरुविशेष इति ध्वन्यालोकलोचने तृतीये उद्योतेऽभिनवगुप्तपादाः। शाखोटको भूतावासो वृक्ष इत्युद्योतकारादयः । भो: त्वं कः इति वृक्षं प्रति पथिकस्य प्रश्नः। कथ- यामि। दैवेन हतकं शून्यं दुर्भाग्यं शाखोटकं मां विद्धि जानीहीति पथिकं प्रति शाखोटकस्योत्तरम्। वैराग्यादिव वक्षि वदसि कथयसि इति पुनः प्रश्नः। साधु सम्यक विदितं ज्ञातं त्वया इत्युत्तरम। इदं वैराग्यं कस्मात्कारणात् इति पुनः प्रश्नः। कथ्यते। अत्र अस्मिन्प्रदेशे वामेन मार्गाद्वामभागेन वामाचारेण च उपलक्षितः वटः वटवृक्ष: अस्ति तं वटम् अध्वगजनः पान्थजनः सर्वात्मना छायारो- हणभोजनशयनादिना समित्पत्रादिना वा सेवते आदरणाश्रयति यद्वा सर्वात्मना गाढानुरागेण सेवते तदधो विश्राम्यति मार्गो रथ्या सदाचारश्र तत्र स्थितस्यापि मे मम छायापि परोपकारकरणे परोप- काराय न भवतीत्युत्तरम्। 'परोपकारकरणी' इति पाठे परोपकारसंपादिकेत्यर्थः। परोपकारकरणी इति प्रयोगो 'मांसपचनी' इतिमहाभाष्यकारप्रयोगवद्नुसंधेयः । भूतावासत्वेन शाखोटकच्छायाना- श्रयणम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् २३ पृष्ठे॥

अत्र सत्पात्रेण स्वदत्तस्यानङ्गीकारात् अतीव निर्विण्णः अधमजातिर्दित्सुः कश्वित्पुरुषः प्रस्तुतः प्रतयिते। अचेतनेन वाच्यार्थेन शाखोटकेन सह उक्तिप्रत्युक्त्यसंभवात् वाक्यार्थे शाखोटकादिरूपे प्रतीयमानार्थस्य अधमजातिदित्सुप्रभृतेः आरोप आवश्यकः। उक्तं च प्रद्विोध््चोतयोः। "अत्र वाच्यशाखोटके संबोध्यत्वोच्चारयितृत्वादिकमनुपपन्नमति प्रतयमानाध्यारोपः" इति प्रदृिः।"प्रती- यमानोऽत्र प्रकृतासाधुपुरुषः।न चात्र रूपकम् प्रकृतेऽप्रकृतारोपे एव तत्स्व्रीकारात्। एतेन शाखो- टकवटपदाभ्यां साध्वसाधुपुरुषौ निगीर्याध्यवसितावित्यतिशयोक्तिरित्यपास्तम् तत्रारोप्यस्यैव प्राधान्येन संबोध्यत्वाद्यनन्वयतादवस्थ्यान्च विद्यमानाया अप्यतिशयोक्तरेतदङ्गत्वाच्च। अत्र सधनः पूज्योऽधनो निन्य इति प्रस्तुतव्यञ्जनम्। नन्वत्राप्रस्तुतव्यवहारेण प्रस्तुतव्यवहारस्य निगरणमेवास्तु किमनया तात्पर्यानुपपत्तेरपि लक्षणाबीजत्वात् बोध्यसंबन्धश्र लक्षणा वाच्यव्यवहाराभेदेन च प्रस्तुतव्यवहार प्रत्यय इति चेन्न। वाच्यार्थताटस्थ्येनैव व्यङ्ग्प्रतीतेरत्र सहृद्यसंमतत्वात् शक्यसंबन्धस्यैव लक्षणा- त्वाच्च" इत्युद्योतः । ध्वन्यालोंके तु "न हि वृक्षविशेषेण सहोक्तिप्रत्युक्ती संभवरतः इत्यवित्रक्षिता- भिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपवर्तिना निर्धनस्य कस्यचिन्मनस्त्रिनः परिदेवितं तात्प- र्येण वाक्यार्थीकृतमिति प्रतायते" इत्युक्तम् ॥

१ वक्तृतात्पर्येत्यर्थः॥ २ समृद्दो योऽसत्पुरुषः ॥ ३ तात्पर्येणेति। वक्तृतात्पर्येणेत्यर्थः ।।

Page 686

दशम उलास: । ६२७

क्वचिर्दशेष्वध्यारोपेण। यथा सोऽपूर्वो रसनाविपर्ययविधि: तत् कर्णयोश्चापलं की

दृष्टि: सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा। सर्व विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसौ अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ ४४८॥ अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतु: कर्णचापलं तु हेतु: मद: प्रत्युत सेवने निमित्तम्।। तृतीयामाह क्वचिदिति। अंशेषु क्वचनावच्छेदेषु क्वचित्तु वाच्यार्थे अंशभेदेन प्रतीयमानार्थस्या- ध्यारोपेणानारोपेण च भवतीत्यर्थः । उदाहरति सोऽपूर्व इति। भल्लटकविकृते भल्लटशतके १८ पद्यमिदम् +हे भ्रमर (यस्य वारणस्य) सः अपूर्वः नवीनः रसनाविपर्ययविधिः रसनाविपर्यासप्रकार: पूर्वापरविपरीताभिधानं च। रसनाविपर्यासोऽत्र जिह्वापरिवृत्तिः "अग्गनिशापात्करिणामुपकण्ठं रसना- ग्रम्" इति पुराणप्रसिद्धेः। कर्णयोः तत् तादशं चापलम् अनवरतचालनम् परवचनेप्रतार्यत्वं च । मदो दानाख्यं गण्डस्थलानिनःसृतं जलम गर्वश्। "मदो रेतसि कस्तूर्यी गर्वे हर्षेभदानयोः" इति मेदिनी। तेन विस्मृता स्वपरदिक निजपरमार्गः आपानाप्तविवेकश्र यया तादृशी सा विलक्षणा दृष्टिः। वेति पक्षान्तरे। अथवेत्यर्थः । भूयसा बहुना उक्त्ेन जल्पनेन किम् न किमपत्यर्थः। सर्वम् एतत्सर्वै त्वं विस्मृतवान् असि। 'सवै निश्वितवानसि' इति युक्तः पाठः विस्मृतस्य वारणसेवाया- मनौचित्याभावात् । हे भ्रातः अन्तःशून्यकरः अस्थिमांसादिशून्यमध्यशुण्डादण्ड: धनशून्यहस्तश्र असौ वारण: गजः वारयतीति व्युत्पत्त्या अनुगतसेवकवारकश्र यत् अद्यापि निषेव्यते नितरामा- ग्रहेण सेव्यते इति एष ग्रहः आग्रहः क इत्यर्थः । एष दुराग्रहो न युक्त इति भावः। शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्त प्राक् १८ पृषठे। अन्राप्रस्तुतयोर्गजभ्रमरयोरभिधानेन तुल्ययोः प्रस्तुतयोः सेव्यसेवकयोर्निवारकानुगतयोः पुरुषयोः श्लेषेणाक्षेप इत्यप्रस्तुतप्रशंसा । इयं हि कर्णचापलांशे वाच्ययोर्गजभ्रमरयोः सेव्यसेवक पुरुषरूप- प्रतीयमानार्थानध्यारोपण तदन्यत्र तु रसनाविपर्ययादिरूपांशत्रये तयोस्तदध्यारोपेणैव च भवतीति बोध्यम्। तदेवाह अत्रेत्यादिना। न हेतुरिति । अतोऽत्र प्रतीयमानपुरुषाध्यारोपः । हेतुरिति। भ्रमरस्यासेवने हेतुरेवेत्यर्थः । अतस्तदशे प्रतीयमानपुरुषस्य नाध्यारोप आवश्यक इति भावः । निमित्तमिति। हेतुरित्यर्थः अतस्तदशे प्रतीयमानपुरुषाध्यारोपापेक्षेति भावः ॥ ध्याख्यातमिद प्रदीपोश्चोतयोः । "अत्र हस्तिनो रसनाविपर्यासः शून्यकरत्वं मद्श्रव वाच्यस्य भ्रमरस्य सेवनाभावहेतुत्वेन वाच्यानि न च तद्धेतवः । मदस्तु प्रत्युत सेवने हेतुरिति तदंशे प्रतीय १ इत्थमत्रैतिहमपि श्रूयते। पुरा किल तारको नाम असुरश्ष्तुराननाललब्धवरो बलगर्वितः सुरान् बहुंधा केशयामास से च सुरास्तत्रूतकेशमसहमानाश्र्वतुराननं शरणं जग्मुः। चतुराननोऽपि सुरकेशं परिजिहीर्षुर्देवान् अवदत् भी देवा। अभैः सकाशात् कार्तिकेयो नाम पुत्री भविता से च तारकासुरस्य वर्ध संपाद्यिण्यति अतो भवद्विसतवर्यामिरम्वि व्यतामिति। देवास्तु तह्ूचनमुपश्रुत्य निलीनममनिमन्वेषयनतस्तमलभमाना: कंचित् महान्तं गज पप्रच्छः अभिः कुत्रा स्तीति।स च गजो देवान्प्रत्याह 'अश्वत्थेऽमिरस्ति' इति। ततः कोधमूर्छितो वहनि सर्वान् गजान् शशाप वथा प्रतीपा भवता जिह्वा भवित्री इनि। इति स्पष्ट महाभारते आनुशाप्तनिकपर्वाण पञ्चार्शीतितमेड्याये॥ २ यद्वा श्रवण- मात्रेण मदपरिवर्तनं चेति बीध्यम् ॥। 3 सर्वमरपि तश्चेष्टितं निश्येन जानासतत्यर्थः ॥ * वाच्यानीति। चक्तव्यानी. ह्यर्थ: "नपुंसकमन मुंस के नैकव चवास्थात्यतरस्याम्" (१।१।६९) इति पाणिनिसूत्रेणैकशेय:।।

Page 687

६२८ काव्यप्रकाश: सटीकः। (सू० १५३) निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ १०० ॥ कार्यकारणयोर्यश्र पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्ति: सा मानपुरुषाध्यारोपापेक्षा। कर्णचापलं तु भ्रमरस्यासेवने हेतुरेवति तदंशे नाध्यारोप" इति प्रदीपः । मदश्चेति। तेन विस्मृतस्वपरदिक्त्वम्। एवं च रसनाविपर्ययादौ वचनास्थैर्यादिकमारोप्य भ्रमरे प्रपन्नसेवकत्वमारोष्य वारणे निवारकप्रभुत्वमाराप्य वाक्यार्थोपपत्तिरिति भावः। कर्णेति। एवं चैतदंशे अ्रमरपद द्विरेफपरमव्रति भावः। ऐकरूप्यायैकवाक्यत्वाय च तदंशेऽयारोप इत्यन्ये। अत्र श्लिष्टशब्द- रूपसाधारणधर्मनिबन्धनं सादृश्यम्। अत्रेदं बोध्यम्। अप्रस्तुतपदेन मुख्यतात्पर्यविषयीभूतार्थाति- रिक्तोऽर्थों ग्राह्यः। एतेन 'किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकेदया' इत्यत्र प्रियतमेन साक- मुद्ाने विहरन्ती काचित् भृङ्गं प्रत्येत्रमाहोते प्रस्तुतेन प्रस्तुतान्तरय्रोतने प्रस्तुताङ्करनामा भिन्नोS- लंकार इति [कुवलयानन्दोक्तम् ] अपास्तम् । मदुक्तरीत्यास्या एव संभवात्। [यदा] मुख्य- तात्पर्यविषयः प्रस्तुतश्व नायिकानायकवृत्तान्ततदुत्कर्षकतया गुणीभूतव्यङ्गयस्तदात्र सादृश्यमूला समासोक्तिरवेति के चित्। अन्ये तु अप्रस्तुतेन प्रशंसेत्यपि अप्रस्तुतप्रशंसाशब्दार्थः एवं च वाच्येन व्यक्तेन वा अप्रस्तुतेन वाच्यं व्यक्तं वा प्रस्तुतं यत्र सादृश्यायन्यतमप्रकारेण प्रशस्यते उत्कृष्यते इत्यर्थादत्रापीयमेवेत्याहुरिति दिक्) इत्युद्दयोतः ॥ इत्यप्रस्तुतप्रशंसा ॥११।। अतिशयोक्तिनामानमलंकारं चतुर्धा लक्षयति निगीर्येत्यादि । परेण उपमानेन 'समेन' इति पाठे उपमाननेत्येवार्थः निगीर्य कवलीकृत्य पृथगनिर्दिश्य यत् प्रकृतस्य उपमेयस्य अध्यवसानम् आहार्याभेदनिश्र्यः सा एका प्रथमा 'अतिशयोक्तिविज्ञिया' इति संबन्धः । एवमग्रेऽपि संबन्धो ज्ञेयः । यत् प्रस्तुतस्य प्रकृतस्य बुद्धिसंनिहितस्य अन्यत्वम् अन्यत्वप्रकारण वर्णनं सा द्वितीया । यञ्च यद्यर्थस्य यदिशब्देन चच्छब्देन वा यदिशब्दार्थस्य उक्तौ सत्यां कल्पनम् असंभविनोS र्थस्य कल्पनं सा तृतीया। यश्र कार्यकारणयोः कारणकार्ययोः पौर्वापर्यस्य 'कारणानन्तरं कार्यम्' इति प्रसिद्धस्य पूर्वपरभावस्य विपर्ययो वैपरीत्यं सा चतुर्थीति चतस्त्रोऽतिशयोक्तय इति सूत्रार्थः । अतिशयः अतिशयिता प्रसिद्धिमातिक्रान्ता लोकातीता उक्तिः अतिशयोक्तिः सा च एतेषु परस्परमत्यन्तं विलक्षणेष्वपि चतुर्षु प्रभेदेषु अस्ताति एतेषां प्रभेदानामतिशयोक्तिरिति साधारणं नाम नासंगतम। कमलानामेव यथा पङ्कजमिति नाम तथा एतेषामेव अतिशयोक्तिरिति नाम योगरूढमिति न कोऽपि दोष इति विवरणे स्पष्टम्। "अत्रातिशयोकतिपद्योगानुसारेण सामान्यलक्षणलाभ इति न पृथगभिधानम् 1 स चातिशयप्रतिपत्तयेऽन्यस्थान्यतादात्म्यप्रतिपादकोक्तिरूपः" इति चक्रवर्तिनः । ननु चतसूषु अतिशयोक्तिषु अनुगतप्रवृत्तिनिमित्ताभावातकथमतिशयोक्तिपदप्रयोग इति चेत् शृणु । प्रभेदान्यतमत्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तम् तदेव च सामान्यलक्षणमिताति केचित्। १ कार्यकारणयोरिति+अत्र "अल्पाच्तरम्" (२१३) इति पाणिनिषूत्रेण कार्यपदस्य पूर्वनिपातः ॥२ कारणकर्ययोरिति। "समुद्राम्राद्मः" (गग११ढ) इनि पाणिनिसूत्रीिर्देशान् पूर्वनिपातप्रकरणस्यानित्यतवेनात्र कारणपदश्य पूर्वनिपातो बोध्य

Page 688

: देशम उल्लासः। ६२५

उपमानेनान्तर्नि्गीणस्योपमेयस्य यदध्यवसानं सैका। य्थाक कमलमनम्भस कमले च कुवलये तानि कनकलतिकायाम्। सा च सुकुमारसुभगेत्युत्पातपरंपरा केयम्॥ ४४९ ॥ अत्र मुखादि कमलादिरूपतयाध्यवसितम्। प्रथममतिशयोक्तिलक्षणं विवृण्वन् परेणेत्यस्यार्थमाह उपमानेनेति। अन्तर्निगीर्णस्येति। अन्त र्गिलितस्येव स्वस्वरूपेणानुपस्थितस्येत्यर्थः। स्ववाचकशब्देनानुपात्तस्येति यावत्। समभिव्याहारात् प्रकृतपदेन उपमेयं व्याचष्टे उपमेयस्येति। "अध्यवसानं द्रढीयसी बुद्धिः" इति प्रदीपः । "स्वासा- धारणधर्मेणानुपादानादनाहार्याभेद्धीरित्यर्थः" इत्युद्योतः । "स्वस्व्रूपेणानुपस्थिततया सर्वथैवाभे- दप्रतिपत्तिरूप उत्कटारोपः" इति विवरणम। सारबोधिनीकारादयस्तु "अध्यवसानम् अप्रकृततादा- त्म्यारोपः स च भेदप्रतिपत्त्यसहकृताहार्यनिश्रयरूपः। तेन रूपकस्य ससंदेहोत्प्रेक्षयोश्र व्यवच्छेद; रूपकस्य भेदाभेदरूपत्वात् अन्ययोश्र संशयत्वात्। भेदो वैधर्म्यम्। आहार्यत्वेन भ्रान्तिमत्यप्रसङ्ग:" इत्याहुः। सैकेति। निगीर्याध्यवसानरूपा प्रथमातिशयोक्तिरित्यर्थः। इयं हि गौणसाध्यवसानलक्षणा- संभवस्थले एव भवतीत्युक्तं प्राक् (५९३ पृष्ठे १८ पक्कौ)। अत्राप्यलंकारत्वे सतीति विशेषणं प्रक- रणप्राप्तमस्त्येव । तेन 'गौरयम्' (४८ पृष्ठे ) इत्यत्र सत्यामपि गौणसाध्यवसानलक्षणायां नातिप्रसक्ति: चमत्काराभावात्। अधिकं तु 'अत्र केचित्' इत्यादिग्रन्थेन प्रथमोदाहरणवृत्तिग्रन्थव्याख्यानानन्तरं (६३० पृष्ठे ६ पङ़गौ ) स्फुटीभविष्यति॥ प्रथमातिशयोक्तिमुदाहरति कमलमिति। प्रेयसी दृष्टा तत्सखीं प्रति नायकस्योक्तिरियम्। अन- म्भसि अनुदके देशे कमलं कान्तावक्त्ररूपं पद्मम्। तस्मिन् कमले च कुवलये नेत्रद्वयरूपं नीलोत्पल- द्वयम्। तानि कमलं कुवलयद्दयं चेति त्रण्यपि कनकलतिकायां कान्तातनुरूपायां सुवर्णलतायाम्।सा च कनकलतिका सुकुमारा मृद्दी चासौ सुभगा सुन्दरी चेति उत्पातपरंपरा अद्भुतमाला केयमित्यर्थः। आर्या छन्दः। लक्षणमुक्तं भराक् ४ पृष्ठे॥ अत्र प्रकरणलभ्यानां नायकावक्त्रादनिा कमलावितादात्म्येनाध्यवसानानमुखादेरतिशयः प्रतयिते इति निगीर्याध्यवसानरूपा भेवेडभेदाध्यवसायात्मिका अतिशयोक्तिरियम।तदेवाह अत्र मुखादी- त्यादिना। अध्यवसितं निश्चितम्। अन्र कमलकुवलयकनकलतिकापदैः मुखनेत्रतनूनां कमलत्वा- दिनाध्यवसानादतिशयोक्तिरलंकार इत्यर्थः। अन्रोपमानतादात्म्यमुपमेये॥ उदाहरणान्तरं काव्यप्रदीपकारैः पठितं यथा 'कलशे परममह्त्वं तिमिरस्तोमस्य सोमसहवासः । वियति च शैवलवल्ली शिव शिव कुसुमेषुसर्गसौभाग्यम ।।'इति।

कलशे इति। कलशे स्तने। तिमिरस्तोमस्य। केशसैघातस्य। सोमसहवासः मुखसहवासः । वियति मध्यप्रदेशे। शैवलवल्ली रोमावली। कुसुमेषुर्मंदन: तत्संबन्धी यः सर्गः सृष्टिः तस्य सौभाग्यं सुभ- गत्वं सौन्दर्यमित्यर्थः। "सर्गस्तु निश्रयाध्यायमोक्षोत्साहात्मसृष्टिषु" इति मेदिनी। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥

Page 689

६३० कांव्यप्रकाश: सटीकः।

यञ्च तदेवान्यत्वनाध्यवसीयते सा अपरा। यथा अण्णं लडहत्तणअं अण्णा विअ का वि वत्तणच्छाआ। सामा सामण्णपआवइणो रेह च्चिअ ण होई॥ ४५० ॥

अत्र कलशत्वेन स्तनयोरध्यवसानम् तिमिरसंघातत्वेन केशपाशस्य सोमत्वेन (चन्द्रत्वेन ) मुखस्य आकाशत्वेन मध्यस्य वल्लीत्वेन रोमावल्ल्चा इति ज्ञेयम् ॥ "अत्र केचित् 'प्रकृतस्य परेण' इत्येव प्रकाशे पाठदर्शनात् तत्र च सामान्यतो निर्देशात् शु्द्धसाध्यवसानलक्षणया धर्मधर्मिणोरेकत्वाध्यवसायेऽप्येषा । 'समेन' इति पाठेपि तदुपलक्षणम्। यथा 'कर्णलम्चितकवम्बमञ्जरीकेसरारुणकपोलमण्डलम्। निर्मलं निगभवागगोचरं नीलिमानमवलो- कयामहे ॥' इत्यत्र नीलिमपदस्य तदाश्रये शुद्द्साध्यवसानलक्षणया नीलिमाभेदप्रतीतिः। एवं हेतु- फलयोरभेदाध्यवसायेडप्येषा । यथा 'वित्रासनं समरसीमनि शात्रवाणामाजीवनं विबुधपर्षदि कोवि- दानाम्। संमोहनं सुरतसंसदि कामिनीनां रूपं तदीयमवलोकयतोऽद्धुतं मे ॥' इत्यादौ नित्रासना- दिपदस्य तद्वेतौ शुद्धसाध्यवसाना। एतेन 'हेतोर्हेतुमता सार्धमभेदो हेतुरुच्यते' इति हेत्वलंकारोऽयं पृथित्यपास्तमित्याहुः । अत्र भेदेऽभेदः । अत्र कमलादिपदानां मुखत्वं लक्ष्यतावच्छेदकम् तेन रूपेण प्रथमतो बोधे तः्द्वर्मावच्छिन्ने कमलाभेदप्रत्ययो व्यञ्जनया बाधबुद्धेश्र न व्याञ्जनिके [ वैय- ञ्जनिके ] प्रतिबन्धकत्वमित्यनाहार्या धीरत्रेति केचित् । आह्लादकत्वेनैव मुखं लक्ष्यम शेषं प्राग्व- दित्यपरे। अत्र पक्षे तद्दर्मवच्छिन्ने कमलाभेद्बाधस्यैवाभावादनाहार्यत्वं स्पष्टमेव। अन्ये तु शक्य- तावच्छेदकरूपेणैव मुखादिभानं वदन्ति। तन्मतेऽभेदप्रधानातिशयोक्तिरित्यस्य उपमानतावच्छेद- कस्यैव भेदाभावरूपतया निर्वाहः। एतदेव चात्र मते निगरणम् यत्स्ववाचकपदेन शक्यतावच्छेद- करूपेणैवास्य बोधनम्। सादृश्यातिशयमहिम्रा च बाघबुद्धेः स्थगमादेतन्मतेऽप्यनाहार्यैव धीरिति दिक" इत्युद्चोते स्पष्टम्। "प्रस्तुतस्य यदन्यत्वम्" इति द्वितीयातिशयोक्तिलक्षणं व्याकरोति यच्चेत्यादिना। प्रस्तुतस्येति व्याचष्टे तदेवेति। प्रस्तुतमेवेत्यर्थः । एवकारेण धर्मिभेदाभावः सूचितः । तेनास्य पूर्वतो भेदः । अन्यत्वेनेति। अन्यत्वरूपप्रकारेणेत्यर्थः । अध्यवसीयते निर्श्र्ीयते। निश्वयोऽत्राहार्यों बोध्यः। एवं च् तज्जातीयमेब वस्तु तज्जातीयभिन्नत्वन वर्ण्यत इति भावः । सा अपरेति। सा द्वितीया (अभेदे भेदरूपा) अतिशयोक्तिरित्यर्थः । प्रदीपे तु 'अन्यत्वेन विविक्ताकारवस्त्वन्तरत्वेन' इत्युक्तम्। "अन्य- स्वेनेति। तच्चान्यादिशब्दैः विविक्ताकारम् अतिशयिताकारम्" इत्युद्दचोते व्याख्यातम्॥

· तामुदाहरति अण्णमिति। नायकं प्रति नायिकासख्या उक्तिरियम्। "अन्यत्सौकुमार्यम् अन्यैव व्व कापि वर्तनच्छाया। श्यामा सामान्यप्रजापतेः रेखैव च न भवति॥" इति संस्कृतम्। 'अन्यत् लठभ श्वम्" इत संस्कृतं केचिद्वदन्ति। लठभत्वं सौकुमार्यम्। सुकुमारशब्दस्य प्राकृते लडहादेश इति सुधासागरकारः। लडहत्तणअशब्दः सौकुमार्ये देशी इति चन्द्रिकाकारः। अन्यदेव लोकप्रासेद्धसौ- कुमार्यभिन्नमेवेदं श्यामाविषयकं सौकुमार्य सौन्दर्यम्। अन्यैव काप्यनिर्वचनीया वर्तनस्य शररिस्य छाया कान्तिः। वर्तते जीवतीति वर्तनं शरीरम्। श्यामा शीतोष्णकाले उष्णशीता षोडशवार्षिकी इयं कान्ता सामान्यप्रजापतेः सर्वसाधारणस्तष्टुः रेखा निर्मितिरेव न भवतीत्यर्थः। रेखा निर्माणपरिपाठी- लेशसंबद्धेति केचित्। "शीतकाले भवेदुष्णा ग्रीष्मे च सुखशीतला। सर्वाधयवशोभाढ्या सा इयामा

Page 690

दशम उल्लास:। ६३१

परिकीर्तिता॥" इति इयामालक्षणम्। "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः। आर्या जघनविपुलेयम्। लक्षणमुक्तं प्राक् १३३ पृष्ठे। अत्र लोकप्रसिद्धसौकुमार्याद्यभेदेऽपि भेदो वर्णितः। तथा चात्रान्यदेव सौकुमार्यमित्युक्त्यास्याः सौन्दर्ये सौन्दर्यान्तरादतिशयः प्रतीयते इति अन्यत्ववर्णनरूपा (अभेदे भेदाध्यवसायात्मिका) अतिश- योक्तिरियम्। एवं च पूर्वत्र भेदेSभेदाध्यवसायः अत्र तु अभेदे भेदाध्यवसाय इति दयोर्भेदः॥] "अत्रेदं बोध्यम्। 'प्रस्तुतस्य यद्न्यत्वम्' इत्यस्य 'प्रस्तुतस्य अन्यवस्तुत्वेनाध्यवसायः' इत्यप्यर्थः । यथा "तस्याः सखे नियतमिन्दुसुधामृणालज्योत्स्नादि कारणमभून्मदनश्र वेधाः' इत्यत्र प्रकृतनायिका- संबन्धिकारणस्य निर्मातुश्र विविक्ताकारवस्त्वन्तररूपमृणालादित्वेनाध्यवसानम् । 'अस्याः सर्गविधौ०' (५९१ पृष्ठे) इत्यादौ तु नैवम् निश्र्वयाभावात् । यथा वा 'प्रत्यम्भो नवपुण्डरीकमुकुलश्रेणी प्रति- क्षमाधरं पूर्णेन्दोरुदयः प्रतिक्षितिरुहं मल्लीप्रसूनात्करः । कि चान्यत्कथयामि वीर जगतीरालिम्पति त्वय्यशोविस्तारे प्रतिदेशमेव दिविषत्स्रोतस्वतीनिर्झरः ॥' इति । अत्रैकैव कीर्तिस्तत्तत्स्थाने योग्यताव- शात्तेन तेन रूपेणाध्यवसिता। यथा वा 'स्त्रीभिः कामोऽर्थिमि: स्वर्ट्ट: कालः शत्रुभिरौक्ष सः' इति । अत्र निमित्तभेदात्तत्तद्रूपेणाध्यवसायः । स च कविनिबद्धकर्तृक इत्यन्यत्। 'गुरुर्वचस्यर्जुनोऽयं कीरतौ भाष्म: शरासने' इत्यात्रापीयमेव। अत्र श्लेषसंकीर्णेयमित्यन्यत् । एतेनेदृशेषु विषयेषु उल्लेखा- लंकारोऽयमतिरिक्त इति केषींचित् उक्तिः परास्ता। 'गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवैतैः । यथास्थितश्र बालाभिर्द्टष्टः शौरि: सकौतुकम् ॥।' इत्यत्र तु नायमलंकारः अध्यवसानाभावात्। न चैवं कोऽत्रालंकारः। न कोऽपि। किंतु तेषां तेषां तथा ज्ञानानि (ज्ञायमानानि) भगवद्विषयक- भावे उद्दीिनानीति बोध्यम्। न ह्युद्दीपनसंसार: सर्वोऽप्यलंकारेष्वेतीति नियमोऽस्ति। एवम् 'अकृशं कुचयो: कृशं वलग्ने विपुलं चक्षुषि विस्तृतं नितम्बे। अधरेऽरुणमाविरस्तु चित्ते करुणाशालि कपालिभागधेयम्।' इति पद्मेऽपि बोध्यम्" इत्युइयोते स्पष्टम्।। अत्राहुः सुधासागरकारा अपि "अत्रेदं बोध्यम्। प्रथमा भेदेSभेदाध्यवसायात्मिका द्वितीया अभेदे भेदाध्यवसायात्मिकोति। किंच प्रकृतोदाहरणे स्वरूपान्यत्वेनान्यताध्यवसायः । क्वचित्तत्संबन्धिकारणा- दयन्यत्वेनान्यत्वाध्यवसायः । यथा 'तस्याः सखे नियतम्०' इत्यादौ। न चैवम् 'अस्या: सर्वविधौ०' इत्यादावतिव्याप्तिः निश्वयाभावात्। क्वचिद्विषयभेदेनान्यत्वाध्यवसायः । यथा 'मलानामशनिर्नृणा नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनोऽसतां क्षितिभुजां शास्तां स्वपित्रोः शिशुः । मृत्यु- भोजपतेविरांडविदुषां तत्त्वं परं योगिनां वृष्णानां परदेवतेति विदितो रेङ्रे गतः साग्रजः'॥ इति। अत्रैक एव भगवान् तेषां तेषां तत्तद्रूपेण नानात्वेन विदित इति विषयभेदेन योग्यतावशादभेदे भेदाध्यवसायः । न चात्र रूपकशङ्का मल्लादिसंबन्ध्यशन्यादरप्रसिद्ध्या तत्त्वेन रूपणासंभवात् मल्ला- १ तस्या इति। मालतीमाधवप्रकरणे प्रथमाड्के पद्यमिद्म्॥ २ कुवलयानन्द्कारदनिामित्यर्थः ॥ ३ युवतनिा समूहैः ॥श्रीरुष्णः ॥ ५ संसारः प्रपश्चः विस्तार इत्यर्थः ॥ ६ श्रीमद्गागवते दुशमस्कन्वे पूर्वार्धे विजयध्वज- कतटीकायां ४१ अध्याये श्रीधरकतटीकायां ३ अध्याये १७ पद्यमिद्म्। मल्लाः बाहुयुद्वकुशलाः ॥ ६ वज्म् ॥ ८ शासनकर्ता ॥ ९ कंसस्य ॥ १० अविदुर्षा विराट् विशेषेण राजते इति विराट् । विराडविदुषामित्यत्र 'विधातृ- विहितः' इति पाठान्ताम्॥ ११ याद्वानाम् ॥ १२ रङ्ग रणभमिम्। "रङ्गो ना रागे नृत्यरणक्षितौ। अस्त्री त्रपुणि" इति मेदिनी ॥ १३ चलरामेण सहितः श्रीरृष्णः।।

Page 691

६३२ काव्यप्रकाश: सटीक: ।

'यद्यर्थस्य' यदिशन्देन चेच्छव्देन वा उक्तौ यत् कल्पनम् (अर्थात् अतंभविनोऽर्थस्य) सा तृतीया। यथा राकायामकलङ्कं चेदमृतांशोर्भवेदठपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥४५१॥ दिनिष्ठाशनित्वादिप्रकारकज्ञानस्वरूपाभिन्नवेदनविषय इत्यर्थात् षष्ठचर्थानां वेदनक्रियायामेवान्वयस्य विवक्षितत्वात् घट इति ज्ञानमित्यादौ घटादिपदस्येवात्राशनिरित्यादेर्ज्ञानाकारकथनत्वात् इतिपदस्य स्वरूपपरस्य क्रियाविशेषणत्वात्। न च भ्रान्तिमत्त्वापत्तिः किंचिदंशे भ्रान्तित्वेन तद्भावात्। उल्लेखस्यात्रैवान्तर्भावः । अत एवोल्लेखः खण्डितो ऽस्माभि: कुवलयानन्दखण्डने" इति॥ "यद्यर्थोक्तौ च कल्प म्" इति वृर्तायातिशयोक्तिलक्षणं व्याकरोति यद्यर्थस्येति। यदिशब्दार्थ- स्येत्यर्थः । यदिशब्दचेच्छव्दयोः पर्य.यत्वादाह चेच्छव्देन वेति। उक्तौ कथने सति। अर्थात् कल्प- नपदसामर्थ्यात्। असंभविन इति। असंभविनोऽर्थस्य यत् कल्पनमित्यन्वयः । तृतीयेति ! तृतीया यद्यर्थातिशयोक्तिरित्यर्थः। तत्र यदिशब्देनोक्तौ यथा 'यदि स्यान्मण्डले शक्तमिन्दोरिन्दीवरद्यमु। तदोपमीयेतैतस्या वदनं लोललोचनम् ॥'इति। यथा वा 'उभौ यदि व्योम्नि पृथक् प्रवाहौ" इति ( ५४६ पृष्ठे २४ पक्कौ ) उक्ते पद्मे इति बोध्यम्। चेच्छव्देनाक्तौं तामतिशयोक्तिमुदाहरति राकायामिति। राका पूर्णचन्द्रा पूर्णिमा। "पूर्णे राका निशाकरे" इत्यमरः । तस्याम् अमृतांशोश््वन्द्रस्य वपुः शरीरं ( मण्डलम् ) अकलङ्कं चेत् कलङ्क- रहितं यदि भवेत तदा तस्या: नायिकायाः मुखं (कर्तृ) साम्यं चन्द्रसादृश्यमेव पराभवस्तिरस्कार स्तम् अवाप्नुयात् प्राप्नुयादित्यर्थः । निरुपमस्योपमानसंभव एव तिरस्कार इति भावः। श्लोक: (अनुष्ुम्) छन्दः। लक्षणमुक्तं प्राक् ११ पृष्ठे॥ अत्र चन्द्रेण सदा मुखस्य साम्य तर्कितमेव न तु वस्तुसत तेन मुख्यस्यातिशयः प्रतीयते इति ययर्थातिशयोक्तिरियमिति चक्रवत्यादयः । उद्योतकारास्तु "पूर्वाधे पूर्णेन्दौ कलङ्काभावस्यासंबन्धे संबन्ध: कल्पितः उत्तरार्धे साम्यसंबन्धसंभवेऽपि तदसंबन्धः पराभवपदेन सूचितः। एवं चासंबन्धे संबन्ध इति द्विविधेयम्। यदर्थोक्तावित्युपलक्षणम् उक्तप्रकारदयस्य। एवं च 'सौधाट्वानि पुरस्यास्य स्पृशन्ति विधुमण्डलम्' इत्यत्राप्यसंबन्धे संबन्धरूपा इयमेव। यत्त्वत्र 'स्पृशन्तीवेन्दुमण्डलम्' इति कृते उत्प्रेक्षायाः प्रतीतेरिवशब्दाभावे गम्योत्प्रेक्षैवोचिता अन्यथा 'त्वत्कीतिर्भ्रमणश्रान्ता विवेश स्वर्ग- निम्नगाम्' इति त्वदुक्तेऽपि गम्योत्प्रेक्षा न स्यादिति तन्न। 'नूनं मुखं चन्द्रः' इत्यादौ नूनपदाभावे गम्योत्प्रेक्षायाः आपत्तेः रूपकस्यानापत्तेश्र। त्वत्कीर्तिरित्यत्र बहुदूरगमने स्वर्गगमने वा स्वर्गङ्गाप्रवेशता- दात्म्योत्प्रेक्षायाः कीर्तो स्वर्गङ्गाप्रवेशकर्तृत्वोत्प्रेक्षाया, अनङ्गीकारे भ्रमणश्रान्तत्वरूपविशेषणवैयर्थ्यवत्प्र कृते उत्प्रेक्षासाधकाभावाच्च । स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तयम् । अन्त्ये स्वर्गगमनरूपानुपात्त- धर्मनिमित्तेति दिक्। राकायामित्युदाहरणे व्यतिरेकालंकारगर्भेयम्। एवं 'लावण्यद्रविणव्ययो न गणितः केशो महानर्जितः स्वच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः। एषापि स्वगुणानुरूपरमणाभावा- १ एवं चेति। यदवि "ययर्थोक्तौ घ कल्पनम्" इत्पनेनासंबन्धे मंचन्वद्वरा एक विवैवामिहिता तथापि लक्ष्या- नुसारात्संचन्धेडसंचन्धरूपान्यविधाष्यङ्ग का यर्तयु द्वयोताशयः॥

Page 692

दशम उल्लास: । ६३३

कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी। यथा हृदयमधिष्ठितमादौ मालत्या: कुसुमचाप वाणेन E च चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥४५२।। (सू० १५४) प्रतिवस्तूपमा तु सा ।। १०१ ॥ सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः। द्वराकी हता कोऽर्थश्ववेतसि वेधसा विनिहितस्तन्वीमिमां तन्वता ॥' इत्यंत्रापि 'एषापि स्वगुणानुरूपर- मणाभावात्' इत्यत्रासंबन्धे संबन्धस्तन्वीलावण्यप्रकर्षप्रतिपादनार्थ उक्तः " इत्याहुः॥ "कार्यकारणयोर्यश्रव पौर्वापर्यविपर्ययः" इतिचतुर्थातिशयोक्तिलक्षणं व्याकुर्वन् तस्या अलंकारता- बीजमाह कारणस्येत्यादिना। शीघ्रकारितां वक्तुमिति। शीघ्रकारित्वप्रतिपादनायेत्यर्थः झटिति- कार्यकारित्वं बोधायतुमिति यावत्। पूर्व कार्योत्पत्युपयुक्तकालात्पूर्वम्। उक्तौ कथने। चतुर्थीति। कार्यकारणयोः पौर्वापर्यविपर्ययरूपा चतुर्थी अतिशयोक्तिरित्यर्थः ॥ विपर्ययश्र द्विविधः कार्यस्य प्राथम्येन सहभावेन चेति। तत्राद्यमुदाहरति हृदयमिति। दामो- दरगुप्तकृते कुट्टनीमताख्ये काव्ये ९६ पद्यमिदम्। एतेन 'मालव्याः' इति पाठं स्थापयित्वा मालविका- काग्निमित्रनाटकस्थं पद्यमदमिति मत्वा 'अग्निमित्रं राजानं प्रति दूत्या उक्तिरियम्' इति महेश्वरे- णोक्तम् मालतीमाधवप्रकरणस्थमिदमिति मत्वा 'हे रमगीवल्लभ माधव' इति कमलाकरभट्टकृतं व्याख्यानम् 'मालतमिाधवनाटके माधवं प्रत्युक्तिः' इति सुधासागरकारोक्तं च कपोलकल्पितं परा- स्तम् मालविकाग्निमित्रे मालतीमाधवे चास्य पद्यस्यानुपलम्भात् दामोदरगुप्तकृतकाव्ये उपलम्भाच्चोति बोध्यम्। हे रमणीवल्लभ कामिनीकान्त कुसुमचापबाणेन चापश्र बाणश्र चापबाणाः कुसुमान्येव चापबाणा: यस्य तेन कन्दर्पेण मालत्याः तन्नामकनायिकायाः हृदयम् अन्तःकरणम् आदो प्रथमम् अधिष्ठितम् आक्रान्तम्। लोचनविषयं नेत्रगोचरतां भजता प्राप्नुवता दृष्टेनेति यावत् त्वया चरमं पश्चात् अधिष्ठितमित्यर्थः । केचित्तु 'कुसुमचापस्य कन्दर्पस्य बाणेन' इति व्याचर्युः तन्न रुचि- रम् हृदये बाणकर्तृकाधिष्ठानासंभवात् किंतु बाणक र्तृकव्यधनवर्णनस्यैव कविसंप्रदायसिद्धत्वात्। "कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः" इत्यमरः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ।। अत्र कारणस्य रमणीवल्लभाधिष्ठानस्य शीघ्रकारितां वक्तु कार्यस्य कन्दपाधिष्ठानस्य प्रथममुक्तिरिति कार्यकारणयोः पौर्वापर्यविपर्ययरूपा चतुर्थी अतिशयोक्तिरियम्। अन्त्यं (कार्यस्य सहभावेनेत्यस्योदा- हरणं) यथा 'सममेव समाक्रान्तं दयं द्विरदगामिना। तेन सिंहासनं पित्रयं मण्डनं च महीभृताम् ॥' इति। अत्र सममेव न तु पूर्वापरभावेनेति प्रतीतेः पौवीपर्यविपर्ययरूपातिशयोक्तिः। अत्र सिंहासना- क्रमणं कारणम् महीभून्मण्डलाक्रमणं कार्यमित्युझ्योतादौ स्पष्टम् ॥ इत्यतिशयोक्ति: ॥१२। प्रतिवस्तूपमानामानमलंकारं लक्षयति प्रतिवस्तूपमेति। एकस्य सामान्यस्य साधारणधमस्य वाक्य दये उपमानोपमेयवाक्ययोः यत्र यस्यामलंकृतौ द्विः द्विवार स्थितिः अवस्थितिः (उपादानम्) अर्था- ॥. १. इत्यत्रार्पाति इति धर्मकीर्तिकतपद्येऽपीत्यर्थः ॥ २ सममेवेति। रघुकाव्ये चतुर्थस्रगे पद्ममिदम् ॥ तेन रघुणा वित्यं पितृसंबन्धि दिलीपसंचन्धीति यावत्॥ ८० नवजीभो

Page 693

६३४ काव्यप्रकाशः सटीक: !

साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात् शबदभेदेन यत् उपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा। यथा च्छब्दभेदन कथितस्य पदस्य दुष्टत्वात् सा प्रतिवरतूपमा 'प्रतिवरतु प्रतिवाक्यार्थमुपमा साधारण- धर्मोऽस्याम' इति व्युत्पत्तेरिति सूत्रार्थः । अत्र सूत्रे द्विरिति दये इति च पदे अनेकोपलक्षके माला- नुरोधादिति प्रदीपे स्पष्टम्। तेन वाक्यार्थयोर्वक्यार्थानां वा उपमासंपादकस्य एकस्यैव धर्मस्य विभिन्न- शब्दोपात्तत्वं प्रतिवस्तूपमेति फलितम्। एवं च "भिन्नशब्दोपात्तैकधर्मक वाक्यार्थयोरार्थिकमौपम्यं प्रति- वस्तूपमेति लक्षणं बोध्यम्" इति प्रभायां स्पष्टम्। एकस्येत्यनेन दृष्टान्तव्युदासः तत्र साधारणधर्मस्य बिम्बप्रतिबिम्बभावेन निर्देशेनैकत्वविरहात् । निदर्शनायां साधारणधर्मस्यानुपन्यासः वाक्यार्थयोः स्वस्वार्थे सापेक्षत्वं च अत्र तु साधारणधर्मस्य वस्तुप्रतिवस्तुभावेन निर्देशः वाक्यार्थयोः स्वस्वार्थे निरपे- क्षत्वं चेत्यनयोः परस्परं भेद इति दृष्टान्तालंकारे स्फुटीभविष्यति। अर्थान्तरन्यासे तु समर्थ्यसमर्थक- भावो विविक्षितः अत्र पुनरुपमानोपमेयभाव इति ततोऽस्या भेदः। अत एवोपमाघटितेयम् ॥ सूत्रं व्याकुर्वन् सामान्यपदार्थमाह साधारणो धर्म इति। वाक्यदये इत्यस्यार्थमाह उपमेयवाक्ये उपमानवाक्ये चेति। अभिहितत्वादिति। सप्तमोल्लासे (३४२ पृष्ठे) इति शेषः । शब्दभेदेनेति। अर्थाच्छब्दभेदेनेत्यर्थः। तथा च 'शब्दभेदेन' इति विशेषणं सूत्रेऽनुक्तमपि अर्थवशलभ्यं बोध्यम्। स्थितिपदार्थमाह उपादीयते इति। प्रतिवस्तूपमापदस्य व्युत्पत्तिं दर्शयति वस्तुन इति। उपमानत्वा- दिति। एवं चोपमेयत्वमपि वाक्यार्थस्येति ध्वनितम। प्रतिवस्तूपमेति। तन्नामा अलंकार इत्यर्थः । न च 'दिवि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि' इति वाक्यार्थोपमायामतिव्याप्तिरिति वाच्यम् अत्र वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकं वाक्यार्थयोगम्यमपम्यमित्यस्य विविक्षितत्वात् तत्र तु यथा शब्देन वाच्यमेवेत्यदोषात्। यत्त्वत्रोक्तमुद्योते "न च 'दिवि स्थितो भानुरिव भूस्थस्त्वं भ्राजसे नृप' इति वाक्यार्थोपमायामतिव्याप्तिरिति वाच्यम् वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकं वाक्यार्थयोर्गम्यमौप- म्यमित्यस्य विवक्षितत्वात् तत्र तु इवशब्देन वाच्यमेवेत्यदोषात्" इति तत्र 'दिवि स्थितो भानु- रिव०' इत्यादिवाक्योपादानं चिन्त्यम् तस्मिन्वावये साधारणधर्मस्य द्विवारस्थित्यभावेन सूत्रस्यैव (लक्षण- स्यैव) अप्राप्त्यातिव्याप्तेरसंभवेन गम्यौपम्यविवक्षया तद्वारणस्य व्यर्थत्वात् तत्र वाक्यद्वयस्यैवा- भावेन वाक्यार्थगतस्यौपम्यस्याभावाच्चेति बोध्यम् । 'निर्मलं वदनं कान्ते विमलं कमलं मम' इत्या- दावतिप्रसङ्गवारणाय वाक्यद्ये इति। अत एव 'आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्। भ्रम- द्द्मरसंभारं स्मरामि सरसीरुहम् ॥'इति स्मरणालंकारेऽपि नातिव्याप्तिः पद्मसद्टशमाननमित्येव तत्र प्रतीतेः। 'आपद्गतः खल महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति ।' इत्यत्र आपद्गतत्वदहनमध्यगतत्वयोर्बिम्बप्रतिबिम्बभावेऽपि उपमानोपमेयवृत्तिधर्मो वरतुप्रतिवस्तुभावापन्न एव। दृष्टान्ते तु साक्षात्तद्वत्तिधर्माशेऽपि बिम्बप्रतिबिम्बभाव

१ विमबप्रतिबिम्बभावश्व दृष्टान्तालंकारे द्रष्टव्यः ॥ २ वस्तुप्रतिवस्तुभावश्र्याग्रे (६३५ पृष्ठे ५ पङ्गौ) दृष्टान्ता- लंकारे च द्रष्टव्यः॥ ३ गम्यमिति । औषम्यप्रयोजकस्य साधारणधर्मस्योपादानात् वाचकाभावाच्चेति भावः ॥ औपम्यमिति। उपमैवौपम्यम् "चतुर्वर्णादीनां स्वार्थे उपसंख्यानम्" इति कात्यायनरुतवार्तिकेन स्वार्थे ण्यञ्प्रत्ययः॥ ५ वस्तुप्रतिवस्तुभावापन्न एवोते। अतोऽत्र प्रतिवस्तूपमैवालंकार इति भावः॥ततpi

Page 694

दशम उल्लांस: ६३५

देवीभावं गमिता परिवारपदं कथं भजत्वेषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥ ४५३॥ 'यदि दहत्यनलोऽत्र किमन्दुतं यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधे: प्रकृतिरेव सतामविषादिता ॥४५४ ॥ इति ततो विशेषः । एकस्यैव धर्मस्य पृथकशब्दाभ्यामुपादानं वस्तुप्रतिवस्तुभाव इत्युइयोते स्पष्टम्। अत्राहुविर्वरणकाराः "उपमायां तु पदार्थयोः साम्यम् तच्व वाच्यम् अत्र तु (प्रतिवस्तूपमायां तु) वाक्यार्थयोः तदपि गम्यमेवेति ततो भेदः। साम्यप्रतिपादकानामिवादीनां पदत्वेन तैः पदार्थयोरेव साम्यं बोध्यते 'पदार्थः पदार्थेनान्वेति' इति नियमात् एवं च वाक्यार्थयोः साम्यं गम्यमेव निय- तम् " इति॥ सा च प्रतिवस्तूपमा द्विधा अमालारूपा (केवला) मालारूपा चेति। तत्राद्यामुदाहरति देवीति। रत्नावल्यां पद्यमिदमिति केचित् परं तु अङ्कितरत्नावलीपुस्तके तु नैवोप लभ्यते। वाम- नसूत्रवृत्तौ ४ अधिकरणे ३ अध्याये उदाहृतं पद्यमिदम्। राजानं प्रति देवीसख्या उक्तिरियम्। हे राजन् देवीभावं देवीत्वं गमिता प्रापिता कृताभिषेकेति यावत्। "देवी कृताभिषेकायाम्" इत्य- मरः। एषा राज्ञी परिवारस्य साधारणकलत्रस्य पदं स्थानं शब्दं वा कथ भजतु अनौचित्यादिति भावः। न खलु दैवतरूपेण अङ्कितं चिह्नितं (स्वर्णादिघटितोत्कृष्टदेवताप्रतिमारूपम्) रत्नं श्रेष्ठ वस्तु परिभोगाय भूषणाद्यर्थमुपादानाय योग्यं भवतीत्यर्थः। "रत्नं स्वजातिश्रेष्ठेऽपि" इत्यमरः । भजतु' इत्यत्र भजतीति क्चित्पाठः सोऽपि संगत एव। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र 'कथ भजतु' इत्यनेन परिवारपद्भजनस्यानौचित्यं प्रत्याय्यते 'न खलु' इत्यनेन च परिय भोगस्येति एकस्यैवानाचित्यरूपसामान्यस्य शब्दभेदेन द्विवारमुपादानम्। अत्र पूर्ववाक्यमुपमे- भूतम् उत्तरवाक्यमुपमानभूतम् । एवं च दैवतरूपाङ्गितरत्नस्य भोगयोग्यत्वं यथानुचितम् तथा- देव्याः परिवारपद्योग्यत्वमनुचितमित्यौपम्ये पर्यवसानमिति प्रतिवस्तूपमेयम्। अत एवाहुश्रन्द्रिका- कारा: "अत्र दयोर्वक्यार्थयोरनौचित्यरूपः एक एव साधारणधर्मः 'कथम्''न खल' इति भिन्न- शब्दोपात्त इति प्रतिवस्तूपमालंकारः" इति। उक्ते चान्यैरपि "अत्र एकदा उच्चपदाधिरूढस्याव- नतिरनुचितेति उच्चपदाधिरूढस्यावनतेरनौचित्यं साधारणो धर्मः शब्दभेदेन निर्दिष्टः " इति । केचित्तु अत्र परिवारपदत्वपरिभोगयोग्यत्वयोरनर्थान्तरत्वादुदाहरणत्वमित्याहुः तन्न रुचिरम् तयोवा. क्यार्थगतसादृश्यरूपत्वाभावात्। ननु यथा 'पर्वतः एतद्वाह्विमान् एतद्धूमात्' इत्यत्र महानसस्य दृष्टान्ततानुचिता एवम् "एषा परिवा- रपदत्वायोग्या देवीत्वात्' इत्यत्र दैवतरूपाङ्कितरत्नस्य दृष्टान्ततानुचितेति चेन्न। तेन दृष्टान्तेन तद्दत्ति- सामान्यधर्मावच्छिन्नयोर्व्याप्तिसिद्धौ "यत्सामान्ययोर्व्याप्तिस्तद्विशेषयोः" इति न्यायेनोक्तविशेषनियम- सिद्धेरदोषात्। नियमविशेषरहितकेवलार्थमात्रस्य प्रकृतत्वे तु अप्रकृतवाक्यार्थनिरूपितमौपम्यम।त्रं गम्यम्। यथा 'भैरभ्रे भासते चन्द्रो भुवि भाति भवान्बुधैः' इति दिगित्युइ्चोते स्पष्टम्।। अन्त्याम् (मालारूपां प्रतिवस्तूपमाम) उदाहरति यदीति। व्याख्यातिदं सप्तमोल्लासे (३९३ पृष्ठे)। अत्र स्वाभाविककार्यदर्शनं न विस्मयकरमिति स्वाभाविककार्यदर्शनस्य विस्मयाजनकत्वं साधारणो धर्मः शब्दभेदेन निर्दिष्टः। एवं चानलादेर्दाहकत्वादिकं यथा स्वाभाविकत्वान्नाश्र्वर्याय

Page 695

६३६ काव्यप्रकाशः सटीकः । इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या। एवमन्यत्राप्यनुसर्तव्यम ॥। (सू० १५५) दष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥१०२॥ एंवं सतामविषादिता स्वाभाविकीति नाश्र्यायेत्यौपम्ये पर्यवसानमिति प्रतिवस्तूपमा। अत्र 'किमद्भु- तम्''कि तनः' 'सदैव' 'प्रकृतिरेव' इति विभिन्नशब्दैः अद्भुताभावरूपस्यकस्य सामान्यधर्मस्य वाक्यचतुष्टयेऽप्युपादानान्तालात्वम् । चतुर्थवाक्यं चोपनेयबोधकम् सतामविषादित्वस्य वर्णनीयत्वा- दिति द्रष्टव्यम। अत एव रविभट्टाचार्यैव्र्याख्यातम् अत्र प्रकृतिरेव सतामविषादितेत्युपमेयवाक्यम सतामविषादित्वस्योपमेयत्वात् स्वाभाविकत्वं समानो धर्मः प्रकृतिपदेनोपात्तः अनलद्दहनाद्रिगौरवमहोद- धिलवणादीन्युपमानानीति तत्तद्वाक्यमुपमानवाक्यम् 'किमद्भुतं" कि ततः' 'सदैव' इत्यायुक्तिमि:स्वा- भाविकस्वरूपसमानधर्मोपादानादेकत्रैव बहूपादानान्मालाप्रतिवस्तूपमात्वमितीति सुधासागरे स्पष्टम् ।। अन्यत्रापीति। वैधर्म्यस्थलेऽपीत्यर्थः। यथा 'चकोर्य एव चतुराश्रन्द्रिकापानकर्मणि । विना- वन्तीर्न निपुणाः सुदृशो रतनर्मणि ॥' राजशेखरकृतबालरामायणस्थपद्यम्। अत्रावन्त्य एव सुदृशो रतिनर्मणि निपुणा इत्येवंरूपे वैधर्म्यविपर्यये साधर्म्यपर्यत्रसानमिति प्रतिवस्तूपमा। तदुक्तं प्रताप- रुद्रयशोभूषणे "प्रतिवस्तूपमा साधर्म्यवैधम्यभ्यां द्विविधा। द्वितीया यथा 'प्रतापरुद्र एवैकः पटी- यान् जनरञ्जने। चन्द्राहते क्षमो नान्यश्रकोरपरितोषणे॥ ' अत्र चन्द्रेण यथा चकोरपरितोषः क्रियते तथा वीररुद्रेण जनरञ्जनं क्रियते इति वैधर्म्येणौपम्यं गम्यते" इति। उक्तं चोदयोतेऽपि "वैधर्म्येणाप्येषा दृश्यते 'वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः। न हि तुम्बीफलविकलो वीणादण्ड: प्रयाति महिमानम् ॥' इत्यादौ। यदयप्यत्र पुरुषः पूज्यत्वत्ान् सङ्गवशेषत्वादित्यर्थे तुम्बाफिलवैकल्यप्रयुक्तमाहिमाभावविशिष्टो वीणादण्डो न द्ृष्टान्तः तथाप्यनेन दृष्टान्तेन सङ्गविशे- षाभावप्रयोज्यपूज्यत्वाभाववानिति तद्व्यतिरेक आक्षिप्यते तत्र पूर्वोक्तरीत्या एकविशेषेSपरविशे- षस्य दृष्टान्तत्वाभावात्तदृत्तिसामान्यधर्मावच्छिन्नव्यतिरेक आक्षिप्यते सिद्धे च तस्मिन्नुपात्तविपरीतह- ष्टान्तेन तादृशसामान्यान्वयनियमसिद्वौ यत्सामान्ययोरिति न्यायात्तादृशविशेषावच्छिन्नकाव्योक्तान्व- यनियमासद्धिः। एवं च तुम्बीफलराहित्यवद्वािादण्डसदशः सङ्गविशेषाभाववान् पुरुष इति बोध: तुम्बीफलवद्वीणादण्डसदशः सङ्गविशेषवान् पुरुष इति वा बोधः" इति ॥ इति प्रतिवस्तूपमा ॥ १३ ॥ दृष्टान्तनामानमलंकारं लक्षयति द्ष्टान्त इति। अत्र 'वाक्यद्ये' इति पूर्वसूत्रादनुवर्तते। वाक्य- दये उपमेयवाक्ये उपमानवाक्ये च एतेषाम् उपमानोपमेयसाधारणधर्माणां सर्वेषां प्रतिबिम्बनं बिम्बप्राति- बिम्बभावः न त्वेकत्वमित्यर्थः द्ृष्टान्तः द्ृष्टान्तनामालंकार इति सूत्रार्थः । तथा च बिम्बप्रतिबिम्बभा- वापन्नसाधारणधर्मादिकं वाक्यार्थयोरार्थमोपेम्यं द्ृष्टान्तालंकार इति निष्कर्षः । विवरणकारास्तु "प्रति- वाक्यं विभिन्नस्यापि साधारणधर्मस्य तुल्यरूपतया वाक्यार्थयोरुपमासंपादकत्वे दृष्टान्तालंकार इति फलि- तम्" इत्याहुः। एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्योरर्थयोर्द्विरुपादानं बिम्बप्रतिबि- म्बभाव: इति प्रतापरुद्रयशोभूषणे स्पष्टम्। बिम्बप्रतिबिम्बभावश्र विशेषणयोविशेष्ययोश्र सादृश्यनिर्देशे भवति न त्वेकत्वस्य। अत एवोक्तमप्पय्यदीक्षितैः "वस्तुतो भिन्नयोरप्युपमानोपमेयधर्मयोः परस्परसा- १ वैधर्म्ध विरुद्धधर्मसंचन्धः ॥ २ अवन्तीः अवन्तिद्शोत्पन्नाः नारीः। विनाशब्दोऽत्र मिन्नार्थक: ॥ ३ साधम्यं समानधर्मसंचन्धः ॥ बिम्बप्रतिबिम्बभाव इति। बिम्बं शरीरम् प्रतिबिम्चं तच्छाया तथोर्भावः चिम्चप्रतिबिम्बत्व- मित्यर्थः आकारप्रत्याकारतुल्यत्वमिति यावत्॥ ५ व्याख्यातामिद्मोपम्यपदं प्राक् (६३४ पृष्ठे* टिप्पणे) ॥p

Page 696

दशम उल्लास:। ६६७

एतेषां साधारणधर्मादीनाम् दष्टोऽन्तः निश्चयो यत्र स दष्टान्तः । त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्दत्याः॥४५५॥ दृश्यादभिन्नयोः पृथगुपादानं बिम्बप्रतिबिम्बभावः" इतीति सारबोविनीसुधासागरयोः स्पष्टम्। अत्र पुनरित्यस्य ग्रहणं पूर्वतो ( प्रतिवस्तूपमातः) भेदप्रतिपादनाय । सर्वेषामित्यनेन विकल्पपरिहारेण समुच्चयसूचनम्। प्रतिबिम्बनमित्यनेनैकत्वनिरासः । अत एव प्रतिवस्तूपमातोऽस्य भेद: प्रतिवस्तू- पमायां साधारणधर्मस्यैकत्वात् अत्र तु भिन्नत्वादिति बोध्यम्। न चात्रोपमा यथेवादिशब्दाभावात् । नाप्यर्थान्तरन्यास: सामान्यविशेषभावाभावात्। अत एवोक्तं टीकाकारेः "अत्र सामान्यं सामान्येन विशेषो विशेषेण समर्थ्यंते अर्थान्तरन्यासे तु सामान्यं विशेषेण विशेषो वा सामान्येन समर्थ्यते इति ततो भेद:" इति। निदर्शनातो भेदस्तूदाहरणे प्रतिपादयिष्यते॥ एतत्पदार्थमाह साधारणधर्मादीनामिति। आदिपिदेनोपमानोपमेययोर्ग्रहणमिति प्रदीपादिषु स्पष्टम्। अत्रोपमानोपमेययोः यथासंभवं तत्संबन्ध्यर्थानां च ग्रहणम् । अत एव "प्रकृतवाक्यार्थ- घटकानामुपमानादीनां साधारणधर्मस्य च बिम्बप्रतिबिम्बभावे दष्टान्तः" इति रसगङ्गाधरे 'उपमा- नादीनाम्' इति बहुवचनं प्रयुक्तम् । तत्रोपमेयस्योपमानेन सह बिम्बप्रतिबिम्बभावः तत्संबन्धिनां तत्संबन्धिभि: साधारणधर्मस्य तु साधारणधर्मेणैवेति विवेकः । दृष्टान्तपद्योगमाह दृष्ट इति। गृहीतप्रामाण्यक इत्यर्थः । अन्तशब्दार्थमाह निश्चय इति। दार्टान्तिकवाक्यार्थनिश्र्वय इत्यर्थः दृष्टान्तवाक्यार्थे गृहीतसहचारेण दार्टान्तिकार्थप्रामाण्यनिश्र्यादित्यद्द्योते स्पष्टम् । एवं च यत्र दृष्टान्तवाक्येन दार्टान्तिकवाक्यार्थनिश्वयस्य प्रामाण्यग्रहो भवति स दृष्टान्तनामालंकार इत्यर्थः । "अन्तोऽध्यवसिते मृत्यौ स्वरूपे निश्रयेऽन्तिके" इति वैजयन्ती। व्याख्यातमिदं विवरणकारैरपि "निश्रयः प्रस्तुतस्यार्थस्य निःसंदेहा (निश्वितप्रामाण्या) प्रतीतिः सोदाहरणवाक्येन प्रतिपाद्यमानो ह्यर्थ: हेत्वाकाङ्भानिवृत्या असंशयमेव प्रतीयते । तदियं संज्ञा योगरूढिः" इति ॥ स चायं दष्टान्तः साधर्म्यवैधर्म्यां्यां ( समानधर्मसंबन्धविरुद्धधर्मसंबन्धाभ्यां) द्विधा भवतीत्यनु- पदं मूले एव स्फुटीभविष्यति। तत्र साधम्येण दृष्टान्तमुदाहरति त्वयीति । नायिकासख्याः नायकं प्रति उक्तिरियम्। मनोभवेन कन्दुर्पेण ज्वलितं तप्तं तस्याः नायिकायाः मनः त्वाय दृष्ट एव दृष्ट मात्रे सति निर्वाति शाम्यति (प्रसन्नं भवति ) तत्र दृष्टान्तमाह आलोके हीति। हिमांशोश्र्वन्द्रस्य आलाके दर्शने हि कुमुद्दत्याः कुमुदिन्या: कुसुमं कुमुदं विकसतीत्यर्थः। "आलोकस्तु पुमान् योते दर्शने बन्दिभाषणे" इति मेदिनी। "कुमुद्दती कैरविण्याम्" इति विश्वः । अत्र पद्ये त्वर्यात्यत्न सप्तमीनिर्देशात् हिमांशोरित्यत्र षष्ठीनिर्देशाञ्च मनोभवज्वलितप्रतिनिर्देश्यस्य रविकिरणज्वलितत्व- स्यानुक्त्या न्यूनत्वाच्चासंष्ठुलम् विषमम् असुन्दरम् इदं पद्यमित्युद्द्योते स्पष्टम्। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे। "अत्र वृपचन्द्रयोः नायिकांकुमुद्त्योः मनःकुसुमयोः मनोभेवज्वलितसूर्यकिरणज्वलितयोः निर्वा- १ योगं व्युत्पत्तिम ॥ २ नृरचन्द्रयोरिति । तदूपयोः रुबन्धिपदार्थयोरित्यर्थः ॥ 3 नायिकाकुमुद्दतयोरिति। तद्रपयोः संबन्धिपदार्थयोरित्यर्थः ॥ मनःकुसुमयोरिति। तद्रपयोरुपमेयोपमानयोरित्यर्थः ॥ ५ मनोभवेत्यादि। तद्रूपयोः संबन्धिपदार्थयोरित्यर्थः ॥

Page 697

६३८ काव्यप्रकाशः सटीकः।

एष साधर्म्येण । वैधर्म्येण तु तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटा: परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः ॥ ४५५ ॥ णप्रकाशयोश्रव (निर्वाणविकासयोश्र) बिम्बप्रतिबिम्बभावः [इति दृष्टान्तालंकारः ]। कुमुद्दत्याः कुसुमस्य हिमांशुदर्शने विकास इव तस्याः मनसस्त्वद्दर्शने उल्लास इति प्रतीयमानोपमायां मनः- कुसुमयोर्बिम्बप्रतिबिम्बभावापन्नयोः साधारणधर्मत्वम् । अत्र नृपदर्शनमनोभवज्वलितप्रकाशयोः (निर्वाणयोः) कार्यकारणभावनिश्रयो 'यद्यदन्वयानुविधाय तत्तज्जन्यम्' इति व्याप्त्या दृष्टान्त- गृहीतसहचारनिश्रयप्रयुक्तया भवतत्यन्वर्थसंगिः । न च हिमांशोरालोके यथा कुमुद्दतीकुसुमं विकसति तथा त्वय दृष्टे तस्याः मनो हृष्यतीति उपमां विना पूर्वोत्तराधयोरसंबन्धान्निदर्शनासंकर: तत्र साधारणधर्मानुपन्यासात् अत्र वाक्यार्थयोः स्वस्वार्थे निरपेक्षत्वात् निदर्शनायां तत्रापपि सापेक्ष- त्वाच्च" इत्युद्योते स्पष्टम्। उक्तं च प्रभायामपि "निर्वाति विकसतीति निर्वाणविकसनयोर्भेदेऽपि सादृश्याद्विम्बप्रतिबिम्बरूपता। प्रतिवस्तूपमायां तु शुद्धसमानधर्म एवेति भेदः । न च यथा हिमांशोरा- लोके कुमुदं विकसत तथा त्वाय दृष्टे तस्याः मनः प्रसीदतीत्युपमां विना पूर्वोत्तरार्धयोरसंबन्धा- न्रिदर्शनात्वमाशङ्कनीयम् निदर्शनायां समानधर्मानुपादानेनासंभवमात्रप्रयुक्तत्वादुपमाकल्पनायाः इह तु बिम्बप्रतिबिम्बाभावापन्नधर्मवशेनोते भेदात्" इति । अत्र पूर्ववाक्यमुपमेयवाक्यम् उत्तरवाक्यमुप- मानवाक्यम्। अत्र दृष्टान्तो न व्यतिरकेण दत्त इति साधर्म्योदाहरणमिदस्। एष: दर्शतदृष्टान्तालंकारः । साधर्म्येण समानधर्मसंबन्धेन। वैधर्म्येणेति। विरुद्धधर्मसंबन्धे- नेत्यर्थः विपर्यये साधर्म्यपर्यवसायनेति भावः । वैधर्म्येण दृष्टान्तमुदाहरति तवेति । हे राजन् आहवे यु्द्धे साहसम् आत्मनिरपेक्षं यत् कर्म व्यापारस्तेन शर्म सुखं यस्य ताद्ृशस्य करं पाणिं कृपाणान्तिकं खङ्गसमीम् आनिनीषतः आनेतुमिच्छतः (न तु आनीतवतः) तव परेषां शत्रूणां भटाः योद्धारः विशरारुतां विशीर्णताम् (पलायमानताम्) अगुः प्रापुः उत्कटभयादिति भावः। तत्र दृष्टान्तमाह दधताति। पांसवो रजांसि हि निश्र्येन अवाते अनिलाभावे स्थिरतां दधतीत्यर्थः । "साहसं तु दमे दुष्करकर्मणि। अविमृश्यकृतौ धाष्टर्चे" इति हैमः । "स्यादानन्दथुरानन्दशर्म- शातसुखानि च" इत्यमरः। "परः श्रेष्ठारिदूरान्योत्तरे कीबं तु केवले" इि मेदिनी। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे। अत्र 'वाते तु पांसवः स्थिरतां न दधति' इत्येवंरूपे वैधर्म्यविपर्यये साधर्म्यपर्यवसानमिति दृष्टान्ता- लंकारत्वम्। अत्र पांसुभटयोः पलायनास्थिरत्वयोर्बिम्बप्रतिबिम्बभावः। उक्तं च विवरणकारैः "अत्र पलायनास्थिरत्वयोधर्मयोर्भेदः। परं तु देशान्तरसंयोगजनकत्वरूपस्य साधारणधर्मस्य सत्त्वादनयो- रुपमा ततश्र प्रकृतवाक्यार्थयोरुपमा" इति । "अत्र आहववातसंबन्धिभङ्गरत्वास्थिरत्वयोरुपमानो- पमेयभावः" इत्युद्चोतः ॥ इति दृष्टान्तः ॥ १४॥ १ निर्वाणविकासयोरिति। तदूपयोः साधारणधर्मयोरित्यर्थः ॥ २ मनःकुसुमयोरिति । मन इत्युपमेयम् कुसुम- मित्युपमानम् तयोरित्यर्थः॥ 3 साधारणधर्मत्वमिति। साधारणो धर्मो ययोस्तौ साधारणधर्माणौ तयोर्भावः साधा रणधर्मत्वम् साधारणधमविशिष्टत्वमित्यर्थः साधारणधर्मवत्त्वमिति यावत्। यद्ा 'साधारणधर्मत्वम्' इत्यस्य लेखक- प्रमाद्पतितत्वात् 'साधारणधर्मवत्वम्' इति पाठ एव ऊहनयः ॥

Page 698

दशम उल्लास: । ६३९

(सू० १५६) सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्। सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ।१०३। प्राकरणिकाप्राकरणिकानाम् अर्थात् उपमानोपमेयानाम् धर्मः क्रियादि: एकवार- मेव यत् उपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनात् दीपकम्। यथा दीपकनामानमलंकारं द्वेधा लक्षयति सकृद्वत्तिरिति । वृत्तिरुपादानम्। प्रकृतं प्राकरणिकम् उपमेयम् अप्रकृतम् अप्राकरणिकम् उपमानम् तदात्मनां तद्रूपाणां धर्मिणां धर्मस्य क्रियादिरूपस्य सकृद्वत्तिः एकवारमेवोपादानं यत् तत् एकं दीपकम् (क्रियादिदीपकम्)। बह्वीषु क्रियासु सतीषु कारकस्य "कर्ता कर्म च करणं संप्रदानं तथैव च। अपादानाधिकरणमित्याहुः कारकाणि षट् ॥" इत्युक्तेषु षट्सु कारकेषु मध्ये कस्याप्येकस्य कारकस्य सैव सकृद्वत्तिरेव द्वितीयं दीपकम् (कारकदीपकम्)। इतिशब्दः प्रकारे तेनोक्तप्रकारद्वयवत् दीपकमिति कारिकार्थः। तथा च दीपकं द्विविधम् एकस्य धर्मस्य एकवारं प्रस्तुताप्रस्तुतोभयवृत्तित्वे एकम् अपरं च एकस्य कार- कस्य एकवारमेवानेकासु क्रियासु संबन्धे इति।। कारिकाया: पूर्वार्ध व्याचष्टे प्राकरणिकेत्यादिना। प्राकरणिकाप्राकरणिकानामित्यत्र "अल्पाच्तरम्" (२।२।३४) इति पाणिनिसूत्रेण प्राकरणिकपदस्य पूर्वनिपातः (पूर्व प्रयोग:)। अर्थादिति [ प्रकृ - ताप्रकृतयोः सजातीयधर्मसंबन्धस्योपमायां पर्यवसानादिति भावः । सा चोपमा व्यङ्गयैव वाचक(इवा- दिशब्द) विरहात्। व्यङ्ग्याया अप्यस्याः वाच्यापकारकत्वात् गुणीभूतव्यङ्गचत्वमेव न तु ध्वनित्वम्। अतोऽत्रे नोपमाशङ्केत्युदयोते स्पष्टम्। उक्तं च विवरणकारैरपि "प्रथमप्रभेदस्थले उपमाप्रतीति बिना वाक्यार्थस्य पर्यवसानात् नोपमा प्रथमं बोध्यते किं तु व्यज्यते इति नात्रोपमा। एकस्यापि धर्मस्य द्विरवृत्तेः वाक्यद्वयस्याभावेन च न प्रतिवस्तूपमादृष्टान्तौ" इति।उपमानोपमेयानामिति । अत्र "अभ्यर्हितं च" इति वार्तिकेनापमानपदस्य पूर्वनिपातः। उपमेयोपमानानामित्यर्थः । एवं चोपमान. पदस्य पूर्व प्रयोग: द्वन्द्वसमासमात्रनिमित्तक इति बोध्यम। क्रियादिरिति। आदिशब्देन गुणसंग्रहः । सकृदित्यस्यार्थमाह एकवारमेवेति । वृत्तिशब्दार्थमाह उपादीयते इति। तदिति। तद्धर्मस्य सकृदुपादानमित्यर्थः । दीपकपदयोगैमाह एकस्थस्यैवेत्यादिना। एकत्र तिष्ठतीत्येकस्थस्तस्यैव सर्व- वाक्यदीपकैत्वेन दीपसाम्यात् दीपकमित्यर्थः । प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्र (अप्रस्तु- तेऽपि) उपकरोति प्रासादार्थमारोपितो दीपो रथ्यायामिवेति दीपसाम्यमिति भावः 1 कथं एवं च दीप इव दीपकम्। "संज्ञायां च" (५३९७) इति पाणिनिसूत्रेण प्रकृतिप्रत्ययसमुदायेन संज्ञायां ज्ञायमानायामिवार्थे कन्प्रत्ययः । प्रकृताप्रकृतप्रकाशकत्वेन च सादृश्यमिति बोध्यम्। अन्ये तु प्रकृता- र्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति (सुन्दरीकरोति) इति दीपकम् 'दीपी दीप्तौ' इति दिवादिगणपठिताद्दीप्धातोर्णिजन्तात् "पवुल्तृचौ" (३।१।१३३) इति पाणिनिसूत्रेण कर्तरि ण्वुल्प्रत्ययः तस्य "युवारेनाकौ" (७१।१) इति सूत्रेणाकादेश इत्याहुः। एवं च मतद्येऽपि सकलवाक्योपकारकत्वं दीपकसामान्यलक्षणमिति फलितमिति बोध्यम् । १ अत इति। वाचकविरहादित्यर्थः । २ अत्र प्रथमदीपके ॥ ३ उपमेयापमानानामिति। "समुद्राभ्राद्वः" (n४११८) इति पाणिनिसूत्रनिर्देशात् पूर्वनिपातप्रकरणस्यानित्यत्वेनात्रोपमेयपदस्य पूर्वनिपातो बोध्यः॥ *योगं व्युत्पत्तिम् ॥। ५ प्रकाशकत्वेन ।I

Page 699

६४० काव्यप्रकाशः सटीकः।

किवणाणँ धर्ण णाआणं फणमणी केशराइँ सीहाणं। कुल चालिआणँ त्थणआ कुत्तो छिप्पन्ति अमुआणं ॥। ४५७॥ कारकस्य च बह्वीषु क्रियास सकृद्वत्तिर्दीपकम्। यथा तथा च इदं हिं प्रथमदीपकं द्विविधम् क्रियादीपकं गुणदीपकं चेति। तत्रायं क्रियादीपकम् उदा- हरति किवणाणमिति। "कृपणानां धनं नागानां फणमाणिः केसराः सिंहानाम्। कुलबालिकानां स्तनाः कुतः स्वृश्यन्तेऽमृतानाम् ॥" इति संस्कृतम्। "कुलपालिकानाम्" इत्यप संस्कृतं पठन्ति। अमृतानामिति विशेष्यचतुष्टयेऽप्यन्वेति। अमृतानां जीवितां कृपणानां लुब्धानां धनम् नागानां सर्पाणां फणमणिः फणारत्नम् सिंहानां केसरिणां केसराः स्कन्धलोमानि कुलबालिकानां कुलाङ्गनानां (सतीनां ) स्तना: कुतः स्पृश्यन्ते न कथंचित् स्प्रष्टुं शक्यन्ते इत्यर्थः । "केसरो नागकेसरे । तुरङ्गासिंहयो: स्कन्धकेशेषु बकुलद्रुमे" इति हैमः। "केसरं हिङ्गनि कीबं किञ्जल्के न स्त्रियां पुमान् : सिंहच्छटायां पुंनागे बकुले नागकेसरे" इति मेदिनी च। गाथेयं मुखविपुला। लक्षणमुक्तं प्राक् १३३ पृष्ठे॥ अत्र वर्णनीयत्वेन प्रकृतानां कुलवधूस्तनानां तदुपमानत्वेनाप्रकृतानां कृपणधनादीनां च स्पर्शन क्रियारूपसाधारणधर्मस्य सकृदुपादानमिति क्रियादीपकालंकारोऽयम्। तदुक्तं प्रदीोद्दचोतयोः "अत्र च्छिप्पन्तीति सकृदुपात्तम् प्रकृतत्वात् कुलपालिकानां स्तना उपमेयाः अन्येषां तूपमानत्वम् । अत्र तत्तदुपमानैः प्रत्येकमौपम्यप्रतीतिः । अत्र क्रिया साधारणधर्मः" इति॥ संस्कृते उदाहरणं यथा 'भूष्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासेः। ब्रह्माण: श्रतिगदितैः क्रियाकलापैः राजानो विरलितवौरभः प्रतापैः ॥' इति अन्त्यस्य गुणदीपक- स्योदाहरणं तु 'श्यामला प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिमिः। भुवश्र सुकुमाराभिर्नवशाद्लरा- जिभिः ॥' इति। प्रावृषेण्यामिः प्रावृडभवाभिः वर्षाकालभवाभिः "प्रावृष एण्य: " (४।३१७) इति पाणिनिसूत्रेण एण्यप्रत्ययः । नवशाद्वलराजिभि: नूतनतृणहरितीकृतप्रदेशैः। "शाद्लः शादह- रिते" इत्यमरः । अत्र श्यामलत्वं साधारणो धर्मः । अत्र भुवश्रेति चकारेण पूर्ववाक्यगतस्य 'श्यामलाः' इति गुणवाचकपदस्य परामर्श इति गुणदीपकमिदम् । यत्तु 'वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्वरी। उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्माः ॥ मादन्ति चातकास्तृप्ताः माधन्ति च शिखावलाः।' इत्यादावावृत्तिदीपकम् । क्वचिच्छब्दस्यार्थस्योभयावा आवृत्तेरिति तन्न। धर्मस्य सकृदुपादानाभावात् प्रकृताप्रकृताभयवृत्तित्वाच्च। एषु च वाचकलुप्तोपमैवेत्याहुः प्रकाशानुसारिण इत्युद््योते स्पष्टम्। कारिकाया: उत्तरार्ध व्याचष्टे कारकस्य चेत्यादिना। 'कारकस्य' इत्यस्य सकृद्वत्तिः इत्यनेना- न्वयः। क्रियास्विति सर्ताष्विति शेषः । सैवेति व्याचष्टे सकृद्वत्तिरिति। दपिकमिति। कारक दीपकमि:यर्थः। "अत्र 'कारकस्य क्रियासु' इत्युक्त्या क्रिया तिङन्तादिवाच्यासत्त्वभूता ग्ृह्यते असत्त्वभूतायाश्र्वोपमानत्वाभावः सनसूत्रे भाष्ये 'न वै तिङ्तेनोपमानमस्ति' इति ग्रैन्थेन प्रतिपादित १ ब्राह्मण इति। ब्राह्मणा इत्यर्थः। "बह्म तत्व्रतपोवेदे न दयोः पुंसि वेधसि। ऋत्विग्योगविदोर्विप्रे " इति मेदिनी ॥ २ आदिना तुमुनन्तादिसंग्रहः ॥ 3 असत्त्वभूतत्वं च प्राकू द्वितीयोल्लासे ३५ पृष्ठे २५ पङ्टै निरूपितम् ॥ ४ सन्तूत्रे इति। सन्विधायकसूत्रे इत्यर्थः। "धातोः कर्मणः समानकर्तृकादिच्छायां वा " (३।१।१७) इति पाणिनिसूत्रे इति यावत् ॥५ भाष्ये इति । पतञ्जलिरुते महाभाण्ये इत्यर्थः ॥ ६ ग्रन्थेनेति। अस्यार्थस्तु 'लिम्प- तीव०' इत्युदाहरणे ५८७ पृष्ठे २ पङ्ठौ स्फुटीकृतः ॥

Page 700

।. दशम उल्लासः। ६४१

स्विद्यति कूणति वेललति विचलति निमिषति विलोकयति तिर्यक्।एगए अन्तर्नन्दृति चुम्बितुमिच्छति नवपरिणया वधू: शयने ॥४५८॥ (सू० १५७) मालादीपकमाद्यं चैद्यथोत्तरगुणावहमू। इति अत्रोपमानोपमेयभावाप्रतातिः पूर्वस्मिंस्तु तत्प्रतीतिरिति भेदः एककर्तृकत्वादिधर्मकृतसादृश्य- स्याचमत्कारित्वाच्च। इदं च कारकदीपकं प्रकृतानामेवाप्रकृतानामेव प्रकृताप्रकृतानां च। अनेक- चमत्कारिक्रियावौशिष्टयेन वर्ण्यकारकोत्कर्षकतया चमत्कारित्वनास्यालंकारत्वम्। एतेन दीपके सर्व- त्रौपम्यस्य गम्यत्वादस्य दीपकत्वं चिन्त्यम् स्विद्यतीत्युदाहरणे क्रियाणां सादृश्यावगतावपि सर्वासां प्रकृतत्वात्कारकतुल्ययोगितात्वमेवोचितमिति च परास्तम्। तुल्ययोगिता त्वौपम्यगर्भैवोति वक्ष्यते" इत्युझ्चोते स्पष्टम् । कारकदीपकम् उदाहरति। स्विद्यतीति। नवः परिणयो विवाहो यस्याः सा नवपरिणया नवोढा वधू: नायिका शयने भर्तृपल्यङ्के स्विद्यति स्वेदं प्रापोति। स्वेद: सात्त्विको भावः। सत्त्वमत्र जीवच्छरीरमिति प्राक् प्रतिपादितम्। दयिते परिरम्भोद्यते सति कृणति संकुचति अङ्गेषु संकोचमालम्बते। 'कूण संकोचने' इति चुरादिगणे धातुः । 'अनित्यण्यन्ताश्चुरादयः' इति "ऋदु- पधाच्चाक्लपिचृतेः" (३१।११०) इति पाणिनिसूत्रस्थवैयाकरणसिद्धान्तकौमुद्युक्तरीत्या णिजभावे 'कीर्त्यम्' इतिवत् कूणतीति रूपम् । ततोऽप्यनिवर्तिनि वेल्लति वृत्तवर्तनं करोति । विचलति परि- वृत्य शेते। विवलतीति पाठे विशेषतः चपलायते इत्यर्थः। निमिषति मृषा नेत्रे मुद्रयति आहार्य- निद्रया नेत्रे मुद्रयतीति यावत्। विलोकयति तिर्यक वक्रतया नेत्रत्रिभागेन मुखमवलोकयति। नाय- कबैमुख्यसंभावनातो भयात्तिर्यग्विलोकनम्। अन्तः नन्दति हृष्यति नवोढातवेन बहिरानन्दाप्रकाशा- दिति भाव: । अत एव चुम्बितुमिच्छति न तु चुम्बतीत्यर्थः । परिणयस्यैव नवत्वम् न तु परिणी- तायाः। "वधूर्जाया स्नुषा स्त्री च' इत्यमरः "वधुः पत्न्यां स्नुषानार्योः स्पृक्कासारवयारेपि। नवप- रिणीतायां च" इति हैमश्र। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्रानेकासु क्रियासु एकस्य वधूरिति कर्तृकारकस्य शयने इत्यधिकरणकारकस्य वा सकृदुपादा- नमिति कारकदपकालंकारोऽयम्। अत्र सर्वक्रियाणां प्रकृतत्वमेव। अप्रकृतानामेव यथा 'दूरीकरोति कुमति विमलकिरोति चेतश्विरंतनमघं चुलकीकरोति। भूतेषु कि च करुणां बहुलीकरोति सङ्ग: सतां किमु न मङ्गलमातनोति ॥" इति। अत्र सर्वक्रियाणामप्रकृतत्वमेव। प्रकृताप्रकृतानां यथा 'वसु दातुं यशो धातुं विधातुमरिमर्दनम्। त्रातुं च मादृशान् राजन् अतीव निपुणो भवान् ।।' इति । अत्र वसुदानस्वत्राणरूपयोः प्रकृतयोः क्रिययोः अरिमर्दनयशोधानयोश्राप्रकृतयोरेकस्य नृपरूपकारक- स्यान्वयः । अत्र तुमुन्प्रत्ययेनासत्त्वभूत एव भावोऽभिधीयते न तु 'पाकः' इत्यादौ घञ्रादिप्रत्य- येनेव सत्त्वभूतो भावः। तदुक्तं वैयाकरणसिद्धान्तमञ्जूषायां कदर्थविचारे (५४ पत्रे) नागो जीभट्टैः "तुमुनादीनामसत्त्वरूपो भाव एवार्थः 'अव्ययकृतो भावे' इत्युक्तेः पाक इत्यादाविव तुमनर्थे वैलक्ष- ण्याननुभवात्। एवं चायं धात्वर्थानुवादक एव" इति॥ मालादीपकं लक्षयति मालादीपकभित्यादिना। यथोत्तरेत्यस्य वीप्सितत्वात् आद्यमित्यत्रापि वीप्सा १ नाशयति ॥ २ संपादयितुम् ॥ ३ कर्तुम् ॥सत्त्वभतो भावोऽपि प्राक् ३५ पृष्ठे २७ पङ्गो निरूपितः ॥ ५ अध्ययोति। इदं वचनं महाभाष्ये दृश्यते इति प्राक् ५७२ पृष्ठे ९ पङ्गो उक्तम् ॥ ८१

Page 701

६४२ काव्यप्रकाशः सटीकः।

पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम्। यथा संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शरा: शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥४५९॥ (सू० १५८) नियतानां सकृद्दर्मः सा पुनस्तुल्ययोगिता ॥ १०४ ।।

बोध्या। तथा च आद्यमित्यस्य आद्यमाद्यमित्यर्थः पूर्व पूर्व वस्तु इति यावत् यथोत्तरम् उत्तरमुत्तरं वस्तु प्रति गुणावहम् उपकारकं चेत् मालादीपकमित्यर्थः ॥

सूत्रे यथोत्तरमिति वीप्साश्नुतेराद्यमित्यत्रापि वप्सिा वक्तव्येति प्रतिपादयति पूर्वेण पूर्वेणेति। उत्तरमुत्तरं परं परं वस्तु। गुणावहत्वं विवृणोति उपक्रियते इति। उपकारविषयीक्रियते इत्यर्थः । "उपक्रियते। उपरज्यते विशेष्यते सविशेषणीक्रियते" इति विवरणकाराः। "उपक्रियते प्रकृतो- त्कर्षायोन्मखीक्रियते" इति सारबोधिनीकाराः। तत् तदा। मालादीपकमिति। उत्तरोत्तरस्य पूर्वपूर्वो- त्कर्षकत्वे त्वेकावलीति ततोऽस्य भेदः। मालोपमादीनां बहूपमानसंबन्धान्नापरो विशेष इति न ते लक्षिता: इदं तु पृथक् लक्षितम् उत्तरोत्तरमुपकार्योपकारकतया परस्परसंसर्गेण मालाभावमापन्नानां सकृद्दर्मनिर्देशरूपत्वेनाधिकविशेषानुप्रवेशादिति प्रदीपे स्पष्टम्।

मालादीपकमुदाहरति संग्रामोति। व्याख्यातमिदं पद्यं सप्तमोल्लासे (३५० पृष्ठे) इति बोध्यम्। अत्र 'संप्राप्ते परिपन्थियोधनिवहे सांमुख्यमासादितम्' इति द्वितीयपादपाठः प्रदीपादौ दृश्यते स च सप्तमोल्लासोक्ताभवन्मतयोगदोषपारहाराय कल्पित इति बोध्यम्। अत्र कोदण्डेन अरिशिरः प्रापयता शरा उपक्रियन्ते शरैरपि भूमडण्लं प्रापयद्भिररशिरः उपक्रियते शिरसापि सन्नायकं त्वां लम्भयता भूमण्डलम् भूमण्डलेन च कीर्तिमासादयता नृपतिः नृपेणापि त्रैलोक्यं व्यापयता कीर्तिरिति पूर्व- पूर्वेभ्यः परपरस्योपकारः । एकस्या आसादनक्रियायाः सर्वत्र संबन्धादृपकता। अत्र शरादीनामरि- शिरःप्रभृरतानां च सादृश्यमपि व्यङ्ग्चमित्युद्दयोते स्पष्टम् । अत्र पूर्वोक्तेन कोदण्डेन समासादनक्रिया- द्वारा परोक्ताः शरांः सविशषणीक्रियन्ते तैश्वरिशिरः एवं परत्रापीति विवरणकाराः। अत्र कोदण्डा- दिभि: पूर्वपूर्वैरु त्तरो त्तरेषामा सादन क्रि या क र्मी करण रूपो प का रा् सप्ू लोक राज्यलोक त्रयव्य पिकीर्ति- लाभान्तृपतेरुत्कर्षः प्रत्याय्यते। यथा मालायां पूर्वपूर्वग्रथितपुष्पाणामुत्तरोत्तरधारणादुपकारकत्वम् तद्वदत्रापि मालारूपतोत सारबोधिनीकाराः ॥ इति दीपकम् ॥१५॥

तुल्ययोगितानामानमलंकारं लक्षयति नियतानामिति। 'धर्मः' इत्यनन्तरं 'यहुपादीयते' इति शेषः। यथा वा पूर्वसूत्रात् 'वृत्तिः' इत्यनुवर्तते तञ्च "अर्थवशाद्विभक्तिपरिणामः " इति न्यायेन 'वर्त्यते' इति विपरिणम्यते। वर्त्यते उपादीयते इत्यर्थः । पुनः शब्दस्त्वर्थे। तथा च नियतानां वर्ण- नयित्वेन प्रकृतानामेव अन्योपमानत्वेन अप्रकृतानामेव वा धर्मः साधारणधर्मः (गुणक्रियान्यतररूपः गुणक्रियादिरूपो वा ) सकृत् एकवारमेव यत् उपादीयते सा धर्मस्य सकृदुपादानरूपा तुल्ययोगि- १ आदिपदेन एककालिकत्वादिपरिग्रहः। स्पष्टकितमिदं चतुर्थोल्लासे 'गाढकान्त०' इति ६३ उदाहरणे १३८ पृष्ठे ॥

Page 702

दशम उल्लास: । ६४३

नियतानां प्राकरणिकानाजेव अप्राकरणिकानामेव वा। क्रमेणोदाहरणम्। पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः। आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥ ४६० ॥ तेत्यर्थः। एवं च केवलप्रकृतानां केवलाप्रकृतानां वा गुणक्रियादिरूपैकधर्मान्वयस्तुल्ययोगितालंकार इति भावः । तुल्ययोगितत्यन्वर्थेयं संज्ञा। तथा चाहुः कुवलयानन्दकारिकाव्याख्यायामाशाधरभट्टाः "तुल्या योगिता अन्वयो यत्रेति व्युत्पत्तेः" इति। वस्तुतस्तु तुल्यश्रासौ योगः संबन्धश्र अन्वयश्र तुल्ययोगः एकधर्मान्वय इत्यर्थः सोऽस्ति येषां ते तुल्ययोगिन: तेषां भावसतुल्ययोगितेति व्युत्प- त्तिरिति बाध्यम्। पुनरित्यस्य ग्रहणं प्रथमदीपकतो भेदप्रतिपादनाय। प्रकृताप्रकृतयोरपि साधारण- धर्मस्य सकृदुपादाने प्रथमं दीपकम् प्रकृतानामेव अप्रकृतानामेव वा साधारणधर्भस्य सकृदुपा- दाने तुल्ययोगितेत्यनयोर्भेद:॥ नियतानामिति व्याचष्टे प्राकरणिकानामेवेत्यादि। केवलप्रस्तुतानां केवलाप्रस्तुतानां वेत्यर्थः। अत्र बहुवचनमनेकार्थकम् द्वयोर्धर्मैक्यस्यापि संग्राह्यत्वात्। अत एव 'संकुचन्ति सरोजानि स्वैरिणीवद- नानि च' इत्यादौ कुवलयानन्दकारोक्ततुल्ययोगितालंकारसिद्धिः। अत एव च रसगङ्गाधरे उक्तम् "प्रिये" विषादं विजहीति वाचं प्रिये सरागं वदति प्रियायाः। वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्वव मान: ॥' अत्र मानिन्याः वर्ण्यत्वात् तदीयत्वेन प्रकृतयोः कत्रोरेश्रुमानयोविर्गलनक्रिया समानधर्मत्वनोपात्ता [इति तुल्ययोगितालंकार: ]" इति। " एवं च प्राकरणिकाप्राकरणिकोभयावृत्तित्वे सति औपम्याक्षेपकत्वं लक्षणम्। सत्यन्तेन दीपकव्यदासः। न चाक्षेपलभ्यसाम्ये व्यतिरेकभदेऽति- व्याप्ति: तत्रोपमेयाधिक्यकृत एव चमत्कारो न तु साम्यप्रतीतिकृत इति विशेषात्। उपमेयानाधिक्येन विशेषणान्न दोष इत्यन्ये। औपम्यं चात्र गम्यम् तत्प्रैयोजकसमानधर्मोपादानात् वाचकाभावाच्च धर्म- वाचकपदैस्तत्तद्रूपेण धर्मभानेऽपि सादृश्यत्वरूपेणाभानात् " इत्युइयोते स्पष्टम्। तथा चाहुः प्रतापरु- द्रकारा अपि "प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोोगिता ॥" इति। अत्र सूत्रे सकृत्पदोपादानात् यत्र प्रतिस्वं (प्रत्येकं ) भिन्नाः धर्माः एकस्यैव वा सर्वत्रोपादानं तत्र नातिप्रसङ्गः। प्रतिस्वं (प्रत्येकं) यथा 'मुखं विकसितास्मितम्०' इत्यादौ (५६ पृष्ठे)। एकस्यैव यथा 'दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव। तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ।I' इत्यादाविति प्रदीपप्रभयोः स्पष्टम् ॥ तत्र प्राकरणिकानामेव धर्मस्य यत् सकृदुपादानं तद्रूपां तुल्ययोगितामुदाहरति पाण्डिति। व्याख्यां- तमिदं पद्यं सप्तमोल्लासे (४४८ पृष्ठे ) इति बोध्यम्। अत्र विरहानुभावत्वेन प्रकृतानामेव पाण्डुता- दीनां धर्मतया आवेदमक्रियारूपः साधारणो धर्मः सकृदुपात्त इति तुल्ययोगितालंकारः। तदुक्त प्रदी- पोद्दयोतयोः। "अत्र प्रकृतानां विर्राहणीवदनादीिामेव धर्मत्वेनावेदनाख्यो धर्मः उपात्तः न तूपमान- १ तुल्ययोगिन इति। ते च प्राकरणिका एवाप्राकरणिका एव वेति बोध्यम् ॥ २ भाव इति। एकधर्मान्वय इत्यर्थः एकधर्मसंबन्ध इति यावत्। ३ संकुचन्तीति। सरोजानि कमलानि च परं वैरिणीवदनानि जारस्त्री- मुखानि संकुचन्ति निमीलन्ति। 'चन्द्रोदये' इति शेषः। अत्र प्रस्तुतचन्द्रोद्यकार्यतया वर्णनीयानां सरोजाना प्रकाशभीरुस्वैरिणीवदनानां च संकोचक्रियारूपैकधर्मान्वय इति तुल्ययोगितालंकारः ॥ परिये इति। इद संबोधन- विभक्त्यन्तम्। द्वितीयं 'प्रिये' इति सप्तम्यन्तम्। एवं 'वद्ति' इत्यपि सप्तम्यन्तम् । प्रियायाः नेत्राभ्यां हृदश्य जलानां बह्ढी धारा मानश्र च्युतः इत्यर्थः ॥ ५ तत्प्रयोजकेति। औपम्यप्रयोजकेत्यर्थः ॥ ६ वाचकाः इवाद्यः।।

Page 703

६४४ काव्यप्रकाश: सटीक:।

कुमुदकमलनीलनीर जालिर्ल लित विलासजुषोई्शो: पुरः का अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य । ४६१।।

रोगधर्मतया" इति प्रदीपः । (प्रकृतानामिति। विरहानुभावत्वेनेत्येर्थः। वदजादीनाम्। पाण्डत्वा- दिविशिष्टानाम्। न तूपमानरोगेति। [न त्] उपमानरोगजपाण्डतादीत्यर्थः। अत्रवेदनक्रियया विरह- रोगयोरौपम्यप्रतातिः। वर्ण्यनायिकासंबन्धित्वेन विरहरोगयोः (विरहस्य) प्राकरणिकत्वप्। 'अचि- कित्स्यत्वरूपं क्षेत्रियत्वं साधारणो धर्मः' इत्यन्ये। अन्र क्रियारूपधर्मैक्यम्) इत्युइ्चोतः। उक्ते च निदर्शनाख्यर्टाकायामानन्दकविनापि "अत्रावेदनक्ियाख्यो धर्मो विरहानुभावत्वेन प्रकृतानामेव पाण्डुत्वादीनां सकृद्दुपात्तः न त्वप्रकृतस्योपमानस्य क्षेत्रियरोगस्य संबन्धितया " इति ॥प्ज - अप्राकरणिकानामेव धर्मस्य यत् सकृदुपादानं तद्रूपां तल्ययोगितामदाहरति कुमुदेति। नायिकां प्रति नायकस्योक्तिरियम्। हे कान्ते ललिनविलासजुनोः मनोहरकटाक्षादिचेष्टाभाजो: तव हशोः नेत्रयोः पुरः अग्रे कुमुदानि श्वेतकमलानि कमलानि (अर्थात्) रक्तकमलानि नीिनीरजानि नलिकमलानि च तेषाम् आलि: पक्कि: का कः पदार्थः न मनागपि शोभते इत्यर्थः ।अत्र प्रसादे कुमुदसाम्यम् माने रक्तकमलसाम्यम् प्रकृतदशायां नीलनीरजसाम्यमिति बोध्यम्। कि च तव आननस्य पुरः अमृतं पीयूषम् अमृतरश्मिश्रन्द्रः अम्बुजन्म पहं च एकपदे युगपदेव प्रतिहतं निर्जितमित्यर्थः। पुष्पिताय्रा छन्दः। लक्षणमुक्तं प्राक ९६ पृष्ठे।। अत्र पूर्वारधे कामिनीनयनोपमानत्वेनाप्रकृतानामेव कुमुदादीनां धर्मतया कापदव्यङ्गयोऽधिक्षेपः (तिर स्कार:) उपात्तः उत्तरारधे आननोपमानत्वेनाप्रकृतानामेवामृतादीनां धर्मतया प्रतिहतत्वं चैको धर्म उपात्त इति उभयत्र तुल्ययोगितेयम्। अधिक्षिप्तत्वेन कुमुदादीिाम् प्रतिहतत्वेन चामृतादीनां परस्परं साम्यप्रतातिः। अत्र साम्यप्रतातावपि तावन्मात्रकृतो न चमत्कारः किं त्वेकधर्मन्वयकृतोऽपि अतो गम्योपमया न निर्वाहः। 'जगाल मानो हृदयादमुष्या विलोचनाभ्यामिव वारिधारा:' इत्यत्र न तुल्य- योगिता सादृश्यप्रतीत्यैव चमत्कारात्। 'चन्द्र एव सुन्दरं मुखम्' इत्यत्र च न दीपकम्। एवं 'प्रदी- यते परा भूतिर्मित्रशात्रवयोसत्वया' इत्यत्रापीयमेत 'प्रदीयते पराभूतिः' इति शब्द्स्य श्लेतमूलकामेदा- ध्यवसायेनाभिन्नीकृततदर्थस्य वा धर्मस्यैक्यात्। ताहशधर्मेण तयोः साम्यप्रतीतौ हिताहितविषयकतुल्य- कर्तृत्वरूपं व्यङ्गचं वाच्यराजोत्कर्षकतया गुणीभूतं प्रतीयने इत्यन्यद्तेत्। नैतावतास्य तुल्ययोगिता- न्तरत्वं वक्तुं युक्तम्। 'लोकैपालो यमः पाशी श्रीदः शको भवानपि' इत्यत्र तु उक्त दपकमेवेति दिगित्युक््योते स्पष्टम् ।। इति तुल्ययोगिता ॥ १६॥ १ "स्त्रीणामीर्ण्याकतः कोपो मानोऽन्यासङ्गिनि प्रिये" इतिलक्षणलक्षिते ॥२ यत्त कुवलयानन्दे उक्तम् "हिता- हिते वृत्तितौल्यमपरा तुन्ययोगिता।" हिताहिते हिताहितविषये वृत्तितौल्यं वृत्तिर्वर्तन व्यवहरणमिति यावत् तस्य तौल्यं साम्यम् अपरा पूर्वोक्तवविलक्षणा तुल्ययोगितेत्यर्थः । यथा 'प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ।' परा उत्कृष्ट भृतिः संपत्तिरेव पराभृतिः परामवः: शत्रणां समहः शात्रवम्। "तस्य समूहः" इत्यण्। अत्र हिताहितयोर्मि- त्रशात्रवयोरुत्कृष्टभतिदानस्य पराभवदानस्य च पराभतिपदश्लषेणामेदाध्यवसायाद्वृत्तिताल्यमिति अपरा तुल्ययोगिता इति। तत्खण्डयति एवमित्यादिना॥ 3 यत्तक्तं कुवलयानन्दे "गुणोत्कष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता।" गुगैरुत्कृष्टाः श्रेष्ठास्तः समीकृत्य साम्यं विवक्षित्वा यत् वचः वचनं प्रतिपाद्नमिति यावत् अर्थात्साधारणधर्मस्य सा अन्या धर्मस्य वर्ण्यावर्ण्यगतत्वादुक्तविलक्षणा तुल्ययोगितेत्यर्थः । (आशाधरभट्टास्तु 'गुणोत्कष्टैः प्रतिद्धगुणैः समीकत्य सदृशीकृत्य । वचः 'प्रस्तुतस्य' इति शेषः । अन्या तुल्ययोगिता' इति व्याचरव्युः ।) यथा 'लोकपालो यमः पाशी शीदः शको भवानपि।' यमो धर्मराजः। पाशोऽस्यास्तीति पाशी वरुणः। श्रीदः कुचेरः। शकः इन्द्रः 1 लोक

Page 704

दशम उल्लास:।क ६४५

(सू० १५९) उपमानाद्यदन्यस्य व्यतिरेक: स एव सः।०g अन्यस्योपमेयस्य व्यतिरेक आधिक्यम्। क्षीण: क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम्। विरम प्रसीद सन्दरि यौवनमनिवर्ति यातं तु ॥४६२॥ इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तम् तदयुक्तम् अत्र यौवनगता- स्थैर्याधिक्यं हि विवक्षितम्। व्यतिरेकनामानमलंकारं लक्षयति उपमानादिति। यदित्यव्ययं व्यतिरेकपदान्वाये। व्यतिरेक- शब्दो भावघञ्न्तः। उपमानात् उपमानापेक्षया अन्यस्य उपमेयस्य यः व्यतिरेकः विशेषेणातिरेकः आधिक्यम् गुणविशेषकृत उत्कर्ष इति यावत् स एव व्यतिरेक एव आधिक्यमेव सः व्यतिरेक- नामालंकार इत्यर्थः। विशेषेणातिरेको व्यतिरेक इति योगेनैव व्युत्पत्त्यैव्र लक्षणलाभादिति भावः। व्याख्यातं च चक्रवर्तिभट्टाचार्यैः "स एव व्यतिरेक एव। सः व्यतिरेक: विशेषेणातिरेकः आधि- क्यम्। योग एव लक्षणमित्यर्थः " इति । उपमानादित्युक्तेः 'कुमुदादतिरिच्यते मुखम्' इत्यादौ नायमलंकार इैत्युद्योते स्पष्टम् । विशेषेणेत्यनेन 'मुखमिव चन्द्रः' इति प्रदीपे उपमानीकरणप्रयु- क्तस्याधिक्यस्य गम्यत्वे [अपि] विशेषतस्तद्वोधकशब्दाभावान्नातिव्याप्तिरिति प्रभायामुक्तम्। स एवेत्येवकारेणोपमेयादुपमानस्य व्यतिरेको व्यवच्छियते। उपमानस्योपमेयसाकाद्कत्वेनान्यपदेन उपमेयस्यैवाभिधानमित्याह उपमेयस्येति।। एवकारव्यवच्छेद्यमेव सूचयन् वृत्तिकारः यदुक्तमलंकारसर्वस्वे रुथ्यकेण 'उपमानादुपमेयस्या- धिक्ये विपर्यये (उपमेयादुपमानस्याधिक्ये) वा व्यतिरेकः तत्र विपर्यये (उपमेयादुपमानस्याधिक्ये) 'क्षीण: क्षीण:०' इत्यायुदाहरणम्' इति तन्मतं दूषयितुमुपन्यस्यति 'क्षीणः क्षीणः' इत्यादिना 'केनचिदुक्तम्' इत्यन्तेन। सत्यं निश्र्येन क्षीणः क्षीणोऽपि अत्यन्तकृशोऽपि शशी चन्द्रः भूयो भूयः पुनः पुनः अभिवर्धते। यातं गतं यौवनं तु अनिवर्ति अपरावृत्तिशीलम् अतो हेतोः हे सुन्दरि विरम 'मानात्' इति शेषः मानं मुश्चेत्यर्थः । प्रसीद प्रसन्ना भवेत्यर्थः। मानमोचनमात्रं नोददेश्यमिति भावः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ॥ अत्रोपमानभूतस्य शशिनः क्षैण्येऽपि पुनर्वृद्धिरित्युत्कर्षः उपमेयभृतस्य यौवनस्य तुन पुनरावर्तन- मित्यपकर्ष इति उपमेयापेक्षयोपमानस्याधिक्यरूपो व्यतिरेकालंकार इति तन्मतम्। तदेवाह इत्यादा- विति। उपमानस्य शशिनः । उपमेयात् यौवनात्। आधिक्यम् उत्कर्षः । केनचित् अलंकार- सर्वस्वकारेण रुय्यकेण। उक्तमिति। एवं चैतन्मते उपमानात् उपमेयस्य न्यूनतायामपि व्यतिरेकालंकार इति बोध्यम्। इत्थं तन्मतमुपन्यस्य इदानीं दूषयति तदयुक्तमिति। तदनुचितमित्यर्थः। अनौचित्ये हेतुं दर्शयति अत्रेत्यादिना। अत्र 'क्षीणः क्षीणः' इति श्लोके यौवनगतस्यास्थैर्यस्य क्षयस्याधिक्यं हि पालपदं चेन्द्रादिषु रूढम् राजि तु योगमात्रेण प्रयुक्तम्। अत्र वर्णनीयो राजा शक्रादिमिलोकपालत्वेन समीरून इत्यन्या तुल्ययोगिता इति। तद्पि खण्डयति लोकपाल इत्यादिना ॥ १ अयमुद्दयोताशयः । कुमुदस्य मुखोनमानत्वप्रसिद्वम् किं तु नयनोपमानत्वमेव कविप्रसिद्धम् । अत एव 'कुम- दकमलनीलनीरजालिः' इति ४६१ उदाहरणे कुमुदस्य नयनीपमानत्वमेवोक्तम्। अत एव च माघे ९ सर्गे ४७ ्लोके मलिनाथेनोक्तम् "आस्यकमलैंः इत्यत्र 'आस्यकुमुदैः' इति पाठे कुमुदस्य मुखोपमानक्त्वं कविसमयवरुद्धं ज्ञेयम् " इति॥

Page 705

६४६ काव्यप्रकाशः सटीक:।

(सू० १६०) हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेिते ॥ १०५॥ शब्दार्थाभ्यामथाक्षिप्त श्लिष्टे तद्दञ्रिरष्ट तत्। यतः विवक्षितं वक्तरिच्छाविषयीभूतमित्यर्थः । एवं च 'क्षीणः क्षीण:०' इतीदं पद्यम् 'उपमानादुपमे- यस्याधिक्यम्' इत्यस्यैवोदाहरणम् न तु 'उपमेयादुपमानस्याधिक्यम्' इत्यस्येति वृत्तिकृन्मम्मटाशयः । अयं भावः। न ह्यत्र चन्द्रयौवनयोः साद्ेश्यम् किंतु तत्क्षययोः । तत्र चन्द्रक्षयस्य वृद्धिबाध्यतया न्यून- त्वम् यौवनक्षयस्य त्वबाध्यतयाधिक्यम् मानप्रसादनानुगुणतया प्रकृतवाक्यार्थानुगुणत्वादिति। एवं ह्यत्र वाक्यार्थः। चन्द्रो हि पुनः पुनरागमनेन लोके सुलभः अतो न ताद्ृशमाहात्म्यशाली इदं पुनर्यौ- वनमपुनरागमेनातिदुर्लभमिति मानादिभिरन्तरायैविदग्धया भवत्या मुधा गमयितुं न सांप्रतम् (न योग्यम्) इति। अन्यथा (चन्द्रस्याधिक्ये) 'किमिति अस्य कदर्यस्य (श्ुद्रस्य) यौवनस्य कृते (अर्थे) मया मानाद्विरंस्यते यातु (गच्छतु) नाम यौवनम्' इति प्रतिकूलेनार्थेन प्रकृतार्थस्यापुष्टतापत्तेः। प्रियहि- तकारिण्या: दूत्या: हीदं वचनम्। तस्मात् 'उपमानस्योत्कर्षे व्यतिरेकालंकारः' इति रिक्तं वचः । एतेने 'रैक्तस्त्वं नवपल्लवैरहमपि श्लाध्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि। कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोक: कृतः'॥ इत्यत्रोपमेयन्यूनतापर्यवसायी व्यतिरेक इत्यपास्तम् सशोकत्वेन तद्गम्यचेतनत्वसहृदयत्वादिभिर्गुणाधि- क्यस्यैव सत्वात्। न च न्यूनत्वपदेन (न्यूनतापदेन) अपकर्षो विवक्षितः सच शोकस्य स्वरूपेणा- पकृष्टत्वादस्त्येव वाच्यार्थबोधकालिकोत्कर्षापकर्षयोरेव तदलंकाररूपत्वादिति वाच्यम् प्रकृतवाक्यार्था- नुगुणधर्मवत्त्वस्यैवात्राधिक्यपदार्थत्वात् 'परमचेतनत्वमेव सम्यक न पुनः प्रियावियोगादिजन्यशोका- स्पदं चैतन्यादि' इति पर्यवसानेन तैस्य प्रकृतवाक्यार्थभूतविरहानुगुणत्वात्। अत एव प्रियावियोगाद्यपि तुल्यमित्यर्थकम् 'आवयोः सर्व तुल्यम्' इति वाक्यं चरितार्थम्। एतेन 'उपमालंकारदूरीकरणमेवात्र चमत्कारि रत्याद्यनुकूलतया कुतश्विदङ्गाद्भूषणापसरणमिव रसानुसारेण क्वचिदलंकारवियोगोSपि शोभावहः' इति ध्वैनिकृदुक्तमपास्तम्। एवं 'हनूमदावैर्यशसा मया पुनर्द्विषां हसैर्दूत्यपथः सितीकृतः' इत्यत्र (नैषधीयकाव्ये नवमे सर्गे १२३ पद्ये ) नलमहीपतेः स्वनिन्दया लब्धनिर्वेदातिशयरूपप्रकृत- वाक्यार्थे दूत्यगतन्यूनताया एवानुगुणत्वेंनाधिक्यरूपत्वात्। एवं 'ने कठोरं न वा तीक्ष्णमायुधं पुष्पध- न्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥' इत्यादावपि कठोरतीक्ष्णास्त्ररहितस्य भुवनत्रयजये

एनं व्यतिरेकं चतुर्विशतिधा विभजते हेत्वोरिति। व्यतिरेकस्य द्वौ हेतू उपमेयगतमुत्कर्षनिमि- १ सादृश्यमिति। विवक्षितमिति शेष: ॥२ कुवलयानन्दोक्तं खण्डयति एतेनेति॥ ३ रक्तस्त्वमिति। अशोक- वृक्षं प्रति विरहिणः कस्यचिदुक्तिरियम् । हे अशोक आवयोः सर्व तुल्यं समानम् अहं केवलं धात्रा विधात्रा सशोक: शोकसहितः रुतः त्वं तु शोकरहित इत्यशोकपद्श्लेषाद्वगम्यते। कि तत्सर्व समान तत्राह रक्त इत्यादि। त्वं नवैः नूतनैः पल्लवैः रक्तः रक्तवर्णः अहमपि प्रियायाः श्लाध्यैः श्लाघनीयैर्गुणैः सौन्दर्यादिभिः रक्तोड- नुरक्तः अर्थात्प्रियायाम्। हे सखे त्वां प्रति शिलीमुखाः भ्रभराः आयान्ति मां प्रत्यपि स्मरेण (कर्त्रा) धनुषा (करणेन ) मुक्ताः प्रेरिताः शिलीमुखाः बाणा आयान्ति। एवं कान्तायाः कामिन्याः पादतलस्याहतिराघातो यथा तव मुदे संतोषाय तद्त् तथा ममापि संतोषायेत्यर्थः । कामिनीपाद्घातेनाशोकस्य पुप्पोद्गम इति कविपसिद्धिरिति प्राक् (३८८ पृष्ठे २५ पडौ) प्रदर्शितम् ॥शोकस्य ॥ ५ ध्वनिरता आनन्दवर्धनेन द्वितीये उद्धयोते उक्त- मिति भावः ॥ ६ न कठोरमिति। काव्यादर्शे द्वितीयपरिच्छेदे पद्यमिदम्।।

Page 706

दशम उल्लास:। ६४७

व्यतिरेकस्य हेतु: उपमेयगतमुत्कर्षनिमित्तम् उपमानगतमपकर्षकारणम् तयोद्योरुक्तिः एकतरस्य दयोवा अनुक्तिरत्यनक्तित्रयम् एतद्ेदचतुष्वयमुपमानोपमेयभावे शब्देन प्रतिपादिते आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदा: आक्षिते चौपम्ये तावन्त एव एवं द्वदश। एते श्लेषेऽपि भवन्तीति चतुवविशतिर्भेदाः । क्रमेणीदाहरणम् असिमात्रसहायस्य प्रभूतारिपराभवे। अन्यतुच्छ जनस्येव न स्मयोऽस्य महाधृतेः॥ ४६३॥ त्तम् उपमानगतमपकर्षनिमित्तं च तयोई्योर्हेत्वोरुक्तौ उपादाने सति एको भेदः । उत्कर्षनिमित्तमा- त्रस्य अपकर्षनिमित्तमात्रस्य वा एतयोर्द्योर्वा अनुक्तिरिति अनुक्तीनां त्रये सति त्रयो भेदा: । एवं चत्वारो भेदाः । ते च प्रत्येकं त्रिविधाः। तथाहि। साम्ये साध्म्ये शब्देन इवादिशब्देन निवेदिते प्रतिपादिते सति आर्थेन अर्थसामर्थ्यन (तुल्यादिशब्देन) निवेदिते सति साम्ये आक्षिपे व्यञ्जिते सति चेति। अथशब्दः समुच्चयार्थकः । इवादेः प्रयोगे शब्देन साम्यनिवेदनम् तुल्यादेश्च प्रयोगे आर्थेन जयत्यादेश् प्रयोगे आक्षेपेण ( व्यञ्जनया ) इति अग्रे विवेचयिष्यामः । एवं द्वादश भेदाः । एते च द्वादश भेदा: प्रत्येकमश्लिष्टे शब्दे सति तथा श्लिष्टे शब्दे सति च भवन्तीति तद्वत् पुनद्वदश भेदा इत्यर्थः । तत् तस्मात् कारणात् त्रिरष्ट चतुर्विशतिर्भेदा इति सूत्रार्थः ।त्रिरष्ट सः' इति पाठे चतुर्विशतिभेद: स व्यतिरेकालंकार इत्यर्थः ॥ सूत्रं विवृणोति व्यतिरेकस्येत्यादिना। तयोद्वयोरिति युगपदिति शेषः । उक्तिः उपादानम् । एकतरस्येति। उत्कर्षनिमित्तमात्रस्य अपकर्षनिमित्तमात्रस्य वेत्यर्थः । द्वयोर्वा एतयोईयोवा। साम्ये इत्यस्यार्थमाह उपमानोपमेयभावे इति। उपमानोपमेयभावप्रयोजके (सादृश्यप्रयोजके) साधा- रणधर्मसंबन्धरूपे औपम्ये इत्यर्थः । तथा च प्रदीपे व्याख्यातम् "साम्ये साधम्ये" इति इति प्राक् (५४३ पृष्ठे ६ पङ्क्तौ ) प्रदर्शितम्। व्याख्यातं च महेश्वरभट्टाचार्यैः "साम्ये समानधर्म- संबन्धरूपे औपम्ये " इति। शब्देन इवादिशब्देन । निवेदिते इत्यस्यार्थमाह प्रतिपादिते इति । आर्थेन चेति। अर्थसामर्थ्येन चेत्यर्थः तुल्यादिशब्देन चेति यावत्। 'प्रतिपादिते' इत्यनुषङ्ग: । क्रमेणेति । इदं शब्दार्थाभ्यामित्यत्र साहित्यशङ्काव्यदासाय तथा सति चतुर्विशतित्वानुपपत्तिः स्यादिति बोध्यम्। केचित्तु आर्थेन च क्रमेणेत्यन्वयः तुल्यादिशब्दप्रयोगे आर्थः क्रम इत्याहुः। आक्षिते व्यञ्जिते। 'मुखमिन्दुं जयति स्पर्धते' इत्यादौ साम्यस्य व्यङ्गयत्वात् प्रायशः सदशे एव जयादिव्यवहाराद्विति भावः । औषम्ये साम्ये साधारणधर्मसंतन्धरूपे साधम्ये इति यावत्। तावन्त एव चत्वार एव भेदाः। एते द्वादश भेदा:। श्लेषेऽपीति। अपिना अश्लेषसमुच्चयः । त्रिरष्टत्यस्यार्थमाह चतुर्विशतिर्भेदा इति। ननु द्योरपि हेत्वारनुक्तौ कथमुपमेयाधिक्यमिति न शङ्कनीयम् 'न स्मयः' इत्यादिना बोधितस्य स्मयाभावस्यैवोत्कर्वपर्यवसायितयाधिक्यरूपत्वादित्य- दाहरणे स्फुटीभविष्यति। तत्राश्लिष्टमेदेषु हेत्वोरुक्तौ शाब्दे साम्ये (औपम्ये) व्यतिरेकमुदाहरति असीति। महाधतेः शौर्यातिशयेनाधिकधैर्यस्य। "धतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु" इति विश्वः । अत एव असि: खङ्ग एवासिमात्रं सहायो यस्य तादृशस्य। मात्रशब्देन सहायान्तरव्यवच्छेदः । अस्य वीरस्य (राज्ञः) प्रभूता: प्रबलाः बहवो वा ये अरयः शत्रवस्तेषां पराभवे पराजये सति अन्यो यस्तुच्छजनः

Page 707

६४८ काव्यप्रकाशः सटीकः।

अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादानेऽन्यत् भेदत्रयम्। एव मन्येष्वपि द्रष्टव्यम् । अत्र इवशब्दस्य सद्भावाच्छान्दमौपम्यम् असिमात्रसहायोऽपि प्रभूतारिपराभवे। नैवान्यतुच्छ जनवत्सगवोडयं महाधृतिः॥४६४ ॥ अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम्। हीनगुणजनस्तस्येव स्मयो दर्पः गर्वः नेत्यर्थः। अत्युत्कृष्टजयलाभेऽपि गर्वो न जायते इति भावः । "दर्पोऽवलेपोऽवष्टम्भश्वित्ताद्रेकः स्मयो मदः" इत्यमराधिकपाठः ॥ अत्र श्लेषासत्त्वम् राजा उपमेयः अन्यजनः उपमानम् अरिपराभवः समानो धर्मः उपमेये महा- धृतित्वम् उपमाने तुच्छत्वं चोत्कर्षापकर्षहेतू उपात्तौ इवशब्दसत्त्वाच्छाब्दमौपम्यमिति प्रथमो व्यतिरे- कोऽयम्। उदाहरणगौरवेण ग्रन्थगौरवमाशङ्कमानोSत्रैव श्लोकेऽनुक्तित्रयनिबन्धनं व्यतिरेकं हेतुवा चकपदावापोद्दापाभ्यां कथयति अत्रैव तुच्छेत्यादिना। पर्यायेण युगपद्वानुपादाने इति। कमशः एककाले वानुक्तावित्यर्थः । अत्रैव तुच्छत्वमात्रस्य महाधृतित्वमात्रस्य वा द्वयोरपि वा क्रमेण। नुपादाने हेत्वनुपादानत्रयेऽपि शाब्द्पम्यभदेत्रयं द्रष्टव्यमित्याशयः। 'नूनमन्यजनस्येव न स्मयोऽस्य महाधृते:' इति पाठे उपमानगतापकर्षहेतोरनुक्तिः 'अन्यतुच्छजनस्येव न स्मयोऽस्य महीपतेः' इति पाठे उपमेयगतोत्कर्षहेतोरनुक्तिः 'नूनमन्यजनस्येव न स्मयोऽस्य महीपतेः' इति पाठे दवयोरपि हेत्वोरनुक्तिरिति भावः। स्मयाभावोऽत्रोत्कर्षपर्यवसायितया आधिक्यरूप इति बोध्यम्। उत्तरत्रा- प्येषा रीतिरनुसरणीयेत्याह एवमन्येष्वपीति। एवं पर्यायण युगपद्दा हेत्वनुपादाने अन्येष्वपि वक्ष्य- माणोदाहरणेष्वपि भेदत्रयं द्रष्टव्यमित्यर्थः । चतुर्ष्वपि भेदेषु साम्यस्य शाब्दत्वं प्रतिपादयति अत्रे- वशब्दस्येत्यादिना। सद्भावात् विद्यमानत्वात्। शाब्दं श्रतिमात्रगम्यम्। प्रतिपादितमिदं प्राक् (५५० पृष्ठे)। औपम्यमिति। उपमैवौपम्यम् चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञप्रत्ययः॥ अत्र प्रेतीयमानमपि सादृश्यं गुणान्तरकृतस्वनिषेधोत्थापितेनोत्कर्षेण तिरस्कृतमिति तत्तिरस्कारकत- यास्य चमत्कारातिशयजनकत्वम् तिरस्कार्यतयौपम्यगर्भत्वव्यवहारोऽत्रेति बोध्यम् आधिक्यवर्णनाभावे सादृश्यं पर्यवस्यतीत्येतावता तद्गर्भत्वव्यवहारात्। एतेन 'एकगुणपुरस्कारेण सादृश्यनिषेधे गुणान्तरेण सादृश्यप्रत्ययस्य दुर्वारत्वादुपमागर्भत्वमस्य' इत्यपास्तम्। कि चान्यधर्मेण प्रसिद्धसादृश्यस्यैवेद्टशाधि क्यप्रतिपादन द्वाराभावस्यापकर्षस्य वा प्रतिपादनम् स चाविशेषात्सर्वधर्मप्रयुक्त एवेति तदप्ररोहात् 'कथं तुलयामः कलयापि पङ्कजम्' इत्यादौ सर्वथैव सादृश्यनिषेधाच्च। 'देवदत्तेन सदृशो यज्ञदत्त: किं तु धनमस्याधिकम्' इत्यादौ उत्कटविद्यादित्वेन प्रसिद्धदेवदत्तेन विद्यादिकृतसादृश्यं प्रतीयमान- मप्यपकृष्टमिति दिगित्युद्योते स्पष्टम् ।। अश्लिष्टमेदेषु हेत्वोरुक्तौ आर्थे साम्ये व्यतिरेकमुदाहरति अतिमात्रसहायोऽपीति । 'महाधृतिः' इत्यत्र 'धतेर्निधिः' इति क्वचित् पाठः। अन्यतुच्छजनेन तुल्यमन्यतुच्छजनवत्। अत्रापि श्लेषासत्त्वम् राजा उपमेयः अन्यजन: उपमानम महाधृतित्वं तुच्छत्वं चोत्कर्षापकर्षहेतू उपात्तौ। "तेन तुल्यं क्रिया चेद्वतिः" इति सूत्रेण तुल्यार्थे विहितस्य वतिप्रत्ययस्य सत्त्वादार्थ साम्यम्। अत्रापि पूर्ववत् १ ग्रहणमावापः त्याग उद्दापस्ताभ्यामित्यर्थः ॥ २ प्रतीयमानमपाति। व्यङ्र्यमपीत्यर्थ इति न भ्रमितव्यम् किं तु प्रतीतिविषर्यभतमपीत्यर्थः ॥ ३ इदं सूत्रं प्राक (५५२ पृष्ठे) व्याख्यातम् ॥ O :gR (-भ5ाX)

Page 708

दशम उल्लासः। ६४९

इयं सुनयना दासीकृततामरसश्रिया। आननेनाकलट्टेन जयतीन्दुं कलक्टिनम् ॥४६५॥ अत्रेवादितुल्यादिपदविरहेण आक्षित्तैवोपमा। 5 FIS जितेन्द्रियतया सम्यग्विद्यावृद्धनिवेविणः । अतिगाढगुणस्यास्य नाब्जवद्धङ्गरा गुणाः ॥ ४६६ ।। अत्रेवार्थे वतिः गुणशब्द: श्लिष्टः शाब्दमौपम्यम्। उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्वानुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि। 'नूनं नैवान्यजनवत्स- गर्वोऽयं महाधृतिः' इति पाठे उपमानगतापकर्षहेतारनुक्तिः 'नैवान्यतुच्छजनवत्सगर्वोडयं महीपतिः' इति पाठे उपमेयगतोत्कर्षहेतोरनुक्तिः 'नूनं नैवान्यजनवत्सगर्वोऽयं महीपतिः' इति पाठे दयोरपि हेत्वोरनुक्तिरित। सगर्वत्वाभावोSन्रोत्कर्षपर्यवसायितयाधिक्यरूप इति बोध्यम् । आश्लष्टमदेष हेत्वोरुक्तौ आक्षिप्े (व्यङ्ग्चे ) साम्ये व्यतिरेकमुदाहरति इयमिति। इयम् अनु- भूयमानोत्कर्षा सुनयना सुन्दराक्षी दासीकृता परिजनीकृता (निर्जिता) तामरसस्य पद्मस्य ताम्र- काञ्चनस्य वा श्रीः शोभा येन तादृशेन अकलङ्केन कलङ्करहितेन (निर्दोषेण) आननेन मुखेन (करणभूतन ) कलड्किनम् इन्दुं जयतीत्यर्थः । 'निन्दतीन्दुम्' इति प्रदीपे पाठः । "दासी वाणाभु- जिष्ययो:" इति मेदिनी। "स्मृतं तामरसं पद्मताम्रकाञ्चनयोरपि" इति विश्वः। "कलङ्कोऽङ्केSपवादे च कालायसमलेऽपि च " इति मेदिनी॥ अत्रापि श्लेषासत्त्वम् आननमुपमेयम् इन्दुरुपमानम् अकलङ्गित्वकलङ्गित्वे उत्कर्षापकर्षहेतू उपात्तौ इवादीनां तुल्यादीनां वा पदानामभावेऽि जयतिपदेनाक्षिप्तं (व्यङ्ग्यं) साम्यम्। अत्रैव पूर्ववत् उत्कर्षापकर्षहेत्वो: पर्यायेण युगपद्वानुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि। 'आननेन मनो- ज्ञेन जयतीन्दुं कलङ्गिनम्' इति पाठे उपमेयगतोत्कर्हेतारेनुक्तिः 'आननेनाकलङ्केन जयत्यमृतदी- धितिम्' इति पाठे उपमानगतापकर्हेतोरनुक्तिः 'आननेन मनोज्ञेन जयत्यमृतदीधितिम्' इति पाठे द्वयोरपि हेत्वोरनुक्तिरिति । अत्र जय एवाधिक्यपर्यवसायितया व्यतिरेकसंपादक इति बोध्यम्। साम्यस्य आक्षिप्तत्वं प्रतिपादयति अत्रेवादीत्यादिना। इवाद्यप्रयोगाच्छाब्दत्वाभावे तुल्या- दयप्रयोगादार्थत्वाभावे च मुखचन्द्रयोरौपम्यं जयतीतिपदाक्षिप्तमेवेत्यर्थः। न चाक्षिप्तभेद: उपमाया शङ्कनीयः जयत्यादिशब्दस्यावश्यकतया व्यतिरेकेण विषयापहारादिति प्रदीपे स्पष्टम्।। अथ श्लिष्टमेदेषु हेत्वोरुक्तौ शाब्द्े साम्ये (औपम्ये) व्यतिरेकमुदाहरति जितेन्द्रियेति। जितम् इन्द्रियं मनो येन तस्य भावस्तत्ता तया सम्यक् विद्यावृद्धाः पण्डिताः विद्या च वृद्धाश्र्ेति वा तान् निषेवते तच्छीलस्य अतिगाढो विरोधिसहस्त्रैरप्यनुच्छेद्यः गुणो धैर्यादिर्यस्य ताद्दशस्य अस्य राज्ञ: गुणाः पाण्डित्यादयस्तन्तवश्र अब्जवत् कमलस्येव भङ्गराः नश्वराः न किं तु दृढा इत्यर्थः । "गुणो ज्यासूत्रतन्तुषु। रज्जौ स्त्वादौ संध्यादौ शौर्यादौ भीम इंद्रिये। रूपादावप्रधाने च दोषा- न्यास्मिन् विशेषणे" इति हैम: ॥ अत्र श्लिष्टो गुणशब्दः तदर्थस्यातिगाढत्व्रभङ्गरत्वे उत्कर्षापकर्षहेतू उपात्तौ "तत्र तस्येव" इति ८२

Page 709

६५० काव्यप्रकाशः सटीकः । अखण्डमण्डलः श्रीमान् पशयैष पृथिवीपतिः। न निशाकरवज्जातु कलावैकल्यमागतः ॥४६७॥ अत्र तुल्यारथें वतिः कलाशब्दः श्लिष्टः । सूत्रेण षष्ठ्चन्तादिवार्थे विहितस्य वतिप्रत्ययस्य सत्त्वात् शाब्दं साम्यम्। अत्रापि पूर्ववत् उत्कर्षा- पकर्षहेत्वोः पर्यायेण युगपद्वानुपादाने भेदत्रयं द्रष्टव्यम् । तथाहि । 'सत्कर्मनिरतस्यास्य नाब्जवद्भ- द्रा गुणाः' इति पाठे उपमयगतोत्कर्षहतोरनुक्तिः 'अतिगाढगुणस्यास्य न तामरसवद्गुणाः' इति पाठे उपमानगतापकर्षहतारनुक्तिः 'सत्कर्मनिरतस्यास्य न तामरवसद्गुणाः' इति पाठे दवयोरपि हेत्वोरनुक्तिरितीति बोध्यम्।। श्लिष्टभेदेषु हेत्वोरुक्तौ आर्थे साम्ये व्यतिरेकमुदाहरति अखण्डेति। अखण्डं समृद्धं पूर्ण च मण्डलं राजचक्रं बिम्बं च यस्य सः। "स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च" इति विश्वः। श्रीः संपत्तिः शोभा चास्यास्ताति श्रीमान्। "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते" इति विश्वः । एषः परथिवीपतिः राजा जातु कदाचिदपि निशाकरेण तुल्यं निशाकरवत् चन्द्रवत् कलानां चतुःषष्टिसंख्याकानां चित्रादिकौशलानां षोडशभागानां च वैकल्यं विकलत्वं (नाशं) नागतः न प्राप्तः इति पश्येति वाक्यार्थस्य कर्मत्वम्। "कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके। षोडशांशे च चन्द्रस्य कलना कालमानयोः" इति मेदिनी॥ अत्र कलाशब्दः श्लिष्टः पृथ्वीपतिरुपमेयः निशाकरः उपमानम् अखण्डमण्डलत्वकलावैकल्ये उत्कर्षापकर्षहेतू उपात्तौ "तेन तुल्यं क्रिया चेद्दतिः " इति सूत्रेण तुल्यार्थे विहितस्य वतिप्रत्ययस्य सत्वादार्थ साम्यम्। अत्रापि पूर्ववत् उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्वानुपादाने भेदत्रयं द्रष्टव्यम्। तथाहि। 'बहुलारिगतोऽप्येष श्रीमानुद्धतविक्रमः । न निशाकरवज्जातु कलावैकल्यमागतः ॥' इति पाठे उपमेयगतोत्कर्षहतोरनुक्तिः एवंपाठे कलाशब्दः श्लिष्टः। 'अखण्डमण्डलो ह्येष श्रीमानुद्धतवि- क्रमः 1 न निशाकरवज्जातु दृश्यतां वसुधाधिपः' इति पाठे उपमानगतापकर्षहेतोरनुक्तिः एवंपाठे अखण्डमण्डलशब्द: श्लिष्टः।'बहुलारिगतोऽप्येष श्रीमानुद्धतविक्रमः । न निशाकरवज्जातु दृश्यतां वसुधाधिपः' इति पाठे अखण्डमण्डलत्वकलावैकल्ययोद्योरपि हेत्वोरनुक्तिः एवंपाठे बहुलशब्दः श्लिटः। बहुलः कृष्णपक्षः विपुलश्वेतीत्येवंरीत्या यथाकथंचिदत्रानुपादानत्रयमुपपादनीयम्। वस्तुतस्तु प्रदीपोद्चोतप्रभासूक्तम्। तथाहि। "अत्र कलाशब्दः श्लिष्टः। कलावैकल्यतदभावौ हेतू शब्दोपात्तौ। तुल्यार्थे वतिरित्यार्थमौपम्यम्। अत्रानुपादानत्रयं चिन्त्यम्" इति प्रदीपः । (कलावैकल्येति। अखण्ड- मण्डलत्वकलावैकल्ये हेतू इत्यन्ये। चिन्त्यमिति। कलावैकल्यतदभावयोर्हेतुत्वेन तदनुपादाने श्र्लेषः किमाश्रयः स्यात् हेतुभूतधर्मवाचकस्य तदाश्रयवाचकस्य वा श्लिष्टत्वे श्लिष्टभेद इति भावः। 'बहुला- रिगतोऽप्येष श्रीमानुद्धतविक्रमः । न निशाकरवज्जातु दृश्यतां वसुधाधिपः ॥' इति पाठेन बहुलशब्द- श्लेषसत्त्वात् अखण्डमण्डलत्वकलावैकल्ययार्हेत्वोरनुपादानेऽपि संभैवत्येवानुपादानत्रयम्। बहुलः कृष्ण- पक्षः विपुलश्र्वेत्यन्ये) इत्युद्चोतः ।(अत्रानुपादानेति।श्लेषस्थलेऽनुपादानत्रयमित्यर्थः। साम्यस्य श्रौतत्वे १ इदं सूत्रं प्राक् (५५१ पृष्ठे ) व्याख्यातम् ॥ २ उत्कर्षकापकर्षकयोर्हेत्वोरनुपादाने श्लेषः किमाश्रयः स्यात् हेतुभतधर्मवाचकस्य तदाश्रयवाचकस्य वा श्लिष्टत्वे एव श्लिष्टमेदः इति सिद्धान्तस्य वक्ष्यमाणत्वादाह यथाकर्थचिदिति॥ ३. संभवत्येवोति। यथाकथचिदिति शेषोऽत्र बोध्यः I।

Page 710

दशम उल्लास: । ६५१

मालाप्रतिवस्तूपमावत् मालाव्यतिरेकोऽपि संभवति। तस्यापि भेदा एवमह्याः। दिङ्मात्रमुदाहियते। यथा हरवन्न विषमदृाष्टिहरिवन्न विभो विधूतविततवृषः। रविवन्न चातिदुःसहकरतापितभूः कदाचिदसि ॥४६८॥ अत्र तुल्यार्थ वतिः विषमादयश्च शब्दा: श्लिष्टाः। आर्थत्वे आक्षिप्तत्वे सति शर्लेषे कथमुभयानुपादानम् वैधर्म्यानुक्तौ श्लेषस्य निरालम्बनत्वापत्तेरित्या- शयः) इति प्रभा। उक्तं च रसगङ्गाधरकारैरित्थमपि "इदं तु बोध्यम्। इहोभयानुपादानभेदत्रयं दुरुपपादम् वैधर्म्यानुपादाने हि किमाश्रयः श्र्लेषः स्यात्। ०००। इत्थं च 'चतुविशतिर्भेदाः' इति (६४७ पृष्ठे ४ पक्कौ) प्राचाम् (काव्यप्रकाशकाराणाम्) उक्तिर्विपुलोदाहरणाभिज्ञैर्यथाकर्थं- चिदुपपादनीया" इति॥ यत्वत्र सुधासागरे भीमसेनेनोक्तम् "अखण्डमण्डलत्वकलावैकल्ये उत्कर्षनिकर्षहेतू। अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम। तथा चोत्कर्षकानुपादाने 'श्रीमानेष पृथिवीपतिः जातु निशाकरवत् न कलावै- कल्यमागतः निशाकर: कदाचित् कलाविकलोऽपि भवति' इति भाव इति स्पष्टो व्यतिरेकः । एव- मपकर्षकानुपादाने 'अखण्डमण्डलः श्रीमानेष पृथिवपितिः जातु निशाकरवत् न निशाकरः कदाचि- त्खण्डमण्डलोऽपि भवति' इति भाव इति स्पष्ट एव व्यतिरेकः। उभयानुपादाने 'श्रीमानेष प्ृथिवीपतिः जातु निशाकरवत् न निशाकर: कदाचिन्निःश्रीकोऽपि भवति' इति भावात्स्पष्टो व्यतिरेकः। एवं च गोविन्दमहामहोपाध्यायैः काव्यप्रदीपे यदुक्तम् 'अत्रानुपादानत्रयं चिन्त्यम्' इति तदज्ञानविजुम्भि- तम्। अत एव वाग्देवतावतारोकिंत (मम्मटोक्ति) बहस्पतिरप्याक्षेप्तुं न शक्कोतीत्यसकृदावेदितम- स्माभि:" इति तत्तु काव्यप्रदीपकाराभिप्रायानवबोधात्स्वाज्ञानविजुम्भितमेवोति मन्तव्यम्।। मालाव्यतिरेकमाह मालाप्रतिवस्तूपमावदित्यादिना । एवमूह्या इति। इयं च पाठप्रणाली माणिक्यचन्द्रचक्रवर्तिप्रदीपकृत्महेश्वरकमलाकरादिबहुवादिसंमततयाङ्गीकृता। निदर्शनकृतस्तु क्रम- प्राप्ततया शर्लेषे आक्षिप्तौपम्यप्रदर्शनमेव प्रथममुचितमिति मन्यमानाः 'माला प्रतिवस्तूपमावत्' इत्या- दिक 'विषमादयश् शब्दा: श्लिष्टाः' इत्यन्तं संदर्भ 'श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते' इत्यनन्तरं साधु पठन्ति। अन्ये चात्रान्यविधं पाठमङ्गीचकरुरिति बोध्यम्। दिङ्मात्रं मार्गमात्रम्॥ श्लिष्टभेदेषु आर्थे साम्ये मालारूपं व्यतिरेकमुदाहरति हरवदिति। हे विभो राजन् त्वं कदाचिद्पि हरेण तुल्यं हरवत् विषमदृष्टिः त्रिलोचनः असमदृष्टिश् नासि किंतु समदृष्टिरेवेति भावः। हरिणा तुल्यं हरिवत् श्रीकृष्णवत् विधूतः क्षिप्तो विततो महान् वृषो वृषासुरो धर्मश्र येन एवं नासि किंतु सदा धर्मशील एवेति भावः । रविणा तुल्यं रविवत् अतिदुःसहाः ये कराः किरणाः राजग्राह्य- भागाश्र तैः तापिता दाहं प्रापिता उद्दजिता च भू: भूमिः भूमिस्थजनश्र येन एवं नासीत्यर्थः। अत्र राजपक्षे भूशब्देन लक्षणया भूमिस्थजनो ग्रृह्यते। "शुकले मूषके श्रेष्ठे सुकृते वृषभे वृषः" इत्यमरः । "वृषो गव्याखुधर्मयोः" इति हैमश्र। "करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः" इति मदिनी। १ इह प्रागुक्तभेदानां मध्ये।। २ अनुपादानमेदेति। अनुपादानरूपं मेदत्रयमित्यर्थ इति रसगङ्गाधरटीका मर्मप्रकाशाख्या ॥ ३ गवाकृतिररिष्टाख्योऽसुरविशेष:॥

Page 711

६५२ काव्यप्रकाशः सटीकः।

नित्योदित प्रतापेन त्रियामामीलितप्रभः । भास्वतानेन भूपेन भास्वानेष: विनिर्जितः ॥ ४६९॥ अत्र ह्याक्षितैवोपमा भास्वतेति श्लिष्टः। यथा वा स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहद्यगन्धम्। यूनामतीव पिवतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम्॥४७० ॥ यत्त्वत्रोद्चोते "हरवदिति। वैषम्यं त्रित्वं पारुष्यं च। विधूतः कम्पिनः । वृषो वृषासुरो बलीवर्दश धर्मश्र् । सत्यभामापरिणयने श्रीकृष्णेन सप्तवृषास्कन्दनात्" इति दृश्यते तत्र 'सत्यभामापरिणयने' इत्यंत्र 'सत्यायाः परिणयने' इति पाठोऽपेक्ष्यते सत्याया एव परिणयने श्रीकृष्णेन सप्तवृषास्कन्द- नात्। सत्या हि नग्नजितः पुत्री "नग्नजिन्ाम कौसल्य आसीद्राजातिधार्मिकः। तस्य सत्याभवत्कन्या देवी नाग्रजिती नृप ॥। ३२ ॥।" इति श्रीमद्भागवते दशमस्कन्धे ५८ अध्याये उक्तत्वात्। सत्यैव नीलेत्युच्यते। अत एव "नीलां नग्नजितः पुत्रीम्" इति ४ सर्गे मणिमञ्जरीकाव्यम् "लीलालोलतमां रमामगणयन् नीलामनालोकयन्" इति विश्वगुणादर्शकाव्यं च। सत्यभामा तु सत्राजितः पुत्रीति द्वयोर्भेदः। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र राजा उपमेयः हरादिरुपमानम् विषमादयः शब्दाः श्लिषाः विषमदृ्टत्वमपकर्षहतुरुपात्तः समदृाष्टित्वमुत्कर्षहतुर्नोक्तः । हरवदित्यादौ तुल्यार्थे विहितस्य वतिप्रत्ययस्य सत्वादार्थ साम्यम् । एकस्यैवोपमेयस्य बहूपमानापेक्षया आधिक्यवर्णनान्मालारूपतेत्युद्दतोतादौ स्पष्टम। विस्तारिकासा- रबोधिनीसुधासागरकारास्तु "अत्र विषमदृाष्टित्वाभावन समदृष्टित्वमाक्षिप्यते इति समदृष्टित्वविषम- दृष्टित्वयोरुत्कर्षापकर्षहेत्वोरुपादानम् एतदप्युदाहरणभेदप्रदर्शनायां बीजम्। न चात्र चातुविर्ध्यं विवाक्षितम्" इत्याहुः ॥ श्लिष्टभेदेषु हेत्वोरुक्तौ आक्षिप्ते साम्ये व्यतिरेकमुदाहरति नित्योदितेति। नित्योदितः निरन्तर- मुदितः प्रताप: पराक्रमः प्रकृष्टतापश्र यस्य ताद्ृशेन भास्वता कान्तिमता रविणा च [ रविरूपेण च] अनेन भूपेन त्रियामा रात्रिस्तस्यां मीलिता गता प्रभा यस्य ताहक् एष आकाशस्थो भास्वान् सूर्यः वि- निर्जित इत्यर्थः। "प्रतापौ पौरुषातपौ" इति वैजयन्ती। "त्रियामा क्षणदा क्षपा" इत्यमरः ॥ अत्र भास्वतेति प्रतापोति च श्लिष्टम भूपः उपमेयः सूर्यः उपमानम् नित्योदितत्वं रात्रौ गत- प्रभत्वं चोत्कर्षापकर्षहेतू उपात्तौ इवादितुल्यादिशब्दाभावेऽपि विनिर्जितपदेनाक्षिप्त साम्यम। अत्रैव पूर्ववत् उत्कर्षापकर्षहेत्वोः पर्यायेण युगपद्वानुपादाने भेदत्रयं द्रष्टव्यम । तथाहि। 'समरासक्तमनसा त्रियामामीलितप्रभः' इति पाठे उपमेयगतोत्कर्षहतोरनुक्तिः 'नित्योदितप्रतापन पङ्कजावलिनन्दनः' इति पाठे उपमानगतापकर्षहेतोरनुक्तिः 'समरासक्तमनसा पङ्कजावलिनन्दनः' इति पाठे दयोरपि हेत्वोरनुक्तिरिति । अत्रोद्योतकारा: "अत्रेदं चिन्त्यम्। उपात्तवैध्म्यांशे श्लेषेणैव व्यतिरेकस्य श्लेषमूलकत्वमुचितम् न तु यत्र कुत्रापि श्लेषेण एवं चोभयानुपादाने श्लेषकृतभेदत्रयं चिन्त्यमेव । न च यत्र द्विजसुरालयमातरिश्वादिशब्दवद्येषूपमानोपमेयेषु स्वशब्दोपात्त एव श्लेषो व्यतिरेकोत्थापक- स्तत्रेतदुदाहरणं सूपपादमिति वाच्यम तत्र स्वशब्दवेद्यस्यैव वैधर्म्यस्य संभवादिति" इत्याहुः ॥ निर्जितजयत्यादिशब्दाभावेऽपि श्लिष्टविशेषणेनौपम्याक्षेपादयमपि भेदः संभवतीत्युदाहरति · १ उच्यते इति। अत एव श्रीकृष्णस्य नायिकानामष्टविधत्वमेव न तु नवविधत्वम् ॥। २ '्लेषेण एवं चोभया- नुपादाने श्लेषकतभेदत्रयम्' इत्यत्र 'श्लषणेति कतमेदत्रयम्' इति पाठः उद्त्योतपुस्तकान्तरे दृश्यते॥॥म्रायकाव

Page 712

दशमे उल्लासः। ६५३

अत्रेवादीनां तुल्यादाां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षितैवोपमा प्रतीयते। एवंजातीयका: श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादानेऽन्येऽपि भेदा: संभवन्ति । तेऽपि अनयैव दिशा द्रष्टव्या:॥

स्वच्छात्मतेति। यत्र वसन्ते रजनीषु रात्रिषु अतीवेति निपातसमुदायरूपमव्ययमत्यन्तार्थे। अतवि अत्यन्तं पिबतां पानकर्तणां चुम्बतां च यूनां तरुणानां तृष्णां पानेच्छां (मधुपानेच्छाम् अधरपा- नेच्छां च) मधु मदं (कर्तृ) जहार अङ्गनानां नायिकानाम् आननं तु (कर्तृ) न जहारेत्य- न्वयः । अधरपाने तृष्णा स्थितैवेति भावः। मधु आननं च कीदशमित्याकाङ्भायामुभयोः श्लिष्टविशेष णान्याह स्वच्छात्मतेत्यादिना । स्वच्छात्मता निर्मलस्वरूपत्वमेव गुणस्तेन समुल्लसितं प्रतिबिम्बितम् इन्दुबिम्बं चन्द्रमण्डलं यत्र तादशम्। "बिम्बोSस्त्री मण्डलं त्रिषु" इत्यमरः। आननपक्षेऽप्येवमेव आन- नेऽपि कपोलयोशन्द्रप्रतिबिम्बात् । यद्ा आननपक्षे समुल्लसितेन्दुबिम्बमिति रूपकम् समुल्लसितत्वं पूर्णत्वम् । केचित्तु "स्वच्छात्मता चिक्कणता सैवोत्कर्षकत्वेन गुणस्तेन समुल्लसितं स्वच्छदर्पणे इव प्रतिबिम्बितम् इन्दुबिम्बं यत्र तथाविधम् आननपक्षे स्वच्छात्मतया गुणैः सौन्दर्याह्लादकत्वोद्दीपकत्व- रूपैः सम्यगुल्लसितन्दुबिम्बमिव" इत्याहुः। बिम्बं बिम्बिकाफलं पक्क कन्दुरूफलं "बिम्बं फले बिम्ब- कायाः प्रतिबिम्बे च मण्डले" इति विश्वः । तस्य या प्रभा कान्तिः तस्याः धरति बिभर्तीति धरं धार- कम् जीर्णमधुनो रक्तत्वादिति भावः । आननपक्षे बिम्बप्रभः बिम्बफलप्रभोऽधरो दशनवासो यत्र तादृशम्। "ओष्ठाधरौ तु रदनच्छदौ दशनवाससी" इत्यमरः । अकृत्रिमो गन्धान्तरयोगं विना मुखवासनादिकं विना च हद्यो हृदयंगमो गन्धो यस्य यत्र वा तथाविधमित्यर्थः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥ अत्राङ्गनानामाननं मधुसदशं हृद्यगन्धादिमत्त्वादित्यवं श्लिष्टविशेषणैरौपम्याक्षेपेऽपि मधु तृष्णां जहार नाननमित्यतो वैलक्षण्याव्यतिोक इति बोध्यम्। अत्र सर्वलोकलभ्यत्वपुण्यैकलभ्यत्वरूपौ तृष्णा- हरणाहरणरूपोत्कर्षापकर्षहेतू नोक्तौ। निर्जितजयत्यादिपदाभावेऽपि श्लिष्टविशेषणमाहात्म्यान्मधुमु- खयोरौपम्यं प्रतयते। तदेवाह अत्रेवादीिामित्यादिना। श्लिष्टविशेषणैरिति । स्वच्छात्मेत्यादिमि- रित्यर्थः। श्लिष्टत्वमुभयान्व्रितत्वात्। पृथगिति । स्वातन्त्रयेणेत्यर्थः उपमानविशेषणतया उपमेयविशे- षणतया चति यावत् । यथा 'अमृतममृतं कः संदेहो मधून्यपि नान्यथा' इत्यादौ सप्तमोल्ासे (३३५ पृष्ठे ) उदाहते। तत्रोपमानभूतेष्वमृतादिषु उपमेयेऽधरे चातिमधुरत्वं पृथगुपात्तम् प्रियाद- शनच्छदादन्यत् यत् स्वादु स्यादिति भङ्ग्या तस्यातिस्वादुत्वप्रत्ययादिति प्रभायां स्थितम् । उक्तमत्र माणिक्यचन्द्रसरस्वतीतीर्थादिभिः "यथोद्भटकुमारसंभवे गौरीस्तुतौ 'या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता। तपसा तां सुदीर्घेण दूराद्विदधतीमधः ॥' इति। अत्र तपसेति श्लिष्टोक्तियोग्यं पदं पृथगुपात्तम्। एकत्र तपो माघमासः अन्यत्र कृच्छ्रादि। आक्षिप्तमत्र साम्यम्" इति॥ उक्तेषूदाहरणेषु 'अयस्मादधिकः' इति व्यतिरेकाकारो गम्य एव। 'इन्दोः पझमाच्चाधिकं मे प्रियाया वदनं मतम्। विलासैर्हय्यगन्धैश्र' इत्यादौ तु वाच्य एव। अयमेवानुभवपर्यवसायीत्युच्यते। प्रियाया वदनेनेदं पङ्कजं सदृशं नहि। विलासैः शोभमानत्वाद्विकासित्वाद्विघूदये ॥' इति पद्ये प्रतीपालंकार- तिरस्कारको व्यतिरेकः। 'निष्कलङ्क निरातङ्क चतुःषष्टिकलाधर। सदा पूर्ण महीप त्वं चन्द्रोSसीति मृषा वच: ॥' इत्यत्र रूपकतिरस्कारकोऽयम्। 'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमाकारतो भेद: ॥' इति पद्मे केवलपद्स्वारस्येन अनयोः केवलम् आका-

Page 713

६५४ काव्यप्रकाशः सटीकः। 16u (सू० १६१) निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ १०६। वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥ विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विधा आक्षेप: । क्रमेणोदाहरणम् रवत्पद्वाच्यत्वतदभाववत्पद्वाच्यत्वाभ्याम् आकृतेश्र्व भेद: गुणैस्तु साम्यमेव दृढतरेत्यादिविशेषणसा- म्यादितरगुणैश्र्वेति प्रतीतेगम्योपभैवालंकारो न त्वयम् आधिक्यस्याचमत्कारित्वात् कृपणस्योपमेयत्वे तद्गतत्वाभावाच्च औपम्यतिरस्काराभावाच्चेति दिगित्युद्दयोते स्पष्टम् ॥ इति व्यतिरेकः ॥ १७॥ आक्षेपनामानमलंकारं लक्षयति निषेध इति। 'वक्तुमिष्टस्य निषेधः' इति सामान्यलक्षणम्। वक्ष्यमाणेत्यादि विशेषद्वयम्। आक्षेप इति लक्ष्यनिर्देशः । वक्तुमिष्टस्य प्राकरणिकत्वात् वचनार्हस्य अवचनानर्हस्य वा यो निषेधः अभिधाननिषेधः स आक्षेपः। निषेधो निषेध इवेत्यर्थः निषेधाभास इति यावत् शब्दगत्या निषेधेऽपि अर्थगत्या विधेरेव प्रतिपत्तेः। अयं भावः । वक्तुमिष्टस्य प्रकृत- त्वादेवाभिधातुं पतितस्य क्रियमाणो निषेधो बाधितः सन् आभासत्वे पर्यवस्यन् विधेराक्षेपक इति। निषेधप्रयोजनमाह विशेषाभिधित्सयेति। वक्ष्यमाणविषयेऽशक्यवक्तव्यत्वम् उक्तविषयेऽतिप्रसि- द्वत्वं चेति विशेषस्तस्याभिधित्सयाभिधानेच्छया बोधनेच्छयेत्यर्थः । एवं चावश्यवक्तव्यस्यार्थस्य विधि- तात्पर्यकं विशेषप्रतिपत्तये निषेधाभिधानमाक्षेपालंकार इति फलितम्। विभजते वक्ष्यमाणेति। वक्ष्यमाणश्रोक्तश्र वक्ष्यमाणोक्तौ तौ विषयौ यस्य (निषेधस्य) तादृश इत्यर्थः । तथा सति फलितमाह स आक्षेपो द्विधा मत इति। सूत्रं व्याकुर्वन्नादौ वक्तुमिष्टस्येत्यस्यार्थमाह विवक्षितस्येति। तस्याप्यर्थमाह अनुपेति। प्राकरण- कत्वात् प्रकृतत्वात् । अनुपसर्जनीकार्यस्य अनुपेक्षणीयस्येत्यर्थः । विशेषाभिधित्सयोति व्याचष्टे अश- क्येत्यादि। अशक्यवक्तव्यत्वमिति। दुःखातिशयहेतुत्वेन यत्कथयितुं न शक्यते इत्यर्थः । अति- प्रसिद्धत्वं वेति। व्येवस्थितविकल्पोऽयम वक्ष्यमाणविषयेऽशक्यवक्तव्यत्वं विशेषः उक्तविषयेऽति- प्रसिद्धत्वं विशेष इति विस्तारिकासारबोधिन्योः स्पष्टम्। वक्तुं बोधयितुम् व्यञ्जयितुमिति यावत्। ननु वक्तुमिष्टस्य कथं निषेध इत्यत आह निषेध इवेति। द्वन्द्वात्परं श्रूयमाणस्य विषयपदस्य प्रेत्येकं संबन्धं दर्शयति वक्ष्यमाणविषय उक्तविषयश्चेति। द्विधा द्विप्रकारः। अनपेक्षिताभिधाननिषेधस्य 'न पदमं मुखमेवैतत्' इत्यादेश् वारणाय सूत्रे षश्ठ्चन्तवृतीयान्ते इति बोध्यम्। केचित्तु वक्तुमित्युपलक्षणम् करिष्यमाणस्यापि निषेध आक्षेपः । यथा 'तां सुन्दरीं वर्णयितुं न मे वाणी प्रवर्तते' इत्यत्र करिष्यमा- णवाणीप्रवृत्तेर्निषेधो वर्णनीयस्यानिर्वाच्यता व्यनक्तीत्याहुरित्युद्दचोतकृत्। अनिष्टस्यार्थस्य निषे- १ व्यवस्थितविकल्प इति । विषयान्तरपरिहारेण विषयविशेषेऽवस्थितो विकल्प इत्यर्थः। अयमेव व्याकरण शास्त्रे व्यवस्थितविभाषत्युच्यते। यथा "अवड्: स्फोटायनस्य" (६।१/१२३) इति पागिनिसूत्रेण गोशब्दस्य अचि परे पदान्तिऽवडदशो विधीयते। स च व्यवस्थितविभाषया। तेन गोश्दस्य क्वचिट्विकल्पेनावड यथा गवा- ग्रम् गोग्रमिति । क्वचिन्न्नित्यमवङ। यथा वातायनार्थे वाच्ये गवाक्ष इति। कचित्तु न भवत्येवावड्। यथा प्राण्य- वयवे वाच्ये गोक्षमिति इति बोध्यम् ॥ २ प्रत्येकमिति। "द्ून्द्वान्ते शरूयमाणं पदं प्रत्येकमिसंचव्यते" इति न्यायादिति भाव:।। ३ उपलक्षणपर्द प्राक् (६०६ पृष्ठे ६ टिप्पणे ) व्याख्यातम् ।

Page 714

दशम उल्लास: । ६५५

ए एहि किंपि कीएवि कएण णिक्किव भणामि अलमह वा। (99g ०स) अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सं ॥ ४७१ ॥ माताड ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः। अन्तर्मानसमास्त्वया प्रभवता तस्या: स्फुलिङ्गोत्कर- व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे॥ ४७२॥

धतात्पर्यकं विशेषप्रतिपत्तये विधानमपर औक्षेपः। यथा 'गच्छ गच्छास चेत् कान्त पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥I' इति साहित्यदर्पणकृत् ॥

तत्र वक्ष्यमाणविषयं निषेधमुदाहरति ए एहीति। "ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथ वा। अविचारितकार्यारम्भकारिणी त्रियतां न भणिष्यामि ॥" इति संस्कृतम्। कएणोते 'कृते' इत्यर्थे। 'ए एहि' इत्यत्र 'एह्लिं वि' इति पाठे 'इदानीमपि' इति संस्कृतम्। नायकं प्रति नायिकासख्युक्तिरियम्। ए इति अव्ययं सामर्षसंबोधने। ए अरे निष्कृप त्वम् एहि आगच्छ। कस्या अपि कृते अर्थे किमपि तत्पीडातिशयरूपं भणामि वदामि। अलमथवेति पूर्वाक्षिपे। अलं न भणिष्यामीत्यर्थः । अविचारितेत्यादि तु 'त्वत्प्रेम्णः स्थैयास्थिर्ये अविचार्यैव प्रवृत्ता' इत्यर्थकम्। अलमित्यनेनैव निषेधलाभे 'न भणिष्यामि' इति पुनः कथनं खेदातिशयद्योतकम्। तदुक्तं चक्रवर्त्यादिभिः न भणिष्यामीति पौनरुक्त्यं खेदातिशयपोषकम् इति। अत्र 'कृते' इत्य- व्ययं तादर्थ्ये। "अर्थे कृतेऽव्ययं तावत् तादर्थ्ये वर्तते दयम्" इति कोशसारः। जघनविपुला छन्दः। लक्षणमुक्तं प्राक् १३३ पृष्ठे ॥

अत्र विरहजनितो नायिकासंतापातिशयोऽवइयं वक्तुमिष्टः न चासौ विशिष्य वक्तु शक्य इति व्यञ्जायतुं निषिद्ध इत्याक्षेपालंकारः । तथा चाहुः सारबोधिनीकाराः "अत्रोद्देश्यस्य नायिकादुर- वस्थानिवेदनस्य मर्मपडिकत्वम्। वक्ष्यमाणायाः मरणावस्थाया अभभिधानस्यालमित्यादिना निषेधोS- शक्यवक्तव्यत्वं व्यञ्जयति " इति। "अत्र विरहजनितदुर्दशातिशयो वक्ष्यमाणो निषिद्धः" इति प्रदीपः । "अत्र विरहदुर्दशातिशयो वक्ष्यमाणो वक्तुमशक्यतया निषिद्ध इत्याक्षेपालंकारः" इत्युदाहरणचन्द्रिका॥

उक्तविषयं निषेधमुदाहरति ज्योत्स्नेति। नायकं प्रति दूत्युक्तिरियम्। ज्योत्स्ना चन्द्रिका मौक्ति कदाम मुक्ताहारः चन्दनरसः मलयजद्रवः शीतांशुकान्तद्रवः चन्द्रकान्तमणिजलम् कर्पूरं घनसारः कदली रम्भा मृणालस्य बिसस्य वलयानि कङ्कणानि अम्भोजिनीपल्लवाः कमलिनीकिसलयानि च एतानि (कर्तृणि) अन्तमनिसं मानसमध्ये प्रभवता प्रकर्षेण स्थितवता दाहकारणसमर्थेन वा ('प्रव- सता' इति वा पाठः ) त्वया (करणभूतेन ) तस्याः नायिकाया: स्फुलिङ्गोत्करस्य अग्निकणसमूहस्य यो व्यापारो दाहोत्पादनं तस्मै तदर्थ भवन्ति। आः इति कोपेऽव्ययम् । हन्तेति विवादे। अनेन उक्तेन किम् न बूमहे अतिप्रसिद्धत्वादित्याशयः। प्रभवतेत्यनेन प्रभोरनभियोज्यत्वं सूचितम्। प्रवस- तेति पाठे दुःसमाधानत्वम्। मौक्तिकपदे मुक्तैव मौ्तिकमिति विग्रहः "विनयादिभ्यष्ठक्" (५४।३४) इति पाणिनिसूत्रेण स्वार्थे ठक्प्रत्ययः क्वचित्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते" १ एवं च निषेधाभासवद्विध्याभासोडप्यलंकार इति भावः ।।

Page 715

६५६ काव्यप्रकाशः सटीकः। (सू० १६२) क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना ॥ १०७ ॥ हेतुरूपक्रियायाः निषेधेऽपि तत्फलप्रकाशनं विभावना। यथा इति परिभाषया कुटीरः अपुल्पमित्यादाविव लिङ्गातिक्रमः। यद्वा मुक्तानां समूहो मौक्तिकम् "अचित्तहस्ति० " (४।२।४७) इति पाणिनिसूत्रेण ठक्। शार्दूलविकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र वियोगिनीनां ज्योत्स्नादि स्फुलिङ्गायते इत्यत्रातिप्रसिद्धत्वं विशेषं व्यञ्जयितुं ज्योत्स्नादी- न्युक्त्वा तत्कथनं प्रतिषिद्धमित्याक्षेपालंकारोऽयम्। अत्र उदाहरणद्वये व्यङ्गयेनाशक्यवक्तव्यत्वा- दिना व्यक्षकं वाच्यमेव चारुत्वमावहताति गुणीभूतव्यङ्गयता। यत्तु वामनेन 'उपमेये सति किमुपमा- नेनेत्येवमुपमानाक्षेप आक्षेपः' इत्युक्तम् तत्तु वक्ष्यमाणप्रतीपरूपतया गतार्थमित्युद्योते स्पष्टम्। अत्र 'न बूमहे' इत्युक्तनिषेधो विरहे शीतलानां दाहकत्वस्यातिप्रसिद्धत्वं व्यञ्जयतीति सारबोधिनी। इत्याक्षेप: ॥१८॥ विभावनानामानमलंकारं लक्षयति क्रियाया इति। क्रियतेऽनयेति व्युत्पत्या क्रियाशब्दः प्रिद्धः कारणपरः। विभावयति कारणान्तरम् (अप्रसिद्धकारणं विदग्धमात्रवेय कारणं) कल्पयतीति व्युत्पत्या विभावनाशब्दोऽप्यन्वर्थः । प्रसिद्ध कारणाभावेऽपि कार्योत्पत्तिर्हि, कार्यस्य कारणान्तरं कल्प- यति। एवं च प्रसिद्धकारणनिषेधेऽपि तत्कार्यरूपफलस्य व्यक्ति: प्रकाशनं कथनं विभावनालंकार इत्यर्थः । व्याख्यातमिदं प्रदिोध््योतयोः "वैयाकरणमते क्रियैवै हेतुरिति क्रियेत्युक्तम्। वस्तुतस्तु कारणप्रतिषेधे कार्यवचनं विभावना। न च विरोधः स्वाभाविकत्वस्य कारणान्तरस्य वा विभावनात्" इति प्रदीपः । (कारणेति। प्रसिद्धकारणेत्यर्थः । सूत्रे क्रियतेऽनेनेति व्युत्पत्या क्रियाशब्द: कारण- पर इति भाव:। एवं च कारणव्यतिरेकसामानाधिकरण्येन प्रतीयमाना कार्योत्पतत्तिर्विभावनेत्यर्थः । 'न कठोरं न वा तीक्ष्णम्' (६४६ पृष्ठे) इत्यादावपि कठोरत्वादिविशिष्टायुधस्य जयहेतोरभावेऽपि कार्यकथनाद्विभावनैव। अतिशयोवितिस्तु तदङ्गम कारणतावच्छेदकावच्छन्नकारणव्यतिरेकस्य विवाक्षि- तत्वात्। ननु कारणाभावे कार्योत्पत्तौ स्फुरितस्य विराधस्य प्रसिद्धातिरिक्तेन कारणेन परिहारा- द्विराधाभास एवायमिति चेन्न। समबलयोः परस्परविरोधे तत्स्वीकारात् इह तु कारणविरहेण कार्यमेव बाध्यत्वेन गम्यते न तु तेन कारणविरह इति विशेषात्) इत्युद्चोतः। अयं भावः । विरो- धाभासे उभयमेव परस्परं बाध्यतया प्रतीयते इह तु कारणाभावेन कार्यमेव बाध्यतया प्रतीयते न तु कार्यण प्रमाणनिश्चिवितः कारणाभावोपि बाध्यतया प्रतीयते। कारणाभावश्र क्वचित् नञ्रादिना साक्षात् कचिच्च कारणविरोधिनः उक्त्या परंपरया प्रतिपादते। यथा 'यः कौमारहरः' (१७ पृष्ठे) इत्यादौ उत्कण्ठाकारणविरोधिनामुक्तिरिति॥ वैयाकरणा: क्रियाया एव हेतुतां स्वीकुर्वन्ति तन्मतेन व्याकरोति हेतुरूपेति। अन्यथा धात्वर्थ- १ उपमानाक्षेप इति। उपमानस्य आक्षेप इत्यर्थः। निन्दा निषेधो वात्राक्षेपपदार्थः ॥ २ आक्षेपः आक्षेपा लंकारः॥ ३ "कियैवेति। द्रव्यगुणादेरव्यनभिव्यक्तस्याहेतुत्वादभिव्यक्तिरूपक्रियायाः सर्वत्रापेक्षेति कियैव हेतु- रित्याशयः। आत्मादेरपि हेतुत्वादाह वस्तुतस्त्विति। तथा च क्रियतऽनेनेति व्युत्पत्यात्र कियाशब्द उक्त इति भावः । स्वाभावविकत्वस्य स्वभावविशेषजन्यत्वस्य। कुसुमितेत्यादौ सौकुमार्यातिशयरूपस्वभावजन्यत्वविभावनम् । 'पुष्पादेगमेराभरण प्रयोगं प्रारेभिरे वामदशां युवानः । ततो विना कार्मुककर्मसिद्धिं पुष्पायुधस्याभवदस्त्रमाक्ष: ॥ इ त्यादौ कारणान्तरं पुष्पाभरणमनुरागोद्दीपकं बोध्यम्" इति प्रभा॥eIpppFDI:piC

Page 716

दशम उल्लास: । ६५७

कुसुमितलताभिर हताप्यधत्त रुजमलिकुलैरदष्टापि।(21 कउ) परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ॥ ४७३॥ रूपक्रियानिषेधस्याकिंचित्करत्वेनासंगतिः स्यात्। यत्तु क्रियापदं कारकव्यापारमित्युक्तम् तदपि भङ्गय। हेतुपर्यवसन्नमिति सुधासागरसारबोधिन्यादिषु स्पष्टम् । तत्फलप्रकाशनमिति। तस्याः हेतुरूप क्रियायाः यत् फळं कार्य तस्य प्रकाशन कथनमित्यर्थः। विभावनेति। कारणान्तरकल्पनात्मालंकार इत्यर्थः । केचित्तु "विभाव्यते विचार्यते कारणमस्यामिति विभावना। बाहुलकादधिकरणे युच" इत्याहुः। विभावनामुदाहरति कुसुमितेति। नायिकाया: विरहावस्थावर्णनमिदम्। सा नायिका कुसुमानि संजातानि यासां ताः कुसुमिताः ताभिर्लताभिः अहतापि अताडितापि रुजं पीडाम् अधत्त धृतबती विरहवशादिति भावः। एवं सर्वत्र बोध्यम् । अलिकुलैः भ्रमरसमूहैः अदष्टापि परिवर्तते स्म परा- वृत्त्य वर्तते स्म। नलिनीयुक्ताभिर्लहरीभेः नलिनीपरंपराभिर्वा अलोलितापि अचालितापि अघूर्णत भ्रमिमवापेत्यर्थः । सा नलिनीति रूपकमिति कचित् । गीतिशछन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ लताहननं पीडाहेतु: भ्रमरदंशः परिवर्तनहेतुः तरङ्गसंबन्धो घूर्णनहेतुः अत्र तेषां हेतूनामभा वेऽपि तत्कार्यस्य पीडादिरूपस्य प्रकाशनम् (कथनम्) इति विभावनालंकारः विरहातिशयरूपस्या- प्रसिद्धस्य हेतोर्विभावनात्। अत एवाहुर्निदर्शनकाराः "अत्र कुसुमितलतादीनां व्यापारस्य हननादेनि- षैधेऽपि तत्कार्यस्य पीडोत्पत्यादेरुक्तिर्विर्रहातिशयं य्योतयति" इति। सुधास गरे तु कठोरताडनेन पीडोत्पत्तिः संभवति सातु कोमलतरकुसुमितलतयाप्यहता प्रसिद्कारणं विनैव पीडिताभूत् विरह- वशादिति भावः। एवं वृश््विकादिदंशने परावृत्त्य पलायते सा तु अलिकुलैर्गन्धग्राहकमिलिन्दैरप्यदष्ट। परिवर्तते स्म रमणीयस्थानात्पलायति स्म। तथा महदालोडने जन्तुर्घूर्णते सा तु नलिनीयुक्ताभिर्ल- हरीमिर्ललिततमतरङ्गैरपि अलोलिता सती अधूर्णतेति व्याख्यातम्। केचित्तु कुसुमितलताहननं विर- हिण्या: रोगहेतुः एवमग्रेऽपपि अत्र घातादिरूपकारणाभावेऽपि रोगादिरूपतत्कार्यकथनाद्विभावनालंकार: सौकुमार्यातिशयस्याप्रसिद्धहेतोर्विभावनादित्याहुः॥ अत्राहुरुद्दयोतकारा: "अत्र विरहरूपहेत्वन्तरजनितानां विभावनामूलम्।स च प्रकृतेऽनाहार्यः। 'निरुपादानसंभारममित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥' (१३२ पछ्ठे) इत्यत्राहार्यों रूपककृतः । सर्वथा कार्याशेऽभेदबुद्धिर्विभाव- नाजीवितम्। सा च कचिदतिशयोक्त्या क्वचिद्रूपकेणेत्यन्यत्। 'अप्यलाक्षारसासिक्तं रक्त तच्चर- णद्दयम्' इत्यत्र स्वाभाविकत्वेन परिहारः । अत्र कारणव्यतिरेकः प्रतिबन्धकसत्ताया अप्युपलक्षणम्। तेन 'सातपत्रं दशत्याशु प्रतापतपनस्तव' इत्यत्राप्येषा । अत्रापि स्वभावमादाय विरोधपरिहारः । प्रतिबन्धकाभावस्यापि कारणत्ववादिनां तु यथाश्रुतमेव सम्यक् परं तु कारणव्यतिरेकप्रतातिरार्थीति बोध्यम्। 'शङ्काद्वीणानिनादोऽयमुदेति महदद्भुतम्' इत्यत्र वीणां विनोते प्रततिरार्थी कारणाभावप्रती- तिरस्त्येव। अत्र शङ्गत्वेन कान्ताकण्ठः तन्त्रीनिनादत्वेन तद्गीतं चाध्यवसितम्। 'शीतांशुकिरणास्तन्व्रीं हन्त संतापयन्ति ताम्' इत्यत्रापि दाहकारणतावच्छेदकधर्मवच्छिन्नाभावप्रतीतिरार्थ्यस्त्येव विरहका- िकदाहकारणतावच्छेदकत्वं शीतांशुत्वेऽपीति विभावनाद्विरोधपरिहारः । वस्तुतः 'शङ्गाद्वीणानि- नादोऽयम्' इत्याुदाहरणानि विरोधस्यैव परस्परबाध्यत्वावगमात् । 'यशःपयोधिरभवत्करकल्पतरो- स्तव' इत्यत्रापि विरोधाभास एव परस्परं विरोधावगतेः। एतेन 'कार्यात्कारणजन्मापि विभावना' ८३

Page 717

६५८. काव्यप्रकाश: सटीक: । (सू० १६३) विशेषोक्तिरखण्डेषु कारणेषु फलावचः । मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः । अनुक्तनिमित्ता उक्तनिमित्ता अचिन्त्यनिमित्ता च। क्रमेणोदाहरणम् निद्रानिवृत्तावुदिते द्यरत्ने सखीजने द्वारपदं पराते। शलथीकृताश्लेषरसे भुजंे चचाल नालिङ्गनतोऽङ्गना सा॥।४७४॥ इत्यपास्तम् कारणान्तरं विभावयतीत्यन्वर्थाभावेन तस्य विभावनात्वाभावात्। एवं 'नि्मीलितादक्षि- युगाच्च निद्रया हदोडपि बाह्येन्द्रियमौनमुद्रितात्। अदर्श संगोप्य कदाव्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥' इत्यत्राप्येषा। अक्षियुगात् हृदोऽपि संगोप्य अत एव महत् रहस्यं यथा स्यात्तथा स नृपतिनिर्द्रयादार्शी। निर्मालितत्वेनाक्षिसंनिकर्षराहित्येन गोपनम् बाह्येन्द्रियसहकृतान्मनसश्र तद्वा- ह्येन्द्रियव्यापाररहितात्ततोऽगोपने पर्यवस्यति सविशेत्रणे हीति न्यायात्। कालान्तर्रीणदर्शनजानि- तस्मरणसहकृतमनसोपनीतभानं स्यादत आह कदाप्यवीक्षित इति। एवं च योगजधर्मवददृष्टवि शेषाद्विनैवोपनयं नलत्वेन भानमभिमतम् 'अदृष्टमप्यर्थसटृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम्' इत्युक्तेः। अत्र दृशवतोज्ञनिसामान्ये लक्षणया तत्र दर्शनाभेदलाभात् कारणाभावे कार्यलाभेन विभावना। कुसुमितेत्युदाहरणेऽनुक्तनिमित्ता एषा। उक्तनिमित्ताप्येषा। यथा 'यदवधि विलासभ- वनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तद्व,ध यूनां हृदयानि दह्यन्ते ॥' इति । अत्रोपात्ते यौवने दाहहेतुत्वं पर्यवस्यतीति दिक्" इति ॥ इति विभावना ॥१९॥ विशेषोक्तिनामानमलंकारं लक्षयति विशेषोक्तिरिति। अखण्डेषु मिलितेषु कारणेषु प्रसिद्धकारणे- षूक्तेषु सत्सु फलावच: कार्याभाववचनं विशेषोक्तिरित्यर्थः । अखण्डष्िति व्याचष्टे मिलितेष्वपीति। कारणेषु प्रसिद्धहेतुष। अत्र बहुत्वमविवक्षितम् "सूत्रे लिङ्गवचनमतन्त्रम् " इति न्यायात्। फला- वच इते व्याचष्टे कार्यस्याकथनमिति। अकथनम् अभावप्रतिपादनम् । तच्च क्रचित् नञ्ादिना साक्षात् क्वचिच्च कार्यविरोधिन उक्त्या परंपरया। यथा द्वितीयोदाहरणे शक्तिध्वंसरूपकार्यस्य विरो- धिना शक्तिरभिहिता। साक्षादुक्तौ स्फुटत्वम् परंपरयोक्तौ अस्फुटत्वमिि विशेषः । तथा 'यः कौमारहरः' इत्यादौ (१ उदाहरणे ) अनुत्कण्ठाविरोधिन्याः उत्कण्ठाया उक्तिः । कारणप्रतिषेध- फलावचनयोः साक्षादुक्तौ यमक्रमं विभावनाविशेषोक्ती स्फुटे भवतः। परंपरया उक्तिस्थले तु ते अस्फुटे। अत एव 'यः कौमारहरः' इत्यादौ उमयोरेवास्फुटत्वम् । अत एव ग्रन्थकृतैवोक्तम् ( १८ पृष्ठे) "अत्र स्फुटो न कश्विदलकारः" इतीति विवरणे स्पष्टम् । विशेषोक्तिरिति। रागातिशयादेरविशेषस्योक्तिर्यत्र सेत्यर्थ इति चक्रवर्ती। विशेषं कंचित्प्रतिपादयितुमुक्तिरित्यर्थ इत्युइ्यो- अत्रापि अप्रसिद्वे कार्याभावहेतौ पर्यवसानाद्विरोवाभाव इति प्रद्ीपे स्पष्टन्। कार्यस्याकथनं निमित्त- मपेक्षते तथा च निमित्तस्य त्रैविध्यात् त्रिधा विशेवोक्तिरित्याह अनुक्तनिमित्तेत्यादि। प्रकरणा- दिनाज्ञातस्य निमित्तस्याकथने अनुक्तनिमित्ता निमित्तस्य कथने उक्तनिमित्ता दुरधिगमस्य तस्या- कथने अचिन्त्यनिमित्ता चेत्यर्थः। अत्राहुश्चक्रवत्याियः अनुक्तनिमितायाश्िविन्त्याचिन्त्यनिमित्तत्वेन द्वविध्यमिति मिलित्वा त्रैविध्यम्" इति॥ अनुक्तनिमित्तां विशेषोक्तिमुदाहरति निद्देति। निद्रायाः निवृत्तौ सत्यामपि घुरत्ने सूर्ये उदिते

Page 718

देशम उल्लास: । ६५९

कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्त्ववार्यवार्याय तस्मै मकरकेतवे॥। ४७५।।

सत्यपि सखीजने द्वारपदं द्वारस्थानं पराप्े प्राप्ते सत्यपि भुजंगे उपपतौ श्लथीकृतः शिथिलीकृतः आश्लेषरसः आलिङ्गनरसो येन तादशेऽपि सा प्रसिद्धा कल्याणानि अङ्गानि यस्या: सा अङ्गना आलिङ्गनत आलिङ्गनात् न चचाल न चलति स्मेत्यर्थः । "भुजङ्गो विटसरपयोः" इति हलायुधः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक ७८ पृष्ठे ॥ अत्र निद्रानिवृत्तिसूर्योदयादिरूपकारणसत्त्वेऽपि आलिङ्गनपरित्यागरूपकार्याभावोक्तिरिि विशे- षोक्तिः। सा च निमित्तस्यानरागातिशयस्यानुक्तेरनुक्तनिमित्ता। अत एवाहुः प्रदीपकाराः "अत्रा- नुरागातिशयो निमित्तं चलनाभावे। स च विशिष्य वक्तुं शक्यत्वेऽपि नोक्त इत्यनुक्तनिमित्तेयम्" इति। चक्रवतिरभट्टाचार्यास्तु 'श्लथीकृताशेषरसे' इति पाठं मन्यमाना: श्लथीकृतः अशेषरसो येन भुजंगेनेति बहुवािः। अशेषरसः चम्बनपरिरम्भोत्सवादिः। दृढतरतदुपभोगतया नायिकायास्तदुत्क- ्ठापनीदनं श्लथीकरणम्। भुजंगः उपपातः अत एव निर्दयोपभोगः । तेनात्र सुरतश्रमादक्षमत्वं निमित्तमनुक्तं चिन्तनीयमिति व्याचख्युः । सारबोधिनीकारा अपि "श्लथीकृताश्लेवरस इति। तेन सर्वाङ्गसंपन्नः संभोगो जातः तथा चात्र रतश्रमादक्षमत्वं निमित्तमनुक्तं चिन्तनीयमिति" इत्याहुः। कारणसत्त्वे कुतः कार्यानुत्पत्तिरित्येवमत्र विरोधः कार्यानुत्पत्तेः कारणसमवधानबाध्यत्वात्। अत्र निमित्तं व्यङ्ग्यमपि न चार्विति गुणीभूतव्यङ्गयतेत्युद्द्योते स्पष्टम्।। उक्तनिमित्तां विशेषोक्तिमुदाहरति कर्पूर इति। राजशेखरकविकृते बालरामायणे तृतीयेSङ्के पत्यमिदम्। यः कामः कर्पूर इव दग्धः पुष्टोपि जने जने शक्तिमान्। शक्तिर्घ्राणस्य मनसश्ा- कर्षकता। अवार्यवीर्याय आकुष्ठितशक्तये तस्मै मकरकेतवे कामाय नमः अस्त्वित्यर्थः । "पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः" इत्यमरः । 'नमः शृङ्गारबीजाय' इति बालरामायणपुस्तके पाठः स च प्रकृतानुपयुक्तः उक्तनिमित्तोदाहरणत्वासंगतेः । अत्र शरीरदाहः शक्तिध्वंसे कारणम् सत्यपि तस्मिन् कारणे शक्तिध्वंसरूपकार्याभावकथनमिति विशेषोक्तिः। सा च निमित्तस्यावार्यवीर्यत्वस्य कथनादुक्तनिमित्ता । उक्तं च प्रदीपे "अत्रावार्यवीर्यत्वं शक्तिमत्वे कार्याभावरूपे हेतुरुक्तः" इति। "इयं चावार्यवीर्यत्वरूपोक्तनिमित्ता" इति चन्द्रिकायामापि॥ "अत्र कर्पूरो दाहमात्रे उपमानम् न तु शक्तिमत्त्वेऽपीति भास्करः। शक्तिमत्त्वे इति परमार्थः ईषद्दग्धस्य तस्य सौरभाद्यतिशयात्। 'भूम्यां प्रियाया भवता मनोभूचापेन चापे घनसारभावः। निर्जा

१ धूभ्यामिति। श्रीहर्षकविरुते नैषधीयकाव्ये सप्मे सर्गे २५ पद्यमिदम्। मनोभूचापेन मद्नधनुषा प्रियाया: मैम्या: (दमयम्त्या) भूर्म्या बयुगलेन भवता धूत्वं गच्छना सता घनो दृढः सारो बर्ल यत्य तस्त भावोडति दृढत्वं च आपे प्राध्यते रम। आपीते: कर्माण लिनू। न केवलं भूखं प्रापम् किंतु अतिदृढत्वमपि प्राप्तमिति चका- रार्थ:। पुष्पत्वद्शार्यां निःसारस्यापि धनुषो मैमीध्र वदशारयां सप्तारत्वं जातमित्यर्थः । कथमेवं ज्ञातित्यत आह निजामित्यादि। यत् यस्मात् निजा स्वीयाम् अपनीषद्शाम् अद्ाहावस्थाम् अनेक्ष्य संप्रति दग्वस्य भैमध्मवन समये अनेन मदनधनुषा अधिकवीर्यता अतिशयितचलवश्वम् अर्नि अर्जिता (संपािता) 1 कर्माण लुड। पुष्प० मयत्वावस्थापक्षिया संत्वावस्थारया त्यैव धनुषो जगद्वूशीकरणेऽधिकसामर्थर्दर्शनदेवमनुमयते इत्यर्थ। अथ च धनसारभावः कर्पूरत्वम् आपे। कर्पूरोडपि निजामदाहावस्थामपेक्ष दाहावस्थायाम् अधिकवीर्यताम् अतिशबितं सौगध्धयं शीतलत्वं चार्जयतत्यिर्थः। "अथ कर्पूरमस्त्रियाम्। घनसार्रयन्द्रसंज्ञः" इत्यमर।॥

Page 719

६६० काव्यप्रकाशः सटीकः ।

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शंभुना न बलं हतम्॥४७६॥ (सू० १६४) यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥। १०८ ॥ यथा

यदप्ठोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥' इऱ्यादिनैषधदर्शनात्" इति काव्यप्रदीपकाराः तद्दान्तिविलसितम्। तथाहि। कर्पूर इवेषद्दग्धोऽपि शक्तिमानिति विवक्षायामन्यस्यापि ईषद्दग्धस्य शक्तिमत्त्वसंभावनया विशेषोक्तिर्भज्येत। तस्मान्निःशेषदाहे कर्पूरः उपमानम् यथा कर्पूरदाहे भस्मापि नावशिष्यते तथा निःशेषं दग्वोऽपि जने जने यः शक्तिमानित्यर्थः। एवं शक्तिध्वंसे निःशेषदाहस्य नियतकारणत्वाद्विशेषोक्तिरुपपद्यते इति सहृदयैराकलनीयमिति सुधासागरे स्पष्टम्। कर्पूरो रसकर्पूरः पारद इत्यपरे॥ अचिन्त्यनिमित्तां विशेषोक्तिमुदाहरति स एक इति। एकोऽसहायः स कुसुमायुधः कामः । कुसुमेत्यनेन आयुधस्य निःसारता सूचिता। त्रीणि जगन्ति भुवनानि जयति। यस्य कामस्य तनुं शरीरं हरता दहता शंभुना बलं सामर्थ्य न हृतमित्यर्थः । "एकोऽन्यार्थे ग्रधाने च प्रथमे केवले तथा। साधारणे समानेडल्पे संख्यायां च प्रयुज्यते ॥" इति कोशः ॥ अत्र तनुहरणं बलहरणे कारणम् सत्यपि तस्मिन् कारणे :बलहरणरूपकार्यस्याभावकथनमिति विशेषोक्तिः। सा च तनुं हरता हरेण कथं बलं न हतमित्यत्र हेतुर्विशिष्य वक्तुं (सहसा चिन्त- यितुं) न शक्यते शास्त्रैकगम्यत्वादित्यचिन्त्यनिमित्तेयम् । यद्यप्यनुक्तत्वाविशेषादेषाप्यनुक्तनिमि- त्तैव तथापि प्रकरणादिना ज्ञातस्य निमित्तस्यावचनेऽनुक्तनिमित्ता अज्ञातस्य निमित्तस्यावचने एषेति भेद इत्युक्तं प्राक् (६५९ पृष्ठे)। यत्तु "एकगुणहानिकल्पनया साम्यदार्ढ्य विशेषोक्तिः" यथा 'दूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इति तन्न। अत्र द्यूते राज्यस्य तादात्म्येनारोपेण रूपकसत्त्वात्। तत्र सिंहासनरहिते द्यूते सिंहासनसहितराज्यतादात्म्यं कथं सिध्येदिति आरोपोन्मू- लकयुक्तिनिरासायारोप्यमाणराज्येऽपि सिंहासनराहित्यं कल्प्यते इति दृढारोपरूपकमिदम्। एवं गुणाधिक्यकल्पनायामप्येतदेव यथा 'धर्मो वपुष्मान् भुवि कार्तवीर्यः' इत्यादावित्युझ्योते स्पष्टम् ॥ इति विशेषोक्तिः ॥ २० ॥ यथासंख्यनामानमलंकार लक्षयति यथासंख्यमिति। क्रमिकारणा क्रमवतां पदार्थानां क्रमेण उप- दैशकमेण प्रथमस्य प्रथमेन द्वितीयस्य द्वितीयेन तृतीयस्य तृतीयेनेत्येवमित्यर्थः समन्वयः संबन्धो यथासंख्यमित्यर्थः। येन क्रमेण यावत्संख्याकाः ये प्रथममुद्दिष्टास्तेनैव क्रमेण पश्वाद्पि तेषां तावत्सं- ख्याकेषु पदार्थेषु संबन्धो यथासंख्यनामालंकार इति भावः।/यद्य पि कविप्रतिभानिर्मितत्वस्यालंकार- ताजीवातोलेशतोऽप्यभावादस्य नालंकारत्वम् तथापि एकत्र पद्ये बहूनां क्रमान्वये बैचित्यादलंक।- रत्वेनोक्त इत्युद्दयोते स्पष्टम् ।। उक्तं च चक्रवर्त्यादिभिरपि "यद्यपि 'अकलिततपस्तेजोवीर्य०' (३७४ पृष्ठे ) इत्यादावकमस्य दोषत्वाभिधानात्तदभावरूपो नायमलंकारो भवितुमर्हति तथाप्येक- आ्रनेकेषां तथात्वे वैचित्र्यानुभवादलंकारतेत्ययं गणितः" इति। एवं च 'शत्रुं मित्रं विपत्तिं च जय १ "आयुर्जीवितकाली ना जीवातुर्जीवनौषधम्" इत्यमरः ॥२ पये इत्युपलक्षणम् गद्यस्यापि स्र्राह्यत्वात् ॥

Page 720

दशम उल्लास:। ६६१

एकस्त्रिधा वसास चतास चित्रमत्र देव द्विषां च विदुर्षा च मृगीदशां च। तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च॥ ४७७॥ (सू० १६५) सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्तु सोऽर्थान्तरन्यास: साधर्म्येणेतरेण वा ॥ १०९॥ साधर्म्येण वैधम्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सोडर्थान्तरन्यासः। क्रमेजोदाहरणम्

रक्षय भक्षय' इत्यादावप्ययमलंकारः। अत्रापि अलंकारत्वे सतीति विशेषणं प्रकरणप्राप्तमस्त्येव् तेन "टाङसिड सामिनात्स्याः' (७१।१२) इति पाणिनिसूत्रे सत्यपि क्रमेणान्वये नालंकारत्व- प्रसङ्ग: वैचित्र्याभावात्।

उदाहरति एक इति। राजानं प्रत्युक्तिरियम्। संमदरसमित्यत्र संमद्भरमिति क्वचित्पाठः । हे देव राजन् एक: त्वं द्विषां शत्रूणाम् विदुषां पण्डितानाम् मृगीदृशां रमणीनां च चेतसि चित्ते त्रिधा प्रकारत्रयेण वससि अत्र अस्मिन्विषये चित्रम् आश्र्वर्यम्। कि कुर्वन् शौर्यस्य प्रतापस्य ऊष्मणा उष्णेन विनयेन नम्रतया लीलया विलासेन च क्रमेण तापं संतापम् संमदरसम् आनन्दरसम् रतिं प्रीतिं च पुष्णन् सन् इति प्रकारत्रयप्रदर्शने सोडयं यथासंखयनामालंकारः । "ऊष्माणस्तु निदा- घोष्णग्रीष्माः शषसहा अपि" इत्यभिधानम्। प्रतापे उष्णत्ववर्णन कविसभयासद्धम्। कविसमयश्च बाहुल्येन प्राक् (३८९ पृष्ठे २६ पङ्तौ ) प्रदर्शितो द्रष्टव्यः। "मुत्प्रीतिः प्रमदो हर्षः प्रमोदा- मोदसंमद्ा: । स्यादानन्दथुरानन्दशर्मशातसुखानि च " इत्यमरः । वसन्ततिलका छन्दः । लक्षणमुक्तं प्राक् ६८ पृष्ठे ॥ इति यथासंख्यम् ॥ २१ ॥

अर्थान्तरन्यासनामानमलंकारं लक्षयति सामान्यमिति। तदन्येन विशेषेण सामान्येन वा। समर्थ्यते सोपपत्तीक्रियते निःसंदेहं प्रत्याय्यते। 'यत्तु' इत्यत्र 'यत्र' इति पाठे यस्मिन्नलंकारे इत्यर्थः । तथा च सामान्यं यत् विशेषेण समर्थ्यंते विशेषो वा सामान्येन समर्थ्यंते स द्विविधोऽर्थान्तरन्यासः । द्विविधेऽप्यस्मिन् पुनर्द्वैविध्यमाह साधर्म्येणेत्यादिना। साधर्म्येण समानधर्मवत्त्वेन इतरेण वैधम्येण (विरुद्धधर्मवत्त्वेन ) वा 'समर्थ्यते' इत्यनेनान्वयः। एवं च द्योरपि प्रत्येक समर्थनहेतुः साध्म्य वैधर्म्य चेति चतुःप्रकारोऽयमर्थान्तरन्यासालंकार इत्यर्थः॥ "अनुपपद्यमानतया संभाव्यमानस्यार्थस्यो- पपादनार्थ यत् अर्थान्तरं न्यस्यते सोऽर्थान्तरन्यासः। दृष्टान्ते तु सामान्यं सामान्येन विशेषो विशेषेण समर्थ्यते इति ततो भेदः। साक्षावाप्त्यादेरनभिधानादनुमानतो भेदः। कविनिबद्वप्रमात्रन्तरनिष्ठानु मितेरेवानुमानालंकारविषयत्वाच्च" इत्यु्चोतः । "कारणेन कार्यस्य कार्येण कारणस्य वा समर्थनं तु काव्यलिङ्गस्य विषयः। समर्थ्यसमर्थकयोः सामान्यविशेषभावसंबन्धेऽयम् बितरसंबन्धे काव्यलिङ्ग मित्यभ्युपगमात्" इति ६६३ पृष्ठे १९ पङ्कौ दर्शयिष्यमाणोऽप्युश्योतोSत्र द्रष्टव्यः । "[अत्र विशेषेण सामान्यस्य सामान्येन वा विशेषस्य सभर्थनम् ]। दृष्टान्तप्रतिवस्तूपमयोस्तु विशेषेण विशेषस्य समर्थन- मिति ततो भेदः। काव्यलिङ्गे तु न सामान्यविशेषभाव इति तन्निरासः" इति प्रभा। "प्रतिवस्तूपमायामु- पमानोपमेयभावो विवक्षितः अत्र तु समर्थ्यसमर्थकत्वं विवक्षितमिति ततोऽस्य भेदः" इति सारबोधिनी। "अनुपपद्यमानतया सैभाव्यमानयोः सामान्यविशेषयोरुपपादनार्थ

Page 721

६६२ काव्यप्रकाशः सटीक:।

निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्। पश्यति पित्तोपहतः शशिशुभ्रं शङ्कमपि पीतम्॥४७८॥ सुसितवसनालंकारायां कदाचन कौमुदी- महास सुदाश स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रिय गृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥ ४७९॥ गुणानामेव दौरात्म्यात धुरि धुर्यो नियुज्यते। असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥॥४८०॥ णापन्यासः अर्थान्तरन्यासः । कार्यकारणयोः परस्परं दृष्टान्तदार्टान्तिकभावविरहात् नैव तयोः समर्थ्यसमर्थकभावः संभवतीति न तत्कृतप्रभेद: स्वीृतः" इति विवरणम्॥ तत्र विशेषेण सामान्यस्य समर्थनं साधर्म्येणोदाहरति निजेति। निजदोषेण स्वदोषेण आवृ- तम् आक्रान्तं व्याप्ं मनो येषां तादृशानां पुरुषाणाम्। एवकारोडप्यर्थे। अतिसुन्दरमपि वस्तु विपरीतम् असुन्दरं भाति। तत्रार्थान्तरं न्यस्यति पश्यतीत्यादिना। पित्तेन मायुना (रोगविशेषेण) उपहतः व्याप्तः पुरुषः शशिवत् शुभ्रमपि शह्गं पीतं पीतवर्ण पंश्यतीत्यर्थः। "मायुः पित्तम्" इत्यमरः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र निजदोषित्यादि सामान्यं शङ्गपीतिम्ना विशेषेण समार्थतमति विशेषेण सामान्यसमर्थन- रूपोऽर्थान्तरन्यासः। यद्यपि दोषेण भ्रमो भवतीत्यर्थे पामरस्यापि नानुपपत्तिसंभावना तथापि आहार्या सा बोध्येत्युइ्चोते स्पष्टम् ।। सामान्येन विशेषस्य समर्थनं साध्म्येणोदाहरति सुसितेति। सप्तमोछ्लासे (३८९ पृष्ठे) व्याख्यातमिदं पद्यम्। अत्र सुसितेत्यादिनाभिहितो विशेषः 'क नासि' इत्यादिना सामान्येन सन- र्थिंत इत्यर्थान्तरन्यासोऽयम्।। विशेषेण सामान्यस्य समर्थनं वैधर्म्येणोदाहरति गुणानामिति। धुर कार्यभारं वहतीति घुर्यः धूर्वहनक्षमः श्रेष्ठः । "धुरो यडडको" ( ४४।७७) इति पाणिनिसूत्रेण यत्प्रत्ययः । गुगानां दौरात्म्यात् अपराधादेव यद्दा गुणरूपदोषादेव धुरि कार्यभारे नियुज्यते नितरां संबध्यते। तत्रा- र्थाम्तरं न्यस्यति असंजातेत्यादिना। गलिः गौः वृषभः असंजातः अनुत्पन्नः किणो वणः घर्षण- चिह्न वा प्ररूढवरणग्रन्थिर्वा यस्य ताइशः स्कन्धः अंसो यस्य तथाविधः सन् सुखं यथा स्यात्तथा स्वपिति निद्राति न तु युगं वहतीत्यर्थः। यः आसअ्ितं युगं बलात्पातयति स गौर्गलिरित्युइ्यातः । धूःस्पर्शमात्रेण यः स्वयमेव पतति स गौर्गलिनामा वृषभ इति सुधासागरः । गालिः कुत्सितगल इति चन्द्रिका । कुत्सितो गलोस्यास्तीति गलिरिति सरस्वतीतीर्थः । गालिः कार्याकुशलो वृष इति माणिक्यचन्द्रः । समर्थोऽप्यधूर्वहो दुष्ट इति महेश्वरः। अलस इति विवरणकारः। अत्र महेश्व रोक्तं सम्यक् "अथ गालर्दुष्टवृषः शक्तोऽप्यधूर्वहः" इति हेमचन्द्रकोशात्॥ अत्र घुर्य इत्यादिनाभिहितं सामान्यं गौर्गलिरिति विशेषेण समार्थतमिति अर्थान्तरन्यासोडयम्। गुणाभावात् गलिगौर्न धुरि नियुज्यते इति वैधर्म्यम्। अत एवाहुः प्रदीपकाराः "अत्र धुर्य इत्यादि साधारण्यात्सामान्यम् गौर्गलिरिति विशेष: वैधर्म्य च स्फुटम्" इति॥

Page 722

दशम उल्लास: । ६६१

अहो हि मे बहपराद्ममायुषा यदप्रियं वाच्यमिद मयेहरम्। 0 त एव धन्या: सुहृदः पराभवं जगत्यदष्वैव हि ये क्षयं गताः॥ ४८१॥ (सू० १६६ ) विरोध: सोडविरोधेऽपि विरुद्धत्वेन यद्रच: । वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः ।

सामान्येन विशेषस्य समर्थनं वैधर्म्येणोदाहरति अहो इति। आपन्नं सुहृदं प्रति तदवस्थोचितम- प्रियं वक्तुकामस्य खेदातिशयात् स्वजीवितं निन्दतः कस्यचिदुक्तिरियम्। अभिमन्युमरणवातममिर्जुने कथयिष्यतो युधिष्ठरस्य विवादोक्तिरियम्" इति महेश्वरः। हीति विषादे इति केचित् निश्रये इत्यन्ये। मे मन आयुषा दीर्घकालजविनेन बहु अपराद्वम् यत् यस्मात् ईदशं सुहृद्यसनरूपम् इदम् अप्रियं मम वाच्यम्। सुहृदप्रियोक्तिरेव आयुषोऽपराध इति भावः। एवंविधस्याप्रियस्य कदाप्यनुक्तत्वात् अहो इत्याश्र्वर्यम्। ये सुहृदः मित्रस्य पराभवम् आपत्तिम अद्ृट्ैव क्षयं नाशं गताः प्राप्ताः ते एव जगति लोके धन्या: सुकृतिन इत्यर्थः । वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे ॥ अत्र ते इत्यनेन सामान्यतो मत्पदार्थस्यापि ग्रहणात्सामान्यत्वम्। ते धन्या इति सामान्येन 'अहम- धन्यः' इति वैधर्म्यद्वारा रवायुरपराधरूपो विशेषः समर्थ्यते इत्यर्थान्तरन्यासोऽयमित्युद्योते स्पष्टम्। पूर्वार्धप्रदर्शितस्य सुहृत्क्षयदर्शनस्य विपरीतं सुहृत्क्षयादर्शनमिति वैध्म्यमिति विवरणम्॥ अत्र 'हि यत् यतः' इत्यादेः प्रतिपादकस्याभावे समर्थ्यसमर्थकभावः आर्थः तत्सत्वे शाब्दः। ननु 'उपकारमेव तनुते विपद्वतः सद्गुणो नितराम्। मूच्छी गतो मृतो वा निदर्शन पारदोऽत्र रसः ॥' इत्यत्र कोऽलंकार इति चेत् अयमेत्र निदर्शनशब्दस्य समर्थकपरत्वात्। उपमात्रालंकार इति कश्चिित्। एतेनोदाहरणालंकारोऽयमतिरिक्त इत्यपास्तम्। कारणेन कार्यस्य कार्येग कारणस्य वा समर्थनं तु काव्यलिङ्गस्य विषय इति बोध्यम् समर्थ्यसमर्थकयोः सामान्यविशेषभावसंबन्धेडयम् तदितरसंबन्धे काव्यलिङ्गमित्यभ्युपगमात्। 'अनन्तरत्नभवस्य यस्य हिम न सौभाग्यविलोपि जातम्। एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्क ॥' इत्यत्र (कुमारसंभवे १ सर्गे ३ श्लोके ) द्वयोरप्यर्थान्तरन्यासयोः संसृष्ट्यादि बोध्यम्। एतेन " यस्मिन् विशेषसामान्यवि- शेषा: स विकस्वरः " यथा अनन्तेति इति विकस्वरालंकारोडयं पृथगित्यपास्तमित्युस्योते स्पष्टम्।। इत्यर्थान्तरन्यासः ॥२२॥ विरोधनामानम् (विरोधाभासनामानम्) अलंकारं लक्षयति विरोध इति। अविरोधेऽपि वस्तु- गत्या विरोधाभावेऽपि द्वयोर्वस्तुनोविरु्द्वत्वेन विरोधप्रतिभाप्रयोजकरूपेण यत् वचः वचनम् अभि- धानं स विरोध इत्यर्थः। विरुद्धार्थप्रतिपादकस्य पदादेरर्थान्तरपरत्वादिना वस्तुतो विरोधाभावेऽपि आपाततो विरोधप्रतीतिर्विरोधनामा अलंकार इति भावः । अयमेत्र विरोधाभास इत्युच्यते। आभासते इत्याभासः विरोधश्ासावामासश्रेति व्युत्पत्तिः। वस्तुगत्या विरोधस्य दोषत्वादविराधेऽपात्युतम्। तद्व्याचष्टे वस्तुवृत्तेनेति। वस्तुगत्येत्यर्थः याथार्थ्येनेति यावत्। अविरोधेऽपि विरोधाभावेऽपि विरुद्ध- योरिवेत्यादि। विरोध प्रतिभाप्रयोजकरूपेण यत् अभिधानमित्यर्थः । यथाश्लतशब्दोपस्थितिमहिम्रा विरो- धज्ञानेऽपि शब्दस्यान्यत्र तात्पर्यान्न विरोध इत्ययं विरोधाभास इत्युव्यते इति भावः । विरोधश्रात्र भिन्नदेशतया प्रसिद्धयोरेकदेशसंबन्धादिरूपः पर्यवस्यति। यथोदाहरणे नलिनीकिसलयाविदवदहनरा- १ 'अर्जुनं प्रति कथायण्यतः' इति प्रयोक्तव्यम् ।

Page 723

६६४ काव्यप्रकाश: सटीक:। (सू० १६७) जातिश्र्वतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्रुणास्त्रििः ॥।११० । क्रिया द्ाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश।5 क्रमेणोदाहस्णम् अभिनबनलिनीकिसलयमृणालवलयादि दवदहनराशिः। सुभग कुरङ्गदशोऽस्या विधिवशतस्त्वद्वियोगप विपाते ॥४८२॥। शिरिति कथनात् नलिनीकिसलयत्वादिजात्या दवदहनत्वजातेर्विरोधः। एकदेशस्थयोर्भिन्नदेशतायाम असंगतिरलंकारो वक्ष्यते। तथा चाहुरुद्योतकाराः "विरोधश्रवैकाधिकरणसंबद्धत्वेन प्रसिद्धयोरर्थयोर्भा- समानैकाधिकरणासंबद्धत्वम् एकाधिकरणासंबद्धत्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपादनं वा। स च बाधबुद््यनभिभूतो दोषस्य विषयः तदभिभूतोऽलंकारस्येति बोध्यम् " इति। "प्रकृतस्य वाक्या- र्थस्य विरोधे एव विरोधालंकार: व्यङ्गचार्थस्य विरोधे तु नायमलंकारः किंतु विरोधालंकारध्वानेः। यथा 'तिग्मरुचिरप्रताप:' (१३० पृष्ठे ) इत्यादौ। विरोधश्र तत्रैव स्फुट प्रतीयते यत्र विरोधसूच- कोऽपि शब्दः। यथा द्वितीयादिषु उदाहरणेष। यत्र वा क्रिययोविरधे तयोः समुच्चयबोधकश्कारः । यथा अष्टमे उदाहरणे। यत्र वा 'अभूत् भवति भविष्यति' इत्यादिमिः क्रियापदैः विरुद्धयोरैक्य साध्यतया प्रतीयते। यथा प्रथमपञ्चमसप्तमेषूदाहरणेषु। सप्तमे अभूदिति क्रियापदमस्ति। अन्ययोस्तु वाक्यसमाप्त्यर्थ कयोश्विदपि क्रियापद्योरूह्यत्वम्। अत एव प्रथमसप्तमयोरुदाहरणयोर्न रूपकम् आरोपस्य साध्यत्वात् तस्य सिद्धत्वे एव रूपकातिशयोक्त्योः स्वीकारात् मुखचन्द्रमित्यायुदाहरणेषु तथैव दर्शनात्। अत एव दर्पणकृता 'सिद्धत्वेऽध्यवसायस्यातिशयोक्तिर्निगयते' इत्युक्तम्। अपि- इब्दादेरभावे विरोधस्यास्फटत्वम्। यथा नवमोदाहरणे इति" इति विवरणे स्पष्टम्॥ प्रतिपादित- मत्र विषये प्राक् ५६ उदाहरणेऽपीति बोध्यम् ॥ एनं विराधं दशधा विभजते जातिरिति। जातिगुणक्रियाद्रव्यात्मकानां पदर्थनां दशधा परस्पर विरोधा: संभवर्न्त त्यर्थः । तथ हि। जातिः जात्यायैः जातिगुणक्रिय द्रव्यैश्रतुर्भि वर्रुद्धा स्यादिति चत्वारो विरोधाः। गुणः गुणक्रियाद्रव्यैः त्रिमिः विरुद्धः स्यादिति त्रयो विरोधाः। गुणेन जातेर्विरोध एव जात्या गुणस्य विरोध इति न पृथगाक्तः। परत्राप्येवम्। क्रिया कियाद्रव्याम्यां द्वाभ्यां विरुद्धा स्यादित द्वौ विरोधौ। द्रव्यं द्रव्येण विरुद्धं स्यादिि एको विरोधः। इति एवं प्रकारेण ते विरोधाः दश संभवन्तीत्यर्थः । व्याख्यातमिदं सूत्रमेवमेव प्रगाप (१८६ पृष्ठे २३ पङौ) प्रसङ्गवशादिति बोध्यम्। क्रियाशब्देनात्र धातुवाच्योऽर्थः। द्रव्यशब्देन डित्थादिरूपोऽर्थः। जात्यादयो द्वितीयोल्लासे "संकेति- तश्र्वतुर्भेदो नात्य दि: " इति १० सूत्रे महाभाष्यकारमतग्रन्थव्याख्यानावसरे ३६ पृष्ठमारभ्य ४० पृष्ठान्ते दर्शताः । अनेन हि सूत्रेणेदं सूचितम् द्वितीयोल्लासप्रदर्शितेषु चतुर्षु पक्षेषु "जा तगुणकक्रिया यदृच्छोत चतुर्धा उप धि:" इते महाभाष्यकारोक्तपक्ष एव मम्मटाभिप्रेत इति। स्पष्टक्कितमिदं प्राक् ३९ पृष्ठे १० पङ़कौ।। तत्र जातेर्जात्या सह विरोधमुदाहरति अभिनवोत। हे सुभग सुन्दर अस्याः कुरङ्गद्ृशः मृगाक्ष्याः विधिवशतो दैववशात् त्वद्वियोग एव पविर्बत्रं तस्य पाते पतने स्रति अभिनवा नूतना या नलिनी १ साहित्यदर्पणरूता विश्वनाथनत्यर्थः ॥ २ द्रव्यशब्देनात्र यदृच्छारूप उपाधिर्यातः ।

Page 724

दशम उल्लासः । ६६५

गिरयोऽप्यनुन्नतियु जो मरुदप्यचलोऽबधयोऽ्यगमभीराः। विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम् ॥४८३॥ कमलिनी किसलयं पल्लवं मृणालस्य वलयं कङ्कणं च आदिपदाच्चन्द्रचन्दनादि च इवदहनस्य दावाग्नेः राशिर्भवतीत्यर्थः । गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र नलिनीत्वादिजातीनां दवद्हनत्वजात्या सह विरोधः स च नलिन्यादिषु विरहोद्दीपकतया दवदहनत्वोपचारेण परिहृत इत्याभासरूप इति विरोधाभासालंकारः । नलिनीत्वादेर्दवदहनत्वस्य घ जातित्वम् एकत्वान्नित्यत्वादनेकानुगतत्वाच्चति बोध्यम्। तदेतदुक्तं प्रदीपोद््योतयोः। "अत्र नलिनीत्वकिसलयत्वादिजातीनां दवदहनत्वजात्या विरोधः वियोगातिशयेन गौणत्वात्तदाभासता" इति प्रदीपः। गौणत्वादिति। वियोगजन्यसंतापातिशायके लाक्षणिकत्वादित्यर्थः। नन्वेवमत्रा- रोपमूलकं रूपकमेव न विरोध: अन्यथा 'मुखं चन्द्रः' इत्यत्रापि विरोध एव स्यादिति चेन्न। अत्र विरोधोत्थापनार्थमभेदस्य विवक्षितत्वेऽपि तस्यान्यार्थमुपादानेनाचमत्कारित्वात्। विरहिण्यवस्थायाम- त्यद्भुतत्वस्थात्र प्रतिपिपादयषितत्वेन तद्नुगुणतयान्तर्गर्भितोऽ्यर्थो विरोध एव चमत्कारितया समु- छसताति तस्यैवालंकारत्वा्। 'मुखं चन्द्रः' इत्यादौ तु चन्द्रनिष्ठाह्लादकत्वादिसकलगुणानां मुखे प्रतिपत्त्यर्थ चन्द्राभेद एव चमत्कारी न तु सन्नपि विरोधः विवक्षितार्थाननुगुणत्वात् इति रूप- कमेव न तु विरोधोऽलंकारः। यदि तु विरहिण्यवस्थाया अत्यद्भुतत्वं न विवक्षितम् अप्यर्थश् न गर्भीकृतः किं तु पीडाजनकत्वाद्यतिशयमात्रम् तदात्र रूपकमेव। यदि वा नगरविशेषस्थितेरत्य- द्भुतत्वविवक्षया अप्यर्थगर्भीकरणे न च 'यत्र नार्राणां मुखं चन्द्रः '-इत्युच्यते तदा विरोध एवेति दिक-इत्युइ्योतः । जातेर्गुणेन सह विरोधमुदाहरत गिश्य इति। हे नरनाथ राजन् तव अन्तिके समीपे इदं नियतम्। तदेवाह गिरय इत्यादिना। गिरयोऽपि अनुन्नतियुजः अल्पोच्चताभाजः । मरुदपि अचलः अल्पवेगः । अब्धयोऽपि अगम्भीराः अल्पगम्भीराः। विश्वंभरा भूरपि अतिलघुः अपकृष्टगुरुत्ववतीत्यर्थः । "भूर्भूमिरचलानन्ता रसा विश्वंभरा स्थिरा" इत्यमरः । अत्र विश्वंभराप्यतिलघुरित्यनेन साहचर्यात् अनुन्नत्यचलागम्भीरपदेषु नञ्र् अल्पार्थकः न त्वभावार्थकः अन्यथा गुणविरोधोदाहरणविरोधापत्तेरिति चक्वर्तिभट्टाचार्यप्रभृतयः प्राहुः। वस्तुतस्तु नञ्र अभावार्थक एव अनुन्नतिरुच्चत्वाभावः अचलः वेग- शून्यः अबल इति पाठे बलशून्यः अगभ्मीराः गाम्भीर्यशून्या इत्यर्थः । "चतुष्टयी शब्दानां प्रवृत्तिः" इति (द्वितीयोल्लासे) वदतां महाभाष्यकाराणां मते जातिक्रियाद्रव्यातिरिक्तस्यैव गुणत्वाङ्गीकारादि- दमुदाहृतम् । अन्यथा अभावादिविरोधस्यासंग्रहेण विभागन्यूनत्वापत्तेरिति चन्द्रिकासुधासागरयोः स्पष्टम्। आर्या छन्दः। लक्षण मुक्तं प्राक् ४ पृष्ठे ॥ अन्न गिरित्वादिजातीनामनुन्नत्वादिभिर्गुणैः सह विरोधः स च वर्णनीयराजगतौन्नत्याद्यतिशयविव- क्षया परिहृत इति विरोधाभासः । आद्योदाहरणे शु्द्ः अत्र तु श्लेषमूलकः । एवमग्रेऽप्यूह्यम् । विश्वंभरति तुन जात्युदाहरणम् व्यक्त्यभेदेन विश्वंभरात्वस्य जातित्वाभावात्। किंतु द्रव्यगुणयो- विरोधस्योदाहरणमिति प्रकृते तस्य नोदाहरणत्वमिति प्रदीपप्रभयोः स्पष्टम्। कमलाकरभट्टास्तु भूमेरेकत्वाज्जातित्वाभावेऽपि सृष्टिमेदेन तद्भेदान्मण्डलभेदाद्वा जातित्वं ज्ञेयमित्याहुः । मरुत्वं तु १ "तत्सादृश्यं तद्न्यत्वं० " इति प्राक् (१५ पृष्ठे ३१ पङ्मौ) प्रदर्शितवचनेन नत्रः उभयार्थकत्वादाह अल्पार्थको न त्वभावार्थक इति॥ २ उन्नतत्वमत्र आरोहारिणाहवत्वछृपम्॥ 3 औत्नत्यमत्र प्रभावादिमत्त्वम् ॥ ८४

Page 725

६६६ काव्यप्रकाशः सटीक:।

येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधर- स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं परामोति च। तेषां संगरसङ्गसक्तमनसां राज्ञां त्वया भूपते पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ॥४८४॥ सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम्। अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥४८५॥

जातिरेव: मरुतामेकोनपश्चाशत्त्वस्याक्तत्वेन मरुत्त्वस्यानेकव्यक्त्यनुगतत्वात्। तेषामेकोनपश्चाशन्म रुतां नामानि तु अग्निपुराणे "एकज्योतिश्र द्विज्योतिस्त्रिज्योतिर्ज्योतिरव च। एकशक्रो द्विशकश्ष० " इत्यादिनोक्तानि।। जातेः क्रियया सह विरोधमुदाहरति येषामिति। हे भूपते धाराधरः खङ्ग: तीक्ष्णो दारुगोऽस्ति । सोडपि खङ्ग: संगरसङ्गो युद्धप्राप्तिः संग्रामसंबन्धो वा । "संगरो युधि चापदि। क्रियाकारे विषे चाङ्गीकारे क्ीबं शमीफले" इति मेदिनी। संगररङ्गेति पाठे संगररूपो रङ्गो नृत्यस्थानमित्यर्थः । "रङ्गो ना रागे नृत्यरणक्षितौ" इति मेदिनी । तत्र सक्तम् आसक्तं मनो येषां ते तथाभूतानां येषां राज्ञां (प्रतिनृपाणां) कण्ठपरिग्रहप्रणयितां गलमिलनप्रीतिमत्तां (आलिङ्गनप्रेमवत्तां) संप्राप्य अनुरज्यते प्रीतिमान् रक्तवर्णश्र भवति। कमपि अनिर्वचनीयं स्नेहं सौहार्द चिक्कणतां च परामोति प्रामोति च। तेषां तादशमनसां राज्ञां त्वया सर्वभूतानुकम्पकेन पांसूनां धूलीनां पटलै: समूहैः प्रसाधनविधि: अलंकरणविधि: निर्वर्त्यते क्रियते कण्ठं छित्वा संग्रामधूलिघूसराः क्रियन्ते इति कौतु- कम् आश्रर्यमित्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र धाराधरत्व(खद्गत्व)जातेरनुरगस्न पा तरय्यांविोधः स रुधिरसंपर्ककृतलौ- हित्य चैक्कण्यार्थकत्वात्परिहित इति विरोधाभासः। एवं पांसुत्वजातेरलंकरणक्रियया विरोधः सोऽपि कण्ठं छित्वेत्यादिप्रागुक्तरीत्या परिहत इति बोध्यम्। चक्रवर्त्यादयस्तु प्रसाधनपदस्य प्रकृष्टसाधन परत्वविवक्षया परिहृत इत्याहुः। "तक्ष्णत्वस्यानुरागेण विरोध इत्यपव्याख्यानम् अनुदाहरणत्वप्र- सङ्गात्" इति प्रदीपः । (अनुदाहरणत्वेति। तीक्ष्णत्वस्य जातित्वाभावादिति भावः तीक्ष्गस्यापि क्वचिदनुरागदर्शनाच्चेत्यपि बोध्यम्) इत्युश्योत। उक्तं च सुवासागरेपि "अनुदाहरणत्वेति। तथाि। तीक्ष्णत्वं क्रूरत्वम् तच्च क्रूरसंसर्गेग सरलेऽप्युत्पयते इति गुग ख न जातिरिति जाति- विरोधासंभवादिति" इति॥ जातेर्द्रव्येण सह विरोधमुदाहरति सृजतीति। यः इ जगत् हेलया लीलयैव (अनायासनैव) नियतं यथा स्यात्तथा सृजति अवति रक्षति संहरति नाशयति च सोऽपि जनार्दनः अवसरवशतः कालवशात् शफरो मत्स्यो 'जातः' इति शेषः। इदं चित्रम् आश्वर्यम। "प्रोष्ठी तु शफरी दयोः" इत्यमरः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र शफरत्वजातेर्जनार्दनन द्रव्येण सह विरोधः सच लीलया सर्वसंभवात् मत्स्यशररिपरिग्रहस्य आगमसिद्धत्वात्परिहृत इति विरोधाभासोऽयम्। आत्मपरत्वाज्जनार्दनपदस्य द्रव्यारत्वम्। उक्तं च चक्रवरतिर्भट्टाचायैः "जनार्दनपदं चाशरीरेश्वरात्मपरम् अन्यथा शररिभेदेन जनार्दनत्वजातिसंभवेन जातिद्वयोदाहरणतापत्तेः" इति॥ १ धाराधरोड़सिमेघ्रयोः इत्यभिधानम् ॥

Page 726

दशम उल्लासः । ६६७

सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते। द्विजपत्नीनां कठिना: सति भवति कराः सरोजसुकुमाराः ॥४८६॥ पेशलमपि खलवचनं दहतितरां मानखं सतत्वविदाम्। परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति॥४८७॥ क्रौथ्चाद्रिरुद्दामदषद्दृढोSसौ यन्मार्गणा नर्गलशातपाते। अभून्नवाम्भोजइलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८८॥

गुणस्य गुणेन सह विरोधमुदाहरति सततमिति। हे नृपते सततं निरन्तरं मुसलेषु अयो ग्रेषु आसक्ताः बहुतरं यत् गृहकर्म तस्य घटनया संपादनेन कठिना: द्विजपत्नीनां ब्राह्मणीनां कराः पाणयो भवति त्वयि (दातरि विद्यमाने ) सति सरोजवत् कमलवत् सुकुमाराः कोमलाः 'जाताः' इति शेष: । "मुसलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम्। तालमूल्यामाखपर्णीगृहगोधिकयोरपि" इति विश्वमेदिन्यौ। गीतिश्छन्दः। लक्षणमुक्तं प्राक ४ पृष्ठे॥ अत्र कठिनत्वसुकुमारत्वयोर्गुणयोः परस्परं विरोधः स च भवद्दानवशात्स्वयं गृहव्यापारनिवृत्त्या कालभेदेन परिहृत इति विरोधाभासोऽयम्॥ गुणस्य क्रियया सह विरोधमुदाहरति पेशलमिति। पेशलं कोमलमपि। पेलवमिति पाठे स एवार्थः । खलानां दुर्जनानां वचनं ( कर्तृ)। तत्त्वसतत्वशब्दौ गोत्रसगोत्रशब्दवत् पर्यायाविति प्राक् (९१ पृष्ठे ९ पक्कौ) प्रतिपादितम् । सुतत्वेति पाठस्तु अङ्कितपुस्तकं विना प्राचीनबहुषु पुस्तकेषु नास्त्येव । सतत्त्वविदां तत्त्वज्ञानां मानसम् अन्तःकरणं (कर्म) दहतितराम् अतिशयेन दहति। परुषं कठोरमपि सुजनस्य सज्जनस्य वाक्यं मलयजरसवत् चन्दनद्रववत् प्रमोदयति आनन्दयतीत्यर्थः। "चारौ दक्षे च पेशलः" इति मेदिनी। आर्या छन्दः। लक्षणमुक्त प्राक् ४ पृष्ठे॥ अत्र पेशलत्वपरुषत्वयोगणयोर्दाहप्रमोदक्रियाम्यां विरोधः स च खलत्वसुजनत्वाभ्यां परिहृत इति सारबोधिनी। पेशलपरुषपदयोः सुश्रवत्वदुःश्रवत्वार्थकतया दहतिपदस्य संतापार्थकतया च विरोध- परिहार इत्युद्दयातः। पेशलत्वपरुषत्वयोस्तात्कालिकत्वम् परिणामे तु दाहकत्वं प्रमोदकरणं चेति विरोधपरिहार इति प्रभा ॥ गुणस्य द्रव्येण सह विरोधमुदाहरति क्रौश्चेति। असौ क्रौञ्चाद्रि:। "कौश्ची दीपप्रभेदे स्यात् पक्षिपर्वतभेदयोः" इति मेदिनी । उद्दामाः महत्यो याः दृषदः शिलास्ताभि: दृढोऽपि। "कर्कश कठिनं क्रूरं कठोरं निष्ठुरं दृढम्" इत्यमरः । यस्य भार्गवस्य मार्गणानां बाणानाम् अनर्गलोऽप्रतिहतः शातः निशितः (तीक्ष्णः) यः पातः पतनं तद्विषये । "दुर्बले निशिते स्यातां शितशाताविमौ त्रिषु" इति तालव्यादौ रभसः । यद्वा अनर्गलम् अप्रतिबन्धं यथा स्यात्तथा शातवत् वज्रवत् पाते सति नवाम्भोजद्लवत् नूतनपझ्मपत्रवत् अभिजातः कोमलः अभूत। स भार्गवः परशुरामः अपूर्वः सर्गः सृष्टिर्यस्य (यत्कर्मको यत्कर्तृको वा ) ताद्ृश इति सत्यमित्यर्थः । "सर्गस्तु निश्च्व- थाध्यायमोक्षोत्साहात्मसृष्टिषु" इति मेदिनी। यद्वा सत्यम अपूर्वसर्गः अलौकिकोऽवतार इत्यर्थः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे। अत्र कोमलत्वस्य गुणस्य क्रौञ्चाद्रिद्रव्येण सह विरोधः स च भार्गवमहिम्नाभिजातपदस्य सुखवे- ध्यत्वपरतया परिहृतः । यद्यपि "कुमारः क्रौश्चदारणः" इत्यमरकोशात् स्कन्दे तत्वं प्रसिद्धम् तथापि

Page 727

१६८ काव्यप्रकाशः सटीकः।

परिच्छेदातीत: सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्। विवेकप्रध्वंसादुपचितमहामोहगहनो विकार: कोऽप्यन्तर्जडयति च तापं च कुरुते॥। ४८९॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोट रगतं क्षणादेनं ताम्यत्तिमिमकरमाप/स्यति मुनिः॥४९०॥

क्षितितिलक त्वाये तटजुषि शंकरचूडापगापि कालिन्दी ॥ ४९१॥

स्कन्दसाहाय्यार्थ भार्गवोऽपि तत्कृतवानिति पुराणे प्रसिद्धमित्युद्योते स्पष्टम्। "कौन्चाद्विद्रव्येणा- म्भोजदलाभिजातत्वस्य विरोधः शराभिघाततैक्ष्ण्यातिशयविवक्षयौपचारिकत्वं च नवाम्भोजदलसौकु- मार्यस्य विवक्षित्वा परिहार्यः " इति प्रभायामुक्तम्॥

कियायाः क्रियया सह विरोधमुदाहरति परिच्छेदेति। व्याख्यातमिदं पद्यं प्राक चतुर्थोल्लासे (१८१ पृष्ठ) इति बोध्यम्। डलयोरैक्यात् जडयति जलयति शीतलयतीति केचित्। अत्र 'जड- यति च तापं च कुरुते' इति जडीकरणतापकरणक्रिययोर्विरोधः विरहवैचित्रयेण कालभेदात्तत्परिहारः॥

क्रियाया: द्रव्येण सह विरोधमुदाहरति अयमिति। भल्लटकविकृते भल्लटशतके १०८ पद्यमिदम् । एतेन 'मालवरुद्रकवेः पद्यमिदम्' इति शार्ङ्गधरपद्धतावुक्तमपास्तम्। अयं जलनिधिः समुद्र: वारां जलानाम् एको मुख्यो निलयः स्थानम इति हेतोः रत्नानाम् आकरः खनिः इति हेतोश्र तृष्णया तरलितम् आक्रान्तं (व्याप्तं) मनो येषां तादशैः अस्माभिः श्रितः आश्रितः । तृष्णा च वारिषु पिपासा रत्नेषु च लिप्सा। मुनिः अगस्त्यः एनं जलनिधिं क्षणात् क्षणमात्रेण ( यद्यपि 'क्षणेनैव' इति वक्तुं युक्तम् "अपवर्गे तृतीया" (२३६) इति पाणिनिसूत्रात् तथापि बुद्धिकल्पिता- पादानत्वस्वीकारात्पश्चमी) आ समम्तात् पास्यि इत्येवं को जानीते इत्यन्वयः। कीदशं जलनि धिम् निजा स्वीया (मुनिसंबन्धिनी) या करपुटी करसंपुट सैव कोटरो गर्तस्तद्गतम्। ताम्यन्तो ग्लायन्तः तिमयो मत्स्याः मकराः नक्राश् यस्मिस्तादृशं चेत्यर्थः । "खनिः :स्त्रियामाकरः स्यात्" इत्यमरः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक ७५ पृष्ठे॥

अत्र पानक्रियायाः अगस्त्येन कर्त्रा समुद्रेण कर्मणा च द्रव्येण विरोधः नरविशेषस्य अगस्त्यस्य समुद्रपानासंभवात् स च विरोधः अगस्त्यतपःप्रभावातिशयेन परिहृत इति विरोधाभासः । यद्यपि जलनिधीनां बहुत्वेन न तदंशे द्रव्यविरोधोदाहरणत्वमुचितम् किं तु जात्युदाहरणत्वमेव तथाप्ये- कलवणाम्बुधिपरतया समर्थनीयम् । एतेन "असंभवोरऽर्थनिष्पत्तेरसंभाव्यत्ववर्णनम्" इत्यसंभवालं कारोऽत्रेति परास्तम तदुक्तेर्विराधपरिपोषकत्वादिति प्रदीपोद्दयोतयोः स्पष्टम्॥ द्रव्यस्य द्रव्येण सह विरोधमुदाहरति समदेति। हे क्षितितिलक राजन् त्वयि तटजुषि तीरगते १ सूत्रादिति। व्याख्यातमिद्ं सूत्रं प्राक् (१७९ पृष्ठे ३ टिप्पणे) ॥I

Page 728

16 र्देशम उल्लासः । ६६९ (सू० १६८) स्वभावोक्तिस्तु डिम्भादे: स्वक्रियारूपवर्णनम् ।।१११। स्वयोस्तदेकाश्रययोः । रूप वर्णः संस्थानं च। उदाहरणम्नाा पश्चादङ्धी प्रसार्य त्रिकनतिविततं द्राघथित्वाङ्गमुच्चै:2/१०F आसज्याभुग्नकण्ठो मुखमुरास सटां धूलिधूम्रां विधूय।ए 10ा010 सि शंकरस्य शिवस्य चूडा शिखा (जटासमूहः) तत्संबन्धिनी आपगा नदी (गङ्गा) सापि कालिन्दी यमुना भवति। कुतस्तत्राह समदेति। समदाः मत्ताः ये मतङ्गजाः करिणस्तेषां मदजलस्य निस्यन्दः प्रवाहः स एव तरद्गिणी नदी तस्याः परिष्वङ्गात् संबन्धादित्यर्थः । अपां समूह आपम् आपेन गच्छतीत्यापगा। अथ "नदी सरित्। ००००। स्रवन्ती निम्नगापगा" इत्यमरः। मतङ्ग मतङ्गाख्यपर्वते जायन्ते इति मतङ्गजाः। मतङ्गाद्ृषेर्जाताः मतङ्गजा इति केचित्। "मतङ्गजो गजो नाग: कुञ्जरो वारण: करी" इत्यमरः। गीतिश्छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र गङ्गायमुनयोर्द्रव्ययोः परस्पर विरोधः स च कालिन्दीपदस्य श्यामाभामात्रपरत्वात्परिहृत इति विरोधाभासः । मदजलस्य श्यामवर्णत्वं प्रसिद्धम् मद्जलनीलिम्ना गङ्गायाः नीलता ॥ इति विरोध: (विरोधाभासः) ॥ २३ ॥। स्वभावोक्तिनामानमलंकारं लक्षयति स्वभावोक्तिरिति । स्वभावस्य वर्णनीयतत्तद्वस्तुमात्रग- तस्य प्रकृतिसिद्धस्य धर्मस्य उक्ति: स्वभावोक्तिरित्यन्वर्थेयं संज्ञा। डिम्भः शिशुः। "पोतः पाकोऽ- र्भको डिम्भ: पृथुकः शावकः शिशः" इत्यमरः। आदिपदेन युवतिमुग्धकातरतिर्यगभ्रान्तहनिपा- त्रादिसंग्रहः। डिम्भादेरित्यनेनैव संबन्धावगतेः स्वशब्दोऽन्ययोगव्यवच्छेदकः । तथा च डिम्भादे- र्वस्तुनः स्वयोः स्व्रमात्राश्रयकयोः (स्वमात्रगतयोः) क्रियारूपयोवर्णनम् अभिधानं स्वभावोक्तिरि- त्यर्थः । एनामेव जातिरिति केचिद््यवहरन्ति॥ डिम्भादेरिति षष्ठचैव क्रियारूपयोस्तत्संबन्धित्वावगमात् किं स्वशब्दोपादानेनेत्यत आह स्वयोरिति। तदेकाश्रययोः स्वमात्राश्रयकयोः । केवलवर्णवाचिना रूपशब्देनाजहत्स्वार्थलक्षणया (उपादानलक्षणया ) उभयं गृह्यते इत्याह रूपमित्यादिना। वर्णः नीलपीतादिः। संस्थानमिति। अवयवसंनिवेश: अङ्गप्रत्यङ्गविन्यासो वा आकारो वेत्यर्थः। एवं च यस्य कस्यचिद्वस्तुनोऽसाधारण- धर्मवर्णनं स्वभावोक्त्यलंकार इति फलितम्। अत्रापि चमत्कृतिहेतुत्वमलंकारसामान्यलक्षणप्राप्तमस्त्येव। तन 'गोरपत्यं बलीवदों घासमत्ति मुखेन सः। मूत्र मुश्चति शिक्षेन अपानेन.तु गामयम् ॥' इत्या- देर्निरासः। साधारणस्वभाववर्णनस्य स्फुटत्वान्नालंकारत्वम् असाधारणस्तु लोकसिद्धोऽपि प्रतिभा- मात्रवेद्यत्वादलौकिकवद्भातीत्यलंकार इत्युद््योते स्पष्टम। अत एव सरस्वतकिण्ठाभरणे १ परिच्छेदे भोजराजोऽप्याह 'दीर्घपुच्छश्रतुष्पादः ककुद्मान् लम्बकम्बलः। गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः ॥' तदिदमपुष्टार्थत्वादनुत्कृष्टविशेषणमनुदारं निरलंकारमाचक्षते इति ॥ स्वभावोक्तिमुदाहरति पश्चादिति। बाणभट्टकृते हर्षचरिते तृतीयोच्छ्ासे पद्यमिदम्। शयनात् उत्थितः तरङ्गेऽ्वः पश्रादङ्व्री पश्चिचिमपादौ प्रसार्य प्रसरणं कृत्वा त्रिभिरस्थिभिर्घटितं स्थानं त्रिकं पृष्ठवंशः। "पृष्ठवंशाधरे त्रिकम्" इत्यमरः । तस्य नतिर्नम्रता तया विततं विस्तृतम् अङ्गं शरीरम् उच्चैः अंतिशयेन द्राघयित्वा दीर्ध कृत्वा। आभुग्रो वकः कण्ठो ग्रीवा यस्य तादृशः सन् उरसि

Page 729

६७० काव्यप्रकाश: सटीक: ।

मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्षमां खुरेण ॥। ४९२॥ल (सू० १६९) व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा। व्याजरूपा व्याजेन वा स्तुतिः। क्रमेणोदाहरणम् हित्वा त्वामुपरोधवन्ध्यमनसां मन्ये न मौलि: परो लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते।

मुखम् आसज्य संयोज्य धूल्या धूम्रां धूसरां (मलिनां) सटां स्कन्धकेशावलिं विधूय विशेषेण कम्पयित्वा। घासग्रासाभिलाषात् तृणग्रासवाञ्छया अनवरतं निरन्तरं चलन्तौ चश्चलौ प्रोथतुण्डौ ओष्ठाघरौ ओष्ठाग्रे वा यस्य तादृशः। यद्वा अनवरतं चलन् प्रोथो नासिका यत्र तादृशं तुण्डं मुखं यस्य तादृशः। "प्रोथोऽश्वघोणाध्वगयोः " इति हैमः । "घोणा तु प्रोथमस्त्रियाम् " इत्यमरश्र । मन्दं शनैः शब्दायमान: हेषां कुर्वाणः सन् फुर्फुरिति शब्दं कुर्वन्वा खुरेण अग्रपादशफेन क्षमां भूमि विलिखति उत्किरतीत्यर्थः । स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे ॥

अत्र "अश्वमात्रगतयोः क्रियासंस्थानयोर्वर्णनम् " इति प्रदीपः। "पश्रादित्यादिना संस्थानस्य घास- ग्रासेत्यादिना क्रियाया इत्यर्थः " इत्युदयोतः । असंकीर्णोदाहरणं यथा 'कलक्वणनगर्भेण कण्ठेनाघूर्णि- तेक्षणः । पारावतः परिभ्रम्य रिरंसुश्चम्बति प्रियाम् ॥' इति। अत्र पारावतगतस्य क्रियात्मकस्यासाधा- रणधर्मस्य वर्णनमिति क्रियास्वभावीक्तिः । वर्णस्वभावोक्तिस्तु 'प्रथममरुणच्छायः' (२६० पृष्ठे ) इत्यादौ बोध्येति प्रभायां स्पष्टम्। इति स्वभावोक्तिः ॥ २४।।

व्याजस्तुतिनामानमलंकारं लक्षयति व्याजस्तुतिरिति। मुखे प्रारम्भे प्रथमत इत्यर्थः। "मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि" इति मेदिनी। रूढिः पर्यवसानम्। अन्यथा (यथाक्रमं) स्तुतौ निन्दायां वा। यत्र मुखे निन्दा तत्र स्तुतौ पर्यवसानम् यत्र मुखे स्तुतिस्तत्र निन्दायां पर्यवसानम- त्यर्थ इति सारबोधिन्यादौ स्पष्टम्। परे तु मुखे आपाततः। रूढिः पर्यवसाने प्रतीतिः। अन्यथा (यथाकमं ) स्तुत्या निन्दया वा। स्तुतिपर्यवसायिनी निन्दा निन्दापर्यवसायिनी वा स्तुतिर्व्याजस्तु- तिरिति फलितमित्याहुः ॥

व्याजस्तुतिपदलभ्यमेतदर्थद्दयमाह व्याजरूपा व्याजेन वेत्यादिना । व्याज: कपटः। ननु 'व्याजेन व्याजरूपा वा स्तुतिः' इति व्याख्येयं सूत्रक्रमानुरोधाद्वक्ष्यमाणोदाहरणक्रमानुरोधाच्चेति चेन्न। निषादस्थपतिन्यायेन कर्मधारयस्य पूर्वमुपस्थितत्वेन यथोक्तव्याख्यानस्यैवोचितत्वात्। निषादस्थप- तिन्यायार्थस्तु मत्कृतलौकिकन्यायमालायां द्रष्टव्यः । अत्र मुखे इत्यनेन पर्यवसानाभाव वदन् बाधि- तत्वमभिप्रैति अत एव नास्याः ध्वनित्वम्। तत्र हि निर्बाधेन वाच्येन व्यञ्जनयार्थान्तरावगतिः । न चैवं प्रकृते बाधेन लक्षणाप्रसरात् । 'उपकृतं बहु तत्र किमुच्यते' (८३ पृष्ठे) इत्यादिवदिति बोध्यमित्युद्द्योते स्पष्टम्। अप्रस्तुतप्रशंसनान्देदस्तु द्वितीयोदाहरणव्याख्यानानन्तरं स्फुटीभविष्यति। क्रमेणेति। सूत्रोक्तक्रमेण न तु वृत्त्युक्तक्रमेणेत्यर्थः॥

तत्र स्तुतिपर्यवसायिनी निन्दाभुदाहरति हित्वेि। हे राजन् त्वां हित्वा विहाय त्वां विनेत्यर्थः उपरोधोऽनुरोधः (आश्रितस्विाररूपमनुवर्तनं) तेन बन्ध्यं शून्यं मनो येषाम् अनुरोधहीनमनसां मौलि:

Page 730

दुशम उल्लास: ६७१

यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः

रग प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्या: स्थितिः ।४९३।। हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सहशः पर: परहिताधाने गृहीतव्रतः। तृष्यत्पान्थ जनोपकारघटनावैमुख्यलब्धायशो- ड्राल भारप्रोद्वहने करोषि कृपया साहायकं यन्मरो: ॥ ४९४॥

शिरोमाण: (मूर्धन्यः ) परः अन्यो नास्ति। तथा लज्जावर्जनं लज्जाशून्यत्वं (निर्लज्जत्वं ) रमा- मन्तरेण लक्ष्मीं विना अन्यत्र न संदृश्यते इति अहं मन्ये। क्रमेणोभयत्र हेतुमाह यस्त्यागमित्यादिना। यो भवान् मुखशतैः उपायशतैः (युद्धाद्यनेकोपायैः) एत्य आगत्य आश्रितायाः सादरं स्थितायाः श्रियो लक्ष्म्याः त्यागं परित्यागं (दानं) तनुतेतराम् अतिशयेन विस्तारयति। तथा त्यागकृताव- माननं परित्यागजन्यापमानं प्राप्यापि यस्या श्रियः त्वय्येव भवत्येव स्थितिः स्थिरतेत्यर्थः। "मुख- मुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः" इति हैमः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अन्न राज्ञ आश्रितत्यागरूपनिन्दाव्याजेन महादा/तृत्वेऽपि लक्ष्मीवत्त्वाभिधानात्स्तुतिरित व्याजेन स्तुतिरयम्। उक्तं च चन्द्रिकायाम् "इयं निन्दापूर्विका व्याजस्तुतिः " इति॥

निन्दापर्यवसायिनीं स्तुतिमुदाहरति हे इति। भर्तृहरिकृतवाक्यपदीयस्य टीकायां पुञ्जराजकृ- तायां द्वितीये काण्डे २४९ कारिकाव्याख्यानावसरे उदाहृतं पद्यमिदम्। हे हेलाजितबोधिसत्त्व हेलया लीलया (अनायासेन) जिताः बोधिसत्वाः बौद्धाः येन तथाविध अतिक/रुणिकानामपि जेतरित्यर्थः बौद्धानां दयाशीलत्वादिति भाव इति केचित्। वस्तुतस्तु हेलया जितो बोधिसत्त्वो बुद्धो येन तथाविध अतिकारुणिकस्यापि जेतरित्यर्थः । बुद्धस्य दयाशीलत्वादिति भावः । "बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वी विनायकः" इति वैजयन्ती। हे तोयधे लवणाकर वचसां विस्तरैः किम्। परहि- ताधाने परोपकारकरणे गृहीतं व्रतं येन स गृहीतवरतः त्वत्सदृशः परः द्वितीयः नास्ति। यत् यस्मा- त्कारणात् तृष्यन्तः तृषार्ताः ये पान्थजना अध्वगजनास्तेषाम् (जलदानेन ) यः उपकारस्तस्य घटनायां संपादनविषये वैमुख्येन पराङ्मुखत्वेन लब्धं प्राप्तं यत् अयशः अकीर्तिः तस्य यो भारो महदा- धिक्यं तस्य प्रोद्वहने प्रकर्षेण निर्वहणविषये मरोः म्रियते पिपासया जन्तुर्यस्मिन्निति मरुस्तस्य मरुदे- शस्य निर्जलदेशस्य (मारवाड इति प्रसिद्धस्य) साहायकं सहायत्वं कृपया करोषीत्यर्थः। साहायक- मित्यत्र "योपधादगुरूपोत्तमाद्गन्न" (५१३२) इति पाणिनिसूत्रेण भावे वुञ्न प्रत्ययः । एतेन 'साहा- य्यकम्' इति पाठं परिकल्प्य भावष्यञ्रन्तात्स्वार्थे कन्प्रत्यय इति व्याकुर्वन्तः परास्ताः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अत्र समुद्रस्य स्तुतिव्याजेन निन्दाप्रतिपादनाच्चमत्कारातिशय इति व्याजरूपा स्तुतिरियम् । उक्तं च चन्द्रिकायाम् "स्तुतिपूर्विकयं व्याजस्तुतिर्निन्दापर्यवसायिनी" इति। तदेतदुक्तमुझ्यो- तेऽपि "अत्र मरुदेशेन एकाकिना निर्जलत्वात् वृषितपान्थोपकाराभावजन्यायशोभारो गृहीतः त्वयापि क्षारजलत्वात् तं भारं गृह्लता तस्य साहायकेनोपकार: कृतः इति स्तुत्या तृषितपान्थानुपकारेण

Page 731

६७२ काव्यप्रकाश: सटीकः ।

(सू० १७०) सा सहोक्ति: सहार्थस्य बलादेकं द्विवाचकम् ॥ ११२ ॥ एकार्थामिधायकमपि सहार्थवलात् यत् उभयस्याष्यवगमकं सा सहोक्तिः । यथा

भिन्दायां पर्यवसानम्। न चात्राप्रस्तुतप्रशंसैवास्त्विति वाच्यम् स्तुतिनिन्दात्मकतया विच्छित्तिबिशे- धात् कार्यकारणभावाविसंबन्धाभावाच्च शुद्धव्यञ्ञनाविषयत्वाभाताच्च। ननु स्तुत्या निन्दायाः कथम- लंकारत्वं वाच्यानुत्कर्षकत्वादिति चेन्न। बीभत्सहास्यान्यतररसालम्बनत्वान्निन्यस्य तद्रसानुकूलोत्क- र्षकत्वस्य सत्त्वादित्याहुः। अन्यस्तुत्या अन्यस्तुतेः अन्यनिन्दया अन्यनिन्दायाः अन्यनिन्दयान्य- स्तुतेर्गम्यत्वेऽ्येषा स्तुतिपदेन बोधनस्य बोधनात्। निन्दादीनां व्यङ्गचत्वेऽप्यलंकारत्वमप्रस्तुतप्रशं- सावद्वोध्यम्" इति। इति व्याजस्तुतिः ॥२५॥ सहोक्तिनामानलंकारं लक्षयति सेति। एकं पदं यत् सहार्थस्य सहसमंसाकंसार्धमित्यादिशब्दा- र्थान्वयस्य बलात् सामर्थ्यात् द्विवाचकम् अनेकार्थाभिधायकं (यथाकथंचित्तद्वोधकं) सा सहो- क्तिरित्यर्थः । तत्रैकस्यार्थस्य वाचकमन्यस्यार्थस्याक्षेपकेमिति बोध्यम्॥ सूत्रं व्याचष्टे एकार्थेत्यादिना। शब्दशक्त्या एकार्थाभिधायकम् एकान्वय्यर्थाभिधायकमपि पदं सहार्थबलात् सहशब्दार्थान्वयबलात् यत् उभयस्य उभयान्वय्यर्थस्यापि अवगमकं बोधकं सा सहो कितिर्नामालंकार इत्यर्थः । सहभावस्य ( साहित्यस्य ) उक्तिः सहोक्तिरित्यन्वर्थेयं संज्ञा। तथा चोक्त. मलंकारचूडामणौ षष्ठेऽध्याये हेमचन्द्रेण "सहभावस्योक्तिः सहोक्तिः" इति। अत्र सहशब्दार्थः साहित्यम् तच्चैकजातीयैककालिकक्रियादयन्वयित्वसमनियतम्। यथा 'पुत्रेण सहागतः पिता' इति। अत्र 'आगतः' इति पदमुभयान्वय्यागमनबोधकम्। पुत्रप्रतियोगिकसाहित्यवान् पिता आगत इति शाब्दबोधः । तेन पुत्रवृत्त्यागमनसमानकालिकसमानदेशागमनवान् पितोति मानसो बोधः । तत्र तृतीयान्तस्य विशेषणतया गुणत्वम् प्रथमान्तस्य विशेष्यतया प्रधानत्वम्। तथा च प्रथमान्ते आगम- नस्य शाब्दोऽन्वयः तृतीयान्ते तु सहार्थसामर्थ्यादार्थः। एवं च यत्र गुणप्रधानभावावच्छिन्नयोः शाब्दा- र्थमर्यादया एकधर्मसंबन्धस्तत्रायमलंकारः। वक्ष्यमाणे समुच्चये तूभयत्र प्राधान्यं शाब्द एव चैकान्वय इति ततो भेद:। 'चैत्रमैत्रौ सह गच्छतः' इत्यादावपि तथैवेति नायमलंकारः। 'चैत्रमैत्रौ गच्छतः' इत्यादौ तु शब्दशक्त्यैवोभयाभिधानमिति तत्रापि नायमलंकार इति प्रदीपोद्दयोतयोः स्पष्टम्। अयमत्र निष्कर्षः । यत्र "सह युक्तेऽप्रधाने" (२।३१९ ) इति पाणिनिसूत्रेण विहिता सहार्थयोगेऽप्रधाने तृतीया तत्रैवा- यमलंकार: गुणप्रधानभावावाच्छन्नयोः शाब्दार्थमर्यादया एकधर्मसंबन्धस्य तत्रैवावस्थितेरिति। एतेन 'शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः। पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥' इत्याँदौ कुतो नायमलंकार इति शंङ्का परस्ता शशिनेत्या- दिर्हि "हेतौ" (२।३।२३) इति पाणिनिसूत्रेण विहिता हेत्वर्थे तृतीया 'पुण्येन दृष्टो हरिः' इत्यादि- वत्। तर्हि कोऽत्रालंकार इति चेत् वक्ष्यमाणोऽन्योन्यालंकार एव। अत एव कुवलयानन्देऽन्योन्यालं- कारस्योदाहरणं 'त्रियामा शशिना भाति शशी भाति त्रियामया' इति दत्तमिति बोध्यम्। अत्रापि सूत्रे हृद्यत्वं चालंकारसामान्यलक्षणप्राप्तमस्त्येव तेन 'पुत्रेण सहागतः पिता' इत्यादौ 'अनेन

१ चमत्कारमेदात् ॥ २ व्यञ्जकम् ॥ 3 शब्दशक्त्योति । विशेषणपदस्य समानविभक्तिकनामार्थान्वयबोधकत्व- सामथ्येन कियापद्म्य च प्रथमान्तोपस्थाण्यान्ववयोधकत्वसामर्थ्येन चेत्यर्थ इति प्रमाया स्पष्टम्॥४ उभयेति। पितापुत्ररूपोभयत्यर्थः ॥ ५ आदिपदेन 'मणिना वलयं वलयेन मणिर्मणिना वलयेन विभाति करः' इत्यादिसंग्रः॥

Page 732

दशम उल्लास: । ६७३

सह दिअहणिसाहिं दीहरा सासदण्डा सह मणिवलयेहिं वाप्पधारा गलन्ति। तुह सहअ विओए तीअ उन्विग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा॥। ४९५॥ श्वासदण्डादिगतं दीर्घत्वादि शाब्डम् दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते । (सू० १७१) विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः। सार्ध विहराम्बुराशेः' इत्यादौ च न सहोक्तिः। हृद्यत्वं चास्याः श्लेषभित्तिकाभेदाध्यवसानात्मकेन केवलाभेदाध्यवसानात्मकेन वातिशयेनानुप्राणने भवतीति बोध्यम्। तथा चोक्तमभियुक्तैः 'पुत्रेण सह पिता गच्छति' इत्यादौ अलंकाराभावात् अतिशयोक्तिमूलिकैव चमत्कारजनिका सहोक्तिरलंकार इति॥ सहोक्तिमुदाहरति सहेति। 'सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति। तव सुभग वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥' इति संस्कृ- तम्। कर्पूरमञ्जरीनामकसैदटके द्वितीयजवनिकान्तरे नायकायाः विरहावस्थवर्णनमिदम्। हे सुभग सुन्दर तव वियोगे विरहे सति उद्विग्नायाः विमनस्कायाः तस्याः नायिकायाः दण्डाकाराः श्वासाः श्वासदण्डाः। श्वासानां घनप्रचुरतया दण्डाकारत्वम्। दिवसनिशाभिः सह दीर्घाः जाताः। अत्र दिवस- निशादौ दीर्घत्वं दुःखदायित्वादौपचारिकम्। तथा बाष्पो नेत्राम्बु तस्य धाराः मणिवलयैः रत्नकङ्कणैः सह गलन्ति पतन्ति। कारश्यान्मणिवलयगलनम्। तथा जीविताशा जीवनाशा तनुलतया शरीरयष्ट्या सह दुर्बला जातेत्यर्थः। आशायां दुर्बलत्वं कादाचित्कम्। उद्देगो मनसोऽस्वस्थता जीवितव्ये प्रद्वेषो वा "प्रद्वेषः प्रोणितव्ये यः स उद्देगः स्मृतो बुधैः" इति वचनादित्याहुः। अत्र सर्वत्र "सहयुक्तऽप्र- धाने" (२।३१९) इति पाणिनिसूत्रेण तृतीया। मालिनी छन्दः। लक्षणमुक्तं प्राक् ९७ पृष्ठे॥ अत्र श्वासदण्डादिषु प्रथमान्तेषु दीर्घत्वादीनामन्वयः साक्षादेव शाब्द: दिवसनिशादिषु तु तृती- यान्तेषु सहशब्दार्थान्वयबलादार्थ इति सहोक्तिरलंकारः। उक्तं च प्रदीपोद्दयोतयोः "अत्र दीर्घत्वा- दीनां श्वासादिभिरन्वयः साक्षादेव शाब्द: दिवसनिशादिभिस्तु सहार्थान्वयबलात् । इयं धर्मयोर- भेदाध्यवसायमूला" इति। "सहोक्तौ द्वयोरपि प्रकृतयोरप्रकृतयोर्वा ग्रहणात्काल्पनिकमौपम्थम् तत्र तृतीयान्तस्य गुणभावादुपमानत्वम् शेषस्य प्राधान्यादुपमेयत्वम्" इति माणिक्यचन्द्रः । सरस्वती- तीर्थाद्यस्तु इयं मालारूपापि संभवति। यथा 'उत्क्षिपं सह कौशिकस्य पुलकैः सार्ध मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम्। वैदेह्या मनसा समं तदधुना कृष्टं ततो भार्गवप्रौढाहंकृतिकन्दलेन च समं भग्नं तदैशं धनुः ॥' इत्याहुः ॥ इति सहोक्तिः ॥ २६॥ विनोक्तिनामानमलंकारं द्विधा लक्षयति विनोक्तिरिति। यत्र यस्मिन् अलंकारे अन्येन बिना अन्यः सन् शोभनो न किं त्वशोभनः नेतरः नाशोभनः किंतु शोभनः सा प्रकारद्वयवती विनोक्ति- रित्यर्थः । केनचिद्विना कस्यचिदशोभनत्वं शोभनत्वं वा प्रतिपाद्यते स विनोक्तिनामालंकार इति १ 'तीरेषु तालविनमर्मरेषु। द्वीपान्तगनीतल ङ्ग गुपैरपाऊतस्वदलवा मरुद्रिः' इति रघुकाव्ये पष्ठसर्गे इन्दुमती स्वयंवरे पद्यमिदम् ॥ २ ्लेषमित्तिकेति। श्लेषाश्रयकेत्यर्थः श्लेषमूलकेति यावत् ॥। ३ अभियुक्तैः प्रामाणिकैः ॥ ४सटटकलक्षणं प्राक् (१४३ पृष्ठे १ टिप्पणे ) उक्तम् ।। ५ प्राणितव्ये जीवितव्ये ।। ६ 'वैदेहीमनसा समं च सहसा' इत्यपि पाठः ॥ ७ कन्दलमङकुरः। तथा चोत्तररामचरिते ३ अक्के ४० १्लोके प्रयोगः 'मया लब्धः पाणिर्लेलितलवलीकन्दुलनिभः' इति॥ ८५

Page 733

६७४ काव्यप्रकाशः सटीक:।

क्वचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम्ँ अरुचिर्निशया बिना शशी शशिना सापि विना महत्तमः। उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥ ४९६ ॥ मृगलोचनया बिना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहदा तेन विना नरेन्द्रसूनुः॥ ४९७॥ (सू० १७२) परिवृत्तिविनिमयो योऽर्थानां स्यात्समासमै: ॥११३॥

भावः। विनाभावस्य (विनाशब्दार्थस्य) उक्तिर्विनोक्तिरित्यन्वर्थेयं संज्ञा। अत्रापि विनाशब्दार्थ एव विवक्षितः तेन नञ्रनिरविअन्तरेणऋतेरहितविकलेत्यादिप्रयोगेऽपीयमेवेत्युद््चोते स्पष्टम्। तेन 'निर- र्थक जन्म गतं नलिन्या यया न दष्ट तुहिनांशुबिम्बम्। उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥' इत्यादौ विनोक्तिरेव तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीते- रित्याहुः। अत्र 'शोभनः' इति वक्तव्येऽपि 'अशोभनो न' इत्यभावमुखेनाभिधानस्यायमभिप्रायः यत् वर्णनीयवस्तुनोऽशोभनत्वं प्रतीयते तत् परसंनिधिदोषविजुम्भितमेव वर्णनीयस्य वस्तुनः पुनः स्वाभाविकमेव शोभनत्वमिति दर्पणाभिप्राय इति विवरणकाराः। सन् नेत्यस्य व्याख्यानमाह अशोभन इति। नेतर इत्यस्य व्याख्यानमाह शोभन इति॥

तत्राशोभनत्वमुदाहरति अरुचिरिति । निशया रात्या विना ऋते शशी चन्द्रः अरुचि: दीप्तिशून्यः अशोभन इत्यर्थः । शशिना विना सापि निशापि महत् उत्कटं तमः अन्धकाररूपेति रूपकम् अशोभनेत्यर्थः । उभयेन शशिनिशाभ्यां विना कामिनोः कामिनी च कामी च कामिनौ "पुमान् स्त्रिया" (१।२६७) इति पाणिनिसूत्रेणैकशेषः। तयोः मनोभवस्फुरितं कामविलसितम् भावे क्तः कामविलास इत्यर्थः नैव चकास्ति नैव शोभते अशोभनं भवतीत्यर्थः। अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक् ३०१ पृष्ठे ॥ अत्रान्येन निशादिना विना अन्यस्य चन्द्रादेरशोभनत्वं प्रतिपाद्यते इति विनोक्तिरियम। न चात्र शशिसहितैव निशा रमणीयेति सहोक्तिध्वनिरेव युक्तः तत्कृतस्यैव चमत्कारस्य सत्वादिति वाच्यम् वाच्यार्थकृतस्य चमत्कारस्यानपलपनीयत्वादित्युद्चोते स्पष्टम्।।

शोभनत्वमुदाहरति मृगेति। अयं नरेन्द्रसूनु: राजपुत्रः मृगलोचनया अङ्गनया विना विचित्रेषु व्यवहारेषु या प्रतिभा झटिति स्फूर्तिः तस्याः प्रभया प्रकाशेन प्रगल्भः चतुरः शोभन इत्यर्थः। तेन दुष्टप्रकृतिना सुहदा मित्रेण विना अमृतद्युतिश्र्वन्द्रस्तद्वत् सुन्दरः स्वच्छ आशयोऽन्तःकरणं यस्य तादृशो भवतीत्यर्थः । य एव राजपुत्र: स्त्रीमोहितः कृत्यविकलः स एव तया विनातिव्यवहाराभिज्ञः। य एतर दुष्टसुहृदालिङ्गितो विषमहृदयः स एव तेन विनातिसदयहृदयः इति भावः । "प्रज्ञा नवनवोन्मेष- शालिनी प्रतिभोच्यते" इति रुद्रकोशः । मालभारिणी छन्दः। लक्षणमुक्तं प्राक् ३१२ पृष्ठे॥

अत्र मृगलोचनया दुष्टसुहृद्दिशेषेण च विना नरेन्द्रसूनोर्विचित्रव्यवहारप्रगल्भत्वचन्द्रसुन्दराशय- त्वरूपं शोभनत्वं प्रतिपादितमिति विनोक्तिरियम्॥। इति विनोक्ति: ॥ २७॥ परिवृत्तिनामानमलंकारं लक्षयति परिवृत्तिरिति। यः अर्थानां पदार्थानां (वस्तूनां) विनिमयः सा परिवृत्तिरित्यर्थः । परिवर्तनं (विनिमयकरणं ) परिवृत्तिरित्यन्वर्थेयं संज्ञा॥

Page 734

दशम उल्लास: । ६७५

परिवृत्तिरलंकारः । उदाहरणम् लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह हशमादाय सहसा

अत्र प्रथमेऽर्धे समेन समस्य द्वितीये उत्तमेन न्यूनस्य। नानाविधप्रहरणैर्नृप संप्रहारे स्वकृत्य दारुणनिनादवतः प्रहारान्। हप्तारिवीरविसरेण वसुंधरेयं निर्विप्रलम्भपरिरम्भविधिवितीर्णा॥।४९९॥ पौनरुक्त्यं लक्ष्यलक्षणसंदेहं वा परिहरति परिवृत्तिरलंकार इति। व्याख्यातमिदं प्रदीपोद्दचोतयोः। परिवृत्तिरिति लक्ष्यालंकारनिर्देशः पूर्वाचार्याणां तथैवोद्देशदर्शनात्। अतो न लक्ष्यलक्षणसंदेहः। समासमैरिति विभागः। विनिमयो हि केनचिद्वस्तुना दत्तेन परकीयस्य कस्यचिदादानम् विनिमय- पदस्य तत्रैव शक्तेः। एवमादाय दानमपि सः। समासमैर्वस्तुभिः यः अर्थानां पदार्थानां विनिमयः सा परिवृत्तिरित्यन्वयः । बहुवचनमतन्त्रम् । एवं च क्वचित् समेन समस्य विनिमयः क्वचिदसमेनास- मस्येति द्विविधोऽयमलंकारः। अन्त्योऽपि द्विविधः क्वचिन्न्यूनेनोत्तमस्य क्वचिदुत्तमेन न्यूनस्येति त्रिवि- धेयं परिवृत्तिरित्यर्थः । अत्र समत्वासमत्वे उपादेयत्वानुपादेयत्वाभ्यां बोध्ये। दानादानव्यवहारः कविकल्पित एव न वास्तवः तत्रालंकारत्वाभावात्। तेन 'क्रीणन्ति येत्र मुक्ताभिर्बदराण्यपि बालिकाः' इत्यत्र नेयम्। परकीयस्येत्युक्तेः 'किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम्' इत्यत्र नेयम् विनिमयाभावादिति। तत्र समेन समस्य उत्तमेन न्यूनस्य च विनिमयमुदाहरति लतानामिति। अयं मरुत् वायुः उदित कुसुमानां संजातपुष्पाणाम् एतासां लतानां वल्लीनाम् असमम् अनुपमम् आमोदं परिमलं भृशम् अत्यर्थ श्रयति स्वीकरोति। कि कृत्वा मतं संमतं मनोरमं वा लास्यं नृत्यं दत्वा अर्थाल्- ताभ्य इत्यर्थः। लतास्तु अध्वन्यानां पान्थानां दशं दृष्टिं सहसा झटिति आदाय हत्वा आधिर्मन :- पीडा व्याधि: कायपीडा भ्रमिः दिग्भ्रमणदर्शको विकारः रुदितं रोदनम् मोहो निश्र्ेष्टता एतेषां व्यतिकरं संपर्क समूहं वा (पथिकेभ्यः) ददति इत्यनौचित्यात् अहहेति खेद इत्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ अत्र प्रकारदयं दर्शयति अत्रेत्यादिना। अत्र पूर्वार्धे लास्येनोपादेयतया समस्य आमोदस्य विनिमयः उत्तरार्धे उपादेयतया उत्तमया दृशा आधिव्याधीनामतादृशतया न्यूनानां विनिमयः। मरुत्संबन्धेन लतानां लास्यदर्शनात् लतादर्शनेन च पथिकानामाध्यादिदर्शनाद्दावृत्वं कविकल्पित- मिति प्रदीपोद्दचोतयोः स्पष्टम् ॥ न्यूनेनोत्तमस्य विनिमयमुदाहरति नानिति। हे वृप हप्तो दर्पयुक्तो (बलगर्वितो ) योSरिवीरविसर: १ अतन्त्रम् अविवक्षितम् "सूत्रे लिङ्गवचनमतन्त्रम्" इति न्यायादिति भावः। अत एव "प्रथमेऽर्धे समेन समस्य" इत्यादिवृत्तिग्रन्थः संगच्छते ॥ २ यत्र नगर्याम् ।।३ कुमारसंभवे पश्च्मसर्गे तपस्यन्तीं पार्वती प्रति बटुवेषधारिणो महादेवस्योक्तिरियम्।।

Page 735

६७६ काव्यप्रकाशः सटीकः ।

अत्र न्यूनेनोत्तमस्य।। (सू० १७३) प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तन्भ्भाविकम् भूताश्च भाविनश्चति द्वन्द्ः । भावः कवेरभिप्रायोऽत्रास्तीति भाविकम्। उदाहरणम् आसदिअनमत्रेति पश्यामि तव लोचने। भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम्॥ ५०० ॥ शत्रुवीरसमूहस्तेन (कर्त्रा) संप्रहारे युद्धे नानाविधैः अनेकप्रकारकैः प्रहरणैः आयुधैः दारुणनिना- दवतः भयंकरशब्दयुक्तान् प्रहारान् ताडनानि स्वीकृत्य निर्गतो विप्रलम्भो वियोगो यस्मात्तादृशः (वियोगशून्यः ) परिरम्भस्य आलिङ्गनस्य (स्वस्वामिभावसंबन्धस्य) विधिः स्वीकारः प्रकारो वा यस्याः तादशी इयं वसुंधरा वसुमती (भूमिः) वितीर्णा दत्ता अर्थात्तुभ्यमित्यर्थः। "समूहनिवहव्यूहसंदो- हविसरवजाः" इत्यमरः । "संप्रहारो गतौ रणे" इति हैमः । "आयुव तु प्रहरणं शस्त्रमस्त्रम्" इत्यमरः । "विधिर्ब्रह्मविधानयोः । विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः" इति कोशः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र न्यूनेनेति । अत्र अनुपादेयतया न्यूनैः प्रहारेः उत्तमाया वसुंधरायाः विनिमयस्योक्तेः परिवृत्तिरलंकार इत्यर्थः । "अत्रोत्तमया वसुंधरया न्यूनानां प्रहाराणां विनिमयः" इति तु प्रदीपः ॥ इति परिवृत्तिः ।। ९८ ।।

भाविकनामानमलंकारं द्विधा लक्षयति प्रत्यक्षा इति। भूताः पूर्वकालिकाः भाविनः उत्तरकालि- काश्र भावा: पदार्थाः (वस्तूनि) कविना यत् प्रत्यक्षा इव क्रियन्ते प्रत्यक्षतयाभिधीयन्ते अलौकि- कप्रत्यक्षविषया अपि लौकिकप्रत्यक्षविषयतयाभिधीयन्ते इत्यर्थः तत् प्रकारद्वयवत् भाविकमित्यर्थः । व्याख्यातमिदं निदर्शनाख्यटीकायामानन्दकविना "यथा योगिभिर्भावनायाः (वासनायाः संस्कारवि- शेषस्य ) बलात् अतीतानागतं वस्तु प्रत्यक्षीक्रियते तथैव काव्यार्थविद्धिरपि तस्या एव बलात् भूताः भाविनश्र भावा: पदार्थाः अप्रत्यक्षा अपि प्रत्यक्षा इव क्रियन्ते तद्भाविकम्" इति॥

भूताश्चेत्यादि। भूतभाविन इति द्वन्द्वः समासः न तु कर्मधारयः भूतानां भावित्वस्याप्रतीतेरिति भावः । भाविकपदस्य व्युत्पत्ति दर्शयति भाव इत्यादिना। अभिप्रायः भूतभाविनोरपि लौकिकप्रत्य- क्षविषयत्वेन प्रतिपादनेच्छा। न चेयं भ्रान्तिः भूतभावित्वेनैव निर्देशात् अञ्जनाद्यसत्त्वेऽपि तत्कृ- तशोभाद्यभिप्रायेण तथाप्रयोगाच्च। न चैव स्वभावोक्तिः तत्र वस्तुधर्मो वैचित्रयाधायकः इह तु कवे- स्तन्निबद्धस्य वाभिप्राय इति विशेषादित्युद्चोते स्पष्टम्। भावाय साक्षात्काराय प्रभवति भाविकमिति व्युत्पत्तिरित कुवलयानन्दकारिकाव्याख्यायामाशाधरभट्टः।।

भूतभाविनोद्योरपि प्रत्यक्षतयाभिधानमेकेनैव पद्येनोदाहरति आसीदिति। हे कान्ते अत्र अनयो- र्लोचनयोः यत् अञ्जनं कज्जलं दत्तम आसीत इति तययुक्ते (अतीताञ्जनयुक्ते) तव लोचने लोचन- दवयं पश्यामि साक्षात्करोमीत्यर्थः । इति शब्दोऽत्र प्रकारे न तु हेत्वर्थे। "इति हेतुप्रकरणप्रका-

१ भावनायाः।।

Page 736

दशम उल्लांस:। ६७७

आद्ये भूतस्य द्वितीये भाविनो दर्शनम्॥ (सू० १७४ ) काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥११४॥ रादिसमाप्तिषु" इत्यमरः । इतिशब्दस्य हेत्वर्थकत्वे तु 'आसीदिति हेतोः पश्यामि' इत्यन्वये भूत- स्याञ्जनस्य लौकिकसाक्षात्कारविषयत्वं नोपपादितं स्यात्। भावी भूषणानाम् आभरणानां संभार: समूहो यत्र तथाभूताम् भाविभूषणसंभारयुक्तामित्यर्थः । यद्वा भाविभूषणैः संभ्रियते सा ताम् भावि- भूषणसंभारयुक्तामित्यर्थः । तव आकृतिं साक्षात्कुर्वें पश्यामीत्यर्थः। उभयविधेऽपि समासे 'भाविभष- णसंभारां पश्यामि' इति यथाश्लुतान्वये भाविनो भूषणसंभारस्य लौकिकसाक्षात्कारविषयत्वं नोपपादितं स्थात्। अत्राञ्जनभूषणादिकं विनापि स्वरूपवैलक्षण्येनैव शोभातिशयात्तेषां वैयर्थ्य ध्वन्यते॥ अत्र पूर्वधे भूतस्याञ्जनस्य उत्तरार्धे भाविनो भूषणसंभारस्य च प्रत्यक्षतयाभिधानमिति भाविक- नामालंकारः । तदेवाह आद्ये इत्यादिना। भूतस्य अञ्जनस्य। भाविनः भूषणसंभारस्य। दर्शन- मिति। साक्षात्करणमित्यर्थः । क्वचित् भूतत्वादिनिर्देशं विनाप्येष दृश्यते 'अहं विलोकयेऽय्यापि युध्यन्तेऽत्र सुरासुराः' इत्यादौ। अत्रेदं चिन्त्यम्। असंबन्धे संबन्धरूपातिशयोक्त्यैव गतार्थोऽयम प्रत्यक्षासंबन्धेऽपि तत्संबन्धवर्णनात् भूतादिवस्त्वसंवन्धेऽपि तत्संबन्धवर्णनाच्चेति। सानुप्राणिकात्रेति कश्र्विदित्युद्दयोते स्पष्टम्। व्याख्यातमिदं विवरणेऽपि कवेरभिप्राय इति। अभिप्रायः भूतभाविनोरपि प्रत्यक्षतयेव प्रतिपादनेच्छा। यथोदाहरणे 'अत्र अञ्जनम् आसीत् इति पश्यामि' 'भाविभूषणसं- भारां तवाकृति साक्षात्कुर्वे' इत्यनेन भूतस्यापि अञ्जनस्य भविष्यतोऽपि च भूषणसंभारस्य दर्शनक्रि- ययान्वयात् वर्तमानतया प्रतिपादनम् वर्तमानस्यैव दर्शनयोग्यत्वात्। भूतभविष्यतोरप्यनयोः कोऽपि संदेहो नास्तीति प्रतिपत्त्यर्थ वर्तमानतयेव प्रतिपादनमिति ॥ इति भाविकम् ॥२९ ॥ काव्यलिङ्गनामानमलंकारं लक्षयति काव्यलिङ्गमिति। हेत्वभिधानं काव्यलिङ्गमित्यर्थः । अभि- धानं च वाक्यार्थत्वेन पदार्थत्वेन चेति विभागः। व्याख्यातमिदं प्रदीपोद््योतयोः "अत्र विवक्षितविवे- केन हेतुवचनं काव्यलिङ्गमिति लक्षणम् स्वतोऽनुपपद्यमानार्थोपपादकहेतोर्वचनं काव्यलिङ्गमित्यर्थः । वाक्यपदार्थतेति विभाग: वाक्यार्थता पदार्थता चेत्यर्थः । पदमप्येकमनेकं चेति बोध्यम्" इति। एवं चं हेतोर्वाक्यार्थता अनेकपदार्थता एकपदार्थता चेति त्रिविधं काव्यलिङ्गमिति फलितम्। वाक्यार्थरूपस्या- नेकपदार्थरूपस्यैकपदार्थरूपस्य च हेतोरभिधानं काव्यलिङ्गमिति तु निष्कर्षः। काव्याभिमतं लिङ्गं काव्यलिङ्गम्। तर्कशास्त्राभिमतलिङ्गव्यावर्तनाय काव्यपदम। लिङ्गमत्र हेतुः। तदुक्तं गोदर्धनेन "न्यायोऽनुमानं हेतुश्र लिङ्गं युक्तिः समर्थकः ॥" इति। हेतुस्वरूपं चोक्तमग्निपुराणे "सिषाधयि- षितार्थस्य हेतुर्भवति साधकः। कारको ज्ञापकश्वेति द्विधा सोऽप्युपदिश्यते॥" इति। अत्रापि सूत्रे चम० त्कृतिहेतुत्वमलंकारसामान्यलक्षणप्राप्तमस्त्येव। तेन 'दण्डेन घटः' इत्यादौ चमत्काराभावान्न काव्यलिङ्ग- त्वम्। अयं काव्यलिङ्गालंकार एव हेत्वलंकार इत्युच्यते। हेतुगर्भत्वात्काव्यलिङ्गस्यापि हेतुशब्देन व्यवहार इत्युक्तं प्राक् (१४६ पृष्ठे)। अत एव कारणमालालंकारे वृत्तौ ग्रन्थकृद्ृक्ष्यति "पूर्वोक्त- १ अहमिति। स्थानभीषणोद्गावनपरमिदं वाक्यम् ॥२ अत्र "स्तौतिण्योरेव षण्यभ्यासात्" (८३।६१) इति पाणिनिसूत्रेण 'अभ्यासणः परस्य स्तौतिण्यन्तयोरेव सस्य षत्वं भवति' इत्यर्थकेन ण्यन्तत्वात् पत्तम्। सिसाधयि षितेति तु अपपाठ एवेति बोध्यम्।

Page 737

६७८ काव्यप्रकाशः सटीकः ।

वाक्यार्थता यथा वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान्। नमन् मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाक महेश क्षन्तव्यं तदिदमपराधठ्ठ्यमपि ॥५०१॥ काव्यलिङ्गमेव हेतु: (हेत्वलंकारः)" इति। एवम् अयमेव काव्यहेतुरित्यपि व्यवह्नियते वृत्तौ (१४१ पृष्ठे) इति बोध्यम्। अत्र कारकहेतोरुक्तिः अनुमानालंकारे तु ज्ञापकहेतोरुक्तिरिति भेद इति कमलाकरभट्टाः । उद्योतकारास्तु "व्याप्त्यादनिर्देशान्नानुमानसंकरः। श्रोतुर्यल्लिङ्गकानुमितिबु- बोधयिमया कवेर्व्याप्त्यादिविशिष्टहेतुबोधककाव्यनिर्माणं तल्विङ्गमनुमानविषयः काव्यलिङ्गजानुमितिस्तु न कविना श्रोतुर्बुबोधयिषिता किंतु श्रोतर्युत्पिपादयिषितोति भेद इत्यन्ये" इत्याहुः। ननु साभिप्रायप दार्थविन्यसनरूपात्परिकरात्काव्यलिङ्गस्य किं भेदकमिति चेत् उच्यते। परिकरे पदार्थवाक्यार्थबला- त्प्रतीयमानोर्थो वाच्योपकारकतां भजते काव्यलिङ्गे तु पदार्थवाक्यार्थाव हेतुभावं भजत इतीति- सुधासागरे स्पष्टम्। अर्थान्तरन्यासान्द्ेदस्तु प्राक् (६६१ पृष्ठे) प्रतिपादित एवति बोध्यम् । "अर्था- न्तरन्यासे तटस्थतयोपनिबद्धस्य हेतुत्वे पर्यवसानम् इह तु साक्षादेव हेतुविभक्त्यादिना हेतुतयोपनि- बद्ध इति ततो भेदः" इति प्रदीपः । (तटस्थतयेति । परस्परमनन्वितत्वेनेत्यर्थः । पर्यवसानमिति।) सामान्याद्यर्थस्योक्तस्य प्रामाण्यग्रहहेतुत्वमित्यर्थः । इह तु साक्षादेवेति। तत्तत्पदार्थनिरूपितहेतु तयोपनिबद्धः इत्यर्थः । हेतुविभक्त्यादिनेति क्वाचित्कोऽपपाठः गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेन प्राचीनैः काव्यलिङ्गताभ्युपगमात्। अत एव 'वपुःप्रादुर्भावादनुमितम्' इत्यंशे नायमलंकार इत्याहुः। सामान्यविशेषभावसंबन्धालिङ्गितत्वेन अर्थान्तरन्यासात् भेद इत्यन्ये। केचित्तु निर्हेंतुरूपदोषाभावः काव्यलिङ्गम् हेतुहेतुमद्भावस्य वस्तुसिद्धत्वेन कविप्रतिभानिर्वर्त्यत्वाभावात्तत्प्रयुक्तचमत्काराभावेनास्या- लंकारताया दुरुपपादत्वाच्च श्लेषादिसंमिश्रणेऽपि तत्कृत एव चमत्कारो नैतत्कृत इत्याहुः" इत्युद्दयोतः॥ वाक्यार्थता यथेति। हेतोर्वाक्यार्थतामुदाहरतीत्यर्थः वाक्यार्थरूपस्य हेतोरभिधानमुदाहरतीति थावत्। वपुरिति। हे पुरारे त्रिपुरशत्रो शिव अहं पुरा पूर्वस्मिन् क्वचित् कस्मिन्नपि जन्मनि प्रायः भवन्तं त्वां न प्रणतवान् नमस्कारं न कृतवान्। कथं ज्ञातमित्यत आह वपुरित्यादि। इदं मया वपुः- प्रादुर्भावात् शरीरोत्पत्तिरूपाल्लिङ्गात् अनुमितं ज्ञातमित्यर्थः त्वत्प्रणामे सति मुक्तिलाभेन शरीरो- त्पत्तेरभावादिति भावः। संप्रति इदानीं नमन् मुक्तः अहम् अतनुः शरीरशून्यः (देहाभिमानरहितः) इति अग्रे उत्तरकालेऽपि अनतिभाक नतिरहितः मुक्तस्य पुनर्देहप्राप्त्यभावेनाग्रेऽपि प्रणामाभाव इति भाव: । हे महेश महाप्रभो तदिदम् अपराधद्वयमपि (भवता) क्षन्तव्यमित्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे।

अत्र 'पुरा क्वचिदपि नाह भवन्तं प्रणतवान्' 'अग्रेऽप्यहमनतिभाक्' इत्यवान्तरवाक्ययोरर्थोऽनमे- १ पदार्थवाक्यार्थेति द्न्दूः ॥ २ प्रतीयमानोर्डर्थो व्यङ्ग्योऽर्थः ॥ ३ वाच्योपकारक्तां वाक्यार्थहेतुताम् ॥४ स्पष्टमिति। एवं च काव्यलिङ्गे पदार्थो वाक्यार्थों वा हेतुः परिकरे तु पदार्थबलाद्वाक्यार्थबलाद्ा प्रतीयमानोऽर्थों हेतुरिति परस्परं भेद: ॥ ५ आदिपदेन तच्छब्दादिग्रहणम् ॥ ६ इत्यंशे इति । अनुपद्मेव 'वक्ष्यमाणे' इति शेषः ॥ ७काव्यलिङ्गस्य ।।

Page 738

दशम उल्लास: । ६७९

अनेकपदार्थता यथा प्रणयिसखी सलीलपरिहासर साधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्। वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुज: ॥ ५०२ ॥ एकपदार्थता यथा भस्मोद्दूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरंपरां गिरिसुताकान्तालयालंकृतिम्। नम् अपराधे हेतुः। यद्यप्यनमनमेवापराधः तयोश्र (अनमनापराधयोश्र) न हेतुहेतुमद्भावः तथापि तदिदमित्यस्य सर्वनाम्ना बुद्धिस्थपरामर्शकत्वात् दुरितविशेषरूपमित्यर्थः क्षन्तव्यमित्यस्य च लक्षणया नाशनीयमित्यर्थ इत्यदोष इति प्रदीपोद्द्योतयोः स्पष्टम्। एवं चात्र अनमनद्यं हेतुः तदिदंपदप्रति- पादितं दुरितविशेषरूपमपराधद्वयं हेतुमत् अनमनद्वयजन्यं दुरितविशेषरूपमपराधद्दयं नाशनीय- मित्यर्थः । तथा च भूतभाविजन्मनोरनमनरूपहेत्वोः 'न प्रणतवान्' इति 'अनतिभाक्' इति च क्रियाद्वयेन समाप्तयोर्वक्ययोरर्थतेति काव्यलिङ्गमलंकारः। उक्तं च 'अनमनमपराधे हेतुः' इति प्रदीपप्रतीकमुपादाय प्रभायाम् "अपराधोत्र दुरितं विवाक्षितम् तत्रानमनस्य हेतुत्वम् अपराधस्य क्षमणं च तत्फलानुत्पादनं तन्नाशनं वेति नानुपपत्तिः। तदिति चानमनद्वयजन्यं दुरितद्वयपरा- मर्शकम् न त्वनमनद्वयस्य हेतुत्वस्य शाब्दत्वेऽलंकारत्वस्यानिष्टत्वात्" इति॥ अनेकपदार्थता यथेति। हेतोरनेकपदार्थतामुदाहरतीत्यर्थः अनेकपदार्थरूपस्य हेतोरभिधानमु- दाहरतीति यावत्। प्रणयीति। मालतीमाधवप्रकरणे पञ्चमेऽङ्के मालतविधोद्यतमघोरघण्टं प्रति माधव- स्योक्तिरियम। रे पाप प्रणयिनीनां प्रीतिमतीनां सखीनां सलीलो यः परिहासरसः उपहासरसस्तेन अधिगतैः प्राप्तैः ललितशिर्राषपुष्पहननैः मनोहरकपािनकुसुमपातनैरपि यत् वपुः ताम्यति ग्लायति (क्ेशं प्राम्रोति ) तत्र तास्मिन् वपुषि मालतीशरीरे वधाय शस्त्रमुपक्षिपतः उद्यच्छतः चालयतो वा तव शिरसि ते मूर्त्नि एषः करालो भुजो मद्दाहुदण्ड: अकाण्डेडकाले यमदण्ड इव पतत्वित्यर्थः । "शिरीषस्तु कपीतनः" इत्यमरः। नर्कुटकं छन्दः "यदि भवतो नजौ भजजला गुरु नर्कुटकम्" इति लक्षणात्॥ अत्र 'वपुषि शस्त्रमुपक्षिपतः' इति प्रातिपदिकानां क्रियासाकाङ्कतया वाक्यभावमनाप्तानामनेक- पदानामर्थः शस्त्रोपक्षेपरूपो भुजापाते हेतुरिति काव्यालेङ्गमलंकारः। तदुक्तं प्रदीपोद्द्योतयोः "अत्र शस्त्रोपक्षेपो भुजपाते हेतुः। न चायं वाक्यार्थः शस्त्रमुपक्षिपतः एतावन्मात्रस्य (इत्येतावन्मात्रस्य) साकाङ्कत्वेनावाक्यार्थत्वात्। 'तत्र वपुषि वधाय शस्त्रमुपक्षिपतः' इत्यस्यापि न वाक्यत्वम् विशे- षणीभूतार्थोपस्थापकत्वन [तवेति पश्ठ्चन्तरूप ]विशेष्यसाकाद्कत्वादिति तदर्थस्थापि हेतुत्वेन न वाक्यार्थस्य हेतुत्वमिति" इति ॥ एकपदार्थता यथेति। हेतोरेकपदार्थतामुदाहरतीत्यर्थः एकपदार्थरूपस्य हेतोरभिधानमुदाहर- तीति यावत्। भस्मेति। शिवप्रसादेन जाततत्वज्ञानस्योक्तिरियम्। हे भस्मोद्धूलन भूत्यालेपन भवते १ नर्द्टकमित्यपि पाठः॥ २ नाम्नाम् ॥ ३ तत्त्वज्ञानं नित्यानित्यवस्तुविवेकः ॥

Page 739

६८० काव्यप्रकाशः सटीक:।

अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा- लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे॥ ५०३॥ एषु अपराधह्ये पूर्वापरजन्मनोरनमनम् भुजपाते शस्त्रोपक्षेपः महामोहे सुखालोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतु:।। (सू० १७५) पर्यायोक्तं विना वाच्यवाचकत्वेन यद्रचः । वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत् प्रतिपादनम् तत् पर्यायण भङ्गचन्तरेण कथनात् पर्यायोक्तम्। उदाहरणम्

भद्रमस्तु तुभ्यं कल्याणमास्ताम्। "चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः " (२।३७३) इति पाणिनिसूत्रेण चतुर्थी। हे रुद्राक्षमाले भवत्यै शुभमस्तु । गिरिसुताकान्तस्य शिवस्य आलयः प्रासाद: तस्य अलंकृतिम अलंकारभूतां सोपानपरंपरां सोपानपक्किं हा तस्याः शोच्यतेत्यर्थः । तत्संसारकर्त्रभावादिति भावः । "अभतःपरितःसमयानिकषाहाप्रतियोगेऽपि " इति कात्यायनकृत- वार्तिकेन हाशब्दयोगे षष्ठचर्थे (संबन्धे ) द्वितीया। "आरोहणं स्थात्सोपानम्" इत्यमरः। अथ अस्मि- न्नहनि आराधनेन सेवया तोषितेन विभुना शिवेन (कर्त्रा) युष्माकं भस्मोद्धूलनादीनां भवतां या सपर्या सेवा तत्सुखस्य तदानन्दस्य आलोकः अनुभवरूपः प्रकाशः तदुच्छेदिनि तन्नाशके मोक्षनामानि मोक्षसंज्ञके महामोहे महान्धकारे निधीयामहे निपात्यामहे । 'वयम्' इति शेषः । सुधासागरकारास्तु "सोपानपरंपरां हा धिक सर्वस्यापि प्रपश्चस्याविद्याकल्पितत्वादिति भावः । अद्य आराधनतोषितेन विभुना शिवेन आत्माभिन्नेनेति भावः। युष्मत्सपर्यासुखालोकोच्छेदिि भवत्सेवानन्दानुभवस्योच्छेदका- रिणि मोक्षनामनि अखण्डानन्दैकरसे महामोहे नानात्वज्ञानवर्जिते निधीयामहे। नेदानी किंचिदमिल- षितमुर्वरितमस्तीति भाव:" इति व्याचख्युः । शार्दिलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥

अत्र मोक्षस्य महामोहत्वे सुखालोकोच्छेदित्वं हेतु: तच्च समासादेकपदार्थ एव । मोक्षे महामो- हत्वाध्यवसायः । तदुक्तं चन्द्रिकायाम् "अत्र महामोहत्वे सुखालोकोच्छेदकत्वं समस्तपदार्थो हेतुः" इति। उक्तोदाहरणेषु प्रकृतालंकारं योजयति एष्तिरित्यादिना। एषु उक्तोदाहरणेषु। उक्तरूप इति। वाक्यार्थरूपः अनेकपदार्थरूपः एकपदार्थरूप इत्यर्थः । इति काव्यलिङ्गम् ॥ ३० ॥ पर्यायोक्तनामानमलकारं लक्षयति पर्यायोक्तमिति । वाच्यस्यार्थस्य प्रतिपादनं शक्त्यैवति भ्रमं निराकर्तुमाह विनेत्यादि। वाच्यवाचकत्वेन विना वाच्यवाचकभावभल्नेन व्यञ्जनारूपव्यापारेण यत् वचः (अर्थात् वाच्यस्यैवार्थस्य) प्रतिपादनम् तत् पर्यायोक्तं पर्यायण प्रकारण (प्रकारान्तरण) कथनादित्यर्थः यत्र वाच्यार्थ एव (शक्यार्थ एव) प्रकारान्तरेण व्यञ्जनया प्रतिपाद्यते तत् पर्यायोक्तमिति भाव:॥

तदेवाह वाच्यवाचकेत्यादिना । व्यतरिक्तेन भिन्नेन। 'विविक्तेन' इति पाठेऽपि 'भिन्नेन' इत्येवार्थः । अवगमनव्यापारेण व्यञ्जनारूपव्यापारेण । वच इति व्याचष्टे प्रतिपादनमिति। बोधनमित्यर्थः अर्थाद्वाच्यस्यार्थस्येति भावः। पर्यायोक्तमित्यन्वर्थेयं संज्ञेति ध्वनयन् पर्यायोक्तपद- १ एकपदार्थ एवेति। "समर्थः पद्विधिः" (२।१।१) इति पाणिन्यनुशासनादिति भावः ॥ २ अर्थादिति । पर्यायोक्तपद्सामर्थ्यादित्यर्थ इति प्रभा।:

Page 740

द्शम उल्लास:। ६८१

यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता। मदेनैरावणमुखे मानेन हृदये हरे: ॥ ५०४॥ अत्र ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्गयमपि शव्देनोच्यते तेन यदेवोच्यते तदेव व्यङ्गयम् यथा तु व्यङ्ग्यं न तथोच्यते। यथा गवि शुके चलति दष्टे 'गौः

स्यावयवार्थमाह पर्यायेणेत्यादिना । पर्यायः प्रकारः । "पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे" इति विश्वः। पर्यायेणेत्यस्य पर्यवसितमर्थमाह भङ्गचन्तरेणेति। प्रकारान्तरणेत्यर्थः। कथनात् प्रतिपादनात्। पर्यायोक्तमिति। ध्वैनेस्तु न वाच्य एवार्थो विषय इति ततोऽस्य भेद इति प्रदीपो- दयोतादिषु स्पष्टम् ।।

व्याख्यातमिदं विवरणेऽपे "विवक्षितमर्थ साक्षात् (स्ववाचकपदेन) अकथयित्वा (वैचित्रयवि- शेषाय) प्रकारान्तरेण कथनं पर्यायोक्तम्। तदुक्तं (काव्यादर्शे द्वितीयपरिच्छेदे ) दण्डिना 'अर्थमि- ष्टमनाख्याय साक्षात् तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते ॥' इति। यत्र वाच्यार्थव्यङ्ग्यार्थयोः पर्यवसाने ऐक्यम् केवलमुक्तिप्रतीत्योः प्रकारभेदः तत्र पर्यायोक्तमिति फलि- तोरऽर्थः" इति॥

पर्यायोक्तमुदाहरति यमिति । काशमीरिकमेण्ठकविप्रणीते हयग्रीववधाख्ये नाटके पद्यमिदमिति वदन्ति। यं रावेणं प्रेक्ष्य दृष्टा मदेन (कर्त्रा) ऐरावणस्य इन्द्रगजस्य मुखे मानेन अभिमानेन च (कर्त्रा ) हरे: इन्द्रस्य हृदये चिररूढा वृद्धिं गतापि निवसप्रीतिः उज्झिता त्यक्तेत्यर्थः । "ऐराव- तोऽभ्रमातङ्गेरावणाभ्रमुवल्लभाः" इति "यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु" इति चामरः ॥

अत्र 'ऐरावतेन्द्रौ मदमानशून्यौ जातौ' इत्यर्थस्य व्यङ्गयस्यैव भङ्ग्यन्तरेणाभिधानात् (अभि- धया प्रतिपादनात्) पर्यायोक्तमलंकारः। तदुक्तं प्रदीपे "अत्र एक एवार्थः 'ऐरावणशक्रौ मद- मानविमुक्तौ जातौ' इति (इत्येवंप्रकारेण) व्यञ्जनया 'मदमानाभ्यां तयोः (मुखहृदयरूपयोः ) अधिकरणयोः निवासप्रीतिरुज्झिता' इति (इत्येवंप्रकारेण ) अभिधया च प्रतिपाद्ते" इति। उक्तं च विवरणकारैरैपि "अत्र 'ऐरावणशकौ मदमानमुक्तौ जातौ' इति व्यङ्गचार्थ एव 'यं प्रेक्ष्य' इत्यादिना शब्देन प्रकारभेदेन उच्यते। यथा 'जनो गच्छति' 'जनेन गम्यते' इति 'अत्रागम्य- ताम्' 'आगमनेनालंक्रियतामिदम्' इत्यादि। ततश्र य एवार्थः अभिधातुमभिप्रेथते स एवार्थ: व्यञ्जनया प्रतीयते परं तु येन प्रकारेणार्थो व्यज्यते न तेन प्रकारेणोच्यते इति प्रकारभेदः। वैचित्र्यविशेषाय साक्षादनुक्त्वा प्रकारान्तरेण कथनं न दोषाय। अत्र सन्नपि व्यङ्गचोऽर्थः अति- स्फुटतया न तथा अतिशेते यथा उक्तेवैचित्रयमिति न ध्वनित्वम् नापि गुणीभूतव्यङ्गयत्वम् किं तु चित्रकाव्यत्वम्" इति ॥

तदेवाह अत्रेत्यादिना। शब्देनोच्यते इति। शब्देनाभिधया प्रतिपाद्ते इत्यर्थः। तेनेति। तेन चेत्यर्थः। यदेवेति। 'वस्तु' इति शेषः। उच्यते अभिधया प्रतिपादते। तदेव व्यङ्ग्य- १ धवनस्वति। व्यङ्ग्यस्यागूढत्वादिति भाव इत्युद्व्योतः ॥ २ रावणमिति। इदं व्याख्यान चन्द्रिकोद्योत- योरनुरोधेन। हयग्रीववधनाटकस्थमिद पद्य चेत् तदा यं हयग्रीवमिति व्याख्यानं कर्नव्यम् । ८६

Page 741

६८२ काव्यप्रकाशः सटीकः ।

शुक्कश्चलति' इति विकल्पः । यदेव हष्ट तदेव विकल्पयति न तु यथा दृट्ट तथा। यतोडभिन्नासंसृष्टत्वेन दष्टम् भेदसंसगभ्यां विकल्पयति॥ मिति। तदेव वस्तु व्यञ्जनया प्रतिपायं भवतीत्यर्थः । तथा च लक्षणसंगतिरिति भावः। न चैवं प्रतिपन्नस्यैव प्रतिपत्तिरफलेति किं व्यापारद्वयेनेति वाच्यम् यतो यथा व्यङ्ग्यं तथा नोच्यते प्रकार- योभेदात्। तदेवाह यथा त्वित्यादिना। येन प्रकारेण तु व्यङ्गयं तेन रूपेण शब्देन नोच्यते इत्यर्थः । एकस्यैवार्थस्य प्रकारभेदेन वाच्यत्वव्यङ्गचत्वयोरविरोधः यथा यावककुसुम्भजपाकुसुमादि रूपाणां रक्तत्वादिना वाच्यत्वेऽपि तत्तद्वैजात्यरूपेण प्रत्यक्षत्वमेव न वाच्यत्वं तथेहापीति भाव इति प्रदीपोद्द्योतयोः स्पष्टम्। एकेन प्रकारण अवगतस्याप्यर्थस्य प्रकारान्तरेण प्रतिपत्तौ दृष्टान्तमाह यथा गवीत्यादिना। गवि गोत्वे तदाश्रये च शुके शुकृत्वगुणे तदाश्रये च चलति चलनक्रियायां तदाश्रये च दृष्टे निर्विकल्पकज्ञानविषयीकृते इत्यर्थः । विकल्पः विशिष्टज्ञानम्। 'जायते' इति शेषः । यदेवेत्यादि। यदेव गोत्वादि दृष्ट निर्विकल्पकज्ञानविषयीकृतं तदेव गोत्वादि विकल्पयति सविकल्पकज्ञानविषयीकरोतीत्यर्थः । 'चैत्रादि: प्रमाता' इति शेषः । न त्विति। न तु यथा येन प्रकरेण दृष्टं निर्विर्कल्पकज्ञानविषयीकृतं तथा तेनैव रूपेणेत्यर्थः । अभिन्नेत्यादि। भिन्नत्वेन संसृष्टत्वेन वा अदृष्टमित्यन्वयः। भिन्नत्वं भेद: संसृष्टत्वं संसर्गः भेदेन संसर्गेण वा अदृष्टं वस्तु भेदसंसगभ्यां भेदेन संसर्गेण वा विकल्पयति विशिष्टीकरोतीत्यर्थः। एतदपि मतभेदेन। भेदोऽ- तव्यावृत्तिः । सा च अपोह इत्युक्तं प्राक (३८ पृष्ठे) । 'अतव्यावृत्तिरेव विशेषणत्वेन भासते' इति बौद्धमते मिन्नत्वेनेति। 'गोत्वादिरेव विशेषणत्वेन भासते' इति तदन्यमते (वैयाकरणादि- मते ) संसृष्टत्वेनेति। अयं भावः। इन्द्रियार्थसनिकर्षजन्यं ज्ञानं प्रत्यक्षम्। तच्च द्विविधम निर्वि- कल्पकं सविकल्पकं चेति। निष्प्रकारकं ज्ञानं निर्विकल्पकम् सप्रकारकं ज्ञानं सविकल्पकम्। विशेषणविशेष्यभावसंबन्धानवगाहि ज्ञानं निर्विकल्पकम् नामरूपजात्यादिविशेषणविशेष्यसंबन्धाव- गाहि ज्ञानं सविकल्पकमित्यर्थः। ननु निर्विकल्पके कि प्रमाणमिति चेत् न। "गौरिति विशि' ष्ज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीति ज्ञानवत्' इत्यनुमानस्यैव प्रमाणत्वात्। विश- षणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गात् निर्विकल्पकत्वसिद्धिः । तथा च प्रकृते निर्विक- ल्पके गोत्वतद श्रयशुककृतदाश्रयचलनतदाश्रयाः विशकलिताः (असंबद्धाः) भासन्ते सविकल्पके तु संसृष्टतया भासन्ते निर्विकल्पकस्य विशिष्टधीहेतुत्वात्। एवं च यथा पूर्व दृष्टानामपि गोत्वा- दीनां वस्तूनां सविकल्पकज्ञाने प्रकारान्तरेण पुनः प्रतीतिः तथा प्रकृते यं प्रेक्ष्येत्यत्र वाच्यस्यापि प्रकारभेदेन व्यञ्जनया पुनः प्रतीतिरिति दृष्टान्तसंगतिरिति। न च निर्विकल्पकस्य निष्प्रकारकतया 'यथातथा' इति थाल्प्रत्ययार्थानन्वय इति वाच्यम प्रकारपर्यन्तस्याविवक्षितत्वात् अपि तु निर्विकल्प- कसविकल्पकयोः समानविषयत्वेऽपि अन्यूनानतिरिक्तविषयत्वं नास्तीत्येतावन्मात्रे तात्पर्यात्। यद्ा

१ निर्विकल्पकस्यातन्द्रियतया तत्र प्रत्यक्षप्रमाणासंभवादनुमानं प्रमाणयति गौरितीति॥ २ विशिष्टज्ञानत्वा- दिति। "नागृहीतविशेषणा बुद्धिर्विशेष्यमुपसंक्रामति" इति न्यायेन विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वान्ना- प्रयोजकत्वाशक्कति भावः । अत एवोच्यते ग्रन्थकारैः नहनिदितामिर्नगेडिमान् देश इति जानातीति ॥ ३ अन• वस्थाप्रसङ्गादिनि। सविकल्पकश्य विशिष्टबुद्धित्वेन विशेषणज्ञानजन्यत्वनियमादिति भावः॥68

Page 742

। दशम उल्लासः ॥ ६८३

(सू० १७६) उदात्तं वस्तुनः संपत् निर्विकल्पकेपि संमुग्धं किंचित्त्वं प्रकारतया भासते इति मतेनाभिधानम्। तदुक्तम् "संमुग्धं वस्तुमात्रं तु प्रवरदन्त्यविकल्पितम्। तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ॥" इति ॥ तदेतत्सर्वमुक्तं प्रदीपोद््योतयोरपि "एकरूपे एव वस्तुनि प्रकारभेद एव कथं स्यादिति चेत् यथा शुक्के गवि चलति निर्विकल्पकसविकल्पकयोरक एव ह्यर्थस्ताभ्यां (निर्विकल्पकसविकल्पकाभ्यां) विषयीक्रियते न पुनर्यथा निर्विकल्पकविषयस्तथैव सविकल्पकेनापि विषयीक्रियते भिन्नत्वसंसृष्टत्वा- विषयकं निर्विकल्पकम् भिन्नत्वसंसृष्टत्वप्रकारकं तु सविकल्पकमिति" इति प्रदीपः । (भिन्नत्वेति। भेदोऽतव्यावृत्तिस्तच्छून्यत्वेन संसर्गराहित्येन च निर्विकल्पकविषयता। भेदोऽतद्वयावृत्तिः परनये तस्याः सविकल्पके विशेषणत्वं बाह्याः (वेदबाह्याः बौद्धाः) मन्यन्ते। अन्यमते संसृष्टत्वेति। प्रकारशब्दो विषयमात्रपरः । एवं च यथा निर्विकल्पकस्य विशिष्टज्ञानहेतुवात्ततो वैलक्षण्यं तथा निवासप्रीतित्यागरूपवाच्यज्ञानस्य मदमानमुक्तत्वरूपव्यङ्गयज्ञानहेतुत्वाद्वैलक्षण्यमिति भावः। यद्वा निर्विकल्पके किंचित्वेन वस्तु भासते सविकल्पके तु तत्तन्ामरूपजात्यादिपरकारेणेति 'न पुनर्यथा' इत्यादेरर्थः । इदमेव भिन्नत्वाविषयकत्वादीति बोध्यम्" इत्युद्योतः ॥ अत्र व्यङ्ग्यमगूढं वाच्यादचारु चेति न ध्वनित्वम्। 'नमस्तस्मै कृतौ येन मुधा राहुवधूकुचौ' इत्यत्रापि भगवान् वासुदेवो राहुशिरच्छेदकारित्वरूपेण स्वासधारणधर्मेण व्यङ्गयस्ततोऽपि चारु- तरेण राहुवधूकुचवैयर्थ्यकारित्वेन रूपान्तरेणाभिहितः केनचिद्रूपेण व्यक्षनया लभ्यस्यार्थस्य ततोऽपि चारुतरेण रूपेण यत्र वाच्यतेति लक्षणतात्पर्यात्। यद्यपि भगवतः पूर्वप्रक्रान्तत्वाद्यच्छब्देनाभिधा- नाच्च न व्यङ्ग्यत्वम् तथापि व्यङ्गयतावच्छेदकरूपेण वाच्यत्वाभावाद्यङ्ग्चत्वमेव। एवं च प्रकारभे- दाद््यङ्गयस्यैवाभिधाविषयत्वं युक्तम्। न च प्राप्ताप्राप्तविवेकन्यायेन धर्माशे एव व्यङ्ग्यत्वं न धर्म्यशे इति वाच्यम् धर्मिण: स्व्ररूपतोऽवाच्यत्वात्। यदि धर्मी स्वरूपतः कस्यचिद्वाच्यः स्यात् स्यादपि तथा औपाधिकभेदेन घटाकाशादिषु भेदप्रतीतिवत् तत्तद्धर्मरूपोपाधिभेदेन धर्मिणोऽपि भेदेन धर्मिणोऽपि व्यङ्गयत्वाच्च। एतेन 'व्यङ्ग्यस्य प्रकारान्तरेणाभिधानासंभवात् कार्यमुखेन कारणा- भिधानं पर्यायोक्तम् उदाहरणे राहुवधूकुचनैष्फल्यरूपेण कार्येण राहुशिरच्छेद: कारणरूपो गम्यते' इत्यलंकारसर्वस्वोक्तमपास्तम् प्रकाशोदाहरणविरोधाच्च। यत्तु 'पर्यायोक्तं तदप्याहुर्यव्याजेनेष्टसाधनम्। शुकं भोजयितुं यामि युवाभ्यामास्यतामिह ॥' अत्र नायिकां नायकेन संगमय्य शुकभोजनव्याजेन निर्गच्छन्त्या सख्या तत्स्वाच्छन्यरूपेष्टसाधनं पर्यायोक्तम्' इति तत्तु ध्वनिमर्यादां नातिशेते इति दिक। एवं च 'आनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य' इत्यत्राप्ययमेव अयं देशोऽलंकर्तव्य इत्यादौ चेत्यलमित्युद्द्योते स्पष्टम्॥ इति पर्यायोक्तम् ॥ ३१॥ उदात्तनामानमलंकारं लक्षयति उदात्तमिति। उत्कर्षेणादीयते ग्रृह्यते स्मेत्युदात्तम्। कर्मणि

१ संमुग्वं संदिग्धम् इदमित्थं न वेत्याकाम् ॥ २ प्रवदन्त्यविकल्पितमति। 'प्राक् गृह्यन्त्यविकल्पितम्' इति पाठे अविकल्पितं विशेष्यविशेषणभावविनिर्मुक्ततया गृह्नन्ति विषयीकुर्वन्तीत्यर्थः ॥ 3 अतदूयावृत्तेः ॥४

Page 743

६८४ काव्यप्रकाशः सटीकः ।

संपत् समृद्धियोगः । यथा मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाङिलाक्षारुणाः। दूराहदाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः यद्विद्वन्वनेषु भोजनृपतेस्तत् त्यागलीलायितम्॥५०५॥ क्तप्रत्ययः । संपदित्यनन्तरं 'वर्ण्यते' इति शेषः । वस्तुनः धनशौर्यादेः। एतेने शौरयादेरतदुक्तौ अत्युक्तिनामा पृथगलंकार इत्यपास्तम्। अत्रासंबन्धे संबन्धातिशयोक्तिरनुप्राणिकेत्युद्योते स्पष्टम्। समृद्धियोग: समृद्धिसंबन्धः न तु तस्यैवातिशयः 'बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नैतां क्रमेण। अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥' इत्यादौ पर्यायालंकारभेदेऽ- तिप्रसङ्गादिति प्रदीपप्रभयोः स्पष्टम्। अयं प्रदीपप्रभयोराशयः । बद्रामलकाम्रदाडिमानामित्यत्र कुचत्वेनैकीकृते कुचरूपेऽधिकरणे परिमाणविशेषाणामनेकेषां क्रमेण स्थितिरिति द्वितीयपर्यायस्य प्रथमो भेद: । यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारालंकारोऽ्यस्तु विषयभेदाच्च न बाध्यबाधकभावः इति। एवमेवोक्तं रसगङ्गाधरे पर्यायालंकारे इति बोध्यम्। "यस्य कस्यचिद्वस्तुनोऽसंभाव्यमानायाः संपत्तेरवर्णनमुदात्तालंकार इत्यर्थः" इति निदर्शनकृत्। लक्षितं व्याख्यातं च प्रतापरुद्रयशोभूषणे विद्यानाथेनापि "तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते"। यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते तत्रोदात्तालंकार इति॥

उदात्तमुदाहरति मुक्ता इति। विदुषां पण्डितानां भवनेषु ग्रृहेषु केलौ रतिकीडायां विसूत्रात् छिनसूत्रात् हारात् मौक्तिकदाम्नो गलिताः पतिताः संमार्जनीभिः शोधनीभिः (करणभूताभिः) हृता: (दासीजनेन कर्त्रा) अपसारिताः। प्रातः प्रभातकाले प्राङ्गणसीम्नि अङ्गणप्रान्ते मन्थरं मन्दुं यथा स्यात्तथा चलन्त्यो या: बाला: षोडशवर्षाः वनिताः तासाम् अङ्घरिलाक्षया चरणाल- वतकेन अरुणाः आरक्त: मुक्ताः मौक्तिकानि ( कर्मभूताः ) दूरात् दाडिमबीजेषु (दाडिमबी- जविषये ) शङ्किता धीर्येषां ते तादृशाः केलीशुका क्रीडार्थ पालिताः शुकाः कीराः (कर्तृभूताः) कर्षन्ति यत् तत् भोजनृपतेः भोजराजस्य त्यागो दानं तस्य लीलेवाचरितं लीलायितमित्यर्थः। "संमार्जनी शोधनी स्यात्" इत्यमरः "संमार्जनी बहुकरी वर्धनी च समूहनी" इति हैमश्व। "बालेति गीयते नारी यावदवर्षाणि षोडश" इत्यभिधानम्। "आष्टमाद्वत्सराच्छिशुः। बाल आषो- डशादर्षात्पौगण्ड इति शब्यते" इति तृतीयाध्याये नारदस्मृतिश्र्वेति बोध्यम्। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक १८ पृष्ठे। अनेनोदाहरणेन सरस्वतीकण्ठाभरणकृत् भोजराजो मम्मद- भट्टापेक्षया प्राचीन इति सूचितम्। स्पष्टीकृतमिदमस्माभिरुपोद्दातप्रकरणे पश्चमप्रघट्टे इति बध्यम्।। क्ो अत्र विद्वद्भवनस्थोत्कटसमृद्धिवर्णनादुदात्तालंकारोडयम् । तदुक्तं कुवलयानन्दे "अत्र विदुषा संपत्समृद्धिवर्णनमुददात्तालंकारः" इति। उक्तं च प्रदीपोद््योतयोः "अत्र विद्वन्भवनस्य मुक्तादिधन-

१ "निष्ठा" (३।२।१०२) इति पाणिनिसत्रणेति भाव: । "अच उपसगात्तः " (७) इति सूत्रेण तादेश:॥ २ कुवलयाननशक्तिं खण्डयति एतेनेतयादििना ॥ ३ शौयादेगित। आदिना औदार्यादेर्यहणम् ॥ तदुक्तौ समृद्वियोगव्णने॥५ 'उन्नतौ' इत्यपि पाठ: ॥

Page 744

दशम उल्लास: । ६८५

(सू० १७७) महतां चोपलक्षणम् ॥११५॥ (501 0g) उपलक्षणमङ्गभावः अर्थादुपलक्षणीयेऽर्थे। उदाहरणम् तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी।1 निवसन् बाहुसहायश्चकार रक्षःक्षयं राम: ॥ ५०६॥ न चात्र वीरो रसः तस्येहाङ्गत्वात् ॥

समृद्धियोगः । तेन वर्णनीयनृपतेः समृद्धयतिशयः । 'सौधाम्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्' इत्यादौ पौरसमृद्धिर्व्यङ्गयेति व्यङ्ग्चोऽयम्" इति ॥

अन्यविधमुदात्तं लक्षयति महतामिति। अङ्गिनि (वर्णनीयेऽर्थे) महताम् उदारचरितानां (रामादिवीराणां) यत् उपलक्षणम् अङ्गत्वम् उपनिबध्यते (वर्ण्यते) तच्चोदात्तसंज्ञमित्यर्थः । वर्णनी- यस्यार्थस्य विशेषणतया महतः उपादानेऽपरमुददात्तमिति भावः। सूत्रे 'उपलक्षणम्' इति भावप्रधा- नम् "स्ियाम्" (४।१।३) इति पाणिनिसूत्रवत् "सलध्वादिधर्मैः साधर्म्य वैधर्म्य च गुणानाम्" (१।१२८) इति सांख्यसूत्रवच्चेत्याशयेनाह अङ्गभाव इति। अङ्गत्वमित्यर्थः। कुत्राङ्गत्वमित्या- शङ्कायामाह अर्थादुपलक्षणीये इति। अङ्गिनीत्यर्थः वर्णनीये इति यावत्। अत एवाहु प्रदीप- कारा: "महतां यत् उपलक्षणमङ्गभावोरऽर्थाद्वर्णनीये तदप्युदात्तमित्यर्थः" इति। ६६ सूत्रस्थस्य 'अपरस्य रसादेर्वाच्यस्य वा' इति वृत्तिग्रन्थस्य व्याख्यानावसरे, (१९५ पृष्ठे) बृहद्द्दयोते तु 'महतां रसादीनामप्युपलक्षणमङ्गभावः' इति व्याख्यानान्तरं दर्शितम्॥

उदाहरति तदिदमिति। पुष्पकविमानस्थस्य लक्ष्मणस्याङ्गदं प्रत्युक्तिरियमित्युद्योतकृत् । द्शरथस्य वचनम् आज्ञा तस्य अनुपालने रक्षणे व्यसनम् आग्रहः सक्तिर्वा (आसकतिर्वा) यस्य तादृशो राम: श्रीरामचन्द्रः यस्मिन् अरण्ये निवसन् बाहुसहायः बाहुमात्रसहायः (एकाकी) रक्षसां खरदूषणादिराक्षसानां क्षयं नाशं चकार कृतवान् तत् इदम् अरण्यं दण्डकारण्यमित्यर्थः। "वयसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु" इति मेदिनी। आर्या छन्दः। लक्षणमुक्तं प्राक ४ पृष्ठे॥

अत्र वर्णनीये दण्डकारण्ये तदुत्कर्षाय महतो रामस्याङ्गत्वं उपनिबद्धम (वर्णितम्) इति अपरः उदात्तमेद: । तदुक्तं निदर्शनकृता "अत्र वर्णनीयत्वाद्ङ्गिनि (प्रधाने) दण्डकारण्ये महतो रामस्य चरितमङ्गतयोपनिबद्धम्" इति। महत्त्वं च रामस्य दशरथाज्ञावशात्साम्राज्यत्यागपूर्वकनवासात् बाहुमात्रसाहाय्येन सकलरक्षःक्षयकरणाच्च। अत्र दण्डकारण्यस्याङ्गित्वम् रामस्याङ्गत्वम्। ईदशो रामो यत्र स्थित इत्यरण्यस्याधिक्यम्।।

नन्वत्र वीररसध्वनिरेव स्यात् बाहुमात्रसाहाय्यात् रक्षःक्षयकरणरूपेणानुभावेनाभिव्यक्तस्योत्साह- स्यैव चमत्कारित्वादित्याशङ्कायामाह न चात्र वीरो रस इति। तत्र हेतुमाह तस्येति। वीररसस्ये- त्यर्थः । अङ्गत्वादिति । परंपरया उत्कर्षकत्वेनोपकारकत्वादित्यर्थः। उत्साहेनोत्कर्षिता हि रामो वर्णनीयमरण्यमुत्कर्षयताति भावः । अयमत्र सिद्धान्तः । नात्र वीरो रसो वर्णनीयः किंतु अरण्यम् । तथा च "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायेन चित्रव्यवहार एवात्र न रसध्वन्यादिव्यवहार इति। १ स्त्रीत्वे द्योत्ये इत्यर्थः ॥ २ लघुत्वादिधमैरित्यर्थः ॥३ पानस्त्रामृगयादिषु या सक्तिरासक्तिस्तस्यामित्यर्थः ॥

Page 745

६८६ काव्यप्रकाशः सटीकः ।

(सू० १७८) तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्। समुच्चयोऽसी तस्य प्रस्तुतस्य कार्यस्य एकस्मिन साधके स्थिते साधकान्तराणि यत्र संभवन्ति स समुच्चयः । उदाहरणम् दुर्वाराः स्मरमार्गणा: प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिना: प्राणा: कुलं निर्मलम्। स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् काल: कृतान्तोऽक्षमो नो सख्यश्चतुरा: कथं नु विरहः सोढव्य इत्थं शठः ॥ ५०७॥

निरूपितमिदं पञ्चमोल्लासेपि ( १९५ पृष्ठे)। रामविषयकरतिभावस्याप्यणरिपुष्टत्वान्न भावध्वनि त्वमित्युइ्चोतादौ स्पष्टम् ॥ इत्युदात्तम् ॥ ३२ ।।

समुच्चयनामानमलंकारं लक्षयति तत्सिद्धीति । अन्यदित्येकवचनं "सूत्रे लिङ्गवचनमतन्त्रम्" इति न्यायेनाविवक्षितम्। अत एव वृत्तौ 'अन्यत्' इत्यस्य व्याख्यानं 'साधकान्तराणि' इति दृश्यते। यत्र यस्मिन्नलंकारे तस्य प्रस्तुतस्य कार्यस्य सिद्धिरुत्पत्तिस्तस्याः हेतौ साधके (कारणे) एकस्मिन् 'स्थिते सति' इति शेषः अन्यत् साधकान्तरं (कारणान्तरं) तत्करं कार्यसिद्धिकरं भवेत् असौ सः समुच्चयः समुच्चयालंकार इत सूत्रार्थः। उक्तं चास्यैव समुच्चयस्य लक्षणं प्रतापरुद्रयशोभूषणे विद्यानाथेन "खलेकेपोतन्यायेन बहूनां कार्यसाधने। कारणानां समुदोगः स द्वितीय: समुच्चयः" इति॥ सूत्रं व्याकुर्वन् हेतोः कार्यसाकाद्कत्वात् तत्पदेन कार्यस्याभिधानमित्याह तस्येत्यादिना । साधके हेतौ कारणे। स्थिते इति। स्थिते सतीत्यर्थः । अन्यदिति व्याचष्टे साधकान्तराणीति। कारणान्तराणीत्यर्थ। यत्र यस्मिन्नलंकारे। संभवन्तीति। अभिधीयन्ते इत्यर्थः । समुच्चय इति। युगपदनेकैस्यावस्थानात्समुच्चय इत्यर्थः । काव्यलिङ्ग हेतुत्वमात्रं विवक्षितम् वक्ष्यमाणसमाध्यलंकारे एकेन हेतुना कार्ये निष्पाद्यमने आगन्तुकेनापरेण कार्यस्य सौकर्यकरणं विवक्षितम् अत्र तु बहूनां कार्यकरणक्षमाणां साहित्यं विवक्षितमिति परस्परमेषां भेदः । तदुक्तमुद्द्योते "समाधौ हि एकेन कार्ये निष्पाय्यमानेऽन्येनाकस्मादापतता सौकर्यादिरूपातिशयसंपादनम् । [अत्र तु] एककार्यसंपत्तौ सर्वेषां खलेकपोतन्यायेन पातः कार्यस्य च न कोऽप्यतिशयः। काव्यलिङ्ग हेतुत्वमात्रं विवक्षितम् न तु हेतूनां गुणप्रधानभावस्यैकत्वानेकत्वस्य वा चिन्ता। अत्र तु एकस्यैव तत्कार्यकारित्वेऽन्येषां साहाय्यमात्रमिति ततो विशेषः" इति ॥ समुच्चयमुदाहरति दुर्वारा इति। मयूरसूनो: शङ्ककस्य पद्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। स्वं प्रति विधिं (दैवं) प्रति वा विरहिण्या उक्तिरियम्। स्मरमार्गणा: कामबाणा: दुर्वाराः दुःखेन वार- यितुं शक्याः। प्रियतमः कान्तः दूरे 'प्रवासात् अस्ति' इति शेषः । मनः अत्युत्सुकम् इष्टार्थोययुक्तम्। प्रेम स्नेहः गाढम् अतिशयितम्। वयः नवं नूतनं यौवनमित्यर्थः । प्राणाः अतिकठिनाः अनश्वराः । १ अतन्त्रम् अविवक्षितम् ॥ २ सलेकपोतन्यायनति। अयं न्यायो लौकिकन्यायमालायां व्याख्यातः। यत्रैक कार्य साधथतुमहमहमिकया बहूनां कारणानामुद्यमः सः द्वितीयः समुच्चय इत्यर्थः ॥ ३ अनेकस्योति। अनेकेषा. मित्यपि बोध्यम्।।

Page 746

दशम उल्लासः। ६८७

अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् । एष एव समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक्लक्ष्यते। तथाहि कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्। प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजन् त एव तवाङ्कशाः ॥५०८॥ अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः । कुलं निर्मलम् कुलनैर्मल्यात्स्वाच्छन्याभावः। न चैवं धैर्यमेव कार्यमत आह स्त्रीत्वं धैर्यविरोधीति। कालो वसन्तरूप: समयः मन्मथस्य (विरहिणीपीडकत्वाच्छत्रुभूतस्य) मदनस्य सुहृत् मित्रम। कृतान्तो यम: अक्षमः अकाले प्राणानपहर्तुमसमर्थः । सख्यः नो चतुराः नायकादिघटनेऽकुशलः । 'नो' इत्य व्ययमभावे। "अभावे नह्य नो नापि" इत्यमरः । इत्थं सत शठो मर्मभेदी ( पीडादायी) विरहः प्रियवियोगः। कर्थं नु सोढव्यः सहनयि इत्यर्थः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे ॥ अत्रेत्यादि। अत्र विरहासहृत्वरूपं कार्य स्मरमार्गणा एव कर्तु समर्थाः तदुपरि पियतमदूरस्थि- त्यादीनि कारणान्तराणि उपात्तानीति समुच्चयालंकार इत्यर्थः ॥ रुद्रटादिभि: सद्योगसमुच्चयः असद्योगसमुच्चयः सदसद्योगसमुच्चय इति ते पृथग्लक्षिताः तदयुक्तम् उक्तलक्षणसमुच्चयस्यैव तथा पर्यवसानादित्याह एष एवेत्यादिना। एष एव । उक्तलक्षण एव। सदयोगे इत्यादि। सतां शोभनानां (समीचीनानां) योगे (संबन्धे) असताम् अशोभनानां (असमीचीनानां)योगे सदसतां शोमनाशोभनात्मनाम् (समीचीनासमीचीनरूपाणाम्) अनेकेषां योगे इत्यर्थः। इह सदसत्त्वम् उपादेयानुपादेयतया वक्तुरभिप्रेतत्वम् तञ्च तत्तदुदाहरणे स्फुटीभविष्यति। पृथगिति । सद्योगसमु- ज्यत्वादिनेत्यर्थः । लक्ष्यते इति । ग्रन्थकृतेति शेषः । तथाहि। तदेवोपपाद्यति॥ तत्र सद्योगे यः समुच्चयस्तं दर्शयति कुलमिति। हे राजन अमलिनं निर्मलं कुलम्। भद्रा शोभना मूर्तिराकृतिः । श्रुत्या वेदेन शालते शोभते इति श्रुतिशालिनी मतिः । 'श्रुतशालिनी' इति पाठे श्रुतेन वेदशास्त्रादिश्रवणेन शालिनीत्यर्थः । अलं पर्याप्तम (अतिशयितं) भुजबलम् । स्फीता अभि- वृद्धा लक्ष्मीः संपत्। अखण्डितम् अकुण्ठं प्रभुत्वम् । एते हि भावाः पदार्थाः प्रकृत्या स्वभावेन सुभगा: सुन्दराः । अमीभिः भावैः अयं दृश्यमानो जनः सुतराम् अत्यन्तं दर्प गर्वे व्रजति प्राम्ोति। तव तु ते एव भावाः अङ्शाः दर्पप्रतिबन्धकाः भवन्तीत्यर्थः। दर्पोऽहंकारोऽपथप्रवर्तकः अङ्डशाः अपथप्रवृत्तिरोधका इत्यन्ये। अङ्कशाः विनयहेतव इति चन्द्रिकाकृत। अङ्डशाः संकोचहेतव इति सुधासागरकृत्। "दर्पोऽवलेपोऽवष्टम्भश्वित्तोद्रेकः स्मयो मदः" इत्यमराधिकपाठः । हरिणी छन्दः लक्षणमुक्तं प्राक् १०८ पृष्ठे॥ अत्र निर्मलकुलरूपे दर्पतदभावहेतौ सत्येव भद्रमूर्त्यादिकमापे दर्पतदभावहतुत्वेनोपात्तमिति समुच्च- यालंकारः । अयमेव हि सद्योगे पर्यवस्यतीत्याह अ्र सतामिति । अत्र कुलादीनां समीचीनानामेव योग इत्यर्थः । कुलादीनां प्रकृतिसुभगत्वेन उपादेयतया समीचीनत्वं बोध्यम्। उक्तोदाहरणे इति। 'दुर्वाराः स्मरमार्गणाः' इत्युदाहरणे इत्यर्थः । असतां योग इति। स्मरमार्गणादीनामसमीचीनानामेव

Page 747

६८८ काव्यप्रकाश: सटीकः ।

I BIPE शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायण: सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप शल्यानि मे ॥ ५०९॥ अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः॥

योग इंत्यर्थ: स्मरमार्गणादीनां विरहिण्याः दुःखदत्वादनुपादेयत्वेनासमीचीनित्वं बोध्यम्।अत एवाहु- श्रन्द्रिकाकाराः "अत्र (दुर्वारा इत्युदाहरणे ) दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादशैरव प्रियतम- दूरस्थित्यादिभिर्विरहासहत्वरूपे कार्ये समुच्चय इति स एवालंकारः । नववयःप्रभृतीनां शोभनत्वेऽपि विरहोद्दीपकत्वेनात्राशोभनत्वं बोध्यम्" इति॥

सदसद्योगे यः समुच्चयस्तं दर्शयति शशीति । भर्तृहरिकृते नीतिशतके पद्यमिदम्। शशी चन्द्रो दिवसे धूसरो निस्तेजाः । कामिनी कान्ता गलितयौवना नष्टतारुण्या। सरः कासारः विगतवारिजं पद्म- हीनम्। 'कासारः सरसी सरः' इत्यमरः । स्व्राकृतेः शोभनाकृतेः मुखं वदनम् अनक्षरं विद्याहीनम्। प्रभुः धनपरायणः धनलुब्धः। सज्जनः सततं निरन्तरं दुर्गतः दरिद्रः। "निःस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि सः" इत्यमरः । खलः पिशुनः नृपाङ्गणगतः राजप्रासादप्रसिद्ध । "पिशुनो दुर्जनः खलः" इत्यमरः ॥ एतानि सप्त मे मम मनासे शल्यानि बाणाग्राणीत्यर्थः। क््वेडाशङ्डशरे शल्यं ना श्वावि न्मद्नद्रमे" इति रभसः "शल्यं तु न स्त्रियां शङ्कौ कीबं क्ष्वे षुतोमरे। मदनद्रुश्वाविधार्ना" इति मेदिनी च । पृथ्वी छन्दः। लक्षणमुक्तं प्राक् ५६ पृष्ठे॥

अत्र धूसरशशिरूपे व्यथाहेतौ सत्येव गलितयौवनादिविशिष्टकामिन्यादिकमप व्यथाहेतुत्वेनोपा- त्तमिति सदसय्योगसमुच्चयः । तदुक्तमुद्योते "अत्रैकैकमपि मानसशल्यभूतज्ञानजनने हेतुः तत्रान्यदपि षट्टमुपात्तमिति लक्षणसमन्वयः। शशी स्वरूपेण एन्नपि दिवसधूसरत्वेनासन्। एवमग्रेऽपि। एवमत्र सदसतां शश्यादीनां योगः" इति। उक्तं च चन्द्रिकायाम् "अत्र शशिनः स्वतः शोभनस्यापि दिव- सधूसरत्वादशोभनत्वेन शोभनाशोभनरूपस्य तादशैरेव (स्वतः शोभनैः गलितयौवनत्वादिनाशोभनैः) कामिनीप्रभृतिभिः समुच्चयः" इति । 'नृपाङ्गणगतः खलः' इत्यत्र तु नृपाङ्गणगतत्वेन शोभनत्वम् खलत्वेन तु अशोभनत्वमिति रीत्या सदसद्रूपतासमर्थनेऽपि तस्मिन्नंशे नायमलंकारः किं तु स्वतः शोभ- नस्य धर्मविशेषसंपर्कादशेभनस्य सदसतः प्रकरणे स्वतोऽशोभनस्य खलस्य पाठात् सहचरभिन्नत्वं दोष एव। एवं सर्वत्र विशेष्यस्य शोभनत्वं विशेषणस्य त्वशोभनत्वमिति प्रक्रान्तम् इह त्वन्यथेति भग्नप्र- क्रमत्वमप्यत्र दोषः । तस्मात् 'नृपाङ्गणमसदयुतम्' इति पाठो युक्तः। तदेवाह अत्रेत्यादिना।शोभना शोभनयोग इति। शोभनाश् तेऽशोभनाश्रवेति विशेषणोभयपदः कर्मधारय एवायं समासः नतु द्वन्द्ः। तथा च शोभनाशोभनात्मनामनकेषां योग इत्यर्थः न तु शोभनानामशोभनानां च योग इति । तथा सति सहचरभिन्नत्वरूपदोषेण भग्नप्रक्रमत्वरूपदोषेण चालंकारत्वासंभवात् । 'सद्ोगे' इत्यादौ

१ खं छिद्रं लाति आदत्ते (गृह्लाति ) इति खलः दुष्ट इत्यर्थः ॥ २ विशेषणोभयपद इति । 'घटितविघटितः' इति (७ सर्गे १५.श्लेोके) मात्रकाव्यप्रयोगे इव विशेषगयोरपि मिथो गुणनधानभावाववक्षया "विशेषण विशेष्येण बहुलम्" (२।१५७) इति पाणिनिसूत्रेणेति भाव:॥ 1

Page 748

दशम उल्लास:। ६८१

(सू० १७९) स त्वन्यो युगपठ् या गुणक्रिया: ॥ ११६ ॥ गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम्

सदसत्त्वम् उपादेयानुपादेयतया वक्तुरभिप्रेतत्वमिति प्राक् (६८७ पृष्ठे) प्रतिपादितम्। दुर्वारा इत्युदाहरणे प्रियतमादयः स्वतः शोभना अपि वक्त्याः विरहिण्याः दुःखहेतुतया तदानीमनुपादेय- तयैव विवक्षिता इत्यसत्त्वम्। इह तु शशिप्रभतयः उभयरूपतयैव विवक्षिता इति सदसत्त्वम्। उवतोदाहरणेषु सतां योगस्यासतां योगस्य सदसद्योगस्य वा युक्तत्वस्यायुक्तत्वस्य वा प्रतीतेर्न समस्य विषमस्य वालंकारस्यात्र प्रसङ्ग इत्यु््योतप्रभाचन्द्रिकादिषु स्पष्टम्।

यत्तु काव्यप्रदीपकारैरुक्तम् "अत्र सद्सतोर्योगः दुर्जनस्यासत्त्वात् शश्यादीनां सत्वात् । एत- चिन्त्यम् पूर्व दूरस्थित्यादिविशेषणेन धूसरत्वादिनात्राप्यसम्यक्त्वमिति" इति तत्तु प्रामादिकमेव। अत एवाहुरुद््योतप्रभाकृतः। तथाहि । (अत्र सदसतोर्योगः दुर्जनस्यासत्वात् शश्यादीनां सच्वा- दिति। इदं चिन्त्यम्। एवं हि सहचरभिन्नता स्यात् सर्वत्र विशेष्यस्य शोभनत्वं विशेषणस्याशो- भनत्वं च प्रक्रान्तमिति भग्नप्रक्रमता वा स्यात्। सदसदिति च कर्मधारयो युक्तः) इत्युदचोतः । (चिन्त्यत्वे हेतुमाह पूर्वमिति। 'दुर्वारा:' इत्युदाहरणे इत्यर्थः। विशेषणेनासम्यक्त्वमित्यन्वयः । तत्रापि हि प्रियतमस्य सत्त्वमेव दूरस्थितिविशेषणेन परमसत्त्वम्। इहापि स्वतः सुन्दरस्य शशिनो दिवसधूसरत्वेनेत्यसद्योग एवेत्यर्थः। आदिपदेन गलितयावनत्वादिपरिग्रहः। वस्तुतस्तु सदसय्योगपदे न द्वन्द्वः कि तु कर्मधारयः संश्र्ासावसंश्र सदसन्नितति। तादृशानामनेकेषामेककार्यजनने समुच्चय इत्यर्थः । एवमपि दुर्वाराः शशीत्यनयोः कथं भेद इति चेत् इत्थम्। 'दुर्वाराः' इत्यत्र विरहासहिष्ण- तया प्रियतमादीनां सतामप्यसत्वेन विवक्षा इह तु शोभनस्य सतो धूसरत्वादिना अशोभनत्वमपीति विवक्षा। अत एव पूर्व 'कथं नु सोढव्यः' इत्युपसंहारो दुष्टत्वाभिप्रायेण। अत्र तु 'मनसि सप्त शल्यानि' इत्युपसंहृतम् सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात्) इति प्रभा ॥

अन्यविधं समुच्चयालंकारं लक्षयति स त्वन्य इति। या: गुगक्रियाः युगपत् एककाले भवन्ति स तु अन्योऽपरः समुच्चय इत्यन्वयः । गुणक्रियायौगपयं (गुणक्रियासाहित्यम् ) अपरः समुच्चय इत्यर्थ: युगपदनेकस्यावस्थानाद्यमप्यपरः समुच्चय एवेति भावः । 'गुणक्रियाः' इत्यत्र गुणौ च किये च गुणक्रिया: गुणश्र क्रिया च गुणक्रिये इति द्वन्द्वोत्तरं गुणक्रियाश्र गुणक्रिये च गुणक्रियाः इत्येक- शेषः। तदेवाह गुणौ चेत्यादिना। तथा च गुणयोर्यौगपद्यम् क्रिययो्यौगपयं गुणक्रिययोर्यौगपयं चेति त्रिविधोऽयं समुच्य इति भावः। अत्र संख्याविशेषोSविवक्षितः । अत एव 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः। रक्तं च पथिकहृदयं कपोलपाली मृगीदशः पाण्ड: ॥' इत्यादौ बहू- नामपि गुणानां समुच्चयस्य संग्रहः। तथा 'उदितं मण्डलमिन्दोः रुदितं सद्यो वियोगिवर्गेण। मुदितं च सकलललन, चूडामणिशासनेन मदनेन ॥I' इत्यादौ बह्वीनामपि क्रियाणां समुच्चयस्य संग्रह इति ज्ञेयम्। युगाहिति क्राव्यावृत्त्यर्थम् तेन दीपके नातिव्याप्तिः दीपके सतीष्त्पि बह्वीषु क्रियासु यौगपयं न विवक्षितं किं तु क्रमः कालभेद एवेति बोध्यम्।।

पाली प्रदेशः।"पालिः कर्णलतार्यां स्यात्मदेशे पङ्गिचिह्नयोः" इत्यजयः। " सर्वतोऽक्तिन्नर्थादित्येके " इति वार्तिकेन 'शकटिः शकटी' इत्यादाविवात्र डीष् ।

Page 749

६९० काव्यप्रकाशः सटीकः । विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि॥ ५१०॥ अथमेकपदे तया वियोग: प्रियया चोपनतः सुदुःसहो मे॥ नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ ५११॥ व्याख्यातमिदं प्रदीपादौ। "अत्र गुगाः क्रियाश्र्वेति विग्रहे संख्याविशेषस्याविव क्षणाद्विशेषविवक्षा- विरहेण च सजातीयवाद्विजातीयस्यापपि यौगपद्यस्य लाभात् गुणौ च क्रिये च गुणक्रिये च युगपद्भवतः स त्रिरूपः समुच्चयः" इति प्रदीपः । (ननु गुणक्रिया इति बहुवचनाद्गुणाः क्रियाश्र्वेति विग्रहे बहूनां गुणानां यौगपद्यमेव लभ्यते एवं बह्वीनां क्रियाणामेव तल्लम्यते न तु द्वयोर्गुणयोदयोश्र क्रिययोः । तथा द्वयोर्गुणक्रिययोरतस्तल्लाभोपायमाह अत्रेति। सत्यम बहुत्वविवक्षायामुक्तदोषः स्यात् न चेह संख्याविशेषविवक्षा एवं सजातीययौगपद्यस्यापि। एवं च गुणयोः क्रिययोश्र यौग- पद्यस्येव गुणक्रिययोरयौगपद्यस्यापि लाभादुक्तार्थलाभो निरवद्य इत्यर्थः ) इति प्रभा। (विशेष- विवक्षाविरहेणेति। गुणत्वक्रियात्वरूपविशेषेत्यर्थः ) इत्युदयोतः ॥ तत्र गुणयोर्यौगपद्यमुदाहरति विदलितेति। हे नराधिप विदलितं खण्डितं (नाशितं) सकला- नामरीणां कुलं येन तथाविधम् इदं तव बलं सैन्यम आशु शींघ्रं विमलं निर्मलं च अभवत् । तानि प्रखलानां प्रकृष्टखलानां (दुष्टानां) मुखानि मलिनानि च जातानीत्यर्थः। "स्थौल्यसामर्थ्य- सैन्येषु बलं ना काकसीरिणोः" इत्यमरः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठ ॥ अत्र विमलत्वमलिनत्वयोर्गुणयोर्यौगपदं चकारद्वयगम्यमिति समुच्चयालंकारः। तदुक्तमुद्दयोते "अत्र विमलत्वमलिनत्वयोराश्रयभेदेन चाभ्यां समुच्चयः" इति। "अत्र विमलत्वमलिनत्वयोर्गुणयो- स्तुल्यकालतारूपः समुच्चयश्रकारद्वयगम्यः" इत्युदाहरणचन्द्रिकायाम्॥ क्रिययोयौगपदमुदाहरति अयमिति । विक्रमोर्वशीये चतुर्थेडड्के पुरूरवस उक्तिरियम। तया प्रियया उर्वश्या सह मे मम एकपदे अकस्मात् अयं सुतरां दुःसहो वियोगो विग्हः उपनतः उप- स्थितश्र प्राप्तश्र्व । अहोभिः दिवसैः (कर्तृभिः) नववारिधरोदयात् नूतनमेघोदयात् निरातपत्वेन आतपराहित्येन रम्यैः भवितव्यं भूतं चेत्यर्थः । काकतालीयन्यायेन गण्डस्योपरि स्फोट इतिवत् तद्वियोग इव वर्षासमयश् समुपनतः एतदलं प्राणहरणायेति भावः । 'उपनतः' इत्यत्र 'उपगतः' इति प्रदीपे पाठः। अत्र भवितव्यमिति भूतमित्यर्थे अवाचकं चिन्त्यम्। यत्तु एकपदे एककाले इति चन्द्रिकायां व्याख्यानम् तत्तु न रुचिरम् अव्ययप्रकरणे तत्त्वबोधिन्यामेकपदे इत्यव्ययस्याक- स्मादित्यर्थकत्वेनैव व्याख्यानात् । अव्ययानामनेकार्थकत्वकल्पनं त्वगतिकगतिकमिति बोध्यम् । मालभारिणी छन्दः। लक्षणमुक्तं प्राक् ३१२ पृष्ठे॥ अत्र उपनतो भवितव्यं चेति क्रिययोरयौगपयं चकारद्वयगम्यमिति समुच्चयालंकारः । अत्राप्या- श्रथमेदः। "अत्रोपगमभवनयोः क्रिययोः समुच्चयः" इति चन्द्रिकायाम् ॥ अत्रोपनतश्र्वेति उपनतशब्दानन्तरं चशब्दपाठो युक्तः। 'प्रियया चोपनतः' इति चशब्दपाठस्तु अक्रमत्वदोषयुक्तत्वाद्ृष्ट एव "चादीनां समुच्चेयादनन्तरमेव प्रयोगः" इति (३७६ पृष्ठे) प्रागु- १ चकाराभ्याम् ।

Page 750

दशम उल्लास: । ६९१

कलुषं च तवाहितेष्वकस्मात्सितपङ्गेरुहसोदरश्रि चक्षुः। पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥५१२॥ 'धुनोति चासिं तनुते च्त्र कीर्तिम्' इत्यादेः 'कृपाणपाणिश्च भवान् रणक्षितौ ससा- धुवादाश्च सुगाः सुरालये इत्यादेश्च दर्शनात् 'व्यधिकरणे' इति '(कस्मिन् देशे' इति च न वाच्यम्।

क्तनियमविरुद्धत्वात्। अत एवं 'कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौ- मुदी' इत्यत्र ( ३७६ पृष्ठे ) अक्रमत्वदोषो मूलकृताभिहितः । एवं च चादीनां स्वाव्यवहित- पूर्वपदार्थगतसमुच्चयद्योतकता। तथा च पूर्वोदाहरणे क्रिययोर्गुणक्रिययोर्वा समुच्चयः अस्मिन्नुदाहरणे गुणक्रिययोः ( रम्यत्वरूपगुणस्य उपनतरू क्रियायाः) समुच्चयक् कुतो नेति शङ्का परास्ता । तत्तदुत्तरमेव चकारविन्यसनेन तदव्यवहितपूर्वपदार्थगतसमच्चयस्यैव विवक्षितत्वेन बोधनात्। यद्यपि एकश्र्वकारोऽपि समुच्चयं द्योतयितुं समर्थः [अत एव वैयाकरणाः ("चार्थे द्वन्दः" (२।२।२९) इति पाणिनिसूत्रे शब्देन्दुशेखरादौ) 'परस्परनिरपेक्षस्यानेकस्यैकधमवच्छिन्नेऽन्वयः समुच्चयःइति समुच्चयलक्षणं कृत्वा 'समुच्चये चशब्देन स्वसममिव्याहृतपदार्थे इतरपदार्थसापेक्षत्वं बुध्यते तैदसम- भिव्याहते तु न। अत एवात्रे एकत्र शब्दप्रयोग एत' इत्युक्त्वा 'ईश्वरं गुरुं च भजस्व' इति समु- च्चयोदाहरणे एकमेव चशब्दं पठन्ति । अत एव च चतुर्थोल्लासे 'कृतं च गर्वाभिमुखम्' इत्यु- दाहरणे (१८२ पृष्ठे) चद्येनेति प्रदीपप्रतीकमुपादाय नागोजीभट्टाः प्राहुः "यदपि एकश्रवोऽपि समुच्चयद्योतकस्तथापि प्रकृताभिप्रायमेतत्" इति। अत एव प्राक् (६८९ पृष्ठे) प्रदर्शिते 'प्रादुर्भवति पयोदे' इत्यादौ एकचकारसत्त्वेऽपि समुच्चयालंकारमाहू रसगङ्गाधरकाराः । तथा च प्रकृतोदाहर- णेषु एकेनैव चकारेण स्वसमभिव्याहृतपदार्थे पदार्यान्तरसाहित्यबोधनान्न चकारान्तरस्यावश्यकत्वम् ] तथापि द्वावित्यादौ द्विवचनादेरिव न चकारान्तरस्य वैयर्थ्यम् "संभदेनान्यतरवैयर्थ्यम्" इति न्यायात् "द्विर्ब्द्वं सुबद्धं भवति" इति न्यायेन झिति विवरक्षितपदार्थगतसमुच्चयस्य द्योतनेनोप- योगाच्चेति बोध्यम्। गुणक्रिययोर्यौगपद्यमुदाहरति कलुषमिति । हे महीपतीन्द्र सितपङ्केरुहसोदरा (स्व्भावतः) श्वेतकमलतुल्या श्रीः शोभा यस्य तादृशं तव चक्षुः अक्षि अहितेषु शत्रुषु (शत्रुविषये) अकस्मात् कलुषं कषायं च (क्रोधादीषद्रक्तं च)। तेषां शत्रूणां वपुषि आपशां विपत्तीनां कटाक्षैः (कर्तृभिः) प्रस्फुट यथा स्यात्तथा पतितं चेत्यर्थः । छन्दः पूर्वोक्तमेव । अत्र कलुत्रत्वपतनयोर्गुणक्रिययोर्यौगपद्यं चकारद्यगम्यमिति समुच्चयालंकारः । 'अत्र कलुषत्वपतनयोर्गुणक्रिकिययोः समुच्चयः" इत्युदाहरण- चन्द्रिकायाम्॥। परमतं दूषयति धुनोतीत्यादिना। राजा असिं खङ्गं धुनोति कम्पयति च कीर्ति तनुते करोति चेत्यर्थः । कृपाणपाणिरिति। रणाक्षितौ युद्धभूमौ भवान् कृपाणपाणिः खद्गहस्तश्र सुरालय स्वर्गे सुराः देवाः ससाधुवादाः साधुवादसहिताश्वत्यर्थः । अयमाशयः । अत्र कश्र्वित् (रुद्रटः) वैयधिकरण्ये एव (आश्रयभेदे एव) समुच्चय इत्याह तन्न युक्तम् 'धुनोति चासिं तनुते च कीर्तिम्' इत्यादौ सामानाधिकरण्येऽपि क्रिययोः समुच्चयस्य दर्शनात् । केचित्तु सामानाधिकरण्ये एव समुच्चय इत्याहुः १ स्वं चशब्दः ॥२ सापेक्षत्वं साहित्यम् ॥ 3 तदसमभिव्याहृते ईश्वरपदार्थे ॥ अत्र समुच्चये ॥

Page 751

६९२ काव्यपकाशः सटीकः।

(सू० १८०) एकं क्रमेणानेकस्मिन् पर्यायः एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः। क्रमेणोदाहरणम् नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा। प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽघुना वससि वाचि पुनः खलानाम्॥ ५१३॥ तदपि न सम्यक् 'कृपाणपाणिश्र भवान् रणक्षितौ ससाधुवादाश्र सुरा. सुरालये' इत्यादौ वैयधकर- ण्येऽपि क्रिययोः समुच्चयस्य [पाणौ कृपाणकरणसाधुवादकरणयोः क्रिययोः समुच्चयस्य ] दर्शना- दितीि प्रदीपादौ स्पष्टम्। एवं च सामानाधिकरण्ये वैयधिकरण्ये च समुच्चयदर्शनात् 'वैयधिकरण्ये एव' इति 'सामानाधिकरण्ये एव' इति च नियमो नास्तीति फलितार्थः। एषु उदाहरणेषु कार्यकारण- योरेककालात्मकविपर्ययरूपातिशयोक्तिर्मूलम् न तु अतिशयोक्तिरेवालंकारः तस्या इहाङ्गत्वादिति बोध्यम्। व्याख्यातं च विवरणकारैः "न वाच्यं लक्षणे न निवेश्यम्। तथा निवेशे एषामसंग्रहः स्यात् यतः 'धुनोति तनुते' इत्येतयोरेक एव कर्ता इति न क्रिययोः व्यधिकरणता तथा 'रणक्षितौ भवान् देवा: सुरालये' इति कथनात् न पाणौ कृपाणकरणसाधुवादकरणयोः क्रिययोरेकदेशता इति। तथा च गुणक्रियासाहित्यमात्रं समुच्चय इत्यङ्गाकार्यम्" इति॥ इति समुच्चयः ॥ ३३॥ पर्यायनामानमलंकारं लक्षयति एकमिति। सूत्रार्थमाह एकं वस्त्वित्यादिना। एकत्वेन विवक्षितं वस्तु यत्र क्रमेण कालभेदेन अनेकस्मिन् आधारे भवति क्रियते वा स एकः पर्याय इत्यर्थः । एकस्य वस्तुनोऽनेकत्र क्रमेण संबन्धो यत्र स प्रथमः पर्यायालंकार इति भावः । अत्र 'क्रमेण' इति समुच्चय- व्यावर्तनाय वक्ष्यमाणविशेषालंकारद्वितीयभेदवारणाय च तत्र यौगपद्यसत्वादिति बोध्यम् । प्रयोजका- निर्देशतनिर्देशौ भवतिकरोत्यर्थो न तु स्वाभाविकत्वास्त्राभाविकत्वे वृषलक्ष्मणः कण्ठ कालकूटवास- स्यास्वाभाविकत्वेन भवतीत्यत्रानुदाहरणत्वापत्तेः । एवं च स्वतःसंभवित्वं कविप्रौढोक्तिसिद्धत्वं च कल्पयन्तो भ्रान्ता एवेति बोध्यम। पर्याय इति । अत्र कमाश्रयगात् "पर्यायोऽवसरे क्रमे" इत्यमरकोशादन्वर्थतोति निदर्शनकृत्॥ तत्र एकमनेकत्र भवतीत्यस्योदाहरणमाह नन्विति। भलटकविकृते भल्टशतके ४ पद्यमिदम् । नन्विति प्रश्ने "नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे। वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥" इति हैमः। रे कालकूट उत्कटविष उत्तरोत्तरं विशिष्टम् उत्कृष्टम् उच्चं वा पदं स्थानं (अधि- करणं) यस्यां तादृशी इयम् आश्रयस्थितिः आश्रयणरीतिः तव केन उपदिष्टेत्यन्वयः । आश्रयस्थिते- विशिष्टपदत्वमेव दर्शयति प्रागिति। प्राक् प्रथमम् अर्णवस्य समुद्रस्य हृदये अभ्यन्तरे 'अवसः' इति शेषः । अथ अनन्तरं वृषलक्ष्मणः वृषो वृषभो लक्ष्म ( वाहनतया ) चिह्नं यस्य तस्य शंभोः कण्ठे। पुनःशब्दस्त्वर्थे। अधुना इदानीं तु खलानां दुर्जनानां वाचि वचसि मुखे इति यावत् वससत्यिर्थः । प्रथमं हृदि ततः कण्ठे ततो मुखे इति स्थितेर्विशिष्टपदत्वम्। "पुंसि कीबे च काकोलकालकूटहला हला:" इति "पदं व्यवसितत्राणस्थानलक्ष्माङघ्रिवस्तुषु" इति चामरः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे.।। अत्र कालकूटस्य वस्तुन एकस्यानेकत्र वासे प्रयोजकं किंचिदपि नोक्तमिति भवतीत्यस्यो- दाहरणमिदम्। अत्राधारभेदाद्भिन्न आधेय एकत्वेनाध्यवसित इति प्रदीपोद््योतयोः स्पष्टम्। "अत्रै कस्यैव कालकूटस्य क्रमेणानेकत्र स्थितिः" इत्युदाहरण चन्द्रिकायामुक्तम् ॥

Page 752

दशम उल्लास: ६९१

यथा वा बिम्बोष्ठ एव रागस्ते तन्धि पूर्वमदश्यत। अधुना हृदयेऽ्येष मृगशावाक्षि लक्ष्यते ॥५१४ ॥ रागस्य वस्तुतो भेडेऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम्। तं ताण सिरिसहोअररअणाहरणम्प्रि हिअअमेक्करसं। बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण॥ ५१५॥

न केवलमयं वास्तविके एकत्वे किं त्वारोपितेऽपीत्युदाहरणान्तरमाह बिम्बोष्ठ एवेति। पद्म- गुप्तप्रणीते नवसाहसाङ्कचरिते षष्ठे सगे ६० पद्मिदम्। हे तन्वि पूर्व ते तव बिम्बसदृशः ओष्टः बिम्बोष्ठस्तास्मिन्नेव रागः अदृश्यत। हे मृगशावाक्षि कुरङ्गनयने अधुना एष रागः तव हृदयेऽपि लक्ष्यते दृश्यते इत्यर्थः । 'लक्ष्यते' इत्यत्र 'दृश्यते' इत्येव कचित्पाठः। ओष्ठे रागो लौहित्यं हृदये तु स्नेहः। बिम्बोष्ठ इत्यत्र "ओत्वेष्ठयोः समासे वा" इति कात्यायनकृतवार्तिकेन पररूपम् । बिम्बं पक्क बिम्बिकाफलम् कन्दुरूफलम्। "बिम्बं फलं बिम्बिकायाः प्रतिबिम्बे च मण्डले" इति विश्वः। "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सारङ्गादौ च रागः स्यादारुण्ये रञ्षने पुमान्" इति शब्दार्णवः ॥ अत्र प्रयोजकानिर्देश: स्फुट एव। एवं चैक एव राग क्रमेणानेकत्र ओष्ठे हृदये च भवतीति पर्यायालंकारः। ननु रागशब्दे लौहित्यप्रीत्योरर्थयोभेदात्कथमेकस्यैवानेकत्र स्थितिरत आह रागस्ये- त्यादि। रागपदार्थस्य त्वोष्ठे लौहित्यात्मकतया हृदये तु स्नेहात्मकत्वेन भेदेऽपि श्लेषेण एकत्वस्या- ध्यवसानान्नैकत्वविवक्षाविरोध इन्यर्थः । तथा च श्लेषमूलकातिशयोक्तिरेवात्रास्य मूलं बोध्यम्। न चैकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव लोके पर्यायप्रसिद्धेः कथमिदमुदाहरणमिति वाच्यम् एकनने- कस्मिन् क्रमेणेत्येव लक्षणात् शब्दसाम्यमात्रेण लौकिकार्थाविवक्षणात्। एतेनात्र वर्धमानालंकारः पृथगित्यपास्तमित्युझ्चोते स्पष्टम् ।।

एकमनेकत्र क्रियते इत्युदाहरति तं ताणेति। आनन्दवर्धनप्रणीतायां विषमबाणलीलायां गाथेयम्। अत एव ध्वन्यालोके द्वितीये उद््योते आनन्दवर्धनेनोक्तम् "यथा वा ममैव विषमबाणलीलायामसुर- पराक्रमणे कामदेवस्य तं ताण०" इति। "तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम्। बिम्बाधरे प्रियाणां निवेशितं कुसु बाणेन ॥।" इति संस्कृतम्। श्रीसहोदररत्नं कौस्तुभः आभरणं यस्य तस्मिन् श्रीविष्णौ एकरसम एकतानं तत्परमिति यावत् एतादृशं तत् तेषाम् असुराणां हृदयं ( कर्म) कुसुम- बाणेन कामेन (कर्त्रा) प्रियाणां प्रियायाः मोहिन्याः बिम्बसदशे अधरे ओष्ठे निवेशितमित्यर्थः । श्रीहरावासक्तं दैत्यानां हृदयं कामेन प्रियाबिम्बाधरचम्बनाद्यासक्तं कृतमिति भावः। "अधरस्तु पुमा- नोष्ठे हीनेऽनूध्वे च वाच्यवत्" इति मेदिनी। प्राकृते लिङ्गवचनानियम इति एकस्यां मोहिन्यां प्रिया- णामिति बहुवचनमिति सुधासागरे स्पष्टम्। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥

अत्र एकस्य हृदयस्यानेकत्र (श्रीविष्णौ ओष्ठे च) स्थितौ कुसुमबाणेनेति प्रयोजकनिर्देश इति 'क्रियते' इत्यस्योदाहरणमिदम्। केचित्तु 'रअणाहरणम्मि' इत्यस्य 'रत्नाहरणे' इति संस्कृतं पठन्तः यत् असुराणां हृदयं विजिगीषाज्वलनजाज्वल्यमानं श्रीसहोदररत्नानामासमन्ताद्रणे तत्परमासीत तत् सुकुमारतरोपकरणेनापि कामेन प्रियाबिम्बाधरे निवेशितम् सकलरत्नसारतुल्यो बिम्बाधर इति तेषाम-

Page 753

६९४ काव्यप्रकाशः सटीकः।

(सू० १८१ ) अन्यस्ततोऽन्यथा।

भिमानोत्पत्ते: एवं च व्यङ्ग्योपमात्रेत्याहुः तन्मतेऽपि हरणस्य वैषयिकाधारत्वात् पर्यायाक्षतिरेवेत्युद्चोते स्पष्टम्।। 'श्रोणीभागस्त्यजति तनुतां सेवते मध्यभागः पद्धयां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रम् तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ।।'

इति पद्यं काव्यप्रकाशपुस्तके क्वचित् दृश्यते। प्रदीपकृद्भिस्तु नोदाहतम्। एवं चक्रवर्तिश्रीवत्सला- ञ्छनप्रभृतिभिरपि न धतम्। उद्योतकृन्निदर्शनकृत्प्रभृतिभिस्तु 'नन्वाश्रयस्थितिः' इति पद्यस्यानन्तरं व्याख्यातम्। क्रमभङ्गभीरुणा महेश्वरेण च 'बिम्बोष्ठ एव' इति पद्यस्यानन्तरं 'क्रियते' इत्यस्योदाहरण- तयाधारि। माणिक्यचन्द्रसरस्वतीतीर्थकमलाकरभट्टवैद्यनाथादिभिस्तु प्रथममेवोदाहरणतया व्याख्या- तम्। कुवलयानन्दे तु 'श्रोणीभागः' इत पद्यं काव्यप्रकाशे उदाहृतमित्युक्तम्। एवं रसगङ्गाधरेऽपि 'श्रोणीबन्धस्त्यजति तनुताम्' इति काव्यप्रकाशोदाहते इत्युक्तम्। परंतु प्रयोजनाभावात् प्रदीपा- द्यनुसरणमेव श्रेय इति मत्वा नास्माभिरिदं मूले संग्ृहीतम्। अत एव 'श्रोणीबन्धस्त्यजति तनु- ताम्' इत्युदाहरणं तु प्रक्षिप्तमिति बोध्यमिति सुधासागरे उक्तमिति दिक्।।

तथापीदं पद्यं व्याख्यायते। श्रोणीभाग इति। राजशेखरकविकृते बालभारते प्रचण्डपाण्डवापर- नाम्नि नाटके प्रथमेऽङ्के स्वयंवरसमये दुपदसभायां द्रौपदीं दृष्ट्रा भीमसेनस्योक्तिरियम्। 'श्रोणीभारः' इति 'श्रोणीबन्धः' इति च पाठान्तरम्। तद्गात्राणामित्यत्र 'त्वद्गात्राणाम्' इति क्वचित्पाठः । तस्याः द्रौपया: गात्राणां गुणविनिमय. गुणव्यत्ययः यौवनेन ( क्त्रा) कल्पित इत्यन्वयः । तदेव दर्श- यति श्रोणीति। श्रोणीभागः कटिपुरोभागः जघनं तनुतां कृशतां त्यजति यौवने श्रोणीभागस्थौल्या- दिति भावः । मध्यभागः कटिभागः तनुतां सेवते यौवने कटिकाश्यादिति भावः। पद्धयां तरलग- तयः चञ्चलगतयो मुक्ताः त्यक्ताः यौवने हंसकुञ्जरगमनावलम्बादिति भावः । लोचनाभ्यां तरल- गतयः चञ्चलदर्शनानि संश्रिता आश्रिताः यौवने लोचनतारल्येन दर्शनतारल्यादिति भावः। वक्षः उरस्थलं कुचसचिवतां कुचसहिततां (सद्वितीयतां) धत्ते वक्त्रम अद्वितीयं द्वितीयरहितं निरुप- मम् इत्यर्थः । मनदाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे। श्रोणीभागादीनां प्राथमिकाधार- त्वमार्थम्। सेवते इत्यनेन मध्यभागे पूर्वमतनुतासत्ता बोधिता। एवमग्रेऽपि। अत एव विनिमयः संगच्छते। धत्ते इत्यनेन वक्षसि प्रागद्वितयिता या स्थिता सा वक्त्रेण गृहीतेति बोधितम्। मुखेSद्वितीयत्वं निरुपमत्वम् वक्षसि द्वितीयराहित्यम् तयोश्राभेदाध्यवसायः। कुचसचिववक्षस्त्वे- नैव मुखस्य निरुपमत्वम्। अत्र तनुत्वत्यागादिना तत्तदुत्कर्षों व्यञ्जनया बोध्यते इत्युइयोतादिषु स्पष्टम्॥

पर्यायान्तरं अन्यविधं पर्यायालंकारं लक्षयति अन्य इति। "पर्यायोऽन्यस्ततोऽन्यथा " इति संधेः सत्वात् नात्र छन्दोभङ्गः । ततः पूर्वस्मात्पर्यायात् अन्यथा वैपरीत्यम् अन्योऽपरः पर्याय इत्यर्थः । १ वैद्यनाथादिमिरिति। उदाहरणचन्द्रिकाकारादिभिग्तियर्थः ।।

Page 754

दशम उल्लास: । ६९५

अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः । क्रमेणोदाहरणम्। मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव। ५१६॥ तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिव: सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटा:। स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं याषिताम् आश्चर्य दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ॥५१७।

तदेवाह अनेकमित्यादिना। अनेकं वस्तु एकस्मिन्नाधारे क्रमेण कालभेदेन ग्रत् भवति क्रियते वा सोऽन्यः पर्याय इत्यर्थः । अनेकस्य आधेयस्यैकस्मिन्नाधारे क्रभेग संबन्धे द्वितीयः पर्यायालंकार इति भावः । अत्रापि पूर्ववत् भवतिकरोत्यर्थौ बोध्यौ। अत्रापि क्रमेणेोति समुच्चयवारणायेति ज्ञेयम्॥ तत्र भवत्यर्थे उदाहरति मधुरिमेति । अहो महदाश्रवर्यम् मधुरिम्णा माधुर्येण रुचिरं मनोहरं खलानां दुर्जनानां वचो वाक्यं (कर्तृ) प्रथमं पूर्व पृथु बहुलं संपन्नं वा अमृतं व्यनक्ति प्रकाशयति। अथ अनन्तरं (विचारदशायां) तदेव वचः अन्तर्गतम् उदरप्राप्तं हालहलं विषमिव उग्रगरलमिव मोह- हेतुं कथयतीत्यर्थः । केचित्तु अथ विचारानन्तरं मोहहेतुं तदेवान्तर्गतं विषं कथयतीवेत्यन्वयः इत्याहुः। "हालाहलं हालहलं वदन्त्यपि हलाहलम्" इति द्विरूपकोशः। "गोनासगोनसौ हालाहलं हालहलं विषम्" इति त्रिकाण्डशेषश्र। पुष्पिताग्रा छन्दः। लक्षणमुक्तं प्राक् ९६ पृष्ठे। अत्रैकस्मिन् खलवचसि क्रमेणामृतव्यञ्जने विषकथने च न प्रयोजकनिर्देश इति 'भवति' इत्य- स्योदाहरणमिदम्। उक्तं च चन्द्रिकायाम् 'अत्रैकस्मिन् खलवचने क्रमेणामृतविषयोः स्थितिरिति पूर्वविपरीतः पर्यायः" इति॥ करात्यर्थे उदाहरति तद्गेहमिति। आनन्दवर्धनकृते ध्वन्यालोके तृतीयोद्दयोते उदाहृतं पद्यमिदम्। सुदाम्नो मन्दिरमवलोक्य कस्यचिदुक्तिरियमिति सुधासागरे भीमसेनः । अयं द्विजः सुदामा ( कर्म) दिवसैः (कर्तृभिः) इयतीं भूनि समृद्धिसीमाम् अवस्थां वा समारोपितः प्रापित इत्याश्रर्यम्। दिवसै- रेव न तु मासैर्वषैर्वोति भावः । 'समारोपितः' इत्यत्र 'परां प्रापितः' इति क्वचित्पाठः । केचित्तु भूमिं स्थानम् इत्याहुः। "भूमिः क्षितौ स्थानमात्रे" इति हैमः। तदेव दर्शयति तद्गेहमित्यादिना। तत पूर्वृष्ट गेहं गृहं नता नम्रा भित्तिर्यस्यैवंविधं खर्वमित्यर्थः इदानीं तु दिवः स्वर्गात् लब्धः प्राप्तः अवकाशो यस्य ताद्शम् इदं मन्दिरं राजयोग्यं गृहं जातमित्यर्थः । सा पूर्वटृष्टा जरती जरठा धेनु: दोग्धी दोहनशीला गौः इदानीं तु घनाभा: मेघतुल्याः करिणां गजानां घटाः श्रेगयः नदन्ति । "धेनुर्गोमात्रके दोग्ध्रयाम्" इति हैमः । "घटः समाधिभेदेभशिरःकूटकुटेषु च। घटा घटनगोष्ठीभ- घटनासु च योषिति ॥" इति मेदिनी। स क्षुद्रः निकृष्टोऽल्पो वा मुसलध्वानः अयेग्रशब्दः इदानीं तु कलं मधुरस्वरम् अव्यक्ताक्षरमधुरध्वनिरूपं वा योषितम् अङ्गनानां संगीतकं गायनं जातमित्यर्थः । "श्ुद्रो दरिद्रे कृपणे निकृष्टेऽलपनृशंसयोः" इति हैमः । "अयों मुसलोऽस्त्री स्यात्" इत्यमरः । "कलं त्वजीर्णरतसोः । अव्यक्तमधुरध्वाने" इति हैमः । शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्रैकास्मिन् द्विजे तद्रेहतन्मन्दिरादीनामनेकेषां संबन्धे (स्वस्वामिभावसंबन्धे) दिवसौरति प्रयो

Page 755

६९६ काव्यप्रकाश: सटीकः ।

अत्र एकस्यैव हानोपादानयोरविवक्षितत्वात् न परिवृत्तिः ॥ (सू० १८२) अनुमानं तदुक्तं यत् साध्यसाधनयोर्वच: ॥ ११७ । पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरुपो हेतु: साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम्। यथा

जकनिर्देश इति 'क्रियते' इत्यस्योदाहरणमिदम्। तदुक्तं चन्द्रिक।याम् "अत्रैकस्मिन् द्विजे तद्रेह- मन्दिरादीनामनेकेषां क्रमेण स्थितौ दिवसैरिति प्रयोजकनिर्देश इति भेदः" इति॥

अत्र परिवृत्त्यलंकारशङ्गां वारयति अत्रेत्यादिना। एकस्यैवेति। "कर्तृकर्मणोः कृति" (२।३। ६५) इति पाणिनिसूत्रेण विहिता कर्तरि षष्ठीयम्। एकस्यैत्र कर्तुरित्यर्थः । हानं स्वीयवस्तुसम- रपणम्। उपादानं परकीयवस्तुग्रहणम। एककर्तृकहानोपादानयोरुक्तौ हि परिवृत्तिः न त्वत्र तथेति भावः । संकेताख्यटीकायां मणिचन्द्रेण तु "अत्र गेहादि त्यज्यत एव न तु केनापि स्वीक्रियते । परिवृत्तौ तु यदेकेन त्यज्यते तदन्येन ग्रृह्यते" इत्युक्तम् । "विनिमयाभावात्परिवृत्तेर्भेदः" इति तु साहित्यदर्पणे विश्वनाथः । "ननु द्विविधोऽत्र पर्यायः परिवृत्त्यभिन्न एत्र पूर्वत्र त्यक्तग्रहणरूपत्वेन परत्रैकवस्तुत्यागानन्तरापरवस्तुग्रहणरूपत्वेन परिवृत्तिसंभवादत आह विनिमयाभावादिति । एक- वस्तुत्यागोपाधिकापरवस्तूपादानरूपस्य विनिमयस्याभावादित्यर्थः। तथा च पूर्वत्र वस्तुमेदाभावाद- परत्रापरवस्तूपादानं प्रत्यन्यवस्तुत्यागस्य नियमाभावात् पर्यायद्ये परिवृत्त्यभेदसंभावना नास्तीति भावः" इति साहित्यदर्पणविवृत्तौ रामचरणतर्कवागीशभट्टाचार्यः ॥ इति पर्यायः ॥३४॥

अनुमानालंकारं लक्षयति अनुमानमिति। साधायतुं योग्यं साध्यं वह्नयादिः। साध्यते वह्नया- दिरननेति साधनं हेतुर्धूमादिः । तयोः साध्यसाधनयोः यत् वचः वचनं तत् अनुमानम् उक्तम् अनुमानालंकार इत्युच्यते इत्यर्थः । साध्यत्वेन :साधनत्वेन च प्रतिपाद्नमनुमानालंकार इति भावः ॥

ननु पक्षसाध्यहेतुद्ृष्टान्ताद्यनुमानम् अत्र तु साध्यसाधनयोर्वचनमात्रं तदित्युच्यते तत्कथमिति मनस्याशङ्कय साधनपदार्थमाह पक्षधर्मेत्यादिना। अत्र द्वन्द्वात्परस्य त्वप्रत्ययस्य त्रिष्वन्वयः । "दन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते इति न्यायात्। इन्प्रत्ययस्य तु द्योरेवान्वयः । तथा च पक्षधर्मत्वे नान्वयित्वेन व्यतिरेकित्वेन च त्रिरूपो हेतु साधनपदेनोच्यते इत्यर्थः। तदुक्तं सारबोधिन्याम् "त्रिरूप इति ! पक्षसत्त्वसपक्षसत्त्व्रविपक्षासत्त्वानीति त्रीणि रूपाणि" इति। यत्रानुमिनोति स पक्षः यथा 'पर्वतो वहनिमान् धूमात्' इत्यादौ पर्वतादिः तत्र हेतोवृत्तित्वं पक्षधर्मत्वम् सपक्षे (निश्चिवितसाध्यवति महानसादौ पाकशालादौ) हेतोरवृत्तित्वम् अन्वयित्व्रम् विपक्षे (निश्चिचितसाध्या भाववति ह्नदादौ) हेतोरवृत्तित्वं व्यतिरेकित्वमित्यर्थः । एवं च साध्यसाधनग्रहणादेव पक्षादिकं सर्व संगृहीतमिति भावः । एवं साधनपदार्थमुकत्वा इदानीं साध्यपदार्थमाह धर्मिणी्यादिना। धर्मिणि हेतुमति (पक्षे पर्वतादौ) व्यापकस्य हेत्वपेक्षयान्यूनदेशस्थितस्य (वह्न्यादेः) अयोगव्यवच्छेदो नियतः संबन्धः साध्यत्वमित्यर्थः । यथा 'पर्वतो वह्निमान् धूमात्' इत्यादौ पर्वते पक्षे धूमस्य हेतोर्वृ- त्तित्वमास्ति एवं वह्निरूपसाध्यनिश्रयवति महानसेऽपि धूमस्य हेतोवृत्तित्वमस्ति तथा वह्निरूपसाध्या- भावनिश्र्वयवति हदे धमस्य हेतोर्वृत्तित्वं नास्तीति त्रिरूपेण धूमेन हेतुना पर्वते पक्षे साध्यस्य वह्नेरनुमानं

Page 756

दशम उल्लास: । ६९७

यत्रैता लहरीचलाचलददशो व्यापारयन्ति भ्रूर्व यत् तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणा: । तच्चक्रीकृत चापमश्चितशरप्रेङ्गत्कर: क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सद़ासां स्मरः ॥ ५१८॥ भवि। परं तु 'पर्वतो वह्निमान् धूमात्' इत्यादौ चमत्काराभावान्नायमलंकार इति कविप्रतिभा- कल्पितं यत् एकस्मिन् धार्मोण साधनेन साध्यस्य उन्नयनं तत् अनुमानम् (अलंकारः) इति निष्कर्ष इति बोध्यम्।। व्याख्यातमिदं प्रदीपोद््योतयोः। "पक्षे संबन्धः (पक्षधर्मता पक्षवृत्तित्वं) सपक्षवृत्तित्वं विपक्षा- वृत्तित्वं चेत्येतद्रूपत्रयविशिष्टो हेतुः साधनपदेनोच्यते। यस्य व्यापकत्वाभिमतस्य पक्षेऽयोगव्यवच्छेदो (अवश्यं संबन्धः ) व्यापकसंबन्धपर्यवसन्नः तत् साध्यम्। तदुभयवचनमनुमानालंकारः" इति॥ "अत्रानुमानमित्यत्र भावे ल्युट्। तेन जायमानानुमितिरत्रालंकारः । सा च मन्येशङ्केअवैमिजाने- इत्यादिवाचकोपादाने वाच्या। यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र तेषामनुमितिबोधकत्वम्। यत्र सादृश्यादि- निमित्तसद्भावस्तत्र तेषामुत्प्रेक्षाबोधकत्वम्। वक्तिकथयतिइत्यादिलक्षकशब्दोपादाने लक्ष्या उभया- नुपादाने साध्यसाधनाभ्यां तदाक्षेपे प्रतयिमानेति बोध्यम्" इत्युश्योते स्पष्टम् ॥ अनुमानालंकारमुदाहरति यत्रेति। एताः पुरो दृश्यमानाः लहरीचलाचलद्दशः तरङ्गवदत्यन्त- चञ्चलाक्ष्यः कामिन्यः 'चलाञ्चलद्ृशः' इति पाठे चञ्चलप्रान्तचक्षुष इत्यर्थः । यत्र यस्मिन् विषये (तरणविशेषे) भ्ुवं ह्गूर्ध्वभागं व्यापारयन्ति वक्रीकुर्वन्ति (कटाक्षं कुर्वन्ति ) तत्रैव तस्मिन्नेव (तरुणविशेषे ) अमी अनुभूतप्रकर्षाः मर्मस्पृशः मर्मभेदिनः मार्गणाः कामबाणाः संततम् अविरत पतन्ति इति यत् तत् तस्माद्वेतोः शासनधरो योषिदाज्ञानुवर्ती अत एव क्रोधनः क्रोधशीलः (तरुणमर्मभेदनोद्युक्तः ) अत एव चक्रीकृत: कर्षणेन वर्तुलीकृतश्रापो धनुर्यस्मिन्कर्माण तद्यथा स्यात्तथा अश्वितेषु धनुषि योजितेषु शरेषु बाणेषु प्रेङ्गत्करः अनवरतचलद्धस्तः स्मरः कामः आसां कामिनीनाम् अग्रतः पुर एव सत्यं निश्रयेन सदा सर्वकाले धावतीत्यर्थः । 'चल कम्पने' इति भ्वादिगणपठितात् चलधातोः "नन्दिग्रहिपचादिभ्यो ल्युणिन्वचः" ( ३१।१३४) इति पाणि- निसूत्रेण पचादित्वात्कर्तर्यच्प्रत्यये कृते "चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्य" इति कात्यायनकृतवार्तिकेन चलतेर्द्वित्वेऽभ्यासस्य आगागमे च कृते चलाचलेति रूपसिद्धिः। शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र पूर्वाधे संततनिपतन्ममभेदिबाणकलसद्भ्रूव्यापारकस्थानकत्वं साधनं पक्षवृत्तित्वेनोक्तम् परार्धे अग्रतस्तादृशमदनधावनरूप साध्यमुक्तम्। यत्तन्द्यां व्याप्तिः सूचिता । तत्र वस्तुतो व्याप्त्यसत्त्वेऽपि कविप्रौढोक्त्या तथाभिधानम् । प्रयोगश्ववैवम् 'ऐताः चक्रीकृतचापं सदा पुरोधावद- च्वितशरत्वादिविशिष्टमनोभवाः संततनिपतन्मर्मभेदिबाणकलसद्भ्रूव्यापारकस्थानकत्वात्' इति इति १ अत्रापि चमत्कृतिहेतुत्वमलंकारसामान्यलक्षणप्राप्तमस्त्येव तल्लब्वमेवाह कविप्रतिभेत्यादि॥ २ एता इति स्त्रियः पक्षभुता निर्दिष्टाः। चक्रीरूतचावं यथा स्यात्तथा सदा पुरोधावन् अश्वितेषु धनुषि योजितेषु शरेषु प्रेङ्गत्करः कोधेन शासनधरः मनोभवो यासां तथाभूता इति साध्यम्। संततं निपतन्तो मर्ममेदिनो बाणाः यत्र तादृशं लसन् भव्यापारो यत्र तादृर्शं स्थानं युवजनरूपं यासां तत्वादिति हेतुः। स्वस्थाननियतनिपतन्ममभेदिचाणकलसद्- भृव्यापाराश्रयत्वादिति यावत् तत्रैवेत्यनेन बाणनिपतनस्य भूव्यापारस्थाननियतत्वोक्तेः । अत एव 'शासनघरः' इत्युक्तम् इति प्रभायां स्पष्टम् ।। ८८

Page 757

६९८ काव्यप्रकाश: सटीकः । साध्यसाधनयो: पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम्॥ (सू० १८३) विशेषणैर्यत्साकृतरुक्तिः परिकरस्तु सः । प्रदीपोह््योतयोः स्पष्टम्। तथा चोक्तं चन्द्रिकायाम् "अत्र पूर्वाधोक्तहेतुना अग्रतस्तादृशमदनधाव- नस्य साध्यस्य साधनादनुमानालंकारः। प्रयोगस्तु 'एताः पुरोधावतथाविधमदनाः मर्ममेदिवाणपात- व्याप्यभ्रूव्यापारकत्वात्' इति बोध्यः" इति। उक्तं च चक्रवर्तिभट्टाचार्यादिभिरपि "अत्र 'यत्र तत्र' इति पदाभ्यां यद्योगप्राथम्याभ्यां भव्यापारमदनशरपातयोर्व्यापतिः प्रतयते। एवं द्वितीयचरणप्रथम- स्थितयत्पदतृतीयचरणप्रथमस्थिततत्पदाम्यां मार्गणपाताग्रतोवर्तिमद्मयोर्व्याप्तिः प्रतीयते। तदयं प्रयोग: 'एताः पुरोगामिमदना मार्गणपातनियतभ्रूव्यापारवत्वात्' इति। अत्र वस्तुगत्या व्याप्त्यसत्त्वेऽपि कविप्रौढोक्त्यैव तथाभिधानममित्यलंकारत्वम् अन्यथा'वह्निमान् धूमात्' इत्यत्रापि तथात्वापत्तेः" इति।

नन्वत्र पूर्व साधनवत् साध्यस्यापि वचनं संभवति। यथा "मधु तिष्ठति वाचि योषितां हृदि हाला- हलमेव केवलम्। अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते" इति भर्वृहरिकृते शृङ्गारशतके पद्यम् । अत्र पूर्वार्धे साध्यम् उत्तरार्धे साधनमुक्तम्। तथा चातिशयोक्तौ ( 'हृदयमधिष्ठितमादौ' इत्यत्र ६३३ पृष्ठे) कार्यकारणयोः पौर्वापर्यविपर्ययवत् अत्रापि साध्यसाधनयोः पौर्बापर्यविपर्ययोऽपि वक्तव्यः। उक्तश्र रुद्रटेन। एवं चानया रीत्यानुमानालंकारस्य द्वैविध्यं वक्तुमुचितम् अतः कथं विभागो न कृत इत्यत आह साध्यसाधनयोरित्यादिना। विकल्पे विपर्यये वैपरीत्ये इति यावत्। हेतौ सप्तमीयम् (४१० पृष्ठे ६ पक्कौ ) सिद्धावितिवत्। न किंचिद्वैचित्र्यमिति। न कश्षििच्च- मत्कार इत्यर्थः । अतिशयोक्तौ कार्यकारणयोर्विपर्यये झटिति कारणस्य कार्यकारित्वं विपर्ययनिर्देश सामर्थ्यात्प्रतययिते । अत्र तु न ताटटक किंचिदिति न वैचित्रयम्। कितु 'यत्रैता लहरीचलाचल०' इत्यादाविव साध्यसाधनवचनकृतमेव वैचित्र्यमिति विभागो न कृत इति भावः ॥ यत्तु केनचिदर्थेनोक्तेन तुल्यकारणत्वाद्थान्तरस्य आपादनमर्थापत्यलंकारः। यथा 'स जितस्त्व- न्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥' 'तवाग्रे यदि दारिझ्ं स्थितं भूप द्विजन्मनाम्। शनैः सवितुरग्रेऽपि तम: स्थास्यत्यसंशयम् ॥' नेयं वाक्यवित्संमतार्थापत्तिः आपादकस्यार्थस्य आपतितमर्थ विनानुपपत्ते- रभावात्। अस्यां चार्थान्तरं लोके अविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तदा- लंकारत्वम्। तेन 'उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा । सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥' इत्य दौ नायमलंकारः इति तन्। आययोदाहरणेऽनुमानस्य संभवात् द्वितीये यदर्थातिश- योक्तेः सत्त्वात्। सा च द्विविधा आपाद्यापादकयोरुभयोरपि असंभवित्वेन कविकल्प्यतया आपाद्य मानस्यैवेत्यस्यापि सुवचत्वात्। 'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि। अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥' इत्यर्थापत्तिस्त्वनुमानमेवेति दिगित्युद्योते स्पष्टम् ॥ इत्यनुमानम् ॥३५॥ परिकरनामानमलंकारं लक्षयति विशेषणैरिति। यदित्यव्ययम् उक्तिरित्यनेनान्वेति। यद्वा यदिति यत्रेत्यर्थे यस्मिन्नलंकारे इत्यर्थः । उक्तिः परिपुष्टिः। साकूतैः साभिप्रायैः विशेषणैः भेदकैः या उक्तिः (विशेषस्य ) परिपुष्टिः स परिकर इत्यर्थः । परिकरः परिकरणमुपस्करणम् विशेषणव्यङ्गयार्थेन वाक्यार्थस्योपस्करणात्परिकर इत्यन्वर्थेयं संज्ञा। केचित्तु "परिकरोति प्रकृतार्थमुपकरोताीति परिकर:

Page 758

दशम उल्लास: । ६९९

अर्थाद्विशेष्यस्य। उदाहरणम् महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ ५१९॥४ साभिप्रायशब्दः सोस्मिन्नस्तीति परिकरः । मत्वर्थीयोऽच् प्रत्ययः । भूषणार्थत्वाभावान्न सुडागमः" इत्याहु:॥ उक्तिः (परिपुष्टिः) कस्येत्याकाङ्कायामाह अर्थाद्विशेष्यस्येति। "गुणानां च परार्थत्वादसं- बन्धः समत्वात्स्यात्" इति प्राक् (३४७ पृष्ठे ५ पङ्कौ) उक्तन्यायेन विशेषणानां परस्परनिरा- काङ्वत्वेन परस्परसंबन्धाभावादिति भावः। साभिप्रायत्वं प्रकृतार्थोपपादकचमत्कारिव्यङ्ग्यकत्वम् । तथा च सार्थकबहुँविशेषणैरर्थस्य परिपोषणं परिकर इति भावः । तथा चोक्तं सारबोधिन्याम् "साभि- प्रायानेकविशेषणद्वारा यत्र विशेष्यस्यातिशयप्रतीतिः स परिकर इत्यर्थः" इति ॥ अत्र विशेषणैरित्युपलक्षणं विशेष्यस्यापि। तेन साभिप्राये विशेष्ये्ययम्। यथा 'चतुरणी पुरु- षार्थानां दाता देवश्रतुर्भुजः' इति। अत्र चतुर्भुज इति विशेष्यं पुरुषार्थचतुष्टयदानसामर्थ्याभिप्राय- गर्भम्। बौहुलकलभ्यकर्मल्युडन्तकरणल्युडन्तविशेषणशब्दयोरेकशेषो वा। उक्तिरित्यस्यार्थकथन- मित्येवार्थः। एतेन साभिप्राये विशेष्ये परिकराङ्कररनामा भिन्नोऽलंकार इत्यपास्तमित्युद्दयोते स्पष्टम्। सुधासागरकारास्तु विशेष्यांशस्य साभिप्रायत्वे परिकराङ्र: स्वीकृतो जयदेवादििः न चासौ प्रामा- णिकः तत्रापि विशेषणांशस्यैव साभिप्रायत्वात् निर्धर्मकस्य विशेष्यांशमात्रस्य स्वमेऽपि साभिप्राय- त्वासंभवात् अत एव खण्डितोऽस्माभि: कुवलयानन्दखण्डने इत्याहुः। अस्य काव्यलिङ्गाद्वेदस्त काव्यलिङ्गे एव दर्शित: ॥ परिकरमुदाहरति महौजस इति। भारविकृते किरातार्जुनीये काव्ये प्रथमे सर्गे युधिष्ठिरं प्रति चारवाक्यमिदम् । धनुर्भृतः धानुष्काः (भटाः) तस्य दुर्योधनस्य प्रियाणि अभिलषितानि असुभिः प्राणैरपि समीहितुं कर्तु वाञ्छन्ति इच्छन्तीत्यन्वयः । किंभूताः। महौजसः महान्ति ओजांसि बलानि येषां तथाभूताः तेजस्विन इत्यर्थः। एतेन परानभिभवनीयत्वं व्यज्यते । मानधनाः मानिनः । एतेन मानभङ्गभीरुत्वम्। धनार्चिताः धनैः पूजिताः । एतेनोपकृतत्वम् । संयति रणे लब्धकीर्तयः प्राप्तकतर्ियः । एतेन युद्धोत्सुकत्वम्। न संहता: न परैरुपजप्ाः । एतेन कार्यकरणापेक्षित्वम्। न भेदवृत्तयः परस्परमैकमत्यमाप्ताः । एतेन तदेकप्रयोजनापेक्षित्वम्। तेनायं दुर्योधनो रूढमूलो दुर्जय इति व्यङ्ग्चम्। "ओजो दीप्ताववष्टम्भे प्रकाशबलयोरि" इति मेदिनी। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे ॥ अत्र महौजसः इत्यादिविशेषणानां परानभिभवनीयत्वाद्यभिप्रायकत्वात् धनुर्भृत इति विशेष्यस्य १ "संपरिभ्यां करोतौ भूषणे " (६।१।१३७) इति पाणिनिसूत्रेण विहितः सुडागमो ज्ञेयः ॥ २ सूत्रे विशेषणैरिति बहुवचनस्य विवाक्षितत्वादाह बहुविशेषणैरिति ॥ ३ धर्मार्थकाममोक्षरुपाणाम् ॥ विशेष्यमिति। अत एव महाभारते शान्तिपर्वाण विष्णोर्दिव्यसहस्त्रनामस्तोत्रे "चतुरात्मा चतुर्व्यूहव्यतुर्दपृश्यतुर्भुजः "इति ग्रन्थे चतुर्भुज इति चत्वारिशदधिकशततम( १४०)नामत्वेन निदिश्यते। किंच चतुर्भुजशन्दस्य "वैकुण्ठो जलशायनश्र्यतुर्भुजश्र्" इति हलायुधकोशे "चक्रपाणिश्यतुर्भुजः" इत्यमरकोशे च विष्णुनामत्वेन दर्शनम् । एवं च प्रकते देव इति विशेषणम् विशेष्यविशेषणाभावे कामचारादिति बोध्यम्॥ ५ बाहुलकेति। "कृत्यल्युटो बहुलम्" ( ३।३।११३) इंति पाणिनिसूत्रस्थबाहुलकेत्यर्थः ॥ ६ उपजप्ताः 'फितुर केलेले' इति महाराष्ट्रादिभाषायां प्रसिद्धाः॥

Page 759

७०० काव्यप्रकाश: सटीकः ।

यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकार: कृतः तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलंकारमध्ये गणितः ।

निगूढमपि वस्तुनो रूपं कथमपि प्रिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः ।

परिपुष्टिः। तेन च प्रधानस्य (दुर्योधनस्य) अतिशयः प्रतीयते इति परिकरालंकारः । तदेतत्स- र्वमुक्तं चक्रवर्तिभट्टाचार्येः "अत्रान्यविशेषणत्वेनोपात्तान्यपि महौजस्त्वादीनि वाक्यार्थमहिम्रा प्रधा- नमेवोपकुर्वन्ति" इति। अत्रत्यव्यङ्गयं च क्वचिद्वाच्यसिद्धयङ्गम् क्वचिदपराङ्गमिति गुणीभूतव्यङ्गय- मेवेत्युद्चोते स्पष्टम्। अस्यालंकारत्वाभावमाशङ्कते यद्यपीत्यादिना 'कृतः' इत्यन्तेन । अपुष्ठार्थस्येति। अपुष्टार्थत्वस्ये- त्यर्थः। भावप्रधानोऽयं निर्देशः। "स्त्रियाम्" (४।१।३) इति पाणिनिसूत्रवत् 'तव वरद करोतु सुप्रातमह्लामयं नायकः' इति (११ सर्गे ६७ श्लोके ) माघकाव्ये 'सुप्रातम्' इतिवच्चेति बोध्यम्। दोषताभिधानादिति। सप्तमोल्लासे (३७९ पृष्ठे) इति भावः। पुष्टार्थेति। पुष्टार्थत्वेत्यर्थः । कृत इति। अयं भावः। अपुष्टार्थत्वस्य दोषत्वाभिधानादर्थसिद्धं पुष्टार्थत्वमिति दोषाभावत्वमात्रतया कुतोऽलं- कारमध्ये पठितोऽयमिति। समाधत्ते तथापीति। बहूनामिति। सूत्रे विशेषणैरिति बहुत्वं विवक्षित- मिति भावः । एवमुपन्यासे। उक्तोदाहरणवदुपादाने। वैचित्र्यमिति। वैचित्र्यमपीत्यर्थः । अनुभव- सिद्धमिति शेषः । न तु दोषाभावत्वमात्रमिति भावः । गणितः । पठितः । एवं च साभिप्रायबहुविशे- षणोपादानेऽयमलंकार इति भावः। प्रदीपोद्दयोतयोस्तु "साभिप्रायैकविशेषणोपन्यासेऽपि अलंकारत्वमु- चितम् अपुष्टार्थत्वविरहस्य निर्विशेषणतयाप्युपपत्तेः पुष्टार्थत्वर्यार्थसिद्धत्वाभावात् वैचित्र्यस्य चानुभव- सिद्त्वात् यथा 'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः। दूरस्थे त्वयि किं वा कथ- यामो विस्तरेणालम् ॥' इंत्यादौ। अयं भावः । यथा नित्ये संध्यावन्दनादौ दोषाभावस्याङ्गवैकल्येऽपि सिद्धौ साङ्गतत्करणं फलातिशयायैव तथा दोषाभावस्य विशेषणानुपादानेऽपि संभवेन साभिप्रायैकवि- शेषणनिबन्धनश्रमत्कारो दुरपह्लव एव इति। किं च 'सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः' इत्यादौ यत्र सुधांशुकलितोत्तंस इति विशेषणाभावेऽपि तापहरणसामर्थ्यस्य सामर्थ्यातिशयेनाप्युपपत्तेस्तद्विशेष- णानुपादानेऽपि न क्षतिस्तत्र तद्विशेषणोपादानमधिकचमत्कारायैवेति बोध्यम्" इत्युक्तम् ॥ अत्र निदर्शनकारा: "एतत्पर्यन्त मम्मटाचार्याणां कृतिः । तदुक्तम् 'कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः। प्रबन्धः पूरितः शेषो विधायाल्लटसूरिणा ॥' [ इति। ] अतः परमल्लटाचार्यस्य कृतिः" इत्याहुः ॥ इति परिकरः ॥ ३६ ॥ व्याजोक्तिनामानमलंकारं लक्षयति व्याजोक्तिरिति। उद्धिन्नस्य स्फुटस्य वस्तुरूपस्य वस्तुस्वरू- पस्य छद्मना कपटेन यत् निगूहनं गोपनं सा व्याजोक्तिरित्यर्थः। व्याजेनोक्तिर्व्याजोक्तिरित्यन्व- र्थेयं संज्ञा। सूत्रं व्याकुर्वन् उद्धिन्नपदसामर्थ्यलभ्यमाह निगूढमपीति। अस्फुटमपीत्यर्थः । रूप स्वरूपम्। कथमपि लिङ्गादिना (चिह्नविशेषादिना) । प्रभिन्नम् उद्भिन्नं स्फुटम् । छद्मनेत्यस्य १ चक्रवर्तिशब्देन सर्वत्र परमानन्दचकवर्ती ज्ञेय: ॥ २ अत्र 'लावण्यजलाशय' इति 'मीननयनायाः' इति च विशेषणं साभिप्रायम्। नन्वेवंरीत्या प्रकाशप्रदीपयोविरोधे का व्यवस्थेति चेतु उच्यते। "यथोत्तरं मुनीनां प्रामा- णयम्" इति न्यायेन प्रदीपकारोक्तसिद्धान्तस्यैवानुसरणीयत्वम्। उभयोर्मनित्वं तु "नानृषिः कविः " इत्यादिवचनैरि- ीति वेदितव्यम्।।

Page 760

दशम उल्लास: । ७०१

न चैषापह्नतिः प्रकृताप्नकृतोभयनिष्ठस्य साम्यस्येहासंभवात्। उदाहरणम् शैलेन्द्रप्रतिपाद्यमानगिरिजा हस्तोप गूढोल्लसद्-

हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं

व्याख्यानमाह केनापि व्यपदेशेनेति । येन केनचित् अतात्तविककारणाधुपन्यासेनेत्यर्थः । निगूहन- पदार्थमाह अपह्नूयते इति। गोप्यते इत्यर्थः । व्याख्यातमिदं प्रदीपे "उद्भिन्नत्वम् अस्फुटस्य प्रकाशः । तथा चास्फुटमपि वस्तुस्वरूपं कथंचित् (लिङ्गादिना ) व्यक्तम् अथ केनापि (छझ्मना कपटेन) यदपहूयते सा व्याजोक्तिः " इति॥ अस्या अपह्नतावन्तर्भावमाशङ्क्य परिहरति न चैषेत्यादिना । साम्यमूलकापह्नदोऽपहुतिः अत्र तुन साम्यविवक्षेति भेद इति भावः । उक्तं च प्रदीपे "न चेयमपन्नुतिः प्रकृताप्रकृतयोः साम्ये तत्स्वीकारात्। अत्र तु तदभावात्" इति। इदमुपलक्षणम् । तत्रोपमेयनिषेधपूर्वकमुपमानव्येव्रस्था- पनम् अत्र तु किंचिदनिषिध्यैव लिङ्गादिना उद्भिनस्य वस्तुनो निमित्तान्तरप्रयुक्तत्वज्ञापनमित्यपि बोध्य- मित्युद्योतादौ स्पष्टम्।। "न च प्रथमं गूढस्यानन्तरं प्रकाशस्यापह्नव इति सामग्रीिदादपत्नुतिभेद इति वाच्यम् एवंविधेडप विषये साम्यसंभवेऽपन्नुतेरेवोपगमात्। ननु यत्रापह्नवार्थ सादृश्योपक्षेपः सा व्याजोक्तिः सादृश्यार्थमेव तु यत्रापह्नवोपक्षेपः सापह्नुतिरिति चेन्न । तत्रोभयत्राप्यपह्नुतेरेवोपगमात् । यदाहुः 'साम्यायाप- ह्रवो यत्र सा विज्ञेया त्वपह्नुतिः । अपह्नवाय सादृश्यं यस्मिन्नेषाप्यपन्नुतिः ॥' इति" इति प्रदीपः । (साम्यसंभवे इति। यथा 'सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाश्चम्। नागरिकः किमु मिलितो नाह नहि सखि हैमनः पवनः ॥' इत्यत्र (इत कुवलयानन्दोक्ते पद्ये) गुपस्य नायकस्य सीत्कारेत्याययुक्त्या व्यक्तस्य नहीत्यादिनापन्नवेऽप्यपह्ुतिरेवेत्यर्थः। नन्विति । उक्तोदाहरणे साम्य- सत्त्वेऽपि तस्याङ्गत्वेनापह्नवप्राधान्याभावाद्याजोक्तिरेव अपह्ववप्राधान्ये त्वपह्नुतिरिति व्यवस्थेत्यर्थः । यदाहुरिति। उद्भटादिमतानुसारिण इत्यर्थः । उभयत्रेति। अपह्नवस्य प्राधान्येऽङ्गत्वे च सति साम्ये इत्यर्थः । तथा च सीत्कारमित्यादावप्यपह्नुतिरेव प्रकृताप्रकृतसाम्यभावे तु व्याजोक्तिरिति व्यवस्थे- त्यर्थः ) इति प्रभा ॥ व्याजोक्तिमुदाहरति शैलेन्द्रेति। भवानीशंकरयोर्वैवाहिकेतिवृत्तस्य वर्णनमिदम्। शिवः शंभुः वः युष्मान् अवतात् रक्षतु। कहिशः शैलेन्द्रेण हिमाद्रिणा प्रतिपाद्यमाना दीयमाना या गिरिजा पार्वती तस्याः हस्तस्य उपगूढं संबन्धः (भावे क्तप्रत्ययः ) तेन उल्लसत् आविर्भवत् यत् रोमाञ्चादि आदिना कम्पः तेन विसंष्ुलो व्यग्रहस्तः स चासौ अखिलविधिव्यासङ्गस्य सकलवैवाहिकेतिकर्तव्यतारूपव्या- पारस्य भङ्गेन आकुल: (मद्रतिः प्रकटीभूतेति) चकितः । अत एव शैलान्तःपुरैः हिमाद्रिस्त्रीजनैः मातृमण्डलेन ब्राह्मयादिसमूहेन गणैः नन्यादिभिश्र सस्मितं यथा स्यात्तथा दृष्टः सन् (रोमाश्चादि १ वरनस्थापनमिति। इदमप्युपलक्षणम् यस्य कस्यचिन्निषधेन सहितं कश्यचित् व्यवस्थापनमिति॥ २ अपह्ल तेभेद इति। अपह्वतेर्भेद इत्यर्थः। अपह्वत्यपेक्षयास्याः भेद इति यावत् । ३ यदाहु: "ब्राह्मी माहेश्वरी चैव कामारी वष्णवी तथा। वाराही च तथेन्द्राणी चामण्डाः सप्त मातर; ॥" इति॥

Page 761

७०२ काव्यप्रकाशः सटीकः। अत्र पुलकवेपथू साच्विकरूपतया प्रसृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्तिं प्रयोजयतः ॥ सात्त्विकभावगोपनाय) हा शैत्यं तुहिनाचलस्य करयोः हिमवद्धस्तयोर्महच्छैत्यमित्यूचिवानित्यर्थः । कन्यादानसमये हिमवत्कराभ्यां शिवस्य संबन्धादिति भावः। हेति विस्मये इति केचित्। शार्दूलं- विकीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र पार्वतीकरस्पर्शजन्यस्य सात्त्विकभावरूपस्य रोमाश्चादेर्हिमवत्करस्पर्शनिमित्तकत्वेन गोपनाव्या- जोक्तिरलंकारः। तदेवाह अत्र पुलकेत्यादिना। पुलकवेपथू रोमाञ्चकम्पौ। सात्विकरूपतयेति। सात्त्विकानुभावरूपतयेत्यर्थः पार्वतीविषयकरतिभावानुभावतयेति यावत्। सात्त्विकानुभावाश्राष्टाविति स्पष्टीकृतं चतुर्थोल्ासे (८८ पृष्ठे ४ पङ्कौ)। प्रसृतौ उद्धिन्नौ (अभिव्यक्तौ)। शैत्यकारण- तया शैरेन्द्रशैत्यकारणकतया अपलपितस्वरूपौ गोपितस्वरूपौ। एवं चात्र पुलकवेपथू सात्विकै- करूपतया प्रसृतौ शैलेन्द्रशैत्यकारणकतया प्रकाशनादपलपितस्वरूपाविति व्याजोक्तिं प्रकाशयतः इति वृत्यर्थः । एवमेवाहुश्रवकवत्याद्यः "अत्र पार्वतीविषयकरतिभावजन्यरोमाञ्चकम्पादेहहिर्मवत्कर- स्पर्शनिमित्तकत्वप्रतिपादनाव्याजोक्ति:" इति। वस्तुतस्तु पुलकवेपथुभ्यां साततविकाभ्यां (रतिभाव- स्यानुभावाभ्यां) प्रकाशिता पार्वतीविषया गूढा रतिः तयो: (पुलककम्पयोः) शैलेन्द्रशैत्यकारणकता- प्रकाशनेनापन्नुतेति व्याजोक्तिरियमिति प्रदीपोद्दयोतयोः स्पष्टम्। एवमेवाहुः सुधासागरकारा अपि "पार्वतीविषयकस्नेहस्य (रतिभावस्य) प्रच्छन्नतयानुवर्तमानस्य तत्करस्पर्श( पार्वतीकरस्पर्श)जन्य- रोमाञ्चकम्पाभ्यामुद्धिन्नस्य तद्रोमाश्चादौ हिमालयकरस्पर्शजन्यत्वं प्रतिपादयता शिवेन पुननिगूहना दपलापितस्वरूपावेव पुलकवेपथू व्याजोक्तिं प्रयोजयत इति वृत्त्याशयः "इति॥ [अत्र ] गोपनपदेन गोपकव्यापारमात्रम न तूक्तिरेव। तेन 'आयान्तमालोक्य हरि प्रतोल्यामाल्याः पुरस्तादनुरागमेका। रोमाश्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनम्॥' इत्यादावप्ययमेव। अत्र व्यङ्ग्यस्य गुणीभूतत्वे एवायमलंकारः । तेन 'साख पश्य गृहारामपरागैरस्मि धूसरा' इत्यादौ ध्वनित्वैमेव। एतेन 'गूढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते। वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥' इति गूढोकत्यलंकार: परास्तः तस्य ध्वनित्वाक्रान्तत्वात् क्वचिद्गुणीभूतत्वात्। अलंकारत्वं तु नोचितम् उपस्कारकत्वाभावात्। प्रकृते शिवविषयकभावोपस्कारकत्वं स्पष्टमेव। एतेन 'गच्छाम्य- च्युत०' इत्यादौ (२०७ पृष्ठे उक्ते) विवृतोक्तिरगुप्ताविष्करणरूपेत्यपास्तम् गुरणाभूतव्यङ्ग्यमात्रत्व त् वाच्यरसाद्युत्कर्षकत्वाभवाच्च। एतेन 'लोकप्रवादानुकृतिलोकोक्तिरिति गण्यते। सहस्व कतिचिन्मासान् मीलयित्वा विलोचने ॥' इत्यपास्तम् उपस्कारकत्वाभावात्। नन्वत्र कोऽलंकार इति चेत् न कोऽपि। १ अत्र वृत्तौ शृङ्गारानुभावत्वेनाभिव्यक्तयोः कम्परोमाञ्चयोः शैत्यजन्यत्वप्रतिपाद्नेनापह्ववो व्याख्यातः । तत्र कम्परोमाञ्चयोः पूर्व गूढत्वाभाव दुद्विन्नस्येत्यस्यासंगतेः स्वयमुदाहरणं संगमयति। वस्तुतसत्विति ॥ २ गूढा रतिरित्येव पाठः 'गूढावगतिः' इति त्वपपाठः। एवं च पूर्व गूढस्यानुभावाभिव्यक्तस्य रतिभावस्यान्यप्रयुक्तत्व- कथनेनापह्नतिरिति लक्षणसंगतिरिति प्रभायामपि स्पष्टम् । 3 एनं हरिम् श्रीरृष्णमिति यावत् ॥ अयमेवेति । अनुगगरूतस्य रोमाञ्चाद्याकारस्य भक्तिरूपह्वेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतमिति व्याजोक्त्यलंकार एवे- त्यर्थ: ॥ ५ ध्वनित्वमोवति। एतेन अत्र चौर्यरतरूतसंकेतभपृष्ठलुठनलग्नधूलिजालस्य गोपनमिति व्याजोक्तिशित कुवलयानन्दोक्तमपास्तम् ॥ ६ अलंकारत्वं लिविति। कुवलयानन्दोक्तमित्यर्थः। एवमग्रेडपि कुवलयानन्दोक्तस्यैव खण्डनमिति बोध्यम्॥ ७शैलेन्द्रेत्युदाहरणे ॥

Page 762

दशम उल्लासः। ७०३

(सू० १८५) किंचित् पृष्टमपृष्ट वा कथितं यत् प्रकल्पते। तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ ११९॥ प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदशवस्त्व- न्तरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसंख्या। अत्र च कथनं प्रश्नपूर्वकं तद न्यथा च परिदृष्ठम्। तथा उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदा: । क्रमेणोदाहरणम्

एतेन "छेकोकतिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भता। भुजंग एव जानीते भुजंगचरणं सखे ॥" इति छेकोक्त्यलंकारोऽपि परास्तः उपस्कारकत्वाभावात् । क्वचित् ध्वनित्वं गुणीभूतव्यङ्गचत्वं वा न निवारयामः । 'त्वामालिखन्ती दृष्ट्रान्यं धनुः पौष्पं करेऽलिखत्' अत्रापि व्याजोक्तिरेव उक्तिपदस्य व्यापारमात्रपरत्वात्। एतेन 'युक्तिः परातिसंधानं क्रियया मर्मगुप्ये' इति युक्तिनामात्रालंकार इत्यपास्तम्। एवम् उत्कर्षहेतौ तद्वेतुत्वकल्पनारूपा प्रौढोक्तिरसंबन्धे संबन्धरूपातिशयोक्त्या गतार्था। 'संभावनं यदीत्थं स्यादित्यूहोऽन्याय सिद्धये। यदि शेषो भवेद्क्ता कथिताः स्युर्गुणा- स्तव ॥' इति संभावनालंकारो 'यद्यर्थोक्तौ च कल्पनम्' इत्यतिशयोक्त्या गतार्थः । 'किंचिन्मि- थ्यात्वसिद्धचर्थ मिथ्यार्थान्तरकल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत् खस्रजं वहन् ।I' इति मिथ्याध्यवसितिरसंबन्धे संबन्धातिशय क्त्या गतार्थेति दिगित्युद्दयोते स्पष्टम् ॥इति व्याजोक्तिः॥३७॥

परिसंख्यानामानमलंकारं लक्षयति किंचिदिति। अत्र 'पृष्टमपृष्ट वा' इति विभागः अन्यत्स्वे लक्षणम्। ताहक् तुल्यम्। व्यपोहो व्यवच्छेदः । तथा च किंचित् वस्तु पृष्टमपृष्टं वा कथितं शब्देन प्रतिपादितं सत् तादृगन्यव्यपोहाय स्वतुल्यान्यवस्तुव्यवच्छेदाय यत् प्रकल्पते पर्यवस्यति सा तु परिसंख्या स्मृतेत्यर्थः । 'स्मृता' इत्यत्र 'मता' इति प्रदीपे पाठः । तथा च तदन्यस्य निषे- धाय तस्योक्तिः परिसंख्येति फलितम् ।।

ननु अन्यस्य कथनमन्यव्यपोहाय क्थं कल्पते इत्यत आह प्रमाणान्तरेति। प्रमाणान्तरेण शास्त्र- पुराणादिरूपमानान्तरेणावगतं ज्ञातमपि वस्तु शब्देन प्रतिपादितमनूदितं सदित्यर्थः। प्रयोजनान्तरा- भावादिति। स्वसदृशवस्त्वन्तरव्यवच्छेदरूपं यत्प्रयोजनं तदपेक्षया यत्प्रयोजनान्तरं तदभावादित्यर्थः । सदशेति। स्वसदृशेत्यर्थः। व्यवच्छेदाय। व्यावृत्तये। पर्यवस्यति। फलति। मानान्तरप्राप्तस्यानुवादो व्यर्थः सन् परिशेषादन्यव्यावृत्ति फलतीति भावः । तदुक्तमुद्दयोतेऽपि "प्रयोजनान्तराभावादिति । अनुवादस्य प्रयोजनसाकाङ्कतयान्यव्यावृत्तिरेव प्रयोजनमित्यर्थः" इति। परिसंख्येति। परिशब्दोSत्र वर्जनार्थकः "परेर्वर्जने" (८।१५) इति पाणिनिस्मृतेः । संख्या बुद्धिः "यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते" इति श्रीमद्भगवद्गीतावचनात्। तेन वर्जनबुद्धिः परिसंख्येत्यन्वर्थेयं संज्ञा। "नि- यमोऽप्यत्रै दर्शने उक्तलक्षणाक्रान्तत्वात्परिसंख्यैव" इत्युश्योंते स्पष्टम्। पृष्टमपृष्टं वेति व्याचष्टे अत्र चेति। अस्यां परिसंख्यायां चेत्यर्थः। तदन्यथा अप्रश्नपूर्वकम्। परिद्ष्टमिति। तथा चेयं परिसंख्या प्रश्नपूर्विकाप्रश्नपूर्विकेति द्विविधेति भावः। उदाहरणेषु दृष्टत्वात् सूत्रानुक्तमपि पुनः प्रभेदद्यमाह तथे

१ गगनकुसुममालाम् ॥ २ पाणिनिस्मृतरित । वर्जनरूपेडर्ये द्योत्ये परिशब्दस्य द्विर्वचनं भवतीति पाणिनि- सूत्रार्थः । यथा परि परि वङ्गेभ्यो वृष्टो देवः। वङ्गान् परिहृत्येत्यर्थः ॥ ३ अत्र दर्शने अस्मिन्नलंकारशास्त्रे ॥

Page 763

७०४ काव्यप्रकाशः सटीकः ।

किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभवति ॥ ५२१॥ किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः। किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वढपरः सदसद्विवेकम् ॥ ५२२॥ त्यादिना। उभयत्र प्रश्नपूर्वकाप्रश्नपूर्वककथनस्थले। व्यपोह्यमानस्य। व्यवच्छेद्यस्य। प्रतीय- मानता। व्यङ्गचता। वाच्यत्वं शाब्दत्वम्। चत्वार इति। प्रश्नपूर्विका अप्रश्नपूर्विकेति द्विविधा परिसंख्या सापि प्रतीयमानव्यवच्छेद्या वाच्यव्यवच्छेया चेति चत्वारो भेदा इत्यर्थः । यत्र कविप्रति- भाकल्पिता इतरव्यावृत्तिस्तत्रैवालंकारता। तेन 'पैञ्च पञ्चनखा भक्ष्याः' इत्यादिशास्त्रीयपरिसंख्यायां नालंकारत्वम् । तत्र प्रश्नपूर्विकां प्रतीयमानव्यवच्छेयां परिसंख्यामुददाहरति किमासेव्यमिति। अत्र किमित्यादि: प्रश्नः सविधमित्यादि उत्तरम् एवमग्रेऽप सर्वत्र। पुंसां नराणाम् आसेव्यं सेवनीयं किम् घुसरितो गङ्गाया: अनवदयं अनिन्यम (उत्तमं) सविधं समीपं (तटम्) नान्यनदीसविध नापि कान्तानितम्बादि। एकान्ते ध्येयं किम् कौस्तुभभृतः श्रीविष्णोः चरणयुगलं पादयुगम नान्यदेवस्य नाप्यङ्गनादि। आराध्यं किम पुण्यम् न पापम्। अभिलषणीयं किम् करुणा दया न हिंसादि। तत्र हेतुमाह यदा- सक्त्येत्यादिना। येषु द्युसरित्सविधादिषु आसक्त्या प्रीत्या चेतः चित्तं निरवधिरवधिशून्या या विमुक्तिः सायुज्यरूपा तदर्थ प्रभवति समर्थ भवतीत्यर्थः । 'विमुक्तौ' इति पाठे मुक्तिविषये इत्यर्थः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे। अत्र गङ्गातटादे: सेव्यत्वादिकं शास्त्रपुराणादिना सर्वावगतमेवेति न तदवगमायेदं पद्यमुक्तम् किं तु गङ्गाभिन्ननदीतिटादेरसेव्यत्वादिप्रतिपादनाय गङ्गातीरादेः सेव्यत्वादिकमुक्तमिति परिसंख्येयम्। अत्र च कथनं 'किमासेव्यम्' इत्यादिप्रश्नपूर्वकमिति अन्यनदीतिटादेः सेव्यत्वादिकं व्यवच्छेदं प्रतीयमान- मिति च प्रश्नपूर्विका प्रतीयमानव्यवच्छेया चेयम्। उक्तं च चन्द्रिकायाम "अत्र सेव्यत्वेनावग- तस्य गङ्गासविधादे: पुनः कीर्तनमितरपरिसंख्यार्थमिति सैवालंकारः" इति ॥ प्रश्नपूर्विकां वाच्यव्यवच्छेयां परिसंख्यामुदाहरति कि भूवणमिति। अत्र लोके सुदृढम् अविनाशि १ "पञच पञचनखा भक्ष्या धर्मतः परिकीर्तिताः। गोधा कूर्मः शशः खड़ी शल्यकश्रेति ते स्मृताः ॥" इति देवलेनोक्ताः "पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव। शशकः शल्यको गोधा खड़ी कूर्मोडथ पञ्चमः ॥" इति वचनान्तरेणाप्युक्ता झेयाः। इदं हि वाक्यं न पञ्चनखमक्षणपरम् पञ्चनखभक्षणस्य रागतः प्राप्तत्वात्। अतो नायमपूर्वो विधि: प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिरपूर्वविधिः । यथा "यजेत स्वर्गकामः" इत्यादिरित्युक्त- त्वात्। नाप्ययं नियमविधिः पश्चनसापञ्चनखभक्षणयोरुमयोरपि युगपत्पाप्त्या पक्षे प्राप्यभावात्। पक्षे प्राप्तस्य प्रापको विधिनियमविधिः। यथा "व्रीहीनवहृन्ति" इत्यादिरित्युक्तत्वात । अत इद वाक्यमपञ्चनखभक्षणनिवृत्ति- परमिति परिसंख्याविधिरेव उभयोश्र्व युगपत्प्राप्तावितरव्यावृत्तिपरो विधिः परिसंख्याविधिरित्युक्तत्वात्। अत एवो- त्तरालंकारे मलरुदूक्ष्यति "परिसंख्यायामन्यव्यपोहे एव तात्पर्यम् उत्तरालंकारे तु वाच्ये एव विश्रान्तिः" इनि। तदेनत्सर्वमुक्तं पूर्वमीमांसकैः "विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते॥" इति। नन्वेवमपि ('पञ्च पञ्चनखा भक्ष्याः' इत्यस्य परिसंख्यात्वेपि) रागतः प्रप्तं पञ्चनखभक्षणं केन वार्यतामिति चेतु 'यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥' इात मनुवचनेन मांससामान्यभक्षणनिषेधपरणेत्यवेहाि दिक्।

Page 764

दशम उल्लास: । ३०५

कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते। काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ ५२३॥ भक्तिर्भवे न विभवे व्यसन शास्त्रे न युवतिकामास्त्रे। चिन्ता यशस न वपुषि प्रायः परिदृश्यते महताम् ॥५२४॥ (सू० १८६) यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता। तदा कारणमाला स्यात् उत्तरमुत्तरं प्रति यथोत्तरम्। उदाहरणम्

भूषणं किम् यशः कीर्तिरव न रत्नम्। कार्य कर्तव्यं किम् आर्यचरितं शिष्टसेवितं सुकृतं पुण्यकर्म न दोष: व्यभिचारादिः । अप्रतिहतं व्यवधानेऽपि ग्राहकं चक्षुः किम् धिषणा बुद्धि न नेत्रम्। अभिमतोत्तरदानादाह जानातीत्यादि । उत्तरपरितुष्टस्य प्रष्टुरुत्तरयितृप्रशंसावाक्यमिदम्। त्वदपरः त्वदन्यः कः सदसद्विवेकम् उत्कृष्टनिकृष्टविभागं जानाति न कोऽपीत्वर्थः। "यशः कीर्तिः समज्ञा च" इति "बुद्धिर्मनीषा धिषणा" इति चामरः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र यशःप्रभृतेर्भूषणत्वादिकमागमादितः सर्वावगतमेवेति न तद्वगमायेदं पद्यमुक्तम् कि तु यशोभिन्नरत्नादेरभूषणत्वादिप्रतिपादनायेति परिसंख्येयम्। अत्र च कथनं 'कि भूषणम्' इत्यादिप्रश्नपू- र्वकमिति रत्नादर्भूषणत्वादिकं व्यवच्छेयं वाच्यं (शाब्दम) इति च प्रश्नपूर्विका वाच्यव्यवच्छेद्या चेयम्।।

अप्रश्नपूर्विकां प्रतीयमानव्यवच्छेय्यां परिसंख्यामुदाहरति कौटिल्यमिति। हे प्रेयसि ते तव कचनिचये केशसमूहे एव कौटिल्यं वसति न तु हृदये । कौटिल्यमत्र वक्रता कपटं च। कर- चरणाधरद्लेषु हस्तपादौष्ठपल्लवेष्वेव रागः न परपुरुषे । रागोऽत्र रक्तिमा प्रीतिश्र्व । कुचयुगले एव काठिन्यम् न हृदये। काठिन्यमत्र दढता निर्दयत्वं च । नयनयोरेव तरलत्वम् न मनासि । तरलत्वमत्र चञ्चलता अविचार्यकारित्वं च। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे। अत्र कथनमप्रश्नपूर्वकमिति कौटिल्यादेरितराधिकरणकत्वं व्यवच्छेदं व्यङ्गयमिति चाप्रश्नपूर्विका प्रतीयमानव्यवच्छेया चेयम्। अत्र श्लेषमूलेयम्।। अप्रश्नपूविका वाच्यव्यवच्छेद्यां परिसंख्यामुदाहरति भकक्तिरिति। प्रायः बहुचा महतां महापुरुषाणा भक्ति: आसक्तिः भवे शिवे एव न विभवे ऐश्वर्ये। व्यसनं रुचिः शास्त्रे एव न युवतिरूपे कामास्त्रे मदनायुधे। चिन्ता यशस्येव न वपुषि परिद्ृश्यते इत्यर्थः । आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे ॥

अत्र कथनमप्रश्नपूर्वकमिति भक्त्यादेरितराधिकरणकत्वं व्यवच्छेयं वाच्यं (शाब्दम्) इति चाप्रश्नपूर्विका वाच्यव्यवच्छेद्या चेयम्। "अत्र यत्र कविप्रतिभानिर्मिता इतरव्यावृत्तिस्तत्रालंकारता यथा 'कौटिल्यं कचनिचये' इत्यत्र कौटिल्यादिकं कविप्रतिभया एकीकृतमिति तद्द्वारा तत्प्रति। · योगिकवृत्तिस्तन्निर्मितेति बोध्यम्" इत्युइचोतः ॥ इति परिसख्या ॥३८ ॥

कारणमालानामानमलंकारं लक्षयति यथोत्तरमिति । अत्र यथाशब्दो वीप्सायाम् ।. तथा च यथोत्तरम् उत्तरमुत्तरमर्थ प्रति पूर्वस्य पूर्वस्यार्थस्य हेतुता कारणत्वं चेत् पूर्वः पूर्वोऽरथों हेतुश्ेत् १ रुचिरिति । तथा च नीतिशतके भर्तृहरिप्रयोगः 'विद्यार्या व्यसनं स्वयोषिति रतिः' इति ॥

Page 765

७०६ काव्यप्रकाशः सटीकः । जितन्द्रियत्वं विनयस्य कारणं गुजप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपद: ॥५२५॥ "हेतुमता सह हेतोरभिधानमभेदतो हेतुः।" इति हेत्वलंकारो न लक्षितः । आयुर्घृतमित्यादिरूपों ह्येष न भूषणतां कढाचिदर्हति वैचित्र्याभावात्। 'अविरलकमलविकास: सकलालिमदश्च कोकिलानन्दः। रम्योऽयमेति संप्रति लोकोत्कण्ठाकर: कालः ॥ ५२६ ॥ तदा कारणमाला स्यादित्यर्थ.। "इदमुपलक्षणम्। यथापूर्व परस्य परस्य कारणत्वे इत्यपि बोध्यम्। यथा 'भवन्ति नरकाः पापात् पापं दारिद्संभवम्। दारिघ्मप्रदानेन तस्माद्दानपरो भव।।' इति " इत्युद््योतः । अत्र कितपदत्वं न दोषः । प्रत्युत पदान्तरेण तस्यार्थस्योक्तौ तत्त्वप्रतिभानाभावा- द्विवाक्षितार्थासिद्धेः । उपस्थितशब्दस्यापि विशेषणतया भानाङ्गीकारादिति प्राक् (४३० पृष्ठे) प्रतिपादितं द्रष्टव्यम्। मालादीपके उत्तरोत्तरं प्रति पूर्वपूर्वस्थार्थस्य हेतुत्वेऽपि सर्वेषामेकक्रियान्वयः अत्र तुन तथेति ततो भेद: ॥ उदाहरति जितेन्द्रियत्वमिति। व्याख्यातामिदं पय्यं सप्तमोल्लासे (४३० पृष्ठे) इति बोध्यम्। अत्र जितेन्द्रियत्वाद्विनयः तस्माद्गुणप्रकर्षः तस्माज्जनानुरागः तस्मात्संपद इति पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्कारणमाला । अस्याः किमुपस्कारकतयालंकारत्वम् कया रीत्या चोपस्कारकत्वमिति चिन्त्यम्। उत्तरोत्तरोत्तमवस्तुकारणत्वात्सर्वे एते उपादेया इति ज्ञानं चमत्कारकारणमिति वदन्ती- त्युद्द्योते स्पष्टम्। अत्र यद्यपि कार्याणामपि माला विद्यते तथापि कारणगुणवर्णने एव कविसंरम्भः (कवेरुद्यमः ) इति "विवक्षापूर्विका हि शब्दार्थप्रतिपत्तिः" इति न्यायेन कारणमालेत्यभिधानम्॥ नन्वत्र कार्यकारणभावालंकारप्रपश्चनप्रसङ्गेन हेत्वलंकारोऽपि लक्षणारहः लक्षितश्रवायं भट्टोद्भटेने- त्याह हेतुमति। हेतुमता कार्येण सह हेतोः कारणस्य अभेदतः अभेदेन अभिधानं कथनं हेतु: हेत्वलंकार इत्यर्थः। गौणसारोपसाध्यवसानयोः रूपकप्रथमातिशयोक्तिप्रयोजकत्ववत् कार्यकारण- कार्यकारणभावसंबन्धनिबन्ध- नशुद्द्सारोपासाध्यवसानामूलोऽयमलंकार इति भद्टोन्भटाशयः । इत्थं भद्टोद्भटोक्तमनूद्य संप्रति तन्मतं दूषयति न लक्षित इति। अस्माभिरिति शेषः । कुतो न लक्षित इत्यत्र हेतुमाह आयुरित्यादि घृतं हेतु: आयुर्हेतुमत् लक्षणया तयोरभेदः । अधिकं तु प्राक् (द्वितीयोल्लासे ५१ पृष्ठे) प्रति- पादितम् । एष: उद्भटप्रदार्शतो हेत्वलंकारः । भूषणताम् । अलंकारताम्। वैचित्र्याभावात्। चमत्कारित्वाभावात्। अयं भावः । गौणत्वे एव (सादृश्याख्यसंबन्धसत्त्वे एव) वैचित्र्यादलंकार त्वम् आयुर्घृतमित्यादिरूपस्यास्य कार्यवाचकपदेन कारणाभिधाने वैचित्र्याभावेनालंकारत्वस्यैवाभाव इति । सारबोधिन्यां तु "वस्तुतस्तु 'अविरलकमलविकासः' इत्यादिषु वैचित्र्यमनुभवासद्द्मेवेति उद्भटादिमतं समीचीनमेवेति नवीनाः" इत्युक्तम् ॥ ननु हेतोरनलंकारत्वे 'अविरलकमलविकासः' इत्यादौ प्राचां भामहादीनां काव्यरूपताभिधानं विरुध्यतेऽलंकारत्वाभावादित्यत आह अविरलेत्यादिना 'कल्पनया' इत्यन्तेन। अविरलेति। वस- न्तवर्णनमिदम्। अविरलं निरन्तरं कमलानां विकासरूपः सकलाः संपर्णाः येऽलयो भ्रमरास्तेषां मद्-

Page 766

दशम उल्लास: । ७०७

इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलंकारकल्पनयेति पूर्वो क्तकाव्यलिङ्गमेव हेतु:॥ (सू० १८७) क्रियया तु परस्परम् ॥ १२० ॥ वस्तुनोर्जननेऽन्योन्यम् अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योन्यनामा अलंकारः । उदाहरणम् रूप: कोकिलानामानन्दरूप: लोकानामुत्कण्ठा कान्तेच्छा तत्कर: रम्यो रमणीयः अयं वसन्तरूप: काल: संप्रति इदानीम् एति आगच्छतीत्यर्थः । विकासयतीति विकास: मदयतीति मदः आनन्द- यतीत्यानन्द इति व्युत्पत्तिस्तु न । हेतुहेतुमतोरभेदाभावप्रसङ्गात्। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे । अत्र वसन्तकालो हेतुः शेषाः हेतुमन्तः । तथा चात्र कमलविकासादिभिः कार्येः सह कारणस्य वसन्तकालस्याभेदेनाभिधानात् 'आयुर्घृतम्' इतिवत् शुद्धसारोपा लक्षणा । उक्तं चोझ्योतेऽपि "अत्र विकासमदानन्दपदेषु तद्वेतौ लक्षणा" इति। एवं चात्र यद्यपि कार्यवाचकपदेन कारणाभिधाने वैचि- त्रयाभावेनालंकारत्वं नास्ति तथापि प्राचां काव्यरूपताभिधानं न विरुध्यते अनुप्रासादिनैव तत्संभ- वादित्याह इत्यत्रेति। कोमलानुप्रासेति । कामोद्दीपकोऽयं काल इति भङ्ग्यन्तरेण प्रतिपादनेन पर्यायोक्तसत्वाच्च प्रागुक्तरीत्या अतिशयोक्तेः सत्त्वाच्चेत्यप बोध्यमित्युद्दयोते स्पष्टम्। महिन्नैवेति। महात्म्येनैवेत्यर्थः । एवकारेण हेत्वलंकारव्यवच्छेदः । समाम्नासिषुः समाम्नातवन्तः ऊचुरिि यावत्। 'भामहाद्यः' इति शेषः । एवकारव्यवच्छेद्यमेवाह न पुनरित्यादिना। पुनःशब्दस्त्वर्थे। तर्हि किं हेत्वलंकारो नास्त्येवेत्याशङ्कचाह पूर्वोक्तेति। पूर्वोक्तं काव्यालेङ्गमेव हेतु: हेत्वलंकार इत्यर्थः। तदेतत्सर्व विवृतं विवरणकारैरपि "अयं भावः। प्राचीना अस्य श्लोकस्य सालंकारतया यत् काव्यत्वमूचुः तत् न उक्तहेत्वलंकारवत्तया येन एतत्स्वीकार आवश्यकः किंतु अनुप्रासादि- मत्तयेति। हेतुरिति नाम च काव्यलिङ्गस्यैवेति" इति॥ इति कारणमाला ॥३९॥ अन्योन्यनामानमलंकारं लक्षयति क्रिययेति। अत्र 'यत् वैचित्र्यम्' इत्येध्याहारः अन्यथा 'अन्यो- न्यम्' इतिविधयवाचकपद्सत्त्वेऽपि उद्देश्यवाचकपदाभावेन "अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत्" इति प्राक् (३०५ पृष्ठे ५८१ पृष्ठे च ) उक्तन्यायविरुद्धत्वमापतेत्। तथा च क्रियया क्रियाद्वारेण वस्तुनो: पदार्थयोः परस्परं मिथः जनने उत्पादने सति यत् वैचित्यं चमत्कारस्तत् अन्योन्यमित्यर्थः। उक्तं चान्योन्यलक्षणमन्यत्रापि "तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्" इति। जनने इति 'जनी प्रादुर्भावे' इति दैवौदिकाज्जनधातोर्णिजन्तात् भावे ल्युट्। जनीजषक्सुरओ्जऽमन्ताश्र" इति गणसूत्रेण जनेर्मित्संज्ञायां 'मितां ह्रस्वः' (६।४९२) इति पाणिनिसूत्रेण णिचि परतः जनेरुप- धाया ह्रस्वः । एतेन 'जनने' इत्यस्योत्पत्त्यर्थकस्य कथमुत्पादनार्थकत्वमिति शङ्का पराहतेति बोध्यम्। वस्तुनोरिति व्याचष्टे अर्थयोरिति। पदार्थयोरित्यर्थः । क्रिययेति व्याचष्टे एकक्रियामुखेनेति । एकजातीयक्रियाजननद्वारेणेत्यर्थः । परस्परं मिथः । कारणत्वे कारणत्वकल्पने । सिद्धयोः वस्तुनोः १ प्रागुक्तरात्यति । 'कमलमनन्भसि०' इत्यतिशयोक्त्यलंकारे दाहरणे (६३० पृष्ठे ९ पङ्चौ) " एवं हेतु- फलयोरमेदाध्यवसायेडप्येषा" इत्यादिग्रन्थेन पूर्वमुक्तरीत्येत्यर्थः॥ २ आका।ङ्गितैकदेशपूरणमध्याहारः ॥ 3 दैवादि- काज्जनधातोरित 'जन जनने' इति जौहोत्यादिकस्तु नात्र ग्राहः तस्य छान्द्सत्वात् ॥

Page 767

७०८ काव्यप्रकाशः सटीक:। हंसाणं सरेहि सिरी सारिज्जड अह सराण हंसेहि। डी. अण्णोण्णं विअ एए अप्पाण णवर गरुअन्ति ॥ ५२७॥ अत्रोभयेषामपि परस्परजनकता मिथःश्रीसारतासंपादनद्वारेण। (सू० १८८) उत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ १२१ ॥ असकृदू यद् असंभाव्यमुत्तरं स्यात् तदुत्तरम्। परस्परं जन्यजनकभावाभावेऽपि परस्परगतक्रियाजननमादाय परस्परं जन्यजनकभावः कल्प्यते इत्यर्थः। परस्परं परस्परगतयोरेकजातीयक्रिययोर्जननेऽन्योन्यालंकार इति फलितोऽर्थः। व्याख्यातमिदं प्रदीपे "वस्तुनो: परस्परं जन्यजनकभावोऽसंभवी तस्य तं प्रत्येव पौर्वापर्ययोद्योरसंभवादित्यतः उक्तं क्रिययेति। एकक्रियाजननद्वारेणेत्यर्थः । अविशिष्ट वस्तु तावदजातकल्पम् तेन वैाशिष्ट्चप्रयोजक- क्रियाजनके जनकत्वोपेचारः । तथाँ च मिथस्ताद्शैकक्रियाजनकत्वमन्योन्यालंकारः" इति ॥ अत्र (अस्मिन्सूत्रे) क्रिययोते गुणस्यापि उपलैक्षणमित्युद्योते स्पष्टम्। उदाहरण यथा 'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया। अलिकेने च हेमकान्तिना विद्धे कापि रुचिः परस्परम् ॥ इति। अत्र ललाटबिन्दुमालयोः परस्परजनकता रुचिरूपगुणजननद्वारेण । न चेहापि विधानरूपक्रि- याजननद्वारेणैव परस्परजनकतेति शङ्क्चम् भार्वनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेष- त्वादिति रसगङ्गाधरे स्पष्टम्।। अन्योन्यमुदाहरति हंसाणेति। "हंसानां सरोभि: श्रीः सार्यते अथ सरसां हसैः । अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥" इति संस्कृतम्। श्रीः शोभा सार्यते सारीक्ियते उत्कृष्टा क्रियते इति यावत्। गरयन्ति गुरूकुर्वन्ति। णिच इष्टवद्भावात् "प्रियस्थिर" (६।४।१५७) इति पाणि- निसूत्रेण गुरुशब्दस्य गरादेशः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र सरोहंसयोः परस्परं शोभासारीकरणरूपोपकारजनकत्वादन्योन्यनामालंकारः। तदुक्तमु- इचोते "प्रकृते शोभाविशेषविशिष्टान् हंसान् प्रति सरसां कारणत्वम् शोभाविशेषिशिष्टसरांसि प्रति हंसानां कारणत्वं परस्परशोभाजननद्दारेणैव । परस्परक्रियया परस्परमुपकारजननज्ञानकृतोऽत्र चम- त्कार:" इति। चक्रवर्त्यादयोऽप्याहुः "ननु पूर्वसतोर्हससरसोर्न मिथो जन्यजनकभाव इत्यत आह अत्रेति। तथा च पूर्वोत्पन्नयोरेवान्योन्योपकारोपरागेणान्योन्यजनकत्वाभिधानमिति लक्षणार्थ इति भाव:" इति। एवं 'शशिना च निशा निशया च शशी' इत्यादावयमेवालंकार इति प्राक् (६७२ पृष्ठे २५ पक्कौ) प्रतिपादितमिति तत एव द्रष्टव्यम् ॥ इत्यन्योन्यम् ॥ ४० ॥ द्विविधमुत्तरनामानमलंकारं लक्षयति उत्तरेति। यत्र यस्मिन्नलंकारे । (प्रश्नेऽसति) उत्तरश्रतिमा- त्रतः। उत्तरं प्रतिवचनम्। "उत्तरं प्रतिवाक्ये स्यादू्ध्वोदीच्योत्तमेऽन्यवत्। उत्तरस्तु विराटस्य तनये १ अविशिष्टं शोभारहितम् ॥ २ उपचारः आरोपः ॥ ३ निष्कष्टं लक्षणमाह तथा चेति। परस्परं वैशिष्ट्यजन- ककक्ियाजनकत्वमित्यर्थः इति प्रभायां स्पष्टम् ॥४ उपलक्षणपदं प्राक् (६०६ पृष्ठे ६ टिप्पणे) व्याख्यातम् ॥ ५ अलिकेन ललाटेन। "ललाटमलिक गोधिः" इत्यमरः ॥ ६ भावना क्रिया "व्यापारो भावना सैवोत्पादना सैव च क्रिया" इति धात्वर्थवादे वैयाकरणभूषणोक्ते:॥

Page 768

1: दशम उल्लास: । ७०९

प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तढेकं तावदुत्तरम्। उदाहरणम् वाणिअअ हत्थिदन्ता कुत्तो अम्हाण वग्घकित्ती अ। जाव लुलिआलअमुही घरम्मि परिसक्कए सोण्हा ॥ ५२८॥ हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी ताः मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयत।

दिश चोत्तरा॥।" इति विश्वः । यस्य श्रतिमात्रतः श्रवणमात्रेण प्रश्नस्य पूर्ववाक्यस्य उन्नयनं कल्पनं क्रियते तत् एकमुत्तरम् (सः प्रथमः उत्तरालंकारः ) इत्यर्थः । असकृदिति प्रश्नोत्तरयोरुभयोरप्यन्वरेति। तथा च असकृत् अनेकवारं तत्र सति प्रश्ने सति असंभाव्यं सर्वैरपि संभावयितुमशक्यं (दुर्ज्ञेयम) असकृत् यत् उत्तरं प्रतिवचनं स्यात् तत् पुनरपरमुत्तरम् ( सः द्वितीयः उत्तरालंकारः ) इति सूत्रार्थ: ॥

अत्र (द्वितीयभेदेन) प्रश्नोत्तरयोः सकृदुपादानं न चमत्करोतीत्यसकृदित्युक्तमिति प्रदीपे स्पष्टम्। अत एव "अनयोश्र सकृदुपादाने न चारुताप्रतीतिः" इति ( ७१० पृष्ठे ) वक्ष्यमाणो वृत्तियन्थोऽपि। प्रश्नोत्तरयोन्यतरस्य आकूतगर्भत्वे (अभिप्रायगर्भत्वे ) सकृदुपादानेऽपि चमत्कारोऽस्त्येव। यथा 'किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः' इति। अत्र प्रश्नेन प्रतीकारसामर्थ्य व्यङ्गयम् उत्तरेण स्वस्य पातिव्रत्यं व्यङ्गयम् ततश्रात्रापि उत्तरालंकार इत्युद्योतकृत् ॥ उत्तरश्रुतिमात्रत इति व्याचष्टे प्रतिवचनोपलम्भादेवेति। प्रश्नपदार्थमाह पूर्ववाक्यमिति। प्रश्न- वाक्यमित्यर्थः । वस्तुतस्तु सूत्रे प्रश्नोत्तरपदं पूर्वापरवाक्योपलक्षकमिति भावः । अत एव 'माए घरोवअ- रणम्' इति गाथायां (२८ पृष्ठे ) उत्तरालंकारः । यत्र यस्मिन्नलंकारे। कल्प्यते उन्नीयते अनुमीयते। तावदिति। वाक्यालंकारे। उत्तरम् उत्तरालंकारः । व्याख्यातमिदं प्रदीपोद्दयोतयोः । "यत्रोत्तर- श्रवणमात्रेणानुपात्तमपि प्रश्नवाक्यं परिकल्प्यते तदेकमुत्तरम्" इति प्रर्दपः। "उत्तरं नाम प्रश्नगम्य- जिज्ञासानिवर्तकज्ञानविषयीभूतोऽर्थः" इत्युश्चोतः ॥

तत्राद्यमुत्तरमुदाहरति वाणिअअेति। आनन्दवर्धनकृते ध्वन्यालोके तृतीयो्योते उदाहृतेयं गाथा। "वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्र। यावत् लुलितालकमुखी गृहे परिष्वक्वते स्नुषा ॥" इति संस्कृतम्। "परिसक्कए परिसंकामति" इत्युद्दयोतः। "परिसक्कए प्रतिवसति" इति सुधासागरः । "परिसप्पते परिसर्पते" इति प्रभा। क्रेतारं वणिजं प्रति जरव्याधस्योक्तिरियम्। हे वाणिजक हस्ति- दन्ता: व्याघ्रकृत्तयः व्याघ्रचर्माणि च अस्माकं कुतः। यावत् लुलिताश्रलिताश्रञ्चलाः अलकाइचूर्ण- कुन्तलाः कुटिलकेशा: यत्र तादृशं मुखं यस्याः एवंविधा स्नुषा पुत्रभार्या गृहे परिष्वक्ते परिभ्रम- तीत्यर्थः । वधूसमासक्तो मत्सुतो मृगयार्थ न गच्छतीति व्यज्यते। "अलकाश्चूर्णकुन्तलाः"। इत्य- मरः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र 'हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी मूल्येन ताः प्रयच्छ' इति केतृवचनमनेनोत्तरवाक्येनानुमीयते इत्युत्तरालंकारोऽयम्। तदेवाह हस्तिदन्तेत्यादिना। अर्थी अपेक्षावान्। प्रयच्छ देहि। क्रेतुर्वचन- मिति । वणिग्वाक्यमित्यर्थः । अस्य प्रश्नरूपत्वाभावेऽपि सूत्रे प्रश्नपदं पूर्ववाक्यमात्रपरमित्यदोषः । यद्वा 'हस्तिदन्तव्याघ्रकृत्तयः किं तव सन्ति' इति प्रश्नवाक्यमिहोन्नेयमिति प्रदीपे स्पष्टम्। अमुना 'वाणिअअ' इत्यादिना। समुन्नीयते करप्यते अनुमीयते॥

Page 769

७१० काव्यप्रकाश: सटीक:।

न चैतत् काव्यलिङ्गम् उत्तरस्य ताद्रूप्यानुपपत्तेः । नहि प्रश्नस्य प्रतिवचनं जनको हेतुः। नापीदमनुमानम् एकधर्मिनिष्ठतया वोत्तरं साधीयः । प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यत् असंभाव्यरूपं प्रतिवचनं स्यात् तत् अप रमुत्तरम्। अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम्। उदाहरणम् का विसमा देव्वगई किं ल्दं जं जणो गुणग्गाही। किं सोख्खं सुकलत्तं किं दुक्खं जं खलो लोओ॥ ५२९॥ ननु उत्तरस्य प्रतिवचनस्य प्रश्नवाक्यं प्रति हेतुत्वात्काव्यलिङ्गमेवैतदित्याशङ्क्याह न चैतदिति। उत्तरस्य प्रतिवचनस्य। ताद्रप्यानुपपत्तेरिति । हेतुत्वानुपपत्तेरित्यर्थः। अनुपपत्तिमेवोपपादयति नहीत्यादिना। हेतुद्विधा भवति जनको ज्ञापकश्र। तत्र प्रश्नस्य प्रतिवचनं न जनको हेतुः किं तु ज्ञापकः। ज्ञापकहेतोश्र न काव्यलिङ्गविषयतेति भावः। ननु तर्हि अनुमानालंकारः स्यादित्याशङ्गयाह नापीदमनुमानमिति। नाप्ययमनुमानालंकार इत्यर्थः । तत्र हेतुमाह एकधर्मीत्यादि। एको यो धर्मी पक्षस्तन्निष्ठतया तद्टत्तितया (एकव्यक्तिगतत्वेन) इत्यर्थः । प्रकृते साध्यं प्रश्नः करेतृवणिग्गतया उन्नायते साधनमुत्तरं तु विक्रेतृजरद्व्याधगतमिति नानयोरेकधर्मिनिष्ठतया निर्देश इति केचित्। परे तु एकधर्मिगतत्वेन साध्यसाधनयोनिर्देशो हि अनुमानालंकारः। यथा 'यत्रैता लहरी०' इत्यादौ (६९५ पृष्ठे) साध्यस्य साधनस्य च ( साध्यत्वेन साधनत्वेन च ) निर्देशः (उच्चारणम् उपादानम्)। अत्र ('वाणि- अअ' इति पद्ये) तु उत्तरस्य साधनत्वेन निर्देशेऽपि प्रश्नस्य साध्यत्वेन निर्देशो नेति नानुमानालंकार: इति व्याचक्षते। इदमेव व्याख्यानं युक्तम् अनिर्देशादित्युक्तिस्वरसात्। अन्यथा 'साध्यसाधनयोरेक- धर्मिनिष्ठत्वाभावात्' इत्येव ग्रन्थकृत् ब्रूयात्। 'एकधर्मिनिष्ठतया' इति तु अनुमानस्वरूपकथनम्। यतः साध्यसाधनयोरेकधर्मिनिष्ठत्वे सत्येवानुमानं भवति नान्यथा। प्रकृते तु अनुमानमस्त्येव। अत एवो- त्तरेण प्रश्नस्योभ्नयनम्। एवं च प्रकृते सत्यप्यनुमाने नानुमानालंकारः साध्यस्यानिर्देशादिति बोध्यम्। तदेतदुक्तं प्रदीपप्रभयोः । "एकधर्मिगतत्वेन साध्यसाधननिर्देशो हि तत्। न चात्र तथा। तस्मादलं- कारान्तरमेवोत्तरम्" इति प्रदीपः । (तस्मादिति । अर्थादनुमानेऽपि साधन[ मात्र ]निर्देशादित्यर्थः ) इति प्रभा। अनुमानेऽपीत्यस्य अनुमाने सत्यपीत्यर्थः । तथा चायं प्रयोगः "इदं 'वाणिअअ' इति वाक्यं (स्वोत्तरकालवृत्तित्वसंबन्धेन) प्रश्नवत् उत्तरत्वात्" इति। "न च स्नुषागृहनिवासस्य हस्तिद- न्तादभावे निमित्तत्वेन काव्यलिङ्गमेवास्त्विति वाच्यम् तत्संभवेऽपि प्रश्नोन्नयनद्वारेणैव चमत्कारादि- त्याशयः" इत्युद्दयोतादिषु स्पष्टम्॥ "तत्र वा सति" इत्यादिसूत्रभागं व्याचष्टे प्रश्नादनन्तरमिति। एतत् 'तत्र वा सति' इति प्रती- कार्थः। असंभाव्यतायां हेतुमाह लोकातिक्रान्तगोचरतयेति। प्रमाणान्तरागोचरतयेत्यर्थः । असंभा- व्येति। संभावयितुमशक्येत्यर्थः । अप्रसिद्वेति दुर्ज्ञेयेति यावत् । अत एव वक्ष्यमाणः प्रश्नपरिसंख्यातो भेद: संगच्छते। सूत्रे 'असकृत्' इत्यस्य प्रश्नोत्तरयोद्वयोरप्यन्वयमभिप्रेत्याह अनयोश्चेति । प्रश्नप्रति- वचनयोश्र्वेत्यर्थः । न चारुतेति। तत्प्रयोजकस्यैवालंकारत्वादिति भावः ॥ द्वितीयमुत्तरालंकारमुदाहरति का विसमेति। "का विषमा दैवगतिः किं लब्धव्यं यत् जनो गुणग्राही। किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ॥" इति संस्कृतम्। विषमा कठिना। कलत्रं भार्या। "दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः" इति रभसः। खं छिद्रं लाति आदत्ते

Page 770

दशम उल्लास: ।

प्रश्नपरिसंख्यायामन्यव्यपोहे एव तात्पर्यम्। इह तु वाच्ये एव विश्रान्तिरित्य- नयोर्विवेक: ।। (सू० १८९) कुतोऽपि लक्षितः सूक्ष्मोप्यर्थोऽन्यस्मै प्रकाश्यते ॥१२२ ॥ धर्मेण केनचिद् यत्र तत् सूक्ष्मं परिचक्षते। कुतोऽपि आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः । उदाहरणम् गृह्णाति इति खलः दुष्ट इत्यर्थः । "खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे" इति हैममेदिन्यौ। लोको जनः । "लोकस्तु भुवने जने" इत्यमरः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र 'का विषमा' इत्यादिरूपे असकृत्प्रश्ने सति लोकातिक्रान्तगोचरतयासंभाव्यरूपं 'दैवगतिः' इत्यादि असकृत्प्रतिवचनमिति द्वितीयः उत्तरालंकारः। उक्तं च प्रदीपे "अत्र दैवगत्यादेर्वैषम्यादि लोकाप्रसिद्धमेव प्रकाश्यते" इति । "प्रश्नस्य सकृदुपादाने उत्तरस्यानेकत्वेऽ्ययमलंकारः। यथा 'किं स्वर्गादधिकसुख बन्धुसुहत्पाण्डतैः समं गोष्ठी । सौराज्यशुद्ध्वृत्ति सत्काव्यरसामृतं स्वादु ॥' इति। एवं प्रश्नोत्तरयोरभिन्नत्वेऽ्ययम्। यथा 'केदारपोषणरताः काशीतलवाहिनी गङ्गा । कंस ज- घान कृष्ण: कंबलवन्तं न बाधते शीतम् ।I' इति। एवं प्रश्नद्वयस्यैकोत्तरत्वादावपि। यथा 'के खेटा: किं चलं वयः' इत्यादौ " इत्युद्योतकाराः ॥ नन्वत्र प्रश्नोत्तरयोर्नियमात्प्रश्नपरिसंख्यैवेयं स्यादित्याशङ्कचाह प्रश्नपरिसंख्यायामिति । प्रश्न- पूर्विकायां परिसंख्यायामित्यर्थः 'किमासेव्यं पुंसाम्' (७०४ पृष्ठे) इत्यादिप्रश्नपरिसंख्यायामिति यावत्। व्यपोहे व्यवच्छेदे। तात्पर्यमिति । वाच्यस्य प्रमाणान्तरप्राप्तत्वादिति भावः । इह तु अत्र तु। वाच्ये एव वाच्यार्थे एव। विश्रान्तिः पर्यवसानम् । अत्र तु निगूढविषयतया वाच्यार्थे एव तात्पर्यविश्राम इति भावः । अनयोः प्रश्नपरिसंख्योत्तरयोः । विवेको भेद: । एवं चात्र दैव- गत्यादीनां दुर्ज्ञेयत्वात्तत्कथने एव तात्पर्यमिति दयोर्भेद इति निष्कर्षः । "लोकोत्तरत्वेन चमत्कारिण वाच्ये एव विषमत्वाद्यतिशयप्रतिपादने तात्पर्यादिति भावः" इत्युद्दयोतेऽपि स्पष्टम् । तदिदमुक्तम् * असंभाव्यम् " इति। तथा चाहुर्निदर्शनकारा अपि 'किं भूषणं सुदृढमत्र यशो न रत्नम्' (७०४ पृष्ठे) इत्यत्र प्रश्नपूर्विकायां परिसंख्यायां रत्नादिवर्जने तात्पर्यम् इह तु दैवगत्यादीनां वाच्यस्यैव वैषम्यादेरतिशयप्रतिपादने इत्यनयोर्महान् भेद इति ॥ इत्युत्तरम् ॥४१॥ सूक्ष्मनामानमलंकारं लक्षयति कुतोऽपीति । यत्र यस्मिन्नलंकारे सूक्ष्मः सहृद्यैकवेद्योऽप्यर्थः कुतोऽपि कस्मादपि ज्ञापकात् लक्षितः वितर्कितः (स्वयमुन्नीतः) केनचित् स्मारक्रेण धर्मेण अन्यस्मै स्वभिन्नाय प्रकाश्यते अभिव्यक्तिमुपनययिते तत् सूक्ष्मं सूक्ष्मनामानमलंकारं परिचक्षते कथयन्तीति सूत्रार्थः॥ कुतोऽपीति व्याचष्टे आकारादिङ्गिताद्वेति। रूपादेरन्यथात्वमाकारः चेष्टाविशेष इङ्गितमिति प्रदीपकाराः। आकारः संस्थानविशेषः इङ्गितं नेत्रभङ्ग्यादिरूपक्रियाविशेष इत चक्रवर्तिभट्टाचार्या- दयः । इद्गितम् अभिप्रायानुरूपचेष्टितमित्यन्ये। सूक्ष्म इत्यस्यार्थमाह तीक्ष्णमतिसंवेद्य इति। १ दारपोषणरताः पत्नीपोषणतत्पगः के इति प्रश्नः। केद्ारपोषणरताः क्षेत्रपालनतत्पराः इत्युत्तरम् । एवमग्रेऽ. प्यूसम् ॥ २ खे आकाशेष्टन्ति गच्छन्तीति खेटा: के इत्येकः प्रश्नः। चलं लोलं किमिति द्विनीयः प्रश्नः । दयो- रप्युत्तरं वयः पक्षिणः । वय इति विशब्दस्य जसि रूपम्। किं च वयो बाल्याहि। "वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके" इति दिश्वः॥

Page 771

७१२ काव्यप्रकाश: सटीकः।

वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्द्ट्वा भिन्नं कुङ्डमं कापि कण्ठे। पुंस्त्वं तन्व्या व्यअ्षयन्ती वयस्या स्मित्वा पाणौ खड्ग लेखां लिलेख ॥ ५३० ॥ अत्र आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्या- दभिव्यक्तिमुपनीतम्। पुंसामेव कृपाणपाणिता योग्यत्वात्। यथा वा संकेतकालमनसं विटं ज्ञात्वा विदग्धया। ईषन्नेत्रार्पिताकूतं लीलापझ्मं निमीलितम् ॥५३१॥

कुशाग्रबुद्धिभिर्वेद्य इत्यर्थः सहृदयमात्रवेद्य इति यावत् । एवं च आकाराल्वक्षितस्य प्रकाशनम् इङ्गिताललक्षितस्य प्रकाशनं चेति द्विविधोऽयं सूक्ष्मालंकार इति भाव: ॥

तत्राकाराल्लाक्षतस्य प्रकाशनमुदाहरति वक्त्रेति। कापि विदग्धा वयस्या सखी वक्त्रात् नायिका मुखात् स्यन्दिन: स्रुतस्य स्वेदस्य घर्मस्य बिन्दूनां प्रबन्धैः ततिभिः अथवा स्यन्दिभि: प्रस्राविभि: गलन्द्िः स्वेदबिन्दूनां प्रबन्धैः कण्ठे गले कुडमं केशरं (काशमीरदेशोत्पन्नसुगन्धिद्रव्यं) भिन्नं भेदं प्रापितं दृष्ट्रा स्मित्वा विहस्य तन्व्याः तन्नायिकायाः पुंस्त्वं पुरुषायितं (रात्रौ विपरीतसुरते) उपर्या- रोहणम् व्यञ्जयन्ती सूचयन्ती सती पाणौ नायिकाहस्ते खङ्गलेखां खङ्गाकारां रेखां लिलेख लिखित वतीत्यर्थः। स्त्रीणां हस्तेऽलंकारार्थ चन्दनादिमिर्लतापत्रावल्यादिलिखनं संप्रदायसिद्धमपि ताद्वि हाय तस्याः पुरुषायितं सूचयितुं पुरुषहस्ते लेखनायां खङ्गलेखां लिलिखेति भावः। वक्त्रस्यन्दी त्यादिना पुरुषायिते श्रमाधिक्यात्स्वेदाधिक्यं ध्वनितम् । "प्रसिद्धरतौ उत्तानायाः नायिकायाः वक्त्रात् गलितस्य स्वेदस्य पृष्ठभागे एव गमनम् कण्ठे तद्गमनं तु विपरीतरतावेवेति वकत्रस्यन्दत्यादेर भिप्रायः" इति महेश्वरभट्टाचार्यः । "अथ कुङ्डनमम् । कशमीरजन्माग्निशिखम्" इत्यमरः । शालिनी छन्दः। "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति लक्षणात् ॥

अत्र विपरीतसुरतप्रसक्तायाः वक्त्रस्यन्दिस्वेदात कण्ठकुडडममेद: परं भवतीति कण्ठकुड्डममेदल क्षणेन आकरेण लाक्षितं (सख्या स्वयमुत्नीतं) तीक्ष्णमतिवेद्यतया सूक्ष्म पुरुषायितं सख्या नायिका- हस्ते खङ्गलेखालिखनेन धर्मेण वैदग्ध्यात् नायिकायै वयस्यान्तरेभ्यो वा प्रकाशितम् अभिव्यक्जितम् इति सूक्ष्मालंकारोडयम्। तदुक्तं चन्द्रिकायाम् "अत्र आकरेण लक्षितं सुबुद्धिवेद्यतया सूक्ष्मं पुरुषाँ- यितं पाणौ खङ्गलेखनेन प्रकाशितमिति सूक्ष्मालंकारः" इति। "अत्र स्वेदलिङ्गकस्वानुमितिविषयस्य पुरुषायितत्वस्य खद्गलेखालिखनेनाभिव्यञ्जनम् । अत्र विद्यमानमप्यनुमानं सूक्ष्माङ्गम् स्ववैद्ग्ध्यप्रका- शनद्वारा सूक्ष्मस्यैव चमत्कारित्वात्" इत्युइयोते स्पष्टम्। तथा चाहुश्रकवतिर्भट्टाचार्या अपि "यद प्यत्र स्वेद्विशेषपुरुषायितयोः साध्यसाधनयोरेकधर्मिगतत्वेनोपादानादनुमानमेवालंकारो भवितुमहति तथापि स्ववैदग्ध्य प्रतिपिपादयिषयान्यस्मै सूक्ष्मार्थप्रकाशनमुखेनैव चमत्कार इति स एवालंकार: अनु- मानं तु तदनुग्राहकमित्यन्यदेतत्" इति। तदेतत्सर्व वृत्तिकार आह अत्रत्यादिना। आकृतिं कण्ठे स्वेदकृतकुङ्कममेदरूपाम्। ननु कथं खङ्गलेखालिखनेन पुरुषायिताभिव्यक्तिरित्यत आह पुंसामेवे. त्यादिना। कृपाणपाणिता। खङ्गपाणित्वम्। योग्यत्वात्। उचितत्वात् ॥

इङ्गिताल्वक्षितस्य प्रकाशनमुदाहरति संकेतेति। आनन्दवर्धनकृते ध्वन्यालोके द्वितीयोद्दचोते उदा हतं पद्यमिदम्। विदग्धया चतुरया कयाचिदुपनायकया ईषत् स्वल्पं यथा स्यात्तथा नेत्राभ्याम् अर्पित

Page 772

दशम उल्लास:। अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादित: ।। (सू० १९०) उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधि: ॥। १२३ ।। परः पर्यन्तभागः अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः। उदाहरणम् सूचितम् आकूतं रहस्यं येन तादृशं विटं जारम् (षिङ्गं उपपति) संकेतकाले मनो यस्य तादृशं संकेतकालजिज्ञासुं ज्ञात्वा लीलापझं क्रीडासंबन्धि कमलं निमीलितं संकोचितमित्यर्थः। हसन्नेत्रा- र्पितोत पाठे हसद्भ्यां विकसद्भ्यां नेत्राभ्यामित्यर्थः । सुधासागरकारास्तु 'हस्ते नेत्रार्पिताकूतम्' इति पाठं मन्यमाना: नेत्रेऽर्पितः एकस्मिन्नयने किंचिन्निमीलने कृतः आकूतः अभिप्रायसूचको व्यापारविशेषो येन तादशं विटं संकेतकालमनसं ज्ञात्वा लीलापझं हस्ते निमीलितम् अपरहस्तेन आच्छादितमिति व्याचरव्युः । "संभोगक्षीणसंपत्तिर्धूतैः सहचरो विटः" इति विटलक्षणम्। "विटो द्रौ लवणे षिङ्गे मूषिके खदिरेऽपि च" इति मेदिनी॥ अत्र नेत्रेङ्गितेन लक्षितः तीक्ष्णमतिवेदयतया सूक्ष्मः कामिनः संकेतकालाभिलाषः कामिन्या निशा- सूचकेन पद्मनिमीलनेन विटाय लीलया प्रकाशित इति सूक्ष्मालंकारः। प्रदीपे तु "अत्र नेत्रोत्साह- रूपेणेङ्गितेन लक्षितः कामिनः संकेतकालाभिलाषः कामिन्या निशासूचकेन पद्मसंमीलनेन लीलया प्रकाशितः" इत्युक्तम्। तदेवाह अत्रेत्यादिना। शंसिना सूचकेन। प्रतिपादितः बोधितः। अमुं भावालंकारमाह रुद्रटः। नव्योक्तपिहितालंकारोऽप्यत्रैवान्तर्भूत इत्युद्दयोते स्पष्टम् ॥ इति सूक्ष्मम् ॥४२॥ सारनामानलंकारं लक्षयति उत्तरोत्तरमिति। उत्तरोत्तरं यथा स्यात्तथा परावधिः परः काव्य- पर्यन्तभागः अवधिश्वरमसीमा यस्य तथाविधः उत्कर्षः यत्र प्रतीयते स सारः सारनामालंकार: भवे- दिति सूत्रार्थः । पर्यन्तभागः (अर्थात् वाक्यानां ) शेषांशः । अवधिः चरमसीमा । धाराधि- रोहितया प्रवाहरूपेण। तत्रैव पर्यन्तभागे एव। विश्रान्तेः पर्यवसानात्। उत्तरोत्तरम् अधिक- तया वर्णनीयस्य उत्कर्षस्य वाक्यशेषांशरूपचरमसीमागामित्वे सारोऽलंकार इति भाव: ।। व्याख्यातमिदं प्रदीपोह््चोतयोः । "परावधिरिति। परः पर्यन्तभागो गद्यस्य पद्यस्य वा अवधि- रुत्कर्षसीमा यस्य। तेन पर्यन्तभागो यत्र सर्वोत्कृष्ट इत्यर्थः धाराधिरोहितया तत्रैवात्कर्षविश्रान्तेः" इति प्रदीपः । (धाराधिरोहितयेति । 'जम्बीरश्रियमतिलङ््य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ। नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ॥' इत्यत्रापि सार एव। एतेने- दृशे विषये वर्धमानालंकारोऽतिरिक्तः इति [रत्नाकरायुक्तम्] अपास्तम्। 'मधुरविकसितोत्पलावतंसं शशिकरपल्लवितं च हर्म्यपृष्ठम्। मदनजननविभ्रमा च रामा सुखमिदमर्थवतां विभाति रम्यम्॥' इत्यादौ तु नायम् काव्यपर्यन्तभागस्य सर्वोत्कृष्टत्वाभावात्। उत्कर्षश्र श्लाध्यगुणानामश्लाध्यगुणानां च संभवति। तत्राद्यो.मूले एव उदाहृतः । अन्त्यो यथा 'तृणाल्लघुतरेस्तूलस्तूलादपि च याचकः। वायुना किं न नीतोऽसौ मामयं याचयिष्यति ॥' इति" इत्युद्चोतः ॥ १ उत्कर्षसीमेति। 'सीमा' इत्येव वक्तव्ये 'उत्कर्षत्ीमा' इति चिन्त्यम् ॥ २ सार एवेति। उदात्तालंकारे उक्तरीत्या 'बद्रामलकाम्रद्वाहिमानाम्' इत्यादाविव पर्यायालंकारोडपीति बोध्यम् ॥ ३ तुलः पिचसंज्ञकः। "अथ पिचुस्तुलः" इत्यमरः ॥ *'याचयेदिति' इति 'प्रार्थयिण्यते' इति च पाठान्तरम्। तत्र प्रथमे द्विताये च पाठे 'रामो राज्यमचीकरत्' इत्यादाविव "बहुलमेतन्निदर्शनम्" इति बाहुलकात् स्वार्थे णिच्। तृतीयपाठे चरादित्वात णिजिति बोध्यम् ॥ ५ इत्युद्दयोत इति। उक्तकाव्ये 'याचकः' इत्यन्ते एव वाक्यशेषांशत्वं विवक्षितमित्युद्द्योताशयः॥ ९०

Page 773

७१४ काव्यप्रकाशः सटीक: ।

राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम्। सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥ ५३२ ॥ (सू० १९१) भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्याद्संगतिः ॥ १२४॥। इह यद्देशं करणम् तद्देशमेव कार्यमुत्पद्यमानं द्ृष्टम् यथा धूमाहि। यत्र तु हेतुफल- रूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनम् सा तयोः स्वभावो- त्पन्नपरस्परसंगतित्यागात् असंगतिः । उदाहरणम्

राज्ये इति। रुद्रटालंकारे पद्यमिदम्। राज्ये वसुधा पृथ्वी सारमित्यन्वयः । एवमेव सारमित्यस्य परपरत्राप्यन्वयः । सारमिति सामान्ये नपुंसकम् 'मृदु पचति' इतिवत्। अत एवोक्तं महाभाष्ये ( १ अ० १ पा० १ आ०) "शक्यं चान्नेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्' इति। सारं वरम् श्रेष्ठमित्यर्थः उत्कृष्टमिति यावत्। "सारो बले स्थिरांशे च न्याय्ये कीबं वरे त्रिषु" इत्यमरः "सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने। न्याय्ये क्कीबं त्रिषु वरे" इति मेदिनी च। पुरं नगरम्। सौधं सुधागृहमित्येके। सुधा लेपोऽस्यातीति सौधम् ज्योत्स्नादित्वादण्प्रत्यय इत्यपरे। तल्पं शय्या। अनङ्गसर्वस्वमिति रूपकम् अनङ्गस्य मदनस्य सर्वस्वं सर्वस्वरूपा वराङ्गना सारमित्यर्थः । त्येतिरेकेणाङ्गहीनस्य किंचित्कार्याक्षमत्वादिति भावः। अत्र कथितपदत्वं न दोषः प्रत्युत तेनैव सर्वनाम्ना वानिर्देशे प्रतीते: स्थगनं स्यात्। प्रतिपादितमिदं प्राक् (३६७ पृष्ठे ३ पङ़कौ ) मूले एवेत्यवध्येयम्। यत्तु कमलाकरभट्टेन व्याख्यातम् अनङ्गस्य सर्वस्वं भगरूपं यस्यां सा तस्यास्तेनै- वोत्कर्षात् "भसद्वीर्या हि पत्नयः" इति श्रुतेः। तदुक्तम् 'निर्लोमा योनिराप्राप्ता सैव मुक्तिर्न संशयः । हसन्त्या गोपयन्त्यास्तां तर्जयन्त्याः कुचोद्गमे॥' इति तत्तु अत्यन्तमश्लीलतादाषग्रस्तमिति हेयमेव "राज्यपदं लोकविशिष्टभूमण्डलपरम्" इति चक्रवर्ती। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र पूर्वपूर्वपेक्षयोत्तरोत्तरस्योत्कर्षश्रवरमस्य सर्वोत्कृष्टत्वपर्यवसन्न इति सारालंकार:। उक्त च सरस्वतीतीर्थेन "अत्र राज्यापेक्षया भूमेः सारत्वम् तदपेक्षया पुरस्येत्यादिपरिपाट्या वराङ्गनाया- भुत्कर्षो विश्राम्यति" इति। "अत्रान्यव्यपोहकृतचारुत्वमित्ययं परिसंख्यैवेत्येके तदसत्। सारत्वे ह्यत्र विश्रान्तिर्नान्यव्यपोहे" इति संकेते माणिक्यचन्द्रः । इति सारः ॥ ४३॥

असंगतिनामानमलंकारं लक्षयति भिन्नेति। यत्र यस्मिन्नलंकारे कार्यकारणभूतयोर्धर्मयो- रत्यन्तं भिन्नदेशतया युगपत् एककाले ख्यातिः कथनं सा असंगतिरिति सूत्रार्थः। उक्तं चान्य- त्राप्यसंगतिलक्षणम "कार्यकारणयोर्भिन्नदेशत्वे स्यादसंगतिः" इति॥

सूत्रं व्याचष्टे इहेत्यादिना। इह लोके। यद्देशमिति। बहुव्रीहिः। एवं तद्देशमित्यपि। यथा धूमादीति। यथा शैलस्थो वह्निः शैलस्थमेव धूमं जनयति न तु महानसीयो वह्निः पर्वतदेशे धूमं जन यतीति भावः। हेतुफलेति। हेतुः कारणम् फलं कार्यम्। केनाप्यतिशयेनेति। केनापि विशेषेणे- त्यर्थः कारणगतं कमपि विशेषं प्रतिपाद्यितुमिति यावत्। नानादेशतया। भिन्नस्थानकतया। युगपत्। एकदा। ख्यातिरित्यस्यार्थमाह अवभासनमिति । संप्रतिपादनमित्यर्थः । असंगतिरिति १ तद्यतिरेकेणेति। वराङगनां विनेत्यर्थः ॥ २ भसत् योनिः ।

Page 774

दशम उल्लासः । ७१५

जस्सेअ वणो तस्सेअ वेअणा भणइ तं जणो अलिअं। दन्तक्खअं कवोले बहूए वेअणा सवत्तीणं॥ ५३३॥।

संज्ञाया अन्वर्थतां दर्शयति तयोरिति। कार्यकारणयोरित्यर्थः । स्वभावोत्पन्ना स्व्राभाविकी। संगतिः एकदेशत्वलक्षणः संबन्धः । अन्रात्यन्तमिति देशभेदस्यैवोपकारकम् न तु पृथगपि विवक्षितार्थकम्। तच्च एकत्रैव देशेऽवच्छेदभेदेन (अंशभेदेन) भिन्नदेशताव्यावर्तनाय । तेन 'दष्टो भुजंगेन पदेऽक्ष्णि घूर्णते' इत्यत्र नातिव्या्तिः देशस्यात्यन्तमिन्नत्वाभावात्। युगपदिति स्वरूपानुवादमात्रम् न तु लक्षणोपयोगि। 'उद्धिन्र मात्रे वयासि दृष्ट्र्रा प्रियतमाधरम् । भावी लाक्षारसो ् त ामिो रज्यते मनः ॥' इत्यत्र कालभेदेपि असंगतेरिष्टत्वात्। एवं च विशेषप्रतिपत्तये कार्यकारणयोर्भि- न्नस्थानस्थितत्वेनाभिधाने असंगतिरलंकार इति भावः । "अतिशयोक्तेः कार्यकारणयोः पौर्वापर्य- विपर्ययो लक्षणम् अस्यास्तु कार्यकारणवैयधिकरण्यमिति भेद: " इति विस्तारिकायां स्पष्टम्।

व्याख्यातामदं प्रदीपोक््योतयोः। "अत्रात्यन्तमिति देशभेदस्यैवोपकारकम् न तु पृथगपि विव- क्षितार्थम्। युगपदिति स्वरूपनिर्वचनम् न तु व्यावर्तकम् तेन कार्यकरणभूतयोर्धर्मयार्यत्र भिन्नदे- शतया संप्रतिपादनं सा असंगतिः हेतुफलयोरग्निधूमाद्योरिव प्रसिद्धायाः समानदेशत्वरूपायाः संगतेः परित्यागात्। तथाप्रतिपादनं च करणान्तरेभ्यो वैलक्षण्यात्" इति प्रदीपः । (स्वरूप- निर्वचनमिति। 'उद्भिन्नमात्रे वयास००' इत्यत्र कालभेदेऽपि असंगतेरिष्टत्वात् । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तेश्र पृथक वैचित्र्यकारित्वेन समावेश एव युक्त इति भावः । प्रसि- द्वाया: कार्यकारणस्वभावसिद्धायाः । वैलक्षण्यादविति । कारणगतं कमप्य तेशयमभिसंधायेत्यर्थः । केचित्तु लक्षणे कार्यकारणभूतयोरित्युपलक्षणम् समानाधिकरणत्वेन (एकदेशस्थितत्वेन) प्रसि- द्धयो: ययोः कयोश्र्विदपीति बोध्यम्। तेन 'नेत्रे निरञ्जने तन्व्याः शून्यास्तु वयमद्भुतम् ।' इत्यादौ निरञ्जनत्वशून्यत्वयोरकार्यहेत्वोरपि शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरसंगतिरित्याहुः। एवमन्यत्र चिकीर्षितस्यान्यत्र करणे अन्यचिकीर्षावता तद्विरुद्धान्यकरणे चेयमेवासगतिः। विषयताघटितसा- मानाधिकरण्येन चिकीर्षायाः कार्यमात्रं प्रति हेतुत्वात् । अधिकरणान्तर्भावेनापि चिकीर्षाया हेतु- त्वाच्चेत्याहुः) इत्युद्दयोतः ।

असंगतिमुदाहरते जस्सेएति। "यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम्। दन्त- क्षतं कपोले वध्वाः वेदना सपत्नीनाम् ॥" इति संस्कृतम् । तस्यैव वेदनेति यत् जनो भणति वदति तदलीकम् अनृतमित्यन्वयः । वघूर्नवोढा। "नवोढायां स्नुषायां च जायायां युवरतौ वधू:" इति लिङ्गाभट्टः। अत्र क्षतस्य एकत्र व्रणपदेन अपरत्र क्षतपदेनोपादानात्प्रक्मभङ्गश्विवन्त्यः । गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥

अत्र वध्वाः कपोले स्वामिकृतदन्तक्षतादिः सपत्नीनामतीव क्ेशदायकः इत्यर्थविशेषप्रतिपत्तये वेदनादन्तक्षतयोः कार्यकारणयोर्भिन्नदेशताभिधानमिि वैयधिकरण्यरूपासंगतिरलंकारः। तदुक्तं चन्द्रिकायाम् "अत्र वेदनादन्तक्षतयोः कार्यकारणयोवैयधिकरण्यरूपासंगतिरलंकारः " इति । अत्र शारीरमानसयोर्वेदनयोरेकत्वाध्यवसायो मूलम् । तदुक्तमुद्योते अत्र येन केनापि प्रकारेण कार्या-

Page 775

७१६ काव्यप्रकाशः सटीक: । एषा च विरोधबाधिनी न विरोध: भिन्नाधारतयैव द्योरिह विरोधितायाः प्रति- भासात्। विरोधे तु विरोधित्वम् एकाश्रयनिष्ठमनुक्तमपि पर्यवसितम् अपवादविषय- परिहारेणोत्सर्गस्य व्यवास्थितेः । तथा चैवं निदार्शतम्॥ (स० १९२) समाधि: सुकरं कार्यं कारणान्तरयोगतः । नन्वत्र विरोध एव (विरोधाभास एव) अस्तु अनुपपत्तिर्हि विरोधः सा च भिन्नदेशकयोरेक- देशकत्वे इव एकदेशकयोर्भिन्नदेशकत्वेऽपि समानेति पूर्वपक्षं निराकरोति एषा चेति। विरोध- बाधिनी विरोधाभासबाधिका। न विरोधः न विरोधाभासः । तत्र हेतुमाह भिन्नेत्यादि। भिन्ना धारतयैव भिन्नदेशकत्वेनैव । द्योः कार्यकारणयोः । इह असंगत्यलंकारे । विरोधितायाः अनु- पपत्तिरूपविरोधस्य। प्रतिभासात्। स्फूर्तेः । विरोधे तु विरोधाभासे तु। एकाश्रयनिष्ठं भिन्न- देशकयोरेकदेशकत्वप्रयुक्तम्। अनुक्तमपीति। 'विरोधाभासलक्षणे' इति शेष: ।. पर्यवसितं फलितम्। पर्यवसाने हेतुमाह अपवादेत्यादि। अपवादो विशेषस्तस्य विषयः स्थलं तत्परिहारेण तत्त्यागेनैव उत्सर्गस्य सामान्यस्य ( प्रकृते विरोधाभासस्य) व्यवस्थितेः व्यवस्थितत्वादित्यर्थः "प्रेकल्प्य वापवादविषयं तत उत्सर्गोऽभिनिविशते" इति न्यायादिति भावः । एवमिति । भिन्नदेशकयोरेक- देशकत्वप्रयुक्तो विरोध इत्यर्थः । निदर्शितमिति। 'विरोधाभासोदाहरणतयास्माभिः' इति शेषः ॥ "इदमत्र निराकरणम्। एकदेशकयोर्भिन्नदेशकत्वे एव असंगतिः संभवति विरोधाभासस्तु अन्य- त्रापाति चमत्कारान्तरविधायिनी विशेषरूपा असंगतिः सामान्यविशेषन्यायेन विरोधाभासं बाधते। सुतरां विरोधाभासो भिन्नदेशकयोरेकदेशकत्वे एव पर्यवस्यति । अत एव विरोधाभासोदाहरणानि पूर्व तथैव दत्तानीति" इति विवरणे स्पष्टम्।। व्याख्यातं च चक्रवर्तिभट्टाचार्यप्रभतिभिरपि। ननु विरोध एवायं स्यादित्यत आह एषा चेति। अत्र हेतुमाह भिन्नोते। एवं च व्यधिकरणयोर्यत्रैकाधिकरण्येन विरोधप्रतिसंधानं स विरोधाभासः यत्र तु समानाधिकरणयोवैयधिकरण्येन विरोधप्रतिसंधानं सासंगतिरिति द्रष्टव्यम्। नन्वेवं विषयभेदान्नो- त्सर्गापवादभावः विषयैक्ये एव तत्संभवादिति चेन्न। विरोधाभासस्य हि विरोधसामान्यं विषयः असंगतेश्र कार्यकारणवैयधिकरण्यमात्रप्रयुक्तो विरोधविशेष इति समानविषयत्वस्योत्सर्गापवादभा वस्य च संभवादिति॥ इत्यसंगतिः ॥ ४४॥ समाधिनामानमलंकारं लक्षयति समाधिरिति । यत्र यस्मिन्नलंकारे कारणान्तरयोगतः हेत्वन्त- रयोगात् कार्य सुकरं सुकरत्वेन विवक्षितं स समाधिरिति सूत्रार्थः । व्याख्यातमिदं प्रदीपोद्दयो- तयोः । "इष्टात्कारणादन्येन कारणेनोपकृतः कर्ता यदक्केशेन कार्य करोति स समाधिः" इति प्रदीपः । "एककारणजन्यकार्यस्य आक्स्मिककारणान्तरसमवधानाहितं सौकर्य समाधिरित्यर्थः । सौकर्य च कार्यस्यानायासेन सिद्धया साङ्गसिद्ध्या च बोध्यम्" इत्युइ्चोतः॥ सूत्रं व्याचष्टे साधनान्तरेति। आरब्धं कार्य साधनान्तरोपकृतेन कर्त्रा अकेशेन यत् समाधीयते सम्यक् सुकरत्वेन आधयिते क्रियते इत्यर्थः । सप्राधिरिति। सम्यक् आधिः आधानम् उत्प.दनं १ अपवाद्विषयम् अपवादस्थलं प्रकल्व्य परित्यज्य ततः अपवादशास्त्रपर्यालोचनात् प्रागपि उत्सर्गः सामान्यम् अमिनिविशते स्वविषये स्वस्थले प्रवर्तते इत्यर्थः ॥ णा

Page 776

दशम उल्लास:। क्रात ७१७

साधनान्तरोपकृतेन कर्त्रा यद् अक्केशेन कार्यमारब्धं समाधीयते स समाधिर्नीम । उदाहरणम् मानमस्या निराकर्तु पादयोर्मे पतिष्यतः। उपकाराय दिष्टचेदमुदीर्ण घनगर्जितम्॥ ५३४॥ (सू० १९३) समं योग्यतया योगो यदि संभावितः क्रचित् ॥ १२५॥ इदमनयोः श्लाध्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समम् तत् सद्योगेऽसद्योगे च। उदाहरणम् समाधिरित्यन्वर्थेयं संज्ञा। 'साधनान्तरोपकृतेन' इत्यनेनेदं सूचितम् यत्रैकमेव कारणं प्रधानतया विवक्षितम् अपरं च सहकारितया तत्रैवायमलंकारः। उभयोः प्राधान्ये विवक्षिते समुच्चय इति। अत एवाहुः इह काकतालीयन्यायेन कारणान्तरयोगः समुच्चये तु खले कपोतिकान्यायेन समक क्षतयेति भेद इति॥ अत्र 'कारणान्तरयोगतः' इत्युपलक्षणम्। तेनाकस्मादीप्सितार्थलाभस्य वाञ्छितसिद्धयर्थयत्नात्त दधिकलाभस्य उपायसिद्ध्यर्थयत्नात्साक्षात्फललाभवर्णनस्य च समाधित्वमेव सौकर्यस्य अनायासेन सिद्धयादिरूपस्येवकस्मिकत्वादिरूपस्यापि ग्रहात्। एतेन ईदृशे विषये प्रहर्षणं भिन्नोऽलंकार इत्य- पास्तम्। अन्यदीयगुणेनान्यत्र गुणवत्ताबुद्धिरूपः अन्यदोषेणान्यत्र दोषवत्ताबुद्धिरूपो वा उल्लासः काव्यलिङ्गेन गतार्थ इत्याहुः। वक्ष्यमाणसममेवेत्यन्ये एवं कार्यसहवर्तितया निर्णीतकारणाभावेऽपि कार्यस्य स्थितिरपि सौकर्यम्। यथा 'दीपे निर्वापितेऽप्यासीत्क।श्चीरत्नैर्महन्महः' इति। एतेनात्र पूर्वरूपं नाम पृथगलंकारः विकृतेऽपि वस्तुनि पूर्वावस्थानुवृत्तिः पूर्वरूपमितीत्यपास्तमित्युइयोते स्पष्टम्। समाधिमुदाहरति मानमिति। काव्यादर्शे द्वितीयपरिच्छेदे दण्डिना पठितं पद्यमिदम्। अस्याः नायिकायाः "स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये" इत्युक्तलक्षणं मानं निराकर्तुम् अपगमयितुं पादयो: (नायिकायाः) चरणयोः पतिष्यतः मे मम उपकाराय दिष््या भाग्येन इदं घनगर्जितं मेघगर्जनम् उदीर्णम उद्गतम् उद्भूतम इत्यर्थः । मानिन्याः पादयोः पतनमपि माननिराकर- णस्य कारणम्। तदुक्तम् "साम भेदं च दानं च नत्युपेक्षे रसान्तरम् । तद्भ्ङ्गाय पतिः कुर्यात् षडुपा- यानिति क्रमात् ॥" इति। 'दिष्ट्या' इत्यव्ययम्। "दिष्ट्या समुपजोषं चेत्यानन्दे" इत्यव्ययवर्गेडमरः॥ अत्र पादपतनरूपकारणेन आरब्धस्य मानापगमरूपकार्यस्य आकस्मिकघनगर्जितरूपकारणा- न्तरयोगेन सुकरत्वात्समाधिरलंकारः । घनगर्जितस्य कामोद्दीपकत्वेन मानापगमहेतुत्वं बोध्यम्। इति समाधि: ॥४५॥ समनामानमलंकारं लक्षयति सममिति। क्वचित् योगः वस्तुविशेषयोः संबन्धः यदि योग्य- तथा औचित्येन संभावितः लोकसंमतस्तदा समं समनामालंकारः सह तुल्यतया मीयते इति सम- मिति व्युत्पत्तेरिति सूत्रार्थः ॥ सूत्रं व्याचष्टे इदमनयोरित्यादिना। श्लाध्यं श्लाघनीयम् । योग्यतया औचित्येन। अस्य 'अध्य- वसानम्' इत्यनेनान्वयः । योगपदार्थमाह संबन्धस्येति। (अनुरूपयोः) मेलनस्येत्यर्थः। नियतवि- षयमिति। नियतौ विषयौ यस्य तादृशं निश्रयरूपमित्यर्थः । अध्यवसानं प्रतातिः। काव्यप्रकाशद- र्पणे विश्वनाथेन तु "नियतं वर्णनीयं विषयीकृत्य यदध्यवसानमित्यर्थः । अयं भावः । वर्णनीयद्दयं

Page 777

७१८ काव्यप्रकाश: सटीक:।

धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य। जातं दैवात्सदशमनयो: संगत यत् तदेत -. चछृङ्गारस्योपनतमधुना राज्यमेकातपत्रम्॥। ५३५।। विषयीकृत्यानयोरिदं श्लाध्यमिति ज्ञानं चेत् जायते तदा समाख्यमलंकरणम्" इति व्याख्यातम्। अनुरूपयोयोगो हि श्लाध्यः स च सतोरिव असतोरपि संभवतीत्याह तदिति। सममित्यर्थः । सद्योगे इत्यादि। सतोर्योंगेSसतोर्योगे चेत्यर्थः ॥

व्याख्यातमिदं प्रदीपोद्दये तयोः। "योग्यता आनुरूप्यम्। संभावितः सर्वसंमतः। तेन इदमनयोः समुचितमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समं नामालंकारः। योग्यता च प्रकर्षनिकर्षाभ्याम्" इति प्रदीपः । (योग: संयोगादिरूपः कार्यकारणभावश्र। आनुरूप्यमिति। तेन सता सतो योगः असता चासतो योगः इति लब्धम्। तेन सद्सतोर्योंगे नायम् अनौचित्यात्। समुच्चये सतोरसतोर्वां कारणयोः समुच्चयः अत्र त्वकारणयोरपि तयोर्योगस्यौचित्याभिधानमिति विशेषः । नियतविषयमध्यवसानं निश्रयः। कार्यकारणभावसंसर्गस्यानुरूपत्वं कारणात्स्वसमानगुणकार्यो- त्पत्त्या यथा 'मन्त्रार्पितहविर्दीप्तहुताशनतनूभुतः। शिखास्पर्शेन पाश्चाल्याः स्थाने दग्धः सुयोधनः॥ इति। यादृशगुणकवस्तुसंसगस्ताद्ृशगुणात्पत्त्यापि समम् । [यथा ] 'वडवानलकालकूटलक्ष्मीगरल. व्यालगणैः सहेधितः । रजनीरमणों भवेन्तृणां न कथं प्राणवियोगकारणम् ॥' इति। कचिदिष्टप्रा- प्रचर्थ प्रयुक्तात्कारणात्तत्प्राप्तया च। यथा 'उच्चैर्गजैरटनमर्थयमान एव त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन्। उच्चाटनं त्वमपि लम्भयसे तदेव मामद्य नैव विफला महतां हि सेवा ।।' इत्यत्र। यद्यपि स्तुत्या निन्दाभिव्यक्तौ तदुपस्कारको विषमोऽप्यत्रास्ति तथापि वाच्यस्तुतिकक्षायां समालंकारो न वार्यते। लम्भयतेर्ण्यन्तस्य द्विकर्मकत्वम्। न च लोकसिद्धायाः कारणानुरूपकार्योत्पत्तेरनिरबन्धनं न चारुता- वहम् वस्तुतोऽननुरूपयोरपि कार्यकारणयोंः श्लेषादिना धर्मैक्यसंपादनद्वारानुरूपतावर्णने वस्तुतोऽ- निष्टस्यापि तेनैवोपायेनेष्टाभेदसंपादनेनेष्टप्राप्तिवर्णने चारुताया अनुभवसिद्धत्वात्) इत्युदयोतः ॥

सद्योगे सममुदाहरति धातुरिति। एषा मृगाक्षी नायिका धातुः ब्रह्मणः यत् शिल्पं निर्माणकौशलं तदतिशयस्य तदुत्कर्षस्य निकषस्थानं परीक्ष्योपलरूपा अतिसुन्दरीति भावः । "शाणस्तु निकषः कषः" इत्यमरः। अनुपमोऽयं तस्याः भर्ता देवो राजापि। 'स्मरस्य' इति चतुर्थ्यर्थे षष्ठी। रूपे रूपविषये स्मराय दत्तं पत्रं पत्रावलम्बनं येन तादृशः स्मराधिकरूप इत्यर्थः । यत् अनयोः मृगाक्षीदेवयोः सद्ृशं संगतं योगः मेलनं समागमो वा दैवाद्धेतोः जातम् तदेतत् शृङ्गारस्य शृङ्गाररसस्य एकातपत्रम् एकच्छत्रं राज्यम् अधुना उपनतं प्राप्तमित्यर्थः। "स्मरस्य रूपे दत्तपत्रः कृतपत्रावलम्बनः" इत्युद्दयो- तकृत्। "दत्तपत्र इति । विजयायेत्यादिः" इति चन्द्रिकाकृत्। स्मरस्य दत्तपत्रः उत्कृष्टतरनायकतया कामपदे स्थापित इति सुधासागरकृत् । अत्र शृङ्गारस्य स्वपदेनोपादानं न दोष इति प्राक (२१७ पृष्ठे)

१ तेनेति। पूर्वोक्तहेतुनेत्यर्थः ॥ २ अलंकार इति। एतदुत्तरत्र 'इत्यर्थः' इति 'इति फलति' इति वा शेष- पूरणं कर्तव्यम् । अन्यथा पूर्वोक्तस्य 'तेन' इत्यस्य हेतुृतृतीयान्तत्य क्वाव्यन्वयाभावप्रसङ्ग: स्यादिति बोध्यम्॥ ३ चतुर्थ्यर्थे पष्टीति। 'श्रीपरिचयात्' इत्युदाहरणे (५७ पृष्ठे) कामिनीनामितिवत् । 5 FT

Page 778

दशम उल्लास:।

चित्रं चित्रं बत बत महच्वित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता। यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविद: काकलोकः ॥ ५३६॥ (सू० १९४) क्रचिद्यद्तिवैधर्म्यान्न श्लेषो घटनामियात्। कर्तुः क्रियाफलावाप्तिनैवानर्थश्र यन्द्वेत् ॥ १२६ ।। गुण क्रियाभ्यां कार्यस्य कारणस्य गुणक्रिया। क्रमेण च विरुद्दे यत् स एष विषमोमतः॥ १२७॥

प्रतिपादितम्। मन्दाक्रान्ता छन्दः। लक्षणमुक्तं प्राक् ७६ पृष्ठे । अत्र मृगाक्षीदेवयोः सतोर्योग- स्यौचित्यवर्णनात्समालंकारोऽयम्। "अत्रोचितयोगवर्णनात्समालंकारः" इति चन्द्रिकायाम्॥

असद्योगे सममुदाहरते चित्रमिति। चित्रबतशब्दयोरवीप्सा विस्मयातिशयद्यातनाय। विधाता ब्रह्मा दैवात् अदृष्टयोगात् उचितायाः रचनायाः संविधाता कर्ता जातः । यत् निम्बानां पारिभद्राणां परिणतानि पक्कानि यानि फलानि तेषां रफतिः संपत् समृद्धिः आस्वादनीया इदं चित्रं चित्रम् । यच्च एतस्याः फलसंपद: कवलनकला भक्षणचातुरी तत्र कोविदः पण्डितः काकरूपो लोक: एतन्महच्चित्रमित्यर्थः । "पारिभद्रे निम्बतरुः" इत्यमरः। छन्दः पूर्वोक्तमेव। अत्र निम्बकाकयो- दयोरपि निकृष्टतयोचितयोग इति समालंकारोऽयम् ॥इति समम् ॥४६॥

विषमनामानमलंकारं कारिकादयेन चतुर्धा लक्षयति क्वचिदिति। यदित्यनन्तरं 'संबन्धिनोः' इति शेषः । तथा च क्वचित् यत् संबन्धिनोः अतिवैधम्यात् अतिवैलक्षण्यात् अत्यन्तवैसादृश्यात् श्लेष: संबन्धः घटनां श्लाध्यत्वरूपामुपपद्यमानतां न इयात् न प्राप्नुयात् नोपैति कि त्वनुपपद्यमान- तयैव प्रतीयते स एको विषमः । यञ्च कर्तुः क्रियायाः व्यापारस्य यत् फलं तस्य अवाप्तिः प्राप्ति: नैव भवेत् प्रत्युत अनर्थश्र् भवेत् स द्वितायो विषमः । कार्यस्य गुणक्रियाभ्यां कारणस्य गुणक्रिये विरुद्धे इत्यन्वयः । क्रमेणेति । यत् कार्यस्य गुणेन कारणस्य गुणो विरु्द्धो भवेत् स तृतायो विषमः । यत् कार्यस्य क्रियया कारणस्य क्रिया विरुद्धा भवेत् स चतुर्थो विषम इति सूत्रार्थः। सर्वंत्र समतायाः विपर्ययाद्विषमत्वम्। तदुक्तमन्यैरपि समाद्विपरीतं विषमम् इति । अत एव वृत्तौ मूलकृतै- वोच्यते "समविपर्ययात्मा चतूरूपो विषमः" इति। एवं च समालंकारविपर्यासस्वरूपत्वमेव विषमा- लंकारस्य सामान्यलक्षणमिति फलितम्। तथा चोक्तं समस्य विषमस्य च अलंकारस्य सामान्य- लक्षणं रसगङ्गाधरकारैः "अनुरूपसंसर्गः समम्। अननुरूपसंसर्गो विषमम्" इति । द्वितीयभेद- दवये च कार्यकारणयोविरुद्धगुणक्र्ियायोग एव चमत्कारी विरोधालंकारे तु भिन्नदेशकयारेकेदशक- त्वम् असंगत्यलंकारे एकदेशकयोर्भिन्नदेशकत्वमेव चमत्कारीति भेद:॥

१ अननुरूपमिति योग्यतायामध्ययीभावः । अनुरूपं यत्र न विद्यते इति विगृहीतेन बहुच्रीहिगा योग्यतारहित मुच्यते। योग्यता च युक्तमिदमिति लौकिकव्यवहारगोचरतोति रसगङ्गाधरकारैख व्याख्यातम्।

Page 779

७२० काव्यप्रकाशः सटीकः। द्योरत्यन्तविलक्षणतया यत् अनुपपद्यमानतयैव योग: प्रतीयते [१] यच्च किंचि- दारभमाण: कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत् फलं न लभेत यावदप्रा थिंतमप्यनर्थ विषयमासादयेत् [२] तथा सत्यपि कार्यस्य कारणरूपानुकारे यत् तयोर्गुणी क्रिये च परस्परं विरुद्धतां व्रजतः [३४] स समविपर्ययात्मा चतूरूपो विषमः । क्रमेणोदाहरणम् शिरीषादपि मृद्ङ्गी क्वेयमायतलोचना। अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥ ५३७॥ सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः। जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥ ५३८॥ सूत्रं व्याकुर्वन् तावत् क्वचिदित्यादि व्याचष्टे द्योरिति। संबन्धिनोरित्यर्थः । अतिवैधर्म्यादि त्यस्यार्थमाह अत्यन्तविलक्षणतयेति। श्लेषपदार्थमाह योग इति। संबन्ध इत्यर्थः। प्रतीयते इति स एको विषम इति भाव:। कर्तुरित्यादि व्याचष्टे यच्च किंचिदित्यादि । क्रियायाः व्यापारस्य। प्रणाशात् उद्देश्यफलजननासामर्थ्यात्। यावत् किंतु। अप्रर्रथितमपि मनसानासादितमपि। अन- र्थम् अनिष्टम्। आस्लादयेत् प्राप्ुयात्। स द्वितीयो विषम इति भावः। पुनर्द्वो विषमभेदावेकदैव दर्शयन् गुणेत्यादि व्याचष्टे तथेति। किंचेत्यर्थः । कारणरूपानुकारे इति। कारणरूपस्यानकारेऽ- नुकरणे सादृश्ये। 'औत्सर्गिके इति शेषः । जनकानुरूपमेव जन्यमिति नियमात् । न हि कदा- चिदपि भेकसुतो गगनोड्डयनाय प्रभवति काकशिशुर्वा शुकभिवितुम् । "कारणरूपेति। रूपं गुणः क्रिया च तदनुकारे तदनुविधाने" इति चक्र्वर्तिनः । तयोः कार्यकारणयोः । परम्परमिति। क्रमे- णेति शेषः । व्रजतः प्रामुतः । विषमपदार्थमाह समविपर्ययात्मेति। समालंकारविपर्यासस्वरूप इत्यर्थः । चतूरूपः चतुर्विधः । विषमः विषमालंकारः ॥ तत्र प्रथमं विषममुदाहर ते शिरीषादिति। पद्मगुप्तप्रण.ते नवसाहसाङ्कचरिते षोडशे सगे २८ पद्य मदम्। शिरीषात् कपीतनपुष्पादपि मृद्दङ्गी कोमलाङ्गी इयम् आयतलोचना विशालनेत्रा नायका क्व। कुकूलागनिरिव कर्कशो दुःसहः अयं मदनानलः मन्मथागिः क्वेत्यर्थः । कुकूलाग्रिः करीषाग्निरित्यु द्योतकृत् । कुम्भकारपचनाग्निरिति चक्रवर्त्यादयः । कुम्भकाररचितो घटादिपचनागनिरिति चन्द्रिका- कृत्। "कुकूलं शङ्कभिः कीर्णे श्वय्रे ना तु तुषानले" इत्यमरात् तुषाग्निरित्यपरे । "शिरीषस्तु कपीतनः" इत्यमरः ॥ अत्र नायिकामदनानलयोरत्यन्तवैलक्षण्यात्तयोः संबन्धोऽनुपपयमानतयैव कश्दद्येन प्रतीयते इति विषमालंकारः। उक्तं चैवमेव प्राक् १२६ पृष्ठे २४ पक़कौ इति ज्ञेयम्। "अत्रायतलोचनाम- दनानलयोरुक्तविशेषणवत्वेनातिवैधर्म्याद्योगस्यानुपपद्यमानता" इति निदर्शनकृत्। मृद्ङ्गीस्मरान- लयोरननुरूपत्वाद्वैषम्यमति माणिक्यचन्द्रः। अत्रान्यतरगुणस्वरूपतिरस्कार्यन्यतरगुणस्वरूपत्वाद्वै- षम्यमित्युश्योतकृत्। अत्र क्वशब्दोक्तं द्वयोरप्यत्यन्तवैलक्षण्यं विषमालंकार इति चन्द्रिक कृत्। अत्रानयोर्योगोऽनुचित इति व्यञ्ञनया प्रतीयते इति चक्रवत्यादयः॥ द्वितीयं विषममुदाहरति सिंहिकेति। सिंहिका सिंही तत्सुतः सिंहशावः तस्मात् संत्रस्तो भीतः शशः १ अरण्यशु्कं गोमयं करीषः । 'तत्त शुष्कं करीषोऽस्त्री' इत्यमाः ॥

Page 780

दशम उल्लास: । ७२१

सद: करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशसस्त्रिळोक्याभरणं प्रसूते ॥ ५३९॥ आनन्दममन्दमिमं कुवलय३ललोचने ददासि त्वम्। विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ ५४०॥ मृगविशेष: (स्वरक्षार्थ) शीतांशुं चन्द्रम् आश्रितः । तत्र अन्यः द्वितीयः सिंहिकानान्नी राहुमाता तस्याः सुतो राहुः साश्रयं सचन्द्रं तं शशं जग्रसे भक्षयामासेत्यर्थः। "सिंही स्वर्भानुमातरि" इति हैमः॥ अत्रेष्टसाधने प्रवृत्तस्य शशस्य विपरीतानर्थप्राप्तिरूपो विषमालंकारः । अत्र शशः कर्ता शीतां- श्र्वाश्रयणं क्रिया सिंहिकासुतात्राणं फलम् अन्येन साश्रयग्रासोऽनर्थ इति बोध्यम्। तदुक्तं प्रदीपो- इ्चोतयोः "अत्र त्राणरूपफलाभावेऽन्येन ग्रासरूपोऽनर्थः । अत्रानयोर्योगोऽनुचित इति व्यङ्गचम्" इति। "अत्र न केवलमात्मरक्षारूपेष्टानापिः प्रत्युताश्रयविनाशाख्यस्याधिकानर्थस्य प्राप्तिश्वेति वैष- म्यम्" इति निदर्शनकृत् ॥ तृतायं विषममुदाहरति सद्य इति। पद्मगुप्तप्रणीते नवसाहसाङ्कचरिते प्रथमे सगें ६२ पद्यमिदम्। तमालस्तापिच्छस्तद्वत् नीला नीलवर्णा कृपाणलेखा खङ्गरेखा। लेखाकारत्वाल्लेखेत्युच्यते खङ्गलतेत्या- दिवत्। यस्य राज्ञः करस्पर्शम् अवाप्य प्राप्य । करस्पर्शमात्रेणैव यशः न तु युद्धापेक्षेति भावः । सद्यः तत्कालं रणे रणे प्रतिसंग्रामं शरदिन्दुवत्पाण्डु शाभ्रं त्रिलोक्याः आभरणभूतं यशः कीर्ति प्रसूते जनयति एतच्चित्रमित्यर्थः । "कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि" इत्यमरः "तमालस्ति- लके खड्गे तापिच्छे वरुणद्रुमे" इति मेदिनी च। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्र कार्यकारणयोर्यशःकृपाणयोः पाण्डुरनीलाख्यौ गुणौ विरुद्धाविति विषमालंकारः। तदुक्तं निदर्शनकारैः "कारणगुणाः कार्यगुणान् आरभैन्ते" इति स्थितेऽपि खङ्गलतायाः कृष्णायाः शुक्कस्य यशस उत्पत्तिरिति श्वेतकृष्णगुणयोर्वैषम्यम् इति। अत्राहुरुद्योतकारा अपि "अत्र जन्यजनकनिष्ठयोः पाण्डुरनीलाख्यगणयोर्वैषम्यम्। अत्र श्यामत्वगुणविशिष्टात् कारणात्तद्विरुद्धगुणयुक्तयशस उत्पत्तिः । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे विषयांशमालम्ब्य भातो विरोधो विषय्यंशविमर्शनान्निवर्तते इति। अत्राभेदाध्यवसायोऽनुप्राणकः तदुत्थापितविरोधश्र परिपोषकः । इदमेवात्रालंकारत्वबीजम् । द्वितीयभेदे इष्टानवाप्त्यनिष्टाप्ती मिलिते प्रत्येकं च बिषम- पदार्थश्रकारात् । इष्टं च स्वस्य सुखसाधनप्राप्तिः दुःखसाधननिवृत्तिश्र् परस्य दुःखसाधनप्राप्तिः सुखसाधननिवृत्तिश्र्वेति चतुर्विधम् । अनिष्टं च स्वस्य दुःखसाधनप्राप्तिः परस्य सुखसाधनप्राप्तिः दुःखसाधननाशश्रेि त्रिविधम्। तत्राद्योदाहरणं सिंहिकेत्युक्तम् अन्येषां तु कुवलयानन्दादौ द्रष्टव्यम " इति॥ चतुर्थ विषममुदाहरति आनन्दमिति । रुद्रटालंकारे पद्यमिदम्। हे कुवलयदललोचने त्वम् इमम् अमन्दम् अनल्पम् आनन्दं ददासि। त्वयैव जनितो विरहः मे शरीरम् अत्यन्तं तापयती- त्यर्थः। आर्या छन्दः । लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्र नायिकाविरहयोर्जन्यजनकयोः (जनकजन्ययोः) आनन्ददानतापनक्रिये विरुद्वे इति चतुर्थो विषमालंकारः। न चात्रासंगतिर्विरोधो वेति वाच्यम् विरोधे विरोधिनोः सामानाधिकरण्यस्य असंगतौ १ स्वजातीयानिति शेष: ॥ २ जनयन्ति ॥ ९१

Page 781

७२२ काव्यप्रकाश: सटीक:।

अत्रानन्ददानं शरीरतापेन विरुष्यते। एवम् विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये। मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया हशा॥ ५४१॥ इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्।।

कार्यकारणयोवैयधिकरण्यस्य चमत्कारप्रयोजकता अत्र तु कार्यकारणवृत्तिविजातीयक्रियागुणयोगस्य चमत्कारितेति विशेषादित्युद्दयोते स्पष्टम् ।।

एवमिति। व्याख्यतमिदं प्रदीपोद्दचोतयोः। "सूत्रे विभागः उपलक्षणपरः । तेन संबन्धिनोरानु- रूप्याभावात्मकस्य विषमस्यान्येऽपि भेदा: संभवन्ति। तत्रावयवावयविनोर्वैषम्ये यथा विपुलेनेति । एव- मन्यत्राप्यूह्यम्" इति प्रदीपः । (उपलक्षणपर इति। एवमन्यालंकारसूत्रेष्वपे विभाग उपलक्षणमिति ध्वनितम् । संभवन्तीति। संबन्धिनोर्योगवैषभ्यमात्रस्यैव विवक्षितत्वमिति भावः) इत्युद््य्ोतः॥

विपुलेनेति। माघकाव्ये त्रयोदशे सर्गे पद्यमिदम्। सागरे शेते इति सागरशयस्ताद्ृशस्य यस्य विष्णोः (श्रीकृष्णस्य ) विपुलेन विस्तृतेन कुक्षिणा उदरेण (कर्त्रा) युगक्षये प्रलयकाले भुवनानि चतुर्दश जगन्ति (कर्माणि ) पपिरे पीतानि जग्रसिरे । स पुनः सोऽपि श्रीकृष्णः । एकतमया कयाचित् पुरस्त्रिया नगरकामिन्या (कत्या)। मदेन विभ्रमः शोभातिशयो यस्यां सा चासावसकला असंपूर्णा च तथाभूतया। यद्वा मदविभ्रमो मद्विकारः मद्जन्यहावविशेषः । "अथ विभ्रमः । शोभायां संशये हावे" इति मेदिनी। तेन असकलया असंपूर्णया दृशा ( करणभृतया) चक्षुःकोण- मात्रेणेत्यर्थः । पपे पीतः सादरमवलोकितः इत्यर्थः । मञ्जुभाषिणी छन्दः "सजसा जगौ भवति मत्र्जुभाषिणी" इति लक्षणात्॥ अत्र कुक्षिशरीरयोरवयवावयविनोर्योगवैषम्यं पानकर्तृत्वपानकर्मत्वरूपं पानपदार्थयोर्भेदेपि अभे- दोपचारेण बोध्यमिति प्रभायां स्पष्टम्। उक्तं च चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यप्रभृतिभिः "अत्र जग

इति विषमत्वम्" इति। एवं चात्रावयवावयविनोः संबन्धिनोः संबन्धन्य योगस्य वैषम्यम्। पूर्वों- क्तभेदचतुष्टये तु वैधर्म्यादिमतोः संबन्धिनोः संबन्धस्य वैषम्यमिति पूर्वोक्तभेदचतुष्ट्यापेक्षयास्य भेद इति बोध्यम्। अयमेव प्रदीपाभिप्रायः। "जगत्पानकर्तुरवयवस्य कुक्षिणः असकलस्त्रीदृष्टिपीतेना- वयविना श्रीकृष्णेन अवयवावयविभावः संबन्धोऽनुपपद्यमान इति प्रथमप्रकारोSत्र विषम इति प्रदीपा भिप्रायः। उपादनकारणस्य कुक्षिणः जगत्पानक्रिया उपादेयस्य श्रीकृष्णशरीरस्य एकतमस्त्रीकर्तृकपा- नक्रियया विरुद्धेति चतुर्थप्रकारो विषम इति तु महेश्वरः" इति यत्तु महेशचन्द्रेण विवरणे उक्तम् तत्तु न युक्तम् तथाविधस्य प्रदीपाभिप्रायस्याभावात्। अन्यथा "सूत्रे विभागः उपलक्षणपरः" इति ग्रन्थेन प्रदीपोक्तं विभागस्योपलक्षणपरत्वं विरुद्धमेव स्यात्। किंचास्योक्तभेदेष्वेवान्तर्भावे दर्शयिष्यमाणोद्दयो- तप्रदर्शितं पूर्वोक्तभेदचतुष्टयापेक्षया भिन्नं विषमद्यं विरुद्धमेव स्यात्। अपि च मू काराभिहितमिदमु- दाहरणान्तरं व्यर्थमेव स्यादिति सुधीभिर्विभावनीयम्। एतेन "विपुलेनेत्यायुक्त्वा 'इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्' इति काव्यप्रकाशोक्तं चतुर्थप्रकारे एव ( मम्मटोक्तप्रथमप्रकारे एव) १ उपलक्षणत्वं च अजहत्स्वार्थलक्षणया (उपाद्ानलक्षणया) अन्यग्राहकत्वमिति प्राक् (६०६ पृष्ठे ६ टिप्पणे ) उक्तम् ॥ २ चतुर्दश भुवनानि च ६०५ पृष्ठे १ टिप्पणे दर्शतानि ॥

Page 782

दशम उल्लास: । ७२३

(सू० १९५) महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्। आश्रयाश्रयिणी स्यातां तनुत्वेऽप्यधिकं तु तत् ॥ १२८ । आश्रितम् आधेयम् आश्रयस्तदाधारः तयोर्महतोरपि विषये तदपेक्षया तनू अप्याश्रया-

संगमयति यथा वेति। विपुलेनेति । अत्र यदेकदेशेन कुक्षिणा जगत्पीयते स पुनश्रक्षुरेकदेशेन स्त्रिया पीयते इति विरुद्धयोर्मैलनम्" इति साहित्यदर्पणविव्ृतौ रामचरणेनोक्तमपास्तम्। "कुक्षि- कोणनिविष्टनिखिलविष्टपस्य हरेर्महतः आधेयस्यात्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्क।- रादत्राधिकालंकारः 'आवाराधेययोरानुरूप्याभावोऽघिकः स्मृतः' इति लक्षणात्" इति माघकाव्य- टीकायां मल्लिनाथेनोक्तं तु दूरत एवापास्तमिति बोध्यम्॥

अत्रोद्दयोतकारा: "पपे। सादरमवलोकनमत्र पानम्। पानपदार्थयार्भेदेऽपि अभेदवर्णनात् (अभे- दाध्यवसानात् ) उदाहरणमिदम् । अत्र सागरशयत्वं ससागरसकलभुवनग्रासश्वेत्येकं विषमम्। एवं यस्य कुक्षिरेव सकलभुवनपानसमर्था तस्य संपूर्णस्यावयविनः स्त्रिया एकदृशा पानं चापरं विषमम्। योगवैषम्यादेव चमत्कारान्न विरोधाशङ्का। एवं कस्यचिद्गुणेन कस्यचिद्दोषवर्णनम् कस्यचिंद्दोषेण कस्यचिद्ुणवर्णनमपि विषममेव। एतेनात्रोल्लासोऽतिरिक्त इत्यपास्तम्। एवमिष्यमाणविरुद्धार्थप्रा प्तिरपि विषममेव ताद्ृशेच्छया तादृशार्थलाभयोगस्य विषमत्वात्। एतेनेदशस्थले विषादनामालंकार इत्यपास्तम् । एवमन्यदीयगुणेनान्यत्र गुणाभावस्य अन्यदोषेणान्यत्र दोषाभावस्य वर्णनेऽपि विष- मम्। क्वचिद्वक्ष्यमाणोऽतद्गुणो वा। एतेनैवंविधे विषयेऽवज्ञालंकारान्तरमित्यपास्तम्। कारणे सति कार्यानुत्पत्तिरूपविशेषोक्त्यैव गतार्थोऽयमिति तत्त्वम्। उदाहरणम् 'चिर जलनिधौ मग्नो मैनाको नैति मार्दवम्' इत्यादि। एवमिष्टसिद्यर्थमिष्टैषिणा क्रियमाणमिष्टविपरतियत्नाचरणमपि विषममेव यथा 'नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम्' [इति। अत्र ] वाच्यप्रतीतिवेलायां योगवैषम्य- प्रतीतेः । एतेनात्र विचित्रालंकारः पृथगित्यपास्तम्" इत्याहुः ॥ इति विषमम् ॥४७॥

द्विविधमधिकनामानमलंकारं लक्षयति महतोरिति । महतोः बृहतोः विशालयोः आश्रिताश्र- ययोः आधेयाधारयोः सतोः आश्रयाश्रयिणौ आधाराधेयौ तनुत्वेऽपि अल्पत्वेऽपि क्रमात् क्रमेण यत् महयिांसौ स्याताम् महीयस्तया वैर्ण्येते प्रतिपादेते तत् द्विविधम् अधिकमित्यर्थः । अयं भावः। महति बहति विशाले आश्रिते आधेये सति तद्पेक्षया तनुरपि अल्पेऽपि आश्रयः आधारः [ वर्णनीयो- त्कर्ष बोधायतुम ] महीयान् स्यात् महीयस्तया वर्ण्यते तत् एकमधिकम् । महति बृहति बिशाले आश्रये आधारे सति तदपेक्षया तनुरपि अल्पोऽपि आश्रितः आधेयः [ वर्णनयोत्कर्ष बोधयितुम् ] महीयान् स्यात् महीयस्तया वर्ण्यते तत् अपरमधिकमिति। "यत्राधाराधेययोरन्यतरस्य न्यूनत्वाधिकत्वे कविकल्पिते तत्रैवायमलंकारः" इत्युद्योते स्पष्टम्॥

आश्रिताश्रययोरिति व्याचष्टे आश्रितमित्यादिना । महतीरपि बृहतौरपि (विशालयोरपि )। विषये संबन्धे सति। अस्य 'अधिकतरतां व्रजतः' इत्यनेनान्वयः। तदपक्षया आश्रिताश्रयापेक्षया। १ उल्लासः उल्लासनामालंकार:॥ २ वर्णनमत्र वथाकथंचित् प्रतिपाद्नम् न त्वभिधानमेव प्रथमोदाहरणेडभि धानसंभवेपि द्वितीयोदाहरणे तदसंभवात् ॥ 3 विषये 'संचन्धे सति' इति शेष इति विधरणकाराः। विषये संबन्धे इत्युद्यतरुतः। विषये प्रतिपाद्े इति प्रभाकृत्। विषये स्थलविशेषे इति कमलाकरभट्ठा ॥

Page 783

७२४ काव्यप्रकाशः सटीकः।

श्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रअतः तदिदं द्विविधम् अधिकं नाम। क्रमेणोदाहरणम् अहो विशालं भूपाल भुवनत्रितयोदरम्। माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥। ५४२ ॥ युगान्तकाल प्रतिसंहतात्मनो जगन्ति यस्यां सविकाशमासत। तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥५४३॥

तनू अपि अल्पावपि । आश्रयाश्रयिणौ आधाराधेयौ। प्रस्तुतवस्तुप्रकर्षविवक्षयेति । वर्ण नीयवस्तूत्कर्ष बोधायतुमित्यर्थः । अधिकतरतां व्रजतः महीयस्तया वण्येते। द्विविधं द्विप्रकार- कम्। अधिकम् अधिकनामालंकारः । तत्र आद्यमधिकम् आधारस्य महत्त्ववर्णनरूपम् उदाहरति अहो इति। काव्यादर्शे द्वितीयप- रिच्छेदे दण्डिना पठितमिदं पद्यम् । हे भूपाल भुवनत्रितयोदरं भुतनत्रयाभ्यन्तरं विशालं विरतृतम् अहो आश्र्वर्यम यत् यस्मात् अत्र भुवनत्रितयोदरे मातुमशक्योऽपि ते तव यशोराशिः माति अव- काशं लभते इत्यर्थः ॥ अत्र आश्रयस्य भुवनत्रितयस्य महत्तया वर्णनमिति प्रदीपः । अत्र मातुमशक्यतया महत्त्वेन विवक्षितस्य यशोराशेराश्रितस्य मानकर्तृत्वेन ततस्तनोरपि भुवनत्रयस्याधिक्यमभिधीयमानं वर्णनी- ययशोराशिप्रकर्षे विश्राम्यतीत्युद्दयोतः। तदुक्तं सारबोधिन्याम् "अत्र आधेयस्य यशसो वैपुल्येऽपि तदपेक्षया तनोरपि भुवनत्रितयोदरस्याधिक्यमेव चारुताहेतुः" इति । उक्तं च चन्द्रिकायामपि "अत्र कविविवक्षावशेन महतो यशोराशेराधेयात्तनुरपि त्रिभुवनरूपः आधारो महत्त्वेनोक्त इत्य- धिकालंकार: " इति ॥ द्वितीयमधिकम् आधेयस्य महत्त्ववर्णनरूपम् उदाहरति युगान्तेति । माघकाव्ये प्रथमे सर्गे नारदागमने श्रीकृष्णस्य मुदां वर्णनमिदम्। युगान्तकाले युगक्षयकाले प्रलयकाले प्रतिसंहताः आत्म- न्युपसहताः आत्मानो जीवाः येन । अथ वा प्रतिसंहतः स्वोदरे प्रवेशितः आत्मा स्वात्मभूतः प्रपश्चो जगत् येन। यद्वा प्रतिसंहतः सूक्ष्मीकृतः आत्मा शरीरं येन। ताद्ृशस्य कैटभद्विषः श्रीकृष्णस्य यस्यां तनौ शरीरे जगन्ति चतुर्दश भुवनानि सविकाशं सावकाशं यथा स्यात्तथा आसत उपविशन्ति स्म स्थितानि तत्र तस्यां तनौ तपोधनो नारदस्तस्याभ्यागमः आगमनं तत्संभवास्तज्जन्या मुदः प्रीतयः न ममुः नावकाशं प्रापुरित्यर्थः। वंशस्थं वृत्तम। लक्षणमुक्तं प्राक् २४ पृष्ठे॥ अत्र आधेयभूतायाः मुदो महीयस्त्वं वार्णितम्। "अत्र जगदाश्रयतया महत्वेन विवक्षितस्य भगव- ्छराररूपाश्रयस्य मानाभावरूपसंबन्धात्ततोऽल्पस्यापि तपोधनागमजन्यहर्षस्य वर्णनीयस्याधिक्यं चारुताहेतु:" इत्युद्दयोते स्पष्टम्। एवं चात्राधेयस्याधिक्यवर्णनमेवालंकारः सूत्रेण तथैव दर्शितत्वात्। एवं पूर्वोदाहरणेडप्याधारस्याधिक्यवर्णनमेवालंकारः। परं तु तत्र आधारस्याधिक्यमभिधीयमानं वर्णनीयप्रकर्षे विश्राम्यतीत्यन्यदेतत् । अत एवोक्तं सारबोधिन्याम् "अत्र कैटभारितनोराधारस्य वैपुल्येऽपि तदपेक्षया तनूनामपि मुदां यदाधिक्यं तत् चारुताहेतुः" इति। उक्तं च चन्द्रिकायामपि "अत्राधेयानां मुदां महत्त्वोक्तिरित्यपरो भेदः" इति। एतेन 'चतुर्दशभुवनभरणपर्याप्ते वपुषि अन्तर्न मान्तीति कविप्रौ- १ तानि प्राक् ६०५ पृष्ठे उक्तानि॥

Page 784

दशम उल्लास: । ७२५

(सू० १९६) प्रतिपक्षमशक्तेन प्रतिकर्तु तिरस्क्रिया। या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ १२९ ॥ न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणम् तत् अनीकप्रतिनिधितुल्यत्वात् प्रत्यनीकमभिधीयते। यथा अनीके अभियोज्ये तत्प्रतिनिधीभूतमपरं मूहृतया केनचिदभियुज्यते तथेह प्रतियोगिनि विनेये तदीयोऽन्यो विजीयते इत्यर्थः । उदाहरणम् ढोक्तिसिद्धातिशयेन स्वतः सिद्धस्याभेदेनाध्यवसतातिशयोक्तिः सा च मुदामन्तःसंबन्धेऽप्यसंब- न्धोक्त्या संबन्धासंबन्धरूपा' इति माघकाव्यटीिायां मल्िनाथेनोक्तमपास्तमिति बोध्यम्॥ अत्र सूत्रे महत्त्वशब्देन महत्परिमाणम् अतिशयश्र तेन यत्र सूक्ष्मत्वातिशयवतः आधारात् आधेयाद्वा तदन्यतरस्यातिसूक्ष्मत्वं वर्ण्यते तत्राप्ययमलंकारः। यथा 'मणिमालोर्मिका तेऽय करें जपवटायते' इति। अत्र मणिमालामयी ऊर्मिका अङ्गलीमितत्वादतिसूक्ष्मा सापि विरहिण्याः करे कङ्कणवत्प्रवेशिता तस्मिन् जपमालावत् लम्बते इत्युक्त्या ततोऽपि करस्ब विरहकाश्यादतिसूक्ष्मता दर्शिता। एतेनेदशे विषयेडल्पं नाम पृथगलंकार इति कुवलयानन्दोकतम् अपास्तमित्युद्दयोते स्पष्टम् ॥ इत्यधिकम् ॥ ४८ ॥ प्रत्यनीकनामानमलंकारं लक्षयति प्रतिपक्षमिति। प्रतिपक्षं शत्रुं प्रतिकर्तुम अपकर्तुम् अश- क्तेन अक्षमेण केनापि कत्रा तत्स्तुत्यै तस्य प्रतिपक्षस्य स्तुत्यै उत्कर्षाय प्रतिपक्षोत्कर्षफलिका या तदीयस्य प्रतिपक्षसंबन्धिनोऽन्यस्य तिरस्क्रिया तिरस्करणम् तत् प्रत्यनीकं प्रत्यनीकालंकार इत्यु- च्यते इत्यर्थः । उक्त चान्यत्र प्रत्यनीकलक्षणम् "बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे। यस्तदी- यतिरस्कारः प्रत्यनीकं तदुच्यते ॥" इति ॥ सूत्रं व्याचष्टे न्यक्कृतीत्यादिना। न्यक्कृतिपरमपीति। पराभवपरमपीत्यर्थः अपकारिणमपीति यावत्। विपक्षं शत्रुम् । निरसितुं जेतुम अपकर्तुम्। अशक्तेन अक्षमेण। केनापि केनचि- त्कर्त्रा। तत्स्तुत्यै इति व्याचष्टे तमेवेत्यादि। प्रतिपक्षोत्कर्षफलकमित्यर्थः । यथाश्नते प्रतिपक्षस्य प्रतिप- क्षोत्कर्षेच्छायाः बाधितत्वेन तुमर्थस्यासंगत्थापत्तेः। प्रतिपक्षोत्कर्षफलकत्वं च साक्षात्तन्निरसनासामर्थ्य सूचकत्वेन बोध्यम्। तदायस्येति व्याचष्टे तदाश्रितस्येति। प्रतिपक्षाश्रितस्येत्यर्थः । तिरस्करणं तिर- स्त्रिया। कथं तत्प्रत्यनीकमित्यभिधीयते तत्राह अनीकप्रतिनिधीत्यादि। प्रत्यनीकमित्यत्र प्रतिशब्द: प्रतिनिध्यर्थकः "प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः" इत्यमरात् "प्रतिः प्रतिनिधिप्रतिदानयोः" (१।४।९२) इति पाणिनिस्मृतेश्र। अनीकं सैन्यम्। "अनीकीSस्त्री रणे सैन्ये" इति मेदिनी। तथा च प्रत्यनीकशब्देन सैन्यप्रतिनिधिरुच्यते तत्साम्याच्च प्रकृतार्थे लक्षणया प्रयोग इत्यर्थः । एवं च प्रत्यनी- कमिति लाक्षणिकमिदमलंकारनामोति फलितम्। तदेवाह प्रत्यनीकमिति। अत्रानीकात् प्रतीति विग्रहे 'अपदिशम्' इतिवत् "अव्ययं विभक्ति" (२।१६) इति पाणिनिसूत्रे "अव्ययम्" इति विभक्तसू- त्रैणाव्ययाभावः समासः। यद्वा 'भूतपूर्वः' इत्यत्रेव "सुपा" (२।१।४) इति पाणिनिसूत्रेण सुप्सुप्स- मासो बोध्यः। अभिधीयते उच्यते। साम्यमेवोपपादयन् अनीकेत्यादि स्वोक्तमेव विवृणोति यथे त्यादिना। अभियोज्ये पीडनीये सति 'अशक्तेन' इति शेषः । तत्प्रतिनिधीभूतं तन्मित्रादिभूतम् । १. प्रतिनिधिप्रतिदानरूपयोरर्थयोः प्रतिः कर्मपवचनीयसंज्ञः स्यादिति पाणिनिसूत्रार्थः ॥

Page 785

७२६ काव्यप्रकाशः सटीकः ।

त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता। पश्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥५४४॥ यथा वा यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। कान्तवक्त्रसदशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥ ५४५॥ इन्दोरत्र तदीयता संबन्धिसंबन्धात्॥।

मूढतयेति। मूर्खतयेत्यर्थः। 'निगूढम्' इति प्रदीपे पाठः सैन्यभयान्निगूढमिति तदर्थः। अभियुज्यते पीड्यते। प्रतियोगिनि शत्रौ। विजेये जेतव्ये सति। 'अशक्तेन' इति शेषः । तदीयः प्रति- योगिसंबन्धी। विजीयते अभिभूयते॥।

तदीयत्वं चात्र द्विविधम् साक्षात्संबन्धेन परंपरासंबन्धेन चेति। तत्र साक्षात्संबन्धेन तदीयत्वे प्रत्यनीकमुदाहरति त्वमिति। नायकं प्रति नायिकासख्या उक्तिरियम्। हे सुन्दर त्वं विनिर्जितमनो- भवरूपः जितकामसौन्दर्यः सा च कामिनी भवति त्वय्येव अनुरक्ता आसकता अतः कामो मन्मथः अनुशयात् द्वेषादिव पश्चभिरप शरैः बाणैः युगपदेव तां कामिनी तापयतीत्यर्थः। "भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः" इति विश्वः। "अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥" इत्यमरः। "उन्मादनस्तापनश्र शोषणस्स्तम्भनस्तथा। संमोहनश्र कामस्य पञ्चबाणा: प्रकीर्तिताः ॥" इति तेषां पञ्चानां बाणानां कार्य बोध्यम्। 'तापयति' इत्यत्र 'पीडयति' इति 'ताडयति' इति च प्रदीपपुस्तकेषु पाठः। स्वागता छन्दः "स्वागतेति रनभाद्गुरु- युग्मम् " इति लक्षणात्॥

अत्र स्वरूपनिर्जयेन स्वशत्रुभूतं नायकं जेतुमशक्तेन कामेन तत्प्रतिनिधीभूतायाः तदीयका- मिन्या: पीडनात् प्रत्यनीकालंकारः। कामिन्याः कामिनश्र साक्षादेव स्वस्वामिभावः संबन्धः । तदी- यकामिन्याः पडिनात्तदुत्कर्षावगतिः। अत्र संभावनार्थकेवशब्दसत्त्वेऽप्युत्प्रेक्षा नेत्यग्रिमोदाहरणे स्फुटीभविष्यति॥

परंपरासंबन्धेन तदीयत्वे प्रत्यनीकमुदाहरात यस्येति। माघकाव्ये चतुर्दशे सर्गे पद्यमिदम्। कायस्य कायावयवस्य शिरसः निग्रहेण छेदनेन यद्वा कायस्य शरीरस्य यो निग्रहः शिरशच्छेदस्तेन गृहीतः अङ्गककितः विग्रहो विरुद्धज्ञानं वैरं विरोधो येन तथाविभः कृती विचक्षणः वैरनिर्यातमे कुशलः राहुः अष्टमो ग्रहः। "तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः" इत्यमरः । यस्य श्राकि- ष्णस्य किंचित् स्वल्पमपि अपकर्तुम अपकारं कर्तुम् अक्षमोऽसमर्थः सन् कान्तवक्त्रसदशाकृति कान्तं कमनीयं यत् वक्त्रम् अर्थात् श्रीकृष्णस्य तेन सदशी आकृतिर्यस्य तथाभूतम् इन्दुम् अधुनापि बाधते इदानीमपि ग्रसतीत्यर्थः । कृतीत्युपहासयुक्तं वचनम्। अमृतहरणे विष्णुः राहुशिर्रिच्छेदेति पौरा- णिकी कथात्रानुसंधेया। रथोद्धता छन्दः। लक्षणमुक्तं प्राक् ११९ पृष्ठे॥

अत्र स्वकायनिग्रहेण स्वशत्रुभूतं श्रीकृष्णं जेतुमसमर्थेन राहुणा श्रीकृष्णसंबन्धिनः इन्दोः पीडना- त्प्रत्यनीकालंकारः । नन्वत्र इन्दोः कर्थं तदीयत्वं कृष्णसंबन्धित्वम् अतदीयत्वे च कथं प्रत्यनीकित्व- मित्यत आह इन्दारत्रेति। तदीयता कृष्णसंबन्धिता। संबन्धीति। संबन्धिनः श्रीकृष्णसंबन्धिनो

Page 786

दशम उल्लास: । ७२७

(सू० १९७) समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते। निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ १३० ॥ सहजम् आगन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वूरेण यत् किंचित् केनचिदूस्तु वस्तुस्थित्यैव बलीयस्तया तिरोधीयते तत् मीलितमिति द्विधा स्मरन्ति। क्रमेणोदाहरणम् मुखस्य संबन्धात् सादृश्यात्मकसंबन्धादित्यर्थः । तथा च साक्षात्संबन्धेन तदीयत्वविरहेऽपि यत्प- दार्थस्य श्रीकृष्णस्य वक्त्रेणावयवावयविभावः संबन्धः वक्त्रस्येन्दुनोपमानोपमेयभावः संबन्ध इति परंपरासंबन्धेन तदीयत्वमिति भावः । अत्र श्रीकृष्णसंबन्धिनः इन्दोः पीडनात् श्रीकृष्णोत्कषविगतिः । न च भगवद्वैरानुबन्धादिव भगवद्वक्त्रसद्टशमिन्दुं राहुर्बाधते इति प्रतीतिर्गम्योत्प्रेक्षैवात्रास्तु आय्यो- दाहरणे तु शाब्यपि उत्प्रेक्षेति किमनेनालंकारेणेति वाच्यम् तदपकारासमर्थस्तदीयं पीडयतीति प्रतीत्यैवात्र चमत्कारादित्युद्दयोते स्पष्टम् ॥ इति प्रत्यनीकम् ॥४९॥ मीलितनामानमलंकारं लक्षयति समेनेति । निजेन वस्तुस्वभावसिद्धेन आगन्तुना निमित्तविशे- षसंपर्कजनितेन वा समेन साधारणेन तिरोधीयमानतिरोधायकयोरुभयोरप्यनुगतेन लक्ष्मणा चिह्नेन करणभूतन। 'केनचित्कर्त्रा' इति शेषः। वस्तु यत्किंचिद्वस्तु कर्म वस्तुना वस्तुगत्या स्व्रभावतः यत् निगूह्यते तिरोधीयते अन्तर्धीयते तत् मीलितं स्मृतमित्यर्थः । मीलितमिति नपुंसके भावे कतः । एवं च मीलनं मीलितमित्यन्वर्थेयं संज्ञेति फलितम्।

सूत्रं व्याकुर्वन् निजपदार्थमाह सहजमिति। स्वाभाविकमित्यर्थः वस्तुस्वभावसिद्धमिति यावत्। आगन्तुपदार्थमाह आगन्तुकमिति । औपाधिकमित्यर्थः निमिन्तशेषसंपर्कजनितमिति यावत्। समपदार्थ्रमाह साधारणमिति । तिरोधीयमानतिरोधायकयोरुभयोरप्यनुगतमित्यर्थः। लक्ष्मपदार्थमाह लक्षणमिति। चिह्नमित्यर्थः । "चिह्नं लक्ष्म च लक्षणम्" इत्यमरः । किंचित्केनचिद्वस्त्विति । केननित्कर्त्रा किंचिद्वस्त्वित्यन्वयः। 'निगूह्यते' इति क्रियायाः कर्तृसाकाङ्गत्वात् 'केनचित्कत्र' इत्यध्या- हारलब्धम् । 'किंचिद्वस्तु' इति 'वस्तु' इत्यस्य विवरणम् । वस्तुनेति पदं लाक्षणिकमिति मनसि निधाय व्याचष्टे बस्तुस्थित्यैवेति । वस्तुगत्यैवेत्यर्थः स्वभावत एवेति यावत् । वस्तुस्थित्येति 'वस्तुना' इत्यस्य विवरणमिति विस्तारिकायां सारबोधिन्यां च स्पष्टम्। ननु सूत्रे 'वस्तुना' इति कर्तृतृतीयैव तस्यैव व्याख्यानं वृत्तौ 'केनचित्कर्त्रा' इति 'वस्तुस्थित्यैव' इतीदमेवाध्याहारलब्धम- स्त्विति चेन्न । कपटादिनापि तिरोधानसंभवेन तिरोधानस्य वस्तुस्थितिसाकाद्कितत्वाभावेन वस्तु- स्थि:यैवेत्यस्याध्याहारलभ्यत्वाभावादिति बोध्यम्। बलीयस्तया। प्रबलतया। निगूह्यते इत्यस्यार्थ- माह तिरोधीयते इति। द्विधेति। लक्ष्मणः क्वचित्स्वाभाविकत्वात् क्वचिदागन्तुकत्वाच्च द्विविधं मीलितमित्यर्थः । स्मरन्तीति। कवय इति शेषः । एवं च समानलक्षणयोरपि वस्तुनोरेकस्य स्वभावतः प्रबलतया तेन यदि अपरस्य तिरोधानम (अन्तर्धानम् अनुद्वोधः अप्रकाशः) भवेत् तदा मीलित- मिति फलितम्। व्याजोक्तौ तिरोधानं न वस्तुस्वभावजनितं किंतु कथंचिदुद्भिन्नं वस्तु कश्वित् तिरो- धातुं यतते इति विवक्षितम्। इह तु वस्तु नोद्भिन्म तस्यापि च तिरोधानं वास्तविकतया वित्रक्षित- १ अध्याहारश्र आकाङ़ितैकदेशपूरणम् ।

Page 787

७२८ काव्यप्रकाशः सटीकः ।

अपाङ्गतरले हशौ मघुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम्। इति स्फुरितमङ्गके मृगदशः स्वतो लीलया तदत्र न मदोदय: कृतपदोपि संलक्ष्यते ॥ ५४६ ॥ अत्र दक्तरलतादिकशङ्गस्य लिङ्गं स्वाभाविकम् साधारणं च मदोदयेन तत्राप्येतस्व दर्शनात्।

मिति भेद इति विवरणे स्पष्टम्। न चापहुत्यतिव्याप्तिः उपमानोपमेयभावाभावादिति विस्तारिकाया- मुक्तम्। वस्तुतस्तु अपह्नुतौ निषेधसहितं व्यवस्थापनम् अत्र तु न तथेति ततो भेद:॥

अत्राहुरुद्दयोतकाराः "स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्यात् भिन्नत्वेनागृह्य- माणानां वस्त्वन्तरलिङ्गानां स्वकारणानुमापकत्वं मीलितम्। एवं च 'हिमाद्रिं त्वयशोमग्नं सुरा: शीतेन जानते' इत्यादावपि इदमेव (मीलितमेव ) शीतेन तज्ज्ञानेऽपि यशःसाधारणलिङ्ग: श्वैत्या- दिभिस्तदनुमानाभावात् शीतेन जानते इत्यनेनापि मीलनस्यैव दार्ढ्य न त्वन्येनेति प्रतीतेः । एते- नात्रोन्मीलितं पृथगलंकार इति [कुवलयानन्दोक्तम् ] अपास्तम् " इति॥

तत्र स्वाभाविकेन लक्ष्मणा मलितमुदाहरति अपाङ्गेति। अपाङ्गयोः प्रान्तयोः तरले चश्चले यद्दा अपाङ़ग: तरलः ययोस्तादृशे दृशौ नेत्रे। मधुराः कोमलाः वक्राः गूढार्थाश्र यद्दा वक्राः ,वक्रोक्ति- समर्पकाः वर्णाः अक्षराणि यासु तथाभूता: गिरः उक्तयः । विलासभरेण विलासतिशयेन मन्थरा मन्दा गतिर्गमनम्। अतीव कान्तम् अत्यन्तमनोहरं मुखम्। इति एवंप्रकारेण मृगदृशः कामिन्याः । 'मृगदृशाम्' इति पाठे कामिनीनामित्यर्थः । अङ्गके कोमलाङ्गे लीलया कत्या स्वतः स्फुरितं स्वभावादेवोल्लसितम् तत् तस्मात् अत्र अङ्गके कृतं पदं स्थानं येन तादृशोऽपि मदस्य मधुपान- जन्यस्योद्य' न संलक्ष्यते न ज्ञायते इत्यर्थः । सुधासागरे भीमसेनास्तु मदोदयः निरूढोऽपि गर्व- प्रकाश: कृतपदोऽपि कृतस्पर्शोऽपि न संलक्ष्यते। वस्तुतस्तु 'न मदः कचित्कृतपदोऽपि' इति पाठी युक्तः। अयमर्थः । मदो मदिरादिजन्यो धनादिजन्यो वा गर्वः कृतपदोऽपि निरूढोऽपि क्वचित् क्वाप्यवयवे न संलक्ष्यते इतीति व्याचख्युः। "अपाङ्गे नयनस्थान्ते स्याच्चित्रकप्रधानयो:" इत्यजयः "अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च" इति विश्वश्। मदलक्षणं तूक्तं प्राक् ११३ पृष्ठे। पृथ्वी छन्दः। लक्षणमुक्तं प्राक् ५६ पृष्ठे॥

अत्र सहजलील जन्यत्वात् स्वाभाविकं दृक्तरलतादिकमङ्गनिष्ठं लिङ्गम चिह्नम्। तच्च लीलामद- साधारणम् मदेनापि जन्यत्वात्। एवं च प्रसिद्धतया बलिष्ठेन लीलारूपवस्तुना (कर्त्रा) स्त्राभा- विकसाधारणदृक्तरलतादिरूपलक्ष्मद्वारा मदरूपं वस्तु (कर्म) तिरोहितमिति मीलितालंकारः। तदे- वाह अत्रेत्यादिना। अङ्गस्य लिङ्गम् अङ्गनिष्ठ तिङ्गम्। स्वाभाविकमिति। जनिकायाः लीलायाः स्वाभाविकत्वात्तज्जन्यस्यापि दृक्तारल्यादेः स्वाभाविकत्वम् "जनकानुरूपं जन्यम्" इति नियमादिति भावः। तत्रापि मदोदयेऽपि। एतस्य दृक्तरलतादिकस्य। दर्शनात् उपलम्भात्।

व्याख्यातमिदं प्रदीपोह््चोतयोः । "अत्र दृक्तरलतादि अङ्गस्य स्वाभाविकं लिङ्गम् समानं च तिरो- धेयेन मदेन तत्राप्येतदुपलम्भात्" इति प्रदीपः। "अत्र स्व्राभाविकेन दृक्तारल्यादिना निगूहनी-

Page 788

दशम उल्लास: । ७२९

ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्गितधियो विवशा द्विषस्ते। श्र भिाष अप्यङ्गमुत्पुलकमुद्दहतां सकम्पं तेषामहो बत भियां न बुधोऽव्यभिज्ञः॥५४७॥ अत्र तु सामथ्यादवसितस्य शैत्यस्य आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्तादूरूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात्। (सू० १९८) स्थाप्यतेSपोह्यते वापि यथापूर्व परं परम्। विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ १३१ ॥ पूर्व पूर्व प्रति ययोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत् स्थापनं निषेधो वा संभवति सा द्विधा बुधैरेकावली भण्यते। क्रमेणोदाहरणम् यमदसमानधर्मेण बलवता मदोऽभिभूयते" इत्युद्चोतः। "अत्र मदसाधारणैरङ्गस्य स्वाभाविकैरपाङ्ग- तरलत्वादिचिह्लैर्मदस्य गोपनान्मीलितालंकारः" इति चन्द्रिकायामुक्तम् । आगन्तुकेन लक्ष्मणा मीलितमुदाहरति ये इति। हे राजन् ये त्वत्पति त्वदागमने त्वत्पातेन त्वदाकमणेन वा शङ्किता धीर्येषां तथाभूताः ते तव द्विषः शत्रवः विवशाः विह्वलाः सन्तः हिमाद्रेः कन्दरासु गुहासु सदा निवसन्ति। उत्पुलकम उद्गतरोमाश्चं सकम्पं कम्पसहितं च अङ्गम् उद्द हतामपि तेषां शत्रूणां भियां तन्निष्ठभयानाम् अहो बतेति खेदातिशये बुधः पण्डितोऽपि अभिज्ञः ज्ञाता न भवतीत्यर्थः। हिमसंबन्धेनापि पुलकादिसंभवादिति भावः। भियामिति 'अभिज्ञः' इति कृद्योगे कर्मणि षष्ठी। "बुधः सौम्ये च पण्डिते" इति मेदिनी । वसन्ततिलका छन्दः। लक्षण- मुक्तं प्राक् ६८ पृष्ठे॥ अत्र कम्पपुलके अङ्गस्य लिङ्गे (अङ्गनिष्ठे लिङ्गे) । हिमाद्रिकन्दरनिवाससामर्थ्यादधिगतशी- तरूपकारणस्य आगन्तुकत्वेन तत्कार्यभूतयोः कम्पपुलकयोरप्यागन्तुकत्वं भयैः समानता च भये- ष्वपि कम्पपुलकयोरुपलम्भात्। एवं च हिमाद्रिसंनिधानतया बलिष्ठेन शीतरूपवस्तुना (कर्त्रा) आगन्तुकसाधारणकम्पादिचिह्नद्वारा भयरूपं वस्तु तिरोहितमिति मीलितालंकारः । तदेवाह अत्र त्वित्यादिना। सामर्थ्यात् हिमाद्रिकन्दरनिवासबलात्। अवसितस्य अधिगतस्य। तत्प्रभवयोरपि शैत्यजन्ययोरप। ताद्रप्यम् आगन्तुकत्वम्। समानता शैत्यभयोभयसाधारणता। तयो: कम्पपुल- कयोः । उपलक्षितत्वात् उपलम्भात् दृष्टत्वात् अनुभवात् इति यावत्। एवं च पूर्वत्र लीलायाः स्वाभाविकत्वात्तज्जन्यस्यापि दृक्तारल्यादे: स्वाभाविकत्वम्। अत्र तु शैत्यस्यागन्तुकत्वात्तज्जन्ययोरपिः कम्पपुलकयोरागन्तुकत्वमिति द्वयोरुदाहरणयार्भेदः ॥ इति मीलितम् ॥५० ॥ एकावलीनामानमलंकारं लक्षयति स्थाप्यत इति। यथापूर्वमिति वीप्सायामव्ययीभावः । यत्र यस्मि- ननलंकारे यथापूर्व पूर्व पूर्व वस्तु प्रति परं परम् उत्तरमुत्तरं वस्तु (वीप्सया बाहुल्येन ) विशेषणतया विशेषणभावेन स्थाप्यते विधीयते अपोह्यते निषिध्यते वा सा द्विधा द्विप्रकारा एकावलीति सूत्रार्थः॥ सूत्रं व्याचष्टे पूर्व पूर्वमित्यादिना । 'वीप्सया' इति सूत्रेऽनुक्तमपि विवक्षितमित्याह वीप्सयेति। बाहुल्येनेत्यर्थः सकृत्तथोक्तौ चमत्काराभावात् तत्रैव चमत्काराच्चेति भावः। विशेषणतयेति व्याचष्टे विशेषणभावेनेति । स्थापनं विधानम्। अपोहपदार्थमाह निषेध इति। एकावलीति। ग्रन्थना- न्यायसाम्यादिति भावः । भण्यते कथ्यते। अयं भावः। एकावली हारभेदः। "एकावल्येकयष्टिका"

Page 789

७३० काव्यप्रकाश: सटीक:। पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासम् अस्त्रं विलास: कुसुमायुधस्य ॥५४८॥ इत्यमरः । एका चासावावली चेति कर्मधारयः । एकयष्टिका एकलतिका चेत् (एकसरा चेत्) एकावलीत्युच्यते इति तदर्थः । तथा च तत्सादृश्यादलंकारे लक्षणेति॥ व्याख्यातमिदं प्रदीपप्रभयोः । "स्थापनं विधिः । अपोहो निषेधः। यथापूर्वामति वीप्सायामव्ययी- भावः । ते पूर्व पूर्व वस्तु प्रति उत्तरस्य वस्तुनो यत्र विशेषणतया बाहुल्येन विधिः यत्र वा तथा निषेधः सा द्विधा एकावली। विशेषणतया विधिरित्यस्य विधेर्विशेषणत्वमित्यर्थः। एवं विशेषणतया निषेधोऽपि" इति प्रदीपः । ( बाहुल्येनेति । सकृत्तथोक्तौ चमत्काराभावात् । तथा बाहुल्येन । विशेषणतयति। उत्तरोत्तरस्य विधिः संबन्धबोधनम् । तथा निषेधोऽभावबोधनम्। तत्र विशेषण- तयोते तृतीयायाः प्रकारार्थत्वे विशेषणत्वप्रकारेण विधिर्निषधो वेत्यर्थः स्यात् । न चासौ संभवति प्रकारत्वे प्रकारेण बोधस्योदाहरणेष्वभावात्। अत उपलक्षणे तृतीयेति विशेषणभूतयोर्विधिनिषेधयो- रवगतिरित्याशयः ) इति प्रभा। उद्द्योतकारास्तु "स्थापनमिति। स्थापकत्वं च स्वसंबन्धेन विशेष्यता- वच्छेदकनियामकत्वम् । अपोहकत्वं च स्वव्यतिरेकेण विशेष्यतावच्छेदकव्यतिरेकबुद्धिजनकत्वम्। विशेषणतयेत्युपलक्षणम् विशेष्यतयेत्यपि बोध्यम्। यथा 'धर्मेण बुद्धिस्तव देव शुद्धा बुद्धया निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकेश्र नीता भुवनेषु कीर्तिः ॥' इति। अत्रोत्तरोत्तरविशेषणं पूर्वपूर्व प्रति विशेष्यम्। अत्रैव पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपस्तदा मालादीपकमुक्तं प्राक् (६४१ पृष्ठे)" इत्याहुः॥ केचित्तु पूर्वकालविशेषणतया स्थितं वस्तु परम् अनन्तरम् विशेष्यं कृत्वा यत्र स्थाप्यतेऽर्थाद्वि- शेषणेन स्वधर्मविशिष्टमुपपाद्यते अपोह्यते स्वत्यतिरेकेण विशेष्यतावच्छेदकनिषेधबुद्धिविषयीक्रियते वा सा एकावलीति सूत्रार्थः । अत्रोदाहरणम् 'स पण्डितो यः स्वहितार्थदर्शी हितं च तद्यत्र परानप- क्रिया। परे च ते ये श्रितसाधुभावाः सा साधुता यत्र चकास्ति केशवः ॥' इति। अत्र तच्छब्दार्थे विशेषणं पण्डितः पश्रात्स्वहितार्थदर्शित्वं प्रति विशेष्यः तेन विशेषणेन पण्डितत्वेनोपपादते। द्वितीयभेदस्योदाहरणं तु 'न तज्जलं य्न सुचारुपङ्कजम्' इति वक्ष्यमाणम्। अत्र हि सुचार्वित्या- दिविशेषणेन स्वव्यतिरेकेण विशेष्यतावच्छेदकजलत्वनिषेधबुद्धिरित्याहुः। तत्तु "पूर्व प्रति यथो- त्तरस्य वस्तुनः"इत्यादिवृत्तिविराधात् 'पुराणि यस्याम्' इत्यादुदाहरणाव्याप्तेश्र सूत्राक्षराननुसाराच्चोपे- क्ष्यमिति प्रदीपप्रभयो: स्पष्टम्॥ तत्र विधावुदाहरति पुराणीति। पद्मगुप्तप्रणीते नवसाहसाङ्कचरिते प्रथमे सर्गे राज्ञो विक्रमादि- त्यस्य नगर्या: उज्जयिन्या: वर्णनमिदम्। यस्याम् उज्जयिन्याख्यायां नगर्या पुराणि गृहाणि। "अगारे नगरे पुरम्" इत्यमरः । अथ वा पुराणि गृहोपरिगृहाणि। "गृहोपरिगृहं पुरम्" इति धरणिः। यद्वा पुराणि अन्तःपुराणि "नामैकदेशे नामग्रहणम् " इति न्यायात्। सवराङ्गनानि वराङ्गनासहितानि सन्ति। वराङ़गनाः कान्ताः रूपेण पुरस्कृतं भूषितम् अङ्गं यासां तथाभूताः । 'परिष्कृताङ्ग्यः' इति पाठे परिष्कृतं भूषितमित्येवार्थः । रूपं समुन्मीलिताः उत्फुल्लाः सद्विलासाः यस्मिंस्तादृशम। विलासाः कुसुमायुधस्य कामस्य अस्त्रम् अस्त्रभूता इत्यर्थः। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥

Page 790

दशम उल्लास:। ७३ १

न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तत् यदलीनषट्पदम्।। न षट्पदोडसौ कलगुख्ितो न यो न गुजितं तन्न जहार यन्मनः ॥ ५४९॥ पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपम् तस्य विलासा: तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते। उत्तरत्र प्रतिषेधेऽप्येवं योज्यम्। (सू० १९९) यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः। स्मरणम् यः पदार्थ: केनचिदाकारेण नियतः यदा कदाचित् अनुभूतोऽभूत् स कालान्तरे स्मृतिप्रतिबो- धाधायिनि तत्समाने वस्तुनि द्ृष्टे सति यत् तथैव स्मर्यते तत् भवेत् स्मरणम्। उदाहरणम्

अत्र पूर्वपूर्वस्मिन् उत्तरोत्तरस्य विशेषणतया बाहुल्येन विधानमिति एकावल्यलंकारः। तदुक्तं प्रदीपे "अत्र पुराणामङ्गनाः तासामङ्गविशेषणक्रियामुखेन रूपम् तस्य विलासाः तेषामस्त्रमिति क्रमेण विशेषणतया विधिः" इति॥

निषेधे उदाहरति न तदिति। भट्टिकाव्ये द्विताये सर्गे शरत्कालवर्णनमिदम्। यत् सुचारुपङ्कजं न तत् जलं प्रशस्तजलं नेत्यर्थः । एवमग्रेडपि। यत् न विद्यते लीनः स्थिरः षट्पदो भ्रमरो यत्र तादृशम तत् पङ्कजं न। यः कलं मञ्जुलं गुञ्जितं गुआ्जारवो यस्य तादृशो न असौ षट्पदो न। यत् मनः म जहार तत् गुञ्जितं नेत्यर्थः। वंशस्थं वृत्तम्। लक्षणमुक्तं प्राक् २४ पृष्ठे ॥

अत्र जले पङ्कजस्य तत्र षट्पदानाम तत्र गुश्जितस्य तत्रापि मनोहारितायाः विशेषणतया बाहु- ल्येन निषेध इत्येकावल्यलंकारः ।न चात्र सुचारुपङ्कजं विना जलं न रमणीयमिति विनोक्तिध्वान- रेव युक्त: तत्कृतस्यैव चमत्कारस्य सत्त्वादिति वाच्यम वाच्यार्थकृतस्य चमत्कारस्यानपलपनीयत्वात्। दर्शिता चेयं दिक विनोक्त्यलंकारे (६७४ पृष्ठे २३ पङ्कौ ) उद्त्योतकारैरिति बोध्यम् । पूर्वोदाहरणे विधिम् उत्तरोदाहरणे निषेधं च दर्शयति पूर्वत्रेत्यादिना। अङ्गविशेषणमुखेन अङ्गस्य विशेषण- भावद्वारा। योज्यं योजनीयम् ॥ इत्येकावली॥५१॥

स्मरणनामानमलंकारं लक्षयति यथेति। 'दृष्टे' इति श्रवणादेरप्युपलक्षणमिति निदर्शनकृत। उपलब्धिमात्रेऽत्र दशिरिति माणिक्यचन्द्रकृतसंकेते स्पष्टम्। तथा च तत्सदृशे तत्समाने वस्तुनि दृष्टे केनचिदिन्द्रियेण अवगते सति अर्थस्य वस्तुनः यथानुभवं पूर्वानुभूतप्रकारेण या स्मृतिः तत् स्मरणं स्मरणालंकार इत्यर्थः । सद्ृशदर्शनोद्वुद्वसंस्कारर्जन्या स्मृतिः स्मरणनामालंकार इति भावः॥

सूत्रं व्याचष्टे यः पदार्थ इत्यादिना । नियतः निर्धारितः विशेषितः । अनुभूतः केनचित्प्र- माणेनानुभवविषयीकृतः। सः पदार्थः । स्मृतिप्रतिबोधाधायिनि स्मृतेः स्मरणस्य अनुगुणः यः प्रतिबोध: संस्कारोद्वोधः तदाधायिनि तज्जनके। तत्समाने तत्सदृशे। दृष्टे अवगते। तथैव अनुभूतेन प्रकारण। स्मरणं स्मरणालंकारः ।

अत्रायं सारः। यादशं वस्तु एकदा अनुभूयते तादृशमेव तत् अन्यदा स्मर्यते इति नियमात स्मृतौ अनुभवः कारणम्। अनुभवोऽपि न साक्षादेव कारणम् अन्यमनस्कस्य पथि दृष्टतृणादेरस्म-

Page 791

७३ काव्यप्रकाश: सटीकः । निम्ननाभिकुहरेषु यदम्भ: प्ठावितं चलहशां लहरीभिः । तद्वैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ॥ ५५०॥ रणात् किं तु संस्कारद्वारा। ततश्र तत्रोपेक्षया तृणादेर्दर्शनात् न संस्कारः अनुपेक्षात्मक एव अनु- भवः संस्कारं जनयतीति न स्मृतिः । संस्कारश्र उद्धुद्धः एव स्मृति जनयति न त्वनुद्वुद्धः। अत एव संस्कारस्य सर्वदा सत्त्वेऽपि न सर्वदा स्मृतिप्रसङ्ग:। उद्धोधकाश्र संबन्धिज्ञानादिरूपा नाना। यथा हस्तिदर्शनात् संस्कारोद्वोधद्वारा हस्तिपकस्य स्मरणमिति स्मृतिप्रणाली। एवं च सादृश्यसं- बन्धमूलकमेव संबन्धिनः स्मरणं स्मरणालंकार इति प्रकाशाभिप्रायः। वस्तुतः वैचित्रयजनकं स्मर- णमात्रमेव स्मरणालंकार इति युक्तमिति विवरणे स्पष्टम्।। व्याख्यातमिदं सूत्रं प्रदीपोद्द्योतप्रभासु । "अत्र अर्थस्य स्मृतिः स्मरणालंकार इति लक्षणम् यथानुभवमिति स्मृत्याकारदर्शनम् दष्टे तत्सदशे इति तद्ेतुसंस्कारोद्वोधे हेतुनिर्देशः अदृष्टादेरप्युप लक्षणात्। यद्वा अन्याद्दशस्मृतेश्रारुत्वाभावेनालंकारत्वाभावाङ््यवच्छेदकतया लक्षणान्तर्गतमेवैतत्। तदयं वाक्यार्थः। केनचिदाकारेण नियतो यदा कदाचित् केनचित्प्रमाणेनानुभूतः स कालान्तरे संस्कारोद्वोधहेतौ तत्समानधर्मदर्शने सति यत् अनुभूतेन प्रकारेण स्मर्यते तत् स्मरणालंकारः" इति प्रदीपः । (अन्यादशस्मृतेरिति। अदष्टोद्वुद्वजन्मान्तरीणसंस्कारजन्यस्मृतेः चिन्तादुद्धुद्स- स्कारजन्यस्मृतेः 'तावद्विभ्रदिमां स्मृतस्तव भुजः' (११८ पय्यम् ) इत्यादिभूधारणसंबन्धज्ञानज न्यस्पृतेश्व्वेत्यर्थः । अन्त्याया अपि स्मृतेः संचारितया भूभृद्विषयकरतिभावाङ्गतया प्रेयोऽलंकारत्वेनैव चमत्कारित्वेनैतदलंकारत्वाभावात् सादृश्यमूलक्स्मृतेरेव चमत्कारितयालंकारत्वमिति भावः) इत्यु- इचोतः । (अन्यादृशेति । सादृवश्यामूलकेत्यर्थः। 'स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम्। ऋषीन् ज्योतिर्मयान् सप्त सस्मार स्मरशासनः ॥' इत्यादौ हि न स्मृतेश्र्ारुत्वमिति नालंकारत्वम्) इति प्रभा । सा हि स्पृतिर्द्विविधा एतज्जन्मानुभूतार्थस्य जन्मान्तरानुभूतार्थस्य चेति। तत्राद्यामुदाहरति निम्नेति। अप्सरसां जलक्रीडावर्णनमिदम्। चलदशाम् अप्सरोरूपनायिकानां निम्ननाभिकुहरेषु निम्नेष गम्भरिषु नाभिरूपबिलेपु नाभिसंबन्धिबिलेषु योनिरूपगर्तेषु वा लहरीभिः तरङ्गे: (जलक्रीडासमये) यत् अम्भः जलं पावितम उत्फालितं संचारितं तद्भवैः तज्जन्यैः कुहरुतैः (कुहेत्यनुकरणम्) कुह- कुहेति ध्वनिविशेषैः सुरतकालिककण्ठध्वनिसदृशैः (कर्तृभिः) सुरनार्यः अप्सरोरूपसुराङ्गनाः सुरत- कण्ठरुतानां सुरतसंबन्धिकण्ठध्वनीनां रतिकूजितानामिति यावत् स्मारिता इत्यर्थः। कण्ठो योनिरूपो गर्तः "कण्ठावटश्वभ्रगर्ताः" इति कोशात्। रुतानामिति कर्मणि षष्ठी "अधीगर्थदयेशां कर्मण" (२।३५२) इति पाणिनिसूत्रात् । स्वागता छन्दः । लक्षणमुक्तं प्राक् ७२६ पृष्ठे ॥ अत्र सुरतकालिककण्ठध्वनिसदशे कुहरुतेषु श्रतेषु सुरतकालिककण्ठरुतानामनुभूतानामर्थानां स्मृतिरिति स्मरणालंकारः । उक्तं च चन्द्रिकायाम् "अत्र सदृशदर्शनजन्यं स्मरणमलंकारः" इति॥ १ स तथेति। कुमारसंभवकाव्ये षष्ठे सर्गे पद्यमिदम्। स प्रकतः स्मरशासनः महादेवः तथेति प्रतिज्ञाय तथा करिण्यामतियुक्त्वा उमां पार्वती कथमपि कच्छेण विसृज्य । तत्र गाढानुगग-वादिति भावः। ज्योतिर्मयान् तेजो रूपान् सप्तर्षीन् मरीचिप्रभुतीन् सस्मार स्मृनवानित्यर्थः । ते च सप्र्षय उक्ताः "मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्वति सप्तैते ज्ञेयाश्र्ित्रशिखण्डिनः ॥" इति ॥

Page 792

दशम उल्लास: ७३१

यथा वा

समरिअपश्चजण्णस्स णमह कण्हस्स रोमाश्वं॥ ५५१ ॥ (सू० २००) भ्रान्तिमान् अन्यसंवित्तत्तुल्यदर्शने ॥ १३२ ॥ तदिति अन्यत् अप्राकरणिकं निर्दिश्यते। तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते। तस्य तथाविधस्य दष्टौ सत्यां यत् अप्राकरणिकतया संवेदनम् स भ्रान्तिमान्। अन्त्यामुदाहरति करेति। "करयुगगृहीतयशोदास्तनमुखविनिवेशिताघरपुटस्य। संस्मृतपाश्च- जन्यस्य नमत कृष्णस्य रोमाश्चम् ॥" इति संस्कृतम्। करयुगेन हस्तद्वयेन गृहीतस्थ यशोदाया: स्वमातुः स्तनस्य मुखेडग्रे चूचके विनिवेशितः स्थापितोऽधरपुटो येन तस्य। अत्र एव स्मृतः पाश्च- जन्यः शङ्गविशषो येन ताद्ृशस्य श्रीकृष्णस्य रोमाञ्चं यूयं नमतेत्यर्थः । "रोमाश्चो रोमहर्षणम्" इत्यमरः । रोमाश्चकारणं तु युद्धारम्भे नादितस्य शङ्कस्य स्मरणाद्वीररसाविर्भावः । "शङ्ो लक्ष्मीपतेः पाञ्चजन्यः" इत्यमरः । आर्येयं जघनविपुला। लक्षणमुक्तं प्राक् १३३ पृष्ठे॥ अत्र शङ्गसद्टशे स्तने दृष्टे जन्मान्तरेऽनुभूतस्य पाश्चजन्यस्य स्मृतिरिति स्मरणालंकारोऽयम्। अत्र जन्मान्तरेऽनुभूतस्य स्मरणम् पूर्वत्र त्वेतज्जन्मन्यनुभूतस्य स्मरणमित्युदाहरणयोर्भेदः ॥ इति स्मरणम् ॥ ५२ ॥ भ्रान्तिमन्नामानमलंकारं लक्षयति भ्रान्तिमानिति । भ्रान्तिरस्मिन्नस्तीति भ्रान्तिमान् इत्यन्वर्थे- यमलंकारस्य संज्ञा। अन्यसंविदिति लक्षणम्। तत्तुल्यदर्शने इति हेतुनिर्देशः। 'तत्तुल्यदर्शने' इत्यत्र तत्पदेन पूर्वोक्तम् अन्यपद्बोध्यम् अप्राकरणिकं परामृश्यते। तेन तुल्यं तत्तुल्यमिति समासः ।तथा च तत्तुल्यस्य अप्राकरणिकसद्टशस्य अर्थात् प्राकरणिकस्य दर्शने सति या अन्यसंवित् अन्यत्वेना- प्राकरणिकत्वेन संवित् ज्ञानं स भ्रान्तिमान् अलंकार इति सूत्रार्थः। प्राकरणिकार्थदर्शनाद्बुद्धसं- स्कारजन्यस्मृत्युपनीताप्रा+रणिकात्मतया प्राकरणिकज्ञानं भ्रान्तिमानिति भावः ।। सूत्रं व्याकुर्वन् आदौ 'तत्तुल्यदर्शने' इति व्याचष्टे तदित्यादिना 'सत्याम्' इत्यन्तेन । तदि- तीति। 'तत्तुल्यदर्शने' इत्यत्र तत्पदेन पूर्वोक्तम् अन्यपद्बोध्यम् अप्राकरणिकमेव परामृश्यत इत्यर्थः । तेन अप्राकरणिकेन। समानं तुल्यम् । प्राकरणिकं प्रस्तुतम्। तस्य प्राकरणिकस्य। तथाविधस्य अप्राकरणिकसमानस्य। दृष्टौ सत्यां दर्शने सति। अप्राकरणिकतया अप्राकरणिकस्वरूपेन अप्रा- करणिकतादात्म्येनेति यावत्। संवित्पदार्थमाह संवेदनमिति। निश्रयात्मकं ज्ञानमित्यर्थः । तथा च सादृश्यमूलकः प्रकृतेऽर्थेऽप्रकृतार्थस्य भ्रमो भ्रान्तिमानिति फलितम्। निश्र्वयात्मकज्ञानस्य ग्रहणादेव 'कान्ते तव मुखं पझमं चन्द्रो वेति न निर्णयः' इति ससंदेहे नातिव्याप्तिः। तत्र सत्यामित्यन्तेनानु- भूयमानारोपस्य चिन्तादिजन्यस्मृतिजन्यारोपस्य च व्युदासः। अप्राकरणिकतादात्म्येनेत्युक्तेर्मीलित- सामान्यतद्ुणवारणम् । भ्रान्तिमात्रमन्रालंकार: सा च कविप्रतिभानिर्मितैव तेन रङ्गे रजतमिति बुद्देर्नालंकारत्वम् । मर्मप्रहारकृतचित्तविक्षेपविरहादिकृतोन्मादादिजन्यभ्रान्तेश्र नालंकारत्वम् सादृश्य प्रयोज्यत्वाभावादित्युद्योते स्पष्टम् । अत एव 'दामोदरकराघातविह्वलीकृतचेतसा। दृष्ट चाणूरमल्लेन शतचन्द्रं नभःस्थलम्'॥ इत्यादौ नायमलंकारः ॥

Page 793

काव्यप्रकाशः सटीक:।

न चैष रूपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावात् इह च अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात्। उदाहरणम् कपाले मार्जार: पय इति करान् लेढि शशिन: तरुच्छिद्दप्रोतान् बिसमिति करी संकलयति। रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्ुवयति ॥ ५५२॥

रूपकादावतिप्रसङ्गशङ्कां निवारयति न चत्यादिना । प्रथमातिशयोक्तिः निगीर्याध्यवसानरूपा। वस्तुतो. भ्रमस्याभावादिति । स्वारसिकस्य भ्रमस्याभावादित्यर्थः । अत्र च प्रवृत्तिनिवृत्तिकारिस्वार- सिकः अनाहार्यः भ्रमो विवक्षितः तयोस्तु शब्दाधीनो व्याञ्जनिको ( वैयञ्जनिकः ) भ्रम इति भावः। वस्तुतः यत्र 'इति' इत्यादिपदेन भ्रमत्वेन निबद्धो व्यङ्ग्चो वा तत्रायमलंकार इति नातिप्रसङ्गशङ्गेति बोध्यमित्यद्योते स्पष्टम्। इह च अस्मिन्नलंकारे तु। अर्थेति। अर्थस्य भ्रान्तिमदितिशब्दार्थस्य भ्रमसंबन्धस्य अनुगमनेन अन्वयेन संज्ञायाः भ्रान्तिमदिति नाम्नः प्रवृत्तेरित्यर्थः । तस्य भ्रमस्य। प्रतिपन्नत्वात् प्रतिपत्तेः। व्याख्यातमिदं प्रदीपप्रभयोः। "न च रूपके निगीर्याध्यवसानरूपायामति- शयोक्तौ चातिव्याप्तिः तत्र वस्तुतो भ्रमाभावेऽप्यध्यवसानमात्रस्वीकारात। इह त्वर्थानुगमेन संज्ञाप्र- घृत्तर्भ्रमोपगमस्य स्पष्टमेवोपगमात्" इति प्रदीपः । (तत्र वस्तुत इति। अनाहार्यतयेत्यर्थः । अध्य वसानमन्रेति। मात्रेत्यनाहार्यत्वव्यवच्छेद: अर्थानुगमेनेति। अर्थश्रानाहार्य एवोत्सर्गसिद्धोSत्र संज्ञाघटक इति भाव: । यत्र भ्रमादिशब्देन इतिशब्दादिना वा भ्रमोपनिबन्धस्तत्र भ्रान्तिमानलंकार इति नातिप्रसङ्ग: इत्यप्याहुः ) इति प्रभा ॥

कपाले इति। भासकवेः पद्यमिदमिति शार्ङ्गधरपद्धतौ स्पष्टम्। अहो महदाश्र्वर्यम् प्रभया मत्तः कान्तिगर्वोन्मत्त: चन्द्रः इदं जगत् विप्ुवयति विभ्रमयति सर्वस्यापि भ्रममुत्पादयति। विपुवयतीत्यत्र 'विभ्रमयति' इत्येव प्रदीपे पाठः। मत्ताः खलु भ्रमन्ति न तु परान् भ्रमयन्तीत्याश्र्र्यम्। तथा हि। मार्जारः बिडालः कपाले खर्परे शिरोस्थिनि वा 'स्थितान्' इति शेषः शशिनः चन्द्रस्य करान् किरणान् पय इति पयोभ्रान्त्या लेढि आस्वादयति दुग्धस्वादानुपलम्भेऽपि अयथार्थप्रमावशाज्जिह्वया कपाले घर्षतीत्यर्थः। करी हस्ती तरूणां छिद्रेषु प्रोतान् प्रविष्टान् यद्रा वृक्षपल्लवाभ्यन्तरेण भूमिं प्राप्तान् शशिनः करान् बिसमिति मृणालभ्रान्त्या संकलयति गृह्लाति स्पर्शानुपलम्भेपि शुण्डादण्डेन आददार्तीत्यर्थः । वनिता योषिदपि रतान्ते सुरतावसाने तल्पस्थान् शय्यास्थान् जालमार्गेण शय्यायां प्राप्तान् शशिनः करान् अंशुकमिति शाभ्रवस्त्रभ्रान्त्या हरति रतिकलहच्युतशुभ्रवस्त्रबुद्दया गृह्णा- तीत्यर्थः । पशूनां किं वक्तव्यमित्यपिशब्दार्थः। "कपालोऽस्त्री शिरोऽस्तिर स्याद्वटादेः शकले व्रजे" इति मेदिनी । "अंशुक शुक्कवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः " इति रभसः । शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे।

अत्र शुभ्रतया अप्रकृतदुग्धादितुल्यानां प्रकृतानां चन्द्रकिरणानां दर्शने सति मार्जारादीनामप्रकृत दुग्धादित्वेन ज्ञानमिति सदृशदर्शनजन्या भ्रान्तिरलंकारः ॥ इति भ्रान्तिमान् ॥५३ ॥

१ प्रमाया अयथार्थत्वं वक्तृकविटृष्ट्येति बोध्यम्॥

Page 794

दशम उल्लास:। ७३५

(सू० २०१) आक्षेप उपमानस्य प्रतीपमुपमेयता। की :कुज्ड तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥१३३ ॥ अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यत् उपमानमाक्षिप्यते यदपि तस्यैवोप- मानतया प्रसिद्धस्य उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तत् उपमेयस्योपमान- प्रतिकूल वरतर्तित्वात् उभयरूपं प्रतीपम्। क्रमेणोदाहरणम् लावण्यौकसि सप्रतापगरिमण्यग्रेस्तरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।

प्रतीपिनामानमैलंकारं द्विधा लक्षयति आक्षेप इति । उपमानस्य आक्षेपः एकं प्रतपिम्। निन्दा निषेधो वात्राक्षेपपदार्थः । यदि वा अथ वा तस्यैव उपमानस्यैव तिरस्कारनिबन्धनम् अनादरहेतुः उपमेयता उपमेयभावः कल्प्या कल्पनीया तत् अपरं प्रतपिमित्यर्थः । 'तिरस्कारनिबन्धना' इति पाठे तु तिरस्कारः तिरस्कारप्रतीतिः निबन्धनं निमित्तं यस्या इति बहुव्रीहिः। तदा तिरस्कारप्रताति- रूपफलस्यापि निमित्तत्वेन विवक्षा बोध्या। तथा चाहुवैयाकेरणाः "कचित्फलमपि हेतुत्वेन विवक्ष्यते तस्यापि स्वज्ञानद्वारा जनकत्वात् । अत एव 'अध्ययनेन वसति' इत्यत्र हेतुतृतीया सिध्यति" इति॥ आक्षेपशरीरमाह अस्येति। उपमानस्यत्यर्थः । धुरं प्रयोजनम् । सुतराम् अत्यन्तम्। वोदुं निर्वाहयितुम्। प्रौढं समर्थम्। कैमर्थ्येन किमर्थमिदमिति न्यायेन प्रयोजनविरहेण वा। आक्षि- व्यते निन्धते निषिध्यते वा। उममेयसत्वे उपमानस्य वैफल्येन आक्षेपः एकं प्रतीपमिति भावः । उक्तं चोह्योते "तिरस्कारफलकोपमानव्यर्थतोक्तिरेकं प्रतापमित्यर्थः" इति। द्वितीयं प्रतपिं दर्श- यति यदपीत्यादिना। तस्यैव उपमानस्यैव चन्द्रादेरेव । प्रसिद्धस्य लोकप्रसिद्धस्य। उपमा- नान्तरेति। अन्यत् उपमानमुपमानान्तरम् उपमानान्तरमत्र वर्णनीयं मुखादिरूपमुपमेयमेव। उप- मानत्वेन लोकप्रसिद्धस्य चन्द्रादेर्मुखादिरूपोपमानान्तरविवक्षयेत्यर्थः । अनादरार्थ तिरस्कारार्थम्। उपमेयतेत्यस्यार्थमाह उपमेयभाव इति । उपमेयत्वमित्यर्थः । कल्प्यते इति । उपमानतिरस्का- रार्थम् उपमानस्य उपमेयेन उपमाकल्पनमपरं प्रतपिमिति भावः। प्रतीपपद्प्रवृत्तिनिमित्तमाह उप- मेयस्येत्यादि । उपमेयस्योपमाने प्रतिकूलवर्तित्वात् विरुद्धवर्तित्वादित्यर्थः । व्यतिरेकतो भेदस्तु उदाहरणे स्फुटीभविष्यति । अत्र नवीनाः "प्रतपिमिति। प्रतिगच्छन्ति आपो यस्मि्निति प्रतीपं निम्नोन्नतस्थलम् तत्सादृश्यादलंकारे लक्षणा। 'ऋक्पूरब्धूःपथामानक्षे' (५।४। ७४) इति पाणि- निसूत्रेण समासान्तोSकारप्रत्ययः 'वन्तरुपसर्गेभ्योऽप ईत्' (६।३९७) इति पाणिनिसूत्रेण ईदा- देशः । प्रतीपादयः स्वभावाद्गौणा एवेति प्राश्चो वृद्धाः" इत्याहुः । अत्राहुश्रक्रवर्त्यादयः "कैमर्थ्य किंप्रयोजनवत्ता। प्रतीपपदार्थमाह तदिति। तथा चोपमानापकर्षबोधानुकूलो व्यापारः प्रतीपमिति सामान्यलक्षणं बोध्यम्" इति॥ तत्रादं प्रतीपमुदाहरति लावण्येति। अत्र यद्दक्तव्यं तत् प्रसङ्गात्प्रागेव (३५० पृष्ठे २१ पङ़कौ ) उक्तम्। हे देव राजन् लावण्यौकसि लावण्याश्रये प्रतापस्य गरिम्णा गौरवेण सहिते प्रतापातिशय- सहिते त्यागिनां दातृणाम् अग्रेसरे मुख्ये अवनीभरे भूभरणविषये क्षमौ समर्थौ भुजौ यस्यैवंभूते त्वाय वेधसा विधात्रा निष्पादिते सृष्टे सति इन्दुः चन्द्रः कि किमर्थ घटितः रचितः एष पूषा सूर्य: १ शब्देन्दुशेखरक।रादयः ॥

Page 795

७३६ काव्यप्रकाश: सटीक:। इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं० चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५३॥ ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जं। तुज्झ मुहेण किसोअरि चंदो उअमिज्जइ जणेण ॥| ५५४॥ अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वात् उपमित्यनिष्पत्या 'वअणिज्जम्' इति वचनीयपदाभिव्यङ्गचस्तिरस्कारः । किं कुतः विहितः अदः चिन्तारत्नं चिन्तितार्थदायकं रत्नं (चिन्तामणिः) किमर्थमुत्पादितम् अमी कुलक्ष्माभृतः कुलपर्वताः मुधैव वृथैव किमर्थ सृष्टा इत्यर्थः । "महेन्द्रो मलयः सह्यः शुक्तिमान् कक्षप- र्वतः । विन्ध्यश्र पारियात्रश्र सप्तैते कुलपर्वताः ॥ " "ओकः सद्याश्रयश्र्वौकाः" इत्यमरः । शार्दूल- विक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र लावण्यादिगुणविशिष्टस्य राजरूपोपमेयस्य सत्त्वे इन्द्वादीनामुपमानानां वैफल्येन आक्षेप इति प्रथम: प्रतीपालंकारः । "अत्र निषिध्यमानवस्तुगतसकलगुणप्रतीतिर्व्यङ्ग्या प्रैयोजनम्" इत्युद्द्योतः । अत्र लावण्यौकसीत्यादीनामिन्द्वाद्वीनां च क्रमिकाणां क्रमेणान्वयात् यथासंख्यसत्त्वेऽपि आक्षेप एव चमत्कारकारीति आक्षेपोदाहरणता (प्रतीपोदाहरणता ) इति प्रदीपे स्पष्टम् । अत्र 'इन्दुः कि घटितः' इत्यादिना तिरस्कारार्थमुपमानस्य वैयर्थ्यमात्रं प्रतिपाद्यते न तूपमेयस्याधिक्यमिति न व्यतिरेकप्रसङ्ग:। अत्रोक्तं चक्रवर्तिना "अत्र आक्षेपप्रयुक्तः उपमानस्यापकर्षबोधः" इति॥ "द्वितीये क्वचिदुपमित्यनिष्पत्त्या तिरस्कारः क्वचित्तु निष्पन्ना सैव तिरस्कारहेतुः" इति प्रदीपे स्पष्टम्। अयं प्रदीपाशयः। तिरस्कारार्थमुपमानस्योपमेयत्वकल्पनरूपे द्वितीयभेदे तु उपमानतिरस्कारश्र क्वचित् कल्पिताया उपमाय। अनिष्पत्तिद्वारा असिद्धिद्वारा क्विच्च निष्पन्नया सिद्धया उपम- यैवेति । तत्रादयं कल्पिताया उपमाया अनिष्पत्तिद्वारा यस्तिरस्कारस्तम् उदाहरति ए एहीति। "अय एहि तावत् सुन्दरि कर्ण दत्वा शृणुष्व वचनीयम्। तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥।" इति संस्कृतम्। वचनीयं निन्दाम्। तवेति देहलीदीपन्यायेन वचनीयमित्यत्र मुखेनेत्यत्र चान्वोति। उपमीयते उपमेयः क्रियते मुखेन तुल्यश्रन्द्र इति जनो वदतीत्यर्थः । एवं च अत्युत्तम- गुणवत्वान्निरुपमेयस्यापि मुखस्य चन्द्ररूपोपमेयसत्त्वप्रतिपादनेन निन्देति भावः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे। अत्रोपमानत्वेन लोकप्रसिद्धस्य चन्द्रस्य तिरस्कारार्थमुपमेयत्वकल्पनमपरं प्रतपिम्। अत्रोक्तं प्रदीपो- इचोतयोः। "अत्र मुखोपमान[क]स्य शशिनः स्वल्पगुणत्वादुपमित्यनिष्पत्तिः 'वअणिज्जम्' इति पदेन द्योत्यते सैव तिरस्कारहेतुः" इति प्रदीपः । (उपमित्यनिष्पत्तिरिति । अत एव व्यतिरेकान्द्ेदः तत्रोपमितिनिष्पत्तावपि उपमेयाधिक्यप्रतीतेः। अत्र वर्ण्यमुखस्याधिक्यं व्यङ्गयम्) इत्युद्योतः। तदेवाह अत्र मुखेनेत्यादिना। वअणिज्जमित्येन उपमित्यनिष्पत्तिः तया च शशिनः स्वल्पगुणत्वरूपस्तिर- स्कार इति तात्पर्यार्थ इति विवरणे स्पष्टम्। अत्रोक्तं चक्रवर्तिना "अत्र उपमानस्योपमेयताकल्पन- प्रयोज्योपकर्षबोधः उपमेयोपमायां मिथः उपमानोपमेयभावप्रतीतिः अत्र तु तदभाव इति न तत्र १ प्रयोजनमिति। आक्षेपस्य प्रयोजनं फलमिति भाव: ॥

Page 796

दशम उल्लास:। ७३७

क्वचित्तु निष्पन्नैवोपमितिक्रिया अनादरनिबन्धनम्। यथा गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहास मुग्धे। सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि॥५५५॥ इहोपमेयी करणमेवोत्पलानामनादर:। अनयैव रीत्या यत् असामान्यगुणयोगात् नोपमानभावमपि अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम्। यथा एवं व्यतिरेकालंकारेऽपि न प्रसङ्ग: उपमितिनिष्पत्तावपि उपमेयाधिक्यप्रतीतेः। अत्रोपमितेरेवानिर्वा- हात्। यद्वक्ष्यति 'उपमित्यनिष्पत्त्या' इति" इति॥ क्वचिदुपमितिनिष्पत्या अनदरमाह क्वचिदिति । अनादरनिबन्धनं तिरस्कारहेतुः । गर्वमिति। मुग्धे हे मूढे असंवाह्यं संवहनायोग्यम् अपरिमितमिति यावत् इमं गर्वम् अभिमानम् लोचनयुगलेन नेत्रयुग्मेन किं वहसि ननु यतः दिशि दिशि सरःसु ईदृशानि त्वल्लोचनतुल्यानि नीलनलिनानि नलिोत्पलानि सन्तीत्यर्थः । 'मुग्धे' इत्यत्र 'भद्रे' इति पाठे भद्रे हे शोभने इत्यर्थः । "मुग्धः सुन्दर- मूढयोः" इति कोशः। "गर्वोऽभिमानोऽहंकारः" इत्यमरः। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥ अत्रोपमानत्वेन प्रसिद्धानां नलिनानां लोचनोपमेयीकरणमेवानादरहेतुः उपमेयस्य न्यूनगुणत्व- स्थितेः। अत्र नेत्रयोरुपमानत्वेनाधिक्यं फरी। अत्रोपमितिनिष्पत्तावपि उपमेयाधिक्याप्रततर्व्यतिरे- कतो भेदः। 'त्वल्लोचनसमं पदमं त्वद्वक्त्रसदृशो विधुः' इत्यप्यत्रोदाहरणमिति प्रदीपोद्द्योतयोः स्पष्टम्। तदेवाह इहेत्यादिना । अनादर इति। न्यूनगुणस्यैवोपमेयत्वादिति भावः । वस्तुतस्तु उपमाने साधारणधर्मसंबन्धोऽनूद्यते उपमेये तु विधीयते। तेन प्रसिद्धसादृश्यतयोपमानस्याधिक्यम् साध्य- सादृश्यतया चोपमेयस्य न्यूनत्वं बोध्यमिंति प्रभाकृतः । पूर्वोदाहरणे वचनीयत्वोक्त्या उपमितेरपर्य- वसानम् इह तु निष्पन्ना सा तिरस्कारहेतुरिति द्वयोर्भेदः॥ सूत्रे भेदद्यकथनमुपलक्षणम् भेदान्तरस्यापि संभवादित्यभिप्रेत्याह अनयैवेति। अन्येऽप्याहुः "कारिकायाम् 'उपमेयता' इत्युपलक्षणम् उपमानतापि बोध्या" इति। रीत्या प्रकारेण। यत् वस्तु । असामान्यगुणयोगात् असाधारणगुणसंबन्धात्। उपमानभावमपि उपमानत्वमपि । अनुभूतपूर्वीति । अनुभूतं पूर्वमनेनेत्यनुभूतपूर्वि इति ईन्न्तं पदम् 'कृतपूर्वी कटम्' इतिवेत् इति सारबोधिन्यां स्पष्टम्। तस्य वस्तुनः । तत्कल्पनायामपि उपमानभावकल्पनायामापि। प्रतीप प्रतीपालंकारः । प्रत्येतव्यं ज्ञातव्यम्। अयं भावः । येन वस्तुना असाधारणगुणसंबन्धादुपमान- त्वमपि पूर्व नानुभूतं तस्य वस्तुनः उपमानत्वकल्पनायामपि प्रतीपालंकारो भवतीति॥ १ "सपूर्वाच" (५।२८७) इति पाणिनिसूत्रेण इन्प्रत्ययः ॥ २ इतिवदिति। तथाहि । "कर्तृकर्मणोः रृति" (२।३।६५) इति पाणिनिसूत्रम् । रुत्प्रत्यययोगे सति कर्तरि कर्मणि च षष्ठी स्यादिति तदर्थः । 'रृष्णस्य कतिः' 'जगतः कर्ता रुष्णः' इति यथाक्रममुदाहरणम् । कतीति किम् तद्विते मा भत् कतपूर्वी कटं देवदत्तः। अत्र कटमित्यत्र तद्वितयोंगे कर्माणे षष्ठी न। कृतपूर्वीत्यत्र पूर्व कृतमनेनेति विग्रहः पूर्व कृतवानित्यर्थः । अत्र कर्म- विशेषस्य तत्तद्रूपेण प्रागन्वयाविवक्षयाकर्मकत्वाद्रावे क्तप्रत्यये "पूर्वांदिनिः" "सपूर्वाच्च" इति कर्तरि तद्वितः इनिप्रत्ययः पूर्वादिनिरित्यत्र "श्राद्गमनेन भुक्तमिनिठनौ" इति पूर्वसूत्रात् अनेनेत्यनुवृत्तः। तद्वितानन्तरं विशेष- रूपेण कर्मयोगः तत्रोक्तरीत्या षष्ठयभावेऽत्रानामिहितत्वात् द्वितीया। एवंरीत्या साधुत्वेऽत्रत्यमहाभाण्यमेव मानम्। वृत्ते: पूर्व कर्मान्वयामावाच "सापेक्षत्वाद्वृत्तिर्न स्यात्" इति न शङ्क्यमिति प्रौढमनोरमायां शब्देन्दुशेखरे च स्पष्टम् ॥ ९३

Page 797

७३८ काव्यप्रकाशः सटीक:।

अहमेव गुरुः सुदारुणानामिति हालाहल तात मा रम हप्यः । ननु सन्ति भवादशानि भूयो भुवनेऽस्मिन वचनानि दुर्जनानाम्॥५५६॥ अत्र हालाहलस्योपमानत्वमसंभाव्यमेवोपनिबद्धम्।। (सू० २०२) प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥१३४।। अतादृशमपि ताहशतया विवक्षितुं यत अप्रस्तुतार्थेन संपृक्तमपरित्यक्तनिजगुणमेव व्याख्यातमिदं प्रदीपप्रभोह््योतेषु। "अनयैव री्या तदपि प्रतीपं द्रष्टव्यम् यत्सामान्यगुणयोगा- भावेनोपमानत्वाननुभवेऽपि अर्थस्योपमानत्वकल्पना । कथमिति चेन्न । उपमानतिरस्कारस्यालंकार- ताबीजत्वात्। तच्च द्विधा संभवति उपमानत्वेनैव प्रसिद्धस्योपमेयत्वकल्पनया असदृशत्वेन प्रसिद्स्य उपमानत्वकल्पनया वा। सूत्रं चोपलक्षणतया योज्यम्" इति प्रदीपः । (सामान्यगुणयोगाभावेनेति। 'स्वभिन्ने' इति शेष: ) इति प्रभा । (असदृशत्वेनेति। उपमेयासंभावितस्वनिष्ठासाधारण धर्मयो गाद् र-ध संभावितोपमानभावस्योपमानत्वकल्पनयेत्यर्थः) इत्युइ्चोतः ॥ विवरणकारास्तु "नोपमानभावमपि अनुभतपूर्व सहते" इति पाठं मन्वानाः अनुभूतपूर्वमपि उप- मानभावं यत् असामान्यगुणयोगात् असाधारणगुणसंबन्धात् (अर्थात् अभिहितात्) न सहते इत्यन्वयः उपमानत्वेन प्रसिद्धस्यापि (अद्वितीयत्वप्रतीतिचीजम् ) असाधारणगुणसंबन्धमभिधाय उपमानत्वकल्पनम् (उपमेयस्यापि तादृशगुणसंबन्धं ख्यापयत् तस्यासाधारण्यं व्याहन्तीति) उप- मानप्रतिकूलतया प्रतीपमिति तात्पर्यमिति व्याचख्यु: ॥ उदाहरति अहमेवोत। तातेत्युपहाससंबोधनम् यद्वा सानुकम्पसंबोधनम्। "तातोऽनुकम्प्ये जनके" इति विश्वः। हे तात हे हालाहल उत्कटविष सुदारुणानां मध्ये अहमेव गुरु: श्रेष्ठः इति त्वं मा स्म हृप्यः गर्व मा कृथाः। तत्र हेतुमाह नन्वित्यादि। ननु यतः अस्मिन् भुवने लोके दुर्ज- नानां खलानां वचनानि भवानिव दृश्यन्ते इति भवादृशानि भवदुपमेयानि भूयः पुनः यद्दा बहु यथा स्यात्तथा सन्तीत्यर्थः। "गोनासगोनसौ हालाहलं हालाहल विषम्" इति त्रिकाण्डशेष: । "दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्" इत्यमरः । मालभारिणी छन्दः। लक्षणमुक्तं प्राक् ३१२ पृष्ठे॥ अत्रात्युत्कटदुःखहेतोः हालाहलस्य खलवचनोपमानत्वम् असंभाव्यमानमेवोपनिबद्धं तिरस्कार- हेतुरिति प्रदीपोद्द्योतयो: स्पष्टम्। उक्तं च चन्द्रिकायामपि "अत्र निरुपमत्वेन गर्वायमाणस्योप- मानताकल्पनरूपं प्रतीपम्" इति। तदेवाह अत्रेत्यादिना। "असंभाव्यं पूर्वम् अहमेवेत्यादिना असाधारण्याभिधानेन संभावनानर्हम्" इति विवरणम् ॥ इति प्रतीपम् ॥५४॥ सामान्यनामानमलंकारं लक्षयति प्रस्तुतस्येति। प्रस्तुतस्य प्राधान्येन वर्णनायस्य पदार्थस्य अन्येन अप्रस्तुतपदार्थेन योगात् संबन्धात् गुणसाम्यविवक्षया गुणसाम्यं प्रतिपादयितुं यत् ऐकात्म्यम् ऐक- रूप्यम् पृथक्त्वेनाप्रतीयमानत्वम् बध्यते निबध्यते प्रतिपाद्यते तत् सामान्यं स्पृतमित्यर्थः । तुल्यतया विवाक्षितयोर्वस्तुनोर्मेलनात् तयोरुभयोरपि एकतया प्रतीतौ सामान्यमलंकार इति फलितोऽर्थः । एवमेवान्येडपि सामान्यस्य लक्षणमाहुः "सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता" इति ॥ विवसापदस्वरसलब्धं व्याचषे अताद्टशमपीति। वस्तुतोऽप्रस्तुतार्थासमानमपीत्यर्थः। प्रस्तुतं वस्तु

Page 798

दशम उल्लास: । ०१९

तदेकात्मतया निबध्यते तत् समानगुणनिबन्धनात् सामान्यम्। उदाहरणम् मलयजरसविलिप्ततनवो नवहारलताविभूषिता: सिततरदन्तपत्रकृतवक्त्ररुचा रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गता: प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥५५७॥

इति भाव:। तादृशतया अप्रस्तुतार्थसमानतया। विवक्षितुं विवक्षां वक्तुरिच्छां बोधयितुम्। अस्य 'एकात्मतया निबध्यते' इत्यत्रान्वयः । अन्येनेत्यस्यार्थमाह अप्रस्तुतार्थेनेति। योगादित्यस्य विवरणं संपृक्तमिति। संबद्धमित्यर्थः । सूत्रे प्रस्तुतस्येत्यस्य 'अपरित्यक्तनिजगुणस्य' इत्यपि विशेषणं विव- क्षितमित्याह अपरित्यक्तनिजगुणमेवेति। तेन वक्ष्यमाणात्तदुणालंकाराद्जेदः तत्र निजगुणपरित्या- गात्। तदेकात्मतया अप्रकृतेनैकरूपतया। तेन मीलिताज्वेदः । मीलिते तु एकस्यैव प्रतीतिः । अन्यस्य तिरोधानमिति विशेषात्। उक्तं चोद्दयोते "ऐकात्म्यमित्यनेन मीलिताद्भेदः तत्र बलवत्स- जातीयग्रहणकृताग्रहणम् अत्र तु पृथक्त्वेनाग्रहणमिति विशेषात्" इति । बध्यते इत्यस्यार्थमाह निब- ध्यते इति। निबध्यते इत्यस्य प्रत्यायनमात्रमर्थो न तु शब्दं प्रतिपादनम उदाहरणे 'अविभाव्यतां गताः' इत्यादौ ऐकात्म्यस्याशाब्दत्वादिति प्रदीपे स्पष्टम्। सामान्यपदप्रवृत्तिनिमित्तमाह समानेति। समानगुणयोगादित्यर्थः । सामान्यं तन्नामालंकारः । समानयोर्भाव: सामान्यमिति व्यत्पत्तिः । न च भ्रान्तिमता संकरः तत्र स्मर्यमाणस्य आरोपोऽत्रानुभूयमानस्येति विशेषात्। नापि रूपकप्रथमाति- शयोक्तिभ्याम् उपमेये उपमानतादात्म्यस्य शब्दादप्रतीतेः रूपकाभावात् उपमानतावच्छेदकरूपे- णाप्रतीयमानत्वाभ्नातिशयोक्तिरित्युद्द्योते स्पष्टम्। रूपकप्रथमातिशयोक्त्योश्र उपमेयस्य उपमानतया प्रतातिः अत्र तु एकरूपतया प्रतीतिरिति ततो भेद इत्यपि केचिदवदन्ति॥

मलयजेति । वामनसूत्रवृत्तौ चतुर्थे अधिकरणे तृतीये अध्याये उदाहृतं पद्यमिदम्। वितत विस्तृतं धाम तेजो यस्य तादृशे शशभृति चन्द्रे धरां पृथ्वीं धवलयति सति अभिसारिकाः अवि भाव्यताम् अलक्ष्यतां चन्द्रिकयैकरूपतां गताः प्राप्ताः अत एव निरस्तभियः अपगतलोकलक्ष्यत्वभी- तयः सत्यः प्रियवसति भर्तृगृहं सुखमेव प्रयान्ति गच्छन्तीत्यन्वयः। अविभाव्यतायां हेतुगर्भविशेष णान्याह मलयजेत्यादि। मलयजं चन्दनं तस्य रसो द्रवः तेन विलिप्ततनवः लिपताङ्गाः। नवहार- लताभि: नूतनमौक्तिकमालाभि: विभूषिता अलंकृताः। सिततरं शुभ्रतरं दन्तपत्रं हस्तिदन्तनिर्मित ताटङ्काख्यं कर्णाभरणं तेन कृता जनिता वक्त्ररुक् मुखदीप्तिर्यासां ताः। रुचिराणि रम्याणि अम- लानि निर्मलानि अंशुकानि शुभ्रवस्त्राणि यासां तथाभूता इत्यर्थ । "हारो मुक्तावलौ" इति विश्वः "मुक्ताग्रैवेयकं हारः" इति कोशान्तरं च। "अंशुकं शुक्कवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः" इति रभसः । "कान्तार्थिनी तु या याति संकेतं साभिसारिका" इत्यमरः । उक्तं चाभिसारिकालक्षणम् "या दूतिकागमनकालमपारयन्ती सोढुं स्मरज्वरभयार्तिपिपासितेव। निर्याति वल्लभजनाधरपानलोभात् सा कथ्यते कविवरैरभिसारिकेति ॥' इति। पादाकुलकं छन्दः। "यदतीतकृतविविधलक्ष्मयुतैर्मां- त्रासमादिपादैः कलितम्। अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥" इि लक्षणात् ॥

अत्र प्रस्तुताप्रस्तुतयोरभिसारिका चन्द्रिकयोवैंवक्षिकशुकगुणसाम्येनैकात्मतावर्णनात्सामान्यमलं-

Page 799

७४० काव्यप्रकाशः सटीकः। अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः अत एव पृथग्भावेन न तयोरुपलक्षणम् । यथा वा वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि। भृङ्गा: सहेलं यदि नापतिष्यन कोवेदयिष्यन्नवचम्पकानि॥५५८।। अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते प्रतीतत्वा- त्तस्य प्रतीतेश्च बाधायोगात्।। कारः । अत्र 'अविभाव्यतां गताः' इत्यैकात्म्यं निबद्धम्। तहेवाह अत्रेत्यादिना। प्रस्तुततदन्ययोः प्रस्तुताप्रस्तुतयोः अभिसारिकाचन्द्रिकयोः । धवलत्वं शुभ्रता। पृथग्भावेन पृथक्त्वेन। तयोः अभिसारिकाचन्द्रिकयोः । उपलक्षणं प्रतीतिः । अपृथग्भावेन तु तयोरुपलक्षणमस्त्येवेति भावः । "अत्र नारीचन्द्रिकयोश्वन्दनादेश्र शौकृयादभेदः " इति कमलाकरभट्टः ॥ क्वचित्तु प्रस्तुताप्रस्तुतयोरुत्तरकालं भेदप्रतीत्या पूर्वकालिकाया ऐक्यप्रतीतेरुन्नीयमानत्वेऽपि सामान्यं संभवतीत्याह यथा वेति। वेत्रेति। यदि भृङ्गा: भ्रमराः सहेलं सलीलं यथा स्यात्तथा नापतिष्यन् न पतेयुः तदा नवचम्पकानि कः अवेदयिष्यत चम्पकत्वेन अज्ञास्यत् न कोऽपीति भाव: । 'विद ज्ञाने' इत्यादादिकात् विदधातोः "निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते" इति वाक्यपदीये भर्तृहर्युक्तर्निवृत्तप्रेषणाद्धेतुमण्णिचि लडि 'अवेदयिष्यत्' इति रूपम्। 'विद चेतना- ख्यानविवासेषु' इति चौरादिकस्य तु नेदं रूपम् तस्यात्मनेपदित्वेन परस्मैपदानुपपत्तेः ज्ञानार्थक- त्वाभावाच्चेति बोध्यम्। कीदृशानि चम्पकानि। वेत्रस्य वेतसस्य त्वक वल्कं "त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः" इति मेदिनी। तया तुल्यरुचां समानकान्तीनाम्। यद्वा 'वेत्रत्वचा- तुल्यरुचाम्' इत्येकं पदम्। त्वचाशब्दः प्राक् (४०२ पृष्ठे) प्रदर्शितभागुरिमतेनाबन्तः । वेत्रस्य त्वचया वल्केन तुल्या रुक यासां तादशीनां वधूनां स्त्रीणां कर्णाग्रतः कर्णाग्रात् गण्डतले कपोल- प्रदेशे आगतानि अवतंसरूपाणि इत्यर्थः। वेत्रत्वचो गौरवर्णतयोपमानता। गण्डचम्पकयोरगौरवर्ण- त्वान्न कोऽप्यवेदयिष्यत् भृङ्गपाते तु वेदितानाति भावः। नन्वत्र चम्पकेषु भ्रमरपतनवर्णनं कवि- समयविरुद्धम् 'रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषा ग्राहका हि गुणिनां कति न स्युः ॥' इत्यनेन 'न षट्पदो गन्धफलीमजिघ्रत्' इत्यादिना च कवि भिश्वम्पकं प्रति भ्रमराणामनागमनस्य वर्णनादिति न शङ्कनीयम् अत्र प्रकृतनायिकानां पद्मिनीत्वेन तन्मुखसौरभेणाभिभूतस्वसौरभेषु वदनसौरभसुरभिषु चम्पकेषु भ्रमरपतनस्योचितत्वात्। वदनसौर- भस्तु 'वदनसौरभलोभ०' इत्यादौ (५६७ उदाहरणे ) कविभिर्वर्णित एवेति बोध्यम्। इन्द्रवज्रा छन्दः। लक्षणमुक्तं प्राक् ४४३ पृष्ठे॥ अत्र प्रस्तुताप्रस्तुतयोर्गण्डचम्पकयोर्भ्रमरपातानन्तरं भेदप्रतीत्या पूर्वकालिकाया ऐक्यप्रतीतेरुन्नयना- त्सामान्यमलंकारः । अत्र गण्डचम्पकयोगौरत्वाद्भेदाप्रतीतिः। उक्तं च निदर्शनकृद्भि: "अत्र गण्डतलन- वचम्पकयोः पीतत्वमेकताहेतुः" इति। नन्वत्र भृङ्गपातस्य विशेषस्य दर्शनात्कथमैकात्म्यमित्याशङ्कयाह अत्रेत्यादिना । निमित्तान्तरं भृङ्गपतनम् । नानात्वप्रतीतिः भेदप्रतीतिः । प्रथमं भ्रमरपतनात् १ गन्धफली चम्पककलिका। "एतस्य कलिका गन्धफली स्यात् " इत्यमरः ॥ 'भ्राम्यन् वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत्। सा किं न रम्या स च कि न रन्ता बलीयसी केवलमीश्वरेच्छा ॥'इति संपूर्ण पद्यम्।।

Page 800

दशम उल्लास:। ७४२

(सू० २०३) विना प्रसिद्दमाधारमाधेयस्य व्यवस्थितिः। एकात्मा युगपद्वत्तिरेक स्यानेक गोचरा ॥ १३५ ।। अन्यत् प्रकुर्वत: कार्यमशक्यस्यान्यवस्तुनः । तथैव करण चेति विशेषस्त्रिविध: स्मृतः ॥१३६ ॥ पूर्वम्। प्रतिपन्नं भातम् । व्युदसितुं निरसितुम। उत्सहते समर्था भवति। तस्य अभेदस्य । 'प्रतीतेः' इत्यस्य 'उत्पन्नायाः' इति आदिः । अयं भावः। बाधोऽनुत्पादः। उत्पन्नायाश्र नानु- त्पाद: संभवतीति पूर्वमुत्पन्नया ऐक्यप्रतीत्यैव सामान्यालंकारस्य संभव इति। व्याख्यातमिदं प्रदीपोद्दयोतयोः । "अत्र भृङ्गपातानन्तरं भेदप्रत्ययो न तु पूर्वमेव प्रतीतिः। ननु भृङ्गपातेन भेदप्रत्ययात्कथमेकात्मत्वप्रतीतिरिति चेत् अग्रे तथात्वेऽपि प्राथमिकाभेदप्रत्ययस्यानिरासात् तस्य वृत्तत्वात्" इति प्रदीपः । (अग्रे इति। एवं चाग्रेतनविशेषदर्शनजन्यभेदज्ञानमुत्तरकालिकं न पूर्वोत्पन्नतद्ग्रहं निरसितुमुत्सहते उत्पन्नत्वात्तस्येत्यर्थः तत्फलीभूतस्य गण्डचम्पकयोरत्यन्तसमानगुण- त्वप्रत्ययस्यातिरस्कार इति तात्पर्यम् । एतेनेदशे विषये विशेषालंकारः पृथगित्यपास्तम्) इत्युद्योतः॥ इति सामान्यम् ॥५५॥ त्रिविधं विशेषनामानमलंकारं लक्षयति विनेति। प्रसिद्धम् आधारं आश्रयं विना आधेयस्य आश्रितस्य व्यवस्थितिः विशिष्टा निराधारैव अवस्थितिः अवस्थानं यत् अभिधीयते स एको विशेषः । तत्र प्रसिद्धमित्यनेनेदमुक्तम् यदत्र वास्तवमाधारत्वं न विवक्षितं किं तु कविप्रसिद्दधिमात्रसिद्धमिति। अत एव तथैवोदाहरणमिति प्रदीपे स्पष्टम्। एवमाधारान्तरगतत्वेनाधेयवर्णनेऽप्ययम्। यथा 'गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्करा:' इत्युक्ष्योतकाराः। एकस्य वस्तुनः युगपत् एककाले या एकात्मा एक आत्मा स्वभावो यस्यां सा अनेकगोचरा अनेकविषया वृत्तिर्वर्तनं स्थितिः सा द्वितीयो विशेषः । एकात्मेति विशेषणं 'एकस्त्रिधा वससि' (६६१ पृष्ठे ) इति यथासंख्योदाहरणेडस्य व्यावर्तनाय। तत्र तु एकस्यैव राजरूपस्य वस्तुनस्तापादिपोषकत्वरूपेणानेकेन स्वभावेन वर्तनमिति एतस्य व्यावृत्तिः। युगपदिति पर्यायनिवारणाय। तत्र क्रमेणैकस्यानेकसंबन्धः अत्र तु एकदैवैकस्य वस्तुनोऽनेकसंबन्धस्य विवक्षितत्वम्। रभसेन वेगेन अन्यत् कार्य प्रकुर्वतः कर्तुः यत् अशवयस्य अन्यस्यापि वस्तुनः कार्यस्य तथैव तेनैव प्रकारेण करणमुत्पादनं स तृतीयो विशेषः। अत्र तथैवेति 'धुनोति चासिं तनुते च कीर्तिम्' (६९१ पृष्ठे ) इत्यादिसमुच्चयव्यावर्तनायेति प्रदीपे स्पष्टम्। इति एवंरीत्या विशेषः विशे- षालंकारकः त्रिविधः त्रिप्रकारकः स्मृत इति सूत्रार्थः॥ त्रिविध इत्युपलक्षणम्। दोषेऽपि गुणं द्ृष्टा तदभ्यर्थनायामप्ययमलंकारः । यथा 'विपदः सन्तु नः शश्वद्यासु संकीरत्यते हरिः' इति । एतेनानुज्ञानामात्र पृथगलंकार इत्यपास्तम्। एबं गुणे दोषं दृष्ट तदभ्यर्थनायामप्ययम्। एवम् किंचित्सौकर्य दृष्टा दोषस्य गुणत्वकल्पनम् गुणस्य वा दोषत्व- कल्पनमप सः । यथा 'नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्। शाखिनोऽन्ये विराजन्ते खण्डयन्ते चन्दनद्रुमाः ॥' इति। एतेनेदशे विषये लेशनामा पृथगलंकार इत्यपास्तम्। एवम् 'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः यथा नाटकादौ' इत्युक्तमुद्रायास्त्वलंकारत्वमेव न। प्रकृतोपस्कारकत्वाभा- वात्। यत्तु "क्रमिक प्रकृतार्थानां न्यासं रत्नावलीं विदुः। चतुरास्यः पतिर्लक्ष्म्याः सर्वज्ञस्त्वं महीपते" इति तन्न। रूपकेणैवात्र वर्ण्यस्योपस्कारो न तु क्रमकृतोपाति तस्यालंकारत्वाभावादि- त्युद्द्योते स्पष्टम् ॥।

Page 801

७४२ काव्यप्रकाशः सटीकः। प्रसिद्धाधारपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः । उदाहरणम् दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।। रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्धाः ॥ ५५९॥ एकमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः । उदाहरणम् सा वसइ तुज्झ हिअए सा चिचअ अच्छीसु सा अ वअणेसु। अह्मारिसाण सुन्हर ओसासो कत्थ पावाणं ॥ ५६० ॥ यदपि किंचिद्रभसेन आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोऽपरो विशेषः। उदाहरणम् तत्र प्रथमं विशेषमाह प्रसिद्धिति। कविप्रसिद्वेत्यर्थः। परिहारेण त्यागेन प्रसिद्धाधारं परित्य- ज्येति यावत्। विशिष्टा निराधारैव। दिवभिति। दिवं स्वर्गम् उपयातानां गतानामपि येषां कवी- नाम् अनल्पाः बहवो गुणगणा यासु तथाभूता: गिरः काव्यरूपाः वाण्यः आकल्पं कल्पपर्यन्तम् प्रलयकालपर्यन्तमित्यर्थः । "संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि " इत्यमरः । जगन्ति (कर्म) रमयन्ति ते कवयः काव्यक्तरः। "कविः काव्यकरे सूरौ कविर्वाल्मीकिशुक्रयोः " इति विश्वः। इह लोके कथ न वन्या इत्यर्थः । आर्या छन्दः। लक्षणमुक्त प्राक् ४ पृष्ठे॥ अत्र कविरूपं कविप्रसिद्धमाधारं विना आधेयभूतानां गिरामवस्थितिवर्णनादेको विशेषालकारः । गिरां वास्तविक आधारस्तु आकाशः । अत एव 'शब्दगुणकमाकाशम्' इति आकाशलक्षणमुक्तम्॥ द्वितीयिं विशेषमाह एकमपि वस्त्विति। एकस्येत्यस्य व्याख्यानमिदम् । एकात्मेत्यस्य विवरणम् एकेनैव स्वभावेनेति। "आत्मा यत्नो धतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च" इत्यमरः। अनेकगोचरा वृत्तिरिति व्याचष्टे अनेकत्र वर्तते इति। सा वसइ इति। "सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु । अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥" इति संस्कृतम् । 'णत्थि पावाणं' इति पाठे "नास्ति पापानाम्" इति संस्कृतम्। सपत्नीसक्तं कान्तं प्रति तत्पत्न्या उक्तिरियम्। हे सुन्दर सा सपत्न्येव तव हृदये चित्ते वसति। एवमग्रेऽप्यन्वयः । चकारोऽवधारणार्थः सैवेत्यर्थः । प्राकृते द्विवचनाभावात् 'आक्षेषु' इति बहुवचनम् अक्ष्णोरित्यर्थः । पापं दुष्कृतम् । "पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोऽघमंहोदुरित- दुष्कृतम् " इत्यमरः । पापमस्ति आसामिति पापाः अर्शआदित्वान्मत्वर्थेऽच्प्रत्ययः । तासाम् अस्मा- दृशीनाम् अवकाशः स्थलं कुत्र क्व न क्वापीत्यर्थः । गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्रैकस्याः सपत्नीरूपकामिन्या: एकरूपेण युगपदनेकत्र (हृदयादौ) स्थितिवर्णनादपरो विशे- बालंकारः ।

तृतीयं विशेषमाह यदपीति। रभसेन वेगेन। "रभसो हर्षवेगयोः" इति विश्वः । एतच्च एके- नैव यत्नेन कार्यद्वयं करिष्यामीत्यभिसंधिव्यावृत्त्यर्थमिति प्रभायां स्पष्टम्। आरभमाण: कर्ता। तथै- बति व्याचष्टे तेनैव यत्नेनेति। आरभते जनयति। अपरः तृतीयः ॥ प्रहाप विजव

Page 802

दशम उल्लास: । ७४३

स्फुरदद्दुतरूपमुत्पतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥५६१॥ यथा वा गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हतम् ॥ ५६२॥ सर्वत्र एवंविधविषयेSतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्रायेणालंकारत्वायोगात्। अत एवोक्तम्

स्फुरदिति। अत्र 'नवः' इति विशेषणं मनोभूप्रभृतिषु त्रिष्वपि विवाक्षितम् । हे राजन् त्वां सृजता विधिना विधात्रा भुवि नवो नूतनः मनोभूः कामः सविता सूर्यः बृहस्पतिः गुरुश्र ससृज उत्पादित: इति सत्यमित्यन्वयः। एतदेवोपपादयितुं यथाक्रमं विशिनष्टि स्फुरदित्यादि। स्फुरत् प्रकाशमानम् अद्भुतं रूपं यस्य ताद्ृशम्। उत्प्रतापज्वलनम् उद्गतप्रतापानलम्। अनवद्यविद्यं शुद्धविद्यमित्यर्थः। ईदशं त्वां सृजता ब्रह्मणा त्वत्सर्जनयत्नेन आनुषङ्गिकास्ते सृष्टा इति भावः। मालभारिणी छन्दः। लक्षणमुक्तं प्राक् ३१२ पृष्ठे॥ अत्र राजसर्जनरूपमेकं कार्य कुर्वता विधिना तेनैव यत्नेन अशक्यस्य मनाभूप्रभृतिसर्जनरूप- कार्यान्तरस्य करणात्तृतीयो विशेषालंकारः। उक्तं च माणिक्यचन्द्रेण "अत्र येनैव यत्नेन स्फुरद- द्भुतरूपेत्यादिविशषणवान् त्वं सृष्टस्तेनैवाशक्यं कामार्कगुरुरूपं कार्यान्तरमपि कृतम्। 'प्रच्यवति वृषो गच्छन् इत्यादौ नायमलंकारः अशक्यत्वाभावात्" इति। "अत्र स्फुरदित्यादिविशेषणानां मनोभूप्रभृतीनां च कमिकाणां क्रमेणान्वयात् यथासंख्यसत्वेऽपि विशेषालंकारस्यैव चमत्कारे प्राधा- न्यात्तदुदाहरणत्वम्" इति प्रभायां स्पष्टम्॥। पूर्व शाब्दं कार्यान्तरकरणमुदाहृत्य संप्रति व्यङ्ग्यं कार्यान्तरकरणमुदाहरति गृहिणीति । चक्रवर्त्या- द्यस्तु सर्जने उदाहृत्य संहारेऽप्युदाहरतीत्याहुः । पूर्वत्र यथासंख्यसत्त्वेन सालंकारमुदाहृत्य संप्रति निरलंकारमुदाहरतीति माणिक्यचन्द्रः। रघुकाव्येऽष्टमे सर्गे इन्दुमतीमरणे तां शोचतो राज्ञोऽजस्योक्ति- रियम। हे इन्दुमति त्वं मे मम गृहिणी पत्नी सचिवः (हितोपदेशात्) मन्त्री मिथः रहसि सखी । "मिथोऽन्योन्यं रहस्यपि" इत्यमरः ललिते मनोहरे कलाविधौ कामकलाविधिविषये प्रियभूता शिष्या। बतेति खेदे। एतादृशीं त्वां हरता करुणाविमुखेन निर्दयेन मृत्युना यमेन । "मृत्युर्ना मरणे यमे" इति मेदिनी। मे मम कि न हृतम् अपि तु एकेन यत्नेन सर्वमनेकं हृतमित्यर्थः। बतत्यत्र 'वद' इति पाठे तत् वदेत्यर्थः । अपरवक्त्रं छन्दः। लक्षणमुक्तं प्राक् २०१ पृष्ठे॥ अत्र इन्दुमतीहरणरूपमेकं कार्य कुर्वता मृत्युना तेनैव यत्नेन अशक्यस्य सचिवादिहरणरूपकार्या- न्तरस्य करणात्तृतीयो विशेषालंकारः। अत्रान्यस्य करणं व्यङ्ग्यम् । अत एवाहुः प्रदपकाराः "अत्र 'कि न मे हृतम्' इति सचिवादिसर्वहरणरूपकार्यकरणं व्यज्यते" इति। उक्तं च चन्द्रिकायामपि "अत्र सचिवादिसर्वहरणरूपकार्यान्तरकरणं व्यङ्ग्यमितिः[ पूर्वोदाहरणतो ] भेदः" ॥ ननु आधारं विना आधेयस्यावस्थानम् एकस्य एकदा अनेकत्रावस्थानम् एकेन यत्नेन कार्यद्व- यकरणं च वस्तुतो नोपपन्नमिति कथमेतेषामलंकारत्वमिति पूर्वपक्षे उत्तरमाह सर्वत्रेत्यादिना। एवं- विधविषये एतादृशस्थले। अतिशयोक्तिरिति। अतिशयेन (वैचित्रयशेषप्रतिपत्तये) लोकसीमाति-

Page 803

७४४ काव्यप्रकाशः सटीकः। "सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते। यत्नोऽस्यां कविना कार्य: कोऽलंकारोऽनया विना॥" इति ॥ क्रमेण उक्तिः कथनमित्यर्थः न तु पूर्वोक्तातिशयोक्त्यलंकारोऽत्र विवक्षितः तस्यात्रासंभवात्। एवं च मूलकृन्मम्मटोपाध्यायक ल्पितातिशयोक्तिसामान्यलक्षणेSतिशयोक्तिपदं योगरूढम् अत्र तु यौगिकमे वेति नास्या अलंकारत्वम् किं तु सर्वालंकारबीजभूतत्वमेव । तदेवाह प्राणत्वेनेति। जीवत्वेनेत्यर्थः। प्रायेणेति । स्वभावोक्त्यादौ अस्या असंभवात् प्रायेणेत्युक्तम्। अयमत्रोत्तराभिप्रायः । वास्तवि- कानामेतेषामनुपपद्यमानत्वमस्तु वैचित्र्यविशेषप्रतिपत्तये प्रतिभाकल्पितानामेतेषामलंकारत्वे का हानि: कविर्हि गिरां वास्तविको नाधारः कि तु आधारतया कविसमयसिद्ध इति तादृशाधारं विना आधेयानां गिरामवस्थितिर्नानुपपन्ना। एवम् एकस्य एकदा अनेकत्रावस्थानम् एकेन यत्नेन कार्य- द्वयकरणं च नानुपपन्नमिति। व्याख्यातामदं प्रदीपोह्चोतयोः "नन्वाधारं विना वास्तवस्याधेयस्य व्यवस्थितिरनुपपन्नैव एवम- न्ययोरप्यनुपपत्तिरिति चेन्न । अतिशयोक्तिमवलम्ब्य तथाभिधानात् । सर्वत्रैवंविधे विषयेऽतिशयो- क्तिरेव प्राणायिता तां विना प्रायशोऽलंकारत्वाभावात्" इति प्रदीपः । (अतिशयोक्तिमिति । अतिशयनोक्तिमित्यर्थः । आधुनिकोक्तेरपि कव्युक्तित्वोपचारेण हृदयादौ भावनादेव सत्त्वोपचारेण राज्ञस्ताद्रूप्यण मनोभूत्वाद्युपचारेण च तथोक्तेरिति भावः। नत्वतिशयोक्त्यलंकारोऽत्र विवक्षितः तस्यात्रासंभवात् ) इत्युद््योत:।। स्वोक्तेऽर्थे वृद्धसंमतिमाह अत एवेत्यादिना । उक्तमिति। 'भामहेन' इति शेषः । तथा चाहुः सरस्वतीतीर्थाः "अत्र भामहग्रन्थं संवादयति सैषेति" इति। एवं माणिक्यचन्द्रेणाप्युक्तम् "विनेत्येतेन सर्वालंकारबीजमेषेति भामहाद्याः " इति । किं च ध्वन्यालोके ( सहृदयालोकापरप- र्याये) तृर्तायोदयोते (२१६ पृष्ठे) आनन्दवर्धनेन तट्टीकायां लोचनाख्यायामभिनवगुप्तपादेनापि अस्य सैषेति श्लोकस्य भामहोक्तत्वेनैव कथनं कृतम्। तच्चानुपदमेव स्फुटीभविष्यति। एतेन यत् प्रभाकृता प्रतिपादितमस्य श्लोकस्य काव्यादर्शकृइण्ड्युपाध्यायोक्तत्वं तदपास्तम् काव्यादर्शेडस्य श्लोकस्यानुपलम्भात्।। सैषेति। या अतिशयोक्तिर्लक्षिता सैव सर्वा वक्रोक्तिरलंकार इत्यर्थः। एवं चात्रातिशयोक्तिरिति वक्रोक्तिरिति पर्याय इति बोध्यम्। सर्वत्र सर्वेष्वलंकारस्थलेषु। वक्रोक्तिरिति । वक्रा वैचित्या- धायिका लोकातिशायिनी उक्ति: कथनमित्यर्थः। उद््योतकारास्तु "वक्रोक्तिः वक्रतया गौणतया उक्ति:" इति व्याचख्युः । अनया वक्रोक्त्या। विभाव्यते अलंक्रियते। अस्यां वक्रोक्तौ। अनया विनेति। सर्वालंकारबीजमेषेति भावः । अयं हि भामहाशयः। अस्या वक्रोक्त्यपरपर्यायाया अतिशयोक्तेरलंकारत्वम् सर्वालंकारबीजभूतत्वं च। सर्वत्रैवातिशयोक्तिसद्भावेऽपि वैचित्र्यान्तरेणा- लंकारान्तरव्यपदेशाः "प्राधान्येन व्यपदेशा भवन्ति" इति न्यायात् वैचित्र्यान्तराभावे त्वतिशयोक्ति- व्यपदेश इति। परं तु मम्मटोपाध्यायेन भामहोक्तमलंकारत्वमपहाय सर्वालंकारबीजभूतत्वमात्रे संमति दर्शयतुमयं श्लोकोऽत्रोपन्यस्त इति न कश्चिच्छङ्काकलङ्क इति बोध्यम् ॥ उपात्तो व्याख्यातश्र्वायं श्लोको ध्वन्यालोके तट्टीकायां लोचनाख्यायां च। तथाहि। "भामहेनाप्य- तिशयोक्तिलक्षणे यदुक्तम् 'सैषा सर्वत्र वक्रोक्ति:०००' इति" इति ध्वन्यालोकः । "भामहेनेति। भामहेन यदुक्तं तत्राप्ययमेवार्थोऽवगन्तव्य इति दूरेण संबन्धः । किं तदुक्तम् सैषेति। यातिशयो-

Page 804

दशम उल्लास: । ७४५

(सू० २०४) स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत्। वस्तु तद्ुणतामेति भण्यते स तु तद्ुणः ॥ १३७ ।। वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेव यत्स- मासादयति स तद्गणः तस्याप्रकृतस्य गुणोऽत्रास्तीति। उदाहरणम् वितिर्लक्षिता सैव सर्वा वक्रोक्तिरलंकारः सर्वः 'वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः' इति वच- नात। शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानमित्ययमेवासावलंकार- स्यालंकारान्तरभावः । लोकोत्तरेण चैवातिशयः। तेनातिशयोक्तिः सर्वालंकारसामान्यम् । तथा ह्यनयातिशयोक्यार्थः सकलजनोपभोगपुराणीकृतोऽपि विचित्रतया भाव्यते। तथा प्रमदोदानादि- विभावतां नीयते विशेषेण च भाव्यते रसमयीक्रियते" इति लोचनम् ॥ इतीति। एवं काव्यादर्शे द्वितीयपरिच्छेदे दण्डिनापि "विवेक्षा या विशेषस्य लोकसीमातिवर्तिनी। असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ॥ " इत्यतिशयोक्तिलक्षणमुक्त्वास्या अतिशयोक्तेरलंका- रोत्तमत्वं व्याकुर्वतोक्तम् "अलंकारान्तराणामप्येकमाहुः परायणम्। वागीशमहितामुक्तिमिमामतिश- याह्नयाम् ॥" इर्तीत्यलम् ॥ इति विशेषः ॥ ५६॥ तद्गुणनामानमलंकारं लक्षयति स्वमिति। यत् न्यूनगुणं प्रस्तुतं वस्तु अत्युज्ज्वलगुणस्य अत्युत्कृ- ष्टगुणस्य अप्रस्तुतस्य वस्तुनः योगात् संबन्धात् स्वं गुणं स्वकीयं रूपम् उत्सृज्य त्यक्त्वा तद्गुणतां तद्रूपताम् अप्रस्तुतवस्तुरूपताम् एति प्रामोति स तु तद्गुणः तद्गुणनामालंकारो भण्यते कथ्यते इति सूत्रार्थः । गुणशब्दोऽत्र रूपवाची। "गुणोऽप्रधाने रूपादौ मौर्व्या सूत्रे वृकोदरे" इति केशव- कोशादिति बोध्यम्। तद्गुणलक्षणमुक्तमन्यैरपि "तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः" इति॥ सूत्रं व्याचष्टे वस्त्वित्यादिना। प्रस्तुतं वस्त्वित्यर्थः । प्रस्तुताप्रस्तुतत्वमत्र विवक्षितम् वृत्तौ 'तस्याप्रकृतस्य गुणोSत्रास्ति' इति व्युत्पत्तिकथनात्। 'स्वमुत्सृज्य गुणम्' इति व्याचष्टे तिरस्कृत- निजरूपमिति। अभिभवे वस्तुतः स्वगुणत्यागाभावादिति भावः। प्रस्तुतं वस्तु उपरक्तम् अर्थात् १ अतिशयोक्त लक्षयति विवक्षेति। विशेषः प्रस्तुतवस्तुन उत्कर्षस्तस्य या लोकसीमातिवर्तिनी लोकमर्या- दातिर्कि्ता अत्यधिकेत्यर्थः विवक्षा उक्तिः भङ्गया प्रतिपादनमित्यर्थः असावतिशयोक्ति: स्थाहित्यन्वयः । विव- क्षेति स्वार्थे सन् इच्छाया अलंकारत्वाभावात्। विवक्षाया लोकसीमातिवर्तित्वं च परंपरथ। विशेषम्यैव लोकसी मातिवर्तित्वेन प्रतिपादितस्य चमत्कारजनकत्वात् । स्पष्टमुक्तमननिपुराणे "लोकसीमातिवृत्तस्य वस्तुधर्मस्य कीर्तनम्। भवेदतिशयो नाम संभवोऽसंभवो द्विधा ।।" इति। वस्तुधर्मस्य प्रस्तुतवस्तुनो गुणाद्याधिक्यरुतोत्कर्षस्येत्यर्थः। क्चिच 'लोकसीमावर्तिनः' इत्येव पाठः। इत्थं च प्रस्तुतवस्तुनोऽ्त्यधिकोत्कर्षोक्तिरतिशयोक्तिरिति लक्षणम्। अतिशय उत्कर्षस्तस्योक्तिरित्यन्वर्थता । अतिशयोकित प्रशंसति अलंकारोत्तमेति। सर्वालकारजीवातुभूतत्वा- द्वूर्णनीयार्थोत्कर्षातिशयबोधकत्वेन चमत्कारविशेषजनकत्व।च्वेत्यर्थ इति तह्याख्यायां स्पष्टम् । २ अस्या अतिशयो क्तेरलंकारोत्तम वं व्याकरोति अलंकारान्तरोते । वागीशमहितां बृहस्पतिनापि प्रशंसितामिमामतिशयाह्वयाम् उक्तिम् अतिशयोक्तिम् अलंकारान्तराणामप्येकम् अद्वितीयं परायणमवलम्बनमाहुः 'कवयः' इति शेषः । प्रस्तुतात्कर्षाति- शयरूपाया अस्या एव वैचित्यरूपत्वात्सर्वत्राव्यभिचारित्वाच्चालंकारान्तराणामुपजीव्यत्वम्। एतद्भावे च वैचित्र्यां- भावेन विद्यमानानामप्युपमादीनां नालंकारत्वम्। यथा 'गौरिव गवयः इत्यादौ। यदुक्तम् "सैषा सर्वत्र वक्रोक्ति: ०००" इति। अन्यच्च "कस्याव्यतिशयस्योक्तिरित्यन्वर्थविचारणात्। प्रायेणामी अलंकारा भिन्ना नातिशयोक्तितः ।।" इति। एवं सर्वत्रैवातिशयोक्तिसद्रावेडवि वैचित्र्यान्तरेण।लंकारान्तरव्यपदेशाः वैचित्यान्तरा- भावे त्वतिशयोक्तिव्यपदेश इति बोध्यमिति तह्ाख्यातारः ॥ ९४

Page 805

७४६ काव्यप्रकाशः सटीक: । विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या: परितः स्फुरन्त्या। रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ ५६३॥ अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता।। अत्युज्ज्वलगुणेन वस्तुना संबद्धं सत् केनापि समीपगतेन कर्त्रा प्रगुणया प्रकृष्टगुणया स्वगुण- संपदा करणभूतया तिरस्कृतनिजरूपमित्यन्वयः। प्रगुणयेत्यत्र 'प्रगुणतया' इत्यपि पाठः । स्वगुण- संपदेत्यत्र स्वशब्देन समीपगतं वस्तु परामृश्यते। तत्प्रतिभासमेव समीपगतवस्तुरूपतामेव। समासाद्यति प्रामोति। तद्गुणपदस्य व्युत्पत्तिमाह तस्येत्यादिना । अप्रकृतस्य अप्रस्तुतस्य। अत्र अस्मिन्नलंकारे। "मीलिते वस्त्वन्तरेणाच्छादितस्य तस्यैव वस्तुनः प्रतीतिः अत्र त्वनाच्छादि- तस्वरूपस्यैव वस्त्वन्तरगुणापत्तिरिति ततो भेद:" इति प्रदीपः । "मीलिते धर्मिणोऽपि तिरस्कारः सामान्ये अपरित्यक्तनिजगुणस्यापृथकप्रतिभासः इह तु गुणमात्रस्यैव तिरस्कार: धर्मिणश्र पृथग- वभास इति भेदः । भ्रान्तिमति स्मर्यमाणस्यारोपः अत्र ग्रृह्यमाणस्येति भेदः भ्रान्तेर्निबद्धत्वा- भावाच्च" इत्युद्योतः ॥ विभिन्नेति । माघकाव्ये चतुर्थे सर्गे रैवतकगिरिवर्णनप्रस्तावे सूर्याश्ववर्णनमिदम्। यत्तु माघे द्वारकावर्णनमिदमिति सुधासागरे भीमसेनेनोक्तम् तद्भान्तिविलसितम्। 'परितः स्फुरन्त्या रुचा' इति सर्वान्वयि। गरुडाग्रजेनारुणेन। "सूर्यसुतोऽरुणोऽनूरु: काश्यपिर्गरुडाग्रजः ' इत्यमरः । परितः आसमन्तात् स्फुरन्त्या रुचा स्वकान्त्या करणभूतया विभिन्नो भेदं प्रापितो वर्णो येषां ते तादशाः स्वतो हरिद्वर्णा अपि रक्तीकृताः । सूर्यस्य रथं वहन्ति ते रथ्याः रथतुरगाः। "रथ्यो वोढा रथस्य यः " इत्यमरः । यत्र रैवतकगिरौ। वंशकरीरो वेण्वडनरः। "वंशाङ्ने करीरोऽस्त्री" इत्यमरः । तद्वत् नीलैः हरिद्वर्णैः रत्नैः मरकतमणिभिः हरिन्मणिभिः परितः स्फुरन्त्या रुचा स्वकान्त्या पुनः स्वां रुचं स्वकीयां हरिद्वर्णताम आनिन्यिरे प्रापिता इत्यर्थः। नयतेर्द्विकर्मकात् रथ्यात्मके प्रधाने कर्मणि लिट् "प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्" इतिः "अकाथतं च " (१।४।५१) इति पाणिनि- सूत्रस्थमहाभाष्यवचनात्। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्र रवितुरगाणां प्रस्तुतानामप्रस्तुतगरुडाग्रजवर्णस्याप्तिः अप्रस्तुतनीलरत्नवर्णस्याप्तिश्र्वेति तद्गुणालंकारद्यम् । उक्तं चान्यत्र "अत्र विभिन्नवर्णा इत्येकस्तद्गुणः रथ्यानां स्वगुणत्यागेनाप्रस्तुत- गरुडाग्रजगुणग्रहणात् पुनस्तत्यागेनाप्रस्तुतमरकतमणिगुणग्रहणादपरस्तद्गुणः " इति। तदेवाह अत्रे- त्यादिना। गरुडाग्रजस्येति प्रगुणवर्णतेत्यग्रिमेणान्वयः । प्रगुणवर्णतेति। प्रकृष्टगुणवर्णत्वमित्यर्थः॥ व्याख्यातमिदं प्रदीपोद्द्योतयोः । "अत्र तद्गुणद्वयम् रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मर्णानां प्रकृष्टगुणत्वात् तद्रूपतया प्रतीतेः । एतेन यत् केनचिव्याख्यातम् 'स्वगुणत्यागान- न्तरं पुनस्तत्प्राप्तिस्तद्गुणः' इति तदनादेयम् 'तस्याप्रस्तुतस्य गुणोऽत्रास्ति' इतिव्युत्पत्तिकथनपर- प्रकाशविरोधात् तत्र गुणद्वयकथनेन च तद्गुणद्वयव्युत्पादनात् 'आत्ते सीमन्तरत्ने' इत्यादौ वक्ष्यमाणे संकरोदाहरणे तद्गुणाभावप्रसङ्गाच्च न हि तत्र त्यक्तस्य स्वकीयरूपस्यावाप्तिः " इति प्रदीपः। "अत्र द्वितीयं तद्गुणं पूर्वरूपमिति व्यवहरन्ति केचित्। 'पझ्मरागायते नासामौक्तिकं तेऽधरत्विषा' इत्यप्युदाहरणम् । एवं परसंनिधानेन प्राक्सिद्धस्वगुणात्कर्षोडपि तद्गुणवविशेष एवेत्यपि बोध्यम्। यथा 'नीलोत्पलानि दधते कटाक्षैरतिनीलताम्' इति। एतेनात्र अनुगुणनामा पृथगलंकार इत्यपास्तम्" इत्युद्दयोतः ॥ इति तद्गुणः ॥ ५७॥

Page 806

दैशम उल्लास: । ७४७

(सू० २०५) तदूपाननुहारश्रवेदस्य तत् स्यादतदर्गुणः । यदि तु तदीयं वर्ण संभवन्त्यामपि योग्यतायाम् इदं न्यूनगुणं न गृह्लीयात् तदा भवेदतद्गुणो नाम। उदाहरणम् धवलोसि जह वि सुन्दर तह वि तुए मज्झ राखअं हिअअं। राअभरिए वि हिअए सुहअ िहित्तो ण रत्तोसि ॥५६४ ॥ अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद् गुणः ।

अतद्गुणनामानमलंकारं लक्षयति तद्रूपेति । अत्र पूर्वसूत्रस्थं 'योगादत्युज्ज्वलगुणस्य' इत्यनु. वर्तते। तेन 'अत्युज्ज्वलगुणयोगेऽपि' इति लभ्यते । तद्रूपेत्यत्र तादीत प्रकृतं निर्दिश्यते अस्येति चाप्रकृतं निर्दिश्यते तदित्यव्ययं तदेत्यर्थे। तथा च अस्य न्यूनगुणस्याप्रस्तुतस्य अत्युज्ज्वलगुण- योगेऽपि तद्रूपाननुहारः तस्यात्युज्ज्वलगुणस्य प्रस्तुतस्य यत् रूपं गुणस्तस्य अननुहारः अग्रहणं चेत् यदि तत् तदा अतद्गुण इत्यर्थः । अत्युज्ज्वलगुणयोगेऽपि यदि न्यूनगुणोSप्रकृतः प्रकृतस्य गुणं नानुहरत तदा अतद्गुणनामालंकार इति भावः।।

सूत्रं व्याचष्टे यदि त्वित्यादिना। तदयिं प्रस्तुतसंबन्धि । वर्णै रूपम्। परगुणाननुहारः परस्य स्वतः सिद्ध एव किं तत्र वौचित्र्यमित्यतः पूरयित्वा व्याचष्टे संभवन्त्यामपीत्यादिना । योग्यतायां तद्वर्णग्रहणोपाये ।'अस्य' इतीदंशब्दार्थमाह इदं न्यूनगुणमिति। 'अप्रस्तुतं ( कर्तृ )' इति शेषः । अत्रापि प्रकृताप्रकृतत्वं विवक्षितम् "तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते" इत्यग्रमवृत्तिग्रन्थस्वरसात्। तदित्यस्यार्थमाह तदेति । अतद्गुण इति। तस्याधिकगुणस्यास्मिन गुणा न सन्तीत्यतद्गुण इत्यर्थः । नन्वस्य विशेषोक्तावन्तर्भावः योग्यतारूपकारणसत्वेऽपि गुणग्रह- णरूपकार्याभावादिति चेन्न। गुणाग्रहणरूपविच्छित्तिविशेषाश्रयणादिति बाध्यम् ।।

उदाहरति धवलोऽसीति । हालकविकृतायां गाथासप्तशत्यां सप्तमे शतके ६५ गाथेयम् । "धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रख्चितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥" इति संस्कृतम्। अनुरक्तायामपि माय नानुरक्तोऽसीति नायकं प्रति कस्याश्वि- त्सोपालम्भोक्तिरियम्। धवलः श्वेतो निर्मलश्ष। "धवला गवि। वृषश्रेष्ठे पुमान् वाच्यलिङ्ग शुक्के च सुन्दरे" इति मेदिनी। सारबोधिनीकारास्तु धवलः शुद्धगुणो वृषभश्र धवलत्तणं पावेति प्राकृत- सप्तशतीदर्शनादित्याहुः। रक्जितं शोणीकृतम् अनुरक्तीकृतं च। रागो लौहित्यम् अनुरागश्र । निहितो निवेशितोऽपीत्यन्वयः । रक्तः लोहितः अनुरक्तश्र। "रक्तः स्यात्कुङ्कमे ताम्रे प्राची- नामलकेऽसृजि। अनुरागिणि नील्यादिरञ्जिते लोहिते भवेत्" इति विश्वः । गाथा छन्दः। लक्षण- मुक्तं प्राक् ५ पृष्ठे ।।

अत्र पूर्वार्धे धवलिमारुणिम्नोर्गुणयोर्विरोध: (विरोधाभासः) उत्तरार्धमेवोदाहरणम् । एवं चात्रो- त्तरार्धे अप्रस्तुतेन नाथकेन निवेदनीयवृत्तान्ततया प्रकृतस्य हृदयस्य गुणाननुहरणादतद्गुणोलं- कारः। श्लेषोऽत्र मूलम्। निहित इत्यनेन रञ्जनयोग्यता दर्शिता। तदेतत्सर्वमाह अत्रेत्यादिना। व्याख्यातमिदं प्रदीपे "अत्रातिरक्ते मनसि धृतस्याप्यरक्तत्ववचनादुत्तरार्धमेवोदाहरणम्। तत्र प्रकृतं हृदयम् संबोध्यस्त्वप्रकृतः स्वहृदयवृत्तान्तनिवेदनस्यैव विवक्षितत्वात्" इति॥

Page 807

ege ७४८ काव्यप्रकाश: सटीकः। किंच तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते। तेन यत् अप्रकृतस्य रूपं प्रक्रृतेन कुतोऽपि निमित्तात् नानुविधीयते सोऽतद्गुण इत्यपि प्रतिपत्तव्यम्। यथा गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ ५६५॥ (सू० २०६) यद्यथा साधित केनाव्यपरेण तद्न्यथा ॥ १३१ ॥ तथैव यद्विधीयेत स व्याघात इति स्मृतः । येनोपायेन यत् एकेनोपकल्पितम् तस्यान्येन जिगीषुतया तद्डुपायकमेव यत् अन्यथाकरणम् स साधितवस्तुव्याहतिहेतुत्वात् व्याघातः । उदाहरणम् अत्र सूत्रे तत्पदेन प्रकृतमिवाप्रकृतमप्युच्यते तथा अस्येत्यनेनाप्रकृतमिव प्रकृतमप्युपस्थाप्यते तच्छब्देदंशब्दयोः सर्वनाम्नोः सामान्यमुखप्रवृत्तत्वादित्याह किचेत्यादिना। सारबोधिनीकारास्तु पूर्व तदिदंपदयोरधिकगुणन्यूनगुणवाचित्वं विवक्षितम इह तु प्रकृताप्रकृतवाचित्वमिति भेद इत्याहुः । निर्दिश्यते इति। सामान्यमुखप्रवृत्तत्वादिति भावः। नानुविधीयते न ग्रृह्यते 'संभवन्त्यामपि योग्य- तायाम्' इति शेषः । तथा च अप्रस्तुतेन प्रस्तुतरूपाननुहरणवत् प्रस्तुतेनाप्रस्तुतरूपाननुहारोऽप्यन्यः प्रकार इति भाव: ॥ उदाहरति गाङ्गमिति। गाङ़ं गङ्गासंबन्धि अम्बु जलं सितं शुभ्रम्। यामुनं यमुनासंबन्धि अम्बु कज्जलाभं कृष्णम्। राजहंस हे पक्षिविशेष उभयत्र जलद्ये प्रयागतर्थि मज्जतः मज्जनं स्नानं कुर्वतः तव शुभ्रता न चीयते न वर्धते नापचीयते नापक्षीयते कि तु सैवास्तीत्यर्थः। हंसानां राजा राजहंसः। "राजदन्तादिषु परम्" (२।२३१) इति पाणिनिसूत्रे राजदन्तादिषु पाठात् हंसशब्दस्य परनिपातः । "राजहंसास्तु ते चञचुचरणैरलोहितैः सिताः' इत्यमरः । रथोद्धता छन्दः । लक्षण मुक्तं प्राक् ११९ पृष्ठे॥ अत्र वर्ण्यतया प्रकृतेन राजहंसेन गङ्गायमुनयोरप्रकृतयोरगुणस्याग्रहणादतद्गुणोSलंकारः । 'मज्जतः' इत्यनेन गुणग्रहणयोग्यता। तदुक्तं प्रदीपोद्दचोतयोः । "अत्रान्यापदेशपक्षे (अप्रस्तुत- वर्णनपक्षे) राजहंसस्य प्राकरणिकत्वं प्राकरणिकसत्पुरुषोपमानतयोपपादनीयम् वाच्यमात्रविश्रान्तौ तु न काचिदनुपपत्तिः" इति प्रदीपः । ( न काचिदनुपपत्तिरिति। गङ्गायमुनयोरप्रकृतयोर्गुणस्य वर्ण्यतया प्रकृतेन राजहंसेनाग्रहणादिति भाव:) इत्युद््योतः ॥ इत्यतद्गुणः ॥५८:॥ व्याघातनामानमलंकारं लक्षयति यद्यथेति। केनापि केनचित् कर्त्रा यत् वस्तु यथा येनो- पायेन साधितं कृतम् अपरेण तदन्येन कर्त्रा जिगाषुतया तत् वस्तु तथैत्र तेनैवोपायेन तज्जातीये- नैवोपायेन यत् अन्यथा विधायेत ततोऽन्यथा चेत्साध्यते स व्याघात इत्यर्थः ॥ - सूत्रं व्याकुर्वन् यथाशब्दार्थमाह येनोपायेनेति। येन साधनेनेत्यर्थः। यत् वस्तु। केनापीत्यस्य विवरणमाह एकेनेति। एकेन क्त्रेत्यर्थः । साधितमित्यस्यार्थमाह। उपकल्पितमिति। तस्य वस्तुनः । अपरेणेत्यस्यार्थमाह अन्येनेति। अन्येन कत्रेत्यर्थः । अन्यथाकरणे हेतुमाह जिगीषुतयोति। जेतुमिच्छ- येत्यर्थः। अध्याहारलब्धमिदम्। तथैवेत्यस्यार्थमाह तदुपायकमेवेति । तज्जातीयोपायकमेवेत्यर्थः । १ श्लोकस्य राजहंसवर्णनमात्रपरत्वे त्वित्यर्थः ॥

Page 808

दशम उल्लास: । ७४ हीलाकी हशा दग्धं मनसिजं जीवयन्ति दशैव याः। जाण विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः । ५६६॥ अन्यथाविधीयेतेत्यस्य विवरणमाह अन्यथाकरणमिति। व्याघातेति नाम्नो निरुक्तिमाह साधि- तेति। साधितस्य प्रथमसाधितस्य वस्तुनो या व्याहतर्नाशस्तस्य यो हेतुः तत्त्वादित्यर्थः। उक्तं च प्रदीपे "प्रथमसाधितस्य वस्तुनो व्याहतिहेतुत्वात्" इति। विवरणकारास्तु स्वसाधितेति पाठं मन्वाना: "स्वेन उपायेन । हेतुत्वादिति। उपायस्येति शेषः" इति व्याचख्यु: ॥ दशेति। राजशेखरकविकृतायां विद्धशालभञ्जिकाख्यनाटिकायां प्रथमेडङ्के मङ्गलाचरणरूपं पद्यमिदम्। दृशा (विरूपाक्षस्य) नेत्रेण दग्धं प्लुष्टं भस्मीभूतं मनसिजं कामं दृशैव याः जीव- यन्ति प्राणवन्तं कुर्वन्ति अत एव विरूपाक्षस्य जयिनीः जयशीलाः तः वामलोचनाः वामानि वक्राणि रम्याणि वा लोचनानि यासां ताः कामिनीः स्तुवे स्तौमीत्यर्थः । विरूपाक्षस्येति कर्मणि षष्ठी। विरूपे विषमे अक्षिणी यस्य तादृशस्येत्यर्थः। विरूपाक्षस्येति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते इत्याहुः॥ अत्र हरेण दृग्रूपोपायेन दग्धस्य कामस्य हरं जिगाषुभिः कामिनीभिदहिहेतुभूतेन द्ग्रूपोपा- येनैव तद्विपरीतजीवनसंपादनात् व्याघातोऽलंकारः। उक्तं च चक्रवर्तिभट्टाचार्यप्रभृतिभिः "अत्र दशैव दाहो जीवनं च। यद्यपि विरूपाक्षद्दग्वामलोचनाद्ृशोनेक्यम् तथा च न व्याघातः तथाप्ये कजातीयत्वादैक्यं विवक्षित्वेदमुपपादनीयम्। यद्दा कार्यवैजात्यस्य कारणवैजात्यप्रयोज्यत्वादेकजाती- याद्विजातीयकार्याभिधाने व्याघात एवेति ध्येयम्" इति ॥ 'अत्र दृशैव दाहो जीवनं च' इति प्रदीपप्रतीकमुपादायोद््योतकाराः "तथा च कार्यवैजात्ये कारणवैजात्यं प्रयोजकमिति अस्य व्याघात इति भावः। इदमुपलक्षणम्। अन्यकारणत्वेन प्रसि- द्वात्तदन्यकार्यनिष्पादनेऽप्ययम् 'यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः' इत्यत्र योगार्थसत्त्वात्। अत्र सर्वत्र कारणयोरेकत्वाध्यवसानात्पुरस्फुरन्विरोधः प्रातिस्विकरूपेण तत्तत्कार्यहेतुताविमर्शनान्निवर्तते इति बोध्यम्। यदा त्वाश्रयभेदेनैकस्यैव कारणस्य विरुद्धकार्यद्वयजनकत्वं निबध्यते तत्र नायम् व्याहतेर्विराधगर्भाया अभावात्। यथा एकस्यैव पाण्डित्यस्य खलवृत्तिमद्जनकत्वम् सुजनवृत्तिशा- न्तिजनकत्वं च। एवमेकेन कर्त्रा येन कारणेन यत् कार्य निष्पिपाद्यिषितम् तदन्येन कर्त्रा तेनैव कारणेन तद्विरुद्धकार्य निष्पिपादयिषितं चेत्तदाप्ययम्। यथा 'विमुश्चसि यदि प्रियां प्रियतमेति मां मन्दिरे तदा सह नयस्व मां प्रणययन्त्रणायन्त्रितः । अथ प्रकृतिभीरुरित्यखिलभीतिरक्षाक्षमान्न जातु भुजमण्डलादवहितो बहिर्भावय ॥' इति। वनं प्रति प्रस्थितं रामं प्रति जानक्या वाक्यमिदम्। यत्तु निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्। ईदशैश्ररितैर्जाने सत्यं दोषाकरो भवान्' इति निरु- क्त्यलंकारः स श्लेषविशेष एव। यदपि सिद्धस्यैव विधानं विध्यलंकारः 'पञ्चमोदच्चने काले कोकिल: कोकिलोऽभवत्'। अत्र द्वितीयकोकिलपदं मधुरध्वनिशालित्वं लक्षयत् सकलजनहृद्यत्वं व्यनक्ति तदपि ध्वनिना गतार्थम्। क्चित्तु गुणीभूतव्यङ्गयेन वा। न हि सर्वोडपि गुणीभूतव्यङ्गचप्रपश्चः अलंकारगोष्पदेऽन्तर्भावयितुं शक्यते वेधसापि। एवं सिद्धनिषेधानुकीर्तनमपि" इत्याहुः ॥ । १ वस्तुनो या व्याहतिरित्येकदेशान्वयोऽत्र विवक्षितः ॥ यै: कटाक्षविभ्रमादिमिर्जगत् प्रीयते संतुष्यति तैरेव कुसुमायुधो हन्तीत्यन्वयः॥ ३ प्रातिस्विकरूपणेति। असाधारणस्वरूपेणेत्यर्थः ॥

Page 809

७५० काव्यप्रकाशः सटीकः। अष्टौ प्रमाणालंकारा: कैश्र्िविदुक्ताः । ते च प्रत्यक्षानुमानोपैमानशब्दाः ऐतिह्यमर्थीपत्तिरनुपलँब्धिः संभवश्र्वेति। निरूपिताश्र्वैते कुवलयानन्दकारिकाव्याख्यात्रा आशाधरभट्टेन। तथाहि। "प्रत्यक्षमि- न्द्रियज्ञानवर्णनं षड़डिधं तु तत। ( इन्द्रियज्ञानवर्णनम् इन्द्रियजन्यज्ञानस्य वर्णनं प्रत्यक्षम्। अक्ष्णः समीपे प्रत्यक्षमिति सामीप्यार्थेऽव्ययीभावः अक्षाणां समीपे इति वा। तञ्च षड्डिधम् श्रौत्रत्वाचचा- क्षुषरासनघ्राणजमानसभेदात्।) उदाहरणं यथा 'श्रुत्वा स्पृष्टा च दृष्टा च रसित्वाघ्राय यां जनः । मोदते घृतपक्कां तां शष्कुलीमर्पयामि ते ॥' (जनः यां पचनकाले शब्दायमानां श्रोत्रेण श्रत्वा ततः त्वचा स्पृष्टा चक्षुषा दृष्टा रसनेन रसित्वा नासया चाघ्राय मनसा मोदते सुखितोऽस्मीति वेत्ति हे देव घतपक्कां तां शष्कुलीं प्रसिद्धां ते तुभ्यम अर्पयामि। अत्रानुक्रमेण षड्डिधस्यापीन्द्रिय- ज्ञानस्य वर्णनमिति प्रत्यक्षालंकारः ॥ १ ॥) प्रतीतिर्लिंङ्गिनो लिङ्गगदनुमानमदूषितात् । (अदू- षितात् व्यभिचारादिदोषरहितात् लिङ्गात् असाधारणचिह्नात् लिद्रिनो लिङ्गवतोर्ऽर्थस्य प्रतीतिरनु- मानम्।) उदाहरणं यथा 'निःश्वासात्सोष्मणो ज्ञातं हृदि कामाग्निरस्ति ते।' (हे सखे ते तव हृदि कामाग्निरस्तीति सोष्मणो घर्मसहितात् निःश्वासाद्ेतोर्ज्ञातम्। अत्र कामाग्निलिङ्गिनः सबाष्प- निःश्वासरूपलिङ्गात् प्रतीतिरुक्तेत्यनुमानम्। न चात्र लिङ्गं दोषवदिति शङ्क्यम् विलक्षणस्य लिद्रिनो विलक्षणलिङ्गौचित्यात् यथा तप्ततोयस्थवह्नेरुष्मणः इति दिक्। एतत्प्रपश्चस्तु न्यायशास्त्रे द्रष्टव्यः ॥ २ ॥) सादृश्याद्वस्तुनो भानमुपमानं प्रकीर्तितम् । (सादृश्यात् वर्ण्यमानात् वस्तुनः प्रकृतस्य इदमेव तन्नामकमिति भानं प्रतीतिरुपमानं प्रकीर्तितम्।) उदाहरणं यथा 'हिङ्गुलं पझ्मरागाभं तद्वर्णा हिङ्गुलाम्बिका।' (पद्मरागाभं पझ्मस्य कोकनदस्य राग इव रागो यस्येति पझमरागो माणिक्यं तस्याभा इव आभा यस्येति तथोक्तं रञ्जनद्रव्यं हिद्गुलसंज्ञं तद्र्णां तत्तुल्यरागा अम्बिका देवी हिद्गु- लेत्युक्ता। अत्रोपमानत्रयसद्भावात्संसृष्टिः। हिङ्गुलवर्णधृतिकारणं पदमपुराणस्थे आकाशखण्डे द्रष्ट- व्यम्॥ ३ ॥) श्रुत्यादिवाक्यविन्यासान्निश्रयः शब्द उच्यते । (श्रत्यादिवाक्यविन्यासात् वेदा- दिवचनोपन्यासात् निश्र्वयः शब्द: शब्दाख्यप्रमाणमुच्यते।) उदाहरणं यथा 'साम्बशंभुः परं ब्रह्म कैवल्योपनिषच्छतेः।' (साम्बशंभुः अम्बया सहितः शिव एव कैवल्योपनिषच्छतेः तद्वाक्यश्रवणात् परं निर्गुणं ब्रह्मेति जानामि ॥४ ॥) ऐतिहां किवन्दती चेत्प्रमाणत्वेन भण्यते। (चेयदि किंवदन्ती जनवार्ता प्रमाणत्वेन भण्यते तर्हि ऐतिह्यम् इति ह प्रसिद्धमेव ऐतिह्यमिति व्युत्पत्तेः । 'किंवदन्ती जनश्रुतिः' इत्यमरः । ) उदाहरणं यथा 'तिलमात्रमिदं लिङ्गं वर्षवर्ध विदुर्जनाः।' (इदं पूर्ववर्ति शिवस्य लिङ्गं तिलमात्रं वर्षवर्ध वर्षे वर्धते तथाभूतं जनाः विदुः कथयन्तीत्यर्थः। अत्र शिवलिङ्गस्य वर्षे वर्षे तिलमात्रवृद्धौ जनवार्ता प्रमाणमिति ऐतिह्यम्॥ ५॥) कल्पनं चान्यथा सिद्धचार्थस्यार्थापत्तिरिष्यते । (अन्यथासिद्धया प्रकारान्तरेणासिद्ध्या अर्थस्य कल्पनमर्थापत्तिः इष्यते।) उदाहरणं यथा 'गङ्गा पतिव्रता साक्षादन्यथागनिं विशेत्कथम्।' (पतिव्रता साक्षात् गङ्गा अन्यथाग्निं कथं विशेत्। गङ्गात्वे तु वह्निप्रवेशो न दुर्घट इति भावः ॥ ६ ॥) प्रमाणत्वेन निर्दि- ष्टानुपलब्धिरलंक्रिया। (प्रमाणत्वेन प्रमाकरणत्वेन निर्दिष्टा निदर्शिता अनुपलब्धिरप्राप्तिः अत्य- न्ताभाव इति यावत् अलंक्रियालंकारो भवति।) उदाहरणं यथा 'अयशस्तव नास्तीति सत्यं यन्न श्रुतं क्वचित्।' (हे राजन् तव अयशो नास्तीति लोकवचः सत्यं यथार्थमेव। यद्यस्मात् क्वचि- १ प्रसिद्वामिति । तथा चाह चम्पूमारतेनन्तभट्टः 'ज्वालतापभरकुण्डलिताङ्गी: स्वेडसारघृतसेचनमृद्ढीः । सर्प- पुंगवततीरतिहृष्टः शष्कुलीरि चचर्व कशानुः ॥ इति ॥२ प्रपश्च्ो विस्तारः ॥

Page 810

दशम उल्लासः । ७५१

(सू० २०७ ) सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ १३९ ॥

दपि न श्रुतम् 'अस्माभिः' इति शेषः । अस्ति चेदयशः श्रूयते इति भावः। अत्रायशसोऽभावं प्रति श्रवणाभावः प्रमाणत्वेन दर्शित इत्यनुपलब्धिः। अभावाखव्यमेतत्प्रमाणमभावग्राहकमिति वेदान्तिनः ॥ ७ ॥) संभवः स्यादलंकारः प्रमाणत्वं प्रयाति यः । (यः संभवः प्रमाणत्वं प्रकृतार्थनि- र्णायकत्वं प्रयाति स संभवो नामालंकार: स्यात्।) उदाहरणं यथा 'स्यान्मे कदाचिदिन्द्रत्वं चित्रा कर्मगतिर्यतः ।' (मे मम कदाचित् इन्द्रत्वं स्यात् भत्रेत् । संभावनायां लिङ् । यतः कर्मगतिः कर्मफलप्राप्तिः चित्रा नानाविधा। ततः कस्यचित्कर्मणः फलमिन्द्रत्वमपि भवत्येवेति भावः ॥ ८।।) अत्र चत्वारि प्रमाणानि कणादादीनाम् षट् वेदान्तिनाम् अष्टौ मीमांसकानामलंकारिकाणां चेति प्रसिद्धः पन्थाः" इति। परं तु अष्टावप्येते न निरूपणार्हाः केषांचिदुक्तेष्वेवालंकरेष्वन्तर्भावात् केषांचिच्चमत्कारित्वाभावात्। तदुक्तमुझ्योते "एवमष्टौ प्रमाणालंकारा अन्यैर्दर्शिताः । तत्र प्रत्यक्षं भाविकतया निबद्धम् अन्यादृशं तु न चमत्कारि अनुमानं तु साक्षादेवोक्तम् अन्येषां तु नालंकार- त्वम् तत्तत्प्रमाणजन्यप्रमितिविषयत्वकृतचमत्काराभावात् तद्रूपेणापस्कारकत्वाभावात्। उपमानं तु उपमयैव गतार्थमित्याद्यूह्यम्" इति॥ इति व्याघातः ॥५९॥

एवं शुद्धालंकारा: दर्शिताः । अस्ति पुनः कश्वित् विषयः यत्राङ्गदादिसंबद्धपझ्मरागप्रमुखमणिमेल कवत् प्रोक्तानामलंकाराणां संवलने एवाधिकश्रमत्कारः । अतः सोप्यलंकारः। तत्र दयी विधा पैरस्पर- मनपेक्ष्य व्यवस्थितेस्तद्भावाच्च। तत्राद्या संसृष्टिः द्वितीया तु संकरः स च त्रिधेति प्रकारचतुष्टयं लक्षयति सेष्टेत्यादिना 'अविश्रान्तिजुषाम्' इत्यादिना च। 'सैषा संसृष्टिः' इति पाठस्तु अङ्कित- पुस्तकं विना प्राचीनेषु मूलटकियोः पुस्तकेषु काव्यप्रदीपपुस्तकेषु च नोपलभ्यते इत्यनाकर एवेति मन्तव्यम्। भेद: स्वरूपतो विषयतो वा परस्परमनपेक्षत्वम्। यद्वाँ विषयभेदे सति परस्परानपेक्ष- त्वम्। यदित्यव्ययं स्थितिविशेषणम्। तथा च एतेषां समनन्तरमेवोक्तानामलंकाराणां भेदेन पर- स्परनिरपेक्षत्वेन इह एकत्र यत् स्थितिः या व्यवस्थितिः सा संसृष्टिरिष्टा। संकरभेदास्तु नैवम् अङ्गाङ्गिभावे स्वरूपतः सापेक्षत्वात् अनिश्रये व्यवास्थितेरेवाभावात् व्यवस्थिते विषयतः परापेक्षत्वात् विषैयाभेदाच्च। सेयं संसृष्टिः शब्दालंकारमात्रस्यार्थालंकारमात्रस्य शब्दार्थालंकारयोर्वेति त्रिप्रकारेत्यर्थ इति प्रदीपे स्पष्टम्।।

ननु संसृष्टिर्न पृथक् यथा कामिनीशरीरे कुण्डलहारकेयूरकङ्कणादनिां खलेकपोतिकया (खले- कपोतन्यायेन ) शोभाजननेन विशेष आर्थः समुदायम्यः समुदायस्य भेदाभावात्। अन्यथा लोकेऽपि भेदापत्तिः। तद्दृष्ट्यैव काव्ये गुणालंकारकल्पनादिति चेन्न। तत्र स्वस्वाश्रयभिन्नभिन्ना- ङ्रोत्कर्षाधानपूर्वकं शरीरेऽवयविनि आर्थः शोभातिशयः। इह त्वेकाङ्गोत्कर्षकतया संसृष्टिरेव। यथा १ विषयः काव्यविशेषः ॥ २ अङ्गदं केयरम् प्रगण्डभूषणमिति यावत् बाजबन्द इति ख्यातम् । "अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम्" इति मेदिनी॥ 3 परस्परमनपेक्ष्येति। परस्परनैरपेक्ष्येण लब्धात्मविश्रान्तीना- मित्यर्थः ॥ विषयत इति। विषयोऽलंकारप्रतिपादक आश्रयो वा शब्दः ॥ ५ एकवाचकानुप्रवेशेन संकरे 'स्पष्टो ललसत्०' इत्यादौ रूपकानुप्रासयोविषयैक्येपि परस्परापेक्षाविरहादृतिप्रसङ्गताद्वस्थ्यादाह यद्ूति। एवं चं तत्र विषयभेदाभावान्नातिव्याप्तिरिति भाव इति प्रभा॥६ व्यवस्थित्यभावमुपपाद्यति व्यवस्थितेरिति । यथा 'लिम्प तीव' इत्यत्रोत्प्रक्षा लेपनविषया उपमा असत्पुरुषसेवाविषया ॥ ७ विषयाभेदादिति। 'अनिश्रये' इति शेषः ।।

Page 811

७५२ काव्यप्रकाशः सटीक: । एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवमन्योन्यनिरपेक्षतया यत् एकत्र शब्दभागे एव अर्थविषये एव उभयत्रापि वा अवस्थानम् सा एकार्थसमवायस्वभावा संसृष्टिः। तत्र शब्दालंकारसंसृष्टिर्यथा वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया। चलितया विदधे कलमेखलाकलकलोऽलकलोलहशान्ययः॥ ५६७॥ अर्थालंकारसंसृष्टिस्तु लिम्पतीव तमोऽङ्गानि वर्षतीवाअ्नं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ५६८॥ पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्प्रेक्षे। 'लिम्पतीव०' इत्यादौ उत्प्रेक्षया तमसः प्रसृतत्वं प्रतिपाद्योपमयातिगाढत्वोपपादनेन संसृष्टिव्यवहा- रात्। लोकेऽपि यत्र बहूनां कण्ठाभरणानामेकोत्कर्षकत्वं तत्र ससृष्टित्वस्यैवाङ्गीकारादित्युदद्योतः॥ सूत्रं व्याचष्टे एतेषामिति। बहुत्वमविवक्षितम् "सूत्रे लिङ्गवचनमतन्त्रम्" इति न्यायात्। तेन द्योरपि संग्रहः । अत एवाग्रिमोदाहरणानि संगच्छन्ते । समनन्तरम् उल्लासद्ये । उक्तस्वरू- पाणामिति। प्रदर्शितशरीराणामलंकाराणामित्यर्थः । यथासंभवमिति । शब्दालंकारयोरर्थालंकार- योरुभयालंकारयोर्वेत्यर्थः । भेदपदार्थमाह अन्योन्येत्यादि । इहेत्यस्यार्थमाह एकत्रेति । तस्याप्य- र्थमाह शब्दभागे एवेत्यादि। शब्दरूपे (काव्यस्य) भागेंऽशे एवेत्यर्थः शब्दार्थो काव्यमिति सिद्धान्तादिति भावः। उभयत्र द्वयोरपि। स्थितिपदार्थमाह अवस्थानमिति। संसृष्टिपदार्थमाह एकार्थेति। एकस्मिन् अर्थे वस्तुनि (शब्दरूपकाव्यभागादौ) समवायः (अर्थात् अलंकारयोः:) संबन्धः स एव स्वभावः स्वरूपं यस्याः सा संसृष्टिरलंकार इत्यर्थः। एवं चालंकारयोः समवधानं चमत्कारान्तरमादधत् अलंकारान्तरमेव भवताति भावः। भेदेनेत्यनेन संकरव्युदासः ॥ सेयं संसृष्टिः शब्दालंकारमात्रस्य अर्थालंकारमात्रस्य शब्दार्थालंकारयार्वेति त्रिप्रकारेत्युक्तम् तत्राद्यामुदाहरति वदनेति। माघकाव्ये षष्टे सर्गे ऋतुवर्णने भ्रमरव्याकुलितायाः कस्याश्विभाय- कायाः क्रियावर्णनमिदम्। वदने मुखे यत् सौरभं (पद्मिनीत्वेन) अद्भुतसौगन्ध्यं तस्य लाभेन परितो भ्रमन्तो ये भ्रमरास्तेषां संभ्रमो भ्रमणं भयं वा तेन संभृता पूर्णा उपचिता वा शोभा यस्या स्तथाभूतया चलितया अलिसंभ्रमात् प्रस्थितया अत एव अलकैश्चर्णकुन्तलैः (तत्पातैः) लोले चश्चले दशौ अक्षिणी यस्यास्तादृश्या अन्यया पूर्वश्लोकोक्तापेक्षया भिन्नया कयाचिन्नायिकया (क्त्या ) कलोऽव्यक्तमधुरो मेखलायाः काञच्याः कलकलः कोलाहलः विदधे अकारीत्यर्थः। अलिभयादपसरन्त्याः काश्चीगुणध्वनिरजनीति भावः। "संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि" इति मेदिनी। "कोलाहलः कलकलः" इत्यमरः। द्रुतविलम्बितं वृत्तम। लक्षणमुक्तं प्राक् ८३ पृष्ठे॥ अत्र पूर्वा्धे भकारानुप्रासः तृतीयचरणे लकारानुप्रासः चतुर्थचरणे लकलोलकलो इति यमकम्। तथा चानुप्रासयमकयोः शब्द्ालंकारयोः परस्परनिरपेक्षयोर्योगात् संसृष्टिरलंकारोडयम्।उक्तं च चक्रवर्तिना अत्र वृत्त्यनुप्रासयमकयोः संसृष्टिरिति॥ द्वितीयां संसृष्टिमुदाहरति लिम्पतीति। व्याख्यातमिदं प्राक (५८७ पृष्ठे)। अत्र पूर्वाधे उत्प्रेक्षा

Page 812

दशम उल्लास: ।

शब्दार्थालंकारयोस्तु संसृष्टिः। of OF ) सो णात्थि एत्थ गामे जो एअं महमहन्तलाअण्णं। तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारेइ॥ ५६९॥ अन्रानुप्रासो रूपकं चान्योन्यानपेक्षे। संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्॥ लेपनविषया उत्तरार्धे उपमा असत्पुरुषसेवाविषया तयोरर्थालंकारयोः परस्परनिरपेक्षयोर्योगात्संसृष्टि- रलंकारः। श्लोकदये विवेकमाह पूर्वत्रेति। वदनसौरभेत्यत्रेत्यर्थः। यमकानुप्रासौ अनुप्रासय मकौ। संसृष्टिं संसृष्टयलंकारम्। प्रयोजयतः कुरुतः । उत्तरत्र लिम्पतीवेत्यत्र। तथाविधे परस्परनिरपेक्षे। उपमोत्प्रेक्षे इति। 'संसृष्टिं प्रयोजयतः' इत्यनुषङ्ग:॥ तृतीयां संसृष्टिमुदाहरति सो णत्थीति। "स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्याम्। तरुणानां हृदयलुण्ठाकीं परिष्वक्कमाणां निवारयति॥" इति संस्कृतम्। महमहायमानलावण्याम् उत्सवोत्सवायमानलावण्यां तरुणानां हृदयलुण्ठाकीं हृदयस्तेयकत्री परिष्वक्कमाणां स्वानुरूपरमणा- भावात् इतस्ततो गच्छन्तीम एनां नायिकां यः निवारयात पुरुषान्तराद् व्यावर्तयति सः अत्र अस्मिन ग्रामे नास्तीत्यर्थः । केचित्तु 'महमहल्लावण्याम्' इति संस्कृतं पठित्वा 'नवनवीभवल्लावण्याम्' इत्यर्थ- माहुः। गाथा छन्दः। लक्षणमुक्तं प्राक् ५ पृष्ठे॥ अत्र पूर्वार्धे णत्थि एत्थेति तकारथकारात्मकस्यानेकव्यञ्जनस्य सकृत्साम्यमिति छेकानुप्रासः शब्दालंकारः । उत्तरार्धे हृदयलुण्ठाकीमिति रूपकमर्थालंकारः । तयोश्र परस्परनिरपेक्षयोर्योगात्सं- सृष्टिरलंकारोऽयम् । तदेवाह अत्रेत्यादिना । अन्योन्यानपेक्षे इति । परस्परनिरपेक्षे इत्यर्थः। 'संसृष्टिं प्रयोजयतः' इत्यनुषङ्ग: । नन्वनयोः अनुप्रासरूपकयोः शब्दार्थरूपाश्रयभेदेन कथमेका- र्थसमवायलक्षणा संसृष्टिरित्यत आह संसर्गश्चेति । तयोः अनुप्रासरूपकयोः । एकत्र वाक्ये इति। "क्रिया वा कारकान्विता" इत्यमरोक्तेर्थवच्छिन्नशब्दस्यैव वाक्यत्वम्। तथा च 'एकं वाक्यम्' इति प्रतीतिसिद्धमेकत्वमादाय तयोरेकार्थसमवाय इत्यर्थः । वाक्यभेदेऽप्याह छन्दास वेति। चतुःपादात्मके इत्यर्थः । अर्थालंकाराणामप्यत्र परंपरया स्थितिः। समवेतत्वं संबद्धत्व- मित्युद्दचोते स्पष्टम् ।। व्याख्यातमिदं चक्रवर्तिर्भट्टाचार्यैरपि "अत्र पूर्वार्धे छेकानुप्रासः हृदयलुण्ठाकीमिति रूपकं च संसृष्टिं प्रयोजयत इत्याह अत्रेति। नन्वलंकारयोर्भिन्नधर्मिकत्वात्कथमुक्तैकार्थसंबन्धस्वभावा संसृष्टिरत आह संसर्गश्र्वेति। एकत्र काव्ये इति। तथा च काव्यत्वरूपेणैकेनोपाधिनानुगतयोः शब्दार्थयोरैक्या- त्संगतिरिति भाव: । क्वचित् 'वाक्ये' इति पाठः। तत्राप्याकाङ्कायोग्यतादिमत्पदकदम्बकस्यैव वाक्य- त्वात्। योग्यतायाश्र्वार्थघटितत्वादर्थावच्छिन्शब्दस्यैव वाक्यत्वम्। अन्यथा निरर्थकानामपि वाक्यत्वा- पत्तिः। तथा चैंकं वाक्यमित्यादिप्रतीतिसाक्षिकमेकत्वमादाय शब्दार्थालंकारयोरेकार्थसमवाय इत्यर्थः । छन्दसीति। 'रीतिरात्मा काव्यस्य' इति मतावष्टम्भनेन तत्राप्युपपत्तिः पूर्ववदेव। अन्यथा आनुपूर्व्या- त्मके छन्दसि शब्दालंकाराणां यथाकथंचिद्ृत्तावपि अर्थालंकाराणां सर्वथैवावृत्योक्तदोषानिवृत्तेः । समवे- तत्वात् संबद्धत्वात्। यन्तु रसरूपे एकत्रैव धर्मिणि सर्वेषामुपकारकत्वात्साक्षात्परंपरासंबन्धे सर्वेषामेव १ वाक्यैकवाक्यतापन्ने पद्ये इति यावत्। तथा च 'लिम्पतीव' इत्यत्र पि च निरुक्तैकवाक्यत्वाभावेडपि वाक्यै- कवाक्यतापन्नत्वरूपैकवाक्यत्वसत्त्वान्न्नानुपपत्तिः । एतेनैकस्मिन् छन्दसीतिवत् एकस्मिन् सर्गेडध्याये वा प्रचन्धे वेति कुतो नोक्तामति केपांचित्पण्डितंमन्यानामुपहासः पराहतः॥ ९५

Page 813

७५४ काव्यप्रकाशः सटीकः।

(सू० २०८) अविश्रान्तिजुषामात्मन्यङ्गङ्गित्वं तु संकरः । एते एव यत्रात्मनि अनासादितस्वतन्त्रभावाः परस्परम् अनुग्राह्यानुग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात् संकरः । उदाहरणम् आत्ते समिन्तरत्ने मरकतिनि हते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते। सामानाधिकरण्यमस्ताति तमादायैवैकार्थसंबन्धसमर्थनम्। 'एकत्र शब्दभागे एव' इत्यादिवृत्तिग्रन्थस्य 'वाक्ये छन्दसि वा' इत्युपसंहारग्रन्थस्य च तावत्पर्यन्ततात्पर्यकत्वमिति तन। रसमादाय तथा समर्थने सर्वेषामेव शब्दार्थदोषाभावगुणालंकाराणां संसृष्टिः स्यात् रसोपकारकत्वाविशेषात् । रसोपकारकत्वा- विशेषेऽपि अलंकाराणामेव शब्दार्थोभयवृत्तित्वेन प्रतीतानामानुभाविकी चमत्कारप्रयोजकतेति चेत् तर्हि शब्दार्थात्मकं काव्यमादायैव तत्समर्थनमुचितम् न तु रसमिति दिक" इति ॥ इति संसृष्टिः ॥।६०।। अथ संकरालंकारः । स चाङ्गाङ्गित्वेन संदेहास्पदत्वेन एकपदप्रतिपाद्यत्वेन च त्रिविधः । तत्राद्यमङ्गा- द्गिभावरूपं संकरं लक्षयति अविश्रान्तीति। पूर्वसूत्रात् 'एतेषाम्' इत्यनुवर्तते। तथा च आत्मनि आत्ममात्रे स्वस्वरूपमात्रे अविश्रान्तिजुषाम् अनासादितस्वतन्त्रभावानाम् एतेषाम् उक्तानामेवालंकारा- णाम् अङ्गाङ्गित्वम् अनुग्राह्यानुग्राहकत्वम् उपकार्योपकारकत्वम् संकरः संकरनामालंकार इत्यर्थः । उक्तानामेवालंकाराणां चारुत्वार्थ स्वरूपनिष्पत्तये वान्यापेक्षणादात्मन्यनासादितस्वतन्त्रभावानां यत् परस्परम् अनुग्राह्यानुग्राहकत्वम् स तु संकरालंकार इति भावः । अत्रापि पूर्ववत् बहुवचनमविवक्षितम्। अत एव वक्ष्यमाणं प्रथमोदाहरणं संगच्छते॥ सूत्रं व्याकुर्वन् एतेषामिति व्याचष्टे एते एवेति। उक्ता एवालंकारा इत्यर्थः। आत्मनि आत्ममात्रे। अविश्रान्तिजुषामित्यस्य व्याख्यानम् अनासादितस्वतन्त्रभावा इति । स्वतन्त्रभावः स्वातन्त्र्यम् । परस्परम् अन्योन्यम्। अङ्गाङ्गित्वमिति व्याचष्टे अनुग्राह्यानुग्राहकतामिति । कस्यचिदनुग्राह्यत्वम् कस्यचिदनुग्राहकत्वमिति भावः। संकरपदस्य योगार्थमाह संकीर्यमाणेति । मिश्रचमाणेत्यर्थः । संकर इति। अङ्गाङ्गिभावरूपः संकर इत्यर्थः ॥ अत्राहुर्विवरणकाराः "स्वतन्त्रभावः इतरानपेक्षिता। परस्परमनुग्राह्यानुग्राहकता अन्योन्यमुप- कार्योपकारकभावः। तेन यत्र एक: अलंकारः आसादितस्वतन्त्रभावः इतरमलंकारमुपकरोति तत्र नायं संकरः । यथा 'सद्वंशमुक्तामणिः' (५२५ पृष्ठे) इत्यादौ वंशशब्दे श्र्लेष: शब्दसाम्यात् स्वतःसिद्धः रूपकमुपकरोतीति नायं संकरः कि तु रूपकमेव। ततश्र्वालंकाराणां यथाकथंचित् परस्परमुपकार्योपकारकभावः संकरः । एकस्य स्वतःसिद्धस्य अपरालंकारोपकारकत्वे तु एकमूल- कोऽपरोऽलंकार इति फलितम्" इति। अत्राहुः सुधासागरकाराः "अङ्गाङ्गित्वमनुग्राह्यानुग्राहकभावः । यत्तु श्रीवत्सलाञ्छनभट्टाचार्यैरुक्तम् 'स्वातन्त्रयं चेतरसजातीयासहकारेण चमत्कारासाधारणप्रयोज- कत्वम्' इति तन्न रमणीयम एतादृशस्वातन्त्र्यस्याङ्गिभूतालंकारे जागरूकत्वात् किंतु स्वातन्त्र्यम- न्यनिरपेक्षत्वमेव अन्यापेक्षा चाङ्गस्य चारुत्वार्थम् अङ्गिनस्तु स्वरूपसिद्धयर्थम्। अत एवाङ्गाद्गिभावः संगच्छते इति तत्त्वम्" इति॥ उदाहरति आत्ते इति। अत्र यद्वक्तव्यं तत् प्रसङ्गात्प्रागेव (३५० पृष्ठे ३१ पङ़कौ ) उक्तम्।

Page 814

दशम उल्लास: । ७५५

शोणं बिम्बोष्ठकान्त्या त्वदरिमृगद्टशामित्वरीणामरण्ये राजन् गुआाफलानां स्नज इति शबरा नैव हारं हरान्ते॥ ५७०॥ अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतम् तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृति- निमित्तमित्यनयोरङ्गाङ्गिभावः । यथा वा जटाभाभिर्भाभि: करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः।

हे राजन् शबराः भिल्लाः किराता: अरण्ये निर्जनवने इत्व्राणां गतिशीलानां (त्वद्भयात्पलाय्य इतस्ततो गच्छन्तीनां ) त्वद्रिमृगद्दशां त्वच्छत्रुकामिनानां मरकतं गारुत्मतमस्यास्तीति मरकति तस्मिन् मरकतिनि मरकतमणिशालिनि सीमन्तरत्ने शिरोभूषणे आत्ते गृहीते सति प्रथमं तत्रैव दृष्टिपाता- दिति भावः । मरकतिनीत्यनेन झटिति विवेचनम् शुद्धहेन्नां देहकान्त्याभिभवसंभवादिति बोध्यम् । हेमताटङ्कपत्रे सौवर्णकर्मभूषणे हते सति मेखलायां क्षुद्रघण्टिकायां काञच्यां लुतायां छिन्नायां सत्याम 'लुप्ल छेदने' इति तुदादौ धातुः। मणितुलाकोटियुग्मे रत्नघटितपादकटकद्वये नूपुरद्ये झटिति शाघ्रिं गृहीते च सति बिम्बसदृशौष्ठकान्त्या शोणम् आरक्तम् मुखस्य नम्रत्वादिति भावः हारं मुक्तादाम गुस्जाफलानां स्रज इति बुद्धया नैव हरन्तीत्यर्थः । इत्वरीत्यत्र 'इण गतौ' इति धातोः "इण्नशजिसर्तिम्यः क्वरप् " (३२।१६३) इति पाणिनिसूत्रेण कर्तरि ताच्छील्ये क्वरप् प्रत्ययः "ह्स्वस्य पिति कृति तुक" (६।१।७१) इति सूत्रेण तुगागमः "टिड्डाणञू०० " (४।१।१५) इति सूत्रेण डीपू। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥

अत्र बिम्बोष्ठकान्त्या शोणमिति तद्गुणः 'गुञ्जाफलानां स्रजः' इति भ्रान्तिमन्तं स्वरूपनिष्पत्ता- वनुग्रृह्लाति तद्गुणस्य च भ्रमजनकतया भ्रान्तिमत्साहाय्येन चारुत्वातिशय इति तयोरङ्गाङ्गिभावरूपः संकरालंकारः । तदुक्तं चन्द्रिकायाम् "अत्र बिम्बोष्ठकान्त्या शोणमिति तद्गुणालंकारस्य गुस्जाफल- भ्रान्त्यलंकाराङ्गत्वात्तयारङ्गाङ्गिभावलक्षणः संकरः " इति। तदेवाह अत्रेत्यादिना। तदाश्रयेण भ्रान्तिमदाश्रयेण । सचेतसां सहृदयानाम् । अनयोः तद्गुणभ्रान्तिमतोः । अङ्गङ्गिभाव इति। तद्गुणोऽ्ङ्गम् भ्रान्तिमान् अङ्गीत्यर्थः॥

व्याख्यातमिदं प्रदीपोह््योतयोः । "अत्र बिम्बोष्ठकान्त्या शोणमिति तद्गुणमपेक्ष्य 'गुञ्जाफलानां स्रजः' इति भ्रान्तिमान् आत्मानं लभते तद्गुणोऽप्यत्र न स्वातन्त्र्येण चमत्कारविशेषं करोति किंतु भ्रान्तिमद्पेक्षयैवेति परस्परमनुग्राह्यानुग्राहकभावः" इति प्रदीपः । (आत्मान लभते इति। अधर- सांनिध्यासादितारुण्यविशिष्टमुक्ताफलानां दर्शनेन गुञ्जास्मरणात् भ्रान्तिर्भर्वताति भावः । भ्रान्ति- मदपेक्षयेि। तननिर्वाहकत्वेनेति भावः । एतच्च प्रकृताभिप्रायेण अन्यत्र तस्य स्वातन्त्र्येणापि चमत्कारित्वात् ) इत्युद्द्योत: ॥

एवं द्वयोरलंकारयोः संकरमुदाहृत्य इदानीं बहूनामप्यलंकाराणां संकरमुदाहरति जटेति। चन्द्रे योगिधर्म समारोपयति। शशी चन्द्रः पितृवने रमशाने एव व्योम्नि आकाशे चरति संचरतीत्यन्वयः। कीदशः । जटाभामि: जटातुल्याभि: पिङ्गाभि: भाभि: कान्तिमिः उपलक्षितः । उपलक्षणे तृतीया "इत्थंभूतलक्षणे " (२।३।२१ ) इति पाणिन्यनुशासनात्। कर: किरणं हस्तश्रव तेन तस्मिन्वा धतं

Page 815

७५६ काव्यप्रकाशः सटीकः ।

परिश्ेङ्क त्तारापरिकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योस्ि चरति॥ ५७१॥ उपमा रूपकम् उत्प्रेक्षा श्र्लेषश्चेति चत्वारोऽत्र पूर्ववत् अङ्गाद्गितया प्रतीयन्ते। कलङ्क एव अक्षवलयं वलयाकाररुद्राक्षमाला येन तादृशः । वियोगिनो विराहणः (वियोक्तुं शीलमेषा- मिति व्युत्पत्त्या ) विषयाश्र तेषां व्यापत्तेर्विनाशादिव कलितं स्वीकृतं यत् वैराग्यं विगतरक्तता विषयस्पृहाराहित्यं च तेन विशद: शुभ्रः शुद्धचित्तश्र । उदयकालिकलौहित्यत्यागाच्चन्द्रस्य तथा- त्वम्। भस्मेव आपाण्डुः भस्मना आपाण्डुश्र। कीदृशे व्योम्नि परिप्रेङ्गन् चलन् चपलः यः ताराणां नक्षत्राणां परिकरः समूहः स एव कपालानि शिरोऽस्थीनि तैः अङ्कितं चिह्नितं तलं स्वरूपं यस्य तादृश इत्यर्थः । "अधः स्वरूपयोरस्त्री तलम् " इत्यमरः । "कपालोऽस्त्री शिरोऽस्त्रि स्यात् घटादे: शकले ब्रजे" इति मेदिना। "अक्षो ज्ञातार्थशकटव्यवहारेषु पाशके। रुद्राक्षेन्द्राक्षयोः सर्पे बिभीत- कतरावपि " इति मेदिनी। शिखरिणी छन्दः। लक्षणमुक्तं प्राक् ७५ पृष्ठे॥ अत्र जटाभाभिर्भाभिरिति पितृवन इव व्योम्नति चोपमा कलङ्काक्षवलयति तारापरिकरकपालेति च रूपकम् वियोगिव्यापत्तेरिवेत्युत्प्रेक्षा वैराग्यविशद इति शर्लेषः चत्वारोऽप्येते परस्परमङ्गाङ्गि- भावेन प्रतीयन्ते। तत्रोत्प्रेक्षा श्र्लेषाङ्गम् तद्वशादेव वैराग्यविशद इत्यत्र द्वितीयार्थानुसंधानात्। शर्लेषश्रव रूपकोपमयोरङ्गम् तद्दशावगतनिरवेदमहिम्रैव जटाया अक्षवलयधारणस्य च संगतेः । तारापरिकरक- पालेति रूपकं पितृवन इवेत्युपमाया अङ्गम् तद्वीजं हि सादृश्यम् न च रमशाने व्योम्ना सह तत्साहजिकम् किंतु रूपितकपालाश्रयत्वनैवेति। सर्वत्र चाङ्गानां चारुत्वार्थमङ्गयपेक्षा पूर्ववदूह- नीया। सर्वेषां चैषां पार्यन्तिकचारुत्वहेतुरङ्गिभूता च समासोक्तिः चन्द्रगतत्वेन महाव्रतिवृत्तान्त- प्रतीतेः सा च व्यक्तैवेति प्रकाशकृता नोक्तेत्यवधेयमिति प्रदीपे स्पष्टम् ।।

अत्रैवमाहुर्विवरणकाराः "अत्र योगिधर्मसमारोपात् स्थितापि समासोक्तिरतिस्फुटत्वात प्रकाशकृता नोक्तेति प्रदीपः । वस्तुतः व्योन्नीति भाभिरित च विशेषणं योगिनि न संभवतीति नात्र समा- सोक्तिः। पितृवन इव: व्योम्नीति आधारयोरुपमासत्त्वात् तारापरिकरकपालेत्यत्रापि आधेययोरुपमैव नतु रूपकम्। अत्र प्रथमचरणे उपमारूपकयोरुभयोरेवोपादानं न समीचीनमिति विभावनीयम्। प्रतीयन्ते इति। कलितवैराग्यविशद इति श्लेषः वियोगिव्यापत्तेरिवेत्युत्प्रेक्षामुपकराति उक्तश्लेषसम- धिगतविषयनि:स्पृहत्वरूपद्वितीयार्थमवलम्ब्यैव उत्प्रेक्षायाः प्रदृतेः । तया चोत्प्रेक्षया य श्लेष उपक्रियते तया श्लेषस्य समर्थनन श्र्लेषकृतचमत्कारस्यातिशायनात्। एवं जटाभाभिर्भाभिरिति पितृवन इव व्योम्नीति च उपमा करघृतकलङ्काक्षवलय इति रूपकम् ते च श्लेषोत्प्रेक्षे इति चत्वार एवालंकाराश्रन्द्रस्य योगित्वप्रत्यायने परस्परमुपकुर्वन्ति सकारणवैराग्यसहितेन जटादिधारणेन जटादिधारणसहितेन बा सकारणेन वैराग्येण चन्द्रस्य योगित्वं सुष्ठु समर्थतं भवति। पितृवन इव व्योम्नीत्युपमार्या तारापरिकरकपालेत्युपमा अङ्गमिति अत्र उपमामूलैवोपमा न संकरः " इति ॥ १ विषयाः पुत्रकलत्राद्यः ॥ २ विनाशोऽत्र चन्द्रपक्षे मरणम् योगिपक्षे ध्वंसः ॥ ३ वृत्तान्तप्रततिरित। तद्वृत्ता- म्ताध्यारोने एव करधृतकलङ्काक्षवलयत्वान्वयादिति भावः। शाशीवर्णनस्यैव प्रकतत्वादत्रैव विश्रान्तिरित्युद्व्योतः॥

Page 816

दशम उल्लास: । ७५७

कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते। अस्य हि रूपकत्वे तिरोहितकलङ्गरूपम् अक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः। शरलेषच्छायया तु कलङ्कस्य करधारणम् असदेव प्रत्यासत्या उपचर्य योज्यते शशाङ्केन केवलं कलङकस्य मूर्त्यैव उद्दहनात्। कलङ्कोऽक्षवलयमिवेति तु उपमायां कलङ्कस्य उत्कतया प्रतिप्रत्तिः । न चास्य करधृतत्वं तत्त्वतोऽस्तीति मुख्येऽ्युपचार एव शरणं स्यात्।

ननु "मर्यूरव्यंसकादयश्र" इति सूत्रण कलङ्क एवाक्षवलयं कलङ्गाक्षवलयम् इति समासे रूप- कम् "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इति सूत्रेण कलङ्गोऽक्षवलयमिव कलङ्काक्षवलयक् इत्यु- पमितसमासे उपमापि तथा चोभयरूपस्यापि समासस्य संभवेन किं करघतकलङ्काक्षवलय इत्यत्रांशे वक्ष्यमाणोऽनयोः रूपकोपमयोः संदेहसंकरः उत रूपकमेवेति संशयं निराकरोति कलङ्क एवेत्यादिना 'शरणं स्यात्' इत्यनतेन। इदमत्र निराकरणम्। अलंकाराणामेकतरसाधकबाधकप्रमाणाभावे एव संदेहसंकरो भवति न चात्र तथा करधृतेति विशेषणस्यैव रूपकसाधकत्वादिति। तदेवाह करधृत- त्वमेवेत्यादिना। कथं करघतत्वं रूपकसाधकमत आह अस्य हीति। कलङ्गक्षवलयमित्यस्य हीत्यर्थः। तिरोहितेति। तिरोहितम् आच्छादितं कलङ्करूपं येन तथाविधमियर्थः। मुख्यतयेति। प्रधानतयेत्यर्थः विशष्यतयेति यावत्। तस्यैवेति। अक्षवलयस्यैव करग्रहणं सर्वत्र प्रसिद्धम् न कलङ्कस्येत्यर्थः । अयं भावः। कलङ्काक्षवलयमित्यस्योपमात्वे उपमा पूर्वपदार्थप्रधानति कलङ्कस्यो- पमेयस्य प्राधान्यं स्यात् प्रधाने कलङ्के च साधारणधर्मरूपं करघृतत्वं न संभवति कलङ्कस्य कर- धृतत्वेन क्वापि प्रसिद्ध्यभावात् । कलङ्काक्षवलयमित्यस्य रूपकत्वे तु रूपकमुत्तरपदार्थप्रधानमिति उपमानस्याक्षवलयस्य प्राधान्यात्तत्र करघृतत्वं संभवतीति रूपकपरिग्रहे करघृतेति विशेषणमेव साधकप्रमाणमिति। ननु त्वन्मतेऽपि कलङ्के करघतत्वाभावन साधारणधर्माभावात् सादृश्याभावेन कथं सादृश्यघटितं रूपकमित्यत आह श्र्लवच्छाययेति। "करपद्श्लेषेण किरणे पाण्यभेदाध्य- वसायादित्यर्थः" इत्युद्द्योतः । किरणघृतत्वरूपद्वितायार्थस्य असद्रूपतया प्ररोहाभावात् वास्तविको नात्र श्लेष इति श्लेषच्छाययेत्युक्तम्। प्रत्यासत्त्येति। कलङ्काधारमण्डलस्य सांनिध्यसंबन्धेनेत्यर्थः। "करशालिचन्द्रवृत्तित्वरूपसांनिध्येनेत्यर्थः" इति चक्रवर्त्यादयः । "रशमीनां कलङ्कस्य च चन्द्रे सत्वादेकाश्रयत्वसंबन्धेनेत्यर्थः" इति कमलाकरभट्टाः। उपचर्य आरोप्य करशब्देन मण्डलात्मक- मूर्ति लक्षयित्वेति यावत् । योज्यते संबध्यते । करधारणस्यासत्वे हेतुमाह शशाङ्कनेति। मूत्यै- वेति। मण्डलात्मकेन शरीरेणैव न तु करेणेत्यर्थः । उद्महनात् धारणात् । "यद्यपि कलङ्के रा्मि- वतत्वम् अक्षवलये च हस्तघृतत्वमिति न साम्यम् (साधारण्यम्) तेन रूपकायोगः तथापि कर- शब्दवाच्यधृतत्वं साम्यमिति रूपकोपपत्तिरिति ज्ञेयम्" इति चक्रवर्त्यादयः। ननूपमायामपि अस- देव करघतत्वमुपचर्यताम् तथा सत्युपमापरिग्रहे को दोष इत्यत आह कलङ्कोऽक्षवलयमिवेत्या- दिना । उत्कटतया मुख्यतया प्राधान्येन विशेष्यतयेति यावत्। अस्य कलङ्कस्य। तत्त्वतः वस्तुतः । मुख्येऽपि विशेष्यभूतेऽपि । उपमितसमासे कलङ्को मुख्यः । उपचारी लक्षणा । शरण स्यादिति। तथा च "गुणे त्वन्याय्यकल्पना" इति न्यायेन मुख्यविषयोपचारापेक्षया चामु- ख्योपचार एव श्रेयानिति रूपकमेनाश्रीयते इति भावः । उपचारस्य (लक्षणायाः) अन्याय्यत्वं तु

१ व्याख्यातमिदं सूत्रं प्राक् ५९५ पृष्ठे ३ टिप्पणे ॥ २ इदमपि सूत्रं प्राकु ५७४ पृष्ठे १ टिप्पणे व्याख्यातम्॥

Page 817

७५८ काव्यप्रकाशः सटीकः।

एवंरुपश्च संकर: शब्दालंकारयोरपि परिद्ृश्यते। यथा राजति तटीयमभिहृतदानवरासातिपातिसारावनदा। गजता च यूथभविरतदानवरा सातिपाति सारा वनदा॥५७२॥

"स्वायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्यामहे" इति प्राक (४७ पृष्ठे ११ पक्कौ) उक्तन्याय- विरुद्धत्वादित्यवधेयम् । व्याख्यातं च विवरणकारैरपि "इदमत्र निराकरणम्। अलंकाराणामेकतरसाधकबाधक प्रमाणाभावे एव संदेहसंकरो भवति न चात्र तथा करधृतेति विशेषणस्यैव रूपकसाधकत्व्रात्। तथाहि। उपमायां (चन्द्रसदृशं मुखम् इति रीत्या) सादृश्यांशे उपमानं विशेषणीकृत्य उपमेयमेव प्राधान्ये (विशेष्यत्वेन) निदिर्श्यते इति उपमेये मुख्यतया संभवदेव विशेषणमुपादीयते । रूपके तु ( चन्द्र एव मुखमिति रीत्या) उपमेयाभेदेन उपमेयं तिरोधाय उपमानमेव प्राधान्येन (विशेष्यतया ) निर्दिश्यते इति उपमाने मुख्यतया अन्वययोग्यमेव विशषणमुपादीयते तच्च विशेषणम् उपमेये कथंचिदुपचर्यते इति नियमः । एवं च प्रकृते करधृतत्वरूपविशेषणम् उपमानीभूतेऽक्षवलये एव मुख्यतया संभवत् रूपकमेव ग्राह- यति। तथा सति हि अक्षवलये उपमाने मुख्येऽर्थे करधृतत्वं मुख्यतयैव अन्वेति । उपमाङ्गीकारे तु कलङ्कस्य मुख्यतया प्रतीतौ तस्य करधृतत्वमसंभवीति कदापि मुख्यतयान्व्रयो न स्यात् । इत्येवमक्ष- वलये करघतत्वस्य मुख्यतयान्वयसिद्वौ पश्रात् कलङ्के उपचारात् कथंचित् करघृतत्वमुपपादनीयम्। तथाहि। करशब्दश्लेषवशादुपस्थितस्य किरणस्य कलङ्काधारमण्डलसांनिध्यसंबन्धेन कलङ्काधारत्व- मुपचर्यत इति" इति॥ 'अयमङ्गाङ्गिभावरूपः संकरः शब्दालंकारयोन संभवति शब्दस्त्रुपतयोका र्योकारकत्वाभावात् किंतु संसृष्टिरेव' इत्येलंकारसर्वस्वकारमतं दूषयति एवंरुपश्चेति। अनुग्राह्यानुग्राहकरूपश्रवेत्यर्थः। उदा- हरति राजतीति। रत्नाकरकविकृते हरविजयकाव्ये पश्चमे सर्गे पर्वतवर्णनप्रस्तावे पय्यामिदम्। इयं तटी स्थली राजति शोभते इत्यन्वयः । कीदशी अभहतोऽभिघातं प्राप्तः दानवानां दनुजानां दैत्यानों रासः क्रीडा सिंहनादशब्दो वा यस्यां सा अभिहतदानवरासा। अतिपाती शीघ्रगामी सारावश्र आरावेण शब्देन सहितश्र नदोऽम्बुप्रवाहो यस्यां सा अतिपातिसारावनदा । "प्राक् स्रोतसो नद्यः प्रत्यक्स्रो- तसो नदा: नर्मदां विना" इत्याहुः । ते च नदाः सप्त सन्तीति प्राक् (३९६ पृष्ठे १ टिप्पणे) प्रदर्शि- तम्। एवं सा प्रसिद्धा गजता गजसमूहः यूथं स्वकुलम् अतिपाति अतिशयं रक्षति चेत्यन्वयः। "गज- सहायाभ्यां चेति वक्तव्यम्" इति कात्यायनकृतवातिकेन गजशब्दात्समूहार्थे तलपत्ययः । किंभूता अविरतेन संततेन दानेन मदजलेन वरा श्रेष्ठा अविरतदानवरा। सारा बलिष्ठा। वनं द्यति खण्डयतीर्ति वनदा वनखण्डिकेत्यर्थः । 'दो अवखण्डने' इति दैवादिको धातुः। आर्यागीतिश्छन्दः "आर्यापूर्वधि १ अलंकारसर्वस्वकारमतं दूषयतीति। इद विस्तारिकायां चक्तवर्तिभट्टाचायैः उद्धयोते नागोजीभट्टैश्र्वोक्तमिति बोध्यम्। एतेन 'अयमलंकारसर्वस्वकर्ता रुय्यको मम्मटोपाध्यायापेक्षया प्राचीनः' इति ध्वनितम्। उपलभ्यते चेदं मतं रुथ्यकरूतेऽलंकारसर्वस्वे। तथाहि: "शब्द्रालंकारसंकरस्तु कैश्रियिदुदाहृतो यथा 'राजति तटीयम्००'। अत्र यमका- नुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिसंकर इति। एतत्त न सम्यगावर्जकम् शब्दालंकारयोः शब्द- वदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिमावाभावात्। शब्दालंकारसंसृष्टिस्त्वत्र श्रेयसी " इति। यत्तु अलंकारसवस्वठीकाय। विमर्शव्याख्यारयां 'कैश्वित्' इति प्रतीकमुपादाय जयरथन व्याख्यातम् "काव्यप्रकाशकारादिभिः " इति तत्तु मम्मटस्यवै प्राचनित्वमीति भ्रान्तिमूलकमिति मन्तव्यम्। स्पष्टीरुतमिदमसमाभिरुपोद्वाते ९ प्रघट्टे इति तत्रैव द्रष्टव्यम्।

Page 818

दशम उल्लास:। ७५९

अत्र यमकमनुलोमप्रतिलोमश्च चित्रभेद: पाददयगते परस्परापेक्षे। (सू० २०९) एकस्य च ग्रहे न्यायदोषाभावादनिश्र्वयः ॥ १४० ॥ द्योर्बहूनां वा अलंकाराणामेकत्र समावेशेऽपि विरोधात् न यत्र युगपदवस्थानम् न चैकतरस्य परिग्रहे साधकम् तदितरस्य वा परिहारे बाधकमस्ति येनैकतर एव परिग्रह्येत स निश्चयाभावरूपो द्वितीय: संकर: समुच्चयेन संकरस्यैवाक्षिपात्। उदाहरणम्

यदि गुरुणैकेनाधिकेन निधने युक्तम्। इतरत्तद्वन्निखिलं यदीयमुदितेयमार्यागीतिः ॥" इति केदार- भट्टकृतवृत्तरत्नाकरस्थलक्षणात् ।। अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेनाङ्गाङ्गिसंकरः। तमेव दर्शयति अत्रेत्यादिना । द्वितीयचतुर्थपादयोर्यमकम् अनुलोमप्रतिलोमश्वित्रनामालंकारश्र तयोः परस्परापेक्ष- त्वात् अनुग्राह्यानुग्राहकसंकर इत्यर्थः । अनुलोमप्रतिलोमश्चेति। अनुलोमविलोमश्रवेत्यर्थः । द्विती- यचतुर्थपादयोः प्रथमाक्षरमारभ्य अनुलोमेन अनुक्रमेण पाठे यादृशी पदावली तयोरन्त्याक्षरमादाय प्रतिलोमेन व्युत्क्रमेण पाठेऽपि तादृश्येवायातीति। चित्रभेद: चित्रनामा शब्दालंकारः। पाददयगते इति। पाद्दयगतं च पाददवयगतश्र्वेति रीत्या एकशेषे "नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्" (१।२६९) इति पाणिनिसूत्रेण क्रीबमेव शिष्यते। अतः पादद्वयगते इति नपुंसकतोपपत्तिः । एवं परत्रापि। परस्परापेक्षे इति । पादयमकानुलोमप्रतिलोमयोः प्रत्येकमेव दुष्करतया विदग्धमनोऽनुर- अ्जकम् तयोः साहित्यं तु सुतरां (अतिशयेन) विदग्धमनोऽनुरञ्जकमिति परस्परचारुत्वातिशये परस्परमपक्षेते इत्यभिप्रायः। केचित्तु एकव्यअ्ञकानुप्रवेशलक्षणस्तृतीयः एवात्र संकरो न त्वनुग्राह्यानु- ग्राहकसंकर इत्याहुः॥ द्वितायिं संदेहरूपं संकरं लक्षयति एकस्य चेति। चकारेण पूर्वसूत्रात् संकरोऽनुकृष्यते। एकस्य एकतरस्यालंकारस्य ग्रहे निश्रये न्यायदोषाभावात् न्यायः साधकप्रमाणम् दोषो बाधकप्रमाणं तयोरभावात् यः अनिश्रयः संदेहस्तद्रूपः संकर इत्यर्थः । उभयत्र साधकबाधक प्रमाणाभावप्रयुक्त स्तुल्यकोटिक: संशयः संदेहसंकर इति भावः ॥ सूत्रं व्याचष्टे द्योर्बहूनामित्यादिना। एकत्र एकस्मिन्काव्ये। समावेशेऽपि स्वरूपतः सत्त्वेऽपि। विरोधात् 'अहिनकुलस्येव छायातपयोरिव वा एकत्रावस्थानासहस्वभावत्वात्। यत्र यस्मिन्काव्ये। युगपत् एककाले। अवस्थानं निश्रयः। ननु वस्तुस्वरूपसत्त्वे किमिति न निश्रय इत्यत आह न चेत्यादि। न्यायदोषाभावादित्यस्य व्याख्यानमिदम्। परिग्रहे ग्रहणे। परिहारे त्यागे। येन हेतुना। निश्वयाभावरूपः अनिश्रयात्मा। द्वितीयः अन्यः । सूत्रे विशेष्यं पूरयति संकर इति। संकर इति कथं लब्धमित्यत आह समुच्चयेनेति। समुच्चयबोधकेन सूत्रस्थचकारेणेत्यर्थः । आक्षपात् पूर्वसूत्रतः अनुवृत्तेः॥ अत्राहुश्क्रवर्त्याद्यः विरोधादिति। कवितात्पर्यग्राहकयोरन्योन्यप्रतिबन्धादित्यर्थः । आक्षेपा- दिति। अनुकर्षणादित्यर्थः। यद्यपि वक्ष्यमाणोदाहरणेषु नयनानन्ददायीत्यादिषु अलंकाराणां निश्र्य

१ अहिश्य नकुलश्यानयोः समाहारोडहिनकुलम्। "येषां च विरोधः शाश्वतिकः " (२४९) इति पाणिनिसूत्रेण नित्यैकवद्ावः ॥

Page 819

७६० काव्यप्रकाशः सढीक:।

जह गहिरो जह रअणणिन्भरो जह अ णिम्मलच्छाओ। तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ॥ ५७३॥ अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किम् अब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीते: इयमप्रस्तुतप्रशंसा इति संदेहः। यथा वा

अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥५७४॥ अत्र किं कामस्योद्दीपकः कालो वर्तते इति भङ्गचन्तरेणाभिधानात् पर्यायोक्तम् उत

एव तथापि किमयमलंकार: कवितात्पर्यविषयोऽयं वेत्याकारः संदेहोऽत्र विवक्षितः । अत एवाह वृत्तिकार: "अलंकाराणामेकत्र समावेशेऽपि" इति । अत एव च विरोधपदमन्यथैव योजितम् अन्यथा समावेशेऽपि विरोधादित्यसंगत्यापत्तेः । एवं निश्योऽपि कवितात्पर्यविषयत्वेन निश्वयो बोद्धव्य इति। संदेहसंकरमुदाहरति जहेति। 'यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः । तथा किं विधिना एष सरसपानीयो जलनिधिर्न कृतः ॥" इति संस्कृतम्। गभीर: गम्भीरः। "निम्नं गभीरं गम्भीरम् " इत्यमरः । रत्ननिर्भरः रत्नपूर्णः । निर्मलच्छायः स्वच्छकान्तिकः। "छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः " इत्यमरः । विधिना विधात्रा। स्पष्टमन्यत्। आर्या मुखविपुला। लक्षणमुक्तं प्राक् १३३ पृष्ठे ॥ अत्र समासोक्त्यप्रस्तुतप्रशंसयोः संदेहरूपः संकरः एकसाधकापरबाधकप्रमाणाभावात्। तमेव संदेहसंकरं दर्शयति अत्रेत्यादिना। प्रस्तुते इति। वर्णनीयत्वेन प्रकृते सतीत्यर्थः । विशेषणसा म्यादिति। गभीरादिश्लिष्टविशेषणमहिम्नेत्यर्थः । अप्रस्तुतार्थेत्यादि। अप्रस्तुतपुरुषविशेषप्रतीतेरि- त्यर्थः । समासोक्तिरिति। ननु सरसपानीयत्वस्य पुरुषेऽसंभवात्कथं विशेषणसाम्यमिति चेन्न। पुरुषपक्षे सरसपानीयशब्देन लक्षणया परोपभोग्यवस्तुमत्त्वस्य विवक्षितत्वादिति महेश्वरः। वस्तुतस्तु 'सरसवाणीओ' इति पदस्य पुरुषपक्षे सरसवाणीकः मधुरवाक इत्यर्थाद्विशेषणसाम्यमिति विश्वनाथ कृतकाव्यप्रकाशदपणे माणिक्यचन्द्रकृतसंकेते च स्पष्टम्। मुखेन वर्णनद्दारा। प्रस्तुतस्य प्रस्तुत- पुरुषविशेषस्य। प्रतीतेः प्रतिपत्तेः। इति संदेह इति। इति संदेहसंकर इत्यर्थः एकस्यैकदा प्रस्तुता- प्रस्तुतोभयरूपत्वाभावात् अनयोर्युगपदसंभवात् न्यायदोषयोरसंभवाच्चेति भावः।। एवं द्वयोरलंकारयोः संदेहसंकरमुदाहृत्य संप्रति बहूनां संदेहसंकरमुदाहरति नयनेति । नयनयो- रानन्दं ददातीति नयनानन्ददायि नयनानन्दशीलम् एतत् इन्दोः बिम्बं मण्डलं प्रसीदति प्रसन्नं भवति द्योतते इति यावत्। निरुद्धा आशा येन तत् निरुद्धाशम् इदं तमः अधुनापि अविशीर्ण न नष्टम् इत्यर्थः । बिम्बपक्षे आशा दिक तमोऽन्धकारः। वक्त्रपक्षे आशा अभिलाषः तमो विरहजन्यमूढता। "आशा तृष्णादिशोः प्रोक्ता" इति विश्वः ॥ अत्र बहूनामलंकाराणां संदेहरूपं संकरं दर्शयति अत्रेत्यादिना । भङ्गयन्तरेण प्रकारान्तरेण। अभिधानात् कथनात्। पर्यायोक्तमिति। 'कामोद्दीपकः कालो वर्तते' इत्यर्थस्य व्यङ्ग्यस्यैव भङ्गय- न्तरेणाभिधया प्रतिपादनात्पर्यायोक्तमित्यर्थः । विवरणे तु "कामोद्दीपकोऽयं कालः इत्यनुक्त्वा अस्मिन्

Page 820

दशम उल्लास:। ७६१

वदनस्येन्दुबिम्बतया अध्यवसानात् अतिशयोक्तिः किं वा एतिति वक्त्रं निर्दिश्य तद्रूपारोपवशात् रूपकम अथ वा तयो: समुच्चयविवक्षायां दीपकम् अथ वा तुल्ययोगिता किमु प्रदोषसमये विशेषण साम्यादाननस्यावगतौ समासोक्तिः आहोस्वित मुखनैर्मल्यप्रस्तावात् अप्रस्तुतप्रशंसा इति बहूनां संदेहाद्यमेव संकरः । यत्र तु न्यायदोषयोरन्यतरस्यावतार: तत्र एकतरस्य निश्चयात् न संशयः। न्यायश्च साधकत्वम् अनुकूलता दोषोऽपि बाधकत्वं प्रतिकूलता। तत्र 'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासदयुतिः॥' ५७५॥ इत्यत्र मुख्यतया अवगम्यमाना हासद्युतिर्वक्त्रे एवानुकूल्यं भजते इत्युपमायाः साधकम् शशिना तुन तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता। काले चन्द्रबिम्बं नयनानन्ददार्यात्यनेन भङ्ग्यन्तरेण कथनात् नयनानन्ददायि चन्द्रबिम्बवत्त्वं कामो- द्दीपकत्वनियतमिति एकतरस्य प्रतिपादने अन्यतरस्य प्रतीतिर्भवतीति। एतेन ईदृशमपि पर्यायोक्तं भवतीत्यायाति" इत्युक्तम्। उतेति। अव्ययमिदं तिकल्पार्थे अथवेत्यर्थः। "उत प्रश्ने वितर्के च उर्ताप्यर्थविकल्पयोः" इति विश्वः। एतदित्यस्य 'बिम्बपरामर्शकत्वेन' इति शेषः । अध्यवसानात् निश्वयात् । अतिशयोक्तिः निगीर्याध्यवसानरूपा। रूपकमिति निगरणाभावादिति भावः । तयो: वक्त्रबिम्बयोः। समुच्चयविवक्षायामिति। परस्परनिरपेक्षस्यानेकस्यैकधर्मावच्छिन्नेऽन्वयः समुच्चयस्तस्य विवक्षायामित्यर्थः । चकाराभावेऽपि 'गामश्वं पुरुषं पशुम' इत्यादिवत् समुच्चयार्थक- चकारादिकल्पनया 'इन्दुबिम्बं प्रसीदति एतत् वक्त्रं च प्रसीदति' इति अन्वयविवक्षायाम् एकस्य प्रकृतत्वेऽपरस्याप्रकृतत्वे क्रियादीपकमिति भावः। तुल्ययोगितेति । उभयोरपि प्रकृतत्वेऽप्रकृतत्वे वा तुल्ययोगितेत्यर्थः । दवयोरौपम्यस्याक्षेपलभ्यत्वात्तुल्ययोगितोति भावः । किमु इति। 'किम् च उच' इत्यव्ययसंघातो विकल्पार्थे । "विकल्पे किं किमुत च" इत्यमरः । प्रदोषसमये इति। प्रदोषसमयवर्णने इत्यर्थः । 'चन्द्रबिम्बस्य प्रकृतत्वे' इति शेषः। विशेषणेति। आनन्ददायित्वरू- पेत्यर्थः। अवगतौ प्रतीतौ । समासोक्तिरिति। प्रस्तुतवर्णने विशेषणमहिम्नाप्रस्तुतप्रतीतौ समा- सोक्तेरुक्तत्वादिति भावः । आहोस्विदिति । अव्ययसंघातोऽयम् अथवेत्यर्थः । मुखनैर्मल्येति। मुखनैर्मल्यवर्णनप्रस्तावात् चन्द्रस्याप्रस्तुतत्वेनाप्रस्तुतप्रशंसेत्यर्थः। बहूनाम् अलंकाराणाम्। अय- मेवेति। संदेहात्मा संकरः इत्यर्थः न्यायदोषयोरभावादिति भावः ॥

न्यायदोषयोः संभवेऽयं संकरों न भवतीत्याह यत्र त्वित्यादिना। न संशयः न संदेहसंकरः । न्यायदोषशब्दयोरर्थमाह न्यायश्चेत्यादिना । तत्र साधकबाधकयोर्मध्ये। साधकावतारमुदाहरति सौभाग्यमिति। ज्योत्स्ना यथा शशिनः सौभाग्यं सुभगत्वं वितनोति विस्तारयति एवं हासयुतिः हासशोभा शशिसदृशवक्त्रस्य सौभाग्यं वितनोतीति वाक्यार्थः ॥

अत्र हासदयुतिः 'वक्त्रं शशीव' इत्युपमायाः साधिका न तु 'वक्त्रमेव शशी' इति रूपकस्य बाधिका । तदेवाह इत्यत्रेति। मुख्यतयेति। स्वारस्येन लक्षणादिकं विना संबद्धतयेत्यर्थः । -१ अप्यर्थ: समुच्चयः ॥ २ वृत्त्यर्थवादे मञजूषायां तु "अह्रहर्नयमानो गामश्वं पुरुषं पशुम्" इत्यादौ चकारा भावेडव्यहरहःपदसममिव्याहारादेव समुचय प्रतीतिरित्युक्तम्।। ९६

Page 821

७६२ काव्यप्रकाशः सटीकः।

'वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ॥' ५७६॥ इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकता प्रतिपद्यते न तूपमाया बाधकताम्। अवगम्यमाना प्रतीयमाना। वक्त्रे इति। विशेष्यतया वक्त्रे प्रतीते इत्यर्थः वक्त्रस्य प्रधानतया प्रतीताविति यावत् । उपमायाः वक्त्रं शशीवेत्युपमायाः । साधकमिति। "सामान्ये नपुंसकम्" इति वार्तिकेन नपुंसकत्वं बोध्यम्। यद्वा साधकं प्रमाणमित्यर्थः । शशिनीति। विशेष्यतया शशिनि प्रतीते इत्यर्थः शशिनः प्रधानतया प्रतीताविति यावत् । तथा आनुकूल्यानुरूपेण । रूपकं वक्त्रमेव शशीति रूपकम्। तस्या इति। हासदुतेरित्यर्थ इति माणिक्यचन्द्रसोमेश्वरकृ- तयोः संकेतयोः स्पष्टम्। 'तस्य' इति पाठे हासस्येत्यर्थः । अबाधकतेति। हासपदेन विकास- लक्षणायां कर्थचिदर्थघटनादिति भाव इति सारबोधिन्यां स्पष्टम्। उक्तं च विवरणेऽपि "हास- द्ुतेः वक्त्रे मुख्यतयैवान्वयसंभवात् हासदुतिः वक्त्रस्य प्रतीतौ यथा अनुकूला न तथा शशिनः प्रतीतौ प्रतिकूला हासपदस्य विकासपरत्वं परिकल्प्य कथंचित् शशिन्यप्यन्वयसंभवात्" इति। अस्मि- न्पक्षे ज्योत्स्ासदशी हासदुतिर्विकासशोभा वक्त्रूपशशिनः सौभाग्यं वितनोताति कर्थचिद्वाक्यार्थः॥ व्याख्यातमिदं प्रदीपोक््योतयोः । "यत्र तु तयोरन्यतरस्यावतारस्तत्रैकतरनिश्र्वयान्न संशयः । तत्र 'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासदुतिः' इत्यत्र मुख्यत्वेन प्रतीयमाना हसितयु- तिर्वक्त्र एवानुकूल्यं भजते तत्रैव मुख्यतस्तत्संभवात्। वक्त्रस्य प्राधान्येन स्थितिरुपमायामेवेत्युप- मासाधिका। शशिनि तु नानुकूला मुख्यतस्तत्र हासदयुतेरभावात्। नापि प्रतिकूला गौणत्वेनाप्यु- पपत्तेरिति न रूपकं प्रति साधिका बाधिका वा"इति प्रदीपः । (मुख्यत्वेनेति। ज्योत्स्नासा- दृश्याश्रयतयेत्यर्थः। वक्त्रे एवेति। इतररूपानाच्छादिते वक्त्रे इत्यर्थः। प्राधान्येन इतरानाच्छा- दितत्वेन। शशिनि त्विति। शशितादात्म्येन प्रतीते त्वित्यर्थः। तद्धर्माच्छादिते मुख्याया हासयु- तेर्हासशोभाया अन्वयासंभवादिक्षि भावः । गौणत्वेनापीति । युतिपदस्य प्रभापरत्वेनापीत्यर्थः । रूपकं वक्त्रमेव शशीत्याकारकम्। तावतापि न संदेहनिरासः [ संदेहसंकर: ] दुतिपदस्य शोभा- रूपमुख्यार्थत्यागानौचित्यादिति भावः। ज्योत्स्ना यथा शश्चिनः सौभाग्यं वितनोति एवं हासदुतिः शशिसदृशवक्त्रसौभाग्यं वितनोतीति वाक्वार्थः ) इत्युद्योतः॥ एवमुपमायाः खाधकावतारमुदाहृत्य संप्रति रूपकस्य साधकावतारमुदाहरति वक्त्रेन्दाविति । 'किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम्। वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतो दर्पः स्यादमृतेन चेदिह तवाप्यस्त्येव बिम्बा- धरे ॥' इति श्रहर्षदेवकृतायां रत्नावलीनाम्न्यां नाटिकायां बृतीयेऽङ्के सागरिकां नायिकां प्रति वत्सराजस्थ नायकस्योक्तिरियम्। तव वक्त्रमेव इन्दुस्तस्मिन् सति अयं प्रसिद्धः अपरः द्वितीयः शीतांशुश्रन्द्रः यत् अभ्युद्तः उदयं प्राप्तः तत् वृथेत्यर्थः । 'अभ्युद्यतः' इत्यत्र 'उज्जुम्भते' इति पाठे उदितो भवतीत्यर्थः ॥ अत्रापरत्वं 'वक्त्रमेव इन्दुः' इति रूपकस्य साधकम् न तु 'वक्त्रम् इन्दुरिव' इत्युपमाया बाधकम्। तदेवाह इत्यत्रेत्यादिना। इन्दोरिति। इन्दोः प्रधानतया प्रतीतावित्यर्थः । अनुगुणमिति। अनुकूल- मित्यर्थः । अपरत्वस्य पूर्वापेक्षित्वात् प्रथमेनेन्दुना अवश्यं भाव्यमिति वपत्रेन्दावित्यत्र वक्त्रे इन्दुता-

Page 822

दशम उल्लांस: । ७६३

'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥' ५७७॥ इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदश प्रति परपेयसीप्रयुक्तस्वाललिङ्गनस्यासंभवात्। 'पादाम्बुजं भवतु नो विजयाय मञ्जु-

इत्यत्र मख्जीरशिअ्ितम् अम्बुजे प्रतिकूलम् असंभवादिति रूपकस्य बाधकम न तु पादे- दात्म्यारोपरूपस्य रूपकस्य साधकम्। उपमायां तु वक्त्रत्वेन मुखस्य प्रतीतौ शीतांशावपरत्वप्रतीतिर्न स्यात् इन्द्न्तरस्याप्रतीतेगिति भावः। उक्तं च विवरणकाररपि "यथा 'अयमपरः पण्डितः' इत्यत्र पण्डितस्य विशेषणम् अपरत्वं पण्डितान्तरस्य पूर्वोक्ततां प्रत्याययति। तथा 'अपरः शीतांशुः' इत्यत्र चन्द्रस्य विशेषणतया उपात्तम् अपरत्वं चन्द्रान्तरस्य पूर्वोक्ततां प्रत्याययति। चन्द्रान्तरस्य पूर्वोक्तत्वं तु 'वक्त्रेन्दौ' इत्यत्र रूपके एव भवति। तथैव उपमानस्य चन्द्रस्य प्रधानतया प्रतीतिः" इति। न तु वक्त्रस्य त्रतिकूलमिति। न तु वक्त्रस्य प्रधानतया प्रतीतौ प्रतिकूलमित्यर्थः । इन्दुतुल्ये मुखे सति किमपरेण मुख्येन चन्द्रेणेति यथाकर्थंचिदर्थघटनात् वक्त्रप्राधान्ये न प्रतिकूलमिति उपमाया न बाधकमिति भावः। उक्तं च विवरणकारैरपि "सामान्यशब्दस्य विशेषपरत्वमभ्युपगम्य वक्त्रपद्सांनि- ध्यात् अपरशब्दस्य वक्त्रापेक्षया अपर इति समुदितस्यार्थस्यापि कल्पनसंभवात्" इति। एवं चानयो- रुदाहरणयोर्यत्कोटे: साधकमस्ति तत्कोठ्यंशे संशयस्योत्कटत्वात् संकरलक्षणे च तुल्यकोटिकसंशयस्य विवक्षणाभ्ात्र संदेहसंकर इत्याशय इत्युद्दयोतादौ स्पष्टम्॥

बाधकावतारे उदाहरति राजेति। हे नृप लक्ष्मीः नारायप्रेयसी राजैव नारायणस्तं त्वां निर्भरं गाढं यथा स्यातथा आलिङ्गतीत्यर्थः । अत्र आलिङ्गनं 'राजा नारायण इव' इत्युपमायां बाधकम् स्वामिसद्ृशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यानौचित्यात्। तदेवाह इत्यत्रेत्यादिना। पुनःशब्दस्त्वर्थे। सदशिति। नारायणसदृशं नारायणभिन्नं राजानमित्यर्थः। परप्रेयसी नारायणप्रिया। असंभवा- दिति। अनुपपत्तेरित्यर्थः अनुचितत्वादिति भावः । न चैवमालिङ्गनं रूपके साधकमिति वाच्यम् तद्वीजस्याग्रेऽनुपदमेव 'विध्युपमर्दिनः' इत्यादिग्रन्थन वक्ष्यमाणत्वादिति बोध्यम्।

एवमुपमायाः बाधकाततारे उदाहृत्य संप्रति रूपकस्य बाधकावतारे उदाहरति पादाम्बुजमिति। अस्य पूर्वार्ध तु 'आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य' इति बोध्यम्। धर्मा- चार्यकृते देवीस्तुतिरूपे पञ्चस्तवीनामककाव्ये तृतीये घटस्तवे प्रथमं पद्यमिदम्। यत्तु चन्द्रचूडचरिते पद्यमिदमिति संकेताख्यटीकायां सोमेश्वरेणोक्तम् तत्तु चिन्त्यमेव। अम्बिकायाः पार्वत्याः पादाम्बुजम् अम्बुजसद्ृशः पादो नः अस्माकं विजयाय भवतु। कीदृशम्। मञ्जुना मधुरेण मञ्जीरस्य नूपुरस्य शिञ्जितेन शब्देन मनोहरम् । यद्वा मञ्जु मनोज्ञं मञ्जीरस्य शिञ्जितं रणितं यत्र ताद्ृशम् अत एव मनोहरं मनोरमम्। तथा आनन्देन मन्थरं मन्दं यथा स्यात्तथा पुरंदरेणेन्द्रेण मुक्तानि समर्पितानि माल्यानि कुसुमानि यत्र तादृशम् । "माल्यं कुसुमतत्स्नजोः" इति मेदिनी। महिषासुरस्य मौलौ मस्तके हठेन बलात्कारेण निहितं चेत्यर्थः । वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र मञ्जरिशिञ्जितं 'पाद एवाम्बुजम्' इति रूपके बाधकम् अम्बुजे मञ्जरिशिञ्जितस्याभावात्। तदेवाह इत्यत्र मक्जीरेत्यादिना। अम्बुजे इति। अम्बुजस्य प्राधान्येन प्रतीतावित्यर्थः। असंभवा-

Page 823

७६४ काव्यप्रकाश: सटीकः।

डनुकूलमित्युपमायाः साधकमभिधीयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः। एवमन्यत्रापि सुधीभि: परीक्ष्यम्।

दिति। अम्बुजे मज्जीरंशिञ्जितस्याभावादित्यर्थः । रूपकस्येति। 'पाद एवाम्बुजम्' इति रूपक- स्येत्यर्थः । बाधकमिति। तथा चात्र 'पादोऽम्बुजमिव' इत्युपमेव न तु रूपकमिति भावः॥ ननु मखीरशिञ्चितं यथा अम्बुजप्रतिकूलत्वेन बाघकतयव्यपैदिश्यते तथा पादेऽनुकूलत्वेन साध. कतयापि कथं न व्यपदिश्यते इति शङ्कां निराकरोति नत्वित्यादिना। अभिधीयते कथ्यते। तत्र हेतुमाह विध्युपमार्दिन इत्यादिना। विधानं विधिः। 'उपसर्गे घोः किः" ( ३३९२) इति पोणिनिसूत्रेण डुधाञ्धातोः भावे किप्रत्ययः । तथा च विधेः विधानस्य प्रकृते पादेऽम्बुजत्वविधान रूपस्य रूपकस्य उपमर्दिनः निराकर्तुरित्यर्थः । बाधकस्य प्रकृते मञ्जीरशिञ्जितरूपस्य। तदपेक्षया उपमासाधकापेक्षया उत्कटत्वेन बलीयस्तया। प्रतिपत्तेरिति। प्रतीतेरित्यर्थः । इदमत्र निराकर- णम्। प्राधान्यं हि व्यपदेशनियामकम्। "प्राधान्येन व्यपदेशा भवन्ति" इति नियमात्। प्राधान्यं च बलवत्वम्। प्रकृते च स्वपक्षरक्षणात्परपक्षनिराकरणस्येव उपमासाधनात् रूपकबाधनस्यैव बलीयस्त्वमिति बाधकतयेव व्यपदेशो युक्त इतीति विवरणे स्पष्टम्। व्याख्यातमिदमुद्चोतेऽपि "विध्यु- पमदीति। स्वैविरोधिकोटिभूतविध्युपमर्दीत्यर्थः । उपमासाधकमित्युक्ते किंचित् रूपकस्यापि साधकं स्यादिति संदेहो नापेति बाधके त्वभिहिते त्यवच्छेदप्रतीतेः संदेहोच्छेद इत्याशयः" इति। व्याख्यातं चेदं चक्रवर्तिश्रीवत्सलाञ्छनभट्टाचार्यप्रभृतिभिरपि "ननु चेदनुकूलं न कथं साधकं किंच साधकत्व- परिहेरण बाधकत्वोपादानं किमर्थमत आह विधीत्यादि। विर्धात्यस्य स्वविरोधिकोटीत्यादिः। तथा च स्वविरोधिकोटेरविध्युपमर्दिनो व्यँतिरेकनिश्र्ायकस्य तदपेक्षया स्वसाधकापेक्षया उत्कटत्वेन बलव- त्वन प्रतिपत्तेः 'संदेहप्रतिबन्धः' इति शेषः । तथाहि। उपमासाधकत्वमात्रेऽभिहिते रूपकस्यापि कश्ववित्साधकः स्यादिति संदेहाहितसंदेहस्य तांदवस्थ्यात् बाधके त्वभिहिते तव्यवच्छदेप्रतीत्या संदेहा- विषयत्वमुपपद्यते एवं च सतोऽपि साधकस्याकिचित्करतया बाधकमेव प्राधान्यादुपमासाधकमिति भावः" इति। प्रदीपकारैस्तु अस्य ग्रन्थस्योक्तरीत्यैव व्याख्यानं कृत्वा व्याख्यानान्तरमपि प्रदर्शितम् । तथाहि। "अन्ये तु तदन्यथा व्याचक्षते विधायते अनेनेति विधिः साधंकम तदुपमर्दि तस्माद्वलीयः । एतदुक्तं भवति। मञ्जरिशिञ्जितस्य पादे संभवमात्रेण न तावदुपमासाधकत्वं निर्वहति यावदम्बुजे तद्विरहो न निश्रीयते। तथा च तद्वधिकस्यैव प्राथमिकत्वात्तन्मुखेनैव व्यपदेशः [इति]" इति॥ एवमिति। एवमन्यत्रापि साधकबाधकत्वं सुधीभिः परिभावनीयमित्यर्थः । यथा 'यस्यानिशं दिविषद्श्- रणारविन्दमुत्तंसयत्यमितभक्तिभरावनम्राः इत्यादौ उत्तंसनमुपमाबाधकमिति बोध्यमित्युद््योते स्पष्टम् ॥ १ व्यवाह्मियते ॥ ३ उपसगे उपपदे सति घुसंज्ञकात (दारूपात् धारूपाच्च ) धातोः किपत्ययो भवतीति पाणिनि सूत्रार्थः ॥ 3 स्वविरोधीति। स्वशळ्देनात्र बाधकं विवक्षितम्। स्वविरोधिकोटिभतो यो विधिस्त दुपमर्दीत्यर्थः ॥ * तद्य- वच्छेदप्रतीतेः। रूपकव्यावृत्तिप्रतिपत्तेः ॥ ५ परिहारेण त्यागेन ॥ ६ स्वविरोधिकोटेरिति।। स्वशब्देनात्रोपमा स्वविरो- धिकोटे रुपमाविरोधिकोटिभतस्य विधे: रूपकविधानस्येत्येकदेशान्वयोऽ विवक्षितः ॥७ व्यतिरेकेति। व्यतिरेकोंऽ- भाव: रूपकामावनिश्र्वायकस्येत्यर्थः॥ ८ स्वसाधकेति उपमासाधकेत्यर्थः॥ ९ संदेदाहितेति । संदेहेन रूपकोपमयोः संदे- हेन आहितस्य जनितस्य संदेहस्य संदेहसंकरस्थन्यर्थः ॥ १० तदवस्थत्वात्॥ ११ तद्यवच्छेदेति। रूपकव्यवच्छेदेत्यर्थः॥ १२ अन्यथेति। पूर्वव्याख्यानापेक्षयान्यथेत्यर्थः ॥ १३ साधकमिति। अस्मिन्मते विधिरित्यत्र "उपसर्गे घोः किः" इति प्रागुक्तसूत्रेण करणे किप्रत्ययः ॥ १४ तद्विरहः मजजीरशिक्षिताभावः ॥ १५ तद्वाधकस्यैव रूपकचाधकस्यैव।।

Page 824

दशम उल्लास:। ७६५ (सू० २१०) स्फुटमेकत्र विषये शब्दार्थालंकृतिद्वयम्। व्यवस्थितं च अभिन्ने एव पढ़े स्फुटतया यत् उभावपि शब्दार्थालंकारौ व्यवस्थां समासादयतः सोऽप्यपर: संकरः। उदाहरणम् एकपदप्रतिपादं तृतायं संकरं लक्षयति स्फुटमिति । चकारेण संकरोऽनुकृष्यते। एकत्र विषये अभिन्न एव पदे यत् शब्दार्थालंकृतिद्वयं शब्दालंकारोऽर्थालंकारश्रवेति दय स्फुटं स्पष्ट यथा स्यात्तथा व्यवस्थितं भवति सोऽपि संकर इत्यर्थः । तृतीयः संकर इति भावः । अयमेव 'एकैपद- प्रतिपाद्यः संकरः' इत्युच्यते । अत एव वृत्तौ (७६६ पृष्ठे) "एकपदप्रतिपाद्यतया" इति वक्ष्यते । एवमयमेव 'एकव्यञ्जकानुप्रवेशसंकरः' इति व्यवह्नियते । अत एव चतुर्थोल्लासे वृत्तौ (१८६ पृष्ठे) "एकव्यञ्जकानुप्रवेशेन" इत्युक्तम् । प्रतापरुद्रकुवलयानन्दादिषु तु अयमेव 'एक- वाचकानुप्रवेशसंकर:' इति व्यपदिश्यते इति बोध्यम्। स्फुटमित्यनेनास्फुटालंकारद्वयसंसर्गस्य नालंकारत्वम् वैचित्र्यानाधायकत्वादिति सूचितमित्युद््योते स्पष्टम्। उक्तं च सरस्व्तीतीर्थकमलाकर- भट्टाभ्यामपि 'यः कौमारहरः' इत्यत्र (१७ पृष्ठे) विभावनाविशेषोक्त्योरस्फुटत्वान्न संकर इति वक्तुं स्फुटोक्तिरिति। सूत्रं व्याकुर्वन् 'एकत्र विषये' इत्यस्यार्थमाह अभिन्ने एव पढ़े इति। अभिन्ने समाने एव सुप्ति- ङन्तरूपे पदे इत्यर्थः । अत्रैकवचनमविवक्षितम् । एवं "विषयः पदम्। तेनैकत्र पदे यदुभौ शब्दार्थालंकारौ स्फुटं व्यवस्थितौ भवतः सोऽप्यपरः संकरः " इति प्रदीपेऽपि 'पदे' इत्यत्रैकवच- नमविवक्षितमेव। अत एव 'कलकलोऽलकलोलद्शान्यया' इत्यत्रैतत्संकरप्रतिपादनपरः अत्रैव पृष्ठे वक्ष्यमाण: प्रदीपग्रन्थः संगच्छते। अन्यथा तत्र पदद्वयसत्वेनास्य संकरस्याप्राप्त्या तैदसंगति: स्पष्टैव स्यात्। अत एव च 'केसेसु बलामोडिअ०' इत्युदाहरणे (१४० पृष्ठे ) एतत्संकरप्रतिपादकः "चकारेणैकव्यञ्जकानुत्रवेशसंकरः सूच्यते " इत्युद््योतग्रन्थः सारबोधिनीग्रन्थश्र् संगच्छते इति दिक्। स्फुटमिति विवृणोति स्फुटतयेति। शब्दार्थालंकृतिद्वयमिति व्याचष्टे उभावपीत्यादिना। व्यवस्थितमिति व्याकरोति व्यवस्थां समासादयत इति। व्यवस्थाम अवस्थितिम समासादयतः प्राप्नुतः । अपरः संकर इति। तृतीयः संकर इत्यर्थ: ॥ अत्र शब्दार्थालंकारावित्युपलक्षणम् । 'कलकलोऽलकलोलदशान्यया' (७५० पृष्ठे ) शब्दा- लंकारयोरनुप्रासयमकयोः 'वक्त्रारविन्दमधुलुब्धमधुव्रताश्र धावन्त्यमी बकुलवञजुलकुअमध्ये' इत्या- दावर्थालंकारयोः रूपकातिशयोक्त्योश्र्वायमेव संकरोऽवधेय इति विवरणे स्पष्टम्। वक्त्रमेवारविन्दमिति रूपकम् मधुबता इति निगीर्याध्यवसानरुपातिशयोक्तिरिति बोध्यम्। उक्तं च प्रदीपेऽपि "शब्दार्थालंकृतीति प्रायोवादः शब्दालंकारयोरप्येतेद्दर्शनात् यथा 'कलकलोऽलकलोलदृशान्यया' १ समानपदप्रतिपाद्यः ॥ २ एकस्मिन् व्यञ्जकेऽनुप्रवेशोऽवस्थितिस्तद्रूपः संकर इत्यर्थः ॥ ३ एकस्मिन् वाचकेऽ- नुप्रवेशोऽवस्थितिः ॥ व्यवहियते ॥५ कलकलोलक्लोलटृशान्ययेत्यत् ॥ ६ प्रदीपग्रन्थासंगतिः ॥ ७ एक- वचनस्याविवक्षितत्वादेव च ॥ ८ अतिशयोक्तिरिति। कामिन इत्युपमेयस्य निगरणादितति भावः । अमी मधुव्रता इति रूपकमिति तु न शङ्कनीयम् अदःशब्देन संनिरुष्टन्वरुपेणैव कामिन उपस्थितेः न तु कामित्वेन रूपेण "अद्सस्तु संनिकष्टे" इत्यभिधानादिति बोध्यम्। रूपकं हि गौणसारोपलक्षणासंभवस्थले एव संभवतात्युक्त प्राक् (५९३ पृष्ठे) ॥ ९ एतद्वर्शनादिति । एकपद्प्रतिपाद्यतृतीयसंकरदर्शनादित्यर्थः॥

Page 825

७६६ काव्यप्रकाशः सटीकः ।

स्पष्टोल्लसत्किरणकेसर सूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्। ि्लिष्टाष्टदिग्दलकलाप मुखावतारबद्धान्धकारमधुपावाल संचुकोच ॥५७९ ॥ अत्र एकापदानुप्रविष्टौ रूपकानुप्रासौ। (सू० २११ ) तेनासौ त्रिरुूप: परिकीर्तितः ॥। १४१ ॥ तद्यमनुग्राह्यानुग्राहकतया संदेहेन एकपदप्रतिपाद्यतया च व्यवस्थितत्वातत्त्रिप्रकार एव संकरी व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्म्रभेदानामिति प्रतिपादिता: शब्दार्थोभयगतत्वेन त्रैविध्यजुषोडलंकाराः॥। (९५० पृष्ठे) इत्यादावनुप्रासयमकयोः ।" इति। नन्वत्र संकरप्रदर्शनं विरुद्धम मूलकारेणात्र संसृष्टेर्दर्शितत्वदिति चेन्मैवम। चतुर्थचरणस्थं यमकम् पादत्रयस्थोऽनुप्रासः तयोश्र संसृष्टिरिति मूलकृतोऽभिप्रायः। चतुर्थचरणस्थयोरेव यमकानुप्रासयोः संकर इति प्रदीपकाराभिप्राय इति विषय- भेदादिति बोध्यम्।

उदाहरति स्पष्टालसदिति। रत्नाकरकविकृते हरविजयकाव्ये एकोनविशे सर्गे संध्याकालवर्णन- मिदम्। अथो अनन्तर दिवस एव अरविन्दं पझं संचुकोच निमिमील संकुचितं बभूव इत्यन्वयः । कीदशम्। स्पष्ट यथा स्यात्तथा उल्लसन्तः किरणा एव केसराः किञ्जल्काः यस्य तादृशं सूर्यबिम्बं सूर्य- मण्डलमेव विस्तीर्णा कर्णिका वराटो बीजकोशः यस्य तथाभूतम्। "किञ्जल्कः केसरोऽस्त्रियाम्" इत्यमरः। "कर्णिका करिहस्ताग्रे करमध्याङ्गलावपि। क्रमुकादिच्छटांशेऽब्जवराटे कर्णभूषणे" इति मोदिनी। पुनः कीदशम् श्लिष्टाः मिथः संबद्धाः अष्टो दिशः एव दलकलापाः दलसमूहाः यस्य तञ्व तत् मुखं रात्रेरारम्भ: तद्वतारेण बद्धा निरुद्धान्धकारात्मिका मधुपावलिः भ्रमरपङ्क्तिर्यत्र तादृशं चेत्यर्थः। "मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि " इति विश्वः । मुषावतारेति पाठे 'श्लिष्टाष्टदिग्द- लकलापम्' इति भिन्नं पदम्। उषायाः रात्रेरवतारेणेति प्राग्वत्। "उषा रात्रिनिशीथिनी ॥" इति हैम: "उषा रात्रिस्तदन्ते स्यादत्रानव्ययमप्युषा ". इति विश्वश्र। वसन्ततिलका छन्दः। लक्षण- मुक्तं प्राक् ६८ पृष्ठे।।

अत्र किरणकेसरेत्यत्र सूर्यबिम्बविस्तीर्णकर्णिकेत्यत्र दिग्दलकलापेत्यत्र च रूपकानुप्रासयोरेकप- दानुप्रवेशरूपः संकरः। तदेवाह अन्रेत्यादिना। "अत्र पादत्रये प्रत्येकं रूपकानुप्रासौ प्रविष्टौ" इतिः प्रदीपः । (प्रत्येकं समस्तैकपदे किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकदिग्दलकलापेत्यत्र) इत्यु्योतः । "अत्रेति। श्लिष्टाष्टदिग्दलकलापेत्यादौ शर्लोकार्धात्मके पदे दिग्दलेति अन्धकारमधुपा- वलीति च रूपकद्दयं छेकानुप्रासश्र्वानुप्रविष्ट इत्यर्थः " इति चक्रवर्ती।

संकरस्योक्तं त्रैविध्यमुपसंहरत तेनेति। तेन उक्तरीत्या असौ संकरः त्रिरूपः त्रिप्रकारः परि- कीर्तितः कथित इत्यर्थः । त्याचष्टे तदयमित्यादिना। तत् तस्मात्। अयमिति। 'संकरः' इत्यने- नाग्रिमेणान्वयः । अनुग्राह्यानुग्राहकतया अङ्गाङ्गित्वेन। संदेहेन संदेहास्पदत्वेन। एकपदप्रतिपा- द्यतयोते। एकपदाश्रितत्वेन गम्यमानतयेत्यर्थः यथाश्रुते शब्दालंकारे पदप्रतिपाद्यत्वस्यासंभवादिति प्रभायां स्पष्टम्। चकारो भिन्नक्रमः व्यवस्थितत्वाच्चेति संबन्धः । त्रिप्रकार: त्रिप्रकारकः। व्याकृतः व्याख्यातः । एवकारव्यवच्छेदं दर्शयति। प्रकारान्तरेणेति । तत्तदलंकारगतत्वेनेत्यर्थः उपमारूप-

Page 826

दशम उल्लास:। ७६७

कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चदर्थस्य कश्चिव्चोभयस्य इति चेत् उक्तमत्र यथा काठये दोषगुणालंकाराणां शब्दार्थोभयगत- त्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः निमित्तान्तरस्याभावात् ततश्च योऽलंकारो यदीयान्वय व्यतिरेकावनुविधत्ते स तदलंकारो व्यवस्थाप्यते इति। कयोः अनुप्रासोपमयोः अनुप्रासरूपकयोरित्येवं रीत्येति यावत् । विवरणकारास्तु "संसृष्टिरिति विज्ञेया सवलिंकारसंकरः। सा तु व्यक्ता तथाव्यक्ता व्यक्ताव्यक्तेति च त्रिधा। तिलतण्डुलवव्यक्ता छायादर्शवदेव च । अव्यक्ता क्षीरजलवत् पांसुपानीयवच्च सा। व्यक्ताव्यक्ता च संसृष्टिर्नरसिंह- वदिष्यते । चित्रवर्णवदन्यस्मिन् नानालंकारसंकरे ।" इति भोजराजोक्तप्रकारेणेत्याहुः। तत्र हेतुमाह आनन्त्यादिति। शब्दगतत्वेन अर्थगतत्वेन शब्दार्थोभयगतत्वेन चानुगतीकृत्योक्तम् उपमारूपकादीन् विशिष्योपादाय तु अनन्तत्वात्तत्संकरो वक्तुं न शक्यते इत्यर्थः । तदेवाह शब्दार्थेत्यादिना । पूर्व 'व्यवस्थितत्वाञ्च' इत्यस्याप्ययमेवार्थ इत्युश्योते स्पष्टम् । 'कुतः पुनरेष नियम:' इत्यादिशङ्कोत्थापनाय प्रतिजानीते प्रतिपादिता इत्यादिना। नवमोल्लासे. दशमोल्लासे नवमसमाप्तौ (५३८ पृष्ठे) च यथाक्रमं निरूपिता इत्यर्थः । त्रैविध्यजुष इति । शब्दगतत्व्रे- नार्थगतत्वेनोभयगतत्वेन त्रैविध्यवन्त इत्यर्थः ॥

ननु त्रिविधानामप्येषामलंकाराणां काव्यशोभातिशयहेतुत्वस्य तुल्यत्वेऽपि कुत एष नियम: कश्वित् शब्दस्य कश्विदर्थस्य कश्वित् शब्दार्थयोरितीति शङ्कते कुत इत्यादिना। नियम इति। प्रतिनियम इति पाठे प्रतिष्ठितो नियम इत्यर्थः । एतेषाम् अलंकाराणाम्। समाधत्ते उक्तमत्रेति। अस्मिन्विषये उक्तमित्यर्थः । 'नवमोल्लासे श्लेषालंकार प्रकरणे' (५१८ पृष्ठे) इति शेषः। पूर्व श्लेषालंकारप्रकरणे उक्तमपि दृढीकर्तु पुनः स्मारयति यथेत्यादिना। दोषगुणालंकाराणामिति। न केवलमलंकारे- ष्वेवायं नियमः अपि तु दोषगुणयोरपीति सूचयितुं दोषगुणोक्तिः। शब्दार्थाभयगतत्वेनेति। शब्दगतत्वेन अर्थगतत्वेन उभयगतत्वेन चेत्यर्थः । अत्र 'यथासंभवम्' इति शेषो बोद्धव्यः दोषगुण- योरुभयगतत्वविरहात्। गुणग्रहणं तु वामनादिपरमतेन स्वमते गुणानां रसैकगतत्वेन शब्दार्थोभयगत- त्वाभावादिति बोध्यम्। व्यवस्थायां व्यवस्थाविषये। अन्वयव्यतिरेकाविति । यत्सत्त्वे यत्सत्त्व- मन्वयः यदभावे यद्भावो व्यतिरेकः । यथा धूमसत्त्वे वह्निसत्त्वमन्वयः वह्नयभावे धूमाभावो व्यतिरेक इति बोध्यम्। एवकारेण अलंकारसर्वस्वकाराद्युक्तस्य आश्रयाश्रयिभावस्य व्यवच्छेद इति प्राक् (५१८ पृष्ठे) प्रतिपादितम्। प्रभवतः समर्थौ भवतः। अभावादिति । एतच्च 'योऽलंकारो यदा- श्रितः' इत्यादिवक्ष्यमाणग्रन्थेन स्फुटीभविष्यति । फलितमाह ततश्चेति। यदीयान्वयव्यतिरेका- विति। यदीयौ यत्संबन्धिनौ (शब्दाद्यन्यतमसंबन्धिनौ) अन्वयव्यतिरेकौ भावाभावावित्यर्थः । क्वचित्तु 'यदीयौ भावाभावौ' इत्येव पाठः। अनुविधत्ते अनुसरति। व्यवस्थाप्यते इति। एवं च शब्दस्य परिवृत्त्यसहत्वे शब्दगतत्वम शब्दस्य परिवृत्तिसहत्वे अर्थगतत्वम् कस्यचित्परिवृत्त्यसहत्वे कस्य- चिच्च परिवृत्तिसहत्वे उभयगतत्वमिति भावः । व्याख्यातमिदं प्रदीपोद््चोतयोः। "ततश्र योऽलंकारः शब्दार्थयोर्मध्ये यस्यान्वयव्यतिरेकावनुविधत्ते स तदलंकार इति व्यवस्थाप्यते। शब्दान्वयव्यतिरेकानु- विधायित्वं चैतदेव यच्छब्दपरिवृत्त्यसहत्वम्" इति प्रदीपः । (परिवृत्त्यसहत्वमिति। तत्त्वं शब्द- गतत्वम् शब्दस्य तत्सहत्वेरऽर्थगतत्वम् कस्यचिच्च तत्सहत्वे उभयगतत्वमिति भावः) इत्युश्योतः ॥

Page 827

७६८ काव्यप्रकाश: सटीकः।

एवं च यथा पुनरुक्तवदाभास: परंपरितरूपकं चोभयोर्भावाभावानुविधायितया उभयालंकारौ तथा शब्दहेतुकार्थ,न्तरन्यासप्रभृतयोऽपि द्रष्टव्याः । अर्थस्य तु तत्र वैचित्रयम उत्कटतया प्रतिभासते इति वाच्यालंकारमध्ये वस्तुस्थितिमनपक्ष्यैव लक्षिताः। योऽलंकारो यदाश्रितः स तदलंकार इत्यपि कल्पनायाम् अन्वयव्यतिरेकावेव समाश्रय- एवं चेति। 'योऽलंकारो यदीयान्वयव्यतिरेकौ' इत्याखुक्तरीत्या शब्दार्थालंकारत्वव्यवस्थाभ्युपगमे चेत्यर्थः । पुनरुक्तवदाभासः। तनुवपुरित्यादिरूपः (५३८ पृष्ठे) । परंपरितरूपकं विद्वन्मान- सहंसेत्यादिरूपम् (६०१ पृष्ठे)। उभयोः शब्दार्थयोः। भावाभावेति। भावः सत्त्वम् अभावोऽ- सत्त्वम् तदनुविधायितया तदनुसारित्वेनेत्यर्थः। उभयालंकारौ शब्दार्थालंकारौ। अयं भावः । तनु- वपुरित्यादिपुनरुक्तवदाभासे तनुशब्दस्य कृशत्ववाचकस्य परिवृत्त्यसहत्वाच्छब्दान्वयव्यतिरेकौ वपुःशब्दस्य परिवृत्तिसहत्वाच्चार्थान्वयव्यतिरेकावित्युभयालंकारत्वम् । एवं विद्वन्मानसहंसेत्यादिपररपरि- तरूपके मानसशब्दस्य श्लिष्टतया परिवृत्त्यसहत्वात् हंसशब्दस्य च परिवृत्तिसहत्वादुभयालंकारत्व- मिति। इत्थं दृष्टान्तं प्रदर्श्य संप्रति दार्ध्टान्तिकं दर्शयति तथेति। तद्वदित्यर्थः । शब्दहेतुकार्था- न्तरन्यासेति। शब्दमूलकार्थान्तरन्यासेत्यर्थः । 'उत्पादयति लोकस्य प्रीति मलयमारुतः । ननु दोक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ॥' इति दाक्षिण्यशब्दमूलकोऽर्थान्तरन्यास इति भावः। प्रभृ- तिपदात् 'सकलकलं पुरमेतज्जातम्' (५२१ पृष्ठे) इति शब्दसाम्यनिबन्धनोपमादीनां संग्रहः । अयं भावः। दाक्षिण्यशब्दस्य परिवृत्त्यसहत्वाच्छब्दान्वयव्यतिरकौ अन्येषां तु परिवृत्तिसहत्वादर्था- न्वयव्यतिरेकावित्यर्थान्तरन्यासस्योभयालंकारत्वम्। एवं सकलकलशब्दस्य परिवृत्त्यसहत्वाच्छब्दान्व- यव्यतिरेकौ इतरेषां तु परिवृत्तिसहत्वादर्थान्वयव्यतिरकावित्यपमायाः उभयालंकारत्वमिति। चक्रव- र्त्यादयस्तु शब्दहेतुकेति। 'क्षणदासावक्षणदा' (१५७ पृष्ठे) इत्यादौ शब्दशक्तिमूलकविरोधालं- काराङ्गभूतार्थान्तरन्यासेत्यर्थः इत्याहुः। तत्रापि क्षणदादिशब्दानां परिवृत्त्यसहत्वाच्छब्दान्वयव्यतिरेकौ उत्तरार्धगतशब्दानां तु परिवृत्तिसहत्वादर्थान्वयव्यतिो कावित्युभयालंकारत्वमिति बोध्यम्। नन्वेतेषा- मर्थान्तरन्यासप्रभुतीनामुभयालंकारत्वे कथमुभयालंकारप्रस्तावमुल्लङ्ध्यार्थमात्रालंक।रप्रस्तावे गणनमि त्यत आह अर्थस्येत्यादिना। तत्र अर्थान्तरन्यासावुभयालंकारे। वैचित्रयं चमत्कारकारित्वम्। उत्कटतया प्रकटतया । इति हेतोः। वाच्यालंकारमध्ये अर्थालंकारमध्ये। वस्तुस्थितिमनपेक्ष्यैव उभयालंकारत्वमविवक्षित्वैव। लक्षिताः पठिताः। व्याख्यातमिद्मुद्योतेऽपि "उत्कटतयेति। साध्यसाधनभावादीनामर्थधर्मत्वादिति भावः । अत एव शब्दवैचित्र्यस्योत्कटतया पुनरुक्तवदाभासः शब्दालंकारमध्ये गणितः । वास्तवं सिद्धान्तसिद्धं तु सर्वेषामुभयालंकारत्वमिति बोध्यम् " इति॥ यत्तु अलंका सर्वस्वे रुय्यकेणोक्तं "योऽलंकारो यदाश्रितः स तदीयोऽलंकारः तेनाश्रयाश्रयि- भाव एव शब्दार्थोभयालंकारव्यवस्थायां बीजम् नान्वयव्यतिरेकौ" इति तद्दषयति योऽलंकार इत्या- दिना। अत्राहुः सरस्वतीरतार्था अपि "आश्रययाश्रयिभावेन शब्दार्थोभयालंकारस्य व्यवस्था न तु अन्व- यव्यतिरेकाभ्यामित्यलंकारसर्वस्वकारादीनां मतं दूषयितुमनुवदति योऽलंकार" इति। चक्रवर्तिनोऽ- प्याहुः अलंकारसर्वस्वकारीयामुपपत्तिं दूषयति योऽलंकार इत्यादि" इति। एवमेवाहुरुद्दयोतप्रभा- कारा अपीति बोध्यम्। सारबोधिनीकारास्तु "उद्भटाचार्यमतेऽयवमिति दर्शयति योऽलंकार इति" १ दाक्षिण्यसंपन्न इति। दक्षिणादिगागतः सारल्यादिगुणवांश्रेतयर्थः ॥ २ एवमिति । अलंकाराणां शब्दार्थोभयगत- वेन व्यवस्थान्वयव्यतिरकनिमित्तिकैव नव्वाश्रयाश्रयिभावनमित्तिकेत्यस्मदुक्त एव प्रकार इत्यर्थ:॥ प

Page 828

दुशम उल्लास: । ७६९

तव्यौ। तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलंकाराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्॥ (सू० २१२) एषां दोषा यथायोगं संभवन्तोऽपि केचन। उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ॥१४२ ।। तथाहि। अनुप्रासस्य प्रसिद्धचभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः ते

इत्याहुः । कल्पनायाम् अलंकारसर्वस्वकाराभिमतायाम् । तदाश्रयणमिति। तत् तादृशम् अन्वय- व्यतिरेकरूपं यत् आश्रयणमित्यर्थः । अन्तरेण विना। विशिष्टस्य विशेषवतः विलक्षणस्य प्रसिद्ध- स्यति यावत्। आश्रयाश्रयिभावस्य आधाराधेयभावस्य। अभावादिति। संभावनादिरूपस्य उत्प्रेक्षादेरात्मादिगतत्वेनार्थाश्रितत्वविरहादित्यर्थ इति विवरणे स्पष्टम्। ननु विशिष्टस्याश्रयाश्रयि- भावस्याभावेऽपि यथाकर्थंचिदाश्रयाश्रयभावोऽस्त्येवेति चेन्न। तथा सति शब्दार्थीयानामलंकाराणा- मर्थशब्दीयत्वापत्तेः । फलितमाह इतीति । तस्मादित्यर्थः । यथोक्तनिमित्त एवोते। यथोक्तम् अन्वयव्यतिरेकरूपं निमित्तं यस्य स एवेत्यर्थः । परस्परव्यतिरेकः अन्योन्यभेद:। ज्यायानिति। अतिशयेन प्रशस्य इत्यर्थः समीचीन इति यावत् । 'ज्यायान् वृद्धे प्रशस्ये च' इति हैमः । व्याख्यातमिदमुद्योतकारैरपि 'विशिष्टस्य तत्तदाश्रयविशिष्टस्य। ज्यायानिति। साक्षात् शब्दाश्रि- तत्वस्य यमकखङ्गबन्धादौ साक्षादर्थाश्रितत्वस्योत्प्रेक्षासमासोक्त्यादाव संभवात्कथंचित्तदाश्रितत्वस्या- तिप्रसक्तत्वात् परिवृत्त्यसहशब्दाश्रितत्वं तत्सहशब्दार्थाश्रितत्वं वाच्यम्। तथा च कथंचिदाश्रि- तत्वांशप्रवेशो विफल इत्याशयः" इति। चक्रवर्त्याद्यस्तु "विशिष्टस्येति। आश्रयाश्रयिभावकल्पना- यामतिरिक्तसंबन्धाभावेन स्वरूपसंबन्धे एव विश्रान्तौ तत्र चान्वयव्यतिरेकयोरेव निर्णायकत्वादि- त्यर्थः। आश्रयाश्रयिभावस्येत्यनन्तरम् 'अधिकस्य' इति पूरणीयम्। यद्यपि निर्णायकेन निर्णेयस्य नान्यथासिद्धि: अन्यथा वस्तुतः स्वरूपसंबन्धासत्त्वे कि निर्णायकावन्वयव्यतिरकौ किं च एते शब्दालंकारा एतेऽर्थालंकारा एते उभयालंकारा इति विशिष्टप्रत्ययसाक्षिकेण तेनैवोपपद्यते शब्दाय- लंकारव्यवस्था तथापि सर्वेषामेवालंकाराणां सर्वालंकारत्वं शब्दार्थीयानामर्थशब्दीयत्वं वेति वादिविप्र- तिपत्तिनिराकरणेऽन्वयव्यतिरेकौ विनानुभवोऽप प्रमाणयितुं न शक्यते इति तावेवोपन्यासार्हावित्यत्र तात्पर्यम्। तदुक्तम् 'तदाश्रयणमन्तरेण' इति। ज्यायानिति। वादिनिराकरणे तस्यावश्यकत्वादिति भावः। एतावतापि स्वरूपसंबन्धपक्षः परमसमीचीनः तावता वादापरिसमाप्तेर्न तु स्वपक्ष एव न भवतीति स्मर्तव्यम्।" इति व्याचख्युः । इति संकरः ॥ ६१॥ नन्वलंकाराणां दोषा: प्राचीनैरभिहिताः ते कि न सन्त्येव आहोस्वित संभविनोऽपि उपेक्षिताः। आद्येऽनुभवविरोधः अन्त्ये न्यूनतेत्यतः तान् दोषान् स्मारायत्वा उक्तदोषेष्वन्तर्भावयन्नाह एषा- मिति। एषां शब्दालंकाराणामर्थालंकाराणां च केचन कतिचित् दोषा: संभवन्तोऽपि उक्तेषु सप्त- मोल्लासोक्तेषु काव्यदोषेषु यथायोगं यथासंभवम् अन्तर्भवन्ति समाविशन्तीति हेतोः अस्माभिः पृथक न प्रतिपादिता इत्यर्थः ॥ अन्तर्भावमेवोपपादयति तथा हीत्यादिना 'न पृथक् प्रतिपादनमर्हन्ति (७७८ पृष्ठे) इत्यन्तेन। तथा हीति। अन्तर्भावमेवोपपादयामीत्यर्थः । तत्र शब्दालंकारेषु योऽनुप्रासस्तस्य दोषाणामुक्तेष्वन्त- र्भावमाह अनुप्रासस्येति। वैफल्यं चमत्काराजनकत्वम्। वृत्तिविरोध; वृत्तेः उपनागरिकादेः

Page 829

७७० काव्यप्रकाशः सटीकः ।

प्रसिद्धिविरुद्धताम् अपुष्टार्थत्वम् प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात्। क्रमेणोदाहरणम् चक्री चक्रारपङ्क्त हरिरपि च हरीन् धूर्जटिर्धूध्वजाग्रा- नक्षं नक्षत्रनाथोSरुणनपि वरुण: कूबरामं कुबेरः । रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्त्यन्दनो वः ॥ ५८०॥ अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः।। भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि। यदि सल्लीलोल्लापिनि गच्छसि तत् किं त्वदीयं मे ॥५८१॥ विराध: प्रतिकूलता। कायों दोषा इति । प्राचीनैरुक्ता इत्यर्थः । प्रतिकूलवर्णतां चति। माधुर्य- व्यञ्जिकायाँ वृत्तौ शब्दत एवं टवर्गादे: ओजोव्यञ्जिकायामुद्धतगुम्फविधानमुखेन शिथिलचन्ध- स्यार्थतः पर्युदासादिति भावः। न व्यतिक्रामन्ति नातिवर्तन्ते कि तु तत्रैवान्तर्भूता भवन्तीत्यर्थः । तत्र हेतुं दशयति तत्स्वभावत्वादिति। तत्तल्वक्षणाक्रान्तत्वादित्यर्थः। तत्र प्रसिद्धयभावस्य प्रसिद्धिविरुद्धतायामन्तर्भव उदाहरति चक्रीति । मयूरकविकृते सूर्यशतके सूर्यरथवर्णनमिदम्। अहिमरूचे: सूर्यस्य सः स्यन्दनः रथः वः युष्मान् अवतात् रक्षतु इत्यन्वयः। स कः जगदुपकृतये लोकोपकाराय नित्ययुक्तस्य निरन्तरप्रवृत्तस्य सदा सज्जितस्य वा यस्य (रथस्य) चक्रारपङ्क्ति चक्रगतानाम् अराणां कीलकानां पङ्विंत चक्री विष्णुः स्तौतीत्यन्वयः। हरीन अश्वान् हरिः इन्द्रः धूर्यानमुखं तत्रत्यध्वजानां पताकानाम् अग्रान् अग्रभागान् घूर्जटिः शिवः अक्षं चक्रं चक्रनाभिप्रोतं लोहदण्डं वा नक्षत्रनाथः चन्द्रः अरुणं सारथिं वरुणः पाशी कूबराग्रं युगं- धरागं कुबेर: रहः वेग सुराणां संघः देवसमूहः 'अन्वहं प्रतिदिनं प्रीत्या प्रसन्नः सन् स्तौति' इति सर्वान्वयि। 'प्रातः प्रसन्नः' इति पाठे प्रभातसमये प्रसन्नः सन्नित्यर्थः । 'धूर्ध्वजान्तान्' इति क्वचि- त्पाठः। "अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोरपि" इति शाश्वतः। "चक्री काके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि" इति हैमः । "धूः स्त्री कीबे यानमुखम्" इत्यमरः। "स्यादक्षश्रऋधारणे" इति वैजयन्ती। स्रग्धरा छन्दः। लक्षणमुक्तं प्राक् १०९ पृष्ठे॥ अत्र चक्रिप्रभुतानां कर्तृणां चक्रारपङ्क्त्यादीनां कर्मणां प्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव निचद्धा न पुनः पुराणेतिहासादिषु तथा प्रसि्द्वेति प्रसिद््यभावः । सोडयं प्रसिद्धिविरोध एव। तदुक्तं प्रभायाम् "चक्री कर्ता चक्रारपङ्क्तिमेव कर्मभूतां स्नौति नान्यत्। इत्येवंरूपेण स्तुतिर- नुप्रासानुरोधेनैव कृता न पुराणादयनुरोबान्नाप्यर्थौचित्यादतः प्रसिद्धिविरोधो दोषः" इति। उक्त च चन्द्रिकायामपि "अत्र चक्रचादीनां कर्तृकर्मणां नियततया निबद्धस्य स्तव्यस्तावकभावस्येतिहासादिषु प्रसिद्धचभावोऽनुप्रासदोषः" इति। तदेवाह अत्रेत्यादिना। कर्तृकर्मप्रतिनियमेन चक्री चक्रार पङक्तिं स्तौतीति रीत्या।। वैफल्यस्यापुष्टार्थतायामन्तर्भावे उदाहरति भणेति। भर्तृगृहगमनाय कृतावधारणां प्रति उपनाय- कस्योक्तिरियम्। युग्मकमिदम् द्ाम्यां छन्दोभ्यां वाक्यार्थसमाप्ते: । युग्मकलक्षणं तूक्तं प्राक (१५५

Page 830

दशम उल्लास: ।

अनणुरणन्मणिमेखलमविरतशिञ्ञा नमञ्जुमऔी रम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥५८२॥ अत्र वाच्यस्य विचिन्त्यमानं न किंचिदपि चारुत्वं प्रतीयते इत्यपुदार्थतैवानुप्रासस्य वैफल्यम्। 'अकुण्ठोत्कण्ठया' इति। अत्र गृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यते इति परुषानुप्रासोऽत्र प्रतिकूलवर्णतैव वृत्तिवविशधः।

पृष्ठे)। हे आनन्दस्यन्दी सुन्दरश्र यः इन्दुः शारदपूर्णिमाचन्द्रस्तद्वत् प्रकाशमानं मुखं यस्यास्ता- दशि। सतीभिरुत्कृष्टाभिर्लीलाभिरुल्लपितुं वक्तुं शीलं यस्यास्तथाभूते। 'सल्लीलोल्लासिनि' इति पाठें सतीलीला उल्लासयितुं शीलं यस्या इत्यर्थः । अरुणौ सालक्तकौ चरणौ यस्थास्तश्राभूते। हे तरुणि त्वं यदि रमणमन्दिरं भर्तृगृहं गच्छि। तत् तदा त्वदीयं परिसरिणं गमनं मे मम अकारणं निमित्तं बिना रणरणकम् उत्कण्ठां किं कृतः कुरुते तत् भण वदेत्यन्वयः। कीदशं परिसरणम् अनण बहुतरं यथा स्पासथा रणन्तः शब्दायमानाः मणयो यस्यां तादशी मेखला काश्ची यत्र तथाभूतम्। यद्वा अनणु अनल्पं रणन्ती मणिमेखला यत्र तथाभूतम्। 'अननुरणत्' इति पाठे शब्दरहित- मणिमेखलमित्यर्थः तत्स्थानस्य गुरुत्वेन लघुसंचाराददिति भावः। अविरतं संततं शिञ्जानं शब्दायमान मञ्जु सुन्दरं मञ्जीरं नूपुरं यत्र तादृशं चत्यर्थः । "भूषणानां च शिञ्षितम्" इत्यमरः । केचित्तु "रमणमन्दिरं क्रीडागृहम्। रणरणकं चिन्ताम्। अत्र संबोधनविशेषणैनायिकायाः स्वाधीनपतिकात्वं निःशङ्कत्वं च व्यज्यते" इत्याहुः। आर्या छन्दः। लक्षणमुक्तं प्राक् ४ पृष्ठे॥

अत्र वैफल्यस्यापुष्टार्थतायामन्तर्भावं दर्शयति अत्र वाच्यस्येत्यादिना। अत्र अनणुरणन्मणि- मेखलमिति अविरतशिञ्जानमञ्जुमञ्जीरमिति च परिसरणविशेषणद्टयं 'त्वदीयं परिसरणमकारणं वृथा रणरणकं कुरुते' इति वाच्यार्थस्य तेन व्यङ्ग्यस्य भाविविरहस्य च न किंचिदुपकारे वर्तते केवल- मनुप्रासार्थमेव तदुपात्तमिति अपुष्टार्थत्वमेवानुप्रासस्य वैफल्यमुच्यते इति भावः । तदुक्तमुद्दयोते "शब्दानुरूपार्थविरहेणानुप्राससत्त्वेऽपि नास्वादोत्कर्षः शब्दालंकाराणामपि अर्थातिशयाधानद्वारेणैव चमत्कारित्वात् शब्दानां परिवृत्त्यसहत्वमात्रेण शब्दालंकारव्यपदेशः" इति। उक्तं च चक्रवत्याँदि- भिरपि "अत्र वाच्यस्येत्यादि। क्रीडागृहं यदि गच्छसि तदा किमिति तव गमनं वृथा चिन्तां कुरुते इति वाक्यार्थे वैचित्र्याभावस्यानुभाविकत्वेन केवलं शब्दमात्रपर्याप्तोऽनुप्रास इत्यर्थापरिपोषादपुष्टार्थते- त्यर्थः। तथा च शब्दालंकारत्वेऽपि अनुप्रासादनिामर्थोपकारकत्वेनावश्यं भवितव्यमिति भावः । न हि शब्दालंकाराणां सर्वथार्थमपुरस्कृत्यैव रसोपकारकत्वम् परंपरासंबन्धेन शब्दवदर्थस्यापि घटकत्वात्। परं तु शब्दान्वयव्यतिरेकानुविधायित्वात् 'प्राधान्येन व्यपदेशः' इति न्यायात्तदीयत्वेन व्यपदेश इति न तु सर्वथार्थानपेक्षता। तदुक्तं 'यत्सोऽर्थान्तरयुक्तथा' इति। ७० पृष्ठे। एवं चार्थोपकारकतत्व रूपद्वारबाधात् प्रकृतानुप्रासस्य चमत्कारानुपयोगित्वमेवेत्याशयः" इति॥

वृत्तिविरोधस्य प्रतिकूलवर्णतायामन्तर्भावे उदाहरति अकुण्ठेति। इदं पद्यं सप्तमोल्लासे (३२७ पृष्ठे) उदाहृतम् तत्रैव व्याख्यातं च। परुषवर्णेति। ठकाररूपेत्यर्थः । आडम्बरः समारम्भः । "आडम्बरः समारम्भे गन्गर्जिततूर्ययोः" इति विश्वः । "परुषवर्णाडम्बरः परुषवर्णनिष्पाद्यश्वित्त- क्षोभः" इति केचित् । पूर्वोक्तरीत्या अष्टमोल्लासे गुणविवेचनप्रस्तावोक्तरीत्या । विरुध्यत

Page 831

७७२ काव्यप्रकाशः सटीकः।

यमकस्य पादत्रयगतत्वेन यमनमप्रयुक्तत्वं दोषः । यथा भुजंगमस्येव मणिः साम्भा ग्राहावकीर्णेत् नदी सदम्भाः। दुरन्ततां निर्णयतोऽपि जन्तीः कर्षन्नि चेतः प्रसभ सदस्भाः॥ ५८३॥ उपमायाम् उपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादशी अनुचिता र्थत्वं दोषः धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः। क्रमेणोदाहरणम् चण्डालैरिव युष्माभि: साहसं परमं कृतम्। ५८४। इति। प्राक् ९९ सूत्रे "अटवर्गाः" इति टवर्गस्य पर्युदासािति भावः। वृत्तिविरोध इति। शृङ्गारे हि उपनागरिका वृत्तिरुचिता तां विहाय परुषाया अङ्गीकारात् यो माधुर्यव्यञ्जकवृत्ति विरोधोऽनुप्रासदोषः स प्रतिकूलवर्णतैवेति भाव: ॥

यमकस्य पादत्रयगतत्वेन यमनं दोषः । स चाप्रयुक्तेऽन्तर्भवति कविभिस्तथाप्रयोगादित्याह यमकस्येति। यमनं निबन्धनम्। अप्रयुक्तत्वमिति। एकस्मिन् द्योश्रतुर्षु वा पादेषु यमकं कविप्रयोगे द्ृष्टम् न तु पादत्रये "यमकं तु विधातव्यं न कदाचिदपि त्रिपात्" इति निषेधात् । अतः पादत्रये यमकम् अप्रयुक्तत्वरूपदोष एवेत्यर्थः॥

तदुदाहरति भुजंगमस्येति। सदम्भा: दम्भः कपटं तत्सहिताः खला इत्यर्थः दुष्टाभिसंधानयुक्ता इति यावत्। "कपटोडस्त्री व्याजदम्भो" इत्यमरः । दुरन्ततां दुःखग्राह्यान्तःकरणताम्। यद्वा स्वयां परिणामदुष्टतां निर्णयतोऽपि निश्विन्वतोऽपि जन्तोः प्राणिनः चेतः चित्तं प्रसभ बलात्कारेण 'प्रमुखे' इति पाठे आपाततः कर्षन्तीत्यन्वयः । क इव सदम्भाः सत् विद्यमानम् उत्कृष्टं वा अम्भः तेजः कान्तिः यत्र तादृशो भुजंगमस्य सर्पस्य मणिरिव। तेजसोऽप्यम्भःपदवाच्यत्वमस्ति। अत एव शस्त्र- स्फटिकमौक्तिकादौ 'सपानीयमिदम्' इति व्यवहारः परीक्षकाणाम्। अत एव च 'उल्लास्य काल०' इत्युदाहरणे (१२९ पृष्ठे) कान्तौ धाराजलैरिति जलशब्दप्रयोगः । केचित्तु सदमिति सदेत्यर्थेऽव्ययम् तथा च सदादुतिरित्यर्थ इत्याहुः । तथा ग्राहैरनकरैः अवकीर्णा व्याप्ता सदम्भाः सत् समीचीनं स्वच्छ- तरम् अम्भः उदकं यस्यास्तथाभूता नदित्यर्थः । उपजातिश्छन्दः । लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अथार्थालंकारदवोषेषु उपमादोषाणमुक्तेष्वन्तर्भावमाह उपमायामित्यादिना । जातिप्रमाणेति । जातिर्गोत्वब्राह्मणतवादिः। जातिलक्षणं तूक्तं प्राक् ३४ पृष्ठे १६ पङ़कौ । प्रमाणं परिमाणम् तद्गतेत्यर्थः। ताहशी जातिप्रमाणगता। अनुचितार्थत्वमिति। अयं भावः। उपमायां यौ न्यूनाधिकोपमा- नत्वे दोषौ तत्रोपमाने उपमेयापेक्षया जातिगतं प्रमाणगतं वा यन्न्यूनत्वमधिकत्वं वा तत् अनु- चितार्थत्वमेवेति। साधारणधर्मगतावपि दोषावुक्तदोषयोरन्तर्भवत इत्याह धर्माश्रये त्विति। तुशब्दः समुच्चयार्थकः व्यवहितो योज्यः । धर्मः साधारणो धर्मः आश्रयो ययोस्ते इति विग्रहः । तथा च साधारणधर्मगते न्यूनाधिकत्वे अपीत्यर्थः। उपमानस्य न्यूनधर्मत्वं अधिकधर्भत्वं चेति फलितोऽर्थः। यथाक्रमं क्रमेण । हीनेति। हीनपदत्वं न्यूनपदत्वम् अधिकपदत्वं च दोषं न व्यभिचरतः नातिवर्तेते किं तु तत्रवान्तर्भवत इत्यर्थः ॥

तत्र जातिगतन्यूनत्वस्यानुचितार्थतायामन्तर्भावे उदाहरति चण्डालैरिति। वामनसूत्रवृत्तौ

Page 832

देशम उल्लास:। ७७१

वह्निरफुलिङ्ग इव भानुरयं चकास्ति॥"८५।। अयं पद्मासनासीनश्चक्रवाको विराजते। युगादौ भगवान् वेधा विनिर्ित्सुरिव प्रजाः ॥ ५८६॥ पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ। वेणीदण्डः पुनरयं कालिन्दीपातसंनिभ:॥५८७॥ अत्र चण्डालादिभिरुपमानैः प्रस्तुतोड्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता॥ स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान्॥५८८॥ चतुर्थेऽधिकरणे द्वितीयेऽध्याये उदाहृतमिदम्। साहसम् अविचारकृतं कर्म। "साहसं तु दमे दुष्कर- कर्मणि। अविमृश्यकृतौ धाष्ट्यें" इति हैमः । अ्र चण्डालत्वजातेर्न्यूनतया दुष्कर्मकारित्वव्यक्ते- रनुचितार्थत्वमिति प्रदीपः । (अनुचितार्थत्वमिति । तव्यक्तिविवक्षायां तु न दोषत्वमिति बोध्यम् ) इत्युद्योतः । तदेतदुक्तं सुधासागरे भीमसेनेन "यदा साहसिकमात्रोपमानविवक्षया चण्डालादि- पद्मुपादीयते तदैवेदमुदाहरणम् न तु दुष्कर्मकारित्वविवक्षायामपि" इति। काव्यप्रकाशसंकेते सोमेश्वरेण तु "अत्र वाच्यं साहसकारित्वमिवास्पृश्यत्वाद्यपि व्यङ्ग्यमिति जातिगतं न्यूनत्वम्', इत्युक्तम्॥ प्रमाणगतन्यूनत्वस्यानुचितार्थतायामन्तर्भीवे उदाहरति वह्नीति। वामनसूत्रवृत्तौ चतुर्थेऽधिकरणे द्वितीयेऽध्याये उदाहृतमिदम् । वह्निस्फुलिङ्ग इव अग्निकण इव। "त्रिषु स्फुलिङ्गोऽग्निकणः" इत्यमरः। अत्र भगवतः सहस्त्रधाम्नो ज्वलनस्फुलिङ्गलक्षणमुपमानं परिमाणतो न्यूनम्॥ जातिगताधिकताया अनुचितार्थतायामन्तर्भावे उदाहरति अयमिति। सरस्वतीकण्ठाभरणे प्रथम- परिच्छेदे ५१ सूत्रे उदाहतं पद्यमिदम्। अयं चक्रवाकः पक्षिविशेषः पद्ममेव आसनं तत्र आसीनः उपविष्टः युगादौ प्रजाः विनिर्मित्सुः निर्मातुमिच्छः भगवान् वेध: ब्रह्मेव विराजते शोभते इत्यर्थः । अत्र ब्रह्मत्वजात्या उपमानमधिकम्। ब्रह्मणः कल्पभेदेन भेदात् ब्रह्मत्वं जातिरिति प्रदीपादौ स्पष्टम्।। प्रमाणगताधिकताया अनुचितार्थतायामन्तर्भवे उदाहरति पातालमिति। वामनसूत्रवृत्तौ चतुर्थेऽ- धिकरणे द्वितीयेऽध्याये उदाहतं पद्यमिदम्। 'ते तव' इत्यस्य 'नाभिः' इत्यत्र 'स्तनौ' इत्यत्र 'वेणी- दण्डः' इत्यत्र चान्वयः । क्षितिधरः पर्वतः। कालिन्दीपातसंनिभः यमुनाप्रवाहतुल्यः । अत्र परि- माणतः उपमानमधिकम् ॥ एषूदाहरणेषु चण्डालादिभिरुपमानैरुपमेयभूता अर्था अत्यन्तमेव कदर्थिताः निन्दोपहासादिप्रतीतेः इत्यनुचितार्थता। तदेवाह अन्रेत्यादिना। प्रस्तुतः उपमेयरूपः । कदर्थितः तिरस्कृतः । अनुचि- तार्थतेति। यद्यपि चण्डालादेर्न्यूनत्वेनोपमेयस्य तिरस्कारेऽपि ब्रह्मादिभिरुपमानैर्न तथा तथाप्यत्यु- त्कृष्टब्रह्माद्युपमानकत्वम् अपकृष्टोपमेयस्यासत्यतापर्यवसायित्तयोपहासाय भवतीति बोध्यमिति उदचो- तसारबोधिन्यादिषु स्पष्टम्। एवं च पूर्वोदाहरणद्दये निन्दाप्रतीतेः उत्तरोदाहरणद्दये उपहासप्रतति- रनुचितार्थत्वमिति फलितम्॥ धर्माश्रितस्य न्यूनत्वस्य हनिपदतायामन्तर्भीवे उदाहरति स सुनिरिति । वामनसूत्रवृत्तौ चतुर्थेधि- १ तद्यक्ीति। दुष्कर्मकारित्वव्यञ्जनेत्यर्थः ॥

Page 833

काव्यप्रकाश: सटीकः ।

अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणी धर्मः केनापि पदेन न प्रतिपादित इति हीन पदत्वम् स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतहदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥५९॥ अत्रोपमेयस्य शङ्गादेरनिर्देशे शशिनी ग्रहणमतिरिच्यते इत्यधिकपदत्वम्।। लिङ्गवचनभेदोऽपि उपमानोगमिययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात तदा एकतरस्यैव तद्धर्मसभन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीय- मानेन धर्मेण प्रतीयते इति प्रकरान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भन्नप्रक्मरूपत्वम्। यथा

करणे द्वितीयेऽध्याये उदाहतं पद्ममिदम्। मौञ्ज्या मुआ्जार्यतृणनिर्मितमेखलया लाञ्छितः चिह्नितः कृष्णाजिनरूपं पटं वस्त्रं वहन् सः मुनिः नारदः नीलेन नीलवर्णेन जीमूतभागेन मेघखण्डेन आश्लिष्टः संबद्ध: अंशुमान् सूर्य इव व्यराजदित्यर्थः ॥

अत्रोपमेयमौञ्जीस्थानीयस्तडिल्लक्षण उपमानस्य धर्मो न केनापि पदेन प्रतिपादितः न चाक्षेपा. दिनापि स्पष्ट प्रतीयते अविनाभावाद्यभावादिति। न्यूनपदत्वमेवैतदिति प्रदीपे स्पष्टम्। तदेवाह अत्रे त्यादिना। उपमानस्य अंशुमतः । अस्य 'धर्मः' इत्यनेनान्वयः । तडिलक्षणः तडिद्रूपः । "तडित्सौदामिनी विद्युत्" इत्यमरः । हीनपइत्वमिति। न्यूनपदत्वमेव्रैतदित्यर्थः ॥

धर्माश्रितस्य धर्मगतस्य अधिकत्वस्याधिकपदतायामन्तभव उदाहरति स पीतेति। पीतं पीत- वर्ण वासो वस्त्रं यस्य तादृशः प्रगृहीतं शाङ्ग शृङ्गविकाररूपं धनुर्येन तथाभूतः सः श्रीकृष्णः मनोज्ञं सुन्दरं च तत् भीमं भयंकरं च वपुः शरीरम् आप प्राप। क इव शतह्रदा विद्युत् इन्द्रायुधं शक्रधनुश्र तद्दान निशायां रात्रौ शशिना चन्द्रेण संसृज्यमानः संबध्यमानः मेघ इवेत्यर्थः । "शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता" इति कोशः। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥

अत्रोपमेये श्रीकृष्णे शङ्कादनिर्देशात् उपमाने मेधे शङ्तुल्यस्य शशिनो ग्रहणमतिरिक्तमिति धर्मा- धिक्यं दोष: सोऽयमधिकपदत्वमेव। तदेवाह अत्रेत्यादिना। उपमेयस्य श्रीकृष्णस्य। अधिकपद- त्वमिति। अधिकपदत्वमेवैतदित्यर्थः । उपमानन्यूनाधिकधर्मत्वमेवोपमेयाधिकन्यूनधर्मत्वमिति पृथक नोक्तमित्युद्दयोते स्पष्टम्।।

उपमायामुपमानोपमेययोर्भिन्नलिङ्गत्वं भिन्नवचनत्वं चेति दोषद्वयं प्राचीनैरुक्तम् तदपि भग्नप्रक्रम- तायामन्तर्भवतीत्याह लिङ्गवचनभेदोऽपीति। उपमानोपमेथयोर्लिङ्गवचनभेदोऽपि चेत् यदि साधा- रणं साधारणत्वेन विवक्षितं धर्मम अन्यरूपम् असाधारणरूपं कुर्यादित्यन्वयः । यथा वक्ष्यमाणे 'चिन्ता रत्नम्' इत्युदाहरणे चिन्तारत्नमित्युपमानस्य त्वमित्युपमेयस्य यः नपुंसकत्वपुंस्त्वरूपयोर्लिङ्गयोर्भेदः साधारणत्वेन विवक्षितं च्युतत्वरूपं पुंस्त्वावरुद्धं धर्म च्युतमिति नपुंसकत्वावरुद्धमसाधारणं करोतीति बोध्यम्। एतेन 'चन्द्र इव सुन्दरं मुखम्' इत्यादौ दोष एवति सूचितमिति ध्येयम। अत एव 'चिन्तारत्नमिव' इत्युदाहरणव्याख्यानावसरे उद्दयोते एवमेवोक्तं स्फुटभिविष्यति। एकतरस्यैवेति। उपमानस्यैव उपमेयस्यैव वेत्यर्थः। अस्राधारणत्वादेवोभयत्र नान्वय इति भावः । तद्धर्मेति। उपात्त-

१ अविनेति। व्याप्याभावादित्यर्थः । तं विना च सादृश्यप्रततिर्देोषत्वमित्युद्वयोतः।।

Page 834

दशम उल्लास:। ७७५

धर्मेत्यर्थः । समन्वयावगतेरिति। पञ्चम्यन्तमिदं 'प्रतीयते' इत्यत्र हेतुत्वेनान्वेति। नन्वस्तु एक- तरस्यैवोपात्तधर्मसमन्वयावगतिः का नो हानिरिति चेतु तथा सति कथमुपमानत्वमुपमेयत्वं च स्यात् यतः उपमानत्वमुपमेयत्वं च विशेषणान्वितयोरेव वस्तुनोर्भवति न तु केवलयोर्वस्तुनोरित्याह स- विशेषणस्यैवेत्यादि। सविशेषणस्यैवेति। विशेषणसहितस्यैवेत्यर्थः। विशेषणभूतसाधारणधर्मान्वित- स्यैवेति यावत्। तस्येति। वस्तुन इत्यर्थः । 'कमलमिव मुखं मनोज्ञमेतत्' इत्यादौ (५२१ पृष्ठे १ पङ़ौ ) कमलरूपस्य मुखरूपस्य च वस्तुन इति यावत्। "तस्येति । धर्मिण इत्यर्थः" इति तु संकेते माणिक्यचन्द्रः । उपमानत्वमुपमेयत्वं वति। भवतीति भावः। एतदनन्तरं 'तच्च' इति शेष: । तञ्च उपमानत्वसुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते इत्यन्वयः। ननूपात्तधर्मस्यैकत्रै- वान्वये साधारगधर्माभावात्कथमुपमानत्वोपमेयत्वयोर्निर्वाह इत्यत आह प्रतीयमानेनेति। गभ्यमा- नेनेत्यर्थ: लिङ्गविपरिणामेन यथाकथंचिदन्वयं प्राप्तेनेति यावत्। यत्तु संकेते माणिक्यचन्द्रेण व्याख्यातम् "प्रतीयमानेनेति। शब्दानुक्तनोभयानुगमक्षमेण शब्दोक्तसमानधर्मव्यतिरिक्तेन अध्याहृतेन केनापीत्यर्थः" इति तत्तु चिन्त्यमेव तथाविधार्थस्य मूलकृतोऽनभिप्रेतत्वात्। अत एव मूले "ननु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय" इति उत्तरत्र विद्यमानस्य शङ्काग्रन्थ- स्योत्थितिः संगच्छते । अन्यथा तथाविधशङ्काखाः प्रागेव प्रवृत्तत्वेन पुनरुत्थितिश्र्वितचर्वणन्यायापा तापत्यासंगतैव स्यात्। तस्मात् पूर्वोत्तरग्रन्थयोर्भिन्नविषयतासंपादनाय पूर्वोत्तरग्रन्थस्थयोः प्रतीय- मानपद्योर्भिन्नार्थकत्वमवश्यं वर्णनीयम्। तथा चात्रत्यप्रतीयमानपदस्य 'लिङ्गविपरिणामेन यथाकर्थं- चिदन्वयं प्राप्त' इत्यर्थकत्वम्। उत्तरग्रन्थस्थस्य प्रतीयमानपदस्य तु 'अध्याहृत' इत्यर्थकत्वमिति शङ्काग्रन्थस्य पुनरुत्थितिः सुवचा भवतीति बोध्यम्। अत एवोद्योते "इवादिना धर्मत्वेनापि उपात्तधर्म एव बोध्यते तस्य निरुक्तोमयनिष्ठत्वे उपमानिर्वाही नान्यथेति भावः। अपरत्र लिङ्गविप- रिणामेन यथाकथंचिदन्वयेऽपि स्फुटत्वाभावेन चमत्कारापकर्ष इति तत्त्वम्" इति अत्रत्यप्रदीपाशयो वर्णितः । उत्तरग्रन्थव्याख्यानावसरे तु "प्रतीयमानम् अध्याहारलभ्यम्" इति व्याख्यातमिति विप- शि्विद्भिर्विभावनीयम् । प्रक्रान्तस्य उपमालंकारस्य। स्फुटमनिर्वाहादिति । झटिति प्रतीत्यनुदया- दित्यर्थः लिङ्गादिविपरिणामप्रयुक्तविलम्बादिति भावः। अस्य लिङ्गवचनयोर्भेदरूपस्य दोषस्थ। भग्न- प्रक्रमरूपत्वमिति। उक्तरीत्या उपमाने प्रतीयमानतया वाच्यतया वा उपक्रान्तस्य साधारणधर्मस्य उपमेये तदन्यथा वाच्यतया प्रतीयमानतया वा उपसंहारात् भग्नप्रक्रमत्वमेवेत्यर्थः ॥

तदेतत्सर्वै विवरणकारैरपि विवृतं "साधारणधर्मवाचकपदस्य भिन्नलिङ्गवचनयोरुपमानोपमेय- योरेकतरानुसारिलिङ्गवचनत्वे भिन्नलिङ्गं भिन्नवचनं चेति दोषद्वयं भोजराजादिसंमतम्। तद्वीजं तु यद्वाचकलिङ्गवचनानुसारि साधर्म्यवाचकं साधारणधर्मवाचकं यत् पदं स्यात् तेनैव तस्यान्वयः स्यात् न तूभाभ्यामपि विशेषणविशेष्यभावान्वये समानलिङ्गसमानवचनयोस्तन्त्रत्वात्। उभयत्र उपमानोपमेययोः अन्वयाभावे च तस्य साधर्म्यत्वमेव साधारणधर्मत्वमेव व्याहन्येत तत्स्वरूपत्वा- त्तस्य तदभावे च कथमुपमा। उपात्तस्य साधारणधर्मस्य एकत्र उपमेये उपमाने वा अन्वयबलेन अपरत्र च प्रतीतिबलेन संबन्धमङ्गीकृत्य उपमानिर्वाहस्तु न सम्यक् सर्वत्र झटिति प्रतीत्यनुदया- दिति। एतच्च दोषद्वयं भग्नप्रक्रमतायामेवान्तर्भवति उक्तरीत्या उपमाने प्रतीयमानतया वाच्यतया

१ इत्यर्थ इति। सर्वनाम्न्रां बु द्विस्थपरामर्शकत्वादिति भावः ॥ २ उभयानुगमक्षमेण उभयान्व्रयसमर्थेन ।

Page 835

७७६ काव्यप्रकाशः सटीकः।

चिन्तारत्नमिव च्युतोऽसि करतो धिङ्मन्दभाग्यस्य मे॥५९०॥ सक्तवो भक्षिता देव शुद्धा: कुलवधूरिव ॥५९१॥

वा उपक्रान्तस्य साधर्म्यस्य साधारणधर्मस्य उपमेये तदन्यथा वाच्यतया प्रतीयमानतया वा उप- संहागादिति प्रकाशकृन्मतम्" इति॥ चक्रवर्तिना तु "लिङ्गवचनयोर्भेदोऽपीति। साधारणत्वेन विवक्षितं चेद्र्ममसाधारणरूपं कुर्या दित्यर्थः । एतेन यत्र 'चन्द्र इव मुखमाह्लादकम्' इत्यादावाह्लादकत्वस्य चन्द्रेSतिप्रसिद्धत्वान्मुखे च प्रत्यक्षादिसिद्धत्वाल्विङ्गभेदेऽपि साधारणत्वेनैव प्रतिपत्तिस्तत्र न दूषणमिति सूचितमिति ध्येयम्। तदेकतरस्येति। असाधारणत्वादेवोभयत्र नान्वय इत्यर्थः । सविशेषणेति। यदोपमानान्वितं विशे- षणं तदा विशिष्टस्योपमानता यदोपमेयान्वितं तदा विशिष्टस्योपमेयतेत्यर्थः। ननूपात्तधर्मस्य विशेषनिष्ठत्वे साधारणधर्माभावात्कथमुपमानिर्वाह इत्यत आह प्रतीयमानेनापाति। शब्दोपस्थापितस्य विशेषनिष्ठत्वेऽपि प्रतीयमानेनैव साधारणधर्मेणोपमानिर्वाह इत्यर्थः। अपिशब्दाच्छब्दान्तरोपस्थापि- तेनेति समुच्चीयते । प्रक्रान्तस्यति । प्रस्तुतस्य विशिष्टस्याविशिष्टस्य वेत्यर्थः । चिन्तारत्नमिति। अत्र च्युतत्वाख्यः साधारणो धर्मः पुंल्लिङ्गावरुद्धे उपमेयमात्रेऽन्वेति न तु विरुद्धलिङ्गावरुद्धे उप माने इति विशिष्टाविशिष्टयोरुपमेयोपमानत्वप्रनीतेर्भग्नप्रक्रमत्वम्" इति व्याख्यातम्। तच्च पदे पदेऽरुचिग्रस्तमिति सुधीभिर्बोध्यम्॥ तत्र लिङ्गभेदरूपदोषस्य भग्नप्रक्मतायामन्तर्भावे उदाहरति चिन्तारत्नमिवेति। चिन्तितार्थदायकं रतनं चिन्तारत्नम् चिन्तामणिरिवेत्यर्थः । अत्रोपमेये पुंसि च्युत इति वाच्यो धर्मः उपमाने चिन्तारत्ने तु च्युतमिति लिङ्गविपरिणामेन प्रतीयमानो धर्मः। तथा चात्र च्युत इति साधारणधर्मः पुंस्त्वविशिष्टे उपमेयमात्रेऽन्वेति न तु नपुंसकत्वविशिष्टे उपमाने विशेष्यविशेषणभावान्वये समानलिङ्गवचनयोस्तन्त्र-

पात्तः साधारणधर्मस्तत्र न दोष: कल्प्यमानस्य लिङ्गरहितस्यैव कल्पनेनोभयसाधारणत्वात्। एवं च यत्र लिङ्गरहितार्थोपस्थापकतिङन्तेन साधारणधर्मोपस्थितिस्तत्रापि न दोषः । यथा 'स्त्रीव गच्छति षण्ढोऽयम्' इत्यादौ। एवं च 'चन्द्र इव सुन्दरं मुखम्' इत्यादौ दोष एवेति बोध्यमित्युदयोते स्पष्टम्।। वचनभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति सक्तव इति। हे देव राजन् मया कुलव- धूरिव कुलस्त्रीव शुद्धाः पवित्राः सक्तवः भक्षिता इत्यर्थः । सक्तवो धानापिष्टम् "धान्यानि मृष्टभ्रष्टानि यन्त्रपिष्टानि सक्तवः" इति भोजनकुतूहले रघुनाथोक्तेः "धानाचूर्ण तु सक्तवः" इति नाममाला- कोशाच्च। "समुच्चये सामान्यवचनस्य" (३।४।५) इति "दूराद्धूते च" (८।२८४) इति च पाणिनिसूत्रे वैयाकरणसिद्धान्तकौमुदयां 'सक्तृन् पिब' इति प्रयोगात् "सक्तुः सचतेर्दुर्धावो भवति कसतेर्वा विपरीताद्विकसितो भवति" ( १ अ० १ पा० १ आ०) इति महाभाष्याच्च "सक्तून् जुहोति" इति वैदिकप्रयोगाच्च सक्तुशब्दः पुंल्िङ्गः । "सक्तुर्नपुंसके च". (चात्पुंसि ) इति पाणिनिलिङ्गानुशासनात् सक्तुशब्दस्य नपुंसकत्वेऽपि स्त्रीत्वाभाव इति बोध्यम्। अत्र बहुत्वविशिष्टः १ "स्त्रीव गच्छति षण्ढोडयं वक्त्येषा स्त्री पुमानिव। प्राणा इव पियोडयं मे विद्या धनमिवार्जिता" इति काव्यादर्शे २ परिच्छेदे दण्डिना पठितस्य पद्यस्य वाक्यमिदम् ॥ २ सचतेरिति। 'षच सेचने' इत्यस्य। दुर्धावः दुःशोधः। कसतेरिति। पृषोदरादित्वाद्वूर्णव्यत्यय इति कैयटः।।

Page 836

दशम उल्लास:। ७७७

यत्र तु नानात्वेऽपि लिङ्गवचनयोः सामान्याभिधायि पढ स्वरूपभेदं नापदते न तत्रैतद्दूषणावतारः उभयथापि अस्य अनुगमक्षमस्वभावत्वात्। यथा गुणैरनध्यैः प्रथितो रत्नैरिव महार्णवः ॥ ५९२॥ तद्टेषोऽसदृशोऽन्याभि: स्त्रीभिर्मधुरताभृतः। दधते स्म परां शोभां तदीया विभ्रमा इव ॥ ५९३॥ शुद्धत्वरूप: साधारणो धर्मः बहुत्वविशिष्वेषु सक्तुषु उममेयेब्वेवान्वेति न त्वकत्वविशिष्टे वधूरूपे उपमाने इति "लिङ्गभेदोऽत्र विद्यमानोऽव्यप्रधानम्। उपमानस्य बहुत्वे लिङ्गभेदेऽपि उभयान्वयसंभवात्ं" इति प्रदीपे स्पष्टम्। एतेन 'लिङ्गभेदादप्युपमायोगः' इति कमलाकरभट्टोक्तमपास्तम्॥

यत्र तु लिङ्ग्योर्वचनयोर्वा भेदेऽपि साधारणधर्मवाचकं पदमुपात्तस्वरूपभेदं न प्राम्ोति कि तु उपात्तेनैव रूपेणोभयत्राप्यन्वोति तत्र दोषत्वमेव नास्ति आनुपूर्वीसाम्येनोभयत्राप्यस्यान्व ययोग्य- स्वभावत्वादित्याह यत्र त्वित्यादिना । नानात्वेऽि भेदेऽपि। लिङ्गेति। लिङ्गयोर्वचनयोर्वेत्यर्थः । सामान्याभिधायि साधारणधर्मवाचकम्। स्वरूपभेदम् आनुपूर्वीभेदम्। नापद्यते न प्राम्ोति। एतद्दूषणेतति। भग्नप्रक्रमत्वरूपदोषेत्यर्थः । तत्र हेतुमाह उभयथेत्यादि। उभयथापि उभयप्रकारे- णापि उपमानलिङ्गवचनविशिष्टत्वेनापमेयलिङ्गवचनविशिष्टत्वेनापीत्यर्थः। अस्य सामान्याभिधायि- पदस्य। अनुगमक्षमस्वभावत्वात् अन्वययोग्यस्वभावत्वात्। उक्तं च प्रदीपे "यत्र तु लिङ्ग- वचनयोर्भेदेऽपि सामान्याभिधाय पदमुपात्तरूपभेदं नापदते किंतपात्तेनैव रूपेणोभयत्राप्यन्वेति तत्र दोषत्वमेव नास्ति उभयत्राप्यस्यानुगमयोग्यस्वभावत्वात्" इति॥ तत्र लिङ्गभेदेऽपि भग्नप्रक्रमत्वरूपदोषाभावे उदाहरति गुणैरिति । गुणैरनघैरित्यपि पाठः । महार्णवः अनध्यैः बहुमूल्यैः रत्नौरिव स राजा अनर्ध्यैः पूज्यैः गुणैः प्रथितः प्रसिद्धः अभूदित्यर्थः । अत्रोपमेयोपमानवाचकयोर्गुणरत्नशब्दयोर्लिङ्गभदेऽपि अनध्यैरिति साधारणधर्मताचकपदस्य तृतीया- बहुवचनान्तस्य लिङ्गद्वयेऽपि तुल्यरूपत्वान्न भग्नप्रक्रमत्वदोषः।

वचनभेदेऽपि भग्नप्रक्रमत्वरूपदोषाभावे उदाहरत तद्वेष इति । तस्याः प्रकृतनायिकायाः वेषः भूषणाम्बरादिधारणपरिपाटी तदीया: प्रकृतनायिकासंबन्धिनः विभ्रमा इव हावभेदा इव परां शोभां दृधते स्म। "अथ विभ्रमः । शोभायां संशये हावे" इति मेदिनी। कीदशः । मधुरतया भृतः पूरितः विभ्रमपक्षे मधुरतां बिभ्रति धारयन्ति ये ते मधुरताभत इत्यर्थः । अत एव अन्याभिः स्त्रीभि: अन्यस्त्रीविषैः असदृशः असमानः । विभ्रमपक्षे अन्यामिः स्त्रीभिः अन्यस्त्रीविभ्रमैः असदृशः असमाना इत्यर्थः । व्याख्यातामिदं चक्रवर्तिर्भट्टाचार्यैः "अन्यामिरसदृश इति। अन्यासां वेषैरित्यर्थः 'न चापत्यसम: स्नेहः' इतिवत्" इति॥ अत्र तद्वेष इत्युपमेयम् विभ्रमा इत्युपमानम् असदृश इति मधुरताभृत इति द्धत इति च साधारणधमाभिधायीनि पदानि उभयत्रान्वयसमर्थानीति वचनभेदेऽपि रूपसाम्यान्न दोषः। अत्र १ संभवादिति। उभयत्रापि उपात्तरूपाभेदात् । तदाह यत्र त्विति इत्युद्द्योतः ।।

Page 837

७७८ काव्यप्रकाशः सटीकः ।

कालपुरुषविध्यादिभेदेपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयती- त्यसावपि भग्नप्रक्रमतयैव व्याप्तः। यथा अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुदूती। पश्चिमात् यामिनीयामात् प्रसादमिव चेतना ॥ ५९४।। असदृश इति कैञन्तैकवचनं क्विबन्तबेहुवचनं च भृत इति कतान्तैकवचनं क्विबन्तबहुवचनं च दधत इति 'दध धारणे' इत्यस्य (प्रथमगणस्थस्य) एकवचनं 'डुधाञ् धारणपोषणयोः' इत्यस्य (तृतीयगणस्थस्य) बहुवचनं च। अत्र श्र्लेषोऽप्युपमोपपादक एवेति बोध्यमित्युद््योतादिषु स्पष्टम् ।।

उपमायां कालादिभेदरूपदोषान्तरमषि भग्नप्रक्रमतायामन्तर्भवतीत्याह कालेत्यादिना । कालो भूतभविष्यद्वर्तमानरूपः । पुरुषः प्रथममध्यमोत्तमरूपः । विधिः अप्रवृत्तप्रवर्तनारूपो लिङ्लोट तव्यप्रत्ययार्थः। स च प्रेरणाप्रवर्तनादिशब्दाभिधेयः प्रवृत्यनुकूलव्यापारः। आदिपदग्राह्याशीर्वादा- ठीत्यग्रे (७८० पृष्ठे) "एवंजातयिकस्य च" इति ग्रन्थेन स्फुटीभविष्यति। चक्रवर्त्यादयस्तु "आदिपदान्निवर्तनम्" इत्याहुः । तथा कालादीनामैक्यस्थले इव । अस्खालितरूपतया अपरि- वर्तितस्वरूपण। विश्रान्तिं परिसमाप्तिम्। न आसादयति न प्राम्ोति । प्रथमं यथा उपमानं प्रतीयते चरमं तथा नोपमेयं प्रतीयते इति स्थूलार्थ इति विवरणे स्पष्टम्। उद्योतकारास्तु "स्खलितत्वं विजातयविषयत्वम् । विश्रान्तिः चमत्कारः" इत्याहुः। असावपि कालादिभदरूप- दोषोऽपि । व्याप्तः आक्रान्तः न तु पृथगित्यर्थः ॥

तत्र कालभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति अतिथिमिति । रघुकाव्ये सप्तदशे सर्गे प्रथमं पद्यमिदम। कुमुद्दती कुमुदाख्यनागराजस्य भगिनी ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थः तस्मात् कुशनामकराजात् अतिथि नाम प्रसि्दं पुत्रम आप प्राप्तवती। का कस्मात् कमिव चेतना घी: पश्र्विमात् चरमात् यामिन्या: निशायाः यामात् प्रहरात् प्रसादम उद्दोघमिवेत्यर्थः। वैशय्यमिवेति यावत्। ब्राह्मे काले सर्वेषां बुद्धिवैशदं भवतीति प्रसिद्धिः । यत्त्वत्र "कुमुद्दती कुमुदनागकन्या" इत्युद्दयोते व्याख्यातम् तत्तु न रुचिरम् 'कुमुदनागसुता' इति भ्रान्तिजनकत्वात्। कुमुद्दती हि कुमुदनागस्य स्वसा तत्रैव रघुकाव्ये षोडशे सर्गे पश्चाशीतितमे श्लोके 'इमां स्वसारं च यवीयसीं मे कुमुद्दतीं नार्हीस नानुमन्तुम्' इति कुशं प्रति कुमुदनागस्योक्तेः अस्मिन्नेव सप्तदशे सर्गे षष्ठे श्लोके 'तं स्वसा नागराजस्य कुमुदस्य कुमुद्दती अन्वगात्' इति कव्युक्तेश्र । अत एव षोडशे सर्गे 'तस्मा- त्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज। लक्ष्म्येव सार्ध सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंग- राज: ॥ ७९ ॥' इति श्लोकव्याख्यानावसरे हेमाद्रिणोक्तम् "अत्र कन्या स्वसा इमां स्वसारं च' इति वक्ष्यमाणत्वात्। लक्ष्मीकल्पवृक्षयोः स्वसृभ्रात्रोरुपमा च" इति। इति बोध्यम् ॥

१ कञन्तेति। समान इव पश्यतीति सदृशः। "समानान्यपोश्रवेति वाच्यम्" इति वार्तिकेन ('त्यदादिषु दृशोऽ- नालोचने कश्" (३।२।६०) इति पाणिनिसूत्रस्थेन) समानशब्दे उपपदे दृशवातोः कर्तरि कञप्रत्ययः । "टृग्दृशवतुषु" (६।३।८९) इति सूत्रेण समानशब्दस्य सभावः (सादेशः)॥ २ क्विवन्तोति। "क्किप च" (३। २।७६) इति पाणिनिसूत्रेण कर्तरि क्विपप्रत्ययः। अन्यत्सर्व सदृशशब्द्वददिति बोध्यम् ॥ ३ 'प्रवतना' इत्यत्र प्रपूर्वात् 'वृतु वर्तने' इति भौवादिकाद्वत्धातोणिजन्तात् 'कारणा हारणा' इत्यादाविव " ण्यासश्रन्धो यच" (३।३।१०७ ) इति पाणिनिसूत्रेण स्त्रियां भावे युच्परत्ययः ॥

Page 838

देशम उल्लास: ७७९

अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः। प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता। विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥५९५॥ अत्र लता विभ्राजते न तु विभ्राजसे इति संबोध्यमाननिष्ठस्य परभागस्य असं- बोध्यमानविषयतया व्यत्यासात् पुरुषभेद:।

अत्र चेतना प्रसादमाम्नोति इति प्रकृतं न तु तमापेति कालभेदे प्रक्रमभेद एव। तदुक्त चन्द्रि- कायाम् "अत्र यथा चेतना प्रसादं प्राप्रोति तथा सा पुत्रमापेति कालभेददोषः" इति। तदेवाह अत्रेत्यादिना। न पुनरापेति। 'न पुरा आप' इति क्वचित्पाठः। यद्यप्यतीतपश्रिमरात्रियामात् चेतना प्रसादमापेति न कालभेद: तथापि पश्चिचिमरात्रियामजातीयादद्यापि प्रसादमाम्ोतीति कालभेद एवेति भाव इत्युद्द्योते स्पष्टम् ।।

पुरुषभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति प्रत्यग्रेति। रत्नावल्याख्यनाटिकार्या प्रथमेडङ्के वासवदत्तां प्रति वत्सराजस्योक्तिरियम्। हे सखि त्वं लतेव विभ्राजसे शोभसे इत्यन्वयः । कीदशी। प्रत्यग्रो नूतनो यो मज्जनविशेषः स्नानविशेषः तेन विविक्ता शुद्धा मूर्तिः शरीरं यस्यास्तादशी। लतापक्षे प्रत्यग्रं नूतनं यत् मज्जनं सेचनं तेन विशेषतो विविक्ता स्वच्छा मूरतिर्य- स्यास्ताहशी। कौसुम्भेन कुसुम्भसंबन्धिना रागेण लौहित्येन रुचिर: सुन्दरः स्फुरन् देदीप्यमानः अंशुकस्य वस्त्रस्यान्तः प्रान्तो यस्यास्तादृशी। "स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि" इत्यमरः । लतापक्षे कुसुम्भमेव कौसुम्भं पुष्पं (स्वार्थे प्रज्ञादित्वादण्प्रत्ययः) तद्वत् रागो लौहित्यं तेन रुचिरा चासौ स्फुरद्भिः अंशुभि: पुष्पधूलिभिः किरणैर्वा कान्ता रमणीया। मकरकेतनं कामदेवम् अर्च- यन्ती पूजयन्ती। लतापक्षे मकरकेतनं समुद्रम अर्चयन्ती शोभयन्ती। कथंभूता लता बालानि नूतनानि प्रवालानि किसलयानि यस्य तादृशो यो विटपः शाखाप्रभवः उत्पत्तिस्थानं यस्यास्तथा- भूता। "प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे" इति मेदिनी। प्रभवत्यस्मिन्निति प्रभवः । "ऋदोरप्" (३।३।५७) इति पाणिनिसूत्रेणाधिकरणेऽप्प्रत्ययः तत्र "अकर्तरि च कारके संज्ञा- याम्" (३।३ १९) इति पूर्वसूत्रात् 'अकर्तरि कारके' इत्यनुवृत्तेः । यद्वा बालानि अभिनवत- राणि प्रवालानि किसलयानि विद्ठमा वा यस्मिन् तादृशो यो विटपः तस्य प्रभवा उत्पत्तिस्थानभू- तेत्यर्थः। अस्मिन्पक्षे यद्यपि प्रभवशब्दस्य अप्प्रत्ययान्तस्य पुंस्त्वं प्राप्तम् "घञ्रबन्तः" इति पाणि- निलिङ्गानुशासनात् तथापि भावार्थे एव तत् कर्मादर्थे तु विशेष्यलिङ्गतापीति स्त्रीत्वोपपत्तिः । तदुक्तं वैयाकरणसिद्धान्तकौमुदयां भट्टोजीदीक्षितैः "कर्मादौ घञ्राधयन्तमपि विशेष्यलिङ्गम्। तथा च महाभाष्यम् 'संबन्धमनुवर्तिष्यते' इति" इति। एवं च प्रत्यग्रेत्यादिविशेषणत्रयमुभयसाधारणम् । बालेत्यादि लताविशेषणमेव। सुधासागरकारास्तु प्रत्यग्रेत्यादि विशेषणं साधारणम् कौसुम्भेत्यादि नायिकाविशेषणमेव बालेत्यादि लताविशेषणमेव। एवं च अंशुभि: पुष्पधूलिभिरिति श्रीवत्सला- ञ्छनभट्टाचार्याणां व्याख्यानं प्रामादिकमेव अंशुपदस्य परागवाचकत्वाभावात् प्रकृतार्थासामञ्जस्या- च्चेत्याहुः। वसन्ततिलका छन्दः। लक्षणमुक्तं प्राक् ६८ पृष्ठे॥

अत्र लता विभ्राजते त्वं विभ्राजसे इति प्रथममध्यमरूपपुरुषभेदः । तदेवाह अत्रेत्यादिना । संबोध्यमानेति । नायिका वासवदत्तात्र संबोध्यमाना तन्निष्ठस्य तद्विषयकस्येत्यर्थः । परभागस्य

Page 839

७८० काव्यप्रकाशः सटीकः। गङ्गेव प्रवहतु ते सदैव कीर्तिः॥५९६॥ इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु इति अप्रवृत्तप्वर्तनात्मनो विधे:। एवं- जातीयकस्य चान्यस्यार्थस्य उपमानगतस्यासंभवाद्विध्यादिभेदः॥ भ्राजसे इति क्रियाशेषांशभूतस्य सेप्रत्ययस्य। असंबोध्यमानेति । अचेतनत्वेन लतायाः संबोध्य- त्वाभावात् लता अत्रासंबोध्यमाना तद्विषयकतयेत्यर्थः । व्यत्यासात् विभ्राजते इति परिवर्तनात्। पुरुषभेद इति। सोऽयं भग्नप्रक्रमतयैव व्याप्त इति पूर्वेणान्वयः । तस्मात् 'विभ्राजते' इति पाठो युक्तः । न च देवीं संबोध्योक्तेस्तत्र प्रथमपुरुषार्थानन्वयः हे देवि भवती विभ्राजते इत्यन्वयसंभ- वात् भवदर्थस्य संबोध्यासंबोध्यसाधारणत्वेन तत्र तदन्वयसंभवादित्युद््योतादौ स्पष्टम्। "अत्र लता विभ्राजते इति प्रस्तुतम् न तु सा विभ्राजसे इति तस्मात्पुरुषभेदः संबोध्यनिष्ठस्य भ्राजनस्यासं- बोध्यविषयतयाप्रतीतिः" इति तु प्रदीपः । (संत्रोध्यनिष्ठस्येति । मध्यमपुरुषवाच्यस्य संबोध्यार्थे- नैवान्वयादिति भाव: ) इत्युद््योतः॥ विधिभेदरूपदोषस्य भग्नप्रक्रमतायामन्तर्भावे उदाहरति गङ्गेवेति। प्रवहत्विति। 'विध्यादिष्व- र्थेषु धातलोट् स्यात्' इत्यर्थकेन "लोट् च" (३।३।१६२) इति पाणिनिसूत्रेण प्रोपसर्गाद्वह- धातोर्विध्यर्थे लोठ् प्रत्ययः । अत्र अप्रवृत्तप्रवर्तनारूपस्य विधेर्भेदः व्यत्यासः यतो गङ्गा प्रवहतीति विवक्षितं न तु सा प्रवहतु इति। तदेवाह इत्यादौ चेति। ननु प्रवहत्वित्येवोभयत्रान्वेतु इत्यत आह न त्विति । अप्रवृत्तेति । अप्रवृत्तस्य प्रवर्तना प्रवृत्त्यनुकूलो व्यापारस्तदात्मनस्तद्रूपस्ये- त्यर्थः। अप्रवृत्तस्य कस्मिंश्ित्कार्ये प्रवृत्तिरहितस्य निकृष्ठस्य भृत्यादेर्या प्रवृत्तिस्तदनुकूलस्तत्प्रयो- जको यो व्यापारः उत्कृष्टस्य स्वाम्यादेर्व्यापारः 'त्वमिदं कुरु' इत्यादिरूपस्तदात्मनस्तद्रूपस्येति यावत्। प्रकृतोदाहरणे तु प्रवहनरूपे कार्येऽप्रवृत्तायाः कीर्तेस्तस्मिन्कार्ये या प्रवृत्तिस्तदनुकूलो यः आशीर्वादकर्तुर्व्यापारः आशीर्वादरूपस्तदात्मनो विधेः' इति समन्वयो बोद्धव्यः। 'प्रवर्तना' इत्यत्र प्रोपसर्गात् 'वृतु वर्तने' इति भौवादिकाद्वत्धातोर्णिजन्तात् "ण्यासश्रन्थो युच्" (२।३१०७) इति पाणिनिसूत्रेण स्त्रियां भावे युच्प्रत्ययः । 'प्रवर्तन' इति नपुंसकस्य समासघटकत्वे तु णिजन्ता- त्तस्मादेव धातो: "ल्यट्र च" (३।३११५) इति पाणिनिसूत्रेण नपुंसके भावे ल्युटप्रत्यय इति बोध्यम्। विधेरिति। 'भेदः' इति शेषः । भेद: व्यत्यासः । आशीर्विहितलोट्प्रत्ययस्य त्वनागते- ष्टविषयार्थकत्वात् कीर्तावेवान्वयो न तु विद्यमाने गङ्गाप्रवाहे। एवं च यथा गङ्गा प्रवहति तथा कीर्तिः प्रवहत्वित्यर्थे विधेर्भेद इति भावः ॥ विध्यादीत्यादिपदार्थमाह एवंजातीयकस्यति। एवंविधस्येत्यर्थः । अन्यस्यार्थस्येति। 'चिरं जीवतु ते पुत्रो मार्कण्डेयो मुनिर्यथा' इत्याशीर्वादादिरूपस्येत्यर्थः। उक्तं च प्रभायामप "अन्यस्य प्रार्थ- नादर्थस्येत्यर्थः । 'इन्द्रस्येव श्रियो वृद्धिस्तव संप्रार्थ्यते जनैः' इत्यादौ प्रार्थ्यमानताविशिष्टा श्रीवृद्धिरनो- पुमाने इति द्रष्टव्यम्" इति। उपमानगतस्यासंभवादिति। उपमानगतत्वेनासंभवादिति यथाकरथं- चिदर्थोऽत्र वर्णनीयः । उद्दयोतकारास्तु "ननु प्रवहणस्य सिद्धत्वेपि कस्थचिदनागतार्थस्य गङ्गानिष्ठस्य विधिविषयत्वं स्यादत आह एवंजातीयकस्येति। असंभवादिति। उपमेयेSसंभवादित्यर्थः । वस्तुतस्तु तादृशधर्मान्तरस्य सत्त्वेऽपि तस्य प्रकृत्यर्थत्वाभावान्न तत्र विध्यर्थान्वयसंभव इति बोध्यम्। विध्यादि- भेद इति। यद्यपि विधेरेकमात्रान्वयिनो न भेदः तथापि व्यत्यास एवात्र भेदपदार्थः" इत्याहुः ॥

Page 840

दशम उल्लास: ॥

ननु समानम् उच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायाम् उपमायाम् उपमेयस्य प्रकृतधर्माभितंबन्धान्न कश्चित्कालादिभेदोडस्ति। यत्राप्युपात्तेनैव सामान्य- धर्मेण उपमा अवगम्यते यथा 'युधिष्ठिर इवायं सत्यं वदति' इति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे। सत्यवादी सत्य वदतीति च न पौनरुक्त्यम् ननूदाहृतेषु इवादिपदेनोभयान्वययोग्यधर्मान्तरेणैव साम्यं बोध्यताम् उपात्तधर्मस्तु उपमेय एवा- न्वेतु इति कथं लिङ्गादिभेदो दोष इति शङ्कते नन्वित्यादिना 'अर्थवगमात्' इत्यन्तेन। समान- मिति। साधारणमित्यर्थः। इदम् अग्रेतनेन धर्मान्तरमित्यनेनान्वेति । उच्चारितम् उपात्तम् उच्चा- रितपद्बोध्यिति यावत्। प्रतीयमानमिति। अनुक्तमपि गम्यमित्यर्थः अध्याहारलभ्यमिति यावत्। धर्मान्तरं कालाययुपहितोपात्तभिन्नरूपम् कालविशेषाध्यनवरुद्म्। उपादाय अवलम्ब्य। पर्यव- सितायां निष्पन्नायां। प्रकृतधर्मेति। कालविशेषाद्यनवरुद्धधर्मेत्यर्थः । न कश्चित्कालादिभेदोऽ- स्तीति। 'काम इव सुन्दरोऽयं राजा भाति' इत्यादौ 'काम इवायं राजा भाति' इत्यादौ च यथाक्रमम् उच्चारितं प्रतीयमानं च सौन्दर्यरूपं धर्मान्तरमवलम्ब्य उपमा प्रतीयते भातीति क्रिया चोपमेये राज्येवान्वेति न तूपमानीभूते कामेऽपीति कथं कालादिमेदो दोष इति समुदायार्थः॥

व्याख्यातमिदं सर्वै प्रदीपोद्दयोतयोः । "ननूदाहृतेषु कथ दुष्टता भिन्नकालसंभिन्नाद्धर्मादतिरिक्तमुपातं प्रेतीयमानं वा कंचित् साधारणं धर्ममुपादायोपमापर्यवसाने पश्चाद्विन्नकालादिसंभिन्नधर्मान्वयात् । तथाहि। 'विभ्राजसे' इत्यत्र विविक्तमूर्तित्वादिना लतानायिकयोरुपमापर्यवसाने पश्चात् 'विभ्राजसे' इत्यस्य नायिकामात्रान्वयेऽपि ने दोषः" इति प्रदीपः । (नन्विवपदेन धर्मान्तरेणैव साम्यं बोध्यता मुपात्तधर्मस्तूपमेये एवान्वेत्विति कथं लिङ्गादिभेदो दोष इति शङ्कते नन्विति । अतिरिक्तं कालविशे- षाद्यनवरुद्वम्। उपात्तम् उच्चारितपद्बोध्यम्। प्रतीयमानम् अध्याहारलभ्यम्। न दोष इति। एवं काम इवायं राजा भातीत्यादौ सौन्दर्यादिनानुपात्तेन साम्यप्रतीतौ पश्रात् क्रियालम्यकालमेदो यथा कामोSभात् एवमयं भातीत्याकारो न दोषः कामसदृशसुन्दरोऽयं भातीति प्रतीतेः) इत्युद्योतः । ननु यत्र नास्ति समानधर्मान्तरम् अपि तु तिङन्तवाच्यमेवौपम्ये घटकम् यथा 'युधिष्ठिर इवायं सत्यं वदति' इति तत्र का गतिः । युधिष्ठिरो हि सत्यमवादीन्न तु सत्यं वदति। तथा चात्रोपात्तं 'सत्यं वदति' इति सत्यवदनकर्तृत्वमेव साधारणो धर्मः। स च वस्तुगत्या भिन्नकालक एवेति कथमत्र पूर्वोक्तं समाधानमित्याह यत्रापीत्यादिना 'युधिष्ठिर इवायं सत्यं वदतीति' इत्यन्तेन। उक्तमत्र चक्रवर्ति- भट्टाचार्यैः "ननु यत्र कालवविशिष्टेनोपात्तेनैव साधारणधर्मेणोपमानिर्वाहस्तत्र नेदं समाधानमित्याह यत्रा- पीति" इति। यत्र साधारणधर्मान्तरासत्त्वस्थले। अपिः पूर्वोक्तसमुच्चये। उपात्तेनैव। भिन्नकालादि- तया उच्चारितशब्दप्रतिपादितेनैव। सामान्यधर्मेण साधारणघर्मेण। अवगम्यते ज्ञायते। उदाहरति यथा युधिष्ठिर इत्यादि। अत्र 'सत्यं वदति' इत्युपात्त एव साधारणो धर्मः ।स च "वर्तमाने लट्ू" (३।२।१२३ ) इति पाणिनिसूत्राद्वर्तमानकाला वरुद्ध एवेति ा भिन्न का ल एवं युधिष्ठिरे वर्तमानसत्य - वचनाभावात्। धर्मान्तरं तु नास्त्येवेति भावः। निर्दोषत्वमुपपादयति तत्रेत्यादिना । सत्यवादीति।

१ प्रतीयमानं वेति। 'प्रतीतं वा' इति क्वचित्पाठः ॥ २ न दोष इति । 'को दोषः' इति क्वचित्पाठः ॥ ३ पूर्वोक्तमिति। नन्वित्यादिना 'न कश्ित्कालादिभेदोऽस्ति' इत्यन्तेन ग्रन्थेनोक्तमित्यर्थः ॥

Page 841

७८२ काव्यप्रकाशः सटीकः ।

आशङ्गनीयम रैपोषं पुष्णातीतिवत् युधिष्ठिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्। सत्यमेतत् किंतु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यम् प्रस्तुतवस्तुप्रतीतिव्याघा- तादिति सचेतस एवात्र प्रमाणम्॥।

अत्र "सुप्यजातौ णिनिस्ताच्छील्ये" (३२७८) इति पाणिनिसूत्रेण ताच्छील्ये त्रैकालिको णिनि- प्रत्ययः सत्यवदनशील इत्यर्थः । सत्यवदनशीलत्वं धर्मान्तरं इवशब्दार्थ इति भावः। प्रतिपत्स्यामहे इति। ज्ञास्यामहे इत्यर्थः । तथा च 'सत्यं वदति' इति न साधारणधर्मवाचकम् किंतु प्रतीयमानं (अध्याहृतं ) सत्यवादीति पदम्। एवं च युधिष्ठिर इव सत्यवइनशीलोऽयममिति तच्छीलत्वस्यातीतादि- कालेष्वषि साम्यादुपमा न तु वर्तमानेन सत्यवदनेन योगात् येनातीते युधिष्ठिरे तद्वाधात्कालभेदः स्यादिति भावः। उक्तं च चक्रवर्तिभट्टाचार्यैः "अनर्दिष्टार्थाः प्रत्ययास्त्रिष्वप कालेषु भवन्ति' इति न्यायात्सत्यवादित्वमतीतादिसाधारणमेव प्रतीयते इति न वर्तमानकालननियन्त्रितमित्यर्थः" इति। ननु सत्यवादित्वमात्रेणोपमायां 'सत्यं वदति' इति पुनरुक्तं स्यादत आह सत्यवादी सत्यं वदतीति। पौनरुक्त्याभावे दृष्टान्तमाह रैपोषं पुष्णातीति । अत्र "स्वे पुषः" (३।४।४०) इति पाणिनिसूत्रेण रशब्दे उपपदे पुषधातोर्भावे णमुल्प्रत्ययः । "कषादिषु यथाविध्यनुप्रयोगः " इति पाणिनिसूत्रेण पुष्णा- तीति पुषधातोरेवानुप्रयोग इति बोध्यम्। रैपोषं पुष्णातीत्यत्र यथा काशिकान्यासकारादिमते धन- करणपोषणाभिन्ना पुष्टिरिति रीत्या धात्वर्थस्य सामान्यविशषभावेन विशेषणविशेष्यभावान्न पौन- रुक्त्यम् तथात्रापीत्यर्थः । अत्र "युधिष्ठिर इवेत्यनेन सत्यवद्नस्वभावत्वं प्रतीयते" इति विवरणम्। "रैपोषमित्यत्रार्थव्ययन पोषणस्येवात्राप्याजानिकसत्यवादित्वस्य प्रतीतेर्न पौनरुक्त्यं दोषः" इति प्रदीपः । (अर्थव्ययेनेति। न कार्पण्येन यथाकथंचिदित्यर्थः । धनकृतं पोषणमित्यर्थलाभाय रैपोष- मित्युक्तेर्न वैयर्थ्यम्। रैपोषमित्यत्र पुषेः प्रयोगः साधुत्वार्थ एव। आजानिकेति। स्वाभाविकेत्यर्थः । यथा युधिष्ठिरो लोभादिना न सत्यं वक्ति किंतु ताच्छील्यात् तथायमपीत्यर्थलाभान्न वैयर्थ्यमिति भावः। एवं गङ्गेवेत्यादावत्युज्ज्वलेत्यादिपदाध्याहारेण दोषोद्धार इत्याशयः ) इत्यु्योतः। (पोषणसामान्येन धनव्ययकृतपोषणाभेदबोधार्थतया नानुप्रयोगे पौनरुक्त्यदोषः एवं सत्यवदनसामान्यस्य स्वाभाविक- यधिष्ठिरसंबन्धिसत्यवदनरूपताबोधरूपप्रयोजनसत्त्वान्न पुनरुक्तदोष इत्यर्थः) इति प्रभा। "यद्यपि रैपोषमित्यत्रानुप्रयोगस्य निराकाङ्कत्वेऽप्यानुशासनिकत्वेन प्रयोगसाधुत्वात् राया पुष्णातीत्येवान्वयबोधः तत्र च न पौनरुक्त्यम् प्रकृते च तदभावात्पौनरुक्त्यमेव भवितुमर्हतीति न दृष्टान्तसंगतिः तथापि 'घटेन घटवद्धूतलम्' इतिवत् सत्यवदनेन सत्यवादति न निराकाद्वत्वमिति शब्दाधिक्येऽपि न निराकाद्कत्व- मिति अत्र दृष्टान्त इति ध्येयम् " इति चक्रवर्ती। "यद्यपि राया धनेन पोषययित्वेति रैपोषं यथा स्यात्तथा पुष्णातीत्यनुप्रयोगानुशासनान्न पौनरुक्त्यं प्रकृते च तद्भावात्पौनरुक्त्यमेव तथापि 'घटेन घटवद्दूतलम्' इतिवत् सत्यवदनेनायं सत्यवादीति न पौनरुक्त्यमिति ध्येयम्। तत्र पोषणवदत्र सत्य- वदनमात्रेणोपमा तेन कालादिभेदो न दोष इति महाशङ्कार्थः " इति कमलाकरभट्टः ॥

१ इति सूत्रेणेति। अजात्यर्थे सुपि उपपदे धातोः कर्तरि णिनिः स्यात्ताच्छील्ये द्योत्ये इति सूत्रार्थः । यथा उष्णभोजी शीतभोजी। अजातौ किम् ब्राह्मणानामन्त्रयिता। ताच्छील्ये किम् उष्णे भुङ्गे कदाचित् ॥ २ सूत्रेणेति । अत्र "करणे हनः" (३।४।३७) इति सूत्रात् करणे इत्यनुवर्तते स्वे इत्यर्थग्रहणम् तेन स्वरूपे पर्यांये विशेषे चोपपदे णमुलू। स्वपोषं पुष्णाति धनपोषं पुष्णाति गोपोषं पुष्णातीत्युदाहरणानि॥ 3 इति सूत्रेणेति। व्याख्यात- िदं प्राक् ५७२ पृष्ठे ॥ पोषणवदिति। अस्य 'न दोषः' इत्यत्रान्वयो विवक्षित इति भाति॥

Page 842

दशम उल्लास: । ७८३

असादृश्यासंभवावव्युपमायाम् अनुचितार्थतायामेव पर्यवस्यतः। यथा ग्रभ्नामि काव्यशशिनं विततार्थरहमिम् ॥ ५९७॥ अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्य कुत्रापि न प्रतीतमित्यनु चितार्थत्वम्। निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाज: परिवेषिणोऽर्कात् ॥५९८॥

एताद्ृशान्वयाध्याहारादिकल्पनमानुभाविकमित्याशयवान् अर्धाङ्गीकारेण परिहरति सत्यमेतदिति। सत्यमित्यर्धाङ्गीकारे। स्थितेष्विति। रैपोषमित्यादिषु साधुत्वार्थ नियमितेषु अनुप्रयोगेषु कथंचित्स- मर्थनं नतु सर्वथैव तन्निरवययं निर्दोषमित्यर्थः । तत्र हेतुमाह प्रस्तुतेति। प्रस्तुतस्य प्रक्रान्तस्य वस्तुनः उपमायाः (साधारणधर्मस्य झटिति प्रतीत्यनुदयेन) प्रतीतेर्विलम्बरूपाद्विघातादित्यर्थः । तथा चौपम्य' प्रतीतौ कालादेरेकमात्रान्वयित्वादन्यत्र भङ्गेन भग्नप्रक्रमत्वानपाय एवेति भावः । सचेतसः सह दयाः। अत्र उक्तेऽर्थे प्रमाणं साक्षिणः। व्याख्यातमिदं प्रदीपोद्दयोतादिषु "किंतु स्थितेष्वनु- प्रयोगेषु क्वचित्तथा पुनरुक्तिमात्रसमर्थनं नतु सर्वथैव तन्निरवद्यम् प्रस्तुतस्य रसादेः प्रतीतिस्खल- नात्। न च तदसिद्धम सहृद्यवेद्यत्वात् । किं चोपात्तधर्ममनादृत्य प्रतीतेन धर्मेणोपमेति तुच्छम् उपात्तक्रिययैव तद्विवक्षणात् उपस्थितसाधारणधर्म विहायानुपस्थितसाधारणधर्मकल्पने श्रतहान्यश्षत- कल्पनाभ्यामास्वादप्रकर्षप्रतिबन्धात्। एवं च 'गङ्गेव प्रवहतु' इत्यादौ अत्युज्ज्वलेत्यादिपदाध्या- हारे दोषोद्धारेऽपि न सर्वथा निरवद्यता" इति। चक्रवर्त्यादयस्तु 'घटेन घटवद्भूतलम्' इत्यादौ लौकिकवाक्ये यथाकथंचित्समर्थनेऽपि काव्ये कथिेतपदत्व्रापुष्टार्थत्वादिदोषो दुर्वार एवेति दिगित्याहकः॥

असादृश्यासंभवयोरुपमादोषयोरनुचितार्थतायामन्तर्भावमाह असादृश्येति "अनुचितार्थ- तायामिति। इदमापाततः वस्तुतस्तु अप्रयुक्तत्वमेवात्र दोषः अन्यथा कष्टार्थोदाहरणे 'महाकाव्य- व्योम्ि' (३८१ पृष्ठे) इत्यादौ यथाकर्थंचित्साधर्म्येणेवात्राप्याह्लादकत्वादिना काव्यशशिनोरौप- म्याक्षतेरिति मन्तव्यम् " इति चक्रवर्ती। पर्यबस्यतः अन्तर्भवतः॥

असादृश्यरूपदोषस्यानुचितार्थतायामन्तर्भावे उदाहरति ग्रभामीति । वामनसूत्रवृत्तौ द्वितीयेऽ- ध्याये चतुर्थेऽधिकरणे उदाहृतपद्यखण्डमिदम्। काव्यं शशीव अर्था रशमय इवेत्युपमितसमासोऽयम्। न च काव्यमेव शशीत्यादिरीत्या रूपकसमास एवास्तु रूपकस्यापि सादृश्यमूलकत्वात्तत्राप्ययं दोष: संभवतीति वाच्यम् ग्रथ्नामीति बाधकावतारादिति बोध्यम्। काव्यस्य शशिनेत्यादि। अत्र यद्वक्तव्यं तत्प्रागेव (५४२ पृष्ठे) प्रसङ्गादुक्तम् । साधर्म्य साधारणधर्मसंबन्धः । कुत्रापि न प्रतीतमिति। न क्वापि प्रसिद्धमित्यर्थः । एवं च काव्यशशिनोरर्थरशम्योश्र साधर्म्यस्यैवाभावेन साधर्म्य- प्रयोज्यस्य सादृश्यस्य सुतरामभाव इति तत्रोपमानिबन्धनमनुचितार्थत्वमेवेति भावः। अत्रोक्तं सर- स्वतीतीर्थेन "न चार्था रशमय इव प्रीतिदायिन इति साधर्म्यसिद्धेः काव्यशशिनोरपि तत्सिद्धिरिति चेन्मैवम् इतरेतराश्रयपराहतत्वात् " इति॥

असंभवरूपदोषस्यानुचितार्थतायामन्तर्भावे उदाहरति निपेतुरिति। धनुर्मण्डलमध्यभाजः धनुर्मण्डल- मध्यगतस्य तस्य राज्ञः आस्यात् मुखादिवेत्युत्प्रेक्षा तूणाद्वाणाकर्षणे विलम्बः स्यादिति भावः दीप्ता: शरा: बाणाः निपेतुः। दिनार्धभाजः मध्याह्नगतात् परिवेषिणः परिवेषशालिनः। अभितः कदाचिद्-

Page 843

७८४ काव्यप्रकाशः सटीकः।

अत्रापि ज्वलन्त्योडम्बुधारा: सूर्यमण्डलात् निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमा- नोडथोऽनौचित्यमेव पुष्णाति॥ उत्प्रेक्षायामपि संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दीऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयिंतुं पर्याप्तत्वात तस्य चास्यामविवाक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः। यथा उदयौ दीर्िकागर्भात् मुकुलं मेचकोत्पलम्। नारीलोचनचातुर्यशङ्गासंकुचितं यथा॥५९९॥ उत्प्रेक्षितमपि तात्विकेन रूपेण परिवर्जितत्वात निरुपाख्यप्रख्यम तत्समर्थनाय यत

दृश्यमान: कुण्डलाकारतेजोविशेषः परिध्यपरपर्यायः परिवेषः। "परिवेषस्तु परिधिरुपसूर्यकमण्डले" इत्यमरः । अर्कात् सूर्यात् जाज्वल्यमानाः अतिशयेन ज्वलन्त्यः वारिधारा इवेत्यर्थः। अत्र धनुर्म- ण्डलं परिवेषश्र बिम्बप्रतिबिम्बभावापन्ने। उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे।

अत्रोपमानाप्रसिद्धिर्दोषः । स चोक्तायामनुचितार्थतायां पर्यवस्यति। तदेवाह अत्रापीति। न संभवन्तीति। मेघमण्डलापेक्षया ऊर्ध्व सूर्यमण्डलस्य स्थितत्वादिति भावः । अर्थः उपमानरूपः । अनौचित्यमेव। अनुचितत्वमेव । अत्र 'उपमेयस्य' इत्यादिः । पुष्णाति प्रकाशयति। तथा चानुचितार्थतायामेव पर्यवसानमिति भावः । "अनौचित्यमिति। अप्रयुक्तत्वसांकर्यमप्यत्रेति बोध्यम्" इत्युद्योतः । अत्र जान्वल्यमानाः वारिधारा उपमानतया नोपपय्न्ते इत्यनुचितार्थत्वदोषः" इति प्रभा॥

उत्प्रेक्षादोषस्याशक्तशब्दत्वस्यावाचकत्वेऽन्तर्भावमाह उत्प्रेक्षायामित्यादि। ध्रुवेवादय इति। आदिना मन्येशङ्गेअवैमिनूनमित्यादिपरिग्रहः। सहन्ते इति। समर्थाः भवन्तीत्यर्थः। 'उत्सहन्ते' इति प्रदीपे पाठः । केवलस्येति। पदान्तरेणासमस्तस्येत्यर्थः समस्तस्य तु यथाकालं यथोत्तरं यथाशक्ति इत्यादिषु क्रमेण योग्यतावीप्सापदार्थानतिवृत्तिरूपान्यार्थकत्वमस्त्येवेति भावः । प्रति पादितमिदं प्राक् (५५८ पृष्ठे २ टिप्पणे ) इति बोध्यम्। अस्य यथाशब्दस्य। साधर्म्य साधारण- धर्मसंबन्धम् । पर्याप्तत्वात् समर्थत्वात्। तस्य च साधर्म्यस्य च। अस्याम् उत्प्रेक्षायाम्। तत्र संभावनाभिधाने। अस्य यथाशब्दस्य । अवाचकत्वमिति। उत्प्रेक्षायां यथाशब्दोपादानेऽवाच- कत्वमेवेत्यर्थः ॥

उदाहरति उद्ययाविति। मुकुलं मुकुलभावापन्नं मेचकोत्पलं नीलोत्पलं नारीलोचनचातुर्यशङ्क- संकुचितं यथा सुन्दरीनयनचातुर्यमधिकमिति शङ्कया संकुचितमिव दीर्घिकागर्भात् वापीमध्यात् उदयौ उद्गतम् प्रादुरासीदित्यर्थः । "मेचकः कृष्णनीलः स्यादतसीपुष्पसंनिभः" इति शब्दार्णवः । "वापी तु दीर्धिका" इत्यमरः। अत्र यथाशब्दस्योत्प्रेक्षायामवाचकत्वमेव दोषः । 'नारीलोचनचातुर्य- शङ्कासंकुचितं ध्रुवम्' इति युक्तः पाठः ॥

निर्विरषयत्वमपि उत्प्रेक्षितार्थसमर्थकार्थान्तरन्यासदूषणमनुचितार्थतायामन्तर्भवतीत्याह उत्प्रेक्षितम- पीति। संभावितमपीत्यर्थः। तातत्विकेन वास्तविकेन। परिवर्जितत्वात् रहितत्वात्। निरुपाख्योते। निरुपाख्यम् अलकिं शशविषाणगगनकुसुमादि तत्प्रख्यं तत्तुल्यमित्यर्थः। तत्समर्थनाय उत्प्रेक्षितार्थ-

Page 844

दशम उल्लासः । ७८५

अर्थान्तरन्यासोपादानम् तत् आलेख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषय- त्वमेतस्य अनुचितार्थतैव दोषः। यथा दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्। क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव॥ ६०० ॥ अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम्। संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपतत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः। साधनाय। आलेख्यमिव चित्रमिव नानावर्णलेखनमिवेति यावत्। गगनतले आकाशस्वरूपे । "अधःस्वरूपयोरस्त्री तलम्" इत्यमरः । निर्विषयत्वं नाम दूषणम्। एतस्य अर्थान्तरन्यासस्य । तदुदाहरति दिवाकरादिति। कुमारसंभवे प्रथमसर्गे हिमालयवर्णनमिदम् । यः हिमाद्रि: दिवा दिवसे दिवाकरात् सूर्यात भीतं त्रस्तमिव अत एव गुहासु दरीषु लीनं तिरोभूतम् अन्धकारं ध्वान्तं रक्षति त्रायते। ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्कयार्थान्तरं न्यस्यति श्षुद्रेऽपीति। नूनं निश्चिवितम शरणं प्रपन्ने प्राप्ते क्षुद्रे नीचेऽपि उच्चैः उन्नतं शिरो येषां तादृशानां महताम् अतीव अत्यन्तं ममत्वं ममाय- मित्यभिमानः 'भवति' इति शेषः । अतीवेति निपातसमुदायोऽत्यन्तारथें। 'सतीव' इति पाठे क्षुद्रेऽपि सति सज्जने इवेत्यर्थः । ममत्वमित्यत्र ममेति विभक्तिप्रतिरूपकमात्मीयार्थकमव्ययम् तस्माद्भावे त्वप्रत्ययः । अत्र दिवाकरादित्यादिनाभिहितो विशेष: क्षुद्रेऽपीत्यादिना सामान्येन साधर्म्येण सम- र्थित इत्यर्थान्तरन्यासोSलंकारः । उपजातिश्छन्दः। लक्षणमुक्तं प्राक् ७८ पृष्ठे॥ अत्रेत्यादि। त्रासः चित्तवृत्तिरूपं भयम्। "दरत्रासौ भीतिर्भीः साध्वसं भयम्" इत्यमरः । तत्प्रयोजितं त्रासनिमित्तकम्। अद्रिणा परित्राणं हिमालयकर्तृकं रक्षणम्। नन्वद्रिकर्तृकं तत्प- रित्राणमप्युत्प्रेक्षितमुच्यते चेतनधर्मस्य परित्राणस्याचेतनेSद्रावसंभवादित्यत आह संभावितेनेति। उत्प्रेक्षितेनेत्यर्थः । प्रतिभासमानस्य प्रतीयमानस्य। अस्य अद्रिकर्तृकपरित्राणस्य तद्रपस्य वाक्यार्थस्य। व्यर्थ एव निष्फल एव। तत्समर्थनायां अद्रिकर्तृकपरित्राणसमर्थने। यत्नः अर्थान्तरन्यासरूपः ॥

अयं च वृत्तिग्रन्थो बहुभिर्व्याख्यातः। तथाहि। "तमसस्त्रास एवासंभवीः तमसोSचेतनत्वात् तत्कथं तत्प्रयुक्तमद्रिणा तत्परित्राणम्। उत्प्रेक्षितत्रासवत्तया प्रतीतस्यास्य न काचिदनुपपत्तिरव- तरतीति व्यर्थ एव तत्समर्थनाय यत्नः" इति प्रदीपः । अत्र हि प्रदीपे 'उत्प्रेक्षितत्रासवत्तया' इत्यत्र 'उत्प्रेक्षितत्राणवत्तया' इति क्वचित्पाठः स एवोहचोतसंमतः। तथाहि (तत्परित्राणमिति। अद्रे- रप्यचेतनत्वादिदमप्युत्प्रेक्ष्यम् त्रासस्य चित्तवृत्तिविशेषरूपस्य तत्परित्राणस्य च चेतनधर्मत्वात्। तदाह उत्प्रेक्षितत्राणवत्तयेति ) इत्युश्योतः । "अत्रोत्प्रेक्षाविषयस्य तमसो भयस्यालीकतया तन्मूलस्यार्थान्तरन्यासस्य निर्विषयत्वं दोष:" इति चन्द्रिका। "अनुपपत्तिवारणार्थ हि अर्थान्तरमुपन्य- स्यते। न चात्रानुपपत्तिः अनवधारितस्वरूपत्वादस्य। निश्रितस्वरूपस्यैव हि उपपादनमुचितम्। यत्र तु अतात्त्विकमपि कविप्रौदोक्त्या निश्वितस्वरूपं तत्र 'सुसितवसनालंकारायाम्' (६६२ पृष्ठे)

१ 'तत्समर्थनायाम्' इति क्वचित्पाठः ॥ ९९

Page 845

७८६ काव्यप्रकाशः सटीकः ।

साधारणविशेषणवशादेव समासोवितिरनुक्तमपि उपमानविशेष प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत् तत् अपुष्टार्थत्वं पुनरुक्त वा दोषः। यथा स्पृशति तिग्मरुचौ ककुभ: करैर्दयितयेव विजृम्भिततापया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रया॥ ६०१॥ अत्र तिग्मरुचे ककुभचयथा सविशेषशेन्य्तिविशेषपरिग्रहेण च नाय कतया नायिकात्वेन च व्यक्तिः तथा ग्रीष्मदिवसश्रयोऽपि प्रतिनायिकात्वेन भविष्यतीति किं दतितयेति स्वशब्दोपादानेन। श्लेषोपमायास्तु स विषयः यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः। यथा

अतात्त्विकस्यापि समर्थनं न दोषायेति बोध्यम्" इति विवरणम्। "अत्र स्वतःसंभवित्वपक्षे दूषण- मिदम् कविप्रौढोक्तिनिष्पन्नत्वपक्षे तु न दोषः 'पीलणभीअव्व' इत्यादौ (१४१ पृष्ठे ) उत्प्रेक्षायाः स्वयमुदाहृतत्वादिति यत् भ्रान्तसमाधानं तन्मन्दम् उत्प्रेक्षासमर्थकार्थान्तरन्यासस्यैवात्र दूषित- त्वात् उत्प्रेक्षायाः पुनरदुष्टत्वादवेति। कुत एव तदिति। तथा चायमाहार्यारोप एवेति भावः।" इति विस्तारिकेत्यलम् । अथ समासोक्तौ उपमानविशेषोपादाने अनुपादेयत्वं दोषः स चापुष्टार्थत्वे पुनरुक्तत्वे वा अन्तर्भ- वतीत्याह साधारणेति। सदशविशेषणबलादेवेत्यर्थः। तस्य उपमानविशेषस्य। अत्र समासोकतौ। अपुष्टार्थत्वमित्यादि। प्रतीतस्यापि पुनरुपादानं न प्रस्तुतार्थ पुष्णातीत्यपुष्टार्थत्वम्। यदि अर्थतः प्रतीतस्यापि उपादाने पुनरुक्तिस्तदा अर्थपुनरुक्तत्वं दोष इति प्रदापादौ स्पष्टम् ।। तदुदाहरति स्पृशतीति। रत्नाकरकविकृते हरविजयकाव्ये तृतीये सर्गे ग्रीष्मवर्णनमिदम। तिग्मरुचौ सूर्ये ककुमः दिशः करै; स्पृशति सति विजृम्भिततापया विवृद्धतापया दयितयेत्र दिन- श्रिया ग्रीष्मदिवसशोभया अतनुर्दीर्घों मानपरिग्रहो यस्यास्तथाभूतया स्थितमित्यन्वयः। कराः रशमयो हस्ताश्ष। तापो ज्वाला खेदश्र। मानं परिमाणं मान: कोपश्र। किंभूतया चिरया दर्घया चिर कालीनया च। रुचिरया मनोहरयेत्यर्थः । द्रुतविलम्बितं वृत्तम्। लक्षणमुक्तं प्राक् ८३ पृष्ठे॥ अत्र समासोक्तौ श्लिष्टविशेषणबलेन लिङ्गविशेषवशेन च तिग्मरुचेर्नायकत्वेनः ककुभां च नायि- कात्वेनाभिव्यक्तिवत् ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेनाभिव्यक्तिसंभवात् दयितयेत्यपुष्टार्थम्। तदेवाह अत्रेत्यादिना। सहशविशेषणेि। तिग्मरुचेः करेण स्त्रीस्पर्शकारित्वं नायकोचितं विशे- षणम् ककुमां च करेण पुरुषस्पृश्यत्वं नायिकायोग्यं विशेषणमित्यर्थः । व्यक्तिविशेषेति। लिङ्ग- विशषपरिग्रहणेनेत्यर्थः तिग्मरुचे: पुंलिङ्गयोगेन ककुभां च स्त्रीलिङ्गयोगेनेति यावत्। व्यक्तिशब्दस्य स्त्रीपुन्नपुंसकाख्यलिङ्गपरत्वं "लुपि युक्तवद्यक्तिवचने" (१।२।५१) झत पाणिनिसूत्रे "कालो व्यक्तिः स्वरादयः " (६४ पृष्ठे) इति भर्तृहरिकारिकायां च सुप्रसिद्धम्। व्यक्तिरिति। अभिव्य- क्तिरित्यर्थः प्रतीतिरिति यावत् । तथा तद्त् । ग्रीष्मदिवसश्रियोऽपीति । तत एवेति शेषः । अतनुमानपरिग्रहयेति विशेषणात् स्तरीलिङ्गाच्चत्यपि बोध्यम्। प्रतिनायिकात्वनेति । अभिव्य- क्तिरिति शेषः । स्वशब्दोपादानेन उपमानशब्दग्रहणेन ॥ ननु 'स्पृशति तिग्मरुचौ' इत्यत्र यथा दयिते दयतां करैः स्पृशति सति दयितान्तरस्य तापः तथा

Page 846

दशम उल्लास: । ७८७

स्वयं च पल्लवाताम्रभास्वत्करविराजिता। प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥६०२॥ इति। अप्रस्तुतप्रशंसायामपि उपमेयम् अनयैव रीत्या प्रतीत न पुनः प्रयोगण कदर्थता नेयम्। यथा आहूतेषु विहंगमेषु मशको नायान पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम्।

रवौ करैः दिशः स्पृशति सतिः ग्रीष्मदिवसश्नियोऽपि तापः इत्येवं श्लषात् श्लेषोपमैवेयं स्यात् न तु समासोक्तिः तथा चोपादेयमेव दयितयेति पदमित्यत आह श्लषोपमायास्त्विति। श्लेषमूलको- पमायास्त्वित्यर्थः । स विषयः तत् स्थलम् । उपमानस्येति । अस्य 'न तथा प्रतीतिः' इत्यत्रा- न्वयः । उपादानमिति। अर्थादुपमानस्येति बोध्यम्। अन्तरेण विना। साधारणेष्वपि श्लिष्टेष्वपि। न तथा प्रतीति: न पूर्वोदाहरणवत् स्फुटा प्रतिपत्तिः। पूर्वोदाहरणे उपमानस्योपादानं विभापि लिङ्गविशेषादिना यथा उपमानस्य स्फुटा प्रतीतिर्भवति तथा नेति भावः । अत एवाहुः प्रदीपकाराः "न स्फुटा प्रतिपत्तिः" इति॥ श्लेषोपमामुदाहरति स्वयं चेति। नवमोल्लासे (५१९ पृष्ठे) व्याख्यातमिदम्। अत्र श्लेषोपमा प्रभातसंध्येवेत्यस्योपादानं विनोपमानाप्रतीतेरिति बोध्यम्। तदेतत्सर्वमाहुश्रकरवर्तिरभट्टाचार्याः "नन्वयं श्लेषोपमाया एव विषयोऽस्त्वित्यत आह श्लेषेति। न तथा प्रतिपत्तिरिति । इदमत्राँभिसंहितम्। यत्रो- पमानस्य स्वपदोपादानेऽपि न समासोक्तिभङ्गस्तत्रावश्यकसमासोक्त्यैव चमत्कारादुपमानस्य स्वशब्दो- पादानं व्यर्थम् यथोदाहते स्पृशतीत्यादौ। अत्र हि दयितयेत्युपादानेऽपि तिग्मरुचेर्नायकत्वं दिवस श्रियश्र प्रतिनायिकात्वं यथायोग्यविशेषणवशेन प्रतयित एवोते समासोक्तेरावश्यकत्वम् । यत्र तूपमानो- पादाने समासोक्तिर्निवर्तते तत्रोपमाया एव चमत्कारनिर्वाहकत्वादुपादेयमेवोपमानम् यथा स्वयं चेत्यादौ। अत्रोपमानोपादाने समासोक्त्यप्रतीतेरिति दिक" इति। उद्योतकारा अप्याहुः "अयमाशयः। यत्रोपमानस्य स्वपदेनोपादानेऽपि न समासोक्तित्यागस्तव्रावश्यकसमासोक्त्यैव निर्वाहे उपमानपदोपा दानं व्यर्थम् यथा स्पृशतीत्यादौ। अत्र दयितयेत्युपादानेऽपि रवेर्नायकत्वं ककुमां नायिकात्वं च समा- सोक्त्यैवेति तस्या आवश्यकत्वम्। यत्र तूपमानपदोपादाने समासोक्तिनिवृत्तिस्तदनुपादाने च यत्रो- पमान [ना] प्रतीतिः उपात्तसाधारणधर्माणामुपमेयमान्रान्वितैव प्रतीतेः तनोमाया एव चमत्का रित्वाय देयं तत्पदम् यथा स्वयं चेत्यादौ। अत्रोपमानपदोपादाने समासोक्तित्यागादिति" इति॥

अप्रस्तुतप्रशंसायामपि साधारणविशेषणैः प्रस्तुतस्य प्रतीतौ पुनः स्वपदोपादानस्य यद्वैयर्थ्य तदपु- षार्थत्वमेव दोष इत्याह अप्रस्तुतेत्यादिना । उपमेयं प्रस्तुतमित्युद््योते स्पष्टम्। अनयैव रीत्येति। 'साधारणविशेषणबलात्' इति समासोक्तिदूषणोक्तरीत्येत्यर्थः । प्रभायां तु "श्लिष्टसाधारणादिविशे- षणसामर्थ्येनेत्यर्थः" इति व्याख्यातम्। प्रतीतम् अभिव्यक्तम्। कदर्थतां दुष्टताम्। पुनःप्रयोगे- णापुष्टार्थतां न नेयं न प्रापणीयम तेन स एव दोष इति भावः । व्याख्यातामदं प्रदीपे "अप्रस्तुतप्र- शंसायामपि उपमेयस्योपादानवैयर्थ्य यत्तदपुष्टार्थत्वमेव दोषः तत्राप्युपमेयमनयैव रीत्यावगन्तव्यम् न पुनः प्रयोगेण दुष्टतां नेयम्" इति॥

तदुदाहरुति आहूतेष्विति। भल्लटकविकृते भल्लटशतके ६९ तमं पद्ममेदम्। अविवोकेनः प्रभो-

Page 847

७८८ काव्यप्रकाशः सटीकः ।

खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिकू सामान्यमचेतन प्रभुमिवानामृष्टतत्वान्तरम् ॥ ६०३॥ अत्र अचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यकतौ न युक्तमेव पुनः कथनम्। तदेतेडलंकारदोषाः यथासंभविनोऽन्येऽप्येवंजातीयकाः पूर्वोक्तयैव दोषजात्या अन्त- भाविताः न पृथक् प्रतिपादनमर्हन्तीति संपूर्णमिदं काव्यलक्षणम्।। रनिन्देयम। अत्र आद्यपादत्रयेऽपि 'यत्र' इत्यादिः। तथा च यत्र यस्मिन् सामान्ये विहंगमेषु विहा- यसा गच्छन्तीति विहंगमा: पक्षिणः तेषु आहूतेषु आकारितेषु सत्सु पुरः अग्रे आयान् आगच्छन् मशकः मक्षिकातोऽप्यतिलघुः कीटविशेषः न वार्यते नोपरुध्यते तस्यापि विहंगमत्वादिति भावः । तथा यत्र सामान्ये तृणमणिः मध्येवारिधि वारिधिमध्ये वावसन् अतिशयेन वसन् मणीनां पझमरागमर- कतादीनां रत्नानां रुचं कान्ति 'धुरम' इति पाठे प्रतिष्ठाभारं धत्ते धरति। स्वस्यापि मणित्वादिति भावः। तथा यत्र सामान्ये खद्योतः ज्योतिरिङ्गणापरपर्यायः कीटविशेषोऽपि तेजस्विनाम् अग्निसूर्यादीनां मध्ये अपिशब्दादग्रे वा प्रचलितुं गन्तुं न कम्पते न बिभेति। स्वस्यापि तेजस्वित्वादिति भावः । एतत् सामान्यं समानधर्मवत्त्वं (विहंगमत्वादिमत्त्वं) धिक इत्यन्वयः । कीदशं सामान्यम् अचेतनं विवेकशून्यम् अत एव अनामृष्टम् अनालोचितं तत्त्वान्तरं स्वरूपतारतम्यं येन तादृशम्। यद्वा अनामृष्टतत्त्वान्तरम् अशोधितवस्तुस्वरूपमित्यर्थः । कमिव अचेतनम् अनामृष्टतत्त्वान्तरं प्रभुमिवे- त्यर्थः । मध्येवारिधीति "पारेमध्ये षध्चा वा" (२।१।१८) इति पाणिनिसूत्रेणाव्ययीभावः समासः । 'बावसन्' इति यङ्लुकि रूपम्। 'मध्ये वा धुरि वा वसन्' इति पाठे मणानां मध्ये धरि अन्ते वा वसन् निवसन्नित्यर्थः । तृणापकर्षको मणिविशेषः तृर्णमणिः। तथा च वर्णितं भल्लटशतके भल्लट- कविना "चिन्तामणेस्तृणमणेश्र कृतं विधात्रा केनोभयोरपि मणित्वमदः समानम्। नैकोरऽर्थितानि दददार्थेजनाय खिन्नो गुह्लअ्जरत्तृणलवं तु न लज्जतेऽन्यः ॥" इति। उद््योतादिषु तु 'तृणमाणः प्रवालं काचमणिर्वा क्षुद्रमणिवां' इति व्याख्यातम्। 'अचेतनम्' इत्यत्र 'अचेतसम्' इति क्वचित्पाठः । "खद्योतो ज्योतिरिङ्गणः" इत्यमरः। शार्दूलविक्रीडितं छन्दः। लक्षणमुक्तं प्राक् १८ पृष्ठे॥ अत्र तादशं सामान्यं धिगित्येतावतैवाविवेकिनः प्रभोरवगतिसंभवात्पुनस्तदुक्तिरयुक्तेति अपुष्टा- र्थत्वं पुनरुक्तत्वं वा अप्रस्तुतप्रशंसायां दोषः । तदेवाह अत्रेत्यादि। अप्रस्तुतेति। अप्रस्तुतं यत् विशिष्टं विशेषणयुक्तं सामान्यं तद्द्वारेण तन्मुखनेत्यर्थः । अभिव्यक्तौ। प्रतीतौ सत्याम् । व्याख्यातमिदं प्रदीपोद्योतयोः । "अत्राचेतसः प्रभोरुपमेयस्याप्रस्तुतनिष्ठसामान्यद्वारेणाभिव्यक्तिसंभ- वादयुक्तमेव शब्देन कथनमित्यपुष्टार्थत्वं पुनरुक्तता वा" इति प्रदीपः । (अप्रस्तुतनिष्ठसामान्येति। अनाकलितविशेषत्वरूपेत्यर्थः ) इत्युद्द्योतः॥ अलंकारदोषाणामुक्तदोषेष्वन्तर्भावमुपसंहरति तदिति। तस्मादित्यर्थः । एते उक्ताः। अन्येऽपि रुद्रटायैरुक्ताः। एवंजातीयका इति। उपमायामुपमाविरुद्धोकतिः यथा 'दिलीप इति राजेन्दुरिन्दु: क्षीरनिधाविव' इत्यत्र राजनि इन्दुतादात्म्यारोपः उपमाविरुद्धः । तथा समासोक्तौ नपुंसके नायकव्य- बहारसमारापः। यथा 'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यस्य स्थाने 'ऐन्द्रीमुखं चुम्बतदिं १ लोहापकर्षकवत् (लोहचुमबकवत्) तृणाषकर्षकः पाषाणविशेष इति याव्रत् ॥

Page 848

दशम उल्लास: । ७८९ इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूप: प्रतिभासते यत्। न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतु: ॥।१॥ इति काव्यप्रकाशेऽर्थालंकारनिर्णयो नाम दशम उल्लास:॥

॥। समाप्तश्चायं काव्यप्रकाशः॥ रक्तं सच्चन्द्रमण्डलम्' इत्युक्ते नपुंसके चन्द्रमण्डले नायकव्यवहारसमारोपः। एवं विरोधालंकारे भिन्नाधारयोर्विरोधवर्णनम् । यथा 'या घर्मभासस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधायिभिर्विहन्तुमंहांसि जलैः पटीयसी ।I' इत्यत्र घर्मभासस्तनयात्वादीनां शीतलत्वादीनां विरोध: उक्तः । स च भिन्नाधारतयैव निर्देशान्न संभवति। एकाश्रयत्वेनैव विरोधंस्य निरूपितत्वादिति । तद्ेतत्सर्वमनुचितार्थत्वादावन्तर्भावमर्हतीति स्वयमूहनीयमिति भावः । तदेवाह पूर्वोक्तयैवेति । सप्तमोल्लासोक्तयैवेत्यर्थः । संपूर्णमिति । लेशतोऽपि न्यूनताविरहादिति भावः । काव्यलक्षणमिति। काव्यं लक्ष्यते स्वरूपतो विशेषतश्र ज्ञाप्यतेऽनेनेि प्रकृतग्रन्थरूपमित्युद्दयो- तादौ स्पष्टमिति शिवम्।।

इत्येष इति। एषोऽद्धुतोऽलंकाराध्वा विभिन्नोऽपि नानाग्रन्थगतत्वेन पार्थक्येन स्थितोऽपि यदे- करूपो भाति तत्र संघटनाविसंष्ुलस्य सुखबोधायैकत्र संग्रहणं हेतुः । ग्रन्थाः सर्वेऽप्यत्रान्तर्मग्रा इत्यर्थः । अथ चायं ग्रन्थोऽन्येनारब्धोऽपरेण च समर्थित इति द्विखण्डेपि संघटनावशादखण्डायते सुघटं ह्यलक्ष्यसंधि स्यादित्यर्थ इति माणिक्यचन्द्रकृतसंकेते स्पष्टम् । "ननु पूर्वग्रन्थेषु सत्सु किमने- नेत्यत आह इत्येष इति। एषः मार्गोऽद्भुतं वर्त्म विदुषां ध्वनिकारादीनां नानाग्रन्थतया विभिन्नोऽपि अने- करूपोडपि यत् अभिन्नरूपः प्रतिभासते एकरूपतया यत् भाति न तद्विचित्रम् । यत् यस्मात्कारणात् अमुत्र ग्रन्थे सम्याग्विनिर्मिता संघटना विसंष्ुलस्य सुखप्रतीत्यर्थमेकत्र संग्रहः सैव हेतुः तद्वशादे- कात्मताप्रतीतेः । कृतसर्वसंग्रहार्थोऽयं ग्रन्थः अतो न तैः सिद्धिरिति भावः । अथ च सुधियां विकास- हेतुरयं ग्रन्थ: कथंचिदपूर्णत्वादन्येन पूरितशेष इति द्विखण्डोऽप्यखण्ड इव यद्भाति तत्रापि संघटनैव सन्निमित्तमित्यर्थः" इति सोमेश्वरकृतसंकेतेऽपि स्पष्टम् । व्याख्यातश्रायं श्लोको निदर्शनकारैरपि "विदुषां ध्वनिकृत्प्रभृतािां य एष मार्गः स्वसिद्धान्ततद्ग्रन्थगतः । तेन पृथगवस्थितोऽपि एकरूप- तया प्रतिभाति तत्र संघटनैव निमित्तम् । विक्षिप्तस्य सुखावबोधायैकत्र संग्रहणं संघटना तद्वशादे- कात्मताप्रतिभासात्। एतेन च महामतीनां प्रसरणहेतुरेष ग्रन्थः ग्रन्थकृतानेन (मम्मटेन ) कथम- प्यसमाप्तत्वात् अपरेण च पूरितावशेषत्वात् द्विखण्डोऽपि अखण्डतया यदवभासते तत्र संघटनैव हेतुः। न हि सुघटितस्य संधिबन्ध: कदाचिदपि विलक्ष्यते इत्यर्थशक्त्या ध्वन्यते। यदुक्तम् 'कृतः श्रीमम्मटा- चार्यवर्यैः परिकरावधिः। प्रबन्धः पूरितः शेषो विधायालँटसूरिणा' इति। अन्येनाप्युक्तम् 'कार्व्य- प्रकाश इह कोऽपि निबन्धकृद्धयां द्वाभ्यां कृतेऽपि कृँतिनां रसतत्त्वलाभः । लोकेऽस्ति विश्रतमिदं

१ अन्येनेति। अल्लटसूरिणेत्यर्थः ॥ २ अपरणेति। अल्लटसूरिणेत्यर्थः ॥ ३ अल्लटसूरिणेति । अलकसूरिणेति पुस्तकान्तरे पाठः ॥ काव्यप्रकाश इह कोऽपीति। 'काव्यप्रकाशदशकेऽपि' इति पुस्तकान्तरे पाठः ॥ ५ रुतिना पण्डितानाम् ।। मणाशणी बिद् "निशव

Page 849

७९० काव्यप्रकाशः सटीकः।

नितरां रसालं बन्धप्रकारराचतस्य तरो: फलं यत्'॥ इति" इति। एवमेवायं (इत्येष मार्ग इत्ययं) श्लोके जयन्तभट्टसरस्वतीतीर्थकमलाकरभट्टादिभिरप व्याख्यात इत्यास्तां विस्तारः॥ देशे महामहाराष्ट्रे पत्तने पुण्यनामके। प्रधानपाठशालायामाङग्लभूपनियोगतः ॥।१। अलंकारव्याकरणाध्यापकेन सुमेधसा। कर्णाटके जनपदे नानांविद्याविभूषिते ॥ २ ॥ विजापुरप्रान्तजुषा झळकीग्रामवासिना। सरस्वतीगर्भभुवा महाराष्ट्रद्विजन्मना ॥ ३ ॥ रामचन्द्रतनूजेन वामनाचार्यशर्मणा। काव्यप्रकाशटीकेयं ग्रथिता बालबोधिनी॥ ४ ॥ शाके वेदनभोष्टेन्दुप्रमिते (१८०४) मासि कार्तिके। संपूरिता शुकृपक्षे टीकेयं प्रतिपत्तिथौ॥ ५॥ टीकायां बालबोधिन्यां यदत्र लिखितं मया। प्रायः प्राचीनटीकासु स्पष्ट तत्सूक्ष्मदार्शीनाम् ॥ ६॥ तथाप्यज्ञानदाषाच्चेत् स्खलितं लिखिते मया। संशोधयन्तु विद्वांसः परं साराभिमानिनः ॥।७।। काव्यप्रकाशगभ्भरिभावबोधो न चान्यतः । इति हेतोर्मया यत्न: कृतोऽयं विदुषां मुदे॥८॥ अनेन प्रीयतां देवो रुक्मिणी वल्लभो हरिः । ब्रह्मरुद्रादििर्वन्धो भक्तार्भीष्टप्रदः सदा ॥ ९॥ इति श्रीमच्छालङ्कयनमहषिगात्रावतंसस्य दैवज्ञचक्तचूडामणेः सुग्रृहीतनाम्नो भट्टश्रीवेंकटेशस्य कुले गृहीतजन्मना तैत्तिरीयशाखाध्यायिना श्रीमित्पूर्ण प्रज्ञाचार्यसिद्धान्तानुयायिभा झळकीकरोपनाम्ना भट्टवामनाचार्येण विरचितायां काव्यप्रकाशटीकायां बालबोधिन्याम अर्थालङ्कारानर्णयो नाम दशम उल्लासः ॥ १० ॥ ॥ समाप्तोयं ग्रन्थ: ।।

10

१ बन्धप्रकारेति । बन्धप्रकारेण रचितस्य निर्मितस्येत्यर्थः 'कलमी' इति देशभाषायां प्रसिद्धस्योति भावः ॥ २ रुक्मिणीवल्लभ इत्यनेन रुक्मिणीरूपया लक्ष्म्या समेत इति सूचितम् "राघवत्वे भवेत्सीता: रुक्मिणी कृष्ण- जन्मनि" इति विष्णुपुराणवचनात्॥

Page 850

अथ काव्यप्रकाशोदाहृतपद्यानां वर्णक्रमानुसारिणी सूची।

कमाङ्क: पद्यमु पृष्ठ कमाङ्क: पद्यम् पृष्ठ

१३ अइ पिहुलं जलकुंभं ( गाथासप्त० १) ७३ (वृ०) अबिन्दुसुन्दरी नित्यं (उद्रटालं० ) .. ५२४ २५१ अकलिततपस्तेजोवीर्य० (महावीरच०) ... ३७४ ४४६ अब्धेरम्भ:स्थगित० ... ·.. ६२५ २०७ अकुण्ठोत्कण्ठया पूर्ण ४८२ अभिनवनलिनीकिसलय ... ३२७ ... ६६४ ४६७ अखण्डमण्ड श्रीमान् ... ... ६५० ५६ अमितः समित: प्राप्तैः ... ... १३१ ४५० अण्ण लडहत्तणअं ४३२ अमुष्मिल्लावण्यामृत० ... ... ६३० ... ... ६०८

७२ अतन्द्रचन्द्राभरणा ... १४६ ९६ अमुं कनकवर्णाभं (म०भा०शा०प०) ... १६७ ५९४ अतिथिं नाम काकुत्स्थात् (रघु० १७ ) ७७८ २१५ अमृतममृतं कः संदेहः(वामनसू० ३. २.) ३३६ २०२ अतिपेलवमतिपरिमित० ... ३२४ ५११ अयमेकपदे तया वियोगः (विक्रमो०) ... ६९० २५५ अतिविततगगनसरणि० ३७९ ५८६ अयं पद्मासनासीनः (सरस्वतीकण्ठा० १) ७७३ १३६ अत्ता एत्थ णिमज्जइ (गाथासप्त० ) २४७ ४१८ अयं मार्तण्डः किं स खलु ... ५८९ ३९४ अत्यायतैर्नियमकारिभि० ५५९ ४९० अयं वारामको निलय० (भल्लटशतकम्) ६६८ ११८ अत्युच्चाः परितः स्फुरन्ति (पश्चाक्षरी) ... १९६ ११६ अयं स रशनोत्कर्षी (म० भा० स्त्रीप०) १९५ ११५ अत्रासत्फिणिपाश (बालरालायणम्) ... १९३ ३३६ ... ४५३ १५८ अत्रिलोचनसंभूत० २८४ ३७३ अयं सर्वांणि शास्त्राणि ... ... ५१४ १२८ अदृष्टे दर्शनोत्कण्ठा २०८ ४० ८ अरातिविकरमालोक० ... ५७५ २३८ अद्यापि स्तनशैलदुर्ग० (पद्यवेणी ५। ३८९ अरिवधदेहशरर: (उद्रटालं ०) ... ५३५ हनुमन्ना० २. ) ३ ६१ ४ ९६ अरुचिर्निशया विना 3४५ अद्रावत्र प्रज्वलत्यमनिरुच्ैः ४७२ २८३ अरे रामाहस्ताभरण ( विक्रमो० ) ·. ६७४

२७७ अर्थित्वे प्रकटीकृतेऽपि (महावार० ) ... ४०४ २२३ अधिकस्तलतल्पं ३४२ ... ३९८

१४१ अनङ्गमङ्गलगृहा० ३६९ अलंकारः शेङ्काकर० .. ५१२ ... ... २६७ ३४७ अनङ्गरङ्गप्रतिमं तदङगं १९७ अलमतिचपलत्वात् (बिह्नणचरितम्) ४८५ ... ३१९ ... ५० अलसशिरोमणि धुत्ताणं ... ... १३५ ५८२ अनणुरणन्मणि० (रुद्रटालकार: ) ७७१ ९3 अलं स्थित्वा स्मशाने (म० भा० शां० प०) १६६ ३६४ अनन्तमहिमव्याप्त (आनन्दवर्धनः देवीशतकम्) ४२७ अलौकिकमहालोक:० ६०४ ५०६ १४८ अवन्ध्यकोपस्य ( किरातार्जुनीयम्) २७५४ २६८ अनन्यसदृशं यस्य ३९१ ४३० अवाप्तः प्रागल्भ्य ४१० अनयेनेव राज्यश्रीः ५७९ ३९५ अवितथमनोरथपथ ० ... ६०७

.१२ अनवरतकनकवितरण० ... ५६० ५८० ३८२ अनुरागवती सन्ध्या (ध्वन्यालोक: १.) ... ५२६ ५२६ अविरलकमलविकास: ( रुद्रटालं० ) ... ७०६ १२० अविरलकरवाल० २९८ अन्त्रप्रोतबृहत्कपाल० (महावीरच०) ... १९८ ४१४ ३९२ २० अन्यत्र यूयं कुसुमावचायं ( नैषधः १) २.० अष्टाङ्गन्योगपरिशीलन० ... ७८ ४०२ असितभुजगभीषणा० 33 अन्यत्र व्रजतीति का . ५६९ १.३ ४६३ असिमात्रसहायस्य ... ... २१८ अन्यास्ता गुणरत्नराहण० ... ६४७ ३३6 ३४१ अपसारय घनसारं (कुट्टिनीमतम्) ४६४ असिमात्रसहायोऽपि ... ४६६ १२२असोढ़ा तत्कालोल पद ... १९९ ३५६ ४९७ १९० असौ मरुच्चम्बित० (हनुमन्ना ०। ५४६ अपाङ्गतरले दशौ ७२८ पद्यवेणी ५. ) .... 3११ १८४ अपाङ्गसंसर्गि तरङ्गित ... ३०६ २८७ अपूर्वमधुरामोद० ३५९ अस्त्रज्वालावलीढ प्रति० (वेणी) ४०७ २८६ अस्या: कर्णावतंसेन ... 3C3 ४०७ २३३ अप्रारृतस्य चरितातिशयैः ( महावीर०) ३५६ ४२० अस्या: सर्गविधौ (विक्रमो ० ) ... ... .. ५९१

Page 851

७९२ काव्यप्रकाशोदाहृतपद्यानां

कमाङ्क: पद्यम् पृष्ठे कमाङ्क: पद्यम् पृष्ठे

५५६ अहमेव गुरुः सुदारुणानां ... ... ७३८ २४ उपकतं बहु तत्र ... ८३ ३५३ अहो केनेदशी बुद्धि: ...

... ... ४९३ २६५ उपपरिसरं गोदावर्या: २१४ उर्व्यसावत्र तर्वाली ... ३८८

५४२ अहो विशालं भूपाल ( काव्यादर्श:) ७२४ ... ... ३३४

"८१ अहो हि मे बहपराद्व० ६६३ ५४ उल्लास्य कालकरवाल० ... ... १२९ ४४ अहौ वा हारे वा (उत्पलः । भर्तृ० वै०) ... ११७ ३७ आकुञ्ूच्य पाणिमशुचिं ४७१ ए एहि. किपि कीएवि १०६ ... ५५४ ए एहि दाव सुन्दरि ० .. ६५५

३९८ आरुष्टकर वालोडसौ ... ७३६

... ५६५ ४७७ एकस्त्रिधा वसस चेतसि १२५ आगत्य संप्रति वियोग० ५१ एकस्मिन् शयने ( अमरुश० ) ... ६६१ २०४ २७८ आज्ञा शकशिखामण० (बालरामायणम्) ... १२५ ४00 १४१ एतत्तस्य मुखात्कियत् ( भल्लटश०) ... ६२१ ५७०- आत्ते समिन्तरत्ने ( हनुमत्कविः खण्ड १४२ एतन्मन्दविपक्क० ... २६९

प्रशस्ति:) ७५४ ११ इद्ठूहमत्तत्थणिआ ... ६७

३०७ आत्मारामा विहितरतयो० (वेणीसं०) ४२४ २३४ एषोऽहमद्रितनयामुख० (उषाहरणम्) ३८३ आदाय चापमचलं ३ ३९ एहि गच्छ पतोत्तिष्ठ (पश्चतन्त्रम्। ... ३५८ ५२६ ४४५ आदाय वारि परितः ( भट्टेन्दुराजः ) ६२४ ध्वन्या० 3. ४५७

२०० आदावञ्जनपुजजलिप्त० ३२१ १४ ओण्णिद्वूं दोब्चलं ... ७३

९५ आदित्योडयं स्थितो० (म०भा०शा०प०) १६७ ७० आललाल्ल करअरअण० ... १४४

५४०- आनन्दममन्दमिमं (रुद्रनालंकारः) ... ७२१ ३३० औत्सुक्येन कतत्वरा (रत्नावली ) ... ४४६

१६२ आनन्दसिन्धुरति० २८९ २२४ क: क: कुत्र न घुर्घुरायित ... ९४३

४२६ आलानं जयकुअ्जरस्य ... ६०३ ४५ कण्ठकोणविनिविष्टमीश (उत्पलः) ११९ ... १५४ आलिङ्गितस्तत्र भवान् २८० १३४ कथमवनिप दर्पो २४२

३२३ आलोक्य कोमलकपोल० ४३६ ५५२ कपाले मार्जार: पय० (शारङ्ग० भासः) ... ७३४

५०० आसीदअनमत्रेति ६७६ r४९ कमलमनम्भस ६२९

(टी०) आहूतापि पदं ददाति (प्रदीपकार:) ... ४५० (वृ) कमलमिव मुखं ... ५२१

६७३ आहूतेषु विहङ्गमेषु ( भल्लटशतकम् ६९) ७८७ ४१५ कमलेव मतिर्मतिरिव ... ५८४

(टी०) इतः स दैत्यः प्राप्तश्रीः (कुमार० ) ६८ ५५१ करजुअगहिअजसोआ ... .. ७३३

२२२ इद्मनुचितमकमश्र् ३४१ ३९९ करवाल इवाचारस्तस्य .. ५६६

२६४ इदं ते केनोक्तं कथय ३८७ १९१ करवालकरालदो:सहायो० ... ३१२

४१९ इन्दुः किं क्व कलङ्क: ... ५९० ३०३ करिहस्तेन संचाधे ४२१

४६५ इयं सुनयना दासीकुत०(उद्रटालं०) ... ६४९ ४७५ कर्पूर इव दग्धोऽपि (बालरामायणम्) ... ६५९

८ उअणिच्चलनिप्पन्दा (गाथासप्त०) ... ३० ३२५ कर्पूरधूलिवल० ... ... ४३७

१८७ उत्कम्पिनी भयपरि० (रत्नावली !) .... ३06 (टी०) कलशे परममहत्त्वं (प्रदीप० ) ... ६२९

४२ उत्कत्योत्कृत्य कृत्ति (माल० मा०) ... ११० ५१२ कलुषं च तवाहितेष्व० ... ... ६९१

३०४ उत्तानोच्छनमण्डूक० २१ १९४ कल्याणानां त्वमसि महसांः ( मा० मा०) ३१४ १४७ उत्फुल्लकमलकेसर० (नागानन्दम् ) २७४ २७६ कलोलवेल्ितटृषत (भल्लटशतकम्) ... ३९७ ५२ उत्सिक्तस्य तपःपरा० (महावीरच०) १२५ (टी०) कवीनां संतापो० (प्रदीप०) ... ५२७

४३६ उद्यति विततोर्ध्वरश्मि० (शिशुपाल०) ६१५ ४४७ कस्त्वं भो: कथयामि (ध्वन्यालोकः) ... ६२६ ४३३ उद्यमयत दिङमालिन्यं 2 ... ६१० २०५ कस्मिन्कर्मण सामर्थ्य० ३२५

२४४ उदेति सविता ताम्रः ३६८ १३५ कस्स व ण होइ रोसो (ध्वन्यालोक: १.) २४४

१७ उद्देशोडयं सरसकद्ली० ... ३७२ ... ७६ २४९ काचित्कीर्णा रजोभिः (माध०) ५९९ उदयौ दीर्घिकागर्भात् ७८४ १८५ कातर्य केवला नीतिः (रघु० ) ३०७

४३८ उन्नतं पद्मवाष्य यो लघुः ६१७ (टी०) कासविऊण खउरं (सरस्वतीकण्ठा०) ... ३८४

११४ उन्निद्रकोकनदरेण० ... १९२ ५२९ का विसमा देव्वगई ... ... ... ७१०

४१६ उन्मेषं यो मम न सहते ... ... ५८६ ५२१ किमासेव्यं पुंसा ... ... ७०४

Page 852

वर्णक्रमानुसारिणी सूची। ७९३

कमाड़क: पद्यम् पृष्ठे कमाङ्कः पृष्ठ

१३९ किमिति न पश्यसि कोपं (रुद्रटालं० ) ... ३६२ २०६ किमुच्यतेडस्य भूपाल ३९६ गाम्भीर्यगरिमा तस्य ... ... ५६०

४५७ किवणाणँ धर्ण णाआणं ... ... ३२६ २५० गाहन्तां महिषा निपान० (शाकुन्त०) ... ३७ ४२९ किसलयकरैर्लतानां (रुद्रटालं० ) ... ६४० ४८३ गिरयोडप्यनुन्नतियुजो० ६६५ ५२२ कि भूषणं सुदृढमत्र ... ६०५ ...

१९५ किं लोभेन विलक्कित: ... ७०४ ४८० गुणानामेव दौरात्म्यात् ५९२ गुणैरनध्यैः प्रथितो० ... ... ६६२

... ७७७ ४६१ कुमुदकमलनीलनीर० ... ... ३१६ ... ६४४ २१ गुरुअणपरवस पिअ ७९ ४२३ कुरङ्गीवाङ्गानि स्तिमितयति ... ... ४९३ ५०८ कुलममलिनं भद्रा मूर्ति: ... ५९८ ३५४ गुरुजनपरतन्त्रतया ... ५६२ गृहिणी सचिवः सखी (रघु० ८.) ७४३ १७३ कुविन्दस्त्वं तावत्पटयसि ... ... ६८७ ... २९९ २६३ गृहीतं येनासी: परिभव० (वेणी० ) ... ३८६ ४७३ कुसुमितलताभिरहता ... १६८ गारेपि यद्दहनतां ... ... ६५७ २९५ ... ५९७ ग्रथनामि काव्यशशिनं (वामनसूत्र० ४. ७८३ २५८ ३९ रुतमनुमतं दृष्ट वा यै: ( वेणीसं०) १०७ 3 ग्रामतरुणं तरुण्या: ( रुद्रटालं०) २)

... २१ १०e कतं च गर्वाभिमखं १८१ ४१ ग्रीवाभङ्गगाभिरामं ( शाकुन्तलम् ) १०९ (वृ०) रूपाणपाणिश्र् भवान् ३९० चकासत्यङ्गनारामा: (टी०) रुष्णो वैरिविमर्दने (प्रदीप०) ... ६९१ ५३६

४९४ ३९३ चकितहरिणलोललोचनायाः ... ... ५५८ ६५ केसेसु बलामोडिअ ५८० चक्री चक्रारपङिं ( सूर्यशतकम् ) १४० ७७०

६४ कैलासस्य प्रथमशिखरे ५८४ चण्डालैरिव युष्माभि: ( वामनसू० ४,२.) ७७२ १३९ ११७ कैलासालयभाल० ५३१ चत्वारो वयमृत्विजः (वेणीसं० ) १९६ ... ३५५ ५२३ कौटिल्यं कचनिचये (रुद्रटालं०) ७०५ २९४ चन्द्रं गता पद्मगुणान्न्न (कुमारसं०) ४११ (टी०) कौटिल्यं नयने निवा० (प्रदीप० ) ६२४ २९३ चरणत्रपरित्राण० ४१०

३३८ क्रामन्त्य: क्षतकोमला० (ध्वन्यालोकः ३) ४५६ २०१ चापाचार्यस्त्रिपुर० (बालरामायणम्) ३२3

२२५ क्रेङ्कारः स्मरकार्मुकस्य २३० 3४४ ३५४ ३२९ क्रोधं प्रभो संहर (कुमार० ३.) ३४३ चित्ते विहृदृदि ण टुद्ददि (कर्पूरमञ्जरी) ४६७ ५३६ चित्रं चित्रं बत बत ६६७ ... ७१९ ४३५ क्व सूर्यप्रभवो वंशः (रघुवं० १. ) ४३ चित्रं महानेष बतावतार: ... ६१४ ११०

५3 क्वाकार्य शशलक्ष्मणः ( विक्रमो० ) ८१ चिन्तयन्ती जगत्सूतिं (विष्णुपुराणम्) ... ... १२६ १५६ 339 ५९० चिन्तारत्नमिव च्युतोडसि ६७६ "' ४४७ ८२ क्षणदासावक्षणदा १६६ चिरकालपरिप्राप्त० १५७ २९:

  1. क्षिप्तो हस्तावलमनः (अमरुश०) २५७ जगति जयिनस्ते ते (माल० माध०) ३८२ ४५७ ४६२ क्षीण: क्षीणोडपि शशी (रुद्रटालं०) २९२ जगाद मधुरां वाचं ४०९ ... ६४्५ (टी०) जगाद विशदां वाचं (वामनसू०) ... ४ १० ४. क्षुद्राः संत्रासमेते ( हनुमन्नाटकम्) १०८ १५० जङ््घाकाण्डोरुनालो नख० २७६ १११ रणपाहुणिआ देअर ( ध्वन्यालोक: ३.) १८७ २३२ " ३५६ ७४ खलववहारा दीस्न्ति १५० ४५८ खिद्यति कूणति वे्लति ५७१ जटाभाभिर्भाभि: करधृत० ७५५ ६४१ २०२ ५९६ गङ्गेव प्रवहतु ते १२४ जनस्थाने भ्रान्तं (भट्टवाचस्पतिः ) ७८० (टी०) जलं जलधरे क्षार० २७६ १२७ गच्छाम्य च्युतद्शनेन ४ २२ जस्स रणन्तेउरए करे 5.0 २०७ ५९७ ५५५ गर्वमसंवाह्यमिमं (रुद्रटालं०) ७३७ ५३३ जस्सेअ वणो तस्सेअ ७१५ ५६५ गाङ्गमम्बु सितमम्बु ७४८ ५७३ जहगहिरो जह रअण० ७६० ६३ गाढकान्तद्शनक्षत० १३८ २१६ जं परिहरिउं तीरइ (आनन्दवर्धनः ३१० गाढालिङ्गनवाननीकत (अमरुश० ) ४२६ पञ्चचाणलीला) ... ... ३ ३६ ६६ गाढालिंगण रहसुज्जुअम्मि १४१ ६७ जा ठेरं व हसन्ती ... १४० १०१ गाहारुहम्मि गामे ... १७४/ ४७ जाने कोपपराङमुखी (सुभा०। शाङ्ग०) १२२ १००

Page 853

७९४ काव्यप्रकाशोदाहृतपद्यानां

कमाङ्का पद्यमु पृष्ठ कमाङ्क: पद्यम् पृष्ठ

४६६ जितेन्द्रियतया सम्यक् ... ६४९ १४० ते दृष्टिमात्रपतिताः ३१६ जितेन्द्रियत्वं विनयस्य ... ४३० १७६ तेऽन्यैर्वान्तं समश्नन्ति ... २६०

... ३०१

५२५ "' ७०६ २४६ ते हिमालयमामन्व्य (कुमारसं०) ... ३६९ १६४ जुगोपात्मानमत्रस्तः (रघु० ६) ...... २९२ २२८ त्वमेवं सौन्दर्या स च ( वामनसू० ३. २.) ३४९ ६८ जे लंकागिरिमेहलासु ( कर्पूरमअ्जरी) १४३ ४५५ त्वयि दृष्ट एव तस्या: ... ६३७ ९२ जोह्वाइ महुरसेन १६५ २३५ त्वयि निचद्धरतेः प्रिय० (विक्रमोर्व०) ... ३५८ २८९ ज्याबन्धनिष्पन्द्भुजेन ( रघु० ६) ४०८ ३१ त्वं मुग्धाक्षि विनैव (अमरु० ) ... १0 ४ २१ ज्योत्स्नाभस्मच्छरणधवला ५९५ ५४४ वं विनिर्जितमनोभव० ... ७२६ ४७२ ज्योत्स्ना मौक्तिकदाम ६५५ २३ त्वामस्मि वच्मि विदुषां ८३

४११ ज्योत्स्न्येव नयनानन्दः ५७९ ३६ नवामालिख्य प्रणयकुपितां (मेघदू० ) ... १०५ ४०७ टुण्टुण्णन्तो मरिहसि ५७४ ३३७ दन्तक्षतानि करजैश्र्य ... ४५३ ८८ णवपुण्णिमाभिअंकस्स १६२ ६२ दर्पान्धगन्धगज० ... १३७ ३२८ णिहुअरमणम्मि लोअण० ... ४३९ ५५९ दिवमध्युशयातानां (रुद्रटालं०) ... १८ णोलेइ अणोल्लमणा ७७ ६०० दिवाकराद्रक्षति यो ( कुमारसं० १) ... ७८५ १६ तइआ मह गंडत्थल० ७५ २९६ दीधीङवेवीङसमः कश्वत् ४ १३ ... २१२ तत उदित उदाहारहारि ३३२ ५०७ दुर्वाराः स्मरमार्गणा: (शाङ्ग० प०। शङ्ककः) ६८६ ४०१ ततः कुमुदनाथेन ( महभा० द्रो० प०) ५६९ २९ दूरादुत्सुकमागते (अमरु०) ... ... ९७ ३५५ ततोडरुणपरिस्पन्द० (महाभा० १) ४९६ ५६६ दृशा दुग्धं मनसिजं (विद्वशालभाख्जिका १ ) ७४९ ५१५ तं ताण सिरिसहोअर० (आनन्दव० ३७९ देव त्वमेव पाताल० ... ५२२ : विषमचाणलीला) ... ... ६९3 ४५३ देवीभावं गमिता (वामनसू०। रत्नावली) ६३५ १५ तथाभूतां टृष्टा (वेणीसंहारम् ) ७४ २०८ देशः सोऽयमरातिशोणित• (वेणीसं०) ... ३२८ २२० 335 २६ दैवाद्हमद्य तया ( रुद्रटालं० ... ८९ ८० तद्प्राप्तिमहादुःख० (विष्णुपुराणम्) ... १५५ ४३७ दोर्भ्यी तितीर्षति तरङ्ग.० ६१६ ५०६ तदिदमरण्यं यस्मिन् (रुद्रटालं०) ... ६८५ (वृ०) दूयं गतं संप्रति (कुमारसं०) २३९ १९८ तद्रच्छ सिद्धयै कुरु ( कुमारसं० ) ३१९ १८६ "' ५१७ तद्रेहं नतभित्ति (आनन्दवर्धनःध्वन्यालोकः) ६९५ २५२ " "' ३७६

७७७ २२ द्वूारोपान्तनिरन्तरे ... ७९ ३९१ तनुवपुरजघन्योऽसौ ५३८ ३९७ धन्यस्यानन्यसामान्य० ... ५६५ १४६ तपस्विमियां सुचिरेण ६१ धन्यासि या कथयसि ( शार्ङ्ग०। विज्जिका) ... २७३ १३६ १५० तरुणिमनि कलयति १८४ १८२ धमिल्लस्य न कस्य ( वामनस० २. १.) 303

४०९ तरुणिमनि कतावलोकना ... ५७७ ५६४ धवलोसि जह वि ( गाथासप्त० ७. ६५ ) ७४७

४५६ तवाहवे साहसकर्म ... ६३८ ५३५ धातु: शिल्पातिशय० ... ७१८ १७९ तस्याधिमात्रोपायस्य ... २१० धीरो विनीतो निपणो० 330 ५० तस्या: सान्द्रविलेपन० (अमरु० ) १२४ (वृ०) धनोति चासिं तनुते ६९१ १०२ ताण गुणग्गहणाणं १७६ ४१४ न. केवलं भाति नितान्त० ... ५८२ ३२२ तामनङ्गजयमङ्गलश्रियं ४३५ ९४ न चेह जीवितः कश्र्त् (महाभा०शा०प०) १६७ १८० ताम्बूलभतगल्लोडयं ३0२ ५४९ न तज्जलं यन्न सुचारु० (भहि० २) ... ७३१ ३१५ ताला जाअंति गुणा ( आनन्द० विषमबाण- १६७ न तस्तं यदि नाम (महावीर०) . २९४ लीला) ४ ३0 ५१३ नन्वाश्रयस्थितिरियं ( भल्लटश०) ६९२ ५५ तिग्मरुचिरप्रतापः १३० ५७४ नयनानन्ददायीन्दोः ७६ ३११ तिष्ठेत्कोपवशात्प्रभाव० (विक्रमो० ) ४२७ १६३ नवजलधरः संनद्धोडयं (विकरमो० ) ... २९१ १४५ तीर्थान्तरेषु स्नानेन २७२ २४३ नाथे निशाया नियते: ... ३६६ ८३ तृह वल्लहरस गोसम्मि ... १५८ ४९९ नानाविध प्रहरणैनृप .. ... ६७५

Page 854

वर्णक्रमानुसारिणी सूची। . ७९५

क्रमाङ्क: पद्यम् पृष्ठ कमाङ्क: पद्यम् पृष्ठे

३५२ नारीणामनुकूलमाचरसि ४९२ ३८१ नाल्प: कविरिव स्वल्प० १३९ प्रथममरुणच्छायः ·.. २६०

४७८ निजदोषावृतमनसां ५२५ १०५ प्रधनाध्वनि धीरधनुर्ध्वनि० १७९

४६१ नित्योदित प्रतापेन ... ६६२ २८१ प्रयत्नपरिबोधितः (वेणीसं० ) ... ... ४०२ ... ४७४ निद्रानिवृत्तावुदिते ... ६५२ ३२७ प्रसादे वर्तस्व प्रकटय (शाङ्गधर० चन्द्रकः) ६५८ ४३८

५९८ निपेतुरास्यादिव तस्य ३९ प्रस्थानं वलयैः कनं (अमरु० ) ७८३ १.५

५५० निम्नेनीभिकुहरेषु यदम्भ: २०९ प्रागप्राप्तनिशुम्म० (महावीरच०)

४२८ निरवधि च निराश्रयं च ... ७३२ 3२९

६०४ ४ ३१ ... ३१८ "१. ...

५७ निरुपादानसंभार० (नारायणभट्टः। स्तव- चिन्तामाण: ) २९० प्राणेश्वरपरण्वङ्ग.0 ४३१

... ४०८ १३२ २७१ प्राप्ता: श्रियः सकलकाम (भतृह० ३ ०५ निर्वाणवैरदहना: (वेणीसं०) ४२२ (टी०) निर्वांतपद्मोदर (प्रदीप०) ... वै० श० ) ३९३

८५ निशितशरधिया ४११ १७४ प्राभ्रभ्राडविष्णुधामा० 300 ... १५९ २३६ प्रियेण संग्रथ्य विवक्ष० (किरातारज०) ... ३५९४ २ निःशेषच्युतचन्दनं (अमरु०) ३२ प्रेमाद्र: प्रणयस्पृशः (माल० मा० ) ... १८३ न्यक्कारो ह्ययमेव मे (हनुमन्नाटकम्) ९८ प्रेयान् सोऽयमपाकतः (वामनसू० ३.) ... ... १०३

१९ पथि पथि शुकचञ्च० ... ;०४ १७० १७० ५८ पंथिअ ण एत्थ (गाथा० १) ३५१ प्रौढच्छेदानुरूपोच्छलन० (छलितरामम्) ४6९ 933 ४१५ २४० परापकारनिरतैः ३०९ फुल्लुक्करं कलमकूरणहं (कर्पूरमख्जरी) ३६३ १०७ परिच्छेदार्तीतः ( माल० माध०) ४३१ बत सि कियदेतत् ... ६०८ ... १८१ ४८९ ११९ बन्दीकत्य नृप द्विषां ...

४ ० ६ परिपन्थिमनोराज्य० ६६८ १९७ ५१४ बिम्बोष्ठ एव रागस्ते (नवसाहसाक्क०) ५७३ २८ परिमृदितमृणालीम्लान० (माल० माध०) १३० ब्ाह्मणातिकरमत्यागो ( महावररि०) ... ६९३

... २१० ९६ ३४९ परिम्लानं पीनस्तनजघन० (रत्नावली) ... ३७१ भक्तिप्रह्वविलोकन० (सुभा०। भागवता- ४८७ ३२६ परिहरति रतिं मतिं मृतवर्धनः) ... ... ४३८ ९० पविसंती घरवारं ५२४ भक्तिर्भवे न विभवे ... ५१३ ... ७०५ १६३ ४९२ पश्राद्ड्घ्री प्रसार्य (हर्षचरितम् 3) ५८१ भण तरुणि रमण० (रुद्रटालं०) ७७० ६६९ १२३ पश्येत्कश्र्च्चलचपल १२ भद्रात्मनो दुरधिरोह० ... ६८ ... २० ० १३८ भण धम्मिअ वीसद्वो (गाथासप्त०) ३३२ पाण्डु क्षामं वदनं ४४८ ... २५३ ... ५०३ भस्मोद्धूलन भद्रमस्तु ४६० ... ६७९ ६४३ ५८७ पातालमिव ते नाभिः ( वामनसूत्र०४,२.) ३८७ भासते प्रतिभासार .. ७७३ ... ५३२

५७८ पादाम्बुजं भवतु नो ( धर्माचार्यः । पश्चे- ... १५३ ५८३ भुजंगमस्येव मणिः ... ... ७७२ स्तवी घटस्तव: १) ... १७५ भूपतरुपसर्पन्ती ... m १७७ पितृवसतिमहं व्रजामि ३00

५४८ पुराणि स्यां सवराङ्गनानि ( नवसाह- २६० भपालरत्न निर्दैन्य० ... ... ३८४ १०६ भूयो भयः सविध० (माल० माध०) ... १८० साङ्कच० १.) ७३० ४४३ पुंस्त्वादवि प्रविचलेत् (भल्लटश०) ३३४ भरेणदिग्धान् नवपारि• (व्वन्यालोक: ३. ) ४५१ ६२२ १२६ भ्रमिमरतिमलस० (ध्वन्यालोक: २. ३.) २०६ ३०६ पृथुकार्तस्वरपात्रं ... ४२३ ४१३ मतिरिव मूर्तिर्मंधुरा ५८० ३७० २१० ४८७ पेशलमपि खलवचनं " ५१२ १३१ मथ्नामि कौरवशतं (वेणीसं०) ६६७ ३६८ मधुपराजिपराजित (हरिविजयम्) ... ५०८ ४०३ पौरं सुतीयति जनं ५७० ५१६ मधुरिमरुचिरं वचः ३४२ मनोगगस्तीवं विषमिव (माल० माध०) ·. ६९५ ५०२ प्रणयिसखीसलील० (माल० माध०) ६७९ ४६६ ५९५ प्रत्यग्रमज्जनविशेष० (रत्नावली १) ... ७७९ ३५० मन्थायस्तार्णवाभ्भःप्लुत० (वेणीसं०) ... ४८७ (टी०) प्रत्याख्यानरुचे: कृतं २४६ ५५७ मलयजरसविलिप्० (वामनसु०)

Page 855

७९६ काव्यप्रकाशोदाहृतपद्यानी

कमाङ्क: पद्यम् पृष्ठे। क्रमाङ्क: पद्यम् पृष्ठे

२२६ मसृणचरणपातं (बालरामायणम्) ३४५ ४३९ याताः किं न मिलन्ति (अमरु०) ... ६१९ ३७२ महदेसुरसंधम्मे (आनन्द० देवशितकम्) ५१३ १४५ यावकरसार्द्रपाद० २७२ २४२ महाप्रलयमारुत० (वेणीसं०) ३६५ ५४३ युगान्तकालप्रतिसंहृता० (माघ०) ... ७२४ ७१ महिलासहस्सभरिए ( गाथासप्तशती) १४५ ५८७ ये कन्दुरासु निवसन्ति ७२९ २४७ महीभृतः पुत्रवतोऽपि (कुमारसं०) ३६९ ३०२ येन ध्वस्तमनोभवेन (सुमा०। चन्द्रक:) ४१९ v ५१९ महौजसो मानधनाः (किरातार्ज० ६९९ १८९ ये नाम केचिदिह (माल० माध०) . ३१०

६ माए घरोवअरणं २८ ४४८ येनास्यभ्युदितेन चन्द्र ६२३ २९९ मातङ्गा: किमु वल्गितः ४१५ ४८४ येषां कण्ठपरिग्रह० ६६६ ३८५ माता नतानां संघट्टः (रुद्रटालं०) ५३० २२७ येषां तास्त्रिदशेभदान० ३४७ ... १३३ मात्सयैमुत्सार्य (भर्तृ० श० शं० ) १०४ येषां दोर्बलमेव दुर्बल० ... २४१ १७८

२६२ १९२ योडविकल्पमिदमर्थ० (उत्पलाचार्यः) ३१२ ५३४ मानमस्या निराकर्तु (दण्डी काव्यादर्श:) ३८५ ७१७ ३७६ योऽसकत्परगोत्राणां ५१६

३८४ मारारिशकरामेभ० (रुद्रटालं० ) ... ५३० ९७ रइकेलिहिअणिअसण० (गाथा० ५. ५७.)१६८ ३४४ मित्रे क्वापि गते सरोरुह० ३०० रक्ताशोक कशोदरी क्व नुविक्रमो० ) ४१६ ... ५०५ मुक्ताः केलिविसुत्रहार० ६८४ ३१९ ४३१

९ मुखं विकसितस्मितं ७६ मुग्धे मुग्धतयैव (अमरुशतकन्) ५६ ३७४ रजनिरमणमाले: ५१४ १५२ ३८८ रसांसार रसा सार० (रुद्रटालं०) ... ५३३ (टी०) मुनिर्जयति योगीन्द्रो (ध्वनिकार:) १६ e४ राईंसु चंद्धवलासु १५८ १५९ मूध्नांमुद्वृत्तकत्ता• (हनुमन्नाटकम्) २८५ ४५१ राकायमकलङ्क चेत ६३२

३४८ ४८६ १५६ राकाविभावरीकान्त० " ... २८२ २९५ मृगचक्षुषमद्राक्षम् ४१२ r९ राकासुधाकरमुखी १२३ ४९७ मृगलोचनया विना० ६७४ ५७२ राजति तटीयमभिहत० (हरविजयम् ५) ७५८ १५३ मृदुपवनविभिन्नो (विक्रमो०) २७९ ५७७ राजनारायणं लक्ष्मी: ७६३ ४०४ मृधे निदाघघर्माशु० ५७२ ४४० राजनराजसुता न पाठयति ६२० ५०४ यं प्रेक्ष्य चिररूढापि (मेण्ठः हयग्रीववधम्) ६८१ २११ राजन्विभान्ति भवतः ३३२ यः कौमारहगः (शार्ङ्ग० शिलाभट्टारिका) ... १७ ५३२ राज्ये सारं वसुधा ( रुद्रटालंकारः) ... ७१४ २०३ य: पूयते सुरसीरनमुख० ३२४ २५४ राममन्मथशरेण ताडिता (रघु० ) ३७७ १९३ यत्तदूर्जितमत्युग्रं (वेणीसं०) 393 १०९ रामोडसौ भवनेषु (राघवानन्दम्) १८२ २७३ यत्रानुल्लिखितार्थमेव ३९४ ७७ रुधिरविसरप्रसाधित० ... १५३ ५१८ यत्रैता लहगचलाचलदृशः ... ६९७ १०३ रे रे चश्चललोचनाश्वित० ... १७७ १४३ यथायं दारुणाचार: ... २७० २९७ यदा त्वामहमद्राक्षम् २४१ लमं रागावृताङ्गया (वेणीदत्तः पद्यवेणी २) ३६३ ४१४ ३६५ यदानतोऽयदानतो० (आनन्द० देवीश०) ५०७ २५३ ... ३७७

२७२ यदि दहत्यनलोडत्र (आनन्द० देवीश०) ... ३९३ "१ ४०१ २८४ ४०५

३१२ यद्वश््वनाहितमतिर्बहु (ध्वन्यालोक: ३) ... ४२८ ६३५ २३७ लग्नः केलिकचग्रह० ३६०

२४५ यशोऽधिगन्तुं सुख० (किरातार्ज०) ४९८ लतानामेतासामुदित० ... ३६८ ... ६७५

१९९ यश्ष्याप्सरोविभ्रिम० (कुमारसं०) ४३४ लहिऊण तुज्झ बाहुप्फंसं ६१३ ३२० (टी०) यस्मिन् पश्च पञ्चजनाः (बृहदा०) ७५ लावण्यं तदसौ कान्तिः . १५१ ३३५ ५४५ यस्य किंचिद्पकर्तु० (माघ०. १४) ५५३ लावण्यौकसि सप्रताप० (खण्डप्रशस्तिः) ७३५ ७२६ ३५७ यस्य न सविधे दयिता १०० लिखन्नास्ते भूमिं (अमरुश०) १७३ ४ ९९ ४१७ लिमपतीव तमोडङ्गानि (मृच्छकटिकम्) ... ५८७ ७३ यस्य मित्राणि मित्राणि -१५० ७५३ ११३ यस्यासुहृत्कृततिरस्कृति० · १९१/१५२ लीलातामरसाहतो० (अमरु०) ५६८ ... ... २७८

Page 856

ि वर्णक्रमानुसारिणी सूचीवकण्शक ७९७

कमाङ्क: पद्यम् पृष्ठ कमाङ्क: पद्यम् :पृष्ठ

५३० वक्त्रस्य्दिस्वद्बिन्दु० ... ७१२ १० श्रीपरिचयाज्जडा अपि (सुभा०। रविगुप्तः) २७४ वक्त्राम्भोजं सरस्वत्यधि० (भोनप्र०) ... ३९५ ५७

५७६ वक्त्रेन्दौ तव सत्ययं २७९ श्रुतेन बुद्धिर्व्यसनेन ... ४०१ ... ... ७६२ ५६७ वदनसौरभलोभ० (माच० ६) (टी०) श्रोणीभागस्यजति (बालभारतम्) ... ६९४ ७५२ ३५८ वदनं वरवर्णिन्यास्तस्याः ३०८ षडधि रद्शनाडचिक० (माल० माध०) ... ४२४ ५०0 ४०० सअलकरणपरवीसाम० ३१३ वद् वद जितः स शत्रः ( रुद्रटालं० १) ... ५६७ ४२९ r७६ स एकस्त्रण जयति ६६० ५०१ वपुःप्रादुर्भावादनु० ६७८ (बृo) सकलकलं पुरमेतत् ५२१ १६१ वपुरविरूपाक्षमलक्ष्य० (कुमार० ) २८० ५९१ सक्तवो भक्षिता देव ७७६ १८१ वस्त्रवैदर्यचरणैः ३0३ ५८५ वह्निस्फुलिङ्ग इव (वामनसूत्र० ४. २.) ५३१ संकेतकालमनसं (आनन्द०ध्वन्यालोकः) ७१२ ७७३ ५२८ वाणिअअ हत्थिदन्ता (आनन्द० २२९ संग्रामाङ्गणमागतेन (खण्डप्र०। सदुक्ति-

ध्वन्यालोक:) कर्णामृतम् ) ... ३५० ७०९ १३२ वाणीरकुडंगुड्डीण० (ध्वन्यालोक: २) ४५९ २११ "१ ... ६४२ २८२ वाताहारतया जगत् ( भल्लटशतकम् ) ४०३ ८८६ सततं मुसलासक्ता: ६६७

६६ वारिज्जन्तो वि पुणो ३३३ सत्यं मनोरमा रामा ४४८ १६० २१७ विकसितसहकारतार० ३६२ स त्वारम्भरतोऽवश्य० (रुद्रटालं० ) ५०६

५१० विद्लितसकलारिकुलं ( रुद्रटालं०) ६९० ३६३ सत्वारम्भरतोऽवश्य० (रुद्रटालं०) ५०६ २५६ सदा मध्ये यासामियममृत० .. ३८० ४२५ विद्न्मानसहंस २६७ सदा स्नात्वा निशीथिन्यां ६० ३९० २६९ विधाय दूरे केयर० ३९१ ५३९ सद्ः करस्पर्शमवाप्य (नवसाहसाङ्क०) २०४ विनयप्रणयैककेतनं ३८० सद्वंशमुक्तामाण: ... ७२१

३३ १ विनायमेनो नयता ( रुद्रटालं० ) ... ३२५ ... ५२५ ५०५ ३६० सन्न्रारीभरणोपाय० (रुद्रटालं०) ... ... ५०५ ५ विनिर्गतं मानद्मात्म० ( मेण्ठः हयग्रीव- ५८९ स पतिवासाः प्रगृहीत० ... ... ७७४ वधम्) ९१ समद्मतङ्गजमदजल० ६६८ r विपदोडभिभवन्त्यविक्रमं (किराता० २.) ३७५ ५८८ स मुनिर्टाञ्छितोः (वामनसू० ४. २. ) ७३3 १३७ विपरीअरए लच्छी २५० ३२४ संप्रहारे प्रहरणैः ४३६ ५४१ विपुलेन सागरशयस्य (माघ०) ७२२ १५५ सम्यग्ज्ञानमहाज्योति: ... २८१ ५६३ विभिन्नवर्णा गरुडा० (माघ०४) ७४६ ३८६ सरला बहुलारम्भ० (रुद्रुटालं०) ५३१ ३३५ विमानपर्यङ्कतले (ध्वन्यालोक: 3.) ४५२ ३६६ सरस्वति प्रसादं मे (आनन्द ०देवीश०) ... ५०७ २७ वियदलिमलिनाम्ब० २७ १८१ स रातु वो दुश्च्यवनो ९१ विहलं खलं तुम साह ... १६४ ३७५ सवस्वं हर सर्वस्य ... ५१५ २१३ वेगादुड्डीय गगने ... 333 ४०५ सविता विधवति विधुरपि ५५८ वेत्रत्वचा तुल्यरुचां ३२१ सब्रीडा दयितानने ... ५७३

... ७४० (वृ०) व्यानम्रा दयितानने ४३४ ३३५ सशोणितैः ऋव्यभुजां (ध्वन्यालोक: ३) ... ४३४ ४५२ २५३ शक्तिनिस्त्रिंशजेयं तव (शिशुपाल०) ३७६ ३६७ ससार साकं दर्पेण (रुद्रटालं०) ... ५०७ ५९ शनिरशनिश्र् तमुच्चे: १३४ ४९५ सह दिअहणसाहिं (कर्परमञ्जगी) ... ... ६७३ १५७ शरत्कालसमुल्लासि २८३ ८९ सहि णवणिहुवणसमरम्मि १६३ ५०९ शशी दिवसधूसरो ( भर्तृ० नीतिश०) ... ६८८ ६९ सहि विरइऊण माणस्स १४४ ५३७ शिरीषादपपि मृद्ङ्गी ( नवसाहसाङ्क) ७२० १२१ साकं कुरङ्गकटृशा ... १९९ ३० १ शीर्णघ्राणाङ््ध्रिपाणीन् (मयरशतकम्) ... ४१८ १६९ सा दूरे च सुधा० ... २९५ 3० शून्यं वासगृहं (अमरु०) ... १०० १५१ साधनं सुमहय्यस्य ... ... २७८ ५२० शैलेन्द्रप्रतिपाद्यमान० ७०१ १८८ साधु चन्द्रमसि पुष्केरै: ... ... ३0९ २७५ श्यार्मा श्यामलिमाय (विद्धशाल०) ३४ सा पत्यु: प्रथमापराध० (अमरु०) ... १०४ १९६ श्रितक्षमा रक्तभुव: ३१८ ७२ सायकसहायबाहोः १४६

Page 857

७९८ काव्यप्रकाशोदाहृतपद्यानां वर्णक्रमानुसारिणी सूची।

कमाङ्क: पद्यम् पृष्ठे करमाङ्क: पद्यम् पृष्ठ

७९ सायं स्नानमुपासितं १५४ ५७९ स्पष्टोल्लसत्किरण० (हरिविजयम् १९) ७६६ ५६० सा वसइ तुज्ज्ञ हिअए (गाथासप्त० ) ... ७४२ ६०१ स्पृशति तिग्मरुचौ ( हरिविजयम् ३ ) ७८६

७ साहेन्ती सहि सुहअं ( गाथासप्त०) २९ २२१ स्फटिकारुतिनिर्मल: ३४०

३१४ सितकरकररुचिरविभा ... ४२९ ५६१ स्फुरद्द्भुतरूपमुत्प्ताप ७४३

३५९ .. ५०१ १६० स्त्रस्तां नितम्बादव० (कुमार० ) २८७

५३८ सिंहिकासुतसंत्रस्तः ७२० ४ स्वच्छन्दोच्छ लदच्छ० २२

१६५ सुधाकरकराकर० ... २९२ ४७० स्वच्छात्मतागुणसमु० ६५२ १७८ सुरालयोल्लासपर: ३०9 २६१ स्वपिति यावद्यं निकटे ३८१

१९ सुव्वइ समागसिस्सदि ७७ ३९२ स्वप्रेऽपि समरेषु त्वां ५५०

२६६ सुसितवसनालकारायां ३७७ स्वयं च पल्लवानाम्र्र० (उद्रटालं०) ५१९ ... ३८९ ४७९ ६६२ ६०२ ७८७ ... ... " ४४२ सुहृद्वधूबाष्पजल० ६२१ ३४६ स्वर्गप्राप्तिरनेनैव ... ... ४७२

४८५ सृजति च जगदिदमवति ... ... ६६६ २८५ हन्तुमेव प्रवृत्तस्य ... ...

२५ सेयं ममाङ्गेषु सुधारस० ४६ हरत्यघं संप्रति हेतु० ( माघ० ) ... ८९ ... ११९

५६९ सो णत्थि एत्थ गामे ७५३ ४६८ हरवन्न्न विषमटृष्टिः ... ६५१ १७० सोडध्यैष्ट वेदान् ( भट्टिकाव्यम् ) २९७ ११९ हरस्तु किंचित्परिवृत्त० (कुमार० ) १९७

४४८ सोऽपूर्वो रसनाविपर्यय० (भल्लटश०) ... ६२७ ५२७ हंसाणं सरेहि सिरी ... ... ७०८ ८७ सो सुद्धसामलंगो '.६१ १४९ हा धिक सा किल ( विक्रमो० १) ... २७५ २९१ सौन्दर्यसंपत् तारुण्यं ... ४0९ ४२४ सौन्दर्यस्य तरङ्गिणी २१९ हा नृप हा बुध हा कवि० ... ३३6

... .. ५९९ ३८ हा मातस्त्वरितासि ( नारायणभट्टः) ... १०७ ५७५ सौभाग्यं वितनोति ७६ १ ४९३ हित्वा त्वामुपरोध० ... ६७० ४८ स्तुम: कं वामाक्षि १२२ ३२० हुमि अवहत्थिअरेहो ( आनन्दवर्धनः

३७८ स्तोकेनी न्नतिमायाति विषमबाणलीला) ४३२ ... ५२० ११२ स्निग्धश्यामलकान्ति० (ध्वन्यालोक: २) १८८ ४५२ हृदयमधिष्ठितमादौ (कुटिनीमतम ९६) ६३३ ४९४ हे हेलाजितबोधिसत्त्व (पुअराज:) ... ६७०

AWVEET HOPTE SHINS HOESAUE